|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||

|| ऋग्वेद संहिता (अष्टक: 04) ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
Mantra classification is following this convention{अष्टक,अध्याय,वर्ग,मंत्र}{मंडल,सूक्त,मंत्र}{मंडल,अनुवाक,सूक्त,मंत्र}{अष्टक मन्त्र संख्या,ऋक्संहित सूक्त संख्या,ऋक्संहित मन्त्र संख्या}
[Last updated on: 17-Sep-2026]

[1] त्वामग्नइति सप्तर्चस्य सूक्तस्यात्रेयोगयोग्निरनुष्टुप्‌ पंचमी सप्तम्यौपङ्क्ती |
त्वाम॑ग्ने ह॒विष्म᳚न्तो दे॒वं मर्ता᳚स ईळते|{आत्रेयो गयः | अग्निः | अनुष्टुप्}

मन्ये᳚ त्वा जा॒तवे᳚दसं॒ स ह॒व्या व॑क्ष्यानु॒षक्||{1/7}{4.1.1.1}{5.9.1}{5.1.9.1}{1, 363, 3727}

अ॒ग्निर्होता॒ दास्व॑तः॒, क्षय॑स्य वृ॒क्तब᳚र्हिषः|{आत्रेयो गयः | अग्निः | अनुष्टुप्}

सं य॒ज्ञास॒श्चर᳚न्ति॒ यं सं वाजा᳚सः श्रव॒स्यवः॑||{2/7}{4.1.1.2}{5.9.2}{5.1.9.2}{2, 363, 3728}

उ॒त स्म॒ यं शिशुं᳚ यथा॒ नवं॒ जनि॑ष्टा॒रणी᳚|{आत्रेयो गयः | अग्निः | अनुष्टुप्}

ध॒र्तारं॒ मानु॑षीणां वि॒शाम॒ग्निं स्व॑ध्व॒रम्||{3/7}{4.1.1.3}{5.9.3}{5.1.9.3}{3, 363, 3729}

उ॒त स्म॑ दुर्गृभीयसे पु॒त्रो न ह्वा॒र्याणा᳚म्|{आत्रेयो गयः | अग्निः | अनुष्टुप्}

पु॒रू यो दग्धासि॒ वनाऽग्ने᳚ प॒शुर्न यव॑से||{4/7}{4.1.1.4}{5.9.4}{5.1.9.4}{4, 363, 3730}

अध॑ स्म॒ यस्या॒र्चयः॑ स॒म्यक्‌ सं॒यन्ति॑ धू॒मिनः॑|{आत्रेयो गयः | अग्निः | पङ्क्तिः}

यदी॒मह॑ त्रि॒तो दि॒व्युप॒ ध्माते᳚व॒ धम॑ति॒ शिशी᳚ते ध्मा॒तरी᳚ यथा||{5/7}{4.1.1.5}{5.9.5}{5.1.9.5}{5, 363, 3731}

तवा॒हम॑ग्न ऊ॒तिभि᳚र्मि॒त्रस्य॑ च॒ प्रश॑स्तिभिः|{आत्रेयो गयः | अग्निः | अनुष्टुप्}

द्वे॒षो॒युतो॒ न दु॑रि॒ता तु॒र्याम॒ मर्त्या᳚नाम्||{6/7}{4.1.1.6}{5.9.6}{5.1.9.6}{6, 363, 3732}

तं नो᳚ अग्ने, अ॒भी नरो᳚ र॒यिं स॑हस्व॒ आ भ॑र|{आत्रेयो गयः | अग्निः | पङ्क्तिः}

स क्षे᳚पय॒त्‌ स पो᳚षय॒द् भुव॒द्‌ वाज॑स्य सा॒तय॑ उ॒तैधि॑ पृ॒त्सु नो᳚ वृ॒धे||{7/7}{4.1.1.7}{5.9.7}{5.1.9.7}{7, 363, 3733}

[2] अग्नओजिष्टमिति सप्तर्चस्य सूक्तस्यात्रेयोगयोग्निरनुष्टुप्‌ चतुर्थीसप्तम्यौपङ्क्ती |
अग्न॒ ओजि॑ष्ठ॒मा भ॑र द्यु॒म्नम॒स्मभ्य॑मध्रिगो|{आत्रेयो गयः | अग्निः | अनुष्टुप्}

प्र नो᳚ रा॒या परी᳚णसा॒ रत्सि॒ वाजा᳚य॒ पन्था᳚म्||{1/7}{4.1.2.1}{5.10.1}{5.1.10.1}{8, 364, 3734}

त्वं नो᳚ अग्ने, अद्भुत॒ क्रत्वा॒ दक्ष॑स्य मं॒हना᳚|{आत्रेयो गयः | अग्निः | अनुष्टुप्}

त्वे, अ॑सु॒र्य१॑(अ॒)मारु॑हत् क्रा॒णा मि॒त्रो न य॒ज्ञियः॑||{2/7}{4.1.2.2}{5.10.2}{5.1.10.2}{9, 364, 3735}

त्वं नो᳚ अग्न एषां॒ गयं᳚ पु॒ष्टिं च॑ वर्धय|{आत्रेयो गयः | अग्निः | अनुष्टुप्}

ये स्तोमे᳚भिः॒ प्र सू॒रयो॒ नरो᳚ म॒घान्या᳚न॒शुः||{3/7}{4.1.2.3}{5.10.3}{5.1.10.3}{10, 364, 3736}

ये, अ॑ग्ने चन्द्र ते॒ गिरः॑ शु॒म्भन्त्यश्व॑राधसः|{आत्रेयो गयः | अग्निः | पङ्क्तिः}

शुष्मे᳚भिः शु॒ष्मिणो॒ नरो᳚ दि॒वश्चि॒द्‌ येषां᳚ बृ॒हत् सु॑की॒र्तिर्बोध॑ति॒ त्मना᳚||{4/7}{4.1.2.4}{5.10.4}{5.1.10.4}{11, 364, 3737}

तव॒ त्ये, अ॑ग्ने, अ॒र्चयो॒ भ्राज᳚न्तो यन्ति धृष्णु॒या|{आत्रेयो गयः | अग्निः | अनुष्टुप्}

परि॑ज्मानो॒ न वि॒द्युतः॑ स्वा॒नो रथो॒ न वा᳚ज॒युः||{5/7}{4.1.2.5}{5.10.5}{5.1.10.5}{12, 364, 3738}

नू नो᳚ अग्न ऊ॒तये᳚ स॒बाध॑सश्च रा॒तये᳚|{आत्रेयो गयः | अग्निः | अनुष्टुप्}

अ॒स्माका᳚सश्च सू॒रयो॒ विश्वा॒, आशा᳚स्तरी॒षणि॑||{6/7}{4.1.2.6}{5.10.6}{5.1.10.6}{13, 364, 3739}

त्वं नो᳚ अग्ने, अङ्गिरः स्तु॒तः स्तवा᳚न॒ आ भ॑र|{आत्रेयो गयः | अग्निः | पङ्क्तिः}

होत᳚र्विभ्वा॒सहं᳚ र॒यिं स्तो॒तृभ्यः॒ स्तव॑से च न उ॒तैधि॑ पृ॒त्सु नो᳚ वृ॒धे||{7/7}{4.1.2.7}{5.10.7}{5.1.10.7}{14, 364, 3740}

[3] जनस्येति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निर्जगती |
जन॑स्य गो॒पा, अ॑जनिष्ट॒ जागृ॑विर॒ग्निः सु॒दक्षः॑ सुवि॒ताय॒ नव्य॑से|{आत्रेयः सुतम्भरः | अग्निः | जगती}

घृ॒तप्र॑तीको बृह॒ता दि॑वि॒स्पृशा᳚ द्यु॒मद्‌ वि भा᳚ति भर॒तेभ्यः॒ शुचिः॑||{1/6}{4.1.3.1}{5.11.1}{5.1.11.1}{15, 365, 3741}

य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तम॒ग्निं नर॑स्त्रिषध॒स्थे समी᳚धिरे|{आत्रेयः सुतम्भरः | अग्निः | जगती}

इन्द्रे᳚ण दे॒वैः स॒रथं॒ स ब॒र्हिषि॒ सीद॒न्नि होता᳚ य॒जथा᳚य सु॒क्रतुः॑||{2/6}{4.1.3.2}{5.11.2}{5.1.11.2}{16, 365, 3742}

अस᳚म्मृष्टो जायसे मा॒त्रोः शुचि᳚र्म॒न्द्रः क॒विरुद॑तिष्ठो वि॒वस्व॑तः|{आत्रेयः सुतम्भरः | अग्निः | जगती}

घृ॒तेन॑ त्वावर्धयन्नग्न आहुत धू॒मस्ते᳚ के॒तुर॑भवद्‌ दि॒वि श्रि॒तः||{3/6}{4.1.3.3}{5.11.3}{5.1.11.3}{17, 365, 3743}

अ॒ग्निर्नो᳚ य॒ज्ञमुप॑ वेतु साधु॒या ऽग्निं नरो॒ वि भ॑रन्ते गृ॒हेगृ॑हे|{आत्रेयः सुतम्भरः | अग्निः | जगती}

अ॒ग्निर्दू॒तो, अ॑भवद्धव्य॒वाह॑नो॒ ऽग्निं वृ॑णा॒ना वृ॑णते क॒विक्र॑तुम्||{4/6}{4.1.3.4}{5.11.4}{5.1.11.4}{18, 365, 3744}

तुभ्ये॒दम॑ग्ने॒ मधु॑मत्तमं॒ वच॒स्तुभ्यं᳚ मनी॒षा, इ॒यम॑स्तु॒ शं हृ॒दे|{आत्रेयः सुतम्भरः | अग्निः | जगती}

त्वां गिरः॒ सिन्धु॑मिवा॒वनी᳚र्म॒हीरा पृ॑णन्ति॒ शव॑सा व॒र्धय᳚न्ति च||{5/6}{4.1.3.5}{5.11.5}{5.1.11.5}{19, 365, 3745}

त्वाम॑ग्ने॒, अङ्गि॑रसो॒ गुहा᳚ हि॒तमन्व॑विन्दञ्छिश्रिया॒णं वने᳚वने|{आत्रेयः सुतम्भरः | अग्निः | जगती}

स जा᳚यसे म॒थ्यमा᳚नः॒ सहो᳚ म॒हत् त्वामा᳚हुः॒ सह॑सस्पु॒त्रम᳚ङ्गिरः||{6/6}{4.1.3.6}{5.11.6}{5.1.11.6}{20, 365, 3746}

[4] प्राग्नयइति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निस्त्रिष्टुप् |
प्राग्नये᳚ बृह॒ते य॒ज्ञिया᳚य ऋ॒तस्य॒ वृष्णे॒, असु॑राय॒ मन्म॑|{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

घृ॒तं न य॒ज्ञ आ॒स्ये॒३॑(ए॒) सुपू᳚तं॒ गिरं᳚ भरे वृष॒भाय॑ प्रती॒चीम्||{1/6}{4.1.4.1}{5.12.1}{5.1.12.1}{21, 366, 3747}

ऋ॒तं चि॑कित्व ऋ॒तमिच्चि॑किद्ध्यृ॒तस्य॒ धारा॒, अनु॑ तृन्धि पू॒र्वीः|{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

नाहं या॒तुं सह॑सा॒ न द्व॒येन॑ ऋ॒तं स॑पाम्यरु॒षस्य॒ वृष्णः॑||{2/6}{4.1.4.2}{5.12.2}{5.1.12.2}{22, 366, 3748}

कया᳚ नो, अग्न ऋ॒तय᳚न्नृ॒तेन॒ भुवो॒ नवे᳚दा, उ॒चथ॑स्य॒ नव्यः॑|{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

वेदा᳚ मे दे॒व ऋ॑तु॒पा, ऋ॑तू॒नां नाहं पतिं᳚ सनि॒तुर॒स्य रा॒यः||{3/6}{4.1.4.3}{5.12.3}{5.1.12.3}{23, 366, 3749}

के ते᳚ अग्ने रि॒पवे॒ बन्ध॑नासः॒ के पा॒यवः॑ सनिषन्त द्यु॒मन्तः॑|{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

के धा॒सिम॑ग्ने॒, अनृ॑तस्य पान्ति॒ क आस॑तो॒ वच॑सः सन्ति गो॒पाः||{4/6}{4.1.4.4}{5.12.4}{5.1.12.4}{24, 366, 3750}

सखा᳚यस्ते॒ विषु॑णा, अग्न ए॒ते शि॒वासः॒ सन्तो॒, अशि॑वा, अभूवन्|{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

अधू᳚र्षत स्व॒यमे॒ते वचो᳚भिरृजूय॒ते वृ॑जि॒नानि॑ ब्रु॒वन्तः॑||{5/6}{4.1.4.5}{5.12.5}{5.1.12.5}{25, 366, 3751}

यस्ते᳚ अग्ने॒ नम॑सा य॒ज्ञमीट्ट॑ ऋ॒तं स पा᳚त्यरु॒षस्य॒ वृष्णः॑|{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

तस्य॒ क्षयः॑ पृ॒थुरा सा॒धुरे᳚तु प्र॒सर्स्रा᳚णस्य॒ नहु॑षस्य॒ शेषः॑||{6/6}{4.1.4.6}{5.12.6}{5.1.12.6}{26, 366, 3752}

[5] अर्चतइति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निर्गायत्री |
अर्च᳚न्तस्त्वा हवाम॒हेऽर्च᳚न्तः॒ समि॑धीमहि|{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

अग्ने॒, अर्च᳚न्त ऊ॒तये᳚||{1/6}{4.1.5.1}{5.13.1}{5.1.13.1}{27, 367, 3753}

अ॒ग्नेः स्तोमं᳚ मनामहे सि॒ध्रम॒द्य दि॑वि॒स्पृशः॑|{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

दे॒वस्य॑ द्रविण॒स्यवः॑||{2/6}{4.1.5.2}{5.13.2}{5.1.13.2}{28, 367, 3754}

अ॒ग्निर्जु॑षत नो॒ गिरो॒ होता॒ यो मानु॑षे॒ष्वा|{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

स य॑क्ष॒द्‌ दैव्यं॒ जन᳚म्||{3/6}{4.1.5.3}{5.13.3}{5.1.13.3}{29, 367, 3755}

त्वम॑ग्ने स॒प्रथा᳚ असि॒ जुष्टो॒ होता॒ वरे᳚ण्यः|{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

त्वया᳚ य॒ज्ञं वि त᳚न्वते||{4/6}{4.1.5.4}{5.13.4}{5.1.13.4}{30, 367, 3756}

त्वाम॑ग्ने वाज॒सात॑मं॒ विप्रा᳚ वर्धन्ति॒ सुष्टु॑तम्|{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

स नो᳚ रास्व सु॒वीर्य᳚म्||{5/6}{4.1.5.5}{5.13.5}{5.1.13.5}{31, 367, 3757}

अग्ने᳚ ने॒मिर॒राँ, इ॑व दे॒वाँस्त्वं प॑रि॒भूर॑सि|{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

आ राध॑श्चि॒त्रमृ᳚ञ्जसे||{6/6}{4.1.5.6}{5.13.6}{5.1.13.6}{32, 367, 3758}

[6] अग्निंस्तोमेनेति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निर्गायत्री |
अ॒ग्निं स्तोमे᳚न बोधय समिधा॒नो, अम॑र्त्यम्|{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

ह॒व्या दे॒वेषु॑ नो दधत्||{1/6}{4.1.6.1}{5.14.1}{5.1.14.1}{33, 368, 3759}

तम॑ध्व॒रेष्वी᳚ळते दे॒वं मर्ता॒, अम॑र्त्यम्|{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

यजि॑ष्ठं॒ मानु॑षे॒ जने᳚||{2/6}{4.1.6.2}{5.14.2}{5.1.14.2}{34, 368, 3760}

तं हि शश्व᳚न्त॒ ईळ॑ते स्रु॒चा दे॒वं घृ॑त॒श्चुता᳚|{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

अ॒ग्निं ह॒व्याय॒ वोळ्ह॑वे||{3/6}{4.1.6.3}{5.14.3}{5.1.14.3}{35, 368, 3761}

अ॒ग्निर्जा॒तो, अ॑रोचत॒ घ्नन्‌ दस्यू॒ञ्ज्योति॑षा॒ तमः॑|{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

अवि᳚न्द॒द्‌ गा, अ॒पः स्वः॑||{4/6}{4.1.6.4}{5.14.4}{5.1.14.4}{36, 368, 3762}

अ॒ग्निमी॒ळेन्यं᳚ क॒विं घृ॒तपृ॑ष्ठं सपर्यत|{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

वेतु॑ मे शृ॒णव॒द्धव᳚म्||{5/6}{4.1.6.5}{5.14.5}{5.1.14.5}{37, 368, 3763}

अ॒ग्निं घृ॒तेन॑ वावृधुः॒ स्तोमे᳚भिर्वि॒श्वच॑र्षणिम्|{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

स्वा॒धीभि᳚र्वच॒स्युभिः॑||{6/6}{4.1.6.6}{5.14.6}{5.1.14.6}{38, 368, 3764}

[7] प्रवेधसइति पंचर्चस्य सूक्तस्यांगिरसोधरुणोऽग्निस्त्रिष्टुप् |
प्र वे॒धसे᳚ क॒वये॒ वेद्या᳚य॒ गिरं᳚ भरे य॒शसे᳚ पू॒र्व्याय॑|{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्}

घृ॒तप्र॑सत्तो॒, असु॑रः सु॒शेवो᳚ रा॒यो ध॒र्ता ध॒रुणो॒ वस्वो᳚ अ॒ग्निः||{1/5}{4.1.7.1}{5.15.1}{5.2.1.1}{39, 369, 3765}

ऋ॒तेन॑ ऋ॒तं ध॒रुणं᳚ धारयन्त य॒ज्ञस्य॑ शा॒के प॑र॒मे व्यो᳚मन्|{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्}

दि॒वो धर्म᳚न्‌ ध॒रुणे᳚ से॒दुषो॒ नॄञ्जा॒तैरजा᳚ताँ, अ॒भि ये न॑न॒क्षुः||{2/5}{4.1.7.2}{5.15.2}{5.2.1.2}{40, 369, 3766}

अं॒हो॒युव॑स्त॒न्व॑स्तन्वते॒ वि वयो᳚ म॒हद्‌ दु॒ष्टरं᳚ पू॒र्व्याय॑|{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्}

स सं॒वतो॒ नव॑जातस्तुतुर्यात् सिं॒हं न क्रु॒द्धम॒भितः॒ परि॑ ष्ठुः||{3/5}{4.1.7.3}{5.15.3}{5.2.1.3}{41, 369, 3767}

मा॒तेव॒ यद्‌ भर॑से पप्रथा॒नो जनं᳚जनं॒ धाय॑से॒ चक्ष॑से च|{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्}

वयो᳚वयो जरसे॒ यद्‌ दधा᳚नः॒ परि॒ त्मना॒ विषु॑रूपो जिगासि||{4/5}{4.1.7.4}{5.15.4}{5.2.1.4}{42, 369, 3768}

वाजो॒ नु ते॒ शव॑सस्पा॒त्वन्त॑मु॒रुं दोघं᳚ ध॒रुणं᳚ देव रा॒यः|{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्}

प॒दं न ता॒युर्गुहा॒ दधा᳚नो म॒हो रा॒ये चि॒तय॒न्नत्रि॑मस्पः||{5/5}{4.1.7.5}{5.15.5}{5.2.1.5}{43, 369, 3769}

[8] बृहद्वयइति पंचर्चस्य सूक्तस्यात्रेयः पूरुरग्निरनुष्टुप्‌ अंत्या पङ्क्तिः |
बृ॒हद्वयो॒ हि भा॒नवे ऽर्चा᳚ दे॒वाया॒ग्नये᳚|{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

यं मि॒त्रं न प्रश॑स्तिभि॒र्मर्ता᳚सो दधि॒रे पु॒रः||{1/5}{4.1.8.1}{5.16.1}{5.2.2.1}{44, 370, 3770}

स हि द्युभि॒र्जना᳚नां॒ होता॒ दक्ष॑स्य बा॒ह्वोः|{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

वि ह॒व्यम॒ग्निरा᳚नु॒षग्भगो॒ न वार॑मृण्वति||{2/5}{4.1.8.2}{5.16.2}{5.2.2.2}{45, 370, 3771}

अ॒स्य स्तोमे᳚ म॒घोनः॑ स॒ख्ये वृ॒द्धशो᳚चिषः|{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

विश्वा॒ यस्मि᳚न्‌ तुवि॒ष्वणि॒ सम॒र्ये शुष्म॑माद॒धुः||{3/5}{4.1.8.3}{5.16.3}{5.2.2.3}{46, 370, 3772}

अधा॒ ह्य॑ग्न एषां सु॒वीर्य॑स्य मं॒हना᳚|{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

तमिद्‌ य॒ह्वं न रोद॑सी॒ परि॒ श्रवो᳚ बभूवतुः||{4/5}{4.1.8.4}{5.16.4}{5.2.2.4}{47, 370, 3773}

नू न॒ एहि॒ वार्य॒मग्ने᳚ गृणा॒न आ भ॑र|{आत्रेयः पूरुः | अग्निः | पङ्क्तिः}

ये व॒यं ये च॑ सू॒रयः॑ स्व॒स्ति धाम॑हे॒ सचो॒तैधि॑ पृ॒त्सु नो᳚ वृ॒धे||{5/5}{4.1.8.5}{5.16.5}{5.2.2.5}{48, 370, 3774}

[9] आयज्ञैरिति पंचर्चस्य सूक्तस्यात्रेयः पूरुरग्निरनुष्टुप्‌ अंत्या पङ्क्तिः |
आ य॒ज्ञैर्दे᳚व॒ मर्त्य॑ इ॒त्था तव्यां᳚समू॒तये᳚|{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

अ॒ग्निं कृ॒ते स्व॑ध्व॒रे पू॒रुरी᳚ळी॒ताव॑से||{1/5}{4.1.9.1}{5.17.1}{5.2.3.1}{49, 371, 3775}

अस्य॒ हि स्वय॑शस्तर आ॒सा वि॑धर्म॒न्‌ मन्य॑से|{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

तं नाकं᳚ चि॒त्रशो᳚चिषं म॒न्द्रं प॒रो म॑नी॒षया᳚||{2/5}{4.1.9.2}{5.17.2}{5.2.3.2}{50, 371, 3776}

अ॒स्य वासा, उ॑ अ॒र्चिषा॒ य आयु॑क्त तु॒जा गि॒रा|{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

दि॒वो न यस्य॒ रेत॑सा बृ॒हच्छोच᳚न्त्य॒र्चयः॑||{3/5}{4.1.9.3}{5.17.3}{5.2.3.3}{51, 371, 3777}

अ॒स्य क्रत्वा॒ विचे᳚तसो द॒स्मस्य॒ वसु॒ रथ॒ आ|{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

अधा॒ विश्वा᳚सु॒ हव्यो॒ ऽग्निर्वि॒क्षु प्र श॑स्यते||{4/5}{4.1.9.4}{5.17.4}{5.2.3.4}{52, 371, 3778}

नू न॒ इद्धि वार्य॑मा॒सा स॑चन्त सू॒रयः॑|{आत्रेयः पूरुः | अग्निः | पङ्क्तिः}

ऊर्जो᳚ नपाद॒भिष्ट॑ये पा॒हि श॒ग्धि स्व॒स्तय॑ उ॒तैधि॑ पृ॒त्सु नो᳚ वृ॒धे||{5/5}{4.1.9.5}{5.17.5}{5.2.3.5}{53, 371, 3779}

[10] प्रातरग्निरिति पंचर्चस्य सूक्तस्यात्रेयोमृक्तवाहाद्वितोग्निरनुष्टुप् अंत्या पङ्क्तिः |
प्रा॒तर॒ग्निः पु॑रुप्रि॒यो वि॒शः स्त॑वे॒ताति॑थिः|{आत्रेयो मृक्तवाहा द्वितः | अग्निः | अनुष्टुप्}

विश्वा᳚नि॒ यो, अम॑र्त्यो ह॒व्या मर्ते᳚षु॒ रण्य॑ति||{1/5}{4.1.10.1}{5.18.1}{5.2.4.1}{54, 372, 3780}

द्वि॒ताय॑ मृ॒क्तवा᳚हसे॒ स्वस्य॒ दक्ष॑स्य मं॒हना᳚|{आत्रेयो मृक्तवाहा द्वितः | अग्निः | अनुष्टुप्}

इन्दुं॒ स ध॑त्त आनु॒षक् स्तो॒ता चि॑त्ते, अमर्त्य||{2/5}{4.1.10.2}{5.18.2}{5.2.4.2}{55, 372, 3781}

तं वो᳚ दी॒र्घायु॑शोचिषं गि॒रा हु॑वे म॒घोना᳚म्|{आत्रेयो मृक्तवाहा द्वितः | अग्निः | अनुष्टुप्}

अरि॑ष्टो॒ येषां॒ रथो॒ व्य॑श्वदाव॒न्नीय॑ते||{3/5}{4.1.10.3}{5.18.3}{5.2.4.3}{56, 372, 3782}

चि॒त्रा वा॒ येषु॒ दीधि॑तिरा॒सन्नु॒क्था पान्ति॒ ये|{आत्रेयो मृक्तवाहा द्वितः | अग्निः | अनुष्टुप्}

स्ती॒र्णं ब॒र्हिः स्व᳚र्णरे॒ श्रवां᳚सि दधिरे॒ परि॑||{4/5}{4.1.10.4}{5.18.4}{5.2.4.4}{57, 372, 3783}

ये मे᳚ पञ्चा॒शतं᳚ द॒दुरश्वा᳚नां स॒धस्तु॑ति|{आत्रेयो मृक्तवाहा द्वितः | अग्निः | पङ्क्तिः}

द्यु॒मद॑ग्ने॒ महि॒ श्रवो᳚ बृ॒हत्‌ कृ॑धि म॒घोनां᳚ नृ॒वद॑मृत नृ॒णाम्||{5/5}{4.1.10.5}{5.18.5}{5.2.4.5}{58, 372, 3784}

[11] अभ्यवस्थाइति पंचर्चस्य सूक्तस्यात्रेयोवव्रिरग्निः आद्येद्वेगायत्र्यौ तृतीया चतुर्थ्यां वनुष्टुभौ पंचमीविराड्रूपा |
अ॒भ्य॑व॒स्थाः प्र जा᳚यन्ते॒ प्र व॒व्रेर्व॒व्रिश्चि॑केत|{आत्रेयो वव्रिः | अग्निः | गायत्री}

उ॒पस्थे᳚ मा॒तुर्वि च॑ष्टे||{1/5}{4.1.11.1}{5.19.1}{5.2.5.1}{59, 373, 3785}

जु॒हु॒रे वि चि॒तय॒न्तो ऽनि॑मिषं नृ॒म्णं पा᳚न्ति|{आत्रेयो वव्रिः | अग्निः | गायत्री}

आ दृ॒ळ्हां पुरं᳚ विविशुः||{2/5}{4.1.11.2}{5.19.2}{5.2.5.2}{60, 373, 3786}

आ श्वै᳚त्रे॒यस्य॑ ज॒न्तवो᳚ द्यु॒मद्‌ व॑र्धन्त कृ॒ष्टयः॑|{आत्रेयो वव्रिः | अग्निः | अनुष्टुप्}

नि॒ष्कग्री᳚वो बृ॒हदु॑क्थ ए॒ना मध्वा॒ न वा᳚ज॒युः||{3/5}{4.1.11.3}{5.19.3}{5.2.5.3}{61, 373, 3787}

प्रि॒यं दु॒ग्धं न काम्य॒मजा᳚मि जा॒म्योः सचा᳚|{आत्रेयो वव्रिः | अग्निः | अनुष्टुप्}

घ॒र्मो न वाज॑जठ॒रो ऽद॑ब्धः॒ शश्व॑तो॒ दभः॑||{4/5}{4.1.11.4}{5.19.4}{5.2.5.4}{62, 373, 3788}

क्रीळ᳚न्नो रश्म॒ आ भु॑वः॒ सं भस्म॑ना वा॒युना॒ वेवि॑दानः|{आत्रेयो वव्रिः | अग्निः | विराड्रूपा}

ता, अ॑स्य सन्‌ धृ॒षजो॒ न ति॒ग्माः सुसं᳚शिता व॒क्ष्यो᳚ वक्षणे॒स्थाः||{5/5}{4.1.11.5}{5.19.5}{5.2.5.5}{63, 373, 3789}

[12] यमग्न इति चतुरृचस्य सूक्तस्यात्रेयः प्रयस्वंतोग्निरनुष्टुप् अंत्या पङ्क्तिः |
यम॑ग्ने वाजसातम॒ त्वं चि॒न्‌ मन्य॑से र॒यिम्|{आत्रेयः प्रयस्वंतः | अग्निः | अनुष्टुप्}

तं नो᳚ गी॒र्भिः श्र॒वाय्यं᳚ देव॒त्रा प॑नया॒ युज᳚म्||{1/4}{4.1.12.1}{5.20.1}{5.2.6.1}{64, 374, 3790}

ये, अ॑ग्ने॒ नेरय᳚न्ति ते वृ॒द्धा, उ॒ग्रस्य॒ शव॑सः|{आत्रेयः प्रयस्वंतः | अग्निः | अनुष्टुप्}

अप॒ द्वेषो॒, अप॒ ह्वरो॒ ऽन्यव्र॑तस्य सश्चिरे||{2/4}{4.1.12.2}{5.20.2}{5.2.6.2}{65, 374, 3791}

होता᳚रं त्वा वृणीम॒हे ऽग्ने॒ दक्ष॑स्य॒ साध॑नम्|{आत्रेयः प्रयस्वंतः | अग्निः | अनुष्टुप्}

य॒ज्ञेषु॑ पू॒र्व्यं गि॒रा प्रय॑स्वन्तो हवामहे||{3/4}{4.1.12.3}{5.20.3}{5.2.6.3}{66, 374, 3792}

इ॒त्था यथा᳚ त ऊ॒तये॒ सह॑सावन्‌ दि॒वेदि॑वे|{आत्रेयः प्रयस्वंतः | अग्निः | पङ्क्तिः}

रा॒य ऋ॒ताय॑ सुक्रतो॒ गोभिः॑ ष्याम सध॒मादो᳚ वी॒रैः स्या᳚म सध॒मादः॑||{4/4}{4.1.12.4}{5.20.4}{5.2.6.4}{67, 374, 3793}

[13] मनुष्वदिति चतुरृचस्य सूक्तस्यात्रेयःससोग्निरनुष्टुप् अंत्या पङ्क्तिः |
म॒नु॒ष्वत्त्वा॒ नि धी᳚महि मनु॒ष्वत्‌ समि॑धीमहि|{आत्रेयः ससः | अग्निः | अनुष्टुप्}

अग्ने᳚ मनु॒ष्वद᳚ङ्गिरो दे॒वान्‌ दे᳚वय॒ते य॑ज||{1/4}{4.1.13.1}{5.21.1}{5.2.7.1}{68, 375, 3794}

त्वं हि मानु॑षे॒ जने ऽग्ने॒ सुप्री᳚त इ॒ध्यसे᳚|{आत्रेयः ससः | अग्निः | अनुष्टुप्}

स्रुच॑स्त्वा यन्त्यानु॒षक् सुजा᳚त॒ सर्पि॑रासुते||{2/4}{4.1.13.2}{5.21.2}{5.2.7.2}{69, 375, 3795}

त्वां विश्वे᳚ स॒जोष॑सो दे॒वासो᳚ दू॒तम॑क्रत|{आत्रेयः ससः | अग्निः | अनुष्टुप्}

स॒प॒र्यन्त॑स्त्वा कवे य॒ज्ञेषु॑ दे॒वमी᳚ळते||{3/4}{4.1.13.3}{5.21.3}{5.2.7.3}{70, 375, 3796}

दे॒वं वो᳚ देवय॒ज्यया॒ ऽग्निमी᳚ळीत॒ मर्त्यः॑|{आत्रेयः ससः | अग्निः | पङ्क्तिः}

समि॑द्धः शुक्र दीदिह्यृ॒तस्य॒ योनि॒मास॑दः स॒सस्य॒ योनि॒मास॑दः||{4/4}{4.1.13.4}{5.21.4}{5.2.7.4}{71, 375, 3797}

[14] प्रविश्वसामन्निति चतुरृचस्य सूक्तस्यात्रेयोविश्वसामाग्निरनुष्टुप् अंत्या पङ्क्तिः |
प्र वि॑श्वसामन्नत्रि॒वदर्चा᳚ पाव॒कशो᳚चिषे|{आत्रेयो विश्वसामा | अग्निः | अनुष्टुप्}

यो, अ॑ध्व॒रेष्वीड्यो॒ होता᳚ म॒न्द्रत॑मो वि॒शि||{1/4}{4.1.14.1}{5.22.1}{5.2.8.1}{72, 376, 3798}

न्य१॑(अ॒)ग्निं जा॒तवे᳚दसं॒ दधा᳚ता दे॒वमृ॒त्विज᳚म्|{आत्रेयो विश्वसामा | अग्निः | अनुष्टुप्}

प्र य॒ज्ञ ए᳚त्वानु॒षग॒द्या दे॒वव्य॑चस्तमः||{2/4}{4.1.14.2}{5.22.2}{5.2.8.2}{73, 376, 3799}

चि॒कि॒त्विन्म॑नसं त्वा दे॒वं मर्ता᳚स ऊ॒तये᳚|{आत्रेयो विश्वसामा | अग्निः | अनुष्टुप्}

वरे᳚ण्यस्य॒ तेऽव॑स इया॒नासो᳚ अमन्महि||{3/4}{4.1.14.3}{5.22.3}{5.2.8.3}{74, 376, 3800}

अग्ने᳚ चिकि॒द्ध्य१॑(अ॒)स्य न॑ इ॒दं वचः॑ सहस्य|{आत्रेयो विश्वसामा | अग्निः | पङ्क्तिः}

तं त्वा᳚ सुशिप्र दम्पते॒ स्तोमै᳚र्वर्ध॒न्त्यत्र॑यो गी॒र्भिः शु᳚म्भ॒न्त्यत्र॑यः||{4/4}{4.1.14.4}{5.22.4}{5.2.8.4}{75, 376, 3801}

[15] अग्नेसहंतमिति चतुरृचस्य सूक्तस्यात्रेयोद्युम्नोविश्वचर्षणिरग्निरनुष्टुप् अंत्या पङ्क्तिः |
अग्ने॒ सह᳚न्त॒मा भ॑र द्यु॒म्नस्य॑ प्रा॒सहा᳚ र॒यिम्|{आत्रेयो द्युम्नो विश्वचर्षणिः | अग्निः | अनुष्टुप्}

विश्वा॒ यश्च॑र्ष॒णीर॒भ्या॒३॑(आ॒)सा वाजे᳚षु सा॒सह॑त्||{1/4}{4.1.15.1}{5.23.1}{5.2.9.1}{76, 377, 3802}

तम॑ग्ने पृतना॒षहं᳚ र॒यिं स॑हस्व॒ आ भ॑र|{आत्रेयो द्युम्नो विश्वचर्षणिः | अग्निः | अनुष्टुप्}

त्वं हि स॒त्यो, अद्भु॑तो दा॒ता वाज॑स्य॒ गोम॑तः||{2/4}{4.1.15.2}{5.23.2}{5.2.9.2}{77, 377, 3803}

विश्वे॒ हि त्वा᳚ स॒जोष॑सो॒ जना᳚सो वृ॒क्तब᳚र्हिषः|{आत्रेयो द्युम्नो विश्वचर्षणिः | अग्निः | अनुष्टुप्}

होता᳚रं॒ सद्म॑सु प्रि॒यं व्यन्ति॒ वार्या᳚ पु॒रु||{3/4}{4.1.15.3}{5.23.3}{5.2.9.3}{78, 377, 3804}

स हि ष्मा᳚ वि॒श्वच॑र्षणिर॒भिमा᳚ति॒ सहो᳚ द॒धे|{आत्रेयो द्युम्नो विश्वचर्षणिः | अग्निः | पङ्क्तिः}

अग्न॑ ए॒षु क्षये॒ष्वा रे॒वन्नः॑ शुक्र दीदिहि द्यु॒मत्‌ पा᳚वक दीदिहि||{4/4}{4.1.15.4}{5.23.4}{5.2.9.4}{79, 377, 3805}

[16] अग्नेत्वंनइति चतुरृचस्य सूक्तस्य गौपायना लौपायनावाबंधुः सुबंधुः श्रुतबंधुर्विप्रबंधुश्चक्रमेणर्षयोऽग्निर्द्विपदा विराट् |
अग्ने॒ त्वं नो॒, अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्यः॑||{गौपायना लौपायनावाबंधुः | अग्निः | द्विपदाविराट्}{1/4}{4.1.16.1}{5.24.1}{5.2.10.1}{80, 378, 3806}
वसु॑र॒ग्निर्वसु॑श्रवा॒, अच्छा᳚ नक्षि द्यु॒मत्त॑मं र॒यिं दाः᳚||{गौपायना लौपायनावा सुबंधुः | अग्निः | द्विपदाविराट्}{2/4}{4.1.16.2}{5.24.2}{5.2.10.2}{81, 378, 3807}
स नो᳚ बोधि श्रु॒धी हव॑मुरु॒ष्या णो᳚ अघाय॒तः स॑मस्मात्||{गौपायना लौपायनावा श्रुतबंधुः | अग्निः | द्विपदाविराट्}{3/4}{4.1.16.3}{5.24.3}{5.2.10.3}{82, 378, 3808}
तं त्वा᳚ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी᳚महे॒ सखि॑भ्यः||{गौपायना लौपायनावा विप्रबंधुः | अग्निः | द्विपदाविराट्}{4/4}{4.1.16.4}{5.24.4}{5.2.10.4}{83, 378, 3809}
[17] अच्छावइति नवर्चस्य सूक्तस्यात्रेयो वसूयवोग्निरनुष्टुप् |
अच्छा᳚ वो, अ॒ग्निमव॑से दे॒वं गा᳚सि॒ स नो॒ वसुः॑|{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

रास॑त्‌ पु॒त्र ऋ॑षू॒णामृ॒तावा᳚ पर्षति द्वि॒षः||{1/9}{4.1.17.1}{5.25.1}{5.2.11.1}{84, 379, 3810}

स हि स॒त्यो यं पूर्वे᳚ चिद् दे॒वास॑श्चि॒द्‌ यमी᳚धि॒रे|{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

होता᳚रं म॒न्द्रजि॑ह्व॒मित् सु॑दी॒तिभि᳚र्वि॒भाव॑सुम्||{2/9}{4.1.17.2}{5.25.2}{5.2.11.2}{85, 379, 3811}

स नो᳚ धी॒ती वरि॑ष्ठया॒ श्रेष्ठ॑या च सुम॒त्या|{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

अग्ने᳚ रा॒यो दि॑दीहि नः सुवृ॒क्तिभि᳚र्वरेण्य||{3/9}{4.1.17.3}{5.25.3}{5.2.11.3}{86, 379, 3812}

अ॒ग्निर्दे॒वेषु॑ राजत्य॒ग्निर्मर्ते᳚ष्वावि॒शन्|{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

अ॒ग्निर्नो᳚ हव्य॒वाह॑नो॒ ऽग्निं धी॒भिः स॑पर्यत||{4/9}{4.1.17.4}{5.25.4}{5.2.11.4}{87, 379, 3813}

अ॒ग्निस्तु॒विश्र॑वस्तमं तु॒विब्र᳚ह्माणमुत्त॒मम्|{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

अ॒तूर्तं᳚ श्राव॒यत्प॑तिं पु॒त्रं द॑दाति दा॒शुषे᳚||{5/9}{4.1.17.5}{5.25.5}{5.2.11.5}{88, 379, 3814}

अ॒ग्निर्द॑दाति॒ सत्प॑तिं सा॒साह॒ यो यु॒धा नृभिः॑|{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

अ॒ग्निरत्यं᳚ रघु॒ष्यदं॒ जेता᳚र॒मप॑राजितम्||{6/9}{4.1.18.1}{5.25.6}{5.2.11.6}{89, 379, 3815}

यद्वाहि॑ष्ठं॒ तद॒ग्नये᳚ बृ॒हद॑र्च विभावसो|{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

महि॑षीव॒ त्वद्‌ र॒यिस्त्वद्‌ वाजा॒, उदी᳚रते||{7/9}{4.1.18.2}{5.25.7}{5.2.11.7}{90, 379, 3816}

तव॑ द्यु॒मन्तो᳚ अ॒र्चयो॒ ग्रावे᳚वोच्यते बृ॒हत्|{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

उ॒तो ते᳚ तन्य॒तुर्य॑था स्वा॒नो, अ॑र्त॒ त्मना᳚ दि॒वः||{8/9}{4.1.18.3}{5.25.8}{5.2.11.8}{91, 379, 3817}

ए॒वाँ, अ॒ग्निं व॑सू॒यवः॑ सहसा॒नं व॑वन्दिम|{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

स नो॒ विश्वा॒, अति॒ द्विषः॒ पर्ष᳚न्ना॒वेव॑ सु॒क्रतुः॑||{9/9}{4.1.18.4}{5.25.9}{5.2.11.9}{92, 379, 3818}

[18] अग्नेपावकेति नवर्चस्य सूक्तस्यात्रेयोवसूयवोग्निरंत्यायाविश्वेदेवागायत्री |
अग्ने᳚ पावक रो॒चिषा᳚ म॒न्द्रया᳚ देव जि॒ह्वया᳚|{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

आ दे॒वान्‌ व॑क्षि॒ यक्षि॑ च||{1/9}{4.1.19.1}{5.26.1}{5.2.12.1}{93, 380, 3819}

तं त्वा᳚ घृतस्नवीमहे॒ चित्र॑भानो स्व॒र्दृश᳚म्|{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

दे॒वाँ, आ वी॒तये᳚ वह||{2/9}{4.1.19.2}{5.26.2}{5.2.12.2}{94, 380, 3820}

वी॒तिहो᳚त्रं त्वा कवे द्यु॒मन्तं॒ समि॑धीमहि|{आत्रेयो वसूयवः | अग्निः | गायत्री}

अग्ने᳚ बृ॒हन्त॑मध्व॒रे||{3/9}{4.1.19.3}{5.26.3}{5.2.12.3}{95, 380, 3821}

अग्ने॒ विश्वे᳚भि॒रा ग॑हि दे॒वेभि᳚र्ह॒व्यदा᳚तये|{आत्रेयो वसूयवः | अग्निः | गायत्री}

होता᳚रं त्वा वृणीमहे||{4/9}{4.1.19.4}{5.26.4}{5.2.12.4}{96, 380, 3822}

यज॑मानाय सुन्व॒त आग्ने᳚ सु॒वीर्यं᳚ वह|{आत्रेयो वसूयवः | अग्निः | गायत्री}

दे॒वैरा स॑त्सि ब॒र्हिषि॑||{5/9}{4.1.19.5}{5.26.5}{5.2.12.5}{97, 380, 3823}

स॒मि॒धा॒नः स॑हस्रजि॒दग्ने॒ धर्मा᳚णि पुष्यसि|{आत्रेयो वसूयवः | अग्निः | गायत्री}

दे॒वानां᳚ दू॒त उ॒क्थ्यः॑||{6/9}{4.1.20.1}{5.26.6}{5.2.12.6}{98, 380, 3824}

न्य१॑(अ॒)ग्निं जा॒तवे᳚दसं होत्र॒वाहं॒ यवि॑ष्ठ्यम्|{आत्रेयो वसूयवः | अग्निः | गायत्री}

दधा᳚ता दे॒वमृ॒त्विज᳚म्||{7/9}{4.1.20.2}{5.26.7}{5.2.12.7}{99, 380, 3825}

प्र य॒ज्ञ ए᳚त्वानु॒षग॒द्या दे॒वव्य॑चस्तमः|{आत्रेयो वसूयवः | अग्निः | गायत्री}

स्तृ॒णी॒त ब॒र्हिरा॒सदे᳚||{8/9}{4.1.20.3}{5.26.8}{5.2.12.8}{100, 380, 3826}

एदं म॒रुतो᳚ अ॒श्विना᳚ मि॒त्रः सी᳚दन्तु॒ वरु॑णः|{आत्रेयो वसूयवः | विश्वेदेवाः | गायत्री}

दे॒वासः॒ सर्व॑या वि॒शा||{9/9}{4.1.20.4}{5.26.9}{5.2.12.9}{101, 380, 3827}

[19] अनस्वंतेति षडृचस्य सूक्तस्य त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्चैतेऋषयोऽग्निरंत्यायाइंद्राग्नीत्रिष्टुप् अंत्यास्तिस्रोनुष्टुभः | ( अस्मिन्सूक्तेभौमोत्रिरेवदेवतेतिकेचित् अन्यथायोमेशताचविंशतिंचगोनामित्यादिदातृ क्रियायाअनुपपक्तेः | नैतदन्ये मन्यंतेआत्माध्यासपक्षस्वीकारेणतथाप्युपपक्तेः)
अन॑स्वन्ता॒ सत्प॑तिर्मामहे मे॒ गावा॒ चेति॑ष्ठो॒, असु॑रो म॒घोनः॑|{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | त्रिष्टुप्}

त्रै॒वृ॒ष्णो, अ॑ग्ने द॒शभिः॑ स॒हस्रै॒र्वैश्वा᳚नर॒ त्र्य॑रुणश्चिकेत||{1/6}{4.1.21.1}{5.27.1}{5.2.13.1}{102, 381, 3828}

यो मे᳚ श॒ता च॑ विंश॒तिं च॒ गोनां॒ हरी᳚ च यु॒क्ता सु॒धुरा॒ ददा᳚ति|{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | त्रिष्टुप्}

वैश्वा᳚नर॒ सुष्टु॑तो वावृधा॒नो ऽग्ने॒ यच्छ॒ त्र्य॑रुणाय॒ शर्म॑||{2/6}{4.1.21.2}{5.27.2}{5.2.13.2}{103, 381, 3829}

ए॒वा ते᳚ अग्ने सुम॒तिं च॑का॒नो नवि॑ष्ठाय नव॒मं त्र॒सद॑स्युः|{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | त्रिष्टुप्}

यो मे॒ गिर॑स्तुविजा॒तस्य॑ पू॒र्वीर्यु॒क्तेना॒भि त्र्य॑रुणो गृ॒णाति॑||{3/6}{4.1.21.3}{5.27.3}{5.2.13.3}{104, 381, 3830}

यो म॒ इति॑ प्र॒वोच॒त्यश्व॑मेधाय सू॒रये᳚|{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | अनुष्टुप्}

दद॑दृ॒चा स॒निं य॒ते दद᳚न्मे॒धामृ॑ताय॒ते||{4/6}{4.1.21.4}{5.27.4}{5.2.13.4}{105, 381, 3831}

यस्य॑ मा परु॒षाः श॒तमु॑द्ध॒र्षय᳚न्त्यु॒क्षणः॑|{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | अनुष्टुप्}

अश्व॑मेधस्य॒ दानाः॒ सोमा᳚ इव॒ त्र्या᳚शिरः||{5/6}{4.1.21.5}{5.27.5}{5.2.13.5}{106, 381, 3832}

इन्द्रा᳚ग्नी शत॒दाव्न्यश्व॑मेधे सु॒वीर्य᳚म्|{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | इन्द्राग्नी | अनुष्टुप्}

क्ष॒त्रं धा᳚रयतं बृ॒हद् दि॒वि सूर्य॑मिवा॒जर᳚म्||{6/6}{4.1.21.6}{5.27.6}{5.2.13.6}{107, 381, 3833}

[20] समिद्धइति षडृचस्य सूक्तस्यात्रेयी विश्ववाराऋषिकाग्निः आद्याःक्रमेणत्रिष्टुब्जगतीत्रिष्टुबनुष्टुभः अंत्येद्वेगायत्र्यौ |
समि॑द्धो, अ॒ग्निर्दि॒वि शो॒चिर॑श्रेत् प्र॒त्यङ्ङु॒षस॑मुर्वि॒या वि भा᳚ति|{आत्रेयी विश्ववारा ऋषिका | अग्निः | त्रिष्टुप्}

एति॒ प्राची᳚ वि॒श्ववा᳚रा॒ नमो᳚भिर्दे॒वाँ, ईळा᳚ना ह॒विषा᳚ घृ॒ताची᳚||{1/6}{4.1.22.1}{5.28.1}{5.2.14.1}{108, 382, 3834}

स॒मि॒ध्यमा᳚नो, अ॒मृत॑स्य राजसि ह॒विष्कृ॒ण्वन्तं᳚ सचसे स्व॒स्तये᳚|{आत्रेयी विश्ववारा ऋषिका | अग्निः | जगती}

विश्वं॒ स ध॑त्ते॒ द्रवि॑णं॒ यमिन्व॑स्याति॒थ्यम॑ग्ने॒ नि च॑ धत्त॒ इत्‌ पु॒रः||{2/6}{4.1.22.2}{5.28.2}{5.2.14.2}{109, 382, 3835}

अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय॒ तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु|{आत्रेयी विश्ववारा ऋषिका | अग्निः | त्रिष्टुप्}

सं जा᳚स्प॒त्यं सु॒यम॒मा कृ॑णुष्व शत्रूय॒ताम॒भि ति॑ष्ठा॒ महां᳚सि||{3/6}{4.1.22.3}{5.28.3}{5.2.14.3}{110, 382, 3836}

समि॑द्धस्य॒ प्रम॑ह॒सो ऽग्ने॒ वन्दे॒ तव॒ श्रिय᳚म्|{आत्रेयी विश्ववारा ऋषिका | अग्निः | अनुष्टुप्}

वृ॒ष॒भो द्यु॒म्नवाँ᳚, असि॒ सम॑ध्व॒रेष्वि॑ध्यसे||{4/6}{4.1.22.4}{5.28.4}{5.2.14.4}{111, 382, 3837}

समि॑द्धो, अग्न आहुत दे॒वान्‌ य॑क्षि स्वध्वर|{आत्रेयी विश्ववारा ऋषिका | अग्निः | गायत्री}

त्वं हि ह᳚व्य॒वाळसि॑||{5/6}{4.1.22.5}{5.28.5}{5.2.14.5}{112, 382, 3838}

आ जु॑होता दुव॒स्यता॒ ऽग्निं प्र॑य॒त्य॑ध्व॒रे|{आत्रेयी विश्ववारा ऋषिका | अग्निः | गायत्री}

वृ॒णी॒ध्वं ह᳚व्य॒वाह॑नम्||{6/6}{4.1.22.6}{5.28.6}{5.2.14.6}{113, 382, 3839}

[21] त्र्यर्यमेति पंचदशर्चस्य सूक्तस्य शाक्त्योगौरिवीतिरिंद्रः (उशनायदितिपादस्योशनावा) त्रिष्टुप् |
त्र्य᳚र्य॒मा मनु॑षो दे॒वता᳚ता॒ त्री रो᳚च॒ना दि॒व्या धा᳚रयन्त|{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अर्च᳚न्ति त्वा म॒रुतः॑ पू॒तद॑क्षा॒स्त्वमे᳚षा॒मृषि॑रिन्द्रासि॒ धीरः॑||{1/15}{4.1.23.1}{5.29.1}{5.2.15.1}{114, 383, 3840}

अनु॒ यदीं᳚ म॒रुतो᳚ मन्दसा॒नमार्च॒न्निन्द्रं᳚ पपि॒वांसं᳚ सु॒तस्य॑|{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

आद॑त्त॒ वज्र॑म॒भि यदहिं॒ हन्न॒पो य॒ह्वीर॑सृज॒त्‌ सर्त॒वा, उ॑||{2/15}{4.1.23.2}{5.29.2}{5.2.15.2}{115, 383, 3841}

उ॒त ब्र᳚ह्माणो मरुतो मे, अ॒स्येन्द्रः॒ सोम॑स्य॒ सुषु॑तस्य पेयाः|{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

तद्धि ह॒व्यं मनु॑षे॒ गा, अवि᳚न्द॒दह॒न्नहिं᳚ पपि॒वाँ, इन्द्रो᳚ अस्य||{3/15}{4.1.23.3}{5.29.3}{5.2.15.3}{116, 383, 3842}

आद्रोद॑सी वित॒रं वि ष्क॑भायत् संविव्या॒नश्चि॑द्‌ भि॒यसे᳚ मृ॒गं कः॑|{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

जिग॑र्ति॒मिन्द्रो᳚ अप॒जर्गु॑राणः॒ प्रति॑ श्व॒सन्त॒मव॑ दान॒वं ह॑न्||{4/15}{4.1.23.4}{5.29.4}{5.2.15.4}{117, 383, 3843}

अध॒ क्रत्वा᳚ मघव॒न्‌ तुभ्यं᳚ दे॒वा, अनु॒ विश्वे᳚ अददुः सोम॒पेय᳚म्|{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

यत्सूर्य॑स्य ह॒रितः॒ पत᳚न्तीः पु॒रः स॒तीरुप॑रा॒, एत॑शे॒ कः||{5/15}{4.1.23.5}{5.29.5}{5.2.15.5}{118, 383, 3844}

नव॒ यद॑स्य नव॒तिं च॑ भो॒गान् त्सा॒कं वज्रे᳚ण म॒घवा᳚ विवृ॒श्चत्|{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अर्च॒न्तीन्द्रं᳚ म॒रुतः॑ स॒धस्थे॒ त्रैष्टु॑भेन॒ वच॑सा बाधत॒ द्याम्||{6/15}{4.1.24.1}{5.29.6}{5.2.15.6}{119, 383, 3845}

सखा॒ सख्ये᳚ अपच॒त्तूय॑म॒ग्निर॒स्य क्रत्वा᳚ महि॒षा त्री श॒तानि॑|{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

त्री सा॒कमिन्द्रो॒ मनु॑षः॒ सरां᳚सि सु॒तं पि॑बद्‌ वृत्र॒हत्या᳚य॒ सोम᳚म्||{7/15}{4.1.24.2}{5.29.7}{5.2.15.7}{120, 383, 3846}

त्री यच्छ॒ता म॑हि॒षाणा॒मघो॒ मास्त्री सरां᳚सि म॒घवा᳚ सो॒म्यापाः᳚|{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

का॒रं न विश्वे᳚ अह्वन्त दे॒वा भर॒मिन्द्रा᳚य॒ यदहिं᳚ ज॒घान॑||{8/15}{4.1.24.3}{5.29.8}{5.2.15.8}{121, 383, 3847}

उ॒शना॒ यत्स॑ह॒स्यै॒३॑(ऐ॒)रया᳚तं गृ॒हमि᳚न्द्र जूजुवा॒नेभि॒रश्वैः᳚|{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

व॒न्वा॒नो, अत्र॑ स॒रथं᳚ ययाथ॒ कुत्से᳚न दे॒वैरव॑नोर्ह॒ शुष्ण᳚म्||{9/15}{4.1.24.4}{5.29.9}{5.2.15.9}{122, 383, 3848}

प्रान्यच्च॒क्रम॑वृहः॒ सूर्य॑स्य॒ कुत्सा᳚या॒न्यद्वरि॑वो॒ यात॑वेऽकः|{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अ॒नासो॒ दस्यूँ᳚रमृणो व॒धेन॒ नि दु᳚र्यो॒ण आ᳚वृणङ्‌ मृ॒ध्रवा᳚चः||{10/15}{4.1.24.5}{5.29.10}{5.2.15.10}{123, 383, 3849}

स्तोमा᳚सस्त्वा॒ गौरि॑वीतेरवर्ध॒न्नर᳚न्धयो वैदथि॒नाय॒ पिप्रु᳚म्|{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

आ त्वामृ॒जिश्वा᳚ स॒ख्याय॑ चक्रे॒ पच᳚न्‌ प॒क्तीरपि॑बः॒ सोम॑मस्य||{11/15}{4.1.25.1}{5.29.11}{5.2.15.11}{124, 383, 3850}

नव॑ग्वासः सु॒तसो᳚मास॒ इन्द्रं॒ दश॑ग्वासो, अ॒भ्य॑र्चन्त्य॒र्कैः|{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

गव्यं᳚ चिदू॒र्वम॑पि॒धान॑वन्तं॒ तं चि॒न्नरः॑ शशमा॒ना, अप᳚ व्रन्||{12/15}{4.1.25.2}{5.29.12}{5.2.15.12}{125, 383, 3851}

क॒थो नु ते॒ परि॑ चराणि वि॒द्वान् वी॒र्या᳚ मघव॒न्या च॒कर्थ॑|{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

या चो॒ नु नव्या᳚ कृ॒णवः॑ शविष्ठ॒ प्रेदु॒ ता ते᳚ वि॒दथे᳚षु ब्रवाम||{13/15}{4.1.25.3}{5.29.13}{5.2.15.13}{126, 383, 3852}

ए॒ता विश्वा᳚ चकृ॒वाँ, इ᳚न्द्र॒ भूर्यप॑रीतो ज॒नुषा᳚ वी॒र्ये᳚ण|{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

या चि॒न्नु व॑ज्रिन्‌ कृ॒णवो᳚ दधृ॒ष्वान् न ते᳚ व॒र्ता तवि॑ष्या, अस्ति॒ तस्याः᳚||{14/15}{4.1.25.4}{5.29.14}{5.2.15.14}{127, 383, 3853}

इन्द्र॒ ब्रह्म॑ क्रि॒यमा᳚णा जुषस्व॒ या ते᳚ शविष्ठ॒ नव्या॒, अक᳚र्म|{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

वस्त्रे᳚व भ॒द्रा सुकृ॑ता वसू॒यू रथं॒ न धीरः॒ स्वपा᳚ अतक्षम्||{15/15}{4.1.25.5}{5.29.15}{5.2.15.15}{128, 383, 3854}

[22] क्वस्येति पंचदशर्चस्य सूक्तस्यात्रेयोबभ्रुरिंद्रोंत्यानांचतसृणामृणंचयेंद्रौदेवतेत्रिष्टुप् |
क्व१॑(अ॒) स्य वी॒रः को, अ॑पश्य॒दिन्द्रं᳚ सु॒खर॑थ॒मीय॑मानं॒ हरि॑भ्याम्|{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

यो रा॒या व॒ज्री सु॒तसो᳚ममि॒च्छन् तदोको॒ गन्ता᳚ पुरुहू॒त ऊ॒ती||{1/15}{4.1.26.1}{5.30.1}{5.2.16.1}{129, 384, 3855}

अवा᳚चचक्षं प॒दम॑स्य स॒स्वरु॒ग्रं नि॑धा॒तुरन्वा᳚यमि॒च्छन्|{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अपृ॑च्छम॒न्याँ, उ॒त ते म॑ आहु॒रिन्द्रं॒ नरो᳚ बुबुधा॒ना, अ॑शेम||{2/15}{4.1.26.2}{5.30.2}{5.2.16.2}{130, 384, 3856}

प्र नु व॒यं सु॒ते या ते᳚ कृ॒तानीन्द्र॒ ब्रवा᳚म॒ यानि॑ नो॒ जुजो᳚षः|{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

वेद॒दवि॑द्वाञ्छृ॒णव॑च्च वि॒द्वान् वह॑ते॒ऽयं म॒घवा॒ सर्व॑सेनः||{3/15}{4.1.26.3}{5.30.3}{5.2.16.3}{131, 384, 3857}

स्थि॒रं मन॑श्चकृषे जा॒त इ᳚न्द्र॒ वेषीदेको᳚ यु॒धये॒ भूय॑सश्चित्|{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अश्मा᳚नं चि॒च्छव॑सा दिद्युतो॒ वि वि॒दो गवा᳚मू॒र्वमु॒स्रिया᳚णाम्||{4/15}{4.1.26.4}{5.30.4}{5.2.16.4}{132, 384, 3858}

प॒रो यत्त्वं प॑र॒म आ॒जनि॑ष्ठाः परा॒वति॒ श्रुत्यं॒ नाम॒ बिभ्र॑त्|{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अत॑श्चि॒दिन्द्रा᳚दभयन्त दे॒वा विश्वा᳚ अ॒पो, अ॑जयद्‌ दा॒सप॑त्नीः||{5/15}{4.1.26.5}{5.30.5}{5.2.16.5}{133, 384, 3859}

तुभ्येदे॒ते म॒रुतः॑ सु॒शेवा॒, अर्च᳚न्त्य॒र्कं सु॒न्वन्त्यन्धः॑|{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अहि॑मोहा॒नम॒प आ॒शया᳚नं॒ प्र मा॒याभि᳚र्मा॒यिनं᳚ सक्ष॒दिन्द्रः॑||{6/15}{4.1.27.1}{5.30.6}{5.2.16.6}{134, 384, 3860}

वि षू मृधो᳚ ज॒नुषा॒ दान॒मिन्व॒न्नह॒न्‌ गवा᳚ मघवन्‌ त्संचका॒नः|{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अत्रा᳚ दा॒सस्य॒ नमु॑चेः॒ शिरो॒ यदव॑र्तयो॒ मन॑वे गा॒तुमि॒च्छन्||{7/15}{4.1.27.2}{5.30.7}{5.2.16.7}{135, 384, 3861}

युजं॒ हि मामकृ॑था॒, आदिदि᳚न्द्र॒ शिरो᳚ दा॒सस्य॒ नमु॑चेर्मथा॒यन्|{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अश्मा᳚नं चित्‌ स्व॒र्य१॑(अं॒) वर्त॑मानं॒ प्र च॒क्रिये᳚व॒ रोद॑सी म॒रुद्भ्यः॑||{8/15}{4.1.27.3}{5.30.8}{5.2.16.8}{136, 384, 3862}

स्त्रियो॒ हि दा॒स आयु॑धानि च॒क्रे किं मा᳚ करन्नब॒ला, अ॑स्य॒ सेनाः᳚|{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अ॒न्तर्ह्यख्य॑दु॒भे, अ॑स्य॒ धेने॒, अथोप॒ प्रैद्‌ यु॒धये॒ दस्यु॒मिन्द्रः॑||{9/15}{4.1.27.4}{5.30.9}{5.2.16.9}{137, 384, 3863}

समत्र॒ गावो॒ऽभितो᳚ऽनवन्ते॒हेह॑ व॒त्सैर्वियु॑ता॒ यदास॑न्|{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

सं ता, इन्द्रो᳚ असृजदस्य शा॒कैर्यदीं॒ सोमा᳚सः॒ सुषु॑ता॒, अम᳚न्दन्||{10/15}{4.1.27.5}{5.30.10}{5.2.16.10}{138, 384, 3864}

यदीं॒ सोमा᳚ ब॒भ्रुधू᳚ता॒, अम᳚न्द॒न्नरो᳚रवीद्‌ वृष॒भः साद॑नेषु|{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

पु॒रं॒द॒रः प॑पि॒वाँ, इन्द्रो᳚ अस्य॒ पुन॒र्गवा᳚मददादु॒स्रिया᳚णाम्||{11/15}{4.1.28.1}{5.30.11}{5.2.16.11}{139, 384, 3865}

भ॒द्रमि॒दं रु॒शमा᳚ अग्ने, अक्र॒न् गवां᳚ च॒त्वारि॒ दद॑तः स॒हस्रा᳚|{आत्रेयो बभ्रुः | ऋणामृणंचयेंद्रौ | त्रिष्टुप्}

ऋ॒णं॒च॒यस्य॒ प्रय॑ता म॒घानि॒ प्रत्य॑ग्रभीष्म॒ नृत॑मस्य नृ॒णाम्||{12/15}{4.1.28.2}{5.30.12}{5.2.16.12}{140, 384, 3866}

सु॒पेश॑सं॒ माव॑ सृज॒न्त्यस्तं॒ गवां᳚ स॒हस्रै᳚ रु॒शमा᳚सो, अग्ने|{आत्रेयो बभ्रुः | ऋणामृणंचयेंद्रौ | त्रिष्टुप्}

ती॒व्रा, इन्द्र॑मममन्दुः सु॒तासो॒ ऽक्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाः||{13/15}{4.1.28.3}{5.30.13}{5.2.16.13}{141, 384, 3867}

औच्छ॒त्सा रात्री॒ परि॑तक्म्या॒ याँ ऋ॑णंच॒ये राज॑नि रु॒शमा᳚नाम्|{आत्रेयो बभ्रुः | ऋणामृणंचयेंद्रौ | त्रिष्टुप्}

अत्यो॒ न वा॒जी र॒घुर॒ज्यमा᳚नो ब॒भ्रुश्च॒त्वार्य॑सनत्‌ स॒हस्रा᳚||{14/15}{4.1.28.4}{5.30.14}{5.2.16.14}{142, 384, 3868}

चतुः॑सहस्रं॒ गव्य॑स्य प॒श्वः प्रत्य॑ग्रभीष्म रु॒शमे᳚ष्वग्ने|{आत्रेयो बभ्रुः | ऋणामृणंचयेंद्रौ | त्रिष्टुप्}

घ॒र्मश्चि॑त्‌ त॒प्तः प्र॒वृजे॒ य आसी᳚दय॒स्मय॒स्तम्वादा᳚म॒ विप्राः᳚||{15/15}{4.1.28.5}{5.30.15}{5.2.16.15}{143, 384, 3869}

[23] इंद्रोरथायेति त्रयोदशर्चस्य सूक्तस्यात्रेयोवस्युरिंद्रः | ( उग्रमयातमित्यादि पादौ कुत्सदैवत्यौ‌उशनोदैवत्यौवा) नवम्या इंद्रा कुत्सौत्रिष्टुप् |
इन्द्रो॒ रथा᳚य प्र॒वतं᳚ कृणोति॒ यम॒ध्यस्था᳚न्म॒घवा᳚ वाज॒यन्त᳚म्|{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

यू॒थेव॑ प॒श्वो व्यु॑नोति गो॒पा, अरि॑ष्टो याति प्रथ॒मः सिषा᳚सन्||{1/13}{4.1.29.1}{5.31.1}{5.2.17.1}{144, 385, 3870}

आ प्र द्र॑व हरिवो॒ मा वि वे᳚नः॒ पिश᳚ङ्गराते, अ॒भि नः॑ सचस्व|{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

न॒हि त्वदि᳚न्द्र॒ वस्यो᳚ अ॒न्यदस्त्य॑मे॒नाँश्चि॒ज्जनि॑वतश्चकर्थ||{2/13}{4.1.29.2}{5.31.2}{5.2.17.2}{145, 385, 3871}

उद्यत्‌ सहः॒ सह॑स॒ आज॑निष्ट॒ देदि॑ष्ट॒ इन्द्र॑ इन्द्रि॒याणि॒ विश्वा᳚|{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

प्राचो᳚दयत्‌ सु॒दुघा᳚ व॒व्रे, अ॒न्तर्वि ज्योति॑षा संववृ॒त्वत्‌ तमो᳚ऽवः||{3/13}{4.1.29.3}{5.31.3}{5.2.17.3}{146, 385, 3872}

अन॑वस्ते॒ रथ॒मश्वा᳚य तक्ष॒न् त्वष्टा॒ वज्रं᳚ पुरुहूत द्यु॒मन्त᳚म्|{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

ब्र॒ह्माण॒ इन्द्रं᳚ म॒हय᳚न्तो, अ॒र्कैरव॑र्धय॒न्नह॑ये॒ हन्त॒वा, उ॑||{4/13}{4.1.29.4}{5.31.4}{5.2.17.4}{147, 385, 3873}

वृष्णे॒ यत्ते॒ वृष॑णो, अ॒र्कमर्चा॒निन्द्र॒ ग्रावा᳚णो॒, अदि॑तिः स॒जोषाः᳚|{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

अ॒न॒श्वासो॒ ये प॒वयो᳚ऽर॒था, इन्द्रे᳚षिता, अ॒भ्यव॑र्तन्त॒ दस्यू॑न्||{5/13}{4.1.29.5}{5.31.5}{5.2.17.5}{148, 385, 3874}

प्र ते॒ पूर्वा᳚णि॒ कर॑णानि वोचं॒ प्र नूत॑ना मघव॒न्या च॒कर्थ॑|{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

शक्ती᳚वो॒ यद्‌ वि॒भरा॒ रोद॑सी, उ॒भे जय᳚न्न॒पो मन॑वे॒ दानु॑चित्राः||{6/13}{4.1.30.1}{5.31.6}{5.2.17.6}{149, 385, 3875}

तदिन्नु ते॒ कर॑णं दस्म वि॒प्राहिं॒ यद्‌ घ्नन्नोजो॒, अत्रामि॑मीथाः|{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

शुष्ण॑स्य चि॒त्‌ परि॑ मा॒या, अ॑गृभ्णाः प्रपि॒त्वं यन्नप॒ दस्यूँ᳚रसेधः||{7/13}{4.1.30.2}{5.31.7}{5.2.17.7}{150, 385, 3876}

त्वम॒पो यद॑वे तु॒र्वशा॒याऽर॑मयः सु॒दुघाः᳚ पा॒र इ᳚न्द्र|{आत्रेयो वस्युः | १/२:इन्द्रः, २/२:इन्द्र कुत्सो वा, इन्द्र उशना वा | त्रिष्टुप्}

उ॒ग्रम॑यात॒मव॑हो ह॒ कुत्सं॒ सं ह॒ यद्वा᳚मु॒शनार᳚न्त दे॒वाः||{8/13}{4.1.30.3}{5.31.8}{5.2.17.8}{151, 385, 3877}

इन्द्रा᳚कुत्सा॒ वह॑माना॒ रथे॒ना वा॒मत्या॒, अपि॒ कर्णे᳚ वहन्तु|{आत्रेयो वस्युः | इन्द्र कुत्सो वा | त्रिष्टुप्}

निः षी᳚म॒द्भ्यो धम॑थो॒ निः ष॒धस्था᳚न् म॒घोनो᳚ हृ॒दो व॑रथ॒स्तमां᳚सि||{9/13}{4.1.30.4}{5.31.9}{5.2.17.9}{152, 385, 3878}

वात॑स्य यु॒क्तान्‌ त्सु॒युज॑श्चि॒दश्वा᳚न् क॒विश्चि॑दे॒षो, अ॑जगन्नव॒स्युः|{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

विश्वे᳚ ते॒, अत्र॑ म॒रुतः॒ सखा᳚य॒ इन्द्र॒ ब्रह्मा᳚णि॒ तवि॑षीमवर्धन्||{10/13}{4.1.30.5}{5.31.10}{5.2.17.10}{153, 385, 3879}

सूर॑श्चि॒द्रथं॒ परि॑तक्म्यायां॒ पूर्वं᳚ कर॒दुप॑रं जूजु॒वांस᳚म्|{आत्रेयो वस्युः | इन्द्रः कुत्सश्च | त्रिष्टुप्}

भर॑च्च॒क्रमेत॑शः॒ सं रि॑णाति पु॒रो दध॑त्‌ सनिष्यति॒ क्रतुं᳚ नः||{11/13}{4.1.31.1}{5.31.11}{5.2.17.11}{154, 385, 3880}

आयं ज॑ना, अभि॒चक्षे᳚ जगा॒मेन्द्रः॒ सखा᳚यं सु॒तसो᳚ममि॒च्छन्|{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

वद॒न्‌ ग्रावाव॒ वेदिं᳚ भ्रियाते॒ यस्य॑ जी॒रम॑ध्व॒र्यव॒श्चर᳚न्ति||{12/13}{4.1.31.2}{5.31.12}{5.2.17.12}{155, 385, 3881}

ये चा॒कन᳚न्त चा॒कन᳚न्त॒ नू ते मर्ता᳚ अमृत॒ मो ते, अंह॒ आर॑न्|{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

वा॒व॒न्धि यज्यूँ᳚रु॒त तेषु॑ धे॒ह्योजो॒ जने᳚षु॒ येषु॑ ते॒ स्याम॑||{13/13}{4.1.31.3}{5.31.13}{5.2.17.13}{156, 385, 3882}

[24] अदुर्दरुत्समिति द्वादशर्चस्य सूक्तस्यात्रेयोगातुरिंद्रस्त्रिष्टुप् |
अद॑र्द॒रुत्स॒मसृ॑जो॒ वि खानि॒ त्वम᳚र्ण॒वान्‌ ब॑द्बधा॒नाँ, अ॑रम्णाः|{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

म॒हान्त॑मिन्द्र॒ पर्व॑तं॒ वि यद्‌ वः सृ॒जो वि धारा॒, अव॑ दान॒वं ह॑न्||{1/12}{4.1.32.1}{5.32.1}{5.2.18.1}{157, 386, 3883}

त्वमुत्साँ᳚ ऋ॒तुभि॑र्बद्बधा॒नाँ, अरं᳚ह॒ ऊधः॒ पर्व॑तस्य वज्रिन्|{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

अहिं᳚ चिदुग्र॒ प्रयु॑तं॒ शया᳚नं जघ॒न्वाँ, इ᳚न्द्र॒ तवि॑षीमधत्थाः||{2/12}{4.1.32.2}{5.32.2}{5.2.18.2}{158, 386, 3884}

त्यस्य॑ चिन्मह॒तो निर्मृ॒गस्य॒ वध॑र्जघान॒ तवि॑षीभि॒रिन्द्रः॑|{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

य एक॒ इद॑प्र॒तिर्मन्य॑मान॒ आद॑स्माद॒न्यो, अ॑जनिष्ट॒ तव्या॑न्||{3/12}{4.1.32.3}{5.32.3}{5.2.18.3}{159, 386, 3885}

त्यं चि॑देषां स्व॒धया॒ मद᳚न्तं मि॒हो नपा᳚तं सु॒वृधं᳚ तमो॒गाम्|{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

वृष॑प्रभर्मा दान॒वस्य॒ भामं॒ वज्रे᳚ण व॒ज्री नि ज॑घान॒ शुष्ण᳚म्||{4/12}{4.1.32.4}{5.32.4}{5.2.18.4}{160, 386, 3886}

त्यं चि॑दस्य॒ क्रतु॑भि॒र्निष॑त्तमम॒र्मणो᳚ वि॒ददिद॑स्य॒ मर्म॑|{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

यदीं᳚ सुक्षत्र॒ प्रभृ॑ता॒ मद॑स्य॒ युयु॑त्सन्तं॒ तम॑सि ह॒र्म्ये धाः||{5/12}{4.1.32.5}{5.32.5}{5.2.18.5}{161, 386, 3887}

त्यं चि॑दि॒त्था क॑त्प॒यं शया᳚नमसू॒र्ये तम॑सि वावृधा॒नम्|{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

तं चि᳚न्मन्दा॒नो वृ॑ष॒भः सु॒तस्यो॒च्चैरिन्द्रो᳚ अप॒गूर्या᳚ जघान||{6/12}{4.1.32.6}{5.32.6}{5.2.18.6}{162, 386, 3888}

उद्‌ यदिन्द्रो᳚ मह॒ते दा᳚न॒वाय॒ वध॒र्यमि॑ष्ट॒ सहो॒, अप्र॑तीतम्|{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

यदीं॒ वज्र॑स्य॒ प्रभृ॑तौ द॒दाभ॒ विश्व॑स्य ज॒न्तोर॑ध॒मं च॑कार||{7/12}{4.1.33.1}{5.32.7}{5.2.18.7}{163, 386, 3889}

त्यं चि॒दर्णं᳚ मधु॒पं शया᳚नमसि॒न्वं व॒व्रं मह्याद॑दु॒ग्रः|{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

अ॒पाद॑म॒त्रं म॑ह॒ता व॒धेन॒ नि दु᳚र्यो॒ण आ᳚वृणङ्‌ मृ॒ध्रवा᳚चम्||{8/12}{4.1.33.2}{5.32.8}{5.2.18.8}{164, 386, 3890}

को, अ॑स्य॒ शुष्मं॒ तवि॑षीं वरात॒ एको॒ धना᳚ भरते॒, अप्र॑तीतः|{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

इ॒मे चि॑दस्य॒ ज्रय॑सो॒ नु दे॒वी, इन्द्र॒स्यौज॑सो भि॒यसा᳚ जिहाते||{9/12}{4.1.33.3}{5.32.9}{5.2.18.9}{165, 386, 3891}

न्य॑स्मै दे॒वी स्वधि॑तिर्जिहीत॒ इन्द्रा᳚य गा॒तुरु॑श॒तीव॑ येमे|{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

सं यदोजो᳚ यु॒वते॒ विश्व॑माभि॒रनु॑ स्व॒धाव्ने᳚ क्षि॒तयो᳚ नमन्त||{10/12}{4.1.33.4}{5.32.10}{5.2.18.10}{166, 386, 3892}

एकं॒ नु त्वा॒ सत्प॑तिं॒ पाञ्च॑जन्यं जा॒तं शृ॑णोमि य॒शसं॒ जने᳚षु|{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

तं मे᳚ जगृभ्र आ॒शसो॒ नवि॑ष्ठं दो॒षा वस्तो॒र्हव॑मानास॒ इन्द्र᳚म्||{11/12}{4.1.33.5}{5.32.11}{5.2.18.11}{167, 386, 3893}

ए॒वा हि त्वामृ॑तु॒था या॒तय᳚न्तं म॒घा विप्रे᳚भ्यो॒ दद॑तं शृ॒णोमि॑|{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

किं ते᳚ ब्र॒ह्माणो᳚ गृहते॒ सखा᳚यो॒ ये त्वा॒या नि॑द॒धुः काम॑मिन्द्र||{12/12}{4.1.33.6}{5.32.12}{5.2.18.12}{168, 386, 3894}

[25] महिमहइति दशर्चस्य सूक्तस्य प्राजापत्यः संवरणइंद्रस्त्रिष्टुप् |
महि॑ म॒हे त॒वसे᳚ दीध्ये॒ नॄनिन्द्रा᳚ये॒त्था त॒वसे॒, अत᳚व्यान्|{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

यो, अ॑स्मै सुम॒तिं वाज॑सातौ स्तु॒तो जने᳚ सम॒र्य॑श्चि॒केत॑||{1/10}{4.2.1.1}{5.33.1}{5.3.1.1}{169, 387, 3895}

स त्वं न॑ इन्द्र धियसा॒नो, अ॒र्कैर्हरी᳚णां वृष॒न्‌ योक्त्र॑मश्रेः|{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

या, इ॒त्था म॑घव॒न्ननु॒ जोषं॒ वक्षो᳚ अ॒भि प्रार्यः स॑क्षि॒ जना॑न्||{2/10}{4.2.1.2}{5.33.2}{5.3.1.2}{170, 387, 3896}

न ते त॑ इन्द्रा॒भ्य१॑(अ॒)स्मदृ॒ष्वाऽयु॑क्तासो, अब्र॒ह्मता॒ यदस॑न्|{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

तिष्ठा॒ रथ॒मधि॒ तं व॑ज्रह॒स्ता र॒श्मिं दे᳚व यमसे॒ स्वश्वः॑||{3/10}{4.2.1.3}{5.33.3}{5.3.1.3}{171, 387, 3897}

पु॒रू यत्त॑ इन्द्र॒ सन्त्यु॒क्था गवे᳚ च॒कर्थो॒र्वरा᳚सु॒ युध्य॑न्|{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

त॒त॒क्षे सूर्या᳚य चि॒दोक॑सि॒ स्वे वृषा᳚ स॒मत्सु॑ दा॒सस्य॒ नाम॑ चित्||{4/10}{4.2.1.4}{5.33.4}{5.3.1.4}{172, 387, 3898}

व॒यं ते त॑ इन्द्र॒ ये च॒ नरः॒ शर्धो᳚ जज्ञा॒ना या॒ताश्च॒ रथाः᳚|{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

आस्माञ्ज॑गम्यादहिशुष्म॒ सत्वा॒ भगो॒ न हव्यः॑ प्रभृ॒थेषु॒ चारुः॑||{5/10}{4.2.1.5}{5.33.5}{5.3.1.5}{173, 387, 3899}

प॒पृ॒क्षेण्य॑मिन्द्र॒ त्वे ह्योजो᳚ नृ॒म्णानि॑ च नृ॒तमा᳚नो॒, अम॑र्तः|{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

स न॒ एनीं᳚ वसवानो र॒यिं दाः॒ प्रार्यः स्तु॑षे तुविम॒घस्य॒ दान᳚म्||{6/10}{4.2.2.1}{5.33.6}{5.3.1.6}{174, 387, 3900}

ए॒वा न॑ इन्द्रो॒तिभि॑रव पा॒हि गृ॑ण॒तः शू᳚र का॒रून्|{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

उ॒त त्वचं॒ दद॑तो॒ वाज॑सातौ पिप्री॒हि मध्वः॒ सुषु॑तस्य॒ चारोः᳚||{7/10}{4.2.2.2}{5.33.7}{5.3.1.7}{175, 387, 3901}

उ॒त त्ये मा᳚ पौरुकु॒त्स्यस्य॑ सू॒रेस्त्र॒सद॑स्योर्हिर॒णिनो॒ ररा᳚णाः|{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

वह᳚न्तु मा॒ दश॒ श्येता᳚सो, अस्य गैरिक्षि॒तस्य॒ क्रतु॑भि॒र्नु स॑श्चे||{8/10}{4.2.2.3}{5.33.8}{5.3.1.8}{176, 387, 3902}

उ॒त त्ये मा᳚ मारु॒ताश्व॑स्य॒ शोणाः॒ क्रत्वा᳚मघासो वि॒दथ॑स्य रा॒तौ|{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

स॒हस्रा᳚ मे॒ च्यव॑तानो॒ ददा᳚न आनू॒कम॒र्यो वपु॑षे॒ नार्च॑त्||{9/10}{4.2.2.4}{5.33.9}{5.3.1.9}{177, 387, 3903}

उ॒त त्ये मा᳚ ध्व॒न्य॑स्य॒ जुष्टा᳚ लक्ष्म॒ण्य॑स्य सु॒रुचो॒ यता᳚नाः|{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

म॒ह्ना रा॒यः सं॒वर॑णस्य॒ ऋषे᳚र्व्र॒जं न गावः॒ प्रय॑ता॒, अपि॑ ग्मन्||{10/10}{4.2.2.5}{5.33.10}{5.3.1.10}{178, 387, 3904}

[26] अजातशत्रुमिति नवर्चस्य सूक्तस्य प्राजापत्यः संवरणइंद्रोजगत्यंत्यात्रिष्टुप् |
अजा᳚तशत्रुम॒जरा॒ स्व᳚र्व॒त्यनु॑ स्व॒धामि॑ता द॒स्ममी᳚यते|{प्राजापत्यः संवरण | इन्द्रः | जगती}

सु॒नोत॑न॒ पच॑त॒ ब्रह्म॑वाहसे पुरुष्टु॒ताय॑ प्रत॒रं द॑धातन||{1/9}{4.2.3.1}{5.34.1}{5.3.2.1}{179, 388, 3905}

आ यः सोमे᳚न ज॒ठर॒मपि॑प्र॒ताऽम᳚न्दत म॒घवा॒ मध्वो॒, अन्ध॑सः|{प्राजापत्यः संवरण | इन्द्रः | जगती}

यदीं᳚ मृ॒गाय॒ हन्त॑वे म॒हाव॑धः स॒हस्र॑भृष्टिमु॒शना᳚ व॒धं यम॑त्||{2/9}{4.2.3.2}{5.34.2}{5.3.2.2}{180, 388, 3906}

यो, अ॑स्मै घ्रं॒स उ॒त वा॒ य ऊध॑नि॒ सोमं᳚ सु॒नोति॒ भव॑ति द्यु॒माँ, अह॑|{प्राजापत्यः संवरण | इन्द्रः | जगती}

अपा᳚प श॒क्रस्त॑त॒नुष्टि॑मूहति त॒नूशु॑भ्रं म॒घवा॒ यः क॑वास॒खः||{3/9}{4.2.3.3}{5.34.3}{5.3.2.3}{181, 388, 3907}

यस्याव॑धीत्‌ पि॒तरं॒ यस्य॑ मा॒तरं॒ यस्य॑ श॒क्रो भ्रात॑रं॒ नात॑ ईषते|{प्राजापत्यः संवरण | इन्द्रः | जगती}

वेतीद्व॑स्य॒ प्रय॑ता यतंक॒रो न किल्बि॑षादीषते॒ वस्व॑ आक॒रः||{4/9}{4.2.3.4}{5.34.4}{5.3.2.4}{182, 388, 3908}

न प॒ञ्चभि॑र्द॒शभि᳚र्वष्ट्या॒रभं॒ नासु᳚न्वता सचते॒ पुष्य॑ता च॒न|{प्राजापत्यः संवरण | इन्द्रः | जगती}

जि॒नाति॒ वेद॑मु॒या हन्ति॑ वा॒ धुनि॒रा दे᳚व॒युं भ॑जति॒ गोम॑ति व्र॒जे||{5/9}{4.2.3.5}{5.34.5}{5.3.2.5}{183, 388, 3909}

वि॒त्वक्ष॑णः॒ समृ॑तौ चक्रमास॒जोऽसु᳚न्वतो॒ विषु॑णः सुन्व॒तो वृ॒धः|{प्राजापत्यः संवरण | इन्द्रः | जगती}

इन्द्रो॒ विश्व॑स्य दमि॒ता वि॒भीष॑णो यथाव॒शं न॑यति॒ दास॒मार्यः॑||{6/9}{4.2.4.1}{5.34.6}{5.3.2.6}{184, 388, 3910}

समीं᳚ प॒णेर॑जति॒ भोज॑नं मु॒षे वि दा॒शुषे᳚ भजति सू॒नरं॒ वसु॑|{प्राजापत्यः संवरण | इन्द्रः | जगती}

दु॒र्गे च॒न ध्रि॑यते॒ विश्व॒ आ पु॒रु जनो॒ यो, अ॑स्य॒ तवि॑षी॒मचु॑क्रुधत्||{7/9}{4.2.4.2}{5.34.7}{5.3.2.7}{185, 388, 3911}

सं यज्जनौ᳚ सु॒धनौ᳚ वि॒श्वश॑र्धसा॒ववे॒दिन्द्रो᳚ म॒घवा॒ गोषु॑ शु॒भ्रिषु॑|{प्राजापत्यः संवरण | इन्द्रः | जगती}

युजं॒ ह्य१॑(अ॒)न्यमकृ॑त प्रवेप॒न्युदीं॒ गव्यं᳚ सृजते॒ सत्व॑भि॒र्धुनिः॑||{8/9}{4.2.4.3}{5.34.8}{5.3.2.8}{186, 388, 3912}

स॒ह॒स्र॒सामाग्नि॑वेशिं गृणीषे॒ शत्रि॑मग्न उप॒मां के॒तुम॒र्यः|{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

तस्मा॒, आपः॑ सं॒यतः॑ पीपयन्त॒ तस्मि᳚न्‌ क्ष॒त्रमम॑वत्त्वे॒षम॑स्तु||{9/9}{4.2.4.4}{5.34.9}{5.3.2.9}{187, 388, 3913}

[27] यस्तेसाधिष्टइत्यष्टर्चस्य सूक्तस्याङ्गिरसः प्रभूवसुरिंद्रोनुष्टुबंत्यापंक्तिः |
यस्ते॒ साधि॒ष्ठोऽव॑स॒ इन्द्र॒ क्रतु॒ष्टमा भ॑र|{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

अ॒स्मभ्यं᳚ चर्षणी॒सहं॒ सस्निं॒ वाजे᳚षु दु॒ष्टर᳚म्||{1/8}{4.2.5.1}{5.35.1}{5.3.3.1}{188, 389, 3914}

यदि᳚न्द्र ते॒ चत॑स्रो॒ यच्छू᳚र॒ सन्ति॑ ति॒स्रः|{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

यद्वा॒ पञ्च॑ क्षिती॒नामव॒स्तत्‌ सु न॒ आ भ॑र||{2/8}{4.2.5.2}{5.35.2}{5.3.3.2}{189, 389, 3915}

आ तेऽवो॒ वरे᳚ण्यं॒ वृष᳚न्तमस्य हूमहे|{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

वृष॑जूति॒र्हि ज॑ज्ञि॒ष आ॒भूभि॑रिन्द्र तु॒र्वणिः॑||{3/8}{4.2.5.3}{5.35.3}{5.3.3.3}{190, 389, 3916}

वृषा॒ ह्यसि॒ राध॑से जज्ञि॒षे वृष्णि॑ ते॒ शवः॑|{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

स्वक्ष॑त्रं ते धृ॒षन्मनः॑ सत्रा॒हमि᳚न्द्र॒ पौंस्य᳚म्||{4/8}{4.2.5.4}{5.35.4}{5.3.3.4}{191, 389, 3917}

त्वं तमि᳚न्द्र॒ मर्त्य॑ममित्र॒यन्त॑मद्रिवः|{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

स॒र्व॒र॒था श॑तक्रतो॒ नि या᳚हि शवसस्पते||{5/8}{4.2.5.5}{5.35.5}{5.3.3.5}{192, 389, 3918}

त्वामिद्‌ वृ॑त्रहन्तम॒ जना᳚सो वृ॒क्तब᳚र्हिषः|{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

उ॒ग्रं पू॒र्वीषु॑ पू॒र्व्यं हव᳚न्ते॒ वाज॑सातये||{6/8}{4.2.6.1}{5.35.6}{5.3.3.6}{193, 389, 3919}

अ॒स्माक॑मिन्द्र दु॒ष्टरं᳚ पुरो॒यावा᳚नमा॒जिषु॑|{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

स॒यावा᳚नं॒ धने᳚धने वाज॒यन्त॑मवा॒ रथ᳚म्||{7/8}{4.2.6.2}{5.35.7}{5.3.3.7}{194, 389, 3920}

अ॒स्माक॑मि॒न्द्रेहि॑ नो॒ रथ॑मवा॒ पुरं᳚ध्या|{आंगिरसः प्रभूवसुः | इन्द्रः | पङ्क्तिः}

व॒यं श॑विष्ठ॒ वार्यं᳚ दि॒वि श्रवो᳚ दधीमहि दि॒वि स्तोमं᳚ मनामहे||{8/8}{4.2.6.3}{5.35.8}{5.3.3.8}{195, 389, 3921}

[28] सआगमदिति षडृचस्य सूक्तस्याङ्गिरसःप्रभूवसुरिंद्रस्त्रिष्टुप् तृतीयाजगती |
स आ ग॑म॒दिन्द्रो॒ यो वसू᳚नां॒ चिके᳚त॒द्‌ दातुं॒ दाम॑नो रयी॒णाम्|{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्}

ध॒न्व॒च॒रो न वंस॑गस्तृषा॒णश्च॑कमा॒नः पि॑बतु दु॒ग्धमं॒शुम्||{1/6}{4.2.7.1}{5.36.1}{5.3.4.1}{196, 390, 3922}

आ ते॒ हनू᳚ हरिवः शूर॒ शिप्रे॒ रुह॒त्‌ सोमो॒ न पर्व॑तस्य पृ॒ष्ठे|{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्}

अनु॑ त्वा राज॒न्नर्व॑तो॒ न हि॒न्वन् गी॒र्भिर्म॑देम पुरुहूत॒ विश्वे᳚||{2/6}{4.2.7.2}{5.36.2}{5.3.4.2}{197, 390, 3923}

च॒क्रं न वृ॒त्तं पु॑रुहूत वेपते॒ मनो᳚ भि॒या मे॒, अम॑ते॒रिद॑द्रिवः|{आंगिरसः प्रभूवसुः | इन्द्रः | जगती}

रथा॒दधि॑ त्वा जरि॒ता स॑दावृध कु॒विन्नु स्तो᳚षन्मघवन्‌ पुरू॒वसुः॑||{3/6}{4.2.7.3}{5.36.3}{5.3.4.3}{198, 390, 3924}

ए॒ष ग्रावे᳚व जरि॒ता त॑ इ॒न्द्रेय॑र्ति॒ वाचं᳚ बृ॒हदा᳚शुषा॒णः|{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्}

प्र स॒व्येन॑ मघव॒न्‌ यंसि॑ रा॒यः प्र द॑क्षि॒णिद्ध॑रिवो॒ मा वि वे᳚नः||{4/6}{4.2.7.4}{5.36.4}{5.3.4.4}{199, 390, 3925}

वृषा᳚ त्वा॒ वृष॑णं वर्धतु॒ द्यौर्वृषा॒ वृष॑भ्यां वहसे॒ हरि॑भ्याम्|{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्}

स नो॒ वृषा॒ वृष॑रथः सुशिप्र॒ वृष॑क्रतो॒ वृषा᳚ वज्रि॒न्‌ भरे᳚ धाः||{5/6}{4.2.7.5}{5.36.5}{5.3.4.5}{200, 390, 3926}

यो रोहि॑तौ वा॒जिनौ᳚ वा॒जिनी᳚वान् त्रि॒भिः श॒तैः सच॑माना॒वदि॑ष्ट|{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्}

यूने॒ सम॑स्मै क्षि॒तयो᳚ नमन्तां श्रु॒तर॑थाय मरुतो दुवो॒या||{6/6}{4.2.7.6}{5.36.6}{5.3.4.6}{201, 390, 3927}

[29] संभानुनेति पंचर्चस्य सूक्तस्य भौमोत्रिरिंद्रस्त्रिष्टुप् |
सं भा॒नुना᳚ यतते॒ सूर्य॑स्या॒ऽऽजुह्वा᳚नो घृ॒तपृ॑ष्ठः॒ स्वञ्चाः᳚|{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

तस्मा॒, अमृ॑ध्रा, उ॒षसो॒ व्यु॑च्छा॒न् य इन्द्रा᳚य सु॒नवा॒मेत्याह॑||{1/5}{4.2.8.1}{5.37.1}{5.3.5.1}{202, 391, 3928}

समि॑द्धाग्निर्वनवत्‌ स्ती॒र्णब᳚र्हिर्यु॒क्तग्रा᳚वा सु॒तसो᳚मो जराते|{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

ग्रावा᳚णो॒ यस्ये᳚षि॒रं वद॒न्त्यय॑दध्व॒र्युर्ह॒विषाव॒ सिन्धु᳚म्||{2/5}{4.2.8.2}{5.37.2}{5.3.5.2}{203, 391, 3929}

व॒धूरि॒यं पति॑मि॒च्छन्त्ये᳚ति॒ य ईं॒ वहा᳚ते॒ महि॑षीमिषि॒राम्|{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

आस्य॑ श्रवस्या॒द्‌ रथ॒ आ च॑ घोषात् पु॒रू स॒हस्रा॒ परि॑ वर्तयाते||{3/5}{4.2.8.3}{5.37.3}{5.3.5.3}{204, 391, 3930}

न स राजा᳚ व्यथते॒ यस्मि॒न्निन्द्र॑स्ती॒व्रं सोमं॒ पिब॑ति॒ गोस॑खायम्|{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

आ स॑त्व॒नैरज॑ति॒ हन्ति॑ वृ॒त्रं क्षेति॑ क्षि॒तीः सु॒भगो॒ नाम॒ पुष्य॑न्||{4/5}{4.2.8.4}{5.37.4}{5.3.5.4}{205, 391, 3931}

पुष्या॒त्क्षेमे᳚ अ॒भि योगे᳚ भवात्यु॒भे वृतौ᳚ संय॒ती सं ज॑याति|{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

प्रि॒यः सूर्ये᳚ प्रि॒यो, अ॒ग्ना भ॑वाति॒ य इन्द्रा᳚य सु॒तसो᳚मो॒ ददा᳚शत्||{5/5}{4.2.8.5}{5.37.5}{5.3.5.5}{206, 391, 3932}

[30] उरोष्टइति पंचर्चस्य सूक्तस्य भौमोत्रिरिंद्रोनुष्टुप् |
उ॒रोष्ट॑ इन्द्र॒ राध॑सो वि॒भ्वी रा॒तिः श॑तक्रतो|{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

अधा᳚ नो विश्वचर्षणे द्यु॒म्ना सु॑क्षत्र मंहय||{1/5}{4.2.9.1}{5.38.1}{5.3.6.1}{207, 392, 3933}

यदी᳚मिन्द्र श्र॒वाय्य॒मिषं᳚ शविष्ठ दधि॒षे|{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

प॒प्र॒थे दी᳚र्घ॒श्रुत्त॑मं॒ हिर᳚ण्यवर्ण दु॒ष्टर᳚म्||{2/5}{4.2.9.2}{5.38.2}{5.3.6.2}{208, 392, 3934}

शुष्मा᳚सो॒ ये ते᳚ अद्रिवो मे॒हना᳚ केत॒सापः॑|{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

उ॒भा दे॒वाव॒भिष्ट॑ये दि॒वश्च॒ ग्मश्च॑ राजथः||{3/5}{4.2.9.3}{5.38.3}{5.3.6.3}{209, 392, 3935}

उ॒तो नो᳚ अ॒स्य कस्य॑ चि॒द् दक्ष॑स्य॒ तव॑ वृत्रहन्|{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

अ॒स्मभ्यं᳚ नृ॒म्णमा भ॑रा॒ऽस्मभ्यं᳚ नृमणस्यसे||{4/5}{4.2.9.4}{5.38.4}{5.3.6.4}{210, 392, 3936}

नू त॑ आ॒भिर॒भिष्टि॑भि॒स्तव॒ शर्म᳚ञ्छतक्रतो|{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

इन्द्र॒ स्याम॑ सुगो॒पाः शूर॒ स्याम॑ सुगो॒पाः||{5/5}{4.2.9.5}{5.38.5}{5.3.6.5}{211, 392, 3937}

[31] यदिंद्रेति पंचर्चस्य सूक्तस्य भौमोत्रिरिंद्रोनुष्ठुबंत्यापंक्तिः |
यदि᳚न्द्र चित्र मे॒हना ऽस्ति॒ त्वादा᳚तमद्रिवः|{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

राध॒स्तन्नो᳚ विदद्वस उभयाह॒स्त्या भ॑र||{1/5}{4.2.10.1}{5.39.1}{5.3.7.1}{212, 393, 3938}

यन्मन्य॑से॒ वरे᳚ण्य॒मिन्द्र॑ द्यु॒क्षं तदा भ॑र|{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

वि॒द्याम॒ तस्य॑ ते व॒यमकू᳚पारस्य दा॒वने᳚||{2/5}{4.2.10.2}{5.39.2}{5.3.7.2}{213, 393, 3939}

यत्ते᳚ दि॒त्सु प्र॒राध्यं॒ मनो॒, अस्ति॑ श्रु॒तं बृ॒हत्|{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

तेन॑ दृ॒ळ्हा चि॑दद्रिव॒ आ वाजं᳚ दर्षि सा॒तये᳚||{3/5}{4.2.10.3}{5.39.3}{5.3.7.3}{214, 393, 3940}

मंहि॑ष्ठं वो म॒घोनां॒ राजा᳚नं चर्षणी॒नाम्|{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

इन्द्र॒मुप॒ प्रश॑स्तये पू॒र्वीभि॑र्जुजुषे॒ गिरः॑||{4/5}{4.2.10.4}{5.39.4}{5.3.7.4}{215, 393, 3941}

अस्मा॒, इत्‌ काव्यं॒ वच॑ उ॒क्थमिन्द्रा᳚य॒ शंस्य᳚म्|{भौमोत्रिः | इन्द्रः | पङ्क्तिः}

तस्मा᳚ उ॒ ब्रह्म॑वाहसे॒ गिरो᳚ वर्ध॒न्त्यत्र॑यो॒ गिरः॑ शुम्भ॒न्त्यत्र॑यः||{5/5}{4.2.10.5}{5.39.5}{5.3.7.5}{216, 393, 3942}

[32] आयाहीति नवर्चस्य सूक्तस्य भौमोत्रिः आद्यानांचतसृणामिंद्रः पंचम्याःसूर्यः षष्ट्यादिचतसृणामत्रिर्देवता आद्यास्तिस्रउष्णिहः पंचम्यंत्येऽनुष्टुभौ शिष्टास्त्रिष्टुभः |
आ या॒ह्यद्रि॑भिः सु॒तं सोमं᳚ सोमपते पिब|{भौमोत्रिः | इन्द्रः | उष्णिक्}

वृष᳚न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम||{1/9}{4.2.11.1}{5.40.1}{5.3.8.1}{217, 394, 3943}

वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो᳚ अ॒यं सु॒तः|{भौमोत्रिः | इन्द्रः | उष्णिक्}

वृष᳚न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम||{2/9}{4.2.11.2}{5.40.2}{5.3.8.2}{218, 394, 3944}

वृषा᳚ त्वा॒ वृष॑णं हुवे॒ वज्रि᳚ञ्चि॒त्राभि॑रू॒तिभिः॑|{भौमोत्रिः | इन्द्रः | उष्णिक्}

वृष᳚न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम||{3/9}{4.2.11.3}{5.40.3}{5.3.8.3}{219, 394, 3945}

ऋ॒जी॒षी व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट्छु॒ष्मी राजा᳚ वृत्र॒हा सो᳚म॒पावा᳚|{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

यु॒क्त्वा हरि॑भ्या॒मुप॑ यासद॒र्वाङ् माध्यं᳚दिने॒ सव॑ने मत्स॒दिन्द्रः॑||{4/9}{4.2.11.4}{5.40.4}{5.3.8.4}{220, 394, 3946}

यत्त्वा᳚ सूर्य॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः|{भौमोत्रिः | सूर्यः | अनुष्टुप्}

अक्षे᳚त्रवि॒द्‌ यथा᳚ मु॒ग्धो भुव॑नान्यदीधयुः||{5/9}{4.2.11.5}{5.40.5}{5.3.8.5}{221, 394, 3947}

स्व॑र्भानो॒रध॒ यदि᳚न्द्र मा॒या, अ॒वो दि॒वो वर्त॑माना, अ॒वाह॑न्|{भौमोत्रिः | अत्रिः | त्रिष्टुप्}

गू॒ळ्हं सूर्यं॒ तम॒साप᳚व्रतेन तु॒रीये᳚ण॒ ब्रह्म॑णाविन्द॒दत्रिः॑||{6/9}{4.2.12.1}{5.40.6}{5.3.8.6}{222, 394, 3948}

मा मामि॒मं तव॒ सन्त॑मत्र इर॒स्या द्रु॒ग्धो भि॒यसा॒ नि गा᳚रीत्|{भौमोत्रिः | अत्रिः | त्रिष्टुप्}

त्वं मि॒त्रो, अ॑सि स॒त्यरा᳚धा॒स्तौ मे॒हाव॑तं॒ वरु॑णश्च॒ राजा᳚||{7/9}{4.2.12.2}{5.40.7}{5.3.8.7}{223, 394, 3949}

ग्राव्णो᳚ ब्र॒ह्मा यु॑युजा॒नः स॑प॒र्यन् की॒रिणा᳚ दे॒वान्‌ नम॑सोप॒शिक्ष॑न्|{भौमोत्रिः | अत्रिः | त्रिष्टुप्}

अत्रिः॒ सूर्य॑स्य दि॒वि चक्षु॒राधा॒त् स्व॑र्भानो॒रप॑ मा॒या, अ॑घुक्षत्||{8/9}{4.2.12.3}{5.40.8}{5.3.8.8}{224, 394, 3950}

यं वै सूर्यं॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः|{भौमोत्रिः | अत्रिः | अनुष्टुप्}

अत्र॑य॒स्तमन्व॑विन्दन् न॒ह्य१॑(अ॒)न्ये, अश॑क्नुवन्||{9/9}{4.2.12.4}{5.40.9}{5.3.8.9}{225, 394, 3951}

[33] कोनुवामिति विंशत्यृचस्य सूक्तस्य भौमोत्रिर्विश्वेदेवास्त्रिष्टुप्‌ षोडशीसप्तदश्यावतिजगत्यावन्त्यैकपदा | (भेदपक्षे - मित्रावरुणौ १ विश्वेदेवाः १ अश्विनौ १ विश्वेदेवाः १ मरुतः १ विश्वेदेवाः १ उषासानक्ते १ विश्वेदेवाः २ अग्निः १ | विश्वेदेवाः २ मरुतः १ विश्वेदेवाः १ भूमिः १ विश्वेदेवाः ३ भूमिः १ विश्वेदेवाः १ एवं २०)|
को नु वां᳚ मित्रावरुणावृता॒यन् दि॒वो वा᳚ म॒हः पार्थि॑वस्य वा॒ दे|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒तस्य॑ वा॒ सद॑सि॒ त्रासी᳚थां नो यज्ञाय॒ते वा᳚ पशु॒षो न वाजा॑न्||{1/20}{4.2.13.1}{5.41.1}{5.3.9.1}{226, 395, 3952}

ते नो᳚ मि॒त्रो वरु॑णो, अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुतो᳚ जुषन्त|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

नमो᳚भिर्वा॒ ये दध॑ते सुवृ॒क्तिं स्तोमं᳚ रु॒द्राय॑ मी॒ळ्हुषे᳚ स॒जोषाः᳚||{2/20}{4.2.13.2}{5.41.2}{5.3.9.2}{227, 395, 3953}

आ वां॒ येष्ठा᳚श्विना हु॒वध्यै॒ वात॑स्य॒ पत्म॒न्‌ रथ्य॑स्य पु॒ष्टौ|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

उ॒त वा᳚ दि॒वो, असु॑राय॒ मन्म॒ प्रान्धां᳚सीव॒ यज्य॑वे भरध्वम्||{3/20}{4.2.13.3}{5.41.3}{5.3.9.3}{228, 395, 3954}

प्र स॒क्षणो᳚ दि॒व्यः कण्व॑होता त्रि॒तो दि॒वः स॒जोषा॒ वातो᳚ अ॒ग्निः|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

पू॒षा भगः॑ प्रभृ॒थे वि॒श्वभो᳚जा, आ॒जिं न ज॑ग्मुरा॒श्व॑श्वतमाः||{4/20}{4.2.13.4}{5.41.4}{5.3.9.4}{229, 395, 3955}

प्र वो᳚ र॒यिं यु॒क्ताश्वं᳚ भरध्वं रा॒य एषेऽव॑से दधीत॒ धीः|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सु॒शेव॒ एवै᳚रौशि॒जस्य॒ होता॒ ये व॒ एवा᳚ मरुतस्तु॒राणा᳚म्||{5/20}{4.2.13.5}{5.41.5}{5.3.9.5}{230, 395, 3956}

प्र वो᳚ वा॒युं र॑थ॒युजं᳚ कृणुध्वं॒ प्र दे॒वं विप्रं᳚ पनि॒तार॑म॒र्कैः|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

इ॒षु॒ध्यव॑ ऋत॒सापः॒ पुरं᳚धी॒र्वस्वी᳚र्नो॒, अत्र॒ पत्नी॒रा धि॒ये धुः॑||{6/20}{4.2.14.1}{5.41.6}{5.3.9.6}{231, 395, 3957}

उप॑ व॒ एषे॒ वन्द्ये᳚भिः शू॒षैः प्र य॒ह्वी दि॒वश्चि॒तय॑द्भिर॒र्कैः|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

उ॒षासा॒नक्ता᳚ वि॒दुषी᳚व॒ विश्व॒मा हा᳚ वहतो॒ मर्त्या᳚य य॒ज्ञम्||{7/20}{4.2.14.2}{5.41.7}{5.3.9.7}{232, 395, 3958}

अ॒भि वो᳚ अर्चे पो॒ष्याव॑तो॒ नॄन् वास्तो॒ष्पतिं॒ त्वष्टा᳚रं॒ ररा᳚णः|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

धन्या᳚ स॒जोषा᳚ धि॒षणा॒ नमो᳚भि॒र्वन॒स्पतीँ॒रोष॑धी रा॒य एषे᳚||{8/20}{4.2.14.3}{5.41.8}{5.3.9.8}{233, 395, 3959}

तु॒जे न॒स्तने॒ पर्व॑ताः सन्तु॒ स्वैत॑वो॒ ये वस॑वो॒ न वी॒राः|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

प॒नि॒त आ॒प्त्यो य॑ज॒तः सदा᳚ नो॒ वर्धा᳚न्नः॒ शंसं॒ नर्यो᳚ अ॒भिष्टौ᳚||{9/20}{4.2.14.4}{5.41.9}{5.3.9.9}{234, 395, 3960}

वृष्णो᳚ अस्तोषि भू॒म्यस्य॒ गर्भं᳚ त्रि॒तो नपा᳚तम॒पां सु॑वृ॒क्ति|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

गृ॒णी॒ते, अ॒ग्निरे॒तरी॒ न शू॒षैः शो॒चिष्के᳚शो॒ नि रि॑णाति॒ वना᳚||{10/20}{4.2.14.5}{5.41.10}{5.3.9.10}{235, 395, 3961}

क॒था म॒हे रु॒द्रिया᳚य ब्रवाम॒ कद्रा॒ये चि॑कि॒तुषे॒ भगा᳚य|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

आप॒ ओष॑धीरु॒त नो᳚ऽवन्तु॒ द्यौर्वना᳚ गि॒रयो᳚ वृ॒क्षके᳚शाः||{11/20}{4.2.15.1}{5.41.11}{5.3.9.11}{236, 395, 3962}

शृ॒णोतु॑ न ऊ॒र्जां पति॒र्गिरः॒ स नभ॒स्तरी᳚याँ, इषि॒रः परि॑ज्मा|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

शृ॒ण्वन्त्वापः॒ पुरो॒ न शु॒भ्राः परि॒ स्रुचो᳚ बबृहा॒णस्याद्रेः᳚||{12/20}{4.2.15.2}{5.41.12}{5.3.9.12}{237, 395, 3963}

वि॒दा चि॒न्नु म॑हान्तो॒ ये व॒ एवा॒ ब्रवा᳚म दस्मा॒ वार्यं॒ दधा᳚नाः|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

वय॑श्च॒न सु॒भ्व१॑(अ॒) आव॑ यन्ति क्षु॒भा मर्त॒मनु॑यतं वध॒स्नैः||{13/20}{4.2.15.3}{5.41.13}{5.3.9.13}{238, 395, 3964}

आ दैव्या᳚नि॒ पार्थि॑वानि॒ जन्मा॒ऽपश्चाच्छा॒ सुम॑खाय वोचम्|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

वर्ध᳚न्तां॒ द्यावो॒ गिर॑श्च॒न्द्राग्रा᳚ उ॒दा व॑र्धन्ताम॒भिषा᳚ता॒, अर्णाः᳚||{14/20}{4.2.15.4}{5.41.14}{5.3.9.14}{239, 395, 3965}

प॒देप॑दे मे जरि॒मा नि धा᳚यि॒ वरू᳚त्री वा श॒क्रा या पा॒युभि॑श्च|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सिष॑क्तु मा॒ता म॒ही र॒सा नः॒ स्मत्‌ सू॒रिभि᳚रृजु॒हस्त॑ ऋजु॒वनिः॑||{15/20}{4.2.15.5}{5.41.15}{5.3.9.15}{240, 395, 3966}

क॒था दा᳚शेम॒ नम॑सा सु॒दानू᳚नेव॒या म॒रुतो॒, अच्छो᳚क्तौ॒ प्रश्र॑वसो म॒रुतो॒, अच्छो᳚क्तौ|{भौमोत्रिः | विश्वदेवाः | अतिजगती}

मा नोऽहि॑र्बु॒ध्न्यो᳚ रि॒षे धा᳚द॒स्माकं᳚ भूदुपमाति॒वनिः॑||{16/20}{4.2.16.1}{5.41.16}{5.3.9.16}{241, 395, 3967}

इति॑ चि॒न्नु प्र॒जायै᳚ पशु॒मत्यै॒ देवा᳚सो॒ वन॑ते॒ मर्त्यो᳚ व॒ आ दे᳚वासो वनते॒ मर्त्यो᳚ वः|{भौमोत्रिः | विश्वदेवाः | अतिजगती}

अत्रा᳚ शि॒वां त॒न्वो᳚ धा॒सिम॒स्या ज॒रां चि᳚न्मे॒ निरृ॑तिर्जग्रसीत||{17/20}{4.2.16.2}{5.41.17}{5.3.9.17}{242, 395, 3968}

तां वो᳚ देवाः सुम॒तिमू॒र्जय᳚न्ती॒मिष॑मश्याम वसवः॒ शसा॒ गोः|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सा नः॑ सु॒दानु᳚र्मृ॒ळय᳚न्ती दे॒वी प्रति॒ द्रव᳚न्ती सुवि॒ताय॑ गम्याः||{18/20}{4.2.16.3}{5.41.18}{5.3.9.18}{243, 395, 3969}

अ॒भि न॒ इळा᳚ यू॒थस्य॑ मा॒ता स्मन्न॒दीभि॑रु॒र्वशी᳚ वा गृणातु|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

उ॒र्वशी᳚ वा बृहद्दि॒वा गृ॑णा॒नाऽभ्यू᳚र्ण्वा॒ना प्र॑भृ॒थस्या॒योः||{19/20}{4.2.16.4}{5.41.19}{5.3.9.19}{244, 395, 3970}

सिष॑क्तु न ऊर्ज॒व्य॑स्य पु॒ष्टेः||{भौमोत्रिः | विश्वदेवाः | एकपदाविराट्}{20/20}{4.2.16.5}{5.41.20}{5.3.9.20}{245, 395, 3971}
[34] प्रशंतमेत्यष्टादशर्चस्य सूक्तस्य भौमोत्रिर्विश्वेदेवाः एकादश्यारुद्रत्रिष्टुप् सप्तदश्येकपदा | (भेदपक्षे - विश्वेदेवाः २ सविता १ इंद्रः १ विश्वेदेवाः ९ इंद्रः १ बृहस्पतिः ३ मरुतः १ रुद्रः १ विश्वेदेवाः ९ पर्जन्यः २ मरुतः १ विश्वेदेवाः २ अश्विनौ १ एवं १८) |
प्र शंत॑मा॒ वरु॑णं॒ दीधि॑ती॒ गीर्मि॒त्रं भग॒मदि॑तिं नू॒नम॑श्याः|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

पृष॑द्योनिः॒ पञ्च॑होता शृणो॒त्वतू᳚र्तपन्था॒, असु॑रो मयो॒भुः||{1/18}{4.2.17.1}{5.42.1}{5.3.10.1}{246, 396, 3972}

प्रति॑ मे॒ स्तोम॒मदि॑तिर्जगृभ्यात् सू॒नुं न मा॒ता हृद्यं᳚ सु॒शेव᳚म्|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुपि}

ब्रह्म॑ प्रि॒यं दे॒वहि॑तं॒ यदस्त्य॒हं मि॒त्रे वरु॑णे॒ यन्म॑यो॒भु||{2/18}{4.2.17.2}{5.42.2}{5.3.10.2}{247, 396, 3973}

उदी᳚रय क॒वित॑मं कवी॒नामु॒नत्तै᳚नम॒भि मध्वा᳚ घृ॒तेन॑|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

स नो॒ वसू᳚नि॒ प्रय॑ता हि॒तानि॑ च॒न्द्राणि॑ दे॒वः स॑वि॒ता सु॑वाति||{3/18}{4.2.17.3}{5.42.3}{5.3.10.3}{248, 396, 3974}

समि᳚न्द्र णो॒ मन॑सा नेषि॒ गोभिः॒ सं सू॒रिभि᳚र्हरिवः॒ सं स्व॒स्ति|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सं ब्रह्म॑णा दे॒वहि॑तं॒ यदस्ति॒ सं दे॒वानां᳚ सुम॒त्या य॒ज्ञिया᳚नाम्||{4/18}{4.2.17.4}{5.42.4}{5.3.10.4}{249, 396, 3975}

दे॒वो भगः॑ सवि॒ता रा॒यो, अंश॒ इन्द्रो᳚ वृ॒त्रस्य॑ सं॒जितो॒ धना᳚नाम्|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒भु॒क्षा वाज॑ उ॒त वा॒ पुरं᳚धि॒रव᳚न्तु नो, अ॒मृता᳚सस्तु॒रासः॑||{5/18}{4.2.17.5}{5.42.5}{5.3.10.5}{250, 396, 3976}

म॒रुत्व॑तो॒, अप्र॑तीतस्य जि॒ष्णोरजू᳚र्यतः॒ प्र ब्र॑वामा कृ॒तानि॑|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

न ते॒ पूर्वे᳚ मघव॒न्‌ नाप॑रासो॒ न वी॒र्य१॑(अं॒) नूत॑नः॒ कश्च॒नाप॑||{6/18}{4.2.18.1}{5.42.6}{5.3.10.6}{251, 396, 3977}

उप॑ स्तुहि प्रथ॒मं र॑त्न॒धेयं॒ बृह॒स्पतिं᳚ सनि॒तारं॒ धना᳚नाम्|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

यः शंस॑ते स्तुव॒ते शम्भ॑विष्ठः पुरू॒वसु॑रा॒गम॒ज्जोहु॑वानम्||{7/18}{4.2.18.2}{5.42.7}{5.3.10.7}{252, 396, 3978}

तवो॒तिभिः॒ सच॑माना॒, अरि॑ष्टा॒ बृह॑स्पते म॒घवा᳚नः सु॒वीराः᳚|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

ये, अ॑श्व॒दा, उ॒त वा॒ सन्ति॑ गो॒दा ये व॑स्त्र॒दाः सु॒भगा॒स्तेषु॒ रायः॑||{8/18}{4.2.18.3}{5.42.8}{5.3.10.8}{253, 396, 3979}

वि॒स॒र्माणं᳚ कृणुहि वि॒त्तमे᳚षां॒ ये भु॒ञ्जते॒, अपृ॑णन्तो न उ॒क्थैः|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

अप᳚व्रतान्‌ प्रस॒वे वा᳚वृधा॒नान् ब्र᳚ह्म॒द्विषः॒ सूर्या᳚द्‌ यावयस्व||{9/18}{4.2.18.4}{5.42.9}{5.3.10.9}{254, 396, 3980}

य ओह॑ते र॒क्षसो᳚ दे॒ववी᳚तावच॒क्रेभि॒स्तं म॑रुतो॒ नि या᳚त|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

यो वः॒ शमीं᳚ शशमा॒नस्य॒ निन्दा᳚त् तु॒च्छ्यान्‌ कामा᳚न्‌ करते सिष्विदा॒नः||{10/18}{4.2.18.5}{5.42.10}{5.3.10.10}{255, 396, 3981}

तमु॑ ष्टुहि॒ यः स्वि॒षुः सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑|{भौमोत्रिः | रुद्रः | त्रिष्टुप्}

यक्ष्वा᳚ म॒हे सौ᳚मन॒साय॑ रु॒द्रं नमो᳚भिर्दे॒वमसु॑रं दुवस्य||{11/18}{4.2.19.1}{5.42.11}{5.3.10.11}{256, 396, 3982}

दमू᳚नसो, अ॒पसो॒ ये सु॒हस्ता॒ वृष्णः॒ पत्नी᳚र्न॒द्यो᳚ विभ्वत॒ष्टाः|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सर॑स्वती बृहद्दि॒वोत रा॒का द॑श॒स्यन्ती᳚र्वरिवस्यन्तु शु॒भ्राः||{12/18}{4.2.19.2}{5.42.12}{5.3.10.12}{257, 396, 3983}

प्र सू म॒हे सु॑शर॒णाय॑ मे॒धां गिरं᳚ भरे॒ नव्य॑सीं॒ जाय॑मानाम्|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

य आ᳚ह॒ना दु॑हि॒तुर्व॒क्षणा᳚सु रू॒पा मि॑ना॒नो, अकृ॑णोदि॒दं नः॑||{13/18}{4.2.19.3}{5.42.13}{5.3.10.13}{258, 396, 3984}

प्र सु॑ष्टु॒तिः स्त॒नय᳚न्तं रु॒वन्त॑मि॒ळस्पतिं᳚ जरितर्नू॒नम॑श्याः|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

यो, अ॑ब्दि॒माँ, उ॑दनि॒माँ, इय॑र्ति॒ प्र वि॒द्युता॒ रोद॑सी, उ॒क्षमा᳚णः||{14/18}{4.2.19.4}{5.42.14}{5.3.10.14}{259, 396, 3985}

ए॒ष स्तोमो॒ मारु॑तं॒ शर्धो॒, अच्छा᳚ रु॒द्रस्य॑ सू॒नूँर्यु॑व॒न्यूँरुद॑श्याः|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

कामो᳚ रा॒ये ह॑वते मा स्व॒स्त्युप॑ स्तुहि॒ पृष॑दश्वाँ, अ॒यासः॑||{15/18}{4.2.19.5}{5.42.15}{5.3.10.15}{260, 396, 3986}

प्रैष स्तोमः॑ पृथि॒वीम॒न्तरि॑क्षं॒ वन॒स्पतीँ॒रोष॑धी रा॒ये, अ॑श्याः|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

दे॒वोदे᳚वः सु॒हवो᳚ भूतु॒ मह्यं॒ मा नो᳚ मा॒ता पृ॑थि॒वी दु᳚र्म॒तौ धा᳚त्||{16/18}{4.2.19.6}{5.42.16}{5.3.10.16}{261, 396, 3987}

उ॒रौ दे᳚वा, अनिबा॒धे स्या᳚म||{भौमोत्रिः | विश्वदेवाः | एकपदाविराट्}{17/18}{4.2.19.7}{5.42.17}{5.3.10.17}{262, 396, 3988}
सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा᳚ सु॒प्रणी᳚ती गमेम|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

आ नो᳚ र॒यिं व॑हत॒मोत वी॒राना विश्वा᳚न्यमृता॒ सौभ॑गानि||{18/18}{4.2.19.8}{5.42.18}{5.3.10.18}{263, 396, 3989}

[35] आधेनवइति सप्तदशर्चस्य सूक्तस्य भौमोत्रिर्विश्वेदेवास्त्रिष्टुप् षोडश्येकपदाविराट् (भेदपक्षे - नदी १ द्यावापृथिवी १ वायुः १ सोमः १ इंद्रः १ अग्निः १ धर्मः १ अश्विनौ १ विश्वेदेवाः २ सरस्वती १ बृहस्पतिः १ अग्निः ३ विश्वेदेवाः १ अश्विनौ १ एवं १७) |
आ धे॒नवः॒ पय॑सा॒ तूर्ण्य॑र्था॒, अम॑र्धन्ती॒रुप॑ नो यन्तु॒ मध्वा᳚|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

म॒हो रा॒ये बृ॑ह॒तीः स॒प्त विप्रो᳚ मयो॒भुवो᳚ जरि॒ता जो᳚हवीति||{1/17}{4.2.20.1}{5.43.1}{5.3.11.1}{264, 397, 3990}

आ सु॑ष्टु॒ती नम॑सा वर्त॒यध्यै॒ द्यावा॒ वाजा᳚य पृथि॒वी, अमृ॑ध्रे|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

पि॒ता मा॒ता मधु॑वचाः सु॒हस्ता॒ भरे᳚भरे नो य॒शसा᳚वविष्टाम्||{2/17}{4.2.20.2}{5.43.2}{5.3.11.2}{265, 397, 3991}

अध्व᳚र्यवश्चकृ॒वांसो॒ मधू᳚नि॒ प्र वा॒यवे᳚ भरत॒ चारु॑ शु॒क्रम्|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

होते᳚व नः प्रथ॒मः पा᳚ह्य॒स्य देव॒ मध्वो᳚ ररि॒मा ते॒ मदा᳚य||{3/17}{4.2.20.3}{5.43.3}{5.3.11.3}{266, 397, 3992}

दश॒ क्षिपो᳚ युञ्जते बा॒हू, अद्रिं॒ सोम॑स्य॒ या श॑मि॒तारा᳚ सु॒हस्ता᳚|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

मध्वो॒ रसं᳚ सु॒गभ॑स्तिर्गिरि॒ष्ठां चनि॑श्चदद्‌ दुदुहे शु॒क्रमं॒शुः||{4/17}{4.2.20.4}{5.43.4}{5.3.11.4}{267, 397, 3993}

असा᳚वि ते जुजुषा॒णाय॒ सोमः॒ क्रत्वे॒ दक्षा᳚य बृह॒ते मदा᳚य|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

हरी॒ रथे᳚ सु॒धुरा॒ योगे᳚ अ॒र्वागिन्द्र॑ प्रि॒या कृ॑णुहि हू॒यमा᳚नः||{5/17}{4.2.20.5}{5.43.5}{5.3.11.5}{268, 397, 3994}

आ नो᳚ म॒हीम॒रम॑तिं स॒जोषा॒ ग्नां दे॒वीं नम॑सा रा॒तह᳚व्याम्|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

मधो॒र्मदा᳚य बृह॒तीमृ॑त॒ज्ञामाग्ने᳚ वह प॒थिभि॑र्देव॒यानैः᳚||{6/17}{4.2.21.1}{5.43.6}{5.3.11.6}{269, 397, 3995}

अ॒ञ्जन्ति॒ यं प्र॒थय᳚न्तो॒ न विप्रा᳚ व॒पाव᳚न्तं॒ नाग्निना॒ तप᳚न्तः|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

पि॒तुर्न पु॒त्र उ॒पसि॒ प्रेष्ठ॒ आ घ॒र्मो, अ॒ग्निमृ॒तय᳚न्नसादि||{7/17}{4.2.21.2}{5.43.7}{5.3.11.7}{270, 397, 3996}

अच्छा᳚ म॒ही बृ॑ह॒ती शंत॑मा॒ गीर्दू॒तो न ग᳚न्त्व॒श्विना᳚ हु॒वध्यै᳚|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

म॒यो॒भुवा᳚ स॒रथा या᳚तम॒र्वाग्ग॒न्तं नि॒धिं धुर॑मा॒णिर्न नाभि᳚म्||{8/17}{4.2.21.3}{5.43.8}{5.3.11.8}{271, 397, 3997}

प्र तव्य॑सो॒ नम॑उक्तिं तु॒रस्या॒ऽहं पू॒ष्ण उ॒त वा॒योर॑दिक्षि|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

या राध॑सा चोदि॒तारा᳚ मती॒नां या वाज॑स्य द्रविणो॒दा, उ॒त त्मन्||{9/17}{4.2.21.4}{5.43.9}{5.3.11.9}{272, 397, 3998}

आ नाम॑भिर्म॒रुतो᳚ वक्षि॒ विश्वा॒ना रू॒पेभि॑र्जातवेदो हुवा॒नः|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

य॒ज्ञं गिरो᳚ जरि॒तुः सु॑ष्टु॒तिं च॒ विश्वे᳚ गन्त मरुतो॒ विश्व॑ ऊ॒ती||{10/17}{4.2.21.5}{5.43.10}{5.3.11.10}{273, 397, 3999}

आ नो᳚ दि॒वो बृ॑ह॒तः पर्व॑ता॒दा सर॑स्वती यज॒ता ग᳚न्तु य॒ज्ञम्|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

हवं᳚ दे॒वी जु॑जुषा॒णा घृ॒ताची᳚ श॒ग्मां नो॒ वाच॑मुश॒ती शृ॑णोतु||{11/17}{4.2.22.1}{5.43.11}{5.3.11.11}{274, 397, 4000}

आ वे॒धसं॒ नील॑पृष्ठं बृ॒हन्तं॒ बृह॒स्पतिं॒ सद॑ने सादयध्वम्|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सा॒दद्यो᳚निं॒ दम॒ आ दी᳚दि॒वांसं॒ हिर᳚ण्यवर्णमरु॒षं स॑पेम||{12/17}{4.2.22.2}{5.43.12}{5.3.11.12}{275, 397, 4001}

आ ध᳚र्ण॒सिर्बृ॒हद्दि॑वो॒ ररा᳚णो॒ विश्वे᳚भिर्ग॒न्त्वोम॑भिर्हुवा॒नः|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

ग्ना वसा᳚न॒ ओष॑धी॒रमृ॑ध्रस्त्रि॒धातु॑शृङ्गो वृष॒भो व॑यो॒धाः||{13/17}{4.2.22.3}{5.43.13}{5.3.11.13}{276, 397, 4002}

मा॒तुष्प॒दे प॑र॒मे शु॒क्र आ॒योर्वि॑प॒न्यवो᳚ रास्पि॒रासो᳚ अग्मन्|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सु॒शेव्यं॒ नम॑सा रा॒तह᳚व्याः॒ शिशुं᳚ मृजन्त्या॒यवो॒ न वा॒से||{14/17}{4.2.22.4}{5.43.14}{5.3.11.14}{277, 397, 4003}

बृ॒हद्वयो᳚ बृह॒ते तुभ्य॑मग्ने धिया॒जुरो᳚ मिथु॒नासः॑ सचन्त|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

दे॒वोदे᳚वः सु॒हवो᳚ भूतु॒ मह्यं॒ मा नो᳚ मा॒ता पृ॑थि॒वी दु᳚र्म॒तौ धा᳚त्||{15/17}{4.2.22.5}{5.43.15}{5.3.11.15}{278, 397, 4004}

उ॒रौ दे᳚वा, अनिबा॒धे स्या᳚म||{भौमोत्रिः | विश्वदेवाः | एकपदाविराट्}{16/17}{4.2.22.6}{5.43.16}{5.3.11.16}{279, 397, 4005}
सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा᳚ सु॒प्रणी᳚ती गमेम|{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

आ नो᳚ र॒यिं व॑हत॒मोत वी॒राना विश्वा᳚न्यमृता॒ सौभ॑गानि||{17/17}{4.2.22.7}{5.43.17}{5.3.11.17}{280, 397, 4006}

[36] तंप्रत्नथेति पंचदशर्चस्य सूक्तस्य काश्यपोवत्सारोविश्वेदेवाजगत्यंत्येद्वेत्रिष्टुभौ (भेदपक्षे - इंद्रः २ अग्निः १ सूर्यः १ अग्निः १ विश्वेदेवाः १ सूर्यः १ अग्निः १ सूर्यः २ विश्वेदेवाः २ सुतंभरः १ अग्निः २ एवं १५) |
तं प्र॒त्नथा᳚ पू॒र्वथा᳚ वि॒श्वथे॒मथा᳚ ज्ये॒ष्ठता᳚तिं बर्हि॒षदं᳚ स्व॒र्विद᳚म्|{काश्यपो वत्सारः | विश्वदेवाः | जगती}

प्र॒ती॒ची॒नं वृ॒जनं᳚ दोहसे गि॒राऽऽशुं जय᳚न्त॒मनु॒ यासु॒ वर्ध॑से||{1/15}{4.2.23.1}{5.44.1}{5.3.12.1}{281, 398, 4007}

श्रि॒ये सु॒दृशी॒रुप॑रस्य॒ याः स्व᳚र्वि॒रोच॑मानः क॒कुभा᳚मचो॒दते᳚|{काश्यपो वत्सारः | विश्वदेवाः | जगती}

सु॒गो॒पा, अ॑सि॒ न दभा᳚य सुक्रतो प॒रो मा॒याभि᳚रृ॒त आ᳚स॒ नाम॑ ते||{2/15}{4.2.23.2}{5.44.2}{5.3.12.2}{282, 398, 4008}

अत्यं᳚ ह॒विः स॑चते॒ सच्च॒ धातु॒ चारि॑ष्टगातुः॒ स होता᳚ सहो॒भरिः॑|{काश्यपो वत्सारः | विश्वदेवाः | जगती}

प्र॒सर्स्रा᳚णो॒, अनु॑ ब॒र्हिर्वृषा॒ शिशु॒र्मध्ये॒ युवा॒जरो᳚ वि॒स्रुहा᳚ हि॒तः||{3/15}{4.2.23.3}{5.44.3}{5.3.12.3}{283, 398, 4009}

प्र व॑ ए॒ते सु॒युजो॒ याम᳚न्नि॒ष्टये॒ नीची᳚र॒मुष्मै᳚ य॒म्य॑ ऋता॒वृधः॑|{काश्यपो वत्सारः | विश्वदेवाः | जगती}

सु॒यन्तु॑भिः सर्वशा॒सैर॒भीशु॑भिः॒ क्रिवि॒र्नामा᳚नि प्रव॒णे मु॑षायति||{4/15}{4.2.23.4}{5.44.4}{5.3.12.4}{284, 398, 4010}

सं॒जर्भु॑राण॒स्तरु॑भिः सुते॒गृभं᳚ वया॒किनं᳚ चि॒त्तग॑र्भासु सु॒स्वरुः॑|{काश्यपो वत्सारः | विश्वदेवाः | जगती}

धा॒र॒वा॒केष्वृ॑जुगाथ शोभसे॒ वर्ध॑स्व॒ पत्नी᳚र॒भि जी॒वो, अ॑ध्व॒रे||{5/15}{4.2.23.5}{5.44.5}{5.3.12.5}{285, 398, 4011}

या॒दृगे॒व ददृ॑शे ता॒दृगु॑च्यते॒ सं छा॒यया᳚ दधिरे सि॒ध्रया॒प्स्वा|{काश्यपो वत्सारः | विश्वदेवाः | जगती}

म॒हीम॒स्मभ्य॑मुरु॒षामु॒रु ज्रयो᳚ बृ॒हत्‌ सु॒वीर॒मन॑पच्युतं॒ सहः॑||{6/15}{4.2.24.1}{5.44.6}{5.3.12.6}{286, 398, 4012}

वेत्यग्रु॒र्जनि॑वा॒न्‌ वा, अति॒ स्पृधः॑ समर्य॒ता मन॑सा॒ सूर्यः॑ क॒विः|{काश्यपो वत्सारः | विश्वदेवाः | जगती}

घ्रं॒सं रक्ष᳚न्तं॒ परि॑ वि॒श्वतो॒ गय॑म॒स्माकं॒ शर्म॑ वनव॒त्‌ स्वाव॑सुः||{7/15}{4.2.24.2}{5.44.7}{5.3.12.7}{287, 398, 4013}

ज्यायां᳚सम॒स्य य॒तुन॑स्य के॒तुन॑ ऋषिस्व॒रं च॑रति॒ यासु॒ नाम॑ ते|{काश्यपो वत्सारः | विश्वदेवाः | जगती}

या॒दृश्मि॒न्‌ धायि॒ तम॑प॒स्यया᳚ विद॒द् य उ॑ स्व॒यं वह॑ते॒ सो, अरं᳚ करत्||{8/15}{4.2.24.3}{5.44.8}{5.3.12.8}{288, 398, 4014}

स॒मु॒द्रमा᳚सा॒मव॑ तस्थे, अग्रि॒मा न रि॑ष्यति॒ सव॑नं॒ यस्मि॒न्नाय॑ता|{काश्यपो वत्सारः | विश्वदेवाः | जगती}

अत्रा॒ न हार्दि॑ क्रव॒णस्य॑ रेजते॒ यत्रा᳚ म॒तिर्वि॒द्यते᳚ पूत॒बन्ध॑नी||{9/15}{4.2.24.4}{5.44.9}{5.3.12.9}{289, 398, 4015}

स हि क्ष॒त्रस्य॑ मन॒सस्य॒ चित्ति॑भिरेवाव॒दस्य॑ यज॒तस्य॒ सध्रेः᳚|{काश्यपो वत्सारः | विश्वदेवाः | जगती}

अ॒व॒त्सा॒रस्य॑ स्पृणवाम॒ रण्व॑भिः॒ शवि॑ष्ठं॒ वाजं᳚ वि॒दुषा᳚ चि॒दर्ध्य᳚म्||{10/15}{4.2.24.5}{5.44.10}{5.3.12.10}{290, 398, 4016}

श्ये॒न आ᳚सा॒मदि॑तिः क॒क्ष्यो॒३॑(ओ॒) मदो᳚ वि॒श्ववा᳚रस्य यज॒तस्य॑ मा॒यिनः॑|{काश्यपो वत्सारः | विश्वदेवाः | जगती}

सम॒न्यम᳚न्यमर्थय॒न्त्येत॑वे वि॒दुर्वि॒षाणं᳚ परि॒पान॒मन्ति॒ ते||{11/15}{4.2.25.1}{5.44.11}{5.3.12.11}{291, 398, 4017}

स॒दा॒पृ॒णो य॑ज॒तो वि द्विषो᳚ वधीद् बाहुवृ॒क्तः श्रु॑त॒वित्तर्यो᳚ वः॒ सचा᳚|{काश्यपो वत्सारः | विश्वदेवाः | जगती}

उ॒भा स वरा॒ प्रत्ये᳚ति॒ भाति॑ च॒ यदीं᳚ ग॒णं भज॑ते सुप्र॒याव॑भिः||{12/15}{4.2.25.2}{5.44.12}{5.3.12.12}{292, 398, 4018}

सु॒त॒म्भ॒रो यज॑मानस्य॒ सत्प॑ति॒र्विश्वा᳚सा॒मूधः॒ स धि॒यामु॒दञ्च॑नः|{काश्यपो वत्सारः | विश्वदेवाः | जगती}

भर॑द्‌ धे॒नू रस॑वच्छिश्रिये॒ पयो᳚ ऽनुब्रुवा॒णो, अध्ये᳚ति॒ न स्व॒पन्||{13/15}{4.2.25.3}{5.44.13}{5.3.12.13}{293, 398, 4019}

यो जा॒गार॒ तमृचः॑ कामयन्ते॒ यो जा॒गार॒ तमु॒ सामा᳚नि यन्ति|{काश्यपो वत्सारः | विश्वदेवाः | त्रिष्टुप्}

यो जा॒गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो᳚काः||{14/15}{4.2.25.4}{5.44.14}{5.3.12.14}{294, 398, 4020}

अ॒ग्निर्जा᳚गार॒ तमृचः॑ कामयन्ते॒ ऽग्निर्जा᳚गार॒ तमु॒ सामा᳚नि यन्ति|{काश्यपो वत्सारः | विश्वदेवाः | त्रिष्टुप्}

अ॒ग्निर्जा᳚गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो᳚काः||{15/15}{4.2.25.5}{5.44.15}{5.3.12.15}{295, 398, 4021}

[37] विदादिवइत्येकादशर्चस्य सूक्तस्यात्रेयः सदापृणो विश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - इंद्रसूर्यौ १ विश्वेदेवाः २ इंद्राग्नी १ विश्वेदेवाः ६ आपः १ एवं ११ (अत्रसूक्ते सदापृणर्षेर्यजतइत्यादि लिंगोक्तऋषिभिः समुच्चयइति केचित्) |
वि॒दा दि॒वो वि॒ष्यन्नद्रि॑मु॒क्थैरा᳚य॒त्या, उ॒षसो᳚ अ॒र्चिनो᳚ गुः|{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

अपा᳚वृत व्र॒जिनी॒रुत्‌ स्व॑र्गा॒द् वि दुरो॒ मानु॑षीर्दे॒व आ᳚वः||{1/11}{4.2.26.1}{5.45.1}{5.4.1.1}{296, 399, 4022}

वि सूर्यो᳚ अ॒मतिं॒ न श्रियं᳚ सा॒दोर्वाद्‌ गवां᳚ मा॒ता जा᳚न॒ती गा᳚त्|{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

धन्व᳚र्णसो न॒द्य१॑(अः॒) खादो᳚अर्णाः॒ स्थूणे᳚व॒ सुमि॑ता दृंहत॒ द्यौः||{2/11}{4.2.26.2}{5.45.2}{5.4.1.2}{297, 399, 4023}

अ॒स्मा, उ॒क्थाय॒ पर्व॑तस्य॒ गर्भो᳚ म॒हीनां᳚ ज॒नुषे᳚ पू॒र्व्याय॑|{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

वि पर्व॑तो॒ जिही᳚त॒ साध॑त॒ द्यौरा॒विवा᳚सन्तो दसयन्त॒ भूम॑||{3/11}{4.2.26.3}{5.45.3}{5.4.1.3}{298, 399, 4024}

सू॒क्तेभि᳚र्वो॒ वचो᳚भिर्दे॒वजु॑ष्टै॒रिन्द्रा॒ न्व१॑(अ॒)ग्नी, अव॑से हु॒वध्यै᳚|{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

उ॒क्थेभि॒र्हि ष्मा᳚ क॒वयः॑ सुय॒ज्ञा, आ॒विवा᳚सन्तो म॒रुतो॒ यज᳚न्ति||{4/11}{4.2.26.4}{5.45.4}{5.4.1.4}{299, 399, 4025}

एतो॒ न्व१॑(अ॒)द्य सु॒ध्यो॒३॑(ओ॒) भवा᳚म॒ प्र दु॒च्छुना᳚ मिनवामा॒ वरी᳚यः|{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

आ॒रे द्वेषां᳚सि सनु॒तर्द॑धा॒माऽया᳚म॒ प्राञ्चो॒ यज॑मान॒मच्छ॑||{5/11}{4.2.26.5}{5.45.5}{5.4.1.5}{300, 399, 4026}

एता॒ धियं᳚ कृ॒णवा᳚मा सखा॒यो ऽप॒ या मा॒ताँ ऋ॑णु॒त व्र॒जं गोः|{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

यया॒ मनु᳚र्विशिशि॒प्रं जि॒गाय॒ यया᳚ व॒णिग्व॒ङ्कुरापा॒ पुरी᳚षम्||{6/11}{4.2.27.1}{5.45.6}{5.4.1.6}{301, 399, 4027}

अनू᳚नो॒दत्र॒ हस्त॑यतो॒, अद्रि॒रार्च॒न्‌ येन॒ दश॑ मा॒सो नव॑ग्वाः|{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒तं य॒ती स॒रमा॒ गा, अ॑विन्द॒द् विश्वा᳚नि स॒त्याङ्गि॑राश्चकार||{7/11}{4.2.27.2}{5.45.7}{5.4.1.7}{302, 399, 4028}

विश्वे᳚ अ॒स्या व्युषि॒ माहि॑नायाः॒ सं यद्‌ गोभि॒रङ्गि॑रसो॒ नव᳚न्त|{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

उत्स॑ आसां पर॒मे स॒धस्थ॑ ऋ॒तस्य॑ प॒था स॒रमा᳚ विद॒द्‌ गाः||{8/11}{4.2.27.3}{5.45.8}{5.4.1.8}{303, 399, 4029}

आ सूर्यो᳚ यातु स॒प्ताश्वः॒, क्षेत्रं॒ यद॑स्योर्वि॒या दी᳚र्घया॒थे|{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

र॒घुः श्ये॒नः प॑तय॒दन्धो॒, अच्छा॒ युवा᳚ क॒विर्दी᳚दय॒द्‌ गोषु॒ गच्छ॑न्||{9/11}{4.2.27.4}{5.45.9}{5.4.1.9}{304, 399, 4030}

आ सूर्यो᳚ अरुहच्छु॒क्रमर्णोऽयु॑क्त॒ यद्ध॒रितो᳚ वी॒तपृ॑ष्ठाः|{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

उ॒द्ना न नाव॑मनयन्त॒ धीरा᳚ आशृण्व॒तीरापो᳚ अ॒र्वाग॑तिष्ठन्||{10/11}{4.2.27.5}{5.45.10}{5.4.1.10}{305, 399, 4031}

धियं᳚ वो, अ॒प्सु द॑धिषे स्व॒र्षां ययात॑र॒न्‌ दश॑ मा॒सो नव॑ग्वाः|{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

अ॒या धि॒या स्या᳚म दे॒वगो᳚पा, अ॒या धि॒या तु॑तुर्या॒मात्यंहः॑||{11/11}{4.2.27.6}{5.45.11}{5.4.1.11}{306, 399, 4032}

[38] हयोनेत्यष्टर्चस्यसूक्तस्यात्रेयःप्रतिक्षत्रोविश्वेदेवाजगती सप्तम्यष्टम्योर्देवपत्न्यः द्वितीयांत्येत्रिष्टुभौ | (भेदपक्षे-विश्वेदेवाः ६ देवपत्न्यः २ एवं ८) |
हयो॒ न वि॒द्वाँ, अ॑युजि स्व॒यं धु॒रि तां व॑हामि प्र॒तर॑णीमव॒स्युव᳚म्|{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती}

नास्या᳚ वश्मि वि॒मुचं॒ नावृतं॒ पुन᳚र्वि॒द्वान्‌ प॒थः पु॑रए॒त ऋ॒जु ने᳚षति||{1/8}{4.2.28.1}{5.46.1}{5.4.2.1}{307, 400, 4033}

अग्न॒ इन्द्र॒ वरु॑ण॒ मित्र॒ देवाः॒ शर्धः॒ प्र य᳚न्त॒ मारु॑तो॒त वि॑ष्णो|{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | त्रिष्टुप्}

उ॒भा नास॑त्या रु॒द्रो, अध॒ ग्नाः पू॒षा भगः॒ सर॑स्वती जुषन्त||{2/8}{4.2.28.2}{5.46.2}{5.4.2.2}{308, 400, 4034}

इ॒न्द्रा॒ग्नी मि॒त्रावरु॒णादि॑तिं॒ स्वः॑ पृथि॒वीं द्यां म॒रुतः॒ पर्व॑ताँ, अ॒पः|{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती}

हु॒वे विष्णुं᳚ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॒ भगं॒ नु शंसं᳚ सवि॒तार॑मू॒तये᳚||{3/8}{4.2.28.3}{5.46.3}{5.4.2.3}{309, 400, 4035}

उ॒त नो॒ विष्णु॑रु॒त वातो᳚ अ॒स्रिधो᳚ द्रविणो॒दा, उ॒त सोमो॒ मय॑स्करत्|{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती}

उ॒त ऋ॒भव॑ उ॒त रा॒ये नो᳚ अ॒श्विनो॒त त्वष्टो॒त विभ्वानु॑ मंसते||{4/8}{4.2.28.4}{5.46.4}{5.4.2.4}{310, 400, 4036}

उ॒त त्यन्नो॒ मारु॑तं॒ शर्ध॒ आ ग॑मद् दिविक्ष॒यं य॑ज॒तं ब॒र्हिरा॒सदे᳚|{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती}

बृह॒स्पतिः॒ शर्म॑ पू॒षोत नो᳚ यमद् वरू॒थ्य१॑(अं॒) वरु॑णो मि॒त्रो, अ᳚र्य॒मा||{5/8}{4.2.28.5}{5.46.5}{5.4.2.5}{311, 400, 4037}

उ॒त त्ये नः॒ पर्व॑तासः सुश॒स्तयः॑ सुदी॒तयो᳚ न॒द्य१॑(अ॒)स्त्राम॑णे भुवन्|{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती}

भगो᳚ विभ॒क्ता शव॒साव॒सा ग॑मदुरु॒व्यचा॒, अदि॑तिः श्रोतु मे॒ हव᳚म्||{6/8}{4.2.28.6}{5.46.6}{5.4.2.6}{312, 400, 4038}

दे॒वानां॒ पत्नी᳚रुश॒तीर॑वन्तु नः॒ प्राव᳚न्तु नस्तु॒जये॒ वाज॑सातये|{आत्रेयः प्रतिक्षत्रः | देवपत्न्यः | जगती}

याः पार्थि॑वासो॒ या, अ॒पामपि᳚ व्र॒ते ता नो᳚ देवीः सुहवाः॒ शर्म॑ यच्छत||{7/8}{4.2.28.7}{5.46.7}{5.4.2.7}{313, 400, 4039}

उ॒त ग्ना व्य᳚न्तु दे॒वप॑त्नीरिन्द्रा॒ण्य१॑(अ॒)ग्नाय्य॒श्विनी॒ राट्|{आत्रेयः प्रतिक्षत्रः | देवपत्न्यः | त्रिष्टुप्}

आ रोद॑सी वरुणा॒नी शृ॑णोतु॒ व्यन्तु॑ दे॒वीर्य ऋ॒तुर्जनी᳚नाम्||{8/8}{4.2.28.8}{5.46.8}{5.4.2.8}{314, 400, 4040}

[39] प्रयुंजतीति सप्तर्चस्य सूक्तस्यात्रेयः प्रतिरथोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - उषाः १ सूर्यरश्मयः १ सूर्यः ३ विश्वेदेवाः १ मित्रावरुणाग्नयः १ एवं ७) |
प्र॒यु॒ञ्ज॒ती दि॒व ए᳚ति ब्रुवा॒णा म॒ही मा॒ता दु॑हि॒तुर्बो॒धय᳚न्ती|{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

आ॒विवा᳚सन्ती युव॒तिर्म॑नी॒षा पि॒तृभ्य॒ आ सद॑ने॒ जोहु॑वाना||{1/7}{4.3.1.1}{5.47.1}{5.4.3.1}{315, 401, 4041}

अ॒जि॒रास॒स्तद॑प॒ ईय॑माना, आतस्थि॒वांसो᳚ अ॒मृत॑स्य॒ नाभि᳚म्|{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

अ॒न॒न्तास॑ उ॒रवो᳚ वि॒श्वतः॑ सीं॒ परि॒ द्यावा᳚पृथि॒वी य᳚न्ति॒ पन्थाः᳚||{2/7}{4.3.1.2}{5.47.2}{5.4.3.2}{316, 401, 4042}

उ॒क्षा स॑मु॒द्रो, अ॑रु॒षः सु॑प॒र्णः पूर्व॑स्य॒ योनिं᳚ पि॒तुरा वि॑वेश|{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

मध्ये᳚ दि॒वो निहि॑तः॒ पृश्नि॒रश्मा॒ वि च॑क्रमे॒ रज॑सस्पा॒त्यन्तौ᳚||{3/7}{4.3.1.3}{5.47.3}{5.4.3.3}{317, 401, 4043}

च॒त्वार॑ ईं बिभ्रति क्षेम॒यन्तो॒ दश॒ गर्भं᳚ च॒रसे᳚ धापयन्ते|{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

त्रि॒धात॑वः पर॒मा, अ॑स्य॒ गावो᳚ दि॒वश्च॑रन्ति॒ परि॑ स॒द्यो, अन्ता॑न्||{4/7}{4.3.1.4}{5.47.4}{5.4.3.4}{318, 401, 4044}

इ॒दं वपु᳚र्नि॒वच॑नं जनास॒श्चर᳚न्ति॒ यन्न॒द्य॑स्त॒स्थुरापः॑|{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

द्वे यदीं᳚ बिभृ॒तो मा॒तुर॒न्ये, इ॒हेह॑ जा॒ते य॒म्या॒३॑(आ॒) सब᳚न्धू||{5/7}{4.3.1.5}{5.47.5}{5.4.3.5}{319, 401, 4045}

वि त᳚न्वते॒ धियो᳚ अस्मा॒, अपां᳚सि॒ वस्त्रा᳚ पु॒त्राय॑ मा॒तरो᳚ वयन्ति|{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

उ॒प॒प्र॒क्षे वृष॑णो॒ मोद॑माना दि॒वस्प॒था व॒ध्वो᳚ य॒न्त्यच्छ॑||{6/7}{4.3.1.6}{5.47.6}{5.4.3.6}{320, 401, 4046}

तद॑स्तु मित्रावरुणा॒ तद॑ग्ने॒ शं योर॒स्मभ्य॑मि॒दम॑स्तु श॒स्तम्|{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

अ॒शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठां नमो᳚ दि॒वे बृ॑ह॒ते साद॑नाय||{7/7}{4.3.1.7}{5.47.7}{5.4.3.7}{321, 401, 4047}

[40] कदुप्रियायेति पंचर्चस्य सूक्तस्यात्रेयः प्रतिभानुर्विश्वेदेवाजगती | (भेदपक्षे - विद्युतोग्निः १ उषाः १ इंद्रसूर्यौ १ अग्निः २ एवं ५) |
कदु॑ प्रि॒याय॒ धाम्ने᳚ मनामहे॒ स्वक्ष॑त्राय॒ स्वय॑शसे म॒हे व॒यम्|{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती}

आ॒मे॒न्यस्य॒ रज॑सो॒ यद॒भ्र आँ, अ॒पो वृ॑णा॒ना वि॑त॒नोति॑ मा॒यिनी᳚||{1/5}{4.3.2.1}{5.48.1}{5.4.4.1}{322, 402, 4048}

ता, अ॑त्नत व॒युनं᳚ वी॒रव॑क्षणं समा॒न्या वृ॒तया॒ विश्व॒मा रजः॑|{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती}

अपो॒, अपा᳚ची॒रप॑रा॒, अपे᳚जते॒ प्र पूर्वा᳚भिस्तिरते देव॒युर्जनः॑||{2/5}{4.3.2.2}{5.48.2}{5.4.4.2}{323, 402, 4049}

आ ग्राव॑भिरह॒न्ये᳚भिर॒क्तुभि॒र्वरि॑ष्ठं॒ वज्र॒मा जि॑घर्ति मा॒यिनि॑|{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती}

श॒तं वा॒ यस्य॑ प्र॒चर॒न्‌ त्स्वे दमे᳚ संव॒र्तय᳚न्तो॒ वि च॑ वर्तय॒न्नहा᳚||{3/5}{4.3.2.3}{5.48.3}{5.4.4.3}{324, 402, 4050}

ताम॑स्य री॒तिं प॑र॒शोरि॑व॒ प्रत्यनी᳚कमख्यं भु॒जे, अ॑स्य॒ वर्प॑सः|{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती}

सचा॒ यदि॑ पितु॒मन्त॑मिव॒ क्षयं॒ रत्नं॒ दधा᳚ति॒ भर॑हूतये वि॒शे||{4/5}{4.3.2.4}{5.48.4}{5.4.4.4}{325, 402, 4051}

स जि॒ह्वया॒ चतु॑रनीक ऋञ्जते॒ चारु॒ वसा᳚नो॒ वरु॑णो॒ यत᳚न्न॒रिम्|{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती}

न तस्य॑ विद्म पुरुष॒त्वता᳚ व॒यं यतो॒ भगः॑ सवि॒ता दाति॒ वार्य᳚म्||{5/5}{4.3.2.5}{5.48.5}{5.4.4.5}{326, 402, 4052}

[41] देवंवइति पंचर्चस्य सूक्तस्यात्रेयः प्रतिप्रभुर्विश्वेदेवास्त्रिष्टुप् अंत्यातृणपाणिः | (भेदपक्षे - विश्वेदेवाः १ सूर्यः १ विश्वेदेवाः ३ एवं ५) |
दे॒वं वो᳚ अ॒द्य स॑वि॒तार॒मेषे॒ भगं᳚ च॒ रत्नं᳚ वि॒भज᳚न्तमा॒योः|{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | त्रिष्टुप्}

आ वां᳚ नरा पुरुभुजा ववृत्यां दि॒वेदि॑वे चिदश्विना सखी॒यन्||{1/5}{4.3.3.1}{5.49.1}{5.4.5.1}{327, 403, 4053}

प्रति॑ प्र॒याण॒मसु॑रस्य वि॒द्वान् त्सू॒क्तैर्दे॒वं स॑वि॒तारं᳚ दुवस्य|{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | त्रिष्टुप्}

उप॑ ब्रुवीत॒ नम॑सा विजा॒नञ्ज्येष्ठं᳚ च॒ रत्नं᳚ वि॒भज᳚न्तमा॒योः||{2/5}{4.3.3.2}{5.49.2}{5.4.5.2}{328, 403, 4054}

अ॒द॒त्र॒या द॑यते॒ वार्या᳚णि पू॒षा भगो॒, अदि॑ति॒र्वस्त॑ उ॒स्रः|{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | त्रिष्टुप्}

इन्द्रो॒ विष्णु॒र्वरु॑णो मि॒त्रो, अ॒ग्निरहा᳚नि भ॒द्रा ज॑नयन्त द॒स्माः||{3/5}{4.3.3.3}{5.49.3}{5.4.5.3}{329, 403, 4055}

तन्नो᳚ अन॒र्वा स॑वि॒ता वरू᳚थं॒ तत्‌ सिन्ध॑व इ॒षय᳚न्तो॒, अनु॑ ग्मन्|{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | त्रिष्टुप्}

उप॒ यद्‌ वोचे᳚ अध्व॒रस्य॒ होता᳚ रा॒यः स्या᳚म॒ पत॑यो॒ वाज॑रत्नाः||{4/5}{4.3.3.4}{5.49.4}{5.4.5.4}{330, 403, 4056}

प्र ये वसु॑भ्य॒ ईव॒दा नमो॒ दुर्ये मि॒त्रे वरु॑णे सू॒क्तवा᳚चः|{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | तृणपाणिः}

अवै॒त्वभ्वं᳚ कृणु॒ता वरी᳚यो दि॒वस्पृ॑थि॒व्योरव॑सा मदेम||{5/5}{4.3.3.5}{5.49.5}{5.4.5.5}{331, 403, 4057}

[42] विश्वोदेवस्येति पंचर्चस्य सूक्तस्य स्वस्त्यात्रेयोविश्वेदेवाअनुष्टुप्‌अंत्यापङ्क्तिः | (भेदपक्षे - सविता २ विश्वेदेवाः १ सविता २ एवं ५) |
विश्वो᳚ दे॒वस्य॑ ने॒तुर्मर्तो᳚ वुरीत स॒ख्यम्|{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

विश्वो᳚ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे᳚||{1/5}{4.3.4.1}{5.50.1}{5.4.6.1}{332, 404, 4058}

ते ते᳚ देव नेत॒र्ये चे॒माँ, अ॑नु॒शसे᳚|{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

ते रा॒या ते ह्या॒३॑(आ॒)पृचे॒ सचे᳚महि सच॒थ्यैः᳚||{2/5}{4.3.4.2}{5.50.2}{5.4.6.2}{333, 404, 4059}

अतो᳚ न॒ आ नॄनति॑थी॒नतः॒ पत्नी᳚र्दशस्यत|{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

आ॒रे विश्वं᳚ पथे॒ष्ठां द्वि॒षो यु॑योतु॒ यूयु॑विः||{3/5}{4.3.4.3}{5.50.3}{5.4.6.3}{334, 404, 4060}

यत्र॒ वह्नि॑र॒भिहि॑तो दु॒द्रव॒द्‌ द्रोण्यः॑ प॒शुः|{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

नृ॒मणा᳚ वी॒रप॒स्त्यो ऽर्णा॒ धीरे᳚व॒ सनि॑ता||{4/5}{4.3.4.4}{5.50.4}{5.4.6.4}{335, 404, 4061}

ए॒ष ते᳚ देव नेता॒ रथ॒स्पतिः॒ शं र॒यिः|{स्वस्त्यात्रेयः | विश्वदेवाः | पङ्क्तिः}

शं रा॒ये शं स्व॒स्तय॑ इषः॒स्तुतो᳚ मनामहे देव॒स्तुतो᳚ मनामहे||{5/5}{4.3.4.5}{5.50.5}{5.4.6.5}{336, 404, 4062}

[43] अग्नेसुतस्येति पंचदशर्चस्य सूक्तस्य स्वस्त्यात्रेयो विश्वेदेवाश्चतुर्थीषष्टीसप्तमीनामिंद्रवायू पंचम्यावायुः आद्याश्चतस्रो गायत्र्यः पंचम्यादिषळुष्णिहः एकादश्यादितिस्रोजगत्यः (त्रिष्टुभोवा) अंत्येद्वेअनुष्टुभौ | (भेदपक्षे - अग्निः २ विश्वेदेवाः १ इंद्रवायू १ वायुः १ इंद्रवायू २ अग्निः ३ विश्वेदेवाः ५ एवं १५) |
अग्ने᳚ सु॒तस्य॑ पी॒तये॒ विश्वै॒रूमे᳚भि॒रा ग॑हि|{स्वस्त्यात्रेयः | विश्वदेवाः | गायत्री}

दे॒वेभि᳚र्ह॒व्यदा᳚तये||{1/15}{4.3.5.1}{5.51.1}{5.4.7.1}{337, 405, 4063}

ऋत॑धीतय॒ आ ग॑त॒ सत्य॑धर्माणो, अध्व॒रम्|{स्वस्त्यात्रेयः | विश्वदेवाः | गायत्री}

अ॒ग्नेः पि॑बत जि॒ह्वया᳚||{2/15}{4.3.5.2}{5.51.2}{5.4.7.2}{338, 405, 4064}

विप्रे᳚भिर्विप्र सन्त्य प्रात॒र्याव॑भि॒रा ग॑हि|{स्वस्त्यात्रेयः | विश्वदेवाः | गायत्री}

दे॒वेभिः॒ सोम॑पीतये||{3/15}{4.3.5.3}{5.51.3}{5.4.7.3}{339, 405, 4065}

अ॒यं सोम॑श्च॒मू सु॒तो ऽम॑त्रे॒ परि॑ षिच्यते|{स्वस्त्यात्रेयः | इंद्रवायू | गायत्री}

प्रि॒य इन्द्रा᳚य वा॒यवे᳚||{4/15}{4.3.5.4}{5.51.4}{5.4.7.4}{340, 405, 4066}

वाय॒वा या᳚हि वी॒तये᳚ जुषा॒णो ह॒व्यदा᳚तये|{स्वस्त्यात्रेयः | वायुः | उष्णिक्}

पिबा᳚ सु॒तस्यान्ध॑सो, अ॒भि प्रयः॑||{5/15}{4.3.5.5}{5.51.5}{5.4.7.5}{341, 405, 4067}

इन्द्र॑श्च वायवेषां सु॒तानां᳚ पी॒तिम᳚र्हथः|{स्वस्त्यात्रेयः | इंद्रवायू | उष्णिक्}

ताञ्जु॑षेथामरे॒पसा᳚व॒भि प्रयः॑||{6/15}{4.3.6.1}{5.51.6}{5.4.7.6}{342, 405, 4068}

सु॒ता, इन्द्रा᳚य वा॒यवे॒ सोमा᳚सो॒ दध्या᳚शिरः|{स्वस्त्यात्रेयः | इंद्रवायू | उष्णिक्}

नि॒म्नं न य᳚न्ति॒ सिन्ध॑वो॒ऽभि प्रयः॑||{7/15}{4.3.6.2}{5.51.7}{5.4.7.7}{343, 405, 4069}

स॒जूर्विश्वे᳚भिर्दे॒वेभि॑र॒श्विभ्या᳚मु॒षसा᳚ स॒जूः|{स्वस्त्यात्रेयः | विश्वदेवाः | उष्णिक्}

आ या᳚ह्यग्ने, अत्रि॒वत्सु॒ते र॑ण||{8/15}{4.3.6.3}{5.51.8}{5.4.7.8}{344, 405, 4070}

स॒जूर्मि॒त्रावरु॑णाभ्यां स॒जूः सोमे᳚न॒ विष्णु॑ना|{स्वस्त्यात्रेयः | विश्वदेवाः | उष्णिक्}

आ या᳚ह्यग्ने, अत्रि॒वत्सु॒ते र॑ण||{9/15}{4.3.6.4}{5.51.9}{5.4.7.9}{345, 405, 4071}

स॒जूरा᳚दि॒त्यैर्वसु॑भिः स॒जूरिन्द्रे᳚ण वा॒युना᳚|{स्वस्त्यात्रेयः | विश्वदेवाः | उष्णिक्}

आ या᳚ह्यग्ने, अत्रि॒वत्सु॒ते र॑ण||{10/15}{4.3.6.5}{5.51.10}{5.4.7.10}{346, 405, 4072}

स्व॒स्ति नो᳚ मिमीताम॒श्विना॒ भगः॑ स्व॒स्ति दे॒व्यदि॑तिरन॒र्वणः॑|{स्वस्त्यात्रेयः | विश्वदेवाः | जगती त्रिष्टुभोवा}

स्व॒स्ति पू॒षा, असु॑रो दधातु नः स्व॒स्ति द्यावा᳚पृथि॒वी सु॑चे॒तुना᳚||{11/15}{4.3.7.1}{5.51.11}{5.4.7.11}{347, 405, 4073}

स्व॒स्तये᳚ वा॒युमुप॑ ब्रवामहै॒ सोमं᳚ स्व॒स्ति भुव॑नस्य॒ यस्पतिः॑|{स्वस्त्यात्रेयः | विश्वदेवाः | जगती त्रिष्टुभोवा}

बृह॒स्पतिं॒ सर्व॑गणं स्व॒स्तये᳚ स्व॒स्तय॑ आदि॒त्यासो᳚ भवन्तु नः||{12/15}{4.3.7.2}{5.51.12}{5.4.7.12}{348, 405, 4074}

विश्वे᳚ दे॒वा नो᳚ अ॒द्या स्व॒स्तये᳚ वैश्वान॒रो वसु॑र॒ग्निः स्व॒स्तये᳚|{स्वस्त्यात्रेयः | विश्वदेवाः | जगती त्रिष्टुभोवा}

दे॒वा, अ॑वन्त्वृ॒भवः॑ स्व॒स्तये᳚ स्व॒स्ति नो᳚ रु॒द्रः पा॒त्वंह॑सः||{13/15}{4.3.7.3}{5.51.13}{5.4.7.13}{349, 405, 4075}

स्व॒स्ति मि॑त्रावरुणा स्व॒स्ति प॑थ्ये रेवति|{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

स्व॒स्ति न॒ इन्द्र॑श्चा॒ग्निश्च॑ स्व॒स्ति नो᳚ अदिते कृधि||{14/15}{4.3.7.4}{5.51.14}{5.4.7.14}{350, 405, 4076}

स्व॒स्ति पन्था॒मनु॑ चरेम सूर्याचन्द्र॒मसा᳚विव|{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

पुन॒र्दद॒ताघ्न॑ता जान॒ता सं ग॑मेमहि||{15/15}{4.3.7.5}{5.51.15}{5.4.7.15}{351, 405, 4077}

[44] प्रश्यावाश्वेति सप्तदशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतोनुष्टुप् षष्ठीषोडशीसप्तदश्यःपंक्त्यः |
प्र श्या᳚वाश्व धृष्णु॒या ऽर्चा᳚ म॒रुद्भि॒रृक्व॑भिः|{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

ये, अ॑द्रो॒घम॑नुष्व॒धं श्रवो॒ मद᳚न्ति य॒ज्ञियाः᳚||{1/17}{4.3.8.1}{5.52.1}{5.4.8.1}{352, 406, 4078}

ते हि स्थि॒रस्य॒ शव॑सः॒ सखा᳚यः॒ सन्ति॑ धृष्णु॒या|{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

ते याम॒न्ना धृ॑ष॒द्विन॒स्त्मना᳚ पान्ति॒ शश्व॑तः||{2/17}{4.3.8.2}{5.52.2}{5.4.8.2}{353, 406, 4079}

ते स्प॒न्द्रासो॒ नोक्षणो ऽति॑ ष्कन्दन्ति॒ शर्व॑रीः|{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

म॒रुता॒मधा॒ महो᳚ दि॒वि क्ष॒मा च॑ मन्महे||{3/17}{4.3.8.3}{5.52.3}{5.4.8.3}{354, 406, 4080}

म॒रुत्सु॑ वो दधीमहि॒ स्तोमं᳚ य॒ज्ञं च॑ धृष्णु॒या|{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

विश्वे॒ ये मानु॑षा यु॒गा पान्ति॒ मर्त्यं᳚ रि॒षः||{4/17}{4.3.8.4}{5.52.4}{5.4.8.4}{355, 406, 4081}

अर्ह᳚न्तो॒ ये सु॒दान॑वो॒ नरो॒, असा᳚मिशवसः|{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

प्र य॒ज्ञं य॒ज्ञिये᳚भ्यो दि॒वो, अ॑र्चा म॒रुद्भ्यः॑||{5/17}{4.3.8.5}{5.52.5}{5.4.8.5}{356, 406, 4082}

आ रु॒क्मैरा यु॒धा नर॑ ऋ॒ष्वा, ऋ॒ष्टीर॑सृक्षत|{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

अन्वे᳚नाँ॒, अह॑ वि॒द्युतो᳚ म॒रुतो॒ जज्झ॑तीरिव भा॒नुर॑र्त॒ त्मना᳚ दि॒वः||{6/17}{4.3.9.1}{5.52.6}{5.4.8.6}{357, 406, 4083}

ये वा᳚वृ॒धन्त॒ पार्थि॑वा॒ य उ॒राव॒न्तरि॑क्ष॒ आ|{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

वृ॒जने᳚ वा न॒दीनां᳚ स॒धस्थे᳚ वा म॒हो दि॒वः||{7/17}{4.3.9.2}{5.52.7}{5.4.8.7}{358, 406, 4084}

शर्धो॒ मारु॑त॒मुच्छं᳚स स॒त्यश॑वस॒मृभ्व॑सम्|{आत्रेयः श्यावाश्वः | मरुतः | पङ्क्तिः}

उ॒त स्म॒ ते शु॒भे नरः॒ प्र स्प॒न्द्रा यु॑जत॒ त्मना᳚||{8/17}{4.3.9.3}{5.52.8}{5.4.8.8}{359, 406, 4085}

उ॒त स्म॒ ते परु॑ष्ण्या॒मूर्णा᳚ वसत शु॒न्ध्यवः॑|{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

उ॒त प॒व्या रथा᳚ना॒मद्रिं᳚ भिन्द॒न्त्योज॑सा||{9/17}{4.3.9.4}{5.52.9}{5.4.8.9}{360, 406, 4086}

आप॑थयो॒ विप॑थ॒यो ऽन्त॑स्पथा॒, अनु॑पथाः|{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

ए॒तेभि॒र्मह्यं॒ नाम॑भिर्य॒ज्ञं वि॑ष्टा॒र ओ᳚हते||{10/17}{4.3.9.5}{5.52.10}{5.4.8.10}{361, 406, 4087}

अधा॒ नरो॒ न्यो᳚ह॒ते ऽधा᳚ नि॒युत॑ ओहते|{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

अधा॒ पारा᳚वता॒, इति॑ चि॒त्रा रू॒पाणि॒ दर्श्या᳚||{11/17}{4.3.10.1}{5.52.11}{5.4.8.11}{362, 406, 4088}

छ॒न्दः॒स्तुभः॑ कुभ॒न्यव॒ उत्स॒मा की॒रिणो᳚ नृतुः|{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

ते मे॒ के चि॒न्न ता॒यव॒ ऊमा᳚ आसन्‌ दृ॒शि त्वि॒षे||{12/17}{4.3.10.2}{5.52.12}{5.4.8.12}{363, 406, 4089}

य ऋ॒ष्वा, ऋ॒ष्टिवि॑द्युतः क॒वयः॒ सन्ति॑ वे॒धसः॑|{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

तमृ॑षे॒ मारु॑तं ग॒णं न॑म॒स्या र॒मया᳚ गि॒रा||{13/17}{4.3.10.3}{5.52.13}{5.4.8.13}{364, 406, 4090}

अच्छ॑ ऋषे॒ मारु॑तं ग॒णं दा॒ना मि॒त्रं न यो॒षणा᳚|{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

दि॒वो वा᳚ धृष्णव॒ ओज॑सा स्तु॒ता धी॒भिरि॑षण्यत||{14/17}{4.3.10.4}{5.52.14}{5.4.8.14}{365, 406, 4091}

नू म᳚न्वा॒न ए᳚षां दे॒वाँ, अच्छा॒ न व॒क्षणा᳚|{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

दा॒ना स॑चेत सू॒रिभि॒र्याम॑श्रुतेभिर॒ञ्जिभिः॑||{15/17}{4.3.10.5}{5.52.15}{5.4.8.15}{366, 406, 4092}

प्र ये मे᳚ बन्ध्वे॒षे गां वोच᳚न्त सू॒रयः॒ पृश्निं᳚ वोचन्त मा॒तर᳚म्|{आत्रेयः श्यावाश्वः | मरुतः | पङ्क्तिः}

अधा᳚ पि॒तर॑मि॒ष्मिणं᳚ रु॒द्रं वो᳚चन्त॒ शिक्व॑सः||{16/17}{4.3.10.6}{5.52.16}{5.4.8.16}{367, 406, 4093}

स॒प्त मे᳚ स॒प्त शा॒किन॒ एक॑मेका श॒ता द॑दुः|{आत्रेयः श्यावाश्वः | मरुतः | पङ्क्तिः}

य॒मुना᳚या॒मधि॑ श्रु॒तमुद्राधो॒ गव्यं᳚ मृजे॒ नि राधो॒, अश्व्यं᳚ मृजे||{17/17}{4.3.10.7}{5.52.17}{5.4.8.17}{368, 406, 4094}

[45] कोवेदेति षोळशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतः क्रमेणककुप्‌बृहत्यनुष्टुप्पुर‌उष्णिक्ककुप्‌ सतोबृहती सतोबृहती गायत्री सतोबृहती ककुप्‌ककुब्गायत्री सतोबृहती सतोबृहती ककुप्‌ सतोबृहत्यः |
को वे᳚द॒ जान॑मेषां॒ को वा᳚ पु॒रा सु॒म्नेष्वा᳚स म॒रुता᳚म्|{आत्रेयः श्यावाश्वः | मरुतः | ककुप्}

यद्‌ यु॑यु॒ज्रे कि॑ला॒स्यः॑||{1/16}{4.3.11.1}{5.53.1}{5.4.9.1}{369, 407, 4095}

ऐतान्रथे᳚षु त॒स्थुषः॒ कः शु॑श्राव क॒था य॑युः|{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

कस्मै᳚ सस्रुः सु॒दासे॒, अन्वा॒पय॒ इळा᳚भिर्वृ॒ष्टयः॑ स॒ह||{2/16}{4.3.11.2}{5.53.2}{5.4.9.2}{370, 407, 4096}

ते म॑ आहु॒र्य आ᳚य॒युरुप॒ द्युभि॒र्विभि॒र्मदे᳚|{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

नरो॒ मर्या᳚ अरे॒पस॑ इ॒मान्‌ पश्य॒न्निति॑ ष्टुहि||{3/16}{4.3.11.3}{5.53.3}{5.4.9.3}{371, 407, 4097}

ये, अ॒ञ्जिषु॒ ये वाशी᳚षु॒ स्वभा᳚नवः स्र॒क्षु रु॒क्मेषु॑ खा॒दिषु॑|{आत्रेयः श्यावाश्वः | मरुतः | पुरउष्णिक्}

श्रा॒या रथे᳚षु॒ धन्व॑सु||{4/16}{4.3.11.4}{5.53.4}{5.4.9.4}{372, 407, 4098}

यु॒ष्माकं᳚ स्मा॒ रथाँ॒, अनु॑ मु॒दे द॑धे मरुतो जीरदानवः|{आत्रेयः श्यावाश्वः | मरुतः | ककुप्}

वृ॒ष्टी द्यावो᳚ य॒तीरि॑व||{5/16}{4.3.11.5}{5.53.5}{5.4.9.5}{373, 407, 4099}

आ यं नरः॑ सु॒दान॑वो ददा॒शुषे᳚ दि॒वः कोश॒मचु॑च्यवुः|{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

वि प॒र्जन्यं᳚ सृजन्ति॒ रोद॑सी॒, अनु॒ धन्व॑ना यन्ति वृ॒ष्टयः॑||{6/16}{4.3.12.1}{5.53.6}{5.4.9.6}{374, 407, 4100}

त॒तृ॒दा॒नाः सिन्ध॑वः॒, क्षोद॑सा॒ रजः॒ प्र स॑स्रुर्धे॒नवो᳚ यथा|{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

स्य॒न्ना, अश्वा᳚ इ॒वाध्व॑नो वि॒मोच॑ने॒ वि यद्‌ वर्त᳚न्त ए॒न्यः॑||{7/16}{4.3.12.2}{5.53.7}{5.4.9.7}{375, 407, 4101}

आ या᳚त मरुतो दि॒व आन्तरि॑क्षाद॒मादु॒त|{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

माव॑ स्थात परा॒वतः॑||{8/16}{4.3.12.3}{5.53.8}{5.4.9.8}{376, 407, 4102}

मा वो᳚ र॒सानि॑तभा॒ कुभा॒ क्रुमु॒र्मा वः॒ सिन्धु॒र्नि री᳚रमत्|{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

मा वः॒ परि॑ ष्ठात्‌ स॒रयुः॑ पुरी॒षिण्य॒स्मे, इत्‌ सु॒म्नम॑स्तु वः||{9/16}{4.3.12.4}{5.53.9}{5.4.9.9}{377, 407, 4103}

तं वः॒ शर्धं॒ रथा᳚नां त्वे॒षं ग॒णं मारु॑तं॒ नव्य॑सीनाम्|{आत्रेयः श्यावाश्वः | मरुतः | ककुप्}

अनु॒ प्र य᳚न्ति वृ॒ष्टयः॑||{10/16}{4.3.12.5}{5.53.10}{5.4.9.10}{378, 407, 4104}

शर्धं᳚शर्धं व एषां॒ व्रातं᳚व्रातं ग॒णंग॑णं सुश॒स्तिभिः॑|{आत्रेयः श्यावाश्वः | मरुतः | ककुप्}

अनु॑ क्रामेम धी॒तिभिः॑||{11/16}{4.3.13.1}{5.53.11}{5.4.9.11}{379, 407, 4105}

कस्मा᳚ अ॒द्य सुजा᳚ताय रा॒तह᳚व्याय॒ प्र य॑युः|{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

ए॒ना यामे᳚न म॒रुतः॑||{12/16}{4.3.13.2}{5.53.12}{5.4.9.12}{380, 407, 4106}

येन॑ तो॒काय॒ तन॑याय धा॒न्य१॑(अं॒) बीजं॒ वह॑ध्वे॒, अक्षि॑तम्|{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

अ॒स्मभ्यं॒ तद्‌ ध॑त्तन॒ यद्व॒ ईम॑हे॒ राधो᳚ वि॒श्वायु॒ सौभ॑गम्||{13/16}{4.3.13.3}{5.53.13}{5.4.9.13}{381, 407, 4107}

अती᳚याम नि॒दस्ति॒रः स्व॒स्तिभि᳚र्हि॒त्वाव॒द्यमरा᳚तीः|{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

वृ॒ष्ट्वी शं योराप॑ उ॒स्रि भे᳚ष॒जं स्याम॑ मरुतः स॒ह||{14/16}{4.3.13.4}{5.53.14}{5.4.9.14}{382, 407, 4108}

सु॒दे॒वः स॑महासति सु॒वीरो᳚ नरो मरुतः॒ स मर्त्यः॑|{आत्रेयः श्यावाश्वः | मरुतः | ककुप्}

यं त्राय॑ध्वे॒ स्याम॒ ते||{15/16}{4.3.13.5}{5.53.15}{5.4.9.15}{383, 407, 4109}

स्तु॒हि भो॒जान्‌ त्स्तु॑व॒तो, अ॑स्य॒ याम॑नि॒ रण॒न्‌ गावो॒ न यव॑से|{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

य॒तः पूर्वाँ᳚, इव॒ सखीँ॒रनु॑ ह्वय गि॒रा गृ॑णीहि का॒मिनः॑||{16/16}{4.3.13.6}{5.53.16}{5.4.9.16}{384, 407, 4110}

[46] प्रशर्धायेति पंचदशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतोजगती चतुर्दशीत्रिष्टुप् |
प्र शर्धा᳚य॒ मारु॑ताय॒ स्वभा᳚नव इ॒मां वाच॑मनजा पर्वत॒च्युते᳚|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

घ॒र्म॒स्तुभे᳚ दि॒व आ पृ॑ष्ठ॒यज्व॑ने द्यु॒म्नश्र॑वसे॒ महि॑ नृ॒म्णम॑र्चत||{1/15}{4.3.14.1}{5.54.1}{5.4.10.1}{385, 408, 4111}

प्र वो᳚ मरुतस्तवि॒षा, उ॑द॒न्यवो᳚ वयो॒वृधो᳚ अश्व॒युजः॒ परि॑ज्रयः|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

सं वि॒द्युता॒ दध॑ति॒ वाश॑ति त्रि॒तः स्वर॒न्त्यापो॒ऽवना॒ परि॑ज्रयः||{2/15}{4.3.14.2}{5.54.2}{5.4.10.2}{386, 408, 4112}

वि॒द्युन्म॑हसो॒ नरो॒, अश्म॑दिद्यवो॒ वात॑त्विषो म॒रुतः॑ पर्वत॒च्युतः॑|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अ॒ब्द॒या चि॒न्मुहु॒रा ह्रा᳚दुनी॒वृतः॑ स्त॒नय॑दमा रभ॒सा, उदो᳚जसः||{3/15}{4.3.14.3}{5.54.3}{5.4.10.3}{387, 408, 4113}

व्य१॑(अ॒)क्तून्‌ रु॑द्रा॒ व्यहा᳚नि शिक्वसो॒ व्य१॑(अ॒)न्तरि॑क्षं॒ वि रजां᳚सि धूतयः|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

वि यदज्राँ॒, अज॑थ॒ नाव॑ ईं यथा॒ वि दु॒र्गाणि॑ मरुतो॒ नाह॑ रिष्यथ||{4/15}{4.3.14.4}{5.54.4}{5.4.10.4}{388, 408, 4114}

तद्‌ वी॒र्यं᳚ वो मरुतो महित्व॒नं दी॒र्घं त॑तान॒ सूर्यो॒ न योज॑नम्|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

एता॒ न यामे॒, अगृ॑भीतशोचि॒षो ऽन॑श्वदां॒ यन्न्यया᳚तना गि॒रिम्||{5/15}{4.3.14.5}{5.54.5}{5.4.10.5}{389, 408, 4115}

अभ्रा᳚जि॒ शर्धो᳚ मरुतो॒ यद᳚र्ण॒सं मोष॑था वृ॒क्षं क॑प॒नेव॑ वेधसः|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अध॑ स्मा नो, अ॒रम॑तिं सजोषस॒श्चक्षु॑रिव॒ यन्त॒मनु॑ नेषथा सु॒गम्||{6/15}{4.3.15.1}{5.54.6}{5.4.10.6}{390, 408, 4116}

न स जी᳚यते मरुतो॒ न ह᳚न्यते॒ न स्रे᳚धति॒ न व्य॑थते॒ न रि॑ष्यति|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

नास्य॒ राय॒ उप॑ दस्यन्ति॒ नोतय॒ ऋषिं᳚ वा॒ यं राजा᳚नं वा॒ सुषू᳚दथ||{7/15}{4.3.15.2}{5.54.7}{5.4.10.7}{391, 408, 4117}

नि॒युत्व᳚न्तो ग्राम॒जितो॒ यथा॒ नरो᳚ ऽर्य॒मणो॒ न म॒रुतः॑ कब॒न्धिनः॑|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

पिन्व॒न्त्युत्सं॒ यदि॒नासो॒, अस्व॑र॒न् व्यु᳚न्दन्ति पृथि॒वीं मध्वो॒, अन्ध॑सा||{8/15}{4.3.15.3}{5.54.8}{5.4.10.8}{392, 408, 4118}

प्र॒वत्व॑ती॒यं पृ॑थि॒वी म॒रुद्भ्यः॑ प्र॒वत्व॑ती॒ द्यौर्भ॑वति प्र॒यद्भ्यः॑|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

प्र॒वत्व॑तीः प॒थ्या᳚ अ॒न्तरि॑क्ष्याः प्र॒वत्व᳚न्तः॒ पर्व॑ता जी॒रदा᳚नवः||{9/15}{4.3.15.4}{5.54.9}{5.4.10.9}{393, 408, 4119}

यन्म॑रुतः सभरसः स्वर्णरः॒ सूर्य॒ उदि॑ते॒ मद॑था दिवो नरः|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

न वोऽश्वाः᳚ श्रथय॒न्ताह॒ सिस्र॑तः स॒द्यो, अ॒स्याध्व॑नः पा॒रम॑श्नुथ||{10/15}{4.3.15.5}{5.54.10}{5.4.10.10}{394, 408, 4120}

अंसे᳚षु व ऋ॒ष्टयः॑ प॒त्सु खा॒दयो॒ वक्ष॑स्सु रु॒क्मा म॑रुतो॒ रथे॒ शुभः॑|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अ॒ग्निभ्रा᳚जसो वि॒द्युतो॒ गभ॑स्त्योः॒ शिप्राः᳚ शी॒र्षसु॒ वित॑ता हिर॒ण्ययीः᳚||{11/15}{4.3.16.1}{5.54.11}{5.4.10.11}{395, 408, 4121}

तं नाक॑म॒र्यो, अगृ॑भीतशोचिषं॒ रुश॒त्‌ पिप्प॑लं मरुतो॒ वि धू᳚नुथ|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

सम॑च्यन्त वृ॒जनाति॑त्विषन्त॒ यत् स्वर᳚न्ति॒ घोषं॒ वित॑तमृता॒यवः॑||{12/15}{4.3.16.2}{5.54.12}{5.4.10.12}{396, 408, 4122}

यु॒ष्माद॑त्तस्य मरुतो विचेतसो रा॒यः स्या᳚म र॒थ्यो॒३॑(ओ॒) वय॑स्वतः|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

न यो युच्छ॑ति ति॒ष्यो॒३॑(ओ॒) यथा᳚ दि॒वो॒३॑(ओ॒) ऽस्मे रा᳚रन्त मरुतः सह॒स्रिण᳚म्||{13/15}{4.3.16.3}{5.54.13}{5.4.10.13}{397, 408, 4123}

यू॒यं र॒यिं म॑रुतः स्पा॒र्हवी᳚रं यू॒यमृषि॑मवथ॒ साम॑विप्रम्|{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

यू॒यमर्व᳚न्तं भर॒ताय॒ वाजं᳚ यू॒यं ध॑त्थ॒ राजा᳚नं श्रुष्टि॒मन्त᳚म्||{14/15}{4.3.16.4}{5.54.14}{5.4.10.14}{398, 408, 4124}

तद्‌ वो᳚ यामि॒ द्रवि॑णं सद्यऊतयो॒ येना॒ स्व१॑(अ॒)र्ण त॒तना᳚म॒ नॄँर॒भि|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

इ॒दं सु मे᳚ मरुतो हर्यता॒ वचो॒ यस्य॒ तरे᳚म॒ तर॑सा श॒तं हिमाः᳚||{15/15}{4.3.16.5}{5.54.15}{5.4.10.15}{399, 408, 4125}

[47] प्रयज्यवइति दशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतो जगत्यंत्यात्रिष्टुप् |
प्रय॑ज्यवो म॒रुतो॒ भ्राज॑दृष्टयो बृ॒हद्वयो᳚ दधिरे रु॒क्मव॑क्षसः|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

ईय᳚न्ते॒, अश्वैः᳚ सु॒यमे᳚भिरा॒शुभिः॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत||{1/10}{4.3.17.1}{5.55.1}{5.4.11.1}{400, 409, 4126}

स्व॒यं द॑धिध्वे॒ तवि॑षीं॒ यथा᳚ वि॒द बृ॒हन्म॑हान्त उर्वि॒या वि रा᳚जथ|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

उ॒तान्तरि॑क्षं ममिरे॒ व्योज॑सा॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत||{2/10}{4.3.17.2}{5.55.2}{5.4.11.2}{401, 409, 4127}

सा॒कं जा॒ताः सु॒भ्वः॑ सा॒कमु॑क्षि॒ताः श्रि॒ये चि॒दा प्र॑त॒रं वा᳚वृधु॒र्नरः॑|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

वि॒रो॒किणः॒ सूर्य॑स्येव र॒श्मयः॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत||{3/10}{4.3.17.3}{5.55.3}{5.4.11.3}{402, 409, 4128}

आ॒भू॒षेण्यं᳚ वो मरुतो महित्व॒नं दि॑दृ॒क्षेण्यं॒ सूर्य॑स्येव॒ चक्ष॑णम्|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

उ॒तो, अ॒स्माँ, अ॑मृत॒त्वे द॑धातन॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत||{4/10}{4.3.17.4}{5.55.4}{5.4.11.4}{403, 409, 4129}

उदी᳚रयथा मरुतः समुद्र॒तो यू॒यं वृ॒ष्टिं व॑र्षयथा पुरीषिणः|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

न वो᳚ दस्रा॒, उप॑ दस्यन्ति धे॒नवः॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत||{5/10}{4.3.17.5}{5.55.5}{5.4.11.5}{404, 409, 4130}

यदश्वा᳚न्‌ धू॒र्षु पृष॑ती॒रयु॑ग्ध्वं हिर॒ण्यया॒न्‌ प्रत्यत्काँ॒, अमु॑ग्ध्वम्|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

विश्वा॒, इत्‌ स्पृधो᳚ मरुतो॒ व्य॑स्यथ॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत||{6/10}{4.3.18.1}{5.55.6}{5.4.11.6}{405, 409, 4131}

न पर्व॑ता॒ न न॒द्यो᳚ वरन्त वो॒ यत्राचि॑ध्वं मरुतो॒ गच्छ॒थेदु॒ तत्|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

उ॒त द्यावा᳚पृथि॒वी या᳚थना॒ परि॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत||{7/10}{4.3.18.2}{5.55.7}{5.4.11.7}{406, 409, 4132}

यत्‌ पू॒र्व्यं म॑रुतो॒ यच्च॒ नूत॑नं॒ यदु॒द्यते᳚ वसवो॒ यच्च॑ श॒स्यते᳚|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

विश्व॑स्य॒ तस्य॑ भवथा॒ नवे᳚दसः॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत||{8/10}{4.3.18.3}{5.55.8}{5.4.11.8}{407, 409, 4133}

मृ॒ळत॑ नो मरुतो॒ मा व॑धिष्टना॒ऽस्मभ्यं॒ शर्म॑ बहु॒लं वि य᳚न्तन|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गातन॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत||{9/10}{4.3.18.4}{5.55.9}{5.4.11.9}{408, 409, 4134}

यू॒यम॒स्मान्‌ न॑यत॒ वस्यो॒, अच्छा॒ निरं᳚ह॒तिभ्यो᳚ मरुतो गृणा॒नाः|{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

जु॒षध्वं᳚ नो ह॒व्यदा᳚तिं यजत्रा व॒यं स्या᳚म॒ पत॑यो रयी॒णाम्||{10/10}{4.3.18.5}{5.55.10}{5.4.11.10}{409, 409, 4135}

[48] अग्नेशर्धंतमिति नवर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतोबृहती तृतीया सप्तम्यौसतोबृहत्यौ |
अग्ने॒ शर्ध᳚न्त॒मा ग॒णं पि॒ष्टं रु॒क्मेभि॑र॒ञ्जिभिः॑|{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

विशो᳚ अ॒द्य म॒रुता॒मव॑ ह्वये दि॒वश्चि॑द्‌ रोच॒नादधि॑||{1/9}{4.3.19.1}{5.56.1}{5.4.12.1}{410, 410, 4136}

यथा᳚ चि॒न्मन्य॑से हृ॒दा तदिन्मे᳚ जग्मुरा॒शसः॑|{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

ये ते॒ नेदि॑ष्ठं॒ हव॑नान्या॒गम॒न् तान्व॑र्ध भी॒मसं᳚दृशः||{2/9}{4.3.19.2}{5.56.2}{5.4.12.2}{411, 410, 4137}

मी॒ळ्हुष्म॑तीव पृथि॒वी परा᳚हता॒ मद᳚न्त्येत्य॒स्मदा|{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

ऋक्षो॒ न वो᳚ मरुतः॒ शिमी᳚वाँ॒, अमो᳚ दु॒ध्रो गौरि॑व भीम॒युः||{3/9}{4.3.19.3}{5.56.3}{5.4.12.3}{412, 410, 4138}

नि ये रि॒णन्त्योज॑सा॒ वृथा॒ गावो॒ न दु॒र्धुरः॑|{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

अश्मा᳚नं चित्‌ स्व॒र्य१॑(अं॒) पर्व॑तं गि॒रिं प्र च्या᳚वयन्ति॒ याम॑भिः||{4/9}{4.3.19.4}{5.56.4}{5.4.12.4}{413, 410, 4139}

उत्ति॑ष्ठ नू॒नमे᳚षां॒ स्तोमैः॒ समु॑क्षितानाम्|{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

म॒रुतां᳚ पुरु॒तम॒मपू᳚र्व्यं॒ गवां॒ सर्ग॑मिव ह्वये||{5/9}{4.3.19.5}{5.56.5}{5.4.12.5}{414, 410, 4140}

यु॒ङ्ग्ध्वं ह्यरु॑षी॒ रथे᳚ यु॒ङ्ग्ध्वं रथे᳚षु रो॒हितः॑|{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

यु॒ङ्ग्ध्वं हरी᳚ अजि॒रा धु॒रि वोळ्ह॑वे॒ वहि॑ष्ठा धु॒रि वोळ्ह॑वे||{6/9}{4.3.20.1}{5.56.6}{5.4.12.6}{415, 410, 4141}

उ॒त स्य वा॒ज्य॑रु॒षस्तु॑वि॒ष्वणि॑रि॒ह स्म॑ धायि दर्श॒तः|{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

मा वो॒ यामे᳚षु मरुतश्चि॒रं क॑र॒त् प्र तं रथे᳚षु चोदत||{7/9}{4.3.20.2}{5.56.7}{5.4.12.7}{416, 410, 4142}

रथं॒ नु मारु॑तं व॒यं श्र॑व॒स्युमा हु॑वामहे|{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

आ यस्मि᳚न्‌ त॒स्थौ सु॒रणा᳚नि॒ बिभ्र॑ती॒ सचा᳚ म॒रुत्सु॑ रोद॒सी||{8/9}{4.3.20.3}{5.56.8}{5.4.12.8}{417, 410, 4143}

तं वः॒ शर्धं᳚ रथे॒शुभं᳚ त्वे॒षं प॑न॒स्युमा हु॑वे|{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

यस्मि॒न्‌ त्सुजा᳚ता सु॒भगा᳚ मही॒यते॒ सचा᳚ म॒रुत्सु॑ मीळ्हु॒षी||{9/9}{4.3.20.4}{5.56.9}{5.4.12.9}{418, 410, 4144}

[49] आरुद्रासइत्यष्टर्चस्यसूक्तस्यात्रेयः श्यावाश्वोमरुतोजगत्यंत्येद्वेत्रिष्टुभौ |
आ रु॑द्रास॒ इन्द्र॑वन्तः स॒जोष॑सो॒ हिर᳚ण्यरथाः सुवि॒ताय॑ गन्तन|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

इ॒यं वो᳚ अ॒स्मत्‌ प्रति॑ हर्यते म॒तिस्तृ॒ष्णजे॒ न दि॒व उत्सा᳚ उद॒न्यवे᳚||{1/8}{4.3.21.1}{5.57.1}{5.5.1.1}{419, 411, 4145}

वाशी᳚मन्त ऋष्टि॒मन्तो᳚ मनी॒षिणः॑ सु॒धन्वा᳚न॒ इषु॑मन्तो निष॒ङ्गिणः॑|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

स्वश्वाः᳚ स्थ सु॒रथाः᳚ पृश्निमातरः स्वायु॒धा म॑रुतो याथना॒ शुभ᳚म्||{2/8}{4.3.21.2}{5.57.2}{5.5.1.2}{420, 411, 4146}

धू॒नु॒थ द्यां पर्व॑तान्दा॒शुषे॒ वसु॒ नि वो॒ वना᳚ जिहते॒ याम॑नो भि॒या|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

को॒पय॑थ पृथि॒वीं पृ॑श्निमातरः शु॒भे यदु॑ग्राः॒ पृष॑ती॒रयु॑ग्ध्वम्||{3/8}{4.3.21.3}{5.57.3}{5.5.1.3}{421, 411, 4147}

वात॑त्विषो म॒रुतो᳚ व॒र्षनि᳚र्णिजो य॒मा, इ॑व॒ सुस॑दृशः सु॒पेश॑सः|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

पि॒शङ्गा᳚श्वा, अरु॒णाश्वा᳚ अरे॒पसः॒ प्रत्व॑क्षसो महि॒ना द्यौरि॑वो॒रवः॑||{4/8}{4.3.21.4}{5.57.4}{5.5.1.4}{422, 411, 4148}

पु॒रु॒द्र॒प्सा, अ᳚ञ्जि॒मन्तः॑ सु॒दान॑वस्त्वे॒षसं᳚दृशो, अनव॒भ्ररा᳚धसः|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

सु॒जा॒तासो᳚ ज॒नुषा᳚ रु॒क्मव॑क्षसो दि॒वो, अ॒र्का, अ॒मृतं॒ नाम॑ भेजिरे||{5/8}{4.3.21.5}{5.57.5}{5.5.1.5}{423, 411, 4149}

ऋ॒ष्टयो᳚ वो मरुतो॒, अंस॑यो॒रधि॒ सह॒ ओजो᳚ बा॒ह्वोर्वो॒ बलं᳚ हि॒तम्|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

नृ॒म्णा शी॒र्षस्वायु॑धा॒ रथे᳚षु वो॒ विश्वा᳚ वः॒ श्रीरधि॑ त॒नूषु॑ पिपिशे||{6/8}{4.3.22.1}{5.57.6}{5.5.1.6}{424, 411, 4150}

गोम॒दश्वा᳚व॒द्‌ रथ॑वत्‌ सु॒वीरं᳚ च॒न्द्रव॒द्‌ राधो᳚ मरुतो ददा नः|{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

प्रश॑स्तिं नः कृणुत रुद्रियासो भक्षी॒य वोऽव॑सो॒ दैव्य॑स्य||{7/8}{4.3.22.2}{5.57.7}{5.5.1.7}{425, 411, 4151}

ह॒ये नरो॒ मरु॑तो मृ॒ळता᳚ न॒स्तुवी᳚मघासो॒, अमृ॑ता॒, ऋत॑ज्ञाः|{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

सत्य॑श्रुतः॒ कव॑यो॒ युवा᳚नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा᳚णाः||{8/8}{4.3.22.3}{5.57.8}{5.5.1.8}{426, 411, 4152}

[50] तमुनूनमित्यष्टर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतस्त्रिष्टुप् |
तमु॑ नू॒नं तवि॑षीमन्तमेषां स्तु॒षे ग॒णं मारु॑तं॒ नव्य॑सीनाम्|{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

य आ॒श्व॑श्वा॒, अम॑व॒द्‌ वह᳚न्त उ॒तेशि॑रे, अ॒मृत॑स्य स्व॒राजः॑||{1/8}{4.3.23.1}{5.58.1}{5.5.2.1}{427, 412, 4153}

त्वे॒षं ग॒णं त॒वसं॒ खादि॑हस्तं॒ धुनि᳚व्रतं मा॒यिनं॒ दाति॑वारम्|{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

म॒यो॒भुवो॒ ये, अमि॑ता महि॒त्वा वन्द॑स्व विप्र तुवि॒राध॑सो॒ नॄन्||{2/8}{4.3.23.2}{5.58.2}{5.5.2.2}{428, 412, 4154}

आ वो᳚ यन्तूदवा॒हासो᳚ अ॒द्य वृ॒ष्टिं ये विश्वे᳚ म॒रुतो᳚ जु॒नन्ति॑|{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

अ॒यं यो, अ॒ग्निर्म॑रुतः॒ समि॑द्ध ए॒तं जु॑षध्वं कवयो युवानः||{3/8}{4.3.23.3}{5.58.3}{5.5.2.3}{429, 412, 4155}

यू॒यं राजा᳚न॒मिर्यं॒ जना᳚य विभ्वत॒ष्टं ज॑नयथा यजत्राः|{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

यु॒ष्मदे᳚ति मुष्टि॒हा बा॒हुजू᳚तो यु॒ष्मत्‌ सद॑श्वो मरुतः सु॒वीरः॑||{4/8}{4.3.23.4}{5.58.4}{5.5.2.4}{430, 412, 4156}

अ॒रा, इ॒वेदच॑रमा॒, अहे᳚व॒ प्रप्र॑ जायन्ते॒, अक॑वा॒ महो᳚भिः|{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

पृश्नेः᳚ पु॒त्रा, उ॑प॒मासो॒ रभि॑ष्ठाः॒ स्वया᳚ म॒त्या म॒रुतः॒ सं मि॑मिक्षुः||{5/8}{4.3.23.5}{5.58.5}{5.5.2.5}{431, 412, 4157}

यत्‌ प्राया᳚सिष्ट॒ पृष॑तीभि॒रश्वै᳚र्वीळुप॒विभि᳚र्मरुतो॒ रथे᳚भिः|{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

क्षोद᳚न्त॒ आपो᳚ रिण॒ते वना॒न्यवो॒स्रियो᳚ वृष॒भः क्र᳚न्दतु॒ द्यौः||{6/8}{4.3.23.6}{5.58.6}{5.5.2.6}{432, 412, 4158}

प्रथि॑ष्ट॒ याम᳚न्‌ पृथि॒वी चि॑देषां॒ भर्ते᳚व॒ गर्भं॒ स्वमिच्छवो᳚ धुः|{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

वाता॒न्‌ ह्यश्वा᳚न्‌ धु॒र्या᳚युयु॒ज्रे व॒र्षं स्वेदं᳚ चक्रिरे रु॒द्रिया᳚सः||{7/8}{4.3.23.7}{5.58.7}{5.5.2.7}{433, 412, 4159}

ह॒ये नरो॒ मरु॑तो मृ॒ळता᳚ न॒स्तुवी᳚मघासो॒, अमृ॑ता॒, ऋत॑ज्ञाः|{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

सत्य॑श्रुतः॒ कव॑यो॒ युवा᳚नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा᳚णाः||{8/8}{4.3.23.8}{5.58.8}{5.5.2.8}{434, 412, 4160}

[51] प्रवःस्पळित्यष्टर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतो जगत्यंत्या त्रिष्टुप् |
प्र वः॒ स्पळ॑क्रन्‌ त्सुवि॒ताय॑ दा॒वने ऽर्चा᳚ दि॒वे प्र पृ॑थि॒व्या, ऋ॒तं भ॑रे|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

उ॒क्षन्ते॒, अश्वा॒न्‌ तरु॑षन्त॒ आ रजो ऽनु॒ स्वं भा॒नुं श्र॑थयन्ते, अर्ण॒वैः||{1/8}{4.3.24.1}{5.59.1}{5.5.3.1}{435, 413, 4161}

अमा᳚देषां भि॒यसा॒ भूमि॑रेजति॒ नौर्न पू॒र्णा क्ष॑रति॒ व्यथि᳚र्य॒ती|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

दू॒रे॒दृशो॒ ये चि॒तय᳚न्त॒ एम॑भिर॒न्तर्म॒हे वि॒दथे᳚ येतिरे॒ नरः॑||{2/8}{4.3.24.2}{5.59.2}{5.5.3.2}{436, 413, 4162}

गवा᳚मिव श्रि॒यसे॒ शृङ्ग॑मुत्त॒मं सूर्यो॒ न चक्षू॒ रज॑सो वि॒सर्ज॑ने|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अत्या᳚ इव सु॒भ्व१॑(अ॒)श्चार॑वः स्थन॒ मर्या᳚ इव श्रि॒यसे᳚ चेतथा नरः||{3/8}{4.3.24.3}{5.59.3}{5.5.3.3}{437, 413, 4163}

को वो᳚ म॒हान्ति॑ मह॒तामुद॑श्नव॒त् कस्काव्या᳚ मरुतः॒ को ह॒ पौंस्या᳚|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

यू॒यं ह॒ भूमिं᳚ कि॒रणं॒ न रे᳚जथ॒ प्र यद्‌ भर॑ध्वे सुवि॒ताय॑ दा॒वने᳚||{4/8}{4.3.24.4}{5.59.4}{5.5.3.4}{438, 413, 4164}

अश्वा᳚ इ॒वेद॑रु॒षासः॒ सब᳚न्धवः॒ शूरा᳚ इव प्र॒युधः॒ प्रोत यु॑युधुः|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

मर्या᳚ इव सु॒वृधो᳚ वावृधु॒र्नरः॒ सूर्य॑स्य॒ चक्षुः॒ प्र मि॑नन्ति वृ॒ष्टिभिः॑||{5/8}{4.3.24.5}{5.59.5}{5.5.3.5}{439, 413, 4165}

ते, अ॑ज्ये॒ष्ठा, अक॑निष्ठास उ॒द्भिदो ऽम॑ध्यमासो॒ मह॑सा॒ वि वा᳚वृधुः|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

सु॒जा॒तासो᳚ ज॒नुषा॒ पृश्नि॑मातरो दि॒वो मर्या॒, आ नो॒, अच्छा᳚ जिगातन||{6/8}{4.3.24.6}{5.59.6}{5.5.3.6}{440, 413, 4166}

वयो॒ न ये श्रेणीः᳚ प॒प्तुरोज॒सा ऽन्ता᳚न्दि॒वो बृ॑ह॒तः सानु॑न॒स्परि॑|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अश्वा᳚स एषामु॒भये॒ यथा᳚ वि॒दुः प्र पर्व॑तस्य नभ॒नूँर॑चुच्यवुः||{7/8}{4.3.24.7}{5.59.7}{5.5.3.7}{441, 413, 4167}

मिमा᳚तु॒ द्यौरदि॑तिर्वी॒तये᳚ नः॒ सं दानु॑चित्रा, उ॒षसो᳚ यतन्ताम्|{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

आचु॑च्यवुर्दि॒व्यं कोश॑मे॒त ऋषे᳚ रु॒द्रस्य॑ म॒रुतो᳚ गृणा॒नाः||{8/8}{4.3.24.8}{5.59.8}{5.5.3.8}{442, 413, 4168}

[52] ईळेअग्निमित्यष्टर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतस्त्रिष्टुबंत्येद्वेजगत्यौ | (आग्नेयं च वेत्यनुक्रमण्युक्तेरग्रामरुतोवा) |
ईळे᳚ अ॒ग्निं स्वव॑सं॒ नमो᳚भिरि॒ह प्र॑स॒त्तो वि च॑यत्‌ कृ॒तं नः॑|{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

रथै᳚रिव॒ प्र भ॑रे वाज॒यद्भिः॑ प्रदक्षि॒णिन्म॒रुतां॒ स्तोम॑मृध्याम्||{1/8}{4.3.25.1}{5.60.1}{5.5.4.1}{443, 414, 4169}

आ ये त॒स्थुः पृष॑तीषु श्रु॒तासु॑ सु॒खेषु॑ रु॒द्रा म॒रुतो॒ रथे᳚षु|{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

वना᳚ चिदुग्रा जिहते॒ नि वो᳚ भि॒या पृ॑थि॒वी चि॑द्‌ रेजते॒ पर्व॑तश्चित्||{2/8}{4.3.25.2}{5.60.2}{5.5.4.2}{444, 414, 4170}

पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय दि॒वश्चि॒त्‌ सानु॑ रेजत स्व॒ने वः॑|{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

यत्‌ क्रीळ॑थ मरुत ऋष्टि॒मन्त॒ आप॑ इव स॒ध्र्य᳚ञ्चो धवध्वे||{3/8}{4.3.25.3}{5.60.3}{5.5.4.3}{445, 414, 4171}

व॒रा, इ॒वेद्‌ रै᳚व॒तासो॒ हिर᳚ण्यैर॒भि स्व॒धाभि॑स्त॒न्वः॑ पिपिश्रे|{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

श्रि॒ये श्रेयां᳚सस्त॒वसो॒ रथे᳚षु स॒त्रा महां᳚सि चक्रिरे त॒नूषु॑||{4/8}{4.3.25.4}{5.60.4}{5.5.4.4}{446, 414, 4172}

अ॒ज्ये॒ष्ठासो॒, अक॑निष्ठास ए॒ते सं भ्रात॑रो वावृधुः॒ सौभ॑गाय|{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

युवा᳚ पि॒ता स्वपा᳚ रु॒द्र ए᳚षां सु॒दुघा॒ पृश्निः॑ सु॒दिना᳚ म॒रुद्भ्यः॑||{5/8}{4.3.25.5}{5.60.5}{5.5.4.5}{447, 414, 4173}

यदु॑त्त॒मे म॑रुतो मध्य॒मे वा॒ यद्‌ वा᳚व॒मे सु॑भगासो दि॒वि ष्ठ|{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

अतो᳚ नो रुद्रा, उ॒त वा॒ न्व१॑(अ॒)स्याऽग्ने᳚ वि॒त्ताद्ध॒विषो॒ यद्‌ यजा᳚म||{6/8}{4.3.25.6}{5.60.6}{5.5.4.6}{448, 414, 4174}

अ॒ग्निश्च॒ यन्म॑रुतो विश्ववेदसो दि॒वो वह॑ध्व॒ उत्त॑रा॒दधि॒ ष्णुभिः॑|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

ते म᳚न्दसा॒ना धुन॑यो रिशादसो वा॒मं ध॑त्त॒ यज॑मानाय सुन्व॒ते||{7/8}{4.3.25.7}{5.60.7}{5.5.4.7}{449, 414, 4175}

अग्ने᳚ म॒रुद्भिः॑ शु॒भय॑द्भि॒रृक्व॑भिः॒ सोमं᳚ पिब मन्दसा॒नो ग॑ण॒श्रिभिः॑|{आत्रेयः श्यावाश्वः | मरुतः | जगती}

पा॒व॒केभि᳚र्विश्वमि॒न्वेभि॑रा॒युभि॒र्वैश्वा᳚नर प्र॒दिवा᳚ के॒तुना᳚ स॒जूः||{8/8}{4.3.25.8}{5.60.8}{5.5.4.8}{450, 414, 4176}

[53] केष्ठानरइत्येकोनविंशत्यृचस्य सूक्तस्यश्यावाश्वः आद्यानांचतसृणां यईम्‌वहन्तइत्यादिषण्णांचमरुतः पंचम्यादिचतसृणांतरंतमहिषीशशीयसी उतमेरपदित्यस्याः पुरुमीळ्होयोमेधेनूनामित्यस्यास्तरंतः एतंमेस्तोममित्यादि तिसृणांरथवीतिर्गायत्री पंचम्यनुष्टुप्‌नवमीसतोबृहती (अवत्यौपुरुमीळ्हतरं तौवैददश्वी रथवीतिर्दार्भ्यः) |
के ष्ठा᳚ नरः॒ श्रेष्ठ॑तमा॒ य एक॑एक आय॒य|{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

प॒र॒मस्याः᳚ परा॒वतः॑||{1/19}{4.3.26.1}{5.61.1}{5.5.5.1}{451, 415, 4177}

क्व१॑(अ॒) वोऽश्वाः॒ क्वा॒३॑(आ॒)भीश॑वः क॒थं शे᳚क क॒था य॑य|{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

पृ॒ष्ठे सदो᳚ न॒सोर्यमः॑||{2/19}{4.3.26.2}{5.61.2}{5.5.5.2}{452, 415, 4178}

ज॒घने॒ चोद॑ एषां॒ वि स॒क्थानि॒ नरो᳚ यमुः|{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

पु॒त्र॒कृ॒थे न जन॑यः||{3/19}{4.3.26.3}{5.61.3}{5.5.5.3}{453, 415, 4179}

परा᳚ वीरास एतन॒ मर्या᳚सो॒ भद्र॑जानयः|{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

अ॒ग्नि॒तपो॒ यथास॑थ||{4/19}{4.3.26.4}{5.61.4}{5.5.5.4}{454, 415, 4180}

सन॒त्‌ साश्व्यं᳚ प॒शुमु॒त गव्यं᳚ श॒ताव॑यम्|{आत्रेयः श्यावाश्वः | तरन्तमहिषी शशीयसी | अनुष्टुप्}

श्या॒वाश्व॑स्तुताय॒ या दोर्वी॒रायो᳚प॒बर्बृ॑हत्||{5/19}{4.3.26.5}{5.61.5}{5.5.5.5}{455, 415, 4181}

उ॒त त्वा॒ स्त्री शशी᳚यसी पुं॒सो भ॑वति॒ वस्य॑सी|{आत्रेयः श्यावाश्वः | तरन्तमहिषी शशीयसी | गायत्री}

अदे᳚वत्रादरा॒धसः॑||{6/19}{4.3.27.1}{5.61.6}{5.5.5.6}{456, 415, 4182}

वि या जा॒नाति॒ जसु॑रिं॒ वि तृष्य᳚न्तं॒ वि का॒मिन᳚म्|{आत्रेयः श्यावाश्वः | तरन्तमहिषी शशीयसी | गायत्री}

दे॒व॒त्रा कृ॑णु॒ते मनः॑||{7/19}{4.3.27.2}{5.61.7}{5.5.5.7}{457, 415, 4183}

उ॒त घा॒ नेमो॒, अस्तु॑तः॒ पुमाँ॒, इति॑ ब्रुवे प॒णिः|{आत्रेयः श्यावाश्वः | तरन्तमहिषी शशीयसी | गायत्री}

स वैर॑देय॒ इत्स॒मः||{8/19}{4.3.27.3}{5.61.8}{5.5.5.8}{458, 415, 4184}

उ॒त मे᳚ऽरपद्‌ युव॒तिर्म॑म॒न्दुषी॒ प्रति॑ श्या॒वाय॑ वर्त॒निम्|{आत्रेयः श्यावाश्वः | वैददश्विः पुरुमीळ्हः | सतोबृहती}

वि रोहि॑ता पुरुमी॒ळ्हाय॑ येमतु॒र्विप्रा᳚य दी॒र्घय॑शसे||{9/19}{4.3.27.4}{5.61.9}{5.5.5.9}{459, 415, 4185}

यो मे᳚ धेनू॒नां श॒तं वैद॑दश्वि॒र्यथा॒ दद॑त्|{आत्रेयः श्यावाश्वः | वैददश्विस्तरन्तः | गायत्री}

त॒र॒न्त इ॑व मं॒हना᳚||{10/19}{4.3.27.5}{5.61.10}{5.5.5.10}{460, 415, 4186}

य ईं॒ वह᳚न्त आ॒शुभिः॒ पिब᳚न्तो मदि॒रं मधु॑|{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

अत्र॒ श्रवां᳚सि दधिरे||{11/19}{4.3.28.1}{5.61.11}{5.5.5.11}{461, 415, 4187}

येषां᳚ श्रि॒याधि॒ रोद॑सी वि॒भ्राज᳚न्ते॒ रथे॒ष्वा|{आत्रेयः श्यावाश्वः | तरन्तो वैददश्विः | गायत्री}

दि॒वि रु॒क्म इ॑वो॒परि॑||{12/19}{4.3.28.2}{5.61.12}{5.5.5.12}{462, 415, 4188}

युवा॒ स मारु॑तो ग॒णस्त्वे॒षर॑थो॒, अने᳚द्यः|{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

शु॒भं॒यावाप्र॑तिष्कुतः||{13/19}{4.3.28.3}{5.61.13}{5.5.5.13}{463, 415, 4189}

को वे᳚द नू॒नमे᳚षां॒ यत्रा॒ मद᳚न्ति॒ धूत॑यः|{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

ऋ॒तजा᳚ता, अरे॒पसः॑||{14/19}{4.3.28.4}{5.61.14}{5.5.5.14}{464, 415, 4190}

यू॒यं मर्तं᳚ विपन्यवः प्रणे॒तार॑ इ॒त्था धि॒या|{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

श्रोता᳚रो॒ याम॑हूतिषु||{15/19}{4.3.28.5}{5.61.15}{5.5.5.15}{465, 415, 4191}

ते नो॒ वसू᳚नि॒ काम्या᳚ पुरुश्च॒न्द्रा रि॑शादसः|{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

आ य॑ज्ञियासो ववृत्तन||{16/19}{4.3.29.1}{5.61.16}{5.5.5.16}{466, 415, 4192}

ए॒तं मे॒ स्तोम॑मूर्म्ये दा॒र्भ्याय॒ परा᳚ वह|{आत्रेयः श्यावाश्वः | दार्भ्यो रथवीतिः | गायत्री}

गिरो᳚ देवि र॒थीरि॑व||{17/19}{4.3.29.2}{5.61.17}{5.5.5.17}{467, 415, 4193}

उ॒त मे᳚ वोचता॒दिति॑ सु॒तसो᳚मे॒ रथ॑वीतौ|{आत्रेयः श्यावाश्वः | दार्भ्यो रथवीतिः | गायत्री}

न कामो॒, अप॑ वेति मे||{18/19}{4.3.29.3}{5.61.18}{5.5.5.18}{468, 415, 4194}

ए॒ष क्षे᳚ति॒ रथ॑वीतिर्म॒घवा॒ गोम॑ती॒रनु॑|{आत्रेयः श्यावाश्वः | दार्भ्यो रथवीतिः | गायत्री}

पर्व॑ते॒ष्वप॑श्रितः||{19/19}{4.3.29.4}{5.61.19}{5.5.5.19}{469, 415, 4195}

[54] ऋतेनऋतमिति नवर्चस्य सूक्तस्यात्रेयः श्रुतविन्मित्रवारुणौत्रिष्टुप् |
ऋ॒तेन॑ ऋ॒तमपि॑हितं ध्रु॒वं वां॒ सूर्य॑स्य॒ यत्र॑ विमु॒चन्त्यश्वा॑न्|{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

दश॑ श॒ता स॒ह त॑स्थु॒स्तदेकं᳚ दे॒वानां॒ श्रेष्ठं॒ वपु॑षामपश्यम्||{1/9}{4.3.30.1}{5.62.1}{5.5.6.1}{470, 416, 4196}

तत्सु वां᳚ मित्रावरुणा महि॒त्वमी॒र्मा त॒स्थुषी॒रह॑भिर्दुदुह्रे|{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

विश्वाः᳚ पिन्वथः॒ स्वस॑रस्य॒ धेना॒, अनु॑ वा॒मेकः॑ प॒विरा व॑वर्त||{2/9}{4.3.30.2}{5.62.2}{5.5.6.2}{471, 416, 4197}

अधा᳚रयतं पृथि॒वीमु॒त द्यां मित्र॑राजाना वरुणा॒ महो᳚भिः|{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

व॒र्धय॑त॒मोष॑धीः॒ पिन्व॑तं॒ गा, अव॑ वृ॒ष्टिं सृ॑जतं जीरदानू||{3/9}{4.3.30.3}{5.62.3}{5.5.6.3}{472, 416, 4198}

आ वा॒मश्वा᳚सः सु॒युजो᳚ वहन्तु य॒तर॑श्मय॒ उप॑ यन्त्व॒र्वाक्|{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

घृ॒तस्य॑ नि॒र्णिगनु॑ वर्तते वा॒मुप॒ सिन्ध॑वः प्र॒दिवि॑ क्षरन्ति||{4/9}{4.3.30.4}{5.62.4}{5.5.6.4}{473, 416, 4199}

अनु॑ श्रु॒ताम॒मतिं॒ वर्ध॑दु॒र्वीं ब॒र्हिरि॑व॒ यजु॑षा॒ रक्ष॑माणा|{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

नम॑स्वन्ता धृतद॒क्षाधि॒ गर्ते॒ मित्रासा᳚थे वरु॒णेळा᳚स्व॒न्तः||{5/9}{4.3.30.5}{5.62.5}{5.5.6.5}{474, 416, 4200}

अक्र॑विहस्ता सु॒कृते᳚ पर॒स्पा यं त्रासा᳚थे वरु॒णेळा᳚स्व॒न्तः|{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

राजा᳚ना क्ष॒त्रमहृ॑णीयमाना स॒हस्र॑स्थूणं बिभृथः स॒ह द्वौ||{6/9}{4.3.31.1}{5.62.6}{5.5.6.6}{475, 416, 4201}

हिर᳚ण्यनिर्णि॒गयो᳚ अस्य॒ स्थूणा॒ वि भ्रा᳚जते दि॒व्य१॑(अ॒)श्वाज॑नीव|{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

भ॒द्रे क्षेत्रे॒ निमि॑ता॒ तिल्वि॑ले वा स॒नेम॒ मध्वो॒, अधि॑गर्त्यस्य||{7/9}{4.3.31.2}{5.62.7}{5.5.6.7}{476, 416, 4202}

हिर᳚ण्यरूपमु॒षसो॒ व्यु॑ष्टा॒वयः॑स्थूण॒मुदि॑ता॒ सूर्य॑स्य|{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

आ रो᳚हथो वरुण मित्र॒ गर्त॒मत॑श्चक्षाथे॒, अदि॑तिं॒ दितिं᳚ च||{8/9}{4.3.31.3}{5.62.8}{5.5.6.8}{477, 416, 4203}

यद्‌ बंहि॑ष्ठं॒ नाति॒विधे᳚ सुदानू॒, अच्छि॑द्रं॒ शर्म॑ भुवनस्य गोपा|{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

तेन॑ नो मित्रावरुणावविष्टं॒ सिषा᳚सन्तो जिगी॒वांसः॑ स्याम||{9/9}{4.3.31.4}{5.62.9}{5.5.6.9}{478, 416, 4204}

[55] ऋतस्यगोपाविति सप्तर्चस्य सूक्तस्यात्रेयोर्चनानामित्रावरुणौजगती |
ऋत॑स्य गोपा॒वधि॑ तिष्ठथो॒ रथं॒ सत्य॑धर्माणा पर॒मे व्यो᳚मनि|{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

यमत्र॑ मित्रावरु॒णाव॑थो यु॒वं तस्मै᳚ वृ॒ष्टिर्मधु॑मत्‌ पिन्वते दि॒वः||{1/7}{4.4.1.1}{5.63.1}{5.5.7.1}{479, 417, 4205}

स॒म्राजा᳚व॒स्य भुव॑नस्य राजथो॒ मित्रा᳚वरुणा वि॒दथे᳚ स्व॒र्दृशा᳚|{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

वृ॒ष्टिं वां॒ राधो᳚ अमृत॒त्वमी᳚महे॒ द्यावा᳚पृथि॒वी वि च॑रन्ति त॒न्यवः॑||{2/7}{4.4.1.2}{5.63.2}{5.5.7.2}{480, 417, 4206}

स॒म्राजा᳚ उ॒ग्रा वृ॑ष॒भा दि॒वस्पती᳚ पृथि॒व्या मि॒त्रावरु॑णा॒ विच॑र्षणी|{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

चि॒त्रेभि॑र॒भ्रैरुप॑ तिष्ठथो॒ रवं॒ द्यां व॑र्षयथो॒, असु॑रस्य मा॒यया᳚||{3/7}{4.4.1.3}{5.63.3}{5.5.7.3}{481, 417, 4207}

मा॒या वां᳚ मित्रावरुणा दि॒वि श्रि॒ता सूर्यो॒ ज्योति॑श्चरति चि॒त्रमायु॑धम्|{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

तम॒भ्रेण॑ वृ॒ष्ट्या गू᳚हथो दि॒वि पर्ज᳚न्य द्र॒प्सा मधु॑मन्त ईरते||{4/7}{4.4.1.4}{5.63.4}{5.5.7.4}{482, 417, 4208}

रथं᳚ युञ्जते म॒रुतः॑ शु॒भे सु॒खं शूरो॒ न मि॑त्रावरुणा॒ गवि॑ष्टिषु|{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

रजां᳚सि चि॒त्रा वि च॑रन्ति त॒न्यवो᳚ दि॒वः स᳚म्राजा॒ पय॑सा न उक्षतम्||{5/7}{4.4.1.5}{5.63.5}{5.5.7.5}{483, 417, 4209}

वाचं॒ सु मि॑त्रावरुणा॒विरा᳚वतीं प॒र्जन्य॑श्चि॒त्रां व॑दति॒ त्विषी᳚मतीम्|{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

अ॒भ्रा व॑सत म॒रुतः॒ सु मा॒यया॒ द्यां व॑र्षयतमरु॒णाम॑रे॒पस᳚म्||{6/7}{4.4.1.6}{5.63.6}{5.5.7.6}{484, 417, 4210}

धर्म॑णा मित्रावरुणा विपश्चिता व्र॒ता र॑क्षेथे॒, असु॑रस्य मा॒यया᳚|{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

ऋ॒तेन॒ विश्वं॒ भुव॑नं॒ वि रा᳚जथः॒ सूर्य॒मा ध॑त्थो दि॒वि चित्र्यं॒ रथ᳚म्||{7/7}{4.4.1.7}{5.63.7}{5.5.7.7}{485, 417, 4211}

[56] वरुणंवइति सप्तर्चस्य सूक्तस्यार्चनाना मित्रावरुणावनुष्टुबंत्यापंक्तिः |
वरु॑णं वो रि॒शाद॑समृ॒चा मि॒त्रं ह॑वामहे|{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

परि᳚ व्र॒जेव॑ बा॒ह्वोर्ज॑ग॒न्वांसा॒ स्व᳚र्णरम्||{1/7}{4.4.2.1}{5.64.1}{5.5.8.1}{486, 418, 4212}

ता बा॒हवा᳚ सुचे॒तुना॒ प्र य᳚न्तमस्मा॒, अर्च॑ते|{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

शेवं॒ हि जा॒र्यं᳚ वां॒ विश्वा᳚सु॒ क्षासु॒ जोगु॑वे||{2/7}{4.4.2.2}{5.64.2}{5.5.8.2}{487, 418, 4213}

यन्नू॒नम॒श्यां गतिं᳚ मि॒त्रस्य॑ यायां प॒था|{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

अस्य॑ प्रि॒यस्य॒ शर्म॒ण्यहिं᳚सानस्य सश्चिरे||{3/7}{4.4.2.3}{5.64.3}{5.5.8.3}{488, 418, 4214}

यु॒वाभ्यां᳚ मित्रावरुणोप॒मं धे᳚यामृ॒चा|{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

यद्ध॒ क्षये᳚ म॒घोनां᳚ स्तोतॄ॒णां च॑ स्पू॒र्धसे᳚||{4/7}{4.4.2.4}{5.64.4}{5.5.8.4}{489, 418, 4215}

आ नो᳚ मित्र सुदी॒तिभि॒र्वरु॑णश्च स॒धस्थ॒ आ|{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

स्वे क्षये᳚ म॒घोनां॒ सखी᳚नां च वृ॒धसे᳚||{5/7}{4.4.2.5}{5.64.5}{5.5.8.5}{490, 418, 4216}

यु॒वं नो॒ येषु॑ वरुण क्ष॒त्रं बृ॒हच्च॑ बिभृ॒थः|{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

उ॒रु णो॒ वाज॑सातये कृ॒तं रा॒ये स्व॒स्तये᳚||{6/7}{4.4.2.6}{5.64.6}{5.5.8.6}{491, 418, 4217}

उ॒च्छन्त्यां᳚ मे यज॒ता दे॒वक्ष॑त्रे॒ रुश॑द्गवि|{आत्रेयोर्चनाना | मित्रावरुणौ | पङ्क्तिः}

सु॒तं सोमं॒ न ह॒स्तिभि॒रा प॒ड्भिर्धा᳚वतं नरा॒ बिभ्र॑तावर्च॒नान॑सम्||{7/7}{4.4.2.7}{5.64.7}{5.5.8.7}{492, 418, 4218}

[57] यश्चिकेतेति षडृचस्य सूक्तस्यात्रेयोरातहव्योमित्रावरुणावनुष्टुबन्त्यापंक्तिः |
यश्चि॒केत॒ स सु॒क्रतु॑र्देव॒त्रा स ब्र॑वीतु नः|{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

वरु॑णो॒ यस्य॑ दर्श॒तो मि॒त्रो वा॒ वन॑ते॒ गिरः॑||{1/6}{4.4.3.1}{5.65.1}{5.5.9.1}{493, 419, 4219}

ता हि श्रेष्ठ॑वर्चसा॒ राजा᳚ना दीर्घ॒श्रुत्त॑मा|{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

ता सत्प॑ती, ऋता॒वृध॑ ऋ॒तावा᳚ना॒ जने᳚जने||{2/6}{4.4.3.2}{5.65.2}{5.5.9.2}{494, 419, 4220}

ता वा᳚मिया॒नोऽव॑से॒ पूर्वा॒, उप॑ ब्रुवे॒ सचा᳚|{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

स्वश्वा᳚सः॒ सु चे॒तुना॒ वाजाँ᳚, अ॒भि प्र दा॒वने᳚||{3/6}{4.4.3.3}{5.65.3}{5.5.9.3}{495, 419, 4221}

मि॒त्रो, अं॒होश्चि॒दादु॒रु क्षया᳚य गा॒तुं व॑नते|{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

मि॒त्रस्य॒ हि प्र॒तूर्व॑तः सुम॒तिरस्ति॑ विध॒तः||{4/6}{4.4.3.4}{5.65.4}{5.5.9.4}{496, 419, 4222}

व॒यं मि॒त्रस्याव॑सि॒ स्याम॑ स॒प्रथ॑स्तमे|{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

अ॒ने॒हस॒स्त्वोत॑यः स॒त्रा वरु॑णशेषसः||{5/6}{4.4.3.5}{5.65.5}{5.5.9.5}{497, 419, 4223}

यु॒वं मि॑त्रे॒मं जनं॒ यत॑थः॒ सं च॑ नयथः|{आत्रेयो रातहव्यः | मित्रावरुणौ | पङ्क्तिः}

मा म॒घोनः॒ परि॑ ख्यतं॒ मो, अ॒स्माक॒मृषी᳚णां गोपी॒थे न॑ उरुष्यतम्||{6/6}{4.4.3.6}{5.65.6}{5.5.9.6}{498, 419, 4224}

[58] आचिकितानेति षडृचस्य सूक्तस्यात्रेयोरातहव्योमित्रावरुणावनुष्टुप् |
आ चि॑कितान सु॒क्रतू᳚ दे॒वौ म॑र्त रि॒शाद॑सा|{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

वरु॑णाय ऋ॒तपे᳚शसे दधी॒त प्रय॑से म॒हे||{1/6}{4.4.4.1}{5.66.1}{5.5.10.1}{499, 420, 4225}

ता हि क्ष॒त्रमवि॑ह्रुतं स॒म्यग॑सु॒र्य१॑(अ॒)माशा᳚ते|{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

अध᳚ व्र॒तेव॒ मानु॑षं॒ स्व१॑(अ॒)र्ण धा᳚यि दर्श॒तम्||{2/6}{4.4.4.2}{5.66.2}{5.5.10.2}{500, 420, 4226}

ता वा॒मेषे॒ रथा᳚नामु॒र्वीं गव्यू᳚तिमेषाम्|{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

रा॒तह᳚व्यस्य सुष्टु॒तिं द॒धृक्‌ स्तोमै᳚र्मनामहे||{3/6}{4.4.4.3}{5.66.3}{5.5.10.3}{501, 420, 4227}

अधा॒ हि काव्या᳚ यु॒वं दक्ष॑स्य पू॒र्भिर॑द्भुता|{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

नि के॒तुना॒ जना᳚नां चि॒केथे᳚ पूतदक्षसा||{4/6}{4.4.4.4}{5.66.4}{5.5.10.4}{502, 420, 4228}

तदृ॒तं पृ॑थिवि बृ॒हच्छ्र॑वए॒ष ऋषी᳚णाम्|{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

ज्र॒य॒सा॒नावरं᳚ पृ॒थ्वति॑ क्षरन्ति॒ याम॑भिः||{5/6}{4.4.4.5}{5.66.5}{5.5.10.5}{503, 420, 4229}

आ यद्‌ वा᳚मीयचक्षसा॒ मित्र॑ व॒यं च॑ सू॒रयः॑|{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

व्यचि॑ष्ठे बहु॒पाय्ये॒ यते᳚महि स्व॒राज्ये᳚||{6/6}{4.4.4.6}{5.66.6}{5.5.10.6}{504, 420, 4230}

[59] बळित्थादेवेति पंचर्चस्य सूक्तस्यात्रेयोयजतो मित्रावरुणावनुष्टुप् |
बळि॒त्था दे᳚व निष्कृ॒तमादि॑त्या यज॒तं बृ॒हत्|{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्}

वरु॑ण॒ मित्रार्य॑म॒न् वर्षि॑ष्ठं क्ष॒त्रमा᳚शाथे||{1/5}{4.4.5.1}{5.67.1}{5.5.11.1}{505, 421, 4231}

आ यद्‌ योनिं᳚ हिर॒ण्ययं॒ वरु॑ण॒ मित्र॒ सद॑थः|{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्}

ध॒र्तारा᳚ चर्षणी॒नां य॒न्तं सु॒म्नं रि॑शादसा||{2/5}{4.4.5.2}{5.67.2}{5.5.11.2}{506, 421, 4232}

विश्वे॒ हि वि॒श्ववे᳚दसो॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा|{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्}

व्र॒ता प॒देव॑ सश्चिरे॒ पान्ति॒ मर्त्यं᳚ रि॒षः||{3/5}{4.4.5.3}{5.67.3}{5.5.11.3}{507, 421, 4233}

ते हि स॒त्या, ऋ॑त॒स्पृश॑ ऋ॒तावा᳚नो॒ जने᳚जने|{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्}

सु॒नी॒थासः॑ सु॒दान॑वों॒ऽहोश्चि॑दुरु॒चक्र॑यः||{4/5}{4.4.5.4}{5.67.4}{5.5.11.4}{508, 421, 4234}

को नु वां᳚ मि॒त्रास्तु॑तो॒ वरु॑णो वा त॒नूना᳚म्|{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्}

तत्सु वा॒मेष॑ते म॒तिरत्रि॑भ्य॒ एष॑ते म॒तिः||{5/5}{4.4.5.5}{5.67.5}{5.5.11.5}{509, 421, 4235}

[60] प्रवोमित्रायेति पंचर्चस्य सूक्तस्यात्रेयो यजतोमित्रावरुणौगायत्री |
प्र वो᳚ मि॒त्राय॑ गायत॒ वरु॑णाय वि॒पा गि॒रा|{आत्रेयो यजतः | मित्रावरुणौ | गायत्री}

महि॑क्षत्रावृ॒तं बृ॒हत्||{1/5}{4.4.6.1}{5.68.1}{5.5.12.1}{510, 422, 4236}

स॒म्राजा॒ या घृ॒तयो᳚नी मि॒त्रश्चो॒भा वरु॑णश्च|{आत्रेयो यजतः | मित्रावरुणौ | गायत्री}

दे॒वा दे॒वेषु॑ प्रश॒स्ता||{2/5}{4.4.6.2}{5.68.2}{5.5.12.2}{511, 422, 4237}

ता नः॑ शक्तं॒ पार्थि॑वस्य म॒हो रा॒यो दि॒व्यस्य॑|{आत्रेयो यजतः | मित्रावरुणौ | गायत्री}

महि॑ वां क्ष॒त्रं दे॒वेषु॑||{3/5}{4.4.6.3}{5.68.3}{5.5.12.3}{512, 422, 4238}

ऋ॒तमृ॒तेन॒ सप᳚न्तेषि॒रं दक्ष॑माशाते|{आत्रेयो यजतः | मित्रावरुणौ | गायत्री}

अ॒द्रुहा᳚ दे॒वौ व॑र्धेते||{4/5}{4.4.6.4}{5.68.4}{5.5.12.4}{513, 422, 4239}

वृ॒ष्टिद्या᳚वा री॒त्या᳚पे॒षस्पती॒ दानु॑मत्याः|{आत्रेयो यजतः | मित्रावरुणौ | गायत्री}

बृ॒हन्तं॒ गर्त॑माशाते||{5/5}{4.4.6.5}{5.68.5}{5.5.12.5}{514, 422, 4240}

[61] त्रीरोचनेति चतुरृचस्य सूक्तस्यात्रेय उरुचक्रिर्मित्रावरुणौत्रिष्टुप् |
त्री रो᳚च॒ना व॑रुण॒ त्रीँरु॒त द्यून् त्रीणि॑ मित्र धारयथो॒ रजां᳚सि|{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्}

वा॒वृ॒धा॒नाव॒मतिं᳚ क्ष॒त्रिय॒स्याऽनु᳚ व्र॒तं रक्ष॑माणावजु॒र्यम्||{1/4}{4.4.7.1}{5.69.1}{5.5.13.1}{515, 423, 4241}

इरा᳚वतीर्वरुण धे॒नवो᳚ वां॒ मधु॑मद्वां॒ सिन्ध॑वो मित्र दुह्रे|{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्}

त्रय॑स्तस्थुर्वृष॒भास॑स्तिसॄ॒णां धि॒षणा᳚नां रेतो॒धा वि द्यु॒मन्तः॑||{2/4}{4.4.7.2}{5.69.2}{5.5.13.2}{516, 423, 4242}

प्रा॒तर्दे॒वीमदि॑तिं जोहवीमि म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य|{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्}

रा॒ये मि॑त्रावरुणा स॒र्वता॒तेळे᳚ तो॒काय॒ तन॑याय॒ शं योः||{3/4}{4.4.7.3}{5.69.3}{5.5.13.3}{517, 423, 4243}

या ध॒र्तारा॒ रज॑सो रोच॒नस्यो॒तादि॒त्या दि॒व्या पार्थि॑वस्य|{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्}

न वां᳚ दे॒वा, अ॒मृता॒, आ मि॑नन्ति व्र॒तानि॑ मित्रावरुणा ध्रु॒वाणि॑||{4/4}{4.4.7.4}{5.69.4}{5.5.13.4}{518, 423, 4244}

[62] पुरुरुणेति चतुरृचस्य सूक्तस्यात्रेय उरुचक्रिर्मित्रावरुणौगायत्री |
पु॒रू॒रुणा᳚ चि॒द्ध्यस्त्यवो᳚ नू॒नं वां᳚ वरुण|{आत्रेयो उरूचक्रिः | मित्रावरुणौ | गायत्री}

मित्र॒ वंसि॑ वां सुम॒तिम्||{1/4}{4.4.8.1}{5.70.1}{5.5.14.1}{519, 424, 4245}

ता वां᳚ स॒म्यग॑द्रुह्वा॒णेष॑मश्याम॒ धाय॑से|{आत्रेयो उरूचक्रिः | मित्रावरुणौ | गायत्री}

व॒यं ते रु॑द्रा स्याम||{2/4}{4.4.8.2}{5.70.2}{5.5.14.2}{520, 424, 4246}

पा॒तं नो᳚ रुद्रा पा॒युभि॑रु॒त त्रा᳚येथां सुत्रा॒त्रा|{आत्रेयो उरूचक्रिः | मित्रावरुणौ | गायत्री}

तु॒र्याम॒ दस्यू᳚न्‌ त॒नूभिः॑||{3/4}{4.4.8.3}{5.70.3}{5.5.14.3}{521, 424, 4247}

मा कस्या᳚द्भुतक्रतू य॒क्षं भु॑जेमा त॒नूभिः॑|{आत्रेयो उरूचक्रिः | मित्रावरुणौ | गायत्री}

मा शेष॑सा॒ मा तन॑सा||{4/4}{4.4.8.4}{5.70.4}{5.5.14.4}{522, 424, 4248}

[63] आनोगंतरिति तृचस्य सूक्तस्यात्रेयोबाहुवृक्तोमित्रावरुणौगायत्री |
आ नो᳚ गन्तं रिशादसा॒ वरु॑ण॒ मित्र॑ ब॒र्हणा᳚|{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | गायत्री}

उपे॒मं चारु॑मध्व॒रम्||{1/3}{4.4.9.1}{5.71.1}{5.5.15.1}{523, 425, 4249}

विश्व॑स्य॒ हि प्र॑चेतसा॒ वरु॑ण॒ मित्र॒ राज॑थः|{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | गायत्री}

ई॒शा॒ना पि॑प्यतं॒ धियः॑||{2/3}{4.4.9.2}{5.71.2}{5.5.15.2}{524, 425, 4250}

उप॑ नः सु॒तमा ग॑तं॒ वरु॑ण॒ मित्र॑ दा॒शुषः॑|{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | गायत्री}

अ॒स्य सोम॑स्य पी॒तये᳚||{3/3}{4.4.9.3}{5.71.3}{5.5.15.3}{525, 425, 4251}

[64] आमित्रइति तृचस्य सूक्तस्यात्रेयोबाहुवृक्तोमित्रावरुणावुष्णिक् |
आ मि॒त्रे वरु॑णे व॒यं गी॒र्भिर्जु॑हुमो, अत्रि॒वत्|{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | उष्णिक्}

नि ब॒र्हिषि॑ सदतं॒ सोम॑पीतये||{1/3}{4.4.10.1}{5.72.1}{5.5.16.1}{526, 426, 4252}

व्र॒तेन॑ स्थो ध्रु॒वक्षे᳚मा॒ धर्म॑णा यात॒यज्ज॑ना|{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | उष्णिक्}

नि ब॒र्हिषि॑ सदतं॒ सोम॑पीतये||{2/3}{4.4.10.2}{5.72.2}{5.5.16.2}{527, 426, 4253}

मि॒त्रश्च॑ नो॒ वरु॑णश्च जु॒षेतां᳚ य॒ज्ञमि॒ष्टये᳚|{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | उष्णिक्}

नि ब॒र्हिषि॑ सदतां॒ सोम॑पीतये||{3/3}{4.4.10.3}{5.72.3}{5.5.16.3}{528, 426, 4254}

[65] यदद्यस्थइति दशर्चस्यसूतस्यात्रेयः पौरोश्विनावनुष्टुप् |
यद॒द्य स्थः प॑रा॒वति॒ यद᳚र्वा॒वत्य॑श्विना|{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

यद्‌ वा᳚ पु॒रू पु॑रुभुजा॒ यद॒न्तरि॑क्ष॒ आ ग॑तम्||{1/10}{4.4.11.1}{5.73.1}{5.6.1.1}{529, 427, 4255}

इ॒ह त्या पु॑रु॒भूत॑मा पु॒रू दंसां᳚सि॒ बिभ्र॑ता|{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

व॒र॒स्या या॒म्यध्रि॑गू हु॒वे तु॒विष्ट॑मा भु॒जे||{2/10}{4.4.11.2}{5.73.2}{5.6.1.2}{530, 427, 4256}

ई॒र्मान्यद्‌ वपु॑षे॒ वपु॑श्च॒क्रं रथ॑स्य येमथुः|{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

पर्य॒न्या नाहु॑षा यु॒गा म॒ह्ना रजां᳚सि दीयथः||{3/10}{4.4.11.3}{5.73.3}{5.6.1.3}{531, 427, 4257}

तदू॒ षु वा᳚मे॒ना कृ॒तं विश्वा॒ यद्‌ वा॒मनु॒ ष्टवे᳚|{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

नाना᳚ जा॒ताव॑रे॒पसा॒ सम॒स्मे बन्धु॒मेय॑थुः||{4/10}{4.4.11.4}{5.73.4}{5.6.1.4}{532, 427, 4258}

आ यद्‌ वां᳚ सू॒र्या रथं॒ तिष्ठ॑द्‌ रघु॒ष्यदं॒ सदा᳚|{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

परि॑ वामरु॒षा वयो᳚ घृ॒णा व॑रन्त आ॒तपः॑||{5/10}{4.4.11.5}{5.73.5}{5.6.1.5}{533, 427, 4259}

यु॒वोरत्रि॑श्चिकेतति॒ नरा᳚ सु॒म्नेन॒ चेत॑सा|{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

घ॒र्मं यद्‌ वा᳚मरे॒पसं॒ नास॑त्या॒स्ना भु॑र॒ण्यति॑||{6/10}{4.4.12.1}{5.73.6}{5.6.1.6}{534, 427, 4260}

उ॒ग्रो वां᳚ ककु॒हो य॒यिः शृ॒ण्वे यामे᳚षु संत॒निः|{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

यद्‌ वां॒ दंसो᳚भिरश्वि॒नाऽत्रि᳚र्नराव॒वर्त॑ति||{7/10}{4.4.12.2}{5.73.7}{5.6.1.7}{535, 427, 4261}

मध्व॑ ऊ॒ षु म॑धूयुवा॒ रुद्रा॒ सिष॑क्ति पि॒प्युषी᳚|{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

यत्‌ स॑मु॒द्राति॒ पर्ष॑थः प॒क्वाः पृक्षो᳚ भरन्त वाम्||{8/10}{4.4.12.3}{5.73.8}{5.6.1.8}{536, 427, 4262}

स॒त्यमिद्‌ वा, उ॑ अश्विना यु॒वामा᳚हुर्मयो॒भुवा᳚|{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

ता याम᳚न्‌ याम॒हूत॑मा॒ याम॒न्ना मृ॑ळ॒यत्त॑मा||{9/10}{4.4.12.4}{5.73.9}{5.6.1.9}{537, 427, 4263}

इ॒मा ब्रह्मा᳚णि॒ वर्ध॑ना॒ ऽश्विभ्यां᳚ सन्तु॒ शंत॑मा|{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

या तक्षा᳚म॒ रथाँ᳚, इ॒वाऽवो᳚चाम बृ॒हन्नमः॑||{10/10}{4.4.12.5}{5.73.10}{5.6.1.10}{538, 427, 4264}

[66] कूष्ठोदेवाविति दशर्चस्य सूक्तस्यात्रेयः पौरोश्विनावनुष्टुप् |
कूष्ठो᳚ देवावश्विना॒ऽद्या दि॒वो म॑नावसू|{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

तच्छ्र॑वथो वृषण्वसू॒, अत्रि᳚र्वा॒मा वि॑वासति||{1/10}{4.4.13.1}{5.74.1}{5.6.2.1}{539, 428, 4265}

कुह॒ त्या कुह॒ नु श्रु॒ता दि॒वि दे॒वा नास॑त्या|{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

कस्मि॒न्ना य॑तथो॒ जने॒ को वां᳚ न॒दीनां॒ सचा᳚||{2/10}{4.4.13.2}{5.74.2}{5.6.2.2}{540, 428, 4266}

कं या᳚थः॒ कं ह॑ गच्छथः॒ कमच्छा᳚ युञ्जाथे॒ रथ᳚म्|{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

कस्य॒ ब्रह्मा᳚णि रण्यथो व॒यं वा᳚मुश्मसी॒ष्टये᳚||{3/10}{4.4.13.3}{5.74.3}{5.6.2.3}{541, 428, 4267}

पौ॒रं चि॒द्ध्यु॑द॒प्रुतं॒ पौर॑ पौ॒राय॒ जिन्व॑थः|{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

यदीं᳚ गृभी॒तता᳚तये सिं॒हमि॑व द्रु॒हस्प॒दे||{4/10}{4.4.13.4}{5.74.4}{5.6.2.4}{542, 428, 4268}

प्र च्यवा᳚नाज्जुजु॒रुषो᳚ व॒व्रिमत्कं॒ न मु᳚ञ्चथः|{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

युवा॒ यदी᳚ कृ॒थः पुन॒रा काम॑मृण्वे व॒ध्वः॑||{5/10}{4.4.13.5}{5.74.5}{5.6.2.5}{543, 428, 4269}

अस्ति॒ हि वा᳚मि॒ह स्तो॒ता स्मसि॑ वां सं॒दृशि॑ श्रि॒ये|{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

नू श्रु॒तं म॒ आ ग॑त॒मवो᳚भिर्वाजिनीवसू||{6/10}{4.4.14.1}{5.74.6}{5.6.2.6}{544, 428, 4270}

को वा᳚म॒द्य पु॑रू॒णामा व᳚व्ने॒ मर्त्या᳚नाम्|{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

को विप्रो᳚ विप्रवाहसा॒ को य॒ज्ञैर्वा᳚जिनीवसू||{7/10}{4.4.14.2}{5.74.7}{5.6.2.7}{545, 428, 4271}

आ वां॒ रथो॒ रथा᳚नां॒ येष्ठो᳚ यात्वश्विना|{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

पु॒रू चि॑दस्म॒युस्ति॒र आ᳚ङ्गू॒षो मर्त्ये॒ष्वा||{8/10}{4.4.14.3}{5.74.8}{5.6.2.8}{546, 428, 4272}

शमू॒ षु वां᳚ मधूयुवा॒ ऽस्माक॑मस्तु चर्कृ॒तिः|{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

अ॒र्वा॒ची॒ना वि॑चेतसा॒ विभिः॑ श्ये॒नेव॑ दीयतम्||{9/10}{4.4.14.4}{5.74.9}{5.6.2.9}{547, 428, 4273}

अश्वि॑ना॒ यद्ध॒ कर्हि॑ चिच्छुश्रू॒यात॑मि॒मं हव᳚म्|{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

वस्वी᳚रू॒ षु वां॒ भुजः॑ पृ॒ञ्चन्ति॒ सु वां॒ पृचः॑||{10/10}{4.4.14.5}{5.74.10}{5.6.2.10}{548, 428, 4274}

[67] प्रतिप्रियतममिति नवर्चस्य सूक्तस्यात्रेयोवस्युरश्विनौपङ्क्तिः |
प्रति॑ प्रि॒यत॑मं॒ रथं॒ वृष॑णं वसु॒वाह॑नम्|{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

स्तो॒ता वा᳚मश्विना॒वृषिः॒ स्तोमे᳚न॒ प्रति॑ भूषति॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म्||{1/9}{4.4.15.1}{5.75.1}{5.6.3.1}{549, 429, 4275}

अ॒त्याया᳚तमश्विना ति॒रो विश्वा᳚ अ॒हं सना᳚|{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

दस्रा॒ हिर᳚ण्यवर्तनी॒ सुषु᳚म्ना॒ सिन्धु॑वाहसा॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म्||{2/9}{4.4.15.2}{5.75.2}{5.6.3.2}{550, 429, 4276}

आ नो॒ रत्ना᳚नि॒ बिभ्र॑ता॒वश्वि॑ना॒ गच्छ॑तं यु॒वम्|{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

रुद्रा॒ हिर᳚ण्यवर्तनी जुषा॒णा वा᳚जिनीवसू॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म्||{3/9}{4.4.15.3}{5.75.3}{5.6.3.3}{551, 429, 4277}

सु॒ष्टुभो᳚ वां वृषण्वसू॒ रथे॒ वाणी॒च्याहि॑ता|{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

उ॒त वां᳚ ककु॒हो मृ॒गः पृक्षः॑ कृणोति वापु॒षो माध्वी॒ मम॑ श्रुतं॒ हव᳚म्||{4/9}{4.4.15.4}{5.75.4}{5.6.3.4}{552, 429, 4278}

बो॒धिन्म॑नसा र॒थ्ये᳚षि॒रा ह॑वन॒श्रुता᳚|{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

विभि॒श्च्यवा᳚नमश्विना॒ नि या᳚थो॒, अद्व॑याविनं॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म्||{5/9}{4.4.15.5}{5.75.5}{5.6.3.5}{553, 429, 4279}

आ वां᳚ नरा मनो॒युजो ऽश्वा᳚सः प्रुषि॒तप्स॑वः|{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

वयो᳚ वहन्तु पी॒तये᳚ स॒ह सु॒म्नेभि॑रश्विना॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म्||{6/9}{4.4.16.1}{5.75.6}{5.6.3.6}{554, 429, 4280}

अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे᳚नतम्|{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

ति॒रश्चि॑दर्य॒या परि॑ व॒र्तिर्या᳚तमदाभ्या॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म्||{7/9}{4.4.16.2}{5.75.7}{5.6.3.7}{555, 429, 4281}

अ॒स्मिन्‌ य॒ज्ञे, अ॑दाभ्या जरि॒तारं᳚ शुभस्पती|{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

अ॒व॒स्युम॑श्विना यु॒वं गृ॒णन्त॒मुप॑ भूषथो॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म्||{8/9}{4.4.16.3}{5.75.8}{5.6.3.8}{556, 429, 4282}

अभू᳚दु॒षा रुश॑त्पशु॒राग्निर॑धाय्यृ॒त्वियः॑|{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

अयो᳚जि वां वृषण्वसू॒ रथो᳚ दस्रा॒वम॑र्त्यो॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म्||{9/9}{4.4.16.4}{5.75.9}{5.6.3.9}{557, 429, 4283}

[68] आभात्यग्निरिति पंचर्चस्य सूक्तस्य भौमोत्रिरश्विनौत्रिष्टुप् |
आ भा᳚त्य॒ग्निरु॒षसा॒मनी᳚क॒मुद्‌ विप्रा᳚णां देव॒या वाचो᳚ अस्थुः|{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

अ॒र्वाञ्चा᳚ नू॒नं र॑थ्ये॒ह या᳚तं पीपि॒वांस॑मश्विना घ॒र्ममच्छ॑||{1/5}{4.4.17.1}{5.76.1}{5.6.4.1}{558, 430, 4284}

न सं᳚स्कृ॒तं प्र मि॑मीतो॒ गमि॒ष्ठा ऽन्ति॑ नू॒नम॒श्विनोप॑स्तुते॒ह|{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

दिवा᳚भिपि॒त्वेऽव॒साग॑मिष्ठा॒ प्रत्यव॑र्तिं दा॒शुषे॒ शम्भ॑विष्ठा||{2/5}{4.4.17.2}{5.76.2}{5.6.4.2}{559, 430, 4285}

उ॒ता या᳚तं संग॒वे प्रा॒तरह्नो᳚ म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य|{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

दिवा॒ नक्त॒मव॑सा॒ शंत॑मेन॒ नेदानीं᳚ पी॒तिर॒श्विना त॑तान||{3/5}{4.4.17.3}{5.76.3}{5.6.4.3}{560, 430, 4286}

इ॒दं हि वां᳚ प्र॒दिवि॒ स्थान॒मोक॑ इ॒मे गृ॒हा, अ॑श्विने॒दं दु॑रो॒णम्|{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

आ नो᳚ दि॒वो बृ॑ह॒तः पर्व॑ता॒दा ऽद्भ्यो या᳚त॒मिष॒मूर्जं॒ वह᳚न्ता||{4/5}{4.4.17.4}{5.76.4}{5.6.4.4}{561, 430, 4287}

सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा᳚ सु॒प्रणी᳚ती गमेम|{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

आ नो᳚ र॒यिं व॑हत॒मोत वी॒राना विश्वा᳚न्यमृता॒ सौभ॑गानि||{5/5}{4.4.17.5}{5.76.5}{5.6.4.5}{562, 430, 4288}

[69] प्रातर्यावाणेति पंचर्चस्य सूक्तस्य भौमोत्रिरश्विनौत्रिष्टुप् |
प्रा॒त॒र्यावा᳚णा प्रथ॒मा य॑जध्वं पु॒रा गृध्रा॒दर॑रुषः पिबातः|{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

प्रा॒तर्हि य॒ज्ञम॒श्विना᳚ द॒धाते॒ प्र शं᳚सन्ति क॒वयः॑ पूर्व॒भाजः॑||{1/5}{4.4.18.1}{5.77.1}{5.6.5.1}{563, 431, 4289}

प्रा॒तर्य॑जध्वम॒श्विना᳚ हिनोत॒ न सा॒यम॑स्ति देव॒या, अजु॑ष्टम्|{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

उ॒तान्यो, अ॒स्मद्‌ य॑जते॒ वि चावः॒ पूर्वः॑पूर्वो॒ यज॑मानो॒ वनी᳚यान्||{2/5}{4.4.18.2}{5.77.2}{5.6.5.2}{564, 431, 4290}

हिर᳚ण्यत्व॒ङ्मधु॑वर्णो घृ॒तस्नुः॒ पृक्षो॒ वह॒न्ना रथो᳚ वर्तते वाम्|{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

मनो᳚जवा, अश्विना॒ वात॑रंहा॒ येना᳚तिया॒थो दु॑रि॒तानि॒ विश्वा᳚||{3/5}{4.4.18.3}{5.77.3}{5.6.5.3}{565, 431, 4291}

यो भूयि॑ष्ठं॒ नास॑त्याभ्यां वि॒वेष॒ चनि॑ष्ठं पि॒त्वो रर॑ते विभा॒गे|{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

स तो॒कम॑स्य पीपर॒च्छमी᳚भि॒रनू᳚र्ध्वभासः॒ सद॒मित्‌ तु॑तुर्यात्||{4/5}{4.4.18.4}{5.77.4}{5.6.5.4}{566, 431, 4292}

सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा᳚ सु॒प्रणी᳚ती गमेम|{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

आ नो᳚ र॒यिं व॑हत॒मोत वी॒राना विश्वा᳚न्यमृता॒ सौभ॑गानि||{5/5}{4.4.18.5}{5.77.5}{5.6.5.5}{567, 431, 4293}

[70] अश्विनाविति नवर्चस्य सूक्तस्यात्रेयःसप्तवध्रिरश्विनावनुष्टुप् आद्यास्तिस्रउष्णिहश्चतुर्थीत्रिष्टुप् ( पंचम्यादिपंचगर्भस्राविण्यउपनिषदः ) |
अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे᳚नतम्|{आत्रेयः सप्तवध्रिः | अश्विनौ | उष्णिक्}

हं॒सावि॑व पतत॒मा सु॒ताँ, उप॑||{1/9}{4.4.19.1}{5.78.1}{5.6.6.1}{568, 432, 4294}

अश्वि॑ना हरि॒णावि॑व गौ॒रावि॒वानु॒ यव॑सम्|{आत्रेयः सप्तवध्रिः | अश्विनौ | उष्णिक्}

हं॒सावि॑व पतत॒मा सु॒ताँ, उप॑||{2/9}{4.4.19.2}{5.78.2}{5.6.6.2}{569, 432, 4295}

अश्वि॑ना वाजिनीवसू जु॒षेथां᳚ य॒ज्ञमि॒ष्टये᳚|{आत्रेयः सप्तवध्रिः | अश्विनौ | उष्णिक्}

हं॒सावि॑व पतत॒मा सु॒ताँ, उप॑||{3/9}{4.4.19.3}{5.78.3}{5.6.6.3}{570, 432, 4296}

अत्रि॒र्यद्‌ वा᳚मव॒रोह᳚न्नृ॒बीस॒मजो᳚हवी॒न्नाध॑मानेव॒ योषा᳚|{आत्रेयः सप्तवध्रिः | अश्विनौ | त्रिष्टुप्}

श्ये॒नस्य॑ चि॒ज्जव॑सा॒ नूत॑ने॒ना ऽऽग॑च्छतमश्विना॒ शंत॑मेन||{4/9}{4.4.19.4}{5.78.4}{5.6.6.4}{571, 432, 4297}

वि जि॑हीष्व वनस्पते॒ योनिः॒ सूष्य᳚न्त्या, इव|{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्}

श्रु॒तं मे᳚ अश्विना॒ हवं᳚ स॒प्तव॑ध्रिं च मुञ्चतम्||{5/9}{4.4.20.1}{5.78.5}{5.6.6.5}{572, 432, 4298}

भी॒ताय॒ नाध॑मानाय॒ ऋष॑ये स॒प्तव॑ध्रये|{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्}

मा॒याभि॑रश्विना यु॒वं वृ॒क्षं सं च॒ वि चा᳚चथः||{6/9}{4.4.20.2}{5.78.6}{5.6.6.6}{573, 432, 4299}

यथा॒ वातः॑ पुष्क॒रिणीं᳚ समि॒ङ्गय॑ति स॒र्वतः॑|{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्}

ए॒वा ते॒ गर्भ॑ एजतु नि॒रैतु॒ दश॑मास्यः||{7/9}{4.4.20.3}{5.78.7}{5.6.6.7}{574, 432, 4300}

यथा॒ वातो॒ यथा॒ वनं॒ यथा᳚ समु॒द्र एज॑ति|{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्}

ए॒वा त्वं द॑शमास्य स॒हावे᳚हि ज॒रायु॑णा||{8/9}{4.4.20.4}{5.78.8}{5.6.6.8}{575, 432, 4301}

दश॒ मासा᳚ञ्छशया॒नः कु॑मा॒रो, अधि॑ मा॒तरि॑|{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्}

नि॒रैतु॑ जी॒वो, अक्ष॑तो जी॒वो जीव᳚न्त्या॒, अधि॑||{9/9}{4.4.20.5}{5.78.9}{5.6.6.9}{576, 432, 4302}

[71] महेनइति दशर्चस्य सूक्तस्यात्रेयःसत्यश्रवाउषाःपंक्तिः |
म॒हे नो᳚ अ॒द्य बो᳚ध॒योषो᳚ रा॒ये दि॒वित्म॑ती|{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

यथा᳚ चिन्नो॒, अबो᳚धयः स॒त्यश्र॑वसि वा॒य्ये सुजा᳚ते॒, अश्व॑सूनृते||{1/10}{4.4.21.1}{5.79.1}{5.6.7.1}{577, 433, 4303}

या सु॑नी॒थे शौ᳚चद्र॒थे व्यौच्छो᳚ दुहितर्दिवः|{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

सा व्यु॑च्छ॒ सही᳚यसि स॒त्यश्र॑वसि वा॒य्ये सुजा᳚ते॒, अश्व॑सूनृते||{2/10}{4.4.21.2}{5.79.2}{5.6.7.2}{578, 433, 4304}

सा नो᳚ अ॒द्याभ॒रद्व॑सु॒र्व्यु॑च्छा दुहितर्दिवः|{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

यो व्यौच्छः॒ सही᳚यसि स॒त्यश्र॑वसि वा॒य्ये सुजा᳚ते॒, अश्व॑सूनृते||{3/10}{4.4.21.3}{5.79.3}{5.6.7.3}{579, 433, 4305}

अ॒भि ये त्वा᳚ विभावरि॒ स्तोमै᳚र्गृ॒णन्ति॒ वह्न॑यः|{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

म॒घैर्म॑घोनि सु॒श्रियो॒ दाम᳚न्वन्तः सुरा॒तयः॒ सुजा᳚ते॒, अश्व॑सूनृते||{4/10}{4.4.21.4}{5.79.4}{5.6.7.4}{580, 433, 4306}

यच्चि॒द्धि ते᳚ ग॒णा, इ॒मे छ॒दय᳚न्ति म॒घत्त॑ये|{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

परि॑ चि॒द्‌ वष्ट॑यो दधु॒र्दद॑तो॒ राधो॒, अह्र॑यं॒ सुजा᳚ते॒, अश्व॑सूनृते||{5/10}{4.4.21.5}{5.79.5}{5.6.7.5}{581, 433, 4307}

ऐषु॑ धा वी॒रव॒द्‌ यश॒ उषो᳚ मघोनि सू॒रिषु॑|{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

ये नो॒ राधां॒स्यह्र॑या म॒घवा᳚नो॒, अरा᳚सत॒ सुजा᳚ते॒, अश्व॑सूनृते||{6/10}{4.4.22.1}{5.79.6}{5.6.7.6}{582, 433, 4308}

तेभ्यो᳚ द्यु॒म्नं बृ॒हद्‌ यश॒ उषो᳚ मघो॒न्या व॑ह|{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

ये नो॒ राधां॒स्यश्व्या᳚ ग॒व्या भज᳚न्त सू॒रयः॒ सुजा᳚ते॒, अश्व॑सूनृते||{7/10}{4.4.22.2}{5.79.7}{5.6.7.7}{583, 433, 4309}

उ॒त नो॒ गोम॑ती॒रिष॒ आ व॑हा दुहितर्दिवः|{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

सा॒कं सूर्य॑स्य र॒श्मिभिः॑ शु॒क्रैः शोच॑द्भिर॒र्चिभिः॒ सुजा᳚ते॒, अश्व॑सूनृते||{8/10}{4.4.22.3}{5.79.8}{5.6.7.8}{584, 433, 4310}

व्यु॑च्छा दुहितर्दिवो॒ मा चि॒रं त॑नुथा॒, अपः॑|{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

नेत्त्वा᳚ स्ते॒नं यथा᳚ रि॒पुं तपा᳚ति॒ सूरो᳚ अ॒र्चिषा॒ सुजा᳚ते॒, अश्व॑सूनृते||{9/10}{4.4.22.4}{5.79.9}{5.6.7.9}{585, 433, 4311}

ए॒ताव॒द्‌ वेदु॑ष॒स्त्वं भूयो᳚ वा॒ दातु॑मर्हसि|{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

या स्तो॒तृभ्यो᳚ विभावर्यु॒च्छन्ती॒ न प्र॒मीय॑से॒ सुजा᳚ते॒, अश्व॑सूनृते||{10/10}{4.4.22.5}{5.79.10}{5.6.7.10}{586, 433, 4312}

[72] द्युतद्यामानमिति षडृचस्य सूक्तस्यात्रेयःसत्यश्रवाउषास्त्रिष्टुप् |
द्यु॒तद्या᳚मानं बृह॒तीमृ॒तेन॑ ऋ॒ताव॑रीमरु॒णप्सुं᳚ विभा॒तीम्|{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

दे॒वीमु॒षसं॒ स्व॑रा॒वह᳚न्तीं॒ प्रति॒ विप्रा᳚सो म॒तिभि॑र्जरन्ते||{1/6}{4.4.23.1}{5.80.1}{5.6.8.1}{587, 434, 4313}

ए॒षा जनं᳚ दर्श॒ता बो॒धय᳚न्ती सु॒गान्‌ प॒थः कृ᳚ण्व॒ती या॒त्यग्रे᳚|{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

बृ॒ह॒द्र॒था बृ॑ह॒ती वि॑श्वमि॒न्वोषा ज्योति᳚र्यच्छ॒त्यग्रे॒, अह्ना᳚म्||{2/6}{4.4.23.2}{5.80.2}{5.6.8.2}{588, 434, 4314}

ए॒षा गोभि॑ररु॒णेभि᳚र्युजा॒ना ऽस्रे᳚धन्ती र॒यिमप्रा᳚यु चक्रे|{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

प॒थो रद᳚न्ती सुवि॒ताय॑ दे॒वी पु॑रुष्टु॒ता वि॒श्ववा᳚रा॒ वि भा᳚ति||{3/6}{4.4.23.3}{5.80.3}{5.6.8.3}{589, 434, 4315}

ए॒षा व्ये᳚नी भवति द्वि॒बर्हा᳚ आविष्कृण्वा॒ना त॒न्वं᳚ पु॒रस्ता᳚त्|{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

ऋ॒तस्य॒ पन्था॒मन्वे᳚ति सा॒धु प्र॑जान॒तीव॒ न दिशो᳚ मिनाति||{4/6}{4.4.23.4}{5.80.4}{5.6.8.4}{590, 434, 4316}

ए॒षा शु॒भ्रा न त॒न्वो᳚ विदा॒नोर्ध्वेव॑ स्ना॒ती दृ॒शये᳚ नो, अस्थात्|{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

अप॒ द्वेषो॒ बाध॑माना॒ तमां᳚स्यु॒षा दि॒वो दु॑हि॒ता ज्योति॒षागा᳚त्||{5/6}{4.4.23.5}{5.80.5}{5.6.8.5}{591, 434, 4317}

ए॒षा प्र॑ती॒ची दु॑हि॒ता दि॒वो नॄन् योषे᳚व भ॒द्रा नि रि॑णीते॒, अप्सः॑|{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

व्यू॒र्ण्व॒ती दा॒शुषे॒ वार्या᳚णि॒ पुन॒र्ज्योति᳚र्युव॒तिः पू॒र्वथा᳚कः||{6/6}{4.4.23.6}{5.80.6}{5.6.8.6}{592, 434, 4318}

[73] युंजतेमनइति पंचर्चस्य सूक्तस्यात्रेयः श्यावाश्वः सविताजगती |
यु॒ञ्जते॒ मन॑ उ॒त यु᳚ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑|{आत्रेयः श्यावाश्वः | सविता | जगती}

वि होत्रा᳚ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः||{1/5}{4.4.24.1}{5.81.1}{5.6.9.1}{593, 435, 4319}

विश्वा᳚ रू॒पाणि॒ प्रति॑ मुञ्चते क॒विः प्रासा᳚वीद्‌ भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे|{आत्रेयः श्यावाश्वः | सविता | जगती}

वि नाक॑मख्यत्‌ सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ वि रा᳚जति||{2/5}{4.4.24.2}{5.81.2}{5.6.9.2}{594, 435, 4320}

यस्य॑ प्र॒याण॒मन्व॒न्य इद्‌ य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मोज॑सा|{आत्रेयः श्यावाश्वः | सविता | जगती}

यः पार्थि॑वानि विम॒मे स एत॑शो॒ रजां᳚सि दे॒वः स॑वि॒ता म॑हित्व॒ना||{3/5}{4.4.24.3}{5.81.3}{5.6.9.3}{595, 435, 4321}

उ॒त या᳚सि सवित॒स्त्रीणि॑ रोच॒नोत सूर्य॑स्य र॒श्मिभिः॒ समु॑च्यसि|{आत्रेयः श्यावाश्वः | सविता | जगती}

उ॒त रात्री᳚मुभ॒यतः॒ परी᳚यस उ॒त मि॒त्रो भ॑वसि देव॒ धर्म॑भिः||{4/5}{4.4.24.4}{5.81.4}{5.6.9.4}{596, 435, 4322}

उ॒तेशि॑षे प्रस॒वस्य॒ त्वमेक॒ इदु॒त पू॒षा भ॑वसि देव॒ याम॑भिः|{आत्रेयः श्यावाश्वः | सविता | जगती}

उ॒तेदं विश्वं॒ भुव॑नं॒ वि रा᳚जसि श्या॒वाश्व॑स्ते सवितः॒ स्तोम॑मानशे||{5/5}{4.4.24.5}{5.81.5}{5.6.9.5}{597, 435, 4323}

[74] तत्सवितुरिति नवर्चस्य सूक्तस्यात्रेयःश्यावाश्वः सवितागायत्री आद्यानुष्टुप् |
तत्‌ स॑वि॒तुर्वृ॑णीमहे व॒यं दे॒वस्य॒ भोज॑नम्|{आत्रेयः श्यावाश्वः | सविता | अनुष्टुप्}

श्रेष्ठं᳚ सर्व॒धात॑मं॒ तुरं॒ भग॑स्य धीमहि||{1/9}{4.4.25.1}{5.82.1}{5.6.10.1}{598, 436, 4324}

अस्य॒ हि स्वय॑शस्तरं सवि॒तुः कच्च॒न प्रि॒यम्|{आत्रेयः श्यावाश्वः | सविता | गायत्री}

न मि॒नन्ति॑ स्व॒राज्य᳚म्||{2/9}{4.4.25.2}{5.82.2}{5.6.10.2}{599, 436, 4325}

स हि रत्ना᳚नि दा॒शुषे᳚ सु॒वाति॑ सवि॒ता भगः॑|{आत्रेयः श्यावाश्वः | सविता | गायत्री}

तं भा॒गं चि॒त्रमी᳚महे||{3/9}{4.4.25.3}{5.82.3}{5.6.10.3}{600, 436, 4326}

अ॒द्या नो᳚ देव सवितः प्र॒जाव॑त्‌ सावीः॒ सौभ॑गम्|{आत्रेयः श्यावाश्वः | सविता | गायत्री}

परा᳚ दु॒ष्ष्वप्न्यं᳚ सुव||{4/9}{4.4.25.4}{5.82.4}{5.6.10.4}{601, 436, 4327}

विश्वा᳚नि देव सवितर्दुरि॒तानि॒ परा᳚ सुव|{आत्रेयः श्यावाश्वः | सविता | गायत्री}

यद्‌ भ॒द्रं तन्न॒ आ सु॑व||{5/9}{4.4.25.5}{5.82.5}{5.6.10.5}{602, 436, 4328}

अना᳚गसो॒, अदि॑तये दे॒वस्य॑ सवि॒तुः स॒वे|{आत्रेयः श्यावाश्वः | सविता | गायत्री}

विश्वा᳚ वा॒मानि॑ धीमहि||{6/9}{4.4.26.1}{5.82.6}{5.6.10.6}{603, 436, 4329}

आ वि॒श्वदे᳚वं॒ सत्प॑तिं सू॒क्तैर॒द्या वृ॑णीमहे|{आत्रेयः श्यावाश्वः | सविता | गायत्री}

स॒त्यस॑वं सवि॒तार᳚म्||{7/9}{4.4.26.2}{5.82.7}{5.6.10.7}{604, 436, 4330}

य इ॒मे, उ॒भे, अह॑नी पु॒र एत्यप्र॑युच्छन्|{आत्रेयः श्यावाश्वः | सविता | गायत्री}

स्वा॒धीर्दे॒वः स॑वि॒ता||{8/9}{4.4.26.3}{5.82.8}{5.6.10.8}{605, 436, 4331}

य इ॒मा विश्वा᳚ जा॒तान्या᳚श्रा॒वय॑ति॒ श्लोके᳚न|{आत्रेयः श्यावाश्वः | सविता | गायत्री}

प्र च॑ सु॒वाति॑ सवि॒ता||{9/9}{4.4.26.4}{5.82.9}{5.6.10.9}{606, 436, 4332}

[75] अच्छावदेति दशर्चस्य सूक्तस्य भौमोत्रिः पर्जन्यस्त्रिष्टुप्‌ द्वितीयादितिस्रोजगत्यो नवम्यनुष्टुप् |
अच्छा᳚ वद त॒वसं᳚ गी॒र्भिरा॒भिः स्तु॒हि प॒र्जन्यं॒ नम॒सा वि॑वास|{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्}

कनि॑क्रदद्‌ वृष॒भो जी॒रदा᳚नू॒ रेतो᳚ दधा॒त्योष॑धीषु॒ गर्भ᳚म्||{1/10}{4.4.27.1}{5.83.1}{5.6.11.1}{607, 437, 4333}

वि वृ॒क्षान्‌ ह᳚न्त्यु॒त ह᳚न्ति र॒क्षसो॒ विश्वं᳚ बिभाय॒ भुव॑नं म॒हाव॑धात्|{भौमोत्रिः | पर्जन्यः | जगती}

उ॒ताना᳚गा, ईषते॒ वृष्ण्या᳚वतो॒ यत्‌ प॒र्जन्यः॑ स्त॒नय॒न्‌ हन्ति॑ दु॒ष्कृतः॑||{2/10}{4.4.27.2}{5.83.2}{5.6.11.2}{608, 437, 4334}

र॒थीव॒ कश॒याश्वाँ᳚, अभिक्षि॒पन्ना॒विर्दू॒तान्‌ कृ॑णुते व॒र्ष्या॒३॑(आँ॒) अह॑|{भौमोत्रिः | पर्जन्यः | जगती}

दू॒रात्‌ सिं॒हस्य॑ स्त॒नथा॒, उदी᳚रते॒ यत्‌ प॒र्जन्यः॑ कृणु॒ते व॒र्ष्य१॑(अं॒) नभः॑||{3/10}{4.4.27.3}{5.83.3}{5.6.11.3}{609, 437, 4335}

प्र वाता॒ वान्ति॑ प॒तय᳚न्ति वि॒द्युत॒ उदोष॑धी॒र्जिह॑ते॒ पिन्व॑ते॒ स्वः॑|{भौमोत्रिः | पर्जन्यः | जगती}

इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते॒ यत्‌ प॒र्जन्यः॑ पृथि॒वीं रेत॒साव॑ति||{4/10}{4.4.27.4}{5.83.4}{5.6.11.4}{610, 437, 4336}

यस्य᳚ व्र॒ते पृ॑थि॒वी नन्न॑मीति॒ यस्य᳚ व्र॒ते श॒फव॒ज्जर्भु॑रीति|{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्}

यस्य᳚ व्र॒त ओष॑धीर्वि॒श्वरू᳚पाः॒ स नः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ||{5/10}{4.4.27.5}{5.83.5}{5.6.11.5}{611, 437, 4337}

दि॒वो नो᳚ वृ॒ष्टिं म॑रुतो ररीध्वं॒ प्र पि᳚न्वत॒ वृष्णो॒, अश्व॑स्य॒ धाराः᳚|{भौमोत्रिः | पर्जन्यः | जगती}

अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुनेह्य॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॑||{6/10}{4.4.28.1}{5.83.6}{5.6.11.6}{612, 437, 4338}

अ॒भि क्र᳚न्द स्त॒नय॒ गर्भ॒मा धा᳚ उद॒न्वता॒ परि॑ दीया॒ रथे᳚न|{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्}

दृतिं॒ सु क॑र्ष॒ विषि॑तं॒ न्य᳚ञ्चं स॒मा भ॑वन्तू॒द्वतो᳚ निपा॒दाः||{7/10}{4.4.28.2}{5.83.7}{5.6.11.7}{613, 437, 4339}

म॒हान्तं॒ कोश॒मुद॑चा॒ नि षि᳚ञ्च॒ स्यन्द᳚न्तां कु॒ल्या विषि॑ताः पु॒रस्ता᳚त्|{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्}

घृ॒तेन॒ द्यावा᳚पृथि॒वी व्यु᳚न्धि सुप्रपा॒णं भ॑वत्व॒घ्न्याभ्यः॑||{8/10}{4.4.28.3}{5.83.8}{5.6.11.8}{614, 437, 4340}

यत्‌ प॑र्जन्य॒ कनि॑क्रदत् स्त॒नय॒न्‌ हंसि॑ दु॒ष्कृतः॑|{भौमोत्रिः | पर्जन्यः | अनुष्टुप्}

प्रती॒दं विश्वं᳚ मोदते॒ यत्‌ किं च॑ पृथि॒व्यामधि॑||{9/10}{4.4.28.4}{5.83.9}{5.6.11.9}{615, 437, 4341}

अव॑र्षीर्व॒र्षमुदु॒ षू गृ॑भा॒याऽक॒र्धन्वा॒न्यत्ये᳚त॒वा, उ॑|{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्}

अजी᳚जन॒ ओष॑धी॒र्भोज॑नाय॒ कमु॒त प्र॒जाभ्यो᳚ऽविदो मनी॒षाम्||{10/10}{4.4.28.5}{5.83.10}{5.6.11.10}{616, 437, 4342}

[76] बळित्थेति तृचस्य सूक्तस्य भौमोत्रिःपृथिव्यनुष्टुप् |
बळि॒त्था पर्व॑तानां खि॒द्रं बि॑भर्षि पृथिवि|{भौमोत्रिः | पृथिवी | अनुष्टुप्}

प्र या भूमिं᳚ प्रवत्वति म॒ह्ना जि॒नोषि॑ महिनि||{1/3}{4.4.29.1}{5.84.1}{5.6.12.1}{617, 438, 4343}

स्तोमा᳚सस्त्वा विचारिणि॒ प्रति॑ ष्टोभन्त्य॒क्तुभिः॑|{भौमोत्रिः | पृथिवी | अनुष्टुप्}

प्र या वाजं॒ न हेष᳚न्तं पे॒रुमस्य॑स्यर्जुनि||{2/3}{4.4.29.2}{5.84.2}{5.6.12.2}{618, 438, 4344}

दृ॒ळ्हा चि॒द्‌ या वन॒स्पती᳚न् क्ष्म॒या दर्ध॒र्ष्योज॑सा|{भौमोत्रिः | पृथिवी | अनुष्टुप्}

यत्ते᳚ अ॒भ्रस्य॑ वि॒द्युतो᳚ दि॒वो वर्ष᳚न्ति वृ॒ष्टयः॑||{3/3}{4.4.29.3}{5.84.3}{5.6.12.3}{619, 438, 4345}

[77] प्रसम्राजइत्यष्टर्चस्य सूक्तस्य भौमोत्रिर्वरुणत्रिष्टुप् |
प्र स॒म्राजे᳚ बृ॒हद॑र्चा गभी॒रं ब्रह्म॑ प्रि॒यं वरु॑णाय श्रु॒ताय॑|{भौमोत्रिः | वरुणः | त्रिष्टुप्}

वि यो ज॒घान॑ शमि॒तेव॒ चर्मो᳚प॒स्तिरे᳚ पृथि॒वीं सूर्या᳚य||{1/8}{4.4.30.1}{5.85.1}{5.6.13.1}{620, 439, 4346}

वने᳚षु॒ व्य१॑(अ॒)न्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया᳚सु|{भौमोत्रिः | वरुणः | त्रिष्टुप्}

हृ॒त्सु क्रतुं॒ वरु॑णो, अ॒प्स्व१॑(अ॒)ग्निं दि॒वि सूर्य॑मदधा॒त्‌ सोम॒मद्रौ᳚||{2/8}{4.4.30.2}{5.85.2}{5.6.13.2}{621, 439, 4347}

नी॒चीन॑बारं॒ वरु॑णः॒ कव᳚न्धं॒ प्र स॑सर्ज॒ रोद॑सी, अ॒न्तरि॑क्षम्|{भौमोत्रिः | वरुणः | त्रिष्टुप्}

तेन॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ यवं॒ न वृ॒ष्टिर्व्यु॑नत्ति॒ भूम॑||{3/8}{4.4.30.3}{5.85.3}{5.6.13.3}{622, 439, 4348}

उ॒नत्ति॒ भूमिं᳚ पृथि॒वीमु॒त द्यां य॒दा दु॒ग्धं वरु॑णो॒ वष्ट्यादित्|{भौमोत्रिः | वरुणः | त्रिष्टुप्}

सम॒भ्रेण॑ वसत॒ पर्व॑तासस्तविषी॒यन्तः॑ श्रथयन्त वी॒राः||{4/8}{4.4.30.4}{5.85.4}{5.6.13.4}{623, 439, 4349}

इ॒मामू॒ ष्वा᳚सु॒रस्य॑ श्रु॒तस्य॑ म॒हीं मा॒यां वरु॑णस्य॒ प्र वो᳚चम्|{भौमोत्रिः | वरुणः | त्रिष्टुप्}

माने᳚नेव तस्थि॒वाँ, अ॒न्तरि॑क्षे॒ वि यो म॒मे पृ॑थि॒वीं सूर्ये᳚ण||{5/8}{4.4.30.5}{5.85.5}{5.6.13.5}{624, 439, 4350}

इ॒मामू॒ नु क॒वित॑मस्य मा॒यां म॒हीं दे॒वस्य॒ नकि॒रा द॑धर्ष|{भौमोत्रिः | वरुणः | त्रिष्टुप्}

एकं॒ यदु॒द्ना न पृ॒णन्त्येनी᳚रासि॒ञ्चन्ती᳚र॒वन॑यः समु॒द्रम्||{6/8}{4.4.31.1}{5.85.6}{5.6.13.6}{625, 439, 4351}

अ॒र्य॒म्यं᳚ वरुण मि॒त्र्यं᳚ वा॒ सखा᳚यं वा॒ सद॒मिद्‌ भ्रात॑रं वा|{भौमोत्रिः | वरुणः | त्रिष्टुप्}

वे॒शं वा॒ नित्यं᳚ वरु॒णार॑णं वा॒ यत्‌ सी॒माग॑श्चकृ॒मा शि॒श्रथ॒स्तत्||{7/8}{4.4.31.2}{5.85.7}{5.6.13.7}{626, 439, 4352}

कि॒त॒वासो॒ यद्‌ रि॑रि॒पुर्न दी॒वि यद्‌ वा᳚ घा स॒त्यमु॒त यन्न वि॒द्म|{भौमोत्रिः | वरुणः | त्रिष्टुप्}

सर्वा॒ ता वि ष्य॑ शिथि॒रेव॑ दे॒वाऽधा᳚ ते स्याम वरुण प्रि॒यासः॑||{8/8}{4.4.31.3}{5.85.8}{5.6.13.8}{627, 439, 4353}

[78] इंद्राग्नीयमिति षडृचस्य सूक्तस्य भौमोत्रिरिंद्राग्न्यनुष्टुप् अंत्याविराट्‌पूर्वापंक्त्युत्तरावा |
इन्द्रा᳚ग्नी॒ यमव॑थ उ॒भा वाजे᳚षु॒ मर्त्य᳚म्|{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्}

दृ॒ळ्हा चि॒त्‌ स प्र भे᳚दति द्यु॒म्ना वाणी᳚रिव त्रि॒तः||{1/6}{4.4.32.1}{5.86.1}{5.6.14.1}{628, 440, 4354}

या पृत॑नासु दु॒ष्टरा॒ या वाजे᳚षु श्र॒वाय्या᳚|{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्}

या पञ्च॑ चर्ष॒णीर॒भी᳚न्द्रा॒ग्नी ता ह॑वामहे||{2/6}{4.4.32.2}{5.86.2}{5.6.14.2}{629, 440, 4355}

तयो॒रिदम॑व॒च्छव॑स्ति॒ग्मा दि॒द्युन्म॒घोनोः᳚|{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्}

प्रति॒ द्रुणा॒ गभ॑स्त्यो॒र्गवां᳚ वृत्र॒घ्न एष॑ते||{3/6}{4.4.32.3}{5.86.3}{5.6.14.3}{630, 440, 4356}

ता वा॒मेषे॒ रथा᳚नामिन्द्रा॒ग्नी ह॑वामहे|{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्}

पती᳚ तु॒रस्य॒ राध॑सो वि॒द्वांसा॒ गिर्व॑णस्तमा||{4/6}{4.4.32.4}{5.86.4}{5.6.14.4}{631, 440, 4357}

ता वृ॒धन्ता॒वनु॒ द्यून् मर्ता᳚य दे॒वाव॒दभा᳚|{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्}

अर्ह᳚न्ता चित्‌ पु॒रो द॒धेंऽशे᳚व दे॒वावर्व॑ते||{5/6}{4.4.32.5}{5.86.5}{5.6.14.5}{632, 440, 4358}

ए॒वेन्द्रा॒ग्निभ्या॒महा᳚वि ह॒व्यं शू॒ष्यं᳚ घृ॒तं न पू॒तमद्रि॑भिः|{भौमोत्रिः | इन्द्राग्नी | १/२:विराट् २/२:पङ्क्तिः}

ता सू॒रिषु॒ श्रवो᳚ बृ॒हद् र॒यिं गृ॒णत्सु॑ दिधृत॒मिषं᳚ गृ॒णत्सु॑ दिधृतम्||{6/6}{4.4.32.6}{5.86.6}{5.6.14.6}{633, 440, 4359}

[79] प्रवोमहइति नवर्चस्य सूक्तस्यात्रेय एवयामरुन्मरुतोतिजगती |
प्र वो᳚ म॒हे म॒तयो᳚ यन्तु॒ विष्ण॑वे म॒रुत्व॑ते गिरि॒जा, ए᳚व॒याम॑रुत्|{एवयामरुदात्रेयः | मरुतः | अतिजगती}

प्र शर्धा᳚य॒ प्रय॑ज्यवे सुखा॒दये᳚ त॒वसे᳚ भ॒न्ददि॑ष्टये॒ धुनि᳚व्रताय॒ शव॑से||{1/9}{4.4.33.1}{5.87.1}{5.6.15.1}{634, 441, 4360}

प्र ये जा॒ता म॑हि॒ना ये च॒ नु स्व॒यं प्र वि॒द्मना᳚ ब्रु॒वत॑ एव॒याम॑रुत्|{एवयामरुदात्रेयः | मरुतः | अतिजगती}

क्रत्वा॒ तद्‌ वो᳚ मरुतो॒ नाधृषे॒ शवो᳚ दा॒ना म॒ह्ना तदे᳚षा॒मधृ॑ष्टासो॒ नाद्र॑यः||{2/9}{4.4.33.2}{5.87.2}{5.6.15.2}{635, 441, 4361}

प्र ये दि॒वो बृ॑ह॒तः शृ᳚ण्वि॒रे गि॒रा सु॒शुक्वा᳚नः सु॒भ्व॑ एव॒याम॑रुत्|{एवयामरुदात्रेयः | मरुतः | अतिजगती}

न येषा॒मिरी᳚ स॒धस्थ॒ ईष्ट॒ आँ, अ॒ग्नयो॒ न स्ववि॑द्युतः॒ प्र स्प॒न्द्रासो॒ धुनी᳚नाम्||{3/9}{4.4.33.3}{5.87.3}{5.6.15.3}{636, 441, 4362}

स च॑क्रमे मह॒तो निरु॑रुक्र॒मः स॑मा॒नस्मा॒त्‌ सद॑स एव॒याम॑रुत्|{एवयामरुदात्रेयः | मरुतः | अतिजगती}

य॒दायु॑क्त॒ त्मना॒ स्वादधि॒ ष्णुभि॒र्विष्प॑र्धसो॒ विम॑हसो॒ जिगा᳚ति॒ शेवृ॑धो॒ नृभिः॑||{4/9}{4.4.33.4}{5.87.4}{5.6.15.4}{637, 441, 4363}

स्व॒नो न वोऽम॑वान्‌ रेजय॒द्‌ वृषा᳚ त्वे॒षो य॒यिस्त॑वि॒ष ए᳚व॒याम॑रुत्|{एवयामरुदात्रेयः | मरुतः | अतिजगती}

येना॒ सह᳚न्त ऋ॒ञ्जत॒ स्वरो᳚चिषः॒ स्थार॑श्मानो हिर॒ण्ययाः᳚ स्वायु॒धास॑ इ॒ष्मिणः॑||{5/9}{4.4.33.5}{5.87.5}{5.6.15.5}{638, 441, 4364}

अ॒पा॒रो वो᳚ महि॒मा वृ॑द्धशवसस्त्वे॒षं शवो᳚ऽवत्वेव॒याम॑रुत्|{एवयामरुदात्रेयः | मरुतः | अतिजगती}

स्थाता᳚रो॒ हि प्रसि॑तौ सं॒दृशि॒ स्थन॒ ते न॑ उरुष्यता नि॒दः शु॑शु॒क्वांसो॒ नाग्नयः॑||{6/9}{4.4.34.1}{5.87.6}{5.6.15.6}{639, 441, 4365}

ते रु॒द्रासः॒ सुम॑खा, अ॒ग्नयो᳚ यथा तुविद्यु॒म्ना, अ॑वन्त्वेव॒याम॑रुत्|{एवयामरुदात्रेयः | मरुतः | अतिजगती}

दी॒र्घं पृ॒थु प॑प्रथे॒ सद्म॒ पार्थि॑वं॒ येषा॒मज्मे॒ष्वा म॒हः शर्धां॒स्यद्भु॑तैनसाम्||{7/9}{4.4.34.2}{5.87.7}{5.6.15.7}{640, 441, 4366}

अ॒द्वे॒षो नो᳚ मरुतो गा॒तुमेत॑न॒ श्रोता॒ हवं᳚ जरि॒तुरे᳚व॒याम॑रुत्|{एवयामरुदात्रेयः | मरुतः | अतिजगती}

विष्णो᳚र्म॒हः स॑मन्यवो युयोतन॒ स्मद्‌ र॒थ्यो॒३॑(ओ॒) न दं॒सनाऽप॒ द्वेषां᳚सि सनु॒तः||{8/9}{4.4.34.3}{5.87.8}{5.6.15.8}{641, 441, 4367}

गन्ता᳚ नो य॒ज्ञं य॑ज्ञियाः सु॒शमि॒ श्रोता॒ हव॑मर॒क्ष ए᳚व॒याम॑रुत्|{एवयामरुदात्रेयः | मरुतः | अतिजगती}

ज्येष्ठा᳚सो॒ न पर्व॑तासो॒ व्यो᳚मनि यू॒यं तस्य॑ प्रचेतसः॒ स्यात॑ दु॒र्धर्त॑वो नि॒दः||{9/9}{4.4.34.4}{5.87.9}{5.6.15.9}{642, 441, 4368}

[80] त्वंह्यग्नइति त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |
त्वं ह्य॑ग्ने प्रथ॒मो म॒नोता॒ऽस्या धि॒यो, अभ॑वो दस्म॒ होता᳚|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

त्वं सीं᳚ वृषन्नकृणोर्दु॒ष्टरी᳚तु॒ सहो॒ विश्व॑स्मै॒ सह॑से॒ सह॑ध्यै||{1/13}{4.4.35.1}{6.1.1}{6.1.1.1}{643, 442, 4369}

अधा॒ होता॒ न्य॑सीदो॒ यजी᳚यानि॒ळस्प॒द इ॒षय॒न्नीड्यः॒ सन्|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

तं त्वा॒ नरः॑ प्रथ॒मं दे᳚व॒यन्तो᳚ म॒हो रा॒ये चि॒तय᳚न्तो॒, अनु॑ ग्मन्||{2/13}{4.4.35.2}{6.1.2}{6.1.1.2}{644, 442, 4370}

वृ॒तेव॒ यन्तं᳚ ब॒हुभि᳚र्वस॒व्यै॒३॑(ऐ॒)स्त्वे र॒यिं जा᳚गृ॒वांसो॒, अनु॑ ग्मन्|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

रुश᳚न्तम॒ग्निं द॑र्श॒तं बृ॒हन्तं᳚ व॒पाव᳚न्तं वि॒श्वहा᳚ दीदि॒वांस᳚म्||{3/13}{4.4.35.3}{6.1.3}{6.1.1.3}{645, 442, 4371}

प॒दं दे॒वस्य॒ नम॑सा॒ व्यन्तः॑ श्रव॒स्यवः॒ श्रव॑ आप॒न्नमृ॑क्तम्|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

नामा᳚नि चिद्‌ दधिरे य॒ज्ञिया᳚नि भ॒द्रायां᳚ ते रणयन्त॒ संदृ॑ष्टौ||{4/13}{4.4.35.4}{6.1.4}{6.1.1.4}{646, 442, 4372}

त्वां व॑र्धन्ति क्षि॒तयः॑ पृथि॒व्यां त्वां राय॑ उ॒भया᳚सो॒ जना᳚नाम्|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

त्वं त्रा॒ता त॑रणे॒ चेत्यो᳚ भूः पि॒ता मा॒ता सद॒मिन्मानु॑षाणाम्||{5/13}{4.4.35.5}{6.1.5}{6.1.1.5}{647, 442, 4373}

स॒प॒र्येण्यः॒ स प्रि॒यो वि॒क्ष्व१॑(अ॒)ग्निर्होता᳚ म॒न्द्रो नि ष॑सादा॒ यजी᳚यान्|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

तं त्वा᳚ व॒यं दम॒ आ दी᳚दि॒वांस॒मुप॑ ज्ञु॒बाधो॒ नम॑सा सदेम||{6/13}{4.4.36.1}{6.1.6}{6.1.1.6}{648, 442, 4374}

तं त्वा᳚ व॒यं सु॒ध्यो॒३॑(ओ॒) नव्य॑मग्ने सुम्ना॒यव॑ ईमहे देव॒यन्तः॑|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

त्वं विशो᳚ अनयो॒ दीद्या᳚नो दि॒वो, अ॑ग्ने बृह॒ता रो᳚च॒नेन॑||{7/13}{4.4.36.2}{6.1.7}{6.1.1.7}{649, 442, 4375}

वि॒शां क॒विं वि॒श्पतिं॒ शश्व॑तीनां नि॒तोश॑नं वृष॒भं च॑र्षणी॒नाम्|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

प्रेती᳚षणिमि॒षय᳚न्तं पाव॒कं राज᳚न्तम॒ग्निं य॑ज॒तं र॑यी॒णाम्||{8/13}{4.4.36.3}{6.1.8}{6.1.1.8}{650, 442, 4376}

सो, अ॑ग्न ईजे शश॒मे च॒ मर्तो॒ यस्त॒ आन॑ट्‌ स॒मिधा᳚ ह॒व्यदा᳚तिम्|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

य आहु॑तिं॒ परि॒ वेदा॒ नमो᳚भि॒र्विश्वेत्‌ स वा॒मा द॑धते॒ त्वोतः॑||{9/13}{4.4.36.4}{6.1.9}{6.1.1.9}{651, 442, 4377}

अ॒स्मा, उ॑ ते॒ महि॑ म॒हे वि॑धेम॒ नमो᳚भिरग्ने स॒मिधो॒त ह॒व्यैः|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

वेदी᳚ सूनो सहसो गी॒र्भिरु॒क्थैरा ते᳚ भ॒द्रायां᳚ सुम॒तौ य॑तेम||{10/13}{4.4.36.5}{6.1.10}{6.1.1.10}{652, 442, 4378}

आ यस्त॒तन्थ॒ रोद॑सी॒ वि भा॒सा श्रवो᳚भिश्च श्रव॒स्य१॑(अ॒)स्तरु॑त्रः|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

बृ॒हद्भि॒र्वाजैः॒ स्थवि॑रेभिर॒स्मे रे॒वद्भि॑रग्ने वित॒रं वि भा᳚हि||{11/13}{4.4.36.6}{6.1.11}{6.1.1.11}{653, 442, 4379}

नृ॒वद्‌ व॑सो॒ सद॒मिद्धे᳚ह्य॒स्मे भूरि॑ तो॒काय॒ तन॑याय प॒श्वः|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

पू॒र्वीरिषो᳚ बृह॒तीरा॒रे,अ॑घा, अ॒स्मे भ॒द्रा सौ᳚श्रव॒सानि॑ सन्तु||{12/13}{4.4.36.7}{6.1.12}{6.1.1.12}{654, 442, 4380}

पु॒रूण्य॑ग्ने पुरु॒धा त्वा॒या वसू᳚नि राजन्‌ व॒सुता᳚ ते, अश्याम्|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

पु॒रूणि॒ हि त्वे पु॑रुवार॒ सन्त्यग्ने॒ वसु॑ विध॒ते राज॑नि॒ त्वे||{13/13}{4.4.36.8}{6.1.13}{6.1.1.13}{655, 442, 4381}

[81] त्वंहिक्षैतवदित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निरनुष्टुबंत्याशक्वरी |
त्वं हि क्षैत॑व॒द्‌ यशो ऽग्ने᳚ मि॒त्रो न पत्य॑से|{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

त्वं वि॑चर्षणे॒ श्रवो॒ वसो᳚ पु॒ष्टिं न पु॑ष्यसि||{1/11}{4.5.1.1}{6.2.1}{6.1.2.1}{656, 443, 4382}

त्वां हि ष्मा᳚ चर्ष॒णयो᳚ य॒ज्ञेभि॑र्गी॒र्भिरीळ॑ते|{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

त्वां वा॒जी या᳚त्यवृ॒को र॑ज॒स्तूर्वि॒श्वच॑र्षणिः||{2/11}{4.5.1.2}{6.2.2}{6.1.2.2}{657, 443, 4383}

स॒जोष॑स्त्वा दि॒वो नरो᳚ य॒ज्ञस्य॑ के॒तुमि᳚न्धते|{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

यद्ध॒ स्य मानु॑षो॒ जनः॑ सुम्ना॒युर्जु॒ह्वे, अ॑ध्व॒रे||{3/11}{4.5.1.3}{6.2.3}{6.1.2.3}{658, 443, 4384}

ऋध॒द्‌ यस्ते᳚ सु॒दान॑वे धि॒या मर्तः॑ श॒शम॑ते|{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

ऊ॒ती ष बृ॑ह॒तो दि॒वो द्वि॒षो, अंहो॒ न त॑रति||{4/11}{4.5.1.4}{6.2.4}{6.1.2.4}{659, 443, 4385}

स॒मिधा॒ यस्त॒ आहु॑तिं॒ निशि॑तिं॒ मर्त्यो॒ नश॑त्|{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

व॒याव᳚न्तं॒ स पु॑ष्यति॒ क्षय॑मग्ने श॒तायु॑षम्||{5/11}{4.5.1.5}{6.2.5}{6.1.2.5}{660, 443, 4386}

त्वे॒षस्ते᳚ धू॒म ऋ᳚ण्वति दि॒वि षञ्छु॒क्र आत॑तः|{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

सूरो॒ न हि द्यु॒ता त्वं कृ॒पा पा᳚वक॒ रोच॑से||{6/11}{4.5.2.1}{6.2.6}{6.1.2.6}{661, 443, 4387}

अधा॒ हि वि॒क्ष्वीड्यो ऽसि॑ प्रि॒यो नो॒, अति॑थिः|{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

र॒ण्वः पु॒री᳚व॒ जूर्यः॑ सू॒नुर्न त्र॑य॒याय्यः॑||{7/11}{4.5.2.2}{6.2.7}{6.1.2.7}{662, 443, 4388}

क्रत्वा॒ हि द्रोणे᳚ अ॒ज्यसे ऽग्ने᳚ वा॒जी न कृत्व्यः॑|{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

परि॑ज्मेव स्व॒धा गयो ऽत्यो॒ न ह्वा॒र्यः शिशुः॑||{8/11}{4.5.2.3}{6.2.8}{6.1.2.8}{663, 443, 4389}

त्वं त्या चि॒दच्यु॒ता ऽग्ने᳚ प॒शुर्न यव॑से|{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

धामा᳚ ह॒ यत्‌ ते᳚ अजर॒ वना᳚ वृ॒श्चन्ति॒ शिक्व॑सः||{9/11}{4.5.2.4}{6.2.9}{6.1.2.9}{664, 443, 4390}

वेषि॒ ह्य॑ध्वरीय॒तामग्ने॒ होता॒ दमे᳚ वि॒शाम्|{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

स॒मृधो᳚ विश्पते कृणु जु॒षस्व॑ ह॒व्यम᳚ङ्गिरः||{10/11}{4.5.2.5}{6.2.10}{6.1.2.10}{665, 443, 4391}

अच्छा᳚ नो मित्रमहो देव दे॒वानग्ने॒ वोचः॑ सुम॒तिं रोद॑स्योः|{बार्हस्पत्यो भरद्वाजः | अग्निः | शक्वरी}

वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄन् द्वि॒षो, अंहां᳚सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम||{11/11}{4.5.2.6}{6.2.11}{6.1.2.11}{666, 443, 4392}

[82] अग्नेसक्षेषदित्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |
अग्ने॒ स क्षे᳚षदृत॒पा, ऋ॑ते॒जा, उ॒रु ज्योति᳚र्नशते देव॒युष्टे᳚|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

यं त्वं मि॒त्रेण॒ वरु॑णः स॒जोषा॒ देव॒ पासि॒ त्यज॑सा॒ मर्त॒मंहः॑||{1/8}{4.5.3.1}{6.3.1}{6.1.3.1}{667, 444, 4393}

ई॒जे य॒ज्ञेभिः॑ शश॒मे शमी᳚भिरृ॒धद्वा᳚राया॒ग्नये᳚ ददाश|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

ए॒वा च॒न तं य॒शसा॒मजु॑ष्टि॒र्नांहो॒ मर्तं᳚ नशते॒ न प्रदृ॑प्तिः||{2/8}{4.5.3.2}{6.3.2}{6.1.3.2}{668, 444, 4394}

सूरो॒ न यस्य॑ दृश॒तिर॑रे॒पा भी॒मा यदेति॑ शुच॒तस्त॒ आ धीः|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

हेष॑स्वतः शु॒रुधो॒ नायम॒क्तोः कुत्रा᳚ चिद्‌ र॒ण्वो व॑स॒तिर्व॑ने॒जाः||{3/8}{4.5.3.3}{6.3.3}{6.1.3.3}{669, 444, 4395}

ति॒ग्मं चि॒देम॒ महि॒ वर्पो᳚ अस्य॒ भस॒दश्वो॒ न य॑मसा॒न आ॒सा|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

वि॒जेह॑मानः पर॒शुर्न जि॒ह्वां द्र॒विर्न द्रा᳚वयति॒ दारु॒ धक्ष॑त्||{4/8}{4.5.3.4}{6.3.4}{6.1.3.4}{670, 444, 4396}

स इदस्ते᳚व॒ प्रति॑ धादसि॒ष्यञ्छिशी᳚त॒ तेजोऽय॑सो॒ न धारा᳚म्|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

चि॒त्रध्र॑जतिरर॒तिर्यो, अ॒क्तोर्वेर्न द्रु॒षद्वा᳚ रघु॒पत्म॑जंहाः||{5/8}{4.5.3.5}{6.3.5}{6.1.3.5}{671, 444, 4397}

स ईं᳚ रे॒भो न प्रति॑ वस्त उ॒स्राः शो॒चिषा᳚ रारपीति मि॒त्रम॑हाः|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

नक्तं॒ य ई᳚मरु॒षो यो दिवा॒ नॄनम॑र्त्यो, अरु॒षो यो दिवा॒ नॄन्||{6/8}{4.5.4.1}{6.3.6}{6.1.3.6}{672, 444, 4398}

दि॒वो न यस्य॑ विध॒तो नवी᳚नो॒द् वृषा᳚ रु॒क्ष ओष॑धीषु नूनोत्|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

घृणा॒ न यो ध्रज॑सा॒ पत्म॑ना॒ यन्ना रोद॑सी॒ वसु॑ना॒ दं सु॒पत्नी᳚||{7/8}{4.5.4.2}{6.3.7}{6.1.3.7}{673, 444, 4399}

धायो᳚भिर्वा॒ यो युज्ये᳚भिर॒र्कैर्वि॒द्युन्न द॑विद्यो॒त्‌ स्वेभिः॒ शुष्मैः᳚|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

शर्धो᳚ वा॒ यो म॒रुतां᳚ त॒तक्ष॑ ऋ॒भुर्न त्वे॒षो र॑भसा॒नो, अ॑द्यौत्||{8/8}{4.5.4.3}{6.3.8}{6.1.3.8}{674, 444, 4400}

[83] यथाहोतरित्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |
यथा᳚ होत॒र्मनु॑षो दे॒वता᳚ता य॒ज्ञेभिः॑ सूनो सहसो॒ यजा᳚सि|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

ए॒वा नो᳚ अ॒द्य स॑म॒ना स॑मा॒नानु॒शन्न॑ग्न उश॒तो य॑क्षि दे॒वान्||{1/8}{4.5.5.1}{6.4.1}{6.1.4.1}{675, 445, 4401}

स नो᳚ वि॒भावा᳚ च॒क्षणि॒र्न वस्तो᳚र॒ग्निर्व॒न्दारु॒ वेद्य॒श्चनो᳚ धात्|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

वि॒श्वायु॒र्यो, अ॒मृतो॒ मर्त्ये᳚षूष॒र्भुद्‌ भूदति॑थिर्जा॒तवे᳚दाः||{2/8}{4.5.5.2}{6.4.2}{6.1.4.2}{676, 445, 4402}

द्यावो॒ न यस्य॑ प॒नय॒न्त्यभ्वं॒ भासां᳚सि वस्ते॒ सूर्यो॒ न शु॒क्रः|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

वि य इ॒नोत्य॒जरः॑ पाव॒को ऽश्न॑स्य चिच्छिश्नथत्‌ पू॒र्व्याणि॑||{3/8}{4.5.5.3}{6.4.3}{6.1.4.3}{677, 445, 4403}

व॒द्मा हि सू᳚नो॒, अस्य॑द्म॒सद्वा᳚ च॒क्रे, अ॒ग्निर्ज॒नुषाज्मान्न᳚म्|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

स त्वं न॑ ऊर्जसन॒ ऊर्जं᳚ धा॒ राजे᳚व जेरवृ॒के क्षे᳚ष्य॒न्तः||{4/8}{4.5.5.4}{6.4.4}{6.1.4.4}{678, 445, 4404}

निति॑क्ति॒ यो वा᳚र॒णमन्न॒मत्ति॑ वा॒युर्न राष्ट्र्यत्ये᳚त्य॒क्तून्|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुपि}

तु॒र्याम॒ यस्त॑ आ॒दिशा॒मरा᳚ती॒रत्यो॒ न ह्रुतः॒ पत॑तः परि॒ह्रुत्||{5/8}{4.5.5.5}{6.4.5}{6.1.4.5}{679, 445, 4405}

आ सूर्यो॒ न भा᳚नु॒मद्भि॑र॒र्कैरग्ने᳚ त॒तन्थ॒ रोद॑सी॒ वि भा॒सा|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

चि॒त्रो न॑य॒त्‌ परि॒ तमां᳚स्य॒क्तः शो॒चिषा॒ पत्म᳚न्नौशि॒जो न दीय॑न्||{6/8}{4.5.6.1}{6.4.6}{6.1.4.6}{680, 445, 4406}

त्वां हि म॒न्द्रत॑ममर्कशो॒कैर्व॑वृ॒महे॒ महि॑ नः॒ श्रोष्य॑ग्ने|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

इन्द्रं॒ न त्वा॒ शव॑सा दे॒वता᳚ वा॒युं पृ॑णन्ति॒ राध॑सा॒ नृत॑माः||{7/8}{4.5.6.2}{6.4.7}{6.1.4.7}{681, 445, 4407}

नू नो᳚ अग्नेऽवृ॒केभिः॑ स्व॒स्ति वेषि॑ रा॒यः प॒थिभिः॒ पर्ष्यंहः॑|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

ता सू॒रिभ्यो᳚ गृण॒ते रा᳚सि सु॒म्नं मदे᳚म श॒तहि॑माः सु॒वीराः᳚||{8/8}{4.5.6.3}{6.4.8}{6.1.4.8}{682, 445, 4408}

[84] हुवेवइति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |
हु॒वे वः॑ सू॒नुं सह॑सो॒ युवा᳚न॒मद्रो᳚घवाचं म॒तिभि॒र्यवि॑ष्ठम्|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

य इन्व॑ति॒ द्रवि॑णानि॒ प्रचे᳚ता वि॒श्ववा᳚राणि पुरु॒वारो᳚ अ॒ध्रुक्||{1/7}{4.5.7.1}{6.5.1}{6.1.5.1}{683, 446, 4409}

त्वे वसू᳚नि पुर्वणीक होतर्दो॒षा वस्तो॒रेरि॑रे य॒ज्ञिया᳚सः|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

क्षामे᳚व॒ विश्वा॒ भुव॑नानि॒ यस्मि॒न् त्सं सौभ॑गानि दधि॒रे पा᳚व॒के||{2/7}{4.5.7.2}{6.5.2}{6.1.5.2}{684, 446, 4410}

त्वं वि॒क्षु प्र॒दिवः॑ सीद आ॒सु क्रत्वा᳚ र॒थीर॑भवो॒ वार्या᳚णाम्|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अत॑ इनोषि विध॒ते चि॑कित्वो॒ व्या᳚नु॒षग्जा᳚तवेदो॒ वसू᳚नि||{3/7}{4.5.7.3}{6.5.3}{6.1.5.3}{685, 446, 4411}

यो नः॒ सनु॑त्यो, अभि॒दास॑दग्ने॒ यो, अन्त॑रो मित्रमहो वनु॒ष्यात्|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

तम॒जरे᳚भि॒र्वृष॑भि॒स्तव॒ स्वैस्तपा᳚ तपिष्ठ॒ तप॑सा॒ तप॑स्वान्||{4/7}{4.5.7.4}{6.5.4}{6.1.5.4}{686, 446, 4412}

यस्ते᳚ य॒ज्ञेन॑ स॒मिधा॒ य उ॒क्थैर॒र्केभिः॑ सूनो सहसो॒ ददा᳚शत्|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

स मर्त्ये᳚ष्वमृत॒ प्रचे᳚ता रा॒या द्यु॒म्नेन॒ श्रव॑सा॒ वि भा᳚ति||{5/7}{4.5.7.5}{6.5.5}{6.1.5.5}{687, 446, 4413}

स तत्‌ कृ॑धीषि॒तस्तूय॑मग्ने॒ स्पृधो᳚ बाधस्व॒ सह॑सा॒ सह॑स्वान्|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

यच्छ॒स्यसे॒ द्युभि॑र॒क्तो वचो᳚भि॒स्तज्जु॑षस्व जरि॒तुर्घोषि॒ मन्म॑||{6/7}{4.5.7.6}{6.5.6}{6.1.5.6}{688, 446, 4414}

अ॒श्याम॒ तं काम॑मग्ने॒ तवो॒ती, अ॒श्याम॑ र॒यिं र॑यिवः सु॒वीर᳚म्|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अ॒श्याम॒ वाज॑म॒भि वा॒जय᳚न्तो॒ऽश्याम॑ द्यु॒म्नम॑जरा॒जरं᳚ ते||{7/7}{4.5.7.7}{6.5.7}{6.1.5.7}{689, 446, 4415}

[85] प्रनव्यसेति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |
प्र नव्य॑सा॒ सह॑सः सू॒नुमच्छा᳚ य॒ज्ञेन॑ गा॒तुमव॑ इ॒च्छमा᳚नः|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

वृ॒श्चद्व॑नं कृ॒ष्णया᳚मं॒ रुश᳚न्तं वी॒ती होता᳚रं दि॒व्यं जि॑गाति||{1/7}{4.5.8.1}{6.6.1}{6.1.6.1}{690, 447, 4416}

स श्वि॑ता॒नस्त᳚न्य॒तू रो᳚चन॒स्था, अ॒जरे᳚भि॒र्नान॑दद्भि॒र्यवि॑ष्ठः|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

यः पा᳚व॒कः पु॑रु॒तमः॑ पु॒रूणि॑ पृ॒थून्य॒ग्निर॑नु॒याति॒ भर्व॑न्||{2/7}{4.5.8.2}{6.6.2}{6.1.6.2}{691, 447, 4417}

वि ते॒ विष्व॒ग्वात॑जूतासो, अग्ने॒ भामा᳚सः शुचे॒ शुच॑यश्चरन्ति|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

तु॒वि॒म्र॒क्षासो᳚ दि॒व्या नव॑ग्वा॒ वना᳚ वनन्ति धृष॒ता रु॒जन्तः॑||{3/7}{4.5.8.3}{6.6.3}{6.1.6.3}{692, 447, 4418}

ये ते᳚ शु॒क्रासः॒ शुच॑यः शुचिष्मः॒, क्षां वप᳚न्ति॒ विषि॑तासो॒, अश्वाः᳚|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अध॑ भ्र॒मस्त॑ उर्वि॒या वि भा᳚ति या॒तय॑मानो॒, अधि॒ सानु॒ पृश्नेः᳚||{4/7}{4.5.8.4}{6.6.4}{6.1.6.4}{693, 447, 4419}

अध॑ जि॒ह्वा पा᳚पतीति॒ प्र वृष्णो᳚ गोषु॒युधो॒ नाशनिः॑ सृजा॒ना|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

शूर॑स्येव॒ प्रसि॑तिः, क्षा॒तिर॒ग्नेर्दु॒र्वर्तु॑र्भी॒मो द॑यते॒ वना᳚नि||{5/7}{4.5.8.5}{6.6.5}{6.1.6.5}{694, 447, 4420}

आ भा॒नुना॒ पार्थि॑वानि॒ ज्रयां᳚सि म॒हस्तो॒दस्य॑ धृष॒ता त॑तन्थ|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

स बा᳚ध॒स्वाप॑ भ॒या सहो᳚भिः॒ स्पृधो᳚ वनु॒ष्यन्‌ व॒नुषो॒ नि जू᳚र्व||{6/7}{4.5.8.6}{6.6.6}{6.1.6.6}{695, 447, 4421}

स चि॑त्र चि॒त्रं चि॒तय᳚न्तम॒स्मे चित्र॑क्षत्र चि॒त्रत॑मं वयो॒धाम्|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

च॒न्द्रं र॒यिं पु॑रु॒वीरं᳚ बृ॒हन्तं॒ चन्द्र॑ च॒न्द्राभि॑र्गृण॒ते यु॑वस्व||{7/7}{4.5.8.7}{6.6.7}{6.1.6.7}{696, 447, 4422}

[86] मूर्धाननिति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोवैश्वानरस्त्रिष्टुबंत्येद्वेजगत्यौ |
मू॒र्धानं᳚ दि॒वो, अ॑र॒तिं पृ॑थि॒व्या वै᳚श्वान॒रमृ॒त आ जा॒तम॒ग्निम्|{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

क॒विं स॒म्राज॒मति॑थिं॒ जना᳚नामा॒सन्ना पात्रं᳚ जनयन्त दे॒वाः||{1/7}{4.5.9.1}{6.7.1}{6.1.7.1}{697, 448, 4423}

नाभिं᳚ य॒ज्ञानां॒ सद॑नं रयी॒णां म॒हामा᳚हा॒वम॒भि सं न॑वन्त|{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

वै॒श्वा॒न॒रं र॒थ्य॑मध्व॒राणां᳚ य॒ज्ञस्य॑ के॒तुं ज॑नयन्त दे॒वाः||{2/7}{4.5.9.2}{6.7.2}{6.1.7.2}{698, 448, 4424}

त्वद्‌ विप्रो᳚ जायते वा॒ज्य॑ग्ने॒ त्वद्‌ वी॒रासो᳚ अभिमाति॒षाहः॑|{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

वैश्वा᳚नर॒ त्वम॒स्मासु॑ धेहि॒ वसू᳚नि राजन्‌ त्स्पृह॒याय्या᳚णि||{3/7}{4.5.9.3}{6.7.3}{6.1.7.3}{699, 448, 4425}

त्वां विश्वे᳚ अमृत॒ जाय॑मानं॒ शिशुं॒ न दे॒वा, अ॒भि सं न॑वन्ते|{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

तव॒ क्रतु॑भिरमृत॒त्वमा᳚य॒न् वैश्वा᳚नर॒ यत्‌ पि॒त्रोरदी᳚देः||{4/7}{4.5.9.4}{6.7.4}{6.1.7.4}{700, 448, 4426}

वैश्वा᳚नर॒ तव॒ तानि᳚ व्र॒तानि॑ म॒हान्य॑ग्ने॒ नकि॒रा द॑धर्ष|{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

यज्जाय॑मानः पि॒त्रोरु॒पस्थे ऽवि᳚न्दः के॒तुं व॒युने॒ष्वह्ना᳚म्||{5/7}{4.5.9.5}{6.7.5}{6.1.7.5}{701, 448, 4427}

वै॒श्वा॒न॒रस्य॒ विमि॑तानि॒ चक्ष॑सा॒ सानू᳚नि दि॒वो, अ॒मृत॑स्य के॒तुना᳚|{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

तस्येदु॒ विश्वा॒ भुव॒नाधि॑ मू॒र्धनि॑ व॒या, इ॑व रुरुहुः स॒प्त वि॒स्रुहः॑||{6/7}{4.5.9.6}{6.7.6}{6.1.7.6}{702, 448, 4428}

वि यो रजां॒स्यमि॑मीत सु॒क्रतु᳚र्वैश्वान॒रो वि दि॒वो रो᳚च॒ना क॒विः|{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

परि॒ यो विश्वा॒ भुव॑नानि पप्र॒थे ऽद॑ब्धो गो॒पा, अ॒मृत॑स्य रक्षि॒ता||{7/7}{4.5.9.7}{6.7.7}{6.1.7.7}{703, 448, 4429}

[87] पृक्षस्येति सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजोवैश्वानरोग्निर्जगत्यंत्यात्रिष्टुप् |
पृ॒क्षस्य॒ वृष्णो᳚ अरु॒षस्य॒ नू सहः॒ प्र नु वो᳚चं वि॒दथा᳚ जा॒तवे᳚दसः|{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

वै॒श्वा॒न॒राय॑ म॒तिर्नव्य॑सी॒ शुचिः॒ सोम॑ इव पवते॒ चारु॑र॒ग्नये᳚||{1/7}{4.5.10.1}{6.8.1}{6.1.8.1}{704, 449, 4430}

स जाय॑मानः पर॒मे व्यो᳚मनि व्र॒तान्य॒ग्निर्व्र॑त॒पा, अ॑रक्षत|{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

व्य१॑(अ॒)न्तरि॑क्षममिमीत सु॒क्रतु᳚र्वैश्वान॒रो म॑हि॒ना नाक॑मस्पृशत्||{2/7}{4.5.10.2}{6.8.2}{6.1.8.2}{705, 449, 4431}

व्य॑स्तभ्ना॒द्‌ रोद॑सी मि॒त्रो, अद्भु॑तो ऽन्त॒र्वाव॑दकृणो॒ज्ज्योति॑षा॒ तमः॑|{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

वि चर्म॑णीव धि॒षणे᳚ अवर्तयद् वैश्वान॒रो विश्व॑मधत्त॒ वृष्ण्य᳚म्||{3/7}{4.5.10.3}{6.8.3}{6.1.8.3}{706, 449, 4432}

अ॒पामु॒पस्थे᳚ महि॒षा, अ॑गृभ्णत॒ विशो॒ राजा᳚न॒मुप॑ तस्थुरृ॒ग्मिय᳚म्|{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

आ दू॒तो, अ॒ग्निम॑भरद्‌ वि॒वस्व॑तो वैश्वान॒रं मा᳚त॒रिश्वा᳚ परा॒वतः॑||{4/7}{4.5.10.4}{6.8.4}{6.1.8.4}{707, 449, 4433}

यु॒गेयु॑गे विद॒थ्यं᳚ गृ॒णद्भ्यो ऽग्ने᳚ र॒यिं य॒शसं᳚ धेहि॒ नव्य॑सीम्|{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

प॒व्येव॑ राजन्न॒घशं᳚समजर नी॒चा नि वृ॑श्च व॒निनं॒ न तेज॑सा||{5/7}{4.5.10.5}{6.8.5}{6.1.8.5}{708, 449, 4434}

अ॒स्माक॑मग्ने म॒घव॑त्सु धार॒याऽना᳚मि क्ष॒त्रम॒जरं᳚ सु॒वीर्य᳚म्|{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

व॒यं ज॑येम श॒तिनं᳚ सह॒स्रिणं॒ वैश्वा᳚नर॒ वाज॑मग्ने॒ तवो॒तिभिः॑||{6/7}{4.5.10.6}{6.8.6}{6.1.8.6}{709, 449, 4435}

अद॑ब्धेभि॒स्तव॑ गो॒पाभि॑रिष्टे॒ ऽस्माकं᳚ पाहि त्रिषधस्थ सू॒रीन्|{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

रक्षा᳚ च नो द॒दुषां॒ शर्धो᳚ अग्ने॒ वैश्वा᳚नर॒ प्र च॑ तारीः॒ स्तवा᳚नः||{7/7}{4.5.10.7}{6.8.7}{6.1.8.7}{710, 449, 4436}

[88] अहश्चकृष्णमिति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोवैश्वानरोग्निस्त्रिष्टुप् |
अह॑श्च कृ॒ष्णमह॒रर्जु॑नं च॒ वि व॑र्तेते॒ रज॑सी वे॒द्याभिः॑|{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

वै॒श्वा॒न॒रो जाय॑मानो॒ न राजा ऽवा᳚तिर॒ज्ज्योति॑षा॒ग्निस्तमां᳚सि||{1/7}{4.5.11.1}{6.9.1}{6.1.9.1}{711, 450, 4437}

नाहं तन्तुं॒ न वि जा᳚ना॒म्योतुं॒ न यं वय᳚न्ति सम॒रेऽत॑मानाः|{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

कस्य॑ स्वित्‌ पु॒त्र इ॒ह वक्त्वा᳚नि प॒रो व॑दा॒त्यव॑रेण पि॒त्रा||{2/7}{4.5.11.2}{6.9.2}{6.1.9.2}{712, 450, 4438}

स इत्‌ तन्तुं॒ स वि जा᳚ना॒त्योतुं॒ स वक्त्वा᳚न्यृतु॒था व॑दाति|{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

य ईं॒ चिके᳚तद॒मृत॑स्य गो॒पा, अ॒वश्चर᳚न्‌ प॒रो, अ॒न्येन॒ पश्य॑न्||{3/7}{4.5.11.3}{6.9.3}{6.1.9.3}{713, 450, 4439}

अ॒यं होता᳚ प्रथ॒मः पश्य॑ते॒ममि॒दं ज्योति॑र॒मृतं॒ मर्त्ये᳚षु|{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

अ॒यं स ज॑ज्ञे ध्रु॒व आ निष॒त्तो ऽम॑र्त्यस्त॒न्वा॒३॑(आ॒) वर्ध॑मानः||{4/7}{4.5.11.4}{6.9.4}{6.1.9.4}{714, 450, 4440}

ध्रु॒वं ज्योति॒र्निहि॑तं दृ॒शये॒ कं मनो॒ जवि॑ष्ठं प॒तय॑त्स्व॒न्तः|{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

विश्वे᳚ दे॒वाः सम॑नसः॒ सके᳚ता॒, एकं॒ क्रतु॑म॒भि वि य᳚न्ति सा॒धु||{5/7}{4.5.11.5}{6.9.5}{6.1.9.5}{715, 450, 4441}

वि मे॒ कर्णा᳚ पतयतो॒ वि चक्षु॒र्वी॒३॑(ई॒)दं ज्योति॒र्हृद॑य॒ आहि॑तं॒ यत्|{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

वि मे॒ मन॑श्चरति दू॒रआ᳚धीः॒ किं स्वि॑द्‌ व॒क्ष्यामि॒ किमु॒ नू म॑निष्ये||{6/7}{4.5.11.6}{6.9.6}{6.1.9.6}{716, 450, 4442}

विश्वे᳚ दे॒वा, अ॑नमस्यन्‌ भिया॒नास्त्वाम॑ग्ने॒ तम॑सि तस्थि॒वांस᳚म्|{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

वै॒श्वा॒न॒रो᳚ऽवतू॒तये॒ नो ऽम॑र्त्योऽवतू॒तये᳚ नः||{7/7}{4.5.11.7}{6.9.7}{6.1.9.7}{717, 450, 4443}

[89] पुरोवइति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजग्निस्त्रिष्टुबंत्याद्विपदाविराट् |
पु॒रो वो᳚ म॒न्द्रं दि॒व्यं सु॑वृ॒क्तिं प्र॑य॒ति य॒ज्ञे, अ॒ग्निम॑ध्व॒रे द॑धिध्वम्|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

पु॒र उ॒क्थेभिः॒ स हि नो᳚ वि॒भावा᳚ स्वध्व॒रा क॑रति जा॒तवे᳚दाः||{1/7}{4.5.12.1}{6.10.1}{6.1.10.1}{718, 451, 4444}

तमु॑ द्युमः पुर्वणीक होत॒रग्ने᳚ अ॒ग्निभि॒र्मनु॑ष इधा॒नः|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

स्तोमं॒ यम॑स्मै म॒मते᳚व शू॒षं घृ॒तं न शुचि॑ म॒तयः॑ पवन्ते||{2/7}{4.5.12.2}{6.10.2}{6.1.10.2}{719, 451, 4445}

पी॒पाय॒ स श्रव॑सा॒ मर्त्ये᳚षु॒ यो, अ॒ग्नये᳚ द॒दाश॒ विप्र॑ उ॒क्थैः|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

चि॒त्राभि॒स्तमू॒तिभि॑श्चि॒त्रशो᳚चिर्व्र॒जस्य॑ सा॒ता गोम॑तो दधाति||{3/7}{4.5.12.3}{6.10.3}{6.1.10.3}{720, 451, 4446}

आ यः प॒प्रौ जाय॑मान उ॒र्वी दू᳚रे॒दृशा᳚ भा॒सा कृ॒ष्णाध्वा᳚|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अध॑ ब॒हु चि॒त्‌ तम॒ ऊर्म्या᳚यास्ति॒रः शो॒चिषा᳚ ददृशे पाव॒कः||{4/7}{4.5.12.4}{6.10.4}{6.1.10.4}{721, 451, 4447}

नू न॑श्चि॒त्रं पु॑रु॒वाजा᳚भिरू॒ती, अग्ने᳚ र॒यिं म॒घव॑द्भ्यश्च धेहि|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

ये राध॑सा॒ श्रव॑सा॒ चात्य॒न्यान् त्सु॒वीर्ये᳚भिश्चा॒भि सन्ति॒ जना॑न्||{5/7}{4.5.12.5}{6.10.5}{6.1.10.5}{722, 451, 4448}

इ॒मं य॒ज्ञं चनो᳚ धा, अग्न उ॒शन् यं त॑ आसा॒नो जु॑हु॒ते ह॒विष्मा॑न्|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

भ॒रद्वा᳚जेषु दधिषे सुवृ॒क्तिमवी॒र्वाज॑स्य॒ गध्य॑स्य सा॒तौ||{6/7}{4.5.12.6}{6.10.6}{6.1.10.6}{723, 451, 4449}

वि द्वेषां᳚सीनु॒हि व॒र्धयेळां॒ मदे᳚म श॒तहि॑माः सु॒वीराः᳚||{बार्हस्पत्यो भरद्वाजः | अग्निः | द्विपदाविराट्}{7/7}{4.5.12.7}{6.10.7}{6.1.10.7}{724, 451, 4450}
[90] यजस्वहोतरिति षडृचस्य सूक्तस्यबार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |
यज॑स्व होतरिषि॒तो यजी᳚या॒नग्ने॒ बाधो᳚ म॒रुतां॒ न प्रयु॑क्ति|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

आ नो᳚ मि॒त्रावरु॑णा॒ नास॑त्या॒ द्यावा᳚ हो॒त्राय॑ पृथि॒वी व॑वृत्याः||{1/6}{4.5.13.1}{6.11.1}{6.1.11.1}{725, 452, 4451}

त्वं होता᳚ म॒न्द्रत॑मो नो, अ॒ध्रुग॒न्तर्दे॒वो वि॒दथा॒ मर्त्ये᳚षु|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

पा॒व॒कया᳚ जु॒ह्वा॒३॑(आ॒) वह्नि॑रा॒सा ऽग्ने॒ यज॑स्व त॒न्व१॑(अं॒) तव॒ स्वाम्||{2/6}{4.5.13.2}{6.11.2}{6.1.11.2}{726, 452, 4452}

धन्या᳚ चि॒द्धि त्वे धि॒षणा॒ वष्टि॒ प्र दे॒वाञ्जन्म॑ गृण॒ते यज॑ध्यै|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

वेपि॑ष्ठो॒, अङ्गि॑रसां॒ यद्ध॒ विप्रो॒ मधु॑ च्छ॒न्दो भन॑ति रे॒भ इ॒ष्टौ||{3/6}{4.5.13.3}{6.11.3}{6.1.11.3}{727, 452, 4453}

अदि॑द्युत॒त्‌ स्वपा᳚को वि॒भावा ऽग्ने॒ यज॑स्व॒ रोद॑सी, उरू॒ची|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

आ॒युं न यं नम॑सा रा॒तह᳚व्या, अ॒ञ्जन्ति॑ सुप्र॒यसं॒ पञ्च॒ जनाः᳚||{4/6}{4.5.13.4}{6.11.4}{6.1.11.4}{728, 452, 4454}

वृ॒ञ्जे ह॒ यन्नम॑सा ब॒र्हिर॒ग्नावया᳚मि॒ स्रुग्घृ॒तव॑ती सुवृ॒क्तिः|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अम्य॑क्षि॒ सद्म॒ सद॑ने पृथि॒व्या, अश्रा᳚यि य॒ज्ञः सूर्ये॒ न चक्षुः॑||{5/6}{4.5.13.5}{6.11.5}{6.1.11.5}{729, 452, 4455}

द॒श॒स्या नः॑ पुर्वणीक होतर्दे॒वेभि॑रग्ने, अ॒ग्निभि॑रिधा॒नः|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

रा॒यः सू᳚नो सहसो वावसा॒ना, अति॑ स्रसेम वृ॒जनं॒ नांहः॑||{6/6}{4.5.13.6}{6.11.6}{6.1.11.6}{730, 452, 4456}

[91] मध्येहोतेति षडृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाजोऽग्निस्त्रिष्टुप् |
मध्ये॒ होता᳚ दुरो॒णे ब॒र्हिषो॒ राळ॒ग्निस्तो॒दस्य॒ रोद॑सी॒ यज॑ध्यै|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अ॒यं स सू॒नुः सह॑स ऋ॒तावा᳚ दू॒रात्‌ सूर्यो॒ न शो॒चिषा᳚ ततान||{1/6}{4.5.14.1}{6.12.1}{6.1.12.1}{731, 453, 4457}

आ यस्मि॒न्‌ त्वे स्वपा᳚के यजत्र॒ यक्ष॑द्‌ राजन्‌ त्स॒र्वता᳚तेव॒ नु द्यौः|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

त्रि॒ष॒धस्थ॑स्तत॒रुषो॒ न जंहो᳚ ह॒व्या म॒घानि॒ मानु॑षा॒ यज॑ध्यै||{2/6}{4.5.14.2}{6.12.2}{6.1.12.2}{732, 453, 4458}

तेजि॑ष्ठा॒ यस्या᳚र॒तिर्व॑ने॒राट् तो॒दो, अध्व॒न्‌ न वृ॑धसा॒नो, अ॑द्यौत्|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अ॒द्रो॒घो न द्र॑वि॒ता चे᳚तति॒ त्मन्नम॑र्त्योऽव॒र्त्र ओष॑धीषु||{3/6}{4.5.14.3}{6.12.3}{6.1.12.3}{733, 453, 4459}

सास्माके᳚भिरे॒तरी॒ न शू॒षैर॒ग्निः ष्ट॑वे॒ दम॒ आ जा॒तवे᳚दाः|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

द्र्व᳚न्नो व॒न्वन्‌ क्रत्वा॒ नार्वो॒स्रः पि॒तेव॑ जार॒यायि॑ य॒ज्ञैः||{4/6}{4.5.14.4}{6.12.4}{6.1.12.4}{734, 453, 4460}

अध॑ स्मास्य पनयन्ति॒ भासो॒ वृथा॒ यत्‌ तक्ष॑दनु॒याति॑ पृ॒थ्वीम्|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

स॒द्यो यः स्प॒न्द्रो विषि॑तो॒ धवी᳚यानृ॒णो न ता॒युरति॒ धन्वा᳚ राट्||{5/6}{4.5.14.5}{6.12.5}{6.1.12.5}{735, 453, 4461}

स त्वं नो᳚ अर्व॒न्‌ निदा᳚या॒ विश्वे᳚भिरग्ने, अ॒ग्निभि॑रिधा॒नः|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

वेषि॑ रा॒यो वि या᳚सि दु॒च्छुना॒ मदे᳚म श॒तहि॑माः सु॒वीराः᳚||{6/6}{4.5.14.6}{6.12.6}{6.1.12.6}{736, 453, 4462}

[92] त्वद्विश्वेति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |
त्वद्‌ विश्वा᳚ सुभग॒ सौभ॑गा॒न्यग्ने॒ वि य᳚न्ति व॒निनो॒ न व॒याः|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

श्रु॒ष्टी र॒यिर्वाजो᳚ वृत्र॒तूर्ये᳚ दि॒वो वृ॒ष्टिरीड्यो᳚ री॒तिर॒पाम्||{1/6}{4.5.15.1}{6.13.1}{6.1.13.1}{737, 454, 4463}

त्वं भगो᳚ न॒ आ हि रत्न॑मि॒षे परि॑ज्मेव क्षयसि द॒स्मव॑र्चाः|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अग्ने᳚ मि॒त्रो न बृ॑ह॒त ऋ॒तस्याऽसि॑ क्ष॒त्ता वा॒मस्य॑ देव॒ भूरेः᳚||{2/6}{4.5.15.2}{6.13.2}{6.1.13.2}{738, 454, 4464}

स सत्प॑तिः॒ शव॑सा हन्ति वृ॒त्रमग्ने॒ विप्रो॒ वि प॒णेर्भ॑र्ति॒ वाज᳚म्|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

यं त्वं प्र॑चेत ऋतजात रा॒या स॒जोषा॒ नप्त्रा॒पां हि॒नोषि॑||{3/6}{4.5.15.3}{6.13.3}{6.1.13.3}{739, 454, 4465}

यस्ते᳚ सूनो सहसो गी॒र्भिरु॒क्थैर्य॒ज्ञैर्मर्तो॒ निशि॑तिं वे॒द्यान॑ट्|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

विश्वं॒ स दे᳚व॒ प्रति॒ वार॑मग्ने ध॒त्ते धा॒न्य१॑(अं॒) पत्य॑ते वस॒व्यैः᳚||{4/6}{4.5.15.4}{6.13.4}{6.1.13.4}{740, 454, 4466}

ता नृभ्य॒ आ सौ᳚श्रव॒सा सु॒वीरा ऽग्ने᳚ सूनो सहसः पु॒ष्यसे᳚ धाः|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

कृ॒णोषि॒ यच्छव॑सा॒ भूरि॑ प॒श्वो वयो॒ वृका᳚या॒रये॒ जसु॑रये||{5/6}{4.5.15.5}{6.13.5}{6.1.13.5}{741, 454, 4467}

व॒द्मा सू᳚नो सहसो नो॒ विहा᳚या॒, अग्ने᳚ तो॒कं तन॑यं वा॒जि नो᳚ दाः|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

विश्वा᳚भिर्गी॒र्भिर॒भि पू॒र्तिम॑श्यां॒ मदे᳚म श॒तहि॑माः सु॒वीराः᳚||{6/6}{4.5.15.6}{6.13.6}{6.1.13.6}{742, 454, 4468}

[93] अग्नायइति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निरनुष्टुबन्त्याशक्वरी |
अ॒ग्ना यो मर्त्यो॒ दुवो॒ धियं᳚ जु॒जोष॑ धी॒तिभिः॑|{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

भस॒न्नु ष प्र पू॒र्व्य इषं᳚ वुरी॒ताव॑से||{1/6}{4.5.16.1}{6.14.1}{6.1.14.1}{743, 455, 4469}

अ॒ग्निरिद्धि प्रचे᳚ता, अ॒ग्निर्वे॒धस्त॑म॒ ऋषिः॑|{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

अ॒ग्निं होता᳚रमीळते य॒ज्ञेषु॒ मनु॑षो॒ विशः॑||{2/6}{4.5.16.2}{6.14.2}{6.1.14.2}{744, 455, 4470}

नाना॒ ह्य१॑(अ॒)ग्नेऽव॑से॒ स्पर्ध᳚न्ते॒ रायो᳚ अ॒र्यः|{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

तूर्व᳚न्तो॒ दस्यु॑मा॒यवो᳚ व्र॒तैः सीक्ष᳚न्तो, अव्र॒तम्||{3/6}{4.5.16.3}{6.14.3}{6.1.14.3}{745, 455, 4471}

अ॒ग्निर॒प्सामृ॑ती॒षहं᳚ वी॒रं द॑दाति॒ सत्प॑तिम्|{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

यस्य॒ त्रस᳚न्ति॒ शव॑सः सं॒चक्षि॒ शत्र॑वो भि॒या||{4/6}{4.5.16.4}{6.14.4}{6.1.14.4}{746, 455, 4472}

अ॒ग्निर्हि वि॒द्मना᳚ नि॒दो दे॒वो मर्त॑मुरु॒ष्यति॑|{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

स॒हावा॒ यस्यावृ॑तो र॒यिर्वाजे॒ष्ववृ॑तः||{5/6}{4.5.16.5}{6.14.5}{6.1.14.5}{747, 455, 4473}

अच्छा᳚ नो मित्रमहो देव दे॒वानग्ने॒ वोचः॑ सुम॒तिं रोद॑स्योः|{बार्हस्पत्यो भरद्वाजः | अग्निः | शक्वरी}

वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄन् द्वि॒षो, अंहां᳚सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम||{6/6}{4.5.16.6}{6.14.6}{6.1.14.6}{748, 455, 4474}

[94] इममूष्वित्येकोनविंशत्यृचस्य सूक्तस्यांगिरसोवीतहव्यो (भरद्वाजोवा) ग्निर्जगती तृतीयापंचदृश्यौशक्वर्यौ षष्ट्यतिशक्वरी सप्तदश्यनुष्टुप् अष्टादशीबृहती दशम्याद्याः पंचषोडश्येकोनविंशीचत्रिष्टुभः |
इ॒ममू॒ षु वो॒, अति॑थिमुष॒र्बुधं॒ विश्वा᳚सां वि॒शां पति॑मृञ्जसे गि॒रा|{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती}

वेतीद्‌ दि॒वो ज॒नुषा॒ कच्चि॒दा शुचि॒र्ज्योक्‌ चि॑दत्ति॒ गर्भो॒ यदच्यु॑तम्||{1/19}{4.5.17.1}{6.15.1}{6.1.15.1}{749, 456, 4475}

मि॒त्रं न यं सुधि॑तं॒ भृग॑वो द॒धुर्वन॒स्पता॒वीड्य॑मू॒र्ध्वशो᳚चिषम्|{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती}

स त्वं सुप्री᳚तो वी॒तह᳚व्ये, अद्भुत॒ प्रश॑स्तिभिर्महयसे दि॒वेदि॑वे||{2/19}{4.5.17.2}{6.15.2}{6.1.15.2}{750, 456, 4476}

स त्वं दक्ष॑स्यावृ॒को वृ॒धो भू᳚र॒र्यः पर॒स्यान्त॑रस्य॒ तरु॑षः|{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | शक्वरी}

रा॒यः सू᳚नो सहसो॒ मर्त्ये॒ष्वा छ॒र्दिर्य॑च्छ वी॒तह᳚व्याय स॒प्रथो᳚ भ॒रद्वा᳚जाय स॒प्रथः॑||{3/19}{4.5.17.3}{6.15.3}{6.1.15.3}{751, 456, 4477}

द्यु॒ता॒नं वो॒, अति॑थिं॒ स्व᳚र्णरम॒ग्निं होता᳚रं॒ मनु॑षः स्वध्व॒रम्|{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती}

विप्रं॒ न द्यु॒क्षव॑चसं सुवृ॒क्तिभि᳚र्हव्य॒वाह॑मर॒तिं दे॒वमृ᳚ञ्जसे||{4/19}{4.5.17.4}{6.15.4}{6.1.15.4}{752, 456, 4478}

पा॒व॒कया॒ यश्चि॒तय᳚न्त्या कृ॒पा क्षाम᳚न्‌ रुरु॒च उ॒षसो॒ न भा॒नुना᳚|{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती}

तूर्व॒न्‌ न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे न त॑तृषा॒णो, अ॒जरः॑||{5/19}{4.5.17.5}{6.15.5}{6.1.15.5}{753, 456, 4479}

अ॒ग्निम॑ग्निं वः स॒मिधा᳚ दुवस्यत प्रि॒यम्प्रि॑यं वो॒, अति॑थिं गृणी॒षणि॑|{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | अतिशक्वरी}

उप॑ वो गी॒र्भिर॒मृतं᳚ विवासत दे॒वो दे॒वेषु॒ वन॑ते॒ हि वार्यं᳚ दे॒वो दे॒वेषु॒ वन॑ते॒ हि नो॒ दुवः॑||{6/19}{4.5.18.1}{6.15.6}{6.1.15.6}{754, 456, 4480}

समि॑द्धम॒ग्निं स॒मिधा᳚ गि॒रा गृ॑णे॒ शुचिं᳚ पाव॒कं पु॒रो, अ॑ध्व॒रे ध्रु॒वम्|{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती}

विप्रं॒ होता᳚रं पुरु॒वार॑म॒द्रुहं᳚ क॒विं सु॒म्नैरी᳚महे जा॒तवे᳚दसम्||{7/19}{4.5.18.2}{6.15.7}{6.1.15.7}{755, 456, 4481}

त्वां दू॒तम॑ग्ने, अ॒मृतं᳚ यु॒गेयु॑गे हव्य॒वाहं᳚ दधिरे पा॒युमीड्य᳚म्|{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती}

दे॒वास॑श्च॒ मर्ता᳚सश्च॒ जागृ॑विं वि॒भुं वि॒श्पतिं॒ नम॑सा॒ नि षे᳚दिरे||{8/19}{4.5.18.3}{6.15.8}{6.1.15.8}{756, 456, 4482}

वि॒भूष᳚न्नग्न उ॒भयाँ॒, अनु᳚ व्र॒ता दू॒तो दे॒वानां॒ रज॑सी॒ समी᳚यसे|{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती}

यत्‌ ते᳚ धी॒तिं सु॑म॒तिमा᳚वृणी॒महे ऽध॑ स्मा नस्त्रि॒वरू᳚थः शि॒वो भ॑व||{9/19}{4.5.18.4}{6.15.9}{6.1.15.9}{757, 456, 4483}

तं सु॒प्रती᳚कं सु॒दृशं॒ स्वञ्च॒मवि॑द्वांसो वि॒दुष्ट॑रं सपेम|{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्}

स य॑क्ष॒द्‌ विश्वा᳚ व॒युना᳚नि वि॒द्वान् प्र ह॒व्यम॒ग्निर॒मृते᳚षु वोचत्||{10/19}{4.5.18.5}{6.15.10}{6.1.15.10}{758, 456, 4484}

तम॑ग्ने पास्यु॒त तं पि॑पर्षि॒ यस्त॒ आन॑ट्‌ क॒वये᳚ शूर धी॒तिम्|{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्}

य॒ज्ञस्य॑ वा॒ निशि॑तिं॒ वोदि॑तिं वा॒ तमित्‌ पृ॑णक्षि॒ शव॑सो॒त रा॒या||{11/19}{4.5.19.1}{6.15.11}{6.1.15.11}{759, 456, 4485}

त्वम॑ग्ने वनुष्य॒तो नि पा᳚हि॒ त्वमु॑ नः सहसावन्नव॒द्यात्|{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्}

सं त्वा᳚ ध्वस्म॒न्वद॒भ्ये᳚तु॒ पाथः॒ सं र॒यिः स्पृ॑ह॒याय्यः॑ सह॒स्री||{12/19}{4.5.19.2}{6.15.12}{6.1.15.12}{760, 456, 4486}

अ॒ग्निर्होता᳚ गृ॒हप॑तिः॒ स राजा॒ विश्वा᳚ वेद॒ जनि॑मा जा॒तवे᳚दाः|{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्}

दे॒वाना᳚मु॒त यो मर्त्या᳚नां॒ यजि॑ष्ठः॒ स प्र य॑जतामृ॒तावा᳚||{13/19}{4.5.19.3}{6.15.13}{6.1.15.13}{761, 456, 4487}

अग्ने॒ यद॒द्य वि॒शो, अ॑ध्वरस्य होतः॒ पाव॑कशोचे॒ वेष्ट्वं हि यज्वा᳚|{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्}

ऋ॒ता य॑जासि महि॒ना वि यद्‌ भूर्ह॒व्या व॑ह यविष्ठ॒ या ते᳚ अ॒द्य||{14/19}{4.5.19.4}{6.15.14}{6.1.15.14}{762, 456, 4488}

अ॒भि प्रयां᳚सि॒ सुधि॑तानि॒ हि ख्यो नि त्वा᳚ दधीत॒ रोद॑सी॒ यज॑ध्यै|{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | शक्वरी}

अवा᳚ नो मघव॒न्‌ वाज॑साता॒वग्ने॒ विश्वा᳚नि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम||{15/19}{4.5.19.5}{6.15.15}{6.1.15.15}{763, 456, 4489}

अग्ने॒ विश्वे᳚भिः स्वनीक दे॒वैरूर्णा᳚वन्तं प्रथ॒मः सी᳚द॒ योनि᳚म्|{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्}

कु॒ला॒यिनं᳚ घृ॒तव᳚न्तं सवि॒त्रे य॒ज्ञं न॑य॒ यज॑मानाय सा॒धु||{16/19}{4.5.20.1}{6.15.16}{6.1.15.16}{764, 456, 4490}

इ॒ममु॒ त्यम॑थर्व॒वद॒ग्निं म᳚न्थन्ति वे॒धसः॑|{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | अनुष्टुप्}

यम᳚ङ्कू॒यन्त॒मान॑य॒न्नमू᳚रं श्या॒व्या᳚भ्यः||{17/19}{4.5.20.2}{6.15.17}{6.1.15.17}{765, 456, 4491}

जनि॑ष्वा दे॒ववी᳚तये स॒र्वता᳚ता स्व॒स्तये᳚|{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | बृहती}

आ दे॒वान्‌ व॑क्ष्य॒मृताँ᳚ ऋता॒वृधो᳚ य॒ज्ञं दे॒वेषु॑ पिस्पृशः||{18/19}{4.5.20.3}{6.15.18}{6.1.15.18}{766, 456, 4492}

व॒यमु॑ त्वा गृहपते जनाना॒मग्ने॒, अक᳚र्म स॒मिधा᳚ बृ॒हन्त᳚म्|{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्}

अ॒स्थू॒रि नो॒ गार्ह॑पत्यानि सन्तु ति॒ग्मेन॑ न॒स्तेज॑सा॒ सं शि॑शाधि||{19/19}{4.5.20.4}{6.15.19}{6.1.15.19}{767, 456, 4493}

[95] त्वमग्नेयज्ञानामित्यष्टाचत्वारिंशदृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोग्निर्गायत्री आद्याषष्ठ्यौवर्धमाने सप्तविंश्यनुष्टुप् षट्‌चत्वारिंशीत्रिष्टुप् अंत्येद्वेअनुष्टुभौ |
त्वम॑ग्ने य॒ज्ञानां॒ होता॒ विश्वे᳚षां हि॒तः|{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री}

दे॒वेभि॒र्मानु॑षे॒ जने᳚||{1/48}{4.5.21.1}{6.16.1}{6.2.1.1}{768, 457, 4494}

स नो᳚ म॒न्द्राभि॑रध्व॒रे जि॒ह्वाभि᳚र्यजा म॒हः|{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री}

आ दे॒वान्‌ व॑क्षि॒ यक्षि॑ च||{2/48}{4.5.21.2}{6.16.2}{6.2.1.2}{769, 457, 4495}

वेत्था॒ हि वे᳚धो॒, अध्व॑नः प॒थश्च॑ दे॒वाञ्ज॑सा|{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री}

अग्ने᳚ य॒ज्ञेषु॑ सुक्रतो||{3/48}{4.5.21.3}{6.16.3}{6.2.1.3}{770, 457, 4496}

त्वामी᳚ळे॒, अध॑ द्वि॒ता भ॑र॒तो वा॒जिभिः॑ शु॒नम्|{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री}

ई॒जे य॒ज्ञेषु॑ य॒ज्ञिय᳚म्||{4/48}{4.5.21.4}{6.16.4}{6.2.1.4}{771, 457, 4497}

त्वमि॒मा वार्या᳚ पु॒रु दिवो᳚दासाय सुन्व॒ते|{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री}

भ॒रद्वा᳚जाय दा॒शुषे᳚||{5/48}{4.5.21.5}{6.16.5}{6.2.1.5}{772, 457, 4498}

त्वं दू॒तो, अम॑र्त्य॒ आ व॑हा॒ दैव्यं॒ जन᳚म्|{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री}

शृ॒ण्वन्‌ विप्र॑स्य सुष्टु॒तिम्||{6/48}{4.5.22.1}{6.16.6}{6.2.1.6}{773, 457, 4499}

त्वाम॑ग्ने स्वा॒ध्यो॒३॑(ओ॒) मर्ता᳚सो दे॒ववी᳚तये|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

य॒ज्ञेषु॑ दे॒वमी᳚ळते||{7/48}{4.5.22.2}{6.16.7}{6.2.1.7}{774, 457, 4500}

तव॒ प्र य॑क्षि सं॒दृश॑मु॒त क्रतुं᳚ सु॒दान॑वः|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

विश्वे᳚ जुषन्त का॒मिनः॑||{8/48}{4.5.22.3}{6.16.8}{6.2.1.8}{775, 457, 4501}

त्वं होता॒ मनु᳚र्हितो॒ वह्नि॑रा॒सा वि॒दुष्ट॑रः|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अग्ने॒ यक्षि॑ दि॒वो विशः॑||{9/48}{4.5.22.4}{6.16.9}{6.2.1.9}{776, 457, 4502}

अग्न॒ आ या᳚हि वी॒तये᳚ गृणा॒नो ह॒व्यदा᳚तये|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

नि होता᳚ सत्सि ब॒र्हिषि॑||{10/48}{4.5.22.5}{6.16.10}{6.2.1.10}{777, 457, 4503}

तं त्वा᳚ स॒मिद्भि॑रङ्गिरो घृ॒तेन॑ वर्धयामसि|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

बृ॒हच्छो᳚चा यविष्ठ्य||{11/48}{4.5.23.1}{6.16.11}{6.2.1.11}{778, 457, 4504}

स नः॑ पृ॒थु श्र॒वाय्य॒मच्छा᳚ देव विवाससि|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

बृ॒हद॑ग्ने सु॒वीर्य᳚म्||{12/48}{4.5.23.2}{6.16.12}{6.2.1.12}{779, 457, 4505}

त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ᳚र्वा॒ निर॑मन्थत|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

मू॒र्ध्नो विश्व॑स्य वा॒घतः॑||{13/48}{4.5.23.3}{6.16.13}{6.2.1.13}{780, 457, 4506}

तमु॑ त्वा द॒ध्यङ्ङृषिः॑ पु॒त्र ई᳚धे॒, अथ᳚र्वणः|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

वृ॒त्र॒हणं᳚ पुरंद॒रम्||{14/48}{4.5.23.4}{6.16.14}{6.2.1.14}{781, 457, 4507}

तमु॑ त्वा पा॒थ्यो वृषा॒ समी᳚धे दस्यु॒हन्त॑मम्|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

ध॒नं॒ज॒यं रणे᳚रणे||{15/48}{4.5.23.5}{6.16.15}{6.2.1.15}{782, 457, 4508}

एह्यू॒ षु ब्रवा᳚णि॒ ते ऽग्न॑ इ॒त्थेत॑रा॒ गिरः॑|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

ए॒भिर्व॑र्धास॒ इन्दु॑भिः||{16/48}{4.5.24.1}{6.16.16}{6.2.1.16}{783, 457, 4509}

यत्र॒ क्व॑ च ते॒ मनो॒ दक्षं᳚ दधस॒ उत्त॑रम्|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

तत्रा॒ सदः॑ कृणवसे||{17/48}{4.5.24.2}{6.16.17}{6.2.1.17}{784, 457, 4510}

न॒हि ते᳚ पू॒र्तम॑क्षि॒पद् भुव᳚न्नेमानां वसो|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अथा॒ दुवो᳚ वनवसे||{18/48}{4.5.24.3}{6.16.18}{6.2.1.18}{785, 457, 4511}

आग्निर॑गामि॒ भार॑तो वृत्र॒हा पु॑रु॒चेत॑नः|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

दिवो᳚दासस्य॒ सत्प॑तिः||{19/48}{4.5.24.4}{6.16.19}{6.2.1.19}{786, 457, 4512}

स हि विश्वाति॒ पार्थि॑वा र॒यिं दाश᳚न्महित्व॒ना|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

व॒न्वन्नवा᳚तो॒, अस्तृ॑तः||{20/48}{4.5.24.5}{6.16.20}{6.2.1.20}{787, 457, 4513}

स प्र॑त्न॒वन्नवी᳚य॒सा ऽग्ने᳚ द्यु॒म्नेन॑ सं॒यता᳚|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

बृ॒हत्‌ त॑तन्थ भा॒नुना᳚||{21/48}{4.5.25.1}{6.16.21}{6.2.1.21}{788, 457, 4514}

प्र वः॑ सखायो, अ॒ग्नये॒ स्तोमं᳚ य॒ज्ञं च॑ धृष्णु॒या|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अर्च॒ गाय॑ च वे॒धसे᳚||{22/48}{4.5.25.2}{6.16.22}{6.2.1.22}{789, 457, 4515}

स हि यो मानु॑षा यु॒गा सीद॒द्धोता᳚ क॒विक्र॑तुः|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

दू॒तश्च॑ हव्य॒वाह॑नः||{23/48}{4.5.25.3}{6.16.23}{6.2.1.23}{790, 457, 4516}

ता राजा᳚ना॒ शुचि᳚व्रता ऽऽदि॒त्यान्‌ मारु॑तं ग॒णम्|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

वसो॒ यक्षी॒ह रोद॑सी||{24/48}{4.5.25.4}{6.16.24}{6.2.1.24}{791, 457, 4517}

वस्वी᳚ ते, अग्ने॒ संदृ॑ष्टिरिषय॒ते मर्त्या᳚य|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

ऊर्जो᳚ नपाद॒मृत॑स्य||{25/48}{4.5.25.5}{6.16.25}{6.2.1.25}{792, 457, 4518}

क्रत्वा॒ दा, अ॑स्तु॒ श्रेष्ठो॒ ऽद्य त्वा᳚ व॒न्वन्‌ त्सु॒रेक्णाः᳚|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

मर्त॑ आनाश सुवृ॒क्तिम्||{26/48}{4.5.26.1}{6.16.26}{6.2.1.26}{793, 457, 4519}

ते ते᳚ अग्ने॒ त्वोता᳚ इ॒षय᳚न्तो॒ विश्व॒मायुः॑|{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

तर᳚न्तो, अ॒र्यो, अरा᳚तीर्व॒न्वन्तो᳚ अ॒र्यो, अरा᳚तीः||{27/48}{4.5.26.2}{6.16.27}{6.2.1.27}{794, 457, 4520}

अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यास॒द्‌ विश्वं॒ न्य१॑(अ॒)त्रिण᳚म्|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अ॒ग्निर्नो᳚ वनते र॒यिम्||{28/48}{4.5.26.3}{6.16.28}{6.2.1.28}{795, 457, 4521}

सु॒वीरं᳚ र॒यिमा भ॑र॒ जात॑वेदो॒ विच॑र्षणे|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

ज॒हि रक्षां᳚सि सुक्रतो||{29/48}{4.5.26.4}{6.16.29}{6.2.1.29}{796, 457, 4522}

त्वं नः॑ पा॒ह्यंह॑सो॒ जात॑वेदो, अघाय॒तः|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

रक्षा᳚ णो ब्रह्मणस्कवे||{30/48}{4.5.26.5}{6.16.30}{6.2.1.30}{797, 457, 4523}

यो नो᳚ अग्ने दु॒रेव॒ आ मर्तो᳚ व॒धाय॒ दाश॑ति|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

तस्मा᳚न्नः पा॒ह्यंह॑सः||{31/48}{4.5.27.1}{6.16.31}{6.2.1.31}{798, 457, 4524}

त्वं तं दे᳚व जि॒ह्वया॒ परि॑ बाधस्व दु॒ष्कृत᳚म्|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

मर्तो॒ यो नो॒ जिघां᳚सति||{32/48}{4.5.27.2}{6.16.32}{6.2.1.32}{799, 457, 4525}

भ॒रद्वा᳚जाय स॒प्रथः॒ शर्म॑ यच्छ सहन्त्य|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अग्ने॒ वरे᳚ण्यं॒ वसु॑||{33/48}{4.5.27.3}{6.16.33}{6.2.1.33}{800, 457, 4526}

अ॒ग्निर्वृ॒त्राणि॑ जङ्घनद् द्रविण॒स्युर्वि॑प॒न्यया᳚|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

समि॑द्धः शु॒क्र आहु॑तः||{34/48}{4.5.27.4}{6.16.34}{6.2.1.34}{801, 457, 4527}

गर्भे᳚ मा॒तुः पि॒तुष्पि॒ता वि॑दिद्युता॒नो, अ॒क्षरे᳚|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

सीद᳚न्नृ॒तस्य॒ योनि॒मा||{35/48}{4.5.27.5}{6.16.35}{6.2.1.35}{802, 457, 4528}

ब्रह्म॑ प्र॒जाव॒दा भ॑र॒ जात॑वेदो॒ विच॑र्षणे|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अग्ने॒ यद्‌ दी॒दय॑द्‌ दि॒वि||{36/48}{4.5.28.1}{6.16.36}{6.2.1.36}{803, 457, 4529}

उप॑ त्वा र॒ण्वसं᳚दृशं॒ प्रय॑स्वन्तः सहस्कृत|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अग्ने᳚ ससृ॒ज्महे॒ गिरः॑||{37/48}{4.5.28.2}{6.16.37}{6.2.1.37}{804, 457, 4530}

उप॑ च्छा॒यामि॑व॒ घृणे॒रग᳚न्म॒ शर्म॑ ते व॒यम्|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अग्ने॒ हिर᳚ण्यसंदृशः||{38/48}{4.5.28.3}{6.16.38}{6.2.1.38}{805, 457, 4531}

य उ॒ग्र इ॑व शर्य॒हा ति॒ग्मशृ᳚ङ्गो॒ न वंस॑गः|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अग्ने॒ पुरो᳚ रु॒रोजि॑थ||{39/48}{4.5.28.4}{6.16.39}{6.2.1.39}{806, 457, 4532}

आ यं हस्ते॒ न खा॒दिनं॒ शिशुं᳚ जा॒तं न बिभ्र॑ति|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

वि॒शाम॒ग्निं स्व॑ध्व॒रम्||{40/48}{4.5.28.5}{6.16.40}{6.2.1.40}{807, 457, 4533}

प्र दे॒वं दे॒ववी᳚तये॒ भर॑ता वसु॒वित्त॑मम्|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

आ स्वे योनौ॒ नि षी᳚दतु||{41/48}{4.5.29.1}{6.16.41}{6.2.1.41}{808, 457, 4534}

आ जा॒तं जा॒तवे᳚दसि प्रि॒यं शि॑शी॒ताति॑थिम्|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

स्यो॒न आ गृ॒हप॑तिम्||{42/48}{4.5.29.2}{6.16.42}{6.2.1.42}{809, 457, 4535}

अग्ने᳚ यु॒क्ष्वा हि ये तवा ऽश्वा᳚सो देव सा॒धवः॑|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अरं॒ वह᳚न्ति म॒न्यवे᳚||{43/48}{4.5.29.3}{6.16.43}{6.2.1.43}{810, 457, 4536}

अच्छा᳚ नो या॒ह्या व॑हा॒ऽभि प्रयां᳚सि वी॒तये᳚|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

आ दे॒वान्‌ त्सोम॑पीतये||{44/48}{4.5.29.4}{6.16.44}{6.2.1.44}{811, 457, 4537}

उद॑ग्ने भारत द्यु॒मदज॑स्रेण॒ दवि॑द्युतत्|{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

शोचा॒ वि भा᳚ह्यजर||{45/48}{4.5.29.5}{6.16.45}{6.2.1.45}{812, 457, 4538}

वी॒ती यो दे॒वं मर्तो᳚ दुव॒स्येद॒ग्निमी᳚ळीताध्व॒रे ह॒विष्मा॑न्|{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

होता᳚रं सत्य॒यजं॒ रोद॑स्योरुत्ता॒नह॑स्तो॒ नम॒सा वि॑वासेत्||{46/48}{4.5.30.1}{6.16.46}{6.2.1.46}{813, 457, 4539}

आ ते᳚ अग्न ऋ॒चा ह॒विर्हृ॒दा त॒ष्टं भ॑रामसि|{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

ते ते᳚ भवन्तू॒क्षण॑ ऋष॒भासो᳚ व॒शा, उ॒त||{47/48}{4.5.30.2}{6.16.47}{6.2.1.47}{814, 457, 4540}

अ॒ग्निं दे॒वासो᳚ अग्रि॒यमि॒न्धते᳚ वृत्र॒हन्त॑मम्|{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

येना॒ वसू॒न्याभृ॑ता तृ॒ळ्हा रक्षां᳚सि वा॒जिना᳚||{48/48}{4.5.30.3}{6.16.48}{6.2.1.48}{815, 457, 4541}

[96] पिबासोममिति पंचदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजइंद्रत्रिष्टुंबंत्याद्विपदात्रिष्टुप् |
पिबा॒ सोम॑म॒भि यमु॑ग्र॒ तर्द॑ ऊ॒र्वं गव्यं॒ महि॑ गृणा॒न इ᳚न्द्र|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वि यो धृ॑ष्णो॒ वधि॑षो वज्रहस्त॒ विश्वा᳚ वृ॒त्रम॑मि॒त्रिया॒ शवो᳚भिः||{1/15}{4.6.1.1}{6.17.1}{6.2.2.1}{816, 458, 4542}

स ईं᳚ पाहि॒ य ऋ॑जी॒षी तरु॑त्रो॒ यः शिप्र॑वान्‌ वृष॒भो यो म॑ती॒नाम्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यो गो᳚त्र॒भिद्‌ व॑ज्र॒भृद्‌ यो ह॑रि॒ष्ठाः स इ᳚न्द्र चि॒त्राँ, अ॒भि तृ᳚न्धि॒ वाजा॑न्||{2/15}{4.6.1.2}{6.17.2}{6.2.2.2}{817, 458, 4543}

ए॒वा पा᳚हि प्र॒त्नथा॒ मन्द॑तु त्वा श्रु॒धि ब्रह्म॑ वावृ॒धस्वो॒त गी॒र्भिः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

आ॒विः सूर्यं᳚ कृणु॒हि पी᳚पि॒हीषो᳚ ज॒हि शत्रूँ᳚र॒भि गा, इ᳚न्द्र तृन्धि||{3/15}{4.6.1.3}{6.17.3}{6.2.2.3}{818, 458, 4544}

ते त्वा॒ मदा᳚ बृ॒हदि᳚न्द्र स्वधाव इ॒मे पी॒ता, उ॑क्षयन्त द्यु॒मन्त᳚म्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

म॒हामनू᳚नं त॒वसं॒ विभू᳚तिं मत्स॒रासो᳚ जर्हृषन्त प्र॒साह᳚म्||{4/15}{4.6.1.4}{6.17.4}{6.2.2.4}{819, 458, 4545}

येभिः॒ सूर्य॑मु॒षसं᳚ मन्दसा॒नो ऽवा᳚स॒योऽप॑ दृ॒ळ्हानि॒ दर्द्र॑त्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

म॒हामद्रिं॒ परि॒ गा, इ᳚न्द्र॒ सन्तं᳚ नु॒त्था, अच्यु॑तं॒ सद॑स॒स्परि॒ स्वात्||{5/15}{4.6.1.5}{6.17.5}{6.2.2.5}{820, 458, 4546}

तव॒ क्रत्वा॒ तव॒ तद्‌ दं॒सना᳚भिरा॒मासु॑ प॒क्वं शच्या॒ नि दी᳚धः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

और्णो॒र्दुर॑ उ॒स्रिया᳚भ्यो॒ वि दृ॒ळ्होदू॒र्वाद्‌ गा, अ॑सृजो॒, अङ्गि॑रस्वान्||{6/15}{4.6.2.1}{6.17.6}{6.2.2.6}{821, 458, 4547}

प॒प्राथ॒ क्षां महि॒ दंसो॒ व्यु१॑(उ॒)र्वीमुप॒ द्यामृ॒ष्वो बृ॒हदि᳚न्द्र स्तभायः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अधा᳚रयो॒ रोद॑सी दे॒वपु॑त्रे प्र॒त्ने मा॒तरा᳚ य॒ह्वी, ऋ॒तस्य॑||{7/15}{4.6.2.2}{6.17.7}{6.2.2.7}{822, 458, 4548}

अध॑ त्वा॒ विश्वे᳚ पु॒र इ᳚न्द्र दे॒वा, एकं᳚ त॒वसं᳚ दधिरे॒ भरा᳚य|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अदे᳚वो॒ यद॒भ्यौहि॑ष्ट दे॒वान् त्स्व॑र्षाता वृणत॒ इन्द्र॒मत्र॑||{8/15}{4.6.2.3}{6.17.8}{6.2.2.8}{823, 458, 4549}

अध॒ द्यौश्चि॑त्‌ ते॒, अप॒ सा नु वज्रा᳚द् द्वि॒तान॑मद्‌ भि॒यसा॒ स्वस्य॑ म॒न्योः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अहिं॒ यदिन्द्रो᳚ अ॒भ्योह॑सानं॒ नि चि॑द्‌ वि॒श्वायुः॑ श॒यथे᳚ ज॒घान॑||{9/15}{4.6.2.4}{6.17.9}{6.2.2.9}{824, 458, 4550}

अध॒ त्वष्टा᳚ ते म॒ह उ॑ग्र॒ वज्रं᳚ स॒हस्र॑भृष्टिं ववृतच्छ॒ताश्रि᳚म्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

निका᳚मम॒रम॑णसं॒ येन॒ नव᳚न्त॒महिं॒ सं पि॑णगृजीषिन्||{10/15}{4.6.2.5}{6.17.10}{6.2.2.10}{825, 458, 4551}

वर्धा॒न्‌ यं विश्वे᳚ म॒रुतः॑ स॒जोषाः॒ पच॑च्छ॒तं म॑हि॒षाँ, इ᳚न्द्र॒ तुभ्य᳚म्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

पू॒षा विष्णु॒स्त्रीणि॒ सरां᳚सि धावन् वृत्र॒हणं᳚ मदि॒रमं॒शुम॑स्मै||{11/15}{4.6.3.1}{6.17.11}{6.2.2.11}{826, 458, 4552}

आ क्षोदो॒ महि॑ वृ॒तं न॒दीनां॒ परि॑ष्ठितमसृज ऊ॒र्मिम॒पाम्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तासा॒मनु॑ प्र॒वत॑ इन्द्र॒ पन्थां॒ प्रार्द॑यो॒ नीची᳚र॒पसः॑ समु॒द्रम्||{12/15}{4.6.3.2}{6.17.12}{6.2.2.12}{827, 458, 4553}

ए॒वा ता विश्वा᳚ चकृ॒वांस॒मिन्द्रं᳚ म॒हामु॒ग्रम॑जु॒र्यं स॑हो॒दाम्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

सु॒वीरं᳚ त्वा स्वायु॒धं सु॒वज्र॒मा ब्रह्म॒ नव्य॒मव॑से ववृत्यात्||{13/15}{4.6.3.3}{6.17.13}{6.2.2.13}{828, 458, 4554}

स नो॒ वाजा᳚य॒ श्रव॑स इ॒षे च॑ रा॒ये धे᳚हि द्यु॒मत॑ इन्द्र॒ विप्रा॑न्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

भ॒रद्वा᳚जे नृ॒वत॑ इन्द्र सू॒रीन् दि॒वि च॑ स्मैधि॒ पार्ये᳚ न इन्द्र||{14/15}{4.6.3.4}{6.17.14}{6.2.2.14}{829, 458, 4555}

अ॒या वाजं᳚ दे॒वहि॑तं सनेम॒ मदे᳚म श॒तहि॑माः सु॒वीराः᳚||{बार्हस्पत्यो भरद्वाजः | इन्द्रः | द्विपदात्रिष्टुप्}{15/15}{4.6.3.5}{6.17.15}{6.2.2.15}{830, 458, 4556}
[97] तमुष्नुहीति पंचदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |
तमु॑ ष्टुहि॒ यो, अ॒भिभू᳚त्योजा व॒न्वन्नवा᳚तः पुरुहू॒त इन्द्रः॑|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अषा᳚ळ्हमु॒ग्रं सह॑मानमा॒भिर्गी॒र्भिर्व॑र्ध वृष॒भं च॑र्षणी॒नाम्||{1/15}{4.6.4.1}{6.18.1}{6.2.3.1}{831, 459, 4557}

स यु॒ध्मः सत्वा᳚ खज॒कृत्‌ स॒मद्वा᳚ तुविम्र॒क्षो न॑दनु॒माँ ऋ॑जी॒षी|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

बृ॒हद्रे᳚णु॒श्च्यव॑नो॒ मानु॑षीणा॒मेकः॑ कृष्टी॒नाम॑भवत्‌ स॒हावा᳚||{2/15}{4.6.4.2}{6.18.2}{6.2.3.2}{832, 459, 4558}

त्वं ह॒ नु त्यद॑दमायो॒ दस्यूँ॒रेकः॑ कृ॒ष्टीर॑वनो॒रार्या᳚य|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अस्ति॑ स्वि॒न्नु वी॒र्य१॑(अं॒) तत्‌ त॑ इन्द्र॒ न स्वि॑दस्ति॒ तदृ॑तु॒था वि वो᳚चः||{3/15}{4.6.4.3}{6.18.3}{6.2.3.3}{833, 459, 4559}

सदिद्धि ते᳚ तुविजा॒तस्य॒ मन्ये॒ सहः॑ सहिष्ठ तुर॒तस्तु॒रस्य॑|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

उ॒ग्रमु॒ग्रस्य॑ त॒वस॒स्तवी॒यो ऽर॑ध्रस्य रध्र॒तुरो᳚ बभूव||{4/15}{4.6.4.4}{6.18.4}{6.2.3.4}{834, 459, 4560}

तन्नः॑ प्र॒त्नं स॒ख्यम॑स्तु यु॒ष्मे, इ॒त्था वद॑द्भिर्व॒लमङ्गि॑रोभिः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

हन्न॑च्युतच्युद्‌ दस्मे॒षय᳚न्तमृ॒णोः पुरो॒ वि दुरो᳚ अस्य॒ विश्वाः᳚||{5/15}{4.6.4.5}{6.18.5}{6.2.3.5}{835, 459, 4561}

स हि धी॒भिर्हव्यो॒, अस्त्यु॒ग्र ई᳚शान॒कृन्म॑ह॒ति वृ॑त्र॒तूर्ये᳚|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

स तो॒कसा᳚ता॒ तन॑ये॒ स व॒ज्री वि॑तन्त॒साय्यो᳚ अभवत्‌ स॒मत्सु॑||{6/15}{4.6.5.1}{6.18.6}{6.2.3.6}{836, 459, 4562}

स म॒ज्मना॒ जनि॑म॒ मानु॑षाणा॒मम॑र्त्येन॒ नाम्नाति॒ प्र स॑र्स्रे|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

स द्यु॒म्नेन॒ स शव॑सो॒त रा॒या स वी॒र्ये᳚ण॒ नृत॑मः॒ समो᳚काः||{7/15}{4.6.5.2}{6.18.7}{6.2.3.7}{837, 459, 4563}

स यो न मु॒हे न मिथू॒ जनो॒ भूत् सु॒मन्तु॑नामा॒ चुमु॑रिं॒ धुनिं᳚ च|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वृ॒णक्‌ पिप्रुं॒ शम्ब॑रं॒ शुष्ण॒मिन्द्रः॑ पु॒रां च्यौ॒त्नाय॑ श॒यथा᳚य॒ नू चि॑त्||{8/15}{4.6.5.3}{6.18.8}{6.2.3.8}{838, 459, 4564}

उ॒दाव॑ता॒ त्वक्ष॑सा॒ पन्य॑सा च वृत्र॒हत्या᳚य॒ रथ॑मिन्द्र तिष्ठ|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

धि॒ष्व वज्रं॒ हस्त॒ आ द॑क्षिण॒त्रा ऽभि प्र म᳚न्द पुरुदत्र मा॒याः||{9/15}{4.6.5.4}{6.18.9}{6.2.3.9}{839, 459, 4565}

अ॒ग्निर्न शुष्कं॒ वन॑मिन्द्र हे॒ती रक्षो॒ नि ध॑क्ष्य॒शनि॒र्न भी॒मा|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ग॒म्भी॒रय॑ ऋ॒ष्वया॒ यो रु॒रोजाध्वा᳚नयद्‌ दुरि॒ता द॒म्भय॑च्च||{10/15}{4.6.5.5}{6.18.10}{6.2.3.10}{840, 459, 4566}

आ स॒हस्रं᳚ प॒थिभि॑रिन्द्र रा॒या तुवि॑द्युम्न तुवि॒वाजे᳚भिर॒र्वाक्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

या॒हि सू᳚नो सहसो॒ यस्य॒ नू चि॒ददे᳚व॒ ईशे᳚ पुरुहूत॒ योतोः᳚||{11/15}{4.6.6.1}{6.18.11}{6.2.3.11}{841, 459, 4567}

प्र तु॑विद्यु॒म्नस्य॒ स्थवि॑रस्य॒ घृष्वे᳚र्दि॒वो र॑रप्शे महि॒मा पृ॑थि॒व्याः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

नास्य॒ शत्रु॒र्न प्र॑ति॒मान॑मस्ति॒ न प्र॑ति॒ष्ठिः पु॑रुमा॒यस्य॒ सह्योः᳚||{12/15}{4.6.6.2}{6.18.12}{6.2.3.12}{842, 459, 4568}

प्र तत्‌ ते᳚ अ॒द्या कर॑णं कृ॒तं भू॒त् कुत्सं॒ यदा॒युम॑तिथि॒ग्वम॑स्मै|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

पु॒रू स॒हस्रा॒ नि शि॑शा, अ॒भि क्षामुत्‌ तूर्व॑याणं धृष॒ता नि॑नेथ||{13/15}{4.6.6.3}{6.18.13}{6.2.3.13}{843, 459, 4569}

अनु॒ त्वाहि॑घ्ने॒, अध॑ देव दे॒वा मद॒न्‌ विश्वे᳚ क॒वित॑मं कवी॒नाम्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

करो॒ यत्र॒ वरि॑वो बाधि॒ताय॑ दि॒वे जना᳚य त॒न्वे᳚ गृणा॒नः||{14/15}{4.6.6.4}{6.18.14}{6.2.3.14}{844, 459, 4570}

अनु॒ द्यावा᳚पृथि॒वी तत्‌ त॒ ओजो ऽम॑र्त्या जिहत इन्द्र दे॒वाः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

कृ॒ष्वा कृ॑त्नो॒, अकृ॑तं॒ यत्‌ ते॒, अस्त्यु॒क्थं नवी᳚यो जनयस्व य॒ज्ञैः||{15/15}{4.6.6.5}{6.18.15}{6.2.3.15}{845, 459, 4571}

[98] महाँइंद्रइति त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |
म॒हाँ, इन्द्रो᳚ नृ॒वदा च॑र्षणि॒प्रा, उ॒त द्वि॒बर्हा᳚ अमि॒नः सहो᳚भिः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अ॒स्म॒द्र्य॑ग्वावृधे वी॒र्या᳚यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत्||{1/13}{4.6.7.1}{6.19.1}{6.2.4.1}{846, 460, 4572}

इन्द्र॑मे॒व धि॒षणा᳚ सा॒तये᳚ धाद् बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा᳚नम्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अषा᳚ळ्हेन॒ शव॑सा शूशु॒वांसं᳚ स॒द्यश्चि॒द्‌ यो वा᳚वृ॒धे, असा᳚मि||{2/13}{4.6.7.2}{6.19.2}{6.2.4.2}{847, 460, 4573}

पृ॒थू क॒रस्ना᳚ बहु॒ला गभ॑स्ती, अस्म॒द्र्य१॑(अ॒)क्‌ सं मि॑मीहि॒ श्रवां᳚सि|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यू॒थेव॑ प॒श्वः प॑शु॒पा दमू᳚ना, अ॒स्माँ, इ᳚न्द्रा॒भ्या व॑वृत्स्वा॒जौ||{3/13}{4.6.7.3}{6.19.3}{6.2.4.3}{848, 460, 4574}

तं व॒ इन्द्रं᳚ च॒तिन॑मस्य शा॒कैरि॒ह नू॒नं वा᳚ज॒यन्तो᳚ हुवेम|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यथा᳚ चि॒त्‌ पूर्वे᳚ जरि॒तार॑ आ॒सुरने᳚द्या, अनव॒द्या, अरि॑ष्टाः||{4/13}{4.6.7.4}{6.19.4}{6.2.4.4}{849, 460, 4575}

धृ॒तव्र॑तो धन॒दाः सोम॑वृद्धः॒ स हि वा॒मस्य॒ वसु॑नः पुरु॒क्षुः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

सं ज॑ग्मिरे प॒थ्या॒३॑(आ॒) रायो᳚ अस्मिन् त्समु॒द्रे न सिन्ध॑वो॒ याद॑मानाः||{5/13}{4.6.7.5}{6.19.5}{6.2.4.5}{850, 460, 4576}

शवि॑ष्ठं न॒ आ भ॑र शूर॒ शव॒ ओजि॑ष्ठ॒मोजो᳚ अभिभूत उ॒ग्रम्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

विश्वा᳚ द्यु॒म्ना वृष्ण्या॒ मानु॑षाणाम॒स्मभ्यं᳚ दा हरिवो माद॒यध्यै᳚||{6/13}{4.6.8.1}{6.19.6}{6.2.4.6}{851, 460, 4577}

यस्ते॒ मदः॑ पृतना॒षाळमृ॑ध्र॒ इन्द्र॒ तं न॒ आ भ॑र शूशु॒वांस᳚म्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

येन॑ तो॒कस्य॒ तन॑यस्य सा॒तौ मं᳚सी॒महि॑ जिगी॒वांस॒स्त्वोताः᳚||{7/13}{4.6.8.2}{6.19.7}{6.2.4.7}{852, 460, 4578}

आ नो᳚ भर॒ वृष॑णं॒ शुष्म॑मिन्द्र धन॒स्पृतं᳚ शूशु॒वांसं᳚ सु॒दक्ष᳚म्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

येन॒ वंसा᳚म॒ पृत॑नासु॒ शत्रू॒न् तवो॒तिभि॑रु॒त जा॒मीँरजा᳚मीन्||{8/13}{4.6.8.3}{6.19.8}{6.2.4.8}{853, 460, 4579}

आ ते॒ शुष्मो᳚ वृष॒भ ए᳚तु प॒श्चादोत्त॒राद॑ध॒रादा पु॒रस्ता᳚त्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

आ वि॒श्वतो᳚ अ॒भि समे᳚त्व॒र्वाङिन्द्र॑ द्यु॒म्नं स्व᳚र्वद्धेह्य॒स्मे||{9/13}{4.6.8.4}{6.19.9}{6.2.4.9}{854, 460, 4580}

नृ॒वत्‌ त॑ इन्द्र॒ नृत॑माभिरू॒ती वं᳚सी॒महि॑ वा॒मं श्रोम॑तेभिः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ईक्षे॒ हि वस्व॑ उ॒भय॑स्य राज॒न् धा रत्नं॒ महि॑ स्थू॒रं बृ॒हन्त᳚म्||{10/13}{4.6.8.5}{6.19.10}{6.2.4.10}{855, 460, 4581}

म॒रुत्व᳚न्तं वृष॒भं वा᳚वृधा॒नमक॑वारिं दि॒व्यं शा॒समिन्द्र᳚म्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम||{11/13}{4.6.8.6}{6.19.11}{6.2.4.11}{856, 460, 4582}

जनं᳚ वज्रि॒न्‌ महि॑ चि॒न्मन्य॑मानमे॒भ्यो नृभ्यो᳚ रन्धया॒ येष्वस्मि॑|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अधा॒ हि त्वा᳚ पृथि॒व्यां शूर॑सातौ॒ हवा᳚महे॒ तन॑ये॒ गोष्व॒प्सु||{12/13}{4.6.8.7}{6.19.12}{6.2.4.12}{857, 460, 4583}

व॒यं त॑ ए॒भिः पु॑रुहूत स॒ख्यैः शत्रोः᳚शत्रो॒रुत्त॑र॒ इत्‌ स्या᳚म|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

घ्नन्तो᳚ वृ॒त्राण्यु॒भया᳚नि शूर रा॒या म॑देम बृह॒ता त्वोताः᳚||{13/13}{4.6.8.8}{6.19.13}{6.2.4.13}{858, 460, 4584}

[99] द्यौर्नयइति त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप्‌सप्तमीविराट्पंक्तिः |
द्यौर्न य इ᳚न्द्रा॒भि भूमा॒र्यस्त॒स्थौ र॒यिः शव॑सा पृ॒त्सु जना॑न्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तं नः॑ स॒हस्र॑भरमुर्वरा॒सां द॒द्धि सू᳚नो सहसो वृत्र॒तुर᳚म्||{1/13}{4.6.9.1}{6.20.1}{6.2.5.1}{859, 461, 4585}

दि॒वो न तुभ्य॒मन्‌ वि᳚न्द्र स॒त्रा ऽसु॒र्यं᳚ दे॒वेभि॑र्धायि॒ विश्व᳚म्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अहिं॒ यद्‌ वृ॒त्रम॒पो व᳚व्रि॒वांसं॒ हन्नृ॑जीषि॒न्‌ विष्णु॑ना सचा॒नः||{2/13}{4.6.9.2}{6.20.2}{6.2.5.2}{860, 461, 4586}

तूर्व॒न्नोजी᳚यान्‌ त॒वस॒स्तवी᳚यान् कृ॒तब्र॒ह्मेन्द्रो᳚ वृ॒द्धम॑हाः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

राजा᳚भव॒न्मधु॑नः सो॒म्यस्य॒ विश्वा᳚सां॒ यत्‌ पु॒रां द॒र्त्नुमाव॑त्||{3/13}{4.6.9.3}{6.20.3}{6.2.5.3}{861, 461, 4587}

श॒तैर॑पद्रन्‌ प॒णय॑ इ॒न्द्रात्र॒ दशो᳚णये क॒वये॒ऽर्कसा᳚तौ|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

व॒धैः शुष्ण॑स्या॒शुष॑स्य मा॒याः पि॒त्वो नारि॑रेची॒त्‌ किं च॒न प्र||{4/13}{4.6.9.4}{6.20.4}{6.2.5.4}{862, 461, 4588}

म॒हो द्रु॒हो, अप॑ वि॒श्वायु॑ धायि॒ वज्र॑स्य॒ यत्‌ पत॑ने॒ पादि॒ शुष्णः॑|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

उ॒रु ष स॒रथं॒ सार॑थये क॒रिन्द्रः॒ कुत्सा᳚य॒ सूर्य॑स्य सा॒तौ||{5/13}{4.6.9.5}{6.20.5}{6.2.5.5}{863, 461, 4589}

प्र श्ये॒नो न म॑दि॒रमं॒शुम॑स्मै॒ शिरो᳚ दा॒सस्य॒ नमु॑चेर्मथा॒यन्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

प्राव॒न्नमीं᳚ सा॒प्यं स॒सन्तं᳚ पृ॒णग्रा॒या समि॒षा सं स्व॒स्ति||{6/13}{4.6.10.1}{6.20.6}{6.2.5.6}{864, 461, 4590}

वि पिप्रो॒रहि॑मायस्य दृ॒ळ्हाः पुरो᳚ वज्रि॒ञ्छव॑सा॒ न द॑र्दः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | पङ्क्तिः}

सुदा᳚म॒न्‌ तद्‌ रेक्णो᳚ अप्रमृ॒ष्यमृ॒जिश्व॑ने दा॒त्रं दा॒शुषे᳚ दाः||{7/13}{4.6.10.2}{6.20.7}{6.2.5.7}{865, 461, 4591}

स वे᳚त॒सुं दश॑मायं॒ दशो᳚णिं॒ तूतु॑जि॒मिन्द्रः॑ स्वभि॒ष्टिसु᳚म्नः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

आ तुग्रं॒ शश्व॒दिभं॒ द्योत॑नाय मा॒तुर्न सी॒मुप॑ सृजा, इ॒यध्यै᳚||{8/13}{4.6.10.3}{6.20.8}{6.2.5.8}{866, 461, 4592}

स ईं॒ स्पृधो᳚ वनते॒, अप्र॑तीतो॒ बिभ्र॒द्‌ वज्रं᳚ वृत्र॒हणं॒ गभ॑स्तौ|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तिष्ठ॒द्धरी॒, अध्यस्ते᳚व॒ गर्ते᳚ वचो॒युजा᳚ वहत॒ इन्द्र॑मृ॒ष्वम्||{9/13}{4.6.10.4}{6.20.9}{6.2.5.9}{867, 461, 4593}

स॒नेम॒ तेऽव॑सा॒ नव्य॑ इन्द्र॒ प्र पू॒रवः॑ स्तवन्त ए॒ना य॒ज्ञैः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

स॒प्त यत्‌ पुरः॒ शर्म॒ शार॑दी॒र्दर्द्धन्दासीः᳚ पुरु॒कुत्सा᳚य॒ शिक्ष॑न्||{10/13}{4.6.10.5}{6.20.10}{6.2.5.10}{868, 461, 4594}

त्वं वृ॒ध इ᳚न्द्र पू॒र्व्यो भू᳚र्वरिव॒स्यन्नु॒शने᳚ का॒व्याय॑|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

परा॒ नव॑वास्त्वमनु॒देयं᳚ म॒हे पि॒त्रे द॑दाथ॒ स्वं नपा᳚तम्||{11/13}{4.6.10.6}{6.20.11}{6.2.5.11}{869, 461, 4595}

त्वं धुनि॑रिन्द्र॒ धुनि॑मतीरृ॒णोर॒पः सी॒रा न स्रव᳚न्तीः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

प्र यत्‌ स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया᳚ तु॒र्वशं॒ यदुं᳚ स्व॒स्ति||{12/13}{4.6.10.7}{6.20.12}{6.2.5.12}{870, 461, 4596}

तव॑ ह॒ त्यदि᳚न्द्र॒ विश्व॑मा॒जौ स॒स्तो धुनी॒चुमु॑री॒ या ह॒ सिष्व॑प्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

दी॒दय॒दित्‌ तुभ्यं॒ सोमे᳚भिः सु॒न्वन् द॒भीति॑रि॒ध्मभृ॑तिः प॒क्थ्य१॑(अ॒)र्कैः||{13/13}{4.6.10.8}{6.20.13}{6.2.5.13}{871, 461, 4597}

[100] इमाउत्वेति द्वादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रो नवम्येकादश्योर्विश्वेदेवास्त्रिष्टुप् |
इ॒मा, उ॑ त्वा पुरु॒तम॑स्य का॒रोर्हव्यं᳚ वीर॒ हव्या᳚ हवन्ते|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

धियो᳚ रथे॒ष्ठाम॒जरं॒ नवी᳚यो र॒यिर्विभू᳚तिरीयते वच॒स्या||{1/12}{4.6.11.1}{6.21.1}{6.2.6.1}{872, 462, 4598}

तमु॑ स्तुष॒ इन्द्रं॒ यो विदा᳚नो॒ गिर्वा᳚हसं गी॒र्भिर्य॒ज्ञवृ॑द्धम्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यस्य॒ दिव॒मति॑ म॒ह्ना पृ॑थि॒व्याः पु॑रुमा॒यस्य॑ रिरि॒चे म॑हि॒त्वम्||{2/12}{4.6.11.2}{6.21.2}{6.2.6.2}{873, 462, 4599}

स इत्‌ तमो᳚ऽवयु॒नं त॑त॒न्वत् सूर्ये᳚ण व॒युन॑वच्चकार|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

क॒दा ते॒ मर्ता᳚ अ॒मृत॑स्य॒ धामेय॑क्षन्तो॒ न मि॑नन्ति स्वधावः||{3/12}{4.6.11.3}{6.21.3}{6.2.6.3}{874, 462, 4600}

यस्ता च॒कार॒ स कुह॑ स्वि॒दिन्द्रः॒ कमा जनं᳚ चरति॒ कासु॑ वि॒क्षु|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

कस्ते᳚ य॒ज्ञो मन॑से॒ शं वरा᳚य॒ को, अ॒र्क इ᳚न्द्र कत॒मः स होता᳚||{4/12}{4.6.11.4}{6.21.4}{6.2.6.4}{875, 462, 4601}

इ॒दा हि ते॒ वेवि॑षतः पुरा॒जाः प्र॒त्नास॑ आ॒सुः पु॑रुकृ॒त्‌ सखा᳚यः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ये म॑ध्य॒मास॑ उ॒त नूत॑नास उ॒ताव॒मस्य॑ पुरुहूत बोधि||{5/12}{4.6.11.5}{6.21.5}{6.2.6.5}{876, 462, 4602}

तं पृ॒च्छन्तोऽव॑रासः॒ परा᳚णि प्र॒त्ना त॑ इन्द्र॒ श्रुत्यानु॑ येमुः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अर्चा᳚मसि वीर ब्रह्मवाहो॒ यादे॒व वि॒द्म तात्‌ त्वा᳚ म॒हान्त᳚म्||{6/12}{4.6.12.1}{6.21.6}{6.2.6.6}{877, 462, 4603}

अ॒भि त्वा॒ पाजो᳚ र॒क्षसो॒ वि त॑स्थे॒ महि॑ जज्ञा॒नम॒भि तत्सु ति॑ष्ठ|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तव॑ प्र॒त्नेन॒ युज्ये᳚न॒ सख्या॒ वज्रे᳚ण धृष्णो॒, अप॒ ता नु॑दस्व||{7/12}{4.6.12.2}{6.21.7}{6.2.6.7}{878, 462, 4604}

स तु श्रु॑धीन्द्र॒ नूत॑नस्य ब्रह्मण्य॒तो वी᳚र कारुधायः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वं ह्या॒३॑(आ॒)पिः प्र॒दिवि॑ पितॄ॒णां शश्व॑द्‌ ब॒भूथ॑ सु॒हव॒ एष्टौ᳚||{8/12}{4.6.12.3}{6.21.8}{6.2.6.8}{879, 462, 4605}

प्रोतये॒ वरु॑णं मि॒त्रमिन्द्रं᳚ म॒रुतः॑ कृ॒ष्वाव॑से नो, अ॒द्य|{बार्हस्पत्यो भरद्वाजः | विश्वेदेवाः | त्रिष्टुप्}

प्र पू॒षणं॒ विष्णु॑म॒ग्निं पुरं᳚धिं सवि॒तार॒मोष॑धीः॒ पर्व॑ताँश्च||{9/12}{4.6.12.4}{6.21.9}{6.2.6.9}{880, 462, 4606}

इ॒म उ॑ त्वा पुरुशाक प्रयज्यो जरि॒तारो᳚ अ॒भ्य॑र्चन्त्य॒र्कैः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

श्रु॒धी हव॒मा हु॑व॒तो हु॑वा॒नो न त्वावाँ᳚, अ॒न्यो, अ॑मृत॒ त्वद॑स्ति||{10/12}{4.6.12.5}{6.21.10}{6.2.6.10}{881, 462, 4607}

नू म॒ आ वाच॒मुप॑ याहि वि॒द्वान् विश्वे᳚भिः सूनो सहसो॒ यज॑त्रैः|{बार्हस्पत्यो भरद्वाजः | विश्वेदेवाः | त्रिष्टुप्}

ये, अ॑ग्निजि॒ह्वा, ऋ॑त॒साप॑ आ॒सुर्ये मनुं᳚ च॒क्रुरुप॑रं॒ दसा᳚य||{11/12}{4.6.12.6}{6.21.11}{6.2.6.11}{882, 462, 4608}

स नो᳚ बोधि पुरए॒ता सु॒गेषू॒त दु॒र्गेषु॑ पथि॒कृद्‌ विदा᳚नः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ये, अश्र॑मास उ॒रवो॒ वहि॑ष्ठा॒स्तेभि᳚र्न इन्द्रा॒भि व॑क्षि॒ वाज᳚म्||{12/12}{4.6.12.7}{6.21.12}{6.2.6.12}{883, 462, 4609}

[101] यएकइदित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |
य एक॒ इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒ तं गी॒र्भिर॒भ्य॑र्च आ॒भिः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यः पत्य॑ते वृष॒भो वृष्ण्या᳚वान् त्स॒त्यः सत्वा᳚ पुरुमा॒यः सह॑स्वान्||{1/11}{4.6.13.1}{6.22.1}{6.2.7.1}{884, 463, 4610}

तमु॑ नः॒ पूर्वे᳚ पि॒तरो॒ नव॑ग्वाः स॒प्त विप्रा᳚सो, अ॒भि वा॒जय᳚न्तः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

न॒क्ष॒द्दा॒भं ततु॑रिं पर्वते॒ष्ठामद्रो᳚घवाचं म॒तिभिः॒ शवि॑ष्ठम्||{2/11}{4.6.13.2}{6.22.2}{6.2.7.2}{885, 463, 4611}

तमी᳚मह॒ इन्द्र॑मस्य रा॒यः पु॑रु॒वीर॑स्य नृ॒वतः॑ पुरु॒क्षोः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यो, अस्कृ॑धोयुर॒जरः॒ स्व᳚र्वा॒न् तमा भ॑र हरिवो माद॒यध्यै᳚||{3/11}{4.6.13.3}{6.22.3}{6.2.7.3}{886, 463, 4612}

तन्नो॒ वि वो᳚चो॒ यदि॑ ते पु॒रा चि॑ज्जरि॒तार॑ आन॒शुः सु॒म्नमि᳚न्द्र|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

कस्ते᳚ भा॒गः किं वयो᳚ दुध्र खिद्वः॒ पुरु॑हूत पुरूवसोऽसुर॒घ्नः||{4/11}{4.6.13.4}{6.22.4}{6.2.7.4}{887, 463, 4613}

तं पृ॒च्छन्ती॒ वज्र॑हस्तं रथे॒ष्ठामिन्द्रं॒ वेपी॒ वक्व॑री॒ यस्य॒ नू गीः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तु॒वि॒ग्रा॒भं तु॑विकू॒र्मिं र॑भो॒दां गा॒तुमि॑षे॒ नक्ष॑ते॒ तुम्र॒मच्छ॑||{5/11}{4.6.13.5}{6.22.5}{6.2.7.5}{888, 463, 4614}

अ॒या ह॒ त्यं मा॒यया᳚ वावृधा॒नं म॑नो॒जुवा᳚ स्वतवः॒ पर्व॑तेन|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अच्यु॑ता चिद्‌ वीळि॒ता स्वो᳚जो रु॒जो वि दृ॒ळ्हा धृ॑ष॒ता वि॑रप्शिन्||{6/11}{4.6.14.1}{6.22.6}{6.2.7.6}{889, 463, 4615}

तं वो᳚ धि॒या नव्य॑स्या॒ शवि॑ष्ठं प्र॒त्नं प्र॑त्न॒वत्‌ प॑रितंस॒यध्यै᳚|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

स नो᳚ वक्षदनिमा॒नः सु॒वह्मेन्द्रो॒ विश्वा॒न्यति॑ दु॒र्गहा᳚णि||{7/11}{4.6.14.2}{6.22.7}{6.2.7.7}{890, 463, 4616}

आ जना᳚य॒ द्रुह्व॑णे॒ पार्थि॑वानि दि॒व्यानि॑ दीपयो॒ऽन्तरि॑क्षा|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तपा᳚ वृषन्‌ वि॒श्वतः॑ शो॒चिषा॒ तान् ब्र᳚ह्म॒द्विषे᳚ शोचय॒ क्षाम॒पश्च॑||{8/11}{4.6.14.3}{6.22.8}{6.2.7.8}{891, 463, 4617}

भुवो॒ जन॑स्य दि॒व्यस्य॒ राजा॒ पार्थि॑वस्य॒ जग॑तस्त्वेषसंदृक्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

धि॒ष्व वज्रं॒ दक्षि॑ण इन्द्र॒ हस्ते॒ विश्वा᳚ अजुर्य दयसे॒ वि मा॒याः||{9/11}{4.6.14.4}{6.22.9}{6.2.7.9}{892, 463, 4618}

आ सं॒यत॑मिन्द्र णः स्व॒स्तिं श॑त्रु॒तूर्या᳚य बृह॒तीममृ॑ध्राम्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यया॒ दासा॒न्यार्या᳚णि वृ॒त्रा करो᳚ वज्रिन्‌ त्सु॒तुका॒ नाहु॑षाणि||{10/11}{4.6.14.5}{6.22.10}{6.2.7.10}{893, 463, 4619}

स नो᳚ नि॒युद्भिः॑ पुरुहूत वेधो वि॒श्ववा᳚राभि॒रा ग॑हि प्रयज्यो|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

न या, अदे᳚वो॒ वर॑ते॒ न दे॒व आभि᳚र्याहि॒ तूय॒मा म॑द्र्य॒द्रिक्||{11/11}{4.6.14.6}{6.22.11}{6.2.7.11}{894, 463, 4620}

[102] सुतइदिति दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |
सु॒त इत्‌ त्वं निमि॑श्ल इन्द्र॒ सोमे॒ स्तोमे॒ ब्रह्म॑णि श॒स्यमा᳚न उ॒क्थे|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यद्‌ वा᳚ यु॒क्ताभ्यां᳚ मघव॒न्‌ हरि॑भ्यां॒ बिभ्र॒द्‌ वज्रं᳚ बा॒ह्वोरि᳚न्द्र॒ यासि॑||{1/10}{4.6.15.1}{6.23.1}{6.2.8.1}{895, 464, 4621}

यद्‌ वा᳚ दि॒वि पार्ये॒ सुष्वि॑मिन्द्र वृत्र॒हत्येऽव॑सि॒ शूर॑सातौ|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यद्‌ वा॒ दक्ष॑स्य बि॒भ्युषो॒, अबि॑भ्य॒दर᳚न्धयः॒ शर्ध॑त इन्द्र॒ दस्यू॑न्||{2/10}{4.6.15.2}{6.23.2}{6.2.8.2}{896, 464, 4622}

पाता᳚ सु॒तमिन्द्रो᳚ अस्तु॒ सोमं᳚ प्रणे॒नीरु॒ग्रो ज॑रि॒तार॑मू॒ती|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

कर्ता᳚ वी॒राय॒ सुष्व॑य उ लो॒कं दाता॒ वसु॑ स्तुव॒ते की॒रये᳚ चित्||{3/10}{4.6.15.3}{6.23.3}{6.2.8.3}{897, 464, 4623}

गन्तेया᳚न्ति॒ सव॑ना॒ हरि॑भ्यां ब॒भ्रिर्वज्रं᳚ प॒पिः सोमं᳚ द॒दिर्गाः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

कर्ता᳚ वी॒रं नर्यं॒ सर्व॑वीरं॒ श्रोता॒ हवं᳚ गृण॒तः स्तोम॑वाहाः||{4/10}{4.6.15.4}{6.23.4}{6.2.8.4}{898, 464, 4624}

अस्मै᳚ व॒यं यद्‌ वा॒वान॒ तद्‌ वि॑विष्म॒ इन्द्रा᳚य॒ यो नः॑ प्र॒दिवो॒, अप॒स्कः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

सु॒ते सोमे᳚ स्तु॒मसि॒ शंस॑दु॒क्थेन्द्रा᳚य॒ ब्रह्म॒ वर्ध॑नं॒ यथास॑त्||{5/10}{4.6.15.5}{6.23.5}{6.2.8.5}{899, 464, 4625}

ब्रह्मा᳚णि॒ हि च॑कृ॒षे वर्ध॑नानि॒ ताव॑त्‌ त इन्द्र म॒तिभि᳚र्विविष्मः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

सु॒ते सोमे᳚ सुतपाः॒ शंत॑मानि॒ रान्द्र्या᳚ क्रियास्म॒ वक्ष॑णानि य॒ज्ञैः||{6/10}{4.6.16.1}{6.23.6}{6.2.8.6}{900, 464, 4626}

स नो᳚ बोधि पुरो॒ळाशं॒ ररा᳚णः॒ पिबा॒ तु सोमं॒ गोऋ॑जीकमिन्द्र|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

एदं ब॒र्हिर्यज॑मानस्य सीदो॒रुं कृ॑धि त्वाय॒त उ॑ लो॒कम्||{7/10}{4.6.16.2}{6.23.7}{6.2.8.7}{901, 464, 4627}

स म᳚न्दस्वा॒ ह्यनु॒ जोष॑मुग्र॒ प्र त्वा᳚ य॒ज्ञास॑ इ॒मे, अ॑श्नुवन्तु|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

प्रेमे हवा᳚सः पुरुहू॒तम॒स्मे, आ त्वे॒यं धीरव॑स इन्द्र यम्याः||{8/10}{4.6.16.3}{6.23.8}{6.2.8.8}{902, 464, 4628}

तं वः॑ सखायः॒ सं यथा᳚ सु॒तेषु॒ सोमे᳚भिरीं पृणता भो॒जमिन्द्र᳚म्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

कु॒वित्‌ तस्मा॒, अस॑ति नो॒ भरा᳚य॒ न सुष्वि॒मिन्द्रोऽव॑से मृधाति||{9/10}{4.6.16.4}{6.23.9}{6.2.8.9}{903, 464, 4629}

ए॒वेदिन्द्रः॑ सु॒ते, अ॑स्तावि॒ सोमे᳚ भ॒रद्वा᳚जेषु॒ क्षय॒दिन्म॒घोनः॑|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अस॒द्‌ यथा᳚ जरि॒त्र उ॒त सू॒रिरिन्द्रो᳚ रा॒यो वि॒श्ववा᳚रस्य दा॒ता||{10/10}{4.6.16.5}{6.23.10}{6.2.8.10}{904, 464, 4630}

[103] वृषामदइति दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रत्रिष्टुप् |
वृषा॒ मद॒ इन्द्रे॒ श्लोक॑ उ॒क्था सचा॒ सोमे᳚षु सुत॒पा, ऋ॑जी॒षी|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अ॒र्च॒त्र्यो᳚ म॒घवा॒ नृभ्य॑ उ॒क्थैर्द्यु॒क्षो राजा᳚ गि॒रामक्षि॑तोतिः||{1/10}{4.6.17.1}{6.24.1}{6.3.1.1}{905, 465, 4631}

ततु॑रिर्वी॒रो नर्यो॒ विचे᳚ताः॒ श्रोता॒ हवं᳚ गृण॒त उ॒र्व्यू᳚तिः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वसुः॒ शंसो᳚ न॒रां का॒रुधा᳚या वा॒जी स्तु॒तो वि॒दथे᳚ दाति॒ वाज᳚म्||{2/10}{4.6.17.2}{6.24.2}{6.3.1.2}{906, 465, 4632}

अक्षो॒ न च॒क्र्योः᳚ शूर बृ॒हन् प्र ते᳚ म॒ह्ना रि॑रिचे॒ रोद॑स्योः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वृ॒क्षस्य॒ नु ते᳚ पुरुहूत व॒या व्यू॒३॑(ऊ॒)तयो᳚ रुरुहुरिन्द्र पू॒र्वीः||{3/10}{4.6.17.3}{6.24.3}{6.3.1.3}{907, 465, 4633}

शची᳚वतस्ते पुरुशाक॒ शाका॒ गवा᳚मिव स्रु॒तयः॑ सं॒चर॑णीः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

व॒त्सानां॒ न त॒न्तय॑स्त इन्द्र॒ दाम᳚न्वन्तो, अदा॒मानः॑ सुदामन्||{4/10}{4.6.17.4}{6.24.4}{6.3.1.4}{908, 465, 4634}

अ॒न्यद॒द्य कर्व॑रम॒न्यदु॒ श्वो ऽस॑च्च॒ सन्मुहु॑राच॒क्रिरिन्द्रः॑|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

मि॒त्रो नो॒, अत्र॒ वरु॑णश्च पू॒षा ऽर्यो वश॑स्य पर्ये॒तास्ति॑||{5/10}{4.6.17.5}{6.24.5}{6.3.1.5}{909, 465, 4635}

वि त्वदापो॒ न पर्व॑तस्य पृ॒ष्ठादु॒क्थेभि॑रिन्द्रानयन्त य॒ज्ञैः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तं त्वा॒भिः सु॑ष्टु॒तिभि᳚र्वा॒जय᳚न्त आ॒जिं न ज॑ग्मुर्गिर्वाहो॒, अश्वाः᳚||{6/10}{4.6.18.1}{6.24.6}{6.3.1.6}{910, 465, 4636}

न यं जर᳚न्ति श॒रदो॒ न मासा॒ न द्याव॒ इन्द्र॑मवक॒र्शय᳚न्ति|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वृ॒द्धस्य॑ चिद्‌ वर्धतामस्य त॒नूः स्तोमे᳚भिरु॒क्थैश्च॑ श॒स्यमा᳚ना||{7/10}{4.6.18.2}{6.24.7}{6.3.1.7}{911, 465, 4637}

न वी॒ळवे॒ नम॑ते॒ न स्थि॒राय॒ न शर्ध॑ते॒ दस्यु॑जूताय स्त॒वान्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अज्रा॒, इन्द्र॑स्य गि॒रय॑श्चिदृ॒ष्वा ग᳚म्भी॒रे चि॑द्‌ भवति गा॒धम॑स्मै||{8/10}{4.6.18.3}{6.24.8}{6.3.1.8}{912, 465, 4638}

ग॒म्भी॒रेण॑ न उ॒रुणा᳚मत्रि॒न् प्रेषो य᳚न्धि सुतपाव॒न्‌ वाजा॑न्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

स्था, ऊ॒ षु ऊ॒र्ध्व ऊ॒ती, अरि॑षण्यन्न॒क्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाम्||{9/10}{4.6.18.4}{6.24.9}{6.3.1.9}{913, 465, 4639}

सच॑स्व ना॒यमव॑से, अ॒भीक॑ इ॒तो वा॒ तमि᳚न्द्र पाहि रि॒षः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अ॒मा चै᳚न॒मर᳚ण्ये पाहि रि॒षो मदे᳚म श॒तहि॑माः सु॒वीराः᳚||{10/10}{4.6.18.5}{6.24.10}{6.3.1.10}{914, 465, 4640}

[104] यातऊतिरिति नवर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |
या त॑ ऊ॒तिर॑व॒मा या प॑र॒मा या म॑ध्य॒मेन्द्र॑ शुष्मि॒न्नस्ति॑|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ताभि॑रू॒ षु वृ॑त्र॒हत्ये᳚ऽवीर्न ए॒भिश्च॒ वाजै᳚र्म॒हान्‌ न॑ उग्र||{1/9}{4.6.19.1}{6.25.1}{6.3.2.1}{915, 466, 4641}

आभिः॒ स्पृधो᳚ मिथ॒तीररि॑षण्यन्न॒मित्र॑स्य व्यथया म॒न्युमि᳚न्द्र|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

आभि॒र्विश्वा᳚ अभि॒युजो॒ विषू᳚ची॒रार्या᳚य॒ विशोऽव॑ तारी॒र्दासीः᳚||{2/9}{4.6.19.2}{6.25.2}{6.3.2.2}{916, 466, 4642}

इन्द्र॑ जा॒मय॑ उ॒त येऽजा᳚मयोऽर्वाची॒नासो᳚ व॒नुषो᳚ युयु॒ज्रे|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वमे᳚षां विथु॒रा शवां᳚सि ज॒हि वृष्ण्या᳚नि कृणु॒ही परा᳚चः||{3/9}{4.6.19.3}{6.25.3}{6.3.2.3}{917, 466, 4643}

शूरो᳚ वा॒ शूरं᳚ वनते॒ शरी᳚रैस्तनू॒रुचा॒ तरु॑षि॒ यत्‌ कृ॒ण्वैते᳚|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तो॒के वा॒ गोषु॒ तन॑ये॒ यद॒प्सु वि क्रन्द॑सी, उ॒र्वरा᳚सु॒ ब्रवै᳚ते||{4/9}{4.6.19.4}{6.25.4}{6.3.2.4}{918, 466, 4644}

न॒हि त्वा॒ शूरो॒ न तु॒रो न धृ॒ष्णुर्न त्वा᳚ यो॒धो मन्य॑मानो यु॒योध॑|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒ नकि॑ष्ट्वा॒ प्रत्य॑स्त्येषां॒ विश्वा᳚ जा॒तान्य॒भ्य॑सि॒ तानि॑||{5/9}{4.6.19.5}{6.25.5}{6.3.2.5}{919, 466, 4645}

स प॑त्यत उ॒भयो᳚र्नृ॒म्णम॒योर्यदी᳚ वे॒धसः॑ समि॒थे हव᳚न्ते|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वृ॒त्रे वा᳚ म॒हो नृ॒वति॒ क्षये᳚ वा॒ व्यच॑स्वन्ता॒ यदि॑ वितन्त॒सैते᳚||{6/9}{4.6.20.1}{6.25.6}{6.3.2.6}{920, 466, 4646}

अध॑ स्मा ते चर्ष॒णयो॒ यदेजा॒निन्द्र॑ त्रा॒तोत भ॑वा वरू॒ता|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अ॒स्माका᳚सो॒ ये नृत॑मासो, अ॒र्य इन्द्र॑ सू॒रयो᳚ दधि॒रे पु॒रो नः॑||{7/9}{4.6.20.2}{6.25.7}{6.3.2.7}{921, 466, 4647}

अनु॑ ते दायि म॒ह इ᳚न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये᳚|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अनु॑ क्ष॒त्रमनु॒ सहो᳚ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये᳚||{8/9}{4.6.20.3}{6.25.8}{6.3.2.8}{922, 466, 4648}

ए॒वा नः॒ स्पृधः॒ सम॑जा स॒मत्स्विन्द्र॑ रार॒न्धि मि॑थ॒तीरदे᳚वीः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो᳚ भ॒रद्वा᳚जा, उ॒त त॑ इन्द्र नू॒नम्||{9/9}{4.6.20.4}{6.25.9}{6.3.2.9}{923, 466, 4649}

[105] श्रुधीनइत्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |
श्रु॒धी न॑ इन्द्र॒ ह्वया᳚मसि त्वा म॒हो वाज॑स्य सा॒तौ वा᳚वृषा॒णाः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

सं यद्‌ विशोऽय᳚न्त॒ शूर॑साता, उ॒ग्रं नोऽवः॒ पार्ये॒, अह᳚न्‌ दाः||{1/8}{4.6.21.1}{6.26.1}{6.3.3.1}{924, 467, 4650}

त्वां वा॒जी ह॑वते वाजिने॒यो म॒हो वाज॑स्य॒ गध्य॑स्य सा॒तौ|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वां वृ॒त्रेष्वि᳚न्द्र॒ सत्प॑तिं॒ तरु॑त्रं॒ त्वां च॑ष्टे मुष्टि॒हा गोषु॒ युध्य॑न्||{2/8}{4.6.21.2}{6.26.2}{6.3.3.2}{925, 467, 4651}

त्वं क॒विं चो᳚दयो॒ऽर्कसा᳚तौ॒ त्वं कुत्सा᳚य॒ शुष्णं᳚ दा॒शुषे᳚ वर्क्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वं शिरो᳚ अम॒र्मणः॒ परा᳚हन्नतिथि॒ग्वाय॒ शंस्यं᳚ करि॒ष्यन्||{3/8}{4.6.21.3}{6.26.3}{6.3.3.3}{926, 467, 4652}

त्वं रथं॒ प्र भ॑रो यो॒धमृ॒ष्वमावो॒ युध्य᳚न्तं वृष॒भं दश॑द्युम्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वं तुग्रं᳚ वेत॒सवे॒ सचा᳚ह॒न् त्वं तुजिं᳚ गृ॒णन्त॑मिन्द्र तूतोः||{4/8}{4.6.21.4}{6.26.4}{6.3.3.4}{927, 467, 4653}

त्वं तदु॒क्थमि᳚न्द्र ब॒र्हणा᳚ कः॒ प्र यच्छ॒ता स॒हस्रा᳚ शूर॒ दर्षि॑|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अव॑ गि॒रेर्दासं॒ शम्ब॑रं ह॒न् प्रावो॒ दिवो᳚दासं चि॒त्राभि॑रू॒ती||{5/8}{4.6.21.5}{6.26.5}{6.3.3.5}{928, 467, 4654}

त्वं श्र॒द्धाभि᳚र्मन्दसा॒नः सोमै᳚र्द॒भीत॑ये॒ चुमु॑रिमिन्द्र सिष्वप्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वं र॒जिं पिठी᳚नसे दश॒स्यन् ष॒ष्टिं स॒हस्रा॒ शच्या॒ सचा᳚हन्||{6/8}{4.6.22.1}{6.26.6}{6.3.3.6}{929, 467, 4655}

अ॒हं च॒न तत्‌ सू॒रिभि॑रानश्यां॒ तव॒ ज्याय॑ इन्द्र सु॒म्नमोजः॑|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वया॒ यत्‌ स्तव᳚न्ते सधवीर वी॒रास्त्रि॒वरू᳚थेन॒ नहु॑षा शविष्ठ||{7/8}{4.6.22.2}{6.26.7}{6.3.3.7}{930, 467, 4656}

व॒यं ते᳚ अ॒स्यामि᳚न्द्र द्यु॒म्नहू᳚तौ॒ सखा᳚यः स्याम महिन॒ प्रेष्ठाः᳚|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

प्रात॑र्दनिः, क्षत्र॒श्रीर॑स्तु॒ श्रेष्ठो᳚ घ॒ने वृ॒त्राणां᳚ स॒नये॒ धना᳚नाम्||{8/8}{4.6.22.3}{6.26.8}{6.3.3.8}{931, 467, 4657}

[106] किमस्यमदइत्यष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजरंद्र अंत्यायाश्चायमानोराजात्रिष्टुप् (चायमानस्यराज्ञोदानस्तुतिः) |
किम॑स्य॒ मदे॒ किम्व॑स्य पी॒ताविन्द्रः॒ किम॑स्य स॒ख्ये च॑कार|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

रणा᳚ वा॒ ये नि॒षदि॒ किं ते, अ॑स्य पु॒रा वि॑विद्रे॒ किमु॒ नूत॑नासः||{1/8}{4.6.23.1}{6.27.1}{6.3.4.1}{932, 468, 4658}

सद॑स्य॒ मदे॒ सद्व॑स्य पी॒ताविन्द्रः॒ सद॑स्य स॒ख्ये च॑कार|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

रणा᳚ वा॒ ये नि॒षदि॒ सत्‌ ते, अ॑स्य पु॒रा वि॑विद्रे॒ सदु॒ नूत॑नासः||{2/8}{4.6.23.2}{6.27.2}{6.3.4.2}{933, 468, 4659}

न॒हि नु ते᳚ महि॒मनः॑ समस्य॒ न म॑घवन्‌ मघव॒त्त्वस्य॑ वि॒द्म|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

न राध॑सोराधसो॒ नूत॑न॒स्येन्द्र॒ नकि॑र्ददृश इन्द्रि॒यं ते᳚||{3/8}{4.6.23.3}{6.27.3}{6.3.4.3}{934, 468, 4660}

ए॒तत्‌ त्यत्‌ त॑ इन्द्रि॒यम॑चेति॒ येनाव॑धीर्व॒रशि॑खस्य॒ शेषः॑|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वज्र॑स्य॒ यत्‌ ते॒ निह॑तस्य॒ शुष्मा᳚त् स्व॒नाच्चि॑दिन्द्र पर॒मो द॒दार॑||{4/8}{4.6.23.4}{6.27.4}{6.3.4.4}{935, 468, 4661}

वधी॒दिन्द्रो᳚ व॒रशि॑खस्य॒ शेषो᳚ ऽभ्याव॒र्तिने᳚ चायमा॒नाय॒ शिक्ष॑न्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वृ॒चीव॑तो॒ यद्ध॑रियू॒पीया᳚यां॒ हन्‌ पूर्वे॒, अर्धे᳚ भि॒यसाप॑रो॒ दर्त्||{5/8}{4.6.23.5}{6.27.5}{6.3.4.5}{936, 468, 4662}

त्रिं॒शच्छ॑तं व॒र्मिण॑ इन्द्र सा॒कं य॒व्याव॑त्यां पुरुहूत श्रव॒स्या|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वृ॒चीव᳚न्तः॒ शर॑वे॒ पत्य॑मानाः॒ पात्रा᳚ भिन्दा॒ना न्य॒र्थान्या᳚यन्||{6/8}{4.6.24.1}{6.27.6}{6.3.4.6}{937, 468, 4663}

यस्य॒ गावा᳚वरु॒षा सू᳚यव॒स्यू, अ॒न्तरू॒ षु चर॑तो॒ रेरि॑हाणा|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

स सृञ्ज॑याय तु॒र्वशं॒ परा᳚दाद् वृ॒चीव॑तो दैववा॒ताय॒ शिक्ष॑न्||{7/8}{4.6.24.2}{6.27.7}{6.3.4.7}{938, 468, 4664}

द्व॒याँ, अ॑ग्ने र॒थिनो᳚ विंश॒तिं गा व॒धूम॑तो म॒घवा॒ मह्यं᳚ स॒म्राट्|{बार्हस्पत्यो भरद्वाजः | चायमानोराजा | त्रिष्टुप्}

अ॒भ्या॒व॒र्ती चा᳚यमा॒नो द॑दाति दू॒णाशे॒यं दक्षि॑णा पार्थ॒वाना᳚म्||{8/8}{4.6.24.3}{6.27.8}{6.3.4.8}{939, 468, 4665}

[107] आगावइत्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोगौस्त्रिष्टुप् (द्वितीयाया इंद्रश्चांत्यपादस्यच) द्वितीयाध्यास्तिस्रोजगत्योंत्यानुष्टुप् |
आ गावो᳚ अग्मन्नु॒त भ॒द्रम॑क्र॒न् त्सीद᳚न्तु गो॒ष्ठे र॒णय᳚न्त्व॒स्मे|{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्}

प्र॒जाव॑तीः पुरु॒रूपा᳚ इ॒ह स्यु॒रिन्द्रा᳚य पू॒र्वीरु॒षसो॒ दुहा᳚नाः||{1/8}{4.6.25.1}{6.28.1}{6.3.5.1}{940, 469, 4666}

इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिक्ष॒त्युपेद्‌ द॑दाति॒ न स्वं मु॑षायति|{बार्हस्पत्यो भरद्वाजः | गाव इन्द्रो वा | जगती}

भूयो᳚भूयो र॒यिमिद॑स्य व॒र्धय॒न्नभि᳚न्ने खि॒ल्ये नि द॑धाति देव॒युम्||{2/8}{4.6.25.2}{6.28.2}{6.3.5.2}{941, 469, 4667}

न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रो॒ नासा᳚मामि॒त्रो व्यथि॒रा द॑धर्षति|{बार्हस्पत्यो भरद्वाजः | गावः | जगती}

दे॒वाँश्च॒ याभि॒र्यज॑ते॒ ददा᳚ति च॒ ज्योगित्ताभिः॑ सचते॒ गोप॑तिः स॒ह||{3/8}{4.6.25.3}{6.28.3}{6.3.5.3}{942, 469, 4668}

न ता, अर्वा᳚ रे॒णुक॑काटो, अश्नुते॒ न सं᳚स्कृत॒त्रमुप॑ यन्ति॒ ता, अ॒भि|{बार्हस्पत्यो भरद्वाजः | गावः | जगती}

उ॒रु॒गा॒यमभ॑यं॒ तस्य॒ ता, अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः||{4/8}{4.6.25.4}{6.28.4}{6.3.5.4}{943, 469, 4669}

गावो॒ भगो॒ गाव॒ इन्द्रो᳚ मे, अच्छा॒न् गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः|{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्}

इ॒मा या गावः॒ स ज॑नास॒ इन्द्र॑ इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्र᳚म्||{5/8}{4.6.25.5}{6.28.5}{6.3.5.5}{944, 469, 4670}

यू॒यं गा᳚वो मेदयथा कृ॒शं चि॑दश्री॒रं चि॑त्‌ कृणुथा सु॒प्रती᳚कम्|{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्}

भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचो बृ॒हद्‌ वो॒ वय॑ उच्यते स॒भासु॑||{6/8}{4.6.25.6}{6.28.6}{6.3.5.6}{945, 469, 4671}

प्र॒जाव॑तीः सू॒यव॑सं रि॒शन्तीः᳚ शु॒द्धा, अ॒पः सु॑प्रपा॒णे पिब᳚न्तीः|{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्}

मा वः॑ स्ते॒न ई᳚शत॒ माघशं᳚सः॒ परि॑ वो हे॒ती रु॒द्रस्य॑ वृज्याः||{7/8}{4.6.25.7}{6.28.7}{6.3.5.7}{946, 469, 4672}

उपे॒दमु॑प॒पर्च॑नमा॒सु गोषूप॑ पृच्यताम्|{बार्हस्पत्यो भरद्वाजः | गाव इन्द्रो वा | अनुष्टुप्}

उप॑ ऋष॒भस्य॒ रेत॒स्युपे᳚न्द्र॒ तव॑ वी॒र्ये᳚||{8/8}{4.6.25.8}{6.28.8}{6.3.5.8}{947, 469, 4673}

[108] इंद्रंवइति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |
इन्द्रं᳚ वो॒ नरः॑ स॒ख्याय॑ सेपुर्म॒हो यन्तः॑ सुम॒तये᳚ चका॒नाः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

म॒हो हि दा॒ता वज्र॑हस्तो॒, अस्ति॑ म॒हामु॑ र॒ण्वमव॑से यजध्वम्||{1/6}{4.7.1.1}{6.29.1}{6.3.6.1}{948, 470, 4674}

आ यस्मि॒न्‌ हस्ते॒ नर्या᳚ मिमि॒क्षुरा रथे᳚ हिर॒ण्यये᳚ रथे॒ष्ठाः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

आ र॒श्मयो॒ गभ॑स्त्योः स्थू॒रयो॒राध्व॒न्नश्वा᳚सो॒ वृष॑णो युजा॒नाः||{2/6}{4.7.1.2}{6.29.2}{6.3.6.2}{949, 470, 4675}

श्रि॒ये ते॒ पादा॒ दुव॒ आ मि॑मिक्षुर्धृ॒ष्णुर्व॒ज्री शव॑सा॒ दक्षि॑णावान्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वसा᳚नो॒, अत्कं᳚ सुर॒भिं दृ॒शे कं स्व१॑(अ॒)र्ण नृ॑तविषि॒रो ब॑भूथ||{3/6}{4.7.1.3}{6.29.3}{6.3.6.3}{950, 470, 4676}

स सोम॒ आमि॑श्लतमः सु॒तो भू॒द् यस्मि᳚न्‌ प॒क्तिः प॒च्यते॒ सन्ति॑ धा॒नाः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

इन्द्रं॒ नरः॑ स्तु॒वन्तो᳚ ब्रह्मका॒रा, उ॒क्था शंस᳚न्तो दे॒ववा᳚ततमाः||{4/6}{4.7.1.4}{6.29.4}{6.3.6.4}{951, 470, 4677}

न ते॒, अन्तः॒ शव॑सो धाय्य॒स्य वि तु बा᳚बधे॒ रोद॑सी महि॒त्वा|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

आ ता सू॒रिः पृ॑णति॒ तूतु॑जानो यू॒थेवा॒प्सु स॒मीज॑मान ऊ॒ती||{5/6}{4.7.1.5}{6.29.5}{6.3.6.5}{952, 470, 4678}

ए॒वेदिन्द्रः॑ सु॒हव॑ ऋ॒ष्वो, अ॑स्तू॒ती, अनू᳚ती हिरिशि॒प्रः सत्वा᳚|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ए॒वा हि जा॒तो, अस॑मात्योजाः पु॒रू च॑ वृ॒त्रा ह॑नति॒ नि दस्यू॑न्||{6/6}{4.7.1.6}{6.29.6}{6.3.6.6}{953, 470, 4679}

[109] भूयइति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |
भूय॒ इद्‌ वा᳚वृधे वी॒र्या᳚यँ॒, एको᳚ अजु॒र्यो द॑यते॒ वसू᳚नि|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

प्र रि॑रिचे दि॒व इन्द्रः॑ पृथि॒व्या, अ॒र्धमिद॑स्य॒ प्रति॒ रोद॑सी, उ॒भे||{1/5}{4.7.2.1}{6.30.1}{6.3.7.1}{954, 471, 4680}

अधा᳚ मन्ये बृ॒हद॑सु॒र्य॑मस्य॒ यानि॑ दा॒धार॒ नकि॒रा मि॑नाति|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

दि॒वेदि॑वे॒ सूर्यो᳚ दर्श॒तो भू॒द् वि सद्मा᳚न्युर्वि॒या सु॒क्रतु॑र्धात्||{2/5}{4.7.2.2}{6.30.2}{6.3.7.2}{955, 471, 4681}

अ॒द्या चि॒न्नू चि॒त्‌ तदपो᳚ न॒दीनां॒ यदा᳚भ्यो॒, अर॑दो गा॒तुमि᳚न्द्र|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

नि पर्व॑ता, अद्म॒सदो॒ न से᳚दु॒स्त्वया᳚ दृ॒ळ्हानि॑ सुक्रतो॒ रजां᳚सि||{3/5}{4.7.2.3}{6.30.3}{6.3.7.3}{956, 471, 4682}

स॒त्यमित्‌ तन्न त्वावाँ᳚, अ॒न्यो, अ॒स्तीन्द्र॑ दे॒वो न मर्त्यो॒ ज्याया॑न्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अह॒न्नहिं᳚ परि॒शया᳚न॒मर्णो ऽवा᳚सृजो, अ॒पो, अच्छा᳚ समु॒द्रम्||{4/5}{4.7.2.4}{6.30.4}{6.3.7.4}{957, 471, 4683}

त्वम॒पो वि दुरो॒ विषू᳚ची॒रिन्द्र॑ दृ॒ळ्हम॑रुजः॒ पर्व॑तस्य|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

राजा᳚भवो॒ जग॑तश्चर्षणी॒नां सा॒कं सूर्यं᳚ ज॒नय॒न्‌ द्यामु॒षास᳚म्||{5/5}{4.7.2.5}{6.30.5}{6.3.7.5}{958, 471, 4684}

[110] अभूरेकइति पंचर्चस्य सूक्तस्य भारद्वाजः सुहोत्रइंद्रस्त्रिष्टुप् चतुर्थीशक्वरी (सुहोत्रः शुनहोत्रोनरो गर्गऋजिश्वाइत्येते ऋषयोबृहस्पतेः पौत्राउतदौष्षंतेर्भरतस्य पौत्रा इति विषयेइतिहासः श्रूयते) |
अभू॒रेको᳚ रयिपते रयी॒णामा हस्त॑योरधिथा, इन्द्र कृ॒ष्टीः|{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

वि तो॒के, अ॒प्सु तन॑ये च॒ सूरे ऽवो᳚चन्त चर्ष॒णयो॒ विवा᳚चः||{1/5}{4.7.3.1}{6.31.1}{6.3.8.1}{959, 472, 4685}

त्वद्‌ भि॒येन्द्र॒ पार्थि॑वानि॒ विश्वा ऽच्यु॑ता चिच्च्यावयन्ते॒ रजां᳚सि|{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

द्यावा॒क्षामा॒ पर्व॑तासो॒ वना᳚नि॒ विश्वं᳚ दृ॒ळ्हं भ॑यते॒, अज्म॒न्ना ते᳚||{2/5}{4.7.3.2}{6.31.2}{6.3.8.2}{960, 472, 4686}

त्वं कुत्से᳚ना॒भि शुष्ण॑मिन्द्रा॒ऽशुषं᳚ युध्य॒ कुय॑वं॒ गवि॑ष्टौ|{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

दश॑ प्रपि॒त्वे, अध॒ सूर्य॑स्य मुषा॒यश्च॒क्रमवि॑वे॒ रपां᳚सि||{3/5}{4.7.3.3}{6.31.3}{6.3.8.3}{961, 472, 4687}

त्वं श॒तान्यव॒ शम्ब॑रस्य॒ पुरो᳚ जघन्थाप्र॒तीनि॒ दस्योः᳚|{भारद्वाजः सुहोत्रः | इन्द्रः | शक्वरी}

अशि॑क्षो॒ यत्र॒ शच्या᳚ शचीवो॒ दिवो᳚दासाय सुन्व॒ते सु॑तक्रे भ॒रद्वा᳚जाय गृण॒ते वसू᳚नि||{4/5}{4.7.3.4}{6.31.4}{6.3.8.4}{962, 472, 4688}

स स॑त्यसत्व‌ न्मह॒ते रणा᳚य॒ रथ॒मा ति॑ष्ठ तुविनृम्ण भी॒मम्|{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

या॒हि प्र॑पथि॒न्नव॒सोप॑ म॒द्रिक् प्र च॑ श्रुत श्रावय चर्ष॒णिभ्यः॑||{5/5}{4.7.3.5}{6.31.5}{6.3.8.5}{963, 472, 4689}

[111] अपूर्व्येति पंचर्चस्य सूक्तस्य भारद्वाजः सुहोत्रइंद्रस्त्रिष्टुप् |
अपू᳚र्व्या पुरु॒तमा᳚न्यस्मै म॒हे वी॒राय॑ त॒वसे᳚ तु॒राय॑|{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

वि॒र॒प्शिने᳚ व॒ज्रिणे॒ शंत॑मानि॒ वचां᳚स्या॒सा स्थवि॑राय तक्षम्||{1/5}{4.7.4.1}{6.32.1}{6.3.9.1}{964, 473, 4690}

स मा॒तरा॒ सूर्ये᳚णा कवी॒नामवा᳚सयद्‌ रु॒जदद्रिं᳚ गृणा॒नः|{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

स्वा॒धीभि॒रृक्व॑भिर्वावशा॒न उदु॒स्रिया᳚णामसृजन्नि॒दान᳚म्||{2/5}{4.7.4.2}{6.32.2}{6.3.9.2}{965, 473, 4691}

स वह्नि॑भि॒रृक्व॑भि॒र्गोषु॒ शश्व᳚न् मि॒तज्ञु॑भिः पुरु॒कृत्वा᳚ जिगाय|{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

पुरः॑ पुरो॒हा सखि॑भिः सखी॒यन् दृ॒ळ्हा रु॑रोज क॒विभिः॑ क॒विः सन्||{3/5}{4.7.4.3}{6.32.3}{6.3.9.3}{966, 473, 4692}

स नी॒व्या᳚भिर्जरि॒तार॒मच्छा᳚ म॒हो वाजे᳚भिर्म॒हद्भि॑श्च॒ शुष्मैः᳚|{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

पु॒रु॒वीरा᳚भिर्वृषभ क्षिती॒नामा गि᳚र्वणः सुवि॒ताय॒ प्र या᳚हि||{4/5}{4.7.4.4}{6.32.4}{6.3.9.4}{967, 473, 4693}

स सर्गे᳚ण॒ शव॑सा त॒क्तो, अत्यै᳚र॒प इन्द्रो᳚ दक्षिण॒तस्तु॑रा॒षाट्|{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

इ॒त्था सृ॑जा॒ना, अन॑पावृ॒दर्थं᳚ दि॒वेदि॑वे विविषुरप्रमृ॒ष्यम्||{5/5}{4.7.4.5}{6.32.5}{6.3.9.5}{968, 473, 4694}

[112] यओजिष्ठइति पंचर्चस्य सूक्तस्य भारद्वाजः शुनहोत्र इंद्रस्त्रिष्टुप् |
य ओजि॑ष्ठ इन्द्र॒ तं सु नो᳚ दा॒ मदो᳚ वृषन्‌ त्स्वभि॒ष्टिर्दास्वा॑न्|{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

सौव॑श्व्यं॒ यो व॒नव॒त्‌ स्वश्वो᳚ वृ॒त्रा स॒मत्सु॑ सा॒सह॑द॒मित्रा॑न्||{1/5}{4.7.5.1}{6.33.1}{6.3.10.1}{969, 474, 4695}

त्वां ही॒३॑(ई॒)न्द्राव॑से॒ विवा᳚चो॒ हव᳚न्ते चर्ष॒णयः॒ शूर॑सातौ|{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

त्वं विप्रे᳚भि॒र्वि प॒णीँर॑शाय॒स्त्वोत॒ इत्‌ सनि॑ता॒ वाज॒मर्वा᳚||{2/5}{4.7.5.2}{6.33.2}{6.3.10.2}{970, 474, 4696}

त्वं ताँ, इ᳚न्द्रो॒भयाँ᳚, अ॒मित्रा॒न् दासा᳚ वृ॒त्राण्यार्या᳚ च शूर|{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

वधी॒र्वने᳚व॒ सुधि॑तेभि॒रत्कै॒रा पृ॒त्सु द॑र्षि नृ॒णां नृ॑तम||{3/5}{4.7.5.3}{6.33.3}{6.3.10.3}{971, 474, 4697}

स त्वं न॑ इ॒न्द्राक॑वाभिरू॒ती सखा᳚ वि॒श्वायु॑रवि॒ता वृ॒धे भूः᳚|{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

स्व॑र्षाता॒ यद्ध्वया᳚मसि त्वा॒ युध्य᳚न्तो ने॒मधि॑ता पृ॒त्सु शू᳚र||{4/5}{4.7.5.4}{6.33.4}{6.3.10.4}{972, 474, 4698}

नू॒नं न॑ इन्द्राप॒राय॑ च स्या॒ भवा᳚ मृळी॒क उ॒त नो᳚ अ॒भिष्टौ᳚|{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

इ॒त्था गृ॒णन्तो᳚ म॒हिन॑स्य॒ शर्म᳚न् दि॒वि ष्या᳚म॒ पार्ये᳚ गो॒षत॑माः||{5/5}{4.7.5.5}{6.33.5}{6.3.10.5}{973, 474, 4699}

[113] संचत्वइति पंचर्चस्य सूक्तस्य भारद्वाजः शुनहोत्र-इंद्रस्त्रिष्टुप् |
सं च॒ त्वे ज॒ग्मुर्गिर॑ इन्द्र पू॒र्वीर्वि च॒ त्वद्‌ य᳚न्ति वि॒भ्वो᳚ मनी॒षाः|{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

पु॒रा नू॒नं च॑ स्तु॒तय॒ ऋषी᳚णां पस्पृ॒ध्र इन्द्रे॒, अध्यु॑क्था॒र्का||{1/5}{4.7.6.1}{6.34.1}{6.3.11.1}{974, 475, 4700}

पु॒रु॒हू॒तो यः पु॑रुगू॒र्त ऋभ्वाँ॒, एकः॑ पुरुप्रश॒स्तो, अस्ति॑ य॒ज्ञैः|{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

रथो॒ न म॒हे शव॑से युजा॒नो॒३॑(ओ॒)ऽस्माभि॒रिन्द्रो᳚ अनु॒माद्यो᳚ भूत्||{2/5}{4.7.6.2}{6.34.2}{6.3.11.2}{975, 475, 4701}

न यं हिंस᳚न्ति धी॒तयो॒ न वाणी॒रिन्द्रं॒ नक्ष॒न्तीद॒भि व॒र्धय᳚न्तीः|{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

यदि॑ स्तो॒तारः॑ श॒तं यत्‌ स॒हस्रं᳚ गृ॒णन्ति॒ गिर्व॑णसं॒ शं तद॑स्मै||{3/5}{4.7.6.3}{6.34.3}{6.3.11.3}{976, 475, 4702}

अस्मा᳚ ए॒तद्‌ दि॒व्य१॑(अ॒)र्चेव॑ मा॒सा मि॑मि॒क्ष इन्द्रे॒ न्य॑यामि॒ सोमः॑|{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

जनं॒ न धन्व᳚न्न॒भि सं यदापः॑ स॒त्रा वा᳚वृधु॒र्हव॑नानि य॒ज्ञैः||{4/5}{4.7.6.4}{6.34.4}{6.3.11.4}{977, 475, 4703}

अस्मा᳚ ए॒तन्मह्या᳚ङ्गू॒षम॑स्मा॒, इन्द्रा᳚य स्तो॒त्रं म॒तिभि॑रवाचि|{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

अस॒द्‌ यथा᳚ मह॒ति वृ॑त्र॒तूर्य॒ इन्द्रो᳚ वि॒श्वायु॑रवि॒ता वृ॒धश्च॑||{5/5}{4.7.6.5}{6.34.5}{6.3.11.5}{978, 475, 4704}

[114] कदाभुवन्निति पंचर्चस्य सूक्तस्य भारद्वाजोनर इंद्रस्त्रिष्टुप् |
क॒दा भु॑व॒न्‌ रथ॑क्षयाणि॒ ब्रह्म॑ क॒दा स्तो॒त्रे स॑हस्रपो॒ष्यं᳚ दाः|{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

क॒दा स्तोमं᳚ वासयोऽस्य रा॒या क॒दा धियः॑ करसि॒ वाज॑रत्नाः||{1/5}{4.7.7.1}{6.35.1}{6.3.12.1}{979, 476, 4705}

कर्हि॑ स्वि॒त्‌ तदि᳚न्द्र॒ यन्नृभि॒र्नॄन् वी॒रैर्वी॒रान्‌ नी॒ळया᳚से॒ जया॒जीन्|{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

त्रि॒धातु॒ गा, अधि॑ जयासि॒ गोष्विन्द्र॑ द्यु॒म्नं स्व᳚र्वद्‌ धेह्य॒स्मे||{2/5}{4.7.7.2}{6.35.2}{6.3.12.2}{980, 476, 4706}

कर्हि॑ स्वि॒त्‌ तदि᳚न्द्र॒ यज्ज॑रि॒त्रे वि॒श्वप्सु॒ ब्रह्म॑ कृ॒णवः॑ शविष्ठ|{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

क॒दा धियो॒ न नि॒युतो᳚ युवासे क॒दा गोम॑घा॒ हव॑नानि गच्छाः||{3/5}{4.7.7.3}{6.35.3}{6.3.12.3}{981, 476, 4707}

स गोम॑घा जरि॒त्रे, अश्व॑श्चन्द्रा॒ वाज॑श्रवसो॒, अधि॑ धेहि॒ पृक्षः॑|{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

पी॒पि॒हीषः॑ सु॒दुघा᳚मिन्द्र धे॒नुं भ॒रद्वा᳚जेषु सु॒रुचो᳚ रुरुच्याः||{4/5}{4.7.7.4}{6.35.4}{6.3.12.4}{982, 476, 4708}

तमा नू॒नं वृ॒जन॑म॒न्यथा᳚ चि॒च्छूरो॒ यच्छ॑क्र॒ वि दुरो᳚ गृणी॒षे|{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

मा निर॑रं शुक्र॒दुघ॑स्य धे॒नोरा᳚ङ्गिर॒सान्‌ ब्रह्म॑णा विप्र जिन्व||{5/5}{4.7.7.5}{6.35.5}{6.3.12.5}{983, 476, 4709}

[115] सत्रामदासइति पंचर्चस्य सूक्तस्य भारद्वाजोनरइंद्रस्त्रिष्टुप् |
स॒त्रा मदा᳚स॒स्तव॑ वि॒श्वज᳚न्याः स॒त्रा रायोऽध॒ ये पार्थि॑वासः|{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

स॒त्रा वाजा᳚नामभवो विभ॒क्ता यद्‌ दे॒वेषु॑ धा॒रय॑था, असु॒र्य᳚म्||{1/5}{4.7.8.1}{6.36.1}{6.3.13.1}{984, 477, 4710}

अनु॒ प्र ये᳚जे॒ जन॒ ओजो᳚ अस्य स॒त्रा द॑धिरे॒, अनु॑ वी॒र्या᳚य|{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

स्यू॒म॒गृभे॒ दुध॒येऽर्व॑ते च॒ क्रतुं᳚ वृञ्ज॒न्त्यपि॑ वृत्र॒हत्ये᳚||{2/5}{4.7.8.2}{6.36.2}{6.3.13.2}{985, 477, 4711}

तं स॒ध्रीची᳚रू॒तयो॒ वृष्ण्या᳚नि॒ पौंस्या᳚नि नि॒युतः॑ सश्चु॒रिन्द्र᳚म्|{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

स॒मु॒द्रं न सिन्ध॑व उ॒क्थशु॑ष्मा, उरु॒व्यच॑सं॒ गिर॒ आ वि॑शन्ति||{3/5}{4.7.8.3}{6.36.3}{6.3.13.3}{986, 477, 4712}

स रा॒यस्खामुप॑ सृजा गृणा॒नः पु॑रुश्च॒न्द्रस्य॒ त्वमि᳚न्द्र॒ वस्वः॑|{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

पति॑र्बभू॒थास॑मो॒ जना᳚ना॒मेको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा᳚||{4/5}{4.7.8.4}{6.36.4}{6.3.13.4}{987, 477, 4713}

स तु श्रु॑धि॒ श्रुत्या॒ यो दु॑वो॒युर्द्यौर्न भूमा॒भि रायो᳚ अ॒र्यः|{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

असो॒ यथा᳚ नः॒ शव॑सा चका॒नो यु॒गेयु॑गे॒ वय॑सा॒ चेकि॑तानः||{5/5}{4.7.8.5}{6.36.5}{6.3.13.5}{988, 477, 4714}

[116] अर्वाग्रथमिति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजः इंद्रस्त्रिष्टुप् |
अ॒र्वाग्रथं᳚ वि॒श्ववा᳚रं त उ॒ग्रेन्द्र॑ यु॒क्तासो॒ हर॑यो वहन्तु|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

की॒रिश्चि॒द्धि त्वा॒ हव॑ते॒ स्व᳚र्वानृधी॒महि॑ सध॒माद॑स्ते, अ॒द्य||{1/5}{4.7.9.1}{6.37.1}{6.3.14.1}{989, 478, 4715}

प्रो द्रोणे॒ हर॑यः॒ कर्मा᳚ग्मन् पुना॒नास॒ ऋज्य᳚न्तो, अभूवन्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

इन्द्रो᳚ नो, अ॒स्य पू॒र्व्यः प॑पीयाद् द्यु॒क्षो मद॑स्य सो॒म्यस्य॒ राजा᳚||{2/5}{4.7.9.2}{6.37.2}{6.3.14.2}{990, 478, 4716}

आ॒स॒स्रा॒णासः॑ शवसा॒नमच्छेन्द्रं᳚ सुच॒क्रे र॒थ्या᳚सो॒, अश्वाः᳚|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अ॒भि श्रव॒ ऋज्य᳚न्तो वहेयु॒र्नू चि॒न्नु वा॒योर॒मृतं॒ वि द॑स्येत्||{3/5}{4.7.9.3}{6.37.3}{6.3.14.3}{991, 478, 4717}

वरि॑ष्ठो, अस्य॒ दक्षि॑णामिय॒र्तीन्द्रो᳚ म॒घोनां᳚ तुविकू॒र्मित॑मः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यया᳚ वज्रिवः परि॒यास्यंहो᳚ म॒घा च॑ धृष्णो॒ दय॑से॒ वि सू॒रीन्||{4/5}{4.7.9.4}{6.37.4}{6.3.14.4}{992, 478, 4718}

इन्द्रो॒ वाज॑स्य॒ स्थवि॑रस्य दा॒तेन्द्रो᳚ गी॒र्भिर्व॑र्धतां वृ॒द्धम॑हाः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

इन्द्रो᳚ वृ॒त्रं हनि॑ष्ठो, अस्तु॒ सत्वा ऽऽता सू॒रिः पृ॑णति॒ तूतु॑जानः||{5/5}{4.7.9.5}{6.37.5}{6.3.14.5}{993, 478, 4719}

[117] अपादितइति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |
अपा᳚दि॒त उदु॑ नश्चि॒त्रत॑मो म॒हीं भ॑र्षद्‌ द्यु॒मती॒मिन्द्र॑हूतिम्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

पन्य॑सीं धी॒तिं दैव्य॑स्य॒ याम॒ञ्जन॑स्य रा॒तिं व॑नते सु॒दानुः॑||{1/5}{4.7.10.1}{6.38.1}{6.3.15.1}{994, 479, 4720}

दू॒राच्चि॒दा व॑सतो, अस्य॒ कर्णा॒ घोषा॒दिन्द्र॑स्य तन्यति ब्रुवा॒णः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

एयमे᳚नं दे॒वहू᳚तिर्ववृत्यान्म॒द्र्य१॑(अ॒)गिन्द्र॑मि॒यमृ॒च्यमा᳚ना||{2/5}{4.7.10.2}{6.38.2}{6.3.15.2}{995, 479, 4721}

तं वो᳚ धि॒या प॑र॒मया᳚ पुरा॒जाम॒जर॒मिन्द्र॑म॒भ्य॑नूष्य॒र्कैः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ब्रह्मा᳚ च॒ गिरो᳚ दधि॒रे सम॑स्मिन् म॒हाँश्च॒ स्तोमो॒, अधि॑ वर्ध॒दिन्द्रे᳚||{3/5}{4.7.10.3}{6.38.3}{6.3.15.3}{996, 479, 4722}

वर्धा॒द्‌ यं य॒ज्ञ उ॒त सोम॒ इन्द्रं॒ वर्धा॒द्‌ ब्रह्म॒ गिर॑ उ॒क्था च॒ मन्म॑|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वर्धाहै᳚नमु॒षसो॒ याम᳚न्न॒क्तोर्वर्धा॒न्‌ मासाः᳚ श॒रदो॒ द्याव॒ इन्द्र᳚म्||{4/5}{4.7.10.4}{6.38.4}{6.3.15.4}{997, 479, 4723}

ए॒वा ज॑ज्ञा॒नं सह॑से॒, असा᳚मि वावृधा॒नं राध॑से च श्रु॒ताय॑|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

म॒हामु॒ग्रमव॑से विप्र नू॒नमा वि॑वासेम वृत्र॒तूर्ये᳚षु||{5/5}{4.7.10.5}{6.38.5}{6.3.15.5}{998, 479, 4724}

[118] मंद्रस्य कवेरितिपंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |
म॒न्द्रस्य॑ क॒वेर्दि॒व्यस्य॒ वह्ने॒र्विप्र॑मन्मनो वच॒नस्य॒ मध्वः॑|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अपा᳚ न॒स्तस्य॑ सच॒नस्य॑ दे॒वेषो᳚ युवस्व गृण॒ते गो,अ॑ग्राः||{1/5}{4.7.11.1}{6.39.1}{6.3.16.1}{999, 480, 4725}

अ॒यमु॑शा॒नः पर्यद्रि॑मु॒स्रा, ऋ॒तधी᳚तिभिरृत॒युग्यु॑जा॒नः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

रु॒जदरु॑ग्णं॒ वि व॒लस्य॒ सानुं᳚ प॒णीँर्वचो᳚भिर॒भि यो᳚ध॒दिन्द्रः॑||{2/5}{4.7.11.2}{6.39.2}{6.3.16.2}{1000, 480, 4726}

अ॒यं द्यो᳚तयद॒द्युतो॒ व्य१॑(अ॒)क्तून् दो॒षा वस्तोः᳚ श॒रद॒ इन्दु॑रिन्द्र|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

इ॒मं के॒तुम॑दधु॒र्नू चि॒दह्नां॒ शुचि॑जन्मन उ॒षस॑श्चकार||{3/5}{4.7.11.3}{6.39.3}{6.3.16.3}{1001, 480, 4727}

अ॒यं रो᳚चयद॒रुचो᳚ रुचा॒नो॒३॑(ओ॒)ऽयं वा᳚सय॒द्‌ व्यृ१॑(ऋ॒)तेन॑ पू॒र्वीः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अ॒यमी᳚यत ऋत॒युग्भि॒रश्वैः᳚ स्व॒र्विदा॒ नाभि॑ना चर्षणि॒प्राः||{4/5}{4.7.11.4}{6.39.4}{6.3.16.4}{1002, 480, 4728}

नू गृ॑णा॒नो गृ॑ण॒ते प्र॑त्न राज॒न्निषः॑ पिन्व वसु॒देया᳚य पू॒र्वीः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अ॒प ओष॑धीरवि॒षा वना᳚नि॒ गा, अर्व॑तो॒ नॄनृ॒चसे᳚ रिरीहि||{5/5}{4.7.11.5}{6.39.5}{6.3.16.5}{1003, 480, 4729}

[119] इंद्रपिबेति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |
इन्द्र॒ पिब॒ तुभ्यं᳚ सु॒तो मदा॒याऽव॑ स्य॒ हरी॒ वि मु॑चा॒ सखा᳚या|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

उ॒त प्र गा᳚य ग॒ण आ नि॒षद्याऽथा᳚ य॒ज्ञाय॑ गृण॒ते वयो᳚ धाः||{1/5}{4.7.12.1}{6.40.1}{6.3.17.1}{1004, 481, 4730}

अस्य॑ पिब॒ यस्य॑ जज्ञा॒न इ᳚न्द्र॒ मदा᳚य॒ क्रत्वे॒, अपि॑बो विरप्शिन्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तमु॑ ते॒ गावो॒ नर॒ आपो॒, अद्रि॒रिन्दुं॒ सम॑ह्यन्‌ पी॒तये॒ सम॑स्मै||{2/5}{4.7.12.2}{6.40.2}{6.3.17.2}{1005, 481, 4731}

समि॑द्धे, अ॒ग्नौ सु॒त इ᳚न्द्र॒ सोम॒ आ त्वा᳚ वहन्तु॒ हर॑यो॒ वहि॑ष्ठाः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वा॒य॒ता मन॑सा जोहवी॒मीन्द्रा या᳚हि सुवि॒ताय॑ म॒हे नः॑||{3/5}{4.7.12.3}{6.40.3}{6.3.17.3}{1006, 481, 4732}

आ या᳚हि॒ शश्व॑दुश॒ता य॑या॒थेन्द्र॑ म॒हा मन॑सा सोम॒पेय᳚म्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

उप॒ ब्रह्मा᳚णि शृणव इ॒मा नो ऽथा᳚ ते य॒ज्ञस्त॒न्वे॒३॑(ए॒) वयो᳚ धात्||{4/5}{4.7.12.4}{6.40.4}{6.3.17.4}{1007, 481, 4733}

यदि᳚न्द्र दि॒वि पार्ये॒ यदृध॒ग्यद्‌ वा॒ स्वे सद॑ने॒ यत्र॒ वासि॑|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अतो᳚ नो य॒ज्ञमव॑से नि॒युत्वा᳚न् त्स॒जोषाः᳚ पाहि गिर्वणो म॒रुद्भिः॑||{5/5}{4.7.12.5}{6.40.5}{6.3.17.5}{1008, 481, 4734}

[120] अहेळमानइति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |
अहे᳚ळमान॒ उप॑ याहि य॒ज्ञं तुभ्यं᳚ पवन्त॒ इन्द॑वः सु॒तासः॑|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

गावो॒ न व॑ज्रि॒न्‌ त्स्वमोको॒, अच्छेन्द्रा ग॑हि प्रथ॒मो य॒ज्ञिया᳚नाम्||{1/5}{4.7.13.1}{6.41.1}{6.3.18.1}{1009, 482, 4735}

या ते᳚ का॒कुत्‌ सुकृ॑ता॒ या वरि॑ष्ठा॒ यया॒ शश्व॒त्‌ पिब॑सि॒ मध्व॑ ऊ॒र्मिम्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तया᳚ पाहि॒ प्र ते᳚ अध्व॒र्युर॑स्था॒त् सं ते॒ वज्रो᳚ वर्ततामिन्द्र ग॒व्युः||{2/5}{4.7.13.2}{6.41.2}{6.3.18.2}{1010, 482, 4736}

ए॒ष द्र॒प्सो वृ॑ष॒भो वि॒श्वरू᳚प॒ इन्द्रा᳚य॒ वृष्णे॒ सम॑कारि॒ सोमः॑|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ए॒तं पि॑ब हरिवः स्थातरुग्र॒ यस्येशि॑षे प्र॒दिवि॒ यस्ते॒, अन्न᳚म्||{3/5}{4.7.13.3}{6.41.3}{6.3.18.3}{1011, 482, 4737}

सु॒तः सोमो॒, असु॑तादिन्द्र॒ वस्या᳚न॒यं श्रेया᳚ञ्चिकि॒तुषे॒ रणा᳚य|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ए॒तं ति॑तिर्व॒ उप॑ याहि य॒ज्ञं तेन॒ विश्वा॒स्तवि॑षी॒रा पृ॑णस्व||{4/5}{4.7.13.4}{6.41.4}{6.3.18.4}{1012, 482, 4738}

ह्वया᳚मसि॒ त्वेन्द्र॑ याह्य॒र्वाङरं᳚ ते॒ सोम॑स्त॒न्वे᳚ भवाति|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

शत॑क्रतो मा॒दय॑स्वा सु॒तेषु॒ प्रास्माँ, अ॑व॒ पृत॑नासु॒ प्र वि॒क्षु||{5/5}{4.7.13.5}{6.41.5}{6.3.18.5}{1013, 482, 4739}

[121] प्रत्यस्मा इति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रोनुष्टुबंत्याबृहती |
प्रत्य॑स्मै॒ पिपी᳚षते॒ विश्वा᳚नि वि॒दुषे᳚ भर|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | अनुष्टुप्}

अ॒रं॒ग॒माय॒ जग्म॒ये ऽप॑श्चाद्दघ्वने॒ नरे᳚||{1/4}{4.7.14.1}{6.42.1}{6.3.19.1}{1014, 483, 4740}

एमे᳚नं प्र॒त्येत॑न॒ सोमे᳚भिः सोम॒पात॑मम्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | अनुष्टुप्}

अम॑त्रेभिरृजी॒षिण॒मिन्द्रं᳚ सु॒तेभि॒रिन्दु॑भिः||{2/4}{4.7.14.2}{6.42.2}{6.3.19.2}{1015, 483, 4741}

यदी᳚ सु॒तेभि॒रिन्दु॑भिः॒ सोमे᳚भिः प्रति॒भूष॑थ|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | अनुष्टुप्}

वेदा॒ विश्व॑स्य॒ मेधि॑रो धृ॒षत्‌ तंत॒मिदेष॑ते||{3/4}{4.7.14.3}{6.42.3}{6.3.19.3}{1016, 483, 4742}

अ॒स्मा,अ॑स्मा॒, इदन्ध॒सो ऽध्व᳚र्यो॒ प्र भ॑रा सु॒तम्|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | बृहती}

कु॒वित्स॑मस्य॒ जेन्य॑स्य॒ शर्ध॑तो॒ ऽभिश॑स्तेरव॒स्पर॑त्||{4/4}{4.7.14.4}{6.42.4}{6.3.19.4}{1017, 483, 4743}

[122] यस्यत्यदिति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रउष्णिक् |
यस्य॒ त्यच्छम्ब॑रं॒ मदे॒ दिवो᳚दासाय र॒न्धयः॑|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | उष्णिक्}

अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑||{1/4}{4.7.15.1}{6.43.1}{6.3.20.1}{1018, 484, 4744}

यस्य॑ तीव्र॒सुतं॒ मदं॒ मध्य॒मन्तं᳚ च॒ रक्ष॑से|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | उष्णिक्}

अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑||{2/4}{4.7.15.2}{6.43.2}{6.3.20.2}{1019, 484, 4745}

यस्य॒ गा, अ॒न्तरश्म॑नो॒ मदे᳚ दृ॒ळ्हा, अ॒वासृ॑जः|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | उष्णिक्}

अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑||{3/4}{4.7.15.3}{6.43.3}{6.3.20.3}{1020, 484, 4746}

यस्य॑ मन्दा॒नो, अन्ध॑सो॒ माघो᳚नं दधि॒षे शवः॑|{बार्हस्पत्यो भरद्वाजः | इन्द्रः | उष्णिक्}

अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑||{4/4}{4.7.15.4}{6.43.4}{6.3.20.4}{1021, 484, 4747}

[123] योरयिवइति चतुर्विंशत्यृचस्य सूक्तस्य बार्हस्पत्यः शंयुरिंद्रस्त्रिष्टुबाद्याः षढनुष्टुभः सप्तम्यादितिस्रो विराट्‌पंक्त्यः | (तिसृष्वष्टम्येवविराट्‌ सप्तमीनवम्यौतु त्रिष्टुभाविति केचित्) |
यो र॑यिवो र॒यिंत॑मो॒ यो द्यु॒म्नैर्द्यु॒म्नव॑त्तमः|{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्}

सोमः॑ सु॒तः स इ᳚न्द्र॒ ते ऽस्ति॑ स्वधापते॒ मदः॑||{1/24}{4.7.16.1}{6.44.1}{6.4.1.1}{1022, 485, 4748}

यः श॒ग्मस्तु॑विशग्म ते रा॒यो दा॒मा म॑ती॒नाम्|{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्}

सोमः॑ सु॒तः स इ᳚न्द्र॒ ते ऽस्ति॑ स्वधापते॒ मदः॑||{2/24}{4.7.16.2}{6.44.2}{6.4.1.2}{1023, 485, 4749}

येन॑ वृ॒द्धो न शव॑सा तु॒रो न स्वाभि॑रू॒तिभिः॑|{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्}

सोमः॑ सु॒तः स इ᳚न्द्र॒ ते ऽस्ति॑ स्वधापते॒ मदः॑||{3/24}{4.7.16.3}{6.44.3}{6.4.1.3}{1024, 485, 4750}

त्यमु॑ वो॒, अप्र॑हणं गृणी॒षे शव॑स॒स्पति᳚म्|{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्}

इन्द्रं᳚ विश्वा॒साहं॒ नरं॒ मंहि॑ष्ठं वि॒श्वच॑र्षणिम्||{4/24}{4.7.16.4}{6.44.4}{6.4.1.4}{1025, 485, 4751}

यं व॒र्धय॒न्तीद्‌ गिरः॒ पतिं᳚ तु॒रस्य॒ राध॑सः|{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्}

तमिन्न्व॑स्य॒ रोद॑सी दे॒वी शुष्मं᳚ सपर्यतः||{5/24}{4.7.16.5}{6.44.5}{6.4.1.5}{1026, 485, 4752}

तद्‌ व॑ उ॒क्थस्य॑ ब॒र्हणेन्द्रा᳚योपस्तृणी॒षणि॑|{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्}

विपो॒ न यस्यो॒तयो॒ वि यद्‌ रोह᳚न्ति स॒क्षितः॑||{6/24}{4.7.17.1}{6.44.6}{6.4.1.6}{1027, 485, 4753}

अवि॑द॒द्‌ दक्षं᳚ मि॒त्रो नवी᳚यान् पपा॒नो दे॒वेभ्यो॒ वस्यो᳚ अचैत्|{बार्हस्पत्यः शंयः | इन्द्रः | पङ्क्तिः}

स॒स॒वान्‌ त्स्तौ॒लाभि॑र्धौ॒तरी᳚भिरुरु॒ष्या पा॒युर॑भव॒त्‌ सखि॑भ्यः||{7/24}{4.7.17.2}{6.44.7}{6.4.1.7}{1028, 485, 4754}

ऋ॒तस्य॑ प॒थि वे॒धा, अ॑पायि श्रि॒ये मनां᳚सि दे॒वासो᳚ अक्रन्|{बार्हस्पत्यः शंयः | इन्द्रः | पङ्क्तिः}

दधा᳚नो॒ नाम॑ म॒हो वचो᳚भि॒र्वपु॑र्दृ॒शये᳚ वे॒न्यो व्या᳚वः||{8/24}{4.7.17.3}{6.44.8}{6.4.1.8}{1029, 485, 4755}

द्यु॒मत्त॑मं॒ दक्षं᳚ धेह्य॒स्मे सेधा॒ जना᳚नां पू॒र्वीररा᳚तीः|{बार्हस्पत्यः शंयः | इन्द्रः | पङ्क्तिः}

वर्षी᳚यो॒ वयः॑ कृणुहि॒ शची᳚भि॒र्धन॑स्य सा॒ताव॒स्माँ, अ॑विड्ढि||{9/24}{4.7.17.4}{6.44.9}{6.4.1.9}{1030, 485, 4756}

इन्द्र॒ तुभ्य॒मिन्म॑घवन्नभूम व॒यं दा॒त्रे ह॑रिवो॒ मा वि वे᳚नः|{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

नकि॑रा॒पिर्द॑दृशे मर्त्य॒त्रा किम॒ङ्ग र॑ध्र॒चोद॑नं त्वाहुः||{10/24}{4.7.17.5}{6.44.10}{6.4.1.10}{1031, 485, 4757}

मा जस्व॑ने वृषभ नो ररीथा॒ मा ते᳚ रे॒वतः॑ स॒ख्ये रि॑षाम|{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

पू॒र्वीष्ट॑ इन्द्र नि॒ष्षिधो॒ जने᳚षु ज॒ह्यसु॑ष्वी॒न्‌ प्र वृ॒हापृ॑णतः||{11/24}{4.7.18.1}{6.44.11}{6.4.1.11}{1032, 485, 4758}

उद॒भ्राणी᳚व स्त॒नय᳚न्निय॒र्तीन्द्रो॒ राधां॒स्यश्व्या᳚नि॒ गव्या᳚|{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

त्वम॑सि प्र॒दिवः॑ का॒रुधा᳚या॒ मा त्वा᳚दा॒मान॒ आ द॑भन्‌ म॒घोनः॑||{12/24}{4.7.18.2}{6.44.12}{6.4.1.12}{1033, 485, 4759}

अध्व᳚र्यो वीर॒ प्र म॒हे सु॒ताना॒मिन्द्रा᳚य भर॒ स ह्य॑स्य॒ राजा᳚|{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

यः पू॒र्व्याभि॑रु॒त नूत॑नाभिर्गी॒र्भिर्वा᳚वृ॒धे गृ॑ण॒तामृषी᳚णाम्||{13/24}{4.7.18.3}{6.44.13}{6.4.1.13}{1034, 485, 4760}

अ॒स्य मदे᳚ पु॒रु वर्पां᳚सि वि॒द्वानिन्द्रो᳚ वृ॒त्राण्य॑प्र॒ती ज॑घान|{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

तमु॒ प्र हो᳚षि॒ मधु॑मन्तमस्मै॒ सोमं᳚ वी॒राय॑ शि॒प्रिणे॒ पिब॑ध्यै||{14/24}{4.7.18.4}{6.44.14}{6.4.1.14}{1035, 485, 4761}

पाता᳚ सु॒तमिन्द्रो᳚ अस्तु॒ सोमं॒ हन्ता᳚ वृ॒त्रं वज्रे᳚ण मन्दसा॒नः|{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

गन्ता᳚ य॒ज्ञं प॑रा॒वत॑श्चि॒दच्छा॒ वसु॑र्धी॒नाम॑वि॒ता का॒रुधा᳚याः||{15/24}{4.7.18.5}{6.44.15}{6.4.1.15}{1036, 485, 4762}

इ॒दं त्यत्‌ पात्र॑मिन्द्र॒पान॒मिन्द्र॑स्य प्रि॒यम॒मृत॑मपायि|{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

मत्स॒द्‌ यथा᳚ सौमन॒साय॑ दे॒वं व्य१॑(अ॒)स्मद्‌ द्वेषो᳚ यु॒यव॒द्‌ व्यंहः॑||{16/24}{4.7.19.1}{6.44.16}{6.4.1.16}{1037, 485, 4763}

ए॒ना म᳚न्दा॒नो ज॒हि शू᳚र॒ शत्रू᳚ञ्जा॒मिमजा᳚मिं मघवन्न॒मित्रा॑न्|{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

अ॒भि॒षे॒णाँ, अ॒भ्या॒३॑(आ॒)देदि॑शाना॒न् परा᳚च इन्द्र॒ प्र मृ॑णा ज॒ही च॑||{17/24}{4.7.19.2}{6.44.17}{6.4.1.17}{1038, 485, 4764}

आ॒सु ष्मा᳚ णो मघवन्निन्द्र पृ॒त्स्व१॑(अ॒)स्मभ्यं॒ महि॒ वरि॑वः सु॒गं कः॑|{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

अ॒पां तो॒कस्य॒ तन॑यस्य जे॒ष इन्द्र॑ सू॒रीन्‌ कृ॑णु॒हि स्मा᳚ नो, अ॒र्धम्||{18/24}{4.7.19.3}{6.44.18}{6.4.1.18}{1039, 485, 4765}

आ त्वा॒ हर॑यो॒ वृष॑णो युजा॒ना वृष॑रथासो॒ वृष॑रश्म॒योऽत्याः᳚|{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

अ॒स्म॒त्राञ्चो॒ वृष॑णो वज्र॒वाहो॒ वृष्णे॒ मदा᳚य सु॒युजो᳚ वहन्तु||{19/24}{4.7.19.4}{6.44.19}{6.4.1.19}{1040, 485, 4766}

आ ते᳚ वृष॒न्‌ वृष॑णो॒ द्रोण॑मस्थुर्घृत॒प्रुषो॒ नोर्मयो॒ मद᳚न्तः|{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒ प्र तुभ्यं॒ वृष॑भिः सु॒तानां॒ वृष्णे᳚ भरन्ति वृष॒भाय॒ सोम᳚म्||{20/24}{4.7.19.5}{6.44.20}{6.4.1.20}{1041, 485, 4767}

वृषा᳚सि दि॒वो वृ॑ष॒भः पृ॑थि॒व्या वृषा॒ सिन्धू᳚नां वृष॒भः स्तिया᳚नाम्|{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

वृष्णे᳚ त॒ इन्दु᳚र्वृषभ पीपाय स्वा॒दू रसो᳚ मधु॒पेयो॒ वरा᳚य||{21/24}{4.7.20.1}{6.44.21}{6.4.1.21}{1042, 485, 4768}

अ॒यं दे॒वः सह॑सा॒ जाय॑मान॒ इन्द्रे᳚ण यु॒जा प॒णिम॑स्तभायत्|{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

अ॒यं स्वस्य॑ पि॒तुरायु॑धा॒नीन्दु॑रमुष्णा॒दशि॑वस्य मा॒याः||{22/24}{4.7.20.2}{6.44.22}{6.4.1.22}{1043, 485, 4769}

अ॒यम॑कृणोदु॒षसः॑ सु॒पत्नी᳚र॒यं सूर्ये᳚ अदधा॒ज्ज्योति॑र॒न्तः|{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

अ॒यं त्रि॒धातु॑ दि॒वि रो᳚च॒नेषु॑ त्रि॒तेषु॑ विन्दद॒मृतं॒ निगू᳚ळ्हम्||{23/24}{4.7.20.3}{6.44.23}{6.4.1.23}{1044, 485, 4770}

अ॒यं द्यावा᳚पृथि॒वी वि ष्क॑भायद॒यं रथ॑मयुनक्‌ स॒प्तर॑श्मिम्|{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

अ॒यं गोषु॒ शच्या᳚ प॒क्वम॒न्तः सोमो᳚ दाधार॒ दश॑यन्त्र॒मुत्स᳚म्||{24/24}{4.7.20.4}{6.44.24}{6.4.1.24}{1045, 485, 4771}

[124] यआनयदिति त्रयस्त्रिंशदृचस्य सूक्तस्य बार्हस्पत्यः शंयुरिंद्रोंत्यतृचस्यबृबुस्तक्षा गायत्री एकोनत्रिंश्यतिनिचृद् एकत्रिंशीपादनिचृदंत्यानुष्टुप् |
य आन॑यत्‌ परा॒वतः॒ सुनी᳚ती तु॒र्वशं॒ यदु᳚म्|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

इन्द्रः॒ स नो॒ युवा॒ सखा᳚||{1/33}{4.7.21.1}{6.45.1}{6.4.2.1}{1046, 486, 4772}

अ॒वि॒प्रे चि॒द्‌ वयो॒ दध॑दना॒शुना᳚ चि॒दर्व॑ता|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

इन्द्रो॒ जेता᳚ हि॒तं धन᳚म्||{2/33}{4.7.21.2}{6.45.2}{6.4.2.2}{1047, 486, 4773}

म॒हीर॑स्य॒ प्रणी᳚तयः पू॒र्वीरु॒त प्रश॑स्तयः|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

नास्य॑ क्षीयन्त ऊ॒तयः॑||{3/33}{4.7.21.3}{6.45.3}{6.4.2.3}{1048, 486, 4774}

सखा᳚यो॒ ब्रह्म॑वाह॒से ऽर्च॑त॒ प्र च॑ गायत|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

स हि नः॒ प्रम॑तिर्म॒ही||{4/33}{4.7.21.4}{6.45.4}{6.4.2.4}{1049, 486, 4775}

त्वमेक॑स्य वृत्रहन्नवि॒ता द्वयो᳚रसि|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

उ॒तेदृशे॒ यथा᳚ व॒यम्||{5/33}{4.7.21.5}{6.45.5}{6.4.2.5}{1050, 486, 4776}

नय॒सीद्वति॒ द्विषः॑ कृ॒णोष्यु॑क्थशं॒सिनः॑|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

नृभिः॑ सु॒वीर॑ उच्यसे||{6/33}{4.7.22.1}{6.45.6}{6.4.2.6}{1051, 486, 4777}

ब्र॒ह्माणं॒ ब्रह्म॑वाहसं गी॒र्भिः सखा᳚यमृ॒ग्मिय᳚म्|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

गां न दो॒हसे᳚ हुवे||{7/33}{4.7.22.2}{6.45.7}{6.4.2.7}{1052, 486, 4778}

यस्य॒ विश्वा᳚नि॒ हस्त॑योरू॒चुर्वसू᳚नि॒ नि द्वि॒ता|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

वी॒रस्य॑ पृतना॒षहः॑||{8/33}{4.7.22.3}{6.45.8}{6.4.2.8}{1053, 486, 4779}

वि दृ॒ळ्हानि॑ चिदद्रिवो॒ जना᳚नां शचीपते|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

वृ॒ह मा॒या, अ॑नानत||{9/33}{4.7.22.4}{6.45.9}{6.4.2.9}{1054, 486, 4780}

तमु॑ त्वा सत्य सोमपा॒, इन्द्र॑ वाजानां पते|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

अहू᳚महि श्रव॒स्यवः॑||{10/33}{4.7.22.5}{6.45.10}{6.4.2.10}{1055, 486, 4781}

तमु॑ त्वा॒ यः पु॒रासि॑थ॒ यो वा᳚ नू॒नं हि॒ते धने᳚|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

हव्यः॒ स श्रु॑धी॒ हव᳚म्||{11/33}{4.7.23.1}{6.45.11}{6.4.2.11}{1056, 486, 4782}

धी॒भिरर्व॑द्भि॒रर्व॑तो॒ वाजाँ᳚, इन्द्र श्र॒वाय्या॑न्|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

त्वया᳚ जेष्म हि॒तं धन᳚म्||{12/33}{4.7.23.2}{6.45.12}{6.4.2.12}{1057, 486, 4783}

अभू᳚रु वीर गिर्वणो म॒हाँ, इ᳚न्द्र॒ धने᳚ हि॒ते|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

भरे᳚ वितन्त॒साय्यः॑||{13/33}{4.7.23.3}{6.45.13}{6.4.2.13}{1058, 486, 4784}

या त॑ ऊ॒तिर॑मित्रहन् म॒क्षूज॑वस्त॒मास॑ति|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

तया᳚ नो हिनुही॒ रथ᳚म्||{14/33}{4.7.23.4}{6.45.14}{6.4.2.14}{1059, 486, 4785}

स रथे᳚न र॒थीत॑मो॒ ऽस्माके᳚नाभि॒युग्व॑ना|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

जेषि॑ जिष्णो हि॒तं धन᳚म्||{15/33}{4.7.23.5}{6.45.15}{6.4.2.15}{1060, 486, 4786}

य एक॒ इत्‌ तमु॑ ष्टुहि कृष्टी॒नां विच॑र्षणिः|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

पति॑र्ज॒ज्ञे वृष॑क्रतुः||{16/33}{4.7.24.1}{6.45.16}{6.4.2.16}{1061, 486, 4787}

यो गृ॑ण॒तामिदासि॑था॒ऽऽपिरू॒ती शि॒वः सखा᳚|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

स त्वं न॑ इन्द्र मृळय||{17/33}{4.7.24.2}{6.45.17}{6.4.2.17}{1062, 486, 4788}

धि॒ष्व वज्रं॒ गभ॑स्त्यो रक्षो॒हत्या᳚य वज्रिवः|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

सा॒स॒ही॒ष्ठा, अ॒भि स्पृधः॑||{18/33}{4.7.24.3}{6.45.18}{6.4.2.18}{1063, 486, 4789}

प्र॒त्नं र॑यी॒णां युजं॒ सखा᳚यं कीरि॒चोद॑नम्|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

ब्रह्म॑वाहस्तमं हुवे||{19/33}{4.7.24.4}{6.45.19}{6.4.2.19}{1064, 486, 4790}

स हि विश्वा᳚नि॒ पार्थि॑वाँ॒, एको॒ वसू᳚नि॒ पत्य॑ते|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

गिर्व॑णस्तमो॒, अध्रि॑गुः||{20/33}{4.7.24.5}{6.45.20}{6.4.2.20}{1065, 486, 4791}

स नो᳚ नि॒युद्भि॒रा पृ॑ण॒ कामं॒ वाजे᳚भिर॒श्विभिः॑|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

गोम॑द्भिर्गोपते धृ॒षत्||{21/33}{4.7.25.1}{6.45.21}{6.4.2.21}{1066, 486, 4792}

तद्‌ वो᳚ गाय सु॒ते सचा᳚ पुरुहू॒ताय॒ सत्व॑ने|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

शं यद्‌ गवे॒ न शा॒किने᳚||{22/33}{4.7.25.2}{6.45.22}{6.4.2.22}{1067, 486, 4793}

न घा॒ वसु॒र्नि य॑मते दा॒नं वाज॑स्य॒ गोम॑तः|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

यत्‌ सी॒मुप॒ श्रव॒द्‌ गिरः॑||{23/33}{4.7.25.3}{6.45.23}{6.4.2.23}{1068, 486, 4794}

कु॒वित्स॑स्य॒ प्र हि व्र॒जं गोम᳚न्तं दस्यु॒हा गम॑त्|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

शची᳚भि॒रप॑ नो वरत्||{24/33}{4.7.25.4}{6.45.24}{6.4.2.24}{1069, 486, 4795}

इ॒मा, उ॑ त्वा शतक्रतो॒ ऽभि प्र णो᳚नुवु॒र्गिरः॑|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

इन्द्र॑ व॒त्सं न मा॒तरः॑||{25/33}{4.7.25.5}{6.45.25}{6.4.2.25}{1070, 486, 4796}

दू॒णाशं᳚ स॒ख्यं तव॒ गौर॑सि वीर गव्य॒ते|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

अश्वो᳚ अश्वाय॒ते भ॑व||{26/33}{4.7.26.1}{6.45.26}{6.4.2.26}{1071, 486, 4797}

स म᳚न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वा᳚ म॒हे|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

न स्तो॒तारं᳚ नि॒दे क॑रः||{27/33}{4.7.26.2}{6.45.27}{6.4.2.27}{1072, 486, 4798}

इ॒मा, उ॑ त्वा सु॒तेसु॑ते॒ नक्ष᳚न्ते गिर्वणो॒ गिरः॑|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

व॒त्सं गावो॒ न धे॒नवः॑||{28/33}{4.7.26.3}{6.45.28}{6.4.2.28}{1073, 486, 4799}

पु॒रू॒तमं᳚ पुरू॒णां स्तो᳚तॄ॒णां विवा᳚चि|{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

वाजे᳚भिर्वाजय॒ताम्||{29/33}{4.7.26.4}{6.45.29}{6.4.2.29}{1074, 486, 4800}

अ॒स्माक॑मिन्द्र भूतु ते॒ स्तोमो॒ वाहि॑ष्ठो॒, अन्त॑मः|{बार्हस्पत्यः शंयः | बृबुस्तक्षा | गायत्री}

अ॒स्मान्‌ रा॒ये म॒हे हि॑नु||{30/33}{4.7.26.5}{6.45.30}{6.4.2.30}{1075, 486, 4801}

अधि॑ बृ॒बुः प॑णी॒नां वर्षि॑ष्ठे मू॒र्धन्न॑स्थात्|{बार्हस्पत्यः शंयः | बृबुस्तक्षा | गायत्री}

उ॒रुः कक्षो॒ न गा॒ङ्ग्यः||{31/33}{4.7.26.6}{6.45.31}{6.4.2.31}{1076, 486, 4802}

यस्य॑ वा॒योरि॑व द्र॒वद् भ॒द्रा रा॒तिः स॑ह॒स्रिणी᳚|{बार्हस्पत्यः शंयः | बृबुस्तक्षा | गायत्री}

स॒द्यो दा॒नाय॒ मंह॑ते||{32/33}{4.7.26.7}{6.45.32}{6.4.2.32}{1077, 486, 4803}

तत्‌ सु नो॒ विश्वे᳚ अ॒र्य आ सदा᳚ गृणन्ति का॒रवः॑|{बार्हस्पत्यः शंयः | बृबुस्तक्षा | अनुष्टुप्}

बृ॒बुं स॑हस्र॒दात॑मं सू॒रिं स॑हस्र॒सात॑मम्||{33/33}{4.7.26.8}{6.45.33}{6.4.2.33}{1078, 486, 4804}

[125] त्वामिद्धीति चतुर्दशर्चस्य सूक्तस्य बार्हस्पत्यः शंयुरिंद्रः अयुजोबृहत्यः युजःसतोबृहत्यः |
त्वामिद्धि हवा᳚महे सा॒ता वाज॑स्य का॒रवः॑|{बार्हस्पत्यः शंयः | इन्द्रः | बृहती}

त्वां वृ॒त्रेष्वि᳚न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः||{1/14}{4.7.27.1}{6.46.1}{6.4.3.1}{1079, 487, 4805}

स त्वं न॑श्चित्र वज्रहस्त धृष्णु॒या म॒हः स्त॑वा॒नो, अ॑द्रिवः|{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती}

गामश्वं᳚ र॒थ्य॑मिन्द्र॒ सं कि॑र स॒त्रा वाजं॒ न जि॒ग्युषे᳚||{2/14}{4.7.27.2}{6.46.2}{6.4.3.2}{1080, 487, 4806}

यः स॑त्रा॒हा विच॑र्षणि॒रिन्द्रं॒ तं हू᳚महे व॒यम्|{बार्हस्पत्यः शंयः | इन्द्रः | बृहती}

सह॑स्रमुष्क॒ तुवि॑नृम्ण॒ सत्प॑ते॒ भवा᳚ स॒मत्सु॑ नो वृ॒धे||{3/14}{4.7.27.3}{6.46.3}{6.4.3.3}{1081, 487, 4807}

बाध॑से॒ जना᳚न्‌ वृष॒भेव॑ म॒न्युना॒ घृषौ᳚ मी॒ळ्ह ऋ॑चीषम|{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती}

अ॒स्माकं᳚ बोध्यवि॒ता म॑हाध॒ने त॒नूष्व॒प्सु सूर्ये᳚||{4/14}{4.7.27.4}{6.46.4}{6.4.3.4}{1082, 487, 4808}

इन्द्र॒ ज्येष्ठं᳚ न॒ आ भ॑रँ॒, ओजि॑ष्ठं॒ पपु॑रि॒ श्रवः॑|{बार्हस्पत्यः शंयः | इन्द्रः | बृहती}

येने॒मे चि॑त्र वज्रहस्त॒ रोद॑सी॒, ओभे सु॑शिप्र॒ प्राः||{5/14}{4.7.27.5}{6.46.5}{6.4.3.5}{1083, 487, 4809}

त्वामु॒ग्रमव॑से चर्षणी॒सहं॒ राज᳚न्‌ दे॒वेषु॑ हूमहे|{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती}

विश्वा॒ सु नो᳚ विथु॒रा पि॑ब्द॒ना व॑सो॒ ऽमित्रा᳚न्‌ त्सु॒षहा᳚न्‌ कृधि||{6/14}{4.7.28.1}{6.46.6}{6.4.3.6}{1084, 487, 4810}

यदि᳚न्द्र॒ नाहु॑षी॒ष्वाँ, ओजो᳚ नृ॒म्णं च॑ कृ॒ष्टिषु॑|{बार्हस्पत्यः शंयः | इन्द्रः | बृहती}

यद्‌ वा॒ पञ्च॑ क्षिती॒नां द्यु॒म्नमा भ॑र स॒त्रा विश्वा᳚नि॒ पौंस्या᳚||{7/14}{4.7.28.2}{6.46.7}{6.4.3.7}{1085, 487, 4811}

यद्‌ वा᳚ तृ॒क्षौ म॑घवन्‌ द्रु॒ह्यावा जने॒ यत्‌ पू॒रौ कच्च॒ वृष्ण्य᳚म्|{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती}

अ॒स्मभ्यं॒ तद्‌ रि॑रीहि॒ सं नृ॒षाह्ये॒ ऽमित्रा᳚न्‌ पृ॒त्सु तु॒र्वणे᳚||{8/14}{4.7.28.3}{6.46.8}{6.4.3.8}{1086, 487, 4812}

इन्द्र॑ त्रि॒धातु॑ शर॒णं त्रि॒वरू᳚थं स्वस्ति॒मत्|{बार्हस्पत्यः शंयः | इन्द्रः | बृहती}

छ॒र्दिर्य॑च्छ म॒घव॑द्भ्यश्च॒ मह्यं᳚ च या॒वया᳚ दि॒द्युमे᳚भ्यः||{9/14}{4.7.28.4}{6.46.9}{6.4.3.9}{1087, 487, 4813}

ये ग᳚व्य॒ता मन॑सा॒ शत्रु॑माद॒भुर॑भिप्र॒घ्नन्ति॑ धृष्णु॒या|{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती}

अध॑ स्मा नो मघवन्निन्द्र गिर्वणस्तनू॒पा, अन्त॑मो भव||{10/14}{4.7.28.5}{6.46.10}{6.4.3.10}{1088, 487, 4814}

अध॑ स्मा नो वृ॒धे भ॒वेन्द्र॑ ना॒यम॑वा यु॒धि|{बार्हस्पत्यः शंयः | इन्द्रः | बृहती}

यद॒न्तरि॑क्षे प॒तय᳚न्ति प॒र्णिनो᳚ दि॒द्यव॑स्ति॒ग्ममू᳚र्धानः||{11/14}{4.7.29.1}{6.46.11}{6.4.3.11}{1089, 487, 4815}

यत्र॒ शूरा᳚सस्त॒न्वो᳚ वितन्व॒ते प्रि॒या शर्म॑ पितॄ॒णाम्|{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती}

अध॑ स्मा यच्छ त॒न्वे॒३॑(ए॒) तने᳚ च छ॒र्दिर॒चित्तं᳚ या॒वय॒ द्वेषः॑||{12/14}{4.7.29.2}{6.46.12}{6.4.3.12}{1090, 487, 4816}

यदि᳚न्द्र॒ सर्गे॒, अर्व॑तश्चो॒दया᳚से महाध॒ने|{बार्हस्पत्यः शंयः | इन्द्रः | बृहती}

अ॒स॒म॒ने, अध्व॑नि वृजि॒ने प॒थि श्ये॒नाँ, इ॑व श्रवस्य॒तः||{13/14}{4.7.29.3}{6.46.13}{6.4.3.13}{1091, 487, 4817}

सिन्धूँ᳚रिव प्रव॒ण आ᳚शु॒या य॒तो यदि॒ क्लोश॒मनु॒ ष्वणि॑|{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती}

आ ये वयो॒ न वर्वृ॑त॒त्यामि॑षि गृभी॒ता बा॒ह्वोर्गवि॑||{14/14}{4.7.29.4}{6.46.14}{6.4.3.14}{1092, 487, 4818}

[126] स्वादुष्किलायमित्येक त्रिंशदृचस्य सूक्तस्य भारद्वाजोगर्गइंद्रः आद्यानांपंचानां सोमोऽगव्यूतीत्यस्यादेवभूमींद्राः प्रस्तोकइत्यादिचतसृणां प्रस्तोकोवनस्पतइत्यादितिसृणां रथउपश्वासयेतिद्वयोर्दुंदुभिः आमूरजइत्यस्यादुंदुभींद्रौत्रिष्टुप् एकोनविंशीबृहती त्रयोविंश्यनुष्टुप् चतुर्विंशीगायत्री पंचविंशीद्विपदा सप्तविंशीजगती |
स्वा॒दुष्किला॒यं मधु॑माँ, उ॒तायं ती॒व्रः किला॒यं रस॑वाँ, उ॒तायम्|{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्}

उ॒तो न्व१॑(अ॒)स्य प॑पि॒वांस॒मिन्द्रं॒ न कश्च॒न स॑हत आह॒वेषु॑||{1/31}{4.7.30.1}{6.47.1}{6.4.4.1}{1093, 488, 4819}

अ॒यं स्वा॒दुरि॒ह मदि॑ष्ठ आस॒ यस्येन्द्रो᳚ वृत्र॒हत्ये᳚ म॒माद॑|{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्}

पु॒रूणि॒ यश्च्यौ॒त्ना शम्ब॑रस्य॒ वि न॑व॒तिं नव॑ च दे॒ह्यो॒३॑(ओ॒) हन्||{2/31}{4.7.30.2}{6.47.2}{6.4.4.2}{1094, 488, 4820}

अ॒यं मे᳚ पी॒त उदि॑यर्ति॒ वाच॑म॒यं म॑नी॒षामु॑श॒तीम॑जीगः|{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्}

अ॒यं षळु॒र्वीर॑मिमीत॒ धीरो॒ न याभ्यो॒ भुव॑नं॒ कच्च॒नारे||{3/31}{4.7.30.3}{6.47.3}{6.4.4.3}{1095, 488, 4821}

अ॒यं स यो व॑रि॒माणं᳚ पृथि॒व्या व॒र्ष्माणं᳚ दि॒वो, अकृ॑णोद॒यं सः|{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्}

अ॒यं पी॒यूषं᳚ ति॒सृषु॑ प्र॒वत्सु॒ सोमो᳚ दाधारो॒र्व१॑(अ॒)न्तरि॑क्षम्||{4/31}{4.7.30.4}{6.47.4}{6.4.4.4}{1096, 488, 4822}

अ॒यं वि॑दच्चित्र॒दृशी᳚क॒मर्णः॑ शु॒क्रस॑द्मनामु॒षसा॒मनी᳚के|{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्}

अ॒यं म॒हान्‌ म॑ह॒ता स्कम्भ॑ने॒नोद्‌ द्याम॑स्तभ्नाद्‌ वृष॒भो म॒रुत्वा॑न्||{5/31}{4.7.30.5}{6.47.5}{6.4.4.5}{1097, 488, 4823}

धृ॒षत्‌ पि॑ब क॒लशे॒ सोम॑मिन्द्र वृत्र॒हा शू᳚र सम॒रे वसू᳚नाम्|{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

माध्यं᳚दिने॒ सव॑न॒ आ वृ॑षस्व रयि॒स्थानो᳚ र॒यिम॒स्मासु॑ धेहि||{6/31}{4.7.31.1}{6.47.6}{6.4.4.6}{1098, 488, 4824}

इन्द्र॒ प्र णः॑ पुरए॒तेव॑ पश्य॒ प्र नो᳚ नय प्रत॒रं वस्यो॒, अच्छ॑|{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

भवा᳚ सुपा॒रो, अ॑तिपार॒यो नो॒ भवा॒ सुनी᳚तिरु॒त वा॒मनी᳚तिः||{7/31}{4.7.31.2}{6.47.7}{6.4.4.7}{1099, 488, 4825}

उ॒रुं नो᳚ लो॒कमनु॑ नेषि वि॒द्वान् त्स्व᳚र्व॒ज्ज्योति॒रभ॑यं स्व॒स्ति|{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

ऋ॒ष्वा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू, उप॑ स्थेयाम शर॒णा बृ॒हन्ता᳚||{8/31}{4.7.31.3}{6.47.8}{6.4.4.8}{1100, 488, 4826}

वरि॑ष्ठे न इन्द्र व॒न्धुरे᳚ धा॒ वहि॑ष्ठयोः शताव॒न्नश्व॑यो॒रा|{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

इष॒मा व॑क्षी॒षां वर्षि॑ष्ठां॒ मा न॑स्तारीन्मघव॒न्‌ रायो᳚ अ॒र्यः||{9/31}{4.7.31.4}{6.47.9}{6.4.4.9}{1101, 488, 4827}

इन्द्र॑ मृ॒ळ मह्यं᳚ जी॒वातु॑मिच्छ चो॒दय॒ धिय॒मय॑सो॒ न धारा᳚म्|{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

यत्‌ किं चा॒हं त्वा॒युरि॒दं वदा᳚मि॒ तज्जु॑षस्व कृ॒धि मा᳚ दे॒वव᳚न्तम्||{10/31}{4.7.31.5}{6.47.10}{6.4.4.10}{1102, 488, 4828}

त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒ हवे᳚हवे सु॒हवं॒ शूर॒मिन्द्र᳚म्|{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

ह्वया᳚मि श॒क्रं पु॑रुहू॒तमिन्द्रं᳚ स्व॒स्ति नो᳚ म॒घवा᳚ धा॒त्विन्द्रः॑||{11/31}{4.7.32.1}{6.47.11}{6.4.4.11}{1103, 488, 4829}

इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒, अवो᳚भिः सुमृळी॒को भ॑वतु वि॒श्ववे᳚दाः|{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

बाध॑तां॒ द्वेषो॒, अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम||{12/31}{4.7.32.2}{6.47.12}{6.4.4.12}{1104, 488, 4830}

तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्याऽपि॑ भ॒द्रे सौ᳚मन॒से स्या᳚म|{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

स सु॒त्रामा॒ स्ववाँ॒, इन्द्रो᳚ अ॒स्मे, आ॒राच्चि॒द्‌ द्वेषः॑ सनु॒तर्यु॑योतु||{13/31}{4.7.32.3}{6.47.13}{6.4.4.13}{1105, 488, 4831}

अव॒ त्वे, इ᳚न्द्र प्र॒वतो॒ नोर्मिर्गिरो॒ ब्रह्मा᳚णि नि॒युतो᳚ धवन्ते|{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

उ॒रू न राधः॒ सव॑ना पु॒रूण्य॒पो गा व॑ज्रिन्‌ युवसे॒ समिन्दू॑न्||{14/31}{4.7.32.4}{6.47.14}{6.4.4.14}{1106, 488, 4832}

क ईं᳚ स्तव॒त्‌ कः पृ॑णा॒त्‌ को य॑जाते॒ यदु॒ग्रमिन्म॒घवा᳚ वि॒श्वहावे᳚त्|{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

पादा᳚विव प्र॒हर᳚न्न॒न्यम᳚न्यं कृ॒णोति॒ पूर्व॒मप॑रं॒ शची᳚भिः||{15/31}{4.7.32.5}{6.47.15}{6.4.4.15}{1107, 488, 4833}

शृ॒ण्वे वी॒र उ॒ग्रमु॑ग्रं दमा॒यन्न॒न्यम᳚न्यमतिनेनी॒यमा᳚नः|{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

ए॒ध॒मा॒न॒द्विळु॒भय॑स्य॒ राजा᳚ चोष्कू॒यते॒ विश॒ इन्द्रो᳚ मनु॒ष्या॑न्||{16/31}{4.7.33.1}{6.47.16}{6.4.4.16}{1108, 488, 4834}

परा॒ पूर्वे᳚षां स॒ख्या वृ॑णक्ति वि॒तर्तु॑राणो॒, अप॑रेभिरेति|{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

अना᳚नुभूतीरवधून्वा॒नः पू॒र्वीरिन्द्रः॑ श॒रद॑स्तर्तरीति||{17/31}{4.7.33.2}{6.47.17}{6.4.4.17}{1109, 488, 4835}

रू॒पंरू᳚पं॒ प्रति॑रूपो बभूव॒ तद॑स्य रू॒पं प्र॑ति॒चक्ष॑णाय|{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

इन्द्रो᳚ मा॒याभिः॑ पुरु॒रूप॑ ईयते यु॒क्ता ह्य॑स्य॒ हर॑यः श॒ता दश॑||{18/31}{4.7.33.3}{6.47.18}{6.4.4.18}{1110, 488, 4836}

यु॒जा॒नो ह॒रिता॒ रथे॒ भूरि॒ त्वष्टे॒ह रा᳚जति|{भारद्वाजो गर्गः | इन्द्रः | बृहती}

को वि॒श्वाहा᳚ द्विष॒तः पक्ष॑ आसत उ॒तासी᳚नेषु सू॒रिषु॑||{19/31}{4.7.33.4}{6.47.19}{6.4.4.19}{1111, 488, 4837}

अ॒ग॒व्यू॒ति क्षेत्र॒माग᳚न्म देवा, उ॒र्वी स॒ती भूमि॑रंहूर॒णाभू᳚त्|{भारद्वाजो गर्गः | १/४:देवाः २/४:भूमिः २/४:बृहस्पतिः ४/४:इन्द्रः | त्रिष्टुप्}

बृह॑स्पते॒ प्र चि॑कित्सा॒ गवि॑ष्टावि॒त्था स॒ते ज॑रि॒त्र इ᳚न्द्र॒ पन्था᳚म्||{20/31}{4.7.33.5}{6.47.20}{6.4.4.20}{1112, 488, 4838}

दि॒वेदि॑वे स॒दृशी᳚र॒न्यमर्धं᳚ कृ॒ष्णा, अ॑सेध॒दप॒ सद्म॑नो॒ जाः|{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

अह᳚न्‌ दा॒सा वृ॑ष॒भो व॑स्न॒यन्तो॒दव्र॑जे व॒र्चिनं॒ शम्ब॑रं च||{21/31}{4.7.34.1}{6.47.21}{6.4.4.21}{1113, 488, 4839}

प्र॒स्तो॒क इन्नु राध॑सस्त इन्द्र॒ दश॒ कोश॑यी॒र्दश॑ वा॒जिनो᳚ऽदात्|{भारद्वाजो गर्गः | प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः | त्रिष्टुप्}

दिवो᳚दासादतिथि॒ग्वस्य॒ राधः॑ शाम्ब॒रं वसु॒ प्रत्य॑ग्रभीष्म||{22/31}{4.7.34.2}{6.47.22}{6.4.4.22}{1114, 488, 4840}

दशाश्वा॒न्‌ दश॒ कोशा॒न् दश॒ वस्त्राधि॑भोजना|{भारद्वाजो गर्गः | प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः | अनुष्टुप्}

दशो᳚ हिरण्यपि॒ण्डान् दिवो᳚दासादसानिषम्||{23/31}{4.7.34.3}{6.47.23}{6.4.4.23}{1115, 488, 4841}

दश॒ रथा॒न्‌ प्रष्टि॑मतः श॒तं गा, अथ᳚र्वभ्यः|{भारद्वाजो गर्गः | प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः | गायत्री}

अ॒श्व॒थः पा॒यवे᳚ऽदात्||{24/31}{4.7.34.4}{6.47.24}{6.4.4.24}{1116, 488, 4842}

महि॒ राधो᳚ वि॒श्वज᳚न्यं॒ दधा᳚नान् भ॒रद्वा᳚जान्‌ त्सार्ञ्ज॒यो, अ॒भ्य॑यष्ट||{भारद्वाजो गर्गः | प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः | द्विपदा त्रिष्टुप्}{25/31}{4.7.34.5}{6.47.25}{6.4.4.25}{1117, 488, 4843}
वन॑स्पते वी॒ड्व᳚ङ्गो॒ हि भू॒या, अ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीरः॑|{भारद्वाजो गर्गः | रथः | त्रिष्टुप्}

गोभिः॒ संन॑द्धो, असि वी॒ळय॑स्वाऽऽस्था॒ता ते᳚ जयतु॒ जेत्वा᳚नि||{26/31}{4.7.35.1}{6.47.26}{6.4.4.26}{1118, 488, 4844}

दि॒वस्पृ॑थि॒व्याः पर्योज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्यः॒ पर्याभृ॑तं॒ सहः॑|{भारद्वाजो गर्गः | रथः | जगती}

अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्रं᳚ ह॒विषा॒ रथं᳚ यज||{27/31}{4.7.35.2}{6.47.27}{6.4.4.27}{1119, 488, 4845}

इन्द्र॑स्य॒ वज्रो᳚ म॒रुता॒मनी᳚कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑|{भारद्वाजो गर्गः | रथः | त्रिष्टुप्}

सेमां नो᳚ ह॒व्यदा᳚तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय||{28/31}{4.7.35.3}{6.47.28}{6.4.4.28}{1120, 488, 4846}

उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते᳚ मनुतां॒ विष्ठि॑तं॒ जग॑त्|{भारद्वाजो गर्गः | दुन्दुभिः | त्रिष्टुप्}

स दु᳚न्दुभे स॒जूरिन्द्रे᳚ण दे॒वैर्दू॒राद्‌ दवी᳚यो॒, अप॑ सेध॒ शत्रू॑न्||{29/31}{4.7.35.4}{6.47.29}{6.4.4.29}{1121, 488, 4847}

आ क्र᳚न्दय॒ बल॒मोजो᳚ न॒ आ धा॒ निः ष्ट॑निहि दुरि॒ता बाध॑मानः|{भारद्वाजो गर्गः | दुन्दुभिः | त्रिष्टुप्}

अप॑ प्रोथ दुन्दुभे दु॒च्छुना᳚ इ॒त इन्द्र॑स्य मु॒ष्टिर॑सि वी॒ळय॑स्व||{30/31}{4.7.35.5}{6.47.30}{6.4.4.30}{1122, 488, 4848}

आमूर॑ज प्र॒त्याव॑र्तये॒माः के᳚तु॒मद्‌ दु᳚न्दु॒भिर्वा᳚वदीति|{भारद्वाजो गर्गः | १/२:दुन्दुभिः २/२:इन्द्रः | त्रिष्टुप्}

समश्व॑पर्णा॒श्चर᳚न्ति नो॒ नरो॒ ऽस्माक॑मिन्द्र र॒थिनो᳚ जयन्तु||{31/31}{4.7.35.6}{6.47.31}{6.4.4.31}{1123, 488, 4849}

[127] यज्ञायज्ञावइति द्वाविंशत्यृचस्य सूक्तस्य बार्हस्पत्यःशंयुस्तृणपाणिः आद्यानांदशानामग्निरेकादश्यादिपंचानांमरुतस्ततश्चतुर्णां पूषाततस्तृचस्यमरुतः (त्रयोदश्यादितिसृणाम् इंद्रार्यमपूषविष्ण्वाद्यालिंगोक्तदेवतावा अंत्ययोर्द्यावाभूमीवापृश्निर्वा) आद्याबृहती द्वितीयासतोबृहती तृतीयाबृहती चतुर्थीसतोबृहती पंचमी बृहती षष्ठीमहासतोबृहती सप्तमीमहाबृहती अष्टमीमहासतोबृहती नवमीबृहती दशमीसतोबृहती एकादशीककुप् द्वादशीसतोबृहती त्रयोदशीपुर उष्णिक् चतुर्दशीबृहती पंचदश्यतिजगती षोडशीककुप् सप्तदशीसतोबृहती अष्टादशीपुरउष्णिक् एकोनविंशीविंशीबृहती एकविंशीमहाबृहती यवमध्याद्वाविंश्यनुष्टुप् | (पृष्निसूक्तमिदं) |
य॒ज्ञाय॑ज्ञा वो, अ॒ग्नये᳚ गि॒रागि॑रा च॒ दक्ष॑से|{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | बृहती}

प्रप्र॑ व॒यम॒मृतं᳚ जा॒तवे᳚दसं प्रि॒यं मि॒त्रं न शं᳚सिषम्||{1/22}{4.8.1.1}{6.48.1}{6.4.5.1}{1124, 489, 4850}

ऊ॒र्जो नपा᳚तं॒ स हि॒नायम॑स्म॒युर्दाशे᳚म ह॒व्यदा᳚तये|{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | सतोबृहती}

भुव॒द्‌ वाजे᳚ष्ववि॒ता भुव॑द्‌ वृ॒ध उ॒त त्रा॒ता त॒नूना᳚म्||{2/22}{4.8.1.2}{6.48.2}{6.4.5.2}{1125, 489, 4851}

वृषा॒ ह्य॑ग्ने, अ॒जरो᳚ म॒हान्‌ वि॒भास्य॒र्चिषा᳚|{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | बृहती}

अज॑स्रेण शो॒चिषा॒ शोशु॑चच्छुचे सुदी॒तिभिः॒ सु दी᳚दिहि||{3/22}{4.8.1.3}{6.48.3}{6.4.5.3}{1126, 489, 4852}

म॒हो दे॒वान्‌ यज॑सि॒ यक्ष्या᳚नु॒षक् तव॒ क्रत्वो॒त दं॒सना᳚|{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | सतोबृहती}

अ॒र्वाचः॑ सीं कृणुह्य॒ग्नेऽव॑से॒ रास्व॒ वाजो॒त वं᳚स्व||{4/22}{4.8.1.4}{6.48.4}{6.4.5.4}{1127, 489, 4853}

यमापो॒, अद्र॑यो॒ वना॒ गर्भ॑मृ॒तस्य॒ पिप्र॑ति|{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | बृहती}

सह॑सा॒ यो म॑थि॒तो जाय॑ते॒ नृभिः॑ पृथि॒व्या, अधि॒ सान॑वि||{5/22}{4.8.1.5}{6.48.5}{6.4.5.5}{1128, 489, 4854}

आ यः प॒प्रौ भा॒नुना॒ रोद॑सी, उ॒भे धू॒मेन॑ धावते दि॒वि|{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | महा सतोबृहती}

ति॒रस्तमो᳚ ददृश॒ ऊर्म्या॒स्वा श्या॒वास्व॑रु॒षो वृषा श्या॒वा, अ॑रु॒षो वृषा᳚||{6/22}{4.8.2.1}{6.48.6}{6.4.5.6}{1129, 489, 4855}

बृ॒हद्भि॑रग्ने, अ॒र्चिभिः॑ शु॒क्रेण॑ देव शो॒चिषा᳚|{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | महा बृहती}

भ॒रद्वा᳚जे समिधा॒नो य॑विष्ठ्य रे॒वन्नः॑ शुक्र दीदिहि द्यु॒मत्‌ पा᳚वक दीदिहि||{7/22}{4.8.2.2}{6.48.7}{6.4.5.7}{1130, 489, 4856}

विश्वा᳚सां गृ॒हप॑तिर्वि॒शाम॑सि॒ त्वम॑ग्ने॒ मानु॑षीणाम्|{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | महा सतोबृहती}

श॒तं पू॒र्भिर्य॑विष्ठ पा॒ह्यंह॑सः समे॒द्धारं᳚ श॒तं हिमाः᳚ स्तो॒तृभ्यो॒ ये च॒ दद॑ति||{8/22}{4.8.2.3}{6.48.8}{6.4.5.8}{1131, 489, 4857}

त्वं न॑श्चि॒त्र ऊ॒त्या वसो॒ राधां᳚सि चोदय|{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | बृहती}

अ॒स्य रा॒यस्त्वम॑ग्ने र॒थीर॑सि वि॒दा गा॒धं तु॒चे तु नः॑||{9/22}{4.8.2.4}{6.48.9}{6.4.5.9}{1132, 489, 4858}

पर्षि॑ तो॒कं तन॑यं प॒र्तृभि॒ष्ट्वमद॑ब्धै॒रप्र॑युत्वभिः|{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | सतोबृहती}

अग्ने॒ हेळां᳚सि॒ दैव्या᳚ युयोधि॒ नो ऽदे᳚वानि॒ ह्वरां᳚सि च||{10/22}{4.8.2.5}{6.48.10}{6.4.5.10}{1133, 489, 4859}

आ स॑खायः सब॒र्दुघां᳚ धे॒नुम॑जध्व॒मुप॒ नव्य॑सा॒ वचः॑|{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | ककुप्}

सृ॒जध्व॒मन॑पस्फुराम्||{11/22}{4.8.3.1}{6.48.11}{6.4.5.11}{1134, 489, 4860}

या शर्धा᳚य॒ मारु॑ताय॒ स्वभा᳚नवे॒ श्रवोऽमृ॑त्यु॒ धुक्ष॑त|{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | सतोबृहती}

या मृ॑ळी॒के म॒रुतां᳚ तु॒राणां॒ या सु॒म्नैरे᳚व॒याव॑री||{12/22}{4.8.3.2}{6.48.12}{6.4.5.12}{1135, 489, 4861}

भ॒रद्वा᳚जा॒याव॑ धुक्षत द्वि॒ता|{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | पुर उष्णिक्}

धे॒नुं च॑ वि॒श्वदो᳚हस॒मिषं᳚ च वि॒श्वभो᳚जसम्||{13/22}{4.8.3.3}{6.48.13}{6.4.5.13}{1136, 489, 4862}

तं व॒ इन्द्रं॒ न सु॒क्रतुं॒ वरु॑णमिव मा॒यिन᳚म्|{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | बृहती}

अ॒र्य॒मणं॒ न म॒न्द्रं सृ॒प्रभो᳚जसं॒ विष्णुं॒ न स्तु॑ष आ॒दिशे᳚||{14/22}{4.8.3.4}{6.48.14}{6.4.5.14}{1137, 489, 4863}

त्वे॒षं शर्धो॒ न मारु॑तं तुवि॒ष्वण्य॑न॒र्वाणं᳚ पू॒षणं॒ सं यथा᳚ श॒ता|{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | अतिजगती}

सं स॒हस्रा॒ कारि॑षच्चर्ष॒णिभ्य॒ आँ, आ॒विर्गू॒ळ्हा वसू᳚ करत् सु॒वेदा᳚ नो॒ वसू᳚ करत्||{15/22}{4.8.3.5}{6.48.15}{6.4.5.15}{1138, 489, 4864}

आ मा᳚ पूष॒न्नुप॑ द्रव॒ शंसि॑षं॒ नु ते᳚ अपिक॒र्ण आ᳚घृणे|{बार्हस्पत्यः शंयुस्तृणपाणिः | पूषा | ककुप्}

अ॒घा, अ॒र्यो, अरा᳚तयः||{16/22}{4.8.3.6}{6.48.16}{6.4.5.16}{1139, 489, 4865}

मा का᳚क॒म्बीर॒मुद्‌ वृ॑हो॒ वन॒स्पति॒मश॑स्ती॒र्वि हि नीन॑शः|{बार्हस्पत्यः शंयुस्तृणपाणिः | पूषा | सतोबृहती}

मोत सूरो॒, अह॑ ए॒वा च॒न ग्री॒वा, आ॒दध॑ते॒ वेः||{17/22}{4.8.4.1}{6.48.17}{6.4.5.17}{1140, 489, 4866}

दृते᳚रिव तेऽवृ॒कम॑स्तु स॒ख्यम्|{बार्हस्पत्यः शंयुस्तृणपाणिः | पूषा | पुर उष्णिक्}

अच्छि॑द्रस्य दध॒न्वतः॒ सुपू᳚र्णस्य दध॒न्वतः॑||{18/22}{4.8.4.2}{6.48.18}{6.4.5.18}{1141, 489, 4867}

प॒रो हि मर्त्यै॒रसि॑ स॒मो दे॒वैरु॒त श्रि॒या|{बार्हस्पत्यः शंयुस्तृणपाणिः | पूषा | बृहती}

अ॒भि ख्यः॑ पूष॒न्‌ पृत॑नासु न॒स्त्वमवा᳚ नू॒नं यथा᳚ पु॒रा||{19/22}{4.8.4.3}{6.48.19}{6.4.5.19}{1142, 489, 4868}

वा॒मी वा॒मस्य॑ धूतयः॒ प्रणी᳚तिरस्तु सू॒नृता᳚|{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | बृहती}

दे॒वस्य॑ वा मरुतो॒ मर्त्य॑स्य वेजा॒नस्य॑ प्रयज्यवः||{20/22}{4.8.4.4}{6.48.20}{6.4.5.20}{1143, 489, 4869}

स॒द्यश्चि॒द्‌ यस्य॑ चर्कृ॒तिः परि॒ द्यां दे॒वो नैति॒ सूर्यः॑|{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | महा बृहती यवमध्या}

त्वे॒षं शवो᳚ दधिरे॒ नाम॑ य॒ज्ञियं᳚ म॒रुतो᳚ वृत्र॒हं शवो॒ ज्येष्ठं᳚ वृत्र॒हं शवः॑||{21/22}{4.8.4.5}{6.48.21}{6.4.5.21}{1144, 489, 4870}

स॒कृद्‌ ध॒ द्यौर॑जायत स॒कृद्‌ भूमि॑रजायत|{बार्हस्पत्यः शंयुस्तृणपाणिः | द्यावाभूमीवापृश्निर्वा | अनुष्टुप्}

पृश्न्या᳚ दु॒ग्धं स॒कृत्‌ पय॒स्तद॒न्यो नानु॑ जायते||{22/22}{4.8.4.6}{6.48.22}{6.4.5.22}{1145, 489, 4871}

[128] स्तुषेजनमिति पंचदशर्चस्य सूक्तस्य भारद्वाजऋजिश्वा विश्वेदेवास्त्रिष्टुबंत्याशक्वरी | (इतश्चत्वारिवैश्व | भेदपक्षे - विश्वेदेवाः १ | अग्निः १ अहोरात्रे १ वायुः १ अश्विनौ १ विश्वेदेवाः १ सरस्वती १ पूषा १ अग्नित्वष्टारौ १ रुद्रः १ मरुतः २ विष्णुः १ विश्वेदेवाः २ एवं १५) |
स्तु॒षे जनं᳚ सुव्र॒तं नव्य॑सीभिर्गी॒र्भिर्मि॒त्रावरु॑णा सुम्न॒यन्ता᳚|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

त आ ग॑मन्तु॒ त इ॒ह श्रु॑वन्तु सुक्ष॒त्रासो॒ वरु॑णो मि॒त्रो, अ॒ग्निः||{1/15}{4.8.5.1}{6.49.1}{6.4.6.1}{1146, 490, 4872}

वि॒शोवि॑श॒ ईड्य॑मध्व॒रेष्वदृ॑प्तक्रतुमर॒तिं यु॑व॒त्योः|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

दि॒वः शिशुं॒ सह॑सः सू॒नुम॒ग्निं य॒ज्ञस्य॑ के॒तुम॑रु॒षं यज॑ध्यै||{2/15}{4.8.5.2}{6.49.2}{6.4.6.2}{1147, 490, 4873}

अ॒रु॒षस्य॑ दुहि॒तरा॒ विरू᳚पे॒ स्तृभि॑र॒न्या पि॑पि॒शे सूरो᳚ अ॒न्या|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

मि॒थ॒स्तुरा᳚ वि॒चर᳚न्ती पाव॒के मन्म॑ श्रु॒तं न॑क्षत ऋ॒च्यमा᳚ने||{3/15}{4.8.5.3}{6.49.3}{6.4.6.3}{1148, 490, 4874}

प्र वा॒युमच्छा᳚ बृह॒ती म॑नी॒षा बृ॒हद्र॑यिं वि॒श्ववा᳚रं रथ॒प्राम्|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

द्यु॒तद्या᳚मा नि॒युतः॒ पत्य॑मानः क॒विः क॒विमि॑यक्षसि प्रयज्यो||{4/15}{4.8.5.4}{6.49.4}{6.4.6.4}{1149, 490, 4875}

स मे॒ वपु॑श्छदयद॒श्विनो॒र्यो रथो᳚ वि॒रुक्मा॒न्‌ मन॑सा युजा॒नः|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

येन॑ नरा नासत्येष॒यध्यै᳚ व॒र्तिर्या॒थस्तन॑याय॒ त्मने᳚ च||{5/15}{4.8.5.5}{6.49.5}{6.4.6.5}{1150, 490, 4876}

पर्ज᳚न्यवाता वृषभा पृथि॒व्याः पुरी᳚षाणि जिन्वत॒मप्या᳚नि|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

सत्य॑श्रुतः कवयो॒ यस्य॑ गी॒र्भिर्जग॑तः स्थात॒र्जग॒दा कृ॑णुध्वम्||{6/15}{4.8.6.1}{6.49.6}{6.4.6.6}{1151, 490, 4877}

पावी᳚रवी क॒न्या᳚ चि॒त्रायुः॒ सर॑स्वती वी॒रप॑त्नी॒ धियं᳚ धात्|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ग्नाभि॒रच्छि॑द्रं शर॒णं स॒जोषा᳚ दुरा॒धर्षं᳚ गृण॒ते शर्म॑ यंसत्||{7/15}{4.8.6.2}{6.49.7}{6.4.6.7}{1152, 490, 4878}

प॒थस्प॑थः॒ परि॑पतिं वच॒स्या कामे᳚न कृ॒तो, अ॒भ्या᳚नळ॒र्कम्|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

स नो᳚ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धियं᳚धियं सीषधाति॒ प्र पू॒षा||{8/15}{4.8.6.3}{6.49.8}{6.4.6.8}{1153, 490, 4879}

प्र॒थ॒म॒भाजं᳚ य॒शसं᳚ वयो॒धां सु॑पा॒णिं दे॒वं सु॒गभ॑स्ति॒मृभ्व᳚म्|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

होता᳚ यक्षद्‌ यज॒तं प॒स्त्या᳚नाम॒ग्निस्त्वष्टा᳚रं सु॒हवं᳚ वि॒भावा᳚||{9/15}{4.8.6.4}{6.49.9}{6.4.6.9}{1154, 490, 4880}

भुव॑नस्य पि॒तरं᳚ गी॒र्भिरा॒भी रु॒द्रं दिवा᳚ व॒र्धया᳚ रु॒द्रम॒क्तौ|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

बृ॒हन्त॑मृ॒ष्वम॒जरं᳚ सुषु॒म्नमृध॑ग्घुवेम क॒विने᳚षि॒तासः॑||{10/15}{4.8.6.5}{6.49.10}{6.4.6.10}{1155, 490, 4881}

आ यु॑वानः कवयो यज्ञियासो॒ मरु॑तो ग॒न्त गृ॑ण॒तो व॑र॒स्याम्|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

अ॒चि॒त्रं चि॒द्धि जिन्व॑था वृ॒धन्त॑ इ॒त्था नक्ष᳚न्तो नरो, अङ्गिर॒स्वत्||{11/15}{4.8.7.1}{6.49.11}{6.4.6.11}{1156, 490, 4882}

प्र वी॒राय॒ प्र त॒वसे᳚ तु॒रायाऽजा᳚ यू॒थेव॑ पशु॒रक्षि॒रस्त᳚म्|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

स पि॑स्पृशति त॒न्‌ वि॑ श्रु॒तस्य॒ स्तृभि॒र्न नाकं᳚ वच॒नस्य॒ विपः॑||{12/15}{4.8.7.2}{6.49.12}{6.4.6.12}{1157, 490, 4883}

यो रजां᳚सि विम॒मे पार्थि॑वानि॒ त्रिश्चि॒द्‌ विष्णु॒र्मन॑वे बाधि॒ताय॑|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

तस्य॑ ते॒ शर्म᳚न्नुपद॒द्यमा᳚ने रा॒या म॑देम त॒न्वा॒३॑(आ॒) तना᳚ च||{13/15}{4.8.7.3}{6.49.13}{6.4.6.13}{1158, 490, 4884}

तन्नोऽहि॑र्बु॒ध्न्यो᳚ अ॒द्भिर॒र्कैस्तत्‌ पर्व॑त॒स्तत्‌ स॑वि॒ता चनो᳚ धात्|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

तदोष॑धीभिर॒भि रा᳚ति॒षाचो॒ भगः॒ पुरं᳚धिर्जिन्वतु॒ प्र रा॒ये||{14/15}{4.8.7.4}{6.49.14}{6.4.6.14}{1159, 490, 4885}

नु नो᳚ र॒यिं र॒थ्यं᳚ चर्षणि॒प्रां पु॑रु॒वीरं᳚ म॒ह ऋ॒तस्य॑ गो॒पाम्|{भारद्वाज ऋजिश्वा | विश्वदेवाः | शक्वरी}

क्षयं᳚ दाता॒जरं॒ येन॒ जना॒न् त्स्पृधो॒, अदे᳚वीर॒भि च॒ क्रमा᳚म॒ विश॒ आदे᳚वीर॒भ्य१॑(अ॒)श्नवा᳚म||{15/15}{4.8.7.5}{6.49.15}{6.4.6.15}{1160, 490, 4886}

[129] हुवेवइति पंचदशर्चस्य सूक्तस्य भारद्वाजऋजिश्वाविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे –विश्वे। १ सूर्यः १ द्यावापृथिवी १ मरुतः २ इंद्रः १ अपः १ सविता १ अग्निः १ अश्विनौ १ विश्वे० ५ एवं १५) |
हु॒वे वो᳚ दे॒वीमदि॑तिं॒ नमो᳚भिर्मृळी॒काय॒ वरु॑णं मि॒त्रम॒ग्निम्|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

अ॒भि॒क्ष॒दाम᳚र्य॒मणं᳚ सु॒शेवं᳚ त्रा॒तॄन्दे॒वान्‌ त्स॑वि॒तारं॒ भगं᳚ च||{1/15}{4.8.8.1}{6.50.1}{6.5.1.1}{1161, 491, 4887}

सु॒ज्योति॑षः सूर्य॒ दक्ष॑पितॄननागा॒स्त्वे सु॑महो वीहि दे॒वान्|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

द्वि॒जन्मा᳚नो॒ य ऋ॑त॒सापः॑ स॒त्याः स्व᳚र्वन्तो यज॒ता, अ॑ग्निजि॒ह्वाः||{2/15}{4.8.8.2}{6.50.2}{6.5.1.2}{1162, 491, 4888}

उ॒त द्या᳚वापृथिवी क्ष॒त्रमु॒रु बृ॒हद्‌ रो᳚दसी शर॒णं सु॑षुम्ने|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

म॒हस्क॑रथो॒ वरि॑वो॒ यथा᳚ नो॒ ऽस्मे क्षया᳚य धिषणे, अने॒हः||{3/15}{4.8.8.3}{6.50.3}{6.5.1.3}{1163, 491, 4889}

आ नो᳚ रु॒द्रस्य॑ सू॒नवो᳚ नमन्ताम॒द्या हू॒तासो॒ वस॒वोऽधृ॑ष्टाः|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

यदी॒मर्भे᳚ मह॒ति वा᳚ हि॒तासो᳚ बा॒धे म॒रुतो॒, अह्वा᳚म दे॒वान्||{4/15}{4.8.8.4}{6.50.4}{6.5.1.4}{1164, 491, 4890}

मि॒म्यक्ष॒ येषु॑ रोद॒सी नु दे॒वी सिष॑क्ति पू॒षा, अ॑भ्यर्ध॒यज्वा᳚|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

श्रु॒त्वा हवं᳚ मरुतो॒ यद्ध॑ या॒थ भूमा᳚ रेजन्ते॒, अध्व॑नि॒ प्रवि॑क्ते||{5/15}{4.8.8.5}{6.50.5}{6.5.1.5}{1165, 491, 4891}

अ॒भि त्यं वी॒रं गिर्व॑णसम॒र्चेन्द्रं॒ ब्रह्म॑णा जरित॒र्नवे᳚न|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

श्रव॒दिद्धव॒मुप॑ च॒ स्तवा᳚नो॒ रास॒द्‌ वाजाँ॒, उप॑ म॒हो गृ॑णा॒नः||{6/15}{4.8.9.1}{6.50.6}{6.5.1.6}{1166, 491, 4892}

ओ॒मान॑मापो मानुषी॒रमृ॑क्तं॒ धात॑ तो॒काय॒ तन॑याय॒ शं योः|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

यू॒यं हि ष्ठा भि॒षजो᳚ मा॒तृत॑मा॒ विश्व॑स्य स्था॒तुर्जग॑तो॒ जनि॑त्रीः||{7/15}{4.8.9.2}{6.50.7}{6.5.1.7}{1167, 491, 4893}

आ नो᳚ दे॒वः स॑वि॒ता त्राय॑माणो॒ हिर᳚ण्यपाणिर्यज॒तो ज॑गम्यात्|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

यो दत्र॑वाँ, उ॒षसो॒ न प्रती᳚कं व्यूर्णु॒ते दा॒शुषे॒ वार्या᳚णि||{8/15}{4.8.9.3}{6.50.8}{6.5.1.8}{1168, 491, 4894}

उ॒त त्वं सू᳚नो सहसो नो, अ॒द्या दे॒वाँ, अ॒स्मिन्न॑ध्व॒रे व॑वृत्याः|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

स्याम॒हं ते॒ सद॒मिद्‌ रा॒तौ तव॑ स्याम॒ग्नेऽव॑सा सु॒वीरः॑||{9/15}{4.8.9.4}{6.50.9}{6.5.1.9}{1169, 491, 4895}

उ॒त त्या मे॒ हव॒मा ज॑ग्म्यातं॒ नास॑त्या धी॒भिर्यु॒वम॒ङ्ग वि॑प्रा|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

अत्रिं॒ न म॒हस्तम॑सोऽमुमुक्तं॒ तूर्व॑तं नरा दुरि॒ताद॒भीके᳚||{10/15}{4.8.9.5}{6.50.10}{6.5.1.10}{1170, 491, 4896}

ते नो᳚ रा॒यो द्यु॒मतो॒ वाज॑वतो दा॒तारो᳚ भूत नृ॒वतः॑ पुरु॒क्षोः|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

द॒श॒स्यन्तो᳚ दि॒व्याः पार्थि॑वासो॒ गोजा᳚ता॒, अप्या᳚ मृ॒ळता᳚ च देवाः||{11/15}{4.8.10.1}{6.50.11}{6.5.1.11}{1171, 491, 4897}

ते नो᳚ रु॒द्रः सर॑स्वती स॒जोषा᳚ मी॒ळ्हुष्म᳚न्तो॒ विष्णु᳚र्मृळन्तु वा॒युः|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ऋ॒भु॒क्षा वाजो॒ दैव्यो᳚ विधा॒ता प॒र्जन्या॒वाता᳚ पिप्यता॒मिषं᳚ नः||{12/15}{4.8.10.2}{6.50.12}{6.5.1.12}{1172, 491, 4898}

उ॒त स्य दे॒वः स॑वि॒ता भगो᳚ नो॒ ऽपां नपा᳚दवतु॒ दानु॒ पप्रिः॑|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

त्वष्टा᳚ दे॒वेभि॒र्जनि॑भिः स॒जोषा॒ द्यौर्दे॒वेभिः॑ पृथि॒वी स॑मु॒द्रैः||{13/15}{4.8.10.3}{6.50.13}{6.5.1.13}{1173, 491, 4899}

उ॒त नोऽहि॑र्बु॒ध्न्यः॑ शृणोत्व॒ज एक॑पात्‌ पृथि॒वी स॑मु॒द्रः|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

विश्वे᳚ दे॒वा, ऋ॑ता॒वृधो᳚ हुवा॒नाः स्तु॒ता मन्त्राः᳚ कविश॒स्ता, अ॑वन्तु||{14/15}{4.8.10.4}{6.50.14}{6.5.1.14}{1174, 491, 4900}

ए॒वा नपा᳚तो॒ मम॒ तस्य॑ धी॒भिर्भ॒रद्वा᳚जा, अ॒भ्य॑र्चन्त्य॒र्कैः|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ग्ना हु॒तासो॒ वस॒वोऽधृ॑ष्टा॒ विश्वे᳚ स्तु॒तासो᳚ भूता यजत्राः||{15/15}{4.8.10.5}{6.50.15}{6.5.1.15}{1175, 491, 4901}

[130] उदुत्यदिति षोळशर्चस्य सूक्तस्य भारद्वाजऋजिश्वा विश्वेदेवातिष्टुप्‌ त्रयोदश्याद्यास्तिस्राउष्णिहोन्त्यानुष्टुप् | (भेदपक्षे- सूर्य : २ विश्वेदेवाः १० अग्निः १ सोमः १ विश्वेदेवाः २ एवं १६) |
उदु॒ त्यच्चक्षु॒र्महि॑ मि॒त्रयो॒राँ, एति॑ प्रि॒यं वरु॑णयो॒रद॑ब्धम्|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ऋ॒तस्य॒ शुचि॑ दर्श॒तमनी᳚कं रु॒क्मो न दि॒व उदि॑ता॒ व्य॑द्यौत्||{1/16}{4.8.11.1}{6.51.1}{6.5.2.1}{1176, 492, 4902}

वेद॒ यस्त्रीणि॑ वि॒दथा᳚न्येषां दे॒वानां॒ जन्म॑ सनु॒तरा च॒ विप्रः॑|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ऋ॒जु मर्ते᳚षु वृजि॒ना च॒ पश्य᳚न्न॒भि च॑ष्टे॒ सूरो᳚ अ॒र्य एवा॑न्||{2/16}{4.8.11.2}{6.51.2}{6.5.2.2}{1177, 492, 4903}

स्तु॒ष उ॑ वो म॒ह ऋ॒तस्य॑ गो॒पानदि॑तिं मि॒त्रं वरु॑णं सुजा॒तान्|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

अ॒र्य॒मणं॒ भग॒मद॑ब्धधीती॒नच्छा᳚ वोचे सध॒न्यः॑ पाव॒कान्||{3/16}{4.8.11.3}{6.51.3}{6.5.2.3}{1178, 492, 4904}

रि॒शाद॑सः॒ सत्प॑तीँ॒रद॑ब्धान् म॒हो राज्ञः॑ सुवस॒नस्य॑ दा॒तॄन्|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

यूनः॑ सुक्ष॒त्रान्‌ क्षय॑तो दि॒वो नॄना᳚दि॒त्यान्‌ या॒म्यदि॑तिं दुवो॒यु||{4/16}{4.8.11.4}{6.51.4}{6.5.2.4}{1179, 492, 4905}

द्यौ॒३॑(औ॒)ष्पितः॒ पृथि॑वि॒ मात॒रध्रु॒गग्ने᳚ भ्रातर्वसवो मृ॒ळता᳚ नः|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

विश्व॑ आदित्या, अदिते स॒जोषा᳚ अ॒स्मभ्यं॒ शर्म॑ बहु॒लं वि य᳚न्त||{5/16}{4.8.11.5}{6.51.5}{6.5.2.5}{1180, 492, 4906}

मा नो॒ वृका᳚य वृ॒क्ये᳚ समस्मा, अघाय॒ते री᳚रधता यजत्राः|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

यू॒यं हि ष्ठा र॒थ्यो᳚ नस्त॒नूनां᳚ यू॒यं दक्ष॑स्य॒ वच॑सो बभू॒व||{6/16}{4.8.12.1}{6.51.6}{6.5.2.6}{1181, 492, 4907}

मा व॒ एनो᳚ अ॒न्यकृ॑तं भुजेम॒ मा तत्‌ क᳚र्म वसवो॒ यच्चय॑ध्वे|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

विश्व॑स्य॒ हि क्षय॑थ विश्वदेवाः स्व॒यं रि॒पुस्त॒न्वं᳚ रीरिषीष्ट||{7/16}{4.8.12.2}{6.51.7}{6.5.2.7}{1182, 492, 4908}

नम॒ इदु॒ग्रं नम॒ आ वि॑वासे॒ नमो᳚ दाधार पृथि॒वीमु॒त द्याम्|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

नमो᳚ दे॒वेभ्यो॒ नम॑ ईश एषां कृ॒तं चि॒देनो॒ नम॒सा वि॑वासे||{8/16}{4.8.12.3}{6.51.8}{6.5.2.8}{1183, 492, 4909}

ऋ॒तस्य॑ वो र॒थ्यः॑ पू॒तद॑क्षानृ॒तस्य॑ पस्त्य॒सदो॒, अद॑ब्धान्|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ताँ, आ नमो᳚भिरुरु॒चक्ष॑सो॒ नॄन् विश्वा᳚न्व॒ आ न॑मे म॒हो य॑जत्राः||{9/16}{4.8.12.4}{6.51.9}{6.5.2.9}{1184, 492, 4910}

ते हि श्रेष्ठ॑वर्चस॒स्त उ॑ नस्ति॒रो विश्वा᳚नि दुरि॒ता नय᳚न्ति|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

सु॒क्ष॒त्रासो॒ वरु॑णो मि॒त्रो, अ॒ग्निरृ॒तधी᳚तयो वक्म॒राज॑सत्याः||{10/16}{4.8.12.5}{6.51.10}{6.5.2.10}{1185, 492, 4911}

ते न॒ इन्द्रः॑ पृथि॒वी क्षाम॑ वर्धन् पू॒षा भगो॒, अदि॑तिः॒ पञ्च॒ जनाः᳚|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

सु॒शर्मा᳚णः॒ स्वव॑सः सुनी॒था भव᳚न्तु नः सुत्रा॒त्रासः॑ सुगो॒पाः||{11/16}{4.8.13.1}{6.51.11}{6.5.2.11}{1186, 492, 4912}

नू स॒द्मानं᳚ दि॒व्यं नंशि॑ देवा॒ भार॑द्वाजः सुम॒तिं या᳚ति॒ होता᳚|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

आ॒सा॒नेभि॒र्यज॑मानो मि॒येधै᳚र्दे॒वानां॒ जन्म॑ वसू॒युर्व॑वन्द||{12/16}{4.8.13.2}{6.51.12}{6.5.2.12}{1187, 492, 4913}

अप॒ त्यं वृ॑जि॒नं रि॒पुं स्ते॒नम॑ग्ने दुरा॒ध्य᳚म्|{भारद्वाज ऋजिश्वा | विश्वदेवाः | उष्णिक्}

द॒वि॒ष्ठम॑स्य सत्पते कृ॒धी सु॒गम्||{13/16}{4.8.13.3}{6.51.13}{6.5.2.13}{1188, 492, 4914}

ग्रावा᳚णः सोम नो॒ हि कं᳚ सखित्व॒नाय॑ वाव॒शुः|{भारद्वाज ऋजिश्वा | विश्वदेवाः | उष्णिक्}

ज॒ही न्य१॑(अ॒)त्रिणं᳚ प॒णिं वृको॒ हि षः||{14/16}{4.8.13.4}{6.51.14}{6.5.2.14}{1189, 492, 4915}

यू॒यं हि ष्ठा सु॑दानव॒ इन्द्र॑ज्येष्ठा, अ॒भिद्य॑वः|{भारद्वाज ऋजिश्वा | विश्वदेवाः | उष्णिक्}

कर्ता᳚ नो॒, अध्व॒न्ना सु॒गं गो॒पा, अ॒मा||{15/16}{4.8.13.5}{6.51.15}{6.5.2.15}{1190, 492, 4916}

अपि॒ पन्था᳚मगन्महि स्वस्ति॒गाम॑ने॒हस᳚म्|{भारद्वाज ऋजिश्वा | विश्वदेवाः | अनुष्टुप्}

येन॒ विश्वाः॒ परि॒ द्विषो᳚ वृ॒णक्ति॑ वि॒न्दते॒ वसु॑||{16/16}{4.8.13.6}{6.51.16}{6.5.2.16}{1191, 492, 4917}

[131] नतद्दिवेति सप्तदशर्चस्य सूक्तस्य भारद्वाजऋजिश्व विश्वेदेवास्त्रिष्टुप्‌सप्तम्याद्याःषट्‌गायत्र्यश्चतुर्दशी जगती | (भेदपक्षे-विश्वेदेवाः २ सोमः १ विश्वे ८ अग्निः १ विश्वे ३ अग्निपर्जन्यौ १ विश्वे १ एवं १७) |
न तद्‌ दि॒वा न पृ॑थि॒व्यानु॑ मन्ये॒ न य॒ज्ञेन॒ नोत शमी᳚भिरा॒भिः|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

उ॒ब्जन्तु॒ तं सु॒भ्व१॑(अः॒) पर्व॑तासो॒ नि ही᳚यतामतिया॒जस्य॑ य॒ष्टा||{1/17}{4.8.14.1}{6.52.1}{6.5.3.1}{1192, 493, 4918}

अति॑ वा॒ यो म॑रुतो॒ मन्य॑ते नो॒ ब्रह्म॑ वा॒ यः क्रि॒यमा᳚णं॒ निनि॑त्सात्|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

तपूं᳚षि॒ तस्मै᳚ वृजि॒नानि॑ सन्तु ब्रह्म॒द्विष॑म॒भि तं शो᳚चतु॒ द्यौः||{2/17}{4.8.14.2}{6.52.2}{6.5.3.2}{1193, 493, 4919}

किम॒ङ्ग त्वा॒ ब्रह्म॑णः सोम गो॒पां किम॒ङ्ग त्वा᳚हुरभिशस्ति॒पां नः॑|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

किम॒ङ्ग नः॑ पश्यसि नि॒द्यमा᳚नान् ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य||{3/17}{4.8.14.3}{6.52.3}{6.5.3.3}{1194, 493, 4920}

अव᳚न्तु॒ मामु॒षसो॒ जाय॑माना॒, अव᳚न्तु मा॒ सिन्ध॑वः॒ पिन्व॑मानाः|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

अव᳚न्तु मा॒ पर्व॑तासो ध्रु॒वासो ऽव᳚न्तु मा पि॒तरो᳚ दे॒वहू᳚तौ||{4/17}{4.8.14.4}{6.52.4}{6.5.3.4}{1195, 493, 4921}

वि॒श्व॒दानीं᳚ सु॒मन॑सः स्याम॒ पश्ये᳚म॒ नु सूर्य॑मु॒च्चर᳚न्तम्|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

तथा᳚ कर॒द्‌ वसु॑पति॒र्वसू᳚नां दे॒वाँ, ओहा॒नोऽव॒साग॑मिष्ठः||{5/17}{4.8.14.5}{6.52.5}{6.5.3.5}{1196, 493, 4922}

इन्द्रो॒ नेदि॑ष्ठ॒मव॒साग॑मिष्ठः॒ सर॑स्वती॒ सिन्धु॑भिः॒ पिन्व॑माना|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

प॒र्जन्यो᳚ न॒ ओष॑धीभिर्मयो॒भुर॒ग्निः सु॒शंसः॑ सु॒हवः॑ पि॒तेव॑||{6/17}{4.8.15.1}{6.52.6}{6.5.3.6}{1197, 493, 4923}

विश्वे᳚ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मं हव᳚म्|{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री}

एदं ब॒र्हिर्नि षी᳚दत||{7/17}{4.8.15.2}{6.52.7}{6.5.3.7}{1198, 493, 4924}

यो वो᳚ देवा घृ॒तस्नु॑ना ह॒व्येन॑ प्रति॒भूष॑ति|{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री}

तं विश्व॒ उप॑ गच्छथ||{8/17}{4.8.15.3}{6.52.8}{6.5.3.8}{1199, 493, 4925}

उप॑ नः सू॒नवो॒ गिरः॑ शृ॒ण्वन्त्व॒मृत॑स्य॒ ये|{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री}

सु॒मृ॒ळी॒का भ॑वन्तु नः||{9/17}{4.8.15.4}{6.52.9}{6.5.3.9}{1200, 493, 4926}

विश्वे᳚ दे॒वा, ऋ॑ता॒वृध॑ ऋ॒तुभि᳚र्हवन॒श्रुतः॑|{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री}

जु॒षन्तां॒ युज्यं॒ पयः॑||{10/17}{4.8.15.5}{6.52.10}{6.5.3.10}{1201, 493, 4927}

स्तो॒त्रमिन्द्रो᳚ म॒रुद्ग॑ण॒स्त्वष्टृ॑मान्‌ मि॒त्रो, अ᳚र्य॒मा|{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री}

इ॒मा ह॒व्या जु॑षन्त नः||{11/17}{4.8.16.1}{6.52.11}{6.5.3.11}{1202, 493, 4928}

इ॒मं नो᳚ अग्ने, अध्व॒रं होत᳚र्वयुन॒शो य॑ज|{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री}

चि॒कि॒त्वान्‌ दैव्यं॒ जन᳚म्||{12/17}{4.8.16.2}{6.52.12}{6.5.3.12}{1203, 493, 4929}

विश्वे᳚ देवाः शृणु॒तेमं हवं᳚ मे॒ ये, अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ये, अ॑ग्निजि॒ह्वा, उ॒त वा॒ यज॑त्रा, आ॒सद्या॒स्मिन्‌ ब॒र्हिषि॑ मादयध्वम्||{13/17}{4.8.16.3}{6.52.13}{6.5.3.13}{1204, 493, 4930}

विश्वे᳚ दे॒वा मम॑ शृण्वन्तु य॒ज्ञिया᳚ उ॒भे रोद॑सी, अ॒पां नपा᳚च्च॒ मन्म॑|{भारद्वाज ऋजिश्वा | विश्वदेवाः | जगती}

मा वो॒ वचां᳚सि परि॒चक्ष्या᳚णि वोचं सु॒म्नेष्विद्‌ वो॒, अन्त॑मा मदेम||{14/17}{4.8.16.4}{6.52.14}{6.5.3.14}{1205, 493, 4931}

ये के च॒ ज्मा म॒हिनो॒, अहि॑माया दि॒वो ज॑ज्ञि॒रे, अ॒पां स॒धस्थे᳚|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ते, अ॒स्मभ्य॑मि॒षये॒ विश्व॒मायुः॒, क्षप॑ उ॒स्रा व॑रिवस्यन्तु दे॒वाः||{15/17}{4.8.16.5}{6.52.15}{6.5.3.15}{1206, 493, 4932}

अग्नी᳚पर्जन्या॒वव॑तं॒ धियं᳚ मे॒ ऽस्मिन्‌ हवे᳚ सुहवा सुष्टु॒तिं नः॑|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

इळा᳚म॒न्यो ज॒नय॒द्‌ गर्भ॑म॒न्यः प्र॒जाव॑ती॒रिष॒ आ ध॑त्तम॒स्मे||{16/17}{4.8.16.6}{6.52.16}{6.5.3.16}{1207, 493, 4933}

स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने, अ॒ग्नौ सू॒क्तेन॑ म॒हा नम॒सा वि॑वासे|{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

अ॒स्मिन्‌ नो᳚ अ॒द्य वि॒दथे᳚ यजत्रा॒ विश्वे᳚ देवा ह॒विषि॑ मादयध्वम्||{17/17}{4.8.16.7}{6.52.17}{6.5.3.17}{1208, 493, 4934}

[132] वयमुत्वेति दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजः पूषा गायत्री अष्टम्यनुष्टुप् |
व॒यमु॑ त्वा पथस्पते॒ रथं॒ न वाज॑सातये|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

धि॒ये पू᳚षन्नयुज्महि||{1/10}{4.8.17.1}{6.53.1}{6.5.4.1}{1209, 494, 4935}

अ॒भि नो॒ नर्यं॒ वसु॑ वी॒रं प्रय॑तदक्षिणम्|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

वा॒मं गृ॒हप॑तिं नय||{2/10}{4.8.17.2}{6.53.2}{6.5.4.2}{1210, 494, 4936}

अदि॑त्सन्तं चिदाघृणे॒ पूष॒न्‌ दाना᳚य चोदय|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

प॒णेश्चि॒द्‌ वि म्र॑दा॒ मनः॑||{3/10}{4.8.17.3}{6.53.3}{6.5.4.3}{1211, 494, 4937}

वि प॒थो वाज॑सातये चिनु॒हि वि मृधो᳚ जहि|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

साध᳚न्तामुग्र नो॒ धियः॑||{4/10}{4.8.17.4}{6.53.4}{6.5.4.4}{1212, 494, 4938}

परि॑ तृन्धि पणी॒नामार॑या॒ हृद॑या कवे|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

अथे᳚म॒स्मभ्यं᳚ रन्धय||{5/10}{4.8.17.5}{6.53.5}{6.5.4.5}{1213, 494, 4939}

वि पू᳚ष॒न्नार॑या तुद प॒णेरि॑च्छ हृ॒दि प्रि॒यम्|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

अथे᳚म॒स्मभ्यं᳚ रन्धय||{6/10}{4.8.18.1}{6.53.6}{6.5.4.6}{1214, 494, 4940}

आ रि॑ख किकि॒रा कृ॑णु पणी॒नां हृद॑या कवे|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

अथे᳚म॒स्मभ्यं᳚ रन्धय||{7/10}{4.8.18.2}{6.53.7}{6.5.4.7}{1215, 494, 4941}

यां पू᳚षन्‌ ब्रह्म॒चोद॑नी॒मारां॒ बिभ॑र्ष्याघृणे|{बार्हस्पत्यो भरद्वाजः | पूषा | अनुष्टुप्}

तया᳚ समस्य॒ हृद॑य॒मा रि॑ख किकि॒रा कृ॑णु||{8/10}{4.8.18.3}{6.53.8}{6.5.4.8}{1216, 494, 4942}

या ते॒, अष्ट्रा॒ गो,ओ᳚प॒शाऽऽघृ॑णे पशु॒साध॑नी|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

तस्या᳚स्ते सु॒म्नमी᳚महे||{9/10}{4.8.18.4}{6.53.9}{6.5.4.9}{1217, 494, 4943}

उ॒त नो᳚ गो॒षणिं॒ धिय॑मश्व॒सां वा᳚ज॒सामु॒त|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

नृ॒वत्‌ कृ॑णुहि वी॒तये᳚||{10/10}{4.8.18.5}{6.53.10}{6.5.4.10}{1218, 494, 4944}

[133] संपूषन्निति दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजः पूषागायत्री |
सं पू᳚षन्‌ वि॒दुषा᳚ नय॒ यो, अञ्ज॑सानु॒शास॑ति|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

य ए॒वेदमिति॒ ब्रव॑त्||{1/10}{4.8.19.1}{6.54.1}{6.5.5.1}{1219, 495, 4945}

समु॑ पू॒ष्णा ग॑मेमहि॒ यो गृ॒हाँ, अ॑भि॒शास॑ति|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

इ॒म ए॒वेति॑ च॒ ब्रव॑त्||{2/10}{4.8.19.2}{6.54.2}{6.5.5.2}{1220, 495, 4946}

पू॒ष्णश्च॒क्रं न रि॑ष्यति॒ न कोशोऽव॑ पद्यते|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

नो, अ॑स्य व्यथते प॒विः||{3/10}{4.8.19.3}{6.54.3}{6.5.5.3}{1221, 495, 4947}

यो, अ॑स्मै ह॒विषावि॑ध॒न्न तं पू॒षापि॑ मृष्यते|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

प्र॒थ॒मो वि᳚न्दते॒ वसु॑||{4/10}{4.8.19.4}{6.54.4}{6.5.5.4}{1222, 495, 4948}

पू॒षा गा, अन्वे᳚तु नः पू॒षा र॑क्ष॒त्वर्व॑तः|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

पू॒षा वाजं᳚ सनोतु नः||{5/10}{4.8.19.5}{6.54.5}{6.5.5.5}{1223, 495, 4949}

पूष॒न्ननु॒ प्र गा, इ॑हि॒ यज॑मानस्य सुन्व॒तः|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

अ॒स्माकं᳚ स्तुव॒तामु॒त||{6/10}{4.8.20.1}{6.54.6}{6.5.5.6}{1224, 495, 4950}

माकि᳚र्नेश॒न्माकीं᳚ रिष॒न्माकीं॒ सं शा᳚रि॒ केव॑टे|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

अथारि॑ष्टाभि॒रा ग॑हि||{7/10}{4.8.20.2}{6.54.7}{6.5.5.7}{1225, 495, 4951}

शृ॒ण्वन्तं᳚ पू॒षणं᳚ व॒यमिर्य॒मन॑ष्टवेदसम्|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

ईशा᳚नं रा॒य ई᳚महे||{8/10}{4.8.20.3}{6.54.8}{6.5.5.8}{1226, 495, 4952}

पूष॒न्‌ तव᳚ व्र॒ते व॒यं न रि॑ष्येम॒ कदा᳚ च॒न|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

स्तो॒तार॑स्त इ॒ह स्म॑सि||{9/10}{4.8.20.4}{6.54.9}{6.5.5.9}{1227, 495, 4953}

परि॑ पू॒षा प॒रस्ता॒द्धस्तं᳚ दधातु॒ दक्षि॑णम्|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

पुन᳚र्नो न॒ष्टमाज॑तु||{10/10}{4.8.20.5}{6.54.10}{6.5.5.10}{1228, 495, 4954}

[134] एहिवामिति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजः पूषागायत्री |
एहि॒ वां वि॑मुचो नपा॒दाघृ॑णे॒ सं स॑चावहै|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

र॒थीरृ॒तस्य॑ नो भव||{1/6}{4.8.21.1}{6.55.1}{6.5.6.1}{1229, 496, 4955}

र॒थीत॑मं कप॒र्दिन॒मीशा᳚नं॒ राध॑सो म॒हः|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

रा॒यः सखा᳚यमीमहे||{2/6}{4.8.21.2}{6.55.2}{6.5.6.2}{1230, 496, 4956}

रा॒यो धारा᳚स्याघृणे॒ वसो᳚ रा॒शिर॑जाश्व|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

धीव॑तोधीवतः॒ सखा᳚||{3/6}{4.8.21.3}{6.55.3}{6.5.6.3}{1231, 496, 4957}

पू॒षणं॒ न्व१॑(अ॒)जाश्व॒मुप॑ स्तोषाम वा॒जिन᳚म्|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

स्वसु॒र्यो जा॒र उ॒च्यते᳚||{4/6}{4.8.21.4}{6.55.4}{6.5.6.4}{1232, 496, 4958}

मा॒तुर्दि॑धि॒षुम॑ब्रवं॒ स्वसु॑र्जा॒रः शृ॑णोतु नः|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

भ्रातेन्द्र॑स्य॒ सखा॒ मम॑||{5/6}{4.8.21.5}{6.55.5}{6.5.6.5}{1233, 496, 4959}

आजासः॑ पू॒षणं॒ रथे᳚ निशृ॒म्भास्ते ज॑न॒श्रिय᳚म्|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

दे॒वं व॑हन्तु॒ बिभ्र॑तः||{6/6}{4.8.21.6}{6.55.6}{6.5.6.6}{1234, 496, 4960}

[135] यएनमिति षडृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाजः पूषागायत्री अंत्यानुष्टुप् |
य ए᳚नमा॒दिदे᳚शति कर॒म्भादिति॑ पू॒षण᳚म्|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

न तेन॑ दे॒व आ॒दिशे᳚||{1/6}{4.8.22.1}{6.56.1}{6.5.7.1}{1235, 497, 4961}

उ॒त घा॒ स र॒थीत॑मः॒ सख्या॒ सत्प॑तिर्यु॒जा|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

इन्द्रो᳚ वृ॒त्राणि॑ जिघ्नते||{2/6}{4.8.22.2}{6.56.2}{6.5.7.2}{1236, 497, 4962}

उ॒तादः प॑रु॒षे गवि॒ सूर॑श्च॒क्रं हि॑र॒ण्यय᳚म्|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

न्यै᳚रयद्‌ र॒थीत॑मः||{3/6}{4.8.22.3}{6.56.3}{6.5.7.3}{1237, 497, 4963}

यद॒द्य त्वा᳚ पुरुष्टुत॒ ब्रवा᳚म दस्र मन्तुमः|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

तत्‌ सु नो॒ मन्म॑ साधय||{4/6}{4.8.22.4}{6.56.4}{6.5.7.4}{1238, 497, 4964}

इ॒मं च॑ नो ग॒वेष॑णं सा॒तये᳚ सीषधो ग॒णम्|{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

आ॒रात्‌ पू᳚षन्नसि श्रु॒तः||{5/6}{4.8.22.5}{6.56.5}{6.5.7.5}{1239, 497, 4965}

आ ते᳚ स्व॒स्तिमी᳚मह आ॒रे,अ॑घा॒मुपा᳚वसुम्|{बार्हस्पत्यो भरद्वाजः | पूषा | अनुष्टुप्}

अ॒द्या च॑ स॒र्वता᳚तये॒ श्वश्च॑ स॒र्वता᳚तये||{6/6}{4.8.22.6}{6.56.6}{6.5.7.6}{1240, 497, 4966}

[136] इंद्रान्विति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रापूषणौगायत्री |
इन्द्रा॒ नु पू॒षणा᳚ व॒यं स॒ख्याय॑ स्व॒स्तये᳚|{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री}

हु॒वेम॒ वाज॑सातये||{1/6}{4.8.23.1}{6.57.1}{6.5.8.1}{1241, 498, 4967}

सोम॑म॒न्य उपा᳚सद॒त् पात॑वे च॒म्वोः᳚ सु॒तम्|{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री}

क॒र॒म्भम॒न्य इ॑च्छति||{2/6}{4.8.23.2}{6.57.2}{6.5.8.2}{1242, 498, 4968}

अ॒जा, अ॒न्यस्य॒ वह्न॑यो॒ हरी᳚ अ॒न्यस्य॒ सम्भृ॑ता|{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री}

ताभ्यां᳚ वृ॒त्राणि॑ जिघ्नते||{3/6}{4.8.23.3}{6.57.3}{6.5.8.3}{1243, 498, 4969}

यदिन्द्रो॒, अन॑य॒द्‌ रितो᳚ म॒हीर॒पो वृष᳚न्तमः|{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री}

तत्र॑ पू॒षाभ॑व॒त्‌ सचा᳚||{4/6}{4.8.23.4}{6.57.4}{6.5.8.4}{1244, 498, 4970}

तां पू॒ष्णः सु॑म॒तिं व॒यं वृ॒क्षस्य॒ प्र व॒यामि॑व|{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री}

इन्द्र॑स्य॒ चा र॑भामहे||{5/6}{4.8.23.5}{6.57.5}{6.5.8.5}{1245, 498, 4971}

उत्‌ पू॒षणं᳚ युवामहे॒ ऽभीशूँ᳚रिव॒ सार॑थिः|{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री}

म॒ह्या, इन्द्रं᳚ स्व॒स्तये᳚||{6/6}{4.8.23.6}{6.57.6}{6.5.8.6}{1246, 498, 4972}

[137] शुक्रंतइति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजः पूषात्रिष्टुप् द्वितीयाजगती |
शु॒क्रं ते᳚ अ॒न्यद्‌ य॑ज॒तं ते᳚ अ॒न्यद् विषु॑रूपे॒, अह॑नी॒ द्यौरि॑वासि|{बार्हस्पत्यो भरद्वाजः | पूषा | त्रिष्टुप्}

विश्वा॒ हि मा॒या, अव॑सि स्वधावो भ॒द्रा ते᳚ पूषन्नि॒ह रा॒तिर॑स्तु||{1/4}{4.8.24.1}{6.58.1}{6.5.9.1}{1247, 499, 4973}

अ॒जाश्वः॑ पशु॒पा वाज॑पस्त्यो धियंजि॒न्वो भुव॑ने॒ विश्वे॒, अर्पि॑तः|{बार्हस्पत्यो भरद्वाजः | पूषा | जगती}

अष्ट्रां᳚ पू॒षा शि॑थि॒रामु॒द्वरी᳚वृजत् सं॒चक्षा᳚णो॒ भुव॑ना दे॒व ई᳚यते||{2/4}{4.8.24.2}{6.58.2}{6.5.9.2}{1248, 499, 4974}

यास्ते᳚ पूष॒न्नावो᳚ अ॒न्तः स॑मु॒द्रे हि॑र॒ण्ययी᳚र॒न्तरि॑क्षे॒ चर᳚न्ति|{बार्हस्पत्यो भरद्वाजः | पूषा | त्रिष्टुप्}

ताभि᳚र्यासि दू॒त्यां सूर्य॑स्य॒ कामे᳚न कृत॒ श्रव॑ इ॒च्छमा᳚नः||{3/4}{4.8.24.3}{6.58.3}{6.5.9.3}{1249, 499, 4975}

पू॒षा सु॒बन्धु॑र्दि॒व आ पृ॑थि॒व्या, इ॒ळस्पति᳚र्म॒घवा᳚ द॒स्मव॑र्चाः|{बार्हस्पत्यो भरद्वाजः | पूषा | त्रिष्टुप्}

यं दे॒वासो॒, अद॑दुः सू॒र्यायै॒ कामे᳚न कृ॒तं त॒वसं॒ स्वञ्च᳚म्||{4/4}{4.8.24.4}{6.58.4}{6.5.9.4}{1250, 499, 4976}

[138] प्रनुवोचेति दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज इंद्राग्नी बृहती अंत्याश्चतस्रोनुष्टुभः |
प्र नु वो᳚चा सु॒तेषु॑ वां वी॒र्या॒३॑(आ॒) यानि॑ च॒क्रथुः॑|{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती}

ह॒तासो᳚ वां पि॒तरो᳚ दे॒वश॑त्रव॒ इन्द्रा᳚ग्नी॒ जीव॑थो यु॒वम्||{1/10}{4.8.25.1}{6.59.1}{6.5.10.1}{1251, 500, 4977}

बळि॒त्था म॑हि॒मा वा॒मिन्द्रा᳚ग्नी॒ पनि॑ष्ठ॒ आ|{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती}

स॒मा॒नो वां᳚ जनि॒ता भ्रात॑रा यु॒वं य॒मावि॒हेह॑मातरा||{2/10}{4.8.25.2}{6.59.2}{6.5.10.2}{1252, 500, 4978}

ओ॒कि॒वांसा᳚ सु॒ते सचाँ॒, अश्वा॒ सप्ती᳚ इ॒वाद॑ने|{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती}

इन्द्रा॒ न्व१॑(अ॒)ग्नी, अव॑से॒ह व॒ज्रिणा᳚ व॒यं दे॒वा ह॑वामहे||{3/10}{4.8.25.3}{6.59.3}{6.5.10.3}{1253, 500, 4979}

य इ᳚न्द्राग्नी सु॒तेषु॑ वां॒ स्तव॒त्तेष्वृ॑तावृधा|{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती}

जो॒ष॒वा॒कं वद॑तः पज्रहोषिणा॒ न दे᳚वा भ॒सथ॑श्च॒न||{4/10}{4.8.25.4}{6.59.4}{6.5.10.4}{1254, 500, 4980}

इन्द्रा᳚ग्नी॒ को, अ॒स्य वां॒ देवौ॒ मर्त॑श्चिकेतति|{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती}

विषू᳚चो॒, अश्वा᳚न्‌ युयुजा॒न ई᳚यत॒ एकः॑ समा॒न आ रथे᳚||{5/10}{4.8.25.5}{6.59.5}{6.5.10.5}{1255, 500, 4981}

इन्द्रा᳚ग्नी, अ॒पादि॒यं पूर्वागा᳚त्‌ प॒द्वती᳚भ्यः|{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती}

हि॒त्वी शिरो᳚ जि॒ह्वया॒ वाव॑द॒च्चर॑त् त्रिं॒शत्‌ प॒दा न्य॑क्रमीत्||{6/10}{4.8.26.1}{6.59.6}{6.5.10.6}{1256, 500, 4982}

इन्द्रा᳚ग्नी॒, आ हि त᳚न्व॒ते नरो॒ धन्वा᳚नि बा॒ह्वोः|{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्}

मा नो᳚ अ॒स्मिन्‌ म॑हाध॒ने परा᳚ वर्क्तं॒ गवि॑ष्टिषु||{7/10}{4.8.26.2}{6.59.7}{6.5.10.7}{1257, 500, 4983}

इन्द्रा᳚ग्नी॒ तप᳚न्ति मा॒ऽघा, अ॒र्यो, अरा᳚तयः|{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्}

अप॒ द्वेषां॒स्या कृ॑तं युयु॒तं सूर्या॒दधि॑||{8/10}{4.8.26.3}{6.59.8}{6.5.10.8}{1258, 500, 4984}

इन्द्रा᳚ग्नी यु॒वोरपि॒ वसु॑ दि॒व्यानि॒ पार्थि॑वा|{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्}

आ न॑ इ॒ह प्र य॑च्छतं र॒यिं वि॒श्वायु॑पोषसम्||{9/10}{4.8.26.4}{6.59.9}{6.5.10.9}{1259, 500, 4985}

इन्द्रा᳚ग्नी, उक्थवाहसा॒ स्तोमे᳚भिर्हवनश्रुता|{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्}

विश्वा᳚भिर्गी॒र्भिरा ग॑तम॒स्य सोम॑स्य पी॒तये᳚||{10/10}{4.8.26.5}{6.59.10}{6.5.10.10}{1260, 500, 4986}

[139] श्नथद्वृत्रमिति पंचदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्राग्नीगायत्री आद्यास्तिस्रस्त्रयोदशीचत्रिष्टुभः चतुर्दशीबृहत्यंत्यानुष्टुप् |
श्नथ॑द्‌ वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो, अ॒ग्नी सहु॑री सप॒र्यात्|{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | त्रिष्टुप्}

इ॒र॒ज्यन्ता᳚ वस॒व्य॑स्य॒ भूरेः॒ सह॑स्तमा॒ सह॑सा वाज॒यन्ता᳚||{1/15}{4.8.27.1}{6.60.1}{6.5.11.1}{1261, 501, 4987}

ता यो᳚धिष्टम॒भि गा, इ᳚न्द्र नू॒नम॒पः स्व॑रु॒षसो᳚ अग्न ऊ॒ळ्हाः|{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | त्रिष्टुप्}

दिशः॒ स्व॑रु॒षस॑ इन्द्र चि॒त्रा, अ॒पो गा, अ॑ग्ने युवसे नि॒युत्वा॑न्||{2/15}{4.8.27.2}{6.60.2}{6.5.11.2}{1262, 501, 4988}

आ वृ॑त्रहणा वृत्र॒हभिः॒ शुष्मै॒रिन्द्र॑ या॒तं नमो᳚भिरग्ने, अ॒र्वाक्|{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | त्रिष्टुप्}

यु॒वं राधो᳚भि॒रक॑वेभिरि॒न्द्राऽग्ने᳚ अ॒स्मे भ॑वतमुत्त॒मेभिः॑||{3/15}{4.8.27.3}{6.60.3}{6.5.11.3}{1263, 501, 4989}

ता हु॑वे॒ ययो᳚रि॒दं प॒प्ने विश्वं᳚ पु॒रा कृ॒तम्|{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

इ॒न्द्रा॒ग्नी न म॑र्धतः||{4/15}{4.8.27.4}{6.60.4}{6.5.11.4}{1264, 501, 4990}

उ॒ग्रा वि॑घ॒निना॒ मृध॑ इन्द्रा॒ग्नी ह॑वामहे|{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

ता नो᳚ मृळात ई॒दृशे᳚||{5/15}{4.8.27.5}{6.60.5}{6.5.11.5}{1265, 501, 4991}

ह॒तो वृ॒त्राण्यार्या᳚ ह॒तो दासा᳚नि॒ सत्प॑ती|{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

ह॒तो विश्वा॒, अप॒ द्विषः॑||{6/15}{4.8.28.1}{6.60.6}{6.5.11.6}{1266, 501, 4992}

इन्द्रा᳚ग्नी यु॒वामि॒मे॒३॑(ए॒) ऽभि स्तोमा᳚ अनूषत|{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

पिब॑तं शम्भुवा सु॒तम्||{7/15}{4.8.28.2}{6.60.7}{6.5.11.7}{1267, 501, 4993}

या वां॒ सन्ति॑ पुरु॒स्पृहो᳚ नि॒युतो᳚ दा॒शुषे᳚ नरा|{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

इन्द्रा᳚ग्नी॒ ताभि॒रा ग॑तम्||{8/15}{4.8.28.3}{6.60.8}{6.5.11.8}{1268, 501, 4994}

ताभि॒रा ग॑च्छतं न॒रोपे॒दं सव॑नं सु॒तम्|{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

इन्द्रा᳚ग्नी॒ सोम॑पीतये||{9/15}{4.8.28.4}{6.60.9}{6.5.11.9}{1269, 501, 4995}

तमी᳚ळिष्व॒ यो, अ॒र्चिषा॒ वना॒ विश्वा᳚ परि॒ष्वज॑त्|{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

कृ॒ष्णा कृ॒णोति॑ जि॒ह्वया᳚||{10/15}{4.8.28.5}{6.60.10}{6.5.11.10}{1270, 501, 4996}

य इ॒द्ध आ॒विवा᳚सति सु॒म्नमिन्द्र॑स्य॒ मर्त्यः॑|{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

द्यु॒म्नाय॑ सु॒तरा᳚ अ॒पः||{11/15}{4.8.29.1}{6.60.11}{6.5.11.11}{1271, 501, 4997}

ता नो॒ वाज॑वती॒रिष॑ आ॒शून्‌ पि॑पृत॒मर्व॑तः|{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

इन्द्र॑म॒ग्निं च॒ वोळ्ह॑वे||{12/15}{4.8.29.2}{6.60.12}{6.5.11.12}{1272, 501, 4998}

उ॒भा वा᳚मिन्द्राग्नी, आहु॒वध्या᳚ उ॒भा राध॑सः स॒ह मा᳚द॒यध्यै᳚|{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | त्रिष्टुप्}

उ॒भा दा॒तारा᳚वि॒षां र॑यी॒णामु॒भा वाज॑स्य सा॒तये᳚ हुवे वाम्||{13/15}{4.8.29.3}{6.60.13}{6.5.11.13}{1273, 501, 4999}

आ नो॒ गव्ये᳚भि॒रश्व्यै᳚र्वस॒व्यै॒३॑(ऐ॒)रुप॑ गच्छतम्|{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती}

सखा᳚यौ दे॒वौ स॒ख्याय॑ श॒म्भुवे᳚न्द्रा॒ग्नी ता ह॑वामहे||{14/15}{4.8.29.4}{6.60.14}{6.5.11.14}{1274, 501, 5000}

इन्द्रा᳚ग्नी शृणु॒तं हवं॒ यज॑मानस्य सुन्व॒तः|{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्}

वी॒तं ह॒व्यान्या ग॑तं॒ पिब॑तं सो॒म्यं मधु॑||{15/15}{4.8.29.5}{6.60.15}{6.5.11.15}{1275, 501, 5001}

[140] इयमददादिति चतुर्दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजः सरस्वतीगायत्री आद्यास्तिस्रत्रयोदशीचजगत्योंत्यात्रिष्टुप् |
इ॒यम॑ददाद्‌ रभ॒समृ॑ण॒च्युतं॒ दिवो᳚दासं वध्र्य॒श्वाय॑ दा॒शुषे᳚|{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती}

या शश्व᳚न्तमाच॒खादा᳚व॒सं प॒णिं ता ते᳚ दा॒त्राणि॑ तवि॒षा स॑रस्वति||{1/14}{4.8.30.1}{6.61.1}{6.5.12.1}{1276, 502, 5002}

इ॒यं शुष्मे᳚भिर्बिस॒खा, इ॑वारुज॒त् सानु॑ गिरी॒णां त॑वि॒षेभि॑रू॒र्मिभिः॑|{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती}

पा॒रा॒व॒त॒घ्नीमव॑से सुवृ॒क्तिभिः॒ सर॑स्वती॒मा वि॑वासेम धी॒तिभिः॑||{2/14}{4.8.30.2}{6.61.2}{6.5.12.2}{1277, 502, 5003}

सर॑स्वति देव॒निदो॒ नि ब᳚र्हय प्र॒जां विश्व॑स्य॒ बृस॑यस्य मा॒यिनः॑|{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती}

उ॒त क्षि॒तिभ्यो॒ऽवनी᳚रविन्दो वि॒षमे᳚भ्यो, अस्रवो वाजिनीवति||{3/14}{4.8.30.3}{6.61.3}{6.5.12.3}{1278, 502, 5004}

प्र णो᳚ दे॒वी सर॑स्वती॒ वाजे᳚भिर्वा॒जिनी᳚वती|{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

धी॒नाम॑वि॒त्र्य॑वतु||{4/14}{4.8.30.4}{6.61.4}{6.5.12.4}{1279, 502, 5005}

यस्त्वा᳚ देवि सरस्वत्युपब्रू॒ते धने᳚ हि॒ते|{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

इन्द्रं॒ न वृ॑त्र॒तूर्ये᳚||{5/14}{4.8.30.5}{6.61.5}{6.5.12.5}{1280, 502, 5006}

त्वं दे᳚वि सरस्व॒त्यवा॒ वाजे᳚षु वाजिनि|{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

रदा᳚ पू॒षेव॑ नः स॒निम्||{6/14}{4.8.31.1}{6.61.6}{6.5.12.6}{1281, 502, 5007}

उ॒त स्या नः॒ सर॑स्वती घो॒रा हिर᳚ण्यवर्तनिः|{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

वृ॒त्र॒घ्नी व॑ष्टि सुष्टु॒तिम्||{7/14}{4.8.31.2}{6.61.7}{6.5.12.7}{1282, 502, 5008}

यस्या᳚ अन॒न्तो, अह्रु॑तस्त्वे॒षश्च॑रि॒ष्णुर᳚र्ण॒वः|{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

अम॒श्चर॑ति॒ रोरु॑वत्||{8/14}{4.8.31.3}{6.61.8}{6.5.12.8}{1283, 502, 5009}

सा नो॒ विश्वा॒, अति॒ द्विषः॒ स्वसॄ᳚र॒न्या, ऋ॒ताव॑री|{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

अत॒न्नहे᳚व॒ सूर्यः॑||{9/14}{4.8.31.4}{6.61.9}{6.5.12.9}{1284, 502, 5010}

उ॒त नः॑ प्रि॒या प्रि॒यासु॑ स॒प्तस्व॑सा॒ सुजु॑ष्टा|{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

सर॑स्वती॒ स्तोम्या᳚ भूत्||{10/14}{4.8.31.5}{6.61.10}{6.5.12.10}{1285, 502, 5011}

आ॒प॒प्रुषी॒ पार्थि॑वान्यु॒रु रजो᳚ अ॒न्तरि॑क्षम्|{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

सर॑स्वती नि॒दस्पा᳚तु||{11/14}{4.8.32.1}{6.61.11}{6.5.12.11}{1286, 502, 5012}

त्रि॒ष॒धस्था᳚ स॒प्तधा᳚तुः॒ पञ्च॑ जा॒ता व॒र्धय᳚न्ती|{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

वाजे᳚वाजे॒ हव्या᳚ भूत्||{12/14}{4.8.32.2}{6.61.12}{6.5.12.12}{1287, 502, 5013}

प्र या म॑हि॒म्ना म॒हिना᳚सु॒ चेकि॑ते द्यु॒म्नेभि॑र॒न्या, अ॒पसा᳚म॒पस्त॑मा|{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती}

रथ॑ इव बृह॒ती वि॒भ्वने᳚ कृ॒तोप॒स्तुत्या᳚ चिकि॒तुषा॒ सर॑स्वती||{13/14}{4.8.32.3}{6.61.13}{6.5.12.13}{1288, 502, 5014}

सर॑स्वत्य॒भि नो᳚ नेषि॒ वस्यो॒ माप॑ स्फरीः॒ पय॑सा॒ मा न॒ आ ध॑क्|{बार्हस्पत्यो भरद्वाजः | सरस्वती | त्रिष्टुप्}

जु॒षस्व॑ नः स॒ख्या वे॒श्या᳚ च॒ मा त्वत्क्षेत्रा॒ण्यर॑णानि गन्म||{14/14}{4.8.32.4}{6.61.14}{6.5.12.14}{1289, 502, 5015}