|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||

|| ऋग्वेद संहिता (अष्टक: 02) ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
Mantra classification is following this convention{अष्टक,अध्याय,वर्ग,मंत्र}{मंडल,सूक्त,मंत्र}{मंडल,अनुवाक,सूक्त,मंत्र}{अष्टक मन्त्र संख्या,ऋक्संहित सूक्त संख्या,ऋक्संहित मन्त्र संख्या}
[Last updated on: 03-Jun-2025]

[1] प्रवःपांतमिति पंचदशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवान्विश्वेदेवास्त्रिष्टुप् पंचमीषष्ठ्यौ विराड्रूपे | (भेदप्रयोगपक्षेतुआद्यानांषण्णांक्रमेणरुद्रमरुतउषासानक्ता विश्वेदेवाअश्विनौविश्वेदेवामित्रावरुणसिंधवोदेवताः ततोद्वयोर्विश्वेदेवाः ततोद्वयोर्मित्रावरुणौ अंत्य पंचानांविश्वेदेवाः एवं १५) |
प्र वः॒ पान्तं᳚ रघुमन्य॒वोऽन्धो᳚ य॒ज्ञं रु॒द्राय॑ मी॒ळ्हुषे᳚ भरध्वम् |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

दि॒वो, अ॑स्तो॒ष्यसु॑रस्य वी॒रैरि॑षु॒ध्येव॑ म॒रुतो॒ रोद॑स्योः ||{1/15}{2.1.1.1}{1.122.1}{1.18.2.1}{1, 122, 1371}

प्र¦वः॒¦पान्त᳚‌म्¦र॒घु॒ऽम॒न्य॒वः॒¦अन्धः॑¦य॒ज्ञ‌म्¦रु॒द्राय॑¦मी॒ळ्हुषे᳚¦भ॒र॒ध्व॒‌म् |
दि॒वः¦अ॒स्तो॒षि॒¦असु॑रस्य¦वी॒रैः¦इ॒षु॒ध्याऽ‌इ᳚व¦म॒रुतः॑¦रोद॑स्योः ||

पत्नी᳚व पू॒र्वहू᳚तिं वावृ॒धध्या᳚, उ॒षासा॒नक्ता᳚ पुरु॒धा विदा᳚ने |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

स्त॒रीर्नात्कं॒ व्यु॑तं॒ वसा᳚ना॒ सूर्य॑स्य श्रि॒या सु॒दृशी॒ हिर᳚ण्यैः ||{2/15}{2.1.1.2}{1.122.2}{1.18.2.2}{2, 122, 1372}

पत्नी᳚ऽ‌इव¦पू॒र्वऽहू᳚ति‌म्¦व॒वृ॒धध्यै᳚¦उ॒षसा॒नक्ता᳚¦पु॒रु॒धा¦विदा᳚ने॒ इति॑ |
स्त॒रीः¦न¦अत्क᳚‌म्¦वि।औ᳚त‌म्¦वसा᳚ना¦सूर्य॑स्य¦श्रि॒या¦सु॒ऽदृशी᳚¦हिर᳚ण्यैः ||

म॒मत्तु॑ नः॒ परि॑ज्मा वस॒र्हा म॒मत्तु॒ वातो᳚, अ॒पां वृष᳚ण्वान् |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

शि॒शी॒तमि᳚न्द्रापर्वता यु॒वं न॒स्तन्नो॒ विश्वे᳚ वरिवस्यन्तु दे॒वाः ||{3/15}{2.1.1.3}{1.122.3}{1.18.2.3}{3, 122, 1373}

म॒मत्तु॑¦नः॒¦परि॑ऽज्मा¦व॒स॒र्हा¦म॒मत्तु॑¦वातः॑¦अ॒पा‌म्¦वृष॑ण्ऽवान् |
शि॒शी॒त‌म्¦इ॒न्द्रा॒प॒र्व॒ता॒¦यु॒व‌म्¦नः॒¦तत्¦नः॒¦विश्वे᳚¦व॒रि॒व॒स्य॒न्तु॒¦दे॒वाः ||

उ॒त त्या मे᳚ य॒शसा᳚ श्वेत॒नायै॒ व्यन्ता॒ पान्तौ᳚शि॒जो हु॒वध्यै᳚ |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

प्र वो॒ नपा᳚तम॒पां कृ॑णुध्वं॒ प्र मा॒तरा᳚ रास्पि॒नस्या॒योः ||{4/15}{2.1.1.4}{1.122.4}{1.18.2.4}{4, 122, 1374}

उ॒त¦त्या¦मे॒¦य॒शसा᳚¦श्वे॒त॒नायै᳚¦व्यन्ता᳚¦पान्ता᳚¦औ॒शि॒जः॒¦हु॒वध्यै᳚ |
प्र¦वः॒¦नपा᳚त‌म्¦अ॒पा‌म्¦कृ॒णु॒ध्व॒‌म्¦प्र¦मा॒तरा᳚¦रा॒स्पि॒नस्य॑¦आ॒योः ||

आ वो᳚ रुव॒ण्युमौ᳚शि॒जो हु॒वध्यै॒ घोषे᳚व॒ शंस॒मर्जु॑नस्य॒ नंशे᳚ |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | विराड्रूपा}

प्र वः॑ पू॒ष्णे दा॒वन॒ आँ, अच्छा᳚ वोचेय व॒सुता᳚तिम॒ग्नेः ||{5/15}{2.1.1.5}{1.122.5}{1.18.2.5}{5, 122, 1375}

आ¦वः॒¦रु॒व॒ण्यु‌म्¦औ॒शि॒जः¦हु॒वध्यै᳚¦घोषा᳚ऽ‌इव¦शंस᳚‌म्¦अर्जु॑नस्य¦नंशे᳚ |
प्र¦वः॒¦पू॒ष्णे¦दा॒वने᳚¦आ¦अच्छ॑¦वो॒चे॒य॒¦व॒सुऽता᳚ति‌म्¦अ॒ग्नेः ||

श्रु॒तं मे᳚ मित्रावरुणा॒ हवे॒मोत श्रु॑तं॒ सद॑ने वि॒श्वतः॑ सीम् |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | विराड्रूपा}

श्रोतु॑ नः॒ श्रोतु॑रातिः सु॒श्रोतुः॑ सु॒क्षेत्रा॒ सिन्धु॑र॒द्भिः ||{6/15}{2.1.2.1}{1.122.6}{1.18.2.6}{6, 122, 1376}

श्रु॒त‌म्¦मे॒¦मि॒त्रा॒व॒रु॒णा॒¦हवा᳚¦इ॒मा¦उ॒त¦श्रु॒त॒‌म्¦सद॑ने¦वि॒श्वतः॑¦सी॒‌म् |
श्रोतु॑¦नः॒¦श्रोतु॑ऽरातिः¦सु॒ऽश्रोतुः॑¦सु॒ऽक्षेत्रा᳚¦सिन्धुः॑¦अ॒त्ऽभिः ||

स्तु॒षे सा वां᳚ वरुण मित्र रा॒तिर्गवां᳚ श॒ता पृ॒क्षया᳚मेषु प॒ज्रे |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

श्रु॒तर॑थे प्रि॒यर॑थे॒ दधा᳚नाः स॒द्यः पु॒ष्टिं नि॑रुन्धा॒नासो᳚, अग्मन् ||{7/15}{2.1.2.2}{1.122.7}{1.18.2.7}{7, 122, 1377}

स्तु॒षे¦सा¦वा॒‌म्¦व॒रु॒ण॒¦मि॒त्र॒¦रा॒तिः¦गवा᳚‌म्¦श॒ता¦पृ॒क्षऽया᳚मेषु¦प॒ज्रे |
श्रु॒तऽर॑थे¦प्रि॒यऽर॑थे¦दधा᳚नाः¦स॒द्यः¦पु॒ष्टि‌म्¦नि॒ऽरु॒न्धा॒नासः॑¦अ॒ग्म॒न् ||

अ॒स्य स्तु॑षे॒ महि॑मघस्य॒ राधः॒सचा᳚ सनेम॒ नहु॑षः सु॒वीराः᳚ |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

जनो॒ यः प॒ज्रेभ्यो᳚ वा॒जिनी᳚वा॒नश्वा᳚वतो र॒थिनो॒ मह्यं᳚ सू॒रिः ||{8/15}{2.1.2.3}{1.122.8}{1.18.2.8}{8, 122, 1378}

अ॒स्य¦स्तु॒षे॒¦महि॑ऽमघस्य¦राधः॑¦सचा᳚¦स॒ने॒म॒¦नहु॑षः¦सु॒ऽवीराः᳚ |
जनः॑¦यः¦प॒ज्रेभ्यः॑¦वा॒जिनी᳚ऽवान्¦अश्व॑ऽवतः¦र॒थिनः॑¦मह्य᳚‌म्¦सू॒रिः ||

जनो॒ यो मि॑त्रावरुणावभि॒ध्रुग॒पो न वां᳚ सु॒नोत्य॑क्ष्णया॒ध्रुक् |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

स्व॒यं स यक्ष्मं॒ हृद॑ये॒ नि ध॑त्त॒ आप॒ यदीं॒ होत्रा᳚भिरृ॒तावा᳚ ||{9/15}{2.1.2.4}{1.122.9}{1.18.2.9}{9, 122, 1379}

जनः॑¦यः¦मि॒त्रा॒व॒रु॒णौ॒¦अ॒भि॒ऽध्रुक्¦अ॒पः¦न¦वा॒‌म्¦सु॒नोति॑¦अ॒क्ष्ण॒या॒ऽध्रुक् |
स्व॒य‌म्¦सः¦यक्ष्म᳚‌म्¦हृद॑ये¦नि¦ध॒त्ते॒¦आप॑¦यत्¦ई॒‌म्¦होत्रा᳚भिः¦ऋ॒तऽवा᳚ ||

स व्राध॑तो॒ नहु॑षो॒ दंसु॑जूतः॒ शर्ध॑स्तरो न॒रां गू॒र्तश्र॑वाः |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

विसृ॑ष्टरातिर्याति बाळ्ह॒सृत्वा॒ विश्वा᳚सु पृ॒त्सु सद॒मिच्छूरः॑ ||{10/15}{2.1.2.5}{1.122.10}{1.18.2.10}{10, 122, 1380}

सः¦व्राध॑तः¦नहु॑षः¦द‌म्ऽसु॑जूतः¦शर्धः॑ऽतरः¦न॒रा‌म्¦गू॒र्तऽश्र॑वाः |
विसृ॑ष्टऽरातिः¦या॒ति॒¦बा॒ळ्ह॒ऽसृत्वा᳚¦विश्वा᳚सु¦पृ॒त्ऽसु¦सद᳚‌म्¦इत्¦शूरः॑ ||

अध॒ ग्मन्ता॒ नहु॑षो॒ हवं᳚ सू॒रेः श्रोता᳚ राजानो, अ॒मृत॑स्य मन्द्राः |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

न॒भो॒जुवो॒ यन्नि॑र॒वस्य॒ राधः॒ प्रश॑स्तये महि॒ना रथ॑वते ||{11/15}{2.1.3.1}{1.122.11}{1.18.2.11}{11, 122, 1381}

अध॑¦ग्मन्त॑¦नहु॑षः¦हव᳚‌म्¦सू॒रेः¦श्रोत॑¦रा॒जा॒नः॒¦अ॒मृत॑स्य¦म॒न्द्राः॒ |
न॒भः॒ऽजुवः॑¦यत्¦नि॒र॒वस्य॑¦राधः॑¦प्रऽश॑स्तये¦म॒हि॒ना¦रथ॑ऽवते ||

ए॒तं शर्धं᳚ धाम॒ यस्य॑ सू॒रेरित्य॑वोच॒न्दश॑तयस्य॒ नंशे᳚ |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

द्यु॒म्नानि॒ येषु॑ व॒सुता᳚ती रा॒रन् विश्वे᳚ सन्वन्तु प्रभृ॒थेषु॒ वाज᳚म् ||{12/15}{2.1.3.2}{1.122.12}{1.18.2.12}{12, 122, 1382}

ए॒त‌म्¦शर्ध᳚‌म्¦धा॒म॒¦यस्य॑¦सू॒रेः¦इति॑¦अ॒वो॒च॒न्¦दश॑ऽतयस्य¦नंशे᳚ |
द्यु॒म्नानि॑¦येषु॑¦व॒सुऽता᳚तिः¦र॒रन्¦विश्वे᳚¦स॒न्व॒न्तु॒¦प्र॒ऽभृ॒थेषु॑¦वाज᳚‌म् ||

मन्दा᳚महे॒ दश॑तयस्य धा॒सेर्द्विर्यत्‌ पञ्च॒ बिभ्र॑तो॒ यन्त्यन्ना᳚ |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

किमि॒ष्टाश्व॑ इ॒ष्टर॑श्मिरे॒त ई᳚शा॒नास॒स्तरु॑ष ऋञ्जते॒ नॄन् ||{13/15}{2.1.3.3}{1.122.13}{1.18.2.13}{13, 122, 1383}

मन्दा᳚महे¦दश॑ऽतयस्य¦धा॒सेः¦द्विः¦यत्¦पंच॑¦बिभ्र॑तः¦यन्ति॑¦अन्ना᳚ |
कि‌म्¦इ॒ष्ट।आ॑श्वः¦इ॒ष्टऽर॑श्मिः¦ए॒ते¦ई॒शा॒नासः॑¦तरु॑षः¦ऋं॒ज॒ते॒¦नॄन् ||

हिर᳚ण्यकर्णं मणिग्रीव॒मर्ण॒स्तन्नो॒ विश्वे᳚ वरिवस्यन्तु दे॒वाः |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

अ॒र्यो गिरः॑ स॒द्य आ ज॒ग्मुषी॒रोस्राश्चा᳚कन्तू॒ भये᳚ष्व॒स्मे ||{14/15}{2.1.3.4}{1.122.14}{1.18.2.14}{14, 122, 1384}

हिर᳚ण्यऽकर्ण‌म्¦म॒णि॒ऽग्री॒व॒‌म्¦अर्णः॑¦तत्¦नः॒¦विश्वे᳚¦व॒रि॒व॒स्य॒न्तु॒¦दे॒वाः |
अ॒र्यः¦गिरः॑¦स॒द्यः¦आ¦ज॒ग्मुषीः᳚¦आ¦उ॒स्राः¦चा॒क॒न्तु॒¦उ॒भये᳚षु¦अ॒स्मे इति॑ ||

च॒त्वारो᳚ मा मश॒र्शार॑स्य॒ शिश्व॒स्त्रयो॒ राज्ञ॒ आय॑वसस्य जि॒ष्णोः |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

रथो᳚ वां मित्रावरुणा दी॒र्घाप्साः॒ स्यूम॑गभस्तिः॒ सूरो॒ नाद्यौ᳚त् ||{15/15}{2.1.3.5}{1.122.15}{1.18.2.15}{15, 122, 1385}

च॒त्वारः॑¦मा॒¦म॒श॒र्शार॑स्य¦शिश्वः॑¦त्रयः॑¦राज्ञः॑¦आय॑वसस्य¦जि॒ष्णोः |
रथः॑¦वा॒‌म्¦मि॒त्रा॒व॒रु॒णा॒¦दी॒र्घ।आ॑प्साः¦स्यूम॑ऽगभस्तिः¦सूरः॑¦न¦अ॒द्यौ॒त् ||

[2] पृथूरथइति त्रयोदशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानुषास्त्रिष्टुप् |
पृ॒थू रथो॒ दक्षि॑णाया, अयो॒ज्यैनं᳚ दे॒वासो᳚, अ॒मृता᳚सो, अस्थुः |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

कृ॒ष्णादुद॑स्थाद॒र्या॒३॑(आ॒) विहा᳚या॒श्चिकि॑त्सन्ती॒ मानु॑षाय॒ क्षया᳚य ||{1/13}{2.1.4.1}{1.123.1}{1.18.3.1}{16, 123, 1386}

पृ॒थुः¦रथः॑¦दक्षि॑णायाः¦अ॒यो॒जि॒¦आ¦ए॒न॒‌म्¦दे॒वासः॑¦अ॒मृता᳚सः¦अ॒स्थुः॒ |
कृ॒ष्णात्¦उत्¦अ॒स्था॒त्¦अ॒र्या᳚¦विऽहा᳚याः¦चिकि॑त्सन्ती¦मानु॑षाय¦क्षया᳚य ||

पूर्वा॒ विश्व॑स्मा॒द्‌ भुव॑नादबोधि॒ जय᳚न्ती॒ वाजं᳚ बृह॒ती सनु॑त्री |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

उ॒च्चा व्य॑ख्यद्‌ युव॒तिः पु॑न॒र्भूरोषा, अ॑गन्‌ प्रथ॒मा पू॒र्वहू᳚तौ ||{2/13}{2.1.4.2}{1.123.2}{1.18.3.2}{17, 123, 1387}

पूर्वा᳚¦विश्व॑स्मात्¦भुव॑नात्¦अ॒बो॒धि॒¦जय᳚न्ती¦वाज᳚‌म्¦बृ॒ह॒ती¦सनु॑त्री |
उ॒च्चा¦वि¦अ॒ख्य॒त्¦यु॒व॒तिः¦पु॒नः॒ऽभूः¦आ¦उ॒षाः¦अ॒ग॒न्¦प्र॒थ॒मा¦पू॒र्वऽहू᳚तौ ||

यद॒द्य भा॒गं वि॒भजा᳚सि॒ नृभ्य॒ उषो᳚ देवि मर्त्य॒त्रा सु॑जाते |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

दे॒वो नो॒, अत्र॑ सवि॒ता दमू᳚ना॒, अना᳚गसो वोचति॒ सूर्या᳚य ||{3/13}{2.1.4.3}{1.123.3}{1.18.3.3}{18, 123, 1388}

यत्¦अ॒द्य¦भा॒ग‌म्¦वि॒ऽभजा᳚सि¦नृऽभ्यः॑¦उषः॑¦दे॒वि॒¦म॒र्त्य॒ऽत्रा¦सु॒ऽजा॒ते॒ |
दे॒वः¦नः॒¦अत्र॑¦स॒वि॒ता¦दमू᳚नाः¦अना᳚गसः¦वो॒च॒ति॒¦सूर्या᳚य ||

गृ॒हंगृ॑हमह॒ना या॒त्यच्छा᳚ दि॒वेदि॑वे॒, अधि॒ नामा॒ दधा᳚ना |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

सिषा᳚सन्ती द्योत॒ना शश्व॒दागा॒दग्र॑मग्र॒मिद्‌ भ॑जते॒ वसू᳚नाम् ||{4/13}{2.1.4.4}{1.123.4}{1.18.3.4}{19, 123, 1389}

गृ॒ह‌म्ऽगृ॑ह‌म्¦अ॒ह॒ना¦या॒ति॒¦अच्छ॑¦दि॒वेऽदि॑वे¦अधि॑¦नाम॑¦दधा᳚ना |
सिसा᳚सन्ती¦द्यो॒त॒ना¦शश्व॑त्¦आ¦अ॒गा॒त्¦अग्र᳚‌म्।आग्र‌म्¦इत्¦भ॒ज॒ते॒¦वसू᳚ना‌म् ||

भग॑स्य॒ स्वसा॒ वरु॑णस्य जा॒मिरुषः॑ सूनृते प्रथ॒मा ज॑रस्व |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

प॒श्चा स द॑घ्या॒ यो, अ॒घस्य॑ धा॒ता जये᳚म॒ तं दक्षि॑णया॒ रथे᳚न ||{5/13}{2.1.4.5}{1.123.5}{1.18.3.5}{20, 123, 1390}

भग॑स्य¦स्वसा᳚¦वरु॑णस्य¦जा॒मिः¦उषः॑¦सू॒नृ॒ते॒¦प्र॒थ॒मा¦ज॒र॒स्व॒ |
प॒श्चा¦सः¦द॒ध्याः॒¦यः¦अ॒घस्य॑¦धा॒ता¦जये᳚म¦त‌म्¦दक्षि॑णया¦रथे᳚न ||

उदी᳚रतां सू॒नृता॒, उत्‌ पुरं᳚धी॒रुद॒ग्नयः॑ शुशुचा॒नासो᳚, अस्थुः |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

स्पा॒र्हा वसू᳚नि॒ तम॒साप॑गूळ्हा॒विष्कृ᳚ण्वन्त्यु॒षसो᳚ विभा॒तीः ||{6/13}{2.1.5.1}{1.123.6}{1.18.3.6}{21, 123, 1391}

उत्¦ई॒र॒ता॒‌म्¦सू॒नृताः᳚¦उत्¦पुर᳚‌म्ऽधीः¦उत्¦अ॒ग्नयः॑¦शु॒शु॒चा॒नासः॑¦अ॒स्थुः॒ |
स्पा॒र्हा¦वसू᳚नि¦तम॑सा¦अप॑ऽगूळ्हा¦आ॒विः¦कृ॒ण्व॒न्ति॒¦उ॒षसः॑¦वि॒ऽभा॒तीः ||

अपा॒न्यदेत्य॒भ्य१॑(अ॒)न्यदे᳚ति॒ विषु॑रूपे॒, अह॑नी॒ सं च॑रेते |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

प॒रि॒क्षितो॒स्तमो᳚, अ॒न्या गुहा᳚क॒रद्यौ᳚दु॒षाः शोशु॑चता॒ रथे᳚न ||{7/13}{2.1.5.2}{1.123.7}{1.18.3.7}{22, 123, 1392}

अप॑¦अ॒न्यत्¦एति॑¦अ॒भि¦अ॒न्यत्¦ए॒ति॒¦विषु॑रूपे॒ इति॒ विषु॑ऽरूपे¦अह॑नी॒ इति॑¦स‌म्¦च॒रे॒ते॒ इति॑ |
प॒रि॒ऽक्षितोः᳚¦तमः॑¦अ॒न्या¦गुहा᳚¦अ॒कः॒¦अद्यौ᳚त्¦उ॒षाः¦शोशु॑चता¦रथे᳚न ||

स॒दृशी᳚र॒द्य स॒दृशी॒रिदु॒ श्वो दी॒र्घं स॑चन्ते॒ वरु॑णस्य॒ धाम॑ |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

अ॒न॒व॒द्यास्त्रिं॒शतं॒ योज॑ना॒न्येकै᳚का॒ क्रतुं॒ परि॑ यन्ति स॒द्यः ||{8/13}{2.1.5.3}{1.123.8}{1.18.3.8}{23, 123, 1393}

स॒ऽदृशीः᳚¦अ॒द्य¦स॒ऽदृशीः᳚¦इत्¦ऊँ॒ इति॑¦श्वः¦दी॒र्घ‌म्¦स॒च॒न्ते॒¦वरु॑णस्य¦धाम॑ |
अ॒न॒व॒द्याः¦त्रिं॒शत᳚‌म्¦योज॑नानि¦एका᳚ऽएका¦क्रतु᳚‌म्¦परि॑¦य॒न्ति॒¦स॒द्यः ||

जा॒न॒त्यह्नः॑ प्रथ॒मस्य॒ नाम॑ शु॒क्रा कृ॒ष्णाद॑जनिष्ट श्विती॒ची |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

ऋ॒तस्य॒ योषा॒ न मि॑नाति॒ धामाह॑रहर्निष्कृ॒तमा॒चर᳚न्ती ||{9/13}{2.1.5.4}{1.123.9}{1.18.3.9}{24, 123, 1394}

जा॒न॒ती¦अह्नः॑¦प्र॒थ॒मस्य॑¦नाम॑¦शु॒क्रा¦कृ॒ष्णात्¦अ॒ज॒नि॒ष्ट॒¦श्वि॒ती॒ची |
ऋ॒तस्य॑¦योषा᳚¦न¦मि॒ना॒ति॒¦धाम॑¦अहः॑।आहः¦निः॒ऽकृ॒त‌म्¦आ॒ऽचर᳚न्ती ||

क॒न्ये᳚व त॒न्वा॒३॑(आ॒) शाश॑दानाँ॒, एषि॑ देवि दे॒वमिय॑क्षमाणम् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

सं॒स्मय॑माना युव॒तिः पु॒रस्ता᳚दा॒विर्वक्षां᳚सि कृणुषे विभा॒ती ||{10/13}{2.1.5.5}{1.123.10}{1.18.3.10}{25, 123, 1395}

क॒न्या᳚ऽ‌इव¦त॒न्वा᳚¦शाश॑दाना¦एषि॑¦दे॒वि॒¦दे॒व‌म्¦इय॑क्षमाण‌म् |
स॒‌म्ऽस्मय॑माना¦यु॒व॒तिः¦पु॒रस्ता᳚त्¦आ॒विः¦वक्षां᳚सि¦कृ॒णु॒षे॒¦वि॒ऽभा॒ती ||

सु॒सं॒का॒शा मा॒तृमृ॑ष्टेव॒ योषा॒विस्त॒न्वं᳚ कृणुषे दृ॒शे कम् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

भ॒द्रा त्वमु॑षो वित॒रं व्यु॑च्छ॒ न तत्ते᳚, अ॒न्या, उ॒षसो᳚ नशन्त ||{11/13}{2.1.6.1}{1.123.11}{1.18.3.11}{26, 123, 1396}

सु॒ऽस॒ङ्का॒शा¦मा॒तृमृ॑ष्टाऽ‌इव¦योषा᳚¦आ॒विः¦त॒न्व᳚‌म्¦कृ॒णु॒षे॒¦दृ॒शे¦क‌म् |
भ॒द्रा¦त्व‌म्¦उ॒षः॒¦वि॒ऽत॒र‌म्¦वि¦उ॒च्छ॒¦न¦तत्¦ते॒¦अ॒न्याः¦उ॒षसः॑¦न॒श॒न्त॒ ||

अश्वा᳚वती॒र्गोम॑तीर्वि॒श्ववा᳚रा॒ यत॑माना र॒श्मिभिः॒ सूर्य॑स्य |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

परा᳚ च॒ यन्ति॒ पुन॒रा च॑ यन्ति भ॒द्रा नाम॒ वह॑माना, उ॒षासः॑ ||{12/13}{2.1.6.2}{1.123.12}{1.18.3.12}{27, 123, 1397}

अश्व॑ऽवतीः¦गोऽम॑तीः¦वि॒श्वऽवा᳚राः¦यत॑मानाः¦र॒श्मिऽभिः॑¦सूर्य॑स्य |
परा᳚¦च॒¦यन्ति॑¦पुनः॑¦आ¦च॒¦य॒न्ति॒¦भ॒द्रा¦नाम॑¦वह॑मानाः¦उ॒षसः॑ ||

ऋ॒तस्य॑ र॒श्मिम॑नु॒यच्छ॑माना भ॒द्रम्भ॑द्रं॒ क्रतु॑म॒स्मासु॑ धेहि |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

उषो᳚ नो, अ॒द्य सु॒हवा॒ व्यु॑च्छा॒ऽस्मासु॒ रायो᳚ म॒घव॑त्सु च स्युः ||{13/13}{2.1.6.3}{1.123.13}{1.18.3.13}{28, 123, 1398}

ऋ॒तस्य॑¦र॒श्मि‌म्¦अ॒नु॒ऽयच्छ॑माना¦भ॒द्र‌म्ऽभ॑द्र‌म्¦क्रतु᳚‌म्¦अ॒स्मासु॑¦धे॒हि॒ |
उषः॑¦नः॒¦अ॒द्य¦सु॒ऽहवा᳚¦वि¦उ॒च्छ॒¦अ॒स्मासु॑¦रायः॑¦म॒घव॑त्ऽसु¦च॒¦स्यु॒रिति॑ स्युः ||

[3] उषा उच्छंतीति त्रयोदशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानुषास्त्रिष्टुप् |
उ॒षा, उ॒च्छन्ती᳚ समिधा॒ने, अ॒ग्ना, उ॒द्यन्त्सूर्य॑ उर्वि॒या ज्योति॑रश्रेत् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

दे॒वो नो॒, अत्र॑ सवि॒ता न्वर्थं॒ प्रासा᳚वीद्‌ द्वि॒पत्‌ प्र चतु॑ष्पदि॒त्यै ||{1/13}{2.1.7.1}{1.124.1}{1.18.4.1}{29, 124, 1399}

उ॒षाः¦उ॒च्छन्ती᳚¦स॒‌म्ऽ‌इ॒धा॒ने¦अ॒ग्नौ¦उ॒त्ऽयन्¦सूर्यः॑¦उ॒र्वि॒या¦ज्योतिः॑¦अ॒श्रे॒त् |
दे॒वः¦नः॒¦अत्र॑¦स॒वि॒ता¦नु¦अर्थ᳚‌म्¦प्र¦अ॒सा॒वी॒त्¦द्वि॒ऽपत्¦प्र¦चतुः॑ऽपत्¦इ॒त्यै ||

अमि॑नती॒ दैव्या᳚नि व्र॒तानि॑ प्रमिन॒ती म॑नु॒ष्या᳚ यु॒गानि॑ |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

ई॒युषी᳚णामुप॒मा शश्व॑तीनामायती॒नां प्र॑थ॒मोषा व्य॑द्यौत् ||{2/13}{2.1.7.2}{1.124.2}{1.18.4.2}{30, 124, 1400}

अमि॑नती¦दैव्या᳚नि¦व्र॒तानि॑¦प्र॒ऽमि॒न॒ती¦म॒नु॒ष्या᳚¦यु॒गानि॑ |
ई॒युषी᳚णा‌म्¦उ॒प॒मा¦शश्व॑तीना‌म्¦आ॒ऽय॒ती॒ना‌म्¦प्र॒थ॒मा¦उ॒षाः¦वि¦अ॒द्यौ॒त् ||

ए॒षा दि॒वो दु॑हि॒ताऽ प्रत्य॑दर्शि॒ ज्योति॒र्वसा᳚ना सम॒ना पु॒रस्ता᳚त् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

ऋ॒तस्य॒ पन्था॒मन्वे᳚ति सा॒धु प्र॑जान॒तीव॒ न दिशो᳚ मिनाति ||{3/13}{2.1.7.3}{1.124.3}{1.18.4.3}{31, 124, 1401}

ए॒षा¦दि॒वः¦दु॒हि॒ता¦प्रति॑¦अ॒द॒र्शि॒¦ज्योतिः॑¦वसा᳚ना¦स॒म॒ना¦पु॒रस्ता᳚त् |
ऋ॒तस्य॑¦पन्था᳚‌म्¦अनु॑¦ए॒ति॒¦सा॒धु¦प्र॒जा॒न॒तीऽ‌इ᳚व¦न¦दिशः॑¦मि॒ना॒ति॒ ||

उपो᳚, अदर्शि शु॒न्ध्युवो॒ न वक्षो᳚ नो॒धा, इ॑वा॒विर॑कृत प्रि॒याणि॑ |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

अ॒द्म॒सन्न स॑स॒तो बो॒धय᳚न्ती शश्वत्त॒मागा॒त्‌ पुन॑रे॒युषी᳚णाम् ||{4/13}{2.1.7.4}{1.124.4}{1.18.4.4}{32, 124, 1402}

उपो॒ इति॑¦अ॒द॒र्शि॒¦शु॒न्ध्युवः॑¦न¦वक्षः॑¦नो॒धाःऽ‌इ᳚व¦आ॒विः¦अ॒कृ॒त॒¦प्रि॒याणि॑ |
अ॒द्म॒ऽसत्¦न¦स॒स॒तः¦बो॒धय᳚न्ती¦श॒श्व॒त्ऽत॒मा¦आ¦अ॒गा॒त्¦पुनः॑¦आ॒ऽई॒युषी᳚णा‌म् ||

पूर्वे॒, अर्धे॒ रज॑सो, अ॒प्त्यस्य॒ गवां॒ जनि॑त्र्यकृत॒ प्र के॒तुम् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

व्यु॑ प्रथते वित॒रं वरी᳚य॒ ओभा पृ॒णन्ती᳚ पि॒त्रोरु॒पस्था᳚ ||{5/13}{2.1.7.5}{1.124.5}{1.18.4.5}{33, 124, 1403}

पूर्वे᳚¦अर्धे᳚¦रज॑सः¦अ॒प्त्यस्य॑¦गवा᳚‌म्¦जनि॑त्री¦अ॒कृ॒त॒¦प्र¦के॒तु‌म् |
वि¦ऊँ॒ इति॑¦प्र॒थ॒ते॒¦वि॒ऽत॒र‌म्¦वरी᳚यः¦आ¦उ॒भा¦पृ॒णन्ती᳚¦पि॒त्रोः¦उ॒पऽस्था᳚ ||

ए॒वेदे॒षा पु॑रु॒तमा᳚ दृ॒शे कं नाजा᳚मिं॒ न परि॑ वृणक्ति जा॒मिम् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

अ॒रे॒पसा᳚ त॒न्वा॒३॑(आ॒) शाश॑दाना॒ नार्भा॒दीष॑ते॒ न म॒हो वि॑भा॒ती ||{6/13}{2.1.8.1}{1.124.6}{1.18.4.6}{34, 124, 1404}

ए॒व¦इत्¦ए॒षा¦पु॒रु॒ऽतमा᳚¦दृ॒शे¦क‌म्¦न¦अजा᳚मि‌म्¦न¦परि॑¦वृ॒ण॒क्ति॒¦जा॒मि‌म् |
अ॒रे॒पसा᳚¦त॒न्वा᳚¦शाश॑दाना¦न¦अर्भा᳚त्¦ईष॑ते¦न¦म॒हः¦वि॒ऽभा॒ती ||

अ॒भ्रा॒तेव॑ पुं॒स ए᳚ति प्रती॒ची ग॑र्ता॒रुगि॑व स॒नये॒ धना᳚नाम् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

जा॒येव॒ पत्य॑ उश॒ती सु॒वासा᳚, उ॒षा ह॒स्रेव॒ नि रि॑णीते॒, अप्सः॑ ||{7/13}{2.1.8.2}{1.124.7}{1.18.4.7}{35, 124, 1405}

अ॒भ्रा॒ताऽ‌इ᳚व¦पुं॒सः¦ए॒ति॒¦प्र॒ती॒ची¦ग॒र्त॒ऽआ॒रुगि॑व¦स॒नये᳚¦धना᳚ना‌म् |
जा॒याऽ‌इ᳚व¦पत्ये᳚¦उ॒श॒ती¦सु॒ऽवासाः᳚¦उ॒षाः¦ह॒स्राऽ‌इ᳚व¦नि¦रि॒णी॒ते॒¦अप्सः॑ ||

स्वसा॒ स्वस्रे॒ ज्याय॑स्यै॒ योनि॑मारै॒गपै᳚त्यस्याः प्रति॒चक्ष्ये᳚व |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

व्यु॒च्छन्ती᳚ र॒श्मिभिः॒ सूर्य॑स्या॒ञ्ज्य᳚ङ्क्ते समन॒गा, इ॑व॒ व्राः ||{8/13}{2.1.8.3}{1.124.8}{1.18.4.8}{36, 124, 1406}

स्वसा᳚¦स्वस्रे᳚¦ज्याय॑स्यै¦योनि᳚‌म्¦अ॒रै॒क्¦अप॑¦ए॒ति॒¦अ॒स्याः॒¦प्र॒ति॒चक्ष्य॑ऽ‌इव |
वि॒।औ॒च्छन्ती᳚¦र॒श्मिऽभिः॑¦सूर्य॑स्य¦अं॒जि¦अ॒ङ्क्ते॒¦स॒म॒न॒गाःऽ‌इ᳚व¦व्राः ||

आ॒सां पूर्वा᳚सा॒मह॑सु॒ स्वसॄ᳚णा॒मप॑रा॒ पूर्वा᳚म॒भ्ये᳚ति प॒श्चात् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

ताः प्र॑त्न॒वन्नव्य॑सीर्नू॒नम॒स्मे रे॒वदु॑च्छन्तु सु॒दिना᳚, उ॒षासः॑ ||{9/13}{2.1.8.4}{1.124.9}{1.18.4.9}{37, 124, 1407}

आ॒सा‌म्¦पूर्वा᳚सा‌म्¦अह॑ऽसु¦स्वसॄ᳚णा‌म्¦अप॑रा¦पूर्वा᳚‌म्¦अ॒भि¦ए॒ति॒¦प॒श्चात् |
ताः¦प्र॒त्न॒ऽवत्¦नव्य॑सीः¦नू॒न‌म्¦अ॒स्मे इति॑¦रे॒वत्¦उ॒च्छ॒न्तु॒¦सु॒ऽदिनाः᳚¦उ॒षसः॑ ||

प्र बो᳚धयोषः पृण॒तो म॑घो॒न्यबु॑ध्यमानाः प॒णयः॑ ससन्तु |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

रे॒वदु॑च्छ म॒घव॑द्भ्यो मघोनि रे॒वत्‌ स्तो॒त्रे सू᳚नृते जा॒रय᳚न्ती ||{10/13}{2.1.8.5}{1.124.10}{1.18.4.10}{38, 124, 1408}

प्र¦बो॒ध॒य॒¦उ॒षः॒¦पृ॒ण॒तः¦म॒घो॒नि॒¦अबु॑ध्यमानाः¦प॒णयः॑¦स॒स॒न्तु॒ |
रे॒वत्¦उ॒च्छ॒¦म॒घव॑त्ऽभ्यः¦म॒घो॒नि॒¦रे॒वत्¦स्तो॒त्रे¦सू॒नृ॒ते॒¦ज॒रय᳚न्ती ||

अवे॒यम॑श्वैद्‌ युव॒तिः पु॒रस्ता᳚द्‌ यु॒ङ्क्ते गवा᳚मरु॒णाना॒मनी᳚कम् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

वि नू॒नमु॑च्छा॒दस॑ति॒ प्र के॒तुर्गृ॒हंगृ॑ह॒मुप॑ तिष्ठाते, अ॒ग्निः ||{11/13}{2.1.9.1}{1.124.11}{1.18.4.11}{39, 124, 1409}

अव॑¦इ॒य‌म्¦अ॒श्वै॒त्¦यु॒व॒तिः¦पु॒रस्ता᳚त्¦यु॒ङ्क्ते¦गवा᳚‌म्¦अ॒रु॒णाना᳚‌म्¦अनी᳚क‌म् |
वि¦नू॒न‌म्¦उ॒च्छा॒त्¦अस॑ति¦प्र¦के॒तुः¦गृ॒ह‌म्ऽगृ॑ह‌म्¦उप॑¦ति॒ष्ठा॒ते॒¦अ॒ग्निः ||

उत्‌ ते॒ वय॑श्चिद्‌ वस॒तेर॑पप्त॒न् नर॑श्च॒ ये पि॑तु॒भाजो॒ व्यु॑ष्टौ |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

अ॒मा स॒ते व॑हसि॒ भूरि॑ वा॒ममुषो᳚ देवि दा॒शुषे॒ मर्त्या᳚य ||{12/13}{2.1.9.2}{1.124.12}{1.18.4.12}{40, 124, 1410}

उत्¦ते॒¦वयः॑¦चि॒त्¦व॒स॒तेः¦अ॒प॒प्त॒न्¦नरः॑¦च॒¦ये¦पि॒तु॒ऽभाजः॑¦वि।औ᳚ष्टौ |
अ॒मा¦स॒ते¦व॒ह॒सि॒¦भूरि॑¦वा॒म‌म्¦उषः॑¦दे॒वि॒¦दा॒शुषे᳚¦मर्त्या᳚य ||

अस्तो᳚ढ्वं स्तोम्या॒ ब्रह्म॑णा॒ मेऽवी᳚वृधध्वमुश॒तीरु॑षासः |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

यु॒ष्माकं᳚ देवी॒रव॑सा सनेम सह॒स्रिणं᳚ च श॒तिनं᳚ च॒ वाज᳚म् ||{13/13}{2.1.9.3}{1.124.13}{1.18.4.13}{41, 124, 1411}

अस्तो᳚ढ्व‌म्¦स्तो॒म्याः॒¦ब्रह्म॑णा¦मे॒¦अवी᳚वृधध्व‌म्¦उ॒श॒तीः¦उ॒ष॒सः॒ |
यु॒ष्माक᳚‌म्¦दे॒वीः॒¦अव॑सा¦स॒ने॒म॒¦स॒ह॒स्रिण᳚‌म्¦च॒¦श॒तिन᳚‌म्¦च॒¦वाज᳚‌म् ||

[4] प्रातारत्नमिति सप्तर्चस्य सूक्तस्य दैर्घतमसः कक्षीवान्त्स्वनयस्यदानस्तुतिस्त्रिष्टुप् चतुर्थीपंचम्यौजगत्यौ | (स्वनयनाम्नोराज्ञोदानस्तुतिरतःस्वनयोदेवता) |
प्रा॒ता रत्नं᳚ प्रात॒रित्वा᳚ दधाति॒ तं चि॑कि॒त्वान्‌ प्र॑ति॒गृह्या॒ नि ध॑त्ते |{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | त्रिष्टुप्}

तेन॑ प्र॒जां व॒र्धय॑मान॒ आयू᳚ रा॒यस्पोषे᳚ण सचते सु॒वीरः॑ ||{1/7}{2.1.10.1}{1.125.1}{1.18.5.1}{42, 125, 1412}

प्रा॒तरिति॑¦रत्न᳚‌म्¦प्रा॒तः॒ऽ‌इत्वा᳚¦द॒धा॒ति॒¦त‌म्¦चि॒कि॒त्वान्¦प्र॒ति॒ऽगृह्य॑¦नि¦ध॒त्ते॒ |
तेन॑¦प्र॒ऽजा‌म्¦व॒र्धय॑मानः¦आयुः॑¦रा॒यः¦पोषे᳚ण¦स॒च॒ते॒¦सु॒ऽवीरः॑ ||

सु॒गुर॑सत्‌ सुहिर॒ण्यः स्वश्वो᳚ बृ॒हद॑स्मै॒ वय॒ इन्द्रो᳚ दधाति |{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | त्रिष्टुप्}

यस्त्वा॒यन्तं॒ वसु॑ना ऽ प्रातरित्वो मु॒क्षीज॑येव॒ पदि॑मुत्सि॒नाति॑ ||{2/7}{2.1.10.2}{1.125.2}{1.18.5.2}{43, 125, 1413}

सु॒ऽगुः¦अ॒स॒त्¦सु॒ऽहि॒र॒ण्यः¦सु॒।आश्वः॑¦बृ॒हत्¦अ॒स्मै॒¦वयः॑¦इन्द्रः॑¦द॒धा॒ति॒ |
यः¦त्वा॒¦आ॒ऽयन्त᳚‌म्¦वसु॑ना¦प्रा॒तः॒ऽ‌इ॒त्वः॒¦मु॒क्षीज॑याऽ‌इव¦पदि᳚‌म्¦उ॒त्ऽसि॒नाति॑ ||

आय॑म॒द्य सु॒कृतं᳚ प्रा॒तरि॒च्छन्नि॒ष्टेः पु॒त्रं वसु॑मता॒ रथे᳚न |{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | त्रिष्टुप्}

अं॒शोः सु॒तं पा᳚यय मत्स॒रस्य॑ क्ष॒यद्वी᳚रं वर्धय सू॒नृता᳚भिः ||{3/7}{2.1.10.3}{1.125.3}{1.18.5.3}{44, 125, 1414}

आय᳚‌म्¦अ॒द्य¦सु॒ऽकृत᳚‌म्¦प्रा॒तः¦इ॒च्छन्¦इ॒ष्टेः¦पु॒त्र‌म्¦वसु॑ऽमता¦रथे᳚न |
अं॒शोः¦सु॒त‌म्¦पा॒य॒य॒¦म॒त्स॒रस्य॑¦क्ष॒यत्ऽवी᳚र‌म्¦व॒र्ध॒य॒¦सू॒नृता᳚भिः ||

उप॑ क्षरन्ति॒ सिन्ध॑वो मयो॒भुव॑ ईजा॒नं च॑ य॒क्ष्यमा᳚णं च धे॒नवः॑ |{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | जगती}

पृ॒णन्तं᳚ च॒ पपु॑रिं च श्रव॒स्यवो᳚ घृ॒तस्य॒ धारा॒, उप॑ यन्ति वि॒श्वतः॑ ||{4/7}{2.1.10.4}{1.125.4}{1.18.5.4}{45, 125, 1415}

उप॑¦क्ष॒र॒न्ति॒¦सिन्ध॑वः¦म॒यः॒ऽभुवः॑¦ई॒जा॒न‌म्¦च॒¦य॒क्ष्यमा᳚ण‌म्¦च॒¦धे॒नवः॑ |
पृ॒णन्त᳚‌म्¦च॒¦पपु॑रि‌म्¦च॒¦श्र॒व॒स्यवः॑¦घृ॒तस्य॑¦धाराः᳚¦उप॑¦य॒न्ति॒¦वि॒श्वतः॑ ||

नाक॑स्य पृ॒ष्ठे, अधि॑ तिष्ठति श्रि॒तो यः पृ॒णाति॒ स ह॑ दे॒वेषु॑ गच्छति |{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | जगती}

तस्मा॒, आपो᳚ घृ॒तम॑र्षन्ति॒ सिन्ध॑व॒स्तस्मा᳚, इ॒यं दक्षि॑णा पिन्वते॒ सदा᳚ ||{5/7}{2.1.10.5}{1.125.5}{1.18.5.5}{46, 125, 1416}

नाक॑स्य¦पृ॒ष्ठे¦अधि॑¦ति॒ष्ठ॒ति॒¦श्रि॒तः¦यः¦पृ॒णाति॑¦सः¦ह॒¦दे॒वेषु॑¦ग॒च्छ॒ति॒ |
तस्मै᳚¦आपः॑¦घृ॒त‌म्¦अ॒र्ष॒न्ति॒¦सिन्ध॑वः¦तस्मै᳚¦इ॒य‌म्¦दक्षि॑णा¦पि॒न्व॒ते॒¦सदा᳚ ||

दक्षि॑णावता॒मिदि॒मानि॑ चि॒त्रा दक्षि॑णावतां दि॒वि सूर्या᳚सः |{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | त्रिष्टुप्}

दक्षि॑णावन्तो, अ॒मृतं᳚ भजन्ते॒ दक्षि॑णावन्तः॒ प्र ति॑रन्त॒ आयुः॑ ||{6/7}{2.1.10.6}{1.125.6}{1.18.5.6}{47, 125, 1417}

दक्षि॑णाऽवता‌म्¦इत्¦इ॒मानि॑¦चि॒त्रा¦दक्षि॑णाऽवता‌म्¦दि॒वि¦सूर्या᳚सः |
दक्षि॑णाऽवन्तः¦अ॒मृत᳚‌म्¦भ॒ज॒न्ते॒¦दक्षि॑णाऽवन्तः¦प्र¦ति॒र॒न्ते॒¦आयुः॑ ||

मा पृ॒णन्तो॒ दुरि॑त॒मेन॒ आर॒न् मा जा᳚रिषुः सू॒रयः॑ सुव्र॒तासः॑ |{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | त्रिष्टुप्}

अ॒न्यस्तेषां᳚ परि॒धिर॑स्तु॒ कश्चि॒दपृ॑णन्तम॒भि सं य᳚न्तु॒ शोकाः᳚ ||{7/7}{2.1.10.7}{1.125.7}{1.18.5.7}{48, 125, 1418}

मा¦पृ॒णन्तः॑¦दुःऽ‌इ᳚त‌म्¦एनः॑¦आ¦अ॒र॒न्¦मा¦जा॒रि॒षुः॒¦सू॒रयः॑¦सु॒ऽव्र॒तासः॑ |
अ॒न्यः¦तेषा᳚‌म्¦प॒रि॒ऽधिः¦अ॒स्तु॒¦कः¦चि॒त्¦अपृ॑णन्त‌म्¦अ॒भि¦स‌म्¦य॒न्तु॒¦शोकाः᳚ ||

[5] अमंदानिति सप्तर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानृषिः आगधितेत्यस्यभावयव्यऋषिः रोमशादेवता उपोपमइत्यस्यरोमशाऋषिकास्वनयोदेवतात्रिष्टुप् अंत्येद्वेअनुष्टुभौ | (स्वनयएवभावयव्यशब्देनोच्यते रोमशास्वनयभार्याअंत्येद्वेऋचौतयोः परस्परंसंवादः आद्याभिःपंचभिर्दानुतष्टः कक्षीवान्‌भावयव्यमस्तौत्‌ ततश्चसएवदेवता) |
अम᳚न्दा॒न्‌ त्स्तोमा॒न्‌ प्र भ॑रे मनी॒षा सिन्धा॒वधि॑ क्षिय॒तो भा॒व्यस्य॑ |{दैर्घतमसः कक्षीवान् | भावयव्यः | त्रिष्टुप्}

यो मे᳚ स॒हस्र॒ममि॑मीत स॒वान॒तूर्तो॒ राजा॒ श्रव॑ इ॒च्छमा᳚नः ||{1/7}{2.1.11.1}{1.126.1}{1.18.6.1}{49, 126, 1419}

अम᳚न्दान्¦स्तोमा᳚न्¦प्र¦भ॒रे॒¦म॒नी॒षा¦सिन्धौ᳚¦अधि॑¦क्षि॒य॒तः¦भा॒व्यस्य॑ |
यः¦मे॒¦स॒हस्र᳚‌म्¦अमि॑मीत¦स॒वान्¦अ॒तूर्तः॑¦राजा᳚¦श्रवः॑¦इ॒च्छमा᳚नः ||

श॒तं राज्ञो॒ नाध॑मानस्य नि॒ष्काञ् छ॒तमश्वा॒न्‌ प्रय॑तान्‌ त्स॒द्य आद᳚म् |{दैर्घतमसः कक्षीवान् | भावयव्यः | त्रिष्टुप्}

श॒तं क॒क्षीवाँ॒, असु॑रस्य॒ गोनां᳚ दि॒वि श्रवो॒ऽजर॒मा त॑तान ||{2/7}{2.1.11.2}{1.126.2}{1.18.6.2}{50, 126, 1420}

श॒त‌म्¦राज्ञः॑¦नाध॑मानस्य¦नि॒ष्कान्¦श॒त‌म्¦अश्वा᳚न्¦प्रऽय॑तान्¦स॒द्यः¦आद᳚‌म् |
श॒त‌म्¦क॒क्षीवा᳚न्¦असु॑रस्य¦गोना᳚‌म्¦दि॒वि¦श्रवः॑¦अ॒जर᳚‌म्¦आ¦त॒ता॒न॒ ||

उप॑ मा श्या॒वाः स्व॒नये᳚न द॒त्ता व॒धूम᳚न्तो॒ दश॒ रथा᳚सो, अस्थुः |{दैर्घतमसः कक्षीवान् | भावयव्यः | त्रिष्टुप्}

ष॒ष्टिः स॒हस्र॒मनु॒ गव्य॒मागा॒त् सन॑त्‌ क॒क्षीवाँ᳚, अभिपि॒त्वे, अह्ना᳚म् ||{3/7}{2.1.11.3}{1.126.3}{1.18.6.3}{51, 126, 1421}

उप॑¦मा॒¦श्या॒वाः¦स्व॒नये᳚न¦द॒त्ताः¦व॒धूऽम᳚न्तः¦दश॑¦रथा᳚सः¦अ॒स्थुः॒ |
ष॒ष्टिः¦स॒हस्र᳚‌म्¦अनु॑¦गव्य᳚‌म्¦आ¦अ॒गा॒त्¦सन॑त्¦क॒क्षीवा᳚न्¦अ॒भि॒ऽपि॒त्वे¦अह्ना᳚‌म् ||

च॒त्वा॒रिं॒शद्‌ दश॑रथस्य॒ शोणाः᳚ स॒हस्र॒स्याग्रे॒ श्रेणिं᳚ नयन्ति |{दैर्घतमसः कक्षीवान् | भावयव्यः | त्रिष्टुप्}

म॒द॒च्युतः॑ कृश॒नाव॑तो॒, अत्या᳚न् क॒क्षीव᳚न्त॒ उद॑मृक्षन्त प॒ज्राः ||{4/7}{2.1.11.4}{1.126.4}{1.18.6.4}{52, 126, 1422}

च॒त्वा॒रिं॒शत्¦दश॑ऽरथस्य¦शोणाः᳚¦स॒हस्र॑स्य¦अग्रे᳚¦श्रेणि᳚‌म्¦न॒य॒न्ति॒ |
म॒द॒ऽच्युतः॑¦कृ॒श॒नऽव॑तः¦अत्या᳚न्¦क॒क्षीव᳚न्तः¦उत्¦अ॒मृ॒क्ष॒न्त॒¦प॒ज्राः ||

पूर्वा॒मनु॒ प्रय॑ति॒मा द॑दे व॒स्त्रीन्‌ यु॒क्ताँ, अ॒ष्टाव॒रिधा᳚यसो॒ गाः |{दैर्घतमसः कक्षीवान् | भावयव्यः | त्रिष्टुप्}

सु॒बन्ध॑वो॒ ये वि॒श्या᳚, इव॒ व्रा, अन॑स्वन्तः॒ श्रव॒ ऐष᳚न्त प॒ज्राः ||{5/7}{2.1.11.5}{1.126.5}{1.18.6.5}{53, 126, 1423}

पूर्वा᳚‌म्¦अनु॑¦प्रऽय॑ति‌म्¦आ¦द॒दे॒¦वः॒¦त्रीन्¦यु॒क्तान्¦अ॒ष्टौ¦अ॒रिऽधा᳚यसः¦गाः |
सु॒ऽबन्ध॑वः¦ये¦वि॒श्याः᳚ऽ‌इव¦व्राः¦अन॑स्वन्तः¦श्रवः॑¦ऐष᳚न्त¦प॒ज्राः ||

आग॑धिता॒ परि॑गधिता॒ या क॑शी॒केव॒ जङ्ग॑हे |{भावयव्यः | रोमशा | अनुष्टुप्}

ददा᳚ति॒ मह्यं॒ यादु॑री॒ याशू᳚नां भो॒ज्या᳚ श॒ता ||{6/7}{2.1.11.6}{1.126.6}{1.18.6.6}{54, 126, 1424}

आऽग॑धिता¦परि॑ऽगधिता¦या¦क॒शी॒काऽ‌इ᳚व¦जङ्ग॑हे | ददा᳚ति¦मह्य᳚‌म्¦यादु॑री¦याशू᳚ना‌म्¦भो॒ज्या᳚¦श॒ता ||

उपो᳚प मे॒ परा᳚ मृश॒ मा मे᳚ द॒भ्राणि॑ मन्यथाः |{रोमशा | स्वनयो | अनुष्टुप्}

सर्वा॒हम॑स्मि रोम॒शा ग॒न्धारी᳚णामिवावि॒का ||{7/7}{2.1.11.7}{1.126.7}{1.18.6.7}{55, 126, 1425}

उप॑।औप¦मे॒¦परा᳚¦मृ॒श॒¦मा¦मे॒¦द॒भ्राणि॑¦म॒न्य॒थाः॒ | सर्वा᳚¦अ॒ह‌म्¦अ॒स्मि॒¦रो॒म॒शा¦ग॒न्धारी᳚णा‌म्ऽ‌इव¦अ॒वि॒का ||

[6] अग्निहोतारमित्येकादशर्चस्य सूक्तस्य दैवोदासिःपरुच्छेपोऽग्निरत्यष्टिः षष्ट्यतिधृतिः |
अ॒ग्निं होता᳚रं मन्ये॒ दास्व᳚न्तं॒ वसुं᳚ सू॒नुं सह॑सो जा॒तवे᳚दसं॒ विप्रं॒ न जा॒तवे᳚दसम् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

य ऊ॒र्ध्वया᳚ स्वध्व॒रो दे॒वो दे॒वाच्या᳚ कृ॒पा |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

घृ॒तस्य॒ विभ्रा᳚ष्टि॒मनु॑ वष्टि शो॒चिषा॒ऽऽ जुह्वा᳚नस्य स॒र्पिषः॑ ||{1/11}{2.1.12.1}{1.127.1}{1.19.1.1}{56, 127, 1426}

अ॒ग्नि‌म्¦होता᳚र‌म्¦म॒न्ये॒¦दास्व᳚न्त‌म्¦वसु᳚‌म्¦सू॒नु‌म्¦सह॑सः¦जा॒तऽवे᳚दस‌म्¦विप्र᳚‌म्¦न¦जा॒तऽवे᳚दस‌म् |
यः¦ऊ॒र्ध्वया᳚¦सु॒।आ॒ध्व॒रः¦दे॒वः¦दे॒वाच्या᳚¦कृ॒पा |
घृ॒तस्य॑¦विऽभ्रा᳚ष्टि‌म्¦अनु॑¦व॒ष्टि॒¦शो॒चिषा᳚¦आ॒ऽजुह्वा᳚नस्य¦स॒र्पिषः॑ ||

यजि॑ष्ठं त्वा॒ यज॑माना हुवेम॒ ज्येष्ठ॒मङ्गि॑रसां विप्र॒ मन्म॑भि॒र्विप्रे᳚भिः शुक्र॒ मन्म॑भिः |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

परि॑ज्मानमिव॒ द्यां होता᳚रं चर्षणी॒नाम् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

शो॒चिष्के᳚शं॒ वृष॑णं॒ यमि॒मा विशः॒ प्राव᳚न्तु जू॒तये॒ विशः॑ ||{2/11}{2.1.12.2}{1.127.2}{1.19.1.2}{57, 127, 1427}

यजि॑ष्ठ‌म्¦त्वा॒¦यज॑मानाः¦हु॒वे॒म॒¦ज्येष्ठ᳚‌म्¦अङ्गि॑रसा‌म्¦वि॒प्र॒¦मन्म॑ऽभिः¦विप्रे᳚भिः¦शु॒क्र॒¦मन्म॑ऽभिः |
परि॑ज्मान‌म्ऽ‌इव¦द्या‌म्¦होता᳚र‌म्¦च॒र्ष॒णी॒ना‌म् |
शो॒चिःऽके᳚श‌म्¦वृष॑ण‌म्¦य‌म्¦इ॒माः¦विशः॑¦प्र¦अ॒व॒न्तु॒¦जू॒तये᳚¦विशः॑ ||

स हि पु॒रू चि॒दोज॑सा वि॒रुक्म॑ता॒ दीद्या᳚नो॒ भव॑ति द्रुहंत॒रः प॑र॒शुर्न द्रु॑हंत॒रः |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

वी॒ळु चि॒द्यस्य॒ समृ॑तौ॒ श्रुव॒द्‌ वने᳚व॒ यत्‌ स्थि॒रम् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

निः॒षह॑माणो यमते॒ नाय॑ते धन्वा॒सहा॒ नाय॑ते ||{3/11}{2.1.12.3}{1.127.3}{1.19.1.3}{58, 127, 1428}

सः¦हि¦पु॒रु¦चि॒त्¦ओज॑सा¦वि॒रुक्म॑ता¦दीद्या᳚नः¦भव॑ति¦द्रु॒ह॒‌म्ऽत॒रः¦प॒र॒शुः¦न¦द्रु॒ह॒‌म्ऽत॒रः |
वी॒ळु¦चि॒त्¦यस्य॑¦स‌म्ऽऋ॑तौ¦श्रुव॑त्¦वना᳚ऽ‌इव¦यत्¦स्थि॒र‌म् |
निः॒ऽसह॑माणः¦य॒म॒ते॒¦न¦अ॒य॒ते॒¦ध॒न्व॒ऽसहा᳚¦न¦अ॒य॒ते॒ ||

दृ॒ळ्हा चि॑दस्मा॒, अनु॑ दु॒र्यथा᳚ वि॒दे तेजि॑ष्ठाभिर॒रणि॑भिर्दा॒ष्ट्यव॑से॒ऽग्नये᳚ दा॒ष्ट्यव॑से |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

प्र यः पु॒रूणि॒ गाह॑ते॒ तक्ष॒द्‌ वने᳚व शो॒चिषा᳚ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

स्थि॒रा चि॒दन्ना॒ नि रि॑णा॒त्योज॑सा॒ नि स्थि॒राणि॑ चि॒दोज॑सा ||{4/11}{2.1.12.4}{1.127.4}{1.19.1.4}{59, 127, 1429}

दृ॒ळ्हा¦चि॒त्¦अ॒स्मै॒¦अनु॑¦दुः॒¦यथा᳚¦वि॒दे¦तेजि॑ष्ठाभिः¦अ॒रणि॑ऽभिः¦दा॒ष्टि॒¦अव॑से¦अ॒ग्नये᳚¦दा॒ष्टि॒¦अव॑से |
प्र¦यः¦पु॒रूणि॑¦गाह॑ते¦तक्ष॑त्¦वना᳚ऽ‌इव¦शो॒चिषा᳚ |
स्थि॒रा¦चि॒त्¦अन्ना᳚¦नि¦रि॒णा॒ति॒¦ओज॑सा¦नि¦स्थि॒राणि॑¦चि॒त्¦ओज॑सा ||

तम॑स्य पृ॒क्षमुप॑रासु धीमहि॒ नक्तं॒ यः सु॒दर्श॑तरो॒ दिवा᳚तरा॒दप्रा᳚युषे॒ दिवा᳚तरात् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

आद॒स्यायु॒र्ग्रभ॑णवद् वी॒ळु शर्म॒ न सू॒नवे᳚ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

भ॒क्तमभ॑क्त॒मवो॒ व्यन्तो᳚, अ॒जरा᳚, अ॒ग्नयो॒ व्यन्तो᳚, अ॒जराः᳚ ||{5/11}{2.1.12.5}{1.127.5}{1.19.1.5}{60, 127, 1430}

त‌म्¦अ॒स्य॒¦पृ॒क्ष‌म्¦उप॑रासु¦धी॒म॒हि॒¦नक्त᳚‌म्¦यः¦सु॒दर्श॑ऽतरः¦दिवा᳚ऽतरात्¦अप्र॑ऽआयुषे¦दिवा᳚ऽतरात् |
आत्¦अ॒स्य॒¦आयुः॑¦ग्रभ॑णऽवत्¦वी॒ळु॒¦शर्म॑¦न¦सू॒नवे᳚ |
भ॒क्त‌म्¦अभ॑क्त‌म्¦अवः॑¦व्यन्तः॑¦अ॒जराः᳚¦अ॒ग्नयः॑¦व्यन्तः॑¦अ॒जराः᳚ ||

स हि शर्धो॒ न मारु॑तं तुवि॒ष्वणि॒रप्न॑स्वतीषू॒र्वरा᳚स्वि॒ष्टनि॒रार्त॑नास्वि॒ष्टनिः॑ |{दैवोदासिः परुच्छेपः | अग्निः | अतिधृतिः}

आद॑द्ध॒व्यान्या᳚द॒दिर्य॒ज्ञस्य॑ के॒तुर॒र्हणा᳚ |{दैवोदासिः परुच्छेपः | अग्निः | अतिधृतिः}

अध॑ स्मास्य॒ हर्ष॑तो॒ हृषी᳚वतो॒ विश्वे᳚ जुषन्त॒ पन्थां॒ नरः॑ शु॒भे न पन्था᳚म् ||{6/11}{2.1.13.1}{1.127.6}{1.19.1.6}{61, 127, 1431}

सः¦हि¦शर्धः॑¦न¦मारु॑त‌म्¦तु॒वि॒ऽस्वणिः॑¦अप्न॑स्वतीषु¦उ॒र्वरा᳚सु¦इ॒ष्टनिः॑¦आर्त॑नासु¦इ॒ष्टनिः॑ |
आद॑त्¦ह॒व्यानि॑¦आ॒ऽद॒दिः¦य॒ज्ञस्य॑¦के॒तुः¦अ॒र्हणा᳚ |
अध॑¦स्म॒¦अ॒स्य॒¦हर्ष॑तः¦हृषी᳚वतः¦विश्वे᳚¦जु॒ष॒न्त॒¦पन्था᳚‌म्¦नरः॑¦शु॒भे¦न¦पन्था᳚‌म् ||

द्वि॒ता यदीं᳚ की॒स्तासो᳚, अ॒भिद्य॑वो नम॒स्यन्त॑ उप॒वोच᳚न्त॒ भृग॑वो म॒थ्नन्तो᳚ दा॒शा भृग॑वः |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

अ॒ग्निरी᳚शे॒ वसू᳚नां॒ शुचि॒र्यो ध॒र्णिरे᳚षाम् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

प्रि॒याँ, अ॑पि॒धीँर्व॑निषीष्ट॒ मेधि॑र॒ आ व॑निषीष्ट॒ मेधि॑रः ||{7/11}{2.1.13.2}{1.127.7}{1.19.1.7}{62, 127, 1432}

द्वि॒ता¦यत्¦ई॒‌म्¦की॒स्तासः॑¦अ॒भिऽद्य॑वः¦न॒म॒स्यन्तः॑¦उ॒प॒ऽवोच᳚न्त¦भृग॑वः¦म॒थ्नन्तः॑¦दा॒शा¦भृग॑वः |
अ॒ग्निः¦ई॒शे॒¦वसू᳚ना‌म्¦शुचिः॑¦यः¦ध॒र्णिः¦ए॒षा॒‌म् |
प्रि॒यान्¦अ॒पि॒ऽधीन्¦व॒नि॒षी॒ष्ट॒¦मेधि॑रः¦आ¦व॒नि॒षी॒श्ट॒¦मेधि॑रः ||

विश्वा᳚सां त्वा वि॒शां पतिं᳚ हवामहे॒ सर्वा᳚सां समा॒नं दम्प॑तिं भु॒जे स॒त्यगि᳚र्वाहसं भु॒जे |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

अति॑थिं॒ मानु॑षाणां पि॒तुर्न यस्या᳚स॒या |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

अ॒मी च॒ विश्वे᳚, अ॒मृता᳚स॒ आ वयो᳚ ह॒व्या दे॒वेष्वा वयः॑ ||{8/11}{2.1.13.3}{1.127.8}{1.19.1.8}{63, 127, 1433}

विश्वा᳚सा‌म्¦त्वा॒¦वि॒शा‌म्¦पति᳚‌म्¦ह॒वा॒म॒हे॒¦सर्वा᳚सा‌म्¦स॒मा॒न‌म्¦द‌म्ऽप॑ति‌म्¦भु॒जे¦स॒त्यऽगि᳚र्वाहस‌म्¦भु॒जे |
अति॑थि‌म्¦मानु॑षाणा‌म्¦पि॒तुः¦न¦यस्य॑¦आ॒स॒या |
अ॒मी इति॑¦च॒¦विश्वे᳚¦अ॒मृता᳚सः¦आ¦वयः॑¦ह॒व्या¦दे॒वेषु॑¦आ¦वयः॑ ||

त्वम॑ग्ने॒ सह॑सा॒ सह᳚न्तमः शु॒ष्मिन्त॑मो जायसे दे॒वता᳚तये र॒यिर्न दे॒वता᳚तये |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

शु॒ष्मिन्त॑मो॒ हि ते॒ मदो᳚ द्यु॒म्निन्त॑म उ॒त क्रतुः॑ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

अध॑ स्मा ते॒ परि॑ चरन्त्यजर श्रुष्टी॒वानो॒ नाज॑र ||{9/11}{2.1.13.4}{1.127.9}{1.19.1.9}{64, 127, 1434}

त्व‌म्¦अ॒ग्ने॒¦सह॑सा¦सह॑न्ऽतमः¦शु॒ष्मिन्ऽत॑मः¦जा॒य॒से॒¦दे॒वऽता᳚तये¦र॒यिः¦न¦दे॒वऽता᳚तये |
शु॒ष्मिन्ऽत॑मः¦हि¦ते॒¦मदः॑¦द्यु॒म्निन्ऽत॑मः¦उ॒त¦क्रतुः॑ |
अध॑¦स्म॒¦ते॒¦परि॑¦च॒र॒न्ति॒¦अ॒ज॒र॒¦श्रु॒ष्टी॒ऽवानः॑¦न¦अ॒ज॒र॒ ||

प्र वो᳚ म॒हे सह॑सा॒ सह॑स्वत उष॒र्बुधे᳚ पशु॒षे नाग्नये॒ स्तोमो᳚ बभूत्व॒ग्नये᳚ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

प्रति॒ यदीं᳚ ह॒विष्मा॒न् विश्वा᳚सु॒ क्षासु॒ जोगु॑वे |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

अग्रे᳚ रे॒भो न ज॑रत ऋषू॒णां जूर्णि॒र्होत॑ ऋषू॒णाम् ||{10/11}{2.1.13.5}{1.127.10}{1.19.1.10}{65, 127, 1435}

प्र¦वः॒¦म॒हे¦सह॑सा¦सह॑स्वते¦उ॒षः॒ऽबुधे᳚¦प॒शु॒ऽसे¦न¦अ॒ग्नये᳚¦स्तोमः॑¦ब॒भू॒तु॒¦अ॒ग्नये᳚ |
प्रति॑¦यत्¦ई॒‌म्¦ह॒विष्मा᳚न्¦विश्वा᳚सु¦क्षासु॑¦जोगु॑वे |
अग्रे᳚¦रे॒भः¦न¦ज॒र॒ते॒¦ऋ॒षू॒णा‌म्¦जूर्णिः॑¦होता᳚¦ऋ॒षू॒णा‌म् ||

स नो॒ नेदि॑ष्ठं॒ ददृ॑शान॒ आ भ॒राग्ने᳚ दे॒वेभिः॒ सच॑नाः सुचे॒तुना᳚ म॒हो रा॒यः सु॑चे॒तुना᳚ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

महि॑ शविष्ठ नस्कृधि सं॒चक्षे᳚ भु॒जे, अ॒स्यै |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

महि॑ स्तो॒तृभ्यो᳚ मघवन्‌ त्सु॒वीर्यं॒ मथी᳚रु॒ग्रो न शव॑सा ||{11/11}{2.1.13.6}{1.127.11}{1.19.1.11}{66, 127, 1436}

सः¦नः॒¦नेदि॑ष्ठ‌म्¦ददृ॑शानः¦आ¦भ॒र॒¦अग्ने᳚¦दे॒वेभिः॑¦सऽच॑नाः¦सु॒ऽचे॒तुना᳚¦म॒हः¦रा॒यः¦सु॒ऽचे॒तुना᳚ |
महि॑¦श॒वि॒ष्ठ॒¦नः॒¦कृ॒धि॒¦स॒‌म्ऽचक्षे᳚¦भु॒जे¦अ॒स्यै |
महि॑¦स्तो॒तृऽभ्यः॑¦म॒घ॒ऽव॒न्¦सु॒ऽवीर्य᳚‌म्¦मथीः᳚¦उ॒ग्रः¦न¦शव॑सा ||

[7] अयंजायतेत्यष्टर्चस्य सूक्तस्य दैवोदासिःपरुच्छेपोग्निरत्यष्टिः |
अ॒यं जा᳚यत॒ मनु॑षो॒ धरी᳚मणि॒ होता॒ यजि॑ष्ठ उ॒शिजा॒मनु᳚ व्र॒तम॒ग्निः स्वमनु᳚ व्र॒तम् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

वि॒श्वश्रु॑ष्टिः सखीय॒ते र॒यिरि॑व श्रवस्य॒ते |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

अद॑ब्धो॒ होता॒ नि ष॑ददि॒ळस्प॒दे परि॑वीत इ॒ळस्प॒दे ||{1/8}{2.1.14.1}{1.128.1}{1.19.2.1}{67, 128, 1437}

अ॒य‌म्¦जा॒य॒त॒¦मनु॑षः¦धरी᳚मणि¦होता᳚¦यजि॑ष्ठः¦उ॒शिजा᳚‌म्¦अनु॑¦व्र॒त‌म्¦अ॒ग्निः¦स्व‌म्¦अनु॑¦व्र॒त‌म् |
वि॒श्वऽश्रु॑ष्टिः¦स॒खि॒ऽय॒ते¦र॒यिःऽ‌इ᳚व¦श्र॒व॒स्य॒ते |
अद॑ब्धः¦होता᳚¦नि¦स॒द॒त्¦इ॒ळः¦प॒दे¦परि॑ऽवीतः¦इ॒ळः¦प॒दे ||

तं य॑ज्ञ॒साध॒मपि॑ वातयामस्यृ॒तस्य॑ प॒था नम॑सा ह॒विष्म॑ता दे॒वता᳚ता ह॒विष्म॑ता |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

स न॑ ऊ॒र्जामु॒पाभृ॑त्य॒या कृ॒पा न जू᳚र्यति |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

यं मा᳚त॒रिश्वा॒ मन॑वे परा॒वतो᳚ दे॒वं भाः प॑रा॒वतः॑ ||{2/8}{2.1.14.2}{1.128.2}{1.19.2.2}{68, 128, 1438}

त‌म्¦य॒ज्ञ॒ऽसाध᳚‌म्¦अपि॑¦वा॒त॒या॒म॒सि॒¦ऋ॒तस्य॑¦प॒था¦नम॑सा¦ह॒विष्म॑ता¦दे॒वऽता᳚ता¦ह॒विष्म॑ता |
सः¦नः॒¦ऊ॒र्जा‌म्¦उ॒प॒ऽआभृ॑ति¦अ॒या¦कृ॒पा¦न¦जू॒र्य॒ति॒ |
य‌म्¦मा॒त॒रिश्वा᳚¦मन॑वे¦प॒रा॒ऽवतः॑¦दे॒व‌म्¦भारिति॒ भाः¦प॒रा॒ऽवतः॑ ||

एवे᳚न स॒द्यः पर्ये᳚ति॒ पार्थि॑वं मुहु॒र्गी रेतो᳚ वृष॒भः कनि॑क्रद॒द् दध॒द्रेतः॒ कनि॑क्रदत् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

श॒तं चक्षा᳚णो, अ॒क्षभि॑र्दे॒वो वने᳚षु तु॒र्वणिः॑ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

सदो॒ दधा᳚न॒ उप॑रेषु॒ सानु॑ष्व॒ग्निः परे᳚षु॒ सानु॑षु ||{3/8}{2.1.14.3}{1.128.3}{1.19.2.3}{69, 128, 1439}

एवे᳚न¦स॒द्यः¦परि॑¦ए॒ति॒¦पार्थि॑व‌म्¦मु॒हुः॒ऽगीः¦रेतः॑¦वृ॒ष॒भः¦कनि॑क्रदत्¦दध॑त्¦रेतः॑¦कनि॑क्रदत् |
श॒त‌म्¦चक्षा᳚णः¦अ॒क्षऽभिः॑¦दे॒वः¦वने᳚षु¦तु॒र्वणिः॑ |
सदः॑¦दधा᳚नः¦उप॑रेषु¦सानु॑षु¦अ॒ग्निः¦परे᳚षु¦सानु॑षु ||

स सु॒क्रतुः॑ पु॒रोहि॑तो॒ दमे᳚दमे॒ऽग्निर्य॒ज्ञस्या᳚ध्व॒रस्य॑ चेतति॒ क्रत्वा᳚ य॒ज्ञस्य॑ चेतति |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

क्रत्वा᳚ वे॒धा, इ॑षूय॒ते विश्वा᳚ जा॒तानि॑ पस्पशे |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

यतो᳚ घृत॒श्रीरति॑थि॒रजा᳚यत॒ वह्नि᳚र्वे॒धा, अजा᳚यत ||{4/8}{2.1.14.4}{1.128.4}{1.19.2.4}{70, 128, 1440}

सः¦सु॒ऽक्रतुः॑¦पु॒रःऽहि॑तः¦दमे᳚ऽदमे¦अ॒ग्निः¦य॒ज्ञस्य॑¦अ॒ध्व॒रस्य॑¦चे॒त॒ति॒¦क्रत्वा᳚¦य॒ज्ञस्य॑¦चे॒त॒ति॒ |
क्रत्वा᳚¦वे॒धाः¦इ॒षु॒ऽय॒ते¦विश्वा᳚¦जा॒तानि॑¦प॒स्प॒शे॒ |
यतः॑¦घृ॒त॒ऽश्रीः¦अति॑थिः¦अजा᳚यत¦वह्निः॑¦वे॒धाः¦अजा᳚यत ||

क्रत्वा॒ यद॑स्य॒ तवि॑षीषु पृ॒ञ्चते॒ऽग्नेरवे᳚ण म॒रुतां॒ न भो॒ज्ये᳚षि॒राय॒ न भो॒ज्या᳚ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

स हि ष्मा॒ दान॒मिन्व॑ति॒ वसू᳚नां च म॒ज्मना᳚ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

स न॑स्त्रासते दुरि॒ताद॑भि॒ह्रुतः॒ शंसा᳚द॒घाद॑भि॒ह्रुतः॑ ||{5/8}{2.1.14.5}{1.128.5}{1.19.2.5}{71, 128, 1441}

क्रत्वा᳚¦यत्¦अ॒स्य॒¦तवि॑षीषु¦पृं॒चते᳚¦अ॒ग्नेः¦अवे᳚न¦म॒रुता᳚‌म्¦न¦भो॒ज्या᳚¦इ॒षि॒राय॑¦न¦भो॒ज्या᳚ |
सः¦हि¦स्म॒¦दान᳚‌म्¦इन्व॑ति¦वसू᳚ना‌म्¦च॒¦म॒ज्मना᳚ |
सः¦नः॒¦त्रा॒स॒ते॒¦दुः॒ऽ‌इ॒तात्¦अ॒भि॒ऽह्रुतः॑¦शंसा᳚त्¦अ॒घात्¦अ॒भि॒ऽह्रुतः॑ ||

विश्वो॒ विहा᳚या, अर॒तिर्वसु॑र्दधे॒ हस्ते॒ दक्षि॑णे त॒रणि॒र्न शि॑श्रथच्छ्रव॒स्यया॒ न शि॑श्रथत् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

विश्व॑स्मा॒, इदि॑षुध्य॒ते दे᳚व॒त्रा ह॒व्यमोहि॑षे |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

विश्व॑स्मा॒, इत्‌ सु॒कृते॒ वार॑मृण्वत्य॒ग्निर्द्वारा॒ व्यृ᳚ण्वति ||{6/8}{2.1.15.1}{1.128.6}{1.19.2.6}{72, 128, 1442}

विश्वः॑¦विऽहा᳚याः¦अ॒र॒तिः¦वसुः॑¦द॒धे॒¦हस्ते᳚¦दक्षि॑णे¦त॒रणिः॑¦न¦शि॒श्र॒थ॒त्¦श्र॒व॒स्यया᳚¦न¦शि॒श्र॒थ॒त् |
विश्व॑स्मै॒¦इत्¦इ॒षु॒ध्य॒ते¦दे॒व॒ऽत्रा¦ह॒व्य‌म्¦आ¦ऊ॒हि॒षे॒ |
विश्व॑स्मै¦इत्¦सु॒ऽकृते᳚¦वार᳚‌म्¦ऋ॒ण्व॒ति॒¦अ॒ग्निः¦द्वारा᳚¦वि¦ऋ॒ण्व॒ति॒ ||

स मानु॑षे वृ॒जने॒ शंत॑मो हि॒तो॒३॑(ओ॒)ऽग्निर्य॒ज्ञेषु॒ जेन्यो॒ न वि॒श्पतिः॑ प्रि॒यो य॒ज्ञेषु॑ वि॒श्पतिः॑ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

स ह॒व्या मानु॑षाणामि॒ळा कृ॒तानि॑ पत्यते |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

स न॑स्त्रासते॒ वरु॑णस्य धू॒र्तेर्म॒हो दे॒वस्य॑ धू॒र्तेः ||{7/8}{2.1.15.2}{1.128.7}{1.19.2.7}{73, 128, 1443}

सः¦मानु॑षे¦वृ॒जने᳚¦श‌म्ऽत॑मः¦हि॒तः¦अ॒ग्निः¦य॒ज्ञेषु॑¦जेन्यः॑¦न¦वि॒श्पतिः॑¦प्रि॒यः¦य॒ज्ञेषु॑¦वि॒श्पतिः॑ |
सः¦ह॒व्या¦मानु॑षाणा‌म्¦इ॒ळा¦कृ॒तानि॑¦प॒त्य॒ते॒ |
सः¦नः॒¦त्रा॒स॒ते॒¦वरु॑णस्य¦धू॒र्तेः¦म॒हः¦दे॒वस्य॑¦धू॒र्तेः ||

अ॒ग्निं होता᳚रमीळते॒ वसु॑धितिं प्रि॒यं चेति॑ष्ठमर॒तिं न्ये᳚रिरे हव्य॒वाहं॒ न्ये᳚रिरे |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

वि॒श्वायुं᳚ वि॒श्ववे᳚दसं॒ होता᳚रं यज॒तं क॒विम् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

दे॒वासो᳚ र॒ण्वमव॑से वसू॒यवो᳚ गी॒र्भी र॒ण्वं व॑सू॒यवः॑ ||{8/8}{2.1.15.3}{1.128.8}{1.19.2.8}{74, 128, 1444}

अ॒ग्नि‌म्¦होता᳚र‌म्¦ई॒ळ॒ते॒¦वसु॑ऽधिति‌म्¦प्रि॒य‌म्¦चेति॑ष्ठ‌म्¦अ॒र॒ति‌म्¦नि¦ए॒रि॒रे॒¦ह॒व्य॒ऽवाह᳚‌म्¦नि¦ए॒रि॒रे॒ |
वि॒श्वऽआ᳚यु‌म्¦वि॒श्वऽवे᳚दस‌म्¦होता᳚र‌म्¦य॒ज॒त‌म्¦क॒वि‌म् |
दे॒वासः॑¦र॒ण्व‌म्¦अव॑से¦व॒सु॒ऽयवः॑¦गीः॒ऽभिः¦र॒ण्व‌म्¦व॒सु॒ऽयवः॑ ||

[8] यंत्वंरथमित्येकादशर्चस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्रः षष्ट्या‌इंदुरत्यष्टिः अष्टमीनवम्यावतिशक्वर्यावेकादश्यष्टिः |
यं त्वं रथ॑मिन्द्र मे॒धसा᳚तयेऽपा॒का सन्त॑मिषिर प्र॒णय॑सि॒ प्रान॑वद्य॒ नय॑सि |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

स॒द्यश्चि॒त्तम॒भिष्ट॑ये॒ करो॒ वश॑श्च वा॒जिन᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

सास्माक॑मनवद्य तूतुजान वे॒धसा᳚मि॒मां वाचं॒ न वे॒धसा᳚म् ||{1/11}{2.1.16.1}{1.129.1}{1.19.3.1}{75, 129, 1445}

य‌म्¦त्व‌म्¦रथ᳚‌म्¦इ॒न्द्र॒¦मे॒धऽसा᳚तये¦अ॒पा॒का¦सन्त᳚‌म्¦इ॒षि॒र॒¦प्र॒ऽनय॑सि¦प्र¦अ॒न॒व॒द्य॒¦नय॑सि |
स॒द्यः¦चि॒त्¦त‌म्¦अ॒भिष्ट॑ये¦करः॑¦वशः॑¦च॒¦वा॒जिन᳚‌म् |
सः¦अ॒स्माक᳚‌म्¦अ॒न॒व॒द्य॒¦तू॒तु॒जा॒न॒¦वे॒धसा᳚‌म्¦इ॒मा‌म्¦वाच᳚‌म्¦न¦वे॒धसा᳚‌म् ||

स श्रु॑धि॒ यः स्मा॒ पृत॑नासु॒ कासु॑ चिद् द॒क्षाय्य॑ इन्द्र॒ भर॑हूतये॒ नृभि॒रसि॒ प्रतू᳚र्तये॒ नृभिः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

यः शूरैः॒ स्व१॑(अः॒) सनि॑ता॒ यो विप्रै॒र्वाजं॒ तरु॑ता |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

तमी᳚शा॒नास॑ इरधन्त वा॒जिनं᳚ पृ॒क्षमत्यं॒ न वा॒जिन᳚म् ||{2/11}{2.1.16.2}{1.129.2}{1.19.3.2}{76, 129, 1446}

सः¦श्रु॒धि॒¦यः¦स्म॒¦पृत॑नासु¦कासु॑¦चि॒त्¦द॒क्षाय्यः॑¦इ॒न्द्र॒¦भर॑ऽहूतये¦नृऽभिः॑¦अ॒सि॒¦प्रऽतू᳚र्तये¦नृऽभिः॑ |
यः¦शूरैः᳚¦स्व१॒॑रिति॒ स्वः॑¦सनि॑ता¦यः¦विप्रैः᳚¦वाज᳚‌म्¦तरु॑ता |
त‌म्¦ई॒शा॒नासः॑¦इ॒र॒ध॒न्त॒¦वा॒जिन᳚‌म्¦पृ॒क्ष‌म्¦अत्य᳚‌म्¦न¦वा॒जिन᳚‌म् ||

द॒स्मो हि ष्मा॒ वृष॑णं॒ पिन्व॑सि॒ त्वचं॒ कं चि॑द्यावीर॒ररुं᳚ शूर॒ मर्त्यं᳚ परिवृ॒णक्षि॒ मर्त्य᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

इन्द्रो॒त तुभ्यं॒ तद्दि॒वे तद्रु॒द्राय॒ स्वय॑शसे |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

मि॒त्राय॑ वोचं॒ वरु॑णाय स॒प्रथः॑ सुमृळी॒काय॑ स॒प्रथः॑ ||{3/11}{2.1.16.3}{1.129.3}{1.19.3.3}{77, 129, 1447}

द॒स्मः¦हि¦स्म॒¦वृष॑ण‌म्¦पिन्व॑सि¦त्वच᳚‌म्¦क‌म्¦चि॒त्¦या॒वीः॒¦अ॒ररु᳚‌म्¦शू॒र॒¦मर्त्य᳚‌म्¦प॒रि॒ऽवृ॒णक्षि॑¦मर्त्य᳚‌म् |
इन्द्र॑¦उ॒त¦तुभ्य᳚‌म्¦तत्¦दि॒वे¦तत्¦रु॒द्राय॑¦स्वऽय॑शसे |
मि॒त्राय॑¦वोच᳚‌म्¦वरु॑णाय¦स॒ऽप्रथः॑¦सु॒ऽमृ॒ळी॒काय॑¦स॒ऽप्रथः॑ ||

अ॒स्माकं᳚ व॒ इन्द्र॑मुश्मसी॒ष्टये॒ सखा᳚यं वि॒श्वायुं᳚ प्रा॒सहं॒ युजं॒ वाजे᳚षु प्रा॒सहं॒ युज᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

अ॒स्माकं॒ ब्रह्मो॒तयेऽवा᳚ पृ॒त्सुषु॒ कासु॑ चित् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

न॒हि त्वा॒ शत्रुः॒ स्तर॑ते स्तृ॒णोषि॒ यं विश्वं॒ शत्रुं᳚ स्तृ॒णोषि॒ यम् ||{4/11}{2.1.16.4}{1.129.4}{1.19.3.4}{78, 129, 1448}

अ॒स्माक᳚‌म्¦वः॒¦इन्द्र᳚‌म्¦उ॒श्म॒सि॒¦इ॒ष्टये᳚¦सखा᳚य¦वि॒श्वऽआ᳚यु‌म्¦प्र॒ऽसह᳚‌म्¦युज᳚‌म्¦वाजे᳚षु¦प्र॒ऽसह᳚‌म्¦युज᳚‌म् |
अ॒स्माक᳚‌म्¦ब्रह्म॑¦ऊ॒तये᳚¦अव॑¦पृ॒त्सुषु॑¦कासु॑¦चि॒त् |
न॒हि¦त्वा॒¦शत्रुः॑¦स्तर॑ते¦स्तृ॒णोषि॑¦य‌म्¦विश्व᳚‌म्¦शत्रु᳚‌म्¦स्तृ॒णोषि॑¦य‌म् ||

नि षू न॒माति॑मतिं॒ कय॑स्य चि॒त् तेजि॑ष्ठाभिर॒रणि॑भि॒र्नोतिभि॑रु॒ग्राभि॑रुग्रो॒तिभिः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

नेषि॑ णो॒ यथा᳚ पु॒राने॒नाः शू᳚र॒ मन्य॑से |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

विश्वा᳚नि पू॒रोरप॑ पर्षि॒ वह्नि॑रा॒सा वह्नि᳚र्नो॒, अच्छ॑ ||{5/11}{2.1.16.5}{1.129.5}{1.19.3.5}{79, 129, 1449}

नि¦सु¦न॒म॒¦अति॑ऽमति‌म्¦कय॑स्य¦चि॒त्¦तेजि॑ष्ठाभिः¦अ॒रणि॑ऽभिः¦न¦ऊ॒तिऽभिः॑¦उ॒ग्राभिः॑¦उ॒ग्र॒¦ऊ॒तिऽभिः॑ |
नेषि॑¦नः॒¦यथा᳚¦पु॒रा¦अ॒ने॒नाः¦शू॒र॒¦मन्य॑से |
विश्वा᳚नि¦पू॒रोः¦अप॑¦प॒र्षि॒¦वह्निः॑¦आ॒सा¦वह्निः॑¦नः॒¦अच्छ॑ ||

प्र तद्‌ वो᳚चेयं॒ भव्या॒येन्द॑वे॒ हव्यो॒ न य इ॒षवा॒न्‌ मन्म॒ रेज॑ति रक्षो॒हा मन्म॒ रेज॑ति |{दैवोदासिः परुच्छेपः | इन्दुः | अत्यष्टिः}

स्व॒यं सो, अ॒स्मदा नि॒दो व॒धैर॑जेत दुर्म॒तिम् |{दैवोदासिः परुच्छेपः | इन्दुः | अत्यष्टिः}

अव॑ स्रवेद॒घशं᳚सोऽवत॒रमव॑ क्षु॒द्रमि॑व स्रवेत् ||{6/11}{2.1.17.1}{1.129.6}{1.19.3.6}{80, 129, 1450}

प्र¦तत्¦वो॒चे॒य॒‌म्¦भव्या᳚य¦इन्द॑वे¦हव्यः॑¦न¦यः¦इ॒षऽवा᳚न्¦मन्म॑¦रेज॑ति¦र॒क्षः॒ऽहा¦मन्म॑¦रेज॑ति |
स्व॒य‌म्¦सः¦अ॒स्मत्¦आ¦नि॒दः¦व॒धैः¦अ॒जे॒त॒¦दुः॒ऽम॒ति‌म् |
अव॑¦स्र॒वे॒त्¦अ॒घऽशं᳚सः¦अ॒व॒ऽत॒र‌म्¦अव॑¦क्षु॒द्र‌म्ऽ‌इ᳚व¦स्र॒वे॒त् ||

व॒नेम॒ तद्धोत्र॑या चि॒तन्त्या᳚ व॒नेम॑ र॒यिं र॑यिवः सु॒वीर्यं᳚ र॒ण्वं सन्तं᳚ सु॒वीर्य᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

दु॒र्मन्मा᳚नं सु॒मन्तु॑भि॒रेमि॒षा पृ॑चीमहि |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

आ स॒त्याभि॒रिन्द्रं᳚ द्यु॒म्नहू᳚तिभि॒र्यज॑त्रं द्यु॒म्नहू᳚तिभिः ||{7/11}{2.1.17.2}{1.129.7}{1.19.3.7}{81, 129, 1451}

व॒नेम॑¦तत्¦होत्र॑या¦चि॒तन्त्या᳚¦व॒नेम॑¦र॒यि‌म्¦र॒यि॒ऽवः॒¦सु॒ऽवीर्य᳚‌म्¦र॒ण्व‌म्¦सन्त᳚‌म्¦सु॒ऽवीर्य᳚‌म् |
दुः॒ऽमन्मा᳚न‌म्¦सु॒मन्तु॑ऽभिः¦आ¦ई॒‌म्¦इ॒षा¦पृ॒ची॒म॒हि॒ |
आ¦स॒त्याभिः॑¦इन्द्र᳚‌म्¦द्यु॒म्नहू᳚तिऽभिः¦यज॑त्र‌म्¦द्यु॒म्नहू᳚तिऽभिः ||

प्रप्रा᳚ वो, अ॒स्मे स्वय॑शोभिरू॒ती प॑रिव॒र्ग इन्द्रो᳚ दुर्मती॒नां दरी᳚मन्‌ दुर्मती॒नाम् |{दैवोदासिः परुच्छेपः | इन्द्रः | अतिशक्वरी}

स्व॒यं सा रि॑ष॒यध्यै॒ या न॑ उपे॒षे, अ॒त्रैः |{दैवोदासिः परुच्छेपः | इन्द्रः | अतिशक्वरी}

ह॒तेम॑स॒न्न व॑क्षति क्षि॒प्ता जू॒र्णिर्न व॑क्षति ||{8/11}{2.1.17.3}{1.129.8}{1.19.3.8}{82, 129, 1452}

प्रऽप्र॑¦वः॒¦अ॒स्मे इति॑¦स्वय॑शःऽभिः¦ऊ॒ती¦प॒रि॒ऽव॒र्गे¦इन्द्रः॑¦दुः॒ऽम॒ती॒ना‌म्¦दरी᳚मन्¦दुः॒ऽम॒ती॒ना‌म् |
स्व॒य‌म्¦सा¦रि॒ष॒यध्यै॒¦या¦नः॒¦उ॒प॒ऽई॒षे¦अ॒त्रैः |
ह॒ता¦ई॒‌म्¦अ॒स॒त्¦न¦व॒क्ष॒ति॒¦क्षि॒प्ता¦जू॒र्णिः¦न¦व॒क्ष॒ति॒ ||

त्वं न॑ इन्द्र रा॒या परी᳚णसा या॒हि प॒थाँ, अ॑ने॒हसा᳚ पु॒रो या᳚ह्यर॒क्षसा᳚ |{दैवोदासिः परुच्छेपः | इन्द्रः | अतिशक्वरी}

सच॑स्व नः परा॒क आ सच॑स्वास्तमी॒क आ |{दैवोदासिः परुच्छेपः | इन्द्रः | अतिशक्वरी}

पा॒हि नो᳚ दू॒रादा॒राद॒भिष्टि॑भिः॒ सदा᳚ पाह्य॒भिष्टि॑भिः ||{9/11}{2.1.17.4}{1.129.9}{1.19.3.9}{83, 129, 1453}

त्व‌म्¦नः॒¦इ॒न्द्र॒¦रा॒या¦परी᳚णसा¦या॒हि¦प॒था¦अ॒ने॒हसा᳚¦पु॒रः¦या॒हि¦अ॒र॒क्षसा᳚ |
सच॑स्व¦नः¦प॒रा॒के¦आ¦सच॑स्व¦अ॒स्त॒‌म्ऽई॒के¦आ |
पा॒हि¦नः॒¦दू॒रात्¦आ॒रात्¦अ॒भिष्टि॑ऽभिः¦सदा᳚¦पा॒हि॒¦अ॒भिष्टि॑ऽभिः ||

त्वं न॑ इन्द्र रा॒या तरू᳚षसो॒ऽग्रं चि॑त्‌ त्वा महि॒मा स॑क्ष॒दव॑से म॒हे मि॒त्रं नाव॑से |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

ओजि॑ष्ठ॒ त्रात॒रवि॑ता॒ रथं॒ कं चि॑दमर्त्य |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

अ॒न्यम॒स्मद्‌ रि॑रिषेः॒ कं चि॑दद्रिवो॒ रिरि॑क्षन्तं चिदद्रिवः ||{10/11}{2.1.17.5}{1.129.10}{1.19.3.10}{84, 129, 1454}

त्व‌म्¦नः॒¦इ॒न्द्र॒¦रा॒या¦तरु॑षसा¦उ॒ग्र‌म्¦चि॒त्¦त्वा॒¦म॒हि॒मा¦स॒क्ष॒त्¦अव॑से¦म॒हे¦मि॒त्र‌म्¦न¦अव॑से |
ओजि॑ष्ठ¦त्रातः॑¦अवि॑त॒रिति॑¦रथ᳚‌म्¦क‌म्¦चि॒त्¦अ॒म॒र्त्य॒ |
अ॒न्य‌म्¦अ॒स्मत्¦रि॒रि॒षेः॒¦क‌म्¦चि॒त्¦अ॒द्रि॒ऽवः॒¦रिरि॑क्षन्त‌म्¦चि॒त्¦अ॒द्रि॒ऽवः॒ ||

पा॒हि न॑ इन्द्र सुष्टुत स्रि॒धो᳚ऽवया॒ता सद॒मिद्दु᳚र्मती॒नां दे॒वः सन्‌ दु᳚र्मती॒नाम् |{दैवोदासिः परुच्छेपः | इन्द्रः | अष्टिः}

ह॒न्ता पा॒पस्य॑ र॒क्षस॑स्त्रा॒ता विप्र॑स्य॒ माव॑तः |{दैवोदासिः परुच्छेपः | इन्द्रः | अष्टिः}

अधा॒ हि त्वा᳚ जनि॒ता जीज॑नद्‌ वसो रक्षो॒हणं᳚ त्वा॒ जीज॑नद्‌ वसो ||{11/11}{2.1.17.6}{1.129.11}{1.19.3.11}{85, 129, 1455}

पा॒हि¦नः॒¦इ॒न्द्र॒¦सु॒ऽस्तु॒त॒¦स्रि॒धः¦अ॒व॒ऽया॒ता¦सद᳚‌म्¦इत्¦दुः॒ऽम॒ती॒ना‌म्¦दे॒वः¦सन्¦दुः॒ऽम॒ती॒ना‌म् |
ह॒न्ता¦पा॒पस्य॑¦र॒क्षसः॑¦त्रा॒ता¦विप्र॑स्य¦माऽव॑तः |
अध॑¦हि¦त्वा॒¦ज॒नि॒ता¦जीज॑नत्¦व॒सो॒ इति॑¦र॒क्षः॒ऽहन᳚‌म्¦त्वा॒¦जीज॑नत्¦व॒सो॒ इति॑ ||

[9] एंद्रयाहीतिदशर्चस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्रोत्यष्टिरंत्यात्रिष्टुप् | (अष्टिरित्येवप्रयोगः साधुः)|
एन्द्र॑ या॒ह्युप॑ नः परा॒वतो॒ नायमच्छा᳚ वि॒दथा᳚नीव॒ सत्प॑ति॒रस्तं॒ राजे᳚व॒ सत्प॑तिः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

हवा᳚महे त्वा व॒यं प्रय॑स्वन्तः सु॒ते सचा᳚ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

पु॒त्रासो॒ न पि॒तरं॒ वाज॑सातये॒ मंहि॑ष्ठं॒ वाज॑सातये ||{1/10}{2.1.18.1}{1.130.1}{1.19.4.1}{86, 130, 1456}

आ¦इ॒न्द्र॒¦या॒हि॒¦उप॑¦नः॒¦प॒रा॒ऽवतः॑¦न¦अ॒य‌म्¦अच्छ॑¦वि॒दथा᳚निऽ‌इव¦सत्ऽप॑तिः¦अस्त᳚‌म्¦राजा᳚ऽ‌इव¦सत्ऽप॑तिः |
हवा᳚महे¦त्वा॒¦व॒य‌म्¦प्रय॑स्वन्तः¦सु॒ते¦सचा᳚ |
पु॒त्रासः॑¦न¦पि॒तर᳚‌म्¦वाज॑ऽसातये¦मंहि॑ष्ठ‌म्¦वाज॑ऽसातये ||

पिबा॒ सोम॑मिन्द्र सुवा॒नमद्रि॑भिः॒ कोशे᳚न सि॒क्तम॑व॒तं न वंस॑गस्तातृषा॒णो न वंस॑गः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

मदा᳚य हर्य॒ताय॑ ते तु॒विष्ट॑माय॒ धाय॑से |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

आ त्वा᳚ यच्छन्तु ह॒रितो॒ न सूर्य॒महा॒ विश्वे᳚व॒ सूर्य᳚म् ||{2/10}{2.1.18.2}{1.130.2}{1.19.4.2}{87, 130, 1457}

पिब॑¦सोम᳚‌म्¦इ॒न्द्र॒¦सु॒वा॒न‌म्¦अद्रि॑ऽभिः¦कोशे᳚न¦सि॒क्त‌म्¦अ॒व॒त‌म्¦न¦वंस॑गः¦त॒तृ॒षा॒णः¦न¦वंस॑गः |
मदा᳚य¦ह॒र्य॒ताय॑¦ते॒¦तु॒विःऽत॑माय¦धाय॑से |
आ¦त्वा॒¦य॒च्छ॒न्तु॒¦ह॒रितः॑¦न¦सूर्य᳚‌म्¦अहा᳚¦विश्वा᳚ऽ‌इव¦सूर्य᳚‌म् ||

अवि᳚न्दद्दि॒वो निहि॑तं॒ गुहा᳚ नि॒धिं वेर्न गर्भं॒ परि॑वीत॒मश्म᳚न्यन॒न्ते, अ॒न्तरश्म॑नि |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

व्र॒जं व॒ज्री गवा᳚मिव॒ सिषा᳚स॒न्नङ्गि॑रस्तमः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

अपा᳚वृणो॒दिष॒ इन्द्रः॒ परी᳚वृता॒ द्वार॒ इषः॒ परी᳚वृताः ||{3/10}{2.1.18.3}{1.130.3}{1.19.4.3}{88, 130, 1458}

अवि᳚न्दत्¦दि॒वः¦निऽहि॑त‌म्¦गुहा᳚¦नि॒ऽधि‌म्¦वेः¦न¦गर्भ᳚‌म्¦परि॑ऽवीत‌म्¦अश्म॑नि¦अ॒न॒न्ते¦अ॒न्तः¦अश्म॑नि |
व्र॒ज‌म्¦व॒ज्री¦गवा᳚‌म्ऽ‌इव¦सिसा᳚सन्¦अङ्गि॑रःऽतमः |
अप॑¦अ॒वृ॒णो॒त्¦इषः॑¦इन्द्रः॑¦परि॑ऽवृताः¦द्वारः॑¦इषः॑¦परि॑ऽवृताः ||

दा॒दृ॒हा॒णो वज्र॒मिन्द्रो॒ गभ॑स्त्योः॒, क्षद्मे᳚व ति॒ग्ममस॑नाय॒ सं श्य॑दहि॒हत्या᳚य॒ सं श्य॑त् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

सं॒वि॒व्या॒न ओज॑सा॒ शवो᳚भिरिन्द्र म॒ज्मना᳚ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

तष्टे᳚व वृ॒क्षं व॒निनो॒ नि वृ॑श्चसि पर॒श्वेव॒ नि वृ॑श्चसि ||{4/10}{2.1.18.4}{1.130.4}{1.19.4.4}{89, 130, 1459}

दा॒दृ॒हा॒णः¦वज्र᳚‌म्¦इन्द्रः॑¦गभ॑स्त्योः¦क्षद्म॑ऽ‌इव¦ति॒ग्म‌म्¦अस॑नाय¦स‌म्¦श्य॒त्¦अ॒हि॒ऽहत्या᳚य¦स‌म्¦श्य॒त् |
स॒‌म्ऽवि॒व्या॒नः¦ओज॑सा¦शवः॑ऽभिः¦इ॒न्द्र॒¦म॒ज्मना᳚ |
तष्टा᳚ऽ‌इव¦वृ॒क्ष‌म्¦व॒निनः॑¦नि¦वृ॒श्च॒सि॒¦प॒र॒श्वाऽ‌इ᳚व¦नि¦वृ॒श्च॒सि॒ ||

त्वं वृथा᳚ न॒द्य॑ इन्द्र॒ सर्त॒वेऽच्छा᳚ समु॒द्रम॑सृजो॒ रथाँ᳚, इव वाजय॒तो रथाँ᳚, इव |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

इ॒त ऊ॒तीर॑युञ्जत समा॒नमर्थ॒मक्षि॑तम् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

धे॒नूरि॑व॒ मन॑वे वि॒श्वदो᳚हसो॒ जना᳚य वि॒श्वदो᳚हसः ||{5/10}{2.1.18.5}{1.130.5}{1.19.4.5}{90, 130, 1460}

त्व‌म्¦वृथा᳚¦न॒द्यः॑¦इ॒न्द्र॒¦सर्त॑वे¦अच्छ॑¦स॒मु॒द्र‌म्¦अ॒सृ॒जः॒¦रथा᳚न्ऽ‌इव¦वा॒ज॒ऽय॒तः¦रथा᳚न्ऽ‌इव |
इ॒तः¦ऊ॒तीः¦अ॒युं॒ज॒त॒¦स॒मा॒न‌म्¦अर्थ᳚‌म्¦अक्षि॑त‌म् |
धे॒नूःऽ‌इ᳚व¦मन॑वे¦वि॒श्वऽदो᳚हसः¦जना᳚य¦वि॒श्वऽदो᳚हसः ||

इ॒मां ते॒ वाचं᳚ वसू॒यन्त॑ आ॒यवो॒ रथं॒ न धीरः॒ स्वपा᳚, अतक्षिषुः सु॒म्नाय॒ त्वाम॑तक्षिषुः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

शु॒म्भन्तो॒ जेन्यं᳚ यथा॒ वाजे᳚षु विप्र वा॒जिन᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

अत्य॑मिव॒ शव॑से सा॒तये॒ धना॒ विश्वा॒ धना᳚नि सा॒तये᳚ ||{6/10}{2.1.19.1}{1.130.6}{1.19.4.6}{91, 130, 1461}

इ॒मा‌म्¦ते॒¦वाच᳚‌म्¦व॒सु॒ऽयन्तः॑¦आ॒यवः॑¦रथ᳚‌म्¦न¦धीरः॑¦सु॒।आपाः᳚¦अ॒त॒क्षि॒षुः॒¦सु॒म्नाय॑¦त्वा‌म्¦अ॒त॒क्षि॒षुः॒ |
शु॒म्भन्तः॑¦जेन्य᳚‌म्¦यथा᳚¦वाजे᳚षु¦वि॒प्र॒¦वा॒जिन᳚‌म् |
अत्य᳚‌म्ऽ‌इव¦शव॑से¦सा॒तये᳚¦धना᳚¦विश्वा᳚¦धना᳚नि¦सा॒तये᳚ ||

भि॒नत्‌ पुरो᳚ नव॒तिमि᳚न्द्र पू॒रवे॒ दिवो᳚दासाय॒ महि॑ दा॒शुषे᳚ नृतो॒ वज्रे᳚ण दा॒शुषे᳚ नृतो |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

अ॒ति॒थि॒ग्वाय॒ शम्ब॑रं गि॒रेरु॒ग्रो, अवा᳚भरत् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

म॒हो धना᳚नि॒ दय॑मान॒ ओज॑सा॒ विश्वा॒ धना॒न्योज॑सा ||{7/10}{2.1.19.2}{1.130.7}{1.19.4.7}{92, 130, 1462}

भि॒नत्¦पुरः॑¦न॒व॒ति‌म्¦इ॒न्द्र॒¦पू॒रवे᳚¦दिवः॑ऽदासाय¦महि॑¦दा॒शुषे᳚¦नृ॒तो॒ इति॑¦वज्रे᳚ण¦दा॒शुषे᳚¦नृ॒तो॒ इति॑ |
अ॒ति॒थि॒ऽग्वाय॑¦शम्ब॑र‌म्¦गि॒रेः¦उ॒ग्रः¦अव॑¦अ॒भ॒र॒त् |
म॒हः¦धना᳚नि¦दय॑मानः¦ओज॑सा¦विश्वा᳚¦धना᳚नि¦ओज॑सा ||

इन्द्रः॑ स॒मत्सु॒ यज॑मान॒मार्यं॒ प्राव॒द्‌ विश्वे᳚षु श॒तमू᳚तिरा॒जिषु॒ स्व᳚र्मीळ्हेष्वा॒जिषु॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

मन॑वे॒ शास॑दव्र॒तान् त्वचं᳚ कृ॒ष्णाम॑रन्धयत् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

दक्ष॒न्न विश्वं᳚ ततृषा॒णमो᳚षति॒ न्य॑र्शसा॒नमो᳚षति ||{8/10}{2.1.19.3}{1.130.8}{1.19.4.8}{93, 130, 1463}

इन्द्रः॑¦स॒मत्ऽसु॑¦यज॑मान‌म्¦आर्य᳚‌म्¦प्र¦आ॒व॒त्¦विश्वे᳚षु¦श॒त‌म्ऽऊ᳚तिः¦आ॒जिषु॑¦स्वः॑ऽमीळ्हेषु¦आ॒जिषु॑ |
मन॑वे¦शास॑त्¦अ॒व्र॒तान्¦त्वच᳚‌म्¦कृ॒ष्णा‌म्¦अ॒र॒न्ध॒य॒त् |
धक्ष॑त्¦न¦विश्व᳚‌म्¦त॒तृ॒षा॒ण‌म्¦ओ॒ष॒ति॒¦नि¦अ॒र्श॒सा॒न‌म्¦ओ॒ष॒ति॒ ||

सूर॑श्च॒क्रं प्र वृ॑हज्जा॒त ओज॑सा ऽप्रपि॒त्वे वाच॑मरु॒णो मु॑षायतीशा॒न आ मु॑षायति |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

उ॒शना॒ यत्‌ प॑रा॒वतोऽज॑गन्नू॒तये᳚ कवे |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

सु॒म्नानि॒ विश्वा॒ मनु॑षेव तु॒र्वणि॒रहा॒ विश्वे᳚व तु॒र्वणिः॑ ||{9/10}{2.1.19.4}{1.130.9}{1.19.4.9}{94, 130, 1464}

सूरः॑¦च॒क्र‌म्¦प्र¦वृ॒ह॒त्¦जा॒तः¦ओज॑सा¦प्र॒ऽपि॒त्वे¦वाच᳚‌म्¦अ॒रु॒णः¦मु॒षा॒य॒ति॒¦ई॒शा॒नः¦आ¦मु॒षा॒य॒ति॒ |
उ॒शना᳚¦यत्¦प॒रा॒ऽवतः॑¦अज॑गन्¦ऊ॒तये᳚¦क॒वे॒ |
सु॒म्नानि॑¦विश्वा᳚¦मनु॑षाऽ‌इव¦तु॒र्वणिः॑¦अहा᳚¦विश्वा᳚ऽ‌इव¦तु॒र्वणिः॑ ||

स नो॒ नव्ये᳚भिर्वृषकर्मन्नु॒क्थैः पुरां᳚ दर्तः पा॒युभिः॑ पाहि श॒ग्मैः |{दैवोदासिः परुच्छेपः | इन्द्रः | त्रिष्टुप्}

दि॒वो॒दा॒सेभि॑रिन्द्र॒ स्तवा᳚नो वावृधी॒था, अहो᳚भिरिव॒ द्यौः ||{10/10}{2.1.19.5}{1.130.10}{1.19.4.10}{95, 130, 1465}

सः¦नः॒¦नव्ये᳚भिः¦वृ॒ष॒ऽक॒र्म॒न्¦उ॒क्थैः¦पुरा᳚‌म्¦द॒र्त॒रिति॑ दर्तः¦पा॒युऽभिः॑¦पा॒हि॒¦श॒ग्मैः |
दि॒वः॒ऽदा॒सेभिः॑¦इ॒न्द्र॒¦स्तवा᳚नः¦व॒वृ॒धी॒थाः¦अहो᳚भिःऽ‌इव¦द्यौः ||

[10] इंद्रायहीति सप्तर्चस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्रोत्यष्टिः |
इन्द्रा᳚य॒ हि द्यौरसु॑रो॒, अन᳚म्न॒तेन्द्रा᳚य म॒ही पृ॑थि॒वी वरी᳚मभिर्द्यु॒म्नसा᳚ता॒ वरी᳚मभिः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

इन्द्रं॒ विश्वे᳚ स॒जोष॑सो दे॒वासो᳚ दधिरे पु॒रः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

इन्द्रा᳚य॒ विश्वा॒ सव॑नानि॒ मानु॑षा रा॒तानि॑ सन्तु॒ मानु॑षा ||{1/7}{2.1.20.1}{1.131.1}{1.19.5.1}{96, 131, 1466}

इन्द्रा᳚य¦हि¦द्यौः¦असु॑रः¦अन᳚म्नत¦इन्द्रा᳚य¦म॒ही¦पृ॒थि॒वी¦वरी᳚मऽभिः¦द्यु॒म्नऽसा᳚ता¦वरी᳚मऽभिः |
इन्द्र᳚‌म्¦विश्वे᳚¦स॒ऽजोष॑सः¦दे॒वासः॑¦द॒धि॒रे॒¦पु॒रः |
इन्द्रा᳚य¦विश्वा᳚¦सव॑नानि¦मानु॑षा¦रा॒तानि॑¦स॒न्तु॒¦मानु॑षा ||

विश्वे᳚षु॒ हि त्वा॒ सव॑नेषु तु॒ञ्जते᳚ समा॒नमेकं॒ वृष॑मण्यवः॒ पृथ॒क् स्वः॑ सनि॒ष्यवः॒ पृथ॑क् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

तं त्वा॒ नावं॒ न प॒र्षणिं᳚ शू॒षस्य॑ धु॒रि धी᳚महि |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

इन्द्रं॒ न य॒ज्ञैश्चि॒तय᳚न्त आ॒यवः॒ स्तोमे᳚भि॒रिन्द्र॑मा॒यवः॑ ||{2/7}{2.1.20.2}{1.131.2}{1.19.5.2}{97, 131, 1467}

विश्वे᳚षु¦हि¦त्वा॒¦सव॑नेषु¦तुं॒जते᳚¦स॒मा॒न‌म्¦एक᳚‌म्¦वृष॑ऽमन्यवः¦पृथ॑क्¦स्व१॒॑रिति॒ स्वः॑¦स॒नि॒ष्यवः॑¦पृथ॑क् |
त‌म्¦त्वा॒¦नाव᳚‌म्¦न¦प॒र्षणि᳚‌म्¦शू॒षस्य॑¦धु॒रि¦धी॒म॒हि॒ |
इन्द्र᳚‌म्¦न¦य॒ज्ञैः¦चि॒तय᳚न्तः¦आ॒यवः॑¦स्तोमे᳚भिः¦इन्द्र᳚‌म्¦आ॒यवः॑ ||

वि त्वा᳚ ततस्रे मिथु॒ना, अ॑व॒स्यवो᳚ व्र॒जस्य॑ सा॒ता गव्य॑स्य निः॒सृजः॒ सक्ष᳚न्त इन्द्र निः॒सृजः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

यद्‌ ग॒व्यन्ता॒ द्वा जना॒ स्व१॑(अ॒)र्यन्ता᳚ स॒मूह॑सि |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

आ॒विष्करि॑क्र॒द्‌ वृष॑णं सचा॒भुवं॒ वज्र॑मिन्द्र सचा॒भुव᳚म् ||{3/7}{2.1.20.3}{1.131.3}{1.19.5.3}{98, 131, 1468}

वि¦त्वा॒¦त॒त॒स्रे॒¦मि॒थु॒नाः¦अ॒व॒स्यवः॑¦व्र॒जस्य॑¦सा॒ता¦गव्य॑स्य¦निः॒ऽसृजः॑¦सक्ष᳚न्तः¦इ॒न्द्र॒¦निः॒ऽसृजः॑ |
यत्¦ग॒व्यन्ता᳚¦द्वा¦जना᳚¦स्वः॑¦यन्ता᳚¦स॒‌म्ऽऊह॑सि |
आ॒विः¦करि॑क्रत्¦वृष॑ण‌म्¦स॒चा॒ऽभुव᳚‌म्¦वज्र᳚‌म्¦इ॒न्द्र॒¦स॒चा॒ऽभुव᳚‌म् ||

वि॒दुष्टे᳚, अ॒स्य वी॒र्य॑स्य पू॒रवः॒ पुरो॒ यदि᳚न्द्र॒ शार॑दीर॒वाति॑रः सासहा॒नो, अ॒वाति॑रः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

शास॒स्तमि᳚न्द्र॒ मर्त्य॒मय॑ज्युं शवसस्पते |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

म॒हीम॑मुष्णाः पृथि॒वीमि॒मा, अ॒पो म᳚न्दसा॒न इ॒मा, अ॒पः ||{4/7}{2.1.20.4}{1.131.4}{1.19.5.4}{99, 131, 1469}

वि॒दुः¦ते॒¦अ॒स्य¦वी॒र्य॑स्य¦पू॒रवः॑¦पुरः॑¦यत्¦इ॒न्द्र॒¦शार॑दीः¦अ॒व॒।आति॑रः¦स॒स॒हा॒नः¦अ॒व॒।आति॑रः |
शासः॑¦त‌म्¦इ॒न्द्र॒¦मर्त्य᳚‌म्¦अय॑ज्यु‌म्¦श॒व॒सः॒¦प॒ते॒ |
म॒ही‌म्¦अ॒मु॒ष्णाः॒¦पृ॒थि॒वी‌म्¦इ॒माः¦अ॒पः¦म॒न्द॒सा॒नः¦इ॒माः¦अ॒पः ||

आदित्ते᳚, अ॒स्य वी॒र्य॑स्य चर्किर॒न् मदे᳚षु वृषन्नु॒शिजो॒ यदावि॑थ सखीय॒तो यदावि॑थ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

च॒कर्थ॑ का॒रमे᳚भ्यः॒ पृत॑नासु॒ प्रव᳚न्तवे |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

ते, अ॒न्याम᳚न्यां न॒द्यं᳚ सनिष्णत श्रव॒स्यन्तः॑ सनिष्णत ||{5/7}{2.1.20.5}{1.131.5}{1.19.5.5}{100, 131, 1470}

आत्¦इत्¦ते॒¦अ॒स्य¦वी॒र्य॑स्य¦च॒र्कि॒र॒न्¦मदे᳚षु¦वृ॒ष॒न्¦उ॒शिजः॑¦यत्¦आवि॑थ¦स॒खि॒ऽय॒तः¦यत्¦आवि॑थ |
च॒कर्थ॑¦का॒र‌म्¦ए॒भ्यः॒¦पृत॑नासु¦प्रऽव᳚न्तवे |
ते¦अ॒न्या‌म्।आ᳚न्या‌म्¦न॒द्य᳚‌म्¦स॒नि॒ष्ण॒त॒¦श्र॒व॒स्यन्तः॑¦स॒नि॒ष्ण॒त॒ ||

उ॒तो नो᳚, अ॒स्या, उ॒षसो᳚ जु॒षेत॒ ह्य१॑(अ॒)र्कस्य॑ बोधि ह॒विषो॒ हवी᳚मभिः॒ स्व॑र्षाता॒ हवी᳚मभिः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

यदि᳚न्द्र॒ हन्त॑वे॒ मृधो॒ वृषा᳚ वज्रि॒ञ्चिके᳚तसि |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

आ मे᳚, अ॒स्य वे॒धसो॒ नवी᳚यसो॒ मन्म॑ श्रुधि॒ नवी᳚यसः ||{6/7}{2.1.20.6}{1.131.6}{1.19.5.6}{101, 131, 1471}

उ॒तो इति॑¦नः॒¦अ॒स्याः¦उ॒षसः॑¦जु॒षेत॑¦हि¦अ॒र्कस्य॑¦बो॒धि॒¦ह॒विषः॑¦हवी᳚मऽभिः¦स्वः॑ऽसाता¦हवी᳚मऽभिः |
यत्¦इ॒न्द्र॒¦हन्त॑वे¦मृधः॑¦वृषा᳚¦व॒ज्रि॒न्¦चिके᳚तसि |
आ¦मे॒¦अ॒स्य¦वे॒धसः॑¦नवी᳚यसः¦मन्म॑¦श्रु॒धि॒¦नवी᳚यसः ||

त्वं तमि᳚न्द्र वावृधा॒नो, अ॑स्म॒युर॑मित्र॒यन्तं᳚ तुविजात॒ मर्त्यं॒ वज्रे᳚ण शूर॒ मर्त्य᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

ज॒हि यो नो᳚, अघा॒यति॑ शृणु॒ष्व सु॒श्रव॑स्तमः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

रि॒ष्टं न याम॒न्नप॑ भूतु दुर्म॒तिर्विश्वाप॑ भूतु दुर्म॒तिः ||{7/7}{2.1.20.7}{1.131.7}{1.19.5.7}{102, 131, 1472}

त्व‌म्¦त‌म्¦इ॒न्द्र॒¦व॒वृ॒धा॒नः¦अ॒स्म॒ऽयुः¦अ॒मि॒त्र॒ऽयन्त᳚‌म्¦तु॒वि॒ऽजा॒त॒¦मर्त्य᳚‌म्¦वज्रे᳚ण¦शू॒र॒¦मर्त्य᳚‌म् |
ज॒हि¦यः¦नः॒¦अ॒घ॒ऽयति॑¦शृ॒णु॒ष्व¦सु॒श्रवः॑ऽतमः |
रि॒ष्ट‌म्¦न¦याम॑न्¦अप॑¦भू॒तु॒¦दुः॒ऽम॒तिः¦विश्वा᳚¦अप॑¦भू॒तु॒¦दुः॒ऽम॒तिः ||

[11] त्वयावयमिति षडृचस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्रोयुवंतमिंद्रेत्यर्धच‌इंद्रापर्वतावत्यष्टिः
त्वया᳚ व॒यं म॑घव॒न्‌ पूर्व्ये॒ धन॒ इन्द्र॑त्वोताः सासह्याम पृतन्य॒तो व॑नु॒याम॑ वनुष्य॒तः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

नेदि॑ष्ठे, अ॒स्मिन्नह॒न्यधि॑ वोचा॒ नु सु᳚न्व॒ते |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

अ॒स्मिन्‌ य॒ज्ञे वि च॑येमा॒ भरे᳚ कृ॒तं वा᳚ज॒यन्तो॒ भरे᳚ कृ॒तम् ||{1/6}{2.1.21.1}{1.132.1}{1.19.6.1}{103, 132, 1473}

त्वया᳚¦व॒य‌म्¦म॒घ॒ऽव॒न्¦पूर्व्ये᳚¦धने᳚¦इन्द्र॑त्वाऽऊताः¦स॒स॒ह्या॒म॒¦पृ॒त॒न्य॒तः¦व॒नु॒याम॑¦व॒नु॒ष्य॒तः |
नेदि॑ष्ठे¦अ॒स्मिन्¦अह॑नि¦अधि॑¦वो॒च॒¦नु¦सु॒न्व॒ते |
अ॒स्मिन्¦य॒ज्ञे¦वि¦च॒ये॒म॒¦भरे᳚¦कृ॒त‌म्¦वा॒ज॒ऽयन्तः॑¦भरे᳚¦कृ॒त‌म् ||

स्व॒र्जे॒षे भर॑ आ॒प्रस्य॒ वक्म᳚न्युष॒र्बुधः॒ स्वस्मि॒न्नञ्ज॑सि क्रा॒णस्य॒ स्वस्मि॒न्नञ्ज॑सि |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

अह॒न्निन्द्रो॒ यथा᳚ वि॒दे शी॒र्ष्णाशी᳚र्ष्णोप॒वाच्यः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

अ॒स्म॒त्रा ते᳚ स॒ध्र्य॑क्‌ सन्तु रा॒तयो᳚ भ॒द्रा भ॒द्रस्य॑ रा॒तयः॑ ||{2/6}{2.1.21.2}{1.132.2}{1.19.6.2}{104, 132, 1474}

स्वः॒ऽजे॒षे¦भरे᳚¦आ॒प्रस्य॑¦वक्म॑नि¦उ॒षः॒ऽबुधः॑¦स्वस्मि॑न्¦अंज॑सि¦क्रा॒णस्य॑¦स्वस्मि॑न्¦अंज॑सि |
अह॑न्¦इन्द्रः॑¦यथा᳚¦वि॒दे¦शी॒र्ष्णाऽशी᳚र्ष्णा¦उ॒प॒ऽवाच्यः॑ |
अ॒स्म॒ऽत्रा¦ते॒¦स॒ध्र्य॑क्¦स॒न्तु॒¦रा॒तयः॑¦भ॒द्राः¦भ॒द्रस्य॑¦रा॒तयः॑ ||

तत्तु प्रयः॑ प्र॒त्नथा᳚ ते शुशुक्व॒नं यस्मि᳚न्‌ य॒ज्ञे वार॒मकृ᳚ण्वत॒ क्षय॑मृ॒तस्य॒ वार॑सि॒ क्षय᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

वि तद्वो᳚चे॒रध॑ द्वि॒ताऽन्तः प॑श्यन्ति र॒श्मिभिः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

स घा᳚ विदे॒, अन्विन्द्रो᳚ ग॒वेष॑णो बन्धु॒क्षिद्भ्यो᳚ ग॒वेष॑णः ||{3/6}{2.1.21.3}{1.132.3}{1.19.6.3}{105, 132, 1475}

तत्¦तु¦प्रयः॑¦प्र॒त्नऽथा᳚¦ते॒¦शु॒शु॒क्व॒न‌म्¦यस्मि॑न्¦य॒ज्ञे¦वार᳚‌म्¦अकृ᳚ण्वत¦क्षय᳚‌म्¦ऋ॒तस्य॑¦वाः¦अ॒सि॒¦क्षय᳚‌म् |
वि¦तत्¦वो॒चेः॒¦अध॑¦द्वि॒ता¦अ॒न्तरिति॑¦प॒श्य॒न्ति॒¦र॒श्मिऽभिः॑ |
सः¦घ॒¦वि॒दे॒¦अनु॑¦इन्द्रः॑¦गो॒ऽएष॑णः¦ब॒न्धु॒क्षित्ऽभ्यः॑¦गो॒ऽएष॑णः ||

नू, इ॒त्था ते᳚ पू॒र्वथा᳚ च प्र॒वाच्यं॒ यदङ्गि॑रो॒भ्योऽवृ॑णो॒रप᳚ व्र॒जमिन्द्र॒ शिक्ष॒न्नप᳚ व्र॒जम् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

ऐभ्यः॑ समा॒न्या दि॒शाऽस्मभ्यं᳚ जेषि॒ योत्सि॑ च |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

सु॒न्वद्भ्यो᳚ रन्धया॒ कं चि॑दव्र॒तं हृ॑णा॒यन्तं᳚ चिदव्र॒तम् ||{4/6}{2.1.21.4}{1.132.4}{1.19.6.4}{106, 132, 1476}

नु¦इ॒त्था¦ते॒¦पू॒र्वऽथा᳚¦च॒¦प्र॒ऽवाच्य᳚‌म्¦यत्¦अङ्गि॑रःऽभ्यः¦अवृ॑णोः¦अप॑¦व्र॒ज‌म्¦इन्द्र॑¦शिक्ष॑न्¦अप॑¦व्र॒ज‌म् |
आ¦ए॒भ्यः॒¦स॒मा॒न्या¦दि॒शा¦अ॒स्मभ्य᳚‌म्¦जे॒षि॒¦योत्सि॑¦च॒ |
सु॒न्वत्ऽभ्यः॑¦र॒न्ध॒य॒¦क‌म्¦चि॒त्¦अ॒व्र॒त‌म्¦हृ॒णा॒यन्त᳚‌म्¦चि॒त्¦अ॒व्र॒त‌म् ||

सं यज्जना॒न्‌ क्रतु॑भिः॒ शूर॑ ई॒क्षय॒द्धने᳚ हि॒ते त॑रुषन्त श्रव॒स्यवः॒ प्र य॑क्षन्त श्रव॒स्यवः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

तस्मा॒, आयुः॑ प्र॒जाव॒दिद् बाधे᳚, अर्च॒न्त्योज॑सा |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

इन्द्र॑ ओ॒क्यं᳚ दिधिषन्त धी॒तयो᳚ दे॒वाँ, अच्छा॒ न धी॒तयः॑ ||{5/6}{2.1.21.5}{1.132.5}{1.19.6.5}{107, 132, 1477}

स‌म्¦यत्¦जना᳚न्¦क्रतु॑ऽभिः¦शूरः॑¦ई॒क्षय॑त्¦धने᳚¦हि॒ते¦त॒रु॒ष॒न्त॒¦श्र॒व॒स्यवः॑¦प्र¦य॒क्ष॒न्त॒¦श्र॒व॒स्यवः॑ |
तस्मै᳚¦आयुः॑¦प्र॒जाऽव॑त्¦इत्¦बाधे᳚¦अ॒र्च॒न्ति॒¦ओज॑सा |
इन्द्रे᳚¦ओ॒क्य᳚‌म्¦दि॒धि॒ष॒न्त॒¦धी॒तयः॑¦दे॒वान्¦अच्छ॑¦न¦धी॒तयः॑ ||

यु॒वं तमि᳚न्द्रापर्वता पुरो॒युधा॒ यो नः॑ पृत॒न्यादप॒ तंत॒मिद्ध॑तं॒ वज्रे᳚ण॒ तंत॒मिद्ध॑तम् |{दैवोदासिः परुच्छेपः | १/२:इंद्रापर्वतौ २/२:इन्द्रः | अत्यष्टिः}

दू॒रे च॒त्ताय॑ च्छन्‌ त्स॒द् गह॑नं॒ यदिन॑क्षत् |{दैवोदासिः परुच्छेपः | १/२:इंद्रापर्वतौ २/२:इन्द्रः | अत्यष्टिः}

अ॒स्माकं॒ शत्रू॒न्‌ परि॑ शूर वि॒श्वतो᳚ द॒र्मा द॑र्षीष्ट वि॒श्वतः॑ ||{6/6}{2.1.21.6}{1.132.6}{1.19.6.6}{108, 132, 1478}

यु॒व‌म्¦त‌म्¦इ॒न्द्रा॒प॒र्व॒ता॒¦पु॒रः॒ऽयुधा᳚¦यः¦नः॒¦पृ॒त॒न्यात्¦अप॑¦त‌म्ऽत᳚‌म्¦इत्¦ह॒त॒‌म्¦वज्रे᳚ण¦त‌म्ऽत᳚‌म्¦इत्¦ह॒त॒‌म् |
दू॒रे¦च॒त्ताय॑¦छ॒न्त्स॒त्¦गह॑न‌म्¦यत्¦इन॑क्षत् |
अ॒स्माक᳚‌म्¦शत्रू᳚न्¦परि॑¦शू॒र॒¦वि॒श्वतः॑¦द॒र्मा¦द॒र्षी॒ष्ट॒¦वि॒श्वतः॑ ||

[12] उभेपुनामीति सप्तर्चस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्र आद्यात्रिष्टुप् द्वितीयादितिस्रोनुष्टुभः पंचमीगायत्री षष्ठीधृतिः सप्तम्यष्टिः |
उ॒भे पु॑नामि॒ रोद॑सी, ऋ॒तेन॒ द्रुहो᳚ दहामि॒ सं म॒हीर॑नि॒न्द्राः |{दैवोदासिः परुच्छेपः | इन्द्रः | त्रिष्टुप्}

अ॒भि॒व्लग्य॒ यत्र॑ ह॒ता, अ॒मित्रा᳚ वैलस्था॒नं परि॑ तृ॒ळ्हा, अशे᳚रन् ||{1/7}{2.1.22.1}{1.133.1}{1.19.7.1}{109, 133, 1479}

उ॒भे इति॑¦पु॒ना॒मि॒¦रोद॑सी॒ इति॑¦ऋ॒तेन॑¦द्रुहः॑¦द॒हा॒मि॒¦स‌म्¦म॒हीः¦अ॒नि॒न्द्राः |
अ॒भि॒ऽव्लग्य॑¦यत्र॑¦ह॒ताः¦अ॒मित्राः᳚¦वै॒ल॒ऽस्था॒न‌म्¦परि॑¦तृ॒ळ्हाः¦अशे᳚रन् ||

अ॒भि॒व्लग्या᳚ चिदद्रिवः शी॒र्षा या᳚तु॒मती᳚नाम् |{दैवोदासिः परुच्छेपः | इन्द्रः | अनुष्टुप्}

छि॒न्धि व॑टू॒रिणा᳚ प॒दा म॒हाव॑टूरिणा प॒दा ||{2/7}{2.1.22.2}{1.133.2}{1.19.7.2}{110, 133, 1480}

अ॒भि॒ऽव्लग्य॑¦चि॒त्¦अ॒द्रि॒ऽवः॒¦शी॒र्षा¦या॒तु॒ऽमती᳚ना‌म् | छि॒न्धि¦व॒टू॒रिणा᳚¦प॒दा¦म॒हाऽव॑टूरिणा¦प॒दा ||

अवा᳚सां मघवञ्जहि॒ शर्धो᳚ यातु॒मती᳚नाम् |{दैवोदासिः परुच्छेपः | इन्द्रः | अनुष्टुप्}

वै॒ल॒स्था॒न॒के, अ᳚र्म॒के म॒हावै᳚लस्थे, अर्म॒के ||{3/7}{2.1.22.3}{1.133.3}{1.19.7.3}{111, 133, 1481}

अव॑¦आ॒सा॒‌म्¦म॒घ॒ऽव॒न्¦ज॒हि॒¦शर्धः॑¦या॒तु॒ऽमती᳚ना‌म् | वै॒ल॒ऽस्था॒न॒के¦अ॒र्भ॒के¦म॒हाऽवै᳚लस्थे¦अ॒र्भ॒के ||

यासां᳚ ति॒स्रः प᳚ञ्चा॒शतो᳚ऽभिव्ल॒ङ्गैर॒पाव॑पः |{दैवोदासिः परुच्छेपः | इन्द्रः | अनुष्टुप्}

तत्सु ते᳚ मनायति त॒कत्सु ते᳚ मनायति ||{4/7}{2.1.22.4}{1.133.4}{1.19.7.4}{112, 133, 1482}

यासा᳚‌म्¦ति॒स्रः¦पं॒चा॒शतः॑¦अ॒भि॒ऽव्ल॒ङ्गैः¦अ॒प॒।आव॑पः | तत्¦सु¦ते॒¦म॒ना॒य॒ति॒¦त॒कत्¦सु¦ते॒¦म॒ना॒य॒ति॒ ||

पि॒शङ्ग॑भृष्टिमम्भृ॒णं पि॒शाचि॑मिन्द्र॒ सं मृ॑ण |{दैवोदासिः परुच्छेपः | इन्द्रः | गायत्री}

सर्वं॒ रक्षो॒ नि ब᳚र्हय ||{5/7}{2.1.22.5}{1.133.5}{1.19.7.5}{113, 133, 1483}

पि॒शङ्ग॑ऽभृष्टि‌म्¦अ॒म्भृ॒ण‌म्¦पि॒शाचि᳚‌म्¦इ॒न्द्र॒¦स‌म्¦मृ॒ण॒ | सर्व᳚‌म्¦रक्षः॑¦नि¦ब॒र्ह॒य॒ ||

अ॒वर्म॒ह इ᳚न्द्र दादृ॒हि श्रु॒धी नः॑ शु॒शोच॒ हि द्यौः, क्षा न भी॒षाँ, अ॑द्रिवो घृ॒णान्न भी॒षाँ, अ॑द्रिवः |{दैवोदासिः परुच्छेपः | इन्द्रः | धृतिः}

शु॒ष्मिन्त॑मो॒ हि शु॒ष्मिभि᳚र्व॒धैरु॒ग्रेभि॒रीय॑से |{दैवोदासिः परुच्छेपः | इन्द्रः | धृतिः}

अपू᳚रुषघ्नो, अप्रतीत शूर॒ सत्व॑भिस्त्रिस॒प्तैः शू᳚र॒ सत्व॑भिः ||{6/7}{2.1.22.6}{1.133.6}{1.19.7.6}{114, 133, 1484}

अ॒वः¦म॒हः¦इ॒न्द्र॒¦द॒दृ॒हि¦श्रु॒धि¦नः॒¦शु॒शोच॑¦हि¦द्यौः¦क्षाः¦न¦भी॒षा¦अ॒द्रि॒ऽवः॒¦घृ॒णात्¦न¦भी॒षा¦अ॒द्रि॒ऽवः॒ |
शु॒ष्मिन्ऽत॑मः¦हि¦शु॒ष्मिऽभिः॑¦व॒धैः¦उ॒ग्रेभिः॑¦ईय॑से |
अपु॑रुषऽघ्नः¦अ॒प्र॒ति॒ऽ‌इ॒त॒¦शू॒र॒¦सत्व॑ऽभिः¦त्रि॒ऽस॒प्तैः¦शू॒र॒¦सत्व॑ऽभिः ||

व॒नोति॒ हि सु॒न्वन्‌ क्षयं॒ परी᳚णसः सुन्वा॒नो हि ष्मा॒ यज॒त्यव॒ द्विषो᳚ दे॒वाना॒मव॒ द्विषः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अष्टिः}

सु॒न्वा॒न इत्सि॑षासति स॒हस्रा᳚ वा॒ज्यवृ॑तः |{दैवोदासिः परुच्छेपः | इन्द्रः | अष्टिः}

सु॒न्वा॒नायेन्द्रो᳚ ददात्या॒भुवं᳚ र॒यिं द॑दात्या॒भुव᳚म् ||{7/7}{2.1.22.7}{1.133.7}{1.19.7.7}{115, 133, 1485}

व॒नोति॑¦हि¦सु॒न्वन्¦क्षय᳚‌म्¦परी᳚णसः¦सु॒न्वा॒नः¦हि¦स्म॒¦यज॑ति¦अव॑¦द्विषः॑¦दे॒वाना᳚‌म्¦अव॑¦द्विषः॑ |
सु॒न्वा॒नः¦इत्¦सि॒सा॒स॒ति॒¦स॒हस्रा᳚¦वा॒जी¦अवृ॑तः |
सु॒न्वा॒नाय॑¦इन्द्रः॑¦द॒दा॒ति॒¦आ॒ऽभुव᳚‌म्¦र॒यि‌म्¦द॒दा॒ति॒¦आ॒ऽभुव᳚‌म् ||

[13] आत्वाजुवइति षडृचस्य सूक्तस्य दैवोदासिः परुच्छेपोवायुरत्यष्टिरंत्याष्टिः |
आ त्वा॒ जुवो᳚ रारहा॒णा, अ॒भि प्रयो॒ वायो॒ वह᳚न्त्वि॒ह पू॒र्वपी᳚तये॒ सोम॑स्य पू॒र्वपी᳚तये |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

ऊ॒र्ध्वा ते॒, अनु॑ सू॒नृता॒ मन॑स्तिष्ठतु जान॒ती |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

नि॒युत्व॑ता॒ रथे॒ना या᳚हि दा॒वने॒ वायो᳚ म॒खस्य॑ दा॒वने᳚ ||{1/6}{2.1.23.1}{1.134.1}{1.20.1.1}{116, 134, 1486}

आ¦त्वा॒¦जुवः॑¦र॒र॒हा॒णाः¦अ॒भि¦प्रयः॑¦वायो॒ इति॑¦वह᳚न्तु¦इ॒ह¦पू॒र्वऽपी᳚तये¦सोम॑स्य¦पू॒र्वऽपी᳚तये |
ऊ॒र्ध्वा¦ते॒¦अनु॑¦सू॒नृता᳚¦मनः॑¦ति॒ष्ठ॒तु॒¦जा॒न॒ती |
नि॒युत्व॑ता¦रथे᳚न¦आ¦या॒हि॒¦दा॒वने᳚¦वायो॒ इति॑¦म॒खस्य॑¦दा॒वने᳚ ||

मन्द᳚न्तु त्वा म॒न्दिनो᳚ वाय॒विन्द॑वो॒ऽस्मत्‌ क्रा॒णासः॒ सुकृ॑ता, अ॒भिद्य॑वो॒ गोभिः॑ क्रा॒णा, अ॒भिद्य॑वः |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

यद्ध॑ क्रा॒णा, इ॒रध्यै॒ दक्षं॒ सच᳚न्त ऊ॒तयः॑ |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

स॒ध्री॒ची॒ना नि॒युतो᳚ दा॒वने॒ धिय॒ उप॑ ब्रुवत ईं॒ धियः॑ ||{2/6}{2.1.23.2}{1.134.2}{1.20.1.2}{117, 134, 1487}

मन्द᳚न्तु¦त्वा॒¦म॒न्दिनः॑¦वायो॒ इति॑¦इन्द॑वः¦अ॒स्मत्¦क्रा॒णासः॑¦सुऽकृ॑ताः¦अ॒भिऽद्य॑वः¦गोऽभिः॑¦क्रा॒णाः¦अ॒भिऽद्य॑वः |
यत्¦ह॒¦क्रा॒णाः¦इ॒रध्यै᳚¦दक्ष᳚‌म्¦सच᳚न्ते¦ऊ॒तयः॑ |
स॒ध्री॒ची॒नाः¦नि॒ऽयुतः॑¦दा॒वने᳚¦धियः॑¦उप॑¦ब्रु॒व॒ते॒¦ई॒‌म्¦धियः॑ ||

वा॒युर्यु᳚ङ्क्ते॒ रोहि॑ता वा॒युर॑रु॒णा वा॒यू रथे᳚, अजि॒रा धु॒रि वोळ्ह॑वे॒ वहि॑ष्ठा धु॒रि वोळ्ह॑वे |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

प्र बो᳚धया॒ पुरं᳚धिं जा॒र आ स॑स॒तीमि॑व |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

प्र च॑क्षय॒ रोद॑सी वासयो॒षसः॒ श्रव॑से वासयो॒षसः॑ ||{3/6}{2.1.23.3}{1.134.3}{1.20.1.3}{118, 134, 1488}

वा॒युः¦यु॒ङ्क्ते॒¦रोहि॑ता¦वा॒युः¦अ॒रु॒णा¦वा॒युः¦रथे᳚¦अ॒जि॒रा¦धु॒रि¦वोळ्ह॑वे¦वहि॑ष्ठा¦धु॒रि¦वोळ्ह॑वे |
प्र¦बो॒ध॒य॒¦पुर᳚‌म्ऽधि‌म्¦जा॒रः¦आ¦स॒स॒ती‌म्ऽ‌इ᳚व |
प्र¦च॒क्ष॒य॒¦रोद॑सी॒ इति॑¦वा॒स॒य॒¦उ॒षसः॑¦श्रव॑से¦वा॒स॒य॒¦उ॒षसः॑ ||

तुभ्य॑मु॒षासः॒ शुच॑यः परा॒वति॑ भ॒द्रा वस्त्रा᳚ तन्वते॒ दंसु॑ र॒श्मिषु॑ चि॒त्रा नव्ये᳚षु र॒श्मिषु॑ |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

तुभ्यं᳚ धे॒नुः स॑ब॒र्दुघा॒ विश्वा॒ वसू᳚नि दोहते |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

अज॑नयो म॒रुतो᳚ व॒क्षणा᳚भ्यो दि॒व आ व॒क्षणा᳚भ्यः ||{4/6}{2.1.23.4}{1.134.4}{1.20.1.4}{119, 134, 1489}

तुभ्य᳚‌म्¦उ॒षसः॑¦शुच॑यः¦प॒रा॒ऽवति॑¦भ॒द्रा¦वस्त्रा᳚¦त॒न्व॒ते॒¦द‌म्ऽसु॑¦र॒श्मिषु॑¦चि॒त्रा¦नव्ये᳚षु¦र॒श्मिषु॑ |
तुभ्य᳚‌म्¦धे॒नुः¦स॒बः॒ऽदुघा᳚¦विश्वा᳚¦वसू᳚नि¦दो॒ह॒ते॒ |
अज॑नयः¦म॒रुतः॑¦व॒क्षणा᳚भ्यः¦दि॒वः¦आ¦व॒क्षणा᳚भ्यः ||

तुभ्यं᳚ शु॒क्रासः॒ शुच॑यस्तुर॒ण्यवो॒ मदे᳚षू॒ग्रा, इ॑षणन्त भु॒र्वण्य॒पामि॑षन्त भु॒र्वणि॑ |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

त्वां त्सा॒री दस॑मानो॒ भग॑मीट्टे तक्व॒वीये᳚ |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

त्वं विश्व॑स्मा॒द्‌ भुव॑नात्‌ पासि॒ धर्म॑णाऽसु॒र्या᳚त्‌ पासि॒ धर्म॑णा ||{5/6}{2.1.23.5}{1.134.5}{1.20.1.5}{120, 134, 1490}

तुभ्य᳚‌म्¦शु॒क्रास॑¦शुच॑यः¦तु॒र॒ण्यवः॑¦मदे᳚षु¦उ॒ग्राः¦इ॒ष॒ण॒न्त॒¦भु॒र्वणि॑¦अ॒पा‌म्¦इ॒ष॒न्त॒¦भु॒र्वणि॑ |
त्वा‌म्¦त्सा॒री¦दस॑मानः¦भग᳚‌म्¦ई॒ट्टे॒¦त॒क्व॒ऽवीये᳚ |
त्व‌म्¦विश्व॑स्मात्¦भुव॑नात्¦पा॒सि॒¦धर्म॑णा¦अ॒सु॒र्या᳚त्¦पा॒सि॒¦धर्म॑णा ||

त्वं नो᳚ वायवेषा॒मपू᳚र्व्यः॒ सोमा᳚नां प्रथ॒मः पी॒तिम᳚र्हसि सु॒तानां᳚ पी॒तिम᳚र्हसि |{दैवोदासिः परुच्छेपः | वायुः | अष्टिः}

उ॒तो वि॒हुत्म॑तीनां वि॒शां व॑व॒र्जुषी᳚णाम् |{दैवोदासिः परुच्छेपः | वायुः | अष्टिः}

विश्वा॒, इत्ते᳚ धे॒नवो᳚ दुह्र आ॒शिरं᳚ घृ॒तं दु॑ह्रत आ॒शिर᳚म् ||{6/6}{2.1.23.6}{1.134.6}{1.20.1.6}{121, 134, 1491}

त्व‌म्¦नः॒¦वा॒यो॒ इति॑¦ए॒षा॒‌म्¦अपू᳚र्व्यः¦सोमा᳚ना‌म्¦प्र॒थ॒मः¦पी॒ति‌म्¦अ॒र्ह॒सि॒¦सु॒ताना᳚‌म्¦पी॒ति‌म्¦अ॒र्ह॒सि॒ |
उ॒तो इति॑¦वि॒हुत्म॑तीना‌म्¦वि॒शा‌म्¦व॒व॒र्जुषी᳚णा‌म् |
विश्वाः᳚¦इत्¦ते॒¦धे॒नवः॑¦दु॒ह्रे॒¦आ॒ऽशिर᳚‌म्¦घृ॒त‌म्¦दु॒ह्र॒ते॒¦आ॒ऽशिर᳚‌म् ||

[14] स्तीर्णम्बर्हिरिति नवर्चस्य सूक्तस्य दैवोदासिः परुच्छेपोवायुश्चतुर्थ्यादिपंचानामिंद्रोवाअत्यष्टिः सप्तम्यष्टम्यावष्टी |
स्ती॒र्णं ब॒र्हिरुप॑ नो याहि वी॒तये᳚ स॒हस्रे᳚ण नि॒युता᳚ नियुत्वते श॒तिनी᳚भिर्नियुत्वते |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

तुभ्यं॒ हि पू॒र्वपी᳚तये दे॒वा दे॒वाय॑ येमि॒रे |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

प्र ते᳚ सु॒तासो॒ मधु॑मन्तो, अस्थिर॒न् मदा᳚य॒ क्रत्वे᳚, अस्थिरन् ||{1/9}{2.1.24.1}{1.135.1}{1.20.2.1}{122, 135, 1492}

स्ती॒र्ण‌म्¦ब॒र्हिः¦उप॑¦नः॒¦या॒हि॒¦वी॒तये᳚¦स॒हस्रे᳚ण¦नि॒ऽयुता᳚¦नि॒यु॒त्व॒ते॒¦श॒तिनी᳚भिः¦नि॒यु॒त्व॒ते॒ |
तुभ्य᳚‌म्¦हि¦पू॒र्वऽपी᳚तये¦दे॒वाः¦दे॒वाय॑¦ये॒मि॒रे |
प्र¦ते॒¦सु॒तासः॑¦मधु॑ऽमन्तः¦अ॒स्थि॒र॒न्¦मदा᳚य¦क्रत्वे᳚¦अ॒स्थि॒र॒न् ||

तुभ्या॒यं सोमः॒ परि॑पूतो॒, अद्रि॑भिः स्पा॒र्हा वसा᳚नः॒ परि॒ कोश॑मर्षति शु॒क्रा वसा᳚नो, अर्षति |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

तवा॒यं भा॒ग आ॒युषु॒ सोमो᳚ दे॒वेषु॑ हूयते |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

वह॑ वायो नि॒युतो᳚ याह्यस्म॒युर्जु॑षा॒णो या᳚ह्यस्म॒युः ||{2/9}{2.1.24.2}{1.135.2}{1.20.2.2}{123, 135, 1493}

तुभ्य॑¦अ॒य‌म्¦सोमः॑¦परि॑ऽपूतः¦अद्रि॑ऽभिः¦स्पा॒र्हा¦वसा᳚नः¦परि॑¦कोश᳚‌म्¦अ॒र्ष॒ति॒¦शु॒क्रा¦वसा᳚नः¦अ॒र्ष॒ति॒ |
तव॑¦अ॒य‌म्¦भा॒गः¦आ॒युषु॑¦सोमः॑¦दे॒वेषु॑¦हू॒य॒ते॒ |
वह॑¦वा॒यो॒ इति॑¦नि॒ऽयुतः॑¦या॒हि॒¦अ॒स्म॒ऽयुः¦जु॒षा॒णः¦या॒हि॒¦अ॒स्म॒ऽयुः ||

आ नो᳚ नि॒युद्भिः॑ श॒तिनी᳚भिरध्व॒रं स॑ह॒स्रिणी᳚भि॒रुप॑ याहि वी॒तये॒ वायो᳚ ह॒व्यानि॑ वी॒तये᳚ |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

तवा॒यं भा॒ग ऋ॒त्वियः॒ सर॑श्मिः॒ सूर्ये॒ सचा᳚ |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

अ॒ध्व॒र्युभि॒र्भर॑माणा, अयंसत॒ वायो᳚ शु॒क्रा, अ॑यंसत ||{3/9}{2.1.24.3}{1.135.3}{1.20.2.3}{124, 135, 1494}

आ¦नः॒¦नि॒युत्ऽभिः॑¦श॒तिनी᳚भिः¦अ॒ध्व॒र‌म्¦स॒ह॒स्रिणी᳚भिः¦उप॑¦या॒हि॒¦वी॒तये᳚¦वायो॒ इति॑¦ह॒व्यानि॑¦वी॒तये᳚ |
तव॑¦अ॒य‌म्¦भा॒गः¦ऋ॒त्वियः॑¦सऽर॑श्मिः¦सूर्ये᳚¦सचा᳚ |
अ॒ध्व॒र्युऽभिः॑¦भर॑माणाः¦अ॒यं॒स॒त॒¦वायो॒ इति॑¦शु॒क्राः¦अ॒यं॒स॒त॒ ||

आ वां॒ रथो᳚ नि॒युत्वा᳚न्‌ वक्ष॒दव॑से॒ऽभि प्रयां᳚सि॒ सुधि॑तानि वी॒तये॒ वायो᳚ ह॒व्यानि॑ वी॒तये᳚ |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः}

पिब॑तं॒ मध्वो॒, अन्ध॑सः पूर्व॒पेयं॒ हि वां᳚ हि॒तम् |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः}

वाय॒वा च॒न्द्रेण॒ राध॒सा ग॑त॒मिन्द्र॑श्च॒ राध॒सा ग॑तम् ||{4/9}{2.1.24.4}{1.135.4}{1.20.2.4}{125, 135, 1495}

आ¦वा॒‌म्¦रथः॑¦नि॒युत्वा᳚न्¦व॒क्ष॒त्¦अव॑से¦अ॒भि¦प्रयां᳚सि¦सुऽधि॑तानि¦वी॒तये᳚¦वायो॒ इति॑¦ह॒व्यानि॑¦वी॒तये᳚ |
पिब॑त‌म्¦मध्वः॑¦अन्ध॑सः¦पू॒र्व॒ऽपेय᳚‌म्¦हि¦वा॒‌म्¦हि॒त‌म् |
वायो॒ इति॑¦आ¦च॒न्द्रेण॑¦राध॑सा¦आ¦ग॒त॒‌म्¦इन्द्रः॑¦च॒¦राध॑सा¦आ¦ग॒त॒‌म् ||

आ वां॒ धियो᳚ ववृत्युरध्व॒राँ, उपे॒ममिन्दुं᳚ मर्मृजन्त वा॒जिन॑मा॒शुमत्यं॒ न वा॒जिन᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः}

तेषां᳚ पिबतमस्म॒यू, आ नो᳚ गन्तमि॒होत्या |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः}

इन्द्र॑वायू सु॒ताना॒मद्रि॑भिर्यु॒वं मदा᳚य वाजदा यु॒वम् ||{5/9}{2.1.24.5}{1.135.5}{1.20.2.5}{126, 135, 1496}

आ¦वा॒‌म्¦धियः॑¦व॒वृ॒त्युः॒¦अ॒ध्व॒रान्¦उप॑¦इ॒म‌म्¦इन्दु᳚‌म्¦म॒र्मृ॒ज॒न्त॒¦वा॒जिन᳚‌म्¦आ॒शु‌म्¦अत्य᳚‌म्¦न¦वा॒जिन᳚‌म् |
तेषा᳚‌म्¦पि॒ब॒त॒‌म्¦अ॒स्म॒यू इत्य॑स्म॒ऽयू¦आ¦नः॒¦ग॒न्त॒‌म्¦इ॒ह¦ऊ॒त्या |
इन्द्र॑वायू॒ इति॑¦सु॒ताना᳚‌म्¦अद्रि॑ऽभिः¦यु॒व‌म्¦मदा᳚य¦वा॒ज॒ऽदा॒¦यु॒व‌म् ||

इ॒मे वां॒ सोमा᳚, अ॒प्स्वा सु॒ता, इ॒हाध्व॒र्युभि॒र्भर॑माणा, अयंसत॒ वायो᳚ शु॒क्रा, अ॑यंसत |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः}

ए॒ते वा᳚म॒भ्य॑सृक्षत ति॒रः प॒वित्र॑मा॒शवः॑ |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः}

यु॒वा॒यवोऽति॒ रोमा᳚ण्य॒व्यया॒ सोमा᳚सो॒, अत्य॒व्यया᳚ ||{6/9}{2.1.25.1}{1.135.6}{1.20.2.6}{127, 135, 1497}

इ॒मे¦वा॒‌म्¦सोमाः᳚¦अ॒प्ऽसु¦आ¦सु॒ताः¦इ॒ह¦अ॒ध्व॒र्युऽभिः॑¦भर॑माणाः¦अ॒यं॒स॒त॒¦वायो॒ इति॑¦शु॒क्राः¦अ॒यं॒स॒त॒ |
ए॒ते¦वा॒‌म्¦अ॒भि¦अ॒सृ॒क्ष॒त॒¦ति॒रः¦प॒वित्र᳚‌म्¦आ॒शवः॑ |
यु॒वा॒ऽयवः॑¦अति॑¦रोमा᳚णि¦अ॒व्यया᳚¦सोमा᳚सः¦अति॑¦अ॒व्यया᳚ ||

अति॑ वायो सस॒तो या᳚हि॒ शश्व॑तो॒ यत्र॒ ग्रावा॒ वद॑ति॒ तत्र॑ गच्छतं गृ॒हमिन्द्र॑श्च गच्छतम् |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अष्टिः}

वि सू॒नृता॒ ददृ॑शे॒ रीय॑ते घृ॒तमा पू॒र्णया᳚ नि॒युता᳚ याथो, अध्व॒रमिन्द्र॑श्च याथो, अध्व॒रम् ||{7/9}{2.1.25.2}{1.135.7}{1.20.2.7}{128, 135, 1498}

अति॑¦वा॒यो॒ इति॑¦स॒स॒तः¦या॒हि॒¦शश्व॑तः¦यत्र॑¦ग्रावा᳚¦वद॑ति¦तत्र॑¦ग॒च्छ॒त॒‌म्¦गृ॒ह‌म्¦इन्द्रः॑¦च॒¦ग॒च्छ॒त॒‌म् |
वि¦सू॒नृता᳚¦ददृ॑शे¦रीय॑ते¦घृ॒त‌म्¦आ¦पू॒र्णया᳚¦नि॒ऽयुता᳚¦या॒थः॒¦अ॒ध्व॒र‌म्¦इन्द्रः॑¦च॒¦या॒थः॒¦अ॒ध्व॒र‌म् ||

अत्राह॒ तद्‌ व॑हेथे॒ मध्व॒ आहु॑तिं॒ यम॑श्व॒त्थमु॑प॒तिष्ठ᳚न्त जा॒यवो॒ऽस्मे ते स᳚न्तु जा॒यवः॑ |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अष्टिः}

सा॒कं गावः॒ सुव॑ते॒ पच्य॑ते॒ यवो॒ न ते᳚ वाय॒ उप॑ दस्यन्ति धे॒नवो॒ नाप॑ दस्यन्ति धे॒नवः॑ ||{8/9}{2.1.25.3}{1.135.8}{1.20.2.8}{129, 135, 1499}

अत्र॑¦अह॑¦तत्¦व॒हे॒थे॒ इति॑¦मध्वः॑¦आऽहु॑ति‌म्¦य‌म्¦अ॒श्व॒त्थ‌म्¦उ॒प॒ऽतिष्ठ᳚न्त¦जा॒यवः॑¦अ॒स्मे इति॑¦ते¦स॒न्तु॒¦जा॒यवः॑ |
सा॒क‌म्¦गावः॑¦सुव॑ते¦पच्य॑ते¦यवः॑¦न¦ते॒¦वा॒यो॒ इति॑¦उप॑¦द॒स्य॒न्ति॒¦धे॒नवः॑¦न¦अप॑¦द॒स्य॒न्ति॒¦धे॒नवः॑ ||

इ॒मे ये ते॒ सु वा᳚यो बा॒ह्वो᳚जसो॒ऽन्तर्न॒दी ते᳚ प॒तय᳚न्त्यु॒क्षणो॒ महि॒ व्राध᳚न्त उ॒क्षणः॑ |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

धन्व᳚ञ्चि॒द्ये, अ॑ना॒शवो᳚ जी॒राश्चि॒दगि॑रौकसः |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

सूर्य॑स्येव र॒श्मयो᳚ दुर्नि॒यन्त॑वो॒ हस्त॑योर्दुर्नि॒यन्त॑वः ||{9/9}{2.1.25.4}{1.135.9}{1.20.2.9}{130, 135, 1500}

इ॒मे¦ये¦ते॒¦सु¦वा॒यो॒ इति॑¦बा॒हुऽओ᳚जसः¦अ॒न्तः¦न॒दी इति॑¦ते॒¦प॒तय᳚न्ति¦उ॒क्षणः॑¦महि॑¦व्राध᳚न्तः¦उ॒क्षणः॑ |
धन्व॑न्¦चि॒त्¦ये¦अ॒ना॒शवः॑¦जी॒राः¦चि॒त्¦अगि॑राऽओकसः |
सूर्य॑स्यऽ‌इव¦र॒श्मयः॑¦दुः॒ऽनि॒यन्त॑वः¦हस्त॑योः¦दुः॒ऽनि॒यन्त॑वः ||

[15] प्रसुज्येष्ठमिति सप्तर्चस्य सूक्तस्य दैवोदासिः परुच्छेपोमित्रावरुणौ नमोदिवइत्यस्यारोदसी मित्रावरुणेंद्राग्न्यर्यमभगसोमा देवताः ऊतीदेवानामित्यस्यादेवमरुदग्निमित्रवरुणमघवंतोदेवता अत्यष्टिः अंत्यात्रिष्टुप् |
प्र सु ज्येष्ठं᳚ निचि॒राभ्यां᳚ बृ॒हन्नमो᳚ ह॒व्यं म॒तिं भ॑रता मृळ॒यद्भ्यां॒ स्वादि॑ष्ठं मृळ॒यद्भ्या᳚म् |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

ता स॒म्राजा᳚ घृ॒तासु॑ती य॒ज्ञेय॑ज्ञ॒ उप॑स्तुता |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

अथै᳚नोः, क्ष॒त्रं न कुत॑श्च॒नाधृषे᳚ देव॒त्वं नू चि॑दा॒धृषे᳚ ||{1/7}{2.1.26.1}{1.136.1}{1.20.3.1}{131, 136, 1501}

प्र¦सु¦ज्येष्ठ᳚‌म्¦नि॒ऽचि॒राभ्या᳚‌म्¦बृ॒हत्¦नमः॑¦ह॒व्य‌म्¦म॒ति‌म्¦भ॒र॒त॒¦मृ॒ळ॒यत्ऽभ्या᳚‌म्¦स्वादि॑ष्ठ‌म्¦मृ॒ळ॒यत्ऽभ्या᳚‌म् |
ता¦स॒‌म्ऽराजा᳚¦घृ॒तासु॑ती॒ इति॑ घृ॒तऽआ᳚सुती¦य॒ज्ञेऽय॑ज्ञे¦उप॑ऽस्तुता |
अथ॑¦ए॒नोः॒¦क्ष॒त्र‌म्¦न¦कुतः॑¦च॒न¦आ॒ऽधृषे᳚¦दे॒व॒ऽत्व‌म्¦नु¦चि॒त्¦आ॒ऽधृषे᳚ ||

अद॑र्शि गा॒तुरु॒रवे॒ वरी᳚यसी॒ पन्था᳚ ऋ॒तस्य॒ सम॑यंस्त र॒श्मिभि॒श्चक्षु॒र्भग॑स्य र॒श्मिभिः॑ |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

द्यु॒क्षं मि॒त्रस्य॒ साद॑नमर्य॒म्णो वरु॑णस्य च |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

अथा᳚ दधाते बृ॒हदु॒क्थ्य१॑(अं॒) वय॑ उप॒स्तुत्यं᳚ बृ॒हद्वयः॑ ||{2/7}{2.1.26.2}{1.136.2}{1.20.3.2}{132, 136, 1502}

अद॑र्शि¦गा॒तुः¦उ॒रवे᳚¦वरी᳚यसी¦पन्थाः᳚¦ऋ॒तस्य॑¦स‌म्¦अ॒यं॒स्त॒¦र॒श्मिऽभिः॑¦चक्षुः॑¦भग॑स्य¦र॒श्मिऽभिः॑ |
द्यु॒क्ष‌म्¦मि॒त्रस्य॑¦साद॑न‌म्¦अ॒र्य॒म्णः¦वरु॑णस्य¦च॒ |
अथ॑¦द॒धा॒ते॒ इति॑¦बृ॒हत्¦उ॒क्थ्य᳚‌म्¦वयः॑¦उ॒प॒ऽस्तुत्य᳚‌म्¦बृ॒हत्¦वयः॑ ||

ज्योति॑ष्मती॒मदि॑तिं धार॒यत्‌ क्षि॑तिं॒ स्व᳚र्वती॒मा स॑चेते दि॒वेदि॑वे जागृ॒वांसा᳚ दि॒वेदि॑वे |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

ज्योति॑ष्मत्‌ क्ष॒त्रमा᳚शाते, आदि॒त्या दानु॑न॒स्पती᳚ |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

मि॒त्रस्तयो॒र्वरु॑णो यात॒यज्ज॑नोऽर्य॒मा या᳚त॒यज्ज॑नः ||{3/7}{2.1.26.3}{1.136.3}{1.20.3.3}{133, 136, 1503}

ज्योति॑ष्मती‌म्¦अदि॑ति‌म्¦धा॒र॒यत्ऽक्षि॑ति‌म्¦स्वः॑ऽवती‌म्¦आ¦स॒चे॒ते॒ इति॑¦दि॒वेऽदि॑वे¦जा॒गृ॒ऽवांसा᳚¦दि॒वेऽदि॑वे |
ज्योति॑ष्मत्¦क्ष॒त्र‌म्¦आ॒शा॒ते॒ इति॑¦आ॒दि॒त्या¦दानु॑नः¦पती॒ इति॑ |
मि॒त्रः¦तयोः᳚¦वरु॑णः¦या॒त॒यत्ऽज॑नः¦अ॒र्य॒मा¦या॒त॒यत्ऽज॑नः ||

अ॒यं मि॒त्राय॒ वरु॑णाय॒ शंत॑मः॒ सोमो᳚ भूत्वव॒पाने॒ष्वाभ॑गो दे॒वो दे॒वेष्वाभ॑गः |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

तं दे॒वासो᳚ जुषेरत॒ विश्वे᳚, अ॒द्य स॒जोष॑सः |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

तथा᳚ राजाना करथो॒ यदीम॑ह॒ ऋता᳚वाना॒ यदीम॑हे ||{4/7}{2.1.26.4}{1.136.4}{1.20.3.4}{134, 136, 1504}

अ॒य‌म्¦मि॒त्राय॑¦वरु॑णाय¦श‌म्ऽत॑मः¦सोमः॑¦भू॒तु॒¦अ॒व॒ऽपाने᳚षु¦आऽभ॑गः¦दे॒वः¦दे॒वेषु॑¦आऽभ॑गः |
त‌म्¦दे॒वासः॑¦जु॒षे॒र॒त॒¦विश्वे᳚¦अ॒द्य¦स॒ऽजोष॑सः |
तथा᳚¦रा॒जा॒ना॒¦क॒र॒थः॒¦यत्¦ईम॑हे¦ऋत॑ऽवाना¦यत्¦ईम॑हे ||

यो मि॒त्राय॒ वरु॑णा॒यावि॑ध॒ज्जनो᳚ऽन॒र्वाणं॒ तं परि॑ पातो॒, अंह॑सो दा॒श्वांसं॒ मर्त॒मंह॑सः |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

तम᳚र्य॒माभि र॑क्षत्यृजू॒यन्त॒मनु᳚ व्र॒तम् |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

उ॒क्थैर्य ए᳚नोः परि॒भूष॑ति व्र॒तं स्तोमै᳚रा॒भूष॑ति व्र॒तम् ||{5/7}{2.1.26.5}{1.136.5}{1.20.3.5}{135, 136, 1505}

यः¦मि॒त्राय॑¦वरु॑णाय¦अवि॑धत्¦जनः॑¦अ॒न॒र्वाण᳚‌म्¦त‌म्¦परि॑¦पा॒तः॒¦अंह॑सः¦दा॒श्वांस᳚‌म्¦मर्त᳚‌म्¦अंह॑सः |
त‌म्¦अ॒र्य॒मा¦अ॒भि¦र॒क्ष॒ति॒¦ऋ॒जु॒ऽयन्त᳚‌म्¦अनु॑¦व्र॒त‌म् |
उ॒क्थैः¦यः¦ए॒नोः॒¦प॒रि॒ऽभूष॑ति¦व्र॒त‌म्¦स्तोमैः᳚¦आ॒ऽभूष॑ति¦व्र॒त‌म् ||

नमो᳚ दि॒वे बृ॑ह॒ते रोद॑सीभ्यां मि॒त्राय॑ वोचं॒ वरु॑णाय मी॒ळ्हुषे᳚ सुमृळी॒काय॑ मी॒ळ्हुषे᳚ |{दैवोदासिः परुच्छेपः | लिङ्गोक्ता | अत्यष्टिः}

इन्द्र॑म॒ग्निमुप॑ स्तुहि द्यु॒क्षम᳚र्य॒मणं॒ भग᳚म् |{दैवोदासिः परुच्छेपः | लिङ्गोक्ता | अत्यष्टिः}

ज्योग्जीव᳚न्तः प्र॒जया᳚ सचेमहि॒ सोम॑स्यो॒ती स॑चेमहि ||{6/7}{2.1.26.6}{1.136.6}{1.20.3.6}{136, 136, 1506}

नमः॑¦दि॒वे¦बृ॒ह॒ते¦रोद॑सीभ्या‌म्¦मि॒त्राय॑¦वो॒च॒‌म्¦वरु॑णाय¦मी॒ळ्हुषे᳚¦सु॒ऽमृ॒ळी॒काय॑¦मी॒ळ्हुषे᳚ |
इन्द्र᳚‌म्¦अ॒ग्नि‌म्¦उप॑¦स्तु॒हि॒¦द्यु॒क्ष‌म्¦अ॒र्य॒मण᳚‌म्¦भग᳚‌म् |
ज्योक्¦जीव᳚न्तः¦प्र॒ऽजया᳚¦स॒चे॒म॒हि॒¦सोम॑स्य¦ऊ॒ती¦स॒चे॒म॒हि॒ ||

ऊ॒ती दे॒वानां᳚ व॒यमिन्द्र॑वन्तो मंसी॒महि॒ स्वय॑शसो म॒रुद्भिः॑ |{दैवोदासिः परुच्छेपः | लिङ्गोक्ता | त्रिष्टुप्}

अ॒ग्निर्मि॒त्रो वरु॑णः॒ शर्म॑ यंस॒न् तद॑श्याम म॒घवा᳚नो व॒यं च॑ ||{7/7}{2.1.26.7}{1.136.7}{1.20.3.7}{137, 136, 1507}

ऊ॒ती¦दे॒वाना᳚‌म्¦व॒य‌म्¦इन्द्र॑ऽवन्तः¦मं॒सी॒महि॑¦स्वऽय॑शसः¦म॒रुत्ऽभिः॑ |
अ॒ग्निः¦मि॒त्रः¦वरु॑णः¦शर्म॑¦यं॒स॒न्¦तत्¦अ॒श्या॒म॒¦म॒घऽवा᳚नः¦व॒य‌म्¦च॒ ||

[16] सुषुमेति तृचस्य सूक्तस्य दैवोदासिःपरुच्छेपोमित्रावरुणावतिशक्वरी |
सु॒षु॒मा या᳚त॒मद्रि॑भि॒र्गोश्री᳚ता मत्स॒रा, इ॒मे सोमा᳚सो मत्स॒रा, इ॒मे |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी}

आ रा᳚जाना दिविस्पृशाऽस्म॒त्रा ग᳚न्त॒मुप॑ नः |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी}

इ॒मे वां᳚ मित्रावरुणा॒ गवा᳚शिरः॒ सोमाः᳚ शु॒क्रा गवा᳚शिरः ||{1/3}{2.2.1.1}{1.137.1}{1.20.4.1}{138, 137, 1508}

सु॒षु॒म¦आ¦या॒त॒‌म्¦अद्रि॑ऽभिः¦गोऽश्री᳚ताः¦म॒त्स॒राः¦इ॒मे¦सोमा᳚सः¦म॒त्स॒राः¦इ॒मे |
आ¦रा॒जा॒ना॒¦दि॒वि॒ऽस्पृ॒शा॒¦अ॒स्म॒ऽत्रा¦ग॒न्त॒‌म्¦उप॑¦नः॒ |
इ॒मे¦वा॒‌म्¦मि॒त्रा॒व॒रु॒णा॒¦गोऽआ᳚शिरः¦सोमाः᳚¦शु॒क्राः¦गोऽआ᳚शिरः ||

इ॒म आ या᳚त॒मिन्द॑वः॒ सोमा᳚सो॒ दध्या᳚शिरः सु॒तासो॒ दध्या᳚शिरः |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी}

उ॒त वा᳚मु॒षसो᳚ बु॒धि सा॒कं सूर्य॑स्य र॒श्मिभिः॑ |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी}

सु॒तो मि॒त्राय॒ वरु॑णाय पी॒तये॒ चारु᳚रृ॒ताय॑ पी॒तये᳚ ||{2/3}{2.2.1.2}{1.137.2}{1.20.4.2}{139, 137, 1509}

इ॒मे¦आ¦या॒त॒‌म्¦इन्द॑वः¦सोमा᳚सः¦दधि॑ऽआशिरः¦सु॒तासः॑¦दधि॑ऽआशिरः |
उ॒त¦वा॒‌म्¦उ॒षसः॑¦बु॒धि¦सा॒क‌म्¦सूर्य॑स्य¦र॒श्मिऽभिः॑ |
सु॒तः¦मि॒त्राय॑¦वरु॑णाय¦पी॒तये᳚¦चारुः॑¦ऋ॒ताय॑¦पी॒तये᳚ ||

तां वां᳚ धे॒नुं न वा᳚स॒रीमं॒शुं दु॑ह॒न्त्यद्रि॑भिः॒ सोमं᳚ दुह॒न्त्यद्रि॑भिः |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी}

अ॒स्म॒त्रा ग᳚न्त॒मुप॑ नो॒ऽर्वाञ्चा॒ सोम॑पीतये |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी}

अ॒यं वां᳚ मित्रावरुणा॒ नृभिः॑ सु॒तः सोम॒ आ पी॒तये᳚ सु॒तः ||{3/3}{2.2.1.3}{1.137.3}{1.20.4.3}{140, 137, 1510}

ता‌म्¦वा॒‌म्¦धे॒नु‌म्¦न¦वा॒स॒री‌म्¦अं॒शु‌म्¦दु॒ह॒न्ति॒¦अद्रि॑ऽभिः¦सोम᳚‌म्¦दु॒ह॒न्ति॒¦अद्रि॑ऽभिः |
अ॒स्म॒ऽत्रा¦ग॒न्त॒‌म्¦उप॑¦नः॒¦अ॒र्वांचा᳚¦सोम॑ऽपीतये |
अ॒य‌म्¦वा॒‌म्¦मि॒त्रा॒व॒रु॒णा॒¦नृऽभिः॑¦सु॒तः¦सोमः॑¦आ¦पी॒तये᳚¦सु॒तः ||

[17] प्रप्रपूष्णइति चतुरृचस्य सूक्तस्य दैवोदासिःपरुच्छेपःपूषात्यष्टिः |
प्रप्र॑ पू॒ष्णस्तु॑विजा॒तस्य॑ शस्यते महि॒त्वम॑स्य त॒वसो॒ न त᳚न्दते स्तो॒त्रम॑स्य॒ न त᳚न्दते |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि}

अर्चा᳚मि सुम्न॒यन्न॒हमन्त्यू᳚तिं मयो॒भुव᳚म् |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि}

विश्व॑स्य॒ यो मन॑ आयुयु॒वे म॒खो दे॒व आ᳚युयु॒वे म॒खः ||{1/4}{2.2.2.1}{1.138.1}{1.20.5.1}{141, 138, 1511}

प्रऽप्र॑¦पू॒ष्णः¦तु॒वि॒ऽजा॒तस्य॑¦श॒स्य॒ते॒¦म॒हि॒ऽत्व‌म्¦अ॒स्य॒¦त॒वसः॑¦न¦त॒न्द॒ते॒¦स्तो॒त्र‌म्¦अ॒स्य॒¦न¦त॒न्द॒ते॒ |
अर्चा᳚मि¦सु॒म्न॒ऽयन्¦अ॒ह‌म्¦अन्ति॑ऽऊति‌म्¦म॒यः॒ऽभुव᳚‌म् |
विश्व॑स्य¦यः¦मनः॑¦आ॒ऽयु॒यु॒वे¦म॒खः¦दे॒वः¦आ॒ऽयु॒यु॒वे¦म॒खः ||

प्र हि त्वा᳚ पूषन्नजि॒रं न याम॑नि॒ स्तोमे᳚भिः कृ॒ण्व ऋ॒णवो॒ यथा॒ मृध॒ उष्ट्रो॒ न पी᳚परो॒ मृधः॑ |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि}

हु॒वे यत्‌ त्वा᳚ मयो॒भुवं᳚ दे॒वं स॒ख्याय॒ मर्त्यः॑ |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि}

अ॒स्माक॑माङ्गू॒षान्‌ द्यु॒म्निन॑स्कृधि॒ वाजे᳚षु द्यु॒म्निन॑स्कृधि ||{2/4}{2.2.2.2}{1.138.2}{1.20.5.2}{142, 138, 1512}

प्र¦हि¦त्वा॒¦पू॒ष॒न्¦अ॒जि॒र‌म्¦न¦याम॑नि¦स्तोमे᳚भिः¦कृ॒ण्वे¦ऋ॒णवः॑¦यथा᳚¦मृधः॑¦उष्ट्रः॑¦न¦पी॒प॒रः॒¦मृधः॑ |
हु॒वे¦यत्¦त्वा॒¦म॒यः॒ऽभुव᳚‌म्¦दे॒व‌म्¦स॒ख्याय॑¦मर्त्यः॑ |
अ॒स्माक᳚‌म्¦आ॒ङ्गू॒षान्¦द्यु॒म्निनः॑¦कृ॒धि॒¦वाजे᳚षु¦द्यु॒म्निनः॑¦कृ॒धि॒ ||

यस्य॑ ते पूषन्‌ त्स॒ख्ये वि॑प॒न्यवः॒ क्रत्वा᳚ चि॒त्‌ सन्तोऽव॑सा बुभुज्रि॒र इति॒ क्रत्वा᳚ बुभुज्रि॒रे |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि}

तामनु॑ त्वा॒ नवी᳚यसीं नि॒युतं᳚ रा॒य ई᳚महे |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि}

अहे᳚ळमान उरुशंस॒ सरी᳚ भव॒ वाजे᳚वाजे॒ सरी᳚ भव ||{3/4}{2.2.2.3}{1.138.3}{1.20.5.3}{143, 138, 1513}

यस्य॑¦ते॒¦पू॒ष॒न्¦स॒ख्ये¦वि॒प॒न्यवः॑¦क्रत्वा᳚¦चि॒त्¦सन्तः॑¦अव॑सा¦बु॒भु॒ज्रि॒रे¦इति॑¦क्रत्वा᳚¦बु॒भु॒ज्रि॒रे |
ता‌म्¦अनु॑¦त्वा॒¦नवी᳚यसी‌म्¦नि॒ऽयुत᳚‌म्¦रा॒यः¦ई॒म॒हे॒ |
अहे᳚ळमानः¦उ॒रु॒ऽशं॒स॒¦सरी᳚¦भ॒व॒¦वाजे᳚ऽवाजे¦सरी᳚¦भ॒व॒ ||

अ॒स्या, ऊ॒ षु ण॒ उप॑ सा॒तये᳚ भु॒वोऽहे᳚ळमानो ररि॒वाँ, अ॑जाश्व श्रवस्य॒ताम॑जाश्व |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि}

ओ षु त्वा᳚ ववृतीमहि॒ स्तोमे᳚भिर्दस्म सा॒धुभिः॑ |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि}

न॒हि त्वा᳚ पूषन्नति॒मन्य॑ आघृणे॒ न ते᳚ स॒ख्यम॑पह्नु॒वे ||{4/4}{2.2.2.4}{1.138.4}{1.20.5.4}{144, 138, 1514}

अ॒स्याः¦ऊँ॒ इति॑¦सु¦नः॒¦उप॑¦सा॒तये᳚¦भु॒वः॒¦अहे᳚ळमानः¦र॒रि॒ऽवान्¦अ॒ज॒।आ॒श्व॒¦श्र॒व॒स्य॒ता‌म्¦अ॒ज॒।आ॒श्व॒ |
ओ इति॑¦सु¦त्वा॒¦व॒वृ॒ती॒म॒हि॒¦स्तोमे᳚ऽभिः¦द॒स्म॒¦सा॒धुऽभिः॑ |
न॒हि¦त्वा॒¦पू॒ष॒न्¦अ॒ति॒ऽमन्ये᳚¦आ॒घृ॒णे॒¦न¦ते॒¦स॒ख्य‌म्¦अ॒प॒ऽह्नु॒वे ||

[18] अस्तुश्रौषडित्येकादशर्चस्य सूक्तस्य दैवोदासिःपरुच्छेप आद्यायाविश्वेदेवाः द्वितीयायामित्रावरुणौ तृतीयादितिसृणामाश्विनौ षष्ठ्याइंद्रः सप्तम्याअग्निरष्टम्यामरुतो नवम्याइंद्राग्नी दशम्याबृहस्पतिरंत्यायाविश्वेदेवाअत्यष्टिः पंचमीबृहत्यंत्यात्रिष्टुप् | ( वैश्वदेवमेतत्सूक्तं | अत्रप्रत्येकं देवताविभागस्त्वाकरएवपठितः | अनयैवदिशासर्वत्रापिवैश्वदेवसूक्ते देवताविभागः कर्तव्यइतिहितदनुज्ञा | यथाह - एवमन्यासामपिसूक्तप्रयोगेवैश्वदेवत्वं सूक्तभेदप्रयोगेतुयल्लिंगंसादेवतेति) |
अस्तु॒ श्रौष॑ट्‌ पु॒रो, अ॒ग्निं धि॒या द॑ध॒ आ नु तच्छर्धो᳚ दि॒व्यं वृ॑णीमह इन्द्रवा॒यू वृ॑णीमहे |{दैवोदासिः परुच्छेपः | विश्वदेवाः | अत्यष्टिः}

यद्ध॑ क्रा॒णा वि॒वस्व॑ति॒ नाभा᳚ सं॒दायि॒ नव्य॑सी |{दैवोदासिः परुच्छेपः | विश्वदेवाः | अत्यष्टिः}

अध॒ प्र सू न॒ उप॑ यन्तु धी॒तयो᳚ दे॒वाँ, अच्छा॒ न धी॒तयः॑ ||{1/11}{2.2.3.1}{1.139.1}{1.20.6.1}{145, 139, 1515}

अस्तु॑¦श्रौष॑ट्¦पु॒रः¦अ॒ग्नि‌म्¦धि॒या¦द॒धे॒¦आ¦नु¦तत्¦शर्धः॑¦दि॒व्य‌म्¦वृ॒णी॒म॒हे॒¦इ॒न्द्र॒वा॒यू इति॑¦वृ॒णी॒म॒हे॒ |
यत्¦ह॒¦क्रा॒णा¦वि॒वस्व॑ति¦नाभा᳚¦स॒‌म्ऽदायि॑¦नव्य॑सी |
अध॑¦प्र¦सु¦नः॒¦उप॑¦य॒न्तु॒¦धी॒तयः॑¦दे॒वान्¦अच्छ॑¦न¦धी॒तयः॑ ||

यद्ध॒ त्यन्‌ मि॑त्रावरुणावृ॒तादध्या᳚द॒दाथे॒, अनृ॑तं॒ स्वेन॑ म॒न्युना॒ दक्ष॑स्य॒ स्वेन॑ म॒न्युना᳚ |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

यु॒वोरि॒त्थाधि॒ सद्म॒स्वप॑श्याम हिर॒ण्यय᳚म् |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

धी॒भिश्च॒न मन॑सा॒ स्वेभि॑र॒क्षभिः॒ सोम॑स्य॒ स्वेभि॑र॒क्षभिः॑ ||{2/11}{2.2.3.2}{1.139.2}{1.20.6.2}{146, 139, 1516}

यत्¦ह॒¦त्यत्¦मि॒त्रा॒व॒रु॒णौ॒¦ऋ॒तात्¦अधि॑¦आ॒द॒दाथे॒ इत्या᳚ऽद॒दाथे᳚¦अनृ॑त‌म्¦स्वेन॑¦म॒न्युना᳚¦दक्ष॑स्य¦स्वेन॑¦म॒न्युना᳚ |
यु॒वोः¦इ॒त्था¦अधि॑¦सद्म॑ऽसु¦अप॑श्याम¦हि॒र॒ण्यय᳚‌म् |
धी॒भिः¦च॒न¦मन॑सा¦स्वेभिः॑¦अ॒क्षऽभिः॑¦सोम॑स्य¦स्वेभिः॑¦अ॒क्षऽभिः॑ ||

यु॒वां स्तोमे᳚भिर्देव॒यन्तो᳚, अश्विनाऽऽश्रा॒वय᳚न्त इव॒ श्लोक॑मा॒यवो᳚ यु॒वां ह॒व्याभ्या॒३॑(आ॒)यवः॑ |{दैवोदासिः परुच्छेपः | अश्विनौ | अत्यष्टिः}

यु॒वोर्विश्वा॒, अधि॒ श्रियः॒ पृक्ष॑श्च विश्ववेदसा |{दैवोदासिः परुच्छेपः | अश्विनौ | अत्यष्टिः}

प्रु॒षा॒यन्ते᳚ वां प॒वयो᳚ हिर॒ण्यये॒ रथे᳚ दस्रा हिर॒ण्यये᳚ ||{3/11}{2.2.3.3}{1.139.3}{1.20.6.3}{147, 139, 1517}

यु॒वा‌म्¦स्तोमे᳚भिः¦दे॒व॒ऽयन्तः॑¦अ॒श्वि॒ना॒¦आ॒श्रा॒वय᳚न्तःऽ‌इव¦श्लोक᳚‌म्¦आ॒यवः॑¦यु॒वा‌म्¦ह॒व्या¦अ॒भि¦आ॒यवः॑ |
यु॒वोः¦विश्वाः᳚¦अधि॑¦श्रियः॑¦पृक्षः॑¦च॒¦वि॒श्व॒ऽवे॒द॒सा॒ |
प्रु॒षा॒यन्ते᳚¦वा॒‌म्¦प॒वयः॑¦हि॒र॒ण्यये᳚¦रथे᳚¦द॒स्रा॒¦हि॒र॒ण्यये᳚ ||

अचे᳚ति दस्रा॒ व्यु१॑(उ॒) नाक॑मृण्वथो यु॒ञ्जते᳚ वां रथ॒युजो॒ दिवि॑ष्टिष्वध्व॒स्मानो॒ दिवि॑ष्टिषु |{दैवोदासिः परुच्छेपः | अश्विनौ | अत्यष्टिः}

अधि॑ वां॒ स्थाम॑ व॒न्धुरे॒ रथे᳚ दस्रा हिर॒ण्यये᳚ |{दैवोदासिः परुच्छेपः | अश्विनौ | अत्यष्टिः}

प॒थेव॒ यन्ता᳚वनु॒शास॑ता॒ रजोऽञ्ज॑सा॒ शास॑ता॒ रजः॑ ||{4/11}{2.2.3.4}{1.139.4}{1.20.6.4}{148, 139, 1518}

अचे᳚ति¦द॒स्रा॒¦वि¦ऊँ॒ इति॑¦नाक᳚‌म्¦ऋ॒ण्व॒थः॒¦युं॒जते᳚¦वा॒‌म्¦र॒थ॒ऽयुजः॑¦दिवि॑ष्टिशु¦अ॒ध्व॒स्मानः॑¦दिवि॑ष्टिषु |
अधि॑¦वा॒‌म्¦स्थाम॑¦व॒न्धुरे᳚¦रथे᳚¦द॒स्रा॒¦हि॒र॒ण्यये᳚ |
प॒थाऽ‌इ᳚व¦यन्तौ᳚¦अ॒नु॒ऽशास॑ता¦रजः॑¦अंज॑सा¦शास॑ता¦रजः॑ ||

शची᳚भिर्नः शचीवसू॒ दिवा॒ नक्तं᳚ दशस्यतम् |{दैवोदासिः परुच्छेपः | अश्विनौ | बृहतिः}

मा वां᳚ रा॒तिरुप॑ दस॒त्कदा᳚ च॒नाऽस्मद्रा॒तिः कदा᳚ च॒न ||{5/11}{2.2.3.5}{1.139.5}{1.20.6.5}{149, 139, 1519}

शची᳚भिः¦नः॒¦श॒ची॒व॒सू॒ इति॑ शचीऽवसू¦दिवा᳚¦नक्त᳚‌म्¦द॒श॒स्य॒त॒‌म् |
मा¦वा॒‌म्¦रा॒तिः¦उप॑¦द॒स॒त्¦कदा᳚¦च॒न¦अ॒स्मत्¦रा॒तिः¦कदा᳚¦च॒न ||

वृष᳚न्निन्द्र वृष॒पाणा᳚स॒ इन्द॑व इ॒मे सु॒ता, अद्रि॑षुतास उ॒द्भिद॒स्तुभ्यं᳚ सु॒तास॑ उ॒द्भिदः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

ते त्वा᳚ मन्दन्तु दा॒वने᳚ म॒हे चि॒त्राय॒ राध॑से |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

गी॒र्भिर्गि᳚र्वाहः॒ स्तव॑मान॒ आ ग॑हि सुमृळी॒को न॒ आ ग॑हि ||{6/11}{2.2.4.1}{1.139.6}{1.20.6.6}{150, 139, 1520}

वृष॑न्¦इ॒न्द्र॒¦वृ॒ष॒ऽपाना᳚सः¦इन्द॑वः¦इ॒मे¦सु॒ताः¦अद्रि॑ऽसुतासः¦उ॒त्ऽभिदः॑¦तुभ्य᳚‌म्¦सु॒तासः॑¦उ॒त्ऽभिदः॑ |
ते¦त्वा॒¦म॒न्द॒न्तु॒¦दा॒वने᳚¦म॒हे¦चि॒त्राय॑¦राध॑से |
गीः॒ऽभिः¦गि॒र्वा॒हः॒¦स्तव॑मानः¦आ¦ग॒हि॒¦सु॒ऽमृ॒ळी॒कः¦नः॒¦आ¦ग॒हि॒ ||

ओ षू णो᳚, अग्ने शृणुहि॒ त्वमी᳚ळि॒तो दे॒वेभ्यो᳚ ब्रवसि य॒ज्ञिये᳚भ्यो॒ राज॑भ्यो य॒ज्ञिये᳚भ्यः |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

यद्ध॒ त्यामङ्गि॑रोभ्यो धे॒नुं दे᳚वा॒, अद॑त्तन |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

वि तां दु॑ह्रे, अर्य॒मा क॒र्तरी॒ सचाँ᳚, ए॒ष तां वे᳚द मे॒ सचा᳚ ||{7/11}{2.2.4.2}{1.139.7}{1.20.6.7}{151, 139, 1521}

ओ इति॑¦सु¦नः॒¦अ॒ग्ने॒¦शृ॒णु॒हि॒¦त्व‌म्¦ई॒ळि॒तः¦दे॒वेभ्यः॑¦ब्र॒व॒सि॒¦य॒ज्ञिये᳚भ्यः¦राज॑ऽभ्यः¦य॒ज्ञिये᳚भ्यः |
यत्¦ह॒¦त्या‌म्¦अङ्गि॑रःऽभ्यः¦धे॒नु‌म्¦दे॒वाः॒¦अद॑त्तन |
वि¦ता‌म्¦दु॒ह्रे॒¦अ॒र्य॒मा¦क॒र्तरि॑¦सचा᳚¦ए॒षः¦ता‌म्¦वे॒द॒¦मे॒¦सचा᳚ ||

मो षु वो᳚, अ॒स्मद॒भि तानि॒ पौंस्या॒ सना᳚ भूवन्‌ द्यु॒म्नानि॒ मोत जा᳚रिषुर॒स्मत्‌ पु॒रोत जा᳚रिषुः |{दैवोदासिः परुच्छेपः | मरुतः | अत्यष्टिः}

यद्व॑श्चि॒त्रं यु॒गेयु॑गे॒ नव्यं॒ घोषा॒दम॑र्त्यम् |{दैवोदासिः परुच्छेपः | मरुतः | अत्यष्टिः}

अ॒स्मासु॒ तन्म॑रुतो॒ यच्च॑ दु॒ष्टरं᳚ दिधृ॒ता यच्च॑ दु॒ष्टर᳚म् ||{8/11}{2.2.4.3}{1.139.8}{1.20.6.8}{152, 139, 1522}

मो इति॑¦सु¦वः॒¦अ॒स्मत्¦अ॒भि¦तानि॑¦पौंस्या᳚¦सना᳚¦भू॒व॒न्¦द्यु॒म्नानि॑¦मा¦उ॒त¦जा॒रि॒षुः॒¦अ॒स्मत्¦पु॒रा¦उ॒त¦जा॒रि॒षुः॒ |
यत्¦वः॒¦चि॒त्र‌म्¦यु॒गेऽयु॑गे¦नव्य᳚‌म्¦घोषा᳚त्¦अम॑र्त्य‌म् |
अ॒स्मासु॑¦तत्¦म॒रु॒तः॒¦यत्¦च॒¦दु॒स्तर᳚‌म्¦दि॒धृ॒त¦यत्¦च॒¦दु॒स्तर᳚‌म् ||

द॒ध्यङ्‌ ह॑ मे ज॒नुषं॒ पूर्वो॒, अङ्गि॑राः प्रि॒यमे᳚धः॒ कण्वो॒, अत्रि॒र्मनु᳚र्विदु॒स्ते मे॒ पूर्वे॒ मनु᳚र्विदुः |{दैवोदासिः परुच्छेपः | इन्द्राग्नी | अत्यष्टिः}

तेषां᳚ दे॒वेष्वाय॑तिर॒स्माकं॒ तेषु॒ नाभ॑यः |{दैवोदासिः परुच्छेपः | इन्द्राग्नी | अत्यष्टिः}

तेषां᳚ प॒देन॒ मह्या न॑मे गि॒रेन्द्रा॒ग्नी, आ न॑मे गि॒रा ||{9/11}{2.2.4.4}{1.139.9}{1.20.6.9}{153, 139, 1523}

द॒ध्यङ्¦ह॒¦मे॒¦ज॒नुष᳚‌म्¦पूर्वः॑¦अङ्गि॑राः¦प्रि॒यऽमे᳚धः¦कण्वः॑¦अत्रिः॑¦मनुः॑¦वि॒दुः॒¦ते¦मे॒¦पूर्वे᳚¦मनुः॑¦वि॒दुः॒ |
तेषा᳚‌म्¦दे॒वेषु॑¦आऽय॑तिः¦अ॒स्माक᳚‌म्¦तेषु॑¦नाभ॑यः |
तेषा᳚‌म्¦प॒देन॑¦महि॑¦आ¦न॒मे॒¦गि॒रा¦इ॒न्द्रा॒ग्नी इति॑¦आ¦न॒मे॒¦गि॒रा ||

होता᳚ यक्षद्‌ व॒निनो᳚ वन्त॒ वार्यं॒ बृह॒स्पति᳚र्यजति वे॒न उ॒क्षभिः॑ पुरु॒वारे᳚भिरु॒क्षभिः॑ |{दैवोदासिः परुच्छेपः | बृहस्पतिः | अत्यष्टिः}

ज॒गृ॒भ्मा दू॒रआ᳚दिशं॒ श्लोक॒मद्रे॒रध॒ त्मना᳚ |{दैवोदासिः परुच्छेपः | बृहस्पतिः | अत्यष्टिः}

अधा᳚रयदर॒रिन्दा᳚नि सु॒क्रतुः॑ पु॒रू सद्मा᳚नि सु॒क्रतुः॑ ||{10/11}{2.2.4.5}{1.139.10}{1.20.6.10}{154, 139, 1524}

होता᳚¦य॒क्ष॒त्¦व॒निनः॑¦व॒न्त॒¦वार्य᳚‌म्¦बृह॒स्पतिः॑¦य॒ज॒ति॒¦वे॒नः¦उ॒क्षऽभिः॑¦पु॒रु॒ऽवारे᳚भिः¦उ॒क्षऽभिः॑ |
ज॒गृ॒भ्म¦दू॒रेऽआ᳚दिश‌म्¦श्लोक᳚‌म्¦अद्रेः᳚¦अध॑¦त्मना᳚ |
अधा᳚रयत्¦अ॒र॒रिन्दा᳚नि¦सु॒ऽक्रतुः॑¦पु॒रु¦सद्मा᳚नि¦सु॒ऽक्रतुः॑ ||

ये दे᳚वासो दि॒व्येका᳚दश॒ स्थ पृ॑थि॒व्यामध्येका᳚दश॒ स्थ |{दैवोदासिः परुच्छेपः | विश्वदेवाः | त्रिष्टुप्}

अ॒प्सु॒क्षितो᳚ महि॒नैका᳚दश॒ स्थ ते दे᳚वासो य॒ज्ञमि॒मं जु॑षध्वम् ||{11/11}{2.2.4.6}{1.139.11}{1.20.6.11}{155, 139, 1525}

ये¦दे॒वा॒सः॒¦दि॒वि¦एका᳚दश¦स्थ¦पृ॒थि॒व्या‌म्¦अधि॑¦एका᳚दश¦स्थ |
अ॒प्सु॒ऽक्षितः॑¦म॒हि॒ना¦एका᳚दश¦स्थ¦ते¦दे॒वा॒सः॒¦य॒ज्ञ‌म्¦इ॒म‌म्¦जु॒ष॒ध्व॒‌म् ||

[19] वेदिषदइति त्रयोदशर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निर्जगती अंत्येद्वेत्रिष्टुभौदशमीत्रिष्टुब्वा |
वे॒दि॒षदे᳚ प्रि॒यधा᳚माय सु॒द्युते᳚ धा॒सिमि॑व॒ प्र भ॑रा॒ योनि॑म॒ग्नये᳚ |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

वस्त्रे᳚णेव वासया॒ मन्म॑ना॒ शुचिं᳚ ज्यो॒तीर॑थं शु॒क्रव᳚र्णं तमो॒हन᳚म् ||{1/13}{2.2.5.1}{1.140.1}{1.21.1.1}{156, 140, 1526}

वे॒दि॒ऽसदे᳚¦प्रि॒यऽधा᳚माय¦सु॒ऽद्युते᳚¦धा॒सि‌म्ऽ‌इ᳚व¦प्र¦भ॒र॒¦योनि᳚‌म्¦अ॒ग्नये᳚ |
वस्त्रे᳚णऽ‌इव¦वा॒स॒य॒¦मन्म॑ना¦शुचि᳚‌म्¦ज्यो॒तिःऽर॑थ‌म्¦शु॒क्रऽव᳚र्ण‌म्¦त॒मः॒ऽहन᳚‌म् ||

अ॒भि द्वि॒जन्मा᳚ त्रि॒वृदन्न॑मृज्यते संवत्स॒रे वा᳚वृधे ज॒ग्धमी॒ पुनः॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अ॒न्यस्या॒सा जि॒ह्वया॒ जेन्यो॒ वृषा॒ न्य१॑(अ॒)न्येन॑ व॒निनो᳚ मृष्ट वार॒णः ||{2/13}{2.2.5.2}{1.140.2}{1.21.1.2}{157, 140, 1527}

अ॒भि¦द्वि॒ऽजन्मा᳚¦त्रि॒ऽवृत्¦अन्न᳚‌म्¦ऋ॒ज्य॒ते॒¦सं॒व॒त्स॒रे¦व॒वृ॒धे॒¦ज॒ग्ध‌म्¦ई॒मिति॑¦पुन॒रिति॑ |
अ॒न्यस्य॑¦आ॒सा¦जि॒ह्वया᳚¦जेन्यः॑¦वृषा᳚¦नि¦अ॒न्येन॑¦व॒निनः॑¦मृ॒ष्ट॒¦वा॒र॒णः ||

कृ॒ष्ण॒प्रुतौ᳚ वेवि॒जे, अ॑स्य स॒क्षिता᳚, उ॒भा त॑रेते, अ॒भि मा॒तरा॒ शिशु᳚म् |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

प्रा॒चाजि॑ह्वं ध्व॒सय᳚न्तं तृषु॒च्युत॒मा साच्यं॒ कुप॑यं॒ वर्ध॑नं पि॒तुः ||{3/13}{2.2.5.3}{1.140.3}{1.21.1.3}{158, 140, 1528}

कृ॒ष्ण॒ऽप्रुतौ᳚¦वे॒वि॒जे इति॑¦अ॒स्य॒¦स॒ऽक्षितौ᳚¦उ॒भा¦त॒रे॒ते॒ इति॑¦अ॒भि¦मा॒तरा᳚¦शिशु᳚‌म् |
प्रा॒चाऽजि॑ह्व‌म्¦ध्व॒सय᳚न्त‌म्¦तृ॒षु॒ऽच्युत᳚‌म्¦आ¦साच्य᳚‌म्¦कुप॑य‌म्¦वर्ध॑न‌म्¦पि॒तुः ||

मु॒मु॒क्ष्वो॒३॑(ओ॒) मन॑वे मानवस्य॒ते र॑घु॒द्रुवः॑ कृ॒ष्णसी᳚तास ऊ॒ जुवः॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अ॒स॒म॒ना, अ॑जि॒रासो᳚ रघु॒ष्यदो॒ वात॑जूता॒, उप॑ युज्यन्त आ॒शवः॑ ||{4/13}{2.2.5.4}{1.140.4}{1.21.1.4}{159, 140, 1529}

मु॒मु॒क्ष्वः॑¦मन॑वे¦मा॒न॒व॒स्य॒ते¦र॒घु॒ऽद्रुवः॑¦कृ॒ष्णऽसी᳚तासः¦ऊँ॒ इति॑¦जुवः॑ |
अ॒स॒म॒नाः¦अ॒जि॒रासः॑¦र॒घु॒ऽस्यदः॑¦वात॑ऽजूताः¦उप॑¦यु॒ज्य॒न्ते॒¦आ॒शवः॑ ||

आद॑स्य॒ ते ध्व॒सय᳚न्तो॒ वृथे᳚रते कृ॒ष्णमभ्वं॒ महि॒ वर्पः॒ करि॑क्रतः |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

यत्‌ सीं᳚ म॒हीम॒वनिं॒ प्राभि मर्मृ॑शदभिश्व॒सन्त्‌ स्त॒नय॒न्नेति॒ नान॑दत् ||{5/13}{2.2.5.5}{1.140.5}{1.21.1.5}{160, 140, 1530}

आत्¦अ॒स्य॒¦ते¦ध्व॒सय᳚न्तः¦वृथा᳚¦ई॒र॒ते॒¦कृ॒ष्ण‌म्¦अभ्व᳚‌म्¦महि॑¦वर्पः॑¦करि॑क्रतः |
यत्¦सी॒‌म्¦म॒ही‌म्¦अ॒वनि᳚‌म्¦प्र¦अ॒भि¦मर्मृ॑शत्¦अ॒भि॒ऽश्व॒सन्¦स्त॒नय॑न्¦एति॑¦नान॑दत् ||

भूष॒न्न योधि॑ ब॒भ्रूषु॒ नम्न॑ते॒ वृषे᳚व॒ पत्नी᳚र॒भ्ये᳚ति॒ रोरु॑वत् |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

ओ॒जा॒यमा᳚नस्त॒न्व॑श्च शुम्भते भी॒मो न शृङ्गा᳚ दविधाव दु॒र्गृभिः॑ ||{6/13}{2.2.6.1}{1.140.6}{1.21.1.6}{161, 140, 1531}

भूष॑न्¦न¦यः¦अधि॑¦ब॒भ्रूषु॑¦नम्न॑ते¦वृषा᳚ऽ‌इव¦पत्नीः᳚¦अ॒भि¦ए॒ति॒¦रोरु॑वत् |
ओ॒जा॒यमा᳚नः¦त॒न्वः॑¦च॒¦शु॒म्भ॒ते॒¦भी॒मः¦न¦शृङ्गा᳚¦द॒वि॒धा॒व॒¦दुः॒ऽगृभिः॑ ||

स सं॒स्तिरो᳚ वि॒ष्टिरः॒ सं गृ॑भायति जा॒नन्ने॒व जा᳚न॒तीर्नित्य॒ आ श॑ये |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

पुन᳚र्वर्धन्ते॒, अपि॑ यन्ति दे॒व्य॑म॒न्यद्वर्पः॑ पि॒त्रोः कृ᳚ण्वते॒ सचा᳚ ||{7/13}{2.2.6.2}{1.140.7}{1.21.1.7}{162, 140, 1532}

सः¦स॒‌म्ऽस्तिरः॑¦वि॒ऽस्तिरः॑¦स‌म्¦गृ॒भा॒य॒ति॒¦जा॒नन्¦ए॒व¦जा॒न॒तीः¦नित्यः॑¦आ¦श॒ये॒ |
पुनः॑¦व॒र्ध॒न्ते॒¦अपि॑¦य॒न्ति॒¦दे॒व्य᳚‌म्¦अ॒न्यत्¦वर्पः॑¦पि॒त्रोः¦कृ॒ण्व॒ते॒¦सचा᳚ ||

तम॒ग्रुवः॑ के॒शिनीः॒ सं हि रे᳚भि॒र ऊ॒र्ध्वास्त॑स्थुर्म॒म्रुषीः॒ प्रायवे॒ पुनः॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

तासां᳚ ज॒रां प्र॑मु॒ञ्चन्ने᳚ति॒ नान॑द॒दसुं॒ परं᳚ ज॒नय᳚ञ्जी॒वमस्तृ॑तम् ||{8/13}{2.2.6.3}{1.140.8}{1.21.1.8}{163, 140, 1533}

त‌म्¦अ॒ग्रुवः॑¦के॒शिनीः᳚¦स‌म्¦हि¦रे॒भि॒रे¦ऊ॒र्ध्वाः¦त॒स्थुः॒¦म॒म्रुषीः᳚¦प्र¦आ॒यवे᳚¦पुन॒रिति॑ |
तासा᳚‌म्¦ज॒रा‌म्¦प्र॒ऽमुं॒चन्¦ए॒ति॒¦नान॑दत्¦असु᳚‌म्¦पर᳚‌म्¦ज॒नय॑न्¦जी॒व‌म्¦अस्तृ॑त‌म् ||

अ॒धी॒वा॒सं परि॑ मा॒तू रि॒हन्नह॑ तुवि॒ग्रेभिः॒ सत्व॑भिर्याति॒ वि ज्रयः॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

वयो॒ दध॑त्‌ प॒द्वते॒ रेरि॑ह॒त्सदाऽनु॒ श्येनी᳚ सचते वर्त॒नीरह॑ ||{9/13}{2.2.6.4}{1.140.9}{1.21.1.9}{164, 140, 1534}

अ॒धी॒वा॒स‌म्¦परि॑¦मा॒तुः¦रि॒हन्¦अह॑¦तु॒वि॒ऽग्रेभिः॑¦सत्व॑ऽभिः¦या॒ति॒¦वि¦ज्रयः॑ |
वयः॑¦दध॑त्¦प॒त्ऽवते᳚¦रेरि॑हत्¦सदा᳚¦अनु॑¦श्येनी᳚¦स॒च॒ते॒¦व॒र्त॒निः¦अह॑ ||

अ॒स्माक॑मग्ने म॒घव॑त्सु दीदि॒ह्यध॒ श्वसी᳚वान्‌ वृष॒भो दमू᳚नाः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुब्वा}

अ॒वास्या॒ शिशु॑मतीरदीदे॒र्वर्मे᳚व यु॒त्सु प॑रि॒जर्भु॑राणः ||{10/13}{2.2.6.5}{1.140.10}{1.21.1.10}{165, 140, 1535}

अ॒स्माक᳚‌म्¦अ॒ग्ने॒¦म॒घव॑त्ऽसु¦दी॒दि॒हि॒¦अध॑¦श्वसी᳚वान्¦वृ॒ष॒भः¦दमू᳚नाः |
अ॒व॒।आस्य॑¦शिशु॑ऽमतीः¦अ॒दी॒देः॒¦वर्म॑ऽ‌इव¦यु॒त्ऽसु¦प॒रि॒ऽजर्भु॑राणः ||

इ॒दम॑ग्ने॒ सुधि॑तं॒ दुर्धि॑ता॒दधि॑ प्रि॒यादु॑ चि॒न्मन्‌ म॑नः॒ प्रेयो᳚, अस्तु ते |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

यत्ते᳚ शु॒क्रं त॒न्वो॒३॑(ओ॒) रोच॑ते॒ शुचि॒ तेना॒स्मभ्यं᳚ वनसे॒ रत्न॒मा त्वम् ||{11/13}{2.2.7.1}{1.140.11}{1.21.1.11}{166, 140, 1536}

इ॒द‌म्¦अ॒ग्ने॒¦सुऽधि॑त‌म्¦दुःऽधि॑तात्¦अधि॑¦प्रि॒यात्¦ऊँ॒ इति॑¦चि॒त्¦मन्म॑नः¦प्रेयः॑¦अ॒स्तु॒¦ते॒ |
यत्¦ते॒¦शु॒क्र‌म्¦त॒न्वः॑¦रोच॑ते¦शुचि॑¦तेन॑¦अ॒स्मभ्य᳚‌म्¦व॒न॒से॒¦रत्न᳚‌म्¦आ¦त्व‌म् ||

रथा᳚य॒ नाव॑मु॒त नो᳚ गृ॒हाय॒ नित्या᳚रित्रां प॒द्वतीं᳚ रास्यग्ने |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

अ॒स्माकं᳚ वी॒राँ, उ॒त नो᳚ म॒घोनो॒ जनाँ᳚श्च॒ या पा॒रया॒च्छर्म॒ या च॑ ||{12/13}{2.2.7.2}{1.140.12}{1.21.1.12}{167, 140, 1537}

रथा᳚य¦नाव᳚‌म्¦उ॒त¦नः॒¦गृ॒हाय॑¦नित्य॑।आरित्रा‌म्¦प॒त्ऽवती᳚‌म्¦रा॒सि॒¦अ॒ग्ने॒ |
अ॒स्माक᳚‌म्¦वी॒रान्¦उ॒त¦नः॒¦म॒घोनः॑¦जना᳚न्¦च॒¦या¦पा॒रया᳚त्¦शर्म॑¦या¦च॒ ||

अ॒भी नो᳚, अग्न उ॒क्थमिज्जु॑गुर्या॒ द्यावा॒क्षामा॒ सिन्ध॑वश्च॒ स्वगू᳚र्ताः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

गव्यं॒ यव्यं॒ यन्तो᳚ दी॒र्घाहेषं॒ वर॑मरु॒ण्यो᳚ वरन्त ||{13/13}{2.2.7.3}{1.140.13}{1.21.1.13}{168, 140, 1538}

अ॒भि¦नः॒¦अ॒ग्ने॒¦उ॒क्थ‌म्¦इत्¦जु॒गु॒र्याः॒¦द्यावा॒क्षामा᳚¦सिन्ध॑वः¦च॒¦स्वऽगू᳚र्ताः |
गव्य᳚‌म्¦यव्य᳚‌म्¦यन्तः॑¦दी॒र्घा¦अहा᳚¦इष᳚‌म्¦वर᳚‌म्¦अ॒रु॒ण्यः॑¦व॒र॒न्त॒ ||

[20] बळित्थेति त्रयोदशर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निर्जगती अंत्येद्वेत्रिष्टुभौ|
बळि॒त्था तद्वपु॑षे धायि दर्श॒तं दे॒वस्य॒ भर्गः॒ सह॑सो॒ यतो॒ जनि॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

यदी॒मुप॒ ह्वर॑ते॒ साध॑ते म॒तिरृ॒तस्य॒ धेना᳚, अनयन्त स॒स्रुतः॑ ||{1/13}{2.2.8.1}{1.141.1}{1.21.2.1}{169, 141, 1539}

बट्¦इ॒त्था¦तत्¦वपु॑षे¦धा॒यि॒¦द॒र्श॒त‌म्¦दे॒वस्य॑¦भर्गः॑¦सह॑सः¦यतः॑¦जनि॑ |
यत्¦ई॒‌म्¦उप॑¦ह्वर॑ते¦साध॑ते¦म॒तिः¦ऋ॒तस्य॑¦धेनाः᳚¦अ॒न॒य॒न्त॒¦स॒ऽस्रुतः॑ ||

पृ॒क्षो वपुः॑ पितु॒मान्नित्य॒ आ श॑ये द्वि॒तीय॒मा स॒प्तशि॑वासु मा॒तृषु॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

तृ॒तीय॑मस्य वृष॒भस्य॑ दो॒हसे॒ दश॑प्रमतिं जनयन्त॒ योष॑णः ||{2/13}{2.2.8.2}{1.141.2}{1.21.2.2}{170, 141, 1540}

पृ॒क्षः¦वपुः॑¦पि॒तु॒ऽमान्¦नित्यः॑¦आ¦श॒ये॒¦द्वि॒तीय᳚‌म्¦आ¦स॒प्तऽशि॑वासु¦मा॒तृषु॑ |
तृ॒तीय᳚‌म्¦अ॒स्य॒¦वृ॒ष॒भस्य॑¦दो॒हसे᳚¦दश॑ऽप्रमति‌म्¦ज॒न॒य॒न्त॒¦योष॑णः ||

निर्यदीं᳚ बु॒ध्नान्म॑हि॒षस्य॒ वर्प॑स ईशा॒नासः॒ शव॑सा॒ क्रन्त॑ सू॒रयः॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

यदी॒मनु॑ प्र॒दिवो॒ मध्व॑ आध॒वे गुहा॒ सन्तं᳚ मात॒रिश्वा᳚ मथा॒यति॑ ||{3/13}{2.2.8.3}{1.141.3}{1.21.2.3}{171, 141, 1541}

निः¦यत्¦ई॒‌म्¦बु॒ध्नात्¦म॒हि॒षस्य॑¦वर्प॑सः¦ई॒शा॒नासः॑¦शव॑सा¦क्रन्त॑¦सू॒रयः॑ |
यत्¦ई॒‌म्¦अनु॑¦प्र॒ऽदिवः॑¦मध्वः॑¦आ॒ऽध॒वे¦गुहा᳚¦सन्त᳚‌म्¦मा॒त॒रिश्वा᳚¦म॒था॒यति॑ ||

प्र यत्‌ पि॒तुः प॑र॒मान्नी॒यते॒ पर्या पृ॒क्षुधो᳚ वी॒रुधो॒ दंसु॑ रोहति |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

उ॒भा यद॑स्य ज॒नुषं॒ यदिन्व॑त॒ आदिद्यवि॑ष्ठो, अभवद्‌ घृ॒णा शुचिः॑ ||{4/13}{2.2.8.4}{1.141.4}{1.21.2.4}{172, 141, 1542}

प्र¦यत्¦पि॒तुः¦प॒र॒मात्¦नी॒यते᳚¦परि॑¦आ¦पृ॒क्षुधः॑¦वी॒रुधः॑¦द‌म्ऽसु॑¦रो॒ह॒ति॒ |
उ॒भा¦यत्¦अ॒स्य॒¦ज॒नुष᳚‌म्¦यत्¦इन्व॑तः¦आत्¦इत्¦यवि॑ष्ठः¦अ॒भ॒व॒त्¦घृ॒णा¦शुचिः॑ ||

आदिन्मा॒तॄरावि॑श॒द्‌ यास्वा शुचि॒रहिं᳚स्यमान उर्वि॒या वि वा᳚वृधे |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अनु॒ यत्‌ पूर्वा॒, अरु॑हत्‌ सना॒जुवो॒ नि नव्य॑सी॒ष्वव॑रासु धावते ||{5/13}{2.2.8.5}{1.141.5}{1.21.2.5}{173, 141, 1543}

आत्¦इत्¦मा॒तॄः¦आ¦अ॒वि॒श॒त्¦यासु॑¦आ¦शुचिः॑¦अहिं᳚स्यमानः¦उ॒र्वि॒या¦वि¦व॒वृ॒धे॒ |
अनु॑¦यत्¦पूर्वाः᳚¦अरु॑हत्¦स॒ना॒ऽजुवः॑¦नि¦नव्य॑सीषु¦अव॑रासु¦धा॒व॒ते॒ ||

आदिद्धोता᳚रं वृणते॒ दिवि॑ष्टिषु॒ भग॑मिव पपृचा॒नास॑ ऋञ्जते |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

दे॒वान्यत्क्रत्वा᳚ म॒ज्मना᳚ पुरुष्टु॒तो मर्तं॒ शंसं᳚ वि॒श्वधा॒ वेति॒ धाय॑से ||{6/13}{2.2.9.1}{1.141.6}{1.21.2.6}{174, 141, 1544}

आत्¦इत्¦होता᳚र‌म्¦वृ॒ण॒ते॒¦दिवि॑ष्टिषु¦भग᳚‌म्ऽ‌इव¦प॒पृ॒चा॒नासः॑¦ऋं॒ज॒ते॒ |
दे॒वान्¦यत्¦क्रत्वा᳚¦म॒ज्मना᳚¦पु॒रु॒ऽस्तु॒तः¦मर्त᳚‌म्¦शंस᳚‌म्¦वि॒श्वधा᳚¦वेति॑¦धाय॑से ||

वि यदस्था᳚द्‌ यज॒तो वात॑चोदितो ह्वा॒रो न वक्वा᳚ ज॒रणा॒, अना᳚कृतः |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

तस्य॒ पत्म᳚न्‌ द॒क्षुषः॑ कृ॒ष्णजं᳚हसः॒ शुचि॑जन्मनो॒ रज॒ आ व्य॑ध्वनः ||{7/13}{2.2.9.2}{1.141.7}{1.21.2.7}{175, 141, 1545}

वि¦यत्¦अस्था᳚त्¦य॒ज॒तः¦वात॑ऽचोदितः¦ह्वा॒रः¦न¦वक्वा᳚¦ज॒रणाः᳚¦अना᳚कृतः |
तस्य॑¦पत्म॑न्¦ध॒क्षुषः॑¦कृ॒ष्णऽजं᳚हसः¦शुचि॑ऽजन्मनः¦रजः॑¦आ¦वि।आ॑ध्वनः ||

रथो॒ न या॒तः शिक्व॑भिः कृ॒तो द्यामङ्गे᳚भिररु॒षेभि॑रीयते |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

आद॑स्य॒ ते कृ॒ष्णासो᳚ दक्षि सू॒रयः॒ शूर॑स्येव त्वे॒षथा᳚दीषते॒ वयः॑ ||{8/13}{2.2.9.3}{1.141.8}{1.21.2.8}{176, 141, 1546}

रथः॑¦न¦या॒तः¦शिक्व॑ऽभिः¦कृ॒तः¦द्या‌म्¦अङ्गे᳚भिः¦अ॒रु॒षेभिः॑¦ई॒य॒ते॒ |
आत्¦अ॒स्य॒¦ते¦कृ॒ष्णासः॑¦ध॒क्षि॒¦सू॒रयः॑¦शूर॑स्यऽ‌इव¦त्वे॒षथा᳚त्¦ई॒ष॒ते॒¦वयः॑ ||

त्वया॒ ह्य॑ग्ने॒ वरु॑णो धृ॒तव्र॑तो मि॒त्रः शा᳚श॒द्रे, अ᳚र्य॒मा सु॒दान॑वः |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

यत्‌ सी॒मनु॒ क्रतु॑ना वि॒श्वथा᳚ वि॒भुर॒रान्न ने॒मिः प॑रि॒भूरजा᳚यथाः ||{9/13}{2.2.9.4}{1.141.9}{1.21.2.9}{177, 141, 1547}

त्वया᳚¦हि¦अ॒ग्ने॒¦वरु॑णः¦धृ॒तऽव्र॑तः¦मि॒त्रः¦शा॒श॒द्रे¦अ॒र्य॒मा¦सु॒ऽदान॑वः |
यत्¦सी॒‌म्¦अनु॑¦क्रतु॑ना¦वि॒श्वऽथा᳚¦वि॒ऽभुः¦अ॒रान्¦न¦ने॒मिः¦प॒रि॒ऽभूः¦अजा᳚यथाः ||

त्वम॑ग्ने शशमा॒नाय॑ सुन्व॒ते रत्नं᳚ यविष्ठ दे॒वता᳚तिमिन्वसि |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

तं त्वा॒ नु नव्यं᳚ सहसो युवन्‌ व॒यं भगं॒ न का॒रे म॑हिरत्न धीमहि ||{10/13}{2.2.9.5}{1.141.10}{1.21.2.10}{178, 141, 1548}

त्व‌म्¦अ॒ग्ने॒¦श॒श॒मा॒नाय॑¦सु॒न्व॒ते¦रत्न᳚‌म्¦य॒वि॒ष्ठ॒¦दे॒वऽता᳚ति‌म्¦इ॒न्व॒सि॒ |
त्व‌म्¦त्वा॒¦नु¦नव्य᳚‌म्¦स॒ह॒सः॒¦यु॒व॒न्¦व॒य‌म्¦भग᳚‌म्¦न¦का॒रे¦म॒हि॒ऽर॒त्न॒¦धी॒म॒हि॒ ||

अ॒स्मे र॒यिं न स्वर्थं॒ दमू᳚नसं॒ भगं॒ दक्षं॒ न प॑पृचासि धर्ण॒सिम् |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

र॒श्मीँऽ रि॑व॒ यो यम॑ति॒ जन्म॑नी, उ॒भे दे॒वानां॒ शंस॑मृ॒त आ च॑ सु॒क्रतुः॑ ||{11/13}{2.2.9.6}{1.141.11}{1.21.2.11}{179, 141, 1549}

अ॒स्मे इति॑¦र॒यि‌म्¦न¦सु॒।आर्थ᳚‌म्¦दमू᳚नस‌म्¦भग॑न्¦दक्ष᳚‌म्¦न¦प॒पृ॒चा॒सि॒¦ध॒र्ण॒सि‌म् |
र॒श्मीन्ऽ‌इ᳚व¦यः¦यम॑ति¦जन्म॑नी॒ इति॑¦उ॒भे इति॑¦दे॒वाना᳚‌म्¦शंस᳚‌म्¦ऋ॒ते¦आ¦च॒¦सु॒ऽक्रतुः॑ ||

उ॒त नः॑ सु॒द्योत्मा᳚ जी॒राश्वो॒ होता᳚ म॒न्द्रः शृ॑णवच्च॒न्द्रर॑थः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

स नो᳚ नेष॒न्नेष॑तमै॒रमू᳚रो॒ऽग्निर्वा॒मं सु॑वि॒तं वस्यो॒, अच्छ॑ ||{12/13}{2.2.9.7}{1.141.12}{1.21.2.12}{180, 141, 1550}

उ॒त¦नः॒¦सु॒ऽद्योत्मा᳚¦जी॒र।आ॑श्वः¦होता᳚¦म॒न्द्रः¦शृ॒ण॒व॒त्¦च॒न्द्रऽर॑थः |
सः¦नः॒¦ने॒ष॒त्¦नेष॑ऽतमैः¦अमू᳚रः¦अ॒ग्निः¦वा॒म‌म्¦सु॒ऽवि॒त‌म्¦वस्यः॑¦अच्छ॑ ||

अस्ता᳚व्य॒ग्निः शिमी᳚वद्भिर॒र्कैः साम्रा᳚ज्याय प्रत॒रं दधा᳚नः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

अ॒मी च॒ ये म॒घवा᳚नो व॒यं च॒ मिहं॒ न सूरो॒, अति॒ निष्ट॑तन्युः ||{13/13}{2.2.9.8}{1.141.13}{1.21.2.13}{181, 141, 1551}

अस्ता᳚वि¦अ॒ग्निः¦शिमी᳚वत्ऽभिः¦अ॒र्कैः¦सा‌म्ऽरा᳚ज्याय¦प्र॒ऽत॒र‌म्¦दधा᳚नः |
अ॒मी इति॑¦च॒¦ये¦म॒घऽवा᳚नः¦व॒य‌म्¦च॒¦मिह᳚‌म्¦न¦सूरः॑¦अति॑¦निः¦त॒त॒न्युः॒ ||

[21] समिद्धोअग्नइति त्रयोदशर्चस्य सूक्तस्यौचथ्योदीर्घतमाऋषिः इध्मस्तनूनपान्नराशंसइळो बर्हिर्देवीर्द्वार उषासानक्ता देव्यौहोतारौ सरस्वतीळाभारत्यस्त्वष्टावनस्पतिः स्वाहाकृतयइतिक्रमेणदेवताः अंत्याया इंद्रोनुष्टुप् |
समि॑द्धो, अग्न॒ आ व॑ह दे॒वाँ, अ॒द्य य॒तस्रु॑चे |{औचथ्यो दीर्घतमाः | इध्मः समिद्धोऽग्निर्वा | अनुष्टुप्}

तन्तुं᳚ तनुष्व पू॒र्व्यं सु॒तसो᳚माय दा॒शुषे᳚ ||{1/13}{2.2.10.1}{1.142.1}{1.21.3.1}{182, 142, 1552}

स‌म्ऽ‌इ᳚द्धः¦अ॒ग्ने॒¦आ¦व॒ह॒¦दे॒वान्¦अ॒द्य¦य॒तऽस्रु॑चे | तन्तु᳚‌म्¦त॒नु॒ष्व॒¦पू॒र्व्य‌म्¦सु॒तऽसो᳚माय¦दा॒शुषे᳚ ||

घृ॒तव᳚न्त॒मुप॑ मासि॒ मधु॑मन्तं तनूनपात् |{औचथ्यो दीर्घतमाः | तनूनपात् | अनुष्टुप्}

य॒ज्ञं विप्र॑स्य॒ माव॑तः शशमा॒नस्य॑ दा॒शुषः॑ ||{2/13}{2.2.10.2}{1.142.2}{1.21.3.2}{183, 142, 1553}

घृ॒तऽव᳚न्त‌म्¦उप॑¦मा॒सि॒¦मधु॑ऽमन्त‌म्¦त॒नू॒ऽन॒पा॒त् | य॒ज्ञ‌म्¦विप्र॑स्य¦माऽव॑तः¦श॒श॒मा॒नस्य॑¦दा॒शुषः॑ ||

शुचिः॑ पाव॒को, अद्भु॑तो॒ मध्वा᳚ य॒ज्ञं मि॑मिक्षति |{औचथ्यो दीर्घतमाः | नराशंसः | अनुष्टुप्}

नरा॒शंस॒स्त्रिरा दि॒वो दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ||{3/13}{2.2.10.3}{1.142.3}{1.21.3.3}{184, 142, 1554}

शुचिः॑¦पा॒व॒कः¦अद्भु॑तः¦मध्वा᳚¦य॒ज्ञ‌म्¦मि॒मि॒क्ष॒ति॒ | नरा॒शंसः॑¦त्रिः¦आ¦दि॒वः¦दे॒वः¦दे॒वेषु॑¦य॒ज्ञियः॑ ||

ई॒ळि॒तो, अ॑ग्न॒ आ व॒हेन्द्रं᳚ चि॒त्रमि॒ह प्रि॒यम् |{औचथ्यो दीर्घतमाः | इळः | अनुष्टुप्}

इ॒यं हि त्वा᳚ म॒तिर्ममाच्छा᳚ सुजिह्व व॒च्यते᳚ ||{4/13}{2.2.10.4}{1.142.4}{1.21.3.4}{185, 142, 1555}

ई॒ळि॒तः¦अ॒ग्ने॒¦आ¦व॒ह॒¦इन्द्र᳚‌म्¦चि॒त्र‌म्¦इ॒ह¦प्रि॒य‌म् | इ॒य‌म्¦हि¦त्वा॒¦म॒तिः¦मम॑¦अच्छ॑¦सु॒ऽजि॒ह्व॒¦व॒च्यते᳚ ||

स्तृ॒णा॒नासो᳚ य॒तस्रु॑चो ब॒र्हिर्य॒ज्ञे स्व॑ध्व॒रे |{औचथ्यो दीर्घतमाः | बर्हिः | अनुष्टुप्}

वृ॒ञ्जे दे॒वव्य॑चस्तम॒मिन्द्रा᳚य॒ शर्म॑ स॒प्रथः॑ ||{5/13}{2.2.10.5}{1.142.5}{1.21.3.5}{186, 142, 1556}

स्तृ॒णा॒नासः॑¦य॒तऽस्रु॑चः¦ब॒र्हिः¦य॒ज्ञे¦सु॒।आ॒ध्व॒रे | वृं॒जे¦दे॒वव्य॑चःऽतम‌म्¦इन्द्रा᳚य¦शर्म॑¦स॒ऽप्रथः॑ ||

वि श्र॑यन्तामृता॒वृधः॑ प्र॒यै दे॒वेभ्यो᳚ म॒हीः |{औचथ्यो दीर्घतमाः | देवीर्द्वारः | अनुष्टुप्}

पा॒व॒कासः॑ पुरु॒स्पृहो॒ द्वारो᳚ दे॒वीर॑स॒श्चतः॑ ||{6/13}{2.2.10.6}{1.142.6}{1.21.3.6}{187, 142, 1557}

वि¦श्र॒य॒न्ता॒‌म्¦ऋ॒त॒ऽवृधः॑¦प्र॒ऽयै¦दे॒वेभ्यः॑¦म॒हीः | पा॒व॒कासः॑¦पु॒रु॒ऽस्पृहः॑¦द्वारः॑¦दे॒वीः¦अ॒स॒श्चतः॑ ||

आ भन्द॑माने॒, उपा᳚के॒ नक्तो॒षासा᳚ सु॒पेश॑सा |{औचथ्यो दीर्घतमाः | उषासानक्ता | अनुष्टुप्}

य॒ह्वी, ऋ॒तस्य॑ मा॒तरा॒ सीद॑तां ब॒र्हिरा सु॒मत् ||{7/13}{2.2.11.1}{1.142.7}{1.21.3.7}{188, 142, 1558}

आ¦भन्द॑माने॒ इति॑¦उपा᳚के॒ इति॑¦नक्तो॒षसा᳚¦सु॒ऽपेश॑सा | य॒ह्वी इति॑¦ऋ॒तस्य॑¦मा॒तरा᳚¦सीद॑ता‌म्¦ब॒र्हिः¦आ¦सु॒ऽमत् ||

म॒न्द्रजि॑ह्वा जुगु॒र्वणी॒ होता᳚रा॒ दैव्या᳚ क॒वी |{औचथ्यो दीर्घतमाः | देव्यौहोतारौ | अनुष्टुप्}

य॒ज्ञं नो᳚ यक्षतामि॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृश᳚म् ||{8/13}{2.2.11.2}{1.142.8}{1.21.3.8}{189, 142, 1559}

म॒न्द्रऽजि॑ह्वा¦जु॒गु॒र्वणी॒ इति॑¦होता᳚रा¦दैव्या᳚¦क॒वी इति॑ | य॒ज्ञ‌म्¦नः॒¦य॒क्ष॒ता॒‌म्¦इ॒म‌म्¦सि॒ध्र‌म्¦अ॒द्य¦दि॒वि॒ऽस्पृश᳚‌म् ||

शुचि॑र्दे॒वेष्वर्पि॑ता॒ होत्रा᳚ म॒रुत्सु॒ भार॑ती |{औचथ्यो दीर्घतमाः | तिस्रो देव्यः सरस्वतीळाभारत्यः | अनुष्टुप्}

इळा॒ सर॑स्वती म॒ही ब॒र्हिः सी᳚दन्तु य॒ज्ञियाः᳚ ||{9/13}{2.2.11.3}{1.142.9}{1.21.3.9}{190, 142, 1560}

शुचिः॑¦दे॒वेषु॑¦अर्पि॑ता¦होत्रा᳚¦म॒रुत्ऽसु॑¦भार॑ती | इळा᳚¦सर॑स्वती¦म॒ही¦ब॒र्हिः¦सी॒द॒न्तु॒¦य॒ज्ञियाः᳚ ||

तन्न॑स्तु॒रीप॒मद्भु॑तं पु॒रु वारं᳚ पु॒रु त्मना᳚ |{औचथ्यो दीर्घतमाः | त्वष्टाः | अनुष्टुप्}

त्वष्टा॒ पोषा᳚य॒ वि ष्य॑तु रा॒ये नाभा᳚ नो, अस्म॒युः ||{10/13}{2.2.11.4}{1.142.10}{1.21.3.10}{191, 142, 1561}

तत्¦नः॒¦तु॒रीप᳚‌म्¦अद्भु॑त‌म्¦पु॒रु¦वा॒¦अर᳚‌म्¦पु॒रु¦त्मना᳚ | त्वष्टा᳚¦पोषा᳚य¦वि¦स्य॒तु॒¦रा॒ये¦नाभा᳚¦नः॒¦अ॒स्म॒ऽयुः ||

अ॒व॒सृ॒जन्नुप॒ त्मना᳚ दे॒वान्‌ य॑क्षि वनस्पते |{औचथ्यो दीर्घतमाः | वनस्पतिः | अनुष्टुप्}

अ॒ग्निर्ह॒व्या सु॑षूदति दे॒वो दे॒वेषु॒ मेधि॑रः ||{11/13}{2.2.11.5}{1.142.11}{1.21.3.11}{192, 142, 1562}

अ॒व॒ऽसृ॒जन्¦उप॑¦त्मना᳚¦दे॒वान्¦य॒क्षि॒¦व॒न॒स्प॒ते॒ | अ॒ग्निः¦ह॒व्या¦सु॒सू॒द॒ति॒¦दे॒वः¦दे॒वेषु॑¦मेधि॑रः ||

पू॒ष॒ण्वते᳚ म॒रुत्व॑ते वि॒श्वदे᳚वाय वा॒यवे᳚ |{औचथ्यो दीर्घतमाः | स्वाहाकृतयः | अनुष्टुप्}

स्वाहा᳚ गाय॒त्रवे᳚पसे ह॒व्यमिन्द्रा᳚य कर्तन ||{12/13}{2.2.11.6}{1.142.12}{1.21.3.12}{193, 142, 1563}

पू॒ष॒ण्ऽवते᳚¦म॒रुत्व॑ते¦वि॒श्वऽदे᳚वाय¦वा॒यवे᳚ | स्वाहा᳚¦गा॒य॒त्रऽवे᳚पसे¦ह॒व्य‌म्¦इन्द्रा᳚य¦क॒र्त॒न॒ ||

स्वाहा᳚कृता॒न्या ग॒ह्युप॑ ह॒व्यानि॑ वी॒तये᳚ |{औचथ्यो दीर्घतमाः | इन्द्रः | अनुष्टुप्}

इन्द्रा ग॑हि श्रु॒धी हवं॒ त्वां ह॑वन्ते, अध्व॒रे ||{13/13}{2.2.11.7}{1.142.13}{1.21.3.13}{194, 142, 1564}

स्वाहा᳚ऽकृतानि¦आ¦ग॒हि॒¦उप॑¦ह॒व्यानि॑¦वी॒तये᳚ | इन्द्र॑¦आ¦ग॒हि॒¦श्रु॒धि¦हव᳚‌म्¦त्वा‌म्¦ह॒व॒न्ते॒¦अ॒ध्व॒रे ||

[22] प्रतव्यसीमित्यष्टर्चस्य सूक्तस्यौचथ्यो दीर्घतमाअग्निर्जगतीअंत्यात्रिष्टुप् |
प्र तव्य॑सीं॒ नव्य॑सीं धी॒तिम॒ग्नये᳚ वा॒चो म॒तिं सह॑सः सू॒नवे᳚ भरे |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अ॒पां नपा॒द्यो वसु॑भिः स॒ह प्रि॒यो होता᳚ पृथि॒व्यां न्यसी᳚ददृ॒त्वियः॑ ||{1/8}{2.2.12.1}{1.143.1}{1.21.4.1}{195, 143, 1565}

प्र¦तव्य॑सी‌म्¦नव्य॑सी‌म्¦धी॒ति‌म्¦अ॒ग्नये᳚¦वा॒चः¦म॒ति‌म्¦सह॑सः¦सू॒नवे᳚¦भ॒रे॒ |
अ॒पा‌म्¦नपा᳚त्¦यः¦वसु॑ऽभिः¦स॒ह¦प्रि॒यः¦होता᳚¦पृ॒थि॒व्या‌म्¦नि¦असी᳚दत्¦ऋ॒त्वियः॑ ||

स जाय॑मानः पर॒मे व्यो᳚मन्या॒विर॒ग्निर॑भवन्मात॒रिश्व॑ने |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अ॒स्य क्रत्वा᳚ समिधा॒नस्य॑ म॒ज्मना॒ प्र द्यावा᳚ शो॒चिः पृ॑थि॒वी, अ॑रोचयत् ||{2/8}{2.2.12.2}{1.143.2}{1.21.4.2}{196, 143, 1566}

सः¦जाय॑मानः¦प॒र॒मे¦विऽओ᳚मनि¦आ॒विः¦अ॒ग्निः¦अ॒भ॒व॒त्¦मा॒त॒रिश्व॑ने |
अ॒स्य¦क्रत्वा᳚¦स॒‌म्ऽ‌इ॒धा॒नस्य॑¦म॒ज्मना᳚¦प्र¦द्यावा᳚¦शो॒चिः¦पृ॒थि॒वी इति॑¦अ॒रो॒च॒य॒त् ||

अ॒स्य त्वे॒षा, अ॒जरा᳚, अ॒स्य भा॒नवः॑ सुसं॒दृशः॑ सु॒प्रती᳚कस्य सु॒द्युतः॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

भात्व॑क्षसो॒, अत्य॒क्तुर्न सिन्ध॑वो॒ऽग्ने रे᳚जन्ते॒, अस॑सन्तो, अ॒जराः᳚ ||{3/8}{2.2.12.3}{1.143.3}{1.21.4.3}{197, 143, 1567}

अ॒स्य¦त्वे॒षाः¦अ॒जराः᳚¦अ॒स्य¦भा॒नवः॑¦सु॒ऽसं॒दृशः॑¦सु॒ऽप्रती᳚कस्य¦सु॒ऽद्युतः॑ |
भाऽत्व॑क्षसः¦अति॑¦अ॒क्तुः¦न¦सिन्ध॑वः¦अ॒ग्नेः¦रे॒ज॒न्ते॒¦अस॑सन्तः¦अ॒जराः᳚ ||

यमे᳚रि॒रे भृग॑वो वि॒श्ववे᳚दसं॒ नाभा᳚ पृथि॒व्या भुव॑नस्य म॒ज्मना᳚ |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अ॒ग्निं तं गी॒र्भिर्हि॑नुहि॒ स्व आ दमे॒ य एको॒ वस्वो॒ वरु॑णो॒ न राज॑ति ||{4/8}{2.2.12.4}{1.143.4}{1.21.4.4}{198, 143, 1568}

य‌म्¦आ॒ऽई॒रि॒रे॒¦भृग॑वः¦वि॒श्वऽवे᳚दस‌म्¦नाभा᳚¦पृ॒थि॒व्याः¦भुव॑नस्य¦म॒ज्मना᳚ |
अ॒ग्नि‌म्¦त‌म्¦गीः॒ऽभिः¦हि॒नु॒हि॒¦स्वे¦आ¦दमे᳚¦यः¦एकः॑¦वस्वः॑¦वरु॑णः¦न¦राज॑ति ||

न यो वरा᳚य म॒रुता᳚मिव स्व॒नः सेने᳚व सृ॒ष्टा दि॒व्या यथा॒शनिः॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अ॒ग्निर्जम्भै᳚स्तिगि॒तैर॑त्ति॒ भर्व॑ति यो॒धो न शत्रू॒न्‌ त्स वना॒ न्यृ᳚ञ्जते ||{5/8}{2.2.12.5}{1.143.5}{1.21.4.5}{199, 143, 1569}

न¦यः¦वरा᳚य¦म॒रुता᳚‌म्ऽ‌इव¦स्व॒नः¦सेना᳚ऽ‌इव¦सृ॒ष्टा¦दि॒व्या¦यथा᳚¦अ॒शनिः॑ |
अ॒ग्निः¦जम्भैः᳚¦ति॒गि॒तैः¦अ॒त्ति॒¦भर्व॑ति¦यो॒धः¦न¦शत्रू᳚न्¦सः¦वना᳚¦नि¦ऋं॒ज॒ते॒ ||

कु॒विन्नो᳚, अ॒ग्निरु॒चथ॑स्य॒ वीरस॒द् वसु॑ष्कु॒विद्‌ वसु॑भिः॒ काम॑मा॒वर॑त् |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

चो॒दः कु॒वित्‌ तु॑तु॒ज्यात्‌ सा॒तये॒ धियः॒ शुचि॑प्रतीकं॒ तम॒या धि॒या गृ॑णे ||{6/8}{2.2.12.6}{1.143.6}{1.21.4.6}{200, 143, 1570}

कु॒वित्¦नः॒¦अ॒ग्निः¦उ॒चथ॑स्य¦वीः¦अस॑त्¦वसुः॑¦कु॒वित्¦वसु॑ऽभिः¦काम᳚‌म्¦आ॒ऽवर॑त् |
चो॒दः¦कु॒वित्¦तु॒तु॒ज्यात्¦सा॒तये᳚¦धियः॑¦शुचि॑ऽप्रतीक‌म्¦त‌म्¦अ॒या¦धि॒या¦गृ॒णे॒ ||

घृ॒तप्र॑तीकं व ऋ॒तस्य॑ धू॒र्षद॑म॒ग्निं मि॒त्रं न स॑मिधा॒न ऋ᳚ञ्जते |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

इन्धा᳚नो, अ॒क्रो वि॒दथे᳚षु॒ दीद्य॑च्छु॒क्रव᳚र्णा॒मुदु॑ नो यंसते॒ धिय᳚म् ||{7/8}{2.2.12.7}{1.143.7}{1.21.4.7}{201, 143, 1571}

घृ॒तऽप्र॑तीक‌म्¦वः॒¦ऋ॒तस्य॑¦धूः॒ऽसद᳚‌म्¦अ॒ग्नि‌म्¦मि॒त्र‌म्¦न¦स॒‌म्ऽ‌इ॒धा॒नः¦ऋं॒ज॒ते॒ |
इन्धा᳚नः¦अ॒क्रः¦वि॒दथे᳚षु¦दीद्य॑त्¦शु॒क्रऽव᳚र्णा‌म्¦उत्¦ऊँ॒ इति॑¦नः॒¦यं॒स॒ते॒¦धिय᳚‌म् ||

अप्र॑युच्छ॒न्नप्र॑युच्छद्भिरग्ने शि॒वेभि᳚र्नः पा॒युभिः॑ पाहि श॒ग्मैः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

अद॑ब्धेभि॒रदृ॑पितेभिरि॒ष्टेऽनि॑मिषद्भिः॒ परि॑ पाहि नो॒ जाः ||{8/8}{2.2.12.8}{1.143.8}{1.21.4.8}{202, 143, 1572}

अप्र॑ऽयुच्छन्¦अप्र॑युच्छत्ऽभिः¦अ॒ग्ने॒¦शि॒वेभिः॑¦नः॒¦पा॒युऽभिः॑¦पा॒हि॒¦श॒ग्मैः |
अद॑ब्धेभिः¦अदृ॑पितेभिः¦इ॒ष्टे॒¦अनि॑मिषत्ऽभिः¦परि॑¦पा॒हि॒¦नः॒¦जाः ||

[23] एतीति सप्तर्चस्य सूक्तस्यौचथ्योदीर्घतमाग्निर्जगती |
एति॒ प्र होता᳚ व्र॒तम॑स्य मा॒ययो॒र्ध्वां दधा᳚नः॒ शुचि॑पेशसं॒ धिय᳚म् |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अ॒भि स्रुचः॑ क्रमते दक्षिणा॒वृतो॒ या, अ॑स्य॒ धाम॑ प्रथ॒मं ह॒ निंस॑ते ||{1/7}{2.2.13.1}{1.144.1}{1.21.5.1}{203, 144, 1573}

एति॑¦प्र¦होता᳚¦व्र॒त‌म्¦अ॒स्य॒¦मा॒यया᳚¦ऊ॒र्ध्वा‌म्¦दधा᳚नः¦शुचि॑ऽपेशस‌म्¦धिय᳚‌म् |
अ॒भि¦स्रुचः॑¦क्र॒म॒ते॒¦द॒क्षि॒णा॒ऽआ॒वृतः॑¦याः¦अ॒स्य॒¦धाम॑¦प्र॒थ॒म‌म्¦ह॒¦निंस॑ते ||

अ॒भीमृ॒तस्य॑ दो॒हना᳚, अनूषत॒ योनौ᳚ दे॒वस्य॒ सद॑ने॒ परी᳚वृताः |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अ॒पामु॒पस्थे॒ विभृ॑तो॒ यदाव॑स॒दध॑ स्व॒धा, अ॑धय॒द्‌ याभि॒रीय॑ते ||{2/7}{2.2.13.2}{1.144.2}{1.21.5.2}{204, 144, 1574}

अ॒भि¦ई॒‌म्¦ऋ॒तस्य॑¦दो॒हनाः᳚¦अ॒नू॒ष॒त॒¦योनौ᳚¦दे॒वस्य॑¦सद॑ने¦परि॑ऽवृताः |
अ॒पा‌म्¦उ॒पऽस्थे᳚¦विऽभृ॑तः¦यत्¦आ¦अव॑सत्¦अध॑¦स्व॒धाः¦अ॒ध॒य॒त्¦याभिः॑¦ईय॑ते ||

युयू᳚षतः॒ सव॑यसा॒ तदिद्‌ वपुः॑ समा॒नमर्थं᳚ वि॒तरि॑त्रता मि॒थः |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

आदीं॒ भगो॒ न हव्यः॒ सम॒स्मदा वोळ्हु॒र्न र॒श्मीन्‌ त्सम॑यंस्त॒ सार॑थिः ||{3/7}{2.2.13.3}{1.144.3}{1.21.5.3}{205, 144, 1575}

युयू᳚षतः¦सऽव॑यसा¦तत्¦इत्¦वपुः॑¦स॒मा॒न‌म्¦अर्थ᳚‌म्¦वि॒ऽतरि॑त्रता¦मि॒थः |
आत्¦ई‌म्¦भगः॑¦न¦हव्यः॑¦स‌म्¦अ॒स्मत्¦आ¦वोळ्हुः॑¦न¦र॒श्मीन्¦स‌म्¦अ॒यं॒स्त॒¦सार॑थिः ||

यमीं॒ द्वा सव॑यसा सप॒र्यतः॑ समा॒ने योना᳚ मिथु॒ना समो᳚कसा |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

दिवा॒ न नक्तं᳚ पलि॒तो युवा᳚जनि पु॒रू चर᳚न्‌ न॒जरो॒ मानु॑षा यु॒गा ||{4/7}{2.2.13.4}{1.144.4}{1.21.5.4}{206, 144, 1576}

य‌म्¦ई॒‌म्¦द्वा¦सऽव॑यसा¦स॒प॒र्यतः॑¦स॒मा॒ने¦योना᳚¦मि॒थु॒ना¦स‌म्ऽओ᳚कसा |
दिवा᳚¦न¦नक्त᳚‌म्¦प॒लि॒तः¦युवा᳚¦अ॒ज॒नि॒¦पु॒रु¦चर॑न्¦अ॒जरः॑¦मानु॑षा¦यु॒गा ||

तमीं᳚ हिन्वन्ति धी॒तयो॒ दश॒ व्रिशो᳚ दे॒वं मर्ता᳚स ऊ॒तये᳚ हवामहे |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

धनो॒रधि॑ प्र॒वत॒ आ स ऋ᳚ण्वत्यभि॒व्रज॑द्भिर्व॒युना॒ नवा᳚धित ||{5/7}{2.2.13.5}{1.144.5}{1.21.5.5}{207, 144, 1577}

त‌म्¦ई॒‌म्¦हि॒न्व॒न्ति॒¦धी॒तयः॑¦दश॑¦व्रिशः॑¦दे॒व‌म्¦मर्ता᳚सः¦ऊ॒तये᳚¦ह॒वा॒म॒हे॒ |
धनोः᳚¦अधि॑¦प्र॒ऽवतः॑¦आ¦सः¦ऋ॒ण्व॒ति॒¦अ॒भि॒व्रज॑त्ऽभिः¦व॒युना᳚¦नवा᳚¦अ॒धि॒त॒ ||

त्वं ह्य॑ग्ने दि॒व्यस्य॒ राज॑सि॒ त्वं पार्थि॑वस्य पशु॒पा, इ॑व॒ त्मना᳚ |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

एनी᳚ त ए॒ते बृ॑ह॒ती, अ॑भि॒श्रिया᳚ हिर॒ण्ययी॒ वक्व॑री ब॒र्हिरा᳚शाते ||{6/7}{2.2.13.6}{1.144.6}{1.21.5.6}{208, 144, 1578}

त्व‌म्¦हि¦अ॒ग्ने॒¦दि॒व्यस्य॑¦राज॑सि¦त्व‌म्¦पार्थि॑वस्य¦प॒शु॒पाःऽ‌इ᳚व¦त्मना᳚ |
एनी॒ इति॑¦ते॒¦ए॒ते इति॑¦बृ॒ह॒ती इति॑¦अ॒भि॒ऽश्रिया᳚¦हि॒र॒ण्ययी॒ इति॑¦वक्व॑री॒ इति॑¦ब॒र्हिः¦आ॒शा॒ते॒ इति॑ ||

अग्ने᳚ जु॒षस्व॒ प्रति॑ हर्य॒ तद्वचो॒ मन्द्र॒ स्वधा᳚व॒ ऋत॑जात॒ सुक्र॑तो |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

यो वि॒श्वतः॑ प्र॒त्यङ्ङसि॑ दर्श॒तो र॒ण्वः संदृ॑ष्टौ पितु॒माँ, इ॑व॒ क्षयः॑ ||{7/7}{2.2.13.7}{1.144.7}{1.21.5.7}{209, 144, 1579}

अग्ने᳚¦जु॒षस्व॑¦प्रति॑¦ह॒र्य॒¦तत्¦वचः॑¦मन्द्र॑¦स्वधा᳚ऽवः¦ऋत॑ऽजात¦सुक्र॑तो॒ इति॒ सुऽक्र॑तो |
यः¦वि॒श्वतः॑¦प्र॒त्यङ्¦असि॑¦द॒र्श॒तः¦र॒ण्वः¦स‌म्ऽदृ॑ष्टौ¦पि॒तु॒मान्ऽ‌इ᳚व¦क्षयः॑ ||

[24] तंपृच्छतेति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निर्जगतीअंत्यात्रिष्टुप् |
तं पृ॑च्छता॒ स ज॑गामा॒ स वे᳚द॒ स चि॑कि॒त्वाँ, ई᳚यते॒ सा न्वी᳚यते |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

तस्मि᳚न्‌ त्सन्ति प्र॒शिष॒स्तस्मि᳚न्नि॒ष्टयः॒ स वाज॑स्य॒ शव॑सः शु॒ष्मिण॒स्पतिः॑ ||{1/5}{2.2.14.1}{1.145.1}{1.21.6.1}{210, 145, 1580}

त‌म्¦पृ॒च्छ॒त॒¦सः¦ज॒गा॒म॒¦सः¦वे॒द॒¦सः¦चि॒कि॒त्वान्¦ई॒य॒ते॒¦सः¦नु¦ई॒य॒ते॒ |
तस्मि॑न्¦स॒न्ति॒¦प्र॒ऽशिषः॑¦तस्मि॑न्¦इ॒ष्टयः॑¦सः¦वाज॑स्य¦शव॑सः¦शु॒ष्मिणः॑¦पतिः॑ ||

तमित्‌ पृ॑च्छन्ति॒ न सि॒मो वि पृ॑च्छति॒ स्वेने᳚व॒ धीरो॒ मन॑सा॒ यदग्र॑भीत् |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

न मृ॑ष्यते प्रथ॒मं नाप॑रं॒ वचो॒ऽस्य क्रत्वा᳚ सचते॒, अप्र॑दृपितः ||{2/5}{2.2.14.2}{1.145.2}{1.21.6.2}{211, 145, 1581}

त‌म्¦इत्¦पृ॒च्छ॒न्ति॒¦न¦सि॒मः¦वि¦पृ॒च्छ॒ति॒¦स्वेन॑ऽव¦धीरः॑¦मन॑सा¦यत्¦अग्र॑भीत् |
न¦मृ॒ष्य॒ते॒¦प्र॒थ॒म‌म्¦न¦अप॑र‌म्¦वचः॑¦अ॒स्य¦क्रत्वा᳚¦स॒च॒ते॒¦अप्र॑ऽदृपितः ||

तमिद्‌ ग॑च्छन्ति जु॒ह्व१॑(अ॒)स्तमर्व॑ती॒र्विश्वा॒न्येकः॑ शृणव॒द्‌ वचां᳚सि मे |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

पु॒रु॒प्रै॒षस्ततु॑रिर्यज्ञ॒साध॒नोऽच्छि॑द्रोतिः॒ शिशु॒राद॑त्त॒ सं रभः॑ ||{3/5}{2.2.14.3}{1.145.3}{1.21.6.3}{212, 145, 1582}

त‌म्¦इत्¦ग॒च्छ॒न्ति॒¦जु॒ह्वः॑¦त‌म्¦अर्व॑तीः¦विश्वा᳚नि¦एकः॑¦शृ॒ण॒व॒त्¦वचां᳚सि¦मे॒ |
पु॒रु॒ऽप्रै॒षः¦ततु॑रिः¦य॒ज्ञ॒ऽसाध॑नः¦अच्छि॑द्रऽऊतिः¦शिशुः॑¦आ¦अ॒द॒त्त॒¦स‌म्¦रभः॑ ||

उ॒प॒स्थायं᳚ चरति॒ यत्‌ स॒मार॑त स॒द्यो जा॒तस्त॑त्सार॒ युज्ये᳚भिः |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अ॒भि श्वा॒न्तं मृ॑शते ना॒न्द्ये᳚ मु॒दे यदीं॒ गच्छ᳚न्‌ त्युश॒तीर॑पिष्ठि॒तम् ||{4/5}{2.2.14.4}{1.145.4}{1.21.6.4}{213, 145, 1583}

उ॒प॒ऽस्थाय᳚‌म्¦च॒र॒ति॒¦यत्¦स॒‌म्ऽआर॑त¦स॒द्यः¦जा॒तः¦त॒त्सा॒र॒¦युज्ये᳚भिः |
अ॒भि¦श्वा॒न्त‌म्¦मृ॒श॒ते॒¦ना॒न्द्ये᳚¦मु॒दे¦यत्¦ई॒‌म्¦गच्छ᳚न्ति¦उ॒श॒तीः¦अ॒पि॒ऽस्थि॒त‌म् ||

स ईं᳚ मृ॒गो, अप्यो᳚ वन॒र्गुरुप॑ त्व॒च्यु॑प॒मस्यां॒ नि धा᳚यि |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

व्य॑ब्रवीद्‌ व॒युना॒ मर्त्ये᳚भ्यो॒ऽग्निर्वि॒द्वाँ, ऋ॑त॒चिद्धि स॒त्यः ||{5/5}{2.2.14.5}{1.145.5}{1.21.6.5}{214, 145, 1584}

सः¦ई॒‌म्¦मृ॒गः¦अप्यः॑¦व॒न॒र्गुः¦उप॑¦त्व॒चि¦उ॒प॒ऽमस्या᳚‌म्¦नि¦धा॒यि॒ |
वि¦अ॒ब्र॒वी॒त्¦व॒युना᳚¦मर्त्ये᳚भ्यः¦अ॒ग्निः¦वि॒द्वान्¦ऋ॒त॒ऽचित्¦हि¦स॒त्यः ||

[25] त्रिमूर्धानमिति पंचर्चस्य सूक्तस्यौचथ्यो दीर्घतमाअग्निस्त्रिष्टुप् |
त्रि॒मू॒र्धानं᳚ स॒प्तर॑श्मिं गृणी॒षेऽनू᳚नम॒ग्निं पि॒त्रोरु॒पस्थे᳚ |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

नि॒ष॒त्तम॑स्य॒ चर॑तो ध्रु॒वस्य॒ विश्वा᳚ दि॒वो रो᳚च॒नाप॑प्रि॒वांस᳚म् ||{1/5}{2.2.15.1}{1.146.1}{1.21.7.1}{215, 146, 1585}

त्रि॒ऽमू॒र्धान᳚‌म्¦स॒प्तऽर॑श्मि‌म्¦गृ॒णी॒षे॒¦अनू᳚न‌म्¦अ॒ग्नि‌म्¦पि॒त्रोः¦उ॒पऽस्थे᳚ |
नि॒ऽस॒त्त‌म्¦अ॒स्य॒¦चर॑तः¦ध्रु॒वस्य॑¦विश्वा᳚¦दि॒वः¦रो॒च॒ना¦आ॒प॒प्रि॒ऽवांस᳚‌म् ||

उ॒क्षा म॒हाँ, अ॒भि व॑वक्ष एने, अ॒जर॑स्तस्थावि॒तऊ᳚तिरृ॒ष्वः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

उ॒र्व्याः प॒दो नि द॑धाति॒ सानौ᳚ रि॒हन्त्यूधो᳚, अरु॒षासो᳚, अस्य ||{2/5}{2.2.15.2}{1.146.2}{1.21.7.2}{216, 146, 1586}

उ॒क्षा¦म॒हान्¦अ॒भि¦व॒व॒क्षे॒¦ए॒ने॒ इति॑¦अ॒जरः॑¦त॒स्थौ॒¦इ॒तःऽऊ᳚तिः¦ऋ॒ष्वः |
उ॒र्व्याः¦प॒दः¦नि¦द॒धा॒ति॒¦सानौ᳚¦रि॒हन्ति॑¦ऊधः॑¦अ॒रु॒षासः॑¦अ॒स्य॒ ||

स॒मा॒नं व॒त्सम॒भि सं॒चर᳚न्ती॒ विष्व॑ग्धे॒नू वि च॑रतः सु॒मेके᳚ |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

अ॒न॒प॒वृ॒ज्याँ, अध्व॑नो॒ मिमा᳚ने॒ विश्वा॒न्‌ केताँ॒, अधि॑ म॒हो दधा᳚ने ||{3/5}{2.2.15.3}{1.146.3}{1.21.7.3}{217, 146, 1587}

स॒मा॒न‌म्¦व॒त्स‌म्¦अ॒भि¦सं॒चर᳚न्ती॒ इति॑ स॒‌म्ऽचर᳚न्ती¦विष्व॑क्¦धे॒नू इति॑¦वि¦च॒र॒तः॒¦सु॒मेके॒ इति॑ सु॒ऽमेके᳚ |
अ॒न॒प॒ऽवृ॒ज्यान्¦अध्व॑नः¦मिमा᳚ने॒ इति॑¦विश्वा᳚न्¦केता᳚न्¦अधि॑¦म॒हः¦दधा᳚ने॒ इति॑ ||

धीरा᳚सः प॒दं क॒वयो᳚ नयन्ति॒ नाना᳚ हृ॒दा रक्ष॑माणा, अजु॒र्यम् |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

सिषा᳚सन्तः॒ पर्य॑पश्यन्त॒ सिन्धु॑मा॒विरे᳚भ्यो, अभव॒त्‌ सूर्यो॒ नॄन् ||{4/5}{2.2.15.4}{1.146.4}{1.21.7.4}{218, 146, 1588}

धीरा᳚सः¦प॒द‌म्¦क॒वयः॑¦न॒य॒न्ति॒¦नाना᳚¦हृ॒दा¦रक्ष॑माणाः¦अ॒जु॒र्य‌म् |
सिसा᳚सन्तः¦परि॑¦अ॒प॒श्य॒न्त॒¦सिन्धु᳚‌म्¦आ॒विः¦ए॒भ्यः॒¦अ॒भ॒व॒त्¦सूर्यः॑¦नॄन् ||

दि॒दृ॒क्षेण्यः॒ परि॒ काष्ठा᳚सु॒ जेन्य॑ ई॒ळेन्यो᳚ म॒हो, अर्भा᳚य जी॒वसे᳚ |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

पु॒रु॒त्रा यदभ॑व॒त्‌ सूरहै᳚भ्यो॒ गर्भे᳚भ्यो म॒घवा᳚ वि॒श्वद॑र्शतः ||{5/5}{2.2.15.5}{1.146.5}{1.21.7.5}{219, 146, 1589}

दि॒दृ॒क्षेण्यः॑¦परि॑¦काष्ठा᳚सु¦जेन्यः॑¦ई॒ळेन्यः॑¦म॒हः¦अर्भा᳚य¦जी॒वसे᳚ |
पु॒रु॒ऽत्रा¦यत्¦अभ॑वत्¦सूः¦अह॑¦ए॒भ्यः॒¦गर्भे᳚भ्यः¦म॒घऽवा᳚¦वि॒श्वऽद॑र्शतः ||

[26] कथातइतिपंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्नित्रिष्टुप् |
क॒था ते᳚, अग्ने शु॒चय᳚न्त आ॒योर्द॑दा॒शुर्वाजे᳚भिराशुषा॒णाः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

उ॒भे यत्तो॒के तन॑ये॒ दधा᳚ना, ऋ॒तस्य॒ साम᳚न्‌ र॒णय᳚न्त दे॒वाः ||{1/5}{2.2.16.1}{1.147.1}{1.21.8.1}{220, 147, 1590}

क॒था¦ते॒¦अ॒ग्ने॒¦शु॒चय᳚न्तः¦आ॒योः¦द॒दा॒शुः¦वाजे᳚भिः¦आ॒शु॒षा॒णाः |
उ॒भे इति॑¦यत्¦तो॒के इति॑¦तन॑ये¦दधा᳚नाः¦ऋ॒तस्य॑¦साम॑न्¦र॒णय᳚न्त¦दे॒वाः ||

बोधा᳚ मे, अ॒स्य वच॑सो यविष्ठ॒ मंहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

पीय॑ति त्वो॒, अनु॑ त्वो गृणाति व॒न्दारु॑स्ते त॒न्वं᳚ वन्दे, अग्ने ||{2/5}{2.2.16.2}{1.147.2}{1.21.8.2}{221, 147, 1591}

बोध॑¦मे॒¦अ॒स्य¦वच॑सः¦य॒वि॒ष्ठ॒¦मंहि॑ष्ठस्य¦प्रऽभृ॑तस्य¦स्व॒धा॒ऽवः॒ |
पीय॑ति¦त्वः॒¦अनु॑¦त्वः॒¦गृ॒णा॒ति॒¦व॒न्दारुः॑¦ते॒¦त॒न्व᳚‌म्¦व॒न्दे॒¦अ॒ग्ने॒ ||

ये पा॒यवो᳚ मामते॒यं ते᳚, अग्ने॒ पश्य᳚न्तो, अ॒न्धं दु॑रि॒तादर॑क्षन् |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

र॒रक्ष॒ तान्‌ त्सु॒कृतो᳚ वि॒श्ववे᳚दा॒ दिप्स᳚न्त॒ इद्‌ रि॒पवो॒ नाह॑ देभुः ||{3/5}{2.2.16.3}{1.147.3}{1.21.8.3}{222, 147, 1592}

ये¦पा॒यवः॑¦मा॒म॒ते॒य‌म्¦ते॒¦अ॒ग्ने॒¦पश्य᳚न्तः¦अ॒न्ध‌म्¦दुः॒ऽ‌इ॒तात्¦अर॑क्षन् |
र॒रक्ष॑¦तान्¦सु॒ऽकृतः॑¦वि॒श्वऽवे᳚दाः¦दिप्स᳚न्तः¦इत्¦रि॒पवः॑¦न¦अह॑¦दे॒भुः॒ ||

यो नो᳚, अग्ने॒, अर॑रिवाँ, अघा॒युर॑राती॒वा म॒र्चय॑ति द्व॒येन॑ |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

मन्त्रो᳚ गु॒रुः पुन॑रस्तु॒ सो, अ॑स्मा॒, अनु॑ मृक्षीष्ट त॒न्वं᳚ दुरु॒क्तैः ||{4/5}{2.2.16.4}{1.147.4}{1.21.8.4}{223, 147, 1593}

यः¦नः॒¦अ॒ग्ने॒¦अर॑रिऽवान्¦अ॒घ॒ऽयुः¦अ॒रा॒ति॒ऽवा¦म॒र्चय॑ति¦द्व॒येन॑ |
मन्त्रः॑¦गु॒रुः¦पुनः॑¦अ॒स्तु॒¦सः¦अ॒स्मै॒¦अनु॑¦मृ॒क्षी॒ष्ट॒¦त॒न्व᳚‌म्¦दुः॒।औ॒क्तैः ||

उ॒त वा॒ यः स॑हस्य प्रवि॒द्वान् मर्तो॒ मर्तं᳚ म॒र्चय॑ति द्व॒येन॑ |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

अतः॑ पाहि स्तवमान स्तु॒वन्त॒मग्ने॒ माकि᳚र्नो दुरि॒ताय॑ धायीः ||{5/5}{2.2.16.5}{1.147.5}{1.21.8.5}{224, 147, 1594}

उ॒त¦वा॒¦यः¦स॒ह॒स्य॒¦प्र॒ऽवि॒द्वान्¦मर्तः॑¦मर्त᳚‌म्¦म॒र्चय॑ति¦द्व॒येन॑ |
अतः॑¦पा॒हि॒¦स्त॒व॒मा॒न॒¦स्तु॒वन्त᳚‌म्¦अग्ने᳚¦माकिः॑¦नः॒¦दुः॒ऽ‌इ॒ताय॑¦धा॒यीः॒ ||

[27] मथीद्यदीमिति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निस्त्रिष्टुप् |
मथी॒द्‌ यदीं᳚ वि॒ष्टो मा᳚त॒रिश्वा॒ होता᳚रं वि॒श्वाप्सुं᳚ वि॒श्वदे᳚व्यम् |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

नि यं द॒धुर्म॑नु॒ष्या᳚सु वि॒क्षु स्व१॑(अ॒)र्ण चि॒त्रं वपु॑षे वि॒भाव᳚म् ||{1/5}{2.2.17.1}{1.148.1}{1.21.9.1}{225, 148, 1595}

मथी᳚त्¦यत्¦ई॒‌म्¦वि॒ष्टः¦मा॒त॒रिश्वा᳚¦होता᳚र‌म्¦वि॒श्व।आ॑प्सु‌म्¦वि॒श्वऽदे᳚व्य‌म् |
नि¦य‌म्¦द॒धुः¦म॒नु॒ष्या᳚सु¦वि॒क्षु¦स्वः॑¦न¦चि॒त्र‌म्¦वपु॑षे¦वि॒भाऽव᳚‌म् ||

द॒दा॒नमिन्न द॑दभन्त॒ मन्मा॒ग्निर्वरू᳚थं॒ मम॒ तस्य॑ चाकन् |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

जु॒षन्त॒ विश्वा᳚न्यस्य॒ कर्मोप॑स्तुतिं॒ भर॑माणस्य का॒रोः ||{2/5}{2.2.17.2}{1.148.2}{1.21.9.2}{226, 148, 1596}

द॒दा॒न‌म्¦इत्¦न¦द॒द॒भ॒न्त॒¦मन्म॑¦अ॒ग्निः¦वरू᳚थ‌म्¦मम॑¦तस्य॑ ¦चा॒क॒न् |
जु॒षन्त॑¦विश्वा᳚नि¦अ॒स्य॒¦कर्म॑¦उप॑ऽस्तुति‌म्¦भर॑माणस्य¦का॒रोः ||

नित्ये᳚ चि॒न्नु यं सद॑ने जगृ॒भ्रे प्रश॑स्तिभिर्दधि॒रे य॒ज्ञिया᳚सः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

प्र सू न॑यन्त गृ॒भय᳚न्त इ॒ष्टावश्वा᳚सो॒ न र॒थ्यो᳚ रारहा॒णाः ||{3/5}{2.2.17.3}{1.148.3}{1.21.9.3}{227, 148, 1597}

नित्ये᳚¦चि॒त्¦नु¦य‌म्¦सद॑ने¦ज॒गृ॒भ्रे¦प्रश॑स्तिऽभिः¦द॒धि॒रे¦य॒ज्ञिया᳚सः |
प्र¦सु¦न॒य॒न्त॒¦गृ॒भय᳚न्तः¦इ॒ष्टौ¦अश्वा᳚सः¦न¦र॒थ्यः॑¦र॒र॒हा॒णाः ||

पु॒रूणि॑ द॒स्मो नि रि॑णाति॒ जम्भै॒राद्‌ रो᳚चते॒ वन॒ आ वि॒भावा᳚ |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

आद॑स्य॒ वातो॒, अनु॑ वाति शो॒चिरस्तु॒र्न शर्या᳚मस॒नामनु॒ द्यून् ||{4/5}{2.2.17.4}{1.148.4}{1.21.9.4}{228, 148, 1598}

पु॒रूणि॑¦द॒स्मः¦नि¦रि॒णा॒ति॒¦जम्भैः᳚¦आत्¦रो॒च॒ते॒¦वने᳚¦आ¦वि॒भाऽवा᳚ |
आत्¦अ॒स्य॒¦वातः॑¦अनु॑¦वा॒ति॒¦शो॒चिः¦अस्तुः॑¦न¦शर्या᳚‌म्¦अ॒स॒ना‌म्¦अनु॑¦द्यून् ||

न यं रि॒पवो॒ न रि॑ष॒ण्यवो॒ गर्भे॒ सन्तं᳚ रेष॒णा रे॒षय᳚न्ति |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

अ॒न्धा, अ॑प॒श्या न द॑भन्नभि॒ख्या नित्या᳚स ईं प्रे॒तारो᳚, अरक्षन् ||{5/5}{2.2.17.5}{1.148.5}{1.21.9.5}{229, 148, 1599}

न¦य‌म्¦रि॒पवः॑¦न¦रि॒ष॒ण्यवः॑¦गर्भे᳚¦सन्त᳚‌म्¦रे॒ष॒णाः¦रे॒षय᳚न्ति |
अ॒न्धाः¦अ॒प॒श्याः¦न¦द॒भ॒न्¦अ॒भि॒ऽख्या¦नित्या᳚सः¦ई॒‌म्¦प्रे॒तारः॑¦अ॒र॒क्ष॒न् ||

[28] महः सरायइति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निर्विराट् |
म॒हः स रा॒य एष॑ते॒ पति॒र्दन्नि॒न इ॒नस्य॒ वसु॑नः प॒द आ |{औचथ्यो दीर्घतमाः | अग्निः | विराट्}

उप॒ ध्रज᳚न्त॒मद्र॑यो वि॒धन्नित् ||{1/5}{2.2.18.1}{1.149.1}{1.21.10.1}{230, 149, 1600}

म॒हः¦सः¦रा॒यः¦आ¦ई॒ष॒ते॒¦पतिः॑¦दन्¦इ॒नः¦इ॒नस्य॑¦वसु॑नः¦प॒दे¦आ | उप॑¦ध्रज᳚न्त‌म्¦अद्र॑यः¦वि॒धन्¦इत् ||

स यो वृषा᳚ न॒रां न रोद॑स्योः॒ श्रवो᳚भि॒रस्ति॑ जी॒वपी᳚तसर्गः |{औचथ्यो दीर्घतमाः | अग्निः | विराट्}

प्र यः स॑स्रा॒णः शि॑श्री॒त योनौ᳚ ||{2/5}{2.2.18.2}{1.149.2}{1.21.10.2}{231, 149, 1601}

सः¦यः¦वृषा᳚¦न॒रा‌म्¦न¦रोद॑स्योः¦श्रवः॑ऽभिः¦अस्ति॑¦जी॒वपी᳚तऽसर्गः | प्र¦यः¦स॒स्रा॒णः¦शि॒श्री॒त¦योनौ᳚ ||

आ यः पुरं॒ नार्मि॑णी॒मदी᳚दे॒दत्यः॑ क॒विर्न॑भ॒न्यो॒३॑(ओ॒) नार्वा᳚ |{औचथ्यो दीर्घतमाः | अग्निः | विराट्}

सूरो॒ न रु॑रु॒क्वाञ्छ॒तात्मा᳚ ||{3/5}{2.2.18.3}{1.149.3}{1.21.10.3}{232, 149, 1602}

आ¦यः¦पुर᳚‌म्¦नार्मि॑णी‌म्¦अदी᳚देत्¦अत्यः॑¦क॒विः¦न॒भ॒न्यः॑¦न¦आर्वा᳚ | सूरः॑¦न¦रु॒रु॒क्वान्¦श॒तऽआ᳚त्मा ||

अ॒भि द्वि॒जन्मा॒ त्री रो᳚च॒नानि॒ विश्वा॒ रजां᳚सि शुशुचा॒नो, अ॑स्थात् |{औचथ्यो दीर्घतमाः | अग्निः | विराट्}

होता॒ यजि॑ष्ठो, अ॒पां स॒धस्थे᳚ ||{4/5}{2.2.18.4}{1.149.4}{1.21.10.4}{233, 149, 1603}

अ॒भि¦द्वि॒ऽजन्मा᳚¦त्री¦रो॒च॒नानि॑¦विश्वा᳚¦रजां᳚सि¦शु॒शु॒चा॒नः¦अ॒स्था॒त् | होता᳚¦यजि॑ष्ठः¦अ॒पा‌म्¦स॒धऽस्थे᳚ ||

अ॒यं स होता॒ यो द्वि॒जन्मा॒ विश्वा᳚ द॒धे वार्या᳚णि श्रव॒स्या |{औचथ्यो दीर्घतमाः | अग्निः | विराट्}

मर्तो॒ यो, अ॑स्मै सु॒तुको᳚ द॒दाश॑ ||{5/5}{2.2.18.5}{1.149.5}{1.21.10.5}{234, 149, 1604}

अ॒य‌म्¦सः¦होता᳚¦यः¦द्वि॒ऽजन्मा᳚¦विश्वा᳚¦द॒धे¦वार्या᳚णि¦श्र॒व॒स्या | मर्तः॑¦यः¦अ॒स्मै॒¦सु॒ऽतुकः॑¦द॒दाश॑ ||

[29] पुरुत्वेति तृचस्य सूक्तस्यौचथ्योदीर्घतमाअग्निरुष्णिक् |
पु॒रु त्वा᳚ दा॒श्वान्‌ वो᳚चे॒ऽरिर॑ग्ने॒ तव॑ स्वि॒दा |{औचथ्यो दीर्घतमाः | अग्निः | उष्णिक्}

तो॒दस्ये᳚व शर॒ण आ म॒हस्य॑ ||{1/3}{2.2.19.1}{1.150.1}{1.21.11.1}{235, 150, 1605}

पु॒रु¦त्वा॒¦दा॒श्वान्¦वो॒चे॒¦अ॒रिः¦अ॒ग्ने॒¦तव॑¦स्वि॒त्¦आ | तो॒दस्य॑ऽ‌इव¦श॒र॒णे¦आ¦म॒हस्य॑ ||

व्य॑नि॒नस्य॑ ध॒निनः॑ प्रहो॒षे चि॒दर॑रुषः |{औचथ्यो दीर्घतमाः | अग्निः | उष्णिक्}

क॒दा च॒न प्र॒जिग॑तो॒, अदे᳚वयोः ||{2/3}{2.2.19.2}{1.150.2}{1.21.11.2}{236, 150, 1606}

वि¦अ॒नि॒नस्य॑¦ध॒निनः॑¦प्र॒ऽहो॒षे¦चि॒त्¦अर॑रुषः | क॒दा¦च॒न¦प्र॒ऽजिग॑तः¦अदे᳚वऽयोः ||

स च॒न्द्रो वि॑प्र॒ मर्त्यो᳚ म॒हो व्राध᳚न्तमो दि॒वि |{औचथ्यो दीर्घतमाः | अग्निः | उष्णिक्}

प्रप्रेत्ते᳚, अग्ने व॒नुषः॑ स्याम ||{3/3}{2.2.19.3}{1.150.3}{1.21.11.3}{237, 150, 1607}

सः¦च॒न्द्रः¦वि॒प्र॒¦मर्त्यः॑¦म॒हः¦व्राध॑न्ऽतमः¦दि॒वि | प्रऽप्र॑¦इत्¦ते॒¦अ॒ग्ने॒¦व॒नुषः॑¦स्या॒म॒ ||

[30] मित्रंनयमिति नवर्चस्य सूक्तस्यौचथ्योदीर्घतमामित्रावरुणावाद्यायामित्रोजगती |
मि॒त्रं न यं शिम्या॒ गोषु॑ ग॒व्यवः॑ स्वा॒ध्यो᳚ वि॒दथे᳚, अ॒प्सु जीज॑नन् |{औचथ्यो दीर्घतमाः | मित्रः | जगती}

अरे᳚जेतां॒ रोद॑सी॒ पाज॑सा गि॒रा प्रति॑ प्रि॒यं य॑ज॒तं ज॒नुषा॒मवः॑ ||{1/9}{2.2.20.1}{1.151.1}{1.21.12.1}{238, 151, 1608}

मि॒त्र‌म्¦न¦य‌म्¦शिम्या᳚¦गोषु॑¦ग॒व्यवः॑¦सु॒ऽआ॒ध्यः॑¦वि॒दथे᳚¦अ॒प्ऽसु¦जीज॑नन् |
अरे᳚जेता‌म्¦रोद॑सी॒ इति॑¦पाज॑सा¦गि॒रा¦प्रति॑¦प्रि॒य‌म्¦य॒ज॒त‌म्¦ज॒नुषा᳚‌म्¦अवः॑ ||

यद्ध॒ त्यद्‌ वां᳚ पुरुमी॒ळ्हस्य॑ सो॒मिनः॒ प्र मि॒त्रासो॒ न द॑धि॒रे स्वा॒भुवः॑ |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती}

अध॒ क्रतुं᳚ विदतं गा॒तुमर्च॑त उ॒त श्रु॑तं वृषणा प॒स्त्या᳚वतः ||{2/9}{2.2.20.2}{1.151.2}{1.21.12.2}{239, 151, 1609}

यत्¦ह॒¦त्यत्¦वा॒‌म्¦पु॒रु॒ऽमी॒ळ्हस्य॑¦सो॒मिनः॑¦प्र¦मि॒त्रासः॑¦न¦द॒धि॒रे¦सु॒ऽआ॒भुवः॑ |
अध॑¦क्रतु᳚‌म्¦वि॒द॒त॒‌म्¦गा॒तु‌म्¦अर्च॑ते¦उ॒त¦श्रु॒त॒‌म्¦वृ॒ष॒णा॒¦प॒स्त्य॑ऽवतः ||

आ वां᳚ भूषन्‌ क्षि॒तयो॒ जन्म॒ रोद॑स्योः प्र॒वाच्यं᳚ वृषणा॒ दक्ष॑से म॒हे |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती}

यदी᳚मृ॒ताय॒ भर॑थो॒ यदर्व॑ते॒ प्र होत्र॑या॒ शिम्या᳚ वीथो, अध्व॒रम् ||{3/9}{2.2.20.3}{1.151.3}{1.21.12.3}{240, 151, 1610}

आ¦वा॒‌म्¦भू॒ष॒न्¦क्षि॒तयः॑¦जन्म॑¦रोद॑स्योः¦प्र॒ऽवाच्य᳚‌म्¦वृ॒ष॒णा॒¦दक्ष॑से¦म॒हे |
यत्¦ई॒‌म्¦ऋ॒ताय॑¦भर॑थः¦यत्¦अर्व॑ते¦प्र¦होत्र॑या¦शिम्या᳚¦वी॒थः॒¦अ॒ध्व॒र‌म् ||

प्र सा क्षि॒तिर॑सुर॒ या महि॑ प्रि॒य ऋता᳚वानावृ॒तमा घो᳚षथो बृ॒हत् |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती}

यु॒वं दि॒वो बृ॑ह॒तो दक्ष॑मा॒भुवं॒ गां न धु॒र्युप॑ युञ्जाथे, अ॒पः ||{4/9}{2.2.20.4}{1.151.4}{1.21.12.4}{241, 151, 1611}

प्र¦सा¦क्षि॒तिः¦अ॒सु॒रा॒¦या¦महि॑¦प्रि॒या¦ऋत॑ऽवानौ¦ऋ॒त‌म्¦आ¦घो॒ष॒थः॒¦बृ॒हत् |
यु॒व‌म्¦दि॒वः¦बृ॒ह॒तः¦दक्ष᳚‌म्¦आ॒ऽभुव᳚‌म्¦गा‌म्¦न¦धु॒रि¦उप॑¦युं॒जा॒थे॒ इति॑¦अ॒पः ||

म॒ही, अत्र॑ महि॒ना वार॑मृण्वथोऽरे॒णव॒स्तुज॒ आ सद्म᳚न्‌ धे॒नवः॑ |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती}

स्वर᳚न्ति॒ ता, उ॑प॒रता᳚ति॒ सूर्य॒मा नि॒म्रुच॑ उ॒षस॑स्तक्व॒वीरि॑व ||{5/9}{2.2.20.5}{1.151.5}{1.21.12.5}{242, 151, 1612}

म॒ही इति॑¦अत्र॑¦म॒हि॒ना¦वार᳚‌म्¦ऋ॒ण्व॒थः॒¦अ॒रे॒णवः॑¦तुजः॑¦आ¦सद्म॑न्¦धे॒नवः॑ |
स्वर᳚न्ति¦ताः¦उ॒प॒रऽता᳚ति¦सूर्य᳚‌म्¦आ¦नि॒ऽम्रुचः॑¦उ॒षसः॑¦त॒क्व॒वीःऽ‌इ᳚व ||

आ वा᳚मृ॒ताय॑ के॒शिनी᳚रनूषत॒ मित्र॒ यत्र॒ वरु॑ण गा॒तुमर्च॑थः |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती}

अव॒ त्मना᳚ सृ॒जतं॒ पिन्व॑तं॒ धियो᳚ यु॒वं विप्र॑स्य॒ मन्म॑नामिरज्यथः ||{6/9}{2.2.21.1}{1.151.6}{1.21.12.6}{243, 151, 1613}

आ¦वा॒‌म्¦ऋ॒ताय॑¦के॒शिनीः᳚¦अ॒नू॒ष॒त॒¦मित्र॑¦यत्र॑¦वरु॑ण¦गा॒तु‌म्¦अर्च॑थः |
अव॑¦त्मना᳚¦सृ॒जत᳚‌म्¦पिन्व॑त‌म्¦धियः॑¦यु॒व‌म्¦विप्र॑स्य¦मन्म॑ना‌म्¦इ॒र॒ज्य॒थः॒ ||

यो वां᳚ य॒ज्ञैः श॑शमा॒नो ह॒ दाश॑ति क॒विर्होता॒ यज॑ति मन्म॒साध॑नः |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती}

उपाह॒ तं गच्छ॑थो वी॒थो, अ॑ध्व॒रमच्छा॒ गिरः॑ सुम॒तिं ग᳚न्तमस्म॒यू ||{7/9}{2.2.21.2}{1.151.7}{1.21.12.7}{244, 151, 1614}

यः¦वा॒‌म्¦य॒ज्ञैः¦श॒श॒मा॒नः¦ह॒¦दाश॑ति¦क॒विः¦होता᳚¦यज॑ति¦म॒न्म॒ऽसाध॑नः |
उप॑¦अह॑¦त‌म्¦गच्छ॑थः¦वी॒थः¦अ॒ध्व॒र‌म्¦अच्छ॑¦गिरः॑¦सु॒ऽम॒ति‌म्¦ग॒न्त॒‌म्¦अ॒स्म॒यू इत्य॑स्म॒ऽयू ||

यु॒वां य॒ज्ञैः प्र॑थ॒मा गोभि॑रञ्जत॒ ऋता᳚वाना॒ मन॑सो॒ न प्रयु॑क्तिषु |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती}

भर᳚न्ति वां॒ मन्म॑ना सं॒यता॒ गिरोऽदृ॑प्यता॒ मन॑सा रे॒वदा᳚शाथे ||{8/9}{2.2.21.3}{1.151.8}{1.21.12.8}{245, 151, 1615}

यु॒वा‌म्¦य॒ज्ञैः¦प्र॒थ॒मा¦गोभिः॑¦अं॒ज॒ते॒¦ऋत॑ऽवाना¦मन॑सः¦न¦प्रऽयु॑क्तिषु |
भर᳚न्ति¦वा॒‌म्¦मन्म॑ना¦स॒‌म्ऽयता᳚¦गिरः॑¦अदृ॑प्यता¦मन॑सा¦रे॒वत्¦आ॒शा॒थे॒ इति॑ ||

रे॒वद्‌ वयो᳚ दधाथे रे॒वदा᳚शाथे॒ नरा᳚ मा॒याभि॑रि॒तऊ᳚ति॒ माहि॑नम् |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती}

न वां॒ द्यावोऽह॑भि॒र्नोत सिन्ध॑वो॒ न दे᳚व॒त्वं प॒णयो॒ नान॑शुर्म॒घम् ||{9/9}{2.2.21.4}{1.151.9}{1.21.12.9}{246, 151, 1616}

रे॒वत्¦वयः॑¦द॒धा॒थे॒ इति॑¦रे॒वत्¦आ॒शा॒थे॒ इति॑¦नरा᳚¦मा॒याभिः॑¦इ॒तःऽऊ᳚ति¦माहि॑न‌म् |
न¦वा॒‌म्¦द्यावः॑¦अह॑ऽभिः¦न¦उ॒त¦सिन्ध॑वः¦न¦दे॒व॒ऽत्व‌म्¦प॒णयः॑¦न¦आ॒न॒शुः॒¦म॒घ‌म् ||

[31] युवंवस्त्राणीति सप्तर्चस्य सूक्तस्यौचथ्योदीर्घतमामित्रावरुणौत्रिष्टुप् |
यु॒वं वस्त्रा᳚णि पीव॒सा व॑साथे यु॒वोरच्छि॑द्रा॒ मन्त॑वो ह॒ सर्गाः᳚ |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

अवा᳚तिरत॒मनृ॑तानि॒ विश्व॑ ऋ॒तेन॑ मित्रावरुणा सचेथे ||{1/7}{2.2.22.1}{1.152.1}{1.21.13.1}{247, 152, 1617}

यु॒व‌म्¦वस्त्रा᳚णि¦पी॒व॒सा¦व॒सा॒थे॒ इति॑¦यु॒वोः¦अच्छि॑द्राः¦मन्त॑वः¦ह॒¦सर्गाः᳚ |
अव॑¦अ॒ति॒र॒त॒‌म्¦अनृ॑तानि¦विश्वा᳚¦ऋ॒तेन॑¦मि॒त्रा॒व॒रु॒णा॒¦स॒चे॒थे॒ इति॑ ||

ए॒तच्च॒न त्वो॒ वि चि॑केतदेषां स॒त्यो मन्त्रः॑ कविश॒स्त ऋघा᳚वान् |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

त्रि॒रश्रिं᳚ हन्ति॒ चतु॑रश्रिरु॒ग्रो दे᳚व॒निदो᳚ ह प्र॑थ॒मा, अ॑जूर्यन् ||{2/7}{2.2.22.2}{1.152.2}{1.21.13.2}{248, 152, 1618}

ए॒तत्¦च॒न¦त्वः॒¦वि¦चि॒के॒त॒त्¦ए॒षा॒‌म्¦स॒त्यः¦मन्त्रः॑¦क॒वि॒ऽश॒स्तः¦ऋघा᳚वान् |
त्रिः॒।आश्रि᳚‌म्¦ह॒न्ति॒¦चतुः॑।आश्रिः¦उ॒ग्रः¦दे॒व॒ऽनिदः॑¦ह॒¦प्र॒थ॒माः¦अ॒जू॒र्य॒न् ||

अ॒पादे᳚ति प्रथ॒मा प॒द्वती᳚नां॒ कस्तद्‌ वां᳚ मित्रावरु॒णा चि॑केत |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

गर्भो᳚ भा॒रं भ॑र॒त्या चि॑दस्य ऋ॒तं पिप॒र्त्यनृ॑तं॒ नि ता᳚रीत् ||{3/7}{2.2.22.3}{1.152.3}{1.21.13.3}{249, 152, 1619}

अ॒पात्¦ए॒ति॒¦प्र॒थ॒मा¦प॒त्ऽवती᳚ना‌म्¦कः¦तत्¦वा॒‌म्¦मि॒त्रा॒व॒रु॒णा॒¦आ¦चि॒के॒त॒ |
गर्भः॑¦भा॒र‌म्¦भ॒र॒ति॒¦आ¦चि॒त्¦अ॒स्य॒¦ऋ॒त‌म्¦पिप॑र्ति¦अनृ॑त‌म्¦नि¦ता॒रीत् ||

प्र॒यन्त॒मित्‌ परि॑ जा॒रं क॒नीनां॒ पश्या᳚मसि॒ नोप॑नि॒पद्य॑मानम् |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

अन॑वपृग्णा॒ वित॑ता॒ वसा᳚नं प्रि॒यं मि॒त्रस्य॒ वरु॑णस्य॒ धाम॑ ||{4/7}{2.2.22.4}{1.152.4}{1.21.13.4}{250, 152, 1620}

प्र॒ऽयन्त᳚‌म्¦इत्¦परि॑¦जा॒र‌म्¦क॒नीना᳚‌म्¦पश्या᳚मसि¦न¦उ॒प॒ऽनि॒पद्य॑मान‌म् |
अन॑वऽपृग्णा¦विऽत॑ता¦वसा᳚न‌म्¦प्रि॒य‌म्¦मि॒त्रस्य॑¦वरु॑णस्य¦धाम॑ ||

अ॒न॒श्वो जा॒तो, अ॑नभी॒शुरर्वा॒ कनि॑क्रदत्‌ पतयदू॒र्ध्वसा᳚नुः |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

अ॒चित्तं॒ ब्रह्म॑ जुजुषु॒र्युवा᳚नः॒ प्र मि॒त्रे धाम॒ वरु॑णे गृ॒णन्तः॑ ||{5/7}{2.2.22.5}{1.152.5}{1.21.13.5}{251, 152, 1621}

अ॒न॒श्वः¦जा॒तः¦अ॒न॒भी॒शुः¦अर्वा᳚¦कनि॑क्रदत्¦प॒त॒य॒त्¦ऊ॒र्ध्वऽसा᳚नुः |
अ॒चित्त᳚‌म्¦ब्रह्म॑¦जु॒जु॒षुः॒¦युवा᳚नः¦प्र¦मि॒त्रे¦धाम॑¦वरु॑णे¦गृ॒णन्तः॑ ||

आ धे॒नवो᳚ मामते॒यमव᳚न्तीर्ब्रह्म॒प्रियं᳚ पीपय॒न्‌ त्सस्मि॒न्नूध॑न् |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

पि॒त्वो भि॑क्षेत व॒युना᳚नि वि॒द्वाना॒साविवा᳚स॒न्नदि॑तिमुरुष्येत् ||{6/7}{2.2.22.6}{1.152.6}{1.21.13.6}{252, 152, 1622}

आ¦धे॒नवः॑¦मा॒म॒ते॒य‌म्¦अव᳚न्तीः¦ब्र॒ह्म॒ऽप्रिय᳚‌म्¦पी॒प॒य॒न्¦सस्मि॑न्¦ऊध॑न् |
पि॒त्वः¦भि॒क्षे॒त॒¦व॒युना᳚नि¦वि॒द्वान्¦आ॒सा¦आ॒ऽविवा᳚सन्¦अदि॑ति‌म्¦उ॒रु॒ष्ये॒त् ||

आवां᳚ मित्रावरुणा ह॒व्यजु॑ष्टिं॒ नम॑सा देवा॒वव॑सा ववृत्याम् |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु सह्या, अ॒स्माकं᳚ वृ॒ष्टिर्दि॒व्या सु॑पा॒रा ||{7/7}{2.2.22.7}{1.152.7}{1.21.13.7}{253, 152, 1623}

आ¦वा॒‌म्¦मि॒त्रा॒व॒रु॒णा॒¦ह॒व्यऽजु॑ष्टि‌म्¦नम॑सा¦दे॒वौ॒¦अव॑सा¦व॒वृ॒त्या॒‌म् |
अ॒स्माक᳚‌म्¦ब्रह्म॑¦पृत॑नासु¦स॒ह्याः॒¦अ॒स्माक᳚‌म्¦वृ॒ष्टिः¦दि॒व्या¦सु॒ऽपा॒रा ||

[32] यजामहइति चतुरृचस्य सूक्तस्यौचथ्योदीर्घतमामित्रावरुणौत्रिष्टुप् |
यजा᳚महे वां म॒हः स॒जोषा᳚ ह॒व्येभि᳚र्मित्रावरुणा॒ नमो᳚भिः |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

घृ॒तैर्घृ॑तस्नू॒, अध॒ यद्‌ वा᳚म॒स्मे, अ॑ध्व॒र्यवो॒ न धी॒तिभि॒र्भर᳚न्ति ||{1/4}{2.2.23.1}{1.153.1}{1.21.14.1}{254, 153, 1624}

यजा᳚महे¦वा॒‌म्¦म॒हः¦स॒ऽजोषाः᳚¦ह॒व्येभिः॑¦मि॒त्रा॒व॒रु॒णा॒¦नमः॑ऽभिः |
घृ॒तैः¦घृ॒त॒स्नू॒ इति॑ घृतऽस्नू¦अध॑¦यत्¦वा॒‌म्¦अ॒स्मे इति॑¦अ॒ध्व॒र्यवः॑¦न¦धी॒तिऽभिः॑¦भर᳚न्ति ||

प्रस्तु॑तिर्वां॒ धाम॒ न प्रयु॑क्ति॒रया᳚मि मित्रावरुणा सुवृ॒क्तिः |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

अ॒नक्ति॒ यद्‌ वां᳚ वि॒दथे᳚षु॒ होता᳚ सु॒म्नं वां᳚ सू॒रिर्वृ॑षणा॒विय॑क्षन् ||{2/4}{2.2.23.2}{1.153.2}{1.21.14.2}{255, 153, 1625}

प्रऽस्तु॑तिः¦वा॒‌म्¦धाम॑¦न¦प्रऽयु॑क्तिः¦अया᳚मि¦मि॒त्रा॒व॒रु॒णा॒¦सु॒ऽवृ॒क्तिः |
अ॒नक्ति॑¦यत्¦वा॒‌म्¦वि॒दथे᳚षु¦होता᳚¦सु॒म्न‌म्¦वा॒‌म्¦सू॒रिः¦वृ॒ष॒णौ॒¦इय॑क्षन् ||

पी॒पाय॑ धे॒नुरदि॑तिरृ॒ताय॒ जना᳚य मित्रावरुणा हवि॒र्दे |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

हि॒नोति॒ यद्‌ वां᳚ वि॒दथे᳚ सप॒र्यन् त्स रा॒तह᳚व्यो॒ मानु॑षो॒ न होता᳚ ||{3/4}{2.2.23.3}{1.153.3}{1.21.14.3}{256, 153, 1626}

पी॒पाय॑¦धे॒नुः¦अदि॑तिः¦ऋ॒ताय॑¦जना᳚य¦मि॒त्रा॒व॒रु॒णा॒¦ह॒विः॒ऽदे |
हि॒नोति॑¦यत्¦वा॒‌म्¦वि॒दथे᳚¦स॒प॒र्यन्¦सः¦रा॒तऽह᳚व्यः¦मानु॑षः¦न¦होता᳚ ||

उ॒त वां᳚ वि॒क्षु मद्या॒स्वन्धो॒ गाव॒ आप॑श्च पीपयन्त दे॒वीः |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

उ॒तो नो᳚, अ॒स्य पू॒र्व्यः पति॒र्दन् वी॒तं पा॒तं पय॑स उ॒स्रिया᳚याः ||{4/4}{2.2.23.4}{1.153.4}{1.21.14.4}{257, 153, 1627}

उ॒त¦वा॒‌म्¦वि॒क्षु¦मद्या᳚सु¦अन्धः॑¦गावः॑¦आपः॑¦च॒¦पी॒प॒य॒न्त॒¦दे॒वीः |
उ॒तो इति॑¦नः॒¦अ॒स्य¦पू॒र्व्यः¦पतिः॑¦दन्¦वी॒त‌म्¦पा॒त‌म्¦पय॑सः¦उ॒स्रिया᳚याः ||

[33] विष्णोर्नुकमिति षडृचस्य सूक्तस्यौचध्योदीर्घतमा विष्णुस्त्रिष्टुप् |
विष्णो॒र्नु कं᳚ वी॒र्या᳚णि॒ प्र वो᳚चं॒ यः पार्थि॑वानि विम॒मे रजां᳚सि |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्}

यो, अस्क॑भाय॒दुत्त॑रं स॒धस्थं᳚ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः ||{1/6}{2.2.24.1}{1.154.1}{1.21.15.1}{258, 154, 1628}

विष्णोः᳚¦नु¦क॒‌म्¦वी॒र्या᳚णि¦प्र¦वो॒च॒‌म्¦यः¦पार्थि॑वानि¦वि॒ऽम॒मे¦रजां᳚सि |
यः¦अस्क॑भायत्¦उत्ऽत॑र‌म्¦स॒धऽस्थ᳚‌म्¦वि॒ऽच॒क्र॒मा॒णः¦त्रे॒धा¦ऊ॒रु॒ऽगा॒यः ||

प्र तद्‌ विष्णुः॑ स्तवते वी॒र्ये᳚ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्}

यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा᳚ ||{2/6}{2.2.24.2}{1.154.2}{1.21.15.2}{259, 154, 1629}

प्र¦तत्¦विष्णुः॑¦स्त॒व॒ते॒¦वी॒र्ये᳚ण¦मृ॒गः¦न¦भी॒मः¦कु॒च॒रः¦गि॒रि॒ऽस्थाः |
यस्य॑¦उ॒रुषु॑¦त्रि॒षु¦वि॒ऽक्रम॑णेषु¦अ॒धि॒ऽक्षि॒यन्ति॑¦भुव॑नानि¦विश्वा᳚ ||

प्र विष्ण॑वे शू॒षमे᳚तु॒ मन्म॑ गिरि॒क्षित॑ उरुगा॒याय॒ वृष्णे᳚ |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्}

य इ॒दं दी॒र्घं प्रय॑तं स॒धस्थ॒मेको᳚ विम॒मे त्रि॒भिरित्‌ प॒देभिः॑ ||{3/6}{2.2.24.3}{1.154.3}{1.21.15.3}{260, 154, 1630}

प्र¦विष्ण॑वे¦शू॒ष‌म्¦ए॒तु॒¦मन्म॑¦गि॒रि॒ऽक्षिते᳚¦उ॒रु॒ऽगा॒याय॑¦वृष्णे᳚ |
यः¦इ॒द‌म्¦दी॒र्घ‌म्¦प्रऽय॑त‌म्¦स॒धऽस्थ᳚‌म्¦एकः॑¦वि॒ऽम॒मे¦त्रि॒ऽभिः¦इत्¦प॒देऽभिः॑ ||

यस्य॒ त्री पू॒र्णा मधु॑ना प॒दान्यक्षी᳚यमाणा स्व॒धया॒ मद᳚न्ति |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्}

य उ॑ त्रि॒धातु॑ पृथि॒वीमु॒त द्यामेको᳚ दा॒धार॒ भुव॑नानि॒ विश्वा᳚ ||{4/6}{2.2.24.4}{1.154.4}{1.21.15.4}{261, 154, 1631}

यस्य॑¦त्री¦पू॒र्णा¦मधु॑ना¦प॒दानि॑¦अक्षी᳚यमाणा¦स्व॒धया᳚¦मद᳚न्ति |
यः¦ऊँ॒ इति॑¦त्रि॒ऽधातु॑¦पृ॒थि॒वी‌म्¦उ॒त¦द्या‌म्¦एकः॑¦दा॒धार॑¦भुव॑नानि¦विश्वा᳚ ||

तद॑स्य प्रि॒यम॒भि पाथो᳚, अश्यां॒ नरो॒ यत्र॑ देव॒यवो॒ मद᳚न्ति |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्}

उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था विष्णोः᳚ प॒दे प॑र॒मे मध्व॒ उत्सः॑ ||{5/6}{2.2.24.5}{1.154.5}{1.21.15.5}{262, 154, 1632}

तत्¦अ॒स्य॒¦प्रि॒य‌म्¦अ॒भि¦पाथः॑¦अ॒श्या॒‌म्¦नरः॑¦यत्र॑¦दे॒व॒ऽयवः॑¦मद᳚न्ति |
उ॒रु॒ऽक्र॒मस्य॑¦सः¦हि¦बन्धुः॑¦इ॒त्था¦विष्णोः᳚¦प॒दे¦प॒र॒मे¦मध्वः॑¦उत्सः॑ ||

ता वां॒ वास्तू᳚न्युश्मसि॒ गम॑ध्यै॒ यत्र॒ गावो॒ भूरि॑शृङ्गा, अ॒यासः॑ |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्}

अत्रा ह॒तदु॑रुगा॒यस्य॒ वृष्णः॑ पर॒मं प॒दमव॑ भाति॒ भूरि॑ ||{6/6}{2.2.24.6}{1.154.6}{1.21.15.6}{263, 154, 1633}

ता¦वा॒‌म्¦वास्तू᳚नि¦उ॒श्म॒सि॒¦गम॑ध्यै¦यत्र॑¦गावः॑¦भूरि॑ऽशृङ्गाः¦अ॒यासः॑ |
अत्र॑¦अह॑¦तत्¦उ॒रु॒ऽगा॒यस्य॑¦वृष्णः॑¦प॒र॒म‌म्¦प॒द‌म्¦अव॑¦भा॒ति॒¦भूरि॑ ||

[34] प्रवःपांतमिति षडृचस्य सूक्तस्यौचथ्योदीर्घतमा आद्यानांतिसृणामिंद्राविष्णू ततस्तिसृणांविष्णुर्जगती |
प्र वः॒ पान्त॒मन्ध॑सो धियाय॒ते म॒हे शूरा᳚य॒ विष्ण॑वे चार्चत |{औचथ्यो दीर्घतमाः | इंद्राविष्णूः | जगती}

या सानु॑नि॒ पर्व॑ताना॒मदा᳚भ्या म॒हस्त॒स्थतु॒रर्व॑तेव सा॒धुना᳚ ||{1/6}{2.2.25.1}{1.155.1}{1.21.16.1}{264, 155, 1634}

प्र¦वः॒¦पान्त᳚‌म्¦अन्ध॑सः¦धि॒या॒ऽय॒ते¦म॒हे¦शूरा᳚य¦विष्ण॑वे¦च॒¦अ॒र्च॒त॒ |
या¦सानु॑नि¦पर्व॑ताना‌म्¦अदा᳚भ्या¦म॒हः¦त॒स्थतुः॑¦अर्व॑ताऽ‌इव¦सा॒धुना᳚ ||

त्वे॒षमि॒त्था स॒मर॑णं॒ शिमी᳚वतो॒रिन्द्रा᳚विष्णू सुत॒पा वा᳚मुरुष्यति |{औचथ्यो दीर्घतमाः | इंद्राविष्णूः | जगती}

या मर्त्या᳚य प्रतिधी॒यमा᳚न॒मित् कृ॒शानो॒रस्तु॑रस॒नामु॑रु॒ष्यथः॑ ||{2/6}{2.2.25.2}{1.155.2}{1.21.16.2}{265, 155, 1635}

त्वे॒ष‌म्¦इ॒त्था¦स॒‌म्।आर॑ण‌म्¦शिमी᳚ऽवतोः¦इन्द्रा᳚विष्णू॒ इति॑¦सु॒त॒ऽपाः¦वा॒‌म्¦उ॒रु॒ष्य॒ति॒ |
या¦मर्त्या᳚य¦प्र॒ति॒ऽधी॒यमा᳚न‌म्¦इत्¦कृ॒शानोः᳚¦अस्तुः॑¦अ॒स॒ना‌म्¦उ॒रु॒ष्यथः॑ ||

ता, ईं᳚ वर्धन्ति॒ मह्य॑स्य॒ पौंस्यं॒ नि मा॒तरा᳚ नयति॒ रेत॑से भु॒जे |{औचथ्यो दीर्घतमाः | इंद्राविष्णूः | जगती}

दधा᳚ति पु॒त्रोऽव॑रं॒ परं᳚ पि॒तुर्नाम॑ तृ॒तीय॒मधि॑ रोच॒ने दि॒वः ||{3/6}{2.2.25.3}{1.155.3}{1.21.16.3}{266, 155, 1636}

ताः¦ई॒‌म्¦व॒र्ध॒न्ति॒¦महि॑¦अ॒स्य॒¦पौंस्य᳚‌म्¦नि¦मा॒तरा᳚¦न॒य॒ति॒¦रेत॑से¦भु॒जे |
दधा᳚ति¦पु॒त्रः¦अव॑र‌म्¦पर᳚‌म्¦पि॒तुः¦नाम॑¦तृ॒तीय᳚‌म्¦अधि॑¦रो॒च॒ने¦दि॒वः ||

तत्त॒दिद॑स्य॒ पौंस्यं᳚ गृणीमसी॒नस्य॑ त्रा॒तुर॑वृ॒कस्य॑ मी॒ळ्हुषः॑ |{औचथ्यो दीर्घतमाः | विष्णुः | जगती}

यः पार्थि॑वानि त्रि॒भिरिद्‌ विगा᳚मभिरु॒रु क्रमि॑ष्टोरुगा॒याय॑ जी॒वसे᳚ ||{4/6}{2.2.25.4}{1.155.4}{1.21.16.4}{267, 155, 1637}

तत्ऽत॑त्¦इत्¦अ॒स्य॒¦पौंस्य᳚‌म्¦गृ॒णी॒म॒सि॒¦इ॒नस्य॑¦त्रा॒तुः¦अ॒वृ॒कस्य॑¦मी॒ळ्हुषः॑ |
यः¦पार्थि॑वानि¦त्रि॒ऽभिः¦इत्¦विगा᳚मऽभिः¦उ॒रु¦क्रमि॑ष्ट¦उ॒रु॒ऽगा॒याय॑¦जी॒वसे᳚ ||

द्वे, इद॑स्य॒ क्रम॑णे स्व॒र्दृशो᳚ऽभि॒ख्याय॒ मर्त्यो᳚ भुरण्यति |{औचथ्यो दीर्घतमाः | विष्णुः | जगती}

तृ॒तीय॑मस्य॒ नकि॒रा द॑धर्षति॒ वय॑श्च॒न प॒तय᳚न्तः पत॒त्रिणः॑ ||{5/6}{2.2.25.5}{1.155.5}{1.21.16.5}{268, 155, 1638}

द्वे इति॑¦इत्¦अ॒स्य॒¦क्रम॑णे॒ इति॑¦स्वः॒ऽदृशः॑¦अ॒भि॒ऽख्याय॑¦मर्त्यः॑¦भु॒र॒ण्य॒ति॒ |
तृ॒तीय᳚‌म्¦अ॒स्य॒¦नकिः॑¦आ¦द॒ध॒र्ष॒ति॒¦वयः॑¦च॒न¦प॒तय᳚न्तः¦प॒त॒त्रिणः॑ ||

च॒तुर्भिः॑ सा॒कं न॑व॒तिं च॒ नाम॑भिश्च॒क्रं न वृ॒त्तं व्यतीँ᳚रवीविपत् |{औचथ्यो दीर्घतमाः | विष्णुः | जगती}

बृ॒हच्छ॑रीरो वि॒मिमा᳚न॒ ऋक्व॑भिर्॒युवाकु॑मारः॒ प्रत्ये᳚त्याह॒वम् ||{6/6}{2.2.25.6}{1.155.6}{1.21.16.6}{269, 155, 1639}

च॒तुःऽभिः॑¦सा॒क‌म्¦न॒व॒ति‌म्¦च॒¦नाम॑ऽभिः¦च॒क्र‌म्¦न¦वृ॒त्त‌म्¦व्यती᳚न्¦अ॒वी॒वि॒प॒त् |
बृ॒हत्ऽश॑रीरः¦वि॒ऽमिमा᳚नः¦ऋक्व॑ऽभिः¦युवा᳚¦अकु॑मारः¦प्रति॑¦ए॒ति॒¦आ॒ऽह॒व‌म् ||

[35] भवामित्रइति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाविष्णुर्जगती |
भवा᳚ मि॒त्रो न शेव्यो᳚ घृ॒तासु॑तिर्॒विभू᳚तद्युम्न एव॒या, उ॑ स॒प्रथाः᳚ |{औचथ्यो दीर्घतमाः | विष्णुः | जगती}

अधा᳚ ते विष्णो वि॒दुषा᳚ चि॒दर्ध्यः॒ स्तोमो᳚ य॒ज्ञश्च॒ राध्यो᳚ ह॒विष्म॑ता ||{1/5}{2.2.26.1}{1.156.1}{1.21.17.1}{270, 156, 1640}

भव॑¦मि॒त्रः¦न¦शेव्यः॑¦घृ॒तऽआ᳚सुतिः¦विभू᳚तऽद्युम्नः¦ए॒व॒ऽयाः¦ऊँ॒ इति॑¦स॒ऽप्रथाः᳚ |
अध॑¦ते॒¦वि॒ष्णो॒ इति॑¦वि॒दुषा᳚¦चि॒त्¦अर्ध्यः॑¦स्तोमः॑¦य॒ज्ञः¦च॒¦राध्यः॑¦ह॒विष्म॑ता ||

यः पू॒र्व्याय॑ वे॒धसे॒ नवी᳚यसे सु॒मज्जा᳚नये॒ विष्ण॑वे॒ ददा᳚शति |{औचथ्यो दीर्घतमाः | विष्णुः | जगती}

यो जा॒तम॑स्य मह॒तो महि॒ ब्रव॒त् सेदु॒ श्रवो᳚भि॒र्युज्यं᳚ चिद॒भ्य॑सत् ||{2/5}{2.2.26.2}{1.156.2}{1.21.17.2}{271, 156, 1641}

यः¦पू॒र्व्याय॑¦वे॒धसे᳚¦नवी᳚यसे¦सु॒मत्ऽजा᳚नये¦विष्ण॑वे¦ददा᳚शति |
यः¦जा॒त‌म्¦अ॒स्य॒¦म॒ह॒तः¦महि॑¦ब्रव॑त्¦सः¦इत्¦ऊँ॒ इति॑¦श्रवः॑ऽभिः¦युज्य᳚‌म्¦चि॒त्¦अ॒भि¦अ॒स॒त् ||

तमु॑ स्तोतारः पू॒र्व्यं यथा᳚ वि॒द ऋ॒तस्य॒ गर्भं᳚ ज॒नुषा᳚ पिपर्तन |{औचथ्यो दीर्घतमाः | विष्णुः | जगती}

आस्य॑ जा॒नन्तो॒ नाम॑ चिद्‌ विवक्तन म॒हस्ते᳚ विष्णो सुम॒तिं भ॑जामहे ||{3/5}{2.2.26.3}{1.156.3}{1.21.17.3}{272, 156, 1642}

त‌म्¦ऊँ॒ इति॑¦स्तो॒ता॒रः॒¦पू॒र्व्य‌म्¦यथा᳚¦वि॒द¦ऋ॒तस्य॑¦गर्भ᳚‌म्¦ज॒नुषा᳚¦पि॒प॒र्त॒न॒ |
आ¦अ॒स्य॒¦जा॒नन्तः॑¦नाम॑¦चि॒त्¦वि॒व॒क्त॒न॒¦म॒हः¦ते॒¦वि॒ष्णो॒ इति॑¦सु॒ऽम॒ति‌म्¦भ॒जा॒म॒हे॒ ||

तम॑स्य॒ राजा॒ वरु॑ण॒स्तम॒श्विना॒ क्रतुं᳚ सचन्त॒ मारु॑तस्य वे॒धसः॑ |{औचथ्यो दीर्घतमाः | विष्णुः | जगती}

दा॒धार॒ दक्ष॑मुत्त॒मम॑ह॒र्विदं᳚ व्र॒जं च॒ विष्णुः॒ सखि॑वाँ, अपोर्णु॒ते ||{4/5}{2.2.26.4}{1.156.4}{1.21.17.4}{273, 156, 1643}

त‌म्¦अ॒स्य॒¦राजा᳚¦वरु॑णः¦त‌म्¦अ॒श्विना᳚¦क्रतु᳚‌म्¦स॒च॒न्त॒¦मारु॑तस्य¦वे॒धसः॑ |
दा॒धार॑¦दक्ष᳚‌म्¦उ॒त्ऽत॒म‌म्¦अ॒हः॒ऽविद᳚‌म्¦व॒र्ज‌म्¦च॒¦विष्णुः॑¦सखि॑ऽवान्¦अ॒प॒ऽऊ॒र्णु॒ते ||

आ यो वि॒वाय॑ स॒चथा᳚य॒ दैव्य॒ इन्द्रा᳚य॒ विष्णुः॑ सु॒कृते᳚ सु॒कृत्त॑रः |{औचथ्यो दीर्घतमाः | विष्णुः | जगती}

वे॒धा, अ॑जिन्वत्‌ त्रिषध॒स्थ आर्य॑मृ॒तस्य॑ भा॒गे यज॑मान॒माभ॑जत् ||{5/5}{2.2.26.5}{1.156.5}{1.21.17.5}{274, 156, 1644}

आ¦यः¦वि॒वाय॑¦स॒चथा᳚य¦दैव्यः॑¦इन्द्रा᳚य¦विष्णुः॑¦सु॒ऽकृते᳚¦सु॒कृत्ऽत॑रः |
वे॒धाः¦अ॒जि॒न्व॒त्¦त्रि॒ऽस॒ध॒स्थः¦आर्य᳚‌म्¦ऋ॒तस्य॑¦भा॒गे¦यज॑मान‌म्¦आ¦अ॒भ॒ज॒त् ||

[36] अबोध्यग्निरिति षडृचस्य सूक्तस्यौचथ्योदीर्घतमाअश्विनौ जगत्यंत्येद्वेत्रिष्टुभौ |
अबो᳚ध्य॒ग्निर्ज्म उदे᳚ति॒ सूर्यो॒ व्यु१॑(उ॒)षाश्च॒न्द्रा म॒ह्या᳚वो, अ॒र्चिषा᳚ |{औचथ्यो दीर्घतमाः | अश्विनौ | जगती}

आयु॑क्षाताम॒श्विना॒ यात॑वे॒ रथं॒ प्रासा᳚वीद्दे॒वः स॑वि॒ता जग॒त्‌ पृथ॑क् ||{1/6}{2.2.27.1}{1.157.1}{1.22.1.1}{275, 157, 1645}

अबो᳚धि¦अ॒ग्निः¦ज्मः¦उत्¦ए॒ति॒¦सूर्यः॑¦वि¦उ॒षाः¦च॒न्द्रा¦म॒ही¦आ॒वः॒¦अ॒र्चिषा᳚ |
अयु॑क्षाता‌म्¦अ॒श्विना᳚¦यात॑वे¦रथ᳚‌म्¦प्र¦अ॒सा॒वी॒त्¦दे॒वः¦स॒वि॒ता¦जग॑त्¦पृथ॑क् ||

यद्‌ यु॒ञ्जाथे॒ वृष॑णमश्विना॒ रथं᳚ घृ॒तेन॑ नो॒ मधु॑ना क्ष॒त्रमु॑क्षतम् |{औचथ्यो दीर्घतमाः | अश्विनौ | जगती}

अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु जिन्वतं व॒यं धना॒ शूर॑साता भजेमहि ||{2/6}{2.2.27.2}{1.157.2}{1.22.1.2}{276, 157, 1646}

यत्¦युं॒जाथे॒ इति॑¦वृष॑ण‌म्¦अ॒श्वि॒ना॒¦रथ᳚‌म्¦घृ॒तेन॑¦नः॒¦मधु॑ना¦क्ष॒त्र‌म्¦उ॒क्ष॒त॒‌म् |
अ॒स्माक᳚‌म्¦ब्रह्म॑¦पृत॑नासु¦जि॒न्व॒त॒‌म्¦व॒य‌म्¦धना᳚¦शूर॑ऽसाता¦भ॒जे॒म॒हि॒ ||

अ॒र्वाङ्‌ त्रि॑च॒क्रो म॑धु॒वाह॑नो॒ रथो᳚ जी॒राश्वो᳚, अ॒श्विनो᳚र्यातु॒ सुष्टु॑तः |{औचथ्यो दीर्घतमाः | अश्विनौ | जगती}

त्रि॒व॒न्धु॒रो म॒घवा᳚ वि॒श्वसौ᳚भगः॒ शं न॒ आ व॑क्षद्द्वि॒पदे॒ चतु॑ष्पदे ||{3/6}{2.2.27.3}{1.157.3}{1.22.1.3}{277, 157, 1647}

अ॒र्वाङ्¦त्रि॒ऽच॒क्रः¦म॒धु॒ऽवाह॑नः¦रथः॑¦जी॒र।आ॑श्वः¦अ॒श्विनोः᳚¦या॒तु॒¦सुऽस्तु॑तः |
त्रि॒ऽव॒न्धु॒रः¦म॒घऽवा᳚¦वि॒श्वऽसौ᳚भगः¦श‌म्¦नः॒¦आ¦व॒क्ष॒त्¦द्वि॒ऽपदे᳚¦चतुः॑ऽपदे ||

आ न॒ ऊर्जं᳚ वहतमश्विना यु॒वं मधु॑मत्या नः॒ कश॑या मिमिक्षतम् |{औचथ्यो दीर्घतमाः | अश्विनौ | जगती}

प्रायु॒स्तारि॑ष्टं॒ नी रपां᳚सि मृक्षतं॒ सेध॑तं॒ द्वेषो॒ भव॑तं सचा॒भुवा᳚ ||{4/6}{2.2.27.4}{1.157.4}{1.22.1.4}{278, 157, 1648}

आ¦नः॒¦ऊर्ज᳚‌म्¦व॒ह॒त॒‌म्¦अ॒श्वि॒ना॒¦यु॒व‌म्¦मधु॑ऽमत्या¦नः॒¦कश॑या¦मि॒मि॒क्ष॒त॒‌म् |
प्र¦आयुः॑¦तारि॑ष्ट‌म्¦निः¦रपां᳚सि¦मृ॒क्ष॒त॒‌म्¦सेध॑त‌म्¦द्वेषः॑¦भव॑त‌म्¦स॒चा॒ऽभुवा᳚ ||

यु॒वं ह॒ गर्भं॒ जग॑तीषु धत्थो यु॒वं विश्वे᳚षु॒ भुव॑नेष्व॒न्तः |{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्}

यु॒वम॒ग्निं च॑ वृषणाव॒पश्च॒ वन॒स्पतीँ᳚रश्विना॒वैर॑येथाम् ||{5/6}{2.2.27.5}{1.157.5}{1.22.1.5}{279, 157, 1649}

यु॒व‌म्¦ह॒¦गर्भ᳚‌म्¦जग॑तीषु¦ध॒त्थः॒¦यु॒व‌म्¦विश्वे᳚षु¦भुव॑नेषु¦अ॒न्तरिति॑ |
यु॒व‌म्¦अ॒ग्नि‌म्¦च॒¦वृ॒ष॒णौ॒¦अ॒पः¦च॒¦वन॒स्पती᳚न्¦अ॒श्वि॒नौ॒¦ऐर॑येथा‌म् ||

यु॒वं ह॑ स्थो भि॒षजा᳚ भेष॒जेभि॒रथो᳚ ह स्थो र॒थ्या॒३॑(आ॒) राथ्ये᳚भिः |{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्}

अथो᳚ ह क्ष॒त्रमधि॑ धत्थ उग्रा॒ यो वां᳚ ह॒विष्मा॒न्‌ मन॑सा द॒दाश॑ ||{6/6}{2.2.27.6}{1.157.6}{1.22.1.6}{280, 157, 1650}

यु॒व‌म्¦ह॒¦स्थः॒¦भि॒षजा᳚¦भे॒ष॒जेभिः॑¦अथो॒ इति॑¦ह॒¦स्थः॒¦र॒थ्या᳚¦रथ्ये᳚भि॒रिति॒ रथ्ये᳚भिः |
अथो॒ इति॑¦ह॒¦क्ष॒त्र‌म्¦अधि॑¦ध॒त्थ॒¦उ॒ग्रा॒¦यः¦वा॒‌म्¦ह॒विष्मा᳚न्¦मन॑सा¦द॒दाश॑ ||

[37] वसूरुद्राइति षडृचस्य सूक्तस्यौचथ्योदीर्घतमाअश्विनौत्रिष्टुबन्त्यानुष्टुप् |
वसू᳚ रु॒द्रा पु॑रु॒मन्तू᳚ वृ॒धन्ता᳚ दश॒स्यतं᳚ नो वृषणाव॒भिष्टौ᳚ |{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्}

दस्रा᳚ ह॒ यद्‌ रेक्ण॑ औच॒थ्यो वां॒ प्र यत्‌ स॒स्राथे॒, अक॑वाभिरू॒ती ||{1/6}{2.3.1.1}{1.158.1}{1.22.2.1}{281, 158, 1651}

वसू॒ इति॑¦रु॒द्रा¦पु॒रु॒मन्तू॒ इति॑ पु॒रु॒ऽमन्तू᳚¦वृ॒धन्ता᳚¦द॒श॒स्यत᳚‌म्¦नः॒¦वृ॒ष॒णौ॒¦अ॒भिष्टौ᳚ |
दस्रा᳚¦ह॒¦यत्¦रेक्णः॑¦औ॒च॒थ्यः¦वा॒‌म्¦प्र¦यत्¦स॒स्राथे॒ इति॑¦अक॑वाभिः¦ऊ॒ती ||

को वां᳚ दाशत्‌ सुम॒तये᳚ चिद॒स्यै वसू॒ यद्‌ धेथे॒ नम॑सा प॒दे गोः |{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्}

जि॒गृ॒तम॒स्मे रे॒वतीः॒ पुरं᳚धीः काम॒प्रेणे᳚व॒ मन॑सा॒ चर᳚न्ता ||{2/6}{2.3.1.2}{1.158.2}{1.22.2.2}{282, 158, 1652}

कः¦वा॒‌म्¦दा॒श॒त्¦सु॒ऽम॒तये᳚¦चि॒त्¦अ॒स्यै¦वसू॒ इति॑¦यत्¦धेथे॒ इति॑¦नम॑सा¦प॒दे¦गोः |
जि॒गृ॒त‌म्¦अ॒स्मे इति॑¦रे॒वतीः᳚¦पुर᳚‌म्ऽधीः¦का॒म॒प्रेण॑ऽ‌इव¦मन॑सा¦चर᳚न्ता ||

यु॒क्तो ह॒ यद्‌ वां᳚ तौ॒ग्र्याय॑ पे॒रुर्वि मध्ये॒, अर्ण॑सो॒ धायि॑ प॒ज्रः |{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्}

उप॑ वा॒मवः॑ शर॒णं ग॑मेयं॒ शूरो॒ नाज्म॑ प॒तय॑द्भि॒रेवैः᳚ ||{3/6}{2.3.1.3}{1.158.3}{1.22.2.3}{283, 158, 1653}

यु॒क्तः¦ह॒¦यत्¦वा॒‌म्¦तौ॒ग्र्याय॑¦पे॒रुः¦वि¦मध्ये᳚¦अर्ण॑सः¦धायि॑¦प॒ज्रः |
उप॑¦वा॒‌म्¦अवः॑¦श॒र॒ण‌म्¦ग॒मे॒य॒‌म्¦शूरः॑¦न¦अज्म॑¦प॒तय॑त्ऽभिः¦एवैः᳚ ||

उप॑स्तुतिरौच॒थ्यमु॑रुष्ये॒न्मा मामि॒मे प॑त॒त्रिणी॒ वि दु॑ग्धाम् |{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्}

मा मामेधो॒ दश॑तयश्चि॒तो धा॒क् प्र यद्‌ वां᳚ ब॒द्धस्त्मनि॒ खाद॑ति॒ क्षाम् ||{4/6}{2.3.1.4}{1.158.4}{1.22.2.4}{284, 158, 1654}

उप॑ऽस्तुतिः¦औ॒च॒थ्य‌म्¦उ॒रु॒ष्ये॒त्¦मा¦मा‌म्¦इ॒मे इति॑¦प॒त॒त्रिणी॒ इति॑¦वि¦दु॒ग्धा॒‌म् |
मा¦मा‌म्¦एधः॑¦दश॑ऽतयः¦चि॒तः¦धा॒क्¦प्र¦यत्¦वा॒‌म्¦ब॒द्धः¦त्मनि॑¦खाद॑ति¦क्षा‌म् ||

न मा᳚ गरन्‌ न॒द्यो᳚ मा॒तृत॑मा दा॒सा यदीं॒ सुस॑मुब्धम॒वाधुः॑ |{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्}

शिरो॒ यद॑स्य त्रैत॒नो वि॒तक्ष॑त् स्व॒यं दा॒स उरो॒, अंसा॒वपि॑ ग्ध ||{5/6}{2.3.1.5}{1.158.5}{1.22.2.5}{285, 158, 1655}

न¦मा॒¦ग॒र॒न्¦न॒द्यः॑¦मा॒तृऽत॑माः¦दा॒साः¦यत्¦ई॒‌म्¦सुऽस॑मुब्ध‌म्¦अ॒व॒।आधुः॑ |
शिरः॑¦यत्¦अ॒स्य॒¦त्रै॒त॒नः¦वि॒ऽतक्ष॑त्¦स्व॒य‌म्¦दा॒सः¦उरः॑¦अंसौ᳚¦अपि॑¦ग्धेति॑ ग्ध ||

दी॒र्घत॑मा मामते॒यो जु॑जु॒र्वान्‌ द॑श॒मे यु॒गे |{औचथ्यो दीर्घतमाः | अश्विनौ | अनुष्टुप्}

अ॒पामर्थं᳚ य॒तीनां᳚ ब्र॒ह्मा भ॑वति॒ सार॑थिः ||{6/6}{2.3.1.6}{1.158.6}{1.22.2.6}{286, 158, 1656}

दी॒र्घऽत॑माः¦मा॒म॒ते॒यः¦जु॒जु॒र्वान्¦द॒श॒मे¦यु॒गे | अ॒पा‌म्¦अर्थ᳚‌म्¦य॒तीना᳚‌म्¦ब्र॒ह्मा¦भ॒व॒ति॒¦सार॑थिः ||

[38] प्रद्यावायज्ञैरिति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाद्यावापृथिव्यौजगती |
प्र द्यावा᳚ य॒ज्ञैः पृ॑थि॒वी, ऋ॑ता॒वृधा᳚ म॒ही स्तु॑षे वि॒दथे᳚षु॒ प्रचे᳚तसा |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

दे॒वेभि॒र्ये दे॒वपु॑त्रे सु॒दंस॑से॒त्था धि॒या वार्या᳚णि प्र॒भूष॑तः ||{1/5}{2.3.2.1}{1.159.1}{1.22.3.1}{287, 159, 1657}

प्र¦द्यावा᳚¦य॒ज्ञैः¦पृ॒थि॒वी इति॑¦ऋ॒त॒ऽवृधा᳚¦म॒ही इति॑¦स्तु॒षे॒¦वि॒दथे᳚षु¦प्रऽचे᳚तसा |
दे॒वेभिः॑¦ये इति॑¦दे॒वऽपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे¦सु॒ऽदंस॑सा¦इ॒त्था¦धि॒या¦वार्या᳚णि¦प्र॒ऽभूष॑तः ||

उ॒त म᳚न्ये पि॒तुर॒द्रुहो॒ मनो᳚ मा॒तुर्महि॒ स्वत॑व॒स्तद्धवी᳚मभिः |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

सु॒रेत॑सा पि॒तरा॒ भूम॑ चक्रतुरु॒रु प्र॒जाया᳚, अ॒मृतं॒ वरी᳚मभिः ||{2/5}{2.3.2.2}{1.159.2}{1.22.3.2}{288, 159, 1658}

उ॒त¦म॒न्ये॒¦पि॒तुः¦अ॒द्रुहः॑¦मनः॑¦मा॒तुः¦महि॑¦स्वऽत॑वः¦तत्¦हवी᳚मऽभिः |
सु॒ऽरेत॑सा¦पि॒तरा᳚¦भूम॑¦च॒क्र॒तुः॒¦उ॒रु¦प्र॒ऽजायाः᳚¦अ॒मृत᳚‌म्¦वरी᳚मऽभिः ||

ते सू॒नवः॒ स्वप॑सः सु॒दंस॑सो म॒ही ज॑ज्ञुर्मा॒तरा᳚ पू॒र्वचि॑त्तये |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

स्था॒तुश्च॑ स॒त्यं जग॑तश्च॒ धर्म॑णि पु॒त्रस्य॑ पाथः प॒दमद्व॑याविनः ||{3/5}{2.3.2.3}{1.159.3}{1.22.3.3}{289, 159, 1659}

ते¦सू॒नवः॑¦सु॒।आप॑सः¦सु॒ऽदंस॑सः¦म॒ही इति॑¦ज॒ज्ञुः॒¦मा॒तरा᳚¦पू॒र्वऽचि॑त्तये |
स्था॒तुः¦च॒¦स॒त्य‌म्¦जग॑तः¦च॒¦धर्म॑णि¦पु॒त्रस्य॑¦पा॒थः॒¦प॒द‌म्¦अद्व॑याविनः ||

ते मा॒यिनो᳚ ममिरे सु॒प्रचे᳚तसो जा॒मी सयो᳚नी मिथु॒ना समो᳚कसा |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

नव्यं᳚नव्यं॒ तन्तु॒मा त᳚न्वते दि॒वि स॑मु॒द्रे, अ॒न्तः क॒वयः॑ सुदी॒तयः॑ ||{4/5}{2.3.2.4}{1.159.4}{1.22.3.4}{290, 159, 1660}

ते¦मा॒यिनः॑¦म॒मि॒रे॒¦सु॒ऽप्रचे᳚तसः¦जा॒मी इति॑¦सयो᳚नी॒ इति॒ सऽयो᳚नी¦मि॒थु॒ना¦स‌म्ऽओ᳚कसा |
नव्य᳚‌म्ऽनव्य‌म्¦तन्तु᳚‌म्¦आ¦त॒न्व॒ते¦दि॒वि¦स॒मु॒द्रे¦अ॒न्तरिति॑¦क॒वयः॑¦सु॒ऽदी॒तयः॑ ||

तद्‌ राधो᳚, अ॒द्य स॑वि॒तुर्वरे᳚ण्यं व॒यं दे॒वस्य॑ प्रस॒वे म॑नामहे |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

अ॒स्मभ्यं᳚ द्यावापृथिवी सुचे॒तुना᳚ र॒यिं ध॑त्तं॒ वसु॑मन्तं शत॒ग्विन᳚म् ||{5/5}{2.3.2.5}{1.159.5}{1.22.3.5}{291, 159, 1661}

तत्¦राधः॑¦अ॒द्य¦स॒वि॒तुः¦वरे᳚ण्य‌म्¦व॒य‌म्¦दे॒वस्य॑¦प्र॒ऽस॒वे¦म॒ना॒म॒हे॒ |
अ॒स्मभ्य᳚‌म्¦द्या॒वा॒पृ॒थि॒वी॒ इति॑¦सु॒ऽचे॒तुना᳚¦र॒यि‌म्¦ध॒त्त॒‌म्¦वसु॑ऽमन्त‌म्¦श॒त॒ऽग्विन᳚‌म् ||

[39] तेहीति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाद्यावापृथिव्यौजगती |
ते हि द्यावा᳚पृथि॒वी वि॒श्वश᳚म्भुव ऋ॒ताव॑री॒ रज॑सो धार॒यत्क॑वी |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

सु॒जन्म॑नी धि॒षणे᳚, अ॒न्तरी᳚यते दे॒वो दे॒वी धर्म॑णा॒ सूर्यः॒ शुचिः॑ ||{1/5}{2.3.3.1}{1.160.1}{1.22.4.1}{292, 160, 1662}

ते इति॑¦हि¦द्यावा᳚पृथि॒वी इति॑¦वि॒श्वऽश᳚म्भुवा¦ऋ॒तव॑री॒ इत्यृ॒तऽव॑री¦रज॑सः¦धा॒र॒यत्क॑वी॒ इति॑ धा॒र॒यत्ऽक॑वी |
सु॒जन्म॑नी॒ इति॑ सु॒ऽजन्म॑नी¦धि॒षणे॒ इति॑¦अ॒न्तः¦ई॒य॒ते॒¦दे॒वः¦दे॒वी इति॑¦धर्म॑णा¦सूर्यः॑¦शुचिः॑ ||

उ॒रु॒व्यच॑सा म॒हिनी᳚, अस॒श्चता᳚ पि॒ता मा॒ता च॒ भुव॑नानि रक्षतः |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

सु॒धृष्ट॑मे वपु॒ष्ये॒३॑(ए॒) न रोद॑सी पि॒ता यत्‌ सी᳚म॒भि रू॒पैरवा᳚सयत् ||{2/5}{2.3.3.2}{1.160.2}{1.22.4.2}{293, 160, 1663}

उ॒रु॒ऽव्यच॑सा¦म॒हिनी॒ इति॑¦अ॒स॒श्चता᳚¦पि॒ता¦मा॒ता¦च॒¦भुव॑नानि¦र॒क्ष॒तः॒ |
सु॒धृष्ट॑मे॒ इति॑ सु॒ऽधृष्ट॑मे¦व॒पु॒ष्ये॒३॒॑ इति॑¦न¦रोद॑सी॒ इति॑¦पि॒ता¦यत्¦सी॒‌म्¦अ॒भि¦रू॒पैः¦अवा᳚सयत् ||

स वह्निः॑ पु॒त्रः पि॒त्रोः प॒वित्र॑वान् पु॒नाति॒ धीरो॒ भुव॑नानि मा॒यया᳚ |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

धे॒नुं च॒ पृश्निं᳚ वृष॒भं सु॒रेत॑सं वि॒श्वाहा᳚ शु॒क्रं पयो᳚, अस्य दुक्षत ||{3/5}{2.3.3.3}{1.160.3}{1.22.4.3}{294, 160, 1664}

सः¦वह्निः॑¦पु॒त्रः¦पि॒त्रोः¦प॒वित्र॑ऽवान्¦पु॒नाति॑¦धीरः॑¦भुव॑नानि¦मा॒यया᳚ |
धे॒नु‌म्¦च॒¦पृश्नि᳚‌म्¦वृ॒ष॒भ‌म्¦सु॒ऽरेत॑स‌म्¦वि॒श्वाहा᳚¦शु॒क्र‌म्¦पयः॑¦अ॒स्य॒¦धु॒क्ष॒त॒ ||

अ॒यं दे॒वाना᳚म॒पसा᳚म॒पस्त॑मो॒ यो ज॒जान॒ रोद॑सी वि॒श्वश᳚म्भुवा |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

वि यो म॒मे रज॑सी सुक्रतू॒यया॒जरे᳚भिः॒ स्कम्भ॑नेभिः॒ समा᳚नृचे ||{4/5}{2.3.3.4}{1.160.4}{1.22.4.4}{295, 160, 1665}

अ॒य‌म्¦दे॒वाना᳚‌म्¦अ॒पसा᳚‌म्¦अ॒पःऽत॑मः¦यः¦ज॒जान॑¦रोद॑सी॒ इति॑¦वि॒श्वऽश᳚म्भुवा |
वि¦यः¦म॒मे¦रज॑सी॒ इति॑¦सु॒क्र॒तु॒ऽयया᳚¦अ॒जरे᳚भिः¦स्कम्भ॑नेभिः¦स‌म्¦आ॒नृ॒चे॒ ||

ते नो᳚ गृणा॒ने म॑हिनी॒ महि॒ श्रवः॑, क्ष॒त्रं द्या᳚वापृथिवी धासथो बृ॒हत् |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

येना॒भि कृ॒ष्टीस्त॒तना᳚म वि॒श्वहा᳚ प॒नाय्य॒मोजो᳚, अ॒स्मे समि᳚न्वतम् ||{5/5}{2.3.3.5}{1.160.5}{1.22.4.5}{296, 160, 1666}

ते इति॑¦नः॒¦गृ॒णा॒ने इति॑¦म॒हि॒नी॒ इति॑¦महि॑¦श्रवः॑¦क्ष॒त्र‌म्¦द्या॒वा॒पृ॒थि॒वी॒ इति॑¦धा॒स॒थः॒¦बृ॒हत् |
येन॑¦अ॒भि¦कृ॒ष्टीः¦त॒तना᳚म¦वि॒श्वहा᳚¦प॒नाय्य᳚‌म्¦ओजः॑¦अ॒स्मे इति॑¦स‌म्¦इ॒न्व॒त॒‌म् ||

[40] किमुश्रेष्ठइति चतुर्दशर्चस्य सूक्तस्यौचथ्योदीर्घतमाऋभवोजगत्यंत्या त्रिष्टुप् |
किमु॒ श्रेष्ठः॒ किं यवि॑ष्ठो न॒ आज॑ग॒न् किमी᳚यते दू॒त्य१॑(अं॒) कद्यदू᳚चि॒म |{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

न नि᳚न्दिम चम॒सं यो म॑हाकु॒लोऽग्ने᳚ भ्रात॒र्द्रुण॒ इद्‌ भू॒तिमू᳚दिम ||{1/14}{2.3.4.1}{1.161.1}{1.22.5.1}{297, 161, 1667}

कि‌म्¦ऊँ॒ इति॑¦श्रेष्ठः॑¦कि‌म्¦यवि॑ष्ठः¦नः॒¦आ¦अ॒ज॒ग॒न्¦कि‌म्¦ई॒य॒ते॒¦दू॒त्य᳚‌म्¦कत्¦यत्¦ऊ॒चि॒म |
न¦नि॒न्दि॒म॒¦च॒म॒स‌म्¦यः¦म॒हा॒ऽकु॒लः¦अग्ने᳚¦भ्रा॒तः॒¦द्रुणः॑¦इत्¦भू॒ति‌म्¦ऊ॒दि॒म॒ ||

एकं᳚ चम॒सं च॒तुरः॑ कृणोतन॒ तद्‌ वो᳚ दे॒वा, अ॑ब्रुव॒न्‌ तद्‌ व॒ आग॑मम् |{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

सौध᳚न्वना॒ यद्ये॒वा क॑रि॒ष्यथ॑ सा॒कं दे॒वैर्य॒ज्ञिया᳚सो भविष्यथ ||{2/14}{2.3.4.2}{1.161.2}{1.22.5.2}{298, 161, 1668}

एक᳚‌म्¦च॒म॒स‌म्¦च॒तुरः॑¦कृ॒णो॒त॒न॒¦तत्¦वः॒¦दे॒वाः¦अ॒ब्रु॒व॒न्¦तत्¦वः॒¦आ¦अ॒ग॒म॒‌म् |
सौध᳚न्वनाः¦यदि॑¦ए॒व¦क॒रि॒ष्यथ॑¦सा॒क‌म्¦दे॒वैः¦य॒ज्ञिया᳚सः¦भ॒वि॒ष्य॒थ॒ ||

अ॒ग्निं दू॒तं प्रति॒ यदब्र॑वीत॒नाश्वः॒ कर्त्वो॒ रथ॑ उ॒तेह कर्त्वः॑ |{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

धे॒नुः कर्त्वा᳚ युव॒शा कर्त्वा॒ द्वा तानि॑ भ्रात॒रनु॑ वः कृ॒त्व्येम॑सि ||{3/14}{2.3.4.3}{1.161.3}{1.22.5.3}{299, 161, 1669}

अ॒ग्नि‌म्¦दू॒त‌म्¦प्रति॑¦यत्¦अब्र॑वीतन¦अश्वः॑¦कर्त्वः॑¦रथः॑¦उ॒त¦इ॒ह¦कर्त्वः॑ |
धे॒नुः¦कर्त्वा᳚¦यु॒व॒शा¦कर्त्वा᳚¦द्वा¦तानि॑¦भ्रा॒तः॒¦अनु॑¦वः॒¦कृ॒त्वी¦आ¦इ॒म॒सि॒ ||

च॒कृ॒वांस॑ ऋभव॒स्तद॑पृच्छत॒ क्वेद॑भू॒द्यः स्य दू॒तो न॒ आज॑गन् |{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

य॒दावाख्य॑च्चम॒साञ्च॒तुरः॑ कृ॒तानादित्‌ त्वष्टा॒ ग्नास्व॒न्तर्न्या᳚नजे ||{4/14}{2.3.4.4}{1.161.4}{1.22.5.4}{300, 161, 1670}

च॒कृ॒ऽवांसः॑¦ऋ॒भ॒वः॒¦तत्¦अ॒पृ॒च्छ॒त॒¦क्व॑¦इत्¦अ॒भू॒त्¦यः¦स्यः¦दू॒तः¦नः॒¦आ¦अज॑गन् |
य॒दा¦अ॒व॒।आख्य॑त्¦च॒म॒सान्¦च॒तुरः॑¦कृ॒तान्¦आत्¦इत्¦त्वष्टा᳚¦ग्नासु॑¦अ॒न्तः¦नि¦आ॒न॒जे॒ ||

हना᳚मैनाँ॒, इति॒ त्वष्टा॒ यदब्र॑वीच्चम॒सं ये दे᳚व॒पान॒मनि᳚न्दिषुः |{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

अ॒न्या नामा᳚नि कृण्वते सु॒ते सचाँ᳚, अ॒न्यैरे᳚नान्‌ क॒न्या॒३॑(आ॒) नाम॑भिः स्परत् ||{5/14}{2.3.4.5}{1.161.5}{1.22.5.5}{301, 161, 1671}

हना᳚म¦ए॒ना॒न्¦इति॑¦त्वष्टा᳚¦यत्¦अब्र॑वीत्¦च॒म॒स‌म्¦ये¦दे॒व॒ऽपान᳚‌म्¦अनि᳚न्दिषुः |
अ॒न्या¦नामा᳚नि¦कृ॒ण्व॒ते॒¦सु॒ते¦सचा᳚¦अ॒न्यैः¦ए॒ना॒न्¦क॒न्या᳚¦नाम॑ऽभिः¦स्प॒र॒त् ||

इन्द्रो॒ हरी᳚ युयु॒जे, अ॒श्विना॒ रथं॒ बृह॒स्पति᳚र्वि॒श्वरू᳚पा॒मुपा᳚जत |{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

ऋ॒भुर्विभ्वा॒ वाजो᳚ दे॒वाँ, अ॑गच्छत॒ स्वप॑सो य॒ज्ञियं᳚ भा॒गमै᳚तन ||{6/14}{2.3.5.1}{1.161.6}{1.22.5.6}{302, 161, 1672}

इन्द्रः॑¦हरी᳚¦यु॒यु॒जे¦अ॒श्विना᳚¦रथ᳚‌म्¦बृह॒स्पतिः॑¦वि॒श्वऽरू᳚पा‌म्¦उप॑¦आ॒ज॒त॒ |
ऋ॒भुः¦विऽभ्वा᳚¦वाजः॑¦दे॒वान्¦अ॒ग॒च्छ॒त॒¦सु॒।आप॑सः¦य॒ज्ञिय᳚‌म्¦भा॒ग‌म्¦ऐ॒त॒न॒ ||

निश्चर्म॑णो॒ गाम॑रिणीत धी॒तिभि॒र्या जर᳚न्ता युव॒शा ताकृ॑णोतन |{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

सौध᳚न्वना॒, अश्वा॒दश्व॑मतक्षत यु॒क्त्वा रथ॒मुप॑ दे॒वाँ, अ॑यातन ||{7/14}{2.3.5.2}{1.161.7}{1.22.5.7}{303, 161, 1673}

निः¦चर्म॑णः¦गा‌म्¦अ॒रि॒णी॒त॒¦धी॒तिऽभिः॑¦या¦जर᳚न्ता¦यु॒व॒शा¦ता¦अ॒कृ॒णो॒त॒न॒ |
सौध᳚न्वनाः¦अश्वा᳚त्¦अश्व᳚‌म्¦अ॒त॒क्ष॒त॒¦यु॒क्त्वा¦रथ᳚‌म्¦उप॑¦दे॒वान्¦अ॒या॒त॒न॒ ||

इ॒दमु॑द॒कं पि॑ब॒तेत्य॑ब्रवीतने॒दं वा᳚ घा पिबता मुञ्ज॒नेज॑नम् |{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

सौध᳚न्वना॒ यदि॒ तन्नेव॒ हर्य॑थ तृ॒तीये᳚ घा॒ सव॑ने मादयाध्वै ||{8/14}{2.3.5.3}{1.161.8}{1.22.5.8}{304, 161, 1674}

इ॒द‌म्¦उ॒द॒क‌म्¦पि॒ब॒त॒¦इति॑¦अ॒ब्र॒वी॒त॒न॒¦इ॒द‌म्¦वा॒¦घ॒¦पि॒ब॒त॒¦मुं॒ज॒ऽनेज॑न‌म् |
सौध᳚न्वनाः¦यदि॑¦तत्¦नऽ‌इ᳚व¦हर्य॑थ¦तृ॒तीये᳚¦घ॒¦सव॑ने¦मा॒द॒या॒ध्वै॒ ||

आपो॒ भूयि॑ष्ठा॒, इत्येको᳚, अब्रवीद॒ग्निर्भूयि॑ष्ठ॒ इत्य॒न्यो, अ॑ब्रवीत् |{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

व॒ध॒र्यन्तीं᳚ ब॒हुभ्यः॒ प्रैको᳚, अब्रवीदृ॒ता वद᳚न्तश्चम॒साँ, अ॑पिंशत ||{9/14}{2.3.5.4}{1.161.9}{1.22.5.9}{305, 161, 1675}

आपः॑¦भूयि॑ष्ठाः¦इति॑¦एकः॑¦अ॒ब्र॒वी॒त्¦अ॒ग्निः¦भूयि॑ष्ठः¦इति॑¦अ॒न्यः¦अ॒ब्र॒वी॒त् |
व॒धः॒ऽयन्ती᳚‌म्¦ब॒हुऽभ्यः॑¦प्र¦एकः॑¦अ॒ब्र॒वी॒त्¦ऋ॒ता¦वद᳚न्तः¦च॒म॒सान्¦अ॒पिं॒श॒त॒ ||

श्रो॒णामेक॑ उद॒कं गामवा᳚जति मां॒समेकः॑ पिंशति सू॒नयाभृ॑तम् |{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

आ नि॒म्रुचः॒ शकृ॒देको॒, अपा᳚भर॒त् किं स्वि॑त्‌ पु॒त्रेभ्यः॑ पि॒तरा॒, उपा᳚वतुः ||{10/14}{2.3.5.5}{1.161.10}{1.22.5.10}{306, 161, 1676}

श्रो॒णा‌म्¦एकः॑¦उ॒द॒क‌म्¦गा‌म्¦अव॑¦अ॒ज॒ति॒¦मां॒स‌म्¦एकः॑¦पिं॒श॒ति॒¦सू॒नया᳚¦आऽभृ॑त‌म् |
आ¦नि॒ऽम्रुचः॑¦शकृ॑त्¦एकः॑¦अप॑¦अ॒भ॒र॒त्¦कि‌म्¦स्वि॒त्¦पु॒त्रेभ्यः॑¦पि॒तरौ᳚¦उप॑¦आ॒व॒तुः॒ ||

उ॒द्वत्स्व॑स्मा, अकृणोतना॒ तृणं᳚ नि॒वत्स्व॒पः स्व॑प॒स्यया᳚ नरः |{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

अगो᳚ह्यस्य॒ यदस॑स्तना गृ॒हे तद॒द्येदमृ॑भवो॒ नानु॑ गच्छथ ||{11/14}{2.3.6.1}{1.161.11}{1.22.5.11}{307, 161, 1677}

उ॒द्वत्ऽसु॑¦अ॒स्मै॒¦अ॒कृ॒णो॒त॒न॒¦तृण᳚‌म्¦नि॒वत्ऽसु॑¦अ॒पः¦सु॒।आ॒प॒स्यया᳚¦न॒रः॒ |
अगो᳚ह्यस्य¦यत्¦अस॑स्तन¦गृ॒हे¦तत्¦अ॒द्य¦इ॒द‌म्¦ऋ॒भ॒वः॒¦न¦अनु॑¦ग॒च्छ॒थ॒ ||

स॒म्मील्य॒ यद्‌ भुव॑ना प॒र्यस॑र्पत॒ क्व॑ स्वित्ता॒त्या पि॒तरा᳚ व आसतुः |{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

अश॑पत॒ यः क॒रस्नं᳚ व आद॒दे यः प्राब्र॑वी॒त्‌ प्रो तस्मा᳚, अब्रवीतन ||{12/14}{2.3.6.2}{1.161.12}{1.22.5.12}{308, 161, 1678}

स॒‌म्ऽमील्य॑¦यत्¦भुव॑ना¦प॒रि॒।आस॑र्पत¦क्व॑¦स्वि॒त्¦ता॒त्या¦पि॒तरा᳚¦वः॒¦आ॒स॒तुः॒ |
अश॑पत¦यः¦क॒रस्न᳚‌म्¦वः॒¦आ॒ऽद॒दे¦यः¦प्र¦अब्र॑वीत्¦प्रो इति॑¦तस्मै᳚¦अ॒ब्र॒वी॒त॒न॒ ||

सु॒षु॒प्वांस॑ ऋभव॒स्तद॑पृच्छ॒तागो᳚ह्य॒ क इ॒दं नो᳚, अबूबुधत् |{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

श्वानं᳚ ब॒स्तो बो᳚धयि॒तार॑मब्रवीत् संवत्स॒र इ॒दम॒द्या व्य॑ख्यत ||{13/14}{2.3.6.3}{1.161.13}{1.22.5.13}{309, 161, 1679}

सु॒सु॒प्वांसः॑¦ऋ॒भ॒वः॒¦तत्¦अ॒पृ॒च्छ॒त॒¦अगो᳚ह्य¦कः¦इ॒द‌म्¦नः॒¦अ॒बू॒बु॒ध॒त् |
श्वान᳚‌म्¦ब॒स्तः¦बो॒ध॒यि॒तार᳚‌म्¦अ॒ब्र॒वी॒त्¦सं॒व॒त्स॒रे¦इ॒द‌म्¦अ॒द्य¦वि¦अ॒ख्य॒त॒ ||

दि॒वा या᳚न्ति म॒रुतो॒ भूम्या॒ग्निर॒यं वातो᳚, अ॒न्तरि॑क्षेण याति |{औचथ्यो दीर्घतमाः | ऋभवः | त्रिष्टुप्}

अ॒द्भिर्या᳚ति॒ वरु॑णः समु॒द्रैर्यु॒ष्माँ, इ॒च्छन्तः॑ शवसो नपातः ||{14/14}{2.3.6.4}{1.161.14}{1.22.5.14}{310, 161, 1680}

दि॒वा¦या॒न्ति॒¦म॒रुतः॑¦भूम्या᳚¦अ॒ग्निः¦अ॒य‌म्¦वातः॑¦अ॒न्तरि॑क्षेण¦या॒ति॒ |
अ॒त्ऽभिः¦या॒ति॒¦वरु॑णः¦स॒मु॒द्रैः¦यु॒ष्मान्¦इ॒च्छन्तः॑¦श॒व॒सः॒¦न॒पा॒तः॒ ||

[41] मानोमित्रइति द्वाविंशत्यृचस्य सूक्तस्य औचथ्योदीर्घतमाअश्वस्त्रिष्टुप् तृतीयाषष्ट्यौजगत्यौ | (अश्वस्तुत्याश्वोदेवता) |
मा नो᳚ मि॒त्रो वरु॑णो, अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुतः॒ परि॑ ख्यन् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

यद्‌ वा॒जिनो᳚ दे॒वजा᳚तस्य॒ सप्तेः᳚ प्रव॒क्ष्यामो᳚ वि॒दथे᳚ वी॒र्या᳚णि ||{1/22}{2.3.7.1}{1.162.1}{1.22.6.1}{311, 162, 1681}

मा¦नः॒¦मि॒त्रः¦वरु॑णः¦अ॒र्य॒मा¦आ॒युः¦इन्द्रः॑¦ऋ॒भु॒क्षाः¦म॒रुतः॑¦परि॑¦ख्य॒न् |
यत्¦वा॒जिनः॑¦दे॒वऽजा᳚तस्य¦सप्तेः᳚¦प्र॒ऽव॒क्ष्यामः॑¦वि॒दथे᳚¦वी॒र्या᳚णि ||

यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒तां मु॑ख॒तो नय᳚न्ति |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

सुप्रा᳚ङ॒जो मेम्य॑द्‌ वि॒श्वरू᳚प इन्द्रापू॒ष्णोः प्रि॒यमप्ये᳚ति॒ पाथः॑ ||{2/22}{2.3.7.2}{1.162.2}{1.22.6.2}{312, 162, 1682}

यत्¦निः॒ऽनिजा᳚¦रेक्ण॑सा¦प्रावृ॑तस्य¦रा॒ति‌म्¦गृ॒भी॒ता‌म्¦मु॒ख॒तः¦नय᳚न्ति |
सुऽप्रा᳚ङ्¦अ॒जः¦मेम्य॑त्¦वि॒श्वऽरू᳚पः¦इ॒न्द्रा॒पू॒ष्णोः¦प्रि॒य‌म्¦अपि॑¦ए॒ति॒¦पाथः॑ ||

ए॒ष च्छागः॑ पु॒रो, अश्वे᳚न वा॒जिना᳚ पू॒ष्णो भा॒गो नी᳚यते वि॒श्वदे᳚व्यः |{औचथ्यो दीर्घतमाः | अश्वः | जगती}

अ॒भि॒प्रियं॒ यत्‌ पु॑रो॒ळाश॒मर्व॑ता॒ त्वष्टेदे᳚नं सौश्रव॒साय॑ जिन्वति ||{3/22}{2.3.7.3}{1.162.3}{1.22.6.3}{313, 162, 1683}

ए॒षः¦छागः॑¦पु॒रः¦अश्वे᳚न¦वा॒जिना᳚¦पू॒ष्णः¦भा॒गः¦नी॒य॒ते॒¦वि॒श्वऽदे᳚व्यः |
अ॒भि॒ऽप्रिय᳚‌म्¦यत्¦पु॒रो॒ळाश᳚‌म्¦अर्व॑ता¦त्वष्टा᳚¦इत्¦ए॒न॒‌म्¦सौ॒श्र॒व॒साय॑¦जि॒न्व॒ति॒ ||

यद्ध॑वि॒ष्य॑मृतु॒शो दे᳚व॒यानं॒ त्रिर्मानु॑षाः॒ पर्यश्वं॒ नय᳚न्ति |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

अत्रा᳚ पू॒ष्णः प्र॑थ॒मो भा॒ग ए᳚ति य॒ज्ञं दे॒वेभ्यः॑ प्रतिवे॒दय᳚न्न॒जः ||{4/22}{2.3.7.4}{1.162.4}{1.22.6.4}{314, 162, 1684}

यत्¦ह॒वि॒ष्य᳚‌म्¦ऋ॒तु॒ऽशः¦दे॒व॒ऽयान᳚‌म्¦त्रिः¦मानु॑षाः¦परि॑¦अश्व᳚‌म्¦नय᳚न्ति |
अत्र॑¦पू॒ष्णः¦प्र॒थ॒मः¦भा॒गः¦ए॒ति॒¦य॒ज्ञ‌म्¦दे॒वेभ्यः॑¦प्र॒ति॒ऽवे॒दय॑न्¦अ॒जः ||

होता᳚ध्व॒र्युराव॑या, अग्निमि॒न्धो ग्रा᳚वग्रा॒भ उ॒त शंस्ता॒ सुवि॑प्रः |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

तेन॑ य॒ज्ञेन॒ स्व॑रंकृतेन॒ स्वि॑ष्टेन व॒क्षणा॒, आ पृ॑णध्वम् ||{5/22}{2.3.7.5}{1.162.5}{1.22.6.5}{315, 162, 1685}

होता᳚¦अ॒ध्व॒र्युः¦आऽव॑याः¦अ॒ग्नि॒‌म्ऽ‌इ॒न्धः¦ग्रा॒व॒ऽग्रा॒भः¦उ॒त¦शंस्ता᳚¦सुऽवि॑प्रः |
तेन॑¦य॒ज्ञेन॑¦सु।आ॑रंकृतेन¦सुऽ‌इ᳚ष्टेन¦व॒क्षणाः᳚¦आ¦पृ॒ण॒ध्व॒‌म् ||

यू॒प॒व्र॒स्का, उ॒त ये यू᳚पवा॒हाश्च॒षालं॒ ये, अ॑श्वयू॒पाय॒ तक्ष॑ति |{औचथ्यो दीर्घतमाः | अश्वः | जगती}

ये चार्व॑ते॒ पच॑नं स॒म्भर᳚न्त्यु॒तो तेषा᳚म॒भिगू᳚र्तिर्न इन्वतु ||{6/22}{2.3.8.1}{1.162.6}{1.22.6.6}{316, 162, 1686}

यू॒प॒ऽव्र॒स्काः¦उ॒त¦ये¦यू॒प॒ऽवा॒हाः¦च॒षाल᳚‌म्¦ये¦अ॒श्व॒ऽयू॒पाय॑¦तक्ष॑ति |
ये¦च॒¦अर्व॑ते¦पच॑न‌म्¦स॒‌म्ऽभर᳚न्ति¦उ॒तो इति॑¦तेषा᳚‌म्¦अ॒भिऽगू᳚र्तिः¦नः॒¦इ॒न्व॒तु॒ ||

उप॒ प्रागा᳚त्‌ सु॒मन्मे᳚ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒, उप॑ वी॒तपृ॑ष्ठः |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

अन्वे᳚नं॒ विप्रा॒ ऋष॑यो मदन्ति दे॒वानां᳚ पु॒ष्टे च॑कृमा सु॒बन्धु᳚म् ||{7/22}{2.3.8.2}{1.162.7}{1.22.6.7}{317, 162, 1687}

उप॑¦प्र¦अ॒गा॒त्¦सु॒ऽमत्¦मे॒¦अ॒धा॒यि॒¦मन्म॑¦दे॒वाना᳚‌म्¦आशाः᳚¦उप॑¦वी॒तऽपृ॑ष्ठः |
अनु॑¦ए॒न॒‌म्¦विप्राः᳚¦ऋष॑यः¦म॒द॒न्ति॒¦दे॒वाना᳚‌म्¦पु॒ष्टे¦च॒कृ॒म॒¦सु॒ऽबन्धु᳚‌म् ||

यद्‌ वा॒जिनो॒ दाम॑ सं॒दान॒मर्व॑तो॒ या शी᳚र्ष॒ण्या᳚ रश॒ना रज्जु॑रस्य |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

यद्‌ वा᳚ घास्य॒ प्रभृ॑तमा॒स्ये॒३॑(ए॒) तृणं॒ सर्वा॒ ता ते॒, अपि॑ दे॒वेष्व॑स्तु ||{8/22}{2.3.8.3}{1.162.8}{1.22.6.8}{318, 162, 1688}

यत्¦वा॒जिनः॑¦दाम॑¦स॒‌म्ऽदान᳚‌म्¦अर्व॑तः¦या¦शी॒र्ष॒ण्या᳚¦र॒श॒ना¦रज्जुः॑¦अ॒स्य॒ |
यत्¦वा॒¦घ॒¦अ॒स्य॒¦प्रऽभृ॑त‌म्¦आ॒स्ये᳚¦तृण᳚‌म्¦सर्वा᳚¦ता¦ते॒¦अपि॑¦दे॒वेषु॑¦अ॒स्तु॒ ||

यदश्व॑स्य क्र॒विषो॒ मक्षि॒काश॒ यद्‌ वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒, अपि॑ दे॒वेष्व॑स्तु ||{9/22}{2.3.8.4}{1.162.9}{1.22.6.9}{319, 162, 1689}

यत्¦अश्व॑स्य¦क्र॒विषः॑¦मक्षि॑का¦आश॑¦यत्¦वा॒¦स्वरौ᳚¦स्वऽधि॑तौ¦रि॒प्त‌म्¦अस्ति॑ |
यत्¦हस्त॑योः¦श॒मि॒तुः¦यत्¦न॒खेषु॑¦सर्वा᳚¦ता¦ते॒¦अपि॑¦दे॒वेषु॑¦अ॒स्तु॒ ||

यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ य आ॒मस्य॑ क्र॒विषो᳚ ग॒न्धो, अस्ति॑ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

सु॒कृ॒ता तच्छ॑मि॒तारः॑ कृण्वन्तू॒त मेधं᳚ शृत॒पाकं᳚ पचन्तु ||{10/22}{2.3.8.5}{1.162.10}{1.22.6.10}{320, 162, 1690}

यत्¦ऊव॑ध्य‌म्¦उ॒दर॑स्य¦अ॒प॒ऽवाति॑¦यः¦आ॒मस्य॑¦क्र॒विषः॑¦ग॒न्धः¦अस्ति॑ |
सु॒ऽकृ॒ता¦तत्¦श॒मि॒तारः॑¦कृ॒ण्व॒न्तु॒¦उ॒त¦मेध᳚‌म्¦शृ॒त॒ऽपाक᳚‌म्¦प॒च॒न्तु॒ ||

यत्ते॒ गात्रा᳚द॒ग्निना᳚ प॒च्यमा᳚नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

मा तद्‌ भूम्या॒मा श्रि॑ष॒न्मा तृणे᳚षु दे॒वेभ्य॒स्तदु॒शद्भ्यो᳚ रा॒तम॑स्तु ||{11/22}{2.3.9.1}{1.162.11}{1.22.6.11}{321, 162, 1691}

यत्¦ते॒¦गात्रा᳚त्¦अ॒ग्निना᳚¦प॒च्यमा᳚नात्¦अ॒भि¦शूल᳚‌म्¦निऽह॑तस्य¦अ॒व॒ऽधाव॑ति |
मा¦तत्¦भूम्या᳚‌म्¦आ¦श्रि॒ष॒त्¦मा¦तृणे᳚षु¦दे॒वेभ्यः॑¦तत्¦उ॒शत्ऽभ्यः॑¦रा॒त‌म्¦अ॒स्तु॒ ||

ये वा॒जिनं᳚ परि॒पश्य᳚न्ति प॒क्वं य ई᳚मा॒हुः सु॑र॒भिर्निर्ह॒रेति॑ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

ये चार्व॑तो मांसभि॒क्षामु॒पास॑त उ॒तो तेषा᳚म॒भिगू᳚र्तिर्न इन्वतु ||{12/22}{2.3.9.2}{1.162.12}{1.22.6.12}{322, 162, 1692}

ये¦वा॒जिन᳚‌म्¦प॒रि॒ऽपश्य᳚न्ति¦प॒क्व‌म्¦ये¦ई॒‌म्¦आ॒हुः¦सु॒र॒भिः¦निः¦ह॒र॒¦इति॑ |
ये¦च॒¦अर्व॑तः¦मां॒स॒ऽभि॒क्षा‌म्¦उ॒प॒ऽआस॑ते¦उ॒तो इति॑¦तेषा᳚‌म्¦अ॒भिऽगू᳚र्तिः¦नः॒¦इ॒न्व॒तु॒ ||

यन्नीक्ष॑णं मां॒स्पच᳚न्या, उ॒खाया॒ या पात्रा᳚णि यू॒ष्ण आ॒सेच॑नानि |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

ऊ॒ष्म॒ण्या᳚पि॒धाना᳚ चरू॒णाम॒ङ्काः सू॒नाः परि॑ भूष॒न्त्यश्व᳚म् ||{13/22}{2.3.9.3}{1.162.13}{1.22.6.13}{323, 162, 1693}

यत्¦नि॒ऽईक्ष॑ण‌म्¦मां॒स्पच᳚न्याः¦उ॒खायाः᳚¦या¦पात्रा᳚णि¦यू॒ष्णः¦आ॒ऽसेच॑नानि |
ऊ॒ष्म॒ण्या᳚¦अ॒पि॒ऽधाना᳚¦च॒रू॒णा‌म्¦अ॒ङ्काः¦सू॒नाः¦परि॑¦भू॒ष॒न्ति॒¦अश्व᳚‌म् ||

नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त॑नं॒ यच्च॒ पड्बी᳚श॒मर्व॑तः |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

यच्च॑ प॒पौ यच्च॑ घा॒सिं ज॒घास॒ सर्वा॒ ता ते॒, अपि॑ दे॒वेष्व॑स्तु ||{14/22}{2.3.9.4}{1.162.14}{1.22.6.14}{324, 162, 1694}

नि॒ऽक्रम॑ण‌म्¦नि॒ऽसद॑न‌म्¦वि॒ऽवर्त॑न‌म्¦यत्¦च॒¦पड्बी᳚श‌म्¦अर्व॑तः |
यत्¦च॒¦प॒पौ¦यत्¦च॒¦घा॒सि‌म्¦ज॒घास॑¦सर्वा᳚¦ता¦ते॒¦अपि॑¦दे॒वेषु॑¦अ॒स्तु॒ ||

मा त्वा॒ग्निर्ध्व॑नयीद्‌ धू॒मग᳚न्धि॒र्मोखा भ्राज᳚न्त्य॒भि वि॑क्त॒ जघ्रिः॑ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

इ॒ष्टं वी॒तम॒भिगू᳚र्तं॒ वष॑ट्कृतं॒ तं दे॒वासः॒ प्रति॑ गृभ्ण॒न्त्यश्व᳚म् ||{15/22}{2.3.9.5}{1.162.15}{1.22.6.15}{325, 162, 1695}

मा¦त्वा॒¦अ॒ग्निः¦ध्व॒न॒यी॒त्¦धू॒मऽग᳚न्धिः¦मा¦उ॒खा¦भ्राज᳚न्ती¦अ॒भि¦वि॒क्त॒¦जघ्रिः॑ |
इ॒ष्ट‌म्¦वी॒त‌म्¦अ॒भिऽगू᳚र्त‌म्¦वष॑ट्ऽकृत‌म्¦त‌म्¦दे॒वासः॑¦प्रति॑¦गृ॒भ्ण॒न्ति॒¦अश्व᳚‌म् ||

यदश्वा᳚य॒ वास॑ उपस्तृ॒णन्त्य॑धीवा॒सं या हिर᳚ण्यान्यस्मै |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

सं॒दान॒मर्व᳚न्तं॒ पड्बी᳚शं प्रि॒या दे॒वेष्वा या᳚मयन्ति ||{16/22}{2.3.10.1}{1.162.16}{1.22.6.16}{326, 162, 1696}

यत्¦अश्वा᳚य¦वासः॑¦उ॒प॒ऽस्तृ॒णन्ति॑¦अ॒धी॒वा॒स‌म्¦या¦हिर᳚ण्यानि¦अ॒स्मै॒ |
स॒‌म्ऽदान᳚‌म्¦अर्व᳚न्त‌म्¦पड्बी᳚श‌म्¦प्रि॒या¦दे॒वेषु॑¦आ¦य॒म॒य॒न्ति॒ ||

यत्ते᳚ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्ण्या᳚ वा॒ कश॑या वा तु॒तोद॑ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

स्रु॒चेव॒ ता ह॒विषो᳚, अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि ||{17/22}{2.3.10.2}{1.162.17}{1.22.6.17}{327, 162, 1697}

यत्¦ते॒¦सा॒दे¦मह॑सा¦शूकृ॑तस्य¦पार्ष्ण्या᳚¦वा॒¦कश॑या¦वा॒¦तु॒तोद॑ |
स्रु॒चाऽ‌इ᳚व¦ता¦ह॒विषः॑¦अ॒ध्व॒रेषु॑¦सर्वा᳚¦ता¦ते॒¦ब्रह्म॑णा¦सू॒द॒या॒मि॒ ||

चतु॑स्त्रिंशद्‌ वा॒जिनो᳚ दे॒वब᳚न्धोर्॒वङ्क्री॒रश्व॑स्य॒ स्वधि॑तिः॒ समे᳚ति |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

अच्छि॑द्रा॒ गात्रा᳚ व॒युना᳚ कृणोत॒ परु॑ष्परुरनु॒घुष्या॒ वि श॑स्त ||{18/22}{2.3.10.3}{1.162.18}{1.22.6.18}{328, 162, 1698}

चतुः॑ऽत्रिंशत्¦वा॒जिनः॑¦दे॒वऽब᳚न्धोः¦वङ्क्रीः᳚¦अश्व॑स्य¦स्वऽधि॑तिः¦स‌म्¦ए॒ति॒ |
अच्छि॑द्रा¦गात्रा᳚¦व॒युना᳚¦कृ॒णो॒त॒¦परुः॑ऽपरुः¦अ॒नु॒ऽघुष्य॑¦वि¦श॒स्त॒ ||

एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒न्तारा᳚ भवत॒स्तथ॑ ऋ॒तुः |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

या ते॒ गात्रा᳚णामृतु॒था कृ॒णोमि॒ ताता॒ पिण्डा᳚नां॒ प्र जु॑होम्य॒ग्नौ ||{19/22}{2.3.10.4}{1.162.19}{1.22.6.19}{329, 162, 1699}

एकः॑¦त्वष्टुः॑¦अश्व॑स्य¦वि॒ऽश॒स्ता¦द्वा¦य॒न्तारा᳚¦भ॒व॒तः॒¦तथा᳚¦ऋ॒तुः |
या¦ते॒¦गात्रा᳚णा‌म्¦ऋ॒तु॒ऽथा¦कृ॒णोमि॑¦ताऽता᳚¦पिण्डा᳚ना‌म्¦प्र¦जु॒हो॒मि॒¦अ॒ग्नौ ||

मा त्वा᳚ तपत्‌ प्रि॒य आ॒त्मापि॒यन्तं॒ मा स्वधि॑तिस्त॒न्व१॑(अ॒) आ ति॑ष्ठिपत्ते |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

मा ते᳚ गृ॒ध्नुर॑विश॒स्ताति॒हाय॑ छि॒द्रा गात्रा᳚ण्य॒सिना॒ मिथू᳚ कः ||{20/22}{2.3.10.5}{1.162.20}{1.22.6.20}{330, 162, 1700}

मा¦त्वा॒¦त॒प॒त्¦प्रि॒यः¦आ॒त्मा¦अ॒पि॒ऽयन्त᳚‌म्¦मा¦स्वऽधि॑तिः¦त॒न्वः॑¦आ¦ति॒स्थि॒प॒त्¦ते॒ |
मा¦ते॒¦गृ॒ध्नुः¦अ॒वि॒ऽश॒स्ता¦अ॒ति॒ऽहाय॑¦छि॒द्रा¦गात्रा᳚णि¦अ॒सिना᳚¦मिथु॑¦क॒रिति॑ कः ||

न वा, उ॑ ए॒तन्‌ म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ, इदे᳚षि प॒थिभिः॑ सु॒गेभिः॑ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

हरी᳚ ते॒ युञ्जा॒ पृष॑ती, अभूता॒मुपा᳚स्थाद्‌ वा॒जी धु॒रि रास॑भस्य ||{21/22}{2.3.10.6}{1.162.21}{1.22.6.21}{331, 162, 1701}

न¦वै¦ऊँ॒ इति॑¦ए॒तत्¦म्रि॒य॒से॒¦न¦रि॒ष्य॒सि॒¦दे॒वान्¦इत्¦ए॒षि॒¦प॒थिऽभिः॑¦सु॒ऽगेभिः॑ |
हरी॒ इति॑¦ते॒¦युंजा᳚¦पृष॑ती॒ इति॑¦अ॒भू॒ता॒‌म्¦उप॑¦अ॒स्था॒त्¦वा॒जी¦धु॒रि¦रास॑भस्य ||

सु॒गव्यं᳚ नो वा॒जी स्वश्व्यं᳚ पुं॒सः पु॒त्राँ, उ॒त वि॑श्वा॒पुषं᳚ र॒यिम् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

अ॒ना॒गा॒स्त्वं नो॒, अदि॑तिः कृणोतु क्ष॒त्रं नो॒, अश्वो᳚ वनतां ह॒विष्मा॑न् ||{22/22}{2.3.10.7}{1.162.22}{1.22.6.22}{332, 162, 1702}

सु॒ऽगव्य᳚‌म्¦नः॒¦वा॒जी¦सु॒।आश्व्य᳚‌म्¦पुं॒सः¦पु॒त्रान्¦उ॒त¦वि॒श्व॒ऽपुष᳚‌म्¦र॒यि‌म् |
अ॒ना॒गाः॒ऽत्व‌म्¦नः॒¦अदि॑तिः¦कृ॒णो॒तु॒¦क्ष॒त्र‌म्¦नः॒¦अश्वः॑¦व॒न॒ता॒‌म्¦ह॒विष्मा॑न् ||

[42] यदक्रंदइति त्रयोदशर्चस्य सूक्तस्यौचथ्योदीर्घतमाअश्वस्त्रिष्टुप् |
यदक्र᳚न्दः प्रथ॒मं जाय॑मान उ॒द्यन्‌ त्स॑मु॒द्रादु॒त वा॒ पुरी᳚षात् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू, उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते᳚, अर्वन् ||{1/13}{2.3.11.1}{1.163.1}{1.22.7.1}{333, 163, 1703}

यत्¦अक्र᳚न्दः¦प्र॒थ॒म‌म्¦जाय॑मानः¦उ॒त्ऽयन्¦स॒मु॒द्रात्¦उ॒त¦वा॒¦पुरी᳚षात् |
श्ये॒नस्य॑¦प॒क्षा¦ह॒रि॒णस्य॑¦बा॒हू इति॑¦उ॒प॒ऽस्तुत्य᳚‌म्¦महि॑¦जा॒त‌म्¦ते॒¦अ॒र्व॒न् ||

य॒मेन॑ द॒त्तं त्रि॒त ए᳚नमायुन॒गिन्द्र॑ एणं प्रथ॒मो, अध्य॑तिष्ठत् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

ग॒न्ध॒र्वो, अ॑स्य रश॒नाम॑गृभ्णा॒त् सूरा॒दश्वं᳚ वसवो॒ निर॑तष्ट ||{2/13}{2.3.11.2}{1.163.2}{1.22.7.2}{334, 163, 1704}

य॒मेन॑¦द॒त्त‌म्¦त्रि॒तः¦ए॒न॒‌म्¦अ॒यु॒न॒क्¦इन्द्रः॑¦ए॒न॒‌म्¦प्र॒थ॒मः¦अधि॑¦अ॒ति॒ष्ठ॒त् |
ग॒न्ध॒र्वः¦अ॒स्य॒¦र॒श॒ना‌म्¦अ॒गृ॒भ्णा॒त्¦सूरा᳚त्¦अश्व᳚‌म्¦व॒स॒वः॒¦निः¦अ॒त॒ष्ट॒ ||

असि॑ य॒मो, अस्या᳚दि॒त्यो, अ᳚र्व॒न्नसि॑ त्रि॒तो गुह्ये᳚न व्र॒तेन॑ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

असि॒ सोमे᳚न स॒मया॒ विपृ॑क्त आ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि ||{3/13}{2.3.11.3}{1.163.3}{1.22.7.3}{335, 163, 1705}

असि॑¦य॒मः¦असि॑¦आ॒दि॒त्यः¦अ॒र्व॒न्¦असि॑¦त्रि॒तः¦गुह्ये᳚न¦व्र॒तेन॑ |
असि॑¦सोमे᳚न¦स॒मया᳚¦विऽपृ॑क्तः¦आ॒हुः¦ते॒¦त्रीणि॑¦दि॒वि¦बन्ध॑नानि ||

त्रीणि॑ त आहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तः स॑मु॒द्रे |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

उ॒तेव॑ मे॒ वरु॑णश्छन्‌ त्स्यर्व॒न् यत्रा᳚ त आ॒हुः प॑र॒मं ज॒नित्र᳚म् ||{4/13}{2.3.11.4}{1.163.4}{1.22.7.4}{336, 163, 1706}

त्रीणि॑¦ते॒¦आ॒हुः॒¦दि॒वि¦बन्ध॑नानि¦त्रीणि॑¦अ॒प्ऽसु¦त्रीणि॑¦अ॒न्तरिति॑¦स॒मु॒द्रे |
उ॒तऽ‌इ᳚व¦मे॒¦वरु॑णः¦छ॒न्त्सि॒¦अ॒र्व॒न्¦यत्र॑¦ते॒¦आ॒हुः¦प॒र॒म‌म्¦ज॒नित्र᳚‌म् ||

इ॒मा ते᳚ वाजिन्नव॒मार्ज॑नानी॒मा श॒फानां᳚ सनि॒तुर्नि॒धाना᳚ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

अत्रा᳚ ते भ॒द्रा र॑श॒ना, अ॑पश्यमृ॒तस्य॒ या, अ॑भि॒रक्ष᳚न्ति गो॒पाः ||{5/13}{2.3.11.5}{1.163.5}{1.22.7.5}{337, 163, 1707}

इ॒मा¦ते॒¦वा॒जि॒न्¦अ॒व॒ऽमार्ज॑नानि¦इ॒मा¦श॒फाना᳚‌म्¦स॒नि॒तुः¦नि॒ऽधाना᳚ |
अत्र॑¦ते॒¦भ॒द्राः¦र॒श॒नाः¦अ॒प॒श्य॒‌म्¦ऋ॒तस्य॑¦याः¦अ॒भि॒ऽरक्ष᳚न्ति¦गो॒पाः ||

आ॒त्मानं᳚ ते॒ मन॑सा॒राद॑जानाम॒वो दि॒वा प॒तय᳚न्तं पतं॒गम् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

शिरो᳚, अपश्यं प॒थिभिः॑ सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानं पत॒त्रि ||{6/13}{2.3.12.1}{1.163.6}{1.22.7.6}{338, 163, 1708}

आ॒त्मान᳚‌म्¦ते॒¦मन॑सा¦आ॒रात्¦अ॒जा॒ना॒‌म्¦अ॒वः¦दि॒वा¦प॒तय᳚न्त‌म्¦प॒त॒ङ्ग‌म् |
शिरः॑¦अ॒प॒श्य॒‌म्¦प॒थिऽभिः॑¦सु॒ऽगेभिः॑¦अ॒रे॒णुऽभिः॑¦जेह॑मान‌म्¦प॒त॒त्रि ||

अत्रा᳚ ते रू॒पमु॑त्त॒मम॑पश्यं॒ जिगी᳚षमाणमि॒ष आ प॒दे गोः |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

य॒दा ते॒ मर्तो॒, अनु॒ भोग॒मान॒ळादिद्‌ ग्रसि॑ष्ठ॒ ओष॑धीरजीगः ||{7/13}{2.3.12.2}{1.163.7}{1.22.7.7}{339, 163, 1709}

अत्र॑¦ते॒¦रू॒प‌म्¦उ॒त्ऽत॒म‌म्¦अ॒प॒श्य॒‌म्¦जिगी᳚षमाण‌म्¦इ॒षः¦आ¦प॒दे¦गोः |
य॒दा¦ते॒¦मर्तः॑¦अनु॑¦भोग᳚‌म्¦आन॑ट्¦आत्¦इत्¦ग्रसि॑ष्ठः¦ओष॑धीः¦अ॒जी॒ग॒रिति॑ ||

अनु॑ त्वा॒ रथो॒, अनु॒ मर्यो᳚, अर्व॒न्ननु॒ गावोऽनु॒ भगः॑ क॒नीना᳚म् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

अनु॒ व्राता᳚स॒स्तव॑ स॒ख्यमी᳚यु॒रनु॑ दे॒वा म॑मिरे वी॒र्यं᳚ ते ||{8/13}{2.3.12.3}{1.163.8}{1.22.7.8}{340, 163, 1710}

अनु॑¦त्वा॒¦रथः॑¦अनु॑¦मर्यः॑¦अ॒र्व॒न्¦अनु॑¦गावः॑¦अनु॑¦भगः॑¦क॒नीना᳚‌म् |
अनु॑¦व्राता᳚सः¦तव॑¦स॒ख्य‌म्¦ई॒युः॒¦अनु॑¦दे॒वाः¦म॒मि॒रे॒¦वी॒र्य᳚‌म्¦ते॒ ||

हिर᳚ण्यशृ॒ङ्गोऽयो᳚, अस्य॒ पादा॒ मनो᳚जवा॒, अव॑र॒ इन्द्र॑ आसीत् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

दे॒वा, इद॑स्य हवि॒रद्य॑माय॒न् यो, अर्व᳚न्तं प्रथ॒मो, अ॒ध्यति॑ष्ठत् ||{9/13}{2.3.12.4}{1.163.9}{1.22.7.9}{341, 163, 1711}

हिर᳚ण्यऽशृङ्गः¦अयः॑¦अ॒स्य॒¦पादाः᳚¦मनः॑ऽजवाः¦अव॑रः¦इन्द्रः॑¦आ॒सी॒त् |
दे॒वाः¦इत्¦अ॒स्य॒¦ह॒विः॒।आद्य᳚‌म्¦आ॒य॒न्¦यः¦अर्व᳚न्त‌म्¦प्र॒थ॒मः¦अ॒धि॒।आति॑ष्ठत् ||

ई॒र्मान्ता᳚सः॒ सिलि॑कमध्यमासः॒ सं शूर॑णासो दि॒व्यासो॒, अत्याः᳚ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

हं॒सा, इ॑व श्रेणि॒शो य॑तन्ते॒ यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वाः᳚ ||{10/13}{2.3.12.5}{1.163.10}{1.22.7.10}{342, 163, 1712}

ई॒र्म।आ᳚न्तासः¦सिलि॑कऽमध्यमासः¦स‌म्¦शूर॑णासः¦दि॒व्यासः॑¦अत्याः᳚ |
हं॒साःऽ‌इ᳚व¦श्रे॒णि॒ऽशः¦य॒त॒न्ते॒¦यत्¦आक्षि॑षुः¦दि॒व्य‌म्¦अज्म᳚‌म्¦अश्वाः᳚ ||

तव॒ शरी᳚रं पतयि॒ष्ण्व᳚र्व॒न् तव॑ चि॒त्तं वात॑ इव॒ ध्रजी᳚मान् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

तव॒ शृङ्गा᳚णि॒ विष्ठि॑ता पुरु॒त्रार᳚ण्येषु॒ जर्भु॑राणा चरन्ति ||{11/13}{2.3.13.1}{1.163.11}{1.22.7.11}{343, 163, 1713}

तव॑¦शरी᳚र‌म्¦प॒त॒यि॒ष्णु¦अ॒र्व॒न्¦तव॑¦चि॒त्त‌म्¦वातः॑ऽ‌इव¦ध्रजी᳚मान् |
तव॑¦शृङ्गा᳚णि¦विऽस्थि॑ता¦पु॒रु॒ऽत्रा¦अर᳚ण्येषु¦जर्भु॑राणा¦च॒र॒न्ति॒ ||

उप॒ प्रागा॒च्छस॑नं वा॒ज्यर्वा᳚ देव॒द्रीचा॒ मन॑सा॒ दीध्या᳚नः |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

अ॒जः पु॒रो नी᳚यते॒ नाभि॑र॒स्यानु॑ प॒श्चात्‌ क॒वयो᳚ यन्ति रे॒भाः ||{12/13}{2.3.13.2}{1.163.12}{1.22.7.12}{344, 163, 1714}

उप॑¦प्र¦अ॒गा॒त्¦शस॑न‌म्¦वा॒जी¦अर्वा᳚¦दे॒व॒द्रीचा᳚¦मन॑सा¦दीध्या᳚नः |
अ॒जः¦पु॒रः¦नी॒य॒ते॒¦नाभिः॑¦अ॒स्य॒¦अनु॑¦प॒श्चात्¦क॒वयः॑¦य॒न्ति॒¦रे॒भाः ||

उप॒ प्रागा᳚त्‌ पर॒मं यत्‌ स॒धस्थ॒मर्वाँ॒, अच्छा᳚ पि॒तरं᳚ मा॒तरं᳚ च |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

अ॒द्या दे॒वाञ्जुष्ट॑तमो॒ हि ग॒म्या, अथा शा᳚स्ते दा॒शुषे॒ वार्या᳚णि ||{13/13}{2.3.13.3}{1.163.13}{1.22.7.13}{345, 163, 1715}

उप॑¦प्र¦अ॒गा॒त्¦प॒र॒म‌म्¦यत्¦स॒धऽस्थ᳚‌म्¦अर्वा᳚न्¦अच्छ॑¦पि॒तर᳚‌म्¦मा॒तर᳚‌म्¦च॒ |
अ॒द्य¦दे॒वान्¦जुष्ट॑ऽतमः¦हि¦ग॒म्याः¦अथ॑¦आ¦शा॒स्ते॒¦दा॒शुषे᳚¦वार्या᳚णि ||

[43] अस्यवामस्येति द्विपंचाशदृचस्य सूक्तस्य औचथ्योदीर्घतमा आद्यानामेकचत्वारिंशटृचां विश्वेदेवास्तस्याः समुद्राइत्यस्यावाक्समुद्राक्षरापः शकमयमित्यस्याःशकधूमसोमौत्रयः केशिनइत्यस्याअग्निसूर्यवायवो (केशिनइतिगुणः) चत्वारिवागित्यस्यावाक्‌इंद्रंमित्रमितिद्वयोः सूर्योद्वादशप्रधयइत्यस्याः कालचक्रं (अत्रसंवत्सरसंस्थंकालचक्रवर्णनं) यस्तइत्यस्याः सरस्वतीयज्ञेनेत्यस्याः साध्याःसमानमित्यस्याः सूर्यः (पर्जन्याग्नीवा) दिव्यंसुपर्णमित्यस्याः सरस्वान् (सूर्योवा) त्रिष्टुप् द्वादशी पंचदशी त्रयोविंशी एकोनत्रिंशी षट्‌त्रिंश्येकचत्वारिं- शीचजगत्यः द्विचत्वारिंशी प्रस्तारपंक्तिः एकपंचाश्यनुष्टुप् |
अ॒स्य वा॒मस्य॑ पलि॒तस्य॒ होतु॒स्तस्य॒ भ्राता᳚ मध्य॒मो, अ॒स्त्यश्नः॑ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

तृ॒तीयो॒ भ्राता᳚ घृ॒तपृ॑ष्ठो, अ॒स्यात्रा᳚पश्यं वि॒श्पतिं᳚ स॒प्तपु॑त्रम् ||{1/52}{2.3.14.1}{1.164.1}{1.22.8.1}{346, 164, 1716}

अ॒स्य¦वा॒मस्य॑¦प॒लि॒तस्य॑¦होतुः॑¦तस्य॑¦भ्राता᳚¦म॒ध्य॒मः¦अ॒स्ति॒¦अश्नः॑ |
तृ॒तीयः॑¦भ्राता᳚¦घृ॒तऽपृ॑ष्ठः¦अ॒स्य॒¦अत्र॑¦अ॒प॒श्य॒‌म्¦वि॒श्पति᳚‌म्¦स॒प्तऽपु॑त्र‌म् ||

स॒प्त यु᳚ञ्जन्ति॒ रथ॒मेक॑चक्र॒मेको॒, अश्वो᳚ वहति स॒प्तना᳚मा |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

त्रि॒नाभि॑ च॒क्रम॒जर॑मन॒र्वं यत्रे॒मा विश्वा॒ भुव॒नाधि॑ त॒स्थुः ||{2/52}{2.3.14.2}{1.164.2}{1.22.8.2}{347, 164, 1717}

स॒प्त¦युं॒ज॒न्ति॒¦रथ᳚‌म्¦एक॑ऽचक्र‌म्¦एकः॑¦अश्वः॑¦व॒ह॒ति॒¦स॒प्तऽना᳚मा |
त्रि॒ऽनाभि॑¦च॒क्र‌म्¦अ॒जर᳚‌म्¦अ॒न॒र्व‌म्¦यत्र॑¦इ॒मा¦विश्वा᳚¦भुव॑ना¦अधि॑¦त॒स्थुः ||

इ॒मं रथ॒मधि॒ ये स॒प्त त॒स्थुः स॒प्तच॑क्रं स॒प्त व॑ह॒न्त्यश्वाः᳚ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

स॒प्त स्वसा᳚रो, अ॒भि सं न॑वन्ते॒ यत्र॒ गवां॒ निहि॑ता स॒प्त नाम॑ ||{3/52}{2.3.14.3}{1.164.3}{1.22.8.3}{348, 164, 1718}

इ॒म‌म्¦रथ᳚‌म्¦अधि॑¦ये¦स॒प्त¦त॒स्थुः¦स॒प्तऽच॑क्र‌म्¦स॒प्त¦व॒ह॒न्ति॒¦अश्वाः᳚ |
स॒प्त¦स्वसा᳚रः¦अ॒भि¦स‌म्¦न॒व॒न्ते॒¦यत्र॑¦गवा᳚‌म्¦निऽहि॑ता¦स॒प्त¦नाम॑ ||

को द॑दर्श प्रथ॒मं जाय॑मानमस्थ॒न्वन्तं॒ यद॑न॒स्था बिभ॑र्ति |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

भूम्या॒, असु॒रसृ॑गा॒त्मा क्व॑ स्वि॒त् को वि॒द्वांस॒मुप॑ गा॒त्‌ प्रष्टु॑मे॒तत् ||{4/52}{2.3.14.4}{1.164.4}{1.22.8.4}{349, 164, 1719}

कः¦द॒द॒र्श॒¦प्र॒थ॒म‌म्¦जाय॑मान‌म्¦अ॒स्थ॒न्ऽवन्त᳚‌म्¦यत्¦अ॒न॒स्था¦बिभ॑र्ति |
भूम्याः᳚¦असुः॑¦असृ॑क्¦आ॒त्मा¦क्व॑¦स्वि॒त्¦कः¦वि॒द्वांस᳚‌म्¦उप॑¦गा॒त्¦प्रष्टु᳚‌म्¦ए॒तत् ||

पाकः॑ पृच्छामि॒ मन॒सावि॑जानन् दे॒वाना᳚मे॒ना निहि॑ता प॒दानि॑ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

व॒त्से ब॒ष्कयेऽधि॑ स॒प्त तन्तू॒न् वि त॑त्निरे क॒वय॒ ओत॒वा, उ॑ ||{5/52}{2.3.14.5}{1.164.5}{1.22.8.5}{350, 164, 1720}

पाकः॑¦पृ॒च्छा॒मि॒¦मन॑सा¦अवि॑ऽजानन्¦दे॒वाना᳚‌म्¦ए॒ना¦निऽहि॑ता¦प॒दानि॑ |
व॒त्से¦ब॒ष्कये᳚¦अधि॑¦स॒प्त¦तन्तू᳚न्¦वि¦त॒त्नि॒रे॒¦क॒वयः॑¦ओत॒वै¦ऊँ॒ इति॑ ||

अचि॑कित्वाञ्चिकि॒तुष॑श्चि॒दत्र॑ क॒वीन्‌ पृ॑च्छामि वि॒द्मने॒ न वि॒द्वान् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

वि यस्त॒स्तम्भ॒ षळि॒मा रजां᳚स्य॒जस्य॑ रू॒पे किमपि॑ स्वि॒देक᳚म् ||{6/52}{2.3.15.1}{1.164.6}{1.22.8.6}{351, 164, 1721}

अचि॑कित्वान्¦चि॒कि॒तुषः॑¦चि॒त्¦अत्र॑¦क॒वीन्¦पृ॒च्छा॒मि॒¦वि॒द्मने᳚¦न¦वि॒द्वान् |
वि¦यः¦त॒स्तम्भ॑¦षट्¦इ॒मा¦रजां᳚सि¦अ॒जस्य॑¦रू॒पे¦कि‌म्¦अपि॑¦स्वि॒त्¦एक᳚‌म् ||

इ॒ह ब्र॑वीतु॒ य ई᳚म॒ङ्ग वेदा॒स्य वा॒मस्य॒ निहि॑तं प॒दं वेः |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

शी॒र्ष्णः, क्षी॒रं दु॑ह्रते॒ गावो᳚, अस्य व॒व्रिं वसा᳚ना, उद॒कं प॒दापुः॑ ||{7/52}{2.3.15.2}{1.164.7}{1.22.8.7}{352, 164, 1722}

इ॒ह¦ब्र॒वी॒तु॒¦यः¦ई॒‌म्¦अ॒ङ्ग¦वेद॑¦अ॒स्य¦वा॒मस्य॑¦निऽहि॑त‌म्¦प॒द‌म्¦वेरिति॒ वेः |
शी॒र्ष्णः¦क्षी॒र‌म्¦दु॒ह्र॒ते॒¦गावः॑¦अ॒स्य॒¦व॒व्रि‌म्¦वसा᳚नाः¦उ॒द॒क‌म्¦प॒दा¦अ॒पुः॒ ||

मा॒ता पि॒तर॑मृ॒त आ ब॑भाज धी॒त्यग्रे॒ मन॑सा॒ सं हि ज॒ग्मे |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

सा बी᳚भ॒त्सुर्गर्भ॑रसा॒ निवि॑द्धा॒ नम॑स्वन्त॒ इदु॑पवा॒कमी᳚युः ||{8/52}{2.3.15.3}{1.164.8}{1.22.8.8}{353, 164, 1723}

मा॒ता¦पि॒तर᳚‌म्¦ऋ॒ते¦आ¦ब॒भा॒ज॒¦धी॒ती¦अग्रे᳚¦मन॑सा¦स‌म्¦हि¦ज॒ग्मे |
सा¦बी॒भ॒त्सुः¦गर्भ॑ऽरसा¦निऽवि॑द्धा¦नम॑स्वन्तः¦इत्¦उ॒प॒ऽवा॒क‌म्¦ई॒युः॒ ||

यु॒क्ता मा॒तासी᳚द्‌ धु॒रि दक्षि॑णाया॒, अति॑ष्ठ॒द्‌ गर्भो᳚ वृज॒नीष्व॒न्तः |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

अमी᳚मेद्‌ व॒त्सो, अनु॒ गाम॑पश्यद् विश्वरू॒प्यं᳚ त्रि॒षु योज॑नेषु ||{9/52}{2.3.15.4}{1.164.9}{1.22.8.9}{354, 164, 1724}

यु॒क्ता¦मा॒ता¦आ॒सी॒त्¦धु॒रि¦दक्षि॑णायाः¦अति॑ष्ठत्¦गर्भः॑¦वृ॒ज॒नीषु॑¦अ॒न्तरिति॑ |
अमी᳚मेत्¦व॒त्सः¦अनु॑¦गा‌म्¦अ॒प॒श्य॒त्¦वि॒श्व॒ऽरू॒प्य᳚‌म्¦त्रि॒षु¦योज॑नेषु ||

ति॒स्रो मा॒तॄस्त्रीन्‌ पि॒तॄन्‌ बिभ्र॒देक॑ ऊ॒र्ध्वस्त॑स्थौ॒ नेमव॑ ग्लापयन्ति |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

म॒न्त्रय᳚न्ते दि॒वो, अ॒मुष्य॑ पृ॒ष्ठे वि॑श्व॒विदं॒ वाच॒मवि॑श्वमिन्वाम् ||{10/52}{2.3.15.5}{1.164.10}{1.22.8.10}{355, 164, 1725}

ति॒स्रः¦मा॒तॄः¦त्रीन्¦पि॒तॄन्¦बिभ्र॑त्¦एकः॑¦ऊ॒र्ध्वः¦त॒स्थौ॒¦न¦ई॒‌म्¦अव॑¦ग्ल॒प॒य॒न्ति॒ |
म॒न्त्रय᳚न्ते¦दि॒वः¦अ॒मुष्य॑¦पृ॒ष्ठे¦वि॒श्व॒ऽविद᳚‌म्¦वाच᳚‌म्¦अवि॑श्वऽमिन्वा‌म् ||

द्वाद॑शारं न॒हि तज्जरा᳚य॒ वर्व॑र्ति च॒क्रं परि॒ द्यामृ॒तस्य॑ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

आ पु॒त्रा, अ॑ग्ने मिथु॒नासो॒, अत्र॑ स॒प्त श॒तानि॑ विंश॒तिश्च॑ तस्थुः ||{11/52}{2.3.16.1}{1.164.11}{1.22.8.11}{356, 164, 1726}

द्वाद॑श।आर‌म्¦न॒हि¦तत्¦जरा᳚य¦वर्व॑र्ति¦च॒क्र‌म्¦परि॑¦द्या‌म्¦ऋ॒तस्य॑ |
आ¦पु॒त्राः¦अ॒ग्ने॒¦मि॒थु॒नासः॑¦अत्र॑¦स॒प्त¦श॒तानि॑¦विं॒श॒तिः¦च॒¦त॒स्थुः॒ ||

पञ्च॑पादं पि॒तरं॒ द्वाद॑शाकृतिं दि॒व आ᳚हुः॒ परे॒, अर्धे᳚ पुरी॒षिण᳚म् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती}

अथे॒मे, अ॒न्य उप॑रे विचक्ष॒णं स॒प्तच॑क्रे॒ षळ॑र आहु॒रर्पि॑तम् ||{12/52}{2.3.16.2}{1.164.12}{1.22.8.12}{357, 164, 1727}

पंच॑ऽपाद‌म्¦पि॒तर᳚‌म्¦द्वाद॑शऽआकृति‌म्¦दि॒वः¦आ॒हुः॒¦परे᳚¦अर्धे᳚¦पु॒री॒षिण᳚‌म् |
अथ॑¦इ॒मे¦अ॒न्ये¦उप॑रे¦वि॒ऽच॒क्ष॒ण‌म्¦स॒प्तऽच॑क्रे¦षट्।आ॑रे¦आ॒हुः॒¦अर्पि॑त‌म् ||

पञ्चा᳚रे च॒क्रे प॑रि॒वर्त॑माने॒ तस्मि॒न्ना त॑स्थु॒र्भुव॑नानि॒ विश्वा᳚ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

तस्य॒ नाक्ष॑स्तप्यते॒ भूरि॑भारः स॒नादे॒व न शी᳚र्यते॒ सना᳚भिः ||{13/52}{2.3.16.3}{1.164.13}{1.22.8.13}{358, 164, 1728}

पंच॑।आरे¦च॒क्रे¦प॒रि॒ऽवर्त॑माने¦तस्मि॑न्¦आ¦त॒स्थुः॒¦भुव॑नानि¦विश्वा᳚ |
तस्य॑¦न¦अक्षः॑¦त॒प्य॒ते॒¦भूरि॑ऽभारः¦स॒नात्¦ए॒व¦न¦शी॒र्य॒ते॒¦सऽना᳚भिः ||

सने᳚मि च॒क्रम॒जरं॒ वि वा᳚वृत उत्ता॒नायां॒ दश॑ यु॒क्ता व॑हन्ति |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

सूर्य॑स्य॒ चक्षू॒ रज॑सै॒त्यावृ॑तं॒ तस्मि॒न्नार्पि॑ता॒ भुव॑नानि॒ विश्वा᳚ ||{14/52}{2.3.16.4}{1.164.14}{1.22.8.14}{359, 164, 1729}

सऽने᳚मि¦च॒क्र‌म्¦अ॒जर᳚‌म्¦वि¦व॒वृ॒ते॒¦उ॒त्ता॒नाया᳚‌म्¦दश॑¦यु॒क्ताः¦व॒ह॒न्ति॒ |
सूर्य॑स्य¦चक्षुः॑¦रज॑सा¦ए॒ति॒¦आऽवृ॑त‌म्¦तस्मि॑न्¦आर्पि॑ता¦भुव॑नानि¦विश्वा᳚ ||

सा॒कं॒जानां᳚ स॒प्तथ॑माहुरेक॒जं षळिद्‌ य॒मा, ऋष॑यो देव॒जा, इति॑ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती}

तेषा᳚मि॒ष्टानि॒ विहि॑तानि धाम॒शः स्था॒त्रे रे᳚जन्ते॒ विकृ॑तानि रूप॒शः ||{15/52}{2.3.16.5}{1.164.15}{1.22.8.15}{360, 164, 1730}

सा॒क॒‌म्ऽजाना᳚‌म्¦स॒प्तथ᳚‌म्¦आ॒हुः॒¦ए॒क॒ऽज‌म्¦षट्¦इत्¦य॒माः¦ऋष॑यः¦दे॒व॒ऽजाः¦इति॑ |
तेषा᳚‌म्¦इ॒ष्टानि॑¦विऽहि॑तानि¦धा॒म॒ऽशः¦स्था॒त्रे¦रे॒ज॒न्ते॒¦विऽकृ॑तानि¦रू॒प॒ऽशः ||

स्त्रियः॑ स॒तीस्ताँ, उ॑ मे पुं॒स आ᳚हुः॒ पश्य॑दक्ष॒ण्वान्‌ न वि चे᳚तद॒न्धः |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

क॒विर्यः पु॒त्रः स ई॒मा चि॑केत॒ यस्ता वि॑जा॒नात्‌ स पि॒तुष्पि॒तास॑त् ||{16/52}{2.3.17.1}{1.164.16}{1.22.8.16}{361, 164, 1731}

स्त्रियः॑¦स॒तीः¦तान्¦ऊँ॒ इति॑¦मे॒¦पुं॒सः¦आ॒हुः॒¦पश्य॑त्¦अ॒क्ष॒ण्ऽवान्¦न¦वि¦चे॒त॒त्¦अ॒न्धः |
क॒विः¦यः¦पु॒त्रः¦सः¦ई॒‌म्¦आ¦चि॒के॒त॒¦यः¦ता¦वि॒ऽजा॒नात्¦सः¦पि॒तुः¦पि॒ता¦अ॒स॒त् ||

अ॒वः परे᳚ण प॒र ए॒नाव॑रेण प॒दा व॒त्सं बिभ्र॑ती॒ गौरुद॑स्थात् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

सा क॒द्रीची॒ कं स्वि॒दर्धं॒ परा᳚गा॒त् क्व॑ स्वित्‌ सूते न॒हि यू॒थे, अ॒न्तः ||{17/52}{2.3.17.2}{1.164.17}{1.22.8.17}{362, 164, 1732}

अ॒वः¦परे᳚ण¦प॒रः¦ए॒ना¦अव॑रेण¦प॒दा¦व॒त्स‌म्¦बिभ्र॑ती¦गौः¦उत्¦अ॒स्था॒त् |
सा¦क॒द्रीची᳚¦क‌म्¦स्वि॒त्¦अर्ध᳚‌म्¦परा᳚¦अ॒गा॒त्¦क्व॑¦स्वि॒त्¦सू॒ते॒¦न॒हि¦यू॒थे¦अ॒न्तरिति॑ ||

अ॒वः परे᳚ण पि॒तरं॒ यो, अ॑स्यानु॒वेद॑ प॒र ए॒नाव॑रेण |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

क॒वी॒यमा᳚नः॒ क इ॒ह प्र वो᳚चद् दे॒वं मनः॒ कुतो॒, अधि॒ प्रजा᳚तम् ||{18/52}{2.3.17.3}{1.164.18}{1.22.8.18}{363, 164, 1733}

अ॒वः¦परे᳚ण¦पि॒तर᳚‌म्¦यः¦अ॒स्य॒¦अ॒नु॒ऽवेद॑¦प॒रः¦ए॒ना¦अव॑रेण |
क॒वि॒ऽयमा᳚नः¦कः¦इ॒ह¦प्र¦वो॒च॒त्¦दे॒व‌म्¦मनः॑¦कुतः॑¦अधि॑¦प्रऽजा᳚त‌म् ||

ये, अ॒र्वाञ्च॒स्ताँ, उ॒ परा᳚च आहु॒र्ये परा᳚ञ्च॒स्ताँ, उ॑ अ॒र्वाच॑ आहुः |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

इन्द्र॑श्च॒ या च॒क्रथुः॑ सोम॒ तानि॑ धु॒रा न यु॒क्ता रज॑सो वहन्ति ||{19/52}{2.3.17.4}{1.164.19}{1.22.8.19}{364, 164, 1734}

ये¦अ॒र्वांचः॑¦तान्¦ऊँ॒ इति॑¦परा᳚चः¦आ॒हुः॒¦ये¦परां᳚चः¦तान्¦ऊँ॒ इति॑¦अ॒र्वाचः॑¦आ॒हुः॒ |
इन्द्रः॑¦च॒¦या¦च॒क्रथुः॑¦सो॒म॒¦तानि॑¦धु॒रा¦न¦यु॒क्ताः¦रज॑सः¦व॒ह॒न्ति॒ ||

द्वा सु॑प॒र्णा स॒युजा॒ सखा᳚या समा॒नं वृ॒क्षं परि॑ षस्वजाते |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

तयो᳚र॒न्यः पिप्प॑लं स्वा॒द्वत्‌ त्यन॑श्नन्न॒न्यो, अ॒भि चा᳚कशीति ||{20/52}{2.3.17.5}{1.164.20}{1.22.8.20}{365, 164, 1735}

द्वा¦सु॒ऽप॒र्णा¦स॒ऽयुजा᳚¦सखा᳚या¦स॒म॒न‌म्¦वृ॒क्ष‌म्¦परि॑¦स॒स्व॒जा॒ते॒ इति॑ |
तयोः᳚¦अ॒न्यः¦पिप्प॑ल‌म्¦स्वा॒दु¦अत्ति॑¦अन॑श्नन्¦अ॒न्यः¦अ॒भि¦चा॒क॒शी॒ति॒ ||

यत्रा᳚ सुप॒र्णा, अ॒मृत॑स्य भा॒गमनि॑मेषं वि॒दथा᳚भि॒स्वर᳚न्ति |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

इ॒नो विश्व॑स्य॒ भुव॑नस्य गो॒पाः स मा॒ धीरः॒ पाक॒मत्रा वि॑वेश ||{21/52}{2.3.18.1}{1.164.21}{1.22.8.21}{366, 164, 1736}

यत्र॑¦सु॒ऽप॒र्णाः¦अ॒मृत॑स्य¦भा॒ग‌म्¦अनि॑ऽमेष‌म्¦वि॒दथा᳚¦अ॒भि॒ऽस्वर᳚न्ति |
इ॒नः¦विश्व॑स्य¦भुव॑नस्य¦गो॒पाः¦सः¦मा॒¦धीरः॑¦पाक᳚‌म्¦अत्र॑¦आ¦वि॒वे॒श॒ ||

यस्मि᳚न्‌ वृ॒क्षे म॒ध्वदः॑ सुप॒र्णा नि॑वि॒शन्ते॒ सुव॑ते॒ चाधि॒ विश्वे᳚ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

तस्येदा᳚हुः॒ पिप्प॑लं स्वा॒द्वग्रे॒ तन्नोन्न॑श॒द्यः पि॒तरं॒ न वेद॑ ||{22/52}{2.3.18.2}{1.164.22}{1.22.8.22}{367, 164, 1737}

यस्मि॑न्¦वृ॒क्षे¦म॒धु॒।आदः॑¦सु॒ऽप॒र्णाः¦नि॒ऽवि॒शन्ते᳚¦सुव॑ते¦च॒¦अधि॑¦विश्वे᳚ |
तस्य॑¦इत्¦आ॒हुः॒¦पिप्प॑ल‌म्¦स्वा॒दु¦अग्रे᳚¦तत्¦न¦उत्¦न॒श॒त्¦यः¦पि॒तर᳚‌म्¦न¦वेद॑ ||

यद्‌ गा᳚य॒त्रे, अधि॑ गाय॒त्रमाहि॑तं॒ त्रैष्टु॑भाद्‌ वा॒ त्रैष्टु॑भं नि॒रत॑क्षत |{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती}

यद्‌ वा॒ जग॒ज्जग॒त्याहि॑तं प॒दं य इत्तद्‌ वि॒दुस्ते, अ॑मृत॒त्वमा᳚नशुः ||{23/52}{2.3.18.3}{1.164.23}{1.22.8.23}{368, 164, 1738}

यत्¦गा॒य॒त्रे¦अधि॑¦गा॒य॒त्र‌म्¦आऽहि॑त‌म्¦त्रैस्तु॑भात्¦वा॒¦त्रैस्तु॑भ‌म्¦निः॒।आत॑क्षत |
यत्¦वा॒¦जग॑त्¦जग॑ति¦आऽहि॑त‌म्¦प॒द‌म्¦ये¦इत्¦तत्¦वि॒दुः¦ते¦अ॒मृ॒त॒ऽत्व‌म्¦आ॒न॒शुः॒ ||

गा॒य॒त्रेण॒ प्रति॑ मिमीते, अ॒र्कम॒र्केण॒ साम॒ त्रैष्टु॑भेन वा॒कम् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

वा॒केन॑ वा॒कं द्वि॒पदा॒ चतु॑ष्पदा॒क्षरे᳚ण मिमते स॒प्त वाणीः᳚ ||{24/52}{2.3.18.4}{1.164.24}{1.22.8.24}{369, 164, 1739}

गा॒य॒त्रेण॑¦प्रति॑¦मि॒मी॒ते॒¦अ॒र्क‌म्¦अ॒र्केण॑¦साम॑¦त्रैस्तु॑भेन¦वा॒क‌म् |
वा॒केन॑¦वा॒क‌म्¦द्वि॒ऽपदा᳚¦चतुः॑ऽपदा¦अ॒क्षरे᳚ण¦मि॒म॒ते॒¦स॒प्त¦वाणीः᳚ ||

जग॑ता॒ सिन्धुं᳚ दि॒व्य॑स्तभायद् रथंत॒रे सूर्यं॒ पर्य॑पश्यत् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

गा॒य॒त्रस्य॑ स॒मिध॑स्ति॒स्र आ᳚हु॒स्ततो᳚ म॒ह्ना प्र रि॑रिचे महि॒त्वा ||{25/52}{2.3.18.5}{1.164.25}{1.22.8.25}{370, 164, 1740}

जग॑ता¦सिन्धु᳚‌म्¦दि॒वि¦अ॒स्त॒भा॒य॒त्¦र॒थ॒‌म्ऽत॒रे¦सूर्य᳚‌म्¦परि॑¦अ॒प॒श्य॒त् |
गा॒य॒त्रस्य॑¦स॒‌म्ऽ‌इधः॑¦ति॒स्रः¦आ॒हुः॒¦ततः॑¦म॒ह्रा¦प्र¦रि॒रि॒चे॒¦म॒हि॒ऽत्वा ||

उप॑ ह्वये सु॒दुघां᳚ धे॒नुमे॒तां सु॒हस्तो᳚ गो॒धुगु॒त दो᳚हदेनाम् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

श्रेष्ठं᳚ स॒वं स॑वि॒ता सा᳚विषन्नो॒ऽभी᳚द्धो घ॒र्मस्तदु॒ षु प्र वो᳚चम् ||{26/52}{2.3.19.1}{1.164.26}{1.22.8.26}{371, 164, 1741}

उप॑¦ह्व॒ये॒¦सु॒ऽदुघा᳚‌म्¦धे॒नु‌म्¦ए॒ता‌म्¦सु॒ऽहस्तः॑¦गो॒ऽधुक्¦उ॒त¦दो॒ह॒त्¦ए॒ना॒‌म् |
श्रेष्ठ᳚‌म्¦स॒व‌म्¦स॒वि॒ता¦सा॒वि॒ष॒त्¦नः॒¦अ॒भिऽ‌इ᳚द्धः¦घ॒र्मः¦तत्¦ऊँ॒ इति॑¦सु¦प्र¦वो॒च॒‌म् ||

हि॒ङ्कृ॒ण्व॒ती व॑सु॒पत्नी॒ वसू᳚नां व॒त्समि॒च्छन्ती॒ मन॑सा॒भ्यागा᳚त् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

दु॒हाम॒श्विभ्यां॒ पयो᳚, अ॒घ्न्येयं सा व॑र्धतां मह॒ते सौभ॑गाय ||{27/52}{2.3.19.2}{1.164.27}{1.22.8.27}{372, 164, 1742}

हि॒ङ्ऽकृ॒ण्व॒ती¦व॒सु॒ऽपत्नी᳚¦वसू᳚ना‌म्¦व॒त्स‌म्¦इ॒च्छन्ती᳚¦मन॑सा¦अ॒भि¦आ¦अ॒गा॒त् |
दु॒हा‌म्¦अ॒श्विऽभ्या᳚‌म्¦पयः॑¦अ॒घ्न्या¦इ॒य‌म्¦सा¦व॒र्ध॒ता॒‌म्¦म॒ह॒ते¦सौभ॑गाय ||

गौर॑मीमे॒दनु॑ व॒त्सं मि॒षन्तं᳚ मू॒र्धानं॒ हिङ्ङ॑कृणो॒न्मात॒वा, उ॑ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

सृक्वा᳚णं घ॒र्मम॒भि वा᳚वशा॒ना मिमा᳚ति मा॒युं पय॑ते॒ पयो᳚भिः ||{28/52}{2.3.19.3}{1.164.28}{1.22.8.28}{373, 164, 1743}

गौः¦अ॒मी॒मे॒त्¦अनु॑¦व॒त्स‌म्¦मि॒षन्त᳚‌म्¦मू॒र्धान᳚‌म्¦हिङ्¦अ॒कृ॒णो॒त्¦मात॒वै¦ऊँ॒ इति॑ |
सृक्वा᳚ण‌म्¦घ॒र्म‌म्¦अ॒भि¦वा॒व॒शा॒ना¦मिमा᳚ति¦मा॒यु‌म्¦पय॑ते¦पयः॑ऽभिः ||

अ॒यं स शि᳚ङ्क्ते॒ येन॒ गौर॒भीवृ॑ता॒ मिमा᳚ति मा॒युं ध्व॒सना॒वधि॑ श्रि॒ता |{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती}

सा चि॒त्तिभि॒र्नि हि च॒कार॒ मर्त्यं᳚ वि॒द्युद्‌ भव᳚न्ती॒ प्रति॑ व॒व्रिमौ᳚हत ||{29/52}{2.3.19.4}{1.164.29}{1.22.8.29}{374, 164, 1744}

अ॒य‌म्¦सः¦शि॒ङ्क्ते॒¦येन॑¦गौः¦अ॒भिऽवृ॑ता¦मिमा᳚ति¦मा॒यु‌म्¦ध्व॒सनौ᳚¦अधि॑¦श्रि॒ता |
सा¦चि॒त्तिऽभिः॑¦नि¦हि¦च॒कार॑¦मर्त्य᳚‌म्¦वि॒ऽद्युत्¦भव᳚न्ती¦प्रति॑¦व॒व्रि‌म्¦औ॒ह॒त॒ ||

अ॒नच्छ॑ये तु॒रगा᳚तु जी॒वमेज॑द्‌ ध्रु॒वं मध्य॒ आ प॒स्त्या᳚नाम् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

जी॒वो मृ॒तस्य॑ चरति स्व॒धाभि॒रम॑र्त्यो॒ मर्त्ये᳚ना॒ सयो᳚निः ||{30/52}{2.3.19.5}{1.164.30}{1.22.8.30}{375, 164, 1745}

अ॒नत्¦श॒ये॒¦तु॒रऽगा᳚तु¦जी॒व‌म्¦एज॑त्¦ध्रु॒व‌म्¦मध्ये᳚¦आ¦प॒स्त्या᳚ना‌म् |
जी॒वः¦मृ॒तस्य॑¦च॒र॒ति॒¦स्व॒धाभिः॑¦अम॑र्त्यः¦मर्त्ये᳚न¦सऽयो᳚निः ||

अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा᳚ च प॒थिभि॒श्चर᳚न्तम् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

स स॒ध्रीचीः॒ स विषू᳚ची॒र्वसा᳚न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ||{31/52}{2.3.20.1}{1.164.31}{1.22.8.31}{376, 164, 1746}

अप॑श्य‌म्¦गो॒पा‌म्¦अनि॑ऽपद्यमान‌म्¦आ¦च॒¦परा᳚¦च॒¦प॒थिऽभिः॑¦चर᳚न्त‌म् |
सः¦स॒ध्रीचीः᳚¦सः¦विषू᳚चीः¦वसा᳚नः¦आ¦व॒री॒व॒र्ति॒¦भुव॑नेषु¦अ॒न्तरिति॑ ||

य ईं᳚ च॒कार॒ न सो, अ॒स्य वे᳚द॒ य ईं᳚ द॒दर्श॒ हिरु॒गिन्नु तस्मा᳚त् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

स मा॒तुर्योना॒ परि॑वीतो, अ॒न्तर्ब॑हुप्र॒जा निरृ॑ति॒मा वि॑वेश ||{32/52}{2.3.20.2}{1.164.32}{1.22.8.32}{377, 164, 1747}

यः¦ई॒‌म्¦च॒कार॑¦न¦सः¦अ॒स्य¦वे॒द॒¦यः¦ई॒‌म्¦द॒दर्श॑¦हिरु॑क्¦इत्¦नु¦तस्मा᳚त् |
सः¦मा॒तुः¦योना᳚¦परि॑ऽवीतः¦अ॒न्तः¦ब॒हु॒ऽप्र॒जाः¦निःऽऋ॑ति‌म्¦आ¦वि॒वे॒श॒ ||

द्यौर्मे᳚ पि॒ता ज॑नि॒ता नाभि॒रत्र॒ बन्धु᳚र्मे मा॒ता पृ॑थि॒वी म॒हीयम् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

उ॒त्ता॒नयो᳚श्च॒म्वो॒३॑(ओ॒)र्योनि॑र॒न्तरत्रा᳚ पि॒ता दु॑हि॒तुर्गर्भ॒माधा᳚त् ||{33/52}{2.3.20.3}{1.164.33}{1.22.8.33}{378, 164, 1748}

द्यौः¦मे॒¦पि॒ता¦ज॒नि॒ता¦नाभिः॑¦अत्र॑¦बन्धुः॑¦मे॒¦मा॒ता¦पृ॒थि॒वी¦म॒ही¦इ॒य‌म् |
उ॒त्ता॒नयोः᳚¦च॒म्वोः᳚¦योनिः॑¦अ॒न्तः¦अत्र॑¦पि॒ता¦दु॒हि॒तुः¦गर्भ᳚‌म्¦आ¦अ॒धा॒त् ||

पृ॒च्छामि॑ त्वा॒ पर॒मन्तं᳚ पृथि॒व्याः पृ॒च्छामि॒ यत्र॒ भुव॑नस्य॒ नाभिः॑ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

पृ॒च्छामि॑ त्वा॒ वृष्णो॒, अश्व॑स्य॒ रेतः॑ पृ॒च्छामि॑ वा॒चः प॑र॒मं व्यो᳚म ||{34/52}{2.3.20.4}{1.164.34}{1.22.8.34}{379, 164, 1749}

पृ॒च्छामि॑¦त्वा॒¦पर᳚‌म्¦अन्त᳚‌म्¦पृ॒थि॒व्याः¦पृ॒च्छामि॑¦यत्र॑¦भुव॑नस्य¦नाभिः॑ |
पृ॒च्छामि॑¦त्वा॒¦वृष्णः॑¦अश्व॑स्य¦रेतः॑¦पृ॒च्छामि॑¦वा॒चः¦प॒र॒म‌म्¦विऽओ᳚म ||

इ॒यं वेदिः॒ परो॒, अन्तः॑ पृथि॒व्या, अ॒यं य॒ज्ञो भुव॑नस्य॒ नाभिः॑ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

अ॒यं सोमो॒ वृष्णो॒, अश्व॑स्य॒ रेतो᳚ ब्र॒ह्मायं वा॒चः प॑र॒मं व्यो᳚म ||{35/52}{2.3.20.5}{1.164.35}{1.22.8.35}{380, 164, 1750}

इ॒य‌म्¦वेदिः॑¦परः॑¦अन्तः॑¦पृ॒थि॒व्याः¦अ॒य‌म्¦य॒ज्ञः¦भुव॑नस्य¦नाभिः॑ |
अ॒य‌म्¦सोमः॑¦वृष्णः॑¦अश्व॑स्य¦रेतः॑¦ब्र॒ह्मा¦अ॒य‌म्¦वा॒चः¦प॒र॒म‌म्¦विऽओ᳚म ||

स॒प्तार्ध॑ग॒र्भा भुव॑नस्य॒ रेतो॒ विष्णो᳚स्तिष्ठन्ति प्र॒दिशा॒ विध᳚र्मणि |{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती}

ते धी॒तिभि॒र्मन॑सा॒ ते वि॑प॒श्चितः॑ परि॒भुवः॒ परि॑ भवन्ति वि॒श्वतः॑ ||{36/52}{2.3.21.1}{1.164.36}{1.22.8.36}{381, 164, 1751}

स॒प्त¦अ॒र्ध॒ऽग॒र्भाः¦भुव॑नस्य¦रेतः॑¦विष्णोः᳚¦ति॒ष्ठ॒न्ति॒¦प्र॒ऽदिशा᳚¦विऽध᳚र्मणि |
ते¦धी॒तिऽभिः॑¦मन॑सा¦ते¦वि॒पः॒ऽचितः॑¦प॒रि॒ऽभुवः॑¦परि॑¦भ॒व॒न्ति॒¦वि॒श्वतः॑ ||

न वि जा᳚नामि॒ यदि॑वे॒दमस्मि॑ नि॒ण्यः संन॑द्धो॒ मन॑सा चरामि |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

य॒दा माग᳚न्‌ प्रथम॒जा, ऋ॒तस्यादिद्‌ वा॒चो, अ॑श्नुवे भा॒गम॒स्याः ||{37/52}{2.3.21.2}{1.164.37}{1.22.8.37}{382, 164, 1752}

न¦वि¦जा॒ना॒मि॒¦यत्ऽ‌इ᳚व¦इ॒द‌म्¦अस्मि॑¦नि॒ण्यः¦स‌म्ऽन॑द्धः¦मन॑सा¦च॒रा॒मि॒ |
य॒दा¦मा॒¦आ¦अग॑न्¦प्र॒थ॒म॒ऽजाः¦ऋ॒तस्य॑¦आत्¦इत्¦वा॒चः¦अ॒श्नु॒वे॒¦भा॒ग‌म्¦अ॒स्याः ||

अपा॒ङ्‌ प्राङे᳚ति स्व॒धया᳚ गृभी॒तोऽम॑र्त्यो॒ मर्त्ये᳚ना॒ सयो᳚निः |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

ता शश्व᳚न्ता विषू॒चीना᳚ वि॒यन्ता॒ न्य१॑(अ॒)न्यं चि॒क्युर्न नि चि॑क्युर॒न्यम् ||{38/52}{2.3.21.3}{1.164.38}{1.22.8.38}{383, 164, 1753}

अपा᳚ङ्¦प्राङ्¦ए॒ति॒¦स्व॒धया᳚¦गृ॒भी॒तः¦अम॑र्त्यः¦मर्त्ये᳚न¦सऽयो᳚निः |
ता¦शश्व᳚न्ता¦वि॒षू॒चीना᳚¦वि॒ऽयन्ता᳚¦नि¦अ॒न्य‌म्¦चि॒क्युः¦न¦नि¦चि॒क्युः॒¦अ॒न्य‌म् ||

ऋ॒चो, अ॒क्षरे᳚ पर॒मे व्यो᳚म॒न् यस्मि᳚न्‌ दे॒वा, अधि॒ विश्वे᳚ निषे॒दुः |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒ य इत्तद्वि॒दुस्त इ॒मे समा᳚सते ||{39/52}{2.3.21.4}{1.164.39}{1.22.8.39}{384, 164, 1754}

ऋ॒चः¦अ॒क्षरे᳚¦प॒र॒मे¦विऽओ᳚मन्¦यस्मि॑न्¦दे॒वाः¦अधि॑¦विश्वे᳚¦नि॒ऽसे॒दुः |
यः¦तत्¦न¦वेद॑¦कि‌म्¦ऋ॒चा¦क॒रि॒ष्य॒ति॒¦ये¦इत्¦तत्¦वि॒दुः¦ते¦इ॒मे¦स‌म्¦आ॒स॒ते॒ ||

सू॒य॒व॒साद्‌ भग॑वती॒ हि भू॒या, अथो᳚ व॒यं भग॑वन्तः स्याम |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

अ॒द्धि तृण॑मघ्न्ये विश्व॒दानीं॒ पिब॑ शु॒द्धमु॑द॒कमा॒चर᳚न्ती ||{40/52}{2.3.21.5}{1.164.40}{1.22.8.40}{385, 164, 1755}

सु॒य॒व॒स॒।आत्¦भग॑ऽवती¦हि¦भू॒याः¦अथो॒ इति॑¦व॒य‌म्¦भग॑ऽवन्तः¦स्या॒म॒ |
अ॒द्धि¦तृण᳚‌म्¦अ॒घ्न्ये॒¦वि॒श्व॒ऽदानी᳚‌म्¦पिब॑¦शु॒द्ध‌म्¦उ॒द॒क‌म्¦आ॒ऽचर᳚न्ती ||

गौ॒रीर्मि॑माय सलि॒लानि॒ तक्ष॒त्येक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी |{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती}

अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी᳚ स॒हस्रा᳚क्षरा पर॒मे व्यो᳚मन् ||{41/52}{2.3.22.1}{1.164.41}{1.22.8.41}{386, 164, 1756}

गौ॒रीः¦मि॒मा॒य॒¦स॒लि॒लानि॑¦तक्ष॑ती¦एक॑ऽपदी¦द्वि॒ऽपदी᳚¦सा¦चतुः॑ऽपदी |
अ॒ष्टाऽप॑दी¦नव॑ऽपदी¦ब॒भू॒वुषी᳚¦स॒हस्र॑।आक्षरा¦प॒र॒मे¦विऽओ᳚मन् ||

तस्याः᳚ समु॒द्रा, अधि॒ वि क्ष॑रन्ति॒ तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः |{औचथ्यो दीर्घतमाः | १/२: वाक् २/२: चापः | प्रस्तारपङ्क्तिः}

ततः॑, क्षरत्य॒क्षरं॒ तद्‌ विश्व॒मुप॑ जीवति ||{42/52}{2.3.22.2}{1.164.42}{1.22.8.42}{387, 164, 1757}

तस्याः᳚¦स॒मु॒द्राः¦अधि॑¦वि¦क्ष॒र॒न्ति॒¦तेन॑¦जी॒व॒न्ति॒¦प्र॒ऽदिशः॑¦चत॑स्रः |
ततः॑¦क्ष॒र॒ति॒¦अ॒क्षर᳚‌म्¦तत्¦विश्व᳚‌म्¦उप॑¦जी॒व॒ति॒ ||

श॒क॒मयं᳚ धू॒ममा॒राद॑पश्यं विषू॒वता᳚ प॒र ए॒नाव॑रेण |{औचथ्यो दीर्घतमाः | १/२:शकधूमः २/२:सोमः | त्रिष्टुप्}

उ॒क्षाणं॒ पृश्नि॑मपचन्त वी॒रास्तानि॒ धर्मा᳚णि प्रथ॒मान्या᳚सन् ||{43/52}{2.3.22.3}{1.164.43}{1.22.8.43}{388, 164, 1758}

श॒क॒ऽमय᳚‌म्¦धू॒म‌म्¦आ॒रात्¦अ॒प॒श्य॒‌म्¦वि॒षु॒ऽवता᳚¦प॒रः¦ए॒ना¦अव॑रेण |
उ॒क्षाण᳚‌म्¦पृश्नि᳚‌म्¦अ॒प॒च॒न्त॒¦वी॒राः¦तानि॑¦धर्मा᳚णि¦प्र॒थ॒मानि॑¦आ॒स॒न् ||

त्रयः॑ के॒शिन॑ ऋतु॒था वि च॑क्षते संवत्स॒रे व॑पत॒ एक॑ एषाम् |{औचथ्यो दीर्घतमाः | केशिनः (अग्निः सूर्यो वायुश्च) | त्रिष्टुप्}

विश्व॒मेको᳚, अ॒भि च॑ष्टे॒ शची᳚भि॒र्ध्राजि॒रेक॑स्य ददृशे॒ न रू॒पम् ||{44/52}{2.3.22.4}{1.164.44}{1.22.8.44}{389, 164, 1759}

त्रयः॑¦के॒शिनः॑¦ऋ॒तु॒ऽथा¦वि¦च॒क्ष॒ते॒¦सं॒व॒त्स॒रे¦व॒प॒ते॒¦एकः॑¦ए॒षा॒‌म् |
विश्व᳚‌म्¦एकः॑¦अ॒भि¦च॒ष्टे॒¦शची᳚भिः¦ध्राजिः॑¦एक॑स्य¦द॒दृ॒शे॒¦न¦रू॒प‌म् ||

च॒त्वारि॒ वाक्‌ परि॑मिता प॒दानि॒ तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिणः॑ |{औचथ्यो दीर्घतमाः | वाक् | त्रिष्टुप्}

गुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति तु॒रीयं᳚ वा॒चो म॑नु॒ष्या᳚ वदन्ति ||{45/52}{2.3.22.5}{1.164.45}{1.22.8.45}{390, 164, 1760}

च॒त्वारि॑¦वाक्¦परि॑ऽमिता¦प॒दानि॑¦तानि॑¦वि॒दुः॒¦ब्रा॒ह्म॒णाः¦ये¦म॒नी॒षिणः॑ |
गुहा᳚¦त्रीणि॑¦निऽहि॑ता¦न¦इ॒ङ्ग॒य॒न्ति॒¦तु॒रीय᳚‌म्¦वा॒चः¦म॒नु॒ष्याः᳚¦व॒द॒न्ति॒ ||

इन्द्रं᳚ मि॒त्रं वरु॑णम॒ग्निमा᳚हु॒रथो᳚ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मा॑न् |{औचथ्यो दीर्घतमाः | सूर्यः | त्रिष्टुप्}

एकं॒ सद्‌ विप्रा᳚ बहु॒धा व॑दन्त्य॒ग्निं य॒मं मा᳚त॒रिश्वा᳚नमाहुः ||{46/52}{2.3.22.6}{1.164.46}{1.22.8.46}{391, 164, 1761}

इन्द्र᳚‌म्¦मि॒त्र‌म्¦वरु॑ण‌म्¦अ॒ग्नि‌म्¦आ॒हुः॒¦अथो॒ इति॑¦दि॒व्यः¦सः¦सु॒ऽप॒र्णः¦ग॒रुत्मा॑न् |
एक᳚‌म्¦सत्¦विप्राः᳚¦ब॒हु॒ऽधा¦व॒द॒न्ति॒¦अ॒ग्नि‌म्¦य॒म‌म्¦मा॒त॒रिश्वा᳚न‌म्¦आ॒हुः॒ ||

कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा, अ॒पो वसा᳚ना॒ दिव॒मुत्प॑तन्ति |{औचथ्यो दीर्घतमाः | सूर्यः | त्रिष्टुप्}

त आव॑वृत्र॒न्‌ त्सद॑नादृ॒तस्यादिद्‌ घृ॒तेन॑ पृथि॒वी व्यु॑द्यते ||{47/52}{2.3.23.1}{1.164.47}{1.22.8.47}{392, 164, 1762}

कृ॒ष्ण‌म्¦नि॒ऽयान᳚‌म्¦हर॑यः¦सु॒ऽप॒र्णाः¦अ॒पः¦वसा᳚नाः¦दिव᳚‌म्¦उत्¦प॒त॒न्ति॒ |
ते¦आ¦अ॒व॒वृ॒त्र॒न्¦सद॑नात्¦ऋ॒तस्य॑¦आत्¦इत्¦घृ॒तेन॑¦पृ॒थि॒वी¦वि¦उ॒द्य॒ते॒ ||

द्वाद॑श प्र॒धय॑श्च॒क्रमेकं॒ त्रीणि॒ नभ्या᳚नि॒ क उ॒ तच्चि॑केत |{औचथ्यो दीर्घतमाः | संवत्सरात्मा कालः | त्रिष्टुप्}

तस्मि᳚न्‌ त्सा॒कं त्रि॑श॒ता न श॒ङ्कवो᳚ऽर्पि॒ताः ष॒ष्टिर्न च॑लाच॒लासः॑ ||{48/52}{2.3.23.2}{1.164.48}{1.22.8.48}{393, 164, 1763}

द्वाद॑श¦प्र॒ऽधयः॑¦च॒क्र‌म्¦एक᳚‌म्¦त्रीणि॑¦नभ्या᳚नि¦कः¦ऊँ॒ इति॑¦तत्¦चि॒के॒त॒ |
तस्मि॑न्¦सा॒क‌म्¦त्रि॒ऽश॒ताः¦न¦श॒ङ्कवः॑¦अ॒र्पि॒ताः¦ष॒ष्टिः¦न¦च॒ला॒च॒लासः॑ ||

यस्ते॒ स्तनः॑ शश॒यो यो म॑यो॒भूर्येन॒ विश्वा॒ पुष्य॑सि॒ वार्या᳚णि |{औचथ्यो दीर्घतमाः | सरस्वती | त्रिष्टुप्}

यो र॑त्न॒धा व॑सु॒विद्‌ यः सु॒दत्रः॒ सर॑स्वति॒ तमि॒ह धात॑वे कः ||{49/52}{2.3.23.3}{1.164.49}{1.22.8.49}{394, 164, 1764}

यः¦ते॒¦स्तनः॑¦श॒श॒यः¦यः¦म॒यः॒ऽभूः¦येन॑¦विश्वा᳚¦पुष्य॑सि¦वार्या᳚णि |
यः¦र॒त्न॒ऽधाः¦व॒सु॒ऽवित्¦यः¦सु॒ऽदत्रः॑¦सर॑स्वति¦त‌म्¦इ॒ह¦धात॑वे¦क॒रिति॑ कः ||

य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा᳚णि प्रथ॒मान्या᳚सन् |{औचथ्यो दीर्घतमाः | साध्याः | त्रिष्टुप्}

ते ह॒ नाकं᳚ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे᳚ सा॒ध्याः सन्ति॑ दे॒वाः ||{50/52}{2.3.23.4}{1.164.50}{1.22.8.50}{395, 164, 1765}

य॒ज्ञेन॑¦य॒ज्ञ‌म्¦अ॒य॒ज॒न्त॒¦दे॒वाः¦तानि॑¦धर्मा᳚णि¦प्र॒थ॒मानि॑¦आ॒सन् |
ते¦ह॒¦नाक᳚‌म्¦म॒हि॒मानः॑¦स॒च॒न्त॒¦यत्र॑¦पूर्वे᳚¦सा॒ध्याः¦सन्ति॑¦दे॒वाः ||

स॒मा॒नमे॒तदु॑द॒कमुच्चैत्यव॒ चाह॑भिः |{औचथ्यो दीर्घतमाः | सूर्यः पर्जन्योऽग्नयो वा | अनुष्टुप्}

भूमिं᳚ प॒र्जन्या॒ जिन्व᳚न्ति॒ दिवं᳚ जिन्वन्त्य॒ग्नयः॑ ||{51/52}{2.3.23.5}{1.164.51}{1.22.8.51}{396, 164, 1766}

स॒मा॒न‌म्¦ए॒तत्¦उ॒द॒क‌म्¦उत्¦च॒¦एति॑¦अव॑¦च॒¦अह॑ऽभिः | भूमि᳚‌म्¦प॒र्जन्याः᳚¦जिन्व᳚न्ति¦दिव᳚‌म्¦जि॒न्व॒न्ति॒¦अ॒ग्नयः॑ ||

दि॒व्यं सु॑प॒र्णं वा᳚य॒सं बृ॒हन्त॑म॒पां गर्भं᳚ दर्श॒तमोष॑धीनाम् |{औचथ्यो दीर्घतमाः | सरस्वान् सूर्यो वा | त्रिष्टुप्}

अ॒भी॒प॒तो वृ॒ष्टिभि॑स्त॒र्पय᳚न्तं॒ सर॑स्वन्त॒मव॑से जोहवीमि ||{52/52}{2.3.23.6}{1.164.52}{1.22.8.52}{397, 164, 1767}

दि॒व्य‌म्¦सु॒ऽप॒र्ण‌म्¦वा॒य॒स‌म्¦बृ॒हन्त᳚‌म्¦अ॒पा‌म्¦गर्भ᳚‌म्¦द॒र्श॒त‌म्¦ओष॑धीना‌म् |
अ॒भी॒प॒तः¦वृ॒ष्टिऽभिः॑¦त॒र्पय᳚न्त‌म्¦सर॑स्वन्त‌म्¦अव॑से¦जो॒ह॒वी॒मि॒ ||

[44] कयाशुभेति पंचदशर्चस्य सूक्तस्य तृतीयाद्ययुगृचामेकादशीवर्ज्यानां मरुतः त्रयोदश्यादितिसृणामगस्त्यः शिष्टानामिंद्रऋषिः | सर्वसूक्तस्यमरुत्वानिंद्रोदेवतात्रिष्टुप्‌छंदः |
कया᳚ शु॒भा सव॑यसः॒ सनी᳚ळाः समा॒न्या म॒रुतः॒ सं मि॑मिक्षुः |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

कया᳚ म॒ती कुत॒ एता᳚स ए॒तेऽर्च᳚न्ति॒ शुष्मं॒ वृष॑णो वसू॒या ||{1/15}{2.3.24.1}{1.165.1}{1.23.1.1}{398, 165, 1768}

कया᳚¦शु॒भा¦सऽव॑यसः¦सऽनी᳚ळाः¦स॒मा॒न्या¦म॒रुतः॑¦स‌म्¦मि॒मि॒क्षुः॒ |
कया᳚¦म॒ती¦कुतः॑¦आऽ‌इ᳚तासः¦ए॒ते¦अर्च᳚न्ति¦शुष्म᳚‌म्¦वृष॑णः¦व॒सु॒ऽया ||

कस्य॒ ब्रह्मा᳚णि जुजुषु॒र्युवा᳚नः॒ को, अ॑ध्व॒रे म॒रुत॒ आ व॑वर्त |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

श्ये॒नाँ, इ॑व॒ ध्रज॑तो, अ॒न्तरि॑क्षे॒ केन॑ म॒हा मन॑सा रीरमाम ||{2/15}{2.3.24.2}{1.165.2}{1.23.1.2}{399, 165, 1769}

कस्य॑¦ब्रह्मा᳚णि¦जु॒जु॒षुः॒¦युवा᳚नः¦कः¦अ॒ध्व॒रे¦म॒रुतः॑¦आ¦व॒व॒र्त॒ |
श्ये॒नान्ऽ‌इ᳚व¦ध्रज॑तः¦अ॒न्तरि॑क्षे¦केन॑¦म॒हा¦मन॑सा¦री॒र॒मा॒म॒ ||

कुत॒स्त्वमि᳚न्द्र॒ माहि॑नः॒ सन्नेको᳚ यासि सत्पते॒ किं त॑ इ॒त्था |{मरुतः | इन्द्रः | त्रिष्टुप्}

सं पृ॑च्छसे समरा॒णः शु॑भा॒नैर्वो॒चेस्तन्नो᳚ हरिवो॒ यत्ते᳚, अ॒स्मे ||{3/15}{2.3.24.3}{1.165.3}{1.23.1.3}{400, 165, 1770}

कुतः॑¦त्व‌म्¦इ॒न्द्र॒¦माहि॑नः¦सन्¦एकः॑¦या॒सि॒¦स॒त्ऽप॒ते॒¦कि‌म्¦ते॒¦इ॒त्था |
स‌म्¦पृ॒च्छ॒से॒¦स॒‌म्।आ॒रा॒णः¦शु॒भा॒नैः¦वो॒चेः¦तत्¦नः॒¦ह॒रि॒ऽवः॒¦यत्¦ते॒¦अ॒स्मे इति॑ ||

ब्रह्मा᳚णि मे म॒तयः॒ शं सु॒तासः॒ शुष्म॑ इयर्ति॒ प्रभृ॑तो मे॒, अद्रिः॑ |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

आ शा᳚सते॒ प्रति॑ हर्यन्त्यु॒क्थेमा हरी᳚ वहत॒स्ता नो॒, अच्छ॑ ||{4/15}{2.3.24.4}{1.165.4}{1.23.1.4}{401, 165, 1771}

ब्रह्मा᳚णि¦मे॒¦म॒तयः॑¦श‌म्¦सु॒तासः॑¦शुष्मः॑¦इ॒य॒र्ति॒¦प्रऽभृ॑तः¦मे॒¦अद्रिः॑ |
आ¦शा॒स॒ते॒¦प्रति॑¦ह॒र्य॒न्ति॒¦उ॒क्था¦इ॒मा¦हरी॒ इति॑¦व॒ह॒तः॒¦ता¦नः॒¦अच्छ॑ ||

अतो᳚ व॒यम᳚न्त॒मेभि᳚र्युजा॒नाः स्वक्ष॑त्रेभिस्त॒न्व१॑(अः॒) शुम्भ॑मानाः |{मरुतः | इन्द्रः | त्रिष्टुप्}

महो᳚भि॒रेताँ॒, उप॑ युज्महे॒न्विन्द्र॑ स्व॒धामनु॒ हि नो᳚ ब॒भूथ॑ ||{5/15}{2.3.24.5}{1.165.5}{1.23.1.5}{402, 165, 1772}

अतः॑¦व॒य‌म्¦अ॒न्त॒मेभिः॑¦यु॒जा॒नाः¦स्वऽक्ष॑त्रेभिः¦त॒न्वः॑¦शुम्भ॑मानाः |
महः॑ऽभिः¦एता᳚न्¦उप॑¦यु॒ज्म॒हे॒¦नु¦इन्द्र॑¦स्व॒धा‌म्¦अनु॑¦हि¦नः॒¦ब॒भूथ॑ ||

क्व१॑(अ॒) स्या वो᳚ मरुतः स्व॒धासी॒द्‌ यन्मामेकं᳚ स॒मध॑त्ताहि॒हत्ये᳚ |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

अ॒हं ह्यु१॑(उ॒)ग्रस्त॑वि॒षस्तुवि॑ष्मा॒न् विश्व॑स्य॒ शत्रो॒रन॑मं वध॒स्नैः ||{6/15}{2.3.25.1}{1.165.6}{1.23.1.6}{403, 165, 1773}

क्व॑¦स्या¦वः॒¦म॒रु॒तः॒¦स्व॒धा¦आ॒सी॒त्¦यत्¦मा‌म्¦एक᳚‌म्¦स॒‌म्।आध॑त्त¦अ॒हि॒ऽहत्ये᳚ |
अ॒ह‌म्¦हि¦उ॒ग्रः¦त॒वि॒षः¦तुवि॑ष्मान्¦विश्व॑स्य¦शत्रोः᳚¦अन॑म‌म्¦व॒ध॒ऽस्नैः ||

भूरि॑ चकर्थ॒ युज्ये᳚भिर॒स्मे स॑मा॒नेभि᳚र्वृषभ॒ पौंस्ये᳚भिः |{मरुतः | इन्द्रः | त्रिष्टुप्}

भूरी᳚णि॒ हि कृ॒णवा᳚मा शवि॒ष्ठेन्द्र॒ क्रत्वा᳚ मरुतो॒ यद्‌ वशा᳚म ||{7/15}{2.3.25.2}{1.165.7}{1.23.1.7}{404, 165, 1774}

भूरि॑¦च॒क॒र्थ॒¦युज्ये᳚भिः¦अ॒स्मे इति॑¦स॒मा॒नेभिः॑¦वृ॒ष॒भ॒¦पौंस्ये᳚भिः |
भूरी᳚णि¦हि¦कृ॒णवा᳚म¦श॒वि॒ष्ठ॒¦इन्द्र॑¦क्रत्वा᳚¦म॒रु॒तः॒¦यत्¦वशा᳚म ||

वधीं᳚ वृ॒त्रं म॑रुत इन्द्रि॒येण॒ स्वेन॒ भामे᳚न तवि॒षो ब॑भू॒वान् |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

अ॒हमे॒ता मन॑वे वि॒श्वश्च᳚न्द्राः सु॒गा, अ॒पश्च॑कर॒ वज्र॑बाहुः ||{8/15}{2.3.25.3}{1.165.8}{1.23.1.8}{405, 165, 1775}

वधी᳚‌म्¦वृ॒त्र‌म्¦म॒रु॒तः॒¦इ॒न्द्रि॒येण॑¦स्वेन॑¦भामे᳚न¦त॒वि॒षः¦ब॒भू॒वान् |
अ॒ह‌म्¦ए॒ताः¦मन॑वे¦वि॒श्वऽच᳚न्द्राः¦सु॒ऽगाः¦अ॒पः¦च॒क॒र॒¦वज्र॑ऽबाहुः ||

अनु॑त्त॒मा ते᳚ मघव॒न्नकि॒र्नु न त्वावाँ᳚, अस्ति दे॒वता॒ विदा᳚नः |{मरुतः | इन्द्रः | त्रिष्टुप्}

न जाय॑मानो॒ नश॑ते॒ न जा॒तो यानि॑ करि॒ष्या कृ॑णु॒हि प्र॑वृद्ध ||{9/15}{2.3.25.4}{1.165.9}{1.23.1.9}{406, 165, 1776}

अनु॑त्त‌म्¦आ¦ते॒¦म॒घ॒ऽव॒न्¦नकिः॑¦नु¦न¦त्वाऽवा᳚न्¦अ॒स्ति॒¦दे॒वता᳚¦विदा᳚नः |
न¦जाय॑मानः¦नश॑ते¦न¦जा॒तः¦यानि॑¦क॒रि॒ष्या¦कृ॒णु॒हि¦प्र॒ऽवृ॒द्ध॒ ||

एक॑स्य चिन्मे वि॒भ्व१॑(अ॒)स्त्वोजो॒ या नु द॑धृ॒ष्वान्‌ कृ॒णवै᳚ मनी॒षा |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

अ॒हं ह्यु१॑(उ॒)ग्रो म॑रुतो॒ विदा᳚नो॒ यानि॒ च्यव॒मिन्द्र॒ इदी᳚श एषाम् ||{10/15}{2.3.25.5}{1.165.10}{1.23.1.10}{407, 165, 1777}

एक॑स्य¦चि॒त्¦मे॒¦वि॒ऽभु¦अ॒स्तु॒¦ओजः॑¦या¦नु¦द॒धृ॒ष्वान्¦कृ॒णवै᳚¦म॒नी॒षा |
अ॒ह‌म्¦हि¦उ॒ग्रः¦म॒रु॒तः॒¦विदा᳚नः¦यानि॑¦च्यव᳚‌म्¦इन्द्रः॑¦इत्¦ई॒शे॒¦ए॒षा॒‌म् ||

अम᳚न्दन्मा मरुतः॒ स्तोमो॒, अत्र॒ यन्मे᳚ नरः॒ श्रुत्यं॒ ब्रह्म॑ च॒क्र |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

इन्द्रा᳚य॒ वृष्णे॒ सुम॑खाय॒ मह्यं॒ सख्ये॒ सखा᳚यस्त॒न्वे᳚ त॒नूभिः॑ ||{11/15}{2.3.26.1}{1.165.11}{1.23.1.11}{408, 165, 1778}

अम᳚न्दत्¦मा॒¦म॒रु॒तः॒¦स्तोमः॑¦अत्र॑¦यत्¦मे॒¦न॒रः॒¦श्रुत्य᳚‌म्¦ब्रह्म॑¦च॒क्र |
इन्द्रा᳚य¦वृष्णे᳚¦सुऽम॑खाय¦मह्य᳚‌म्¦सख्ये᳚¦सखा᳚यः¦त॒न्वे᳚¦त॒नूभिः॑ ||

ए॒वेदे॒ते प्रति॑ मा॒ रोच॑माना॒, अने᳚द्यः॒ श्रव॒ एषो॒ दधा᳚नाः |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

सं॒चक्ष्या᳚ मरुतश्च॒न्द्रव᳚र्णा॒, अच्छा᳚न्त मे छ॒दया᳚था च नू॒नम् ||{12/15}{2.3.26.2}{1.165.12}{1.23.1.12}{409, 165, 1779}

ए॒व¦इत्¦ए॒ते¦प्रति॑¦मा॒¦रोच॑मानाः¦अने᳚द्यः¦श्रवः॑¦आ¦इषः॑¦दधा᳚नाः |
स॒‌म्ऽचक्ष्य॑¦म॒रु॒तः॒¦च॒न्द्रऽव᳚र्णाः¦अच्छा᳚न्त¦मे॒¦छ॒दया᳚थ¦च॒¦नू॒न‌म् ||

को न्वत्र॑ मरुतो मामहे वः॒ प्र या᳚तन॒ सखीँ॒रच्छा᳚ सखायः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

मन्मा᳚नि चित्रा, अपिवा॒तय᳚न्त ए॒षां भू᳚त॒ नवे᳚दा म ऋ॒ताना᳚म् ||{13/15}{2.3.26.3}{1.165.13}{1.23.1.13}{410, 165, 1780}

कः¦नु¦अत्र॑¦म॒रु॒तः॒¦म॒म॒हे॒¦वः॒¦प्र¦या॒त॒न॒¦सखी॒न्¦अच्छ॑¦स॒खा॒यः॒ |
मन्मा᳚नि¦चि॒त्राः॒¦अ॒पि॒ऽवा॒तय᳚न्तः¦ए॒षा‌म्¦भू॒त॒¦नवे᳚दाः¦मे॒¦ऋ॒ताना᳚‌म् ||

आ यद्‌ दु॑व॒स्याद्‌ दु॒वसे॒ न का॒रुर॒स्माञ्च॒क्रे मा॒न्यस्य॑ मे॒धा |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

ओ षु व॑र्त्त मरुतो॒ विप्र॒मच्छे॒मा ब्रह्मा᳚णि जरि॒ता वो᳚, अर्चत् ||{14/15}{2.3.26.4}{1.165.14}{1.23.1.14}{411, 165, 1781}

आ¦यत्¦दु॒व॒स्यात्¦दु॒वसे᳚¦न¦का॒रुः¦अ॒स्मान्¦च॒क्रे¦मा॒न्यस्य॑¦मे॒धा |
ओ इति॑¦सु¦व॒र्त्त॒¦म॒रु॒तः॒¦विप्र᳚‌म्¦अच्छ॑¦इ॒मा¦ब्रह्मा᳚णि¦ज॒रि॒ता¦वः॒¦अ॒र्च॒त् ||

ए॒ष वः॒ स्तोमो᳚ मरुत इ॒यं गीर्मा᳚न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

एषा या᳚सीष्ट त॒न्वे᳚ व॒यां वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{15/15}{2.3.26.5}{1.165.15}{1.23.1.15}{412, 165, 1782}

ए॒षः¦वः॒¦स्तोमः॑¦म॒रु॒तः॒¦इ॒य‌म्¦गीः¦मा॒न्दा॒र्यस्य॑¦मा॒न्यस्य॑¦का॒रोः |
आ¦इ॒षा¦या॒सी॒ष्ट॒¦त॒न्वे᳚¦व॒या‌म्¦वि॒द्याम॑¦इ॒ष‌म्¦वृ॒जन᳚‌म्¦जी॒रऽदा᳚नु‌म् ||

[45] तन्नुवोचामेति पंचदशर्चस्य सूक्तस्यमैत्रावरुणिरगस्त्योमरुतोजगत्यंत्येद्वेत्रिष्टुभौ |
तन्नु वो᳚चाम रभ॒साय॒ जन्म॑ने॒ पूर्वं᳚ महि॒त्वं वृ॑ष॒भस्य॑ के॒तवे᳚ |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

ऐ॒धेव॒ याम᳚न्‌ मरुतस्तुविष्वणो यु॒धेव॑ शक्रास्तवि॒षाणि॑ कर्तन ||{1/15}{2.4.1.1}{1.166.1}{1.23.2.1}{413, 166, 1783}

तत्¦नु¦वो॒चा॒म॒¦र॒भ॒साय॑¦जन्म॑ने¦पूर्व᳚‌म्¦म॒हि॒त्व‌म्¦वृ॒ष॒भस्य॑¦के॒तवे᳚ |
ऐ॒धाऽ‌इ᳚व¦याम॑न्¦म॒रु॒तः॒¦तु॒वि॒ऽस्व॒णः॒¦यु॒धाऽ‌इ᳚व¦श॒क्राः॒¦त॒वि॒षाणि॑¦क॒र्त॒न॒ ||

नित्यं॒ न सू॒नुं मधु॒ बिभ्र॑त॒ उप॒ क्रीळ᳚न्ति क्री॒ळा वि॒दथे᳚षु॒ घृष्व॑यः |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

नक्ष᳚न्ति रु॒द्रा, अव॑सा नम॒स्विनं॒ न म॑र्धन्ति॒ स्वत॑वसो हवि॒ष्कृत᳚म् ||{2/15}{2.4.1.2}{1.166.2}{1.23.2.2}{414, 166, 1784}

नित्य᳚‌म्¦न¦सू॒नु‌म्¦मधु॑¦बिभ्र॑तः¦उप॑¦क्रीळ᳚न्ति¦क्री॒ळाः¦वि॒दथे᳚षु¦घृष्व॑यः |
नक्ष᳚न्ति¦रु॒द्राः¦अव॑सा¦न॒म॒स्विन᳚‌म्¦न¦म॒र्ध॒न्ति॒¦स्वऽत॑वसः¦ह॒विः॒ऽकृत᳚‌म् ||

यस्मा॒, ऊमा᳚सो, अ॒मृता॒, अरा᳚सत रा॒यस्पोषं᳚ च ह॒विषा᳚ ददा॒शुषे᳚ |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

उ॒क्षन्त्य॑स्मै म॒रुतो᳚ हि॒ता, इ॑व पु॒रू रजां᳚सि॒ पय॑सा मयो॒भुवः॑ ||{3/15}{2.4.1.3}{1.166.3}{1.23.2.3}{415, 166, 1785}

यस्मै᳚¦ऊमा᳚सः¦अ॒मृताः᳚¦अरा᳚सत¦रा॒यः¦पोष᳚‌म्¦च॒¦ह॒विषा᳚¦द॒दा॒शुषे᳚ |
उ॒क्षन्ति॑¦अ॒स्मै॒¦म॒रुतः॑¦हि॒ताःऽ‌इ᳚व¦पु॒रु¦रजां᳚सि¦पय॑सा¦म॒यः॒ऽभुवः॑ ||

आ ये रजां᳚सि॒ तवि॑षीभि॒रव्य॑त॒ प्र व॒ एवा᳚सः॒ स्वय॑तासो, अध्रजन् |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

भय᳚न्ते॒ विश्वा॒ भुव॑नानि ह॒र्म्या चि॒त्रो वो॒ यामः॒ प्रय॑तास्वृ॒ष्टिषु॑ ||{4/15}{2.4.1.4}{1.166.4}{1.23.2.4}{416, 166, 1786}

आ¦ये¦रजां᳚सि¦तवि॑षीभिः¦अव्य॑त¦प्र¦वः॒¦एवा᳚सः¦स्वऽय॑तासः¦अ॒ध्र॒ज॒न् |
भय᳚न्ते¦विश्वा᳚¦भुव॑नानि¦ह॒र्म्या¦चि॒त्रः¦वः॒¦यामः॑¦प्रऽय॑तासु¦ऋ॒ष्टिषु॑ ||

यत्‌ त्वे॒षया᳚मा न॒दय᳚न्त॒ पर्व॑तान् दि॒वो वा᳚ पृ॒ष्ठं नर्या॒, अचु॑च्यवुः |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

विश्वो᳚ वो॒, अज्म᳚न्‌ भयते॒ वन॒स्पती᳚ रथी॒यन्ती᳚व॒ प्र जि॑हीत॒ ओष॑धिः ||{5/15}{2.4.1.5}{1.166.5}{1.23.2.5}{417, 166, 1787}

यत्¦त्वे॒षऽया᳚माः¦न॒दय᳚न्त¦पर्व॑तान्¦दि॒वः¦वा॒¦पृ॒ष्ठ‌म्¦नर्याः᳚¦अचु॑च्यवुः |
विश्वः॑¦वः॒¦अज्म॑न्¦भ॒य॒ते॒¦वन॒स्पतिः॑¦र॒थि॒यन्ती᳚ऽ‌इव¦प्र¦जि॒ही॒ते॒¦ओष॑धिः ||

यू॒यं न॑ उग्रा मरुतः सुचे॒तुनारि॑ष्टग्रामाः सुम॒तिं पि॑पर्तन |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

यत्रा᳚ वो दि॒द्युद्‌ रद॑ति॒ क्रिवि॑र्दती रि॒णाति॑ प॒श्वः सुधि॑तेव ब॒र्हणा᳚ ||{6/15}{2.4.2.1}{1.166.6}{1.23.2.6}{418, 166, 1788}

यू॒य‌म्¦नः॒¦उ॒ग्राः॒¦म॒रु॒तः॒¦सु॒ऽचे॒तुना᳚¦अरि॑ष्टऽग्रामाः¦सु॒ऽम॒ति‌म्¦पि॒प॒र्त॒न॒ |
यत्र॑¦वः॒¦दि॒द्युत्¦रद॑ति¦क्रिविः॑ऽदती¦रि॒णाति॑¦प॒श्वः¦सुधि॑ताऽ‌इव¦ब॒र्हणा᳚ ||

प्र स्क॒म्भदे᳚ष्णा, अनव॒भ्ररा᳚धसोऽलातृ॒णासो᳚ वि॒दथे᳚षु॒ सुष्टु॑ताः |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

अर्च᳚न्त्य॒र्कं म॑दि॒रस्य॑ पी॒तये᳚ वि॒दुर्वी॒रस्य॑ प्रथ॒मानि॒ पौंस्या᳚ ||{7/15}{2.4.2.2}{1.166.7}{1.23.2.7}{419, 166, 1789}

प्र¦स्क॒म्भऽदे᳚ष्णाः¦अ॒न॒व॒भ्रऽरा᳚धसः¦अ॒ला॒तृ॒णासः॑¦वि॒दथे᳚षु¦सुऽस्तु॑ताः |
अर्च᳚न्ति¦अ॒र्क‌म्¦म॒दि॒रस्य॑¦पी॒तये᳚¦वि॒दुः¦वी॒रस्य॑¦प्र॒थ॒मानि॑¦पौंस्या᳚ ||

श॒तभु॑जिभि॒स्तम॒भिह्रु॑तेर॒घात् पू॒र्भी र॑क्षता मरुतो॒ यमाव॑त |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

जनं॒ यमु॑ग्रास्तवसो विरप्शिनः पा॒थना॒ शंसा॒त्तन॑यस्य पु॒ष्टिषु॑ ||{8/15}{2.4.2.3}{1.166.8}{1.23.2.8}{420, 166, 1790}

श॒तभु॑जिऽभिः¦त‌म्¦अ॒भिऽह्रु॑तेः¦अ॒घात्¦पूः॒ऽभिः¦र॒क्ष॒त॒¦म॒रु॒तः॒¦य‌म्¦आव॑त |
जन᳚‌म्¦य‌म्¦उ॒ग्राः॒¦त॒व॒सः॒¦वि॒ऽर॒प्शि॒नः॒¦पा॒थन॑¦शंसा᳚त्¦तन॑यस्य¦पु॒ष्टिषु॑ ||

विश्वा᳚नि भ॒द्रा म॑रुतो॒ रथे᳚षु वो मिथ॒स्पृध्ये᳚व तवि॒षाण्याहि॑ता |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

अंसे॒ष्वा वः॒ प्रप॑थेषु खा॒दयोऽक्षो᳚ वश्च॒क्रा स॒मया॒ वि वा᳚वृते ||{9/15}{2.4.2.4}{1.166.9}{1.23.2.9}{421, 166, 1791}

विश्वा᳚नि¦भ॒द्रा¦म॒रु॒तः॒¦रथे᳚षु¦वः॒¦मि॒थ॒स्पृध्या᳚ऽ‌इव¦त॒वि॒षाणि॑¦आऽहि॑ता |
अंसे᳚षु¦आ¦वः॒¦प्रऽप॑थेषु¦खा॒दयः॑¦अक्षः॑¦वः॒¦च॒क्रा¦स॒मया᳚¦वि¦व॒वृ॒ते॒ ||

भूरी᳚णि भ॒द्रा नर्ये᳚षु बा॒हुषु॒ वक्ष॑स्सु रु॒क्मा र॑भ॒सासो᳚, अ॒ञ्जयः॑ |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

अंसे॒ष्वेताः᳚ प॒विषु॑ क्षु॒रा, अधि॒ वयो॒ न प॒क्षान्‌ व्यनु॒ श्रियो᳚ धिरे ||{10/15}{2.4.2.5}{1.166.10}{1.23.2.10}{422, 166, 1792}

भूरी᳚णि¦भ॒द्रा¦नर्ये᳚षु¦बा॒हुषु॑¦वक्षः॑ऽसु¦रु॒क्माः¦र॒भ॒सासः॑¦अं॒जयः॑ |
अंसे᳚षु¦एताः᳚¦प॒विषु॑¦क्षु॒राः¦अधि॑¦वयः॑¦न¦प॒क्षान्¦वि¦अनु॑¦श्रियः॑¦धि॒रे॒ ||

म॒हान्तो᳚ म॒ह्ना वि॒भ्वो॒३॑(ओ॒) विभू᳚तयो दूरे॒दृशो॒ ये दि॒व्या, इ॑व॒ स्तृभिः॑ |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

म॒न्द्राः सु॑जि॒ह्वाः स्वरि॑तार आ॒सभिः॒ सम्मि॑श्ला॒, इन्द्रे᳚ म॒रुतः॑ परि॒ष्टुभः॑ ||{11/15}{2.4.3.1}{1.166.11}{1.23.2.11}{423, 166, 1793}

म॒हान्तः॑¦म॒ह्ना¦वि॒ऽभ्वः॑¦विऽभू᳚तयः¦दू॒रे॒ऽदृशः॑¦ये¦दि॒व्याःऽ‌इ᳚व¦स्तृऽभिः॑ |
म॒न्द्राः¦सु॒ऽजि॒ह्वाः¦स्वरि॑तारः¦आ॒सऽभिः॑¦स‌म्ऽमि॑श्लाः¦इन्द्रे᳚¦म॒रुतः॑¦प॒रि॒ऽस्तुभः॑ ||

तद्‌ वः॑ सुजाता मरुतो महित्व॒नं दी॒र्घं वो᳚ दा॒त्रमदि॑तेरिव व्र॒तम् |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

इन्द्र॑श्च॒न त्यज॑सा॒ वि ह्रु॑णाति॒ तज्जना᳚य॒ यस्मै᳚ सु॒कृते॒, अरा᳚ध्वम् ||{12/15}{2.4.3.2}{1.166.12}{1.23.2.12}{424, 166, 1794}

तत्¦वः॒¦सु॒ऽजा॒ताः॒¦म॒रु॒तः॒¦म॒हि॒ऽत्व॒न‌म्¦दी॒र्घ‌म्¦वः॒¦दा॒त्र‌म्¦अदि॑तेःऽ‌इव¦व्र॒त‌म् |
इन्द्रः॑¦च॒न¦त्यज॑सा¦वि¦ह्रु॒णा॒ति॒¦तत्¦जना᳚य¦यस्मै᳚¦सु॒ऽकृते᳚¦अरा᳚ध्व‌म् ||

तद्‌ वो᳚ जामि॒त्वं म॑रुतः॒ परे᳚ यु॒गे पु॒रू यच्छंस॑ममृतास॒ आव॑त |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

अ॒या धि॒या मन॑वे श्रु॒ष्टिमाव्या᳚ सा॒कं नरो᳚ दं॒सनै॒रा चि॑कित्रिरे ||{13/15}{2.4.3.3}{1.166.13}{1.23.2.13}{425, 166, 1795}

तत्¦वः॒¦जा॒मि॒ऽत्व‌म्¦म॒रु॒तः॒¦परे᳚¦यु॒गे¦पु॒रु¦यत्¦शंस᳚‌म्¦अ॒मृ॒ता॒सः॒¦आव॑त |
अ॒या¦धि॒या¦मन॑वे¦श्रु॒ष्टि‌म्¦आव्य॑¦सा॒क‌म्¦नरः॑¦दं॒सनैः᳚¦आ¦चि॒कि॒त्रि॒रे॒ ||

येन॑ दी॒र्घं म॑रुतः शू॒शवा᳚म यु॒ष्माके᳚न॒ परी᳚णसा तुरासः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

आ यत्‌ त॒तन᳚न्‌ वृ॒जने॒ जना᳚स ए॒भिर्य॒ज्ञेभि॒स्तद॒भीष्टि॑मश्याम् ||{14/15}{2.4.3.4}{1.166.14}{1.23.2.14}{426, 166, 1796}

येन॑¦दी॒र्घ‌म्¦म॒रु॒तः॒¦शू॒शवा᳚म¦यु॒ष्माके᳚न¦परी᳚णसा¦तु॒रा॒सः॒ |
आ¦यत्¦त॒तन᳚‌म्¦वृ॒जने᳚¦जना᳚सः¦ए॒भिः¦य॒ज्ञेभिः॑¦तत्¦अ॒भि¦इष्टि᳚‌म्¦अ॒श्या॒‌म् ||

ए॒ष वः॒ स्तोमो᳚ मरुत इ॒यं गीर्मा᳚न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

एषा या᳚सीष्ट त॒न्वे᳚ व॒यां वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{15/15}{2.4.3.5}{1.166.15}{1.23.2.15}{427, 166, 1797}

ए॒षः¦वः॒¦स्तोमः॑¦म॒रु॒तः॒¦इ॒य‌म्¦गीः¦मा॒न्दा॒र्यस्य॑¦मा॒न्यस्य॑¦का॒रोः |
आ¦इ॒षा¦या॒सी॒ष्ट॒¦त॒न्वे᳚¦व॒या‌म्¦वि॒द्याम॑¦इ॒ष‌म्¦वृ॒जन᳚‌म्¦जी॒रऽदा᳚नु‌म् ||

[46] सहस्रंतइत्येकादशर्चस्य सूक्तस्यमैत्रावरुणिरगस्त्यो मरुत आद्यायाइंद्रस्त्रिष्टुप् |
स॒हस्रं᳚ त इन्द्रो॒तयो᳚ नः स॒हस्र॒मिषो᳚ हरिवो गू॒र्तत॑माः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

स॒हस्रं॒ रायो᳚ माद॒यध्यै᳚ सह॒स्रिण॒ उप॑ नो यन्तु॒ वाजाः᳚ ||{1/11}{2.4.4.1}{1.167.1}{1.23.3.1}{428, 167, 1798}

स॒हस्र᳚‌म्¦ते॒¦इ॒न्द्र॒¦ऊ॒तयः॑¦नः॒¦स॒हस्र᳚‌म्¦इषः॑¦ह॒रि॒ऽवः॒¦गू॒र्तऽत॑माः |
स॒हस्र᳚‌म्¦रायः॑¦मा॒द॒यध्यै᳚¦स॒ह॒स्रिणः॑¦उप॑¦नः॒¦य॒न्तु॒¦वाजाः᳚ ||

आ नोऽवो᳚भिर्म॒रुतो᳚ या॒न्त्वच्छा॒ ज्येष्ठे᳚भिर्वा बृ॒हद्दि॑वैः सुमा॒याः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

अध॒ यदे᳚षां नि॒युतः॑ पर॒माः स॑मु॒द्रस्य॑ चिद्‌ ध॒नय᳚न्त पा॒रे ||{2/11}{2.4.4.2}{1.167.2}{1.23.3.2}{429, 167, 1799}

आ¦नः॒¦अवः॑ऽभिः¦म॒रुतः॑¦या॒न्तु॒¦अच्छ॑¦ज्येष्ठे᳚भिः¦वा॒¦बृ॒हत्ऽदि॑वैः¦सु॒ऽमा॒याः |
अध॑¦यत्¦ए॒षा॒‌म्¦नि॒ऽयुतः॑¦प॒र॒माः¦स॒मु॒द्रस्य॑¦चि॒त्¦ध॒नय᳚न्त¦पा॒रे ||

मि॒म्यक्ष॒ येषु॒ सुधि॑ता घृ॒ताची॒ हिर᳚ण्यनिर्णि॒गुप॑रा॒ न ऋ॒ष्टिः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

गुहा॒ चर᳚न्ती॒ मनु॑षो॒ न योषा᳚ स॒भाव॑ती विद॒थ्ये᳚व॒ सं वाक् ||{3/11}{2.4.4.3}{1.167.3}{1.23.3.3}{430, 167, 1800}

मि॒म्यक्ष॑¦येषु॑¦सुऽधि॑ता¦घृ॒ताची᳚¦हिर᳚ण्यऽनिर्निक्¦उप॑रा¦न¦ऋ॒ष्टिः |
गुहा᳚¦चर᳚न्ती¦मनु॑षः¦न¦योषा᳚¦स॒भाऽव॑ती¦वि॒द॒थ्या᳚ऽ‌इव¦स‌म्¦वाक् ||

परा᳚ शु॒भ्रा, अ॒यासो᳚ य॒व्या सा᳚धार॒ण्येव॑ म॒रुतो᳚ मिमिक्षुः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

न रो᳚द॒सी, अप॑ नुदन्त घो॒रा जु॒षन्त॒ वृधं᳚ स॒ख्याय॑ दे॒वाः ||{4/11}{2.4.4.4}{1.167.4}{1.23.3.4}{431, 167, 1801}

परा᳚¦शु॒भ्राः¦अ॒यासः॑¦य॒व्या¦सा॒धा॒र॒ण्याऽ‌इ᳚व¦म॒रुतः॑¦मि॒मि॒क्षुः॒ |
न¦रो॒द॒सी इति॑¦अप॑¦नु॒द॒न्त॒¦घो॒राः¦जु॒षन्त॑¦वृध᳚‌म्¦स॒ख्याय॑¦दे॒वाः ||

जोष॒द्‌ यदी᳚मसु॒र्या᳚ स॒चध्यै॒ विषि॑तस्तुका रोद॒सी नृ॒मणाः᳚ |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

आ सू॒र्येव॑ विध॒तो रथं᳚ गात् त्वे॒षप्र॑तीका॒ नभ॑सो॒ नेत्या ||{5/11}{2.4.4.5}{1.167.5}{1.23.3.5}{432, 167, 1802}

जोष॑त्¦यत्¦ई॒‌म्¦अ॒सु॒र्या᳚¦स॒चध्यै᳚¦विसि॑तऽस्तुका¦रो॒द॒सी¦नृ॒ऽमनाः᳚ |
आ¦सू॒र्याऽ‌इ᳚व¦वि॒ध॒तः¦रथ᳚‌म्¦गा॒त्¦त्वे॒षऽप्र॑तीका¦नभ॑सः¦न¦इ॒त्या ||

आस्था᳚पयन्त युव॒तिं युवा᳚नः शु॒भे निमि॑श्लां वि॒दथे᳚षु प॒ज्राम् |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

अ॒र्को यद्‌ वो᳚ मरुतो ह॒विष्मा॒न् गाय॑द्‌ गा॒थं सु॒तसो᳚मो दुव॒स्यन् ||{6/11}{2.4.5.1}{1.167.6}{1.23.3.6}{433, 167, 1803}

आ¦अ॒स्था॒प॒य॒न्त॒¦यु॒व॒ति‌म्¦युवा᳚नः¦शु॒भे¦निऽमि॑श्ला‌म्¦वि॒दथे᳚षु¦प॒ज्रा‌म् |
अ॒र्कः¦यत्¦वः॒¦म॒रु॒तः॒¦ह॒विष्मा᳚न्¦गाय॑त्¦गा॒थ‌म्¦सु॒तऽसो᳚मः¦दु॒व॒स्यन् ||

प्र तं वि॑वक्मि॒ वक्म्यो॒ य ए᳚षां म॒रुतां᳚ महि॒मा स॒त्यो, अस्ति॑ |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

सचा॒ यदीं॒ वृष॑मणा, अहं॒युः स्थि॒रा चि॒ज्जनी॒र्वह॑ते सुभा॒गाः ||{7/11}{2.4.5.2}{1.167.7}{1.23.3.7}{434, 167, 1804}

प्र¦त‌म्¦वि॒व॒क्मि॒¦वक्म्यः॑¦यः¦ए॒षा॒‌म्¦म॒रुता᳚‌म्¦म॒हि॒मा¦स॒त्यः¦अस्ति॑ |
सचा᳚¦यत्¦ई॒‌म्¦वृष॑ऽमनाः¦अ॒ह॒‌म्ऽयुः¦स्थि॒रा¦चि॒त्¦जनीः᳚¦वह॑ते¦सु॒ऽभा॒गाः ||

पान्ति॑ मि॒त्रावरु॑णावव॒द्याच्चय॑त ईमर्य॒मो, अप्र॑शस्तान् |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

उ॒त च्य॑वन्ते॒, अच्यु॑ता ध्रु॒वाणि॑ वावृ॒ध ईं᳚ मरुतो॒ दाति॑वारः ||{8/11}{2.4.5.3}{1.167.8}{1.23.3.8}{435, 167, 1805}

पान्ति॑¦मि॒त्रावरु॑णौ¦अ॒व॒द्यात्¦चय॑ते¦ई॒‌म्¦अ॒र्य॒मो इति॑¦अप्र॑ऽशस्तान् |
उ॒त¦च्य॒व॒न्ते॒¦अच्यु॑ता¦ध्रु॒वाणि॑¦व॒वृ॒धे¦ई॒‌म्¦म॒रु॒तः॒¦दाति॑ऽवारः ||

न॒ही नु वो᳚ मरुतो॒, अन्त्य॒स्मे, आ॒रात्ता᳚च्चि॒च्छव॑सो॒, अन्त॑मा॒पुः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

ते धृ॒ष्णुना॒ शव॑सा शूशु॒वांसोऽर्णो॒ न द्वेषो᳚ धृष॒ता परि॑ ष्ठुः ||{9/11}{2.4.5.4}{1.167.9}{1.23.3.9}{436, 167, 1806}

न॒हि¦नु¦वः॒¦म॒रु॒तः॒¦अन्ति॑¦अ॒स्मे इति॑¦आ॒रात्ता᳚त्¦चि॒त्¦शव॑सः¦अन्त᳚‌म्¦आ॒पुः |
ते¦धृ॒ष्णुना᳚¦शव॑सा¦शू॒शु॒ऽवांसः॑¦अर्णः॑¦न¦द्वेषः॑¦धृ॒ष॒ता¦परि॑¦स्थुः॒ ||

व॒यम॒द्येन्द्र॑स्य॒ प्रेष्ठा᳚ व॒यं श्वो वो᳚चेमहि सम॒र्ये |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

व॒यं पु॒रा महि॑ च नो॒, अनु॒ द्यून् तन्न॑ ऋभु॒क्षा न॒रामनु॑ ष्यात् ||{10/11}{2.4.5.5}{1.167.10}{1.23.3.10}{437, 167, 1807}

व॒य‌म्¦अ॒द्य¦इन्द्र॑स्य¦प्रेष्ठाः᳚¦व॒य‌म्¦श्वः¦वो॒चे॒म॒हि॒¦स॒ऽम॒र्ये |
व॒य‌म्¦पु॒रा¦महि॑¦च॒¦नः॒¦अनु॑¦द्यून्¦तत्¦नः॒¦ऋ॒भु॒क्षाः¦न॒रा‌म्¦अनु॑¦स्या॒त् ||

ए॒ष वः॒ स्तोमो᳚ मरुत इ॒यं गीर्मा᳚न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

एषा या᳚सीष्ट त॒न्वे᳚ व॒यां वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{11/11}{2.4.5.6}{1.167.11}{1.23.3.11}{438, 167, 1808}

ए॒षः¦वः॒¦स्तोमः॑¦म॒रु॒तः॒¦इ॒य‌म्¦गीः¦मा॒न्दा॒र्यस्य॑¦मा॒न्यस्य॑¦का॒रोः |
आ¦इ॒षा¦या॒सी॒ष्ट॒¦त॒न्वे᳚¦व॒या‌म्¦वि॒द्याम॑¦इ॒ष‌म्¦वृ॒जन᳚‌म्¦जी॒रऽदा᳚नु‌म् ||

[47] यज्ञायज्ञेति दशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यो मरुतोजगती अंत्यास्तिस्रस्त्रिष्टुभः |
य॒ज्ञाय॑ज्ञा वः सम॒ना तु॑तु॒र्वणि॒र्धियं᳚धियं वो देव॒या, उ॑ दधिध्वे |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

आ वो॒ऽर्वाचः॑ सुवि॒ताय॒ रोद॑स्योर्म॒हे व॑वृत्या॒मव॑से सुवृ॒क्तिभिः॑ ||{1/10}{2.4.6.1}{1.168.1}{1.23.4.1}{439, 168, 1809}

य॒ज्ञाऽय॑ज्ञा¦वः॒¦स॒म॒ना¦तु॒तु॒र्वणिः॑¦धिय᳚‌म्ऽधिय‌म्¦वः॒¦दे॒व॒ऽयाः¦ऊँ॒ इति॑¦द॒धि॒ध्वे॒ |
आ¦वः॒¦अ॒र्वाचः॑¦सु॒वि॒ताय॑¦रोद॑स्योः¦म॒हे¦व॒वृ॒त्या॒‌म्¦अव॑से¦सु॒वृ॒क्तिऽभिः॑ ||

व॒व्रासो॒ न ये स्व॒जाः स्वत॑वस॒ इषं॒ स्व॑रभि॒जाय᳚न्त॒ धूत॑यः |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

स॒ह॒स्रिया᳚सो, अ॒पां नोर्मय॑ आ॒सा गावो॒ वन्द्या᳚सो॒ नोक्षणः॑ ||{2/10}{2.4.6.2}{1.168.2}{1.23.4.2}{440, 168, 1810}

व॒व्रासः॑¦न¦ये¦स्व॒ऽजाः¦स्वऽत॑वसः¦इष᳚‌म्¦स्वः॑¦अ॒भि॒ऽजाय᳚न्त¦धूत॑यः |
स॒ह॒स्रिया᳚सः¦अ॒पा‌म्¦न¦ऊ॒र्मयः॑¦आ॒सा¦गावः॑¦वन्द्या᳚सः¦न¦उ॒क्षणः॑ ||

सोमा᳚सो॒ न ये सु॒तास्तृ॒प्तांश॑वो हृ॒त्सु पी॒तासो᳚ दु॒वसो॒ नास॑ते |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

ऐषा॒मंसे᳚षु र॒म्भिणी᳚व रारभे॒ हस्ते᳚षु खा॒दिश्च॑ कृ॒तिश्च॒ सं द॑धे ||{3/10}{2.4.6.3}{1.168.3}{1.23.4.3}{441, 168, 1811}

सोमा᳚सः¦न¦ये¦सु॒ताः¦तृ॒प्त।आं᳚शवः¦हृ॒त्ऽसु¦पी॒तासः॑¦दु॒वसः॑¦न¦आस॑ते |
आ¦ए॒षा॒‌म्¦अंसे᳚षु¦र॒म्भिणी᳚ऽ‌इव¦र॒र॒भे॒¦हस्ते᳚षु¦खा॒दिः¦च॒¦कृ॒तिः¦च॒¦स‌म्¦द॒धे॒ ||

अव॒ स्वयु॑क्ता दि॒व आ वृथा᳚ ययु॒रम॑र्त्याः॒ कश॑या चोदत॒ त्मना᳚ |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

अ॒रे॒णव॑स्तुविजा॒ता, अ॑चुच्यवुर्दृ॒ळ्हानि॑ चिन्म॒रुतो॒ भ्राज॑दृष्टयः ||{4/10}{2.4.6.4}{1.168.4}{1.23.4.4}{442, 168, 1812}

अव॑¦स्वऽयु॑क्ताः¦दि॒वः¦आ¦वृथा᳚¦य॒युः॒¦अम॑र्त्याः¦कश॑या¦चो॒द॒त॒¦त्मना᳚ |
अ॒रे॒णवः॑¦तु॒वि॒ऽजा॒ताः¦अ॒चु॒च्य॒वुः॒¦दृ॒ळ्हानि॑¦चि॒त्¦म॒रुतः॑¦भ्राज॑त्ऽऋष्टयः ||

को वो॒ऽन्तर्म॑रुत ऋष्टिविद्युतो॒ रेज॑ति॒ त्मना॒ हन्वे᳚व जि॒ह्वया᳚ |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

ध॒न्व॒च्युत॑ इ॒षां न याम॑नि पुरु॒प्रैषा᳚, अह॒न्यो॒३॑(ओ॒) नैत॑शः ||{5/10}{2.4.6.5}{1.168.5}{1.23.4.5}{443, 168, 1813}

कः¦वः॒¦अ॒न्तः¦म॒रु॒तः॒¦ऋ॒ष्टि॒ऽवि॒द्यु॒तः॒¦रेज॑ति¦त्मना᳚¦हन्वा᳚ऽ‌इव¦जि॒ह्वया᳚ |
ध॒न्व॒ऽच्युतः॑¦इ॒षा‌म्¦न¦याम॑नि¦पु॒रु॒ऽप्रैषाः᳚¦अ॒ह॒न्यः॑¦न¦एत॑शः ||

क्व॑ स्विद॒स्य रज॑सो म॒हस्परं॒ क्वाव॑रं मरुतो॒ यस्मि᳚न्नाय॒य |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

यच्च्या॒वय॑थ विथु॒रेव॒ संहि॑तं॒ व्यद्रि॑णा पतथ त्वे॒षम᳚र्ण॒वम् ||{6/10}{2.4.7.1}{1.168.6}{1.23.4.6}{444, 168, 1814}

क्व॑¦स्वि॒त्¦अ॒स्य¦रज॑सः¦म॒हः¦पर᳚‌म्¦क्व॑¦अव॑र‌म्¦म॒रु॒तः॒¦यस्मि॑न्¦आ॒ऽय॒य |
यत्¦च्य॒वय॑थ¦वि॒थु॒राऽ‌इ᳚व¦स‌म्ऽहि॑त‌म्¦वि¦अद्रि॑णा¦प॒त॒थ॒¦त्वे॒ष‌म्¦अ॒र्ण॒व‌म् ||

सा॒तिर्न वोऽम॑वती॒ स्व᳚र्वती त्वे॒षा विपा᳚का मरुतः॒ पिपि॑ष्वती |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

भ॒द्रा वो᳚ रा॒तिः पृ॑ण॒तो न दक्षि॑णा पृथु॒ज्रयी᳚, असु॒र्ये᳚व॒ जञ्ज॑ती ||{7/10}{2.4.7.2}{1.168.7}{1.23.4.7}{445, 168, 1815}

सा॒तिः¦न¦वः॒¦अम॑ऽवती¦स्वः॑ऽवती¦त्वे॒षा¦विऽपा᳚का¦म॒रु॒तः॒¦पिपि॑ष्वती |
भ॒द्रा¦वः॒¦रा॒तिः¦पृ॒ण॒तः¦न¦दक्षि॑णा¦पृ॒थु॒ऽज्रयी᳚¦अ॒सु॒र्या᳚ऽ‌इव¦जंज॑ती ||

प्रति॑ ष्टोभन्ति॒ सिन्ध॑वः प॒विभ्यो॒ यद॒भ्रियां॒ वाच॑मुदी॒रय᳚न्ति |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

अव॑ स्मयन्त वि॒द्युतः॑ पृथि॒व्यां यदी᳚ घृ॒तं म॒रुतः॑ प्रुष्णु॒वन्ति॑ ||{8/10}{2.4.7.3}{1.168.8}{1.23.4.8}{446, 168, 1816}

प्रति॑¦स्तो॒भ॒न्ति॒¦सिन्ध॑वः¦प॒विऽभ्यः॑¦यत्¦अ॒भ्रिया᳚‌म्¦वाच᳚‌म्¦उ॒त्ऽई॒रय᳚न्ति |
अव॑¦स्म॒य॒न्त॒¦वि॒ऽद्युतः॑¦पृ॒थि॒व्या‌म्¦यदि॑¦घृ॒त‌म्¦म॒रुतः॑¦प्रु॒ष्णु॒वन्ति॑ ||

असू᳚त॒ पृश्नि᳚र्मह॒ते रणा᳚य त्वे॒षम॒यासां᳚ म॒रुता॒मनी᳚कम् |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

ते स॑प्स॒रासो᳚ऽजनय॒न्ताभ्व॒मादित्‌ स्व॒धामि॑षि॒रां पर्य॑पश्यन् ||{9/10}{2.4.7.4}{1.168.9}{1.23.4.9}{447, 168, 1817}

असू᳚त¦पृश्निः॑¦म॒ह॒ते¦रणा᳚य¦त्वे॒ष‌म्¦अ॒यासा᳚‌म्¦म॒रुता᳚‌म्¦अनी᳚क‌म् |
ते¦स॒प्स॒रासः॑¦अ॒ज॒न॒य॒न्त॒¦अभ्व᳚‌म्¦आत्¦इत्¦स्व॒धा‌म्¦इ॒षि॒रा‌म्¦परि॑¦अ॒प॒श्य॒न् ||

ए॒ष वः॒ स्तोमो᳚ मरुत इ॒यं गीर्मा᳚न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

एषा या᳚सीष्ट त॒न्वे᳚ व॒यां वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{10/10}{2.4.7.5}{1.168.10}{1.23.4.10}{448, 168, 1818}

ए॒षः¦वः॒¦स्तोमः॑¦म॒रु॒तः॒¦इ॒य‌म्¦गीः¦मा॒न्दा॒र्यस्य॑¦मा॒न्यस्य॑¦का॒रोः |
आ¦इ॒षा¦या॒सी॒ष्ट॒¦त॒न्वे᳚¦व॒या‌म्¦वि॒द्याम॑¦इ॒ष‌म्¦वृ॒जन᳚‌म्¦जी॒रऽदा᳚नु‌म् ||

[48] महश्चिदित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् द्वितीयाविराट् |
म॒हश्चि॒त्‌ त्वमि᳚न्द्र य॒त ए॒तान् म॒हश्चि॑दसि॒ त्यज॑सो वरू॒ता |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

स नो᳚ वेधो म॒रुतां᳚ चिकि॒त्वान् त्सु॒म्ना व॑नुष्व॒ तव॒ हि प्रेष्ठा᳚ ||{1/8}{2.4.8.1}{1.169.1}{1.23.5.1}{449, 169, 1819}

म॒हः¦चि॒त्¦त्व‌म्¦इ॒न्द्र॒¦य॒तः¦ए॒तान्¦म॒हः¦चि॒त्¦अ॒सि॒¦त्यज॑सः¦व॒रू॒ता |
सः¦नः॒¦वे॒धः॒¦म॒रुता᳚‌म्¦चि॒कि॒त्वान्¦सु॒म्ना¦व॒नु॒ष्व॒¦तव॑¦हि¦प्रेष्ठा᳚ ||

अयु॑ज्र॒न्त इ᳚न्द्र वि॒श्वकृ॑ष्टीर्विदा॒नासो᳚ नि॒ष्षिधो᳚ मर्त्य॒त्रा |{मैत्रावरुणिरगस्त्यः | इन्द्रः | विराट्}

म॒रुतां᳚ पृत्सु॒तिर्हास॑माना॒ स्व᳚र्मीळ्हस्य प्र॒धन॑स्य सा॒तौ ||{2/8}{2.4.8.2}{1.169.2}{1.23.5.2}{450, 169, 1820}

अयु॑ज्रन्¦ते¦इ॒न्द्र॒¦वि॒श्वऽकृ॑ष्टीः¦वि॒दा॒नासः॑¦निः॒ऽसिधः॑¦म॒र्त्य॒ऽत्रा | म॒रुता᳚‌म्¦पृ॒त्सु॒तिः¦हास॑माना¦स्वः॑ऽमीळ्हस्य¦प्र॒ऽधन॑स्य¦सा॒तौ ||

अम्य॒क्‌ सा त॑ इन्द्र ऋ॒ष्टिर॒स्मे सने॒म्यभ्वं᳚ म॒रुतो᳚ जुनन्ति |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

अ॒ग्निश्चि॒द्धि ष्मा᳚त॒से शु॑शु॒क्वानापो॒ न द्वी॒पं दध॑ति॒ प्रयां᳚सि ||{3/8}{2.4.8.3}{1.169.3}{1.23.5.3}{451, 169, 1821}

अम्य॑क्¦सा¦ते॒¦इ॒न्द्र॒¦ऋ॒ष्टिः¦अ॒स्मे इति॑¦सने᳚मि¦अभ्व᳚‌म्¦म॒रुतः॑¦जु॒न॒न्ति॒ |
अ॒ग्निः¦चि॒त्¦हि¦स्म॒¦अ॒त॒से¦शु॒शु॒क्वान्¦आपः॑¦न¦द्वी॒प‌म्¦दध॑ति¦प्रयां᳚सि ||

त्वं तू न॑ इन्द्र॒ तं र॒यिं दा॒, ओजि॑ष्ठया॒ दक्षि॑णयेव रा॒तिम् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

स्तुत॑श्च॒ यास्ते᳚ च॒कन᳚न्त वा॒योः स्तनं॒ न मध्वः॑ पीपयन्त॒ वाजैः᳚ ||{4/8}{2.4.8.4}{1.169.4}{1.23.5.4}{452, 169, 1822}

त्व‌म्¦तु¦नः॒¦इ॒न्द्र॒¦त‌म्¦र॒यि‌म्¦दाः॒¦ओजि॑ष्ठया¦दक्षि॑णयाऽ‌इव¦रा॒ति‌म् |
स्तुतः॑¦च॒¦याः¦ते॒¦च॒कन᳚न्त¦वा॒योः¦स्तन᳚‌म्¦न¦मध्वः॑¦पी॒प॒य॒न्त॒¦वाजैः᳚ ||

त्वे राय॑ इन्द्र तो॒शत॑माः प्रणे॒तारः॒ कस्य॑ चिदृता॒योः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

ते षु णो᳚ म॒रुतो᳚ मृळयन्तु॒ ये स्मा᳚ पु॒रा गा᳚तू॒यन्ती᳚व दे॒वाः ||{5/8}{2.4.8.5}{1.169.5}{1.23.5.5}{453, 169, 1823}

त्वे इति॑¦रायः॑¦इ॒न्द्र॒¦तो॒शऽत॑माः¦प्र॒ऽने॒तारः॑¦कस्य॑¦चि॒त्¦ऋ॒त॒ऽयोः |
ते¦सु¦नः॒¦म॒रुतः॑¦मृ॒ळ॒य॒न्तु॒¦ये¦स्म॒¦पु॒रा¦गा॒तु॒यन्ति॑ऽ‌इव¦दे॒वाः ||

प्रति॒ प्र या᳚हीन्द्र मी॒ळ्हुषो॒ नॄन् म॒हः पार्थि॑वे॒ सद॑ने यतस्व |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

अध॒ यदे᳚षां पृथुबु॒ध्नास॒ एता᳚स्ती॒र्थे नार्यः पौंस्या᳚नि त॒स्थुः ||{6/8}{2.4.9.1}{1.169.6}{1.23.5.6}{454, 169, 1824}

प्रति॑¦प्र¦या॒हि॒¦इ॒न्द्र॒¦मी॒ळ्हुषः॑¦नॄन्¦म॒हः¦पार्थि॑वे¦सद॑ने¦य॒त॒स्व॒ |
अध॑¦यत्¦ए॒षा॒‌म्¦पृ॒थु॒ऽबु॒ध्नासः॑¦एताः᳚¦ती॒र्थे¦न¦अ॒र्यः¦पौंस्या᳚नि¦त॒स्थुः ||

प्रति॑ घो॒राणा॒मेता᳚नाम॒यासां᳚ म॒रुतां᳚ शृण्व आय॒तामु॑प॒ब्दिः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

ये मर्त्यं᳚ पृतना॒यन्त॒मूमै᳚रृणा॒वानं॒ न प॒तय᳚न्त॒ सर्गैः᳚ ||{7/8}{2.4.9.2}{1.169.7}{1.23.5.7}{455, 169, 1825}

प्रति॑¦घो॒राणा᳚‌म्¦एता᳚ना‌म्¦अ॒यासा᳚‌म्¦म॒रुता᳚‌म्¦शृ॒ण्वे॒¦आ॒ऽय॒ता‌म्¦उ॒प॒ब्दिः |
ये¦मर्त्य᳚‌म्¦पृ॒त॒ना॒ऽयन्त᳚‌म्¦ऊमैः᳚¦ऋ॒ण॒ऽवान᳚‌म्¦न¦प॒तय᳚न्त¦सर्गैः᳚ ||

त्वं माने᳚भ्य इन्द्र वि॒श्वज᳚न्या॒ रदा᳚ म॒रुद्भिः॑ शु॒रुधो॒ गो,अ॑ग्राः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

स्तवा᳚नेभिः स्तवसे देव दे॒वैर्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{8/8}{2.4.9.3}{1.169.8}{1.23.5.8}{456, 169, 1826}

त्व‌म्¦माने᳚भ्यः¦इ॒न्द्र॒¦वि॒श्वऽज᳚न्या¦रद॑¦म॒रुत्ऽभिः॑¦शु॒रुधः॑¦गो।आ॑ग्राः |
स्तवा᳚नेभिः¦स्त॒व॒से॒¦दे॒व॒¦दे॒वैः¦वि॒द्याम॑¦इ॒ष‌म्¦वृ॒जन᳚‌म्¦जी॒रऽदा᳚नु‌म् ||

[49] ननूनमिति पंचर्चस्य सूक्तस्यप्रथमतृतीयाचतुर्थीनामृचामिंद्रोगस्त्यो द्वितीयापंचम्योरगस्यऋषिरिंद्रोदेवता आद्याबृहती ततस्तिस्रोनुष्टुभोंत्यात्रिष्टुप् |
न नू॒नमस्ति॒ नो श्वः कस्तद्‌ वे᳚द॒ यदद्भु॑तम् |{इंद्रोगस्त्यो | इन्द्रः | बृहती}

अ॒न्यस्य॑ चि॒त्तम॒भि सं᳚च॒रेण्य॑मु॒ताधी᳚तं॒ वि न॑श्यति ||{1/5}{2.4.10.1}{1.170.1}{1.23.6.1}{457, 170, 1827}

न¦नू॒न‌म्¦अस्ति॑¦नो इति॑¦श्वः¦कः¦तत्¦वे॒द॒¦यत्¦अद्भु॑त‌म् |
अ॒न्यस्य॑¦चि॒त्त‌म्¦अ॒भि¦स॒‌म्ऽच॒रेण्य᳚‌म्¦उ॒त¦आऽधी᳚त‌म्¦वि¦न॒श्य॒ति॒ ||

किं न॑ इन्द्र जिघांससि॒ भ्रात॑रो म॒रुत॒स्तव॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

तेभिः॑ कल्पस्व साधु॒या मा नः॑ स॒मर॑णे वधीः ||{2/5}{2.4.10.2}{1.170.2}{1.23.6.2}{458, 170, 1828}

कि‌म्¦नः॒¦इ॒न्द्र॒¦जि॒घां॒स॒सि॒¦भ्रात॑रः¦म॒रुतः॑¦तव॑ | तेभिः॑¦क॒ल्प॒स्व॒¦सा॒धु॒ऽया¦मा¦नः॒¦स॒‌म्।आर॑णे¦व॒धीः॒ ||

किं नो᳚ भ्रातरगस्त्य॒ सखा॒ सन्नति॑ मन्यसे |{इंद्रोगस्त्यो | इन्द्रः | अनुष्टुप्}

वि॒द्मा हि ते॒ यथा॒ मनो॒ऽस्मभ्य॒मिन्न दि॑त्ससि ||{3/5}{2.4.10.3}{1.170.3}{1.23.6.3}{459, 170, 1829}

कि‌म्¦नः॒¦भ्रा॒तः॒¦अ॒ग॒स्त्य॒¦सखा᳚¦सन्¦अति॑¦म॒न्य॒से॒ | वि॒द्म¦हि¦ते॒¦यथा᳚¦मनः॑¦अ॒स्मभ्य᳚‌म्¦इत्¦न¦दि॒त्स॒सि॒ ||

अरं᳚ कृण्वन्तु॒ वेदिं॒ सम॒ग्निमि᳚न्धतां पु॒रः |{इंद्रोगस्त्यो | इन्द्रः | अनुष्टुप्}

तत्रा॒मृत॑स्य॒ चेत॑नं य॒ज्ञं ते᳚ तनवावहै ||{4/5}{2.4.10.4}{1.170.4}{1.23.6.4}{460, 170, 1830}

अर᳚‌म्¦कृ॒ण्व॒न्तु॒¦वेदि᳚‌म्¦स‌म्¦अ॒ग्नि‌म्¦इ॒न्ध॒ता॒‌म्¦पु॒रः | तत्र॑¦अ॒मृत॑स्य¦चेत॑न‌म्¦य॒ज्ञ‌म्¦ते॒¦त॒न॒वा॒व॒है॒ ||

त्वमी᳚शिषे वसुपते॒ वसू᳚नां॒ त्वं मि॒त्राणां᳚ मित्रपते॒ धेष्ठः॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒ त्वं म॒रुद्भिः॒ सं व॑द॒स्वाध॒ प्राशा᳚न ऋतु॒था ह॒वींषि॑ ||{5/5}{2.4.10.5}{1.170.5}{1.23.6.5}{461, 170, 1831}

त्व‌म्¦ई॒शि॒षे॒¦व॒सु॒ऽप॒ते॒¦वसू᳚ना‌म्¦त्व‌म्¦मि॒त्राणा᳚‌म्¦मि॒त्र॒ऽप॒ते॒¦धेष्ठः॑ |
इन्द्र॑¦त्व‌म्¦म॒रुत्ऽभिः॑¦स‌म्¦व॒द॒स्व॒¦अध॑¦प्र¦अ॒शा॒न॒¦ऋ॒तु॒ऽथा¦ह॒वींषि॑ ||

[50] प्रतिवइति षडृचस्य सूक्तस्यागस्त्योमरुतः अंत्यानांचतसृणांमरुत्वानिंद्रस्त्रिष्टुप् |
प्रति॑ व ए॒ना नम॑सा॒हमे᳚मि सू॒क्तेन॑ भिक्षे सुम॒तिं तु॒राणा᳚म् |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

र॒रा॒णता᳚ मरुतो वे॒द्याभि॒र्नि हेळो᳚ ध॒त्त वि मु॑चध्व॒मश्वा॑न् ||{1/6}{2.4.11.1}{1.171.1}{1.23.7.1}{462, 171, 1832}

प्रति॑¦वः॒¦ए॒ना¦नम॑सा¦अ॒ह‌म्¦ए॒मि॒¦सु॒।औ॒क्तेन॑¦भि॒क्षे॒¦सु॒ऽम॒ति‌म्¦तु॒राणा᳚‌म् |
र॒रा॒णता᳚¦म॒रु॒तः॒¦वे॒द्याभिः॑¦नि¦हेळः॑¦ध॒त्त¦वि¦मु॒च॒ध्व॒‌म्¦अश्वा॑न् ||

ए॒ष वः॒ स्तोमो᳚ मरुतो॒ नम॑स्वान् हृ॒दा त॒ष्टो मन॑सा धायि देवाः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

उपे॒मा या᳚त॒ मन॑सा जुषा॒णा यू॒यं हि ष्ठा नम॑स॒ इद्‌ वृ॒धासः॑ ||{2/6}{2.4.11.2}{1.171.2}{1.23.7.2}{463, 171, 1833}

ए॒षः¦वः॒¦स्तोमः॑¦म॒रु॒तः॒¦नम॑स्वान्¦हृ॒दा¦त॒ष्टः¦मन॑सा¦धा॒यि॒¦दे॒वाः॒ |
उप॑¦ई॒‌म्¦आ¦या॒त॒¦मन॑सा¦जु॒षा॒णाः¦यू॒य‌म्¦हि¦स्थ¦नम॑सः¦इत्¦वृ॒धासः॑ ||

स्तु॒तासो᳚ नो म॒रुतो᳚ मृळयन्तू॒त स्तु॒तो म॒घवा॒ शम्भ॑विष्ठः |{मैत्रावरुणिरगस्त्यः | मरुत्वानिंद्रः | त्रिष्टुप्}

ऊ॒र्ध्वा नः॑ सन्तु को॒म्या वना॒न्यहा᳚नि॒ विश्वा᳚ मरुतो जिगी॒षा ||{3/6}{2.4.11.3}{1.171.3}{1.23.7.3}{464, 171, 1834}

स्तु॒तासः॑¦नः॒¦म॒रुतः॑¦मृ॒ळ॒य॒न्तु॒¦उ॒त¦स्तु॒तः¦म॒घऽवा᳚¦श‌म्ऽभ॑विष्ठः |
ऊ॒र्ध्वा¦नः॒¦स॒न्तु॒¦को॒म्या¦वना᳚नि¦अहा᳚नि¦विश्वा᳚¦म॒रु॒तः॒¦जि॒गी॒षा ||

अ॒स्माद॒हं त॑वि॒षादीष॑माण॒ इन्द्रा᳚द्‌ भि॒या म॑रुतो॒ रेज॑मानः |{मैत्रावरुणिरगस्त्यः | मरुत्वानिंद्रः | त्रिष्टुप्}

यु॒ष्मभ्यं᳚ ह॒व्या निशि॑तान्यास॒न् तान्या॒रे च॑कृमा मृ॒ळता᳚ नः ||{4/6}{2.4.11.4}{1.171.4}{1.23.7.4}{465, 171, 1835}

अ॒स्मात्¦अ॒ह‌म्¦त॒वि॒षात्¦ईष॑माणः¦इन्द्रा᳚त्¦भि॒या¦म॒रु॒तः॒¦रेज॑मानः |
यु॒ष्मभ्य᳚‌म्¦ह॒व्या¦निऽशि॑तानि¦आ॒स॒न्¦तानि॑¦आ॒रे¦च॒कृ॒म॒¦मृ॒ळत॑¦नः॒ ||

येन॒ माना᳚सश्चि॒तय᳚न्त उ॒स्रा व्यु॑ष्टिषु॒ शव॑सा॒ शश्व॑तीनाम् |{मैत्रावरुणिरगस्त्यः | मरुत्वानिंद्रः | त्रिष्टुप्}

स नो᳚ म॒रुद्भि᳚र्वृषभ॒ श्रवो᳚ धा, उ॒ग्र उ॒ग्रेभिः॒ स्थवि॑रः सहो॒दाः ||{5/6}{2.4.11.5}{1.171.5}{1.23.7.5}{466, 171, 1836}

येन॑¦माना᳚सः¦चि॒तय᳚न्ते¦उ॒स्राः¦वि।औ᳚ष्टिषु¦शव॑सा¦शश्व॑तीना‌म् |
सः¦नः॒¦म॒रुत्ऽभिः॑¦वृ॒ष॒भ॒¦श्रवः॑¦धाः॒¦उ॒ग्रः¦उ॒ग्रेभिः॑¦स्थवि॑रः¦स॒हः॒ऽदाः ||

त्वं पा᳚हीन्द्र॒ सही᳚यसो॒ नॄन् भवा᳚ म॒रुद्भि॒रव॑यातहेळाः |{मैत्रावरुणिरगस्त्यः | मरुत्वानिंद्रः | त्रिष्टुप्}

सु॒प्र॒के॒तेभिः॑ सास॒हिर्दधा᳚नो वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{6/6}{2.4.11.6}{1.171.6}{1.23.7.6}{467, 171, 1837}

त्व‌म्¦पा॒हि॒¦इ॒न्द्र॒¦सही᳚यसः¦नॄन्¦भव॑¦म॒रुत्ऽभिः॑¦अव॑यातऽहेळाः |
सु॒ऽप्र॒के॒तेभिः॑¦स॒स॒हिः¦दधा᳚नः¦वि॒द्याम॑¦इ॒ष‌म्¦वृ॒जन᳚‌म्¦जी॒रऽदा᳚नु‌म् ||

[51] चित्रोवइति तृचस्य सूक्तस्य मैत्रावरुणिरगस्त्यो मरुतो गायत्री |
चि॒त्रो वो᳚ऽस्तु॒ याम॑श्चि॒त्र ऊ॒ती सु॑दानवः |{मैत्रावरुणिरगस्त्यः | मरुतः | गायत्री}

मरु॑तो॒, अहि॑भानवः ||{1/3}{2.4.12.1}{1.172.1}{1.23.8.1}{468, 172, 1838}

चि॒त्रः¦वः॒¦अ॒स्तु॒¦यामः॑¦चि॒त्रः¦ऊ॒ती¦सु॒ऽदा॒न॒वः॒ | मरु॑तः¦अहि॑ऽभानवः ||

आ॒रे सा वः॑ सुदानवो॒ मरु॑त ऋञ्ज॒ती शरुः॑ |{मैत्रावरुणिरगस्त्यः | मरुतः | गायत्री}

आ॒रे, अश्मा॒ यमस्य॑थ ||{2/3}{2.4.12.2}{1.172.2}{1.23.8.2}{469, 172, 1839}

आ॒रे¦सा¦वः॒¦सु॒ऽदा॒न॒वः॒¦मरु॑तः¦ऋं॒ज॒ती¦शरुः॑ | आ॒रे¦अश्मा᳚¦य‌म्¦अस्य॑थ ||

तृ॒ण॒स्क॒न्दस्य॒ नु विशः॒ परि॑ वृङ्क्त सुदानवः |{मैत्रावरुणिरगस्त्यः | मरुतः | गायत्री}

ऊ॒र्ध्वान्‌ नः॑ कर्त जी॒वसे᳚ ||{3/3}{2.4.12.3}{1.172.3}{1.23.8.3}{470, 172, 1840}

तृ॒ण॒ऽस्क॒न्दस्य॑¦नु¦विशः॑¦परि॑¦वृ॒ङ्क्त॒¦सु॒ऽदा॒न॒वः॒ | ऊ॒र्ध्वान्¦नः॒¦क॒र्त॒¦जी॒वसे᳚ ||

[52] गायत्सामेति त्रयोदशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् |
गाय॒त्‌ साम॑ नभ॒न्य१॑(अं॒) यथा॒ वेरर्चा᳚म॒ तद्‌ वा᳚वृधा॒नं स्व᳚र्वत् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

गावो᳚ धे॒नवो᳚ ब॒र्हिष्यद॑ब्धा॒, आ यत्‌ स॒द्मानं᳚ दि॒व्यं विवा᳚सान् ||{1/13}{2.4.13.1}{1.173.1}{1.23.9.1}{471, 173, 1841}

गाय॑त्¦साम॑¦न॒भ॒न्य᳚‌म्¦यथा᳚¦वेः¦अर्चा᳚म¦तत्¦व॒वृ॒धा॒न‌म्¦स्वः॑ऽवत् |
गावः॑¦धे॒नवः॑¦ब॒र्हिषि॑¦अद॑ब्धाः¦आ¦यत्¦स॒द्मान᳚‌म्¦दि॒व्य‌म्¦विवा᳚सान् ||

अर्च॒द्‌ वृषा॒ वृष॑भिः॒ स्वेदु॑हव्यैर्मृ॒गो नाश्नो॒, अति॒ यज्जु॑गु॒र्यात् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

प्र म᳚न्द॒युर्म॒नां गू᳚र्त॒ होता॒ भर॑ते॒ मर्यो᳚ मिथु॒ना यज॑त्रः ||{2/13}{2.4.13.2}{1.173.2}{1.23.9.2}{472, 173, 1842}

अर्च॑त्¦वृषा᳚¦वृष॑ऽभिः¦स्व॒ऽ‌इदु॑हव्यैः¦मृ॒गः¦न¦अश्नः॑¦अति॑¦यत्¦जु॒गु॒र्यात् |
प्र¦म॒न्द॒युः¦म॒ना‌म्¦गू॒र्त॒¦होता᳚¦भर॑ते¦मर्यः॑¦मि॒थु॒ना¦यज॑त्रः ||

नक्ष॒द्धोता॒ परि॒ सद्म॑ मि॒ता यन् भर॒द्‌ गर्भ॒मा श॒रदः॑ पृथि॒व्याः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

क्रन्द॒दश्वो॒ नय॑मानो रु॒वद्‌ गौर॒न्तर्दू॒तो न रोद॑सी चर॒द्‌ वाक् ||{3/13}{2.4.13.3}{1.173.3}{1.23.9.3}{473, 173, 1843}

नक्ष॑त्¦होता᳚¦परि॑¦सद्म॑¦मि॒ता¦यन्¦भर॑त्¦गर्भ᳚‌म्¦आ¦श॒रदः॑¦पृ॒थि॒व्याः |
क्रन्द॑त्¦अश्वः॑¦नय॑मानः¦रु॒वत्¦गौः¦अ॒न्तः¦दू॒तः¦न¦रोद॑सी॒ इति॑¦च॒र॒त्¦वाक् ||

ता क॒र्माष॑तरास्मै॒ प्र च्यौ॒त्नानि॑ देव॒यन्तो᳚ भरन्ते |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

जुजो᳚ष॒दिन्द्रो᳚ द॒स्मव॑र्चा॒ नास॑त्येव॒ सुग्म्यो᳚ रथे॒ष्ठाः ||{4/13}{2.4.13.4}{1.173.4}{1.23.9.4}{474, 173, 1844}

ता¦क॒र्म॒¦अष॑ऽतरा¦अ॒स्मै॒¦प्र¦च्यौ॒त्नानि॑¦दे॒व॒ऽयन्तः॑¦भ॒र॒न्ते॒ |
जुजो᳚षत्¦इन्द्रः॑¦द॒स्मऽव॑र्चाः¦नास॑त्याऽ‌इव¦सुग्म्यः॑¦र॒थे॒ऽस्थाः ||

तमु॑ ष्टु॒हीन्द्रं॒ यो ह॒ सत्वा॒ यः शूरो᳚ म॒घवा॒ यो र॑थे॒ष्ठाः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

प्र॒ती॒चश्चि॒द्‌ योधी᳚या॒न्‌ वृष᳚ण्वान् वव॒व्रुष॑श्चि॒त्तम॑सो विह॒न्ता ||{5/13}{2.4.13.5}{1.173.5}{1.23.9.5}{475, 173, 1845}

त‌म्¦उँ॒ इति॑¦स्तु॒हि॒¦इन्द्र᳚‌म्¦यः¦ह॒¦सत्वा᳚¦यः¦शूरः॑¦म॒घऽवा᳚¦यः¦र॒थे॒ऽस्थाः |
प्र॒ती॒चः¦चि॒त्¦योधी᳚यान्¦वृष॑ण्ऽवान्¦व॒व॒व्रुषः॑¦चि॒त्¦तम॑सः¦वि॒ऽह॒न्ता ||

प्र यदि॒त्था म॑हि॒ना नृभ्यो॒, अस्त्यरं॒ रोद॑सी क॒क्ष्ये॒३॑(ए॒) नास्मै᳚ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

सं वि᳚व्य॒ इन्द्रो᳚ वृ॒जनं॒ न भूमा॒ भर्ति॑ स्व॒धावाँ᳚, ओप॒शमि॑व॒ द्याम् ||{6/13}{2.4.14.1}{1.173.6}{1.23.9.6}{476, 173, 1846}

प्र¦यत्¦इ॒त्था¦म॒हि॒ना¦नृऽभ्यः॑¦अस्ति॑¦अर᳚‌म्¦रोद॑सी॒ इति॑¦क॒क्ष्ये॒३॒॑ इति॑¦न¦अ॒स्मै॒ |
स‌म्¦वि॒व्ये॒¦इन्द्रः॑¦वृ॒जन᳚‌म्¦न¦भूम॑¦भर्ति॑¦स्व॒धाऽवा᳚न्¦ओ॒प॒श‌म्ऽ‌इ᳚व¦द्या‌म् ||

स॒मत्सु॑ त्वा शूर स॒तामु॑रा॒णं प्र॑प॒थिन्त॑मं परितंस॒यध्यै᳚ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

स॒जोष॑स॒ इन्द्रं॒ मदे᳚ क्षो॒णीः सू॒रिं चि॒द्‌ ये, अ॑नु॒मद᳚न्ति॒ वाजैः᳚ ||{7/13}{2.4.14.2}{1.173.7}{1.23.9.7}{477, 173, 1847}

स॒मत्ऽसु॑¦त्वा॒¦शू॒र॒¦स॒ता‌म्¦उ॒रा॒ण‌म्¦प्र॒प॒थिन्ऽत॑म‌म्¦प॒रि॒ऽतं॒स॒यध्यै᳚ |
स॒ऽजोष॑सः¦इन्द्र᳚‌म्¦मदे᳚¦क्षो॒णीः¦सू॒रि‌म्¦चि॒त्¦ये¦अ॒नु॒ऽमद᳚न्ति¦वाजैः᳚ ||

ए॒वा हि ते॒ शं सव॑ना समु॒द्र आपो॒ यत्त॑ आ॒सु मद᳚न्ति दे॒वीः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

विश्वा᳚ ते॒, अनु॒ जोष्या᳚ भू॒द्गौः सू॒रीँश्चि॒द्‌ यदि॑ धि॒षा वेषि॒ जना॑न् ||{8/13}{2.4.14.3}{1.173.8}{1.23.9.8}{478, 173, 1848}

ए॒व¦हि¦ते॒¦श‌म्¦सव॑ना¦स॒मु॒द्रे¦आपः॑¦यत्¦ते॒¦आ॒सु¦मद᳚न्ति¦दे॒वीः |
विश्वा᳚¦ते॒¦अनु॑¦जोष्या᳚¦भू॒त्¦गौः¦सू॒रीन्¦चि॒त्¦यदि॑¦धि॒षा¦वेषि॑¦जना॑न् ||

असा᳚म॒ यथा᳚ सुष॒खाय॑ एन स्वभि॒ष्टयो᳚ न॒रां न शंसैः᳚ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

अस॒द्‌ यथा᳚ न॒ इन्द्रो᳚ वन्दने॒ष्ठास्तु॒रो न कर्म॒ नय॑मान उ॒क्था ||{9/13}{2.4.14.4}{1.173.9}{1.23.9.9}{479, 173, 1849}

असा᳚म¦यथा᳚¦सु॒ऽस॒खायः॑¦ए॒न॒¦सु॒।आ॒भि॒ष्टयः॑¦न॒रा‌म्¦न¦शंसैः᳚ |
अस॑त्¦यथा᳚¦नः॒¦इन्द्रः॑¦व॒न्द॒ने॒ऽस्थाः¦तु॒रः¦न¦कर्म॑¦नय॑मानः¦उ॒क्था ||

विष्प॑र्धसो न॒रां न शंसै᳚र॒स्माका᳚स॒दिन्द्रो॒ वज्र॑हस्तः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

मि॒त्रा॒युवो॒ न पूर्प॑तिं॒ सुशि॑ष्टौ मध्या॒युव॒ उप॑ शिक्षन्ति य॒ज्ञैः ||{10/13}{2.4.14.5}{1.173.10}{1.23.9.10}{480, 173, 1850}

विऽस्प॑र्धसः¦न॒रा‌म्¦न¦शंसैः᳚¦अ॒स्माक॑¦अ॒स॒त्¦इन्द्रः॑¦वज्र॑ऽहस्तः |
मि॒त्र॒ऽयुवः॑¦न¦पूःऽप॑ति‌म्¦सुऽशि॑ष्टौ¦म॒ध्य॒ऽयुवः॑¦उप॑¦शि॒क्ष॒न्ति॒¦य॒ज्ञैः ||

य॒ज्ञो हि ष्मेन्द्रं॒ कश्चि॑दृ॒न्धञ्जु॑हुरा॒णश्चि॒न्मन॑सा परि॒यन् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

ती॒र्थे नाच्छा᳚ तातृषा॒णमोको᳚ दी॒र्घो न सि॒ध्रमा कृ॑णो॒त्यध्वा᳚ ||{11/13}{2.4.15.1}{1.173.11}{1.23.9.11}{481, 173, 1851}

य॒ज्ञः¦हि¦स्म॒¦इन्द्र᳚‌म्¦कः¦चि॒त्¦ऋ॒न्धन्¦जु॒हु॒रा॒णः¦चि॒त्¦मन॑सा¦प॒रि॒ऽयन् |
ती॒र्थे¦न¦अच्छ॑¦त॒तृ॒षा॒ण‌म्¦ओकः॑¦दी॒र्घः¦न¦सि॒ध्र‌म्¦आ¦कृ॒णो॒ति॒¦अध्वा᳚ ||

मो षू ण॑ इ॒न्द्रात्र॑ पृ॒त्सु दे॒वैरस्ति॒ हि ष्मा᳚ ते शुष्मिन्नव॒याः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

म॒हश्चि॒द्‌ यस्य॑ मी॒ळ्हुषो᳚ य॒व्या ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः ||{12/13}{2.4.15.2}{1.173.12}{1.23.9.12}{482, 173, 1852}

मो इति॑¦सु¦नः॒¦इ॒न्द्र॒¦अत्र॑¦पृ॒त्ऽसु¦दे॒वैः¦अस्ति॑¦हि¦स्म॒¦ते॒¦शु॒ष्मि॒न्¦अ॒व॒ऽयाः |
म॒हः¦चि॒त्¦यस्य॑¦मी॒ळ्हुषः॑¦य॒व्या¦ह॒विष्म॑तः¦म॒रुतः॑¦वन्द॑ते¦गीः ||

ए॒ष स्तोम॑ इन्द्र॒ तुभ्य॑म॒स्मे, ए॒तेन॑ गा॒तुं ह॑रिवो विदो नः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

आ नो᳚ ववृत्याः सुवि॒ताय॑ देव वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{13/13}{2.4.15.3}{1.173.13}{1.23.9.13}{483, 173, 1853}

ए॒षः¦स्तोमः॑¦इ॒न्द्र॒¦तुभ्य᳚‌म्¦अ॒स्मे इति॑¦ए॒तेन॑¦गा॒तु‌म्¦ह॒रि॒ऽवः॒¦वि॒दः॒¦नः॒ |
आ¦नः॒¦व॒वृ॒त्याः॒¦सु॒वि॒ताय॑¦दे॒व॒¦वि॒द्याम॑¦इ॒ष‌म्¦वृ॒जन᳚‌म्¦जी॒रऽदा᳚नु‌म् ||

[53] त्वंराजेति दशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् |
त्वं राजे᳚न्द्र॒ ये च॑ दे॒वा रक्षा॒ नॄन्‌ पा॒ह्य॑सुर॒ त्वम॒स्मान् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

त्वं सत्प॑तिर्म॒घवा᳚ न॒स्तरु॑त्र॒स्त्वं स॒त्यो वस॑वानः सहो॒दाः ||{1/10}{2.4.16.1}{1.174.1}{1.23.10.1}{484, 174, 1854}

त्व‌म्¦राजा᳚¦इ॒न्द्र॒¦ये¦च॒¦दे॒वाः¦रक्ष॑¦नॄन्¦पा॒हि¦अ॒सु॒र॒¦त्व‌म्¦अ॒स्मान् |
त्व‌म्¦सत्ऽप॑तिः¦म॒घऽवा᳚¦नः॒¦तरु॑त्रः¦त्व‌म्¦स॒त्यः¦वस॑वानः¦स॒हः॒ऽदाः ||

दनो॒ विश॑ इन्द्र मृ॒ध्रवा᳚चः स॒प्त यत्‌ पुरः॒ शर्म॒ शार॑दी॒र्दर्त् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

ऋ॒णोर॒पो, अ॑नव॒द्यार्णा॒ यूने᳚ वृ॒त्रं पु॑रु॒कुत्सा᳚य रन्धीः ||{2/10}{2.4.16.2}{1.174.2}{1.23.10.2}{485, 174, 1855}

दनः॑¦विशः॑¦इ॒न्द्र॒¦मृ॒ध्रऽवा᳚चः¦स॒प्त¦यत्¦पुरः॑¦शर्म॑¦शार॑दीः¦दर्त् |
ऋ॒णोः¦अ॒पः¦अ॒न॒व॒द्य॒¦अर्णाः᳚¦यूने᳚¦वृ॒त्र‌म्¦पु॒रु॒ऽकुत्सा᳚य¦र॒न्धीः॒ ||

अजा॒ वृत॑ इन्द्र॒ शूर॑पत्नी॒र्द्यां च॒ येभिः॑ पुरुहूत नू॒नम् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

रक्षो᳚, अ॒ग्निम॒शुषं॒ तूर्व॑याणं सिं॒हो न दमे॒, अपां᳚सि॒ वस्तोः᳚ ||{3/10}{2.4.16.3}{1.174.3}{1.23.10.3}{486, 174, 1856}

अज॑¦वृतः॑¦इ॒न्द्र॒¦शूर॑ऽपत्नीः¦द्या‌म्¦च॒¦येभिः॑¦पु॒रु॒ऽहू॒त॒¦नू॒न‌म् |
रक्षो॒ इति॑¦अ॒ग्नि‌म्¦अ॒शुष᳚‌म्¦तूर्व॑याण‌म्¦सिं॒हः¦न¦दमे᳚¦अपां᳚सि¦वस्तोः᳚ ||

शेष॒न्‌ नु त इ᳚न्द्र॒ सस्मि॒न्‌ योनौ॒ प्रश॑स्तये॒ पवी᳚रवस्य म॒ह्ना |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

सृ॒जदर्णां॒स्यव॒ यद्‌ यु॒धा गास्तिष्ठ॒द्धरी᳚ धृष॒ता मृ॑ष्ट॒ वाजा॑न् ||{4/10}{2.4.16.4}{1.174.4}{1.23.10.4}{487, 174, 1857}

शेष॑न्¦नु¦ते¦इ॒न्द्र॒¦सस्मि॑न्¦योनौ᳚¦प्रऽश॑स्तये¦पवी᳚रवस्य¦म॒ह्ना |
सृ॒जत्¦अर्णां᳚सि¦अव॑¦यत्¦यु॒धा¦गाः¦तिष्ठ॑त्¦हरी॒ इति॑¦धृ॒ष॒ता¦मृ॒ष्ट॒¦वाजा॑न् ||

वह॒ कुत्स॑मिन्द्र॒ यस्मि᳚ञ्चा॒कन् त्स्यू᳚म॒न्यू, ऋ॒ज्रा वात॒स्याश्वा᳚ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॒ऽभि स्पृधो᳚ यासिष॒द्‌ वज्र॑बाहुः ||{5/10}{2.4.16.5}{1.174.5}{1.23.10.5}{488, 174, 1858}

वह॑¦कुत्स᳚‌म्¦इ॒न्द्र॒¦यस्मि॑न्¦चा॒कन्¦स्यू॒म॒न्यू इति॑¦ऋ॒ज्रा¦वात॑स्य¦अश्वा᳚ |
प्र¦सूरः॑¦च॒क्र‌म्¦वृ॒ह॒ता॒त्¦अ॒भीके᳚¦अ॒भि¦स्पृधः॑¦या॒सि॒ष॒त्¦वज्र॑ऽबाहुः ||

ज॒घ॒न्वाँ, इ᳚न्द्र मि॒त्रेरू᳚ञ्चो॒दप्र॑वृद्धो हरिवो॒, अदा᳚शून् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

प्र ये पश्य᳚न्नर्य॒मणं॒ सचा॒योस्त्वया᳚ शू॒र्ता वह॑माना॒, अप॑त्यम् ||{6/10}{2.4.17.1}{1.174.6}{1.23.10.6}{489, 174, 1859}

ज॒घ॒न्वान्¦इ॒न्द्र॒¦मि॒त्रेरू᳚न्¦चो॒दऽप्र॑वृद्धः¦ह॒रि॒ऽवः॒¦अदा᳚शून् |
प्र¦ये¦पश्य॑न्¦अ॒र्य॒मण᳚‌म्¦सचा᳚¦आ॒योः¦त्वया᳚¦शू॒र्ताः¦वह॑मानाः¦अप॑त्य‌म् ||

रप॑त्‌ क॒विरि᳚न्द्रा॒र्कसा᳚तौ॒ क्षां दा॒सायो᳚प॒बर्ह॑णीं कः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

कर॑त्ति॒स्रो म॒घवा॒ दानु॑चित्रा॒ नि दु᳚र्यो॒णे कुय॑वाचं मृ॒धि श्रे᳚त् ||{7/10}{2.4.17.2}{1.174.7}{1.23.10.7}{490, 174, 1860}

रप॑त्¦क॒विः¦इ॒न्द्र॒¦अ॒र्कऽसा᳚तौ¦क्षा‌म्¦दा॒साय॑¦उ॒प॒ऽबर्ह॑णी‌म्¦क॒रिति॑ कः |
कर॑त्¦ति॒स्रः¦म॒घऽवा᳚¦दानु॑ऽचित्राः¦नि¦दु॒र्यो॒णे¦कुय॑वाच‌म्¦मृ॒धि¦श्रे॒त् ||

सना॒ ता त॑ इन्द्र॒ नव्या॒, आगुः॒ सहो॒ नभोऽवि॑रणाय पू॒र्वीः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

भि॒नत्‌ पुरो॒ न भिदो॒, अदे᳚वीर्न॒नमो॒ वध॒रदे᳚वस्य पी॒योः ||{8/10}{2.4.17.3}{1.174.8}{1.23.10.8}{491, 174, 1861}

सना᳚¦ता¦ते॒¦इ॒न्द्र॒¦नव्याः᳚¦आ¦अ॒गुः॒¦सहः॑¦नभः॑¦अवि॑ऽरणाय¦पू॒र्वीः |
भि॒नत्¦पुरः॑¦न¦भिदः॑¦अदे᳚वीः¦न॒नमः॑¦वधः॑¦अदे᳚वस्य¦पी॒योः ||

त्वं धुनि॑रिन्द्र॒ धुनि॑मतीरृ॒णोर॒पः सी॒रा न स्रव᳚न्तीः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

प्र यत्‌ स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया᳚ तु॒र्वशं॒ यदुं᳚ स्व॒स्ति ||{9/10}{2.4.17.4}{1.174.9}{1.23.10.9}{492, 174, 1862}

त्व‌म्¦धुनिः॑¦इ॒न्द्र॒¦धुनि॑ऽमतीः¦ऋ॒णोः¦अ॒पः¦सी॒राः¦न¦स्रव᳚न्तीः |
प्र¦यत्¦स॒मु॒द्र‌म्¦अति॑¦शू॒र॒¦पर्षि॑¦पा॒रय॑¦तु॒र्वश᳚‌म्¦यदु᳚‌म्¦स्व॒स्ति ||

त्वम॒स्माक॑मिन्द्र वि॒श्वध॑ स्या, अवृ॒कत॑मो न॒रां नृ॑पा॒ता |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

स नो॒ विश्वा᳚सां स्पृ॒धां स॑हो॒दा वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{10/10}{2.4.17.5}{1.174.10}{1.23.10.10}{493, 174, 1863}

त्व‌म्¦अ॒स्माक᳚‌म्¦इ॒न्द्र॒¦वि॒श्वध॑¦स्याः॒¦अ॒वृ॒कऽत॑मः¦न॒रा‌म्¦नृ॒ऽपा॒ता |
सः¦नः॒¦विश्वा᳚सा‌म्¦स्पृ॒धा‌म्¦स॒हः॒ऽदाः¦वि॒द्याम॑¦इ॒ष‌म्¦वृ॒जन᳚‌म्¦जी॒रऽदा᳚नु‌म् ||

[54] मत्स्यपायीति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्य इंद्रोनुष्टुप् आद्यास्कंधोग्रीवी अंत्यात्रिष्टुप् |
मत्स्यपा᳚यि ते॒ महः॒ पात्र॑स्येव हरिवो मत्स॒रो मदः॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | स्कन्धोग्रीवीबृहती}

वृषा᳚ ते॒ वृष्ण॒ इन्दु᳚र्वा॒जी स॑हस्र॒सात॑मः ||{1/6}{2.4.18.1}{1.175.1}{1.23.11.1}{494, 175, 1864}

मत्सि॑¦अपा᳚यि¦ते॒¦महः॑¦पात्र॑स्यऽ‌इव¦ह॒रि॒ऽवः¦म॒त्स॒रः¦मदः॑ |
वृषा᳚¦ते॒¦वृष्णे᳚¦इन्दुः॑¦वा॒जी¦स॒ह॒स्र॒ऽसात॑मः ||

आ न॑स्ते गन्तु मत्स॒रो वृषा॒ मदो॒ वरे᳚ण्यः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

स॒हावाँ᳚, इन्द्र सान॒सिः पृ॑तना॒षाळम॑र्त्यः ||{2/6}{2.4.18.2}{1.175.2}{1.23.11.2}{495, 175, 1865}

आ¦नः॒¦ते॒¦ग॒न्तु॒¦म॒त्स॒रः¦वृषा᳚¦मदः॑¦वरे᳚ण्यः | स॒हऽवा᳚न्¦इ॒न्द्र॒¦सा॒न॒सिः¦पृ॒त॒ना॒षाट्¦अम॑र्त्यः ||

त्वं हि शूरः॒ सनि॑ता चो॒दयो॒ मनु॑षो॒ रथ᳚म् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

स॒हावा॒न्‌ दस्यु॑मव्र॒तमोषः॒ पात्रं॒ न शो॒चिषा᳚ ||{3/6}{2.4.18.3}{1.175.3}{1.23.11.3}{496, 175, 1866}

त्व‌म्¦हि¦शूरः॑¦सनि॑ता¦चो॒दयः॑¦मनु॑षः¦रथ᳚‌म् | स॒हऽवा᳚न्¦दस्यु᳚‌म्¦अ॒व्र॒त‌म्¦ओषः॑¦पात्र᳚‌म्¦न¦शो॒चिषा᳚ ||

मु॒षा॒य सूर्यं᳚ कवे च॒क्रमीशा᳚न॒ ओज॑सा |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

वह॒ शुष्णा᳚य व॒धं कुत्सं॒ वात॒स्याश्वैः᳚ ||{4/6}{2.4.18.4}{1.175.4}{1.23.11.4}{497, 175, 1867}

मु॒षा॒य¦सूर्य᳚‌म्¦क॒वे॒¦च॒क्र‌म्¦ईशा᳚नः¦ओज॑सा | वह॑¦शुष्णा᳚य¦व॒ध‌म्¦कुत्स᳚‌म्¦वात॑स्य¦अश्वैः᳚ ||

शु॒ष्मिन्त॑मो॒ हि ते॒ मदो᳚ द्यु॒म्निन्त॑म उ॒त क्रतुः॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

वृ॒त्र॒घ्ना व॑रिवो॒विदा᳚ मंसी॒ष्ठा, अ॑श्व॒सात॑मः ||{5/6}{2.4.18.5}{1.175.5}{1.23.11.5}{498, 175, 1868}

शु॒ष्मिन्ऽत॑मः¦हि¦ते॒¦मदः॑¦द्यु॒म्निन्ऽत॑मः¦उ॒त¦क्रतुः॑ | वृ॒त्र॒ऽघ्ना¦व॒रि॒वः॒ऽविदा᳚¦मं॒सी॒ष्ठाः¦अ॒श्व॒ऽसात॑मः ||

यथा॒ पूर्वे᳚भ्यो जरि॒तृभ्य॑ इन्द्र॒ मय॑ इ॒वापो॒ न तृष्य॑ते ब॒भूथ॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

तामनु॑ त्वा नि॒विदं᳚ जोहवीमि वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{6/6}{2.4.18.6}{1.175.6}{1.23.11.6}{499, 175, 1869}

यथा᳚¦पूर्वे᳚भ्यः¦ज॒रि॒तृऽभ्यः॑¦इ॒न्द्र॒¦मयः॑ऽ‌इव¦आपः॑¦न¦तृष्य॑ते¦ब॒भूथ॑ |
ता‌म्¦अनु॑¦त्वा॒¦नि॒ऽविद᳚‌म्¦जो॒ह॒वी॒मि॒¦वि॒द्याम॑¦इ॒ष‌म्¦वृ॒जन᳚‌म्¦जी॒रऽदा᳚नु‌म् ||

[55] मत्सिनइति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्य इंद्रोनुष्टुबन्त्या त्रिष्टुप् |
मत्सि॑ नो॒ वस्य॑ इष्टय॒ इन्द्र॑मिन्दो॒ वृषा वि॑श |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

ऋ॒घा॒यमा᳚ण इन्वसि॒ शत्रु॒मन्ति॒ न वि᳚न्दसि ||{1/6}{2.4.19.1}{1.176.1}{1.23.12.1}{500, 176, 1870}

मत्सि॑¦नः॒¦वस्यः॑ऽ‌इष्टये¦इन्द्र᳚‌म्¦इ॒न्दो॒ इति॑¦वृषा᳚¦आ¦वि॒श॒ | ऋ॒घा॒यमा᳚णः¦इ॒न्व॒सि॒¦शत्रु᳚‌म्¦अन्ति॑¦न¦वि॒न्द॒सि॒ ||

तस्मि॒न्ना वे᳚शया॒ गिरो॒ य एक॑श्चर्षणी॒नाम् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

अनु॑ स्व॒धा यमु॒प्यते॒ यवं॒ न चर्कृ॑ष॒द्‌ वृषा᳚ ||{2/6}{2.4.19.2}{1.176.2}{1.23.12.2}{501, 176, 1871}

तस्मि॑न्¦आ¦वे॒श॒य॒¦गिरः॑¦यः¦एकः॑¦च॒र्ष॒णी॒ना‌म् | अनु॑¦स्व॒धा¦य‌म्¦उ॒प्यते᳚¦यव᳚‌म्¦न¦चर्कृ॑षत्¦वृषा᳚ ||

यस्य॒ विश्वा᳚नि॒ हस्त॑योः॒ पञ्च॑ क्षिती॒नां वसु॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

स्पा॒शय॑स्व॒ यो, अ॑स्म॒ध्रुग्दि॒व्येवा॒शनि॑र्जहि ||{3/6}{2.4.19.3}{1.176.3}{1.23.12.3}{502, 176, 1872}

यस्य॑¦विश्वा᳚नि¦हस्त॑योः¦पंच॑¦क्षि॒ती॒ना‌म्¦वसु॑ | स्पा॒शय॑स्व¦यः¦अ॒स्म॒ऽध्रुक्¦दि॒व्याऽ‌इ᳚व¦अ॒शनिः॑¦ज॒हि॒ ||

असु᳚न्वन्तं समं जहि दू॒णाशं॒ यो न ते॒ मयः॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

अ॒स्मभ्य॑मस्य॒ वेद॑नं द॒द्धि सू॒रिश्चि॑दोहते ||{4/6}{2.4.19.4}{1.176.4}{1.23.12.4}{503, 176, 1873}

असु᳚न्वन्त‌म्¦स॒म॒‌म्¦ज॒हि॒¦दुः॒ऽनश᳚‌म्¦यः¦न¦ते॒¦मयः॑ | अ॒स्मभ्य᳚‌म्¦अ॒स्य॒¦वेद॑न‌म्¦द॒द्धि¦सू॒रिः¦चि॒त्¦ओ॒ह॒ते॒ ||

आवो॒ यस्य॑ द्वि॒बर्ह॑सो॒ऽर्केषु॑ सानु॒षगस॑त् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

आ॒जाविन्द्र॑स्येन्दो॒ प्रावो॒ वाजे᳚षु वा॒जिन᳚म् ||{5/6}{2.4.19.5}{1.176.5}{1.23.12.5}{504, 176, 1874}

आवः॑¦यस्य॑¦द्वि॒ऽबर्ह॑सः¦अ॒र्केषु॑¦सा॒नु॒षक्¦अस॑त् | आ॒जौ¦इन्द्र॑स्य¦इ॒न्दो॒ इति॑¦प्र¦आ॒वः॒¦वाजे᳚षु¦वा॒जिन᳚‌म् ||

यथा॒ पूर्वे᳚भ्यो जरि॒तृभ्य॑ इन्द्र॒ मय॑ इ॒वापो॒ न तृष्य॑ते ब॒भूथ॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

तामनु॑ त्वा नि॒विदं᳚ जोहवीमि वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{6/6}{2.4.19.6}{1.176.6}{1.23.12.6}{505, 176, 1875}

यथा᳚¦पूर्वे᳚भ्यः¦ज॒रि॒तृऽभ्यः॑¦इ॒न्द्र॒¦मयः॑ऽ‌इव¦आपः॑¦न¦तृष्य॑ते¦ब॒भूथ॑ |
ता‌म्¦अनु॑¦त्वा॒¦नि॒ऽविद᳚‌म्¦जो॒ह॒वी॒मि॒¦वि॒द्याम॑¦इ॒ष‌म्¦वृ॒जन᳚‌म्¦जी॒रऽदा᳚नु‌म् ||

[56] आचर्षणिप्राइति पंचर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् |
आ च॑र्षणि॒प्रा वृ॑ष॒भो जना᳚नां॒ राजा᳚ कृष्टी॒नां पु॑रुहू॒त इन्द्रः॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

स्तु॒तः श्र॑व॒स्यन्नव॒सोप॑ म॒द्रिग्यु॒क्त्वा हरी॒ वृष॒णा या᳚ह्य॒र्वाङ् ||{1/5}{2.4.20.1}{1.177.1}{1.23.13.1}{506, 177, 1876}

आ¦च॒र्ष॒णि॒ऽप्राः¦वृ॒ष॒भः¦जना᳚ना‌म्¦राजा᳚¦कृ॒ष्टी॒ना‌म्¦पु॒रु॒ऽहू॒तः¦इन्द्रः॑ |
स्तु॒तः¦श्र॒व॒स्यन्¦अव॑सा¦उप॑¦म॒द्रिक्¦यु॒क्त्वा¦हरी॒ इति॑¦वृ॒ष॒णा¦आ¦या॒हि॒¦अ॒र्वाङ् ||

ये ते॒ वृष॑णो वृष॒भास॑ इन्द्र ब्रह्म॒युजो॒ वृष॑रथासो॒, अत्याः᳚ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

ताँ, आ ति॑ष्ठ॒ तेभि॒रा या᳚ह्य॒र्वाङ् हवा᳚महे त्वा सु॒त इ᳚न्द्र॒ सोमे᳚ ||{2/5}{2.4.20.2}{1.177.2}{1.23.13.2}{507, 177, 1877}

ये¦ते॒¦वृष॑णः¦वृ॒ष॒भासः॑¦इ॒न्द्र॒¦ब्र॒ह्म॒ऽयुजः॑¦वृष॑ऽरथासः¦अत्याः᳚ |
तान्¦आ¦ति॒ष्ठ॒¦तेभिः॑¦आ¦या॒हि॒¦अ॒र्वाङ्¦हवा᳚महे¦त्वा॒¦सु॒ते¦इ॒न्द्र॒¦सोमे᳚ ||

आ ति॑ष्ठ॒ रथं॒ वृष॑णं॒ वृषा᳚ ते सु॒तः सोमः॒ परि॑षिक्ता॒ मधू᳚नि |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

यु॒क्त्वा वृष॑भ्यां वृषभ क्षिती॒नां हरि॑भ्यां याहि प्र॒वतोप॑ म॒द्रिक् ||{3/5}{2.4.20.3}{1.177.3}{1.23.13.3}{508, 177, 1878}

आ¦ति॒ष्ठ॒¦रथ᳚‌म्¦वृष॑ण‌म्¦वृषा᳚¦ते॒¦सु॒तः¦सोमः॑¦परि॑ऽसिक्ता¦मधू᳚नि |
यु॒क्त्वा¦वृष॑ऽभ्या‌म्¦वृ॒ष॒भ॒¦क्षि॒ती॒ना‌म्¦हरि॑ऽभ्या‌म्¦या॒हि॒¦प्र॒ऽवता᳚¦उप॑¦म॒द्रिक् ||

अ॒यं य॒ज्ञो दे᳚व॒या, अ॒यं मि॒येध॑ इ॒मा ब्रह्मा᳚ण्य॒यमि᳚न्द्र॒ सोमः॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

स्ती॒र्णं ब॒र्हिरा तु श॑क्र॒ प्र या᳚हि॒ पिबा᳚ नि॒षद्य॒ वि मु॑चा॒ हरी᳚, इ॒ह ||{4/5}{2.4.20.4}{1.177.4}{1.23.13.4}{509, 177, 1879}

अ॒य‌म्¦य॒ज्ञः¦दे॒व॒ऽयाः¦अ॒य‌म्¦मि॒येधः॑¦इ॒मा¦ब्रह्मा᳚णि¦अ॒य‌म्¦इ॒न्द्र॒¦सोमः॑ |
स्ती॒र्ण‌म्¦ब॒र्हिः¦आ¦तु¦श॒क्र॒¦प्र¦या॒हि॒¦पिब॑¦नि॒ऽसद्य॑¦वि¦मु॒च॒¦हरी॒ इति॑¦इ॒ह ||

ओ सुष्टु॑त इन्द्र याह्य॒र्वाङुप॒ ब्रह्मा᳚णि मा॒न्यस्य॑ का॒रोः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो᳚ वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{5/5}{2.4.20.5}{1.177.5}{1.23.13.5}{510, 177, 1880}

ओ इति॑¦सुऽस्तु॑तः¦इ॒न्द्र॒¦या॒हि॒¦अ॒र्वाङ्¦उप॑¦ब्रह्मा᳚णि¦मा॒न्यस्य॑¦का॒रोः |
वि॒द्याम॑¦वस्तोः᳚¦अव॑सा¦गृ॒णन्तः॑¦वि॒द्याम॑¦इ॒ष‌म्¦वृ॒जन᳚‌म्¦जी॒रऽदा᳚नु‌म् ||

[57] यद्धस्यातइति पंचर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् |
यद्ध॒ स्या त॑ इन्द्र श्रु॒ष्टिरस्ति॒ यया᳚ ब॒भूथ॑ जरि॒तृभ्य॑ ऊ॒ती |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

मा नः॒ कामं᳚ म॒हय᳚न्त॒मा ध॒ग्विश्वा᳚ ते, अश्यां॒ पर्याप॑ आ॒योः ||{1/5}{2.4.21.1}{1.178.1}{1.23.14.1}{511, 178, 1881}

यत्¦ह॒¦स्या¦ते॒¦इ॒न्द्र॒¦श्रु॒ष्टिः¦अस्ति॑¦यया᳚¦ब॒भूथ॑¦ज॒रि॒तृऽभ्यः॑¦ऊ॒ती |
मा¦नः॒¦काम᳚‌म्¦म॒हय᳚न्त‌म्¦आ¦ध॒क्¦विश्वा᳚¦ते॒¦अ॒श्या॒‌म्¦परि॑¦आपः॑¦आ॒योः ||

न घा॒ राजेन्द्र॒ आ द॑भन्नो॒ या नु स्वसा᳚रा कृ॒णव᳚न्त॒ योनौ᳚ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

आप॑श्चिदस्मै सु॒तुका᳚, अवेष॒न् गम᳚न्न॒ इन्द्रः॑ स॒ख्या वय॑श्च ||{2/5}{2.4.21.2}{1.178.2}{1.23.14.2}{512, 178, 1882}

न¦घ॒¦राजा᳚¦इन्द्रः॑¦आ¦द॒भ॒त्¦नः॒¦या¦नु¦स्वसा᳚रा¦कृ॒णव᳚न्त¦योनौ᳚ |
आपः॑¦चि॒त्¦अ॒स्मै॒¦सु॒ऽतुकाः᳚¦अ॒वे॒ष॒न्¦गम॑त्¦नः॒¦इन्द्रः॑¦स॒ख्या¦वयः॑¦च॒ ||

जेता॒ नृभि॒रिन्द्रः॑ पृ॒त्सु शूरः॒ श्रोता॒ हवं॒ नाध॑मानस्य का॒रोः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

प्रभ॑र्ता॒ रथं᳚ दा॒शुष॑ उपा॒क उद्य᳚न्ता॒ गिरो॒ यदि॑ च॒ त्मना॒ भूत् ||{3/5}{2.4.21.3}{1.178.3}{1.23.14.3}{513, 178, 1883}

जेता᳚¦नृऽभिः॑¦इन्द्रः॑¦पृ॒त्ऽसु¦शूरः॑¦श्रोता᳚¦हव᳚‌म्¦नाध॑मानस्य¦का॒रोः |
प्रऽभ॑र्ता¦रथ᳚‌म्¦दा॒शुषः॑¦उ॒पा॒के¦उत्ऽय᳚न्ता¦गिरः॑¦यदि॑¦च॒¦त्मना᳚¦भूत् ||

ए॒वा नृभि॒रिन्द्रः॑ सुश्रव॒स्या प्र॑खा॒दः पृ॒क्षो, अ॒भि मि॒त्रिणो᳚ भूत् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

स॒म॒र्य इ॒षः स्त॑वते॒ विवा᳚चि सत्राक॒रो यज॑मानस्य॒ शंसः॑ ||{4/5}{2.4.21.4}{1.178.4}{1.23.14.4}{514, 178, 1884}

ए॒व¦नृऽभिः॑¦इन्द्रः॑¦सु॒ऽश्र॒व॒स्या¦प्र॒ऽखा॒दः¦पृ॒क्षः¦अ॒भि¦मि॒त्रिणः॑¦भू॒त् |
स॒ऽम॒र्ये¦इ॒षः¦स्त॒व॒ते॒¦विऽवा᳚चि¦स॒त्रा॒ऽक॒रः¦यज॑मानस्य¦शंसः॑ ||

त्वया᳚ व॒यं म॑घवन्निन्द्र॒ शत्रू᳚न॒भि ष्या᳚म मह॒तो मन्य॑मानान् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

त्वं त्रा॒ता त्वमु॑ नो वृ॒धे भू᳚र्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{5/5}{2.4.21.5}{1.178.5}{1.23.14.5}{515, 178, 1885}

त्वया᳚¦व॒य‌म्¦म॒घ॒ऽव॒न्¦इ॒न्द्र॒¦शत्रू᳚न्¦अ॒भि¦स्या॒म॒¦म॒ह॒तः¦मन्य॑मानान् |
त्व‌म्¦त्रा॒ता¦त्व‌म्¦ऊँ॒ इति॑¦नः॒¦वृ॒धे¦भूः॒¦वि॒द्याम॑¦इ॒ष‌म्¦वृ॒जन᳚‌म्¦जी॒रऽदा᳚नु‌म् ||

[58] पूर्वीरमिति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्यः आद्ययोर्द्वयोर्लोपामुद्राऋषिका अंत्ययोर्द्वयोरगस्त्यांतेवासीब्रह्मचारीऋषिः सर्वासांरतिर्देवता त्रिष्टुप् पंचमी बृहती |
पू॒र्वीर॒हं श॒रदः॑ शश्रमा॒णा दो॒षा वस्तो᳚रु॒षसो᳚ ज॒रय᳚न्तीः |{लोपामुद्रा ऋषिका | रतिः | त्रिष्टुप्}

मि॒नाति॒ श्रियं᳚ जरि॒मा त॒नूना॒मप्यू॒ नु पत्नी॒र्वृष॑णो जगम्युः ||{1/6}{2.4.22.1}{1.179.1}{1.23.15.1}{516, 179, 1886}

पू॒र्वीः¦अ॒ह‌म्¦श॒रदः॑¦श॒श्र॒मा॒णा¦दो॒षाः¦वस्तोः᳚¦उ॒षसः॑¦ज॒रय᳚न्तीः |
मि॒नाति॑¦श्रिय᳚‌म्¦ज॒रि॒मा¦त॒नूना᳚‌म्¦अपि॑¦ऊँ॒ इति॑¦नु¦पत्नीः᳚¦वृष॑णः¦ज॒ग॒म्युः॒ ||

ये चि॒द्धि पूर्व॑ ऋत॒साप॒ आस᳚न् त्सा॒कं दे॒वेभि॒रव॑दन्नृ॒तानि॑ |{लोपामुद्रा ऋषिका | रतिः | त्रिष्टुप्}

ते चि॒दवा᳚सुर्न॒ह्यन्त॑मा॒पुः समू॒ नु पत्नी॒र्वृष॑भिर्जगम्युः ||{2/6}{2.4.22.2}{1.179.2}{1.23.15.2}{517, 179, 1887}

ये¦चि॒त्¦हि¦पूर्वे᳚¦ऋ॒त॒ऽसापः॑¦आस॑न्¦सा॒क‌म्¦दे॒वेभिः॑¦अव॑दन्¦ऋ॒तानि॑ |
ते¦चि॒त्¦अव॑¦अ॒सुः॒¦न॒हि¦अन्त᳚‌म्¦आ॒पुः¦स‌म्¦ऊँ॒ इति॑¦नु¦पत्नीः᳚¦वृष॑ऽभिः¦ज॒ग॒म्युः॒ ||

न मृषा᳚ श्रा॒न्तं यदव᳚न्ति दे॒वा विश्वा॒, इत्‌ स्पृधो᳚, अ॒भ्य॑श्नवाव |{मैत्रावरुणिरगस्त्यः | रतिः | त्रिष्टुप्}

जया॒वेदत्र॑ श॒तनी᳚थमा॒जिं यत्‌ स॒म्यञ्चा᳚ मिथु॒नाव॒भ्यजा᳚व ||{3/6}{2.4.22.3}{1.179.3}{1.23.15.3}{518, 179, 1888}

न¦मृषा᳚¦श्रा॒न्त‌म्¦यत्¦अव᳚न्ति¦दे॒वाः¦विश्वाः᳚¦इत्¦स्पृधः॑¦अ॒भि¦अ॒श्न॒वा॒व॒ |
जया᳚व¦इत्¦अत्र॑¦श॒तऽनी᳚थ‌म्¦आ॒जि‌म्¦यत्¦स॒म्यंचा᳚¦मि॒थु॒नौ¦अ॒भि¦अजा᳚व ||

न॒दस्य॑ मा रुध॒तः काम॒ आग᳚न्नि॒त आजा᳚तो, अ॒मुतः॒ कुत॑श्चित् |{मैत्रावरुणिरगस्त्यः | रतिः | त्रिष्टुप्}

लोपा᳚मुद्रा॒ वृष॑णं॒ नी रि॑णाति॒ धीर॒मधी᳚रा धयति श्व॒सन्त᳚म् ||{4/6}{2.4.22.4}{1.179.4}{1.23.15.4}{519, 179, 1889}

न॒दस्य॑¦मा॒¦रु॒ध॒तः¦कामः॑¦आ¦अ॒ग॒न्¦इ॒तः¦आऽजा᳚तः¦अ॒मुतः॑¦कुतः॑¦चि॒त् |
लोपा᳚मुद्रा¦वृष॑ण‌म्¦निः¦रि॒णा॒ति॒¦धीर᳚‌म्¦अधी᳚रा¦ध॒य॒ति॒¦श्व॒सन्त᳚‌म् ||

इ॒मं नु सोम॒मन्ति॑तो हृ॒त्सु पी॒तमुप॑ ब्रुवे |{अगस्त्यान्तेवासी ब्रह्मचारी | रतिः | त्रिष्टुप्}

यत्‌ सी॒माग॑श्चकृ॒मा तत्‌ सु मृ॑ळतु पुलु॒कामो॒ हि मर्त्यः॑ ||{5/6}{2.4.22.5}{1.179.5}{1.23.15.5}{520, 179, 1890}

इ॒म‌म्¦नु¦सोम᳚‌म्¦अन्ति॑तः¦हृ॒त्ऽसु¦पी॒त‌म्¦उप॑¦ब्रु॒वे॒ |
यत्¦सी॒‌म्¦आगः॑¦च॒कृ॒म¦तत्¦सु¦मृ॒ळ॒तु॒¦पु॒लु॒ऽकामः॑¦हि¦मर्त्यः॑ ||

अ॒गस्त्यः॒ खन॑मानः ख॒नित्रैः᳚ प्र॒जामप॑त्यं॒ बल॑मि॒च्छमा᳚नः |{अगस्त्यान्तेवासी ब्रह्मचारी | रतिः | त्रिष्टुप्}

उ॒भौ वर्णा॒वृषि॑रु॒ग्रः पु॑पोष स॒त्या दे॒वेष्वा॒शिषो᳚ जगाम ||{6/6}{2.4.22.6}{1.179.6}{1.23.15.6}{521, 179, 1891}

अ॒गस्त्यः॑¦खन॑मानः¦ख॒नित्रैः᳚¦प्र॒ऽजा‌म्¦अप॑त्य‌म्¦बल᳚‌म्¦इ॒च्छमा᳚नः |
उ॒भौ¦वर्णौ᳚¦ऋषिः॑¦उ॒ग्रः¦पु॒पो॒ष॒¦स॒त्याः¦दे॒वेषु॑¦आ॒ऽशिषः॑¦ज॒गा॒म॒ ||

[59] युवोरजांसीति दशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौत्रिष्टुप् |
यु॒वो रजां᳚सि सु॒यमा᳚सो॒, अश्वा॒ रथो॒ यद्‌ वां॒ पर्यर्णां᳚सि॒ दीय॑त् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

हि॒र॒ण्यया᳚ वां प॒वयः॑ प्रुषाय॒न् मध्वः॒ पिब᳚न्ता, उ॒षसः॑ सचेथे ||{1/10}{2.4.23.1}{1.180.1}{1.24.1.1}{522, 180, 1892}

यु॒वोः¦रजां᳚सि¦सु॒ऽयमा᳚सः¦अश्वाः᳚¦रथः॑¦यत्¦वा॒‌म्¦परि॑¦अर्णां᳚सि¦दीय॑त् |
हि॒र॒ण्ययाः᳚¦वा‌म्¦प॒वयः॑¦प्रु॒षा॒य॒न्¦मध्वः॑¦पिब᳚न्तौ¦उ॒षसः॑¦स॒चे॒थे॒ इति॑ ||

यु॒वमत्य॒स्याव॑ नक्षथो॒ यद् विप॑त्मनो॒ नर्य॑स्य॒ प्रय॑ज्योः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

स्वसा॒ यद्‌ वां᳚ विश्वगूर्ती॒ भरा᳚ति॒ वाजा॒येट्टे᳚ मधुपावि॒षे च॑ ||{2/10}{2.4.23.2}{1.180.2}{1.24.1.2}{523, 180, 1893}

यु॒व‌म्¦अत्य॑स्य¦अव॑¦न॒क्ष॒थः॒¦यत्¦विऽप॑त्मनः¦नर्य॑स्य¦प्रऽय॑ज्योः |
स्वसा᳚¦यत्¦वा॒‌म्¦वि॒श्व॒गू॒र्ती॒ इति॑ विश्वऽगूर्ती¦भरा᳚ति¦वाजा᳚य¦ईट्टे᳚¦म॒धु॒ऽपौ॒¦इ॒षे¦च॒ ||

यु॒वं पय॑ उ॒स्रिया᳚यामधत्तं प॒क्वमा॒माया॒मव॒ पूर्व्यं॒ गोः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

अ॒न्तर्यद्‌ व॒निनो᳚ वामृतप्सू ह्वा॒रो न शुचि॒र्यज॑ते ह॒विष्मा॑न् ||{3/10}{2.4.23.3}{1.180.3}{1.24.1.3}{524, 180, 1894}

यु॒व‌म्¦पयः॑¦उ॒स्रिया᳚या‌म्¦अ॒ध॒त्त॒‌म्¦प॒क्व‌म्¦आ॒माया᳚‌म्¦अव॑¦पूर्व्य᳚‌म्¦गोः |
अ॒न्तः¦यत्¦व॒निनः॑¦वा॒‌म्¦ऋ॒त॒प्सू॒ इत्यृ॑तऽप्सू¦ह्वा॒रः¦न¦शुचिः॑¦यज॑ते¦ह॒विष्मा॑न् ||

यु॒वं ह॑ घ॒र्मं मधु॑मन्त॒मत्र॑ये॒ऽपो न क्षोदो᳚ऽवृणीतमे॒षे |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

तद्‌ वां᳚ नरावश्विना॒ पश्व॑इष्टी॒ रथ्ये᳚व च॒क्रा प्रति॑ यन्ति॒ मध्वः॑ ||{4/10}{2.4.23.4}{1.180.4}{1.24.1.4}{525, 180, 1895}

यु॒व‌म्¦ह॒¦घ॒र्म‌म्¦मधु॑ऽमन्त‌म्¦अत्र॑ये¦अ॒पः¦न¦क्षोदः॑¦अ॒वृ॒णी॒त॒‌म्¦ए॒षे |
तत्¦वा॒‌म्¦न॒रौ॒¦अ॒श्वि॒ना॒¦पश्वः॑ऽ‌इष्टिः¦रथ्या᳚ऽ‌इव¦च॒क्रा¦प्रति॑¦य॒न्ति॒¦मध्वः॑ ||

आ वां᳚ दा॒नाय॑ ववृतीय दस्रा॒ गोरोहे᳚ण तौ॒ग्र्यो न जिव्रिः॑ |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

अ॒पः, क्षो॒णी स॑चते॒ माहि॑ना वां जू॒र्णो वा॒मक्षु॒रंह॑सो यजत्रा ||{5/10}{2.4.23.5}{1.180.5}{1.24.1.5}{526, 180, 1896}

आ¦वा॒‌म्¦दा॒नाय॑¦व॒वृ॒ती॒य॒¦द॒स्रा॒¦गोः¦ओहे᳚न¦तौ॒ग्र्यः¦न¦जिव्रिः॑ |
अ॒पः¦क्षो॒णी इति॑¦स॒च॒ते॒¦माहि॑ना¦वा॒‌म्¦जू॒र्णः¦वा॒‌म्¦अक्षुः॑¦अंह॑सः¦य॒ज॒त्रा॒ ||

नि यद्‌ यु॒वेथे᳚ नि॒युतः॑ सुदानू॒, उप॑ स्व॒धाभिः॑ सृजथः॒ पुरं᳚धिम् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

प्रेष॒द्‌ वेष॒द्‌ वातो॒ न सू॒रिरा म॒हे द॑दे सुव्र॒तो न वाज᳚म् ||{6/10}{2.4.24.1}{1.180.6}{1.24.1.6}{527, 180, 1897}

नि¦यत्¦यु॒वेथे॒ इति॑¦नि॒ऽयुतः॑¦सु॒दा॒नू॒ इति॑ सुऽदानू¦उप॑¦स्व॒धाभिः॑¦सृ॒ज॒थः॒¦पुर᳚‌म्ऽधि‌म् |
प्रेष॑त्¦वेष॑त्¦वातः॑¦न¦सू॒रिः¦आ¦म॒हे¦द॒दे॒¦सु॒ऽव्र॒तः¦न¦वाज᳚‌म् ||

व॒यं चि॒द्धि वां᳚ जरि॒तारः॑ स॒त्या वि॑प॒न्याम॑हे॒ वि प॒णिर्हि॒तावा॑न् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

अधा᳚ चि॒द्धि ष्मा᳚श्विनावनिन्द्या पा॒थो हि ष्मा᳚ वृषणा॒वन्ति॑देवम् ||{7/10}{2.4.24.2}{1.180.7}{1.24.1.7}{528, 180, 1898}

व॒य‌म्¦चि॒त्¦हि¦वा॒‌म्¦ज॒रि॒तारः॑¦स॒त्याः¦वि॒प॒न्याम॑हे¦वि¦प॒णिः¦हि॒तऽवा॑न् |
अध॑¦चि॒त्¦हि¦स्म॒¦अ॒श्वि॒नौ॒¦अ॒नि॒न्द्या॒¦पा॒थः¦हि¦स्म॒¦वृ॒ष॒णौ॒¦अन्ति॑ऽदेव‌म् ||

यु॒वां चि॒द्धि ष्मा᳚श्विना॒वनु॒ द्यून् विरु॑द्रस्य प्र॒स्रव॑णस्य सा॒तौ |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

अ॒गस्त्यो᳚ न॒रां नृषु॒ प्रश॑स्तः॒ कारा᳚धुनीव चितयत्‌ स॒हस्रैः᳚ ||{8/10}{2.4.24.3}{1.180.8}{1.24.1.8}{529, 180, 1899}

यु॒वा‌म्¦चि॒त्¦हि¦स्म॒¦अ॒श्वि॒नौ॒¦अनु॑¦द्यून्¦विऽरु॑द्रस्य¦प्र॒ऽस्रव॑णस्य¦सा॒तौ |
अ॒गस्त्यः॑¦न॒रा‌म्¦नृषु॑¦प्रऽश॑स्तः¦कारा᳚धुनीऽ‌इव¦चि॒त॒य॒त्¦स॒हस्रैः᳚ ||

प्र यद्‌ वहे᳚थे महि॒ना रथ॑स्य॒ प्र स्प᳚न्द्रा याथो॒ मनु॑षो॒ न होता᳚ |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

ध॒त्तं सू॒रिभ्य॑ उ॒त वा॒ स्वश्व्यं॒ नास॑त्या रयि॒षाचः॑ स्याम ||{9/10}{2.4.24.4}{1.180.9}{1.24.1.9}{530, 180, 1900}

प्र¦यत्¦वहे᳚थे॒ इति॑¦म॒हि॒ना¦रथ॑स्य¦प्र¦स्प॒न्द्रा॒¦या॒थः॒¦मनु॑षः¦न¦होता᳚ |
ध॒त्त‌म्¦सू॒रिऽभ्यः॑¦उ॒त¦वा॒¦सु॒।आश्व्य᳚‌म्¦नास॑त्या¦र॒यि॒ऽसाचः॑¦स्या॒म॒ ||

तं वां॒ रथं᳚ व॒यम॒द्या हु॑वेम॒ स्तोमै᳚रश्विना सुवि॒ताय॒ नव्य᳚म् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

अरि॑ष्टनेमिं॒ परि॒ द्यामि॑या॒नं वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{10/10}{2.4.24.5}{1.180.10}{1.24.1.10}{531, 180, 1901}

त‌म्¦वा॒‌म्¦रथ᳚‌म्¦व॒य‌म्¦अ॒द्य¦हु॒वे॒म॒¦स्तोमैः᳚¦अ॒श्वि॒ना॒¦सु॒वि॒ताय॑¦नव्य᳚‌म् |
अरि॑ष्टऽनेमि‌म्¦परि॑¦द्या‌म्¦इ॒या॒न‌म्¦वि॒द्याम॑¦इ॒ष‌म्¦वृ॒जन᳚‌म्¦जी॒रऽदा᳚नु‌म् ||

[60] कदुप्रेष्ठाविति नवर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौत्रिष्टुप् |
कदु॒ प्रेष्टा᳚वि॒षां र॑यी॒णाम॑ध्व॒र्यन्ता॒ यदु᳚न्निनी॒थो, अ॒पाम् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

अ॒यं वां᳚ य॒ज्ञो, अ॑कृत॒ प्रश॑स्तिं॒ वसु॑धिती॒, अवि॑तारा जनानाम् ||{1/9}{2.4.25.1}{1.181.1}{1.24.2.1}{532, 181, 1902}

कत्¦ऊँ॒ इति॑¦प्रेष्ठौ᳚¦इ॒षा‌म्¦र॒यी॒णा‌म्¦अ॒ध्व॒र्यन्ता᳚¦यत्¦उ॒त्ऽनि॒नी॒थः¦अ॒पा‌म् |
अ॒य‌म्¦वा॒‌म्¦य॒ज्ञः¦अ॒कृ॒त॒¦प्रऽश॑स्ति‌म्¦वसु॑धिती॒ इति॒ वसु॑ऽधिती¦अवि॑तारा¦ज॒ना॒ना॒‌म् ||

आ वा॒मश्वा᳚सः॒ शुच॑यः पय॒स्पा वात॑रंहसो दि॒व्यासो॒, अत्याः᳚ |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

म॒नो॒जुवो॒ वृष॑णो वी॒तपृ॑ष्ठा॒, एह स्व॒राजो᳚, अ॒श्विना᳚ वहन्तु ||{2/9}{2.4.25.2}{1.181.2}{1.24.2.2}{533, 181, 1903}

आ¦वा॒‌म्¦अश्वा᳚सः¦शुच॑यः¦प॒यः॒ऽपाः¦वात॑ऽरंहसः¦दि॒व्यासः॑¦अत्याः᳚ |
म॒नः॒ऽजुवः॑¦वृष॑णः¦वी॒तऽपृ॑ष्ठाः¦आ¦इ॒ह¦स्व॒ऽराजः॑¦अ॒श्विना᳚¦व॒ह॒न्तु॒ ||

आ वां॒ रथो॒ऽवनि॒र्न प्र॒वत्वा᳚न् त्सृ॒प्रव᳚न्धुरः सुवि॒ताय॑ गम्याः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

वृष्णः॑ स्थातारा॒ मन॑सो॒ जवी᳚यानहम्पू॒र्वो य॑ज॒तो धि॑ष्ण्या॒ यः ||{3/9}{2.4.25.3}{1.181.3}{1.24.2.3}{534, 181, 1904}

आ¦वा॒‌म्¦रथः॑¦अ॒वनिः॑¦न¦प्र॒वत्वा᳚न्¦सृ॒प्रऽव᳚न्धुरः¦सु॒वि॒ताय॑¦ग॒म्याः॒ |
वृष्णः॑¦स्था॒ता॒रा॒¦मन॑सः¦जवी᳚यान्¦अ॒ह॒‌म्ऽपू॒र्वः¦य॒ज॒तः¦धि॒ष्ण्या॒¦यः ||

इ॒हेह॑ जा॒ता सम॑वावशीतामरे॒पसा᳚ त॒न्वा॒३॑(आ॒) नाम॑भिः॒ स्वैः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

जि॒ष्णुर्वा᳚म॒न्यः सुम॑खस्य सू॒रिर्दि॒वो, अ॒न्यः सु॒भगः॑ पु॒त्र ऊ᳚हे ||{4/9}{2.4.25.4}{1.181.4}{1.24.2.4}{535, 181, 1905}

इ॒हऽ‌इ᳚ह¦जा॒ता¦स‌म्¦अ॒वा॒व॒शी॒ता॒‌म्¦अ॒रे॒पसा᳚¦त॒न्वा᳚¦नाम॑ऽभिः¦स्वैः |
जि॒ष्णुः¦वा॒‌म्¦अ॒न्यः¦सुऽम॑खस्य¦सू॒रिः¦दि॒वः¦अ॒न्यः¦सु॒ऽभगः॑¦पु॒त्रः¦ऊ॒हे॒ ||

प्र वां᳚ निचे॒रुः क॑कु॒हो वशाँ॒, अनु॑ पि॒शङ्ग॑रूपः॒ सद॑नानि गम्याः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

हरी᳚, अ॒न्यस्य॑ पी॒पय᳚न्त॒ वाजै᳚र्म॒थ्रा रजां᳚स्यश्विना॒ वि घोषैः᳚ ||{5/9}{2.4.25.5}{1.181.5}{1.24.2.5}{536, 181, 1906}

प्र¦वा॒‌म्¦नि॒ऽचे॒रुः¦क॒कु॒हः¦वशा᳚न्¦अनु॑¦पि॒शङ्ग॑ऽरूपः¦सद॑नानि¦ग॒म्याः॒ |
हरी॒ इति॑¦अ॒न्यस्य॑¦पी॒पय᳚न्त¦वाजैः᳚¦म॒थ्रा¦रजां᳚सि¦अ॒श्वि॒ना॒¦वि¦घोषैः᳚ ||

प्र वां᳚ श॒रद्वा᳚न्‌ वृष॒भो न नि॒ष्षाट् पू॒र्वीरिष॑श्चरति॒ मध्व॑ इ॒ष्णन् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

एवै᳚र॒न्यस्य॑ पी॒पय᳚न्त॒ वाजै॒र्वेष᳚न्तीरू॒र्ध्वा न॒द्यो᳚ न॒ आगुः॑ ||{6/9}{2.4.26.1}{1.181.6}{1.24.2.6}{537, 181, 1907}

प्र¦वा॒‌म्¦श॒रत्ऽवा᳚न्¦वृ॒ष॒भः¦न¦नि॒ष्षाट्¦पू॒र्वीः¦इषः॑¦च॒र॒ति॒¦मध्वः॑¦इ॒ष्णन् |
एवैः᳚¦अ॒न्यस्य॑¦पी॒पय᳚न्त¦वाजैः᳚¦वेष᳚न्तीः¦ऊ॒र्ध्वाः¦न॒द्यः॑¦नः॒¦आ¦अ॒गुः॒ ||

अस॑र्जि वां॒ स्थवि॑रा वेधसा॒ गीर्बा॒ळ्हे, अ॑श्विना त्रे॒धा क्षर᳚न्ती |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

उप॑स्तुताववतं॒ नाध॑मानं॒ याम॒न्नया᳚मञ्छृणुतं॒ हवं᳚ मे ||{7/9}{2.4.26.2}{1.181.7}{1.24.2.7}{538, 181, 1908}

अस॑र्जि¦वा॒‌म्¦स्थवि॑रा¦वे॒ध॒सा॒¦गीः¦बा॒ळ्हे¦अ॒श्वि॒ना॒¦त्रे॒धा¦क्षर᳚न्ती |
उप॑ऽस्तुतौ¦अ॒व॒त॒‌म्¦नाध॑मान‌म्¦याम॑न्¦अया᳚मन्¦शृ॒णु॒त॒‌म्¦हव᳚‌म्¦मे॒ ||

उ॒त स्या वां॒ रुश॑तो॒ वप्स॑सो॒ गीस्त्रि॑ब॒र्हिषि॒ सद॑सि पिन्वते॒ नॄन् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

वृषा᳚ वां मे॒घो वृ॑षणा पीपाय॒ गोर्न सेके॒ मनु॑षो दश॒स्यन् ||{8/9}{2.4.26.3}{1.181.8}{1.24.2.8}{539, 181, 1909}

उ॒त¦स्या¦वा॒‌म्¦रुश॑तः¦वप्स॑सः¦गीः¦त्रि॒ऽब॒र्हिषि॑¦सद॑सि¦पि॒न्व॒ते॒¦नॄन् |
वृषा᳚¦वा॒‌म्¦मे॒घः¦वृ॒ष॒णा॒¦पी॒पा॒य॒¦गोः¦न¦सेके᳚¦मनु॑षः¦द॒श॒स्यन् ||

यु॒वां पू॒षेवा᳚श्विना॒ पुरं᳚धिर॒ग्निमु॒षां न ज॑रते ह॒विष्मा॑न् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

हु॒वे यद्‌ वां᳚ वरिव॒स्या गृ॑णा॒नो वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{9/9}{2.4.26.4}{1.181.9}{1.24.2.9}{540, 181, 1910}

यु॒वा‌म्¦पू॒षाऽ‌इ᳚व¦अ॒श्वि॒ना॒¦पुर᳚‌म्ऽधिः¦अ॒ग्नि‌म्¦उ॒षा‌म्¦न¦ज॒र॒ते॒¦ह॒विष्मा॑न् |
हु॒वे¦यत्¦वा॒‌म्¦व॒रि॒व॒स्या¦गृ॒णा॒नः¦वि॒द्याम॑¦इ॒ष‌म्¦वृ॒जन᳚‌म्¦जी॒रऽदा᳚नु‌म् ||

[61] अभूदिदमित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौजगती षष्ठ्यंत्येत्रिष्टुभौ |
अभू᳚दि॒दं व॒युन॒मो षु भू᳚षता॒ रथो॒ वृष᳚ण्वा॒न्‌ मद॑ता मनीषिणः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती}

धि॒यं॒जि॒न्वा धिष्ण्या᳚ वि॒श्पला᳚वसू दि॒वो नपा᳚ता सु॒कृते॒ शुचि᳚व्रता ||{1/8}{2.4.27.1}{1.182.1}{1.24.3.1}{541, 182, 1911}

अभू᳚त्¦इ॒द‌म्¦व॒युन᳚‌म्¦ओ इति॑¦सु¦भू॒ष॒त॒¦रथः॑¦वृष॑ण्ऽवान्¦मद॑त¦म॒नी॒षि॒णः॒ |
धि॒य॒‌म्ऽजि॒न्वा¦धिष्ण्या᳚¦वि॒श्पला᳚वसू॒ इति॑¦दि॒वः¦नपा᳚ता¦सु॒ऽकृते᳚¦शुचि॑ऽव्रता ||

इन्द्र॑तमा॒ हि धिष्ण्या᳚ म॒रुत्त॑मा द॒स्रा दंसि॑ष्ठा र॒थ्या᳚ र॒थीत॑मा |{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती}

पू॒र्णं रथं᳚ वहेथे॒ मध्व॒ आचि॑तं॒ तेन॑ दा॒श्वांस॒मुप॑ याथो, अश्विना ||{2/8}{2.4.27.2}{1.182.2}{1.24.3.2}{542, 182, 1912}

इन्द्र॑ऽतमा¦हि¦धिष्ण्या᳚¦म॒रुत्ऽत॑मा¦द॒स्रा¦दंसि॑ष्ठा¦र॒थ्या᳚¦र॒थिऽत॑मा |
पू॒र्ण‌म्¦रथ᳚‌म्¦व॒हे॒थे॒ इति॑¦मध्वः॑¦आऽचि॑त‌म्¦तेन॑¦दा॒श्वांस᳚‌म्¦उप॑¦या॒थः॒¦अ॒श्वि॒ना॒ ||

किमत्र॑ दस्रा कृणुथः॒ किमा᳚साथे॒ जनो॒ यः कश्चि॒दह॑विर्मही॒यते᳚ |{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती}

अति॑ क्रमिष्टं जु॒रतं᳚ प॒णेरसुं॒ ज्योति॒र्विप्रा᳚य कृणुतं वच॒स्यवे᳚ ||{3/8}{2.4.27.3}{1.182.3}{1.24.3.3}{543, 182, 1913}

कि‌म्¦अत्र॑¦द॒स्रा॒¦कृ॒णु॒थः॒¦कि‌म्¦आ॒सा॒थे॒ इति॑¦जनः॑¦यः¦कः¦चि॒त्¦अह॑विः¦म॒ही॒यते᳚ |
अति॑¦क्र॒मि॒ष्ट॒‌म्¦जु॒रत᳚‌म्¦प॒णेः¦असु᳚‌म्¦ज्योतिः॑¦विप्रा᳚य¦कृ॒णु॒त॒‌म्¦व॒च॒स्यवे᳚ ||

ज॒म्भय॑तम॒भितो॒ राय॑तः॒ शुनो᳚ ह॒तं मृधो᳚ वि॒दथु॒स्तान्य॑श्विना |{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती}

वाचं᳚वाचं जरि॒तू र॒त्निनीं᳚ कृतमु॒भा शंसं᳚ नासत्यावतं॒ मम॑ ||{4/8}{2.4.27.4}{1.182.4}{1.24.3.4}{544, 182, 1914}

ज॒म्भय॑त‌म्¦अ॒भितः॑¦राय॑तः¦शुनः॑¦ह॒त‌म्¦मृधः॑¦वि॒दथुः॑¦तानि॑¦अ॒श्वि॒ना॒ |
वाच᳚‌म्ऽवाच‌म्¦ज॒रि॒तुः¦र॒त्निनी᳚‌म्¦कृ॒त॒‌म्¦उ॒भा¦संस᳚‌म्¦ना॒स॒त्या॒¦अ॒व॒त॒‌म्¦मम॑ ||

यु॒वमे॒तं च॑क्रथुः॒ सिन्धु॑षु प्ल॒वमा᳚त्म॒न्वन्तं᳚ प॒क्षिणं᳚ तौ॒ग्र्याय॒ कम् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती}

येन॑ देव॒त्रा मन॑सा निरू॒हथुः॑ सुपप्त॒नी पे᳚तथुः॒, क्षोद॑सो म॒हः ||{5/8}{2.4.27.5}{1.182.5}{1.24.3.5}{545, 182, 1915}

यु॒व‌म्¦ए॒त‌म्¦च॒क्र॒तुः॒¦सिन्धु॑षु¦प्ल॒व‌म्¦आ॒त्म॒न्ऽवन्त᳚‌म्¦प॒क्षिण᳚‌म्¦तौ॒ग्र्याय॑¦क‌म् |
येन॑¦दे॒व॒ऽत्रा¦मन॑सा¦निः॒ऽऊ॒हथुः॑¦सु॒ऽप॒प्त॒नि¦पे॒त॒थुः॒¦क्षोद॑सः¦म॒हः ||

अव॑विद्धं तौ॒ग्र्यम॒प्स्व१॑(अ॒)न्तर॑नारम्भ॒णे तम॑सि॒ प्रवि॑द्धम् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

चत॑स्रो॒ नावो॒ जठ॑लस्य॒ जुष्टा॒, उद॒श्विभ्या᳚मिषि॒ताः पा᳚रयन्ति ||{6/8}{2.4.28.1}{1.182.6}{1.24.3.6}{546, 182, 1916}

अव॑ऽविद्ध‌म्¦तौ॒ग्र्य‌म्¦अ॒प्ऽसु¦अ॒न्तः¦अ॒ना॒र॒म्भ॒णे¦तम॑सि¦प्रऽवि॑द्ध‌म् |
चत॑स्रः¦नावः॑¦जठ॑लस्य¦जुष्टाः᳚¦उत्¦अ॒श्विऽभ्या᳚‌म्¦इ॒षि॒ताः¦पा॒र॒य॒न्ति॒ ||

कः स्वि॑द्‌ वृ॒क्षो निष्ठि॑तो॒ मध्ये॒, अर्ण॑सो॒ यं तौ॒ग्र्यो ना᳚धि॒तः प॒र्यष॑स्वजत् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती}

प॒र्णा मृ॒गस्य॑ प॒तरो᳚रिवा॒रभ॒ उद॑श्विना, ऊहथुः॒ श्रोम॑ताय॒ कम् ||{7/8}{2.4.28.2}{1.182.7}{1.24.3.7}{547, 182, 1917}

कः¦स्वि॒त्¦वृ॒क्षः¦निःऽस्थि॑तः¦मध्ये᳚¦अर्ण॑सः¦य‌म्¦तौ॒ग्र्यः¦ना॒धि॒तः¦प॒रि॒।आस॑स्वजत् |
प॒र्णा¦मृ॒गस्य॑¦प॒तरोः᳚ऽ‌इव¦आ॒ऽरभे᳚¦उत्¦अ॒श्वि॒नौ॒¦ऊ॒ह॒थुः॒¦श्रोम॑ताय¦क‌म् ||

तद्‌ वां᳚ नरा नासत्या॒वनु॑ ष्या॒द्‌ यद्‌ वां॒ माना᳚स उ॒चथ॒मवो᳚चन् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

अ॒स्माद॒द्य सद॑सः सो॒म्यादा वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{8/8}{2.4.28.3}{1.182.8}{1.24.3.8}{548, 182, 1918}

तत्¦वा॒‌म्¦न॒रा॒¦ना॒स॒त्यौ॒¦अनु॑¦स्या॒त्¦यत्¦वा॒‌म्¦माना᳚सः¦उ॒चथ᳚‌म्¦अवो᳚चन् |
अ॒स्मात्¦अ॒द्य¦सद॑सः¦सो॒म्यात्¦आ¦वि॒द्याम॑¦इ॒ष‌म्¦वृ॒जन᳚‌म्¦जी॒रऽदा᳚नु‌म् ||

[62] तंयुञ्जाथामिति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौत्रिष्टुप् |
तं यु᳚ञ्जाथां॒ मन॑सो॒ यो जवी᳚यान् त्रिवन्धु॒रो वृ॑षणा॒ यस्त्रि॑च॒क्रः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

येनो᳚पया॒थः सु॒कृतो᳚ दुरो॒णं त्रि॒धातु॑ना पतथो॒ विर्न प॒र्णैः ||{1/6}{2.4.29.1}{1.183.1}{1.24.4.1}{549, 183, 1919}

त‌म्¦युं॒जा॒था॒‌म्¦मन॑सः¦यः¦जवी᳚यान्¦त्रि॒ऽव॒न्धु॒रः¦वृ॒ष॒णा॒¦यः¦त्रि॒ऽच॒क्रः |
येन॑¦उ॒प॒ऽया॒थः¦सु॒ऽकृतः॑¦दु॒रो॒ण‌म्¦त्रि॒ऽधातु॑ना¦प॒त॒थः॒¦विः¦न¦प॒र्णैः ||

सु॒वृद्‌ रथो᳚ वर्तते॒ यन्न॒भि क्षां यत्तिष्ठ॑थः॒ क्रतु॑म॒न्तानु॑ पृ॒क्षे |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

वपु᳚र्वपु॒ष्या स॑चतामि॒यं गीर्दि॒वो दु॑हि॒त्रोषसा᳚ सचेथे ||{2/6}{2.4.29.2}{1.183.2}{1.24.4.2}{550, 183, 1920}

सु॒ऽवृत्¦रथः॑¦व॒र्त॒ते॒¦यन्¦अ॒भि¦क्षा‌म्¦यत्¦तिष्ठ॑थः¦क्रतु॑ऽमन्ता¦अनु॑¦पृ॒क्षे |
वपुः॑¦व॒पु॒ष्या¦स॒च॒ता॒‌म्¦इ॒य‌म्¦गीः¦दि॒वः¦दु॒हि॒त्रा¦उ॒षसा᳚¦स॒चे॒थे॒ इति॑ ||

आ ति॑ष्ठतं सु॒वृतं॒ यो रथो᳚ वा॒मनु᳚ व्र॒तानि॒ वर्त॑ते ह॒विष्मा॑न् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

येन॑ नरा नासत्येष॒यध्यै᳚ व॒र्तिर्या॒थस्तन॑याय॒ त्मने᳚ च ||{3/6}{2.4.29.3}{1.183.3}{1.24.4.3}{551, 183, 1921}

आ¦ति॒ष्ठ॒त॒‌म्¦सु॒ऽवृत᳚‌म्¦यः¦रथः॑¦वा॒‌म्¦अनु॑¦व्र॒तानि॑¦वर्त॑ते¦ह॒विष्मा॑न् |
येन॑¦न॒रा॒¦ना॒स॒त्या॒¦इ॒ष॒यध्यै᳚¦व॒र्तिः¦या॒थः¦तन॑याय¦त्मने᳚¦च॒ ||

मा वां॒ वृको॒ मा वृ॒कीरा द॑धर्षी॒न्मा परि॑ वर्क्तमु॒त माति॑ धक्तम् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

अ॒यं वां᳚ भा॒गो निहि॑त इ॒यं गीर्दस्रा᳚वि॒मे वां᳚ नि॒धयो॒ मधू᳚नाम् ||{4/6}{2.4.29.4}{1.183.4}{1.24.4.4}{552, 183, 1922}

मा¦वा॒‌म्¦वृकः॑¦मा¦वृ॒कीः¦आ¦द॒ध॒र्षी॒त्¦मा¦परि॑¦व॒र्क्त॒‌म्¦उ॒त¦मा¦अति॑¦ध॒क्त॒‌म् |
अ॒य‌म्¦वा॒‌म्¦भा॒गः¦निऽहि॑तः¦इ॒य‌म्¦गीः¦दस्रौ᳚¦इ॒मे¦वा॒‌म्¦नि॒ऽधयः॑¦मधू᳚ना‌म् ||

यु॒वां गोत॑मः पुरुमी॒ळ्हो, अत्रि॒र्दस्रा॒ हव॒तेऽव॑से ह॒विष्मा॑न् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

दिशं॒ न दि॒ष्टामृ॑जू॒येव॒ यन्ता मे॒ हवं᳚ नास॒त्योप॑ यातम् ||{5/6}{2.4.29.5}{1.183.5}{1.24.4.5}{553, 183, 1923}

यु॒वा‌म्¦गोत॑मः¦पु॒रु॒ऽमी॒ळ्हः¦अत्रिः॑¦दस्रा᳚¦हव॑ते¦अव॑से¦ह॒विष्मा॑न् |
दिश᳚‌म्¦न¦दि॒ष्टा‌म्¦ऋ॒जु॒याऽ‌इ᳚व¦यन्ता᳚¦आ¦मे॒¦हव᳚‌म्¦ना॒स॒त्या॒¦उप॑¦या॒त॒‌म् ||

अता᳚रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो᳚, अश्विनावधायि |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

एह या᳚तं प॒थिभि॑र्देव॒यानै᳚र्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{6/6}{2.4.29.6}{1.183.6}{1.24.4.6}{554, 183, 1924}

अता᳚रिष्म¦तम॑सः¦पा॒र‌म्¦अ॒स्य¦प्रति॑¦वा॒‌म्¦स्तोमः॑¦अ॒श्वि॒नौ॒¦अ॒धा॒यि॒ |
आ¦इ॒ह¦या॒त॒‌म्¦प॒थिऽभिः॑¦दे॒व॒ऽयानैः᳚¦वि॒द्याम॑¦इ॒ष‌म्¦वृ॒जन᳚‌म्¦जी॒रऽदा᳚नु‌म् ||

[63] तावामिति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौत्रिष्टुप् |
ता वा᳚म॒द्य ताव॑प॒रं हु॑वेमो॒च्छन्त्या᳚मु॒षसि॒ वह्नि॑रु॒क्थैः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

नास॑त्या॒ कुह॑ चि॒त्‌ सन्ता᳚व॒र्यो दि॒वो नपा᳚ता सु॒दास्त॑राय ||{1/6}{2.5.1.1}{1.184.1}{1.24.5.1}{555, 184, 1925}

ता¦वा॒‌म्¦अ॒द्य¦तौ¦अ॒प॒र‌म्¦हु॒वे॒म॒¦उ॒च्छन्त्या᳚‌म्¦उ॒षसि॑¦वह्निः॑¦उ॒क्थैः |
नास॑त्या¦कुह॑¦चि॒त्¦सन्तौ᳚¦अ॒र्यः¦दि॒वः¦नपा᳚ता¦सु॒दाःऽत॑राय ||

अ॒स्मे, ऊ॒ षु वृ॑षणा मादयेथा॒मुत्‌ प॒णीँर्ह॑तमू॒र्म्या मद᳚न्ता |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

श्रु॒तं मे॒, अच्छो᳚क्तिभिर्मती॒नामेष्टा᳚ नरा॒ निचे᳚तारा च॒ कर्णैः᳚ ||{2/6}{2.5.1.2}{1.184.2}{1.24.5.2}{556, 184, 1926}

अ॒स्मे इति॑¦ऊँ॒ इति॑¦सु¦वृ॒ष॒णा॒¦मा॒द॒ये॒था॒‌म्¦उत्¦प॒णीन्¦ह॒त॒‌म्¦ऊ॒र्म्या¦मद᳚न्ता |
श्रु॒त‌म्¦मे॒¦अच्छो᳚क्तिऽभिः¦म॒ती॒ना‌म्¦एष्टा᳚¦न॒रा॒¦निऽचे᳚तारा¦च॒¦कर्णैः᳚ ||

श्रि॒ये पू᳚षन्निषु॒कृते᳚व दे॒वा नास॑त्या वह॒तुं सू॒र्यायाः᳚ |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

व॒च्यन्ते᳚ वां ककु॒हा, अ॒प्सु जा॒ता यु॒गा जू॒र्णेव॒ वरु॑णस्य॒ भूरेः᳚ ||{3/6}{2.5.1.3}{1.184.3}{1.24.5.3}{557, 184, 1927}

श्रि॒ये¦पू॒ष॒न्¦इ॒षु॒कृता᳚ऽ‌इव¦दे॒वा¦नास॑त्या¦व॒ह॒तु‌म्¦सू॒र्यायाः᳚ |
व॒च्यन्ते᳚¦वा‌म्¦क॒कु॒हाः¦अ॒प्ऽसु¦जा॒ताः¦यु॒गा¦जू॒र्णाऽ‌इ᳚व¦वरु॑णस्य¦भूरेः᳚ ||

अ॒स्मे सा वां᳚ माध्वी रा॒तिर॑स्तु॒ स्तोमं᳚ हिनोतं मा॒न्यस्य॑ का॒रोः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

अनु॒ यद्‌ वां᳚ श्रव॒स्या᳚ सुदानू सु॒वीर्या᳚य चर्ष॒णयो॒ मद᳚न्ति ||{4/6}{2.5.1.4}{1.184.4}{1.24.5.4}{558, 184, 1928}

अ॒स्मे इति॑¦सा¦वा॒‌म्¦मा॒ध्वी॒ इति॑¦रा॒तिः¦अ॒स्तु॒¦स्तोम᳚‌म्¦हि॒नो॒त॒‌म्¦मा॒न्यस्य॑¦का॒रोः |
अनु॑¦यत्¦वा॒‌म्¦श्र॒व॒स्या᳚¦सु॒दा॒नू॒ इति॑ सुऽदानू¦सु॒ऽवीर्या᳚य¦च॒र्ष॒णयः॑¦मद᳚न्ति ||

ए॒ष वां॒ स्तोमो᳚, अश्विनावकारि॒ माने᳚भिर्मघवाना सुवृ॒क्ति |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

या॒तं व॒र्तिस्तन॑याय॒ त्मने᳚ चा॒गस्त्ये᳚ नासत्या॒ मद᳚न्ता ||{5/6}{2.5.1.5}{1.184.5}{1.24.5.5}{559, 184, 1929}

ए॒षः¦वा॒‌म्¦स्तोमः॑¦अ॒श्वि॒नौ॒¦अ॒का॒रि॒¦माने᳚भिः¦म॒घ॒ऽवा॒ना॒¦सु॒ऽवृ॒क्ति |
या॒त‌म्¦व॒र्तिः¦तन॑याय¦त्मने᳚¦च॒¦अ॒गस्त्ये᳚¦ना॒स॒त्या॒¦मद᳚न्ता ||

अता᳚रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो᳚, अश्विनावधायि |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

एह या᳚तं प॒थिभि॑र्देव॒यानै᳚र्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{6/6}{2.5.1.6}{1.184.6}{1.24.5.6}{560, 184, 1930}

अता᳚रिष्म¦तम॑सः¦पा॒र‌म्¦अ॒स्य¦प्रति॑¦वा॒‌म्¦स्तोमः॑¦अ॒श्वि॒नौ॒¦अ॒धा॒यि॒ |
आ¦इ॒ह¦या॒त॒‌म्¦प॒थिऽभिः॑¦दे॒व॒ऽयानैः᳚¦वि॒द्याम॑¦इ॒ष‌म्¦वृ॒जन᳚‌म्¦जी॒रऽदा᳚नु‌म् ||

[64] कतरेत्येकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योद्यावापृथिवीत्रिष्टुप् |
क॒त॒रा पूर्वा᳚ कत॒राप॑रा॒योः क॒था जा॒ते क॑वयः॒ को वि वे᳚द |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

विश्वं॒ त्मना᳚ बिभृतो॒ यद्ध॒ नाम॒ वि व॑र्तेते॒, अह॑नी च॒क्रिये᳚व ||{1/11}{2.5.2.1}{1.185.1}{1.24.6.1}{561, 185, 1931}

क॒त॒रा¦पूर्वा᳚¦क॒त॒रा¦अप॑रा¦अ॒योः¦क॒था¦जा॒ते इति॑¦क॒व॒यः॒¦कः¦वि¦वे॒द॒ |
विश्व᳚‌म्¦त्मना᳚¦बि॒भृ॒तः॒¦यत्¦ह॒¦नाम॑¦वि¦व॒र्ते॒ते॒¦अह॑नी॒ इति॑¦च॒क्रिया᳚ऽ‌इव ||

भूरिं॒ द्वे, अच॑रन्ती॒ चर᳚न्तं प॒द्वन्तं॒ गर्भ॑म॒पदी᳚ दधाते |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

नित्यं॒ न सू॒नुं पि॒त्रोरु॒पस्थे॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒, अभ्वा᳚त् ||{2/11}{2.5.2.2}{1.185.2}{1.24.6.2}{562, 185, 1932}

भूरि॑¦द्वे इति॑¦अच॑रन्ती॒ इति॑¦चर᳚न्त‌म्¦प॒त्ऽवन्त᳚‌म्¦गर्भ᳚‌म्¦अ॒पदी॒ इति॑¦द॒धा॒ते॒ इति॑ |
नित्य᳚‌म्¦न¦सू॒नु‌म्¦पि॒त्रोः¦उ॒पऽस्थे᳚¦द्यावा᳚¦रक्ष॑त‌म्¦पृ॒थि॒वी॒ इति॑¦नः॒¦अभ्वा᳚त् ||

अ॒ने॒हो दा॒त्रमदि॑तेरन॒र्वं हु॒वे स्व᳚र्वदव॒धं नम॑स्वत् |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

तद्‌ रो᳚दसी जनयतं जरि॒त्रे द्यावा॒ रक्ष॑तं पृथिवी नो॒, अभ्वा᳚त् ||{3/11}{2.5.2.3}{1.185.3}{1.24.6.3}{563, 185, 1933}

अ॒ने॒हः¦दा॒त्र‌म्¦अदि॑तेः¦अ॒न॒र्व‌म्¦हु॒वे¦स्वः॑ऽवत्¦अ॒व॒ध‌म्¦नम॑स्वत् |
तत्¦रो॒द॒सी॒ इति॑¦ज॒न॒य॒त॒‌म्¦ज॒रि॒त्रे¦द्यावा᳚¦रक्ष॑त‌म्¦पृ॒थि॒वी॒ इति॑¦नः॒¦अभ्वा᳚त् ||

अत॑प्यमाने॒, अव॒साव᳚न्ती॒, अनु॑ ष्याम॒ रोद॑सी दे॒वपु॑त्रे |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

उ॒भे दे॒वाना᳚मु॒भये᳚भि॒रह्नां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒, अभ्वा᳚त् ||{4/11}{2.5.2.4}{1.185.4}{1.24.6.4}{564, 185, 1934}

अत॑प्यमाने॒ इति॑¦अव॑सा¦अव᳚न्ती॒ इति॑¦अनु॑¦स्या॒म॒¦रोद॑सी॒ इति॑¦दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे |
उ॒भे इति॑¦दे॒वाना᳚‌म्¦उ॒भये᳚भिः¦अह्ना᳚‌म्¦द्यावा᳚¦रक्ष॑त‌म्¦पृ॒थि॒वी॒ इति॑¦नः॒¦अभ्वा᳚त् ||

सं॒गच्छ॑माने युव॒ती सम᳚न्ते॒ स्वसा᳚रा जा॒मी पि॒त्रोरु॒पस्थे᳚ |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

अ॒भि॒जिघ्र᳚न्ती॒ भुव॑नस्य॒ नाभिं॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒, अभ्वा᳚त् ||{5/11}{2.5.2.5}{1.185.5}{1.24.6.5}{565, 185, 1935}

सं॒गच्छ॑माने॒ इति॑ स॒‌म्ऽगच्छ॑माने¦यु॒व॒ती इति॑¦सम᳚न्ते॒ इति॒ स‌म्।आ᳚न्ते¦स्वसा᳚रा¦जा॒मी इति॑¦पि॒त्रोः¦उ॒पऽस्थे᳚ |
अ॒भि॒जिघ्र᳚न्ती॒ इत्य॑भि॒ऽजिघ्र᳚न्ती¦भुव॑नस्य¦नाभि᳚‌म्¦द्यावा᳚¦रक्ष॑त‌म्¦पृ॒थि॒वी॒ इति॑¦नः॒¦अभ्वा᳚त् ||

उ॒र्वी सद्म॑नी बृह॒ती, ऋ॒तेन॑ हु॒वे दे॒वाना॒मव॑सा॒ जनि॑त्री |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

द॒धाते॒ ये, अ॒मृतं᳚ सु॒प्रती᳚के॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒, अभ्वा᳚त् ||{6/11}{2.5.3.1}{1.185.6}{1.24.6.6}{566, 185, 1936}

उ॒र्वी इति॑¦सद्म॑नी॒ इति॑¦बृ॒ह॒ती इति॑¦ऋ॒तेन॑¦हु॒वे¦दे॒वाना᳚‌म्¦अव॑सा¦जनि॑त्री॒ इति॑ |
द॒धाते॒ इति॑¦ये इति॑¦अ॒मृत᳚‌म्¦सु॒प्रती᳚के॒ इति॑ सु॒ऽप्रती᳚के¦द्यावा᳚¦रक्ष॑त‌म्¦पृ॒थि॒वी॒ इति॑¦नः॒¦अभ्वा᳚त् ||

उ॒र्वी पृ॒थ्वी ब॑हु॒ले दू॒रे,अ᳚न्ते॒, उप॑ ब्रुवे॒ नम॑सा य॒ज्ञे, अ॒स्मिन् |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

द॒धाते॒ ये सु॒भगे᳚ सु॒प्रतू᳚र्ती॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒, अभ्वा᳚त् ||{7/11}{2.5.3.2}{1.185.7}{1.24.6.7}{567, 185, 1937}

उ॒र्वी इति॑¦पृ॒थ्वी इति॑¦ब॒हु॒ले इति॑¦दू॒रेअ᳚न्ते॒ इति॑ दू॒रे।आ᳚न्ते¦उप॑¦ब्रु॒वे॒¦नम॑सा¦य॒ज्ञे¦अ॒स्मिन् |
द॒धाते॒ इति॑¦ये इति॑¦सु॒भगे॒ इति॑ सु॒ऽभगे᳚¦सु॒प्रतू᳚र्ती॒ इति॑ सु॒ऽप्रतू᳚र्ती¦द्यावा᳚¦रक्ष॑त‌म्¦पृ॒थि॒वी॒ इति॑¦नः॒¦अभ्वा᳚त् ||

दे॒वान्‌ वा॒ यच्च॑कृ॒मा कच्चि॒दागः॒ सखा᳚यं वा॒ सद॒मिज्जास्प॑तिं वा |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

इ॒यं धीर्भू᳚या, अव॒यान॑मेषां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒, अभ्वा᳚त् ||{8/11}{2.5.3.3}{1.185.8}{1.24.6.8}{568, 185, 1938}

दे॒वान्¦वा॒¦यत्¦च॒कृ॒म¦कत्¦चि॒त्¦आगः॑¦सखा᳚य‌म्¦वा॒¦सद᳚‌म्¦इत्¦जाःऽप॑ति‌म्¦वा॒ |
इ॒य‌म्¦धीः¦भू॒याः॒¦अ॒व॒ऽयान᳚‌म्¦एषा᳚‌म्¦द्यावा᳚¦रक्ष॑त‌म्¦पृ॒थि॒वी॒ इति॑¦नः॒¦अभ्वा᳚त् ||

उ॒भा शंसा॒ नर्या॒ माम॑विष्टामु॒भे मामू॒ती, अव॑सा सचेताम् |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

भूरि॑ चिद॒र्यः सु॒दास्त॑राये॒षा मद᳚न्त इषयेम देवाः ||{9/11}{2.5.3.4}{1.185.9}{1.24.6.9}{569, 185, 1939}

उ॒भा¦शंसा᳚¦नर्या᳚¦मा‌म्¦अ॒वि॒ष्टा॒‌म्¦उ॒भे इति॑¦मा‌म्¦ऊ॒ती इति॑¦अव॑सा¦स॒चे॒ता॒‌म् |
भूरि॑¦चि॒त्¦अ॒र्यः¦सु॒दाःऽत॑राय¦इ॒षा¦मद᳚न्तः¦इ॒ष॒ये॒म॒¦दे॒वाः॒ ||

ऋ॒तं दि॒वे तद॑वोचं पृथि॒व्या, अ॑भिश्रा॒वाय॑ प्रथ॒मं सु॑मे॒धाः |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

पा॒ताम॑व॒द्याद्‌ दु॑रि॒ताद॒भीके᳚ पि॒ता मा॒ता च॑ रक्षता॒मवो᳚भिः ||{10/11}{2.5.3.5}{1.185.10}{1.24.6.10}{570, 185, 1940}

ऋ॒त‌म्¦दि॒वे¦तत्¦अ॒वो॒च॒‌म्¦पृ॒थि॒व्यै¦अ॒भि॒ऽश्रा॒वाय॑¦प्र॒थ॒म‌म्¦सु॒ऽमे॒धाः |
पा॒ता‌म्¦अ॒व॒द्यात्¦दुः॒ऽ‌इ॒तात्¦अ॒भीके᳚¦पि॒ता¦मा॒ता¦च॒¦र॒क्ष॒ता॒‌म्¦अवः॑ऽभिः ||

इ॒दं द्या᳚वापृथिवी स॒त्यम॑स्तु॒ पित॒र्मात॒र्यदि॒होप॑ब्रु॒वे वा᳚म् |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

भू॒तं दे॒वाना᳚मव॒मे, अवो᳚भिर्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{11/11}{2.5.3.6}{1.185.11}{1.24.6.11}{571, 185, 1941}

इ॒द‌म्¦द्या॒वा॒पृ॒थि॒वी॒ इति॑¦स॒त्य‌म्¦अ॒स्तु॒¦पितः॑¦मातः॑¦यत्¦इ॒ह¦उ॒प॒ऽब्रु॒वे¦वा॒‌म् |
भू॒त‌म्¦दे॒वाना᳚‌म्¦अ॒व॒मे इति॑¦अवः॑ऽभिः¦वि॒द्याम॑¦इ॒ष‌म्¦वृ॒जन᳚‌म्¦जी॒रऽदा᳚नु‌म् ||

[65] आनइळाभिरित्येकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योविश्वेदेवास्त्रिष्टुप् | (सूक्तभेदप्रयोगेतु-आद्यचतसृणां विश्वेदेवाः ततएकस्याअहिर्बुध्न्यः ततएकस्यास्त्वष्टा ततएकस्याइंद्रः ततोद्वयोर्मरुतः ततोद्वयोर्विश्वेदेवाः एवमेकादश) |
आ न॒ इळा᳚भिर्वि॒दथे᳚ सुश॒स्ति वि॒श्वान॑रः सवि॒ता दे॒व ए᳚तु |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

अपि॒ यथा᳚ युवानो॒ मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा ||{1/11}{2.5.4.1}{1.186.1}{1.24.7.1}{572, 186, 1942}

आ¦नः॒¦इळा᳚भिः¦वि॒दथे᳚¦सु॒ऽश॒स्ति¦वि॒श्वान॑रः¦स॒वि॒ता¦दे॒वः¦ए॒तु॒ |
अपि॑¦यथा᳚¦यु॒वा॒नः॒¦मत्स॑थ¦नः॒¦विश्व᳚‌म्¦जग॑त्¦अ॒भि॒ऽपि॒त्वे¦म॒नी॒षा ||

आ नो॒ विश्व॒ आस्क्रा᳚ गमन्तु दे॒वा मि॒त्रो, अ᳚र्य॒मा वरु॑णः स॒जोषाः᳚ |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

भुव॒न्‌ यथा᳚ नो॒ विश्वे᳚ वृ॒धासः॒ कर᳚न्‌ त्सु॒षाहा᳚ विथु॒रं न शवः॑ ||{2/11}{2.5.4.2}{1.186.2}{1.24.7.2}{573, 186, 1943}

आ¦नः॒¦विश्वे᳚¦आस्क्राः᳚¦ग॒म॒न्तु॒¦दे॒वाः¦मि॒त्रः¦अ॒र्य॒मा¦वरु॑णः¦स॒ऽजोषाः᳚ |
भुव॑न्¦यथा᳚¦नः॒¦विश्वे᳚¦वृ॒धासः॑¦कर॑न्¦सु॒ऽसहा᳚¦वि॒थु॒र‌म्¦न¦शवः॑ ||

प्रेष्ठं᳚ वो॒, अति॑थिं गृणीषे॒ऽग्निं श॒स्तिभि॑स्तु॒र्वणिः॑ स॒जोषाः᳚ |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

अस॒द्‌ यथा᳚ नो॒ वरु॑णः सुकी॒र्तिरिष॑श्च पर्षदरिगू॒र्तः सू॒रिः ||{3/11}{2.5.4.3}{1.186.3}{1.24.7.3}{574, 186, 1944}

प्रेष्ठ᳚‌म्¦वः॒¦अति॑थि‌म्¦गृ॒णी॒षे॒¦अ॒ग्नि‌म्¦श॒स्तिऽभिः॑¦तु॒र्वणिः॑¦स॒ऽजोषाः᳚ |
अस॑त्¦यथा᳚¦नः॒¦वरु॑णः¦सु॒ऽकी॒र्तिः¦इषः॑¦च॒¦प॒र्ष॒त्¦अ॒रि॒ऽगू॒र्तः¦सू॒रिः ||

उप॑ व॒ एषे॒ नम॑सा जिगी॒षोषासा॒नक्ता᳚ सु॒दुघे᳚व धे॒नुः |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

स॒मा॒ने, अह᳚न्‌ वि॒मिमा᳚नो, अ॒र्कं विषु॑रूपे॒ पय॑सि॒ सस्मि॒न्नूध॑न् ||{4/11}{2.5.4.4}{1.186.4}{1.24.7.4}{575, 186, 1945}

उप॑¦वः॒¦आ¦इ॒षे॒¦नम॑सा¦जि॒गी॒षा¦उ॒षसा॒नक्ता᳚¦सु॒दुघा᳚ऽ‌इव¦धे॒नुः |
स॒मा॒ने¦अह॑न्¦वि॒ऽमिमा᳚नः¦अ॒र्क‌म्¦विषु॑ऽरूपे¦पय॑सि¦सस्मि॑न्¦ऊध॑न् ||

उ॒त नोऽहि॑र्बु॒ध्न्यो॒३॑(ओ॒) मय॑स्कः॒ शिशुं॒ न पि॒प्युषी᳚व वेति॒ सिन्धुः॑ |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

येन॒ नपा᳚तम॒पां जु॒नाम॑ मनो॒जुवो॒ वृष॑णो॒ यं वह᳚न्ति ||{5/11}{2.5.4.5}{1.186.5}{1.24.7.5}{576, 186, 1946}

उ॒त¦नः॒¦अहिः॑¦बु॒ध्न्यः॑¦मयः॑¦क॒रिति॑ कः¦शिशु᳚‌म्¦न¦पि॒प्युषी᳚ऽ‌इव¦वे॒ति॒¦सिन्धुः॑ |
येन॑¦नपा᳚त‌म्¦अ॒पा‌म्¦जु॒नाम॑¦म॒नः॒ऽजुवः॑¦वृष॑णः¦य‌म्¦वह᳚न्ति ||

उ॒त न॑ ईं॒ त्वष्टा ग॒न्त्वच्छा॒ स्मत्‌ सू॒रिभि॑रभिपि॒त्वे स॒जोषाः᳚ |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

आ वृ॑त्र॒हेन्द्र॑श्चर्षणि॒प्रास्तु॒विष्ट॑मो न॒रां न॑ इ॒ह ग᳚म्याः ||{6/11}{2.5.5.1}{1.186.6}{1.24.7.6}{577, 186, 1947}

उ॒त¦नः॒¦ई॒‌म्¦त्वष्टा᳚¦आ¦ग॒न्तु॒¦अच्छ॑¦स्मत्¦सू॒रिऽभिः॑¦अ॒भि॒ऽपि॒त्वे¦स॒ऽजोषाः᳚ |
आ¦वृ॒त्र॒ऽहा¦इन्द्रः॑¦च॒र्ष॒णि॒ऽप्राः¦तु॒विःऽत॑मः¦न॒रा‌म्¦नः॒¦इ॒ह¦ग॒म्याः॒ ||

उ॒त न॑ ईं म॒तयोऽश्व॑योगाः॒ शिशुं॒ न गाव॒स्तरु॑णं रिहन्ति |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

तमीं॒ गिरो॒ जन॑यो॒ न पत्नीः᳚ सुर॒भिष्ट॑मं न॒रां न॑सन्त ||{7/11}{2.5.5.2}{1.186.7}{1.24.7.7}{578, 186, 1948}

उ॒त¦नः॒¦ई॒‌म्¦म॒तयः॑¦अश्व॑ऽयोगाः¦शिशु᳚‌म्¦न¦गावः॑¦तरु॑ण‌म्¦रि॒ह॒न्ति॒ |
त‌म्¦ई॒‌म्¦गिरः॑¦जन॑यः¦न¦पत्नीः᳚¦सु॒र॒भिःऽत॑म‌म्¦न॒रा‌म्¦न॒स॒न्त॒ ||

उ॒त न॑ ईं म॒रुतो᳚ वृ॒द्धसे᳚नाः॒ स्मद्‌ रोद॑सी॒ सम॑नसः सदन्तु |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

पृष॑दश्वासो॒ऽवन॑यो॒ न रथा᳚ रि॒शाद॑सो मित्र॒युजो॒ न दे॒वाः ||{8/11}{2.5.5.3}{1.186.8}{1.24.7.8}{579, 186, 1949}

उ॒त¦नः॒¦ई॒‌म्¦म॒रुतः॑¦वृ॒द्धऽसे᳚नाः¦स्मत्¦रोद॑सी॒ इति॑¦सऽम॑नसः¦स॒द॒न्तु॒ |
पृष॑त्।आश्वासः¦अ॒वन॑यः¦न¦रथाः᳚¦रि॒शाद॑सः¦मि॒त्र॒ऽयुजः॑¦न¦दे॒वाः ||

प्र नु यदे᳚षां महि॒ना चि॑कि॒त्रे प्र यु᳚ञ्जते प्र॒युज॒स्ते सु॑वृ॒क्ति |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

अध॒ यदे᳚षां सु॒दिने॒ न शरु॒र्विश्व॒मेरि॑णं प्रुषा॒यन्त॒ सेनाः᳚ ||{9/11}{2.5.5.4}{1.186.9}{1.24.7.9}{580, 186, 1950}

प्र¦नु¦यत्¦ए॒षा॒‌म्¦म॒हि॒ना¦चि॒कि॒त्रे¦प्र¦युं॒ज॒ते॒¦प्र॒ऽयुजः॑¦ते¦सु॒ऽवृ॒क्ति |
अध॑¦यत्¦ए॒षा॒‌म्¦सु॒ऽदिने᳚¦न¦शरुः॑¦विश्व᳚‌म्¦आ¦इरि॑ण‌म्¦प्रु॒षा॒यन्त॑¦सेनाः᳚ ||

प्रो, अ॒श्विना॒वव॑से कृणुध्वं॒ प्र पू॒षणं॒ स्वत॑वसो॒ हि सन्ति॑ |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

अ॒द्वे॒षो विष्णु॒र्वात॑ ऋभु॒क्षा, अच्छा᳚ सु॒म्नाय॑ ववृतीय दे॒वान् ||{10/11}{2.5.5.5}{1.186.10}{1.24.7.10}{581, 186, 1951}

प्रो इति॑¦अ॒श्विनौ᳚¦अव॑से¦कृ॒णु॒ध्व॒‌म्¦प्र¦पू॒षण᳚‌म्¦स्वऽत॑वसः¦हि¦सन्ति॑ |
अ॒द्वे॒षः¦विष्णुः॑¦वातः॑¦ऋ॒भु॒क्षाः¦अच्छ॑¦सु॒म्नाय॑¦व॒वृ॒ती॒य॒¦दे॒वान् ||

इ॒यं सा वो᳚, अ॒स्मे दीधि॑तिर्यजत्रा, अपि॒प्राणी᳚ च॒ सद॑नी च भूयाः |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

नि या दे॒वेषु॒ यत॑ते वसू॒युर्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{11/11}{2.5.5.6}{1.186.11}{1.24.7.11}{582, 186, 1952}

इ॒य‌म्¦सा¦वः॒¦अ॒स्मे इति॑¦दीधि॑तिः¦य॒ज॒त्राः॒¦अ॒पि॒ऽप्राणी᳚¦च॒¦सद॑नी¦च॒¦भू॒याः॒ |
नि¦या¦दे॒वेषु॑¦यत॑ते¦व॒सु॒ऽयुः¦वि॒द्याम॑¦इ॒ष‌म्¦वृ॒जन᳚‌म्¦जी॒रऽदा᳚नु‌म् ||

[66] पितुंन्वित्येकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योन्नं गायत्री आद्यानुष्टुगर्भा तृतीयापंचम्याद्याश्चतस्रोनुष्टुभोन्त्याबृहतीवा |
पि॒तुं नु स्तो᳚षं म॒हो ध॒र्माणं॒ तवि॑षीम् |{मैत्रावरुणिरगस्त्यः | अन्नं | अनुष्टुगर्भोष्णिक्}

यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप᳚र्वम॒र्दय॑त् ||{1/11}{2.5.6.1}{1.187.1}{1.24.8.1}{583, 187, 1953}

पि॒तु‌म्¦नु¦स्तो॒ष॒‌म्¦म॒हः¦ध॒र्माण᳚‌म्¦तवि॑षी‌म् |
यस्य॑¦त्रि॒तः¦वि¦ओज॑सा¦वृ॒त्र‌म्¦विऽप᳚र्व‌म्¦अ॒र्दय॑त् ||

स्वादो᳚ पितो॒ मधो᳚ पितो व॒यं त्वा᳚ ववृमहे |{मैत्रावरुणिरगस्त्यः | अन्नं | गायत्री}

अ॒स्माक॑मवि॒ता भ॑व ||{2/11}{2.5.6.2}{1.187.2}{1.24.8.2}{584, 187, 1954}

स्वादो॒ इति॑¦पितो॒ इति॑¦मधो॒ इति॑¦पि॒तो॒ इति॑¦व॒य‌म्¦त्वा॒¦व॒वृ॒म॒हे॒ | अ॒स्माक᳚‌म्¦अ॒वि॒ता¦भ॒व॒ ||

उप॑ नः पित॒वा च॑र शि॒वः शि॒वाभि॑रू॒तिभिः॑ |{मैत्रावरुणिरगस्त्यः | अन्नं | अनुष्टुप्}

म॒यो॒भुर॑द्विषे॒ण्यः सखा᳚ सु॒शेवो॒, अद्व॑याः ||{3/11}{2.5.6.3}{1.187.3}{1.24.8.3}{585, 187, 1955}

उप॑¦नः॒¦पि॒तो॒ इति॑¦आ¦च॒र॒¦शि॒वः¦शि॒वाभिः॑¦ऊ॒तिऽभिः॑ | म॒यः॒ऽभुः¦अ॒द्वि॒षे॒ण्यः¦सखा᳚¦सु॒ऽशेवः॑¦अद्व॑याः ||

तव॒ त्ये पि॑तो॒ रसा॒ रजां॒स्यनु॒ विष्ठि॑ताः |{मैत्रावरुणिरगस्त्यः | अन्नं | गायत्री}

दि॒वि वाता᳚, इव श्रि॒ताः ||{4/11}{2.5.6.4}{1.187.4}{1.24.8.4}{586, 187, 1956}

तव॑¦त्ये¦पि॒तो॒ इति॑¦रसाः᳚¦रजां᳚सि¦अनु॑¦विऽस्थि॑ताः | दि॒वि¦वाताः᳚ऽ‌इव¦श्रि॒ताः ||

तव॒ त्ये पि॑तो॒ दद॑त॒स्तव॑ स्वादिष्ठ॒ ते पि॑तो |{मैत्रावरुणिरगस्त्यः | अन्नं | अनुष्टुप्}

प्र स्वा॒द्मानो॒ रसा᳚नां तुवि॒ग्रीवा᳚, इवेरते ||{5/11}{2.5.6.5}{1.187.5}{1.24.8.5}{587, 187, 1957}

तव॑¦त्ये¦पि॒तो॒ इति॑¦दद॑तः¦तव॑¦स्वा॒दि॒ष्ठ॒¦ते¦पि॒तो॒ इति॑ | प्र¦स्वा॒द्मानः॑¦रसा᳚ना‌म्¦तु॒वि॒ग्रीवाः᳚ऽ‌इव¦ई॒र॒ते॒ ||

त्वे पि॑तो म॒हानां᳚ दे॒वानां॒ मनो᳚ हि॒तम् |{मैत्रावरुणिरगस्त्यः | अन्नं | अनुष्टुप्}

अका᳚रि॒ चारु॑ के॒तुना॒ तवाहि॒मव॑सावधीत् ||{6/11}{2.5.7.1}{1.187.6}{1.24.8.6}{588, 187, 1958}

त्वे इति॑¦पि॒तो॒ इति॑¦म॒हाना᳚‌म्¦दे॒वाना᳚‌म्¦मनः॑¦हि॒त‌म् | अका᳚रि¦चारु॑¦के॒तुना᳚¦तव॑¦अहि᳚‌म्¦अव॑सा¦अ॒व॒धी॒त् ||

यद॒दो पि॑तो॒, अज॑गन् वि॒वस्व॒ पर्व॑तानाम् |{मैत्रावरुणिरगस्त्यः | अन्नं | अनुष्टुप्}

अत्रा᳚ चिन्नो मधो पि॒तोऽरं᳚ भ॒क्षाय॑ गम्याः ||{7/11}{2.5.7.2}{1.187.7}{1.24.8.7}{589, 187, 1959}

यत्¦अ॒दः¦पि॒तो॒ इति॑¦अज॑गन्¦वि॒वस्व॑¦पर्व॑ताना‌म् | अत्र॑¦चि॒त्¦नः॒¦म॒धो॒ इति॑¦पि॒तो॒ इति॑¦अर᳚‌म्¦भ॒क्षाय॑¦ग॒म्याः॒ ||

यद॒पामोष॑धीनां परिं॒शमा᳚रि॒शाम॑हे |{मैत्रावरुणिरगस्त्यः | अन्नं | गायत्री}

वाता᳚पे॒ पीव॒ इद्‌ भ॑व ||{8/11}{2.5.7.3}{1.187.8}{1.24.8.8}{590, 187, 1960}

यत्¦अ॒पा‌म्¦ओष॑धीना‌म्¦प॒रिं॒श‌म्¦आ॒ऽरि॒शाम॑हे | वाता᳚पे¦पीवः॑¦इत्¦भ॒व॒ ||

यत्ते᳚ सोम॒ गवा᳚शिरो॒ यवा᳚शिरो॒ भजा᳚महे |{मैत्रावरुणिरगस्त्यः | अन्नं | गायत्री}

वाता᳚पे॒ पीव॒ इद्‌ भ॑व ||{9/11}{2.5.7.4}{1.187.9}{1.24.8.9}{591, 187, 1961}

यत्¦ते॒¦सो॒म॒¦गोऽआ᳚शिरः¦यव॑ऽआशिरः¦भजा᳚महे | वाता᳚पे¦पीवः॑¦इत्¦भ॒व॒ ||

क॒र॒म्भ ओ᳚षधे भव॒ पीवो᳚ वृ॒क्क उ॑दार॒थिः |{मैत्रावरुणिरगस्त्यः | अन्नं | गायत्री}

वाता᳚पे॒ पीव॒ इद्‌ भ॑व ||{10/11}{2.5.7.5}{1.187.10}{1.24.8.10}{592, 187, 1962}

क॒र॒म्भः¦ओ॒ष॒धे॒¦भ॒व॒¦पीवः॑¦वृ॒क्कः¦उ॒दा॒र॒थिः | वाता᳚पे¦पीवः॑¦इत्¦भ॒व॒ ||

तं त्वा᳚ व॒यं पि॑तो॒ वचो᳚भि॒र्गावो॒ न ह॒व्या सु॑षूदिम |{मैत्रावरुणिरगस्त्यः | अन्नं | बृहती}

दे॒वेभ्य॑स्त्वा सध॒माद॑म॒स्मभ्यं᳚ त्वा सध॒माद᳚म् ||{11/11}{2.5.7.6}{1.187.11}{1.24.8.11}{593, 187, 1963}

त्व‌म्¦त्वा॒¦व॒य‌म्¦पि॒तो॒ इति॑¦वचः॑ऽभिः¦गावः॑¦न¦ह॒व्या¦सु॒सू॒दि॒म॒ |
दे॒वेभ्यः॑¦त्वा॒¦स॒ध॒ऽमाद᳚‌म्¦अ॒स्मभ्य᳚‌म्¦त्वा॒¦स॒ध॒ऽमाद᳚‌म् ||

[67] समिद्धइत्येकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य इध्मस्तनूनपादिळोबर्हिर्देवीर्द्वार उषासानक्तादैव्यौहोतारौ सरस्वतीळा भारत्यस्त्वष्टा वनस्पति स्वाहाकृतयइतिक्रमेणदेवताः गायत्रीच्छंदः |
समि॑द्धो, अ॒द्य रा᳚जसि दे॒वो दे॒वैः स॑हस्रजित् |{मैत्रावरुणिरगस्त्यः | इध्मः समिद्धोऽग्निर्वा | गायत्री}

दू॒तो ह॒व्या क॒विर्व॑ह ||{1/11}{2.5.8.1}{1.188.1}{1.24.9.1}{594, 188, 1964}

स‌म्ऽ‌इ᳚द्धः¦अ॒द्य¦रा॒ज॒सि॒¦दे॒वः¦दे॒वैः¦स॒ह॒स्र॒ऽजि॒त् | दू॒तः¦ह॒व्या¦क॒विः¦व॒ह॒ ||

तनू᳚नपादृ॒तं य॒ते मध्वा᳚ य॒ज्ञः सम॑ज्यते |{मैत्रावरुणिरगस्त्यः | तनूनपात् | गायत्री}

दध॑त्‌ सह॒स्रिणी॒रिषः॑ ||{2/11}{2.5.8.2}{1.188.2}{1.24.9.2}{595, 188, 1965}

तनू᳚ऽनपात्¦ऋ॒त‌म्¦य॒ते¦मध्वा᳚¦य॒ज्ञः¦स‌म्¦अ॒ज्य॒ते॒ | दध॑त्¦स॒ह॒स्रिणीः᳚¦इषः॑ ||

आ॒जुह्वा᳚नो न॒ ईड्यो᳚ दे॒वाँ, आ व॑क्षि य॒ज्ञिया॑न् |{मैत्रावरुणिरगस्त्यः | इळः | गायत्री}

अग्ने᳚ सहस्र॒सा, अ॑सि ||{3/11}{2.5.8.3}{1.188.3}{1.24.9.3}{596, 188, 1966}

आ॒ऽजुह्वा᳚नः¦नः॒¦ईड्यः॑¦दे॒वान्¦आ¦व॒क्षि॒¦य॒ज्ञिया॑न् | अग्ने᳚¦स॒ह॒स्र॒ऽसाः¦अ॒सि॒ ||

प्रा॒चीनं᳚ ब॒र्हिरोज॑सा स॒हस्र॑वीरमस्तृणन् |{मैत्रावरुणिरगस्त्यः | बर्हिः | गायत्री}

यत्रा᳚दित्या वि॒राज॑थ ||{4/11}{2.5.8.4}{1.188.4}{1.24.9.4}{597, 188, 1967}

प्रा॒चीन᳚‌म्¦ब॒र्हिः¦ओज॑सा¦स॒हस्र॑ऽवीर‌म्¦अ॒स्तृ॒ण॒न् | यत्र॑¦आ॒दि॒त्याः॒¦वि॒ऽराज॑थ ||

वि॒राट्‌ स॒म्राड्वि॒भ्वीः प्र॒भ्वीर्ब॒ह्वीश्च॒ भूय॑सीश्च॒ याः |{मैत्रावरुणिरगस्त्यः | देवीर्द्वारः | गायत्री}

दुरो᳚ घृ॒तान्य॑क्षरन् ||{5/11}{2.5.8.5}{1.188.5}{1.24.9.5}{598, 188, 1968}

वि॒ऽराट्¦स॒‌म्ऽराट्¦वि॒ऽभ्वीः¦प्र॒ऽभ्वीः¦ब॒ह्वीः¦च॒¦भूय॑सीः¦च॒¦याः | दुरः॑¦घृ॒तानि॑¦अ॒क्ष॒र॒न् ||

सु॒रु॒क्मे हि सु॒पेश॒साधि॑ श्रि॒या वि॒राज॑तः |{मैत्रावरुणिरगस्त्यः | उषासानक्ता | गायत्री}

उ॒षासा॒वेह सी᳚दताम् ||{6/11}{2.5.9.1}{1.188.6}{1.24.9.6}{599, 188, 1969}

सु॒रु॒क्मे इति॑ सु॒ऽरु॒क्मे¦हि¦सु॒ऽपेश॑सा¦अधि॑¦श्रि॒या¦वि॒ऽराज॑तः | उ॒षसौ᳚¦आ¦इ॒ह¦सी॒द॒ता॒‌म् ||

प्र॒थ॒मा हि सु॒वाच॑सा॒ होता᳚रा॒ दैव्या᳚ क॒वी |{मैत्रावरुणिरगस्त्यः | दैव्यौ होतारौ प्रचेतसौ | गायत्री}

य॒ज्ञं नो᳚ यक्षतामि॒मम् ||{7/11}{2.5.9.2}{1.188.7}{1.24.9.7}{600, 188, 1970}

प्र॒थ॒मा¦हि¦सु॒ऽवाच॑सा¦होता᳚रा¦दैव्या᳚¦क॒वी इति॑ | य॒ज्ञ‌म्¦नः॒¦य॒क्ष॒ता॒‌म्¦इ॒म‌म् ||

भार॒तीळे॒ सर॑स्वति॒ या वः॒ सर्वा᳚, उपब्रु॒वे |{मैत्रावरुणिरगस्त्यः | तिस्रो देव्यः सरस्वतीळाभारत्यः | गायत्री}

ता न॑श्चोदयत श्रि॒ये ||{8/11}{2.5.9.3}{1.188.8}{1.24.9.8}{601, 188, 1971}

भार॑ति¦इळे᳚¦सर॑स्वति¦याः¦वः॒¦सर्वाः᳚¦उ॒प॒ऽब्रु॒वे | ताः¦नः॒¦चो॒द॒य॒त॒¦श्रि॒ये ||

त्वष्टा᳚ रू॒पाणि॒ हि प्र॒भुः प॒शून्‌ विश्वा᳚न्‌ त्समान॒जे |{मैत्रावरुणिरगस्त्यः | त्वष्टा | गायत्री}

तेषां᳚ नः स्फा॒तिमा य॑ज ||{9/11}{2.5.9.4}{1.188.9}{1.24.9.9}{602, 188, 1972}

त्वष्टा᳚¦रू॒पाणि॑¦हि¦प्र॒ऽभुः¦प॒शून्¦विश्वा᳚न्¦स॒‌म्ऽआ॒न॒जे | तेषा᳚‌म्¦नः॒¦स्फा॒ति‌म्¦आ¦य॒ज॒ ||

उप॒ त्मन्या᳚ वनस्पते॒ पाथो᳚ दे॒वेभ्यः॑ सृज |{मैत्रावरुणिरगस्त्यः | वनस्पतिः | गायत्री}

अ॒ग्निर्ह॒व्यानि॑ सिष्वदत् ||{10/11}{2.5.9.5}{1.188.10}{1.24.9.10}{603, 188, 1973}

उप॑¦त्मन्या᳚¦व॒न॒स्प॒ते॒¦पाथः॑¦दे॒वेभ्यः॑¦सृ॒ज॒ | अ॒ग्निः¦ह॒व्यानि॑¦सि॒स्व॒द॒त् ||

पु॒रो॒गा, अ॒ग्निर्दे॒वानां᳚ गाय॒त्रेण॒ सम॑ज्यते |{मैत्रावरुणिरगस्त्यः | स्वाहाकृतयः | गायत्री}

स्वाहा᳚कृतीषु रोचते ||{11/11}{2.5.9.6}{1.188.11}{1.24.9.11}{604, 188, 1974}

पु॒रः॒ऽगाः¦अ॒ग्निः¦दे॒वाना᳚‌म्¦गा॒य॒त्रेण॑¦स‌म्¦अ॒ज्य॒ते॒ | स्वाहा᳚ऽकृतीषु¦रो॒च॒ते॒ ||

[68] अग्नेनयेत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योग्निस्त्रिष्टुप् |
अग्ने॒ नय॑ सु॒पथा᳚ रा॒ये, अ॒स्मान् विश्वा᳚नि देव व॒युना᳚नि वि॒द्वान् |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्}

यु॒यो॒ध्य१॑(अ॒)स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ||{1/8}{2.5.10.1}{1.189.1}{1.24.10.1}{605, 189, 1975}

अग्ने᳚¦नय॑¦सु॒ऽपथा᳚¦रा॒ये¦अ॒स्मान्¦विश्वा᳚नि¦दे॒व॒¦व॒युना᳚नि¦वि॒द्वान् |
यु॒यो॒धि¦अ॒स्मत्¦जु॒हु॒रा॒ण‌म्¦एनः॑¦भूयि॑ष्ठा‌म्¦ते॒¦नमः॑।औक्ति‌म्¦वि॒धे॒म॒ ||

अग्ने॒ त्वं पा᳚रया॒ नव्यो᳚, अ॒स्मान् त्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्}

पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा᳚ तो॒काय॒ तन॑याय॒ शं योः ||{2/8}{2.5.10.2}{1.189.2}{1.24.10.2}{606, 189, 1976}

अग्ने᳚¦त्व‌म्¦पा॒र॒य॒¦नव्यः॑¦अ॒स्मान्¦स्व॒स्तिऽभिः॑¦अति॑¦दुः॒ऽगाणि॑¦विश्वा᳚ |
पूः¦च॒¦पृ॒थ्वी¦ब॒हु॒ला¦नः॒¦उ॒र्वी¦भव॑¦तो॒काय॑¦तन॑याय¦श‌म्¦योः ||

अग्ने॒ त्वम॒स्मद्‌ यु॑यो॒ध्यमी᳚वा॒, अन॑ग्नित्रा, अ॒भ्यम᳚न्त कृ॒ष्टीः |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्}

पुन॑र॒स्मभ्यं᳚ सुवि॒ताय॑ देव॒ क्षां विश्वे᳚भिर॒मृते᳚भिर्यजत्र ||{3/8}{2.5.10.3}{1.189.3}{1.24.10.3}{607, 189, 1977}

अग्ने᳚¦त्व‌म्¦अ॒स्मत्¦यु॒यो॒धि॒¦अमी᳚वाः¦अन॑ग्निऽत्राः¦अ॒भि¦अम᳚न्त¦कृ॒ष्टीः |
पुनः॑¦अ॒स्मभ्य᳚‌म्¦सु॒वि॒ताय॑¦दे॒व॒¦क्षा‌म्¦विश्वे᳚भिः¦अ॒मृते᳚भिः¦य॒ज॒त्र॒ ||

पा॒हि नो᳚, अग्ने पा॒युभि॒रज॑स्रैरु॒त प्रि॒ये सद॑न॒ आ शु॑शु॒क्वान् |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्}

मा ते᳚ भ॒यं ज॑रि॒तारं᳚ यविष्ठ नू॒नं वि॑द॒न्माप॒रं स॑हस्वः ||{4/8}{2.5.10.4}{1.189.4}{1.24.10.4}{608, 189, 1978}

पा॒हि¦नः॒¦अ॒ग्ने॒¦पा॒युऽभिः॑¦अज॑स्रैः¦उ॒त¦प्रि॒ये¦सद॑ने¦आ¦शु॒शु॒क्वान् |
मा¦ते॒¦भ॒य‌म्¦ज॒रि॒तार᳚‌म्¦य॒वि॒ष्ठ॒¦नू॒न‌म्¦वि॒द॒त्¦मा¦अ॒प॒र‌म्¦स॒ह॒स्वः॒ ||

मा नो᳚, अ॒ग्नेऽव॑ सृजो, अ॒घाया᳚वि॒ष्यवे᳚ रि॒पवे᳚ दु॒च्छुना᳚यै |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्}

मा द॒त्वते॒ दश॑ते॒ मादते᳚ नो॒ मा रीष॑ते सहसाव॒न्‌ परा᳚ दाः ||{5/8}{2.5.10.5}{1.189.5}{1.24.10.5}{609, 189, 1979}

मा¦नः॒¦अ॒ग्ने॒¦अव॑¦सृ॒जः॒¦अ॒घाय॑¦अ॒वि॒ष्यवे᳚¦रि॒पवे᳚¦दु॒च्छुना᳚यै |
मा¦द॒त्वते᳚¦दश॑ते¦मा¦अ॒दते᳚¦नः॒¦मा¦रिष॑ते¦स॒ह॒सा॒ऽव॒न्¦परा᳚¦दाः॒ ||

वि घ॒ त्वावाँ᳚, ऋतजात यंसद् गृणा॒नो, अ॑ग्ने त॒न्वे॒३॑(ए॒) वरू᳚थम् |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्}

विश्वा᳚द्‌ रिरि॒क्षोरु॒त वा᳚ निनि॒त्सोर॑भि॒ह्रुता॒मसि॒ हि दे᳚व वि॒ष्पट् ||{6/8}{2.5.11.1}{1.189.6}{1.24.10.6}{610, 189, 1980}

वि¦घ॒¦त्वाऽवा᳚न्¦ऋ॒त॒ऽजा॒त॒¦यं॒स॒त्¦गृ॒ण॒नः¦अ॒ग्ने॒¦त॒न्वे᳚¦वरू᳚थ‌म् |
विश्वा᳚त्¦रि॒रि॒क्षोः¦उ॒त¦वा॒¦नि॒नि॒त्सोः¦अ॒भि॒ऽह्रुता᳚‌म्¦असि॑¦हि¦दे॒व॒¦वि॒ष्पट् ||

त्वं ताँ, अ॑ग्न उ॒भया॒न्‌ वि वि॒द्वान् वेषि॑ प्रपि॒त्वे मनु॑षो यजत्र |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्}

अ॒भि॒पि॒त्वे मन॑वे॒ शास्यो᳚ भूर्मर्मृ॒जेन्य॑ उ॒शिग्भि॒र्नाक्रः ||{7/8}{2.5.11.2}{1.189.7}{1.24.10.7}{611, 189, 1981}

त्व‌म्¦ता‌म्¦अ॒ग्ने॒¦उ॒भया᳚न्¦वि¦वि॒द्वान्¦वेषि॑¦प्र॒ऽपि॒त्वे¦मनु॑षः¦य॒ज॒त्र॒ |
अ॒भि॒ऽपि॒त्वे¦मन॑वे¦शास्यः॑¦भूः॒¦म॒र्मृ॒जेन्यः॑¦उ॒शिक्ऽभिः॑¦न¦अ॒क्रः ||

अवो᳚चाम नि॒वच॑नान्यस्मि॒न् मान॑स्य सू॒नुः स॑हसा॒ने, अ॒ग्नौ |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्}

व॒यं स॒हस्र॒मृषि॑भिः सनेम वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{8/8}{2.5.11.3}{1.189.8}{1.24.10.8}{612, 189, 1982}

अवो᳚चाम¦नि॒ऽवच॑नानि¦अ॒स्मि॒न्¦मान॑स्य¦सू॒नुः¦स॒ह॒सा॒ने¦अ॒ग्नौ |
व॒य‌म्¦स॒हस्र᳚‌म्¦ऋषि॑ऽभिः¦स॒ने॒म॒¦वि॒द्याम॑¦इ॒ष‌म्¦वृ॒जन᳚‌म्¦जी॒रऽदा᳚नु‌म् ||

[69] अनर्वाणमित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यो बृहस्पतिस्त्रिष्टुप् |
अ॒न॒र्वाणं᳚ वृष॒भं म॒न्द्रजि॑ह्वं॒ बृह॒स्पतिं᳚ वर्धया॒ नव्य॑म॒र्कैः |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्}

गा॒था॒न्यः॑ सु॒रुचो॒ यस्य॑ दे॒वा, आ᳚शृ॒ण्वन्ति॒ नव॑मानस्य॒ मर्ताः᳚ ||{1/8}{2.5.12.1}{1.190.1}{1.24.11.1}{613, 190, 1983}

अ॒न॒र्वाण᳚‌म्¦वृ॒ष॒भ‌म्¦म॒न्द्रऽजि॑ह्व‌म्¦बृह॒स्पति᳚‌म्¦व॒र्ध॒य॒¦नव्य᳚‌म्¦अ॒र्कैः |
गा॒था॒न्यः॑¦सु॒ऽरुचः॑¦यस्य॑¦दे॒वाः¦आ॒ऽशृ॒ण्वन्ति॑¦नव॑मानस्य¦मर्ताः᳚ ||

तमृ॒त्विया॒, उप॒ वाचः॑ सचन्ते॒ सर्गो॒ न यो दे᳚वय॒तामस॑र्जि |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पतिः॒ स ह्यञ्जो॒ वरां᳚सि॒ विभ्वाभ॑व॒त्‌ समृ॒ते मा᳚त॒रिश्वा᳚ ||{2/8}{2.5.12.2}{1.190.2}{1.24.11.2}{614, 190, 1984}

त‌म्¦ऋ॒त्वियाः᳚¦उप॑¦वाचः॑¦स॒च॒न्ते॒¦सर्गः॑¦न¦यः¦दे॒व॒ऽय॒ता‌म्¦अस॑र्जि |
बृह॒स्पतिः॑¦सः¦हि¦अंजः॑¦वरां᳚सि¦विऽभ्वा᳚¦अभ॑वत्¦स‌म्¦ऋ॒ते¦मा॒त॒रिश्वा᳚ ||

उप॑स्तुतिं॒ नम॑स॒ उद्य॑तिं च॒ श्लोकं᳚ यंसत्‌ सवि॒तेव॒ प्र बा॒हू |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्}

अ॒स्य क्रत्वा᳚ह॒न्यो॒३॑(ओ॒) यो, अस्ति॑ मृ॒गो न भी॒मो, अ॑र॒क्षस॒स्तुवि॑ष्मान् ||{3/8}{2.5.12.3}{1.190.3}{1.24.11.3}{615, 190, 1985}

उप॑ऽस्तुति‌म्¦नम॑सः¦उत्ऽय॑ति‌म्¦च॒¦श्लोक᳚‌म्¦यं॒स॒त्¦स॒वि॒ताऽ‌इ᳚व¦प्र¦बा॒हू इति॑ |
अ॒स्य¦क्रत्वा᳚¦अ॒ह॒न्यः॑¦यः¦अस्ति॑¦मृ॒गः¦न¦भी॒मः¦अ॒र॒क्षसः॑¦तुवि॑ष्मान् ||

अ॒स्य श्लोको᳚ दि॒वीय॑ते पृथि॒व्यामत्यो॒ न यं᳚सद्‌ यक्ष॒भृद्‌ विचे᳚ताः |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्}

मृ॒गाणां॒ न हे॒तयो॒ यन्ति॑ चे॒मा बृह॒स्पते॒रहि॑मायाँ, अ॒भि द्यून् ||{4/8}{2.5.12.4}{1.190.4}{1.24.11.4}{616, 190, 1986}

अ॒स्य¦श्लोकः॑¦दि॒वि¦ई॒य॒ते॒¦पृ॒थि॒व्या‌म्¦अत्यः॑¦न¦यं॒स॒त्¦य॒क्ष॒ऽभृत्¦विऽचे᳚ताः |
मृ॒गाणा᳚‌म्¦न¦हे॒तयः॑¦यन्ति॑¦च॒¦इ॒माः¦बृह॒स्पतेः᳚¦अहि॑ऽमायान्¦अ॒भि¦द्यून् ||

ये त्वा᳚ देवोस्रि॒कं मन्य॑मानाः पा॒पा भ॒द्रमु॑प॒जीव᳚न्ति प॒ज्राः |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्}

न दू॒ढ्ये॒३॑(ए॒) अनु॑ ददासि वा॒मं बृह॑स्पते॒ चय॑स॒ इत्‌ पिया᳚रुम् ||{5/8}{2.5.12.5}{1.190.5}{1.24.11.5}{617, 190, 1987}

ये¦त्वा॒¦दे॒व॒¦उ॒स्रि॒क‌म्¦मन्य॑मानाः¦पा॒पाः¦भ॒द्र‌म्¦उ॒प॒ऽजीव᳚न्ति¦प॒ज्राः |
न¦दुः॒ऽध्ये᳚¦अनु॑¦द॒दा॒सि॒¦वा॒म‌म्¦बृह॑स्पते¦चय॑से¦इत्¦पिया᳚रु‌म् ||

सु॒प्रैतुः॑ सू॒यव॑सो॒ न पन्था᳚ दुर्नि॒यन्तुः॒ परि॑प्रीतो॒ न मि॒त्रः |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्}

अ॒न॒र्वाणो᳚, अ॒भि ये चक्ष॑ते॒ नोऽपी᳚वृता, अपोर्णु॒वन्तो᳚, अस्थुः ||{6/8}{2.5.13.1}{1.190.6}{1.24.11.6}{618, 190, 1988}

सु॒ऽप्रैतुः॑¦सु॒ऽयव॑सः¦न¦पन्थाः᳚¦दुः॒ऽनि॒यन्तुः॑¦परि॑ऽप्रीतः¦न¦मि॒त्रः |
अ॒न॒र्वाणः॑¦अ॒भि¦ये¦चक्ष॑ते¦नः॒¦अपि॑ऽवृताः¦अ॒प॒ऽऊ॒र्णु॒वन्तः॑¦अ॒स्थुः॒ ||

सं यं स्तुभो॒ऽवन॑यो॒ न यन्ति॑ समु॒द्रं न स्र॒वतो॒ रोध॑चक्राः |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्}

स वि॒द्वाँ, उ॒भयं᳚ चष्टे, अ॒न्तर्बृह॒स्पति॒स्तर॒ आप॑श्च॒ गृध्रः॑ ||{7/8}{2.5.13.2}{1.190.7}{1.24.11.7}{619, 190, 1989}

स‌म्¦य‌म्¦स्तुभः॑¦अ॒वन॑यः¦न¦यन्ति॑¦स॒मु॒द्र‌म्¦न¦स्र॒वतः॑¦रोध॑ऽचक्राः |
सः¦वि॒द्वान्¦उ॒भय᳚‌म्¦च॒ष्टे॒¦अ॒न्तः¦बृह॒स्पतिः॑¦तरः॑¦आपः॑¦च॒¦गृध्रः॑ ||

ए॒वा म॒हस्तु॑विजा॒तस्तुवि॑ष्मा॒न् बृह॒स्पति᳚र्वृष॒भो धा᳚यि दे॒वः |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्}

स नः॑ स्तु॒तो वी॒रव॑द्‌ धातु॒ गोम॑द् वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{8/8}{2.5.13.3}{1.190.8}{1.24.11.8}{620, 190, 1990}

ए॒व¦म॒हः¦तु॒वि॒ऽजा॒तः¦तुवि॑ष्मान्¦बृह॒स्पतिः॑¦वृ॒ष॒भः¦धा॒यि॒¦दे॒वः |
सः¦नः॒¦स्तु॒तः¦वी॒रऽव॑त्¦धा॒तु॒¦गोऽम॑त्¦वि॒द्याम॑¦इ॒ष‌म्¦वृ॒जन᳚‌म्¦जी॒रऽदा᳚नु‌म् ||

[70] कङ्कतइति षोळशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योप्तृणसूर्याअनुष्टुप् दशम्याद्यास्तिस्रो महापंक्तयस्त्रयोदशी महाबृहती | (विषन्नसूक्तं) |
कङ्क॑तो॒ न कङ्क॒तोऽथो᳚ सती॒नक᳚ङ्कतः |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

द्वाविति॒ प्लुषी॒, इति॒ न्य१॑(अ॒)दृष्टा᳚, अलिप्सत ||{1/16}{2.5.14.1}{1.191.1}{1.24.12.1}{621, 191, 1991}

कङ्क॑तः¦न¦कङ्क॑तः¦अथो॒ इति॑¦स॒ती॒नऽक᳚ङ्कतः | द्वौ¦इति॑¦प्लुषी॒ इति॑¦इति॑¦नि¦अ॒दृष्टाः᳚¦अ॒लि॒प्स॒त॒ ||

अ॒दृष्टा᳚न्‌ हन्त्याय॒त्यथो᳚ हन्ति पराय॒ती |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

अथो᳚, अवघ्न॒ती ह॒न्त्यथो᳚ पिनष्टि पिंष॒ती ||{2/16}{2.5.14.2}{1.191.2}{1.24.12.2}{622, 191, 1992}

अ॒दृष्टा᳚न्¦ह॒न्ति॒¦आ॒ऽय॒ती¦अथो॒ इति॑¦ह॒न्ति॒¦प॒रा॒ऽय॒ती | अथो॒ इति॑¦अ॒व॒ऽघ्न॒ती¦ह॒न्ति॒¦अथो॒ इति॑¦पि॒न॒ष्टि॒¦पिं॒ष॒ती ||

श॒रासः॒ कुश॑रासो द॒र्भासः॑ सै॒र्या, उ॒त |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

मौ॒ञ्जा, अ॒दृष्टा᳚ वैरि॒णाः सर्वे᳚ सा॒कं न्य॑लिप्सत ||{3/16}{2.5.14.3}{1.191.3}{1.24.12.3}{623, 191, 1993}

श॒रासः॑¦कुश॑रासः¦द॒र्भासः॑¦सै॒र्याः¦उ॒त | मौं॒जाः¦अ॒दृष्टाः᳚¦वै॒रि॒णाः¦सर्वे᳚¦सा॒क‌म्¦नि¦अ॒लि॒प्स॒त॒ ||

नि गावो᳚ गो॒ष्ठे, अ॑सद॒न् नि मृ॒गासो᳚, अविक्षत |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

नि के॒तवो॒ जना᳚नां॒ न्य१॑(अ॒)दृष्टा᳚, अलिप्सत ||{4/16}{2.5.14.4}{1.191.4}{1.24.12.4}{624, 191, 1994}

नि¦गावः॑¦गो॒ऽस्थे¦अ॒स॒द॒न्¦नि¦मृ॒गासः॑¦अ॒वि॒क्ष॒त॒ | नि¦के॒तवः॑¦जना᳚ना‌म्¦नि¦अ॒दृष्टाः᳚¦अ॒लि॒प्स॒त॒ ||

ए॒त उ॒ त्ये प्रत्य॑दृश्रन् प्रदो॒षं तस्क॑रा, इव |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

अदृ॑ष्टा॒ विश्व॑दृष्टाः॒ प्रति॑बुद्धा, अभूतन ||{5/16}{2.5.14.5}{1.191.5}{1.24.12.5}{625, 191, 1995}

ए॒ते¦ऊँ॒ इति॑¦त्ये¦प्रति॑¦अ॒दृ॒श्र॒न्¦प्र॒ऽदो॒ष‌म्¦तस्क॑राःऽ‌इव | अदृ॑ष्टाः¦विश्व॑ऽदृष्टाः¦प्रति॑ऽबुद्धाः¦अ॒भू॒त॒न॒ ||

द्यौर्वः॑ पि॒ता पृ॑थि॒वी मा॒ता सोमो॒ भ्रातादि॑तिः॒ स्वसा᳚ |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

अदृ॑ष्टा॒ विश्व॑दृष्टा॒स्तिष्ठ॑ते॒लय॑ता॒ सु क᳚म् ||{6/16}{2.5.15.1}{1.191.6}{1.24.12.6}{626, 191, 1996}

द्यौः¦वः॒¦पि॒ता¦पृ॒थि॒वी¦मा॒ता¦सोमः॑¦भ्राता᳚¦अदि॑तिः¦स्वसा᳚ | अदृ॑ष्टाः¦विश्व॑ऽदृष्टाः¦तिष्ठ॑त¦इ॒लय॑त¦सु¦क॒‌म् ||

ये, अंस्या॒ ये, अङ्ग्याः᳚ सू॒चीका॒ ये प्र॑कङ्क॒ताः |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

अदृ॑ष्टाः॒ किं च॒नेह वः॒ सर्वे᳚ सा॒कं नि ज॑स्यत ||{7/16}{2.5.15.2}{1.191.7}{1.24.12.7}{627, 191, 1997}

ये¦अंस्याः᳚¦ये¦अङ्ग्याः᳚¦सू॒चीकाः᳚¦ये¦प्र॒ऽक॒ङ्क॒ताः | अदृ॑ष्टाः¦कि‌म्¦च॒न¦इ॒ह¦वः॒¦सर्वे᳚¦सा॒क‌म्¦नि¦ज॒स्य॒त॒ ||

उत्‌ पु॒रस्ता॒त्‌ सूर्य॑ एति वि॒श्वदृ॑ष्टो, अदृष्ट॒हा |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

अ॒दृष्टा॒न्‌ त्सर्वा᳚ञ्ज॒म्भय॒न् त्सर्वा᳚श्च यातुधा॒न्यः॑ ||{8/16}{2.5.15.3}{1.191.8}{1.24.12.8}{628, 191, 1998}

उत्¦पु॒रस्ता᳚त्¦सूर्यः॑¦ए॒ति॒¦वि॒श्वऽदृ॑ष्टः¦अ॒दृ॒ष्ट॒ऽहा | अ॒दृष्टा᳚न्¦सर्वा᳚न्¦ज॒म्भय॑न्¦सर्वाः᳚¦च॒¦या॒तु॒ऽधा॒न्यः॑ ||

उद॑पप्तद॒सौ सूर्यः॑ पु॒रु विश्वा᳚नि॒ जूर्व॑न् |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

आ॒दि॒त्यः पर्व॑तेभ्यो वि॒श्वदृ॑ष्टो, अदृष्ट॒हा ||{9/16}{2.5.15.4}{1.191.9}{1.24.12.9}{629, 191, 1999}

उत्¦अ॒प॒प्त॒त्¦अ॒सौ¦सूर्यः॑¦पु॒रु¦विश्वा᳚नि¦जूर्व॑न् | आ॒दि॒त्यः¦पर्व॑तेभ्यः¦वि॒श्वऽदृ॑ष्टः¦अ॒दृ॒ष्ट॒ऽहा ||

सूर्ये᳚ वि॒षमा स॑जामि॒ दृतिं॒ सुरा᳚वतो गृ॒हे |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | महापङ्क्तिः}

सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒रे, अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ||{10/16}{2.5.15.5}{1.191.10}{1.24.12.10}{630, 191, 2000}

सूर्ये᳚¦वि॒ष‌म्¦आ¦स॒जा॒मि॒¦दृति᳚‌म्¦सुरा᳚ऽवतः¦गृ॒हे |
सः¦चि॒त्¦नु¦न¦म॒रा॒ति॒¦नो इति॑¦व॒य‌म्¦म॒रा॒म॒¦आ॒रे¦अ॒स्य॒¦योज॑न‌म्¦ह॒रि॒ऽस्थाः¦मधु॑¦त्वा॒¦म॒धु॒ला¦च॒का॒र॒ ||

इ॒य॒त्ति॒का श॑कुन्ति॒का स॒का ज॑घास ते वि॒षम् |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | महापङ्क्तिः}

सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒रे, अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ||{11/16}{2.5.16.1}{1.191.11}{1.24.12.11}{631, 191, 2001}

इ॒य॒त्ति॒का¦श॒कु॒न्ति॒का¦स॒का¦ज॒घा॒स॒¦ते॒¦वि॒ष‌म् |
सो इति॑¦चि॒त्¦नु¦न¦म॒रा॒ति॒¦नो इति॑¦व॒य‌म्¦म॒रा॒म॒¦आ॒रे¦अ॒स्य॒¦योज॑न‌म्¦ह॒रि॒ऽस्थाः¦मधु॑¦त्वा॒¦म॒धु॒ला¦च॒का॒र॒ ||

त्रिः स॒प्त वि॑ष्पुलिङ्ग॒का वि॒षस्य॒ पुष्प॑मक्षन् |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | महापङ्क्तिः}

ताश्चि॒न्नु न म॑रन्ति॒ नो व॒यं म॑रामा॒रे, अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ||{12/16}{2.5.16.2}{1.191.12}{1.24.12.12}{632, 191, 2002}

त्रिः¦स॒प्त¦वि॒ष्पु॒लि॒ङ्ग॒काः¦वि॒षस्य॑¦पुष्य᳚‌म्¦अ॒क्ष॒न् |
ताः¦चि॒त्¦नु¦न¦म॒र॒न्ति॒¦नो इति॑¦व॒य‌म्¦म॒रा॒म॒¦आ॒रे¦अ॒स्य॒¦योज॑न‌म्¦ह॒रि॒ऽस्थाः¦मधु॑¦त्वा॒¦म॒धु॒ला¦च॒का॒र॒ ||

न॒वा॒नां न॑वती॒नां वि॒षस्य॒ रोपु॑षीणाम् |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | महाबृहती}

सर्वा᳚सामग्रभं॒ नामा॒रे, अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ||{13/16}{2.5.16.3}{1.191.13}{1.24.12.13}{633, 191, 2003}

न॒वा॒ना‌म्¦न॒व॒ती॒ना‌म्¦वि॒षस्य॑¦रोपु॑षीणा‌म् |
सर्वा᳚सा‌म्¦अ॒ग्र॒भ॒‌म्¦नाम॑¦आ॒रे¦अ॒स्य॒¦योज॑न‌म्¦ह॒रि॒ऽस्थाः¦मधु॑¦त्वा॒¦म॒धु॒ला¦च॒का॒र॒ ||

त्रिः स॒प्त म॑यू॒र्यः॑ स॒प्त स्वसा᳚रो, अ॒ग्रुवः॑ |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

तास्ते᳚ वि॒षं वि ज॑भ्रिर उद॒कं कु॒म्भिनी᳚रिव ||{14/16}{2.5.16.4}{1.191.14}{1.24.12.14}{634, 191, 2004}

त्रिः¦स॒प्त¦म॒यू॒र्यः॑¦स॒प्त¦स्वसा᳚रः¦अ॒ग्रुवः॑ | ताः¦ते॒¦वि॒ष‌म्¦वि¦ज॒भ्रि॒रे॒¦उ॒द॒क‌म्¦कु॒म्भिनीः᳚ऽ‌इव ||

इ॒य॒त्त॒कः कु॑षुम्भ॒कस्त॒कं भि॑न॒द्म्यश्म॑ना |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

ततो᳚ वि॒षं प्र वा᳚वृते॒ परा᳚ची॒रनु॑ सं॒वतः॑ ||{15/16}{2.5.16.5}{1.191.15}{1.24.12.15}{635, 191, 2005}

इ॒य॒त्त॒कः¦कु॒षु॒म्भ॒कः¦त॒क‌म्¦भि॒न॒द्मि॒¦अश्म॑ना | ततः॑¦वि॒ष‌म्¦प्र¦व॒वृ॒ते॒¦परा᳚चीः¦अनु॑¦स॒‌म्ऽवतः॑ ||

कु॒षु॒म्भ॒कस्तद॑ब्रवीद् गि॒रेः प्र॑वर्तमान॒कः |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

वृश्चि॑कस्यार॒सं वि॒षम॑र॒सं वृ॑श्चिक ते वि॒षम् ||{16/16}{2.5.16.6}{1.191.16}{1.24.12.16}{636, 191, 2006}

कु॒षु॒म्भ॒कः¦तत्¦अ॒ब्र॒वी॒त्¦गि॒रेः¦प्र॒ऽव॒र्त॒मा॒न॒कः | वृश्चि॑कस्य¦अ॒र॒स‌म्¦वि॒ष‌म्¦अ॒र॒स‌म्¦वृ॒श्चि॒क॒¦ते॒¦वि॒ष‌म् ||

[71] त्वमग्नइतिषोळशर्चस्य सूक्तस्य शौनकोगृत्समदोग्निर्जगती |
त्वम॑ग्ने॒ द्युभि॒स्त्वमा᳚शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ |{शौनको गृत्समदः | अग्निः | जगती}

त्वं वने᳚भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ||{1/16}{2.5.17.1}{2.1.1}{2.1.1.1}{637, 192, 2007}

त्व‌म्¦अ॒ग्ने॒¦द्युऽभिः॑¦त्व‌म्¦आ॒शु॒शु॒क्षणिः॑¦त्व‌म्¦अ॒त्ऽभ्यः¦त्व‌म्¦अश्म॑नः¦परि॑ |
त्व‌म्¦वने᳚भ्यः¦त्व‌म्¦ओष॑धीभ्यः¦त्व‌म्¦नृ॒णा‌म्¦नृ॒ऽप॒ते॒¦जा॒य॒से॒¦शुचिः॑ ||

तवा᳚ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः |{शौनको गृत्समदः | अग्निः | जगती}

तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे᳚ ||{2/16}{2.5.17.2}{2.1.2}{2.1.1.2}{638, 192, 2008}

तव॑¦अ॒ग्ने॒¦हो॒त्र‌म्¦तव॑¦पो॒त्र‌म्¦ऋ॒त्विय᳚‌म्¦तव॑¦ने॒ष्ट्र‌म्¦त्व‌म्¦अ॒ग्नित्¦ऋ॒त॒ऽय॒तः |
तव॑¦प्र॒ऽशा॒स्त्र‌म्¦त्व‌म्¦अ॒ध्व॒रि॒ऽय॒सि॒¦ब्र॒ह्मा¦च॒¦असि॑¦गृ॒हऽप॑तिः¦च॒¦नः॒¦दमे᳚ ||

त्वम॑ग्न॒ इन्द्रो᳚ वृष॒भः स॒ताम॑सि॒ त्वं विष्णु॑रुरुगा॒यो न॑म॒स्यः॑ |{शौनको गृत्समदः | अग्निः | जगती}

त्वं ब्र॒ह्मा र॑यि॒विद्‌ ब्र᳚ह्मणस्पते॒ त्वं वि॑धर्तः सचसे॒ पुरं᳚ध्या ||{3/16}{2.5.17.3}{2.1.3}{2.1.1.3}{639, 192, 2009}

त्व‌म्¦अ॒ग्ने॒¦इन्द्रः॑¦वृ॒ष॒भः¦स॒ता‌म्¦अ॒सि॒¦त्व‌म्¦विष्णुः॑¦उ॒रु॒ऽगा॒यः¦न॒म॒स्यः॑ |
त्व‌म्¦ब्र॒ह्मा¦र॒यि॒ऽवित्¦ब्र॒ह्म॒णः॒¦प॒ते॒¦त्व‌म्¦वि॒ध॒र्त॒रिति॑ विऽधर्तः¦स॒च॒से॒¦पुर᳚‌म्ऽध्या ||

त्वम॑ग्ने॒ राजा॒ वरु॑णो धृ॒तव्र॑त॒स्त्वं मि॒त्रो भ॑वसि द॒स्म ईड्यः॑ |{शौनको गृत्समदः | अग्निः | जगती}

त्वम᳚र्य॒मा सत्प॑ति॒र्यस्य॑ स॒म्भुजं॒ त्वमंशो᳚ वि॒दथे᳚ देव भाज॒युः ||{4/16}{2.5.17.4}{2.1.4}{2.1.1.4}{640, 192, 2010}

त्व‌म्¦अ॒ग्ने॒¦राजा᳚¦वरु॑णः¦धृ॒तऽव्र॑तः¦त्व‌म्¦मि॒त्रः¦भ॒व॒सि॒¦द॒स्मः¦ईड्यः॑ |
त्व‌म्¦अ॒र्य॒मा¦सत्ऽप॑तिः¦यस्य॑¦स॒‌म्ऽभुज᳚‌म्¦त्व‌म्¦अंशः॑¦वि॒दथे᳚¦दे॒व॒¦भा॒ज॒युः ||

त्वम॑ग्ने॒ त्वष्टा᳚ विध॒ते सु॒वीर्यं॒ तव॒ ग्नावो᳚ मित्रमहः सजा॒त्य᳚म् |{शौनको गृत्समदः | अग्निः | जगती}

त्वमा᳚शु॒हेमा᳚ ररिषे॒ स्वश्व्यं॒ त्वं न॒रां शर्धो᳚, असि पुरू॒वसुः॑ ||{5/16}{2.5.17.5}{2.1.5}{2.1.1.5}{641, 192, 2011}

त्व‌म्¦अ॒ग्ने॒¦त्वष्टा᳚¦वि॒ध॒ते¦सु॒ऽवीर्य᳚‌म्¦तव॑¦ग्नावः॑¦मि॒त्र॒ऽम॒हः॒¦स॒ऽजा॒त्य᳚‌म् |
त्व‌म्¦आ॒शु॒ऽहेमा᳚¦र॒रि॒षे॒¦सु॒।आश्व्य᳚‌म्¦त्व‌म्¦न॒रा‌म्¦शर्धः॑¦अ॒सि॒¦पु॒रु॒ऽवसुः॑ ||

त्वम॑ग्ने रु॒द्रो, असु॑रो म॒हो दि॒वस्त्वं शर्धो॒ मारु॑तं पृ॒क्ष ई᳚शिषे |{शौनको गृत्समदः | अग्निः | जगती}

त्वं वातै᳚ररु॒णैर्या᳚सि शंग॒यस्त्वं पू॒षा वि॑ध॒तः पा᳚सि॒ नु त्मना᳚ ||{6/16}{2.5.18.1}{2.1.6}{2.1.1.6}{642, 192, 2012}

त्व‌म्¦अ॒ग्ने॒¦रु॒द्रः¦असु॑रः¦म॒हः¦दि॒वः¦त्व‌म्¦शर्धः॑¦मारु॑त‌म्¦पृ॒क्षः¦ई॒शि॒षे॒ |
त्व‌म्¦वातैः᳚¦अ॒रु॒णैः¦या॒सि॒¦श॒‌म्ऽग॒यः¦त्व‌म्¦पू॒षा¦वि॒ध॒तः¦पा॒सि॒¦नु¦त्मना᳚ ||

त्वम॑ग्ने द्रविणो॒दा, अ॑रं॒कृते॒ त्वं दे॒वः स॑वि॒ता र॑त्न॒धा, अ॑सि |{शौनको गृत्समदः | अग्निः | जगती}

त्वं भगो᳚ नृपते॒ वस्व॑ ईशिषे॒ त्वं पा॒युर्दमे॒ यस्तेऽवि॑धत् ||{7/16}{2.5.18.2}{2.1.7}{2.1.1.7}{643, 192, 2013}

त्व‌म्¦अ॒ग्ने॒¦द्र॒वि॒णः॒ऽदाः¦अ॒र॒‌म्ऽकृते᳚¦त्व‌म्¦दे॒वः¦स॒वि॒ता¦र॒त्न॒ऽधाः¦अ॒सि॒ |
त्व‌म्¦भगः॑¦नृ॒ऽप॒ते॒¦वस्वः॑¦ई॒शि॒षे॒¦त्व‌म्¦पा॒युः¦दमे᳚¦यः¦ते॒¦अवि॑धत् ||

त्वाम॑ग्ने॒ दम॒ आ वि॒श्पतिं॒ विश॒स्त्वां राजा᳚नं सुवि॒दत्र॑मृञ्जते |{शौनको गृत्समदः | अग्निः | जगती}

त्वं विश्वा᳚नि स्वनीक पत्यसे॒ त्वं स॒हस्रा᳚णि श॒ता दश॒ प्रति॑ ||{8/16}{2.5.18.3}{2.1.8}{2.1.1.8}{644, 192, 2014}

त्वा‌म्¦अ॒ग्ने॒¦दमे᳚¦आ¦वि॒श्पति᳚‌म्¦विशः॑¦त्वा‌म्¦राजा᳚न‌म्¦सु॒ऽवि॒दत्र᳚‌म्¦ऋं॒ज॒ते॒ |
त्व‌म्¦विश्वा᳚नि¦सु॒।आ॒नी॒क॒¦प॒त्य॒से॒¦त्व‌म्¦स॒हस्रा᳚णि¦श॒ता¦दश॑¦प्रति॑ ||

त्वाम॑ग्ने पि॒तर॑मि॒ष्टिभि॒र्नर॒स्त्वां भ्रा॒त्राय॒ शम्या᳚ तनू॒रुच᳚म् |{शौनको गृत्समदः | अग्निः | जगती}

त्वं पु॒त्रो भ॑वसि॒ यस्तेऽवि॑ध॒त् त्वं सखा᳚ सु॒शेवः॑ पास्या॒धृषः॑ ||{9/16}{2.5.18.4}{2.1.9}{2.1.1.9}{645, 192, 2015}

त्वा‌म्¦अ॒ग्ने॒¦पि॒तर᳚‌म्¦इ॒ष्टिऽभिः॑¦नरः॑¦त्वा‌म्¦भ्रा॒त्राय॑¦शम्या᳚¦त॒नू॒ऽरुच᳚‌म् |
त्व‌म्¦पु॒त्रः¦भ॒व॒सि॒¦यः¦ते॒¦अवि॑धत्¦त्व‌म्¦सखा᳚¦सु॒ऽशेवः॑¦पा॒सि॒¦आ॒ऽधृषः॑ ||

त्वम॑ग्न ऋ॒भुरा॒के न॑म॒स्य१॑(अ॒)स्त्वं वाज॑स्य क्षु॒मतो᳚ रा॒य ई᳚शिषे |{शौनको गृत्समदः | अग्निः | जगती}

त्वं वि भा॒स्यनु॑ दक्षि दा॒वने॒ त्वं वि॒शिक्षु॑रसि य॒ज्ञमा॒तनिः॑ ||{10/16}{2.5.18.5}{2.1.10}{2.1.1.10}{646, 192, 2016}

त्व‌म्¦अ॒ग्ने॒¦ऋ॒भुः¦आ॒के¦न॒म॒स्यः॑¦त्व‌म्¦वाज॑स्य¦क्षु॒ऽमतः॑¦रा॒यः¦ई॒शि॒षे॒ |
त्व‌म्¦वि¦भा॒सि॒¦अनु॑¦ध॒क्षि॒¦दा॒वने᳚¦त्व‌म्¦वि॒ऽशिक्षुः॑¦अ॒सि॒¦य॒ज्ञ‌म्¦आ॒ऽतनिः॑ ||

त्वम॑ग्ने॒, अदि॑तिर्देव दा॒शुषे॒ त्वं होत्रा॒ भार॑ती वर्धसे गि॒रा |{शौनको गृत्समदः | अग्निः | जगती}

त्वमिळा᳚ श॒तहि॑मासि॒ दक्ष॑से॒ त्वं वृ॑त्र॒हा व॑सुपते॒ सर॑स्वती ||{11/16}{2.5.19.1}{2.1.11}{2.1.1.11}{647, 192, 2017}

त्व‌म्¦अ॒ग्ने॒¦अदि॑तिः¦दे॒व॒¦दा॒शुषे᳚¦त्व‌म्¦होत्रा᳚¦भार॑ती¦व॒र्ध॒से॒¦गि॒रा |
त्व‌म्¦इळा᳚¦श॒तऽहि॑मा¦अ॒सि॒¦दक्ष॑से¦त्व‌म्¦वृ॒त्र॒ऽहा¦व॒सु॒ऽप॒ते॒¦सर॑स्वती ||

त्वम॑ग्ने॒ सुभृ॑त उत्त॒मं वय॒स्तव॑ स्पा॒र्हे वर्ण॒ आ सं॒दृशि॒ श्रियः॑ |{शौनको गृत्समदः | अग्निः | जगती}

त्वं वाजः॑ प्र॒तर॑णो बृ॒हन्न॑सि॒ त्वं र॒यिर्ब॑हु॒लो वि॒श्वत॑स्पृ॒थुः ||{12/16}{2.5.19.2}{2.1.12}{2.1.1.12}{648, 192, 2018}

त्व‌म्¦अ॒ग्ने॒¦सुऽभृ॑तः¦उ॒त्ऽत॒म‌म्¦वयः॑¦तव॑¦स्पा॒र्हे¦वर्णे᳚¦आ¦स॒‌म्ऽदृशि॑¦श्रियः॑ |
त्व‌म्¦वाजः॑¦प्र॒ऽतर॑णः¦बृ॒हन्¦अ॒सि॒¦त्व‌म्¦र॒यिः¦ब॒हु॒लः¦वि॒श्वतः॑¦पृ॒थुः ||

त्वाम॑ग्न आदि॒त्यास॑ आ॒स्य१॑(अं॒) त्वां जि॒ह्वां शुच॑यश्चक्रिरे कवे |{शौनको गृत्समदः | अग्निः | जगती}

त्वां रा᳚ति॒षाचो᳚, अध्व॒रेषु॑ सश्चिरे॒ त्वे दे॒वा ह॒विर॑द॒न्त्याहु॑तम् ||{13/16}{2.5.19.3}{2.1.13}{2.1.1.13}{649, 192, 2019}

त्वा‌म्¦अ॒ग्ने॒¦आ॒दि॒त्यासः॑¦आ॒स्य᳚‌म्¦त्वा‌म्¦जि॒ह्वा‌म्¦शुच॑यः¦च॒क्रि॒रे॒¦क॒वे॒ |
त्वा‌म्¦रा॒ति॒ऽसाचः॑¦अ॒ध्व॒रेषु॑¦स॒श्चि॒रे॒¦त्वे इति॑¦दे॒वाः¦ह॒विः¦अ॒द॒न्ति॒¦आऽहु॑त‌म् ||

त्वे, अ॑ग्ने॒ विश्वे᳚, अ॒मृता᳚सो, अ॒द्रुह॑ आ॒सा दे॒वा ह॒विर॑द॒न्त्याहु॑तम् |{शौनको गृत्समदः | अग्निः | जगती}

त्वया॒ मर्ता᳚सः स्वदन्त आसु॒तिं त्वं गर्भो᳚ वी॒रुधां᳚ जज्ञिषे॒ शुचिः॑ ||{14/16}{2.5.19.4}{2.1.14}{2.1.1.14}{650, 192, 2020}

त्वे इति॑¦अ॒ग्ने॒¦विश्वे᳚¦अ॒मृता᳚सः¦अ॒द्रुहः॑¦आ॒सा¦दे॒वाः¦ह॒विः¦अ॒द॒न्ति॒¦आऽहु॑त‌म् |
त्वया᳚¦मर्ता᳚सः¦स्व॒द॒न्ते॒¦आ॒ऽसु॒ति‌म्¦त्व‌म्¦गर्भः॑¦वी॒रुधा᳚‌म्¦ज॒ज्ञि॒षे॒¦शुचिः॑ ||

त्वं तान्‌ त्सं च॒ प्रति॑ चासि म॒ज्मनाग्ने᳚ सुजात॒ प्र च॑ देव रिच्यसे |{शौनको गृत्समदः | अग्निः | जगती}

पृ॒क्षो यदत्र॑ महि॒ना वि ते॒ भुव॒दनु॒ द्यावा᳚पृथि॒वी रोद॑सी, उ॒भे ||{15/16}{2.5.19.5}{2.1.15}{2.1.1.15}{651, 192, 2021}

त्व‌म्¦तान्¦स‌म्¦च॒¦प्रति॑¦च॒¦अ॒सि॒¦म॒ज्मना᳚¦अग्ने᳚¦सु॒ऽजा॒त॒¦प्र¦च॒¦दे॒व॒¦रि॒च्य॒से॒ |
पृ॒क्षः¦यत्¦अत्र॑¦म॒हि॒ना¦वि¦ते॒¦भुव॑त्¦अनु॑¦द्यावा᳚पृथि॒वी इति॑¦रोद॑सी॒ इति॑¦उ॒भे इति॑ ||

ये स्तो॒तृभ्यो॒ गो,अ॑ग्रा॒मश्व॑पेशस॒मग्ने᳚ रा॒तिमु॑पसृ॒जन्ति॑ सू॒रयः॑ |{शौनको गृत्समदः | अग्निः | जगती}

अ॒स्माञ्च॒ ताँश्च॒ प्र हि नेषि॒ वस्य॒ आ बृ॒हद्‌ व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{16/16}{2.5.19.6}{2.1.16}{2.1.1.16}{652, 192, 2022}

ये¦स्तो॒तृऽभ्यः॑¦गो।आ॑ग्रा‌म्¦अश्व॑ऽपेशस‌म्¦अग्ने᳚¦रा॒ति‌म्¦उ॒प॒ऽसृ॒जन्ति॑¦सू॒रयः॑ |
अ॒स्मान्¦च॒¦तान्¦च॒¦प्र¦हि¦नेषि॑¦वस्यः॑¦आ¦बृ॒हत्¦व॒दे॒म॒¦वि॒दथे᳚¦सु॒ऽवीराः᳚ ||

[72] यज्ञेनेति त्रयोदशर्चस्य सूक्तस्य शौनकोगृत्समदोग्निर्जगती |
य॒ज्ञेन॑ वर्धत जा॒तवे᳚दसम॒ग्निं य॑जध्वं ह॒विषा॒ तना᳚ गि॒रा |{शौनको गृत्समदः | अग्निः | जगती}

स॒मि॒धा॒नं सु॑प्र॒यसं॒ स्व᳚र्णरं द्यु॒क्षं होता᳚रं वृ॒जने᳚षु धू॒र्षद᳚म् ||{1/13}{2.5.20.1}{2.2.1}{2.1.2.1}{653, 193, 2023}

य॒ज्ञेन॑¦व॒र्ध॒त॒¦जा॒तऽवे᳚दस‌म्¦अ॒ग्नि‌म्¦य॒ज॒ध्व॒‌म्¦ह॒विषा᳚¦तना᳚¦गि॒रा |
स॒‌म्ऽ‌इ॒धा॒न‌म्¦सु॒ऽप्र॒यस᳚‌म्¦स्वः॑ऽनर‌म्¦द्यु॒क्ष‌म्¦होता᳚र‌म्¦वृ॒जने᳚षु¦धूः॒ऽसद᳚‌म् ||

अ॒भि त्वा॒ नक्ती᳚रु॒षसो᳚ ववाशि॒रेऽग्ने᳚ व॒त्सं न स्वस॑रेषु धे॒नवः॑ |{शौनको गृत्समदः | अग्निः | जगती}

दि॒व इ॒वेद॑र॒तिर्मानु॑षा यु॒गा क्षपो᳚ भासि पुरुवार सं॒यतः॑ ||{2/13}{2.5.20.2}{2.2.2}{2.1.2.2}{654, 193, 2024}

अ॒भि¦त्वा॒¦नक्तीः᳚¦उ॒षसः॑¦व॒वा॒शि॒रे॒¦अग्ने᳚¦व॒त्स‌म्¦न¦स्वस॑रेषु¦धे॒नवः॑ |
दि॒वःऽ‌इ᳚व¦इत्¦अ॒र॒तिः¦मानु॑षा¦यु॒गा¦आ¦क्षपः॑¦भा॒सि॒¦पु॒रु॒ऽवा॒र॒¦स॒‌म्ऽयतः॑ ||

तं दे॒वा बु॒ध्ने रज॑सः सु॒दंस॑सं दि॒वस्पृ॑थि॒व्योर॑र॒तिं न्ये᳚रिरे |{शौनको गृत्समदः | अग्निः | जगती}

रथ॑मिव॒ वेद्यं᳚ शु॒क्रशो᳚चिषम॒ग्निं मि॒त्रं न क्षि॒तिषु॑ प्र॒शंस्य᳚म् ||{3/13}{2.5.20.3}{2.2.3}{2.1.2.3}{655, 193, 2025}

तं¦दे॒वाः¦बु॒ध्ने¦रज॑सः¦सु॒ऽदंस॑स‌म्¦दि॒वःपृ॑थि॒व्योः¦अ॒र॒ति‌म्¦नि¦ए॒रि॒रे॒ |
रथ᳚‌म्ऽ‌इव¦वेद्य᳚‌म्¦शु॒क्रऽशो᳚चिष‌म्¦अ॒ग्नि‌म्¦मि॒त्र‌म्¦न¦क्षि॒तिषु॑¦प्र॒ऽशंस्य᳚‌म् ||

तमु॒क्षमा᳚णं॒ रज॑सि॒ स्व आ दमे᳚ च॒न्द्रमि॑व सु॒रुचं᳚ ह्वा॒र आ द॑धुः |{शौनको गृत्समदः | अग्निः | जगती}

पृश्न्याः᳚ पत॒रं चि॒तय᳚न्तम॒क्षभिः॑ पा॒थो न पा॒युं जन॑सी, उ॒भे, अनु॑ ||{4/13}{2.5.20.4}{2.2.4}{2.1.2.4}{656, 193, 2026}

त‌म्¦उ॒क्षमा᳚ण‌म्¦रज॑सि¦स्वे¦आ¦दमे᳚¦च॒न्द्र‌म्ऽ‌इ᳚व¦सु॒ऽरुच᳚‌म्¦ह्वा॒रे¦आ¦द॒धुः॒ |
पृश्न्याः᳚¦प॒त॒र‌म्¦चि॒तय᳚न्त‌म्¦अ॒क्षऽभिः॑¦पा॒थः¦न¦पा॒यु‌म्¦जन॑सी॒ इति॑¦उ॒भे इति॑¦अनु॑ ||

स होता॒ विश्वं॒ परि॑ भूत्वध्व॒रं तमु॑ ह॒व्यैर्मनु॑ष ऋञ्जते गि॒रा |{शौनको गृत्समदः | अग्निः | जगती}

हि॒रि॒शि॒प्रो वृ॑धसा॒नासु॒ जर्भु॑र॒द् द्यौर्न स्तृभि॑श्चितय॒द्‌ रोद॑सी॒, अनु॑ ||{5/13}{2.5.20.5}{2.2.5}{2.1.2.5}{657, 193, 2027}

सः¦होता᳚¦विश्व᳚‌म्¦परि॑¦भू॒तु॒¦अ॒ध्व॒र‌म्¦त‌म्¦ऊँ॒ इति॑¦ह॒व्यैः¦मनु॑षः¦ऋं॒ज॒ते॒¦गि॒रा |
हि॒रि॒ऽशि॒प्रः¦वृ॒ध॒सा॒नासु॑¦जर्भु॑रत्¦द्यौः¦न¦स्तृऽभिः॑¦चि॒त॒य॒त्¦रोद॑सी॒ इति॑¦अनु॑ ||

स नो᳚ रे॒वत्‌ स॑मिधा॒नः स्व॒स्तये᳚ संदद॒स्वान्‌ र॒यिम॒स्मासु॑ दीदिहि |{शौनको गृत्समदः | अग्निः | जगती}

आ नः॑ कृणुष्व सुवि॒ताय॒ रोद॑सी॒, अग्ने᳚ ह॒व्या मनु॑षो देव वी॒तये᳚ ||{6/13}{2.5.21.1}{2.2.6}{2.1.2.6}{658, 193, 2028}

सः¦नः॒¦रे॒वत्¦स॒‌म्ऽ‌इ॒धा॒नः¦स्व॒स्तये᳚¦स॒‌म्ऽद॒द॒स्वान्¦र॒यि‌म्¦अ॒स्मासु॑¦दी॒दि॒हि॒ |
आ¦नः॒¦कृ॒णु॒ष्व॒¦सु॒वि॒ताय॑¦रोद॑सी॒ इति॑¦अग्ने᳚¦ह॒व्या¦मनु॑षः¦दे॒व॒¦वी॒तये᳚ ||

दा नो᳚, अग्ने बृह॒तो दाः स॑ह॒स्रिणो᳚ दु॒रो न वाजं॒ श्रुत्या॒, अपा᳚ वृधि |{शौनको गृत्समदः | अग्निः | जगती}

प्राची॒ द्यावा᳚पृथि॒वी ब्रह्म॑णा कृधि॒ स्व१॑(अ॒)र्ण शु॒क्रमु॒षसो॒ वि दि॑द्युतुः ||{7/13}{2.5.21.2}{2.2.7}{2.1.2.7}{659, 193, 2029}

दाः¦नः॒¦अ॒ग्ने॒¦बृ॒ह॒तः¦दाः¦स॒ह॒स्रिणः॑¦दु॒रः¦न¦वाज᳚‌म्¦श्रुत्यै᳚¦अप॑¦वृ॒धि॒ |
प्राची॒ इति॑¦द्यावा᳚पृथि॒वी इति॑¦ब्रह्म॑णा¦कृ॒धि॒¦स्वः॑¦न¦शु॒क्र‌म्¦उ॒षसः॑¦वि¦दि॒द्यु॒तः॒ ||

स इ॑धा॒न उ॒षसो॒ राम्या॒, अनु॒ स्व१॑(अ॒)र्ण दी᳚देदरु॒षेण॑ भा॒नुना᳚ |{शौनको गृत्समदः | अग्निः | जगती}

होत्रा᳚भिर॒ग्निर्मनु॑षः स्वध्व॒रो राजा᳚ वि॒शामति॑थि॒श्चारु॑रा॒यवे᳚ ||{8/13}{2.5.21.3}{2.2.8}{2.1.2.8}{660, 193, 2030}

सः¦इ॒धा॒नः¦उ॒षसः॑¦राम्याः᳚¦अनु॑¦स्वः॑¦न¦दी॒दे॒त्¦अ॒रु॒षेण॑¦भा॒नुना᳚ |
होत्रा᳚भिः¦अ॒ग्निः¦मनु॑षः¦सु॒।आ॒ध्व॒रः¦राजा᳚¦वि॒शा‌म्¦अति॑थिः¦चारुः॑¦आ॒यवे᳚ ||

ए॒वा नो᳚, अग्ने, अ॒मृते᳚षु पूर्व्य॒ धीष्पी᳚पाय बृ॒हद्दि॑वेषु॒ मानु॑षा |{शौनको गृत्समदः | अग्निः | जगती}

दुहा᳚ना धे॒नुर्वृ॒जने᳚षु का॒रवे॒ त्मना᳚ श॒तिनं᳚ पुरु॒रूप॑मि॒षणि॑ ||{9/13}{2.5.21.4}{2.2.9}{2.1.2.9}{661, 193, 2031}

ए॒व¦नः॒¦अ॒ग्ने॒¦अ॒मृते᳚षु¦पू॒र्व्य॒¦धीः¦पी॒पा॒य॒¦बृ॒हत्ऽदि॑वेषु¦मानु॑षा |
दुहा᳚ना¦धे॒नुः¦वृ॒जने᳚षु¦का॒रवे᳚¦त्मना᳚¦श॒तिन᳚‌म्¦पु॒रु॒ऽरूप᳚‌म्¦इ॒षणि॑ ||

व॒यम॑ग्ने॒, अर्व॑ता वा सु॒वीर्यं॒ ब्रह्म॑णा वा चितयेमा॒ जनाँ॒, अति॑ |{शौनको गृत्समदः | अग्निः | जगती}

अ॒स्माकं᳚ द्यु॒म्नमधि॒ पञ्च॑ कृ॒ष्टिषू॒च्चा स्व१॑(अ॒)र्ण शु॑शुचीत दु॒ष्टर᳚म् ||{10/13}{2.5.21.5}{2.2.10}{2.1.2.10}{662, 193, 2032}

व॒य‌म्¦अ॒ग्ने॒¦अर्व॑ता¦वा¦सु॒ऽवीर्य᳚‌म्¦ब्रह्म॑णा¦वा¦चि॒त॒ये॒म॒¦जना᳚न्¦अति॑ |
अ॒स्माक᳚‌म्¦द्यु॒म्न‌म्¦अधि॑¦पंच॑¦कृ॒ष्टिषु॑¦उ॒च्चा¦स्वः॑¦न¦शु॒शु॒ची॒त॒¦दु॒स्तर᳚‌म् ||

स नो᳚ बोधि सहस्य प्र॒शंस्यो॒ यस्मि᳚न्‌ त्सुजा॒ता, इ॒षय᳚न्त सू॒रयः॑ |{शौनको गृत्समदः | अग्निः | जगती}

यम॑ग्ने य॒ज्ञमु॑प॒यन्ति॑ वा॒जिनो॒ नित्ये᳚ तो॒के दी᳚दि॒वांसं॒ स्वे दमे᳚ ||{11/13}{2.5.21.6}{2.2.11}{2.1.2.11}{663, 193, 2033}

सः¦नः॒¦बो॒धि॒¦स॒ह॒स्य॒¦प्र॒ऽशंस्यः॑¦यस्मि॑न्¦सु॒ऽजा॒ताः¦इ॒षय᳚न्त¦सू॒रयः॑ |
य‌म्¦अ॒ग्ने॒¦य॒ज्ञ‌म्¦उ॒प॒ऽयन्ति॑¦वा॒जिनः॑¦नित्ये᳚¦तो॒के¦दी॒दि॒ऽवांस᳚‌म्¦स्वे¦दमे᳚ ||

उ॒भया᳚सो जातवेदः स्याम ते स्तो॒तारो᳚, अग्ने सू॒रय॑श्च॒ शर्म॑णि |{शौनको गृत्समदः | अग्निः | जगती}

वस्वो᳚ रा॒यः पु॑रुश्च॒न्द्रस्य॒ भूय॑सः प्र॒जाव॑तः स्वप॒त्यस्य॑ शग्धि नः ||{12/13}{2.5.21.7}{2.2.12}{2.1.2.12}{664, 193, 2034}

उ॒भया᳚सः¦जा॒त॒ऽवे॒दः॒¦स्या॒म॒¦ते॒¦स्तो॒तारः॑¦अ॒ग्ने॒¦सू॒रयः॑¦च॒¦शर्म॑णि |
वस्वः॑¦रा॒यः¦पु॒रु॒ऽच॒न्द्रस्य॑¦भूय॑सः¦प्र॒जाऽव॑तः¦सु॒।आ॒प॒त्यस्य॑¦श॒ग्धि॒¦नः॒ ||

ये स्तो॒तृभ्यो॒ गो,अ॑ग्रा॒मश्व॑पेशस॒मग्ने᳚ रा॒तिमु॑पसृ॒जन्ति॑ सू॒रयः॑ |{शौनको गृत्समदः | अग्निः | जगती}

अ॒स्माञ्च॒ ताँश्च॒ प्र हि नेषि॒ वस्य॒ आ बृ॒हद्‌ व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{13/13}{2.5.21.8}{2.2.13}{2.1.2.13}{665, 193, 2035}

ये¦स्तो॒तृऽभ्यः॑¦गो।आ॑ग्रा‌म्¦अश्व॑ऽपेशस‌म्¦अग्ने᳚¦रा॒ति‌म्¦उ॒प॒ऽसृ॒जन्ति॑¦सू॒रयः॑ |
अ॒स्मान्¦च॒¦तान्¦च॒¦प्र¦हि¦नेषि॑¦वस्यः॑¦आ¦बृ॒हत्¦व॒दे॒म॒¦वि॒दथे᳚¦सु॒ऽवीराः᳚ ||

[73] समिद्धोअग्निरित्येकादशर्चस्य सूक्तस्य शौनको गृत्समदइध्मो नराशंसइळो बर्हिर्देवीर्द्वारउषासानक्ता दैव्यौहोतारौ सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिस्वाहाकृतयइतिक्रमेणदेवतास्त्रिष्टुप् सप्तम्यौजगत्यौ |
समि॑द्धो, अ॒ग्निर्निहि॑तः पृथि॒व्यां प्र॒त्यङ्‌ विश्वा᳚नि॒ भुव॑नान्यस्थात् |{शौनको गृत्समदः | इध्मः समिद्धोऽग्निर्वा | त्रिष्टुप्}

होता᳚ पाव॒कः प्र॒दिवः॑ सुमे॒धा दे॒वो दे॒वान्‌ य॑जत्व॒ग्निरर्ह॑न् ||{1/11}{2.5.22.1}{2.3.1}{2.1.3.1}{666, 194, 2036}

स‌म्ऽ‌इ᳚द्धः¦अ॒ग्निः¦निऽहि॑तः¦पृ॒थि॒व्या‌म्¦प्र॒त्यङ्¦विश्वा᳚नि¦भुव॑नानि¦अ॒स्था॒त् |
होता᳚¦पा॒व॒कः¦प्र॒ऽदिवः॑¦सु॒ऽमे॒धाः¦दे॒वः¦दे॒वान्¦य॒ज॒तु॒¦अ॒ग्निः¦अर्ह॑न् ||

नरा॒शंसः॒ प्रति॒ धामा᳚न्य॒ञ्जन् ति॒स्रो दिवः॒ प्रति॑ म॒ह्ना स्व॒र्चिः |{शौनको गृत्समदः | नराशंसः | त्रिष्टुप्}

घृ॒त॒प्रुषा॒ मन॑सा ह॒व्यमु॒न्दन् मू॒र्धन्‌ य॒ज्ञस्य॒ सम॑नक्तु दे॒वान् ||{2/11}{2.5.22.2}{2.3.2}{2.1.3.2}{667, 194, 2037}

नरा॒शंसः॑¦प्रति॑¦धामा᳚नि¦अं॒जन्¦ति॒स्रः¦दिवः॑¦प्रति॑¦म॒ह्ना¦सु॒।आ॒र्चिः |
घृ॒त॒ऽप्रुषा᳚¦मन॑सा¦ह॒व्य‌म्¦उ॒न्दन्¦मू॒र्धन्¦य॒ज्ञस्य॑¦स‌म्¦अ॒न॒क्तु॒¦दे॒वान् ||

ई॒ळि॒तो, अ॑ग्ने॒ मन॑सा नो॒, अर्ह᳚न् दे॒वान्‌ य॑क्षि॒ मानु॑षा॒त्‌ पूर्वो᳚, अ॒द्य |{शौनको गृत्समदः | इळः | त्रिष्टुप्}

स आ व॑ह म॒रुतां॒ शर्धो॒, अच्यु॑त॒मिन्द्रं᳚ नरो बर्हि॒षदं᳚ यजध्वम् ||{3/11}{2.5.22.3}{2.3.3}{2.1.3.3}{668, 194, 2038}

ई॒ळि॒तः¦अ॒ग्ने॒¦मन॑सा¦नः॒¦अर्ह॑न्¦दे॒वान्¦य॒क्षि॒¦मानु॑षात्¦पूर्वः॑¦अ॒द्य |
सः¦आ¦व॒ह॒¦म॒रुता᳚‌म्¦शर्धः॑¦अच्यु॑त‌म्¦इन्द्र᳚‌म्¦न॒रः॒¦ब॒र्हि॒ऽसद᳚‌म्¦य॒ज॒ध्व॒‌म् ||

देव॑ बर्हि॒र्वर्ध॑मानं सु॒वीरं᳚ स्ती॒र्णं रा॒ये सु॒भरं॒ वेद्य॒स्याम् |{शौनको गृत्समदः | बर्हिः | त्रिष्टुप्}

घृ॒तेना॒क्तं व॑सवः सीदते॒दं विश्वे᳚ देवा, आदित्या य॒ज्ञिया᳚सः ||{4/11}{2.5.22.4}{2.3.4}{2.1.3.4}{669, 194, 2039}

देव॑¦ब॒र्हिः॒¦वर्ध॑मान‌म्¦सु॒ऽवीर᳚‌म्¦स्ती॒र्ण‌म्¦रा॒ये¦सु॒ऽभर᳚‌म्¦वेदी॒ इति॑¦अ॒स्या‌म् |
घृ॒तेन॑¦अ॒क्त‌म्¦व॒स॒वः॒¦सी॒द॒त॒¦इ॒द‌म्¦विश्वे᳚¦दे॒वाः॒¦आ॒दि॒त्याः॒¦य॒ज्ञिया᳚सः ||

वि श्र॑यन्तामुर्वि॒या हू॒यमा᳚ना॒ द्वारो᳚ दे॒वीः सु॑प्राय॒णा नमो᳚भिः |{शौनको गृत्समदः | देवीर्द्वारः | त्रिष्टुप्}

व्यच॑स्वती॒र्वि प्र॑थन्तामजु॒र्या वर्णं᳚ पुना॒ना य॒शसं᳚ सु॒वीर᳚म् ||{5/11}{2.5.22.5}{2.3.5}{2.1.3.5}{670, 194, 2040}

वि¦श्र॒य॒न्ता॒‌म्¦उ॒र्वि॒या¦हू॒यमा᳚नाः¦द्वारः॑¦दे॒वीः¦सु॒प्र॒।आ॒य॒नाः¦नमः॑ऽभिः |
व्यच॑स्वतीः¦वि¦प्र॒थ॒न्ता॒‌म्¦अ॒जु॒र्याः¦वर्ण᳚‌म्¦पु॒ना॒नाः¦य॒शस᳚‌म्¦सु॒ऽवीर᳚‌म् ||

सा॒ध्वपां᳚सि स॒नता᳚ न उक्षि॒ते, उ॒षासा॒नक्ता᳚ व॒य्ये᳚व रण्वि॒ते |{शौनको गृत्समदः | उषासानक्ता | त्रिष्टुप्}

तन्तुं᳚ त॒तं सं॒वय᳚न्ती समी॒ची य॒ज्ञस्य॒ पेशः॑ सु॒दुघे॒ पय॑स्वती ||{6/11}{2.5.23.1}{2.3.6}{2.1.3.6}{671, 194, 2041}

सा॒धु¦अपां᳚सि¦स॒नता᳚¦नः॒¦उ॒क्षि॒ते इति॑¦उ॒षसा॒नक्ता᳚¦व॒य्या᳚ऽ‌इव¦र॒ण्वि॒ते इति॑ |
तन्तु᳚‌म्¦त॒त‌म्¦सं॒वय᳚न्ती॒ इति॑ स॒‌म्ऽवय᳚न्ती¦स॒मी॒ची इति॑ स॒‌म्ऽई॒ची¦य॒ज्ञस्य॑¦पेशः॑¦सु॒दुघे॒ इति॑ सु॒ऽदुघे᳚¦पय॑स्वती॒ इति॑ ||

दैव्या॒ होता᳚रा प्रथ॒मा वि॒दुष्ट॑र ऋ॒जु य॑क्षतः॒ समृ॒चा व॒पुष्ट॑रा |{शौनको गृत्समदः | दैव्यौ होतारौ प्रचेतसौ | जगती}

दे॒वान्‌ यज᳚न्तावृतु॒था सम᳚ञ्जतो॒ नाभा᳚ पृथि॒व्या, अधि॒ सानु॑षु त्रि॒षु ||{7/11}{2.5.23.2}{2.3.7}{2.1.3.7}{672, 194, 2042}

दैव्या᳚¦होता᳚रा¦प्र॒थ॒मा¦वि॒दुःऽत॑रा¦ऋ॒जु¦य॒क्ष॒तः॒¦स‌म्¦ऋ॒चा¦व॒पुःऽत॑रा |
दे॒वान्¦यज᳚न्तौ¦ऋ॒तु॒ऽथा¦स‌म्¦अं॒ज॒तः॒¦नाभा᳚¦पृ॒थि॒व्याः¦अधि॑¦सानु॑षु¦त्रि॒षु ||

सर॑स्वती सा॒धय᳚न्ती॒ धियं᳚ न॒ इळा᳚ दे॒वी भार॑ती वि॒श्वतू᳚र्तिः |{शौनको गृत्समदः | तिस्रो देव्यः सरस्वतीळाभारत्यः | त्रिष्टुप्}

ति॒स्रो दे॒वीः स्व॒धया᳚ ब॒र्हिरेदमच्छि॑द्रं पान्तु शर॒णं नि॒षद्य॑ ||{8/11}{2.5.23.3}{2.3.8}{2.1.3.8}{673, 194, 2043}

सर॑स्वती¦सा॒धय᳚न्ती¦धिय᳚‌म्¦नः॒¦इळा᳚¦दे॒वी¦भार॑ती¦वि॒श्वऽतू᳚र्तिः |
ति॒स्रः¦दे॒वीः¦स्व॒धया᳚¦ब॒र्हिः¦आ¦इ॒द‌म्¦अच्छि॑द्र‌म्¦पा॒न्तु॒¦श॒र॒ण‌म्¦नि॒ऽसद्य॑ ||

पि॒शङ्ग॑रूपः सु॒भरो᳚ वयो॒धाः श्रु॒ष्टी वी॒रो जा᳚यते दे॒वका᳚मः |{शौनको गृत्समदः | त्वष्टा | त्रिष्टुप्}

प्र॒जां त्वष्टा॒ वि ष्य॑तु॒ नाभि॑म॒स्मे, अथा᳚ दे॒वाना॒मप्ये᳚तु॒ पाथः॑ ||{9/11}{2.5.23.4}{2.3.9}{2.1.3.9}{674, 194, 2044}

पि॒शङ्ग॑ऽरूपः¦सु॒ऽभरः॑¦व॒यः॒ऽधाः¦श्रु॒ष्टी¦वी॒रः¦जा॒य॒ते॒¦दे॒वऽका᳚मः |
प्र॒ऽजा‌म्¦त्वष्टा᳚¦वि¦स्य॒तु॒¦नाभि᳚‌म्¦अ॒स्मे इति॑¦अथ॑¦दे॒वाना᳚‌म्¦अपि॑¦ए॒तु॒¦पाथः॑ ||

वन॒स्पति॑रवसृ॒जन्नुप॑ स्थाद॒ग्निर्ह॒विः सू᳚दयाति॒ प्र धी॒भिः |{शौनको गृत्समदः | वनस्पतिः | त्रिष्टुप्}

त्रिधा॒ सम॑क्तं नयतु प्रजा॒नन् दे॒वेभ्यो॒ दैव्यः॑ शमि॒तोप॑ ह॒व्यम् ||{10/11}{2.5.23.5}{2.3.10}{2.1.3.10}{675, 194, 2045}

वन॒स्पतिः॑¦अ॒व॒ऽसृ॒जन्¦उप॑¦स्था॒त्¦अ॒ग्निः¦ह॒विः¦सू॒द॒या॒ति॒¦प्र¦धी॒भिः |
त्रिधा᳚¦स‌म्।आ॑क्त‌म्¦न॒य॒तु॒¦प्र॒ऽजा॒नन्¦दे॒वेभ्यः॑¦दैव्यः॑¦श॒मि॒ता¦उप॑¦ह॒व्य‌म् ||

घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तम्व॑स्य॒ धाम॑ |{शौनको गृत्समदः | स्वाहाकृतयः | त्रिष्टुप्}

अ॒नु॒ष्व॒धमा व॑ह मा॒दय॑स्व॒ स्वाहा᳚कृतं वृषभ वक्षि ह॒व्यम् ||{11/11}{2.5.23.6}{2.3.11}{2.1.3.11}{676, 194, 2046}

घृ॒त‌म्¦मि॒मि॒क्षे॒¦घृ॒त‌म्¦अ॒स्य॒¦योनिः॑¦घृ॒ते¦श्रि॒तः¦घृ॒त‌म्¦ऊँ॒ इति॑¦अ॒स्य॒¦धाम॑ |
अ॒नु॒ऽस्व॒ध‌म्¦आ¦व॒ह॒¦मा॒दय॑स्व¦स्वाहा᳚ऽकृत‌म्¦वृ॒ष॒भ॒¦व॒क्षि॒¦ह॒व्य‌म् ||

[74] हुवेवइति नवर्चस्य सूक्तस्य भार्गवःसोमाहुतिरग्निस्त्रिष्टुप् |
हु॒वे वः॑ सु॒द्योत्मा᳚नं सुवृ॒क्तिं वि॒शाम॒ग्निमति॑थिं सुप्र॒यस᳚म् |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्}

मि॒त्र इ॑व॒ यो दि॑धि॒षाय्यो॒ भूद् दे॒व आदे᳚वे॒ जने᳚ जा॒तवे᳚दाः ||{1/9}{2.5.24.1}{2.4.1}{2.1.4.1}{677, 195, 2047}

हु॒वे¦वः॒¦सु॒ऽद्योत्मा᳚न‌म्¦सु॒ऽवृ॒क्ति‌म्¦वि॒शा‌म्¦अ॒ग्नि‌म्¦अति॑थि‌म्¦सु॒ऽप्र॒यस᳚‌म् |
मि॒त्रःऽ‌इ᳚व¦यः¦दि॒धि॒षाय्यः॑¦भूत्¦दे॒वः¦आऽदे᳚वे¦जने᳚¦जा॒तऽवे᳚दाः ||

इ॒मं वि॒धन्तो᳚, अ॒पां स॒धस्थे᳚ द्वि॒ताद॑धु॒र्भृग॑वो वि॒क्ष्वा॒३॑(आ॒)योः |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्}

ए॒ष विश्वा᳚न्य॒भ्य॑स्तु॒ भूमा᳚ दे॒वाना᳚म॒ग्निर॑र॒तिर्जी॒राश्वः॑ ||{2/9}{2.5.24.2}{2.4.2}{2.1.4.2}{678, 195, 2048}

इ॒म‌म्¦वि॒धन्तः॑¦अ॒पा‌म्¦स॒धऽस्थे᳚¦द्वि॒ता¦अ॒द॒धुः॒¦भृग॑वः¦वि॒क्षु¦आ॒योः |
ए॒षः¦विश्वा᳚नि¦अ॒भि¦अ॒स्तु॒¦भूम॑¦दे॒वाना᳚‌म्¦अ॒ग्निः¦अ॒र॒तिः¦जी॒र।आ॑श्वः ||

अ॒ग्निं दे॒वासो॒ मानु॑षीषु वि॒क्षु प्रि॒यं धुः॑, क्षे॒ष्यन्तो॒ न मि॒त्रम् |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्}

स दी᳚दयदुश॒तीरूर्म्या॒, आ द॒क्षाय्यो॒ यो दास्व॑ते॒ दम॒ आ ||{3/9}{2.5.24.3}{2.4.3}{2.1.4.3}{679, 195, 2049}

अ॒ग्नि‌म्¦दे॒वासः॑¦मानु॑षीषु¦वि॒क्षु¦प्रि॒य‌म्¦धुः॒¦क्षे॒ष्यन्तः॑¦न¦मि॒त्र‌म् |
सः¦दी॒द॒य॒त्¦उ॒श॒तीः¦ऊर्म्याः᳚¦आ¦द॒क्षाय्यः॑¦यः¦दास्व॑ते¦दमे᳚¦आ ||

अ॒स्य र॒ण्वा स्वस्ये᳚व पु॒ष्टिः संदृ॑ष्टिरस्य हिया॒नस्य॒ दक्षोः᳚ |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्}

वि यो भरि॑भ्र॒दोष॑धीषु जि॒ह्वामत्यो॒ न रथ्यो᳚ दोधवीति॒ वारा॑न् ||{4/9}{2.5.24.4}{2.4.4}{2.1.4.4}{680, 195, 2050}

अ॒स्य¦र॒ण्वा¦स्वस्य॑ऽ‌इव¦पु॒ष्टिः¦स‌म्ऽदृ॑ष्टिः¦अ॒स्य॒¦हि॒या॒नस्य॑¦धक्षोः᳚ |
वि¦यः¦भरि॑भ्रत्¦ओष॑धीषु¦जि॒ह्वा‌म्¦अत्यः॑¦न¦रथ्यः॑¦दो॒ध॒वी॒ति॒¦वारा॑न् ||

आ यन्मे॒, अभ्वं᳚ व॒नदः॒ पन᳚न्तो॒शिग्भ्यो॒ नामि॑मीत॒ वर्ण᳚म् |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्}

स चि॒त्रेण॑ चिकिते॒ रंसु॑ भा॒सा जु॑जु॒र्वाँऽ यो मुहु॒रा युवा॒ भूत् ||{5/9}{2.5.24.5}{2.4.5}{2.1.4.5}{681, 195, 2051}

आ¦यत्¦मे॒¦अभ्व᳚‌म्¦व॒नदः॑¦पन᳚न्त¦उ॒शिक्ऽभ्यः॑¦न¦अ॒मि॒मी॒त॒¦वर्ण᳚‌म् |
सः¦चि॒त्रेण॑¦चि॒कि॒ते॒¦र‌म्ऽसु॑¦भा॒सा¦जु॒जु॒र्वान्¦यः¦मुहुः॑¦आ¦युवा᳚¦भूत् ||

आ यो वना᳚ तातृषा॒णो न भाति॒ वार्ण प॒था रथ्ये᳚व स्वानीत् |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्}

कृ॒ष्णाध्वा॒ तपू᳚ र॒ण्वश्चि॑केत॒ द्यौरि॑व॒ स्मय॑मानो॒ नभो᳚भिः ||{6/9}{2.5.25.1}{2.4.6}{2.1.4.6}{682, 195, 2052}

आ¦यः¦वना᳚¦त॒तृ॒षा॒णः¦न¦भाति॑¦वाः¦न¦प॒था¦रथ्या᳚ऽ‌इव¦स्वा॒नी॒त् |
कृ॒ष्ण।आ॑ध्वा¦तपुः॑¦र॒ण्वः¦चि॒के॒त॒¦द्यौःऽ‌इ᳚व¦स्मय॑मानः¦नभः॑ऽभिः ||

स यो व्यस्था᳚द॒भि दक्ष॑दु॒र्वीं प॒शुर्नैति॑ स्व॒युरगो᳚पाः |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्}

अ॒ग्निः शो॒चिष्माँ᳚, अत॒सान्यु॒ष्णन् कृ॒ष्णव्य॑थिरस्वदय॒न्न भूम॑ ||{7/9}{2.5.25.2}{2.4.7}{2.1.4.7}{683, 195, 2053}

सः¦यः¦वि¦अस्था᳚त्¦अ॒भि¦धक्ष॑त्¦उ॒र्वीं¦प॒शुः¦न¦ए॒ति॒¦स्व॒ऽयुः¦अगो᳚पाः |
अ॒ग्निः¦शो॒चिष्मा᳚न्¦अ॒त॒सानि॑¦उ॒ष्णन्¦कृ॒ष्णऽव्य॑थिः¦अ॒स्व॒द॒य॒त्¦न¦भूम॑ ||

नू ते॒ पूर्व॒स्याव॑सो॒, अधी᳚तौ तृ॒तीये᳚ वि॒दथे॒ मन्म॑ शंसि |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्}

अ॒स्मे, अ॑ग्ने सं॒यद्वी᳚रं बृ॒हन्तं᳚ क्षु॒मन्तं॒ वाजं᳚ स्वप॒त्यं र॒यिं दाः᳚ ||{8/9}{2.5.25.3}{2.4.8}{2.1.4.8}{684, 195, 2054}

नु¦ते॒¦पूर्व॑स्य¦अव॑सः¦अधि॑ऽ‌इतौ¦तृ॒तीये᳚¦वि॒दथे᳚¦मन्म॑¦शं॒सि॒ |
अ॒स्मे इति॑¦अ॒ग्ने॒¦सं॒यत्ऽवी᳚र‌म्¦बृ॒हन्त᳚‌म्¦क्षु॒ऽमन्त᳚‌म्¦वाज᳚‌म्¦सु॒।आ॒प॒त्य‌म्¦र॒यि‌म्¦दाः॒ ||

त्वया॒ यथा᳚ गृत्सम॒दासो᳚, अग्ने॒ गुहा᳚ व॒न्वन्त॒ उप॑राँ, अ॒भि ष्युः |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्}

सु॒वीरा᳚सो, अभिमाति॒षाहः॒ स्मत्‌ सू॒रिभ्यो᳚ गृण॒ते तद्‌ वयो᳚ धाः ||{9/9}{2.5.25.4}{2.4.9}{2.1.4.9}{685, 195, 2055}

त्वया᳚¦यथा᳚¦गृ॒त्स॒ऽम॒दासः॑¦अ॒ग्ने॒¦गुहा᳚¦व॒न्वन्तः॑¦उप॑रान्¦अ॒भि¦स्युरिति॒ स्युः |
सु॒ऽवीरा᳚सः¦अ॒भि॒मा॒ति॒ऽसहः॑¦स्मत्¦सू॒रिऽभ्यः॑¦गृ॒ण॒ते¦तत्¦वयः॑¦धाः॒ ||

[75] होताजनिष्ठेत्यष्टर्चस्य सूक्तस्य भार्गवः सोमाहुतिरग्निरनुष्टुप् |
होता᳚जनिष्ट॒ चेत॑नः पि॒ता पि॒तृभ्य॑ ऊ॒तये᳚ |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्}

प्र॒यक्ष॒ञ्जेन्यं॒ वसु॑ श॒केम॑ वा॒जिनो॒ यम᳚म् ||{1/8}{2.5.26.1}{2.5.1}{2.1.5.1}{686, 196, 2056}

होता᳚¦अ॒ज॒नि॒ष्ट॒¦चेत॑नः¦पि॒ता¦पि॒तृऽभ्यः॑¦ऊ॒तये᳚ | प्र॒ऽयक्ष॑न्¦जेन्य᳚‌म्¦वसु॑¦श॒केम॑¦वा॒जिनः॑¦यम᳚‌म् ||

आ यस्मि᳚न्‌ त्स॒प्त र॒श्मय॑स्त॒ता य॒ज्ञस्य॑ ने॒तरि॑ |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्}

म॒नु॒ष्वद्‌ दैव्य॑मष्ट॒मं पोता॒ विश्वं॒ तदि᳚न्वति ||{2/8}{2.5.26.2}{2.5.2}{2.1.5.2}{687, 196, 2057}

आ¦यस्मि॑न्¦स॒प्त¦र॒श्मयः॑¦त॒ताः¦य॒ज्ञस्य॑¦ने॒तरि॑ | म॒नु॒ष्वत्¦दैव्य᳚‌म्¦अ॒ष्ट॒म‌म्¦पोता᳚¦विश्व᳚‌म्¦तत्¦इ॒न्व॒ति॒ ||

द॒ध॒न्वे वा॒ यदी॒मनु॒ वोच॒द्‌ ब्रह्मा᳚णि॒ वेरु॒ तत् |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्}

परि॒ विश्वा᳚नि॒ काव्या᳚ ने॒मिश्च॒क्रमि॑वाभवत् ||{3/8}{2.5.26.3}{2.5.3}{2.1.5.3}{688, 196, 2058}

द॒ध॒न्वे¦वा॒¦यत्¦ई॒‌म्¦अनु॑¦वोच॑त्¦ब्रह्मा᳚णि¦वेः¦ऊँ॒ इति॑¦तत् | परि॑¦विश्वा᳚नि¦काव्या᳚¦ने॒मिः¦च॒क्र‌म्ऽ‌इ᳚व¦अ॒भ॒व॒त् ||

सा॒कं हि शुचि॑ना॒ शुचिः॑ प्रशा॒स्ता क्रतु॒नाज॑नि |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्}

वि॒द्वाँ, अ॑स्य व्र॒ता ध्रु॒वा व॒या, इ॒वानु॑ रोहते ||{4/8}{2.5.26.4}{2.5.4}{2.1.5.4}{689, 196, 2059}

सा॒क‌म्¦हि¦शुचि॑ना¦शुचिः॑¦प्र॒ऽशा॒स्ता¦क्रतु॑ना¦अज॑नि | वि॒द्वान्¦अ॒स्य॒¦व्र॒ता¦ध्रु॒वा¦व॒याःऽ‌इ᳚व¦अनु॑¦रो॒ह॒ते॒ ||

ता, अ॑स्य॒ वर्ण॑मा॒युवो॒ नेष्टुः॑ सचन्त धे॒नवः॑ |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्}

कु॒वित्ति॒सृभ्य॒ आ वरं॒ स्वसा᳚रो॒ या, इ॒दं य॒युः ||{5/8}{2.5.26.5}{2.5.5}{2.1.5.5}{690, 196, 2060}

ताः¦अ॒स्य॒¦वर्ण᳚‌म्¦आ॒युवः॑¦नेष्टुः॑¦स॒च॒न्त॒¦धे॒नवः॑ | कु॒वित्¦ति॒सृऽभ्यः॑¦आ¦वर᳚‌म्¦स्वसा᳚रः¦याः¦इ॒द‌म्¦य॒युः ||

यदी᳚ मा॒तुरुप॒ स्वसा᳚ घृ॒तं भर॒न्त्यस्थि॑त |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्}

तासा᳚मध्व॒र्युराग॑तौ॒ यवो᳚ वृ॒ष्टीव॑ मोदते ||{6/8}{2.5.26.6}{2.5.6}{2.1.5.6}{691, 196, 2061}

यदि॑¦मा॒तुः¦उप॑¦स्वसा᳚¦घृ॒त‌म्¦भर᳚न्ती¦अस्थि॑त | तासा᳚‌म्¦अ॒ध्व॒र्युः¦आऽग॑तौ¦यवः॑¦वृ॒ष्टीऽ‌इ᳚व¦मो॒द॒ते॒ ||

स्वः स्वाय॒ धाय॑से कृणु॒तामृ॒त्विगृ॒त्विज᳚म् |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्}

स्तोमं᳚ य॒ज्ञं चादरं᳚ व॒नेमा᳚ ररि॒मा व॒यम् ||{7/8}{2.5.26.7}{2.5.7}{2.1.5.7}{692, 196, 2062}

स्वः¦स्वाय॑¦धाय॑से¦कृ॒णु॒ता‌म्¦ऋ॒त्विक्¦ऋ॒त्विज᳚‌म् | स्तोम᳚‌म्¦य॒ज्ञ‌म्¦च॒¦आत्¦अर᳚‌म्¦व॒नेम॑¦र॒रि॒म¦व॒य‌म् ||

यथा᳚ वि॒द्वाँ, अरं॒ कर॒द् विश्वे᳚भ्यो यज॒तेभ्यः॑ |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्}

अ॒यम॑ग्ने॒ त्वे, अपि॒ यं य॒ज्ञं च॑कृ॒मा व॒यम् ||{8/8}{2.5.26.8}{2.5.8}{2.1.5.8}{693, 196, 2063}

यथा᳚¦वि॒द्वान्¦अर᳚‌म्¦कर॑त्¦विश्वे᳚भ्यः¦य॒ज॒तेभ्यः॑ | अ॒य‌म्¦अ॒ग्ने॒¦त्वे इति॑¦अपि॑¦य‌म्¦य॒ज्ञ‌म्¦च॒कृ॒म¦व॒य‌म् ||

[76] इमांमइत्यष्टर्चस्य सूक्तस्य भार्गवःसोमाहुतिरग्निर्गायत्री |
इ॒मां मे᳚, अग्ने स॒मिध॑मि॒मामु॑प॒सदं᳚ वनेः |{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

इ॒मा, उ॒ षु श्रु॑धी॒ गिरः॑ ||{1/8}{2.5.27.1}{2.6.1}{2.1.6.1}{694, 197, 2064}

इ॒मा‌म्¦मे॒¦अ॒ग्ने॒¦स॒‌म्ऽ‌इध᳚‌म्¦इ॒मा‌म्¦उ॒प॒ऽसद᳚‌म्¦व॒ने॒रिति॑ वनेः | इ॒माः¦ऊँ॒ इति॑¦सु¦श्रु॒धि॒¦गिरः॑ ||

अ॒या ते᳚, अग्ने विधे॒मोर्जो᳚ नपा॒दश्व॑मिष्टे |{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

ए॒ना सू॒क्तेन॑ सुजात ||{2/8}{2.5.27.2}{2.6.2}{2.1.6.2}{695, 197, 2065}

अ॒या¦ते॒¦अ॒ग्ने॒¦वि॒धे॒म॒¦ऊर्जः॑¦न॒पा॒त्¦अश्व᳚‌म्ऽ‌इष्टे | ए॒ना¦सु॒।औ॒क्तेन॑¦सु॒ऽजा॒त॒ ||

तं त्वा᳚ गी॒र्भिर्गिर्व॑णसं द्रविण॒स्युं द्र॑विणोदः |{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

स॒प॒र्येम॑ सप॒र्यवः॑ ||{3/8}{2.5.27.3}{2.6.3}{2.1.6.3}{696, 197, 2066}

त‌म्¦त्वा॒¦गीः॒ऽभिः¦गिर्व॑णस‌म्¦द्र॒वि॒ण॒स्यु‌म्¦द्र॒वि॒णः॒ऽदः॒ | स॒प॒र्येम॑¦स॒प॒र्यवः॑ ||

स बो᳚धि सू॒रिर्म॒घवा॒ वसु॑पते॒ वसु॑दावन् |{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

यु॒यो॒ध्य१॑(अ॒)स्मद्द्वेषां᳚सि ||{4/8}{2.5.27.4}{2.6.4}{2.1.6.4}{697, 197, 2067}

सः¦बो॒धि॒¦सू॒रिः¦म॒घऽवा᳚¦वसु॑ऽपते¦वसु॑ऽदावन् | यु॒यो॒धि¦अ॒स्मत्¦द्वेषां᳚सि ||

स नो᳚ वृ॒ष्टिं दि॒वस्परि॒ स नो॒ वाज॑मन॒र्वाण᳚म् |{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

स नः॑ सह॒स्रिणी॒रिषः॑ ||{5/8}{2.5.27.5}{2.6.5}{2.1.6.5}{698, 197, 2068}

सः¦नः॒¦वृ॒ष्टि‌म्¦दि॒वः¦परि॑¦सः¦नः॒¦वाज᳚‌म्¦अ॒न॒र्वाण᳚‌म् | सः¦नः॒¦स॒ह॒स्रिणीः᳚¦इषः॑ ||

ईळा᳚नायाव॒स्यवे॒ यवि॑ष्ठ दूत नो गि॒रा |{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

यजि॑ष्ठ होत॒रा ग॑हि ||{6/8}{2.5.27.6}{2.6.6}{2.1.6.6}{699, 197, 2069}

ईळा᳚नाय¦अ॒व॒स्यवे᳚¦यवि॑ष्ठ¦दू॒त॒¦नः॒¦गि॒रा | यजि॑ष्ठ¦हो॒तः॒¦आ¦ग॒हि॒ ||

अ॒न्तर्ह्य॑ग्न॒ ईय॑से वि॒द्वाञ् जन्मो॒भया᳚ कवे |{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

दू॒तो जन्ये᳚व॒ मित्र्यः॑ ||{7/8}{2.5.27.7}{2.6.7}{2.1.6.7}{700, 197, 2070}

अ॒न्तः¦हि¦अ॒ग्ने॒¦ईय॑से¦वि॒द्वान्¦जन्म॑¦उ॒भया᳚¦क॒वे॒ | दू॒तः¦जन्या᳚ऽ‌इव¦मित्र्यः॑ ||

स वि॒द्वाँ, आ च॑ पिप्रयो॒ यक्षि॑ चिकित्व आनु॒षक् |{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

आ चा॒स्मिन्‌ त्स॑त्सि ब॒र्हिषि॑ ||{8/8}{2.5.27.8}{2.6.8}{2.1.6.8}{701, 197, 2071}

सः¦वि॒द्वान्¦आ¦च॒¦पि॒प्र॒यः॒¦यक्षि॑¦चि॒कि॒त्वः॒¦आ॒नु॒षक् | आ¦च॒¦अ॒स्मिन्¦स॒त्सि॒¦ब॒र्हिषि॑ ||

[77] श्रेष्ठमिति षडृचस्य सूक्तस्य भार्गवः सोमाहुतिरग्निर्गायत्री |
श्रेष्ठं᳚ यविष्ठ भार॒ताग्ने᳚ द्यु॒मन्त॒मा भ॑र |{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

वसो᳚ पुरु॒स्पृहं᳚ र॒यिम् ||{1/6}{2.5.28.1}{2.7.1}{2.1.7.1}{702, 198, 2072}

श्रेष्ठ᳚‌म्¦य॒वि॒ष्ठ॒¦भा॒र॒त॒¦अग्ने᳚¦द्यु॒ऽमन्त᳚‌म्¦आ¦भ॒र॒ | वसो॒ इति॑¦पु॒रु॒ऽस्पृह᳚‌म्¦र॒यि‌म् ||

मा नो॒, अरा᳚तिरीशत दे॒वस्य॒ मर्त्य॑स्य च |{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

पर्षि॒ तस्या᳚, उ॒त द्वि॒षः ||{2/6}{2.5.28.2}{2.7.2}{2.1.7.2}{703, 198, 2073}

मा¦नः॒¦अरा᳚तिः¦ई॒श॒त॒¦दे॒वस्य॑¦मर्त्य॑स्य¦च॒ | पर्षि॑¦तस्याः᳚¦उ॒त¦द्वि॒षः ||

विश्वा᳚, उ॒त त्वया᳚ व॒यं धारा᳚, उद॒न्या᳚, इव |{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

अति॑ गाहेमहि॒ द्विषः॑ ||{3/6}{2.5.28.3}{2.7.3}{2.1.7.3}{704, 198, 2074}

विश्वाः᳚¦उ॒त¦त्वया᳚¦व॒य‌म्¦धाराः᳚¦उ॒द॒न्याः᳚ऽ‌इव | अति॑¦गा॒हे॒म॒हि॒¦द्विषः॑ ||

शुचिः॑ पावक॒ वन्द्योऽग्ने᳚ बृ॒हद्‌ वि रो᳚चसे |{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

त्वं घृ॒तेभि॒राहु॑तः ||{4/6}{2.5.28.4}{2.7.4}{2.1.7.4}{705, 198, 2075}

शुचिः॑¦पा॒व॒क॒¦वन्द्यः॑¦अग्ने᳚¦बृ॒हत्¦वि¦रो॒च॒से॒ | त्व‌म्¦घृ॒तेभिः॑¦आऽहु॑तः ||

त्वं नो᳚, असि भार॒ताग्ने᳚ व॒शाभि॑रु॒क्षभिः॑ |{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

अ॒ष्टाप॑दीभि॒राहु॑तः ||{5/6}{2.5.28.5}{2.7.5}{2.1.7.5}{706, 198, 2076}

त्व‌म्¦नः॒¦अ॒सि॒¦भा॒र॒त॒¦अग्ने᳚¦व॒शाभिः॑¦उ॒क्षऽभिः॑ | अ॒ष्टाऽप॑दीभिः¦आऽहु॑तः ||

द्र्व᳚न्नः स॒र्पिरा᳚सुतिः प्र॒त्नो होता॒ वरे᳚ण्यः |{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

सह॑सस्पु॒त्रो, अद्भु॑तः ||{6/6}{2.5.28.6}{2.7.6}{2.1.7.6}{707, 198, 2077}

द्रु।आ᳚न्नः¦स॒र्पिःऽआ᳚सुतिः¦प्र॒त्नः¦होता᳚¦वरे᳚ण्यः | सह॑सः¦पु॒त्रः¦अद्भु॑तः ||

[78] वाजयन्नितिषडृचस्य सूक्तस्य शौनकोगृत्समदोग्निर्गायत्र्यंत्यानुष्टुप् |
वा॒ज॒यन्नि॑व॒ नू रथा॒न् योगाँ᳚, अ॒ग्नेरुप॑ स्तुहि |{शौनको गृत्समदः | अग्निः | गायत्री}

य॒शस्त॑मस्य मी॒ळ्हुषः॑ ||{1/6}{2.5.29.1}{2.8.1}{2.1.8.1}{708, 199, 2078}

वा॒ज॒यन्ऽ‌इ᳚व¦नु¦रथा᳚न्¦योगा᳚न्¦अ॒ग्नेः¦उप॑¦स्तु॒हि॒ | य॒शःऽत॑मस्य¦मी॒ळ्हुषः॑ ||

यः सु॑नी॒थो द॑दा॒शुषे᳚ऽजु॒र्यो ज॒रय᳚न्न॒रिम् |{शौनको गृत्समदः | अग्निः | गायत्री}

चारु॑प्रतीक॒ आहु॑तः ||{2/6}{2.5.29.2}{2.8.2}{2.1.8.2}{709, 199, 2079}

यः¦सु॒ऽनी॒थः¦द॒दा॒शुषे᳚¦अ॒जु॒र्यः¦ज॒रय॑न्¦अ॒रि‌म् | चारु॑ऽप्रतीकः¦आऽहु॑तः ||

य उ॑ श्रि॒या दमे॒ष्वा दो॒षोषसि॑ प्रश॒स्यते᳚ |{शौनको गृत्समदः | अग्निः | गायत्री}

यस्य᳚ व्र॒तं न मीय॑ते ||{3/6}{2.5.29.3}{2.8.3}{2.1.8.3}{710, 199, 2080}

यः¦ऊँ॒ इति॑¦श्रि॒या¦दमे᳚षु¦आ¦दो॒षा¦उ॒षसि॑¦प्र॒ऽश॒स्यते᳚ | यस्य॑¦व्र॒त‌म्¦न¦मीय॑ते ||

आ यः स्व१॑(अ॒)र्ण भा॒नुना᳚ चि॒त्रो वि॒भात्य॒र्चिषा᳚ |{शौनको गृत्समदः | अग्निः | गायत्री}

अ॒ञ्जा॒नो, अ॒जरै᳚र॒भि ||{4/6}{2.5.29.4}{2.8.4}{2.1.8.4}{711, 199, 2081}

आ¦यः¦स्वः॑¦न¦भा॒नुना᳚¦चि॒त्रः¦वि॒ऽभाति॑¦अ॒र्चिषा᳚ | अं॒जा॒नः¦अ॒जरैः᳚¦अ॒भि ||

अत्रि॒मनु॑ स्व॒राज्य॑म॒ग्निमु॒क्थानि॑ वावृधुः |{शौनको गृत्समदः | अग्निः | गायत्री}

विश्वा॒, अधि॒ श्रियो᳚ दधे ||{5/6}{2.5.29.5}{2.8.5}{2.1.8.5}{712, 199, 2082}

अत्रि᳚‌म्¦अनु॑¦स्व॒ऽराज्य᳚‌म्¦अ॒ग्नि‌म्¦उ॒क्थानि॑¦व॒वृ॒धुः॒ | विश्वाः᳚¦अधि॑¦श्रियः॑¦द॒धे॒ ||

अ॒ग्नेरिन्द्र॑स्य॒ सोम॑स्य दे॒वाना᳚मू॒तिभि᳚र्व॒यम् |{शौनको गृत्समदः | अग्निः | अनुष्टुप्}

अरि॑ष्यन्तः सचेमह्य॒भि ष्या᳚म पृतन्य॒तः ||{6/6}{2.5.29.6}{2.8.6}{2.1.8.6}{713, 199, 2083}

अ॒ग्नेः¦इन्द्र॑स्य¦सोम॑स्य¦दे॒वाना᳚‌म्¦ऊ॒तिऽभिः॑¦व॒य‌म् | अरि॑ष्यन्तः¦स॒चे॒म॒हि॒¦अ॒भि¦स्या॒म॒¦पृ॒त॒न्य॒तः ||

[79] निहोतेति षडृचस्य सूक्तस्य शौनकोगृत्समदोग्निस्त्रिष्टुप् |
नि होता᳚ होतृ॒षद॑ने॒ विदा᳚नस्त्वे॒षो दी᳚दि॒वाँ, अ॑सदत्‌ सु॒दक्षः॑ |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः सहस्रम्भ॒रः शुचि॑जिह्वो, अ॒ग्निः ||{1/6}{2.6.1.1}{2.9.1}{2.1.9.1}{714, 200, 2084}

नि¦होता᳚¦हो॒तृ॒ऽसद॑ने¦विदा᳚नः¦त्वे॒षः¦दी॒दि॒ऽवान्¦अ॒स॒द॒त्¦सु॒ऽदक्षः॑ |
अद॑ब्धव्रतऽप्रमतिः¦वसि॑ष्ठः¦स॒ह॒स्र॒‌म्ऽभ॒रः¦शुचि॑ऽजिह्वः¦अ॒ग्निः ||

त्वं दू॒तस्त्वमु॑ नः पर॒स्पास्त्वं वस्य॒ आ वृ॑षभ प्रणे॒ता |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

अग्ने᳚ तो॒कस्य॑ न॒स्तने᳚ त॒नूना॒मप्र॑युच्छ॒न्‌ दीद्य॑द्‌ बोधि गो॒पाः ||{2/6}{2.6.1.2}{2.9.2}{2.1.9.2}{715, 200, 2085}

त्व‌म्¦दू॒तः¦त्व‌म्¦ऊँ॒ इति॑¦नः॒¦प॒रः॒ऽपाः¦त्व‌म्¦वस्यः॑¦आ¦वृ॒ष॒भ॒¦प्र॒ऽने॒ता |
अग्ने᳚¦तो॒कस्य॑¦नः॒¦तने᳚¦त॒नूना᳚‌म्¦अप्र॑ऽयुच्छन्¦दीद्य॑त्¦बो॒धि॒¦गो॒पाः ||

वि॒धेम॑ ते पर॒मे जन्म᳚न्नग्ने वि॒धेम॒ स्तोमै॒रव॑रे स॒धस्थे᳚ |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

यस्मा॒द्‌ योने᳚रु॒दारि॑था॒ यजे॒ तं प्र त्वे ह॒वींषि॑ जुहुरे॒ समि॑द्धे ||{3/6}{2.6.1.3}{2.9.3}{2.1.9.3}{716, 200, 2086}

वि॒धेम॑¦ते¦प॒र॒मे¦जन्म॑न्¦अ॒ग्ने॒¦वि॒धेम॑¦स्तोमैः᳚¦अव॑रे¦स॒धऽस्थे᳚ |
यस्मा᳚त्¦योनेः᳚¦उ॒त्ऽआरि॑थ¦यजे᳚¦त‌म्¦प्र¦त्वे इति॑¦ह॒वींषि॑¦जु॒हु॒रे॒¦स‌म्ऽ‌इ᳚द्धे ||

अग्ने॒ यज॑स्व ह॒विषा॒ यजी᳚याञ्छ्रु॒ष्टी दे॒ष्णम॒भि गृ॑णीहि॒ राधः॑ |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

त्वं ह्यसि॑ रयि॒पती᳚ रयी॒णां त्वं शु॒क्रस्य॒ वच॑सो म॒नोता᳚ ||{4/6}{2.6.1.4}{2.9.4}{2.1.9.4}{717, 200, 2087}

अग्ने᳚¦यज॑स्व¦ह॒विषा᳚¦यजी᳚यान्¦श्रु॒ष्टी¦दे॒ष्ण‌म्¦अ॒भि¦गृ॒णी॒हि॒¦राधः॑ |
त्व‌म्¦हि¦असि॑¦र॒यि॒ऽपतिः॑¦र॒यी॒णा‌म्¦त्व‌म्¦शु॒क्रस्य॑¦वच॑सः¦म॒नोता᳚ ||

उ॒भयं᳚ ते॒ न क्षी᳚यते वस॒व्यं᳚ दि॒वेदि॑वे॒ जाय॑मानस्य दस्म |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

कृ॒धि क्षु॒मन्तं᳚ जरि॒तार॑मग्ने कृ॒धि पतिं᳚ स्वप॒त्यस्य॑ रा॒यः ||{5/6}{2.6.1.5}{2.9.5}{2.1.9.5}{718, 200, 2088}

उ॒भय᳚‌म्¦ते॒¦न¦क्षी॒य॒ते॒¦व॒स॒व्य᳚‌म्¦दि॒वेऽदि॑वे¦जाय॑मानस्य¦द॒स्म॒ |
कृ॒धि¦क्षु॒ऽमन्त᳚‌म्¦ज॒रि॒तार᳚‌म्¦अ॒ग्ने॒¦कृ॒धि¦पति᳚‌म्¦सु॒।आ॒प॒त्यस्य॑¦रा॒यः ||

सैनानी᳚केन सुवि॒दत्रो᳚, अ॒स्मे यष्टा᳚ दे॒वाँ, आय॑जिष्ठः स्व॒स्ति |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

अद॑ब्धो गो॒पा, उ॒त नः॑ पर॒स्पा, अग्ने᳚ द्यु॒मदु॒त रे॒वद्दि॑दीहि ||{6/6}{2.6.1.6}{2.9.6}{2.1.9.6}{719, 200, 2089}

सः¦ए॒ना¦अनी᳚केन¦सु॒ऽवि॒दत्रः॑¦अ॒स्मे इति॑¦यष्टा᳚¦दे॒वान्¦आऽय॑जिष्ठः¦स्व॒स्ति |
अद॑ब्धः¦गो॒पाः¦उ॒त¦नः॒¦प॒रः॒ऽपाः¦अग्ने᳚¦द्यु॒ऽमत्¦उ॒त¦रे॒वत्¦दि॒दी॒हि॒ ||

[80] जोहूत्रइति षडृचस्य सूक्तस्य शौनकोगृत्समदोग्निस्त्रिष्टुप् |
जो॒हूत्रो᳚, अ॒ग्निः प्र॑थ॒मः पि॒तेवे॒ळस्प॒दे मनु॑षा॒ यत्‌ समि॑द्धः |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

श्रियं॒ वसा᳚नो, अ॒मृतो॒ विचे᳚ता मर्मृ॒जेन्यः॑ श्रव॒स्य१॑(अः॒) स वा॒जी ||{1/6}{2.6.2.1}{2.10.1}{2.1.10.1}{720, 201, 2090}

जो॒हूत्रः॑¦अ॒ग्निः¦प्र॒थ॒मः¦पि॒ताऽ‌इ᳚व¦इ॒ळः¦प॒दे¦मनु॑षा¦यत्¦स‌म्ऽ‌इ᳚द्धः |
श्रिय᳚‌म्¦वसा᳚नः¦अ॒मृतः॑¦विऽचे᳚ताः¦म॒र्मृ॒जेन्यः॑¦श्र॒व॒स्यः॑¦सः¦वा॒जी ||

श्रू॒या, अ॒ग्निश्चि॒त्रभा᳚नु॒र्हवं᳚ मे॒ विश्वा᳚भिर्गी॒र्भिर॒मृतो॒ विचे᳚ताः |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

श्या॒वा रथं᳚ वहतो॒ रोहि॑ता वो॒तारु॒षाह॑ चक्रे॒ विभृ॑त्रः ||{2/6}{2.6.2.2}{2.10.2}{2.1.10.2}{721, 201, 2091}

श्रु॒याः¦अ॒ग्निः¦चि॒त्रऽभा᳚नुः¦हव᳚‌म्¦मे॒¦विश्वा᳚भिः¦गीः॒ऽभिः¦अ॒मृतः॑¦विऽचे᳚ताः |
श्या॒वा¦रथ᳚‌म्¦व॒ह॒तः॒¦रोहि॑ता¦वा॒¦उ॒त¦अ॒रु॒षा¦अह॑¦च॒क्रे॒¦विऽभृ॑त्रः ||

उ॒त्ता॒नाया᳚मजनय॒न्‌ त्सुषू᳚तं॒ भुव॑द॒ग्निः पु॑रु॒पेशा᳚सु॒ गर्भः॑ |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

शिरि॑णायां चिद॒क्तुना॒ महो᳚भि॒रप॑रीवृतो वसति॒ प्रचे᳚ताः ||{3/6}{2.6.2.3}{2.10.3}{2.1.10.3}{722, 201, 2092}

उ॒त्ता॒नाया᳚‌म्¦अ॒ज॒न॒य॒न्¦सुऽसू᳚त‌म्¦भुव॑त्¦अ॒ग्निः¦पु॒रु॒ऽपेशा᳚सु¦गर्भः॑ |
शिरि॑णाया‌म्¦चि॒त्¦अ॒क्तुना᳚¦महः॑ऽभिः¦अप॑रिऽवृतः¦व॒स॒ति॒¦प्रऽचे᳚ताः ||

जिघ᳚र्म्य॒ग्निं ह॒विषा᳚ घृ॒तेन॑ प्रतिक्षि॒यन्तं॒ भुव॑नानि॒ विश्वा᳚ |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒ व्यचि॑ष्ठ॒मन्नै᳚ रभ॒सं दृशा᳚नम् ||{4/6}{2.6.2.4}{2.10.4}{2.1.10.4}{723, 201, 2093}

जिघ᳚र्मि¦अ॒ग्नि‌म्¦ह॒विषा᳚¦घृ॒तेन॑¦प्र॒ति॒ऽक्षि॒यन्त᳚‌म्¦भुव॑नानि¦विश्वा᳚ |
पृ॒थु‌म्¦ति॒र॒श्चा¦वय॑सा¦बृ॒हन्त᳚‌म्¦व्यचि॑ष्ठ‌म्¦अन्नैः᳚¦र॒भ॒स‌म्¦दृशा᳚न‌म् ||

आ वि॒श्वतः॑ प्र॒त्यञ्चं᳚ जिघर्म्यर॒क्षसा॒ मन॑सा॒ तज्जु॑षेत |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

मर्य॑श्रीः स्पृह॒यद्व᳚र्णो, अ॒ग्निर्नाभि॒मृशे᳚ त॒न्वा॒३॑(आ॒) जर्भु॑राणः ||{5/6}{2.6.2.5}{2.10.5}{2.1.10.5}{724, 201, 2094}

आ¦वि॒श्वतः॑¦प्र॒त्यंच᳚‌म्¦जि॒घ॒र्मि॒¦अ॒र॒क्षसा᳚¦मन॑सा¦तत्¦जु॒षे॒त॒ |
मर्य॑ऽश्रीः¦स्पृ॒ह॒यत्ऽव᳚र्णः¦अ॒ग्निः¦न¦अ॒भि॒ऽमृशे᳚¦त॒न्वा᳚¦जर्भु॑राणः ||

ज्ञे॒या भा॒गं स॑हसा॒नो वरे᳚ण॒ त्वादू᳚तासो मनु॒वद्‌ व॑देम |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

अनू᳚नम॒ग्निं जु॒ह्वा᳚ वच॒स्या म॑धु॒पृचं᳚ धन॒सा जो᳚हवीमि ||{6/6}{2.6.2.6}{2.10.6}{2.1.10.6}{725, 201, 2095}

ज्ञे॒याः¦भा॒ग‌म्¦स॒ह॒सा॒नः¦वरे᳚ण¦त्वाऽदू᳚तासः¦म॒नु॒ऽवत्¦व॒दे॒म॒ |
अनू᳚न‌म्¦अ॒ग्नि‌म्¦जु॒ह्वा᳚¦व॒च॒स्या¦म॒धु॒ऽपृच᳚‌म्¦ध॒न॒ऽसाः¦जो॒ह॒वी॒मि॒ ||

[81] श्रुधीहवमित्येकविंशत्यृचस्य सूक्तस्य शौनकोगृत्समदइंद्रोविराट्‌स्थानाअंत्यात्रिष्टुप् |
श्रु॒धी हव॑मिन्द्र॒ मा रि॑षण्यः॒ स्याम॑ ते दा॒वने॒ वसू᳚नाम् |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

इ॒मा हि त्वामूर्जो᳚ व॒र्धय᳚न्ति वसू॒यवः॒ सिन्ध॑वो॒ न क्षर᳚न्तः ||{1/21}{2.6.3.1}{2.11.1}{2.1.11.1}{726, 202, 2096}

श्रु॒धि¦हव᳚‌म्¦इ॒न्द्र॒¦मा¦रि॒ष॒ण्यः॒¦स्याम॑¦ते॒¦दा॒वने᳚¦वसू᳚ना‌म् | इ॒माः¦हि¦त्वा‌म्¦ऊर्जः॑¦व॒र्धय᳚न्ति¦व॒सु॒ऽयवः॑¦सिन्ध॑वः¦न¦क्षर᳚न्तः ||

सृ॒जो म॒हीरि᳚न्द्र॒ या, अपि᳚न्वः॒ परि॑ष्ठिता॒, अहि॑ना शूर पू॒र्वीः |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

अम॑र्त्यं चिद्दा॒सं मन्य॑मान॒मवा᳚भिनदु॒क्थैर्वा᳚वृधा॒नः ||{2/21}{2.6.3.2}{2.11.2}{2.1.11.2}{727, 202, 2097}

सृ॒जः¦म॒हीः¦इ॒न्द्र॒¦याः¦अपि᳚न्वः¦परि॑ऽस्थिताः¦अहि॑ना¦शू॒र॒¦पू॒र्वीः | अम॑र्त्य‌म्¦चि॒त्¦दा॒स‌म्¦मन्य॑मान‌म्¦अव॑¦अ॒भि॒न॒त्¦उ॒क्थैः¦व॒वृ॒धा॒नः ||

उ॒क्थेष्विन्नु शू᳚र॒ येषु॑ चा॒कन् त्स्तोमे᳚ष्विन्द्र रु॒द्रिये᳚षु च |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

तुभ्येदे॒ता यासु॑ मन्दसा॒नः प्र वा॒यवे᳚ सिस्रते॒ न शु॒भ्राः ||{3/21}{2.6.3.3}{2.11.3}{2.1.11.3}{728, 202, 2098}

उ॒क्थेषु॑¦इत्¦नु¦शू॒र॒¦येषु॑¦चा॒कन्¦स्तोमे᳚षु¦इ॒न्द्र॒¦रु॒द्रिये᳚षु¦च॒ | तुभ्य॑¦इत्¦ए॒ताः¦यासु॑¦म॒न्द॒सा॒नः¦प्र¦वा॒यवे᳚¦सि॒स्र॒ते॒¦न¦शु॒भ्राः ||

शु॒भ्रं नु ते॒ शुष्मं᳚ व॒र्धय᳚न्तः शु॒भ्रं वज्रं᳚ बा॒ह्वोर्दधा᳚नाः |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

शु॒भ्रस्त्वमि᳚न्द्र वावृधा॒नो, अ॒स्मे दासी॒र्विशः॒ सूर्ये᳚ण सह्याः ||{4/21}{2.6.3.4}{2.11.4}{2.1.11.4}{729, 202, 2099}

शु॒भ्र‌म्¦नु¦ते॒¦शुष्म᳚‌म्¦व॒र्धय᳚न्तः¦शु॒भ्र‌म्¦वज्र᳚‌म्¦बा॒ह्वोः¦दधा᳚नाः | शु॒भ्रः¦त्व‌म्¦इ॒न्द्र॒¦व॒वृ॒धा॒नः¦अ॒स्मे इति॑¦दासीः᳚¦विशः॑¦सूर्ये᳚ण¦स॒ह्याः॒ ||

गुहा᳚ हि॒तं गुह्यं᳚ गू॒ळ्हम॒प्स्वपी᳚वृतं मा॒यिनं᳚ क्षि॒यन्त᳚म् |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

उ॒तो, अ॒पो द्यां त॑स्त॒भ्वांस॒मह॒न्नहिं᳚ शूर वी॒र्ये᳚ण ||{5/21}{2.6.3.5}{2.11.5}{2.1.11.5}{730, 202, 2100}

गुहा᳚¦हि॒त‌म्¦गुह्य᳚‌म्¦गू॒ळ्ह‌म्¦अ॒प्ऽसु¦अपि॑ऽवृत‌म्¦मा॒यिन᳚‌म्¦क्षि॒यन्त᳚‌म् | उ॒तो इति॑¦अ॒पः¦द्या‌म्¦त॒स्त॒भ्वांस᳚‌म्¦अह॑न्¦अहि᳚‌म्¦शू॒र॒¦वी॒र्ये᳚ण ||

स्तवा॒ नु त॑ इन्द्र पू॒र्व्या म॒हान्यु॒त स्त॑वाम॒ नूत॑ना कृ॒तानि॑ |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

स्तवा॒ वज्रं᳚ बा॒ह्वोरु॒शन्तं॒ स्तवा॒ हरी॒ सूर्य॑स्य के॒तू ||{6/21}{2.6.4.1}{2.11.6}{2.1.11.6}{731, 202, 2101}

स्तव॑¦नु¦ते॒¦इ॒न्द्र॒¦पू॒र्व्या¦म॒हानि॑¦उ॒त¦स्त॒वा॒म॒¦नूत॑ना¦कृ॒तानि॑ | स्तव॑¦वज्र᳚‌म्¦बा॒ह्वोः¦उ॒शन्त᳚‌म्¦स्तव॑¦हरी॒ इति॑¦सूर्य॑स्य¦के॒तू इति॑ ||

हरी॒ नु त॑ इन्द्र वा॒जय᳚न्ता घृत॒श्चुतं᳚ स्वा॒रम॑स्वार्ष्टाम् |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

वि स॑म॒ना भूमि॑रप्रथि॒ष्टारं᳚स्त॒ पर्व॑तश्चित्‌ सरि॒ष्यन् ||{7/21}{2.6.4.2}{2.11.7}{2.1.11.7}{732, 202, 2102}

हरी॒ इति॑¦नु¦ते॒¦इ॒न्द्र॒¦वा॒जय᳚न्ता¦घृ॒त॒ऽश्चुत᳚‌म्¦स्वा॒र‌म्¦अ॒स्वा॒र्ष्टा॒‌म् | वि¦स॒म॒ना¦भूमिः॑¦अ॒प्र॒थि॒ष्ट॒¦अरं᳚स्त¦पर्व॑तः¦चि॒त्¦स॒रि॒ष्यन् ||

नि पर्व॑तः सा॒द्यप्र॑युच्छ॒न् त्सं मा॒तृभि᳚र्वावशा॒नो, अ॑क्रान् |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

दू॒रे पा॒रे वाणीं᳚ व॒र्धय᳚न्त॒ इन्द्रे᳚षितां ध॒मनिं᳚ पप्रथ॒न्‌ नि ||{8/21}{2.6.4.3}{2.11.8}{2.1.11.8}{733, 202, 2103}

नि¦पर्व॑तः¦सा॒दि॒¦अप्र॑ऽयुच्छन्¦स‌म्¦मा॒तृऽभिः॑¦वा॒व॒शा॒नः¦अ॒क्रा॒न् | दू॒रे¦पा॒रे¦वाणी᳚‌म्¦व॒र्धय᳚न्तः¦इन्द्र॑ऽ‌इषिता‌म्¦ध॒मनि᳚‌म्¦प॒प्र॒थ॒न्¦नि ||

इन्द्रो᳚ म॒हां सिन्धु॑मा॒शया᳚नं माया॒विनं᳚ वृ॒त्रम॑स्फुर॒न्निः |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

अरे᳚जेतां॒ रोद॑सी भिया॒ने कनि॑क्रदतो॒ वृष्णो᳚, अस्य॒ वज्रा᳚त् ||{9/21}{2.6.4.4}{2.11.9}{2.1.11.9}{734, 202, 2104}

इन्द्रः॑¦म॒हा‌म्¦सिन्धु᳚‌म्¦आ॒ऽशया᳚न‌म्¦मा॒या॒ऽविन᳚‌म्¦वृ॒त्र‌म्¦अ॒स्फु॒र॒त्¦निः | अरे᳚जेता‌म्¦रोद॑सी॒ इति॑¦भि॒या॒ने इति॑¦कनि॑क्रदतः¦वृष्णः॑¦अ॒स्य॒¦वज्रा᳚त् ||

अरो᳚रवी॒द्‌ वृष्णो᳚, अस्य॒ वज्रोऽमा᳚नुषं॒ यन्मानु॑षो नि॒जूर्वा᳚त् |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

नि मा॒यिनो᳚ दान॒वस्य॑ मा॒या, अपा᳚दयत्‌ पपि॒वान्‌ त्सु॒तस्य॑ ||{10/21}{2.6.4.5}{2.11.10}{2.1.11.10}{735, 202, 2105}

अरो᳚रवीत्¦वृष्णः॑¦अ॒स्य॒¦वज्रः॑¦अमा᳚नुष‌म्¦यत्¦मानु॑षः¦नि॒ऽजूर्वा᳚त् | नि¦मा॒यिनः॑¦दा॒न॒वस्य॑¦मा॒याः¦अपा᳚दयत्¦प॒पि॒ऽवान्¦सु॒तस्य॑ ||

पिबा᳚पि॒बेदि᳚न्द्र शूर॒ सोमं॒ मन्द᳚न्तु त्वा म॒न्दिनः॑ सु॒तासः॑ |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

पृ॒णन्त॑स्ते कु॒क्षी व॑र्धयन्त्वि॒त्था सु॒तः पौ॒र इन्द्र॑माव ||{11/21}{2.6.5.1}{2.11.11}{2.1.11.11}{736, 202, 2106}

पिब॑ऽपिब¦इत्¦इ॒न्द्र॒¦शू॒र॒¦सोम᳚‌म्¦मन्द᳚न्तु¦त्वा¦म॒न्दिनः॑¦सु॒तासः॑ | पृ॒णन्तः॑¦ते॒¦कु॒क्षी इति॑¦व॒र्ध॒य॒न्तु॒¦इ॒त्था¦सु॒तः¦पौ॒रः¦इन्द्र᳚‌म्¦आ॒व॒ ||

त्वे, इ॒न्द्राप्य॑भूम॒ विप्रा॒ धियं᳚ वनेम ऋत॒या सप᳚न्तः |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

अ॒व॒स्यवो᳚ धीमहि॒ प्रश॑स्तिं स॒द्यस्ते᳚ रा॒यो दा॒वने᳚ स्याम ||{12/21}{2.6.5.2}{2.11.12}{2.1.11.12}{737, 202, 2107}

त्वे इति॑¦इ॒न्द्र॒¦अपि॑¦अ॒भू॒म॒¦विप्राः᳚¦धिय᳚‌म्¦व॒ने॒म॒¦ऋ॒त॒ऽया¦सप᳚न्तः | अ॒व॒स्यवः॑¦धी॒म॒हि॒¦प्रऽश॑स्ति‌म्¦स॒द्यः¦ते॒¦रा॒यः¦दा॒वने᳚¦स्या॒म॒ ||

स्याम॒ ते त॑ इन्द्र॒ ये त॑ ऊ॒ती, अ॑व॒स्यव॒ ऊर्जं᳚ व॒र्धय᳚न्तः |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

शु॒ष्मिन्त॑मं॒ यं चा॒कना᳚म देवा॒स्मे र॒यिं रा᳚सि वी॒रव᳚न्तम् ||{13/21}{2.6.5.3}{2.11.13}{2.1.11.13}{738, 202, 2108}

स्याम॑¦ते¦ते॒¦इ॒न्द्र॒¦ये¦ते॒¦ऊ॒ती¦अ॒व॒स्यवः॑¦ऊर्ज᳚‌म्¦व॒र्धय᳚न्तः | शु॒ष्मिन्ऽत॑म‌म्¦य‌म्¦चा॒कना᳚म¦दे॒व॒¦अ॒स्मे इति॑¦र॒यि‌म्¦रा॒सि॒¦वी॒रऽव᳚न्त‌म् ||

रासि॒ क्षयं॒ रासि॑ मि॒त्रम॒स्मे रासि॒ शर्ध॑ इन्द्र॒ मारु॑तं नः |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

स॒जोष॑सो॒ ये च॑ मन्दसा॒नाः प्र वा॒यवः॑ पा॒न्त्यग्र॑णीतिम् ||{14/21}{2.6.5.4}{2.11.14}{2.1.11.14}{739, 202, 2109}

रासि॑¦क्षय᳚‌म्¦रासि॑¦मि॒त्र‌म्¦अ॒स्मे इति॑¦रासि॑¦शर्धः॑¦इ॒न्द्र॒¦मारु॑त‌म्¦नः॒ | स॒ऽजोष॑सः¦ये¦च॒¦म॒न्द॒सा॒नाः¦प्र¦वा॒यवः॑¦पा॒न्ति॒¦अग्र॑ऽनीति‌म् ||

व्यन्त्विन्नु येषु॑ मन्दसा॒नस्तृ॒पत्‌ सोमं᳚ पाहि द्र॒ह्यदि᳚न्द्र |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

अ॒स्मान्‌ त्सु पृ॒त्स्वा त॑रु॒त्राव॑र्धयो॒ द्यां बृ॒हद्भि॑र॒र्कैः ||{15/21}{2.6.5.5}{2.11.15}{2.1.11.15}{740, 202, 2110}

व्यन्तु॑¦इत्¦नु¦येषु॑¦म॒न्द॒सा॒नः¦तृ॒पत्¦सोम᳚‌म्¦पा॒हि॒¦द्र॒ह्यत्¦इ॒न्द्र॒ | अ॒स्मान्¦सु¦पृ॒त्ऽसु¦आ¦त॒रु॒त्र॒¦अव॑र्धयः¦द्या‌म्¦बृ॒हत्ऽभिः॑¦अ॒र्कैः ||

बृ॒हन्त॒ इन्नु ये ते᳚ तरुत्रो॒क्थेभि᳚र्वा सु॒म्नमा॒विवा᳚सान् |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

स्तृ॒णा॒नासो᳚ ब॒र्हिः प॒स्त्या᳚व॒त् त्वोता॒, इदि᳚न्द्र॒ वाज॑मग्मन् ||{16/21}{2.6.6.1}{2.11.16}{2.1.11.16}{741, 202, 2111}

बृ॒हन्तः॑¦इत्¦नु¦ये¦ते॒¦त॒रु॒त्र॒¦उ॒क्थेभिः॑¦वा॒¦सु॒म्न‌म्¦आ॒ऽविवा᳚सान् | स्तृ॒णा॒नासः॑¦ब॒र्हिः¦प॒स्त्य॑ऽवत्¦त्वाऽऊ᳚ताः¦इत्¦इ॒न्द्र॒¦वाज᳚‌म्¦अ॒ग्म॒न् ||

उ॒ग्रेष्विन्नु शू᳚र मन्दसा॒नस्त्रिक॑द्रुकेषु पाहि॒ सोम॑मिन्द्र |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

प्र॒दोधु॑व॒च्छ्मश्रु॑षु प्रीणा॒नो या॒हि हरि॑भ्यां सु॒तस्य॑ पी॒तिम् ||{17/21}{2.6.6.2}{2.11.17}{2.1.11.17}{742, 202, 2112}

उ॒ग्रेषु॑¦इत्¦नु¦शू॒र॒¦म॒न्द॒सा॒नः¦त्रिऽक॑द्रुकेषु¦पा॒हि॒¦सोम᳚‌म्¦इ॒न्द्र॒ | प्र॒ऽदोधु॑वत्¦श्मश्रु॑षु¦प्री॒णा॒नः¦या॒हि¦हरि॑ऽभ्या‌म्¦सु॒तस्य॑¦पी॒ति‌म् ||

धि॒ष्वा शवः॑ शूर॒ येन॑ वृ॒त्रम॒वाभि॑न॒द्‌ दानु॑मौर्णवा॒भम् |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

अपा᳚वृणो॒र्ज्योति॒रार्या᳚य॒ नि स᳚व्य॒तः सा᳚दि॒ दस्यु॑रिन्द्र ||{18/21}{2.6.6.3}{2.11.18}{2.1.11.18}{743, 202, 2113}

धि॒ष्व¦शवः॑¦शू॒र॒¦येन॑¦वृ॒त्र‌म्¦अ॒व॒।आभि॑नत्¦दानु᳚‌म्¦औ॒र्ण॒ऽवा॒भ‌म् | अप॑¦अ॒वृ॒णोः॒¦ज्योतिः॑¦आर्या᳚य¦नि¦स॒व्य॒तः¦सा॒दि॒¦दस्युः॑¦इ॒न्द्र॒ ||

सने᳚म॒ ये त॑ ऊ॒तिभि॒स्तर᳚न्तो॒ विश्वाः॒ स्पृध॒ आर्ये᳚ण॒ दस्यू॑न् |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

अ॒स्मभ्यं॒ तत्‌ त्वा॒ष्ट्रं वि॒श्वरू᳚प॒मर᳚न्धयः सा॒ख्यस्य॑ त्रि॒ताय॑ ||{19/21}{2.6.6.4}{2.11.19}{2.1.11.19}{744, 202, 2114}

सने᳚म¦ये¦ते॒¦ऊ॒तिऽभिः॑¦तर᳚न्तः¦विश्वाः᳚¦स्पृधः॑¦आर्ये᳚ण¦दस्यू॑न् | अ॒स्मभ्य᳚‌म्¦तत्¦त्वा॒ष्ट्र‌म्¦वि॒श्वऽरू᳚प‌म्¦अर᳚न्धयः¦सा॒ख्यस्य॑¦त्रि॒ताय॑ ||

अ॒स्य सु॑वा॒नस्य॑ म॒न्दिन॑स्त्रि॒तस्य॒ न्यर्बु॑दं वावृधा॒नो, अ॑स्तः |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

अव॑र्तय॒त्‌ सूर्यो॒ न च॒क्रं भि॒नद्‌ व॒लमिन्द्रो॒, अङ्गि॑रस्वान् ||{20/21}{2.6.6.5}{2.11.20}{2.1.11.20}{745, 202, 2115}

अ॒स्य¦सु॒वा॒नस्य॑¦म॒न्दिनः॑¦त्रि॒तस्य॑¦नि¦अर्बु॑द‌म्¦व॒वृ॒धा॒नः¦अ॒स्त॒रित्य॑स्तः | अव॑र्तयत्¦सूर्यः॑¦न¦च॒क्र‌म्¦भि॒नत्¦व॒ल‌म्¦इन्द्रः॑¦अङ्गि॑रस्वान् ||

नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु॑ही॒यदि᳚न्द्र॒ दक्षि॑णा म॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

शिक्षा᳚ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो᳚ नो बृ॒हद्‌ व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{21/21}{2.6.6.6}{2.11.21}{2.1.11.21}{746, 202, 2116}

नू॒न‌म्¦सा¦ते॒¦प्रति॑¦वर᳚‌म्¦ज॒रि॒त्रे¦दु॒ही॒यत्¦इ॒न्द्र॒¦दक्षि॑णा¦म॒घोनी᳚ |
शिक्ष॑¦स्तो॒तृऽभ्यः॑¦मा¦अति॑¦ध॒क्¦भगः॑¦नः॒¦बृ॒हत्¦व॒दे॒म॒¦वि॒दथे᳚¦सु॒ऽवीराः᳚ ||

[82] योजातइति पंचदशर्चस्य सूक्तस्य शौनकोगृत्समद इंद्रस्त्रिष्टुप् |
यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वान् दे॒वो दे॒वान्‌ क्रतु॑ना प॒र्यभू᳚षत् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यस्य॒ शुष्मा॒द्‌ रोद॑सी॒, अभ्य॑सेतां नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः॑ ||{1/15}{2.6.7.1}{2.12.1}{2.2.1.1}{747, 203, 2117}

यः¦जा॒तः¦ए॒व¦प्र॒थ॒मः¦मन॑स्वान्¦दे॒वः¦दे॒वान्¦क्रतु॑ना¦प॒रि॒।आभू᳚षत् |
यस्य॑¦शुष्मा᳚त्¦रोद॑सी॒ इति॑¦अभ्य॑सेता‌म्¦नृ॒म्णस्य॑¦म॒ह्ना¦सः¦ज॒ना॒सः॒¦इन्द्रः॑ ||

यः पृ॑थि॒वीं व्यथ॑माना॒मदृं᳚ह॒द्‌ यः पर्व॑ता॒न्‌ प्रकु॑पिताँ॒, अर᳚म्णात् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यो, अ॒न्तरि॑क्षं विम॒मे वरी᳚यो॒ यो द्यामस्त॑भ्ना॒त्‌ स ज॑नास॒ इन्द्रः॑ ||{2/15}{2.6.7.2}{2.12.2}{2.2.1.2}{748, 203, 2118}

यः¦पृ॒थि॒वी‌म्¦व्यथ॑माना‌म्¦अदृं᳚हत्¦यः¦पर्व॑तान्¦प्रऽकु॑पितान्¦अर᳚म्णात् |
यः¦अ॒न्तरि॑क्ष‌म्¦वि॒ऽम॒मे¦वरी᳚यः¦यः¦द्या‌म्¦अस्त॑भ्नात्¦सः¦ज॒ना॒सः॒¦इन्द्रः॑ ||

यो ह॒त्वाहि॒मरि॑णात्‌ स॒प्त सिन्धू॒न् यो गा, उ॒दाज॑दप॒धा व॒लस्य॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यो, अश्म॑नोर॒न्तर॒ग्निं ज॒जान॑ सं॒वृक्‌ स॒मत्सु॒ स ज॑नास॒ इन्द्रः॑ ||{3/15}{2.6.7.3}{2.12.3}{2.2.1.3}{749, 203, 2119}

यः¦ह॒त्वा¦अहि᳚‌म्¦अरि॑णात्¦स॒प्त¦सिन्धू᳚न्¦यः¦गाः¦उ॒त्ऽआज॑त्¦अ॒प॒ऽधा¦व॒लस्य॑ |
यः¦अश्म॑नोः¦अ॒न्तः¦अ॒ग्नि‌म्¦ज॒जान॑¦स॒‌म्ऽवृक्¦स॒मत्ऽसु॑¦सः¦ज॒ना॒सः॒¦इन्द्रः॑ ||

येने॒मा विश्वा॒ च्यव॑ना कृ॒तानि॒ यो दासं॒ वर्ण॒मध॑रं॒ गुहाकः॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

श्व॒घ्नीव॒ यो जि॑गी॒वाँल॒क्षमाद॑द॒र्यः पु॒ष्टानि॒ स ज॑नास॒ इन्द्रः॑ ||{4/15}{2.6.7.4}{2.12.4}{2.2.1.4}{750, 203, 2120}

येन॑¦इ॒मा¦विश्वा᳚¦च्यव॑ना¦कृ॒तानि॑¦यः¦दास᳚‌म्¦वर्ण᳚‌म्¦अध॑र‌म्¦गुहा᳚¦अक॒रित्यकः॑ |
श्व॒घ्नीऽ‌इ᳚व¦यः¦जि॒गी॒वान्¦ल॒क्ष‌म्¦आद॑त्¦अ॒र्यः¦पु॒ष्टानि॑¦सः¦ज॒ना॒सः॒¦इन्द्रः॑ ||

यं स्मा᳚ पृ॒च्छन्ति॒ कुह॒ सेति॑ घो॒रमु॒तेमा᳚हु॒र्नैषो, अ॒स्तीत्ये᳚नम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

सो, अ॒र्यः पु॒ष्टीर्विज॑ इ॒वा मि॑नाति॒ श्रद॑स्मै धत्त॒ स ज॑नास॒ इन्द्रः॑ ||{5/15}{2.6.7.5}{2.12.5}{2.2.1.5}{751, 203, 2121}

य‌म्¦स्म॒¦पृ॒च्छन्ति॑¦कुह॑¦सः¦इति॑¦घो॒र‌म्¦उ॒त¦ई॒‌म्¦आ॒हुः॒¦न¦ए॒षः¦अ॒स्ति॒¦इति॑¦ए॒न॒‌म् |
सः¦अ॒र्यः¦पु॒ष्टीः¦विजः॑ऽ‌इव¦आ¦मि॒ना॒ति॒¦श्रत्¦अ॒स्मै॒¦ध॒त्त॒¦सः¦ज॒ना॒सः॒¦इन्द्रः॑ ||

यो र॒ध्रस्य॑ चोदि॒ता यः कृ॒शस्य॒ यो ब्र॒ह्मणो॒ नाध॑मानस्य की॒रेः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यु॒क्तग्रा᳚व्णो॒ यो᳚वि॒ता सु॑शि॒प्रः सु॒तसो᳚मस्य॒ स ज॑नास॒ इन्द्रः॑ ||{6/15}{2.6.8.1}{2.12.6}{2.2.1.6}{752, 203, 2122}

यः¦र॒ध्रस्य॑¦चो॒दि॒ता¦यः¦कृ॒शस्य॑¦यः¦ब्र॒ह्मणः॑¦नाध॑मानस्य¦की॒रेः |
यु॒क्तऽग्रा᳚व्णः¦यः¦अ॒वि॒ता¦सु॒ऽशि॒प्रः¦सु॒तऽसो᳚मस्य¦सः¦ज॒ना॒सः॒¦इन्द्रः॑ ||

यस्याश्वा᳚सः प्र॒दिशि॒ यस्य॒ गावो॒ यस्य॒ ग्रामा॒ यस्य॒ विश्वे॒ रथा᳚सः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यः सूर्यं॒ य उ॒षसं᳚ ज॒जान॒ यो, अ॒पां ने॒ता स ज॑नास॒ इन्द्रः॑ ||{7/15}{2.6.8.2}{2.12.7}{2.2.1.7}{753, 203, 2123}

यस्य॑¦अश्वा᳚सः¦प्र॒ऽदिशि॑¦यस्य॑¦गावः॑¦यस्य॑¦ग्रामाः᳚¦यस्य॑¦विश्वे᳚¦रथा᳚सः |
यः¦सूर्य᳚‌म्¦यः¦उ॒षस᳚‌म्¦ज॒जान॑¦यः¦अ॒पा‌म्¦ने॒ता¦सः¦ज॒ना॒सः॒¦इन्द्रः॑ ||

यं क्रन्द॑सी संय॒ती वि॒ह्वये᳚ते॒ परेऽव॑र उ॒भया᳚, अ॒मित्राः᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

स॒मा॒नं चि॒द्‌ रथ॑मातस्थि॒वांसा॒ नाना᳚ हवेते॒ स ज॑नास॒ इन्द्रः॑ ||{8/15}{2.6.8.3}{2.12.8}{2.2.1.8}{754, 203, 2124}

य‌म्¦क्रन्द॑सी॒ इति॑¦सं॒य॒ती इति॑ स॒‌म्ऽय॒ती¦वि॒ह्वये᳚ते॒ इति॑ वि॒ऽह्वये᳚ते¦परे᳚¦अव॑रे¦उ॒भयाः᳚¦अ॒मित्राः᳚ |
स॒मा॒न‌म्¦चि॒त्¦रथ᳚‌म्¦आ॒त॒स्थि॒ऽवांसा᳚¦नाना᳚¦ह॒वे॒ते॒ इति॑¦सः¦ज॒ना॒सः॒¦इन्द्रः॑ ||

यस्मा॒न्न ऋ॒ते वि॒जय᳚न्ते॒ जना᳚सो॒ यं युध्य॑माना॒, अव॑से॒ हव᳚न्ते |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यो विश्व॑स्य प्रति॒मानं᳚ ब॒भूव॒ यो, अ॑च्युत॒च्युत्‌ स ज॑नास॒ इन्द्रः॑ ||{9/15}{2.6.8.4}{2.12.9}{2.2.1.9}{755, 203, 2125}

यस्मा᳚त्¦न¦ऋ॒ते¦वि॒ऽजय᳚न्ते¦जना᳚सः¦य‌म्¦युध्य॑मानाः¦अव॑से¦हव᳚न्ते |
यः¦विश्व॑स्य¦प्र॒ति॒ऽमान᳚‌म्¦ब॒भूव॑¦यः¦अ॒च्यु॒त॒ऽच्युत्¦सः¦ज॒ना॒सः॒¦इन्द्रः॑ ||

यः शश्व॑तो॒ मह्येनो॒ दधा᳚ना॒नम᳚न्यमाना॒ञ्छर्वा᳚ ज॒घान॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यः शर्ध॑ते॒ नानु॒ददा᳚ति शृ॒ध्यां यो दस्यो᳚र्ह॒न्ता स ज॑नास॒ इन्द्रः॑ ||{10/15}{2.6.8.5}{2.12.10}{2.2.1.10}{756, 203, 2126}

यः¦शश्व॑तः¦महि॑¦एनः॑¦दधा᳚नान्¦अम᳚न्यमानान्¦शर्वा᳚¦ज॒घान॑ |
यः¦शर्ध॑ते¦न¦अ॒नु॒ऽददा᳚ति¦शृ॒ध्या‌म्¦यः¦दस्योः᳚¦ह॒न्ता¦सः¦ज॒ना॒सः॒¦इन्द्रः॑ ||

यः शम्ब॑रं॒ पर्व॑तेषु क्षि॒यन्तं᳚ चत्वारिं॒श्यां श॒रद्य॒न्ववि᳚न्दत् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

ओ॒जा॒यमा᳚नं॒ यो, अहिं᳚ ज॒घान॒ दानुं॒ शया᳚नं॒ स ज॑नास॒ इन्द्रः॑ ||{11/15}{2.6.9.1}{2.12.11}{2.2.1.11}{757, 203, 2127}

यः¦शम्ब॑र‌म्¦पर्व॑तेषु¦क्षि॒यन्त᳚‌म्¦च॒त्वा॒रिं॒श्या‌म्¦श॒रदि॑¦अ॒नु॒।आवि᳚न्दत् |
ओ॒जा॒यमा᳚न‌म्¦यः¦अहि᳚‌म्¦ज॒घान॑¦दानु᳚‌म्¦शया᳚न‌म्¦सः¦ज॒ना॒सः॒¦इन्द्रः॑ ||

यः स॒प्तर॑श्मिर्वृष॒भस्तुवि॑ष्मान॒वासृ॑ज॒त्‌ सर्त॑वे स॒प्त सिन्धू॑न् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यो रौ᳚हि॒णमस्फु॑र॒द्‌ वज्र॑बाहु॒र्द्यामा॒रोह᳚न्तं॒ स ज॑नास॒ इन्द्रः॑ ||{12/15}{2.6.9.2}{2.12.12}{2.2.1.12}{758, 203, 2128}

यः¦स॒प्तऽर॑श्मिः¦वृ॒ष॒भः¦तुवि॑ष्मान्¦अ॒व॒।आसृ॑जत्¦सर्त॑वे¦स॒प्त¦सिन्धू॑न् |
यः¦रौ॒हि॒ण‌म्¦अस्फु॑रत्¦वज्र॑ऽबाहुः¦द्या‌म्¦आ॒ऽरोह᳚न्त‌म्¦सः¦ज॒ना॒सः॒¦इन्द्रः॑ ||

द्यावा᳚ चिदस्मै पृथि॒वी न॑मेते॒ शुष्मा᳚च्चिदस्य॒ पर्व॑ता भयन्ते |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यः सो᳚म॒पा नि॑चि॒तो वज्र॑बाहु॒र्यो वज्र॑हस्तः॒ स ज॑नास॒ इन्द्रः॑ ||{13/15}{2.6.9.3}{2.12.13}{2.2.1.13}{759, 203, 2129}

द्यावा᳚¦चि॒त्¦अ॒स्मै॒¦पृ॒थि॒वी इति॑¦न॒मे॒ते॒ इति॑¦शुष्मा᳚त्¦चि॒त्¦अ॒स्य॒¦पर्व॑ताः¦भ॒य॒न्ते॒ |
यः¦सो॒म॒ऽपाः¦नि॒ऽचि॒तः¦वज्र॑ऽबाहुः¦यः¦वज्र॑ऽहस्तः¦सः¦ज॒ना॒सः॒¦इन्द्रः॑ ||

यः सु॒न्वन्त॒मव॑ति॒ यः पच᳚न्तं॒ यः शंस᳚न्तं॒ यः श॑शमा॒नमू॒ती |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यस्य॒ ब्रह्म॒ वर्ध॑नं॒ यस्य॒ सोमो॒ यस्ये॒दं राधः॒ स ज॑नास॒ इन्द्रः॑ ||{14/15}{2.6.9.4}{2.12.14}{2.2.1.14}{760, 203, 2130}

यः¦सु॒न्वन्त᳚‌म्¦अव॑ति¦यः¦पच᳚न्त‌म्¦यः¦शंस᳚न्त‌म्¦यः¦श॒श॒मा॒न‌म्¦ऊ॒ती |
यस्य॑¦ब्रह्म॑¦वर्ध॑न‌म्¦यस्य॑¦सोमः॑¦यस्य॑¦इ॒द‌म्¦राधः॑¦सः¦ज॒ना॒सः॒¦इन्द्रः॑ ||

यः सु᳚न्व॒ते पच॑ते दु॒ध्र आ चि॒द् वाजं॒ दर्द॑र्षि॒ स किला᳚सि स॒त्यः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

व॒यं त॑ इन्द्र वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा᳚सो वि॒दथ॒मा व॑देम ||{15/15}{2.6.9.5}{2.12.15}{2.2.1.15}{761, 203, 2131}

यः¦सु॒न्व॒ते¦पच॑ते¦दु॒ध्रः¦आ¦चि॒त्¦वाज᳚‌म्¦दर्द॑र्षि¦सः¦किल॑¦अ॒सि॒¦स॒त्यः |
व॒य‌म्¦ते॒¦इ॒न्द्र॒¦वि॒श्वह॑¦प्रि॒यासः॑¦सु॒ऽवीरा᳚सः¦वि॒दथ᳚‌म्¦आ¦व॒दे॒म॒ ||

[83] ऋतुर्जनित्रीति त्रयोदशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रोजगत्यंत्यात्रिष्टुप् |
ऋ॒तुर्जनि॑त्री॒ तस्या᳚, अ॒पस्परि॑ म॒क्षू जा॒त आवि॑श॒द्‌ यासु॒ वर्ध॑ते |{शौनको गृत्समदः | इन्द्रः | जगती}

तदा᳚ह॒ना, अ॑भवत्‌ पि॒प्युषी॒ पयों॒ऽशोः पी॒यूषं᳚ प्रथ॒मं तदु॒क्थ्य᳚म् ||{1/13}{2.6.10.1}{2.13.1}{2.2.2.1}{762, 204, 2132}

ऋ॒तुः¦जनि॑त्री¦तस्याः᳚¦अ॒पः¦परि॑¦म॒क्षु¦जा॒तः¦आ¦अ॒वि॒श॒त्¦यासु॑¦वर्ध॑ते |
तत्¦आ॒ह॒नाः¦अ॒भ॒व॒त्¦पि॒प्युषी᳚¦पयः॑¦अं॒शोः¦पी॒यूष᳚‌म्¦प्र॒थ॒म‌म्¦तत्¦उ॒क्थ्य᳚‌म् ||

स॒ध्रीमा य᳚न्ति॒ परि॒ बिभ्र॑तीः॒ पयो᳚ वि॒श्वप्स्न्या᳚य॒ प्र भ॑रन्त॒ भोज॑नम् |{शौनको गृत्समदः | इन्द्रः | जगती}

स॒मा॒नो, अध्वा᳚ प्र॒वता᳚मनु॒ष्यदे॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ||{2/13}{2.6.10.2}{2.13.2}{2.2.2.2}{763, 204, 2133}

स॒ध्री¦ई॒‌म्¦आ¦य॒न्ति॒¦परि॑¦बिभ्र॑तीः¦पयः॑¦वि॒श्वऽप्स्न्या᳚य¦प्र¦भ॒र॒न्त॒¦भोज॑न‌म् |
स॒मा॒नः¦अध्वा᳚¦प्र॒ऽवता᳚‌म्¦अ॒नु॒ऽस्यदे᳚¦यः¦ता¦अकृ॑णोः¦प्र॒थ॒म‌म्¦सः¦अ॒सि॒¦उ॒क्थ्यः॑ ||

अन्वेको᳚ वदति॒ यद्ददा᳚ति॒ तद् रू॒पा मि॒नन्तद॑पा॒, एक॑ ईयते |{शौनको गृत्समदः | इन्द्रः | जगती}

विश्वा॒, एक॑स्य वि॒नुद॑स्तितिक्षते॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ||{3/13}{2.6.10.3}{2.13.3}{2.2.2.3}{764, 204, 2134}

अनु॑¦एकः॑¦व॒द॒ति॒¦यत्¦ददा᳚ति¦तत्¦रू॒पा¦मि॒नन्¦तत्।आ॑पाः¦एकः॑¦ई॒य॒ते॒ |
विश्वाः᳚¦एक॑स्य¦वि॒ऽनुदः॑¦ति॒ति॒क्ष॒ते॒¦यः¦ता¦अकृ॑णोः¦प्र॒थ॒म‌म्¦सः¦अ॒सि॒¦उ॒क्थ्यः॑ ||

प्र॒जाभ्यः॑ पु॒ष्टिं वि॒भज᳚न्त आसते र॒यिमि॑व पृ॒ष्ठं प्र॒भव᳚न्तमाय॒ते |{शौनको गृत्समदः | इन्द्रः | जगती}

असि᳚न्व॒न्‌ दंष्ट्रैः᳚ पि॒तुर॑त्ति॒ भोज॑नं॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ||{4/13}{2.6.10.4}{2.13.4}{2.2.2.4}{765, 204, 2135}

प्र॒ऽजाभ्यः॑¦पु॒ष्टि‌म्¦वि॒ऽभज᳚न्तः¦आ॒स॒ते॒¦र॒यि‌म्ऽ‌इ᳚व¦पृ॒ष्ठ‌म्¦प्र॒ऽभव᳚न्त‌म्¦आ॒ऽय॒ते |
असि᳚न्वन्¦दंष्ट्रैः᳚¦पि॒तुः¦अ॒त्ति॒¦भोज॑न‌म्¦यः¦ता¦अकृ॑णोः¦प्र॒थ॒म‌म्¦सः¦अ॒सि॒¦उ॒क्थ्यः॑ ||

अधा᳚कृणोः पृथि॒वीं सं॒दृशे᳚ दि॒वे यो धौ᳚ती॒नाम॑हिह॒न्नारि॑णक्‌ प॒थः |{शौनको गृत्समदः | इन्द्रः | जगती}

तं त्वा॒ स्तोमे᳚भिरु॒दभि॒र्न वा॒जिनं᳚ दे॒वं दे॒वा, अ॑जन॒न्‌ त्सास्यु॒क्थ्यः॑ ||{5/13}{2.6.10.5}{2.13.5}{2.2.2.5}{766, 204, 2136}

अध॑¦अ॒कृ॒णोः॒¦पृ॒थि॒वी‌म्¦स॒‌म्ऽदृशे᳚¦दि॒वे¦यः¦धौ॒ती॒ना‌म्¦अ॒हि॒ऽह॒न्¦अरि॑णक्¦प॒थः |
त‌म्¦त्वा॒¦स्तोमे᳚भिः¦उ॒दऽभिः॑¦न¦वा॒जिन᳚‌म्¦दे॒व‌म्¦दे॒वाः¦अ॒ज॒न॒न्¦सः¦अ॒सि॒¦उ॒क्थ्यः॑ ||

यो भोज॑नं च॒ दय॑से च॒ वर्ध॑नमा॒र्द्रादा शुष्कं॒ मधु॑मद्‌ दु॒दोहि॑थ |{शौनको गृत्समदः | इन्द्रः | जगती}

स शे᳚व॒धिं नि द॑धिषे वि॒वस्व॑ति॒ विश्व॒स्यैक॑ ईशिषे॒ सास्यु॒क्थ्यः॑ ||{6/13}{2.6.11.1}{2.13.6}{2.2.2.6}{767, 204, 2137}

यः¦भोज॑न‌म्¦च॒¦दय॑से¦च॒¦वर्ध॑न‌म्¦आ॒र्द्रात्¦आ¦शुष्क᳚‌म्¦मधु॑ऽमत्¦दु॒दोहि॑थ |
सः¦शे॒व॒ऽधि‌म्¦नि¦द॒धि॒षे॒¦वि॒वस्व॑ति¦विश्व॑स्य¦एकः॑¦ई॒शि॒षे॒¦सः¦अ॒सि॒¦उ॒क्थ्यः॑ ||

यः पु॒ष्पिणी᳚श्च प्र॒स्व॑श्च॒ धर्म॒णाधि॒ दाने॒ व्य१॑(अ॒)वनी॒रधा᳚रयः |{शौनको गृत्समदः | इन्द्रः | जगती}

यश्चास॑मा॒, अज॑नो दि॒द्युतो᳚ दि॒व उ॒रुरू॒र्वाँ, अ॒भितः॒ सास्यु॒क्थ्यः॑ ||{7/13}{2.6.11.2}{2.13.7}{2.2.2.7}{768, 204, 2138}

यः¦पु॒ष्पिणीः᳚¦च॒¦प्र॒ऽस्वः॑¦च॒¦धर्म॑णा¦अधि॑¦दाने᳚¦वि¦अ॒वनीः᳚¦अधा᳚रयः |
यः¦च॒¦अस॑माः¦अज॑नः¦दि॒द्युतः॑¦दि॒वः¦उ॒रुः¦ऊ॒र्वान्¦अ॒भितः॑¦सः¦अ॒सि॒¦उ॒क्थ्यः॑ ||

यो ना᳚र्म॒रं स॒हव॑सुं॒ निह᳚न्तवे पृ॒क्षाय॑ च दा॒सवे᳚शाय॒ चाव॑हः |{शौनको गृत्समदः | इन्द्रः | जगती}

ऊ॒र्जय᳚न्त्या॒, अप॑रिविष्टमा॒स्य॑मु॒तैवाद्य पु॑रुकृ॒त्‌ सास्यु॒क्थ्यः॑ ||{8/13}{2.6.11.3}{2.13.8}{2.2.2.8}{769, 204, 2139}

यः¦ना॒र्म॒र‌म्¦स॒हऽव॑सु‌म्¦निऽह᳚न्तवे¦पृ॒क्षाय॑¦च॒¦दा॒सऽवे᳚शाय¦च॒¦अव॑हः |
ऊ॒र्जय᳚न्त्याः¦अप॑रिऽविष्ट‌म्¦आ॒स्य᳚‌म्¦उ॒त¦ए॒व¦अ॒द्य¦पु॒रु॒ऽकृ॒त्¦सः¦अ॒सि॒¦उ॒क्थ्यः॑ ||

श॒तं वा॒ यस्य॒ दश॑ सा॒कमाद्य॒ एक॑स्य श्रु॒ष्टौ यद्ध॑ चो॒दमावि॑थ |{शौनको गृत्समदः | इन्द्रः | जगती}

अ॒र॒ज्जौ दस्यू॒न्‌ त्समु॑नब्द॒भीत॑ये सुप्रा॒व्यो᳚, अभवः॒ सास्यु॒क्थ्यः॑ ||{9/13}{2.6.11.4}{2.13.9}{2.2.2.9}{770, 204, 2140}

श॒त‌म्¦वा॒¦यस्य॑¦दश॑¦सा॒क‌म्¦आ¦अद्यः॑¦एक॑स्य¦श्रु॒ष्टौ¦यत्¦ह॒¦चो॒द‌म्¦आवि॑थ |
अ॒र॒ज्जौ¦दस्यू᳚न्¦स‌म्¦उ॒न॒प्¦द॒भीत॑ये¦सु॒प्र॒।आ॒व्यः॑¦अ॒भ॒वः॒¦सः¦अ॒सि॒¦उ॒क्थ्यः॑ ||

विश्वेदनु॑ रोध॒ना, अ॑स्य॒ पौंस्यं᳚ द॒दुर॑स्मै दधि॒रे कृ॒त्नवे॒ धन᳚म् |{शौनको गृत्समदः | इन्द्रः | जगती}

षळ॑स्तभ्ना वि॒ष्टिरः॒ पञ्च॑ सं॒दृशः॒ परि॑ प॒रो, अ॑भवः॒ सास्यु॒क्थ्यः॑ ||{10/13}{2.6.11.5}{2.13.10}{2.2.2.10}{771, 204, 2141}

विश्वा᳚¦इत्¦अनु॑¦रो॒ध॒नाः¦अ॒स्य॒¦पौंस्य᳚‌म्¦द॒दुः¦अ॒स्मै॒¦द॒धि॒रे¦कृ॒त्नवे᳚¦धन᳚‌म् |
षट्¦अ॒स्त॒भ्नाः॒¦वि॒ऽस्तिरः॑¦पंच॑¦स॒‌म्ऽदृशः॑¦परि॑¦प॒रः¦अ॒भ॒वः॒¦सः¦अ॒सि॒¦उ॒क्थ्यः॑ ||

सु॒प्र॒वा॒च॒नं तव॑ वीर वी॒र्य१॑(अं॒) यदेके᳚न॒ क्रतु॑ना वि॒न्दसे॒ वसु॑ |{शौनको गृत्समदः | इन्द्रः | जगती}

जा॒तूष्ठि॑रस्य॒ प्र वयः॒ सह॑स्वतो॒ या च॒कर्थ॒ सेन्द्र॒ विश्वा᳚स्यु॒क्थ्यः॑ ||{11/13}{2.6.12.1}{2.13.11}{2.2.2.11}{772, 204, 2142}

सु॒ऽप्र॒वा॒च॒न‌म्¦तव॑¦वी॒र॒¦वी॒र्य᳚‌म्¦यत्¦एके᳚न¦क्रतु॑ना¦वि॒न्दसे᳚¦वसु॑ |
जा॒तूऽस्थि॑रस्य¦प्र¦वयः॑¦सह॑स्वतः¦या¦च॒कर्थ॑¦सः¦इ॒न्द्र॒¦विश्वा᳚¦अ॒सि॒¦उ॒क्थ्यः॑ ||

अर॑मयः॒ सर॑पस॒स्तरा᳚य॒ कं तु॒र्वीत॑ये च व॒य्या᳚य च स्रु॒तिम् |{शौनको गृत्समदः | इन्द्रः | जगती}

नी॒चा सन्त॒मुद॑नयः परा॒वृजं॒ प्रान्धं श्रो॒णं श्र॒वय॒न्‌ त्सास्यु॒क्थ्यः॑ ||{12/13}{2.6.12.2}{2.13.12}{2.2.2.12}{773, 204, 2143}

अर॑मयः¦सर॑।आपसः¦तरा᳚य¦क‌म्¦तु॒र्वीत॑ये¦च॒¦व॒य्या᳚य¦च॒¦स्रु॒ति‌म् |
नी॒चा¦सन्त᳚‌म्¦उत्¦अ॒न॒यः॒¦प॒रा॒ऽवृज᳚‌म्¦प्र¦अ॒न्ध‌म्¦श्रो॒ण‌म्¦श्र॒वय॑न्¦सः¦अ॒सि॒¦उ॒क्थ्यः॑ ||

अ॒स्मभ्यं॒ तद्‌ व॑सो दा॒नाय॒ राधः॒ सम॑र्थयस्व ब॒हु ते᳚ वस॒व्य᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒ यच्चि॒त्रं श्र॑व॒स्या, अनु॒ द्यून् बृ॒हद्‌ व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{13/13}{2.6.12.3}{2.13.13}{2.2.2.13}{774, 204, 2144}

अ॒स्मभ्य᳚‌म्¦तत्¦व॒सो॒ इति॑¦दा॒नाय॑¦राधः॑¦स‌म्¦अ॒र्थ॒य॒स्व॒¦ब॒हु¦ते॒¦व॒स॒व्य᳚‌म् |
इन्द्र॑¦यत्¦चि॒त्र‌म्¦श्र॒व॒स्याः¦अनु॑¦द्यून्¦बृ॒हत्¦व॒दे॒म॒¦वि॒दथे᳚¦सु॒ऽवीराः᳚ ||

[84] अध्वर्यवइति द्वादशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् |
अध्व᳚र्यवो॒ भर॒तेन्द्रा᳚य॒ सोम॒माम॑त्रेभिः सिञ्चता॒ मद्य॒मन्धः॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

का॒मी हि वी॒रः सद॑मस्य पी॒तिं जु॒होत॒ वृष्णे॒ तदिदे॒ष व॑ष्टि ||{1/12}{2.6.13.1}{2.14.1}{2.2.3.1}{775, 205, 2145}

अध्व᳚र्यवः¦भर॑त¦इन्द्रा᳚य¦सोम᳚‌म्¦आ¦अम॑त्रेभिः¦सिं॒च॒त॒¦मद्य᳚‌म्¦अन्धः॑ |
का॒मी¦हि¦वी॒रः¦सद᳚‌म्¦अ॒स्य॒¦पी॒ति‌म्¦जु॒होत॑¦वृष्णे᳚¦तत्¦इत्¦ए॒षः¦व॒ष्टि॒ ||

अध्व᳚र्यवो॒ यो, अ॒पो व᳚व्रि॒वांसं᳚ वृ॒त्रं ज॒घाना॒शन्ये᳚व वृ॒क्षम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

तस्मा᳚, ए॒तं भ॑रत तद्व॒शायँ᳚, ए॒ष इन्द्रो᳚, अर्हति पी॒तिम॑स्य ||{2/12}{2.6.13.2}{2.14.2}{2.2.3.2}{776, 205, 2146}

अध्व᳚र्यवः¦यः¦अ॒पः¦व॒व्रि॒ऽवांस᳚‌म्¦वृ॒त्र‌म्¦ज॒घान॑¦अ॒शन्या᳚ऽ‌इव¦वृ॒क्ष‌म् |
तस्मै᳚¦ए॒त‌म्¦भ॒र॒त॒¦त॒त्ऽव॒शाय॑¦ए॒षः¦इन्द्रः॑¦अ॒र्ह॒ति॒¦पी॒ति‌म्¦अ॒स्य॒ ||

अध्व᳚र्यवो॒ यो दृभी᳚कं ज॒घान॒ यो गा, उ॒दाज॒दप॒ हि व॒लं वः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

तस्मा᳚, ए॒तम॒न्तरि॑क्षे॒ न वात॒मिन्द्रं॒ सोमै॒रोर्णु॑त॒ जूर्न वस्त्रैः᳚ ||{3/12}{2.6.13.3}{2.14.3}{2.2.3.3}{777, 205, 2147}

अध्व᳚र्यवः¦यः¦दृभी᳚क‌म्¦ज॒घान॑¦यः¦गाः¦उ॒त्ऽआज॑त्¦अप॑¦हि¦व॒ल‌म्¦वरिति॒ वः |
तस्मै᳚¦ए॒त‌म्¦अ॒न्तरि॑क्षे¦न¦वात᳚‌म्¦इन्द्र᳚‌म्¦सोमैः॒¦आ¦ऊ॒र्णु॒त॒¦जूः¦न¦वस्त्रैः᳚ ||

अध्व᳚र्यवो॒ य उर॑णं ज॒घान॒ नव॑ च॒ख्वांसं᳚ नव॒तिं च॑ बा॒हून् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यो, अर्बु॑द॒मव॑ नी॒चा ब॑बा॒धे तमिन्द्रं॒ सोम॑स्य भृ॒थे हि॑नोत ||{4/12}{2.6.13.4}{2.14.4}{2.2.3.4}{778, 205, 2148}

अध्व᳚र्यवः¦यः¦उर॑ण‌म्¦ज॒घान॑¦नव॑¦च॒ख्वांस᳚‌म्¦न॒व॒ति‌म्¦च॒¦बा॒हून् |
यः¦अर्बु॑द‌म्¦अव॑¦नी॒चा¦ब॒बा॒धे¦त‌म्¦इन्द्र᳚‌म्¦सोम॑स्य¦भृ॒थे¦हि॒नो॒त॒ ||

अध्व᳚र्यवो॒ यः स्वश्नं᳚ ज॒घान॒ यः शुष्ण॑म॒शुषं॒ यो व्यं᳚सम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यः पिप्रुं॒ नमु॑चिं॒ यो रु॑धि॒क्रां तस्मा॒, इन्द्रा॒यान्ध॑सो जुहोत ||{5/12}{2.6.13.5}{2.14.5}{2.2.3.5}{779, 205, 2149}

अध्व᳚र्यवः¦यः¦सु¦अश्न᳚‌म्¦ज॒घान॑¦यः¦शुष्ण᳚‌म्¦अ॒शुष᳚‌म्¦यः¦वि।आं᳚स‌म् |
यः¦पिप्रु᳚‌म्¦नमु॑चि‌म्¦यः¦रु॒धि॒ऽक्रा‌म्¦तस्मै᳚¦इन्द्रा᳚य¦अन्ध॑सः¦जु॒हो॒त॒ ||

अध्व᳚र्यवो॒ यः श॒तं शम्ब॑रस्य॒ पुरो᳚ बि॒भेदाश्म॑नेव पू॒र्वीः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यो व॒र्चिनः॑ श॒तमिन्द्रः॑ स॒हस्र॑म॒पाव॑प॒द्‌ भर॑ता॒ सोम॑मस्मै ||{6/12}{2.6.13.6}{2.14.6}{2.2.3.6}{780, 205, 2150}

अध्व᳚र्यवः¦यः¦श॒त‌म्¦शम्ब॑रस्य¦पुरः॑¦बि॒भेद॑¦अश्म॑नाऽ‌इव¦पू॒र्वीः |
यः¦व॒र्चिनः॑¦श॒त‌म्¦इन्द्रः॑¦स॒हस्र᳚‌म्¦अ॒प॒।आव॑पत्¦भर॑त¦सोम᳚‌म्¦अ॒स्मै॒ ||

अध्व᳚र्यवो॒ यः श॒तमा स॒हस्रं॒ भूम्या᳚, उ॒पस्थेऽव॑पज्जघ॒न्वान् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

कुत्स॑स्या॒योर॑तिथि॒ग्वस्य॑ वी॒रान् न्यावृ॑ण॒ग्‌ भर॑ता॒ सोम॑मस्मै ||{7/12}{2.6.14.1}{2.14.7}{2.2.3.7}{781, 205, 2151}

अध्व᳚र्यवः¦यः¦श॒त‌म्¦आ¦स॒हस्र᳚‌म्¦भूम्याः᳚¦उ॒पऽस्थे᳚¦अव॑पत्¦ज॒घ॒न्वान् |
कुत्स॑स्य¦आ॒योः¦अ॒ति॒थि॒ऽग्वस्य॑¦वी॒रान्¦नि¦अवृ॑णक्¦भर॑त¦सोम᳚‌म्¦अ॒स्मै॒ ||

अध्व᳚र्यवो॒ यन्न॑रः का॒मया᳚ध्वे श्रु॒ष्टी वह᳚न्तो नशथा॒ तदिन्द्रे᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

गभ॑स्तिपूतं भरत श्रु॒तायेन्द्रा᳚य॒ सोमं᳚ यज्यवो जुहोत ||{8/12}{2.6.14.2}{2.14.8}{2.2.3.8}{782, 205, 2152}

अध्व᳚र्यवः¦यत्¦न॒रः॒¦का॒मया᳚ध्वे¦श्रु॒ष्टी¦वह᳚न्तः¦न॒श॒थ॒¦तत्¦इन्द्रे᳚ |
गभ॑स्तिऽपूत‌म्¦भ॒र॒त॒¦श्रु॒ताय॑¦इन्द्रा᳚य॒¦सोम᳚‌म्¦य॒ज्य॒वः॒¦जु॒हो॒त॒ ||

अध्व᳚र्यवः॒ कर्त॑ना श्रु॒ष्टिम॑स्मै॒ वने॒ निपू᳚तं॒ वन॒ उन्न॑यध्वम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

जु॒षा॒णो हस्त्य॑म॒भि वा᳚वशे व॒ इन्द्रा᳚य॒ सोमं᳚ मदि॒रं जु॑होत ||{9/12}{2.6.14.3}{2.14.9}{2.2.3.9}{783, 205, 2153}

अध्व᳚र्यवः¦कर्त॑न¦श्रु॒ष्टि‌म्¦अ॒स्मै॒¦वने᳚¦निऽपू᳚त‌म्¦वने᳚¦उत्¦न॒य॒ध्व॒‌म् |
जु॒षा॒णः¦हस्त्य᳚‌म्¦अ॒भि¦वा॒व॒शे॒¦वः॒¦इन्द्रा᳚य॒¦सोम᳚‌म्¦म॒दि॒र‌म्¦जु॒हो॒त॒ ||

अध्व᳚र्यवः॒ पय॒सोध॒र्यथा॒ गोः सोमे᳚भिरीं पृणता भो॒जमिन्द्र᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

वेदा॒हम॑स्य॒ निभृ॑तं म ए॒तद् दित्स᳚न्तं॒ भूयो᳚ यज॒तश्चि॑केत ||{10/12}{2.6.14.4}{2.14.10}{2.2.3.10}{784, 205, 2154}

अध्व᳚र्यवः¦पय॑सा¦ऊधः॑¦यथा᳚¦गोः¦सोमे᳚भिः¦ई॒‌म्¦पृ॒ण॒त॒¦भो॒ज‌म्¦इन्द्र᳚‌म् |
वेद॑¦अ॒ह‌म्¦अ॒स्य॒¦निऽभृ॑त‌म्¦मे॒¦ए॒तत्¦दित्स᳚न्त‌म्¦भूयः॑¦य॒ज॒तः¦चि॒के॒त॒ ||

अध्व᳚र्यवो॒ यो दि॒व्यस्य॒ वस्वो॒ यः पार्थि॑वस्य॒ क्षम्य॑स्य॒ राजा᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

तमूर्द॑रं॒ न पृ॑णता॒ यवे॒नेन्द्रं॒ सोमे᳚भि॒स्तदपो᳚ वो, अस्तु ||{11/12}{2.6.14.5}{2.14.11}{2.2.3.11}{785, 205, 2155}

अध्व᳚र्यवः¦यः¦दि॒व्यस्य॑¦वस्वः॑¦यः¦पार्थि॑वस्य¦क्षम्य॑स्य¦राजा᳚ |
त‌म्¦ऊर्द॑र‌म्¦न¦पृ॒ण॒त॒¦यवे᳚न¦इन्द्र᳚‌म्¦सोमे᳚भिः¦तत्¦अपः॑¦वः॒¦अ॒स्तु॒ ||

अ॒स्मभ्यं॒ तद्‌ व॑सो दा॒नाय॒ राधः॒ सम॑र्थयस्व ब॒हु ते᳚ वस॒व्य᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒ यच्चि॒त्रं श्र॑व॒स्या, अनु॒ द्यून् बृ॒हद्‌ व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{12/12}{2.6.14.6}{2.14.12}{2.2.3.12}{786, 205, 2156}

अ॒स्मभ्य᳚‌म्¦तत्¦व॒सो॒ इति॑¦दा॒नाय॑¦राधः॑¦स‌म्¦अ॒र्थ॒य॒स्व॒¦ब॒हु¦ते॒¦व॒स॒व्य᳚‌म् |
इन्द्र॑¦यत्¦चि॒त्र‌म्¦श्र॒व॒स्याः¦अनु॑¦द्यून्¦बृ॒हत्¦व॒दे॒म॒¦वि॒दथे᳚¦सु॒ऽवीराः᳚ ||

[85] प्रघान्विति दशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् |
प्र घा॒ न्व॑स्य मह॒तो म॒हानि॑ स॒त्या स॒त्यस्य॒ कर॑णानि वोचम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

त्रिक॑द्रुकेष्वपिबत्‌ सु॒तस्या॒स्य मदे॒, अहि॒मिन्द्रो᳚ जघान ||{1/10}{2.6.15.1}{2.15.1}{2.2.4.1}{787, 206, 2157}

प्र¦घ॒¦नु¦अ॒स्य॒¦म॒ह॒तः¦म॒हानि॑¦स॒त्या¦स॒त्यस्य॑¦कर॑णानि¦वो॒च॒‌म् |
त्रिऽक॑द्रुकेषु¦अ॒पि॒ब॒त्¦सु॒तस्य॑¦अ॒स्य¦मदे᳚¦अहि᳚‌म्¦इन्द्रः॑¦ज॒घा॒न॒ ||

अ॒वं॒शे द्याम॑स्तभायद्‌ बृ॒हन्त॒मा रोद॑सी, अपृणद॒न्तरि॑क्षम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

स धा᳚रयत्‌ पृथि॒वीं प॒प्रथ॑च्च॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{2/10}{2.6.15.2}{2.15.2}{2.2.4.2}{788, 206, 2158}

अ॒वं॒शे¦द्या‌म्¦अ॒स्त॒भा॒य॒त्¦बृ॒हन्त᳚‌म्¦आ¦रोद॑सी॒ इति॑¦अ॒पृ॒ण॒त्¦अ॒न्तरि॑क्ष‌म् |
सः¦धा॒र॒य॒त्¦पृ॒थि॒वी‌म्¦प॒प्रथ॑त्¦च॒¦सोम॑स्य¦ता¦मदे᳚¦इन्द्रः॑¦च॒का॒र॒ ||

सद्मे᳚व॒ प्राचो॒ वि मि॑माय॒ मानै॒र्वज्रे᳚ण॒ खान्य॑तृणन्न॒दीना᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

वृथा᳚सृजत्‌ प॒थिभि॑र्दीर्घया॒थैः सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{3/10}{2.6.15.3}{2.15.3}{2.2.4.3}{789, 206, 2159}

सद्म॑ऽ‌इव¦प्राचः॑¦वि¦मि॒मा॒य॒¦मानैः᳚¦वज्रे᳚ण¦खानि॑¦अ॒तृ॒ण॒त्¦न॒दीना᳚‌म् |
वृथा᳚¦अ॒सृ॒ज॒त्¦प॒थिऽभिः॑¦दी॒र्घ॒ऽया॒थैः¦सोम॑स्य¦ता¦मदे᳚¦इन्द्रः॑¦च॒का॒र॒ ||

स प्र॑वो॒ळ्हॄन्‌ प॑रि॒गत्या᳚ द॒भीते॒र्विश्व॑मधा॒गायु॑धमि॒द्धे, अ॒ग्नौ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

सं गोभि॒रश्वै᳚रसृज॒द्‌ रथे᳚भिः॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{4/10}{2.6.15.4}{2.15.4}{2.2.4.4}{790, 206, 2160}

सः¦प्र॒ऽवो॒ळ्हॄन्¦प॒रि॒ऽगत्य॑¦द॒भीतेः᳚¦विश्व᳚‌म्¦अ॒धा॒क्¦आयु॑ध‌म्¦इ॒द्धे¦अ॒ग्नौ |
स‌म्¦गोभिः॑¦अश्वैः᳚¦अ॒सृ॒ज॒त्¦रथे᳚भिः¦सोम॑स्य¦ता¦मदे᳚¦इन्द्रः॑¦च॒का॒र॒ ||

स ईं᳚ म॒हीं धुनि॒मेतो᳚ररम्णा॒त् सो, अ॑स्ना॒तॄन॑पारयत्‌ स्व॒स्ति |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

त उ॒त्स्नाय॑ र॒यिम॒भि प्र त॑स्थुः॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{5/10}{2.6.15.5}{2.15.5}{2.2.4.5}{791, 206, 2161}

सः¦ई॒‌म्¦म॒ही‌म्¦धुनि᳚‌म्¦एतोः᳚¦अ॒र॒म्णा॒त्¦सः¦अ॒स्ना॒तॄन्¦अ॒पा॒र॒य॒त्¦स्व॒स्ति |
ते¦उ॒त्ऽस्नाय॑¦र॒यि‌म्¦अ॒भि¦प्र¦त॒स्थुः॒¦सोम॑स्य¦ता¦मदे᳚¦इन्द्रः॑¦च॒का॒र॒ ||

सोद᳚ञ्चं॒ सिन्धु॑मरिणान्महि॒त्वा वज्रे॒णान॑ उ॒षसः॒ सं पि॑पेष |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

अ॒ज॒वसो᳚ ज॒विनी᳚भिर्विवृ॒श्चन् त्सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{6/10}{2.6.16.1}{2.15.6}{2.2.4.6}{792, 206, 2162}

सः¦उदं᳚च‌म्¦सिन्धु᳚‌म्¦अ॒रि॒णा॒त्¦म॒हि॒ऽत्वा¦वज्रे᳚ण¦अनः॑¦उ॒षसः॑¦स‌म्¦पि॒पे॒ष॒ |
अ॒ज॒वसः॑¦ज॒विनी᳚भिः¦वि॒ऽवृ॒श्चन्¦सोम॑स्य¦ता¦मदे᳚¦इन्द्रः॑¦च॒का॒र॒ ||

स वि॒द्वाँ, अ॑पगो॒हं क॒नीना᳚मा॒विर्भव॒न्नुद॑तिष्ठत्‌ परा॒वृक् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

प्रति॑ श्रो॒णः स्था॒द्‌ व्य१॑(अ॒)नग॑चष्ट॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{7/10}{2.6.16.2}{2.15.7}{2.2.4.7}{793, 206, 2163}

सः¦वि॒द्वान्¦अ॒प॒ऽगो॒ह‌म्¦क॒नीना᳚‌म्¦आ॒विः¦भव॑न्¦उत्¦अ॒ति॒ष्ठ॒त्¦प॒रा॒ऽवृक् |
प्रति॑¦श्रो॒णः¦स्था॒त्¦वि¦अ॒नक्¦अ॒च॒ष्ट॒¦सोम॑स्य¦ता¦मदे᳚¦इन्द्रः॑¦च॒का॒र॒ ||

भि॒नद्‌ व॒लमङ्गि॑रोभिर्गृणा॒नो वि पर्व॑तस्य दृंहि॒तान्यै᳚रत् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

रि॒णग्रोधां᳚सि कृ॒त्रिमा᳚ण्येषां॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{8/10}{2.6.16.3}{2.15.8}{2.2.4.8}{794, 206, 2164}

भि॒नत्¦व॒ल‌म्¦अङ्गि॑रःऽभिः¦गृ॒णा॒नः¦वि¦पर्व॑तस्य¦दृं॒हि॒तानि॑¦ऐ॒र॒त् |
रि॒णक्¦रोधां᳚सि¦कृ॒त्रिमा᳚णि¦ए॒षा॒‌म्¦सोम॑स्य¦ता¦मदे᳚¦इन्द्रः॑¦च॒का॒र॒ ||

स्वप्ने᳚ना॒भ्युप्या॒ चुमु॑रिं॒ धुनिं᳚ च ज॒घन्थ॒ दस्युं॒ प्र द॒भीति॑मावः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

र॒म्भी चि॒दत्र॑ विविदे॒ हिर᳚ण्यं॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{9/10}{2.6.16.4}{2.15.9}{2.2.4.9}{795, 206, 2165}

स्वप्ने᳚न¦अ॒भि॒।औप्य॑¦चुमु॑रि‌म्¦धुनि᳚‌म्¦च॒¦ज॒घन्थ॑¦दस्यु᳚‌म्¦प्र¦द॒भीति᳚‌म्¦आ॒वः॒ |
र॒म्भी¦चि॒त्¦अत्र॑¦वि॒वि॒दे॒¦हिर᳚ण्य‌म्¦सोम॑स्य¦ता¦मदे᳚¦इन्द्रः॑¦च॒का॒र॒ ||

नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु॑ही॒यदि᳚न्द्र॒ दक्षि॑णा म॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

शिक्षा᳚ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो᳚ नो बृ॒हद्‌ व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{10/10}{2.6.16.5}{2.15.10}{2.2.4.10}{796, 206, 2166}

नू॒न‌म्¦सा¦ते॒¦प्रति॑¦वर᳚‌म्¦ज॒रि॒त्रे¦दु॒ही॒यत्¦इ॒न्द्र॒¦दक्षि॑णा¦म॒घोनी᳚ |
शिक्ष॑¦स्तो॒तृऽभ्यः॑¦मा¦अति॑¦ध॒क्¦भगः॑¦नः॒¦बृ॒हत्¦व॒दे॒म॒¦वि॒दथे᳚¦सु॒ऽवीराः᳚ ||

[86] प्रवः सतामिति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रो जगत्यंत्यात्रिष्टुप् |
प्र वः॑ स॒तां ज्येष्ठ॑तमाय सुष्टु॒तिम॒ग्नावि॑व समिधा॒ने ह॒विर्भ॑रे |{शौनको गृत्समदः | इन्द्रः | जगती}

इन्द्र॑मजु॒र्यं ज॒रय᳚न्तमुक्षि॒तं स॒नाद्‌ युवा᳚न॒मव॑से हवामहे ||{1/9}{2.6.17.1}{2.16.1}{2.2.5.1}{797, 207, 2167}

प्र¦वः॒¦स॒ता‌म्¦ज्येष्ठ॑ऽतमाय¦सु॒ऽस्तु॒ति‌म्¦अ॒ग्नौऽ‌इ᳚व¦स॒‌म्ऽ‌इ॒धा॒ने¦ह॒विः¦भ॒रे॒ |
इन्द्र᳚‌म्¦अ॒जु॒र्य‌म्¦ज॒रय᳚न्त‌म्¦उ॒क्षि॒त‌म्¦स॒नात्¦युवा᳚न‌म्¦अव॑से¦ह॒वा॒म॒हे॒ ||

यस्मा॒दिन्द्रा᳚द्‌ बृह॒तः किं च॒नेमृ॒ते विश्वा᳚न्यस्मि॒न्‌ त्सम्भृ॒ताधि॑ वी॒र्या᳚ |{शौनको गृत्समदः | इन्द्रः | जगती}

ज॒ठरे॒ सोमं᳚ त॒न्वी॒३॑(ई॒) सहो॒ महो॒ हस्ते॒ वज्रं॒ भर॑ति शी॒र्षणि॒ क्रतु᳚म् ||{2/9}{2.6.17.2}{2.16.2}{2.2.5.2}{798, 207, 2168}

यस्मा᳚त्¦इन्द्रा᳚त्¦बृ॒ह॒तः¦कि‌म्¦च॒न¦ई॒‌म्¦ऋ॒ते¦विश्वा᳚नि¦अ॒स्मि॒न्¦स‌म्ऽभृ॑ता¦अधि॑¦वी॒र्या᳚ |
ज॒ठरे᳚¦सोम᳚‌म्¦त॒न्वि॑¦सहः॑¦महः॑¦हस्ते᳚¦वज्र᳚‌म्¦भर॑ति¦शी॒र्षणि॑¦क्रतु᳚‌म् ||

न क्षो॒णीभ्यां᳚ परि॒भ्वे᳚ त इन्द्रि॒यं न स॑मु॒द्रैः पर्व॑तैरिन्द्र ते॒ रथः॑ |{शौनको गृत्समदः | इन्द्रः | जगती}

न ते॒ वज्र॒मन्व॑श्नोति॒ कश्च॒न यदा॒शुभिः॒ पत॑सि॒ योज॑ना पु॒रु ||{3/9}{2.6.17.3}{2.16.3}{2.2.5.3}{799, 207, 2169}

न¦क्षो॒णीभ्या᳚‌म्¦प॒रि॒ऽभ्वे᳚¦ते॒¦इ॒न्द्रि॒य‌म्¦न¦स॒मु॒द्रैः¦पर्व॑तैः¦इ॒न्द्र॒¦ते॒¦रथः॑ |
न¦ते॒¦वज्र᳚‌म्¦अनु॑¦अ॒श्नो॒ति॒¦कः¦च॒न¦यत्¦आ॒शुऽभिः॑¦पत॑सि¦योज॑ना¦पु॒रु ||

विश्वे॒ ह्य॑स्मै यज॒ताय॑ धृ॒ष्णवे॒ क्रतुं॒ भर᳚न्ति वृष॒भाय॒ सश्च॑ते |{शौनको गृत्समदः | इन्द्रः | जगती}

वृषा᳚ यजस्व ह॒विषा᳚ वि॒दुष्ट॑रः॒ पिबे᳚न्द्र॒ सोमं᳚ वृष॒भेण॑ भा॒नुना᳚ ||{4/9}{2.6.17.4}{2.16.4}{2.2.5.4}{800, 207, 2170}

विश्वे᳚¦हि¦अ॒स्मै॒¦य॒ज॒ताय॑¦धृ॒ष्णवे᳚¦क्रतु᳚‌म्¦भर᳚न्ति¦वृ॒ष॒भाय॑¦सश्च॑ते |
वृषा᳚¦य॒ज॒स्व॒¦ह॒विषा᳚¦वि॒दुःऽत॑रः¦पिब॑¦इ॒न्द्र॒¦सोम᳚‌म्¦वृ॒ष॒भेण॑¦भा॒नुना᳚ ||

वृष्णः॒ कोशः॑ पवते॒ मध्व॑ ऊ॒र्मिर्वृ॑ष॒भान्ना᳚य वृष॒भाय॒ पात॑वे |{शौनको गृत्समदः | इन्द्रः | जगती}

वृष॑णाध्व॒र्यू वृ॑ष॒भासो॒, अद्र॑यो॒ वृष॑णं॒ सोमं᳚ वृष॒भाय॑ सुष्वति ||{5/9}{2.6.17.5}{2.16.5}{2.2.5.5}{801, 207, 2171}

वृष्णः॒¦कोशः॑¦प॒व॒ते॒¦मध्वः॑¦ऊ॒र्मिः¦वृ॒ष॒भ।आ᳚न्नाय¦वृ॒ष॒भाय॑¦पात॑वे |
वृष॑णा¦अ॒ध्व॒र्यू इति॑¦वृ॒ष॒भासः॑¦अद्र॑यः¦वृष॑ण‌म्¦सोम᳚‌म्¦वृ॒ष॒भाय॑¦सु॒स्व॒ति॒ ||

वृषा᳚ ते॒ वज्र॑ उ॒त ते॒ वृषा॒ रथो॒ वृष॑णा॒ हरी᳚ वृष॒भाण्यायु॑धा |{शौनको गृत्समदः | इन्द्रः | जगती}

वृष्णो॒ मद॑स्य वृषभ॒ त्वमी᳚शिष॒ इन्द्र॒ सोम॑स्य वृष॒भस्य॑ तृप्णुहि ||{6/9}{2.6.18.1}{2.16.6}{2.2.5.6}{802, 207, 2172}

वृषा᳚¦ते॒¦वज्रः॑¦उ॒त¦ते॒¦वृषा᳚¦रथः॑¦वृष॑णा¦हरी॒ इति॑¦वृ॒ष॒भाणि॑¦आयु॑धा |
वृष्णः॑¦मद॑स्य¦वृ॒ष॒भ॒¦त्व‌म्¦ई॒शि॒षे॒¦इन्द्र॑¦सोम॑स्य¦वृ॒ष॒भस्य॑¦तृ॒प्णु॒हि॒ ||

प्र ते॒ नावं॒ न सम॑ने वच॒स्युवं॒ ब्रह्म॑णा यामि॒ सव॑नेषु॒ दाधृ॑षिः |{शौनको गृत्समदः | इन्द्रः | जगती}

कु॒विन्नो᳚, अ॒स्य वच॑सो नि॒बोधि॑ष॒दिन्द्र॒मुत्सं॒ न वसु॑नः सिचामहे ||{7/9}{2.6.18.2}{2.16.7}{2.2.5.7}{803, 207, 2173}

प्र¦ते॒¦नाव᳚‌म्¦न¦सम॑ने¦व॒च॒स्युव᳚‌म्¦ब्रह्म॑णा¦या॒मि॒¦सव॑नेषु¦दधृ॑षिः |
कु॒वित्¦नः॒¦अ॒स्य¦वच॑सः¦नि॒ऽबोधि॑षत्¦इन्द्र᳚‌म्¦उत्स᳚‌म्¦न¦वसु॑नः¦सि॒चा॒म॒हे॒ ||

पु॒रा स᳚म्बा॒धाद॒भ्या व॑वृत्स्व नो धे॒नुर्न व॒त्सं यव॑सस्य पि॒प्युषी᳚ |{शौनको गृत्समदः | इन्द्रः | जगती}

स॒कृत्सु ते᳚ सुम॒तिभिः॑ शतक्रतो॒ सं पत्नी᳚भि॒र्न वृष॑णो नसीमहि ||{8/9}{2.6.18.3}{2.16.8}{2.2.5.8}{804, 207, 2174}

पु॒रा¦स॒‌म्ऽबा॒धात्¦अ॒भि¦आ¦व॒वृ॒त्स्व॒¦नः॒¦धे॒नुः¦न¦व॒त्स‌म्¦यव॑सस्य¦पि॒प्युषी᳚ |
स॒कृत्¦सु¦ते॒¦सु॒म॒तिऽभिः॑¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो¦स‌म्¦पत्नी᳚भिः¦न¦वृष॑णः¦न॒सी॒म॒हि॒ ||

नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु॑ही॒यदि᳚न्द्र॒ दक्षि॑णा म॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

शिक्षा᳚ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो᳚ नो बृ॒हद्‌ व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{9/9}{2.6.18.4}{2.16.9}{2.2.5.9}{805, 207, 2175}

नू॒न‌म्¦सा¦ते॒¦प्रति॑¦वर᳚‌म्¦ज॒रि॒त्रे¦दु॒ही॒यत्¦इ॒न्द्र॒¦दक्षि॑णा¦म॒घोनी᳚ |
शिक्ष॑¦स्तो॒तृऽभ्यः॑¦मा¦अति॑¦ध॒क्¦भगः॑¦नः॒¦बृ॒हत्¦व॒दे॒म॒¦वि॒दथे᳚¦सु॒ऽवीराः᳚ ||

[87] तदस्माइति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रोजगत्यंत्येद्वेत्रिष्टुभौ |
तद॑स्मै॒ नव्य॑मङ्गिर॒स्वद॑र्चत॒ शुष्मा॒ यद॑स्य प्र॒त्नथो॒दीर॑ते |{शौनको गृत्समदः | इन्द्रः | जगती}

विश्वा॒ यद्‌ गो॒त्रा सह॑सा॒ परी᳚वृता॒ मदे॒ सोम॑स्य दृंहि॒तान्यैर॑यत् ||{1/9}{2.6.19.1}{2.17.1}{2.2.6.1}{806, 208, 2176}

तत्¦अ॒स्मै॒¦नव्य᳚‌म्¦अ॒ङ्गि॒र॒स्वत्¦अ॒र्च॒त॒¦शुष्माः᳚¦यत्¦अ॒स्य॒¦प्र॒त्नऽथा᳚¦उ॒त्ऽईर॑ते |
विश्वा᳚¦यत्¦गो॒त्रा¦सह॑सा¦परि॑ऽवृता¦मदे᳚¦सोम॑स्य¦दृं॒हि॒तानि॑¦ऐर॑यत् ||

स भू᳚तु॒ यो ह॑ प्रथ॒माय॒ धाय॑स॒ ओजो॒ मिमा᳚नो महि॒मान॒माति॑रत् |{शौनको गृत्समदः | इन्द्रः | जगती}

शूरो॒ यो यु॒त्सु त॒न्वं᳚ परि॒व्यत॑ शी॒र्षणि॒ द्यां म॑हि॒ना प्रत्य॑मुञ्चत ||{2/9}{2.6.19.2}{2.17.2}{2.2.6.2}{807, 208, 2177}

सः¦भू॒तु॒¦यः¦ह॒¦प्र॒थ॒माय॑¦धाय॑से¦ओजः॑¦मिमा᳚नः¦म॒हि॒मान᳚‌म्¦आ¦अति॑रत् |
शूरः॑¦यः¦यु॒त्ऽसु¦त॒न्व᳚‌म्¦प॒रि॒ऽव्यत॑¦शी॒र्षणि॑¦द्या‌म्¦म॒हि॒ना¦प्रति॑¦अ॒मुं॒च॒त॒ ||

अधा᳚कृणोः प्रथ॒मं वी॒र्यं᳚ म॒हद्‌ यद॒स्याग्रे॒ ब्रह्म॑णा॒ शुष्म॒मैर॑यः |{शौनको गृत्समदः | इन्द्रः | जगती}

र॒थे॒ष्ठेन॒ हर्य॑श्वेन॒ विच्यु॑ताः॒ प्र जी॒रयः॑ सिस्रते स॒ध्र्य१॑(अ॒)क्‌ पृथ॑क् ||{3/9}{2.6.19.3}{2.17.3}{2.2.6.3}{808, 208, 2178}

अध॑¦अ॒कृ॒णोः॒¦प्र॒थ॒म‌म्¦वी॒र्य᳚‌म्¦म॒हत्¦यत्¦अ॒स्य॒¦अग्रे᳚¦ब्रह्म॑णा¦शुष्म᳚‌म्¦ऐर॑यः |
र॒थे॒ऽस्थेन॑¦हरि॑।आश्वेन¦विऽच्यु॑ताः¦प्र¦जी॒रयः॑¦सि॒स्र॒ते॒¦स॒ध्र्य॑क्¦पृथ॑क् ||

अधा॒ यो विश्वा॒ भुव॑ना॒भि म॒ज्मने᳚शान॒कृत्‌ प्रव॑या, अ॒भ्यव॑र्धत |{शौनको गृत्समदः | इन्द्रः | जगती}

आद्‌ रोद॑सी॒ ज्योति॑षा॒ वह्नि॒रात॑नो॒त् सीव्य॒न्‌ तमां᳚सि॒ दुधि॑ता॒ सम᳚व्ययत् ||{4/9}{2.6.19.4}{2.17.4}{2.2.6.4}{809, 208, 2179}

अध॑¦यः¦विश्वा᳚¦भुव॑ना¦अ॒भि¦म॒ज्मना᳚¦ई॒शा॒न॒ऽकृत्¦प्रऽव॑याः¦अ॒भि¦अव॑र्धत |
आत्¦रोद॑सी॒ इति॑¦ज्योति॑षा¦वह्निः॑¦आ¦अ॒त॒नो॒त्¦सीव्य॑न्¦तमां᳚सि¦दुधि॑ता¦स‌म्¦अ॒व्य॒य॒त् ||

स प्रा॒चीना॒न्‌ पर्व॑तान्‌ दृंह॒दोज॑सा धरा॒चीन॑मकृणोद॒पामपः॑ |{शौनको गृत्समदः | इन्द्रः | जगती}

अधा᳚रयत्‌ पृथि॒वीं वि॒श्वधा᳚यस॒मस्त॑भ्नान्मा॒यया॒ द्याम॑व॒स्रसः॑ ||{5/9}{2.6.19.5}{2.17.5}{2.2.6.5}{810, 208, 2180}

सः¦प्रा॒चीना᳚न्¦पर्व॑तान्¦दृं॒ह॒त्¦ओज॑सा¦अ॒ध॒रा॒चीन᳚‌म्¦अ॒कृ॒णो॒त्¦अ॒पा‌म्¦अपः॑ |
अधा᳚रयत्¦पृ॒थि॒वी‌म्¦वि॒श्वऽधा᳚यस‌म्¦अस्त॑भ्नात्¦मा॒यया᳚¦द्या‌म्¦अ॒व॒ऽस्रसः॑ ||

सास्मा॒, अरं᳚ बा॒हुभ्यां॒ यं पि॒ताकृ॑णो॒द् विश्व॑स्मा॒दा ज॒नुषो॒ वेद॑स॒स्परि॑ |{शौनको गृत्समदः | इन्द्रः | जगती}

येना᳚ पृथि॒व्यां नि क्रिविं᳚ श॒यध्यै॒ वज्रे᳚ण ह॒त्व्यवृ॑णक्‌ तुवि॒ष्वणिः॑ ||{6/9}{2.6.20.1}{2.17.6}{2.2.6.6}{811, 208, 2181}

सः¦अ॒स्मै॒¦अर᳚‌म्¦बा॒हुऽभ्या᳚‌म्¦य‌म्¦पि॒ता¦अकृ॑णोत्¦विश्व॑स्मात्¦आ¦ज॒नुषः॑¦वेद॑सः¦परि॑ |
येन॑¦पृ॒थि॒व्या‌म्¦नि¦क्रिवि᳚‌म्¦श॒यध्यै᳚¦वज्रे᳚ण¦ह॒त्वी¦अवृ॑णक्¦तु॒वि॒ऽस्वनिः॑ ||

अ॒मा॒जूरि॑व पि॒त्रोः सचा᳚ स॒ती स॑मा॒नादा सद॑स॒स्त्वामि॑ये॒ भग᳚म् |{शौनको गृत्समदः | इन्द्रः | जगती}

कृ॒धि प्र॑के॒तमुप॑ मा॒स्या भ॑र द॒द्धि भा॒गं त॒न्वो॒३॑(ओ॒) येन॑ मा॒महः॑ ||{7/9}{2.6.20.2}{2.17.7}{2.2.6.7}{812, 208, 2182}

अ॒मा॒जूःऽ‌इ᳚व¦पि॒त्रोः¦सचा᳚¦स॒ती¦स॒मा॒नात्¦आ¦सद॑सः¦त्वा‌म्¦इ॒ये॒¦भग᳚‌म् |
कृ॒धि¦प्र॒ऽके॒त‌म्¦उप॑¦मा॒सि॒¦आ¦भ॒र॒¦द॒द्धि¦भा॒ग‌म्¦त॒न्वः॑¦येन॑¦म॒महः॑ ||

भो॒जं त्वामि᳚न्द्र व॒यं हु॑वेम द॒दिष्ट्वमि॒न्द्रापां᳚सि॒ वाजा॑न् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

अ॒वि॒ड्ढी᳚न्द्र चि॒त्रया᳚ न ऊ॒ती कृ॒धि वृ॑षन्निन्द्र॒ वस्य॑सो नः ||{8/9}{2.6.20.3}{2.17.8}{2.2.6.8}{813, 208, 2183}

भो॒ज‌म्¦त्वा‌म्¦इ॒न्द्र॒¦व॒य‌म्¦हु॒वे॒म॒¦द॒दिः¦त्व‌म्¦इ॒न्द्र॒¦अपां᳚सि¦वाजा॑न् |
अ॒वि॒ड्ढि¦इ॒न्द्र॒¦चि॒त्रया᳚¦नः॒¦ऊ॒ती¦कृ॒धि¦वृ॒ष॒न्¦इ॒न्द्र॒¦वस्य॑सः¦नः॒ ||

नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु॑ही॒यदि᳚न्द्र॒ दक्षि॑णा म॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

शिक्षा᳚ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो᳚ नो बृ॒हद्‌ व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{9/9}{2.6.20.4}{2.17.9}{2.2.6.9}{814, 208, 2184}

नू॒न‌म्¦सा¦ते॒¦प्रति॑¦वर᳚‌म्¦ज॒रि॒त्रे¦दु॒ही॒यत्¦इ॒न्द्र॒¦दक्षि॑णा¦म॒घोनी᳚ |
शिक्ष॑¦स्तो॒तृऽभ्यः॑¦मा¦अति॑¦ध॒क्¦भगः॑¦नः॒¦बृ॒हत्¦व॒दे॒म॒¦वि॒दथे᳚¦सु॒ऽवीराः᳚ ||

[88] प्रातारथइति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् |
प्रा॒ता रथो॒ नवो᳚ योजि॒ सस्नि॒श्चतु᳚र्युगस्त्रिक॒शः स॒प्तर॑श्मिः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

दशा᳚रित्रो मनु॒ष्यः॑ स्व॒र्षाः स इ॒ष्टिभि᳚र्म॒तिभी॒ रंह्यो᳚ भूत् ||{1/9}{2.6.21.1}{2.18.1}{2.2.7.1}{815, 209, 2185}

प्रा॒तरिति॑¦रथः॑¦नवः॑¦यो॒जि॒¦सस्निः॑¦चतुः॑ऽयुगः¦त्रि॒ऽक॒शः¦स॒प्तऽर॑श्मिः |
दश॑।आरित्रः¦म॒नु॒ष्यः॑¦स्वः॒ऽसाः¦सः¦इ॒ष्टिऽभिः॑¦म॒तिऽभिः॑¦रंह्यः॑¦भू॒त् ||

सास्मा॒, अरं᳚ प्रथ॒मं स द्वि॒तीय॑मु॒तो तृ॒तीयं॒ मनु॑षः॒ स होता᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

अ॒न्यस्या॒ गर्भ॑म॒न्य ऊ᳚ जनन्त॒ सो, अ॒न्येभिः॑ सचते॒ जेन्यो॒ वृषा᳚ ||{2/9}{2.6.21.2}{2.18.2}{2.2.7.2}{816, 209, 2186}

सः¦अ॒स्मै॒¦अर᳚‌म्¦प्र॒थ॒म‌म्¦सः¦द्वि॒तीय᳚‌म्¦उ॒तो इति॑¦तृ॒तीय᳚‌म्¦मनु॑षः¦सः¦होता᳚ |
अ॒न्यस्याः᳚¦गर्भ᳚‌म्¦अ॒न्ये¦ऊँ॒ इति॑¦ज॒न॒न्त॒¦सः¦अ॒न्येभिः॑¦स॒च॒ते॒¦जेन्यः॑¦वृषा᳚ ||

हरी॒ नु कं॒ रथ॒ इन्द्र॑स्य योजमा॒यै सू॒क्तेन॒ वच॑सा॒ नवे᳚न |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

मो षु त्वामत्र॑ ब॒हवो॒ हि विप्रा॒ नि री᳚रम॒न्‌ यज॑मानासो, अ॒न्ये ||{3/9}{2.6.21.3}{2.18.3}{2.2.7.3}{817, 209, 2187}

हरी॒ इति॑¦नु¦क॒‌म्¦रथे᳚¦इन्द्र॑स्य¦यो॒ज॒‌म्¦आ॒ऽयै¦सु॒।औ॒क्तेन॑¦वच॑सा¦नवे᳚न |
मो इति॑¦सु¦त्वा‌म्¦अत्र॑¦ब॒हवः॑¦हि¦विप्राः᳚¦नि¦री॒र॒म॒न्¦यज॑मानासः¦अ॒न्ये ||

आ द्वाभ्यां॒ हरि॑भ्यामिन्द्र या॒ह्या च॒तुर्भि॒रा ष॒ड्भिर्हू॒यमा᳚नः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

आष्टा॒भिर्द॒शभिः॑ सोम॒पेय॑म॒यं सु॒तः सु॑मख॒ मा मृध॑स्कः ||{4/9}{2.6.21.4}{2.18.4}{2.2.7.4}{818, 209, 2188}

आ¦द्वाभ्या᳚‌म्¦हरि॑ऽभ्या‌म्¦इ॒न्द्र॒¦या॒हि॒¦आ¦च॒तुःऽभिः॑¦आ¦ष॒ट्ऽभिः¦हू॒यमा᳚नः |
आ¦अ॒ष्टा॒भिः¦द॒शऽभिः॑¦सो॒म॒ऽपेय᳚‌म्¦अ॒य‌म्¦सु॒तः¦सु॒ऽम॒ख॒¦मा¦मृधः॑¦क॒रिति॑ कः ||

आ विं᳚श॒त्या त्रिं॒शता᳚ याह्य॒र्वाङा च॑त्वारिं॒शता॒ हरि॑भिर्युजा॒नः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

आ प᳚ञ्चा॒शता᳚ सु॒रथे᳚भिरि॒न्द्रा ऽऽष॒ष्ट्या स॑प्त॒त्या सो᳚म॒पेय᳚म् ||{5/9}{2.6.21.5}{2.18.5}{2.2.7.5}{819, 209, 2189}

आ¦विं॒श॒त्या¦त्रिं॒शता᳚¦या॒हि॒¦अ॒र्वाङ्¦आ¦च॒त्वा॒रिं॒शता᳚¦हरि॑ऽभिः¦यु॒जा॒नः |
आ¦पं॒चा॒शता᳚¦सु॒ऽरथे᳚भिः¦इ॒न्द्र॒¦आ¦ष॒ष्ट्या¦स॒प्त॒त्या¦सो॒म॒ऽपेय᳚‌म् ||

आशी॒त्या न॑व॒त्या या᳚ह्य॒र्वाङा श॒तेन॒ हरि॑भिरु॒ह्यमा᳚नः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

अ॒यं हि ते᳚ शु॒नहो᳚त्रेषु॒ सोम॒ इन्द्र॑ त्वा॒या परि॑षिक्तो॒ मदा᳚य ||{6/9}{2.6.22.1}{2.18.6}{2.2.7.6}{820, 209, 2190}

आ¦अ॒शी॒त्या¦न॒व॒त्या¦या॒हि॒¦अ॒र्वाङ्¦आ¦श॒तेन॑¦हरि॑ऽभिः¦उ॒ह्यमा᳚नः |
अ॒य‌म्¦हि¦ते॒¦शु॒नऽहो᳚त्रेषु¦सोमः॑¦इन्द्र॑¦त्वा॒ऽया¦परि॑ऽसिक्तः¦मदा᳚य ||

मम॒ ब्रह्मे᳚न्द्र या॒ह्यच्छा॒ विश्वा॒ हरी᳚ धु॒रि धि॑ष्वा॒ रथ॑स्य |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

पु॒रु॒त्रा हि वि॒हव्यो᳚ ब॒भूथा॒स्मिञ्छू᳚र॒ सव॑ने मादयस्व ||{7/9}{2.6.22.2}{2.18.7}{2.2.7.7}{821, 209, 2191}

मम॑¦ब्रह्म॑¦इ॒न्द्र॒¦या॒हि॒¦अच्छ॑¦विश्वा᳚¦हरी॒ इति॑¦धु॒रि¦धि॒ष्व॒¦रथ॑स्य |
पु॒रु॒ऽत्रा¦हि¦वि॒ऽहव्यः॑¦ब॒भूथ॑¦अ॒स्मिन्¦शू॒र॒¦सव॑ने¦मा॒द॒य॒स्व॒ ||

न म॒ इन्द्रे᳚ण स॒ख्यं वि यो᳚षद॒स्मभ्य॑मस्य॒ दक्षि॑णा दुहीत |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

उप॒ ज्येष्ठे॒ वरू᳚थे॒ गभ॑स्तौ प्रा॒येप्रा᳚ये जिगी॒वांसः॑ स्याम ||{8/9}{2.6.22.3}{2.18.8}{2.2.7.8}{822, 209, 2192}

न¦मे॒¦इन्द्रे᳚ण¦स॒ख्य‌म्¦वि¦यो॒ष॒त्¦अ॒स्मभ्य᳚‌म्¦अ॒स्य॒¦दक्षि॑णा¦दु॒ही॒त॒ |
उप॑¦ज्येष्ठे᳚¦वरू᳚थे¦गभ॑स्तौ¦प्रा॒येऽप्रा᳚ये¦जि॒गी॒वांसः॑¦स्या॒म॒ ||

नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु॑ही॒यदि᳚न्द्र॒ दक्षि॑णा म॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

शिक्षा᳚ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो᳚ नो बृ॒हद्‌ व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{9/9}{2.6.22.4}{2.18.9}{2.2.7.9}{823, 209, 2193}

नू॒न‌म्¦सा¦ते॒¦प्रति॑¦वर᳚‌म्¦ज॒रि॒त्रे¦दु॒ही॒यत्¦इ॒न्द्र॒¦दक्षि॑णा¦म॒घोनी᳚ |
शिक्ष॑¦स्तो॒तृऽभ्यः॑¦मा¦अति॑¦ध॒क्¦भगः॑¦नः॒¦बृ॒हत्¦व॒दे॒म॒¦वि॒दथे᳚¦सु॒ऽवीराः᳚ ||

[89] अपाय्यस्येति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् |
अपा᳚य्य॒स्यान्ध॑सो॒ मदा᳚य॒ मनी᳚षिणः सुवा॒नस्य॒ प्रय॑सः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यस्मि॒न्निन्द्रः॑ प्र॒दिवि॑ वावृधा॒न ओको᳚ द॒धे ब्र᳚ह्म॒ण्यन्त॑श्च॒ नरः॑ ||{1/9}{2.6.23.1}{2.19.1}{2.2.8.1}{824, 210, 2194}

अपा᳚यि¦अ॒स्य¦अन्ध॑सः¦मदा᳚य¦मनी᳚षिणः¦सु॒वा॒नस्य॑¦प्रय॑सः |
यस्मि॑न्¦इन्द्रः॑¦प्र॒ऽदिवि॑¦व॒वृ॒धा॒नः¦ओकः॑¦द॒धे¦ब्र॒ह्म॒ण्यन्तः॑¦च॒¦नरः॑ ||

अ॒स्य म᳚न्दा॒नो मध्वो॒ वज्र॑ह॒स्तोऽहि॒मिन्द्रो᳚, अर्णो॒वृतं॒ वि वृ॑श्चत् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

प्र यद्‌ वयो॒ न स्वस॑रा॒ण्यच्छा॒ प्रयां᳚सि च न॒दीनां॒ चक्र॑मन्त ||{2/9}{2.6.23.2}{2.19.2}{2.2.8.2}{825, 210, 2195}

अ॒स्य¦म॒न्दा॒नः¦मध्वः॑¦वज्र॑ऽहस्तः¦अहि᳚‌म्¦इन्द्रः॑¦अ॒र्णः॒ऽवृत᳚‌म्¦वि¦वृ॒श्च॒त् |
प्र¦यत्¦वयः॑¦न¦स्वस॑राणि¦अच्छ॑¦प्रयां᳚सि¦च॒¦न॒दीना᳚‌म्¦चक्र॑मन्त ||

स माहि॑न॒ इन्द्रो॒, अर्णो᳚, अ॒पां प्रैर॑यदहि॒हाच्छा᳚ समु॒द्रम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

अज॑नय॒त्‌ सूर्यं᳚ वि॒दद्‌ गा, अ॒क्तुनाह्नां᳚ व॒युना᳚नि साधत् ||{3/9}{2.6.23.3}{2.19.3}{2.2.8.3}{826, 210, 2196}

सः¦माहि॑नः¦इन्द्रः॑¦अर्णः॑¦अ॒पा‌म्¦प्र¦ऐ॒र॒य॒त्¦अ॒हि॒ऽहा¦अच्छ॑¦स॒मु॒द्र‌म् |
अज॑नयत्¦सूर्य᳚‌म्¦वि॒दत्¦गाः¦अ॒क्तुना᳚¦अह्ना᳚‌म्¦व॒युना᳚नि¦सा॒ध॒त् ||

सो, अ॑प्र॒तीनि॒ मन॑वे पु॒रूणीन्द्रो᳚ दाशद्दा॒शुषे॒ हन्ति॑ वृ॒त्रम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

स॒द्यो यो नृभ्यो᳚, अत॒साय्यो॒ भूत् प॑स्पृधा॒नेभ्यः॒ सूर्य॑स्य सा॒तौ ||{4/9}{2.6.23.4}{2.19.4}{2.2.8.4}{827, 210, 2197}

सः¦अ॒प्र॒तीनि॑¦मन॑वे¦पु॒रूणि॑¦इन्द्रः॑¦दा॒श॒त्¦दा॒शुषे᳚¦हन्ति॑¦वृ॒त्र‌म् |
स॒द्यः¦यः¦नृऽभ्यः॑¦अ॒त॒साय्यः॑¦भूत्¦प॒स्पृ॒धा॒नेभ्यः॑¦सूर्य॑स्य¦सा॒तौ ||

स सु᳚न्व॒त इन्द्रः॒ सूर्य॒मा ऽऽदे॒वो रि॑ण॒ङ्मर्त्या᳚य स्त॒वान् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

आ यद्‌ र॒यिं गु॒हद॑वद्यमस्मै॒ भर॒दंशं॒ नैत॑शो दश॒स्यन् ||{5/9}{2.6.23.5}{2.19.5}{2.2.8.5}{828, 210, 2198}

सः¦सु॒न्व॒ते¦इन्द्रः॑¦सूर्य᳚‌म्¦आ¦दे॒वः¦रि॒ण॒क्¦मर्त्या᳚य¦स्त॒वान् |
आ¦यत्¦र॒यि‌म्¦गु॒हत्।आ॑वद्य‌म्¦अ॒स्मै॒¦भर॑त्¦अंश᳚‌म्¦न¦एत॑शः¦द॒श॒स्यन् ||

स र᳚न्धयत्‌ स॒दिवः॒ सार॑थये॒ शुष्ण॑म॒शुषं॒ कुय॑वं॒ कुत्सा᳚य |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

दिवो᳚दासाय नव॒तिं च॒ नवेन्द्रः॒ पुरो॒ व्यै᳚र॒च्छम्ब॑रस्य ||{6/9}{2.6.24.1}{2.19.6}{2.2.8.6}{829, 210, 2199}

सः¦र॒न्ध॒य॒त्¦स॒ऽदिवः॑¦सार॑थये¦शुष्ण᳚‌म्¦अ॒शुष᳚‌म्¦कुय॑व‌म्¦कुत्सा᳚य |
दिवः॑ऽदासाय¦न॒व॒ति‌म्¦च॒¦नव॑¦इन्द्रः॑¦पुरः॑¦वि¦ऐ॒र॒त्¦शम्ब॑रस्य ||

ए॒वा त॑ इन्द्रो॒चथ॑महेम श्रव॒स्या न त्मना᳚ वा॒जय᳚न्तः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

अ॒श्याम॒ तत्‌ साप्त॑माशुषा॒णा न॒नमो॒ वध॒रदे᳚वस्य पी॒योः ||{7/9}{2.6.24.2}{2.19.7}{2.2.8.7}{830, 210, 2200}

ए॒व¦ते॒¦इ॒न्द्र॒¦उ॒चथ᳚‌म्¦अ॒हे॒म॒¦श्र॒व॒स्या¦न¦त्मना᳚¦वा॒जय᳚न्तः |
अ॒श्याम॑¦तत्¦साप्त᳚‌म्¦आ॒शु॒षा॒णाः¦न॒नमः॑¦वधः॑¦अदे᳚वस्य¦पी॒योः ||

ए॒वा ते᳚ गृत्सम॒दाः शू᳚र॒ मन्मा᳚व॒स्यवो॒ न व॒युना᳚नि तक्षुः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

ब्र॒ह्म॒ण्यन्त॑ इन्द्र ते॒ नवी᳚य॒ इष॒मूर्जं᳚ सुक्षि॒तिं सु॒म्नम॑श्युः ||{8/9}{2.6.24.3}{2.19.8}{2.2.8.8}{831, 210, 2201}

ए॒व¦ते॒¦गृ॒त्स॒ऽम॒दाः¦शू॒र॒¦मन्म॑¦अ॒व॒स्यवः॑¦न¦व॒युना᳚नि¦त॒क्षुः॒ |
ब्र॒ह्म॒ण्यन्तः॑¦इ॒न्द्र॒¦ते॒¦नवी᳚यः¦इष᳚‌म्¦ऊर्ज᳚‌म्¦सु॒ऽक्षि॒ति‌म्¦सु॒म्न‌म्¦अ॒श्युः॒ ||

नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु॑ही॒यदि᳚न्द्र॒ दक्षि॑णा म॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

शिक्षा᳚ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो᳚ नो बृ॒हद्‌ व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{9/9}{2.6.24.4}{2.19.9}{2.2.8.9}{832, 210, 2202}

नू॒न‌म्¦सा¦ते॒¦प्रति॑¦वर᳚‌म्¦ज॒रि॒त्रे¦दु॒ही॒यत्¦इ॒न्द्र॒¦दक्षि॑णा¦म॒घोनी᳚ |
शिक्ष॑¦स्तो॒तृऽभ्यः॑¦मा¦अति॑¦ध॒क्¦भगः॑¦नः॒¦बृ॒हत्¦व॒दे॒म॒¦वि॒दथे᳚¦सु॒ऽवीराः᳚ ||

[90] वयंतइति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् तृतीयाविराड्रूपा |
व॒यं ते॒ वय॑ इन्द्र वि॒द्धि षु णः॒ प्र भ॑रामहे वाज॒युर्न रथ᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

वि॒प॒न्यवो॒ दीध्य॑तो मनी॒षा सु॒म्नमिय॑क्षन्त॒स्त्वाव॑तो॒ नॄन् ||{1/9}{2.6.25.1}{2.20.1}{2.2.9.1}{833, 211, 2203}

व॒य‌म्¦ते॒¦वयः॑¦इ॒न्द्र॒¦वि॒द्धि¦सु¦नः॒¦प्र¦भ॒रा॒म॒हे॒¦वा॒ज॒ऽयुः¦न¦रथ᳚‌म् |
वि॒प॒न्यवः॑¦दीध्य॑तः¦म॒नी॒षा¦सु॒म्न‌म्¦इय॑क्षन्तः¦त्वाऽव॑तः¦नॄन् ||

त्वं न॑ इन्द्र॒ त्वाभि॑रू॒ती त्वा᳚य॒तो, अ॑भिष्टि॒पासि॒ जना॑न् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

त्वमि॒नो दा॒शुषो᳚ वरू॒तेत्थाधी᳚र॒भि यो नक्ष॑ति त्वा ||{2/9}{2.6.25.2}{2.20.2}{2.2.9.2}{834, 211, 2204}

त्व‌म्¦नः॒¦इ॒न्द्र॒¦त्वाभिः॑¦ऊ॒ती¦त्वा॒ऽय॒तः¦अ॒भि॒ष्टि॒ऽपा¦अ॒सि॒¦जना॑न् |
त्व‌म्¦इ॒नः¦दा॒शुषः॑¦व॒रू॒ता¦इ॒त्थाऽधीः᳚¦अ॒भि¦यः¦नक्ष॑ति¦त्वा॒ ||

स नो॒ युवेन्द्रो᳚ जो॒हूत्रः॒ सखा᳚ शि॒वो न॒राम॑स्तु पा॒ता |{शौनको गृत्समदः | इन्द्रः | विराड्रूपा}

यः शंस᳚न्तं॒ यः श॑शमा॒नमू॒ती पच᳚न्तं च स्तु॒वन्तं᳚ च प्र॒णेष॑त् ||{3/9}{2.6.25.3}{2.20.3}{2.2.9.3}{835, 211, 2205}

सः¦नः॒¦युवा᳚¦इन्द्रः॑¦जो॒हूत्रः॑¦सखा᳚¦शि॒वः¦न॒रा‌म्¦अ॒स्तु॒¦पा॒ता |
यः¦शंस᳚न्त‌म्¦यः¦श॒श॒मा॒न‌म्¦ऊ॒ती¦पच᳚न्त‌म्¦च॒¦स्तु॒वन्त᳚‌म्¦च॒¦प्र॒ऽनेष॑त् ||

तमु॑ स्तुष॒ इन्द्रं॒ तं गृ॑णीषे॒ यस्मि᳚न्‌ पु॒रा वा᳚वृ॒धुः शा᳚श॒दुश्च॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

स वस्वः॒ कामं᳚ पीपरदिया॒नो ब्र᳚ह्मण्य॒तो नूत॑नस्या॒योः ||{4/9}{2.6.25.4}{2.20.4}{2.2.9.4}{836, 211, 2206}

त‌म्¦ऊँ॒ इति॑¦स्तु॒षे॒¦इन्द्र᳚‌म्¦त‌म्¦गृ॒णी॒षे॒¦यस्मि॑न्¦पु॒रा¦व॒वृ॒धुः¦शा॒श॒दुः¦च॒ |
सः¦वस्वः॑¦काम᳚‌म्¦पी॒प॒र॒त्¦इ॒या॒नः¦ब्र॒ह्म॒ण्य॒तः¦नूत॑नस्य¦आ॒योः ||

सो, अङ्गि॑रसामु॒चथा᳚ जुजु॒ष्वान् ब्रह्मा᳚ तूतो॒दिन्द्रो᳚ गा॒तुमि॒ष्णन् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

मु॒ष्णन्नु॒षसः॒ सूर्ये᳚ण स्त॒वानश्न॑स्य चिच्छिश्नथत्‌ पू॒र्व्याणि॑ ||{5/9}{2.6.25.5}{2.20.5}{2.2.9.5}{837, 211, 2207}

सः¦अङ्गि॑रसा‌म्¦उ॒चथा᳚¦जु॒जु॒ष्वान्¦ब्रह्म॑¦तू॒तो॒त्¦इन्द्रः॑¦गा॒तु‌म्¦इ॒ष्णन् |
मु॒ष्णन्¦उ॒षसः॑¦सूर्ये᳚ण¦स्त॒वान्¦अश्न॑स्य¦चि॒त्¦शि॒श्न॒थ॒त्¦पू॒र्व्याणि॑ ||

स ह॑ श्रु॒त इन्द्रो॒ नाम॑ दे॒व ऊ॒र्ध्वो भु॑व॒न्मनु॑षे द॒स्मत॑मः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

अव॑ प्रि॒यम॑र्शसा॒नस्य॑ सा॒ह्वाञ्छिरो᳚ भरद्दा॒सस्य॑ स्व॒धावा॑न् ||{6/9}{2.6.26.1}{2.20.6}{2.2.9.6}{838, 211, 2208}

सः¦ह॒¦श्रु॒तः¦इन्द्रः॑¦नाम॑¦दे॒वः¦ऊ॒र्ध्वः¦भु॒व॒त्¦मनु॑षे¦द॒स्मऽत॑मः |
अव॑¦प्रि॒य‌म्¦अ॒र्श॒सा॒नस्य॑¦स॒ह्वान्¦शिरः॑¦भ॒र॒त्¦दा॒सस्य॑¦स्व॒धाऽवा॑न् ||

स वृ॑त्र॒हेन्द्रः॑ कृ॒ष्णयो᳚नीः पुरंद॒रो दासी᳚रैरय॒द्वि |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

अज॑नय॒न्‌ मन॑वे॒ क्षाम॒पश्च॑ स॒त्रा शंसं॒ यज॑मानस्य तूतोत् ||{7/9}{2.6.26.2}{2.20.7}{2.2.9.7}{839, 211, 2209}

सः¦वृ॒त्र॒ऽहा¦इन्द्रः॑¦कृ॒ष्णऽयो᳚नीः¦पु॒र॒‌म्ऽद॒रः¦दासीः᳚¦ऐ॒र॒य॒त्¦वि |
अज॑नयत्¦मन॑वे¦क्षा॒‌म्¦अ॒पः¦च॒¦स॒त्रा¦शंस᳚‌म्¦यज॑मानस्य¦तू॒तो॒त् ||

तस्मै᳚ तव॒स्य१॑(अ॒)मनु॑ दायि स॒त्रेन्द्रा᳚य दे॒वेभि॒रर्ण॑सातौ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

प्रति॒ यद॑स्य॒ वज्रं᳚ बा॒ह्वोर्धुर्ह॒त्वी दस्यू॒न्‌ पुर॒ आय॑सी॒र्नि ता᳚रीत् ||{8/9}{2.6.26.3}{2.20.8}{2.2.9.8}{840, 211, 2210}

तस्मै᳚¦त॒व॒स्य᳚‌म्¦अनु॑¦दा॒यि॒¦स॒त्रा¦इन्द्रा᳚य¦दे॒वेभिः॑¦अर्ण॑ऽसातौ |
प्रति॑¦यत्¦अ॒स्य॒¦वज्र᳚‌म्¦बा॒ह्वोः¦धुः¦ह॒त्वी¦दस्यू᳚न्¦पुरः॑¦आय॑सीः¦नि¦ता॒री॒त् ||

नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु॑ही॒यदि᳚न्द्र॒ दक्षि॑णा म॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

शिक्षा᳚ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो᳚ नो बृ॒हद्‌ व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{9/9}{2.6.26.4}{2.20.9}{2.2.9.9}{841, 211, 2211}

नू॒न‌म्¦सा¦ते॒¦प्रति॑¦वर᳚‌म्¦ज॒रि॒त्रे¦दु॒ही॒यत्¦इ॒न्द्र॒¦दक्षि॑णा¦म॒घोनी᳚ |
शिक्ष॑¦स्तो॒तृऽभ्यः॑¦मा¦अति॑¦ध॒क्¦भगः॑¦नः॒¦बृ॒हत्¦व॒दे॒म॒¦वि॒दथे᳚¦सु॒ऽवीराः᳚ ||

[91] विश्वजित इति षडृचस्य सूक्तस्यशौनकोगृत्समदइंद्रोजगत्यंत्यात्रिष्टुप् |
वि॒श्व॒जिते᳚ धन॒जिते᳚ स्व॒र्जिते᳚ सत्रा॒जिते᳚ नृ॒जित॑ उर्वरा॒जिते᳚ |{शौनको गृत्समदः | इन्द्रः | जगती}

अ॒श्व॒जिते᳚ गो॒जिते᳚, अ॒ब्जिते᳚ भ॒रेन्द्रा᳚य॒ सोमं᳚ यज॒ताय॑ हर्य॒तम् ||{1/6}{2.6.27.1}{2.21.1}{2.2.10.1}{842, 212, 2212}

वि॒श्व॒ऽजिते᳚¦ध॒न॒ऽजिते᳚¦स्वः॒ऽजिते᳚¦स॒त्रा॒ऽजिते᳚¦नृ॒ऽजिते᳚¦उ॒र्व॒रा॒ऽजिते᳚ |
अ॒श्व॒ऽजिते᳚¦गो॒ऽजिते᳚¦अ॒प्ऽजिते᳚¦भ॒र॒¦इन्द्रा᳚य¦सोम᳚‌म्¦य॒ज॒ताय॑¦ह॒र्य॒त‌म् ||

अ॒भि॒भुवे᳚ऽभिभ॒ङ्गाय॑ वन्व॒तेऽषा᳚ळ्हाय॒ सह॑मानाय वे॒धसे᳚ |{शौनको गृत्समदः | इन्द्रः | जगती}

तु॒वि॒ग्रये॒ वह्न॑ये दु॒ष्टरी᳚तवे सत्रा॒साहे॒ नम॒ इन्द्रा᳚य वोचत ||{2/6}{2.6.27.2}{2.21.2}{2.2.10.2}{843, 212, 2213}

अ॒भि॒ऽभुवे᳚¦अ॒भि॒ऽभ॒ङ्गाय॑¦व॒न्व॒ते¦अषा᳚ळ्हाय¦सह॑मानाय¦वे॒धसे᳚ |
तु॒वि॒ऽग्रये᳚¦वह्न॑ये¦दु॒स्तरी᳚तवे¦स॒त्रा॒ऽसहे᳚¦नमः॑¦इन्द्रा᳚य¦वो॒च॒त॒ ||

स॒त्रा॒सा॒हो ज॑नभ॒क्षो ज॑नंस॒हश्च्यव॑नो यु॒ध्मो, अनु॒ जोष॑मुक्षि॒तः |{शौनको गृत्समदः | इन्द्रः | जगती}

वृ॒तं॒च॒यः सहु॑रिर्वि॒क्ष्वा᳚रि॒त इन्द्र॑स्य वोचं॒ प्र कृ॒तानि॑ वी॒र्या᳚ ||{3/6}{2.6.27.3}{2.21.3}{2.2.10.3}{844, 212, 2214}

स॒त्रा॒ऽस॒हः¦ज॒न॒ऽभ॒क्षः¦ज॒न॒‌म्ऽस॒हः¦च्यव॑नः¦यु॒ध्मः¦अनु॑¦जोष᳚‌म्¦उ॒क्षि॒तः |
वृ॒त॒‌म्ऽच॒यः¦सहु॑रिः¦वि॒क्षु¦आ॒रि॒तः¦इन्द्र॑स्य¦वोच᳚‌म्¦प्र¦कृ॒तानि॑¦वी॒र्या᳚ ||

अ॒ना॒नु॒दो वृ॑ष॒भो दोध॑तो व॒धो ग᳚म्भी॒र ऋ॒ष्वो, अस॑मष्टकाव्यः |{शौनको गृत्समदः | इन्द्रः | जगती}

र॒ध्र॒चो॒दः श्नथ॑नो वीळि॒तस्पृ॒थुरिन्द्रः॑ सुय॒ज्ञ उ॒षसः॒ स्व॑र्जनत् ||{4/6}{2.6.27.4}{2.21.4}{2.2.10.4}{845, 212, 2215}

अ॒न॒नु॒ऽदः¦वृ॒ष॒भः¦दोध॑तः¦व॒धः¦ग॒म्भी॒रः¦ऋ॒ष्वः¦अस॑मष्टऽकाव्यः |
र॒ध्र॒ऽचो॒दः¦श्नथ॑नः¦वी॒ळि॒तः¦पृ॒थुः¦इन्द्रः॑¦सु॒ऽय॒ज्ञः¦उ॒षसः॑¦स्वः॑¦ज॒न॒त् ||

य॒ज्ञेन॑ गा॒तुम॒प्तुरो᳚ विविद्रिरे॒ धियो᳚ हिन्वा॒ना, उ॒शिजो᳚ मनी॒षिणः॑ |{शौनको गृत्समदः | इन्द्रः | जगती}

अ॒भि॒स्वरा᳚ नि॒षदा॒ गा, अ॑व॒स्यव॒ इन्द्रे᳚ हिन्वा॒ना द्रवि॑णान्याशत ||{5/6}{2.6.27.5}{2.21.5}{2.2.10.5}{846, 212, 2216}

य॒ज्ञेन॑¦गा॒तु‌म्¦अ॒प्ऽतुरः॑¦वि॒वि॒द्रि॒रे॒¦धियः॑¦हि॒न्वा॒नाः¦उ॒शिजः॑¦म॒नी॒षिणः॑ |
अ॒भि॒ऽस्वरा᳚¦नि॒ऽसदा᳚¦गाः¦अ॒व॒स्यवः॑¦इन्द्रे᳚¦हि॒न्वा॒नाः¦द्रवि॑णानि¦आ॒श॒त॒ ||

इन्द्र॒ श्रेष्ठा᳚नि॒ द्रवि॑णानि धेहि॒ चित्तिं॒ दक्ष॑स्य सुभग॒त्वम॒स्मे |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

पोषं᳚ रयी॒णामरि॑ष्टिं त॒नूनां᳚ स्वा॒द्मानं᳚ वा॒चः सु॑दिन॒त्वमह्ना᳚म् ||{6/6}{2.6.27.6}{2.21.6}{2.2.10.6}{847, 212, 2217}

इन्द्र॑¦श्रेष्ठा᳚नि¦द्रवि॑णानि¦धे॒हि॒¦चित्ति᳚‌म्¦दक्ष॑स्य¦सु॒भ॒ग॒ऽत्व‌म्¦अ॒स्मे इति॑ |
पोष᳚‌म्¦र॒यी॒णा‌म्¦अरि॑ष्टि‌म्¦त॒नूना᳚‌म्¦स्वा॒द्मान᳚‌म्¦वा॒चः¦सु॒दि॒न॒ऽत्व‌म्¦अह्ना᳚‌म् ||

[92] त्रिकद्रुकेष्विति चतुरृचस्य सूक्तस्य शौनकोगृत्समद आद्याष्टिस्ततोद्वे अतिशक्वर्यावंत्याष्टिर्वा |
त्रिक॑द्रुकेषु महि॒षो यवा᳚शिरं तुवि॒शुष्म॑स्तृ॒पत्‌ सोम॑मपिब॒द्‌ विष्णु॑ना सु॒तं यथाव॑शत् |{शौनको गृत्समदः | इन्द्रः | अष्टिः}

स ईं᳚ ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुं सैनं᳚ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं᳚ स॒त्य इन्दुः॑ ||{1/4}{2.6.28.1}{2.22.1}{2.2.11.1}{848, 213, 2218}

त्रिऽक॑द्रुकेषु¦म॒हि॒षः¦यव॑ऽआशिर‌म्¦तु॒वि॒ऽशुष्मः॑¦तृ॒पत्¦सोम᳚‌म्¦अ॒पि॒ब॒त्¦विष्णु॑ना¦सु॒त‌म्¦यथा᳚¦अव॑शत् |
सः¦ई॒‌म्¦म॒मा॒द॒¦महि॑¦कर्म॑¦कर्त॑वे¦म॒हा‌म्¦उ॒रु‌म्¦सः¦ए॒न॒‌म्¦स॒श्च॒त्¦दे॒वः¦दे॒व‌म्¦स॒त्य‌म्¦इन्द्र᳚‌म्¦स॒त्यः¦इन्दुः॑ ||

अध॒ त्विषी᳚माँ, अ॒भ्योज॑सा॒ क्रिविं᳚ यु॒धाभ॑व॒दा रोद॑सी, अपृणदस्य म॒ज्मना॒ प्र वा᳚वृधे |{शौनको गृत्समदः | इन्द्रः | अतिशक्वरी}

अध॑त्ता॒न्यं ज॒ठरे॒ प्रेम॑रिच्यत॒ सैनं᳚ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं᳚ स॒त्य इन्दुः॑ ||{2/4}{2.6.28.2}{2.22.2}{2.2.11.2}{849, 213, 2219}

अध॑¦त्विषि॑ऽमान्¦अ॒भि¦ओज॑सा¦क्रिवि᳚‌म्¦यु॒धा¦अ॒भ॒व॒त्¦आ¦रोद॑सी॒ इति॑¦अ॒पृ॒ण॒त्¦अ॒स्य॒¦म॒ज्मना᳚¦प्र¦व॒वृ॒धे॒ |
अध॑त्त¦अ॒न्य‌म्¦ज॒ठरे᳚¦प्र¦ई॒‌म्¦अ॒रि॒च्य॒त॒¦सः¦ए॒न॒‌म्¦स॒श्च॒त्¦दे॒वः¦दे॒व‌म्¦स॒त्य‌म्¦इन्द्र᳚‌म्¦स॒त्यः¦इन्दुः॑ ||

सा॒कं जा॒तः क्रतु॑ना सा॒कमोज॑सा ववक्षिथ सा॒कं वृ॒द्धो वी॒र्यैः᳚ सास॒हिर्मृधो॒ विच॑र्षणिः |{शौनको गृत्समदः | इन्द्रः | अतिशक्वरी}

दाता॒ राधः॑ स्तुव॒ते काम्यं॒ वसु॒ सैनं᳚ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं᳚ स॒त्य इन्दुः॑ ||{3/4}{2.6.28.3}{2.22.3}{2.2.11.3}{850, 213, 2220}

सा॒क‌म्¦जा॒तः¦क्रतु॑ना¦सा॒क‌म्¦ओज॑सा¦व॒व॒क्षि॒थ॒¦सा॒क‌म्¦वृ॒द्धः¦वी॒र्यैः᳚¦स॒स॒हिः¦मृधः॑¦विऽच॑र्षणिः |
दाता᳚¦राधः॑¦स्तु॒व॒ते¦काम्य᳚‌म्¦वसु॑¦सः¦ए॒न॒‌म्¦स॒श्च॒त्¦दे॒वः¦दे॒व‌म्¦स॒त्य‌म्¦इन्द्र᳚‌म्¦स॒त्यः¦इन्दुः॑ ||

तव॒ त्यन्नर्यं᳚ नृ॒तोऽप॑ इन्द्र प्रथ॒मं पू॒र्व्यं दि॒वि प्र॒वाच्यं᳚ कृ॒तम् |{शौनको गृत्समदः | इन्द्रः | अष्टिः अतिशक्वरी वा}

यद्दे॒वस्य॒ शव॑सा॒ प्रारि॑णा॒, असुं᳚ रि॒णन्न॒पः |{शौनको गृत्समदः | इन्द्रः | अष्टिः अतिशक्वरी वा}

भुव॒द्‌ विश्व॑म॒भ्यादे᳚व॒मोज॑सा वि॒दादूर्जं᳚ श॒तक्र॑तुर्वि॒दादिष᳚म् ||{4/4}{2.6.28.4}{2.22.4}{2.2.11.4}{851, 213, 2221}

तव॑¦त्यत्¦नर्य᳚‌म्¦नृ॒तो॒ इति॑¦अपः॑¦इ॒न्द्र॒¦प्र॒थ॒म‌म्¦पू॒र्व्य‌म्¦दि॒वि¦प्र॒ऽवाच्य᳚‌म्¦कृ॒त‌म् |
यत्¦दे॒वस्य॑¦शव॑सा¦प्र¦अरि॑णाः¦असु᳚‌म्¦रि॒णन्¦अ॒पः |
भुव॑त्¦विश्व᳚‌म्¦अ॒भि¦अदे᳚व‌म्¦ओज॑सा¦वि॒दात्¦ऊर्ज᳚‌म्¦श॒तऽक्र॑तुः¦वि॒दात्¦इष᳚‌म् ||

[93] गणानामित्येकोन विंशत्यृचस्य सूक्तस्य शौनकोगृत्समदः आद्यापंचमीनवम्येकादशीसप्तदश्यंत्यानां ब्रह्मणस्पतिः शिष्टानां बृहस्पतिर्जगती पंचदश्यंत्येत्रिष्टुभौ |
ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ||{1/19}{2.6.29.1}{2.23.1}{2.3.1.1}{852, 214, 2222}

ग॒णाना᳚‌म्¦त्वा॒¦ग॒णऽप॑ति‌म्¦ह॒वा॒म॒हे॒¦क॒वि‌म्¦क॒वी॒ना‌म्¦उ॒प॒मश्र॑वःऽतम‌म् |
ज्ये॒ष्ठ॒ऽराज᳚‌म्¦ब्रह्म॑णा‌म्¦ब्र॒ह्म॒णः॒¦प॒ते॒¦आ¦नः॒¦शृ॒ण्वन्¦ऊ॒तिऽभिः॑¦सी॒द॒¦सद॑न‌म् ||

दे॒वाश्चि॑त्ते, असुर्य॒ प्रचे᳚तसो॒ बृह॑स्पते य॒ज्ञियं᳚ भा॒गमा᳚नशुः |{शौनको गृत्समदः | बृहस्पतिः | जगती}

उ॒स्रा, इ॑व॒ सूर्यो॒ ज्योति॑षा म॒हो विश्वे᳚षा॒मिज्ज॑नि॒ता ब्रह्म॑णामसि ||{2/19}{2.6.29.2}{2.23.2}{2.3.1.2}{853, 214, 2223}

दे॒वाः¦चि॒त्¦ते॒¦अ॒सु॒र्य॒¦प्रऽचे᳚तसः¦बृह॑स्पते¦य॒ज्ञिय᳚‌म्¦भा॒ग‌म्¦आ॒न॒शुः॒ |
उ॒स्राःऽ‌इ᳚व¦सूर्यः॑¦ज्योति॑षा¦म॒हः¦विश्वे᳚षा‌म्¦इत्¦ज॒नि॒ता¦ब्रह्म॑णा‌म्¦अ॒सि॒ ||

आ वि॒बाध्या᳚ परि॒राप॒स्तमां᳚सि च॒ ज्योति॑ष्मन्तं॒ रथ॑मृ॒तस्य॑ तिष्ठसि |{शौनको गृत्समदः | बृहस्पतिः | जगती}

बृह॑स्पते भी॒मम॑मित्र॒दम्भ॑नं रक्षो॒हणं᳚ गोत्र॒भिदं᳚ स्व॒र्विद᳚म् ||{3/19}{2.6.29.3}{2.23.3}{2.3.1.3}{854, 214, 2224}

आ¦वि॒ऽबाध्य॑¦प॒रि॒ऽरपः॑¦तमां᳚सि¦च॒¦ज्योति॑ष्मन्त‌म्¦रथ᳚‌म्¦ऋ॒तस्य॑¦ति॒ष्ठ॒सि॒ |
बृह॑स्पते¦भी॒म‌म्¦अ॒मि॒त्र॒ऽदम्भ॑न‌म्¦र॒क्षः॒ऽहन᳚‌म्¦गो॒त्र॒ऽभिद᳚‌म्¦स्वः॒ऽविद᳚‌म् ||

सु॒नी॒तिभि᳚र्नयसि॒ त्राय॑से॒ जनं॒ यस्तुभ्यं॒ दाशा॒न्‌ न तमंहो᳚, अश्नवत् |{शौनको गृत्समदः | बृहस्पतिः | जगती}

ब्र॒ह्म॒द्विष॒स्तप॑नो मन्यु॒मीर॑सि॒ बृह॑स्पते॒ महि॒ तत्ते᳚ महित्व॒नम् ||{4/19}{2.6.29.4}{2.23.4}{2.3.1.4}{855, 214, 2225}

सु॒नी॒तिऽभिः॑¦न॒य॒सि॒¦त्राय॑से¦जन᳚‌म्¦यः¦तुभ्य᳚‌म्¦दाशा᳚त्¦न¦त‌म्¦अंहः॑¦अ॒श्न॒व॒त् |
ब्र॒ह्म॒ऽद्विषः॑¦तप॑नः¦म॒न्यु॒ऽमीः¦अ॒सि॒¦बृह॑स्पते¦महि॑¦तत्¦ते॒¦म॒हि॒ऽत्व॒न‌म् ||

न तमंहो॒ न दु॑रि॒तं कुत॑श्च॒न नारा᳚तयस्तितिरु॒र्न द्व॑या॒विनः॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

विश्वा॒, इद॑स्माद्‌ ध्व॒रसो॒ वि बा᳚धसे॒ यं सु॑गो॒पा रक्ष॑सि ब्रह्मणस्पते ||{5/19}{2.6.29.5}{2.23.5}{2.3.1.5}{856, 214, 2226}

न¦त‌म्¦अंहः॑¦न¦दुः॒ऽ‌इ॒त‌म्¦कुतः॑¦च॒न¦न¦अरा᳚तयः¦ति॒ति॒रुः॒¦न¦द्व॒या॒विनः॑ |
विश्वाः᳚¦इत्¦अ॒स्मा॒त्¦ध्व॒रसः॑¦वि¦बा॒ध॒से॒¦य‌म्¦सु॒ऽगो॒पाः¦रक्ष॑सि¦ब्र॒ह्म॒णः॒¦प॒ते॒ ||

त्वं नो᳚ गो॒पाः प॑थि॒कृद्‌ वि॑चक्ष॒णस्तव᳚ व्र॒ताय॑ म॒तिभि॑र्जरामहे |{शौनको गृत्समदः | बृहस्पतिः | जगती}

बृह॑स्पते॒ यो नो᳚, अ॒भि ह्वरो᳚ द॒धे स्वा तं म᳚र्मर्तु दु॒च्छुना॒ हर॑स्वती ||{6/19}{2.6.30.1}{2.23.6}{2.3.1.6}{857, 214, 2227}

त्व‌म्¦नः॒¦गो॒पाः¦प॒थि॒ऽकृत्¦वि॒ऽच॒क्ष॒णः¦तव॑¦व्र॒ताय॑¦म॒तिऽभिः॑¦ज॒रा॒म॒हे॒ |
बृह॑स्पते¦यः¦नः॒¦अ॒भि¦ह्वरः॑¦द॒धे¦स्वा¦त‌म्¦म॒र्म॒र्तु॒¦दु॒च्छुना᳚¦हर॑स्वती ||

उ॒त वा॒ यो नो᳚ म॒र्चया॒दना᳚गसोऽराती॒वा मर्तः॑ सानु॒को वृकः॑ |{शौनको गृत्समदः | बृहस्पतिः | जगती}

बृह॑स्पते॒, अप॒ तं व॑र्तया प॒थः सु॒गं नो᳚, अ॒स्यै दे॒ववी᳚तये कृधि ||{7/19}{2.6.30.2}{2.23.7}{2.3.1.7}{858, 214, 2228}

उ॒त¦वा॒¦यः¦नः॒¦म॒र्चया᳚त्¦अना᳚गसः¦अ॒रा॒ती॒ऽवा¦मर्तः॑¦सा॒नु॒कः¦वृकः॑ |
बृह॑स्पते¦अप॑¦त‌म्¦व॒र्त॒य॒¦प॒थः¦सु॒ऽग‌म्¦नः॒¦अ॒स्यै¦दे॒वऽवी᳚तये¦कृ॒धि॒ ||

त्रा॒तारं᳚ त्वा त॒नूनां᳚ हवाम॒हेऽव॑स्पर्तरधिव॒क्तार॑मस्म॒युम् |{शौनको गृत्समदः | बृहस्पतिः | जगती}

बृह॑स्पते देव॒निदो॒ नि ब᳚र्हय॒ मा दु॒रेवा॒, उत्त॑रं सु॒म्नमुन्न॑शन् ||{8/19}{2.6.30.3}{2.23.8}{2.3.1.8}{859, 214, 2229}

त्रा॒तार᳚‌म्¦त्वा॒¦त॒नूना᳚‌म्¦ह॒वा॒म॒हे॒¦अव॑ऽस्पर्तः¦अ॒धि॒ऽव॒क्तार᳚‌म्¦अ॒स्म॒ऽयु‌म् |
बृह॑स्पते¦दे॒व॒ऽनिदः॑¦नि¦ब॒र्ह॒य॒¦मा¦दुः॒ऽएवाः᳚¦उत्ऽत॑र‌म्¦सु॒म्न‌म्¦उत्¦न॒श॒न् ||

त्वया᳚ व॒यं सु॒वृधा᳚ ब्रह्मणस्पते स्पा॒र्हा वसु॑ मनु॒ष्या द॑दीमहि |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

या नो᳚ दू॒रे त॒ळितो॒ या, अरा᳚तयो॒ऽभि सन्ति॑ ज॒म्भया॒ ता, अ॑न॒प्नसः॑ ||{9/19}{2.6.30.4}{2.23.9}{2.3.1.9}{860, 214, 2230}

त्वया᳚¦व॒य‌म्¦सु॒ऽवृधा᳚¦ब्र॒ह्म॒णः॒¦प॒ते॒¦स्पा॒र्हा¦वसु॑¦म॒नु॒ष्या᳚¦आ¦द॒दी॒म॒हि॒ |
याः¦नः॒¦दू॒रे¦त॒ळितः॑¦याः¦अरा᳚तयः¦अ॒भि¦सन्ति॑¦ज॒म्भय॑¦ताः¦अ॒न॒प्नसः॑ ||

त्वया᳚ व॒यमु॑त्त॒मं धी᳚महे॒ वयो॒ बृह॑स्पते॒ पप्रि॑णा॒ सस्नि॑ना यु॒जा |{शौनको गृत्समदः | बृहस्पतिः | जगती}

मा नो᳚ दुः॒शंसो᳚, अभिदि॒प्सुरी᳚शत॒ प्र सु॒शंसा᳚ म॒तिभि॑स्तारिषीमहि ||{10/19}{2.6.30.5}{2.23.10}{2.3.1.10}{861, 214, 2231}

त्वया᳚¦व॒य‌म्¦उ॒त्ऽत॒म‌म्¦धी॒म॒हे॒¦वयः॑¦बृह॑स्पते¦पप्रि॑णा¦सस्नि॑ना¦यु॒जा |
मा¦नः॒¦दुः॒ऽशंसः॑¦अ॒भि॒ऽदि॒प्सुः¦ई॒श॒त॒¦प्र¦सु॒ऽशंसाः᳚¦म॒तिऽभिः॑¦ता॒रि॒षी॒म॒हि॒ ||

अ॒ना॒नु॒दो वृ॑ष॒भो जग्मि॑राह॒वं निष्ट॑प्ता॒ शत्रुं॒ पृत॑नासु सास॒हिः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

असि॑ स॒त्य ऋ॑ण॒या ब्र᳚ह्मणस्पत उ॒ग्रस्य॑ चिद्दमि॒ता वी᳚ळुह॒र्षिणः॑ ||{11/19}{2.6.31.1}{2.23.11}{2.3.1.11}{862, 214, 2232}

अ॒न॒नु॒ऽदः¦वृ॒ष॒भः¦जग्मिः॑¦आ॒ऽह॒व‌म्¦निःऽत॑प्ता¦शत्रु᳚‌म्¦पृत॑नासु¦स॒स॒हिः |
असि॑¦स॒त्यः¦ऋ॒ण॒ऽयाः¦ब्र॒ह्म॒णः॒¦प॒ते॒¦उ॒ग्रस्य॑¦चि॒त्¦द॒मि॒ता¦वी॒ळु॒ऽह॒र्षिणः॑ ||

अदे᳚वेन॒ मन॑सा॒ यो रि॑ष॒ण्यति॑ शा॒सामु॒ग्रो मन्य॑मानो॒ जिघां᳚सति |{शौनको गृत्समदः | बृहस्पतिः | जगती}

बृह॑स्पते॒ मा प्रण॒क्‌ तस्य॑ नो व॒धो नि क᳚र्म म॒न्युं दु॒रेव॑स्य॒ शर्ध॑तः ||{12/19}{2.6.31.2}{2.23.12}{2.3.1.12}{863, 214, 2233}

अदे᳚वेन¦मन॑सा¦यः¦रि॒ष॒ण्यति॑¦शा॒सा‌म्¦उ॒ग्रः¦मय॑मानः¦जिघां᳚सति |
बृह॑स्पते¦मा¦प्रण॑क्¦तस्य॑¦नः॒¦व॒धः¦नि¦क॒र्म॒¦म॒न्यु‌म्¦दुः॒ऽएव॑स्य¦शर्ध॑तः ||

भरे᳚षु॒ हव्यो॒ नम॑सोप॒सद्यो॒ गन्ता॒ वाजे᳚षु॒ सनि॑ता॒ धनं᳚धनम् |{शौनको गृत्समदः | बृहस्पतिः | जगती}

विश्वा॒, इद॒र्यो, अ॑भिदि॒प्स्वो॒३॑(ओ॒) मृधो॒ बृह॒स्पति॒र्वि व॑वर्हा॒ रथाँ᳚, इव ||{13/19}{2.6.31.3}{2.23.13}{2.3.1.13}{864, 214, 2234}

भरे᳚षु¦हव्यः॑¦नम॑सा¦उ॒प॒ऽसद्यः॑¦गन्ता᳚¦वाजे᳚षु¦सनि॑ता¦धन᳚‌म्ऽधन‌म् |
विश्वाः᳚¦इत्¦अ॒र्यः¦अ॒भि॒ऽदि॒प्स्वः॑¦मृधः॑¦बृह॒स्पतिः॑¦वि¦व॒व॒र्ह॒¦रथा᳚न्ऽ‌इव ||

तेजि॑ष्ठया तप॒नी र॒क्षस॑स्तप॒ ये त्वा᳚ नि॒दे द॑धि॒रे दृ॒ष्टवी᳚र्यम् |{शौनको गृत्समदः | बृहस्पतिः | जगती}

आ॒विस्तत्‌ कृ॑ष्व॒ यदस॑त्त उ॒क्थ्य१॑(अं॒) बृह॑स्पते॒ वि प॑रि॒रापो᳚, अर्दय ||{14/19}{2.6.31.4}{2.23.14}{2.3.1.14}{865, 214, 2235}

तेजि॑ष्ठया¦त॒प॒नी¦र॒क्षसः॑¦त॒प॒¦ये¦त्वा॒¦नि॒दे¦द॒धि॒रे¦दृ॒ष्टऽवी᳚र्य‌म् |
आ॒विः¦तत्¦कृ॒ष्व॒¦यत्¦अस॑त्¦ते॒¦उ॒क्थ्य᳚‌म्¦बृह॑स्पते¦वि¦प॒रि॒ऽरपः॑¦अ॒र्द॒य॒ ||

बृह॑स्पते॒, अति॒ यद॒र्यो, अर्हा᳚द् द्यु॒मद्‌ वि॒भाति॒ क्रतु॑म॒ज्जने᳚षु |{शौनको गृत्समदः | बृहस्पतिः | त्रिष्टुप्}

यद्दी॒दय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ||{15/19}{2.6.31.5}{2.23.15}{2.3.1.15}{866, 214, 2236}

बृह॑स्पते¦अति॑¦यत्¦अ॒र्यः¦अर्हा᳚त्¦द्यु॒ऽमत्¦वि॒ऽभाति॑¦क्रतु॑ऽमत्¦जने᳚षु |
यत्¦दी॒दय॑त्¦शव॑सा¦ऋ॒त॒ऽप्र॒जा॒त॒¦तत्¦अ॒स्मासु॑¦द्रवि॑ण‌म्¦धे॒हि॒¦चि॒त्र‌म् ||

मा नः॑ स्ते॒नेभ्यो॒ ये, अ॒भि द्रु॒हस्प॒दे नि॑रा॒मिणो᳚ रि॒पवोऽन्ने᳚षु जागृ॒धुः |{शौनको गृत्समदः | बृहस्पतिः | जगती}

आ दे॒वाना॒मोह॑ते॒ वि व्रयो᳚ हृ॒दि बृह॑स्पते॒ न प॒रः साम्नो᳚ विदुः ||{16/19}{2.6.32.1}{2.23.16}{2.3.1.16}{867, 214, 2237}

मा¦नः॒¦स्ते॒नेभ्यः॑¦ये¦अ॒भि¦द्रु॒हः¦प॒दे¦नि॒रा॒मिणः॑¦रि॒पवः॑¦अन्ने᳚षु¦ज॒गृ॒धुः |
आ¦दे॒वाना᳚‌म्¦ओह॑ते¦वि¦व्रयः॑¦हृ॒दि¦बृह॑स्पते¦न¦प॒रः¦साम्नः॑¦वि॒दुः॒ ||

विश्वे᳚भ्यो॒ हि त्वा॒ भुव॑नेभ्य॒स्परि॒ त्वष्टाज॑न॒त्‌ साम्नः॑साम्नः क॒विः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

स ऋ॑ण॒चिदृ॑ण॒या ब्रह्म॑ण॒स्पति॑र्द्रु॒हो ह॒न्ता म॒ह ऋ॒तस्य॑ ध॒र्तरि॑ ||{17/19}{2.6.32.2}{2.23.17}{2.3.1.17}{868, 214, 2238}

विश्वे᳚भ्यः¦हि¦त्वा॒¦भुव॑नेभ्यः¦परि॑¦त्वष्टा᳚¦अज॑नत्¦साम्नः॑ऽसाम्नः¦क॒विः |
सः¦ऋ॒ण॒ऽचित्¦ऋ॒ण॒ऽयाः¦ब्रह्म॑णः¦पतिः॑¦द्रु॒हः¦ह॒न्ता¦म॒हः¦ऋ॒तस्य॑¦ध॒र्तरि॑ ||

तव॑ श्रि॒ये व्य॑जिहीत॒ पर्व॑तो॒ गवां᳚ गो॒त्रमु॒दसृ॑जो॒ यद᳚ङ्गिरः |{शौनको गृत्समदः | बृहस्पतिः | जगती}

इन्द्रे᳚ण यु॒जा तम॑सा॒ परी᳚वृतं॒ बृह॑स्पते॒ निर॒पामौ᳚ब्जो, अर्ण॒वम् ||{18/19}{2.6.32.3}{2.23.18}{2.3.1.18}{869, 214, 2239}

तव॑¦श्रि॒ये¦वि¦अ॒जि॒ही॒त॒¦पर्व॑तः¦गवा᳚‌म्¦गो॒त्र‌म्¦उ॒त्।आसृ॑जः¦यत्¦अ॒ङ्गि॒रः॒ |
इन्द्रे᳚ण¦यु॒जा¦तम॑सा¦परि॑ऽवृत‌म्¦बृह॑स्पते¦निः¦अ॒पा‌म्¦औ॒ब्जः॒¦अ॒र्ण॒व‌म् ||

ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व |{शौनको गृत्समदः | ब्रह्मणस्पतिः | त्रिष्टुप्}

विश्वं॒ तद्‌ भ॒द्रं यदव᳚न्ति दे॒वा बृ॒हद्‌ व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{19/19}{2.6.32.4}{2.23.19}{2.3.1.19}{870, 214, 2240}

ब्रह्म॑णः¦प॒ते॒¦त्व‌म्¦अ॒स्य¦य॒न्ता¦सु॒।औ॒क्तस्य॑¦बो॒धि॒¦तन॑य‌म्¦च॒¦जि॒न्व॒ |
विश्व᳚‌म्¦तत्¦भ॒द्र‌म्¦यत्¦अव᳚न्ति¦दे॒वाः¦बृ॒हत्¦व॒दे॒म॒¦वि॒दथे᳚¦सु॒ऽवीराः᳚ ||

[94] सेमामिति षोळशर्चस्य सूक्तस्य शौनकोगृत्समदोब्रह्मणस्पतिः प्रथमादशम्योबृहस्पतिर्द्वादश्यैंद्राब्रह्मणस्पती जगतीद्वादश्यंत्येत्रिष्टुभौ |
सेमाम॑विड्ढि॒ प्रभृ॑तिं॒ य ईशि॑षे॒ऽया वि॑धेम॒ नव॑या म॒हा गि॒रा |{शौनको गृत्समदः | बृहस्पतिः | जगती}

यथा᳚ नो मी॒ढ्वान्‌ त्स्तव॑ते॒ सखा॒ तव॒ बृह॑स्पते॒ सीष॑धः॒ सोत नो᳚ म॒तिम् ||{1/16}{2.7.1.1}{2.24.1}{2.3.2.1}{871, 215, 2241}

सः¦इ॒मा‌म्¦अ॒वि॒ड्ढि॒¦प्रऽभृ॑ति‌म्¦यः¦ईशि॑षे¦अ॒या¦वि॒धे॒म॒¦नव॑या¦म॒हा¦गि॒रा |
यथा᳚¦नः॒¦मी॒ढ्वान्¦स्तव॑ते¦सखा᳚¦तव॑¦बृह॑स्पते¦सीस॑धः¦सः¦उ॒त¦नः॒¦म॒ति‌म् ||

यो नन्त्वा॒न्यन॑म॒न्न्योज॑सो॒ताद॑र्दर्म॒न्युना॒ शम्ब॑राणि॒ वि |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

प्राच्या᳚वय॒दच्यु॑ता॒ ब्रह्म॑ण॒स्पति॒रा चावि॑श॒द्‌ वसु॑मन्तं॒ वि पर्व॑तम् ||{2/16}{2.7.1.2}{2.24.2}{2.3.2.2}{872, 215, 2242}

यः¦नन्त्वा᳚नि¦अन॑मत्¦नि¦ओज॑सा¦उ॒त¦अ॒द॒र्दः॒¦म॒न्युना᳚¦शम्ब॑राणि¦वि |
प्र¦अ॒च्य॒व॒य॒त्¦अच्यु॑ता¦ब्रह्म॑णः¦पतिः॑¦आ¦च॒¦अवि॑शत्¦वसु॑ऽमन्त‌म्¦वि¦पर्व॑त‌म् ||

तद्दे॒वानां᳚ दे॒वत॑माय॒ कर्त्व॒मश्र॑थ्नन्‌ दृ॒ळ्हाव्र॑दन्त वीळि॒ता |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

उद्गा, आ᳚ज॒दभि॑न॒द्‌ ब्रह्म॑णा व॒लमगू᳚ह॒त्तमो॒ व्य॑चक्षय॒त्स्वः॑ ||{3/16}{2.7.1.3}{2.24.3}{2.3.2.3}{873, 215, 2243}

तत्¦दे॒वाना᳚‌म्¦दे॒वऽत॑माय¦कर्त्व᳚‌म्¦अश्र॑थ्नन्¦दृ॒ळ्हा¦अव्र॑दन्त¦वी॒ळि॒ता |
उत्¦गाः¦आ॒ज॒त्¦अभि॑नत्¦ब्रह्म॑णा¦व॒ल‌म्¦अगू᳚हत्¦तमः॑¦वि¦अ॒च॒क्ष॒य॒त्¦स्व१॒॑रिति॒ स्वः॑ ||

अश्मा᳚स्यमव॒तं ब्रह्म॑ण॒स्पति॒र्मधु॑धारम॒भि यमोज॒सातृ॑णत् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

तमे॒व विश्वे᳚ पपिरे स्व॒र्दृशो᳚ ब॒हु सा॒कं सि॑सिचु॒रुत्स॑मु॒द्रिण᳚म् ||{4/16}{2.7.1.4}{2.24.4}{2.3.2.4}{874, 215, 2244}

अश्म॑ऽआस्य‌म्¦अ॒व॒त‌म्¦ब्रह्म॑णः¦पतिः॑¦मधु॑ऽधार‌म्¦अ॒भि¦य‌म्¦ओज॑सा¦अतृ॑णत् |
त‌म्¦ए॒व¦विश्वे᳚¦प॒पि॒रे॒¦स्वः॒ऽदृशः॑¦ब॒हु¦सा॒क‌म्¦सि॒सि॒चुः॒¦उत्स᳚‌म्¦उ॒द्रिण᳚‌म् ||

सना॒ ता का चि॒द्भुव॑ना॒ भवी᳚त्वा मा॒द्भिः श॒रद्भि॒र्दुरो᳚ वरन्त वः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

अय॑तन्ता चरतो, अ॒न्यद᳚न्य॒दिद्‌ या च॒कार॑ व॒युना॒ ब्रह्म॑ण॒स्पतिः॑ ||{5/16}{2.7.1.5}{2.24.5}{2.3.2.5}{875, 215, 2245}

सना᳚¦ता¦का¦चि॒त्¦भुव॑ना¦भवी᳚त्वा¦मा॒त्ऽभिः¦श॒रत्ऽभिः॑¦दुरः॑¦व॒र॒न्त॒¦वः॒ |
अय॑तन्ता¦च॒र॒तः॒¦अ॒न्यत्।आ᳚न्यत्¦इत्¦या¦च॒कार॑¦व॒युना᳚¦ब्रह्म॑णः¦पतिः॑ ||

अ॒भि॒नक्ष᳚न्तो, अ॒भि ये तमा᳚न॒शुर्नि॒धिं प॑णी॒नां प॑र॒मं गुहा᳚ हि॒तम् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

ते वि॒द्वांसः॑ प्रति॒चक्ष्यानृ॑ता॒ पुन॒र्यत॑ उ॒ आय॒न्‌ तदुदी᳚युरा॒विश᳚म् ||{6/16}{2.7.2.1}{2.24.6}{2.3.2.6}{876, 215, 2246}

अ॒भि॒ऽनक्ष᳚न्तः¦अ॒भि¦ये¦त‌म्¦आ॒न॒शुः¦नि॒ऽधि‌म्¦प॒णी॒ना‌म्¦प॒र॒म‌म्¦गुहा᳚¦हि॒त‌म् |
ते¦वि॒द्वांसः॑¦प्र॒ति॒ऽचक्ष्य॑¦अनृ॑ता¦पुनः॑¦यतः॑¦ऊँ॒ इति॑¦आय॑न्¦तत्¦उत्¦ई॒युः¦आ॒ऽविश᳚‌म् ||

ऋ॒तावा᳚नः प्रति॒चक्ष्यानृ॑ता॒ पुन॒रात॒ आ त॑स्थुः क॒वयो᳚ म॒हस्प॒थः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

ते बा॒हुभ्यां᳚ धमि॒तम॒ग्निमश्म॑नि॒ नकिः॒ षो, अ॒स्त्यर॑णो ज॒हुर्हि तम् ||{7/16}{2.7.2.2}{2.24.7}{2.3.2.7}{877, 215, 2247}

ऋ॒तऽवा᳚नः¦प्र॒ति॒ऽचक्ष्य॑¦अनृ॑ता¦पुनः॑¦आ¦अतः॑¦आ¦त॒स्थुः॒¦क॒वयः॑¦म॒हः¦प॒थः |
ते¦बा॒हुऽभ्या᳚‌म्¦ध॒मि॒त‌म्¦अ॒ग्नि‌म्¦अश्म॑नि¦नकिः॑¦सः¦अ॒स्ति॒¦अर॑णः¦जु॒हुः¦हि¦त‌म् ||

ऋ॒तज्ये᳚न क्षि॒प्रेण॒ ब्रह्म॑ण॒स्पति॒र्यत्र॒ वष्टि॒ प्र तद॑श्नोति॒ धन्व॑ना |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

तस्य॑ सा॒ध्वीरिष॑वो॒ याभि॒रस्य॑ति नृ॒चक्ष॑सो दृ॒शये॒ कर्ण॑योनयः ||{8/16}{2.7.2.3}{2.24.8}{2.3.2.8}{878, 215, 2248}

ऋ॒तऽज्ये᳚न¦क्षि॒प्रेण॑¦ब्रह्म॑णः¦पतिः॑¦यत्र॑¦वष्टि॑¦प्र¦तत्¦अ॒श्नो॒ति॒¦धन्व॑ना |
तस्य॑¦सा॒ध्वीः¦इष॑वः¦याभिः॑¦अस्य॑ति¦नृ॒ऽचक्ष॑सः¦दृ॒शये᳚¦कर्ण॑ऽयोनयः ||

स सं᳚न॒यः स वि॑न॒यः पु॒रोहि॑तः॒ स सुष्टु॑तः॒ स यु॒धि ब्रह्म॑ण॒स्पतिः॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

चा॒क्ष्मो यद्वाजं॒ भर॑ते म॒ती धना ऽऽदित्‌ सूर्य॑स्तपति तप्य॒तुर्वृथा᳚ ||{9/16}{2.7.2.4}{2.24.9}{2.3.2.9}{879, 215, 2249}

सः¦स॒‌म्ऽन॒यः¦सः¦वि॒ऽन॒यः¦पु॒रःऽहि॑तः¦सः¦सुऽस्तु॑तः¦सः¦यु॒धि¦ब्रह्म॑णः¦पतिः॑ |
चा॒क्ष्मः¦यत्¦वाज᳚‌म्¦भर॑ते¦म॒ती¦धना᳚¦आत्¦इत्¦सूर्यः॑¦त॒प॒ति॒¦त॒प्य॒तुः¦वृथा᳚ ||

वि॒भु प्र॒भु प्र॑थ॒मं मे॒हना᳚वतो॒ बृह॒स्पतेः᳚ सुवि॒दत्रा᳚णि॒ राध्या᳚ |{शौनको गृत्समदः | बृहस्पतिः | जगती}

इ॒मा सा॒तानि॑ वे॒न्यस्य॑ वा॒जिनो॒ येन॒ जना᳚, उ॒भये᳚ भुञ्ज॒ते विशः॑ ||{10/16}{2.7.2.5}{2.24.10}{2.3.2.10}{880, 215, 2250}

वि॒ऽभु¦प्र॒ऽभु¦प्र॒थ॒म‌म्¦मे॒हना᳚ऽवतः¦बृह॒स्पतेः᳚¦सु॒ऽवि॒दत्रा᳚णि¦राध्या᳚ |
इ॒मा¦सा॒तानि॑¦वे॒न्यस्य॑¦वा॒जिनः॑¦येन॑¦जनाः᳚¦उ॒भये᳚¦भुं॒ज॒ते¦विशः॑ ||

योऽव॑रे वृ॒जने᳚ वि॒श्वथा᳚ वि॒भुर्म॒हामु॑ र॒ण्वः शव॑सा व॒वक्षि॑थ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

स दे॒वो दे॒वान्‌ प्रति॑ पप्रथे पृ॒थु विश्वेदु॒ ता प॑रि॒भूर्ब्रह्म॑ण॒स्पतिः॑ ||{11/16}{2.7.3.1}{2.24.11}{2.3.2.11}{881, 215, 2251}

यः¦अव॑रे¦वृ॒जने᳚¦वि॒श्वऽथा᳚¦वि॒ऽभुः¦म॒हा‌म्¦ऊँ॒ इति॑¦र॒ण्वः¦शव॑सा¦व॒वक्षि॑थ |
सः¦दे॒वः¦दे॒वान्¦प्रति॑¦प॒प्र॒थे॒¦पृ॒थु¦विश्वा᳚¦इत्¦ऊँ॒ इति॑¦ता¦प॒रि॒ऽभूः¦ब्रह्म॑णः¦पतिः॑ ||

विश्वं᳚ स॒त्यं म॑घवाना यु॒वोरिदाप॑श्च॒न प्र मि॑नन्ति व्र॒तं वा᳚म् |{शौनको गृत्समदः | इंद्राब्रह्मणस्पतीः | त्रिष्टुप्}

अच्छे᳚न्द्राब्रह्मणस्पती ह॒विर्नोऽन्नं॒ युजे᳚व वा॒जिना᳚ जिगातम् ||{12/16}{2.7.3.2}{2.24.12}{2.3.2.12}{882, 215, 2252}

विश्व᳚‌म्¦स॒त्य‌म्¦म॒घ॒ऽवा॒ना॒¦यु॒वोः¦इत्¦आपः॑¦च॒न¦प्र¦मि॒न॒न्ति॒¦व्र॒त‌म्¦वा॒‌म् |
अच्छ॑¦इ॒न्द्रा॒ब्र॒ह्म॒ण॒स्प॒ती॒ इति॑¦ह॒विः¦नः॒¦अन्न᳚‌म्¦युजा᳚ऽ‌इव¦वा॒जिना᳚¦जि॒गा॒त॒‌म् ||

उ॒ताशि॑ष्ठा॒, अनु॑ शृण्वन्ति॒ वह्न॑यः स॒भेयो॒ विप्रो᳚ भरते म॒ती धना᳚ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

वी॒ळु॒द्वेषा॒, अनु॒ वश॑ ऋ॒णमा᳚द॒दिः स ह॑ वा॒जी स॑मि॒थे ब्रह्म॑ण॒स्पतिः॑ ||{13/16}{2.7.3.3}{2.24.13}{2.3.2.13}{883, 215, 2253}

उ॒त¦आशि॑ष्ठाः¦अनु॑¦शृ॒ण्व॒न्ति॒¦वह्न॑यः¦स॒भेयः॑¦विप्रः॑¦भ॒र॒ते॒¦म॒ती¦धना᳚ |
वी॒ळु॒ऽद्वेषाः᳚¦अनु॑¦वशा᳚¦ऋ॒ण‌म्¦आ॒ऽद॒दिः¦सः¦ह॒¦वा॒जी¦स॒‌म्ऽ‌इ॒थे¦ब्रह्म॑णः¦पतिः॑ ||

ब्रह्म॑ण॒स्पते᳚रभवद्‌ यथाव॒शं स॒त्यो म॒न्युर्महि॒ कर्मा᳚ करिष्य॒तः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

यो गा, उ॒दाज॒त्स दि॒वे वि चा᳚भजन् म॒हीव॑ री॒तिः शव॑सासर॒त्‌ पृथ॑क् ||{14/16}{2.7.3.4}{2.24.14}{2.3.2.14}{884, 215, 2254}

ब्रह्म॑णः¦पतेः᳚¦अ॒भ॒व॒त्¦य॒था॒ऽव॒श‌म्¦स॒त्यः¦म॒न्युः¦महि॑¦कर्म॑¦क॒रि॒ष्य॒तः |
यः¦गाः¦उ॒त्ऽआज॑त्¦सः¦दि॒वे¦वि¦च॒¦अ॒भ॒ज॒त्¦म॒हीऽ‌इ᳚व¦री॒तिः¦शव॑सा¦अ॒स॒र॒त्¦पृथ॑क् ||

ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा᳚ रा॒यः स्या᳚म र॒थ्यो॒३॑(ओ॒) वय॑स्वतः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

वी॒रेषु॑ वी॒राँ, उप॑ पृङ्धि न॒स्त्वं यदीशा᳚नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हव᳚म् ||{15/16}{2.7.3.5}{2.24.15}{2.3.2.15}{885, 215, 2255}

ब्रह्म॑णः¦प॒ते॒¦सु॒ऽयम॑स्य¦वि॒श्वहा᳚¦रा॒यः¦स्या॒म॒¦र॒थ्यः॑¦वय॑स्वतः |
वी॒रेषु॑¦वी॒रान्¦उप॑¦पृ॒ङ्धि॒¦नः॒¦त्व‌म्¦यत्¦ईशा᳚नः¦ब्रह्म॑णा¦वेषि॑¦मे॒¦हव᳚‌म् ||

ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व |{शौनको गृत्समदः | ब्रह्मणस्पतिः | त्रिष्टुप्}

विश्वं॒ तद्‌ भ॒द्रं यदव᳚न्ति दे॒वा बृ॒हद्‌ व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{16/16}{2.7.3.6}{2.24.16}{2.3.2.16}{886, 215, 2256}

ब्रह्म॑णः¦प॒ते॒¦त्व‌म्¦अ॒स्य¦य॒न्ता¦सु॒।औ॒क्तस्य॑¦बो॒धि॒¦तन॑य‌म्¦च॒¦जि॒न्व॒ |
विश्व᳚‌म्¦तत्¦भ॒द्र‌म्¦यत्¦अव᳚न्ति¦दे॒वाः¦बृ॒हत्¦व॒दे॒म॒¦वि॒दथे᳚¦सु॒ऽवीराः᳚ ||

[95] इंधानइति पंचर्चस्य सूक्तस्य शौनकोगृत्समदोब्रह्मणस्पतिर्जगती |
इन्धा᳚नो, अ॒ग्निं व॑नवद्‌ वनुष्य॒तः कृ॒तब्र᳚ह्मा शूशुवद्‌ रा॒तह᳚व्य॒ इत् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

जा॒तेन॑ जा॒तमति॒ स प्र स॑र्सृते॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ||{1/5}{2.7.4.1}{2.25.1}{2.3.3.1}{887, 216, 2257}

इन्धा᳚नः¦अ॒ग्नि‌म्¦व॒न॒व॒त्¦व॒नु॒ष्य॒तः¦कृ॒तऽब्र᳚ह्मा¦शू॒शु॒व॒त्¦रा॒तऽह᳚व्यः¦इत् |
जा॒तेन॑¦जा॒त‌म्¦अति॑¦सः¦प्र¦स॒र्सृ॒ते॒¦य‌म्ऽय᳚‌म्¦युज᳚‌म्¦कृ॒णु॒ते¦ब्रह्म॑णः¦पतिः॑ ||

वी॒रेभि᳚र्वी॒रान्‌ व॑नवद्‌ वनुष्य॒तो गोभी᳚ र॒यिं प॑प्रथ॒द्‌ बोध॑ति॒ त्मना᳚ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

तो॒कं च॒ तस्य॒ तन॑यं च वर्धते॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ||{2/5}{2.7.4.2}{2.25.2}{2.3.3.2}{888, 216, 2258}

वी॒रेभिः॑¦वी॒रान्¦व॒न॒व॒त्¦व॒नु॒ष्य॒तः¦गोभिः॑¦र॒यि‌म्¦प॒प्र॒थ॒त्¦बोध॑ति¦त्मना᳚ |
तो॒क‌म्¦च॒¦तस्य॑¦तन॑य‌म्¦च॒¦व॒र्ध॒ते॒¦य‌म्ऽय᳚‌म्¦युज᳚‌म्¦कृ॒णु॒ते¦ब्रह्म॑णः¦पतिः॑ ||

सिन्धु॒र्न क्षोदः॒ शिमी᳚वाँ, ऋघाय॒तो वृषे᳚व॒ वध्रीँ᳚र॒भि व॒ष्ट्योज॑सा |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

अ॒ग्नेरि॑व॒ प्रसि॑ति॒र्नाह॒ वर्त॑वे॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ||{3/5}{2.7.4.3}{2.25.3}{2.3.3.3}{889, 216, 2259}

सिन्धुः॑¦न¦क्षोदः॑¦शिमी᳚ऽवान्¦ऋ॒घा॒य॒तः¦वृषा᳚ऽ‌इव¦वध्री᳚न्¦अ॒भि¦व॒ष्टि॒¦ओज॑सा |
अ॒ग्नेःऽ‌इ᳚व¦प्रऽसि॑तिः¦न¦अह॑¦वर्त॑वे¦य‌म्ऽय᳚‌म्¦युज᳚‌म्¦कृ॒णु॒ते¦ब्रह्म॑णः¦पतिः॑ ||

तस्मा᳚, अर्षन्ति दि॒व्या, अ॑स॒श्चतः॒ स सत्व॑भिः प्रथ॒मो गोषु॑ गच्छति |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

अनि॑भृष्टतविषिर्ह॒न्त्योज॑सा॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ||{4/5}{2.7.4.4}{2.25.4}{2.3.3.4}{890, 216, 2260}

तस्मै᳚¦अ॒र्ष॒न्ति॒¦दि॒व्याः¦अ॒स॒श्चतः॑¦सः¦सत्व॑ऽभिः¦प्र॒थ॒मः¦गोषु॑¦ग॒च्छ॒ति॒ |
अनि॑भृष्टऽतविषिः¦ह॒न्ति॒¦ओज॑सा¦य‌म्ऽय᳚‌म्¦युज᳚‌म्¦कृ॒णु॒ते¦ब्रह्म॑णः¦पतिः॑ ||

तस्मा॒, इद्विश्वे᳚ धुनयन्त॒ सिन्ध॒वोऽच्छि॑द्रा॒ शर्म॑ दधिरे पु॒रूणि॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

दे॒वानां᳚ सु॒म्ने सु॒भगः॒ स ए᳚धते॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ||{5/5}{2.7.4.5}{2.25.5}{2.3.3.5}{891, 216, 2261}

तस्मै᳚¦इत्¦विश्वे᳚¦धु॒न॒य॒न्त॒¦सिन्ध॑वः¦अच्छि॑द्रा¦शर्म॑¦द॒धि॒रे॒¦पु॒रूणि॑ |
दे॒वाना᳚‌म्¦सु॒म्ने¦सु॒ऽभगः॑¦सः¦ए॒ध॒ते॒¦य‌म्ऽय᳚‌म्¦युज᳚‌म्¦कृ॒णु॒ते¦ब्रह्म॑णः¦पतिः॑ ||

[96] ऋजुरिदिति चतुरृचस्य सूक्तस्य शौनकोगृत्समदोब्रह्मणस्पतिर्जगती |
ऋ॒जुरिच्छंसो᳚ वनवद्‌ वनुष्य॒तो दे᳚व॒यन्निददे᳚वयन्तम॒भ्य॑सत् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

सु॒प्रा॒वीरिद्‌ व॑नवत्‌ पृ॒त्सु दु॒ष्टरं॒ यज्वेदय॑ज्यो॒र्वि भ॑जाति॒ भोज॑नम् ||{1/4}{2.7.5.1}{2.26.1}{2.3.4.1}{892, 217, 2262}

ऋ॒जुः¦इत्¦शंसः॑¦व॒न॒व॒त्¦व॒नु॒ष्य॒तः¦दे॒व॒ऽयन्¦इत्¦अदे᳚वऽयन्त‌म्¦अ॒भि¦अ॒स॒त् |
सु॒प्र॒।आ॒वीः¦इत्¦व॒न॒व॒त्¦पृ॒त्ऽसु¦दु॒स्तर᳚‌म्¦यज्वा᳚¦इत्¦अय॑ज्योः¦वि¦भ॒जा॒ति॒¦भोज॑न‌म् ||

यज॑स्व वीर॒ प्र वि॑हि मनाय॒तो भ॒द्रं मनः॑ कृणुष्व वृत्र॒तूर्ये᳚ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

ह॒विष्कृ॑णुष्व सु॒भगो॒ यथास॑सि॒ ब्रह्म॑ण॒स्पते॒रव॒ आ वृ॑णीमहे ||{2/4}{2.7.5.2}{2.26.2}{2.3.4.2}{893, 217, 2263}

यज॑स्व¦वी॒र॒¦प्र¦वि॒हि॒¦म॒ना॒य॒तः¦भ॒द्र‌म्¦मनः॑¦कृ॒णु॒ष्व॒¦वृ॒त्र॒ऽतूर्ये᳚ |
ह॒विः¦कृ॒णु॒ष्व॒¦सु॒ऽभगः॑¦यथा᳚¦अस॑सि¦ब्रह्म॑णः¦पतेः᳚¦अवः॑¦आ¦वृ॒णी॒म॒हे॒ ||

स इज्जने᳚न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर्वाजं᳚ भरते॒ धना॒ नृभिः॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

दे॒वानां॒ यः पि॒तर॑मा॒विवा᳚सति श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति᳚म् ||{3/4}{2.7.5.3}{2.26.3}{2.3.4.3}{894, 217, 2264}

सः¦इत्¦जने᳚न¦सः¦वि॒शा¦सः¦जन्म॑ना¦सः¦पु॒त्रैः¦वाज᳚‌म्¦भ॒र॒ते॒¦धना᳚¦नृऽभिः॑ |
दे॒वाना᳚‌म्¦यः¦पि॒तर᳚‌म्¦आ॒ऽविवा᳚सति¦श्र॒द्धाऽम॑नाः¦ह॒विषा᳚¦ब्रह्म॑णः¦पति᳚‌म् ||

यो, अ॑स्मै ह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त् प्र तं प्रा॒चा न॑यति॒ ब्रह्म॑ण॒स्पतिः॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

उ॒रु॒ष्यती॒मंह॑सो॒ रक्ष॑ती रि॒षो॒३॑(ओं॒)ऽहोश्चि॑दस्मा, उरु॒चक्रि॒रद्भु॑तः ||{4/4}{2.7.5.4}{2.26.4}{2.3.4.4}{895, 217, 2265}

यः¦अ॒स्मै॒¦ह॒व्यैः¦घृ॒तव॑त्ऽभिः¦अवि॑धत्¦प्र¦त‌म्¦प्रा॒चा¦न॒य॒ति॒¦ब्रह्म॑णः¦पतिः॑ |
उ॒रु॒ष्यति॑¦ई॒‌म्¦अंह॑सः¦रक्ष॑ति¦रि॒षः¦अं॒होः¦चि॒त्¦अ॒स्मै॒¦उ॒रु॒ऽचक्रिः॑¦अद्भु॑तः ||

[97] इमागिरइति सप्तदशर्चस्य सूक्तस्य गार्त्समदः कूर्म आदित्यात्रिष्टुप् |
इ॒मा गिर॑ आदि॒त्येभ्यो᳚ घृ॒तस्नूः᳚ स॒नाद्‌ राज॑भ्यो जु॒ह्वा᳚ जुहोमि |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

शृ॒णोतु॑ मि॒त्रो, अ᳚र्य॒मा भगो᳚ नस्तुविजा॒तो वरु॑णो॒ दक्षो॒, अंशः॑ ||{1/17}{2.7.6.1}{2.27.1}{2.3.5.1}{896, 218, 2266}

इ॒माः¦गिरः॑¦आ॒दि॒त्येभ्यः॑¦घृ॒तऽस्नूः᳚¦स॒नात्¦राज॑ऽभ्यः¦जु॒ह्वा᳚¦जु॒हो॒मि॒ |
शृ॒णोतु॑¦मि॒त्रः¦अ॒र्य॒मा¦भगः॑¦नः॒¦तु॒वि॒ऽजा॒तः¦वरु॑णः¦दक्षः॑¦अंशः॑ ||

इ॒मं स्तोमं॒ सक्र॑तवो मे, अ॒द्य मि॒त्रो, अ᳚र्य॒मा वरु॑णो जुषन्त |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

आ॒दि॒त्यासः॒ शुच॑यो॒ धार॑पूता॒, अवृ॑जिना, अनव॒द्या, अरि॑ष्टाः ||{2/17}{2.7.6.2}{2.27.2}{2.3.5.2}{897, 218, 2267}

इ॒म‌म्¦स्तोम᳚‌म्¦सऽक्र॑तवः¦मे॒¦अ॒द्य¦मि॒त्रः¦अ॒र्य॒मा¦वरु॑णः¦जु॒ष॒न्त॒ |
आ॒दि॒त्यासः॑¦शुच॑यः¦धार॑ऽपूताः¦अवृ॑जिनाः¦अ॒न॒व॒द्याः¦अरि॑ष्टाः ||

त आ᳚दि॒त्यास॑ उ॒रवो᳚ गभी॒रा, अद॑ब्धासो॒ दिप्स᳚न्तो भूर्य॒क्षाः |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

अ॒न्तः प॑श्यन्ति वृजि॒नोत सा॒धु सर्वं॒ राज॑भ्यः पर॒मा चि॒दन्ति॑ ||{3/17}{2.7.6.3}{2.27.3}{2.3.5.3}{898, 218, 2268}

ते¦आ॒दि॒त्यासः॑¦उ॒रवः॑¦ग॒भी॒राः¦अद॑ब्धासः¦दिप्स᳚न्तः¦भू॒रि॒।आ॒क्षाः |
अ॒न्तरिति॑¦प॒श्य॒न्ति॒¦वृ॒जि॒ना¦उ॒त¦सा॒धु¦सर्व᳚‌म्¦राज॑ऽभ्यः¦प॒र॒मा¦चि॒त्¦अन्ति॑ ||

धा॒रय᳚न्त आदि॒त्यासो॒ जग॒त्‌ स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गो॒पाः |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

दी॒र्घाधि॑यो॒ रक्ष॑माणा, असु॒र्य॑मृ॒तावा᳚न॒श्चय॑माना, ऋ॒णानि॑ ||{4/17}{2.7.6.4}{2.27.4}{2.3.5.4}{899, 218, 2269}

धा॒रय᳚न्तः¦आ॒दि॒त्यासः॑¦जग॑त्¦स्थाः¦दे॒वाः¦विश्व॑स्य¦भुव॑नस्य¦गो॒पाः |
दी॒र्घऽधि॑यः¦रक्ष॑माणाः¦अ॒सु॒र्य᳚‌म्¦ऋ॒तऽवा᳚नः¦चय॑मानाः¦ऋ॒णानि॑ ||

वि॒द्यामा᳚दित्या॒, अव॑सो वो, अ॒स्य यद᳚र्यमन्‌ भ॒य आ चि᳚न्मयो॒भु |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

यु॒ष्माकं᳚ मित्रावरुणा॒ प्रणी᳚तौ॒ परि॒ श्वभ्रे᳚व दुरि॒तानि॑ वृज्याम् ||{5/17}{2.7.6.5}{2.27.5}{2.3.5.5}{900, 218, 2270}

वि॒द्या‌म्¦आ॒दि॒त्याः॒¦अव॑सः¦वः॒¦अ॒स्य¦यत्¦अ॒र्य॒म॒न्¦भ॒ये¦आ¦चि॒त्¦म॒यः॒ऽभु |
यु॒ष्माक᳚‌म्¦मि॒त्रा॒व॒रुणा॒¦प्रऽनी᳚तौ¦परि॑¦श्वभ्रा᳚ऽ‌इव¦दुः॒ऽ‌इ॒तानि॑¦वृ॒ज्या॒‌म् ||

सु॒गो हि वो᳚, अर्यमन्‌ मित्र॒ पन्था᳚, अनृक्ष॒रो व॑रुण सा॒धुरस्ति॑ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

तेना᳚दित्या॒, अधि॑ वोचता नो॒ यच्छ॑ता नो दुष्परि॒हन्तु॒ शर्म॑ ||{6/17}{2.7.7.1}{2.27.6}{2.3.5.6}{901, 218, 2271}

सु॒ऽगः¦हि¦वः॒¦अ॒र्य॒म॒न्¦मि॒त्र॒¦पन्थाः᳚¦अ॒नृ॒क्ष॒रः¦व॒रु॒ण॒¦सा॒धुः¦अस्ति॑ |
तेन॑¦आ॒दि॒त्याः॒¦अधि॑¦वो॒च॒त॒¦नः॒¦यच्छ॑त¦नः॒¦दुः॒ऽप॒रि॒हन्तु॑¦शर्म॑ ||

पिप॑र्तु नो॒, अदि॑ती॒ राज॑पु॒त्राति॒ द्वेषां᳚स्यर्य॒मा सु॒गेभिः॑ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ शर्मोप॑ स्याम पुरु॒वीरा॒, अरि॑ष्टाः ||{7/17}{2.7.7.2}{2.27.7}{2.3.5.7}{902, 218, 2272}

पिप॑र्तु¦नः॒¦अदि॑तिः¦राज॑ऽपुत्रा¦अति॑¦द्वेषां᳚सि¦अ॒र्य॒मा¦सु॒ऽगेभिः॑ |
बृ॒हत्¦मि॒त्रस्य॑¦वरु॑णस्य¦शर्म॑¦उप॑¦स्या॒म॒¦पु॒रु॒ऽवीराः᳚¦अरि॑ष्टाः ||

ति॒स्रो भूमी᳚र्धारय॒न्‌ त्रीँरु॒त द्यून् त्रीणि᳚ व्र॒ता वि॒दथे᳚, अ॒न्तरे᳚षाम् |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

ऋ॒तेना᳚दित्या॒ महि॑ वो महि॒त्वं तद᳚र्यमन्‌ वरुण मित्र॒ चारु॑ ||{8/17}{2.7.7.3}{2.27.8}{2.3.5.8}{903, 218, 2273}

ति॒स्रः¦भूमीः᳚¦धा॒र॒य॒न्¦त्रीन्¦उ॒त¦द्यून्¦त्रीणि॑¦व्र॒ता¦वि॒दथे᳚¦अ॒न्तः¦ए॒षा॒‌म् |
ऋ॒तेन॑¦आ॒दि॒त्याः॒¦महि॑¦वः॒¦म॒हि॒ऽत्व‌म्¦तत्¦अ॒र्य॒म॒न्¦व॒रु॒ण॒¦मि॒त्र॒¦चारु॑ ||

त्री रो᳚च॒ना दि॒व्या धा᳚रयन्त हिर॒ण्ययाः॒ शुच॑यो॒ धार॑पूताः |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

अस्व॑प्नजो, अनिमि॒षा, अद॑ब्धा, उरु॒शंसा᳚ ऋ॒जवे॒ मर्त्या᳚य ||{9/17}{2.7.7.4}{2.27.9}{2.3.5.9}{904, 218, 2274}

त्री¦रो॒च॒ना¦दि॒व्या¦धा॒र॒य॒न्त॒¦हि॒र॒ण्ययाः᳚¦शुच॑यः¦धार॑ऽपूताः |
अस्व॑प्नऽजः¦अ॒नि॒ऽमि॒षाः¦अद॑ब्धाः¦उ॒रु॒ऽशंसाः᳚¦ऋ॒जवे᳚¦मर्त्या᳚य ||

त्वं विश्वे᳚षां वरुणासि॒ राजा॒ ये च॑ दे॒वा, अ॑सुर॒ ये च॒ मर्ताः᳚ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

श॒तं नो᳚ रास्व श॒रदो᳚ वि॒चक्षे॒ऽश्यामायूं᳚षि॒ सुधि॑तानि॒ पूर्वा᳚ ||{10/17}{2.7.7.5}{2.27.10}{2.3.5.10}{905, 218, 2275}

त्व‌म्¦विश्वे᳚षा‌म्¦व॒रु॒ण॒¦अ॒सि॒¦राजा᳚¦ये¦च॒¦दे॒वाः¦अ॒सु॒र॒¦ये¦च॒¦मर्ताः᳚ |
श॒त‌म्¦नः॒¦रा॒स्व॒¦श॒रदः॑¦वि॒ऽचक्षे᳚¦अ॒श्याम॑¦आयूं᳚षि¦सुऽधि॑तानि¦पूर्वा᳚ ||

न द॑क्षि॒णा वि चि॑किते॒ न स॒व्या न प्रा॒चीन॑मादित्या॒ नोत प॒श्चा |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

पा॒क्या᳚ चिद्‌ वसवो धी॒र्या᳚ चिद्‌ यु॒ष्मानी᳚तो॒, अभ॑यं॒ ज्योति॑रश्याम् ||{11/17}{2.7.8.1}{2.27.11}{2.3.5.11}{906, 218, 2276}

न¦द॒क्षि॒णा¦वि¦चि॒कि॒ते॒¦न¦स॒व्या¦न¦प्रा॒चीन᳚‌म्¦आ॒दि॒त्याः॒¦न¦उ॒त¦प॒श्चा |
पा॒क्या᳚¦चि॒त्¦व॒स॒वः॒¦धी॒र्या᳚¦चि॒त्¦यु॒ष्माऽनी᳚तः¦अभ॑य‌म्¦ज्योतिः॑¦अ॒श्या॒‌म् ||

यो राज॑भ्य ऋत॒निभ्यो᳚ द॒दाश॒ यं व॒र्धय᳚न्ति पु॒ष्टय॑श्च॒ नित्याः᳚ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

स रे॒वान्‌ या᳚ति प्रथ॒मो रथे᳚न वसु॒दावा᳚ वि॒दथे᳚षु प्रश॒स्तः ||{12/17}{2.7.8.2}{2.27.12}{2.3.5.12}{907, 218, 2277}

यः¦राज॑ऽभ्यः¦ऋ॒त॒निऽभ्यः॑¦द॒दाश॑¦य‌म्¦व॒र्धय᳚न्ति¦पु॒ष्टयः॑¦च॒¦नित्याः᳚ |
सः¦रे॒वान्¦या॒ति॒¦प्र॒थ॒मः¦रथे᳚न¦व॒सु॒ऽदावा᳚¦वि॒दथे᳚षु¦प्र॒ऽश॒स्तः ||

शुचि॑र॒पः सू॒यव॑सा॒, अद॑ब्ध॒ उप॑ क्षेति वृ॒द्धव॑याः सु॒वीरः॑ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

नकि॒ष्टं घ्न॒न्त्यन्ति॑तो॒ न दू॒राद्‌ य आ᳚दि॒त्यानां॒ भव॑ति॒ प्रणी᳚तौ ||{13/17}{2.7.8.3}{2.27.13}{2.3.5.13}{908, 218, 2278}

शुचिः॑¦अ॒पः¦सु॒ऽयव॑साः¦अद॑ब्धः¦उप॑¦क्षे॒ति॒¦वृ॒द्धऽव॑याः¦सु॒ऽवीरः॑ |
नकिः॑¦त‌म्¦घ्न॒न्ति॒¦अन्ति॑तः¦न¦दू॒रात्¦यः¦आ॒दि॒त्याना᳚‌म्¦भव॑ति¦प्रऽनी᳚तौ ||

अदि॑ते॒ मित्र॒ वरु॑णो॒त मृ॑ळ॒ यद्‌ वो᳚ व॒यं च॑कृ॒मा कच्चि॒दागः॑ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

उ॒र्व॑श्या॒मभ॑यं॒ ज्योति॑रिन्द्र॒ मा नो᳚ दी॒र्घा, अ॒भि न॑श॒न्तमि॑स्राः ||{14/17}{2.7.8.4}{2.27.14}{2.3.5.14}{909, 218, 2279}

अदि॑ते¦मित्र॑¦वरु॑ण¦उ॒त¦मृ॒ळ॒¦यत्¦वः॒¦व॒य‌म्¦च॒कृ॒म¦कत्¦चि॒त्¦आगः॑ |
उ॒रु¦अ॒श्या॒‌म्¦अभ॑य‌म्¦ज्योतिः॑¦इ॒न्द्र॒¦मा¦नः॒¦दी॒र्घाः¦अ॒भि¦न॒श॒न्¦तमि॑स्राः ||

उ॒भे, अ॑स्मै पीपयतः समी॒ची दि॒वो वृ॒ष्टिं सु॒भगो॒ नाम॒ पुष्य॑न् |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

उ॒भा क्षया᳚वा॒जय᳚न्‌ याति पृ॒त्सूभावर्धौ᳚ भवतः सा॒धू, अ॑स्मै ||{15/17}{2.7.8.5}{2.27.15}{2.3.5.15}{910, 218, 2280}

उ॒भे इति॑¦अ॒स्मै॒¦पी॒प॒य॒तः॒¦स॒मी॒ची इति॑ स॒‌म्ऽई॒ची¦दि॒वः¦वृ॒ष्टि‌म्¦सु॒ऽभगः॑¦नाम॑¦पुष्य॑न् |
उ॒भा¦क्षयौ᳚¦आ॒ऽजय॑न्¦या॒ति॒¦पृ॒त्ऽसु¦उ॒भौ¦अर्धौ᳚¦भ॒व॒तः॒¦सा॒धू इति॑¦अ॒स्मै॒ ||

या वो᳚ मा॒या, अ॑भि॒द्रुहे᳚ यजत्राः॒ पाशा᳚, आदित्या रि॒पवे॒ विचृ॑त्ताः |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

अ॒श्वीव॒ ताँ, अति॑ येषं॒ रथे॒नारि॑ष्टा, उ॒रावा शर्म᳚न्‌ त्स्याम ||{16/17}{2.7.8.6}{2.27.16}{2.3.5.16}{911, 218, 2281}

याः¦वः॒¦मा॒याः¦अ॒भि॒ऽद्रुहे᳚¦य॒ज॒त्राः॒¦पाशाः᳚¦आ॒दि॒त्याः॒¦रि॒पवे᳚¦विऽचृ॑त्ताः |
अ॒श्वीऽ‌इ᳚व¦तान्¦अति॑¦ये॒ष॒‌म्¦रथे᳚न¦अरि॑ष्टाः¦उ॒रौ¦आ¦शर्म॑न्¦स्या॒म॒ ||

माहं म॒घोनो᳚ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

मा रा॒यो रा᳚जन्‌ त्सु॒यमा॒दव॑ स्थां बृ॒हद्‌ व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{17/17}{2.7.8.7}{2.27.17}{2.3.5.17}{912, 218, 2282}

मा¦अ॒ह‌म्¦म॒घोनः॑¦व॒रु॒ण॒¦प्रि॒यस्य॑¦भू॒रि॒ऽदाव्नः॑¦आ¦वि॒द॒‌म्¦शून᳚‌म्¦आ॒पेः |
मा¦रा॒यः¦रा॒जन्¦सु॒ऽयमा᳚त्¦अव॑¦स्था॒‌म्¦बृ॒हत्¦व॒दे॒म॒¦वि॒दथे᳚¦सु॒ऽवीराः᳚ ||

[98] इदंकवेरित्येकादशर्चस्य सूक्तस्य गार्त्समदःकूर्मोवरुणस्त्रिष्टुप् |(दशमी दुःस्वप्ननाशिनीत्रिष्वपिसूक्तेषु पाक्षिको गृत्समदोस्त्येव)|
इ॒दं क॒वेरा᳚दि॒त्यस्य॑ स्व॒राजो॒ विश्वा᳚नि॒ सान्त्य॒भ्य॑स्तु म॒ह्ना |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

अति॒ यो म॒न्द्रो य॒जथा᳚य दे॒वः सु॑की॒र्तिं भि॑क्षे॒ वरु॑णस्य॒ भूरेः᳚ ||{1/11}{2.7.9.1}{2.28.1}{2.3.6.1}{913, 219, 2283}

इ॒द‌म्¦क॒वेः¦आ॒दि॒त्यस्य॑¦स्व॒ऽराजः॑¦विश्वा᳚नि¦सन्ति॑¦अ॒भि¦अ॒स्तु॒¦म॒ह्ना |
अति॑¦यः¦म॒न्द्रः¦य॒जथा᳚य¦दे॒वः¦सु॒ऽकी॒र्ति‌म्¦भि॒क्षे॒¦वरु॑णस्य¦भूरेः᳚ ||

तव᳚ व्र॒ते सु॒भगा᳚सः स्याम स्वा॒ध्यो᳚ वरुण तुष्टु॒वांसः॑ |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

उ॒पाय॑न उ॒षसां॒ गोम॑तीनाम॒ग्नयो॒ न जर॑माणा॒, अनु॒ द्यून् ||{2/11}{2.7.9.2}{2.28.2}{2.3.6.2}{914, 219, 2284}

तव॑¦व्र॒ते¦सु॒ऽभगा᳚सः¦स्या॒म॒¦सु॒ऽआ॒ध्यः॑¦व॒रु॒ण॒¦तु॒स्तु॒ऽवांसः॑ |
उ॒प॒।आय॑ने¦उ॒षसा᳚‌म्¦गोऽम॑तीना‌म्¦अ॒ग्नयः॑¦न¦जर॑माणाः¦अनु॑¦द्यून् ||

तव॑ स्याम पुरु॒वीर॑स्य॒ शर्म᳚न्नुरु॒शंस॑स्य वरुण प्रणेतः |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

यू॒यं नः॑ पुत्रा, अदितेरदब्धा, अ॒भि क्ष॑मध्वं॒ युज्या᳚य देवाः ||{3/11}{2.7.9.3}{2.28.3}{2.3.6.3}{915, 219, 2285}

तव॑¦स्या॒म॒¦पु॒रु॒ऽवीर॑स्य¦शर्म॑न्¦उ॒रु॒ऽशंस॑स्य¦व॒रु॒ण॒¦प्र॒ने॒त॒रिति॑ प्रऽनेतः |
यू॒य‌म्¦नः॒¦पु॒त्राः॒¦अ॒दि॒तेः॒¦अ॒द॒ब्धाः॒¦अ॒भि¦क्ष॒म॒ध्व॒‌म्¦युज्या᳚य¦दे॒वाः॒ ||

प्र सी᳚मादि॒त्यो, अ॑सृजद्‌ विध॒र्ताँ, ऋ॒तं सिन्ध॑वो॒ वरु॑णस्य यन्ति |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

न श्रा᳚म्यन्ति॒ न वि मु॑चन्त्ये॒ते वयो॒ न प॑प्तू रघु॒या परि॑ज्मन् ||{4/11}{2.7.9.4}{2.28.4}{2.3.6.4}{916, 219, 2286}

प्र¦सी॒‌म्¦आ॒दि॒त्यः¦अ॒सृ॒ज॒त्¦वि॒ऽध॒र्ता¦ऋ॒त‌म्¦सिन्ध॑वः¦वरु॑णस्य¦य॒न्ति॒ |
न¦श्रा॒म्य॒न्ति॒¦न¦वि¦मु॒च॒न्ति॒¦ए॒ते¦वयः॑¦न¦प॒प्तुः॒¦र॒घु॒ऽया¦परि॑ऽज्मन् ||

वि मच्छ्र॑थाय रश॒नामि॒वाग॑ ऋ॒ध्याम॑ ते वरुण॒ खामृ॒तस्य॑ |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

मा तन्तु॑श्छेदि॒ वय॑तो॒ धियं᳚ मे॒ मा मात्रा᳚ शार्य॒पसः॑ पु॒र ऋ॒तोः ||{5/11}{2.7.9.5}{2.28.5}{2.3.6.5}{917, 219, 2287}

वि¦मत्¦श्र॒थ॒य॒¦र॒श॒ना‌म्ऽ‌इ᳚व¦आगः॑¦ऋ॒ध्याम॑¦ते॒¦व॒रु॒ण॒¦खा‌म्¦ऋ॒तस्य॑ |
मा¦तन्तुः॑¦छे॒दि॒¦वय॑तः¦धिय᳚‌म्¦मे॒¦मा¦मात्रा᳚¦शा॒रि॒¦अ॒पसः॑¦पु॒रा¦ऋ॒तोः ||

अपो॒ सु म्य॑क्ष वरुण भि॒यसं॒ मत्‌ सम्रा॒ळृता॒वोऽनु॑ मा गृभाय |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

दामे᳚व व॒त्साद्‌ वि मु॑मु॒ग्ध्यंहो᳚ न॒हि त्वदा॒रे नि॒मिष॑श्च॒नेशे᳚ ||{6/11}{2.7.10.1}{2.28.6}{2.3.6.6}{918, 219, 2288}

अपो॒ इति॑¦सु¦म्य॒क्ष॒¦व॒रु॒ण॒¦भि॒यस᳚‌म्¦मत्¦स‌म्ऽरा᳚ट्¦ऋत॑ऽवः¦अनु॑¦मा॒¦गृ॒भा॒य॒ |
दाम॑ऽ‌इव¦व॒त्सात्¦वि¦मु॒मु॒ग्धि॒¦अंहः॑¦न॒हि¦त्वत्¦आ॒रे¦नि॒ऽमिषः॑¦च॒न¦ईशे᳚ ||

मा नो᳚ व॒धैर्व॑रुण॒ ये त॑ इ॒ष्टावेनः॑ कृ॒ण्वन्त॑मसुर भ्री॒णन्ति॑ |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

मा ज्योति॑षः प्रवस॒थानि॑ गन्म॒ वि षू मृधः॑ शिश्रथो जी॒वसे᳚ नः ||{7/11}{2.7.10.2}{2.28.7}{2.3.6.7}{919, 219, 2289}

मा¦नः॒¦व॒धैः¦व॒रु॒ण॒¦ये¦ते॒¦इ॒ष्टौ¦एनः॑¦कृ॒ण्वन्त᳚‌म्¦अ॒सु॒र॒¦भ्री॒णन्ति॑ |
मा¦ज्योति॑षः¦प्र॒ऽव॒स॒थानि॑¦ग॒न्म॒¦वि¦सु¦मृधः॑¦शि॒श्र॒थः॒¦जी॒वसे᳚¦नः॒ ||

नमः॑ पु॒रा ते᳚ वरुणो॒त नू॒नमु॒ताप॒रं तु॑विजात ब्रवाम |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

त्वे हि कं॒ पर्व॑ते॒ न श्रि॒तान्यप्र॑च्युतानि दूळभ व्र॒तानि॑ ||{8/11}{2.7.10.3}{2.28.8}{2.3.6.8}{920, 219, 2290}

नमः॑¦पु॒रा¦ते॒¦व॒रु॒ण॒¦उ॒त¦नू॒न‌म्¦उ॒त¦अ॒प॒र‌म्¦तु॒वि॒ऽजा॒त॒¦ब्र॒वा॒म॒ |
त्वे इति॑¦हि¦क॒‌म्¦पर्व॑ते¦न¦श्रि॒तानि॑¦अप्र॑ऽच्युतानि¦दुः॒ऽद॒भ॒¦व्र॒तानि॑ ||

पर॑ ऋ॒णा सा᳚वी॒रध॒ मत्कृ॑तानि॒ माहं रा᳚जन्न॒न्यकृ॑तेन भोजम् |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

अव्यु॑ष्टा॒, इन्नु भूय॑सीरु॒षास॒ आ नो᳚ जी॒वान्‌ व॑रुण॒ तासु॑ शाधि ||{9/11}{2.7.10.4}{2.28.9}{2.3.6.9}{921, 219, 2291}

परा᳚¦ऋ॒णा¦सा॒वीः॒¦अध॑¦मत्ऽकृ॑तानि¦मा¦अ॒ह‌म्¦रा॒ज॒न्¦अ॒न्यऽकृ॑तेन¦भो॒ज॒‌म् |
अवि॑।औष्टाः¦इत्¦नु¦भूय॑सीः¦उ॒षसः॑¦आ¦नः॒¦जी॒वान्¦व॒रु॒ण॒¦तासु॑¦शा॒धि॒ ||

यो मे᳚ राज॒न्‌ युज्यो᳚ वा॒ सखा᳚ वा॒ स्वप्ने᳚ भ॒यं भी॒रवे॒ मह्य॒माह॑ |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

स्ते॒नो वा॒ यो दिप्स॑ति नो॒ वृको᳚ वा॒ त्वं तस्मा᳚द्‌ वरुण पाह्य॒स्मान् ||{10/11}{2.7.10.5}{2.28.10}{2.3.6.10}{922, 219, 2292}

यः¦मे॒¦रा॒ज॒न्¦युज्यः॑¦वा॒¦सखा᳚¦वा॒¦स्वप्ने᳚¦भ॒य‌म्¦भी॒रवे᳚¦मह्य᳚‌म्¦आह॑ |
स्ते॒नः¦वा॒¦यः¦दिप्स॑ति¦नः॒¦वृकः॑¦वा॒¦त्व‌म्¦तस्मा᳚त्¦व॒रु॒ण॒¦पा॒हि॒¦अ॒स्मान् ||

माहं म॒घोनो᳚ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

मा रा॒यो रा᳚जन्‌ त्सु॒यमा॒दव॑ स्थां बृ॒हद्‌ व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{11/11}{2.7.10.6}{2.28.11}{2.3.6.11}{923, 219, 2293}

मा¦अ॒ह‌म्¦म॒घोनः॑¦व॒रु॒ण॒¦प्रि॒यस्य॑¦भू॒रि॒ऽदाव्नः॑¦आ¦वि॒द॒‌म्¦शून᳚‌म्¦आ॒पेः |
मा¦रा॒यः¦रा॒जन्¦सु॒ऽयमा᳚त्¦अव॑¦स्था॒‌म्¦बृ॒हत्¦व॒दे॒म॒¦वि॒दथे᳚¦सु॒ऽवीराः᳚ ||

[99] धृतव्रता इति सप्तर्चस्य सूक्तस्य गार्त्समदःकूर्मोविश्वेदेवास्त्रिष्टुप् | (भेदप्रयोगे - आद्यानांषण्णां विश्वेदेवाः अंत्यायावरुणः) |
धृत᳚व्रता॒, आदि॑त्या॒, इषि॑रा, आ॒रे मत्‌ क॑र्त रह॒सूरि॒वागः॑ |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्}

शृ॒ण्व॒तो वो॒ वरु॑ण॒ मित्र॒ देवा᳚ भ॒द्रस्य॑ वि॒द्वाँ, अव॑से हुवे वः ||{1/7}{2.7.11.1}{2.29.1}{2.3.7.1}{924, 220, 2294}

धृत॑ऽव्रताः¦आदि॑त्याः¦इषि॑राः¦आ॒रे¦मत्¦क॒र्त॒¦र॒ह॒सूःऽ‌इ᳚व¦आगः॑ |
शृ॒ण्व॒तः¦वः॒¦वरु॑ण¦मित्र॑¦देवाः᳚¦भ॒द्रस्य॑¦वि॒द्वान्¦अव॑से¦हु॒वे॒¦वः॒ ||

यू॒यं दे᳚वाः॒ प्रम॑तिर्यू॒यमोजो᳚ यू॒यं द्वेषां᳚सि सनु॒तर्यु॑योत |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्}

अ॒भि॒क्ष॒त्तारो᳚, अ॒भि च॒ क्षम॑ध्वम॒द्या च॑ नो मृ॒ळय॑ताप॒रं च॑ ||{2/7}{2.7.11.2}{2.29.2}{2.3.7.2}{925, 220, 2295}

यू॒य‌म्¦दे॒वाः॒¦प्रऽम॑तिः¦यू॒य‌म्¦ओजः॑¦यू॒य‌म्¦द्वेषां᳚सि¦स॒नु॒तः¦यु॒यो॒त॒ |
अ॒भि॒ऽक्ष॒त्तारः॑¦अ॒भि¦च॒¦क्षम॑ध्व‌म्¦अ॒द्य¦च॒¦नः॒¦मृ॒ळय॑त¦अ॒प॒र‌म्¦च॒ ||

किमू॒ नु वः॑ कृणवा॒माप॑रेण॒ किं सने᳚न वसव॒ आप्ये᳚न |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्}

यू॒यं नो᳚ मित्रावरुणादिते च स्व॒स्तिमि᳚न्द्रामरुतो दधात ||{3/7}{2.7.11.3}{2.29.3}{2.3.7.3}{926, 220, 2296}

कि‌म्¦ऊँ॒ इति॑¦नु¦वः॒¦कृ॒ण॒वा॒म॒¦अप॑रेण¦कि‌म्¦सने᳚न¦व॒स॒वः॒¦आप्ये᳚न |
यू॒य‌म्¦नः॒¦मि॒त्रा॒व॒रु॒णा॒¦अ॒दि॒ते॒¦च॒¦स्व॒स्ति‌म्¦इ॒न्द्रा॒म॒रु॒तः॒¦द॒धा॒त॒ ||

ह॒ये दे᳚वा यू॒यमिदा॒पयः॑ स्थ॒ ते मृ॑ळत॒ नाध॑मानाय॒ मह्य᳚म् |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्}

मा वो॒ रथो᳚ मध्यम॒वाळृ॒ते भू॒न्मा यु॒ष्माव॑त्स्वा॒पिषु॑ श्रमिष्म ||{4/7}{2.7.11.4}{2.29.4}{2.3.7.4}{927, 220, 2297}

ह॒ये¦दे॒वाः॒¦यू॒य‌म्¦इत्¦आ॒पयः॑¦स्थ॒¦ते¦मृ॒ळ॒त॒¦नाध॑मानाय¦मह्य᳚‌म् |
मा¦वः॒¦रथः॑¦म॒ध्य॒म॒ऽवाट्¦ऋ॒ते¦भू॒त्¦मा¦यु॒ष्माव॑त्ऽसु¦आ॒पिषु॑¦श्र॒मि॒ष्म॒ ||

प्र व॒ एको᳚ मिमय॒ भूर्यागो॒ यन्मा᳚ पि॒तेव॑ कित॒वं श॑शा॒स |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्}

आ॒रे पाशा᳚, आ॒रे, अ॒घानि॑ देवा॒ मा माधि॑ पु॒त्रे विमि॑व ग्रभीष्ट ||{5/7}{2.7.11.5}{2.29.5}{2.3.7.5}{928, 220, 2298}

प्र¦वः॒¦एकः॑¦मि॒म॒य॒¦भूरि॑¦आगः॑¦यत्¦मा॒¦पि॒ताऽ‌इ᳚व¦कि॒त॒व‌म्¦श॒शा॒स |
आ॒रे¦पाशाः᳚¦आ॒रे¦अ॒घानि॑¦दे॒वाः॒¦मा¦मा॒¦अधि॑¦पु॒त्रे¦वि‌म्ऽ‌इ᳚व¦ग्र॒भी॒ष्ट॒ ||

अ॒र्वाञ्चो᳚, अ॒द्या भ॑वता यजत्रा॒, आ वो॒ हार्दि॒ भय॑मानो व्ययेयम् |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्}

त्राध्वं᳚ नो देवा नि॒जुरो॒ वृक॑स्य॒ त्राध्वं᳚ क॒र्ताद॑व॒पदो᳚ यजत्राः ||{6/7}{2.7.11.6}{2.29.6}{2.3.7.6}{929, 220, 2299}

अ॒र्वांचः॑¦अ॒द्य¦भ॒व॒त॒¦य॒ज॒त्राः॒¦आ¦वः॒¦हार्दि॑¦भय॑मानः¦व्य॒ये॒य॒‌म् |
त्राध्व᳚‌म्¦नः॒¦दे॒वाः॒¦नि॒ऽजुरः॑¦वृक॑स्य¦त्राध्व᳚‌म्¦क॒र्तात्¦अ॒व॒ऽपदः॑¦य॒ज॒त्राः॒ ||

माहं म॒घोनो᳚ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्}

मा रा॒यो रा᳚जन्‌ त्सु॒यमा॒दव॑ स्थां बृ॒हद्‌ व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{7/7}{2.7.11.7}{2.29.7}{2.3.7.7}{930, 220, 2300}

मा¦अ॒ह‌म्¦म॒घोनः॑¦व॒रु॒ण॒¦प्रि॒यस्य॑¦भू॒रि॒ऽदाव्नः॑¦आ¦वि॒द॒‌म्¦शून᳚‌म्¦आ॒पेः |
मा¦रा॒यः¦रा॒जन्¦सु॒ऽयमा᳚त्¦अव॑¦स्था॒‌म्¦बृ॒हत्¦व॒दे॒म॒¦वि॒दथे᳚¦सु॒ऽवीराः᳚ ||

[100] ऋतंदेवायेत्येकादशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रः षष्ठ्याइंद्रासोमौ अष्टम्याः सरस्वती नवम्याबृहस्पतिरेकादश्यामरुतस्त्रिष्टुबन्त्याजगती |
ऋ॒तं दे॒वाय॑ कृण्व॒ते स॑वि॒त्र इन्द्रा᳚याहि॒घ्ने न र॑मन्त॒ आपः॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

अह॑रहर्यात्य॒क्तुर॒पां किया॒त्या प्र॑थ॒मः सर्ग॑ आसाम् ||{1/11}{2.7.12.1}{2.30.1}{2.3.8.1}{931, 221, 2301}

ऋ॒त‌म्¦दे॒वाय॑¦कृ॒ण्व॒ते¦स॒वि॒त्रे¦इन्द्रा᳚य¦अ॒हि॒ऽघ्ने¦न¦र॒म॒न्ते॒¦आपः॑ |
अहः॑।आहः¦या॒ति॒¦अ॒क्तुः¦अ॒पा‌म्¦किय॑ति¦आ¦प्र॒थ॒मः¦सर्गः॑¦आ॒सा॒‌म् ||

यो वृ॒त्राय॒ सिन॒मत्राभ॑रिष्य॒त् प्र तं जनि॑त्री वि॒दुष॑ उवाच |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

प॒थो रद᳚न्ती॒रनु॒ जोष॑मस्मै दि॒वेदि॑वे॒ धुन॑यो य॒न्त्यर्थ᳚म् ||{2/11}{2.7.12.2}{2.30.2}{2.3.8.2}{932, 221, 2302}

यः¦वृ॒त्राय॑¦सिन᳚‌म्¦अत्र॑¦अभ॑रिष्यत्¦प्र¦त‌म्¦जनि॑त्री¦वि॒दुषे᳚¦उ॒वा॒च॒ |
प॒थः¦रद᳚न्तीः¦अनु॑¦जोष᳚‌म्¦अ॒स्मै॒¦दि॒वेऽदि॑वे¦धुन॑यः¦य॒न्ति॒¦अर्थ᳚‌म् ||

ऊ॒र्ध्वो ह्यस्था॒दध्य॒न्तरि॒क्षेऽधा᳚ वृ॒त्राय॒ प्र व॒धं ज॑भार |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

मिहं॒ वसा᳚न॒ उप॒ हीमदु॑द्रोत् ति॒ग्मायु॑धो, अजय॒च्छत्रु॒मिन्द्रः॑ ||{3/11}{2.7.12.3}{2.30.3}{2.3.8.3}{933, 221, 2303}

ऊ॒र्ध्वः¦हि¦अस्था᳚त्¦अधि॑¦अ॒न्तरि॑क्षे¦अध॑¦वृ॒त्राय॑¦प्र¦व॒ध‌म्¦ज॒भा॒र॒ |
मिह᳚‌म्¦वसा᳚नः¦उप॑¦हि¦ई॒‌म्¦अदु॑द्रोत्¦ति॒ग्मऽआ᳚युधः¦अ॒ज॒य॒त्¦शत्रु᳚‌म्¦इन्द्रः॑ ||

बृह॑स्पते॒ तपु॒षाश्ने᳚व विध्य॒ वृक॑द्वरसो॒, असु॑रस्य वी॒रान् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यथा᳚ ज॒घन्थ॑ धृष॒ता पु॒रा चि॑दे॒वा ज॑हि॒ शत्रु॑म॒स्माक॑मिन्द्र ||{4/11}{2.7.12.4}{2.30.4}{2.3.8.4}{934, 221, 2304}

बृह॑स्पते¦तपु॑षा¦अश्ना᳚ऽ‌इव¦वि॒ध्य॒¦वृक॑ऽद्वरसः¦असु॑रस्य¦वी॒रान् |
यथा᳚¦ज॒घन्थ॑¦धृ॒ष॒ता¦पु॒रा¦चि॒त्¦ए॒व¦ज॒हि॒¦शत्रु᳚‌म्¦अ॒स्माक᳚‌म्¦इ॒न्द्र॒ ||

अव॑ क्षिप दि॒वो, अश्मा᳚नमु॒च्चा येन॒ शत्रुं᳚ मन्दसा॒नो नि॒जूर्वाः᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

तो॒कस्य॑ सा॒तौ तन॑यस्य॒ भूरे᳚र॒स्माँ, अ॒र्धं कृ॑णुतादिन्द्र॒ गोना᳚म् ||{5/11}{2.7.12.5}{2.30.5}{2.3.8.5}{935, 221, 2305}

अव॑¦क्षि॒प॒¦दि॒वः¦अश्मा᳚न‌म्¦उ॒च्चा¦येन॑¦शत्रु᳚‌म्¦म॒न्द॒सा॒नः¦नि॒ऽजूर्वाः᳚ |
तो॒कस्य॑¦सा॒तौ¦तन॑यस्य¦भूरेः᳚¦अ॒स्मान्¦अ॒र्ध‌म्¦कृ॒णु॒ता॒त्¦इ॒न्द्र॒¦गोना᳚‌म् ||

प्र हि क्रतुं᳚ वृ॒हथो॒ यं व॑नु॒थो र॒ध्रस्य॑ स्थो॒ यज॑मानस्य चो॒दौ |{शौनको गृत्समदः | इन्द्रासोमौ | त्रिष्टुप्}

इन्द्रा᳚सोमा यु॒वम॒स्माँ, अ॑विष्टम॒स्मिन्‌ भ॒यस्थे᳚ कृणुतमु लो॒कम् ||{6/11}{2.7.13.1}{2.30.6}{2.3.8.6}{936, 221, 2306}

प्र¦हि¦क्रतु᳚‌म्¦वृ॒हथः॑¦य‌म्¦व॒नु॒थः¦र॒ध्रस्य॑¦स्थः॒¦यज॑मानस्य¦चो॒दौ |
इन्द्रा᳚सोमा¦यु॒व‌म्¦अ॒स्मान्¦अ॒वि॒ष्ट॒‌म्¦अ॒स्मिन्¦भ॒यऽस्थे᳚¦कृ॒णु॒त॒‌म्¦ऊँ॒ इति॑¦लो॒क‌म् ||

न मा᳚ तम॒न्न श्र॑म॒न्नोत त᳚न्द्र॒न्न वो᳚चाम॒ मा सु॑नो॒तेति॒ सोम᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यो मे᳚ पृ॒णाद्‌ यो दद॒द्‌ यो नि॒बोधा॒द्‌ यो मा᳚ सु॒न्वन्त॒मुप॒ गोभि॒राय॑त् ||{7/11}{2.7.13.2}{2.30.7}{2.3.8.7}{937, 221, 2307}

न¦मा॒¦त॒म॒त्¦न¦श्र॒म॒त्¦न¦उ॒त¦त॒न्द्र॒त्¦न¦वो॒चा॒म॒¦मा¦सु॒नो॒त॒¦इति॑¦सोम᳚‌म् |
यः¦मे॒¦पृ॒णात्¦यः¦दद॑त्¦यः¦नि॒ऽबोधा᳚त्¦यः¦मा॒¦सु॒न्वन्त᳚‌म्¦उप॑¦गोभिः॑¦आ¦अय॑त् ||

सर॑स्वति॒ त्वम॒स्माँ, अ॑विड्ढि म॒रुत्व॑ती धृष॒ती जे᳚षि॒ शत्रू॑न् |{शौनको गृत्समदः | १/२: सरस्वती २/२:इन्द्रः | त्रिष्टुप्}

त्यं चि॒च्छर्ध᳚न्तं तविषी॒यमा᳚ण॒मिन्द्रो᳚ हन्ति वृष॒भं शण्डि॑कानाम् ||{8/11}{2.7.13.3}{2.30.8}{2.3.8.8}{938, 221, 2308}

सर॑स्वति¦त्व‌म्¦अ॒स्मान्¦अ॒वि॒ड्ढि॒¦म॒रुत्व॑ती¦धृ॒ष॒ती¦जे॒षि॒¦शत्रू॑न् |
त्य‌म्¦चि॒त्¦शर्ध᳚न्त‌म्¦त॒वि॒षी॒ऽयमा᳚ण‌म्¦इन्द्रः॑¦ह॒न्ति॒¦वृ॒ष॒भ‌म्¦शण्डि॑काना‌म् ||

यो नः॒ सनु॑त्य उ॒त वा᳚ जिघ॒त्नुर॑भि॒ख्याय॒ तं ति॑गि॒तेन॑ विध्य |{शौनको गृत्समदः | बृहस्पतिः | त्रिष्टुप्}

बृह॑स्पत॒ आयु॑धैर्जेषि॒ शत्रू᳚न् द्रु॒हे रीष᳚न्तं॒ परि॑ धेहि राजन् ||{9/11}{2.7.13.4}{2.30.9}{2.3.8.9}{939, 221, 2309}

यः¦नः॒¦सनु॑त्यः¦उ॒त¦वा॒¦जि॒घ॒त्नुः¦अ॒भि॒ऽख्याय॑¦त‌म्¦ति॒गि॒तेन॑¦वि॒ध्य॒ |
बृह॑स्पते¦आयु॑धैः¦जे॒षि॒¦शत्रू᳚न्¦द्रु॒हे¦रिष᳚न्त‌म्¦परि॑¦धे॒हि॒¦रा॒ज॒न् ||

अ॒स्माके᳚भिः॒ सत्व॑भिः शूर॒ शूरै᳚र्वी॒र्या᳚ कृधि॒ यानि॑ ते॒ कर्त्वा᳚नि |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

ज्योग॑भूव॒न्ननु॑धूपितासो ह॒त्वी तेषा॒मा भ॑रा नो॒ वसू᳚नि ||{10/11}{2.7.13.5}{2.30.10}{2.3.8.10}{940, 221, 2310}

अ॒स्माके᳚भिः¦सत्व॑ऽभिः¦शू॒र॒¦शूरैः᳚¦वी॒र्या᳚¦कृ॒धि॒¦यानि॑¦ते॒¦कर्त्वा᳚नि |
ज्योक्¦अ॒भू॒व॒न्¦अनु॑ऽधूपितासः¦ह॒त्वी¦तेषा᳚‌म्¦आ¦भ॒र॒¦नः॒¦वसू᳚नि ||

तं वः॒ शर्धं॒ मारु॑तं सुम्न॒युर्गि॒रोप॑ ब्रुवे॒ नम॑सा॒ दैव्यं॒ जन᳚म् |{शौनको गृत्समदः | मरुतः | जगती}

यथा᳚ र॒यिं सर्व॑वीरं॒ नशा᳚महा, अपत्य॒साचं॒ श्रुत्यं᳚ दि॒वेदि॑वे ||{11/11}{2.7.13.6}{2.30.11}{2.3.8.11}{941, 221, 2311}

त‌म्¦वः॒¦शर्ध᳚‌म्¦मारु॑त‌म्¦सु॒म्न॒ऽयुः¦गि॒रा¦उप॑¦ब्रु॒वे॒¦नम॑सा¦दैव्य᳚‌म्¦जन᳚‌म् |
यथा᳚¦र॒यि‌म्¦सर्व॑ऽवीर‌म्¦नशा᳚महै¦अ॒प॒त्य॒ऽसाच᳚‌म्¦श्रुत्य᳚‌म्¦दि॒वेऽदि॑वे ||

[101] अस्माकमिति सप्तर्चस्य सूक्तस्य शौनकोगृत्समदो विश्वेदेवाजगत्यंत्यात्रिष्टुप् | ( भेदपक्षे - आद्यायामित्रावरुणौ द्वितीयाचतुर्थीपंचमीनांविश्वेदेवाः तृतीयाया उषासानक्ता षष्ट्याद्यावापृथिवी सप्तम्याइंद्रः) |
अ॒स्माकं᳚ मित्रावरुणावतं॒ रथ॑मादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा᳚ |{शौनको गृत्समदः | विश्वदेवाः | जगती}

प्र यद्‌ वयो॒ न पप्त॒न्वस्म॑न॒स्परि॑ श्रव॒स्यवो॒ हृषी᳚वन्तो वन॒र्षदः॑ ||{1/7}{2.7.14.1}{2.31.1}{2.3.9.1}{942, 222, 2312}

अ॒स्माक᳚‌म्¦मि॒त्रा॒व॒रु॒णा॒¦अ॒व॒त॒‌म्¦रथ᳚‌म्¦आ॒दि॒त्यैः¦रु॒द्रैः¦वसु॑ऽभिः¦स॒चा॒ऽभुवा᳚ |
प्र¦यत्¦वयः॑¦न¦पप्त॑न्¦वस्म॑नः¦परि॑¦श्र॒व॒स्यवः॑¦हृषी᳚ऽवन्तः¦व॒न॒ऽसदः॑ ||

अध॑ स्मा न॒ उद॑वता सजोषसो॒ रथं᳚ देवासो, अ॒भि वि॒क्षु वा᳚ज॒युम् |{शौनको गृत्समदः | विश्वदेवाः | जगती}

यदा॒शवः॒ पद्या᳚भि॒स्तित्र॑तो॒ रजः॑ पृथि॒व्याः सानौ॒ जङ्घ॑नन्त पा॒णिभिः॑ ||{2/7}{2.7.14.2}{2.31.2}{2.3.9.2}{943, 222, 2313}

अध॑¦स्म॒¦नः॒¦उत्¦अ॒व॒त॒¦स॒ऽजो॒ष॒सः॒¦रथ᳚‌म्¦दे॒वा॒सः॒¦अ॒भि¦वि॒क्षु¦वा॒ज॒ऽयु‌म् |
यत्¦आ॒शवः॑¦पद्या᳚भिः¦तित्र॑तः¦रजः॑¦पृ॒थि॒व्याः¦सानौ᳚¦जङ्घ॑नन्त¦पा॒णिऽभिः॑ ||

उ॒त स्य न॒ इन्द्रो᳚ वि॒श्वच॑र्षणिर्दि॒वः शर्धे᳚न॒ मारु॑तेन सु॒क्रतुः॑ |{शौनको गृत्समदः | विश्वदेवाः | जगती}

अनु॒ नु स्था᳚त्यवृ॒काभि॑रू॒तिभी॒ रथं᳚ म॒हे स॒नये॒ वाज॑सातये ||{3/7}{2.7.14.3}{2.31.3}{2.3.9.3}{944, 222, 2314}

उ॒त¦स्यः¦नः॒¦इन्द्रः॑¦वि॒श्वऽच॑र्षणिः¦दि॒वः¦शर्धे᳚न¦मारु॑तेन¦सु॒ऽक्रतुः॑ |
अनु॑¦नु¦स्था॒ति॒¦अ॒वृ॒काभिः॑¦ऊ॒तिऽभिः॑¦रथ᳚‌म्¦म॒हे¦स॒नये᳚¦वाज॑ऽसातये ||

उ॒त स्य दे॒वो भुव॑नस्य स॒क्षणि॒स्त्वष्टा॒ ग्नाभिः॑ स॒जोषा᳚ जूजुव॒द्‌ रथ᳚म् |{शौनको गृत्समदः | विश्वदेवाः | जगती}

इळा॒ भगो᳚ बृहद्दि॒वोत रोद॑सी पू॒षा पुरं᳚धिर॒श्विना॒वधा॒ पती᳚ ||{4/7}{2.7.14.4}{2.31.4}{2.3.9.4}{945, 222, 2315}

उ॒त¦स्यः¦दे॒वः¦भुव॑नस्य¦स॒क्षणिः॑¦त्वष्टा᳚¦ग्नाभिः॑¦स॒ऽजोषाः᳚¦जू॒जु॒व॒त्¦रथ᳚‌म् |
इळा᳚¦भगः॑¦बृ॒ह॒त्ऽदि॒वा¦उ॒त¦रोद॑सी॒ इति॑¦पू॒षा¦पुर᳚‌म्ऽधिः¦अ॒श्विनौ᳚¦अध॑¦पती॒ इति॑ ||

उ॒त त्ये दे॒वी सु॒भगे᳚ मिथू॒दृशो॒षासा॒नक्ता॒ जग॑तामपी॒जुवा᳚ |{शौनको गृत्समदः | विश्वदेवाः | जगती}

स्तु॒षे यद्‌ वां᳚ पृथिवि॒ नव्य॑सा॒ वचः॑ स्था॒तुश्च॒ वय॒स्त्रिव॑या, उप॒स्तिरे᳚ ||{5/7}{2.7.14.5}{2.31.5}{2.3.9.5}{946, 222, 2316}

उ॒त¦त्ये इति॑¦दे॒वी इति॑¦सु॒भगे॒ इति॑ सु॒ऽभगे᳚¦मि॒थु॒ऽदृशा᳚¦उ॒षसा॒नक्ता᳚¦जग॑ता‌म्¦अ॒पि॒ऽजुवा᳚ |
स्तु॒षे¦यत्¦वा॒‌म्¦पृ॒थि॒वि॒¦नव्य॑सा¦वचः॑¦स्था॒तुः¦च॒¦वयः॑¦त्रिऽव॑याः¦उ॒प॒ऽस्तिरे᳚ ||

उ॒त वः॒ शंस॑मु॒शिजा᳚मिव श्म॒स्यहि॑र्बु॒ध्न्यो॒३॑(ओ॒)ऽज एक॑पादु॒त |{शौनको गृत्समदः | विश्वदेवाः | जगती}

त्रि॒त ऋ॑भु॒क्षाः स॑वि॒ता चनो᳚ दधे॒ऽपां नपा᳚दाशु॒हेमा᳚ धि॒या शमि॑ ||{6/7}{2.7.14.6}{2.31.6}{2.3.9.6}{947, 222, 2317}

उ॒त¦वः॒¦शंस᳚‌म्¦उ॒शिजा᳚‌म्ऽ‌इव¦श्म॒सि॒¦अहिः॑¦बु॒ध्न्यः॑¦अ॒जः¦एक॑ऽपात्¦उ॒त |
त्रि॒तः¦ऋ॒भु॒क्षाः¦स॒वि॒ता¦चनः॑¦द॒धे॒¦अ॒पा‌म्¦नपा᳚त्¦आ॒शु॒ऽहेमा᳚¦धि॒या¦शमि॑ ||

ए॒ता वो᳚ व॒श्म्युद्य॑ता यजत्रा॒, अत॑क्षन्ना॒यवो॒ नव्य॑से॒ सम् |{शौनको गृत्समदः | विश्वदेवाः | त्रिष्टुप्}

श्र॒व॒स्यवो॒ वाजं᳚ चका॒नाः सप्ति॒र्न रथ्यो॒, अह॑ धी॒तिम॑श्याः ||{7/7}{2.7.14.7}{2.31.7}{2.3.9.7}{948, 222, 2318}

ए॒ता¦वः॒¦व॒श्मि॒¦उत्ऽय॑ता¦य॒ज॒त्राः॒¦अत॑क्षन्¦आ॒यवः॑¦नव्य॑से¦स‌म् |
श्र॒व॒स्यवः॑¦वाज᳚‌म्¦च॒का॒नाः¦सप्तिः॑¦न¦रथ्यः॑¦अह॑¦धी॒ति‌म्¦अ॒श्याः॒ ||

[102] अस्यमइत्यष्टर्चस्य सूक्तस्य शौनकोगृत्समदाद्याया द्यावापृथिवी द्वितीयातृतीययोरिंद्रः (त्वष्टावा) चतुर्थीपंचम्योराका षष्ठीसप्तम्योःसिनीवाली अंत्यायागुंगूसिनीवाली राकासरस्वतींद्राणीवरुणान्योजगती अंत्यास्तिस्रोनुष्टुभः |
अ॒स्य मे᳚ द्यावापृथिवी, ऋताय॒तो भू॒तम॑वि॒त्री वच॑सः॒ सिषा᳚सतः |{शौनको गृत्समदः | द्यावापृथिव्यौ | जगती}

ययो॒रायुः॑ प्रत॒रं ते, इ॒दं पु॒र उप॑स्तुते वसू॒युर्वां᳚ म॒हो द॑धे ||{1/8}{2.7.15.1}{2.32.1}{2.3.10.1}{949, 223, 2319}

अ॒स्य¦मे॒¦द्या॒वा॒पृ॒थि॒वी॒ इति॑¦ऋ॒त॒ऽय॒तः¦भू॒त‌म्¦अ॒वि॒त्री इति॑¦वच॑सः¦सिसा᳚सतः |
ययोः᳚¦आयुः॑¦प्र॒ऽत॒र‌म्¦ते इति॑¦इ॒द‌म्¦पु॒रः¦उप॑स्तुते॒ इत्युप॑ऽस्तुते¦व॒सु॒ऽयुः¦वा॒¦म॒हः¦द॒धे॒ ||

मा नो॒ गुह्या॒ रिप॑ आ॒योरह᳚न्‌ दभ॒न् मा न॑ आ॒भ्यो री᳚रधो दु॒च्छुना᳚भ्यः |{शौनको गृत्समदः | इन्द्रस्त्वष्टा वा | जगती}

मा नो॒ वि यौः᳚ स॒ख्या वि॒द्धि तस्य॑ नः सुम्नाय॒ता मन॑सा॒ तत्‌ त्वे᳚महे ||{2/8}{2.7.15.2}{2.32.2}{2.3.10.2}{950, 223, 2320}

मा¦नः॒¦गुह्याः᳚¦रिपः॑¦आ॒योः¦अह॑न्¦द॒भ॒न्¦मा¦नः॒¦आ॒भ्यः¦री॒र॒धः॒¦दु॒च्छुना᳚भ्यः |
मा¦नः॒¦वि¦यौः॒¦स॒ख्या¦वि॒द्धि¦तस्य॑¦नः॒¦सु॒म्न॒ऽय॒ता¦मन॑सा¦तत्¦त्वा॒¦ई॒म॒हे॒ ||

अहे᳚ळता॒ मन॑सा श्रु॒ष्टिमा व॑ह॒ दुहा᳚नां धे॒नुं पि॒प्युषी᳚मस॒श्चत᳚म् |{शौनको गृत्समदः | इन्द्रस्त्वष्टा वा | जगती}

पद्या᳚भिरा॒शुं वच॑सा च वा॒जिनं॒ त्वां हि॑नोमि पुरुहूत वि॒श्वहा᳚ ||{3/8}{2.7.15.3}{2.32.3}{2.3.10.3}{951, 223, 2321}

अहे᳚ळता¦मन॑सा¦श्रु॒ष्टि‌म्¦आ¦व॒ह॒¦दुहा᳚ना‌म्¦धे॒नु‌म्¦पि॒प्युषी᳚‌म्¦अ॒स॒श्चत᳚‌म् |
पद्या᳚भिः¦आ॒शु‌म्¦वच॑सा¦च॒¦वा॒जिन᳚‌म्¦त्वा‌म्¦हि॒नो॒मि॒¦पु॒रु॒ऽहू॒त॒¦वि॒श्वहा᳚ ||

रा॒काम॒हं सु॒हवां᳚ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना᳚ |{शौनको गृत्समदः | राका | जगती}

सीव्य॒त्वपः॑ सू॒च्याच्छि॑द्यमानया॒ ददा᳚तु वी॒रं श॒तदा᳚यमु॒क्थ्य᳚म् ||{4/8}{2.7.15.4}{2.32.4}{2.3.10.4}{952, 223, 2322}

रा॒का‌म्¦अ॒ह‌म्¦सु॒ऽहवा᳚‌म्¦सु॒ऽस्तु॒ती¦हु॒वे॒¦शृ॒णोतु॑¦नः॒¦सु॒ऽभगा᳚¦बोध॑तु¦त्मना᳚ |
सीव्य॑तु¦अपः॑¦सू॒च्या¦अच्छि॑द्यमानया¦ददा᳚तु¦वी॒र‌म्¦श॒तऽदा᳚य‌म्¦उ॒क्थ्य᳚‌म् ||

यास्ते᳚ राके सुम॒तयः॑ सु॒पेश॑सो॒ याभि॒र्ददा᳚सि दा॒शुषे॒ वसू᳚नि |{शौनको गृत्समदः | राका | जगती}

ताभि᳚र्नो, अ॒द्य सु॒मना᳚, उ॒पाग॑हि सहस्रपो॒षं सु॑भगे॒ ररा᳚णा ||{5/8}{2.7.15.5}{2.32.5}{2.3.10.5}{953, 223, 2323}

याः¦ते॒¦रा॒के॒¦सु॒ऽम॒तयः॑¦सु॒ऽपेश॑सः¦याभिः॑¦ददा᳚सि¦दा॒शुषे᳚¦वसू᳚नि |
ताभिः॑¦नः॒¦अ॒द्य¦सु॒ऽमनाः᳚¦उ॒प॒ऽआग॑हि¦स॒ह॒स्र॒ऽपो॒ष‌म्¦सु॒ऽभ॒गे॒¦ररा᳚णा ||

सिनी᳚वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा᳚ |{शौनको गृत्समदः | सिनीवाली | अनुष्टुप्}

जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे᳚वि दिदिड्ढि नः ||{6/8}{2.7.15.6}{2.32.6}{2.3.10.6}{954, 223, 2324}

सिनी᳚वालि¦पृथु॑ऽस्तुके¦या¦दे॒वाना᳚‌म्¦असि॑¦स्वसा᳚ | जु॒षस्व॑¦ह॒व्य‌म्¦आऽहु॑त‌म्¦प्र॒ऽजा‌म्¦दे॒वि॒¦दि॒दि॒ड्ढि॒¦नः॒ ||

या सु॑बा॒हुः स्व᳚ङ्गु॒रिः सु॒षूमा᳚ बहु॒सूव॑री |{शौनको गृत्समदः | सिनीवाली | अनुष्टुप्}

तस्यै᳚ वि॒श्पत्न्यै᳚ ह॒विः सि॑नीवा॒ल्यै जु॑होतन ||{7/8}{2.7.15.7}{2.32.7}{2.3.10.7}{955, 223, 2325}

या¦सु॒ऽबा॒हुः¦सु॒।आ॒ङ्गु॒रिः¦सु॒ऽसूमा᳚¦ब॒हु॒ऽसूव॑री | तस्यै᳚¦वि॒श्पत्न्यै᳚¦ह॒विः¦सि॒नी॒वा॒ल्यै¦जु॒हो॒त॒न॒ ||

या गु॒ङ्गूर्या सि॑नीवा॒ली या रा॒का या सर॑स्वती |{शौनको गृत्समदः | लिङ्गोक्ताः | अनुष्टुप्}

इ॒न्द्रा॒णीम॑ह्व ऊ॒तये᳚ वरुणा॒नीं स्व॒स्तये᳚ ||{8/8}{2.7.15.8}{2.32.8}{2.3.10.8}{956, 223, 2326}

या¦गु॒ङ्गूः¦या¦सि॒नी॒वा॒ली¦या¦रा॒का¦या¦सर॑स्वती | इ॒न्द्रा॒णी‌म्¦अ॒ह्वे॒¦ऊ॒तये᳚¦व॒रु॒णा॒नी‌म्¦स्व॒स्तये᳚ ||

[103] आतेपितरिति पंचदशर्चस्य सूक्तस्य शौनको गृत्समदोरुद्रोजगत्यंत्यात्रिष्टुप् |
आ ते᳚ पितर्मरुतां सु॒म्नमे᳚तु॒ मा नः॒ सूर्य॑स्य सं॒दृशो᳚ युयोथाः |{शौनको गृत्समदः | रुद्रः | जगती}

अ॒भि नो᳚ वी॒रो, अर्व॑ति क्षमेत॒ प्र जा᳚येमहि रुद्र प्र॒जाभिः॑ ||{1/15}{2.7.16.1}{2.33.1}{2.4.1.1}{957, 224, 2327}

आ¦ते॒¦पि॒तः॒¦म॒रु॒ता॒‌म्¦सु॒म्न‌म्¦ए॒तु॒¦मा¦नः॒¦सूर्य॑स्य¦स॒‌म्ऽदृशः॑¦यु॒यो॒थाः॒ |
अ॒भि¦नः॒¦वी॒रः¦अर्व॑ति¦क्ष॒मे॒त॒¦प्र¦जा॒ये॒म॒हि॒¦रु॒द्र॒¦प्र॒ऽजाभिः॑ ||

त्वाद॑त्तेभी रुद्र॒ शंत॑मेभिः श॒तं हिमा᳚, अशीय भेष॒जेभिः॑ |{शौनको गृत्समदः | रुद्रः | जगती}

व्य१॑(अ॒)स्मद्द्वेषो᳚ वित॒रं व्यंहो॒ व्यमी᳚वाश्चातयस्वा॒ विषू᳚चीः ||{2/15}{2.7.16.2}{2.33.2}{2.4.1.2}{958, 224, 2328}

त्वाऽद॑त्तेभिः¦रु॒द्र॒¦श‌म्ऽत॑मेभिः¦श॒त‌म्¦हिमाः᳚¦अ॒शी॒य॒¦भे॒ष॒जेभिः॑ |
वि¦अ॒स्मत्¦द्वेषः॑¦वि॒ऽत॒र‌म्¦वि¦अंहः॑¦वि¦अमी᳚वाः¦चा॒त॒य॒स्व॒¦विषू᳚चीः ||

श्रेष्ठो᳚ जा॒तस्य॑ रुद्र श्रि॒यासि॑ त॒वस्त॑मस्त॒वसां᳚ वज्रबाहो |{शौनको गृत्समदः | रुद्रः | जगती}

पर्षि॑ णः पा॒रमंह॑सः स्व॒स्ति विश्वा᳚, अ॒भी᳚ती॒ रप॑सो युयोधि ||{3/15}{2.7.16.3}{2.33.3}{2.4.1.3}{959, 224, 2329}

श्रेष्ठः॑¦जा॒तस्य॑¦रु॒द्र॒¦श्रि॒या¦अ॒सि॒¦त॒वःऽत॑मः¦त॒वसा᳚‌म्¦व॒ज्र॒बा॒हो॒ इति॑ वज्रऽबाहो |
पर्षि॑¦नः॒¦पा॒र‌म्¦अंह॑सः¦स्व॒स्ति¦विश्वाः᳚¦अ॒भिऽ‌इ᳚तीः¦रप॑सः¦यु॒यो॒धि॒ ||

मा त्वा᳚ रुद्र चुक्रुधामा॒ नमो᳚भि॒र्मा दुष्टु॑ती वृषभ॒ मा सहू᳚ती |{शौनको गृत्समदः | रुद्रः | जगती}

उन्नो᳚ वी॒राँ, अ॑र्पय भेष॒जेभि॑र्भि॒षक्त॑मं त्वा भि॒षजां᳚ शृणोमि ||{4/15}{2.7.16.4}{2.33.4}{2.4.1.4}{960, 224, 2330}

मा¦त्वा॒¦रु॒द्र॒¦चु॒क्रु॒धा॒म॒¦नमः॑ऽभिः¦मा¦दुःऽस्तु॑ती¦वृ॒ष॒भ॒¦मा¦सऽहू᳚ती |
उत्¦नः॒¦वी॒रान्¦अ॒र्प॒य॒¦भे॒ष॒जेभिः॑¦भि॒षक्ऽत॑म‌म्¦त्वा॒¦भि॒षजा᳚‌म्¦शृ॒णो॒मि॒ ||

हवी᳚मभि॒र्हव॑ते॒ यो ह॒विर्भि॒रव॒ स्तोमे᳚भी रु॒द्रं दि॑षीय |{शौनको गृत्समदः | रुद्रः | जगती}

ऋ॒दू॒दरः॑ सु॒हवो॒ मा नो᳚, अ॒स्यै ब॒भ्रुः सु॒शिप्रो᳚ रीरधन्म॒नायै᳚ ||{5/15}{2.7.16.5}{2.33.5}{2.4.1.5}{961, 224, 2331}

हवी᳚मऽभिः¦हव॑ते¦यः¦ह॒विःऽभिः॑¦अव॑¦स्तोमे᳚भिः¦रु॒द्र‌म्¦दि॒षी॒य॒ |
ऋ॒दू॒दरः॑¦सु॒ऽहवः॑¦मा¦नः॒¦अ॒स्यै¦ब॒भ्रुः¦सु॒ऽशिप्रः॑¦री॒र॒ध॒त्¦म॒नायै᳚ ||

उन्मा᳚ ममन्द वृष॒भो म॒रुत्वा॒न् त्वक्षी᳚यसा॒ वय॑सा॒ नाध॑मानम् |{शौनको गृत्समदः | रुद्रः | जगती}

घृणी᳚व च्छा॒याम॑र॒पा, अ॑शी॒या ऽऽ वि॑वासेयं रु॒द्रस्य॑ सु॒म्नम् ||{6/15}{2.7.17.1}{2.33.6}{2.4.1.6}{962, 224, 2332}

उत्¦मा॒¦म॒म॒न्द॒¦वृ॒ष॒भः¦म॒रुत्वा᳚न्¦त्वक्षी᳚यसा¦वय॑सा¦नाध॑मान‌म् |
घृणि॑ऽ‌इव¦छा॒या‌म्¦अ॒र॒पाः¦अ॒शी॒य॒¦आ¦वि॒वा॒से॒य॒‌म्¦रु॒द्रस्य॑¦सु॒म्न‌म् ||

क्व१॑(अ॒) स्य ते᳚ रुद्र मृळ॒याकु॒र्हस्तो॒ यो, अस्ति॑ भेष॒जो जला᳚षः |{शौनको गृत्समदः | रुद्रः | जगती}

अ॒प॒भ॒र्ता रप॑सो॒ दैव्य॑स्या॒भी नु मा᳚ वृषभ चक्षमीथाः ||{7/15}{2.7.17.2}{2.33.7}{2.4.1.7}{963, 224, 2333}

क्व॑¦स्यः¦ते॒¦रु॒द्र॒¦मृ॒ळ॒याकुः॑¦हस्तः॑¦यः¦अस्ति॑¦भे॒ष॒जः¦जला᳚षः |
अ॒प॒ऽभ॒र्ता¦रप॑सः¦दैव्य॑स्य¦अ॒भि¦नु¦मा॒¦वृ॒ष॒भ॒¦च॒क्ष॒मी॒थाः॒ ||

प्र ब॒भ्रवे᳚ वृष॒भाय॑ श्विती॒चे म॒हो म॒हीं सु॑ष्टु॒तिमी᳚रयामि |{शौनको गृत्समदः | रुद्रः | जगती}

न॒म॒स्या क᳚ल्मली॒किनं॒ नमो᳚भिर्गृणी॒मसि॑ त्वे॒षं रु॒द्रस्य॒ नाम॑ ||{8/15}{2.7.17.3}{2.33.8}{2.4.1.8}{964, 224, 2334}

प्र¦ब॒भ्रवे᳚¦वृ॒ष॒भाय॑¦श्वि॒ती॒चे¦म॒हः¦म॒ही‌म्¦सु॒ऽस्तु॒ति‌म्¦ई॒र॒या॒मि॒ |
न॒म॒स्य¦क॒ल्म॒ली॒किन᳚‌म्¦नमः॑ऽभिः¦गृ॒णी॒मसि॑¦त्वे॒ष‌म्¦रु॒द्रस्य॑¦नाम॑ ||

स्थि॒रेभि॒रङ्गैः᳚ पुरु॒रूप॑ उ॒ग्रो ब॒भ्रुः शु॒क्रेभिः॑ पिपिशे॒ हिर᳚ण्यैः |{शौनको गृत्समदः | रुद्रः | जगती}

ईशा᳚नाद॒स्य भुव॑नस्य॒ भूरे॒र्न वा, उ॑ योषद्रु॒द्राद॑सु॒र्य᳚म् ||{9/15}{2.7.17.4}{2.33.9}{2.4.1.9}{965, 224, 2335}

स्थि॒रेभिः॑¦अङ्गैः᳚¦पु॒रु॒ऽरूपः॑¦उ॒ग्रः¦ब॒भ्रुः¦शु॒क्रेभिः॑¦पि॒पि॒शे॒¦हिर᳚ण्यैः |
ईशा᳚नात्¦अ॒स्य¦भुव॑नस्य¦भूरेः᳚¦न¦वै¦ऊँ॒ इति॑¦यो॒ष॒त्¦रु॒द्रात्¦अ॒सु॒र्य᳚‌म् ||

अर्ह᳚न्‌ बिभर्षि॒ साय॑कानि॒ धन्वार्ह᳚न्‌ नि॒ष्कं य॑ज॒तं वि॒श्वरू᳚पम् |{शौनको गृत्समदः | रुद्रः | जगती}

अर्ह᳚न्नि॒दं द॑यसे॒ विश्व॒मभ्वं॒ न वा, ओजी᳚यो रुद्र॒ त्वद॑स्ति ||{10/15}{2.7.17.5}{2.33.10}{2.4.1.10}{966, 224, 2336}

अर्ह॑न्¦बि॒भ॒र्षि॒¦साय॑कानि¦धन्व॑¦अर्ह॑न्¦नि॒ष्क‌म्¦य॒ज॒त‌म्¦वि॒श्वऽरू᳚प‌म् |
अर्ह॑न्¦इ॒द‌म्¦द॒य॒से॒¦विश्व᳚‌म्¦अभ्व᳚‌म्¦न¦वै¦ओजी᳚यः¦रु॒द्र॒¦त्वत्¦अ॒स्ति॒ ||

स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा᳚नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रम् |{शौनको गृत्समदः | रुद्रः | जगती}

मृ॒ळा ज॑रि॒त्रे रु॑द्र॒ स्तवा᳚नो॒ऽन्यं ते᳚, अ॒स्मन्नि व॑पन्तु॒ सेनाः᳚ ||{11/15}{2.7.18.1}{2.33.11}{2.4.1.11}{967, 224, 2337}

स्तु॒हि¦श्रु॒त‌म्¦ग॒र्त॒ऽसद᳚‌म्¦युवा᳚न‌म्¦मृ॒ग‌म्¦न¦भी॒म‌म्¦उ॒प॒ऽह॒त्नु‌म्¦उ॒ग्र‌म् |
मृ॒ळ¦ज॒रि॒त्रे¦रु॒द्र॒¦स्तवा᳚नः¦अ॒न्य‌म्¦ते॒¦अ॒स्मत्¦नि¦व॒प॒न्तु॒¦सेनाः᳚ ||

कु॒मा॒रश्चि॑त्‌ पि॒तरं॒ वन्द॑मानं॒ प्रति॑ नानाम रुद्रोप॒यन्त᳚म् |{शौनको गृत्समदः | रुद्रः | जगती}

भूरे᳚र्दा॒तारं॒ सत्प॑तिं गृणीषे स्तु॒तस्त्वं भे᳚ष॒जा रा᳚स्य॒स्मे ||{12/15}{2.7.18.2}{2.33.12}{2.4.1.12}{968, 224, 2338}

कु॒मा॒रः¦चि॒त्¦पि॒तर᳚‌म्¦वन्द॑मान‌म्¦प्रति॑¦न॒ना॒म॒¦रु॒द्र॒¦उ॒प॒ऽयन्त᳚‌म् |
भूरेः᳚¦दा॒तार᳚‌म्¦सत्ऽप॑ति‌म्¦गृ॒णी॒षे॒¦स्तु॒तः¦त्व‌म्¦भे॒ष॒जा¦रा॒सि॒¦अ॒स्मे इति॑ ||

या वो᳚ भेष॒जा म॑रुतः॒ शुची᳚नि॒ या शंत॑मा वृषणो॒ या म॑यो॒भु |{शौनको गृत्समदः | रुद्रः | जगती}

यानि॒ मनु॒रवृ॑णीता पि॒ता न॒स्ता शं च॒ योश्च॑ रु॒द्रस्य॑ वश्मि ||{13/15}{2.7.18.3}{2.33.13}{2.4.1.13}{969, 224, 2339}

या¦वः॒¦भे॒ष॒जा¦म॒रु॒तः॒¦शुची᳚नि¦या¦श‌म्ऽत॑मा¦वृ॒ष॒णः॒¦या¦म॒यः॒ऽभु |
यानि॑¦मनुः॑¦अवृ॑णीत¦पि॒ता¦नः॒¦ता¦श‌म्¦च॒¦योः¦च॒¦रु॒द्रस्य॑¦व॒श्मि॒ ||

परि॑ णो हे॒ती रु॒द्रस्य॑ वृज्याः॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर्म॒ही गा᳚त् |{शौनको गृत्समदः | रुद्रः | जगती}

अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृळ ||{14/15}{2.7.18.4}{2.33.14}{2.4.1.14}{970, 224, 2340}

परि॑¦नः॒¦हे॒तिः¦रु॒द्रस्य॑¦वृ॒ज्याः॒¦परि॑¦त्वे॒षस्य॑¦दुः॒ऽम॒तिः¦म॒ही¦गा॒त् |
अव॑¦स्थि॒रा¦म॒घव॑त्ऽभ्यः¦त॒नु॒ष्व॒¦मीढ्वः॑¦तो॒काय॑¦तन॑याय¦मृ॒ळ॒ ||

ए॒वा ब॑भ्रो वृषभ चेकितान॒ यथा᳚ देव॒ न हृ॑णी॒षे न हंसि॑ |{शौनको गृत्समदः | रुद्रः | त्रिष्टुप्}

ह॒व॒न॒श्रुन्नो᳚ रुद्रे॒ह बो᳚धि बृ॒हद्‌ व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{15/15}{2.7.18.5}{2.33.15}{2.4.1.15}{971, 224, 2341}

ए॒व¦ब॒भ्रो॒ इति॑¦वृ॒ष॒भ॒¦चे॒कि॒ता॒न॒¦यथा᳚¦दे॒व॒¦न¦हृ॒णी॒षे¦न¦हंसि॑ |
ह॒व॒न॒ऽश्रुत्¦नः॒¦रु॒द्र॒¦इ॒ह¦बो॒धि॒¦बृ॒हत्¦व॒दे॒म॒¦वि॒दथे᳚¦सु॒ऽवीराः᳚ ||

[104] धारावराइति पंचदशर्चस्य सूक्तस्यशौनको गृत्समदोमरुतोजगत्यंत्यात्रिष्टुप् |
धा॒रा॒व॒रा म॒रुतो᳚ धृ॒ष्ण्वो᳚जसो मृ॒गा न भी॒मास्तवि॑षीभिर॒र्चिनः॑ |{शौनको गृत्समदः | मरुतः | जगती}

अ॒ग्नयो॒ न शु॑शुचा॒ना, ऋ॑जी॒षिणो॒ भृमिं॒ धम᳚न्तो॒, अप॒ गा, अ॑वृण्वत ||{1/15}{2.7.19.1}{2.34.1}{2.4.2.1}{972, 225, 2342}

धा॒रा॒व॒राः¦म॒रुतः॑¦घृ॒ष्णुऽओ᳚जसः¦मृ॒गाः¦न¦भी॒माः¦तवि॑षीभिः¦अ॒र्चिनः॑ |
अ॒ग्नयः॑¦न¦शु॒शु॒चा॒नाः¦ऋ॒जी॒षिणः॑¦भृमि᳚‌म्¦धम᳚न्तः¦अप॑¦गाः¦अ॒वृ॒ण्व॒त॒ ||

द्यावो॒ न स्तृभि॑श्चितयन्त खा॒दिनो॒ व्य१॑(अ॒)भ्रिया॒ न द्यु॑तयन्त वृ॒ष्टयः॑ |{शौनको गृत्समदः | मरुतः | जगती}

रु॒द्रो यद्‌ वो᳚ मरुतो रुक्मवक्षसो॒ वृषाज॑नि॒ पृश्न्याः᳚ शु॒क्र ऊध॑नि ||{2/15}{2.7.19.2}{2.34.2}{2.4.2.2}{973, 225, 2343}

द्यावः॑¦न¦स्तृऽभिः॑¦चि॒त॒य॒न्त॒¦खा॒दिनः॑¦वि¦अ॒भ्रियाः᳚¦न¦द्यु॒त॒य॒न्त॒¦वृ॒ष्टयः॑ |
रु॒द्रः¦यत्¦वः॒¦म॒रु॒तः॒¦रु॒क्म॒ऽव॒क्ष॒सः॒¦वृषा᳚¦अज॑नि¦पृश्न्याः᳚¦शु॒क्रे¦ऊध॑नि ||

उ॒क्षन्ते॒, अश्वाँ॒, अत्याँ᳚, इवा॒जिषु॑ न॒दस्य॒ कर्णै᳚स्तुरयन्त आ॒शुभिः॑ |{शौनको गृत्समदः | मरुतः | जगती}

हिर᳚ण्यशिप्रा मरुतो॒ दवि॑ध्वतः पृ॒क्षं या᳚थ॒ पृष॑तीभिः समन्यवः ||{3/15}{2.7.19.3}{2.34.3}{2.4.2.3}{974, 225, 2344}

उ॒क्षन्ते᳚¦अश्वा᳚न्¦अत्या᳚न्ऽ‌इव¦आ॒जिषु॑¦न॒दस्य॑¦कर्णैः᳚¦तु॒र॒य॒न्ते॒¦आ॒शुऽभिः॑ |
हिर᳚ण्यऽशिप्राः¦म॒रु॒तः॒¦दवि॑ध्वतः¦पृ॒क्ष‌म्¦या॒थ॒¦पृष॑तीभिः¦स॒ऽम॒न्य॒वः॒ ||

पृ॒क्षे ता विश्वा॒ भुव॑ना ववक्षिरे मि॒त्राय॑ वा॒ सद॒मा जी॒रदा᳚नवः |{शौनको गृत्समदः | मरुतः | जगती}

पृष॑दश्वासो, अनव॒भ्ररा᳚धस ऋजि॒प्यासो॒ न व॒युने᳚षु धू॒र्षदः॑ ||{4/15}{2.7.19.4}{2.34.4}{2.4.2.4}{975, 225, 2345}

पृ॒क्षे¦ता¦विश्वा᳚¦भुव॑ना¦व॒व॒क्षि॒रे॒¦मि॒त्राय॑¦वा॒¦सद᳚‌म्¦आ¦जी॒रऽदा᳚नवः |
पृष॑त्।आश्वासः¦अ॒न॒व॒भ्रऽरा᳚धसः¦ऋ॒जि॒प्यासः॑¦न¦व॒युने᳚षु¦धूः॒ऽसदः॑ ||

इन्ध᳚न्वभिर्धे॒नुभी᳚ र॒प्शदू᳚धभिरध्व॒स्मभिः॑ प॒थिभि॑र्भ्राजदृष्टयः |{शौनको गृत्समदः | मरुतः | जगती}

आ हं॒सासो॒ न स्वस॑राणि गन्तन॒ मधो॒र्मदा᳚य मरुतः समन्यवः ||{5/15}{2.7.19.5}{2.34.5}{2.4.2.5}{976, 225, 2346}

इन्ध᳚न्वऽभिः¦धे॒नुऽभिः॑¦र॒प्शदू᳚धऽभिः¦अ॒ध्व॒स्मऽभिः॑¦प॒थिऽभिः॑¦भ्रा॒ज॒त्ऽऋ॒ष्ट॒यः॒ |
आ¦हं॒सासः॑¦न¦स्वस॑राणि¦ग॒न्त॒न॒¦मधोः᳚¦मदा᳚य¦म॒रु॒तः॒¦स॒ऽम॒न्य॒वः॒ ||

आ नो॒ ब्रह्मा᳚णि मरुतः समन्यवो न॒रां न शंसः॒ सव॑नानि गन्तन |{शौनको गृत्समदः | मरुतः | जगती}

अश्वा᳚मिव पिप्यत धे॒नुमूध॑नि॒ कर्ता॒ धियं᳚ जरि॒त्रे वाज॑पेशसम् ||{6/15}{2.7.20.1}{2.34.6}{2.4.2.6}{977, 225, 2347}

आ¦नः॒¦ब्रह्मा᳚णि¦म॒रु॒तः॒¦स॒ऽम॒न्य॒वः॒¦न॒रा‌म्¦न¦शंसः॑¦सव॑नानि¦ग॒न्त॒न॒ |
अश्वा᳚‌म्ऽ‌इव¦पि॒प्य॒त॒¦धे॒नु‌म्¦ऊध॑नि¦कर्त॑¦धिय᳚‌म्¦ज॒रि॒त्रे¦वाज॑ऽपेशस‌म् ||

तं नो᳚ दात मरुतो वा॒जिनं॒ रथ॑ आपा॒नं ब्रह्म॑ चि॒तय॑द्‌ दि॒वेदि॑वे |{शौनको गृत्समदः | मरुतः | जगती}

इषं᳚ स्तो॒तृभ्यो᳚ वृ॒जने᳚षु का॒रवे᳚ स॒निं मे॒धामरि॑ष्टं दु॒ष्टरं॒ सहः॑ ||{7/15}{2.7.20.2}{2.34.7}{2.4.2.7}{978, 225, 2348}

त‌म्¦नः॒¦दा॒त॒¦म॒रु॒तः॒¦वा॒जिन᳚‌म्¦रथे᳚¦आ॒पा॒न‌म्¦ब्रह्म॑¦चि॒तय॑त्¦दि॒वेऽदि॑वे |
इष᳚‌म्¦स्तो॒तृऽभ्यः॑¦वृ॒जने᳚षु¦का॒रवे᳚¦स॒नि‌म्¦मे॒धा‌म्¦अरि॑ष्ट‌म्¦दु॒स्तर᳚‌म्¦सहः॑ ||

यद्‌ यु॒ञ्जते᳚ म॒रुतो᳚ रु॒क्मव॑क्ष॒सोऽश्वा॒न्‌ रथे᳚षु॒ भग॒ आ सु॒दान॑वः |{शौनको गृत्समदः | मरुतः | जगती}

धे॒नुर्न शिश्वे॒ स्वस॑रेषु पिन्वते॒ जना᳚य रा॒तह॑विषे म॒हीमिष᳚म् ||{8/15}{2.7.20.3}{2.34.8}{2.4.2.8}{979, 225, 2349}

यत्¦युं॒जते᳚¦म॒रुतः॑¦रु॒क्मऽव॑क्षसः¦अश्वा᳚न्¦रथे᳚षु¦भगे᳚¦आ¦सु॒ऽदान॑वः |
धे॒नुः¦न¦शिश्वे᳚¦स्वस॑रेषु¦पि॒न्व॒ते॒¦जना᳚य¦रा॒तऽह॑विषे¦म॒ही‌म्¦इष᳚‌म् ||

यो नो᳚ मरुतो वृ॒कता᳚ति॒ मर्त्यो᳚ रि॒पुर्द॒धे व॑सवो॒ रक्ष॑ता रि॒षः |{शौनको गृत्समदः | मरुतः | जगती}

व॒र्तय॑त॒ तपु॑षा च॒क्रिया॒भि तमव॑ रुद्रा, अ॒शसो᳚ हन्तना॒ वधः॑ ||{9/15}{2.7.20.4}{2.34.9}{2.4.2.9}{980, 225, 2350}

यः¦नः॒¦म॒रु॒तः॒¦वृ॒कऽता᳚ति¦मर्त्यः॑¦रि॒पुः¦द॒धे¦व॒स॒वः॒¦रक्ष॑त¦रि॒षः |
व॒र्तय॑त¦वपु॑षा¦च॒क्रिया᳚¦अ॒भि¦त‌म्¦अव॑¦रु॒द्राः॒¦अ॒शसः॑¦ह॒न्त॒न॒¦वध॒रिति॑ ||

चि॒त्रं तद्‌ वो᳚ मरुतो॒ याम॑ चेकिते॒ पृश्न्या॒ यदूध॒रप्या॒पयो᳚ दु॒हुः |{शौनको गृत्समदः | मरुतः | जगती}

यद्‌ वा᳚ नि॒दे नव॑मानस्य रुद्रियास्त्रि॒तं जरा᳚य जुर॒ताम॑दाभ्याः ||{10/15}{2.7.20.5}{2.34.10}{2.4.2.10}{981, 225, 2351}

चि॒त्र‌म्¦तत्¦वः॒¦म॒रु॒तः॒¦याम॑¦चे॒कि॒ते॒¦पृश्न्याः᳚¦यत्¦ऊधः॑¦अपि॑¦आ॒पयः॑¦दु॒हुः |
यत्¦वा॒¦नि॒दे¦नव॑मानस्य¦रु॒द्रि॒याः॒¦त्रि॒त‌म्¦जरा᳚य¦जु॒र॒ता‌म्¦अ॒दा॒भ्याः॒ ||

तान्‌ वो᳚ म॒हो म॒रुत॑ एव॒याव्नो॒ विष्णो᳚रे॒षस्य॑ प्रभृ॒थे ह॑वामहे |{शौनको गृत्समदः | मरुतः | जगती}

हिर᳚ण्यवर्णान्‌ ककु॒हान्‌ य॒तस्रु॑चो ब्रह्म॒ण्यन्तः॒ शंस्यं॒ राध॑ ईमहे ||{11/15}{2.7.21.1}{2.34.11}{2.4.2.11}{982, 225, 2352}

तान्¦वः॒¦म॒हः¦म॒रुतः॑¦ए॒व॒ऽयाव्नः॑¦विष्णोः᳚¦ए॒षस्य॑¦प्र॒ऽभृ॒थे¦ह॒वा॒म॒हे॒ |
हिर᳚ण्यऽवर्णान्¦क॒कु॒हान्¦य॒तऽस्रु॑चः¦ब्र॒ह्म॒ण्यन्तः॑¦शंस्य᳚‌म्¦राधः॑¦ई॒म॒हे॒ ||

ते दश॑ग्वाः प्रथ॒मा य॒ज्ञमू᳚हिरे॒ ते नो᳚ हिन्वन्तू॒षसो॒ व्यु॑ष्टिषु |{शौनको गृत्समदः | मरुतः | जगती}

उ॒षा न रा॒मीर॑रु॒णैरपो᳚र्णुते म॒हो ज्योति॑षा शुच॒ता गो,अ᳚र्णसा ||{12/15}{2.7.21.2}{2.34.12}{2.4.2.12}{983, 225, 2353}

ते¦दश॑ऽग्वाः¦प्र॒थ॒माः¦य॒ज्ञ‌म्¦ऊ॒हि॒रे॒¦ते¦नः॒¦हि॒न्व॒न्तु॒¦उ॒षसः॑¦वि।औ᳚ष्टिषु |
उ॒षाः¦न¦रा॒मीः¦अ॒रु॒णैः¦अप॑¦ऊ॒र्णु॒ते॒¦म॒हः¦ज्योति॑षा¦शु॒च॒ता¦गो।आ᳚र्णसा ||

ते क्षो॒णीभि॑ररु॒णेभि॒र्नाञ्जिभी᳚ रु॒द्रा, ऋ॒तस्य॒ सद॑नेषु वावृधुः |{शौनको गृत्समदः | मरुतः | जगती}

नि॒मेघ॑माना॒, अत्ये᳚न॒ पाज॑सा सुश्च॒न्द्रं वर्णं᳚ दधिरे सु॒पेश॑सम् ||{13/15}{2.7.21.3}{2.34.13}{2.4.2.13}{984, 225, 2354}

ते¦क्षो॒णीभिः॑¦अ॒रु॒णेभिः॑¦न¦अं॒जिऽभिः॑¦रु॒द्राः¦ऋ॒तस्य॑¦सद॑नेषु¦व॒वृ॒धुः॒ |
नि॒ऽमेघ॑मानाः¦अत्ये᳚न¦पाज॑सा¦सु॒ऽच॒न्द्र‌म्¦वर्ण᳚‌म्¦द॒धि॒रे॒¦सु॒ऽपेश॑स‌म् ||

ताँ, इ॑या॒नो महि॒ वरू᳚थमू॒तय॒ उप॒ घेदे॒ना नम॑सा गृणीमसि |{शौनको गृत्समदः | मरुतः | जगती}

त्रि॒तो न यान्‌ पञ्च॒ होतॄ᳚न॒भिष्ट॑य आव॒वर्त॒दव॑राञ्च॒क्रियाव॑से ||{14/15}{2.7.21.4}{2.34.14}{2.4.2.14}{985, 225, 2355}

तान्¦इ॒या॒नः¦महि॑¦वरू᳚थ‌म्¦ऊ॒तये᳚¦उप॑¦घ॒¦इत्¦ए॒ना¦नम॑सा¦गृ॒णी॒म॒सि॒ |
त्रि॒तः¦न¦यान्¦पंच॑¦होतॄ᳚न्¦अ॒भिष्ट॑ये¦आ॒ऽव॒वर्त॑त्¦अव॑रान्¦च॒क्रिया᳚¦अव॑से ||

यया᳚ र॒ध्रं पा॒रय॒थात्यंहो॒ यया᳚ नि॒दो मु॒ञ्चथ॑ वन्दि॒तार᳚म् |{शौनको गृत्समदः | मरुतः | त्रिष्टुप्}

अ॒र्वाची॒ सा म॑रुतो॒ या व॑ ऊ॒तिरो षु वा॒श्रेव॑ सुम॒तिर्जि॑गातु ||{15/15}{2.7.21.5}{2.34.15}{2.4.2.15}{986, 225, 2356}

यया᳚¦र॒ध्र‌म्¦पा॒रय॑थ¦अति॑¦अंहः॑¦यया᳚¦नि॒दः¦मुं॒चथ॑¦व॒न्दि॒तार᳚‌म् |
अ॒र्वाची᳚¦सा¦म॒रु॒तः॒¦या¦वः॒¦ऊ॒तिः¦ओ इति॑¦सु¦वा॒श्राऽ‌इ᳚व¦सु॒ऽम॒तिः¦जि॒गा॒तु॒ ||

[105] उपेमिति पंचदशर्चस्य सूक्तस्य शौनको गृत्समदोपांनपात्त्रिष्टुप् |
उपे᳚मसृक्षि वाज॒युर्व॑च॒स्यां चनो᳚ दधीत ना॒द्यो गिरो᳚ मे |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

अ॒पां नपा᳚दाशु॒हेमा᳚ कु॒वित्‌ स सु॒पेश॑सस्करति॒ जोषि॑ष॒द्धि ||{1/15}{2.7.22.1}{2.35.1}{2.4.3.1}{987, 226, 2357}

उप॑¦ई॒‌म्¦अ॒सृ॒क्षि॒¦वा॒ज॒ऽयुः¦व॒च॒स्या‌म्¦चनः॑¦द॒धी॒त॒¦ना॒द्यः¦गिरः॑¦मे॒ |
अ॒पा‌म्¦नपा᳚त्¦आ॒शु॒ऽहेमा᳚¦कु॒वित्¦सः¦सु॒ऽपेश॑सः¦क॒र॒ति॒¦जोषि॑षत्¦हि ||

इ॒मं स्व॑स्मै हृ॒द आ सुत॑ष्टं॒ मन्त्रं᳚ वोचेम कु॒विद॑स्य॒ वेद॑त् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

अ॒पां नपा᳚दसु॒र्य॑स्य म॒ह्ना विश्वा᳚न्य॒र्यो भुव॑ना जजान ||{2/15}{2.7.22.2}{2.35.2}{2.4.3.2}{988, 226, 2358}

इ॒म‌म्¦सु¦अ॒स्मै॒¦हृ॒दः¦आ¦सुऽत॑ष्ट‌म्¦मन्त्र᳚‌म्¦वो॒चे॒म॒¦कु॒वित्¦अ॒स्य॒¦वेद॑त् |
अ॒पा‌म्¦नपा᳚त्¦अ॒सु॒र्य॑स्य¦म॒ह्ना¦विश्वा᳚नि¦अ॒र्यः¦भुव॑ना¦ज॒जा॒न॒ ||

सम॒न्या यन्त्युप॑ यन्त्य॒न्याः स॑मा॒नमू॒र्वं न॒द्यः॑ पृणन्ति |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

तमू॒ शुचिं॒ शुच॑यो दीदि॒वांस॑म॒पां नपा᳚तं॒ परि॑ तस्थु॒रापः॑ ||{3/15}{2.7.22.3}{2.35.3}{2.4.3.3}{989, 226, 2359}

स‌म्¦अ॒न्याः¦यन्ति॑¦उप॑¦य॒न्ति॒¦अ॒न्याः¦स॒मा॒न‌म्¦ऊ॒र्व‌म्¦न॒द्यः॑¦पृ॒ण॒न्ति॒ |
त‌म्¦ऊँ॒ इति॑¦शुचि᳚‌म्¦शुच॑यः¦दी॒दि॒ऽवांस᳚‌म्¦अ॒पा‌म्¦नपा᳚त‌म्¦परि॑¦त॒स्थुः॒¦आपः॑ ||

तमस्मे᳚रा युव॒तयो॒ युवा᳚नं मर्मृ॒ज्यमा᳚नाः॒ परि॑ य॒न्त्यापः॑ |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

स शु॒क्रेभिः॒ शिक्व॑भी रे॒वद॒स्मे दी॒दाया᳚नि॒ध्मो घृ॒तनि᳚र्णिग॒प्सु ||{4/15}{2.7.22.4}{2.35.4}{2.4.3.4}{990, 226, 2360}

त‌म्¦अस्मे᳚राः¦यु॒व॒तयः॑¦युवा᳚न‌म्¦म॒र्मृ॒ज्यमा᳚नाः¦परि॑¦य॒न्ति॒¦आपः॑ |
सः¦शु॒क्रेभिः॑¦शिक्व॑ऽभिः¦रे॒वत्¦अ॒स्मे इति॑¦दी॒दाय॑¦अ॒नि॒ध्मः¦घृ॒तऽनि᳚र्निक्¦अ॒प्ऽसु ||

अ॒स्मै ति॒स्रो, अ᳚व्य॒थ्याय॒ नारी᳚र्दे॒वाय॑ दे॒वीर्दि॑धिष॒न्त्यन्न᳚म् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

कृता᳚, इ॒वोप॒ हि प्र॑स॒र्स्रे, अ॒प्सु स पी॒यूषं᳚ धयति पूर्व॒सूना᳚म् ||{5/15}{2.7.22.5}{2.35.5}{2.4.3.5}{991, 226, 2361}

अ॒स्मै¦ति॒स्रः¦अ॒व्य॒थ्याय॑¦नारीः᳚¦दे॒वाय॑¦दे॒वीः¦दि॒धि॒ष॒न्ति॒¦अन्न᳚‌म् |
कृता᳚ऽ‌इव¦उप॑¦हि¦प्र॒ऽस॒र्स्रे¦अ॒प्ऽसु¦सः¦पी॒यूष᳚‌म्¦ध॒य॒ति॒¦पू॒र्व॒ऽसूना᳚‌म् ||

अश्व॒स्यात्र॒ जनि॑मा॒स्य च॒ स्व॑र्द्रु॒हो रि॒षः स॒म्पृचः॑ पाहि सू॒रीन् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

आ॒मासु॑ पू॒र्षु प॒रो, अ॑प्रमृ॒ष्यं नारा᳚तयो॒ वि न॑श॒न्नानृ॑तानि ||{6/15}{2.7.23.1}{2.35.6}{2.4.3.6}{992, 226, 2362}

अश्व॑स्य¦अत्र॑¦जनि॑म¦अ॒स्य¦च॒¦स्वः॑¦द्रु॒हः¦रि॒षः¦स॒‌म्ऽपृचः॑¦पा॒हि॒¦सू॒रीन् |
आ॒मासु॑¦पू॒र्षु¦प॒रः¦अ॒प्र॒ऽमृ॒ष्य‌म्¦न¦अरा᳚तयः¦वि¦न॒श॒न्¦न¦अनृ॑तानि ||

स्व आ दमे᳚ सु॒दुघा॒ यस्य॑ धे॒नुः स्व॒धां पी᳚पाय सु॒भ्वन्न॑मत्ति |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

सो, अ॒पां नपा᳚दू॒र्जय᳚न्न॒प्स्व१॑(अ॒)न्तर्व॑सु॒देया᳚य विध॒ते वि भा᳚ति ||{7/15}{2.7.23.2}{2.35.7}{2.4.3.7}{993, 226, 2363}

स्वे¦आ¦दमे᳚¦सु॒ऽदुघा᳚¦यस्य॑¦धे॒नुः¦स्व॒धा‌म्¦पी॒पा॒य॒¦सु॒ऽभु¦अन्न᳚‌म्¦अ॒त्ति॒ |
सः¦अ॒पा‌म्¦नपा᳚त्¦ऊ॒र्जय॑न्¦अ॒प्ऽसु¦अ॒न्तः¦व॒सु॒ऽदेया᳚य¦वि॒ध॒ते¦वि¦भा॒ति॒ ||

यो, अ॒प्स्वा शुचि॑ना॒ दैव्ये᳚न ऋ॒तावाज॑स्र उर्वि॒या वि॒भाति॑ |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

व॒या, इद॒न्या भुव॑नान्यस्य॒ प्र जा᳚यन्ते वी॒रुध॑श्च प्र॒जाभिः॑ ||{8/15}{2.7.23.3}{2.35.8}{2.4.3.8}{994, 226, 2364}

यः¦अ॒प्ऽसु¦आ¦शुचि॑ना¦दैव्ये᳚न¦ऋ॒तऽवा᳚¦अज॑स्रः¦उ॒र्वि॒या¦वि॒ऽभाति॑ |
व॒याः¦इत्¦अ॒न्या¦भुव॑नानि¦अ॒स्य॒¦प्र¦जा॒य॒न्ते॒¦वी॒रुधः॑¦च॒¦प्र॒ऽजाभिः॑ ||

अ॒पां नपा॒दा ह्यस्था᳚दु॒पस्थं᳚ जि॒ह्माना᳚मू॒र्ध्वो वि॒द्युतं॒ वसा᳚नः |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

तस्य॒ ज्येष्ठं᳚ महि॒मानं॒ वह᳚न्ती॒र्हिर᳚ण्यवर्णाः॒ परि॑ यन्ति य॒ह्वीः ||{9/15}{2.7.23.4}{2.35.9}{2.4.3.9}{995, 226, 2365}

अ॒पा‌म्¦नपा᳚त्¦आ¦हि¦अस्था᳚त्¦उ॒पऽस्थ᳚‌म्¦जि॒ह्माना᳚‌म्¦ऊ॒र्ध्वः¦वि॒ऽद्युत᳚‌म्¦वसा᳚नः |
तस्य॑¦ज्येष्ठ᳚‌म्¦म॒हि॒मान᳚‌म्¦वह᳚न्तीः¦हिर᳚ण्यऽवर्णाः¦परि॑¦य॒न्ति॒¦य॒ह्वीः ||

हिर᳚ण्यरूपः॒ स हिर᳚ण्यसंदृग॒पां नपा॒त्‌ सेदु॒ हिर᳚ण्यवर्णः |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

हि॒र॒ण्यया॒त्‌ परि॒ योने᳚र्नि॒षद्या᳚ हिरण्य॒दा द॑द॒त्यन्न॑मस्मै ||{10/15}{2.7.23.5}{2.35.10}{2.4.3.10}{996, 226, 2366}

हिर᳚ण्यऽरूपः¦सः¦हिर᳚ण्यऽसंदृक्¦अ॒पा‌म्¦नपा᳚त्¦सः¦इत्¦ऊँ॒ इति॑¦हिर᳚ण्यऽवर्णः |
हि॒र॒ण्यया᳚त्¦परि॑¦योनेः᳚¦नि॒ऽसद्य॑¦हि॒र॒ण्य॒ऽदाः¦द॒द॒ति॒¦अन्न᳚‌म्¦अ॒स्मै॒ ||

तद॒स्यानी᳚कमु॒त चारु॒ नामा᳚पी॒च्यं᳚ वर्धते॒ नप्तु॑र॒पाम् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

यमि॒न्धते᳚ युव॒तयः॒ समि॒त्था हिर᳚ण्यवर्णं घृ॒तमन्न॑मस्य ||{11/15}{2.7.24.1}{2.35.11}{2.4.3.11}{997, 226, 2367}

तत्¦अ॒स्य॒¦अनी᳚क‌म्¦उ॒त¦चारु॑¦नाम॑¦अ॒पी॒च्य᳚‌म्¦व॒र्ध॒ते॒¦नप्तुः॑¦अ॒पा‌म् |
य‌म्¦इ॒न्धते᳚¦यु॒व॒तयः॑¦स‌म्¦इ॒त्था¦हिर᳚ण्यऽवर्ण‌म्¦घृ॒त‌म्¦अन्न᳚‌म्¦अ॒स्य॒ ||

अ॒स्मै ब॑हू॒नाम॑व॒माय॒ सख्ये᳚ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

सं सानु॒ मार्ज्मि॒ दिधि॑षामि॒ बिल्मै॒र्दधा॒म्यन्नैः॒ परि॑ वन्द ऋ॒ग्भिः ||{12/15}{2.7.24.2}{2.35.12}{2.4.3.12}{998, 226, 2368}

अ॒स्मै¦ब॒हू॒ना‌म्¦अ॒व॒माय॑¦सख्ये᳚¦य॒ज्ञैः¦वि॒धे॒म॒¦नम॑सा¦ह॒विःऽभिः॑ |
स‌म्¦सानु॑¦मार्ज्मि॑¦दिधि॑षामि¦बिल्मैः᳚¦दधा᳚मि¦अन्नैः᳚¦परि॑¦व॒न्दे॒¦ऋ॒क्ऽभिः ||

स ईं॒ वृषा᳚जनय॒त्तासु॒ गर्भं॒ स ईं॒ शिशु॑र्धयति॒ तं रि॑हन्ति |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

सो, अ॒पां नपा॒दन॑भिम्लातवर्णो॒ऽन्यस्ये᳚वे॒ह त॒न्वा᳚ विवेष ||{13/15}{2.7.24.3}{2.35.13}{2.4.3.13}{999, 226, 2369}

सः¦ई॒‌म्¦वृषा᳚¦अ॒ज॒न॒य॒त्¦तासु॑¦गर्भ᳚‌म्¦सः¦ई॒‌म्¦शिशुः॑¦ध॒य॒ति॒¦त‌म्¦रि॒ह॒न्ति॒ |
सः¦अ॒पा‌म्¦नपा᳚त्¦अन॑भिम्लातऽवर्णः¦अ॒न्यस्य॑ऽ‌इव¦इ॒ह¦त॒न्वा᳚¦वि॒वे॒ष॒ ||

अ॒स्मिन्‌ प॒दे प॑र॒मे त॑स्थि॒वांस॑मध्व॒स्मभि᳚र्वि॒श्वहा᳚ दीदि॒वांस᳚म् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

आपो॒ नप्त्रे᳚ घृ॒तमन्नं॒ वह᳚न्तीः स्व॒यमत्कैः॒ परि॑ दीयन्ति य॒ह्वीः ||{14/15}{2.7.24.4}{2.35.14}{2.4.3.14}{1000, 226, 2370}

अ॒स्मिन्¦प॒दे¦प॒र॒मे¦त॒स्थि॒ऽवांस᳚‌म्¦अ॒ध्व॒स्मऽभिः॑¦वि॒श्वहा᳚¦दी॒दि॒ऽवांस᳚‌म् |
आपः॑¦नप्त्रे᳚¦घृ॒त‌म्¦अन्न᳚‌म्¦वह᳚न्तीः¦स्व॒य‌म्¦अत्कैः᳚¦परि॑¦दी॒य॒न्ति॒¦य॒ह्वीः ||

अयां᳚समग्ने सुक्षि॒तिं जना॒यायां᳚समु म॒घव॑द्भ्यः सुवृ॒क्तिम् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

विश्वं॒ तद्‌ भ॒द्रं यदव᳚न्ति दे॒वा बृ॒हद्‌ व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{15/15}{2.7.24.5}{2.35.15}{2.4.3.15}{1001, 226, 2371}

अयां᳚स‌म्¦अ॒ग्ने॒¦सु॒ऽक्षि॒ति‌म्¦जना᳚य¦अयां᳚स‌म्¦ऊँ॒ इति॑¦म॒घव॑त्ऽभ्यः¦सु॒ऽवृ॒क्ति‌म् |
विश्व᳚‌म्¦तत्¦भ॒द्र‌म्¦यत्¦अव᳚न्ति¦दे॒वाः¦बृ॒हत्¦व॒दे॒म॒¦वि॒दथे᳚¦सु॒ऽवीराः᳚ ||

[106] तुभ्यमिति षडृचस्य सूक्तस्य शौनकोगृत्समदः इंद्रोमरुतस्त्वष्टाग्निरिंद्रोमित्रावरुणाविति क्रमेणदेवताजगती | (एताऋतुदेवताः) | १ इतः षटृतुदेवताः
तुभ्यं᳚ हिन्वा॒नो व॑सिष्ट॒ गा, अ॒पोऽधु॑क्षन्‌ त्सी॒मवि॑भि॒रद्रि॑भि॒र्नरः॑ |{शौनको गृत्समदः | इन्द्र्रः | जगती}

पिबे᳚न्द्र॒ स्वाहा॒ प्रहु॑तं॒ वष॑ट्कृतं हो॒त्रादा सोमं᳚ प्रथ॒मो य ईशि॑षे ||{1/6}{2.7.25.1}{2.36.1}{2.4.4.1}{1002, 227, 2372}

तुभ्य᳚‌म्¦हि॒न्वा॒नः¦व॒सि॒ष्ट॒¦गाः¦अ॒पः¦अधु॑क्षन्¦सी॒‌म्¦अवि॑ऽभिः¦अद्रि॑ऽभिः¦नरः॑ |
पिब॑¦इ॒न्द्र॒¦स्वाहा᳚¦प्रऽहु॑त‌म्¦वष॑ट्ऽकृत‌म्¦हो॒त्रात्¦आ¦सोम᳚‌म्¦प्र॒थ॒मः¦यः¦ईशि॑षे ||

य॒ज्ञैः सम्मि॑श्लाः॒ पृष॑तीभिरृ॒ष्टिभि॒र्याम᳚ञ्छु॒भ्रासो᳚, अ॒ञ्जिषु॑ प्रि॒या, उ॒त |{शौनको गृत्समदः | मरुतः | जगती}

आ॒सद्या᳚ ब॒र्हिर्भ॑रतस्य सूनवः पो॒त्रादा सोमं᳚ पिबता दिवो नरः ||{2/6}{2.7.25.2}{2.36.2}{2.4.4.2}{1003, 227, 2373}

य॒ज्ञैः¦स‌म्ऽमि॑श्लाः¦पृष॑तीभिः¦ऋ॒ष्टिऽभिः॑¦याम॑न्¦शु॒भ्रासः॑¦अं॒जिषु॑¦प्रि॒याः¦उ॒त |
आ॒ऽसद्य॑¦ब॒र्हिः¦भ॒र॒त॒स्य॒¦सू॒न॒वः॒¦पो॒त्रात्¦आ¦सोम᳚‌म्¦पि॒ब॒त॒¦दि॒वः॒¦न॒रः॒ ||

अ॒मेव॑ नः सुहवा॒, आ हि गन्त॑न॒ नि ब॒र्हिषि॑ सदतना॒ रणि॑ष्टन |{शौनको गृत्समदः | त्वष्टाः | जगती}

अथा᳚ मन्दस्व जुजुषा॒णो, अन्ध॑स॒स्त्वष्ट॑र्दे॒वेभि॒र्जनि॑भिः सु॒मद्ग॑णः ||{3/6}{2.7.25.3}{2.36.3}{2.4.4.3}{1004, 227, 2374}

अ॒माऽ‌इ᳚व¦नः॒¦सु॒ऽह॒वाः॒¦आ¦हि¦गन्त॑न¦नि¦ब॒र्हिषि॑¦स॒द॒त॒न॒¦रणि॑ष्टन |
अथ॑¦म॒न्द॒स्व॒¦जु॒जु॒षा॒णः¦अन्ध॑सः¦त्वष्टः॑¦दे॒वेभिः॑¦जनि॑ऽभिः¦सु॒मत्ऽग॑णः ||

आ व॑क्षि दे॒वाँ, इ॒ह वि॑प्र॒ यक्षि॑ चो॒शन्‌ हो᳚त॒र्नि ष॑दा॒ योनि॑षु त्रि॒षु |{शौनको गृत्समदः | अग्निः | जगती}

प्रति॑ वीहि॒ प्रस्थि॑तं सो॒म्यं मधु॒ पिबाग्नी᳚ध्रा॒त्तव॑ भा॒गस्य॑ तृप्णुहि ||{4/6}{2.7.25.4}{2.36.4}{2.4.4.4}{1005, 227, 2375}

आ¦व॒क्षि॒¦दे॒वान्¦इ॒ह¦वि॒प्र॒¦यक्षि॑¦च॒¦उ॒शन्¦हो॒तः॒¦नि¦स॒द॒¦योनि॑षु¦त्रि॒षु |
प्रति॑¦वी॒हि॒¦प्रऽस्थि॑त‌म्¦सो॒म्य‌म्¦मधु॑¦पि॒ब॒¦आग्नी᳚ध्रात्¦तव॑¦भा॒गस्य॑¦तृ॒प्णु॒हि॒ ||

ए॒ष स्य ते᳚ त॒न्वो᳚ नृम्ण॒वर्ध॑नः॒ सह॒ ओजः॑ प्र॒दिवि॑ बा॒ह्वोर्हि॒तः |{शौनको गृत्समदः | इन्द्रः | जगती}

तुभ्यं᳚ सु॒तो म॑घव॒न्‌ तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ ब्राह्म॑णा॒दा तृ॒पत्‌ पि॑ब ||{5/6}{2.7.25.5}{2.36.5}{2.4.4.5}{1006, 227, 2376}

ए॒षः¦स्यः¦ते॒¦त॒न्वः॑¦नृ॒म्ण॒ऽवर्ध॑नः¦सहः॑¦ओजः॑¦प्र॒ऽदिवि॑¦बा॒ह्वोः¦हि॒तः |
तुभ्य᳚‌म्¦सु॒तः¦म॒घ॒ऽव॒न्¦तुभ्य᳚‌म्¦आऽभृ॑तः¦त्व‌म्¦अ॒स्य॒¦ब्राह्म॑णात्¦आ¦तृ॒पत्¦पि॒ब॒ ||

जु॒षेथां᳚ य॒ज्ञं बोध॑तं॒ हव॑स्य मे स॒त्तो होता᳚ नि॒विदः॑ पू॒र्व्या, अनु॑ |{शौनको गृत्समदः | मित्रावरुणौ | जगती}

अच्छा॒ राजा᳚ना॒ नम॑ एत्या॒वृतं᳚ प्रशा॒स्त्रादा पि॑बतं सो॒म्यं मधु॑ ||{6/6}{2.7.25.6}{2.36.6}{2.4.4.6}{1007, 227, 2377}

जु॒षेथा᳚‌म्¦य॒ज्ञ‌म्¦बोध॑त‌म्¦हव॑स्य¦मे॒¦स॒त्तः¦होता᳚¦नि॒ऽविदः॑¦पू॒र्व्याः¦अनु॑ |
अच्छ॑¦राजा᳚ना¦नमः॑¦ए॒ति॒¦आ॒ऽवृत᳚‌म्¦प्र॒ऽशा॒स्त्रात्¦आ¦पि॒ब॒त॒‌म्¦सो॒म्य‌म्¦मधु॑ ||

[107] मन्दस्वेतिषडृचस्य सूक्तस्य शौनकोगृत्समदः आद्यानांचतसृणां द्रविणोदाः पंचम्याआश्विनौ षष्ठ्या अग्निर्जगती |
मन्द॑स्व हो॒त्रादनु॒ जोष॒मन्ध॒सोऽध्व᳚र्यवः॒ स पू॒र्णां व॑ष्ट्या॒सिच᳚म् |{शौनको गृत्समदः | द्रविणोदाः | जगती}

तस्मा᳚, ए॒तं भ॑रत तद्व॒शो द॒दिर्हो॒त्रात्‌ सोमं᳚ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ||{1/6}{2.8.1.1}{2.37.1}{2.4.5.1}{1008, 228, 2378}

मन्द॑स्व¦हो॒त्रात्¦अनु॑¦जोष᳚‌म्¦अन्ध॑सः¦अध्व᳚र्यवः¦सः¦पू॒र्णा‌म्¦व॒ष्टि॒¦आ॒ऽसिच᳚‌म् |
तस्मै᳚¦ए॒त‌म्¦भ॒र॒त॒¦त॒त्ऽव॒शः¦द॒दिः¦हो॒त्रात्¦सोम᳚‌म्¦द्र॒वि॒णः॒ऽदः॒¦पिब॑¦ऋ॒तुऽभिः॑ ||

यमु॒ पूर्व॒महु॑वे॒ तमि॒दं हु॑वे॒ सेदु॒ हव्यो᳚ द॒दिर्यो नाम॒ पत्य॑ते |{शौनको गृत्समदः | द्रविणोदाः | जगती}

अ॒ध्व॒र्युभिः॒ प्रस्थि॑तं सो॒म्यं मधु॑ पो॒त्रात्‌ सोमं᳚ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ||{2/6}{2.8.1.2}{2.37.2}{2.4.5.2}{1009, 228, 2379}

य‌म्¦ऊँ॒ इति॑¦पूर्व᳚‌म्¦अहु॑वे¦त‌म्¦इ॒द‌म्¦हु॒वे॒¦सः¦इत्¦ऊँ॒ इति॑¦हव्यः॑¦द॒दिः¦यः¦नाम॑¦पत्य॑ते |
अ॒ध्व॒र्युऽभिः॑¦प्रऽस्थि॑त‌म्¦सो॒म्य‌म्¦मधु॑¦पो॒त्रात्¦सोम᳚‌म्¦द्र॒वि॒णः॒ऽदः॒¦पिब॑¦ऋ॒तुऽभिः॑ ||

मेद्य᳚न्तु ते॒ वह्न॑यो॒ येभि॒रीय॒सेऽरि॑षण्यन्‌ वीळयस्वा वनस्पते |{शौनको गृत्समदः | द्रविणोदाः | जगती}

आ॒यूया᳚ धृष्णो, अभि॒गूर्या॒ त्वं ने॒ष्ट्रात्‌ सोमं᳚ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ||{3/6}{2.8.1.3}{2.37.3}{2.4.5.3}{1010, 228, 2380}

मेद्य᳚न्तु¦ते॒¦वह्न॑यः¦येभिः॑¦ईय॑से¦अरि॑षण्यन्¦वी॒ळ॒य॒स्व॒¦व॒न॒स्प॒ते॒ |
आ॒ऽयूय॑¦धृ॒ष्णो॒ इति॑¦अ॒भि॒ऽगूर्य॑¦त्व‌म्¦ने॒ष्ट्रात्¦सोम᳚‌म्¦द्र॒वि॒णः॒ऽदः॒¦पिब॑¦ऋ॒तुऽभिः॑ ||

अपा᳚द्धो॒त्रादु॒त पो॒त्राद॑मत्तो॒त ने॒ष्ट्राद॑जुषत॒ प्रयो᳚ हि॒तम् |{शौनको गृत्समदः | द्रविणोदाः | जगती}

तु॒रीयं॒ पात्र॒ममृ॑क्त॒मम॑र्त्यं द्रविणो॒दाः पि॑बतु द्राविणोद॒सः ||{4/6}{2.8.1.4}{2.37.4}{2.4.5.4}{1011, 228, 2381}

अपा᳚त्¦हो॒त्रात्¦उ॒त¦पो॒त्रात्¦अ॒म॒त्त॒¦उ॒त¦ने॒ष्ट्रात्¦अ॒जु॒ष॒त॒¦प्रयः॑¦हि॒त‌म् |
तु॒रीय᳚‌म्¦पात्र᳚‌म्¦अमृ॑क्त‌म्¦अम॑र्त्य‌म्¦द्र॒वि॒णः॒ऽदाः¦पि॒ब॒तु॒¦द्रा॒वि॒णः॒ऽद॒सः ||

अ॒र्वाञ्च॑म॒द्य य॒य्यं᳚ नृ॒वाह॑णं॒ रथं᳚ युञ्जाथामि॒ह वां᳚ वि॒मोच॑नम् |{शौनको गृत्समदः | अश्विनौ | जगती}

पृ॒ङ्क्तं ह॒वींषि॒ मधु॒ना हि कं᳚ ग॒तमथा॒ सोमं᳚ पिबतं वाजिनीवसू ||{5/6}{2.8.1.5}{2.37.5}{2.4.5.5}{1012, 228, 2382}

अ॒र्वांच᳚‌म्¦अ॒द्य¦य॒य्य᳚‌म्¦नृ॒ऽवाह॑न‌म्¦रथ᳚‌म्¦युं॒जा॒था॒‌म्¦इ॒ह¦वा॒‌म्¦वि॒ऽमोच॑न‌म् |
पृ॒ङ्क्त‌म्¦ह॒वींषि॑¦मधु॑ना¦आ¦हि¦क॒‌म्¦ग॒त‌म्¦अथ॑¦सोम᳚‌म्¦पि॒ब॒त॒‌म्¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ||

जोष्य॑ग्ने स॒मिधं॒ जोष्याहु॑तिं॒ जोषि॒ ब्रह्म॒ जन्यं॒ जोषि॑ सुष्टु॒तिम् |{शौनको गृत्समदः | अग्निः | जगती}

विश्वे᳚भि॒र्विश्वाँ᳚, ऋ॒तुना᳚ वसो म॒ह उ॒शन्‌ दे॒वाँ, उ॑श॒तः पा᳚यया ह॒विः ||{6/6}{2.8.1.6}{2.37.6}{2.4.5.6}{1013, 228, 2383}

जोषि॑¦अ॒ग्ने॒¦स॒‌म्ऽ‌इध᳚‌म्¦जोषि॑¦आऽहु॑ति‌म्¦जोषि॑¦ब्रह्म॑¦जन्य᳚‌म्¦जोषि॑¦सु॒ऽस्तु॒ति‌म् |
विश्वे᳚भिः¦विश्वा᳚न्¦ऋ॒तुना᳚¦व॒सो॒ इति॑¦म॒हः¦उ॒शन्¦दे॒वान्¦उ॒श॒तः¦पा॒य॒य॒¦ह॒विः ||

[108] उदुष्यइत्येकादशर्चस्य सूक्तस्य शौनकोगृत्समदः सवितात्रिष्टुप् |
उदु॒ ष्य दे॒वः स॑वि॒ता स॒वाय॑ शश्वत्त॒मं तद॑पा॒ वह्नि॑रस्थात् |{शौनको गृत्समदः | सविता | त्रिष्टुप्}

नू॒नं दे॒वेभ्यो॒ वि हि धाति॒ रत्न॒मथाभ॑जद्‌ वी॒तिहो᳚त्रं स्व॒स्तौ ||{1/11}{2.8.2.1}{2.38.1}{2.4.6.1}{1014, 229, 2384}

उत्¦ऊँ॒ इति॑¦स्यः¦दे॒वः¦स॒वि॒ता¦स॒वाय॑¦श॒श्व॒त्ऽत॒म‌म्¦तत्।आ॑पाः¦वह्निः॑¦अ॒स्था॒त् |
नू॒न‌म्¦दे॒वेभ्यः॑¦वि¦हि¦धाति॑¦रत्न᳚‌म्¦अथ॑¦आ¦अ॒भ॒ज॒त्¦वी॒तिऽहो᳚त्र‌म्¦स्व॒स्तौ ||

विश्व॑स्य॒ हि श्रु॒ष्टये᳚ दे॒व ऊ॒र्ध्वः प्र बा॒हवा᳚ पृ॒थुपा᳚णिः॒ सिस॑र्ति |{शौनको गृत्समदः | सविता | त्रिष्टुप्}

आप॑श्चिदस्य व्र॒त आ निमृ॑ग्रा, अ॒यं चि॒द्‌ वातो᳚ रमते॒ परि॑ज्मन् ||{2/11}{2.8.2.2}{2.38.2}{2.4.6.2}{1015, 229, 2385}

विश्व॑स्य¦हि¦श्रु॒ष्टये᳚¦दे॒वः¦ऊ॒र्ध्वः¦प्र¦बा॒हवा᳚¦पृ॒थुऽपा᳚णिः¦सिस॑र्ति |
आपः॑¦चि॒त्¦अ॒स्य॒¦व्र॒ते¦आ¦निऽमृ॑ग्राः¦अ॒य‌म्¦चि॒त्¦वातः॑¦र॒म॒ते॒¦परि॑ऽज्मन् ||

आ॒शुभि॑श्चि॒द्यान्‌ वि मु॑चाति नू॒नमरी᳚रम॒दत॑मानं चि॒देतोः᳚ |{शौनको गृत्समदः | सविता | त्रिष्टुप्}

अ॒ह्यर्षू᳚णां चि॒न्न्य॑याँ, अवि॒ष्यामनु᳚ व्र॒तं स॑वि॒तुर्मोक्यागा᳚त् ||{3/11}{2.8.2.3}{2.38.3}{2.4.6.3}{1016, 229, 2386}

आ॒शुऽभिः॑¦चि॒त्¦यान्¦वि¦मु॒चा॒ति॒¦नू॒न‌म्¦अरी᳚रमत्¦अत॑मान‌म्¦चि॒त्¦एतोः᳚ |
अ॒ह्यर्षू᳚णा‌म्¦चि॒त्¦नि¦अ॒या॒न्¦अ॒वि॒ष्या‌म्¦अनु॑¦व्र॒त‌म्¦स॒वि॒तुः¦मोकी᳚¦आ¦अ॒गा॒त् ||

पुनः॒ सम᳚व्य॒द्‌ वित॑तं॒ वय᳚न्ती म॒ध्या कर्तो॒र्न्य॑धा॒च्छक्म॒ धीरः॑ |{शौनको गृत्समदः | सविता | त्रिष्टुप्}

उत्‌ सं॒हाया᳚स्था॒द्‌ व्यृ१॑(ऋ॒)तूँर॑दर्धर॒रम॑तिः सवि॒ता दे॒व आगा᳚त् ||{4/11}{2.8.2.4}{2.38.4}{2.4.6.4}{1017, 229, 2387}

पुन॒रिति॑¦स‌म्¦अ॒व्य॒त्¦विऽत॑त‌म्¦वय᳚न्ती¦म॒ध्या¦कर्तोः᳚¦नि¦अ॒धा॒त्¦शक्म॑¦धीरः॑ |
उत्¦स॒‌म्ऽहाय॑¦अ॒स्था॒त्¦वि¦ऋ॒तून्¦अ॒द॒र्धः॒¦अ॒रम॑तिः¦स॒वि॒ता¦दे॒वः¦आ¦अ॒गा॒त् ||

नानौकां᳚सि॒ दुर्यो॒ विश्व॒मायु॒र्वि ति॑ष्ठते प्रभ॒वः शोको᳚, अ॒ग्नेः |{शौनको गृत्समदः | सविता | त्रिष्टुप्}

ज्येष्ठं᳚ मा॒ता सू॒नवे᳚ भा॒गमाधा॒दन्व॑स्य॒ केत॑मिषि॒तं स॑वि॒त्रा ||{5/11}{2.8.2.5}{2.38.5}{2.4.6.5}{1018, 229, 2388}

नाना᳚¦ओकां᳚सि¦दुर्यः॑¦विश्व᳚‌म्¦आयुः॑¦वि¦ति॒ष्ठ॒ते॒¦प्र॒ऽभ॒वः¦शोकः॑¦अ॒ग्नेः |
ज्येष्ठ᳚‌म्¦मा॒ता¦सू॒नवे᳚¦भा॒ग‌म्¦आ¦अ॒धा॒त्¦अनु॑¦अ॒स्य॒¦केत᳚‌म्¦इ॒षि॒त‌म्¦स॒वि॒त्रा ||

स॒माव॑वर्ति॒ विष्ठि॑तो जिगी॒षुर्विश्वे᳚षां॒ काम॒श्चर॑ताम॒माभू᳚त् |{शौनको गृत्समदः | सविता | त्रिष्टुप्}

शश्वाँ॒, अपो॒ विकृ॑तं हि॒त्व्यागा॒दनु᳚ व्र॒तं स॑वि॒तुर्दैव्य॑स्य ||{6/11}{2.8.3.1}{2.38.6}{2.4.6.6}{1019, 229, 2389}

स॒‌म्ऽआव॑वर्ति¦विऽस्थि॑तः¦जि॒गी॒षुः¦विश्वे᳚षा‌म्¦कामः॑¦चर॑ता‌म्¦अ॒मा¦अ॒भू॒त् |
शश्वा᳚न्¦अपः॑¦विऽकृ॑त‌म्¦हि॒त्वी¦आ¦अ॒गा॒त्¦अनु॑¦व्र॒त‌म्¦स॒वि॒तुः¦दैव्य॑स्य ||

त्वया᳚ हि॒तमप्य॑म॒प्सु भा॒गं धन्वान्‌ वा मृ॑ग॒यसो॒ वि त॑स्थुः |{शौनको गृत्समदः | सविता | त्रिष्टुप्}

वना᳚नि॒ विभ्यो॒ नकि॑रस्य॒ तानि᳚ व्र॒ता दे॒वस्य॑ सवि॒तुर्मि॑नन्ति ||{7/11}{2.8.3.2}{2.38.7}{2.4.6.7}{1020, 229, 2390}

त्वया᳚¦हि॒त‌म्¦अप्य᳚‌म्¦अ॒प्ऽसु¦भा॒ग‌म्¦धन्व॑¦अनु॑¦आ¦मृ॒ग॒यसः॑¦वि¦त॒स्थुः॒ |
वना᳚नि¦विऽभ्यः॑¦नकिः॑¦अ॒स्य॒¦तानि॑¦व्र॒ता¦दे॒वस्य॑¦स॒वि॒तुः¦मि॒न॒न्ति॒ ||

या॒द्रा॒ध्य१॑(अं॒) वरु॑णो॒ योनि॒मप्य॒मनि॑शितं नि॒मिषि॒ जर्भु॑राणः |{शौनको गृत्समदः | सविता | त्रिष्टुप्}

विश्वो᳚ मार्ता॒ण्डो व्र॒जमा प॒शुर्गा᳚त् स्थ॒शो जन्मा᳚नि सवि॒ता व्याकः॑ ||{8/11}{2.8.3.3}{2.38.8}{2.4.6.8}{1021, 229, 2391}

या॒त्ऽरा॒ध्य᳚‌म्¦वरु॑णः¦योनि᳚‌म्¦अप्य᳚‌म्¦अनि॑ऽशित‌म्¦नि॒ऽमिषि॑¦जर्भु॑राणः |
विश्वः॑¦मा॒र्ता॒ण्डः¦व्र॒ज‌म्¦आ¦प॒शुः¦गा॒त्¦स्थ॒ऽशः¦जन्मा᳚नि¦स॒वि॒ता¦वि¦आ¦अ॒क॒रित्य॑कः ||

न यस्येन्द्रो॒ वरु॑णो॒ न मि॒त्रो व्र॒तम᳚र्य॒मा न मि॒नन्ति॑ रु॒द्रः |{शौनको गृत्समदः | सविता | त्रिष्टुप्}

नारा᳚तय॒स्तमि॒दं स्व॒स्ति हु॒वे दे॒वं स॑वि॒तारं॒ नमो᳚भिः ||{9/11}{2.8.3.4}{2.38.9}{2.4.6.9}{1022, 229, 2392}

न¦यस्य॑¦इन्द्रः॑¦वरु॑णः¦न¦मि॒त्रः¦व्र॒त‌म्¦अ॒र्य॒मा¦न¦मि॒नन्ति॑¦रु॒द्रः |
न¦अरा᳚तयः¦त‌म्¦इ॒द‌म्¦स्व॒स्ति¦हु॒वे¦दे॒व‌म्¦स॒वि॒तार᳚‌म्¦नमः॑ऽभिः ||

भगं॒ धियं᳚ वा॒जय᳚न्तः॒ पुरं᳚धिं॒ नरा॒शंसो॒ ग्नास्पति᳚र्नो, अव्याः |{शौनको गृत्समदः | सविता | त्रिष्टुप्}

आ॒ये वा॒मस्य॑ संग॒थे र॑यी॒णां प्रि॒या दे॒वस्य॑ सवि॒तुः स्या᳚म ||{10/11}{2.8.3.5}{2.38.10}{2.4.6.10}{1023, 229, 2393}

भग᳚‌म्¦धिय᳚‌म्¦वा॒जय᳚न्तः¦पुर᳚‌म्ऽधि‌म्¦नरा॒शंसः॑¦ग्नाःपतिः॑¦नः॒¦अ॒व्याः॒ |
आ॒।आ॒ये¦वा॒मस्य॑¦स॒‌म्ऽग॒थे¦र॒यी॒णा‌म्¦प्रि॒याः¦दे॒वस्य॑¦स॒वि॒तुः¦स्या॒म॒ ||

अ॒स्मभ्यं॒ तद्दि॒वो, अ॒द्भ्यः पृ॑थि॒व्यास्त्वया᳚ द॒त्तं काम्यं॒ राध॒ आ गा᳚त् |{शौनको गृत्समदः | सविता | त्रिष्टुप्}

शं यत्‌ स्तो॒तृभ्य॑ आ॒पये॒ भवा᳚त्युरु॒शंसा᳚य सवितर्जरि॒त्रे ||{11/11}{2.8.3.6}{2.38.11}{2.4.6.11}{1024, 229, 2394}

अ॒स्मभ्य᳚‌म्¦तत्¦दि॒वः¦अ॒त्ऽभ्यः¦पृ॒थि॒व्याः¦त्वया᳚¦द॒त्त‌म्¦काम्य᳚‌म्¦राधः॑¦आ¦गा॒त् |
श‌म्¦यत्¦स्तो॒तृऽभ्यः॑¦आ॒पये᳚¦भवा᳚ति¦उ॒रु॒ऽशंसा᳚य¦स॒वि॒तः॒¦ज॒रि॒त्रे ||

[109] ग्रावाणेवेत्यष्टर्चस्य सूक्तस्य शौनको गृत्समदोश्विनौत्रिष्टुप्
ग्रावा᳚णेव॒ तदिदर्थं᳚ जरेथे॒ गृध्रे᳚व वृ॒क्षं नि॑धि॒मन्त॒मच्छ॑ |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्}

ब्र॒ह्माणे᳚व वि॒दथ॑ उक्थ॒शासा᳚ दू॒तेव॒ हव्या॒ जन्या᳚ पुरु॒त्रा ||{1/8}{2.8.4.1}{2.39.1}{2.4.7.1}{1025, 230, 2395}

ग्रावा᳚णाऽ‌इव¦तत्¦इत्¦अर्थ᳚‌म्¦ज॒रे॒थे॒ इति॑¦गृध्रा᳚ऽ‌इव¦वृ॒क्ष‌म्¦नि॒धि॒ऽमन्त᳚‌म्¦अच्छ॑ |
ब्र॒ह्माणा᳚ऽ‌इव¦वि॒दथे᳚¦उ॒क्थ॒ऽशसा᳚¦दू॒ताऽ‌इ᳚व¦हव्या᳚¦जन्या᳚¦पु॒रु॒ऽत्रा ||

प्रा॒त॒र्यावा᳚णा र॒थ्ये᳚व वी॒राजेव॑ य॒मा वर॒मा स॑चेथे |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्}

मेने᳚, इव त॒न्वा॒३॑(आ॒) शुम्भ॑माने॒ दम्प॑तीव क्रतु॒विदा॒ जने᳚षु ||{2/8}{2.8.4.2}{2.39.2}{2.4.7.2}{1026, 230, 2396}

प्रा॒तः॒ऽयावा᳚ना¦र॒थ्या᳚ऽ‌इव¦वी॒रा¦अ॒जाऽ‌इ᳚व¦य॒मा¦वर᳚‌म्¦आ¦स॒चे॒थे॒ इति॑ |
मेने᳚ इ॒वेति॒ मेने᳚ऽ‌इव¦त॒न्वा᳚¦शुम्भ॑माने॒ इति॑¦दंप॑ती इ॒वेति॒ दंप॑तीऽ‌इव¦क्र॒तु॒ऽविदा᳚¦जने᳚षु ||

शृङ्गे᳚व नः प्रथ॒मा ग᳚न्तम॒र्वाक् छ॒फावि॑व॒ जर्भु॑राणा॒ तरो᳚भिः |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्}

च॒क्र॒वा॒केव॒ प्रति॒ वस्तो᳚रुस्रा॒र्वाञ्चा᳚ यातं र॒थ्ये᳚व शक्रा ||{3/8}{2.8.4.3}{2.39.3}{2.4.7.3}{1027, 230, 2397}

शृङ्गा᳚ऽ‌इव¦नः॒¦प्र॒थ॒मा¦ग॒न्त॒‌म्¦अ॒र्वाक्¦श॒फौऽ‌इ᳚व¦जर्भु॑राणा¦तरः॑ऽभिः |
च॒क्र॒वा॒काऽ‌इ᳚व¦प्रति॑¦वस्तोः᳚¦उ॒स्रा॒¦अ॒र्वांचा᳚¦या॒त॒‌म्¦र॒थ्या᳚ऽ‌इव¦श॒क्रा॒ ||

ना॒वेव॑ नः पारयतं यु॒गेव॒ नभ्ये᳚व न उप॒धीव॑ प्र॒धीव॑ |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्}

श्वाने᳚व नो॒, अरि॑षण्या त॒नूनां॒ खृग॑लेव वि॒स्रसः॑ पातम॒स्मान् ||{4/8}{2.8.4.4}{2.39.4}{2.4.7.4}{1028, 230, 2398}

ना॒वाऽ‌इ᳚व¦नः॒¦पा॒र॒य॒त॒‌म्¦यु॒गाऽ‌इ᳚व¦नभ्या᳚ऽ‌इव¦नः॒¦उ॒प॒धी इ॒वेत्यु॑प॒धीऽ‌इ᳚व¦प्र॒धी इ॒वेति॑ प्र॒धीऽ‌इ᳚व |
श्वाना᳚ऽ‌इव¦नः॒¦अरि॑षण्या¦त॒नूना᳚‌म्¦खृग॑लाऽ‌इव¦वि॒ऽस्रसः॑¦पा॒त॒‌म्¦अ॒स्मान् ||

वाते᳚वाजु॒र्या न॒द्ये᳚व री॒तिर॒क्षी, इ॑व॒ चक्षु॒षा या᳚तम॒र्वाक् |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्}

हस्ता᳚विव त॒न्वे॒३॑(ए॒) शम्भ॑विष्ठा॒ पादे᳚व नो नयतं॒ वस्यो॒, अच्छ॑ ||{5/8}{2.8.4.5}{2.39.5}{2.4.7.5}{1029, 230, 2399}

वाता᳚ऽ‌इव¦अ॒जु॒र्या¦न॒द्या᳚ऽ‌इव¦री॒तिः¦अ॒क्षी इ॒वेत्य॒क्षीऽ‌इ᳚व¦चक्षु॑षा¦आ¦या॒त॒‌म्¦अ॒र्वाक् |
हस्तौ᳚ऽ‌इव¦त॒न्वे᳚¦श‌म्ऽभ॑विष्ठा¦पादा᳚ऽ‌इव¦नः॒¦न॒य॒त॒‌म्¦वस्यः॑¦अच्छ॑ ||

ओष्ठा᳚विव॒ मध्वा॒स्ने वद᳚न्ता॒ स्तना᳚विव पिप्यतं जी॒वसे᳚ नः |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्}

नासे᳚व नस्त॒न्वो᳚ रक्षि॒तारा॒ कर्णा᳚विव सु॒श्रुता᳚ भूतम॒स्मे ||{6/8}{2.8.5.1}{2.39.6}{2.4.7.6}{1030, 230, 2400}

ओष्ठौ᳚ऽ‌इव¦मधु॑¦आ॒स्ने¦वद᳚न्ता¦स्तनौ᳚ऽ‌इव¦पि॒प्य॒त॒‌म्¦जी॒वसे᳚¦नः॒ |
नासा᳚ऽ‌इव¦नः॒¦त॒न्वः॑¦र॒क्षि॒तारा᳚¦कर्णौ᳚ऽ‌इव¦सु॒ऽश्रुता᳚¦भू॒त॒‌म्¦अ॒स्मे इति॑ ||

हस्ते᳚व श॒क्तिम॒भि सं᳚द॒दी नः॒, क्षामे᳚व नः॒ सम॑जतं॒ रजां᳚सि |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्}

इ॒मा गिरो᳚, अश्विना युष्म॒यन्तीः॒, क्ष्णोत्रे᳚णेव॒ स्वधि॑तिं॒ सं शि॑शीतम् ||{7/8}{2.8.5.2}{2.39.7}{2.4.7.7}{1031, 230, 2401}

हस्ता᳚ऽ‌इव¦श॒क्ति‌म्¦अ॒भि¦सं॒द॒दी इति॑ स॒‌म्ऽद॒दी¦नः॒¦क्षाम॑ऽ‌इव¦नः॒¦स‌म्¦अ॒ज॒त॒‌म्¦रजां᳚सि |
इ॒माः¦गिरः॑¦अ॒श्वि॒ना॒¦यु॒ष्म॒ऽयन्तीः᳚¦क्ष्णोत्रे᳚णऽ‌इव¦स्वऽधि॑ति‌म्¦स‌म्¦शि॒शी॒त॒‌म् ||

ए॒तानि॑ वामश्विना॒ वर्ध॑नानि॒ ब्रह्म॒ स्तोमं᳚ गृत्सम॒दासो᳚, अक्रन् |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्}

तानि॑ नरा जुजुषा॒णोप॑ यातं बृ॒हद्‌ व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{8/8}{2.8.5.3}{2.39.8}{2.4.7.8}{1032, 230, 2402}

ए॒तानि॑¦वा॒‌म्¦अ॒श्वि॒ना॒¦वर्ध॑नानि¦ब्रह्म॑¦स्तोम᳚‌म्¦गृ॒त्स॒ऽम॒दासः॑¦अ॒क्र॒न् |
तानि॑¦न॒रा॒¦जु॒जु॒षा॒णा¦उप॑¦या॒त॒‌म्¦बृ॒हत्¦व॒दे॒म॒¦वि॒दथे᳚¦सु॒ऽवीराः᳚ ||

[110] सोमापूषणेतिपडृचस्य सूक्तस्य शौनकोगृत्समदःसोमापूषणौ अंत्यायाःसोमपूषादित्यास्त्रिष्टुप् |
सोमा᳚पूषणा॒ जन॑ना रयी॒णां जन॑ना दि॒वो जन॑ना पृथि॒व्याः |{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्}

जा॒तौ विश्व॑स्य॒ भुव॑नस्य गो॒पौ दे॒वा, अ॑कृण्वन्न॒मृत॑स्य॒ नाभि᳚म् ||{1/6}{2.8.6.1}{2.40.1}{2.4.8.1}{1033, 231, 2403}

सोमा᳚पूषणा¦जन॑ना¦र॒यी॒णा‌म्¦जन॑ना¦दि॒वः¦जन॑ना¦पृ॒थि॒व्याः |
जा॒तौ¦विश्व॑स्य¦भुव॑नस्य¦गो॒पौ¦दे॒वाः¦अ॒कृ॒ण्व॒न्¦अ॒मृत॑स्य¦नाभि᳚‌म् ||

इ॒मौ दे॒वौ जाय॑मानौ जुषन्ते॒मौ तमां᳚सि गूहता॒मजु॑ष्टा |{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्}

आ॒भ्यामिन्द्रः॑ प॒क्वमा॒मास्व॒न्तः सो᳚मापू॒षभ्यां᳚ जनदु॒स्रिया᳚सु ||{2/6}{2.8.6.2}{2.40.2}{2.4.8.2}{1034, 231, 2404}

इ॒मौ¦दे॒वौ¦जाय॑मानौ¦जु॒ष॒न्त॒¦इ॒मौ¦तमां᳚सि¦गू॒ह॒ता॒‌म्¦अजु॑ष्टा |
आ॒भ्या‌म्¦इन्द्रः॑¦प॒क्व‌म्¦आ॒मासु॑¦अ॒न्तरिति॑¦सो॒मा॒पू॒षऽभ्या᳚‌म्¦ज॒न॒त्¦उ॒स्रिया᳚सु ||

सोमा᳚पूषणा॒ रज॑सो वि॒मानं᳚ स॒प्तच॑क्रं॒ रथ॒मवि॑श्वमिन्वम् |{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्}

वि॒षू॒वृतं॒ मन॑सा यु॒ज्यमा᳚नं॒ तं जि᳚न्वथो वृषणा॒ पञ्च॑रश्मिम् ||{3/6}{2.8.6.3}{2.40.3}{2.4.8.3}{1035, 231, 2405}

सोमा᳚पूषणा¦रज॑सः¦वि॒ऽमान᳚‌म्¦स॒प्तऽच॑क्र‌म्¦रथ᳚‌म्¦अवि॑श्वऽमिन्व‌म् |
वि॒षु॒ऽवृत᳚‌म्¦मन॑सा¦यु॒ज्यमा᳚न‌म्¦त‌म्¦जि॒न्व॒थः॒¦वृ॒ष॒णा॒¦पंच॑ऽरश्मि‌म् ||

दि॒व्य१॑(अ॒)न्यः सद॑नं च॒क्र उ॒च्चा पृ॑थि॒व्याम॒न्यो, अध्य॒न्तरि॑क्षे |{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्}

ताव॒स्मभ्यं᳚ पुरु॒वारं᳚ पुरु॒क्षुं रा॒यस्पोषं॒ वि ष्य॑तां॒ नाभि॑म॒स्मे ||{4/6}{2.8.6.4}{2.40.4}{2.4.8.4}{1036, 231, 2406}

दि॒वि¦अ॒न्यः¦सद॑न‌म्¦च॒क्रे¦उ॒च्चा¦पृ॒थि॒व्या‌म्¦अ॒न्यः¦अधि॑¦अ॒न्तरि॑क्षे |
तौ¦अ॒स्मभ्य᳚‌म्¦पु॒रु॒ऽवार᳚‌म्¦पु॒रु॒ऽक्षु‌म्¦रा॒यः¦पोष᳚‌म्¦वि¦स्य॒ता॒‌म्¦नाभि᳚‌म्¦अ॒स्मे इति॑ ||

विश्वा᳚न्य॒न्यो भुव॑ना ज॒जान॒ विश्व॑म॒न्यो, अ॑भि॒चक्षा᳚ण एति |{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्}

सोमा᳚पूषणा॒वव॑तं॒ धियं᳚ मे यु॒वाभ्यां॒ विश्वाः॒ पृत॑ना जयेम ||{5/6}{2.8.6.5}{2.40.5}{2.4.8.5}{1037, 231, 2407}

विश्वा᳚नि¦अ॒न्यः¦भु॒व॒ना¦ज॒जान॑¦विश्व᳚‌म्¦अ॒न्यः¦अ॒भि॒ऽचक्षा᳚णः¦ए॒ति॒ |
सोमा᳚पूषणौ¦अव॑त‌म्¦धिय᳚‌म्¦मे॒¦यु॒वाभ्या᳚‌म्¦विश्वाः᳚¦पृत॑नाः¦ज॒ये॒म॒ ||

धियं᳚ पू॒षा जि᳚न्वतु विश्वमि॒न्वो र॒यिं सोमो᳚ रयि॒पति॑र्दधातु |{शौनको गृत्समदः | १/२: सोमापूषणौ, २/२: अदितिदेर्वताः | त्रिष्टुप्}

अव॑तु दे॒व्यदि॑तिरन॒र्वा बृ॒हद्‌ व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{6/6}{2.8.6.6}{2.40.6}{2.4.8.6}{1038, 231, 2408}

धिय᳚‌म्¦पू॒षा¦जि॒न्व॒तु॒¦वि॒श्व॒‌म्ऽ‌इ॒न्वः¦र॒यि‌म्¦सोमः॑¦र॒यि॒ऽपतिः॑¦द॒धा॒तु॒ |
अव॑तु¦दे॒वी¦अदि॑तिः¦अ॒न॒र्वा¦बृ॒हत्¦व॒दे॒म॒¦वि॒दथे᳚¦सु॒ऽवीराः᳚ ||

[111] वायोइत्येकविंशत्यृचस्य सूक्तस्य शौनकोगृत्समदः आद्ययोर्द्वयोर्वायुस्तृतीयाया इंद्रवायू चतुर्थ्यादितिसृणांमित्रावरुणौ सप्तम्यादितिसृणामश्विनौ दशम्यादितिसृणाइंद्रः त्रयोदश्यादितिसृणांविश्वेदेवाः षोडश्यादितिसृणांसरस्वती अंत्यानांतिसृणांद्यावापृथिवी (हविर्धानावा) गायत्री अंबितमइतिद्वेअनुष्टुभौ इमाब्रह्मेतिबृहती |
वायो॒ ये ते᳚ सह॒स्रिणो॒ रथा᳚स॒स्तेभि॒रा ग॑हि |{शौनको गृत्समदः | वायुः | गायत्री}

नि॒युत्वा॒न्‌ त्सोम॑पीतये ||{1/21}{2.8.7.1}{2.41.1}{2.4.9.1}{1039, 232, 2409}

वायो॒ इति॑¦ये¦ते॒¦स॒ह॒स्रिणः॑¦रथा᳚सः¦तेभिः॑¦आ¦ग॒हि॒ | नि॒युत्वा᳚न्¦सोम॑ऽपीतये ||

नि॒युत्वा᳚न्‌ वाय॒वा ग॑ह्य॒यं शु॒क्रो, अ॑यामि ते |{शौनको गृत्समदः | वायुः | गायत्री}

गन्ता᳚सि सुन्व॒तो गृ॒हम् ||{2/21}{2.8.7.2}{2.41.2}{2.4.9.2}{1040, 232, 2410}

नि॒युत्वा᳚न्¦वा॒यो॒ इति॑¦आ¦ग॒हि॒¦अ॒य‌म्¦शु॒क्रः¦अ॒या॒मि॒¦ते॒ | गन्ता᳚¦अ॒सि॒¦सु॒न्व॒तः¦गृ॒ह‌म् ||

शु॒क्रस्या॒द्य गवा᳚शिर॒ इन्द्र॑वायू नि॒युत्व॑तः |{शौनको गृत्समदः | इंद्रवायू | गायत्री}

आ या᳚तं॒ पिब॑तं नरा ||{3/21}{2.8.7.3}{2.41.3}{2.4.9.3}{1041, 232, 2411}

शु॒क्रस्य॑¦अ॒द्य¦गोऽआ᳚शिरः¦इन्द्र॑वायू॒ इति॑¦नि॒युत्व॑तः | आ¦या॒त॒‌म्¦पिब॑त‌म्¦न॒रा॒ ||

अ॒यं वां᳚ मित्रावरुणा सु॒तः सोम॑ ऋतावृधा |{शौनको गृत्समदः | मित्रावरुणौ | गायत्री}

ममेदि॒ह श्रु॑तं॒ हव᳚म् ||{4/21}{2.8.7.4}{2.41.4}{2.4.9.4}{1042, 232, 2412}

अ॒य‌म्¦वा॒‌म्¦मि॒त्रा॒व॒रु॒णा॒¦सु॒तः¦सोमः॑¦ऋ॒त॒ऽवृ॒धा॒ | मम॑¦इत्¦इ॒ह¦श्रु॒त॒‌म्¦हव᳚‌म् ||

राजा᳚ना॒वन॑भिद्रुहा ध्रु॒वे सद॑स्युत्त॒मे |{शौनको गृत्समदः | मित्रावरुणौ | गायत्री}

स॒हस्र॑स्थूण आसाते ||{5/21}{2.8.7.5}{2.41.5}{2.4.9.5}{1043, 232, 2413}

राजा᳚नौ¦अन॑भिऽद्रुहा¦ध्रु॒वे¦सद॑सि¦उ॒त्ऽत॒मे | स॒हस्र॑ऽस्थूणे¦आ॒सा॒ते॒ इति॑ ||

ता स॒म्राजा᳚ घृ॒तासु॑ती, आदि॒त्या दानु॑न॒स्पती᳚ |{शौनको गृत्समदः | मित्रावरुणौ | गायत्री}

सचे᳚ते॒, अन॑वह्वरम् ||{6/21}{2.8.8.1}{2.41.6}{2.4.9.6}{1044, 232, 2414}

ता¦स॒‌म्ऽराजा᳚¦घृ॒तासु॑ती॒ इति॑ घृ॒तऽआ᳚सुती¦आ॒दि॒त्या¦दानु॑नः¦पती॒ इति॑ | सचे᳚ते॒ इति॑¦अन॑वऽह्वर‌म् ||

गोम॑दू॒ षु ना᳚स॒त्याश्वा᳚वद्‌ यातमश्विना |{शौनको गृत्समदः | अश्विनौ | गायत्री}

व॒र्ती रु॑द्रा नृ॒पाय्य᳚म् ||{7/21}{2.8.8.2}{2.41.7}{2.4.9.7}{1045, 232, 2415}

गोऽम॑त्¦ऊँ॒ इति॑¦सु¦ना॒स॒त्या॒¦अश्व॑ऽवत्¦या॒त॒‌म्¦अ॒श्वि॒ना॒ | व॒र्तिः¦रु॒द्रा॒¦नृ॒ऽपाय्य᳚‌म् ||

न यत्‌ परो॒ नान्त॑र आद॒धर्ष॑द्‌ वृषण्वसू |{शौनको गृत्समदः | अश्विनौ | गायत्री}

दुः॒शंसो॒ मर्त्यो᳚ रि॒पुः ||{8/21}{2.8.8.3}{2.41.8}{2.4.9.8}{1046, 232, 2416}

न¦यत्¦परः॑¦न¦अन्त॑रः¦आ॒ऽद॒धर्ष॑त्¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू | दुः॒ऽशंसः॑¦मर्त्यः॑¦रि॒पुः ||

ता न॒ आ वो᳚ळ्हमश्विना र॒यिं पि॒शङ्ग॑संदृशम् |{शौनको गृत्समदः | अश्विनौ | गायत्री}

धिष्ण्या᳚ वरिवो॒विद᳚म् ||{9/21}{2.8.8.4}{2.41.9}{2.4.9.9}{1047, 232, 2417}

ता¦नः॒¦आ¦वो॒ळ्ह॒‌म्¦अ॒श्वि॒ना॒¦र॒यि‌म्¦पि॒शङ्ग॑ऽसंदृश‌म् | धिष्ण्या᳚¦व॒रि॒वः॒ऽविद᳚‌म् ||

इन्द्रो᳚, अ॒ङ्ग म॒हद्‌ भ॒यम॒भी षदप॑ चुच्यवत् |{शौनको गृत्समदः | इन्द्रः | गायत्री}

स हि स्थि॒रो विच॑र्षणिः ||{10/21}{2.8.8.5}{2.41.10}{2.4.9.10}{1048, 232, 2418}

इन्द्रः॑¦अ॒ङ्ग¦म॒हत्¦भ॒य‌म्¦अ॒भि¦सत्¦अप॑¦चु॒च्य॒व॒त् | सः¦हि¦स्थि॒रः¦विऽच॑र्षणिः ||

इन्द्र॑श्च मृ॒ळया᳚ति नो॒ न नः॑ प॒श्चाद॒घं न॑शत् |{शौनको गृत्समदः | इन्द्रः | गायत्री}

भ॒द्रं भ॑वाति नः पु॒रः ||{11/21}{2.8.9.1}{2.41.11}{2.4.9.11}{1049, 232, 2419}

इन्द्रः॑¦च॒¦मृ॒ळया᳚ति¦नः॒¦न¦नः॒¦प॒श्चात्¦अ॒घ‌म्¦न॒श॒त् | भ॒द्र‌म्¦भ॒वा॒ति॒¦नः॒¦पु॒रः ||

इन्द्र॒ आशा᳚भ्य॒स्परि॒ सर्वा᳚भ्यो॒, अभ॑यं करत् |{शौनको गृत्समदः | इन्द्रः | गायत्री}

जेता॒ शत्रू॒न्‌ विच॑र्षणिः ||{12/21}{2.8.9.2}{2.41.12}{2.4.9.12}{1050, 232, 2420}

इन्द्रः॑¦आशा᳚भ्यः¦परि॑¦सर्वा᳚भ्यः¦अभ॑य‌म्¦क॒र॒त् | जेता᳚¦शत्रू᳚न्¦विऽच॑र्षणिः ||

विश्वे᳚ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मं हव᳚म् |{शौनको गृत्समदः | विश्वदेवाः | गायत्री}

एदं ब॒र्हिर्नि षी᳚दत ||{13/21}{2.8.9.3}{2.41.13}{2.4.9.13}{1051, 232, 2421}

विश्वे᳚¦दे॒वा॒सः॒¦आ¦ग॒त॒¦शृ॒णु॒त¦मे॒¦इ॒म‌म्¦हव᳚‌म् | आ¦इ॒द‌म्¦ब॒र्हिः¦नि¦सी॒द॒त॒ ||

ती॒व्रो वो॒ मधु॑माँ, अ॒यं शु॒नहो᳚त्रेषु मत्स॒रः |{शौनको गृत्समदः | विश्वदेवाः | गायत्री}

ए॒तं पि॑बत॒ काम्य᳚म् ||{14/21}{2.8.9.4}{2.41.14}{2.4.9.14}{1052, 232, 2422}

ती॒व्रः¦वः॒¦मधु॑ऽमान्¦अ॒य‌म्¦शु॒नऽहो᳚त्रेषु¦म॒त्स॒रः | ए॒त‌म्¦पि॒ब॒त॒¦काम्य᳚‌म् ||

इन्द्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा᳚सः॒ पूष॑रातयः |{शौनको गृत्समदः | विश्वदेवाः | गायत्री}

विश्वे॒ मम॑ श्रुता॒ हव᳚म् ||{15/21}{2.8.9.5}{2.41.15}{2.4.9.15}{1053, 232, 2423}

इन्द्र॑ऽज्येष्ठाः¦मरु॑त्ऽगणाः¦देवा᳚सः¦पूष॑ऽरातयः | विश्वे᳚¦मम॑¦श्रु॒त॒¦हव᳚‌म् ||

अम्बि॑तमे॒ नदी᳚तमे॒ देवि॑तमे॒ सर॑स्वति |{शौनको गृत्समदः | सरस्वती | अनुष्टुप्}

अ॒प्र॒श॒स्ता, इ॑व स्मसि॒ प्रश॑स्तिमम्ब नस्कृधि ||{16/21}{2.8.10.1}{2.41.16}{2.4.9.16}{1054, 232, 2424}

अम्बि॑ऽतमे¦नदी᳚ऽतमे¦देवि॑ऽतमे¦सर॑स्वति | अ॒प्र॒श॒स्ताःऽ‌इ᳚व¦स्म॒सि॒¦प्रऽश॑स्ति‌म्¦अ॒म्ब॒¦नः॒¦कृ॒धि॒ ||

त्वे विश्वा᳚ सरस्वति श्रि॒तायूं᳚षि दे॒व्याम् |{शौनको गृत्समदः | सरस्वती | अनुष्टुप्}

शु॒नहो᳚त्रेषु मत्स्व प्र॒जां दे᳚वि दिदिड्ढि नः ||{17/21}{2.8.10.2}{2.41.17}{2.4.9.17}{1055, 232, 2425}

त्वे इति॑¦विश्वा᳚¦स॒र॒स्व॒ति॒¦श्रि॒ता¦आयूं᳚षि¦दे॒व्या‌म् | शु॒नऽहो᳚त्रेषु¦म॒त्स्व॒¦प्र॒ऽजा‌म्¦दे॒वि॒¦दि॒दि॒ड्ढि॒¦नः॒ ||

इ॒मा ब्रह्म॑ सरस्वति जु॒षस्व॑ वाजिनीवति |{शौनको गृत्समदः | सरस्वती | बृहती}

या ते॒ मन्म॑ गृत्सम॒दा, ऋ॑तावरि प्रि॒या दे॒वेषु॒ जुह्व॑ति ||{18/21}{2.8.10.3}{2.41.18}{2.4.9.18}{1056, 232, 2426}

इ॒मा¦ब्रह्म॑¦स॒र॒स्व॒ति॒¦जु॒षस्व॑¦वा॒जि॒नी॒व॒ति॒ |
या¦ते॒¦मन्म॑¦गृ॒त्स॒ऽम॒दाः¦ऋ॒त॒ऽव॒रि॒¦प्रि॒या¦दे॒वेषु॑¦जुह्व॑ति ||

प्रेतां᳚ य॒ज्ञस्य॑ श॒म्भुवा᳚ यु॒वामिदा वृ॑णीमहे |{शौनको गृत्समदः | द्यावापृथिव्यौ हविर्धाने वा | गायत्री}

अ॒ग्निं च॑ हव्य॒वाह॑नम् ||{19/21}{2.8.10.4}{2.41.19}{2.4.9.19}{1057, 232, 2427}

प्र¦इ॒ता॒‌म्¦य॒ज्ञस्य॑¦श॒‌म्ऽभुवा᳚¦यु॒वा‌म्¦इत्¦आ¦वृ॒णी॒म॒हे॒ | अ॒ग्नि‌म्¦च॒¦ह॒व्य॒ऽवाह॑न‌म् ||

द्यावा᳚ नः पृथि॒वी, इ॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृश᳚म् |{शौनको गृत्समदः | द्यावापृथिव्यौ हविर्धाने वा | गायत्री}

य॒ज्ञं दे॒वेषु॑ यच्छताम् ||{20/21}{2.8.10.5}{2.41.20}{2.4.9.20}{1058, 232, 2428}

द्यावा᳚¦नः॒¦पृ॒थि॒वी इति॑¦इ॒म‌म्¦सि॒ध्र‌म्¦अ॒द्य¦दि॒वि॒ऽस्पृश᳚‌म् | य॒ज्ञ‌म्¦दे॒वेषु॑¦य॒च्छ॒ता॒‌म् ||

आ वा᳚मु॒पस्थ॑मद्रुहा दे॒वाः सी᳚दन्तु य॒ज्ञियाः᳚ |{शौनको गृत्समदः | द्यावापृथिव्यौ हविर्धाने वा | गायत्री}

इ॒हाद्य सोम॑पीतये ||{21/21}{2.8.10.6}{2.41.21}{2.4.9.21}{1059, 232, 2429}

आ¦वा॒‌म्¦उ॒पऽस्थ᳚‌म्¦अ॒द्रु॒हा॒¦दे॒वाः¦सी॒द॒न्तु॒¦य॒ज्ञियाः᳚ | इ॒ह¦अ॒द्य¦सोम॑ऽपीतये ||

[112] कनिक्रददिति तृचस्य सूक्तस्य शौनकोगृत्समदःशकुंतस्त्रिष्टुप् |
कनि॑क्रदज्ज॒नुषं᳚ प्रब्रुवा॒ण इय॑र्ति॒ वाच॑मरि॒तेव॒ नाव᳚म् |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | त्रिष्टुप्}

सु॒म॒ङ्गल॑श्च शकुने॒ भवा᳚सि॒ मा त्वा॒ का चि॑दभि॒भा विश्व्या᳚ विदत् ||{1/3}{2.8.11.1}{2.42.1}{2.4.10.1}{1060, 233, 2430}

कनि॑क्रदत्¦ज॒नुष᳚‌म्¦प्र॒ऽब्रु॒वा॒णः¦इय॑र्ति¦वाच᳚‌म्¦अ॒रि॒ताऽ‌इ᳚व¦नाव᳚‌म् |
सु॒ऽम॒ङ्गलः॑¦च॒¦श॒कु॒ने॒¦भवा᳚सि¦मा¦त्वा॒¦का¦चि॒त्¦अ॒भि॒ऽभा¦विश्व्या᳚¦वि॒द॒त् ||

मा त्वा᳚ श्ये॒न उद्‌ व॑धी॒न्मा सु॑प॒र्णो मा त्वा᳚ विद॒दिषु॑मान्‌ वी॒रो, अस्ता᳚ |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | त्रिष्टुप्}

पित्र्या॒मनु॑ प्र॒दिशं॒ कनि॑क्रदत् सुम॒ङ्गलो᳚ भद्रवा॒दी व॑दे॒ह ||{2/3}{2.8.11.2}{2.42.2}{2.4.10.2}{1061, 233, 2431}

मा¦त्वा॒¦श्ये॒नः¦उत्¦व॒धी॒त्¦मा¦सु॒ऽप॒र्णः¦मा¦त्वा॒¦वि॒द॒त्¦इषु॑ऽमान्¦वी॒रः¦अस्ता᳚ |
पित्र्या᳚‌म्¦अनु॑¦प्र॒ऽदिश᳚‌म्¦कनि॑क्रदत्¦सु॒ऽम॒ङ्गलः॑¦भ॒द्र॒ऽवा॒दी¦व॒द॒¦इ॒ह ||

अव॑ क्रन्द दक्षिण॒तो गृ॒हाणां᳚ सुम॒ङ्गलो᳚ भद्रवा॒दी श॑कुन्ते |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | त्रिष्टुप्}

मा नः॑ स्ते॒न ई᳚शत॒ माघशं᳚सो बृ॒हद्‌ व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{3/3}{2.8.11.3}{2.42.3}{2.4.10.3}{1062, 233, 2432}

अव॑¦क्र॒न्द॒¦द॒क्षि॒ण॒तः¦गृ॒हाणा᳚‌म्¦सु॒ऽम॒ङ्गलः॑¦भ॒द्र॒ऽवा॒दी¦श॒कु॒न्ते॒ |
मा¦नः॒¦स्ते॒नः¦ई॒श॒त॒¦मा¦अ॒घऽशं᳚सः¦बृ॒हत्¦व॒दे॒म॒¦वि॒दथे᳚¦सु॒ऽवीराः᳚ ||

[113] प्रदक्षिणिदिति तृचस्य सूक्तस्य शौनकोगृत्समदः शकुंतोजगती द्वितीयातिशक्वरी अष्टिर्वा |
प्र॒द॒क्षि॒णिद॒भि गृ॑णन्ति का॒रवो॒ वयो॒ वद᳚न्त ऋतु॒था श॒कुन्त॑यः |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | जगती}

उ॒भे वाचौ᳚ वदति साम॒गा, इ॑व गाय॒त्रं च॒ त्रैष्टु॑भं॒ चानु॑ राजति ||{1/3}{2.8.12.1}{2.43.1}{2.4.11.1}{1063, 234, 2433}

प्र॒ऽद॒क्षि॒णित्¦अ॒भि¦गृ॒ण॒न्ति॒¦का॒रवः॑¦वयः॑¦वद᳚न्तः¦ऋ॒तु॒ऽथा¦श॒कुन्त॑यः |
उ॒भे इति॑¦वाचौ᳚¦व॒द॒ति॒¦सा॒म॒गाःऽ‌इ᳚व¦गा॒य॒त्र‌म्¦च॒¦त्रैस्तु॑भ‌म्¦च॒¦अनु॑¦रा॒ज॒ति॒ ||

उ॒द्गा॒तेव॑ शकुने॒ साम॑ गायसि ब्रह्मपु॒त्र इ॑व॒ सव॑नेषु शंससि |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | अतिशक्वरी अष्टिर्वा}

वृषे᳚व वा॒जी शिशु॑मतीर॒पीत्या᳚ स॒र्वतो᳚ नः शकुने भ॒द्रमा व॑द वि॒श्वतो᳚ नः शकुने॒ पुण्य॒मा व॑द ||{2/3}{2.8.12.2}{2.43.2}{2.4.11.2}{1064, 234, 2434}

उ॒द्गा॒ताऽ‌इ᳚व¦श॒कु॒ने॒¦साम॑¦गा॒य॒सि॒¦ब्र॒ह्म॒पु॒त्रःऽ‌इ᳚व¦सव॑नेषु¦शं॒स॒सि॒ |
वृषा᳚ऽ‌इव¦वा॒जी¦शिशु॑ऽमतीः¦अ॒पि॒ऽ‌इत्य॑¦स॒र्वतः॑¦नः॒¦श॒कु॒ने॒¦भ॒द्र‌म्¦आ¦व॒द॒¦वि॒श्वतः॑¦नः॒¦श॒कु॒ने॒¦पुण्य᳚‌म्¦आ¦व॒द॒ ||

आ॒वदँ॒स्त्वं श॑कुने भ॒द्रमा व॑द तू॒ष्णीमासी᳚नः सुम॒तिं चि॑किद्धि नः |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | जगती}

यदु॒त्पत॒न्‌ वद॑सि कर्क॒रिर्य॑था बृ॒हद्‌ व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{3/3}{2.8.12.3}{2.43.3}{2.4.11.3}{1065, 234, 2435}

आ॒ऽवद॑न्¦त्व‌म्¦स॒कु॒ने॒¦भ॒द्र‌म्¦आ¦व॒द॒¦तू॒ष्णी‌म्¦आसी᳚नः¦सु॒ऽम॒ति‌म्¦चि॒कि॒द्धि॒¦नः॒ |
यत्¦उ॒त्ऽपत॑न्¦वद॑सि¦क॒र्क॒रिः¦य॒था॒¦बृ॒हत्¦व॒दे॒म॒¦वि॒दथे᳚¦सु॒ऽवीराः᳚ ||

[114] सोमस्यमेति त्रयोविंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् |
सोम॑स्य मा त॒वसं॒ वक्ष्य॑ग्ने॒ वह्निं᳚ चकर्थ वि॒दथे॒ यज॑ध्यै |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दे॒वाँ, अच्छा॒ दीद्य॑द्‌ यु॒ञ्जे, अद्रिं᳚ शमा॒ये, अ॑ग्ने त॒न्वं᳚ जुषस्व ||{1/23}{2.8.13.1}{3.1.1}{3.1.1.1}{1066, 235, 2436}

सोम॑स्य¦मा॒¦त॒वस᳚‌म्¦वक्षि॑¦अ॒ग्ने॒¦वह्नि᳚‌म्¦च॒क॒र्थ॒¦वि॒दथे᳚¦यज॑ध्यै |
दे॒वान्¦अच्छ॑¦दीद्य॑त्¦युं॒जे¦अद्रि᳚‌म्¦श॒‌म्ऽआ॒ये¦अ॒ग्ने॒¦त॒न्व᳚‌म्¦जु॒ष॒स्व॒ ||

प्राञ्चं᳚ य॒ज्ञं च॑कृम॒ वर्ध॑तां॒ गीः स॒मिद्भि॑र॒ग्निं नम॑सा दुवस्यन् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दि॒वः श॑शासुर्वि॒दथा᳚ कवी॒नां गृत्सा᳚य चित्त॒वसे᳚ गा॒तुमी᳚षुः ||{2/23}{2.8.13.2}{3.1.2}{3.1.1.2}{1067, 235, 2437}

प्रांच᳚‌म्¦य॒ज्ञ‌म्¦च॒कृ॒म॒¦वर्ध॑ता‌म्¦गीः¦स॒मित्ऽभिः॑¦अ॒ग्नि‌म्¦नम॑सा¦दु॒व॒स्य॒न् |
दि॒वः¦श॒शा॒सुः॒¦वि॒दथा᳚¦क॒वी॒ना‌म्¦गृत्सा᳚य¦चि॒त्¦त॒वसे᳚¦गा॒तु‌म्¦ई॒षुः॒ ||

मयो᳚ दधे॒ मेधि॑रः पू॒तद॑क्षो दि॒वः सु॒बन्धु॑र्ज॒नुषा᳚ पृथि॒व्याः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अवि᳚न्दन्नु दर्श॒तम॒प्स्व१॑(अ॒)न्तर्दे॒वासो᳚, अ॒ग्निम॒पसि॒ स्वसॄ᳚णाम् ||{3/23}{2.8.13.3}{3.1.3}{3.1.1.3}{1068, 235, 2438}

मयः॑¦द॒धे॒¦मेधि॑रः¦पू॒तऽद॑क्षः¦दि॒वः¦सु॒ऽबन्धुः॑¦ज॒नुषा᳚¦पृ॒थि॒व्याः |
अवि᳚न्दन्¦ऊँ॒ इति॑¦द॒र्श॒त‌म्¦अ॒प्ऽसु¦अ॒न्तः¦दे॒वासः॑¦अ॒ग्नि‌म्¦अ॒पसि॑¦स्वसॄ᳚णा‌म् ||

अव॑र्धयन्‌ त्सु॒भगं᳚ स॒प्त य॒ह्वीः श्वे॒तं ज॑ज्ञा॒नम॑रु॒षं म॑हि॒त्वा |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

शिशुं॒ न जा॒तम॒भ्या᳚रु॒रश्वा᳚ दे॒वासो᳚, अ॒ग्निं जनि॑मन्‌ वपुष्यन् ||{4/23}{2.8.13.4}{3.1.4}{3.1.1.4}{1069, 235, 2439}

अव॑र्धयन्¦सु॒ऽभग᳚‌म्¦स॒प्त¦य॒ह्वीः¦श्वे॒त‌म्¦ज॒ज्ञा॒न‌म्¦अ॒रु॒ष‌म्¦म॒हि॒ऽत्वा |
शिशु᳚‌म्¦न¦जा॒त‌म्¦अ॒भि¦आ॒रुः॒¦अश्वाः᳚¦दे॒वासः॑¦अ॒ग्नि‌म्¦जनि॑मन्¦व॒पु॒ष्य॒न् ||

शु॒क्रेभि॒रङ्गै॒ रज॑ आतत॒न्वान् क्रतुं᳚ पुना॒नः क॒विभिः॑ प॒वित्रैः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

शो॒चिर्वसा᳚नः॒ पर्यायु॑र॒पां श्रियो᳚ मिमीते बृह॒तीरनू᳚नाः ||{5/23}{2.8.13.5}{3.1.5}{3.1.1.5}{1070, 235, 2440}

शु॒क्रेभिः॑¦अङ्गैः᳚¦रजः॑¦आ॒ऽत॒त॒न्वान्¦क्रतु᳚‌म्¦पु॒ना॒नः¦क॒विऽभिः॑¦प॒वित्रैः᳚ |
शो॒चिः¦वसा᳚नः¦परि॑¦आयुः॑¦अ॒पा‌म्¦श्रियः॑¦मि॒मी॒ते॒¦बृ॒ह॒तीः¦अनू᳚नाः ||

व॒व्राजा᳚ सी॒मन॑दती॒रद॑ब्धा दि॒वो य॒ह्वीरव॑साना॒, अन॑ग्नाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

सना॒, अत्र॑ युव॒तयः॒ सयो᳚नी॒रेकं॒ गर्भं᳚ दधिरे स॒प्त वाणीः᳚ ||{6/23}{2.8.14.1}{3.1.6}{3.1.1.6}{1071, 235, 2441}

व॒व्राज॑¦सी॒‌म्¦अन॑दतीः¦अद॑ब्धाः¦दि॒वः¦य॒ह्वीः¦अव॑सानाः¦अन॑ग्नाः |
सनाः᳚¦अत्र॑¦यु॒व॒तयः॑¦सऽयो᳚नीः¦एक᳚‌म्¦गर्भ᳚‌म्¦द॒धि॒रे॒¦स॒प्त¦वाणीः᳚ ||

स्ती॒र्णा, अ॑स्य सं॒हतो᳚ वि॒श्वरू᳚पा घृ॒तस्य॒ योनौ᳚ स्र॒वथे॒ मधू᳚नाम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अस्थु॒रत्र॑ धे॒नवः॒ पिन्व॑माना म॒ही द॒स्मस्य॑ मा॒तरा᳚ समी॒ची ||{7/23}{2.8.14.2}{3.1.7}{3.1.1.7}{1072, 235, 2442}

स्ती॒र्णाः¦अ॒स्य॒¦स॒‌म्ऽहतः॑¦वि॒श्वऽरू᳚पाः¦घृ॒तस्य॑¦योनौ᳚¦स्र॒वथे᳚¦मधू᳚ना‌म् |
अस्थुः॑¦अत्र॑¦धे॒नवः॑¦पिन्व॑मानाः¦म॒ही इति॑¦द॒स्मस्य॑¦मा॒तरा᳚¦स॒मी॒ची इति॑ स॒‌म्ऽई॒ची ||

ब॒भ्रा॒णः सू᳚नो सहसो॒ व्य॑द्यौ॒द् दधा᳚नः शु॒क्रा र॑भ॒सा वपूं᳚षि |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

श्चोत᳚न्ति॒ धारा॒ मधु॑नो घृ॒तस्य॒ वृषा॒ यत्र॑ वावृ॒धे काव्ये᳚न ||{8/23}{2.8.14.3}{3.1.8}{3.1.1.8}{1073, 235, 2443}

ब॒भ्रा॒णः¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦वि¦अ॒द्यौ॒त्¦दधा᳚नः¦शु॒क्रा¦र॒भ॒सा¦वपूं᳚षि |
श्चोत᳚न्ति¦धाराः᳚¦मधु॑नः¦घृ॒तस्य॑¦वृषा᳚¦यत्र॑¦व॒वृ॒धे¦काव्ये᳚न ||

पि॒तुश्चि॒दूध॑र्ज॒नुषा᳚ विवेद॒ व्य॑स्य॒ धारा᳚, असृज॒द्‌ वि धेनाः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

गुहा॒ चर᳚न्तं॒ सखि॑भिः शि॒वेभि॑र्दि॒वो य॒ह्वीभि॒र्न गुहा᳚ बभूव ||{9/23}{2.8.14.4}{3.1.9}{3.1.1.9}{1074, 235, 2444}

पि॒तुः¦चि॒त्¦ऊधः॑¦ज॒नुषा᳚¦वि॒वे॒द॒¦वि¦अ॒स्य॒¦धाराः᳚¦अ॒सृ॒ज॒त्¦वि¦धेनाः᳚ |
गुहा᳚¦चर᳚न्त‌म्¦सखि॑ऽभिः¦शि॒वेभिः॑¦दि॒वः¦य॒ह्वीभिः॑¦न¦गुहा᳚¦ब॒भू॒व॒ ||

पि॒तुश्च॒ गर्भं᳚ जनि॒तुश्च॑ बभ्रे पू॒र्वीरेको᳚, अधय॒त्‌ पीप्या᳚नाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

वृष्णे᳚ स॒पत्नी॒ शुच॑ये॒ सब᳚न्धू, उ॒भे, अ॑स्मै मनु॒ष्ये॒३॑(ए॒) नि पा᳚हि ||{10/23}{2.8.14.5}{3.1.10}{3.1.1.10}{1075, 235, 2445}

पि॒तुः¦च॒¦गर्भ᳚‌म्¦ज॒नि॒तुः¦च॒¦ब॒भ्रे॒¦पू॒र्वीः¦एकः॑¦अ॒ध॒य॒त्¦पीप्या᳚नाः |
वृष्णे᳚¦स॒पत्नी॒ इति॑ स॒ऽपत्नी᳚¦शुच॑ये¦सब᳚न्धू॒ इति॒ सऽब᳚न्धू¦उ॒भे इति॑¦अ॒स्मै॒¦म॒नु॒ष्ये॒३॒॑ इति॑¦नि¦पा॒हि॒ ||

उ॒रौ म॒हाँ, अ॑निबा॒धे व॑व॒र्धाऽऽपो᳚, अ॒ग्निं य॒शसः॒ सं हि पू॒र्वीः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

ऋ॒तस्य॒ योना᳚वशय॒द्दमू᳚ना जामी॒नाम॒ग्निर॒पसि॒ स्वसॄ᳚णाम् ||{11/23}{2.8.15.1}{3.1.11}{3.1.1.11}{1076, 235, 2446}

उ॒रौ¦म॒हान्¦अ॒नि॒ऽबा॒धे¦व॒व॒र्ध॒¦आपः॑¦अ॒ग्नि‌म्¦य॒शसः॑¦स‌म्¦हि¦पू॒र्वीः |
ऋ॒तस्य॑¦योनौ᳚¦अ॒श॒य॒त्¦दमू᳚नाः¦जा॒मी॒ना‌म्¦अ॒ग्निः¦अ॒पसि॑¦स्वसॄ᳚णा‌म् ||

अ॒क्रो न ब॒भ्रिः स॑मि॒थे म॒हीनां᳚ दिदृ॒क्षेयः॑ सू॒नवे॒ भा,ऋ॑जीकः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

उदु॒स्रिया॒ जनि॑ता॒ यो ज॒जाना॒पां गर्भो॒ नृत॑मो य॒ह्वो, अ॒ग्निः ||{12/23}{2.8.15.2}{3.1.12}{3.1.1.12}{1077, 235, 2447}

अ॒क्रः¦न¦ब॒भ्रिः¦स॒‌म्ऽ‌इ॒थे¦म॒हीना᳚‌म्¦दि॒दृ॒क्षेयः॑¦सू॒नवे᳚¦भाःऽऋ॑जीकः |
उत्¦उ॒स्रियाः᳚¦जनि॑ता¦यः¦ज॒जान॑¦अ॒पा‌म्¦गर्भः॑¦नृऽत॑मः¦य॒ह्वः¦अ॒ग्निः ||

अ॒पां गर्भं᳚ दर्श॒तमोष॑धीनां॒ वना᳚ जजान सु॒भगा॒ विरू᳚पम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दे॒वास॑श्चि॒न्मन॑सा॒ सं हि ज॒ग्मुः पनि॑ष्ठं जा॒तं त॒वसं᳚ दुवस्यन् ||{13/23}{2.8.15.3}{3.1.13}{3.1.1.13}{1078, 235, 2448}

अ॒पा‌म्¦गर्भ᳚‌म्¦द॒र्श॒त‌म्¦ओष॑धीना‌म्¦वना᳚¦ज॒जा॒न॒¦सु॒ऽभगा᳚¦विऽरू᳚प‌म् |
दे॒वासः॑¦चि॒त्¦मन॑सा¦स‌म्¦हि¦ज॒ग्मुः¦पनि॑ष्ठ‌म्¦जा॒त‌म्¦त॒वस᳚‌म्¦दु॒व॒स्य॒न् ||

बृ॒हन्त॒ इद्‌ भा॒नवो॒ भा,ऋ॑जीकम॒ग्निं स॑चन्त वि॒द्युतो॒ न शु॒क्राः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

गुहे᳚व वृ॒द्धं सद॑सि॒ स्वे, अ॒न्तर॑पा॒र ऊ॒र्वे, अ॒मृतं॒ दुहा᳚नाः ||{14/23}{2.8.15.4}{3.1.14}{3.1.1.14}{1079, 235, 2449}

बृ॒हन्तः॑¦इत्¦भा॒नवः॑¦भाःऽऋ॑जीक‌म्¦अ॒ग्नि‌म्¦स॒च॒न्त॒¦वि॒ऽद्युतः॑¦न¦शु॒क्राः |
गुहा᳚ऽ‌इव¦वृ॒द्ध‌म्¦सद॑सि¦स्वे¦अ॒न्तः¦अ॒पा॒रे¦ऊ॒र्वे¦अ॒मृत᳚‌म्¦दुहा᳚नाः ||

ईळे᳚ च त्वा॒ यज॑मानो ह॒विर्भि॒रीळे᳚ सखि॒त्वं सु॑म॒तिं निका᳚मः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दे॒वैरवो᳚ मिमीहि॒ सं ज॑रि॒त्रे रक्षा᳚ च नो॒ दम्ये᳚भि॒रनी᳚कैः ||{15/23}{2.8.15.5}{3.1.15}{3.1.1.15}{1080, 235, 2450}

ईळे᳚¦च॒¦त्वा॒¦यज॑मानः¦ह॒विःऽभिः॑¦ईळे᳚¦स॒खि॒ऽत्व‌म्¦सु॒ऽम॒ति‌म्¦निऽका᳚मः |
दे॒वैः¦अवः॑¦मि॒मी॒हि॒¦स‌म्¦ज॒रि॒त्रे¦रक्ष॑¦च॒¦नः॒¦दम्ये᳚ऽभिः¦अनी᳚कैः ||

उ॒प॒क्षे॒तार॒स्तव॑ सुप्रणी॒तेऽग्ने॒ विश्वा᳚नि॒ धन्या॒ दधा᳚नाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

सु॒रेत॑सा॒ श्रव॑सा॒ तुञ्ज॑माना, अ॒भि ष्या᳚म पृतना॒यूँरदे᳚वान् ||{16/23}{2.8.16.1}{3.1.16}{3.1.1.16}{1081, 235, 2451}

उ॒प॒ऽक्षे॒तारः॑¦तव॑¦सु॒ऽप्र॒नी॒ते॒¦अग्ने᳚¦विश्वा᳚नि¦धन्या᳚¦दधा᳚नाः |
सु॒ऽरेत॑सा¦श्रव॑सा¦तुंज॑मानाः¦अ॒भि¦स्या॒म॒¦पृ॒त॒ना॒ऽयून्¦अदे᳚वान् ||

आ दे॒वाना᳚मभवः के॒तुर॑ग्ने म॒न्द्रो विश्वा᳚नि॒ काव्या᳚नि वि॒द्वान् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

प्रति॒ मर्ताँ᳚, अवासयो॒ दमू᳚ना॒, अनु॑ दे॒वान्‌ र॑थि॒रो या᳚सि॒ साध॑न् ||{17/23}{2.8.16.2}{3.1.17}{3.1.1.17}{1082, 235, 2452}

आ¦दे॒वाना᳚‌म्¦अ॒भ॒वः॒¦के॒तुः¦अ॒ग्ने॒¦म॒न्द्रः¦विश्वा᳚नि¦काव्या᳚नि¦वि॒द्वान् |
प्रति॑¦मर्ता᳚न्¦अ॒वा॒स॒यः॒¦दमू᳚नाः¦अनु॑¦दे॒वान्¦र॒थि॒रः¦या॒सि॒¦साध॑न् ||

नि दु॑रो॒णे, अ॒मृतो॒ मर्त्या᳚नां॒ राजा᳚ ससाद वि॒दथा᳚नि॒ साध॑न् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

घृ॒तप्र॑तीक उर्वि॒या व्य॑द्यौद॒ग्निर्विश्वा᳚नि॒ काव्या᳚नि वि॒द्वान् ||{18/23}{2.8.16.3}{3.1.18}{3.1.1.18}{1083, 235, 2453}

नि¦दु॒रो॒णे¦अ॒मृतः॑¦मर्त्या᳚ना‌म्¦राजा᳚¦स॒सा॒द॒¦वि॒दथा᳚नि¦साध॑न् |
घृ॒तऽप्र॑तीकः¦उ॒र्वि॒या¦वि¦अ॒द्यौ॒त्¦अ॒ग्निः¦विश्वा᳚नि¦काव्या᳚नि¦वि॒द्वान् ||

आ नो᳚ गहि स॒ख्येभिः॑ शि॒वेभि᳚र्म॒हान्‌ म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अ॒स्मे र॒यिं ब॑हु॒लं संत॑रुत्रं सु॒वाचं᳚ भा॒गं य॒शसं᳚ कृधी नः ||{19/23}{2.8.16.4}{3.1.19}{3.1.1.19}{1084, 235, 2454}

आ¦नः॒¦ग॒हि॒¦स॒ख्येभिः॑¦शि॒वेभिः॑¦म॒हान्¦म॒हीभिः॑¦ऊ॒तिऽभिः॑¦स॒र॒ण्यन् |
अ॒स्मे इति॑¦र॒यि‌म्¦ब॒हु॒ल‌म्¦स‌म्ऽत॑रुत्र‌म्¦सु॒ऽवाच᳚‌म्¦भा॒ग‌म्¦य॒शस᳚‌म्¦कृ॒धि॒¦नः॒ ||

ए॒ता ते᳚, अग्ने॒ जनि॑मा॒ सना᳚नि॒ प्र पू॒र्व्याय॒ नूत॑नानि वोचम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

म॒हान्ति॒ वृष्णे॒ सव॑ना कृ॒तेमा जन्म᳚ञ्जन्म॒न्‌ निहि॑तो जा॒तवे᳚दाः ||{20/23}{2.8.16.5}{3.1.20}{3.1.1.20}{1085, 235, 2455}

ए॒ता¦ते॒¦अ॒ग्ने॒¦जनि॑म¦सना᳚नि¦प्र¦पू॒र्व्याय॑¦नूत॑नानि¦वो॒च॒‌म् |
म॒हान्ति॑¦वृष्णे᳚¦सव॑ना¦कृ॒ता¦इ॒मा¦जन्म॑न्ऽजन्मन्¦निऽहि॑तः¦जा॒तऽवे᳚दाः ||

जन्म᳚ञ्जन्म॒न्‌ निहि॑तो जा॒तवे᳚दा वि॒श्वामि॑त्रेभिरिध्यते॒, अज॑स्रः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ᳚मन॒से स्या᳚म ||{21/23}{2.8.16.6}{3.1.21}{3.1.1.21}{1086, 235, 2456}

जन्म॑न्ऽजन्मन्¦निऽहि॑तः¦जा॒तऽवे᳚दाः¦वि॒श्वामि॑त्रेभिः¦इ॒ध्य॒ते॒¦अज॑स्रः |
तस्य॑¦व॒य‌म्¦सु॒ऽम॒तौ¦य॒ज्ञिय॑स्य¦अपि॑¦भ॒द्रे¦सौ॒म॒न॒से¦स्या॒म॒ ||

इ॒मं य॒ज्ञं स॑हसाव॒न्त्वं नो᳚ देव॒त्रा धे᳚हि सुक्रतो॒ ररा᳚णः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

प्र यं᳚सि होतर्बृह॒तीरिषो॒ नोऽग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ||{22/23}{2.8.16.7}{3.1.22}{3.1.1.22}{1087, 235, 2457}

इ॒म‌म्¦य॒ज्ञ‌म्¦स॒ह॒सा॒ऽव॒न्¦त्व‌म्¦नः॒¦दे॒व॒ऽत्रा¦धे॒हि॒¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो¦ररा᳚णः |
प्र¦यं॒सि॒¦हो॒तः॒¦बृ॒ह॒तीः¦इषः॑¦नः॒¦अग्ने᳚¦महि॑¦द्रवि॑ण‌म्¦आ¦य॒ज॒स्व॒ ||

इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{23/23}{2.8.16.8}{3.1.23}{3.1.1.23}{1088, 235, 2458}

इळा᳚‌म्¦अ॒ग्ने॒¦पु॒रु॒ऽदंस᳚‌म्¦स॒नि‌म्¦गोः¦श॒श्व॒त्ऽत॒म‌म्¦हव॑मानाय¦सा॒ध॒ |
स्यात्¦नः॒¦सू॒नुः¦तन॑यः¦वि॒जाऽवा᳚¦अग्ने᳚¦सा¦ते॒¦सु॒ऽम॒तिः¦भू॒तु॒¦अ॒स्मे इति॑ ||

[115] वैश्वानरायेति पंचदशर्चस्य सूक्तस्य गाथिनो विश्वामित्रो वैश्वानरोग्निर्जगती |
वै॒श्वा॒न॒राय॑ धि॒षणा᳚मृता॒वृधे᳚ घृ॒तं न पू॒तम॒ग्नये᳚ जनामसि |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

द्वि॒ता होता᳚रं॒ मनु॑षश्च वा॒घतो᳚ धि॒या रथं॒ न कुलि॑शः॒ समृ᳚ण्वति ||{1/15}{2.8.17.1}{3.2.1}{3.1.2.1}{1089, 236, 2459}

वै॒श्वा॒न॒राय॑¦धि॒षणा᳚‌म्¦ऋ॒त॒ऽवृधे᳚¦घृ॒त‌म्¦न¦पू॒त‌म्¦अ॒ग्नये᳚¦ज॒ना॒म॒सि॒ |
द्वि॒ता¦होता᳚र‌म्¦मनु॑षः¦च॒¦वा॒घतः॑¦धि॒या¦रथ᳚‌म्¦न¦कुलि॑शः¦स‌म्¦ऋ॒ण्व॒ति॒ ||

स रो᳚चयज्ज॒नुषा॒ रोद॑सी, उ॒भे स मा॒त्रोर॑भवत्‌ पु॒त्र ईड्यः॑ |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

ह॒व्य॒वाळ॒ग्निर॒जर॒श्चनो᳚हितो दू॒ळभो᳚ वि॒शामति॑थिर्वि॒भाव॑सुः ||{2/15}{2.8.17.2}{3.2.2}{3.1.2.2}{1090, 236, 2460}

सः¦रो॒च॒य॒त्¦ज॒नुषा᳚¦रोद॑सी॒ इति॑¦उ॒भे इति॑¦सः¦मा॒त्रोः¦अ॒भ॒व॒त्¦पु॒त्रः¦ईड्यः॑ |
ह॒व्य॒ऽवाट्¦अ॒ग्निः¦अ॒जरः॑¦चनः॑ऽहितः¦दुः॒ऽदभः॑¦वि॒शा‌म्¦अति॑थिः¦वि॒भाऽव॑सुः ||

क्रत्वा॒ दक्ष॑स्य॒ तरु॑षो॒ विध᳚र्मणि दे॒वासो᳚, अ॒ग्निं ज॑नयन्त॒ चित्ति॑भिः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

रु॒रु॒चा॒नं भा॒नुना॒ ज्योति॑षा म॒हामत्यं॒ न वाजं᳚ सनि॒ष्यन्नुप॑ ब्रुवे ||{3/15}{2.8.17.3}{3.2.3}{3.1.2.3}{1091, 236, 2461}

क्रत्वा᳚¦दक्ष॑स्य¦तरु॑षः¦विऽध᳚र्मणि¦दे॒वासः॑¦अ॒ग्नि‌म्¦ज॒न॒य॒न्त॒¦चित्ति॑ऽभिः |
रु॒रु॒चा॒न‌म्¦भा॒नुना᳚¦ज्योति॑षा¦म॒हा‌म्¦अत्य᳚‌म्¦न¦वाज᳚‌म्¦स॒नि॒ष्यन्¦उप॑¦ब्रु॒वे॒ ||

आ म॒न्द्रस्य॑ सनि॒ष्यन्तो॒ वरे᳚ण्यं वृणी॒महे॒, अह्र॑यं॒ वाज॑मृ॒ग्मिय᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

रा॒तिं भृगू᳚णामु॒शिजं᳚ क॒विक्र॑तुम॒ग्निं राज᳚न्तं दि॒व्येन॑ शो॒चिषा᳚ ||{4/15}{2.8.17.4}{3.2.4}{3.1.2.4}{1092, 236, 2462}

आ¦म॒न्द्रस्य॑¦स॒नि॒ष्यन्तः॑¦वरे᳚ण्य‌म्¦वृ॒णी॒महे᳚¦अह्र॑य‌म्¦वाज᳚‌म्¦ऋ॒ग्मिय᳚‌म् |
रा॒ति‌म्¦भृगू᳚णा‌म्¦उ॒शिज᳚‌म्¦क॒विऽक्र॑तु‌म्¦अ॒ग्नि‌म्¦राज᳚न्त‌म्¦दि॒व्येन॑¦शो॒चिषा᳚ ||

अ॒ग्निं सु॒म्नाय॑ दधिरे पु॒रो जना॒ वाज॑श्रवसमि॒ह वृ॒क्तब᳚र्हिषः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

य॒तस्रु॑चः सु॒रुचं᳚ वि॒श्वदे᳚व्यं रु॒द्रं य॒ज्ञानां॒ साध॑दिष्टिम॒पसा᳚म् ||{5/15}{2.8.17.5}{3.2.5}{3.1.2.5}{1093, 236, 2463}

अ॒ग्नि‌म्¦सु॒म्नाय॑¦द॒धि॒रे॒¦पु॒रः¦जनाः᳚¦वाज॑ऽश्रवस‌म्¦इ॒ह¦वृ॒क्तऽब॑र्हिषः |
य॒तऽस्रु॑चः¦सु॒ऽरुच᳚‌म्¦वि॒श्वऽदे᳚व्य‌म्¦रु॒द्र‌म्¦य॒ज्ञाना᳚‌म्¦साध॑त्ऽ‌इष्टि‌म्¦अ॒पसा᳚‌म् ||

पाव॑कशोचे॒ तव॒ हि क्षयं॒ परि॒ होत᳚र्य॒ज्ञेषु॑ वृ॒क्तब᳚र्हिषो॒ नरः॑ |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

अग्ने॒ दुव॑ इ॒च्छमा᳚नास॒ आप्य॒मुपा᳚सते॒ द्रवि॑णं धेहि॒ तेभ्यः॑ ||{6/15}{2.8.18.1}{3.2.6}{3.1.2.6}{1094, 236, 2464}

पाव॑कऽशोचे¦तव॑¦हि¦क्षय᳚‌म्¦परि॑¦होतः॑¦य॒ज्ञेषु॑¦वृ॒क्तऽब॑र्हिषः¦नरः॑ |
अग्ने᳚¦दुवः॑¦इ॒च्छमा᳚नासः¦आप्य᳚‌म्¦उप॑¦आ॒स॒ते॒¦द्रवि॑ण‌म्¦धे॒हि॒¦तेभ्यः॑ ||

आ रोद॑सी, अपृण॒दा स्व᳚र्म॒हज्जा॒तं यदे᳚नम॒पसो॒, अधा᳚रयन् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

सो, अ॑ध्व॒राय॒ परि॑ णीयते क॒विरत्यो॒ न वाज॑सातये॒ चनो᳚हितः ||{7/15}{2.8.18.2}{3.2.7}{3.1.2.7}{1095, 236, 2465}

आ¦रोद॑सी॒ इति॑¦अ॒पृ॒ण॒त्¦आ¦स्वः॑¦म॒हत्¦जा॒त‌म्¦यत्¦ए॒न॒‌म्¦अ॒पसः॑¦अधा᳚रयन् |
सः¦अ॒ध्व॒राय॑¦परि॑¦नी॒य॒ते॒¦क॒विः¦अत्यः॑¦न¦वाज॑ऽसातये¦चनः॑ऽहितः ||

न॒म॒स्यत॑ ह॒व्यदा᳚तिं स्वध्व॒रं दु॑व॒स्यत॒ दम्यं᳚ जा॒तवे᳚दसम् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

र॒थीरृ॒तस्य॑ बृह॒तो विच॑र्षणिर॒ग्निर्दे॒वाना᳚मभवत्‌ पु॒रोहि॑तः ||{8/15}{2.8.18.3}{3.2.8}{3.1.2.8}{1096, 236, 2466}

न॒म॒स्यत॑¦ह॒व्यऽदा᳚ति‌म्¦सु॒।आ॒ध्व॒र‌म्¦दु॒व॒स्यत॑¦दम्य᳚‌म्¦जा॒तऽवे᳚दस‌म् |
र॒थीः¦ऋ॒तस्य॑¦बृ॒ह॒तः¦विऽच॑र्षणिः¦अ॒ग्निः¦दे॒वाना᳚‌म्¦अ॒भ॒व॒त्¦पु॒रःऽहि॑तः ||

ति॒स्रो य॒ह्वस्य॑ स॒मिधः॒ परि॑ज्मनो॒ऽग्नेर॑पुनन्नु॒शिजो॒, अमृ॑त्यवः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

तासा॒मेका॒मद॑धु॒र्मर्त्ये॒ भुज॑मु लो॒कमु॒ द्वे, उप॑ जा॒मिमी᳚यतुः ||{9/15}{2.8.18.4}{3.2.9}{3.1.2.9}{1097, 236, 2467}

ति॒स्रः¦य॒ह्वस्य॑¦स॒‌म्ऽ‌इधः॑¦परि॑ऽज्मनः¦अ॒ग्नेः¦अ॒पु॒न॒न्¦उ॒शिजः॑¦अमृ॑त्यवः |
तासा᳚‌म्¦एका᳚‌म्¦अद॑धुः¦मर्त्ये᳚¦भुज᳚‌म्¦ऊँ॒ इति॑¦लो॒क‌म्¦ऊँ॒ इति॑¦द्वे इति॑¦उप॑¦जा॒मि‌म्¦ई॒य॒तुः॒ ||

वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षी॒रिषः॒ सं सी᳚मकृण्व॒न्‌ त्स्वधि॑तिं॒ न तेज॑से |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

स उ॒द्वतो᳚ नि॒वतो᳚ याति॒ वेवि॑ष॒त् स गर्भ॑मे॒षु भुव॑नेषु दीधरत् ||{10/15}{2.8.18.5}{3.2.10}{3.1.2.10}{1098, 236, 2468}

वि॒शा‌म्¦क॒वि‌म्¦वि॒श्पति᳚‌म्¦मानु॑षीः¦इषः॑¦स‌म्¦सी॒‌म्¦अ॒कृ॒ण्व॒न्¦स्वऽधि॑ति‌म्¦न¦तेज॑से |
सः¦उ॒त्ऽवतः॑¦नि॒ऽवतः॑¦या॒ति॒¦वेवि॑षत्¦सः¦गर्भ᳚‌म्¦ए॒षु¦भुव॑नेषु¦दी॒ध॒र॒त् ||

स जि᳚न्वते ज॒ठरे᳚षु प्रजज्ञि॒वान् वृषा᳚ चि॒त्रेषु॒ नान॑द॒न्न सिं॒हः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

वै॒श्वा॒न॒रः पृ॑थु॒पाजा॒, अम॑र्त्यो॒ वसु॒ रत्ना॒ दय॑मानो॒ वि दा॒शुषे᳚ ||{11/15}{2.8.19.1}{3.2.11}{3.1.2.11}{1099, 236, 2469}

सः¦जि॒न्व॒ते॒¦ज॒ठरे᳚षु¦प्र॒ज॒ज्ञि॒ऽवान्¦वृषा᳚¦चि॒त्रेषु॑¦नान॑दत्¦न¦सिं॒हः |
वै॒श्वा॒न॒रः¦पृ॒थु॒ऽपाजाः᳚¦अम॑र्त्यः¦वसु॑¦रत्ना᳚¦दय॑मानः¦वि¦दा॒शुषे᳚ ||

वै॒श्वा॒न॒रः प्र॒त्नथा॒ नाक॒मारु॑हद् दि॒वस्पृ॒ष्ठं भन्द॑मानः सु॒मन्म॑भिः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

स पू᳚र्व॒वज्ज॒नय᳚ञ्ज॒न्तवे॒ धनं᳚ समा॒नमज्मं॒ पर्ये᳚ति॒ जागृ॑विः ||{12/15}{2.8.19.2}{3.2.12}{3.1.2.12}{1100, 236, 2470}

वै॒श्वा॒न॒रः¦प्र॒त्नऽथा᳚¦नाक᳚‌म्¦आ¦अ॒रु॒ह॒त्¦दि॒वः¦पृ॒ष्ठ‌म्¦भन्द॑मानः¦सु॒मन्म॑ऽभिः |
सः¦पू॒र्व॒ऽवत्¦ज॒नय॑न्¦ज॒न्तवे᳚¦धन᳚‌म्¦स॒मा॒न‌म्¦अज्म᳚‌म्¦परि॑¦ए॒ति॒¦जागृ॑विः ||

ऋ॒तावा᳚नं य॒ज्ञियं॒ विप्र॑मु॒क्थ्य१॑(अ॒)मा यं द॒धे मा᳚त॒रिश्वा᳚ दि॒वि क्षय᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

तं चि॒त्रया᳚मं॒ हरि॑केशमीमहे सुदी॒तिम॒ग्निं सु॑वि॒ताय॒ नव्य॑से ||{13/15}{2.8.19.3}{3.2.13}{3.1.2.13}{1101, 236, 2471}

ऋ॒तऽवा᳚न‌म्¦य॒ज्ञिय᳚‌म्¦विप्र᳚‌म्¦उ॒क्थ्य᳚‌म्¦आ¦य‌म्¦द॒धे¦मा॒त॒रिश्वा᳚¦दि॒वि¦क्षय᳚‌म् |
त‌म्¦चि॒त्रऽया᳚म‌म्¦हरि॑ऽकेश‌म्¦ई॒म॒हे॒¦सु॒ऽदी॒ति‌म्¦अ॒ग्नि‌म्¦सु॒वि॒ताय॑¦नव्य॑से ||

शुचिं॒ न याम᳚न्निषि॒रं स्व॒र्दृशं᳚ के॒तुं दि॒वो रो᳚चन॒स्थामु॑ष॒र्बुध᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

अ॒ग्निं मू॒र्धानं᳚ दि॒वो, अप्र॑तिष्कुतं॒ तमी᳚महे॒ नम॑सा वा॒जिनं᳚ बृ॒हत् ||{14/15}{2.8.19.4}{3.2.14}{3.1.2.14}{1102, 236, 2472}

शुचि᳚‌म्¦न¦याम॑न्¦इ॒षि॒र‌म्¦स्वः॒ऽदृश᳚‌म्¦के॒तु‌म्¦दि॒वः¦रो॒च॒न॒ऽस्था‌म्¦उ॒षः॒ऽबुध᳚‌म् |
अ॒ग्नि‌म्¦मू॒र्धान᳚‌म्¦दि॒वः¦अप्र॑तिऽस्कुत‌म्¦त‌म्¦ई॒म॒हे॒¦नम॑सा¦वा॒जिन᳚‌म्¦बृ॒हत् ||

म॒न्द्रं होता᳚रं॒ शुचि॒मद्व॑याविनं॒ दमू᳚नसमु॒क्थ्यं᳚ वि॒श्वच॑र्षणिम् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

रथं॒ न चि॒त्रं वपु॑षाय दर्श॒तं मनु᳚र्हितं॒ सद॒मिद्रा॒य ई᳚महे ||{15/15}{2.8.19.5}{3.2.15}{3.1.2.15}{1103, 236, 2473}

म॒न्द्र‌म्¦होता᳚र‌म्¦शुचि᳚‌म्¦अद्व॑याविन‌म्¦दमू᳚नस‌म्¦उ॒क्थ्य᳚‌म्¦वि॒श्वऽच॑र्षणि‌म् |
रथ᳚‌म्¦न¦चि॒त्र‌म्¦वपु॑षाय¦द॒र्श॒त‌म्¦मनुः॑ऽहित‌म्¦सद᳚‌म्¦इत्¦रा॒यः¦ई॒म॒हे॒ ||

[116] वैश्वानरायेत्येकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्रो वैश्वानरोग्निर्जगती |
वै॒श्वा॒न॒राय॑ पृथु॒पाज॑से॒ विपो॒ रत्ना᳚ विधन्त ध॒रुणे᳚षु॒ गात॑वे |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

अ॒ग्निर्हि दे॒वाँ, अ॒मृतो᳚ दुव॒स्यत्यथा॒ धर्मा᳚णि स॒नता॒ न दू᳚दुषत् ||{1/11}{2.8.20.1}{3.3.1}{3.1.3.1}{1104, 237, 2474}

वै॒श्वा॒न॒राय॑¦पृ॒थु॒ऽपाज॑से¦विपः॑¦रत्ना᳚¦वि॒ध॒न्त॒¦ध॒रुणे᳚षु¦गात॑वे |
अ॒ग्निः¦हि¦दे॒वान्¦अ॒मृतः॑¦दु॒व॒स्यति॑¦अथ॑¦धर्मा᳚णि¦स॒नता᳚¦न¦दू॒दु॒ष॒त् ||

अ॒न्तर्दू॒तो रोद॑सी द॒स्म ई᳚यते॒ होता॒ निष॑त्तो॒ मनु॑षः पु॒रोहि॑तः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

क्षयं᳚ बृ॒हन्तं॒ परि॑ भूषति॒ द्युभि॑र्दे॒वेभि॑र॒ग्निरि॑षि॒तो धि॒याव॑सुः ||{2/11}{2.8.20.2}{3.3.2}{3.1.3.2}{1105, 237, 2475}

अ॒न्तः¦दू॒तः¦रोद॑सी॒ इति॑¦द॒स्मः¦ई॒य॒ते॒¦होता᳚¦निऽस॑त्तः¦मनु॑षः¦पु॒रःऽहि॑तः |
क्षय᳚‌म्¦बृ॒हन्त᳚‌म्¦परि॑¦भू॒ष॒ति॒¦द्युऽभिः॑¦दे॒वेभिः॑¦अ॒ग्निः¦इ॒षि॒तः¦धि॒याऽव॑सुः ||

के॒तुं य॒ज्ञानां᳚ वि॒दथ॑स्य॒ साध॑नं॒ विप्रा᳚सो, अ॒ग्निं म॑हयन्त॒ चित्ति॑भिः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

अपां᳚सि॒ यस्मि॒न्नधि॑ संद॒धुर्गिर॒स्तस्मि᳚न्‌ त्सु॒म्नानि॒ यज॑मान॒ आ च॑के ||{3/11}{2.8.20.3}{3.3.3}{3.1.3.3}{1106, 237, 2476}

के॒तु‌म्¦य॒ज्ञाना᳚‌म्¦वि॒दथ॑स्य¦साध॑न‌म्¦विप्रा᳚सः¦अ॒ग्नि‌म्¦म॒ह॒य॒न्त॒¦चित्ति॑ऽभिः |
अपां᳚सि¦यस्मि॑न्¦अधि॑¦स॒‌म्ऽद॒धुः¦गिरः॑¦तस्मि॑न्¦सु॒म्नानि॑¦यज॑मानः¦आ¦च॒के॒ ||

पि॒ता य॒ज्ञाना॒मसु॑रो विप॒श्चितां᳚ वि॒मान॑म॒ग्निर्व॒युनं᳚ च वा॒घता᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

आ वि॑वेश॒ रोद॑सी॒ भूरि॑वर्पसा पुरुप्रि॒यो भ᳚न्दते॒ धाम॑भिः क॒विः ||{4/11}{2.8.20.4}{3.3.4}{3.1.3.4}{1107, 237, 2477}

पि॒ता¦य॒ज्ञाना᳚‌म्¦असु॑रः¦वि॒पः॒ऽचिता᳚‌म्¦वि॒ऽमान᳚‌म्¦अ॒ग्निः¦व॒युन᳚‌म्¦च॒¦वा॒घता᳚‌म् |
आ¦वि॒वे॒श॒¦रोद॑सी॒ इति॑¦भूरि॑ऽवर्पसा¦पु॒रु॒ऽप्रि॒यः¦भ॒न्द॒ते॒¦धाम॑ऽभिः¦क॒विः ||

च॒न्द्रम॒ग्निं च॒न्द्रर॑थं॒ हरि᳚व्रतं वैश्वान॒रम॑प्सु॒षदं᳚ स्व॒र्विद᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

वि॒गा॒हं तूर्णिं॒ तवि॑षीभि॒रावृ॑तं॒ भूर्णिं᳚ दे॒वास॑ इ॒ह सु॒श्रियं᳚ दधुः ||{5/11}{2.8.20.5}{3.3.5}{3.1.3.5}{1108, 237, 2478}

च॒न्द्र‌म्¦अ॒ग्नि‌म्¦च॒न्द्रऽर॑थ‌म्¦हरि॑ऽव्रत‌म्¦वै॒श्वा॒न॒र‌म्¦अ॒प्सु॒ऽसद᳚‌म्¦स्वः॒ऽविद᳚‌म् |
वि॒ऽगा॒ह‌म्¦तूर्णि᳚‌म्¦तवि॑षीभिः¦आऽवृ॑त‌म्¦भूर्णि᳚‌म्¦दे॒वासः॑¦इ॒ह¦सु॒ऽश्रिय᳚‌म्¦द॒धुः॒ ||

अ॒ग्निर्दे॒वेभि॒र्मनु॑षश्च ज॒न्तुभि॑स्तन्वा॒नो य॒ज्ञं पु॑रु॒पेश॑सं धि॒या |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

र॒थीर॒न्तरी᳚यते॒ साध॑दिष्टिभिर्जी॒रो दमू᳚ना, अभिशस्ति॒चात॑नः ||{6/11}{2.8.21.1}{3.3.6}{3.1.3.6}{1109, 237, 2479}

अ॒ग्निः¦दे॒वेभिः॑¦मनु॑षः¦च॒¦ज॒न्तुऽभिः॑¦त॒न्वा॒नः¦य॒ज्ञ‌म्¦पु॒रु॒ऽपेश॑स‌म्¦धि॒या |
र॒थीः¦अ॒न्तः¦ई॒य॒ते॒¦साध॑दिष्टिऽभिः¦जी॒रः¦दमू᳚नाः¦अ॒भि॒श॒स्ति॒ऽचात॑नः ||

अग्ने॒ जर॑स्व स्वप॒त्य आयु᳚न्यू॒र्जा पि᳚न्वस्व॒ समिषो᳚ दिदीहि नः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

वयां᳚सि जिन्व बृह॒तश्च॑ जागृव उ॒शिग्दे॒वाना॒मसि॑ सु॒क्रतु᳚र्वि॒पाम् ||{7/11}{2.8.21.2}{3.3.7}{3.1.3.7}{1110, 237, 2480}

अग्ने᳚¦जर॑स्व¦सु॒।आ॒प॒त्ये¦आयु॑नि¦ऊ॒र्जा¦पि॒न्व॒स्व॒¦स‌म्¦इषः॑¦दि॒दी॒हि॒¦नः॒ |
वयां᳚सि¦जि॒न्व॒¦बृ॒ह॒तः¦च॒¦जा॒गृ॒वे॒¦उ॒शिक्¦दे॒वाना᳚‌म्¦असि॑¦सु॒ऽक्रतुः॑¦वि॒पा‌म् ||

वि॒श्पतिं᳚ य॒ह्वमति॑थिं॒ नरः॒ सदा᳚ य॒न्तारं᳚ धी॒नामु॒शिजं᳚ च वा॒घता᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

अ॒ध्व॒राणां॒ चेत॑नं जा॒तवे᳚दसं॒ प्र शं᳚सन्ति॒ नम॑सा जू॒तिभि᳚र्वृ॒धे ||{8/11}{2.8.21.3}{3.3.8}{3.1.3.8}{1111, 237, 2481}

वि॒श्पति᳚‌म्¦य॒ह्व‌म्¦अति॑थि‌म्¦नरः॑¦सदा᳚¦य॒न्तार᳚‌म्¦धी॒ना‌म्¦उ॒शिज᳚‌म्¦च॒¦वा॒घता᳚‌म् |
अ॒ध्व॒राणा᳚‌म्¦चेत॑न‌म्¦जा॒तऽवे᳚दस‌म्¦प्र¦शं॒स॒न्ति॒¦नम॑सा¦जू॒तिऽभिः॑¦वृ॒धे ||

वि॒भावा᳚ दे॒वः सु॒रणः॒ परि॑ क्षि॒तीर॒ग्निर्ब॑भूव॒ शव॑सा सु॒मद्र॑थः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

तस्य᳚ व्र॒तानि॑ भूरिपो॒षिणो᳚ व॒यमुप॑ भूषेम॒ दम॒ आ सु॑वृ॒क्तिभिः॑ ||{9/11}{2.8.21.4}{3.3.9}{3.1.3.9}{1112, 237, 2482}

वि॒भाऽवा᳚¦दे॒वः¦सु॒ऽरणः॑¦परि॑¦क्षि॒तीः¦अ॒ग्निः¦ब॒भू॒व॒¦शव॑सा¦सु॒मत्ऽर॑थः |
तस्य॑¦व्र॒तानि॑¦भू॒रि॒ऽपो॒षिणः॑¦व॒य‌म्¦उप॑¦भू॒षे॒म॒¦दमे᳚¦आ¦सु॒वृ॒क्तिऽभिः॑ ||

वैश्वा᳚नर॒ तव॒ धामा॒न्या च॑के॒ येभिः॑ स्व॒र्विदभ॑वो विचक्षण |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

जा॒त आपृ॑णो॒ भुव॑नानि॒ रोद॑सी॒, अग्ने॒ ता विश्वा᳚ परि॒भूर॑सि॒ त्मना᳚ ||{10/11}{2.8.21.5}{3.3.10}{3.1.3.10}{1113, 237, 2483}

वैश्वा᳚नर¦तव॑¦धामा᳚नि¦आ¦च॒क्रे॒¦येभिः॑¦स्वः॒ऽवित्¦अभ॑वः¦वि॒ऽच॒क्ष॒ण॒ |
जा॒तः¦आ¦अ॒पृ॒णः॒¦भुव॑नानि¦रोद॑सी॒ इति॑¦अग्ने᳚¦ता¦विश्वा᳚¦प॒रि॒ऽभूः¦अ॒सि॒¦त्मना᳚ ||

वै॒श्वा॒न॒रस्य॑ दं॒सना᳚भ्यो बृ॒हदरि॑णा॒देकः॑ स्वप॒स्यया᳚ क॒विः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

उ॒भा पि॒तरा᳚ म॒हय᳚न्नजायता॒ग्निर्द्यावा᳚पृथि॒वी भूरि॑रेतसा ||{11/11}{2.8.21.6}{3.3.11}{3.1.3.11}{1114, 237, 2484}

वै॒श्वा॒न॒रस्य॑¦दं॒सना᳚भ्यः¦बृ॒हत्¦अरि॑णात्¦एकः॑¦सु॒।आ॒प॒स्यया᳚¦क॒विः |
उ॒भा¦पि॒तरा᳚¦म॒हय॑न्¦अ॒जा॒य॒त॒¦अ॒ग्निः¦द्यावा᳚पृथि॒वी इति॑¦भूरि॑ऽरेतसा ||

[117] समित्समिदित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रइध्मस्तनूनपादिळोबर्हिर्देवीर्द्वारउषासानक्तादैव्यौ होतारौ सरस्वतीळाभारत्यस्त्वष्टावनस्पतिस्वाहाकृतयइतिक्रमेणदेवतास्त्रिष्टुप् |
स॒मित्स॑मित्‌ सु॒मना᳚ बोध्य॒स्मे शु॒चाशु॑चा सुम॒तिं रा᳚सि॒ वस्वः॑ |{गाथिनो विश्वामित्रः | इध्मः समिद्धोऽग्निर्वा | त्रिष्टुप्}

आ दे᳚व दे॒वान्‌ य॒जथा᳚य वक्षि॒ सखा॒ सखी᳚न्‌ त्सु॒मना᳚ यक्ष्यग्ने ||{1/11}{2.8.22.1}{3.4.1}{3.1.4.1}{1115, 238, 2485}

स॒मित्ऽस॑मित्¦सु॒ऽमनाः᳚¦बो॒धि॒¦अ॒स्मे इति॑¦शु॒चाऽशु॑चा¦सु॒ऽम॒ति‌म्¦रा॒सि॒¦वस्वः॑ |
आ¦दे॒व॒¦दे॒वान्¦य॒जथा᳚य¦व॒क्षि॒¦सखा᳚¦सखी᳚न्¦सु॒ऽमनाः᳚¦य॒क्षि॒¦अ॒ग्ने॒ ||

यं दे॒वास॒स्त्रिरह᳚न्ना॒यज᳚न्ते दि॒वेदि॑वे॒ वरु॑णो मि॒त्रो, अ॒ग्निः |{गाथिनो विश्वामित्रः | तनूनपात् | त्रिष्टुप्}

सेमं य॒ज्ञं मधु॑मन्तंकृधी न॒स्तनू᳚नपाद्‌ घृ॒तयो᳚निं वि॒धन्त᳚म् ||{2/11}{2.8.22.2}{3.4.2}{3.1.4.2}{1116, 238, 2486}

य‌म्¦दे॒वासः॑¦त्रिः¦अह॑न्¦आ॒ऽयज᳚न्ते¦दि॒वेऽदि॑वे¦वरु॑णः¦मि॒त्रः¦अ॒ग्निः |
सः¦इ॒म‌म्¦य॒ज्ञ‌म्¦मधु॑ऽमन्त‌म्¦कृ॒धि॒¦नः॒¦तनू᳚ऽनपात्¦घृ॒तऽयो᳚नि‌म्¦वि॒धन्त᳚‌म् ||

प्र दीधि॑तिर्वि॒श्ववा᳚रा जिगाति॒ होता᳚रमि॒ळः प्र॑थ॒मं यज॑ध्यै |{गाथिनो विश्वामित्रः | इळः | त्रिष्टुप्}

अच्छा॒नमो᳚भिर्वृष॒भं व॒न्दध्यै॒ स दे॒वान्‌ य॑क्षदिषि॒तो यजी᳚यान् ||{3/11}{2.8.22.3}{3.4.3}{3.1.4.3}{1117, 238, 2487}

प्र¦दीधि॑तिः¦वि॒श्वऽवा᳚रा¦जि॒गा॒ति॒¦होता᳚र‌म्¦इ॒ळः¦प्र॒थ॒म‌म्¦यज॑ध्यै |
अच्छ॑¦नमः॑ऽभिः¦वृ॒ष॒भ‌म्¦व॒न्दध्यै᳚¦सः¦दे॒वान्¦य॒क्ष॒त्¦इ॒षि॒तः¦यजी᳚यान् ||

ऊ॒र्ध्वो वां᳚ गा॒तुर॑ध्व॒रे, अ॑कार्यू॒र्ध्वा शो॒चींषि॒ प्रस्थि॑ता॒ रजां᳚सि |{गाथिनो विश्वामित्रः | बर्हिः | त्रिष्टुप्}

दि॒वो वा॒ नाभा॒ न्य॑सादि॒ होता᳚ स्तृणी॒महि॑ दे॒वव्य॑चा॒ वि ब॒र्हिः ||{4/11}{2.8.22.4}{3.4.4}{3.1.4.4}{1118, 238, 2488}

ऊ॒र्ध्वः¦वा॒‌म्¦गा॒तुः¦अ॒ध्व॒रे¦अ॒का॒रि॒¦ऊ॒र्ध्वा¦शो॒चींषि॑¦प्रऽस्थि॑ता¦रजां᳚सि |
दि॒वः¦वा॒¦नाभा᳚¦नि¦अ॒सा॒दि॒¦होता᳚¦स्तृ॒णी॒महि॑¦दे॒वऽव्य॑चाः¦वि¦ब॒र्हिः ||

स॒प्त हो॒त्राणि॒ मन॑सा वृणा॒ना, इन्व᳚न्तो॒ विश्वं॒ प्रति॑ यन्नृ॒तेन॑ |{गाथिनो विश्वामित्रः | देवीर्द्वारः | त्रिष्टुप्}

नृ॒पेश॑सो वि॒दथे᳚षु॒ प्र जा॒ता, अ॒भी॒३॑(ई॒)मं य॒ज्ञं वि च॑रन्त पू॒र्वीः ||{5/11}{2.8.22.5}{3.4.5}{3.1.4.5}{1119, 238, 2489}

स॒प्त¦हो॒त्राणि॑¦मन॑सा¦वृ॒णा॒नाः¦इन्व᳚न्तः¦विश्व᳚‌म्¦प्रति॑¦य॒न्¦ऋ॒तेन॑ |
नृ॒ऽपेश॑सः¦वि॒दथे᳚षु¦प्र¦जा॒ताः¦अ॒भि¦इ॒म‌म्¦य॒ज्ञ‌म्¦वि¦च॒र॒न्त॒¦पू॒र्वीः ||

आ भन्द॑माने, उ॒षसा॒, उपा᳚के, उ॒त स्म॑येते त॒न्वा॒३॑(आ॒) विरू᳚पे |{गाथिनो विश्वामित्रः | उषासानक्ता | त्रिष्टुप्}

यथा᳚ नो मि॒त्रो वरु॑णो॒ जुजो᳚ष॒दिन्द्रो᳚ म॒रुत्वाँ᳚, उ॒त वा॒ महो᳚भिः ||{6/11}{2.8.23.1}{3.4.6}{3.1.4.6}{1120, 238, 2490}

आ¦भन्द॑माने॒ इति॑¦उ॒षसौ᳚¦उपा᳚के॒ इति॑¦उ॒त¦स्म॒ये॒ते॒ इति॑¦त॒न्वा᳚¦विरू᳚पे॒ इति॒ विऽरू᳚पे |
यथा᳚¦नः॒¦मि॒त्रः¦वरु॑णः¦जुजो᳚षत्¦इन्द्रः॑¦म॒रुत्वा᳚न्¦उ॒त¦वा॒¦महः॑ऽभिः ||

दैव्या॒ होता᳚रा प्रथ॒मा न्यृ᳚ञ्जे स॒प्त पृ॒क्षासः॑ स्व॒धया᳚ मदन्ति |{गाथिनो विश्वामित्रः | दैव्यौ होतारौ प्रचेतसौ | त्रिष्टुप्}

ऋ॒तं शंस᳚न्त ऋ॒तमित्त आ᳚हु॒रनु᳚ व्र॒तं व्र॑त॒पा दीध्या᳚नाः ||{7/11}{2.8.23.2}{3.4.7}{3.1.4.7}{1121, 238, 2491}

दैव्या᳚¦होता᳚रा¦प्र॒थ॒मा¦नि¦ऋं॒जे॒¦स॒प्त¦पृ॒क्षासः॑¦स्व॒धया᳚¦म॒द॒न्ति॒ |
ऋ॒त‌म्¦शंस᳚न्तः¦ऋ॒त‌म्¦इत्¦ते¦आ॒हुः॒¦अनु॑¦व्र॒त‌म्¦व्र॒त॒ऽपाः¦दीध्या᳚नाः ||

आ भार॑ती॒ भार॑तीभिः स॒जोषा॒, इळा᳚ दे॒वैर्म॑नु॒ष्ये᳚भिर॒ग्निः |{गाथिनो विश्वामित्रः | तिस्रो देव्यः सरस्वतीळाभारत्यः | त्रिष्टुप्}

सर॑स्वती सारस्व॒तेभि॑र॒र्वाक् ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दन्तु ||{8/11}{2.8.23.3}{3.4.8}{3.1.4.8}{1122, 238, 2492}

आ¦भार॑ती¦भार॑तीभिः¦स॒ऽजोषाः᳚¦इळाः᳚¦दे॒वैः¦म॒नु॒ष्ये᳚भिः¦अ॒ग्निः |
सर॑स्वती¦सा॒र॒स्व॒तेभिः॑¦अ॒र्वाक्¦ति॒स्रः¦दे॒वीः¦ब॒र्हिः¦आ¦इ॒द‌म्¦स॒द॒न्तु॒ ||

तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व |{गाथिनो विश्वामित्रः | त्वष्टाः | त्रिष्टुप्}

यतो᳚ वी॒रः क᳚र्म॒ण्यः॑ सु॒दक्षो᳚ यु॒क्तग्रा᳚वा॒ जाय॑ते दे॒वका᳚मः ||{9/11}{2.8.23.4}{3.4.9}{3.1.4.9}{1123, 238, 2493}

तत्¦नः॒¦तु॒रीप᳚‌म्¦अध॑¦पो॒ष॒यि॒त्नु¦देव॑¦त्व॒ष्टः॒¦वि¦र॒रा॒णः¦स्य॒स्वेति॑ स्यस्व |
यतः॑¦वी॒रः¦क॒र्म॒ण्यः॑¦सु॒ऽदक्षः॑¦यु॒क्तऽग्रा᳚वा¦जाय॑ते¦दे॒वऽका᳚मः ||

वन॑स्प॒तेऽव॑ सृ॒जोप॑ दे॒वान॒ग्निर्ह॒विः श॑मि॒ता सू᳚दयाति |{गाथिनो विश्वामित्रः | वनस्पतिः | त्रिष्टुप्}

सेदु॒ होता᳚ स॒त्यत॑रो यजाति॒ यथा᳚ दे॒वानां॒ जनि॑मानि॒ वेद॑ ||{10/11}{2.8.23.5}{3.4.10}{3.1.4.10}{1124, 238, 2494}

वन॑स्पते¦अव॑¦सृ॒ज॒¦उप॑¦दे॒वान्¦अ॒ग्निः¦ह॒विः¦श॒मि॒ता¦सू॒द॒या॒ति॒ |
सः¦इत्¦ऊँ॒ इति॑¦होता᳚¦स॒त्यऽत॑रः¦य॒जा॒ति॒¦यथा᳚¦दे॒वाना᳚‌म्¦जनि॑मानि¦वेद॑ ||

आ या᳚ह्यग्ने समिधा॒नो, अ॒र्वाङिन्द्रे᳚ण दे॒वैः स॒रथं᳚ तु॒रेभिः॑ |{गाथिनो विश्वामित्रः | स्वाहाकृतयः | त्रिष्टुप्}

ब॒र्हिर्न॒ आस्ता॒मदि॑तिः सुपु॒त्रा स्वाहा᳚ दे॒वा, अ॒मृता᳚ मादयन्ताम् ||{11/11}{2.8.23.6}{3.4.11}{3.1.4.11}{1125, 238, 2495}

आ¦या॒हि॒¦अ॒ग्ने॒¦स॒‌म्ऽ‌इ॒धा॒नः¦अ॒र्वाङ्¦इन्द्रे᳚ण¦दे॒वैः¦स॒ऽरथ᳚‌म्¦तु॒रेभिः॑ |
ब॒र्हिः¦नः॒¦आस्ता᳚‌म्¦अदि॑तिः¦सु॒ऽपु॒त्रा¦स्वाहा᳚¦दे॒वाः¦अ॒मृताः᳚¦मा॒द॒य॒न्ता॒‌म् ||

[118] प्रत्यग्निरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् (प्रत्यग्निःप्रकारवः सूक्तयोरन्त्यासांद्यावापृथिव्यादीनांनिपातादृश्यन्तेअतस्तयोर्लिंगोक्तादेवताः पाक्षिकाः) |
प्रत्य॒ग्निरु॒षस॒श्चेकि॑ता॒नो ऽबो᳚धि॒ विप्रः॑ पद॒वीः क॑वी॒नाम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

पृ॒थु॒पाजा᳚ देव॒यद्भिः॒ समि॒द्धोऽप॒ द्वारा॒ तम॑सो॒ वह्नि॑रावः ||{1/11}{2.8.24.1}{3.5.1}{3.1.5.1}{1126, 239, 2496}

प्रति॑¦अ॒ग्निः¦उ॒षसः॑¦चेकि॑तानः¦अबो᳚धि¦विप्रः॑¦प॒द॒ऽवीः¦क॒वी॒ना‌म् |
पृ॒थु॒ऽपाजाः᳚¦दे॒व॒यत्ऽभिः॑¦स‌म्ऽ‌इ᳚द्धः¦अप॑¦द्वारा᳚¦तम॑सः¦वह्निः॑¦आ॒व॒रित्या᳚वः ||

प्रेद्व॒ग्निर्वा᳚वृधे॒ स्तोमे᳚भिर्गी॒र्भिः स्तो᳚तॄ॒णां न॑म॒स्य॑ उ॒क्थैः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

पू॒र्वीरृ॒तस्य॑ सं॒दृश॑श्चका॒नः सं दू॒तो, अ॑द्यौदु॒षसो᳚ विरो॒के ||{2/11}{2.8.24.2}{3.5.2}{3.1.5.2}{1127, 239, 2497}

प्र¦इत्¦ऊँ॒ इति॑¦अ॒ग्निः¦व॒वृ॒धे॒¦स्तोमे᳚भिः¦गीः॒ऽभिः¦स्तो॒तॄ॒णा‌म्¦न॒म॒स्यः॑¦उ॒क्थैः |
पू॒र्वीः¦ऋ॒तस्य॑¦स॒‌म्ऽदृशः॑¦च॒का॒नः¦स‌म्¦दू॒तः¦अ॒द्यौ॒त्¦उ॒षसः॑¦वि॒ऽरो॒के ||

अधा᳚य्य॒ग्निर्मानु॑षीषु वि॒क्ष्व१॑(अ॒)पां गर्भो᳚ मि॒त्र ऋ॒तेन॒ साध॑न् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

आ ह᳚र्य॒तो य॑ज॒तः सान्व॑स्था॒दभू᳚दु॒ विप्रो॒ हव्यो᳚ मती॒नाम् ||{3/11}{2.8.24.3}{3.5.3}{3.1.5.3}{1128, 239, 2498}

अधा᳚यि¦अ॒ग्निः¦मानु॑षीषु¦वि॒क्षु¦अ॒पा‌म्¦गर्भः॑¦मि॒त्रः¦ऋ॒तेन॑¦साध॑न् |
आ¦हि॒र्य॒तः¦य॒ज॒तः¦सानु॑¦अ॒स्था॒त्¦अभू᳚त्¦ऊँ॒ इति॑¦विप्रः॑¦हव्यः॑¦म॒ती॒ना‌म् ||

मि॒त्रो, अ॒ग्निर्भ॑वति॒ यत्‌ समि॑द्धो मि॒त्रो होता॒ वरु॑णो जा॒तवे᳚दाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

मि॒त्रो, अ॑ध्व॒र्युरि॑षि॒रो दमू᳚ना मि॒त्रः सिन्धू᳚नामु॒त पर्व॑तानाम् ||{4/11}{2.8.24.4}{3.5.4}{3.1.5.4}{1129, 239, 2499}

मि॒त्रः¦अ॒ग्निः¦भ॒व॒ति॒¦यत्¦स‌म्ऽ‌इ᳚द्धः¦मि॒त्रः¦होता᳚¦वरु॑णः¦जा॒तऽवे᳚दाः |
मि॒त्रः¦अ॒ध्व॒र्युः¦इ॒षि॒रः¦दमू᳚नाः¦मि॒त्रः¦सिन्धू᳚ना‌म्¦उ॒त¦पर्व॑ताना‌म् ||

पाति॑ प्रि॒यं रि॒पो, अग्रं᳚ प॒दं वेः पाति॑ य॒ह्वश्चर॑णं॒ सूर्य॑स्य |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

पाति॒ नाभा᳚ स॒प्तशी᳚र्षाणम॒ग्निः पाति॑ दे॒वाना᳚मुप॒माद॑मृ॒ष्वः ||{5/11}{2.8.24.5}{3.5.5}{3.1.5.5}{1130, 239, 2500}

पाति॑¦प्रि॒य‌म्¦रि॒पः¦अग्र᳚‌म्¦प॒द‌म्¦वेः¦पाति॑¦य॒ह्वः¦चर॑ण‌म्¦सूर्य॑स्य |
पाति॑¦नाभा᳚¦स॒प्तऽशी᳚र्षाणा‌म्¦अ॒ग्निः¦पाति॑¦दे॒वाना᳚‌म्¦उ॒प॒ऽमाद᳚‌म्¦ऋ॒ष्वः ||

ऋ॒भुश्च॑क्र॒ ईड्यं॒ चारु॒ नाम॒ विश्वा᳚नि दे॒वो व॒युना᳚नि वि॒द्वान् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

स॒सस्य॒ चर्म॑ घृ॒तव॑त्‌ प॒दं वेस्तदिद॒ग्नी र॑क्ष॒त्यप्र॑युच्छन् ||{6/11}{2.8.25.1}{3.5.6}{3.1.5.6}{1131, 239, 2501}

ऋ॒भुः¦च॒क्रे॒¦ईड्य᳚‌म्¦चारु॑¦नाम॑¦विश्वा᳚नि¦दे॒वः¦व॒युना᳚नि¦वि॒द्वान् |
स॒सस्य॑¦चर्म॑¦घृ॒तऽव॑त्¦प॒द‌म्¦वेः¦तत्¦इत्¦अ॒ग्निः¦र॒क्ष॒ति॒¦अप्र॑ऽयुच्छन् ||

आ योनि॑म॒ग्निर्घृ॒तव᳚न्तमस्थात् पृ॒थुप्र॑गाणमु॒शन्त॑मुशा॒नः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दीद्या᳚नः॒ शुचि᳚रृ॒ष्वः पा᳚व॒कः पुनः॑पुनर्मा॒तरा॒ नव्य॑सी कः ||{7/11}{2.8.25.2}{3.5.7}{3.1.5.7}{1132, 239, 2502}

आ¦योनि᳚‌म्¦अ॒ग्निः¦घृ॒तऽव᳚न्त‌म्¦अ॒स्था॒त्¦पृ॒थुऽप्र॑गान‌म्¦उ॒शन्त᳚‌म्¦उ॒शा॒नः |
दीद्या᳚नः¦शुचिः॑¦ऋ॒ष्वः¦पा॒व॒कः¦पुनः॑ऽपुनः¦मा॒तरा᳚¦नव्य॑सी॒ इति॑¦क॒रिति॑ कः ||

स॒द्यो जा॒त ओष॑धीभिर्ववक्षे॒ यदी॒ वर्ध᳚न्ति प्र॒स्वो᳚ घृ॒तेन॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

आप॑ इव प्र॒वता॒ शुम्भ॑माना, उरु॒ष्यद॒ग्निः पि॒त्रोरु॒पस्थे᳚ ||{8/11}{2.8.25.3}{3.5.8}{3.1.5.8}{1133, 239, 2503}

स॒द्यः¦जा॒तः¦ओष॑धीभिः¦व॒व॒क्षे॒¦यदि॑¦वर्ध᳚न्ति¦प्र॒ऽस्वः॑¦घृ॒तेन॑ |
आपः॑ऽ‌इव¦प्र॒ऽवता᳚¦शुम्भ॑मानाः¦उ॒रु॒ष्यत्¦अ॒ग्निः¦पि॒त्रोः¦उ॒पऽस्थे᳚ ||

उदु॑ ष्टु॒तः स॒मिधा᳚ य॒ह्वो, अ॑द्यौ॒द् वर्ष्म᳚न्‌ दि॒वो, अधि॒ नाभा᳚ पृथि॒व्याः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

मि॒त्रो, अ॒ग्निरीड्यो᳚ मात॒रिश्वा ऽऽ दू॒तो व॑क्षद्‌ य॒जथा᳚य दे॒वान् ||{9/11}{2.8.25.4}{3.5.9}{3.1.5.9}{1134, 239, 2504}

उत्¦ऊँ॒ इति॑| स्तु॒तः¦स॒‌म्ऽ‌इधा᳚¦य॒ह्वः¦अ॒द्यौ॒त्¦वर्ष्म॑न्¦दि॒वः¦अधि॑¦नाभा᳚¦पृ॒थि॒व्याः |
मि॒त्रः¦अ॒ग्निः¦ईड्यः॑¦मा॒त॒रिश्वा᳚¦आ¦दू॒तः¦व॒क्ष॒त्¦य॒जथा᳚य¦दे॒वान् ||

उद॑स्तम्भीत्‌ स॒मिधा॒ नाक॑मृ॒ष्वो॒३॑(ओ॒)ऽग्निर्भव᳚न्नुत्त॒मो रो᳚च॒नाना᳚म् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

यदी॒ भृगु॑भ्यः॒ परि॑ मात॒रिश्वा॒ गुहा॒ सन्तं᳚ हव्य॒वाहं᳚ समी॒धे ||{10/11}{2.8.25.5}{3.5.10}{3.1.5.10}{1135, 239, 2505}

उत्¦अ॒स्त॒म्भी॒त्¦स॒‌म्ऽ‌इधा᳚¦नाक᳚‌म्¦ऋ॒ष्वः¦अ॒ग्निः¦भव॑न्¦उ॒त्ऽत॒मः¦रो॒च॒नाना᳚‌म् |
यदि॑¦भृगु॑ऽभ्यः¦परि॑¦मा॒त॒रिश्वा᳚¦गुहा᳚¦सन्त᳚‌म्¦ह॒व्य॒ऽवाह᳚‌म्¦स॒‌म्ऽई॒धे ||

इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{11/11}{2.8.25.6}{3.5.11}{3.1.5.11}{1136, 239, 2506}

इळा᳚‌म्¦अ॒ग्ने॒¦पु॒रु॒ऽदंस᳚‌म्¦स॒नि‌म्¦गोः¦श॒श्व॒त्ऽत॒म‌म्¦हव॑मानाय¦सा॒ध॒ |
स्यात्¦नः॒¦सू॒नुः¦तन॑यः¦वि॒जाऽवा᳚¦अग्ने᳚¦सा¦ते॒¦सु॒ऽम॒तिः¦भू॒तु॒¦अ॒स्मे इति॑ ||

[119] प्रकारवइत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् |
प्र का᳚रवो मन॒ना व॒च्यमा᳚ना देव॒द्रीचीं᳚ नयत देव॒यन्तः॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

द॒क्षि॒णा॒वाड्‌ वा॒जिनी॒ प्राच्ये᳚ति ह॒विर्भर᳚न्‌ त्य॒ग्नये᳚ घृ॒ताची᳚ ||{1/11}{2.8.26.1}{3.6.1}{3.1.6.1}{1137, 240, 2507}

प्र¦का॒र॒वः॒¦म॒न॒ना¦व॒च्यमा᳚नाः¦दे॒व॒द्रीची᳚‌म्¦न॒य॒त॒¦दे॒व॒ऽयन्तः॑ |
द॒क्षि॒णा॒ऽवाट्¦वा॒जिनी᳚¦प्राची᳚¦ए॒ति॒¦ह॒विः¦भर᳚न्ती¦अ॒ग्नये᳚¦घृ॒ताची᳚ ||

आ रोद॑सी, अपृणा॒ जाय॑मान उ॒त प्र रि॑क्था॒, अध॒ नु प्र॑यज्यो |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दि॒वश्चि॑दग्ने महि॒ना पृ॑थि॒व्या व॒च्यन्तां᳚ ते॒ वह्न॑यः स॒प्तजि॑ह्वाः ||{2/11}{2.8.26.2}{3.6.2}{3.1.6.2}{1138, 240, 2508}

आ¦रोद॑सी॒ इति॑¦अ॒पृ॒णाः॒¦जाय॑मानः¦उ॒त¦प्र¦रि॒क्थाः॒¦अध॑¦नु¦प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो |
दि॒वः¦चि॒त्¦अ॒ग्ने॒¦म॒हि॒ना¦पृ॒थि॒व्याः¦व॒च्यन्ता᳚‌म्¦ते॒¦वह्न॑यः¦स॒प्तऽजि॑ह्वाः ||

द्यौश्च॑ त्वा पृथि॒वी य॒ज्ञिया᳚सो॒ नि होता᳚रं सादयन्ते॒ दमा᳚य |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

यदी॒ विशो॒ मानु॑षीर्देव॒यन्तीः॒ प्रय॑स्वती॒रीळ॑ते शु॒क्रम॒र्चिः ||{3/11}{2.8.26.3}{3.6.3}{3.1.6.3}{1139, 240, 2509}

द्यौः¦च॒¦त्वा॒¦पृ॒थि॒वी¦य॒ज्ञिया᳚सः¦नि¦होता᳚र‌म्¦सा॒द॒य॒न्ते॒¦दमा᳚य |
यदि॑¦विशः॑¦मानु॑षीः¦दे॒व॒ऽयन्तीः᳚¦प्रय॑स्वतीः¦ईळ॑ते¦शु॒क्र‌म्¦अ॒र्चिः ||

म॒हान्‌ त्स॒धस्थे᳚ ध्रु॒व आ निष॑त्तो॒ऽन्तर्द्यावा॒ माहि॑ने॒ हर्य॑माणः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

आस्क्रे᳚ स॒पत्नी᳚, अ॒जरे॒, अमृ॑क्ते सब॒र्दुघे᳚, उरुगा॒यस्य॑ धे॒नू ||{4/11}{2.8.26.4}{3.6.4}{3.1.6.4}{1140, 240, 2510}

म॒हान्¦स॒धऽस्थे᳚¦ध्रु॒वः¦आ¦निऽस॑त्तः¦अ॒न्तः¦द्यावा᳚¦माहि॑ने॒ इति॑¦हर्य॑माणः |
आस्क्रे॒ इति॑¦स॒पत्नी॒ इति॑ स॒ऽपत्नी᳚¦अ॒जरे॒ इति॑¦अमृ॑क्ते॒ इति॑¦स॒ब॒र्दुघे॒ इति॑ स॒बः॒ऽदुघे᳚¦उ॒रु॒ऽगा॒यस्य॑¦धे॒नू इति॑ ||

व्र॒ता ते᳚, अग्ने मह॒तो म॒हानि॒ तव॒ क्रत्वा॒ रोद॑सी॒, आ त॑तन्थ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

त्वं दू॒तो, अ॑भवो॒ जाय॑मान॒स्त्वं ने॒ता वृ॑षभ चर्षणी॒नाम् ||{5/11}{2.8.26.5}{3.6.5}{3.1.6.5}{1141, 240, 2511}

व्र॒ता¦ते॒¦अ॒ग्ने॒¦म॒ह॒तः¦म॒हानि॑¦तव॑¦क्रत्वा᳚¦रोद॑सी॒ इति॑¦आ¦त॒त॒न्थ॒ |
त्व‌म्¦दू॒तः¦अ॒भ॒वः॒¦जाय॑मानः¦त्व‌म्¦ने॒ता¦वृ॒ष॒भ॒¦च॒र्ष॒णी॒ना‌म् ||

ऋ॒तस्य॑ वा के॒शिना᳚ यो॒ग्याभि॑र्घृत॒स्नुवा॒ रोहि॑ता धु॒रि धि॑ष्व |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अथा व॑ह दे॒वान्‌ दे᳚व॒ विश्वा᳚न् त्स्वध्व॒रा कृ॑णुहि जातवेदः ||{6/11}{2.8.27.1}{3.6.6}{3.1.6.6}{1142, 240, 2512}

ऋ॒तस्य॑¦वा॒¦के॒शिना᳚¦यो॒ग्याभिः॑¦घृ॒त॒ऽस्नुवा᳚¦रोहि॑ता¦धु॒रि¦धि॒ष्व॒ |
अथ॑¦आ¦व॒ह¦दे॒वान्¦दे॒व॒¦विश्वा᳚न्¦सु॒।आ॒ध्व॒रा¦कृ॒णु॒हि॒¦जा॒त॒ऽवे॒दः॒ ||

दि॒वश्चि॒दा ते᳚ रुचयन्त रो॒का, उ॒षो वि॑भा॒तीरनु॑ भासि पू॒र्वीः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अ॒पो यद॑ग्न उ॒शध॒ग्वने᳚षु॒ होतु᳚र्म॒न्द्रस्य॑ प॒नय᳚न्त दे॒वाः ||{7/11}{2.8.27.2}{3.6.7}{3.1.6.7}{1143, 240, 2513}

दि॒वः¦चि॒त्¦आ¦ते॒¦रु॒च॒य॒न्त॒¦रो॒काः¦उ॒षः¦वि॒ऽभा॒तीः¦अनु॑¦भा॒सि॒¦पू॒र्वीः |
अ॒पः¦यत्¦अ॒ग्ने॒¦उ॒शध॑क्¦वने᳚षु¦होतुः॑¦म॒न्द्रस्य॑¦प॒नय᳚न्त¦दे॒वाः ||

उ॒रौ वा॒ ये, अ॒न्तरि॑क्षे॒ मद᳚न्ति दि॒वो वा॒ ये रो᳚च॒ने सन्ति॑ दे॒वाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

ऊमा᳚ वा॒ ये सु॒हवा᳚सो॒ यज॑त्रा, आयेमि॒रे र॒थ्यो᳚, अग्ने॒, अश्वाः᳚ ||{8/11}{2.8.27.3}{3.6.8}{3.1.6.8}{1144, 240, 2514}

उ॒रौ¦वा॒¦ये¦अ॒न्तरि॑क्षे¦मद᳚न्ति¦दि॒वः¦वा॒¦ये¦रो॒च॒ने¦सन्ति॑¦दे॒वाः |
ऊमाः᳚¦वा॒¦ये¦सु॒ऽहवा᳚सः¦यज॑त्राः¦आ॒ऽये॒मि॒रे¦र॒थ्यः॑¦अ॒ग्ने॒¦अश्वाः᳚ ||

ऐभि॑रग्ने स॒रथं᳚ याह्य॒र्वाङ् ना᳚नार॒थं वा᳚ वि॒भवो॒ ह्यश्वाः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

पत्नी᳚वतस्त्रिं॒शतं॒ त्रींश्च॑ दे॒वान॑नुष्व॒धमा व॑ह मा॒दय॑स्व ||{9/11}{2.8.27.4}{3.6.9}{3.1.6.9}{1145, 240, 2515}

आ¦ए॒भिः॒¦अ॒ग्ने॒¦स॒ऽरथ᳚‌म्¦या॒हि॒¦अ॒र्वाङ्¦ना॒ना॒ऽर॒थ‌म्¦वा॒¦वि॒ऽभवः॑¦हि¦अश्वाः᳚ |
पत्नी᳚ऽवतः¦त्रिं॒शत᳚‌म्¦त्रीन्¦च॒¦दे॒वान्¦अ॒नु॒ऽस्व॒ध‌म्¦आ¦व॒ह॒¦मा॒दय॑स्व ||

स होता॒ यस्य॒ रोद॑सी चिदु॒र्वी य॒ज्ञंय॑ज्ञम॒भि वृ॒धे गृ॑णी॒तः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

प्राची᳚, अध्व॒रेव॑ तस्थतुः सु॒मेके᳚ ऋ॒ताव॑री, ऋ॒तजा᳚तस्य स॒त्ये ||{10/11}{2.8.27.5}{3.6.10}{3.1.6.10}{1146, 240, 2516}

सः¦होता᳚¦यस्य॑¦रोद॑सी॒ इति॑¦चि॒त्¦उ॒र्वी इति॑¦य॒ज्ञ‌म्ऽय॑ज्ञ‌म्¦अ॒भि¦वृ॒धे¦गृ॒णी॒तः |
प्राची॒ इति॑¦अ॒ध्व॒राऽ‌इ᳚व¦त॒स्थ॒तुः॒¦सु॒मेके॒ इति॑ सु॒ऽमेके᳚¦ऋ॒तव॑री॒ इत्यृ॒तऽव॑री¦ऋ॒तऽजा᳚तस्य¦स॒त्ये इति॑ ||

इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{11/11}{2.8.27.6}{3.6.11}{3.1.6.11}{1147, 240, 2517}

इळा᳚‌म्¦अ॒ग्ने॒¦पु॒रु॒ऽदंस᳚‌म्¦स॒नि‌म्¦गोः¦श॒श्व॒त्ऽत॒म‌म्¦हव॑मानाय¦सा॒ध॒ |
स्यात्¦नः॒¦सू॒नुः¦तन॑यः¦वि॒जाऽवा᳚¦अग्ने᳚¦सा¦ते॒¦सु॒ऽम॒तिः¦भू॒तु॒¦अ॒स्मे इति॑ ||