[1] प्रयआरुरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् | |
प्र य आ॒रुः शि॑तिपृ॒ष्ठस्य॑ धा॒सेरा मा॒तरा᳚ विविशुः स॒प्त वाणीः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} प॒रि॒क्षिता᳚ पि॒तरा॒ सं च॑रेते॒ प्र स॑र्स्राते दी॒र्घमायुः॑ प्र॒यक्षे᳚ ||{1/11}{3.1.1.1}{3.7.1}{3.1.7.1}{1, 241, 2518} प्र¦ये¦आ॒रुः¦शि॒ति॒ऽपृ॒ष्ठस्य॑¦धा॒सेः¦आ¦मा॒तरा᳚¦वि॒वि॒शुः॒¦स॒प्त¦वाणीः᳚ | |
दि॒वक्ष॑सो धे॒नवो॒ वृष्णो॒, अश्वा᳚ दे॒वीरा त॑स्थौ॒ मधु॑म॒द् वह᳚न्तीः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} ऋ॒तस्य॑ त्वा॒ सद॑सि क्षेम॒यन्तं॒ पर्येका᳚ चरति वर्त॒निं गौः ||{2/11}{3.1.1.2}{3.7.2}{3.1.7.2}{2, 241, 2519} दि॒वक्ष॑सः¦धे॒नवः॑¦वृष्णः॑¦अश्वाः᳚¦दे॒वीः¦आ¦त॒स्थौ॒¦मधु॑ऽमत्¦वह᳚न्तीः | |
आ सी᳚मरोहत् सु॒यमा॒ भव᳚न्तीः॒ पति॑श्चिकि॒त्वान् र॑यि॒विद् र॑यी॒णाम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} प्र नील॑पृष्ठो, अत॒सस्य॑ धा॒सेस्ता, अ॑वासयत् पुरु॒धप्र॑तीकः ||{3/11}{3.1.1.3}{3.7.3}{3.1.7.3}{3, 241, 2520} आ¦सी॒म्¦अ॒रो॒ह॒त्¦सु॒ऽयमाः᳚¦भव᳚न्तीः¦पतिः॑¦चि॒कि॒त्वान्¦र॒यि॒ऽवित्¦र॒यी॒णाम् | |
महि॑ त्वा॒ष्ट्रमू॒र्जय᳚न्तीरजु॒र्यं स्त॑भू॒यमा᳚नं व॒हतो᳚ वहन्ति |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} व्यङ्गे᳚भिर्दिद्युता॒नः स॒धस्थ॒ एका᳚मिव॒ रोद॑सी॒, आ वि॑वेश ||{4/11}{3.1.1.4}{3.7.4}{3.1.7.4}{4, 241, 2521} महि॑¦त्वा॒ष्ट्रम्¦ऊ॒र्जय᳚न्तीः¦अ॒जु॒र्यम्¦स्त॒भु॒ऽयमा᳚नम्¦व॒हतः॑¦व॒ह॒न्ति॒ | |
जा॒नन्ति॒ वृष्णो᳚, अरु॒षस्य॒ शेव॑मु॒त ब्र॒ध्नस्य॒ शास॑ने रणन्ति |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दि॒वो॒रुचः॑ सु॒रुचो॒ रोच॑माना॒, इळा॒ येषां॒ गण्या॒ माहि॑ना॒ गीः ||{5/11}{3.1.1.5}{3.7.5}{3.1.7.5}{5, 241, 2522} जा॒नन्ति॑¦वृष्णः॑¦अ॒रु॒षस्य॑¦शेव᳚म्¦उ॒त¦ब्र॒ध्नस्य॑¦शास॑ने¦र॒ण॒न्ति॒ | |
उ॒तो पि॒तृभ्यां᳚ प्र॒विदानु॒ घोषं᳚ म॒हो म॒हद्भ्या᳚मनयन्त शू॒षम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} उ॒क्षा ह॒ यत्र॒ परि॒ धान॑म॒क्तोरनु॒ स्वं धाम॑ जरि॒तुर्व॒वक्ष॑ ||{6/11}{3.1.2.1}{3.7.6}{3.1.7.6}{6, 241, 2523} उ॒तो इति॑¦पि॒तृऽभ्या᳚म्¦प्र॒ऽविदा᳚¦अनु॑¦घोष᳚म्¦म॒हः¦म॒हत्ऽभ्या᳚म्¦अ॒न॒य॒न्त॒¦शू॒षम् | |
अ॒ध्व॒र्युभिः॑ प॒ञ्चभिः॑ स॒प्त विप्राः᳚ प्रि॒यं र॑क्षन्ते॒ निहि॑तं प॒दं वेः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} प्राञ्चो᳚ मदन्त्यु॒क्षणो᳚, अजु॒र्या दे॒वा दे॒वाना॒मनु॒ हि व्र॒ता गुः ||{7/11}{3.1.2.2}{3.7.7}{3.1.7.7}{7, 241, 2524} अ॒ध्व॒र्युऽभिः॑¦पं॒चऽभिः॑¦स॒प्त¦विप्राः᳚¦प्रि॒यम्¦र॒क्ष॒न्ते॒¦निऽहि॑तम्¦प॒दम्¦वेरिति॒ वेः | |
दैव्या॒ होता᳚रा प्रथ॒मा न्यृ᳚ञ्जे स॒प्त पृ॒क्षासः॑ स्व॒धया᳚ मदन्ति |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} ऋ॒तं शंस᳚न्त ऋ॒तमित्त आ᳚हु॒रनु᳚ व्र॒तं व्र॑त॒पा दीध्या᳚नाः ||{8/11}{3.1.2.3}{3.7.8}{3.1.7.8}{8, 241, 2525} दैव्या᳚¦होता᳚रा¦प्र॒थ॒मा¦नि¦ऋं॒जे॒¦स॒प्त¦पृ॒क्षासः॑¦स्व॒धया᳚¦म॒द॒न्ति॒ | |
वृ॒षा॒यन्ते᳚ म॒हे, अत्या᳚य पू॒र्वीर्वृष्णे᳚ चि॒त्राय॑ र॒श्मयः॑ सुया॒माः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} देव॑ होतर्म॒न्द्रत॑रश्चिकि॒त्वान् म॒हो दे॒वान् रोद॑सी॒, एह व॑क्षि ||{9/11}{3.1.2.4}{3.7.9}{3.1.7.9}{9, 241, 2526} वृ॒ष॒ऽयन्ते᳚¦म॒हे¦अत्या᳚य¦पू॒र्वीः¦वृष्णे᳚¦चि॒त्राय॑¦र॒श्मयः॑¦सु॒ऽया॒माः | |
पृ॒क्षप्र॑यजो द्रविणः सु॒वाचः॑ सुके॒तव॑ उ॒षसो᳚ रे॒वदू᳚षुः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} उ॒तो चि॑दग्ने महि॒ना पृ॑थि॒व्याः कृ॒तं चि॒देनः॒ सं म॒हे द॑शस्य ||{10/11}{3.1.2.5}{3.7.10}{3.1.7.10}{10, 241, 2527} पृ॒क्षऽप्र॑यजः¦द्र॒वि॒णः॒¦सु॒ऽवाचः॑¦सु॒ऽके॒तवः॑¦उ॒षसः॑¦रे॒वत्¦ऊ॒षुः॒ | |
इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{11/11}{3.1.2.6}{3.7.11}{3.1.7.11}{11, 241, 2528} इळा᳚म्¦अ॒ग्ने॒¦पु॒रु॒ऽदंस᳚म्¦स॒निम्¦गोः¦श॒श्व॒त्ऽत॒मम्¦हव॑मानाय¦सा॒ध॒ | |
[2] अंजंतीत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोयूपः षष्ठ्यादिपंचानांयूपाः (अष्टम्याविश्वेदेवावा) अंत्ययाव्रश्चन त्रिष्टुप् तृतीयासप्तम्यावनुष्टुभौ | |
अ॒ञ्जन्ति॒ त्वाम॑ध्व॒रे दे᳚व॒यन्तो॒ वन॑स्पते॒ मधु॑ना॒ दैव्ये᳚न |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्} यदू॒र्ध्वस्तिष्ठा॒ द्रवि॑णे॒ह ध॑त्ता॒द् यद् वा॒ क्षयो᳚ मा॒तुर॒स्या, उ॒पस्थे᳚ ||{1/11}{3.1.3.1}{3.8.1}{3.1.8.1}{12, 242, 2529} अं॒जन्ति॑¦त्वाम्¦अ॒ध्व॒रे¦दे॒व॒ऽयन्तः॑¦वन॑स्पते¦मधु॑ना¦दैव्ये᳚न | |
समि॑द्धस्य॒ श्रय॑माणः पु॒रस्ता॒द् ब्रह्म॑ वन्वा॒नो, अ॒जरं᳚ सु॒वीर᳚म् |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्} आ॒रे, अ॒स्मदम॑तिं॒ बाध॑मान॒ उच्छ्र॑यस्व मह॒ते सौभ॑गाय ||{2/11}{3.1.3.2}{3.8.2}{3.1.8.2}{13, 242, 2530} सम्ऽइ᳚द्धस्य¦श्रय॑माणः¦पु॒रस्ता᳚त्¦ब्रह्म॑¦व॒न्वा॒नः¦अ॒जर᳚म्¦सु॒ऽवीर᳚म् | |
उच्छ्र॑यस्व वनस्पते॒ वर्ष्म᳚न् पृथि॒व्या, अधि॑ |{गाथिनो विश्वामित्रः | यूपः | अनुष्टुप्} सुमि॑ती मी॒यमा᳚नो॒ वर्चो᳚ धा य॒ज्ञवा᳚हसे ||{3/11}{3.1.3.3}{3.8.3}{3.1.8.3}{14, 242, 2531} उत्¦श्र॒य॒स्व॒¦व॒न॒स्प॒ते॒¦वर्ष्म॑न्¦पृ॒थि॒व्याः¦अधि॑ | सुऽमि॑ती¦मी॒यमा᳚नः¦वर्चः॑¦धाः॒¦य॒ज्ञऽवा᳚हसे || |
युवा᳚ सु॒वासाः॒ परि॑वीत॒ आगा॒त् स उ॒ श्रेया᳚न् भवति॒ जाय॑मानः |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्} तं धीरा᳚सः क॒वय॒ उन्न॑यन्ति स्वा॒ध्यो॒३॑(ओ॒) मन॑सा देव॒यन्तः॑ ||{4/11}{3.1.3.4}{3.8.4}{3.1.8.4}{15, 242, 2532} युवा᳚¦सु॒ऽवासाः᳚¦परि॑ऽवीतः¦आ¦अ॒गा॒त्¦सः¦ऊँ॒ इति॑¦श्रेया᳚न्¦भ॒व॒ति॒¦जाय॑मानः | |
जा॒तो जा᳚यते सुदिन॒त्वे, अह्नां᳚ सम॒र्य आ वि॒दथे॒ वर्ध॑मानः |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्} पु॒नन्ति॒ धीरा᳚, अ॒पसो᳚ मनी॒षा दे᳚व॒या विप्र॒ उदि॑यर्ति॒ वाच᳚म् ||{5/11}{3.1.3.5}{3.8.5}{3.1.8.5}{16, 242, 2533} जा॒तः¦जा॒य॒ते॒¦सु॒दि॒न॒ऽत्वे¦अह्ना᳚म्¦स॒ऽम॒र्ये¦आ¦वि॒दथे᳚¦वर्ध॑मानः | |
यान् वो॒ नरो᳚ देव॒यन्तो᳚ निमि॒म्युर्वन॑स्पते॒ स्वधि॑तिर्वा त॒तक्ष॑ |{गाथिनो विश्वामित्रः | यूपाः | त्रिष्टुप्} ते दे॒वासः॒ स्वर॑वस्तस्थि॒वांसः॑ प्र॒जाव॑द॒स्मे दि॑धिषन्तु॒ रत्न᳚म् ||{6/11}{3.1.4.1}{3.8.6}{3.1.8.6}{17, 242, 2534} यान्¦वः॒¦नरः॑¦दे॒व॒ऽयन्तः॑¦नि॒ऽमि॒म्युः¦वन॑स्पते¦स्वऽधि॑तिः¦वा॒¦त॒तक्ष॑ | |
ये वृ॒क्णासो॒, अधि॒ क्षमि॒ निमि॑तासो य॒तस्रु॑चः |{गाथिनो विश्वामित्रः | यूपाः | अनुष्टुप्} ते नो᳚ व्यन्तु॒ वार्यं᳚ देव॒त्रा क्षे᳚त्र॒साध॑सः ||{7/11}{3.1.4.2}{3.8.7}{3.1.8.7}{18, 242, 2535} ये¦वृ॒क्णासः॑¦अधि॑¦क्षमि॑¦निऽमि॑तासः¦य॒तऽस्रु॑चः | ते¦नः॒¦व्य॒न्तु॒¦वार्य᳚म्¦दे॒व॒ऽत्रा¦क्षे॒त्र॒ऽसाध॑सः || |
आ॒दि॒त्या रु॒द्रा वस॑वः सुनी॒था द्यावा॒क्षामा᳚ पृथि॒वी, अ॒न्तरि॑क्षम् |{गाथिनो विश्वामित्रः | विश्वेदेवा | त्रिष्टुप्} स॒जोष॑सो य॒ज्ञम॑वन्तु दे॒वा, ऊ॒र्ध्वं कृ᳚ण्वन्त्वध्व॒रस्य॑ के॒तुम् ||{8/11}{3.1.4.3}{3.8.8}{3.1.8.8}{19, 242, 2536} आ॒दि॒त्याः¦रु॒द्राः¦वस॑वः¦सु॒ऽनी॒थाः¦द्यावा॒क्षामा᳚¦पृ॒थि॒वी¦अ॒न्तरि॑क्षम् | |
हं॒सा, इ॑व श्रेणि॒शो यता᳚नाः शु॒क्रा वसा᳚नाः॒ स्वर॑वो न॒ आगुः॑ |{गाथिनो विश्वामित्रः | यूपाः | त्रिष्टुप्} उ॒न्नी॒यमा᳚नाः क॒विभिः॑ पु॒रस्ता᳚द् दे॒वा दे॒वाना॒मपि॑ यन्ति॒ पाथः॑ ||{9/11}{3.1.4.4}{3.8.9}{3.1.8.9}{20, 242, 2537} हं॒साःऽइ᳚व¦श्रे॒णि॒ऽशः¦यता᳚नाः¦शु॒क्रा¦वसा᳚नाः¦स्वर॑वः¦नः॒¦आ¦अ॒गुः॒ | |
शृङ्गा᳚णी॒वेच्छृ॒ङ्गिणां॒ सं द॑दृश्रे च॒षाल॑वन्तः॒ स्वर॑वः पृथि॒व्याम् |{गाथिनो विश्वामित्रः | यूपाः | त्रिष्टुप्} वा॒घद्भि᳚र्वा विह॒वे श्रोष॑माणा, अ॒स्माँ, अ॑वन्तु पृत॒नाज्ये᳚षु ||{10/11}{3.1.4.5}{3.8.10}{3.1.8.10}{21, 242, 2538} शृङ्गा᳚णिऽइव¦इत्¦शृ॒ङ्गिणा᳚म्¦सम्¦द॒दृ॒श्रे॒¦च॒षाल॑ऽवन्तः¦स्वर॑वः¦पृ॒थि॒व्याम् | |
वन॑स्पते श॒तव᳚ल्शो॒ वि रो᳚ह स॒हस्र॑वल्शा॒ वि व॒यं रु॑हेम |{गाथिनो विश्वामित्रः | व्रश्चनः | त्रिष्टुप्} यं त्वाम॒यं स्वधि॑ति॒स्तेज॑मानः प्रणि॒नाय॑ मह॒ते सौभ॑गाय ||{11/11}{3.1.4.6}{3.8.11}{3.1.8.11}{22, 242, 2539} वन॑स्पते¦श॒तऽव॑ल्शः¦वि¦रो॒ह॒¦स॒हस्र॑ऽवल्शाः¦वि¦व॒यम्¦रु॒हे॒म॒ | |
[3] सखायइति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्बृहत्यंत्यात्रिष्टुप् | |
सखा᳚यस्त्वा ववृमहे दे॒वं मर्ता᳚स ऊ॒तये᳚ |{गाथिनो विश्वामित्रः | अग्निः | बृहती} अ॒पां नपा᳚तं सु॒भगं᳚ सु॒दीदि॑तिं सु॒प्रतू᳚र्तिमने॒हस᳚म् ||{1/9}{3.1.5.1}{3.9.1}{3.1.9.1}{23, 243, 2540} सखा᳚यः¦त्वा॒¦व॒वृ॒म॒हे॒¦दे॒वम्¦मर्ता᳚सः¦ऊ॒तये᳚ | |
काय॑मानो व॒ना त्वं यन्मा॒तॄरज॑गन्न॒पः |{गाथिनो विश्वामित्रः | अग्निः | बृहती} न तत्ते᳚, अग्ने प्र॒मृषे᳚ नि॒वर्त॑नं॒ यद्दू॒रे सन्नि॒हाभ॑वः ||{2/9}{3.1.5.2}{3.9.2}{3.1.9.2}{24, 243, 2541} काय॑मानः¦व॒ना¦त्वम्¦यत्¦मा॒तॄः¦अज॑गन्¦अ॒पः | |
अति॑ तृ॒ष्टं व॑वक्षि॒थाथै॒व सु॒मना᳚, असि |{गाथिनो विश्वामित्रः | अग्निः | बृहती} प्रप्रा॒न्ये यन्ति॒ पर्य॒न्य आ᳚सते॒ येषां᳚ स॒ख्ये, असि॑ श्रि॒तः ||{3/9}{3.1.5.3}{3.9.3}{3.1.9.3}{25, 243, 2542} अति॑¦तृ॒ष्टम्¦व॒व॒क्षि॒थ॒¦अथ॑¦ए॒व¦सु॒ऽमनाः᳚¦अ॒सि॒ | |
ई॒यि॒वांस॒मति॒ स्रिधः॒ शश्व॑ती॒रति॑ स॒श्चतः॑ |{गाथिनो विश्वामित्रः | अग्निः | बृहती} अन्वी᳚मविन्दन् निचि॒रासो᳚, अ॒द्रुहो॒ऽप्सु सिं॒हमि॑व श्रि॒तम् ||{4/9}{3.1.5.4}{3.9.4}{3.1.9.4}{26, 243, 2543} ई॒यि॒ऽवांस᳚म्¦अति॑¦स्रिधः॑¦शश्व॑तीः¦अति॑¦स॒श्चतः॑ | |
स॒सृ॒वांस॑मिव॒ त्मना॒ग्निमि॒त्था ति॒रोहि॑तम् |{गाथिनो विश्वामित्रः | अग्निः | बृहती} ऐनं᳚ नयन्मात॒रिश्वा᳚ परा॒वतो᳚ दे॒वेभ्यो᳚ मथि॒तं परि॑ ||{5/9}{3.1.5.5}{3.9.5}{3.1.9.5}{27, 243, 2544} स॒सृ॒वांस᳚म्ऽइव¦त्मना᳚¦अ॒ग्निम्¦इ॒त्था¦ति॒रःऽहि॑तम् | |
तं त्वा॒ मर्ता᳚, अगृभ्णत दे॒वेभ्यो᳚ हव्यवाहन |{गाथिनो विश्वामित्रः | अग्निः | बृहती} विश्वा॒न् यद् य॒ज्ञाँ, अ॑भि॒पासि॑ मानुष॒ तव॒ क्रत्वा᳚ यविष्ठ्य ||{6/9}{3.1.6.1}{3.9.6}{3.1.9.6}{28, 243, 2545} तम्¦त्वा॒¦मर्ताः᳚¦अ॒गृ॒भ्ण॒त॒¦दे॒वेभ्यः॑¦ह॒व्य॒ऽवा॒ह॒न॒ | |
तद् भ॒द्रं तव॑ दं॒सना॒ पाका᳚य चिच्छदयति |{गाथिनो विश्वामित्रः | अग्निः | बृहती} त्वां यद॑ग्ने प॒शवः॑ स॒मास॑ते॒ समि॑द्धमपिशर्व॒रे ||{7/9}{3.1.6.2}{3.9.7}{3.1.9.7}{29, 243, 2546} तत्¦भ॒द्रम्¦तव॑¦दं॒सना᳚¦पाका᳚य¦चि॒त्¦छ॒द॒य॒ति॒ | |
आ जु॑होता स्वध्व॒रं शी॒रं पा᳚व॒कशो᳚चिषम् |{गाथिनो विश्वामित्रः | अग्निः | बृहती} आ॒शुं दू॒तम॑जि॒रं प्र॒त्नमीड्यं᳚ श्रु॒ष्टी दे॒वं स॑पर्यत ||{8/9}{3.1.6.3}{3.9.8}{3.1.9.8}{30, 243, 2547} आ¦जु॒हो॒त॒¦सु॒।आ॒ध्व॒रम्¦शी॒रम्¦पा॒व॒कऽशो᳚चिषम् | |
त्रीणि॑ श॒ता त्री स॒हस्रा᳚ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} औक्ष॑न् घृ॒तैरस्तृ॑णन् ब॒र्हिर॑स्मा॒, आदिद्धोता᳚रं॒ न्य॑सादयन्त ||{9/9}{3.1.6.4}{3.9.9}{3.1.9.9}{31, 243, 2548} त्रीणि॑¦श॒ता¦त्री¦स॒हस्रा᳚णि¦अ॒ग्निम्¦त्रिं॒शत्¦च॒¦दे॒वाः¦नव॑¦च॒¦अ॒स॒प॒र्य॒न् | |
[4] त्वामग्नइतिनवर्चस्यसूक्तस्यगाथिनोविश्वामित्रोग्निरुष्णिक् | |
त्वाम॑ग्ने मनी॒षिणः॑ स॒म्राजं᳚ चर्षणी॒नाम् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} दे॒वं मर्ता᳚स इन्धते॒ सम॑ध्व॒रे ||{1/9}{3.1.7.1}{3.10.1}{3.1.10.1}{32, 244, 2549} त्वाम्¦अ॒ग्ने॒¦म॒नी॒षिणः॑¦स॒म्ऽराज᳚म्¦च॒र्ष॒णी॒नाम् | दे॒वम्¦मर्ता᳚सः¦इ॒न्ध॒ते॒¦सम्¦अ॒ध्व॒रे || |
त्वां य॒ज्ञेष्वृ॒त्विज॒मग्ने॒ होता᳚रमीळते |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} गो॒पा, ऋ॒तस्य॑ दीदिहि॒ स्वे दमे᳚ ||{2/9}{3.1.7.2}{3.10.2}{3.1.10.2}{33, 244, 2550} त्वाम्¦य॒ज्ञेषु॑¦ऋ॒त्विज᳚म्¦अग्ने᳚¦होता᳚रम्¦ई॒ळ॒ते॒ | गो॒पाः¦ऋ॒तस्य॑¦दी॒दि॒हि॒¦स्वे¦दमे᳚ || |
स घा॒ यस्ते॒ ददा᳚शति स॒मिधा᳚ जा॒तवे᳚दसे |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} सो, अ॑ग्ने धत्ते सु॒वीर्यं॒ स पु॑ष्यति ||{3/9}{3.1.7.3}{3.10.3}{3.1.10.3}{34, 244, 2551} सः¦घ॒¦यः¦ते॒¦ददा᳚शति¦स॒म्ऽइधा᳚¦जा॒तऽवे᳚दसे | सः¦अ॒ग्ने॒¦ध॒त्ते॒¦सु॒ऽवीर्य᳚म्¦सः¦पु॒ष्य॒ति॒ || |
स के॒तुर॑ध्व॒राणा᳚म॒ग्निर्दे॒वेभि॒रा ग॑मत् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} अ॒ञ्जा॒नः स॒प्त होतृ॑भिर्ह॒विष्म॑ते ||{4/9}{3.1.7.4}{3.10.4}{3.1.10.4}{35, 244, 2552} सः¦के॒तुः¦अ॒ध्व॒राणा᳚म्¦अ॒ग्निः¦दे॒वेभिः॑¦आ¦ग॒म॒त् | अं॒जा॒नः¦स॒प्त¦होतृ॑ऽभिः¦ह॒विष्म॑ते || |
प्र होत्रे᳚ पू॒र्व्यं वचो॒ऽग्नये᳚ भरता बृ॒हत् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} वि॒पां ज्योतीं᳚षि॒ बिभ्र॑ते॒ न वे॒धसे᳚ ||{5/9}{3.1.7.5}{3.10.5}{3.1.10.5}{36, 244, 2553} प्र¦होत्रे᳚¦पू॒र्व्यम्¦वचः॑¦अ॒ग्नये᳚¦भ॒र॒त॒¦बृ॒हत् | वि॒पाम्¦ज्योतीं᳚षि¦बिभ्र॑ते¦न¦वे॒धसे᳚ || |
अ॒ग्निं व॑र्धन्तु नो॒ गिरो॒ यतो॒ जाय॑त उ॒क्थ्यः॑ |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} म॒हे वाजा᳚य॒ द्रवि॑णाय दर्श॒तः ||{6/9}{3.1.8.1}{3.10.6}{3.1.10.6}{37, 244, 2554} अ॒ग्निम्¦व॒र्ध॒न्तु॒¦नः॒¦गिरः॑¦यतः॑¦जाय॑ते¦उ॒क्थ्यः॑ | म॒हे¦वाजा᳚य¦द्रवि॑णाय¦द॒र्श॒तः || |
अग्ने॒ यजि॑ष्ठो, अध्व॒रे दे॒वान् दे᳚वय॒ते य॑ज |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} होता᳚ म॒न्द्रो वि रा᳚ज॒स्यति॒ स्रिधः॑ ||{7/9}{3.1.8.2}{3.10.7}{3.1.10.7}{38, 244, 2555} अग्ने᳚¦यजि॑ष्ठः¦अ॒ध्व॒रे¦दे॒वान्¦दे॒व॒ऽय॒ते¦य॒ज॒ | होता᳚¦म॒न्द्रः¦वि¦रा॒ज॒सि॒¦अति॑¦स्रिधः॑ || |
स नः॑ पावक दीदिहि द्यु॒मद॒स्मे सु॒वीर्य᳚म् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} भवा᳚ स्तो॒तृभ्यो॒, अन्त॑मः स्व॒स्तये᳚ ||{8/9}{3.1.8.3}{3.10.8}{3.1.10.8}{39, 244, 2556} सः¦नः॒¦पा॒व॒क॒¦दी॒दि॒हि॒¦द्यु॒ऽमत्¦अ॒स्मे इति॑¦सु॒ऽवीर्य᳚म् | भव॑¦स्तो॒तृऽभ्यः॑¦अन्त॑मः¦स्व॒स्तये᳚ || |
तं त्वा॒ विप्रा᳚ विप॒न्यवो᳚ जागृ॒वांसः॒ समि᳚न्धते |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} ह॒व्य॒वाह॒मम॑र्त्यं सहो॒वृध᳚म् ||{9/9}{3.1.8.4}{3.10.9}{3.1.10.9}{40, 244, 2557} तम्¦त्वा॒¦विप्राः᳚¦वि॒प॒न्यवः॑¦जा॒गृ॒ऽवांसः॑¦सम्¦इ॒न्ध॒ते॒ | ह॒व्य॒ऽवाह᳚म्¦अम॑र्त्यम्¦स॒हः॒ऽवृध᳚म् || |
[5] अग्निर्होतेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्गायत्री | |
अ॒ग्निर्होता᳚ पु॒रोहि॑तोऽध्व॒रस्य॒ विच॑र्षणिः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} स वे᳚द य॒ज्ञमा᳚नु॒षक् ||{1/9}{3.1.9.1}{3.11.1}{3.1.11.1}{41, 245, 2558} अ॒ग्निः¦होता᳚¦पु॒रःऽहि॑तः¦अ॒ध्व॒रस्य॑¦विऽच॑र्षणिः | सः¦वे॒द॒¦य॒ज्ञम्¦आ॒नु॒षक् || |
स ह᳚व्य॒वाळम॑र्त्य उ॒शिग्दू॒तश्चनो᳚हितः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अ॒ग्निर्धि॒या समृ᳚ण्वति ||{2/9}{3.1.9.2}{3.11.2}{3.1.11.2}{42, 245, 2559} सः¦ह॒व्य॒ऽवाट्¦अम॑र्त्यः¦उ॒शिक्¦दू॒तः¦चनः॑ऽहितः | अ॒ग्निः¦धि॒या¦सम्¦ऋ॒ण्व॒ति॒ || |
अ॒ग्निर्धि॒या स चे᳚तति के॒तुर्य॒ज्ञस्य॑ पू॒र्व्यः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अर्थं॒ ह्य॑स्य त॒रणि॑ ||{3/9}{3.1.9.3}{3.11.3}{3.1.11.3}{43, 245, 2560} अ॒ग्निः¦धि॒या¦सः¦चे॒त॒ति॒¦के॒तुः¦य॒ज्ञस्य॑¦पू॒र्व्यः | अर्थ᳚म्¦हि¦अ॒स्य॒¦त॒रणि॑ || |
अ॒ग्निं सू॒नुं सन॑श्रुतं॒ सह॑सो जा॒तवे᳚दसम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} वह्निं᳚ दे॒वा, अ॑कृण्वत ||{4/9}{3.1.9.4}{3.11.4}{3.1.11.4}{44, 245, 2561} अ॒ग्निम्¦सू॒नुम्¦सन॑ऽश्रुतम्¦सह॑सः¦जा॒तऽवे᳚दसम् | वह्नि᳚म्¦दे॒वाः¦अ॒कृ॒ण्व॒त॒ || |
अदा᳚भ्यः पुरए॒ता वि॒शाम॒ग्निर्मानु॑षीणाम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} तूर्णी॒ रथः॒ सदा॒ नवः॑ ||{5/9}{3.1.9.5}{3.11.5}{3.1.11.5}{45, 245, 2562} अदा᳚भ्यः¦पु॒रः॒ऽए॒ता¦वि॒शाम्¦अ॒ग्निः¦मानु॑षीणाम् | तूर्णिः॑¦रथः॑¦सदा᳚¦नवः॑ || |
सा॒ह्वान् विश्वा᳚, अभि॒युजः॒ क्रतु॑र्दे॒वाना॒ममृ॑क्तः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अ॒ग्निस्तु॒विश्र॑वस्तमः ||{6/9}{3.1.10.1}{3.11.6}{3.1.11.6}{46, 245, 2563} स॒ह्वान्¦विश्वाः᳚¦अ॒भि॒ऽयुजः॑¦क्रतुः॑¦दे॒वाना᳚म्¦अमृ॑क्तः | अ॒ग्निः¦तु॒विश्र॑वःऽतमः || |
अ॒भि प्रयां᳚सि॒ वाह॑सा दा॒श्वाँ, अ॑श्नोति॒ मर्त्यः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} क्षयं᳚ पाव॒कशो᳚चिषः ||{7/9}{3.1.10.2}{3.11.7}{3.1.11.7}{47, 245, 2564} अ॒भि¦प्रयां᳚सि¦वाह॑सा¦दा॒श्वान्¦अ॒श्नो॒ति॒¦मर्त्यः॑ | क्षय᳚म्¦पा॒व॒कऽशो᳚चिषः || |
परि॒ विश्वा᳚नि॒ सुधि॑ता॒ऽग्नेर॑श्याम॒ मन्म॑भिः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} विप्रा᳚सो जा॒तवे᳚दसः ||{8/9}{3.1.10.3}{3.11.8}{3.1.11.8}{48, 245, 2565} परि॑¦विश्वा᳚नि¦सुऽधि॑ता¦अ॒ग्नेः¦अ॒श्या॒म॒¦मन्म॑ऽभिः | विप्रा᳚सः¦जा॒तऽवे᳚दसः || |
अग्ने॒ विश्वा᳚नि॒ वार्या॒ वाजे᳚षु सनिषामहे |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} त्वे दे॒वास॒ एरि॑रे ||{9/9}{3.1.10.4}{3.11.9}{3.1.11.9}{49, 245, 2566} अग्ने᳚¦विश्वा᳚नि¦वार्या᳚¦वाजे᳚षु¦स॒नि॒षा॒म॒हे॒ | त्वे इति॑¦दे॒वासः॑¦आ¦ई॒रि॒रे॒ || |
[6] इंद्राग्नीइतिनवर्चस्य सूक्तस्य गाथिनो विश्वामित्रइंद्राग्नीगायत्री | |
इन्द्रा᳚ग्नी॒, आ ग॑तं सु॒तं गी॒र्भिर्नभो॒ वरे᳚ण्यम् |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} अ॒स्य पा᳚तं धि॒येषि॒ता ||{1/9}{3.1.11.1}{3.12.1}{3.1.12.1}{50, 246, 2567} इन्द्रा᳚ग्नी॒ इति॑¦आ¦ग॒त॒म्¦सु॒तम्¦गीः॒ऽभिः¦नभः॑¦वरे᳚ण्यम् | अ॒स्य¦पा॒त॒म्¦धि॒या¦इ॒षि॒ता || |
इन्द्रा᳚ग्नी जरि॒तुः सचा᳚ य॒ज्ञो जि॑गाति॒ चेत॑नः |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} अ॒या पा᳚तमि॒मं सु॒तम् ||{2/9}{3.1.11.2}{3.12.2}{3.1.12.2}{51, 246, 2568} इन्द्रा᳚ग्नी॒ इति॑¦ज॒रि॒तुः¦सचा᳚¦य॒ज्ञः¦जि॒गा॒ति॒¦चेत॑नः | अ॒या¦पा॒त॒म्¦इ॒मम्¦सु॒तम् || |
इन्द्र॑म॒ग्निं क॑वि॒च्छदा᳚ य॒ज्ञस्य॑ जू॒त्या वृ॑णे |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} ता सोम॑स्ये॒ह तृ᳚म्पताम् ||{3/9}{3.1.11.3}{3.12.3}{3.1.12.3}{52, 246, 2569} इन्द्र᳚म्¦अ॒ग्निम्¦क॒वि॒ऽछदा᳚¦य॒ज्ञस्य॑¦जू॒त्या¦वृ॒णे॒ | ता¦सोम॑स्य¦इ॒ह¦तृ॒म्प॒ता॒म् || |
तो॒शा वृ॑त्र॒हणा᳚ हुवे स॒जित्वा॒नाप॑राजिता |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} इ॒न्द्रा॒ग्नी वा᳚ज॒सात॑मा ||{4/9}{3.1.11.4}{3.12.4}{3.1.12.4}{53, 246, 2570} तो॒शा¦वृ॒त्र॒ऽहना᳚¦हु॒वे॒¦स॒ऽजित्वा᳚ना¦अप॑राऽजिता | इ॒न्द्रा॒ग्नी इति॑¦वा॒ज॒ऽसात॑मा || |
प्र वा᳚मर्चन्त्यु॒क्थिनो᳚ नीथा॒विदो᳚ जरि॒तारः॑ |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} इन्द्रा᳚ग्नी॒, इष॒ आ वृ॑णे ||{5/9}{3.1.11.5}{3.12.5}{3.1.12.5}{54, 246, 2571} प्र¦वा॒म्¦अ॒र्च॒न्ति॒¦उ॒क्थिनः॑¦नी॒थ॒ऽविदः॑¦ज॒रि॒तारः॑ | इन्द्रा᳚ग्नी॒ इति॑¦इषः॑¦आ¦वृ॒णे॒ || |
इन्द्रा᳚ग्नी नव॒तिं पुरो᳚ दा॒सप॑त्नीरधूनुतम् |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} सा॒कमेके᳚न॒ कर्म॑णा ||{6/9}{3.1.12.1}{3.12.6}{3.1.12.6}{55, 246, 2572} इन्द्रा᳚ग्नी॒ इति॑¦न॒व॒तिम्¦पुरः॑¦दा॒सऽप॑त्नीः¦अ॒धू॒नु॒त॒म् | सा॒कम्¦एके᳚न¦कर्म॑णा || |
इन्द्रा᳚ग्नी॒, अप॑स॒स्पर्युप॒ प्र य᳚न्ति धी॒तयः॑ |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} ऋ॒तस्य॑ प॒थ्या॒३॑(आ॒) अनु॑ ||{7/9}{3.1.12.2}{3.12.7}{3.1.12.7}{56, 246, 2573} इन्द्रा᳚ग्नी॒ इति॑¦अप॑सः¦परि॑¦उप॑¦प्र¦य॒न्ति॒¦धी॒तयः॑ | ऋ॒तस्य॑¦प॒थ्याः᳚¦अनु॑ || |
इन्द्रा᳚ग्नी तवि॒षाणि॑ वां स॒धस्था᳚नि॒ प्रयां᳚सि च |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} यु॒वोर॒प्तूर्यं᳚ हि॒तम् ||{8/9}{3.1.12.3}{3.12.8}{3.1.12.8}{57, 246, 2574} इन्द्रा᳚ग्नी॒ इति॑¦त॒वि॒षाणि॑¦वा॒म्¦स॒धऽस्था᳚नि¦प्रयां᳚सि¦च॒ | यु॒वोः¦अ॒प्ऽतूर्य᳚म्¦हि॒तम् || |
इन्द्रा᳚ग्नी रोच॒ना दि॒वः परि॒ वाजे᳚षु भूषथः |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} तद् वां᳚ चेति॒ प्र वी॒र्य᳚म् ||{9/9}{3.1.12.4}{3.12.9}{3.1.12.9}{58, 246, 2575} इन्द्रा᳚ग्नी॒ इति॑¦रो॒च॒ना¦दि॒वः¦परि॑¦वाजे᳚षु¦भू॒ष॒थः॒ | तत्¦वा॒म्¦चे॒ति॒¦प्र¦वी॒र्य᳚म् || |
[7] प्रवोदेवायेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभोग्निरनुष्टुप् | |
प्र वो᳚ दे॒वाया॒ग्नये॒ बर्हि॑ष्ठमर्चास्मै |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} गम॑द्दे॒वेभि॒रा स नो॒ यजि॑ष्ठो ब॒र्हिरा स॑दत् ||{1/7}{3.1.13.1}{3.13.1}{3.2.1.1}{59, 247, 2576} प्र¦वः॒¦दे॒वाय॑¦अ॒ग्नये᳚¦बर्हि॑ष्ठम्¦अ॒र्च॒¦अ॒स्मै॒ | गम॑त्¦दे॒वेभिः॑¦आ¦सः¦नः॒¦यजि॑ष्ठः¦ब॒र्हिः¦आ¦स॒द॒त् || |
ऋ॒तावा॒ यस्य॒ रोद॑सी॒ दक्षं॒ सच᳚न्त ऊ॒तयः॑ |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} ह॒विष्म᳚न्त॒स्तमी᳚ळते॒ तं स॑नि॒ष्यन्तोऽव॑से ||{2/7}{3.1.13.2}{3.13.2}{3.2.1.2}{60, 247, 2577} ऋ॒तऽवा᳚¦यस्य॑¦रोद॑सी॒ इति॑¦दक्ष᳚म्¦सच᳚न्ते¦ऊ॒तयः॑ | ह॒विष्म᳚न्तः¦तम्¦ई॒ळ॒ते॒¦तम्¦स॒नि॒ष्यन्तः॑¦अव॑से || |
स य॒न्ता विप्र॑ एषां॒ स य॒ज्ञाना॒मथा॒ हि षः |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} अ॒ग्निं तं वो᳚ दुवस्यत॒ दाता॒ यो वनि॑ता म॒घम् ||{3/7}{3.1.13.3}{3.13.3}{3.2.1.3}{61, 247, 2578} सः¦य॒न्ता¦विप्रः॑¦ए॒षा॒म्¦सः¦य॒ज्ञाना᳚म्¦अथ॑¦हि¦सः | अ॒ग्निम्¦तम्¦वः॒¦दु॒व॒स्य॒त॒¦दाता᳚¦यः¦वनि॑ता¦म॒घम् || |
स नः॒ शर्मा᳚णि वी॒तये॒ऽग्निर्य॑च्छतु॒ शंत॑मा |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} यतो᳚ नः प्रु॒ष्णव॒द् वसु॑ दि॒वि क्षि॒तिभ्यो᳚, अ॒प्स्वा ||{4/7}{3.1.13.4}{3.13.4}{3.2.1.4}{62, 247, 2579} सः¦नः॒¦शर्मा᳚णि¦वी॒तये᳚¦अ॒ग्निः¦य॒च्छ॒तु॒¦शम्ऽत॑मा | यतः॑¦नः॒¦प्रु॒ष्णव॑त्¦वसु॑¦दि॒वि¦क्षि॒तिऽभ्यः॑¦अ॒प्ऽसु¦आ || |
दी॒दि॒वांस॒मपू᳚र्व्यं॒ वस्वी᳚भिरस्य धी॒तिभिः॑ |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} ऋक्वा᳚णो, अ॒ग्निमि᳚न्धते॒ होता᳚रं वि॒श्पतिं᳚ वि॒शाम् ||{5/7}{3.1.13.5}{3.13.5}{3.2.1.5}{63, 247, 2580} दी॒दि॒ऽवांस᳚म्¦अपू᳚र्व्यम्¦वस्वी᳚भिः¦अ॒स्य॒¦धी॒तिऽभिः॑ | ऋक्वा᳚णः¦अ॒ग्निम्¦इ॒न्ध॒ते॒¦होता᳚रम्¦वि॒श्पति᳚म्¦वि॒शाम् || |
उ॒त नो॒ ब्रह्म᳚न्नविष उ॒क्थेषु॑ देव॒हूत॑मः |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} शं नः॑ शोचा म॒रुद्वृ॒धोऽग्ने᳚ सहस्र॒सात॑मः ||{6/7}{3.1.13.6}{3.13.6}{3.2.1.6}{64, 247, 2581} उ॒त¦नः॒¦ब्रह्म॑न्¦अ॒वि॒षः॒¦उ॒क्थेषु॑¦दे॒व॒ऽहूत॑मः | शम्¦नः॒¦शो॒च॒¦म॒रुत्ऽवृ॑धः¦अग्ने᳚¦स॒ह॒स्र॒ऽसात॑मः || |
नू नो᳚ रास्व स॒हस्र॑वत् तो॒कव॑त् पुष्टि॒मद् वसु॑ |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} द्यु॒मद॑ग्ने सु॒वीर्यं॒ वर्षि॑ष्ठ॒मनु॑पक्षितम् ||{7/7}{3.1.13.7}{3.13.7}{3.2.1.7}{65, 247, 2582} नु¦नः॒¦रा॒स्व॒¦स॒हस्र॑ऽवत्¦तो॒कऽव॑त्¦पु॒ष्टि॒ऽमत्¦वसु॑ | द्यु॒ऽमत्¦अ॒ग्ने॒¦सु॒ऽवीर्य᳚म्¦वर्षि॑ष्ठम्¦अनु॑पऽक्षितम् || |
[8] आहोतेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभोग्निस्त्रिष्टुप् | |
आ होता᳚ म॒न्द्रो वि॒दथा᳚न्यस्थात् स॒त्यो यज्वा᳚ क॒वित॑मः॒ स वे॒धाः |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} वि॒द्युद्र॑थः॒ सह॑सस्पु॒त्रो, अ॒ग्निः शो॒चिष्के᳚शः पृथि॒व्यां पाजो᳚, अश्रेत् ||{1/7}{3.1.14.1}{3.14.1}{3.2.2.1}{66, 248, 2583} आ¦होता᳚¦म॒न्द्रः¦व॒दथा᳚नि¦अ॒स्था॒त्¦स॒त्यः¦यज्वा᳚¦क॒विऽत॑मः¦सः¦वे॒धाः | |
अया᳚मि ते॒ नम॑उक्तिं जुषस्व॒ ऋता᳚व॒स्तुभ्यं॒ चेत॑ते सहस्वः |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} वि॒द्वाँ, आ व॑क्षि वि॒दुषो॒ नि ष॑त्सि॒ मध्य॒ आ ब॒र्हिरू॒तये᳚ यजत्र ||{2/7}{3.1.14.2}{3.14.2}{3.2.2.2}{67, 248, 2584} अया᳚मि¦ते॒¦नमः॑।औक्तिम्¦जु॒ष॒स्व॒¦ऋत॑ऽवः¦तुभ्य᳚म्¦चेत॑ते¦स॒ह॒स्वः॒ | |
द्रव॑तां त उ॒षसा᳚ वा॒जय᳚न्ती॒, अग्ने॒ वात॑स्य प॒थ्या᳚भि॒रच्छ॑ |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} यत् सी᳚म॒ञ्जन्ति॑ पू॒र्व्यं ह॒विर्भि॒रा व॒न्धुरे᳚व तस्थतुर्दुरो॒णे ||{3/7}{3.1.14.3}{3.14.3}{3.2.2.3}{68, 248, 2585} द्रव॑ताम्¦ते॒¦उ॒षसा᳚¦वा॒जय᳚न्ती॒ इति॑¦अग्ने᳚¦वात॑स्य¦प॒थ्या᳚भिः¦अच्छ॑ | |
मि॒त्रश्च॒ तुभ्यं॒ वरु॑णः सह॒स्वोऽग्ने॒ विश्वे᳚ म॒रुतः॑ सु॒म्नम॑र्चन् |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} यच्छो॒चिषा᳚ सहसस्पुत्र॒ तिष्ठा᳚, अ॒भि क्षि॒तीः प्र॒थय॒न् त्सूर्यो॒ नॄन् ||{4/7}{3.1.14.4}{3.14.4}{3.2.2.4}{69, 248, 2586} मि॒त्रः¦च॒¦तुभ्य᳚म्¦वरु॑णः¦स॒ह॒स्वः॒¦अग्ने᳚¦विश्वे᳚¦म॒रुतः॑¦सु॒म्नम्¦अ॒र्च॒न् | |
व॒यं ते᳚, अ॒द्य र॑रि॒मा हि काम॑मुत्ता॒नह॑स्ता॒ नम॑सोप॒सद्य॑ |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} यजि॑ष्ठेन॒ मन॑सा यक्षि दे॒वानस्रे᳚धता॒ मन्म॑ना॒ विप्रो᳚, अग्ने ||{5/7}{3.1.14.5}{3.14.5}{3.2.2.5}{70, 248, 2587} व॒यम्¦ते॒¦अ॒द्य¦र॒रि॒म॒¦हि¦काम᳚म्¦उ॒त्ता॒नऽह॑स्ताः¦नम॑सा¦उ॒प॒ऽसद्य॑ | |
त्वद्धि पु॑त्र सहसो॒ वि पू॒र्वीर्दे॒वस्य॒ यन्त्यू॒तयो॒ वि वाजाः᳚ |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} त्वं दे᳚हि सह॒स्रिणं᳚ र॒यिं नो᳚ ऽद्रो॒घेण॒ वच॑सा स॒त्यम॑ग्ने ||{6/7}{3.1.14.6}{3.14.6}{3.2.2.6}{71, 248, 2588} त्वत्¦हि¦पु॒त्र॒¦स॒ह॒सः॒¦वि¦पू॒र्वीः¦दे॒वस्य॑¦यन्ति॑¦ऊ॒तयः॑¦वि¦वाजाः᳚ | |
तुभ्यं᳚ दक्ष कविक्रतो॒ यानी॒मा देव॒ मर्ता᳚सो, अध्व॒रे, अक᳚र्म |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} त्वं विश्व॑स्य सु॒रथ॑स्य बोधि॒ सर्वं॒ तद॑ग्ने, अमृत स्वदे॒ह ||{7/7}{3.1.14.7}{3.14.7}{3.2.2.7}{72, 248, 2589} तुभ्य᳚म्¦द॒क्ष॒¦क॒वि॒क्र॒तो॒ इति॑ कविऽक्रतो¦यानि॑¦इ॒मा¦देव॑¦मर्ता᳚सः¦अ॒ध्व॒रे¦अक᳚र्म | |
[9] विपाजसेतिसप्तर्चस्य सूक्तस्य कात्य उत्कीलोग्निस्त्रिष्टुप् | |
वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒, अमी᳚वाः |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} सु॒शर्म॑णो बृह॒तः शर्म॑णि स्याम॒ग्नेर॒हं सु॒हव॑स्य॒ प्रणी᳚तौ ||{1/7}{3.1.15.1}{3.15.1}{3.2.3.1}{73, 249, 2590} वि¦पाज॑सा¦पृ॒थुना᳚¦शोशु॑चानः¦बाध॑स्व¦द्वि॒षः¦र॒क्षसः॑¦अमी᳚वाः | |
त्वं नो᳚, अ॒स्या, उ॒षसो॒ व्यु॑ष्टौ॒ त्वं सूर॒ उदि॑ते बोधि गो॒पाः |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} जन्मे᳚व॒ नित्यं॒ तन॑यं जुषस्व॒ स्तोमं᳚ मे, अग्ने त॒न्वा᳚ सुजात ||{2/7}{3.1.15.2}{3.15.2}{3.2.3.2}{74, 249, 2591} त्वम्¦नः॒¦अ॒स्याः¦उ॒षसः॑¦वि।औ᳚ष्टौ¦त्वम्¦सूरे᳚¦उत्ऽइ᳚ते¦बो॒धि॒¦गो॒पाः | |
त्वं नृ॒चक्षा᳚ वृष॒भानु॑ पू॒र्वीः कृ॒ष्णास्व॑ग्ने, अरु॒षो वि भा᳚हि |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} वसो॒ नेषि॑ च॒ पर्षि॒ चात्यंहः॑ कृ॒धी नो᳚ रा॒य उ॒शिजो᳚ यविष्ठ ||{3/7}{3.1.15.3}{3.15.3}{3.2.3.3}{75, 249, 2592} त्वम्¦नृ॒ऽचक्षाः᳚¦वृ॒ष॒भ॒¦अनु॑¦पू॒र्वीः¦कृ॒ष्णासु॑¦अ॒ग्ने॒¦अ॒रु॒षः¦वि¦भा॒हि॒ | |
अषा᳚ळ्हो, अग्ने वृष॒भो दि॑दीहि॒ पुरो॒ विश्वाः॒ सौभ॑गा संजिगी॒वान् |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} य॒ज्ञस्य॑ ने॒ता प्र॑थ॒मस्य॑ पा॒योर्जात॑वेदो बृह॒तः सु॑प्रणीते ||{4/7}{3.1.15.4}{3.15.4}{3.2.3.4}{76, 249, 2593} अषा᳚ळ्हः¦अ॒ग्ने॒¦वृ॒ष॒भः¦दि॒दी॒हि॒¦पुरः॑¦विश्वाः᳚¦सौभ॑गा¦स॒म्ऽजि॒गी॒वान् | |
अच्छि॑द्रा॒ शर्म॑ जरितः पु॒रूणि॑ दे॒वाँ, अच्छा॒ दीद्या᳚नः सुमे॒धाः |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} रथो॒ न सस्नि॑र॒भि व॑क्षि॒ वाज॒मग्ने॒ त्वं रोद॑सी नः सु॒मेके᳚ ||{5/7}{3.1.15.5}{3.15.5}{3.2.3.5}{77, 249, 2594} अच्छि॑द्रा¦शर्म॑¦ज॒रि॒त॒रिति॑¦पु॒रूणि॑¦दे॒वान्¦अच्छ॑¦दीद्या᳚नः¦सु॒ऽमे॒धाः | |
प्र पी᳚पय वृषभ॒ जिन्व॒ वाजा॒नग्ने॒ त्वं रोद॑सी नः सु॒दोघे᳚ |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} दे॒वेभि॑र्देव सु॒रुचा᳚ रुचा॒नो मा नो॒ मर्त॑स्य दुर्म॒तिः परि॑ ष्ठात् ||{6/7}{3.1.15.6}{3.15.6}{3.2.3.6}{78, 249, 2595} प्र¦पी॒प॒य॒¦वृ॒ष॒भ॒¦जिन्व॑¦वाजा᳚न्¦अग्ने᳚¦त्वम्¦रोद॑सी॒ इति॑¦नः॒¦सु॒दोघे॒ इति॑ सु॒ऽदोघे᳚ | |
इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{7/7}{3.1.15.7}{3.15.7}{3.2.3.7}{79, 249, 2596} इळा᳚म्¦अ॒ग्ने॒¦पु॒रु॒ऽदंस᳚म्¦स॒निम्¦गोः¦श॒श्व॒त्ऽत॒मम्¦हव॑मानाय¦सा॒ध॒ | |
[10] अयमग्निरितिषडृचस्य सूक्तस्य कात्य उत्कीलोग्निः आद्यातृतीयापंचम्योबृहत्यः द्वितीयाचतुर्थीषष्ठ्यः सतोबृहत्यः |
अ॒यम॒ग्निः सु॒वीर्य॒स्येशे᳚ म॒हः सौभ॑गस्य |{कात्य उत्कीलः | अग्निः | बृहत्यः} रा॒य ई᳚शे स्वप॒त्यस्य॒ गोम॑त॒ ईशे᳚ वृत्र॒हथा᳚नाम् ||{1/6}{3.1.16.1}{3.16.1}{3.2.4.1}{80, 250, 2597} अ॒यम्¦अ॒ग्निः¦सु॒ऽवीर्य॑स्य¦ईशे᳚¦म॒हः¦सौभ॑गस्य | |
इ॒मं न॑रो मरुतः सश्चता॒ वृधं॒ यस्मि॒न् रायः॒ शेवृ॑धासः |{कात्य उत्कीलः | अग्निः | सतोबृहत्यः} अ॒भि ये सन्ति॒ पृत॑नासु दू॒ढ्यो᳚ वि॒श्वाहा॒ शत्रु॑माद॒भुः ||{2/6}{3.1.16.2}{3.16.2}{3.2.4.2}{81, 250, 2598} इ॒मम्¦न॒रः॒¦म॒रु॒तः॒¦स॒श्च॒त॒¦वृध᳚म्¦यस्मि॑न्¦रायः॑¦शेऽवृ॑धासः | |
स त्वं नो᳚ रा॒यः शि॑शीहि॒ मीढ्वो᳚, अग्ने सु॒वीर्य॑स्य |{कात्य उत्कीलः | अग्निः | बृहत्यः} तुवि॑द्युम्न॒ वर्षि॑ष्ठस्य प्र॒जाव॑तोऽनमी॒वस्य॑ शु॒ष्मिणः॑ ||{3/6}{3.1.16.3}{3.16.3}{3.2.4.3}{82, 250, 2599} सः¦त्वम्¦नः॒¦रा॒यः¦शि॒शी॒हि॒¦मीढ्वः॑¦अ॒ग्ने॒¦सु॒ऽवीर्य॑स्य | |
चक्रि॒र्यो विश्वा॒ भुव॑ना॒भि सा᳚स॒हिश्चक्रि॑र्दे॒वेष्वा दुवः॑ |{कात्य उत्कीलः | अग्निः | सतोबृहत्यः} आ दे॒वेषु॒ यत॑त॒ आ सु॒वीर्य॒ आ शंस॑ उ॒त नृ॒णाम् ||{4/6}{3.1.16.4}{3.16.4}{3.2.4.4}{83, 250, 2600} चक्रिः॑¦यः¦विश्वा᳚¦भुव॑ना¦अ॒भि¦स॒स॒हिः¦चक्रिः॑¦दे॒वेषु॑¦आ¦दुवः॑ | |
मा नो᳚, अ॒ग्नेऽम॑तये॒ मावीर॑तायै रीरधः |{कात्य उत्कीलः | अग्निः | बृहत्यः} मागोता᳚यै सहसस्पुत्र॒ मा नि॒देऽप॒ द्वेषां॒स्या कृ॑धि ||{5/6}{3.1.16.5}{3.16.5}{3.2.4.5}{84, 250, 2601} मा¦नः॒¦अ॒ग्ने॒¦अम॑तये¦मा¦अ॒वीर॑तायै¦री॒र॒धः॒ | |
श॒ग्धि वाज॑स्य सुभग प्र॒जाव॒तोऽग्ने᳚ बृह॒तो, अ॑ध्व॒रे |{कात्य उत्कीलः | अग्निः | सतोबृहत्यः} सं रा॒या भूय॑सा सृज मयो॒भुना॒ तुवि॑द्युम्न॒ यश॑स्वता ||{6/6}{3.1.16.6}{3.16.6}{3.2.4.6}{85, 250, 2602} श॒ग्धि¦वाज॑स्य¦सु॒ऽभ॒ग॒¦प्र॒जाऽव॑तः¦अग्ने᳚¦बृ॒ह॒तः¦अ॒ध्व॒रे | |
[11] समिध्यमानइतिपंचर्चस्य सूक्तस्य वैश्वामित्रः कतोग्निस्त्रिष्टुप् | |
स॒मि॒ध्यमा᳚नः प्रथ॒मानु॒ धर्मा॒ सम॒क्तुभि॑रज्यते वि॒श्ववा᳚रः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} शो॒चिष्के᳚शो घृ॒तनि᳚र्णिक् पाव॒कः सु॑य॒ज्ञो, अ॒ग्निर्य॒जथा᳚य दे॒वान् ||{1/5}{3.1.17.1}{3.17.1}{3.2.5.1}{86, 251, 2603} स॒म्ऽइ॒ध्यमा᳚नः¦प्र॒थ॒मा¦अनु॑¦धर्म॑¦सम्¦अ॒क्तुऽभिः॑¦अ॒ज्य॒ते॒¦वि॒श्वऽवा᳚रः | |
यथाय॑जो हो॒त्रम॑ग्ने पृथि॒व्या यथा᳚ दि॒वो जा᳚तवेदश्चिकि॒त्वान् |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} ए॒वानेन॑ ह॒विषा᳚ यक्षि दे॒वान् म॑नु॒ष्वद् य॒ज्ञं प्र ति॑रे॒मम॒द्य ||{2/5}{3.1.17.2}{3.17.2}{3.2.5.2}{87, 251, 2604} यथा᳚¦अय॑जः¦हो॒त्रम्¦अ॒ग्ने॒¦पृ॒थि॒व्याः¦यथा᳚¦दि॒वः¦जा॒त॒ऽवे॒दः॒¦चि॒कि॒त्वान् | |
त्रीण्यायूं᳚षि॒ तव॑ जातवेदस्ति॒स्र आ॒जानी᳚रु॒षस॑स्ते, अग्ने |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} ताभि॑र्दे॒वाना॒मवो᳚ यक्षि वि॒द्वानथा᳚ भव॒ यज॑मानाय॒ शं योः ||{3/5}{3.1.17.3}{3.17.3}{3.2.5.3}{88, 251, 2605} त्रीणि॑¦आयूं᳚षि¦तव॑¦जा॒त॒ऽवे॒दः॒¦ति॒स्रः¦आ॒ऽजानीः᳚¦उ॒षसः॑¦ते॒¦अ॒ग्ने॒ | |
अ॒ग्निं सु॑दी॒तिं सु॒दृशं᳚ गृ॒णन्तो᳚ नम॒स्याम॒स्त्वेड्यं᳚ जातवेदः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} त्वां दू॒तम॑र॒तिं ह᳚व्य॒वाहं᳚ दे॒वा, अ॑कृण्वन्न॒मृत॑स्य॒ नाभि᳚म् ||{4/5}{3.1.17.4}{3.17.4}{3.2.5.4}{89, 251, 2606} अ॒ग्निम्¦सु॒ऽदी॒तिम्¦सु॒ऽदृश᳚म्¦गृ॒णन्तः॑¦न॒म॒स्यामः॑¦त्वा॒¦ईड्य᳚म्¦जा॒त॒ऽवे॒दः॒ | |
यस्त्वद्धोता॒ पूर्वो᳚, अग्ने॒ यजी᳚यान् द्वि॒ता च॒ सत्ता᳚ स्व॒धया᳚ च श॒म्भुः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} तस्यानु॒ धर्म॒ प्र य॑जा चिकि॒त्वोथा᳚ नो धा, अध्व॒रं दे॒ववी᳚तौ ||{5/5}{3.1.17.5}{3.17.5}{3.2.5.5}{90, 251, 2607} यः¦त्वत्¦होता᳚¦पूर्वः॑¦अ॒ग्ने॒¦यजी᳚यान्¦द्वि॒ता¦च॒¦सत्ता᳚¦स्व॒धया᳚¦च॒¦श॒म्ऽभुः | |
[12] भवानइतिपंचर्चस्य सूक्तस्य वैश्वामित्रः कतोग्निस्त्रिष्टुप् | |
भवा᳚ नो, अग्ने सु॒मना॒, उपे᳚तौ॒ सखे᳚व॒ सख्ये᳚ पि॒तरे᳚व सा॒धुः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} पु॒रु॒द्रुहो॒ हि क्षि॒तयो॒ जना᳚नां॒ प्रति॑ प्रती॒चीर्द॑हता॒दरा᳚तीः ||{1/5}{3.1.18.1}{3.18.1}{3.2.6.1}{91, 252, 2608} भव॑¦नः॒¦अ॒ग्ने॒¦सु॒ऽमनाः᳚¦उप॑ऽइतौ¦सखा᳚ऽइव¦सख्ये᳚¦पि॒तरा᳚ऽइव¦सा॒धुः | |
तपो॒ ष्व॑ग्ने॒, अन्त॑राँ, अ॒मित्रा॒न् तपा॒ शंस॒मर॑रुषः॒ पर॑स्य |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} तपो᳚ वसो चिकिता॒नो, अ॒चित्ता॒न् वि ते᳚ तिष्ठन्ताम॒जरा᳚, अ॒यासः॑ ||{2/5}{3.1.18.2}{3.18.2}{3.2.6.2}{92, 252, 2609} तपो॒ इति॑¦सु¦अ॒ग्ने॒¦अन्त॑रान्¦अ॒मित्रा᳚न्¦तप॑¦शंस᳚म्¦अर॑रुषः¦पर॑स्य | |
इ॒ध्मेना᳚ग्न इ॒च्छमा᳚नो घृ॒तेन॑ जु॒होमि॑ ह॒व्यं तर॑से॒ बला᳚य |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} याव॒दीशे॒ ब्रह्म॑णा॒ वन्द॑मान इ॒मां धियं᳚ शत॒सेया᳚य दे॒वीम् ||{3/5}{3.1.18.3}{3.18.3}{3.2.6.3}{93, 252, 2610} इ॒ध्मेन॑¦अ॒ग्ने॒¦इ॒च्छमा᳚नः¦घृ॒तेन॑¦जु॒होमि॑¦ह॒व्यम्¦तर॑से¦बला᳚य | |
उच्छो॒चिषा᳚ सहसस् पुत्र स्तु॒तो बृ॒हद् वयः॑ शशमा॒नेषु॑ धेहि |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} रे॒वद॑ग्ने वि॒श्वामि॑त्रेषु॒ शं योर्म᳚र्मृ॒ज्मा ते᳚ त॒न्व१॑(अं॒) भूरि॒ कृत्वः॑ ||{4/5}{3.1.18.4}{3.18.4}{3.2.6.4}{94, 252, 2611} उत्¦शो॒चिषा᳚¦स॒ह॒सः॒¦पु॒त्र॒¦स्तु॒तः¦बृ॒हत्¦वयः॑¦श॒श॒मा॒नेषु॑¦धे॒हि॒ | |
कृ॒धि रत्नं᳚ सुसनित॒र्धना᳚नां॒ स घेद॑ग्ने भवसि॒ यत् समि॑द्धः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} स्तो॒तुर्दु॑रो॒णे सु॒भग॑स्य रे॒वत् सृ॒प्रा क॒रस्ना᳚ दधिषे॒ वपूं᳚षि ||{5/5}{3.1.18.5}{3.18.5}{3.2.6.5}{95, 252, 2612} कृ॒धि¦रत्न᳚म्¦सु॒ऽस॒नि॒तः॒¦धना᳚नाम्¦सः¦घ॒¦इत्¦अ॒ग्ने॒¦भ॒व॒सि॒¦यत्¦सम्ऽइ᳚द्धः | |
[13] अग्निंहोतारमिति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निस्त्रिष्टुप् | |
अ॒ग्निं होता᳚रं॒ प्र वृ॑णे मि॒येधे॒ गृत्सं᳚ क॒विं वि॑श्व॒विद॒ममू᳚रम् |{कौशिको गाथी | अग्निः | त्रिष्टुप्} स नो᳚ यक्षद्दे॒वता᳚ता॒ यजी᳚यान् रा॒ये वाजा᳚य वनते म॒घानि॑ ||{1/5}{3.1.19.1}{3.19.1}{3.2.7.1}{96, 253, 2613} अ॒ग्निम्¦होता᳚रम्¦प्र¦वृ॒णे॒¦मि॒येधे᳚¦गृत्स᳚म्¦क॒विम्¦वि॒श्व॒ऽविद᳚म्¦अमू᳚रम् | |
प्र ते᳚, अग्ने ह॒विष्म॑तीमिय॒र्म्यच्छा᳚ सुद्यु॒म्नां रा॒तिनीं᳚ घृ॒ताची᳚म् |{कौशिको गाथी | अग्निः | त्रिष्टुप्} प्र॒द॒क्षि॒णिद्दे॒वता᳚तिमुरा॒णः सं रा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रेत् ||{2/5}{3.1.19.2}{3.19.2}{3.2.7.2}{97, 253, 2614} प्र¦ते॒¦अ॒ग्ने॒¦ह॒विष्म॑तीम्¦इ॒य॒र्मि॒¦अच्छ॑¦सु॒ऽद्यु॒म्नाम्¦रा॒तिनी᳚म्¦घृ॒ताची᳚म् | |
स तेजी᳚यसा॒ मन॑सा॒ त्वोत॑ उ॒त शि॑क्ष स्वप॒त्यस्य॑ शि॒क्षोः |{कौशिको गाथी | अग्निः | त्रिष्टुप्} अग्ने᳚ रा॒यो नृत॑मस्य॒ प्रभू᳚तौ भू॒याम॑ ते सुष्टु॒तय॑श्च॒ वस्वः॑ ||{3/5}{3.1.19.3}{3.19.3}{3.2.7.3}{98, 253, 2615} सः¦तेजी᳚यसा¦मन॑सा¦त्वाऽऊ᳚तः¦उ॒त¦शि॒क्ष॒¦सु॒।आ॒प॒त्यस्य॑¦शि॒क्षोः | |
भूरी᳚णि॒ हि त्वे द॑धि॒रे, अनी॒काग्ने᳚ दे॒वस्य॒ यज्य॑वो॒ जना᳚सः |{कौशिको गाथी | अग्निः | त्रिष्टुप्} स आ व॑ह दे॒वता᳚तिं यविष्ठ॒ शर्धो॒ यद॒द्य दि॒व्यं यजा᳚सि ||{4/5}{3.1.19.4}{3.19.4}{3.2.7.4}{99, 253, 2616} भूरी᳚णि¦हि¦त्वे इति॑¦द॒धि॒रे¦अनी᳚का¦अग्ने᳚¦दे॒वस्य॑¦यज्य॑वः¦जना᳚सः | |
यत् त्वा॒ होता᳚रम॒नज᳚न् मि॒येधे᳚ निषा॒दय᳚न्तो य॒जथा᳚य दे॒वाः |{कौशिको गाथी | अग्निः | त्रिष्टुप्} स त्वं नो᳚, अग्नेऽवि॒तेह बो॒ध्यधि॒ श्रवां᳚सि धेहि नस्त॒नूषु॑ ||{5/5}{3.1.19.5}{3.19.5}{3.2.7.5}{100, 253, 2617} यत्¦त्वा॒¦होता᳚रम्¦अ॒नज॑न्¦मि॒येधे᳚¦नि॒ऽसा॒दय᳚न्तः¦य॒जथा᳚य¦दे॒वाः | |
[14] अग्निमुषसमिति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निः आद्यांत्ययोर्विश्वेदेवास्त्रिष्टुप् | |
अ॒ग्निमु॒षस॑म॒श्विना᳚ दधि॒क्रां व्यु॑ष्टिषु हवते॒ वह्नि॑रु॒क्थैः |{कौशिको गाथी | विश्वदेवाः | त्रिष्टुप्} सु॒ज्योति॑षो नः शृण्वन्तु दे॒वाः स॒जोष॑सो, अध्व॒रं वा᳚वशा॒नाः ||{1/5}{3.1.20.1}{3.20.1}{3.2.8.1}{101, 254, 2618} अ॒ग्निम्¦उ॒षस᳚म्¦अ॒श्विना᳚¦द॒धि॒ऽक्राम्¦वि।औ᳚ष्टिषु¦ह॒व॒ते॒¦वह्निः॑¦उ॒क्थैः | |
अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्था᳚ ति॒स्रस्ते᳚ जि॒ह्वा, ऋ॑तजात पू॒र्वीः |{कौशिको गाथी | अग्निः | त्रिष्टुप्} ति॒स्र उ॑ ते त॒न्वो᳚ दे॒ववा᳚ता॒स्ताभि᳚र्नः पाहि॒ गिरो॒, अप्र॑युच्छन् ||{2/5}{3.1.20.2}{3.20.2}{3.2.8.2}{102, 254, 2619} अग्ने᳚¦त्री¦ते॒¦वाजि॑ना¦त्री¦स॒धऽस्था᳚¦ति॒स्रः¦ते॒¦जि॒ह्वाः¦ऋ॒त॒ऽजा॒त॒¦पू॒र्वीः | |
अग्ने॒ भूरी᳚णि॒ तव॑ जातवेदो॒ देव॑ स्वधावो॒ऽमृत॑स्य॒ नाम॑ |{कौशिको गाथी | अग्निः | त्रिष्टुप्} याश्च॑ मा॒या मा॒यिनां᳚ विश्वमिन्व॒ त्वे पू॒र्वीः सं᳚द॒धुः पृ॑ष्टबन्धो ||{3/5}{3.1.20.3}{3.20.3}{3.2.8.3}{103, 254, 2620} अग्ने᳚¦भूरी᳚णि¦तव॑¦जा॒त॒ऽवे॒दः॒¦देव॑¦स्व॒धा॒ऽवः॒¦अ॒मृत॑स्य¦नाम॑ | |
अ॒ग्निर्ने॒ता भग॑ इव क्षिती॒नां दैवी᳚नां दे॒व ऋ॑तु॒पा, ऋ॒तावा᳚ |{कौशिको गाथी | अग्निः | त्रिष्टुप्} स वृ॑त्र॒हा स॒नयो᳚ वि॒श्ववे᳚दाः॒ पर्ष॒द् विश्वाति॑ दुरि॒ता गृ॒णन्त᳚म् ||{4/5}{3.1.20.4}{3.20.4}{3.2.8.4}{104, 254, 2621} अ॒ग्निः¦ने॒ता¦भगः॑ऽइव¦क्षि॒ती॒नाम्¦दैवी᳚नाम्¦दे॒वः¦ऋ॒तु॒ऽपाः¦ऋ॒तऽवा᳚ | |
द॒धि॒क्राम॒ग्निमु॒षसं᳚ च दे॒वीं बृह॒स्पतिं᳚ सवि॒तारं᳚ च दे॒वम् |{कौशिको गाथी | विश्वदेवाः | त्रिष्टुप्} अ॒श्विना᳚ मि॒त्रावरु॑णा॒ भगं᳚ च॒ वसू᳚न् रु॒द्राँ, आ᳚दि॒त्याँ, इ॒ह हु॑वे ||{5/5}{3.1.20.5}{3.20.5}{3.2.8.5}{105, 254, 2622} द॒धि॒ऽक्राम्¦अ॒ग्निम्¦उ॒षस᳚म्¦च॒¦दे॒वीम्¦बृह॒स्पति᳚म्¦स॒वि॒तार᳚म्¦च॒¦दे॒वम् | |
[15] इमंनइति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निः आद्यात्रिष्टुप् द्वितीयातृतीयेनुष्टुभौ चतुर्थीविराड्रूपांत्यासतोबृहती | |
इ॒मं नो᳚ य॒ज्ञम॒मृते᳚षु धेही॒मा ह॒व्या जा᳚तवेदो जुषस्व |{कौशिको गाथी | अग्निः | त्रिष्टुप्} स्तो॒काना᳚मग्ने॒ मेद॑सो घृ॒तस्य॒ होतः॒ प्राशा᳚न प्रथ॒मो नि॒षद्य॑ ||{1/5}{3.1.21.1}{3.21.1}{3.2.9.1}{106, 255, 2623} इ॒मम्¦नः॒¦य॒ज्ञम्¦अ॒मृते᳚षु¦धे॒हि॒¦ई॒मा¦ह॒व्या¦जा॒त॒ऽवे॒दः॒¦जु॒ष॒स्व॒ | |
घृ॒तव᳚न्तः पावक ते स्तो॒काः श्चो᳚तन्ति॒ मेद॑सः |{कौशिको गाथी | अग्निः | अनुष्टुप्} स्वध᳚र्मन् दे॒ववी᳚तये॒ श्रेष्ठं᳚ नो धेहि॒ वार्य᳚म् ||{2/5}{3.1.21.2}{3.21.2}{3.2.9.2}{107, 255, 2624} घृ॒तऽव᳚न्तः¦पा॒व॒क॒¦ते॒¦स्तो॒काः¦श्चो॒त॒न्ति॒¦मेद॑सः | स्वऽध᳚र्मन्¦दे॒वऽवी᳚तये¦श्रेष्ठ᳚म्¦नः॒¦धे॒हि॒¦वार्य᳚म् || |
तुभ्यं᳚ स्तो॒का घृ॑त॒श्चुतोऽग्ने॒ विप्रा᳚य सन्त्य |{कौशिको गाथी | अग्निः | अनुष्टुप्} ऋषिः॒ श्रेष्ठः॒ समि॑ध्यसे य॒ज्ञस्य॑ प्रावि॒ता भ॑व ||{3/5}{3.1.21.3}{3.21.3}{3.2.9.3}{108, 255, 2625} तुभ्य᳚म्¦स्तो॒काः¦घृ॒त॒ऽश्चुतः॑¦अग्ने᳚¦विप्रा᳚य¦स॒न्त्य॒ | ऋषिः॑¦श्रेष्ठः॑¦सम्¦इ॒ध्य॒से॒¦य॒ज्ञस्य॑¦प्र॒।आ॒वि॒ता¦भ॒व॒ || |
तुभ्यं᳚ श्चोतन्त्यध्रिगो शचीवः स्तो॒कासो᳚, अग्ने॒ मेद॑सो घृ॒तस्य॑ |{कौशिको गाथी | अग्निः | विराड्रूपा} क॒वि॒श॒स्तो बृ॑ह॒ता भा॒नुनागा᳚ ह॒व्या जु॑षस्व मेधिर ||{4/5}{3.1.21.4}{3.21.4}{3.2.9.4}{109, 255, 2626} तुभ्य᳚म्¦श्चो॒त॒न्ति॒¦अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो¦श॒ची॒ऽवः॒¦स्तो॒कासः॑¦अ॒ग्ने॒¦मेद॑सः¦घृ॒तस्य॑ | |
ओजि॑ष्ठं ते मध्य॒तो मेद॒ उद्भृ॑तं॒ प्र ते᳚ व॒यं द॑दामहे |{कौशिको गाथी | अग्निः | सतोबृहती} श्चोत᳚न्ति ते वसो स्तो॒का, अधि॑ त्व॒चि प्रति॒ तान् दे᳚व॒शो वि॑हि ||{5/5}{3.1.21.5}{3.21.5}{3.2.9.5}{110, 255, 2627} ओजि॑ष्ठम्¦ते॒¦म॒ध्य॒तः¦मेदः॑¦उत्ऽभृ॑तम्¦प्र¦ते॒¦व॒यम्¦द॒दा॒म॒हे॒ | |
[16] अयंसइति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निरूपांत्यायाः पुरीष्याग्नयस्त्रिष्टुप् चतुर्थ्यनुष्टुप् | |
अ॒यं सो, अ॒ग्निर्यस्मि॒न् त्सोम॒मिन्द्रः॑ सु॒तं द॒धे ज॒ठरे᳚ वावशा॒नः |{कौशिको गाथी | अग्निः | त्रिष्टुप्} स॒ह॒स्रिणं॒ वाज॒मत्यं॒ न सप्तिं᳚ सस॒वान् त्सन् त्स्तू᳚यसे जातवेदः ||{1/5}{3.1.22.1}{3.22.1}{3.2.10.1}{111, 256, 2628} अ॒यम्¦सः¦अ॒ग्निः¦यस्मि॑न्¦सोम᳚म्¦इन्द्रः॑¦सु॒तम्¦द॒धे¦ज॒ठरे᳚¦वा॒व॒शा॒नः | |
अग्ने॒ यत्ते᳚ दि॒वि वर्चः॑ पृथि॒व्यां यदोष॑धीष्व॒प्स्वा य॑जत्र |{कौशिको गाथी | अग्निः | त्रिष्टुप्} येना॒न्तरि॑क्षमु॒र्वा᳚त॒तन्थ॑ त्वे॒षः स भा॒नुर᳚र्ण॒वो नृ॒चक्षाः᳚ ||{2/5}{3.1.22.2}{3.22.2}{3.2.10.2}{112, 256, 2629} अग्ने᳚¦यत्¦ते॒¦दि॒वि¦वर्चः॑¦पृ॒थि॒व्याम्¦यत्¦ओष॑धीषु¦अ॒प्ऽसु¦आ¦य॒ज॒त्र॒ | |
अग्ने᳚ दि॒वो, अर्ण॒मच्छा᳚ जिगा॒स्यच्छा᳚ दे॒वाँ, ऊ᳚चिषे॒ धिष्ण्या॒ ये |{कौशिको गाथी | अग्निः | त्रिष्टुप्} या रो᳚च॒ने प॒रस्ता॒त् सूर्य॑स्य॒ याश्चा॒वस्ता᳚दुप॒तिष्ठ᳚न्त॒ आपः॑ ||{3/5}{3.1.22.3}{3.22.3}{3.2.10.3}{113, 256, 2630} अग्ने᳚¦दि॒वः¦अर्ण᳚म्¦अच्छ॑¦जि॒गा॒सि॒¦अच्छ॑¦दे॒वान्¦ऊ॒चि॒षे॒¦धिष्ण्याः᳚¦ये | |
पु॒री॒ष्या᳚सो, अ॒ग्नयः॑ प्राव॒णेभिः॑ स॒जोष॑सः |{कौशिको गाथी | पुरीष्या अग्नयः | अनुष्टुप्} जु॒षन्तां᳚ य॒ज्ञम॒द्रुहो᳚ऽनमी॒वा, इषो᳚ म॒हीः ||{4/5}{3.1.22.4}{3.22.4}{3.2.10.4}{114, 256, 2631} पु॒री॒ष्या᳚सः¦अ॒ग्नयः॑¦प्र॒व॒णेभिः॑¦स॒ऽजोष॑सः | जु॒षन्ता᳚म्¦य॒ज्ञम्¦अ॒द्रुहः॑¦अ॒न॒मी॒वाः¦इषः॑¦म॒हीः || |
इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |{कौशिको गाथी | अग्निः | त्रिष्टुप्} स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{5/5}{3.1.22.5}{3.22.5}{3.2.10.5}{115, 256, 2632} इळा᳚म्¦अ॒ग्ने॒¦पु॒रु॒ऽदंस᳚म्¦स॒निम्¦गोः¦श॒श्व॒त्ऽत॒मम्¦हव॑मानाय¦सा॒ध॒ | |
[17] निर्मथितइति पंचर्चस्य सूक्तस्य भारतौदेवश्रवोदेववातावग्निस्त्रिष्टुप् तृतीयासतोबृहती | |
निर्म॑थितः॒ सुधि॑त॒ आ स॒धस्थे॒ युवा᳚ क॒विर॑ध्व॒रस्य॑ प्रणे॒ता |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्} जूर्य॑त्स्व॒ग्निर॒जरो॒ वने॒ष्वत्रा᳚ दधे, अ॒मृतं᳚ जा॒तवे᳚दाः ||{1/5}{3.1.23.1}{3.23.1}{3.2.11.1}{116, 257, 2633} निःऽम॑थितः¦सुऽधि॑तः¦आ¦स॒धऽस्थे᳚¦युवा᳚¦क॒विः¦अ॒ध्व॒रस्य॑¦प्र॒ऽने॒ता | |
अम᳚न्थिष्टां॒ भार॑ता रे॒वद॒ग्निं दे॒वश्र॑वा दे॒ववा᳚तः सु॒दक्ष᳚म् |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्} अग्ने॒ वि प॑श्य बृह॒ताभि रा॒येषां नो᳚ ने॒ता भ॑वता॒दनु॒ द्यून् ||{2/5}{3.1.23.2}{3.23.2}{3.2.11.2}{117, 257, 2634} अम᳚न्थिष्टाम्¦भार॑ता¦रे॒वत्¦अ॒ग्निम्¦दे॒वऽश्र॑वाः¦दे॒वऽवा᳚तः¦सु॒ऽदक्ष᳚म् | |
दश॒ क्षिपः॑ पू॒र्व्यं सी᳚मजीजन॒न् त्सुजा᳚तं मा॒तृषु॑ प्रि॒यम् |{भारतौ देवश्रवोदेववातौ | अग्निः | सतोबृहती} अ॒ग्निं स्तु॑हि दैववा॒तं दे᳚वश्रवो॒ यो जना᳚ना॒मस॑द् व॒शी ||{3/5}{3.1.23.3}{3.23.3}{3.2.11.3}{118, 257, 2635} दश॑¦क्षिपः॑¦पू॒र्व्यम्¦सी॒म्¦अ॒जी॒ज॒न॒न्¦सुऽजा᳚तम्¦मा॒तृषु॑¦प्रि॒यम् | |
नि त्वा᳚ दधे॒ वर॒ आ पृ॑थि॒व्या, इळा᳚यास्प॒दे सु॑दिन॒त्वे, अह्ना᳚म् |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्} दृ॒षद्व॑त्यां॒ मानु॑ष आप॒यायां॒ सर॑स्वत्यां रे॒वद॑ग्ने दिदीहि ||{4/5}{3.1.23.4}{3.23.4}{3.2.11.4}{119, 257, 2636} नि¦त्वा॒¦द॒धे॒¦वरे᳚¦आ¦पृ॒थि॒व्याः¦इळा᳚याः¦प॒दे¦सु॒दि॒न॒ऽत्वे¦अह्ना᳚म् | |
इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्} स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{5/5}{3.1.23.5}{3.23.5}{3.2.11.5}{120, 257, 2637} इळा᳚म्¦अ॒ग्ने॒¦पु॒रु॒ऽदंस᳚म्¦स॒निम्¦गोः¦श॒श्व॒त्ऽत॒मम्¦हव॑मानाय¦सा॒ध॒ | |
[18] अग्नेसहस्वेति पंचर्चस्य सूक्तस्य गाथिनो विश्वामित्रोग्निर्गायत्री आद्यानुष्टुप् | |
अग्ने॒ सह॑स्व॒ पृत॑ना, अ॒भिमा᳚ती॒रपा᳚स्य |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्} दु॒ष्टर॒स्तर॒न्नरा᳚ती॒र्वर्चो᳚ धा य॒ज्ञवा᳚हसे ||{1/5}{3.1.24.1}{3.24.1}{3.2.12.1}{121, 258, 2638} अग्ने᳚¦सह॑स्व¦पृत॑नाः¦अ॒भिऽमा᳚तीः¦अप॑¦अ॒स्य॒ | दु॒स्तरः॑¦तर॑न्¦अरा᳚तीः¦वर्चः॑¦धाः॒¦य॒ज्ञऽवा᳚हसे || |
अग्न॑ इ॒ळा समि॑ध्यसे वी॒तिहो᳚त्रो॒, अम॑र्त्यः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} जु॒षस्व॒ सू नो᳚, अध्व॒रम् ||{2/5}{3.1.24.2}{3.24.2}{3.2.12.2}{122, 258, 2639} अग्ने᳚¦इ॒ळा¦सम्¦इ॒ध्य॒से॒¦वी॒तिऽहो᳚त्रः¦अम॑र्त्यः | जु॒षस्व॑¦सु¦नः॒¦अ॒ध्व॒रम् || |
अग्ने᳚ द्यु॒म्नेन॑ जागृवे॒ सह॑सः सूनवाहुत |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} एदं ब॒र्हिः स॑दो॒ मम॑ ||{3/5}{3.1.24.3}{3.24.3}{3.2.12.3}{123, 258, 2640} अग्ने᳚¦द्यु॒म्नेन॑¦जा॒गृ॒वे॒¦सह॑सः¦सू॒नो॒ इति॑¦आ॒ऽहु॒त॒ | आ¦इ॒दम्¦ब॒र्हिः¦स॒दः॒¦मम॑ || |
अग्ने॒ विश्वे᳚भिर॒ग्निभि॑र्दे॒वेभि᳚र्महया॒ गिरः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} य॒ज्ञेषु॒ य उ॑ चा॒यवः॑ ||{4/5}{3.1.24.4}{3.24.4}{3.2.12.4}{124, 258, 2641} अग्ने᳚¦विश्वे᳚भिः¦अ॒ग्निऽभिः॑¦दे॒वेभिः॑¦म॒ह॒य॒¦गिरः॑ | य॒ज्ञेषु॑¦ये¦ऊँ॒ इति॑¦चा॒यवः॑ || |
अग्ने॒ दा दा॒शुषे᳚ र॒यिं वी॒रव᳚न्तं॒ परी᳚णसम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} शि॒शी॒हि नः॑ सूनु॒मतः॑ ||{5/5}{3.1.24.5}{3.24.5}{3.2.12.5}{125, 258, 2642} अग्ने᳚¦दाः¦दा॒शुषे᳚¦र॒यिम्¦वी॒रऽव᳚न्तम्¦परी᳚णसम् | शि॒शी॒हि¦नः॒¦सू॒नु॒ऽमतः॑ || |
[19] अग्नेदिवइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निश्चतुर्थ्या इंद्राग्नीविराट् | |
अग्ने᳚ दि॒वः सू॒नुर॑सि॒ प्रचे᳚ता॒स्तना᳚ पृथि॒व्या, उ॒त वि॒श्ववे᳚दाः |{गाथिनो विश्वामित्रः | अग्निः | विराट्} ऋध॑ग् दे॒वाँ, इ॒ह य॑जा चिकित्वः ||{1/5}{3.1.25.1}{3.25.1}{3.2.13.1}{126, 259, 2643} अग्ने᳚¦दि॒वः¦सू॒नुः¦अ॒सि॒¦प्रऽचे᳚ताः¦तना᳚¦पृ॒थि॒व्याः¦उ॒त¦वि॒श्वऽवे᳚दाः | ऋध॑क्¦दे॒वान्¦इ॒ह¦य॒ज॒¦चि॒कि॒त्वः॒ || |
अ॒ग्निः स॑नोति वी॒र्या᳚णि वि॒द्वान् त्स॒नोति॒ वाज॑म॒मृता᳚य॒ भूष॑न् |{गाथिनो विश्वामित्रः | अग्निः | विराट्} स नो᳚ दे॒वाँ, एह व॑हा पुरुक्षो ||{2/5}{3.1.25.2}{3.25.2}{3.2.13.2}{127, 259, 2644} अ॒ग्निः¦स॒नो॒ति॒¦वी॒र्या᳚णि¦वि॒द्वान्¦स॒नोति॑¦वाज᳚म्¦अ॒मृता᳚य¦भूष॑न् | सः¦नः॒¦दे॒वान्¦आ¦इ॒ह¦व॒ह॒¦पु॒रु॒क्षो॒ इति॑ पुरुऽक्षो || |
अ॒ग्निर्द्यावा᳚पृथि॒वी वि॒श्वज᳚न्ये॒, आ भा᳚ति दे॒वी, अ॒मृते॒, अमू᳚रः |{गाथिनो विश्वामित्रः | अग्निः | विराट्} क्षय॒न् वाजैः᳚ पुरुश्च॒न्द्रो नमो᳚भिः ||{3/5}{3.1.25.3}{3.25.3}{3.2.13.3}{128, 259, 2645} अ॒ग्निः¦द्यावा᳚पृथि॒वी इति॑¦वि॒श्वज᳚न्ये॒ इति॑ वि॒श्वऽज᳚न्ये¦आ¦भा॒ति॒¦दे॒वी इति॑¦अ॒मृते॒ इति॑¦अमू᳚रः | क्षय॑न्¦वाजैः᳚¦पु॒रु॒ऽच॒न्द्रः¦नमः॑ऽभिः || |
अग्न॒ इन्द्र॑श्च दा॒शुषो᳚ दुरो॒णे सु॒ताव॑तो य॒ज्ञमि॒होप॑ यातम् |{गाथिनो विश्वामित्रः | अग्नीन्द्रौ | विराट्} अम॑र्धन्ता सोम॒पेया᳚य देवा ||{4/5}{3.1.25.4}{3.25.4}{3.2.13.4}{129, 259, 2646} अग्ने᳚¦इन्द्रः॑¦च॒¦दा॒शुषः॑¦दु॒रो॒णे¦सु॒तऽव॑तः¦य॒ज्ञम्¦इ॒ह¦उप॑¦या॒त॒म् | अम॑र्धन्ता¦सो॒म॒ऽपेया᳚य¦दे॒वा॒ || |
अग्ने᳚, अ॒पां समि॑ध्यसे दुरो॒णे नित्यः॑ सूनो सहसो जातवेदः |{गाथिनो विश्वामित्रः | अग्निः | विराट्} स॒धस्था᳚नि म॒हय॑मान ऊ॒ती ||{5/5}{3.1.25.5}{3.25.5}{3.2.13.5}{130, 259, 2647} अग्ने᳚¦अ॒पाम्¦सम्¦इ॒ध्य॒से॒¦दु॒रो॒णे¦नित्यः॑¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦जा॒त॒ऽवे॒दः॒ | स॒धऽस्था᳚नि¦म॒हय॑मानः¦ऊ॒ती || |
[20] वैश्वानरमिति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्रः आद्यानांतिसृणां वैश्वानरोग्निश्चतुर्थ्यादितिसृणांमरुतः सप्तम्यष्टम्योरात्मा अंत्याया उपाध्यायः आध्याःषट्जगत्योंत्यास्तिस्रस्त्रिष्टुभः | |
वै॒श्वा॒न॒रं मन॑सा॒ग्निं नि॒चाय्या᳚ ह॒विष्म᳚न्तो, अनुष॒त्यं स्व॒र्विद᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोग्निः | जगती} सु॒दानुं᳚ दे॒वं र॑थि॒रं व॑सू॒यवो᳚ गी॒र्भी र॒ण्वं कु॑शि॒कासो᳚ हवामहे ||{1/9}{3.1.26.1}{3.26.1}{3.2.14.1}{131, 260, 2648} वै॒श्वा॒न॒रम्¦मन॑सा¦अ॒ग्निम्¦नि॒ऽचाय्य॑¦ह॒विष्म᳚न्तः¦अ॒नु॒ऽस॒त्यम्¦स्वः॒ऽविद᳚म् | |
तं शु॒भ्रम॒ग्निमव॑से हवामहे वैश्वान॒रं मा᳚त॒रिश्वा᳚नमु॒क्थ्य᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोग्निः | जगती} बृह॒स्पतिं॒ मनु॑षो दे॒वता᳚तये॒ विप्रं॒ श्रोता᳚र॒मति॑थिं रघु॒ष्यद᳚म् ||{2/9}{3.1.26.2}{3.26.2}{3.2.14.2}{132, 260, 2649} तम्¦शु॒भ्रम्¦अ॒ग्निम्¦अव॑से¦ह॒वा॒म॒हे॒¦वै॒श्वा॒न॒रम्¦मा॒त॒रिश्वा᳚नम्¦उ॒क्थ्य᳚म् | |
अश्वो॒ न क्रन्द॒ञ्जनि॑भिः॒ समि॑ध्यते वैश्वान॒रः कु॑शि॒केभि᳚र्यु॒गेयु॑गे |{गाथिनो विश्वामित्रः | वैश्वानरोग्निः | जगती} स नो᳚, अ॒ग्निः सु॒वीर्यं॒ स्वश्व्यं॒ दधा᳚तु॒ रत्न॑म॒मृते᳚षु॒ जागृ॑विः ||{3/9}{3.1.26.3}{3.26.3}{3.2.14.3}{133, 260, 2650} अश्वः॑¦न¦क्रन्द॑न्¦जनि॑ऽभिः¦सम्¦इ॒ध्य॒ते॒¦वै॒श्वा॒न॒रः¦कु॒शि॒केभिः॑¦यु॒गेऽयु॑गे | |
प्र य᳚न्तु॒ वाजा॒स्तवि॑षीभिर॒ग्नयः॑ शु॒भे सम्मि॑श्लाः॒ पृष॑तीरयुक्षत |{गाथिनो विश्वामित्रः | मरुतः | जगती} बृ॒ह॒दुक्षो᳚ म॒रुतो᳚ वि॒श्ववे᳚दसः॒ प्र वे᳚पयन्ति॒ पर्व॑ताँ॒, अदा᳚भ्याः ||{4/9}{3.1.26.4}{3.26.4}{3.2.14.4}{134, 260, 2651} प्र¦य॒न्तु॒¦वाजाः᳚¦तवि॑षीभिः¦अ॒ग्नयः॑¦शु॒भे¦सम्ऽमि॑श्लाः¦पृष॑तीः¦अ॒यु॒क्ष॒त॒ | |
अ॒ग्नि॒श्रियो᳚ म॒रुतो᳚ वि॒श्वकृ॑ष्टय॒ आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यम् |{गाथिनो विश्वामित्रः | मरुतः | जगती} ते स्वा॒निनो᳚ रु॒द्रिया᳚ व॒र्षनि᳚र्णिजः सिं॒हा न हे॒षक्र॑तवः सु॒दान॑वः ||{5/9}{3.1.26.5}{3.26.5}{3.2.14.5}{135, 260, 2652} अ॒ग्नि॒ऽश्रियः॑¦म॒रुतः॑¦वि॒श्वऽकृ॑ष्टयः¦आ¦त्वे॒षम्¦उ॒ग्रम्¦अवः॑¦ई॒म॒हे॒¦व॒यम् | |
व्रातं᳚व्रातं ग॒णंग॑णं सुश॒स्तिभि॑र॒ग्नेर्भामं᳚ म॒रुता॒मोज॑ ईमहे |{गाथिनो विश्वामित्रः | मरुतः | जगती} पृष॑दश्वासो, अनव॒भ्ररा᳚धसो॒ गन्ता᳚रो य॒ज्ञं वि॒दथे᳚षु॒ धीराः᳚ ||{6/9}{3.1.27.1}{3.26.6}{3.2.14.6}{136, 260, 2653} व्रात᳚म्ऽव्रातम्¦ग॒णम्ऽग॑णम्¦सु॒श॒स्तिऽभिः॑¦अ॒ग्नेः¦भाम᳚म्¦म॒रुता᳚म्¦ओजः॑¦ई॒म॒हे॒ | |
अ॒ग्निर॑स्मि॒ जन्म॑ना जा॒तवे᳚दा घृ॒तं मे॒ चक्षु॑र॒मृतं᳚ म आ॒सन् |{गाथिनो विश्वामित्रः | आत्मा (अग्निर्वा) | त्रिष्टुप्} अ॒र्कस्त्रि॒धातू॒ रज॑सो वि॒मानोऽज॑स्रो घ॒र्मो ह॒विर॑स्मि॒ नाम॑ ||{7/9}{3.1.27.2}{3.26.7}{3.2.14.7}{137, 260, 2654} अ॒ग्निः¦अ॒स्मि॒¦जन्म॑ना¦जा॒तऽवे᳚दाः¦घृ॒तम्¦मे॒¦चक्षुः॑¦अ॒मृत᳚म्¦मे॒¦आ॒सन् | |
त्रि॒भिः प॒वित्रै॒रपु॑पो॒द्ध्य१॑(अ॒)र्कं हृ॒दा म॒तिं ज्योति॒रनु॑ प्रजा॒नन् |{गाथिनो विश्वामित्रः | आत्मा (अग्निर्वा) | त्रिष्टुप्} वर्षि॑ष्ठं॒ रत्न॑मकृत स्व॒धाभि॒रादिद्द्यावा᳚पृथि॒वी पर्य॑पश्यत् ||{8/9}{3.1.27.3}{3.26.8}{3.2.14.8}{138, 260, 2655} त्रि॒ऽभिः¦प॒वित्रैः᳚¦अपु॑पोत्¦हि¦अ॒र्कम्¦हृ॒दा¦म॒तिम्¦ज्योतिः॑¦अनु॑¦प्र॒ऽजा॒नन् | |
श॒तधा᳚र॒मुत्स॒मक्षी᳚यमाणं विप॒श्चितं᳚ पि॒तरं॒ वक्त्वा᳚नाम् |{गाथिनो विश्वामित्रः | उपाध्यायः | त्रिष्टुप्} मे॒ळिं मद᳚न्तं पि॒त्रोरु॒पस्थे॒ तं रो᳚दसी पिपृतं सत्य॒वाच᳚म् ||{9/9}{3.1.27.4}{3.26.9}{3.2.14.9}{139, 260, 2656} श॒तऽधा᳚रम्¦उत्स᳚म्¦अक्षी᳚यमाणम्¦वि॒पः॒ऽचित᳚म्¦पि॒तर᳚म्¦वक्त्वा᳚नाम् | |
[21] प्रवोवाजाइति पंचदशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निः आद्यायाऋतवोवागायत्री | |
प्र वो॒ वाजा᳚, अ॒भिद्य॑वो ह॒विष्म᳚न्तो घृ॒ताच्या᳚ |{गाथिनो विश्वामित्रः | ऋतवोऽग्निर्वा | गायत्री} दे॒वाञ्जि॑गाति सुम्न॒युः ||{1/15}{3.1.28.1}{3.27.1}{3.2.15.1}{140, 261, 2657} प्र¦वः॒¦वाजाः᳚¦अ॒भिऽद्य॑वः¦ह॒विष्म᳚न्तः¦घृ॒ताच्या᳚ | दे॒वान्¦जि॒गा॒ति॒¦सु॒म्न॒युः || |
ईळे᳚, अ॒ग्निं वि॑प॒श्चितं᳚ गि॒रा य॒ज्ञस्य॒ साध॑नम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} श्रु॒ष्टी॒वानं᳚ धि॒तावा᳚नम् ||{2/15}{3.1.28.2}{3.27.2}{3.2.15.2}{141, 261, 2658} ईळे᳚¦अ॒ग्निम्¦वि॒पः॒ऽचित᳚म्¦गि॒रा¦य॒ज्ञस्य॑¦साध॑नम् | श्रु॒ष्टी॒ऽवान᳚म्¦धि॒तऽवा᳚नम् || |
अग्ने᳚ श॒केम॑ ते व॒यं यमं᳚ दे॒वस्य॑ वा॒जिनः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अति॒ द्वेषां᳚सि तरेम ||{3/15}{3.1.28.3}{3.27.3}{3.2.15.3}{142, 261, 2659} अग्ने᳚¦श॒केम॑¦ते॒¦व॒यम्¦यम᳚म्¦दे॒वस्य॑¦वा॒जिनः॑ | अति॑¦द्वेषां᳚सि¦त॒रे॒म॒ || |
स॒मि॒ध्यमा᳚नो, अध्व॒रे॒३॑(ए॒)ऽग्निः पा᳚व॒क ईड्यः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} शो॒चिष्के᳚श॒स्तमी᳚महे ||{4/15}{3.1.28.4}{3.27.4}{3.2.15.4}{143, 261, 2660} स॒म्ऽइ॒ध्यमा᳚नः¦अ॒ध्व॒रे¦अ॒ग्निः¦पा॒व॒कः¦ईड्यः॑ | शो॒चिःऽके᳚शः¦तम्¦ई॒म॒हे॒ || |
पृ॒थु॒पाजा॒, अम॑र्त्यो घृ॒तनि᳚र्णि॒क् स्वा᳚हुतः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अ॒ग्निर्य॒ज्ञस्य॑ हव्य॒वाट् ||{5/15}{3.1.28.5}{3.27.5}{3.2.15.5}{144, 261, 2661} पृ॒थु॒ऽपाजाः᳚¦अम॑र्त्यः¦घृ॒तऽनि᳚र्निक्¦सुऽआ᳚हुतः | अ॒ग्निः¦य॒ज्ञस्य॑¦ह॒व्य॒ऽवाट् || |
तं स॒बाधो᳚ य॒तस्रु॑च इ॒त्था धि॒या य॒ज्ञव᳚न्तः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} आ च॑क्रुर॒ग्निमू॒तये᳚ ||{6/15}{3.1.29.1}{3.27.6}{3.2.15.6}{145, 261, 2662} तम्¦स॒ऽबाधः॑¦य॒तऽस्रु॑चः¦इ॒त्था¦धि॒या¦य॒ज्ञऽव᳚न्तः | आ¦च॒क्रुः॒¦अ॒ग्निम्¦ऊ॒तये᳚ || |
होता᳚ दे॒वो, अम॑र्त्यः पु॒रस्ता᳚देति मा॒यया᳚ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} वि॒दथा᳚नि प्रचो॒दय॑न् ||{7/15}{3.1.29.2}{3.27.7}{3.2.15.7}{146, 261, 2663} होता᳚¦दे॒वः¦अम॑र्त्यः¦पु॒रस्ता᳚त्¦ए॒ति॒¦मा॒यया᳚ | वि॒दथा᳚नि¦प्र॒ऽचो॒दय॑न् || |
वा॒जी वाजे᳚षु धीयतेऽध्व॒रेषु॒ प्र णी᳚यते |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} विप्रो᳚ य॒ज्ञस्य॒ साध॑नः ||{8/15}{3.1.29.3}{3.27.8}{3.2.15.8}{147, 261, 2664} वा॒जी¦वाजे᳚षु¦धी॒य॒ते॒¦अ॒ध्व॒रेषु॑¦प्र¦नी॒य॒ते॒ | विप्रः॑¦य॒ज्ञस्य॑¦साध॑नः || |
धि॒या च॑क्रे॒ वरे᳚ण्यो भू॒तानां॒ गर्भ॒मा द॑धे |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} दक्ष॑स्य पि॒तरं॒ तना᳚ ||{9/15}{3.1.29.4}{3.27.9}{3.2.15.9}{148, 261, 2665} धि॒या¦च॒क्रे॒¦वरे᳚ण्यः¦भू॒ताना᳚म्¦गर्भ᳚म्¦आ¦द॒धे॒ | दक्ष॑स्य¦पि॒तर᳚म्¦तना᳚ || |
नि त्वा᳚ दधे॒ वरे᳚ण्यं॒ दक्ष॑स्ये॒ळा स॑हस्कृत |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अग्ने᳚ सुदी॒तिमु॒शिज᳚म् ||{10/15}{3.1.29.5}{3.27.10}{3.2.15.10}{149, 261, 2666} नि¦त्वा॒¦द॒धे॒¦वरे᳚ण्यम्¦दक्ष॑स्य¦इ॒ळा¦स॒हः॒ऽकृ॒त॒ | अग्ने᳚¦सु॒ऽदी॒तिम्¦उ॒शिज᳚म् || |
अ॒ग्निं य॒न्तुर॑म॒प्तुर॑मृ॒तस्य॒ योगे᳚ व॒नुषः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} विप्रा॒ वाजैः॒ समि᳚न्धते ||{11/15}{3.1.30.1}{3.27.11}{3.2.15.11}{150, 261, 2667} अ॒ग्निम्¦य॒न्तुर᳚म्¦अ॒प्ऽतुर᳚म्¦ऋ॒तस्य॑¦योगे᳚¦व॒नुषः॑ | विप्राः᳚¦वाजैः᳚¦सम्¦इ॒न्ध॒ते॒ || |
ऊ॒र्जो नपा᳚तमध्व॒रे दी᳚दि॒वांस॒मुप॒ द्यवि॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अ॒ग्निमी᳚ळे क॒विक्र॑तुम् ||{12/15}{3.1.30.2}{3.27.12}{3.2.15.12}{151, 261, 2668} ऊ॒र्जः¦नपा᳚तम्¦अ॒ध्व॒रे¦दी॒दि॒ऽवांस᳚म्¦उप॑¦द्यवि॑ | अ॒ग्निम्¦ई॒ळे॒¦क॒विऽक्र॑तुम् || |
ई॒ळेन्यो᳚ नम॒स्य॑स्ति॒रस्तमां᳚सि दर्श॒तः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} सम॒ग्निरि॑ध्यते॒ वृषा᳚ ||{13/15}{3.1.30.3}{3.27.13}{3.2.15.13}{152, 261, 2669} ई॒ळेन्यः॑¦न॒म॒स्यः॑¦ति॒रः¦तमां᳚सि¦द॒र्श॒तः | सम्¦अ॒ग्निः¦इ॒ध्य॒ते॒¦वृषा᳚ || |
वृषो᳚, अ॒ग्निः समि॑ध्य॒तेऽश्वो॒ न दे᳚व॒वाह॑नः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} तं ह॒विष्म᳚न्त ईळते ||{14/15}{3.1.30.4}{3.27.14}{3.2.15.14}{153, 261, 2670} वृषो॒ इति॑¦अ॒ग्निः¦सम्¦इ॒ध्य॒ते॒¦अश्वः॑¦न¦दे॒व॒ऽवाह॑नः | तम्¦ह॒विष्म᳚न्तः¦ई॒ळ॒ते॒ || |
वृष॑णं त्वा व॒यं वृ॑ष॒न् वृष॑णः॒ समि॑धीमहि |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अग्ने॒ दीद्य॑तं बृ॒हत् ||{15/15}{3.1.30.5}{3.27.15}{3.2.15.15}{154, 261, 2671} वृष॑णम्¦त्वा॒¦व॒यम्¦वृ॒ष॒न्¦वृष॑णः¦सम्¦इ॒धी॒म॒हि॒ | अग्ने᳚¦दीद्य॑तम्¦बृ॒हत् || |
[22] अग्नेजुषस्वेति षडृचस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्गायत्री तृतीयोष्णिक् चतुर्थीत्रिष्टुप् पंचमीजगती | |
अग्ने᳚ जु॒षस्व॑ नो ह॒विः पु॑रो॒ळाशं᳚ जातवेदः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} प्रा॒तः॒सा॒वे धि॑यावसो ||{1/6}{3.1.31.1}{3.28.1}{3.2.16.1}{155, 262, 2672} अग्ने᳚¦जु॒षस्व॑¦नः॒¦ह॒विः¦पु॒रो॒ळाश᳚म्¦जा॒त॒ऽवे॒दः॒ | प्रा॒तः॒ऽसा॒वे¦धि॒या॒व॒सो॒ इति॑ धियाऽवसो || |
पु॒रो॒ळा, अ॑ग्ने पच॒तस्तुभ्यं᳚ वा घा॒ परि॑ष्कृतः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} तं जु॑षस्व यविष्ठ्य ||{2/6}{3.1.31.2}{3.28.2}{3.2.16.2}{156, 262, 2673} पु॒रो॒ळाः¦अ॒ग्ने॒¦प॒च॒तः¦तुभ्य᳚म्¦वा॒¦घ॒¦परि॑ऽकृतः | तम्¦जु॒ष॒स्व॒¦य॒वि॒ष्ठ्य॒ || |
अग्ने᳚ वी॒हि पु॑रो॒ळाश॒माहु॑तं ति॒रो,अ᳚ह्न्यम् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} सह॑सः सू॒नुर॑स्यध्व॒रे हि॒तः ||{3/6}{3.1.31.3}{3.28.3}{3.2.16.3}{157, 262, 2674} अग्ने᳚¦वी॒हि¦पु॒रो॒ळाश᳚म्¦आऽहु॑तम्¦ति॒रः।आ᳚ह्न्यम् | सह॑सः¦सू॒नुः¦अ॒सि॒¦अ॒ध्व॒रे¦हि॒तः || |
माध्यं᳚दिने॒ सव॑ने जातवेदः पुरो॒ळाश॑मि॒हक॑वे जुषस्व |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अग्ने᳚ य॒ह्वस्य॒ तव॑ भाग॒धेयं॒ न प्र मि॑नन्ति वि॒दथे᳚षु॒ धीराः᳚ ||{4/6}{3.1.31.4}{3.28.4}{3.2.16.4}{158, 262, 2675} माध्यं᳚दिने¦सव॑ने¦जा॒त॒ऽवे॒दः॒¦पु॒रो॒ळाश᳚म्¦इ॒ह¦क॒वे॒¦जु॒ष॒स्व॒ | |
अग्ने᳚ तृ॒तीये॒ सव॑ने॒ हि कानि॑षः पुरो॒ळाशं᳚ सहसः सून॒वाहु॑तम् |{गाथिनो विश्वामित्रः | अग्निः | जगती} अथा᳚ दे॒वेष् व॑ध्व॒रं वि॑प॒न्यया॒ धा रत्न॑वन्त म॒मृते᳚षु॒ जागृ॑विम् ||{5/6}{3.1.31.5}{3.28.5}{3.2.16.5}{159, 262, 2676} अग्ने᳚¦तृ॒तीये᳚¦सव॑ने¦हि¦कानि॑षः¦पु॒रो॒ळाश᳚म्¦स॒ह॒सः॒¦सू॒नो॒ इति॑¦आऽहु॑तम् | |
अग्ने᳚ वृधा॒न आहु॑तिं पुरो॒ळाशं᳚ जातवेदः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} जु॒षस्व॑ ति॒रो,अ᳚ह्न्यम् ||{6/6}{3.1.31.6}{3.28.6}{3.2.16.6}{160, 262, 2677} अग्ने᳚¦वृ॒धा॒नः¦आऽहु॑तिम्¦पु॒रो॒ळाश᳚म्¦जा॒त॒ऽवे॒दः॒ | जु॒षस्व॑¦ति॒रः।आ᳚ह्न्यम् || |
[23] अस्तीदमिति षोळशर्चस्य सूक्तस्य गाथिनो विश्वामित्रोग्निस्त्रिष्टुप् ( पंचम्याऋत्विजोवा) आद्य चतुर्थीदशमीद्वादश्योनुष्टुभः षष्ठ्येकादशी पंचदश्योजगत्यः | |
अस्ती॒दम॑धि॒मन्थ॑न॒मस्ति॑ प्र॒जन॑नं कृ॒तम् |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्} ए॒तां वि॒श्पत्नी॒मा भ॑रा॒ग्निं म᳚न्थाम पू॒र्वथा᳚ ||{1/16}{3.1.32.1}{3.29.1}{3.2.17.1}{161, 263, 2678} अस्ति॑¦इ॒दम्¦अ॒धि॒ऽमन्थ॑नम्¦अस्ति॑¦प्र॒ऽजन॑नम्¦कृ॒तम् | ए॒ताम्¦वि॒श्पत्नी᳚म्¦आ¦भ॒र॒¦अ॒ग्निम्¦म॒न्था॒म॒¦पू॒र्वऽथा᳚ || |
अ॒रण्यो॒र्निहि॑तो जा॒तवे᳚दा॒ गर्भ॑ इव॒ सुधि॑तो ग॒र्भिणी᳚षु |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दि॒वेदि॑व॒ ईड्यो᳚ जागृ॒वद्भि᳚र्ह॒विष्म॑द्भिर्मनु॒ष्ये᳚भिर॒ग्निः ||{2/16}{3.1.32.2}{3.29.2}{3.2.17.2}{162, 263, 2679} अ॒रण्योः᳚¦निऽहि॑तः¦जा॒तऽवे᳚दाः¦गर्भः॑ऽइव¦सुऽधि॑तः¦ग॒र्भिणी᳚षु | |
उ॒त्ता॒ना या॒मव॑ भरा चिकि॒त्वान् त्स॒द्यः प्रवी᳚ता॒ वृष॑णं जजान |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अ॒रु॒षस्तू᳚पो॒ रुश॑दस्य॒ पाज॒ इळा᳚यास् पु॒त्रो व॒युने᳚ऽजनिष्ट ||{3/16}{3.1.32.3}{3.29.3}{3.2.17.3}{163, 263, 2680} उ॒त्ता॒नाया᳚म्¦अव॑¦भ॒र॒¦चि॒कि॒त्वान्¦स॒द्यः¦प्रऽवी᳚ता¦वृष॑णम्¦ज॒जा॒न॒ | |
इळा᳚यास्त्वा प॒दे व॒यं नाभा᳚ पृथि॒व्या, अधि॑ |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्} जात॑वेदो॒ नि धी᳚म॒ह्यग्ने᳚ ह॒व्याय॒ वोळ्ह॑वे ||{4/16}{3.1.32.4}{3.29.4}{3.2.17.4}{164, 263, 2681} इळा᳚याः¦त्वा॒¦प॒दे¦व॒यम्¦नाभा᳚¦पृ॒थि॒व्याः¦अधि॑ | जात॑ऽवेदः¦नि¦धी॒म॒हि॒¦अग्ने᳚¦ह॒व्याय॑¦वोळ्ह॑वे || |
मन्थ॑ता नरः क॒विमद्व॑यन्तं॒ प्रचे᳚तसम॒मृतं᳚ सु॒प्रती᳚कम् |{गाथिनो विश्वामित्रः | ऋत्विजोऽग्निर्वा | त्रिष्टुप्} य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रस्ता᳚द॒ग्निं न॑रो जनयता सु॒शेव᳚म् ||{5/16}{3.1.32.5}{3.29.5}{3.2.17.5}{165, 263, 2682} मन्थ॑त¦न॒रः॒¦क॒विम्¦अद्व॑यन्तम्¦प्रऽचे᳚तसम्¦अ॒मृत᳚म्¦सु॒ऽप्रती᳚कम् | |
यदी॒ मन्थ᳚न्ति बा॒हुभि॒र्वि रो᳚च॒तेऽश्वो॒ न वा॒ज्य॑रु॒षो वने॒ष्वा |{गाथिनो विश्वामित्रः | अग्निः | जगती} चि॒त्रो न याम᳚न्न॒श्विनो॒रनि॑वृतः॒ परि॑ वृण॒क्त्यश्म॑न॒स्तृणा॒ दह॑न् ||{6/16}{3.1.33.1}{3.29.6}{3.2.17.6}{166, 263, 2683} यदि॑¦मन्थ᳚न्ति¦बा॒हुऽभिः॑¦वि¦रो॒च॒ते॒¦अश्वः॑¦न¦वा॒जी¦अ॒रु॒षः¦वने᳚षु¦आ | |
जा॒तो, अ॒ग्नी रो᳚चते॒ चेकि॑तानो वा॒जी विप्रः॑ कविश॒स्तः सु॒दानुः॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} यं दे॒वास॒ ईड्यं᳚ विश्व॒विदं᳚ हव्य॒वाह॒मद॑धुरध्व॒रेषु॑ ||{7/16}{3.1.33.2}{3.29.7}{3.2.17.7}{167, 263, 2684} जा॒तः¦अ॒ग्निः¦रो॒च॒ते॒¦चेकि॑तानः¦वा॒जी¦विप्रः॑¦क॒वि॒ऽश॒स्तः¦सु॒ऽदानुः॑ | |
सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वान् त्सा॒दया᳚ य॒ज्ञं सु॑कृ॒तस्य॒ योनौ᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दे॒वा॒वीर्दे॒वान् ह॒विषा᳚ यजा॒स्यग्ने᳚ बृ॒हद् यज॑माने॒ वयो᳚ धाः ||{8/16}{3.1.33.3}{3.29.8}{3.2.17.8}{168, 263, 2685} सीद॑¦हो॒त॒रिति॑¦स्वे¦ऊँ॒ इति॑¦लो॒के¦चि॒कि॒त्वान्¦सा॒दय॑¦य॒ज्ञम्¦सु॒ऽकृ॒तस्य॑¦योनौ᳚ | |
कृ॒णोत॑ धू॒मं वृष॑णं सखा॒योऽस्रे᳚धन्त इतन॒ वाज॒मच्छ॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अ॒यम॒ग्निः पृ॑तना॒षाट् सु॒वीरो॒ ऽयेन॑ दे॒वासो॒, अस॑हन्त॒ दस्यू॑न् ||{9/16}{3.1.33.4}{3.29.9}{3.2.17.9}{169, 263, 2686} कृ॒णोत॑¦धू॒मम्¦वृष॑णम्¦स॒खा॒यः॒¦अस्रे᳚धन्तः¦इ॒त॒न॒¦वाज᳚म्¦अच्छ॑ | |
अ॒यं ते॒ योनि᳚रृ॒त्वियो॒ यतो᳚ जा॒तो, अरो᳚चथाः |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्} तं जा॒नन्न॑ग्न॒ आ सी॒दाथा᳚ नो वर्धया॒ गिरः॑ ||{10/16}{3.1.33.5}{3.29.10}{3.2.17.10}{170, 263, 2687} अ॒यम्¦ते॒¦योनिः॑¦ऋ॒त्वियः॑¦यतः॑¦जा॒तः¦अरो᳚चथाः | तम्¦जा॒नन्¦अ॒ग्ने॒¦आ¦सी॒द॒¦अथ॑¦नः॒¦व॒र्ध॒य॒¦गिरः॑ || |
तनू॒नपा᳚दुच्यते॒ गर्भ॑ आसु॒रो नरा॒शंसो᳚ भवति॒ यद्वि॒जाय॑ते |{गाथिनो विश्वामित्रः | अग्निः | जगती} मा॒त॒रिश्वा॒ यदमि॑मीत मा॒तरि॒ वात॑स्य॒ सर्गो᳚, अभव॒त्सरी᳚मणि ||{11/16}{3.1.34.1}{3.29.11}{3.2.17.11}{171, 263, 2688} तनू॒३॒॑ऽनपा᳚त्¦उ॒च्य॒ते॒¦गर्भः॑¦आ॒सु॒रः¦नरा॒शंसः॑¦भ॒व॒ति॒¦यत्¦वि॒ऽजाय॑ते | |
सु॒नि॒र्मथा॒ निर्म॑थितः सुनि॒धा निहि॑तः क॒विः |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्} अग्ने᳚ स्वध्व॒रा कृ॑णु दे॒वान् दे᳚वय॒ते य॑ज ||{12/16}{3.1.34.2}{3.29.12}{3.2.17.12}{172, 263, 2689} सु॒निः॒ऽमथा᳚¦निःऽम॑थितः¦सु॒ऽनि॒धा¦निऽहि॑तः¦क॒विः | अग्ने᳚¦सु॒।आ॒ध्व॒रा¦कृ॒णु॒¦दे॒वान्¦दे॒व॒ऽय॒ते¦य॒ज॒ || |
अजी᳚जनन् न॒मृतं॒ मर्त्या᳚सोऽस्रे॒माणं᳚ त॒रणिं᳚ वी॒ळुज᳚म्भम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दश॒ स्वसा᳚रो, अ॒ग्रुवः॑ समी॒चीः पुमां᳚सं जा॒तम॒भि सं र॑भन्ते ||{13/16}{3.1.34.3}{3.29.13}{3.2.17.13}{173, 263, 2690} अजी᳚जनन्¦अ॒मृत᳚म्¦मर्त्या᳚सः¦अ॒स्रे॒माण᳚म्¦त॒रणि᳚म्¦वी॒ळुऽज᳚म्भम् | |
प्र स॒प्तहो᳚ता सन॒काद॑रोचत मा॒तुरु॒पस्थे॒ यदशो᳚च॒दूध॑नि |{गाथिनो विश्वामित्रः | अग्निः | जगती} न नि मि॑षति सु॒रणो᳚ दि॒वेदि॑वे॒ यदसु॑रस्य ज॒ठरा॒दजा᳚यत ||{14/16}{3.1.34.4}{3.29.14}{3.2.17.14}{174, 263, 2691} प्र¦स॒प्तऽहो᳚ता¦स॒न॒कात्¦अ॒रो॒च॒त॒¦मा॒तुः¦उ॒पऽस्थे᳚¦यत्¦अशो᳚चत्¦ऊध॑नि | |
अ॒मि॒त्रा॒युधो᳚ म॒रुता᳚मिव प्र॒याः प्र॑थम॒जा ब्रह्म॑णो॒ विश्व॒मिद्वि॑दुः |{गाथिनो विश्वामित्रः | अग्निः | जगती} द्यु॒म्नव॒द् ब्रह्म॑ कुशि॒कास॒ एरि॑र॒ एक॑एको॒ दमे᳚, अ॒ग्निं समी᳚धिरे ||{15/16}{3.1.34.5}{3.29.15}{3.2.17.15}{175, 263, 2692} अ॒मि॒त्र॒ऽयुधः॑¦म॒रुता᳚म्ऽइव¦प्र॒ऽयाः¦प्र॒थ॒म॒ऽजाः¦ब्रह्म॑णः¦विश्व᳚म्¦इत्¦वि॒दुः॒ | |
यद॒द्य त्वा᳚ प्रय॒ति य॒ज्ञे, अ॒स्मिन् होत॑श्चिकि॒त्वोऽवृ॑णीमही॒ह |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} ध्रु॒वम॑या ध्रु॒वमु॒ताश॑मिष्ठाः प्रजा॒नन् वि॒द्वाँ, उप॑ याहि॒ सोम᳚म् ||{16/16}{3.1.34.6}{3.29.16}{3.2.17.16}{176, 263, 2693} यत्¦अ॒द्य¦त्वा॒¦प्र॒ऽय॒ति¦य॒ज्ञे¦अ॒स्मिन्¦होत॒रिति॑¦चि॒कि॒त्वः॒¦अवृ॑णीमहि¦इ॒ह | |
[24] इच्छंतित्वेति द्वाविंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
इ॒च्छन्ति॑ त्वा सो॒म्यासः॒ सखा᳚यः सु॒न्वन्ति॒ सोमं॒ दध॑ति॒ प्रयां᳚सि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तिति॑क्षन्ते, अ॒भिश॑स्तिं॒ जना᳚ना॒मिन्द्र॒ त्वदा कश्च॒न हि प्र॑के॒तः ||{1/22}{3.2.1.1}{3.30.1}{3.3.1.1}{177, 264, 2694} इ॒च्छन्ति॑¦त्वा॒¦सो॒म्यासः॑¦सखा᳚यः¦सु॒न्वन्ति॑¦सोम᳚म्¦दध॑ति¦प्रयां᳚सि | |
न ते᳚ दू॒रे प॑र॒मा चि॒द्रजां॒स्या तु प्र या᳚हि हरिवो॒ हरि॑भ्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स्थि॒राय॒ वृष्णे॒ सव॑ना कृ॒तेमा यु॒क्ता ग्रावा᳚णः समिधा॒ने, अ॒ग्नौ ||{2/22}{3.2.1.2}{3.30.2}{3.3.1.2}{178, 264, 2695} न¦ते॒¦दू॒रे¦प॒र॒मा¦चि॒त्¦रजां᳚सि¦आ¦तु¦प्र¦या॒हि॒¦ह॒रि॒ऽवः॒¦हरि॑ऽभ्याम् | |
इन्द्रः॑ सु॒शिप्रो᳚ म॒घवा॒ तरु॑त्रो म॒हाव्रा᳚तस्तुविकू॒र्मिरृघा᳚वान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यदु॒ग्रो धा बा᳚धि॒तो मर्त्ये᳚षु॒ क्व१॑(अ॒) त्या ते᳚ वृषभ वी॒र्या᳚णि ||{3/22}{3.2.1.3}{3.30.3}{3.3.1.3}{179, 264, 2696} इन्द्रः॑¦सु॒ऽशिप्रः॑¦म॒घऽवा᳚¦तरु॑त्रः¦म॒हाऽव्रा᳚तः¦तु॒वि॒ऽकू॒र्मिः¦ऋघा᳚वान् | |
त्वं हि ष्मा᳚ च्या॒वय॒न्नच्यु॑ता॒न्येको᳚ वृ॒त्रा चर॑सि॒ जिघ्न॑मानः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तव॒ द्यावा᳚पृथि॒वी पर्व॑ता॒सो नु᳚ व्र॒ताय॒ निमि॑तेव तस्थुः ||{4/22}{3.2.1.4}{3.30.4}{3.3.1.4}{180, 264, 2697} त्वम्¦हि¦स्म॒¦च्य॒वय॑न्¦अच्यु॑तानि¦एकः॑¦वृ॒त्रा¦चर॑सि¦जिघ्न॑मानः | |
उ॒ताभ॑ये पुरुहूत॒ श्रवो᳚भि॒रेको᳚ दृ॒ळ्हम॑वदो वृत्र॒हा सन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒मे चि॑दिन्द्र॒ रोद॑सी, अपा॒रे यत्सं᳚गृ॒भ्णा म॑घवन् का॒शिरित्ते᳚ ||{5/22}{3.2.1.5}{3.30.5}{3.3.1.5}{181, 264, 2698} उ॒त¦अभ॑ये¦पु॒रु॒ऽहू॒त॒¦श्रवः॑ऽभिः¦एकः॑¦दृ॒ळ्हम्¦अ॒व॒दः॒¦वृ॒त्र॒ऽहा¦सन् | |
प्र सू त॑ इन्द्र प्र॒वता॒ हरि॑भ्यां॒ प्र ते॒ वज्रः॑ प्रमृ॒णन्ने᳚तु॒ शत्रू॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ज॒हि प्र॑ती॒चो, अ॑नू॒चः परा᳚चो॒ विश्वं᳚ स॒त्यं कृ॑णुहि वि॒ष्टम॑स्तु ||{6/22}{3.2.2.1}{3.30.6}{3.3.1.6}{182, 264, 2699} प्र¦सु¦ते॒¦इ॒न्द्र॒¦प्र॒ऽवता᳚¦हरि॑ऽभ्याम्¦प्र¦ते॒¦वज्रः॑¦प्र॒ऽमृ॒णन्¦ए॒तु॒¦शत्रू॑न् | |
यस्मै॒ धायु॒रद॑धा॒ मर्त्या॒याभ॑क्तं चिद् भजते गे॒ह्य१॑(अं॒) सः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} भ॒द्रा त॑ इन्द्र सुम॒तिर्घृ॒ताची᳚ स॒हस्र॑दाना पुरुहूत रा॒तिः ||{7/22}{3.2.2.2}{3.30.7}{3.3.1.7}{183, 264, 2700} यस्मै᳚¦धायुः॑¦अद॑धाः¦मर्त्या᳚य¦अभ॑क्तम्¦चि॒त्¦भ॒ज॒ते॒¦गे॒ह्य᳚म्¦सः | |
स॒हदा᳚नुं पुरुहूत क्षि॒यन्त॑मह॒स्तमि᳚न्द्र॒ सं पि॑ण॒क्कुणा᳚रुम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒भि वृ॒त्रं वर्ध॑मानं॒ पिया᳚रुम॒पाद॑मिन्द्र त॒वसा᳚ जघन्थ ||{8/22}{3.2.2.3}{3.30.8}{3.3.1.8}{184, 264, 2701} स॒हऽदा᳚नुम्¦पु॒रु॒ऽहू॒त॒¦क्षि॒यन्त᳚म्¦अ॒ह॒स्तम्¦इ॒न्द्र॒¦सम्¦पि॒ण॒क्¦कुणा᳚रुम् | |
नि सा᳚म॒नामि॑षि॒रामि᳚न्द्र॒ भूमिं᳚ म॒हीम॑पा॒रां सद॑ने ससत्थ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अस्त॑भ्ना॒द्द्यां वृ॑ष॒भो, अ॒न्तरि॑क्ष॒मर्ष॒न्त्वाप॒स्त्वये॒ह प्रसू᳚ताः ||{9/22}{3.2.2.4}{3.30.9}{3.3.1.9}{185, 264, 2702} नि¦सा॒म॒नाम्¦इ॒षि॒राम्¦इ॒न्द्र॒¦भूमि᳚म्¦म॒हीम्¦अ॒पा॒राम्¦सद॑ने¦स॒स॒त्थ॒ | |
अ॒ला॒तृ॒णो व॒ल इ᳚न्द्र व्र॒जो गोः पु॒रा हन्तो॒र्भय॑मानो॒ व्या᳚र |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} सु॒गान् प॒थो, अ॑कृणोन्नि॒रजे॒ गाः प्राव॒न्वाणीः᳚ पुरुहू॒तं धम᳚न्तीः ||{10/22}{3.2.2.5}{3.30.10}{3.3.1.10}{186, 264, 2703} अ॒ला॒तृ॒णः¦व॒लः¦इ॒न्द्र॒¦व्र॒जः¦गोः¦पु॒रा¦हन्तोः᳚¦भय॑मानः¦वि¦आ॒र॒ | |
एको॒ द्वे वसु॑मती समी॒ची, इन्द्र॒ आ प॑प्रौ पृथि॒वीमु॒त द्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} उ॒तान्तरि॑क्षाद॒भि नः॑ समी॒क इ॒षो र॒थीः स॒युजः॑ शूर॒ वाजा॑न् ||{11/22}{3.2.3.1}{3.30.11}{3.3.1.11}{187, 264, 2704} एकः॑¦द्वे इति॑¦वसु॑मती॒ इति॒ वसु॑ऽमती¦स॒मी॒ची इति॑ स॒म्ऽई॒ची¦इन्द्रः॑¦आ¦प॒प्रौ॒¦पृ॒थि॒वीम्¦उ॒त¦द्याम् | |
दिशः॒ सूर्यो॒ न मि॑नाति॒ प्रदि॑ष्टा दि॒वेदि॑वे॒ हर्य॑श्वप्रसूताः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} सं यदान॒ळध्व॑न॒ आदिदश्वै᳚र्वि॒मोच॑नं कृणुते॒ तत् त्व॑स्य ||{12/22}{3.2.3.2}{3.30.12}{3.3.1.12}{188, 264, 2705} दिशः॑¦सूर्यः॑¦न¦मि॒ना॒ति॒¦प्रऽदि॑ष्टाः¦दि॒वेऽदि॑वे¦हर्य॑श्वऽप्रसूताः | |
दिदृ॑क्षन्त उ॒षसो॒ याम᳚न्न॒क्तोर्वि॒वस्व॑त्या॒ महि॑ चि॒त्रमनी᳚कम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} विश्वे᳚ जानन्ति महि॒ना यदागा॒दिन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ ||{13/22}{3.2.3.3}{3.30.13}{3.3.1.13}{189, 264, 2706} दिदृ॑क्षन्ते¦उ॒षसः॑¦याम॑न्¦अ॒क्तोः¦वि॒वस्व॑त्याः¦महि॑¦चि॒त्रम्¦अनी᳚कम् | |
महि॒ ज्योति॒र्निहि॑तं व॒क्षणा᳚स्वा॒मा प॒क्वं च॑रति॒ बिभ्र॑ती॒ गौः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} विश्वं॒ स्वाद्म॒ सम्भृ॑तमु॒स्रिया᳚यां॒ यत्सी॒मिन्द्रो॒, अद॑धा॒द् भोज॑नाय ||{14/22}{3.2.3.4}{3.30.14}{3.3.1.14}{190, 264, 2707} महि॑¦ज्योतिः॑¦निऽहि॑तम्¦व॒क्षणा᳚सु¦आ॒मा¦प॒क्वम्¦च॒र॒ति॒¦बिभ्र॑ती¦गौः | |
इन्द्र॒ दृह्य॑ यामको॒शा, अ॑भूवन् य॒ज्ञाय॑ शिक्ष गृण॒ते सखि॑भ्यः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} दु॒र्मा॒यवो᳚ दु॒रेवा॒ मर्त्या᳚सो निष॒ङ्गिणो᳚ रि॒पवो॒ हन्त्वा᳚सः ||{15/22}{3.2.3.5}{3.30.15}{3.3.1.15}{191, 264, 2708} इन्द्र॑¦दृह्य॑¦या॒म॒ऽको॒शाः¦अ॒भू॒व॒न्¦य॒ज्ञाय॑¦शि॒क्ष॒¦गृ॒ण॒ते¦सखि॑ऽभ्यः | |
सं घोषः॑ शृण्वेऽव॒मैर॒मित्रै᳚र्ज॒ही न्ये᳚ष्व॒शनिं॒ तपि॑ष्ठाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वृ॒श्चेम॒धस्ता॒द् वि रु॑जा॒ सह॑स्व ज॒हि रक्षो᳚ मघवन् र॒न्धय॑स्व ||{16/22}{3.2.4.1}{3.30.16}{3.3.1.16}{192, 264, 2709} सम्¦घोषः॑¦शृ॒ण्वे॒¦अ॒व॒मैः¦अ॒मित्रैः᳚¦ज॒हि¦नि¦ए॒षु॒¦अ॒शनि᳚म्¦तपि॑ष्ठाम् | |
उद् वृ॑ह॒ रक्षः॑ स॒हमू᳚लमिन्द्र वृ॒श्चा मध्यं॒ प्रत्यग्रं᳚ शृणीहि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} आ कीव॑तः सल॒लूकं᳚ चकर्थ ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ||{17/22}{3.2.4.2}{3.30.17}{3.3.1.17}{193, 264, 2710} उत्¦वृ॒ह॒¦रक्षः॑¦स॒हऽमू᳚लम्¦इ॒न्द्र॒¦वृ॒श्च¦मध्य᳚म्¦प्रति॑¦अग्र᳚म्¦शृ॒णी॒हि॒ | |
स्व॒स्तये᳚ वा॒जिभि॑श्च प्रणेतः॒ सं यन्म॒हीरिष॑ आ॒सत्सि॑ पू॒र्वीः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} रा॒यो व॒न्तारो᳚ बृह॒तः स्या᳚मा॒स्मे, अ॑स्तु॒ भग॑ इन्द्र प्र॒जावा॑न् ||{18/22}{3.2.4.3}{3.30.18}{3.3.1.18}{194, 264, 2711} स्व॒स्तये᳚¦वा॒जिऽभिः॑¦च॒¦प्र॒ने॒त॒रिति॑ प्रऽनेतः¦सम्¦यत्¦म॒हीः¦इषः॑¦आ॒ऽसत्सि॑¦पू॒र्वीः | |
आ नो᳚ भर॒ भग॑मिन्द्र द्यु॒मन्तं॒ नि ते᳚ दे॒ष्णस्य॑ धीमहि प्ररे॒के |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ऊ॒र्व इ॑व पप्रथे॒ कामो᳚, अ॒स्मे तमा पृ॑ण वसुपते॒ वसू᳚नाम् ||{19/22}{3.2.4.4}{3.30.19}{3.3.1.19}{195, 264, 2712} आ¦नः॒¦भ॒र॒¦भग᳚म्¦इ॒न्द्र॒¦द्यु॒ऽमन्त᳚म्¦नि¦ते॒¦दे॒ष्णस्य॑¦धी॒म॒हि॒¦प्र॒ऽरे॒के | |
इ॒मं कामं᳚ मन्दया॒ गोभि॒रश्वै᳚श्च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स्व॒र्यवो᳚ म॒तिभि॒स्तुभ्यं॒ विप्रा॒, इन्द्रा᳚य॒ वाहः॑ कुशि॒कासो᳚, अक्रन् ||{20/22}{3.2.4.5}{3.30.20}{3.3.1.20}{196, 264, 2713} इ॒मम्¦काम᳚म्¦म॒न्द॒य॒¦गोऽभिः॑¦अश्वैः᳚¦च॒न्द्रऽव॑ता¦राध॑सा¦प॒प्रथः॑¦च॒ | |
आ नो᳚ गो॒त्रा द॑र्दृहि गोपते॒ गाः सम॒स्मभ्यं᳚ स॒नयो᳚ यन्तु॒ वाजाः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} दि॒वक्षा᳚, असि वृषभ स॒त्यशु॑ष्मो॒ऽस्मभ्यं॒ सु म॑घवन् बोधि गो॒दाः ||{21/22}{3.2.4.6}{3.30.21}{3.3.1.21}{197, 264, 2714} आ¦नः॒¦गो॒त्रा¦द॒र्दृ॒हि॒¦गो॒ऽप॒ते॒¦गाः¦सम्¦अ॒स्मभ्य᳚म्¦स॒नयः॑¦य॒न्तु॒¦वाजाः᳚ | |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{22/22}{3.2.4.7}{3.30.22}{3.3.1.22}{198, 264, 2715} शु॒नम्¦हु॒वे॒म॒¦म॒घऽवा᳚नम्¦इन्द्र᳚म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑मम्¦वाज॑ऽसातौ | |
[25] शासद्वह्निरिति द्वाविंशत्यृचस्य सूक्तस्य इषीरथिः कुशिक इंद्रत्रिष्टुप् | |
शास॒द् वह्नि॑र्दुहि॒तुर्न॒प्त्यं᳚ गाद् वि॒द्वाँ, ऋ॒तस्य॒ दीधि॑तिं सप॒र्यन् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} पि॒ता यत्र॑ दुहि॒तुः सेक॑मृ॒ञ्जन् त्सं श॒ग्म्ये᳚न॒ मन॑सा दध॒न्वे ||{1/22}{3.2.5.1}{3.31.1}{3.3.2.1}{199, 265, 2716} शास॑त्¦वह्निः॑¦दु॒हि॒तुः¦न॒प्त्य᳚म्¦गा॒त्¦वि॒द्वान्¦ऋ॒तस्य॑¦दीधि॑तिम्¦स॒प॒र्यन् | |
न जा॒मये॒ तान्वो᳚ रि॒क्थमा᳚रैक् च॒कार॒ गर्भं᳚ सनि॒तुर्नि॒धान᳚म् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} यदी᳚ मा॒तरो᳚ ज॒नय᳚न्त॒ वह्नि॑म॒न्यः क॒र्ता सु॒कृतो᳚र॒न्य ऋ॒न्धन् ||{2/22}{3.2.5.2}{3.31.2}{3.3.2.2}{200, 265, 2717} न¦जा॒मये᳚¦तान्वः॑¦रि॒क्थम्¦अ॒रै॒क्¦च॒कार॑¦गर्भ᳚म्¦स॒नि॒तुः¦नि॒ऽधान᳚म् | |
अ॒ग्निर्ज॑ज्ञे जु॒ह्वा॒३॑(आ॒) रेज॑मानो म॒हस्पु॒त्राँ, अ॑रु॒षस्य॑ प्र॒यक्षे᳚ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} म॒हान् गर्भो॒ मह्या जा॒तमे᳚षां म॒ही प्र॒वृद्धर्य॑श्वस्य य॒ज्ञैः ||{3/22}{3.2.5.3}{3.31.3}{3.3.2.3}{201, 265, 2718} अ॒ग्निः¦ज॒ज्ञे॒¦जु॒ह्वा᳚¦रेज॑मानः¦म॒हः¦पु॒त्रान्¦अ॒रु॒षस्य॑¦प्र॒ऽयक्षे᳚ | |
अ॒भि जैत्री᳚रसचन्त स्पृधा॒नं महि॒ ज्योति॒स्तम॑सो॒ निर॑जानन् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} तं जा᳚न॒तीः प्रत्युदा᳚यन्नु॒षासः॒ पति॒र्गवा᳚मभव॒देक॒ इन्द्रः॑ ||{4/22}{3.2.5.4}{3.31.4}{3.3.2.4}{202, 265, 2719} अ॒भि¦जैत्रीः᳚¦अ॒स॒च॒न्त॒¦स्पृ॒धा॒नम्¦महि॑¦ज्योतिः॑¦तम॑सः¦निः¦अ॒जा॒न॒न् | |
वी॒ळौ स॒तीर॒भि धीरा᳚, अतृन्दन् प्रा॒चाहि᳚न्व॒न् मन॑सा स॒प्त विप्राः᳚ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} विश्वा᳚मविन्दन् प॒थ्या᳚मृ॒तस्य॑ प्रजा॒नन्नित्ता नम॒सा वि॑वेश ||{5/22}{3.2.5.5}{3.31.5}{3.3.2.5}{203, 265, 2720} वी॒ळौ¦स॒तीः¦अ॒भि¦धीराः᳚¦अ॒तृ॒न्द॒न्¦प्रा॒चा¦अ॒हि॒न्व॒न्¦मन॑सा¦स॒प्त¦विप्राः᳚ | |
वि॒दद्यदी᳚ स॒रमा᳚ रु॒ग्णमद्रे॒र्महि॒ पाथः॑ पू॒र्व्यं स॒ध्र्य॑क्कः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} अग्रं᳚ नयत् सु॒पद्यक्ष॑राणा॒मच्छा॒ रवं᳚ प्रथ॒मा जा᳚न॒ती गा᳚त् ||{6/22}{3.2.6.1}{3.31.6}{3.3.2.6}{204, 265, 2721} वि॒दत्¦यदि॑¦स॒रमा᳚¦रु॒ग्णम्¦अद्रेः᳚¦महि॑¦पाथः॑¦पू॒र्व्यम्¦स॒ध्र्य॑क्¦क॒रिति॑ कः | |
अग॑च्छदु॒ विप्र॑तमः सखी॒यन्नसू᳚दयत् सु॒कृते॒ गर्भ॒मद्रिः॑ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} स॒सान॒ मर्यो॒ युव॑भिर्मख॒स्यन्नथा᳚भव॒दङ्गि॑राः स॒द्यो, अर्च॑न् ||{7/22}{3.2.6.2}{3.31.7}{3.3.2.7}{205, 265, 2722} अग॑च्छत्¦ऊँ॒ इति॑¦विप्र॑ऽतमः¦स॒खि॒ऽयन्¦असू᳚दयत्¦सु॒ऽकृते᳚¦गर्भ᳚म्¦अद्रिः॑ | |
स॒तःस॑तः प्रति॒मानं᳚ पुरो॒भूर्विश्वा᳚ वेद॒ जनि॑मा॒ हन्ति॒ शुष्ण᳚म् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} प्र णो᳚ दि॒वः प॑द॒वीर्ग॒व्युरर्च॒न् त्सखा॒ सखीँ᳚रमुञ्च॒न्निर॑व॒द्यात् ||{8/22}{3.2.6.3}{3.31.8}{3.3.2.8}{206, 265, 2723} स॒तःऽस॑तः¦प्र॒ति॒ऽमान᳚म्¦पु॒रः॒ऽभूः¦विश्वा᳚¦वे॒द॒¦जनि॑म¦हन्ति॑¦शुष्ण᳚म् | |
नि ग᳚व्य॒ता मन॑सा सेदुर॒र्कैः कृ᳚ण्वा॒नासो᳚, अमृत॒त्वाय॑ गा॒तुम् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} इ॒दं चि॒न्नु सद॑नं॒ भूर्ये᳚षां॒ येन॒ मासाँ॒, असि॑षासन्नृ॒तेन॑ ||{9/22}{3.2.6.4}{3.31.9}{3.3.2.9}{207, 265, 2724} नि¦ग॒व्य॒ता¦मन॑सा¦से॒दुः॒¦अ॒र्कैः¦कृ॒ण्वा॒नासः॑¦अ॒मृ॒त॒ऽत्वाय॑¦गा॒तुम् | |
स॒म्पश्य॑माना, अमदन्न॒भि स्वं पयः॑ प्र॒त्नस्य॒ रेत॑सो॒ दुघा᳚नाः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} वि रोद॑सी, अतप॒द् घोष॑ एषां जा॒ते नि॒ष्ठामद॑धु॒र्गोषु॑ वी॒रान् ||{10/22}{3.2.6.5}{3.31.10}{3.3.2.10}{208, 265, 2725} स॒म्ऽपश्य॑मानाः¦अ॒म॒द॒न्¦अ॒भि¦स्वम्¦पयः॑¦प्र॒त्नस्य॑¦रेत॑सः¦दुघा᳚नाः | |
स जा॒तेभि᳚र्वृत्र॒हा सेदु॑ ह॒व्यैरुदु॒स्रिया᳚, असृज॒दिन्द्रो᳚, अ॒र्कैः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} उ॒रू॒च्य॑स्मै घृ॒तव॒द् भर᳚न्ती॒ मधु॒ स्वाद्म॑ दुदुहे॒ जेन्या॒ गौः ||{11/22}{3.2.7.1}{3.31.11}{3.3.2.11}{209, 265, 2726} सः¦जा॒तेभिः॑¦वृ॒त्र॒ऽहा¦सः¦इत्¦ऊँ॒ इति॑¦ह॒व्यैः¦उत्¦उ॒स्रियाः᳚¦अ॒सृ॒ज॒त्¦इन्द्रः॑¦अ॒र्कैः | |
पि॒त्रे चि॑च्चक्रुः॒ सद॑नं॒ सम॑स्मै॒ महि॒ त्विषी᳚मत् सु॒कृतो॒ वि हि ख्यन् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} वि॒ष्क॒भ्नन्तः॒ स्कम्भ॑नेना॒ जनि॑त्री॒, आसी᳚ना, ऊ॒र्ध्वं र॑भ॒सं वि मि᳚न्वन् ||{12/22}{3.2.7.2}{3.31.12}{3.3.2.12}{210, 265, 2727} पि॒त्रे¦चि॒त्¦च॒क्रुः॒¦सद॑नम्¦सम्¦अ॒स्मै॒¦महि॑¦त्विषि॑ऽमत्¦सु॒ऽकृतः॑¦वि¦हि¦ख्यन् | |
म॒ही यदि॑ धि॒षणा᳚ शि॒श्नथे॒ धात् स॑द्यो॒वृधं᳚ वि॒भ्व१॑(अं॒) रोद॑स्योः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} गिरो॒ यस्मि᳚न्ननव॒द्याः स॑मी॒चीर्विश्वा॒, इन्द्रा᳚य॒ तवि॑षी॒रनु॑त्ताः ||{13/22}{3.2.7.3}{3.31.13}{3.3.2.13}{211, 265, 2728} म॒ही¦यदि॑¦धि॒षणा᳚¦शि॒श्नथे᳚¦धात्¦स॒द्यः॒ऽवृध᳚म्¦वि॒ऽभ्व᳚म्¦रोद॑स्योः | |
मह्या ते᳚ स॒ख्यं व॑श्मि श॒क्तीरा वृ॑त्र॒घ्ने नि॒युतो᳚ यन्ति पू॒र्वीः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} महि॑ स्तो॒त्रमव॒ आग᳚न्म सू॒रेर॒स्माकं॒ सु म॑घवन् बोधि गो॒पाः ||{14/22}{3.2.7.4}{3.31.14}{3.3.2.14}{212, 265, 2729} महि॑¦आ¦ते॒¦स॒ख्यम्¦व॒श्मि॒¦श॒क्तीः¦आ¦वृ॒त्र॒ऽघ्ने¦नि॒ऽयुतः॑¦य॒न्ति॒¦पू॒र्वीः | |
महि॒ क्षेत्रं᳚ पु॒रु श्च॒न्द्रं वि॑वि॒द्वानादित् सखि॑भ्यश्च॒रथं॒ समै᳚रत् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} इन्द्रो॒ नृभि॑रजन॒द्दीद्या᳚नः सा॒कं सूर्य॑मु॒षसं᳚ गा॒तुम॒ग्निम् ||{15/22}{3.2.7.5}{3.31.15}{3.3.2.15}{213, 265, 2730} महि॑¦क्षेत्र᳚म्¦पु॒रु¦च॒न्द्रम्¦वि॒वि॒द्वान्¦आत्¦इत्¦सखि॑ऽभ्यः¦च॒रथ᳚म्¦सम्¦ऐ॒रत् | |
अ॒पश्चि॑दे॒ष वि॒भ्वो॒३॑(ओ॒) दमू᳚नाः॒ प्र स॒ध्रीची᳚रसृजद् वि॒श्वश्च᳚न्द्राः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} मध्वः॑ पुना॒नाः क॒विभिः॑ प॒वित्रै॒र्द्युभि᳚र्हिन्वन्त्य॒क्तुभि॒र्धनु॑त्रीः ||{16/22}{3.2.8.1}{3.31.16}{3.3.2.16}{214, 265, 2731} अ॒पः¦चि॒त्¦ए॒षः¦वि॒ऽभ्वः॑¦दमू᳚नाः¦प्र¦स॒ध्रीचीः᳚¦अ॒सृ॒ज॒त्¦वि॒श्वऽच᳚न्द्राः | |
अनु॑ कृ॒ष्णे वसु॑धिती जिहाते, उ॒भे सूर्य॑स्य मं॒हना॒ यज॑त्रे |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} परि॒ यत्ते᳚ महि॒मानं᳚ वृ॒जध्यै॒ सखा᳚य इन्द्र॒ काम्या᳚ ऋजि॒प्याः ||{17/22}{3.2.8.2}{3.31.17}{3.3.2.17}{215, 265, 2732} अनु॑¦कृ॒ष्णे इति॑¦वसु॑धिती॒ इति॒ वसु॑ऽधिती¦जि॒हा॒ते॒ इति॑¦उ॒भे इति॑¦सूर्य॑स्य¦मं॒हना᳚¦यज॑त्रे॒ इति॑ | |
पति॑र्भव वृत्रहन् त्सू॒नृता᳚नां गि॒रां वि॒श्वायु᳚र्वृष॒भो व॑यो॒धाः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} आ नो᳚ गहि स॒ख्येभिः॑ शि॒वेभि᳚र्म॒हान् म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन् ||{18/22}{3.2.8.3}{3.31.18}{3.3.2.18}{216, 265, 2733} पतिः॑¦भ॒व॒¦वृ॒त्र॒ऽह॒न्¦सू॒नृता᳚नाम्¦गि॒राम्¦वि॒श्वऽआ᳚युः¦वृ॒ष॒भः¦व॒यः॒ऽधाः | |
तम᳚ङ्गिर॒स्वन्नम॑सा सप॒र्यन् नव्यं᳚ कृणोमि॒ सन्य॑से पुरा॒जाम् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} द्रुहो॒ वि या᳚हि बहु॒ला, अदे᳚वीः॒ स्व॑श्च नो मघवन् त्सा॒तये᳚ धाः ||{19/22}{3.2.8.4}{3.31.19}{3.3.2.19}{217, 265, 2734} तम्¦अ॒ङ्गि॒र॒स्वत्¦नम॑सा¦स॒प॒र्यन्¦नव्य᳚म्¦कृ॒णो॒मि॒¦सन्य॑से¦पु॒रा॒ऽजाम् | |
मिहः॑ पाव॒काः प्रत॑ता, अभूवन् त्स्व॒स्ति नः॑ पिपृहि पा॒रमा᳚साम् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} इन्द्र॒ त्वं र॑थि॒रः पा᳚हि नो रि॒षो म॒क्षूम॑क्षू कृणुहि गो॒जितो᳚ नः ||{20/22}{3.2.8.5}{3.31.20}{3.3.2.20}{218, 265, 2735} मिहः॑¦पा॒व॒काः¦प्रऽत॑ताः¦अ॒भू॒व॒न्¦स्व॒स्ति¦नः॒¦पि॒पृ॒हि॒¦पा॒रम्¦आ॒सा॒म् | |
अदे᳚दिष्ट वृत्र॒हा गोप॑ति॒र्गा, अ॒न्तः कृ॒ष्णाँ, अ॑रु॒षैर्धाम॑भिर्गात् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} प्र सू॒नृता᳚ दि॒शमा᳚न ऋ॒तेन॒ दुर॑श्च॒ विश्वा᳚, अवृणो॒दप॒ स्वाः ||{21/22}{3.2.8.6}{3.31.21}{3.3.2.21}{219, 265, 2736} अदे᳚दिष्ट¦वृ॒त्र॒ऽहा¦गोऽप॑तिः¦गाः¦अ॒न्तरिति॑¦कृ॒ष्णान्¦अ॒रु॒षैः¦धाम॑ऽभिः¦गा॒त् | |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{22/22}{3.2.8.7}{3.31.22}{3.3.2.22}{220, 265, 2737} शु॒नम्¦हु॒वे॒म॒¦म॒घऽवा᳚नम्¦इन्द्र᳚म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑मम्¦वाज॑ऽसातौ | |
[26] इंद्रसोममिति सप्तदशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
इन्द्र॒ सोमं᳚ सोमपते॒ पिबे॒मं माध्यं᳚दिनं॒ सव॑नं॒ चारु॒ यत्ते᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्र॒प्रुथ्या॒ शिप्रे᳚ मघवन्नृजीषिन् वि॒मुच्या॒ हरी᳚, इ॒ह मा᳚दयस्व ||{1/17}{3.2.9.1}{3.32.1}{3.3.3.1}{221, 266, 2738} इन्द्र॑¦सोम᳚म्¦सो॒म॒ऽप॒ते॒¦पिब॑¦इ॒मम्¦माध्यं᳚दिनम्¦सव॑नम्¦चारु॑¦यत्¦ते॒ | |
गवा᳚शिरं म॒न्थिन॑मिन्द्र शु॒क्रं पिबा॒ सोमं᳚ ररि॒मा ते॒ मदा᳚य |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ब्र॒ह्म॒कृता॒ मारु॑तेना ग॒णेन॑ स॒जोषा᳚ रु॒द्रैस् तृ॒पदा वृ॑षस्व ||{2/17}{3.2.9.2}{3.32.2}{3.3.3.2}{222, 266, 2739} गोऽआ᳚शिरम्¦म॒न्थिन᳚म्¦इ॒न्द्र॒¦शु॒क्रम्¦पिब॑¦सोम᳚म्¦र॒रि॒म¦ते॒¦मदा᳚य | |
ये ते॒ शुष्मं॒ ये तवि॑षी॒मव॑र्ध॒न्नर्च᳚न्त इन्द्र म॒रुत॑स्त॒ ओजः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} माध्यं᳚दिने॒ सव॑ने वज्रहस्त॒ पिबा᳚ रु॒द्रेभिः॒ सग॑णः सुशिप्र ||{3/17}{3.2.9.3}{3.32.3}{3.3.3.3}{223, 266, 2740} ये¦ते॒¦शुष्म᳚म्¦ये¦तवि॑षीम्¦अव॑र्धन्¦अर्च᳚न्तः¦इ॒न्द्र॒¦म॒रुतः॑¦ते॒¦ओजः॑ | |
त इन्न्व॑स्य॒ मधु॑मद् विविप्र॒ इन्द्र॑स्य॒ शर्धो᳚ म॒रुतो॒ य आस॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} येभि᳚र्वृ॒त्रस्ये᳚षि॒तो वि॒वेदा᳚म॒र्मणो॒ मन्य॑मानस्य॒ मर्म॑ ||{4/17}{3.2.9.4}{3.32.4}{3.3.3.4}{224, 266, 2741} ते¦इत्¦नु¦अ॒स्य॒¦मधु॑ऽमत्¦वि॒वि॒प्रे॒¦इन्द्र॑स्य¦शर्धः॑¦म॒रुतः॑¦ये¦आस॑न् | |
म॒नु॒ष्वदि᳚न्द्र॒ सव॑नं जुषा॒णः पिबा॒ सोमं॒ शश्व॑ते वी॒र्या᳚य |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स आ व॑वृत्स्व हर्यश्व य॒ज्ञैः स॑र॒ण्युभि॑र॒पो, अर्णा᳚ सिसर्षि ||{5/17}{3.2.9.5}{3.32.5}{3.3.3.5}{225, 266, 2742} म॒नु॒ष्वत्¦इ॒न्द्र॒¦सव॑नम्¦जु॒षा॒णः¦पिब॑¦सोम᳚म्¦शश्व॑ते¦वी॒र्या᳚य | |
त्वम॒पो यद्ध॑ वृ॒त्रं ज॑घ॒न्वाँ, अत्याँ᳚, इव॒ प्रासृ॑जः॒ सर्त॒वाजौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शया᳚नमिन्द्र॒ चर॑ता व॒धेन॑ वव्रि॒वांसं॒ परि॑ दे॒वीरदे᳚वम् ||{6/17}{3.2.10.1}{3.32.6}{3.3.3.6}{226, 266, 2743} त्वम्¦अ॒पः¦यत्¦ह॒¦वृ॒त्रम्¦ज॒घ॒न्वान्¦अत्या᳚न्ऽइव¦प्र¦असृ॑जः¦सर्त॒वै¦आ॒जौ | |
यजा᳚म॒ इन्नम॑सा वृ॒द्धमिन्द्रं᳚ बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा᳚नम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यस्य॑ प्रि॒ये म॒मतु᳚र्य॒ज्ञिय॑स्य॒ न रोद॑सी महि॒मानं᳚ म॒माते᳚ ||{7/17}{3.2.10.2}{3.32.7}{3.3.3.7}{227, 266, 2744} यजा᳚मः¦इत्¦नम॑सा¦वृ॒द्धम्¦इन्द्र᳚म्¦बृ॒हन्त᳚म्¦ऋ॒ष्वम्¦अ॒जर᳚म्¦युवा᳚नम् | |
इन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि᳚ व्र॒तानि॑ दे॒वा न मि॑नन्ति॒ विश्वे᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} दा॒धार॒ यः पृ॑थि॒वीं द्यामु॒तेमां ज॒जान॒ सूर्य॑मु॒षसं᳚ सु॒दंसाः᳚ ||{8/17}{3.2.10.3}{3.32.8}{3.3.3.8}{228, 266, 2745} इन्द्र॑स्य¦कर्म॑¦सुऽकृ॑ता¦पु॒रूणि॑¦व्र॒तानि॑¦दे॒वाः¦न¦मि॒न॒न्ति॒¦विश्वे᳚ | |
अद्रो᳚घ स॒त्यं तव॒ तन्म॑हि॒त्वं स॒द्यो यज्जा॒तो, अपि॑बो ह॒ सोम᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} न द्याव॑ इन्द्र त॒वस॑स्त॒ ओजो॒ नाहा॒ न मासाः᳚ श॒रदो᳚ वरन्त ||{9/17}{3.2.10.4}{3.32.9}{3.3.3.9}{229, 266, 2746} अद्रो᳚घ¦स॒त्यम्¦तव॑¦तत्¦म॒हि॒ऽत्वम्¦स॒द्यः¦यत्¦जा॒तः¦अपि॑बः¦ह॒¦सोम᳚म् | |
त्वं स॒द्यो, अ॑पिबो जा॒त इ᳚न्द्र॒ मदा᳚य॒ सोमं᳚ पर॒मे व्यो᳚मन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यद्ध॒ द्यावा᳚पृथि॒वी, आवि॑वेशी॒रथा᳚भवः पू॒र्व्यः का॒रुधा᳚याः ||{10/17}{3.2.10.5}{3.32.10}{3.3.3.10}{230, 266, 2747} त्वम्¦स॒द्यः¦अ॒पि॒बः॒¦जा॒तः¦इ॒न्द्र॒¦मदा᳚य¦सोम᳚म्¦प॒र॒मे¦विऽओ᳚मन् | |
अह॒न्नहिं᳚ परि॒शया᳚न॒मर्ण॑ ओजा॒यमा᳚नं तुविजात॒ तव्या॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} न ते᳚ महि॒त्वमनु॑ भू॒दध॒ द्यौर्यद॒न्यया᳚ स्फि॒ग्या॒३॑(आ॒) क्षामव॑स्थाः ||{11/17}{3.2.11.1}{3.32.11}{3.3.3.11}{231, 266, 2748} अह॑न्¦अहि᳚म्¦प॒रि॒ऽशया᳚नम्¦अर्णः॑¦ओ॒जा॒यमा᳚नम्¦तु॒वि॒ऽजा॒त॒¦तव्या॑न् | |
य॒ज्ञो हि त॑ इन्द्र॒ वर्ध॑नो॒ भूदु॒त प्रि॒यः सु॒तसो᳚मो मि॒येधः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} य॒ज्ञेन॑ य॒ज्ञम॑व य॒ज्ञियः॒ सन् य॒ज्ञस्ते॒ वज्र॑महि॒हत्य॑ आवत् ||{12/17}{3.2.11.2}{3.32.12}{3.3.3.12}{232, 266, 2749} य॒ज्ञः¦हि¦ते॒¦इ॒न्द्र॒¦वर्ध॑नः¦भूत्¦उ॒त¦प्रि॒यः¦सु॒तऽसो᳚मः¦मि॒येधः॑ | |
य॒ज्ञेनेन्द्र॒मव॒सा च॑क्रे, अ॒र्वागैनं᳚ सु॒म्नाय॒ नव्य॑से ववृत्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यः स्तोमे᳚भिर्वावृ॒धे पू॒र्व्येभि॒र्यो म॑ध्य॒मेभि॑रु॒त नूत॑नेभिः ||{13/17}{3.2.11.3}{3.32.13}{3.3.3.13}{233, 266, 2750} य॒ज्ञेन॑¦इन्द्र᳚म्¦अव॑सा¦आ¦च॒क्रे॒¦अ॒र्वाक्¦आ¦ए॒न॒म्¦सु॒म्नाय॑¦नव्य॑से¦व॒वृ॒त्या॒म् | |
वि॒वेष॒ यन्मा᳚ धि॒षणा᳚ ज॒जान॒ स्तवै᳚ पु॒रा पार्या॒दिन्द्र॒मह्नः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अंह॑सो॒ यत्र॑ पी॒पर॒द् यथा᳚ नो ना॒वेव॒ यान्त॑मु॒भये᳚ हवन्ते ||{14/17}{3.2.11.4}{3.32.14}{3.3.3.14}{234, 266, 2751} वि॒वेष॑¦यत्¦मा॒¦धि॒षणा᳚¦ज॒जान॑¦स्तवै᳚¦पु॒रा¦पार्या᳚त्¦इन्द्र᳚म्¦अह्नः॑ | |
आपू᳚र्णो, अस्य क॒लशः॒ स्वाहा॒ सेक्ते᳚व॒ कोशं᳚ सिसिचे॒ पिब॑ध्यै |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} समु॑ प्रि॒या, आव॑वृत्र॒न् मदा᳚य प्रदक्षि॒णिद॒भि सोमा᳚स॒ इन्द्र᳚म् ||{15/17}{3.2.11.5}{3.32.15}{3.3.3.15}{235, 266, 2752} आऽपू᳚र्णः¦अ॒स्य॒¦क॒लशः॑¦स्वाहा᳚¦सेक्ता᳚ऽइव¦कोश᳚म्¦सि॒सि॒चे॒¦पिब॑ध्यै | |
न त्वा᳚ गभी॒रः पु॑रुहूत॒ सिन्धु॒र्नाद्र॑यः॒ परि॒ षन्तो᳚ वरन्त |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒त्था सखि॑भ्य इषि॒तो यदि॒न्द्रा ऽऽदृ॒ळ्हं चि॒दरु॑जो॒ गव्य॑मू॒र्वम् ||{16/17}{3.2.11.6}{3.32.16}{3.3.3.16}{236, 266, 2753} न¦त्वा॒¦ग॒भी॒रः¦पु॒रु॒ऽहू॒त॒¦सिन्धुः॑¦न¦अद्र॑यः¦परि॑¦सन्तः॑¦व॒र॒न्त॒ | |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{17/17}{3.2.11.7}{3.32.17}{3.3.3.17}{237, 266, 2754} शु॒नम्¦हु॒वे॒म॒¦म॒घऽवा᳚नम्¦इन्द्र᳚म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑मम्¦वाज॑ऽसातौ | |
[27] प्रपर्वतानामिति त्रयोदशर्चस्य सूक्तस्य गाथिनोविश्वामित्रः चतुर्थी षष्ठ्यष्टमीदशमीनांनदीऋषिकानद्योदेवताः एनावयमेतद्वच आतेकारोरितितिसृणांविश्वामित्रोदेवता इंद्रोअस्मानितिद्वयोरिंद्रस्त्रिष्टुबन्त्यानुष्टुप् | |
प्र पर्व॑तानामुश॒ती, उ॒पस्था॒दश्वे᳚, इव॒ विषि॑ते॒ हास॑माने |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} गावे᳚व शु॒भ्रे मा॒तरा᳚ रिहा॒णे विपा᳚ट्छुतु॒द्री पय॑सा जवेते ||{1/13}{3.2.12.1}{3.33.1}{3.3.4.1}{238, 267, 2755} प्र¦पर्व॑तानाम्¦उ॒श॒ती इति॑¦उ॒पऽस्था᳚त्¦अश्वे᳚ इ॒वेत्यश्वे᳚ऽइव¦विसि॑ते॒ इति॒ विऽसि॑ते¦हास॑माने॒ इति॑ | |
इन्द्रे᳚षिते प्रस॒वं भिक्ष॑माणे॒, अच्छा᳚ समु॒द्रं र॒थ्ये᳚व याथः |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} स॒मा॒रा॒णे, ऊ॒र्मिभिः॒ पिन्व॑माने, अ॒न्या वा᳚म॒न्यामप्ये᳚ति शुभ्रे ||{2/13}{3.2.12.2}{3.33.2}{3.3.4.2}{239, 267, 2756} इन्द्रे᳚षिते॒ इतीन्द्र॑ऽइषिते¦प्र॒ऽस॒वम्¦भिक्ष॑माणे॒ इति॑¦अच्छ॑¦स॒मु॒द्रम्¦र॒थ्या᳚ऽइव¦या॒थः॒ | |
अच्छा॒ सिन्धुं᳚ मा॒तृत॑मामयासं॒ विपा᳚शमु॒र्वीं सु॒भगा᳚मगन्म |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} व॒त्समि॑व मा॒तरा᳚ संरिहा॒णे स॑मा॒नं योनि॒मनु॑ सं॒चर᳚न्ती ||{3/13}{3.2.12.3}{3.33.3}{3.3.4.3}{240, 267, 2757} अच्छ॑¦सिन्धु᳚म्¦मा॒तृऽत॑माम्¦अ॒या॒स॒म्¦विऽपा᳚शम्¦उ॒र्वीम्¦सु॒ऽभगा᳚म्¦अ॒ग॒न्म॒ | |
ए॒ना व॒यं पय॑सा॒ पिन्व॑माना॒, अनु॒ योनिं᳚ दे॒वकृ॑तं॒ चर᳚न्तीः |{नद्यः ऋषिक | विश्वामित्रः | त्रिष्टुप्} न वर्त॑वे प्रस॒वः सर्ग॑तक्तः किं॒युर्विप्रो᳚ न॒द्यो᳚ जोहवीति ||{4/13}{3.2.12.4}{3.33.4}{3.3.4.4}{241, 267, 2758} ए॒ना¦व॒यम्¦पय॑सा¦पिन्व॑मानाः¦अनु॑¦योनि᳚म्¦दे॒वऽकृ॑तम्¦चर᳚न्तीः | |
रम॑ध्वं मे॒ वच॑से सो॒म्याय॒ ऋता᳚वरी॒रुप॑ मुहू॒र्तमेवैः᳚ |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} प्र सिन्धु॒मच्छा᳚ बृह॒ती म॑नी॒षा व॒स्युर॑ह्वे कुशि॒कस्य॑ सू॒नुः ||{5/13}{3.2.12.5}{3.33.5}{3.3.4.5}{242, 267, 2759} रम॑ध्वम्¦मे॒¦वच॑से¦सो॒म्याय॑¦ऋत॑ऽवरीः¦उप॑¦मु॒हू॒र्तम्¦एवैः᳚ | |
इन्द्रो᳚, अ॒स्माँ, अ॑रद॒द् वज्र॑बाहु॒रपा᳚हन् वृ॒त्रं प॑रि॒धिं न॒दीना᳚म् |{नद्यः ऋषिक | इन्द्रः | त्रिष्टुप्} दे॒वो᳚ऽनयत् सवि॒ता सु॑पा॒णिस्तस्य॑ व॒यं प्र॑स॒वे या᳚म उ॒र्वीः ||{6/13}{3.2.13.1}{3.33.6}{3.3.4.6}{243, 267, 2760} इन्द्रः॑¦अ॒स्मान्¦अ॒र॒द॒त्¦वज्र॑ऽबाहुः¦अप॑¦अ॒ह॒न्¦वृ॒त्रम्¦प॒रि॒ऽधिम्¦न॒दीना᳚म् | |
प्र॒वाच्यं᳚ शश्व॒धा वी॒र्य१॑(अं॒) तदिन्द्र॑स्य॒ कर्म॒ यदहिं᳚ विवृ॒श्चत् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वि वज्रे᳚ण परि॒षदो᳚ जघा॒नाय॒न्नापोऽय॑नमि॒च्छमा᳚नाः ||{7/13}{3.2.13.2}{3.33.7}{3.3.4.7}{244, 267, 2761} प्र॒ऽवाच्य᳚म्¦श॒श्व॒धा¦वी॒र्य᳚म्¦तत्¦इन्द्र॑स्य¦कर्म॑¦यत्¦अहि᳚म्¦वि॒ऽवृ॒श्चत् | |
ए॒तद् वचो᳚ जरित॒र्मापि॑ मृष्ठा॒, आ यत्ते॒ घोषा॒नुत्त॑रा यु॒गानि॑ |{नद्यः ऋषिक | विश्वामित्रः | त्रिष्टुप्} उ॒क्थेषु॑ कारो॒ प्रति॑ नो जुषस्व॒ मा नो॒ नि कः॑ पुरुष॒त्रा नम॑स्ते ||{8/13}{3.2.13.3}{3.33.8}{3.3.4.8}{245, 267, 2762} ए॒तत्¦वचः॑¦ज॒रि॒तः॒¦मा¦अपि॑¦मृ॒ष्ठाः॒¦आ¦यत्¦ते॒¦घोषा᳚न्¦उत्ऽत॑रा¦यु॒गानि॑ | |
ओ षु स्व॑सारः का॒रवे᳚ शृणोत य॒यौ वो᳚ दू॒रादन॑सा॒ रथे᳚न |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} नि षू न॑मध्वं॒ भव॑ता सुपा॒रा, अ॑धो।आ॒क्षाः सि᳚न्धवः स्रो॒त्याभिः॑ ||{9/13}{3.2.13.4}{3.33.9}{3.3.4.9}{246, 267, 2763} ओ इति॑¦सु¦स्व॒सा॒रः॒¦का॒रवे᳚¦शृ॒णो॒त॒¦य॒यौ¦वः॒¦दू॒रात्¦अन॑सा¦रथे᳚न | |
आ ते᳚ कारो शृणवामा॒ वचां᳚सि य॒याथ॑ दू॒रादन॑सा॒ रथे᳚न |{नद्यः ऋषिक | विश्वामित्रः | त्रिष्टुप्} नि ते᳚ नंसै पीप्या॒नेव॒ योषा॒ मर्या᳚येव क॒न्या᳚ शश्व॒चै ते᳚ ||{10/13}{3.2.13.5}{3.33.10}{3.3.4.10}{247, 267, 2764} आ¦ते॒¦का॒रो॒ इति॑¦शृ॒ण॒वा॒म॒¦वचां᳚सि¦य॒याथ॑¦दू॒रात्¦अन॑सा¦रथे᳚न | |
यद॒ङ्ग त्वा᳚ भर॒ताः सं॒तरे᳚युर्ग॒व्यन् ग्राम॑ इषि॒त इन्द्र॑जूतः |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} अर्षा॒दह॑ प्रस॒वः सर्ग॑तक्त॒ आ वो᳚ वृणे सुम॒तिं य॒ज्ञिया᳚नाम् ||{11/13}{3.2.14.1}{3.33.11}{3.3.4.11}{248, 267, 2765} यत्¦अ॒ङ्ग¦त्वा॒¦भ॒र॒ताः¦स॒म्ऽतरे᳚युः¦ग॒व्यन्¦ग्रामः॑¦इ॒षि॒तः¦इन्द्र॑ऽजूतः | |
अता᳚रिषुर्भर॒ता ग॒व्यवः॒ समभ॑क्त॒ विप्रः॑ सुम॒तिं न॒दीना᳚म् |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} प्र पि᳚न्वध्वमि॒षय᳚न्तीः सु॒राधा॒, आ व॒क्षणाः᳚ पृ॒णध्वं᳚ या॒त शीभ᳚म् ||{12/13}{3.2.14.2}{3.33.12}{3.3.4.12}{249, 267, 2766} अता᳚रिषुः¦भ॒र॒ताः¦ग॒व्यवः॑¦सम्¦अभ॑क्त¦विप्रः॑¦सु॒ऽम॒तिम्¦न॒दीना᳚म् | |
उद्व॑ ऊ॒र्मिः शम्या᳚ ह॒न्त्वापो॒ योक्त्रा᳚णि मुञ्चत |{गाथिनो विश्वामित्रः | नद्यः | अनुष्टुप्} मादु॑ष्कृतौ॒ व्ये᳚नसा॒ऽघ्न्यौ शून॒मार॑ताम् ||{13/13}{3.2.14.3}{3.33.13}{3.3.4.13}{250, 267, 2767} उत्¦वः॒¦ऊ॒र्मिः¦शम्याः᳚¦ह॒न्तु॒¦आपः॑¦योक्त्रा᳚णि¦मुं॒च॒त॒ | मा¦अदुः॑ऽकृतौ¦विऽए᳚नसा¦अ॒घ्न्यौ¦शून᳚म्¦आ¦अ॒र॒ता॒म् || |
[28] इंद्रःपूर्भिरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
इन्द्रः॑ पू॒र्भिदाति॑र॒द् दास॑म॒र्कैर्वि॒दद् व॑सु॒र्दय॑मानो॒ वि शत्रू॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ब्रह्म॑जूतस्त॒न्वा᳚ वावृधा॒नो भूरि॑दात्र॒ आपृ॑ण॒द् रोद॑सी, उ॒भे ||{1/11}{3.2.15.1}{3.34.1}{3.3.5.1}{251, 268, 2768} इन्द्रः॑¦पूः॒ऽभित्¦आ¦अ॒ति॒र॒त्¦दास᳚म्¦अ॒र्कैः¦वि॒दत्ऽव॑सुः¦दय॑मानः¦वि¦शत्रू॑न् | |
म॒खस्य॑ ते तवि॒षस्य॒ प्र जू॒तिमिय᳚र्मि॒ वाच॑म॒मृता᳚य॒ भूष॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्र॑ क्षिती॒नाम॑सि॒ मानु॑षीणां वि॒शां दैवी᳚नामु॒त पू᳚र्व॒यावा᳚ ||{2/11}{3.2.15.2}{3.34.2}{3.3.5.2}{252, 268, 2769} म॒खस्य॑¦ते॒¦त॒वि॒षस्य॑¦प्र¦जू॒तिम्¦इय᳚र्मि¦वाच᳚म्¦अ॒मृता᳚य¦भूष॑न् | |
इन्द्रो᳚ वृ॒त्रम॑वृणो॒च्छर्ध॑नीतिः॒ प्र मा॒यिना᳚ममिना॒द् वर्प॑णीतिः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अह॒न्व्यं᳚समु॒शध॒ग् वने᳚ष्वा॒विर्धेना᳚, अकृणोद् रा॒म्याणा᳚म् ||{3/11}{3.2.15.3}{3.34.3}{3.3.5.3}{253, 268, 2770} इन्द्रः॑¦वृ॒त्रम्¦अ॒वृ॒णो॒त्¦शर्ध॑ऽनीतिः¦प्र¦मा॒यिना᳚म्¦अ॒मि॒ना॒त्¦वर्प॑ऽनीतिः | |
इन्द्रः॑ स्व॒र्षा ज॒नय॒न्नहा᳚नि जि॒गायो॒शिग्भिः॒ पृत॑ना, अभि॒ष्टिः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्रारो᳚चय॒न्मन॑वे के॒तुमह्ना॒मवि᳚न्द॒ज्ज्योति॑र्बृह॒ते रणा᳚य ||{4/11}{3.2.15.4}{3.34.4}{3.3.5.4}{254, 268, 2771} इन्द्रः॑¦स्वः॒ऽसाः¦ज॒नय॑न्¦अहा᳚नि¦जि॒गाय॑¦उ॒शिक्ऽभिः॑¦पृत॑नाः¦अ॒भि॒ष्टिः | |
इन्द्र॒स्तुजो᳚ ब॒र्हणा॒, आ वि॑वेश नृ॒वद्दधा᳚नो॒ नर्या᳚ पु॒रूणि॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अचे᳚तय॒द् धिय॑ इ॒मा ज॑रि॒त्रे प्रेमं वर्ण॑मतिरच्छु॒क्रमा᳚साम् ||{5/11}{3.2.15.5}{3.34.5}{3.3.5.5}{255, 268, 2772} इन्द्रः॑¦तुजः॑¦ब॒र्हणाः᳚¦आ¦वि॒वे॒श॒¦नृ॒ऽवत्¦दधा᳚नः¦नर्या᳚¦पु॒रूणि॑ | |
म॒हो म॒हानि॑ पनयन्त्य॒स्येन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वृ॒जने᳚न वृजि॒नान् त्सं पि॑पेष मा॒याभि॒र्दस्यूँ᳚र॒भिभू᳚त्योजाः ||{6/11}{3.2.16.1}{3.34.6}{3.3.5.6}{256, 268, 2773} म॒हः¦म॒हानि॑¦प॒न॒य॒न्ति॒¦अ॒स्य॒¦इन्द्र॑स्य¦कर्म॑¦सुऽकृ॑ता¦पु॒रूणि॑ | |
यु॒धेन्द्रो᳚ म॒ह्ना वरि॑वश्चकार दे॒वेभ्यः॒ सत्प॑तिश्चर्षणि॒प्राः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वि॒वस्व॑तः॒ सद॑ने, अस्य॒ तानि॒ विप्रा᳚, उ॒क्थेभिः॑ क॒वयो᳚ गृणन्ति ||{7/11}{3.2.16.2}{3.34.7}{3.3.5.7}{257, 268, 2774} यु॒धा¦इन्द्रः॑¦म॒ह्ना¦वरि॑वः¦च॒का॒र॒¦दे॒वेभ्यः॑¦सत्ऽप॑तिः¦च॒र्ष॒णि॒ऽप्राः | |
स॒त्रा॒साहं॒ वरे᳚ण्यं सहो॒दां स॑स॒वांसं॒ स्व॑र॒पश्च॑ दे॒वीः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स॒सान॒ यः पृ॑थि॒वीं द्यामु॒तेमामिन्द्रं᳚ मद॒न्त्यनु॒ धीर॑णासः ||{8/11}{3.2.16.3}{3.34.8}{3.3.5.8}{258, 268, 2775} स॒त्रा॒ऽसह᳚म्¦वरे᳚ण्यम्¦स॒हः॒ऽदाम्¦स॒स॒वांस᳚म्¦स्वः॑¦अ॒पः¦च॒¦दे॒वीः | |
स॒सानात्याँ᳚, उ॒त सूर्यं᳚ ससा॒नेन्द्रः॑ ससान पुरु॒भोज॑सं॒ गाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} हि॒र॒ण्यय॑मु॒त भोगं᳚ ससान ह॒त्वी दस्यू॒न् प्रार्यं॒ वर्ण॑मावत् ||{9/11}{3.2.16.4}{3.34.9}{3.3.5.9}{259, 268, 2776} स॒सान॑¦अत्या᳚न्¦उ॒त¦सूर्य᳚म्¦स॒सा॒न॒¦इन्द्रः॑¦स॒सा॒न॒¦पु॒रु॒ऽभोज॑सम्¦गाम् | |
इन्द्र॒ ओष॑धीरसनो॒दहा᳚नि॒ वन॒स्पतीँ᳚रसनोद॒न्तरि॑क्षम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} बि॒भेद॑ व॒लं नु॑नु॒दे विवा॒चो ऽथा᳚भवद्दमि॒ताभिक्र॑तूनाम् ||{10/11}{3.2.16.5}{3.34.10}{3.3.5.10}{260, 268, 2777} इन्द्रः॑¦ओष॑धीः¦अ॒स॒नो॒त्¦अहा᳚नि¦वन॒स्पती᳚न्¦अ॒स॒नो॒त्¦अ॒न्तरि॑क्षम् | |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{11/11}{3.2.16.6}{3.34.11}{3.3.5.11}{261, 268, 2778} शु॒नम्¦हु॒वे॒म॒¦म॒घऽवा᳚नम्¦इन्द्र᳚म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑मम्¦वाज॑ऽसातौ | |
[29] तिष्ठाहरीइत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
तिष्ठा॒ हरी॒ रथ॒ आ यु॒ज्यमा᳚ना या॒हि वा॒युर्न नि॒युतो᳚ नो॒, अच्छ॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} पिबा॒स्यन्धो᳚, अ॒भिसृ॑ष्टो, अ॒स्मे, इन्द्र॒ स्वाहा᳚ ररि॒मा ते॒ मदा᳚य ||{1/11}{3.2.17.1}{3.35.1}{3.3.6.1}{262, 269, 2779} तिष्ठ॑¦हरी॒ इति॑¦रथे᳚¦आ¦यु॒ज्यमा᳚ना¦या॒हि¦वा॒युः¦न¦नि॒ऽयुतः॑¦नः॒¦अच्छ॑ | |
उपा᳚जि॒रा पु॑रुहू॒ताय॒ सप्ती॒ हरी॒ रथ॑स्य धू॒र्ष्वा यु॑नज्मि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} द्र॒वद्यथा॒ सम्भृ॑तं वि॒श्वत॑श्चि॒दुपे॒मं य॒ज्ञमा व॑हात॒ इन्द्र᳚म् ||{2/11}{3.2.17.2}{3.35.2}{3.3.6.2}{263, 269, 2780} उप॑¦अ॒जि॒रा¦पु॒रु॒ऽहू॒ताय॑¦सप्ती॒ इति॑¦हरी॒ इति॑¦रथ॑स्य¦धूः॒ऽसु¦आ¦यु॒न॒ज्मि॒ | |
उपो᳚ नयस्व॒ वृष॑णा तपु॒ष्पोतेम॑व॒ त्वं वृ॑षभ स्वधावः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ग्रसे᳚ता॒मश्वा॒ वि मु॑चे॒ह शोणा᳚ दि॒वेदि॑वे स॒दृशी᳚रद्धि धा॒नाः ||{3/11}{3.2.17.3}{3.35.3}{3.3.6.3}{264, 269, 2781} उपो॒ इति॑¦न॒य॒स्व॒¦वृष॑णा¦त॒पुः॒ऽपा¦उ॒त¦ई॒म्¦अ॒व॒¦त्वम्¦वृ॒ष॒भ॒¦स्व॒धा॒ऽवः॒ | |
ब्रह्म॑णा ते ब्रह्म॒युजा᳚ युनज्मि॒ हरी॒ सखा᳚या सध॒माद॑ आ॒शू |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स्थि॒रं रथं᳚ सु॒खमि᳚न्द्राधि॒तिष्ठ᳚न् प्रजा॒नन् वि॒द्वाँ, उप॑ याहि॒ सोम᳚म् ||{4/11}{3.2.17.4}{3.35.4}{3.3.6.4}{265, 269, 2782} ब्रह्म॑णा¦ते॒¦ब्र॒ह्म॒ऽयुजा᳚¦यु॒न॒ज्मि॒¦हरी॒ इति॑¦सखा᳚या¦स॒ध॒ऽमादे᳚¦आ॒शू इति॑ | |
मा ते॒ हरी॒ वृष॑णा वी॒तपृ॑ष्ठा॒ नि री᳚रम॒न् यज॑मानासो, अ॒न्ये |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒त्याया᳚हि॒ शश्व॑तो व॒यं ते रं᳚ सु॒तेभिः॑ कृणवाम॒ सोमैः᳚ ||{5/11}{3.2.17.5}{3.35.5}{3.3.6.5}{266, 269, 2783} मा¦ते॒¦हरी॒ इति॑¦वृष॑णा¦वी॒तऽपृ॑ष्ठा¦नि¦री॒र॒म॒न्¦यज॑मानासः¦अ॒न्ये | |
तवा॒यं सोम॒स्त्वमेह्य॒र्वाङ् श॑श्वत्त॒मं सु॒मना᳚, अ॒स्य पा᳚हि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒स्मिन् य॒ज्ञे ब॒र्हिष्या नि॒षद्या᳚ दधि॒ष्वेमं ज॒ठर॒ इन्दु॑मिन्द्र ||{6/11}{3.2.18.1}{3.35.6}{3.3.6.6}{267, 269, 2784} तव॑¦अ॒यम्¦सोमः॑¦त्वम्¦आ¦इ॒हि॒¦अ॒र्वाङ्¦श॒श्व॒त्ऽत॒मम्¦सु॒ऽमनाः᳚¦अ॒स्य¦पा॒हि॒ | |
स्ती॒र्णं ते᳚ ब॒र्हिः सु॒त इ᳚न्द्र॒ सोमः॑ कृ॒ता धा॒ना, अत्त॑वे ते॒ हरि॑भ्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तदो᳚कसे पुरु॒शाका᳚य॒ वृष्णे᳚ म॒रुत्व॑ते॒ तुभ्यं᳚ रा॒ता ह॒वींषि॑ ||{7/11}{3.2.18.2}{3.35.7}{3.3.6.7}{268, 269, 2785} स्ती॒र्णम्¦ते॒¦ब॒र्हिः¦सु॒तः¦इ॒न्द्र॒¦सोमः॑¦कृ॒ताः¦धा॒नाः¦अत्त॑वे¦ते॒¦हरि॑ऽभ्याम् | |
इ॒मं नरः॒ पर्व॑ता॒ऽस्तुभ्य॒मापः॒ समि᳚न्द्र॒ गोभि॒र्मधु॑मन्तमक्रन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तस्या॒गत्या᳚ सु॒मना᳚ ऋष्व पाहि प्रजा॒नन् वि॒द्वान् प॒थ्या॒३॑(आ॒) अनु॒ स्वाः ||{8/11}{3.2.18.3}{3.35.8}{3.3.6.8}{269, 269, 2786} इ॒मम्¦नरः॑¦पर्व॑ताः¦तुभ्य᳚म्¦आपः॑¦सम्¦इ॒न्द्र॒¦गोभिः॑¦मधु॑ऽमन्तम्¦अ॒क्र॒न् | |
याँ, आभ॑जो म॒रुत॑ इन्द्र॒ सोमे॒ ये त्वामव॑र्ध॒न्नभ॑वन् ग॒णस्ते᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तेभि॑रे॒तं स॒जोषा᳚ वावशा॒नो॒३॑(ओ॒)ऽग्नेः पि॑ब जि॒ह्वया॒ सोम॑मिन्द्र ||{9/11}{3.2.18.4}{3.35.9}{3.3.6.9}{270, 269, 2787} यान्¦आ¦अभ॑जः¦म॒रुतः॑¦इ॒न्द्र॒¦सोमे᳚¦ये¦त्वाम्¦अव॑र्धन्¦अभ॑वन्¦ग॒णः¦ते॒ | |
इन्द्र॒ पिब॑ स्व॒धया᳚ चित् सु॒तस्या॒ऽग्नेर्वा᳚ पाहि जि॒ह्वया᳚ यजत्र |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒ध्व॒र्योर्वा॒ प्रय॑तं शक्र॒ हस्ता॒द्धोतु᳚र्वा य॒ज्ञं ह॒विषो᳚ जुषस्व ||{10/11}{3.2.18.5}{3.35.10}{3.3.6.10}{271, 269, 2788} इन्द्र॑¦पिब॑¦स्व॒धया᳚¦चि॒त्¦सु॒तस्य॑¦अ॒ग्नेः¦वा॒¦पा॒हि॒¦जि॒ह्वया᳚¦य॒ज॒त्र॒ | |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{11/11}{3.2.18.6}{3.35.11}{3.3.6.11}{272, 269, 2789} शु॒नम्¦हु॒वे॒म॒¦म॒घऽवा᳚नम्¦इन्द्र᳚म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑मम्¦वाज॑ऽसातौ | |
[30] इमामूष्वित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोदशम्याआंगिरसोघोरइंद्रस्त्रिष्टुप् | |
इ॒मामू॒ षु प्रभृ॑तिं सा॒तये᳚ धाः॒ शश्व॑च्छश्वदू॒तिभि॒र्याद॑मानः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} सु॒तेसु॑ते वावृधे॒ वर्ध॑नेभि॒र्यः कर्म॑भिर्म॒हद्भिः॒ सुश्रु॑तो॒ भूत् ||{1/11}{3.2.19.1}{3.36.1}{3.3.7.1}{273, 270, 2790} इ॒माम्¦ऊँ॒ इति॑¦सु¦प्रऽभृ॑तिम्¦सा॒तये᳚¦धाः॒¦शश्व॑त्ऽशश्वत्¦ऊ॒तिऽभिः॑¦याद॑मानः | |
इन्द्रा᳚य॒ सोमाः᳚ प्र॒दिवो॒ विदा᳚ना, ऋ॒भुर्येभि॒र्वृष॑पर्वा॒ विहा᳚याः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्र॒य॒म्यमा᳚ना॒न् प्रति॒ षू गृ॑भा॒येन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्णः॑ ||{2/11}{3.2.19.2}{3.36.2}{3.3.7.2}{274, 270, 2791} इन्द्रा᳚य¦सोमाः᳚¦प्र॒ऽदिवः॑¦विदा᳚नाः¦ऋ॒भुः¦येभिः॑¦वृष॑ऽपर्वा¦विऽहा᳚याः | |
पिबा॒ वर्ध॑स्व॒ तव॑ घा सु॒तास॒ इन्द्र॒ सोमा᳚सः प्रथ॒मा, उ॒तेमे |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यथापि॑बः पू॒र्व्याँ, इ᳚न्द्र॒ सोमाँ᳚, ए॒वा पा᳚हि॒ पन्यो᳚, अ॒द्या नवी᳚यान् ||{3/11}{3.2.19.3}{3.36.3}{3.3.7.3}{275, 270, 2792} पिब॑¦वर्ध॑स्व¦तव॑¦घ॒¦सु॒तासः॑¦इन्द्र॑¦सोमा᳚सः¦प्र॒थ॒माः¦उ॒त¦इ॒मे | |
म॒हाँ, अम॑त्रो वृ॒जने᳚ विर॒प्श्यु१॑(उ॒)ग्रं शवः॑ पत्यते धृ॒ष्ण्वोजः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} नाह॑ विव्याच पृथि॒वी च॒नैनं॒ यत्सोमा᳚सो॒ हर्य॑श्व॒मम᳚न्दन् ||{4/11}{3.2.19.4}{3.36.4}{3.3.7.4}{276, 270, 2793} म॒हान्¦अम॑त्रः¦वृ॒जने᳚¦वि॒ऽर॒प्शी¦उ॒ग्रम्¦शवः॑¦प॒त्य॒ते॒¦धृ॒ष्णु¦ओजः॑ | |
म॒हाँ, उ॒ग्रो वा᳚वृधे वी॒र्या᳚य स॒माच॑क्रे वृष॒भः काव्ये᳚न |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्रो॒ भगो᳚ वाज॒दा, अ॑स्य॒ गावः॒ प्र जा᳚यन्ते॒ दक्षि॑णा, अस्य पू॒र्वीः ||{5/11}{3.2.19.5}{3.36.5}{3.3.7.5}{277, 270, 2794} म॒हान्¦उ॒ग्रः¦व॒वृ॒धे॒¦वी॒र्या᳚य¦स॒म्ऽआच॑क्रे¦वृ॒ष॒भः¦काव्ये᳚न | |
प्र यत् सिन्ध॑वः प्रस॒वं यथाय॒न्नापः॑ समु॒द्रं र॒थ्ये᳚व जग्मुः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अत॑श्चि॒दिन्द्रः॒ सद॑सो॒ वरी᳚या॒न् यदीं॒ सोमः॑ पृ॒णति॑ दु॒ग्धो, अं॒शुः ||{6/11}{3.2.20.1}{3.36.6}{3.3.7.6}{278, 270, 2795} प्र¦यत्¦सिन्ध॑वः¦प्र॒ऽस॒वम्¦यथा᳚¦आय॑न्¦आपः॑¦स॒मु॒द्रम्¦र॒थ्या᳚ऽइव¦ज॒ग्मुः॒ | |
स॒मु॒द्रेण॒ सिन्ध॑वो॒ याद॑माना॒, इन्द्रा᳚य॒ सोमं॒ सुषु॑तं॒ भर᳚न्तः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अं॒शुं दु॑हन्ति ह॒स्तिनो᳚ भ॒रित्रै॒र्मध्वः॑ पुनन्ति॒ धार॑या प॒वित्रैः᳚ ||{7/11}{3.2.20.2}{3.36.7}{3.3.7.7}{279, 270, 2796} स॒मु॒द्रेण॑¦सिन्ध॑वः¦याद॑मानाः¦इन्द्रा᳚य¦सोम᳚म्¦सुऽसु॑तम्¦भर᳚न्तः | |
ह्र॒दा, इ॑व कु॒क्षयः॑ सोम॒धानाः॒ समी᳚ विव्याच॒ सव॑ना पु॒रूणि॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अन्ना॒ यदिन्द्रः॑ प्रथ॒मा व्याश॑ वृ॒त्रं ज॑घ॒न्वाँ, अ॑वृणीत॒ सोम᳚म् ||{8/11}{3.2.20.3}{3.36.8}{3.3.7.8}{280, 270, 2797} ह्र॒दाःऽइ᳚व¦कु॒क्षयः॑¦सो॒म॒ऽधानाः᳚¦सम्¦ई॒मिति॑¦वि॒व्या॒च॒¦सव॑ना¦पु॒रूणि॑ | |
आ तू भ॑र॒ माकि॑रे॒तत् परि॑ ष्ठाद् वि॒द्मा हि त्वा॒ वसु॑पतिं॒ वसू᳚नाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्र॒ यत्ते॒ माहि॑नं॒ दत्र॒मस्त्य॒स्मभ्यं॒ तद्ध᳚र्यश्व॒ प्र य᳚न्धि ||{9/11}{3.2.20.4}{3.36.9}{3.3.7.9}{281, 270, 2798} आ¦तु¦भ॒र॒¦माकिः॑¦ए॒तत्¦परि॑¦स्था॒त्¦वि॒द्म¦हि¦त्वा॒¦वसु॑ऽपतिम्¦वसू᳚नाम् | |
अ॒स्मे प्र य᳚न्धि मघवन् नृजीषि॒न्निन्द्र॑ रा॒यो वि॒श्ववा᳚रस्य॒ भूरेः᳚ |{आङ्गिरसो घोरः | इन्द्रः | त्रिष्टुप्} अ॒स्मे श॒तं श॒रदो᳚ जी॒वसे᳚ धा, अ॒स्मे वी॒राञ्छश्व॑त इन्द्र शिप्रिन् ||{10/11}{3.2.20.5}{3.36.10}{3.3.7.10}{282, 270, 2799} अ॒स्मे इति॑¦प्र¦य॒न्धि॒¦म॒घ॒ऽव॒न्¦ऋ॒जी॒षि॒न्¦इन्द्र॑¦रा॒यः¦वि॒श्वऽवा᳚रस्य¦भूरेः᳚ | |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{11/11}{3.2.20.6}{3.36.11}{3.3.7.11}{283, 270, 2800} शु॒नम्¦हु॒वे॒म॒¦म॒घऽवा᳚नम्¦इन्द्र᳚म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑मम्¦वाज॑ऽसातौ | |
[31] वार्त्रहत्यायेत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री अंत्यानुष्टुप् | |
वार्त्र॑हत्याय॒ शव॑से पृतना॒षाह्या᳚य च |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒ त्वा व॑र्तयामसि ||{1/11}{3.2.21.1}{3.37.1}{3.3.8.1}{284, 271, 2801} वार्त्र॑ऽहत्याय¦शव॑से¦पृ॒त॒ना॒ऽसह्या᳚य¦च॒ | इन्द्र॑¦त्वा॒¦आ¦व॒र्त॒या॒म॒सि॒ || |
अ॒र्वा॒चीनं॒ सु ते॒ मन॑ उ॒त चक्षुः॑ शतक्रतो |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॑ कृ॒ण्वन्तु॑ वा॒घतः॑ ||{2/11}{3.2.21.2}{3.37.2}{3.3.8.2}{285, 271, 2802} अ॒र्वा॒चीन᳚म्¦सु¦ते॒¦मनः॑¦उ॒त¦चक्षुः॑¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | इन्द्र॑¦कृ॒ण्वन्तु॑¦वा॒घतः॑ || |
नामा᳚नि ते शतक्रतो॒ विश्वा᳚भिर्गी॒र्भिरी᳚महे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्रा᳚भिमाति॒षाह्ये᳚ ||{3/11}{3.2.21.3}{3.37.3}{3.3.8.3}{286, 271, 2803} नामा᳚नि¦ते॒¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो¦विश्वा᳚भिः¦गीः॒ऽभिः¦ई॒म॒हे॒ | इन्द्र॑¦अ॒भि॒मा॒ति॒ऽसह्ये᳚ || |
पु॒रु॒ष्टु॒तस्य॒ धाम॑भिः श॒तेन॑ महयामसि |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॑स्य चर्षणी॒धृतः॑ ||{4/11}{3.2.21.4}{3.37.4}{3.3.8.4}{287, 271, 2804} पु॒रु॒ऽस्तु॒तस्य॑¦धाम॑ऽभिः¦श॒तेन॑¦म॒ह॒या॒म॒सि॒ | इन्द्र॑स्य¦च॒र्ष॒णि॒ऽधृतः॑ || |
इन्द्रं᳚ वृ॒त्राय॒ हन्त॑वे पुरुहू॒तमुप॑ ब्रुवे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} भरे᳚षु॒ वाज॑सातये ||{5/11}{3.2.21.5}{3.37.5}{3.3.8.5}{288, 271, 2805} इन्द्र᳚म्¦वृ॒त्राय॑¦हन्त॑वे¦पु॒रु॒ऽहू॒तम्¦उप॑¦ब्रु॒वे॒ | भरे᳚षु¦वाज॑ऽसातये || |
वाजे᳚षु सास॒हिर्भ॑व॒ त्वामी᳚महे शतक्रतो |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॑ वृ॒त्राय॒ हन्त॑वे ||{6/11}{3.2.22.1}{3.37.6}{3.3.8.6}{289, 271, 2806} वाजे᳚षु¦स॒स॒हिः¦भ॒व॒¦त्वाम्¦ई॒म॒हे॒¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | इन्द्र॑¦वृ॒त्राय॑¦हन्त॑वे || |
द्यु॒म्नेषु॑ पृत॒नाज्ये᳚ पृत्सु॒तूर्षु॒ श्रव॑स्सु च |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒ साक्ष्वा॒भिमा᳚तिषु ||{7/11}{3.2.22.2}{3.37.7}{3.3.8.7}{290, 271, 2807} द्यु॒म्नेषु॑¦पृ॒त॒नाज्ये᳚¦पृ॒त्सु॒तूर्षु॑¦श्रवः॑ऽसु¦च॒ | इन्द्र॑¦साक्ष्व॑¦अ॒भिऽमा᳚तिषु || |
शु॒ष्मिन्त॑मं न ऊ॒तये᳚ द्यु॒म्निनं᳚ पाहि॒ जागृ॑विम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒ सोमं᳚ शतक्रतो ||{8/11}{3.2.22.3}{3.37.8}{3.3.8.8}{291, 271, 2808} शु॒ष्मिन्ऽत॑मम्¦नः॒¦ऊ॒तये᳚¦द्यु॒म्निन᳚म्¦पा॒हि॒¦जागृ॑विम् | इन्द्र॑¦सोम᳚म्¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो || |
इ॒न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने᳚षु प॒ञ्चसु॑ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒ तानि॑ त॒ आ वृ॑णे ||{9/11}{3.2.22.4}{3.37.9}{3.3.8.9}{292, 271, 2809} इ॒न्द्रि॒याणि॑¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो¦या¦ते॒¦जने᳚षु¦पं॒चऽसु॑ | इन्द्र॑¦तानि॑¦ते॒¦आ¦वृ॒णे॒ || |
अग᳚न्निन्द्र॒ श्रवो᳚ बृ॒हद् द्यु॒म्नं द॑धिष्व दु॒ष्टर᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} उत्ते॒ शुष्मं᳚ तिरामसि ||{10/11}{3.2.22.5}{3.37.10}{3.3.8.10}{293, 271, 2810} अग॑न्¦इ॒न्द्र॒¦श्रवः॑¦बृ॒हत्¦द्यु॒म्नम्¦द॒धि॒ष्व॒¦दु॒स्तर᳚म् | उत्¦ते॒¦शुष्म᳚म्¦ति॒रा॒म॒सि॒ || |
अ॒र्वा॒वतो᳚ न॒ आ ग॒ह्यथो᳚ शक्र परा॒वतः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | अनुष्टुप्} उ॒ लो॒को यस्ते᳚, अद्रिव॒ इन्द्रे॒ह तत॒ आ ग॑हि ||{11/11}{3.2.22.6}{3.37.11}{3.3.8.11}{294, 271, 2811} अ॒र्वा॒ऽवतः॑¦नः॒¦आ¦ग॒हि॒¦अथो॒ इति॑¦श॒क्र॒¦प॒रा॒ऽवतः॑ | ऊँ॒ इति॑¦लो॒कः¦यः¦ते॒¦अ॒द्रि॒ऽवः॒¦इन्द्र॑¦इ॒ह¦ततः॑¦आ¦ग॒हि॒ || |
[32] अभितष्ठेवेति दशर्चस्य सूक्तस्य वैश्वामित्रः प्रजापतिरिंद्रस्त्रिष्टुप् (वाच्यः प्रजापतिर्वा विश्वामित्रोवा) | |
अ॒भि तष्टे᳚व दीधया मनी॒षामत्यो॒ न वा॒जी सु॒धुरो॒ जिहा᳚नः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} अ॒भि प्रि॒याणि॒ मर्मृ॑श॒त् परा᳚णि क॒वीँरि॑च्छामि सं॒दृशे᳚ सुमे॒धाः ||{1/10}{3.2.23.1}{3.38.1}{3.3.9.1}{295, 272, 2812} अ॒भि¦तष्टा᳚ऽइव¦दी॒ध॒य॒¦म॒नी॒षाम्¦अत्यः॑¦न¦वा॒जी¦सु॒ऽधुरः॑¦जिहा᳚नः | |
इ॒नोत पृ॑च्छ॒ जनि॑मा कवी॒नां म॑नो॒धृतः॑ सु॒कृत॑स्तक्षत॒ द्याम् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} इ॒मा, उ॑ ते प्र॒ण्यो॒३॑(ओ॒) वर्ध॑माना॒ मनो᳚वाता॒, अध॒ नु धर्म॑णि ग्मन् ||{2/10}{3.2.23.2}{3.38.2}{3.3.9.2}{296, 272, 2813} इ॒ना¦उ॒त¦पृ॒च्छ॒¦जनि॑म¦क॒वी॒नाम्¦म॒नः॒ऽधृतः॑¦सु॒ऽकृतः॑¦त॒क्ष॒त॒¦द्याम् | |
नि षी॒मिदत्र॒ गुह्या॒ दधा᳚ना, उ॒त क्ष॒त्राय॒ रोद॑सी॒ सम᳚ञ्जन् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} सं मात्रा᳚भिर्ममि॒रे ये॒मुरु॒र्वी, अ॒न्तर्म॒ही समृ॑ते॒ धाय॑से धुः ||{3/10}{3.2.23.3}{3.38.3}{3.3.9.3}{297, 272, 2814} नि¦सी॒म्¦इत्¦अत्र॑¦गुह्या᳚¦दधा᳚नाः¦उ॒त¦क्ष॒त्राय॑¦रोद॑सी॒ इति॑¦सम्¦अं॒ज॒न् | |
आ॒तिष्ठ᳚न्तं॒ परि॒ विश्वे᳚, अभूष॒ञ्छ्रियो॒ वसा᳚नश्चरति॒ स्वरो᳚चिः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} म॒हत्तद् वृष्णो॒, असु॑रस्य॒ नामा ऽऽ वि॒श्वरू᳚पो, अ॒मृता᳚नि तस्थौ ||{4/10}{3.2.23.4}{3.38.4}{3.3.9.4}{298, 272, 2815} आ॒ऽतिष्ठ᳚न्तम्¦परि॑¦विश्वे᳚¦अ॒भू॒ष॒न्¦श्रियः॑¦वसा᳚नः¦च॒र॒ति॒¦स्वऽरो᳚चिः | |
असू᳚त॒ पूर्वो᳚ वृष॒भो ज्याया᳚नि॒मा, अ॑स्य शु॒रुधः॑ सन्ति पू॒र्वीः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} दिवो᳚ नपाता वि॒दथ॑स्य धी॒भिः, क्ष॒त्रं रा᳚जाना प्र॒दिवो᳚ दधाथे ||{5/10}{3.2.23.5}{3.38.5}{3.3.9.5}{299, 272, 2816} असू᳚त¦पूर्वः॑¦वृ॒ष॒भः¦ज्याया᳚न्¦इ॒माः¦अ॒स्य॒¦शु॒रुधः॑¦स॒न्ति॒¦पू॒र्वीः | |
त्रीणि॑ राजाना वि॒दथे᳚ पु॒रूणि॒ परि॒ विश्वा᳚नि भूषथः॒ सदां᳚सि |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} अप॑श्य॒मत्र॒ मन॑सा जग॒न्वान् व्र॒ते ग᳚न्ध॒र्वाँ, अपि॑ वा॒युके᳚शान् ||{6/10}{3.2.24.1}{3.38.6}{3.3.9.6}{300, 272, 2817} त्रीणि॑¦रा॒जा॒ना॒¦वि॒दथे᳚¦पु॒रूणि॑¦परि॑¦विश्वा᳚नि¦भू॒ष॒थः॒¦सदां᳚सि | |
तदिन्न्व॑स्य वृष॒भस्य॑ धे॒नोरा नाम॑भिर्ममिरे॒ सक्म्यं॒ गोः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} अ॒न्यद᳚न्यदसु॒र्य१॑(अं॒) वसा᳚ना॒ नि मा॒यिनो᳚ ममिरे रू॒पम॑स्मिन् ||{7/10}{3.2.24.2}{3.38.7}{3.3.9.7}{301, 272, 2818} तत्¦इत्¦नु¦अ॒स्य॒¦वृ॒ष॒भस्य॑¦धे॒नोः¦आ¦नाम॑ऽभिः¦म॒मि॒रे॒¦सक्म्य᳚म्¦गोः | |
तदिन्न्व॑स्य सवि॒तुर्नकि᳚र्मे हिर॒ण्ययी᳚म॒मतिं॒ यामशि॑श्रेत् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} आ सु॑ष्टु॒ती रोद॑सी विश्वमि॒न्वे, अपी᳚व॒ योषा॒ जनि॑मानि वव्रे ||{8/10}{3.2.24.3}{3.38.8}{3.3.9.8}{302, 272, 2819} तत्¦इत्¦नु¦अ॒स्य॒¦स॒वि॒तुः¦नकिः॑¦मे॒¦हि॒र॒ण्ययी᳚म्¦अ॒मति᳚म्¦याम्¦अशि॑श्रेत् | |
यु॒वं प्र॒त्नस्य॑ साधथो म॒हो यद् दैवी᳚ स्व॒स्तिः परि॑ णः स्यातम् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} गो॒पाजि॑ह्वस्य त॒स्थुषो॒ विरू᳚पा॒ विश्वे᳚ पश्यन्ति मा॒यिनः॑ कृ॒तानि॑ ||{9/10}{3.2.24.4}{3.38.9}{3.3.9.9}{303, 272, 2820} यु॒वम्¦प्र॒त्नस्य॑¦सा॒ध॒थः॒¦म॒हः¦यत्¦दैवी᳚¦स्व॒स्तिः¦परि॑¦नः॒¦स्या॒त॒म् | |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{10/10}{3.2.24.5}{3.38.10}{3.3.9.10}{304, 272, 2821} शु॒नम्¦हु॒वे॒म॒¦म॒घऽवा᳚नम्¦इन्द्र᳚म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑मम्¦वाज॑ऽसातौ | |
[33] इंद्रंमतिरिति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
इन्द्रं᳚ म॒तिर्हृ॒द आ व॒च्यमा॒नाच्छा॒ पतिं॒ स्तोम॑तष्टा जिगाति |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} या जागृ॑विर्वि॒दथे᳚ श॒स्यमा॒नेन्द्र॒ यत्ते॒ जाय॑ते वि॒द्धि तस्य॑ ||{1/9}{3.2.25.1}{3.39.1}{3.4.1.1}{305, 273, 2822} इन्द्र᳚म्¦म॒तिः¦हृ॒दः¦आ¦व॒च्यमा᳚ना¦अच्छ॑¦पति᳚म्¦स्तोम॑ऽतष्टा¦जि॒गा॒ति॒ | |
दि॒वश्चि॒दा पू॒र्व्या जाय॑माना॒ वि जागृ॑विर्वि॒दथे᳚ श॒स्यमा᳚ना |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} भ॒द्रा वस्त्रा॒ण्यर्जु॑ना॒ वसा᳚ना॒ सेयम॒स्मे स॑न॒जा पित्र्या॒ धीः ||{2/9}{3.2.25.2}{3.39.2}{3.4.1.2}{306, 273, 2823} दि॒वः¦चि॒त्¦आ¦पू॒र्व्या¦जाय॑माना¦वि¦जागृ॑विः¦वि॒दथे᳚¦श॒स्यमा᳚ना | |
य॒मा चि॒दत्र॑ यम॒सूर॑सूत जि॒ह्वाया॒, अग्रं॒ पत॒दा ह्यस्था᳚त् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वपूं᳚षि जा॒ता मि॑थु॒ना स॑चेते तमो॒हना॒ तपु॑षो बु॒ध्न एता᳚ ||{3/9}{3.2.25.3}{3.39.3}{3.4.1.3}{307, 273, 2824} य॒मा¦चि॒त्¦अत्र॑¦य॒म॒ऽसूः¦अ॒सू॒त॒¦जि॒ह्वायाः᳚¦अग्र᳚म्¦पत॑त्¦आ¦हि¦अस्था᳚त् | |
नकि॑रेषां निन्दि॒ता मर्त्ये᳚षु॒ ये, अ॒स्माकं᳚ पि॒तरो॒ गोषु॑ यो॒धाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्र॑ एषां दृंहि॒ता माहि॑नावा॒नुद् गो॒त्राणि॑ ससृजे दं॒सना᳚वान् ||{4/9}{3.2.25.4}{3.39.4}{3.4.1.4}{308, 273, 2825} नकिः॑¦ए॒षा॒म्¦नि॒न्दि॒ता¦मर्त्ये᳚षु¦ये¦अ॒स्माक᳚म्¦पि॒तरः॑¦गोषु॑¦यो॒धाः | |
सखा᳚ ह॒ यत्र॒ सखि॑भि॒र्नव॑ग्वैरभि॒ज्ञ्वा सत्व॑भि॒र्गा, अ॑नु॒ग्मन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स॒त्यं तदिन्द्रो᳚ द॒शभि॒र्दश॑ग्वैः॒ सूर्यं᳚ विवेद॒ तम॑सि क्षि॒यन्त᳚म् ||{5/9}{3.2.25.5}{3.39.5}{3.4.1.5}{309, 273, 2826} सखा᳚¦ह॒¦यत्र॑¦सखि॑ऽभिः¦नव॑ऽग्वैः¦अ॒भि॒ऽज्ञु¦आ¦सत्व॑ऽभिः¦गाः¦अ॒नु॒ऽग्मन् | |
इन्द्रो॒ मधु॒ सम्भृ॑तमु॒स्रिया᳚यां प॒द्वद् वि॑वेद श॒फव॒न्नमे॒ गोः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} गुहा᳚ हि॒तं गुह्यं᳚ गू॒ळ्हम॒प्सु हस्ते᳚ दधे॒ दक्षि॑णे॒ दक्षि॑णावान् ||{6/9}{3.2.26.1}{3.39.6}{3.4.1.6}{310, 273, 2827} इन्द्रः॑¦मधु॑¦सम्ऽभृ॑तम्¦उ॒स्रिया᳚याम्¦प॒त्ऽवत्¦वि॒वे॒द॒¦श॒फऽव॑त्¦नमे᳚¦गोः | |
ज्योति᳚र्वृणीत॒ तम॑सो विजा॒नन्ना॒रे स्या᳚म दुरि॒ताद॒भीके᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒मा गिरः॑ सोमपाः सोमवृद्ध जु॒षस्वे᳚न्द्र पुरु॒तम॑स्य का॒रोः ||{7/9}{3.2.26.2}{3.39.7}{3.4.1.7}{311, 273, 2828} ज्योतिः॑¦वृ॒णी॒त॒¦तम॑सः¦वि॒ऽजा॒नन्¦आ॒रे¦स्या॒म॒¦दुः॒ऽइ॒तात्¦अ॒भीके᳚ | |
ज्योति᳚र्य॒ज्ञाय॒ रोद॑सी॒, अनु॑ ष्यादा॒रे स्या᳚म दुरि॒तस्य॒ भूरेः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} भूरि॑ चि॒द्धि तु॑ज॒तो मर्त्य॑स्य सुपा॒रासो᳚ वसवो ब॒र्हणा᳚वत् ||{8/9}{3.2.26.3}{3.39.8}{3.4.1.8}{312, 273, 2829} ज्योतिः॑¦य॒ज्ञाय॑¦रोद॑सी॒ इति॑¦अनु॑¦स्या॒त्¦आ॒रे¦स्या॒म॒¦दुः॒ऽइ॒तस्य॑¦भूरेः᳚ | |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{9/9}{3.2.26.4}{3.39.9}{3.4.1.9}{313, 273, 2830} शु॒नम्¦हु॒वे॒म॒¦म॒घऽवा᳚नम्¦इन्द्र᳚म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑मम्¦वाज॑ऽसातौ | |
[34] इंद्रत्वेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री | |
इन्द्र॑ त्वा वृष॒भं व॒यं सु॒ते सोमे᳚ हवामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} स पा᳚हि॒ मध्वो॒, अन्ध॑सः ||{1/9}{3.3.1.1}{3.40.1}{3.4.2.1}{314, 274, 2831} इन्द्र॑¦त्वा॒¦वृ॒ष॒भम्¦व॒यम्¦सु॒ते¦सोमे᳚¦ह॒वा॒म॒हे॒ | सः¦पा॒हि॒¦मध्वः॑¦अन्ध॑सः || |
इन्द्र॑ क्रतु॒विदं᳚ सु॒तं सोमं᳚ हर्य पुरुष्टुत |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} पिबा वृ॑षस्व॒ तातृ॑पिम् ||{2/9}{3.3.1.2}{3.40.2}{3.4.2.2}{315, 274, 2832} इन्द्र॑¦क्र॒तु॒ऽविद᳚म्¦सु॒तम्¦सोम᳚म्¦ह॒र्य॒¦पु॒रु॒ऽस्तु॒त॒ | पिब॑¦आ¦वृ॒ष॒स्व॒¦ततृ॑पिम् || |
इन्द्र॒ प्र णो᳚ धि॒तावा᳚नं य॒ज्ञं विश्वे᳚भिर्दे॒वेभिः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} ति॒र स्त॑वान विश्पते ||{3/9}{3.3.1.3}{3.40.3}{3.4.2.3}{316, 274, 2833} इन्द्र॑¦प्र¦नः॒¦धि॒तऽवा᳚नम्¦य॒ज्ञम्¦विश्वे᳚भिः¦दे॒वेभिः॑ | ति॒र¦स्त॒वा॒न॒¦वि॒श्प॒ते॒ || |
इन्द्र॒ सोमाः᳚ सु॒ता, इ॒मे तव॒ प्र य᳚न्ति सत्पते |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} क्षयं᳚ च॒न्द्रास॒ इन्द॑वः ||{4/9}{3.3.1.4}{3.40.4}{3.4.2.4}{317, 274, 2834} इन्द्र॑¦सोमाः᳚¦सु॒ताः¦इ॒मे¦तव॑¦प्र¦य॒न्ति॒¦स॒त्ऽप॒ते॒ | क्षय᳚म्¦च॒न्द्रासः॑¦इन्द॑वः || |
द॒धि॒ष्वा ज॒ठरे᳚ सु॒तं सोम॑मिन्द्र॒ वरे᳚ण्यम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} तव॑ द्यु॒क्षास॒ इन्द॑वः ||{5/9}{3.3.1.5}{3.40.5}{3.4.2.5}{318, 274, 2835} द॒धि॒ष्व¦ज॒ठरे᳚¦सु॒तम्¦सोम᳚म्¦इ॒न्द्र॒¦वरे᳚ण्यम् | तव॑¦द्यु॒क्षासः॑¦इन्द॑वः || |
गिर्व॑णः पा॒हि नः॑ सु॒तं मधो॒र्धारा᳚भिरज्यसे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒ त्वादा᳚त॒मिद् यशः॑ ||{6/9}{3.3.2.1}{3.40.6}{3.4.2.6}{319, 274, 2836} गिर्व॑णः¦पा॒हि¦नः॒¦सु॒तम्¦मधोः᳚¦धारा᳚भिः¦अ॒ज्य॒से॒ | इन्द्र॑¦त्वाऽदा᳚तम्¦इत्¦यशः॑ || |
अ॒भि द्यु॒म्नानि॑ व॒निन॒ इन्द्रं᳚ सचन्ते॒, अक्षि॑ता |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} पी॒त्वी सोम॑स्य वावृधे ||{7/9}{3.3.2.2}{3.40.7}{3.4.2.7}{320, 274, 2837} अ॒भि¦द्यु॒म्नानि॑¦व॒निनः॑¦इन्द्र᳚म्¦स॒च॒न्ते॒¦अक्षि॑ता | पी॒त्वी¦सोम॑स्य¦व॒वृ॒धे॒ || |
अ॒र्वा॒वतो᳚ न॒ आ ग॑हि परा॒वत॑श्च वृत्रहन् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इ॒मा जु॑षस्व नो॒ गिरः॑ ||{8/9}{3.3.2.3}{3.40.8}{3.4.2.8}{321, 274, 2838} अ॒र्वा॒ऽवतः॑¦नः॒¦आ¦ग॒हि॒¦प॒रा॒ऽवतः॑¦च॒¦वृ॒त्र॒ऽह॒न् | इ॒माः¦जु॒ष॒स्व॒¦नः॒¦गिरः॑ || |
यद᳚न्त॒रा प॑रा॒वत॑ मर्वा॒वतं᳚ च हू॒यसे᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्रे॒ह तत॒ आ ग॑हि ||{9/9}{3.3.2.4}{3.40.9}{3.4.2.9}{322, 274, 2839} यत्¦अ॒न्त॒रा¦प॒रा॒ऽवत᳚म्¦अ॒र्वा॒ऽवत᳚म्¦च॒¦हू॒यसे᳚ | इन्द्र॑¦इ॒ह¦ततः॑¦आ¦ग॒हि॒ || |
[35] आतूनइंद्रेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री | |
आ तू न॑ इन्द्र म॒द्र्य॑ग्घुवा॒नः सोम॑पीतये |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} हरि॑भ्यां याह्यद्रिवः ||{1/9}{3.3.3.1}{3.41.1}{3.4.3.1}{323, 275, 2840} आ¦तु¦नः॒¦इ॒न्द्र॒¦म॒द्र्य॑क्¦हु॒वा॒नः¦सोम॑ऽपीतये | हरि॑ऽभ्याम्¦या॒हि॒¦अ॒द्रि॒ऽवः॒ || |
स॒त्तो होता᳚ न ऋ॒त्विय॑स्तिस्ति॒रे ब॒र्हिरा᳚नु॒षक् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} अयु॑ज्रन् प्रा॒तरद्र॑यः ||{2/9}{3.3.3.2}{3.41.2}{3.4.3.2}{324, 275, 2841} स॒त्तः¦होता᳚¦नः॒¦ऋ॒त्वियः॑¦ति॒स्ति॒रे¦ब॒र्हिः¦आ॒नु॒षक् | अयु॑ज्रन्¦प्रा॒तः¦अद्र॑यः || |
इ॒मा ब्रह्म॑ ब्रह्मवाहः क्रि॒यन्त॒ आ ब॒र्हिः सी᳚द |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} वी॒हि शू᳚र पुरो॒ळाश᳚म् ||{3/9}{3.3.3.3}{3.41.3}{3.4.3.3}{325, 275, 2842} इ॒मा¦ब्रह्म॑¦ब्र॒ह्म॒ऽवा॒हः॒¦क्रि॒यन्ते᳚¦आ¦ब॒र्हिः¦सी॒द॒ | वी॒हि¦शू॒र॒¦पु॒रो॒ळाश᳚म् || |
रा॒र॒न्धि सव॑नेषु ण ए॒षु स्तोमे᳚षु वृत्रहन् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} उ॒क्थेष्वि᳚न्द्र गिर्वणः ||{4/9}{3.3.3.4}{3.41.4}{3.4.3.4}{326, 275, 2843} र॒र॒न्धि¦सव॑नेषु¦नः॒¦ए॒षु¦स्तोमे᳚षु¦वृ॒त्र॒ऽह॒न् | उ॒क्थेषु॑¦इ॒न्द्र॒¦गि॒र्व॒णः॒ || |
म॒तयः॑ सोम॒पामु॒रुं रि॒हन्ति॒ शव॑स॒स्पति᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्रं᳚ व॒त्सं न मा॒तरः॑ ||{5/9}{3.3.3.5}{3.41.5}{3.4.3.5}{327, 275, 2844} म॒तयः॑¦सो॒म॒ऽपाम्¦उ॒रुम्¦रि॒हन्ति॑¦शव॑सः¦पति᳚म् | इन्द्र᳚म्¦व॒त्सम्¦न¦मा॒तरः॑ || |
स म᳚न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वा᳚ म॒हे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} न स्तो॒तारं᳚ नि॒दे क॑रः ||{6/9}{3.3.4.1}{3.41.6}{3.4.3.6}{328, 275, 2845} सः¦म॒न्द॒स्व॒¦हि¦अन्ध॑सः¦राध॑से¦त॒न्वा᳚¦म॒हे | न¦स्तो॒तार᳚म्¦नि॒दे¦क॒रः॒ || |
व॒यमि᳚न्द्र त्वा॒यवो᳚ ह॒विष्म᳚न्तो जरामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} उ॒त त्वम॑स्म॒युर्व॑सो ||{7/9}{3.3.4.2}{3.41.7}{3.4.3.7}{329, 275, 2846} व॒यम्¦इ॒न्द्र॒¦त्वा॒ऽयवः॑¦ह॒विष्म᳚न्तः¦ज॒रा॒म॒हे॒ | उ॒त¦त्वम्¦अ॒स्म॒ऽयुः¦व॒सो॒ इति॑ || |
मारे, अ॒स्मद् वि मु॑मुचो॒ हरि॑प्रिया॒र्वाङ्या᳚हि |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॑ स्वधावो॒ मत्स्वे॒ह ||{8/9}{3.3.4.3}{3.41.8}{3.4.3.8}{330, 275, 2847} मा¦आ॒रे¦अ॒स्मत्¦वि¦मु॒मु॒चः॒¦हरि॑ऽप्रिय¦आ॒र्वाङ्¦या॒हि॒ | इन्द्र॑¦स्व॒धा॒ऽवः॒¦मत्स्व॑¦इ॒ह || |
अ॒र्वाञ्चं᳚ त्वा सु॒खे रथे॒ वह॑तामिन्द्र के॒शिना᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} घृ॒तस्नू᳚ ब॒र्हिरा॒सदे᳚ ||{9/9}{3.3.4.4}{3.41.9}{3.4.3.9}{331, 275, 2848} अ॒र्वांच᳚म्¦त्वा॒¦सु॒ऽखे¦रथे᳚¦वह॑ताम्¦इ॒न्द्र॒¦के॒शिना᳚ | घृ॒तस्नू॒ इति॑ घृ॒तऽस्नू᳚¦ब॒र्हिः¦आ॒ऽसदे᳚ || |
[36] उपनइति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र इंद्रोगायत्री | |
उप॑ नः सु॒तमा ग॑हि॒ सोम॑मिन्द्र॒ गवा᳚शिरम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} हरि॑भ्यां॒ यस्ते᳚, अस्म॒युः ||{1/9}{3.3.5.1}{3.42.1}{3.4.4.1}{332, 276, 2849} उप॑¦नः॒¦सु॒तम्¦आ¦ग॒हि॒¦सोम᳚म्¦इ॒न्द्र॒¦गोऽआ᳚शिरम् | हरि॑ऽभ्याम्¦यः¦ते॒¦अ॒स्म॒ऽयुः || |
तमि᳚न्द्र॒ मद॒मा ग॑हि बर्हिः॒ष्ठां ग्राव॑भिः सु॒तम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} कु॒विन्न्व॑स्य तृ॒प्णवः॑ ||{2/9}{3.3.5.2}{3.42.2}{3.4.4.2}{333, 276, 2850} तम्¦इ॒न्द्र॒¦मद᳚म्¦आ¦ग॒हि॒¦ब॒र्हिः॒ऽस्थाम्¦ग्राव॑ऽभिः¦सु॒तम् | कु॒वित्¦नु¦अ॒स्य॒¦तृ॒ष्णवः॑ || |
इन्द्र॑मि॒त्था गिरो॒ ममाच्छा᳚गुरिषि॒ता, इ॒तः |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} आ॒वृते॒ सोम॑पीतये ||{3/9}{3.3.5.3}{3.42.3}{3.4.4.3}{334, 276, 2851} इन्द्र᳚म्¦इ॒त्था¦गिरः॑¦मम॑¦अच्छ॑¦अ॒गुः॒¦इ॒षि॒ताः¦इ॒तः | आ॒ऽवृते᳚¦सोम॑ऽपीतये || |
इन्द्रं॒ सोम॑स्य पी॒तये॒ स्तोमै᳚रि॒ह ह॑वामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} उ॒क्थेभिः॑ कु॒विदा॒गम॑त् ||{4/9}{3.3.5.4}{3.42.4}{3.4.4.4}{335, 276, 2852} इन्द्र᳚म्¦सोम॑स्य¦पी॒तये᳚¦स्तोमैः᳚¦इ॒ह¦ह॒वा॒म॒हे॒ | उ॒क्थेभिः॑¦कु॒वित्¦आ॒ऽगम॑त् || |
इन्द्र॒ सोमाः᳚ सु॒ता, इ॒मे तान् द॑धिष्व शतक्रतो |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} ज॒ठरे᳚ वाजिनीवसो ||{5/9}{3.3.5.5}{3.42.5}{3.4.4.5}{336, 276, 2853} इन्द्र॑¦सोमाः᳚¦सु॒ताः¦इ॒मे¦तान्¦द॒धि॒ष्व॒¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | ज॒ठरे᳚¦वा॒जि॒नी॒व॒सो॒ इति॑ वाजिनीऽवसो || |
वि॒द्मा हि त्वा᳚ धनंज॒यं वाजे᳚षु दधृ॒षं क॑वे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} अधा᳚ ते सु॒म्नमी᳚महे ||{6/9}{3.3.6.1}{3.42.6}{3.4.4.6}{337, 276, 2854} वि॒द्म¦हि¦त्वा॒¦ध॒न॒म्ऽज॒यम्¦वाजे᳚षु¦द॒धृ॒षम्¦क॒वे॒ | अध॑¦ते॒¦सु॒म्नम्¦ई॒म॒हे॒ || |
इ॒ममि᳚न्द्र॒ गवा᳚शिरं॒ यवा᳚शिरं च नः पिब |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} आ॒गत्या॒ वृष॑भिः सु॒तम् ||{7/9}{3.3.6.2}{3.42.7}{3.4.4.7}{338, 276, 2855} इ॒मम्¦इ॒न्द्र॒¦गोऽआ᳚शिरम्¦यव॑ऽआशिरम्¦च॒¦नः॒¦पि॒ब॒ | आ॒ऽगत्य॑¦वृष॑ऽभिः¦सु॒तम् || |
तुभ्येदि᳚न्द्र॒ स्व ओ॒क्ये॒३॑(ए॒) सोमं᳚ चोदामि पी॒तये᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} ए॒ष रा᳚रन्तु ते हृ॒दि ||{8/9}{3.3.6.3}{3.42.8}{3.4.4.8}{339, 276, 2856} तुभ्य॑¦इत्¦इ॒न्द्र॒¦स्वे¦ओ॒क्ये᳚¦सोम᳚म्¦चो॒दा॒मि॒¦पी॒तये᳚ | ए॒षः¦र॒र॒न्तु॒¦ते॒¦हृ॒दि || |
त्वां सु॒तस्य॑ पी॒तये᳚ प्र॒त्नमि᳚न्द्र हवामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} कु॒शि॒कासो᳚, अव॒स्यवः॑ ||{9/9}{3.3.6.4}{3.42.9}{3.4.4.9}{340, 276, 2857} त्वाम्¦सु॒तस्य॑¦पी॒तये᳚¦प्र॒त्नम्¦इ॒न्द्र॒¦ह॒वा॒म॒हे॒ | कु॒शि॒कासः॑¦अ॒व॒स्यवः॑ || |
[37] आयाह्यर्वाङित्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
आ या᳚ह्य॒र्वाङुप॑ वन्धुरे॒ष्ठास्तवेदनु॑ प्र॒दिवः॑ सोम॒पेय᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्रि॒या सखा᳚या॒ वि मु॒चोप॑ ब॒र्हिस्त्वामि॒मे ह᳚व्य॒वाहो᳚ हवन्ते ||{1/8}{3.3.7.1}{3.43.1}{3.4.5.1}{341, 277, 2858} आ¦या॒हि॒¦अ॒र्वाङ्¦उप॑¦व॒न्धु॒रे॒ऽस्थाः¦तव॑¦इत्¦अनु॑¦प्र॒ऽदिवः॑¦सो॒म॒ऽपेय᳚म् | |
आ या᳚हि पू॒र्वीरति॑ चर्ष॒णीराँ, अ॒र्य आ॒शिष॒ उप॑ नो॒ हरि॑भ्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒मा हि त्वा᳚ म॒तयः॒ स्तोम॑तष्टा॒, इन्द्र॒ हव᳚न्ते स॒ख्यं जु॑षा॒णाः ||{2/8}{3.3.7.2}{3.43.2}{3.4.5.2}{342, 277, 2859} आ¦या॒हि॒¦पू॒र्वीः¦अति॑¦च॒र्ष॒णीः¦आ¦अ॒र्यः¦आ॒ऽशिषः॑¦उप॑¦नः॒¦हरि॑ऽभ्याम् | |
आ नो᳚ य॒ज्ञं न॑मो॒वृधं᳚ स॒जोषा॒, इन्द्र॑ देव॒ हरि॑भिर्याहि॒ तूय᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒हं हि त्वा᳚ म॒तिभि॒र्जोह॑वीमि घृ॒तप्र॑याः सध॒मादे॒ मधू᳚नाम् ||{3/8}{3.3.7.3}{3.43.3}{3.4.5.3}{343, 277, 2860} आ¦नः॒¦य॒ज्ञम्¦न॒मः॒ऽवृध᳚म्¦स॒ऽजोषाः᳚¦इन्द्र॑¦दे॒व॒¦हरि॑ऽभिः¦या॒हि॒¦तूय᳚म् | |
आ च॒ त्वामे॒ता वृष॑णा॒ वहा᳚तो॒ हरी॒ सखा᳚या सु॒धुरा॒ स्वङ्गा᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} धा॒नाव॒दिन्द्रः॒ सव॑नं जुषा॒णः सखा॒ सख्युः॑ शृणव॒द् वन्द॑नानि ||{4/8}{3.3.7.4}{3.43.4}{3.4.5.4}{344, 277, 2861} आ¦च॒¦त्वाम्¦ए॒ता¦वृष॑णा¦वहा᳚तः¦हरी॒ इति॑¦सखा᳚या¦सु॒ऽधुरा᳚¦सु॒।आङ्गा᳚ | |
कु॒विन्मा᳚ गो॒पां कर॑से॒ जन॑स्य कु॒विद् राजा᳚नं मघवन्नृजीषिन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} कु॒विन्म॒ ऋषिं᳚ पपि॒वांसं᳚ सु॒तस्य॑ कु॒विन्मे॒ वस्वो᳚, अ॒मृत॑स्य॒ शिक्षाः᳚ ||{5/8}{3.3.7.5}{3.43.5}{3.4.5.5}{345, 277, 2862} कु॒वित्¦मा॒¦गो॒पाम्¦कर॑से¦जन॑स्य¦कु॒वित्¦राजा᳚नम्¦म॒घ॒ऽव॒न्¦ऋ॒जी॒षि॒न् | |
आ त्वा᳚ बृ॒हन्तो॒ हर॑यो युजा॒ना, अ॒र्वागि᳚न्द्र सध॒मादो᳚ वहन्तु |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्र ये द्वि॒ता दि॒व ऋ॒ञ्जन्त्याताः॒ सुस᳚म्मृष्टासो वृष॒भस्य॑ मू॒राः ||{6/8}{3.3.7.6}{3.43.6}{3.4.5.6}{346, 277, 2863} आ¦त्वा॒¦बृ॒हन्तः॑¦हर॑यः¦यु॒जा॒नाः¦अ॒र्वाक्¦इ॒न्द्र॒¦स॒ध॒ऽमादः॑¦व॒ह॒न्तु॒ | |
इन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्ण॒ आ यं ते᳚ श्ये॒न उ॑श॒ते ज॒भार॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यस्य॒ मदे᳚ च्या॒वय॑सि॒ प्र कृ॒ष्टीर्यस्य॒ मदे॒, अप॑ गो॒त्रा व॒वर्थ॑ ||{7/8}{3.3.7.7}{3.43.7}{3.4.5.7}{347, 277, 2864} इन्द्र॑¦पिब॑¦वृष॑ऽधूतस्य¦वृष्णः॑¦आ¦यम्¦ते॒¦श्ये॒नः¦उ॒श॒ते¦ज॒भार॑ | |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{8/8}{3.3.7.8}{3.43.8}{3.4.5.8}{348, 277, 2865} शु॒नम्¦हु॒वे॒म॒¦म॒घऽवा᳚नम्¦इन्द्र᳚म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑मम्¦वाज॑ऽसातौ | |
[38] अयंतइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोबृहती | |
अ॒यं ते᳚, अस्तु हर्य॒तः सोम॒ आ हरि॑भिः सु॒तः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} जु॒षा॒ण इ᳚न्द्र॒ हरि॑भिर्न॒ आ ग॒ह्या ति॑ष्ठ॒ हरि॑तं॒ रथ᳚म् ||{1/5}{3.3.8.1}{3.44.1}{3.4.6.1}{349, 278, 2866} अ॒यम्¦ते॒¦अ॒स्तु॒¦ह॒र्य॒तः¦सोमः॑¦आ¦हरि॑ऽभिः¦सु॒तः | |
ह॒र्यन्नु॒षस॑मर्चयः॒ सूर्यं᳚ ह॒र्यन्न॑रोचयः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} वि॒द्वाँश्चि॑कि॒त्वान् ह᳚र्यश्व वर्धस॒ इन्द्र॒ विश्वा᳚, अ॒भि श्रियः॑ ||{2/5}{3.3.8.2}{3.44.2}{3.4.6.2}{350, 278, 2867} ह॒र्यन्¦उ॒षस᳚म्¦अ॒र्च॒यः॒¦सूर्य᳚म्¦ह॒र्यन्¦अ॒रो॒च॒यः॒ | |
द्यामिन्द्रो॒ हरि॑धायसं पृथि॒वीं हरि॑वर्पसम् |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} अधा᳚रयद्ध॒रितो॒र्भूरि॒ भोज॑नं॒ ययो᳚र॒न्तर्हरि॒श्चर॑त् ||{3/5}{3.3.8.3}{3.44.3}{3.4.6.3}{351, 278, 2868} द्याम्¦इन्द्रः॑¦हरि॑ऽधायसम्¦पृ॒थि॒वीम्¦हरि॑ऽवर्पसम् | |
ज॒ज्ञा॒नो हरि॑तो॒ वृषा॒ विश्व॒मा भा᳚ति रोच॒नम् |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} हर्य॑श्वो॒ हरि॑तं धत्त॒ आयु॑ध॒मा वज्रं᳚ बा॒ह्वोर्हरि᳚म् ||{4/5}{3.3.8.4}{3.44.4}{3.4.6.4}{352, 278, 2869} ज॒ज्ञा॒नः¦हरि॑तः¦वृषा᳚¦विश्व᳚म्¦आ¦भा॒ति॒¦रो॒च॒नम् | |
इन्द्रो᳚ ह॒र्यन्त॒मर्जु॑नं॒ वज्रं᳚ शु॒क्रैर॒भीवृ॑तम् |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} अपा᳚वृणो॒द्धरि॑भि॒रद्रि॑भिः सु॒तमुद् गा हरि॑भिराजत ||{5/5}{3.3.8.5}{3.44.5}{3.4.6.5}{353, 278, 2870} इन्द्रः॑¦ह॒र्यन्त᳚म्¦अर्जु॑नम्¦वज्र᳚म्¦शु॒क्रैः¦अ॒भिऽवृ॑तम् | |
[39] आमंद्रैरिति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोबृहती | |
आ म॒न्द्रैरि᳚न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} मा त्वा॒ के चि॒न्नि य॑म॒न्विं न पा॒शिनोऽति॒ धन्वे᳚व॒ ताँ, इ॑हि ||{1/5}{3.3.9.1}{3.45.1}{3.4.7.1}{354, 279, 2871} आ¦म॒न्द्रैः¦इ॒न्द्र॒¦हरि॑ऽभिः¦या॒हि¦म॒यूर॑रोमऽभिः | |
वृ॒त्र॒खा॒दो व॑लंरु॒जः पु॒रां द॒र्मो, अ॒पाम॒जः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} स्थाता॒ रथ॑स्य॒ हर्यो᳚रभिस्व॒र इन्द्रो᳚ दृ॒ळ्हा चि॑दारु॒जः ||{2/5}{3.3.9.2}{3.45.2}{3.4.7.2}{355, 279, 2872} वृ॒त्र॒ऽखा॒दः¦व॒ल॒म्ऽरु॒जः¦पु॒राम्¦द॒र्मः¦अ॒पाम्¦अ॒जः | |
ग॒म्भी॒राँ, उ॑द॒धीँरि॑व॒ क्रतुं᳚ पुष्यसि॒ गा, इ॑व |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} प्र सु॑गो॒पा यव॑सं धे॒नवो᳚ यथाऽह्र॒दं कु॒ल्या, इ॑वाशत ||{3/5}{3.3.9.3}{3.45.3}{3.4.7.3}{356, 279, 2873} ग॒म्भी॒रान्¦उ॒द॒धीन्ऽइ᳚व¦क्रतु᳚म्¦पु॒ष्य॒सि॒¦गाःऽइ᳚व | |
आ न॒स्तुजं᳚ र॒यिं भ॒रांशं॒ न प्र॑तिजान॒ते |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} वृ॒क्षं प॒क्वं फल॑म॒ङ्कीव॑ धूनु॒हीन्द्र॑ स॒म्पार॑णं॒ वसु॑ ||{4/5}{3.3.9.4}{3.45.4}{3.4.7.4}{357, 279, 2874} आ¦नः॒¦तुज᳚म्¦र॒यिम्¦भ॒र॒¦अंश᳚म्¦न¦प्र॒ति॒ऽजा॒न॒ते | |
स्व॒युरि᳚न्द्र स्व॒राळ॑सि॒ स्मद्दि॑ष्टिः॒ स्वय॑शस्तरः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} स वा᳚वृधा॒न ओज॑सा पुरुष्टुत॒ भवा᳚ नः सु॒श्रव॑स्तमः ||{5/5}{3.3.9.5}{3.45.5}{3.4.7.5}{358, 279, 2875} स्व॒ऽयुः¦इ॒न्द्र॒¦स्व॒ऽराट्¦अ॒सि॒¦स्मत्ऽदि॑ष्टिः¦स्वय॑शःऽतरः | |
[40] युध्मस्यतइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रत्रिष्टुप् | |
यु॒ध्मस्य॑ ते वृष॒भस्य॑ स्व॒राज॑ उ॒ग्रस्य॒ यूनः॒ स्थवि॑रस्य॒ घृष्वेः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अजू᳚र्यतो व॒ज्रिणो᳚ वी॒र्या॒३॑(आ॒)णीन्द्र॑ श्रु॒तस्य॑ मह॒तो म॒हानि॑ ||{1/5}{3.3.10.1}{3.46.1}{3.4.8.1}{359, 280, 2876} यु॒ध्मस्य॑¦ते॒¦वृ॒ष॒भस्य॑¦स्व॒ऽराजः॑¦उ॒ग्रस्य॑¦यूनः॑¦स्थवि॑रस्य¦घृष्वेः᳚ | |
म॒हाँ, अ॑सि महिष॒ वृष्ण्ये᳚भिर्धन॒स्पृदु॑ग्र॒ सह॑मानो, अ॒न्यान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} एको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ स यो॒धया᳚ च क्ष॒यया᳚ च॒ जना॑न् ||{2/5}{3.3.10.2}{3.46.2}{3.4.8.2}{360, 280, 2877} म॒हान्¦अ॒सि॒¦म॒हि॒ष॒¦वृष्ण्ये᳚भिः¦ध॒न॒ऽस्पृत्¦उ॒ग्र॒¦सह॑मानः¦अ॒न्यान् | |
प्र मात्रा᳚भी रिरिचे॒ रोच॑मानः॒ प्र दे॒वेभि᳚र्वि॒श्वतो॒, अप्र॑तीतः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्र म॒ज्मना᳚ दि॒व इन्द्रः॑ पृथि॒व्याः प्रोरोर्म॒हो, अ॒न्तरि॑क्षादृजी॒षी ||{3/5}{3.3.10.3}{3.46.3}{3.4.8.3}{361, 280, 2878} प्र¦मात्रा᳚भिः¦रि॒रि॒चे॒¦रोच॑मानः¦प्र¦दे॒वेभिः॑¦वि॒श्वतः॑¦अप्र॑तिऽइतः | |
उ॒रुं ग॑भी॒रं ज॒नुषा॒भ्यु१॑(उ॒)ग्रं वि॒श्वव्य॑चसमव॒तं म॑ती॒नाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्रं॒ सोमा᳚सः प्र॒दिवि॑ सु॒तासः॑ समु॒द्रं न स्र॒वत॒ आ वि॑शन्ति ||{4/5}{3.3.10.4}{3.46.4}{3.4.8.4}{362, 280, 2879} उ॒रुम्¦ग॒भी॒रम्¦ज॒नुषा᳚¦अ॒भि¦उ॒ग्रम्¦वि॒श्वऽव्य॑चसम्¦अ॒व॒तम्¦म॒ती॒नाम् | |
यं सोम॑मिन्द्र पृथि॒वीद्यावा॒ गर्भं॒ न मा॒ता बि॑भृ॒तस्त्वा॒या |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तं ते᳚ हिन्वन्ति॒ तमु॑ ते मृजन्त्यध्व॒र्यवो᳚ वृषभ॒ पात॒वा, उ॑ ||{5/5}{3.3.10.5}{3.46.5}{3.4.8.5}{363, 280, 2880} यम्¦सोम᳚म्¦इ॒न्द्र॒¦पृ॒थि॒वीद्यावा᳚¦गर्भ᳚म्¦न¦मा॒ता¦बि॒भृ॒तः¦त्वा॒ऽया | |
[41] मरुत्वाँइंद्रेति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
म॒रुत्वाँ᳚, इन्द्र वृष॒भो रणा᳚य॒ पिबा॒ सोम॑मनुष्व॒धं मदा᳚य |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} आ सि᳚ञ्चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिं त्वं राजा᳚सि प्र॒दिवः॑ सु॒ताना᳚म् ||{1/5}{3.3.11.1}{3.47.1}{3.4.9.1}{364, 281, 2881} म॒रुत्वा᳚न्¦इ॒न्द्र॒¦वृ॒ष॒भः¦रणा᳚य¦पिब॑¦सोम᳚म्¦अ॒नु॒ऽस्व॒धम्¦मदा᳚य | |
स॒जोषा᳚, इन्द्र॒ सग॑णो म॒रुद्भिः॒ सोमं᳚ पिब वृत्र॒हा शू᳚र वि॒द्वान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ज॒हि शत्रूँ॒रप॒ मृधो᳚ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो᳚ नः ||{2/5}{3.3.11.2}{3.47.2}{3.4.9.2}{365, 281, 2882} स॒ऽजोषाः᳚¦इ॒न्द्र॒¦सऽग॑णः¦म॒रुत्ऽभिः॑¦सोम᳚म्¦पि॒ब॒¦वृ॒त्र॒ऽहा¦शू॒र॒¦वि॒द्वान् | |
उ॒त ऋ॒तुभि᳚रृतुपाः पाहि॒ सोम॒मिन्द्र॑ दे॒वेभिः॒ सखि॑भिः सु॒तं नः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} याँ, आभ॑जो म॒रुतो॒ ये त्वान्वह᳚न् वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॑ ||{3/5}{3.3.11.3}{3.47.3}{3.4.9.3}{366, 281, 2883} उ॒त¦ऋ॒तुऽभिः॑¦ऋ॒तु॒ऽपाः¦पा॒हि॒¦सोम᳚म्¦इन्द्र॑¦दे॒वेभिः॑¦सखि॑ऽभिः¦सु॒तम्¦नः॒ | |
ये त्वा᳚हि॒हत्ये᳚ मघव॒न्नव॑र्ध॒न् ये शा᳚म्ब॒रे ह॑रिवो॒ ये गवि॑ष्टौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ये त्वा᳚ नू॒नम॑नु॒मद᳚न्ति॒ विप्राः॒ पिबे᳚न्द्र॒ सोमं॒ सग॑णो म॒रुद्भिः॑ ||{4/5}{3.3.11.4}{3.47.4}{3.4.9.4}{367, 281, 2884} ये¦त्वा॒¦अ॒हि॒ऽहत्ये᳚¦म॒घ॒ऽव॒न्¦अव॑र्धन्¦ये¦शा॒म्ब॒रे¦ह॒रि॒ऽवः॒¦ये¦गोऽइ᳚ष्टौ | |
म॒रुत्व᳚न्तं वृष॒भं वा᳚वृधा॒नमक॑वारिं दि॒व्यं शा॒समिन्द्र᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ||{5/5}{3.3.11.5}{3.47.5}{3.4.9.5}{368, 281, 2885} म॒रुत्व᳚न्तम्¦वृ॒ष॒भम्¦व॒वृ॒धा॒नम्¦अक॑व।आरिम्¦दि॒व्यम्¦शा॒सम्¦इन्द्र᳚म् | |
[42] सद्योहजातइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
स॒द्यो ह॑ जा॒तो वृ॑ष॒भः क॒नीनः॒ प्रभ॑र्तुमाव॒दन्ध॑सः सु॒तस्य॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} सा॒धोः पि॑ब प्रतिका॒मं यथा᳚ ते॒ रसा᳚शिरः प्रथ॒मं सो॒म्यस्य॑ ||{1/5}{3.3.12.1}{3.48.1}{3.4.10.1}{369, 282, 2886} स॒द्यः¦ह॒¦जा॒तः¦वृ॒ष॒भः¦क॒नीनः॑¦प्रऽभ॑र्तुम्¦आ॒व॒त्¦अन्ध॑सः¦सु॒तस्य॑ | |
यज्जाय॑था॒स्तदह॑रस्य॒ कामें॒शोः पी॒यूष॑मपिबो गिरि॒ष्ठाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तं ते᳚ मा॒ता परि॒ योषा॒ जनि॑त्री म॒हः पि॒तुर्दम॒ आसि᳚ञ्च॒दग्रे᳚ ||{2/5}{3.3.12.2}{3.48.2}{3.4.10.2}{370, 282, 2887} यत्¦जाय॑थाः¦तत्¦अहः॑¦अ॒स्य॒¦कामे᳚¦अं॒शोः¦पी॒यूष᳚म्¦अ॒पि॒बः॒¦गि॒रि॒ऽस्थाम् | |
उ॒प॒स्थाय॑ मा॒तर॒मन्न॑मैट्ट ति॒ग्मम॑पश्यद॒भि सोम॒मूधः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्र॒या॒वय᳚न्नचर॒द् गृत्सो᳚, अ॒न्यान् म॒हानि॑ चक्रे पुरु॒धप्र॑तीकः ||{3/5}{3.3.12.3}{3.48.3}{3.4.10.3}{371, 282, 2888} उ॒प॒ऽस्थाय॑¦मा॒तर᳚म्¦अन्न᳚म्¦ऐ॒ट्ट॒¦ति॒ग्मम्¦अ॒प॒श्य॒त्¦अ॒भि¦सोम᳚म्¦ऊधः॑ | |
उ॒ग्रस्तु॑रा॒षाळ॒भिभू᳚त्योजा यथाव॒शं त॒न्वं᳚ चक्र ए॒षः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} त्वष्टा᳚र॒मिन्द्रो᳚ ज॒नुषा᳚भि॒भूया॒मुष्या॒ सोम॑मपिबच्च॒मूषु॑ ||{4/5}{3.3.12.4}{3.48.4}{3.4.10.4}{372, 282, 2889} उ॒ग्रः¦तु॒रा॒षाट्¦अ॒भिभू᳚तिऽओजाः¦य॒था॒ऽव॒शम्¦त॒न्व᳚म्¦च॒क्रे॒¦ए॒षः | |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{5/5}{3.3.12.5}{3.48.5}{3.4.10.5}{373, 282, 2890} शु॒नम्¦हु॒वे॒म॒¦म॒घऽवा᳚नम्¦इन्द्र᳚म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑मम्¦वाज॑ऽसातौ | |
[43] शंसामद्दामिति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
शंसा᳚ म॒हामिन्द्रं॒ यस्मि॒न् विश्वा॒, आ कृ॒ष्टयः॑ सोम॒पाः काम॒मव्य॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यं सु॒क्रतुं᳚ धि॒षणे᳚ विभ्वत॒ष्टं घ॒नं वृ॒त्राणां᳚ ज॒नय᳚न्त दे॒वाः ||{1/5}{3.3.13.1}{3.49.1}{3.4.11.1}{374, 283, 2891} शंस॑¦म॒हाम्¦इन्द्र᳚म्¦यस्मि॑न्¦विश्वाः᳚¦आ¦कृ॒ष्टयः॑¦सो॒म॒ऽपाः¦काम᳚म्¦अव्य॑न् | |
यं नु नकिः॒ पृत॑नासु स्व॒राजं᳚ द्वि॒ता तर॑ति॒ नृत॑मं हरि॒ष्ठाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒नत॑मः॒ सत्व॑भि॒र्यो ह॑ शू॒षैः पृ॑थु॒ज्रया᳚, अमिना॒दायु॒र्दस्योः᳚ ||{2/5}{3.3.13.2}{3.49.2}{3.4.11.2}{375, 283, 2892} यम्¦नु¦नकिः॑¦पृत॑नासु¦स्व॒ऽराज᳚म्¦द्वि॒ता¦तर॑ति¦नृऽत॑मम्¦ह॒रि॒ऽस्थाम् | |
स॒हावा᳚ पृ॒त्सु त॒रणि॒र्नार्वा᳚ व्यान॒शी रोद॑सी मे॒हना᳚वान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} भगो॒ न का॒रे हव्यो᳚ मती॒नां पि॒तेव॒ चारुः॑ सु॒हवो᳚ वयो॒धाः ||{3/5}{3.3.13.3}{3.49.3}{3.4.11.3}{376, 283, 2893} स॒हऽवा᳚¦पृ॒त्ऽसु¦त॒रणिः॑¦न¦अर्वा᳚¦वि॒ऽआ॒न॒शिः¦रोद॑सी॒ इति॑¦मे॒हना᳚ऽवान् | |
ध॒र्ता दि॒वो रज॑सस् पृ॒ष्ट ऊ॒र्ध्वो रथो॒ न वा॒युर्वसु॑भिर्नि॒युत्वा॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} क्ष॒पां व॒स्ता ज॑नि॒ता सूर्य॑स्य॒ विभ॑क्ता भा॒गं धि॒षणे᳚व॒ वाज᳚म् ||{4/5}{3.3.13.4}{3.49.4}{3.4.11.4}{377, 283, 2894} ध॒र्ता¦दि॒वः¦रज॑सः¦पृ॒ष्टः¦ऊ॒र्ध्वः¦रथः॑¦न¦वा॒युः¦वसु॑ऽभिः¦नि॒युत्वा॑न् | |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{5/5}{3.3.13.5}{3.49.5}{3.4.11.5}{378, 283, 2895} शु॒नम्¦हु॒वे॒म॒¦म॒घऽवा᳚नम्¦इन्द्र᳚म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑मम्¦वाज॑ऽसातौ | |
[44] इंद्रः स्वाहेति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
इन्द्रः॒ स्वाहा᳚ पिबतु॒ यस्य॒ सोम॑ आ॒गत्या॒ तुम्रो᳚ वृष॒भो म॒रुत्वा॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ओरु॒व्यचाः᳚ पृणतामे॒भिरन्नै॒रास्य॑ ह॒विस्त॒न्व१॑(अः॒) काम॑मृध्याः ||{1/5}{3.3.14.1}{3.50.1}{3.4.12.1}{379, 284, 2896} इन्द्रः॑¦स्वाहा᳚¦पि॒ब॒तु॒¦यस्य॑¦सोमः॑¦आ॒ऽगत्य॑¦तुम्रः॑¦वृ॒ष॒भः¦म॒रुत्वा॑न् | |
आ ते᳚ सप॒र्यू ज॒वसे᳚ युनज्मि॒ ययो॒रनु॑ प्र॒दिवः॑ श्रु॒ष्टिमावः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒ह त्वा᳚ धेयु॒र्हर॑यः सुशिप्र॒ पिबा॒ त्व१॑(अ॒)स्य सुषु॑तस्य॒ चारोः᳚ ||{2/5}{3.3.14.2}{3.50.2}{3.4.12.2}{380, 284, 2897} आ¦ते॒¦स॒प॒र्यू इति॑¦ज॒वसे᳚¦यु॒न॒ज्मि॒¦ययोः᳚¦अनु॑¦प्र॒ऽदिवः॑¦श्रु॒ष्टिम्¦आवः॑ | |
गोभि᳚र्मिमि॒क्षुं द॑धिरे सुपा॒रमिन्द्रं॒ ज्यैष्ठ्या᳚य॒ धाय॑से गृणा॒नाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} म॒न्दा॒नः सोमं᳚ पपि॒वाँ, ऋ॑जीषि॒न् त्सम॒स्मभ्यं᳚ पुरु॒धा गा, इ॑षण्य ||{3/5}{3.3.14.3}{3.50.3}{3.4.12.3}{381, 284, 2898} गोभिः॑¦मि॒मि॒क्षुम्¦द॒धि॒रे॒¦सु॒ऽपा॒रम्¦इन्द्र᳚म्¦ज्यैष्ठ्या᳚य¦धाय॑से¦गृ॒णा॒नाः | |
इ॒मं कामं᳚ मन्दया॒ गोभि॒रश्वै᳚श्च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स्व॒र्यवो᳚ म॒तिभि॒स्तुभ्यं॒ विप्रा॒, इन्द्रा᳚य॒ वाहः॑ कुशि॒कासो᳚, अक्रन् ||{4/5}{3.3.14.4}{3.50.4}{3.4.12.4}{382, 284, 2899} इ॒मम्¦काम᳚म्¦म॒न्द॒य॒¦गोभिः॑¦अश्वैः᳚¦च॒न्द्रऽव॑ता¦राध॑सा¦प॒प्रथः॑¦च॒ | |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{5/5}{3.3.14.5}{3.50.5}{3.4.12.5}{383, 284, 2900} शु॒नम्¦हु॒वे॒म॒¦म॒घऽवा᳚नम्¦इन्द्र᳚म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑मम्¦वाज॑ऽसातौ | |
[45] चर्षणीधृतमिति द्वादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् आद्यास्तिस्रोजगत्यः अंत्यास्तिस्रोगायत्र्यः | |
च॒र्ष॒णी॒धृतं᳚ म॒घवा᳚नमु॒क्थ्य१॑(अ॒)मिन्द्रं॒ गिरो᳚ बृह॒तीर॒भ्य॑नूषत |{गाथिनो विश्वामित्रः | इन्द्रः | जगती} वा॒वृ॒धा॒नं पु॑रुहू॒तं सु॑वृ॒क्तिभि॒रम॑र्त्यं॒ जर॑माणं दि॒वेदि॑वे ||{1/12}{3.3.15.1}{3.51.1}{3.4.13.1}{384, 285, 2901} च॒र्ष॒णि॒ऽधृत᳚म्¦म॒घऽवा᳚नम्¦उ॒क्थ्य᳚म्¦इन्द्र᳚म्¦गिरः॑¦बृ॒ह॒तीः¦अ॒भि¦अ॒नू॒ष॒त॒ | |
श॒तक्र॑तुमर्ण॒वं शा॒किनं॒ नरं॒ गिरो᳚ म॒ इन्द्र॒मुप॑ यन्ति वि॒श्वतः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | जगती} वा॒ज॒सनिं᳚ पू॒र्भिदं॒ तूर्णि॑म॒प्तुरं᳚ धाम॒साच॑मभि॒षाचं᳚ स्व॒र्विद᳚म् ||{2/12}{3.3.15.2}{3.51.2}{3.4.13.2}{385, 285, 2902} श॒तऽक्र॑तुम्¦अ॒र्ण॒वम्¦शा॒किन᳚म्¦नर᳚म्¦गिरः॑¦मे॒¦इन्द्र᳚म्¦उप॑¦य॒न्ति॒¦वि॒श्वतः॑ | |
आ॒क॒रे वसो᳚र्जरि॒ता प॑नस्यतेऽने॒हसः॒ स्तुभ॒ इन्द्रो᳚ दुवस्यति |{गाथिनो विश्वामित्रः | इन्द्रः | जगती} वि॒वस्व॑तः॒ सद॑न॒ आ हि पि॑प्रि॒ये स॑त्रा॒साह॑मभिमाति॒हनं᳚ स्तुहि ||{3/12}{3.3.15.3}{3.51.3}{3.4.13.3}{386, 285, 2903} आ॒ऽक॒रे¦वसोः᳚¦ज॒रि॒ता¦प॒न॒स्य॒ते॒¦अ॒ने॒हसः॑¦स्तुभः॑¦इन्द्रः॑¦दु॒व॒स्य॒ति॒ | |
नृ॒णामु॑ त्वा॒ नृत॑मं गी॒र्भिरु॒क्थैर॒भि प्र वी॒रम॑र्चता स॒बाधः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} सं सह॑से पुरुमा॒यो जि॑हीते॒ नमो᳚, अस्य प्र॒दिव॒ एक॑ ईशे ||{4/12}{3.3.15.4}{3.51.4}{3.4.13.4}{387, 285, 2904} नृ॒णाम्¦ऊँ॒ इति॑¦त्वा॒¦नृऽत॑मम्¦गीः॒ऽभिः¦उ॒क्थैः¦अ॒भि¦प्र¦वी॒रम्¦अ॒र्च॒त॒¦स॒ऽबाधः॑ | |
पू॒र्वीर॑स्य नि॒ष्षिधो॒ मर्त्ये᳚षु पु॒रू वसू᳚नि पृथि॒वी बि॑भर्ति |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्रा᳚य॒ द्याव॒ ओष॑धीरु॒तापो᳚ र॒यिं र॑क्षन्ति जी॒रयो॒ वना᳚नि ||{5/12}{3.3.15.5}{3.51.5}{3.4.13.5}{388, 285, 2905} पू॒र्वीः¦अ॒स्य॒¦निः॒ऽसिधः॑¦मर्त्ये᳚षु¦पु॒रु¦वसू᳚नि¦पृ॒थि॒वी¦बि॒भ॒र्ति॒ | |
तुभ्यं॒ ब्रह्मा᳚णि॒ गिर॑ इन्द्र॒ तुभ्यं᳚ स॒त्रा द॑धिरे हरिवो जु॒षस्व॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} बो॒ध्या॒३॑(आ॒)पिरव॑सो॒ नूत॑नस्य॒ सखे᳚ वसो जरि॒तृभ्यो॒ वयो᳚ धाः ||{6/12}{3.3.16.1}{3.51.6}{3.4.13.6}{389, 285, 2906} तुभ्य᳚म्¦ब्रह्मा᳚णि¦गिरः॑¦इ॒न्द्र॒¦तुभ्य᳚म्¦स॒त्रा¦द॒धि॒रे॒¦ह॒रि॒ऽवः॒¦जु॒षस्व॑ | |
इन्द्र॑ मरुत्व इ॒ह पा᳚हि॒ सोमं॒ यथा᳚ शार्या॒ते, अपि॑बः सु॒तस्य॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तव॒ प्रणी᳚ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः ||{7/12}{3.3.16.2}{3.51.7}{3.4.13.7}{390, 285, 2907} इन्द्र॑¦म॒रु॒त्वः॒¦इ॒ह¦पा॒हि॒¦सोम᳚म्¦यथा᳚¦शा॒र्या॒ते¦अपि॑बः¦सु॒तस्य॑ | |
स वा᳚वशा॒न इ॒ह पा᳚हि॒ सोमं᳚ म॒रुद्भि॑रिन्द्र॒ सखि॑भिः सु॒तं नः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} जा॒तं यत् त्वा॒ परि॑ दे॒वा, अभू᳚षन् म॒हे भरा᳚य पुरुहूत॒ विश्वे᳚ ||{8/12}{3.3.16.3}{3.51.8}{3.4.13.8}{391, 285, 2908} सः¦वा॒व॒शा॒नः¦इ॒ह¦पा॒हि॒¦सोम᳚म्¦म॒रुत्ऽभिः॑¦इ॒न्द्र॒¦सखि॑ऽभिः¦सु॒तम्¦नः॒ | |
अ॒प्तूर्ये᳚ मरुत आ॒पिरे॒षोऽम᳚न्द॒न्निन्द्र॒मनु॒ दाति॑वाराः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तेभिः॑ सा॒कं पि॑बतु वृत्रखा॒दः सु॒तं सोमं᳚ दा॒शुषः॒ स्वे स॒धस्थे᳚ ||{9/12}{3.3.16.4}{3.51.9}{3.4.13.9}{392, 285, 2909} अ॒प्ऽतूर्ये᳚¦म॒रु॒तः॒¦आ॒पिः¦ए॒षः¦अम᳚न्दन्¦इन्द्र᳚म्¦अनु॑¦दाति॑ऽवाराः | |
इ॒दं ह्यन्वोज॑सा सु॒तं रा᳚धानां पते |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} पिबा॒ त्व१॑(अ॒)स्य गि᳚र्वणः ||{10/12}{3.3.16.5}{3.51.10}{3.4.13.10}{393, 285, 2910} इ॒दम्¦हि¦अनु॑¦ओज॑सा¦सु॒तम्¦रा॒धा॒ना॒म्¦प॒ते॒ | पिब॑¦तु¦अ॒स्य¦गि॒र्व॒णः॒ || |
यस्ते॒, अनु॑ स्व॒धामस॑त् सु॒ते नि य॑च्छ त॒न्व᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} स त्वा᳚ ममत्तु सो॒म्यम् ||{11/12}{3.3.16.6}{3.51.11}{3.4.13.11}{394, 285, 2911} यः¦ते॒¦अनु॑¦स्व॒धाम्¦अस॑त्¦सु॒ते¦नि¦य॒च्छ॒¦त॒न्व᳚म् | सः¦त्वा॒¦म॒म॒त्तु॒¦सो॒म्यम् || |
प्र ते᳚, अश्नोतु कु॒क्ष्योः प्रेन्द्र॒ ब्रह्म॑णा॒ शिरः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} प्र बा॒हू शू᳚र॒ राध॑से ||{12/12}{3.3.16.7}{3.51.12}{3.4.13.12}{395, 285, 2912} प्र¦ते॒¦अ॒श्नो॒तु॒¦कु॒क्ष्योः¦प्र¦इ॒न्द्र॒¦ब्रह्म॑णा¦शिरः॑ | प्र¦बा॒हू इति॑¦शू॒र॒¦राध॑से || |
[46] धानावंतमित्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् अध्याश्चतस्रोगायत्र्यः षष्ठीजगती | |
धा॒नाव᳚न्तं कर॒म्भिण॑मपू॒पव᳚न्तमु॒क्थिन᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॑ प्रा॒तर्जु॑षस्व नः ||{1/8}{3.3.17.1}{3.52.1}{3.4.14.1}{396, 286, 2913} धा॒नाऽव᳚न्तम्¦क॒र॒म्भिण᳚म्¦अ॒पू॒पऽव᳚न्तम्¦उ॒क्थिन᳚म् | इन्द्र॑¦प्रा॒तः¦जु॒ष॒स्व॒¦नः॒ || |
पु॒रो॒ळाशं᳚ पच॒त्यं᳚ जु॒षस्वे॒न्द्रा गु॑रस्व च |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} तुभ्यं᳚ ह॒व्यानि॑ सिस्रते ||{2/8}{3.3.17.2}{3.52.2}{3.4.14.2}{397, 286, 2914} पु॒रो॒ळाश᳚म्¦प॒च॒त्य᳚म्¦जु॒षस्व॑¦इ॒न्द्र॒¦आ¦गु॒र॒स्व॒¦च॒ | तुभ्य᳚म्¦ह॒व्यानि॑¦सि॒स्र॒ते॒ || |
पु॒रो॒ळाशं᳚ च नो॒ घसो᳚ जो॒षया᳚से॒ गिर॑श्च नः |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} व॒धू॒युरि॑व॒ योष॑णाम् ||{3/8}{3.3.17.3}{3.52.3}{3.4.14.3}{398, 286, 2915} पु॒रो॒ळाश᳚म्¦च॒¦नः॒¦घसः॑¦जो॒षया᳚से¦गिरः॑¦च॒¦नः॒ | व॒धू॒युःऽइ᳚व¦योष॑णाम् || |
पु॒रो॒ळाशं᳚ सनश्रुत प्रातःसा॒वे जु॑षस्व नः |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒ क्रतु॒र्हि ते᳚ बृ॒हन् ||{4/8}{3.3.17.4}{3.52.4}{3.4.14.4}{399, 286, 2916} पु॒रो॒ळाश᳚म्¦स॒न॒ऽश्रु॒त॒¦प्रा॒तः॒ऽसा॒वे¦जु॒ष॒स्व॒¦नः॒ | इन्द्र॑¦क्रतुः॑¦हि¦ते॒¦बृ॒हन् || |
माध्यं᳚दिनस्य॒ सव॑नस्य धा॒नाः पु॑रो॒ळाश॑मिन्द्र कृष्वे॒ह चारु᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्र यत् स्तो॒ता ज॑रि॒ता तूर्ण्य॑र्थो वृषा॒यमा᳚ण॒ उप॑ गी॒र्भिरीट्टे᳚ ||{5/8}{3.3.17.5}{3.52.5}{3.4.14.5}{400, 286, 2917} माध्यं᳚दिनस्य¦सव॑नस्य¦धा॒नाः¦पु॒रो॒ळाश᳚म्¦इ॒न्द्र॒¦कृ॒ष्व॒¦इ॒ह¦चारु᳚म् | |
तृ॒तीये᳚ धा॒नाः सव॑ने पुरुष्टुत पुरो॒ळाश॒माहु॑तं मामहस्व नः |{गाथिनो विश्वामित्रः | इन्द्रः | जगती} ऋ॒भु॒मन्तं॒ वाज॑वन्तं त्वा कवे॒ प्रय॑स्वन्त॒ उप॑ शिक्षेम धी॒तिभिः॑ ||{6/8}{3.3.18.1}{3.52.6}{3.4.14.6}{401, 286, 2918} तृ॒तीये᳚¦धा॒नाः¦सव॑ने¦पु॒रु॒ऽस्तु॒त॒¦पु॒रो॒ळाश᳚म्¦आऽहु॑तम्¦म॒म॒ह॒स्व॒¦नः॒ | |
पू॒ष॒ण्वते᳚ ते चकृमा कर॒म्भं हरि॑वते॒ हर्य॑श्वाय धा॒नाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒पू॒पम॑द्धि॒ सग॑णो म॒रुद्भिः॒ सोमं᳚ पिब वृत्र॒हा शू᳚र वि॒द्वान् ||{7/8}{3.3.18.2}{3.52.7}{3.4.14.7}{402, 286, 2919} पू॒ष॒ण्ऽवते᳚¦ते॒¦च॒कृ॒म॒¦क॒र॒म्भम्¦हरि॑ऽवते¦हरि॑।आश्वाय¦धा॒नाः | |
प्रति॑ धा॒ना भ॑रत॒ तूय॑मस्मै पुरो॒ळाशं᳚ वी॒रत॑माय नृ॒णाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} दि॒वेदि॑वे स॒दृशी᳚रिन्द्र॒ तुभ्यं॒ वर्ध᳚न्तु त्वा सोम॒पेया᳚य धृष्णो ||{8/8}{3.3.18.3}{3.52.8}{3.4.14.8}{403, 286, 2920} प्रति॑¦धा॒नाः¦भ॒र॒त॒¦तूय᳚म्¦अ॒स्मै॒¦पु॒रो॒ळाश᳚म्¦वी॒रऽत॑माय¦नृ॒णाम् | |
[47] इंद्रापर्वतेति चतुर्विंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्र ऋषिरिंद्रोदेवता आद्यायाइंद्रापर्वतौ पंचदश्यादिद्वयोः ससर्परीवाक् ततश्चतसृणांरथांगानित्रिष्टुप् दशमीषोळश्यौजगत्यौ द्वादशीद्वाविंश्योनुष्टुभः त्रयोदशीगायत्री अष्टादशीबृहती | |
इन्द्रा᳚पर्वता बृह॒ता रथे᳚न वा॒मीरिष॒ आ व॑हतं सु॒वीराः᳚ |{गाथिनो विश्वामित्रः | इन्द्रापर्वतौ | त्रिष्टुप्} वी॒तं ह॒व्यान् य॑ध्व॒रेषु॑ देवा॒ वर्धे᳚थां गी॒र्भिरिळ॑या॒ मद᳚न्ता ||{1/24}{3.3.19.1}{3.53.1}{3.4.15.1}{404, 287, 2921} इन्द्रा᳚पर्वता¦बृ॒ह॒ता¦रथे᳚न¦वा॒मीः¦इषः॑¦आ¦व॒ह॒त॒म्¦सु॒ऽवीराः᳚ | |
तिष्ठा॒ सु कं᳚ मघव॒न् मा परा᳚ गाः॒ सोम॑स्य॒ नु त्वा॒ सुषु॑तस्य यक्षि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} पि॒तुर्न पु॒त्रः सिच॒मा र॑भे त॒ इन्द्र॒ स्वादि॑ष्ठया गि॒रा श॑चीवः ||{2/24}{3.3.19.2}{3.53.2}{3.4.15.2}{405, 287, 2922} तिष्ठ॑¦सु¦क॒म्¦म॒घ॒ऽव॒न्¦मा¦परा᳚¦गाः॒¦सोम॑स्य¦नु¦त्वा॒¦सुऽसु॑तस्य¦य॒क्षि॒ | |
शंसा᳚वाध्वर्यो॒ प्रति॑ मे गृणी॒हीन्द्रा᳚य॒ वाहः॑ कृणवाव॒ जुष्ट᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} एदं ब॒र्हिर्यज॑मानस्य सी॒दाथा᳚ च भूदु॒क्थमिन्द्रा᳚य श॒स्तम् ||{3/24}{3.3.19.3}{3.53.3}{3.4.15.3}{406, 287, 2923} शंसा᳚व¦अ॒ध्व॒र्यो॒ इति॑¦प्रति॑¦मे॒¦गृ॒णी॒हि॒¦इन्द्रा᳚य¦वाहः॑¦कृ॒ण॒वा॒व॒¦जुष्ट᳚म् | |
जा॒येदस्तं᳚ मघव॒न् त्सेदु॒ योनि॒स्तदित् त्वा᳚ यु॒क्ता हर॑यो वहन्तु |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} य॒दा क॒दा च॑ सु॒नवा᳚म॒ सोम॑म॒ग्निष्ट्वा᳚ दू॒तो ध᳚न् वा॒त्यच्छ॑ ||{4/24}{3.3.19.4}{3.53.4}{3.4.15.4}{407, 287, 2924} जा॒या¦इत्¦अस्त᳚म्¦म॒घ॒ऽव॒न्¦सा¦इत्¦ऊँ॒ इति॑¦योनिः॑¦तत्¦इत्¦त्वा॒¦यु॒क्ताः¦हर॑यः¦व॒ह॒न्तु॒ | |
परा᳚ याहि मघव॒न्ना च॑ या॒हीन्द्र॑ भ्रातरुभ॒यत्रा᳚ ते॒, अर्थ᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं᳚ वि॒मोच॑नं वा॒जिनो॒ रास॑भस्य ||{5/24}{3.3.19.5}{3.53.5}{3.4.15.5}{408, 287, 2925} परा᳚¦या॒हि॒¦म॒घ॒ऽव॒न्¦आ¦च॒¦या॒हि॒¦इन्द्र॑¦भ्रा॒तः॒¦उ॒भ॒यत्र॑¦ते॒¦अर्थ᳚म् | |
अपाः॒ सोम॒मस्त॑मिन्द्र॒ प्र या᳚हि कल्या॒णीर्जा॒या सु॒रणं᳚ गृ॒हे ते᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं᳚ वि॒मोच॑नं वा॒जिनो॒ दक्षि॑णावत् ||{6/24}{3.3.20.1}{3.53.6}{3.4.15.6}{409, 287, 2926} अपाः᳚¦सोम᳚म्¦अस्त᳚म्¦इ॒न्द्र॒¦प्र¦या॒हि॒¦क॒ल्या॒णीः¦जा॒या¦सु॒ऽरण᳚म्¦गृ॒हे¦ते॒ | |
इ॒मे भो॒जा, अङ्गि॑रसो॒ विरू᳚पा दि॒वस्पु॒त्रासो॒, असु॑रस्य वी॒राः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वि॒श्वामि॑त्राय॒ दद॑तो म॒घानि॑ सहस्रसा॒वे प्र ति॑रन्त॒ आयुः॑ ||{7/24}{3.3.20.2}{3.53.7}{3.4.15.7}{410, 287, 2927} इ॒मे¦भो॒जाः¦अङ्गि॑रसः¦विऽरू᳚पाः¦दि॒वः¦पु॒त्रासः॑¦असु॑रस्य¦वी॒राः | |
रू॒पंरू᳚पं म॒घवा᳚ बोभवीति मा॒याः कृ᳚ण्वा॒नस्त॒न्व१॑(अं॒) परि॒ स्वाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} त्रिर्यद्दि॒वः परि॑ मुहू॒र्तमागा॒त् स्वैर्मन्त्रै॒रनृ॑तुपा, ऋ॒तावा᳚ ||{8/24}{3.3.20.3}{3.53.8}{3.4.15.8}{411, 287, 2928} रू॒पम्ऽरू᳚पम्¦म॒घऽवा᳚¦बो॒भ॒वी॒ति॒¦मा॒याः¦कृ॒ण्वा॒नः¦त॒न्व᳚म्¦परि॑¦स्वाम् | |
म॒हाँ, ऋषि॑र्देव॒जा दे॒वजू॒तोऽस्त॑भ्ना॒त् सिन्धु॑मर्ण॒वं नृ॒चक्षाः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वि॒श्वामि॑त्रो॒ यदव॑हत् सु॒दास॒मप्रि॑यायत कुशि॒केभि॒रिन्द्रः॑ ||{9/24}{3.3.20.4}{3.53.9}{3.4.15.9}{412, 287, 2929} म॒हान्¦ऋषिः॑¦दे॒व॒ऽजाः¦दे॒वऽजू᳚तः¦अस्त॑भ्नात्¦सिन्धु᳚म्¦अ॒र्ण॒वम्¦नृ॒ऽचक्षाः᳚ | |
हं॒सा, इ॑व कृणुथ॒ श्लोक॒मद्रि॑भि॒र्मद᳚न्तो गी॒र्भिर॑ध्व॒रे सु॒ते सचा᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | जगती} दे॒वेभि᳚र्विप्रा, ऋषयो नृचक्षसो॒ वि पि॑बध्वं कुशिकाः सो॒म्यं मधु॑ ||{10/24}{3.3.20.5}{3.53.10}{3.4.15.10}{413, 287, 2930} हं॒साःऽइ᳚व¦कृ॒णु॒थ॒¦श्लोक᳚म्¦अद्रि॑ऽभिः¦मद᳚न्तः¦गीः॒ऽभिः¦अ॒ध्व॒रे¦सु॒ते¦सचा᳚ | |
उप॒ प्रेत॑ कुशिकाश्चे॒तय॑ध्व॒मश्वं᳚ रा॒ये प्र मु᳚ञ्चता सु॒दासः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} राजा᳚ वृ॒त्रं ज᳚ङ्घन॒त् प्रागपा॒गुद॒गथा᳚ यजाते॒ वर॒ आ पृ॑थि॒व्याः ||{11/24}{3.3.21.1}{3.53.11}{3.4.15.11}{414, 287, 2931} उप॑¦प्र¦इ॒त॒¦कु॒शि॒काः॒¦चे॒तय॑ध्वम्¦अश्व᳚म्¦रा॒ये¦प्र¦मुं॒च॒त॒¦सु॒ऽदासः॑ | |
य इ॒मे रोद॑सी, उ॒भे, अ॒हमिन्द्र॒मतु॑ष्टवम् |{गाथिनो विश्वामित्रः | इन्द्रः | अनुष्टुप्} वि॒श्वामि॑त्रस्य रक्षति॒ ब्रह्मे॒दं भार॑तं॒ जन᳚म् ||{12/24}{3.3.21.2}{3.53.12}{3.4.15.12}{415, 287, 2932} यः¦इ॒मे इति॑¦रोद॑सी॒ इति॑¦उ॒भे इति॑¦अ॒हम्¦इन्द्र᳚म्¦अतु॑स्तवम् | वि॒श्वामि॑त्रस्य¦र॒क्ष॒ति॒¦ब्रह्म॑¦इ॒दम्¦भार॑तम्¦जन᳚म् || |
वि॒श्वामि॑त्रा, अरासत॒ ब्रह्मेन्द्रा᳚य व॒ज्रिणे᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} कर॒दिन्नः॑ सु॒राध॑सः ||{13/24}{3.3.21.3}{3.53.13}{3.4.15.13}{416, 287, 2933} वि॒श्वामि॑त्राः¦अ॒रा॒स॒त॒¦ब्रह्म॑¦इन्द्रा᳚य¦व॒ज्रिणे᳚ | कर॑त्¦इत्¦नः॒¦सु॒ऽराध॑सः || |
किं ते᳚ कृण्वन्ति॒ कीक॑टेषु॒ गावो॒ नाशिरं᳚ दु॒ह्रे न त॑पन्ति घ॒र्मम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} आ नो᳚ भर॒ प्रम॑गन्दस्य॒ वेदो᳚ नैचाशा॒खं म॑घवन् रन्धया नः ||{14/24}{3.3.21.4}{3.53.14}{3.4.15.14}{417, 287, 2934} किम्¦ते॒¦कृ॒ण्व॒न्ति॒¦कीक॑टेषु¦गावः॑¦न¦आ॒ऽशिर॑न्¦दु॒ह्रे¦न¦त॒प॒न्ति॒¦घ॒र्मम् | |
स॒स॒र्प॒रीरम॑तिं॒ बाध॑माना बृ॒हन्मि॑माय ज॒मद॑ग्निदत्ता |{गाथिनो विश्वामित्रः | ससर्परी वाक् | त्रिष्टुप्} आ सूर्य॑स्य दुहि॒ता त॑तान॒ श्रवो᳚ दे॒वेष्व॒मृत॑मजु॒र्यम् ||{15/24}{3.3.21.5}{3.53.15}{3.4.15.15}{418, 287, 2935} स॒स॒र्प॒रीः¦अम॑तिम्¦बाध॑माना¦बृ॒हत्¦मि॒मा॒य॒¦ज॒मद॑ग्निऽदत्ता | |
स॒स॒र्प॒रीर॑भर॒त् तूय॑मे॒भ्योऽधि॒ श्रवः॒ पाञ्च॑जन्यासु कृ॒ष्टिषु॑ |{गाथिनो विश्वामित्रः | ससर्परी वाक् | जगती} सा प॒क्ष्या॒३॑(आ॒) नव्य॒मायु॒र्दधा᳚ना॒ यां मे᳚ पलस्तिजमद॒ग्नयो᳚ द॒दुः ||{16/24}{3.3.22.1}{3.53.16}{3.4.15.16}{419, 287, 2936} स॒स॒र्प॒रीः¦अ॒भ॒र॒त्¦तूय᳚म्¦ए॒भ्यः॒¦अधि॑¦श्रवः॑¦पांच॑ऽजन्यासु¦कृ॒ष्टिषु॑ | |
स्थि॒रौ गावौ᳚ भवतां वी॒ळुरक्षो॒ मेषा वि व᳚र्हि॒ मा यु॒गं वि शा᳚रि |{गाथिनो विश्वामित्रः | रथाङ्गानि | त्रिष्टुप्} इन्द्रः॑ पात॒ल्ये᳚ ददतां॒ शरी᳚तो॒ररि॑ष्टनेमे, अ॒भि नः॑ सचस्व ||{17/24}{3.3.22.2}{3.53.17}{3.4.15.17}{420, 287, 2937} स्थि॒रौ¦गावौ᳚¦भ॒व॒ता॒म्¦वी॒ळुः¦अक्षः॑¦मा¦ई॒षा¦वि¦व॒र्हि॒¦मा¦यु॒गम्¦वि¦शा॒रि॒ | |
बलं᳚ धेहि त॒नूषु॑ नो॒ बल॑मिन्द्रान॒ळुत्सु॑ नः |{गाथिनो विश्वामित्रः | रथाङ्गानि | बृहती} बलं᳚ तो॒काय॒ तन॑याय जी॒वसे॒ त्वं हि ब॑ल॒दा, असि॑ ||{18/24}{3.3.22.3}{3.53.18}{3.4.15.18}{421, 287, 2938} बल᳚म्¦धे॒हि॒¦त॒नूषु॑¦नः॒¦बल᳚म्¦इ॒न्द्र॒¦अ॒न॒ळुत्ऽसु॑¦नः॒ | |
अ॒भि व्य॑यस्व खदि॒रस्य॒ सार॒मोजो᳚ धेहि स्पन्द॒ने शिं॒शपा᳚याम् |{गाथिनो विश्वामित्रः | रथाङ्गानि | त्रिष्टुप्} अक्ष॑ वीळो वीळित वी॒ळय॑स्व॒ मा यामा᳚द॒स्मादव॑ जीहिपो नः ||{19/24}{3.3.22.4}{3.53.19}{3.4.15.19}{422, 287, 2939} अ॒भि¦व्य॒य॒स्व॒¦ख॒दि॒रस्य॑¦सार᳚म्¦ओजः॑¦धे॒हि॒¦स्प॒न्द॒ने¦शिं॒शपा᳚याम् | |
अ॒यम॒स्मान् वन॒स्पति॒र्मा च॒ हा मा च॑ रीरिषत् |{गाथिनो विश्वामित्रः | रथाङ्गानि | अनुष्टुप्} स्व॒स्त्या गृ॒हेभ्य॒ आव॒सा, आ वि॒मोच॑नात् ||{20/24}{3.3.22.5}{3.53.20}{3.4.15.20}{423, 287, 2940} अ॒यम्¦अ॒स्मान्¦वन॒स्पतिः॑¦मा¦च॒¦हाः¦मा¦च॒¦रि॒रि॒ष॒त् | स्व॒स्ति¦आ¦गृ॒हेभ्यः॑¦आ¦अ॒व॒ऽसै¦आ¦वि॒ऽमोच॑नात् || |
इन्द्रो॒तिभि॑र्बहु॒लाभि᳚र्नो, अ॒द्य या᳚च्छ्रे॒ष्ठाभि᳚र्मघवञ्छूर जिन्व |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यो नो॒ द्वेष्ट्यध॑रः॒ सस्प॑दीष्ट॒ यमु॑ द्वि॒ष्मस्तमु॑ प्रा॒णो ज॑हातु ||{21/24}{3.3.23.1}{3.53.21}{3.4.15.21}{424, 287, 2941} इन्द्र॑¦ऊ॒तिऽभिः॑¦ब॒हु॒लाभिः॑¦नः॒¦अ॒द्य¦या॒त्ऽश्रे॒ष्ठाभिः॑¦म॒घ॒ऽव॒न्¦शू॒र॒¦जि॒न्व॒ | |
प॒र॒शुं चि॒द् वि त॑पति शिम्ब॒लं चि॒द् वि वृ॑श्चति |{गाथिनो विश्वामित्रः | इन्द्रः | अनुष्टुप्} उ॒खा चि॑दिन्द्र॒ येष᳚न्ती॒ प्रय॑स्ता॒ फेन॑मस्यति ||{22/24}{3.3.23.2}{3.53.22}{3.4.15.22}{425, 287, 2942} प॒र॒शुम्¦चि॒त्¦वि¦त॒प॒ति॒¦शि॒म्ब॒लम्¦चि॒त्¦वि¦वृ॒श्च॒ति॒ | उ॒खा¦चि॒त्¦इ॒न्द्र॒ ¦येष᳚न्ती¦प्रऽय॑स्ता¦फेन᳚म्¦अ॒स्य॒ति॒ || |
न साय॑कस्य चिकिते जनासो लो॒धं न॑यन्ति॒ पशु॒ मन्य॑मानाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} नावा᳚जिनं वा॒जिना᳚ हासयन्ति॒ न ग॑र्द॒भं पु॒रो, अश्वा᳚न्नयन्ति ||{23/24}{3.3.23.3}{3.53.23}{3.4.15.23}{426, 287, 2943} न¦साय॑कस्य¦चि॒कि॒ते॒¦ज॒ना॒सः॒¦लो॒धम्¦न॒य॒न्ति॒¦पशु॑¦मन्य॑मानाः | |
इ॒म इ᳚न्द्र भर॒तस्य॑ पु॒त्रा, अ॑पपि॒त्वं चि॑कितु॒र्न प्र॑पि॒त्वम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} हि॒न्वन्त्यश्व॒मर॑णं॒ न नित्यं॒ ज्या᳚वाजं॒ परि॑ णयन्त्या॒जौ ||{24/24}{3.3.23.4}{3.53.24}{3.4.15.24}{427, 287, 2944} इ॒मे¦इ॒न्द्र॒¦भ॒र॒तस्य॑¦पु॒त्राः¦अ॒प॒ऽपि॒त्वम्¦चि॒कि॒तुः॒¦न¦प्र॒ऽपि॒त्वम् | |
[48] इमंमहइति द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रःप्रजापतिर्विश्वेदेवास्त्रिष्टुप् (सूक्तभेदप्रयोगपक्षेदेवताः क्रमेण - अग्निः १ विश्वेदेवाः २ द्यावापृथिवी १ विश्वे। १ सूर्यद्यावापृथिव्यः १ द्यावापृथिवी २ द्यौः १ विश्वेदेवाः १ सविता १ विश्वे। २ विष्णुः १ इंद्रः १ अश्विनौ १ विश्वेदेवाः ५ अग्निः १ एवं २२ उत्तरसूक्तेअखिला अपिविश्वेदेवाः)| |
इ॒मं म॒हे वि॑द॒थ्या᳚य शू॒षं शश्व॒त् कृत्व॒ ईड्या᳚य॒ प्र ज॑भ्रुः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} शृ॒णोतु॑ नो॒ दम्ये᳚भि॒रनी᳚कैः शृ॒णोत्व॒ग्निर्दि॒व्यैरज॑स्रः ||{1/22}{3.3.24.1}{3.54.1}{3.5.1.1}{428, 288, 2945} इ॒मम्¦म॒हे¦वि॒द॒थ्या᳚य¦शू॒षम्¦शश्व॑त्¦कृत्वः॑¦ईड्या᳚य¦प्र¦ज॒भ्रुः॒ | |
महि॑ म॒हे दि॒वे, अ॑र्चा पृथि॒व्यै कामो᳚ म इ॒च्छञ्च॑रति प्रजा॒नन् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} ययो᳚र्ह॒ स्तोमे᳚ वि॒दथे᳚षु दे॒वाः स॑प॒र्यवो᳚ मा॒दय᳚न्ते॒ सचा॒योः ||{2/22}{3.3.24.2}{3.54.2}{3.5.1.2}{429, 288, 2946} महि॑¦म॒हे¦दि॒वे¦अ॒र्च॒¦पृ॒थि॒व्यै¦कामः॑¦मे॒¦इ॒च्छन्¦च॒र॒ति॒¦प्र॒ऽजा॒नन् | |
यु॒वोरृ॒तं रो᳚दसी स॒त्यम॑स्तु म॒हे षु णः॑ सुवि॒ताय॒ प्र भू᳚तम् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} इ॒दं दि॒वे नमो᳚, अग्ने पृथि॒व्यै स॑प॒र्यामि॒ प्रय॑सा॒ यामि॒ रत्न᳚म् ||{3/22}{3.3.24.3}{3.54.3}{3.5.1.3}{430, 288, 2947} यु॒वोः¦ऋ॒तम्¦रो॒द॒सी॒ इति॑¦स॒त्यम्¦अ॒स्तु॒¦म॒हे¦सु¦नः॒¦सु॒ऽवि॒ताय॑¦प्र¦भू॒त॒म् | |
उ॒तो हि वां᳚ पू॒र्व्या, आ᳚विवि॒द्र ऋता᳚वरी रोदसी सत्य॒वाचः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} नर॑श्चिद् वां समि॒थे शूर॑सातौ ववन्दि॒रे पृ॑थिवि॒ वेवि॑दानाः ||{4/22}{3.3.24.4}{3.54.4}{3.5.1.4}{431, 288, 2948} उ॒तो इति॑¦हि¦वा॒म्¦पू॒र्व्याः¦आ॒ऽवि॒वि॒द्रे¦ऋत॑वरी॒ इत्यृत॑ऽवरी¦रो॒द॒सी॒ इति॑¦स॒त्य॒ऽवाचः॑ | |
को, अ॒द्धा वे᳚द॒ क इ॒ह प्र वो᳚चद् दे॒वाँ, अच्छा᳚ प॒थ्या॒३॑(आ॒) का समे᳚ति |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} ददृ॑श्र एषामव॒मा सदां᳚सि॒ परे᳚षु॒ या गुह्ये᳚षु व्र॒तेषु॑ ||{5/22}{3.3.24.5}{3.54.5}{3.5.1.5}{432, 288, 2949} कः¦अ॒द्धा¦वे॒द॒¦कः¦इ॒ह¦प्र¦वो॒च॒त्¦दे॒वान्¦अच्छ॑¦प॒थ्या᳚¦का¦सम्¦ए॒ति॒ | |
क॒विर्नृ॒चक्षा᳚, अ॒भि षी᳚मचष्ट ऋ॒तस्य॒ योना॒ विघृ॑ते॒ मद᳚न्ती |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} नाना᳚ चक्राते॒ सद॑नं॒ यथा॒ वेः स॑मा॒नेन॒ क्रतु॑ना संविदा॒ने ||{6/22}{3.3.25.1}{3.54.6}{3.5.1.6}{433, 288, 2950} क॒विः¦नृ॒ऽचक्षाः᳚¦अ॒भि¦सी॒म्¦अ॒च॒ष्ट॒¦ऋ॒तस्य॑¦योना᳚¦विघृ॑ते॒ इति॒ विऽघृ॑ते¦मद᳚न्ती॒ इति॑ | |
स॒मा॒न्या वियु॑ते दू॒रे,अ᳚न्ते ध्रु॒वे प॒दे त॑स्थतुर्जाग॒रूके᳚ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} उ॒त स्वसा᳚रा युव॒ती भव᳚न्ती॒, आदु॑ ब्रुवाते मिथु॒नानि॒ नाम॑ ||{7/22}{3.3.25.2}{3.54.7}{3.5.1.7}{434, 288, 2951} स॒मा॒न्या¦वियु॑ते॒ इति॒ विऽयु॑ते¦दू॒रेअ᳚न्ते॒ इति॑ दू॒रे।आ᳚न्ते¦ध्रु॒वे¦प॒दे¦त॒स्थ॒तुः॒¦जा॒ग॒रूके᳚ | |
विश्वेदे॒ते जनि॑मा॒ सं वि॑विक्तो म॒हो दे॒वान् बिभ्र॑ती॒ न व्य॑थेते |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} एज॑द् ध्रु॒वं प॑त्यते॒ विश्व॒मेकं॒ चर॑त् पत॒त्रि विषु॑णं॒ वि जा॒तम् ||{8/22}{3.3.25.3}{3.54.8}{3.5.1.8}{435, 288, 2952} विश्वा᳚¦इत्¦ए॒ते इति॑¦जनि॑म¦सम्¦वि॒वि॒क्तः॒¦म॒हः¦दे॒वान्¦बिभ्र॑ती॒ इति॑¦न¦व्य॒थे॒ते॒ इति॑ | |
सना᳚ पुरा॒णमध्ये᳚म्या॒रान्म॒हः पि॒तुर्ज॑नि॒तुर्जा॒मि तन्नः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} दे॒वासो॒ यत्र॑ पनि॒तार॒ एवै᳚रु॒रौ प॒थि व्यु॑ते त॒स्थुर॒न्तः ||{9/22}{3.3.25.4}{3.54.9}{3.5.1.9}{436, 288, 2953} सना᳚¦पु॒रा॒णम्¦अधि॑¦ए॒मि॒¦आ॒रात्¦म॒हः¦पि॒तुः¦ज॒नि॒तुः¦जा॒मि¦तत्¦नः॒ | |
इ॒मं स्तोमं᳚ रोदसी॒ प्र ब्र॑वीम्यृदू॒दराः᳚ शृणवन्नग्निजि॒ह्वाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} मि॒त्रः स॒म्राजो॒ वरु॑णो॒ युवा᳚न आदि॒त्यासः॑ क॒वयः॑ पप्रथा॒नाः ||{10/22}{3.3.25.5}{3.54.10}{3.5.1.10}{437, 288, 2954} इ॒मम्¦स्तोम᳚म्¦रो॒द॒सी॒ इति॑¦प्र¦ब्र॒वी॒मि॒¦ऋ॒दू॒दराः᳚¦शृ॒ण॒व॒न्¦अ॒ग्नि॒ऽजि॒ह्वाः | |
हिर᳚ण्यपाणिः सवि॒ता सु॑जि॒ह्वस्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} दे॒वेषु॑ च सवितः॒ श्लोक॒मश्रे॒राद॒स्मभ्य॒मा सु॑व स॒र्वता᳚तिम् ||{11/22}{3.3.26.1}{3.54.11}{3.5.1.11}{438, 288, 2955} हिर᳚ण्यऽपाणिः¦स॒वि॒ता¦सु॒ऽजि॒ह्वः¦त्रिः¦आ¦दि॒वः¦वि॒दथे᳚¦पत्य॑मानः | |
सु॒कृत् सु॑पा॒णिः स्ववाँ᳚, ऋ॒तावा᳚ दे॒वस्त्वष्टाव॑से॒ तानि॑ नो धात् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} पू॒ष॒ण्वन्त॑ ऋभवो मादयध्वमू॒र्ध्वग्रा᳚वाणो, अध्व॒रम॑तष्ट ||{12/22}{3.3.26.2}{3.54.12}{3.5.1.12}{439, 288, 2956} सु॒ऽकृत्¦सु॒ऽपा॒णिः¦स्वऽवा᳚न्¦ऋ॒तऽवा᳚¦दे॒वः¦त्वष्टा᳚¦अव॑से¦तानि॑¦नः॒¦धा॒त् | |
वि॒द्युद्र॑था म॒रुत॑ ऋष्टि॒मन्तो᳚ दि॒वो मर्या᳚ ऋ॒तजा᳚ता, अ॒यासः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} सर॑स्वती शृणवन् य॒ज्ञिया᳚सो॒ धाता᳚ र॒यिं स॒हवी᳚रं तुरासः ||{13/22}{3.3.26.3}{3.54.13}{3.5.1.13}{440, 288, 2957} वि॒द्युत्ऽर॑थाः¦म॒रुतः॑¦ऋ॒ष्टि॒ऽमन्तः॑¦दि॒वः¦मर्याः᳚¦ऋ॒तऽजा᳚ताः¦अ॒यासः॑ | |
विष्णुं॒ स्तोमा᳚सः पुरुद॒स्मम॒र्का भग॑स्येव का॒रिणो॒ याम॑नि ग्मन् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} उ॒रु॒क्र॒मः क॑कु॒हो यस्य॑ पू॒र्वीर्न म॑र्धन्ति युव॒तयो॒ जनि॑त्रीः ||{14/22}{3.3.26.4}{3.54.14}{3.5.1.14}{441, 288, 2958} विष्णु᳚म्¦स्तोमा᳚सः¦पु॒रु॒ऽद॒स्मम्¦अ॒र्काः¦भग॑स्यऽइव¦का॒रिणः॑¦याम॑नि¦ग्म॒न् | |
इन्द्रो॒ विश्वै᳚र्वी॒र्यै॒३॑(ऐः॒) पत्य॑मान उ॒भे, आ प॑प्रौ॒ रोद॑सी महि॒त्वा |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} पु॒रं॒द॒रो वृ॑त्र॒हा धृ॒ष्णुषे᳚णः सं॒गृभ्या᳚ न॒ आ भ॑रा॒ भूरि॑ प॒श्वः ||{15/22}{3.3.26.5}{3.54.15}{3.5.1.15}{442, 288, 2959} इन्द्रः॑¦विश्वैः᳚¦वी॒र्यैः᳚¦पत्य॑मानः¦उ॒भे इति॑¦आ¦प॒प्रौ॒¦रोद॑सी॒ इति॑¦म॒हि॒ऽत्वा | |
नास॑त्या मे पि॒तरा᳚ बन्धु॒पृच्छा᳚ सजा॒त्य॑म॒श्विनो॒श्चारु॒ नाम॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} यु॒वं हि स्थो र॑यि॒दौ नो᳚ रयी॒णां दा॒त्रं र॑क्षेथे॒, अक॑वै॒रद॑ब्धा ||{16/22}{3.3.27.1}{3.54.16}{3.5.1.16}{443, 288, 2960} नास॑त्या¦मे॒¦पि॒तरा᳚¦ब॒न्धु॒ऽपृच्छा᳚¦स॒ऽजा॒त्य᳚म्¦अ॒श्विनोः᳚¦चारु॑¦नाम॑ | |
म॒हत्तद् वः॑ कवय॒श्चारु॒ नाम॒ यद्ध॑ देवा॒ भव॑थ॒ विश्व॒ इन्द्रे᳚ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} सख॑ ऋ॒भुभिः॑ पुरुहूत प्रि॒येभि॑रि॒मां धियं᳚ सा॒तये᳚ तक्षता नः ||{17/22}{3.3.27.2}{3.54.17}{3.5.1.17}{444, 288, 2961} म॒हत्¦तत्¦वः॒¦क॒व॒यः॒¦चारु॑¦नाम॑¦यत्¦ह॒¦दे॒वाः॒¦भव॑थ¦विश्वे᳚¦इन्द्रे᳚ | |
अ॒र्य॒मा णो॒, अदि॑तिर्य॒ज्ञिया॒सोऽद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} यु॒योत॑ नो, अनप॒त्यानि॒ गन्तोः᳚ प्र॒जावा᳚न् नः पशु॒माँ, अ॑स्तु गा॒तुः ||{18/22}{3.3.27.3}{3.54.18}{3.5.1.18}{445, 288, 2962} अ॒र्य॒मा¦नः॒¦अदि॑तिः¦य॒ज्ञिया᳚सः¦अद॑ब्धानि¦वरु॑णस्य¦व्र॒तानि॑ | |
दे॒वानां᳚ दू॒तः पु॑रु॒ध प्रसू॒तोऽना᳚गान् नो वोचतु स॒र्वता᳚ता |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} शृ॒णोतु॑ नः पृथि॒वी द्यौरु॒तापः॒ सूर्यो॒ नक्ष॑त्रैरु॒र्व१॑(अ॒)न्तरि॑क्षम् ||{19/22}{3.3.27.4}{3.54.19}{3.5.1.19}{446, 288, 2963} दे॒वाना᳚म्¦दू॒तः¦पु॒रु॒ध¦प्रऽसू᳚तः¦अना᳚गान्¦नः॒¦वो॒च॒तु॒¦स॒र्वऽता᳚ता | |
शृ॒ण्वन्तु॑ नो॒ वृष॑णः॒ पर्व॑तासो ध्रु॒वक्षे᳚मास॒ इळ॑या॒ मद᳚न्तः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} आ॒दि॒त्यैर्नो॒, अदि॑तिः शृणोतु॒ यच्छ᳚न्तु नो म॒रुतः॒ शर्म॑ भ॒द्रम् ||{20/22}{3.3.27.5}{3.54.20}{3.5.1.20}{447, 288, 2964} शृ॒ण्वन्तु॑¦नः॒¦वृष॑णः¦पर्व॑तासः¦ध्रु॒वऽक्षे᳚मासः¦इळ॑या¦मद᳚न्तः | |
सदा᳚ सु॒गः पि॑तु॒माँ, अ॑स्तु॒ पन्था॒ मध्वा᳚ देवा॒, ओष॑धीः॒ सं पि॑पृक्त |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} भगो᳚ मे, अग्ने स॒ख्ये न मृ॑ध्या॒, उद् रा॒यो, अ॑श्यां॒ सद॑नं पुरु॒क्षोः ||{21/22}{3.3.27.6}{3.54.21}{3.5.1.21}{448, 288, 2965} सदा᳚¦सु॒ऽगः¦पि॒तु॒ऽमान्¦अ॒स्तु॒¦पन्था᳚¦मध्वा᳚¦दे॒वाः॒¦ओष॑धीः¦सम्¦पि॒पृ॒क्त॒ | |
स्वद॑स्व ह॒व्या समिषो᳚ दिदीह्यस्म॒द्र्य१॑(अ॒)क् सं मि॑मीहि॒ श्रवां᳚सि |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} विश्वाँ᳚, अग्ने पृ॒त्सु ताञ्जे᳚षि॒ शत्रू॒नहा॒ विश्वा᳚ सु॒मना᳚ दीदिही नः ||{22/22}{3.3.27.7}{3.54.22}{3.5.1.22}{449, 288, 2966} स्वद॑स्व¦ह॒व्या¦सम्¦इषः॑¦दि॒दी॒हि॒¦अ॒स्म॒द्र्य॑क्¦सम्¦मि॒मी॒हि॒¦श्रवां᳚सि | |
[49] उषसइति द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रःप्रजापतिर्विश्वेदेवास्त्रिष्टुप् | |
उ॒षसः॒ पूर्वा॒, अध॒ यद् व्यू॒षुर्म॒हद् वि ज॑ज्ञे, अ॒क्षरं᳚ प॒दे गोः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} व्र॒ता दे॒वाना॒मुप॒ नु प्र॒भूष᳚न् म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{1/22}{3.3.28.1}{3.55.1}{3.5.2.1}{450, 289, 2967} उ॒षसः॑¦पूर्वाः᳚¦अध॑¦यत्¦वि॒ऽऊ॒षुः¦म॒हत्¦वि¦ज॒ज्ञे॒¦अ॒क्षर᳚म्¦प॒दे¦गोः | |
मो षू णो॒, अत्र॑ जुहुरन्त दे॒वा मा पूर्वे᳚, अग्ने पि॒तरः॑ पद॒ज्ञाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} पु॒रा॒ण्योः सद्म॑नोः के॒तुर॒न्तर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{2/22}{3.3.28.2}{3.55.2}{3.5.2.2}{451, 289, 2968} मो इति॑¦सु¦नः॒¦अत्र॑¦जु॒हु॒र॒न्त॒¦दे॒वाः¦मा¦पूर्वे᳚¦अ॒ग्ने॒¦पि॒तरः॑¦प॒द॒ऽज्ञाः | |
वि मे᳚ पुरु॒त्रा प॑तयन्ति॒ कामाः॒ शम्यच्छा᳚ दीद्ये पू॒र्व्याणि॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} समि॑द्धे, अ॒ग्नावृ॒तमिद् व॑देम म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3/22}{3.3.28.3}{3.55.3}{3.5.2.3}{452, 289, 2969} वि¦मे॒¦पु॒रु॒ऽत्रा¦प॒त॒य॒न्ति॒¦कामाः᳚¦शमि॑¦अच्छ॑¦दी॒द्ये॒¦पू॒र्व्याणि॑ | |
स॒मा॒नो राजा॒ विभृ॑तः पुरु॒त्रा शये᳚ श॒यासु॒ प्रयु॑तो॒ वनानु॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} अ॒न्या व॒त्सं भर॑ति॒ क्षेति॑ मा॒ता म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{4/22}{3.3.28.4}{3.55.4}{3.5.2.4}{453, 289, 2970} स॒मा॒नः¦राजा᳚¦विऽभृ॑तः¦पु॒रु॒ऽत्रा¦शये᳚¦श॒यासु॑¦प्रऽयु॑तः¦वना᳚¦अनु॑ | |
आ॒क्षित् पूर्वा॒स्वप॑रा, अनू॒रुत् स॒द्यो जा॒तासु॒ तरु॑णीष्व॒न्तः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} अ॒न्तर्व॑तीः सुवते॒, अप्र॑वीता म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{5/22}{3.3.28.5}{3.55.5}{3.5.2.5}{454, 289, 2971} आ॒ऽक्षित्¦पूर्वा᳚सु¦अप॑राः¦अ॒नू॒रुत्¦स॒द्यः¦जा॒तासु॑¦तरु॑णीषु¦अ॒न्तरिति॑ | |
श॒युः प॒रस्ता॒दध॒ नु द्वि॑मा॒ताब᳚न्ध॒नश्च॑रति व॒त्स एकः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} मि॒त्रस्य॒ ता वरु॑णस्य व्र॒तानि॑ म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{6/22}{3.3.29.1}{3.55.6}{3.5.2.6}{455, 289, 2972} श॒युः¦प॒रस्ता᳚त्¦अध॑¦नु¦द्वि॒ऽमा॒ता¦अ॒ब॒न्ध॒नः¦च॒र॒ति॒¦व॒त्सः¦एकः॑ | |
द्वि॒मा॒ता होता᳚ वि॒दथे᳚षु स॒म्राळन्वग्रं॒ चर॑ति॒ क्षेति॑ बु॒ध्नः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} प्र रण्या᳚नि रण्य॒वाचो᳚ भरन्ते म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{7/22}{3.3.29.2}{3.55.7}{3.5.2.7}{456, 289, 2973} द्वि॒ऽमा॒ता¦होता᳚¦वि॒दथे᳚षु¦स॒म्ऽराट्¦अनु॑¦अग्र᳚म्¦चर॑ति¦क्षेति॑¦बु॒ध्नः | |
शूर॑स्येव॒ युध्य॑तो, अन्त॒मस्य॑ प्रती॒चीनं᳚ ददृशे॒ विश्व॑मा॒यत् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} अ॒न्तर्म॒तिश्च॑रति नि॒ष्षिधं॒ गोर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{8/22}{3.3.29.3}{3.55.8}{3.5.2.8}{457, 289, 2974} शूर॑स्यऽइव¦युध्य॑तः¦अ॒न्त॒मस्य॑¦प्र॒ती॒चीन᳚म्¦द॒दृ॒शे॒¦विश्व᳚म्¦आ॒ऽयत् | |
नि वे᳚वेति पलि॒तो दू॒त आ᳚स्व॒न्तर्म॒हाँश्च॑रति रोच॒नेन॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} वपूं᳚षि॒ बिभ्र॑द॒भि नो॒ वि च॑ष्टे म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{9/22}{3.3.29.4}{3.55.9}{3.5.2.9}{458, 289, 2975} नि¦वे॒वे॒ति॒¦प॒लि॒तः¦दू॒तः¦आ॒सु॒¦अ॒न्तः¦म॒हान्¦च॒र॒ति॒¦रो॒च॒नेन॑ | |
विष्णु॑र्गो॒पाः प॑र॒मं पा᳚ति॒ पाथः॑ प्रि॒या धामा᳚न्य॒मृता॒ दधा᳚नः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} अ॒ग्निष्टा विश्वा॒ भुव॑नानि वेद म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{10/22}{3.3.29.5}{3.55.10}{3.5.2.10}{459, 289, 2976} विष्णुः॑¦गो॒पाः¦प॒र॒मम्¦पा॒ति॒¦पाथः॑¦प्रि॒या¦धामा᳚नि¦अ॒मृता᳚¦दधा᳚नः | |
नाना᳚ चक्राते य॒म्या॒३॑(आ॒) वपूं᳚षि॒ तयो᳚र॒न्यद् रोच॑ते कृ॒ष्णम॒न्यत् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} श्यावी᳚ च॒ यदरु॑षी च॒ स्वसा᳚रौ म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{11/22}{3.3.30.1}{3.55.11}{3.5.2.11}{460, 289, 2977} नाना᳚¦च॒क्रा॒ते॒ इति॑¦य॒म्या᳚¦वपूं᳚षि¦तयोः᳚¦अ॒न्यत्¦रोच॑ते¦कृ॒ष्णम्¦अ॒न्यत् | |
मा॒ता च॒ यत्र॑ दुहि॒ता च॑ धे॒नू स॑ब॒र्दुघे᳚ धा॒पये᳚ते समी॒ची |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} ऋ॒तस्य॒ ते सद॑सीळे, अ॒न्तर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{12/22}{3.3.30.2}{3.55.12}{3.5.2.12}{461, 289, 2978} मा॒ता¦च॒¦यत्र॑¦दु॒हि॒ता¦च॒¦धे॒नू इति॑¦स॒ब॒र्दुघे॒ इति॑ स॒बः॒ऽदुघे᳚¦धा॒पये᳚ते॒ इति॑¦स॒मी॒ची इति॑ स॒म्ऽई॒ची | |
अ॒न्यस्या᳚ व॒त्सं रि॑ह॒ती मि॑माय॒ कया᳚ भु॒वा नि द॑धे धे॒नुरूधः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} ऋ॒तस्य॒ सा पय॑सापिन्व॒तेळा᳚ म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{13/22}{3.3.30.3}{3.55.13}{3.5.2.13}{462, 289, 2979} अ॒न्यस्याः᳚¦व॒त्सम्¦रि॒ह॒ती¦मि॒मा॒य॒¦कया᳚¦भु॒वा¦नि¦द॒धे॒¦धे॒नुः¦ऊधः॑ | |
पद्या᳚ वस्ते पुरु॒रूपा॒ वपूं᳚ष्यू॒र्ध्वा त॑स्थौ॒ त्र्यविं॒ रेरि॑हाणा |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} ऋ॒तस्य॒ सद्म॒ वि च॑रामि वि॒द्वान् म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{14/22}{3.3.30.4}{3.55.14}{3.5.2.14}{463, 289, 2980} पद्या᳚¦व॒स्ते॒¦पु॒रु॒ऽरूपा᳚¦वपूं᳚षि¦ऊ॒र्ध्वा¦त॒स्थौ॒¦त्रि॒।आवि᳚म्¦रेरि॑हाणा | |
प॒दे, इ॑व॒ निहि॑ते द॒स्मे, अ॒न्तस्तयो᳚र॒न्यद् गुह्य॑मा॒विर॒न्यत् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} स॒ध्री॒ची॒ना प॒थ्या॒३॑(आ॒) सा विषू᳚ची म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{15/22}{3.3.30.5}{3.55.15}{3.5.2.15}{464, 289, 2981} प॒दे इ॒वेति॑ प॒देऽइ᳚व¦निहि॑ते॒ इति॒ निऽहि॑ते¦द॒स्मे¦अ॒न्तरिति॑¦तयोः᳚¦अ॒न्यत्¦गुह्य᳚म्¦आ॒विः¦अ॒न्यत् | |
आ धे॒नवो᳚ धुनयन्ता॒मशि॑श्वीः सब॒र्दुघाः᳚ शश॒या, अप्र॑दुग्धाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} नव्या᳚नव्या युव॒तयो॒ भव᳚न्तीर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{16/22}{3.3.31.1}{3.55.16}{3.5.2.16}{465, 289, 2982} आ¦धे॒नवः॑¦धु॒न॒य॒न्ता॒म्¦अशि॑श्वीः¦स॒बः॒ऽदुघाः᳚¦श॒श॒याः¦अप्र॑ऽदुग्धाः | |
यद॒न्यासु॑ वृष॒भो रोर॑वीति॒ सो, अ॒न्यस्मि᳚न् यू॒थे नि द॑धाति॒ रेतः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} स हि क्षपा᳚वा॒न् त्स भगः॒ स राजा᳚ म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{17/22}{3.3.31.2}{3.55.17}{3.5.2.17}{466, 289, 2983} यत्¦अ॒न्यासु॑¦वृ॒ष॒भः¦रोर॑वीति¦सः¦अ॒न्यस्मि॑न्¦यू॒थे¦नि¦द॒धा॒ति॒¦रेतः॑ | |
वी॒रस्य॒ नु स्वश्व्यं᳚ जनासः॒ प्र नु वो᳚चाम वि॒दुर॑स्य दे॒वाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} षो॒ळ्हा यु॒क्ताः पञ्च॑प॒ञ्चा व॑हन्ति म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{18/22}{3.3.31.3}{3.55.18}{3.5.2.18}{467, 289, 2984} वी॒रस्य॑¦नु¦सु॒।आश्व्य᳚म्¦ज॒ना॒सः॒¦प्र¦नु¦वो॒चा॒म॒¦वि॒दुः¦अ॒स्य॒¦दे॒वाः | |
दे॒वस्त्वष्टा᳚ सवि॒ता वि॒श्वरू᳚पः पु॒पोष॑ प्र॒जाः पु॑रु॒धा ज॑जान |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} इ॒मा च॒ विश्वा॒ भुव॑नान्यस्य म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{19/22}{3.3.31.4}{3.55.19}{3.5.2.19}{468, 289, 2985} दे॒वः¦त्वष्टा᳚¦स॒वि॒ता¦वि॒श्वऽरू᳚पः¦पु॒पोष॑¦प्र॒ऽजाः¦पु॒रु॒धा¦ज॒जा॒न॒ | |
म॒ही समै᳚रच्च॒म्वा᳚ समी॒ची, उ॒भे ते, अ॑स्य॒ वसु॑ना॒ न्यृ॑ष्टे |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} शृ॒ण्वे वी॒रो वि॒न्दमा᳚नो॒ वसू᳚नि म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{20/22}{3.3.31.5}{3.55.20}{3.5.2.20}{469, 289, 2986} म॒ही इति॑¦सम्¦ऐ॒र॒त्¦च॒म्वा᳚¦स॒मी॒ची इति॑ स॒म्ऽई॒ची¦उ॒भे इति॑¦ते इति॑¦अ॒स्य॒¦वसु॑ना¦न्यृ॑ष्टे॒ इति॒ निऽऋ॑ष्टे | |
इ॒मां च॑ नः पृथि॒वीं वि॒श्वधा᳚या॒, उप॑ क्षेति हि॒तमि॑त्रो॒ न राजा᳚ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} पु॒रः॒सदः॑ शर्म॒सदो॒ न वी॒रा म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{21/22}{3.3.31.6}{3.55.21}{3.5.2.21}{470, 289, 2987} इ॒माम्¦च॒¦नः॒¦पृ॒थि॒वीम्¦वि॒श्वऽधा᳚याः¦उप॑¦क्षे॒ति॒¦हि॒तऽमि॑त्रः¦न¦राजा᳚ | |
नि॒ष्षिध्व॑रीस्त॒ ओष॑धीरु॒तापो᳚ र॒यिं त॑ इन्द्र पृथि॒वी बि॑भर्ति |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} सखा᳚यस्ते वाम॒भाजः॑ स्याम म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{22/22}{3.3.31.7}{3.55.22}{3.5.2.22}{471, 289, 2988} निः॒ऽसिध्व॑रीः¦ते॒¦ओष॑धीः¦उ॒त¦आपः॑¦र॒यिम्¦ते॒¦इ॒न्द्र॒¦पृ॒थि॒वी¦बि॒भ॒र्ति॒ | |
[50] नतामिनंतीत्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्रो विश्वेदेवास्त्रिष्टुप् (भेदपक्षेविभागः क्रमेण - विश्वेदेवाः १ संवत्सरादित्याः सिंधवः १ सविता १ विश्वेदेवाः २ एवमष्टौ)| |
न ता मि॑नन्ति मा॒यिनो॒ न धीरा᳚ व्र॒ता दे॒वानां᳚ प्रथ॒मा ध्रु॒वाणि॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} न रोद॑सी, अ॒द्रुहा᳚ वे॒द्याभि॒र्न पर्व॑ता नि॒नमे᳚ तस्थि॒वांसः॑ ||{1/8}{3.4.1.1}{3.56.1}{3.5.3.1}{472, 290, 2989} न¦ता¦मि॒न॒न्ति॒¦मा॒यिनः॑¦न¦धीराः᳚¦व्र॒ता¦दे॒वाना᳚म्¦प्र॒थ॒मा¦ध्रु॒वाणि॑ | |
षड् भा॒राँ, एको॒, अच॑रन् बिभर्त्यृ॒तं वर्षि॑ष्ठ॒मुप॒ गाव॒ आगुः॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} ति॒स्रो म॒हीरुप॑रास्तस्थु॒रत्या॒ गुहा॒ द्वे निहि॑ते॒ दर्श्येका᳚ ||{2/8}{3.4.1.2}{3.56.2}{3.5.3.2}{473, 290, 2990} षट्¦भा॒रान्¦एकः॑¦अच॑रन्¦बि॒भ॒र्ति॒¦ऋ॒तम्¦वर्षि॑ष्ठम्¦उप॑¦गावः॑¦आ¦अ॒गुः॒ | |
त्रि॒पा॒ज॒स्यो वृ॑ष॒भो वि॒श्वरू᳚प उ॒त त्र्यु॒धा पु॑रु॒ध प्र॒जावा॑न् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} त्र्य॒नी॒कः प॑त्यते॒ माहि॑नावा॒न् त्स रे᳚तो॒धा वृ॑ष॒भः शश्व॑तीनाम् ||{3/8}{3.4.1.3}{3.56.3}{3.5.3.3}{474, 290, 2991} त्रि॒ऽपा॒ज॒स्यः¦वृ॒ष॒भः¦वि॒श्वऽरू᳚पः¦उ॒त¦त्रि॒।औ॒धा¦पु॒रु॒ध¦प्र॒जाऽवा॑न् | |
अ॒भीक॑ आसां पद॒वीर॑बोध्यादि॒त्याना᳚मह्वे॒ चारु॒ नाम॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} आप॑श्चिदस्मा, अरमन्त दे॒वीः पृथ॒ग् व्रज᳚न्तीः॒ परि॑ षीमवृञ्जन् ||{4/8}{3.4.1.4}{3.56.4}{3.5.3.4}{475, 290, 2992} अ॒भीके᳚¦आ॒सा॒म्¦प॒द॒ऽवीः¦अ॒बो॒धि॒¦आ॒दि॒त्याना᳚म्¦अ॒ह्वे॒¦चारु॑¦नाम॑ | |
त्री ष॒धस्था᳚ सिन्धव॒स्त्रिः क॑वी॒नामु॒त त्रि॑मा॒ता वि॒दथे᳚षु स॒म्राट् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} ऋ॒ताव॑री॒र्योष॑णास्ति॒स्रो, अप्या॒स्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानाः ||{5/8}{3.4.1.5}{3.56.5}{3.5.3.5}{476, 290, 2993} त्री¦स॒धऽस्था᳚¦सि॒न्ध॒वः॒¦त्रिः¦क॒वी॒नाम्¦उ॒त¦त्रि॒ऽमा॒ता¦वि॒दथे᳚षु¦स॒म्ऽराट् | |
त्रिरा दि॒वः स॑वित॒र्वार्या᳚णि दि॒वेदि॑व॒ आ सु॑व॒ त्रिर्नो॒, अह्नः॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} त्रि॒धातु॑ रा॒य आ सु॑वा॒ वसू᳚नि॒ भग॑ त्रातर्धिषणे सा॒तये᳚ धाः ||{6/8}{3.4.1.6}{3.56.6}{3.5.3.6}{477, 290, 2994} त्रिः¦आ¦दि॒वः¦स॒वि॒तः॒¦वार्या᳚णि¦दि॒वेऽदि॑वे¦आ¦सु॒व॒¦त्रिः¦नः॒¦अह्नः॑ | |
त्रिरा दि॒वः स॑वि॒ता सो᳚षवीति॒ राजा᳚ना मि॒त्रावरु॑णा सुपा॒णी |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} आप॑श्चिदस्य॒ रोद॑सी चिदु॒र्वी रत्नं᳚ भिक्षन्त सवि॒तुः स॒वाय॑ ||{7/8}{3.4.1.7}{3.56.7}{3.5.3.7}{478, 290, 2995} त्रिः¦आ¦दि॒वः¦स॒वि॒ता¦सो॒स॒वी॒ति॒¦राजा᳚ना¦मि॒त्रावरु॑णा¦सु॒पा॒णी इति॑ सु॒ऽपा॒णी | |
त्रिरु॑त्त॒मा दू॒णशा᳚ रोच॒नानि॒ त्रयो᳚ राज॒न् त्यसु॑रस्य वी॒राः |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} ऋ॒तावा᳚न इषि॒रा दू॒ळभा᳚स॒स्त्रिरा दि॒वो वि॒दथे᳚ सन्तु दे॒वाः ||{8/8}{3.4.1.8}{3.56.8}{3.5.3.8}{479, 290, 2996} त्रिः¦उ॒त्ऽत॒मा¦दुः॒ऽनशा᳚¦रो॒च॒नानि॑¦त्रयः॑¦रा॒ज॒न्ति॒¦असु॑रस्य¦वी॒राः | |
[51] प्रमेविविक्वानिति षडृचस्य सूक्तस्य गाथिनोविश्वामित्रोविश्वेदेवास्त्रिष्टुप् (भेदपक्षेविश्वेदेवाः ४ अग्निः २ एवंषट्) | |
प्र मे᳚ विवि॒क्वाँ, अ॑विदन्मनी॒षां धे॒नुं चर᳚न्तीं॒ प्रयु॑ता॒मगो᳚पाम् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} स॒द्यश्चि॒द् या दु॑दु॒हे भूरि॑ धा॒सेरिन्द्र॒स्तद॒ग्निः प॑नि॒तारो᳚, अस्याः ||{1/6}{3.4.2.1}{3.57.1}{3.5.4.1}{480, 291, 2997} प्र¦मे॒¦वि॒वि॒क्वान्¦अ॒वि॒द॒त्¦म॒नी॒षाम्¦धे॒नुम्¦चर᳚न्तीम्¦प्रऽयु॑ताम्¦अगो᳚पाम् | |
इन्द्रः॒ सु पू॒षा वृष॑णा सु॒हस्ता᳚ दि॒वो न प्री॒ताः श॑श॒यं दु॑दुह्रे |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} विश्वे॒ यद॑स्यां र॒णय᳚न्त दे॒वाः प्र वोत्र॑ वसवः सु॒म्नम॑श्याम् ||{2/6}{3.4.2.2}{3.57.2}{3.5.4.2}{481, 291, 2998} इन्द्रः॑¦सु¦पू॒षा¦वृष॑णा¦सु॒ऽहस्ता᳚¦दि॒वः¦न¦प्री॒ताः¦श॒श॒यम्¦दु॒दु॒ह्रे॒ | |
या जा॒मयो॒ वृष्ण॑ इ॒च्छन्ति॑ श॒क्तिं न॑म॒स्यन्ती᳚र्जानते॒ गर्भ॑मस्मिन् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} अच्छा᳚ पु॒त्रं धे॒नवो᳚ वावशा॒ना म॒हश्च॑रन्ति॒ बिभ्र॑तं॒ वपूं᳚षि ||{3/6}{3.4.2.3}{3.57.3}{3.5.4.3}{482, 291, 2999} याः¦जा॒मयः॑¦वृष्णे᳚¦इ॒च्छन्ति॑¦श॒क्तिम्¦न॒म॒स्यन्तीः᳚¦जा॒न॒ते॒¦गर्भ᳚म्¦अ॒स्मि॒न् | |
अच्छा᳚ विवक्मि॒ रोद॑सी सु॒मेके॒ ग्राव्णो᳚ युजा॒नो, अ॑ध्व॒रे म॑नी॒षा |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} इ॒मा, उ॑ ते॒ मन॑वे॒ भूरि॑वारा, ऊ॒र्ध्वा भ॑वन्ति दर्श॒ता यज॑त्राः ||{4/6}{3.4.2.4}{3.57.4}{3.5.4.4}{483, 291, 3000} अच्छ॑¦वि॒व॒क्मि॒¦रोद॑सी॒ इति॑¦सु॒मेके॒ इति॑ सु॒ऽमेके᳚¦ग्राव्णः॑¦यु॒जा॒नः¦अ॒ध्व॒रे¦म॒नी॒षा | |
या ते᳚ जि॒ह्वा मधु॑मती सुमे॒धा, अग्ने᳚ दे॒वेषू॒च्यत॑ उरू॒ची |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} तये॒ह विश्वाँ॒, अव॑से॒ यज॑त्रा॒ना सा᳚दय पा॒यया᳚ चा॒ मधू᳚नि ||{5/6}{3.4.2.5}{3.57.5}{3.5.4.5}{484, 291, 3001} या¦ते॒¦जि॒ह्वा¦मधु॑ऽमती¦सु॒ऽमे॒धाः¦अग्ने᳚¦दे॒वेषु॑¦उ॒च्यते᳚¦उ॒रू॒ची | |
या ते᳚, अग्ने॒ पर्व॑तस्येव॒ धारास॑श्चन्ती पी॒पय॑द्देव चि॒त्रा |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} ताम॒स्मभ्यं॒ प्रम॑तिं जातवेदो॒ वसो॒ रास्व॑ सुम॒तिं वि॒श्वज᳚न्याम् ||{6/6}{3.4.2.6}{3.57.6}{3.5.4.6}{485, 291, 3002} या¦ते॒¦अ॒ग्ने॒¦पर्व॑तस्यऽइव¦धारा᳚¦अस॑श्चन्ती¦पी॒पय॑त्¦दे॒व॒¦चि॒त्रा | |
[52] धेनुःप्रत्नस्येति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोश्विनौत्रिष्टुप् | |
धे॒नुः प्र॒त्नस्य॒ काम्यं॒ दुहा᳚ना॒ऽन्तः पु॒त्रश्च॑रति॒ दक्षि॑णायाः |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} आ द्यो᳚त॒निं व॑हति शु॒भ्रया᳚मो॒षसः॒ स्तोमो᳚, अ॒श्विना᳚वजीगः ||{1/9}{3.4.3.1}{3.58.1}{3.5.5.1}{486, 292, 3003} धे॒नुः¦प्र॒त्नस्य॑¦काम्य᳚म्¦दुहा᳚ना¦अ॒न्तरिति॑¦पु॒त्रः¦च॒र॒ति॒¦दक्षि॑णायाः | |
सु॒युग् व॑हन्ति॒ प्रति॑ वामृ॒तेनो॒र्ध्वा भ॑वन्ति पि॒तरे᳚व॒ मेधाः᳚ |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} जरे᳚थाम॒स्मद् वि प॒णेर्म॑नी॒षां यु॒वोरव॑श्चकृ॒मा या᳚तम॒र्वाक् ||{2/9}{3.4.3.2}{3.58.2}{3.5.5.2}{487, 292, 3004} सु॒ऽयुक्¦व॒ह॒न्ति॒¦प्रति॑¦वा॒म्¦ऋ॒तेन॑¦ऊ॒र्ध्वाः¦भ॒व॒न्ति॒¦पि॒तरा᳚ऽइव¦मेधाः᳚ | |
सु॒युग्भि॒रश्वैः᳚ सु॒वृता॒ रथे᳚न॒ दस्रा᳚वि॒मं शृ॑णुतं॒ श्लोक॒मद्रेः᳚ |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} किम॒ङ्ग वां॒ प्रत्यव॑र्तिं॒ गमि॑ष्ठा॒ऽऽहुर्विप्रा᳚सो, अश्विना पुरा॒जाः ||{3/9}{3.4.3.3}{3.58.3}{3.5.5.3}{488, 292, 3005} सु॒युक्ऽभिः॑¦अश्वैः᳚¦सु॒ऽवृता᳚¦रथे᳚न¦दस्रौ᳚¦इ॒मम्¦शृ॒णु॒त॒म्¦श्लोक᳚म्¦अद्रेः᳚ | |
आ म᳚न्येथा॒मा ग॑तं॒ कच्चि॒देवै॒र्विश्वे॒ जना᳚सो, अ॒श्विना᳚ हवन्ते |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} इ॒मा हि वां॒ गो,ऋ॑जीका॒ मधू᳚नि॒ प्र मि॒त्रासो॒ न द॒दुरु॒स्रो, अग्रे᳚ ||{4/9}{3.4.3.4}{3.58.4}{3.5.5.4}{489, 292, 3006} आ¦म॒न्ये॒था॒म्¦आ¦ग॒त॒म्¦कत्¦चि॒त्¦एवैः᳚¦विश्वे᳚¦जना᳚सः¦अ॒श्विना᳚¦ह॒व॒न्ते॒ | |
ति॒रः पु॒रू चि॑दश्विना॒ रजां᳚स्याङ्गू॒षो वां᳚ मघवाना॒ जने᳚षु |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} एह या᳚तं प॒थिभि॑र्देव॒यानै॒र्दस्रा᳚वि॒मे वां᳚ नि॒धयो॒ मधू᳚नाम् ||{5/9}{3.4.3.5}{3.58.5}{3.5.5.5}{490, 292, 3007} ति॒रः¦पु॒रु¦चि॒त्¦अ॒श्वि॒ना॒¦रजां᳚सि¦आ॒ङ्गू॒षः¦वा॒म्¦म॒घ॒ऽवा॒ना॒¦जने᳚षु | |
पु॒रा॒णमोकः॑ स॒ख्यं शि॒वं वां᳚ यु॒वोर्न॑रा॒ द्रवि॑णं ज॒ह्नाव्या᳚म् |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} पुनः॑ कृण्वा॒नाः स॒ख्या शि॒वानि॒ मध्वा᳚ मदेम स॒ह नू स॑मा॒नाः ||{6/9}{3.4.4.1}{3.58.6}{3.5.5.6}{491, 292, 3008} पु॒रा॒णम्¦ओकः॑¦स॒ख्यम्¦शि॒वम्¦वा॒म्¦यु॒वोः¦न॒रा॒¦द्रवि॑णम्¦ज॒ह्नाव्या᳚म् | |
अश्वि॑ना वा॒युना᳚ यु॒वं सु॑दक्षा नि॒युद्भि॑ष्च स॒जोष॑सा युवाना |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} नास॑त्या ति॒रो,अ᳚ह्न्यं जुषा॒णा सोमं᳚ पिबतम॒स्रिधा᳚ सुदानू ||{7/9}{3.4.4.2}{3.58.7}{3.5.5.7}{492, 292, 3009} अश्वि॑ना¦वा॒युना᳚¦यु॒वम्¦सु॒ऽद॒क्षा॒¦नि॒युत्ऽभिः॑¦च॒¦स॒ऽजोष॑सा¦यु॒वा॒ना॒ | |
अश्वि॑ना॒ परि॑ वा॒मिषः॑ पुरू॒चीरी॒युर्गी॒र्भिर्यत॑माना॒, अमृ॑ध्राः |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} रथो᳚ ह वामृत॒जा, अद्रि॑जूतः॒ परि॒ द्यावा᳚पृथि॒वी या᳚ति स॒द्यः ||{8/9}{3.4.4.3}{3.58.8}{3.5.5.8}{493, 292, 3010} अश्वि॑ना¦परि॑¦वा॒म्¦इषः॑¦पु॒रू॒चीः¦ई॒युः¦गीः॒ऽभिः¦यत॑मानाः¦अमृ॑ध्राः | |
अश्वि॑ना मधु॒षुत्त॑मो यु॒वाकुः॒ सोम॒स्तं पा᳚त॒मा ग॑तं दुरो॒णे |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} रथो᳚ ह वां॒ भूरि॒ वर्पः॒ करि॑क्रत् सु॒ताव॑तो निष्कृ॒तमाग॑मिष्ठः ||{9/9}{3.4.4.4}{3.58.9}{3.5.5.9}{494, 292, 3011} अश्वि॑ना¦म॒धु॒सुत्ऽत॑मः¦यु॒वाकुः॑¦सोमः॑¦तम्¦पा॒त॒म्¦आ¦ग॒त॒म्¦दु॒रो॒णे | |
[53] मित्रोजनानिति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रो मित्रस्त्रिष्टुप् अंत्याश्चतस्रोगायत्र्यः |
मि॒त्रो जना᳚न् यातयति ब्रुवा॒णो मि॒त्रो दा᳚धार पृथि॒वीमु॒त द्याम् |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} मि॒त्रः कृ॒ष्टीरनि॑मिषा॒भि च॑ष्टे मि॒त्राय॑ ह॒व्यं घृ॒तव॑ज्जुहोत ||{1/9}{3.4.5.1}{3.59.1}{3.5.6.1}{495, 293, 3012} मि॒त्रः¦जना᳚न्¦या॒त॒य॒ति॒¦ब्रु॒वा॒णः¦मि॒त्रः¦दा॒धा॒र॒¦पृ॒थि॒वीम्¦उ॒त¦द्याम् | |
प्र स मि॑त्र॒ मर्तो᳚, अस्तु॒ प्रय॑स्वा॒न् यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} न ह᳚न्यते॒ न जी᳚यते॒ त्वोतो॒ नैन॒मंहो᳚, अश्नो॒त्यन्ति॑तो॒ न दू॒रात् ||{2/9}{3.4.5.2}{3.59.2}{3.5.6.2}{496, 293, 3013} प्र¦सः¦मि॒त्र॒¦मर्तः॑¦अ॒स्तु॒¦प्रय॑स्वान्¦यः¦ते॒¦आ॒दि॒त्य॒¦शिक्ष॑ति¦व्र॒तेन॑ | |
अ॒न॒मी॒वास॒ इळ॑या॒ मद᳚न्तो मि॒तज्ञ॑वो॒ वरि॑म॒न्ना पृ॑थि॒व्याः |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} आ॒दि॒त्यस्य᳚ व्र॒तमु॑पक्षि॒यन्तो᳚ व॒यं मि॒त्रस्य॑ सुम॒तौ स्या᳚म ||{3/9}{3.4.5.3}{3.59.3}{3.5.6.3}{497, 293, 3014} अ॒न॒मी॒वासः॑¦इळ॑या¦मद᳚न्तः¦मि॒तऽज्ञ॑वः¦वरि॑मन्¦आ¦पृ॒थि॒व्याः | |
अ॒यं मि॒त्रो न॑म॒स्यः॑ सु॒शेवो॒ राजा᳚ सुक्ष॒त्रो, अ॑जनिष्ट वे॒धाः |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ᳚मन॒से स्या᳚म ||{4/9}{3.4.5.4}{3.59.4}{3.5.6.4}{498, 293, 3015} अ॒यम्¦मि॒त्रः¦न॒म॒स्यः॑¦सु॒ऽशेवः॑¦राजा᳚¦सु॒ऽक्ष॒त्रः¦अ॒ज॒नि॒ष्ट॒¦वे॒धाः | |
म॒हाँ, आ᳚दि॒त्यो नम॑सोप॒सद्यो᳚ यात॒यज्ज॑नो गृण॒ते सु॒शेवः॑ |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} तस्मा᳚, ए॒तत् पन्य॑तमाय॒ जुष्ट॑म॒ग्नौ मि॒त्राय॑ ह॒विरा जु॑होत ||{5/9}{3.4.5.5}{3.59.5}{3.5.6.5}{499, 293, 3016} म॒हान्¦आ॒दि॒त्यः¦नम॑सा¦उ॒प॒ऽसद्यः॑¦या॒त॒यत्ऽज॑नः¦गृ॒ण॒ते¦सु॒ऽशेवः॑ | |
मि॒त्रस्य॑ चर्षणी॒धृतोवो᳚ दे॒वस्य॑ सान॒सि |{गाथिनो विश्वामित्रः | मित्रः | गायत्री} द्यु॒म्नं चि॒त्रश्र॑वस्तमम् ||{6/9}{3.4.6.1}{3.59.6}{3.5.6.6}{500, 293, 3017} मि॒त्रस्य॑¦च॒र्ष॒णि॒ऽधृतः॑¦अवः॑¦दे॒वस्य॑¦सा॒न॒सि | द्यु॒म्नम्¦चि॒त्रश्र॑वःऽतमम् || |
अ॒भि यो म॑हि॒ना दिवं᳚ मि॒त्रो ब॒भूव॑ स॒प्रथाः᳚ |{गाथिनो विश्वामित्रः | मित्रः | गायत्री} अ॒भि श्रवो᳚भिः पृथि॒वीम् ||{7/9}{3.4.6.2}{3.59.7}{3.5.6.7}{501, 293, 3018} अ॒भि¦यः¦म॒हि॒ना¦दिव᳚म्¦मि॒त्रः¦ब॒भूव॑¦स॒ऽप्रथाः᳚ | अ॒भि¦श्रवः॑ऽभिः¦पृ॒थि॒वीम् || |
मि॒त्राय॒ पञ्च॑ येमिरे॒ जना᳚, अ॒भिष्टि॑शवसे |{गाथिनो विश्वामित्रः | मित्रः | गायत्री} स दे॒वान् विश्वा᳚न् बिभर्ति ||{8/9}{3.4.6.3}{3.59.8}{3.5.6.8}{502, 293, 3019} मि॒त्राय॑¦पंच॑¦ये॒मि॒रे॒¦जनाः᳚¦अ॒भिष्टि॑ऽशवसे | सः¦दे॒वान्¦विश्वा᳚न्¦बि॒भ॒र्ति॒ || |
मि॒त्रो दे॒वेष्वा॒युषु॒ जना᳚य वृ॒क्तब᳚र्हिषे |{गाथिनो विश्वामित्रः | मित्रः | गायत्री} इष॑ इ॒ष्टव्र॑ता, अकः ||{9/9}{3.4.6.4}{3.59.9}{3.5.6.9}{503, 293, 3020} मि॒त्रः¦दे॒वेषु॑¦आ॒युषु॑¦जना᳚य¦वृ॒क्तऽब॑र्हिषे | इषः॑¦इ॒ष्टऽव्र॑ताः¦अ॒क॒रित्य॑कः || |
[54] इहेहवइति सप्तर्चस्य सूक्तस्य गाथिनोविश्वामित्रऋभवः अंत्यानांतिसृणामिंद्रऋभवोजगती | |
इ॒हेह॑ वो॒ मन॑सा ब॒न्धुता᳚ नर उ॒शिजो᳚जग्मु र॒भि तानि॒ वेद॑सा |{गाथिनो विश्वामित्रः | ऋभवः | जगती} याभि᳚र्मा॒याभिः॒ प्रति॑जूतिवर्पसः॒ सौध᳚न्वना य॒ज्ञियं᳚ भा॒गमा᳚न॒श ||{1/7}{3.4.7.1}{3.60.1}{3.5.7.1}{504, 294, 3021} इ॒हऽइ᳚ह¦वः॒¦मन॑सा¦ब॒न्धुता᳚¦न॒रः॒¦उ॒शिजः॑¦ज॒ग्मुः॒¦अ॒भि¦तानि॑¦वेद॑सा | |
याभिः॒ शची᳚भिश्चम॒साँ, अपिं᳚शत॒ यया᳚ धि॒या गामरि॑णीत॒ चर्म॑णः |{गाथिनो विश्वामित्रः | ऋभवः | जगती} येन॒ हरी॒ मन॑सा नि॒रत॑क्षत॒ तेन॑ देव॒त्वमृ॑भवः॒ समा᳚नश ||{2/7}{3.4.7.2}{3.60.2}{3.5.7.2}{505, 294, 3022} याभिः॑¦शची᳚भिः¦च॒म॒सान्¦अपिं᳚शत¦यया᳚¦धि॒या¦गाम्¦अरि॑णीत¦चर्म॑णः | |
इन्द्र॑स्य स॒ख्यमृ॒भवः॒ समा᳚नशु॒र्मनो॒र्नपा᳚तो, अ॒पसो᳚ दधन् विरे |{गाथिनो विश्वामित्रः | ऋभवः | जगती} सौ॒ध॒न्व॒नासो᳚, अमृत॒त्वमेरि॑रे वि॒ष्ट्वी शमी᳚भिः सु॒कृतः॑ सुकृ॒त्यया᳚ ||{3/7}{3.4.7.3}{3.60.3}{3.5.7.3}{506, 294, 3023} इन्द्र॑स्य¦स॒ख्यम्¦ऋ॒भवः॑¦सम्¦आ॒न॒शुः॒¦मनोः᳚¦नपा᳚तः¦अ॒पसः॑¦द॒ध॒न्वि॒रे॒ | |
इन्द्रे᳚ण याथ स॒रथं᳚ सु॒ते सचाँ॒, अथो॒ वशा᳚नां भवथा स॒ह श्रि॒या |{गाथिनो विश्वामित्रः | ऋभवः | जगती} न वः॑ प्रति॒मै सु॑कृ॒तानि॑ वाघतः॒ सौध᳚न्वना, ऋभवो वी॒र्या᳚णि च ||{4/7}{3.4.7.4}{3.60.4}{3.5.7.4}{507, 294, 3024} इन्द्रे᳚ण¦या॒थ॒¦स॒ऽरथ᳚म्¦सु॒ते¦सचा᳚¦अथो॒ इति॑¦वशा᳚नाम्¦भ॒व॒थ॒¦स॒ह¦श्रि॒या | |
इन्द्र॑ ऋ॒भुभि॒र्वाज॑वद्भिः॒ समु॑क्षितं सु॒तं सोम॒मा वृ॑षस्वा॒ गभ॑स्त्योः |{गाथिनो विश्वामित्रः | इन्द्रः, ऋभवः | जगती} धि॒येषि॒तो म॑घवन् दा॒शुषो᳚ गृ॒हे सौ᳚धन्व॒नेभिः॑ स॒ह म॑त्स्वा॒ नृभिः॑ ||{5/7}{3.4.7.5}{3.60.5}{3.5.7.5}{508, 294, 3025} इन्द्र॑¦ऋ॒भुऽभिः॑¦वाज॑वत्ऽभिः¦सम्।औ᳚क्षितम्¦सु॒तम्¦सोम᳚म्¦आ¦वृ॒ष॒स्व॒¦गभ॑स्त्योः | |
इन्द्र॑ ऋभु॒मान् वाज॑वान् मत्स्वे॒ह नो॒ऽस्मिन् त्सव॑ने॒ शच्या᳚ पुरुष्टुत |{गाथिनो विश्वामित्रः | इन्द्रः, ऋभवः | जगती} इ॒मानि॒ तुभ्यं॒ स्वस॑राणि येमिरे व्र॒ता दे॒वानां॒ मनु॑षश्च॒ धर्म॑भिः ||{6/7}{3.4.7.6}{3.60.6}{3.5.7.6}{509, 294, 3026} इन्द्र॑¦ऋ॒भु॒ऽमान्¦वाज॑ऽवान्¦म॒त्स्व॒¦इ॒ह¦नः॒¦अ॒स्मिन्¦सव॑ने¦शच्या᳚¦पु॒रु॒ऽस्तु॒त॒ | |
इन्द्र॑ ऋ॒भुभि᳚र्वा॒जिभि᳚र्वा॒जय᳚न्नि॒ह स्तोमं᳚ जरि॒तुरुप॑ याहि य॒ज्ञिय᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः, ऋभवः | जगती} श॒तं केते᳚भिरिषि॒रेभि॑रा॒यवे᳚ स॒हस्र॑णीथो, अध्व॒रस्य॒ होम॑नि ||{7/7}{3.4.7.7}{3.60.7}{3.5.7.7}{510, 294, 3027} इन्द्र॑¦ऋ॒भुऽभिः॑¦वा॒जिऽभिः॑¦वा॒जय॑न्¦इ॒ह¦स्तोम᳚म्¦ज॒रि॒तुः¦उप॑¦या॒हि॒¦य॒ज्ञिय᳚म् | |
[55] उषोवाजेनेति सप्तर्चस्य सूक्तस्य गाथिनोविश्वामित्रउषास्त्रिष्टुप् | |
उषो॒ वाजे᳚न वाजिनि॒ प्रचे᳚ताः॒ स्तोमं᳚ जुषस्व गृण॒तो म॑घोनि |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} पु॒रा॒णी दे᳚वि युव॒तिः पुरं᳚धि॒रनु᳚ व्र॒तं च॑रसि विश्ववारे ||{1/7}{3.4.8.1}{3.61.1}{3.5.8.1}{511, 295, 3028} उषः॑¦वाजे᳚न¦वा॒जि॒नि॒¦प्रऽचे᳚ताः¦स्तोम᳚म्¦जु॒ष॒स्व॒¦गृ॒ण॒तः¦म॒घो॒नि॒ | |
उषो᳚ दे॒व्यम॑र्त्या॒ वि भा᳚हि च॒न्द्रर॑था सू॒नृता᳚, ई॒रय᳚न्ती |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} आ त्वा᳚ वहन्तु सु॒यमा᳚सो॒, अश्वा॒ हिर᳚ण्यवर्णां पृथु॒पाज॑सो॒ ये ||{2/7}{3.4.8.2}{3.61.2}{3.5.8.2}{512, 295, 3029} उषः॑¦दे॒वि॒¦अम॑र्त्या¦वि¦भा॒हि॒¦च॒न्द्रऽर॑था¦सू॒नृताः᳚¦ई॒रय᳚न्ती | |
उषः॑ प्रती॒ची भुव॑नानि॒ विश्वो॒र्ध्वा ति॑ष्ठस्य॒मृत॑स्य के॒तुः |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} स॒मा॒नमर्थं᳚ चरणी॒यमा᳚ना च॒क्रमि॑व नव्य॒स्या व॑वृत्स्व ||{3/7}{3.4.8.3}{3.61.3}{3.5.8.3}{513, 295, 3030} उषः॑¦प्र॒ती॒ची¦भुव॑नानि¦विश्वा᳚¦ऊ॒र्ध्वा¦ति॒ष्ठ॒सि॒¦अ॒मृत॑स्य¦के॒तुः | |
अव॒ स्यूमे᳚व चिन्व॒ती म॒घोन्यु॒षा या᳚ति॒ स्वस॑रस्य॒ पत्नी᳚ |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} स्व१॑(अ॒)र्जन᳚न्ती सु॒भगा᳚ सु॒दंसा॒, आन्ता᳚द्दि॒वः प॑प्रथ॒ आ पृ॑थि॒व्याः ||{4/7}{3.4.8.4}{3.61.4}{3.5.8.4}{514, 295, 3031} अव॑¦स्यूम॑ऽइव¦चि॒न्व॒ती¦म॒घोनी᳚¦उ॒षाः¦या॒ति॒¦स्वस॑रस्य¦पत्नी᳚ | |
अच्छा᳚ वो दे॒वीमु॒षसं᳚ विभा॒तीं प्र वो᳚ भरध्वं॒ नम॑सा सुवृ॒क्तिम् |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} ऊ॒र्ध्वं म॑धु॒धा दि॒वि पाजो᳚, अश्रे॒त् प्र रो᳚च॒ना रु॑रुचे र॒ण्वसं᳚दृक् ||{5/7}{3.4.8.5}{3.61.5}{3.5.8.5}{515, 295, 3032} अच्छ॑¦वः॒¦दे॒वीम्¦उ॒षस᳚म्¦वि॒ऽभा॒तीम्¦प्र¦वः॒¦भ॒र॒ध्व॒म्¦नम॑सा¦सु॒ऽवृ॒क्तिम् | |
ऋ॒ताव॑री दि॒वो, अ॒र्कैर॑बो॒ध्या रे॒वती॒ रोद॑सी चि॒त्रम॑स्थात् |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} आ॒य॒तीम॑ग्न उ॒षसं᳚ विभा॒तीं वा॒ममे᳚षि॒ द्रवि॑णं॒ भिक्ष॑माणः ||{6/7}{3.4.8.6}{3.61.6}{3.5.8.6}{516, 295, 3033} ऋ॒तऽव॑री¦दि॒वः¦अ॒र्कैः¦अ॒बो॒धि॒¦आ¦रे॒वती᳚¦रोद॑सी॒ इति॑¦चि॒त्रम्¦आ॒स्था॒त् | |
ऋ॒तस्य॑ बु॒ध्न उ॒षसा᳚मिष॒ण्यन् वृषा᳚ म॒ही रोद॑सी॒, आ वि॑वेश |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} म॒ही मि॒त्रस्य॒ वरु॑णस्य मा॒या च॒न्द्रेव॑ भा॒नुं वि द॑धे पुरु॒त्रा ||{7/7}{3.4.8.7}{3.61.7}{3.5.8.7}{517, 295, 3034} ऋ॒तस्य॑¦बु॒ध्ने¦उ॒षसा᳚म्¦इ॒ष॒ण्यन्¦वृषा᳚¦म॒ही इति॑¦रोद॑सी॒ इति॑¦आ¦वि॒वे॒श॒ | |
[56] इमाउवामित्यष्टादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रः ( अंत्यतृचस्य जमदग्निर्वा) आद्यतिसृणामिंद्रावरुणौ चतुर्थ्यादितिसृणांबृहस्पतिः इयंतइत्यादितिसृणांपूषा तत्सवितुरित्यादितिसृणांसविता सोमइत्यादितिसृणांसोम आनइत्यादितिसृणांमित्रावरुणौदेवताः आद्यास्तिस्रत्रिष्टुभः शिष्टाः पञ्चदशगायत्र्यः | |
इ॒मा, उ॑ वां भृ॒मयो॒ मन्य॑माना यु॒वाव॑ते॒ न तुज्या᳚, अभूवन् |{गाथिनो विश्वामित्रः | इन्द्रावरुणौ | त्रिष्टुप्} क्व१॑(अ॒) त्यदि᳚न्द्रावरुणा॒ यशो᳚ वां॒ येन॑ स्मा॒ सिनं॒ भर॑थः॒ सखि॑भ्यः ||{1/18}{3.4.9.1}{3.62.1}{3.5.9.1}{518, 296, 3035} इ॒माः¦ऊँ॒ इति॑¦वा॒म्¦भृ॒मयः॑¦मन्य॑मानाः¦यु॒वाऽव॑ते¦न¦तुज्याः᳚¦अ॒भू॒व॒न् | |
अ॒यमु॑ वां पुरु॒तमो᳚ रयी॒यञ् छ॑श्वत्त॒ममव॑से जोहवीति |{गाथिनो विश्वामित्रः | इन्द्रावरुणौ | त्रिष्टुप्} स॒जोषा᳚विन्द्रावरुणा म॒रुद्भि॑र्दि॒वा पृ॑थि॒व्या शृ॑णुतं॒ हवं᳚ मे ||{2/18}{3.4.9.2}{3.62.2}{3.5.9.2}{519, 296, 3036} अ॒यम्¦ऊँ॒ इति॑¦वा॒म्¦पु॒रु॒ऽतमः॑¦र॒यि॒ऽयन्¦श॒श्व॒त्ऽत॒मम्¦अव॑से¦जो॒ह॒वी॒ति॒ | |
अ॒स्मे तदि᳚न्द्रावरुणा॒ वसु॑ ष्याद॒स्मे र॒यिर्म॑रुतः॒ सर्व॑वीरः |{गाथिनो विश्वामित्रः | इन्द्रावरुणौ | त्रिष्टुप्} अ॒स्मान् वरू᳚त्रीः शर॒णैर॑वन्त्व॒स्मान् होत्रा॒ भार॑ती॒ दक्षि॑णाभिः ||{3/18}{3.4.9.3}{3.62.3}{3.5.9.3}{520, 296, 3037} अ॒स्मे इति॑¦तत्¦इ॒न्द्रा॒व॒रु॒णा॒¦वसु॑¦स्या॒त्¦अ॒स्मे इति॑¦र॒यिः¦म॒रु॒तः॒¦सर्व॑ऽवीरः | |
बृह॑स्पते जु॒षस्व॑ नो ह॒व्यानि॑ विश्वदेव्य |{गाथिनो विश्वामित्रः | बृहस्पतिः | गायत्री} रास्व॒ रत्ना᳚नि दा॒शुषे᳚ ||{4/18}{3.4.9.4}{3.62.4}{3.5.9.4}{521, 296, 3038} बृह॑स्पते¦जु॒षस्व॑¦नः॒¦ह॒व्यानि॑¦वि॒श्व॒ऽदे॒व्य॒ | रास्व॑¦रत्ना᳚नि¦दा॒शुषे᳚ || |
शुचि॑म॒र्कैर्बृह॒स्पति॑मध्व॒रेषु॑ नमस्यत |{गाथिनो विश्वामित्रः | बृहस्पतिः | गायत्री} अना॒म्योज॒ आ च॑के ||{5/18}{3.4.9.5}{3.62.5}{3.5.9.5}{522, 296, 3039} शुचि᳚म्¦अ॒र्कैः¦बृह॒स्पति᳚म्¦अ॒ध्व॒रेषु॑¦न॒म॒स्य॒त॒ | अना᳚मि¦ओजः॑¦आ¦च॒के॒ || |
वृ॒ष॒भं च॑र्षणी॒नां वि॒श्वरू᳚प॒मदा᳚भ्यम् |{गाथिनो विश्वामित्रः | बृहस्पतिः | गायत्री} बृह॒स्पतिं॒ वरे᳚ण्यम् ||{6/18}{3.4.10.1}{3.62.6}{3.5.9.6}{523, 296, 3040} वृ॒ष॒भम्¦च॒र्ष॒णी॒नाम्¦वि॒श्वऽरू᳚पम्¦अदा᳚भ्यम् | बृह॒स्पति᳚म्¦वरे᳚ण्यम् || |
इ॒यं ते᳚ पूषन्नाघृणे सुष्टु॒तिर्दे᳚व॒ नव्य॑सी |{गाथिनो विश्वामित्रः | पूषा | गायत्री} अ॒स्माभि॒स्तुभ्यं᳚ शस्यते ||{7/18}{3.4.10.2}{3.62.7}{3.5.9.7}{524, 296, 3041} इ॒यम्¦ते॒¦पू॒ष॒न्¦आ॒घृ॒णे॒¦सु॒ऽस्तु॒तिः¦दे॒व॒¦नव्य॑सी | अ॒स्माभिः॑¦तुभ्य᳚म्¦श॒स्य॒ते॒ || |
तां जु॑षस्व॒ गिरं॒ मम॑ वाज॒यन्ती᳚मवा॒ धिय᳚म् |{गाथिनो विश्वामित्रः | पूषा | गायत्री} व॒धू॒युरि॑व॒ योष॑णाम् ||{8/18}{3.4.10.3}{3.62.8}{3.5.9.8}{525, 296, 3042} ताम्¦जु॒ष॒स्व॒¦गिर᳚म्¦मम॑¦वा॒ज॒ऽयन्ती᳚म्¦अ॒व॒¦धिय᳚म् | व॒धू॒युःऽइ᳚व¦योष॑णाम् || |
यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति |{गाथिनो विश्वामित्रः | पूषा | गायत्री} स नः॑ पू॒षावि॒ता भु॑वत् ||{9/18}{3.4.10.4}{3.62.9}{3.5.9.9}{526, 296, 3043} यः¦विश्वा᳚¦अ॒भि¦वि॒ऽपश्य॑ति¦भुव॑ना¦सम्¦च॒¦पश्य॑ति | सः¦नः॒¦पू॒षा¦अ॒वि॒ता¦भु॒व॒त् || |
तत् स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो᳚ दे॒वस्य॑ धीमहि |{गाथिनो विश्वामित्रः | सविता | गायत्री} धियो॒ यो नः॑ प्रचो॒दया᳚त् ||{10/18}{3.4.10.5}{3.62.10}{3.5.9.10}{527, 296, 3044} तत्¦स॒वि॒तुः¦वरे᳚ण्यम्¦भर्गः॑¦दे॒वस्य॑¦धी॒म॒हि॒ | धियः॑¦यः¦नः॒¦प्र॒ऽचो॒दया᳚त् || |
दे॒वस्य॑ सवि॒तुर्व॒यं वा᳚ज॒यन्तः॒ पुरं᳚ध्या |{गाथिनो विश्वामित्रः | सविता | गायत्री} भग॑स्य रा॒तिमी᳚महे ||{11/18}{3.4.11.1}{3.62.11}{3.5.9.11}{528, 296, 3045} दे॒वस्य॑¦स॒वि॒तुः¦व॒यम्¦वा॒ज॒ऽयन्तः॑¦पुर᳚म्ऽध्या | भग॑स्य¦रा॒तिम्¦ई॒म॒हे॒ || |
दे॒वं नरः॑ सवि॒तारं॒ विप्रा᳚ य॒ज्ञैः सु॑वृ॒क्तिभिः॑ |{गाथिनो विश्वामित्रः | सविता | गायत्री} न॒म॒स्यन्ति॑ धि॒येषि॒ताः ||{12/18}{3.4.11.2}{3.62.12}{3.5.9.12}{529, 296, 3046} दे॒वम्¦नरः॑¦स॒वि॒तार᳚म्¦विप्राः᳚¦य॒ज्ञैः¦सु॒वृ॒क्तिऽभिः॑ | न॒म॒स्यन्ति॑¦धि॒या¦इ॒षि॒ताः || |
सोमो᳚ जिगाति गातु॒विद् दे॒वाना᳚मेति निष्कृ॒तम् |{गाथिनो विश्वामित्रः | सोमः | गायत्री} ऋ॒तस्य॒ योनि॑मा॒सद᳚म् ||{13/18}{3.4.11.3}{3.62.13}{3.5.9.13}{530, 296, 3047} सोमः॑¦जि॒गा॒ति॒¦गा॒तु॒ऽवित्¦दे॒वाना᳚म्¦ए॒ति॒¦निः॒ऽकृ॒तम् | ऋ॒तस्य॑¦योनि᳚म्¦आ॒ऽसद᳚म् || |
सोमो᳚, अ॒स्मभ्यं᳚ द्वि॒पदे॒ चतु॑ष्पदे च प॒शवे᳚ |{गाथिनो विश्वामित्रः | सोमः | गायत्री} अ॒न॒मी॒वा, इष॑स्करत् ||{14/18}{3.4.11.4}{3.62.14}{3.5.9.14}{531, 296, 3048} सोमः॑¦अ॒स्मभ्य᳚म्¦द्वि॒ऽपदे᳚¦चतुः॑ऽपदे¦च॒¦प॒शवे᳚ | अ॒न॒मी॒वाः¦इषः॑¦क॒र॒त् || |
अ॒स्माक॒मायु᳚र्व॒र्धय᳚न्न॒भिमा᳚तीः॒ सह॑मानः |{गाथिनो विश्वामित्रः | सोमः | गायत्री} सोमः॑ स॒धस्थ॒मास॑दत् ||{15/18}{3.4.11.5}{3.62.15}{3.5.9.15}{532, 296, 3049} अ॒स्माक᳚म्¦आयुः॑¦व॒र्धय॑न्¦अ॒भिऽमा᳚तीः¦सह॑मानः | सोमः॑¦स॒धऽस्थ᳚म्¦आ¦अ॒स॒द॒त् || |
आ नो᳚ मित्रावरुणा घृ॒तैर्गव्यू᳚तिमुक्षतम् |{विश्वामित्रो जमदग्निर्वा | मित्रावरुणौ | गायत्री} मध्वा॒ रजां᳚सि सुक्रतू ||{16/18}{3.4.11.6}{3.62.16}{3.5.9.16}{533, 296, 3050} आ¦नः॒¦मि॒त्रा॒व॒रु॒णा॒¦घृ॒तैः¦गव्यू᳚तिम्¦उ॒क्ष॒त॒म् | मध्वा᳚¦रजां᳚सि¦सु॒क्र॒तू॒ इति॑ सुऽक्रतू || |
उ॒रु॒शंसा᳚ नमो॒वृधा᳚ म॒ह्ना दक्ष॑स्य राजथः |{विश्वामित्रो जमदग्निर्वा | मित्रावरुणौ | गायत्री} द्राघि॑ष्ठाभिः शुचिव्रता ||{17/18}{3.4.11.7}{3.62.17}{3.5.9.17}{534, 296, 3051} उ॒रु॒ऽशंसा᳚¦न॒मः॒ऽवृधा᳚¦म॒ह्ना¦दक्ष॑स्य¦रा॒ज॒थः॒ | द्राघि॑ष्ठाभिः¦शु॒चि॒ऽव्र॒ता॒ || |
गृ॒णा॒ना ज॒मद॑ग्निना॒ योना᳚वृ॒तस्य॑ सीदतम् |{विश्वामित्रो जमदग्निर्वा | मित्रावरुणौ | गायत्री} पा॒तं सोम॑मृतावृधा ||{18/18}{3.4.11.8}{3.62.18}{3.5.9.18}{535, 296, 3052} गृ॒णा॒ना¦ज॒मत्।आ॑ग्निना¦योनौ᳚¦ऋ॒तस्य॑¦सी॒द॒त॒म् | पा॒तम्¦सोम᳚म्¦ऋ॒त॒ऽवृ॒धा॒ || |
[57] त्वांह्यग्नइति विंशत्यृचस्य सूक्तस्य गौतमोवामदेवोग्निर्द्वितीयादिचतसृणामग्निवरुणौ त्रिष्टुप् आद्यास्तिस्रः क्रमेणाष्ट्यतिजगतीधृतयः | |
त्वां ह्य॑ग्ने॒ सद॒मित् स॑म॒न्यवो᳚ दे॒वासो᳚ दे॒वम॑र॒तिं न्ये᳚रि॒र इति॒ क्रत्वा᳚ न्येरि॒रे |{गौतमो वामदेवः | अग्निः | अष्टिः} अम॑र्त्यं यजत॒ मर्त्ये॒ष्वा दे॒वमादे᳚वं जनत॒ प्रचे᳚तसं॒ विश्व॒मादे᳚वं जनत॒ प्रचे᳚तसम् ||{1/20}{3.4.12.1}{4.1.1}{4.1.1.1}{536, 297, 3053} त्वाम्¦हि¦अ॒ग्ने॒¦सद᳚म्¦इत्¦स॒ऽम॒न्यवः॑¦दे॒वासः॑¦दे॒वम्¦अ॒र॒तिम्¦नि॒ऽए॒रि॒रे¦इति॑¦क्रत्वा᳚¦नि॒ऽए॒रि॒रे | |
स भ्रात॑रं॒ वरु॑णमग्न॒ आ व॑वृत्स्व दे॒वाँ, अच्छा᳚ सुम॒ती य॒ज्ञव॑नसं॒ ज्येष्ठं᳚ य॒ज्ञव॑नसम् |{गौतमो वामदेवः | अग्निः वरुणौ | अतिजगती} ऋ॒तावा᳚नमादि॒त्यं च॑र्षणी॒धृतं॒ राजा᳚नं चर्षणी॒धृत᳚म् ||{2/20}{3.4.12.2}{4.1.2}{4.1.1.2}{537, 297, 3054} सः¦भ्रात॑रम्¦वरु॑णम्¦अ॒ग्ने॒¦आ¦व॒वृ॒त्स्व॒¦दे॒वान्¦अच्छ॑¦सु॒ऽम॒ती¦य॒ज्ञऽव॑नसम्¦ज्येष्ठ᳚म्¦य॒ज्ञऽव॑नसम् | |
सखे॒ सखा᳚यम॒भ्या व॑वृत्स्वा॒शुं न च॒क्रं रथ्ये᳚व॒ रंह्या॒स्मभ्यं᳚ दस्म॒ रंह्या᳚ |{गौतमो वामदेवः | अग्निः वरुणौ | धृतिः} अग्ने᳚ मृळी॒कं वरु॑णे॒ सचा᳚ विदो म॒रुत्सु॑ वि॒श्वभा᳚नुषु |{गौतमो वामदेवः | अग्निः वरुणौ | धृतिः} तो॒काय॑ तु॒जे शु॑शुचान॒ शं कृ॑ध्य॒स्मभ्यं᳚ दस्म॒ शं कृ॑धि ||{3/20}{3.4.12.3}{4.1.3}{4.1.1.3}{538, 297, 3055} सखे᳚¦सखा᳚यम्¦अ॒भि¦आ¦व॒वृ॒त्स्व॒¦आ॒शुम्¦न¦च॒क्रम्¦रथ्या᳚ऽइव¦रंह्या᳚¦अ॒स्मभ्य᳚म्¦द॒स्म॒¦रंह्या᳚ | |
त्वं नो᳚, अग्ने॒ वरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेळोऽव॑ यासिसीष्ठाः |{गौतमो वामदेवः | अग्निः वरुणौ | त्रिष्टुप्} यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषां᳚सि॒ प्र मु॑मुग्ध्य॒स्मत् ||{4/20}{3.4.12.4}{4.1.4}{4.1.1.4}{539, 297, 3056} त्वम्¦नः॒¦अ॒ग्ने॒¦वरु॑णस्य¦वि॒द्वान्¦दे॒वस्य॑¦हेळः॑¦अव॑¦या॒सि॒सी॒ष्ठाः॒ | |
स त्वं नो᳚, अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो, अ॒स्या, उ॒षसो॒ व्यु॑ष्टौ |{गौतमो वामदेवः | अग्निः वरुणौ | त्रिष्टुप्} अव॑ यक्ष्व नो॒ वरु॑णं॒ ररा᳚णो वी॒हि मृ॑ळी॒कं सु॒हवो᳚ न एधि ||{5/20}{3.4.12.5}{4.1.5}{4.1.1.5}{540, 297, 3057} सः¦त्वम्¦नः॒¦अ॒ग्ने॒¦अ॒व॒मः¦भ॒व॒¦ऊ॒ती¦नेदि॑ष्ठः¦अ॒स्याः¦उ॒षसः॑¦वि।औ᳚ष्टौ | |
अ॒स्य श्रेष्ठा᳚ सु॒भग॑स्य सं॒दृग् दे॒वस्य॑ चि॒त्रत॑मा॒ मर्त्ये᳚षु |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} शुचि॑ घृ॒तं न त॒प्तमघ्न्या᳚याः स्पा॒र्हा दे॒वस्य॑ मं॒हने᳚व धे॒नोः ||{6/20}{3.4.13.1}{4.1.6}{4.1.1.6}{541, 297, 3058} अ॒स्य¦श्रेष्ठा᳚¦सु॒ऽभग॑स्य¦स॒म्ऽदृक्¦दे॒वस्य॑¦चि॒त्रऽत॑मा¦मर्त्ये᳚षु | |
त्रिर॑स्य॒ ता प॑र॒मा स᳚न्ति स॒त्या स्पा॒र्हा दे॒वस्य॒ जनि॑मान्य॒ग्नेः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अ॒न॒न्ते, अ॒न्तः परि॑वीत॒ आगा॒च्छुचिः॑ शु॒क्रो, अ॒र्यो रोरु॑चानः ||{7/20}{3.4.13.2}{4.1.7}{4.1.1.7}{542, 297, 3059} त्रिः¦अ॒स्य॒¦ता¦प॒र॒मा¦स॒न्ति॒¦स॒त्या¦स्पा॒र्हा¦दे॒वस्य॑¦जनि॑मानि¦अ॒ग्नेः | |
स दू॒तो विश्वेद॒भि व॑ष्टि॒ सद्मा॒ होता॒ हिर᳚ण्यरथो॒ रंसु॑जिह्वः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} रो॒हिद॑श्वो वपु॒ष्यो᳚ वि॒भावा॒ सदा᳚ र॒ण्वः पि॑तु॒मती᳚व सं॒सत् ||{8/20}{3.4.13.3}{4.1.8}{4.1.1.8}{543, 297, 3060} सः¦दू॒तः¦विश्वा᳚¦इत्¦अ॒भि¦व॒ष्टि॒¦सद्म॑¦होता᳚¦हिर᳚ण्यऽरथः¦रम्ऽसु॑जिह्वः | |
स चे᳚तय॒न्मनु॑षो य॒ज्ञब᳚न्धुः॒ प्र तं म॒ह्या र॑श॒नया᳚ नयन्ति |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} स क्षे᳚त्यस्य॒ दुर्या᳚सु॒ साध᳚न् दे॒वो मर्त॑स्य सधनि॒त्वमा᳚प ||{9/20}{3.4.13.4}{4.1.9}{4.1.1.9}{544, 297, 3061} सः¦चे॒त॒य॒त्¦मनु॑षः¦य॒ज्ञऽब᳚न्धुः¦प्र¦तम्¦म॒ह्या¦र॒श॒नया᳚¦न॒य॒न्ति॒ | |
स तू नो᳚, अ॒ग्निर्न॑यतु प्रजा॒नन्नच्छा॒ रत्नं᳚ दे॒वभ॑क्तं॒ यद॑स्य |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} धि॒या यद् विश्वे᳚, अ॒मृता॒, अकृ᳚ण्व॒न् द्यौष्पि॒ता ज॑नि॒ता स॒त्यमु॑क्षन् ||{10/20}{3.4.13.5}{4.1.10}{4.1.1.10}{545, 297, 3062} सः¦तु¦नः॒¦अ॒ग्निः¦न॒य॒तु॒¦प्र॒ऽजा॒नन्¦अच्छ॑¦रत्न᳚म्¦दे॒वऽभ॑क्तम्¦यत्¦अ॒स्य॒ | |
स जा᳚यत प्रथ॒मः प॒स्त्या᳚सु म॒हो बु॒ध्ने रज॑सो, अ॒स्य योनौ᳚ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अ॒पाद॑शी॒र्षा गु॒हमा᳚नो॒, अन्ता॒योयु॑वानो वृष॒भस्य॑ नी॒ळे ||{11/20}{3.4.14.1}{4.1.11}{4.1.1.11}{546, 297, 3063} सः¦जा॒य॒त॒¦प्र॒थ॒मः¦प॒स्त्या᳚सु¦म॒हः¦बु॒ध्ने¦रज॑सः¦अ॒स्य¦योनौ᳚ | |
प्र शर्ध॑ आर्त प्रथ॒मं वि॑प॒न्याँ, ऋ॒तस्य॒ योना᳚ वृष॒भस्य॑ नी॒ळे |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} स्पा॒र्हो युवा᳚ वपु॒ष्यो᳚ वि॒भावा᳚ स॒प्त प्रि॒यासो᳚ऽजनयन्त॒ वृष्णे᳚ ||{12/20}{3.4.14.2}{4.1.12}{4.1.1.12}{547, 297, 3064} प्र¦शर्धः॑¦आ॒र्त॒¦प्र॒थ॒मम्¦वि॒प॒न्या¦ऋ॒तस्य॑¦योना᳚¦वृ॒ष॒भस्य॑¦नी॒ळे | |
अ॒स्माक॒मत्र॑ पि॒तरो᳚ मनु॒ष्या᳚, अ॒भि प्र से᳚दुरृ॒तमा᳚शुषा॒णाः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अश्म᳚व्रजाः सु॒दुघा᳚ व॒व्रे, अ॒न्तरुदु॒स्रा, आ᳚जन्नु॒षसो᳚ हुवा॒नाः ||{13/20}{3.4.14.3}{4.1.13}{4.1.1.13}{548, 297, 3065} अ॒स्माक᳚म्¦अत्र॑¦पि॒तरः॑¦म॒नु॒ष्याः᳚¦अ॒भि¦प्र¦से॒दुः॒¦ऋ॒तम्¦आ॒शु॒षा॒णाः | |
ते म᳚र्मृजत ददृ॒वांसो॒, अद्रिं॒ तदे᳚षाम॒न्ये, अ॒भितो॒ वि वो᳚चन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} प॒श्वय᳚न्त्रासो, अ॒भि का॒रम॑र्चन् वि॒दन्त॒ ज्योति॑श्चकृ॒पन्त॑ धी॒भिः ||{14/20}{3.4.14.4}{4.1.14}{4.1.1.14}{549, 297, 3066} ते¦म॒र्मृ॒ज॒त॒¦द॒दृ॒ऽवांसः॑¦अद्रि᳚म्¦तत्¦ए॒षा॒म्¦अ॒न्ये¦अ॒भितः॑¦वि¦वो॒च॒न् | |
ते ग᳚व्य॒ता मन॑सा दृ॒ध्रमु॒ब्धं गा ये᳚मा॒नं परि॒ षन्त॒मद्रि᳚म् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} दृ॒ळ्हं नरो॒ वच॑सा॒ दैव्ये᳚न व्र॒जं गोम᳚न्तमु॒शिजो॒ वि व᳚व्रुः ||{15/20}{3.4.14.5}{4.1.15}{4.1.1.15}{550, 297, 3067} ते¦ग॒व्य॒ता¦मन॑सा¦दृ॒ध्रम्¦उ॒ब्धम्¦गाः¦ये॒मा॒नम्¦परि॑¦सन्त᳚म्¦अद्रि᳚म् | |
ते म᳚न्वत प्रथ॒मं नाम॑ धे॒नोस्त्रिः स॒प्त मा॒तुः प॑र॒माणि॑ विन्दन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} तज्जा᳚न॒तीर॒भ्य॑नूषत॒ व्रा, आ॒विर्भु॑वदरु॒णीर्य॒शसा॒ गोः ||{16/20}{3.4.15.1}{4.1.16}{4.1.1.16}{551, 297, 3068} ते¦म॒न्व॒त॒¦प्र॒थ॒मम्¦नाम॑¦धे॒नोः¦त्रिः¦स॒प्त¦मा॒तुः¦प॒र॒माणि॑¦वि॒न्द॒न् | |
नेश॒त्तमो॒ दुधि॑तं॒ रोच॑त॒ द्यौरुद्दे॒व्या, उ॒षसो᳚ भा॒नुर॑र्त |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} आ सूर्यो᳚ बृह॒तस्ति॑ष्ठ॒दज्राँ᳚, ऋ॒जु मर्ते᳚षु वृजि॒ना च॒ पश्य॑न् ||{17/20}{3.4.15.2}{4.1.17}{4.1.1.17}{552, 297, 3069} नेश॑त्¦तमः॑¦दुधि॑तम्¦रोच॑त¦द्यौः¦उत्¦दे॒व्याः¦उ॒षसः॑¦भा॒नुः¦अ॒र्त॒ | |
आदित् प॒श्चा बु॑बुधा॒ना व्य॑ख्य॒न्नादिद् रत्नं᳚ धारयन्त॒ द्युभ॑क्तम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} विश्वे॒ विश्वा᳚सु॒ दुर्या᳚सु दे॒वा मित्र॑ धि॒ये व॑रुण स॒त्यम॑स्तु ||{18/20}{3.4.15.3}{4.1.18}{4.1.1.18}{553, 297, 3070} आत्¦इत्¦प॒श्चा¦बु॒बु॒धा॒नाः¦वि¦अ॒ख्य॒न्¦आत्¦इत्¦रत्न᳚म्¦धा॒र॒य॒न्त॒¦द्युऽभ॑क्तम् | |
अच्छा᳚ वोचेय शुशुचा॒नम॒ग्निं होता᳚रं वि॒श्वभ॑रसं॒ यजि॑ष्ठम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} शुच्यूधो᳚, अतृण॒न्न गवा॒मन्धो॒ न पू॒तं परि॑षिक्तमं॒शोः ||{19/20}{3.4.15.4}{4.1.19}{4.1.1.19}{554, 297, 3071} अच्छ॑¦वो॒चे॒य॒¦शु॒शु॒चा॒नम्¦अ॒ग्निम्¦होता᳚रम्¦वि॒श्वऽभ॑रसम्¦यजि॑ष्ठम् | |
विश्वे᳚षा॒मदि॑तिर्य॒ज्ञिया᳚नां॒ विश्वे᳚षा॒मति॑थि॒र्मानु॑षाणाम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अ॒ग्निर्दे॒वाना॒मव॑ आवृणा॒नः सु॑मृळी॒को भ॑वतु जा॒तवे᳚दाः ||{20/20}{3.4.15.5}{4.1.20}{4.1.1.20}{555, 297, 3072} विश्वे᳚षाम्¦अदि॑तिः¦य॒ज्ञिया᳚नाम्¦विश्वे᳚षाम्¦अति॑थिः¦मानु॑षाणाम् | |
[58] योमर्त्येष्विति विंशत्यृचस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् | |
यो मर्त्ये᳚ष्व॒मृत॑ ऋ॒तावा᳚ दे॒वो दे॒वेष्व॑र॒तिर्नि॒धायि॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} होता॒ यजि॑ष्ठो म॒ह्ना शु॒चध्यै᳚ ह॒व्यैर॒ग्निर्मनु॑ष ईर॒यध्यै᳚ ||{1/20}{3.4.16.1}{4.2.1}{4.1.2.1}{556, 298, 3073} यः¦मर्त्ये᳚षु¦अ॒मृतः॑¦ऋ॒तऽवा᳚¦दे॒वः¦दे॒वेषु॑¦अ॒र॒तिः¦नि॒ऽधायि॑ | |
इ॒ह त्वं सू᳚नो सहसो नो, अ॒द्य जा॒तो जा॒ताँ, उ॒भयाँ᳚, अ॒न्तर॑ग्ने |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} दू॒त ई᳚यसे युयुजा॒न ऋ॑ष्व ऋजुमु॒ष्कान् वृष॑णः शु॒क्राँश्च॑ ||{2/20}{3.4.16.2}{4.2.2}{4.1.2.2}{557, 298, 3074} इ॒ह¦त्वम्¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦नः॒¦अ॒द्य¦जा॒तः¦जा॒तान्¦उ॒भया᳚न्¦अ॒न्तः¦अ॒ग्ने॒ | |
अत्या᳚ वृध॒स्नू रोहि॑ता घृ॒तस्नू᳚ ऋ॒तस्य॑ मन्ये॒ मन॑सा॒ जवि॑ष्ठा |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अ॒न्तरी᳚यसे, अरु॒षा यु॑जा॒नो यु॒ष्माँश्च॑ दे॒वान् विश॒ आ च॒ मर्ता॑न् ||{3/20}{3.4.16.3}{4.2.3}{4.1.2.3}{558, 298, 3075} अत्या᳚¦वृ॒ध॒स्नू इति॑ वृ॒ध॒ऽस्नू¦रोहि॑ता¦घृ॒तस्नू॒ इति॑ घृ॒तऽस्नू᳚¦ऋ॒तस्य॑¦म॒न्ये॒¦मन॑सा¦जवि॑ष्ठा | |
अ॒र्य॒मणं॒ वरु॑णं मि॒त्रमे᳚षा॒मिन्द्रा॒विष्णू᳚ म॒रुतो᳚, अ॒श्विनो॒त |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} स्वश्वो᳚, अग्ने सु॒रथः॑ सु॒राधा॒, एदु॑ वह सुह॒विषे॒ जना᳚य ||{4/20}{3.4.16.4}{4.2.4}{4.1.2.4}{559, 298, 3076} अ॒र्य॒मण᳚म्¦वरु॑णम्¦मि॒त्रम्¦ए॒षा॒म्¦इन्द्रा॒विष्णू॒ इति॑¦म॒रुतः॑¦अ॒श्विना᳚¦उ॒त | |
गोमाँ᳚, अ॒ग्नेऽवि॑माँ, अ॒श्वी य॒ज्ञो नृ॒वत्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} इळा᳚वाँ, ए॒षो, अ॑सुर प्र॒जावा᳚न् दी॒र्घो र॒यिः पृ॑थुबु॒ध्नः स॒भावा॑न् ||{5/20}{3.4.16.5}{4.2.5}{4.1.2.5}{560, 298, 3077} गोऽमा᳚न्¦अ॒ग्ने॒¦अवि॑ऽमान्¦अ॒श्वी¦य॒ज्ञः¦नृ॒वत्ऽस॑खा¦सद᳚म्¦इत्¦अ॒प्र॒ऽमृ॒ष्यः | |
यस्त॑ इ॒ध्मं ज॒भर॑त् सिष्विदा॒नो मू॒र्धानं᳚ वा त॒तप॑ते त्वा॒या |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} भुव॒स्तस्य॒ स्वत॑वाँः पा॒युर॑ग्ने॒ विश्व॑स्मात् सीमघाय॒त उ॑रुष्य ||{6/20}{3.4.17.1}{4.2.6}{4.1.2.6}{561, 298, 3078} यः¦ते॒¦इ॒ध्मम्¦ज॒भर॑त्¦सि॒स्वि॒दा॒नः¦मू॒र्धान᳚म्¦वा॒¦त॒तप॑ते¦त्वा॒ऽया | |
यस्ते॒ भरा॒दन्नि॑यते चि॒दन्नं᳚ नि॒शिष᳚न्म॒न्द्रमति॑थिमु॒दीर॑त् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} आ दे᳚व॒युरि॒नध॑ते दुरो॒णे तस्मि᳚न् र॒यिर्ध्रु॒वो, अ॑स्तु॒ दास्वा॑न् ||{7/20}{3.4.17.2}{4.2.7}{4.1.2.7}{562, 298, 3079} यः¦ते॒¦भरा᳚त्¦अन्नि॑ऽयते¦चि॒त्¦अन्न᳚म्¦नि॒ऽशिष॑त्¦म॒न्द्रम्¦अति॑थिम्¦उ॒त्ऽईर॑त् | |
यस्त्वा᳚ दो॒षा य उ॒षसि॑ प्र॒शंसा᳚त् प्रि॒यं वा᳚ त्वा कृ॒णव॑ते ह॒विष्मा॑न् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अश्वो॒ न स्वे दम॒ आ हे॒म्यावा॒न् तमंह॑सः पीपरो दा॒श्वांस᳚म् ||{8/20}{3.4.17.3}{4.2.8}{4.1.2.8}{563, 298, 3080} यः¦त्वा॒¦दो॒षा¦यः¦उ॒षसि॑¦प्र॒ऽशंसा᳚त्¦प्रि॒यम्¦वा॒¦त्वा॒¦कृ॒णव॑ते¦ह॒विष्मा॑न् | |
यस्तुभ्य॑मग्ने, अ॒मृता᳚य॒ दाश॒द् दुव॒स्त्वे कृ॒णव॑ते य॒तस्रु॑क् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} न स रा॒या श॑शमा॒नो वि यो᳚ष॒न्नैन॒मंहः॒ परि॑ वरदघा॒योः ||{9/20}{3.4.17.4}{4.2.9}{4.1.2.9}{564, 298, 3081} यः¦तुभ्य᳚म्¦अ॒ग्ने॒¦अ॒मृता᳚य¦दाश॑त्¦दुवः॑¦त्वे इति॑¦कृ॒णव॑ते¦य॒तऽस्रु॑क् | |
यस्य॒ त्वम॑ग्ने, अध्व॒रं जुजो᳚षो दे॒वो मर्त॑स्य॒ सुधि॑तं॒ ररा᳚णः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} प्री॒तेद॑स॒द्धोत्रा॒ सा य॑वि॒ष्ठाऽसा᳚म॒ यस्य॑ विध॒तो वृ॒धासः॑ ||{10/20}{3.4.17.5}{4.2.10}{4.1.2.10}{565, 298, 3082} यस्य॑¦त्वम्¦अ॒ग्ने॒¦अ॒ध्व॒रम्¦जुजो᳚षः¦दे॒वः¦मर्त॑स्य¦सुऽधि॑तम्¦ररा᳚णः | |
चित्ति॒मचि॑त्तिं चिनव॒द् वि वि॒द्वान् पृ॒ष्ठेव॑ वी॒ता वृ॑जि॒ना च॒ मर्ता॑न् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} रा॒ये च॑ नः स्वप॒त्याय॑ देव॒ दितिं᳚ च॒ रास्वादि॑तिमुरुष्य ||{11/20}{3.4.18.1}{4.2.11}{4.1.2.11}{566, 298, 3083} चित्ति᳚म्¦अचि॑त्तिम्¦चि॒न॒व॒त्¦वि¦वि॒द्वान्¦पृ॒ष्टाऽइ᳚व¦वी॒ता¦वृ॒जि॒ना¦च॒¦मर्ता॑न् | |
क॒विं श॑शासुः क॒वयोऽद॑ब्धा निधा॒रय᳚न्तो॒ दुर्या᳚स्वा॒योः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अत॒स्त्वं दृश्याँ᳚, अग्न ए॒तान् प॒ड्भिः प॑श्ये॒रद्भु॑ताँ, अ॒र्य एवैः᳚ ||{12/20}{3.4.18.2}{4.2.12}{4.1.2.12}{567, 298, 3084} क॒विम्¦श॒शा॒सुः॒¦क॒वयः॑¦अद॑ब्धाः¦नि॒ऽधा॒रय᳚न्तः¦दुर्या᳚सु¦आ॒योः | |
त्वम॑ग्ने वा॒घते᳚ सु॒प्रणी᳚तिः सु॒तसो᳚माय विध॒ते य॑विष्ठ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} रत्नं᳚ भर शशमा॒नाय॑ घृष्वे पृ॒थु श्च॒न्द्रमव॑से चर्षणि॒प्राः ||{13/20}{3.4.18.3}{4.2.13}{4.1.2.13}{568, 298, 3085} त्वम्¦अ॒ग्ने॒¦वा॒घते᳚¦सु॒ऽप्रनी᳚तिः¦सु॒तऽसो᳚माय¦वि॒ध॒ते¦य॒वि॒ष्ठ॒ | |
अधा᳚ ह॒ यद् व॒यम॑ग्ने त्वा॒या प॒ड्भिर्हस्ते᳚भिश्चकृ॒मा त॒नूभिः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} रथं॒ न क्रन्तो॒, अप॑सा भु॒रिजो᳚रृ॒तं ये᳚मुः सु॒ध्य॑ आशुषा॒णाः ||{14/20}{3.4.18.4}{4.2.14}{4.1.2.14}{569, 298, 3086} अध॑¦ह॒¦यत्¦व॒यम्¦अ॒ग्ने॒¦त्वा॒ऽया¦प॒ट्ऽभिः¦हस्ते᳚भिः¦च॒कृ॒म¦त॒नूभिः॑ | |
अधा᳚ मा॒तुरु॒षसः॑ स॒प्त विप्रा॒ जाये᳚महि प्रथ॒मा वे॒धसो॒ नॄन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} दि॒वस्पु॒त्रा, अङ्गि॑रसो भवे॒माऽद्रिं᳚ रुजेम ध॒निनं᳚ शु॒चन्तः॑ ||{15/20}{3.4.18.5}{4.2.15}{4.1.2.15}{570, 298, 3087} अध॑¦मा॒तुः¦उ॒षसः॑¦स॒प्त¦विप्राः᳚¦जाये᳚महि¦प्र॒थ॒माः¦वे॒धसः॑¦नॄन् | |
अधा॒ यथा᳚ नः पि॒तरः॒ परा᳚सः प्र॒त्नासो᳚, अग्न ऋ॒तमा᳚शुषा॒णाः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} शुचीद॑य॒न् दीधि॑तिमुक्थ॒शासः॒, क्षामा᳚ भि॒न्दन्तो᳚, अरु॒णीरप᳚ व्रन् ||{16/20}{3.4.19.1}{4.2.16}{4.1.2.16}{571, 298, 3088} अध॑¦यथा᳚¦नः॒¦पि॒तरः॑¦परा᳚सः¦प्र॒त्नासः॑¦अ॒ग्ने॒¦ऋ॒तम्¦आ॒शु॒षा॒णाः | |
सु॒कर्मा᳚णः सु॒रुचो᳚ देव॒यन्तोऽयो॒ न दे॒वा जनि॑मा॒ धम᳚न्तः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} शु॒चन्तो᳚, अ॒ग्निं व॑वृ॒धन्त॒ इन्द्र॑मू॒र्वं गव्यं᳚ परि॒षद᳚न्तो, अग्मन् ||{17/20}{3.4.19.2}{4.2.17}{4.1.2.17}{572, 298, 3089} सु॒ऽकर्मा᳚णः¦सु॒ऽरुचः॑¦दे॒व॒ऽयन्तः॑¦अयः॑¦न¦दे॒वाः¦जनि॑म¦धम᳚न्तः | |
आ यू॒थेव॑ क्षु॒मति॑ प॒श्वो, अ॑ख्यद् दे॒वानां॒ यज्जनि॒मान्त्यु॑ग्र |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} मर्ता᳚नां चिदु॒र्वशी᳚रकृप्रन् वृ॒धे चि॑द॒र्य उप॑रस्या॒योः ||{18/20}{3.4.19.3}{4.2.18}{4.1.2.18}{573, 298, 3090} आ¦यू॒थाऽइ᳚व¦क्षु॒ऽमति॑¦प॒श्वः¦अ॒ख्य॒त्¦दे॒वाना᳚म्¦यत्¦ज॒नि॒म¦अन्ति॑¦उ॒ग्र॒ | |
अक᳚र्म ते॒ स्वप॑सो, अभूम ऋ॒तम॑वस्रन्नु॒षसो᳚ विभा॒तीः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अनू᳚नम॒ग्निं पु॑रु॒धा सु॑श्च॒न्द्रं दे॒वस्य॒ मर्मृ॑जत॒श्चारु॒ चक्षुः॑ ||{19/20}{3.4.19.4}{4.2.19}{4.1.2.19}{574, 298, 3091} अक᳚र्म¦ते॒¦सु॒।आप॑सः¦अ॒भू॒म॒¦ऋ॒तम्¦अ॒व॒स्र॒न्¦उ॒षसः॑¦वि॒भा॒तीः | |
ए॒ता ते᳚, अग्न उ॒चथा᳚नि वे॒धोऽवो᳚चाम क॒वये॒ ता जु॑षस्व |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} उच्छो᳚चस्व कृणु॒हि वस्य॑सो नो म॒हो रा॒यः पु॑रुवार॒ प्र य᳚न्धि ||{20/20}{3.4.19.5}{4.2.20}{4.1.2.20}{575, 298, 3092} ए॒ता¦ते॒¦अ॒ग्ने॒¦उ॒चथा᳚नि¦वे॒धः॒¦अवो᳚चाम¦क॒वये᳚¦ता¦जु॒ष॒स्व॒ | |
[59] आवोराजानमिति षोडशर्चस्य सूक्तस्य गौतमोवामदेव आद्यायारुद्रोद्वितीयादीनामग्निस्त्रिष्टुप् | |
आ वो॒ राजा᳚नमध्व॒रस्य॑ रु॒द्रं होता᳚रं सत्य॒यजं॒ रोद॑स्योः |{गौतमो वामदेवः | रुद्रः, अग्निः | त्रिष्टुप्} अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर᳚ण्यरूप॒मव॑से कृणुध्वम् ||{1/16}{3.4.20.1}{4.3.1}{4.1.3.1}{576, 299, 3093} आ¦वः॒¦राजा᳚नम्¦अ॒ध्व॒रस्य॑¦रु॒द्रम्¦होता᳚रम्¦स॒त्य॒ऽयज॒म्¦रोद॑स्योः | |
अ॒यं योनि॑श्चकृ॒मा यं व॒यं ते᳚ जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः᳚ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अ॒र्वा॒ची॒नः परि॑वीतो॒ नि षी᳚दे॒मा, उ॑ ते स्वपाक प्रती॒चीः ||{2/16}{3.4.20.2}{4.3.2}{4.1.3.2}{577, 299, 3094} अ॒यम्¦योनिः॑¦च॒कृ॒म¦यम्¦व॒यम्¦ते॒¦जा॒याऽइ᳚व¦पत्ये᳚¦उ॒श॒ती¦सु॒ऽवासाः᳚ | |
आ॒शृ॒ण्व॒ते, अदृ॑पिताय॒ मन्म॑ नृ॒चक्ष॑से सुमृळी॒काय॑ वेधः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} दे॒वाय॑ श॒स्तिम॒मृता᳚य शंस॒ ग्रावे᳚व॒ सोता᳚ मधु॒षुद् यमी॒ळे ||{3/16}{3.4.20.3}{4.3.3}{4.1.3.3}{578, 299, 3095} आ॒ऽशृ॒ण्व॒ते¦अदृ॑पिताय¦मन्म॑¦नृ॒ऽचक्ष॑से¦सु॒ऽमृ॒ळी॒काय॑¦वे॒धः॒ | |
त्वं चि᳚न्नः॒ शम्या᳚, अग्ने, अ॒स्या, ऋ॒तस्य॑ बोध्यृतचित् स्वा॒धीः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} क॒दा त॑ उ॒क्था स॑ध॒माद्या᳚नि क॒दा भ॑वन्ति स॒ख्या गृ॒हे ते᳚ ||{4/16}{3.4.20.4}{4.3.4}{4.1.3.4}{579, 299, 3096} त्वम्¦चि॒त्¦नः॒¦शम्यै᳚¦अ॒ग्ने॒¦अ॒स्याः¦ऋ॒तस्य॑¦बो॒धि॒¦ऋ॒त॒ऽचि॒त्¦सु॒ऽआ॒धीः | |
क॒था ह॒ तद् वरु॑णाय॒ त्वम॑ग्ने क॒था दि॒वे ग᳚र्हसे॒ कन्न॒ आगः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} क॒था मि॒त्राय॑ मी॒ळ्हुषे᳚ पृथि॒व्यै ब्रवः॒ कद᳚र्य॒म्णे कद् भगा᳚य ||{5/16}{3.4.20.5}{4.3.5}{4.1.3.5}{580, 299, 3097} क॒था¦ह॒¦तत्¦वरु॑णाय¦त्वम्¦अ॒ग्ने॒¦क॒था¦दि॒वे¦ग॒र्ह॒से॒¦कत्¦नः॒¦आगः॑ | |
कद् धिष्ण्या᳚सु वृधसा॒नो, अ॑ग्ने॒ कद् वाता᳚य॒ प्रत॑वसे शुभं॒ये |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} परि॑ज्मने॒ नास॑त्याय॒ क्षे ब्रवः॒ कद॑ग्ने रु॒द्राय॑ नृ॒घ्ने ||{6/16}{3.4.21.1}{4.3.6}{4.1.3.6}{581, 299, 3098} कत्¦धिष्ण्या᳚सु¦वृ॒ध॒सा॒नः¦अ॒ग्ने॒¦कत्¦वाता᳚य¦प्रऽत॑वसे¦शु॒भ॒म्ऽये | |
क॒था म॒हे पु॑ष्टिम्भ॒राय॑ पू॒ष्णे कद् रु॒द्राय॒ सुम॑खाय हवि॒र्दे |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} कद् विष्ण॑व उरुगा॒याय॒ रेतो॒ ब्रवः॒ कद॑ग्ने॒ शर॑वे बृह॒त्यै ||{7/16}{3.4.21.2}{4.3.7}{4.1.3.7}{582, 299, 3099} क॒था¦म॒हे¦पु॒ष्टि॒म्ऽभ॒राय॑¦पू॒ष्णे¦कत्¦रु॒द्राय॑¦सुऽम॑खाय¦ह॒विः॒ऽदे | |
क॒था शर्धा᳚य म॒रुता᳚मृ॒ताय॑ क॒था सू॒रे बृ॑ह॒ते पृ॒च्छ्यमा᳚नः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} प्रति॑ ब्र॒वोऽदि॑तये तु॒राय॒ साधा᳚ दि॒वो जा᳚तवेदश्चिकि॒त्वान् ||{8/16}{3.4.21.3}{4.3.8}{4.1.3.8}{583, 299, 3100} क॒था¦शर्धा᳚य¦म॒रुता᳚म्¦ऋ॒ताय॑¦क॒था¦सू॒रे¦बृ॒ह॒ते¦पृ॒च्छ्यमा᳚नः | |
ऋ॒तेन॑ ऋ॒तं निय॑तमीळ॒ आ गोरा॒मा सचा॒ मधु॑मत् प॒क्वम॑ग्ने |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} कृ॒ष्णा स॒ती रुश॑ता धा॒सिनै॒षा जाम᳚र्येण॒ पय॑सा पीपाय ||{9/16}{3.4.21.4}{4.3.9}{4.1.3.9}{584, 299, 3101} ऋ॒तेन॑¦ऋ॒तम्¦निऽय॑तम्¦ई॒ळे॒¦आ¦गोः¦आ॒मा¦सचा᳚¦मधु॑ऽमत्¦प॒क्वम्¦अ॒ग्ने॒ | |
ऋ॒तेन॒ हि ष्मा᳚ वृष॒भश्चि॑द॒क्तः पुमाँ᳚, अ॒ग्निः पय॑सा पृ॒ष्ठ्ये᳚न |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अस्प᳚न्दमानो, अचरद् वयो॒धा वृषा᳚ शु॒क्रं दु॑दुहे॒ पृश्नि॒रूधः॑ ||{10/16}{3.4.21.5}{4.3.10}{4.1.3.10}{585, 299, 3102} ऋ॒तेनः॑¦हि¦स्म॒¦वृ॒ष॒भः¦चि॒त्¦अ॒क्तः¦पुमा᳚न्¦अ॒ग्निः¦पय॑सा¦पृ॒ष्ठ्ये᳚न | |
ऋ॒तेनाद्रिं॒ व्य॑सन् भि॒दन्तः॒ समङ्गि॑रसो नवन्त॒ गोभिः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} शु॒नं नरः॒ परि॑ षदन्नु॒षास॑मा॒विः स्व॑रभवज्जा॒ते, अ॒ग्नौ ||{11/16}{3.4.22.1}{4.3.11}{4.1.3.11}{586, 299, 3103} ऋ॒तेन॑¦अद्रि᳚म्¦वि¦अ॒स॒न्¦भि॒दन्तः॑¦सम्¦अङ्गि॑रसः¦न॒व॒न्त॒¦गोऽभिः॑ | |
ऋ॒तेन॑ दे॒वीर॒मृता॒, अमृ॑क्ता॒, अर्णो᳚भि॒रापो॒ मधु॑मद्भिरग्ने |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} वा॒जी न सर्गे᳚षु प्रस्तुभा॒नः प्र सद॒मित् स्रवि॑तवे दधन्युः ||{12/16}{3.4.22.2}{4.3.12}{4.1.3.12}{587, 299, 3104} ऋ॒तेन॑¦दे॒वीः¦अ॒मृताः᳚¦अमृ॑क्ताः¦अर्णः॑ऽभिः¦आपः॑¦मधु॑मत्ऽभिः¦अ॒ग्ने॒ | |
मा कस्य॑ य॒क्षं सद॒मिद्धु॒रो गा॒ मा वे॒शस्य॑ प्रमिन॒तो मापेः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} मा भ्रातु॑रग्ने॒, अनृ॑जोरृ॒णं वे॒र्मा सख्यु॒र्दक्षं᳚ रि॒पोर्भु॑जेम ||{13/16}{3.4.22.3}{4.3.13}{4.1.3.13}{588, 299, 3105} मा¦कस्य॑¦य॒क्षम्¦सद᳚म्¦इत्¦हु॒रः¦गाः॒¦मा¦वे॒शस्य॑¦प्र॒ऽमि॒न॒तः¦मा¦आ॒पेः | |
रक्षा᳚ णो, अग्ने॒ तव॒ रक्ष॑णेभी रारक्षा॒णः सु॑मख प्रीणा॒नः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} प्रति॑ ष्फुर॒ वि रु॑ज वी॒ड्वंहो᳚ ज॒हि रक्षो॒ महि॑ चिद् वावृधा॒नम् ||{14/16}{3.4.22.4}{4.3.14}{4.1.3.14}{589, 299, 3106} रक्ष॑¦नः॒¦अ॒ग्ने॒¦तव॑¦रक्ष॑णेभिः¦र॒र॒क्षा॒णः¦सु॒ऽम॒ख॒¦प्री॒णा॒नः | |
ए॒भिर्भ॑व सु॒मना᳚, अग्ने, अ॒र्कैरि॒मान् त्स्पृ॑श॒ मन्म॑भिः शूर॒ वाजा॑न् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} उ॒त ब्रह्मा᳚ण्यङ्गिरो जुषस्व॒ सं ते᳚ श॒स्तिर्दे॒ववा᳚ता जरेत ||{15/16}{3.4.22.5}{4.3.15}{4.1.3.15}{590, 299, 3107} ए॒भिः¦भ॒व॒¦सु॒ऽमनाः᳚¦अ॒ग्ने॒¦अ॒र्कैः¦इ॒मान्¦स्पृ॒श॒¦मन्म॑ऽभिः¦शू॒र॒¦वाजा॑न् | |
ए॒ता विश्वा᳚ वि॒दुषे॒ तुभ्यं᳚ वेधो नी॒थान्य॑ग्ने नि॒ण्या वचां᳚सि |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} नि॒वच॑ना क॒वये॒ काव्या॒न्यशं᳚सिषं म॒तिभि॒र्विप्र॑ उ॒क्थैः ||{16/16}{3.4.22.6}{4.3.16}{4.1.3.16}{591, 299, 3108} ए॒ता¦विश्वा᳚¦वि॒दुषे᳚¦तुभ्य᳚म्¦वे॒धः॒¦नी॒थानि॑¦अ॒ग्ने॒¦नि॒ण्या¦वचां᳚सि | |
[60] कृणुष्वेति पंचदशर्चस्य सूक्तस्य गौतमोवामदेवोरक्षोहाग्निस्त्रिष्टुप् | |
कृ॒णु॒ष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वाँ॒, इभे᳚न |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता᳚सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ||{1/15}{3.4.23.1}{4.4.1}{4.1.4.1}{592, 300, 3109} कृ॒णु॒ष्व¦पाजः॑¦प्रऽसि॑तिम्¦न¦पृ॒थ्वीम्¦या॒हि¦राजा᳚ऽइव¦अम॑ऽवान्¦इभे᳚न | |
तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} तपूं᳚ष्यग्ने जु॒ह्वा᳚ पतं॒गानसं᳚दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ||{2/15}{3.4.23.2}{4.4.2}{4.1.4.2}{593, 300, 3110} तव॑¦भ्र॒मासः॑¦आ॒शु॒ऽया¦प॒त॒न्ति॒¦अनु॑¦स्पृ॒श॒¦धृ॒ष॒ता¦शोशु॑चानः | |
प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा᳚ पा॒युर्वि॒शो, अ॒स्या, अद॑ब्धः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} यो नो᳚ दू॒रे, अ॒घशं᳚सो॒ यो, अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्षीत् ||{3/15}{3.4.23.3}{4.4.3}{4.1.4.3}{594, 300, 3111} प्रति॑¦स्पशः॑¦वि¦सृ॒ज॒¦तूर्णि॑ऽतमः¦भव॑¦पा॒युः¦वि॒शः¦अ॒स्याः¦अद॑ब्धः | |
उद॑ग्ने तिष्ठ॒ प्रत्या त॑नुष्व॒ न्य१॑(अ॒)मित्राँ᳚, ओषतात्तिग्महेते |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} यो नो॒, अरा᳚तिं समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सन्न शुष्क᳚म् ||{4/15}{3.4.23.4}{4.4.4}{4.1.4.4}{595, 300, 3112} उत्¦अ॒ग्ने॒¦ति॒ष्ठ॒¦प्रति॑¦आ¦त॒नु॒ष्व॒¦नि¦अ॒मित्रा᳚न्¦ओ॒ष॒ता॒त्¦ति॒ग्म॒ऽहे॒ते॒ | |
ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या᳚न्यग्ने |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} अव॑ स्थि॒रा त॑नुहि यातु॒जूनां᳚ जा॒मिमजा᳚मिं॒ प्र मृ॑णीहि॒ शत्रू॑न् ||{5/15}{3.4.23.5}{4.4.5}{4.1.4.5}{596, 300, 3113} ऊ॒र्ध्वः¦भ॒व॒¦प्रति॑¦वि॒ध्य॒¦अधि॑¦अ॒स्मत्¦आ॒विः¦कृ॒णु॒ष्व॒¦दैव्या᳚नि¦अ॒ग्ने॒ | |
स ते᳚ जानाति सुम॒तिं य॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} विश्वा᳚न्यस्मै सु॒दिना᳚नि रा॒यो द्यु॒म्नान्य॒र्यो वि दुरो᳚, अ॒भि द्यौ᳚त् ||{6/15}{3.4.24.1}{4.4.6}{4.1.4.6}{597, 300, 3114} सः¦ते॒¦जा॒ना॒ति॒¦सु॒ऽम॒तिम्¦य॒वि॒ष्ठ॒¦यः¦ईव॑ते¦ब्रह्म॑णे¦गा॒तुम्¦ऐर॑त् | |
सेद॑ग्ने, अस्तु सु॒भगः॑ सु॒दानु॒र्यस्त्वा॒ नित्ये᳚न ह॒विषा॒ य उ॒क्थैः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} पिप्री᳚षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ सास॑दि॒ष्टिः ||{7/15}{3.4.24.2}{4.4.7}{4.1.4.7}{598, 300, 3115} सः¦इत्¦अ॒ग्ने॒¦अ॒स्तु॒¦सु॒ऽभगः॑¦सु॒ऽदानुः॑¦यः¦त्वा॒¦नित्ये᳚न¦ह॒विषा᳚¦यः¦उ॒क्थैः | |
अर्चा᳚मि ते सुम॒तिं घोष्य॒र्वाक् सं ते᳚ वा॒वाता᳚ जरतामि॒यं गीः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} स्वश्वा᳚स्त्वा सु॒रथा᳚ मर्जयेमा॒ऽस्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून् ||{8/15}{3.4.24.3}{4.4.8}{4.1.4.8}{599, 300, 3116} अर्चा᳚मि¦ते॒¦सु॒ऽम॒तिम्¦घोषि॑¦अ॒र्वाक्¦सम्¦ते॒¦व॒वाता᳚¦ज॒र॒ता॒म्¦इ॒यम्¦गीः | |
इ॒ह त्वा॒ भूर्या च॑रे॒दुप॒ त्मन् दोषा᳚वस्तर्दीदि॒वांस॒मनु॒ द्यून् |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} क्रीळ᳚न्तस्त्वा सु॒मन॑सः सपेमा॒ऽभि द्यु॒म्ना त॑स्थि॒वांसो॒ जना᳚नाम् ||{9/15}{3.4.24.4}{4.4.9}{4.1.4.9}{600, 300, 3117} इ॒ह¦त्वा॒¦भूरि॑¦आ¦च॒रे॒त्¦उप॑¦त्मन्¦दोषा᳚ऽवस्तः¦दी॒दि॒ऽवांस᳚म्¦अनु॑¦द्यून् | |
यस्त्वा॒ स्वश्वः॑ सुहिर॒ण्यो, अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे᳚न |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा᳚नु॒षग् जुजो᳚षत् ||{10/15}{3.4.24.5}{4.4.10}{4.1.4.10}{601, 300, 3118} यः¦त्वा॒¦सु॒।आश्वः॑¦सु॒ऽहि॒र॒ण्यः¦अ॒ग्ने॒¦उ॒प॒ऽयाति॑¦वसु॑ऽमता¦रथे᳚न | |
म॒हो रु॑जामि ब॒न्धुता॒ वचो᳚भि॒स्तन्मा᳚ पि॒तुर्गोत॑मा॒दन्वि॑याय |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} त्वं नो᳚, अ॒स्य वच॑सश्चिकिद्धि॒ होत᳚र्यविष्ठ सुक्रतो॒ दमू᳚नाः ||{11/15}{3.4.25.1}{4.4.11}{4.1.4.11}{602, 300, 3119} म॒हः¦रु॒जा॒मि॒¦ब॒न्धुता᳚¦वचः॑ऽभिः¦तत्¦मा॒¦पि॒तुः¦गोत॑मात्¦अनु॑¦इ॒या॒य॒ | |
अस्व॑प्नजस्त॒रण॑यः सु॒शेवा॒, अत᳚न्द्रासोऽवृ॒का, अश्र॑मिष्ठाः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} ते पा॒यवः॑ स॒ध्र्य᳚ञ्चो नि॒षद्याऽग्ने॒ तव॑ नः पान्त्वमूर ||{12/15}{3.4.25.2}{4.4.12}{4.1.4.12}{603, 300, 3120} अस्व॑प्नऽजः¦त॒रण॑यः¦सु॒ऽशेवाः᳚¦अत᳚न्द्रासः¦अ॒वृ॒काः¦अश्र॑मिष्ठाः | |
ये पा॒यवो᳚ मामते॒यं ते᳚, अग्ने॒ पश्य᳚न्तो, अ॒न्धं दु॑रि॒तादर॑क्षन् |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} र॒रक्ष॒ तान् त्सु॒कृतो᳚ वि॒श्ववे᳚दा॒ दिप्स᳚न्त॒ इद् रि॒पवो॒ नाह॑ देभुः ||{13/15}{3.4.25.3}{4.4.13}{4.1.4.13}{604, 300, 3121} ये¦पा॒यवः॑¦मा॒म॒ते॒यम्¦ते॒¦अ॒ग्ने॒¦पश्य᳚न्तः¦अ॒न्धम्¦दुः॒ऽइ॒तात्¦अर॑क्षन् | |
त्वया᳚ व॒यं स॑ध॒न्य१॑(अ॒)स्त्वोता॒स्तव॒ प्रणी᳚त्यश्याम॒ वाजा॑न् |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} उ॒भा शंसा᳚ सूदय सत्यताते ऽनुष्ठु॒या कृ॑णुह्यह्रयाण ||{14/15}{3.4.25.4}{4.4.14}{4.1.4.14}{605, 300, 3122} त्वया᳚¦व॒यम्¦स॒ऽध॒न्यः॑¦त्वाऽऊ᳚ताः¦तव॑¦प्रऽनी᳚ती¦अ॒श्या॒म॒¦वाजा॑न् | |
अ॒या ते᳚, अग्ने स॒मिधा᳚ विधेम॒ प्रति॒ स्तोमं᳚ श॒स्यमा᳚नं गृभाय |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} दहा॒शसो᳚ र॒क्षसः॑ पा॒ह्य१॑(अ॒)स्मान् द्रु॒हो नि॒दो मि॑त्रमहो, अव॒द्यात् ||{15/15}{3.4.25.5}{4.4.15}{4.1.4.15}{606, 300, 3123} अ॒या¦ते॒¦अ॒ग्ने॒¦स॒म्ऽइधा᳚¦वि॒धे॒म॒¦प्रति॑¦स्तोम᳚म्¦श॒स्यमा᳚नम्¦गृ॒भा॒य॒ | |
[61] वैश्वानरायेतिपंचदशर्चस्य सूक्तस्य गौतमोवामदेवोवैश्वानरोग्निस्त्रिष्टुप् | |
वै॒श्वा॒न॒राय॑ मी॒ळ्हुषे᳚ स॒जोषाः᳚ क॒था दा᳚शेमा॒ग्नये᳚ बृ॒हद्भाः |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} अनू᳚नेन बृह॒ता व॒क्षथे॒नोप॑ स्तभायदुप॒मिन्न रोधः॑ ||{1/15}{3.5.1.1}{4.5.1}{4.1.5.1}{607, 301, 3124} वै॒श्वा॒न॒राय॑¦मी॒ळ्हुषे᳚¦स॒ऽजोषाः᳚¦क॒था¦दा॒शे॒म॒¦अ॒ग्नये᳚¦बृ॒हत्¦भाः | |
मा नि᳚न्दत॒ य इ॒मां मह्यं᳚ रा॒तिं दे॒वो द॒दौ मर्त्या᳚य स्व॒धावा॑न् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} पाका᳚य॒ गृत्सो᳚, अ॒मृतो॒ विचे᳚ता वैश्वान॒रो नृत॑मो य॒ह्वो, अ॒ग्निः ||{2/15}{3.5.1.2}{4.5.2}{4.1.5.2}{608, 301, 3125} मा¦नि॒न्द॒त॒¦यः¦इ॒माम्¦मह्य᳚म्¦रा॒तिम्¦दे॒वः¦द॒दौ¦मर्या᳚य¦स्व॒धाऽवा॑न् | |
साम॑ द्वि॒बर्हा॒ महि॑ ति॒ग्मभृ॑ष्टिः स॒हस्र॑रेता वृष॒भस्तुवि॑ष्मान् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} प॒दं न गोरप॑गूळ्हं विवि॒द्वान॒ग्निर्मह्यं॒ प्रेदु॑ वोचन्मनी॒षाम् ||{3/15}{3.5.1.3}{4.5.3}{4.1.5.3}{609, 301, 3126} साम॑¦द्वि॒ऽबर्हाः᳚¦महि॑¦ति॒ग्मऽभृ॑ष्टिः¦स॒हस्र॑ऽरेताः¦वृ॒ष॒भः¦तुवि॑ष्मान् | |
प्र ताँ, अ॒ग्निर्ब॑भसत्ति॒ग्मज᳚म्भ॒स्तपि॑ष्ठेन शो॒चिषा॒ यः सु॒राधाः᳚ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} प्र ये मि॒नन्ति॒ वरु॑णस्य॒ धाम॑ प्रि॒या मि॒त्रस्य॒ चेत॑तो ध्रु॒वाणि॑ ||{4/15}{3.5.1.4}{4.5.4}{4.1.5.4}{610, 301, 3127} प्र¦तान्¦अ॒ग्निः¦ब॒भ॒स॒त्¦ति॒ग्मऽज᳚म्भः¦तपि॑ष्ठेन¦शो॒चिषा᳚¦यः¦सु॒ऽराधाः᳚ | |
अ॒भ्रा॒तरो॒ न योष॑णो॒ व्यन्तः॑ पति॒रिपो॒ न जन॑यो दु॒रेवाः᳚ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} पा॒पासः॒ सन्तो᳚, अनृ॒ता, अ॑स॒त्या, इ॒दं प॒दम॑जनता गभी॒रम् ||{5/15}{3.5.1.5}{4.5.5}{4.1.5.5}{611, 301, 3128} अ॒भ्रा॒तरः॑¦न¦योष॑णः¦व्यन्तः॑¦प॒ति॒ऽरिपः॑¦न¦जन॑यः¦दुः॒ऽएवाः᳚ | |
इ॒दं मे᳚, अग्ने॒ किय॑ते पाव॒काऽमि॑नते गु॒रुं भा॒रं न मन्म॑ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} बृ॒हद्द॑धाथ धृष॒ता ग॑भी॒रं य॒ह्वं पृ॒ष्ठं प्रय॑सा स॒प्तधा᳚तु ||{6/15}{3.5.2.1}{4.5.6}{4.1.5.6}{612, 301, 3129} इ॒दम्¦मे॒¦अ॒ग्ने॒¦किय॑ते¦पा॒व॒क॒¦अमि॑नते¦गु॒रुम्¦भा॒रम्¦न¦मन्म॑ | |
तमिन्न्वे॒३॑(ए॒)व स॑म॒ना स॑मा॒नम॒भि क्रत्वा᳚ पुन॒ती धी॒तिर॑श्याः |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} स॒सस्य॒ चर्म॒न्नधि॒ चारु॒ पृश्ने॒रग्रे᳚ रु॒प आरु॑पितं॒ जबा᳚रु ||{7/15}{3.5.2.2}{4.5.7}{4.1.5.7}{613, 301, 3130} तम्¦इत्¦नु¦ए॒व¦स॒म॒ना¦स॒मा॒नम्¦अ॒भि¦क्रत्वा᳚¦पु॒न॒ती¦धी॒तिः¦अ॒श्याः॒ | |
प्र॒वाच्यं॒ वच॑सः॒ किं मे᳚, अ॒स्य गुहा᳚ हि॒तमुप॑ नि॒णिग् व॑दन्ति |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} यदु॒स्रिया᳚णा॒मप॒ वारि॑व॒ व्रन् पाति॑ प्रि॒यं रु॒पो, अग्रं᳚ प॒दं वेः ||{8/15}{3.5.2.3}{4.5.8}{4.1.5.8}{614, 301, 3131} प्र॒ऽवाच्य᳚म्¦वच॑सः¦किम्¦मे॒¦अ॒स्य¦गुहा᳚¦हि॒तम्¦उप॑¦नि॒णिक्¦व॒द॒न्ति॒ | |
इ॒दमु॒ त्यन्महि॑ म॒हामनी᳚कं॒ यदु॒स्रिया॒ सच॑त पू॒र्व्यं गौः |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} ऋ॒तस्य॑ प॒दे, अधि॒ दीद्या᳚नं॒ गुहा᳚ रघु॒ष्यद् र॑घु॒यद् वि॑वेद ||{9/15}{3.5.2.4}{4.5.9}{4.1.5.9}{615, 301, 3132} इ॒दम्¦ऊँ॒ इति॑¦त्यत्¦महि॑¦म॒हाम्¦अनी᳚कम्¦यत्¦उ॒स्रिया᳚¦सच॑त¦पू॒र्व्यम्¦गौः | |
अध॑ द्युता॒नः पि॒त्रोः सचा॒साऽम॑नुत॒ गुह्यं॒ चारु॒ पृश्नेः᳚ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} मा॒तुष्प॒दे प॑र॒मे, अन्ति॒ षद् गोर्वृष्णः॑ शो॒चिषः॒ प्रय॑तस्य जि॒ह्वा ||{10/15}{3.5.2.5}{4.5.10}{4.1.5.10}{616, 301, 3133} अध॑¦द्यु॒ता॒नः¦पि॒त्रोः¦सचा᳚¦आ॒सा¦अम॑नुत¦गुह्य᳚म्¦चारु॑¦पृश्नेः᳚ | |
ऋ॒तं वो᳚चे॒ नम॑सा पृ॒च्छ्यमा᳚न॒स्तवा॒शसा᳚ जातवेदो॒ यदी॒दम् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} त्वम॒स्य क्ष॑यसि॒ यद्ध॒ विश्वं᳚ दि॒वि यदु॒ द्रवि॑णं॒ यत् पृ॑थि॒व्याम् ||{11/15}{3.5.3.1}{4.5.11}{4.1.5.11}{617, 301, 3134} ऋ॒तम्¦वो॒चे॒¦नम॑सा¦पृ॒च्छ्यमा᳚नः¦तव॑¦आ॒ऽशसा᳚¦जा॒त॒ऽवे॒दः॒¦यदि॑¦इ॒दम् | |
किं नो᳚, अ॒स्य द्रवि॑णं॒ कद्ध॒ रत्नं॒ वि नो᳚ वोचो जातवेदश्चिकि॒त्वान् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} गुहाध्व॑नः पर॒मं यन्नो᳚, अ॒स्य रेकु॑ प॒दं न नि॑दा॒ना, अग᳚न्म ||{12/15}{3.5.3.2}{4.5.12}{4.1.5.12}{618, 301, 3135} किम्¦नः॒¦अ॒स्य¦द्रवि॑णम्¦कत्¦ह॒¦रत्न᳚म्¦वि¦नः॒¦वो॒चः॒¦जा॒त॒ऽवे॒दः॒¦चि॒कि॒त्वान् | |
का म॒र्यादा᳚ व॒युना॒ कद्ध॑ वा॒ममच्छा᳚ गमेम र॒घवो॒ न वाज᳚म् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} क॒दा नो᳚ दे॒वीर॒मृत॑स्य॒ पत्नीः॒ सूरो॒ वर्णे᳚न ततनन्नु॒षासः॑ ||{13/15}{3.5.3.3}{4.5.13}{4.1.5.13}{619, 301, 3136} का¦म॒र्यादा᳚¦व॒युना᳚¦कत्¦ह॒¦वा॒मम्¦अच्छ॑¦ग॒मे॒म॒¦र॒घवः॑¦न¦वाज᳚म् | |
अ॒नि॒रेण॒ वच॑सा फ॒ल्ग्वे᳚न प्र॒तीत्ये᳚न कृ॒धुना᳚तृ॒पासः॑ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} अधा॒ ते, अ॑ग्ने॒ किमि॒हा व॑दन्त्यनायु॒धास॒ आस॑ता सचन्ताम् ||{14/15}{3.5.3.4}{4.5.14}{4.1.5.14}{620, 301, 3137} अ॒नि॒रेण॑¦वच॑सा¦फ॒ल्ग्वे᳚न¦प्र॒तीत्ये᳚न¦कृ॒धुना᳚¦अ॒तृ॒पासः॑ | |
अ॒स्य श्रि॒ये स॑मिधा॒नस्य॒ वृष्णो॒ वसो॒रनी᳚कं॒ दम॒ आ रु॑रोच |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} रुश॒द् वसा᳚नः सु॒दृशी᳚करूपः, क्षि॒तिर्न रा॒या पु॑रु॒वारो᳚, अद्यौत् ||{15/15}{3.5.3.5}{4.5.15}{4.1.5.15}{621, 301, 3138} अ॒स्य¦श्रि॒ये¦स॒म्ऽइ॒धा॒नस्य॑¦वृष्णः॑¦वसोः᳚¦अनी᳚कम्¦दमे᳚¦आ¦रु॒रो॒च॒ | |
[62] ऊर्ध्वऊषुणइत्येकादशर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् | |
ऊ॒र्ध्व ऊ॒ षु णो᳚, अध्वरस्य होत॒रग्ने॒ तिष्ठ॑ दे॒वता᳚ता॒ यजी᳚यान् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} त्वं हि विश्व॑म॒भ्यसि॒ मन्म॒ प्र वे॒धस॑श्चित्तिरसि मनी॒षाम् ||{1/11}{3.5.4.1}{4.6.1}{4.1.6.1}{622, 302, 3139} ऊ॒र्ध्वः¦ऊँ॒ इति॑¦सु¦नः॒¦अ॒ध्व॒र॒स्य॒¦हो॒तः॒¦अग्ने᳚¦तिष्ठ॑¦दे॒वऽता᳚ता¦यजी᳚यान् | |
अमू᳚रो॒ होता॒ न्य॑सादि वि॒क्ष्व१॑(अ॒)ग्निर्म॒न्द्रो वि॒दथे᳚षु॒ प्रचे᳚ताः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} ऊ॒र्ध्वं भा॒नुं स॑वि॒तेवा᳚श्रे॒न्मेते᳚व धू॒मं स्त॑भाय॒दुप॒ द्याम् ||{2/11}{3.5.4.2}{4.6.2}{4.1.6.2}{623, 302, 3140} अमू᳚रः¦होता᳚¦नि¦अ॒सा॒दि॒¦वि॒क्षु¦अ॒ग्निः¦म॒न्द्रः¦वि॒दथे᳚षु¦प्रऽचे᳚ताः | |
य॒ता सु॑जू॒र्णी रा॒तिनी᳚ घृ॒ताची᳚ प्रदक्षि॒णिद् दे॒वता᳚तिमुरा॒णः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} उदु॒ स्वरु᳚र्नव॒जा नाक्रः प॒श्वो, अ॑नक्ति॒ सुधि॑तः सु॒मेकः॑ ||{3/11}{3.5.4.3}{4.6.3}{4.1.6.3}{624, 302, 3141} य॒ता¦सु॒ऽजू॒र्णिः¦रा॒तिनी᳚¦घृ॒ताची᳚¦प्र॒ऽद॒क्षि॒णित्¦दे॒वऽता᳚तिम्¦उ॒रा॒णः | |
स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने, अ॒ग्ना, ऊ॒र्ध्वो, अ॑ध्व॒र्युर्जु॑जुषा॒णो, अ॑स्थात् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} पर्य॒ग्निः प॑शु॒पा न होता᳚ त्रिवि॒ष्ट्ये᳚ति प्र॒दिव॑ उरा॒णः ||{4/11}{3.5.4.4}{4.6.4}{4.1.6.4}{625, 302, 3142} स्ती॒र्णे¦ब॒र्हिषि॑¦स॒म्ऽइ॒धा॒ने¦अ॒ग्नौ¦ऊ॒र्ध्वः¦अ॒ध्व॒र्युः¦जु॒जु॒षा॒णः¦अ॒स्था॒त् | |
परि॒ त्मना᳚ मि॒तद्रु॑रेति॒ होता॒ऽग्निर्म॒न्द्रो मधु॑वचा, ऋ॒तावा᳚ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} द्रव᳚न्त्यस्य वा॒जिनो॒ न शोका॒ भय᳚न्ते॒ विश्वा॒ भुव॑ना॒ यदभ्रा᳚ट् ||{5/11}{3.5.4.5}{4.6.5}{4.1.6.5}{626, 302, 3143} परि॑¦त्मना᳚¦मि॒तऽद्रुः॑¦ए॒ति॒¦होता᳚¦अ॒ग्निः¦म॒न्द्रः¦मधु॑ऽवचाः¦ऋ॒तऽवा᳚ | |
भ॒द्रा ते᳚, अग्ने स्वनीक सं॒दृग् घो॒रस्य॑ स॒तो विषु॑णस्य॒ चारुः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} न यत्ते᳚ शो॒चिस्तम॑सा॒ वर᳚न्त॒ न ध्व॒स्मान॑स्त॒न्वी॒३॑(ई॒) रेप॒ आ धुः॑ ||{6/11}{3.5.5.1}{4.6.6}{4.1.6.6}{627, 302, 3144} भ॒द्रा¦ते॒¦अ॒ग्ने॒¦सु॒।आ॒नी॒क॒¦स॒म्ऽदृक्¦घो॒रस्य॑¦स॒तः¦विषु॑णस्य¦चारुः॑ | |
न यस्य॒ सातु॒र्जनि॑तो॒रवा᳚रि॒ न मा॒तरा᳚पि॒तरा॒ नू चि॑दि॒ष्टौ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अधा᳚ मि॒त्रो न सुधि॑तः पाव॒को॒३॑(ओ॒)ऽग्निर्दी᳚दाय॒ मानु॑षीषु वि॒क्षु ||{7/11}{3.5.5.2}{4.6.7}{4.1.6.7}{628, 302, 3145} न¦यस्य॑¦सातुः॑¦जनि॑तोः¦अवा᳚रि¦न¦मा॒तरा᳚पि॒तरा᳚¦नु¦चि॒त्¦इ॒ष्टौ | |
द्विर्यं पञ्च॒ जीज॑नन् त्सं॒वसा᳚नाः॒ स्वसा᳚रो, अ॒ग्निं मानु॑षीषु वि॒क्षु |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} उ॒ष॒र्बुध॑मथ॒र्यो॒३॑(ओ॒) न दन्तं᳚ शु॒क्रं स्वासं᳚ पर॒शुं न ति॒ग्मम् ||{8/11}{3.5.5.3}{4.6.8}{4.1.6.8}{629, 302, 3146} द्विः¦यम्¦पंच॑¦जीज॑नन्¦स॒म्ऽवसा᳚नाः¦स्वसा᳚रः¦अ॒ग्निम्¦मानु॑षीषु¦वि॒क्षु | |
तव॒ त्ये, अ॑ग्ने ह॒रितो᳚ घृत॒स्ना रोहि॑तास ऋ॒ज्वञ्चः॒ स्वञ्चः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अ॒रु॒षासो॒ वृष॑ण ऋजुमु॒ष्का, आ दे॒वता᳚तिमह्वन्त द॒स्माः ||{9/11}{3.5.5.4}{4.6.9}{4.1.6.9}{630, 302, 3147} तव॑¦त्ये¦अ॒ग्ने॒¦ह॒रितः॑¦घृ॒त॒ऽस्नाः¦रोहि॑तासः¦ऋ॒जु॒।आंचः॑¦सु॒।आंचः॑ | |
ये ह॒ त्ये ते॒ सह॑माना, अ॒यास॑स्त्वे॒षासो᳚, अग्ने, अ॒र्चय॒श्चर᳚न्ति |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} श्ये॒नासो॒ न दु॑वस॒नासो॒, अर्थं᳚ तुविष्व॒णसो॒ मारु॑तं॒ न शर्धः॑ ||{10/11}{3.5.5.5}{4.6.10}{4.1.6.10}{631, 302, 3148} ये¦ह॒¦त्ये¦ते॒¦सह॑मानाः¦अ॒यासः॑¦त्वे॒षासः॑¦अ॒ग्ने॒¦अ॒र्चयः॑¦चर᳚न्ति | |
अका᳚रि॒ ब्रह्म॑ समिधान॒ तुभ्यं॒ शंसा᳚त्यु॒क्थं यज॑ते॒ व्यू᳚ धाः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} होता᳚रम॒ग्निं मनु॑षो॒ नि षे᳚दुर्नम॒स्यन्त॑ उ॒शिजः॒ शंस॑मा॒योः ||{11/11}{3.5.5.6}{4.6.11}{4.1.6.11}{632, 302, 3149} अका᳚रि¦ब्रह्म॑¦स॒म्ऽइ॒धा॒न॒¦तुभ्य᳚म्¦शंसा᳚ति¦उ॒क्थम्¦यज॑ते¦वि¦ऊँ॒ इति॑¦धाः॒ | |
[63] अयमिहेत्येकादशर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् आद्याजगतीद्वितीयाद्यापंचानुष्टुभः | |
अ॒यमि॒ह प्र॑थ॒मो धा᳚यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो, अध्व॒रेष्वीड्यः॑ |{गौतमो वामदेवः | अग्निः | जगती} यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने᳚षु चि॒त्रं वि॒भ्वं᳚ वि॒शेवि॑शे ||{1/11}{3.5.6.1}{4.7.1}{4.1.7.1}{633, 303, 3150} अ॒यम्¦इ॒ह¦प्र॒थ॒मः¦धा॒यि॒¦धा॒तृऽभिः॑¦होता᳚¦यजि॑ष्ठः¦अ॒ध्व॒रेषु॑¦ईड्यः॑ | |
अग्ने᳚ क॒दा त॑ आनु॒षग् भुव॑द्दे॒वस्य॒ चेत॑नम् |{गौतमो वामदेवः | अग्निः | अनुष्टुप्} अधा॒ हि त्वा᳚ जगृभ्रि॒रे मर्ता᳚सो वि॒क्ष्वीड्य᳚म् ||{2/11}{3.5.6.2}{4.7.2}{4.1.7.2}{634, 303, 3151} अग्ने᳚¦क॒दा¦ते॒¦आ॒नु॒षक्¦भुव॑त्¦दे॒वस्य॑¦चेत॑नम् | अध॑¦हि¦त्वा॒¦ज॒गृ॒भ्रि॒रे¦मर्ता᳚सः¦वि॒क्षु¦ईड्य᳚म् || |
ऋ॒तावा᳚नं॒ विचे᳚तसं॒ पश्य᳚न्तो॒ द्यामि॑व॒ स्तृभिः॑ |{गौतमो वामदेवः | अग्निः | अनुष्टुप्} विश्वे᳚षामध्व॒राणां᳚ हस्क॒र्तारं॒ दमे᳚दमे ||{3/11}{3.5.6.3}{4.7.3}{4.1.7.3}{635, 303, 3152} ऋ॒तऽवा᳚नम्¦विऽचे᳚तसम्¦पश्य᳚न्तः¦द्याम्ऽइ᳚व¦स्तृऽभिः॑ | विश्वे᳚षाम्¦अ॒ध्व॒राणा᳚म्¦ह॒स्क॒र्तार᳚म्¦दमे᳚ऽदमे || |
आ॒शुं दू॒तं वि॒वस्व॑तो॒ विश्वा॒ यश्च॑र्ष॒णीर॒भि |{गौतमो वामदेवः | अग्निः | अनुष्टुप्} आ ज॑भ्रुः के॒तुमा॒यवो॒ भृग॑वाणं वि॒शेवि॑शे ||{4/11}{3.5.6.4}{4.7.4}{4.1.7.4}{636, 303, 3153} आ॒शुम्¦दू॒तम्¦वि॒वस्व॑तः¦विश्वाः᳚¦यः¦च॒र्ष॒णीः¦अ॒भि | आ¦ज॒भ्रुः॒¦के॒तुम्¦आ॒यवः॑¦भृग॑वाणम्¦वि॒शेऽवि॑शे || |
तमीं॒ होता᳚रमानु॒षक् चि॑कि॒त्वांसं॒ नि षे᳚दिरे |{गौतमो वामदेवः | अग्निः | अनुष्टुप्} र॒ण्वं पा᳚व॒कशो᳚चिषं॒ यजि॑ष्ठं स॒प्त धाम॑भिः ||{5/11}{3.5.6.5}{4.7.5}{4.1.7.5}{637, 303, 3154} तम्¦ई॒म्¦होता᳚रम्¦आ॒नु॒षक्¦चि॒कि॒त्वांस᳚म्¦नि¦से॒दि॒रे॒ | र॒ण्वम्¦पा॒व॒कऽशो᳚चिषम्¦यजि॑ष्ठम्¦स॒प्त¦धाम॑ऽभिः || |
तं शश्व॑तीषु मा॒तृषु॒ वन॒ आ वी॒तमश्रि॑तम् |{गौतमो वामदेवः | अग्निः | अनुष्टुप्} चि॒त्रं सन्तं॒ गुहा᳚ हि॒तं सु॒वेदं᳚ कूचिद॒र्थिन᳚म् ||{6/11}{3.5.7.1}{4.7.6}{4.1.7.6}{638, 303, 3155} तम्¦शश्व॑तीषु¦मा॒तृषु॑¦वने᳚¦आ¦वी॒तम्¦अश्रि॑तम् | चि॒त्रम्¦सन्त᳚म्¦गुहा᳚¦हि॒तम्¦सु॒ऽवेद᳚म्¦कू॒चि॒त्।आ॒र्थिन᳚म् || |
स॒सस्य॒ यद् वियु॑ता॒ सस्मि॒न्नूध᳚न्नृ॒तस्य॒ धाम᳚न् र॒णय᳚न्त दे॒वाः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} म॒हाँ, अ॒ग्निर्नम॑सा रा॒तह᳚व्यो॒ वेर॑ध्व॒राय॒ सद॒मिदृ॒तावा᳚ ||{7/11}{3.5.7.2}{4.7.7}{4.1.7.7}{639, 303, 3156} स॒सस्य॑¦यत्¦विऽयु॑ता¦सस्मि॑न्¦ऊध॑न्¦ऋ॒तस्य॑¦धाम॑न्¦र॒णय᳚न्त¦दे॒वाः | |
वेर॑ध्व॒रस्य॑ दू॒त्या᳚नि वि॒द्वानु॒भे, अ॒न्ता रोद॑सी संचिकि॒त्वान् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} दू॒त ई᳚यसे प्र॒दिव॑ उरा॒णो वि॒दुष्ट॑रो दि॒व आ॒रोध॑नानि ||{8/11}{3.5.7.3}{4.7.8}{4.1.7.8}{640, 303, 3157} वेः¦अ॒ध्व॒रस्य॑¦दू॒त्या᳚नि¦वि॒द्वान्¦उ॒भे इति॑¦अ॒न्तरिति॑¦रोद॑सी॒ इति॑¦स॒म्ऽचि॒कि॒त्वान् | |
कृ॒ष्णं त॒ एम॒ रुश॑तः पु॒रो भाश्च॑रि॒ष्ण्व१॑(अ॒)र्चिर्वपु॑षा॒मिदेक᳚म् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} यदप्र॑वीता॒ दध॑ते ह॒ गर्भं᳚ स॒द्यश्चि॑ज्जा॒तो भव॒सीदु॑ दू॒तः ||{9/11}{3.5.7.4}{4.7.9}{4.1.7.9}{641, 303, 3158} कृ॒ष्णम्¦ते॒¦एम॑¦रुश॑तः¦पु॒रः¦भाः¦च॒रि॒ष्णु¦अ॒र्चिः¦वपु॑षाम्¦इत्¦एक᳚म् | |
स॒द्यो जा॒तस्य॒ ददृ॑शान॒मोजो॒ यद॑स्य॒ वातो᳚, अनु॒वाति॑ शो॒चिः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} वृ॒णक्ति॑ ति॒ग्माम॑त॒सेषु॑ जि॒ह्वां स्थि॒रा चि॒दन्ना᳚ दयते॒ वि जम्भैः᳚ ||{10/11}{3.5.7.5}{4.7.10}{4.1.7.10}{642, 303, 3159} स॒द्यः¦जा॒तस्य॑¦ददृ॑शानम्¦ओजः॑¦यत्¦अ॒स्य॒¦वातः॑¦अ॒नु॒ऽवाति॑¦शो॒चिः | |
तृ॒षु यदन्ना᳚ तृ॒षुणा᳚ व॒वक्ष॑ तृ॒षुं दू॒तं कृ॑णुते य॒ह्वो, अ॒ग्निः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} वात॑स्य मे॒ळिं स॑चते नि॒जूर्व᳚न्ना॒शुं न वा᳚जयते हि॒न्वे, अर्वा᳚ ||{11/11}{3.5.7.6}{4.7.11}{4.1.7.11}{643, 303, 3160} तृ॒षु¦यत्¦अन्ना᳚¦तृ॒षुणा᳚¦व॒वक्ष॑¦तृ॒षुम्¦दू॒तम्¦कृ॒णु॒ते॒¦य॒ह्वः¦अ॒ग्निः | |
[64] दूतंवइत्यष्टर्चस्य सूक्तस्य गौतमोवामदेवोग्निर्गायत्री | |
दू॒तं वो᳚ वि॒श्ववे᳚दसं हव्य॒वाह॒मम॑र्त्यम् |{गौतमो वामदेवः | अग्निः | गायत्री} यजि॑ष्ठमृञ्जसे गि॒रा ||{1/8}{3.5.8.1}{4.8.1}{4.1.8.1}{644, 304, 3161} दू॒तम्¦वः॒¦वि॒श्वऽवे᳚दसम्¦ह॒व्य॒ऽवाह᳚म्¦अम॑र्त्यम् | यजि॑ष्ठम्¦ऋं॒ज॒से॒¦गि॒रा || |
स हि वेदा॒ वसु॑धितिं म॒हाँ, आ॒रोध॑नं दि॒वः |{गौतमो वामदेवः | अग्निः | गायत्री} स दे॒वाँ, एह व॑क्षति ||{2/8}{3.5.8.2}{4.8.2}{4.1.8.2}{645, 304, 3162} सः¦हि¦वेद॑¦वसु॑ऽधितिम्¦म॒हान्¦आ॒ऽरोध॑नम्¦दि॒वः | सः¦दे॒वान्¦आ¦इ॒ह¦व॒क्ष॒ति॒ || |
स वे᳚द दे॒व आ॒नमं᳚ दे॒वाँ, ऋ॑ताय॒ते दमे᳚ |{गौतमो वामदेवः | अग्निः | गायत्री} दाति॑ प्रि॒याणि॑ चि॒द्वसु॑ ||{3/8}{3.5.8.3}{4.8.3}{4.1.8.3}{646, 304, 3163} सः¦वे॒द॒¦दे॒वः¦आ॒ऽनम᳚म्¦दे॒वान्¦ऋ॒त॒ऽय॒ते¦दमे᳚ | दाति॑¦प्रि॒याणि॑¦चि॒त्¦वसु॑ || |
स होता॒ सेदु॑ दू॒त्यं᳚ चिकि॒त्वाँ, अ॒न्तरी᳚यते |{गौतमो वामदेवः | अग्निः | गायत्री} वि॒द्वाँ, आ॒रोध॑नं दि॒वः ||{4/8}{3.5.8.4}{4.8.4}{4.1.8.4}{647, 304, 3164} सः¦होता᳚¦सः¦इत्¦ऊँ॒ इति॑¦दू॒त्य᳚म्¦चि॒कि॒त्वान्¦अ॒न्तः¦ई॒य॒ते॒ | वि॒द्वान्¦आ॒ऽरोध॑नम्¦दि॒वः || |
ते स्या᳚म॒ ये, अ॒ग्नये᳚ ददा॒शुर्ह॒व्यदा᳚तिभिः |{गौतमो वामदेवः | अग्निः | गायत्री} य ईं॒ पुष्य᳚न्त इन्ध॒ते ||{5/8}{3.5.8.5}{4.8.5}{4.1.8.5}{648, 304, 3165} ते¦स्या॒म॒¦ये¦अ॒ग्नये᳚¦द॒दा॒शुः¦ह॒व्यदा᳚तिऽभिः | ये¦ई॒म्¦पुष्य᳚न्तः¦इ॒न्ध॒ते || |
ते रा॒या ते सु॒वीर्यैः᳚ सस॒वांसो॒ वि शृ᳚ण्विरे |{गौतमो वामदेवः | अग्निः | गायत्री} ये, अ॒ग्ना द॑धि॒रे दुवः॑ ||{6/8}{3.5.8.6}{4.8.6}{4.1.8.6}{649, 304, 3166} ते¦रा॒या¦ते¦सु॒ऽवीर्यैः᳚¦स॒स॒ऽवांसः॑¦वि¦शृ॒ण्वि॒रे॒ | ये¦अ॒ग्ना¦द॒धि॒रे¦दुवः॑ || |
अ॒स्मे रायो᳚ दि॒वेदि॑वे॒ सं च॑रन्तु पुरु॒स्पृहः॑ |{गौतमो वामदेवः | अग्निः | गायत्री} अ॒स्मे वाजा᳚स ईरताम् ||{7/8}{3.5.8.7}{4.8.7}{4.1.8.7}{650, 304, 3167} अ॒स्मे इति॑¦रायः॑¦दि॒वेऽदि॑वे¦सम्¦च॒र॒न्तु॒¦पु॒रु॒ऽस्पृहः॑ | अ॒स्मे इति॑¦वाजा᳚सः¦ई॒र॒ता॒म् || |
स विप्र॑श्चर्षणी॒नां शव॑सा॒ मानु॑षाणाम् |{गौतमो वामदेवः | अग्निः | गायत्री} अति॑ क्षि॒प्रेव॑ विध्यति ||{8/8}{3.5.8.8}{4.8.8}{4.1.8.8}{651, 304, 3168} सः¦विप्रः॑¦च॒र्ष॒णी॒नाम्¦शव॑सा¦मानु॑षाणाम् | अति॑¦क्षि॒प्राऽइ᳚व¦वि॒ध्य॒ति॒ || |
[65] अग्नेमृळेत्यष्टर्चस्य सूक्तस्य गौतमोवामदेवोग्निर्गायत्री | |
अग्ने᳚ मृ॒ळ म॒हाँ, अ॑सि॒ य ई॒मा दे᳚व॒युं जन᳚म् |{गौतमो वामदेवः | अग्निः | गायत्री} इ॒येथ॑ ब॒र्हिरा॒सद᳚म् ||{1/8}{3.5.9.1}{4.9.1}{4.1.9.1}{652, 305, 3169} अग्ने᳚¦मृ॒ळ¦म॒हान्¦अ॒सि॒¦यः¦ई॒म्¦आ¦दे॒व॒ऽयुम्¦जन᳚म् | इ॒येथ॑¦ब॒र्हिः¦आ॒ऽसद᳚म् || |
स मानु॑षीषु दू॒ळभो᳚ वि॒क्षु प्रा॒वीरम॑र्त्यः |{गौतमो वामदेवः | अग्निः | गायत्री} दू॒तो विश्वे᳚षां भुवत् ||{2/8}{3.5.9.2}{4.9.2}{4.1.9.2}{653, 305, 3170} सः¦मानु॑षीषु¦दुः॒ऽदभः॑¦वि॒क्षु¦प्र॒।आ॒वीः¦अम॑र्त्यः | दू॒तः¦विश्वे᳚षाम्¦भु॒व॒त् || |
स सद्म॒ परि॑ णीयते॒ होता᳚ म॒न्द्रो दिवि॑ष्टिषु |{गौतमो वामदेवः | अग्निः | गायत्री} उ॒त पोता॒ नि षी᳚दति ||{3/8}{3.5.9.3}{4.9.3}{4.1.9.3}{654, 305, 3171} सः¦सद्म॑¦परि॑¦नी॒य॒ते॒¦होता᳚¦म॒न्द्रः¦दिवि॑ष्टिषु | उ॒त¦पोता᳚¦नि¦सी॒द॒ति॒ || |
उ॒त ग्ना, अ॒ग्निर॑ध्व॒र उ॒तो गृ॒हप॑ति॒र्दमे᳚ |{गौतमो वामदेवः | अग्निः | गायत्री} उ॒त ब्र॒ह्मा नि षी᳚दति ||{4/8}{3.5.9.4}{4.9.4}{4.1.9.4}{655, 305, 3172} उ॒त¦ग्नाः¦अ॒ग्निः¦अ॒ध्व॒रे¦उ॒तो इति॑¦गृ॒हऽप॑तिः¦दमे᳚ | उ॒त¦ब्र॒ह्मा¦नि¦सी॒द॒ति॒ || |
वेषि॒ ह्य॑ध्वरीय॒तामु॑पव॒क्ता जना᳚नाम् |{गौतमो वामदेवः | अग्निः | गायत्री} ह॒व्या च॒ मानु॑षाणाम् ||{5/8}{3.5.9.5}{4.9.5}{4.1.9.5}{656, 305, 3173} वेषि॑¦हि¦अ॒ध्व॒रि॒ऽय॒ताम्¦उ॒प॒ऽव॒क्ता¦जना᳚नाम् | ह॒व्या¦च॒¦मानु॑षाणाम् || |
वेषीद्व॑स्य दू॒त्य१॑(अं॒) यस्य॒ जुजो᳚षो, अध्व॒रम् |{गौतमो वामदेवः | अग्निः | गायत्री} ह॒व्यं मर्त॑स्य॒ वोळ्ह॑वे ||{6/8}{3.5.9.6}{4.9.6}{4.1.9.6}{657, 305, 3174} वेषि॑¦इत्¦ऊँ॒ इति॑¦अ॒स्य॒¦दू॒त्य᳚म्¦यस्य॑¦जुजो᳚षः¦अ॒ध्व॒रम् | ह॒व्यम्¦मर्त॑स्य¦वोळ्ह॑वे || |
अ॒स्माकं᳚ जोष्यध्व॒रम॒स्माकं᳚ य॒ज्ञम᳚ङ्गिरः |{गौतमो वामदेवः | अग्निः | गायत्री} अ॒स्माकं᳚ शृणुधी॒ हव᳚म् ||{7/8}{3.5.9.7}{4.9.7}{4.1.9.7}{658, 305, 3175} अ॒स्माक᳚म्¦जो॒षि॒¦अ॒ध्व॒रम्¦अ॒स्माक᳚म्¦य॒ज्ञम्¦अ॒ङ्गि॒रः॒ | अ॒स्माक᳚म्¦शृ॒णु॒धि॒¦हव᳚म् || |
परि॑ ते दू॒ळभो॒ रथो॒ऽस्माँ, अ॑श्नोतु वि॒श्वतः॑ |{गौतमो वामदेवः | अग्निः | गायत्री} येन॒ रक्ष॑सि दा॒शुषः॑ ||{8/8}{3.5.9.8}{4.9.8}{4.1.9.8}{659, 305, 3176} परि॑¦ते॒¦दुः॒ऽदभः॑¦रथः॑¦अ॒स्मान्¦अ॒श्नो॒तु॒¦वि॒श्वतः॑ | येन॑¦रक्ष॑सि¦दा॒शुषः॑ || |
[66] अग्नेतमद्येत्यष्टर्चस्य सूक्तस्य गौतमोवामदेवोग्निः पदपंक्तिः पंचमीमहापदपंक्तिः अंत्येद्वेउष्णिहौ | |
अग्ने॒ तम॒द्याऽश्वं॒ न स्तोमैः॒ क्रतुं॒ न भ॒द्रं हृ॑दि॒स्पृश᳚म् |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः} ऋ॒ध्यामा᳚ त॒ ओहैः᳚ ||{1/8}{3.5.10.1}{4.10.1}{4.1.10.1}{660, 306, 3177} अग्ने᳚¦तम्¦अ॒द्य¦अश्व᳚म्¦न¦स्तोमैः᳚¦क्रतु᳚म्¦न¦भ॒द्रम्¦हृ॒दि॒ऽस्पृश᳚म् | ऋ॒ध्याम॑¦ते॒¦ओहैः᳚ || |
अधा॒ ह्य॑ग्ने॒ क्रतो᳚र्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः} र॒थीरृ॒तस्य॑ बृह॒तो ब॒भूथ॑ ||{2/8}{3.5.10.2}{4.10.2}{4.1.10.2}{661, 306, 3178} अध॑¦हि¦अ॒ग्ने॒¦क्रतोः᳚¦भ॒द्रस्य॑¦दक्ष॑स्य¦सा॒धोः | र॒थीः¦ऋ॒तस्य॑¦बृ॒ह॒तः¦ब॒भूथ॑ || |
ए॒भिर्नो᳚, अ॒र्कैर्भवा᳚ नो, अ॒र्वाङ्स्व१॑(अ॒)र्ण ज्योतिः॑ |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः} अग्ने॒ विश्वे᳚भिः सु॒मना॒, अनी᳚कैः ||{3/8}{3.5.10.3}{4.10.3}{4.1.10.3}{662, 306, 3179} ए॒भिः¦नः॒¦अ॒र्कैः¦भव॑¦नः॒¦अ॒र्वाङ्¦स्वः॑¦न¦ज्योतिः॑ | अग्ने᳚¦विश्वे᳚भिः¦सु॒ऽमनाः᳚¦अनी᳚कैः || |
आ॒भिष्टे᳚, अ॒द्य गी॒र्भिर्गृ॒णन्तोऽग्ने॒ दाशे᳚म |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः} प्र ते᳚ दि॒वो न स्त॑नयन्ति॒ शुष्माः᳚ ||{4/8}{3.5.10.4}{4.10.4}{4.1.10.4}{663, 306, 3180} आ॒भिः¦ते॒¦अ॒द्य¦गीः॒ऽभिः¦गृ॒णन्तः॑¦अग्ने᳚¦दाशे᳚म | प्र¦ते॒¦दि॒वः¦न¦स्त॒न॒य॒न्ति॒¦शुष्माः᳚ || |
तव॒ स्वादि॒ष्ठाऽग्ने॒ संदृ॑ष्टिरि॒दा चि॒दह्न॑ इ॒दा चि॑द॒क्तोः |{गौतमो वामदेवः | अग्निः | महापदपङ्क्तिः} श्रि॒ये रु॒क्मो न रो᳚चत उपा॒के ||{5/8}{3.5.10.5}{4.10.5}{4.1.10.5}{664, 306, 3181} तव॑¦स्वादि॑ष्ठा¦अग्ने᳚¦सम्ऽदृ॑ष्टिः¦इ॒दा¦चि॒त्¦अह्नः॑¦इ॒दा¦चि॒त्¦अ॒क्तोः | श्रि॒ये¦रु॒क्मः¦न¦रो॒च॒ते॒¦उ॒पा॒के || |
घृ॒तं न पू॒तं त॒नूर॑रे॒पाः शुचि॒ हिर᳚ण्यम् |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः} तत्ते᳚ रु॒क्मो न रो᳚चत स्वधावः ||{6/8}{3.5.10.6}{4.10.6}{4.1.10.6}{665, 306, 3182} घृ॒तम्¦न¦पू॒तम्¦त॒नूः¦अ॒रे॒पाः¦शुचि॑¦हिर᳚ण्यम् | तत्¦ते॒¦रु॒क्मः¦न¦रो॒च॒त॒¦स्व॒धा॒ऽवः॒ || |
कृ॒तं चि॒द्धि ष्मा॒ सने᳚मि॒ द्वेषोऽग्न॑ इ॒नोषि॒ मर्ता᳚त् |{गौतमो वामदेवः | अग्निः | उष्णिक्} इ॒त्था यज॑मानादृतावः ||{7/8}{3.5.10.7}{4.10.7}{4.1.10.7}{666, 306, 3183} कृ॒तम्¦चि॒त्¦हि¦स्म॒¦सने᳚मि¦द्वेषः॑¦अग्ने᳚¦इ॒नोषि॑¦मर्ता᳚त् | इ॒त्था¦यज॑मानात्¦ऋ॒त॒ऽवः॒ || |
शि॒वा नः॑ स॒ख्या सन्तु॑ भ्रा॒त्राऽग्ने᳚ दे॒वेषु॑ यु॒ष्मे |{गौतमो वामदेवः | अग्निः | उष्णिक्} सा नो॒ नाभिः॒ सद॑ने॒ सस्मि॒न्नूध॑न् ||{8/8}{3.5.10.8}{4.10.8}{4.1.10.8}{667, 306, 3184} शि॒वा¦नः॒¦स॒ख्या¦सन्तु॑¦भ्रा॒त्रा¦अग्ने᳚¦दे॒वेषु॑¦यु॒ष्मे इति॑ | सा¦नः॒¦नाभिः॑¦सद॑ने¦सस्मि॑न्¦ऊध᳚म् || |
[67] भद्रंतइति षडृचस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् | |
भ॒द्रं ते᳚, अग्ने सहसि॒न्ननी᳚कमुपा॒क आ रो᳚चते॒ सूर्य॑स्य |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} रुश॑द् दृ॒शे द॑दृशे नक्त॒या चि॒दरू᳚क्षितं दृ॒श आ रू॒पे, अन्न᳚म् ||{1/6}{3.5.11.1}{4.11.1}{4.2.1.1}{668, 307, 3185} भ॒द्रम्¦ते॒¦अ॒ग्ने॒¦स॒ह॒सि॒न्¦अनी᳚कम्¦उ॒पा॒के¦आ¦रो॒च॒ते॒¦सूर्य॑स्य | |
वि षा᳚ह्यग्ने गृण॒ते म॑नी॒षां खं वेप॑सा तुविजात॒ स्तवा᳚नः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} विश्वे᳚भि॒र्यद् वा॒वनः॑ शुक्र दे॒वैस्तन्नो᳚ रास्व सुमहो॒ भूरि॒ मन्म॑ ||{2/6}{3.5.11.2}{4.11.2}{4.2.1.2}{669, 307, 3186} वि¦सा॒हि॒¦अ॒ग्ने॒¦गृ॒ण॒ते¦म॒नी॒षाम्¦खम्¦वेप॑सा¦तु॒वि॒ऽजा॒त॒¦स्तवा᳚नः | |
त्वद॑ग्ने॒ काव्या॒ त्वन्म॑नी॒षास्त्वदु॒क्था जा᳚यन्ते॒ राध्या᳚नि |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} त्वदे᳚ति॒ द्रवि॑णं वी॒रपे᳚शा, इ॒त्थाधि॑ये दा॒शुषे॒ मर्त्या᳚य ||{3/6}{3.5.11.3}{4.11.3}{4.2.1.3}{670, 307, 3187} त्वत्¦अ॒ग्ने॒¦काव्या᳚¦त्वत्¦म॒नी॒षाः¦त्वत्¦उ॒क्था¦जा॒य॒न्ते॒¦राध्या᳚नि | |
त्वद्वा॒जी वा᳚जम्भ॒रो विहा᳚या, अभिष्टि॒कृज्जा᳚यते स॒त्यशु॑ष्मः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} त्वद्र॒यिर्दे॒वजू᳚तो मयो॒भुस्त्वदा॒शुर्जू᳚जु॒वाँ, अ॑ग्ने॒, अर्वा᳚ ||{4/6}{3.5.11.4}{4.11.4}{4.2.1.4}{671, 307, 3188} त्वत्¦वा॒जी¦वा॒ज॒म्ऽभ॒रः¦विऽहा᳚याः¦अ॒भि॒ष्टि॒ऽकृत्¦जा॒य॒ते॒¦स॒त्यऽशु॑ष्मः | |
त्वाम॑ग्ने प्रथ॒मं दे᳚व॒यन्तो᳚ दे॒वं मर्ता᳚, अमृत म॒न्द्रजि॑ह्वम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} द्वे॒षो॒युत॒मा वि॑वासन्ति धी॒भिर्दमू᳚नसं गृ॒हप॑ति॒ममू᳚रम् ||{5/6}{3.5.11.5}{4.11.5}{4.2.1.5}{672, 307, 3189} त्वाम्¦अ॒ग्ने॒¦प्र॒थ॒मम्¦दे॒व॒ऽयन्तः॑¦दे॒वम्¦मर्ताः᳚¦अ॒मृ॒त॒¦म॒न्द्रऽजि॑ह्वम् | |
आ॒रे, अ॒स्मदम॑तिमा॒रे, अंह॑ आ॒रे विश्वां᳚ दुर्म॒तिं यन्नि॒पासि॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} दो॒षा शि॒वः स॑हसः सूनो, अग्ने॒ यं दे॒व आ चि॒त् सच॑से स्व॒स्ति ||{6/6}{3.5.11.6}{4.11.6}{4.2.1.6}{673, 307, 3190} आ॒रे¦अ॒स्मत्¦अम॑तिम्¦आ॒रे¦अंहः॑¦आ॒रे¦विश्वा᳚म्¦दुः॒ऽम॒तिम्¦यत्¦नि॒ऽपासि॑ | |
[68] यस्त्वामग्नइति षडृचस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् | |
यस्त्वाम॑ग्न इ॒नध॑ते य॒तस्रु॒क् त्रिस्ते॒, अन्नं᳚ कृ॒णव॒त् सस्मि॒न्नह॑न् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} स सु द्यु॒म्नैर॒भ्य॑स्तु प्र॒सक्ष॒त् तव॒ क्रत्वा᳚ जातवेदश्चिकि॒त्वान् ||{1/6}{3.5.12.1}{4.12.1}{4.2.2.1}{674, 308, 3191} यः¦त्वाम्¦अ॒ग्ने॒¦इ॒नध॑ते¦य॒तऽस्रु॑क्¦त्रिः¦ते॒¦अन्न᳚म्¦कृ॒णव॑त्¦सस्मि॑न्¦अह॑न् | |
इ॒ध्मं यस्ते᳚ ज॒भर॑च्छश्रमा॒णो म॒हो, अ॑ग्ने॒, अनी᳚क॒मा स॑प॒र्यन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} स इ॑धा॒नः प्रति॑ दो॒षामु॒षासं॒ पुष्य᳚न् र॒यिं स॑चते॒ घ्नन्न॒मित्रा॑न् ||{2/6}{3.5.12.2}{4.12.2}{4.2.2.2}{675, 308, 3192} इ॒ध्मम्¦यः¦ते॒¦ज॒भर॑त्¦श॒श्र॒मा॒णः¦म॒हः¦अ॒ग्ने॒¦अनी᳚कम्¦आ¦स॒प॒र्यन् | |
अ॒ग्निरी᳚शे बृह॒तः, क्ष॒त्रिय॑स्या॒ऽग्निर्वाज॑स्य पर॒मस्य॑ रा॒यः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} दधा᳚ति॒ रत्नं᳚ विध॒ते यवि॑ष्ठो॒ व्या᳚नु॒षङ्मर्त्या᳚य स्व॒धावा॑न् ||{3/6}{3.5.12.3}{4.12.3}{4.2.2.3}{676, 308, 3193} अ॒ग्निः¦ई॒शे॒¦बृ॒ह॒तः¦क्ष॒त्रिय॑स्य¦अ॒ग्निः¦वाज॑स्य¦प॒र॒मस्य॑¦रा॒यः | |
यच्चि॒द्धि ते᳚ पुरुष॒त्रा य॑वि॒ष्ठाऽचि॑त्तिभिश्चकृ॒मा कच्चि॒दागः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} कृ॒धी ष्व१॑(अ॒)स्माँ, अदि॑ते॒रना᳚गा॒न् व्येनां᳚सि शिश्रथो॒ विष्व॑गग्ने ||{4/6}{3.5.12.4}{4.12.4}{4.2.2.4}{677, 308, 3194} यत्¦चि॒त्¦हि¦ते॒¦पु॒रु॒ष॒ऽत्रा¦य॒वि॒ष्ठ॒¦अचि॑त्तिऽभिः¦च॒कृ॒म¦कत्¦चि॒त्¦आगः॑ | |
म॒हश्चि॑दग्न॒ एन॑सो, अ॒भीक॑ ऊ॒र्वाद्दे॒वाना᳚मु॒त मर्त्या᳚नाम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} मा ते॒ सखा᳚यः॒ सद॒मिद्रि॑षाम॒ यच्छा᳚ तो॒काय॒ तन॑याय॒ शं योः ||{5/6}{3.5.12.5}{4.12.5}{4.2.2.5}{678, 308, 3195} म॒हः¦चि॒त्¦अ॒ग्ने॒¦एन॑सः¦अ॒भीके᳚¦ऊ॒र्वात्¦दे॒वाना᳚म्¦उ॒त¦मर्त्या᳚नाम् | |
यथा᳚ ह॒ त्यद् व॑सवो गौ॒र्यं᳚ चित् प॒दि षि॒ताममु᳚ञ्चता यजत्राः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} ए॒वो ष्व१॑(अ॒)स्मन्मु᳚ञ्चता॒ व्यंहः॒ प्र ता᳚र्यग्ने प्रत॒रं न॒ आयुः॑ ||{6/6}{3.5.12.6}{4.12.6}{4.2.2.6}{679, 308, 3196} यथा᳚¦ह॒¦त्यत्¦व॒स॒वः॒¦गौ॒र्य᳚म्¦चि॒त्¦प॒दि¦सि॒ताम्¦अमुं᳚चत¦य॒ज॒त्राः॒ | |
[69] प्रत्यग्निरिति पंचर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् | |
प्रत्य॒ग्निरु॒षसा॒मग्र॑मख्यद् विभाती॒नां सु॒मना᳚ रत्न॒धेय᳚म् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} या॒तम॑श्विना सु॒कृतो᳚ दुरो॒णमुत्सूर्यो॒ ज्योति॑षा दे॒व ए᳚ति ||{1/5}{3.5.13.1}{4.13.1}{4.2.3.1}{680, 309, 3197} प्रति॑¦अ॒ग्निः¦उ॒षसा᳚म्¦अग्र᳚म्¦अ॒ख्य॒त्¦वि॒ऽभा॒ती॒नाम्¦सु॒ऽमनाः᳚¦र॒त्न॒ऽधेय᳚म् | |
ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो, अ॑श्रेद् द्र॒प्सं दवि॑ध्वद् गवि॒षो न सत्वा᳚ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अनु᳚ व्र॒तं वरु॑णो यन्ति मि॒त्रो यत्सूर्यं᳚ दि॒व्या᳚रो॒हय᳚न्ति ||{2/5}{3.5.13.2}{4.13.2}{4.2.3.2}{681, 309, 3198} ऊ॒र्ध्वम्¦भा॒नुम्¦स॒वि॒ता¦दे॒वः¦अ॒श्रे॒त्¦द्र॒प्सम्¦दवि॑ध्वत्¦गो॒ऽइ॒षः¦न¦सत्वा᳚ | |
यं सी॒मकृ᳚ण्व॒न् तम॑से वि॒पृचे᳚ ध्रु॒वक्षे᳚मा॒, अन॑वस्यन्तो॒, अर्थ᳚म् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} तं सूर्यं᳚ ह॒रितः॑ स॒प्त य॒ह्वीः स्पशं॒ विश्व॑स्य॒ जग॑तो वहन्ति ||{3/5}{3.5.13.3}{4.13.3}{4.2.3.3}{682, 309, 3199} यम्¦सी॒म्¦अकृ᳚ण्वन्¦तम॑से¦वि॒ऽपृचे᳚¦ध्रु॒वऽक्षे᳚माः¦अन॑वऽस्यन्तः¦अर्थ᳚म् | |
वहि॑ष्ठेभिर्वि॒हर᳚न्यासि॒ तन्तु॑मव॒व्यय॒न्नसि॑तं देव॒ वस्म॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} दवि॑ध्वतो र॒श्मयः॒ सूर्य॑स्य॒ चर्मे॒वावा᳚धु॒स्तमो᳚, अ॒प्स्व१॑(अ॒)न्तः ||{4/5}{3.5.13.4}{4.13.4}{4.2.3.4}{683, 309, 3200} वहि॑ष्ठेभिः¦वि॒ऽहर॑न्¦या॒सि॒¦तन्तु᳚म्¦अ॒व॒ऽव्यय॑न्¦असि॑तम्¦दे॒व॒¦वस्म॑ | |
अना᳚यतो॒, अनि॑बद्धः क॒थायं न्य᳚ङ्ङुत्ता॒नोऽव॑ पद्यते॒ न |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} कया᳚ याति स्व॒धया॒ को द॑दर्श दि॒वः स्क॒म्भः समृ॑तः पाति॒ नाक᳚म् ||{5/5}{3.5.13.5}{4.13.5}{4.2.3.5}{684, 309, 3201} अना᳚यतः¦अनि॑ऽबद्धः¦क॒था¦अ॒यम्¦न्य᳚ङ्¦उ॒त्ता॒नः¦अव॑¦प॒द्य॒ते॒¦न | |
[70] प्रत्यग्निरिति पंचर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् | (अनयोः सूक्तयोः केचिदाचार्यालिङ्गोक्तदेवताआहुःताश्च आद्यसूक्ते आद्यानां तिसृणामग्निः चतुर्थ्याः सवितृवरुणमित्राः पंचम्याः सूर्यः | अपरसूक्तेक्रमेण अग्न्याश्विनः सूर्य उषाअश्व्युषसः सूर्य इत्येवंज्ञेयाः )| |
प्रत्य॒ग्निरु॒षसो᳚ जा॒तवे᳚दा॒, अख्य॑द्दे॒वो रोच॑माना॒ महो᳚भिः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} आ ना᳚सत्योरुगा॒या रथे᳚ने॒मं य॒ज्ञमुप॑ नो यात॒मच्छ॑ ||{1/5}{3.5.14.1}{4.14.1}{4.2.4.1}{685, 310, 3202} प्रति॑¦अ॒ग्निः¦उ॒षसः॑¦जा॒तऽवे᳚दाः¦अख्य॑त्¦दे॒वः¦रोच॑मानाः¦महः॑ऽभिः | |
ऊ॒र्ध्वं के॒तुं स॑वि॒ता दे॒वो, अ॑श्रे॒ज्ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृ॒ण्वन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} आप्रा॒ द्यावा᳚पृथि॒वी, अ॒न्तरि॑क्षं॒ वि सूर्यो᳚ र॒श्मिभि॒श्चेकि॑तानः ||{2/5}{3.5.14.2}{4.14.2}{4.2.4.2}{686, 310, 3203} ऊ॒र्ध्वम्¦के॒तुम्¦स॒वि॒ता¦दे॒वः¦अ॒श्रे॒त्¦ज्योतिः॑¦विश्व॑स्मै¦भुव॑नाय¦कृ॒ण्वन् | |
आ॒वह᳚न्त्यरु॒णीर्ज्योति॒षागा᳚न्म॒ही चि॒त्रा र॒श्मिभि॒श्चेकि॑ताना |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} प्र॒बो॒धय᳚न्ती सुवि॒ताय॑ दे॒व्यु१॑(उ॒)षा, ई᳚यते सु॒युजा॒ रथे᳚न ||{3/5}{3.5.14.3}{4.14.3}{4.2.4.3}{687, 310, 3204} आ॒ऽवह᳚न्ती¦अ॒रु॒णीः¦ज्योति॑षा¦आ¦अ॒गा॒त्¦म॒ही¦चि॒त्रा¦र॒श्मिऽभिः॑¦चेकि॑ताना | |
आ वां॒ वहि॑ष्ठा, इ॒ह ते व॑हन्तु॒ रथा॒, अश्वा᳚स उ॒षसो॒ व्यु॑ष्टौ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} इ॒मे हि वां᳚ मधु॒पेया᳚य॒ सोमा᳚, अ॒स्मिन् य॒ज्ञे वृ॑षणा मादयेथाम् ||{4/5}{3.5.14.4}{4.14.4}{4.2.4.4}{688, 310, 3205} आ¦वा॒म्¦वहि॑ष्ठाः¦इ॒ह¦ते¦व॒ह॒न्तु॒¦रथाः᳚¦अश्वा᳚सः¦उ॒षसः॑¦वि।औ᳚ष्टौ | |
अना᳚यतो॒, अनि॑बद्धः क॒थायं न्य᳚ङ्ङुत्ता॒नोऽव॑ पद्यते॒ न |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} कया᳚ याति स्व॒धया॒ को द॑दर्श दि॒वः स्क॒म्भः समृ॑तः पाति॒ नाक᳚म् ||{5/5}{3.5.14.5}{4.14.5}{4.2.4.5}{689, 310, 3206} अना᳚यतः¦अनि॑ऽबद्धः¦क॒था¦अ॒यम्¦न्य᳚ङ्¦उ॒त्ता॒नः¦अव॑¦प॒द्य॒ते॒¦न | |
[71] अग्निहोतेति दशर्चस्य सूक्तस्य गौतमोवामदेवोग्निः सप्तम्यष्टम्योःसाहदेव्यःसोमकः अंत्ययोरश्विनौगायत्री | |
अ॒ग्निर्होता᳚ नो, अध्व॒रे वा॒जी सन् परि॑ णीयते |{गौतमो वामदेवः | अग्निः | गायत्री} दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ||{1/10}{3.5.15.1}{4.15.1}{4.2.5.1}{690, 311, 3207} अ॒ग्निः¦होता᳚¦नः॒¦अ॒ध्व॒रे¦वा॒जी¦सन्¦परि॑¦नी॒य॒ते॒ | दे॒वः¦दे॒वेषु॑¦य॒ज्ञियः॑ || |
परि॑ त्रिवि॒ष्ट्य॑ध्व॒रं यात्य॒ग्नी र॒थीरि॑व |{गौतमो वामदेवः | अग्निः | गायत्री} आ दे॒वेषु॒ प्रयो॒ दध॑त् ||{2/10}{3.5.15.2}{4.15.2}{4.2.5.2}{691, 311, 3208} परि॑¦त्रि॒ऽवि॒ष्टि¦अ॒ध्व॒रम्¦याति॑¦अ॒ग्निः¦र॒थीःऽइ᳚व | आ¦दे॒वेषु॑¦प्रयः॑¦दध॑त् || |
परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् |{गौतमो वामदेवः | अग्निः | गायत्री} दध॒द्रत्ना᳚नि दा॒शुषे᳚ ||{3/10}{3.5.15.3}{4.15.3}{4.2.5.3}{692, 311, 3209} परि॑¦वाज॑ऽपतिः¦क॒विः¦अ॒ग्निः¦ह॒व्यानि॑¦अ॒क्र॒मी॒त् | दध॑त्¦रत्ना᳚नि¦दा॒शुषे᳚ || |
अ॒यं यः सृञ्ज॑ये पु॒रो दै᳚ववा॒ते स॑मि॒ध्यते᳚ |{गौतमो वामदेवः | अग्निः | गायत्री} द्यु॒माँ, अ॑मित्र॒दम्भ॑नः ||{4/10}{3.5.15.4}{4.15.4}{4.2.5.4}{693, 311, 3210} अ॒यम्¦यः¦सृंज॑ये¦पु॒रः¦दै॒व॒ऽवा॒ते¦स॒म्ऽइ॒ध्यते᳚ | द्यु॒ऽमान्¦अ॒मि॒त्र॒ऽदम्भ॑नः || |
अस्य॑ घा वी॒र ईव॑तो॒ऽग्नेरी᳚शीत॒ मर्त्यः॑ |{गौतमो वामदेवः | अग्निः | गायत्री} ति॒ग्मज᳚म्भस्य मी॒ळ्हुषः॑ ||{5/10}{3.5.15.5}{4.15.5}{4.2.5.5}{694, 311, 3211} अस्य॑¦घ॒¦वी॒रः¦ईव॑तः¦अ॒ग्नेः¦ई॒शी॒त॒¦मर्त्यः॑ | ति॒ग्मऽज᳚म्भस्य¦मी॒ळ्हुषः॑ || |
तमर्व᳚न्तं॒ न सा᳚न॒सिम॑रु॒षं न दि॒वः शिशु᳚म् |{गौतमो वामदेवः | अग्निः | गायत्री} म॒र्मृ॒ज्यन्ते᳚ दि॒वेदि॑वे ||{6/10}{3.5.16.1}{4.15.6}{4.2.5.6}{695, 311, 3212} तम्¦अर्व᳚न्तम्¦न¦सा॒न॒सिम्¦अ॒रु॒षम्¦न¦दि॒वः¦शिशु᳚म् | म॒र्मृ॒ज्यन्ते᳚¦दि॒वेऽदि॑वे || |
बोध॒द्यन्मा॒ हरि॑भ्यां कुमा॒रः सा᳚हदे॒व्यः |{गौतमो वामदेवः | साहदेव्यः सोमकः | गायत्री} अच्छा॒ न हू॒त उद॑रम् ||{7/10}{3.5.16.2}{4.15.7}{4.2.5.7}{696, 311, 3213} बोध॑त्¦यत्¦मा॒¦हरि॑ऽभ्याम्¦कु॒मा॒रः¦सा॒ह॒ऽदे॒व्यः | अच्छ॑¦न¦हू॒तः¦उत्¦अ॒र॒म् || |
उ॒त त्या य॑ज॒ता हरी᳚ कुमा॒रात् सा᳚हदे॒व्यात् |{गौतमो वामदेवः | साहदेव्यः सोमकः | गायत्री} प्रय॑ता स॒द्य आ द॑दे ||{8/10}{3.5.16.3}{4.15.8}{4.2.5.8}{697, 311, 3214} उ॒त¦त्या¦य॒ज॒ता¦हरी॒ इति॑¦कु॒मा॒रात्¦सा॒ह॒ऽदे॒व्यात् | प्रऽय॑ता¦स॒द्यः¦आ¦द॒दे॒ || |
ए॒ष वां᳚ देवावश्विना कुमा॒रः सा᳚हदे॒व्यः |{गौतमो वामदेवः | अश्विनौ | गायत्री} दी॒र्घायु॑रस्तु॒ सोम॑कः ||{9/10}{3.5.16.4}{4.15.9}{4.2.5.9}{698, 311, 3215} ए॒षः¦वा॒म्¦दे॒वौ॒¦अ॒श्वि॒ना॒¦कु॒मा॒रः¦सा॒ह॒ऽदे॒व्यः | दी॒र्घऽआ᳚युः¦अ॒स्तु॒¦सोम॑कः || |
तं यु॒वं दे᳚वावश्विना कुमा॒रं सा᳚हदे॒व्यम् |{गौतमो वामदेवः | अश्विनौ | गायत्री} दी॒र्घायु॑षं कृणोतन ||{10/10}{3.5.16.5}{4.15.10}{4.2.5.10}{699, 311, 3216} तम्¦यु॒वम्¦दे॒वौ॒¦अ॒श्वि॒ना॒¦कु॒मा॒रम्¦सा॒ह॒ऽदे॒व्यम् | दी॒र्घऽआ᳚युषम्¦कृ॒णो॒त॒न॒ || |
[72] आसत्योयात्वित्येकविंशत्यृचस्य सूक्तस्य गौतमोवामदेवइंद्रस्त्रिष्टुप् | |
आ स॒त्यो या᳚तु म॒घवाँ᳚, ऋजी॒षी द्रव᳚न्त्वस्य॒ हर॑य॒ उप॑ नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} तस्मा॒, इदन्धः॑ सुषुमा सु॒दक्ष॑मि॒हाभि॑पि॒त्वं क॑रते गृणा॒नः ||{1/21}{3.5.17.1}{4.16.1}{4.2.6.1}{700, 312, 3217} आ¦स॒त्यः¦या॒तु॒¦म॒घऽवा᳚न्¦ऋ॒जी॒षी¦द्रव᳚न्तु¦अ॒स्य॒¦हर॑यः¦उप॑¦नः॒ | |
अव॑ स्य शू॒राध्व॑नो॒ नान्ते॒ऽस्मिन् नो᳚, अ॒द्य सव॑ने म॒न्दध्यै᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} शंसा᳚त्यु॒क्थमु॒शने᳚व वे॒धाश्चि॑कि॒तुषे᳚, असु॒र्या᳚य॒ मन्म॑ ||{2/21}{3.5.17.2}{4.16.2}{4.2.6.2}{701, 312, 3218} अव॑¦स्य॒¦शू॒र॒¦अध्व॑नः¦न¦अन्ते᳚¦अ॒स्मिन्¦नः॒¦अ॒द्य¦सव॑ने¦म॒न्दध्यै᳚ | |
क॒विर्न नि॒ण्यं वि॒दथा᳚नि॒ साध॒न् वृषा॒ यत् सेकं᳚ विपिपा॒नो, अर्चा᳚त् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} दि॒व इ॒त्था जी᳚जनत् स॒प्त का॒रूनह्ना᳚ चिच्चक्रुर्व॒युना᳚ गृ॒णन्तः॑ ||{3/21}{3.5.17.3}{4.16.3}{4.2.6.3}{702, 312, 3219} क॒विः¦न¦नि॒ण्यम्¦वि॒दथा᳚नि¦साध॑न्¦वृषा᳚¦यत्¦सेक᳚म्¦वि॒ऽपि॒पा॒नः¦अर्चा᳚त् | |
स्व१॑(अ॒)र्यद् वेदि॑ सु॒दृशी᳚कम॒र्कैर्महि॒ ज्योती᳚ रुरुचु॒र्यद्ध॒ वस्तोः᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अ॒न्धा तमां᳚सि॒ दुधि॑ता वि॒चक्षे॒ नृभ्य॑श्चकार॒ नृत॑मो, अ॒भिष्टौ᳚ ||{4/21}{3.5.17.4}{4.16.4}{4.2.6.4}{703, 312, 3220} स्वः॑¦यत्¦वेदि॑¦सु॒ऽदृशी᳚कम्¦अ॒र्कैः¦महि॑¦ज्योतिः॑¦रु॒रु॒चुः॒¦यत्¦ह॒¦वस्तोः᳚ | |
व॒व॒क्ष इन्द्रो॒, अमि॑तमृजी॒ष्यु१॑(उ॒)भे, आ प॑प्रौ॒ रोद॑सी महि॒त्वा |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अत॑श्चिदस्य महि॒मा वि रे᳚च्य॒भि यो विश्वा॒ भुव॑ना ब॒भूव॑ ||{5/21}{3.5.17.5}{4.16.5}{4.2.6.5}{704, 312, 3221} व॒व॒क्षे¦इन्द्रः॑¦अमि॑तम्¦ऋ॒जी॒षी¦उ॒भे इति॑¦आ¦प॒प्रौ॒¦रोद॑सी॒ इति॑¦म॒हि॒ऽत्वा | |
विश्वा᳚नि श॒क्रो नर्या᳚णि वि॒द्वान॒पो रि॑रेच॒ सखि॑भि॒र्निका᳚मैः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अश्मा᳚नं चि॒द्ये बि॑भि॒दुर्वचो᳚भिर्व्र॒जं गोम᳚न्तमु॒शिजो॒ वि व᳚व्रुः ||{6/21}{3.5.18.1}{4.16.6}{4.2.6.6}{705, 312, 3222} विश्वा᳚नि¦श॒क्रः¦नर्या᳚णि¦वि॒द्वान्¦अ॒पः¦रि॒रे॒च॒¦सखि॑ऽभिः¦निऽका᳚मैः | |
अ॒पो वृ॒त्रं व᳚व्रि॒वांसं॒ परा᳚ह॒न् प्राव॑त्ते॒ वज्रं᳚ पृथि॒वी सचे᳚ताः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} प्रार्णां᳚सि समु॒द्रिया᳚ण्यैनोः॒ पति॒र्भव॒ञ्छव॑सा शूर धृष्णो ||{7/21}{3.5.18.2}{4.16.7}{4.2.6.7}{706, 312, 3223} अ॒पः¦वृ॒त्रम्¦व॒व्रि॒ऽवांस᳚म्¦परा᳚¦अ॒ह॒न्¦प्र¦आ॒व॒त्¦ते॒¦वज्र᳚म्¦पृ॒थि॒वी¦सऽचे᳚ताः | |
अ॒पो यदद्रिं᳚ पुरुहूत॒ दर्द॑रा॒विर्भु॑वत् स॒रमा᳚ पू॒र्व्यं ते᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स नो᳚ ने॒ता वाज॒मा द॑र्षि॒ भूरिं᳚ गो॒त्रा रु॒जन्नङ्गि॑रोभिर्गृणा॒नः ||{8/21}{3.5.18.3}{4.16.8}{4.2.6.8}{707, 312, 3224} अ॒पः¦यत्¦अद्रि᳚म्¦पु॒रु॒ऽहू॒त॒¦दर्दः॑¦आ॒विः¦भु॒व॒त्¦स॒रमा᳚¦पू॒र्व्यम्¦ते॒ | |
अच्छा᳚ क॒विं नृ॑मणो गा, अ॒भिष्टौ॒ स्व॑र्षाता मघव॒न्नाध॑मानम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ऊ॒तिभि॒स्तमि॑षणो द्यु॒म्नहू᳚तौ॒ नि मा॒यावा॒नब्र᳚ह्मा॒ दस्यु॑रर्त ||{9/21}{3.5.18.4}{4.16.9}{4.2.6.9}{708, 312, 3225} अच्छ॑¦क॒विम्¦नृ॒ऽम॒नः॒¦गाः॒¦अ॒भिष्टौ᳚¦स्वः॑ऽसाता¦म॒घ॒ऽव॒न्¦नाध॑मानम् | |
आ द॑स्यु॒घ्ना मन॑सा या॒ह्यस्तं॒ भुव॑त्ते॒ कुत्सः॑ स॒ख्ये निका᳚मः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स्वे योनौ॒ नि ष॑दतं॒ सरू᳚पा॒ वि वां᳚ चिकित्सदृत॒चिद्ध॒ नारी᳚ ||{10/21}{3.5.18.5}{4.16.10}{4.2.6.10}{709, 312, 3226} आ¦द॒स्यु॒ऽघ्ना¦मन॑सा¦या॒हि॒¦अस्त᳚म्¦भुव॑त्¦ते॒¦कुत्सः॑¦स॒ख्ये¦निऽका᳚मः | |
यासि॒ कुत्से᳚न स॒रथ॑मव॒स्युस्तो॒दो वात॑स्य॒ हर्यो॒रीशा᳚नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ऋ॒ज्रा वाजं॒ न गध्यं॒ युयू᳚षन् क॒विर्यदह॒न् पार्या᳚य॒ भूषा᳚त् ||{11/21}{3.5.19.1}{4.16.11}{4.2.6.11}{710, 312, 3227} यासि॑¦कुत्से᳚न¦स॒ऽरथ᳚म्¦अ॒व॒स्युः¦तो॒दः¦वात॑स्य¦हर्योः᳚¦ईशा᳚नः | |
कुत्सा᳚य॒ शुष्ण॑म॒शुषं॒ नि ब᳚र्हीः प्रपि॒त्वे, अह्नः॒ कुय॑वं स॒हस्रा᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स॒द्यो दस्यू॒न् प्र मृ॑ण कु॒त्स्येन॒ प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके᳚ ||{12/21}{3.5.19.2}{4.16.12}{4.2.6.12}{711, 312, 3228} कुत्सा᳚य¦शुष्ण᳚म्¦अ॒शुष᳚म्¦नि¦ब॒र्हीः॒¦प्र॒ऽपि॒त्वे¦अह्नः॑¦कुय॑वम्¦स॒हस्रा᳚ | |
त्वं पिप्रुं॒ मृग॑यं शूशु॒वांस॑मृ॒जिश्व॑ने वैदथि॒नाय॑ रन्धीः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} प॒ञ्चा॒शत् कृ॒ष्णा नि व॑पः स॒हस्रा ऽत्कं॒ न पुरो᳚ जरि॒मा वि द॑र्दः ||{13/21}{3.5.19.3}{4.16.13}{4.2.6.13}{712, 312, 3229} त्वम्¦पिप्रु᳚म्¦मृग॑यम्¦शू॒शु॒ऽवांस᳚म्¦ऋ॒जिश्व॑ने¦वै॒द॒थि॒नाय॑¦र॒न्धीः॒ | |
सूर॑ उपा॒के त॒न्व१॑(अं॒) दधा᳚नो॒ वि यत्ते॒ चेत्य॒मृत॑स्य॒ वर्पः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} मृ॒गो न ह॒स्ती तवि॑षीमुषा॒णः सिं॒हो न भी॒म आयु॑धानि॒ बिभ्र॑त् ||{14/21}{3.5.19.4}{4.16.14}{4.2.6.14}{713, 312, 3230} सूरः॑¦उ॒पा॒के¦त॒न्व᳚म्¦दधा᳚नः¦वि¦यत्¦ते॒¦चेति॑¦अ॒मृत॑स्य¦वर्पः॑ | |
इन्द्रं॒ कामा᳚ वसू॒यन्तो᳚, अग्म॒न् त्स्व᳚र्मीळ्हे॒ न सव॑ने चका॒नाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} श्र॒व॒स्यवः॑ शशमा॒नास॑ उ॒क्थैरोको॒ न र॒ण्वा सु॒दृशी᳚व पु॒ष्टिः ||{15/21}{3.5.19.5}{4.16.15}{4.2.6.15}{714, 312, 3231} इन्द्र᳚म्¦कामाः᳚¦व॒सु॒ऽयन्तः॑¦अ॒ग्म॒न्¦स्वः॑ऽमीळ्हे¦न¦सव॑ने¦च॒का॒नाः | |
तमिद् व॒ इन्द्रं᳚ सु॒हवं᳚ हुवेम॒ यस्ता च॒कार॒ नर्या᳚ पु॒रूणि॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} यो माव॑ते जरि॒त्रे गध्यं᳚ चिन्म॒क्षू वाजं॒ भर॑ति स्पा॒र्हरा᳚धाः ||{16/21}{3.5.20.1}{4.16.16}{4.2.6.16}{715, 312, 3232} तम्¦इत्¦वः॒¦इन्द्र᳚म्¦सु॒ऽहव᳚म्¦हु॒वे॒म॒¦यः¦ता¦च॒कार॑¦नर्या᳚¦पु॒रूणि॑ | |
ति॒ग्मा यद॒न्तर॒शनिः॒ पता᳚ति॒ कस्मि᳚ञ्चिच्छूर मुहु॒के जना᳚नाम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} घो॒रा यद᳚र्य॒ समृ॑ति॒र्भवा॒त्यध॑ स्मा नस्त॒न्वो᳚ बोधि गो॒पाः ||{17/21}{3.5.20.2}{4.16.17}{4.2.6.17}{716, 312, 3233} ति॒ग्मा¦यत्¦अ॒न्तः¦अ॒शनिः॑¦पता᳚ति¦कस्मि॑न्¦चि॒त्¦शू॒र॒¦मु॒हु॒के¦जना᳚नाम् | |
भुवो᳚ऽवि॒ता वा॒मदे᳚वस्य धी॒नां भुवः॒ सखा᳚वृ॒को वाज॑सातौ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} त्वामनु॒ प्रम॑ति॒मा ज॑गन्मोरु॒शंसो᳚ जरि॒त्रे वि॒श्वध॑ स्याः ||{18/21}{3.5.20.3}{4.16.18}{4.2.6.18}{717, 312, 3234} भुवः॑¦अ॒वि॒ता¦वा॒मऽदे᳚वस्य¦धी॒नाम्¦भुवः॑¦सखा᳚¦अ॒वृ॒कः¦वाज॑ऽसातौ | |
ए॒भिर्नृभि॑रिन्द्र त्वा॒युभि॑ष्ट्वा म॒घव॑द्भिर्मघव॒न् विश्व॑ आ॒जौ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} द्यावो॒ न द्यु॒म्नैर॒भि सन्तो᳚, अ॒र्यः, क्ष॒पो म॑देम श॒रद॑श्च पू॒र्वीः ||{19/21}{3.5.20.4}{4.16.19}{4.2.6.19}{718, 312, 3235} ए॒भिः¦नृऽभिः॑¦इ॒न्द्र॒¦त्वा॒युऽभिः॑¦त्वा॒¦म॒घव॑त्ऽभिः¦म॒घ॒ऽव॒न्¦विश्वे᳚¦आ॒जौ | |
ए॒वेदिन्द्रा᳚य वृष॒भाय॒ वृष्णे॒ ब्रह्मा᳚कर्म॒ भृग॑वो॒ न रथ᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} नू चि॒द् यथा᳚ नः स॒ख्या वि॒योष॒दस᳚न्न उ॒ग्रो᳚ऽवि॒ता त॑नू॒पाः ||{20/21}{3.5.20.5}{4.16.20}{4.2.6.20}{719, 312, 3236} ए॒व¦इत्¦इन्द्रा᳚य¦वृ॒ष॒भाय॑¦वृष्णे᳚¦ब्रह्म॑¦अ॒क॒र्म॒¦भृग॑वः¦न¦रथ᳚म् | |
नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{21/21}{3.5.20.6}{4.16.21}{4.2.6.21}{720, 312, 3237} नु¦स्तु॒तः¦इ॒न्द्र॒¦नु¦गृ॒णा॒नः¦इष᳚म्¦ज॒रि॒त्रे¦न॒द्यः॑¦न¦पी॒पे॒रिति॑ पीपेः | |
[73] त्वंमहानित्येकविंशत्यृचस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् असिक्न्यामित्येकपदाविराट् | |
त्वं म॒हाँ, इ᳚न्द्र॒ तुभ्यं᳚ ह॒ क्षा, अनु॑ क्ष॒त्रं मं॒हना᳚ मन्यत॒ द्यौः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} त्वं वृ॒त्रं शव॑सा जघ॒न्वान् त्सृ॒जः सिन्धूँ॒रहि॑ना जग्रसा॒नान् ||{1/21}{3.5.21.1}{4.17.1}{4.2.7.1}{721, 313, 3238} त्वम्¦म॒हान्¦इ॒न्द्र॒¦तुभ्य᳚म्¦ह॒¦क्षाः¦अनु॑¦क्ष॒त्रम्¦मं॒हना᳚¦म॒न्य॒त॒¦द्यौः | |
तव॑ त्वि॒षो जनि॑मन् रेजत॒ द्यौ रेज॒द् भूमि॑र्भि॒यसा॒ स्वस्य॑ म॒न्योः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ऋ॒घा॒यन्त॑ सु॒भ्व१॑(अः॒) पर्व॑तास॒ आर्द॒न् धन्वा᳚नि स॒रय᳚न्त॒ आपः॑ ||{2/21}{3.5.21.2}{4.17.2}{4.2.7.2}{722, 313, 3239} तव॑¦त्वि॒षः¦जनि॑मन्¦रे॒ज॒त॒¦द्यौः¦रेज॑त्¦भूमिः॑¦भि॒यसा᳚¦स्वस्य॑¦म॒न्योः | |
भि॒नद् गि॒रिं शव॑सा॒ वज्र॑मि॒ष्णन्ना᳚विष्कृण्वा॒नः स॑हसा॒न ओजः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} वधी᳚द् वृ॒त्रं वज्रे᳚ण मन्दसा॒नः सर॒न्नापो॒ जव॑सा ह॒तवृ॑ष्णीः ||{3/21}{3.5.21.3}{4.17.3}{4.2.7.3}{723, 313, 3240} भि॒नत्¦गि॒रिम्¦शव॑सा¦वज्र᳚म्¦इ॒ष्णन्¦आ॒विः॒ऽकृ॒ण्वा॒नः¦स॒ह॒सा॒नः¦ओजः॑ | |
सु॒वीर॑स्ते जनि॒ता म᳚न्यत॒ द्यौरिन्द्र॑स्य क॒र्ता स्वप॑स्तमो भूत् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} य ईं᳚ ज॒जान॑ स्व॒र्यं᳚ सु॒वज्र॒मन॑पच्युतं॒ सद॑सो॒ न भूम॑ ||{4/21}{3.5.21.4}{4.17.4}{4.2.7.4}{724, 313, 3241} सु॒ऽवीरः॑¦ते॒¦ज॒नि॒ता¦म॒न्य॒त॒¦द्यौः¦इन्द्र॑स्य¦क॒र्ता¦स्वपः॑ऽतमः¦भू॒त् | |
य एक॑ इच्च्या॒वय॑ति॒ प्र भूमा॒ राजा᳚ कृष्टी॒नां पु॑रुहू॒त इन्द्रः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स॒त्यमे᳚न॒मनु॒ विश्वे᳚ मदन्ति रा॒तिं दे॒वस्य॑ गृण॒तो म॒घोनः॑ ||{5/21}{3.5.21.5}{4.17.5}{4.2.7.5}{725, 313, 3242} यः¦एकः॑¦इत्¦च्य॒वय॑ति¦प्र¦भूम॑¦राजा᳚¦कृ॒ष्टी॒नाम्¦पु॒रु॒ऽहू॒तः¦इन्द्रः॑ | |
स॒त्रा सोमा᳚, अभवन्नस्य॒ विश्वे᳚ स॒त्रा मदा᳚सो बृह॒तो मदि॑ष्ठाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स॒त्राभ॑वो॒ वसु॑पति॒र्वसू᳚नां॒ दत्रे॒ विश्वा᳚, अधिथा, इन्द्र कृ॒ष्टीः ||{6/21}{3.5.22.1}{4.17.6}{4.2.7.6}{726, 313, 3243} स॒त्रा¦सोमाः᳚¦अ॒भ॒व॒न्¦अ॒स्य॒¦विश्वे᳚¦स॒त्रा¦मदा᳚सः¦बृ॒ह॒तः¦मदि॑ष्ठाः | |
त्वमध॑ प्रथ॒मं जाय॑मा॒नोऽमे॒ विश्वा᳚, अधिथा, इन्द्र कृ॒ष्टीः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} त्वं प्रति॑ प्र॒वत॑ आ॒शया᳚न॒महिं॒ वज्रे᳚ण मघव॒न् वि वृ॑श्चः ||{7/21}{3.5.22.2}{4.17.7}{4.2.7.7}{727, 313, 3244} त्वम्¦अध॑¦प्र॒थ॒मम्¦जाय॑मानः¦अमे᳚¦विश्वाः᳚¦अ॒धि॒थाः॒¦इ॒न्द्र॒¦कृ॒ष्टीः | |
स॒त्रा॒हणं॒ दाधृ॑षिं॒ तुम्र॒मिन्द्रं᳚ म॒हाम॑पा॒रं वृ॑ष॒भं सु॒वज्र᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} हन्ता॒ यो वृ॒त्रं सनि॑तो॒त वाजं॒ दाता᳚ म॒घानि॑ म॒घवा᳚ सु॒राधाः᳚ ||{8/21}{3.5.22.3}{4.17.8}{4.2.7.8}{728, 313, 3245} स॒त्रा॒ऽहन॑न्¦दधृ॑षिम्¦तुम्र᳚म्¦इन्द्र᳚म्¦म॒हाम्¦अ॒पा॒रम्¦वृ॒ष॒भम्¦सु॒ऽवज्र᳚म् | |
अ॒यं वृत॑श्चातयते समी॒चीर्य आ॒जिषु॑ म॒घवा᳚ शृ॒ण्व एकः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अ॒यं वाजं᳚ भरति॒ यं स॒नोत्य॒स्य प्रि॒यासः॑ स॒ख्ये स्या᳚म ||{9/21}{3.5.22.4}{4.17.9}{4.2.7.9}{729, 313, 3246} अ॒यम्¦वृतः॑¦चा॒त॒य॒ते॒¦स॒म्ऽई॒चीः¦यः¦आ॒जिषु॑¦म॒घऽवा᳚¦शृ॒ण्वे¦एकः॑ | |
अ॒यं शृ᳚ण्वे॒, अध॒ जय᳚न्नु॒त घ्नन्न॒यमु॒त प्र कृ॑णुते यु॒धा गाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} य॒दा स॒त्यं कृ॑णु॒ते म॒न्युमिन्द्रो॒ विश्वं᳚ दृ॒ळ्हं भ॑यत॒ एज॑दस्मात् ||{10/21}{3.5.22.5}{4.17.10}{4.2.7.10}{730, 313, 3247} अ॒यम्¦शृ॒ण्वे॒¦अध॑¦जय॑न्¦उ॒त¦घ्नन्¦अ॒यम्¦उ॒त¦प्र¦कृ॒णु॒ते॒¦यु॒धा¦गाः | |
समिन्द्रो॒ गा, अ॑जय॒त् सं हिर᳚ण्या॒ सम॑श्वि॒या म॒घवा॒ यो ह॑ पू॒र्वीः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ए॒भिर्नृभि॒र्नृत॑मो, अस्य शा॒कै रा॒यो वि॑भ॒क्ता स᳚म्भ॒रश्च॒ वस्वः॑ ||{11/21}{3.5.23.1}{4.17.11}{4.2.7.11}{731, 313, 3248} सम्¦इन्द्रः॑¦गाः¦अ॒ज॒य॒त्¦सम्¦हिर᳚ण्या¦सम्¦अ॒श्वि॒या¦म॒घऽवा᳚¦यः¦ह॒¦पू॒र्वीः | |
किय॑त् स्वि॒दिन्द्रो॒, अध्ये᳚ति मा॒तुः किय॑त् पि॒तुर्ज॑नि॒तुर्यो ज॒जान॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} यो, अ॑स्य॒ शुष्मं᳚ मुहु॒कैरिय॑र्ति॒ वातो॒ न जू॒तः स्त॒नय॑द्भिर॒भ्रैः ||{12/21}{3.5.23.2}{4.17.12}{4.2.7.12}{732, 313, 3249} किय॑त्¦स्वि॒त्¦इन्द्रः॑¦अधि॑¦ए॒ति॒¦मा॒तुः¦किय॑त्¦पि॒तुः¦ज॒नि॒तुः¦यः¦ज॒जान॑ | |
क्षि॒यन्तं᳚ त्व॒मक्षि॑यन्तं कृणो॒तीय॑र्ति रे॒णुं म॒घवा᳚ स॒मोह᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} वि॒भ॒ञ्ज॒नुर॒शनि॑माँ, इव॒ द्यौरु॒त स्तो॒तारं᳚ म॒घवा॒ वसौ᳚ धात् ||{13/21}{3.5.23.3}{4.17.13}{4.2.7.13}{733, 313, 3250} क्षि॒यन्त᳚म्¦त्व॒म्¦अक्षि॑यन्तम्¦कृ॒णो॒ति॒¦इय॑र्ति¦रे॒णुम्¦म॒घऽवा᳚¦स॒म्ऽओह᳚म् | |
अ॒यं च॒क्रमि॑षण॒त् सूर्य॑स्य॒ न्येत॑शं रीरमत् ससृमा॒णम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} आ कृ॒ष्ण ईं᳚ जुहुरा॒णो जि॑घर्ति त्व॒चो बु॒ध्ने रज॑सो, अ॒स्य योनौ᳚ ||{14/21}{3.5.23.4}{4.17.14}{4.2.7.14}{734, 313, 3251} अ॒यम्¦च॒क्रम्¦इ॒ष॒ण॒त्¦सूर्य॑स्य¦नि¦एत॑शम्¦री॒र॒म॒त्¦स॒सृ॒मा॒णम् | |
असि॑क्न्यां॒ यज॑मानो॒ न होता᳚ ||{गौतमो वामदेवः | इन्द्रः | एकपदा विराट्}{15/21}{3.5.23.5}{4.17.15}{4.2.7.15}{735, 313, 3252} असि॑क्न्याम्¦यज॑मानः¦न¦होता᳚ || |
ग॒व्यन्त॒ इन्द्रं᳚ स॒ख्याय॒ विप्रा᳚, अश्वा॒यन्तो॒ वृष॑णं वा॒जय᳚न्तः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ज॒नी॒यन्तो᳚ जनि॒दामक्षि॑तोति॒मा च्या᳚वयामोऽव॒ते न कोश᳚म् ||{16/21}{3.5.24.1}{4.17.16}{4.2.7.16}{736, 313, 3253} ग॒व्यन्तः॑¦इन्द्र᳚म्¦स॒ख्याय॑¦विप्राः᳚¦अ॒श्व॒ऽयन्तः॑¦वृष॑णम्¦वा॒जय᳚न्तः | |
त्रा॒ता नो᳚ बोधि॒ ददृ॑शान आ॒पिर॑भिख्या॒ता म॑र्डि॒ता सो॒म्याना᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} सखा᳚ पि॒ता पि॒तृत॑मः पितॄ॒णां कर्ते᳚मु लो॒कमु॑श॒ते व॑यो॒धाः ||{17/21}{3.5.24.2}{4.17.17}{4.2.7.17}{737, 313, 3254} त्रा॒ता¦नः॒¦बो॒धि॒¦ददृ॑शानः¦आ॒पिः¦अ॒भि॒ऽख्या॒ता¦म॒र्डि॒ता¦सो॒म्याना᳚म् | |
स॒खी॒य॒ताम॑वि॒ता बो᳚धि॒ सखा᳚ गृणा॒न इ᳚न्द्र स्तुव॒ते वयो᳚ धाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} व॒यं ह्या ते᳚ चकृ॒मा स॒बाध॑ आ॒भिः शमी᳚भिर्म॒हय᳚न्त इन्द्र ||{18/21}{3.5.24.3}{4.17.18}{4.2.7.18}{738, 313, 3255} स॒खि॒ऽय॒ताम्¦अ॒वि॒ता¦बो॒धि॒¦सखा᳚¦गृ॒णा॒नः¦इ॒न्द्र॒¦स्तु॒व॒ते¦वयः॑¦धाः॒ | |
स्तु॒त इन्द्रो᳚ म॒घवा॒ यद्ध॑ वृ॒त्रा भूरी॒ण्येको᳚, अप्र॒तीनि॑ हन्ति |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अ॒स्य प्रि॒यो ज॑रि॒ता यस्य॒ शर्म॒न्नकि॑र्दे॒वा वा॒रय᳚न्ते॒ न मर्ताः᳚ ||{19/21}{3.5.24.4}{4.17.19}{4.2.7.19}{739, 313, 3256} स्तु॒तः¦इन्द्रः॑¦म॒घऽवा᳚¦यत्¦ह॒¦वृ॒त्रा¦भूरी᳚णि¦एकः॑¦अ॒प्र॒तीनि॑¦ह॒न्ति॒ | |
ए॒वा न॒ इन्द्रो᳚ म॒घवा᳚ विर॒प्शी कर॑त् स॒त्या च॑र्षणी॒धृद॑न॒र्वा |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} त्वं राजा᳚ ज॒नुषां᳚ धेह्य॒स्मे, अधि॒ श्रवो॒ माहि॑नं॒ यज्ज॑रि॒त्रे ||{20/21}{3.5.24.5}{4.17.20}{4.2.7.20}{740, 313, 3257} ए॒व¦नः॒¦इन्द्रः॑¦म॒घऽवा᳚¦वि॒ऽर॒प्शी¦कर॑त्¦स॒त्या¦च॒र्ष॒णि॒ऽधृत्¦अ॒न॒र्वा | |
नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{21/21}{3.5.24.6}{4.17.21}{4.2.7.21}{741, 313, 3258} नु¦स्तु॒तः¦इ॒न्द्र॒¦नु¦गृ॒णा॒नः¦इष᳚म्¦ज॒रि॒त्रे¦न॒द्यः॑¦न¦पी॒पे॒रिति॑ पीपेः | |
[74] अयंपंथाइति त्रयोदशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः आद्यायाइंद्रऋषिः नहीन्वस्येत्यादिसार्धतिसृणमदितिरृषिका आद्यायावामदेवोदेवता नाहमतइत्यादिपंचार्धर्चानामंत्यानांषण्णामृचांचेंद्रोदेवता नहीन्वस्येतिसार्धतिसृणांवामदेवोदेवतात्रिष्टुप् | |
अ॒यं पन्था॒, अनु॑वित्तः पुरा॒णो यतो᳚ दे॒वा, उ॒दजा᳚यन्त॒ विश्वे᳚ |{इन्द्रः | वामदेवः | त्रिष्टुप्} अत॑श्चि॒दा ज॑निषीष्ट॒ प्रवृ॑द्धो॒ मा मा॒तर॑ममु॒या पत्त॑वे कः ||{1/13}{3.5.25.1}{4.18.1}{4.2.8.1}{742, 314, 3259} अ॒यम्¦पन्थाः᳚¦अनु॑ऽवित्तः¦पु॒रा॒णः¦यतः॑¦दे॒वाः¦उ॒त्।आजा᳚यन्त¦विश्वे᳚ | |
नाहमतो॒ निर॑या दु॒र्गहै॒तत् ति॑र॒श्चता᳚ पा॒र्श्वान्निर्ग॑माणि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ब॒हूनि॑ मे॒, अकृ॑ता॒ कर्त्वा᳚नि॒ युध्यै᳚ त्वेन॒ सं त्वे᳚न पृच्छै ||{2/13}{3.5.25.2}{4.18.2}{4.2.8.2}{743, 314, 3260} न¦अ॒हम्¦अतः॑¦निः¦अ॒य॒¦दुः॒ऽगहा᳚¦ए॒तत्¦ति॒र॒श्चता᳚¦पा॒र्श्वात्¦निः¦ग॒मा॒नि॒ | |
प॒रा॒य॒तीं मा॒तर॒मन्व॑चष्ट॒ न नानु॑ गा॒न्यनु॒ नू ग॑मानि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} त्वष्टु॑र्गृ॒हे, अ॑पिब॒त् सोम॒मिन्द्रः॑ शतध॒न्यं᳚ च॒म्वोः᳚ सु॒तस्य॑ ||{3/13}{3.5.25.3}{4.18.3}{4.2.8.3}{744, 314, 3261} प॒रा॒ऽय॒तीम्¦मा॒तर᳚म्¦अनु॑¦अ॒च॒ष्ट॒¦न¦न¦अनु॑¦गा॒नि॒¦अनु॑¦नु¦ग॒मा॒नि॒ | |
किं स ऋध॑क् कृणव॒द्यं स॒हस्रं᳚ मा॒सो ज॒भार॑ श॒रद॑श्च पू॒र्वीः |{१/२: गौतमो वामदेवः २/२:अदितिरृषिका | १/२:इन्द्रः २/२:वामदेवः | त्रिष्टुप्} न॒ही न्व॑स्य प्रति॒मान॒मस्त्य॒न्तर्जा॒तेषू॒त ये जनि॑त्वाः ||{4/13}{3.5.25.4}{4.18.4}{4.2.8.4}{745, 314, 3262} किम्¦सः¦ऋध॑क्¦कृ॒ण॒व॒त्¦यम्¦स॒हस्र᳚म्¦मा॒सः¦ज॒भार॑¦श॒रदः॑¦च॒¦पू॒र्वीः | |
अ॒व॒द्यमि॑व॒ मन्य॑माना॒ गुहा᳚क॒रिन्द्रं᳚ मा॒ता वी॒र्ये᳚णा॒ न्यृ॑ष्टम् |{अदितिरृषिका | वामदेवः | त्रिष्टुप्} अथोद॑स्थात् स्व॒यमत्कं॒ वसा᳚न॒ आ रोद॑सी, अपृणा॒ज्जाय॑मानः ||{5/13}{3.5.25.5}{4.18.5}{4.2.8.5}{746, 314, 3263} अ॒व॒द्यम्ऽइ᳚व¦मन्य॑माना¦गुहा᳚¦अ॒कः॒¦इन्द्र᳚म्¦मा॒ता¦वी॒र्ये᳚ण¦निऽऋ॑ष्टम् | |
ए॒ता, अ॑र्षन्त्यलला॒भव᳚न्तीरृ॒ताव॑रीरिव सं॒क्रोश॑मानाः |{अदितिरृषिका | वामदेवः | त्रिष्टुप्} ए॒ता वि पृ॑च्छ॒ किमि॒दं भ॑नन्ति॒ कमापो॒, अद्रिं᳚ परि॒धिं रु॑जन्ति ||{6/13}{3.5.26.1}{4.18.6}{4.2.8.6}{747, 314, 3264} ए॒ताः¦अ॒र्ष॒न्ति॒¦अ॒ल॒ला॒ऽभव᳚न्तीः¦ऋ॒तव॑रीःऽइव¦स॒म्ऽक्रोश॑मानाः | |
किमु॑ ष्विदस्मै नि॒विदो᳚ भन॒न्तेन्द्र॑स्याव॒द्यं दि॑धिषन्त॒ आपः॑ |{अदितिरृषिका | वामदेवः | त्रिष्टुप्} ममै॒तान् पु॒त्रो म॑ह॒ता व॒धेन॑ वृ॒त्रं ज॑घ॒न्वाँ, अ॑सृज॒द्वि सिन्धू॑न् ||{7/13}{3.5.26.2}{4.18.7}{4.2.8.7}{748, 314, 3265} किम्¦ऊँ॒ इति॑¦स्वि॒त्¦अ॒स्मै॒¦नि॒ऽविदः॑¦भ॒न॒न्त॒¦इन्द्र॑स्य¦अ॒व॒द्यम्¦दि॒धि॒ष॒न्ते॒¦आपः॑ | |
मम॑च्च॒न त्वा᳚ युव॒तिः प॒रास॒ मम॑च्च॒न त्वा᳚ कु॒षवा᳚ ज॒गार॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} मम॑च्चि॒दापः॒ शिश॑वे ममृड्यु॒र्मम॑च्चि॒दिन्द्रः॒ सह॒सोद॑तिष्ठत् ||{8/13}{3.5.26.3}{4.18.8}{4.2.8.8}{749, 314, 3266} मम॑त्¦च॒न¦त्वा॒¦यु॒व॒तिः¦प॒रा॒ऽआस॑¦मम॑त्¦च॒न¦त्वा॒¦कु॒षवा᳚¦ज॒गार॑ | |
मम॑च्च॒न ते᳚ मघव॒न् व्यं᳚सो निविवि॒ध्वाँ, अप॒ हनू᳚ ज॒घान॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अधा॒ निवि॑द्ध॒ उत्त॑रो बभू॒वाञ्छिरो᳚ दा॒सस्य॒ सं पि॑णग्व॒धेन॑ ||{9/13}{3.5.26.4}{4.18.9}{4.2.8.9}{750, 314, 3267} मम॑त्¦च॒न¦ते॒¦म॒घ॒ऽव॒न्¦वि।आं᳚सः¦नि॒ऽवि॒वि॒ध्वान्¦अप॑¦हनू॒ इति॑¦ज॒घान॑ | |
गृ॒ष्टिः स॑सूव॒ स्थवि॑रं तवा॒गाम॑नाधृ॒ष्यं वृ॑ष॒भं तुम्र॒मिन्द्र᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अरी᳚ळ्हं व॒त्सं च॒रथा᳚य मा॒ता स्व॒यं गा॒तुं त॒न्व॑ इ॒च्छमा᳚नम् ||{10/13}{3.5.26.5}{4.18.10}{4.2.8.10}{751, 314, 3268} गृ॒ष्टिः¦स॒सू॒व॒¦स्थवि॑रम्¦त॒वा॒गाम्¦अ॒ना॒धृ॒ष्यम्¦वृ॒ष॒भम्¦तुम्र᳚म्¦इन्द्र᳚म् | |
उ॒त मा॒ता म॑हि॒षमन्व॑वेनद॒मी त्वा᳚ जहति पुत्र दे॒वाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अथा᳚ब्रवीद् वृ॒त्रमिन्द्रो᳚ हनि॒ष्यन् त्सखे᳚ विष्णो वित॒रं वि क्र॑मस्व ||{11/13}{3.5.26.6}{4.18.11}{4.2.8.11}{752, 314, 3269} उ॒त¦मा॒ता¦म॒हि॒षम्¦अनु॑¦अ॒वे॒न॒त्¦अ॒मी इति॑¦त्वा॒¦ज॒ह॒ति॒¦पु॒त्र॒¦दे॒वाः | |
कस्ते᳚ मा॒तरं᳚ वि॒धवा᳚मचक्रच्छ॒युं कस्त्वाम॑जिघांस॒च्चर᳚न्तम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} कस्ते᳚ दे॒वो, अधि॑ मार्डी॒क आ᳚सी॒द् यत् प्राक्षि॑णाः पि॒तरं᳚ पाद॒गृह्य॑ ||{12/13}{3.5.26.7}{4.18.12}{4.2.8.12}{753, 314, 3270} कः¦ते॒¦मा॒तर᳚म्¦वि॒धवा᳚म्¦अ॒च॒क्र॒त्¦श॒युम्¦कः¦त्वाम्¦अ॒जि॒घां॒स॒त्¦चर᳚न्तम् | |
अव॑र्त्या॒ शुन॑ आ॒न्त्राणि॑ पेचे॒ न दे॒वेषु॑ विविदे मर्डि॒तार᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अप॑श्यं जा॒यामम॑हीयमाना॒मधा᳚ मे श्ये॒नो मध्वा ज॑भार ||{13/13}{3.5.26.8}{4.18.13}{4.2.8.13}{754, 314, 3271} अव॑र्त्या¦शुनः॑¦आ॒न्त्राणि॑¦पे॒चे॒¦न¦दे॒वेषु॑¦वि॒वि॒दे॒¦म॒र्डि॒तार᳚म् | |
[75] एवात्वामित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् | |
ए॒वा त्वामि᳚न्द्र वज्रि॒न्नत्र॒ विश्वे᳚ दे॒वासः॑ सु॒हवा᳚स॒ ऊमाः᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} म॒हामु॒भे रोद॑सी वृ॒द्धमृ॒ष्वं निरेक॒मिद् वृ॑णते वृत्र॒हत्ये᳚ ||{1/11}{3.6.1.1}{4.19.1}{4.2.9.1}{755, 315, 3272} ए॒व¦त्वाम्¦इ॒न्द्र॒¦व॒ज्रि॒न्¦अत्र॑¦विश्वे᳚¦दे॒वासः॑¦सु॒ऽहवा᳚सः¦ऊमाः᳚ | |
अवा᳚सृजन्त॒ जिव्र॑यो॒ न दे॒वा भुवः॑ स॒म्राळि᳚न्द्र स॒त्ययो᳚निः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अह॒न्नहिं᳚ परि॒शया᳚न॒मर्णः॒ प्र व॑र्त॒नीर॑रदो वि॒श्वधे᳚नाः ||{2/11}{3.6.1.2}{4.19.2}{4.2.9.2}{756, 315, 3273} अव॑¦अ॒सृ॒ज॒न्त॒¦जिव्र॑यः¦न¦दे॒वाः¦भुवः॑¦स॒म्ऽराट्¦इ॒न्द्र॒¦स॒त्यऽयो᳚निः | |
अतृ॑प्णुवन्तं॒ विय॑तमबु॒ध्यमबु॑ध्यमानं सुषुपा॒णमि᳚न्द्र |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स॒प्त प्रति॑ प्र॒वत॑ आ॒शया᳚न॒महिं॒ वज्रे᳚ण॒ वि रि॑णा, अप॒र्वन् ||{3/11}{3.6.1.3}{4.19.3}{4.2.9.3}{757, 315, 3274} अतृ॑प्णुवन्तम्¦विऽय॑तम्¦अ॒बु॒ध्यम्¦अबु॑ध्यमानम्¦सु॒सु॒पा॒नम्¦इ॒न्द्र॒ | |
अक्षो᳚दय॒च्छव॑सा॒ क्षाम॑ बु॒ध्नं वार्ण वात॒स्तवि॑षीभि॒रिन्द्रः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} दृ॒ळ्हान्यौ᳚भ्नादु॒शमा᳚न॒ ओजोऽवा᳚भिनत् क॒कुभः॒ पर्व॑तानाम् ||{4/11}{3.6.1.4}{4.19.4}{4.2.9.4}{758, 315, 3275} अक्षो᳚दयत्¦शव॑सा¦क्षाम॑¦बु॒ध्नम्¦वाः¦न¦वातः॑¦तवि॑षीभिः¦इन्द्रः॑ | |
अ॒भि प्र द॑द्रु॒र्जन॑यो॒ न गर्भं॒ रथा᳚, इव॒ प्र य॑युः सा॒कमद्र॑यः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अत॑र्पयो वि॒सृत॑ उ॒ब्ज ऊ॒र्मीन् त्वं वृ॒ताँ, अ॑रिणा, इन्द्र॒ सिन्धू॑न् ||{5/11}{3.6.1.5}{4.19.5}{4.2.9.5}{759, 315, 3276} अ॒भि¦प्र¦द॒द्रुः॒¦जन॑यः¦न¦गर्भ᳚म्¦रथाः᳚ऽइव¦प्र¦य॒युः॒¦सा॒कम्¦अद्र॑यः | |
त्वं म॒हीम॒वनिं᳚ वि॒श्वधे᳚नां तु॒र्वीत॑ये व॒य्या᳚य॒ क्षर᳚न्तीम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अर॑मयो॒ नम॒सैज॒दर्णः॑ सुतर॒णाँ, अ॑कृणोरिन्द्र॒ सिन्धू॑न् ||{6/11}{3.6.2.1}{4.19.6}{4.2.9.6}{760, 315, 3277} त्वम्¦म॒हीम्¦अ॒वनि᳚म्¦वि॒श्वऽधे᳚नाम्¦तु॒र्वीत॑ये¦व॒य्या᳚य¦क्षर᳚न्तीम् | |
प्राग्रुवो᳚ नभ॒न्वो॒३॑(ओ॒) न वक्वा᳚ ध्व॒स्रा, अ॑पिन्वद् युव॒तीरृ॑त॒ज्ञाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} धन्वा॒न्यज्राँ᳚, अपृणक् तृषा॒णाँ, अधो॒गिन्द्रः॑ स्त॒र्यो॒३॑(ओ॒) दंसु॑पत्नीः ||{7/11}{3.6.2.2}{4.19.7}{4.2.9.7}{761, 315, 3278} प्र¦अ॒ग्रुवः॑¦न॒भ॒न्वः॑¦न¦वक्वाः᳚¦ध्व॒स्राः¦अ॒पि॒न्व॒त्¦यु॒व॒तीः¦ऋ॒त॒ऽज्ञाः | |
पू॒र्वीरु॒षसः॑ श॒रद॑श्च गू॒र्ता वृ॒त्रं ज॑घ॒न्वाँ, अ॑सृज॒द्वि सिन्धू॑न् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} परि॑ष्ठिता, अतृणद् बद्बधा॒नाः सी॒रा, इन्द्रः॒ स्रवि॑तवे पृथि॒व्या ||{8/11}{3.6.2.3}{4.19.8}{4.2.9.8}{762, 315, 3279} पू॒र्वीः¦उ॒षसः॑¦श॒रदः॑¦च॒¦गू॒र्ताः¦वृ॒त्रम्¦ज॒घ॒न्वान्¦अ॒सृ॒ज॒त्¦वि¦सिन्धू॑न् | |
व॒म्रीभिः॑ पु॒त्रम॒ग्रुवो᳚, अदा॒नं नि॒वेश॑नाद्धरिव॒ आ ज॑भर्थ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} व्य१॑(अ॒)न्धो, अ॑ख्य॒दहि॑माददा॒नो निर्भू᳚दुख॒च्छित् सम॑रन्त॒ पर्व॑ ||{9/11}{3.6.2.4}{4.19.9}{4.2.9.9}{763, 315, 3280} व॒म्रीभिः॑¦पु॒त्रम्¦अ॒ग्रुवः॑¦अ॒दा॒नम्¦नि॒ऽवेश॑नात्¦ह॒रि॒ऽवः॒¦आ¦ज॒भ॒र्थ॒ | |
प्र ते॒ पूर्वा᳚णि॒ कर॑णानि विप्राऽऽवि॒द्वाँ, आ᳚ह वि॒दुषे॒ करां᳚सि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} यथा᳚यथा॒ वृष्ण्या᳚नि॒ स्वगू॒र्ताऽपां᳚सि राज॒न् नर्यावि॑वेषीः ||{10/11}{3.6.2.5}{4.19.10}{4.2.9.10}{764, 315, 3281} प्र¦ते॒¦पूर्वा᳚णि¦कर॑णानि¦वि॒प्र॒¦आ॒ऽवि॒द्वान्¦आ॒ह॒¦वि॒दुषे᳚¦करां᳚सि | |
नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{11/11}{3.6.2.6}{4.19.11}{4.2.9.11}{765, 315, 3282} नु¦स्तु॒तः¦इ॒न्द्र॒¦नु¦गृ॒णा॒नः¦इष᳚म्¦ज॒रि॒त्रे¦न॒द्यः॑¦न¦पी॒पे॒रिति॑ पीपेः | |
[76] आनइंद्रइत्येकादशर्चस्य सूक्तस्यगौतमोवामदेव इंद्रस्त्रिष्टुप् | |
आ न॒ इन्द्रो᳚ दू॒रादा न॑ आ॒साद॑भिष्टि॒कृदव॑से यासदु॒ग्रः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ओजि॑ष्ठेभिर्नृ॒पति॒र्वज्र॑बाहुः सं॒गे स॒मत्सु॑ तु॒र्वणिः॑ पृत॒न्यून् ||{1/11}{3.6.3.1}{4.20.1}{4.2.10.1}{766, 316, 3283} आ¦नः॒¦इन्द्रः॑¦दू॒रात्¦आ¦नः॒¦आ॒सात्¦अ॒भि॒ष्टि॒ऽकृत्¦अव॑से¦या॒स॒त्¦उ॒ग्रः | |
आ न॒ इन्द्रो॒ हरि॑भिर्या॒त्वच्छा᳚ऽर्वाची॒नोऽव॑से॒ राध॑से च |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} तिष्ठा᳚ति व॒ज्री म॒घवा᳚ विर॒प्शीमं य॒ज्ञमनु॑ नो॒ वाज॑सातौ ||{2/11}{3.6.3.2}{4.20.2}{4.2.10.2}{767, 316, 3284} आ¦नः॒¦इन्द्रः॑¦हरि॑ऽभिः¦या॒तु॒¦अच्छ॑¦अ॒र्वा॒ची॒नः¦अव॑से¦राध॑से¦च॒ | |
इ॒मं य॒ज्ञं त्वम॒स्माक॑मिन्द्र पु॒रो दध॑त् सनिष्यसि॒ क्रतुं᳚ नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} श्व॒घ्नीव॑ वज्रिन् त्स॒नये॒ धना᳚नां॒ त्वया᳚ व॒यम॒र्य आ॒जिं ज॑येम ||{3/11}{3.6.3.3}{4.20.3}{4.2.10.3}{768, 316, 3285} इ॒मम्¦य॒ज्ञम्¦त्वम्¦अ॒स्माक᳚म्¦इ॒न्द्र॒¦पु॒रः¦दध॑त्¦स॒नि॒ष्य॒सि॒¦क्रतु᳚म्¦नः॒ | |
उ॒शन्नु॒ षु णः॑ सु॒मना᳚, उपा॒के सोम॑स्य॒ नु सुषु॑तस्य स्वधावः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} पा, इ᳚न्द्र॒ प्रति॑भृतस्य॒ मध्वः॒ समन्ध॑सा ममदः पृ॒ष्ठ्ये᳚न ||{4/11}{3.6.3.4}{4.20.4}{4.2.10.4}{769, 316, 3286} उ॒शन्¦ऊँ॒ इति॑¦सु¦नः॒¦सु॒ऽमनाः᳚¦उ॒पा॒के¦सोम॑स्य¦नु¦सुऽसु॑तस्य¦स्व॒धा॒ऽवः॒ | |
वि यो र॑र॒प्श ऋषि॑भि॒र्नवे᳚भिर्वृ॒क्षो न प॒क्वः सृण्यो॒ न जेता᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} मर्यो॒ न योषा᳚म॒भि मन्य॑मा॒नोऽच्छा᳚ विवक्मि पुरुहू॒तमिन्द्र᳚म् ||{5/11}{3.6.3.5}{4.20.5}{4.2.10.5}{770, 316, 3287} वि¦यः¦र॒र॒प्शे¦ऋषि॑ऽभिः¦नवे᳚भिः¦वृ॒क्षः¦न¦प॒क्वः¦सृण्यः॑¦न¦जेता᳚ | |
गि॒रिर्न यः स्वत॑वाँ, ऋ॒ष्व इन्द्रः॑ स॒नादे॒व सह॑से जा॒त उ॒ग्रः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} आद॑र्ता॒ वज्रं॒ स्थवि॑रं॒ न भी॒म उ॒द्नेव॒ कोशं॒ वसु॑ना॒ न्यृ॑ष्टम् ||{6/11}{3.6.4.1}{4.20.6}{4.2.10.6}{771, 316, 3288} गि॒रिः¦न¦यः¦स्वऽत॑वान्¦ऋ॒ष्वः¦इन्द्रः॑¦स॒नात्¦ए॒व¦सह॑से¦जा॒तः¦उ॒ग्रः | |
न यस्य॑ व॒र्ता ज॒नुषा॒ न्वस्ति॒ न राध॑स आमरी॒ता म॒घस्य॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} उ॒द्वा॒वृ॒षा॒णस्त॑विषीव उग्रा॒ऽस्मभ्यं᳚ दद्धि पुरुहूत रा॒यः ||{7/11}{3.6.4.2}{4.20.7}{4.2.10.7}{772, 316, 3289} न¦यस्य॑¦व॒र्ता¦ज॒नुषा᳚¦नु¦अस्ति॑¦न¦राध॑सः¦आ॒ऽम॒री॒ता¦म॒घस्य॑ | |
ईक्षे᳚ रा॒यः, क्षय॑स्य चर्षणी॒नामु॒त व्र॒जम॑पव॒र्तासि॒ गोना᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} शि॒क्षा॒न॒रः स॑मि॒थेषु॑ प्र॒हावा॒न् वस्वो᳚ रा॒शिम॑भिने॒तासि॒ भूरि᳚म् ||{8/11}{3.6.4.3}{4.20.8}{4.2.10.8}{773, 316, 3290} ईक्षे᳚¦रा॒यः¦क्षय॑स्य¦च॒र्ष॒णी॒नाम्¦उ॒त¦व्र॒जम्¦अ॒प॒ऽव॒र्ता¦अ॒सि॒¦गोना᳚म् | |
कया॒ तच्छृ᳚ण्वे॒ शच्या॒ शचि॑ष्ठो॒ यया᳚ कृ॒णोति॒ मुहु॒ का चि॑दृ॒ष्वः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} पु॒रु दा॒शुषे॒ विच॑यिष्ठो॒, अंहोऽथा᳚ दधाति॒ द्रवि॑णं जरि॒त्रे ||{9/11}{3.6.4.4}{4.20.9}{4.2.10.9}{774, 316, 3291} कया᳚¦तत्¦शृ॒ण्वे॒¦शच्या᳚¦शचि॑ष्ठः¦यया᳚¦कृ॒णोति॑¦मुहु॑¦का¦चि॒त्¦ऋ॒ष्वः | |
मा नो᳚ मर्धी॒रा भ॑रा द॒द्धि तन्नः॒ प्र दा॒शुषे॒ दात॑वे॒ भूरि॒ यत्ते᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} नव्ये᳚ दे॒ष्णे श॒स्ते, अ॒स्मिन्त॑ उ॒क्थे प्र ब्र॑वाम व॒यमि᳚न्द्र स्तु॒वन्तः॑ ||{10/11}{3.6.4.5}{4.20.10}{4.2.10.10}{775, 316, 3292} मा¦नः॒¦म॒र्धीः॒¦आ¦भ॒र॒¦द॒द्धि¦तत्¦नः॒¦प्र¦दा॒शुषे᳚¦दात॑वे¦भूरि॑¦यत्¦ते॒ | |
नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{11/11}{3.6.4.6}{4.20.11}{4.2.10.11}{776, 316, 3293} नु¦स्तु॒तः¦इ॒न्द्र॒¦नु¦गृ॒णा॒नः¦इष᳚म्¦ज॒रि॒त्रे¦न॒द्यः॑¦न¦पी॒पे॒रिति॑ पीपेः | |
[77] आयात्विंद्र इत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् | |
आ या॒त्विन्द्रोऽव॑स॒ उप॑ न इ॒ह स्तु॒तः स॑ध॒माद॑स्तु॒ शूरः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑ पू॒र्वीर्द्यौर्न क्ष॒त्रम॒भिभू᳚ति॒ पुष्या᳚त् ||{1/11}{3.6.5.1}{4.21.1}{4.2.11.1}{777, 317, 3294} आ¦या॒तु॒¦इन्द्रः॑¦अव॑से¦उप॑¦नः॒¦इ॒ह¦स्तु॒तः¦स॒ध॒ऽमात्¦अ॒स्तु॒¦शूरः॑ | |
तस्येदि॒ह स्त॑वथ॒ वृष्ण्या᳚नि तुविद्यु॒म्नस्य॑ तुवि॒राध॑सो॒ नॄन् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} यस्य॒ क्रतु᳚र्विद॒थ्यो॒३॑(ओ॒) न स॒म्राट् सा॒ह्वान् तरु॑त्रो, अ॒भ्यस्ति॑ कृ॒ष्टीः ||{2/11}{3.6.5.2}{4.21.2}{4.2.11.2}{778, 317, 3295} तस्य॑¦इत्¦इ॒ह¦स्त॒व॒थ॒¦वृष्ण्या᳚नि¦तु॒वि॒ऽद्यु॒म्नस्य॑¦तु॒वि॒ऽराध॑सः¦नॄन् | |
आ या॒त्विन्द्रो᳚ दि॒व आ पृ॑थि॒व्या म॒क्षू स॑मु॒द्रादु॒त वा॒ पुरी᳚षात् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स्व᳚र्णरा॒दव॑से नो म॒रुत्वा᳚न् परा॒वतो᳚ वा॒ सद॑नादृ॒तस्य॑ ||{3/11}{3.6.5.3}{4.21.3}{4.2.11.3}{779, 317, 3296} आ¦या॒तु॒¦इन्द्रः॑¦दि॒वः¦आ¦पृ॒थि॒व्याः¦म॒क्षु¦स॒मु॒द्रात्¦उ॒त¦वा॒¦पुरी᳚षात् | |
स्थू॒रस्य॑ रा॒यो बृ॑ह॒तो य ईशे॒ तमु॑ ष्टवाम वि॒दथे॒ष्विन्द्र᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} यो वा॒युना॒ जय॑ति॒ गोम॑तीषु॒ प्र धृ॑ष्णु॒या नय॑ति॒ वस्यो॒, अच्छ॑ ||{4/11}{3.6.5.4}{4.21.4}{4.2.11.4}{780, 317, 3297} स्थू॒रस्य॑¦रा॒यः¦बृ॒ह॒तः¦यः¦ईशे᳚¦तम्¦ऊँ॒ इति॑¦स्त॒वा॒म॒¦वि॒दथे᳚षु¦इन्द्र᳚म् | |
उप॒ यो नमो॒ नम॑सि स्तभा॒यन्निय॑र्ति॒ वाचं᳚ ज॒नय॒न् यज॑ध्यै |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ऋ॒ञ्ज॒सा॒नः पु॑रु॒वार॑ उ॒क्थैरेन्द्रं᳚ कृण्वीत॒ सद॑नेषु॒ होता᳚ ||{5/11}{3.6.5.5}{4.21.5}{4.2.11.5}{781, 317, 3298} उप॑¦यः¦नमः॑¦नम॑सि¦स्त॒भा॒यन्¦इय॑र्ति¦वाच᳚म्¦ज॒नय॑न्¦यज॑ध्यै | |
धि॒षा यदि॑ धिष॒ण्यन्तः॑ सर॒ण्यान् त्सद᳚न्तो॒, अद्रि॑मौशि॒जस्य॒ गोहे᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} आ दु॒रोषाः᳚ पा॒स्त्यस्य॒ होता॒ यो नो᳚ म॒हान् त्सं॒वर॑णेषु॒ वह्निः॑ ||{6/11}{3.6.6.1}{4.21.6}{4.2.11.6}{782, 317, 3299} धि॒षा¦यदि॑¦धि॒ष॒ण्यन्तः॑¦स॒र॒ण्यान्¦सद᳚न्तः¦अद्रि᳚म्¦औ॒शि॒जस्य॑¦गोहे᳚ | |
स॒त्रा यदीं᳚ भार्व॒रस्य॒ वृष्णः॒ सिष॑क्ति॒ शुष्मः॑ स्तुव॒ते भरा᳚य |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} गुहा॒ यदी᳚मौशि॒जस्य॒ गोहे॒ प्र यद्धि॒ये प्राय॑से॒ मदा᳚य ||{7/11}{3.6.6.2}{4.21.7}{4.2.11.7}{783, 317, 3300} स॒त्रा¦यत्¦इ॒म्¦भा॒र्व॒रस्य॑¦वृष्णः॑¦सिस॑क्ति¦शुष्मः॑¦स्तु॒व॒ते¦भरा᳚य | |
वि यद्वरां᳚सि॒ पर्व॑तस्य वृ॒ण्वे पयो᳚भिर्जि॒न्वे, अ॒पां जवां᳚सि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} वि॒दद् गौ॒रस्य॑ गव॒यस्य॒ गोहे॒ यदी॒ वाजा᳚य सु॒ध्यो॒३॑(ओ॒) वह᳚न्ति ||{8/11}{3.6.6.3}{4.21.8}{4.2.11.8}{784, 317, 3301} वि¦यत्¦वरां᳚सि¦पर्व॑तस्य¦वृ॒ण्वे¦पयः॑ऽभिः¦जि॒न्वे¦अ॒पाम्¦जवां᳚सि | |
भ॒द्रा ते॒ हस्ता॒ सुकृ॑तो॒त पा॒णी प्र॑य॒न्तारा᳚ स्तुव॒ते राध॑ इन्द्र |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} का ते॒ निष॑त्तिः॒ किमु॒ नो म॑मत्सि॒ किं नोदु॑दु हर्षसे॒ दात॒वा, उ॑ ||{9/11}{3.6.6.4}{4.21.9}{4.2.11.9}{785, 317, 3302} भ॒द्रा¦ते॒¦हस्ता᳚¦सुऽकृ॑ता¦उ॒त¦पा॒णी इति॑¦प्र॒ऽय॒न्तारा᳚¦स्तु॒व॒ते¦राधः॑¦इ॒न्द्र॒ | |
ए॒वा वस्व॒ इन्द्रः॑ स॒त्यः स॒म्राड्ढन्ता᳚ वृ॒त्रं वरि॑वः पू॒रवे᳚ कः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} पुरु॑ष्टुत॒ क्रत्वा᳚ नः शग्धि रा॒यो भ॑क्षी॒य तेऽव॑सो॒ दैव्य॑स्य ||{10/11}{3.6.6.5}{4.21.10}{4.2.11.10}{786, 317, 3303} ए॒व¦वस्वः॑¦इन्द्रः॑¦स॒त्यः¦स॒म्ऽराट्¦हन्ता᳚¦वृ॒त्रम्¦वरि॑वः¦पू॒रवे᳚¦क॒रिति॑ कः | |
नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{11/11}{3.6.6.6}{4.21.11}{4.2.11.11}{787, 317, 3304} नु¦स्तु॒तः¦इ॒न्द्र॒¦नु¦गृ॒णा॒नः¦इष᳚म्¦ज॒रि॒त्रे¦न॒द्यः॑¦न¦पी॒पे॒रिति॑ पीपेः | |
[78] यन्नइंद्र इत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् | |
यन्न॒ इन्द्रो᳚ जुजु॒षे यच्च॒ वष्टि॒ तन्नो᳚ म॒हान् क॑रति शु॒ष्म्या चि॑त् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ब्रह्म॒ स्तोमं᳚ म॒घवा॒ सोम॑मु॒क्था यो, अश्मा᳚नं॒ शव॑सा॒ बिभ्र॒देति॑ ||{1/11}{3.6.7.1}{4.22.1}{4.3.1.1}{788, 318, 3305} यत्¦नः॒¦इन्द्रः॑¦जु॒जु॒षे¦यत्¦च॒¦व॒ष्टि॒¦तत्¦नः॒¦म॒हान्¦क॒र॒ति॒¦शु॒ष्मी¦आ¦चि॒त् | |
वृषा॒ वृष᳚न्धिं॒ चतु॑रश्रि॒मस्य᳚न्नु॒ग्रो बा॒हुभ्यां॒ नृत॑मः॒ शची᳚वान् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} श्रि॒ये परु॑ष्णीमु॒षमा᳚ण॒ ऊर्णां॒ यस्याः॒ पर्वा᳚णि स॒ख्याय॑ वि॒व्ये ||{2/11}{3.6.7.2}{4.22.2}{4.3.1.2}{789, 318, 3306} वृषा᳚¦वृष᳚न्धिम्¦चतुः॑।आश्रिम्¦अस्य॑न्¦उ॒ग्रः¦बा॒हुऽभ्या᳚म्¦नृऽत॑मः¦शची᳚ऽवान् | |
यो दे॒वो दे॒वत॑मो॒ जाय॑मानो म॒हो वाजे᳚भिर्म॒हद्भि॑श्च॒ शुष्मैः᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} दधा᳚नो॒ वज्रं᳚ बा॒ह्वोरु॒शन्तं॒ द्याममे᳚न रेजय॒त् प्र भूम॑ ||{3/11}{3.6.7.3}{4.22.3}{4.3.1.3}{790, 318, 3307} यः¦दे॒वः¦दे॒वऽत॑मः¦जाय॑मानः¦म॒हः¦वाजे᳚भिः¦म॒हत्ऽभिः॑¦च॒¦शुष्मैः᳚ | |
विश्वा॒ रोधां᳚सि प्र॒वत॑श्च पू॒र्वीर्द्यौरृ॒ष्वाज्जनि॑मन् रेजत॒ क्षाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} आ मा॒तरा॒ भर॑ति शु॒ष्म्या गोर्नृ॒वत् परि॑ज्मन् नोनुवन्त॒ वाताः᳚ ||{4/11}{3.6.7.4}{4.22.4}{4.3.1.4}{791, 318, 3308} विश्वा᳚¦रोधां᳚सि¦प्र॒ऽवतः॑¦च॒¦पू॒र्वीः¦द्यौः¦ऋ॒ष्वात्¦जनि॑मन्¦रे॒ज॒त॒¦क्षाः | |
ता तू त॑ इन्द्र मह॒तो म॒हानि॒ विश्वे॒ष्वित् सव॑नेषु प्र॒वाच्या᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} यच्छू᳚र धृष्णो धृष॒ता द॑धृ॒ष्वानहिं॒ वज्रे᳚ण॒ शव॒सावि॑वेषीः ||{5/11}{3.6.7.5}{4.22.5}{4.3.1.5}{792, 318, 3309} ता¦तु¦ते॒¦इ॒न्द्र॒¦म॒ह॒तः¦म॒हानि॑¦विश्वे᳚षु¦इत्¦सव॑नेषु¦प्र॒ऽवाच्या᳚ | |
ता तू ते᳚ स॒त्या तु॑विनृम्ण॒ विश्वा॒ प्र धे॒नवः॑ सिस्रते॒ वृष्ण॒ ऊध्नः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अधा᳚ ह॒ त्वद् वृ॑षमणो भिया॒नाः प्र सिन्ध॑वो॒ जव॑सा चक्रमन्त ||{6/11}{3.6.8.1}{4.22.6}{4.3.1.6}{793, 318, 3310} ता¦तु¦ते॒¦स॒त्या¦तु॒वि॒ऽनृ॒म्ण॒¦विश्वा᳚¦प्र¦धे॒नवः॑¦सि॒स्र॒ते॒¦वृष्णः॑¦ऊध्नः॑ | |
अत्राह॑ ते हरिव॒स्ता, उ॑ दे॒वीरवो᳚भिरिन्द्र स्तवन्त॒ स्वसा᳚रः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} यत्सी॒मनु॒ प्र मु॒चो ब॑द्बधा॒ना दी॒र्घामनु॒ प्रसि॑तिं स्यन्द॒यध्यै᳚ ||{7/11}{3.6.8.2}{4.22.7}{4.3.1.7}{794, 318, 3311} अत्र॑¦अह॑¦ते॒¦ह॒रि॒ऽवः॒¦ताः¦ऊँ॒ इति॑¦दे॒वीः¦अवः॑ऽभिः¦इ॒न्द्र॒¦स्त॒व॒न्त॒¦स्वसा᳚रः | |
पि॒पी॒ळे, अं॒शुर्मद्यो॒ न सिन्धु॒रा त्वा॒ शमी᳚ शशमा॒नस्य॑ श॒क्तिः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अ॒स्म॒द्र्य॑क् छुशुचा॒नस्य॑ यम्या, आ॒शुर्न र॒श्मिं तु॒व्योज॑सं॒ गोः ||{8/11}{3.6.8.3}{4.22.8}{4.3.1.8}{795, 318, 3312} पि॒पी॒ळे¦अं॒शुः¦मद्यः॑¦न¦सिन्धुः॑¦आ¦त्वा॒¦शमी᳚¦श॒श॒मा॒नस्य॑¦श॒क्तिः | |
अ॒स्मे वर्षि॑ष्ठा कृणुहि॒ ज्येष्ठा᳚ नृ॒म्णानि॑ स॒त्रा स॑हुरे॒ सहां᳚सि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अ॒स्मभ्यं᳚ वृ॒त्रा सु॒हना᳚नि रन्धि ज॒हि वध᳚र्व॒नुषो॒ मर्त्य॑स्य ||{9/11}{3.6.8.4}{4.22.9}{4.3.1.9}{796, 318, 3313} अ॒स्मे इति॑¦वर्षि॑ष्ठा¦कृ॒णु॒हि॒¦ज्येष्ठा᳚¦नृ॒म्णानि॑¦स॒त्रा¦स॒हु॒रे॒¦सहां᳚सि | |
अ॒स्माक॒मित् सु शृ॑णुहि॒ त्वमि᳚न्द्रा॒ऽस्मभ्यं᳚ चि॒त्राँ, उप॑ माहि॒ वाजा॑न् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अ॒स्मभ्यं॒ विश्वा᳚, इषणः॒ पुरं᳚धीर॒स्माकं॒ सु म॑घवन् बोधि गो॒दाः ||{10/11}{3.6.8.5}{4.22.10}{4.3.1.10}{797, 318, 3314} अ॒स्माक᳚म्¦इत्¦सु¦शृ॒णु॒हि॒¦त्वम्¦इ॒न्द्र॒¦अ॒स्मभ्य᳚म्¦चि॒त्रान्¦उप॑¦मा॒हि॒¦वाजा॑न् | |
नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{11/11}{3.6.8.6}{4.22.11}{4.3.1.11}{798, 318, 3315} नु¦स्तु॒तः¦इ॒न्द्र॒¦नु¦गृ॒णा॒नः¦इष᳚म्¦ज॒रि॒त्रे¦न॒द्यः॑¦न¦पी॒पे॒रिति॑ पीपेः | |
[79] कथामहामित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् ( अंत्यानांतिसृणांऋतंदेवतावा ) | |
क॒था म॒हाम॑वृध॒त् कस्य॒ होतु᳚र्य॒ज्ञं जु॑षा॒णो, अ॒भि सोम॒मूधः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} पिब᳚न्नुशा॒नो जु॒षमा᳚णो॒, अन्धो᳚ वव॒क्ष ऋ॒ष्वः शु॑च॒ते धना᳚य ||{1/11}{3.6.9.1}{4.23.1}{4.3.2.1}{799, 319, 3316} क॒था¦म॒हाम्¦अ॒वृ॒ध॒त्¦कस्य॑¦होतुः॑¦य॒ज्ञम्¦जु॒षा॒णः¦अ॒भि¦सोम᳚म्¦ऊधः॑ | |
को, अ॑स्य वी॒रः स॑ध॒माद॑माप॒ समा᳚नंश सुम॒तिभिः॒ को, अ॑स्य |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} कद॑स्य चि॒त्रं चि॑किते॒ कदू॒ती वृ॒धे भु॑वच्छशमा॒नस्य॒ यज्योः᳚ ||{2/11}{3.6.9.2}{4.23.2}{4.3.2.2}{800, 319, 3317} कः¦अ॒स्य॒¦वी॒रः¦स॒ध॒ऽमाद᳚म्¦आ॒प॒¦सम्¦आ॒नं॒श॒¦सु॒म॒तिऽभिः॑¦कः¦अ॒स्य॒ | |
क॒था शृ॑णोति हू॒यमा᳚न॒मिन्द्रः॑ क॒था शृ॒ण्वन्नव॑सामस्य वेद |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} का, अ॑स्य पू॒र्वीरुप॑मातयो ह क॒थैन॑माहुः॒ पपु॑रिं जरि॒त्रे ||{3/11}{3.6.9.3}{4.23.3}{4.3.2.3}{801, 319, 3318} क॒था¦शृ॒णो॒ति॒¦हू॒यमा᳚नम्¦इन्द्रः॑¦क॒था¦शृ॒ण्वन्¦अव॑साम्¦अ॒स्य॒¦वे॒द॒ | |
क॒था स॒बाधः॑ शशमा॒नो, अ॑स्य॒ नश॑द॒भि द्रवि॑णं॒ दीध्या᳚नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} दे॒वो भु॑व॒न्नवे᳚दा म ऋ॒तानां॒ नमो᳚ जगृ॒भ्वाँ, अ॒भि यज्जुजो᳚षत् ||{4/11}{3.6.9.4}{4.23.4}{4.3.2.4}{802, 319, 3319} क॒था¦स॒ऽबाधः॑¦श॒श॒मा॒नः¦अ॒स्य॒¦नश॑त्¦अ॒भि¦द्रवि॑णम्¦दीध्या᳚नः | |
क॒था कद॒स्या, उ॒षसो॒ व्यु॑ष्टौ दे॒वो मर्त॑स्य स॒ख्यं जु॑जोष |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} क॒था कद॑स्य स॒ख्यं सखि॑भ्यो॒ ये, अ॑स्मि॒न् कामं᳚ सु॒युजं᳚ तत॒स्रे ||{5/11}{3.6.9.5}{4.23.5}{4.3.2.5}{803, 319, 3320} क॒था¦कत्¦अ॒स्याः¦उ॒षसः॑¦वि।औ᳚ष्टौ¦दे॒वः¦मर्त॑स्य¦स॒ख्यम्¦जु॒जो॒ष॒ | |
किमादम॑त्रं स॒ख्यं सखि॑भ्यः क॒दा नु ते᳚ भ्रा॒त्रं प्र ब्र॑वाम |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} श्रि॒ये सु॒दृशो॒ वपु॑रस्य॒ सर्गाः॒ स्व१॑(अ॒)र्ण चि॒त्रत॑ममिष॒ आ गोः ||{6/11}{3.6.10.1}{4.23.6}{4.3.2.6}{804, 319, 3321} किम्¦आत्¦अम॑त्रम्¦स॒ख्यम्¦सखि॑ऽभ्यः¦क॒दा¦नु¦ते॒¦भ्रा॒त्रम्¦प्र¦ब्र॒वा॒म॒ | |
द्रुहं॒ जिघां᳚सन् ध्व॒रस॑मनि॒न्द्रां तेति॑क्ते ति॒ग्मा तु॒जसे॒, अनी᳚का |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ऋ॒णा चि॒द्यत्र॑ ऋण॒या न॑ उ॒ग्रो दू॒रे, अज्ञा᳚ता, उ॒षसो᳚ बबा॒धे ||{7/11}{3.6.10.2}{4.23.7}{4.3.2.7}{805, 319, 3322} द्रुह᳚म्¦जिघां᳚सन्¦ध्व॒रस᳚म्¦अ॒नि॒न्द्राम्¦तेति॑क्ते¦ति॒ग्मा¦तु॒जसे᳚¦अनी᳚का | |
ऋ॒तस्य॒ हि शु॒रुधः॒ सन्ति॑ पू॒र्वीरृ॒तस्य॑ धी॒तिर्वृ॑जि॒नानि॑ हन्ति |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ऋ॒तस्य॒ श्लोको᳚ बधि॒रा त॑तर्द॒ कर्णा᳚ बुधा॒नः शु॒चमा᳚न आ॒योः ||{8/11}{3.6.10.3}{4.23.8}{4.3.2.8}{806, 319, 3323} ऋ॒तस्य॑¦हि¦शु॒रुधः॑¦सन्ति॑¦पू॒र्वीः¦ऋ॒तस्य॑¦धी॒तिः¦वृ॒जि॒नानि॑¦ह॒न्ति॒ | |
ऋ॒तस्य॑ दृ॒ळ्हा ध॒रुणा᳚नि सन्ति पु॒रूणि॑ च॒न्द्रा वपु॑षे॒ वपूं᳚षि |{गौतमो वामदेवः | इन्द्रऱ्ऱितदेवता वा | त्रिष्टुप्} ऋ॒तेन॑ दी॒र्घमि॑षणन्त॒ पृक्ष॑ ऋ॒तेन॒ गाव॑ ऋ॒तमा वि॑वेशुः ||{9/11}{3.6.10.4}{4.23.9}{4.3.2.9}{807, 319, 3324} ऋ॒तस्य॑¦दृ॒ळ्हा¦ध॒रुणा᳚नि¦स॒न्ति॒¦पु॒रूणि॑¦च॒न्द्रा¦वपु॑षे¦वपूं᳚षि | |
ऋ॒तं ये᳚मा॒न ऋ॒तमिद् व॑नोत्यृ॒तस्य॒ शुष्म॑स्तुर॒या, उ॑ ग॒व्युः |{गौतमो वामदेवः | इन्द्रऱ्ऱितदेवता वा | त्रिष्टुप्} ऋ॒ताय॑ पृ॒थ्वी ब॑हु॒ले ग॑भी॒रे, ऋ॒ताय॑ धे॒नू प॑र॒मे दु॑हाते ||{10/11}{3.6.10.5}{4.23.10}{4.3.2.10}{808, 319, 3325} ऋ॒तम्¦ये॒मा॒नः¦ऋ॒तम्¦इत्¦व॒नो॒ति॒¦ऋ॒तस्य॑¦शुष्मः॑¦तु॒र॒ऽयाः¦ऊँ॒ इति॑¦ग॒व्युः | |
नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |{गौतमो वामदेवः | इन्द्रऱ्ऱितदेवता वा | त्रिष्टुप्} अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{11/11}{3.6.10.6}{4.23.11}{4.3.2.11}{809, 319, 3326} नु¦स्तु॒तः¦इ॒न्द्र॒¦नु¦गृ॒णा॒नः¦इष᳚म्¦ज॒रि॒त्रे¦न॒द्यः॑¦न¦पी॒पे॒रिति॑ पीपेः | |
[80] कासुष्टुतिरित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् | |
का सु॑ष्टु॒तिः शव॑सः सू॒नुमिन्द्र॑मर्वाची॒नं राध॑स॒ आ व॑वर्तत् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} द॒दिर्हि वी॒रो गृ॑ण॒ते वसू᳚नि॒ स गोप॑तिर्नि॒ष्षिधां᳚ नो जनासः ||{1/11}{3.6.11.1}{4.24.1}{4.3.3.1}{810, 320, 3327} का¦सु॒ऽस्तु॒तिः¦शव॑सः¦सू॒नुम्¦इन्द्र᳚म्¦अ॒र्वा॒ची॒नम्¦राध॑से¦आ¦व॒व॒र्त॒त् | |
स वृ॑त्र॒हत्ये॒ हव्यः॒ स ईड्यः॒ स सुष्टु॑त॒ इन्द्रः॑ स॒त्यरा᳚धाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स याम॒न्ना म॒घवा॒ मर्त्या᳚य ब्रह्मण्य॒ते सुष्व॑ये॒ वरि॑वो धात् ||{2/11}{3.6.11.2}{4.24.2}{4.3.3.2}{811, 320, 3328} सः¦वृ॒त्र॒ऽहत्ये᳚¦हव्यः॑¦सः¦ईड्यः॑¦सः¦सुऽस्तु॑तः¦इन्द्रः॑¦स॒त्यऽरा᳚धाः | |
तमिन्नरो॒ वि ह्व॑यन्ते समी॒के रि॑रि॒क्वांस॑स्त॒न्वः॑ कृण्वत॒ त्राम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} मि॒थो यत् त्या॒गमु॒भया᳚सो॒, अग्म॒न् नर॑स्तो॒कस्य॒ तन॑यस्य सा॒तौ ||{3/11}{3.6.11.3}{4.24.3}{4.3.3.3}{812, 320, 3329} तम्¦इत्¦नरः॑¦वि¦ह्व॒य॒न्ते॒¦स॒म्ऽई॒के¦रि॒रि॒क्वांसः॑¦त॒न्वः॑¦कृ॒ण्व॒त॒¦त्राम् | |
क्र॒तू॒यन्ति॑ क्षि॒तयो॒ योग॑ उग्राऽऽशुषा॒णासो᳚ मि॒थो, अर्ण॑सातौ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} सं यद्विशोऽव॑वृत्रन्त यु॒ध्मा, आदिन्नेम॑ इन्द्रयन्ते, अ॒भीके᳚ ||{4/11}{3.6.11.4}{4.24.4}{4.3.3.4}{813, 320, 3330} क्र॒तु॒ऽयन्ति॑¦क्षि॒तयः॑¦योगे᳚¦उ॒ग्र॒¦आ॒शु॒षा॒णासः॑¦मि॒थः¦अर्ण॑ऽसातौ | |
आदिद्ध॒ नेम॑ इन्द्रि॒यं य॑जन्त॒ आदित् प॒क्तिः पु॑रो॒ळाशं᳚ रिरिच्यात् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} आदित्सोमो॒ वि प॑पृच्या॒दसु॑ष्वी॒नादिज्जु॑जोष वृष॒भं यज॑ध्यै ||{5/11}{3.6.11.5}{4.24.5}{4.3.3.5}{814, 320, 3331} आत्¦इत्¦ह॒¦नेमे᳚¦इ॒न्द्रि॒यम्¦य॒ज॒न्ते॒¦आत्¦इत्¦प॒क्तिः¦पु॒रो॒ळाश᳚म्¦रि॒रि॒च्या॒त् | |
कृ॒णोत्य॑स्मै॒ वरि॑वो॒ य इ॒त्थेन्द्रा᳚य॒ सोम॑मुश॒ते सु॒नोति॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स॒ध्री॒चीने᳚न॒ मन॒सावि॑वेन॒न् तमित्सखा᳚यं कृणुते स॒मत्सु॑ ||{6/11}{3.6.12.1}{4.24.6}{4.3.3.6}{815, 320, 3332} कृ॒णोति॑¦अ॒स्मै॒¦वरि॑वः¦यः¦इ॒त्था¦इन्द्रा᳚य¦सोम᳚म्¦उ॒श॒ते¦सु॒नोति॑ | |
य इन्द्रा᳚य सु॒नव॒त् सोम॑म॒द्य पचा᳚त् प॒क्तीरु॒त भृ॒ज्जाति॑ धा॒नाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} प्रति॑ मना॒योरु॒चथा᳚नि॒ हर्य॒न् तस्मि᳚न् दध॒द् वृष॑णं॒ शुष्म॒मिन्द्रः॑ ||{7/11}{3.6.12.2}{4.24.7}{4.3.3.7}{816, 320, 3333} यः¦इन्द्रा᳚य¦सु॒नव॑त्¦सोम᳚म्¦अ॒द्य¦पचा᳚त्¦प॒क्तीः¦उ॒त¦भृ॒ज्जाति॑¦धा॒नाः | |
य॒दा स॑म॒र्यं व्यचे॒दृघा᳚वा दी॒र्घं यदा॒जिम॒भ्यख्य॑द॒र्यः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अचि॑क्रद॒द् वृष॑णं॒ पत्न्यच्छा᳚ दुरो॒ण आ निशि॑तं सोम॒सुद्भिः॑ ||{8/11}{3.6.12.3}{4.24.8}{4.3.3.8}{817, 320, 3334} य॒दा¦स॒ऽम॒र्यम्¦वि¦अचे᳚त्¦ऋघा᳚वा¦दी॒र्घम्¦यत्¦आ॒जिम्¦अ॒भि¦अख्य॑त्¦अ॒र्यः | |
भूय॑सा व॒स्नम॑चर॒त् कनी॒योऽवि॑क्रीतो, अकानिषं॒ पुन॒र्यन् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स भूय॑सा॒ कनी᳚यो॒ नारि॑रेचीद् दी॒ना दक्षा॒ वि दु॑हन्ति॒ प्र वा॒णम् ||{9/11}{3.6.12.4}{4.24.9}{4.3.3.9}{818, 320, 3335} भूय॑सा¦व॒स्नम्¦अ॒च॒र॒त्¦क॒नी॒यः¦अवि॑ऽक्रीतः¦अ॒का॒नि॒ष॒म्¦पुनः॑¦यन् | |
क इ॒मं द॒शभि॒र्ममेन्द्रं᳚ क्रीणाति धे॒नुभिः॑ |{गौतमो वामदेवः | इन्द्रः | अनुष्टुप्} य॒दा वृ॒त्राणि॒ जङ्घ॑न॒दथै᳚नं मे॒ पुन॑र्ददत् ||{10/11}{3.6.12.5}{4.24.10}{4.3.3.10}{819, 320, 3336} कः¦इ॒मम्¦द॒शऽभिः॑¦मम॑¦इन्द्र᳚म्¦क्री॒णा॒ति॒¦धे॒नुऽभिः॑ | य॒दा¦वृ॒त्राणि॑¦जङ्घ॑नत्¦अथ॑¦ए॒न॒म्¦मे॒¦पुनः॑¦द॒द॒त् || |
नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{11/11}{3.6.12.6}{4.24.11}{4.3.3.11}{820, 320, 3337} नु¦स्तु॒तः¦इ॒न्द्र॒¦नु¦गृ॒णा॒नः¦इष᳚म्¦ज॒रि॒त्रे¦न॒द्यः॑¦न¦पी॒पे॒रिति॑ पीपेः | |
[81] कोअद्येत्यष्टर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् | |
को, अ॒द्य नर्यो᳚ दे॒वका᳚म उ॒शन्निन्द्र॑स्य स॒ख्यं जु॑जोष |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} को वा᳚ म॒हेऽव॑से॒ पार्या᳚य॒ समि॑द्धे, अ॒ग्नौ सु॒तसो᳚म ईट्टे ||{1/8}{3.6.13.1}{4.25.1}{4.3.4.1}{821, 321, 3338} कः¦अ॒द्य¦नर्यः॑¦दे॒वऽका᳚मः¦उ॒शन्¦इन्द्र॑स्य¦स॒ख्यम्¦जु॒जो॒ष॒ | |
को ना᳚नाम॒ वच॑सा सो॒म्याय॑ मना॒युर्वा᳚ भवति॒ वस्त॑ उ॒स्राः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} क इन्द्र॑स्य॒ युज्यं॒ कः स॑खि॒त्वं को भ्रा॒त्रं व॑ष्टि क॒वये॒ क ऊ॒ती ||{2/8}{3.6.13.2}{4.25.2}{4.3.4.2}{822, 321, 3339} कः¦न॒ना॒म॒¦वच॑सा¦सो॒म्याय॑¦म॒ना॒युः¦वा॒¦भ॒व॒ति॒¦वस्ते᳚¦उ॒स्राः | |
को दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीते॒ क आ᳚दि॒त्याँ, अदि॑तिं॒ ज्योति॑रीट्टे |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} कस्या॒श्विना॒विन्द्रो᳚, अ॒ग्निः सु॒तस्यां॒ऽशोः पि॑बन्ति॒ मन॒सावि॑वेनम् ||{3/8}{3.6.13.3}{4.25.3}{4.3.4.3}{823, 321, 3340} कः¦दे॒वाना᳚म्¦अवः॑¦अ॒द्य¦वृ॒णी॒ते॒¦कः¦आ॒दि॒त्यान्¦अदि॑तिम्¦ज्योतिः॑¦ई॒ट्टे॒ | |
तस्मा᳚, अ॒ग्निर्भार॑तः॒ शर्म॑ यंस॒ज्ज्योक् प॑श्या॒त् सूर्य॑मु॒च्चर᳚न्तम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} य इन्द्रा᳚य सु॒नवा॒मेत्याह॒ नरे॒ नर्या᳚य॒ नृत॑माय नृ॒णाम् ||{4/8}{3.6.13.4}{4.25.4}{4.3.4.4}{824, 321, 3341} तस्मै᳚¦अ॒ग्निः¦भार॑तः¦शर्म॑¦यं॒स॒त्¦ज्योक्¦प॒श्या॒त्¦सूर्य᳚म्¦उ॒त्ऽचर᳚न्तम् | |
न तं जि॑नन्ति ब॒हवो॒ न द॒भ्रा, उ॒र्व॑स्मा॒, अदि॑तिः॒ शर्म॑ यंसत् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} प्रि॒यः सु॒कृत् प्रि॒य इन्द्रे᳚ मना॒युः प्रि॒यः सु॑प्रा॒वीः प्रि॒यो, अ॑स्य सो॒मी ||{5/8}{3.6.13.5}{4.25.5}{4.3.4.5}{825, 321, 3342} न¦तम्¦जि॒न॒न्ति॒¦ब॒हवः॑¦न¦द॒भ्राः¦उ॒रु¦अ॒स्मै॒¦अदि॑तिः¦शर्म॑¦यं॒स॒त् | |
सु॒प्रा॒व्यः॑ प्राशु॒षाळे॒ष वी॒रः सुष्वेः᳚ प॒क्तिं कृ॑णुते॒ केव॒लेन्द्रः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} नासु॑ष्वेरा॒पिर्न सखा॒ न जा॒मिर्दु॑ष्प्रा॒व्यो᳚ऽवह॒न्तेदवा᳚चः ||{6/8}{3.6.14.1}{4.25.6}{4.3.4.6}{826, 321, 3343} सु॒प्र॒।आ॒व्यः॑¦प्रा॒शु॒षाट्¦ए॒षः¦वी॒रः¦सुस्वेः᳚¦प॒क्तिम्¦कृ॒णु॒ते॒¦केव॑ला¦इन्द्रः॑ | |
न रे॒वता᳚ प॒णिना᳚ स॒ख्यमिन्द्रोऽसु᳚न्वता सुत॒पाः सं गृ॑णीते |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} आस्य॒ वेदः॑ खि॒दति॒ हन्ति॑ न॒ग्नं वि सुष्व॑ये प॒क्तये॒ केव॑लो भूत् ||{7/8}{3.6.14.2}{4.25.7}{4.3.4.7}{827, 321, 3344} न¦रे॒वता᳚¦प॒णिना᳚¦स॒ख्यम्¦इन्द्रः॑¦असु᳚न्वता¦सु॒त॒ऽपाः¦सम्¦गृ॒णी॒ते॒ | |
इन्द्रं॒ परेऽव॑रे मध्य॒मास॒ इन्द्रं॒ यान्तोऽव॑सितास॒ इन्द्र᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} इन्द्रं᳚ क्षि॒यन्त॑ उ॒त युध्य॑माना॒, इन्द्रं॒ नरो᳚ वाज॒यन्तो᳚ हवन्ते ||{8/8}{3.6.14.3}{4.25.8}{4.3.4.8}{828, 321, 3345} इन्द्र᳚म्¦परे᳚¦अव॑रे¦म॒ध्य॒मासः॑¦इन्द्र᳚म्¦यान्तः॑¦अव॑ऽसितासः¦इन्द्र᳚म् | |
[82] अहंमनुरिति सप्तर्चस्य सूक्तस्य गौतमोवामदेवःआद्यानांतिसृणामात्मा देवता अंत्यानांचतसृणांश्येनस्त्रिष्टुप् (आद्यतृचेवामदेवेंद्रयोरृषित्वविकल्पमाहुः केचित्) | |
अ॒हं मनु॑रभवं॒ सूर्य॑श्चा॒ऽहं क॒क्षीवाँ॒, ऋषि॑रस्मि॒ विप्रः॑ |{गौतमो वामदेवः, इन्द्रः | इन्द्रः, आत्माः | त्रिष्टुप्} अ॒हं कुत्स॑मार्जुने॒यं न्यृ᳚ञ्जे॒ऽहं क॒विरु॒शना॒ पश्य॑ता मा ||{1/7}{3.6.15.1}{4.26.1}{4.3.5.1}{829, 322, 3346} अ॒हम्¦मनुः॑¦अ॒भ॒व॒म्¦सूर्यः॑¦च॒¦अ॒हम्¦क॒क्षीवा᳚न्¦ऋषिः॑¦अ॒स्मि॒¦विप्रः॑ | |
अ॒हं भूमि॑मददा॒मार्या᳚या॒ऽहं वृ॒ष्टिं दा॒शुषे॒ मर्त्या᳚य |{गौतमो वामदेवः, इन्द्रः | इन्द्रः, आत्माः | त्रिष्टुप्} अ॒हम॒पो, अ॑नयं वावशा॒ना मम॑ दे॒वासो॒, अनु॒ केत॑मायन् ||{2/7}{3.6.15.2}{4.26.2}{4.3.5.2}{830, 322, 3347} अ॒हम्¦भूमि᳚म्¦अ॒द॒दा॒म्¦आर्या᳚य¦अ॒हम्¦वृ॒ष्टिम्¦दा॒शुषे᳚¦मर्त्या᳚य | |
अ॒हं पुरो᳚ मन्दसा॒नो व्यै᳚रं॒ नव॑ सा॒कं न॑व॒तीः शम्ब॑रस्य |{गौतमो वामदेवः, इन्द्रः | इन्द्रः, आत्माः | त्रिष्टुप्} श॒त॒त॒मं वे॒श्यं᳚ स॒र्वता᳚ता॒ दिवो᳚दासमतिथि॒ग्वं यदाव᳚म् ||{3/7}{3.6.15.3}{4.26.3}{4.3.5.3}{831, 322, 3348} अ॒हम्¦पुरः॑¦म॒न्द॒सा॒नः¦वि¦ऐ॒र॒म्¦नव॑¦सा॒कम्¦न॒व॒तीः¦शम्ब॑रस्य | |
प्र सु ष विभ्यो᳚ मरुतो॒ विर॑स्तु॒ प्र श्ये॒नः श्ये॒नेभ्य॑ आशु॒पत्वा᳚ |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्} अ॒च॒क्रया॒ यत् स्व॒धया᳚ सुप॒र्णो ह॒व्यं भर॒न्मन॑वे दे॒वजु॑ष्टम् ||{4/7}{3.6.15.4}{4.26.4}{4.3.5.4}{832, 322, 3349} प्र¦सु¦सः¦विऽभ्यः॑¦म॒रु॒तः॒¦विः¦अ॒स्तु॒¦प्र¦श्ये॒नः¦श्ये॒नेभ्यः॑¦आ॒शु॒ऽपत्वा᳚ | |
भर॒द्यदि॒ विरतो॒ वेवि॑जानः प॒थोरुणा॒ मनो᳚जवा, असर्जि |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्} तूयं᳚ ययौ॒ मधु॑ना सो॒म्येनो॒त श्रवो᳚ विविदे श्ये॒नो, अत्र॑ ||{5/7}{3.6.15.5}{4.26.5}{4.3.5.5}{833, 322, 3350} भर॑त्¦यदि॑¦विः¦अतः॑¦वेवि॑जानः¦प॒था¦उ॒रुणा᳚¦मनः॑ऽजवाः¦अ॒स॒र्जि॒ | |
ऋ॒जी॒पी श्ये॒नो दद॑मानो, अं॒शुं प॑रा॒वतः॑ शकु॒नो म॒न्द्रं मद᳚म् |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्} सोमं᳚ भरद् दादृहा॒णो दे॒वावा᳚न् दि॒वो, अ॒मुष्मा॒दुत्त॑रादा॒दाय॑ ||{6/7}{3.6.15.6}{4.26.6}{4.3.5.6}{834, 322, 3351} ऋ॒जी॒पी¦श्ये॒नः¦दद॑मानः¦अं॒शुम्¦प॒रा॒ऽवतः॑¦श॒कु॒नः¦म॒न्द्रम्¦मद᳚म् | |
आ॒दाय॑ श्ये॒नो, अ॑भर॒त् सोमं᳚ स॒हस्रं᳚ स॒वाँ, अ॒युतं᳚ च सा॒कम् |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्} अत्रा॒ पुरं᳚धिरजहा॒दरा᳚ती॒र्मदे॒ सोम॑स्य मू॒रा, अमू᳚रः ||{7/7}{3.6.15.7}{4.26.7}{4.3.5.7}{835, 322, 3352} आ॒ऽदाय॑¦श्ये॒नः¦अ॒भ॒र॒त्¦सोम᳚म्¦स॒हस्र᳚म्¦स॒वान्¦अ॒युत᳚म्¦च॒¦सा॒कम् | |
[83] गर्भेन्विति पंचर्चस्य सूक्तस्य गौतमोवामदेवः श्येनस्त्रिष्टुबन्त्याशक्वरी (परानवाष्टौवेत्यनुक्रमण्या मुक्तेरधश्वेतमित्यस्यां पाक्षिकींद्रदेवता यदिश्येनदेवतायाअष्टर्चत्वंस्वीकृतंचेत्) | |
गर्भे॒ नु सन्नन्वे᳚षामवेदम॒हं दे॒वानां॒ जनि॑मानि॒ विश्वा᳚ |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्} श॒तं मा॒ पुर॒ आय॑सीररक्ष॒न्नध॑ श्ये॒नो ज॒वसा॒ निर॑दीयम् ||{1/5}{3.6.16.1}{4.27.1}{4.3.6.1}{836, 323, 3353} गर्भे᳚¦नु¦सन्¦अनु॑¦ए॒षा॒म्¦अ॒वे॒द॒म्¦अ॒हम्¦दे॒वाना᳚म्¦जनि॑मानि¦विश्वा᳚ | |
न घा॒ स मामप॒ जोषं᳚ जभारा॒ऽभीमा᳚स॒ त्वक्ष॑सा वी॒र्ये᳚ण |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्} ई॒र्मा पुरं᳚धिरजहा॒दरा᳚तीरु॒त वाताँ᳚, अतर॒च्छूशु॑वानः ||{2/5}{3.6.16.2}{4.27.2}{4.3.6.2}{837, 323, 3354} न¦घ॒¦सः¦माम्¦अप॑¦जोष᳚म्¦ज॒भा॒र॒¦अ॒भि¦ई॒म्¦आ॒स॒¦त्वक्ष॑सा¦वी॒र्ये᳚ण | |
अव॒ यच्छ्ये॒नो, अस्व॑नी॒दध॒ द्योर्वि यद्यदि॒ वात॑ ऊ॒हुः पुरं᳚धिम् |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्} सृ॒जद्यद॑स्मा॒, अव॑ ह क्षि॒पज्ज्यां कृ॒शानु॒रस्ता॒ मन॑सा भुर॒ण्यन् ||{3/5}{3.6.16.3}{4.27.3}{4.3.6.3}{838, 323, 3355} अव॑¦यत्¦श्ये॒नः¦अस्व॑नीत्¦अध॑¦द्योः¦वि¦यत्¦यदि॑¦वा॒¦अतः॑¦ऊ॒हुः¦पुर᳚म्ऽधिम् | |
ऋ॒जि॒प्य ई॒मिन्द्रा᳚वतो॒ न भु॒ज्युं श्ये॒नो ज॑भार बृह॒तो, अधि॒ ष्णोः |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्} अ॒न्तः प॑तत् पत॒त्र्य॑स्य प॒र्णमध॒ याम॑नि॒ प्रसि॑तस्य॒ तद्वेः ||{4/5}{3.6.16.4}{4.27.4}{4.3.6.4}{839, 323, 3356} ऋ॒जि॒प्यः¦ई॒म्¦इन्द्र॑ऽवतः¦न¦भु॒ज्युम्¦श्ये॒नः¦ज॒भा॒र॒¦बृ॒ह॒तः¦अधि॑¦स्नोः | |
अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तमा᳚पिप्या॒नं म॒घवा᳚ शु॒क्रमन्धः॑ |{गौतमो वामदेवः | श्येनः, इन्द्रः | शक्वरी} अ॒ध्व॒र्युभिः॒ प्रय॑तं॒ मध्वो॒, अग्र॒मिन्द्रो॒ मदा᳚य॒ प्रति॑ ध॒त् पिब॑ध्यै॒ शूरो॒ मदा᳚य॒ प्रति॑ ध॒त् पिब॑ध्यै ||{5/5}{3.6.16.5}{4.27.5}{4.3.6.5}{840, 323, 3357} अध॑¦श्वे॒तम्¦क॒लश᳚म्¦गोभिः॑¦अ॒क्तम्¦आ॒ऽपि॒प्या॒नम्¦म॒घऽवा᳚¦शु॒क्रम्¦अन्धः॑ | |
[84] त्वायुजेति पंचर्चस्य सूक्तस्य गौतमोवामदेव इंद्रत्रिष्टुप् (इंद्रासोमौवा देवते) | |
त्वा यु॒जा तव॒ तत् सो᳚म स॒ख्य इन्द्रो᳚, अ॒पो मन॑वे स॒स्रुत॑स्कः |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्} अह॒न्नहि॒मरि॑णात् स॒प्त सिन्धू॒नपा᳚वृणो॒दपि॑हितेव॒ खानि॑ ||{1/5}{3.6.17.1}{4.28.1}{4.3.7.1}{841, 324, 3358} त्वा¦यु॒जा¦तव॑¦तत्¦सो॒म॒¦स॒ख्ये¦इन्द्रः॑¦अ॒पः¦मन॑वे¦स॒ऽस्रुतः॑¦क॒रिति॑ कः | |
त्वा यु॒जा नि खि॑द॒त् सूर्य॒स्येन्द्र॑श्च॒क्रं सह॑सा स॒द्य इ᳚न्दो |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्} अधि॒ ष्णुना᳚ बृह॒ता वर्त॑मानं म॒हो द्रु॒हो, अप॑ वि॒श्वायु॑ धायि ||{2/5}{3.6.17.2}{4.28.2}{4.3.7.2}{842, 324, 3359} त्वा¦यु॒जा¦नि¦खि॒द॒त्¦सूर्य॑स्य¦इन्द्रः॑¦च॒क्रम्¦सह॑सा¦स॒द्यः¦इ॒न्दो॒ इति॑ | |
अह॒न्निन्द्रो॒, अद॑हद॒ग्निरि᳚न्दो पु॒रा दस्यू᳚न् म॒ध्यंदि॑नाद॒भीके᳚ |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्} दु॒र्गे दु॑रो॒णे क्रत्वा॒ न या॒तां पु॒रू स॒हस्रा॒ शर्वा॒ नि ब᳚र्हीत् ||{3/5}{3.6.17.3}{4.28.3}{4.3.7.3}{843, 324, 3360} अह॑न्¦इन्द्रः॑¦अद॑हत्¦अ॒ग्निः¦इ॒न्दो॒ इति॑¦पु॒रा¦दस्यू᳚न्¦म॒ध्यंदि॑नात्¦अ॒भीके᳚ | |
विश्व॑स्मात् सीमध॒माँ, इ᳚न्द्र॒ दस्यू॒न् विशो॒ दासी᳚रकृणोरप्रश॒स्ताः |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्} अबा᳚धेथा॒ममृ॑णतं॒ नि शत्रू॒नवि᳚न्देथा॒मप॑चितिं॒ वध॑त्रैः ||{4/5}{3.6.17.4}{4.28.4}{4.3.7.4}{844, 324, 3361} विश्व॑स्मात्¦सी॒म्¦अ॒ध॒मान्¦इ॒न्द्र॒¦दस्यू᳚न्¦विशः॑¦दासीः᳚¦अ॒कृ॒णोः॒¦अ॒प्र॒ऽश॒स्ताः | |
ए॒वा स॒त्यं म॑घवाना यु॒वं तदिन्द्र॑श्च सोमो॒र्वमश्व्यं॒ गोः |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्} आद॑र्दृत॒मपि॑हिता॒न्यश्ना᳚ रिरि॒चथुः॒, क्षाश्चि॑त् ततृदा॒ना ||{5/5}{3.6.17.5}{4.28.5}{4.3.7.5}{845, 324, 3362} ए॒व¦स॒त्यम्¦म॒घ॒ऽवा॒ना॒¦यु॒वम्¦तत्¦इन्द्रः॑¦च॒¦सो॒म॒¦ऊ॒र्वम्¦अश्व्य᳚म्¦गोः | |
[85] आनःस्तुतइति पंचर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् | |
आ नः॑ स्तु॒त उप॒ वाजे᳚भिरू॒ती, इन्द्र॑ या॒हि हरि॑भिर्मन्दसा॒नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ति॒रश्चि॑द॒र्यः सव॑ना पु॒रूण्या᳚ङ्गू॒षेभि॑र्गृणा॒नः स॒त्यरा᳚धाः ||{1/5}{3.6.18.1}{4.29.1}{4.3.8.1}{846, 325, 3363} आ¦नः॒¦स्तु॒तः¦उप॑¦वाजे᳚भिः¦ऊ॒ती¦इन्द्र॑¦या॒हि¦हरि॑ऽभिः¦म॒न्द॒सा॒नः | |
आ हि ष्मा॒ याति॒ नर्य॑श्चिकि॒त्वान् हू॒यमा᳚नः सो॒तृभि॒रुप॑ य॒ज्ञम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स्वश्वो॒ यो, अभी᳚रु॒र्मन्य॑मानः सुष्वा॒णेभि॒र्मद॑ति॒ सं ह॑ वी॒रैः ||{2/5}{3.6.18.2}{4.29.2}{4.3.8.2}{847, 325, 3364} आ¦हि¦स्म॒¦याति॑¦नर्यः॑¦चि॒कि॒त्वान्¦हू॒यमा᳚नः¦सो॒तृऽभिः॑¦उप॑¦य॒ज्ञम् | |
श्रा॒वयेद॑स्य॒ कर्णा᳚ वाज॒यध्यै॒ जुष्टा॒मनु॒ प्र दिशं᳚ मन्द॒यध्यै᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} उ॒द्वा॒वृ॒षा॒णो राध॑से॒ तुवि॑ष्मा॒न् कर᳚न्न॒ इन्द्रः॑ सुती॒र्थाभ॑यं च ||{3/5}{3.6.18.3}{4.29.3}{4.3.8.3}{848, 325, 3365} श्र॒वय॑¦इत्¦अ॒स्य॒¦कर्णा᳚¦वा॒ज॒यध्यै᳚¦जुष्टा᳚म्¦अनु॑¦प्र¦दिश᳚म्¦म॒न्द॒यध्यै᳚ | |
अच्छा॒ यो गन्ता॒ नाध॑मानमू॒ती, इ॒त्था विप्रं॒ हव॑मानं गृ॒णन्त᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} उप॒ त्मनि॒ दधा᳚नो धु॒र्या॒३॑(आ॒)शून् त्स॒हस्रा᳚णि श॒तानि॒ वज्र॑बाहुः ||{4/5}{3.6.18.4}{4.29.4}{4.3.8.4}{849, 325, 3366} अच्छ॑¦यः¦गन्ता᳚¦नाध॑मानम्¦ऊ॒ती¦इ॒त्था¦विप्र᳚म्¦हव॑मानम्¦गृ॒णन्त᳚म् | |
त्वोता᳚सो मघवन्निन्द्र॒ विप्रा᳚ व॒यं ते᳚ स्याम सू॒रयो᳚ गृ॒णन्तः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} भे॒जा॒नासो᳚ बृ॒हद्दि॑वस्य रा॒य आ᳚का॒य्य॑स्य दा॒वने᳚ पुरु॒क्षोः ||{5/5}{3.6.18.5}{4.29.5}{4.3.8.5}{850, 325, 3367} त्वाऽऊ᳚तासः¦म॒घ॒ऽव॒न्¦इ॒न्द्र॒¦विप्राः᳚¦व॒यम्¦ते॒¦स्या॒म॒¦सू॒रयः॑¦गृ॒णन्तः॑ | |
[86] नकिरिंद्रेति चतुर्विंशत्यृचस्य सूक्तस्य गौतमोवामदेवइन्द्रः नवम्यादितिसृणामिंद्रोषसौगायत्री अष्टम्यंत्ये अनुष्टुभौ | |
नकि॑रिन्द्र॒ त्वदुत्त॑रो॒ न ज्यायाँ᳚, अस्ति वृत्रहन् |{गौतमो वामदेवः | इन्द्रः | गायत्री} नकि॑रे॒वा यथा॒ त्वम् ||{1/24}{3.6.19.1}{4.30.1}{4.3.9.1}{851, 326, 3368} नकिः॑¦इ॒न्द्र॒¦त्वत्¦उत्ऽत॑रः¦न¦ज्याया᳚न्¦अ॒स्ति॒¦वृ॒त्र॒ऽह॒न् | नकिः॑¦ए॒व¦यथा᳚¦त्वम् || |
स॒त्रा ते॒, अनु॑ कृ॒ष्टयो॒ विश्वा᳚ च॒क्रेव॑ वावृतुः |{गौतमो वामदेवः | इन्द्रः | गायत्री} स॒त्रा म॒हाँ, अ॑सि श्रु॒तः ||{2/24}{3.6.19.2}{4.30.2}{4.3.9.2}{852, 326, 3369} स॒त्रा¦ते॒¦अनु॑¦कृ॒ष्टयः॑¦विश्वा᳚¦च॒क्राऽइ᳚व¦व॒वृ॒तुः॒ | स॒त्रा¦म॒हान्¦अ॒सि॒¦श्रु॒तः || |
विश्वे᳚ च॒नेद॒ना त्वा᳚ दे॒वास॑ इन्द्र युयुधुः |{गौतमो वामदेवः | इन्द्रः | गायत्री} यदहा॒ नक्त॒माति॑रः ||{3/24}{3.6.19.3}{4.30.3}{4.3.9.3}{853, 326, 3370} विश्वे᳚¦च॒न¦इत्¦अ॒ना¦त्वा॒¦दे॒वासः॑¦इ॒न्द्र॒¦यु॒यु॒धुः॒ | यत्¦अहा᳚¦नक्त᳚म्¦आ¦अति॑रः || |
यत्रो॒त बा᳚धि॒तेभ्य॑श्च॒क्रं कुत्सा᳚य॒ युध्य॑ते |{गौतमो वामदेवः | इन्द्रः | गायत्री} मु॒षा॒य इ᳚न्द्र॒ सूर्य᳚म् ||{4/24}{3.6.19.4}{4.30.4}{4.3.9.4}{854, 326, 3371} यत्र॑¦उ॒त¦बा॒धि॒तेभ्यः॑¦च॒क्रम्¦कुत्सा᳚य¦युध्य॑ते | मु॒षा॒यः¦इ॒न्द्र॒¦सूर्य᳚म् || |
यत्र॑ दे॒वाँ, ऋ॑घाय॒तो विश्वाँ॒, अयु॑ध्य॒ एक॒ इत् |{गौतमो वामदेवः | इन्द्रः | गायत्री} त्वमि᳚न्द्र व॒नूँरह॑न् ||{5/24}{3.6.19.5}{4.30.5}{4.3.9.5}{855, 326, 3372} यत्र॑¦दे॒वान्¦ऋ॒घा॒य॒तः¦विश्वा᳚न्¦अयु॑ध्यः¦एकः॑¦इत् | त्वम्¦इ॒न्द्र॒¦व॒नून्¦अह॑न् || |
यत्रो॒त मर्त्या᳚य॒ कमरि॑णा, इन्द्र॒ सूर्य᳚म् |{गौतमो वामदेवः | इन्द्रः | गायत्री} प्रावः॒ शची᳚भि॒रेत॑शम् ||{6/24}{3.6.20.1}{4.30.6}{4.3.9.6}{856, 326, 3373} यत्र॑¦उ॒त¦मर्त्या᳚य¦कम्¦अरि॑णाः¦इ॒न्द्र॒¦सूर्य᳚म् | प्र¦आ॒वः॒¦शची᳚भिः¦एत॑शम् || |
किमादु॒तासि॑ वृत्रह॒न् मघ॑वन् मन्यु॒मत्त॑मः |{गौतमो वामदेवः | इन्द्रः | गायत्री} अत्राह॒ दानु॒माति॑रः ||{7/24}{3.6.20.2}{4.30.7}{4.3.9.7}{857, 326, 3374} किम्¦आत्¦उ॒त¦अ॒सि॒¦वृ॒त्र॒ऽह॒न्¦मघ॑ऽवन्¦म॒न्यु॒मत्ऽत॑मः | अत्र॑¦अह॑¦दानु᳚म्¦आ¦अ॒ति॒रः॒ || |
ए॒तद्घेदु॒त वी॒र्य१॑(अ॒)मिन्द्र॑ च॒कर्थ॒ पौंस्य᳚म् |{गौतमो वामदेवः | इन्द्रः | अनुष्टुप्} स्त्रियं॒ यद् दु᳚र्हणा॒युवं॒ वधी᳚र्दुहि॒तरं᳚ दि॒वः ||{8/24}{3.6.20.3}{4.30.8}{4.3.9.8}{858, 326, 3375} ए॒तत्¦घ॒¦इत्¦उ॒त¦वी॒र्य᳚म्¦इन्द्र॑¦च॒कर्थ॑¦पौंस्य᳚म् | स्त्रिय᳚म्¦यत्¦दुः॒ऽह॒ना॒युव᳚म्¦वधीः᳚¦दु॒हि॒तर᳚म्¦दि॒वः || |
दि॒वश्चि॑द्घा दुहि॒तरं᳚ म॒हान् म॑ही॒यमा᳚नाम् |{गौतमो वामदेवः | इंद्रोषसौ | गायत्री} उ॒षास॑मिन्द्र॒ सं पि॑णक् ||{9/24}{3.6.20.4}{4.30.9}{4.3.9.9}{859, 326, 3376} दि॒वः¦चि॒त्¦घ॒¦दु॒हि॒तर᳚म्¦म॒हान्¦म॒ही॒यमा᳚नाम् | उ॒षस᳚म्¦इ॒न्द्र॒¦सम्¦पि॒ण॒क् || |
अपो॒षा, अन॑सः सर॒त् सम्पि॑ष्टा॒दह॑ बि॒भ्युषी᳚ |{गौतमो वामदेवः | इंद्रोषसौ | गायत्री} नि यत्सीं᳚ शि॒श्नथ॒द् वृषा᳚ ||{10/24}{3.6.20.5}{4.30.10}{4.3.9.10}{860, 326, 3377} अप॑¦उ॒षाः¦अन॑सः¦सर॑त्¦सम्ऽपि॑ष्टात्¦अह॑¦बि॒भ्युषी᳚ | नि¦यत्¦सी॒म्¦शि॒श्नथ॑त्¦वृषा᳚ || |
ए॒तद॑स्या॒, अनः॑ शये॒ सुस᳚म्पिष्टं॒ विपा॒श्या |{गौतमो वामदेवः | इंद्रोषसौ | गायत्री} स॒सार॑ सीं परा॒वतः॑ ||{11/24}{3.6.21.1}{4.30.11}{4.3.9.11}{861, 326, 3378} ए॒तत्¦अ॒स्याः॒¦अनः॑¦श॒ये॒¦सुऽसं᳚पिष्टम्¦विऽपा᳚शि¦आ | स॒सार॑¦सी॒म्¦प॒रा॒ऽवतः॑ || |
उ॒त सिन्धुं᳚ विबा॒ल्यं᳚ वितस्था॒नामधि॒ क्षमि॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री} परि॑ ष्ठा, इन्द्र मा॒यया᳚ ||{12/24}{3.6.21.2}{4.30.12}{4.3.9.12}{862, 326, 3379} उ॒त¦सिन्धु᳚म्¦वि॒ऽबा॒ल्य᳚म्¦वि॒ऽत॒स्था॒नाम्¦अधि॑¦क्षमि॑ | परि॑¦स्थाः॒¦इ॒न्द्र॒¦मा॒यया᳚ || |
उ॒त शुष्ण॑स्य धृष्णु॒या प्र मृ॑क्षो, अ॒भि वेद॑नम् |{गौतमो वामदेवः | इन्द्रः | गायत्री} पुरो॒ यद॑स्य सम्पि॒णक् ||{13/24}{3.6.21.3}{4.30.13}{4.3.9.13}{863, 326, 3380} उ॒त¦शुष्ण॑स्य¦धृ॒ष्णु॒ऽया¦प्र¦मृ॒क्षः॒¦अ॒भि¦वेद॑नम् | पुरः॑¦यत्¦अ॒स्य॒¦स॒म्ऽपि॒णक् || |
उ॒त दा॒सं कौ᳚लित॒रं बृ॑ह॒तः पर्व॑ता॒दधि॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री} अवा᳚हन्निन्द्र॒ शम्ब॑रम् ||{14/24}{3.6.21.4}{4.30.14}{4.3.9.14}{864, 326, 3381} उ॒त¦दा॒सम्¦कौ॒लि॒ऽत॒रम्¦बृ॒ह॒तः¦पर्व॑तात्¦अधि॑ | अव॑¦अ॒ह॒न्¦इ॒न्द्र॒¦शम्ब॑रम् || |
उ॒त दा॒सस्य॑ व॒र्चिनः॑ स॒हस्रा᳚णि श॒ताव॑धीः |{गौतमो वामदेवः | इन्द्रः | गायत्री} अधि॒ पञ्च॑ प्र॒धीँरि॑व ||{15/24}{3.6.21.5}{4.30.15}{4.3.9.15}{865, 326, 3382} उ॒त¦दा॒सस्य॑¦व॒र्चिनः॑¦स॒हस्रा᳚णि¦श॒ता¦अ॒व॒धीः॒ | अधि॑¦पंच॑¦प्र॒धीन्ऽइ᳚व || |
उ॒त त्यं पु॒त्रम॒ग्रुवः॒ परा᳚वृक्तं श॒तक्र॑तुः |{गौतमो वामदेवः | इन्द्रः | गायत्री} उ॒क्थेष्विन्द्र॒ आभ॑जत् ||{16/24}{3.6.22.1}{4.30.16}{4.3.9.16}{866, 326, 3383} उ॒त¦त्यम्¦पु॒त्रम्¦अ॒ग्रुवः॑¦परा᳚ऽवृक्तम्¦श॒तऽक्र॑तुः | उ॒क्थेषु॑¦इन्द्रः॑¦आ¦अ॒भ॒ज॒त् || |
उ॒त त्या तु॒र्वशा॒यदू᳚, अस्ना॒तारा॒ शची॒पतिः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री} इन्द्रो᳚ वि॒द्वाँ, अ॑पारयत् ||{17/24}{3.6.22.2}{4.30.17}{4.3.9.17}{867, 326, 3384} उ॒त¦त्या¦तु॒र्वशा॒यदू॒ इति॑¦अ॒स्ना॒तारा᳚¦शची॒३॒॑ऽपतिः॑ | इन्द्रः॑¦वि॒द्वान्¦अ॒पा॒र॒य॒त् || |
उ॒त त्या स॒द्य आर्या᳚ स॒रयो᳚रिन्द्र पा॒रतः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री} अर्णा᳚चि॒त्रर॑थावधीः ||{18/24}{3.6.22.3}{4.30.18}{4.3.9.18}{868, 326, 3385} उ॒त¦त्या¦स॒द्यः¦आर्या᳚¦स॒रयोः᳚¦इ॒न्द्र॒¦पा॒रतः॑ | अर्णा᳚चि॒त्रर॑था¦अ॒व॒धीः॒ || |
अनु॒ द्वा ज॑हि॒ता न॑यो॒ऽन्धं श्रो॒णं च॑ वृत्रहन् |{गौतमो वामदेवः | इन्द्रः | गायत्री} न तत्ते᳚ सु॒म्नमष्ट॑वे ||{19/24}{3.6.22.4}{4.30.19}{4.3.9.19}{869, 326, 3386} अनु॑¦द्वा¦ज॒हि॒ता¦न॒यः॒¦अ॒न्धम्¦श्रो॒णम्¦च॒¦वृ॒त्र॒ऽह॒न् | न¦तत्¦ते॒¦सु॒म्नम्¦अष्ट॑वे || |
श॒तम॑श्म॒न् मयी᳚नां पु॒रामिन्द्रो॒ व्या᳚स्यत् |{गौतमो वामदेवः | इन्द्रः | गायत्री} दिवो᳚दासाय दा॒शुषे᳚ ||{20/24}{3.6.22.5}{4.30.20}{4.3.9.20}{870, 326, 3387} श॒तम्¦अ॒श्म॒न्ऽमयी᳚नाम्¦पु॒राम्¦इन्द्रः॑¦वि¦आ॒स्य॒त् | दिवः॑ऽदासाय¦दा॒शुषे᳚ || |
अस्वा᳚पयद् द॒भीत॑ये स॒हस्रा᳚ त्रिं॒शतं॒ हथैः᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री} दा॒साना॒मिन्द्रो᳚ मा॒यया᳚ ||{21/24}{3.6.23.1}{4.30.21}{4.3.9.21}{871, 326, 3388} अस्वा᳚पयत्¦द॒भीत॑ये¦स॒हस्रा᳚¦त्रिं॒शत᳚म्¦हथैः᳚ | दा॒साना᳚म्¦इन्द्रः॑¦मा॒यया᳚ || |
स घेदु॒तासि॑ वृत्रहन् त्समा॒न इ᳚न्द्र॒ गोप॑तिः |{गौतमो वामदेवः | इन्द्रः | गायत्री} यस्ता विश्वा᳚नि चिच्यु॒षे ||{22/24}{3.6.23.2}{4.30.22}{4.3.9.22}{872, 326, 3389} सः¦घ॒¦इत्¦उ॒त¦अ॒सि॒¦वृ॒त्र॒ऽह॒न्¦स॒मा॒नः¦इ॒न्द्र॒¦गोऽप॑तिः | यः¦ता¦विश्वा᳚नि¦चि॒च्यु॒षे || |
उ॒त नू॒नं यदि᳚न्द्रि॒यं क॑रि॒ष्या, इ᳚न्द्र॒ पौंस्य᳚म् |{गौतमो वामदेवः | इन्द्रः | गायत्री} अ॒द्या नकि॒ष्टदा मि॑नत् ||{23/24}{3.6.23.3}{4.30.23}{4.3.9.23}{873, 326, 3390} उ॒त¦नू॒नम्¦यत्¦इ॒न्द्रि॒यम्¦क॒रि॒ष्याः¦इ॒न्द्र॒¦पौंस्य᳚म् | अ॒द्य¦नकिः॑¦तत्¦आ¦मि॒न॒त् || |
वा॒मंवा᳚मं त आदुरे दे॒वो द॑दात्वर्य॒मा |{गौतमो वामदेवः | इन्द्रः | अनुष्टुप्} वा॒मं पू॒षा वा॒मं भगो᳚ वा॒मं दे॒वः करू᳚ळती ||{24/24}{3.6.23.4}{4.30.24}{4.3.9.24}{874, 326, 3391} वा॒मम्ऽवा᳚मम्¦ते॒¦आ॒ऽदु॒रे॒¦दे॒वः¦द॒दा॒तु॒¦अ॒र्य॒मा | वा॒मम्¦पू॒षा¦वा॒मम्¦भगः॑¦वा॒मम्¦दे॒वः¦करू᳚ळती || |
[87] कयानइति पंचदशर्चस्य सूक्तस्य गौतमोवामदेवइंद्रोगायत्री तृतीयापादनिचृत् | |
कया᳚ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री} कया॒ शचि॑ष्ठया वृ॒ता ||{1/15}{3.6.24.1}{4.31.1}{4.3.10.1}{875, 327, 3392} कया᳚¦नः॒¦चि॒त्रः¦आ¦भु॒व॒त्¦ऊ॒ती¦स॒दाऽवृ॑धः¦सखा᳚ | कया᳚¦शचि॑ष्ठया¦वृ॒ता || |
कस्त्वा᳚ स॒त्यो मदा᳚नां॒ मंहि॑ष्ठो मत्स॒दन्ध॑सः |{गौतमो वामदेवः | इन्द्रः | गायत्री} दृ॒ळ्हा चि॑दा॒रुजे॒ वसु॑ ||{2/15}{3.6.24.2}{4.31.2}{4.3.10.2}{876, 327, 3393} कः¦त्वा॒¦स॒त्यः¦मदा᳚नाम्¦मंहि॑ष्ठः¦म॒त्स॒त्¦अन्ध॑सः | दृ॒ळ्हा¦चि॒त्¦आ॒ऽरुजे᳚¦वसु॑ || |
अ॒भी षु णः॒ सखी᳚नामवि॒ता ज॑रितॄ॒णाम् |{गौतमो वामदेवः | इन्द्रः | गायत्री} श॒तं भ॑वास्यू॒तिभिः॑ ||{3/15}{3.6.24.3}{4.31.3}{4.3.10.3}{877, 327, 3394} अ॒भि¦सु¦नः॒¦सखी᳚नाम्¦अ॒वि॒ता¦ज॒रि॒तॄ॒णाम् | श॒तम्¦भ॒वा॒सि॒¦ऊ॒तिऽभिः॑ || |
अ॒भी न॒ आ व॑वृत्स्व च॒क्रं न वृ॒त्तमर्व॑तः |{गौतमो वामदेवः | इन्द्रः | गायत्री} नि॒युद्भि॑श्चर्षणी॒नाम् ||{4/15}{3.6.24.4}{4.31.4}{4.3.10.4}{878, 327, 3395} अ॒भि¦नः॒¦आ¦व॒वृ॒त्स्व॒¦च॒क्रम्¦न¦वृ॒त्तम्¦अर्व॑तः | नि॒युत्ऽभिः॑¦च॒र्ष॒णी॒नाम् || |
प्र॒वता॒ हि क्रतू᳚ना॒मा हा᳚ प॒देव॒ गच्छ॑सि |{गौतमो वामदेवः | इन्द्रः | गायत्री} अभ॑क्षि॒ सूर्ये॒ सचा᳚ ||{5/15}{3.6.24.5}{4.31.5}{4.3.10.5}{879, 327, 3396} प्र॒ऽवता᳚¦हि¦क्रतू᳚नाम्¦आ¦ह॒¦प॒दाऽइ᳚व¦गच्छ॑सि | अभ॑क्षि¦सूर्ये᳚¦सचा᳚ || |
सं यत्त॑ इन्द्र म॒न्यवः॒ सं च॒क्राणि॑ दधन्वि॒रे |{गौतमो वामदेवः | इन्द्रः | गायत्री} अध॒ त्वे, अध॒ सूर्ये᳚ ||{6/15}{3.6.25.1}{4.31.6}{4.3.10.6}{880, 327, 3397} सम्¦यत्¦ते॒¦इ॒न्द्र॒¦म॒न्यवः॑¦सम्¦च॒क्राणि॑¦द॒ध॒न्वि॒रे | अध॑¦त्वे इति॑¦अध॑¦सूर्ये᳚ || |
उ॒त स्मा॒ हि त्वामा॒हुरिन्म॒घवा᳚नं शचीपते |{गौतमो वामदेवः | इन्द्रः | गायत्री} दाता᳚र॒मवि॑दीधयुम् ||{7/15}{3.6.25.2}{4.31.7}{4.3.10.7}{881, 327, 3398} उ॒त¦स्म॒¦हि¦त्वाम्¦आ॒हुः¦इत्¦म॒घऽवा᳚नम्¦श॒ची॒ऽप॒ते॒ | दाता᳚रम्¦अवि॑ऽदीधयुम् || |
उ॒त स्मा᳚ स॒द्य इत् परि॑ शशमा॒नाय॑ सुन्व॒ते |{गौतमो वामदेवः | इन्द्रः | गायत्री} पु॒रू चि᳚न्मंहसे॒ वसु॑ ||{8/15}{3.6.25.3}{4.31.8}{4.3.10.8}{882, 327, 3399} उ॒त¦स्म॒¦स॒द्यः¦इत्¦परि॑¦श॒श॒मा॒नाय॑¦सु॒न्व॒ते | पु॒रु¦चि॒त्¦मं॒ह॒से॒¦वसु॑ || |
न॒हि ष्मा᳚ ते श॒तं च॒न राधो॒ वर᳚न्त आ॒मुरः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री} न च्यौ॒त्नानि॑ करिष्य॒तः ||{9/15}{3.6.25.4}{4.31.9}{4.3.10.9}{883, 327, 3400} न॒हि¦स्म॒¦ते॒¦श॒तम्¦च॒न¦राधः॑¦वर᳚न्ते¦आ॒ऽमुरः॑ | न¦च्यौ॒त्नानि॑¦क॒रि॒ष्य॒तः || |
अ॒स्माँ, अ॑वन्तु ते श॒तम॒स्मान् त्स॒हस्र॑मू॒तयः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री} अ॒स्मान् विश्वा᳚, अ॒भिष्ट॑यः ||{10/15}{3.6.25.5}{4.31.10}{4.3.10.10}{884, 327, 3401} अ॒स्मान्¦अ॒व॒न्तु॒¦ते॒¦श॒तम्¦अ॒स्मान्¦स॒हस्र᳚म्¦ऊ॒तयः॑ | अ॒स्मान्¦विश्वाः᳚¦अ॒भिष्ट॑यः || |
अ॒स्माँ, इ॒हा वृ॑णीष्व स॒ख्याय॑ स्व॒स्तये᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री} म॒हो रा॒ये दि॒वित्म॑ते ||{11/15}{3.6.26.1}{4.31.11}{4.3.10.11}{885, 327, 3402} अ॒स्मान्¦इ॒ह¦वृ॒णी॒ष्व॒¦स॒ख्याय॑¦स्व॒स्तये᳚ | म॒हः¦रा॒ये¦दि॒वित्म॑ते || |
अ॒स्माँ, अ॑विड्ढि वि॒श्वहेन्द्र॑ रा॒या परी᳚णसा |{गौतमो वामदेवः | इन्द्रः | गायत्री} अ॒स्मान् विश्वा᳚भिरू॒तिभिः॑ ||{12/15}{3.6.26.2}{4.31.12}{4.3.10.12}{886, 327, 3403} अ॒स्मान्¦अ॒वि॒ड्ढि॒¦वि॒श्वहा᳚¦इन्द्र॑¦रा॒या¦परी᳚णसा | अ॒स्मान्¦विश्वा᳚भिः¦ऊ॒तिऽभिः॑ || |
अ॒स्मभ्यं॒ ताँ, अपा᳚ वृधि व्र॒जाँ, अस्ते᳚व॒ गोम॑तः |{गौतमो वामदेवः | इन्द्रः | गायत्री} नवा᳚भिरिन्द्रो॒तिभिः॑ ||{13/15}{3.6.26.3}{4.31.13}{4.3.10.13}{887, 327, 3404} अ॒स्मभ्य᳚म्¦तान्¦अप॑¦वृ॒धि॒¦व्र॒जान्¦अस्ता᳚ऽइव¦गोऽम॑तः | नवा᳚भिः¦इ॒न्द्र॒¦ऊ॒तिऽभिः॑ || |
अ॒स्माकं᳚ धृष्णु॒या रथो᳚ द्यु॒माँ, इ॒न्द्रान॑पच्युतः |{गौतमो वामदेवः | इन्द्रः | गायत्री} ग॒व्युर॑श्व॒युरी᳚यते ||{14/15}{3.6.26.4}{4.31.14}{4.3.10.14}{888, 327, 3405} अ॒स्माक᳚म्¦धृ॒ष्णु॒ऽया¦रथः॑¦द्यु॒ऽमान्¦इ॒न्द्र॒¦अन॑पऽच्युतः | ग॒व्युः¦अ॒श्व॒ऽयुः¦ई॒य॒ते॒ || |
अ॒स्माक॑मुत्त॒मं कृ॑धि॒ श्रवो᳚ दे॒वेषु॑ सूर्य |{गौतमो वामदेवः | इन्द्रः | गायत्री} वर्षि॑ष्ठं॒ द्यामि॑वो॒परि॑ ||{15/15}{3.6.26.5}{4.31.15}{4.3.10.15}{889, 327, 3406} अ॒स्माक᳚म्¦उ॒त्ऽत॒मम्¦कृ॒धि॒¦श्रवः॑¦दे॒वेषु॑¦सू॒र्य॒ | वर्षि॑ष्ठम्¦द्याम्ऽइ᳚व¦उ॒परि॑ || |
[88] आतूनइति चतुर्विंशत्यृचस्य सूक्तस्य गौतमोवामदेव इंद्रोंत्ययोरिंद्राश्वौगायत्री | |
आ तू न॑ इन्द्र वृत्रहन्न॒स्माक॑म॒र्धमा ग॑हि |{गौतमो वामदेवः | इन्द्रः | गायत्री} म॒हान् म॒हीभि॑रू॒तिभिः॑ ||{1/24}{3.6.27.1}{4.32.1}{4.3.11.1}{890, 328, 3407} आ¦तु¦नः॒¦इ॒न्द्र॒¦वृ॒त्र॒ऽह॒न्¦अ॒स्माक᳚म्¦अ॒र्धम्¦आ¦ग॒हि॒ | म॒हान्¦म॒हीभिः॑¦ऊ॒तिऽभिः॑ || |
भृमि॑श्चिद् घासि॒ तूतु॑जि॒रा चि॑त्र चि॒त्रिणी॒ष्वा |{गौतमो वामदेवः | इन्द्रः | गायत्री} चि॒त्रं कृ॑णोष्यू॒तये᳚ ||{2/24}{3.6.27.2}{4.32.2}{4.3.11.2}{891, 328, 3408} भृमिः॑¦चि॒त्¦घ॒¦अ॒सि॒¦तूतु॑जिः¦आ¦चि॒त्र॒¦चि॒त्रिणी᳚षु¦आ | चि॒त्रम्¦कृ॒णो॒षि॒¦ऊ॒तये᳚ || |
द॒भ्रेभि॑श्चि॒च्छशी᳚यांसं॒ हंसि॒ व्राध᳚न्त॒मोज॑सा |{गौतमो वामदेवः | इन्द्रः | गायत्री} सखि॑भि॒र्ये त्वे सचा᳚ ||{3/24}{3.6.27.3}{4.32.3}{4.3.11.3}{892, 328, 3409} द॒भ्रेभिः॑¦चि॒त्¦शशी᳚यांसम्¦हंसि॑¦व्राध᳚न्तम्¦ओज॑सा | सखि॑ऽभिः¦ये¦त्वे इति॑¦सचा᳚ || |
व॒यमि᳚न्द्र॒ त्वे सचा᳚ व॒यं त्वा॒भि नो᳚नुमः |{गौतमो वामदेवः | इन्द्रः | गायत्री} अ॒स्माँअ॑स्माँ॒, इदुद॑व ||{4/24}{3.6.27.4}{4.32.4}{4.3.11.4}{893, 328, 3410} व॒यम्¦इ॒न्द्र॒¦त्वे इति॑¦सचा᳚¦व॒यम्¦त्वा॒¦अ॒भि¦नो॒नु॒मः॒ | अ॒स्मान्।आ॑स्मान्¦इत्¦उत्¦अ॒व॒ || |
स न॑श्चि॒त्राभि॑रद्रिवोऽनव॒द्याभि॑रू॒तिभिः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री} अना᳚धृष्टाभि॒रा ग॑हि ||{5/24}{3.6.27.5}{4.32.5}{4.3.11.5}{894, 328, 3411} सः¦नः॒¦चि॒त्राभिः॑¦अ॒द्रि॒ऽवः॒¦अ॒न॒व॒द्याभिः॑¦ऊ॒तिऽभिः॑ | अना᳚धृष्टाभिः¦आ¦ग॒हि॒ || |
भू॒यामो॒ षु त्वाव॑तः॒ सखा᳚य इन्द्र॒ गोम॑तः |{गौतमो वामदेवः | इन्द्रः | गायत्री} युजो॒ वाजा᳚य॒ घृष्व॑ये ||{6/24}{3.6.28.1}{4.32.6}{4.3.11.6}{895, 328, 3412} भू॒यामो॒ इति॑¦सु¦त्वाऽव॑तः¦सखा᳚यः¦इ॒न्द्र॒¦गोऽम॑तः | युजः॑¦वाजा᳚य¦घृष्व॑ये || |
त्वं ह्येक॒ ईशि॑ष॒ इन्द्र॒ वाज॑स्य॒ गोम॑तः |{गौतमो वामदेवः | इन्द्रः | गायत्री} स नो᳚ यन्धि म॒हीमिष᳚म् ||{7/24}{3.6.28.2}{4.32.7}{4.3.11.7}{896, 328, 3413} त्वम्¦हि¦एकः॑¦ईशि॑षे¦इन्द्र॑¦वाज॑स्य¦गोऽम॑तः | सः¦नः॒¦य॒न्धि॒¦म॒हीम्¦इष᳚म् || |
न त्वा᳚ वरन्ते, अ॒न्यथा॒ यद्दित्स॑सि स्तु॒तो म॒घम् |{गौतमो वामदेवः | इन्द्रः | गायत्री} स्तो॒तृभ्य॑ इन्द्र गिर्वणः ||{8/24}{3.6.28.3}{4.32.8}{4.3.11.8}{897, 328, 3414} न¦त्वा॒¦व॒र॒न्ते॒¦अ॒न्यथा᳚¦यत्¦दित्स॑सि¦स्तु॒तः¦म॒घम् | स्तो॒तृऽभ्यः॑¦इ॒न्द्र॒¦गि॒र्व॒णः॒ || |
अ॒भि त्वा॒ गोत॑मा गि॒राऽनू᳚षत॒ प्र दा॒वने᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री} इन्द्र॒ वाजा᳚य॒ घृष्व॑ये ||{9/24}{3.6.28.4}{4.32.9}{4.3.11.9}{898, 328, 3415} अ॒भि¦त्वा॒¦गोत॑माः¦गि॒रा¦अनू᳚षत¦प्र¦दा॒वने᳚ | इन्द्र॑¦वाजा᳚य¦घृष्व॑ये || |
प्र ते᳚ वोचाम वी॒र्या॒३॑(आ॒) या म᳚न्दसा॒न आरु॑जः |{गौतमो वामदेवः | इन्द्रः | गायत्री} पुरो॒ दासी᳚र॒भीत्य॑ ||{10/24}{3.6.28.5}{4.32.10}{4.3.11.10}{899, 328, 3416} प्र¦ते॒¦वो॒चा॒म॒¦वी॒र्या᳚¦याः¦म॒न्द॒सा॒नः¦आ¦अरु॑जः | पुरः॑¦दासीः᳚¦अ॒भि॒ऽइत्य॑ || |
ता ते᳚ गृणन्ति वे॒धसो॒ यानि॑ च॒कर्थ॒ पौंस्या᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री} सु॒तेष्वि᳚न्द्र गिर्वणः ||{11/24}{3.6.29.1}{4.32.11}{4.3.11.11}{900, 328, 3417} ता¦ते॒¦गृ॒ण॒न्ति॒¦वे॒धसः॑¦यानि॑¦च॒कर्थ॑¦पौंस्या᳚ | सु॒तेषु॑¦इ॒न्द्र॒¦गि॒र्व॒णः॒ || |
अवी᳚वृधन्त॒ गोत॑मा॒, इन्द्र॒ त्वे स्तोम॑वाहसः |{गौतमो वामदेवः | इन्द्रः | गायत्री} ऐषु॑ धा वी॒रव॒द्यशः॑ ||{12/24}{3.6.29.2}{4.32.12}{4.3.11.12}{901, 328, 3418} अवी᳚वृधन्त¦गोत॑माः¦इन्द्र॑¦त्वे इति॑¦स्तोम॑ऽवाहसः | आ¦ए॒षु॒¦धाः॒¦वी॒रऽव॑त्¦यशः॑ || |
यच्चि॒द्धि शश्व॑ता॒मसीन्द्र॒ साधा᳚रण॒स्त्वम् |{गौतमो वामदेवः | इन्द्रः | गायत्री} तं त्वा᳚ व॒यं ह॑वामहे ||{13/24}{3.6.29.3}{4.32.13}{4.3.11.13}{902, 328, 3419} यत्¦चि॒त्¦हि¦शश्व॑ताम्¦असि॑¦इन्द्र॑¦साधा᳚रणः¦त्वम् | तम्¦त्वा॒¦व॒यम्¦ह॒वा॒म॒हे॒ || |
अ॒र्वा॒ची॒नो व॑सो भवा॒ऽस्मे सु म॒त्स्वान्ध॑सः |{गौतमो वामदेवः | इन्द्रः | गायत्री} सोमा᳚नामिन्द्र सोमपाः ||{14/24}{3.6.29.4}{4.32.14}{4.3.11.14}{903, 328, 3420} अ॒र्वा॒ची॒नः¦व॒सो॒ इति॑¦भ॒व॒¦अ॒स्मे इति॑¦सु¦म॒त्स्व॒¦अन्ध॑सः | सोमा᳚नाम्¦इ॒न्द्र॒¦सो॒म॒ऽपाः॒ || |
अ॒स्माकं᳚ त्वा मती॒नामा स्तोम॑ इन्द्र यच्छतु |{गौतमो वामदेवः | इन्द्रः | गायत्री} अ॒र्वागा व॑र्तया॒ हरी᳚ ||{15/24}{3.6.29.5}{4.32.15}{4.3.11.15}{904, 328, 3421} अ॒स्माक᳚म्¦त्वा॒¦म॒ती॒नाम्¦आ¦स्तोमः॑¦इ॒न्द्र॒¦य॒च्छ॒तु॒ | अ॒र्वाक्¦आ¦व॒र्त॒य॒¦हरी॒ इति॑ || |
पु॒रो॒ळाशं᳚ च नो॒ घसो᳚ जो॒षया᳚से॒ गिर॑श्च नः |{गौतमो वामदेवः | इन्द्रः | गायत्री} व॒धू॒युरि॑व॒ योष॑णाम् ||{16/24}{3.6.29.6}{4.32.16}{4.3.11.16}{905, 328, 3422} पु॒रो॒ळाश᳚म्¦च॒¦नः॒¦घसः॑¦जो॒षया᳚से¦गिरः॑¦च॒¦नः॒ | व॒धू॒युःऽइ᳚व¦योष॑णाम् || |
स॒हस्रं॒ व्यती᳚नां यु॒क्ताना॒मिन्द्र॑मीमहे |{गौतमो वामदेवः | इन्द्रः | गायत्री} श॒तं सोम॑स्य खा॒र्यः॑ ||{17/24}{3.6.30.1}{4.32.17}{4.3.11.17}{906, 328, 3423} स॒हस्र᳚म्¦व्यती᳚नाम्¦यु॒क्ताना᳚म्¦इन्द्र᳚म्¦ई॒म॒हे॒ | श॒तम्¦सोम॑स्य¦खा॒र्यः॑ || |
स॒हस्रा᳚ ते श॒ता व॒यं गवा॒मा च्या᳚वयामसि |{गौतमो वामदेवः | इन्द्रः | गायत्री} अ॒स्म॒त्रा राध॑ एतु ते ||{18/24}{3.6.30.2}{4.32.18}{4.3.11.18}{907, 328, 3424} स॒हस्रा᳚¦ते॒¦श॒ता¦व॒यम्¦गवा᳚म्¦आ¦च्य॒व॒या॒म॒सि॒ | अ॒स्म॒ऽत्रा¦राधः॑¦ए॒तु॒¦ते॒ || |
दश॑ ते क॒लशा᳚नां॒ हिर᳚ण्यानामधीमहि |{गौतमो वामदेवः | इन्द्रः | गायत्री} भू॒रि॒दा, अ॑सि वृत्रहन् ||{19/24}{3.6.30.3}{4.32.19}{4.3.11.19}{908, 328, 3425} दश॑¦ते॒¦क॒लशा᳚नाम्¦हिर᳚ण्यानाम्¦अ॒धी॒म॒हि॒ | भू॒रि॒ऽदाः¦अ॒सि॒¦वृ॒त्र॒ऽह॒न् || |
भूरि॑दा॒ भूरि॑ देहि नो॒ मा द॒भ्रं भूर्या भ॑र |{गौतमो वामदेवः | इन्द्रः | गायत्री} भूरि॒ घेदि᳚न्द्र दित्ससि ||{20/24}{3.6.30.4}{4.32.20}{4.3.11.20}{909, 328, 3426} भूरि॑ऽदाः¦भूरि॑¦दे॒हि॒¦नः॒¦मा¦द॒भ्रम्¦भूरि॑¦आ¦भ॒र॒ | भूरि॑¦घ॒¦इत्¦इ॒न्द्र॒¦दि॒त्स॒सि॒ || |
भू॒रि॒दा ह्यसि॑ श्रु॒तः पु॑रु॒त्रा शू᳚र वृत्रहन् |{गौतमो वामदेवः | इन्द्रः | गायत्री} आ नो᳚ भजस्व॒ राध॑सि ||{21/24}{3.6.30.5}{4.32.21}{4.3.11.21}{910, 328, 3427} भू॒रि॒ऽदाः¦हि¦असि॑¦श्रु॒तः¦पु॒रु॒ऽत्रा¦शू॒र॒¦वृ॒त्र॒ऽह॒न् | आ¦नः॒¦भ॒ज॒स्व॒¦राध॑सि || |
प्र ते᳚ ब॒भ्रू वि॑चक्षण॒ शंसा᳚मि गोषणो नपात् |{गौतमो वामदेवः | इन्द्रः | गायत्री} माभ्यां॒ गा, अनु॑ शिश्रथः ||{22/24}{3.6.30.6}{4.32.22}{4.3.11.22}{911, 328, 3428} प्र¦ते॒¦ब॒भ्रू इति॑¦वि॒ऽच॒क्ष॒ण॒¦शंसा᳚मि¦गो॒ऽस॒नः॒¦न॒पा॒त् | मा¦आ॒भ्या॒म्¦गाः¦अनु॑¦शि॒श्र॒थः॒ || |
क॒नी॒न॒केव॑ विद्र॒धे नवे᳚ द्रुप॒दे, अ॑र्भ॒के |{गौतमो वामदेवः | इन्द्राश्वौ | गायत्री} ब॒भ्रू यामे᳚षु शोभेते ||{23/24}{3.6.30.7}{4.32.23}{4.3.11.23}{912, 328, 3429} क॒नी॒न॒काऽइ᳚व¦वि॒द्र॒धे¦नवे᳚¦द्रु॒ऽप॒दे¦अ॒र्भ॒के | ब॒भ्रू इति॑¦यामे᳚षु¦शो॒भे॒ते॒ इति॑ || |
अरं᳚ म उ॒स्रया॒म्णेऽर॒मनु॑स्रयाम्णे |{गौतमो वामदेवः | इन्द्राश्वौ | गायत्री} ब॒भ्रू यामे᳚ष्व॒स्रिधा᳚ ||{24/24}{3.6.30.8}{4.32.24}{4.3.11.24}{913, 328, 3430} अर᳚म्¦मे॒¦उ॒स्रऽया᳚म्ने¦अर᳚म्¦अनु॑स्रऽयाम्ने | ब॒भ्रू इति॑¦यामे᳚षु¦अ॒स्रिधा᳚ || |
[89] प्रऋभुभ्यइत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव ऋभवस्त्रिष्टुप् | |
प्र ऋ॒भुभ्यो᳚ दू॒तमि॑व॒ वाच॑मिष्य उप॒स्तिरे॒ श्वैत॑रीं धे॒नुमी᳚ळे |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} ये वात॑जूतास्त॒रणि॑भि॒रेवैः॒ परि॒ द्यां स॒द्यो, अ॒पसो᳚ बभू॒वुः ||{1/11}{3.7.1.1}{4.33.1}{4.4.1.1}{914, 329, 3431} प्र¦ऋ॒भुऽभ्यः॑¦दू॒तम्ऽइ᳚व¦वाच᳚म्¦इ॒ष्ये॒¦उ॒प॒ऽस्तिरे᳚¦श्वैत॑रीम्¦धे॒नुम्¦ई॒ळे॒ | |
य॒दार॒मक्र᳚न्नृ॒भवः॑ पि॒तृभ्यां॒ परि॑विष्टी वे॒षणा᳚ दं॒सना᳚भिः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} आदिद्दे॒वाना॒मुप॑ स॒ख्यमा᳚य॒न् धीरा᳚सः पु॒ष्टिम॑वहन् म॒नायै᳚ ||{2/11}{3.7.1.2}{4.33.2}{4.4.1.2}{915, 329, 3432} य॒दा¦अर᳚म्¦अक्र॑न्¦ऋ॒भवः॑¦पि॒तृऽभ्या᳚म्¦परि॑ऽविष्टी¦वे॒षणा᳚¦दं॒सना᳚भिः | |
पुन॒र्ये च॒क्रुः पि॒तरा॒ युवा᳚ना॒ सना॒ यूपे᳚व जर॒णा शया᳚ना |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} ते वाजो॒ विभ्वाँ᳚, ऋ॒भुरिन्द्र॑वन्तो॒ मधु॑प्सरसो नोऽवन्तु य॒ज्ञम् ||{3/11}{3.7.1.3}{4.33.3}{4.4.1.3}{916, 329, 3433} पुनः॑¦ये¦च॒क्रुः¦पि॒तरा᳚¦युवा᳚ना¦सना᳚¦यूपा᳚ऽइव¦ज॒र॒णा¦शया᳚ना | |
यत् सं॒वत्स॑मृ॒भवो॒ गामर॑क्ष॒न् यत् सं॒वत्स॑मृ॒भवो॒ मा, अपिं᳚शन् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} यत् सं॒वत्स॒मभ॑र॒न् भासो᳚, अस्या॒स्ताभिः॒ शमी᳚भिरमृत॒त्वमा᳚शुः ||{4/11}{3.7.1.4}{4.33.4}{4.4.1.4}{917, 329, 3434} यत्¦स॒म्ऽवत्स᳚म्¦ऋ॒भवः॑¦गाम्¦अर॑क्षन्¦यत्¦स॒म्ऽवत्स᳚म्¦ऋ॒भवः॑¦माः¦अपिं᳚शन् | |
ज्ये॒ष्ठ आ᳚ह चम॒सा द्वा क॒रेति॒ कनी᳚या॒न् त्रीन् कृ॑णवा॒मेत्या᳚ह |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} क॒नि॒ष्ठ आ᳚ह च॒तुर॑स्क॒रेति॒ त्वष्ट॑ ऋभव॒स्तत् प॑नय॒द् वचो᳚ वः ||{5/11}{3.7.1.5}{4.33.5}{4.4.1.5}{918, 329, 3435} ज्ये॒ष्ठः¦आ॒ह॒¦च॒म॒सा¦द्वा¦क॒र॒¦इति॑¦कनी᳚यान्¦त्रीन्¦कृ॒ण॒वा॒म॒¦इति॑¦आ॒ह॒ | |
स॒त्यमू᳚चु॒र्नर॑ ए॒वा हि च॒क्रुरनु॑ स्व॒धामृ॒भवो᳚ जग्मुरे॒ताम् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} वि॒भ्राज॑मानाँश्चम॒साँ, अहे॒वावे᳚न॒त् त्वष्टा᳚ च॒तुरो᳚ ददृ॒श्वान् ||{6/11}{3.7.2.1}{4.33.6}{4.4.1.6}{919, 329, 3436} स॒त्यम्¦ऊ॒चुः॒¦नरः॑¦ए॒व¦हि¦च॒क्रुः¦अनु॑¦स्व॒धाम्¦ऋ॒भवः॑¦ज॒ग्मुः॒¦ए॒ताम् | |
द्वाद॑श॒ द्यून् यदगो᳚ह्यस्याऽऽति॒थ्ये रण᳚न्नृ॒भवः॑ स॒सन्तः॑ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} सु॒क्षेत्रा᳚कृण्व॒न्नन॑यन्त॒ सिन्धू॒न् धन्वाति॑ष्ठ॒न्नोष॑धीर्नि॒म्नमापः॑ ||{7/11}{3.7.2.2}{4.33.7}{4.4.1.7}{920, 329, 3437} द्वाद॑श¦द्यून्¦यत्¦अगो᳚ह्यस्य¦आ॒ति॒थ्ये¦रण॑न्¦ऋ॒भवः॑¦स॒सन्तः॑ | |
रथं॒ ये च॒क्रुः सु॒वृतं᳚ नरे॒ष्ठां ये धे॒नुं वि॑श्व॒जुवं᳚ वि॒श्वरू᳚पाम् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} त आ त॑क्षन्त्वृ॒भवो᳚ र॒यिं नः॒ स्वव॑सः॒ स्वप॑सः सु॒हस्ताः᳚ ||{8/11}{3.7.2.3}{4.33.8}{4.4.1.8}{921, 329, 3438} रथ᳚म्¦ये¦च॒क्रुः¦सु॒ऽवृत᳚म्¦न॒रे॒ऽस्थाम्¦ये¦धे॒नुम्¦वि॒श्व॒ऽजुव᳚म्¦वि॒श्वऽरू᳚पाम् | |
अपो॒ ह्ये᳚षा॒मजु॑षन्त दे॒वा, अ॒भि क्रत्वा॒ मन॑सा॒ दीध्या᳚नाः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} वाजो᳚ दे॒वाना᳚मभवत् सु॒कर्मेन्द्र॑स्य ऋभु॒क्षा वरु॑णस्य॒ विभ्वा᳚ ||{9/11}{3.7.2.4}{4.33.9}{4.4.1.9}{922, 329, 3439} अपः॑¦हि¦ए॒षा॒म्¦अजु॑षन्त¦दे॒वाः¦अ॒भि¦क्रत्वा᳚¦मन॑सा¦दीध्या᳚नाः | |
ये हरी᳚ मे॒धयो॒क्था मद᳚न्त॒ इन्द्रा᳚य च॒क्रुः सु॒युजा॒ ये, अश्वा᳚ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} ते रा॒यस्पोषं॒ द्रवि॑णान्य॒स्मे ध॒त्त ऋ॑भवः, क्षेम॒यन्तो॒ न मि॒त्रम् ||{10/11}{3.7.2.5}{4.33.10}{4.4.1.10}{923, 329, 3440} ये¦हरी॒ इति॑¦मे॒धया᳚¦उ॒क्था¦मद᳚न्तः¦इन्द्रा᳚य¦च॒क्रुः¦सु॒ऽयुजा᳚¦ये¦अश्वा᳚ | |
इ॒दाह्नः॑ पी॒तिमु॒त वो॒ मदं᳚ धु॒र्न ऋ॒ते श्रा॒न्तस्य॑ स॒ख्याय॑ दे॒वाः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} ते नू॒नम॒स्मे, ऋ॑भवो॒ वसू᳚नि तृ॒तीये᳚, अ॒स्मिन् त्सव॑ने दधात ||{11/11}{3.7.2.6}{4.33.11}{4.4.1.11}{924, 329, 3441} इ॒दा¦अह्नः॑¦पी॒तिम्¦उ॒त¦वः॒¦मद᳚म्¦धुः॒¦न¦ऋ॒ते¦श्रा॒न्तस्य॑¦स॒ख्याय॑¦दे॒वाः | |
[90] ऋभुर्विभ्वेत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव ऋभवस्त्रिष्टुप् | |
ऋ॒भुर्विभ्वा॒ वाज॒ इन्द्रो᳚ नो॒, अच्छे॒मं य॒ज्ञं र॑त्न॒धेयोप॑ यात |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} इ॒दा हि वो᳚ धि॒षणा᳚ दे॒व्यह्ना॒मधा᳚त् पी॒तिं सं मदा᳚, अग्मता वः ||{1/11}{3.7.3.1}{4.34.1}{4.4.2.1}{925, 330, 3442} ऋ॒भुः¦विऽभ्वा᳚¦वाजः॑¦इन्द्रः॑¦नः॒¦अच्छ॑¦इ॒मम्¦य॒ज्ञम्¦र॒त्न॒ऽधेया᳚¦उप॑¦या॒त॒ | |
वि॒दा॒नासो॒ जन्म॑नो वाजरत्ना, उ॒त ऋ॒तुभि᳚रृभवो मादयध्वम् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} सं वो॒ मदा॒, अग्म॑त॒ सं पुरं᳚धिः सु॒वीरा᳚म॒स्मे र॒यिमेर॑यध्वम् ||{2/11}{3.7.3.2}{4.34.2}{4.4.2.2}{926, 330, 3443} वि॒दा॒नासः॑¦जन्म॑नः¦वा॒ज॒ऽर॒त्नाः॒¦उ॒त¦ऋ॒तुऽभिः॑¦ऋ॒भ॒वः॒¦मा॒द॒य॒ध्व॒म् | |
अ॒यं वो᳚ य॒ज्ञ ऋ॑भवोऽकारि॒ यमा म॑नु॒ष्वत् प्र॒दिवो᳚ दधि॒ध्वे |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} प्र वोऽच्छा᳚ जुजुषा॒णासो᳚, अस्थु॒रभू᳚त॒ विश्वे᳚, अग्रि॒योत वा᳚जाः ||{3/11}{3.7.3.3}{4.34.3}{4.4.2.3}{927, 330, 3444} अ॒यम्¦वः॒¦य॒ज्ञः¦ऋ॒भ॒वः॒¦अ॒का॒रि॒¦यम्¦आ¦म॒नु॒ष्वत्¦प्र॒ऽदिवः॑¦द॒धि॒ध्वे | |
अभू᳚दु वो विध॒ते र॑त्न॒धेय॑मि॒दा न॑रो दा॒शुषे॒ मर्त्या᳚य |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} पिब॑त वाजा, ऋभवो द॒दे वो॒ महि॑ तृ॒तीयं॒ सव॑नं॒ मदा᳚य ||{4/11}{3.7.3.4}{4.34.4}{4.4.2.4}{928, 330, 3445} अभू᳚त्¦ऊँ॒ इति॑¦वः॒¦वि॒ध॒ते¦र॒त्न॒ऽधेय᳚म्¦इ॒दा¦न॒रः॒¦दा॒शुषे᳚¦मर्त्या᳚य | |
आ वा᳚जा या॒तोप॑ न ऋभुक्षा म॒हो न॑रो॒ द्रवि॑णसो गृणा॒नाः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} आ वः॑ पी॒तयो᳚ऽभिपि॒त्वे, अह्ना᳚मि॒मा, अस्तं᳚ नव॒स्व॑ इव ग्मन् ||{5/11}{3.7.3.5}{4.34.5}{4.4.2.5}{929, 330, 3446} आ¦वा॒जाः॒¦या॒त॒¦उप॑¦नः॒¦ऋ॒भु॒क्षाः॒¦म॒हः¦न॒रः॒¦द्रवि॑णसः¦गृ॒णा॒नाः | |
आ न॑पातः शवसो यात॒नोपे॒मं य॒ज्ञं नम॑सा हू॒यमा᳚नाः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} स॒जोष॑सः सूरयो॒ यस्य॑ च॒ स्थ मध्वः॑ पात रत्न॒धा, इन्द्र॑वन्तः ||{6/11}{3.7.4.1}{4.34.6}{4.4.2.6}{930, 330, 3447} आ¦न॒पा॒तः॒¦श॒व॒सः॒¦या॒त॒न॒¦उप॑¦इ॒मम्¦य॒ज्ञम्¦नम॑सा¦हू॒यमा᳚नाः | |
स॒जोषा᳚, इन्द्र॒ वरु॑णेन॒ सोमं᳚ स॒जोषाः᳚ पाहि गिर्वणो म॒रुद्भिः॑ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} अ॒ग्रे॒पाभि᳚रृतु॒पाभिः॑ स॒जोषा॒ ग्नास्पत्नी᳚भी रत्न॒धाभिः॑ स॒जोषाः᳚ ||{7/11}{3.7.4.2}{4.34.7}{4.4.2.7}{931, 330, 3448} स॒ऽजोषाः᳚¦इ॒न्द्र॒¦वरु॑णेन¦सोम᳚म्¦स॒ऽजोषाः᳚¦पा॒हि॒¦गि॒र्व॒णः॒¦म॒रुत्ऽभिः॑ | |
स॒जोष॑स आदि॒त्यैर्मा᳚दयध्वं स॒जोष॑स ऋभवः॒ पर्व॑तेभिः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} स॒जोष॑सो॒ दैव्ये᳚ना सवि॒त्रा स॒जोष॑सः॒ सिन्धु॑भी रत्न॒धेभिः॑ ||{8/11}{3.7.4.3}{4.34.8}{4.4.2.8}{932, 330, 3449} स॒ऽजोष॑सः¦आ॒दि॒त्यैः¦मा॒द॒य॒ध्व॒म्¦स॒ऽजोष॑सः¦ऋ॒भ॒वः॒¦पर्व॑तेभिः | |
ये, अ॒श्विना॒ ये पि॒तरा॒ य ऊ॒ती धे॒नुं त॑त॒क्षुरृ॒भवो॒ ये, अश्वा᳚ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} ये, अंस॑त्रा॒ य ऋध॒ग्रोद॑सी॒ ये विभ्वो॒ नरः॑ स्वप॒त्यानि॑ च॒क्रुः ||{9/11}{3.7.4.4}{4.34.9}{4.4.2.9}{933, 330, 3450} ये¦अ॒श्विना᳚¦ये¦पि॒तरा᳚¦ये¦ऊ॒ती¦धे॒नुम्¦त॒त॒क्षुः¦ऋ॒भवः॑¦ये¦अश्वा᳚ | |
ये गोम᳚न्तं॒ वाज॑वन्तं सु॒वीरं᳚ र॒यिं ध॒त्थ वसु॑मन्तं पुरु॒क्षुम् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} ते, अ॑ग्रे॒पा, ऋ॑भवो मन्दसा॒ना, अ॒स्मे ध॑त्त॒ ये च॑ रा॒तिं गृ॒णन्ति॑ ||{10/11}{3.7.4.5}{4.34.10}{4.4.2.10}{934, 330, 3451} ये¦गोऽम᳚न्तम्¦वाज॑ऽवन्तम्¦सु॒ऽवीर᳚म्¦र॒यिम्¦ध॒त्थ¦वसु॑ऽमन्तम्¦पु॒रु॒ऽक्षुम् | |
नापा᳚भूत॒ न वो᳚ऽतीतृषा॒माऽनिः॑शस्ता, ऋभवो य॒ज्ञे, अ॒स्मिन् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} समिन्द्रे᳚ण॒ मद॑थ॒ सं म॒रुद्भिः॒ सं राज॑भी रत्न॒धेया᳚य देवाः ||{11/11}{3.7.4.6}{4.34.11}{4.4.2.11}{935, 330, 3452} न¦अप॑¦अ॒भू॒त॒¦न¦वः॒¦अ॒ती॒तृ॒षा॒म॒¦अनिः॑ऽशस्ताः¦ऋ॒भ॒वः॒¦य॒ज्ञे¦अ॒स्मिन् | |
[91] इहोपेति नवर्चस्य सूक्तस्य गौतमोवामदेवऋभवस्त्रिष्टुप् | |
इ॒होप॑ यात शवसो नपातः॒ सौध᳚न्वना, ऋभवो॒ माप॑ भूत |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} अ॒स्मिन् हि वः॒ सव॑ने रत्न॒धेयं॒ गम॒न्त्विन्द्र॒मनु॑ वो॒ मदा᳚सः ||{1/9}{3.7.5.1}{4.35.1}{4.4.3.1}{936, 331, 3453} इ॒ह¦उप॑¦या॒त॒¦श॒व॒सः॒¦न॒पा॒तः॒¦सौध᳚न्वनाः¦ऋ॒भ॒वः॒¦मा¦अप॑¦भू॒त॒ | |
आग᳚न्नृभू॒णामि॒ह र॑त्न॒धेय॒मभू॒त् सोम॑स्य॒ सुषु॑तस्य पी॒तिः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} सु॒कृ॒त्यया॒ यत् स्व॑प॒स्यया᳚ चँ॒, एकं᳚ विच॒क्र च॑म॒सं च॑तु॒र्धा ||{2/9}{3.7.5.2}{4.35.2}{4.4.3.2}{937, 331, 3454} आ¦अ॒ग॒न्¦ऋ॒भू॒णाम्¦इ॒ह¦र॒त्न॒ऽधेय᳚म्¦अभू᳚त्¦सोम॑स्य¦सुऽसु॑तस्य¦पी॒तिः | |
व्य॑कृणोत चम॒सं च॑तु॒र्धा सखे॒ वि शि॒क्षेत्य॑ब्रवीत |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} अथै᳚त वाजा, अ॒मृत॑स्य॒ पन्थां᳚ ग॒णं दे॒वाना᳚मृभवः सुहस्ताः ||{3/9}{3.7.5.3}{4.35.3}{4.4.3.3}{938, 331, 3455} वि¦अ॒कृ॒णो॒त॒¦च॒म॒सम्¦च॒तुः॒ऽधा¦सखे᳚¦वि¦शि॒क्ष॒¦इति॑¦अ॒ब्र॒वी॒त॒ | |
कि॒म्मयः॑ स्विच्चम॒स ए॒ष आ᳚स॒ यं काव्ये᳚न च॒तुरो᳚ विच॒क्र |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} अथा᳚ सुनुध्वं॒ सव॑नं॒ मदा᳚य पा॒त ऋ॑भवो॒ मधु॑नः सो॒म्यस्य॑ ||{4/9}{3.7.5.4}{4.35.4}{4.4.3.4}{939, 331, 3456} कि॒म्ऽमयः॑¦स्वि॒त्¦च॒म॒सः¦ए॒षः¦आ॒स॒¦यम्¦काव्ये᳚न¦च॒तुरः॑¦वि॒ऽच॒क्र | |
शच्या᳚कर्त पि॒तरा॒ युवा᳚ना॒ शच्या᳚कर्त चम॒सं दे᳚व॒पान᳚म् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} शच्या॒ हरी॒ धनु॑तरावतष्टेन्द्र॒वाहा᳚वृभवो वाजरत्नाः ||{5/9}{3.7.5.5}{4.35.5}{4.4.3.5}{940, 331, 3457} शच्या᳚¦अ॒क॒र्त॒¦पि॒तरा᳚¦युवा᳚ना¦शच्या᳚¦अ॒क॒र्त॒¦च॒म॒सम्¦दे॒व॒ऽपान᳚म् | |
यो वः॑ सु॒नोत्य॑भिपि॒त्वे, अह्नां᳚ ती॒व्रं वा᳚जासः॒ सव॑नं॒ मदा᳚य |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} तस्मै᳚ र॒यिमृ॑भवः॒ सर्व॑वीर॒मा त॑क्षत वृषणो मन्दसा॒नाः ||{6/9}{3.7.6.1}{4.35.6}{4.4.3.6}{941, 331, 3458} यः¦वः॒¦सु॒नोति॑¦अ॒भि॒ऽपि॒त्वे¦अह्ना᳚म्¦ती॒व्रम्¦वा॒जा॒सः॒¦सव॑नम्¦मदा᳚य | |
प्रा॒तः सु॒तम॑पिबो हर्यश्व॒ माध्यं᳚दिनं॒ सव॑नं॒ केव॑लं ते |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} समृ॒भुभिः॑ पिबस्व रत्न॒धेभिः॒ सखीँ॒र्याँ, इ᳚न्द्र चकृ॒षे सु॑कृ॒त्या ||{7/9}{3.7.6.2}{4.35.7}{4.4.3.7}{942, 331, 3459} प्रा॒तरिति॑¦सु॒तम्¦अ॒पि॒बः॒¦ह॒रि॒।आ॒श्व॒¦माध्यं᳚दिनम्¦सव॑नम्¦केव॑लम्¦ते॒ | |
ये दे॒वासो॒, अभ॑वता सुकृ॒त्या श्ये॒ना, इ॒वेदधि॑ दि॒वि नि॑षे॒द |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} ते रत्नं᳚ धात शवसो नपातः॒ सौध᳚न्वना॒, अभ॑वता॒मृता᳚सः ||{8/9}{3.7.6.3}{4.35.8}{4.4.3.8}{943, 331, 3460} ये¦दे॒वासः॑¦अभ॑वत¦सु॒ऽकृ॒त्या¦श्ये॒नाःऽइ᳚व¦इत्¦अधि॑¦दि॒वि¦नि॒ऽसे॒द | |
यत् तृ॒तीयं॒ सव॑नं रत्न॒धेय॒मकृ॑णुध्वं स्वप॒स्या सु॑हस्ताः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} तदृ॑भवः॒ परि॑षिक्तं व ए॒तत् सं मदे᳚भिरिन्द्रि॒येभिः॑ पिबध्वम् ||{9/9}{3.7.6.4}{4.35.9}{4.4.3.9}{944, 331, 3461} यत्¦तृ॒तीय᳚म्¦सव॑नम्¦र॒त्न॒ऽधेय᳚म्¦अकृ॑णुध्वम्¦सु॒।आ॒प॒स्या¦सु॒ऽह॒स्ताः॒ | |
[92] अनश्वोजातइति नवर्चस्य सूक्तस्य गौतमोवामदेव ऋभवो जगत्यंत्यात्रिष्टुप् | |
अ॒न॒श्वो जा॒तो, अ॑नभी॒शुरु॒क्थ्यो॒३॑(ओ॒) रथ॑स्त्रिच॒क्रः परि॑ वर्तते॒ रजः॑ |{गौतमो वामदेवः | ऋभवः | जगती} म॒हत्तद्वो᳚ दे॒व्य॑स्य प्र॒वाच॑नं॒ द्यामृ॑भवः पृथि॒वीं यच्च॒ पुष्य॑थ ||{1/9}{3.7.7.1}{4.36.1}{4.4.4.1}{945, 332, 3462} अ॒न॒श्वः¦जा॒तः¦अ॒न॒भी॒शुः¦उ॒क्थ्यः॑¦रथः॑¦त्रि॒ऽच॒क्रः¦परि॑¦व॒र्त॒ते॒¦रजः॑ | |
रथं॒ ये च॒क्रुः सु॒वृतं᳚ सु॒चेत॒सो ऽवि॑ह्वरन्तं॒ मन॑स॒स्परि॒ ध्यया᳚ |{गौतमो वामदेवः | ऋभवः | जगती} ताँ, ऊ॒ न्व१॑(अ॒)स्य सव॑नस्य पी॒तय॒ आ वो᳚ वाजा, ऋभवो वेदयामसि ||{2/9}{3.7.7.2}{4.36.2}{4.4.4.2}{946, 332, 3463} रथ᳚म्¦ये¦च॒क्रुः¦सु॒ऽवृत᳚म्¦सु॒ऽचेत॑सः¦अवि॑ऽह्वरन्तम्¦मन॑सः¦परि॑¦ध्यया᳚ | |
तद्वो᳚ वाजा, ऋभवः सुप्रवाच॒नं दे॒वेषु॑ विभ्वो, अभवन्महित्व॒नम् |{गौतमो वामदेवः | ऋभवः | जगती} जिव्री॒ यत्सन्ता᳚ पि॒तरा᳚ सना॒जुरा॒ पुन॒र्युवा᳚ना च॒रथा᳚य॒ तक्ष॑थ ||{3/9}{3.7.7.3}{4.36.3}{4.4.4.3}{947, 332, 3464} तत्¦वः॒¦वा॒जाः॒¦ऋ॒भ॒वः॒¦सु॒ऽप्र॒वा॒च॒नम्¦दे॒वेषु॑¦वि॒ऽभ्वः॒¦अ॒भ॒व॒त्¦म॒हि॒ऽत्व॒नम् | |
एकं॒ वि च॑क्र चम॒सं चतु᳚र्वयं॒ निश्चर्म॑णो॒ गाम॑रिणीत धी॒तिभिः॑ |{गौतमो वामदेवः | ऋभवः | जगती} अथा᳚ दे॒वेष्व॑मृत॒त्वमा᳚नश श्रु॒ष्टी वा᳚जा, ऋभव॒स्तद्व॑ उ॒क्थ्य᳚म् ||{4/9}{3.7.7.4}{4.36.4}{4.4.4.4}{948, 332, 3465} एक᳚म्¦वि¦च॒क्र॒¦च॒म॒सम्¦चतुः॑ऽवयम्¦निः¦चर्म॑णः¦गाम्¦अ॒रि॒णी॒त॒¦धी॒तिऽभिः॑ | |
ऋ॒भु॒तो र॒यिः प्र॑थ॒मश्र॑वस्तमो॒ वाज॑श्रुतासो॒ यमजी᳚जन॒न्नरः॑ |{गौतमो वामदेवः | ऋभवः | जगती} वि॒भ्व॒त॒ष्टो वि॒दथे᳚षु प्र॒वाच्यो॒ यं दे᳚वा॒सोऽव॑था॒ स विच॑र्षणिः ||{5/9}{3.7.7.5}{4.36.5}{4.4.4.5}{949, 332, 3466} ऋ॒भु॒तः¦र॒यिः¦प्र॒थ॒मश्र॑वःऽतमः¦वाज॑ऽश्रुतासः¦यम्¦अजी᳚जनन्¦नरः॑ | |
स वा॒ज्यर्वा॒ स ऋषि᳚र्वच॒स्यया॒ स शूरो॒, अस्ता॒ पृत॑नासु दु॒ष्टरः॑ |{गौतमो वामदेवः | ऋभवः | जगती} स रा॒यस्पोषं॒ स सु॒वीर्यं᳚ दधे॒ यं वाजो॒ विभ्वाँ᳚, ऋ॒भवो॒ यमावि॑षुः ||{6/9}{3.7.8.1}{4.36.6}{4.4.4.6}{950, 332, 3467} सः¦वा॒जी¦अर्वा᳚¦सः¦ऋषिः॑¦व॒च॒स्यया᳚¦सः¦शूरः॑¦अस्ता᳚¦पृत॑नासु¦दु॒स्तरः॑ | |
श्रेष्ठं᳚ वः॒ पेशो॒, अधि॑ धायि दर्श॒तं स्तोमो᳚ वाजा, ऋभव॒स्तं जु॑जुष्टन |{गौतमो वामदेवः | ऋभवः | जगती} धीरा᳚सो॒ हि ष्ठा क॒वयो᳚ विप॒श्चित॒स्तान्व॑ ए॒ना ब्रह्म॒णा वे᳚दयामसि ||{7/9}{3.7.8.2}{4.36.7}{4.4.4.7}{951, 332, 3468} श्रेष्ठ᳚म्¦वः॒¦पेशः॑¦अधि॑¦धा॒यि॒¦द॒र्श॒तम्¦स्तोमः॑¦वा॒जाः॒¦ऋ॒भ॒वः॒¦तम्¦जु॒जु॒ष्ट॒न॒ | |
यू॒यम॒स्मभ्यं᳚ धि॒षणा᳚भ्य॒स्परि॑ वि॒द्वांसो॒ विश्वा॒ नर्या᳚णि॒ भोज॑ना |{गौतमो वामदेवः | ऋभवः | जगती} द्यु॒मन्तं॒ वाजं॒ वृष॑शुष्ममुत्त॒ममा नो᳚ र॒यिमृ॑भवस्तक्ष॒ता वयः॑ ||{8/9}{3.7.8.3}{4.36.8}{4.4.4.8}{952, 332, 3469} यू॒यम्¦अ॒स्मभ्य᳚म्¦धि॒षणा᳚भ्यः¦परि॑¦वि॒द्वांसः॑¦विश्वा᳚¦नर्या᳚णि¦भोज॑ना | |
इ॒ह प्र॒जामि॒ह र॒यिं ररा᳚णा, इ॒ह श्रवो᳚ वी॒रव॑त् तक्षता नः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} येन॑ व॒यं चि॒तये॒मात्य॒न्यान् तं वाजं᳚ चि॒त्रमृ॑भवो ददा नः ||{9/9}{3.7.8.4}{4.36.9}{4.4.4.9}{953, 332, 3470} इ॒ह¦प्र॒ऽजाम्¦इ॒ह¦र॒यिम्¦ररा᳚णाः¦इ॒ह¦श्रवः॑¦वी॒रऽव॑त्¦त॒क्ष॒त॒¦नः॒ | |
[93] उपनइत्यष्टर्चस्य ऊक्तस्य गौतमोवामदेवऋभवस्त्रिष्टुप् अंत्याश्चतस्रोनुष्टुभः | |
उप॑ नो वाजा, अध्व॒रमृ॑भुक्षा॒ देवा᳚ या॒त प॒थिभि॑र्देव॒यानैः᳚ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} यथा᳚ य॒ज्ञं मनु॑षो वि॒क्ष्वा॒३॑(आ॒)सु द॑धि॒ध्वे र᳚ण्वाः सु॒दिने॒ष्वह्ना᳚म् ||{1/8}{3.7.9.1}{4.37.1}{4.4.5.1}{954, 333, 3471} उप॑¦नः॒¦वा॒जाः॒¦अ॒ध्व॒रम्¦ऋ॒भु॒क्षाः॒¦देवाः᳚¦या॒त¦प॒थिऽभिः॑¦दे॒व॒ऽयानैः᳚ | |
ते वो᳚ हृ॒दे मन॑से सन्तु य॒ज्ञा जुष्टा᳚सो, अ॒द्य घृ॒तनि᳚र्णिजो गुः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} प्र वः॑ सु॒तासो᳚ हरयन्त पू॒र्णाः क्रत्वे॒ दक्षा᳚य हर्षयन्त पी॒ताः ||{2/8}{3.7.9.2}{4.37.2}{4.4.5.2}{955, 333, 3472} ते¦वः॒¦हृ॒दे¦मन॑से¦स॒न्तु॒¦य॒ज्ञाः¦जुष्टा᳚सः¦अ॒द्य¦घृ॒तऽनि᳚र्निजः¦गुः॒ | |
त्र्यु॒दा॒यं दे॒वहि॑तं॒ यथा᳚ वः॒ स्तोमो᳚ वाजा, ऋभुक्षणो द॒दे वः॑ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} जु॒ह्वे म॑नु॒ष्वदुप॑रासु वि॒क्षु यु॒ष्मे सचा᳚ बृ॒हद्दि॑वेषु॒ सोम᳚म् ||{3/8}{3.7.9.3}{4.37.3}{4.4.5.3}{956, 333, 3473} त्रि॒।औ॒दा॒यम्¦दे॒वऽहि॑तम्¦यथा᳚¦वः॒¦स्तोमः॑¦वा॒जाः॒¦ऋ॒भु॒क्ष॒णः॒¦द॒दे¦वः॒ | |
पीवो᳚अश्वाः शु॒चद्र॑था॒ हि भू॒ताऽयः॑शिप्रा वाजिनः सुनि॒ष्काः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} इन्द्र॑स्य सूनो शवसो नपा॒तोऽनु॑ वश्चेत्यग्रि॒यं मदा᳚य ||{4/8}{3.7.9.4}{4.37.4}{4.4.5.4}{957, 333, 3474} पीवः॑।आश्वाः¦शु॒चत्ऽर॑थाः¦हि¦भू॒त¦आयः॑ऽशिप्राः¦वा॒जि॒नः॒¦सु॒ऽनि॒ष्काः | |
ऋ॒भुमृ॑भुक्षणो र॒यिं वाजे᳚ वा॒जिन्त॑मं॒ युज᳚म् |{गौतमो वामदेवः | ऋभवः | अनुष्टुप्} इन्द्र॑स्वन्तं हवामहे सदा॒सात॑मम॒श्विन᳚म् ||{5/8}{3.7.9.5}{4.37.5}{4.4.5.5}{958, 333, 3475} ऋ॒भुम्¦ऋ॒भु॒क्ष॒णः॒¦र॒यिम्¦वाजे᳚¦वा॒जिन्ऽत॑मम्¦युज᳚म् | इन्द्र॑स्वन्तम्¦ह॒वा॒म॒हे॒¦स॒दा॒ऽसात॑मम्¦अ॒श्विन᳚म् || |
सेदृ॑भवो॒ यमव॑थ यू॒यमिन्द्र॑श्च॒ मर्त्य᳚म् |{गौतमो वामदेवः | ऋभवः | अनुष्टुप्} स धी॒भिर॑स्तु॒ सनि॑ता मे॒धसा᳚ता॒ सो, अर्व॑ता ||{6/8}{3.7.10.1}{4.37.6}{4.4.5.6}{959, 333, 3476} सः¦इत्¦ऋ॒भ॒वः॒¦यम्¦अव॑थ¦यू॒यम्¦इन्द्रः॑¦च॒¦मर्त्य᳚म् | सः¦धी॒भिः¦अ॒स्तु॒¦सनि॑ता¦मे॒धऽसा᳚ता¦सः¦अर्व॑ता || |
वि नो᳚ वाजा, ऋभुक्षणः प॒थश्चि॑तन॒ यष्ट॑वे |{गौतमो वामदेवः | ऋभवः | अनुष्टुप्} अ॒स्मभ्यं᳚ सूरयः स्तु॒ता विश्वा॒, आशा᳚स्तरी॒षणि॑ ||{7/8}{3.7.10.2}{4.37.7}{4.4.5.7}{960, 333, 3477} वि¦नः॒¦वा॒जाः॒¦ऋ॒भु॒क्ष॒णः॒¦प॒थः¦चि॒त॒न॒¦यष्ट॑वे | अ॒स्मभ्य᳚म्¦सू॒र॒यः॒¦स्तु॒ताः¦विश्वाः᳚¦आशाः᳚¦त॒री॒षणि॑ || |
तं नो᳚ वाजा, ऋभुक्षण॒ इन्द्र॒ नास॑त्या र॒यिम् |{गौतमो वामदेवः | ऋभवः | अनुष्टुप्} समश्वं᳚ चर्ष॒णिभ्य॒ आ पु॒रु श॑स्त म॒घत्त॑ये ||{8/8}{3.7.10.3}{4.37.8}{4.4.5.8}{961, 333, 3478} तम्¦नः॒¦वा॒जाः॒¦ऋ॒भु॒क्ष॒णः॒¦इन्द्र॑¦नास॑त्या¦र॒यिम् | सम्¦अश्व᳚म्¦च॒र्ष॒णिऽभ्यः॑¦आ¦पु॒रु¦श॒स्त॒¦म॒घत्त॑ये || |
[94] उतोहीति दशर्चस्य सूक्तस्य गौतमोवामदेवोदधिक्रावा आद्यायाद्यावापृथिवीत्रिष्टुप् |
उ॒तो हि वां᳚ दा॒त्रा सन्ति॒ पूर्वा॒ या पू॒रुभ्य॑स्त्र॒सद॑स्युर्नितो॒शे |{गौतमो वामदेवः | द्यावापृथिवी | त्रिष्टुप्} क्षे॒त्रा॒सां द॑दथुरुर्वरा॒सां घ॒नं दस्यु॑भ्यो, अ॒भिभू᳚तिमु॒ग्रम् ||{1/10}{3.7.11.1}{4.38.1}{4.4.6.1}{962, 334, 3479} उ॒तो इति॑¦हि¦वा॒म्¦दा॒त्रा¦सन्ति॑¦पूर्वा᳚¦या¦पू॒रुऽभ्यः॑¦त्र॒सद॑स्युः¦नि॒ऽतो॒शे | |
उ॒त वा॒जिनं᳚ पुरुनि॒ष्षिध्वा᳚नं दधि॒क्रामु॑ ददथुर्वि॒श्वकृ॑ष्टिम् |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} ऋ॒जि॒प्यं श्ये॒नं प्रु॑षि॒तप्सु॑मा॒शुं च॒र्कृत्य॑म॒र्यो नृ॒पतिं॒ न शूर᳚म् ||{2/10}{3.7.11.2}{4.38.2}{4.4.6.2}{963, 334, 3480} उ॒त¦वा॒जिन᳚म्¦पु॒रु॒निः॒ऽसिध्वा᳚नम्¦द॒धि॒ऽक्राम्¦ऊँ॒ इति॑¦द॒द॒थुः॒¦वि॒श्वऽकृ॑ष्टिम् | |
यं सी॒मनु॑ प्र॒वते᳚व॒ द्रव᳚न्तं॒ विश्वः॑ पू॒रुर्मद॑ति॒ हर्ष॑माणः |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} प॒ड्भिर्गृध्य᳚न्तं मेध॒युं न शूरं᳚ रथ॒तुरं॒ वात॑मिव॒ ध्रज᳚न्तम् ||{3/10}{3.7.11.3}{4.38.3}{4.4.6.3}{964, 334, 3481} यम्¦सी॒म्¦अनु॑¦प्र॒वता᳚ऽइव¦द्रव᳚न्तम्¦विश्वः॑¦पू॒रुः¦मद॑ति¦हर्ष॑माणः | |
यः स्मा᳚रुन्धा॒नो गध्या᳚ स॒मत्सु॒ सनु॑तर॒श्चर॑ति॒ गोषु॒ गच्छ॑न् |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} आ॒विरृ॑जीको वि॒दथा᳚ नि॒चिक्य॑त् ति॒रो, अ॑र॒तिं पर्याप॑ आ॒योः ||{4/10}{3.7.11.4}{4.38.4}{4.4.6.4}{965, 334, 3482} यः¦स्म॒¦आ॒ऽरु॒न्धा॒नः¦गध्या᳚¦स॒मत्ऽसु॑¦सनु॑ऽतरः¦चर॑ति¦गोषु॑¦गच्छ॑न् | |
उ॒त स्मै᳚नं वस्त्र॒मथिं॒ न ता॒युमनु॑ क्रोशन्ति क्षि॒तयो॒ भरे᳚षु |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} नी॒चाय॑मानं॒ जसु॑रिं॒ न श्ये॒नं श्रव॒श्चाच्छा᳚ पशु॒मच्च॑ यू॒थम् ||{5/10}{3.7.11.5}{4.38.5}{4.4.6.5}{966, 334, 3483} उ॒त¦स्म॒¦ए॒न॒म्¦व॒स्त्र॒ऽमथि᳚म्¦न¦ता॒युम्¦अनु॑¦क्रो॒श॒न्ति॒¦क्षि॒तयः॑¦भरे᳚षु | |
उ॒त स्मा᳚सु प्रथ॒मः स॑रि॒ष्यन् नि वे᳚वेति॒ श्रेणि॑भी॒ रथा᳚नाम् |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} स्रजं᳚ कृण्वा॒नो जन्यो॒ न शुभ्वा᳚ रे॒णुं रेरि॑हत् कि॒रणं᳚ दद॒श्वान् ||{6/10}{3.7.12.1}{4.38.6}{4.4.6.6}{967, 334, 3484} उ॒त¦स्म॒¦आ॒सु¦प्र॒थ॒मः¦स॒रि॒ष्यन्¦नि¦वे॒वे॒ति॒¦श्रेणि॑ऽभिः¦रथा᳚नाम् | |
उ॒त स्य वा॒जी सहु॑रिरृ॒तावा॒ शुश्रू᳚षमाणस्त॒न्वा᳚ सम॒र्ये |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} तुरं᳚ य॒तीषु॑ तु॒रय᳚न्नृजि॒प्योऽधि॑ भ्रु॒वोः कि॑रते रे॒णुमृ॒ञ्जन् ||{7/10}{3.7.12.2}{4.38.7}{4.4.6.7}{968, 334, 3485} उ॒त¦स्यः¦वा॒जी¦सहु॑रिः¦ऋ॒तऽवा᳚¦शुश्रू᳚षमाणः¦त॒न्वा᳚¦स॒ऽम॒र्ये | |
उ॒त स्मा᳚स्य तन्य॒तोरि॑व॒ द्योरृ॑घाय॒तो, अ॑भि॒युजो᳚ भयन्ते |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} य॒दा स॒हस्र॑म॒भि षी॒मयो᳚धीद् दु॒र्वर्तुः॑ स्मा भवति भी॒म ऋ॒ञ्जन् ||{8/10}{3.7.12.3}{4.38.8}{4.4.6.8}{969, 334, 3486} उ॒त¦स्म॒¦अ॒स्य॒¦त॒न्य॒तोःऽइ᳚व¦द्योः¦ऋ॒घा॒य॒तः¦अ॒भि॒ऽयुजः॑¦भ॒य॒न्ते॒ | |
उ॒त स्मा᳚स्य पनयन्ति॒ जना᳚ जू॒तिं कृ॑ष्टि॒प्रो, अ॒भिभू᳚तिमा॒शोः |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} उ॒तैन॑माहुः समि॒थे वि॒यन्तः॒ परा᳚ दधि॒क्रा, अ॑सरत् स॒हस्रैः᳚ ||{9/10}{3.7.12.4}{4.38.9}{4.4.6.9}{970, 334, 3487} उ॒त¦स्म॒¦अ॒स्य॒¦प॒न॒य॒न्ति॒¦जनाः᳚¦जू॒तिम्¦कृ॒ष्टि॒ऽप्रः¦अ॒भिऽभू᳚तिम्¦आ॒शोः | |
आ द॑धि॒क्राः शव॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस्त॑तान |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} स॒ह॒स्र॒साः श॑त॒सा वा॒ज्यर्वा᳚ पृ॒णक्तु॒ मध्वा॒ समि॒मा वचां᳚सि ||{10/10}{3.7.12.5}{4.38.10}{4.4.6.10}{971, 334, 3488} आ¦द॒धि॒ऽक्राः¦शव॑सा¦पंच॑¦कृ॒ष्टीः¦सूर्यः॑ऽइव¦ज्योति॑षा¦अ॒पः¦त॒ता॒न॒ | |
[95] आशुमिति षडृचस्य सूक्तस्य गौतमोवामदेवोदधिक्रावात्रिष्टुबन्त्यानुष्टुप् | |
आ॒शुं द॑धि॒क्रां तमु॒ नु ष्ट॑वाम दि॒वस्पृ॑थि॒व्या, उ॒त च॑र्किराम |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} उ॒च्छन्ती॒र्मामु॒षसः॑ सूदय॒न्त्वति॒ विश्वा᳚नि दुरि॒तानि॑ पर्षन् ||{1/6}{3.7.13.1}{4.39.1}{4.4.7.1}{972, 335, 3489} आ॒शुम्¦द॒धि॒ऽक्राम्¦तम्¦ऊँ॒ इति॑¦नु¦स्त॒वा॒म॒¦दि॒वः¦पृ॒थि॒व्याः¦उ॒त¦च॒र्कि॒रा॒म॒ | |
म॒हश्च॑र्क॒र्म्यर्व॑तः क्रतु॒प्रा द॑धि॒क्राव्णः॑ पुरु॒वार॑स्य॒ वृष्णः॑ |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} यं पू॒रुभ्यो᳚ दीदि॒वांसं॒ नाग्निं द॒दथु᳚र्मित्रावरुणा॒ ततु॑रिम् ||{2/6}{3.7.13.2}{4.39.2}{4.4.7.2}{973, 335, 3490} म॒हः¦च॒र्क॒र्मि॒¦अर्व॑तः¦क्र॒तु॒ऽप्राः¦द॒धि॒ऽक्राव्णः॑¦पु॒रु॒ऽवार॑स्य¦वृष्णः॑ | |
यो, अश्व॑स्य दधि॒क्राव्णो॒, अका᳚री॒त् समि॑द्धे, अ॒ग्ना, उ॒षसो॒ व्यु॑ष्टौ |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} अना᳚गसं॒ तमदि॑तिः कृणोतु॒ स मि॒त्रेण॒ वरु॑णेना स॒जोषाः᳚ ||{3/6}{3.7.13.3}{4.39.3}{4.4.7.3}{974, 335, 3491} यः¦अश्व॑स्य¦द॒धि॒ऽक्राव्णः॑¦अका᳚रीत्¦सम्ऽइ᳚द्धे¦अ॒ग्नौ¦उ॒षसः॑¦वि।औ᳚ष्टौ | |
द॒धि॒क्राव्ण॑ इ॒ष ऊ॒र्जो म॒हो यदम᳚न्महि म॒रुतां॒ नाम॑ भ॒द्रम् |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} स्व॒स्तये॒ वरु॑णं मि॒त्रम॒ग्निं हवा᳚मह॒ इन्द्रं॒ वज्र॑बाहुम् ||{4/6}{3.7.13.4}{4.39.4}{4.4.7.4}{975, 335, 3492} द॒धि॒ऽक्राव्णः॑¦इ॒षः¦ऊ॒र्जः¦म॒हः¦यत्¦अम᳚न्महि¦म॒रुता᳚म्¦नाम॑¦भ॒द्रम् | |
इन्द्र॑मि॒वेदु॒भये॒ वि ह्व॑यन्त उ॒दीरा᳚णा य॒ज्ञमु॑पप्र॒यन्तः॑ |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} द॒धि॒क्रामु॒ सूद॑नं॒ मर्त्या᳚य द॒दथु᳚र्मित्रावरुणा नो॒, अश्व᳚म् ||{5/6}{3.7.13.5}{4.39.5}{4.4.7.5}{976, 335, 3493} इन्द्र᳚म्ऽइव¦इत्¦उ॒भये᳚¦वि¦ह्व॒य॒न्ते॒¦उ॒त्ऽईरा᳚णाः¦य॒ज्ञम्¦उ॒प॒ऽप्र॒यन्तः॑ | |
द॒धि॒क्राव्णो᳚, अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ |{गौतमो वामदेवः | दधिक्राः | अनुष्टुप्} सु॒र॒भि नो॒ मुखा᳚ कर॒त् प्र ण॒ आयूं᳚षि तारिषत् ||{6/6}{3.7.13.6}{4.39.6}{4.4.7.6}{977, 335, 3494} द॒धि॒ऽक्राव्णः॑¦अ॒का॒रि॒ष॒म्¦जि॒ष्णोः¦अश्व॑स्य¦वा॒जिनः॑ | सु॒र॒भि¦नः॒¦मुखा᳚¦क॒र॒त्¦प्र¦नः॒¦आयूं᳚षि¦ता॒रि॒ष॒त् || |
[96] दधिक्राव्णइति पंचर्चस्य सूक्तस्य गौतमोवामदेवदधिक्रावा अंत्यायाः सूर्यस्त्रिष्टुप् अंत्याश्चतस्रोजगत्यः |
द॒धि॒क्राव्ण॒ इदु॒ नु च॑र्किराम॒ विश्वा॒, इन्मामु॒षसः॑ सूदयन्तु |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} अ॒पाम॒ग्नेरु॒षसः॒ सूर्य॑स्य॒ बृह॒स्पते᳚राङ्गिर॒सस्य॑ जि॒ष्णोः ||{1/5}{3.7.14.1}{4.40.1}{4.4.8.1}{978, 336, 3495} द॒धि॒ऽक्राव्णः॑¦इत्¦ऊँ॒ इति॑¦नु¦चा॒र्कि॒रा॒म॒¦विश्वाः᳚¦इत्¦माम्¦उ॒षसः॑¦सू॒द॒य॒न्तु॒ | |
सत्वा᳚ भरि॒षो ग॑वि॒षो दु॑वन्य॒सच्छ्र॑व॒स्यादि॒ष उ॒षस॑स्तुरण्य॒सत् |{गौतमो वामदेवः | दधिक्राः | जगती} स॒त्यो द्र॒वो द्र॑व॒रः प॑तंग॒रो द॑धि॒क्रावेष॒मूर्जं॒ स्व॑र्जनत् ||{2/5}{3.7.14.2}{4.40.2}{4.4.8.2}{979, 336, 3496} सत्वा᳚¦भ॒रि॒षः¦गो॒ऽइ॒षः¦दु॒व॒न्य॒ऽसत्¦श्र॒व॒स्यात्¦इ॒षः¦उ॒षसः॑¦तु॒र॒ण्य॒ऽसत् | |
उ॒त स्मा᳚स्य॒ द्रव॑तस्तुरण्य॒तः प॒र्णं न वेरनु॑ वाति प्रग॒र्धिनः॑ |{गौतमो वामदेवः | दधिक्राः | जगती} श्ये॒नस्ये᳚व॒ ध्रज॑तो, अङ्क॒सं परि॑ दधि॒क्राव्णः॑ स॒होर्जा तरि॑त्रतः ||{3/5}{3.7.14.3}{4.40.3}{4.4.8.3}{980, 336, 3497} उ॒त¦स्म॒¦अ॒स्य॒¦द्रव॑तः¦तु॒र॒ण्य॒तः¦प॒र्णम्¦न¦वेः¦अनु॑¦वा॒ति॒¦प्र॒ऽग॒र्धिनः॑ | |
उ॒त स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां᳚ ब॒द्धो, अ॑पिक॒क्ष आ॒सनि॑ |{गौतमो वामदेवः | दधिक्राः | जगती} क्रतुं᳚ दधि॒क्रा, अनु॑ सं॒तवी᳚त्वत् प॒थामङ्कां॒स्यन्वा॒पनी᳚फणत् ||{4/5}{3.7.14.4}{4.40.4}{4.4.8.4}{981, 336, 3498} उ॒त¦स्यः¦वा॒जी¦क्षि॒प॒णिम्¦तु॒र॒ण्य॒ति॒¦ग्री॒वाया᳚म्¦ब॒द्धः¦अ॒पि॒ऽक॒क्षे¦आ॒सनि॑ | |
हं॒सः शु॑चि॒षद् वसु॑रन्तरिक्ष॒सद्धोता᳚ वेदि॒षदति॑थिर्दुरोण॒सत् |{गौतमो वामदेवः | सूर्यः | जगती} नृ॒षद् व॑र॒सदृ॑त॒सद् व्यो᳚म॒सद॒ब्जा गो॒जा, ऋ॑त॒जा, अ॑द्रि॒जा, ऋ॒तम् ||{5/5}{3.7.14.5}{4.40.5}{4.4.8.5}{982, 336, 3499} हं॒सः¦शु॒चि॒ऽसत्¦वसुः॑¦अ॒न्त॒रि॒क्ष॒ऽसत्¦होता᳚¦वे॒दि॒ऽसत्¦अति॑थिः¦दु॒रो॒ण॒ऽसत् | |
[97] इंद्राकोवामित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रावरुणौत्रिष्टुप् |
इन्द्रा॒ को वां᳚ वरुणा सु॒म्नमा᳚प॒ स्तोमो᳚ ह॒विष्माँ᳚, अ॒मृतो॒ न होता᳚ |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} यो वां᳚ हृ॒दि क्रतु॑माँ, अ॒स्मदु॒क्तः प॒स्पर्श॑दिन्द्रावरुणा॒ नम॑स्वान् ||{1/11}{3.7.15.1}{4.41.1}{4.4.9.1}{983, 337, 3500} इन्द्रा᳚¦कः¦वा॒म्¦व॒रु॒णा॒¦सु॒म्नम्¦आ॒प॒¦स्तोमः॑¦ह॒विष्मा᳚न्¦अ॒मृतः॑¦न¦होता᳚ | |
इन्द्रा᳚ ह॒ यो वरु॑णा च॒क्र आ॒पी दे॒वौ मर्तः॑ स॒ख्याय॒ प्रय॑स्वान् |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} स ह᳚न्ति वृ॒त्रा स॑मि॒थेषु॒ शत्रू॒नवो᳚भिर्वा म॒हद्भिः॒ स प्र शृ᳚ण्वे ||{2/11}{3.7.15.2}{4.41.2}{4.4.9.2}{984, 337, 3501} इन्द्रा᳚¦ह॒¦यः¦वरु॑णा¦च॒क्रे¦आ॒पी इति॑¦दे॒वौ¦मर्तः॑¦स॒ख्याय॑¦प्रय॑स्वान् | |
इन्द्रा᳚ ह॒ रत्नं॒ वरु॑णा॒ धेष्ठे॒त्था नृभ्यः॑ शशमा॒नेभ्य॒स्ता |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} यदी॒ सखा᳚या स॒ख्याय॒ सोमैः᳚ सु॒तेभिः॑ सुप्र॒यसा᳚ मा॒दयै᳚ते ||{3/11}{3.7.15.3}{4.41.3}{4.4.9.3}{985, 337, 3502} इन्द्रा᳚¦ह॒¦रत्न᳚म्¦वरु॑णा¦धेष्ठा᳚¦इ॒त्था¦नृऽभ्यः॑¦श॒श॒मा॒नेभ्यः॑¦ता | |
इन्द्रा᳚ यु॒वं व॑रुणा दि॒द्युम॑स्मि॒न्नोजि॑ष्ठमुग्रा॒ नि व॑धिष्टं॒ वज्र᳚म् |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} यो नो᳚ दु॒रेवो᳚ वृ॒कति॑र्द॒भीति॒स्तस्मि᳚न् मिमाथाम॒भिभू॒त्योजः॑ ||{4/11}{3.7.15.4}{4.41.4}{4.4.9.4}{986, 337, 3503} इन्द्रा᳚¦यु॒वम्¦व॒रु॒णा॒¦दि॒द्युम्¦अ॒स्मि॒न्¦ओजि॑ष्ठम्¦उ॒ग्रा॒¦नि¦व॒धि॒ष्ट॒म्¦वज्र᳚म् | |
इन्द्रा᳚ यु॒वं व॑रुणा भू॒तम॒स्या धि॒यः प्रे॒तारा᳚ वृष॒भेव॑ धे॒नोः |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} सा नो᳚ दुहीय॒द्यव॑सेव ग॒त्वी स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ||{5/11}{3.7.15.5}{4.41.5}{4.4.9.5}{987, 337, 3504} इन्द्रा᳚¦यु॒वम्¦व॒रु॒णा॒¦भू॒तम्¦अ॒स्याः¦धि॒यः¦प्रे॒तारा᳚¦वृ॒ष॒भाऽइ᳚व¦धे॒नोः | |
तो॒के हि॒ते तन॑य उ॒र्वरा᳚सु॒ सूरो॒ दृशी᳚के॒ वृष॑णश्च॒ पौंस्ये᳚ |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} इन्द्रा᳚ नो॒, अत्र॒ वरु॑णा स्याता॒मवो᳚भिर्द॒स्मा परि॑तक्म्यायाम् ||{6/11}{3.7.16.1}{4.41.6}{4.4.9.6}{988, 337, 3505} तो॒के¦हि॒ते¦तन॑ये¦उ॒र्वरा᳚सु¦सूरः॑¦दृशी᳚के¦वृष॑णः¦च॒¦पौंस्ये᳚ | |
यु॒वामिद्ध्यव॑से पू॒र्व्याय॒ परि॒ प्रभू᳚ती ग॒विषः॑ स्वापी |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} वृ॒णी॒महे᳚ स॒ख्याय॑ प्रि॒याय॒ शूरा॒ मंहि॑ष्ठा पि॒तरे᳚व श॒म्भू ||{7/11}{3.7.16.2}{4.41.7}{4.4.9.7}{989, 337, 3506} यु॒वाम्¦इत्¦हि¦अव॑से¦पू॒र्व्याय॑¦परि॑¦प्रभू᳚ती॒ इति॒ प्रऽभू᳚ती¦गो॒ऽइषः॑¦स्वा॒पी॒ इति॑ सुऽआपी | |
ता वां॒ धियोऽव॑से वाज॒यन्ती᳚रा॒जिं न ज॑ग्मुर्युव॒यूः सु॑दानू |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} श्रि॒ये न गाव॒ उप॒ सोम॑मस्थु॒रिन्द्रं॒ गिरो॒ वरु॑णं मे मनी॒षाः ||{8/11}{3.7.16.3}{4.41.8}{4.4.9.8}{990, 337, 3507} ताः¦वा॒म्¦धियः॑¦अव॑से¦वा॒ज॒ऽयन्तीः᳚¦आ॒जिम्¦न¦ज॒ग्मुः॒¦यु॒व॒ऽयूः¦सु॒दा॒नू॒ इति॑ सुऽदानू | |
इ॒मा, इन्द्रं॒ वरु॑णं मे मनी॒षा, अग्म॒न्नुप॒ द्रवि॑णमि॒च्छमा᳚नाः |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} उपे᳚मस्थुर्जो॒ष्टार॑ इव॒ वस्वो᳚ र॒घ्वीरि॑व॒ श्रव॑सो॒ भिक्ष॑माणाः ||{9/11}{3.7.16.4}{4.41.9}{4.4.9.9}{991, 337, 3508} इ॒माः¦इन्द्र᳚म्¦वरु॑णम्¦मे॒¦म॒नी॒षाः¦अग्म॑न्¦उप॑¦द्रवि॑णम्¦इ॒च्छमा᳚नाः | |
अश्व्य॑स्य॒ त्मना॒ रथ्य॑स्य पु॒ष्टेर्नित्य॑स्य रा॒यः पत॑यः स्याम |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} ता च॑क्रा॒णा, ऊ॒तिभि॒र्नव्य॑सीभिरस्म॒त्रा रायो᳚ नि॒युतः॑ सचन्ताम् ||{10/11}{3.7.16.5}{4.41.10}{4.4.9.10}{992, 337, 3509} अश्व्य॑स्य¦त्मना᳚¦रथ्य॑स्य¦पु॒ष्टेः¦नित्य॑स्य¦रा॒यः¦पत॑यः¦स्या॒म॒ | |
आ नो᳚ बृहन्ता बृह॒तीभि॑रू॒ती, इन्द्र॑ या॒तं व॑रुण॒ वाज॑सातौ |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} यद्दि॒द्यवः॒ पृत॑नासु प्र॒क्रीळा॒न् तस्य॑ वां स्याम सनि॒तार॑ आ॒जेः ||{11/11}{3.7.16.6}{4.41.11}{4.4.9.11}{993, 337, 3510} आ¦नः॒¦बृ॒ह॒न्ता॒¦बृ॒ह॒तीभिः॑¦ऊ॒ती¦इन्द्र॑¦या॒तम्¦व॒रु॒ण॒¦वाज॑ऽसातौ | |
[98] ममद्वितेति दशर्चस्य सूक्तस्य पौरुकुत्स्यस्त्रसदस्युः आद्यानांषण्णांत्रसदस्युर्देवता अंत्यानांचतसृणामिंद्रावरुणौत्रिष्टुप् |
मम॑ द्वि॒ता रा॒ष्ट्रं क्ष॒त्रिय॑स्य वि॒श्वायो॒र्विश्वे᳚, अ॒मृता॒ यथा᳚ नः |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्} क्रतुं᳚ सचन्ते॒ वरु॑णस्य दे॒वा राजा᳚मि कृ॒ष्टेरु॑प॒मस्य॑ व॒व्रेः ||{1/10}{3.7.17.1}{4.42.1}{4.4.10.1}{994, 338, 3511} मम॑¦द्वि॒ता¦रा॒ष्ट्रम्¦क्ष॒त्रिय॑स्य¦वि॒श्वऽआ᳚योः¦विश्वे᳚¦अ॒मृताः᳚¦यथा᳚¦नः॒ | |
अ॒हं राजा॒ वरु॑णो॒ मह्यं॒ तान्य॑सु॒र्या᳚णि प्रथ॒मा धा᳚रयन्त |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्} क्रतुं᳚ सचन्ते॒ वरु॑णस्य दे॒वा राजा᳚मि कृ॒ष्टेरु॑प॒मस्य॑ व॒व्रेः ||{2/10}{3.7.17.2}{4.42.2}{4.4.10.2}{995, 338, 3512} अ॒हम्¦राजा᳚¦वरु॑णः¦मह्य᳚म्¦तानि॑¦अ॒सु॒र्या᳚णि¦प्र॒थ॒मा¦धा॒र॒य॒न्त॒ | |
अ॒हमिन्द्रो॒ वरु॑ण॒स्ते म॑हि॒त्वोर्वी ग॑भी॒रे रज॑सी सु॒मेके᳚ |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्} त्वष्टे᳚व॒ विश्वा॒ भुव॑नानि वि॒द्वान् त्समै᳚रयं॒ रोद॑सी धा॒रयं᳚ च ||{3/10}{3.7.17.3}{4.42.3}{4.4.10.3}{996, 338, 3513} अ॒हम्¦इन्द्रः॑¦वरु॑णः¦ते इति॑¦म॒हि॒ऽत्वा¦उ॒र्वी इति॑¦ग॒भी॒रे इति॑¦रज॑सी॒ इति॑¦सु॒मेके॒ इति॑ सु॒ऽमेके᳚ | |
अ॒हम॒पो, अ॑पिन्वमु॒क्षमा᳚णा धा॒रयं॒ दिवं॒ सद॑न ऋ॒तस्य॑ |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्} ऋ॒तेन॑ पु॒त्रो, अदि॑तेरृ॒तावो॒त त्रि॒धातु॑ प्रथय॒द्वि भूम॑ ||{4/10}{3.7.17.4}{4.42.4}{4.4.10.4}{997, 338, 3514} अ॒हम्¦अ॒पः¦अ॒पि॒न्व॒म्¦उ॒क्षमा᳚णाः¦ध॒रय᳚म्¦दिव᳚म्¦सद॑ने¦ऋ॒तस्य॑ | |
मां नरः॒ स्वश्वा᳚ वा॒जय᳚न्तो॒ मां वृ॒ताः स॒मर॑णे हवन्ते |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्} कृ॒णोम्या॒जिं म॒घवा॒हमिन्द्र॒ इय᳚र्मि रे॒णुम॒भिभू᳚त्योजाः ||{5/10}{3.7.17.5}{4.42.5}{4.4.10.5}{998, 338, 3515} माम्¦नरः॑¦सु॒।आश्वाः᳚¦वा॒जय᳚न्तः¦माम्¦वृ॒ताः¦स॒म्।आर॑णे¦ह॒व॒न्ते॒ | |
अ॒हं ता विश्वा᳚ चकरं॒ नकि᳚र्मा॒ दैव्यं॒ सहो᳚ वरते॒, अप्र॑तीतम् |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्} यन्मा॒ सोमा᳚सो म॒मद॒न्यदु॒क्थोभे भ॑येते॒ रज॑सी, अपा॒रे ||{6/10}{3.7.18.1}{4.42.6}{4.4.10.6}{999, 338, 3516} अ॒हम्¦ता¦विश्वा᳚¦च॒क॒र॒म्¦नकिः॑¦मा॒¦दैव्य᳚म्¦सहः॑¦व॒र॒ते॒¦अप्र॑तिऽइतम् | |
वि॒दुष्टे॒ विश्वा॒ भुव॑नानि॒ तस्य॒ ता प्र ब्र॑वीषि॒ वरु॑णाय वेधः |{पौरुकुत्स्यः त्रसदस्युः | इन्द्रावरुणौ | त्रिष्टुप्} त्वं वृ॒त्राणि॑ शृण्विषे जघ॒न्वान् त्वं वृ॒ताँ, अ॑रिणा, इन्द्र॒ सिन्धू॑न् ||{7/10}{3.7.18.2}{4.42.7}{4.4.10.7}{1000, 338, 3517} वि॒दुः¦ते॒¦विश्वा᳚¦भुव॑नानि¦तस्य॑¦ता¦प्र¦ब्र॒वी॒षि॒¦वरु॑णाय¦वे॒धः॒ | |
अ॒स्माक॒मत्र॑ पि॒तर॒स्त आ᳚सन् त्स॒प्त ऋष॑यो दौर्ग॒हे ब॒ध्यमा᳚ने |{पौरुकुत्स्यः त्रसदस्युः | इन्द्रावरुणौ | त्रिष्टुप्} त आय॑जन्त त्र॒सद॑स्युमस्या॒, इन्द्रं॒ न वृ॑त्र॒तुर॑मर्धदे॒वम् ||{8/10}{3.7.18.3}{4.42.8}{4.4.10.8}{1001, 338, 3518} अ॒स्माक᳚म्¦अत्र॑¦पि॒तरः॑¦ते¦आ॒स॒न्¦स॒प्त¦ऋष॑यः¦दौः॒ऽग॒हे¦ब॒ध्यमा᳚ने | |
पु॒रु॒कुत्सा᳚नी॒ हि वा॒मदा᳚शद्ध॒व्येभि॑रिन्द्रावरुणा॒ नमो᳚भिः |{पौरुकुत्स्यः त्रसदस्युः | इन्द्रावरुणौ | त्रिष्टुप्} अथा॒ राजा᳚नं त्र॒सद॑स्युमस्या वृत्र॒हणं᳚ ददथुरर्धदे॒वम् ||{9/10}{3.7.18.4}{4.42.9}{4.4.10.9}{1002, 338, 3519} पु॒रु॒ऽकुत्सा᳚नी¦हि¦वा॒म्¦अदा᳚शत्¦ह॒व्येभिः॑¦इ॒न्द्रा॒व॒रु॒णा॒¦नमः॑ऽभिः | |
रा॒या व॒यं स॑स॒वांसो᳚ मदेम ह॒व्येन॑ दे॒वा यव॑सेन॒ गावः॑ |{पौरुकुत्स्यः त्रसदस्युः | इन्द्रावरुणौ | त्रिष्टुप्} तां धे॒नुमि᳚न्द्रावरुणा यु॒वं नो᳚ वि॒श्वाहा᳚ धत्त॒मन॑पस्फुरन्तीम् ||{10/10}{3.7.18.5}{4.42.10}{4.4.10.10}{1003, 338, 3520} रा॒या¦व॒यम्¦स॒स॒ऽवांसः॑¦म॒दे॒म॒¦ह॒व्येन॑¦दे॒वाः¦यव॑सेन¦गावः॑ | |
[99] कउश्रवदिति सप्तर्चस्य सूक्तस्य सौहोत्रौ पुरुमीळ्हाजमीळ्हावश्विनौत्रिष्टुप् | |
क उ॑ श्रवत् कत॒मो य॒ज्ञिया᳚नां व॒न्दारु॑ दे॒वः क॑त॒मो जु॑षाते |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} कस्ये॒मां दे॒वीम॒मृते᳚षु॒ प्रेष्ठां᳚ हृ॒दि श्रे᳚षाम सुष्टु॒तिं सु॑ह॒व्याम् ||{1/7}{3.7.19.1}{4.43.1}{4.4.11.1}{1004, 339, 3521} कः¦ऊँ॒ इति॑¦श्र॒व॒त्¦क॒त॒मः¦य॒ज्ञिया᳚नाम्¦व॒न्दारु॑¦दे॒वः¦क॒त॒मः¦जु॒षा॒ते॒ | |
को मृ॑ळाति कत॒म आग॑मिष्ठो दे॒वाना᳚मु कत॒मः शम्भ॑विष्ठः |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} रथं॒ कमा᳚हुर्द्र॒वद॑श्वमा॒शुं यं सूर्य॑स्य दुहि॒तावृ॑णीत ||{2/7}{3.7.19.2}{4.43.2}{4.4.11.2}{1005, 339, 3522} कः¦मृ॒ळा॒ति॒¦क॒त॒मः¦आऽग॑मिष्ठः¦दे॒वाना᳚म्¦ऊँ॒ इति॑¦क॒त॒मः¦शम्ऽभ॑विष्ठः | |
म॒क्षू हि ष्मा॒ गच्छ॑थ॒ ईव॑तो॒ द्यूनिन्द्रो॒ न श॒क्तिं परि॑तक्म्यायाम् |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} दि॒व आजा᳚ता दि॒व्या सु॑प॒र्णा कया॒ शची᳚नां भवथः॒ शचि॑ष्ठा ||{3/7}{3.7.19.3}{4.43.3}{4.4.11.3}{1006, 339, 3523} म॒क्षु¦हि¦स्म॒¦गच्छ॑थः¦ईव॑तः¦द्यून्¦इन्द्रः॑¦न¦श॒क्तिम्¦परि॑ऽतक्म्यायाम् | |
का वां᳚ भू॒दुप॑मातिः॒ कया᳚ न॒ आश्वि॑ना गमथो हू॒यमा᳚ना |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} को वां᳚ म॒हश्चि॒त् त्यज॑सो, अ॒भीक॑ उरु॒ष्यतं᳚ माध्वी दस्रा न ऊ॒ती ||{4/7}{3.7.19.4}{4.43.4}{4.4.11.4}{1007, 339, 3524} का¦वा॒म्¦भू॒त्¦उप॑ऽमातिः¦कया᳚¦नः॒¦आ¦अ॒श्वि॒ना॒¦ग॒म॒थः॒¦हू॒यमा᳚ना | |
उ॒रु वां॒ रथः॒ परि॑ नक्षति॒ द्यामा यत् स॑मु॒द्राद॒भि वर्त॑ते वाम् |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} मध्वा᳚ माध्वी॒ मधु॑ वां प्रुषाय॒न् यत्सीं᳚ वां॒ पृक्षो᳚ भु॒रज᳚न्त प॒क्वाः ||{5/7}{3.7.19.5}{4.43.5}{4.4.11.5}{1008, 339, 3525} उ॒रु¦वा॒म्¦रथः॑¦परि॑¦न॒क्ष॒ति॒¦द्याम्¦आ¦यत्¦स॒मु॒द्रात्¦अ॒भि¦वर्त॑ते¦वा॒म् | |
सिन्धु᳚र्ह वां र॒सया᳚ सिञ्च॒दश्वा᳚न् घृ॒णा वयो᳚ऽरु॒षासः॒ परि॑ ग्मन् |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} तदू॒ षु वा᳚मजि॒रं चे᳚ति॒ यानं॒ येन॒ पती॒ भव॑थः सू॒र्यायाः᳚ ||{6/7}{3.7.19.6}{4.43.6}{4.4.11.6}{1009, 339, 3526} सिन्धुः॑¦ह॒¦वा॒म्¦र॒सया᳚¦सिं॒च॒त्¦अश्वा᳚न्¦घृ॒णा¦वयः॑¦अ॒रु॒षासः॑¦परि॑¦ग्म॒न् | |
इ॒हेह॒ यद्वां᳚ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा᳚जरत्ना |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} उ॒रु॒ष्यतं᳚ जरि॒तारं᳚ यु॒वं ह॑ श्रि॒तः कामो᳚ नासत्या युव॒द्रिक् ||{7/7}{3.7.19.7}{4.43.7}{4.4.11.7}{1010, 339, 3527} इ॒हऽइ᳚ह¦यत्¦वा॒म्¦स॒म॒ना¦प॒पृ॒क्षे¦सा¦इ॒यम्¦अ॒स्मे इति॑¦सु॒ऽम॒तिः¦वा॒ज॒ऽर॒त्ना॒ | |
[100] तंवामिति सप्तर्चस्य सूक्तस्य सौहोत्रौ पुरुमीळ्हाजमीळ्हावश्विनौत्रिष्टुप् | |
तं वां॒ रथं᳚ व॒यम॒द्या हु॑वेम पृथु॒ज्रय॑मश्विना॒ संग॑तिं॒ गोः |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} यः सू॒र्यां वह॑ति वन्धुरा॒युर्गिर्वा᳚हसं पुरु॒तमं᳚ वसू॒युम् ||{1/7}{3.7.20.1}{4.44.1}{4.4.12.1}{1011, 340, 3528} तम्¦वा॒म्¦रथ᳚म्¦व॒यम्¦अ॒द्य¦हु॒वे॒म॒¦पृ॒थु॒ऽज्रय᳚म्¦अ॒श्वि॒ना॒¦सम्ऽग॑तिम्¦गोः | |
यु॒वं श्रिय॑मश्विना दे॒वता॒ तां दिवो᳚ नपाता वनथः॒ शची᳚भिः |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} यु॒वोर्वपु॑र॒भि पृक्षः॑ सचन्ते॒ वह᳚न्ति॒ यत् क॑कु॒हासो॒ रथे᳚ वाम् ||{2/7}{3.7.20.2}{4.44.2}{4.4.12.2}{1012, 340, 3529} यु॒वम्¦श्रिय᳚म्¦अ॒श्वि॒ना॒¦दे॒वता᳚¦ताम्¦दिवः॑¦न॒पा॒ता॒¦व॒न॒थः॒¦शची᳚भिः | |
को वा᳚म॒द्या क॑रते रा॒तह᳚व्य ऊ॒तये᳚ वा सुत॒पेया᳚य वा॒र्कैः |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} ऋ॒तस्य॑ वा व॒नुषे᳚ पू॒र्व्याय॒ नमो᳚ येमा॒नो, अ॑श्वि॒ना व॑वर्तत् ||{3/7}{3.7.20.3}{4.44.3}{4.4.12.3}{1013, 340, 3530} कः¦वा॒म्¦अ॒द्य¦क॒र॒ते॒¦रा॒तऽह᳚व्यः¦ऊ॒तये᳚¦वा॒¦सु॒त॒ऽपेया᳚य¦वा॒¦अ॒र्कैः | |
हि॒र॒ण्यये᳚न पुरुभू॒ रथे᳚ने॒मं य॒ज्ञं ना᳚स॒त्योप॑ यातम् |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} पिबा᳚थ॒ इन्मधु॑नः सो॒म्यस्य॒ दध॑थो॒ रत्नं᳚ विध॒ते जना᳚य ||{4/7}{3.7.20.4}{4.44.4}{4.4.12.4}{1014, 340, 3531} हि॒र॒ण्यये᳚न¦पु॒रु॒भू॒ इति॑ पुरुऽभू¦रथे᳚न¦इ॒मम्¦य॒ज्ञम्¦ना॒स॒त्या॒¦उप॑¦या॒त॒म् | |
आ नो᳚ यातं दि॒वो, अच्छा᳚ पृथि॒व्या हि॑र॒ण्यये᳚न सु॒वृता॒ रथे᳚न |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} मा वा᳚म॒न्ये नि य॑मन् देव॒यन्तः॒ सं यद्द॒दे नाभिः॑ पू॒र्व्या वा᳚म् ||{5/7}{3.7.20.5}{4.44.5}{4.4.12.5}{1015, 340, 3532} आ¦नः॒¦या॒त॒म्¦दि॒वः¦अच्छ॑¦पृ॒थि॒व्याः¦हि॒र॒ण्यये᳚न¦सु॒ऽवृता᳚¦रथे᳚न | |
नू नो᳚ र॒यिं पु॑रु॒वीरं᳚ बृ॒हन्तं॒ दस्रा॒ मिमा᳚थामु॒भये᳚ष्व॒स्मे |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} नरो॒ यद्वा᳚मश्विना॒ स्तोम॒माव᳚न् त्स॒धस्तु॑तिमाजमी॒ळ्हासो᳚, अग्मन् ||{6/7}{3.7.20.6}{4.44.6}{4.4.12.6}{1016, 340, 3533} नु¦नः॒¦र॒यिम्¦पु॒रु॒ऽवीर᳚म्¦बृ॒हन्त᳚म्¦द॒स्रा॒¦मिमा᳚थाम्¦उ॒भये᳚षु¦अ॒स्मे इति॑ | |
इ॒हेह॒ यद्वां᳚ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा᳚जरत्ना |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} उ॒रु॒ष्यतं᳚ जरि॒तारं᳚ यु॒वं ह॑ श्रि॒तः कामो᳚ नासत्या युव॒द्रिक् ||{7/7}{3.7.20.7}{4.44.7}{4.4.12.7}{1017, 340, 3534} इ॒हऽइ᳚ह¦यत्¦वा॒म्¦स॒म॒ना¦प॒पृ॒क्षे¦सा¦इ॒यम्¦अ॒स्मे इति॑¦सु॒ऽम॒तिः¦वा॒ज॒ऽर॒त्ना॒ | |
[101] एषस्यइति सप्तर्चस्य सूक्तस्य गौतमो वामदेवोश्विनौ जगत्यंत्यात्रिष्टुप् | |
ए॒ष स्य भा॒नुरुदि॑यर्ति यु॒ज्यते॒ रथः॒ परि॑ज्मा दि॒वो, अ॒स्य सान॑वि |{गौतमो वामदेवः | अश्विनौ | जगती} पृ॒क्षासो᳚, अस्मिन् मिथु॒ना, अधि॒ त्रयो॒ दृति॑स्तु॒रीयो॒ मधु॑नो॒ वि र॑प्शते ||{1/7}{3.7.21.1}{4.45.1}{4.4.13.1}{1018, 341, 3535} ए॒षः¦स्यः¦भा॒नुः¦उत्¦इ॒य॒र्ति॒¦यु॒ज्यते᳚¦रथः॑¦परि॑ऽज्मा¦दि॒वः¦अ॒स्य¦सान॑वि | |
उद्वां᳚ पृ॒क्षासो॒ मधु॑मन्त ईरते॒ रथा॒, अश्वा᳚स उ॒षसो॒ व्यु॑ष्टिषु |{गौतमो वामदेवः | अश्विनौ | जगती} अ॒पो॒र्णु॒वन्त॒स्तम॒ आ परी᳚वृतं॒ स्व१॑(अ॒)र्ण शु॒क्रं त॒न्वन्त॒ आ रजः॑ ||{2/7}{3.7.21.2}{4.45.2}{4.4.13.2}{1019, 341, 3536} उत्¦वा॒म्¦पृ॒क्षासः॑¦मधु॑ऽमन्तः¦ई॒र॒ते॒¦रथाः᳚¦अश्वा᳚सः¦उ॒षसः॑¦वि।औ᳚ष्टिषु | |
मध्वः॑ पिबतं मधु॒पेभि॑रा॒सभि॑रु॒त प्रि॒यं मधु॑ने युञ्जाथां॒ रथ᳚म् |{गौतमो वामदेवः | अश्विनौ | जगती} आ व॑र्त॒निं मधु॑ना जिन्वथस्प॒थो दृतिं᳚ वहेथे॒ मधु॑मन्तमश्विना ||{3/7}{3.7.21.3}{4.45.3}{4.4.13.3}{1020, 341, 3537} मध्वः॑¦पि॒ब॒त॒म्¦म॒धु॒ऽपेभिः॑¦आ॒सऽभिः॑¦उ॒त¦प्रि॒यम्¦मधु॑ने¦युं॒जा॒था॒म्¦रथ᳚म् | |
हं॒सासो॒ ये वां॒ मधु॑मन्तो, अ॒स्रिधो॒ हिर᳚ण्यपर्णा, उ॒हुव॑ उष॒र्बुधः॑ |{गौतमो वामदेवः | अश्विनौ | जगती} उ॒द॒प्रुतो᳚ म॒न्दिनो᳚ मन्दिनि॒स्पृशो॒ मध्वो॒ न मक्षः॒ सव॑नानि गच्छथः ||{4/7}{3.7.21.4}{4.45.4}{4.4.13.4}{1021, 341, 3538} हं॒सासः॑¦ये¦वा॒म्¦मधु॑ऽमन्तः¦अ॒स्रिधः॑¦हिर᳚ण्यऽपर्णाः¦उ॒हुवः॑¦उ॒षः॒ऽबुधः॑ | |
स्व॒ध्व॒रासो॒ मधु॑मन्तो, अ॒ग्नय॑ उ॒स्रा ज॑रन्ते॒ प्रति॒ वस्तो᳚र॒श्विना᳚ |{गौतमो वामदेवः | अश्विनौ | जगती} यन्नि॒क्तह॑स्तस्त॒रणि᳚र्विचक्ष॒णः सोमं᳚ सु॒षाव॒ मधु॑मन्त॒मद्रि॑भिः ||{5/7}{3.7.21.5}{4.45.5}{4.4.13.5}{1022, 341, 3539} सु॒।आ॒ध्च॒रासः॑¦मधु॑ऽमन्तः¦अ॒ग्नयः॑¦उ॒स्रा¦ज॒र॒न्ते॒¦प्रति॑¦वस्तोः᳚¦अ॒श्विना᳚ | |
आ॒के॒नि॒पासो॒, अह॑भि॒र्दवि॑ध्वतः॒ स्व१॑(अ॒)र्ण शु॒क्रं त॒न्वन्त॒ आ रजः॑ |{गौतमो वामदेवः | अश्विनौ | जगती} सूर॑श्चि॒दश्वा᳚न् युयुजा॒न ई᳚यते॒ विश्वाँ॒, अनु॑ स्व॒धया᳚ चेतथस्प॒थः ||{6/7}{3.7.21.6}{4.45.6}{4.4.13.6}{1023, 341, 3540} आ॒के॒ऽनि॒पासः॑¦अह॑ऽभिः¦दवि॑ध्वतः¦स्वः॑¦न¦शु॒क्रम्¦त॒न्वन्तः॑¦आ¦रजः॑ | |
प्र वा᳚मवोचमश्विना धियं॒धा रथः॒ स्वश्वो᳚, अ॒जरो॒ यो, अस्ति॑ |{गौतमो वामदेवः | अश्विनौ | त्रिष्टुप्} येन॑ स॒द्यः परि॒ रजां᳚सि या॒थो ह॒विष्म᳚न्तं त॒रणिं᳚ भो॒जमच्छ॑ ||{7/7}{3.7.21.7}{4.45.7}{4.4.13.7}{1024, 341, 3541} प्र¦वा॒म्¦अ॒वो॒च॒म्¦अ॒श्वि॒ना॒¦धि॒य॒म्ऽधाः¦रथः॑¦सु॒।आश्वः॑¦अ॒जरः॑¦यः¦अस्ति॑ | |
[102] अग्रम्पिबेति सप्तर्चस्य सूक्तस्य गौतमोवामदेव इंद्रवायू आद्यायावायुर्गायत्री | |
अग्रं᳚ पिबा॒ मधू᳚नां सु॒तं वा᳚यो॒ दिवि॑ष्टिषु |{गौतमो वामदेवः | वायुः | गायत्री} त्वं हि पू᳚र्व॒पा, असि॑ ||{1/7}{3.7.22.1}{4.46.1}{4.5.1.1}{1025, 342, 3542} अग्र᳚म्¦पि॒ब॒¦मधू᳚नाम्¦सु॒तम्¦व॒यो॒ इति॑¦दिवि॑ष्टिषु | त्वम्¦हि¦पू॒र्व॒ऽपाः¦असि॑ || |
श॒तेना᳚ नो, अ॒भिष्टि॑भिर्नि॒युत्वाँ॒, इन्द्र॑सारथिः |{गौतमो वामदेवः | इंद्रवायू | गायत्री} वायो᳚ सु॒तस्य॑ तृम्पतम् ||{2/7}{3.7.22.2}{4.46.2}{4.5.1.2}{1026, 342, 3543} श॒तेन॑¦नः॒¦अ॒भिष्टि॑ऽभिः¦नि॒युत्वा᳚न्¦इन्द्र॑ऽसारथिः | वायो॒ इति॑¦सु॒तस्य॑¦तृ॒म्प॒त॒म् || |
आ वां᳚ स॒हस्रं॒ हर॑य॒ इन्द्र॑वायू, अ॒भि प्रयः॑ |{गौतमो वामदेवः | इंद्रवायू | गायत्री} वह᳚न्तु॒ सोम॑पीतये ||{3/7}{3.7.22.3}{4.46.3}{4.5.1.3}{1027, 342, 3544} आ¦वा॒म्¦स॒हस्र᳚म्¦हर॑यः¦इन्द्र॑वायू॒ इति॑¦अ॒भि¦प्रयः॑ | वह᳚न्तु¦सोम॑ऽपीतये || |
रथं॒ हिर᳚ण्यवन्धुर॒मिन्द्र॑वायू स्वध्व॒रम् |{गौतमो वामदेवः | इंद्रवायू | गायत्री} आ हि स्थाथो᳚ दिवि॒स्पृश᳚म् ||{4/7}{3.7.22.4}{4.46.4}{4.5.1.4}{1028, 342, 3545} रथ᳚म्¦हिर᳚ण्यऽवन्धुरम्¦इन्द्र॑वायू॒ इति॑¦सु॒।आ॒ध्व॒रम् | आ¦हि¦स्थाथः॑¦दि॒वि॒ऽस्पृश᳚म् || |
रथे᳚न पृथु॒पाज॑सा दा॒श्वांस॒मुप॑ गच्छतम् |{गौतमो वामदेवः | इंद्रवायू | गायत्री} इन्द्र॑वायू, इ॒हा ग॑तम् ||{5/7}{3.7.22.5}{4.46.5}{4.5.1.5}{1029, 342, 3546} रथे᳚न¦पृ॒थु॒ऽपाज॑सा¦दा॒श्वांस᳚म्¦उप॑¦ग॒च्छ॒त॒म् | इन्द्र॑वायू॒ इति॑¦इ॒ह¦आ¦ग॒त॒म् || |
इन्द्र॑वायू, अ॒यं सु॒तस्तं दे॒वेभिः॑ स॒जोष॑सा |{गौतमो वामदेवः | इंद्रवायू | गायत्री} पिब॑तं दा॒शुषो᳚ गृ॒हे ||{6/7}{3.7.22.6}{4.46.6}{4.5.1.6}{1030, 342, 3547} इन्द्र॑वायू॒ इति॑¦अ॒यम्¦सु॒तः¦तम्¦दे॒वेभिः॑¦स॒ऽजोष॑सा | पिब॑तम्¦दा॒शुषः॑¦गृ॒हे || |
इ॒ह प्र॒याण॑मस्तु वा॒मिन्द्र॑वायू वि॒मोच॑नम् |{गौतमो वामदेवः | इंद्रवायू | गायत्री} इ॒ह वां॒ सोम॑पीतये ||{7/7}{3.7.22.7}{4.46.7}{4.5.1.7}{1031, 342, 3548} इ॒ह¦प्र॒ऽयान᳚म्¦अ॒स्तु॒¦वा॒म्¦इन्द्र॑वायू॒ इति॑¦वि॒ऽमोच॑नम् | इ॒ह¦वा॒म्¦सोम॑ऽपीतये || |
[103] वायोशुक्रइति चतुरृचस्य सूक्तस्य गौतमोवामदेव इंद्रवायू आद्यायावायुरनुष्टुप् | |
वायो᳚ शु॒क्रो, अ॑यामि ते॒ मध्वो॒, अग्रं॒ दिवि॑ष्टिषु |{गौतमो वामदेवः | वायुः | अनुष्टुप्} आ या᳚हि॒ सोम॑पीतये स्पा॒र्हो दे᳚व नि॒युत्व॑ता ||{1/4}{3.7.23.1}{4.47.1}{4.5.2.1}{1032, 343, 3549} वायो॒ इति॑¦शु॒क्रः¦अ॒या॒मि॒¦ते॒¦मध्वः॑¦अग्र᳚म्¦दिवि॑ष्टिषु | आ¦या॒हि॒¦सोम॑ऽपीतये¦स्पा॒र्हः¦दे॒व॒¦नि॒युत्व॑ता || |
इन्द्र॑श्च वायवेषां॒ सोमा᳚नां पी॒तिम᳚र्हथः |{गौतमो वामदेवः | इंद्रवायू | अनुष्टुप्} यु॒वां हि यन्तीन्द॑वो नि॒म्नमापो॒ न स॒ध्र्य॑क् ||{2/4}{3.7.23.2}{4.47.2}{4.5.2.2}{1033, 343, 3550} इन्द्रः॑¦च॒¦वा॒यो॒ इति॑¦ए॒षा॒म्¦सोमा᳚नाम्¦पी॒तिम्¦अ॒र्ह॒थः॒ | यु॒वाम्¦हि¦यन्ति॑¦इन्द॑वः¦नि॒म्नम्¦आपः॑¦न¦स॒ध्र्य॑क् || |
वाय॒विन्द्र॑श्च शु॒ष्मिणा᳚ स॒रथं᳚ शवसस्पती |{गौतमो वामदेवः | इंद्रवायू | अनुष्टुप्} नि॒युत्व᳚न्ता न ऊ॒तय॒ आ या᳚तं॒ सोम॑पीतये ||{3/4}{3.7.23.3}{4.47.3}{4.5.2.3}{1034, 343, 3551} वायो॒ इति॑¦इन्द्रः॑¦च॒¦शु॒ष्मिणा᳚¦स॒ऽरथ᳚म्¦श॒व॒सः॒¦प॒ती॒ इति॑ | नि॒युत्व᳚न्ता¦नः॒¦ऊ॒तये᳚¦आ¦या॒त॒म्¦सोम॑ऽपीतये || |
या वां॒ सन्ति॑ पुरु॒स्पृहो᳚ नि॒युतो᳚ दा॒शुषे᳚ नरा |{गौतमो वामदेवः | इंद्रवायू | अनुष्टुप्} अ॒स्मे ता य॑ज्ञवाह॒सेन्द्र॑वायू॒ नि य॑च्छतम् ||{4/4}{3.7.23.4}{4.47.4}{4.5.2.4}{1035, 343, 3552} याः¦वा॒म्¦सन्ति॑¦पु॒रु॒ऽस्पृहः॑¦नि॒ऽयुतः॑¦दा॒शुषे᳚¦न॒रा॒ | अ॒स्मे इति॑¦ताः¦य॒ज्ञ॒ऽवा॒ह॒सा॒¦इन्द्र॑वायू॒ इति॑¦नि¦य॒च्छ॒त॒म् || |
[104] विहिहोत्राइति पंचर्चस्य सूक्तस्य गौतमोवामदेवोवायुरनुष्टुप् | |
वि॒हि होत्रा॒, अवी᳚ता॒ विपो॒ न रायो᳚, अ॒र्यः |{गौतमो वामदेवः | वायुः | अनुष्टुप्} वाय॒वा च॒न्द्रेण॒ रथे᳚न या॒हि सु॒तस्य॑ पी॒तये᳚ ||{1/5}{3.7.24.1}{4.48.1}{4.5.3.1}{1036, 344, 3553} वि॒हि¦होत्रा᳚¦अवी᳚ताः¦विपः॑¦न¦रायः॑¦अ॒र्यः | वायो॒ इति॑¦आ¦च॒न्द्रेण॑¦रथे᳚न¦या॒हि¦सु॒तस्य॑¦पी॒तये᳚ || |
नि॒र्यु॒वा॒णो, अश॑स्तीर्नि॒युत्वाँ॒, इन्द्र॑सारथिः |{गौतमो वामदेवः | वायुः | अनुष्टुप्} वाय॒वा च॒न्द्रेण॒ रथे᳚न या॒हि सु॒तस्य॑ पी॒तये᳚ ||{2/5}{3.7.24.2}{4.48.2}{4.5.3.2}{1037, 344, 3554} निः॒ऽयु॒वा॒नः¦अश॑स्तीः¦नि॒युत्वा᳚न्¦इन्द्र॑ऽसारथिः | वायो॒ इति॑¦आ¦च॒न्द्रेण॑¦रथे᳚न¦या॒हि¦सु॒तस्य॑¦पी॒तये᳚ || |
अनु॑ कृ॒ष्णे वसु॑धिती ये॒माते᳚ वि॒श्वपे᳚शसा |{गौतमो वामदेवः | वायुः | अनुष्टुप्} वाय॒वा च॒न्द्रेण॒ रथे᳚न या॒हि सु॒तस्य॑ पी॒तये᳚ ||{3/5}{3.7.24.3}{4.48.3}{4.5.3.3}{1038, 344, 3555} अनु॑¦कृ॒ष्णे इति॑¦वसु॑धिती॒ इति॒ वसु॑ऽधिती¦ये॒माते॒ इति॑¦वि॒श्वऽपे᳚शसा | वायो॒ इति॑¦आ¦च॒न्द्रेण॑¦रथे᳚न¦या॒हि¦सु॒तस्य॑¦पी॒तये᳚ || |
वह᳚न्तु त्वा मनो॒युजो᳚ यु॒क्तासो᳚ नव॒तिर्नव॑ |{गौतमो वामदेवः | वायुः | अनुष्टुप्} वाय॒वा च॒न्द्रेण॒ रथे᳚न या॒हि सु॒तस्य॑ पी॒तये᳚ ||{4/5}{3.7.24.4}{4.48.4}{4.5.3.4}{1039, 344, 3556} वह᳚न्तु¦त्वा॒¦म॒नः॒ऽयुजः॑¦यु॒क्तासः॑¦न॒व॒तिः¦नव॑ | वायो॒ इति॑¦आ¦च॒न्द्रेण॑¦रथे᳚न¦या॒हि¦सु॒तस्य॑¦पी॒तये᳚ || |
वायो᳚ श॒तं हरी᳚णां यु॒वस्व॒ पोष्या᳚णाम् |{गौतमो वामदेवः | वायुः | अनुष्टुप्} उ॒त वा᳚ ते सह॒स्रिणो॒ रथ॒ आ या᳚तु॒ पाज॑सा ||{5/5}{3.7.24.5}{4.48.5}{4.5.3.5}{1040, 344, 3557} वायो॒ इति॑¦श॒तम्¦हरी᳚णाम्¦यु॒वस्व॑¦पोष्या᳚णाम् | उ॒त¦वा॒¦ते॒¦स॒ह॒स्रिणः॑¦रथः॑¦आ¦या॒तु॒¦पाज॑सा || |
[105] इदंवामिति षडृचस्य सूक्तस्य गौतमोवामदेव इंद्राबृहस्पतीगायत्री |
इ॒दं वा᳚मा॒स्ये᳚ ह॒विः प्रि॒यमि᳚न्द्राबृहस्पती |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री} उ॒क्थं मद॑श्च शस्यते ||{1/6}{3.7.25.1}{4.49.1}{4.5.4.1}{1041, 345, 3558} इ॒दम्¦वा॒म्¦आ॒स्ये᳚¦ह॒विः¦प्रि॒यम्¦इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ | उ॒क्थम्¦मदः॑¦च॒¦श॒स्य॒ते॒ || |
अ॒यं वां॒ परि॑ षिच्यते॒ सोम॑ इन्द्राबृहस्पती |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री} चारु॒र्मदा᳚य पी॒तये᳚ ||{2/6}{3.7.25.2}{4.49.2}{4.5.4.2}{1042, 345, 3559} अ॒यम्¦वा॒म्¦परि॑¦सि॒च्य॒ते॒¦सोमः॑¦इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ | चारुः॒¦मदा᳚य¦पी॒तये᳚ || |
आ न॑ इन्द्राबृहस्पती गृ॒हमिन्द्र॑श्च गच्छतम् |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री} सो॒म॒पा सोम॑पीतये ||{3/6}{3.7.25.3}{4.49.3}{4.5.4.3}{1043, 345, 3560} आ¦नः॒¦इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑¦गृ॒हम्¦इन्द्रः॑¦च॒¦ग॒च्छ॒त॒म् | सो॒म॒ऽपा¦सोम॑ऽपीतये || |
अ॒स्मे, इ᳚न्द्राबृहस्पती र॒यिं ध॑त्तं शत॒ग्विन᳚म् |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री} अश्वा᳚वन्तं सह॒स्रिण᳚म् ||{4/6}{3.7.25.4}{4.49.4}{4.5.4.4}{1044, 345, 3561} अ॒स्मे इति॑¦इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑¦र॒यिम्¦ध॒त्त॒म्¦श॒त॒ऽग्विन᳚म् | अश्व॑ऽवन्तम्¦स॒ह॒स्रिण᳚म् || |
इन्द्रा॒बृह॒स्पती᳚ व॒यं सु॒ते गी॒र्भिर्ह॑वामहे |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री} अ॒स्य सोम॑स्य पी॒तये᳚ ||{5/6}{3.7.25.5}{4.49.5}{4.5.4.5}{1045, 345, 3562} इन्द्रा॒बृह॒स्पती॒ इति॑¦व॒यम्¦सु॒ते¦गीः॒ऽभिः¦ह॒वा॒म॒हे॒ | अ॒स्य¦सोम॑स्य¦पी॒तये᳚ || |
सोम॑मिन्द्राबृहस्पती॒ पिब॑तं दा॒शुषो᳚ गृ॒हे |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री} मा॒दये᳚थां॒ तदो᳚कसा ||{6/6}{3.7.25.6}{4.49.6}{4.5.4.6}{1046, 345, 3563} सोम᳚म्¦इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑¦पिब॑तम्¦दा॒शुषः॑¦गृ॒हे | मा॒दये᳚थाम्¦तत्ऽओ᳚कसा || |
[106] यस्तस्तंभेत्येकादशर्चस्य सूक्तस्य गौतमोवामदेवो बृहस्पतिरंत्ययोर्द्वयोरिंद्राबृहस्पतीत्रिष्टुप्दशमी जगती | |
यस्त॒स्तम्भ॒ सह॑सा॒ वि ज्मो, अन्ता॒न् बृह॒स्पति॑स्त्रिषध॒स्थो रवे᳚ण |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्} तं प्र॒त्नास॒ ऋष॑यो॒ दीध्या᳚नाः पु॒रो विप्रा᳚ दधिरे म॒न्द्रजि॑ह्वम् ||{1/11}{3.7.26.1}{4.50.1}{4.5.5.1}{1047, 346, 3564} यः¦त॒स्तम्भ॑¦सह॑सा¦वि¦ज्मः¦अन्ता᳚न्¦बृह॒स्पतिः॑¦त्रि॒ऽस॒ध॒स्थः¦रवे᳚ण | |
धु॒नेत॑यः सुप्रके॒तं मद᳚न्तो॒ बृह॑स्पते, अ॒भि ये न॑स्तत॒स्रे |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्} पृष᳚न्तं सृ॒प्रमद॑ब्धमू॒र्वं बृह॑स्पते॒ रक्ष॑तादस्य॒ योनि᳚म् ||{2/11}{3.7.26.2}{4.50.2}{4.5.5.2}{1048, 346, 3565} धु॒नऽइ᳚तयः¦सु॒ऽप्र॒के॒तम्¦मद᳚न्तः¦बृह॑स्पते¦अ॒भि¦ये¦नः॒¦त॒त॒स्रे | |
बृह॑स्पते॒ या प॑र॒मा प॑रा॒वदत॒ आ त॑ ऋत॒स्पृशो॒ नि षे᳚दुः |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्} तुभ्यं᳚ खा॒ता, अ॑व॒ता, अद्रि॑दुग्धा॒ मध्वः॑ श्चोतन्त्य॒भितो᳚ विर॒प्शम् ||{3/11}{3.7.26.3}{4.50.3}{4.5.5.3}{1049, 346, 3566} बृह॑स्पते¦या¦प॒र॒मा¦प॒रा॒ऽवत्¦अतः॑¦आ¦ते॒¦ऋ॒त॒ऽस्पृशः॑¦नि¦से॒दुः॒ | |
बृह॒स्पतिः॑ प्रथ॒मं जाय॑मानो म॒हो ज्योति॑षः पर॒मे व्यो᳚मन् |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्} स॒प्तास्य॑स्तुविजा॒तो रवे᳚ण॒ वि स॒प्तर॑श्मिरधम॒त्तमां᳚सि ||{4/11}{3.7.26.4}{4.50.4}{4.5.5.4}{1050, 346, 3567} बृह॒स्पतिः॑¦प्र॒थ॒मम्¦जाय॑मानः¦म॒हः¦ज्योति॑षः¦प॒र॒मे¦विऽओ᳚मन् | |
स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒लं रु॑रोज फलि॒गं रवे᳚ण |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्} बृह॒स्पति॑रु॒स्रिया᳚ हव्य॒सूदः॒ कनि॑क्रद॒द् वाव॑शती॒रुदा᳚जत् ||{5/11}{3.7.26.5}{4.50.5}{4.5.5.5}{1051, 346, 3568} सः¦सु॒ऽस्तुभा᳚¦सः¦ऋक्व॑ता¦ग॒णेन॑¦व॒लम्¦रु॒रो॒ज॒¦फ॒लि॒ऽगम्¦रवे᳚ण | |
ए॒वा पि॒त्रे वि॒श्वदे᳚वाय॒ वृष्णे᳚ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्} बृह॑स्पते सुप्र॒जा वी॒रव᳚न्तो व॒यं स्या᳚म॒ पत॑यो रयी॒णाम् ||{6/11}{3.7.27.1}{4.50.6}{4.5.5.6}{1052, 346, 3569} ए॒व¦पि॒त्रे¦वि॒श्वऽदे᳚वाय¦वृष्णे᳚¦य॒ज्ञैः¦वि॒धे॒म॒¦नम॑सा¦ह॒विःऽभिः॑ | |
स इद् राजा॒ प्रति॑जन्यानि॒ विश्वा॒ शुष्मे᳚ण तस्थाव॒भि वी॒र्ये᳚ण |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्} बृह॒स्पतिं॒ यः सुभृ॑तं बि॒भर्ति॑ वल्गू॒यति॒ वन्द॑ते पूर्व॒भाज᳚म् ||{7/11}{3.7.27.2}{4.50.7}{4.5.5.7}{1053, 346, 3570} सः¦इत्¦राजा᳚¦प्रति॑ऽजन्यानि¦विश्वा᳚¦शुष्मे᳚ण¦त॒स्थौ॒¦अ॒भि¦वी॒र्ये᳚ण | |
स इत् क्षे᳚ति॒ सुधि॑त॒ ओक॑सि॒ स्वे तस्मा॒, इळा᳚ पिन्वते विश्व॒दानी᳚म् |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्} तस्मै॒ विशः॑ स्व॒यमे॒वा न॑मन्ते॒ यस्मि᳚न् ब्र॒ह्मा राज॑नि॒ पूर्व॒ एति॑ ||{8/11}{3.7.27.3}{4.50.8}{4.5.5.8}{1054, 346, 3571} सः¦इत्¦क्षे॒ति॒¦सुऽधि॑तः¦ओक॑सि¦स्वे¦तस्मै᳚¦इळा᳚¦पि॒न्व॒ते॒¦वि॒श्व॒ऽदानी᳚म् | |
अप्र॑तीतो जयति॒ सं धना᳚नि॒ प्रति॑जन्यान्यु॒त या सज᳚न्या |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्} अ॒व॒स्यवे॒ यो वरि॑वः कृ॒णोति॑ ब्र॒ह्मणे॒ राजा॒ तम॑वन्ति दे॒वाः ||{9/11}{3.7.27.4}{4.50.9}{4.5.5.9}{1055, 346, 3572} अप्र॑तिऽइतः¦ज॒य॒ति॒¦सम्¦धना᳚नि¦प्रति॑ऽजन्यानि¦उ॒त¦या¦सऽज᳚न्या | |
इन्द्र॑श्च॒ सोमं᳚ पिबतं बृहस्पते॒ऽस्मिन् य॒ज्ञे म᳚न्दसा॒ना वृ॑षण्वसू |{गौतमो वामदेवः | इंद्राबृहस्पती | जगती} आ वां᳚ विश॒न्त्विन्द॑वः स्वा॒भुवो॒ऽस्मे र॒यिं सर्व॑वीरं॒ नि य॑च्छतम् ||{10/11}{3.7.27.5}{4.50.10}{4.5.5.10}{1056, 346, 3573} इन्द्रः॑¦च॒¦सोम᳚म्¦पि॒ब॒त॒म्¦बृ॒ह॒स्प॒ते॒¦अ॒स्मिन्¦य॒ज्ञे¦म॒न्द॒सा॒ना¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू | |
बृह॑स्पत इन्द्र॒ वर्ध॑तं नः॒ सचा॒ सा वां᳚ सुम॒तिर्भू᳚त्व॒स्मे |{गौतमो वामदेवः | इंद्राबृहस्पती | त्रिष्टुप्} अ॒वि॒ष्टं धियो᳚ जिगृ॒तं पुरं᳚धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा᳚तीः ||{11/11}{3.7.27.6}{4.50.11}{4.5.5.11}{1057, 346, 3574} बृह॑स्पते¦इ॒न्द्र॒¦वर्ध॑तम्¦नः॒¦सचा᳚¦सा¦वा॒म्¦सु॒ऽम॒तिः¦भू॒तु॒¦अ॒स्मे इति॑ | |
[107] इदमुत्यदित्येकादशर्चस्य सूक्तस्य गौतमोवामदेवउषास्त्रिष्टुप् | |
इ॒दमु॒ त्यत् पु॑रु॒तमं᳚ पु॒रस्ता॒ज्ज्योति॒स्तम॑सो व॒युना᳚वदस्थात् |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} नू॒नं दि॒वो दु॑हि॒तरो᳚ विभा॒तीर्गा॒तुं कृ॑णवन्नु॒षसो॒ जना᳚य ||{1/11}{3.8.1.1}{4.51.1}{4.5.6.1}{1058, 347, 3575} इ॒दम्¦ऊँ॒ इति॑¦त्यत्¦पु॒रु॒ऽतम᳚म्¦पु॒रस्ता᳚त्¦ज्योतिः॑¦तम॑सः¦व॒युन॑ऽवत्¦अ॒स्था॒त् | |
अस्थु॑रु चि॒त्रा, उ॒षसः॑ पु॒रस्ता᳚न्मि॒ता, इ॑व॒ स्वर॑वोऽध्व॒रेषु॑ |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} व्यू᳚ व्र॒जस्य॒ तम॑सो॒ द्वारो॒च्छन्ती᳚रव्र॒ञ्छुच॑यः पाव॒काः ||{2/11}{3.8.1.2}{4.51.2}{4.5.6.2}{1059, 347, 3576} अस्थुः॑¦ऊँ॒ इति॑¦चि॒त्राः¦उ॒षसः॑¦पु॒रस्ता᳚त्¦मि॒ताःऽइ᳚व¦स्वर॑वः¦अ॒ध्व॒रेषु॑ | |
उ॒च्छन्ती᳚र॒द्य चि॑तयन्त भो॒जान् रा᳚धो॒देया᳚यो॒षसो᳚ म॒घोनीः᳚ |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} अ॒चि॒त्रे, अ॒न्तः प॒णयः॑ सस॒न्त्वबु॑ध्यमाना॒स्तम॑सो॒ विम॑ध्ये ||{3/11}{3.8.1.3}{4.51.3}{4.5.6.3}{1060, 347, 3577} उ॒च्छन्तीः᳚¦अ॒द्य¦चि॒त॒य॒न्त॒¦भो॒जान्¦रा॒धः॒ऽदेया᳚य¦उ॒षसः॑¦म॒घोनीः᳚ | |
कु॒वित्स दे᳚वीः स॒नयो॒ नवो᳚ वा॒ यामो᳚ बभू॒यादु॑षसो वो, अ॒द्य |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} येना॒ नव॑ग्वे॒, अङ्गि॑रे॒ दश॑ग्वे स॒प्तास्ये᳚ रेवती रे॒वदू॒ष ||{4/11}{3.8.1.4}{4.51.4}{4.5.6.4}{1061, 347, 3578} कु॒वित्¦सः¦दे॒वीः॒¦स॒नयः॑¦नवः॑¦वा॒¦यामः॑¦ब॒भू॒यात्¦उ॒ष॒सः॒¦वः॒¦अ॒द्य | |
यू॒यं हि दे᳚वीरृत॒युग्भि॒रश्वैः᳚ परिप्रया॒थ भुव॑नानि स॒द्यः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} प्र॒बो॒धय᳚न्तीरुषसः स॒सन्तं᳚ द्वि॒पाच्चतु॑ष्पाच्च॒रथा᳚य जी॒वम् ||{5/11}{3.8.1.5}{4.51.5}{4.5.6.5}{1062, 347, 3579} यू॒यम्¦हि¦दे॒वीः॒¦ऋ॒त॒युक्ऽभिः॑¦अश्वैः᳚¦प॒रि॒ऽप्र॒या॒थ¦भुव॑नानि¦स॒द्यः | |
क्व॑ स्विदासां कत॒मा पु॑रा॒णी यया᳚ वि॒धाना᳚ विद॒धुरृ॑भू॒णाम् |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} शुभं॒ यच्छु॒भ्रा, उ॒षस॒श्चर᳚न्ति॒ न वि ज्ञा᳚यन्ते स॒दृशी᳚रजु॒र्याः ||{6/11}{3.8.2.1}{4.51.6}{4.5.6.6}{1063, 347, 3580} क्व॑¦स्वि॒त्¦आ॒सा॒म्¦क॒त॒मा¦पु॒रा॒णी¦यया᳚¦वि॒ऽधाना᳚¦वि॒ऽद॒धुः¦ऋ॒भू॒णाम् | |
ता घा॒ ता भ॒द्रा, उ॒षसः॑ पु॒रासु॑रभि॒ष्टिद्यु᳚म्ना, ऋ॒तजा᳚तसत्याः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} यास्वी᳚जा॒नः श॑शमा॒न उ॒क्थैः स्तु॒वञ्छंस॒न् द्रवि॑णं स॒द्य आप॑ ||{7/11}{3.8.2.2}{4.51.7}{4.5.6.7}{1064, 347, 3581} ताः¦घ॒¦ताः¦भ॒द्राः¦उ॒षसः॑¦पु॒रा¦आ॒सुः॒¦अ॒भि॒ष्टिऽद्यु᳚म्नाः¦ऋ॒तजा᳚तऽसत्याः | |
ता, आ च॑रन्ति सम॒ना पु॒रस्ता᳚त् समा॒नतः॑ सम॒ना प॑प्रथा॒नाः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} ऋ॒तस्य॑ दे॒वीः सद॑सो बुधा॒ना गवां॒ न सर्गा᳚, उ॒षसो᳚ जरन्ते ||{8/11}{3.8.2.3}{4.51.8}{4.5.6.8}{1065, 347, 3582} ताः¦आ¦च॒र॒न्ति॒¦स॒म॒ना¦पु॒रस्ता᳚त्¦स॒मा॒नतः॑¦स॒म॒ना¦प॒प्र॒था॒नाः | |
ता, इन्न्वे॒३॑(ए॒)व स॑म॒ना स॑मा॒नीरमी᳚तवर्णा, उ॒षस॑श्चरन्ति |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} गूह᳚न्ती॒रभ्व॒मसि॑तं॒ रुश॑द्भिः शु॒क्रास्त॒नूभिः॒ शुच॑यो रुचा॒नाः ||{9/11}{3.8.2.4}{4.51.9}{4.5.6.9}{1066, 347, 3583} ताः¦इत्¦नु¦ए॒व¦स॒म॒ना¦स॒मा॒नीः¦अमी᳚तऽवर्णाः¦उ॒षसः॑¦च॒र॒न्ति॒ | |
र॒यिं दि॑वो दुहितरो विभा॒तीः प्र॒जाव᳚न्तं यच्छता॒स्मासु॑ देवीः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} स्यो॒नादा वः॑ प्रति॒बुध्य॑मानाः सु॒वीर्य॑स्य॒ पत॑यः स्याम ||{10/11}{3.8.2.5}{4.51.10}{4.5.6.10}{1067, 347, 3584} र॒यिम्¦दि॒वः॒¦दु॒हि॒त॒रः॒¦वि॒ऽभा॒तीः¦प्र॒जाऽव᳚न्तम्¦य॒च्छ॒त॒¦अ॒स्मासु॑¦दे॒वीः॒ | |
तद्वो᳚ दिवो दुहितरो विभा॒तीरुप॑ ब्रुव उषसो य॒ज्ञके᳚तुः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} व॒यं स्या᳚म य॒शसो॒ जने᳚षु॒ तद्द्यौश्च॑ ध॒त्तां पृ॑थि॒वी च॑ दे॒वी ||{11/11}{3.8.2.6}{4.51.11}{4.5.6.11}{1068, 347, 3585} तत्¦वः॒¦दि॒वः॒¦दु॒हि॒त॒रः॒¦वि॒ऽभा॒तीः¦उप॑¦ब्रु॒वे॒¦उ॒ष॒सः॒¦य॒ज्ञऽके᳚तुः | |
[108] प्रतिष्येति सप्तर्चस्य सूक्तस्य गौतमोवामदेव उषागायत्री | |
प्रति॒ ष्या सू॒नरी॒ जनी᳚ व्यु॒च्छन्ती॒ परि॒ स्वसुः॑ |{गौतमो वामदेवः | उषाः | गायत्री} दि॒वो, अ॑दर्शि दुहि॒ता ||{1/7}{3.8.3.1}{4.52.1}{4.5.7.1}{1069, 348, 3586} प्रति॑¦स्या¦सू॒नरी᳚¦जनी᳚¦वि॒।औ॒च्छन्ती᳚¦परि॑¦स्वसुः॑ | दि॒वः¦अ॒द॒र्शि॒¦दु॒हि॒ता || |
अश्वे᳚व चि॒त्रारु॑षी मा॒ता गवा᳚मृ॒ताव॑री |{गौतमो वामदेवः | उषाः | गायत्री} सखा᳚भूद॒श्विनो᳚रु॒षाः ||{2/7}{3.8.3.2}{4.52.2}{4.5.7.2}{1070, 348, 3587} अश्वा᳚ऽइव¦चि॒त्रा¦अरु॑षी¦मा॒ता¦गवा᳚म्¦ऋ॒तऽव॑री | सखा᳚¦अ॒भू॒त्¦अ॒श्विनोः᳚¦उ॒षाः || |
उ॒त सखा᳚स्य॒श्विनो᳚रु॒त मा॒ता गवा᳚मसि |{गौतमो वामदेवः | उषाः | गायत्री} उ॒तोषो॒ वस्व॑ ईशिषे ||{3/7}{3.8.3.3}{4.52.3}{4.5.7.3}{1071, 348, 3588} उ॒त¦सखा᳚¦अ॒सि॒¦अ॒श्विनोः᳚¦उ॒त¦मा॒ता¦गवा᳚म्¦अ॒सि॒ | उ॒त¦उ॒षः॒¦वस्वः॑¦ई॒शि॒षे॒ || |
या॒व॒यद्द्वे᳚षसं त्वा चिकि॒त्वित्सू᳚नृतावरि |{गौतमो वामदेवः | उषाः | गायत्री} प्रति॒ स्तोमै᳚रभुत्स्महि ||{4/7}{3.8.3.4}{4.52.4}{4.5.7.4}{1072, 348, 3589} य॒व॒यत्ऽद्वे᳚षसम्¦त्वा॒¦चि॒कि॒त्वित्¦सू॒नृ॒ता॒ऽव॒रि॒ | प्रति॑¦स्तोमैः᳚¦अ॒भु॒त्स्म॒हि॒ || |
प्रति॑ भ॒द्रा, अ॑दृक्षत॒ गवां॒ सर्गा॒ न र॒श्मयः॑ |{गौतमो वामदेवः | उषाः | गायत्री} ओषा, अ॑प्रा, उ॒रु ज्रयः॑ ||{5/7}{3.8.3.5}{4.52.5}{4.5.7.5}{1073, 348, 3590} प्रति॑¦भ॒द्राः¦अ॒दृ॒क्ष॒त॒¦गवा᳚म्¦सर्गाः᳚¦न¦र॒श्मयः॑ | आ¦उ॒षाः¦अ॒प्राः॒¦उ॒रु¦ज्रयः॑ || |
आ॒प॒प्रुषी᳚ विभावरि॒ व्या᳚व॒र्ज्योति॑षा॒ तमः॑ |{गौतमो वामदेवः | उषाः | गायत्री} उषो॒, अनु॑ स्व॒धाम॑व ||{6/7}{3.8.3.6}{4.52.6}{4.5.7.6}{1074, 348, 3591} आ॒ऽप॒प्रुषी᳚¦वि॒भा॒ऽव॒रि॒¦वि¦आ॒वः॒¦ज्योति॑षा¦तमः॑ | उषः॑¦अनु॑¦स्व॒धाम्¦अ॒व॒ || |
आ द्यां त॑नोषि र॒श्मिभि॒रान्तरि॑क्षमु॒रु प्रि॒यम् |{गौतमो वामदेवः | उषाः | गायत्री} उषः॑ शु॒क्रेण॑ शो॒चिषा᳚ ||{7/7}{3.8.3.7}{4.52.7}{4.5.7.7}{1075, 348, 3592} आ¦द्याम्¦त॒नो॒षि॒¦र॒श्मिऽभिः॑¦आ¦अ॒न्तरि॑क्षम्¦उ॒रु¦प्रि॒यम् | उषः॑¦शु॒क्रेण॑¦शो॒चिषा᳚ || |
[109] तद्देवस्येति सप्तर्चस्य सूक्तस्य गौतमोवामदेवः सविताजगती | |
तद्दे॒वस्य॑ सवि॒तुर्वार्यं᳚ म॒हद् वृ॑णी॒महे॒, असु॑रस्य॒ प्रचे᳚तसः |{गौतमो वामदेवः | सविता | जगती} छ॒र्दिर्येन॑ दा॒शुषे॒ यच्छ॑ति॒ त्मना॒ तन्नो᳚ म॒हाँ, उद॑यान् दे॒वो, अ॒क्तुभिः॑ ||{1/7}{3.8.4.1}{4.53.1}{4.5.8.1}{1076, 349, 3593} तत्¦दे॒वस्य॑¦स॒वि॒तुः¦वार्य᳚म्¦म॒हत्¦वृ॒णी॒महे᳚¦असु॑रस्य¦प्रऽचे᳚तसः | |
दि॒वो ध॒र्ता भुव॑नस्य प्र॒जाप॑तिः पि॒शङ्गं᳚ द्रा॒पिं प्रति॑ मुञ्चते क॒विः |{गौतमो वामदेवः | सविता | जगती} वि॒च॒क्ष॒णः प्र॒थय᳚न्नापृ॒णन्नु॒र्वजी᳚जनत् सवि॒ता सु॒म्नमु॒क्थ्य᳚म् ||{2/7}{3.8.4.2}{4.53.2}{4.5.8.2}{1077, 349, 3594} दि॒वः¦ध॒र्ता¦भुव॑नस्य¦प्र॒जाऽप॑तिः¦पि॒शङ्ग᳚म्¦द्रा॒पिम्¦प्रति॑¦मुं॒च॒ते॒¦क॒विः | |
आप्रा॒ रजां᳚सि दि॒व्यानि॒ पार्थि॑वा॒ श्लोकं᳚ दे॒वः कृ॑णुते॒ स्वाय॒ धर्म॑णे |{गौतमो वामदेवः | सविता | जगती} प्र बा॒हू, अ॑स्राक् सवि॒ता सवी᳚मनि निवे॒शय᳚न् प्रसु॒वन्न॒क्तुभि॒र्जग॑त् ||{3/7}{3.8.4.3}{4.53.3}{4.5.8.3}{1078, 349, 3595} आ¦अ॒प्राः॒¦रजां᳚सि¦दि॒व्यानि॑¦पार्थि॑वा¦श्लोक᳚म्¦दे॒वः¦कृ॒णु॒ते॒¦स्वाय॑¦धर्म॑णे | |
अदा᳚भ्यो॒ भुव॑नानि प्र॒चाक॑शद् व्र॒तानि॑ दे॒वः स॑वि॒ताभि र॑क्षते |{गौतमो वामदेवः | सविता | जगती} प्रास्रा᳚ग्बा॒हू भुव॑नस्य प्र॒जाभ्यो᳚ धृ॒तव्र॑तो म॒हो, अज्म॑स्य राजति ||{4/7}{3.8.4.4}{4.53.4}{4.5.8.4}{1079, 349, 3596} अदा᳚भ्यः¦भुव॑नानि¦प्र॒ऽचाक॑शत्¦व्र॒तानि॑¦दे॒वः¦स॒वि॒ता¦अ॒भि¦र॒क्ष॒ते॒ | |
त्रिर॒न्तरि॑क्षं सवि॒ता म॑हित्व॒ना त्री रजां᳚सि परि॒भूस्त्रीणि॑ रोच॒ना |{गौतमो वामदेवः | सविता | जगती} ति॒स्रो दिवः॑ पृथि॒वीस्ति॒स्र इ᳚न्वति त्रि॒भिर्व्र॒तैर॒भि नो᳚ रक्षति॒ त्मना᳚ ||{5/7}{3.8.4.5}{4.53.5}{4.5.8.5}{1080, 349, 3597} त्रिः¦अ॒न्तरि॑क्षम्¦स॒वि॒ता¦म॒हि॒ऽत्व॒ना¦त्री¦रजां᳚सि¦प॒रि॒ऽभूः¦त्रीणि॑¦रो॒च॒ना | |
बृ॒हत्सु᳚म्नः प्रसवी॒ता नि॒वेश॑नो॒ जग॑तः स्था॒तुरु॒भय॑स्य॒ यो व॒शी |{गौतमो वामदेवः | सविता | जगती} स नो᳚ दे॒वः स॑वि॒ता शर्म॑ यच्छत्व॒स्मे क्षया᳚य त्रि॒वरू᳚थ॒मंह॑सः ||{6/7}{3.8.4.6}{4.53.6}{4.5.8.6}{1081, 349, 3598} बृ॒हत्ऽसु᳚म्नः¦प्र॒ऽस॒वि॒ता¦नि॒ऽवेश॑नः¦जग॑तः¦स्था॒तुः¦उ॒भय॑स्य¦यः¦व॒शी | |
आग᳚न्दे॒व ऋ॒तुभि॒र्वर्ध॑तु॒ क्षयं॒ दधा᳚तु नः सवि॒ता सु॑प्र॒जामिष᳚म् |{गौतमो वामदेवः | सविता | जगती} स नः॑, क्ष॒पाभि॒रह॑भिश्च जिन्वतु प्र॒जाव᳚न्तं र॒यिम॒स्मे समि᳚न्वतु ||{7/7}{3.8.4.7}{4.53.7}{4.5.8.7}{1082, 349, 3599} आ¦अ॒ग॒न्¦दे॒वः¦ऋ॒तुऽभिः॑¦वर्ध॑तु¦क्षय᳚म्¦दधा᳚तु¦नः॒¦स॒वि॒ता¦सु॒ऽप्र॒जाम्¦इष᳚म् | |
[110] अभूद्देवइति षडृचस्य सूक्तस्य गौतमो वामदेवः सविताजगत्यंत्यात्रिष्टुप् | |
अभू᳚द्दे॒वः स॑वि॒ता वन्द्यो॒ नु न॑ इ॒दानी॒मह्न॑ उप॒वाच्यो॒ नृभिः॑ |{गौतमो वामदेवः | सविता | जगती} वि यो रत्ना॒ भज॑ति मान॒वेभ्यः॒ श्रेष्ठं᳚ नो॒, अत्र॒ द्रवि॑णं॒ यथा॒ दध॑त् ||{1/6}{3.8.5.1}{4.54.1}{4.5.9.1}{1083, 350, 3600} अभू᳚त्¦दे॒वः¦स॒वि॒ता¦वन्द्यः॑¦नु¦नः॒¦इ॒दानी᳚म्¦अह्नः॑¦उ॒प॒ऽवाच्यः॑¦नृऽभिः॑ | |
दे॒वेभ्यो॒ हि प्र॑थ॒मं य॒ज्ञिये᳚भ्योऽमृत॒त्वं सु॒वसि॑ भा॒गमु॑त्त॒मम् |{गौतमो वामदेवः | सविता | जगती} आदिद्दा॒मानं᳚ सवित॒र्व्यू᳚र्णुषेऽनूची॒ना जी᳚वि॒ता मानु॑षेभ्यः ||{2/6}{3.8.5.2}{4.54.2}{4.5.9.2}{1084, 350, 3601} दे॒वेभ्यः॑¦हि¦प्र॒थ॒मम्¦य॒ज्ञिये᳚भ्यः¦अ॒मृ॒त॒ऽत्वम्¦सु॒वसि॑¦भा॒गम्¦उ॒त्ऽत॒मम् | |
अचि॑त्ती॒ यच्च॑कृ॒मा दैव्ये॒ जने᳚ दी॒नैर्दक्षैः॒ प्रभू᳚ती पूरुष॒त्वता᳚ |{गौतमो वामदेवः | सविता | जगती} दे॒वेषु॑ च सवित॒र्मानु॑षेषु च॒ त्वं नो॒, अत्र॑ सुवता॒दना᳚गसः ||{3/6}{3.8.5.3}{4.54.3}{4.5.9.3}{1085, 350, 3602} अचि॑त्ती¦यत्¦च॒कृ॒म¦दैव्ये᳚¦जने᳚¦दी॒नैः¦दक्षः॑¦प्रऽभू᳚ती¦पु॒रु॒ष॒त्वता᳚ | |
न प्र॒मिये᳚ सवि॒तुर्दैव्य॑स्य॒ तद् यथा॒ विश्वं॒ भुव॑नं धारयि॒ष्यति॑ |{गौतमो वामदेवः | सविता | जगती} यत् पृ॑थि॒व्या वरि॑म॒न्ना स्व᳚ङ्गु॒रिर्वर्ष्म᳚न् दि॒वः सु॒वति॑ स॒त्यम॑स्य॒ तत् ||{4/6}{3.8.5.4}{4.54.4}{4.5.9.4}{1086, 350, 3603} न¦प्र॒ऽमिये᳚¦स॒वि॒तुः¦दैव्य॑स्य¦तत्¦यथा᳚¦विश्व᳚म्¦भुव॑नम्¦धा॒र॒यि॒ष्यति॑ | |
इन्द्र॑ज्येष्ठान् बृ॒हद्भ्यः॒ पर्व॑तेभ्यः॒, क्षयाँ᳚, एभ्यः सुवसि प॒स्त्या᳚वतः |{गौतमो वामदेवः | सविता | जगती} यथा᳚यथा प॒तय᳚न्तो वियेमि॒र ए॒वैव त॑स्थुः सवितः स॒वाय॑ ते ||{5/6}{3.8.5.5}{4.54.5}{4.5.9.5}{1087, 350, 3604} इन्द्र॑ऽज्येष्ठान्¦बृ॒हत्ऽभ्यः॑¦पर्व॑तेभ्यः¦क्षया᳚न्¦ए॒भ्यः॒¦सु॒व॒सि॒¦प॒स्त्य॑ऽवतः | |
ये ते॒ त्रिरह᳚न् त्सवितः स॒वासो᳚ दि॒वेदि॑वे॒ सौभ॑गमासु॒वन्ति॑ |{गौतमो वामदेवः | सविता | त्रिष्टुप्} इन्द्रो॒ द्यावा᳚पृथि॒वी सिन्धु॑र॒द्भिरा᳚दि॒त्यैर्नो॒, अदि॑तिः॒ शर्म॑ यंसत् ||{6/6}{3.8.5.6}{4.54.6}{4.5.9.6}{1088, 350, 3605} ये¦ते॒¦त्रिः¦अह॑न्¦स॒वि॒त॒रिति॑¦स॒वासः॑¦दि॒वेऽदि॑वे¦सौभ॑गम्¦आ॒ऽसु॒वन्ति॑ | |
[111] कोवस्त्रातेति दशर्चस्य सूक्तस्य गौतमोवामदेवो विश्वेदेवास्त्रिष्टुप् अंत्यास्तिस्रो गायत्र्यः । (भेदपक्षे - विश्वेदेवाः ७ अग्निः १ उषाः १ विश्वेदेवाः १ एवंदश) | |
को व॑स्त्रा॒ता व॑सवः॒ को व॑रू॒ता द्यावा᳚भूमी, अदिते॒ त्रासी᳚थां नः |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्} सही᳚यसो वरुण मित्र॒ मर्ता॒त् को वो᳚ऽध्व॒रे वरि॑वो धाति देवाः ||{1/10}{3.8.6.1}{4.55.1}{4.5.10.1}{1089, 351, 3606} कः¦वः॒¦त्रा॒ता¦व॒स॒वः॒¦कः¦व॒रू॒ता¦द्यावा᳚भूमी॒ इति॑¦अ॒दि॒ते॒¦त्रासी᳚थाम्¦नः॒ | |
प्र ये धामा᳚नि पू॒र्व्याण्यर्चा॒न् वि यदु॒च्छान् वि॑यो॒तारो॒, अमू᳚राः |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्} वि॒धा॒तारो॒ वि ते द॑धु॒रज॑स्रा, ऋ॒तधी᳚तयो रुरुचन्त द॒स्माः ||{2/10}{3.8.6.2}{4.55.2}{4.5.10.2}{1090, 351, 3607} प्र¦ये¦धामा᳚नि¦पू॒र्व्याणि॑¦अर्चा᳚न्¦वि¦यत्¦उ॒च्छान्¦वि॒ऽयो॒तारः॑¦अमू᳚राः | |
प्र प॒स्त्या॒३॑(आ॒)मदि॑तिं॒ सिन्धु॑म॒र्कैः स्व॒स्तिमी᳚ळे स॒ख्याय॑ दे॒वीम् |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्} उ॒भे यथा᳚ नो॒, अह॑नी नि॒पात॑ उ॒षासा॒नक्ता᳚ करता॒मद॑ब्धे ||{3/10}{3.8.6.3}{4.55.3}{4.5.10.3}{1091, 351, 3608} प्र¦प॒स्त्या᳚म्¦अदि॑तिम्¦सिन्धु᳚म्¦अ॒र्कैः¦स्व॒स्तिम्¦ई॒ळे॒¦स॒ख्याय॑¦दे॒वीम् | |
व्य᳚र्य॒मा वरु॑णश्चेति॒ पन्था᳚मि॒षस्पतिः॑ सुवि॒तं गा॒तुम॒ग्निः |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्} इन्द्रा᳚विष्णू नृ॒वदु॒ षु स्तवा᳚ना॒ शर्म॑ नो यन्त॒मम॑व॒द्वरू᳚थम् ||{4/10}{3.8.6.4}{4.55.4}{4.5.10.4}{1092, 351, 3609} वि¦अ॒र्य॒मा¦वरु॑णः¦चे॒ति॒¦पन्था᳚म्¦इ॒षः¦पतिः॑¦सु॒वि॒तम्¦गा॒तुम्¦अ॒ग्निः | |
आ पर्व॑तस्य म॒रुता॒मवां᳚सि दे॒वस्य॑ त्रा॒तुर᳚व्रि॒ भग॑स्य |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्} पात् पति॒र्जन्या॒दंह॑सो नो मि॒त्रो मि॒त्रिया᳚दु॒त न॑ उरुष्येत् ||{5/10}{3.8.6.5}{4.55.5}{4.5.10.5}{1093, 351, 3610} आ¦पर्व॑तस्य¦म॒रुता᳚म्¦अवां᳚सि¦दे॒वस्य॑¦त्रा॒तुः¦अ॒व्रि॒¦भग॑स्य | |
नू रो᳚दसी॒, अहि॑ना बु॒ध्न्ये᳚न स्तुवी॒त दे᳚वी॒, अप्ये᳚भिरि॒ष्टैः |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्} स॒मु॒द्रं न सं॒चर॑णे सनि॒ष्यवो᳚ घ॒र्मस्व॑रसो न॒द्यो॒३॑(ओ॒) अप᳚ व्रन् ||{6/10}{3.8.7.1}{4.55.6}{4.5.10.6}{1094, 351, 3611} नु¦रो॒द॒सी॒ इति॑¦अहि॑ना¦बु॒ध्न्ये᳚न¦स्तु॒वी॒त¦दे॒वी॒ इति॑¦अप्ये᳚भिः¦इ॒ष्टैः | |
दे॒वैर्नो᳚ दे॒व्यदि॑ति॒र्नि पा᳚तु दे॒वस्त्रा॒ता त्रा᳚यता॒मप्र॑युच्छन् |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्} न॒हि मि॒त्रस्य॒ वरु॑णस्य धा॒सिमर्हा᳚मसि प्र॒मियं॒ सान्व॒ग्नेः ||{7/10}{3.8.7.2}{4.55.7}{4.5.10.7}{1095, 351, 3612} दे॒वैः¦नः॒¦दे॒वी¦अदि॑तिः¦नि¦पा॒तु॒¦दे॒वः¦त्रा॒ता¦त्रा॒य॒ता॒म्¦अप्र॑ऽयुच्छन् | |
अ॒ग्निरी᳚शे वस॒व्य॑स्या॒ऽग्निर्म॒हः सौभ॑गस्य |{गौतमो वामदेवः | विश्वदेवाः | गायत्री} तान्य॒स्मभ्यं᳚ रासते ||{8/10}{3.8.7.3}{4.55.8}{4.5.10.8}{1096, 351, 3613} अ॒ग्निः¦ई॒शे॒¦व॒स॒व्य॑स्य¦अ॒ग्निः¦म॒हः¦सौभ॑गस्य | तानि॑¦अ॒स्मभ्य᳚म्¦रा॒स॒ते॒ || |
उषो᳚ मघो॒न्या व॑ह॒ सूनृ॑ते॒ वार्या᳚ पु॒रु |{गौतमो वामदेवः | विश्वदेवाः | गायत्री} अ॒स्मभ्यं᳚ वाजिनीवति ||{9/10}{3.8.7.4}{4.55.9}{4.5.10.9}{1097, 351, 3614} उषः॑¦म॒घो॒नि॒¦आ¦व॒ह॒¦सूनृ॑ते¦वार्या᳚¦पु॒रु | अ॒स्मभ्य᳚म्¦वा॒जि॒नी॒ऽव॒ति॒ || |
तत्सु नः॑ सवि॒ता भगो॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{गौतमो वामदेवः | विश्वदेवाः | गायत्री} इन्द्रो᳚ नो॒ राध॒सा ग॑मत् ||{10/10}{3.8.7.5}{4.55.10}{4.5.10.10}{1098, 351, 3615} तत्¦सु¦नः॒¦स॒वि॒ता¦भगः॑¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा | इन्द्रः॑¦नः॒¦राध॑सा¦आ¦ग॒म॒त् || |
[112] महीइति सप्तर्चस्य सूक्तस्य गौतमो वामदेवोद्यावापृथिवीत्रिष्टुप् अंत्यास्तिस्रो गायत्र्यः | |
म॒ही द्यावा᳚पृथि॒वी, इ॒ह ज्येष्ठे᳚ रु॒चा भ॑वतां शु॒चय॑द्भिर॒र्कैः |{गौतमो वामदेवः | द्यावापृथिव्यौ | त्रिष्टुप्} यत्सीं॒ वरि॑ष्ठे बृह॒ती वि॑मि॒न्वन् रु॒वद्धो॒क्षा प॑प्रथा॒नेभि॒रेवैः᳚ ||{1/7}{3.8.8.1}{4.56.1}{4.5.11.1}{1099, 352, 3616} म॒ही इति॑¦द्यावा᳚पृथि॒वी इति॑¦इ॒ह¦ज्येष्ठे॒ इति॑¦रु॒चा¦भ॒व॒ता॒म्¦शु॒चय॑त्ऽभिः¦अ॒र्कैः | |
दे॒वी दे॒वेभि᳚र्यज॒ते यज॑त्रै॒रमि॑नती तस्थतुरु॒क्षमा᳚णे |{गौतमो वामदेवः | द्यावापृथिव्यौ | त्रिष्टुप्} ऋ॒ताव॑री, अ॒द्रुहा᳚ दे॒वपु॑त्रे य॒ज्ञस्य॑ ने॒त्री शु॒चय॑द्भिर॒र्कैः ||{2/7}{3.8.8.2}{4.56.2}{4.5.11.2}{1100, 352, 3617} दे॒वी इति॑¦दे॒वेभिः॑¦य॒ज॒ते इति॑¦यज॑त्रैः¦अमि॑नती॒ इति॑¦त॒स्थ॒तुः॒¦उ॒क्षमा᳚णे॒ इति॑ | |
स इत् स्वपा॒ भुव॑नेष्वास॒ य इ॒मे द्यावा᳚पृथि॒वी ज॒जान॑ |{गौतमो वामदेवः | द्यावापृथिव्यौ | त्रिष्टुप्} उ॒र्वी ग॑भी॒रे रज॑सी सु॒मेके᳚, अवं॒शे धीरः॒ शच्या॒ समै᳚रत् ||{3/7}{3.8.8.3}{4.56.3}{4.5.11.3}{1101, 352, 3618} सः¦इत्¦सु॒।आपाः᳚¦भुव॑नेषु¦आ॒स॒¦यः¦इ॒मे इति॑¦द्यावा᳚पृथि॒वी इति॑¦ज॒जान॑ | |
नू रो᳚दसी बृ॒हद्भि᳚र्नो॒ वरू᳚थैः॒ पत्नी᳚वद्भिरि॒षय᳚न्ती स॒जोषाः᳚ |{गौतमो वामदेवः | द्यावापृथिव्यौ | त्रिष्टुप्} उ॒रू॒ची विश्वे᳚ यज॒ते नि पा᳚तं धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{4/7}{3.8.8.4}{4.56.4}{4.5.11.4}{1102, 352, 3619} नु¦रो॒द॒सी॒ इति॑¦बृ॒हत्ऽभिः॑¦नः॒¦वरू᳚थैः¦पत्नी᳚वत्ऽभिः¦इ॒षय᳚न्ती॒ इति॑¦स॒ऽजोषाः᳚ | |
प्र वां॒ महि॒ द्यवी᳚, अ॒भ्युप॑स्तुतिं भरामहे |{गौतमो वामदेवः | द्यावापृथिव्यौ | गायत्री} शुची॒, उप॒ प्रश॑स्तये ||{5/7}{3.8.8.5}{4.56.5}{4.5.11.5}{1103, 352, 3620} प्र¦वा॒म्¦महि॑¦द्यवी॒ इति॑¦अ॒भि¦उप॑ऽस्तुतिम्¦भ॒रा॒म॒हे॒ | शुची॒ इति॑¦उप॑¦प्रऽश॑स्तये || |
पु॒ना॒ने त॒न्वा᳚ मि॒थः स्वेन॒ दक्षे᳚ण राजथः |{गौतमो वामदेवः | द्यावापृथिव्यौ | गायत्री} ऊ॒ह्याथे᳚ स॒नादृ॒तम् ||{6/7}{3.8.8.6}{4.56.6}{4.5.11.6}{1104, 352, 3621} पु॒ना॒ने इति॑¦त॒न्वा᳚¦मि॒थः¦स्वेन॑¦दक्षे᳚ण¦रा॒ज॒थः॒ | ऊ॒ह्याथे॒ इति॑¦स॒नात्¦ऋ॒तम् || |
म॒ही मि॒त्रस्य॑ साधथ॒स्तर᳚न्ती॒ पिप्र॑ती, ऋ॒तम् |{गौतमो वामदेवः | द्यावापृथिव्यौ | गायत्री} परि॑ य॒ज्ञं नि षे᳚दथुः ||{7/7}{3.8.8.7}{4.56.7}{4.5.11.7}{1105, 352, 3622} म॒ही इति॑¦मि॒त्रस्य॑¦सा॒ध॒थः॒¦तर᳚न्ती॒ इति॑¦पिप्र॑ती॒ इति॑¦ऋ॒तम् | परि॑¦य॒ज्ञम्¦नि¦से॒द॒थुः॒ || |
[113] क्षेत्रस्येत्यष्टर्चस्य सूक्तस्य गौतमोवामदेव आद्यानांतिसृणां क्षेत्रपतिर्देवता चतुर्थ्याःशुनः पंचम्यष्टम्योः शुनासीरौ षष्ठीसप्तम्योः सीता आद्याचतुर्थीषष्ठीसप्तम्योनुष्टुभः पंचमीपुरउष्णिक् शेषास्त्रिष्टुभः (अत्रचतुर्थ्याः शुनोऽदंतः | तथाशुनासीरावित्यत्र केचिद्वाय्वादित्या वित्युञ्चारयन्तितन्नचतुरस्रं यतः वायुः शुनः सूर्य एवात्रसीरः शुनासीरौवायुसूर्योवदंति | शुनासीरंयास्कइंद्रतुमेने सूर्येद्रौ तौमन्यतेशाकपूर्णि रितिशुनासीरस्वरूपेशौनकेनाचार्यमतदर्शनव्याजेनवैविध्यंप्रतिपादितं तस्मात्प्रकृतिभूतशुनासीरशब्देनोच्चारणंयुक्तं) | |
क्षेत्र॑स्य॒ पति॑ना व॒यं हि॒तेने᳚व जयामसि |{गौतमो वामदेवः | क्षेत्रपतिः | अनुष्टुप्} गामश्वं᳚ पोषयि॒त्न्वा स नो᳚ मृळाती॒दृशे᳚ ||{1/8}{3.8.9.1}{4.57.1}{4.5.12.1}{1106, 353, 3623} क्षेत्र॑स्य¦पति॑ना¦व॒यम्¦हि॒तेन॑ऽइव¦ज॒या॒म॒सि॒ | गाम्¦अश्व᳚म्¦पो॒ष॒यि॒त्नु¦आ¦सः¦नः॒¦मृ॒ळा॒ति॒¦ई॒दृशे᳚ || |
क्षेत्र॑स्य पते॒ मधु॑मन्तमू॒र्मिं धे॒नुरि॑व॒ पयो᳚, अ॒स्मासु॑ धुक्ष्व |{गौतमो वामदेवः | क्षेत्रपतिः | त्रिष्टुप्} म॒धु॒श्चुतं᳚ घृ॒तमि॑व॒ सुपू᳚तमृ॒तस्य॑ नः॒ पत॑यो मृळयन्तु ||{2/8}{3.8.9.2}{4.57.2}{4.5.12.2}{1107, 353, 3624} क्षेत्र॑स्य¦प॒ते॒¦मधु॑ऽमन्तम्¦ऊ॒र्मिम्¦धे॒नुःऽइ᳚व¦पयः॑¦अ॒स्मासु॑¦धु॒क्ष्व॒ | |
मधु॑मती॒रोष॑धी॒र्द्याव॒ आपो॒ मधु॑मन्नो भवत्व॒न्तरि॑क्षम् |{गौतमो वामदेवः | क्षेत्रपतिः | त्रिष्टुप्} क्षेत्र॑स्य॒ पति॒र्मधु॑मान् नो, अ॒स्त्वरि॑ष्यन्तो॒, अन्वे᳚नं चरेम ||{3/8}{3.8.9.3}{4.57.3}{4.5.12.3}{1108, 353, 3625} मधु॑ऽमतीः¦ओष॑धीः¦द्यावः॑¦आपः॑¦मधु॑ऽमत्¦नः॒¦भ॒व॒तु॒¦अ॒न्तरि॑क्षम् | |
शु॒नं वा॒हाः शु॒नं नरः॑ शु॒नं कृ॑षतु॒ लाङ्ग॑लम् |{गौतमो वामदेवः | शुनः | अनुष्टुप्} शु॒नं व॑र॒त्रा ब॑ध्यन्तां शु॒नमष्ट्रा॒मुदि᳚ङ्गय ||{4/8}{3.8.9.4}{4.57.4}{4.5.12.4}{1109, 353, 3626} शु॒नम्¦वा॒हाः¦शु॒नम्¦नरः॑¦शु॒नम्¦कृ॒ष॒तु॒¦लाङ्ग॑लम् | शु॒नम्¦व॒र॒त्राः¦ब॒ध्य॒न्ता॒म्¦शु॒नम्¦अष्ट्रा᳚म्¦उत्¦इ॒ङ्ग॒य॒ || |
शुना᳚सीरावि॒मां वाचं᳚ जुषेथां॒ यद्दि॒वि च॒क्रथुः॒ पयः॑ |{गौतमो वामदेवः | शुनासीरौ | पुर उष्णिक्} तेने॒मामुप॑ सिञ्चतम् ||{5/8}{3.8.9.5}{4.57.5}{4.5.12.5}{1110, 353, 3627} शुना᳚सीरौ¦इ॒माम्¦वाच᳚म्¦जु॒षे॒था॒म्¦यत्¦दि॒वि¦च॒क्रथुः॑¦पयः॑ | तेन॑¦इ॒माम्¦उप॑¦सिं॒च॒त॒म् || |
अ॒र्वाची᳚ सुभगे भव॒ सीते॒ वन्दा᳚महे त्वा |{गौतमो वामदेवः | सीता | अनुष्टुप्} यथा᳚ नः सु॒भगास॑सि॒ यथा᳚ नः सु॒फलास॑सि ||{6/8}{3.8.9.6}{4.57.6}{4.5.12.6}{1111, 353, 3628} अ॒र्वाची᳚¦सु॒ऽभ॒गे॒¦भ॒व॒¦सीते᳚¦वन्दा᳚महे¦त्वा॒ | यथा᳚¦नः॒¦सु॒ऽभगा᳚¦अस॑सि¦यथा᳚¦नः॒¦सु॒ऽफला᳚¦अस॑सि || |
इन्द्रः॒ सीतां॒ नि गृ᳚ह्णातु॒ तां पू॒षानु॑ यच्छतु |{गौतमो वामदेवः | सीता | अनुष्टुप्} सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा᳚म् ||{7/8}{3.8.9.7}{4.57.7}{4.5.12.7}{1112, 353, 3629} इन्द्रः॑¦सीता᳚म्¦नि¦गृ॒ह्णा॒तु॒¦ताम्¦पू॒षा¦अनु॑¦य॒च्छ॒तु॒ | सा¦नः॒¦पय॑स्वती¦दु॒हा॒म्¦उत्त॑राम्।औत्तराम्¦समा᳚म् || |
शु॒नं नः॒ फाला॒ वि कृ॑षन्तु॒ भूमिं᳚ शु॒नं की॒नाशा᳚, अ॒भि य᳚न्तु वा॒हैः |{गौतमो वामदेवः | शुनासीरौ | त्रिष्टुप्} शु॒नं प॒र्जन्यो॒ मधु॑ना॒ पयो᳚भिः॒ शुना᳚सीरा शु॒नम॒स्मासु॑ धत्तम् ||{8/8}{3.8.9.8}{4.57.8}{4.5.12.8}{1113, 353, 3630} शु॒नम्¦नः॒¦फालाः᳚¦वि¦कृ॒ष॒न्तु॒¦भूमि᳚म्¦शु॒नम्¦की॒नाशाः᳚¦अ॒भि¦य॒न्तु॒¦वा॒हैः | |
[114] समुद्रादूर्मिरित्येकादशर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुबंत्याजगती | (सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता) | |
स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒, उदा᳚र॒दुपां॒शुना॒ सम॑मृत॒त्वमा᳚नट् |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना᳚म॒मृत॑स्य॒ नाभिः॑ ||{1/11}{3.8.10.1}{4.58.1}{4.5.13.1}{1114, 354, 3631} स॒मु॒द्रात्¦ऊ॒र्मिः¦मधु॑ऽमान्¦उत्¦आ॒र॒त्¦उप॑¦अं॒शुना᳚¦सम्¦अ॒मृ॒त॒ऽत्वम्¦आ॒न॒ट् | |
व॒यं नाम॒ प्र ब्र॑वामा घृ॒तस्या॒स्मिन् य॒ज्ञे धा᳚रयामा॒ नमो᳚भिः |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा᳚नं॒ चतुः॑शृङ्गोऽवमीद् गौ॒र ए॒तत् ||{2/11}{3.8.10.2}{4.58.2}{4.5.13.2}{1115, 354, 3632} व॒यम्¦नाम॑¦प्र¦ब्र॒वा॒म॒¦घृ॒तस्य॑¦अ॒स्मिन्¦य॒ज्ञे¦धा॒र॒या॒म॒¦नमः॑ऽभिः | |
च॒त्वारि॒ शृङ्गा॒ त्रयो᳚, अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता᳚सो, अस्य |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} त्रिधा᳚ ब॒द्धो वृ॑ष॒भो रो᳚रवीति म॒हो दे॒वो मर्त्याँ॒, आ वि॑वेश ||{3/11}{3.8.10.3}{4.58.3}{4.5.13.3}{1116, 354, 3633} च॒त्वारि॑¦शृङ्गा᳚¦त्रयः॑¦अ॒स्य॒¦पादाः᳚¦द्वे इति॑¦शी॒र्षे इति॑¦स॒प्त¦हस्ता᳚सः¦अ॒स्य॒ | |
त्रिधा᳚ हि॒तं प॒णिभि॑र्गु॒ह्यमा᳚नं॒ गवि॑ दे॒वासो᳚ घृ॒तमन्व॑विन्दन् |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} इन्द्र॒ एकं॒ सूर्य॒ एकं᳚ जजान वे॒नादेकं᳚ स्व॒धया॒ निष्ट॑तक्षुः ||{4/11}{3.8.10.4}{4.58.4}{4.5.13.4}{1117, 354, 3634} त्रिधा᳚¦हि॒तम्¦प॒णिऽभिः॑¦गु॒ह्यमा᳚नम्¦गवि॑¦दे॒वासः॑¦घृ॒तम्¦अनु॑¦अ॒वि॒न्द॒न् | |
ए॒ता, अ॑र्षन्ति॒ हृद्या᳚त् समु॒द्राच्छ॒तव्र॑जा रि॒पुणा॒ नाव॒चक्षे᳚ |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} घृ॒तस्य॒ धारा᳚, अ॒भि चा᳚कशीमि हिर॒ण्ययो᳚ वेत॒सो मध्य॑ आसाम् ||{5/11}{3.8.10.5}{4.58.5}{4.5.13.5}{1118, 354, 3635} ए॒ताः¦अ॒र्ष॒न्ति॒¦हृद्या᳚त्¦स॒मु॒द्रात्¦श॒तऽव्र॑जाः¦रि॒पुणा᳚¦न¦अ॒व॒ऽचक्षे᳚ | |
स॒म्यक् स्र॑वन्ति स॒रितो॒ न धेना᳚, अ॒न्तर्हृ॒दा मन॑सा पू॒यमा᳚नाः |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} ए॒ते, अ॑र्षन्त्यू॒र्मयो᳚ घृ॒तस्य॑ मृ॒गा, इ॑व क्षिप॒णोरीष॑माणाः ||{6/11}{3.8.11.1}{4.58.6}{4.5.13.6}{1119, 354, 3636} स॒म्यक्¦स्र॒व॒न्ति॒¦स॒रितः॑¦न¦धेनाः᳚¦अ॒न्तः¦हृ॒दा¦मन॑सा¦पू॒यमा᳚नाः | |
सिन्धो᳚रिव प्राध्व॒ने शू᳚घ॒नासो॒ वात॑प्रमियः पतयन्ति य॒ह्वाः |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} घृ॒तस्य॒ धारा᳚, अरु॒षो न वा॒जी काष्ठा᳚ भि॒न्दन्नू॒र्मिभिः॒ पिन्व॑मानः ||{7/11}{3.8.11.2}{4.58.7}{4.5.13.7}{1120, 354, 3637} सिन्धोः᳚ऽइव¦प्र॒।आ॒ध्व॒ने¦शू॒घ॒नासः॑¦वात॑ऽप्रमियः¦प॒त॒य॒न्ति॒¦य॒ह्वाः | |
अ॒भि प्र॑वन्त॒ सम॑नेव॒ योषाः᳚ कल्या॒ण्य१॑(अः॒) स्मय॑मानासो, अ॒ग्निम् |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} घृ॒तस्य॒ धाराः᳚ स॒मिधो᳚ नसन्त॒ ता जु॑षा॒णो ह᳚र्यति जा॒तवे᳚दाः ||{8/11}{3.8.11.3}{4.58.8}{4.5.13.8}{1121, 354, 3638} अ॒भि¦प्र॒व॒न्त॒¦सम॑नाऽइव¦योषाः᳚¦क॒ल्या॒ण्यः॑¦स्मय॑मानासः¦अ॒ग्निम् | |
क॒न्या᳚, इव वह॒तुमेत॒वा, उ॑ अ॒ञ्ज्य᳚ञ्जा॒ना, अ॒भि चा᳚कशीमि |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} यत्र॒ सोमः॑ सू॒यते॒ यत्र॑ य॒ज्ञो घृ॒तस्य॒ धारा᳚, अ॒भि तत् प॑वन्ते ||{9/11}{3.8.11.4}{4.58.9}{4.5.13.9}{1122, 354, 3639} क॒न्याः᳚ऽइव¦व॒ह॒तुम्¦एत॒वै¦ऊँ॒ इति॑¦अं॒जि¦अं॒जा॒नाः¦अ॒भि¦चा॒क॒शी॒मि॒ | |
अ॒भ्य॑र्षत सुष्टु॒तिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} इ॒मं य॒ज्ञं न॑यत दे॒वता᳚ नो घृ॒तस्य॒ धारा॒ मधु॑मत् पवन्ते ||{10/11}{3.8.11.5}{4.58.10}{4.5.13.10}{1123, 354, 3640} अ॒भि¦अ॒र्ष॒त॒¦सु॒ऽस्तु॒तिम्¦गव्य᳚म्¦आ॒जिम्¦अ॒स्मासु॑¦भ॒द्रा¦द्रवि॑णानि¦ध॒त्त॒ | |
धाम᳚न् ते॒ विश्वं॒ भुव॑न॒मधि॑ श्रि॒तम॒न्तः स॑मु॒द्रे हृ॒द्य१॑(अ॒)न्तरायु॑षि |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | जगती} अ॒पामनी᳚के समि॒थे य आभृ॑त॒स्तम॑श्याम॒ मधु॑मन्तं त ऊ॒र्मिम् ||{11/11}{3.8.11.6}{4.58.11}{4.5.13.11}{1124, 354, 3641} धाम॑न्¦ते॒¦विश्व᳚म्¦भुव॑नम्¦अधि॑¦श्रि॒तम्¦अ॒न्तरिति॑¦स॒मु॒द्रे¦हृ॒दि¦अ॒न्तः¦आयु॑षि | |
[115] अबोधीति द्वादशर्चस्य सूक्तस्यात्रेयौ बुधगविष्ठिरावग्निस्त्रिष्टुप् | |
अबो᳚ध्य॒ग्निः स॒मिधा॒ जना᳚नां॒ प्रति॑ धे॒नुमि॑वाय॒तीमु॒षास᳚म् |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्} य॒ह्वा, इ॑व॒ प्र व॒यामु॒ज्जिहा᳚नाः॒ प्र भा॒नवः॑ सिस्रते॒ नाक॒मच्छ॑ ||{1/12}{3.8.12.1}{5.1.1}{5.1.1.1}{1125, 355, 3642} अबो᳚धि¦अ॒ग्निः¦स॒म्ऽइधा᳚¦जना᳚नाम्¦प्रति॑¦धे॒नुम्ऽइ᳚व¦आ॒ऽय॒तीम्¦उ॒षस᳚म् | |
अबो᳚धि॒ होता᳚ य॒जथा᳚य दे॒वानू॒र्ध्वो, अ॒ग्निः सु॒मनाः᳚ प्रा॒तर॑स्थात् |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्} समि॑द्धस्य॒ रुश॑ददर्शि॒ पाजो᳚ म॒हान् दे॒वस्तम॑सो॒ निर॑मोचि ||{2/12}{3.8.12.2}{5.1.2}{5.1.1.2}{1126, 355, 3643} अबो᳚धि¦होता᳚¦य॒जथा᳚य¦दे॒वान्¦ऊ॒र्ध्वः¦अ॒ग्निः¦सु॒ऽमनाः᳚¦प्रा॒तः¦अ॒स्था॒त् | |
यदीं᳚ ग॒णस्य॑ रश॒नामजी᳚गः॒ शुचि॑रङ्क्ते॒ शुचि॑भि॒र्गोभि॑र॒ग्निः |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्} आद्दक्षि॑णा युज्यते वाज॒यन्त्यु॑त्ता॒नामू॒र्ध्वो, अ॑धयज्जु॒हूभिः॑ ||{3/12}{3.8.12.3}{5.1.3}{5.1.1.3}{1127, 355, 3644} यत्¦ई॒म्¦ग॒णस्य॑¦र॒श॒नाम्¦अजी᳚ग॒रिति॑¦शुचिः॑¦अ॒ङ्क्ते॒¦शुचि॑ऽभिः¦गोभिः॑¦अ॒ग्निः | |
अ॒ग्निमच्छा᳚ देवय॒तां मनां᳚सि॒ चक्षूं᳚षीव॒ सूर्ये॒ सं च॑रन्ति |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्} यदीं॒ सुवा᳚ते, उ॒षसा॒ विरू᳚पे श्वे॒तो वा॒जी जा᳚यते॒, अग्रे॒, अह्ना᳚म् ||{4/12}{3.8.12.4}{5.1.4}{5.1.1.4}{1128, 355, 3645} अ॒ग्निम्¦अच्छ॑¦दे॒व॒ऽय॒ताम्¦मनां᳚सि¦चक्षूं᳚षिऽइव¦सूर्ये᳚¦सम्¦च॒र॒न्ति॒ | |
जनि॑ष्ट॒ हि जेन्यो॒, अग्रे॒, अह्नां᳚ हि॒तो हि॒तेष्व॑रु॒षो वने᳚षु |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्} दमे᳚दमे स॒प्त रत्ना॒ दधा᳚नो॒ऽग्निर्होता॒ नि ष॑सादा॒ यजी᳚यान् ||{5/12}{3.8.12.5}{5.1.5}{5.1.1.5}{1129, 355, 3646} जनि॑ष्ट¦हि¦जेन्यः॑¦अग्रे᳚¦अह्ना᳚म्¦हि॒तः¦हि॒तेषु॑¦अ॒रु॒षः¦वने᳚षु | |
अ॒ग्निर्होता॒ न्य॑सीद॒द् यजी᳚यानु॒पस्थे᳚ मा॒तुः सु॑र॒भा, उ॑ लो॒के |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्} युवा᳚ क॒विः पु॑रुनि॒ष्ठ ऋ॒तावा᳚ ध॒र्ता कृ॑ष्टी॒नामु॒त मध्य॑ इ॒द्धः ||{6/12}{3.8.12.6}{5.1.6}{5.1.1.6}{1130, 355, 3647} अ॒ग्निः¦होता᳚¦नि¦अ॒सी॒द॒त्¦यजी᳚यान्¦उ॒पऽस्थे᳚¦मा॒तुः¦सु॒र॒भौ¦ऊँ॒ इति॑¦लो॒के | |
प्र णु त्यं विप्र॑मध्व॒रेषु॑ सा॒धुम॒ग्निं होता᳚रमीळते॒ नमो᳚भिः |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्} आ यस्त॒तान॒ रोद॑सी, ऋ॒तेन॒ नित्यं᳚ मृजन्ति वा॒जिनं᳚ घृ॒तेन॑ ||{7/12}{3.8.13.1}{5.1.7}{5.1.1.7}{1131, 355, 3648} प्र¦नु¦त्यम्¦विप्र᳚म्¦अ॒ध्व॒रेषु॑¦सा॒धुम्¦अ॒ग्निम्¦होता᳚रम्¦ई॒ळ॒ते॒¦नमः॑ऽभिः | |
मा॒र्जा॒ल्यो᳚ मृज्यते॒ स्वे दमू᳚नाः कविप्रश॒स्तो, अति॑थिः शि॒वो नः॑ |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्} स॒हस्र॑शृङ्गो वृष॒भस्तदो᳚जा॒ विश्वाँ᳚, अग्ने॒ सह॑सा॒ प्रास्य॒न्यान् ||{8/12}{3.8.13.2}{5.1.8}{5.1.1.8}{1132, 355, 3649} मा॒र्जा॒ल्यः॑¦मृ॒ज्य॒ते॒¦स्वे¦दमू᳚नाः¦क॒वि॒ऽप्र॒श॒स्तः¦अति॑थिः¦शि॒वः¦नः॒ | |
प्र स॒द्यो, अ॑ग्ने॒, अत्ये᳚ष्य॒न्याना॒विर्यस्मै॒ चारु॑तमो ब॒भूथ॑ |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्} ई॒ळेन्यो᳚ वपु॒ष्यो᳚ वि॒भावा᳚ प्रि॒यो वि॒शामति॑थि॒र्मानु॑षीणाम् ||{9/12}{3.8.13.3}{5.1.9}{5.1.1.9}{1133, 355, 3650} प्र¦स॒द्यः¦अ॒ग्ने॒¦अति॑¦ए॒षि॒¦अ॒न्यान्¦आ॒विः¦यस्मै᳚¦चारु॑ऽतमः¦ब॒भूथ॑ | |
तुभ्यं᳚ भरन्ति क्षि॒तयो᳚ यविष्ठ ब॒लिम॑ग्ने॒, अन्ति॑त॒ ओत दू॒रात् |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्} आ भन्दि॑ष्ठस्य सुम॒तिं चि॑किद्धि बृ॒हत्ते᳚, अग्ने॒ महि॒ शर्म॑ भ॒द्रम् ||{10/12}{3.8.13.4}{5.1.10}{5.1.1.10}{1134, 355, 3651} तुभ्य᳚म्¦भ॒र॒न्ति॒¦क्षि॒तयः॑¦य॒वि॒ष्ठ॒¦ब॒लिम्¦अ॒ग्ने॒¦अन्ति॑तः¦आ¦उ॒त¦दू॒रात् | |
आद्य रथं᳚ भानुमो भानु॒मन्त॒मग्ने॒ तिष्ठ॑ यज॒तेभिः॒ सम᳚न्तम् |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्} वि॒द्वान् प॑थी॒नामु॒र्व१॑(अ॒)न्तरि॑क्ष॒मेह दे॒वान् ह॑वि॒रद्या᳚य वक्षि ||{11/12}{3.8.13.5}{5.1.11}{5.1.1.11}{1135, 355, 3652} आ¦अ॒द्य¦रथ᳚म्¦भा॒नु॒ऽमः॒¦भा॒नु॒ऽमन्त᳚म्¦अग्ने᳚¦तिष्ठ॑¦य॒ज॒तेभिः॑¦सम्।आ᳚न्तम् | |
अवो᳚चाम क॒वये॒ मेध्या᳚य॒ वचो᳚ व॒न्दारु॑ वृष॒भाय॒ वृष्णे᳚ |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्} गवि॑ष्ठिरो॒ नम॑सा॒ स्तोम॑म॒ग्नौ दि॒वी᳚व रु॒क्ममु॑रु॒व्यञ्च॑मश्रेत् ||{12/12}{3.8.13.6}{5.1.12}{5.1.1.12}{1136, 355, 3653} अवो᳚चाम¦क॒वये᳚¦मेध्या᳚य¦वचः॑¦व॒न्दारु॑¦वृ॒ष॒भाय॑¦वृष्णे᳚ | |
[116] कुमारमिति द्वादशर्चस्य सूक्तस्य आत्रेयःकुमारः कमेतंविज्योतिषेत्यनयोर्जानोवृशोग्निस्त्रिष्टुप् अंत्याशक्वरी ( पाक्षिकोजरोवृशः सर्वसूक्तेपि । अत्रसर्वानुक्रमभाष्येजननाम्नऋषेः पुत्रोजानइत्येवनिर्णीतम् । जरनाग्नऋषेः पुत्रोजारोवृशइतितुसायनभाष्यम् । ) |
कु॒मा॒रं मा॒ता यु॑व॒तिः समु॑ब्धं॒ गुहा᳚ बिभर्ति॒ न द॑दाति पि॒त्रे |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्} अनी᳚कमस्य॒ न मि॒नज्जना᳚सः पु॒रः प॑श्यन्ति॒ निहि॑तमर॒तौ ||{1/12}{3.8.14.1}{5.2.1}{5.1.2.1}{1137, 356, 3654} कु॒मा॒रम्¦मा॒ता¦यु॒व॒तिः¦सम्।औ᳚ब्धम्¦गुहा᳚¦बि॒भ॒र्ति॒¦न¦द॒दा॒ति॒¦पि॒त्रे | |
कमे॒तं त्वं यु॑वते कुमा॒रं पेषी᳚ बिभर्षि॒ महि॑षी जजान |{जानोवृशः | अग्निः | त्रिष्टुप्} पू॒र्वीर्हि गर्भः॑ श॒रदो᳚ व॒वर्धाऽप॑श्यं जा॒तं यदसू᳚त मा॒ता ||{2/12}{3.8.14.2}{5.2.2}{5.1.2.2}{1138, 356, 3655} कम्¦ए॒तम्¦त्वम्¦यु॒व॒ते॒¦कु॒मा॒रम्¦पेषी᳚¦बि॒भ॒र्षि॒¦महि॑षी¦ज॒जा॒न॒ | |
हिर᳚ण्यदन्तं॒ शुचि॑वर्णमा॒रात् क्षेत्रा᳚दपश्य॒मायु॑धा॒ मिमा᳚नम् |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्} द॒दा॒नो, अ॑स्मा, अ॒मृतं᳚ वि॒पृक्व॒त् किं माम॑नि॒न्द्राः कृ॑णवन्ननु॒क्थाः ||{3/12}{3.8.14.3}{5.2.3}{5.1.2.3}{1139, 356, 3656} हिर᳚ण्यऽदन्तम्¦शुचि॑ऽवर्णम्¦आ॒रात्¦क्षेत्रा᳚त्¦अ॒प॒श्य॒म्¦आयु॑धा¦मिमा᳚नम् | |
क्षेत्रा᳚दपश्यं सनु॒तश्चर᳚न्तं सु॒मद् यू॒थं न पु॒रु शोभ॑मानम् |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्} न ता, अ॑गृभ्र॒न्नज॑निष्ट॒ हि षः पलि॑क्नी॒रिद् यु॑व॒तयो᳚ भवन्ति ||{4/12}{3.8.14.4}{5.2.4}{5.1.2.4}{1140, 356, 3657} क्षेत्रा᳚त्¦अ॒प॒श्य॒म्¦स॒नु॒तरिति॑¦चर᳚न्तम्¦सु॒ऽमत्¦यू॒थम्¦न¦पु॒रु¦शोभ॑मानम् | |
के मे᳚ मर्य॒कं वि य॑वन्त॒ गोभि॒र्न येषां᳚ गो॒पा, अर॑णश्चि॒दास॑ |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्} य ईं᳚ जगृ॒भुरव॒ ते सृ॑ज॒न्त्वाजा᳚ति प॒श्व उप॑ नश्चिकि॒त्वान् ||{5/12}{3.8.14.5}{5.2.5}{5.1.2.5}{1141, 356, 3658} के¦मे॒¦म॒र्य॒कम्¦वि¦य॒व॒न्त॒¦गोभिः॑¦न¦येषा᳚म्¦गो॒पाः¦अर॑णः¦चि॒त्¦आस॑ | |
व॒सां राजा᳚नं वस॒तिं जना᳚ना॒मरा᳚तयो॒ नि द॑धु॒र्मर्त्ये᳚षु |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्} ब्रह्मा॒ण्यत्रे॒रव॒ तं सृ॑जन्तु निन्दि॒तारो॒ निन्द्या᳚सो भवन्तु ||{6/12}{3.8.14.6}{5.2.6}{5.1.2.6}{1142, 356, 3659} व॒साम्¦राजा᳚नम्¦व॒स॒तिम्¦जना᳚नाम्¦अरा᳚तयः¦नि¦द॒धुः॒¦मर्त्ये᳚षु | |
शुन॑श्चि॒च्छेपं॒ निदि॑तं स॒हस्रा॒द् यूपा᳚दमुञ्चो॒, अश॑मिष्ट॒ हि षः |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्} ए॒वास्मद॑ग्ने॒ वि मु॑मुग्धि॒ पाशा॒न् होत॑श्चिकित्व इ॒ह तू नि॒षद्य॑ ||{7/12}{3.8.15.1}{5.2.7}{5.1.2.7}{1143, 356, 3660} शुनः॒ऽशेप᳚म्¦चि॒त्¦निऽदि॑तम्¦स॒हस्रा᳚त्¦यूपा᳚त्¦अ॒मुं॒चः॒¦अश॑मिष्ट¦हि¦सः | |
हृ॒णी॒यमा᳚नो॒, अप॒ हि मदैयेः॒ प्र मे᳚ दे॒वानां᳚ व्रत॒पा, उ॑वाच |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्} इन्द्रो᳚ वि॒द्वाँ, अनु॒ हि त्वा᳚ च॒चक्ष॒ तेना॒हम॑ग्ने॒, अनु॑शिष्ट॒ आगा᳚म् ||{8/12}{3.8.15.2}{5.2.8}{5.1.2.8}{1144, 356, 3661} हृ॒णी॒यमा᳚नः¦अप॑¦हि¦मत्¦ऐयेः᳚¦प्र¦मे॒¦दे॒वाना᳚म्¦व्र॒त॒ऽपाः¦उ॒वा॒च॒ | |
वि ज्योति॑षा बृह॒ता भा᳚त्य॒ग्निरा॒विर्विश्वा᳚नि कृणुते महि॒त्वा |{जानोवृशः | अग्निः | त्रिष्टुप्} प्रादे᳚वीर्मा॒याः स॑हते दु॒रेवाः॒ शिशी᳚ते॒ शृङ्गे॒ रक्ष॑से वि॒निक्षे᳚ ||{9/12}{3.8.15.3}{5.2.9}{5.1.2.9}{1145, 356, 3662} वि¦ज्योति॑षा¦बृ॒ह॒ता¦भा॒ति॒¦अ॒ग्निः¦आ॒विः¦विश्वा᳚नि¦कृ॒णु॒ते॒¦म॒हि॒ऽत्वा | |
उ॒त स्वा॒नासो᳚ दि॒वि ष᳚न्त्व॒ग्नेस्ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒वा, उ॑ |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्} मदे᳚ चिदस्य॒ प्र रु॑जन्ति॒ भामा॒ न व॑रन्ते परि॒बाधो॒, अदे᳚वीः ||{10/12}{3.8.15.4}{5.2.10}{5.1.2.10}{1146, 356, 3663} उ॒त¦स्वा॒नासः॑¦दि॒वि¦स॒न्तु॒¦अ॒ग्नेः¦ति॒ग्मऽआ᳚युधाः¦रक्ष॑से¦हन्त॒वै¦ऊँ॒ इति॑ | |
ए॒तं ते॒ स्तोमं᳚ तुविजात॒ विप्रो॒ रथं॒ न धीरः॒ स्वपा᳚, अतक्षम् |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्} यदीद॑ग्ने॒ प्रति॒ त्वं दे᳚व॒ हर्याः॒ स्व᳚र्वतीर॒प ए᳚ना जयेम ||{11/12}{3.8.15.5}{5.2.11}{5.1.2.11}{1147, 356, 3664} ए॒तम्¦ते॒¦स्तोम᳚म्¦तु॒वि॒ऽजा॒त॒¦विप्रः॑¦रथ᳚म्¦न¦धीरः॑¦सु॒।आपाः᳚¦अ॒त॒क्ष॒म् | |
तु॒वि॒ग्रीवो᳚ वृष॒भो वा᳚वृधा॒नो᳚ऽश॒त्र्व१॑(अ॒)र्यः सम॑जाति॒ वेदः॑ |{आत्रेयःकुमारः | अग्निः | शक्वरी} इती॒मम॒ग्निम॒मृता᳚, अवोचन् ब॒र्हिष्म॑ते॒ मन॑वे॒ शर्म॑ यंसद्ध॒विष्म॑ते॒ मन॑वे॒ शर्म॑ यंसत् ||{12/12}{3.8.15.6}{5.2.12}{5.1.2.12}{1148, 356, 3665} तु॒वि॒ऽग्रीवः॑¦वृ॒ष॒भः¦व॒वृ॒धा॒नः¦अ॒श॒त्रु¦अ॒र्यः¦सम्¦अ॒जा॒ति॒¦वेदः॑ | |
[117] त्वमग्नइतिद्वादशर्चस्य सूक्तस्यात्रेयोवसुश्रुतोग्निस्तृतीयायामरुद्रुद्रविष्णवस्त्रिष्टुबाद्याविराट् | |
त्वम॑ग्ने॒ वरु॑णो॒ जाय॑से॒ यत् त्वं मि॒त्रो भ॑वसि॒ यत्समि॑द्धः |{आत्रेयो वसुश्रुतः | अग्निः | विराट्} त्वे विश्वे᳚ सहसस्पुत्र दे॒वास्त्वमिन्द्रो᳚ दा॒शुषे॒ मर्त्या᳚य ||{1/12}{3.8.16.1}{5.3.1}{5.1.3.1}{1149, 357, 3666} त्वम्¦अ॒ग्ने॒¦वरु॑णः¦जाय॑से¦यत्¦त्वम्¦मि॒त्रः¦भ॒व॒सि॒¦यत्¦सम्ऽइ᳚द्धः | त्वे इति॑¦विश्वे᳚¦स॒ह॒सः॒¦पु॒त्र॒¦दे॒वाः¦त्वम्¦इन्द्रः॑¦दा॒शुषे᳚¦मर्त्या᳚य || |
त्वम᳚र्य॒मा भ॑वसि॒ यत् क॒नीनां॒ नाम॑ स्वधाव॒न् गुह्यं᳚ बिभर्षि |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} अ॒ञ्जन्ति॑ मि॒त्रं सुधि॑तं॒ न गोभि॒र्यद् दम्प॑ती॒ सम॑नसा कृ॒णोषि॑ ||{2/12}{3.8.16.2}{5.3.2}{5.1.3.2}{1150, 357, 3667} त्वम्¦अ॒र्य॒मा¦भ॒व॒सि॒¦यत्¦क॒नीना᳚म्¦नाम॑¦स्व॒धा॒ऽव॒न्¦गुह्य᳚म्¦बि॒भ॒र्षि॒ | |
तव॑ श्रि॒ये म॒रुतो᳚ मर्जयन्त॒ रुद्र॒ यत्ते॒ जनि॑म॒ चारु॑ चि॒त्रम् |{आत्रेयो वसुश्रुतः | मरुद्रुद्रविष्णवः | त्रिष्टुप्} प॒दं यद्विष्णो᳚रुप॒मं नि॒धायि॒ तेन॑ पासि॒ गुह्यं॒ नाम॒ गोना᳚म् ||{3/12}{3.8.16.3}{5.3.3}{5.1.3.3}{1151, 357, 3668} तव॑¦श्रि॒ये¦म॒रुतः॑¦म॒र्ज॒य॒न्त॒¦रुद्र॑¦यत्¦ते॒¦जनि॑म¦चारु॑¦चि॒त्रम् | |
तव॑ श्रि॒या सु॒दृशो᳚ देव दे॒वाः पु॒रू दधा᳚ना, अ॒मृतं᳚ सपन्त |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} होता᳚रम॒ग्निं मनु॑षो॒ नि षे᳚दुर्दश॒स्यन्त॑ उ॒शिजः॒ शंस॑मा॒योः ||{4/12}{3.8.16.4}{5.3.4}{5.1.3.4}{1152, 357, 3669} तव॑¦श्रि॒या¦सु॒ऽदृशः॑¦दे॒व॒¦दे॒वाः¦पु॒रु¦दधा᳚नाः¦अ॒मृत᳚म्¦स॒प॒न्त॒ | |
न त्वद्धोता॒ पूर्वो᳚, अग्ने॒ यजी᳚या॒न् न काव्यैः᳚ प॒रो, अ॑स्ति स्वधावः |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} वि॒शश्च॒ यस्या॒, अति॑थि॒र्भवा᳚सि॒ स य॒ज्ञेन॑ वनवद्देव॒ मर्ता॑न् ||{5/12}{3.8.16.5}{5.3.5}{5.1.3.5}{1153, 357, 3670} न¦त्वत्¦होता᳚¦पूर्वः॑¦अ॒ग्ने॒¦यजी᳚यान्¦न¦काव्यैः᳚¦प॒रः¦अ॒स्ति॒¦स्व॒धा॒ऽवः॒ | |
व॒यम॑ग्ने वनुयाम॒ त्वोता᳚ वसू॒यवो᳚ ह॒विषा॒ बुध्य॑मानाः |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} व॒यं स॑म॒र्ये वि॒दथे॒ष्वह्नां᳚ व॒यं रा॒या स॑हसस्पुत्र॒ मर्ता॑न् ||{6/12}{3.8.16.6}{5.3.6}{5.1.3.6}{1154, 357, 3671} व॒यम्¦अ॒ग्ने॒¦व॒नु॒या॒म॒¦त्वाऽऊ᳚ताः¦व॒सु॒ऽयवः॑¦ह॒विषा᳚¦बुध्य॑मानाः | |
यो न॒ आगो᳚, अ॒भ्येनो॒ भरा॒त्यधीद॒घम॒घशं᳚से दधात |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} ज॒ही चि॑कित्वो, अ॒भिश॑स्तिमे॒तामग्ने॒ यो नो᳚ म॒र्चय॑ति द्व॒येन॑ ||{7/12}{3.8.17.1}{5.3.7}{5.1.3.7}{1155, 357, 3672} यः¦नः॒¦आगः॑¦अ॒भि¦एनः॑¦भरा᳚ति¦अधि॑¦इत्¦अ॒घम्¦अ॒घऽशं᳚से¦द॒धा॒त॒ | |
त्वाम॒स्या व्युषि॑ देव॒ पूर्वे᳚ दू॒तं कृ᳚ण्वा॒ना, अ॑यजन्त ह॒व्यैः |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} सं॒स्थे यद॑ग्न॒ ईय॑से रयी॒णां दे॒वो मर्तै॒र्वसु॑भिरि॒ध्यमा᳚नः ||{8/12}{3.8.17.2}{5.3.8}{5.1.3.8}{1156, 357, 3673} त्वाम्¦अ॒स्याः¦वि॒।औषि॑¦दे॒व॒¦पूर्वे᳚¦दू॒तम्¦कृ॒ण्वा॒नाः¦अ॒य॒ज॒न्त॒¦ह॒व्यैः | |
अव॑ स्पृधि पि॒तरं॒ योधि॑ वि॒द्वान् पु॒त्रो यस्ते᳚ सहसः सून ऊ॒हे |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} क॒दा चि॑कित्वो, अ॒भि च॑क्षसे॒ नोऽग्ने᳚ क॒दाँ, ऋ॑त॒चिद् या᳚तयासे ||{9/12}{3.8.17.3}{5.3.9}{5.1.3.9}{1157, 357, 3674} अव॑¦स्पृ॒धि॒¦पि॒तर᳚म्¦योधि॑¦वि॒द्वान्¦पु॒त्रः¦यः¦ते॒¦स॒ह॒सः॒¦सू॒नो॒ इति॑¦ऊ॒हे | |
भूरि॒ नाम॒ वन्द॑मानो दधाति पि॒ता व॑सो॒ यदि॒ तज्जो॒षया᳚से |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} कु॒विद्दे॒वस्य॒ सह॑सा चका॒नः सु॒म्नम॒ग्निर्व॑नते वावृधा॒नः ||{10/12}{3.8.17.4}{5.3.10}{5.1.3.10}{1158, 357, 3675} भूरि॑¦नाम॑¦वन्द॑मानः¦द॒धा॒ति॒¦पि॒ता¦व॒सो॒ इति॑¦यदि॑¦तत्¦जो॒षया᳚से | |
त्वम॒ङ्ग ज॑रि॒तारं᳚ यविष्ठ॒ विश्वा᳚न्यग्ने दुरि॒ताति॑ पर्षि |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} स्ते॒ना, अ॑दृश्रन् रि॒पवो॒ जना॒सोऽज्ञा᳚तकेता वृजि॒ना, अ॑भूवन् ||{11/12}{3.8.17.5}{5.3.11}{5.1.3.11}{1159, 357, 3676} त्वम्¦अ॒ङ्ग¦ज॒रि॒तार᳚म्¦य॒वि॒ष्ठ॒¦विश्वा᳚नि¦अ॒ग्ने॒¦दुः॒ऽइ॒ता¦अति॑¦प॒र्षि | |
इ॒मे यामा᳚सस्त्व॒द्रिग॑भूव॒न् वस॑वे वा॒ तदिदागो᳚, अवाचि |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} नाहा॒यम॒ग्निर॒भिश॑स्तये नो॒ न रीष॑ते वावृधा॒नः परा᳚ दात् ||{12/12}{3.8.17.6}{5.3.12}{5.1.3.12}{1160, 357, 3677} इ॒मे¦यामा᳚सः¦त्व॒द्रिक्¦अ॒भू॒व॒न्¦वस॑वे¦वा॒¦तत्¦इत्¦आगः॑¦अ॒वा॒चि॒ | |
[118] त्वामग्नइत्येकादशर्चस्य सूक्तस्यात्रेयोवसुश्रुतोग्निस्त्रिष्टुप् | |
त्वाम॑ग्ने॒ वसु॑पतिं॒ वसू᳚नाम॒भि प्र म᳚न्दे, अध्व॒रेषु॑ राजन् |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} त्वया॒ वाजं᳚ वाज॒यन्तो᳚ जयेमा॒ऽभि ष्या᳚म पृत्सु॒तीर्मर्त्या᳚नाम् ||{1/11}{3.8.18.1}{5.4.1}{5.1.4.1}{1161, 358, 3678} त्वाम्¦अ॒ग्ने॒¦वसु॑ऽपतिम्¦वसू᳚नाम्¦अ॒भि¦प्र¦म॒न्दे॒¦अ॒ध्व॒रेषु॑¦रा॒ज॒न् | |
ह॒व्य॒वाळ॒ग्निर॒जरः॑ पि॒ता नो᳚ वि॒भुर्वि॒भावा᳚ सु॒दृशी᳚को, अ॒स्मे |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} सु॒गा॒र्ह॒प॒त्याः समिषो᳚ दिदीह्यस्म॒द्र्य१॑(अ॒)क् सं मि॑मीहि॒ श्रवां᳚सि ||{2/11}{3.8.18.2}{5.4.2}{5.1.4.2}{1162, 358, 3679} ह॒व्य॒ऽवाट्¦अ॒ग्निः¦अ॒जरः॑¦पि॒ता¦नः॒¦वि॒ऽभुः¦वि॒भाऽवा᳚¦सु॒ऽदृशी᳚कः¦अ॒स्मे इति॑ | |
वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षीणां॒ शुचिं᳚ पाव॒कं घृ॒तपृ॑ष्ठम॒ग्निम् |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} नि होता᳚रं विश्व॒विदं᳚ दधिध्वे॒ स दे॒वेषु॑ वनते॒ वार्या᳚णि ||{3/11}{3.8.18.3}{5.4.3}{5.1.4.3}{1163, 358, 3680} वि॒शाम्¦क॒विम्¦वि॒श्पति᳚म्¦मानु॑षीणाम्¦शुचि᳚म्¦पा॒व॒कम्¦घृ॒तऽपृ॑ष्ठम्¦अ॒ग्निम् | |
जु॒षस्वा᳚ग्न॒ इळ॑या स॒जोषा॒ यत॑मानो र॒श्मिभिः॒ सूर्य॑स्य |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} जु॒षस्व॑ नः स॒मिधं᳚ जातवेद॒ आ च॑ दे॒वान् ह॑वि॒रद्या᳚य वक्षि ||{4/11}{3.8.18.4}{5.4.4}{5.1.4.4}{1164, 358, 3681} जु॒षस्व॑¦अ॒ग्ने॒¦इळ॑या¦स॒ऽजोषाः᳚¦यत॑मानः¦र॒श्मिऽभिः॑¦सूर्य॑स्य | |
जुष्टो॒ दमू᳚ना॒, अति॑थिर्दुरो॒ण इ॒मं नो᳚ य॒ज्ञमुप॑ याहि वि॒द्वान् |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} विश्वा᳚, अग्ने, अभि॒युजो᳚ वि॒हत्या᳚ शत्रूय॒तामा भ॑रा॒ भोज॑नानि ||{5/11}{3.8.18.5}{5.4.5}{5.1.4.5}{1165, 358, 3682} जुष्टः॑¦दमू᳚नाः¦अति॑थिः¦दु॒रो॒णे¦इ॒मम्¦नः॒¦य॒ज्ञम्¦उप॑¦या॒हि॒¦वि॒द्वान् | |
व॒धेन॒ दस्युं॒ प्र हि चा॒तय॑स्व॒ वयः॑ कृण्वा॒नस्त॒न्वे॒३॑(ए॒) स्वायै᳚ |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} पिप॑र्षि॒ यत् स॑हसस्पुत्र दे॒वान् त्सो, अ॑ग्ने पाहि नृतम॒ वाजे᳚, अ॒स्मान् ||{6/11}{3.8.19.1}{5.4.6}{5.1.4.6}{1166, 358, 3683} वे॒धेन॑¦दस्यु᳚म्¦प्र¦हि¦चा॒तय॑स्व¦वयः॑¦कृ॒ण्वा॒नः¦त॒न्वे᳚¦स्वायै᳚ | |
व॒यं ते᳚, अग्न उ॒क्थैर्वि॑धेम व॒यं ह॒व्यैः पा᳚वक भद्रशोचे |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} अ॒स्मे र॒यिं वि॒श्ववा᳚रं॒ समि᳚न्वा॒स्मे विश्वा᳚नि॒ द्रवि॑णानि धेहि ||{7/11}{3.8.19.2}{5.4.7}{5.1.4.7}{1167, 358, 3684} व॒यम्¦ते॒¦अ॒ग्ने॒¦उ॒क्थैः¦वि॒धे॒म॒¦व॒यम्¦ह॒व्यैः¦पा॒व॒क॒¦भ॒द्र॒ऽशो॒चे॒ | |
अ॒स्माक॑मग्ने, अध्व॒रं जु॑षस्व॒ सह॑सः सूनो त्रिषधस्थ ह॒व्यम् |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} व॒यं दे॒वेषु॑ सु॒कृतः॑ स्याम॒ शर्म॑णा नस्त्रि॒वरू᳚थेन पाहि ||{8/11}{3.8.19.3}{5.4.8}{5.1.4.8}{1168, 358, 3685} अ॒स्माक᳚म्¦अ॒ग्ने॒¦अ॒ध्व॒रम्¦जु॒ष॒स्व॒¦सह॑सः¦सू॒नो॒ इति॑¦त्रि॒ऽस॒ध॒स्थ॒¦ह॒व्यम् | |
विश्वा᳚नि नो दु॒र्गहा᳚ जातवेदः॒ सिन्धुं॒ न ना॒वा दु॑रि॒ताति॑ पर्षि |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} अग्ने᳚, अत्रि॒वन्नम॑सा गृणा॒नो॒३॑(ओ॒)ऽस्माकं᳚ बोध्यवि॒ता त॒नूना᳚म् ||{9/11}{3.8.19.4}{5.4.9}{5.1.4.9}{1169, 358, 3686} विश्वा᳚नि¦नः॒¦दुः॒ऽगहा᳚¦जा॒त॒ऽवे॒दः॒¦सिन्धु᳚म्¦न¦ना॒वा¦दुः॒ऽइ॒ता¦अति॑¦प॒र्षि॒ | |
यस्त्वा᳚ हृ॒दा की॒रिणा॒ मन्य॑मा॒नोऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} जात॑वेदो॒ यशो᳚, अ॒स्मासु॑ धेहि प्र॒जाभि॑रग्ने, अमृत॒त्वम॑श्याम् ||{10/11}{3.8.19.5}{5.4.10}{5.1.4.10}{1170, 358, 3687} यः¦त्वा॒¦हृ॒दा¦की॒रिणा᳚¦मन्य॑मानः¦अम॑र्त्यम्¦मर्त्यः॑¦जोह॑वीमि | |
यस्मै॒ त्वं सु॒कृते᳚ जातवेद उ लो॒कम॑ग्ने कृ॒णवः॑ स्यो॒नम् |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} अ॒श्विनं॒ स पु॒त्रिणं᳚ वी॒रव᳚न्तं॒ गोम᳚न्तं र॒यिं न॑शते स्व॒स्ति ||{11/11}{3.8.19.6}{5.4.11}{5.1.4.11}{1171, 358, 3688} यस्मै᳚¦त्वम्¦सु॒ऽकृते᳚¦जा॒त॒ऽवे॒दः॒¦ऊँ॒ इति॑¦लो॒कम्¦अ॒ग्ने॒¦कृ॒णवः॑¦स्यो॒नम् | |
[119] सुसमिद्धायेत्येकादशर्चस्य सूक्तस्यात्रेयो वसुश्रुतः इध्मोनराशंस इळोबर्हिर्देवीर्द्वार उषासानक्तादैव्यौहोतारौ सरस्वतीळाभारत्यस्त्वष्टा वनस्पति स्वाहाकृतयो गायत्री | |
सुस॑मिद्धाय शो॒चिषे᳚ घृ॒तं ती॒व्रं जु॑होतन |{आत्रेयो वसुश्रुतः | इध्मः समिद्धोऽग्निर्वा | गायत्री} अ॒ग्नये᳚ जा॒तवे᳚दसे ||{1/11}{3.8.20.1}{5.5.1}{5.1.5.1}{1172, 359, 3689} सुऽस॑मिद्धाय¦शो॒चिषे᳚¦घृ॒तम्¦ती॒व्रम्¦जु॒हो॒त॒न॒ | अ॒ग्नये᳚¦जा॒तऽवे᳚दसे || |
नरा॒शंसः॑ सुषूदती॒मं य॒ज्ञमदा᳚भ्यः |{आत्रेयो वसुश्रुतः | नराशंसः | गायत्री} क॒विर्हि मधु॑हस्त्यः ||{2/11}{3.8.20.2}{5.5.2}{5.1.5.2}{1173, 359, 3690} नरा॒शंसः॑¦सु॒सू॒द॒ति॒¦इ॒मम्¦य॒ज्ञम्¦अदा᳚भ्यः | क॒विः¦हि¦मधु॑ऽहस्त्यः || |
ई॒ळि॒तो, अ॑ग्न॒ आ व॒हेन्द्रं᳚ चि॒त्रमि॒ह प्रि॒यम् |{आत्रेयो वसुश्रुतः | इळः | गायत्री} सु॒खै रथे᳚भिरू॒तये᳚ ||{3/11}{3.8.20.3}{5.5.3}{5.1.5.3}{1174, 359, 3691} ई॒ळि॒तः¦अ॒ग्ने॒¦आ¦व॒ह॒¦इन्द्र᳚म्¦चि॒त्रम्¦इ॒ह¦प्रि॒यम् | सु॒ऽखैः¦रथे᳚भिः¦ऊ॒तये᳚ || |
ऊर्ण᳚म्रदा॒ वि प्र॑थस्वा॒ऽभ्य१॑(अ॒)र्का, अ॑नूषत |{आत्रेयो वसुश्रुतः | बर्हिः | गायत्री} भवा᳚ नः शुभ्र सा॒तये᳚ ||{4/11}{3.8.20.4}{5.5.4}{5.1.5.4}{1175, 359, 3692} ऊर्ण॑ऽम्रदाः¦वि¦प्र॒थ॒स्व॒¦अ॒भि¦अ॒र्काः¦अ॒नू॒ष॒त॒ | भव॑¦नः॒¦शु॒भ्र॒¦सा॒तये᳚ || |
देवी᳚र्द्वारो॒ वि श्र॑यध्वं सुप्राय॒णा न॑ ऊ॒तये᳚ |{आत्रेयो वसुश्रुतः | देवीर्द्वारः | गायत्री} प्रप्र॑ य॒ज्ञं पृ॑णीतन ||{5/11}{3.8.20.5}{5.5.5}{5.1.5.5}{1176, 359, 3693} देवीः᳚¦द्वा॒रः॒¦वि¦श्र॒य॒ध्व॒म्¦सु॒प्र॒।आ॒य॒नाः¦नः॒¦ऊ॒तये᳚ | प्रऽप्र॑¦य॒ज्ञम्¦पृ॒णी॒त॒न॒ || |
सु॒प्रती᳚के वयो॒वृधा᳚ य॒ह्वी, ऋ॒तस्य॑ मा॒तरा᳚ |{आत्रेयो वसुश्रुतः | उषसानक्ता | गायत्री} दो॒षामु॒षास॑मीमहे ||{6/11}{3.8.21.1}{5.5.6}{5.1.5.6}{1177, 359, 3694} सु॒प्रती᳚के॒ इति॑ सु॒ऽप्रती᳚के¦व॒यः॒ऽवृधा᳚¦य॒ह्वी इति॑¦ऋ॒तस्य॑¦मा॒तरा᳚ | दो॒षाम्¦उ॒षस᳚म्¦ई॒म॒हे॒ || |
वात॑स्य॒ पत्म᳚न्नीळि॒ता दैव्या॒ होता᳚रा॒ मनु॑षः |{आत्रेयो वसुश्रुतः | दैव्यौ होतारौ प्रचेतसौ | गायत्री} इ॒मं नो᳚ य॒ज्ञमा ग॑तम् ||{7/11}{3.8.21.2}{5.5.7}{5.1.5.7}{1178, 359, 3695} वात॑स्य¦पत्म॑न्¦ई॒ळि॒ता¦दैव्या᳚¦होता᳚रा¦मनु॑षः | इ॒मम्¦नः॒¦य॒ज्ञम्¦आ¦ग॒त॒म् || |
इळा॒ सर॑स्वती म॒ही ति॒स्रो दे॒वीर्म॑यो॒भुवः॑ |{आत्रेयो वसुश्रुतः | तिस्रो देव्यः सरस्वतीळाभारत्यः | गायत्री} ब॒र्हिः सी᳚दन्त्व॒स्रिधः॑ ||{8/11}{3.8.21.3}{5.5.8}{5.1.5.8}{1179, 359, 3696} इळा᳚¦सर॑स्वती¦म॒ही¦ति॒स्रः¦दे॒वीः¦म॒यः॒ऽभुवः॑ | ब॒र्हिः¦सी॒द॒न्तु॒¦अ॒स्रिधः॑ || |
शि॒वस्त्व॑ष्टरि॒हा ग॑हि वि॒भुः पोष॑ उ॒त त्मना᳚ |{आत्रेयो वसुश्रुतः | त्वष्टा | गायत्री} य॒ज्ञेय॑ज्ञे न॒ उद॑व ||{9/11}{3.8.21.4}{5.5.9}{5.1.5.9}{1180, 359, 3697} शि॒वः¦त्व॒ष्टः॒¦इ॒ह¦आ॒¦ग॒हि॒¦वि॒ऽभुः¦पोषे᳚¦उ॒त¦त्मना᳚ | य॒ज्ञेऽय॑ज्ञे¦नः॒¦उत्¦अ॒व॒ || |
यत्र॒ वेत्थ॑ वनस्पते दे॒वानां॒ गुह्या॒ नामा᳚नि |{आत्रेयो वसुश्रुतः | वनस्पतिः | गायत्री} तत्र॑ ह॒व्यानि॑ गामय ||{10/11}{3.8.21.5}{5.5.10}{5.1.5.10}{1181, 359, 3698} यत्र॑¦वेत्थ॑¦व॒न॒स्प॒ते॒¦दे॒वाना᳚म्¦गुह्या᳚¦नामा᳚नि | तत्र॑¦ह॒व्यानि॑¦ग॒म॒य॒ || |
स्वाहा॒ग्नये॒ वरु॑णाय॒ स्वाहेन्द्रा᳚य म॒रुद्भ्यः॑ |{आत्रेयो वसुश्रुतः | स्वाहाकृतयः | गायत्री} स्वाहा᳚ दे॒वेभ्यो᳚ ह॒विः ||{11/11}{3.8.21.6}{5.5.11}{5.1.5.11}{1182, 359, 3699} स्वाहा᳚¦अ॒ग्नये᳚¦वरु॑णाय¦स्वाहा᳚¦इन्द्रा᳚य¦म॒रुत्ऽभ्यः॑ | स्वाहा᳚¦दे॒वेभ्यः॑¦ह॒विः || |
[120] अग्निंतमिति दशर्चर्स्य सूक्तस्यात्रेयोवसुश्रुतोग्निपङ्क्तिः | |
अ॒ग्निं तं म᳚न्ये॒ यो वसु॒रस्तं॒ यं यन्ति॑ धे॒नवः॑ |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः} अस्त॒मर्व᳚न्त आ॒शवोऽस्तं॒ नित्या᳚सो वा॒जिन॒ इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{1/10}{3.8.22.1}{5.6.1}{5.1.6.1}{1183, 360, 3700} अ॒ग्निम्¦तम्¦म॒न्ये॒¦यः¦वसुः॑¦अस्त᳚म्¦यम्¦यन्ति॑¦धे॒नवः॑ | |
सो, अ॒ग्निर्यो वसु॑र्गृ॒णे सं यमा॒यन्ति॑ धे॒नवः॑ |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः} समर्व᳚न्तो रघु॒द्रुवः॒ सं सु॑जा॒तासः॑ सू॒रय॒ इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{2/10}{3.8.22.2}{5.6.2}{5.1.6.2}{1184, 360, 3701} सः¦अ॒ग्निः¦यः¦वसुः॑¦गृ॒णे¦सम्¦यम्¦आ॒ऽयन्ति॑¦धे॒नवः॑ | |
अ॒ग्निर्हि वा॒जिनं᳚ वि॒शे ददा᳚ति वि॒श्वच॑र्षणिः |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः} अ॒ग्नी रा॒ये स्वा॒भुवं॒ स प्री॒तो या᳚ति॒ वार्य॒मिषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{3/10}{3.8.22.3}{5.6.3}{5.1.6.3}{1185, 360, 3702} अ॒ग्निः¦हि¦वा॒जिन᳚म्¦वि॒शे¦ददा᳚ति¦वि॒श्वऽच॑र्षणिः | |
आ ते᳚, अग्न इधीमहि द्यु॒मन्तं᳚ देवा॒जर᳚म् |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः} यद्ध॒ स्या ते॒ पनी᳚यसी स॒मिद् दी॒दय॑ति॒ द्यवीषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{4/10}{3.8.22.4}{5.6.4}{5.1.6.4}{1186, 360, 3703} आ¦ते॒¦अ॒ग्ने॒¦इ॒धी॒म॒हि॒¦द्यु॒ऽमन्त᳚म्¦दे॒व॒¦अ॒जर᳚म् | |
आ ते᳚, अग्न ऋ॒चा ह॒विः शुक्र॑स्य शोचिषस्पते |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः} सुश्च᳚न्द्र॒ दस्म॒ विश्प॑ते॒ हव्य॑वा॒ट् तुभ्यं᳚ हूयत॒ इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{5/10}{3.8.22.5}{5.6.5}{5.1.6.5}{1187, 360, 3704} आ¦ते॒¦अ॒ग्ने॒¦ऋ॒चा¦ह॒विः¦शुक्र॑स्य¦शो॒चि॒षः॒¦प॒ते॒ | |
प्रो त्ये, अ॒ग्नयो॒ऽग्निषु॒ विश्वं᳚ पुष्यन्ति॒ वार्य᳚म् |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः} ते हि᳚न्विरे॒ त इ᳚न्विरे॒ त इ॑षण्यन्त्यानु॒षगिषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{6/10}{3.8.23.1}{5.6.6}{5.1.6.6}{1188, 360, 3705} प्रो इति॑¦त्ये¦अ॒ग्नयः॑¦अ॒ग्निषु॑¦विश्व᳚म्¦पु॒ष्य॒न्ति॒¦वार्य᳚म् | |
तव॒ त्ये, अ॑ग्ने, अ॒र्चयो॒ महि᳚ व्राधन्त वा॒जिनः॑ |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः} ये पत्व॑भिः श॒फानां᳚ व्र॒जा भु॒रन्त॒ गोना॒मिषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{7/10}{3.8.23.2}{5.6.7}{5.1.6.7}{1189, 360, 3706} तव॑¦त्ये¦अ॒ग्ने॒¦अ॒र्चयः॑¦महि॑¦व्रा॒ध॒न्त॒¦वा॒जिनः॑ | |
नवा᳚ नो, अग्न॒ आ भ॑र स्तो॒तृभ्यः॑ सुक्षि॒तीरिषः॑ |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः} ते स्या᳚म॒ य आ᳚नृ॒चुस्त्वादू᳚तासो॒ दमे᳚दम॒ इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{8/10}{3.8.23.3}{5.6.8}{5.1.6.8}{1190, 360, 3707} नवाः᳚¦नः॒¦अ॒ग्ने॒¦आ¦भ॒र॒¦स्तो॒तृऽभ्यः॑¦सु॒ऽक्षि॒तीः¦इषः॑ | |
उ॒भे सु॑श्चन्द्र स॒र्पिषो॒ दर्वी᳚ श्रीणीष आ॒सनि॑ |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः} उ॒तो न॒ उत् पु॑पूर्या, उ॒क्थेषु॑ शवसस्पत॒ इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{9/10}{3.8.23.4}{5.6.9}{5.1.6.9}{1191, 360, 3708} उ॒भे इति॑¦सु॒ऽच॒न्द्र॒¦स॒र्पिषः॑¦दर्वी॒ इति॑¦श्री॒णी॒षे॒¦आ॒सनि॑ | |
ए॒वाँ, अ॒ग्निम॑जुर्यमुर्गी॒र्भिर्य॒ज्ञेभि॑रानु॒षक् |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः} दध॑द॒स्मे सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्य॒मिषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{10/10}{3.8.23.5}{5.6.10}{5.1.6.10}{1192, 360, 3709} ए॒व¦अ॒ग्निम्¦अ॒जु॒र्य॒मुः॒¦गीः॒ऽभिः¦य॒ज्ञेभिः॑¦आ॒नु॒षक् | |
[121] सखायःसागिति दशर्चस्य सूक्तस्यात्रेयइषोग्निरनुष्टुबन्त्यापङ्क्तिः | |
सखा᳚यः॒ सं वः॑ स॒म्यञ्च॒मिषं॒ स्तोमं᳚ चा॒ग्नये᳚ |{आत्रेय इषः | अग्निः | अनुष्टुप्} वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते ||{1/10}{3.8.24.1}{5.7.1}{5.1.7.1}{1193, 361, 3710} सखा᳚यः¦सम्¦वः॒¦स॒म्यंच᳚म्¦इष᳚म्¦स्तोम᳚म्¦च॒¦अ॒ग्नये᳚ | वर्षि॑ष्ठाय¦क्षि॒ती॒नाम्¦ऊ॒र्जः¦नप्त्रे᳚¦सह॑स्वते || |
कुत्रा᳚ चि॒द्यस्य॒ समृ॑तौ र॒ण्वा नरो᳚ नृ॒षद॑ने |{आत्रेय इषः | अग्निः | अनुष्टुप्} अर्ह᳚न्तश्चि॒द् यमि᳚न्ध॒ते सं᳚ज॒नय᳚न्ति ज॒न्तवः॑ ||{2/10}{3.8.24.2}{5.7.2}{5.1.7.2}{1194, 361, 3711} कुत्र॑¦चि॒त्¦यस्य॑¦सम्ऽऋ॑तौ¦र॒ण्वाः¦नरः॑¦नृ॒ऽसद॑ने | अर्ह᳚न्तः¦चि॒त्¦यम्¦इ॒न्ध॒ते¦स॒म्ऽज॒नय᳚न्ति¦ज॒न्तवः॑ || |
सं यदि॒षो वना᳚महे॒ सं ह॒व्या मानु॑षाणाम् |{आत्रेय इषः | अग्निः | अनुष्टुप्} उ॒त द्यु॒म्नस्य॒ शव॑स ऋ॒तस्य॑ र॒श्मिमा द॑दे ||{3/10}{3.8.24.3}{5.7.3}{5.1.7.3}{1195, 361, 3712} सम्¦यत्¦इ॒षः¦वना᳚महे¦सम्¦ह॒व्या¦मानु॑षाणाम् | उ॒त¦द्यु॒म्नस्य॑¦शव॑सा¦ऋ॒तस्य॑¦र॒श्मिम्¦आ¦द॒दे॒ || |
स स्मा᳚ कृणोति के॒तुमा नक्तं᳚ चिद्दू॒र आ स॒ते |{आत्रेय इषः | अग्निः | अनुष्टुप्} पा॒व॒को यद् वन॒स्पती॒न् प्र स्मा᳚ मि॒नात्य॒जरः॑ ||{4/10}{3.8.24.4}{5.7.4}{5.1.7.4}{1196, 361, 3713} सः¦स्म॒¦कृ॒णो॒ति॒¦के॒तुम्¦आ¦नक्त᳚म्¦चि॒त्¦दू॒रे¦आ¦स॒ते | पा॒व॒कः¦यत्¦वन॒स्पती᳚न्¦प्र¦स्म॒¦मि॒नाति॑¦अ॒जरः॑ || |
अव॑ स्म॒ यस्य॒ वेष॑णे॒ स्वेदं᳚ प॒थिषु॒ जुह्व॑ति |{आत्रेय इषः | अग्निः | अनुष्टुप्} अ॒भीमह॒ स्वजे᳚न्यं॒ भूमा᳚ पृ॒ष्ठेव॑ रुरुहुः ||{5/10}{3.8.24.5}{5.7.5}{5.1.7.5}{1197, 361, 3714} अव॑¦स्म॒¦यस्य॑¦वेष॑णे¦स्वेद᳚म्¦प॒थिषु॑¦जुह्व॑ति | अ॒भि¦ई॒म्¦अह॑¦स्वऽजे᳚न्यम्¦भूम॑¦पृ॒ष्ठाऽइ᳚व¦रु॒रु॒हुः॒ || |
यं मर्त्यः॑ पुरु॒स्पृहं᳚ वि॒दद् विश्व॑स्य॒ धाय॑से |{आत्रेय इषः | अग्निः | अनुष्टुप्} प्र स्वाद॑नं पितू॒नामस्त॑तातिं चिदा॒यवे᳚ ||{6/10}{3.8.25.1}{5.7.6}{5.1.7.6}{1198, 361, 3715} यम्¦मर्त्यः॑¦पु॒रु॒ऽस्पृह᳚म्¦वि॒दत्¦विश्व॑स्य¦धाय॑से | प्र¦स्वाद॑नम्¦पि॒तू॒नाम्¦अस्त॑ऽतातिम्¦चि॒त्¦आ॒यवे᳚ || |
स हि ष्मा॒ धन्वाक्षि॑तं॒ दाता॒ न दात्या प॒शुः |{आत्रेय इषः | अग्निः | अनुष्टुप्} हिरि॑श्मश्रुः॒ शुचि॑दन्नृ॒भुरनि॑भृष्टतविषिः ||{7/10}{3.8.25.2}{5.7.7}{5.1.7.7}{1199, 361, 3716} सः¦हि¦स्म॒¦धन्व॑¦आऽक्षि॑तम्¦दाता᳚¦न¦दाति॑¦आ¦प॒शुः | हिरि॑ऽश्मश्रुः¦शुचि॑ऽदन्¦ऋ॒भुः¦अनि॑भृष्टऽतविषिः || |
शुचिः॑ ष्म॒ यस्मा᳚, अत्रि॒वत् प्र स्वधि॑तीव॒ रीय॑ते |{आत्रेय इषः | अग्निः | अनुष्टुप्} सु॒षूर॑सूत मा॒ता क्रा॒णा यदा᳚न॒शे भग᳚म् ||{8/10}{3.8.25.3}{5.7.8}{5.1.7.8}{1200, 361, 3717} शुचिः॑¦स्म॒¦यस्मै᳚¦अ॒त्रि॒ऽवत्¦प्र¦स्वधि॑तिःऽइव¦रीय॑ते | सु॒ऽसूः¦अ॒सू॒त॒¦मा॒ता¦क्रा॒णा¦यत्¦आ॒न॒शे¦भग᳚म् || |
आ यस्ते᳚ सर्पिरासु॒तेऽग्ने॒ शमस्ति॒ धाय॑से |{आत्रेय इषः | अग्निः | अनुष्टुप्} ऐषु॑ द्यु॒म्नमु॒त श्रव॒ आ चि॒त्तं मर्त्ये᳚षु धाः ||{9/10}{3.8.25.4}{5.7.9}{5.1.7.9}{1201, 361, 3718} आ¦यः¦ते॒¦स॒र्पिः॒ऽआ॒सु॒ते॒¦अग्ने᳚¦शम्¦अस्ति॑¦धाय॑से | आ¦ए॒षु॒¦द्यु॒म्नम्¦उ॒त¦श्रवः॑¦आ¦चि॒त्तम्¦मर्त्ये᳚षु¦धाः॒ || |
इति॑ चिन्म॒न्युम॒ध्रिज॒स्त्वादा᳚त॒मा प॒शुं द॑दे |{आत्रेय इषः | अग्निः | पङ्क्तिः} आद॑ग्ने॒, अपृ॑ण॒तोऽत्रिः॑ सासह्या॒द् दस्यू᳚नि॒षः सा᳚सह्या॒न्नॄन् ||{10/10}{3.8.25.5}{5.7.10}{5.1.7.10}{1202, 361, 3719} इति॑¦चि॒त्¦म॒न्युम्¦अ॒ध्रिजः॑¦त्वाऽदा᳚तम्¦आ¦प॒शुम्¦द॒दे॒ | |
[122] त्वामग्नऋतायवइति सप्तर्चस्य सूक्तस्यात्रेय इषोग्निर्जगती | |
त्वाम॑ग्न ऋता॒यवः॒ समी᳚धिरे प्र॒त्नं प्र॒त्नास॑ ऊ॒तये᳚ सहस्कृत |{आत्रेय इषः | अग्निः | जगती} पु॒रु॒श्च॒न्द्रं य॑ज॒तं वि॒श्वधा᳚यसं॒ दमू᳚नसं गृ॒हप॑तिं॒ वरे᳚ण्यम् ||{1/7}{3.8.26.1}{5.8.1}{5.1.8.1}{1203, 362, 3720} त्वाम्¦अ॒ग्ने॒¦ऋ॒त॒ऽयवः॑¦सम्¦ई॒धि॒रे॒¦प्र॒त्नम्¦प्र॒त्नासः॑¦ऊ॒तये᳚¦स॒हः॒ऽकृ॒त॒ | |
त्वाम॑ग्ने॒, अति॑थिं पू॒र्व्यं विशः॑ शो॒चिष्के᳚शं गृ॒हप॑तिं॒ नि षे᳚दिरे |{आत्रेय इषः | अग्निः | जगती} बृ॒हत्के᳚तुं पुरु॒रूपं᳚ धन॒स्पृतं᳚ सु॒शर्मा᳚णं॒ स्वव॑सं जर॒द्विष᳚म् ||{2/7}{3.8.26.2}{5.8.2}{5.1.8.2}{1204, 362, 3721} त्वाम्¦अ॒ग्ने॒¦अति॑थिम्¦पू॒र्व्यम्¦विशः॑¦शो॒चिःऽके᳚शम्¦गृ॒हऽप॑तिम्¦नि¦से॒दि॒रे॒ | |
त्वाम॑ग्ने॒ मानु॑षीरीळते॒ विशो᳚ होत्रा॒विदं॒ विवि॑चिं रत्न॒धात॑मम् |{आत्रेय इषः | अग्निः | जगती} गुहा॒ सन्तं᳚ सुभग वि॒श्वद॑र्शतं तुविष्व॒णसं᳚ सु॒यजं᳚ घृत॒श्रिय᳚म् ||{3/7}{3.8.26.3}{5.8.3}{5.1.8.3}{1205, 362, 3722} त्वाम्¦अ॒ग्ने॒¦मानु॑षीः¦ई॒ळ॒ते॒¦विशः॑¦हो॒त्रा॒ऽविद᳚म्¦विवि॑चिम्¦र॒त्न॒ऽधात॑मम् | |
त्वाम॑ग्ने धर्ण॒सिं वि॒श्वधा᳚ व॒यं गी॒र्भिर्गृ॒णन्तो॒ नम॒सोप॑ सेदिम |{आत्रेय इषः | अग्निः | जगती} स नो᳚ जुषस्व समिधा॒नो, अ᳚ङ्गिरो दे॒वो मर्त॑स्य य॒शसा᳚ सुदी॒तिभिः॑ ||{4/7}{3.8.26.4}{5.8.4}{5.1.8.4}{1206, 362, 3723} त्वाम्¦अ॒ग्ने॒¦ध॒र्ण॒सिम्¦वि॒श्वधा᳚¦व॒यम्¦गीः॒ऽभिः¦गृ॒णन्तः॑¦नम॑सा¦उप॑¦से॒दि॒म॒ | |
त्वम॑ग्ने पुरु॒रूपो᳚ वि॒शेवि॑शे॒ वयो᳚ दधासि प्र॒त्नथा᳚ पुरुष्टुत |{आत्रेय इषः | अग्निः | जगती} पु॒रूण्यन्ना॒ सह॑सा॒ वि रा᳚जसि॒ त्विषिः॒ सा ते᳚ तित्विषा॒णस्य॒ नाधृषे᳚ ||{5/7}{3.8.26.5}{5.8.5}{5.1.8.5}{1207, 362, 3724} त्वम्¦अ॒ग्ने॒¦पु॒रु॒ऽरूपः॑¦वि॒शेऽवि॑शे¦वयः॑¦द॒धा॒सि॒¦प्र॒त्नऽथा᳚¦पु॒रु॒ऽस्तु॒त॒ | |
त्वाम॑ग्ने समिधा॒नं य॑विष्ठ्य दे॒वा दू॒तं च॑क्रिरे हव्य॒वाह॑नम् |{आत्रेय इषः | अग्निः | जगती} उ॒रु॒ज्रय॑सं घृ॒तयो᳚नि॒माहु॑तं त्वे॒षं चक्षु॑र्दधिरे चोद॒यन्म॑ति ||{6/7}{3.8.26.6}{5.8.6}{5.1.8.6}{1208, 362, 3725} त्वाम्¦अ॒ग्ने॒¦स॒म्ऽइ॒धा॒नम्¦य॒वि॒ष्ठ्य॒¦दे॒वाः¦दू॒तम्¦च॒क्रि॒रे॒¦ह॒व्य॒ऽवाह॑नम् | |
त्वाम॑ग्ने प्र॒दिव॒ आहु॑तं घृ॒तैः सु᳚म्ना॒यवः॑ सुष॒मिधा॒ समी᳚धिरे |{आत्रेय इषः | अग्निः | जगती} स वा᳚वृधा॒न ओष॑धीभिरुक्षि॒तो॒३॑(ओ॒)ऽभि ज्रयां᳚सि॒ पार्थि॑वा॒ वि ति॑ष्ठसे ||{7/7}{3.8.26.7}{5.8.7}{5.1.8.7}{1209, 362, 3726} त्वाम्¦अ॒ग्ने॒¦प्र॒ऽदिवः॑¦आऽहु॑तम्¦घृ॒तैः¦सु॒म्न॒ऽयवः॑¦सु॒ऽस॒मिधा᳚¦सम्¦ई॒धि॒रे॒ | |