[1] त्वामग्नइति सप्तर्चस्य सूक्तस्यात्रेयोगयोग्निरनुष्टुप् पंचमी सप्तम्यौपङ्क्ती | |
त्वाम॑ग्ने ह॒विष्म᳚न्तो दे॒वं मर्ता᳚स ईळते |{आत्रेयो गयः | अग्निः | अनुष्टुप्} मन्ये᳚ त्वा जा॒तवे᳚दसं॒ स ह॒व्या व॑क्ष्यानु॒षक् ||{1/7}{4.1.1.1}{5.9.1}{5.1.9.1}{1, 363, 3727} त्वाम्¦अ॒ग्ने॒¦ह॒विष्म᳚न्तः¦दे॒वम्¦मर्ता᳚सः¦ई॒ळ॒ते॒ | मन्ये᳚¦त्वा॒¦जा॒तऽवे᳚दसम्¦सः¦ह॒व्या¦व॒क्षि॒¦आ॒नु॒षक् || |
अ॒ग्निर्होता॒ दास्व॑तः॒, क्षय॑स्य वृ॒क्तब᳚र्हिषः |{आत्रेयो गयः | अग्निः | अनुष्टुप्} सं य॒ज्ञास॒श्चर᳚न्ति॒ यं सं वाजा᳚सः श्रव॒स्यवः॑ ||{2/7}{4.1.1.2}{5.9.2}{5.1.9.2}{2, 363, 3728} अ॒ग्निः¦होता᳚¦दास्व॑तः¦क्षय॑स्य¦वृ॒क्तऽब॑र्हिषः | सम्¦य॒ज्ञासः॑¦चर᳚न्ति¦यम्¦सम्¦वाजा᳚सः¦श्र॒व॒स्यवः॑ || |
उ॒त स्म॒ यं शिशुं᳚ यथा॒ नवं॒ जनि॑ष्टा॒रणी᳚ |{आत्रेयो गयः | अग्निः | अनुष्टुप्} ध॒र्तारं॒ मानु॑षीणां वि॒शाम॒ग्निं स्व॑ध्व॒रम् ||{3/7}{4.1.1.3}{5.9.3}{5.1.9.3}{3, 363, 3729} उ॒त¦स्म॒¦यम्¦शिशु᳚म्¦य॒था॒¦नव᳚म्¦जनि॑ष्ट¦अ॒रणी॒ इति॑ | ध॒र्तार᳚म्¦मानु॑षीणाम्¦वि॒शाम्¦अ॒ग्निम्¦सु॒।आ॒ध्व॒रम् || |
उ॒त स्म॑ दुर्गृभीयसे पु॒त्रो न ह्वा॒र्याणा᳚म् |{आत्रेयो गयः | अग्निः | अनुष्टुप्} पु॒रू यो दग्धासि॒ वनाऽग्ने᳚ प॒शुर्न यव॑से ||{4/7}{4.1.1.4}{5.9.4}{5.1.9.4}{4, 363, 3730} उ॒त¦स्म॒¦दुः॒ऽगृ॒भी॒य॒से॒¦पु॒त्रः¦न¦ह्वा॒र्याणा᳚म् | पु॒रु¦यः¦दग्धा᳚¦असि॑¦वना᳚¦अग्ने᳚¦प॒शुः¦न¦यव॑से || |
अध॑ स्म॒ यस्या॒र्चयः॑ स॒म्यक् सं॒यन्ति॑ धू॒मिनः॑ |{आत्रेयो गयः | अग्निः | पङ्क्तिः} यदी॒मह॑ त्रि॒तो दि॒व्युप॒ ध्माते᳚व॒ धम॑ति॒ शिशी᳚ते ध्मा॒तरी᳚ यथा ||{5/7}{4.1.1.5}{5.9.5}{5.1.9.5}{5, 363, 3731} अध॑¦स्म॒¦यस्य॑¦अ॒र्चयः॑¦स॒म्यक्¦स॒म्ऽयन्ति॑¦धू॒मिनः॑ | |
तवा॒हम॑ग्न ऊ॒तिभि᳚र्मि॒त्रस्य॑ च॒ प्रश॑स्तिभिः |{आत्रेयो गयः | अग्निः | अनुष्टुप्} द्वे॒षो॒युतो॒ न दु॑रि॒ता तु॒र्याम॒ मर्त्या᳚नाम् ||{6/7}{4.1.1.6}{5.9.6}{5.1.9.6}{6, 363, 3732} तव॑¦अ॒हम्¦अ॒ग्ने॒¦ऊ॒तिऽभिः॑¦मि॒त्रस्य॑¦च॒¦प्रश॑स्तिऽभिः | द्वे॒षः॒ऽयुतः॑¦न¦दुः॒ऽइ॒ता¦तु॒र्याम॑¦मर्त्या᳚नाम् || |
तं नो᳚, अग्ने, अ॒भी नरो᳚ र॒यिं स॑हस्व॒ आ भ॑र |{आत्रेयो गयः | अग्निः | पङ्क्तिः} स क्षे᳚पय॒त् स पो᳚षय॒द् भुव॒द् वाज॑स्य सा॒तय॑ उ॒तैधि॑ पृ॒त्सु नो᳚ वृ॒धे ||{7/7}{4.1.1.7}{5.9.7}{5.1.9.7}{7, 363, 3733} तम्¦नः॒¦अ॒ग्ने॒¦अ॒भि¦नरः॑¦र॒यिम्¦स॒ह॒स्वः॒¦आ¦भ॒र॒ | |
[2] अग्नओजिष्टमिति सप्तर्चस्य सूक्तस्यात्रेयोगयोग्निरनुष्टुप् चतुर्थीसप्तम्यौपङ्क्ती | |
अग्न॒ ओजि॑ष्ठ॒मा भ॑र द्यु॒म्नम॒स्मभ्य॑मध्रिगो |{आत्रेयो गयः | अग्निः | अनुष्टुप्} प्र नो᳚ रा॒या परी᳚णसा॒ रत्सि॒ वाजा᳚य॒ पन्था᳚म् ||{1/7}{4.1.2.1}{5.10.1}{5.1.10.1}{8, 364, 3734} अग्ने᳚¦ओजि॑ष्ठम्¦आ¦भ॒र॒¦द्यु॒म्नम्¦अ॒स्मभ्य᳚म्¦अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो | प्र¦नः॒¦रा॒या¦परी᳚णसा¦रत्सि॑¦वाजा᳚य¦पन्था᳚म् || |
त्वं नो᳚, अग्ने, अद्भुत॒ क्रत्वा॒ दक्ष॑स्य मं॒हना᳚ |{आत्रेयो गयः | अग्निः | अनुष्टुप्} त्वे, अ॑सु॒र्य१॑(अ॒)मारु॑हत् क्रा॒णा मि॒त्रो न य॒ज्ञियः॑ ||{2/7}{4.1.2.2}{5.10.2}{5.1.10.2}{9, 364, 3735} त्वम्¦नः॒¦अ॒ग्ने॒¦अ॒द्भु॒त॒¦क्रत्वा᳚¦दक्ष॑स्य¦मं॒हना᳚ | त्वे इति॑¦अ॒सु॒र्य᳚म्¦आ¦अ॒रु॒ह॒त्¦क्रा॒णा¦मि॒त्रः¦न¦य॒ज्ञियः॑ || |
त्वं नो᳚, अग्न एषां॒ गयं᳚ पु॒ष्टिं च॑ वर्धय |{आत्रेयो गयः | अग्निः | अनुष्टुप्} ये स्तोमे᳚भिः॒ प्र सू॒रयो॒ नरो᳚ म॒घान्या᳚न॒शुः ||{3/7}{4.1.2.3}{5.10.3}{5.1.10.3}{10, 364, 3736} त्वम्¦नः॒¦अ॒ग्ने॒¦ए॒षा॒म्¦गय᳚म्¦पु॒ष्टिम्¦च॒¦व॒र्ध॒य॒ | ये¦स्तोमे᳚भिः¦प्र¦सू॒रयः॑¦नरः॑¦म॒घानि॑¦आ॒न॒शुः || |
ये, अ॑ग्ने चन्द्र ते॒ गिरः॑ शु॒म्भन्त्यश्व॑राधसः |{आत्रेयो गयः | अग्निः | पङ्क्तिः} शुष्मे᳚भिः शु॒ष्मिणो॒ नरो᳚ दि॒वश्चि॒द् येषां᳚ बृ॒हत् सु॑की॒र्तिर्बोध॑ति॒ त्मना᳚ ||{4/7}{4.1.2.4}{5.10.4}{5.1.10.4}{11, 364, 3737} ये¦अ॒ग्ने॒¦च॒न्द्र॒¦ते॒¦गिरः॑¦शु॒म्भन्ति॑¦अश्व॑ऽराधसः | |
तव॒ त्ये, अ॑ग्ने, अ॒र्चयो॒ भ्राज᳚न्तो यन्ति धृष्णु॒या |{आत्रेयो गयः | अग्निः | अनुष्टुप्} परि॑ज्मानो॒ न वि॒द्युतः॑ स्वा॒नो रथो॒ न वा᳚ज॒युः ||{5/7}{4.1.2.5}{5.10.5}{5.1.10.5}{12, 364, 3738} तव॑¦त्ये¦अ॒ग्ने॒¦अ॒र्चयः॑¦भ्राज᳚न्तः¦य॒न्ति॒¦धृ॒ष्णु॒ऽया | परि॑ऽज्मानः¦न¦वि॒ऽद्युतः॑¦स्वा॒नः¦रथः॑¦न¦वा॒ज॒ऽयुः || |
नू नो᳚, अग्न ऊ॒तये᳚ स॒बाध॑सश्च रा॒तये᳚ |{आत्रेयो गयः | अग्निः | अनुष्टुप्} अ॒स्माका᳚सश्च सू॒रयो॒ विश्वा॒, आशा᳚स्तरी॒षणि॑ ||{6/7}{4.1.2.6}{5.10.6}{5.1.10.6}{13, 364, 3739} नु¦नः॒¦अ॒ग्ने॒¦ऊ॒तये᳚¦स॒ऽबाध॑सः¦च॒¦रा॒तये᳚ | अ॒स्माका᳚सः¦च॒¦सू॒रयः॑¦विश्वाः᳚¦आशाः᳚¦त॒री॒षणि॑ || |
त्वं नो᳚, अग्ने, अङ्गिरः स्तु॒तः स्तवा᳚न॒ आ भ॑र |{आत्रेयो गयः | अग्निः | पङ्क्तिः} होत᳚र्विभ्वा॒सहं᳚ र॒यिं स्तो॒तृभ्यः॒ स्तव॑से च न उ॒तैधि॑ पृ॒त्सु नो᳚ वृ॒धे ||{7/7}{4.1.2.7}{5.10.7}{5.1.10.7}{14, 364, 3740} त्वम्¦नः॒¦अ॒ग्ने॒¦अ॒ङ्गि॒रः॒¦स्तु॒तः¦स्तवा᳚नः¦आ¦भ॒र॒ | |
[3] जनस्येति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निर्जगती | |
जन॑स्य गो॒पा, अ॑जनिष्ट॒ जागृ॑विर॒ग्निः सु॒दक्षः॑ सुवि॒ताय॒ नव्य॑से |{आत्रेयः सुतम्भरः | अग्निः | जगती} घृ॒तप्र॑तीको बृह॒ता दि॑वि॒स्पृशा᳚ द्यु॒मद् वि भा᳚ति भर॒तेभ्यः॒ शुचिः॑ ||{1/6}{4.1.3.1}{5.11.1}{5.1.11.1}{15, 365, 3741} जन॑स्य¦गो॒पाः¦अ॒ज॒नि॒ष्ट॒¦जागृ॑विः¦अ॒ग्निः¦सु॒ऽदक्षः॑¦सु॒वि॒ताय॑¦नव्य॑से | |
य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तम॒ग्निं नर॑स्त्रिषध॒स्थे समी᳚धिरे |{आत्रेयः सुतम्भरः | अग्निः | जगती} इन्द्रे᳚ण दे॒वैः स॒रथं॒ स ब॒र्हिषि॒ सीद॒न्नि होता᳚ य॒जथा᳚य सु॒क्रतुः॑ ||{2/6}{4.1.3.2}{5.11.2}{5.1.11.2}{16, 365, 3742} य॒ज्ञस्य॑¦के॒तुम्¦प्र॒थ॒मम्¦पु॒रःऽहि॑तम्¦अ॒ग्निम्¦नरः॑¦त्रि॒ऽस॒ध॒स्थे¦सम्¦ई॒धि॒रे॒ | |
अस᳚म्मृष्टो जायसे मा॒त्रोः शुचि᳚र्म॒न्द्रः क॒विरुद॑तिष्ठो वि॒वस्व॑तः |{आत्रेयः सुतम्भरः | अग्निः | जगती} घृ॒तेन॑ त्वावर्धयन्नग्न आहुत धू॒मस्ते᳚ के॒तुर॑भवद् दि॒वि श्रि॒तः ||{3/6}{4.1.3.3}{5.11.3}{5.1.11.3}{17, 365, 3743} अस᳚म्ऽमृष्टः¦जा॒य॒से॒¦मा॒त्रोः¦शुचिः॑¦म॒न्द्रः¦क॒विः¦उत्¦अ॒ति॒ष्ठः॒¦वि॒वस्व॑तः | |
अ॒ग्निर्नो᳚ य॒ज्ञमुप॑ वेतु साधु॒या ऽग्निं नरो॒ वि भ॑रन्ते गृ॒हेगृ॑हे |{आत्रेयः सुतम्भरः | अग्निः | जगती} अ॒ग्निर्दू॒तो, अ॑भवद्धव्य॒वाह॑नो॒ ऽग्निं वृ॑णा॒ना वृ॑णते क॒विक्र॑तुम् ||{4/6}{4.1.3.4}{5.11.4}{5.1.11.4}{18, 365, 3744} अ॒ग्निः¦नः॒¦य॒ज्ञम्¦उप॑¦वे॒तु॒¦सा॒धु॒ऽया¦अ॒ग्निम्¦नरः॑¦वि¦भ॒र॒न्ते॒¦गृ॒हेऽगृ॑हे | |
तुभ्ये॒दम॑ग्ने॒ मधु॑मत्तमं॒ वच॒स्तुभ्यं᳚ मनी॒षा, इ॒यम॑स्तु॒ शं हृ॒दे |{आत्रेयः सुतम्भरः | अग्निः | जगती} त्वां गिरः॒ सिन्धु॑मिवा॒वनी᳚र्म॒हीरा पृ॑णन्ति॒ शव॑सा व॒र्धय᳚न्ति च ||{5/6}{4.1.3.5}{5.11.5}{5.1.11.5}{19, 365, 3745} तुभ्य॑¦इ॒दम्¦अ॒ग्ने॒¦मधु॑मत्ऽतमम्¦वचः॑¦तुभ्य᳚म्¦म॒नी॒षा¦इ॒यम्¦अ॒स्तु॒¦शम्¦हृ॒दे | |
त्वाम॑ग्ने॒, अङ्गि॑रसो॒ गुहा᳚ हि॒तमन्व॑विन्दञ्छिश्रिया॒णं वने᳚वने |{आत्रेयः सुतम्भरः | अग्निः | जगती} स जा᳚यसे म॒थ्यमा᳚नः॒ सहो᳚ म॒हत् त्वामा᳚हुः॒ सह॑सस्पु॒त्रम᳚ङ्गिरः ||{6/6}{4.1.3.6}{5.11.6}{5.1.11.6}{20, 365, 3746} त्वाम्¦अ॒ग्ने॒¦अङ्गि॑रसः¦गुहा᳚¦हि॒तम्¦अनु॑¦अ॒वि॒न्द॒न्¦शि॒श्रि॒या॒णम्¦वने᳚ऽवने | |
[4] प्राग्नयइति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निस्त्रिष्टुप् | |
प्राग्नये᳚ बृह॒ते य॒ज्ञिया᳚य ऋ॒तस्य॒ वृष्णे॒, असु॑राय॒ मन्म॑ |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्} घृ॒तं न य॒ज्ञ आ॒स्ये॒३॑(ए॒) सुपू᳚तं॒ गिरं᳚ भरे वृष॒भाय॑ प्रती॒चीम् ||{1/6}{4.1.4.1}{5.12.1}{5.1.12.1}{21, 366, 3747} प्र¦अ॒ग्नये᳚¦बृ॒ह॒ते¦य॒ज्ञिया᳚य¦ऋ॒तस्य॑¦वृष्णे᳚¦असु॑राय¦मन्म॑ | |
ऋ॒तं चि॑कित्व ऋ॒तमिच्चि॑किद्ध्यृ॒तस्य॒ धारा॒, अनु॑ तृन्धि पू॒र्वीः |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्} नाहं या॒तुं सह॑सा॒ न द्व॒येन॑ ऋ॒तं स॑पाम्यरु॒षस्य॒ वृष्णः॑ ||{2/6}{4.1.4.2}{5.12.2}{5.1.12.2}{22, 366, 3748} ऋ॒तम्¦चि॒कि॒त्वः॒¦ऋ॒तम्¦इत्¦चि॒कि॒द्धि॒¦ऋ॒तस्य॑¦धाराः᳚¦अनु॑¦तृ॒न्धि॒¦पू॒र्वीः | |
कया᳚ नो, अग्न ऋ॒तय᳚न्नृ॒तेन॒ भुवो॒ नवे᳚दा, उ॒चथ॑स्य॒ नव्यः॑ |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्} वेदा᳚ मे दे॒व ऋ॑तु॒पा, ऋ॑तू॒नां नाहं पतिं᳚ सनि॒तुर॒स्य रा॒यः ||{3/6}{4.1.4.3}{5.12.3}{5.1.12.3}{23, 366, 3749} कया᳚¦नः॒¦अ॒ग्ने॒¦ऋ॒तय॑न्¦ऋ॒तेन॑¦भुवः॑¦नवे᳚दाः¦उ॒चथ॑स्य¦नव्यः॑ | |
के ते᳚, अग्ने रि॒पवे॒ बन्ध॑नासः॒ के पा॒यवः॑ सनिषन्त द्यु॒मन्तः॑ |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्} के धा॒सिम॑ग्ने॒, अनृ॑तस्य पान्ति॒ क आस॑तो॒ वच॑सः सन्ति गो॒पाः ||{4/6}{4.1.4.4}{5.12.4}{5.1.12.4}{24, 366, 3750} के¦ते॒¦अ॒ग्ने॒¦रि॒पवे᳚¦बन्ध॑नासः¦के¦पा॒यवः॑¦स॒नि॒ष॒न्त॒¦द्यु॒ऽमन्तः॑ | |
सखा᳚यस्ते॒ विषु॑णा, अग्न ए॒ते शि॒वासः॒ सन्तो॒, अशि॑वा, अभूवन् |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्} अधू᳚र्षत स्व॒यमे॒ते वचो᳚भिरृजूय॒ते वृ॑जि॒नानि॑ ब्रु॒वन्तः॑ ||{5/6}{4.1.4.5}{5.12.5}{5.1.12.5}{25, 366, 3751} सखा᳚यः¦ते॒¦विषु॑णाः¦अ॒ग्ने॒¦ए॒ते¦शि॒वासः॑¦सन्तः॑¦अशि॑वाः¦अ॒भू॒व॒न् | |
यस्ते᳚, अग्ने॒ नम॑सा य॒ज्ञमीट्ट॑ ऋ॒तं स पा᳚त्यरु॒षस्य॒ वृष्णः॑ |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्} तस्य॒ क्षयः॑ पृ॒थुरा सा॒धुरे᳚तु प्र॒सर्स्रा᳚णस्य॒ नहु॑षस्य॒ शेषः॑ ||{6/6}{4.1.4.6}{5.12.6}{5.1.12.6}{26, 366, 3752} यः¦ते॒¦अ॒ग्ने॒¦नम॑सा¦य॒ज्ञम्¦ईट्टे᳚¦ऋ॒तम्¦सः¦पा॒ति॒¦अ॒रु॒षस्य॑¦वृष्णः॑ | |
[5] अर्चतइति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निर्गायत्री | |
अर्च᳚न्तस्त्वा हवाम॒हेऽर्च᳚न्तः॒ समि॑धीमहि |{आत्रेयः सुतम्भरः | अग्निः | गायत्री} अग्ने॒, अर्च᳚न्त ऊ॒तये᳚ ||{1/6}{4.1.5.1}{5.13.1}{5.1.13.1}{27, 367, 3753} अर्च᳚न्तः¦त्वा॒¦ह॒वा॒म॒हे॒¦अर्च᳚न्तः¦सम्¦इ॒धी॒म॒हि॒ | अग्ने᳚¦अर्च᳚न्तः¦ऊ॒तये᳚ || |
अ॒ग्नेः स्तोमं᳚ मनामहे सि॒ध्रम॒द्य दि॑वि॒स्पृशः॑ |{आत्रेयः सुतम्भरः | अग्निः | गायत्री} दे॒वस्य॑ द्रविण॒स्यवः॑ ||{2/6}{4.1.5.2}{5.13.2}{5.1.13.2}{28, 367, 3754} अ॒ग्नेः¦स्तोम᳚म्¦म॒ना॒म॒हे॒¦सि॒ध्रम्¦अ॒द्य¦दि॒वि॒ऽस्पृशः॑ | दे॒वस्य॑¦द्र॒वि॒ण॒स्यवः॑ || |
अ॒ग्निर्जु॑षत नो॒ गिरो॒ होता॒ यो मानु॑षे॒ष्वा |{आत्रेयः सुतम्भरः | अग्निः | गायत्री} स य॑क्ष॒द् दैव्यं॒ जन᳚म् ||{3/6}{4.1.5.3}{5.13.3}{5.1.13.3}{29, 367, 3755} अ॒ग्निः¦जु॒ष॒त॒¦नः॒¦गिरः॑¦होता᳚¦यः¦मानु॑षेषु¦आ | सः¦य॒क्ष॒त्¦दैव्य᳚म्¦जन᳚म् || |
त्वम॑ग्ने स॒प्रथा᳚, असि॒ जुष्टो॒ होता॒ वरे᳚ण्यः |{आत्रेयः सुतम्भरः | अग्निः | गायत्री} त्वया᳚ य॒ज्ञं वि त᳚न्वते ||{4/6}{4.1.5.4}{5.13.4}{5.1.13.4}{30, 367, 3756} त्वम्¦अ॒ग्ने॒¦स॒ऽप्रथाः᳚¦अ॒सि॒¦जुष्टः॑¦होता᳚¦वरे᳚ण्यः | त्वया᳚¦य॒ज्ञम्¦वि¦त॒न्व॒ते॒ || |
त्वाम॑ग्ने वाज॒सात॑मं॒ विप्रा᳚ वर्धन्ति॒ सुष्टु॑तम् |{आत्रेयः सुतम्भरः | अग्निः | गायत्री} स नो᳚ रास्व सु॒वीर्य᳚म् ||{5/6}{4.1.5.5}{5.13.5}{5.1.13.5}{31, 367, 3757} त्वाम्¦अ॒ग्ने॒¦वा॒ज॒ऽसात॑मम्¦विप्राः᳚¦व॒र्ध॒न्ति॒¦सुऽस्तु॑तम् | सः¦नः॒¦रा॒स्व॒¦सु॒ऽवीर्य᳚म् || |
अग्ने᳚ ने॒मिर॒राँ, इ॑व दे॒वाँस्त्वं प॑रि॒भूर॑सि |{आत्रेयः सुतम्भरः | अग्निः | गायत्री} आ राध॑श्चि॒त्रमृ᳚ञ्जसे ||{6/6}{4.1.5.6}{5.13.6}{5.1.13.6}{32, 367, 3758} अग्ने᳚¦ने॒मिः¦अ॒रान्ऽइ᳚व¦दे॒वान्¦त्वम्¦प॒रि॒ऽभूः¦अ॒सि॒ | आ¦राधः॑¦चि॒त्रम्¦ऋं॒ज॒से॒ || |
[6] अग्निंस्तोमेनेति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निर्गायत्री | |
अ॒ग्निं स्तोमे᳚न बोधय समिधा॒नो, अम॑र्त्यम् |{आत्रेयः सुतम्भरः | अग्निः | गायत्री} ह॒व्या दे॒वेषु॑ नो दधत् ||{1/6}{4.1.6.1}{5.14.1}{5.1.14.1}{33, 368, 3759} अ॒ग्निम्¦स्तोमे᳚न¦बो॒ध॒य॒¦स॒म्ऽइ॒धा॒नः¦अम॑र्त्यम् | ह॒व्या¦दे॒वेषु॑¦नः॒¦द॒ध॒त् || |
तम॑ध्व॒रेष्वी᳚ळते दे॒वं मर्ता॒, अम॑र्त्यम् |{आत्रेयः सुतम्भरः | अग्निः | गायत्री} यजि॑ष्ठं॒ मानु॑षे॒ जने᳚ ||{2/6}{4.1.6.2}{5.14.2}{5.1.14.2}{34, 368, 3760} तम्¦अ॒ध्व॒रेषु॑¦ई॒ळ॒ते॒¦दे॒वम्¦मर्ताः᳚¦अम॑र्त्यम् | यजि॑ष्ठम्¦मानु॑षे¦जने᳚ || |
तं हि शश्व᳚न्त॒ ईळ॑ते स्रु॒चा दे॒वं घृ॑त॒श्चुता᳚ |{आत्रेयः सुतम्भरः | अग्निः | गायत्री} अ॒ग्निं ह॒व्याय॒ वोळ्ह॑वे ||{3/6}{4.1.6.3}{5.14.3}{5.1.14.3}{35, 368, 3761} तम्¦हि¦शश्व᳚न्तः¦ईळ॑ते¦स्रु॒चा¦दे॒वम्¦घृ॒त॒ऽश्चुता᳚ | अ॒ग्निम्¦ह॒व्याय॑¦वोळ्ह॑वे || |
अ॒ग्निर्जा॒तो, अ॑रोचत॒ घ्नन् दस्यू॒ञ्ज्योति॑षा॒ तमः॑ |{आत्रेयः सुतम्भरः | अग्निः | गायत्री} अवि᳚न्द॒द् गा, अ॒पः स्वः॑ ||{4/6}{4.1.6.4}{5.14.4}{5.1.14.4}{36, 368, 3762} अ॒ग्निः¦जा॒तः¦अ॒रो॒च॒त॒¦घ्नन्¦दस्यू᳚न्¦ज्योति॑षा¦तमः॑ | अवि᳚न्दत्¦गाः¦अ॒पः¦स्व१॒॑रिति॒ स्वः॑ || |
अ॒ग्निमी॒ळेन्यं᳚ क॒विं घृ॒तपृ॑ष्ठं सपर्यत |{आत्रेयः सुतम्भरः | अग्निः | गायत्री} वेतु॑ मे शृ॒णव॒द्धव᳚म् ||{5/6}{4.1.6.5}{5.14.5}{5.1.14.5}{37, 368, 3763} अ॒ग्निम्¦ई॒ळेन्य᳚म्¦क॒विम्¦घृ॒तऽपृ॑ष्ठम्¦स॒प॒र्य॒त॒ | वेतु॑¦मे॒¦शृ॒णव॑त्¦हव᳚म् || |
अ॒ग्निं घृ॒तेन॑ वावृधुः॒ स्तोमे᳚भिर्वि॒श्वच॑र्षणिम् |{आत्रेयः सुतम्भरः | अग्निः | गायत्री} स्वा॒धीभि᳚र्वच॒स्युभिः॑ ||{6/6}{4.1.6.6}{5.14.6}{5.1.14.6}{38, 368, 3764} अ॒ग्निम्¦घृ॒तेन॑¦व॒वृ॒धुः॒¦स्तोमे᳚भिः¦वि॒श्वऽच॑र्षणिम् | सु॒ऽआ॒धीभिः॑¦व॒च॒स्युऽभिः॑ || |
[7] प्रवेधसइति पंचर्चस्य सूक्तस्यांगिरसोधरुणोऽग्निस्त्रिष्टुप् | |
प्र वे॒धसे᳚ क॒वये॒ वेद्या᳚य॒ गिरं᳚ भरे य॒शसे᳚ पू॒र्व्याय॑ |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्} घृ॒तप्र॑सत्तो॒, असु॑रः सु॒शेवो᳚ रा॒यो ध॒र्ता ध॒रुणो॒ वस्वो᳚, अ॒ग्निः ||{1/5}{4.1.7.1}{5.15.1}{5.2.1.1}{39, 369, 3765} प्र¦वे॒धसे᳚¦क॒वये᳚¦वेद्या᳚य¦गिर᳚म्¦भ॒रे॒¦य॒शसे᳚¦पू॒र्व्याय॑ | |
ऋ॒तेन॑ ऋ॒तं ध॒रुणं᳚ धारयन्त य॒ज्ञस्य॑ शा॒के प॑र॒मे व्यो᳚मन् |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्} दि॒वो धर्म᳚न् ध॒रुणे᳚ से॒दुषो॒ नॄञ्जा॒तैरजा᳚ताँ, अ॒भि ये न॑न॒क्षुः ||{2/5}{4.1.7.2}{5.15.2}{5.2.1.2}{40, 369, 3766} ऋ॒तेन॑¦ऋ॒तम्¦ध॒रुण᳚म्¦धा॒र॒य॒न्त॒¦य॒ज्ञस्य॑¦शो॒के¦प॒र॒मे¦विऽओ᳚मन् | |
अं॒हो॒युव॑स्त॒न्व॑स्तन्वते॒ वि वयो᳚ म॒हद् दु॒ष्टरं᳚ पू॒र्व्याय॑ |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्} स सं॒वतो॒ नव॑जातस्तुतुर्यात् सिं॒हं न क्रु॒द्धम॒भितः॒ परि॑ ष्ठुः ||{3/5}{4.1.7.3}{5.15.3}{5.2.1.3}{41, 369, 3767} अं॒हः॒ऽयुवः॑¦त॒न्वः॑¦त॒न्व॒ते॒¦वि¦वयः॑¦म॒हत्¦दु॒स्तर᳚म्¦पू॒र्व्याय॑ | |
मा॒तेव॒ यद् भर॑से पप्रथा॒नो जनं᳚जनं॒ धाय॑से॒ चक्ष॑से च |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्} वयो᳚वयो जरसे॒ यद् दधा᳚नः॒ परि॒ त्मना॒ विषु॑रूपो जिगासि ||{4/5}{4.1.7.4}{5.15.4}{5.2.1.4}{42, 369, 3768} मा॒ताऽइ᳚व¦यत्¦भर॑से¦प॒प्र॒था॒नः¦जन᳚म्ऽजनम्¦धाय॑से¦चक्ष॑से¦च॒ | |
वाजो॒ नु ते॒ शव॑सस्पा॒त्वन्त॑मु॒रुं दोघं᳚ ध॒रुणं᳚ देव रा॒यः |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्} प॒दं न ता॒युर्गुहा॒ दधा᳚नो म॒हो रा॒ये चि॒तय॒न्नत्रि॑मस्पः ||{5/5}{4.1.7.5}{5.15.5}{5.2.1.5}{43, 369, 3769} वाजः॑¦नु¦ते॒¦शव॑सः¦पा॒तु॒¦अन्त᳚म्¦उ॒रुम्¦दोघ᳚म्¦ध॒रुण᳚म्¦दे॒व॒¦रा॒यः | |
[8] बृहद्वयइति पंचर्चस्य सूक्तस्यात्रेयः पूरुरग्निरनुष्टुप् अंत्या पङ्क्तिः | |
बृ॒हद्वयो॒ हि भा॒नवे ऽर्चा᳚ दे॒वाया॒ग्नये᳚ |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्} यं मि॒त्रं न प्रश॑स्तिभि॒र्मर्ता᳚सो दधि॒रे पु॒रः ||{1/5}{4.1.8.1}{5.16.1}{5.2.2.1}{44, 370, 3770} बृ॒हत्¦वयः॑¦हि¦भा॒नवे᳚¦अर्च॑¦दे॒वाय॑¦अ॒ग्नये᳚ | यम्¦मि॒त्रम्¦न¦प्रश॑स्तिऽभिः¦मर्ता᳚सः¦द॒धि॒रे¦पु॒रः || |
स हि द्युभि॒र्जना᳚नां॒ होता॒ दक्ष॑स्य बा॒ह्वोः |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्} वि ह॒व्यम॒ग्निरा᳚नु॒षग्भगो॒ न वार॑मृण्वति ||{2/5}{4.1.8.2}{5.16.2}{5.2.2.2}{45, 370, 3771} सः¦हि¦द्युऽभिः॑¦जना᳚नाम्¦होता᳚¦दक्ष॑स्य¦बा॒ह्वोः | वि¦ह॒व्यम्¦अ॒ग्निः¦आ॒नु॒षक्¦भगः॑¦न¦वार᳚म्¦ऋ॒ण्व॒ति॒ || |
अ॒स्य स्तोमे᳚ म॒घोनः॑ स॒ख्ये वृ॒द्धशो᳚चिषः |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्} विश्वा॒ यस्मि᳚न् तुवि॒ष्वणि॒ सम॒र्ये शुष्म॑माद॒धुः ||{3/5}{4.1.8.3}{5.16.3}{5.2.2.3}{46, 370, 3772} अ॒स्य¦स्तोमे᳚¦म॒घोनः॑¦स॒ख्ये¦वृ॒द्धऽशो᳚चिषः | विश्वा᳚¦यस्मि॑न्¦तु॒वि॒ऽस्वणि॑¦सम्¦अ॒र्ये¦शुष्म᳚म्¦आ॒ऽद॒धुः || |
अधा॒ ह्य॑ग्न एषां सु॒वीर्य॑स्य मं॒हना᳚ |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्} तमिद् य॒ह्वं न रोद॑सी॒ परि॒ श्रवो᳚ बभूवतुः ||{4/5}{4.1.8.4}{5.16.4}{5.2.2.4}{47, 370, 3773} अध॑¦हि¦अ॒ग्ने॒¦ए॒षा॒म्¦सु॒ऽवीर्य॑स्य¦मं॒हना᳚ | तम्¦इत्¦य॒ह्वम्¦न¦रोद॑सी॒ इति॑¦परि॑¦श्रवः॑¦ब॒भू॒व॒तुः॒ || |
नू न॒ एहि॒ वार्य॒मग्ने᳚ गृणा॒न आ भ॑र |{आत्रेयः पूरुः | अग्निः | पङ्क्तिः} ये व॒यं ये च॑ सू॒रयः॑ स्व॒स्ति धाम॑हे॒ सचो॒तैधि॑ पृ॒त्सु नो᳚ वृ॒धे ||{5/5}{4.1.8.5}{5.16.5}{5.2.2.5}{48, 370, 3774} नु¦नः॒¦आ¦इ॒हि॒¦वार्य᳚म्¦अग्ने᳚¦गृ॒णा॒नः¦आ¦भ॒र॒ | |
[9] आयज्ञैरिति पंचर्चस्य सूक्तस्यात्रेयः पूरुरग्निरनुष्टुप् अंत्या पङ्क्तिः | |
आ य॒ज्ञैर्दे᳚व॒ मर्त्य॑ इ॒त्था तव्यां᳚समू॒तये᳚ |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्} अ॒ग्निं कृ॒ते स्व॑ध्व॒रे पू॒रुरी᳚ळी॒ताव॑से ||{1/5}{4.1.9.1}{5.17.1}{5.2.3.1}{49, 371, 3775} आ¦य॒ज्ञैः¦दे॒व॒¦मर्त्यः॑¦इ॒त्था¦तव्यां᳚सम्¦ऊ॒तये᳚ | अ॒ग्निम्¦कृ॒ते¦सु॒।आ॒ध्व॒रे¦पू॒रुः¦ई॒ळी॒त॒¦अव॑से || |
अस्य॒ हि स्वय॑शस्तर आ॒सा वि॑धर्म॒न् मन्य॑से |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्} तं नाकं᳚ चि॒त्रशो᳚चिषं म॒न्द्रं प॒रो म॑नी॒षया᳚ ||{2/5}{4.1.9.2}{5.17.2}{5.2.3.2}{50, 371, 3776} अस्य॑¦हि¦स्वय॑शःऽतरः¦आ॒सा¦वि॒ऽध॒र्म॒न्¦मन्य॑से | तम्¦नाक᳚म्¦चि॒त्रऽशो᳚चिषम्¦म॒न्द्रम्¦प॒रः¦म॒नी॒षया᳚ || |
अ॒स्य वासा, उ॑ अ॒र्चिषा॒ य आयु॑क्त तु॒जा गि॒रा |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्} दि॒वो न यस्य॒ रेत॑सा बृ॒हच्छोच᳚न्त्य॒र्चयः॑ ||{3/5}{4.1.9.3}{5.17.3}{5.2.3.3}{51, 371, 3777} अ॒स्य¦वै¦अ॒सौ¦ऊँ॒ इति॑¦अ॒र्चिषा᳚¦यः¦अयु॑क्त¦तु॒जा¦गि॒रा | दि॒वः¦न¦यस्य॑¦रेत॑सा¦बृ॒हत्¦शोच᳚न्ति¦अ॒र्चयः॑ || |
अ॒स्य क्रत्वा॒ विचे᳚तसो द॒स्मस्य॒ वसु॒ रथ॒ आ |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्} अधा॒ विश्वा᳚सु॒ हव्यो॒ ऽग्निर्वि॒क्षु प्र श॑स्यते ||{4/5}{4.1.9.4}{5.17.4}{5.2.3.4}{52, 371, 3778} अ॒स्य¦क्रत्वा᳚¦विऽचे᳚तसः¦द॒स्मस्य॑¦वसु॑¦रथे᳚¦आ | अध॑¦विश्वा᳚सु¦हव्यः॑¦अ॒ग्निः¦वि॒क्षु¦प्र¦श॒स्य॒ते॒ || |
नू न॒ इद्धि वार्य॑मा॒सा स॑चन्त सू॒रयः॑ |{आत्रेयः पूरुः | अग्निः | पङ्क्तिः} ऊर्जो᳚ नपाद॒भिष्ट॑ये पा॒हि श॒ग्धि स्व॒स्तय॑ उ॒तैधि॑ पृ॒त्सु नो᳚ वृ॒धे ||{5/5}{4.1.9.5}{5.17.5}{5.2.3.5}{53, 371, 3779} नु¦नः॒¦इत्¦हि¦वार्य᳚म्¦आ॒सा¦स॒च॒न्त॒¦सू॒रयः॑ | |
[10] प्रातरग्निरिति पंचर्चस्य सूक्तस्यात्रेयोमृक्तवाहाद्वितोग्निरनुष्टुप् अंत्या पङ्क्तिः | |
प्रा॒तर॒ग्निः पु॑रुप्रि॒यो वि॒शः स्त॑वे॒ताति॑थिः |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | अनुष्टुप्} विश्वा᳚नि॒ यो, अम॑र्त्यो ह॒व्या मर्ते᳚षु॒ रण्य॑ति ||{1/5}{4.1.10.1}{5.18.1}{5.2.4.1}{54, 372, 3780} प्रा॒तः¦अ॒ग्निः¦पु॒रु॒ऽप्रि॒यः¦वि॒शः¦स्त॒वे॒त॒¦अति॑थिः | विश्वा᳚नि¦यः¦अम॑र्त्यः¦ह॒व्या¦मर्ते᳚षु¦रण्य॑ति || |
द्वि॒ताय॑ मृ॒क्तवा᳚हसे॒ स्वस्य॒ दक्ष॑स्य मं॒हना᳚ |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | अनुष्टुप्} इन्दुं॒ स ध॑त्त आनु॒षक् स्तो॒ता चि॑त्ते, अमर्त्य ||{2/5}{4.1.10.2}{5.18.2}{5.2.4.2}{55, 372, 3781} द्वि॒ताय॑¦मृ॒क्तऽवा᳚हसे¦स्वस्य॑¦दक्ष॑स्य¦मं॒हना᳚ | इन्दु॒म्¦सः¦ध॒त्ते॒¦आ॒नु॒षक्¦स्तो॒ता¦चि॒त्¦ते॒¦अ॒म॒र्त्य॒ || |
तं वो᳚ दी॒र्घायु॑शोचिषं गि॒रा हु॑वे म॒घोना᳚म् |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | अनुष्टुप्} अरि॑ष्टो॒ येषां॒ रथो॒ व्य॑श्वदाव॒न्नीय॑ते ||{3/5}{4.1.10.3}{5.18.3}{5.2.4.3}{56, 372, 3782} तम्¦वः॒¦दी॒र्घायु॑ऽशोचिषम्¦गि॒रा¦हु॒वे॒¦म॒घोना᳚म् | अरि॑ष्टः¦येषा᳚म्¦रथः॑¦वि¦अ॒श्व॒ऽदा॒व॒न्¦ईय॑ते || |
चि॒त्रा वा॒ येषु॒ दीधि॑तिरा॒सन्नु॒क्था पान्ति॒ ये |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | अनुष्टुप्} स्ती॒र्णं ब॒र्हिः स्व᳚र्णरे॒ श्रवां᳚सि दधिरे॒ परि॑ ||{4/5}{4.1.10.4}{5.18.4}{5.2.4.4}{57, 372, 3783} चि॒त्रा¦वा॒¦येषु॑¦दीधि॑तिः¦आ॒सन्¦उ॒क्था¦पान्ति॑¦ये | स्ती॒र्णम्¦ब॒र्हिः¦स्वः॑ऽनरे¦श्रवां᳚सि¦द॒धि॒रे॒¦परि॑ || |
ये मे᳚ पञ्चा॒शतं᳚ द॒दुरश्वा᳚नां स॒धस्तु॑ति |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | पङ्क्तिः} द्यु॒मद॑ग्ने॒ महि॒ श्रवो᳚ बृ॒हत् कृ॑धि म॒घोनां᳚ नृ॒वद॑मृत नृ॒णाम् ||{5/5}{4.1.10.5}{5.18.5}{5.2.4.5}{58, 372, 3784} ये¦मे॒¦पं॒चा॒शत᳚म्¦द॒दुः¦अश्वा᳚नाम्¦स॒धऽस्तु॑ति | |
[11] अभ्यवस्थाइति पंचर्चस्य सूक्तस्यात्रेयोवव्रिरग्निः आद्येद्वेगायत्र्यौ तृतीया चतुर्थ्यां वनुष्टुभौ पंचमीविराड्रूपा | |
अ॒भ्य॑व॒स्थाः प्र जा᳚यन्ते॒ प्र व॒व्रेर्व॒व्रिश्चि॑केत |{आत्रेयो वव्रिः | अग्निः | गायत्री} उ॒पस्थे᳚ मा॒तुर्वि च॑ष्टे ||{1/5}{4.1.11.1}{5.19.1}{5.2.5.1}{59, 373, 3785} अ॒भि¦अ॒व॒ऽस्थाः¦प्र¦जा॒य॒न्ते॒¦प्र¦व॒व्रेः¦व॒व्रिः¦चि॒के॒त॒ | उ॒पऽस्थे᳚¦मा॒तुः¦वि¦च॒ष्टे॒ || |
जु॒हु॒रे वि चि॒तय॒न्तो ऽनि॑मिषं नृ॒म्णं पा᳚न्ति |{आत्रेयो वव्रिः | अग्निः | गायत्री} आ दृ॒ळ्हां पुरं᳚ विविशुः ||{2/5}{4.1.11.2}{5.19.2}{5.2.5.2}{60, 373, 3786} जु॒हु॒रे¦वि¦चि॒तय᳚न्तः¦अनि॑ऽमिषम्¦नृ॒म्णम्¦पा॒न्ति॒ | आ¦दृ॒ळ्हाम्¦पुर᳚म्¦वि॒वि॒शुः॒ || |
आ श्वै᳚त्रे॒यस्य॑ ज॒न्तवो᳚ द्यु॒मद् व॑र्धन्त कृ॒ष्टयः॑ |{आत्रेयो वव्रिः | अग्निः | अनुष्टुप्} नि॒ष्कग्री᳚वो बृ॒हदु॑क्थ ए॒ना मध्वा॒ न वा᳚ज॒युः ||{3/5}{4.1.11.3}{5.19.3}{5.2.5.3}{61, 373, 3787} आ¦श्वै॒त्रे॒यस्य॑¦ज॒न्तवः॑¦द्यु॒ऽमत्¦व॒र्ध॒न्त॒¦कृ॒ष्टयः॑ | नि॒ष्कऽग्री᳚वः¦बृ॒हत्।औ᳚क्थः¦ए॒ना¦मध्वा᳚¦न¦वा॒ज॒ऽयुः || |
प्रि॒यं दु॒ग्धं न काम्य॒मजा᳚मि जा॒म्योः सचा᳚ |{आत्रेयो वव्रिः | अग्निः | अनुष्टुप्} घ॒र्मो न वाज॑जठ॒रो ऽद॑ब्धः॒ शश्व॑तो॒ दभः॑ ||{4/5}{4.1.11.4}{5.19.4}{5.2.5.4}{62, 373, 3788} प्रि॒यम्¦दु॒ग्धम्¦न¦काम्य᳚म्¦अजा᳚मि¦जा॒म्योः¦सचा᳚ | घ॒र्मः¦न¦वाज॑ऽजठरः¦अद॑ब्धः¦शश्व॑तः¦दभः॑ || |
क्रीळ᳚न्नो रश्म॒ आ भु॑वः॒ सं भस्म॑ना वा॒युना॒ वेवि॑दानः |{आत्रेयो वव्रिः | अग्निः | विराड्रूपा} ता, अ॑स्य सन् धृ॒षजो॒ न ति॒ग्माः सुसं᳚शिता व॒क्ष्यो᳚ वक्षणे॒स्थाः ||{5/5}{4.1.11.5}{5.19.5}{5.2.5.5}{63, 373, 3789} क्रीळ॑न्¦नः॒¦र॒श्मे॒¦आ¦भु॒वः॒¦सम्¦भस्म॑ना¦वा॒युना᳚¦वेवि॑दानः | |
[12] यमग्न इति चतुरृचस्य सूक्तस्यात्रेयः प्रयस्वंतोग्निरनुष्टुप् अंत्या पङ्क्तिः | |
यम॑ग्ने वाजसातम॒ त्वं चि॒न् मन्य॑से र॒यिम् |{आत्रेयः प्रयस्वंतः | अग्निः | अनुष्टुप्} तं नो᳚ गी॒र्भिः श्र॒वाय्यं᳚ देव॒त्रा प॑नया॒ युज᳚म् ||{1/4}{4.1.12.1}{5.20.1}{5.2.6.1}{64, 374, 3790} यम्¦अ॒ग्ने॒¦वा॒ज॒ऽसा॒त॒म॒¦त्वम्¦चि॒त्¦मन्य॑से¦र॒यिम् | तम्¦नः॒¦गीः॒ऽभिः¦श्र॒वाय्य᳚म्¦दे॒व॒ऽत्रा¦प॒न॒य॒¦युज᳚म् || |
ये, अ॑ग्ने॒ नेरय᳚न्ति ते वृ॒द्धा, उ॒ग्रस्य॒ शव॑सः |{आत्रेयः प्रयस्वंतः | अग्निः | अनुष्टुप्} अप॒ द्वेषो॒, अप॒ ह्वरो॒ ऽन्यव्र॑तस्य सश्चिरे ||{2/4}{4.1.12.2}{5.20.2}{5.2.6.2}{65, 374, 3791} ये¦अ॒ग्ने॒¦न¦ई॒रय᳚न्ति¦ते॒¦वृ॒द्धाः¦उ॒ग्रस्य॑¦शव॑सः | अप॑¦द्वेषः॑¦अप॑¦ह्वरः॑¦अ॒न्यऽव्र॑तस्य¦स॒श्चि॒रे॒ || |
होता᳚रं त्वा वृणीम॒हे ऽग्ने॒ दक्ष॑स्य॒ साध॑नम् |{आत्रेयः प्रयस्वंतः | अग्निः | अनुष्टुप्} य॒ज्ञेषु॑ पू॒र्व्यं गि॒रा प्रय॑स्वन्तो हवामहे ||{3/4}{4.1.12.3}{5.20.3}{5.2.6.3}{66, 374, 3792} होता᳚रम्¦त्वा॒¦वृ॒णी॒म॒हे॒¦अग्ने᳚¦दक्ष॑स्य¦साध॑नम् | य॒ज्ञेषु॑¦पू॒र्व्यम्¦गि॒रा¦प्रय॑स्वन्तः¦ह॒वा॒म॒हे॒ || |
इ॒त्था यथा᳚ त ऊ॒तये॒ सह॑सावन् दि॒वेदि॑वे |{आत्रेयः प्रयस्वंतः | अग्निः | पङ्क्तिः} रा॒य ऋ॒ताय॑ सुक्रतो॒ गोभिः॑ ष्याम सध॒मादो᳚ वी॒रैः स्या᳚म सध॒मादः॑ ||{4/4}{4.1.12.4}{5.20.4}{5.2.6.4}{67, 374, 3793} इ॒त्था¦यथा᳚¦ते॒¦ऊ॒तये᳚¦सह॑साऽवन्¦दि॒वेऽदि॑वे | |
[13] मनुष्वदिति चतुरृचस्य सूक्तस्यात्रेयःससोग्निरनुष्टुप् अंत्या पङ्क्तिः | |
म॒नु॒ष्वत् त्वा॒ नि धी᳚महि मनु॒ष्वत् समि॑धीमहि |{आत्रेयः ससः | अग्निः | अनुष्टुप्} अग्ने᳚ मनु॒ष्वद᳚ङ्गिरो दे॒वान् दे᳚वय॒ते य॑ज ||{1/4}{4.1.13.1}{5.21.1}{5.2.7.1}{68, 375, 3794} म॒नु॒ष्वत्¦त्वा॒¦नि¦धी॒म॒हि॒¦म॒नु॒ष्वत्¦सम्¦इ॒धी॒म॒हि॒ | अग्ने᳚¦म॒नु॒ष्वत्¦अ॒ङ्गि॒रः॒¦दे॒वान्¦दे॒व॒ऽय॒ते¦य॒ज॒ || |
त्वं हि मानु॑षे॒ जने ऽग्ने॒ सुप्री᳚त इ॒ध्यसे᳚ |{आत्रेयः ससः | अग्निः | अनुष्टुप्} स्रुच॑स्त्वा यन्त्यानु॒षक् सुजा᳚त॒ सर्पि॑रासुते ||{2/4}{4.1.13.2}{5.21.2}{5.2.7.2}{69, 375, 3795} त्वम्¦हि¦मानु॑षे¦जने᳚¦अग्ने᳚¦सुऽप्री᳚तः¦इ॒ध्यसे᳚ | स्रुचः॑¦त्वा॒¦य॒न्ति॒¦आ॒नु॒षक्¦सुऽजा᳚त¦सर्पिः॑ऽआसुते || |
त्वां विश्वे᳚ स॒जोष॑सो दे॒वासो᳚ दू॒तम॑क्रत |{आत्रेयः ससः | अग्निः | अनुष्टुप्} स॒प॒र्यन्त॑स्त्वा कवे य॒ज्ञेषु॑ दे॒वमी᳚ळते ||{3/4}{4.1.13.3}{5.21.3}{5.2.7.3}{70, 375, 3796} त्वाम्¦विश्वे᳚¦स॒ऽजोष॑सः¦दे॒वासः॑¦दू॒तम्¦अ॒क्र॒त॒ | स॒प॒र्यन्तः॑¦त्वा॒¦क॒वे॒¦य॒ज्ञेषु॑¦दे॒वम्¦ई॒ळ॒ते॒ || |
दे॒वं वो᳚ देवय॒ज्यया॒ ऽग्निमी᳚ळीत॒ मर्त्यः॑ |{आत्रेयः ससः | अग्निः | पङ्क्तिः} समि॑द्धः शुक्र दीदिह्यृ॒तस्य॒ योनि॒मास॑दः स॒सस्य॒ योनि॒मास॑दः ||{4/4}{4.1.13.4}{5.21.4}{5.2.7.4}{71, 375, 3797} दे॒वम्¦वः॒¦दे॒व॒ऽय॒ज्यया᳚¦अ॒ग्निम्¦ई॒ळी॒त॒¦मर्त्यः॑ | |
[14] प्रविश्वसामन्निति चतुरृचस्य सूक्तस्यात्रेयोविश्वसामाग्निरनुष्टुप् अंत्या पङ्क्तिः | |
प्र वि॑श्वसामन्नत्रि॒वदर्चा᳚ पाव॒कशो᳚चिषे |{आत्रेयो विश्वसामा | अग्निः | अनुष्टुप्} यो, अ॑ध्व॒रेष्वीड्यो॒ होता᳚ म॒न्द्रत॑मो वि॒शि ||{1/4}{4.1.14.1}{5.22.1}{5.2.8.1}{72, 376, 3798} प्र¦वि॒श्व॒ऽसा॒म॒न्¦अ॒त्रि॒ऽवत्¦अर्च॑¦पा॒व॒कऽशो᳚चिषे | यः¦अ॒ध्व॒रेषु॑¦ईड्यः॑¦होता᳚¦म॒न्द्रऽत॑मः¦वि॒शि || |
न्य१॑(अ॒)ग्निं जा॒तवे᳚दसं॒ दधा᳚ता दे॒वमृ॒त्विज᳚म् |{आत्रेयो विश्वसामा | अग्निः | अनुष्टुप्} प्र य॒ज्ञ ए᳚त्वानु॒षग॒द्या दे॒वव्य॑चस्तमः ||{2/4}{4.1.14.2}{5.22.2}{5.2.8.2}{73, 376, 3799} नि¦अ॒ग्निम्¦जा॒तऽवे᳚दसम्¦दधा᳚त¦दे॒वम्¦ऋ॒त्विज᳚म् | प्र¦य॒ज्ञः¦ए॒तु॒¦आ॒नु॒षक्¦अ॒द्य¦दे॒वव्य॑चःऽतमः || |
चि॒कि॒त्विन्म॑नसं त्वा दे॒वं मर्ता᳚स ऊ॒तये᳚ |{आत्रेयो विश्वसामा | अग्निः | अनुष्टुप्} वरे᳚ण्यस्य॒ तेऽव॑स इया॒नासो᳚, अमन्महि ||{3/4}{4.1.14.3}{5.22.3}{5.2.8.3}{74, 376, 3800} चि॒कि॒त्वित्ऽम॑नसम्¦त्वा॒¦दे॒वम्¦मर्ता᳚सः¦ऊ॒तये᳚ | वरे᳚ण्यस्य¦ते॒¦अव॑सः¦इ॒या॒नासः॑¦अ॒म॒न्म॒हि॒ || |
अग्ने᳚ चिकि॒द्ध्य१॑(अ॒)स्य न॑ इ॒दं वचः॑ सहस्य |{आत्रेयो विश्वसामा | अग्निः | पङ्क्तिः} तं त्वा᳚ सुशिप्र दम्पते॒ स्तोमै᳚र्वर्ध॒न्त्यत्र॑यो गी॒र्भिः शु᳚म्भ॒न्त्यत्र॑यः ||{4/4}{4.1.14.4}{5.22.4}{5.2.8.4}{75, 376, 3801} अग्ने᳚¦चि॒कि॒द्धि¦अ॒स्य¦नः॒¦इ॒दम्¦वचः॑¦स॒ह॒स्य॒ | |
[15] अग्नेसहंतमिति चतुरृचस्य सूक्तस्यात्रेयोद्युम्नोविश्वचर्षणिरग्निरनुष्टुप् अंत्या पङ्क्तिः | |
अग्ने॒ सह᳚न्त॒मा भ॑र द्यु॒म्नस्य॑ प्रा॒सहा᳚ र॒यिम् |{आत्रेयो द्युम्नो विश्वचर्षणिः | अग्निः | अनुष्टुप्} विश्वा॒ यश्च॑र्ष॒णीर॒भ्या॒३॑(आ॒)सा वाजे᳚षु सा॒सह॑त् ||{1/4}{4.1.15.1}{5.23.1}{5.2.9.1}{76, 377, 3802} अग्ने᳚¦सह᳚न्तम्¦आ¦भ॒र॒¦द्यु॒म्नस्य॑¦प्र॒ऽसहा᳚¦र॒यिम् | विश्वाः᳚¦यः¦च॒र्ष॒णीः¦अ॒भि¦आ॒सा¦वाजे᳚षु¦स॒सह॑त् || |
तम॑ग्ने पृतना॒षहं᳚ र॒यिं स॑हस्व॒ आ भ॑र |{आत्रेयो द्युम्नो विश्वचर्षणिः | अग्निः | अनुष्टुप्} त्वं हि स॒त्यो, अद्भु॑तो दा॒ता वाज॑स्य॒ गोम॑तः ||{2/4}{4.1.15.2}{5.23.2}{5.2.9.2}{77, 377, 3803} तम्¦अ॒ग्ने॒¦पृ॒त॒ना॒ऽसह᳚म्¦र॒यिम्¦स॒ह॒स्वः॒¦आ¦भ॒र॒ | त्वम्¦हि¦स॒त्यः¦अद्भु॑तः¦दा॒ता¦वाज॑स्य¦गोऽम॑तः || |
विश्वे॒ हि त्वा᳚ स॒जोष॑सो॒ जना᳚सो वृ॒क्तब᳚र्हिषः |{आत्रेयो द्युम्नो विश्वचर्षणिः | अग्निः | अनुष्टुप्} होता᳚रं॒ सद्म॑सु प्रि॒यं व्यन्ति॒ वार्या᳚ पु॒रु ||{3/4}{4.1.15.3}{5.23.3}{5.2.9.3}{78, 377, 3804} विश्वे᳚¦हि¦त्वा॒¦स॒ऽजोष॑सः¦जना᳚सः¦वृ॒क्तऽब॑र्हिषः | होता᳚रम्¦सद्म॑ऽसु¦प्रि॒यम्¦व्यन्ति॑¦वार्या᳚¦पु॒रु || |
स हि ष्मा᳚ वि॒श्वच॑र्षणिर॒भिमा᳚ति॒ सहो᳚ द॒धे |{आत्रेयो द्युम्नो विश्वचर्षणिः | अग्निः | पङ्क्तिः} अग्न॑ ए॒षु क्षये॒ष्वा रे॒वन्नः॑ शुक्र दीदिहि द्यु॒मत् पा᳚वक दीदिहि ||{4/4}{4.1.15.4}{5.23.4}{5.2.9.4}{79, 377, 3805} सः¦हि¦स्म॒¦वि॒श्वऽच॑र्षणिः¦अ॒भिऽमा᳚ति¦सहः॑¦द॒धे | |
[16] अग्नेत्वंनइति चतुरृचस्य सूक्तस्य गौपायना लौपायनावाबंधुः सुबंधुः श्रुतबंधुर्विप्रबंधुश्चक्रमेणर्षयोऽग्निर्द्विपदा विराट् | |
अग्ने॒ त्वं नो॒, अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्यः॑ ||{गौपायना लौपायनावाबंधुः | अग्निः | द्विपदाविराट्}{1/4}{4.1.16.1}{5.24.1}{5.2.10.1}{80, 378, 3806} अग्ने᳚¦त्वम्¦नः॒¦अन्त॑मः¦उ॒त¦त्रा॒ता¦शि॒वः¦भ॒व॒¦व॒रू॒थ्यः॑ || |
वसु॑र॒ग्निर्वसु॑श्रवा॒, अच्छा᳚ नक्षि द्यु॒मत्त॑मं र॒यिं दाः᳚ ||{गौपायना लौपायनावा सुबंधुः | अग्निः | द्विपदाविराट्}{2/4}{4.1.16.2}{5.24.2}{5.2.10.2}{81, 378, 3807} वसुः॑¦अ॒ग्निः¦वसु॑ऽश्रवाः¦अच्छ॑¦न॒क्षि॒¦द्यु॒मत्ऽत॑मम्¦र॒यिम्¦दाः॒ || |
स नो᳚ बोधि श्रु॒धी हव॑मुरु॒ष्या णो᳚, अघाय॒तः स॑मस्मात् ||{गौपायना लौपायनावा श्रुतबंधुः | अग्निः | द्विपदाविराट्}{3/4}{4.1.16.3}{5.24.3}{5.2.10.3}{82, 378, 3808} सः¦नः॒¦बो॒धि॒¦श्रु॒धि¦हव᳚म्¦उ॒रु॒ष्य¦नः॒¦अ॒घ॒ऽय॒तः¦स॒म॒स्मा॒त् || |
तं त्वा᳚ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी᳚महे॒ सखि॑भ्यः ||{गौपायना लौपायनावा विप्रबंधुः | अग्निः | द्विपदाविराट्}{4/4}{4.1.16.4}{5.24.4}{5.2.10.4}{83, 378, 3809} तम्¦त्वा॒¦शो॒चि॒ष्ठ॒¦दी॒दि॒ऽवः॒¦सु॒म्नाय॑¦नू॒नम्¦ई॒म॒हे॒¦सखि॑ऽभ्यः || |
[17] अच्छावइति नवर्चस्य सूक्तस्यात्रेयो वसूयवोग्निरनुष्टुप् | |
अच्छा᳚ वो, अ॒ग्निमव॑से दे॒वं गा᳚सि॒ स नो॒ वसुः॑ |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्} रास॑त् पु॒त्र ऋ॑षू॒णामृ॒तावा᳚ पर्षति द्वि॒षः ||{1/9}{4.1.17.1}{5.25.1}{5.2.11.1}{84, 379, 3810} अच्छ॑¦वः॒¦अ॒ग्निम्¦अव॑से¦दे॒वम्¦गा॒सि॒¦सः¦नः॒¦वसुः॑ | रास॑त्¦पु॒त्रः¦ऋ॒षू॒णाम्¦ऋ॒तऽवा᳚¦प॒र्ष॒ति॒¦द्वि॒षः || |
स हि स॒त्यो यं पूर्वे᳚ चिद् दे॒वास॑श्चि॒द् यमी᳚धि॒रे |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्} होता᳚रं म॒न्द्रजि॑ह्व॒मित् सु॑दी॒तिभि᳚र्वि॒भाव॑सुम् ||{2/9}{4.1.17.2}{5.25.2}{5.2.11.2}{85, 379, 3811} सः¦हि¦स॒त्यः¦यम्¦पूर्वे᳚¦चि॒त्¦दे॒वासः॑¦चि॒त्¦यम्¦ई॒धि॒रे | होता᳚रम्¦म॒न्द्रऽजि॑ह्वम्¦इत्¦सु॒दी॒तिऽभिः॑¦वि॒भाऽव॑सुम् || |
स नो᳚ धी॒ती वरि॑ष्ठया॒ श्रेष्ठ॑या च सुम॒त्या |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्} अग्ने᳚ रा॒यो दि॑दीहि नः सुवृ॒क्तिभि᳚र्वरेण्य ||{3/9}{4.1.17.3}{5.25.3}{5.2.11.3}{86, 379, 3812} सः¦नः॒¦धी॒ती¦वरि॑ष्ठया¦श्रेष्ठ॑या¦च॒¦सु॒ऽम॒त्या | अग्ने᳚¦रा॒यः¦दि॒दी॒हि॒¦नः॒¦सु॒वृ॒क्तिऽभिः॑¦व॒रे॒ण्य॒ || |
अ॒ग्निर्दे॒वेषु॑ राजत्य॒ग्निर्मर्ते᳚ष्वावि॒शन् |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्} अ॒ग्निर्नो᳚ हव्य॒वाह॑नो॒ ऽग्निं धी॒भिः स॑पर्यत ||{4/9}{4.1.17.4}{5.25.4}{5.2.11.4}{87, 379, 3813} अ॒ग्निः¦दे॒वेषु॑¦रा॒ज॒ति॒¦अ॒ग्निः¦मर्ते᳚षु¦आ॒ऽवि॒शन् | अ॒ग्निः¦नः॒¦ह॒व्य॒ऽवाह॑नः¦अ॒ग्निम्¦धी॒भिः¦स॒प॒र्य॒त॒ || |
अ॒ग्निस्तु॒विश्र॑वस्तमं तु॒विब्र᳚ह्माणमुत्त॒मम् |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्} अ॒तूर्तं᳚ श्राव॒यत्प॑तिं पु॒त्रं द॑दाति दा॒शुषे᳚ ||{5/9}{4.1.17.5}{5.25.5}{5.2.11.5}{88, 379, 3814} अ॒ग्निः¦तु॒विश्र॑वःऽतमम्¦तु॒विऽब्र᳚ह्माणम्¦उ॒त्ऽत॒मम् | अ॒तूर्त᳚म्¦श्र॒व॒यत्ऽप॑तिम्¦पु॒त्रम्¦द॒दा॒ति॒¦दा॒शुषे᳚ || |
अ॒ग्निर्द॑दाति॒ सत्प॑तिं सा॒साह॒ यो यु॒धा नृभिः॑ |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्} अ॒ग्निरत्यं᳚ रघु॒ष्यदं॒ जेता᳚र॒मप॑राजितम् ||{6/9}{4.1.18.1}{5.25.6}{5.2.11.6}{89, 379, 3815} अ॒ग्निः¦द॒दा॒ति॒¦सत्ऽप॑तिम्¦स॒साह॑¦यः¦यु॒धा¦नृऽभिः॑ | अ॒ग्निः¦अत्य᳚म्¦र॒घु॒ऽस्यद᳚म्¦जेता᳚रम्¦अप॑राऽजितम् || |
यद्वाहि॑ष्ठं॒ तद॒ग्नये᳚ बृ॒हद॑र्च विभावसो |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्} महि॑षीव॒ त्वद् र॒यिस्त्वद् वाजा॒, उदी᳚रते ||{7/9}{4.1.18.2}{5.25.7}{5.2.11.7}{90, 379, 3816} यत्¦वाहि॑ष्ठम्¦तत्¦अ॒ग्नये᳚¦बृ॒हत्¦अ॒र्च॒¦वि॒भा॒व॒सो॒ इति॑ विभाऽवसो | महि॑षीऽइव¦त्वत्¦र॒यिः¦त्वत्¦वाजाः᳚¦उत्¦ई॒र॒ते॒ || |
तव॑ द्यु॒मन्तो᳚, अ॒र्चयो॒ ग्रावे᳚वोच्यते बृ॒हत् |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्} उ॒तो ते᳚ तन्य॒तुर्य॑था स्वा॒नो, अ॑र्त॒ त्मना᳚ दि॒वः ||{8/9}{4.1.18.3}{5.25.8}{5.2.11.8}{91, 379, 3817} तव॑¦द्यु॒ऽमन्तः॑¦अ॒र्चयः॑¦ग्रावा᳚ऽइव¦उ॒च्य॒ते॒¦बृ॒हत् | उ॒तो इति॑¦ते॒¦त॒न्य॒तुः¦य॒था॒¦स्वा॒नः¦अ॒र्त॒¦त्मना᳚¦दि॒वः || |
ए॒वाँ, अ॒ग्निं व॑सू॒यवः॑ सहसा॒नं व॑वन्दिम |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्} स नो॒ विश्वा॒, अति॒ द्विषः॒ पर्ष᳚न्ना॒वेव॑ सु॒क्रतुः॑ ||{9/9}{4.1.18.4}{5.25.9}{5.2.11.9}{92, 379, 3818} ए॒व¦अ॒ग्निम्¦व॒सु॒ऽयवः॑¦स॒ह॒सा॒नम्¦व॒व॒न्दि॒म॒ | सः¦नः॒¦विश्वाः᳚¦अति॑¦द्विषः॑¦पर्ष॑त्¦ना॒वाऽइ᳚व¦सु॒ऽक्रतुः॑ || |
[18] अग्नेपावकेति नवर्चस्य सूक्तस्यात्रेयोवसूयवोग्निरंत्यायाविश्वेदेवागायत्री | |
अग्ने᳚ पावक रो॒चिषा᳚ म॒न्द्रया᳚ देव जि॒ह्वया᳚ |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्} आ दे॒वान् व॑क्षि॒ यक्षि॑ च ||{1/9}{4.1.19.1}{5.26.1}{5.2.12.1}{93, 380, 3819} अग्ने᳚¦पा॒व॒क॒¦रो॒चिषा᳚¦म॒न्द्रया᳚¦दे॒व॒¦जि॒ह्वया᳚ | आ¦दे॒वान्¦व॒क्षि॒¦यक्षि॑¦च॒ || |
तं त्वा᳚ घृतस्नवीमहे॒ चित्र॑भानो स्व॒र्दृश᳚म् |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्} दे॒वाँ, आ वी॒तये᳚ वह ||{2/9}{4.1.19.2}{5.26.2}{5.2.12.2}{94, 380, 3820} तम्¦त्वा॒¦घृ॒त॒स्नो॒ इति॑ घृतऽस्नो¦ई॒म॒हे॒¦चित्र॑भानो॒ इति॒ चित्र॑ऽभानो¦स्वः॒ऽदृश᳚म् | दे॒वान्¦आ¦वी॒तये᳚¦व॒ह॒ || |
वी॒तिहो᳚त्रं त्वा कवे द्यु॒मन्तं॒ समि॑धीमहि |{आत्रेयो वसूयवः | अग्निः | गायत्री} अग्ने᳚ बृ॒हन्त॑मध्व॒रे ||{3/9}{4.1.19.3}{5.26.3}{5.2.12.3}{95, 380, 3821} वी॒तिऽहो᳚त्रम्¦त्वा॒¦क॒वे॒¦द्यु॒ऽमन्त᳚म्¦सम्¦इ॒धी॒म॒हि॒ | अग्ने᳚¦बृ॒हन्त᳚म्¦अ॒ध्व॒रे || |
अग्ने॒ विश्वे᳚भि॒रा ग॑हि दे॒वेभि᳚र्ह॒व्यदा᳚तये |{आत्रेयो वसूयवः | अग्निः | गायत्री} होता᳚रं त्वा वृणीमहे ||{4/9}{4.1.19.4}{5.26.4}{5.2.12.4}{96, 380, 3822} अग्ने᳚¦विश्वे᳚ऽभिः¦आ¦ग॒हि॒¦दे॒वेभिः॑¦ह॒व्यऽदा᳚तये | होता᳚रम्¦त्वा॒¦वृ॒णी॒म॒हे॒ || |
यज॑मानाय सुन्व॒त आग्ने᳚ सु॒वीर्यं᳚ वह |{आत्रेयो वसूयवः | अग्निः | गायत्री} दे॒वैरा स॑त्सि ब॒र्हिषि॑ ||{5/9}{4.1.19.5}{5.26.5}{5.2.12.5}{97, 380, 3823} यज॑मानाय¦सु॒न्व॒ते¦आ¦अ॒ग्ने॒¦सु॒ऽवीर्य᳚म्¦व॒ह॒ | दे॒वैः¦आ¦स॒त्सि॒¦ब॒र्हिषि॑ || |
स॒मि॒धा॒नः स॑हस्रजि॒दग्ने॒ धर्मा᳚णि पुष्यसि |{आत्रेयो वसूयवः | अग्निः | गायत्री} दे॒वानां᳚ दू॒त उ॒क्थ्यः॑ ||{6/9}{4.1.20.1}{5.26.6}{5.2.12.6}{98, 380, 3824} स॒म्ऽइ॒धा॒नः¦स॒ह॒स्र॒ऽजि॒त्¦अग्ने᳚¦धर्मा᳚णि¦पु॒ष्य॒सि॒ | दे॒वाना᳚म्¦दू॒तः¦उ॒क्थ्यः॑ || |
न्य१॑(अ॒)ग्निं जा॒तवे᳚दसं होत्र॒वाहं॒ यवि॑ष्ठ्यम् |{आत्रेयो वसूयवः | अग्निः | गायत्री} दधा᳚ता दे॒वमृ॒त्विज᳚म् ||{7/9}{4.1.20.2}{5.26.7}{5.2.12.7}{99, 380, 3825} नि¦अ॒ग्निम्¦जा॒तऽवे᳚दसम्¦हो॒त्र॒ऽवाह᳚म्¦यवि॑ष्ठ्यम् | दधा᳚त¦दे॒वम्¦ऋ॒त्विज᳚म् || |
प्र य॒ज्ञ ए᳚त्वानु॒षग॒द्या दे॒वव्य॑चस्तमः |{आत्रेयो वसूयवः | अग्निः | गायत्री} स्तृ॒णी॒त ब॒र्हिरा॒सदे᳚ ||{8/9}{4.1.20.3}{5.26.8}{5.2.12.8}{100, 380, 3826} प्र¦य॒ज्ञः¦ए॒तु॒¦आ॒नु॒षक्¦अ॒द्य¦दे॒वव्य॑चःऽतमः | स्तृ॒णी॒त¦ब॒र्हिः¦आ॒ऽसदे᳚ || |
एदं म॒रुतो᳚, अ॒श्विना᳚ मि॒त्रः सी᳚दन्तु॒ वरु॑णः |{आत्रेयो वसूयवः | विश्वेदेवाः | गायत्री} दे॒वासः॒ सर्व॑या वि॒शा ||{9/9}{4.1.20.4}{5.26.9}{5.2.12.9}{101, 380, 3827} आ¦इ॒दम्¦म॒रुतः॑¦अ॒श्विना᳚¦मि॒त्रः¦सी॒द॒न्तु॒¦वरु॑णः | दे॒वासः॑¦सर्व॑या¦वि॒शा || |
[19] अनस्वंतेति षडृचस्य सूक्तस्य त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्चैतेऋषयोऽग्निरंत्यायाइंद्राग्नीत्रिष्टुप् अंत्यास्तिस्रोनुष्टुभः | ( अस्मिन्सूक्तेभौमोत्रिरेवदेवतेतिकेचित् अन्यथायोमेशताचविंशतिंचगोनामित्यादिदातृ क्रियायाअनुपपक्तेः | नैतदन्ये मन्यंतेआत्माध्यासपक्षस्वीकारेणतथाप्युपपक्तेः) |
अन॑स्वन्ता॒ सत्प॑तिर्मामहे मे॒ गावा॒ चेति॑ष्ठो॒, असु॑रो म॒घोनः॑ |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | त्रिष्टुप्} त्रै॒वृ॒ष्णो, अ॑ग्ने द॒शभिः॑ स॒हस्रै॒र्वैश्वा᳚नर॒ त्र्य॑रुणश्चिकेत ||{1/6}{4.1.21.1}{5.27.1}{5.2.13.1}{102, 381, 3828} अन॑स्वन्ता¦सत्ऽप॑तिः¦म॒म॒हे॒¦मे॒¦गावा᳚¦चेति॑ष्ठः¦असु॑रः¦म॒घोनः॑ | |
यो मे᳚ श॒ता च॑ विंश॒तिं च॒ गोनां॒ हरी᳚ च यु॒क्ता सु॒धुरा॒ ददा᳚ति |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | त्रिष्टुप्} वैश्वा᳚नर॒ सुष्टु॑तो वावृधा॒नो ऽग्ने॒ यच्छ॒ त्र्य॑रुणाय॒ शर्म॑ ||{2/6}{4.1.21.2}{5.27.2}{5.2.13.2}{103, 381, 3829} यः¦मे॒¦श॒ता¦च॒¦विं॒श॒तिम्¦च॒¦गोना᳚म्¦हरी॒ इति॑¦च॒¦यु॒क्ता¦सु॒ऽधुरा᳚¦ददा᳚ति | |
ए॒वा ते᳚, अग्ने सुम॒तिं च॑का॒नो नवि॑ष्ठाय नव॒मं त्र॒सद॑स्युः |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | त्रिष्टुप्} यो मे॒ गिर॑स्तुविजा॒तस्य॑ पू॒र्वीर्यु॒क्तेना॒भि त्र्य॑रुणो गृ॒णाति॑ ||{3/6}{4.1.21.3}{5.27.3}{5.2.13.3}{104, 381, 3830} ए॒व¦ते॒¦अ॒ग्ने॒¦सु॒ऽम॒तिम्¦च॒का॒नः¦नवि॑ष्ठाय¦न॒व॒मम्¦त्र॒सद॑स्युः | |
यो म॒ इति॑ प्र॒वोच॒त्यश्व॑मेधाय सू॒रये᳚ |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | अनुष्टुप्} दद॑दृ॒चा स॒निं य॒ते दद᳚न्मे॒धामृ॑ताय॒ते ||{4/6}{4.1.21.4}{5.27.4}{5.2.13.4}{105, 381, 3831} यः¦मे॒¦इति॑¦प्र॒ऽवोच॑ति¦अश्व॑ऽमेधाय¦सू॒रये᳚ | दद॑त्¦ऋ॒चा¦स॒निम्¦य॒ते¦दद॑त्¦मे॒धाम्¦ऋ॒त॒ऽय॒ते || |
यस्य॑ मा परु॒षाः श॒तमु॑द्ध॒र्षय᳚न्त्यु॒क्षणः॑ |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | अनुष्टुप्} अश्व॑मेधस्य॒ दानाः॒ सोमा᳚, इव॒ त्र्या᳚शिरः ||{5/6}{4.1.21.5}{5.27.5}{5.2.13.5}{106, 381, 3832} यस्य॑¦मा॒¦प॒रु॒षाः¦श॒तम्¦उ॒त्ऽह॒र्षय᳚न्ति¦उ॒क्षणः॑ | अश्व॑ऽमेधस्य¦दानाः᳚¦सोमाः᳚ऽइव¦त्रिऽआ᳚शिरः || |
इन्द्रा᳚ग्नी शत॒दाव्न्यश्व॑मेधे सु॒वीर्य᳚म् |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | इन्द्राग्नी | अनुष्टुप्} क्ष॒त्रं धा᳚रयतं बृ॒हद् दि॒वि सूर्य॑मिवा॒जर᳚म् ||{6/6}{4.1.21.6}{5.27.6}{5.2.13.6}{107, 381, 3833} इन्द्रा᳚ग्नी॒ इति॑¦श॒त॒ऽदाव्नि॑¦अश्व॑ऽमेधे¦सु॒ऽवीर्य᳚म् | क्ष॒त्रम्¦धा॒र॒य॒त॒म्¦बृ॒हत्¦दि॒वि¦सूर्य᳚म्ऽइव¦अ॒जर᳚म् || |
[20] समिद्धइति षडृचस्य सूक्तस्यात्रेयी विश्ववाराऋषिकाग्निः आद्याःक्रमेणत्रिष्टुब्जगतीत्रिष्टुबनुष्टुभः अंत्येद्वेगायत्र्यौ | |
समि॑द्धो, अ॒ग्निर्दि॒वि शो॒चिर॑श्रेत् प्र॒त्यङ्ङु॒षस॑मुर्वि॒या वि भा᳚ति |{आत्रेयी विश्ववारा ऋषिका | अग्निः | त्रिष्टुप्} एति॒ प्राची᳚ वि॒श्ववा᳚रा॒ नमो᳚भिर्दे॒वाँ, ईळा᳚ना ह॒विषा᳚ घृ॒ताची᳚ ||{1/6}{4.1.22.1}{5.28.1}{5.2.14.1}{108, 382, 3834} सम्ऽइ᳚द्धः¦अ॒ग्निः¦दि॒वि¦शो॒चिः¦अ॒श्रे॒त्¦प्र॒त्यङ्¦उ॒षस᳚म्¦उ॒र्वि॒या¦वि¦भा॒ति॒ | |
स॒मि॒ध्यमा᳚नो, अ॒मृत॑स्य राजसि ह॒विष्कृ॒ण्वन्तं᳚ सचसे स्व॒स्तये᳚ |{आत्रेयी विश्ववारा ऋषिका | अग्निः | जगती} विश्वं॒ स ध॑त्ते॒ द्रवि॑णं॒ यमिन्व॑स्याति॒थ्यम॑ग्ने॒ नि च॑ धत्त॒ इत् पु॒रः ||{2/6}{4.1.22.2}{5.28.2}{5.2.14.2}{109, 382, 3835} स॒म्ऽइ॒ध्यमा᳚नः¦अ॒मृत॑स्य¦रा॒ज॒सि॒¦ह॒विः¦कृ॒ण्वन्त᳚म्¦स॒च॒से॒¦स्व॒स्तये᳚ | |
अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय॒ तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु |{आत्रेयी विश्ववारा ऋषिका | अग्निः | त्रिष्टुप्} सं जा᳚स्प॒त्यं सु॒यम॒मा कृ॑णुष्व शत्रूय॒ताम॒भि ति॑ष्ठा॒ महां᳚सि ||{3/6}{4.1.22.3}{5.28.3}{5.2.14.3}{110, 382, 3836} अग्ने᳚¦शर्ध॑¦म॒ह॒ते¦सौभ॑गाय¦तव॑¦द्यु॒म्नानि॑¦उ॒त्ऽत॒मानि॑¦स॒न्तु॒ | |
समि॑द्धस्य॒ प्रम॑ह॒सो ऽग्ने॒ वन्दे॒ तव॒ श्रिय᳚म् |{आत्रेयी विश्ववारा ऋषिका | अग्निः | अनुष्टुप्} वृ॒ष॒भो द्यु॒म्नवाँ᳚, असि॒ सम॑ध्व॒रेष्वि॑ध्यसे ||{4/6}{4.1.22.4}{5.28.4}{5.2.14.4}{111, 382, 3837} सम्ऽइ᳚द्धस्य¦प्रऽम॑हसः¦अ॒ग्ने॒¦वन्दे᳚¦तव॑¦श्रिय᳚म् | वृ॒ष॒भः¦द्यु॒म्नऽवा᳚न्¦अ॒सि॒¦सम्¦अ॒ध्व॒रेषु॑¦इ॒ध्य॒से॒ || |
समि॑द्धो, अग्न आहुत दे॒वान् य॑क्षि स्वध्वर |{आत्रेयी विश्ववारा ऋषिका | अग्निः | गायत्री} त्वं हि ह᳚व्य॒वाळसि॑ ||{5/6}{4.1.22.5}{5.28.5}{5.2.14.5}{112, 382, 3838} सम्ऽइ᳚द्धः¦अ॒ग्ने॒¦आ॒ऽहु॒त॒¦दे॒वान्¦य॒क्षि॒¦सु॒।आ॒ध्व॒र॒ | त्वम्¦हि¦ह॒व्य॒ऽवाट्¦असि॑ || |
आ जु॑होता दुव॒स्यता॒ ऽग्निं प्र॑य॒त्य॑ध्व॒रे |{आत्रेयी विश्ववारा ऋषिका | अग्निः | गायत्री} वृ॒णी॒ध्वं ह᳚व्य॒वाह॑नम् ||{6/6}{4.1.22.6}{5.28.6}{5.2.14.6}{113, 382, 3839} आ¦जु॒हो॒त॒¦दु॒व॒स्यत॑¦अ॒ग्निम्¦प्र॒ऽय॒ति¦अ॒ध्व॒रे | वृ॒णी॒ध्वम्¦ह॒व्य॒ऽवाह॑नम् || |
[21] त्र्यर्यमेति पंचदशर्चस्य सूक्तस्य शाक्त्योगौरिवीतिरिंद्रः (उशनायदितिपादस्योशनावा) त्रिष्टुप् | |
त्र्य᳚र्य॒मा मनु॑षो दे॒वता᳚ता॒ त्री रो᳚च॒ना दि॒व्या धा᳚रयन्त |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} अर्च᳚न्ति त्वा म॒रुतः॑ पू॒तद॑क्षा॒स्त्वमे᳚षा॒मृषि॑रिन्द्रासि॒ धीरः॑ ||{1/15}{4.1.23.1}{5.29.1}{5.2.15.1}{114, 383, 3840} त्री¦अ॒र्य॒मा¦मनु॑षः¦दे॒वऽता᳚ता¦त्री¦रो॒च॒ना¦दि॒व्या¦धा॒र॒य॒न्त॒ | |
अनु॒ यदीं᳚ म॒रुतो᳚ मन्दसा॒नमार्च॒न्निन्द्रं᳚ पपि॒वांसं᳚ सु॒तस्य॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} आद॑त्त॒ वज्र॑म॒भि यदहिं॒ हन्न॒पो य॒ह्वीर॑सृज॒त् सर्त॒वा, उ॑ ||{2/15}{4.1.23.2}{5.29.2}{5.2.15.2}{115, 383, 3841} अनु॑¦यत्¦ई॒म्¦म॒रुतः॑¦म॒न्द॒सा॒नम्¦आर्च॑न्¦इन्द्र᳚म्¦प॒पि॒ऽवांस᳚म्¦सु॒तस्य॑ | |
उ॒त ब्र᳚ह्माणो मरुतो मे, अ॒स्येन्द्रः॒ सोम॑स्य॒ सुषु॑तस्य पेयाः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} तद्धि ह॒व्यं मनु॑षे॒ गा, अवि᳚न्द॒दह॒न्नहिं᳚ पपि॒वाँ, इन्द्रो᳚, अस्य ||{3/15}{4.1.23.3}{5.29.3}{5.2.15.3}{116, 383, 3842} उ॒त¦ब्र॒ह्मा॒णः॒¦म॒रु॒तः॒¦मे॒¦अ॒स्य¦इन्द्रः॑¦सोम॑स्य¦सुऽसु॑तस्य¦पे॒याः॒ | |
आद्रोद॑सी वित॒रं वि ष्क॑भायत् संविव्या॒नश्चि॑द् भि॒यसे᳚ मृ॒गं कः॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} जिग॑र्ति॒मिन्द्रो᳚, अप॒जर्गु॑राणः॒ प्रति॑ श्व॒सन्त॒मव॑ दान॒वं ह॑न् ||{4/15}{4.1.23.4}{5.29.4}{5.2.15.4}{117, 383, 3843} आत्¦रोद॑सी॒ इति॑¦वि॒ऽत॒रम्¦वि¦स्क॒भा॒य॒त्¦स॒म्ऽवि॒व्या॒नः¦चि॒त्¦भि॒यसे᳚¦मृ॒गम्¦क॒रिति॑ कः | |
अध॒ क्रत्वा᳚ मघव॒न् तुभ्यं᳚ दे॒वा, अनु॒ विश्वे᳚, अददुः सोम॒पेय᳚म् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} यत्सूर्य॑स्य ह॒रितः॒ पत᳚न्तीः पु॒रः स॒तीरुप॑रा॒, एत॑शे॒ कः ||{5/15}{4.1.23.5}{5.29.5}{5.2.15.5}{118, 383, 3844} अध॑¦क्रत्वा᳚¦म॒घ॒ऽव॒न्¦तुभ्य᳚म्¦दे॒वाः¦अनु॑¦विश्वे᳚¦अ॒द॒दुः॒¦सो॒म॒ऽपेय᳚म् | |
नव॒ यद॑स्य नव॒तिं च॑ भो॒गान् त्सा॒कं वज्रे᳚ण म॒घवा᳚ विवृ॒श्चत् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} अर्च॒न्तीन्द्रं᳚ म॒रुतः॑ स॒धस्थे॒ त्रैष्टु॑भेन॒ वच॑सा बाधत॒ द्याम् ||{6/15}{4.1.24.1}{5.29.6}{5.2.15.6}{119, 383, 3845} नव॑¦यत्¦अ॒स्य॒¦न॒व॒तिम्¦च॒¦भो॒गान्¦सा॒कम्¦वज्रे᳚ण¦म॒घऽवा᳚¦वि॒वृ॒श्चत् | |
सखा॒ सख्ये᳚, अपच॒त् तूय॑म॒ग्निर॒स्य क्रत्वा᳚ महि॒षा त्री श॒तानि॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} त्री सा॒कमिन्द्रो॒ मनु॑षः॒ सरां᳚सि सु॒तं पि॑बद् वृत्र॒हत्या᳚य॒ सोम᳚म् ||{7/15}{4.1.24.2}{5.29.7}{5.2.15.7}{120, 383, 3846} सखा᳚¦सख्ये᳚¦अ॒प॒च॒त्¦तूय᳚म्¦अ॒ग्निः¦अ॒स्य¦क्रत्वा᳚¦म॒हि॒षा¦त्री¦श॒तानि॑ | |
त्री यच्छ॒ता म॑हि॒षाणा॒मघो॒ मास्त्री सरां᳚सि म॒घवा᳚ सो॒म्यापाः᳚ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} का॒रं न विश्वे᳚, अह्वन्त दे॒वा भर॒मिन्द्रा᳚य॒ यदहिं᳚ ज॒घान॑ ||{8/15}{4.1.24.3}{5.29.8}{5.2.15.8}{121, 383, 3847} त्री¦यत्¦श॒ता¦म॒हि॒षाणा᳚म्¦अघः॑¦माः¦त्री¦सरां᳚सि¦म॒घऽवा᳚¦सो॒म्या¦अपाः᳚ | |
उ॒शना॒ यत्स॑ह॒स्यै॒३॑(ऐ॒)रया᳚तं गृ॒हमि᳚न्द्र जूजुवा॒नेभि॒रश्वैः᳚ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} व॒न्वा॒नो, अत्र॑ स॒रथं᳚ ययाथ॒ कुत्से᳚न दे॒वैरव॑नोर्ह॒ शुष्ण᳚म् ||{9/15}{4.1.24.4}{5.29.9}{5.2.15.9}{122, 383, 3848} उ॒शना᳚¦यत्¦स॒ह॒स्यैः᳚¦अया᳚तम्¦गृ॒हम्¦इ॒न्द्र॒¦जू॒जु॒वा॒नेभिः॑¦अश्वैः᳚ | |
प्रान्यच्च॒क्रम॑वृहः॒ सूर्य॑स्य॒ कुत्सा᳚या॒न्यद्वरि॑वो॒ यात॑वेऽकः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} अ॒नासो॒ दस्यूँ᳚रमृणो व॒धेन॒ नि दु᳚र्यो॒ण आ᳚वृणङ् मृ॒ध्रवा᳚चः ||{10/15}{4.1.24.5}{5.29.10}{5.2.15.10}{123, 383, 3849} प्र¦अ॒न्यत्¦च॒क्रम्¦अ॒वृ॒हः॒¦सूर्य॑स्य¦कुत्सा᳚य¦अ॒न्यत्¦वरि॑वः¦यात॑वे¦अ॒क॒रित्य॑कः | |
स्तोमा᳚सस्त्वा॒ गौरि॑वीतेरवर्ध॒न्नर᳚न्धयो वैदथि॒नाय॒ पिप्रु᳚म् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} आ त्वामृ॒जिश्वा᳚ स॒ख्याय॑ चक्रे॒ पच᳚न् प॒क्तीरपि॑बः॒ सोम॑मस्य ||{11/15}{4.1.25.1}{5.29.11}{5.2.15.11}{124, 383, 3850} स्तोमा᳚सः¦त्वा॒¦गौरि॑ऽवीतेः¦अ॒व॒र्ध॒न्¦अर᳚न्धयः¦वै॒द॒थि॒नाय॑¦पिप्रु᳚म् | |
नव॑ग्वासः सु॒तसो᳚मास॒ इन्द्रं॒ दश॑ग्वासो, अ॒भ्य॑र्चन्त्य॒र्कैः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} गव्यं᳚ चिदू॒र्वम॑पि॒धान॑वन्तं॒ तं चि॒न्नरः॑ शशमा॒ना, अप᳚ व्रन् ||{12/15}{4.1.25.2}{5.29.12}{5.2.15.12}{125, 383, 3851} नव॑ऽग्वासः¦सु॒तऽसो᳚मासः¦इन्द्र᳚म्¦दश॑ऽग्वासः¦अ॒भि¦अ॒र्च॒न्ति॒¦अ॒र्कैः | |
क॒थो नु ते॒ परि॑ चराणि वि॒द्वान् वी॒र्या᳚ मघव॒न्या च॒कर्थ॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} या चो॒ नु नव्या᳚ कृ॒णवः॑ शविष्ठ॒ प्रेदु॒ ता ते᳚ वि॒दथे᳚षु ब्रवाम ||{13/15}{4.1.25.3}{5.29.13}{5.2.15.13}{126, 383, 3852} क॒थो इति॑¦नु¦ते॒¦परि॑¦च॒रा॒णि॒¦वि॒द्वान्¦वी॒र्या᳚¦म॒घ॒ऽव॒न्¦या¦च॒कर्थ॑ | |
ए॒ता विश्वा᳚ चकृ॒वाँ, इ᳚न्द्र॒ भूर्यप॑रीतो ज॒नुषा᳚ वी॒र्ये᳚ण |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} या चि॒न्नु व॑ज्रिन् कृ॒णवो᳚ दधृ॒ष्वान् न ते᳚ व॒र्ता तवि॑ष्या, अस्ति॒ तस्याः᳚ ||{14/15}{4.1.25.4}{5.29.14}{5.2.15.14}{127, 383, 3853} ए॒ता¦विश्वा᳚¦च॒कृ॒ऽवान्¦इ॒न्द्र॒¦भूरि॑¦अप॑रिऽइतः¦ज॒नुषा᳚¦वी॒र्ये᳚ण | |
इन्द्र॒ ब्रह्म॑ क्रि॒यमा᳚णा जुषस्व॒ या ते᳚ शविष्ठ॒ नव्या॒, अक᳚र्म |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} वस्त्रे᳚व भ॒द्रा सुकृ॑ता वसू॒यू रथं॒ न धीरः॒ स्वपा᳚, अतक्षम् ||{15/15}{4.1.25.5}{5.29.15}{5.2.15.15}{128, 383, 3854} इन्द्र॑¦ब्रह्म॑¦क्रि॒यमा᳚णा¦जु॒ष॒स्व॒¦या¦ते॒¦श॒वि॒ष्ठ॒¦नव्याः᳚¦अक᳚र्म | |
[22] क्वस्येति पंचदशर्चस्य सूक्तस्यात्रेयोबभ्रुरिंद्रोंत्यानांचतसृणामृणंचयेंद्रौदेवतेत्रिष्टुप् | |
क्व१॑(अ॒) स्य वी॒रः को, अ॑पश्य॒दिन्द्रं᳚ सु॒खर॑थ॒मीय॑मानं॒ हरि॑भ्याम् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्} यो रा॒या व॒ज्री सु॒तसो᳚ममि॒च्छन् तदोको॒ गन्ता᳚ पुरुहू॒त ऊ॒ती ||{1/15}{4.1.26.1}{5.30.1}{5.2.16.1}{129, 384, 3855} क्व॑¦स्यः¦वी॒रः¦कः¦अ॒प॒श्य॒त्¦इन्द्र᳚म्¦सु॒खऽर॑थम्¦ईय॑मानम्¦हरि॑ऽभ्याम् | |
अवा᳚चचक्षं प॒दम॑स्य स॒स्वरु॒ग्रं नि॑धा॒तुरन्वा᳚यमि॒च्छन् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्} अपृ॑च्छम॒न्याँ, उ॒त ते म॑ आहु॒रिन्द्रं॒ नरो᳚ बुबुधा॒ना, अ॑शेम ||{2/15}{4.1.26.2}{5.30.2}{5.2.16.2}{130, 384, 3856} अव॑¦अ॒च॒च॒क्ष॒म्¦प॒दम्¦अ॒स्य॒¦स॒स्वः¦उ॒ग्रम्¦नि॒ऽधा॒तुः¦अनु॑¦आ॒य॒म्¦इ॒च्छन् | |
प्र नु व॒यं सु॒ते या ते᳚ कृ॒तानीन्द्र॒ ब्रवा᳚म॒ यानि॑ नो॒ जुजो᳚षः |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्} वेद॒दवि॑द्वाञ्छृ॒णव॑च्च वि॒द्वान् वह॑ते॒ऽयं म॒घवा॒ सर्व॑सेनः ||{3/15}{4.1.26.3}{5.30.3}{5.2.16.3}{131, 384, 3857} प्र¦नु¦व॒यम्¦सु॒ते¦या¦ते॒¦कृ॒तानि॑¦इन्द्र॑¦ब्रवा᳚म¦यानि॑¦नः॒¦जुजो᳚षः | |
स्थि॒रं मन॑श्चकृषे जा॒त इ᳚न्द्र॒ वेषीदेको᳚ यु॒धये॒ भूय॑सश्चित् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्} अश्मा᳚नं चि॒च्छव॑सा दिद्युतो॒ वि वि॒दो गवा᳚मू॒र्वमु॒स्रिया᳚णाम् ||{4/15}{4.1.26.4}{5.30.4}{5.2.16.4}{132, 384, 3858} स्थि॒रम्¦मनः॑¦च॒कृ॒षे॒¦जा॒तः¦इ॒न्द्र॒¦वेषि॑¦इत्¦एकः॑¦यु॒धये᳚¦भूय॑सः¦चि॒त् | |
प॒रो यत् त्वं प॑र॒म आ॒जनि॑ष्ठाः परा॒वति॒ श्रुत्यं॒ नाम॒ बिभ्र॑त् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्} अत॑श्चि॒दिन्द्रा᳚दभयन्त दे॒वा विश्वा᳚, अ॒पो, अ॑जयद् दा॒सप॑त्नीः ||{5/15}{4.1.26.5}{5.30.5}{5.2.16.5}{133, 384, 3859} प॒रः¦यत्¦त्वम्¦प॒र॒मः¦आ॒ऽजनि॑ष्ठाः¦प॒रा॒ऽवति॑¦श्रुत्य᳚म्¦नाम॑¦बिभ्र॑त् | |
तुभ्येदे॒ते म॒रुतः॑ सु॒शेवा॒, अर्च᳚न्त्य॒र्कं सु॒न्वन्त्यन्धः॑ |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्} अहि॑मोहा॒नम॒प आ॒शया᳚नं॒ प्र मा॒याभि᳚र्मा॒यिनं᳚ सक्ष॒दिन्द्रः॑ ||{6/15}{4.1.27.1}{5.30.6}{5.2.16.6}{134, 384, 3860} तुभ्य॑¦इत्¦ए॒ते¦म॒रुतः॑¦सु॒ऽशेवाः᳚¦अर्च᳚न्ति¦अ॒र्कम्¦सु॒न्वन्ति॑¦अन्धः॑ | |
वि षू मृधो᳚ ज॒नुषा॒ दान॒मिन्व॒न्नह॒न् गवा᳚ मघवन् त्संचका॒नः |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्} अत्रा᳚ दा॒सस्य॒ नमु॑चेः॒ शिरो॒ यदव॑र्तयो॒ मन॑वे गा॒तुमि॒च्छन् ||{7/15}{4.1.27.2}{5.30.7}{5.2.16.7}{135, 384, 3861} वि¦सु¦मृधः॑¦ज॒नुषा᳚¦दान᳚म्¦इन्व॑न्¦अह॑न्¦गवा᳚¦म॒घ॒ऽव॒न्¦स॒म्ऽच॒का॒नः | |
युजं॒ हि मामकृ॑था॒, आदिदि᳚न्द्र॒ शिरो᳚ दा॒सस्य॒ नमु॑चेर्मथा॒यन् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्} अश्मा᳚नं चित् स्व॒र्य१॑(अं॒) वर्त॑मानं॒ प्र च॒क्रिये᳚व॒ रोद॑सी म॒रुद्भ्यः॑ ||{8/15}{4.1.27.3}{5.30.8}{5.2.16.8}{136, 384, 3862} युज᳚म्¦हि¦माम्¦अकृ॑थाः¦आत्¦इत्¦इ॒न्द्र॒¦शिरः॑¦दा॒सस्य॑¦नमु॑चेः¦म॒था॒यन् | |
स्त्रियो॒ हि दा॒स आयु॑धानि च॒क्रे किं मा᳚ करन्नब॒ला, अ॑स्य॒ सेनाः᳚ |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्} अ॒न्तर्ह्यख्य॑दु॒भे, अ॑स्य॒ धेने॒, अथोप॒ प्रैद् यु॒धये॒ दस्यु॒मिन्द्रः॑ ||{9/15}{4.1.27.4}{5.30.9}{5.2.16.9}{137, 384, 3863} स्त्रियः॑¦हि¦दा॒सः¦आयु॑धानि¦च॒क्रे¦किम्¦मा॒¦क॒र॒न्¦अ॒ब॒लाः¦अ॒स्य॒¦सेनाः᳚ | |
समत्र॒ गावो॒ऽभितो᳚ऽनवन्ते॒हेह॑ व॒त्सैर्वियु॑ता॒ यदास॑न् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्} सं ता, इन्द्रो᳚, असृजदस्य शा॒कैर्यदीं॒ सोमा᳚सः॒ सुषु॑ता॒, अम᳚न्दन् ||{10/15}{4.1.27.5}{5.30.10}{5.2.16.10}{138, 384, 3864} सम्¦अत्र॑¦गावः॑¦अ॒भितः॑¦अ॒न॒व॒न्त॒¦इ॒हऽइ᳚ह¦व॒त्सैः¦विऽयु॑ताः¦यत्¦आस॑न् | |
यदीं॒ सोमा᳚ ब॒भ्रुधू᳚ता॒, अम᳚न्द॒न्नरो᳚रवीद् वृष॒भः साद॑नेषु |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्} पु॒रं॒द॒रः प॑पि॒वाँ, इन्द्रो᳚, अस्य॒ पुन॒र्गवा᳚मददादु॒स्रिया᳚णाम् ||{11/15}{4.1.28.1}{5.30.11}{5.2.16.11}{139, 384, 3865} यत्¦ई॒म्¦सोमाः᳚¦ब॒भ्रुऽधू᳚ताः¦अम᳚न्दन्¦अरो᳚रवीत्¦वृ॒ष॒भः¦साद॑नेषु | |
भ॒द्रमि॒दं रु॒शमा᳚, अग्ने, अक्र॒न् गवां᳚ च॒त्वारि॒ दद॑तः स॒हस्रा᳚ |{आत्रेयो बभ्रुः | ऋणामृणंचयेंद्रौ | त्रिष्टुप्} ऋ॒णं॒च॒यस्य॒ प्रय॑ता म॒घानि॒ प्रत्य॑ग्रभीष्म॒ नृत॑मस्य नृ॒णाम् ||{12/15}{4.1.28.2}{5.30.12}{5.2.16.12}{140, 384, 3866} भ॒द्रम्¦इ॒दम्¦रु॒शमाः᳚¦अ॒ग्ने॒¦अ॒क्र॒न्¦गवा᳚म्¦च॒त्वारि॑¦दद॑तः¦स॒हस्रा᳚ | |
सु॒पेश॑सं॒ माव॑ सृज॒न्त्यस्तं॒ गवां᳚ स॒हस्रै᳚ रु॒शमा᳚सो, अग्ने |{आत्रेयो बभ्रुः | ऋणामृणंचयेंद्रौ | त्रिष्टुप्} ती॒व्रा, इन्द्र॑मममन्दुः सु॒तासो॒ ऽक्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाः ||{13/15}{4.1.28.3}{5.30.13}{5.2.16.13}{141, 384, 3867} सु॒ऽपेश॑सम्¦मा॒¦अव॑¦सृ॒ज॒न्ति॒¦अस्त᳚म्¦गवा᳚म्¦स॒हस्रैः᳚¦रु॒शमा᳚सः¦अ॒ग्ने॒ | |
औच्छ॒त्सा रात्री॒ परि॑तक्म्या॒ याँ, ऋ॑णंच॒ये राज॑नि रु॒शमा᳚नाम् |{आत्रेयो बभ्रुः | ऋणामृणंचयेंद्रौ | त्रिष्टुप्} अत्यो॒ न वा॒जी र॒घुर॒ज्यमा᳚नो ब॒भ्रुश्च॒त्वार्य॑सनत् स॒हस्रा᳚ ||{14/15}{4.1.28.4}{5.30.14}{5.2.16.14}{142, 384, 3868} औच्छ॑त्¦सा¦रात्री᳚¦परि॑ऽतक्म्या¦या¦ऋ॒ण॒म्ऽच॒ये¦राज॑नि¦रु॒शमा᳚नाम् | |
चतुः॑सहस्रं॒ गव्य॑स्य प॒श्वः प्रत्य॑ग्रभीष्म रु॒शमे᳚ष्वग्ने |{आत्रेयो बभ्रुः | ऋणामृणंचयेंद्रौ | त्रिष्टुप्} घ॒र्मश्चि॑त् त॒प्तः प्र॒वृजे॒ य आसी᳚दय॒स्मय॒स्तम्वादा᳚म॒ विप्राः᳚ ||{15/15}{4.1.28.5}{5.30.15}{5.2.16.15}{143, 384, 3869} चतुः॑ऽसहस्रम्¦गव्य॑स्य¦प॒श्वः¦प्रति॑¦अ॒ग्र॒भी॒ष्म॒¦रु॒शमे᳚षु¦अ॒ग्ने॒ | |
[23] इंद्रोरथायेति त्रयोदशर्चस्य सूक्तस्यात्रेयोवस्युरिंद्रः | ( उग्रमयातमित्यादि पादौ कुत्सदैवत्यौउशनोदैवत्यौवा) नवम्या इंद्रा कुत्सौत्रिष्टुप् | |
इन्द्रो॒ रथा᳚य प्र॒वतं᳚ कृणोति॒ यम॒ध्यस्था᳚न्म॒घवा᳚ वाज॒यन्त᳚म् |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्} यू॒थेव॑ प॒श्वो व्यु॑नोति गो॒पा, अरि॑ष्टो याति प्रथ॒मः सिषा᳚सन् ||{1/13}{4.1.29.1}{5.31.1}{5.2.17.1}{144, 385, 3870} इन्द्रः॑¦रथा᳚य¦प्र॒ऽवत᳚म्¦कृ॒णो॒ति॒¦यम्¦अ॒धि॒।आस्था᳚त्¦म॒घऽवा᳚¦वा॒ज॒ऽयन्त᳚म् | |
आ प्र द्र॑व हरिवो॒ मा वि वे᳚नः॒ पिश᳚ङ्गराते, अ॒भि नः॑ सचस्व |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्} न॒हि त्वदि᳚न्द्र॒ वस्यो᳚, अ॒न्यदस्त्य॑मे॒नाँश्चि॒ज्जनि॑वतश्चकर्थ ||{2/13}{4.1.29.2}{5.31.2}{5.2.17.2}{145, 385, 3871} आ¦प्र¦द्र॒व॒¦ह॒रि॒ऽवः॒¦मा¦वि¦वे॒नः॒¦पिश᳚ङ्गऽराते¦अ॒भि¦नः॒¦स॒च॒स्व॒ | |
उद्यत् सहः॒ सह॑स॒ आज॑निष्ट॒ देदि॑ष्ट॒ इन्द्र॑ इन्द्रि॒याणि॒ विश्वा᳚ |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्} प्राचो᳚दयत् सु॒दुघा᳚ व॒व्रे, अ॒न्तर्वि ज्योति॑षा संववृ॒त्वत् तमो᳚ऽवः ||{3/13}{4.1.29.3}{5.31.3}{5.2.17.3}{146, 385, 3872} उत्¦यत्¦सहः॑¦सह॑सः¦आ¦अज॑निष्ट¦देदि॑ष्टे¦इन्द्रः॑¦इ॒न्द्रि॒याणि॑¦विश्वा᳚ | |
अन॑वस्ते॒ रथ॒मश्वा᳚य तक्ष॒न् त्वष्टा॒ वज्रं᳚ पुरुहूत द्यु॒मन्त᳚म् |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्} ब्र॒ह्माण॒ इन्द्रं᳚ म॒हय᳚न्तो, अ॒र्कैरव॑र्धय॒न्नह॑ये॒ हन्त॒वा, उ॑ ||{4/13}{4.1.29.4}{5.31.4}{5.2.17.4}{147, 385, 3873} अन॑वः¦ते॒¦रथ᳚म्¦अश्वा᳚य¦त॒क्ष॒न्¦त्वष्टा᳚¦वज्र᳚म्¦पु॒रु॒ऽहू॒त॒¦द्यु॒ऽमन्त᳚म् | |
वृष्णे॒ यत्ते॒ वृष॑णो, अ॒र्कमर्चा॒निन्द्र॒ ग्रावा᳚णो॒, अदि॑तिः स॒जोषाः᳚ |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्} अ॒न॒श्वासो॒ ये प॒वयो᳚ऽर॒था, इन्द्रे᳚षिता, अ॒भ्यव॑र्तन्त॒ दस्यू॑न् ||{5/13}{4.1.29.5}{5.31.5}{5.2.17.5}{148, 385, 3874} वृष्णे᳚¦यत्¦ते॒¦वृष॑णः¦अ॒र्कम्¦अर्चा᳚न्¦इन्द्र॑¦ग्रावा᳚णः¦अदि॑तिः¦स॒ऽजोषाः᳚ | |
प्र ते॒ पूर्वा᳚णि॒ कर॑णानि वोचं॒ प्र नूत॑ना मघव॒न्या च॒कर्थ॑ |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्} शक्ती᳚वो॒ यद् वि॒भरा॒ रोद॑सी, उ॒भे जय᳚न्न॒पो मन॑वे॒ दानु॑चित्राः ||{6/13}{4.1.30.1}{5.31.6}{5.2.17.6}{149, 385, 3875} प्र¦ते॒¦पूर्वा᳚णि¦कर॑णानि¦वो॒च॒म्¦प्र¦नूत॑ना¦म॒घ॒ऽव॒न्¦या¦च॒कर्थ॑ | |
तदिन्नु ते॒ कर॑णं दस्म वि॒प्राहिं॒ यद् घ्नन्नोजो॒, अत्रामि॑मीथाः |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्} शुष्ण॑स्य चि॒त् परि॑ मा॒या, अ॑गृभ्णाः प्रपि॒त्वं यन्नप॒ दस्यूँ᳚रसेधः ||{7/13}{4.1.30.2}{5.31.7}{5.2.17.7}{150, 385, 3876} तत्¦इत्¦नु¦ते॒¦कर॑णम्¦द॒स्म॒¦वि॒प्र॒¦अहि᳚म्¦यत्¦घ्नन्¦ओजः॑¦अत्र॑¦अमि॑मीथाः | |
त्वम॒पो यद॑वे तु॒र्वशा॒याऽर॑मयः सु॒दुघाः᳚ पा॒र इ᳚न्द्र |{आत्रेयो वस्युः | १/२:इन्द्रः, २/२:इन्द्र कुत्सो वा, इन्द्र उशना वा | त्रिष्टुप्} उ॒ग्रम॑यात॒मव॑हो ह॒ कुत्सं॒ सं ह॒ यद्वा᳚मु॒शनार᳚न्त दे॒वाः ||{8/13}{4.1.30.3}{5.31.8}{5.2.17.8}{151, 385, 3877} त्वम्¦अ॒पः¦यद॑वे¦तु॒र्वशा॒य¦अर॑मयः¦सु॒ऽदुघाः᳚¦पा॒रः¦इ॒न्द्र॒ | |
इन्द्रा᳚कुत्सा॒ वह॑माना॒ रथे॒ना वा॒मत्या॒, अपि॒ कर्णे᳚ वहन्तु |{आत्रेयो वस्युः | इन्द्र कुत्सो वा | त्रिष्टुप्} निः षी᳚म॒द्भ्यो धम॑थो॒ निः ष॒धस्था᳚न् म॒घोनो᳚ हृ॒दो व॑रथ॒स्तमां᳚सि ||{9/13}{4.1.30.4}{5.31.9}{5.2.17.9}{152, 385, 3878} इन्द्रा᳚कुत्सा¦वह॑माना¦रथे᳚न¦आ¦वा॒म्¦अत्याः᳚¦अपि॑¦कर्णे᳚¦व॒ह॒न्तु॒ | |
वात॑स्य यु॒क्तान् त्सु॒युज॑श्चि॒दश्वा᳚न् क॒विश्चि॑दे॒षो, अ॑जगन्नव॒स्युः |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्} विश्वे᳚ ते॒, अत्र॑ म॒रुतः॒ सखा᳚य॒ इन्द्र॒ ब्रह्मा᳚णि॒ तवि॑षीमवर्धन् ||{10/13}{4.1.30.5}{5.31.10}{5.2.17.10}{153, 385, 3879} वात॑स्य¦यु॒क्तान्¦सु॒ऽयुजः॑¦चि॒त्¦अश्वा᳚न्¦क॒विः¦चि॒त्¦ए॒षः¦अ॒ज॒ग॒न्¦अ॒व॒स्युः | |
सूर॑श्चि॒द्रथं॒ परि॑तक्म्यायां॒ पूर्वं᳚ कर॒दुप॑रं जूजु॒वांस᳚म् |{आत्रेयो वस्युः | इन्द्रः कुत्सश्च | त्रिष्टुप्} भर॑च्च॒क्रमेत॑शः॒ सं रि॑णाति पु॒रो दध॑त् सनिष्यति॒ क्रतुं᳚ नः ||{11/13}{4.1.31.1}{5.31.11}{5.2.17.11}{154, 385, 3880} सूरः॑¦चि॒त्¦रथ᳚म्¦परि॑ऽतक्म्यायाम्¦पूर्व᳚म्¦क॒र॒त्¦उप॑रम्¦जू॒जु॒ऽवांस᳚म् | |
आयं ज॑ना, अभि॒चक्षे᳚ जगा॒मेन्द्रः॒ सखा᳚यं सु॒तसो᳚ममि॒च्छन् |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्} वद॒न् ग्रावाव॒ वेदिं᳚ भ्रियाते॒ यस्य॑ जी॒रम॑ध्व॒र्यव॒श्चर᳚न्ति ||{12/13}{4.1.31.2}{5.31.12}{5.2.17.12}{155, 385, 3881} आ¦अ॒यम्¦ज॒नाः॒¦अ॒भि॒ऽचक्षे᳚¦ज॒गा॒म॒¦इन्द्रः॑¦सखा᳚यम्¦सु॒तऽसो᳚मम्¦इ॒च्छन् | |
ये चा॒कन᳚न्त चा॒कन᳚न्त॒ नू ते मर्ता᳚, अमृत॒ मो ते, अंह॒ आर॑न् |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्} वा॒व॒न्धि यज्यूँ᳚रु॒त तेषु॑ धे॒ह्योजो॒ जने᳚षु॒ येषु॑ ते॒ स्याम॑ ||{13/13}{4.1.31.3}{5.31.13}{5.2.17.13}{156, 385, 3882} ये¦चा॒कन᳚न्त¦चा॒कन᳚न्त¦नु¦ते¦मर्ताः᳚¦अ॒मृ॒त॒¦मो इति॑¦ते¦अंहः॑¦आ¦अ॒र॒न् | |
[24] अदुर्दरुत्समिति द्वादशर्चस्य सूक्तस्यात्रेयोगातुरिंद्रस्त्रिष्टुप् | |
अद॑र्द॒रुत्स॒मसृ॑जो॒ वि खानि॒ त्वम᳚र्ण॒वान् ब॑द्बधा॒नाँ, अ॑रम्णाः |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्} म॒हान्त॑मिन्द्र॒ पर्व॑तं॒ वि यद् वः सृ॒जो वि धारा॒, अव॑ दान॒वं ह॑न् ||{1/12}{4.1.32.1}{5.32.1}{5.2.18.1}{157, 386, 3883} अद॑र्दः¦उत्स᳚म्¦असृ॑जः¦वि¦खानि॑¦त्वम्¦अ॒र्ण॒वान्¦ब॒द्ब॒धा॒नान्¦अर᳚म्णाः | |
त्वमुत्साँ᳚, ऋ॒तुभि॑र्बद्बधा॒नाँ, अरं᳚ह॒ ऊधः॒ पर्व॑तस्य वज्रिन् |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्} अहिं᳚ चिदुग्र॒ प्रयु॑तं॒ शया᳚नं जघ॒न्वाँ, इ᳚न्द्र॒ तवि॑षीमधत्थाः ||{2/12}{4.1.32.2}{5.32.2}{5.2.18.2}{158, 386, 3884} त्वम्¦उत्सा᳚न्¦ऋ॒तुऽभिः॑¦ब॒द्ब॒धा॒नान्¦अरं᳚हः¦ऊधः॑¦पर्व॑तस्य¦व॒ज्रि॒न् | |
त्यस्य॑ चिन्मह॒तो निर्मृ॒गस्य॒ वध॑र्जघान॒ तवि॑षीभि॒रिन्द्रः॑ |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्} य एक॒ इद॑प्र॒तिर्मन्य॑मान॒ आद॑स्माद॒न्यो, अ॑जनिष्ट॒ तव्या॑न् ||{3/12}{4.1.32.3}{5.32.3}{5.2.18.3}{159, 386, 3885} त्यस्य॑¦चि॒त्¦म॒ह॒तः¦निः¦मृ॒गस्य॑¦वधः॑¦ज॒घा॒न॒¦तवि॑षीभिः¦इन्द्रः॑ | |
त्यं चि॑देषां स्व॒धया॒ मद᳚न्तं मि॒हो नपा᳚तं सु॒वृधं᳚ तमो॒गाम् |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्} वृष॑प्रभर्मा दान॒वस्य॒ भामं॒ वज्रे᳚ण व॒ज्री नि ज॑घान॒ शुष्ण᳚म् ||{4/12}{4.1.32.4}{5.32.4}{5.2.18.4}{160, 386, 3886} त्यम्¦चि॒त्¦ए॒षा॒म्¦स्व॒धया᳚¦मद᳚न्तम्¦मि॒हः¦नपा᳚तम्¦सु॒ऽवृध᳚म्¦त॒मः॒ऽगाम् | |
त्यं चि॑दस्य॒ क्रतु॑भि॒र्निष॑त्तमम॒र्मणो᳚ वि॒ददिद॑स्य॒ मर्म॑ |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्} यदीं᳚ सुक्षत्र॒ प्रभृ॑ता॒ मद॑स्य॒ युयु॑त्सन्तं॒ तम॑सि ह॒र्म्ये धाः ||{5/12}{4.1.32.5}{5.32.5}{5.2.18.5}{161, 386, 3887} त्यम्¦चि॒त्¦अ॒स्य॒¦क्रतु॑ऽभिः¦निऽस॑त्तम्¦अ॒म॒र्मणः॑¦वि॒दत्¦इत्¦अ॒स्य॒¦मर्म॑ | |
त्यं चि॑दि॒त्था क॑त्प॒यं शया᳚नमसू॒र्ये तम॑सि वावृधा॒नम् |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्} तं चि᳚न्मन्दा॒नो वृ॑ष॒भः सु॒तस्यो॒च्चैरिन्द्रो᳚, अप॒गूर्या᳚ जघान ||{6/12}{4.1.32.6}{5.32.6}{5.2.18.6}{162, 386, 3888} त्यम्¦चि॒त्¦इ॒त्था¦क॒त्प॒यम्¦शया᳚नम्¦अ॒सू॒र्ये¦तम॑सि¦व॒वृ॒धा॒नम् | |
उद् यदिन्द्रो᳚ मह॒ते दा᳚न॒वाय॒ वध॒र्यमि॑ष्ट॒ सहो॒, अप्र॑तीतम् |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्} यदीं॒ वज्र॑स्य॒ प्रभृ॑तौ द॒दाभ॒ विश्व॑स्य ज॒न्तोर॑ध॒मं च॑कार ||{7/12}{4.1.33.1}{5.32.7}{5.2.18.7}{163, 386, 3889} उत्¦यत्¦इन्द्रः॑¦म॒ह॒ते¦दा॒न॒वाय॑¦वधः॑¦यमि॑ष्ट¦सहः॑¦अप्र॑तिऽइतम् | |
त्यं चि॒दर्णं᳚ मधु॒पं शया᳚नमसि॒न्वं व॒व्रं मह्याद॑दु॒ग्रः |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्} अ॒पाद॑म॒त्रं म॑ह॒ता व॒धेन॒ नि दु᳚र्यो॒ण आ᳚वृणङ् मृ॒ध्रवा᳚चम् ||{8/12}{4.1.33.2}{5.32.8}{5.2.18.8}{164, 386, 3890} त्यम्¦चि॒त्¦अर्ण᳚म्¦म॒धु॒ऽपम्¦शया᳚नम्¦अ॒सि॒न्वम्¦व॒व्रम्¦महि॑¦आद॑त्¦उ॒ग्रः | |
को, अ॑स्य॒ शुष्मं॒ तवि॑षीं वरात॒ एको॒ धना᳚ भरते॒, अप्र॑तीतः |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्} इ॒मे चि॑दस्य॒ ज्रय॑सो॒ नु दे॒वी, इन्द्र॒स्यौज॑सो भि॒यसा᳚ जिहाते ||{9/12}{4.1.33.3}{5.32.9}{5.2.18.9}{165, 386, 3891} कः¦अ॒स्य॒¦शुष्म᳚म्¦तवि॑षीम्¦व॒रा॒ते॒¦एकः॑¦धना᳚¦भ॒र॒ते॒¦अप्र॑तिऽइतः | |
न्य॑स्मै दे॒वी स्वधि॑तिर्जिहीत॒ इन्द्रा᳚य गा॒तुरु॑श॒तीव॑ येमे |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्} सं यदोजो᳚ यु॒वते॒ विश्व॑माभि॒रनु॑ स्व॒धाव्ने᳚ क्षि॒तयो᳚ नमन्त ||{10/12}{4.1.33.4}{5.32.10}{5.2.18.10}{166, 386, 3892} नि¦अ॒स्मै॒¦दे॒वी¦स्वऽधि॑तिः¦जि॒ही॒ते॒¦इन्द्रा᳚य¦गा॒तुः¦उ॒श॒तीऽइ᳚व¦ये॒मे॒ | |
एकं॒ नु त्वा॒ सत्प॑तिं॒ पाञ्च॑जन्यं जा॒तं शृ॑णोमि य॒शसं॒ जने᳚षु |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्} तं मे᳚ जगृभ्र आ॒शसो॒ नवि॑ष्ठं दो॒षा वस्तो॒र्हव॑मानास॒ इन्द्र᳚म् ||{11/12}{4.1.33.5}{5.32.11}{5.2.18.11}{167, 386, 3893} एक॒म्¦नु¦त्वा॒¦सत्ऽप॑तिम्¦पांच॑ऽजन्यम्¦जा॒तम्¦शृ॒णो॒मि॒¦य॒शस᳚म्¦जने᳚षु | |
ए॒वा हि त्वामृ॑तु॒था या॒तय᳚न्तं म॒घा विप्रे᳚भ्यो॒ दद॑तं शृ॒णोमि॑ |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्} किं ते᳚ ब्र॒ह्माणो᳚ गृहते॒ सखा᳚यो॒ ये त्वा॒या नि॑द॒धुः काम॑मिन्द्र ||{12/12}{4.1.33.6}{5.32.12}{5.2.18.12}{168, 386, 3894} ए॒व¦हि¦त्वाम्¦ऋ॒तु॒ऽथा¦या॒तय᳚न्तम्¦म॒घा¦विप्रे᳚भ्यः¦दद॑तम्¦शृ॒णोमि॑ | |
[25] महिमहइति दशर्चस्य सूक्तस्य प्राजापत्यः संवरणइंद्रस्त्रिष्टुप् | |
महि॑ म॒हे त॒वसे᳚ दीध्ये॒ नॄनिन्द्रा᳚ये॒त्था त॒वसे॒, अत᳚व्यान् |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्} यो, अ॑स्मै सुम॒तिं वाज॑सातौ स्तु॒तो जने᳚ सम॒र्य॑श्चि॒केत॑ ||{1/10}{4.2.1.1}{5.33.1}{5.3.1.1}{169, 387, 3895} महि॑¦म॒हे¦त॒वसे᳚¦दी॒ध्ये॒¦नॄन्¦इन्द्रा᳚य¦इ॒त्था¦त॒वसे᳚¦अत᳚व्यान् | |
स त्वं न॑ इन्द्र धियसा॒नो, अ॒र्कैर्हरी᳚णां वृष॒न् योक्त्र॑मश्रेः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्} या, इ॒त्था म॑घव॒न्ननु॒ जोषं॒ वक्षो᳚, अ॒भि प्रार्यः स॑क्षि॒ जना॑न् ||{2/10}{4.2.1.2}{5.33.2}{5.3.1.2}{170, 387, 3896} सः¦त्वम्¦नः॒¦इ॒न्द्र॒¦धि॒य॒सा॒नः¦अ॒र्कैः¦हरी᳚णाम्¦वृ॒ष॒न्¦योक्त्र᳚म्¦अ॒श्रेः॒ | |
न ते त॑ इन्द्रा॒भ्य१॑(अ॒)स्मदृ॒ष्वाऽयु॑क्तासो, अब्र॒ह्मता॒ यदस॑न् |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्} तिष्ठा॒ रथ॒मधि॒ तं व॑ज्रह॒स्ता र॒श्मिं दे᳚व यमसे॒ स्वश्वः॑ ||{3/10}{4.2.1.3}{5.33.3}{5.3.1.3}{171, 387, 3897} न¦ते¦ते॒¦इ॒न्द्र॒¦अ॒भि¦अ॒स्मत्¦ऋ॒ष्व॒¦अयु॑क्तासः¦अ॒ब्र॒ह्मता᳚¦यत्¦अस॑न् | |
पु॒रू यत्त॑ इन्द्र॒ सन्त्यु॒क्था गवे᳚ च॒कर्थो॒र्वरा᳚सु॒ युध्य॑न् |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्} त॒त॒क्षे सूर्या᳚य चि॒दोक॑सि॒ स्वे वृषा᳚ स॒मत्सु॑ दा॒सस्य॒ नाम॑ चित् ||{4/10}{4.2.1.4}{5.33.4}{5.3.1.4}{172, 387, 3898} पु॒रु¦यत्¦ते॒¦इ॒न्द्र॒¦सन्ति॑¦उ॒क्था¦गवे᳚¦च॒कर्थ॑¦उ॒र्वरा᳚सु¦युध्य॑न् | |
व॒यं ते त॑ इन्द्र॒ ये च॒ नरः॒ शर्धो᳚ जज्ञा॒ना या॒ताश्च॒ रथाः᳚ |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्} आस्माञ्ज॑गम्यादहिशुष्म॒ सत्वा॒ भगो॒ न हव्यः॑ प्रभृ॒थेषु॒ चारुः॑ ||{5/10}{4.2.1.5}{5.33.5}{5.3.1.5}{173, 387, 3899} व॒यम्¦ते¦ते॒¦इ॒न्द्र॒¦ये¦च॒¦नरः॑¦शर्धः॑¦ज॒ज्ञा॒नाः¦या॒ताः¦च॒¦रथाः᳚ | |
प॒पृ॒क्षेण्य॑मिन्द्र॒ त्वे ह्योजो᳚ नृ॒म्णानि॑ च नृ॒तमा᳚नो॒, अम॑र्तः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्} स न॒ एनीं᳚ वसवानो र॒यिं दाः॒ प्रार्यः स्तु॑षे तुविम॒घस्य॒ दान᳚म् ||{6/10}{4.2.2.1}{5.33.6}{5.3.1.6}{174, 387, 3900} प॒पृ॒क्षेण्य᳚म्¦इ॒न्द्र॒¦त्वे इति॑¦हि¦ओजः॑¦नृ॒म्णानि॑¦च॒¦नृ॒तमा᳚नः¦अम॑र्तः | |
ए॒वा न॑ इन्द्रो॒तिभि॑रव पा॒हि गृ॑ण॒तः शू᳚र का॒रून् |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्} उ॒त त्वचं॒ दद॑तो॒ वाज॑सातौ पिप्री॒हि मध्वः॒ सुषु॑तस्य॒ चारोः᳚ ||{7/10}{4.2.2.2}{5.33.7}{5.3.1.7}{175, 387, 3901} ए॒व¦नः॒¦इ॒न्द्र॒¦ऊ॒तिऽभिः॑¦अ॒व॒¦पा॒हि¦गृ॒ण॒तः¦शू॒र॒¦का॒रून् | |
उ॒त त्ये मा᳚ पौरुकु॒त्स्यस्य॑ सू॒रेस्त्र॒सद॑स्योर्हिर॒णिनो॒ ररा᳚णाः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्} वह᳚न्तु मा॒ दश॒ श्येता᳚सो, अस्य गैरिक्षि॒तस्य॒ क्रतु॑भि॒र्नु स॑श्चे ||{8/10}{4.2.2.3}{5.33.8}{5.3.1.8}{176, 387, 3902} उ॒त¦त्ये¦मा॒¦पौ॒रु॒ऽकु॒त्स्यस्य॑¦सू॒रेः¦त्र॒सद॑स्योः¦हि॒र॒णिनः॑¦ररा᳚णाः | |
उ॒त त्ये मा᳚ मारु॒ताश्व॑स्य॒ शोणाः॒ क्रत्वा᳚मघासो वि॒दथ॑स्य रा॒तौ |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्} स॒हस्रा᳚ मे॒ च्यव॑तानो॒ ददा᳚न आनू॒कम॒र्यो वपु॑षे॒ नार्च॑त् ||{9/10}{4.2.2.4}{5.33.9}{5.3.1.9}{177, 387, 3903} उ॒त¦त्ये¦मा॒¦मा॒रु॒त।आ॑श्वस्य¦शोणाः᳚¦क्रत्वा᳚ऽमघासः¦वि॒दथ॑स्य¦रा॒तौ | |
उ॒त त्ये मा᳚ ध्व॒न्य॑स्य॒ जुष्टा᳚ लक्ष्म॒ण्य॑स्य सु॒रुचो॒ यता᳚नाः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्} म॒ह्ना रा॒यः सं॒वर॑णस्य॒ ऋषे᳚र्व्र॒जं न गावः॒ प्रय॑ता॒, अपि॑ ग्मन् ||{10/10}{4.2.2.5}{5.33.10}{5.3.1.10}{178, 387, 3904} उ॒त¦त्ये¦मा॒¦ध्व॒न्य॑स्य¦जुष्टाः᳚¦ल॒क्ष्म॒ण्य॑स्य¦सु॒ऽरुचः॑¦यता᳚नाः | |
[26] अजातशत्रुमिति नवर्चस्य सूक्तस्य प्राजापत्यः संवरणइंद्रोजगत्यंत्यात्रिष्टुप् | |
अजा᳚तशत्रुम॒जरा॒ स्व᳚र्व॒त्यनु॑ स्व॒धामि॑ता द॒स्ममी᳚यते |{प्राजापत्यः संवरण | इन्द्रः | जगती} सु॒नोत॑न॒ पच॑त॒ ब्रह्म॑वाहसे पुरुष्टु॒ताय॑ प्रत॒रं द॑धातन ||{1/9}{4.2.3.1}{5.34.1}{5.3.2.1}{179, 388, 3905} अजा᳚तऽशत्रुम्¦अ॒जरा᳚¦स्वः॑ऽवती¦अनु॑¦स्व॒धा¦अमि॑ता¦द॒स्मम्¦ई॒य॒ते॒ | |
आ यः सोमे᳚न ज॒ठर॒मपि॑प्र॒ताऽम᳚न्दत म॒घवा॒ मध्वो॒, अन्ध॑सः |{प्राजापत्यः संवरण | इन्द्रः | जगती} यदीं᳚ मृ॒गाय॒ हन्त॑वे म॒हाव॑धः स॒हस्र॑भृष्टिमु॒शना᳚ व॒धं यम॑त् ||{2/9}{4.2.3.2}{5.34.2}{5.3.2.2}{180, 388, 3906} आ¦यः¦सोमे᳚न¦ज॒ठर᳚म्¦अपि॑प्रत¦अम᳚न्दत¦म॒घऽवा᳚¦मध्वः॑¦अन्ध॑सः | |
यो, अ॑स्मै घ्रं॒स उ॒त वा॒ य ऊध॑नि॒ सोमं᳚ सु॒नोति॒ भव॑ति द्यु॒माँ, अह॑ |{प्राजापत्यः संवरण | इन्द्रः | जगती} अपा᳚प श॒क्रस्त॑त॒नुष्टि॑मूहति त॒नूशु॑भ्रं म॒घवा॒ यः क॑वास॒खः ||{3/9}{4.2.3.3}{5.34.3}{5.3.2.3}{181, 388, 3907} यः¦अ॒स्मै॒¦घ्रं॒से¦उ॒त¦वा॒¦यः¦ऊध॑नि¦सोम᳚म्¦सु॒नोति॑¦भव॑ति¦द्यु॒ऽमान्¦अह॑ | |
यस्याव॑धीत् पि॒तरं॒ यस्य॑ मा॒तरं॒ यस्य॑ श॒क्रो भ्रात॑रं॒ नात॑ ईषते |{प्राजापत्यः संवरण | इन्द्रः | जगती} वेतीद्व॑स्य॒ प्रय॑ता यतंक॒रो न किल्बि॑षादीषते॒ वस्व॑ आक॒रः ||{4/9}{4.2.3.4}{5.34.4}{5.3.2.4}{182, 388, 3908} यस्य॑¦अव॑धीत्¦पि॒तर᳚म्¦यस्य॑¦मा॒तर᳚म्¦यस्य॑¦श॒क्रः¦भ्रात॑रम्¦न¦अतः॑¦ई॒ष॒ते॒ | |
न प॒ञ्चभि॑र्द॒शभि᳚र्वष्ट्या॒रभं॒ नासु᳚न्वता सचते॒ पुष्य॑ता च॒न |{प्राजापत्यः संवरण | इन्द्रः | जगती} जि॒नाति॒ वेद॑मु॒या हन्ति॑ वा॒ धुनि॒रा दे᳚व॒युं भ॑जति॒ गोम॑ति व्र॒जे ||{5/9}{4.2.3.5}{5.34.5}{5.3.2.5}{183, 388, 3909} न¦पं॒चऽभिः॑¦द॒शऽभिः॑¦व॒ष्टि॒¦आ॒ऽरभ᳚म्¦न¦असु᳚न्वता¦स॒च॒ते॒¦पुष्य॑ता¦च॒न | |
वि॒त्वक्ष॑णः॒ समृ॑तौ चक्रमास॒जोऽसु᳚न्वतो॒ विषु॑णः सुन्व॒तो वृ॒धः |{प्राजापत्यः संवरण | इन्द्रः | जगती} इन्द्रो॒ विश्व॑स्य दमि॒ता वि॒भीष॑णो यथाव॒शं न॑यति॒ दास॒मार्यः॑ ||{6/9}{4.2.4.1}{5.34.6}{5.3.2.6}{184, 388, 3910} वि॒ऽत्वक्ष॑णः¦सम्ऽऋ॑तौ¦च॒क्र॒म्ऽआ॒स॒जः¦असु᳚न्वतः¦विषु॑णः¦सु॒न्व॒तः¦वृ॒धः | |
समीं᳚ प॒णेर॑जति॒ भोज॑नं मु॒षे वि दा॒शुषे᳚ भजति सू॒नरं॒ वसु॑ |{प्राजापत्यः संवरण | इन्द्रः | जगती} दु॒र्गे च॒न ध्रि॑यते॒ विश्व॒ आ पु॒रु जनो॒ यो, अ॑स्य॒ तवि॑षी॒मचु॑क्रुधत् ||{7/9}{4.2.4.2}{5.34.7}{5.3.2.7}{185, 388, 3911} सम्¦ई॒म्¦प॒णेः¦अ॒ज॒ति॒¦भोज॑नम्¦मु॒षे¦वि¦दा॒शुषे᳚¦भ॒ज॒ति॒¦सू॒नर᳚म्¦वसु॑ | |
सं यज्जनौ᳚ सु॒धनौ᳚ वि॒श्वश॑र्धसा॒ववे॒दिन्द्रो᳚ म॒घवा॒ गोषु॑ शु॒भ्रिषु॑ |{प्राजापत्यः संवरण | इन्द्रः | जगती} युजं॒ ह्य१॑(अ॒)न्यमकृ॑त प्रवेप॒न्युदीं॒ गव्यं᳚ सृजते॒ सत्व॑भि॒र्धुनिः॑ ||{8/9}{4.2.4.3}{5.34.8}{5.3.2.8}{186, 388, 3912} सम्¦यत्¦जनौ᳚¦सु॒ऽधनौ᳚¦वि॒श्वऽश॑र्धसौ¦अवे᳚त्¦इन्द्रः॑¦म॒घऽवा᳚¦गोषु॑¦शु॒भ्रिषु॑ | |
स॒ह॒स्र॒सामाग्नि॑वेशिं गृणीषे॒ शत्रि॑मग्न उप॒मां के॒तुम॒र्यः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्} तस्मा॒, आपः॑ सं॒यतः॑ पीपयन्त॒ तस्मि᳚न् क्ष॒त्रमम॑वत् त्वे॒षम॑स्तु ||{9/9}{4.2.4.4}{5.34.9}{5.3.2.9}{187, 388, 3913} स॒ह॒स्र॒ऽसाम्¦आग्नि॑ऽवेशिम्¦गृ॒णी॒षे॒¦शत्रि᳚म्¦अ॒ग्ने॒¦उ॒प॒ऽमाम्¦के॒तुम्¦अ॒र्यः | |
[27] यस्तेसाधिष्टइत्यष्टर्चस्य सूक्तस्याङ्गिरसः प्रभूवसुरिंद्रोनुष्टुबंत्यापंक्तिः | |
यस्ते॒ साधि॒ष्ठोऽव॑स॒ इन्द्र॒ क्रतु॒ष्टमा भ॑र |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्} अ॒स्मभ्यं᳚ चर्षणी॒सहं॒ सस्निं॒ वाजे᳚षु दु॒ष्टर᳚म् ||{1/8}{4.2.5.1}{5.35.1}{5.3.3.1}{188, 389, 3914} यः¦ते॒¦साधि॑ष्ठः¦अव॑से¦इन्द्र॑¦क्रतुः॑¦तम्¦आ¦भ॒र॒ | अ॒स्मभ्य᳚म्¦च॒र्ष॒णि॒ऽसह᳚म्¦सस्नि᳚म्¦वाजे᳚षु¦दु॒स्तर᳚म् || |
यदि᳚न्द्र ते॒ चत॑स्रो॒ यच्छू᳚र॒ सन्ति॑ ति॒स्रः |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्} यद्वा॒ पञ्च॑ क्षिती॒नामव॒स्तत् सु न॒ आ भ॑र ||{2/8}{4.2.5.2}{5.35.2}{5.3.3.2}{189, 389, 3915} यत्¦इ॒न्द्र॒¦ते॒¦चत॑स्रः¦यत्¦शू॒र॒¦सन्ति॑¦ति॒स्रः | यत्¦वा॒¦पंच॑¦क्षि॒ती॒नाम्¦अवः॑¦तत्¦सु¦नः॒¦आ¦भ॒र॒ || |
आ तेऽवो॒ वरे᳚ण्यं॒ वृष᳚न्तमस्य हूमहे |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्} वृष॑जूति॒र्हि ज॑ज्ञि॒ष आ॒भूभि॑रिन्द्र तु॒र्वणिः॑ ||{3/8}{4.2.5.3}{5.35.3}{5.3.3.3}{190, 389, 3916} आ¦ते॒¦अवः॑¦वरे᳚ण्यम्¦वृष॑न्ऽतमस्य¦हू॒म॒हे॒ | वृष॑ऽजूतिः¦हि¦ज॒ज्ञि॒षे¦आ॒ऽभूभिः॑¦इ॒न्द्र॒¦तु॒र्वणिः॑ || |
वृषा॒ ह्यसि॒ राध॑से जज्ञि॒षे वृष्णि॑ ते॒ शवः॑ |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्} स्वक्ष॑त्रं ते धृ॒षन्मनः॑ सत्रा॒हमि᳚न्द्र॒ पौंस्य᳚म् ||{4/8}{4.2.5.4}{5.35.4}{5.3.3.4}{191, 389, 3917} वृषा᳚¦हि¦असि॑¦राध॑से¦ज॒ज्ञि॒षे¦वृष्णि॑¦ते॒¦शवः॑ | स्वऽक्ष॑त्रम्¦ते॒¦धृ॒षत्¦मनः॑¦स॒त्रा॒ऽहम्¦इ॒न्द्र॒¦पौंस्य᳚म् || |
त्वं तमि᳚न्द्र॒ मर्त्य॑ममित्र॒यन्त॑मद्रिवः |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्} स॒र्व॒र॒था श॑तक्रतो॒ नि या᳚हि शवसस्पते ||{5/8}{4.2.5.5}{5.35.5}{5.3.3.5}{192, 389, 3918} त्वम्¦तम्¦इ॒न्द्र॒¦मर्त्य᳚म्¦अ॒मि॒त्र॒ऽयन्त᳚म्¦अ॒द्रि॒ऽवः॒ | स॒र्व॒ऽर॒था¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो¦नि¦या॒हि॒¦श॒व॒सः॒¦प॒ते॒ || |
त्वामिद् वृ॑त्रहन्तम॒ जना᳚सो वृ॒क्तब᳚र्हिषः |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्} उ॒ग्रं पू॒र्वीषु॑ पू॒र्व्यं हव᳚न्ते॒ वाज॑सातये ||{6/8}{4.2.6.1}{5.35.6}{5.3.3.6}{193, 389, 3919} त्वाम्¦इत्¦वृ॒त्र॒ह॒न्ऽत॒म॒¦जना᳚सः¦वृ॒क्तऽब॑र्हिषः | उ॒ग्रम्¦पू॒र्वीषु॑¦पू॒र्व्यम्¦हव᳚न्ते¦वाज॑ऽसातये || |
अ॒स्माक॑मिन्द्र दु॒ष्टरं᳚ पुरो॒यावा᳚नमा॒जिषु॑ |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्} स॒यावा᳚नं॒ धने᳚धने वाज॒यन्त॑मवा॒ रथ᳚म् ||{7/8}{4.2.6.2}{5.35.7}{5.3.3.7}{194, 389, 3920} अ॒स्माक᳚म्¦इ॒न्द्र॒¦दु॒स्तर᳚म्¦पु॒रः॒ऽयावा᳚नम्¦आ॒जिषु॑ | स॒ऽयावा᳚नम्¦धने᳚ऽधने¦वा॒ज॒ऽयन्त᳚म्¦अ॒व॒¦रथ᳚म् || |
अ॒स्माक॑मि॒न्द्रेहि॑ नो॒ रथ॑मवा॒ पुरं᳚ध्या |{आंगिरसः प्रभूवसुः | इन्द्रः | पङ्क्तिः} व॒यं श॑विष्ठ॒ वार्यं᳚ दि॒वि श्रवो᳚ दधीमहि दि॒वि स्तोमं᳚ मनामहे ||{8/8}{4.2.6.3}{5.35.8}{5.3.3.8}{195, 389, 3921} अ॒स्माक᳚म्¦इ॒न्द्र॒¦आ¦इ॒हि॒¦नः॒¦रथ᳚म्¦अ॒व॒¦पुर᳚म्ऽध्या | |
[28] सआगमदिति षडृचस्य सूक्तस्याङ्गिरसःप्रभूवसुरिंद्रस्त्रिष्टुप् तृतीयाजगती | |
स आ ग॑म॒दिन्द्रो॒ यो वसू᳚नां॒ चिके᳚त॒द् दातुं॒ दाम॑नो रयी॒णाम् |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्} ध॒न्व॒च॒रो न वंस॑गस्तृषा॒णश्च॑कमा॒नः पि॑बतु दु॒ग्धमं॒शुम् ||{1/6}{4.2.7.1}{5.36.1}{5.3.4.1}{196, 390, 3922} सः¦आ¦ग॒म॒त्¦इन्द्रः॑¦यः¦वसू᳚नाम्¦चिके᳚तत्¦दातु᳚म्¦दाम॑नः¦र॒यी॒णाम् | |
आ ते॒ हनू᳚ हरिवः शूर॒ शिप्रे॒ रुह॒त् सोमो॒ न पर्व॑तस्य पृ॒ष्ठे |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्} अनु॑ त्वा राज॒न्नर्व॑तो॒ न हि॒न्वन् गी॒र्भिर्म॑देम पुरुहूत॒ विश्वे᳚ ||{2/6}{4.2.7.2}{5.36.2}{5.3.4.2}{197, 390, 3923} आ¦ते॒¦हनू॒ इति॑¦ह॒रि॒ऽवः॒¦शू॒र॒¦शिप्रे॒ इति॑¦रुह॑त्¦सोमः॑¦न¦पर्व॑तस्य¦पृ॒ष्ठे | |
च॒क्रं न वृ॒त्तं पु॑रुहूत वेपते॒ मनो᳚ भि॒या मे॒, अम॑ते॒रिद॑द्रिवः |{आंगिरसः प्रभूवसुः | इन्द्रः | जगती} रथा॒दधि॑ त्वा जरि॒ता स॑दावृध कु॒विन्नु स्तो᳚षन्मघवन् पुरू॒वसुः॑ ||{3/6}{4.2.7.3}{5.36.3}{5.3.4.3}{198, 390, 3924} च॒क्रम्¦न¦वृ॒त्तम्¦पु॒रु॒ऽहू॒त॒¦वे॒प॒ते॒¦मनः॑¦भि॒या¦मे॒¦अम॑तेः¦इत्¦अ॒द्रि॒ऽवः॒ | |
ए॒ष ग्रावे᳚व जरि॒ता त॑ इ॒न्द्रेय॑र्ति॒ वाचं᳚ बृ॒हदा᳚शुषा॒णः |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्} प्र स॒व्येन॑ मघव॒न् यंसि॑ रा॒यः प्र द॑क्षि॒णिद्ध॑रिवो॒ मा वि वे᳚नः ||{4/6}{4.2.7.4}{5.36.4}{5.3.4.4}{199, 390, 3925} ए॒षः¦ग्रावा᳚ऽइव¦ज॒रि॒ता¦ते॒¦इ॒न्द्र॒¦इय॑र्ति¦वाच᳚म्¦बृ॒हत्¦आ॒शु॒षा॒णः | |
वृषा᳚ त्वा॒ वृष॑णं वर्धतु॒ द्यौर्वृषा॒ वृष॑भ्यां वहसे॒ हरि॑भ्याम् |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्} स नो॒ वृषा॒ वृष॑रथः सुशिप्र॒ वृष॑क्रतो॒ वृषा᳚ वज्रि॒न् भरे᳚ धाः ||{5/6}{4.2.7.5}{5.36.5}{5.3.4.5}{200, 390, 3926} वृषा᳚¦त्वा॒¦वृष॑णम्¦व॒र्ध॒तु॒¦द्यौः¦वृषा᳚¦वृष॑ऽभ्याम्¦व॒ह॒से॒¦हरि॑ऽभ्याम् | |
यो रोहि॑तौ वा॒जिनौ᳚ वा॒जिनी᳚वान् त्रि॒भिः श॒तैः सच॑माना॒वदि॑ष्ट |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्} यूने॒ सम॑स्मै क्षि॒तयो᳚ नमन्तां श्रु॒तर॑थाय मरुतो दुवो॒या ||{6/6}{4.2.7.6}{5.36.6}{5.3.4.6}{201, 390, 3927} यः¦रोहि॑तौ¦वा॒जिनौ᳚¦वा॒जिनी᳚ऽवान्¦त्रि॒ऽभिः¦श॒तैः¦सच॑मानौ¦अदि॑ष्ट | |
[29] संभानुनेति पंचर्चस्य सूक्तस्य भौमोत्रिरिंद्रस्त्रिष्टुप् | |
सं भा॒नुना᳚ यतते॒ सूर्य॑स्या॒ऽऽजुह्वा᳚नो घृ॒तपृ॑ष्ठः॒ स्वञ्चाः᳚ |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्} तस्मा॒, अमृ॑ध्रा, उ॒षसो॒ व्यु॑च्छा॒न् य इन्द्रा᳚य सु॒नवा॒मेत्याह॑ ||{1/5}{4.2.8.1}{5.37.1}{5.3.5.1}{202, 391, 3928} सम्¦भा॒नुना᳚¦य॒त॒ते॒¦सूर्य॑स्य¦आ॒ऽजुह्वा᳚नः¦घृ॒तऽपृ॑ष्ठः¦सु॒।आंचाः᳚ | |
समि॑द्धाग्निर्वनवत् स्ती॒र्णब᳚र्हिर्यु॒क्तग्रा᳚वा सु॒तसो᳚मो जराते |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्} ग्रावा᳚णो॒ यस्ये᳚षि॒रं वद॒न्त्यय॑दध्व॒र्युर्ह॒विषाव॒ सिन्धु᳚म् ||{2/5}{4.2.8.2}{5.37.2}{5.3.5.2}{203, 391, 3929} समि॑द्ध।आग्निः¦व॒न॒व॒त्¦स्ती॒र्णऽब॑र्हिः¦यु॒क्तऽग्रा᳚वा¦सु॒तऽसो᳚मः¦ज॒रा॒ते॒ | |
व॒धूरि॒यं पति॑मि॒च्छन्त्ये᳚ति॒ य ईं॒ वहा᳚ते॒ महि॑षीमिषि॒राम् |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्} आस्य॑ श्रवस्या॒द् रथ॒ आ च॑ घोषात् पु॒रू स॒हस्रा॒ परि॑ वर्तयाते ||{3/5}{4.2.8.3}{5.37.3}{5.3.5.3}{204, 391, 3930} व॒धूः¦इ॒यम्¦पति᳚म्¦इ॒च्छन्ती᳚¦ए॒ति॒¦यः¦ई॒म्¦वहा᳚ते¦महि॑षीम्¦इ॒षि॒राम् | |
न स राजा᳚ व्यथते॒ यस्मि॒न्निन्द्र॑स्ती॒व्रं सोमं॒ पिब॑ति॒ गोस॑खायम् |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्} आ स॑त्व॒नैरज॑ति॒ हन्ति॑ वृ॒त्रं क्षेति॑ क्षि॒तीः सु॒भगो॒ नाम॒ पुष्य॑न् ||{4/5}{4.2.8.4}{5.37.4}{5.3.5.4}{205, 391, 3931} न¦सः¦राजा᳚¦व्य॒थ॒ते॒¦यस्मि॑न्¦इन्द्रः॑¦ती॒व्रम्¦सोम᳚म्¦पिब॑ति¦गोऽस॑खायम् | |
पुष्या॒त् क्षेमे᳚, अ॒भि योगे᳚ भवात्यु॒भे वृतौ᳚ संय॒ती सं ज॑याति |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्} प्रि॒यः सूर्ये᳚ प्रि॒यो, अ॒ग्ना भ॑वाति॒ य इन्द्रा᳚य सु॒तसो᳚मो॒ ददा᳚शत् ||{5/5}{4.2.8.5}{5.37.5}{5.3.5.5}{206, 391, 3932} पुष्या᳚त्¦क्षेमे᳚¦अ॒भि¦योगे᳚¦भ॒वा॒ति॒¦उ॒भे इति॑¦वृतौ᳚¦सं॒य॒ती इति॑ स॒म्ऽय॒ती¦सम्¦ज॒या॒ति॒ | |
[30] उरोष्टइति पंचर्चस्य सूक्तस्य भौमोत्रिरिंद्रोनुष्टुप् | |
उ॒रोष्ट॑ इन्द्र॒ राध॑सो वि॒भ्वी रा॒तिः श॑तक्रतो |{भौमोत्रिः | इन्द्रः | अनुष्टुप्} अधा᳚ नो विश्वचर्षणे द्यु॒म्ना सु॑क्षत्र मंहय ||{1/5}{4.2.9.1}{5.38.1}{5.3.6.1}{207, 392, 3933} उ॒रोः¦ते॒¦इ॒न्द्र॒¦राध॑सः¦वि॒ऽभ्वी¦रा॒तिः¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | अध॑¦नः॒¦वि॒श्व॒ऽच॒र्ष॒णे॒¦द्यु॒म्ना¦सु॒ऽक्ष॒त्र॒¦मं॒ह॒य॒ || |
यदी᳚मिन्द्र श्र॒वाय्य॒मिषं᳚ शविष्ठ दधि॒षे |{भौमोत्रिः | इन्द्रः | अनुष्टुप्} प॒प्र॒थे दी᳚र्घ॒श्रुत्त॑मं॒ हिर᳚ण्यवर्ण दु॒ष्टर᳚म् ||{2/5}{4.2.9.2}{5.38.2}{5.3.6.2}{208, 392, 3934} यत्¦ई॒म्¦इ॒न्द्र॒¦श्र॒वाय्य᳚म्¦इष᳚म्¦श॒वि॒ष्ठ॒¦द॒धि॒षे | प॒प्र॒थे¦दी॒र्घ॒श्रुत्ऽत॑मम्¦हिर᳚ण्यऽवर्ण¦दु॒स्तर᳚म् || |
शुष्मा᳚सो॒ ये ते᳚, अद्रिवो मे॒हना᳚ केत॒सापः॑ |{भौमोत्रिः | इन्द्रः | अनुष्टुप्} उ॒भा दे॒वाव॒भिष्ट॑ये दि॒वश्च॒ ग्मश्च॑ राजथः ||{3/5}{4.2.9.3}{5.38.3}{5.3.6.3}{209, 392, 3935} शुष्मा᳚सः¦ये¦ते॒¦अ॒द्रि॒ऽवः॒¦मे॒हना᳚¦के॒त॒ऽसापः॑ | उ॒भा¦दे॒वौ¦अ॒भिष्ट॑ये¦दि॒वः¦च॒¦ग्मः¦च॒¦रा॒ज॒थः॒ || |
उ॒तो नो᳚, अ॒स्य कस्य॑ चि॒द् दक्ष॑स्य॒ तव॑ वृत्रहन् |{भौमोत्रिः | इन्द्रः | अनुष्टुप्} अ॒स्मभ्यं᳚ नृ॒म्णमा भ॑रा॒ऽस्मभ्यं᳚ नृमणस्यसे ||{4/5}{4.2.9.4}{5.38.4}{5.3.6.4}{210, 392, 3936} उ॒तो इति॑¦नः॒¦अ॒स्य¦कस्य॑¦चि॒त्¦दक्ष॑स्य¦तव॑¦वृ॒त्र॒ऽह॒न् | अ॒स्मभ्य᳚म्¦नृ॒म्णम्¦आ¦भ॒र॒¦अ॒स्मभ्य᳚म्¦नृ॒ऽम॒न॒स्य॒से॒ || |
नू त॑ आ॒भिर॒भिष्टि॑भि॒स्तव॒ शर्म᳚ञ्छतक्रतो |{भौमोत्रिः | इन्द्रः | अनुष्टुप्} इन्द्र॒ स्याम॑ सुगो॒पाः शूर॒ स्याम॑ सुगो॒पाः ||{5/5}{4.2.9.5}{5.38.5}{5.3.6.5}{211, 392, 3937} नु¦ते॒¦आ॒भिः¦अ॒भिष्टि॑ऽभिः¦तव॑¦शर्म॑न्¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | इन्द्र॑¦स्याम॑¦सु॒ऽगो॒पाः¦शूर॑¦स्याम॑¦सु॒ऽगो॒पाः || |
[31] यदिंद्रेति पंचर्चस्य सूक्तस्य भौमोत्रिरिंद्रोनुष्ठुबंत्यापंक्तिः | |
यदि᳚न्द्र चित्र मे॒हना ऽस्ति॒ त्वादा᳚तमद्रिवः |{भौमोत्रिः | इन्द्रः | अनुष्टुप्} राध॒स्तन्नो᳚ विदद्वस उभयाह॒स्त्या भ॑र ||{1/5}{4.2.10.1}{5.39.1}{5.3.7.1}{212, 393, 3938} यत्¦इ॒न्द्र॒¦चि॒त्र॒¦मे॒हना᳚¦अस्ति॑¦त्वाऽदा᳚तम्¦अ॒द्रि॒ऽवः॒ | राधः॑¦तत्¦नः॒¦वि॒द॒द्व॒सो॒ इति॑ विदत्ऽवसो¦उ॒भ॒या॒ह॒स्ति¦आ¦भ॒र॒ || |
यन्मन्य॑से॒ वरे᳚ण्य॒मिन्द्र॑ द्यु॒क्षं तदा भ॑र |{भौमोत्रिः | इन्द्रः | अनुष्टुप्} वि॒द्याम॒ तस्य॑ ते व॒यमकू᳚पारस्य दा॒वने᳚ ||{2/5}{4.2.10.2}{5.39.2}{5.3.7.2}{213, 393, 3939} यत्¦मन्य॑से¦वरे᳚ण्यम्¦इन्द्र॑¦द्यु॒क्षम्¦तत्¦आ¦भ॒र॒ | वि॒द्याम॑¦तस्य॑¦ते॒¦व॒यम्¦अकू᳚पारस्य¦दा॒वने᳚ || |
यत्ते᳚ दि॒त्सु प्र॒राध्यं॒ मनो॒, अस्ति॑ श्रु॒तं बृ॒हत् |{भौमोत्रिः | इन्द्रः | अनुष्टुप्} तेन॑ दृ॒ळ्हा चि॑दद्रिव॒ आ वाजं᳚ दर्षि सा॒तये᳚ ||{3/5}{4.2.10.3}{5.39.3}{5.3.7.3}{214, 393, 3940} यत्¦ते॒¦दि॒त्सु¦प्र॒ऽराध्य᳚म्¦मनः॑¦अस्ति॑¦श्रु॒तम्¦बृ॒हत् | तेन॑¦दृ॒ळ्हा¦चि॒त्¦अ॒द्रि॒ऽवः॒¦आ¦वाज᳚म्¦द॒र्षि॒¦सा॒तये᳚ || |
मंहि॑ष्ठं वो म॒घोनां॒ राजा᳚नं चर्षणी॒नाम् |{भौमोत्रिः | इन्द्रः | अनुष्टुप्} इन्द्र॒मुप॒ प्रश॑स्तये पू॒र्वीभि॑र्जुजुषे॒ गिरः॑ ||{4/5}{4.2.10.4}{5.39.4}{5.3.7.4}{215, 393, 3941} मंहि॑ष्ठम्¦वः॒¦म॒घोना᳚म्¦राजा᳚नम्¦च॒र्ष॒णी॒नाम् | इन्द्र᳚म्¦उप॑¦प्रऽश॑स्तये¦पू॒र्वीभिः॑¦जु॒जु॒षे॒¦गिरः॑ || |
अस्मा॒, इत् काव्यं॒ वच॑ उ॒क्थमिन्द्रा᳚य॒ शंस्य᳚म् |{भौमोत्रिः | इन्द्रः | पङ्क्तिः} तस्मा᳚, उ॒ ब्रह्म॑वाहसे॒ गिरो᳚ वर्ध॒न्त्यत्र॑यो॒ गिरः॑ शुम्भ॒न्त्यत्र॑यः ||{5/5}{4.2.10.5}{5.39.5}{5.3.7.5}{216, 393, 3942} अस्मै᳚¦इत्¦काव्य᳚म्¦वचः॑¦उ॒क्थम्¦इन्द्रा᳚य¦शंस्य᳚म् | |
[32] आयाहीति नवर्चस्य सूक्तस्य भौमोत्रिः आद्यानांचतसृणामिंद्रः पंचम्याःसूर्यः षष्ट्यादिचतसृणामत्रिर्देवता आद्यास्तिस्रउष्णिहः पंचम्यंत्येऽनुष्टुभौ शिष्टास्त्रिष्टुभः | |
आ या॒ह्यद्रि॑भिः सु॒तं सोमं᳚ सोमपते पिब |{भौमोत्रिः | इन्द्रः | उष्णिक्} वृष᳚न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ||{1/9}{4.2.11.1}{5.40.1}{5.3.8.1}{217, 394, 3943} आ¦या॒हि॒¦अद्रि॑ऽभिः¦सु॒तम्¦सोम᳚म्¦सो॒म॒ऽप॒ते॒¦पि॒ब॒ | वृष॑न्¦इ॒न्द्र॒¦वृष॑ऽभिः¦वृ॒त्र॒ह॒न्ऽत॒म॒ || |
वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो᳚, अ॒यं सु॒तः |{भौमोत्रिः | इन्द्रः | उष्णिक्} वृष᳚न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ||{2/9}{4.2.11.2}{5.40.2}{5.3.8.2}{218, 394, 3944} वृषा᳚¦ग्रावा᳚¦वृषा᳚¦मदः॑¦वृषा᳚¦सोमः॑¦अ॒यम्¦सु॒तः | वृष॑न्¦इ॒न्द्र॒¦वृष॑ऽभिः¦वृ॒त्र॒ह॒न्ऽत॒म॒ || |
वृषा᳚ त्वा॒ वृष॑णं हुवे॒ वज्रि᳚ञ्चि॒त्राभि॑रू॒तिभिः॑ |{भौमोत्रिः | इन्द्रः | उष्णिक्} वृष᳚न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ||{3/9}{4.2.11.3}{5.40.3}{5.3.8.3}{219, 394, 3945} वृषा᳚¦त्वा॒¦वृष॑णम्¦हु॒वे॒¦वज्रि॑न्¦चि॒त्राभिः॑¦ऊ॒तिऽभिः॑ | वृष॑न्¦इ॒न्द्र॒¦वृष॑ऽभिः¦वृ॒त्र॒ह॒न्ऽत॒म॒ || |
ऋ॒जी॒षी व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट्छु॒ष्मी राजा᳚ वृत्र॒हा सो᳚म॒पावा᳚ |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्} यु॒क्त्वा हरि॑भ्या॒मुप॑ यासद॒र्वाङ् माध्यं᳚दिने॒ सव॑ने मत्स॒दिन्द्रः॑ ||{4/9}{4.2.11.4}{5.40.4}{5.3.8.4}{220, 394, 3946} ऋ॒जी॒षी¦व॒ज्री¦वृ॒ष॒भः¦तु॒रा॒षाट्¦शु॒ष्मी¦राजा᳚¦वृ॒त्र॒ऽहा¦सो॒म॒ऽपावा᳚ | |
यत् त्वा᳚ सूर्य॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः |{भौमोत्रिः | सूर्यः | अनुष्टुप्} अक्षे᳚त्रवि॒द् यथा᳚ मु॒ग्धो भुव॑नान्यदीधयुः ||{5/9}{4.2.11.5}{5.40.5}{5.3.8.5}{221, 394, 3947} यत्¦त्वा॒¦सू॒र्य॒¦स्वः॑ऽभानुः¦तम॑सा¦अवि॑ध्यत्¦आ॒सु॒रः | अक्षे᳚त्रऽवित्¦यथा᳚¦मु॒ग्धः¦भुव॑नानि¦अ॒दी॒ध॒युः॒ || |
स्व॑र्भानो॒रध॒ यदि᳚न्द्र मा॒या, अ॒वो दि॒वो वर्त॑माना, अ॒वाह॑न् |{भौमोत्रिः | अत्रिः | त्रिष्टुप्} गू॒ळ्हं सूर्यं॒ तम॒साप᳚व्रतेन तु॒रीये᳚ण॒ ब्रह्म॑णाविन्द॒दत्रिः॑ ||{6/9}{4.2.12.1}{5.40.6}{5.3.8.6}{222, 394, 3948} स्वः॑ऽभानोः¦अध॑¦यत्¦इ॒न्द्र॒¦मा॒याः¦अ॒वः¦दि॒वः¦वर्त॑मानाः¦अ॒व॒।आह॑न् | |
मा मामि॒मं तव॒ सन्त॑मत्र इर॒स्या द्रु॒ग्धो भि॒यसा॒ नि गा᳚रीत् |{भौमोत्रिः | अत्रिः | त्रिष्टुप्} त्वं मि॒त्रो, अ॑सि स॒त्यरा᳚धा॒स्तौ मे॒हाव॑तं॒ वरु॑णश्च॒ राजा᳚ ||{7/9}{4.2.12.2}{5.40.7}{5.3.8.7}{223, 394, 3949} मा¦माम्¦इ॒मम्¦तव॑¦सन्त᳚म्¦अ॒त्रे॒¦इ॒र॒स्या¦द्रु॒ग्धः¦भि॒यसा᳚¦नि¦गा॒री॒त् | |
ग्राव्णो᳚ ब्र॒ह्मा यु॑युजा॒नः स॑प॒र्यन् की॒रिणा᳚ दे॒वान् नम॑सोप॒शिक्ष॑न् |{भौमोत्रिः | अत्रिः | त्रिष्टुप्} अत्रिः॒ सूर्य॑स्य दि॒वि चक्षु॒राधा॒त् स्व॑र्भानो॒रप॑ मा॒या, अ॑घुक्षत् ||{8/9}{4.2.12.3}{5.40.8}{5.3.8.8}{224, 394, 3950} ग्राव्णः॑¦ब्र॒ह्मा¦यु॒यु॒जा॒नः¦स॒प॒र्यन्¦की॒रिणा᳚¦दे॒वान्¦नम॑सा¦उ॒प॒ऽशिक्ष॑न् | |
यं वै सूर्यं॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः |{भौमोत्रिः | अत्रिः | अनुष्टुप्} अत्र॑य॒स्तमन्व॑विन्दन् न॒ह्य१॑(अ॒)न्ये, अश॑क्नुवन् ||{9/9}{4.2.12.4}{5.40.9}{5.3.8.9}{225, 394, 3951} यम्¦वै¦सूर्य᳚म्¦स्वः॑ऽभानुः¦तम॑सा¦अवि॑ध्यत्¦आ॒सु॒रः | अत्र॑यः¦तम्¦अनु॑¦अ॒वि॒न्द॒न्¦न॒हि¦अ॒न्ये¦अश॑क्नुवन् || |
[33] कोनुवामिति विंशत्यृचस्य सूक्तस्य भौमोत्रिर्विश्वेदेवास्त्रिष्टुप् षोडशीसप्तदश्यावतिजगत्यावन्त्यैकपदा | (भेदपक्षे - मित्रावरुणौ १ विश्वेदेवाः १ अश्विनौ १ विश्वेदेवाः १ मरुतः १ विश्वेदेवाः १ उषासानक्ते १ विश्वेदेवाः २ अग्निः १ | विश्वेदेवाः २ मरुतः १ विश्वेदेवाः १ भूमिः १ विश्वेदेवाः ३ भूमिः १ विश्वेदेवाः १ एवं २०)| |
को नु वां᳚ मित्रावरुणावृता॒यन् दि॒वो वा᳚ म॒हः पार्थि॑वस्य वा॒ दे |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} ऋ॒तस्य॑ वा॒ सद॑सि॒ त्रासी᳚थां नो यज्ञाय॒ते वा᳚ पशु॒षो न वाजा॑न् ||{1/20}{4.2.13.1}{5.41.1}{5.3.9.1}{226, 395, 3952} कः¦नु¦वा॒म्¦मि॒त्रा॒व॒रु॒णौ॒¦ऋ॒त॒ऽयन्¦दि॒वः¦वा॒¦म॒हः¦पार्थि॑वस्य¦वा॒¦दे | |
ते नो᳚ मि॒त्रो वरु॑णो, अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुतो᳚ जुषन्त |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} नमो᳚भिर्वा॒ ये दध॑ते सुवृ॒क्तिं स्तोमं᳚ रु॒द्राय॑ मी॒ळ्हुषे᳚ स॒जोषाः᳚ ||{2/20}{4.2.13.2}{5.41.2}{5.3.9.2}{227, 395, 3953} ते¦नः॒¦मि॒त्रः¦वरु॑णः¦अ॒र्य॒मा¦आ॒युः¦इन्द्रः॑¦ऋ॒भु॒क्षाः¦म॒रुतः॑¦जु॒ष॒न्त॒ | |
आ वां॒ येष्ठा᳚श्विना हु॒वध्यै॒ वात॑स्य॒ पत्म॒न् रथ्य॑स्य पु॒ष्टौ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} उ॒त वा᳚ दि॒वो, असु॑राय॒ मन्म॒ प्रान्धां᳚सीव॒ यज्य॑वे भरध्वम् ||{3/20}{4.2.13.3}{5.41.3}{5.3.9.3}{228, 395, 3954} आ¦वा॒म्¦येष्ठा᳚¦अ॒श्वि॒ना॒¦हु॒वध्यै᳚¦वात॑स्य¦पत्म॑न्¦रथ्य॑स्य¦पु॒ष्टौ | |
प्र स॒क्षणो᳚ दि॒व्यः कण्व॑होता त्रि॒तो दि॒वः स॒जोषा॒ वातो᳚, अ॒ग्निः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} पू॒षा भगः॑ प्रभृ॒थे वि॒श्वभो᳚जा, आ॒जिं न ज॑ग्मुरा॒श्व॑श्वतमाः ||{4/20}{4.2.13.4}{5.41.4}{5.3.9.4}{229, 395, 3955} प्र¦स॒क्षणः॑¦दि॒व्यः¦कण्व॑ऽहोता¦त्रि॒तः¦दि॒वः¦स॒ऽजोषाः᳚¦वातः॑¦अ॒ग्निः | |
प्र वो᳚ र॒यिं यु॒क्ताश्वं᳚ भरध्वं रा॒य एषेऽव॑से दधीत॒ धीः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} सु॒शेव॒ एवै᳚रौशि॒जस्य॒ होता॒ ये व॒ एवा᳚ मरुतस्तु॒राणा᳚म् ||{5/20}{4.2.13.5}{5.41.5}{5.3.9.5}{230, 395, 3956} प्र¦वः॒¦र॒यिम्¦यु॒क्त।आ॑श्वम्¦भ॒र॒ध्व॒म्¦रा॒यः¦एषे᳚¦अव॑से¦द॒धी॒त॒¦धीः | |
प्र वो᳚ वा॒युं र॑थ॒युजं᳚ कृणुध्वं॒ प्र दे॒वं विप्रं᳚ पनि॒तार॑म॒र्कैः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} इ॒षु॒ध्यव॑ ऋत॒सापः॒ पुरं᳚धी॒र्वस्वी᳚र्नो॒, अत्र॒ पत्नी॒रा धि॒ये धुः॑ ||{6/20}{4.2.14.1}{5.41.6}{5.3.9.6}{231, 395, 3957} प्र¦वः॒¦वा॒युम्¦र॒थ॒ऽयुज᳚म्¦कृ॒णु॒ध्व॒म्¦प्र¦दे॒वम्¦विप्र᳚म्¦प॒नि॒तार᳚म्¦अ॒र्कैः | |
उप॑ व॒ एषे॒ वन्द्ये᳚भिः शू॒षैः प्र य॒ह्वी दि॒वश्चि॒तय॑द्भिर॒र्कैः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} उ॒षासा॒नक्ता᳚ वि॒दुषी᳚व॒ विश्व॒मा हा᳚ वहतो॒ मर्त्या᳚य य॒ज्ञम् ||{7/20}{4.2.14.2}{5.41.7}{5.3.9.7}{232, 395, 3958} उप॑¦वः॒¦एषे᳚¦वन्द्ये᳚भिः¦शू॒षैः¦प्र¦य॒ह्वी इति॑¦दि॒वः¦चि॒तय॑त्ऽभिः¦अ॒र्कैः | |
अ॒भि वो᳚, अर्चे पो॒ष्याव॑तो॒ नॄन् वास्तो॒ष्पतिं॒ त्वष्टा᳚रं॒ ररा᳚णः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} धन्या᳚ स॒जोषा᳚ धि॒षणा॒ नमो᳚भि॒र्वन॒स्पतीँ॒रोष॑धी रा॒य एषे᳚ ||{8/20}{4.2.14.3}{5.41.8}{5.3.9.8}{233, 395, 3959} अ॒भि¦वः॒¦अ॒र्चे॒¦पो॒ष्याऽव॑तः¦नॄन्¦वास्तोः᳚¦पति᳚म्¦त्वष्टा᳚रम्¦ररा᳚णः | |
तु॒जे न॒स्तने॒ पर्व॑ताः सन्तु॒ स्वैत॑वो॒ ये वस॑वो॒ न वी॒राः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} प॒नि॒त आ॒प्त्यो य॑ज॒तः सदा᳚ नो॒ वर्धा᳚न्नः॒ शंसं॒ नर्यो᳚, अ॒भिष्टौ᳚ ||{9/20}{4.2.14.4}{5.41.9}{5.3.9.9}{234, 395, 3960} तु॒जे¦नः॒¦तने᳚¦पर्व॑ताः¦स॒न्तु॒¦स्वऽए᳚तवः¦ये¦वस॑वः¦न¦वी॒राः | |
वृष्णो᳚, अस्तोषि भू॒म्यस्य॒ गर्भं᳚ त्रि॒तो नपा᳚तम॒पां सु॑वृ॒क्ति |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} गृ॒णी॒ते, अ॒ग्निरे॒तरी॒ न शू॒षैः शो॒चिष्के᳚शो॒ नि रि॑णाति॒ वना᳚ ||{10/20}{4.2.14.5}{5.41.10}{5.3.9.10}{235, 395, 3961} वृष्णः॑¦अ॒स्तो॒षि॒¦भू॒म्यस्य॑¦गर्भ᳚म्¦त्रि॒तः¦नपा᳚तम्¦अ॒पाम्¦सु॒ऽवृ॒क्ति | |
क॒था म॒हे रु॒द्रिया᳚य ब्रवाम॒ कद्रा॒ये चि॑कि॒तुषे॒ भगा᳚य |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} आप॒ ओष॑धीरु॒त नो᳚ऽवन्तु॒ द्यौर्वना᳚ गि॒रयो᳚ वृ॒क्षके᳚शाः ||{11/20}{4.2.15.1}{5.41.11}{5.3.9.11}{236, 395, 3962} क॒था¦म॒हे¦रु॒द्रिया᳚य¦ब्र॒वा॒म॒¦कत्¦रा॒ये¦चि॒कि॒तुषे᳚¦भगा᳚य | |
शृ॒णोतु॑ न ऊ॒र्जां पति॒र्गिरः॒ स नभ॒स्तरी᳚याँ, इषि॒रः परि॑ज्मा |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} शृ॒ण्वन्त्वापः॒ पुरो॒ न शु॒भ्राः परि॒ स्रुचो᳚ बबृहा॒णस्याद्रेः᳚ ||{12/20}{4.2.15.2}{5.41.12}{5.3.9.12}{237, 395, 3963} शृ॒णोतु॑¦नः॒¦ऊ॒र्जाम्¦पतिः॑¦गिरः॑¦सः¦नभः॑¦तरी᳚यान्¦इ॒षि॒रः¦परि॑ऽज्मा | |
वि॒दा चि॒न्नु म॑हान्तो॒ ये व॒ एवा॒ ब्रवा᳚म दस्मा॒ वार्यं॒ दधा᳚नाः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} वय॑श्च॒न सु॒भ्व१॑(अ॒) आव॑ यन्ति क्षु॒भा मर्त॒मनु॑यतं वध॒स्नैः ||{13/20}{4.2.15.3}{5.41.13}{5.3.9.13}{238, 395, 3964} वि॒द¦चि॒त्¦नु¦म॒हा॒न्तः॒¦ये¦वः॒¦एवाः᳚¦ब्रवा᳚म¦द॒स्माः॒¦वार्य᳚म्¦दधा᳚नाः | |
आ दैव्या᳚नि॒ पार्थि॑वानि॒ जन्मा॒ऽपश्चाच्छा॒ सुम॑खाय वोचम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} वर्ध᳚न्तां॒ द्यावो॒ गिर॑श्च॒न्द्राग्रा᳚, उ॒दा व॑र्धन्ताम॒भिषा᳚ता॒, अर्णाः᳚ ||{14/20}{4.2.15.4}{5.41.14}{5.3.9.14}{239, 395, 3965} आ¦दैव्या᳚नि¦पार्थि॑वानि¦जन्म॑¦अ॒पः¦च॒¦अच्छ॑¦सुऽम॑खाय¦वो॒च॒म् | |
प॒देप॑दे मे जरि॒मा नि धा᳚यि॒ वरू᳚त्री वा श॒क्रा या पा॒युभि॑श्च |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} सिष॑क्तु मा॒ता म॒ही र॒सा नः॒ स्मत् सू॒रिभि᳚रृजु॒हस्त॑ ऋजु॒वनिः॑ ||{15/20}{4.2.15.5}{5.41.15}{5.3.9.15}{240, 395, 3966} प॒देऽप॑दे¦मे॒¦ज॒रि॒मा¦नि¦धा॒यि॒¦वरू᳚त्री¦वा॒¦श॒क्रा¦या¦पा॒युऽभिः॑¦च॒ | |
क॒था दा᳚शेम॒ नम॑सा सु॒दानू᳚नेव॒या म॒रुतो॒, अच्छो᳚क्तौ॒ प्रश्र॑वसो म॒रुतो॒, अच्छो᳚क्तौ |{भौमोत्रिः | विश्वदेवाः | अतिजगती} मा नोऽहि॑र्बु॒ध्न्यो᳚ रि॒षे धा᳚द॒स्माकं᳚ भूदुपमाति॒वनिः॑ ||{16/20}{4.2.16.1}{5.41.16}{5.3.9.16}{241, 395, 3967} क॒था¦दा॒शे॒म॒¦नम॑सा¦सु॒ऽदानू᳚न्¦ए॒व॒ऽया¦म॒रुतः॑¦अच्छ॑।औक्तौ¦प्रऽश्र॑वसः¦म॒रुतः॑¦अच्छ॑।औक्तौ | |
इति॑ चि॒न्नु प्र॒जायै᳚ पशु॒मत्यै॒ देवा᳚सो॒ वन॑ते॒ मर्त्यो᳚ व॒ आ दे᳚वासो वनते॒ मर्त्यो᳚ वः |{भौमोत्रिः | विश्वदेवाः | अतिजगती} अत्रा᳚ शि॒वां त॒न्वो᳚ धा॒सिम॒स्या ज॒रां चि᳚न्मे॒ निरृ॑तिर्जग्रसीत ||{17/20}{4.2.16.2}{5.41.17}{5.3.9.17}{242, 395, 3968} इति॑¦चि॒त्¦नु¦प्र॒ऽजायै᳚¦प॒शु॒ऽमत्यै᳚¦देवा᳚सः¦वन॑ते¦मर्त्यः॑¦वः॒¦आ¦दे॒वा॒सः॒¦व॒न॒ते॒¦मर्त्यः॑¦वः॒ | |
तां वो᳚ देवाः सुम॒तिमू॒र्जय᳚न्ती॒मिष॑मश्याम वसवः॒ शसा॒ गोः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} सा नः॑ सु॒दानु᳚र्मृ॒ळय᳚न्ती दे॒वी प्रति॒ द्रव᳚न्ती सुवि॒ताय॑ गम्याः ||{18/20}{4.2.16.3}{5.41.18}{5.3.9.18}{243, 395, 3969} ताम्¦वः॒¦दे॒वाः॒¦सु॒ऽम॒तिम्¦ऊ॒र्जय᳚न्तीम्¦इष᳚म्¦अ॒श्या॒म॒¦व॒स॒वः॒¦शसा᳚¦गोः | |
अ॒भि न॒ इळा᳚ यू॒थस्य॑ मा॒ता स्मन्न॒दीभि॑रु॒र्वशी᳚ वा गृणातु |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} उ॒र्वशी᳚ वा बृहद्दि॒वा गृ॑णा॒नाऽभ्यू᳚र्ण्वा॒ना प्र॑भृ॒थस्या॒योः ||{19/20}{4.2.16.4}{5.41.19}{5.3.9.19}{244, 395, 3970} अ॒भि¦नः॒¦इळा᳚¦यू॒थस्य॑¦मा॒ता¦स्मत्¦न॒दीभिः॑¦उ॒र्वशी᳚¦वा॒¦गृ॒णा॒तु॒ | |
सिष॑क्तु न ऊर्ज॒व्य॑स्य पु॒ष्टेः ||{भौमोत्रिः | विश्वदेवाः | एकपदाविराट्}{20/20}{4.2.16.5}{5.41.20}{5.3.9.20}{245, 395, 3971} सिस॑क्तु¦नः॒¦ऊ॒र्ज॒व्य॑स्य¦पु॒ष्टेः || |
[34] प्रशंतमेत्यष्टादशर्चस्य सूक्तस्य भौमोत्रिर्विश्वेदेवाः एकादश्यारुद्रत्रिष्टुप् सप्तदश्येकपदा | (भेदपक्षे - विश्वेदेवाः २ सविता १ इंद्रः १ विश्वेदेवाः ९ इंद्रः १ बृहस्पतिः ३ मरुतः १ रुद्रः १ विश्वेदेवाः ९ पर्जन्यः २ मरुतः १ विश्वेदेवाः २ अश्विनौ १ एवं १८) | |
प्र शंत॑मा॒ वरु॑णं॒ दीधि॑ती॒ गीर्मि॒त्रं भग॒मदि॑तिं नू॒नम॑श्याः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} पृष॑द्योनिः॒ पञ्च॑होता शृणो॒त्वतू᳚र्तपन्था॒, असु॑रो मयो॒भुः ||{1/18}{4.2.17.1}{5.42.1}{5.3.10.1}{246, 396, 3972} प्र¦शम्ऽत॑मा¦वरु॑णम्¦दीधि॑ती¦गीः¦मि॒त्रम्¦भग᳚म्¦अदि॑तिम्¦नू॒नम्¦अ॒श्याः॒ | |
प्रति॑ मे॒ स्तोम॒मदि॑तिर्जगृभ्यात् सू॒नुं न मा॒ता हृद्यं᳚ सु॒शेव᳚म् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुपि} ब्रह्म॑ प्रि॒यं दे॒वहि॑तं॒ यदस्त्य॒हं मि॒त्रे वरु॑णे॒ यन्म॑यो॒भु ||{2/18}{4.2.17.2}{5.42.2}{5.3.10.2}{247, 396, 3973} प्रति॑¦मे॒¦स्तोम᳚म्¦अदि॑तिः¦ज॒गृ॒भ्या॒त्¦सू॒नुम्¦न¦मा॒ता¦हृद्य᳚म्¦सु॒ऽशेव᳚म् | |
उदी᳚रय क॒वित॑मं कवी॒नामु॒नत्तै᳚नम॒भि मध्वा᳚ घृ॒तेन॑ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} स नो॒ वसू᳚नि॒ प्रय॑ता हि॒तानि॑ च॒न्द्राणि॑ दे॒वः स॑वि॒ता सु॑वाति ||{3/18}{4.2.17.3}{5.42.3}{5.3.10.3}{248, 396, 3974} उत्¦ई॒र॒य॒¦क॒विऽत॑मम्¦क॒वी॒नाम्¦उ॒नत्त॑¦ए॒न॒म्¦अ॒भि¦मध्वा᳚¦घृ॒तेन॑ | |
समि᳚न्द्र णो॒ मन॑सा नेषि॒ गोभिः॒ सं सू॒रिभि᳚र्हरिवः॒ सं स्व॒स्ति |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} सं ब्रह्म॑णा दे॒वहि॑तं॒ यदस्ति॒ सं दे॒वानां᳚ सुम॒त्या य॒ज्ञिया᳚नाम् ||{4/18}{4.2.17.4}{5.42.4}{5.3.10.4}{249, 396, 3975} सम्¦इ॒न्द्र॒¦नः॒¦मन॑सा¦ने॒षि॒¦गोभिः॑¦सम्¦सू॒रिऽभिः॑¦ह॒रि॒ऽवः॒¦सम्¦स्व॒स्ति | |
दे॒वो भगः॑ सवि॒ता रा॒यो, अंश॒ इन्द्रो᳚ वृ॒त्रस्य॑ सं॒जितो॒ धना᳚नाम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} ऋ॒भु॒क्षा वाज॑ उ॒त वा॒ पुरं᳚धि॒रव᳚न्तु नो, अ॒मृता᳚सस्तु॒रासः॑ ||{5/18}{4.2.17.5}{5.42.5}{5.3.10.5}{250, 396, 3976} दे॒वः¦भगः॑¦स॒वि॒ता¦रा॒यः¦अंशः॑¦इन्द्रः॑¦वृ॒त्रस्य॑¦स॒म्ऽजितः॑¦धना᳚नाम् | |
म॒रुत्व॑तो॒, अप्र॑तीतस्य जि॒ष्णोरजू᳚र्यतः॒ प्र ब्र॑वामा कृ॒तानि॑ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} न ते॒ पूर्वे᳚ मघव॒न् नाप॑रासो॒ न वी॒र्य१॑(अं॒) नूत॑नः॒ कश्च॒नाप॑ ||{6/18}{4.2.18.1}{5.42.6}{5.3.10.6}{251, 396, 3977} म॒रुत्व॑तः¦अप्र॑तिऽइतस्य¦जि॒ष्णोः¦अजू᳚र्यतः¦प्र¦ब्र॒वा॒म॒¦कृ॒तानि॑ | |
उप॑ स्तुहि प्रथ॒मं र॑त्न॒धेयं॒ बृह॒स्पतिं᳚ सनि॒तारं॒ धना᳚नाम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} यः शंस॑ते स्तुव॒ते शम्भ॑विष्ठः पुरू॒वसु॑रा॒गम॒ज्जोहु॑वानम् ||{7/18}{4.2.18.2}{5.42.7}{5.3.10.7}{252, 396, 3978} उप॑¦स्तु॒हि॒¦प्र॒थ॒मम्¦र॒त्न॒ऽधेय᳚म्¦बृह॒स्पति᳚म्¦स॒नि॒तार᳚म्¦धना᳚नाम् | |
तवो॒तिभिः॒ सच॑माना॒, अरि॑ष्टा॒ बृह॑स्पते म॒घवा᳚नः सु॒वीराः᳚ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} ये, अ॑श्व॒दा, उ॒त वा॒ सन्ति॑ गो॒दा ये व॑स्त्र॒दाः सु॒भगा॒स्तेषु॒ रायः॑ ||{8/18}{4.2.18.3}{5.42.8}{5.3.10.8}{253, 396, 3979} तव॑¦ऊ॒तिऽभिः॑¦सच॑मानाः¦अरि॑ष्टाः¦बृह॑स्पते¦म॒घऽवा᳚नः¦सु॒ऽवीराः᳚ | |
वि॒स॒र्माणं᳚ कृणुहि वि॒त्तमे᳚षां॒ ये भु॒ञ्जते॒, अपृ॑णन्तो न उ॒क्थैः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} अप᳚व्रतान् प्रस॒वे वा᳚वृधा॒नान् ब्र᳚ह्म॒द्विषः॒ सूर्या᳚द् यावयस्व ||{9/18}{4.2.18.4}{5.42.9}{5.3.10.9}{254, 396, 3980} वि॒ऽस॒र्माण᳚म्¦कृ॒णु॒हि॒¦वि॒त्तम्¦ए॒षा॒म्¦ये¦भुं॒जते᳚¦अपृ॑णन्तः¦नः॒¦उ॒क्थैः | |
य ओह॑ते र॒क्षसो᳚ दे॒ववी᳚तावच॒क्रेभि॒स्तं म॑रुतो॒ नि या᳚त |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} यो वः॒ शमीं᳚ शशमा॒नस्य॒ निन्दा᳚त् तु॒च्छ्यान् कामा᳚न् करते सिष्विदा॒नः ||{10/18}{4.2.18.5}{5.42.10}{5.3.10.10}{255, 396, 3981} यः¦ओह॑ते¦र॒क्षसः॑¦दे॒वऽवी᳚तौ¦अ॒च॒क्रेभिः॑¦तम्¦म॒रु॒तः॒¦नि¦या॒त॒ | |
तमु॑ ष्टुहि॒ यः स्वि॒षुः सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑ |{भौमोत्रिः | रुद्रः | त्रिष्टुप्} यक्ष्वा᳚ म॒हे सौ᳚मन॒साय॑ रु॒द्रं नमो᳚भिर्दे॒वमसु॑रं दुवस्य ||{11/18}{4.2.19.1}{5.42.11}{5.3.10.11}{256, 396, 3982} तम्¦ऊँ॒ इति॑¦स्तु॒हि॒¦यः¦सु॒ऽइ॒षुः¦सु॒ऽधन्वा᳚¦यः¦विश्व॑स्य¦क्षय॑ति¦भे॒ष॒जस्य॑ | |
दमू᳚नसो, अ॒पसो॒ ये सु॒हस्ता॒ वृष्णः॒ पत्नी᳚र्न॒द्यो᳚ विभ्वत॒ष्टाः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} सर॑स्वती बृहद्दि॒वोत रा॒का द॑श॒स्यन्ती᳚र्वरिवस्यन्तु शु॒भ्राः ||{12/18}{4.2.19.2}{5.42.12}{5.3.10.12}{257, 396, 3983} दमू᳚नसः¦अ॒पसः॑¦ये¦सु॒ऽहस्ताः᳚¦वृष्णः॑¦पत्नीः᳚¦न॒द्यः॑¦वि॒भ्व॒ऽत॒ष्टाः | |
प्र सू म॒हे सु॑शर॒णाय॑ मे॒धां गिरं᳚ भरे॒ नव्य॑सीं॒ जाय॑मानाम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} य आ᳚ह॒ना दु॑हि॒तुर्व॒क्षणा᳚सु रू॒पा मि॑ना॒नो, अकृ॑णोदि॒दं नः॑ ||{13/18}{4.2.19.3}{5.42.13}{5.3.10.13}{258, 396, 3984} प्र¦सु¦म॒हे¦सु॒ऽश॒र॒णाय॑¦मे॒धाम्¦गिर᳚म्¦भ॒रे॒¦नव्य॑सीम्¦जाय॑मानाम् | |
प्र सु॑ष्टु॒तिः स्त॒नय᳚न्तं रु॒वन्त॑मि॒ळस्पतिं᳚ जरितर्नू॒नम॑श्याः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} यो, अ॑ब्दि॒माँ, उ॑दनि॒माँ, इय॑र्ति॒ प्र वि॒द्युता॒ रोद॑सी, उ॒क्षमा᳚णः ||{14/18}{4.2.19.4}{5.42.14}{5.3.10.14}{259, 396, 3985} प्र¦सु॒ऽस्तु॒तिः¦स्त॒नय᳚न्तम्¦रु॒वन्त᳚म्¦इ॒ळः¦पति᳚म्¦ज॒रि॒तः॒¦नू॒नम्¦अ॒श्याः॒ | |
ए॒ष स्तोमो॒ मारु॑तं॒ शर्धो॒, अच्छा᳚ रु॒द्रस्य॑ सू॒नूँर्यु॑व॒न्यूँरुद॑श्याः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} कामो᳚ रा॒ये ह॑वते मा स्व॒स्त्युप॑ स्तुहि॒ पृष॑दश्वाँ, अ॒यासः॑ ||{15/18}{4.2.19.5}{5.42.15}{5.3.10.15}{260, 396, 3986} ए॒षः¦स्तोमः॑¦मारु॑तम्¦शर्धः॑¦अच्छ॑¦रु॒द्रस्य॑¦सू॒नून्¦यु॒व॒न्यून्¦उत्¦अ॒श्याः॒ | |
प्रैष स्तोमः॑ पृथि॒वीम॒न्तरि॑क्षं॒ वन॒स्पतीँ॒रोष॑धी रा॒ये, अ॑श्याः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} दे॒वोदे᳚वः सु॒हवो᳚ भूतु॒ मह्यं॒ मा नो᳚ मा॒ता पृ॑थि॒वी दु᳚र्म॒तौ धा᳚त् ||{16/18}{4.2.19.6}{5.42.16}{5.3.10.16}{261, 396, 3987} प्र¦ए॒षः¦स्तोमः॑¦पृ॒थि॒वीम्¦अ॒न्तरि॑क्षम्¦वन॒स्पती᳚न्¦ओष॑धीः¦रा॒ये¦अ॒श्याः॒ | |
उ॒रौ दे᳚वा, अनिबा॒धे स्या᳚म ||{भौमोत्रिः | विश्वदेवाः | एकपदाविराट्}{17/18}{4.2.19.7}{5.42.17}{5.3.10.17}{262, 396, 3988} उ॒रौ¦दे॒वाः॒¦अ॒नि॒ऽबा॒धे¦स्या॒म॒ || |
सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा᳚ सु॒प्रणी᳚ती गमेम |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} आ नो᳚ र॒यिं व॑हत॒मोत वी॒राना विश्वा᳚न्यमृता॒ सौभ॑गानि ||{18/18}{4.2.19.8}{5.42.18}{5.3.10.18}{263, 396, 3989} सम्¦अ॒श्विनोः᳚¦अव॑सा¦नूत॑नेन¦म॒यः॒ऽभुवा᳚¦सु॒ऽप्रनी᳚ती¦ग॒मे॒म॒ | |
[35] आधेनवइति सप्तदशर्चस्य सूक्तस्य भौमोत्रिर्विश्वेदेवास्त्रिष्टुप् षोडश्येकपदाविराट् (भेदपक्षे - नदी १ द्यावापृथिवी १ वायुः १ सोमः १ इंद्रः १ अग्निः १ धर्मः १ अश्विनौ १ विश्वेदेवाः २ सरस्वती १ बृहस्पतिः १ अग्निः ३ विश्वेदेवाः १ अश्विनौ १ एवं १७) | |
आ धे॒नवः॒ पय॑सा॒ तूर्ण्य॑र्था॒, अम॑र्धन्ती॒रुप॑ नो यन्तु॒ मध्वा᳚ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} म॒हो रा॒ये बृ॑ह॒तीः स॒प्त विप्रो᳚ मयो॒भुवो᳚ जरि॒ता जो᳚हवीति ||{1/17}{4.2.20.1}{5.43.1}{5.3.11.1}{264, 397, 3990} आ¦धे॒नवः॑¦पय॑सा¦तूर्णि॑।आर्थाः¦अम॑र्धन्तीः¦उप॑¦नः॒¦य॒न्तु॒¦मध्वा᳚ | |
आ सु॑ष्टु॒ती नम॑सा वर्त॒यध्यै॒ द्यावा॒ वाजा᳚य पृथि॒वी, अमृ॑ध्रे |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} पि॒ता मा॒ता मधु॑वचाः सु॒हस्ता॒ भरे᳚भरे नो य॒शसा᳚वविष्टाम् ||{2/17}{4.2.20.2}{5.43.2}{5.3.11.2}{265, 397, 3991} आ¦सु॒ऽस्तु॒ती¦नम॑सा¦व॒र्त॒यध्यै᳚¦द्यावा᳚¦वाजा᳚य¦पृ॒थि॒वी इति॑¦अमृ॑ध्रे॒ इति॑ | |
अध्व᳚र्यवश्चकृ॒वांसो॒ मधू᳚नि॒ प्र वा॒यवे᳚ भरत॒ चारु॑ शु॒क्रम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} होते᳚व नः प्रथ॒मः पा᳚ह्य॒स्य देव॒ मध्वो᳚ ररि॒मा ते॒ मदा᳚य ||{3/17}{4.2.20.3}{5.43.3}{5.3.11.3}{266, 397, 3992} अध्व᳚र्यवः¦च॒कृ॒ऽवांसः॑¦मधू᳚नि¦प्र¦वा॒यवे᳚¦भ॒र॒त॒¦चारु॑¦शु॒क्रम् | |
दश॒ क्षिपो᳚ युञ्जते बा॒हू, अद्रिं॒ सोम॑स्य॒ या श॑मि॒तारा᳚ सु॒हस्ता᳚ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} मध्वो॒ रसं᳚ सु॒गभ॑स्तिर्गिरि॒ष्ठां चनि॑श्चदद् दुदुहे शु॒क्रमं॒शुः ||{4/17}{4.2.20.4}{5.43.4}{5.3.11.4}{267, 397, 3993} दश॑¦क्षिपः॑¦युं॒ज॒ते॒¦बा॒हू इति॑¦अद्रि᳚म्¦सोम॑स्य¦या¦श॒मि॒तारा᳚¦सु॒ऽहस्ता᳚ | |
असा᳚वि ते जुजुषा॒णाय॒ सोमः॒ क्रत्वे॒ दक्षा᳚य बृह॒ते मदा᳚य |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} हरी॒ रथे᳚ सु॒धुरा॒ योगे᳚, अ॒र्वागिन्द्र॑ प्रि॒या कृ॑णुहि हू॒यमा᳚नः ||{5/17}{4.2.20.5}{5.43.5}{5.3.11.5}{268, 397, 3994} असा᳚वि¦ते॒¦जु॒जु॒षा॒णाय॑¦सोमः॑¦क्रत्वे᳚¦दक्षा᳚य¦बृ॒ह॒ते¦मदा᳚य | |
आ नो᳚ म॒हीम॒रम॑तिं स॒जोषा॒ ग्नां दे॒वीं नम॑सा रा॒तह᳚व्याम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} मधो॒र्मदा᳚य बृह॒तीमृ॑त॒ज्ञामाग्ने᳚ वह प॒थिभि॑र्देव॒यानैः᳚ ||{6/17}{4.2.21.1}{5.43.6}{5.3.11.6}{269, 397, 3995} आ¦नः॒¦म॒हीम्¦अ॒रम॑तिम्¦स॒ऽजोषाः᳚¦ग्नाम्¦दे॒वीम्¦नम॑सा¦रा॒तऽह᳚व्याम् | |
अ॒ञ्जन्ति॒ यं प्र॒थय᳚न्तो॒ न विप्रा᳚ व॒पाव᳚न्तं॒ नाग्निना॒ तप᳚न्तः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} पि॒तुर्न पु॒त्र उ॒पसि॒ प्रेष्ठ॒ आ घ॒र्मो, अ॒ग्निमृ॒तय᳚न्नसादि ||{7/17}{4.2.21.2}{5.43.7}{5.3.11.7}{270, 397, 3996} अं॒जन्ति॑¦यम्¦प्र॒थय᳚न्तः¦न¦विप्राः᳚¦व॒पाऽव᳚न्तम्¦न¦अ॒ग्निना᳚¦तप᳚न्तः | |
अच्छा᳚ म॒ही बृ॑ह॒ती शंत॑मा॒ गीर्दू॒तो न ग᳚न्त्व॒श्विना᳚ हु॒वध्यै᳚ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} म॒यो॒भुवा᳚ स॒रथा या᳚तम॒र्वाग्ग॒न्तं नि॒धिं धुर॑मा॒णिर्न नाभि᳚म् ||{8/17}{4.2.21.3}{5.43.8}{5.3.11.8}{271, 397, 3997} अच्छ॑¦म॒ही¦बृ॒ह॒ती¦शम्ऽत॑मा¦गीः¦दू॒तः¦न¦ग॒न्तु॒¦अ॒श्विना᳚¦हु॒वध्यै᳚ | |
प्र तव्य॑सो॒ नम॑उक्तिं तु॒रस्या॒ऽहं पू॒ष्ण उ॒त वा॒योर॑दिक्षि |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} या राध॑सा चोदि॒तारा᳚ मती॒नां या वाज॑स्य द्रविणो॒दा, उ॒त त्मन् ||{9/17}{4.2.21.4}{5.43.9}{5.3.11.9}{272, 397, 3998} प्र¦तव्य॑सः¦नमः॑।औक्तिम्¦तु॒रस्य॑¦अ॒हम्¦पू॒ष्णः¦उ॒त¦वा॒योः¦अ॒दि॒क्षि॒ | |
आ नाम॑भिर्म॒रुतो᳚ वक्षि॒ विश्वा॒ना रू॒पेभि॑र्जातवेदो हुवा॒नः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} य॒ज्ञं गिरो᳚ जरि॒तुः सु॑ष्टु॒तिं च॒ विश्वे᳚ गन्त मरुतो॒ विश्व॑ ऊ॒ती ||{10/17}{4.2.21.5}{5.43.10}{5.3.11.10}{273, 397, 3999} आ¦नाम॑ऽभिः¦म॒रुतः॑¦व॒क्षि॒¦विश्वा᳚न्¦आ¦रू॒पेभिः॑¦जा॒त॒ऽवे॒दः॒¦हु॒वा॒नः | |
आ नो᳚ दि॒वो बृ॑ह॒तः पर्व॑ता॒दा सर॑स्वती यज॒ता ग᳚न्तु य॒ज्ञम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} हवं᳚ दे॒वी जु॑जुषा॒णा घृ॒ताची᳚ श॒ग्मां नो॒ वाच॑मुश॒ती शृ॑णोतु ||{11/17}{4.2.22.1}{5.43.11}{5.3.11.11}{274, 397, 4000} आ¦नः॒¦दि॒वः¦बृ॒ह॒तः¦पर्व॑तात्¦आ¦सर॑स्वती¦य॒ज॒ता¦ग॒न्तु॒¦य॒ज्ञम् | |
आ वे॒धसं॒ नील॑पृष्ठं बृ॒हन्तं॒ बृह॒स्पतिं॒ सद॑ने सादयध्वम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} सा॒दद्यो᳚निं॒ दम॒ आ दी᳚दि॒वांसं॒ हिर᳚ण्यवर्णमरु॒षं स॑पेम ||{12/17}{4.2.22.2}{5.43.12}{5.3.11.12}{275, 397, 4001} आ¦वे॒धस᳚म्¦नील॑ऽपृष्ठम्¦बृ॒हन्त᳚म्¦बृह॒स्पति᳚म्¦सद॑ने¦सा॒द॒य॒ध्व॒म् | |
आ ध᳚र्ण॒सिर्बृ॒हद्दि॑वो॒ ररा᳚णो॒ विश्वे᳚भिर्ग॒न्त्वोम॑भिर्हुवा॒नः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} ग्ना वसा᳚न॒ ओष॑धी॒रमृ॑ध्रस्त्रि॒धातु॑शृङ्गो वृष॒भो व॑यो॒धाः ||{13/17}{4.2.22.3}{5.43.13}{5.3.11.13}{276, 397, 4002} आ¦ध॒र्ण॒सिः¦बृ॒हत्ऽदि॑वः¦ररा᳚णः¦विश्वे᳚भिः¦ग॒न्तु॒¦ओम॑ऽभिः¦हु॒वा॒नः | |
मा॒तुष्प॒दे प॑र॒मे शु॒क्र आ॒योर्वि॑प॒न्यवो᳚ रास्पि॒रासो᳚, अग्मन् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} सु॒शेव्यं॒ नम॑सा रा॒तह᳚व्याः॒ शिशुं᳚ मृजन्त्या॒यवो॒ न वा॒से ||{14/17}{4.2.22.4}{5.43.14}{5.3.11.14}{277, 397, 4003} मा॒तुः¦प॒दे¦प॒र॒मे¦शु॒क्रे¦आ॒योः¦वि॒प॒न्यवः॑¦रा॒स्पि॒रासः॑¦अ॒ग्म॒न् | |
बृ॒हद्वयो᳚ बृह॒ते तुभ्य॑मग्ने धिया॒जुरो᳚ मिथु॒नासः॑ सचन्त |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} दे॒वोदे᳚वः सु॒हवो᳚ भूतु॒ मह्यं॒ मा नो᳚ मा॒ता पृ॑थि॒वी दु᳚र्म॒तौ धा᳚त् ||{15/17}{4.2.22.5}{5.43.15}{5.3.11.15}{278, 397, 4004} बृ॒हत्¦वयः॑¦बृ॒ह॒ते¦तुभ्य᳚म्¦अ॒ग्ने॒¦धि॒या॒ऽजुरः॑¦मि॒थु॒नासः॑¦स॒च॒न्त॒ | |
उ॒रौ दे᳚वा, अनिबा॒धे स्या᳚म ||{भौमोत्रिः | विश्वदेवाः | एकपदाविराट्}{16/17}{4.2.22.6}{5.43.16}{5.3.11.16}{279, 397, 4005} उ॒रौ¦दे॒वाः॒¦अ॒नि॒ऽबा॒धे¦स्या॒म॒ || |
सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा᳚ सु॒प्रणी᳚ती गमेम |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} आ नो᳚ र॒यिं व॑हत॒मोत वी॒राना विश्वा᳚न्यमृता॒ सौभ॑गानि ||{17/17}{4.2.22.7}{5.43.17}{5.3.11.17}{280, 397, 4006} सम्¦अ॒श्विनोः᳚¦अव॑सा¦नूत॑नेन¦म॒यः॒ऽभुवा᳚¦सु॒ऽप्रनी᳚ती¦ग॒मे॒म॒ | |
[36] तंप्रत्नथेति पंचदशर्चस्य सूक्तस्य काश्यपोवत्सारोविश्वेदेवाजगत्यंत्येद्वेत्रिष्टुभौ (भेदपक्षे - इंद्रः २ अग्निः १ सूर्यः १ अग्निः १ विश्वेदेवाः १ सूर्यः १ अग्निः १ सूर्यः २ विश्वेदेवाः २ सुतंभरः १ अग्निः २ एवं १५) | |
तं प्र॒त्नथा᳚ पू॒र्वथा᳚ वि॒श्वथे॒मथा᳚ ज्ये॒ष्ठता᳚तिं बर्हि॒षदं᳚ स्व॒र्विद᳚म् |{काश्यपो वत्सारः | विश्वदेवाः | जगती} प्र॒ती॒ची॒नं वृ॒जनं᳚ दोहसे गि॒राऽऽशुं जय᳚न्त॒मनु॒ यासु॒ वर्ध॑से ||{1/15}{4.2.23.1}{5.44.1}{5.3.12.1}{281, 398, 4007} तम्¦प्र॒त्नऽथा᳚¦पू॒र्वऽथा᳚¦वि॒श्वऽथा᳚¦इ॒म्।आथा᳚¦ज्ये॒ष्ठऽता᳚तिम्¦ब॒र्हि॒ऽसद᳚म्¦स्वः॒ऽविद᳚म् | |
श्रि॒ये सु॒दृशी॒रुप॑रस्य॒ याः स्व᳚र्वि॒रोच॑मानः क॒कुभा᳚मचो॒दते᳚ |{काश्यपो वत्सारः | विश्वदेवाः | जगती} सु॒गो॒पा, अ॑सि॒ न दभा᳚य सुक्रतो प॒रो मा॒याभि᳚रृ॒त आ᳚स॒ नाम॑ ते ||{2/15}{4.2.23.2}{5.44.2}{5.3.12.2}{282, 398, 4008} श्रि॒ये¦सु॒ऽदृशीः᳚¦उप॑रस्य¦याः¦स्वः॑¦वि॒ऽरोच॑मानः¦क॒कुभा᳚म्¦अ॒चो॒दते᳚ | |
अत्यं᳚ ह॒विः स॑चते॒ सच्च॒ धातु॒ चारि॑ष्टगातुः॒ स होता᳚ सहो॒भरिः॑ |{काश्यपो वत्सारः | विश्वदेवाः | जगती} प्र॒सर्स्रा᳚णो॒, अनु॑ ब॒र्हिर्वृषा॒ शिशु॒र्मध्ये॒ युवा॒जरो᳚ वि॒स्रुहा᳚ हि॒तः ||{3/15}{4.2.23.3}{5.44.3}{5.3.12.3}{283, 398, 4009} अत्य᳚म्¦ह॒विः¦स॒च॒ते॒¦सत्¦च॒¦धातु॑¦च॒¦अरि॑ष्टऽगातुः¦सः¦होता᳚¦स॒हः॒ऽभरिः॑ | |
प्र व॑ ए॒ते सु॒युजो॒ याम᳚न्नि॒ष्टये॒ नीची᳚र॒मुष्मै᳚ य॒म्य॑ ऋता॒वृधः॑ |{काश्यपो वत्सारः | विश्वदेवाः | जगती} सु॒यन्तु॑भिः सर्वशा॒सैर॒भीशु॑भिः॒ क्रिवि॒र्नामा᳚नि प्रव॒णे मु॑षायति ||{4/15}{4.2.23.4}{5.44.4}{5.3.12.4}{284, 398, 4010} प्र¦वः॒¦ए॒ते¦सु॒ऽयुजः॑¦याम॑न्¦इ॒ष्टये᳚¦नीचीः᳚¦अ॒मुष्मै᳚¦य॒म्यः॑¦ऋ॒त॒ऽवृधः॑ | |
सं॒जर्भु॑राण॒स्तरु॑भिः सुते॒गृभं᳚ वया॒किनं᳚ चि॒त्तग॑र्भासु सु॒स्वरुः॑ |{काश्यपो वत्सारः | विश्वदेवाः | जगती} धा॒र॒वा॒केष्वृ॑जुगाथ शोभसे॒ वर्ध॑स्व॒ पत्नी᳚र॒भि जी॒वो, अ॑ध्व॒रे ||{5/15}{4.2.23.5}{5.44.5}{5.3.12.5}{285, 398, 4011} स॒म्ऽजर्भु॑राणः¦तरु॑ऽभिः¦सु॒ते॒ऽगृभ᳚म्¦व॒या॒किन᳚म्¦चि॒त्तऽग॑र्भासु¦सु॒ऽस्वरुः॑ | |
या॒दृगे॒व ददृ॑शे ता॒दृगु॑च्यते॒ सं छा॒यया᳚ दधिरे सि॒ध्रया॒प्स्वा |{काश्यपो वत्सारः | विश्वदेवाः | जगती} म॒हीम॒स्मभ्य॑मुरु॒षामु॒रु ज्रयो᳚ बृ॒हत् सु॒वीर॒मन॑पच्युतं॒ सहः॑ ||{6/15}{4.2.24.1}{5.44.6}{5.3.12.6}{286, 398, 4012} या॒दृक्¦ए॒व¦ददृ॑शे¦ता॒दृक्¦उ॒च्य॒ते॒¦सम्¦छा॒यया᳚¦द॒धि॒रे॒¦सि॒ध्रया᳚¦अ॒प्ऽसु¦आ | |
वेत्यग्रु॒र्जनि॑वा॒न् वा, अति॒ स्पृधः॑ समर्य॒ता मन॑सा॒ सूर्यः॑ क॒विः |{काश्यपो वत्सारः | विश्वदेवाः | जगती} घ्रं॒सं रक्ष᳚न्तं॒ परि॑ वि॒श्वतो॒ गय॑म॒स्माकं॒ शर्म॑ वनव॒त् स्वाव॑सुः ||{7/15}{4.2.24.2}{5.44.7}{5.3.12.7}{287, 398, 4013} वेति॑¦अग्रुः॑¦जनि॑ऽवान्¦वै¦अति॑¦स्पृधः॑¦स॒ऽम॒र्य॒ता¦मन॑सा¦सूर्यः॑¦क॒विः | |
ज्यायां᳚सम॒स्य य॒तुन॑स्य के॒तुन॑ ऋषिस्व॒रं च॑रति॒ यासु॒ नाम॑ ते |{काश्यपो वत्सारः | विश्वदेवाः | जगती} या॒दृश्मि॒न् धायि॒ तम॑प॒स्यया᳚ विद॒द् य उ॑ स्व॒यं वह॑ते॒ सो, अरं᳚ करत् ||{8/15}{4.2.24.3}{5.44.8}{5.3.12.8}{288, 398, 4014} ज्यायां᳚सम्¦अ॒स्य¦य॒तुन॑स्य¦के॒तुना᳚¦ऋ॒षि॒ऽस्व॒रम्¦च॒र॒ति॒¦यासु॑¦नाम॑¦ते॒ | |
स॒मु॒द्रमा᳚सा॒मव॑ तस्थे, अग्रि॒मा न रि॑ष्यति॒ सव॑नं॒ यस्मि॒न्नाय॑ता |{काश्यपो वत्सारः | विश्वदेवाः | जगती} अत्रा॒ न हार्दि॑ क्रव॒णस्य॑ रेजते॒ यत्रा᳚ म॒तिर्वि॒द्यते᳚ पूत॒बन्ध॑नी ||{9/15}{4.2.24.4}{5.44.9}{5.3.12.9}{289, 398, 4015} स॒मु॒द्रम्¦आ॒सा॒म्¦अव॑¦त॒स्थे॒¦अ॒ग्रि॒मा¦न¦रि॒ष्य॒ति॒¦सव॑नम्¦यस्मि॑न्¦आऽय॑ता | |
स हि क्ष॒त्रस्य॑ मन॒सस्य॒ चित्ति॑भिरेवाव॒दस्य॑ यज॒तस्य॒ सध्रेः᳚ |{काश्यपो वत्सारः | विश्वदेवाः | जगती} अ॒व॒त्सा॒रस्य॑ स्पृणवाम॒ रण्व॑भिः॒ शवि॑ष्ठं॒ वाजं᳚ वि॒दुषा᳚ चि॒दर्ध्य᳚म् ||{10/15}{4.2.24.5}{5.44.10}{5.3.12.10}{290, 398, 4016} सः¦हि¦क्ष॒त्रस्य॑¦म॒न॒सस्य॑¦चित्ति॑ऽभिः¦ए॒व॒ऽव॒दस्य॑¦य॒ज॒तस्य॑¦सध्रेः᳚ | |
श्ये॒न आ᳚सा॒मदि॑तिः क॒क्ष्यो॒३॑(ओ॒) मदो᳚ वि॒श्ववा᳚रस्य यज॒तस्य॑ मा॒यिनः॑ |{काश्यपो वत्सारः | विश्वदेवाः | जगती} सम॒न्यम᳚न्यमर्थय॒न्त्येत॑वे वि॒दुर्वि॒षाणं᳚ परि॒पान॒मन्ति॒ ते ||{11/15}{4.2.25.1}{5.44.11}{5.3.12.11}{291, 398, 4017} श्ये॒नः¦आ॒सा॒म्¦अदि॑तिः¦क॒क्ष्यः॑¦मदः॑¦वि॒श्वऽवा᳚रस्य¦य॒ज॒तस्य॑¦मा॒यिनः॑ | |
स॒दा॒पृ॒णो य॑ज॒तो वि द्विषो᳚ वधीद् बाहुवृ॒क्तः श्रु॑त॒वित्तर्यो᳚ वः॒ सचा᳚ |{काश्यपो वत्सारः | विश्वदेवाः | जगती} उ॒भा स वरा॒ प्रत्ये᳚ति॒ भाति॑ च॒ यदीं᳚ ग॒णं भज॑ते सुप्र॒याव॑भिः ||{12/15}{4.2.25.2}{5.44.12}{5.3.12.12}{292, 398, 4018} स॒दा॒ऽपृ॒णः¦य॒ज॒तः¦वि¦द्विषः॑¦व॒धी॒त्¦बा॒हु॒ऽवृ॒क्तः¦श्रु॒त॒ऽवित्¦तर्यः॑¦वः॒¦सचा᳚ | |
सु॒त॒म्भ॒रो यज॑मानस्य॒ सत्प॑ति॒र्विश्वा᳚सा॒मूधः॒ स धि॒यामु॒दञ्च॑नः |{काश्यपो वत्सारः | विश्वदेवाः | जगती} भर॑द् धे॒नू रस॑वच्छिश्रिये॒ पयो᳚ ऽनुब्रुवा॒णो, अध्ये᳚ति॒ न स्व॒पन् ||{13/15}{4.2.25.3}{5.44.13}{5.3.12.13}{293, 398, 4019} सु॒त॒म्ऽभ॒रः¦यज॑मानस्य¦सत्ऽप॑तिः¦विश्वा᳚साम्¦ऊधः॑¦सः¦धि॒याम्¦उ॒त्।आंच॑नः | |
यो जा॒गार॒ तमृचः॑ कामयन्ते॒ यो जा॒गार॒ तमु॒ सामा᳚नि यन्ति |{काश्यपो वत्सारः | विश्वदेवाः | त्रिष्टुप्} यो जा॒गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो᳚काः ||{14/15}{4.2.25.4}{5.44.14}{5.3.12.14}{294, 398, 4020} यः¦जा॒गार॑¦तम्¦ऋचः॑¦का॒म॒य॒न्ते॒¦यः¦जा॒गार॑¦तम्¦ऊँ॒ इति॑¦सामा᳚नि¦य॒न्ति॒ | |
अ॒ग्निर्जा᳚गार॒ तमृचः॑ कामयन्ते॒ ऽग्निर्जा᳚गार॒ तमु॒ सामा᳚नि यन्ति |{काश्यपो वत्सारः | विश्वदेवाः | त्रिष्टुप्} अ॒ग्निर्जा᳚गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो᳚काः ||{15/15}{4.2.25.5}{5.44.15}{5.3.12.15}{295, 398, 4021} अ॒ग्निः¦जा॒गा॒र॒¦तम्¦ऋचः॑¦का॒म॒य॒न्ते॒¦अ॒ग्निः¦जा॒गा॒र॒¦तम्¦ऊँ॒ इति॑¦सामा᳚नि¦य॒न्ति॒ | |
[37] विदादिवइत्येकादशर्चस्य सूक्तस्यात्रेयः सदापृणो विश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - इंद्रसूर्यौ १ विश्वेदेवाः २ इंद्राग्नी १ विश्वेदेवाः ६ आपः १ एवं ११ (अत्रसूक्ते सदापृणर्षेर्यजतइत्यादि लिंगोक्तऋषिभिः समुच्चयइति केचित्) | |
वि॒दा दि॒वो वि॒ष्यन्नद्रि॑मु॒क्थैरा᳚य॒त्या, उ॒षसो᳚, अ॒र्चिनो᳚ गुः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्} अपा᳚वृत व्र॒जिनी॒रुत् स्व॑र्गा॒द् वि दुरो॒ मानु॑षीर्दे॒व आ᳚वः ||{1/11}{4.2.26.1}{5.45.1}{5.4.1.1}{296, 399, 4022} वि॒दाः¦दि॒वः¦वि॒ऽस्यन्¦अद्रि᳚म्¦उ॒क्थैः¦आ॒ऽय॒त्याः¦उ॒षसः॑¦अ॒र्चिनः॑¦गुः॒ | |
वि सूर्यो᳚, अ॒मतिं॒ न श्रियं᳚ सा॒दोर्वाद् गवां᳚ मा॒ता जा᳚न॒ती गा᳚त् |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्} धन्व᳚र्णसो न॒द्य१॑(अः॒) खादो᳚अर्णाः॒ स्थूणे᳚व॒ सुमि॑ता दृंहत॒ द्यौः ||{2/11}{4.2.26.2}{5.45.2}{5.4.1.2}{297, 399, 4023} वि¦सूर्यः॑¦अ॒मति᳚म्¦न¦श्रिय᳚म्¦सा॒त्¦आ¦ऊ॒र्वात्¦गवा᳚म्¦मा॒ता¦जा॒न॒ती¦गा॒त् | |
अ॒स्मा, उ॒क्थाय॒ पर्व॑तस्य॒ गर्भो᳚ म॒हीनां᳚ ज॒नुषे᳚ पू॒र्व्याय॑ |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्} वि पर्व॑तो॒ जिही᳚त॒ साध॑त॒ द्यौरा॒विवा᳚सन्तो दसयन्त॒ भूम॑ ||{3/11}{4.2.26.3}{5.45.3}{5.4.1.3}{298, 399, 4024} अ॒स्मै¦उ॒क्थाय॑¦पर्व॑तस्य¦गर्भः॑¦म॒हीना᳚म्¦ज॒नुषे᳚¦पू॒र्व्याय॑ | |
सू॒क्तेभि᳚र्वो॒ वचो᳚भिर्दे॒वजु॑ष्टै॒रिन्द्रा॒ न्व१॑(अ॒)ग्नी, अव॑से हु॒वध्यै᳚ |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्} उ॒क्थेभि॒र्हि ष्मा᳚ क॒वयः॑ सुय॒ज्ञा, आ॒विवा᳚सन्तो म॒रुतो॒ यज᳚न्ति ||{4/11}{4.2.26.4}{5.45.4}{5.4.1.4}{299, 399, 4025} सु॒।औ॒क्तेभिः॑¦वः॒¦वचः॑ऽभिः¦दे॒वऽजु॑ष्टैः¦इन्द्रा᳚¦नु¦अ॒ग्नी इति॑¦अव॑से¦हु॒वध्यै᳚ | |
एतो॒ न्व१॑(अ॒)द्य सु॒ध्यो॒३॑(ओ॒) भवा᳚म॒ प्र दु॒च्छुना᳚ मिनवामा॒ वरी᳚यः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्} आ॒रे द्वेषां᳚सि सनु॒तर्द॑धा॒माऽया᳚म॒ प्राञ्चो॒ यज॑मान॒मच्छ॑ ||{5/11}{4.2.26.5}{5.45.5}{5.4.1.5}{300, 399, 4026} एतो॒ इति॑¦नु¦अ॒द्य¦सु॒ऽध्यः॑¦भवा᳚म¦प्र¦दु॒च्छुनाः᳚¦मि॒न॒वा॒म॒¦वरी᳚यः | |
एता॒ धियं᳚ कृ॒णवा᳚मा सखा॒यो ऽप॒ या मा॒ताँ, ऋ॑णु॒त व्र॒जं गोः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्} यया॒ मनु᳚र्विशिशि॒प्रं जि॒गाय॒ यया᳚ व॒णिग्व॒ङ्कुरापा॒ पुरी᳚षम् ||{6/11}{4.2.27.1}{5.45.6}{5.4.1.6}{301, 399, 4027} आ¦इ॒त॒¦धिय᳚म्¦कृ॒णवा᳚म¦स॒खा॒यः॒¦अप॑¦या¦मा॒ता¦ऋ॒णु॒त¦व्र॒जम्¦गोः | |
अनू᳚नो॒दत्र॒ हस्त॑यतो॒, अद्रि॒रार्च॒न् येन॒ दश॑ मा॒सो नव॑ग्वाः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्} ऋ॒तं य॒ती स॒रमा॒ गा, अ॑विन्द॒द् विश्वा᳚नि स॒त्याङ्गि॑राश्चकार ||{7/11}{4.2.27.2}{5.45.7}{5.4.1.7}{302, 399, 4028} अनू᳚नोत्¦अत्र॑¦हस्त॑ऽयतः¦अद्रिः॑¦आर्च॑न्¦येन॑¦दश॑¦मा॒सः¦नव॑ऽग्वाः | |
विश्वे᳚, अ॒स्या व्युषि॒ माहि॑नायाः॒ सं यद् गोभि॒रङ्गि॑रसो॒ नव᳚न्त |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्} उत्स॑ आसां पर॒मे स॒धस्थ॑ ऋ॒तस्य॑ प॒था स॒रमा᳚ विद॒द् गाः ||{8/11}{4.2.27.3}{5.45.8}{5.4.1.8}{303, 399, 4029} विश्वे᳚¦अ॒स्याः¦वि॒।औषि॑¦माहि॑नायाः¦सम्¦यत्¦गोभिः॑¦अङ्गि॑रसः¦नव᳚न्त | |
आ सूर्यो᳚ यातु स॒प्ताश्वः॒, क्षेत्रं॒ यद॑स्योर्वि॒या दी᳚र्घया॒थे |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्} र॒घुः श्ये॒नः प॑तय॒दन्धो॒, अच्छा॒ युवा᳚ क॒विर्दी᳚दय॒द् गोषु॒ गच्छ॑न् ||{9/11}{4.2.27.4}{5.45.9}{5.4.1.9}{304, 399, 4030} आ¦सूर्यः॑¦या॒तु॒¦स॒प्त।आ॑श्वः¦क्षेत्र᳚म्¦यत्¦अ॒स्य॒¦उ॒र्वि॒या¦दी॒र्घ॒ऽया॒थे | |
आ सूर्यो᳚, अरुहच्छु॒क्रमर्णोऽयु॑क्त॒ यद्ध॒रितो᳚ वी॒तपृ॑ष्ठाः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्} उ॒द्ना न नाव॑मनयन्त॒ धीरा᳚, आशृण्व॒तीरापो᳚, अ॒र्वाग॑तिष्ठन् ||{10/11}{4.2.27.5}{5.45.10}{5.4.1.10}{305, 399, 4031} आ¦सूर्यः॑¦अ॒रु॒ह॒त्¦शु॒क्रम्¦अर्णः॑¦अयु॑क्त¦यत्¦ह॒रितः॑¦वी॒तऽपृ॑ष्ठाः | |
धियं᳚ वो, अ॒प्सु द॑धिषे स्व॒र्षां ययात॑र॒न् दश॑ मा॒सो नव॑ग्वाः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्} अ॒या धि॒या स्या᳚म दे॒वगो᳚पा, अ॒या धि॒या तु॑तुर्या॒मात्यंहः॑ ||{11/11}{4.2.27.6}{5.45.11}{5.4.1.11}{306, 399, 4032} धिय᳚म्¦वः॒¦अ॒प्ऽसु¦द॒धि॒षे॒¦स्वः॒ऽसाम्¦यया᳚¦अत॑रन्¦दश॑¦मा॒सः¦नव॑ऽग्वाः | |
[38] हयोनेत्यष्टर्चस्यसूक्तस्यात्रेयःप्रतिक्षत्रोविश्वेदेवाजगती सप्तम्यष्टम्योर्देवपत्न्यः द्वितीयांत्येत्रिष्टुभौ | (भेदपक्षे-विश्वेदेवाः ६ देवपत्न्यः २ एवं ८) | |
हयो॒ न वि॒द्वाँ, अ॑युजि स्व॒यं धु॒रि तां व॑हामि प्र॒तर॑णीमव॒स्युव᳚म् |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती} नास्या᳚ वश्मि वि॒मुचं॒ नावृतं॒ पुन᳚र्वि॒द्वान् प॒थः पु॑रए॒त ऋ॒जु ने᳚षति ||{1/8}{4.2.28.1}{5.46.1}{5.4.2.1}{307, 400, 4033} हयः॑¦न¦वि॒द्वान्¦अ॒यु॒जि॒¦स्व॒यम्¦धु॒रि¦ताम्¦व॒हा॒मि॒¦प्र॒ऽतर॑णीम्¦अ॒व॒स्युव᳚म् | |
अग्न॒ इन्द्र॒ वरु॑ण॒ मित्र॒ देवाः॒ शर्धः॒ प्र य᳚न्त॒ मारु॑तो॒त वि॑ष्णो |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | त्रिष्टुप्} उ॒भा नास॑त्या रु॒द्रो, अध॒ ग्नाः पू॒षा भगः॒ सर॑स्वती जुषन्त ||{2/8}{4.2.28.2}{5.46.2}{5.4.2.2}{308, 400, 4034} अग्ने᳚¦इन्द्र॑¦वरु॑ण¦मित्र॑¦देवाः᳚¦शर्धः॑¦प्र¦य॒न्त॒¦मारु॑त¦उ॒त¦वि॒ष्णो॒ इति॑ | |
इ॒न्द्रा॒ग्नी मि॒त्रावरु॒णादि॑तिं॒ स्वः॑ पृथि॒वीं द्यां म॒रुतः॒ पर्व॑ताँ, अ॒पः |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती} हु॒वे विष्णुं᳚ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॒ भगं॒ नु शंसं᳚ सवि॒तार॑मू॒तये᳚ ||{3/8}{4.2.28.3}{5.46.3}{5.4.2.3}{309, 400, 4035} इ॒न्द्रा॒ग्नी इति॑¦मि॒त्रावरु॑णा¦अदि॑तिम्¦स्व१॒॑रिति॒ स्वः॑¦पृ॒थि॒वीम्¦द्याम्¦म॒रुतः॑¦पर्व॑तान्¦अ॒पः | |
उ॒त नो॒ विष्णु॑रु॒त वातो᳚, अ॒स्रिधो᳚ द्रविणो॒दा, उ॒त सोमो॒ मय॑स्करत् |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती} उ॒त ऋ॒भव॑ उ॒त रा॒ये नो᳚, अ॒श्विनो॒त त्वष्टो॒त विभ्वानु॑ मंसते ||{4/8}{4.2.28.4}{5.46.4}{5.4.2.4}{310, 400, 4036} उ॒त¦नः॒¦विष्णुः॑¦उ॒त¦वातः॑¦अ॒स्रिधः॑¦द्र॒वि॒णः॒ऽदाः¦उ॒त¦सोमः॑¦मयः॑¦क॒र॒त् | |
उ॒त त्यन्नो॒ मारु॑तं॒ शर्ध॒ आ ग॑मद् दिविक्ष॒यं य॑ज॒तं ब॒र्हिरा॒सदे᳚ |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती} बृह॒स्पतिः॒ शर्म॑ पू॒षोत नो᳚ यमद् वरू॒थ्य१॑(अं॒) वरु॑णो मि॒त्रो, अ᳚र्य॒मा ||{5/8}{4.2.28.5}{5.46.5}{5.4.2.5}{311, 400, 4037} उ॒त¦त्यत्¦नः॒¦मारु॑तम्¦शर्धः॑¦आ¦ग॒म॒त्¦दि॒वि॒ऽक्ष॒यम्¦य॒ज॒तम्¦ब॒र्हिः¦आ॒ऽसदे᳚ | |
उ॒त त्ये नः॒ पर्व॑तासः सुश॒स्तयः॑ सुदी॒तयो᳚ न॒द्य१॑(अ॒)स्त्राम॑णे भुवन् |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती} भगो᳚ विभ॒क्ता शव॒साव॒सा ग॑मदुरु॒व्यचा॒, अदि॑तिः श्रोतु मे॒ हव᳚म् ||{6/8}{4.2.28.6}{5.46.6}{5.4.2.6}{312, 400, 4038} उ॒त¦त्ये¦नः॒¦पर्व॑तासः¦सु॒ऽश॒स्तयः॑¦सु॒ऽदी॒तयः॑¦न॒द्यः॑¦त्राम॑णे¦भु॒व॒न् | |
दे॒वानां॒ पत्नी᳚रुश॒तीर॑वन्तु नः॒ प्राव᳚न्तु नस्तु॒जये॒ वाज॑सातये |{आत्रेयः प्रतिक्षत्रः | देवपत्न्यः | जगती} याः पार्थि॑वासो॒ या, अ॒पामपि᳚ व्र॒ते ता नो᳚ देवीः सुहवाः॒ शर्म॑ यच्छत ||{7/8}{4.2.28.7}{5.46.7}{5.4.2.7}{313, 400, 4039} दे॒वाना᳚म्¦पत्नीः᳚¦उ॒श॒तीः¦अ॒व॒न्तु॒¦नः॒¦प्र¦अ॒व॒न्तु॒¦नः॒¦तु॒जये᳚¦वाज॑ऽसातये | |
उ॒त ग्ना व्य᳚न्तु दे॒वप॑त्नीरिन्द्रा॒ण्य१॑(अ॒)ग्नाय्य॒श्विनी॒ राट् |{आत्रेयः प्रतिक्षत्रः | देवपत्न्यः | त्रिष्टुप्} आ रोद॑सी वरुणा॒नी शृ॑णोतु॒ व्यन्तु॑ दे॒वीर्य ऋ॒तुर्जनी᳚नाम् ||{8/8}{4.2.28.8}{5.46.8}{5.4.2.8}{314, 400, 4040} उ॒त¦ग्नाः¦व्य॒न्तु॒¦दे॒वऽप॑त्नीः¦इ॒न्द्रा॒णी¦अ॒ग्नायी᳚¦अ॒श्विनी᳚¦राट् | |
[39] प्रयुंजतीति सप्तर्चस्य सूक्तस्यात्रेयः प्रतिरथोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - उषाः १ सूर्यरश्मयः १ सूर्यः ३ विश्वेदेवाः १ मित्रावरुणाग्नयः १ एवं ७) | |
प्र॒यु॒ञ्ज॒ती दि॒व ए᳚ति ब्रुवा॒णा म॒ही मा॒ता दु॑हि॒तुर्बो॒धय᳚न्ती |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्} आ॒विवा᳚सन्ती युव॒तिर्म॑नी॒षा पि॒तृभ्य॒ आ सद॑ने॒ जोहु॑वाना ||{1/7}{4.3.1.1}{5.47.1}{5.4.3.1}{315, 401, 4041} प्र॒ऽयुं॒ज॒ती¦दि॒वः¦ए॒ति॒¦ब्रु॒वा॒णा¦म॒ही¦मा॒ता¦दु॒हि॒तुः¦बो॒धय᳚न्ती | |
अ॒जि॒रास॒स्तद॑प॒ ईय॑माना, आतस्थि॒वांसो᳚, अ॒मृत॑स्य॒ नाभि᳚म् |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्} अ॒न॒न्तास॑ उ॒रवो᳚ वि॒श्वतः॑ सीं॒ परि॒ द्यावा᳚पृथि॒वी य᳚न्ति॒ पन्थाः᳚ ||{2/7}{4.3.1.2}{5.47.2}{5.4.3.2}{316, 401, 4042} अ॒जि॒रासः॑¦तत्।आ॑पः¦ईय॑मानाः¦आ॒त॒स्थि॒ऽवांसः॑¦अ॒मृत॑स्य¦नाभि᳚म् | |
उ॒क्षा स॑मु॒द्रो, अ॑रु॒षः सु॑प॒र्णः पूर्व॑स्य॒ योनिं᳚ पि॒तुरा वि॑वेश |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्} मध्ये᳚ दि॒वो निहि॑तः॒ पृश्नि॒रश्मा॒ वि च॑क्रमे॒ रज॑सस्पा॒त्यन्तौ᳚ ||{3/7}{4.3.1.3}{5.47.3}{5.4.3.3}{317, 401, 4043} उ॒क्षा¦स॒मु॒द्रः¦अ॒रु॒षः¦सु॒ऽप॒र्णः¦पूर्व॑स्य¦योनि᳚म्¦पि॒तुः¦आ¦वि॒वे॒श॒ | |
च॒त्वार॑ ईं बिभ्रति क्षेम॒यन्तो॒ दश॒ गर्भं᳚ च॒रसे᳚ धापयन्ते |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्} त्रि॒धात॑वः पर॒मा, अ॑स्य॒ गावो᳚ दि॒वश्च॑रन्ति॒ परि॑ स॒द्यो, अन्ता॑न् ||{4/7}{4.3.1.4}{5.47.4}{5.4.3.4}{318, 401, 4044} च॒त्वारः॑¦ई॒म्¦बि॒भ्र॒ति॒¦क्षे॒म॒ऽयन्तः॑¦दश॑¦गर्भ᳚म्¦च॒रसे᳚¦धा॒प॒य॒न्ते॒ | |
इ॒दं वपु᳚र्नि॒वच॑नं जनास॒श्चर᳚न्ति॒ यन्न॒द्य॑स्त॒स्थुरापः॑ |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्} द्वे यदीं᳚ बिभृ॒तो मा॒तुर॒न्ये, इ॒हेह॑ जा॒ते य॒म्या॒३॑(आ॒) सब᳚न्धू ||{5/7}{4.3.1.5}{5.47.5}{5.4.3.5}{319, 401, 4045} इ॒दम्¦वपुः॑¦नि॒ऽवच॑नम्¦ज॒ना॒सः॒¦चर᳚न्ति¦यत्¦न॒द्यः॑¦त॒स्थुः¦आपः॑ | |
वि त᳚न्वते॒ धियो᳚, अस्मा॒, अपां᳚सि॒ वस्त्रा᳚ पु॒त्राय॑ मा॒तरो᳚ वयन्ति |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्} उ॒प॒प्र॒क्षे वृष॑णो॒ मोद॑माना दि॒वस्प॒था व॒ध्वो᳚ य॒न्त्यच्छ॑ ||{6/7}{4.3.1.6}{5.47.6}{5.4.3.6}{320, 401, 4046} वि¦त॒न्व॒ते॒¦धियः॑¦अ॒स्मै॒¦अपां᳚सि¦वस्त्रा᳚¦पु॒त्राय॑¦मा॒तरः॑¦व॒य॒न्ति॒ | |
तद॑स्तु मित्रावरुणा॒ तद॑ग्ने॒ शं योर॒स्मभ्य॑मि॒दम॑स्तु श॒स्तम् |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्} अ॒शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठां नमो᳚ दि॒वे बृ॑ह॒ते साद॑नाय ||{7/7}{4.3.1.7}{5.47.7}{5.4.3.7}{321, 401, 4047} तत्¦अ॒स्तु॒¦मि॒त्रा॒व॒रु॒णा॒¦तत्¦अ॒ग्ने॒¦शम्¦योः¦अ॒स्मभ्य᳚म्¦इ॒दम्¦अ॒स्तु॒¦श॒स्तम् | |
[40] कदुप्रियायेति पंचर्चस्य सूक्तस्यात्रेयः प्रतिभानुर्विश्वेदेवाजगती | (भेदपक्षे - विद्युतोग्निः १ उषाः १ इंद्रसूर्यौ १ अग्निः २ एवं ५) | |
कदु॑ प्रि॒याय॒ धाम्ने᳚ मनामहे॒ स्वक्ष॑त्राय॒ स्वय॑शसे म॒हे व॒यम् |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती} आ॒मे॒न्यस्य॒ रज॑सो॒ यद॒भ्र आँ, अ॒पो वृ॑णा॒ना वि॑त॒नोति॑ मा॒यिनी᳚ ||{1/5}{4.3.2.1}{5.48.1}{5.4.4.1}{322, 402, 4048} कत्¦ऊँ॒ इति॑¦प्रि॒याय॑¦धाम्ने᳚¦म॒ना॒म॒हे॒¦स्वऽक्ष॑त्राय¦स्वऽय॑शसे¦म॒हे¦व॒यम् | |
ता, अ॑त्नत व॒युनं᳚ वी॒रव॑क्षणं समा॒न्या वृ॒तया॒ विश्व॒मा रजः॑ |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती} अपो॒, अपा᳚ची॒रप॑रा॒, अपे᳚जते॒ प्र पूर्वा᳚भिस्तिरते देव॒युर्जनः॑ ||{2/5}{4.3.2.2}{5.48.2}{5.4.4.2}{323, 402, 4049} ताः¦अ॒त्न॒त॒¦व॒युन᳚म्¦वी॒रऽव॑क्षणम्¦स॒मा॒न्या¦वृ॒तया᳚¦विश्व᳚म्¦आ¦रजः॑ | |
आ ग्राव॑भिरह॒न्ये᳚भिर॒क्तुभि॒र्वरि॑ष्ठं॒ वज्र॒मा जि॑घर्ति मा॒यिनि॑ |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती} श॒तं वा॒ यस्य॑ प्र॒चर॒न् त्स्वे दमे᳚ संव॒र्तय᳚न्तो॒ वि च॑ वर्तय॒न्नहा᳚ ||{3/5}{4.3.2.3}{5.48.3}{5.4.4.3}{324, 402, 4050} आ¦ग्राव॑ऽभिः¦अ॒ह॒न्ये᳚भिः¦अ॒क्तुऽभिः॑¦वरि॑ष्ठम्¦वज्र᳚म्¦आ¦जि॒घ॒र्ति॒¦मा॒यिनि॑ | |
ताम॑स्य री॒तिं प॑र॒शोरि॑व॒ प्रत्यनी᳚कमख्यं भु॒जे, अ॑स्य॒ वर्प॑सः |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती} सचा॒ यदि॑ पितु॒मन्त॑मिव॒ क्षयं॒ रत्नं॒ दधा᳚ति॒ भर॑हूतये वि॒शे ||{4/5}{4.3.2.4}{5.48.4}{5.4.4.4}{325, 402, 4051} ताम्¦अ॒स्य॒¦री॒तिम्¦प॒र॒शोःऽइ᳚व¦प्रति॑¦अनी᳚कम्¦अ॒ख्य॒म्¦भु॒जे¦अ॒स्य॒¦वर्प॑सः | |
स जि॒ह्वया॒ चतु॑रनीक ऋञ्जते॒ चारु॒ वसा᳚नो॒ वरु॑णो॒ यत᳚न्न॒रिम् |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती} न तस्य॑ विद्म पुरुष॒त्वता᳚ व॒यं यतो॒ भगः॑ सवि॒ता दाति॒ वार्य᳚म् ||{5/5}{4.3.2.5}{5.48.5}{5.4.4.5}{326, 402, 4052} सः¦जि॒ह्वया᳚¦चतुः॑।आनीकः¦ऋं॒ज॒ते॒¦चारु॑¦वसा᳚नः¦वरु॑णः¦यत॑न्¦अ॒रिम् | |
[41] देवंवइति पंचर्चस्य सूक्तस्यात्रेयः प्रतिप्रभुर्विश्वेदेवास्त्रिष्टुप् अंत्यातृणपाणिः | (भेदपक्षे - विश्वेदेवाः १ सूर्यः १ विश्वेदेवाः ३ एवं ५) | |
दे॒वं वो᳚, अ॒द्य स॑वि॒तार॒मेषे॒ भगं᳚ च॒ रत्नं᳚ वि॒भज᳚न्तमा॒योः |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | त्रिष्टुप्} आ वां᳚ नरा पुरुभुजा ववृत्यां दि॒वेदि॑वे चिदश्विना सखी॒यन् ||{1/5}{4.3.3.1}{5.49.1}{5.4.5.1}{327, 403, 4053} दे॒वम्¦वः॒¦अ॒द्य¦स॒वि॒तार᳚म्¦आ¦ई॒षे॒¦भग᳚म्¦च॒¦रत्न᳚म्¦वि॒ऽभज᳚न्तम्¦आ॒योः | |
प्रति॑ प्र॒याण॒मसु॑रस्य वि॒द्वान् त्सू॒क्तैर्दे॒वं स॑वि॒तारं᳚ दुवस्य |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | त्रिष्टुप्} उप॑ ब्रुवीत॒ नम॑सा विजा॒नञ्ज्येष्ठं᳚ च॒ रत्नं᳚ वि॒भज᳚न्तमा॒योः ||{2/5}{4.3.3.2}{5.49.2}{5.4.5.2}{328, 403, 4054} प्रति॑¦प्र॒ऽयान᳚म्¦असु॑रस्य¦वि॒द्वान्¦सु॒।औ॒क्तैः¦दे॒वम्¦स॒वि॒तार᳚म्¦दु॒व॒स्य॒ | |
अ॒द॒त्र॒या द॑यते॒ वार्या᳚णि पू॒षा भगो॒, अदि॑ति॒र्वस्त॑ उ॒स्रः |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | त्रिष्टुप्} इन्द्रो॒ विष्णु॒र्वरु॑णो मि॒त्रो, अ॒ग्निरहा᳚नि भ॒द्रा ज॑नयन्त द॒स्माः ||{3/5}{4.3.3.3}{5.49.3}{5.4.5.3}{329, 403, 4055} अ॒द॒त्र॒ऽया¦द॒य॒ते॒¦वार्या᳚णि¦पू॒षा¦भगः॑¦अदि॑तिः¦वस्ते᳚¦उ॒स्रः | |
तन्नो᳚, अन॒र्वा स॑वि॒ता वरू᳚थं॒ तत् सिन्ध॑व इ॒षय᳚न्तो॒, अनु॑ ग्मन् |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | त्रिष्टुप्} उप॒ यद् वोचे᳚, अध्व॒रस्य॒ होता᳚ रा॒यः स्या᳚म॒ पत॑यो॒ वाज॑रत्नाः ||{4/5}{4.3.3.4}{5.49.4}{5.4.5.4}{330, 403, 4056} तत्¦नः॒¦अ॒न॒र्वा¦स॒वि॒ता¦वरू᳚थम्¦तत्¦सिन्ध॑वः¦इ॒षय᳚न्तः¦अनु॑¦ग्म॒न् | |
प्र ये वसु॑भ्य॒ ईव॒दा नमो॒ दुर्ये मि॒त्रे वरु॑णे सू॒क्तवा᳚चः |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | तृणपाणिः} अवै॒त्वभ्वं᳚ कृणु॒ता वरी᳚यो दि॒वस्पृ॑थि॒व्योरव॑सा मदेम ||{5/5}{4.3.3.5}{5.49.5}{5.4.5.5}{331, 403, 4057} प्र¦ये¦वसु॑ऽभ्यः¦ईव॑त्¦आ¦नमः॑¦दुः¦ये¦मि॒त्रे¦वरु॑णे¦सू॒क्तऽवा᳚चः | |
[42] विश्वोदेवस्येति पंचर्चस्य सूक्तस्य स्वस्त्यात्रेयोविश्वेदेवाअनुष्टुप्अंत्यापङ्क्तिः | (भेदपक्षे - सविता २ विश्वेदेवाः १ सविता २ एवं ५) | |
विश्वो᳚ दे॒वस्य॑ ने॒तुर्मर्तो᳚ वुरीत स॒ख्यम् |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्} विश्वो᳚ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे᳚ ||{1/5}{4.3.4.1}{5.50.1}{5.4.6.1}{332, 404, 4058} विश्वः॑¦दे॒वस्य॑¦ने॒तुः¦मर्तः॑¦वु॒री॒त॒¦स॒ख्यम् | विश्वः॑¦रा॒ये¦इ॒षु॒ध्य॒ति॒¦द्यु॒म्नम्¦वृ॒णी॒त॒¦पु॒ष्यसे᳚ || |
ते ते᳚ देव नेत॒र्ये चे॒माँ, अ॑नु॒शसे᳚ |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्} ते रा॒या ते ह्या॒३॑(आ॒)पृचे॒ सचे᳚महि सच॒थ्यैः᳚ ||{2/5}{4.3.4.2}{5.50.2}{5.4.6.2}{333, 404, 4059} ते¦ते॒¦दे॒व॒¦ने॒तः॒¦ये¦च॒¦इ॒मान्¦अ॒नु॒ऽशसे᳚ | ते¦रा॒या¦ते¦हि¦आ॒ऽपृचे᳚¦सचे᳚महि¦स॒च॒थ्यैः᳚ || |
अतो᳚ न॒ आ नॄनति॑थी॒नतः॒ पत्नी᳚र्दशस्यत |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्} आ॒रे विश्वं᳚ पथे॒ष्ठां द्वि॒षो यु॑योतु॒ यूयु॑विः ||{3/5}{4.3.4.3}{5.50.3}{5.4.6.3}{334, 404, 4060} अतः॑¦नः॒¦आ¦नॄन्¦अति॑थीन्¦अतः॑¦पत्नीः᳚¦द॒श॒स्य॒त॒ | आ॒रे¦विश्व᳚म्¦प॒थे॒ऽस्थाम्¦द्वि॒षः¦यु॒यो॒तु॒¦युयु॑विः || |
यत्र॒ वह्नि॑र॒भिहि॑तो दु॒द्रव॒द् द्रोण्यः॑ प॒शुः |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्} नृ॒मणा᳚ वी॒रप॒स्त्यो ऽर्णा॒ धीरे᳚व॒ सनि॑ता ||{4/5}{4.3.4.4}{5.50.4}{5.4.6.4}{335, 404, 4061} यत्र॑¦वह्निः॑¦अ॒भिऽहि॑तः¦दु॒द्रव॑त्¦द्रोण्यः॑¦प॒शुः | नृ॒ऽमनाः᳚¦वी॒रऽप॑स्त्यः¦अर्णा᳚¦धीरा᳚ऽइव¦सनि॑ता || |
ए॒ष ते᳚ देव नेता॒ रथ॒स्पतिः॒ शं र॒यिः |{स्वस्त्यात्रेयः | विश्वदेवाः | पङ्क्तिः} शं रा॒ये शं स्व॒स्तय॑ इषः॒स्तुतो᳚ मनामहे देव॒स्तुतो᳚ मनामहे ||{5/5}{4.3.4.5}{5.50.5}{5.4.6.5}{336, 404, 4062} ए॒षः¦ते॒¦दे॒व॒¦ने॒त॒रिति॑¦रथः॒पतिः॑¦शम्¦र॒यिः | |
[43] अग्नेसुतस्येति पंचदशर्चस्य सूक्तस्य स्वस्त्यात्रेयो विश्वेदेवाश्चतुर्थीषष्टीसप्तमीनामिंद्रवायू पंचम्यावायुः आद्याश्चतस्रो गायत्र्यः पंचम्यादिषळुष्णिहः एकादश्यादितिस्रोजगत्यः (त्रिष्टुभोवा) अंत्येद्वेअनुष्टुभौ | (भेदपक्षे - अग्निः २ विश्वेदेवाः १ इंद्रवायू १ वायुः १ इंद्रवायू २ अग्निः ३ विश्वेदेवाः ५ एवं १५) | |
अग्ने᳚ सु॒तस्य॑ पी॒तये॒ विश्वै॒रूमे᳚भि॒रा ग॑हि |{स्वस्त्यात्रेयः | विश्वदेवाः | गायत्री} दे॒वेभि᳚र्ह॒व्यदा᳚तये ||{1/15}{4.3.5.1}{5.51.1}{5.4.7.1}{337, 405, 4063} अग्ने᳚¦सु॒तस्य॑¦पी॒तये᳚¦विश्वैः᳚¦ऊमे᳚भिः¦आ¦ग॒हि॒ | दे॒वेभिः॑¦ह॒व्यऽदा᳚तये || |
ऋत॑धीतय॒ आ ग॑त॒ सत्य॑धर्माणो, अध्व॒रम् |{स्वस्त्यात्रेयः | विश्वदेवाः | गायत्री} अ॒ग्नेः पि॑बत जि॒ह्वया᳚ ||{2/15}{4.3.5.2}{5.51.2}{5.4.7.2}{338, 405, 4064} ऋत॑ऽधीतयः¦आ¦ग॒त॒¦सत्य॑ऽधर्माणः¦अ॒ध्व॒रम् | अ॒ग्नेः¦पि॒ब॒त॒¦जि॒ह्वया᳚ || |
विप्रे᳚भिर्विप्र सन्त्य प्रात॒र्याव॑भि॒रा ग॑हि |{स्वस्त्यात्रेयः | विश्वदेवाः | गायत्री} दे॒वेभिः॒ सोम॑पीतये ||{3/15}{4.3.5.3}{5.51.3}{5.4.7.3}{339, 405, 4065} विप्रे᳚भिः¦वि॒प्र॒¦स॒न्त्य॒¦प्रा॒त॒र्याव॑ऽभिः¦आ¦ग॒हि॒ | दे॒वेभिः॑¦सोम॑ऽपीतये || |
अ॒यं सोम॑श्च॒मू सु॒तो ऽम॑त्रे॒ परि॑ षिच्यते |{स्वस्त्यात्रेयः | इंद्रवायू | गायत्री} प्रि॒य इन्द्रा᳚य वा॒यवे᳚ ||{4/15}{4.3.5.4}{5.51.4}{5.4.7.4}{340, 405, 4066} अ॒यम्¦सोमः॑¦च॒मू इति॑¦सु॒तः¦अम॑त्रे¦परि॑¦सि॒च्य॒ते॒ | प्रि॒यः¦इन्द्रा᳚य¦वा॒यवे᳚ || |
वाय॒वा या᳚हि वी॒तये᳚ जुषा॒णो ह॒व्यदा᳚तये |{स्वस्त्यात्रेयः | वायुः | उष्णिक्} पिबा᳚ सु॒तस्यान्ध॑सो, अ॒भि प्रयः॑ ||{5/15}{4.3.5.5}{5.51.5}{5.4.7.5}{341, 405, 4067} वायो॒ इति॑¦आ¦या॒हि॒¦वी॒तये᳚¦जु॒षा॒णः¦ह॒व्यऽदा᳚तये | पिब॑¦सु॒तस्य॑¦अन्ध॑सः¦अ॒भि¦प्रयः॑ || |
इन्द्र॑श्च वायवेषां सु॒तानां᳚ पी॒तिम᳚र्हथः |{स्वस्त्यात्रेयः | इंद्रवायू | उष्णिक्} ताञ्जु॑षेथामरे॒पसा᳚व॒भि प्रयः॑ ||{6/15}{4.3.6.1}{5.51.6}{5.4.7.6}{342, 405, 4068} इन्द्रः॑¦च॒¦वा॒यो॒ इति॑¦ए॒षा॒म्¦सु॒ताना᳚म्¦पी॒तिम्¦अ॒र्ह॒थः॒ | तान्¦जु॒षे॒था॒म्¦अ॒रे॒पसौ᳚¦अ॒भि¦प्रयः॑ || |
सु॒ता, इन्द्रा᳚य वा॒यवे॒ सोमा᳚सो॒ दध्या᳚शिरः |{स्वस्त्यात्रेयः | इंद्रवायू | उष्णिक्} नि॒म्नं न य᳚न्ति॒ सिन्ध॑वो॒ऽभि प्रयः॑ ||{7/15}{4.3.6.2}{5.51.7}{5.4.7.7}{343, 405, 4069} सु॒ताः¦इन्द्रा᳚य¦वा॒यवे᳚¦सोमा᳚सः¦दधि॑ऽआशिरः | नि॒म्नम्¦न¦य॒न्ति॒¦सिन्ध॑वः¦अ॒भि¦प्रयः॑ || |
स॒जूर्विश्वे᳚भिर्दे॒वेभि॑र॒श्विभ्या᳚मु॒षसा᳚ स॒जूः |{स्वस्त्यात्रेयः | विश्वदेवाः | उष्णिक्} आ या᳚ह्यग्ने, अत्रि॒वत्सु॒ते र॑ण ||{8/15}{4.3.6.3}{5.51.8}{5.4.7.8}{344, 405, 4070} स॒ऽजूः¦विश्वे᳚भिः¦दे॒वेभिः॑¦अ॒श्विऽभ्या᳚म्¦उ॒षसा᳚¦स॒ऽजूः | आ¦या॒हि॒¦अ॒ग्ने॒¦अ॒त्रि॒ऽवत्¦सु॒ते¦रण॒ || |
स॒जूर्मि॒त्रावरु॑णाभ्यां स॒जूः सोमे᳚न॒ विष्णु॑ना |{स्वस्त्यात्रेयः | विश्वदेवाः | उष्णिक्} आ या᳚ह्यग्ने, अत्रि॒वत्सु॒ते र॑ण ||{9/15}{4.3.6.4}{5.51.9}{5.4.7.9}{345, 405, 4071} स॒ऽजूः¦मि॒त्रावरु॑णाभ्याम्¦स॒ऽजूः¦सोमे᳚न¦विष्णु॑ना | आ¦या॒हि॒¦अ॒ग्ने॒¦अ॒त्रि॒ऽवत्¦सु॒ते¦रण॒ || |
स॒जूरा᳚दि॒त्यैर्वसु॑भिः स॒जूरिन्द्रे᳚ण वा॒युना᳚ |{स्वस्त्यात्रेयः | विश्वदेवाः | उष्णिक्} आ या᳚ह्यग्ने, अत्रि॒वत्सु॒ते र॑ण ||{10/15}{4.3.6.5}{5.51.10}{5.4.7.10}{346, 405, 4072} स॒ऽजूः¦आ॒दि॒त्यैः¦वसु॑ऽभिः¦स॒ऽजूः¦इन्द्रे᳚ण¦वा॒युना᳚ | आ¦या॒हि॒¦अ॒ग्ने॒¦अ॒त्रि॒ऽवत्¦सु॒ते¦रण॒ || |
स्व॒स्ति नो᳚ मिमीताम॒श्विना॒ भगः॑ स्व॒स्ति दे॒व्यदि॑तिरन॒र्वणः॑ |{स्वस्त्यात्रेयः | विश्वदेवाः | जगती त्रिष्टुभोवा} स्व॒स्ति पू॒षा, असु॑रो दधातु नः स्व॒स्ति द्यावा᳚पृथि॒वी सु॑चे॒तुना᳚ ||{11/15}{4.3.7.1}{5.51.11}{5.4.7.11}{347, 405, 4073} स्व॒स्ति¦नः॒¦मि॒मी॒ता॒म्¦अ॒श्विना᳚¦भगः॑¦स्व॒स्ति¦दे॒वी¦अदि॑तिः¦अ॒न॒र्वणः॑ | |
स्व॒स्तये᳚ वा॒युमुप॑ ब्रवामहै॒ सोमं᳚ स्व॒स्ति भुव॑नस्य॒ यस्पतिः॑ |{स्वस्त्यात्रेयः | विश्वदेवाः | जगती त्रिष्टुभोवा} बृह॒स्पतिं॒ सर्व॑गणं स्व॒स्तये᳚ स्व॒स्तय॑ आदि॒त्यासो᳚ भवन्तु नः ||{12/15}{4.3.7.2}{5.51.12}{5.4.7.12}{348, 405, 4074} स्व॒स्तये᳚¦वा॒युम्¦उप॑¦ब्र॒वा॒म॒है॒¦सोम᳚म्¦स्व॒स्ति¦भुव॑नस्य¦यः¦पतिः॑ | |
विश्वे᳚ दे॒वा नो᳚, अ॒द्या स्व॒स्तये᳚ वैश्वान॒रो वसु॑र॒ग्निः स्व॒स्तये᳚ |{स्वस्त्यात्रेयः | विश्वदेवाः | जगती त्रिष्टुभोवा} दे॒वा, अ॑वन्त्वृ॒भवः॑ स्व॒स्तये᳚ स्व॒स्ति नो᳚ रु॒द्रः पा॒त्वंह॑सः ||{13/15}{4.3.7.3}{5.51.13}{5.4.7.13}{349, 405, 4075} विश्वे᳚¦दे॒वाः¦नः॒¦अ॒द्य¦स्व॒स्तये᳚¦वै॒श्वा॒न॒रः¦वसुः॑¦अ॒ग्निः¦स्व॒स्तये᳚ | |
स्व॒स्ति मि॑त्रावरुणा स्व॒स्ति प॑थ्ये रेवति |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्} स्व॒स्ति न॒ इन्द्र॑श्चा॒ग्निश्च॑ स्व॒स्ति नो᳚, अदिते कृधि ||{14/15}{4.3.7.4}{5.51.14}{5.4.7.14}{350, 405, 4076} स्व॒स्ति¦मि॒त्रा॒व॒रु॒णा॒¦स्व॒स्ति¦प॒थ्ये॒¦रे॒व॒ति॒ | स्व॒स्ति¦नः॒¦इन्द्रः॑¦च॒¦अ॒ग्निः¦च॒¦स्व॒स्ति¦नः॒¦अ॒दि॒ते॒¦कृ॒धि॒ || |
स्व॒स्ति पन्था॒मनु॑ चरेम सूर्याचन्द्र॒मसा᳚विव |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्} पुन॒र्दद॒ताघ्न॑ता जान॒ता सं ग॑मेमहि ||{15/15}{4.3.7.5}{5.51.15}{5.4.7.15}{351, 405, 4077} स्व॒स्ति¦पन्था᳚म्¦अनु॑¦च॒रे॒म॒¦सू॒र्या॒च॒न्द्र॒मसौ᳚ऽइव | पुनः॑¦दद॑ता¦अघ्न॑ता¦जा॒न॒ता¦सम्¦ग॒मे॒म॒हि॒ || |
[44] प्रश्यावाश्वेति सप्तदशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतोनुष्टुप् षष्ठीषोडशीसप्तदश्यःपंक्त्यः | |
प्र श्या᳚वाश्व धृष्णु॒या ऽर्चा᳚ म॒रुद्भि॒रृक्व॑भिः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} ये, अ॑द्रो॒घम॑नुष्व॒धं श्रवो॒ मद᳚न्ति य॒ज्ञियाः᳚ ||{1/17}{4.3.8.1}{5.52.1}{5.4.8.1}{352, 406, 4078} प्र¦श्या॒व॒।आ॒श्व॒¦धृ॒ष्णु॒ऽया¦अर्च॑¦म॒रुत्ऽभिः॑¦ऋक्व॑ऽभिः | ये¦अ॒द्रो॒घम्¦अ॒नु॒ऽस्व॒धम्¦श्रवः॑¦मद᳚न्ति¦य॒ज्ञियाः᳚ || |
ते हि स्थि॒रस्य॒ शव॑सः॒ सखा᳚यः॒ सन्ति॑ धृष्णु॒या |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} ते याम॒न्ना धृ॑ष॒द्विन॒स्त्मना᳚ पान्ति॒ शश्व॑तः ||{2/17}{4.3.8.2}{5.52.2}{5.4.8.2}{353, 406, 4079} ते¦हि¦स्थि॒रस्य॑¦शव॑सः¦सखा᳚यः¦सन्ति॑¦धृ॒ष्णु॒ऽया | ते¦याम॑न्¦आ¦धृ॒ष॒त्ऽविनः॑¦त्मना᳚¦पा॒न्ति॒¦शश्व॑तः || |
ते स्प॒न्द्रासो॒ नोक्षणो ऽति॑ ष्कन्दन्ति॒ शर्व॑रीः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} म॒रुता॒मधा॒ महो᳚ दि॒वि क्ष॒मा च॑ मन्महे ||{3/17}{4.3.8.3}{5.52.3}{5.4.8.3}{354, 406, 4080} ते¦स्प॒न्द्रासः॑¦न¦उ॒क्षणः॑¦अति॑¦स्क॒न्द॒न्ति॒¦शर्व॑रीः | म॒रुता᳚म्¦अध॑¦महः॑¦दि॒वि¦क्ष॒मा¦च॒¦म॒न्म॒हे॒ || |
म॒रुत्सु॑ वो दधीमहि॒ स्तोमं᳚ य॒ज्ञं च॑ धृष्णु॒या |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} विश्वे॒ ये मानु॑षा यु॒गा पान्ति॒ मर्त्यं᳚ रि॒षः ||{4/17}{4.3.8.4}{5.52.4}{5.4.8.4}{355, 406, 4081} म॒रुत्ऽसु॑¦वः॒¦द॒धी॒म॒हि॒¦स्तोम᳚म्¦य॒ज्ञम्¦च॒¦धृ॒ष्णु॒ऽया | विश्वे᳚¦ये¦मानु॑षा¦यु॒गा¦पान्ति॑¦मर्त्य᳚म्¦रि॒षः || |
अर्ह᳚न्तो॒ ये सु॒दान॑वो॒ नरो॒, असा᳚मिशवसः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} प्र य॒ज्ञं य॒ज्ञिये᳚भ्यो दि॒वो, अ॑र्चा म॒रुद्भ्यः॑ ||{5/17}{4.3.8.5}{5.52.5}{5.4.8.5}{356, 406, 4082} अर्ह᳚न्तः¦ये¦सु॒ऽदान॑वः¦नरः॑¦असा᳚मिऽशवसः | प्र¦य॒ज्ञम्¦य॒ज्ञिये᳚भ्यः¦दि॒वः¦अ॒र्च॒¦म॒रुत्ऽभ्यः॑ || |
आ रु॒क्मैरा यु॒धा नर॑ ऋ॒ष्वा, ऋ॒ष्टीर॑सृक्षत |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} अन्वे᳚नाँ॒, अह॑ वि॒द्युतो᳚ म॒रुतो॒ जज्झ॑तीरिव भा॒नुर॑र्त॒ त्मना᳚ दि॒वः ||{6/17}{4.3.9.1}{5.52.6}{5.4.8.6}{357, 406, 4083} आ¦रु॒क्मैः¦आ¦यु॒धा¦नरः॑¦ऋ॒ष्वाः¦ऋ॒ष्टीः¦अ॒सृ॒क्ष॒त॒ | अनु॑¦ए॒ना॒न्¦अह॑¦वि॒ऽद्युतः॑¦म॒रुतः॑¦जज्झ॑तीःऽइव¦भा॒नुः¦अ॒र्त॒¦त्मना᳚¦दि॒वः || |
ये वा᳚वृ॒धन्त॒ पार्थि॑वा॒ य उ॒राव॒न्तरि॑क्ष॒ आ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} वृ॒जने᳚ वा न॒दीनां᳚ स॒धस्थे᳚ वा म॒हो दि॒वः ||{7/17}{4.3.9.2}{5.52.7}{5.4.8.7}{358, 406, 4084} ये¦व॒वृ॒धन्त॑¦पार्थि॑वाः¦ये¦उ॒रौ¦अ॒न्तरि॑क्षे¦आ | वृ॒जने᳚¦वा॒¦न॒दीना᳚म्¦स॒धऽस्थे᳚¦वा॒¦म॒हः¦दि॒वः || |
शर्धो॒ मारु॑त॒मुच्छं᳚स स॒त्यश॑वस॒मृभ्व॑सम् |{आत्रेयः श्यावाश्वः | मरुतः | पङ्क्तिः} उ॒त स्म॒ ते शु॒भे नरः॒ प्र स्प॒न्द्रा यु॑जत॒ त्मना᳚ ||{8/17}{4.3.9.3}{5.52.8}{5.4.8.8}{359, 406, 4085} शर्धः॑¦मारु॑तम्¦उत्¦शं॒स॒¦स॒त्यऽश॑वसम्¦ऋभ्व॑सम् | |
उ॒त स्म॒ ते परु॑ष्ण्या॒मूर्णा᳚ वसत शु॒न्ध्यवः॑ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} उ॒त प॒व्या रथा᳚ना॒मद्रिं᳚ भिन्द॒न्त्योज॑सा ||{9/17}{4.3.9.4}{5.52.9}{5.4.8.9}{360, 406, 4086} उ॒त¦स्म॒¦ते¦परु॑ष्ण्याम्¦ऊर्णाः᳚¦व॒स॒त॒¦शु॒न्ध्यवः॑ | उ॒त¦प॒व्या¦रथा᳚नाम्¦अद्रि᳚म्¦भि॒न्द॒न्ति॒¦ओज॑सा || |
आप॑थयो॒ विप॑थ॒यो ऽन्त॑स्पथा॒, अनु॑पथाः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} ए॒तेभि॒र्मह्यं॒ नाम॑भिर्य॒ज्ञं वि॑ष्टा॒र ओ᳚हते ||{10/17}{4.3.9.5}{5.52.10}{5.4.8.10}{361, 406, 4087} आप॑थयः¦विऽप॑थयः¦अन्तः॑ऽपथाः¦अनु॑ऽपथाः | ए॒तेभिः॑¦मह्य᳚म्¦नाम॑ऽभिः¦य॒ज्ञम्¦वि॒ऽस्ता॒रः¦ओ॒ह॒ते॒ || |
अधा॒ नरो॒ न्यो᳚ह॒ते ऽधा᳚ नि॒युत॑ ओहते |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} अधा॒ पारा᳚वता॒, इति॑ चि॒त्रा रू॒पाणि॒ दर्श्या᳚ ||{11/17}{4.3.10.1}{5.52.11}{5.4.8.11}{362, 406, 4088} अध॑¦नरः॑¦नि¦ओ॒ह॒ते॒¦अध॑¦नि॒ऽयुतः॑¦ओ॒ह॒ते॒ | अध॑¦पारा᳚वताः¦इति॑¦चि॒त्रा¦रू॒पाणि॑¦दर्श्या᳚ || |
छ॒न्दः॒स्तुभः॑ कुभ॒न्यव॒ उत्स॒मा की॒रिणो᳚ नृतुः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} ते मे॒ के चि॒न्न ता॒यव॒ ऊमा᳚, आसन् दृ॒शि त्वि॒षे ||{12/17}{4.3.10.2}{5.52.12}{5.4.8.12}{363, 406, 4089} छ॒न्दः॒ऽस्तुभः॑¦कु॒भ॒न्यवः॑¦उत्स᳚म्¦आ¦की॒रिणः॑¦नृ॒तुः॒ | ते¦मे॒¦के¦चि॒त्¦न¦ता॒यवः॑¦ऊमाः᳚¦आ॒स॒न्¦दृ॒शि¦त्वि॒षे || |
य ऋ॒ष्वा, ऋ॒ष्टिवि॑द्युतः क॒वयः॒ सन्ति॑ वे॒धसः॑ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} तमृ॑षे॒ मारु॑तं ग॒णं न॑म॒स्या र॒मया᳚ गि॒रा ||{13/17}{4.3.10.3}{5.52.13}{5.4.8.13}{364, 406, 4090} ये¦ऋ॒ष्वाः¦ऋ॒ष्टिऽवि॑द्युतः¦क॒वयः॑¦सन्ति॑¦वे॒धसः॑ | तम्¦ऋ॒षे॒¦मारु॑तम्¦ग॒णम्¦न॒म॒स्य¦र॒मय॑¦गि॒रा || |
अच्छ॑ ऋषे॒ मारु॑तं ग॒णं दा॒ना मि॒त्रं न यो॒षणा᳚ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} दि॒वो वा᳚ धृष्णव॒ ओज॑सा स्तु॒ता धी॒भिरि॑षण्यत ||{14/17}{4.3.10.4}{5.52.14}{5.4.8.14}{365, 406, 4091} अच्छ॑¦ऋ॒षे॒¦मारु॑तम्¦ग॒णम्¦दा॒ना¦मि॒त्रम्¦न¦यो॒षणा᳚ | दि॒वः¦वा॒¦धृ॒ष्ण॒वः॒¦ओज॑सा¦स्तु॒ताः¦धी॒भिः¦इ॒ष॒ण्य॒त॒ || |
नू म᳚न्वा॒न ए᳚षां दे॒वाँ, अच्छा॒ न व॒क्षणा᳚ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} दा॒ना स॑चेत सू॒रिभि॒र्याम॑श्रुतेभिर॒ञ्जिभिः॑ ||{15/17}{4.3.10.5}{5.52.15}{5.4.8.15}{366, 406, 4092} नु¦म॒न्वा॒नः¦ए॒षा॒म्¦दे॒वान्¦अच्छ॑¦न¦व॒क्षणा᳚ | दा॒ना¦स॒चे॒त॒¦सू॒रिऽभिः॑¦याम॑ऽश्रुतेभिः¦अं॒जिऽभिः॑ || |
प्र ये मे᳚ बन्ध्वे॒षे गां वोच᳚न्त सू॒रयः॒ पृश्निं᳚ वोचन्त मा॒तर᳚म् |{आत्रेयः श्यावाश्वः | मरुतः | पङ्क्तिः} अधा᳚ पि॒तर॑मि॒ष्मिणं᳚ रु॒द्रं वो᳚चन्त॒ शिक्व॑सः ||{16/17}{4.3.10.6}{5.52.16}{5.4.8.16}{367, 406, 4093} प्र¦ये¦मे॒¦ब॒न्धु॒ऽए॒षे¦गाम्¦वोच᳚न्त¦सू॒रयः॑¦पृश्नि᳚म्¦वो॒च॒न्त॒¦मा॒तर᳚म् | |
स॒प्त मे᳚ स॒प्त शा॒किन॒ एक॑मेका श॒ता द॑दुः |{आत्रेयः श्यावाश्वः | मरुतः | पङ्क्तिः} य॒मुना᳚या॒मधि॑ श्रु॒तमुद्राधो॒ गव्यं᳚ मृजे॒ नि राधो॒, अश्व्यं᳚ मृजे ||{17/17}{4.3.10.7}{5.52.17}{5.4.8.17}{368, 406, 4094} स॒प्त¦मे॒¦स॒प्त¦शा॒किनः॑¦एक᳚म्ऽएका¦श॒ता¦द॒दुः॒ | |
[45] कोवेदेति षोळशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतः क्रमेणककुप्बृहत्यनुष्टुप्पुरउष्णिक्ककुप् सतोबृहती सतोबृहती गायत्री सतोबृहती ककुप्ककुब्गायत्री सतोबृहती सतोबृहती ककुप् सतोबृहत्यः | |
को वे᳚द॒ जान॑मेषां॒ को वा᳚ पु॒रा सु॒म्नेष्वा᳚स म॒रुता᳚म् |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्} यद् यु॑यु॒ज्रे कि॑ला॒स्यः॑ ||{1/16}{4.3.11.1}{5.53.1}{5.4.9.1}{369, 407, 4095} कः¦वे॒द॒¦जान᳚म्¦ए॒षा॒म्¦कः¦वा॒¦पु॒रा¦सु॒म्नेषु॑¦आ॒स॒¦म॒रुता᳚म् | यत्¦यु॒यु॒ज्रे¦कि॒ला॒स्यः॑ || |
ऐतान् रथे᳚षु त॒स्थुषः॒ कः शु॑श्राव क॒था य॑युः |{आत्रेयः श्यावाश्वः | मरुतः | बृहती} कस्मै᳚ सस्रुः सु॒दासे॒, अन्वा॒पय॒ इळा᳚भिर्वृ॒ष्टयः॑ स॒ह ||{2/16}{4.3.11.2}{5.53.2}{5.4.9.2}{370, 407, 4096} आ¦ए॒तान्¦रथे᳚षु¦त॒स्थुषः॑¦कः¦शु॒श्रा॒व॒¦क॒था¦य॒युः॒ | |
ते म॑ आहु॒र्य आ᳚य॒युरुप॒ द्युभि॒र्विभि॒र्मदे᳚ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} नरो॒ मर्या᳚, अरे॒पस॑ इ॒मान् पश्य॒न्निति॑ ष्टुहि ||{3/16}{4.3.11.3}{5.53.3}{5.4.9.3}{371, 407, 4097} ते¦मे॒¦आ॒हुः॒¦ये¦आ॒ऽय॒युः¦उप॑¦द्युऽभिः॑¦विऽभिः॑¦मदे᳚ | नरः॑¦मर्याः᳚¦अ॒रे॒पसः॑¦इ॒मान्¦पश्य॑न्¦इति॑¦स्तु॒हि॒ || |
ये, अ॒ञ्जिषु॒ ये वाशी᳚षु॒ स्वभा᳚नवः स्र॒क्षु रु॒क्मेषु॑ खा॒दिषु॑ |{आत्रेयः श्यावाश्वः | मरुतः | पुरउष्णिक्} श्रा॒या रथे᳚षु॒ धन्व॑सु ||{4/16}{4.3.11.4}{5.53.4}{5.4.9.4}{372, 407, 4098} ये¦अं॒जिषु॑¦ये¦वाशी᳚षु¦स्वऽभा᳚नवः¦स्र॒क्षु¦रु॒क्मेषु॑¦खा॒दिषु॑ | श्रा॒याः¦रथे᳚षु¦धन्व॑ऽसु || |
यु॒ष्माकं᳚ स्मा॒ रथाँ॒, अनु॑ मु॒दे द॑धे मरुतो जीरदानवः |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्} वृ॒ष्टी द्यावो᳚ य॒तीरि॑व ||{5/16}{4.3.11.5}{5.53.5}{5.4.9.5}{373, 407, 4099} यु॒ष्माक᳚म्¦स्म॒¦रथा᳚न्¦अनु॑¦मु॒दे¦द॒धे॒¦म॒रु॒तः॒¦जी॒र॒ऽदा॒न॒वः॒ | वृ॒ष्टी¦द्यावः॑¦य॒तीःऽइ᳚व || |
आ यं नरः॑ सु॒दान॑वो ददा॒शुषे᳚ दि॒वः कोश॒मचु॑च्यवुः |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती} वि प॒र्जन्यं᳚ सृजन्ति॒ रोद॑सी॒, अनु॒ धन्व॑ना यन्ति वृ॒ष्टयः॑ ||{6/16}{4.3.12.1}{5.53.6}{5.4.9.6}{374, 407, 4100} आ¦यम्¦नरः॑¦सु॒ऽदान॑वः¦द॒दा॒शुषे᳚¦दि॒वः¦कोश᳚म्¦अचु॑च्यवुः | |
त॒तृ॒दा॒नाः सिन्ध॑वः॒, क्षोद॑सा॒ रजः॒ प्र स॑स्रुर्धे॒नवो᳚ यथा |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती} स्य॒न्ना, अश्वा᳚, इ॒वाध्व॑नो वि॒मोच॑ने॒ वि यद् वर्त᳚न्त ए॒न्यः॑ ||{7/16}{4.3.12.2}{5.53.7}{5.4.9.7}{375, 407, 4101} त॒तृ॒दा॒नाः¦सिन्ध॑वः¦क्षोद॑सा¦रजः॑¦प्र¦स॒स्रुः॒¦धे॒नवः॑¦य॒था॒ | |
आ या᳚त मरुतो दि॒व आन्तरि॑क्षाद॒मादु॒त |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री} माव॑ स्थात परा॒वतः॑ ||{8/16}{4.3.12.3}{5.53.8}{5.4.9.8}{376, 407, 4102} आ¦या॒त॒¦म॒रु॒तः॒¦दि॒वः¦आ¦अ॒न्तरि॑क्षात्¦अ॒मात्¦उ॒त | मा¦अव॑¦स्था॒त॒¦प॒रा॒ऽवतः॑ || |
मा वो᳚ र॒सानि॑तभा॒ कुभा॒ क्रुमु॒र्मा वः॒ सिन्धु॒र्नि री᳚रमत् |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती} मा वः॒ परि॑ ष्ठात् स॒रयुः॑ पुरी॒षिण्य॒स्मे, इत् सु॒म्नम॑स्तु वः ||{9/16}{4.3.12.4}{5.53.9}{5.4.9.9}{377, 407, 4103} मा¦वः॒¦र॒सा¦अनि॑तभा¦कुभा᳚¦क्रुमुः॑¦मा¦वः॒¦सिन्धुः॑¦नि¦री॒र॒म॒त् | |
तं वः॒ शर्धं॒ रथा᳚नां त्वे॒षं ग॒णं मारु॑तं॒ नव्य॑सीनाम् |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्} अनु॒ प्र य᳚न्ति वृ॒ष्टयः॑ ||{10/16}{4.3.12.5}{5.53.10}{5.4.9.10}{378, 407, 4104} तम्¦वः॒¦शर्ध᳚म्¦रथा᳚नाम्¦त्वे॒षम्¦ग॒णम्¦मारु॑तम्¦नव्य॑सीनाम् | अनु॑¦प्र¦य॒न्ति॒¦वृ॒ष्टयः॑ || |
शर्धं᳚शर्धं व एषां॒ व्रातं᳚व्रातं ग॒णंग॑णं सुश॒स्तिभिः॑ |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्} अनु॑ क्रामेम धी॒तिभिः॑ ||{11/16}{4.3.13.1}{5.53.11}{5.4.9.11}{379, 407, 4105} शर्ध᳚म्ऽशर्धम्¦वः॒¦ए॒षा॒म्¦व्रात᳚म्ऽव्रातम्¦ग॒णम्ऽग॑णम्¦सु॒श॒स्तिऽभिः॑ | अनु॑¦क्रा॒मे॒म॒¦धी॒तिऽभिः॑ || |
कस्मा᳚, अ॒द्य सुजा᳚ताय रा॒तह᳚व्याय॒ प्र य॑युः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री} ए॒ना यामे᳚न म॒रुतः॑ ||{12/16}{4.3.13.2}{5.53.12}{5.4.9.12}{380, 407, 4106} कस्मै᳚¦अ॒द्य¦सुऽजा᳚ताय¦रा॒तऽह᳚व्याय¦प्र¦य॒युः॒ | ए॒ना¦यामे᳚न¦म॒रुतः॑ || |
येन॑ तो॒काय॒ तन॑याय धा॒न्य१॑(अं॒) बीजं॒ वह॑ध्वे॒, अक्षि॑तम् |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती} अ॒स्मभ्यं॒ तद् ध॑त्तन॒ यद्व॒ ईम॑हे॒ राधो᳚ वि॒श्वायु॒ सौभ॑गम् ||{13/16}{4.3.13.3}{5.53.13}{5.4.9.13}{381, 407, 4107} येन॑¦तो॒काय॑¦तन॑याय¦धा॒न्य᳚म्¦बीज᳚म्¦वह॑ध्वे¦अक्षि॑तम् | |
अती᳚याम नि॒दस्ति॒रः स्व॒स्तिभि᳚र्हि॒त्वाव॒द्यमरा᳚तीः |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती} वृ॒ष्ट्वी शं योराप॑ उ॒स्रि भे᳚ष॒जं स्याम॑ मरुतः स॒ह ||{14/16}{4.3.13.4}{5.53.14}{5.4.9.14}{382, 407, 4108} अति॑¦इ॒या॒म॒¦नि॒दः¦ति॒रः¦स्व॒स्तिऽभिः॑¦हि॒त्वा¦अ॒व॒द्यम्¦अरा᳚तीः | |
सु॒दे॒वः स॑महासति सु॒वीरो᳚ नरो मरुतः॒ स मर्त्यः॑ |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्} यं त्राय॑ध्वे॒ स्याम॒ ते ||{15/16}{4.3.13.5}{5.53.15}{5.4.9.15}{383, 407, 4109} सु॒ऽदे॒वः¦स॒म॒ह॒¦अ॒स॒ति॒¦सु॒ऽवीरः॑¦न॒रः॒¦म॒रु॒तः॒¦सः¦मर्त्यः॑ | यम्¦त्राय॑ध्वे¦स्याम॑¦ते || |
स्तु॒हि भो॒जान् त्स्तु॑व॒तो, अ॑स्य॒ याम॑नि॒ रण॒न् गावो॒ न यव॑से |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती} य॒तः पूर्वाँ᳚, इव॒ सखीँ॒रनु॑ ह्वय गि॒रा गृ॑णीहि का॒मिनः॑ ||{16/16}{4.3.13.6}{5.53.16}{5.4.9.16}{384, 407, 4110} स्तु॒हि¦भो॒जान्¦स्तु॒व॒तः¦अ॒स्य॒¦याम॑नि¦रण॑न्¦गावः॑¦न¦यव॑से | |
[46] प्रशर्धायेति पंचदशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतोजगती चतुर्दशीत्रिष्टुप् | |
प्र शर्धा᳚य॒ मारु॑ताय॒ स्वभा᳚नव इ॒मां वाच॑मनजा पर्वत॒च्युते᳚ |{आत्रेयः श्यावाश्वः | मरुतः | जगती} घ॒र्म॒स्तुभे᳚ दि॒व आ पृ॑ष्ठ॒यज्व॑ने द्यु॒म्नश्र॑वसे॒ महि॑ नृ॒म्णम॑र्चत ||{1/15}{4.3.14.1}{5.54.1}{5.4.10.1}{385, 408, 4111} प्र¦शर्धा᳚य¦मारु॑ताय¦स्वऽभा᳚नवे¦इ॒माम्¦वाच᳚म्¦अ॒न॒ज॒¦प॒र्व॒त॒ऽच्युते᳚ | |
प्र वो᳚ मरुतस्तवि॒षा, उ॑द॒न्यवो᳚ वयो॒वृधो᳚, अश्व॒युजः॒ परि॑ज्रयः |{आत्रेयः श्यावाश्वः | मरुतः | जगती} सं वि॒द्युता॒ दध॑ति॒ वाश॑ति त्रि॒तः स्वर॒न्त्यापो॒ऽवना॒ परि॑ज्रयः ||{2/15}{4.3.14.2}{5.54.2}{5.4.10.2}{386, 408, 4112} प्र¦वः॒¦म॒रु॒तः॒¦त॒वि॒षाः¦उ॒द॒न्यवः॑¦व॒यः॒ऽवृधः॑¦अ॒श्व॒ऽयुजः॑¦परि॑ऽज्रयः | |
वि॒द्युन्म॑हसो॒ नरो॒, अश्म॑दिद्यवो॒ वात॑त्विषो म॒रुतः॑ पर्वत॒च्युतः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती} अ॒ब्द॒या चि॒न्मुहु॒रा ह्रा᳚दुनी॒वृतः॑ स्त॒नय॑दमा रभ॒सा, उदो᳚जसः ||{3/15}{4.3.14.3}{5.54.3}{5.4.10.3}{387, 408, 4113} वि॒द्युत्ऽम॑हसः¦नरः॑¦अश्म॑ऽदिद्यवः¦वात॑ऽत्विषः¦म॒रुतः॑¦प॒र्व॒त॒ऽच्युतः॑ | |
व्य१॑(अ॒)क्तून् रु॑द्रा॒ व्यहा᳚नि शिक्वसो॒ व्य१॑(अ॒)न्तरि॑क्षं॒ वि रजां᳚सि धूतयः |{आत्रेयः श्यावाश्वः | मरुतः | जगती} वि यदज्राँ॒, अज॑थ॒ नाव॑ ईं यथा॒ वि दु॒र्गाणि॑ मरुतो॒ नाह॑ रिष्यथ ||{4/15}{4.3.14.4}{5.54.4}{5.4.10.4}{388, 408, 4114} वि¦अ॒क्तून्¦रु॒द्राः॒¦वि¦अहा᳚नि¦शि॒क्व॒सः॒¦वि¦अ॒न्तरि॑क्षम्¦वि¦रजां᳚सि¦धू॒त॒यः॒ | |
तद् वी॒र्यं᳚ वो मरुतो महित्व॒नं दी॒र्घं त॑तान॒ सूर्यो॒ न योज॑नम् |{आत्रेयः श्यावाश्वः | मरुतः | जगती} एता॒ न यामे॒, अगृ॑भीतशोचि॒षो ऽन॑श्वदां॒ यन्न्यया᳚तना गि॒रिम् ||{5/15}{4.3.14.5}{5.54.5}{5.4.10.5}{389, 408, 4115} तत्¦वी॒र्य᳚म्¦वः॒¦म॒रु॒तः॒¦म॒हि॒ऽत्व॒नम्¦दी॒र्घम्¦त॒ता॒न॒¦सूर्यः॑¦न¦योज॑नम् | |
अभ्रा᳚जि॒ शर्धो᳚ मरुतो॒ यद᳚र्ण॒सं मोष॑था वृ॒क्षं क॑प॒नेव॑ वेधसः |{आत्रेयः श्यावाश्वः | मरुतः | जगती} अध॑ स्मा नो, अ॒रम॑तिं सजोषस॒श्चक्षु॑रिव॒ यन्त॒मनु॑ नेषथा सु॒गम् ||{6/15}{4.3.15.1}{5.54.6}{5.4.10.6}{390, 408, 4116} अभ्रा᳚जि¦शर्धः॑¦म॒रु॒तः॒¦यत्¦अ॒र्ण॒सम्¦मोष॑थ¦वृ॒क्षम्¦क॒प॒नाऽइ᳚व¦वे॒ध॒सः॒ | |
न स जी᳚यते मरुतो॒ न ह᳚न्यते॒ न स्रे᳚धति॒ न व्य॑थते॒ न रि॑ष्यति |{आत्रेयः श्यावाश्वः | मरुतः | जगती} नास्य॒ राय॒ उप॑ दस्यन्ति॒ नोतय॒ ऋषिं᳚ वा॒ यं राजा᳚नं वा॒ सुषू᳚दथ ||{7/15}{4.3.15.2}{5.54.7}{5.4.10.7}{391, 408, 4117} न¦सः¦जी॒य॒ते॒¦म॒रु॒तः॒¦न¦ह॒न्य॒ते॒¦न¦स्रे॒ध॒ति॒¦न¦व्य॒थ॒ते॒¦न¦रि॒ष्य॒ति॒ | |
नि॒युत्व᳚न्तो ग्राम॒जितो॒ यथा॒ नरो᳚ ऽर्य॒मणो॒ न म॒रुतः॑ कब॒न्धिनः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती} पिन्व॒न्त्युत्सं॒ यदि॒नासो॒, अस्व॑र॒न् व्यु᳚न्दन्ति पृथि॒वीं मध्वो॒, अन्ध॑सा ||{8/15}{4.3.15.3}{5.54.8}{5.4.10.8}{392, 408, 4118} नि॒युत्व᳚न्तः¦ग्रा॒म॒ऽजितः॑¦यथा᳚¦नरः॑¦अ॒र्य॒मणः॑¦न¦म॒रुतः॑¦क॒व॒न्धिनः॑ | |
प्र॒वत्व॑ती॒यं पृ॑थि॒वी म॒रुद्भ्यः॑ प्र॒वत्व॑ती॒ द्यौर्भ॑वति प्र॒यद्भ्यः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती} प्र॒वत्व॑तीः प॒थ्या᳚, अ॒न्तरि॑क्ष्याः प्र॒वत्व᳚न्तः॒ पर्व॑ता जी॒रदा᳚नवः ||{9/15}{4.3.15.4}{5.54.9}{5.4.10.9}{393, 408, 4119} प्र॒वत्व॑ती¦इ॒यम्¦पृ॒थि॒वी¦म॒रुत्ऽभ्यः॑¦प्र॒वत्व॑ती¦द्यौः¦भ॒व॒ति॒¦प्र॒यत्ऽभ्यः॑ | |
यन्म॑रुतः सभरसः स्वर्णरः॒ सूर्य॒ उदि॑ते॒ मद॑था दिवो नरः |{आत्रेयः श्यावाश्वः | मरुतः | जगती} न वोऽश्वाः᳚ श्रथय॒न्ताह॒ सिस्र॑तः स॒द्यो, अ॒स्याध्व॑नः पा॒रम॑श्नुथ ||{10/15}{4.3.15.5}{5.54.10}{5.4.10.10}{394, 408, 4120} यत्¦म॒रु॒तः॒¦स॒ऽभ॒र॒सः॒¦स्वः॒ऽन॒रः॒¦सूर्ये᳚¦उत्ऽइ᳚ते¦मद॑थ¦दि॒वः॒¦न॒रः॒ | |
अंसे᳚षु व ऋ॒ष्टयः॑ प॒त्सु खा॒दयो॒ वक्ष॑स्सु रु॒क्मा म॑रुतो॒ रथे॒ शुभः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती} अ॒ग्निभ्रा᳚जसो वि॒द्युतो॒ गभ॑स्त्योः॒ शिप्राः᳚ शी॒र्षसु॒ वित॑ता हिर॒ण्ययीः᳚ ||{11/15}{4.3.16.1}{5.54.11}{5.4.10.11}{395, 408, 4121} अंसे᳚षु¦वः॒¦ऋ॒ष्टयः॑¦प॒त्ऽसु¦खा॒दयः॑¦वक्षः॑ऽसु¦रु॒क्माः¦म॒रु॒तः॒¦रथे᳚¦शुभः॑ | |
तं नाक॑म॒र्यो, अगृ॑भीतशोचिषं॒ रुश॒त् पिप्प॑लं मरुतो॒ वि धू᳚नुथ |{आत्रेयः श्यावाश्वः | मरुतः | जगती} सम॑च्यन्त वृ॒जनाति॑त्विषन्त॒ यत् स्वर᳚न्ति॒ घोषं॒ वित॑तमृता॒यवः॑ ||{12/15}{4.3.16.2}{5.54.12}{5.4.10.12}{396, 408, 4122} तम्¦नाक᳚म्¦अ॒र्यः¦अगृ॑भीतऽशोचिषम्¦रुश॑त्¦पिप्प॑लम्¦म॒रु॒तः॒¦वि¦धू॒नु॒थ॒ | |
यु॒ष्माद॑त्तस्य मरुतो विचेतसो रा॒यः स्या᳚म र॒थ्यो॒३॑(ओ॒) वय॑स्वतः |{आत्रेयः श्यावाश्वः | मरुतः | जगती} न यो युच्छ॑ति ति॒ष्यो॒३॑(ओ॒) यथा᳚ दि॒वो॒३॑(ओ॒) ऽस्मे रा᳚रन्त मरुतः सह॒स्रिण᳚म् ||{13/15}{4.3.16.3}{5.54.13}{5.4.10.13}{397, 408, 4123} यु॒ष्माऽद॑त्तस्य¦म॒रु॒तः॒¦वि॒ऽचे॒त॒सः॒¦रा॒यः¦स्या॒म॒¦र॒थ्यः॑¦वय॑स्वतः | |
यू॒यं र॒यिं म॑रुतः स्पा॒र्हवी᳚रं यू॒यमृषि॑मवथ॒ साम॑विप्रम् |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} यू॒यमर्व᳚न्तं भर॒ताय॒ वाजं᳚ यू॒यं ध॑त्थ॒ राजा᳚नं श्रुष्टि॒मन्त᳚म् ||{14/15}{4.3.16.4}{5.54.14}{5.4.10.14}{398, 408, 4124} यू॒यम्¦र॒यिम्¦म॒रु॒तः॒¦स्पा॒र्हऽवी᳚रम्¦यू॒यम्¦ऋषि᳚म्¦अ॒व॒थ॒¦साम॑ऽविप्रम् | |
तद् वो᳚ यामि॒ द्रवि॑णं सद्यऊतयो॒ येना॒ स्व१॑(अ॒)र्ण त॒तना᳚म॒ नॄँर॒भि |{आत्रेयः श्यावाश्वः | मरुतः | जगती} इ॒दं सु मे᳚ मरुतो हर्यता॒ वचो॒ यस्य॒ तरे᳚म॒ तर॑सा श॒तं हिमाः᳚ ||{15/15}{4.3.16.5}{5.54.15}{5.4.10.15}{399, 408, 4125} तत्¦वः॒¦या॒मि॒¦द्रवि॑णम्¦स॒द्यः॒ऽऊ॒त॒यः॒¦येन॑¦स्वः॑¦न¦त॒तना᳚म¦नॄन्¦अ॒भि | |
[47] प्रयज्यवइति दशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतो जगत्यंत्यात्रिष्टुप् | |
प्रय॑ज्यवो म॒रुतो॒ भ्राज॑दृष्टयो बृ॒हद्वयो᳚ दधिरे रु॒क्मव॑क्षसः |{आत्रेयः श्यावाश्वः | मरुतः | जगती} ईय᳚न्ते॒, अश्वैः᳚ सु॒यमे᳚भिरा॒शुभिः॒ शुभं᳚ या॒तामनु॒ रथा᳚, अवृत्सत ||{1/10}{4.3.17.1}{5.55.1}{5.4.11.1}{400, 409, 4126} प्रऽय॑ज्यवः¦म॒रुतः॑¦भ्राज॑त्ऽऋष्टयः¦बृ॒हत्¦वयः॑¦द॒धि॒रे॒¦रु॒क्मऽव॑क्षसः | |
स्व॒यं द॑धिध्वे॒ तवि॑षीं॒ यथा᳚ वि॒द बृ॒हन्म॑हान्त उर्वि॒या वि रा᳚जथ |{आत्रेयः श्यावाश्वः | मरुतः | जगती} उ॒तान्तरि॑क्षं ममिरे॒ व्योज॑सा॒ शुभं᳚ या॒तामनु॒ रथा᳚, अवृत्सत ||{2/10}{4.3.17.2}{5.55.2}{5.4.11.2}{401, 409, 4127} स्व॒यम्¦द॒धि॒ध्वे॒¦तवि॑षीम्¦यथा᳚¦वि॒द¦बृ॒हत्¦म॒हा॒न्तः॒¦उ॒र्वि॒या¦वि¦रा॒ज॒थ॒ | |
सा॒कं जा॒ताः सु॒भ्वः॑ सा॒कमु॑क्षि॒ताः श्रि॒ये चि॒दा प्र॑त॒रं वा᳚वृधु॒र्नरः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती} वि॒रो॒किणः॒ सूर्य॑स्येव र॒श्मयः॒ शुभं᳚ या॒तामनु॒ रथा᳚, अवृत्सत ||{3/10}{4.3.17.3}{5.55.3}{5.4.11.3}{402, 409, 4128} सा॒कम्¦जा॒ताः¦सु॒ऽभ्वः॑¦सा॒कम्¦उ॒क्षि॒ताः¦श्रि॒ये¦चि॒त्¦आ¦प्र॒ऽत॒रम्¦व॒वृ॒धुः॒¦नरः॑ | |
आ॒भू॒षेण्यं᳚ वो मरुतो महित्व॒नं दि॑दृ॒क्षेण्यं॒ सूर्य॑स्येव॒ चक्ष॑णम् |{आत्रेयः श्यावाश्वः | मरुतः | जगती} उ॒तो, अ॒स्माँ, अ॑मृत॒त्वे द॑धातन॒ शुभं᳚ या॒तामनु॒ रथा᳚, अवृत्सत ||{4/10}{4.3.17.4}{5.55.4}{5.4.11.4}{403, 409, 4129} आ॒ऽभू॒षेण्य᳚म्¦वः॒¦म॒रु॒तः॒¦म॒हि॒ऽत्व॒नम्¦दि॒दृ॒क्षेण्य᳚म्¦सूर्य॑स्यऽइव¦चक्ष॑णम् | |
उदी᳚रयथा मरुतः समुद्र॒तो यू॒यं वृ॒ष्टिं व॑र्षयथा पुरीषिणः |{आत्रेयः श्यावाश्वः | मरुतः | जगती} न वो᳚ दस्रा॒, उप॑ दस्यन्ति धे॒नवः॒ शुभं᳚ या॒तामनु॒ रथा᳚, अवृत्सत ||{5/10}{4.3.17.5}{5.55.5}{5.4.11.5}{404, 409, 4130} उत्¦ई॒र॒य॒थ॒¦म॒रु॒तः॒¦स॒मु॒द्र॒तः¦यू॒यम्¦वृ॒ष्टिम्¦व॒र्ष॒य॒थ॒¦पु॒री॒षि॒णः॒ | |
यदश्वा᳚न् धू॒र्षु पृष॑ती॒रयु॑ग्ध्वं हिर॒ण्यया॒न् प्रत्यत्काँ॒, अमु॑ग्ध्वम् |{आत्रेयः श्यावाश्वः | मरुतः | जगती} विश्वा॒, इत् स्पृधो᳚ मरुतो॒ व्य॑स्यथ॒ शुभं᳚ या॒तामनु॒ रथा᳚, अवृत्सत ||{6/10}{4.3.18.1}{5.55.6}{5.4.11.6}{405, 409, 4131} यत्¦अश्वा᳚न्¦धूः॒ऽसु¦पृष॑तीः¦अयु॑ग्ध्वम्¦हि॒र॒ण्यया᳚न्¦प्रति॑¦अत्का᳚न्¦अमु॑ग्ध्वम् | |
न पर्व॑ता॒ न न॒द्यो᳚ वरन्त वो॒ यत्राचि॑ध्वं मरुतो॒ गच्छ॒थेदु॒ तत् |{आत्रेयः श्यावाश्वः | मरुतः | जगती} उ॒त द्यावा᳚पृथि॒वी या᳚थना॒ परि॒ शुभं᳚ या॒तामनु॒ रथा᳚, अवृत्सत ||{7/10}{4.3.18.2}{5.55.7}{5.4.11.7}{406, 409, 4132} न¦पर्व॑ताः¦न¦न॒द्यः॑¦व॒र॒न्त॒¦वः॒¦यत्र॑¦अचि॑ध्वम्¦म॒रु॒तः॒¦गच्छ॑थ¦इत्¦ऊँ॒ इति॑¦तत् | |
यत् पू॒र्व्यं म॑रुतो॒ यच्च॒ नूत॑नं॒ यदु॒द्यते᳚ वसवो॒ यच्च॑ श॒स्यते᳚ |{आत्रेयः श्यावाश्वः | मरुतः | जगती} विश्व॑स्य॒ तस्य॑ भवथा॒ नवे᳚दसः॒ शुभं᳚ या॒तामनु॒ रथा᳚, अवृत्सत ||{8/10}{4.3.18.3}{5.55.8}{5.4.11.8}{407, 409, 4133} यत्¦पू॒र्व्यम्¦म॒रु॒तः॒¦यत्¦च॒¦नूत॑नम्¦यत्¦उ॒द्यते᳚¦व॒स॒वः॒¦यत्¦च॒¦श॒स्यते᳚ | |
मृ॒ळत॑ नो मरुतो॒ मा व॑धिष्टना॒ऽस्मभ्यं॒ शर्म॑ बहु॒लं वि य᳚न्तन |{आत्रेयः श्यावाश्वः | मरुतः | जगती} अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गातन॒ शुभं᳚ या॒तामनु॒ रथा᳚, अवृत्सत ||{9/10}{4.3.18.4}{5.55.9}{5.4.11.9}{408, 409, 4134} मृ॒ळत॑¦नः॒¦म॒रु॒तः॒¦मा¦व॒धि॒ष्ट॒न॒¦अ॒स्मभ्य᳚म्¦शर्म॑¦ब॒हु॒लम्¦वि¦य॒न्त॒न॒ | |
यू॒यम॒स्मान् न॑यत॒ वस्यो॒, अच्छा॒ निरं᳚ह॒तिभ्यो᳚ मरुतो गृणा॒नाः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} जु॒षध्वं᳚ नो ह॒व्यदा᳚तिं यजत्रा व॒यं स्या᳚म॒ पत॑यो रयी॒णाम् ||{10/10}{4.3.18.5}{5.55.10}{5.4.11.10}{409, 409, 4135} यू॒यम्¦अ॒स्मान्¦न॒य॒त॒¦वस्यः॑¦अच्छ॑¦निः¦अं॒ह॒तिऽभ्यः॑¦म॒रु॒तः॒¦गृ॒णा॒नाः | |
[48] अग्नेशर्धंतमिति नवर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतोबृहती तृतीया सप्तम्यौसतोबृहत्यौ | |
अग्ने॒ शर्ध᳚न्त॒मा ग॒णं पि॒ष्टं रु॒क्मेभि॑र॒ञ्जिभिः॑ |{आत्रेयः श्यावाश्वः | मरुतः | बृहती} विशो᳚, अ॒द्य म॒रुता॒मव॑ ह्वये दि॒वश्चि॑द् रोच॒नादधि॑ ||{1/9}{4.3.19.1}{5.56.1}{5.4.12.1}{410, 410, 4136} अग्ने᳚¦शर्ध᳚न्तम्¦आ¦ग॒णम्¦पि॒ष्टम्¦रु॒क्मेभिः॑¦अं॒जिऽभिः॑ | |
यथा᳚ चि॒न्मन्य॑से हृ॒दा तदिन्मे᳚ जग्मुरा॒शसः॑ |{आत्रेयः श्यावाश्वः | मरुतः | बृहती} ये ते॒ नेदि॑ष्ठं॒ हव॑नान्या॒गम॒न् तान्व॑र्ध भी॒मसं᳚दृशः ||{2/9}{4.3.19.2}{5.56.2}{5.4.12.2}{411, 410, 4137} यथा᳚¦चि॒त्¦मन्य॑से¦हृ॒दा¦तत्¦इत्¦मे॒¦ज॒ग्मुः॒¦आ॒ऽशसः॑ | |
मी॒ळ्हुष्म॑तीव पृथि॒वी परा᳚हता॒ मद᳚न्त्येत्य॒स्मदा |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती} ऋक्षो॒ न वो᳚ मरुतः॒ शिमी᳚वाँ॒, अमो᳚ दु॒ध्रो गौरि॑व भीम॒युः ||{3/9}{4.3.19.3}{5.56.3}{5.4.12.3}{412, 410, 4138} मी॒ळ्हुष्म॑तीऽइव¦पृ॒थि॒वी¦परा᳚ऽहता¦मद᳚न्ती¦ए॒ति॒¦अ॒स्मत्¦आ | |
नि ये रि॒णन्त्योज॑सा॒ वृथा॒ गावो॒ न दु॒र्धुरः॑ |{आत्रेयः श्यावाश्वः | मरुतः | बृहती} अश्मा᳚नं चित् स्व॒र्य१॑(अं॒) पर्व॑तं गि॒रिं प्र च्या᳚वयन्ति॒ याम॑भिः ||{4/9}{4.3.19.4}{5.56.4}{5.4.12.4}{413, 410, 4139} नि¦ये¦रि॒णन्ति॑¦ओज॑सा¦वृथा᳚¦गावः॑¦न¦दुः॒ऽधुरः॑ | |
उत्ति॑ष्ठ नू॒नमे᳚षां॒ स्तोमैः॒ समु॑क्षितानाम् |{आत्रेयः श्यावाश्वः | मरुतः | बृहती} म॒रुतां᳚ पुरु॒तम॒मपू᳚र्व्यं॒ गवां॒ सर्ग॑मिव ह्वये ||{5/9}{4.3.19.5}{5.56.5}{5.4.12.5}{414, 410, 4140} उत्¦ति॒ष्ठ॒¦नू॒नम्¦ए॒षा॒म्¦स्तोमैः᳚¦सम्।औ᳚क्षितानाम् | |
यु॒ङ्ग्ध्वं ह्यरु॑षी॒ रथे᳚ यु॒ङ्ग्ध्वं रथे᳚षु रो॒हितः॑ |{आत्रेयः श्यावाश्वः | मरुतः | बृहती} यु॒ङ्ग्ध्वं हरी᳚, अजि॒रा धु॒रि वोळ्ह॑वे॒ वहि॑ष्ठा धु॒रि वोळ्ह॑वे ||{6/9}{4.3.20.1}{5.56.6}{5.4.12.6}{415, 410, 4141} यु॒ङ्ग्ध्वम्¦हि¦अरु॑षीः¦रथे᳚¦यु॒ङ्ग्ध्वम्¦रथे᳚षु¦रो॒हितः॑ | |
उ॒त स्य वा॒ज्य॑रु॒षस्तु॑वि॒ष्वणि॑रि॒ह स्म॑ धायि दर्श॒तः |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती} मा वो॒ यामे᳚षु मरुतश्चि॒रं क॑र॒त् प्र तं रथे᳚षु चोदत ||{7/9}{4.3.20.2}{5.56.7}{5.4.12.7}{416, 410, 4142} उ॒त¦स्यः¦वा॒जी¦अ॒रु॒षः¦तु॒वि॒ऽस्वणिः॑¦इ॒ह¦स्म॒¦धा॒यि॒¦द॒र्श॒तः | |
रथं॒ नु मारु॑तं व॒यं श्र॑व॒स्युमा हु॑वामहे |{आत्रेयः श्यावाश्वः | मरुतः | बृहती} आ यस्मि᳚न् त॒स्थौ सु॒रणा᳚नि॒ बिभ्र॑ती॒ सचा᳚ म॒रुत्सु॑ रोद॒सी ||{8/9}{4.3.20.3}{5.56.8}{5.4.12.8}{417, 410, 4143} रथ᳚म्¦नु¦मारु॑तम्¦व॒यम्¦श्र॒व॒स्युम्¦आ¦हु॒वा॒म॒हे॒ | |
तं वः॒ शर्धं᳚ रथे॒शुभं᳚ त्वे॒षं प॑न॒स्युमा हु॑वे |{आत्रेयः श्यावाश्वः | मरुतः | बृहती} यस्मि॒न् त्सुजा᳚ता सु॒भगा᳚ मही॒यते॒ सचा᳚ म॒रुत्सु॑ मीळ्हु॒षी ||{9/9}{4.3.20.4}{5.56.9}{5.4.12.9}{418, 410, 4144} तम्¦वः॒¦शर्ध᳚म्¦र॒थे॒ऽशुभ᳚म्¦त्वे॒षम्¦प॒न॒स्युम्¦आ¦हु॒वे॒ | |
[49] आरुद्रासइत्यष्टर्चस्यसूक्तस्यात्रेयः श्यावाश्वोमरुतोजगत्यंत्येद्वेत्रिष्टुभौ | |
आ रु॑द्रास॒ इन्द्र॑वन्तः स॒जोष॑सो॒ हिर᳚ण्यरथाः सुवि॒ताय॑ गन्तन |{आत्रेयः श्यावाश्वः | मरुतः | जगती} इ॒यं वो᳚, अ॒स्मत् प्रति॑ हर्यते म॒तिस्तृ॒ष्णजे॒ न दि॒व उत्सा᳚, उद॒न्यवे᳚ ||{1/8}{4.3.21.1}{5.57.1}{5.5.1.1}{419, 411, 4145} आ¦रु॒द्रा॒सः॒¦इन्द्र॑ऽवन्तः¦स॒ऽजोष॑सः¦हिर᳚ण्यऽरथाः¦सु॒वि॒ताय॑¦ग॒न्त॒न॒ | |
वाशी᳚मन्त ऋष्टि॒मन्तो᳚ मनी॒षिणः॑ सु॒धन्वा᳚न॒ इषु॑मन्तो निष॒ङ्गिणः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती} स्वश्वाः᳚ स्थ सु॒रथाः᳚ पृश्निमातरः स्वायु॒धा म॑रुतो याथना॒ शुभ᳚म् ||{2/8}{4.3.21.2}{5.57.2}{5.5.1.2}{420, 411, 4146} वाशी᳚ऽमन्तः¦ऋ॒ष्टि॒ऽमन्तः॑¦म॒नी॒षिणः॑¦सु॒ऽधन्वा᳚नः¦इषु॑ऽमन्तः¦नि॒ष॒ङ्गिणः॑ | |
धू॒नु॒थ द्यां पर्व॑तान्दा॒शुषे॒ वसु॒ नि वो॒ वना᳚ जिहते॒ याम॑नो भि॒या |{आत्रेयः श्यावाश्वः | मरुतः | जगती} को॒पय॑थ पृथि॒वीं पृ॑श्निमातरः शु॒भे यदु॑ग्राः॒ पृष॑ती॒रयु॑ग्ध्वम् ||{3/8}{4.3.21.3}{5.57.3}{5.5.1.3}{421, 411, 4147} धू॒नु॒थ¦द्याम्¦पर्व॑तान्¦दा॒शुषे᳚¦वसु॑¦नि¦वः॒¦वना᳚¦जि॒ह॒ते॒¦याम॑नः¦भि॒या | |
वात॑त्विषो म॒रुतो᳚ व॒र्षनि᳚र्णिजो य॒मा, इ॑व॒ सुस॑दृशः सु॒पेश॑सः |{आत्रेयः श्यावाश्वः | मरुतः | जगती} पि॒शङ्गा᳚श्वा, अरु॒णाश्वा᳚, अरे॒पसः॒ प्रत्व॑क्षसो महि॒ना द्यौरि॑वो॒रवः॑ ||{4/8}{4.3.21.4}{5.57.4}{5.5.1.4}{422, 411, 4148} वात॑ऽत्विषः¦म॒रुतः॑¦व॒र्षऽनि᳚र्निजः¦य॒माःऽइ᳚व¦सुऽस॑दृशः¦सु॒ऽपेश॑सः | |
पु॒रु॒द्र॒प्सा, अ᳚ञ्जि॒मन्तः॑ सु॒दान॑वस्त्वे॒षसं᳚दृशो, अनव॒भ्ररा᳚धसः |{आत्रेयः श्यावाश्वः | मरुतः | जगती} सु॒जा॒तासो᳚ ज॒नुषा᳚ रु॒क्मव॑क्षसो दि॒वो, अ॒र्का, अ॒मृतं॒ नाम॑ भेजिरे ||{5/8}{4.3.21.5}{5.57.5}{5.5.1.5}{423, 411, 4149} पु॒रु॒ऽद्र॒प्साः¦अं॒जि॒ऽमन्तः॑¦सु॒ऽदान॑वः¦त्वे॒षऽसं᳚दृशः¦अ॒न॒व॒भ्रऽरा᳚धसः | |
ऋ॒ष्टयो᳚ वो मरुतो॒, अंस॑यो॒रधि॒ सह॒ ओजो᳚ बा॒ह्वोर्वो॒ बलं᳚ हि॒तम् |{आत्रेयः श्यावाश्वः | मरुतः | जगती} नृ॒म्णा शी॒र्षस्वायु॑धा॒ रथे᳚षु वो॒ विश्वा᳚ वः॒ श्रीरधि॑ त॒नूषु॑ पिपिशे ||{6/8}{4.3.22.1}{5.57.6}{5.5.1.6}{424, 411, 4150} ऋ॒ष्टयः॑¦वः॒¦म॒रु॒तः॒¦अंस॑योः¦अधि॑¦सहः॑¦ओजः॑¦बा॒ह्वोः¦वः॒¦बल᳚म्¦हि॒तम् | |
गोम॒दश्वा᳚व॒द् रथ॑वत् सु॒वीरं᳚ च॒न्द्रव॒द् राधो᳚ मरुतो ददा नः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} प्रश॑स्तिं नः कृणुत रुद्रियासो भक्षी॒य वोऽव॑सो॒ दैव्य॑स्य ||{7/8}{4.3.22.2}{5.57.7}{5.5.1.7}{425, 411, 4151} गोऽम॑त्¦अश्व॑ऽवत्¦रथ॑ऽवत्¦सु॒ऽवीर᳚म्¦च॒न्द्रऽव॑त्¦राधः॑¦म॒रु॒तः॒¦द॒द॒¦नः॒ | |
ह॒ये नरो॒ मरु॑तो मृ॒ळता᳚ न॒स्तुवी᳚मघासो॒, अमृ॑ता॒ ऋत॑ज्ञाः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} सत्य॑श्रुतः॒ कव॑यो॒ युवा᳚नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा᳚णाः ||{8/8}{4.3.22.3}{5.57.8}{5.5.1.8}{426, 411, 4152} ह॒ये¦नरः॑¦मरु॑तः¦मृ॒ळत॑¦नः॒¦तुवि॑ऽमघासः¦अमृ॑ताः¦ऋत॑ऽज्ञाः | |
[50] तमुनूनमित्यष्टर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतस्त्रिष्टुप् | |
तमु॑ नू॒नं तवि॑षीमन्तमेषां स्तु॒षे ग॒णं मारु॑तं॒ नव्य॑सीनाम् |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} य आ॒श्व॑श्वा॒, अम॑व॒द् वह᳚न्त उ॒तेशि॑रे, अ॒मृत॑स्य स्व॒राजः॑ ||{1/8}{4.3.23.1}{5.58.1}{5.5.2.1}{427, 412, 4153} तम्¦ऊँ॒ इति॑¦नू॒नम्¦तवि॑षीऽमन्तम्¦ए॒षा॒म्¦स्तु॒षे¦ग॒णम्¦मारु॑तम्¦नव्य॑सीनाम् | |
त्वे॒षं ग॒णं त॒वसं॒ खादि॑हस्तं॒ धुनि᳚व्रतं मा॒यिनं॒ दाति॑वारम् |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} म॒यो॒भुवो॒ ये, अमि॑ता महि॒त्वा वन्द॑स्व विप्र तुवि॒राध॑सो॒ नॄन् ||{2/8}{4.3.23.2}{5.58.2}{5.5.2.2}{428, 412, 4154} त्वे॒षम्¦ग॒णम्¦त॒वस᳚म्¦खादि॑ऽहस्तम्¦धुनि॑ऽव्रतम्¦मा॒यिन᳚म्¦दाति॑ऽवारम् | |
आ वो᳚ यन्तूदवा॒हासो᳚, अ॒द्य वृ॒ष्टिं ये विश्वे᳚ म॒रुतो᳚ जु॒नन्ति॑ |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} अ॒यं यो, अ॒ग्निर्म॑रुतः॒ समि॑द्ध ए॒तं जु॑षध्वं कवयो युवानः ||{3/8}{4.3.23.3}{5.58.3}{5.5.2.3}{429, 412, 4155} आ¦वः॒¦य॒न्तु॒¦उ॒द॒ऽवा॒हासः॑¦अ॒द्य¦वृ॒ष्टिम्¦ये¦विश्वे᳚¦म॒रुतः॑¦जु॒नन्ति॑ | |
यू॒यं राजा᳚न॒मिर्यं॒ जना᳚य विभ्वत॒ष्टं ज॑नयथा यजत्राः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} यु॒ष्मदे᳚ति मुष्टि॒हा बा॒हुजू᳚तो यु॒ष्मत् सद॑श्वो मरुतः सु॒वीरः॑ ||{4/8}{4.3.23.4}{5.58.4}{5.5.2.4}{430, 412, 4156} यू॒यम्¦राजा᳚नम्¦इर्य᳚म्¦जना᳚य¦वि॒भ्व॒ऽत॒ष्टम्¦ज॒न॒य॒थ॒¦य॒ज॒त्राः॒ | |
अ॒रा, इ॒वेदच॑रमा॒, अहे᳚व॒ प्रप्र॑ जायन्ते॒, अक॑वा॒ महो᳚भिः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} पृश्नेः᳚ पु॒त्रा, उ॑प॒मासो॒ रभि॑ष्ठाः॒ स्वया᳚ म॒त्या म॒रुतः॒ सं मि॑मिक्षुः ||{5/8}{4.3.23.5}{5.58.5}{5.5.2.5}{431, 412, 4157} अ॒राःऽइ᳚व¦इत्¦अच॑रमाः¦अहा᳚ऽइव¦प्रऽप्र॑¦जा॒य॒न्ते॒¦अक॑वाः¦महः॑ऽभिः | |
यत् प्राया᳚सिष्ट॒ पृष॑तीभि॒रश्वै᳚र्वीळुप॒विभि᳚र्मरुतो॒ रथे᳚भिः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} क्षोद᳚न्त॒ आपो᳚ रिण॒ते वना॒न्यवो॒स्रियो᳚ वृष॒भः क्र᳚न्दतु॒ द्यौः ||{6/8}{4.3.23.6}{5.58.6}{5.5.2.6}{432, 412, 4158} यत्¦प्र¦अया᳚सिष्ट¦पृष॑तीभिः¦अश्वैः᳚¦वी॒ळु॒प॒विऽभिः॑¦म॒रु॒तः॒¦रथे᳚भिः | |
प्रथि॑ष्ट॒ याम᳚न् पृथि॒वी चि॑देषां॒ भर्ते᳚व॒ गर्भं॒ स्वमिच्छवो᳚ धुः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} वाता॒न् ह्यश्वा᳚न् धु॒र्या᳚युयु॒ज्रे व॒र्षं स्वेदं᳚ चक्रिरे रु॒द्रिया᳚सः ||{7/8}{4.3.23.7}{5.58.7}{5.5.2.7}{433, 412, 4159} प्रथि॑ष्ट¦याम॑न्¦पृ॒थि॒वी¦चि॒त्¦ए॒षा॒म्¦भर्ता᳚ऽइव¦गर्भ᳚म्¦स्वम्¦इत्¦शवः॑¦धुः॒ | |
ह॒ये नरो॒ मरु॑तो मृ॒ळता᳚ न॒स्तुवी᳚मघासो॒, अमृ॑ता॒ ऋत॑ज्ञाः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} सत्य॑श्रुतः॒ कव॑यो॒ युवा᳚नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा᳚णाः ||{8/8}{4.3.23.8}{5.58.8}{5.5.2.8}{434, 412, 4160} ह॒ये¦नरः॑¦मरु॑तः¦मृ॒ळत॑¦नः॒¦तुवि॑ऽमघासः¦अमृ॑ताः¦ऋत॑ऽज्ञाः | |
[51] प्रवःस्पळित्यष्टर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतो जगत्यंत्या त्रिष्टुप् | |
प्र वः॒ स्पळ॑क्रन् त्सुवि॒ताय॑ दा॒वने ऽर्चा᳚ दि॒वे प्र पृ॑थि॒व्या, ऋ॒तं भ॑रे |{आत्रेयः श्यावाश्वः | मरुतः | जगती} उ॒क्षन्ते॒, अश्वा॒न् तरु॑षन्त॒ आ रजो ऽनु॒ स्वं भा॒नुं श्र॑थयन्ते, अर्ण॒वैः ||{1/8}{4.3.24.1}{5.59.1}{5.5.3.1}{435, 413, 4161} प्र¦वः॒¦स्पट्¦अ॒क्र॒न्¦सु॒वि॒ताय॑¦दा॒वने᳚¦अर्च॑¦दि॒वे¦प्र¦पृ॒थि॒व्यै¦ऋ॒तम्¦भ॒रे॒ | |
अमा᳚देषां भि॒यसा॒ भूमि॑रेजति॒ नौर्न पू॒र्णा क्ष॑रति॒ व्यथि᳚र्य॒ती |{आत्रेयः श्यावाश्वः | मरुतः | जगती} दू॒रे॒दृशो॒ ये चि॒तय᳚न्त॒ एम॑भिर॒न्तर्म॒हे वि॒दथे᳚ येतिरे॒ नरः॑ ||{2/8}{4.3.24.2}{5.59.2}{5.5.3.2}{436, 413, 4162} अमा᳚त्¦ए॒षा॒म्¦भि॒यसा᳚¦भूमिः॑¦ए॒ज॒ति॒¦नौः¦न¦पू॒र्णा¦क्ष॒र॒ति॒¦व्यथिः॑¦य॒ती | |
गवा᳚मिव श्रि॒यसे॒ शृङ्ग॑मुत्त॒मं सूर्यो॒ न चक्षू॒ रज॑सो वि॒सर्ज॑ने |{आत्रेयः श्यावाश्वः | मरुतः | जगती} अत्या᳚, इव सु॒भ्व१॑(अ॒)श्चार॑वः स्थन॒ मर्या᳚, इव श्रि॒यसे᳚ चेतथा नरः ||{3/8}{4.3.24.3}{5.59.3}{5.5.3.3}{437, 413, 4163} गवा᳚म्ऽइव¦श्रि॒यसे᳚¦शृङ्ग᳚म्¦उ॒त्ऽत॒मम्¦सूर्यः॑¦न¦चक्षुः॑¦रज॑सः¦वि॒ऽसर्ज॑ने | |
को वो᳚ म॒हान्ति॑ मह॒तामुद॑श्नव॒त् कस्काव्या᳚ मरुतः॒ को ह॒ पौंस्या᳚ |{आत्रेयः श्यावाश्वः | मरुतः | जगती} यू॒यं ह॒ भूमिं᳚ कि॒रणं॒ न रे᳚जथ॒ प्र यद् भर॑ध्वे सुवि॒ताय॑ दा॒वने᳚ ||{4/8}{4.3.24.4}{5.59.4}{5.5.3.4}{438, 413, 4164} कः¦वः॒¦म॒हान्ति॑¦म॒ह॒ताम्¦उत्¦अ॒श्न॒व॒त्¦कः¦काव्या᳚¦म॒रु॒तः॒¦कः¦ह॒¦पौंस्या᳚ | |
अश्वा᳚, इ॒वेद॑रु॒षासः॒ सब᳚न्धवः॒ शूरा᳚, इव प्र॒युधः॒ प्रोत यु॑युधुः |{आत्रेयः श्यावाश्वः | मरुतः | जगती} मर्या᳚, इव सु॒वृधो᳚ वावृधु॒र्नरः॒ सूर्य॑स्य॒ चक्षुः॒ प्र मि॑नन्ति वृ॒ष्टिभिः॑ ||{5/8}{4.3.24.5}{5.59.5}{5.5.3.5}{439, 413, 4165} अश्वाः᳚ऽइव¦इत्¦अ॒रु॒षासः॑¦सऽब᳚न्धवः¦शूराः᳚ऽइव¦प्र॒ऽयुधः॑¦प्र¦उ॒त¦यु॒यु॒धुः॒ | |
ते, अ॑ज्ये॒ष्ठा, अक॑निष्ठास उ॒द्भिदो ऽम॑ध्यमासो॒ मह॑सा॒ वि वा᳚वृधुः |{आत्रेयः श्यावाश्वः | मरुतः | जगती} सु॒जा॒तासो᳚ ज॒नुषा॒ पृश्नि॑मातरो दि॒वो मर्या॒, आ नो॒, अच्छा᳚ जिगातन ||{6/8}{4.3.24.6}{5.59.6}{5.5.3.6}{440, 413, 4166} ते¦अ॒ज्ये॒ष्ठाः¦अक॑निष्ठासः¦उ॒त्ऽभिदः॑¦अम॑ध्यमासः¦मह॑सा¦वि¦व॒वृ॒धुः॒ | |
वयो॒ न ये श्रेणीः᳚ प॒प्तुरोज॒सा ऽन्ता᳚न्दि॒वो बृ॑ह॒तः सानु॑न॒स्परि॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती} अश्वा᳚स एषामु॒भये॒ यथा᳚ वि॒दुः प्र पर्व॑तस्य नभ॒नूँर॑चुच्यवुः ||{7/8}{4.3.24.7}{5.59.7}{5.5.3.7}{441, 413, 4167} वयः॑¦न¦ये¦श्रेणीः᳚¦प॒प्तुः¦ओज॑सा¦अन्ता᳚न्¦दि॒वः¦बृ॒ह॒तः¦सानु॑नः¦परि॑ | |
मिमा᳚तु॒ द्यौरदि॑तिर्वी॒तये᳚ नः॒ सं दानु॑चित्रा, उ॒षसो᳚ यतन्ताम् |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} आचु॑च्यवुर्दि॒व्यं कोश॑मे॒त ऋषे᳚ रु॒द्रस्य॑ म॒रुतो᳚ गृणा॒नाः ||{8/8}{4.3.24.8}{5.59.8}{5.5.3.8}{442, 413, 4168} मिमा᳚तु¦द्यौः¦अदि॑तिः¦वी॒तये᳚¦नः॒¦सम्¦दानु॑ऽचित्राः¦उ॒षसः॑¦य॒त॒न्ता॒म् | |
[52] ईळेअग्निमित्यष्टर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतस्त्रिष्टुबंत्येद्वेजगत्यौ | (आग्नेयं च वेत्यनुक्रमण्युक्तेरग्रामरुतोवा) | |
ईळे᳚, अ॒ग्निं स्वव॑सं॒ नमो᳚भिरि॒ह प्र॑स॒त्तो वि च॑यत् कृ॒तं नः॑ |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} रथै᳚रिव॒ प्र भ॑रे वाज॒यद्भिः॑ प्रदक्षि॒णिन्म॒रुतां॒ स्तोम॑मृध्याम् ||{1/8}{4.3.25.1}{5.60.1}{5.5.4.1}{443, 414, 4169} इळे᳚¦अ॒ग्निम्¦सु॒।आव॑सम्¦नमः॑ऽभिः¦इ॒ह¦प्र॒ऽस॒त्तः¦वि¦च॒य॒त्¦कृ॒तम्¦नः॒ | |
आ ये त॒स्थुः पृष॑तीषु श्रु॒तासु॑ सु॒खेषु॑ रु॒द्रा म॒रुतो॒ रथे᳚षु |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} वना᳚ चिदुग्रा जिहते॒ नि वो᳚ भि॒या पृ॑थि॒वी चि॑द् रेजते॒ पर्व॑तश्चित् ||{2/8}{4.3.25.2}{5.60.2}{5.5.4.2}{444, 414, 4170} आ¦ये¦त॒स्थुः¦पृष॑तीषु¦श्रु॒तासु॑¦सु॒ऽखेषु॑¦रु॒द्राः¦म॒रुतः॑¦रथे᳚षु | |
पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय दि॒वश्चि॒त् सानु॑ रेजत स्व॒ने वः॑ |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} यत् क्रीळ॑थ मरुत ऋष्टि॒मन्त॒ आप॑ इव स॒ध्र्य᳚ञ्चो धवध्वे ||{3/8}{4.3.25.3}{5.60.3}{5.5.4.3}{445, 414, 4171} पर्व॑तः¦चि॒त्¦महि॑¦वृ॒द्धः¦बि॒भा॒य॒¦दि॒वः¦चि॒त्¦सानु॑¦रे॒ज॒त॒¦स्व॒ने¦वः॒ | |
व॒रा, इ॒वेद् रै᳚व॒तासो॒ हिर᳚ण्यैर॒भि स्व॒धाभि॑स्त॒न्वः॑ पिपिश्रे |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} श्रि॒ये श्रेयां᳚सस्त॒वसो॒ रथे᳚षु स॒त्रा महां᳚सि चक्रिरे त॒नूषु॑ ||{4/8}{4.3.25.4}{5.60.4}{5.5.4.4}{446, 414, 4172} व॒राःऽइ᳚व¦इत्¦रै॒व॒तासः॑¦हिर᳚ण्यैः¦अ॒भि¦स्व॒धाभिः॑¦त॒न्वः॑¦पि॒पि॒श्रे॒ | |
अ॒ज्ये॒ष्ठासो॒, अक॑निष्ठास ए॒ते सं भ्रात॑रो वावृधुः॒ सौभ॑गाय |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} युवा᳚ पि॒ता स्वपा᳚ रु॒द्र ए᳚षां सु॒दुघा॒ पृश्निः॑ सु॒दिना᳚ म॒रुद्भ्यः॑ ||{5/8}{4.3.25.5}{5.60.5}{5.5.4.5}{447, 414, 4173} अ॒ज्ये॒ष्ठासः॑¦अक॑निष्ठासः¦ए॒ते¦सम्¦भ्रात॑रः¦व॒वृ॒धुः॒¦सौभ॑गाय | |
यदु॑त्त॒मे म॑रुतो मध्य॒मे वा॒ यद् वा᳚व॒मे सु॑भगासो दि॒वि ष्ठ |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} अतो᳚ नो रुद्रा, उ॒त वा॒ न्व१॑(अ॒)स्याऽग्ने᳚ वि॒त्ताद्ध॒विषो॒ यद् यजा᳚म ||{6/8}{4.3.25.6}{5.60.6}{5.5.4.6}{448, 414, 4174} यत्¦उ॒त्ऽत॒मे¦म॒रु॒तः॒¦म॒ध्य॒मे¦वा॒¦यत्¦वा॒¦अ॒व॒मे¦सु॒ऽभ॒गा॒सः॒¦दि॒वि¦स्थ | |
अ॒ग्निश्च॒ यन्म॑रुतो विश्ववेदसो दि॒वो वह॑ध्व॒ उत्त॑रा॒दधि॒ ष्णुभिः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती} ते म᳚न्दसा॒ना धुन॑यो रिशादसो वा॒मं ध॑त्त॒ यज॑मानाय सुन्व॒ते ||{7/8}{4.3.25.7}{5.60.7}{5.5.4.7}{449, 414, 4175} अ॒ग्निः¦च॒¦यत्¦म॒रु॒तः॒¦वि॒श्व॒ऽवे॒द॒सः॒¦दि॒वः¦वह॑ध्वे¦उत्ऽत॑रात्¦अधि॑¦स्नुऽभिः॑ | |
अग्ने᳚ म॒रुद्भिः॑ शु॒भय॑द्भि॒रृक्व॑भिः॒ सोमं᳚ पिब मन्दसा॒नो ग॑ण॒श्रिभिः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती} पा॒व॒केभि᳚र्विश्वमि॒न्वेभि॑रा॒युभि॒र्वैश्वा᳚नर प्र॒दिवा᳚ के॒तुना᳚ स॒जूः ||{8/8}{4.3.25.8}{5.60.8}{5.5.4.8}{450, 414, 4176} अग्ने᳚¦म॒रुत्ऽभिः॑¦शु॒भय॑त्ऽभिः¦ऋक्व॑ऽभिः¦सोम᳚म्¦पि॒ब॒¦म॒न्द॒सा॒नः¦ग॒ण॒श्रिऽभिः॑ | |
[53] केष्ठानरइत्येकोनविंशत्यृचस्य सूक्तस्यश्यावाश्वः आद्यानांचतसृणां यईम्वहन्तइत्यादिषण्णांचमरुतः पंचम्यादिचतसृणांतरंतमहिषीशशीयसी उतमेरपदित्यस्याः पुरुमीळ्होयोमेधेनूनामित्यस्यास्तरंतः एतंमेस्तोममित्यादि तिसृणांरथवीतिर्गायत्री पंचम्यनुष्टुप्नवमीसतोबृहती (अवत्यौपुरुमीळ्हतरं तौवैददश्वी रथवीतिर्दार्भ्यः) | |
के ष्ठा᳚ नरः॒ श्रेष्ठ॑तमा॒ य एक॑एक आय॒य |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री} प॒र॒मस्याः᳚ परा॒वतः॑ ||{1/19}{4.3.26.1}{5.61.1}{5.5.5.1}{451, 415, 4177} के¦स्थ॒¦न॒रः॒¦श्रेष्ठ॑ऽतमाः¦ये¦एकः॑ऽएकः¦आ॒ऽय॒य | प॒र॒मस्याः᳚¦प॒रा॒ऽवतः॑ || |
क्व१॑(अ॒) वोऽश्वाः॒ क्वा॒३॑(आ॒)भीश॑वः क॒थं शे᳚क क॒था य॑य |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री} पृ॒ष्ठे सदो᳚ न॒सोर्यमः॑ ||{2/19}{4.3.26.2}{5.61.2}{5.5.5.2}{452, 415, 4178} क्व॑¦वः॒¦अश्वाः᳚¦क्व॑¦अ॒भीश॑वः¦क॒थम्¦शे॒क॒¦क॒था¦य॒य॒ | पृ॒ष्ठे¦सदः॑¦न॒सोः¦यमः॑ || |
ज॒घने॒ चोद॑ एषां॒ वि स॒क्थानि॒ नरो᳚ यमुः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री} पु॒त्र॒कृ॒थे न जन॑यः ||{3/19}{4.3.26.3}{5.61.3}{5.5.5.3}{453, 415, 4179} ज॒घने᳚¦चोदः॑¦ए॒षा॒म्¦वि¦स॒क्थानि॑¦नरः॑¦य॒मुः॒ | पु॒त्र॒ऽकृ॒थे¦न¦जन॑यः || |
परा᳚ वीरास एतन॒ मर्या᳚सो॒ भद्र॑जानयः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री} अ॒ग्नि॒तपो॒ यथास॑थ ||{4/19}{4.3.26.4}{5.61.4}{5.5.5.4}{454, 415, 4180} परा᳚¦वी॒रा॒सः॒¦इ॒त॒न॒¦मर्या᳚सः¦भद्र॑ऽजानयः | अ॒ग्नि॒ऽतपः॑¦यथा᳚¦अस॑थ || |
सन॒त् साश्व्यं᳚ प॒शुमु॒त गव्यं᳚ श॒ताव॑यम् |{आत्रेयः श्यावाश्वः | तरन्तमहिषी शशीयसी | अनुष्टुप्} श्या॒वाश्व॑स्तुताय॒ या दोर्वी॒रायो᳚प॒बर्बृ॑हत् ||{5/19}{4.3.26.5}{5.61.5}{5.5.5.5}{455, 415, 4181} सन॑त्¦सा¦अश्व्य᳚म्¦प॒शुम्¦उ॒त¦गव्य᳚म्¦श॒त।आ॑वयम् | श्या॒वाश्व॑ऽस्तुताय¦या¦दोः¦वी॒राय॑¦उ॒प॒ऽबर्बृ॑हत् || |
उ॒त त्वा॒ स्त्री शशी᳚यसी पुं॒सो भ॑वति॒ वस्य॑सी |{आत्रेयः श्यावाश्वः | तरन्तमहिषी शशीयसी | गायत्री} अदे᳚वत्रादरा॒धसः॑ ||{6/19}{4.3.27.1}{5.61.6}{5.5.5.6}{456, 415, 4182} उ॒त¦त्वा॒¦स्त्री¦शशी᳚यसी¦पुं॒सः¦भ॒व॒ति॒¦वस्य॑सी | अदे᳚वऽत्रात्¦अ॒रा॒धसः॑ || |
वि या जा॒नाति॒ जसु॑रिं॒ वि तृष्य᳚न्तं॒ वि का॒मिन᳚म् |{आत्रेयः श्यावाश्वः | तरन्तमहिषी शशीयसी | गायत्री} दे॒व॒त्रा कृ॑णु॒ते मनः॑ ||{7/19}{4.3.27.2}{5.61.7}{5.5.5.7}{457, 415, 4183} वि¦या¦जा॒नाति॑¦जसु॑रिम्¦वि¦तृष्य᳚न्तम्¦वि¦का॒मिन᳚म् | दे॒व॒ऽत्रा¦कृ॒णु॒ते¦मनः॑ || |
उ॒त घा॒ नेमो॒, अस्तु॑तः॒ पुमाँ॒, इति॑ ब्रुवे प॒णिः |{आत्रेयः श्यावाश्वः | तरन्तमहिषी शशीयसी | गायत्री} स वैर॑देय॒ इत्स॒मः ||{8/19}{4.3.27.3}{5.61.8}{5.5.5.8}{458, 415, 4184} उ॒त¦घ॒¦नेमः॑¦अस्तु॑तः¦पुमा᳚न्¦इति॑¦ब्रु॒वे॒¦प॒णिः | सः¦वैर॑ऽदेये¦इत्¦स॒मः || |
उ॒त मे᳚ऽरपद् युव॒तिर्म॑म॒न्दुषी॒ प्रति॑ श्या॒वाय॑ वर्त॒निम् |{आत्रेयः श्यावाश्वः | वैददश्विः पुरुमीळ्हः | सतोबृहती} वि रोहि॑ता पुरुमी॒ळ्हाय॑ येमतु॒र्विप्रा᳚य दी॒र्घय॑शसे ||{9/19}{4.3.27.4}{5.61.9}{5.5.5.9}{459, 415, 4185} उ॒त¦मे॒¦अ॒र॒प॒त्¦यु॒व॒तिः¦म॒म॒न्दुषी᳚¦प्रति॑¦श्या॒वाय॑¦व॒र्त॒निम् | |
यो मे᳚ धेनू॒नां श॒तं वैद॑दश्वि॒र्यथा॒ दद॑त् |{आत्रेयः श्यावाश्वः | वैददश्विस्तरन्तः | गायत्री} त॒र॒न्त इ॑व मं॒हना᳚ ||{10/19}{4.3.27.5}{5.61.10}{5.5.5.10}{460, 415, 4186} यः¦मे॒¦धे॒नू॒नाम्¦श॒तम्¦वैद॑त्।आश्विः¦यथा᳚¦दद॑त् | त॒र॒न्तःऽइ᳚व¦मं॒हना᳚ || |
य ईं॒ वह᳚न्त आ॒शुभिः॒ पिब᳚न्तो मदि॒रं मधु॑ |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री} अत्र॒ श्रवां᳚सि दधिरे ||{11/19}{4.3.28.1}{5.61.11}{5.5.5.11}{461, 415, 4187} ये¦ई॒म्¦वह᳚न्ते¦आ॒शुऽभिः॑¦पिब᳚न्तः¦म॒दि॒रम्¦मधु॑ | अत्र॑¦श्रवां᳚सि¦द॒धि॒रे॒ || |
येषां᳚ श्रि॒याधि॒ रोद॑सी वि॒भ्राज᳚न्ते॒ रथे॒ष्वा |{आत्रेयः श्यावाश्वः | तरन्तो वैददश्विः | गायत्री} दि॒वि रु॒क्म इ॑वो॒परि॑ ||{12/19}{4.3.28.2}{5.61.12}{5.5.5.12}{462, 415, 4188} येषा᳚म्¦श्रि॒या¦अधि॑¦रोद॑सी॒ इति॑¦वि॒ऽभ्राज᳚न्ते¦रथे᳚षु¦आ | दि॒वि¦रु॒क्मःऽइ᳚व¦उ॒परि॑ || |
युवा॒ स मारु॑तो ग॒णस्त्वे॒षर॑थो॒, अने᳚द्यः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री} शु॒भं॒यावाप्र॑तिष्कुतः ||{13/19}{4.3.28.3}{5.61.13}{5.5.5.13}{463, 415, 4189} युवा᳚¦सः¦मारु॑तः¦ग॒णः¦त्वे॒षऽर॑थः¦अने᳚द्यः | शु॒भ॒म्ऽयावा᳚¦अप्र॑तिऽस्कुतः || |
को वे᳚द नू॒नमे᳚षां॒ यत्रा॒ मद᳚न्ति॒ धूत॑यः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री} ऋ॒तजा᳚ता, अरे॒पसः॑ ||{14/19}{4.3.28.4}{5.61.14}{5.5.5.14}{464, 415, 4190} कः¦वे॒द॒¦नू॒नम्¦ए॒षा॒म्¦यत्र॑¦मद᳚न्ति¦धूत॑यः | ऋ॒तऽजा᳚ताः¦अ॒रे॒पसः॑ || |
यू॒यं मर्तं᳚ विपन्यवः प्रणे॒तार॑ इ॒त्था धि॒या |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री} श्रोता᳚रो॒ याम॑हूतिषु ||{15/19}{4.3.28.5}{5.61.15}{5.5.5.15}{465, 415, 4191} यू॒यम्¦मर्त᳚म्¦वि॒प॒न्य॒वः॒¦प्र॒ऽने॒तारः॑¦इ॒त्था¦धि॒या | श्रोता᳚रः¦याम॑ऽहूतिषु || |
ते नो॒ वसू᳚नि॒ काम्या᳚ पुरुश्च॒न्द्रा रि॑शादसः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री} आ य॑ज्ञियासो ववृत्तन ||{16/19}{4.3.29.1}{5.61.16}{5.5.5.16}{466, 415, 4192} ते¦नः॒¦वसू᳚नि¦काम्या᳚¦पु॒रु॒ऽच॒न्द्राः¦रि॒शा॒द॒सः॒ | आ¦य॒ज्ञि॒या॒सः॒¦व॒वृ॒त्त॒न॒ || |
ए॒तं मे॒ स्तोम॑मूर्म्ये दा॒र्भ्याय॒ परा᳚ वह |{आत्रेयः श्यावाश्वः | दार्भ्यो रथवीतिः | गायत्री} गिरो᳚ देवि र॒थीरि॑व ||{17/19}{4.3.29.2}{5.61.17}{5.5.5.17}{467, 415, 4193} ए॒तम्¦मे॒¦स्तोम᳚म्¦ऊ॒र्म्ये¦दा॒र्भ्याय॑¦परा᳚¦व॒ह॒ | गिरः॑¦दे॒वि॒¦र॒थीःऽइ᳚व || |
उ॒त मे᳚ वोचता॒दिति॑ सु॒तसो᳚मे॒ रथ॑वीतौ |{आत्रेयः श्यावाश्वः | दार्भ्यो रथवीतिः | गायत्री} न कामो॒, अप॑ वेति मे ||{18/19}{4.3.29.3}{5.61.18}{5.5.5.18}{468, 415, 4194} उ॒त¦मे॒¦वो॒च॒ता॒त्¦इति॑¦सु॒तऽसो᳚मे¦रथ॑ऽवीतौ | न¦कामः॑¦अप॑¦वे॒ति॒¦मे॒ || |
ए॒ष क्षे᳚ति॒ रथ॑वीतिर्म॒घवा॒ गोम॑ती॒रनु॑ |{आत्रेयः श्यावाश्वः | दार्भ्यो रथवीतिः | गायत्री} पर्व॑ते॒ष्वप॑श्रितः ||{19/19}{4.3.29.4}{5.61.19}{5.5.5.19}{469, 415, 4195} ए॒षः¦क्षे॒ति॒¦रथ॑ऽवीतिः¦म॒घऽवा᳚¦गोऽम॑तीः¦अनु॑ | पर्व॑तेषु¦अप॑ऽश्रितः || |
[54] ऋतेनऋतमिति नवर्चस्य सूक्तस्यात्रेयः श्रुतविन्मित्रवारुणौत्रिष्टुप् | |
ऋ॒तेन॑ ऋ॒तमपि॑हितं ध्रु॒वं वां॒ सूर्य॑स्य॒ यत्र॑ विमु॒चन्त्यश्वा॑न् |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्} दश॑ श॒ता स॒ह त॑स्थु॒स्तदेकं᳚ दे॒वानां॒ श्रेष्ठं॒ वपु॑षामपश्यम् ||{1/9}{4.3.30.1}{5.62.1}{5.5.6.1}{470, 416, 4196} ऋ॒तेन॑¦ऋ॒तम्¦अपि॑ऽहितम्¦ध्रु॒वम्¦वा॒म्¦सूर्य॑स्य¦यत्र॑¦वि॒ऽमु॒चन्ति॑¦अश्वा॑न् | |
तत्सु वां᳚ मित्रावरुणा महि॒त्वमी॒र्मा त॒स्थुषी॒रह॑भिर्दुदुह्रे |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्} विश्वाः᳚ पिन्वथः॒ स्वस॑रस्य॒ धेना॒, अनु॑ वा॒मेकः॑ प॒विरा व॑वर्त ||{2/9}{4.3.30.2}{5.62.2}{5.5.6.2}{471, 416, 4197} तत्¦सु¦वा॒म्¦मि॒त्रा॒व॒रु॒णा॒¦म॒हि॒ऽत्वम्¦ई॒र्मा¦त॒स्थुषीः᳚¦अह॑ऽभिः¦दु॒दु॒ह्रे॒ | |
अधा᳚रयतं पृथि॒वीमु॒त द्यां मित्र॑राजाना वरुणा॒ महो᳚भिः |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्} व॒र्धय॑त॒मोष॑धीः॒ पिन्व॑तं॒ गा, अव॑ वृ॒ष्टिं सृ॑जतं जीरदानू ||{3/9}{4.3.30.3}{5.62.3}{5.5.6.3}{472, 416, 4198} अधा᳚रयतम्¦पृ॒थि॒वीम्¦उ॒त¦द्याम्¦मित्र॑ऽराजाना¦व॒रु॒णा॒¦महः॑ऽभिः | |
आ वा॒मश्वा᳚सः सु॒युजो᳚ वहन्तु य॒तर॑श्मय॒ उप॑ यन्त्व॒र्वाक् |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्} घृ॒तस्य॑ नि॒र्णिगनु॑ वर्तते वा॒मुप॒ सिन्ध॑वः प्र॒दिवि॑ क्षरन्ति ||{4/9}{4.3.30.4}{5.62.4}{5.5.6.4}{473, 416, 4199} आ¦वा॒म्¦अश्वा᳚सः¦सु॒ऽयुजः॑¦व॒ह॒न्तु॒¦य॒तऽर॑श्मयः¦उप॑¦य॒न्तु॒¦अ॒र्वाक् | |
अनु॑ श्रु॒ताम॒मतिं॒ वर्ध॑दु॒र्वीं ब॒र्हिरि॑व॒ यजु॑षा॒ रक्ष॑माणा |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्} नम॑स्वन्ता धृतद॒क्षाधि॒ गर्ते॒ मित्रासा᳚थे वरु॒णेळा᳚स्व॒न्तः ||{5/9}{4.3.30.5}{5.62.5}{5.5.6.5}{474, 416, 4200} अनु॑¦श्रु॒ताम्¦अ॒मति᳚म्¦वर्ध॑त्¦उ॒र्वीम्¦ब॒र्हिःऽइ᳚व¦यजु॑षा¦रक्ष॑माणा | |
अक्र॑विहस्ता सु॒कृते᳚ पर॒स्पा यं त्रासा᳚थे वरु॒णेळा᳚स्व॒न्तः |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्} राजा᳚ना क्ष॒त्रमहृ॑णीयमाना स॒हस्र॑स्थूणं बिभृथः स॒ह द्वौ ||{6/9}{4.3.31.1}{5.62.6}{5.5.6.6}{475, 416, 4201} अक्र॑विऽहस्ता¦सु॒ऽकृते᳚¦प॒रः॒ऽपा¦यम्¦त्रासा᳚थे॒ इति॑¦व॒रु॒णा॒¦इळा᳚सु¦अ॒न्तरिति॑ | |
हिर᳚ण्यनिर्णि॒गयो᳚, अस्य॒ स्थूणा॒ वि भ्रा᳚जते दि॒व्य१॑(अ॒)श्वाज॑नीव |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्} भ॒द्रे क्षेत्रे॒ निमि॑ता॒ तिल्वि॑ले वा स॒नेम॒ मध्वो॒, अधि॑गर्त्यस्य ||{7/9}{4.3.31.2}{5.62.7}{5.5.6.7}{476, 416, 4202} हिर᳚ण्यऽनिर्निक्¦अयः॑¦अ॒स्य॒¦स्थूणा᳚¦वि¦भ्रा॒ज॒ते॒¦दि॒वि¦अ॒श्वाज॑नीऽइव | |
हिर᳚ण्यरूपमु॒षसो॒ व्यु॑ष्टा॒वयः॑स्थूण॒मुदि॑ता॒ सूर्य॑स्य |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्} आ रो᳚हथो वरुण मित्र॒ गर्त॒मत॑श्चक्षाथे॒, अदि॑तिं॒ दितिं᳚ च ||{8/9}{4.3.31.3}{5.62.8}{5.5.6.8}{477, 416, 4203} हिर᳚ण्यऽरूपम्¦उ॒षसः॑¦वि।औ᳚ष्टौ¦अयः॑ऽस्थूणम्¦उत्ऽइ᳚ता¦सूर्य॑स्य | |
यद् बंहि॑ष्ठं॒ नाति॒विधे᳚ सुदानू॒, अच्छि॑द्रं॒ शर्म॑ भुवनस्य गोपा |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्} तेन॑ नो मित्रावरुणावविष्टं॒ सिषा᳚सन्तो जिगी॒वांसः॑ स्याम ||{9/9}{4.3.31.4}{5.62.9}{5.5.6.9}{478, 416, 4204} यत्¦बंहि॑ष्ठम्¦न¦अ॒ति॒ऽविधे᳚¦सु॒दा॒नू॒ इति॑ सुऽदानू¦अच्छि॑द्रम्¦शर्म॑¦भु॒व॒न॒स्य॒¦गो॒पा॒ | |
[55] ऋतस्यगोपाविति सप्तर्चस्य सूक्तस्यात्रेयोर्चनानामित्रावरुणौजगती | |
ऋत॑स्य गोपा॒वधि॑ तिष्ठथो॒ रथं॒ सत्य॑धर्माणा पर॒मे व्यो᳚मनि |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती} यमत्र॑ मित्रावरु॒णाव॑थो यु॒वं तस्मै᳚ वृ॒ष्टिर्मधु॑मत् पिन्वते दि॒वः ||{1/7}{4.4.1.1}{5.63.1}{5.5.7.1}{479, 417, 4205} ऋत॑स्य¦गो॒पौ॒¦अधि॑¦ति॒ष्ठ॒थः॒¦रथ᳚म्¦सत्य॑ऽधर्माणा¦प॒र॒मे¦विऽओ᳚मनि | |
स॒म्राजा᳚व॒स्य भुव॑नस्य राजथो॒ मित्रा᳚वरुणा वि॒दथे᳚ स्व॒र्दृशा᳚ |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती} वृ॒ष्टिं वां॒ राधो᳚, अमृत॒त्वमी᳚महे॒ द्यावा᳚पृथि॒वी वि च॑रन्ति त॒न्यवः॑ ||{2/7}{4.4.1.2}{5.63.2}{5.5.7.2}{480, 417, 4206} स॒म्ऽराजौ᳚¦अ॒स्य¦भुव॑नस्य¦रा॒ज॒थः॒¦मित्रा᳚वरुणा¦वि॒दथे᳚¦स्वः॒ऽदृशा᳚ | |
स॒म्राजा᳚, उ॒ग्रा वृ॑ष॒भा दि॒वस्पती᳚ पृथि॒व्या मि॒त्रावरु॑णा॒ विच॑र्षणी |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती} चि॒त्रेभि॑र॒भ्रैरुप॑ तिष्ठथो॒ रवं॒ द्यां व॑र्षयथो॒, असु॑रस्य मा॒यया᳚ ||{3/7}{4.4.1.3}{5.63.3}{5.5.7.3}{481, 417, 4207} स॒म्ऽराजौ᳚¦उ॒ग्रा¦वृ॒ष॒भा¦दि॒वः¦पती॒ इति॑¦पृ॒थि॒व्याः¦मि॒त्रावरु॑णा¦विच॑र्षणी॒ इति॒ विऽच॑र्षणी | |
मा॒या वां᳚ मित्रावरुणा दि॒वि श्रि॒ता सूर्यो॒ ज्योति॑श्चरति चि॒त्रमायु॑धम् |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती} तम॒भ्रेण॑ वृ॒ष्ट्या गू᳚हथो दि॒वि पर्ज᳚न्य द्र॒प्सा मधु॑मन्त ईरते ||{4/7}{4.4.1.4}{5.63.4}{5.5.7.4}{482, 417, 4208} मा॒या¦वा॒म्¦मि॒त्रा॒व॒रु॒णा॒¦दि॒वि¦श्रि॒ता¦सूर्यः॑¦ज्योतिः॑¦च॒र॒ति॒¦चि॒त्रम्¦आयु॑धम् | |
रथं᳚ युञ्जते म॒रुतः॑ शु॒भे सु॒खं शूरो॒ न मि॑त्रावरुणा॒ गवि॑ष्टिषु |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती} रजां᳚सि चि॒त्रा वि च॑रन्ति त॒न्यवो᳚ दि॒वः स᳚म्राजा॒ पय॑सा न उक्षतम् ||{5/7}{4.4.1.5}{5.63.5}{5.5.7.5}{483, 417, 4209} रथ᳚म्¦युं॒ज॒ते॒¦म॒रुतः॑¦शु॒भे¦सु॒ऽखम्¦शूरः॑¦न¦मि॒त्रा॒व॒रु॒णा॒¦गोऽइ᳚ष्टिषु | |
वाचं॒ सु मि॑त्रावरुणा॒विरा᳚वतीं प॒र्जन्य॑श्चि॒त्रां व॑दति॒ त्विषी᳚मतीम् |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती} अ॒भ्रा व॑सत म॒रुतः॒ सु मा॒यया॒ द्यां व॑र्षयतमरु॒णाम॑रे॒पस᳚म् ||{6/7}{4.4.1.6}{5.63.6}{5.5.7.6}{484, 417, 4210} वाच᳚म्¦सु¦मि॒त्रा॒व॒रु॒णौ॒¦इरा᳚ऽवतीम्¦प॒र्जन्यः॑¦चि॒त्राम्¦व॒द॒ति॒¦त्विषि॑ऽमतीम् | |
धर्म॑णा मित्रावरुणा विपश्चिता व्र॒ता र॑क्षेथे॒, असु॑रस्य मा॒यया᳚ |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती} ऋ॒तेन॒ विश्वं॒ भुव॑नं॒ वि रा᳚जथः॒ सूर्य॒मा ध॑त्थो दि॒वि चित्र्यं॒ रथ᳚म् ||{7/7}{4.4.1.7}{5.63.7}{5.5.7.7}{485, 417, 4211} धर्म॑णा¦मि॒त्रा॒व॒रु॒णा॒¦वि॒पः॒ऽचि॒ता॒¦व्र॒ता¦र॒क्षे॒थे॒ इति॑¦असु॑रस्य¦मा॒यया᳚ | |
[56] वरुणंवइति सप्तर्चस्य सूक्तस्यार्चनाना मित्रावरुणावनुष्टुबंत्यापंक्तिः | |
वरु॑णं वो रि॒शाद॑समृ॒चा मि॒त्रं ह॑वामहे |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्} परि᳚ व्र॒जेव॑ बा॒ह्वोर्ज॑ग॒न्वांसा॒ स्व᳚र्णरम् ||{1/7}{4.4.2.1}{5.64.1}{5.5.8.1}{486, 418, 4212} वरु॑णम्¦वः॒¦रि॒शाद॑सम्¦ऋ॒चा¦मि॒त्रम्¦ह॒वा॒म॒हे॒ | परि॑¦व्र॒जाऽइ᳚व¦बा॒ह्वोः¦ज॒ग॒न्वांसा᳚¦स्वः॑ऽनरम् || |
ता बा॒हवा᳚ सुचे॒तुना॒ प्र य᳚न्तमस्मा॒, अर्च॑ते |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्} शेवं॒ हि जा॒र्यं᳚ वां॒ विश्वा᳚सु॒ क्षासु॒ जोगु॑वे ||{2/7}{4.4.2.2}{5.64.2}{5.5.8.2}{487, 418, 4213} ता¦बा॒हवा᳚¦सु॒ऽचे॒तुना᳚¦प्र¦य॒न्त॒म्¦अ॒स्मै॒¦अर्च॑ते | शेव᳚म्¦हि¦जा॒र्य᳚म्¦वा॒म्¦विश्वा᳚सु¦क्षासु॑¦जोगु॑वे || |
यन्नू॒नम॒श्यां गतिं᳚ मि॒त्रस्य॑ यायां प॒था |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्} अस्य॑ प्रि॒यस्य॒ शर्म॒ण्यहिं᳚सानस्य सश्चिरे ||{3/7}{4.4.2.3}{5.64.3}{5.5.8.3}{488, 418, 4214} यत्¦नू॒नम्¦अ॒श्याम्¦गति᳚म्¦मि॒त्रस्य॑¦या॒या॒म्¦प॒था | अस्य॑¦प्रि॒यस्य॑¦शर्म॑णि¦अहिं᳚सानस्य¦स॒श्चि॒रे॒ || |
यु॒वाभ्यां᳚ मित्रावरुणोप॒मं धे᳚यामृ॒चा |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्} यद्ध॒ क्षये᳚ म॒घोनां᳚ स्तोतॄ॒णां च॑ स्पू॒र्धसे᳚ ||{4/7}{4.4.2.4}{5.64.4}{5.5.8.4}{489, 418, 4215} यु॒वाभ्या᳚म्¦मि॒त्रा॒व॒रु॒णा॒¦उ॒प॒ऽमम्¦धे॒या॒म्¦ऋ॒चा | यत्¦ह॒¦क्षये᳚¦म॒घोना᳚म्¦स्तो॒तॄ॒णाम्¦च॒¦स्पू॒र्धसे᳚ || |
आ नो᳚ मित्र सुदी॒तिभि॒र्वरु॑णश्च स॒धस्थ॒ आ |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्} स्वे क्षये᳚ म॒घोनां॒ सखी᳚नां च वृ॒धसे᳚ ||{5/7}{4.4.2.5}{5.64.5}{5.5.8.5}{490, 418, 4216} आ¦नः॒¦मि॒त्र॒¦सु॒दी॒तिऽभिः॑¦वरु॑णः¦च॒¦स॒धऽस्थे᳚¦आ | स्वे¦क्षये᳚¦म॒घोना᳚म्¦सखी᳚नाम्¦च॒¦वृ॒धसे᳚ || |
यु॒वं नो॒ येषु॑ वरुण क्ष॒त्रं बृ॒हच्च॑ बिभृ॒थः |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्} उ॒रु णो॒ वाज॑सातये कृ॒तं रा॒ये स्व॒स्तये᳚ ||{6/7}{4.4.2.6}{5.64.6}{5.5.8.6}{491, 418, 4217} यु॒वम्¦नः॒¦येषु॑¦व॒रु॒णा॒¦क्ष॒त्रम्¦बृ॒हत्¦च॒¦बि॒भृ॒थः | उ॒रु¦नः॒¦वाज॑ऽसातये¦कृ॒तम्¦रा॒ये¦स्व॒स्तये᳚ || |
उ॒च्छन्त्यां᳚ मे यज॒ता दे॒वक्ष॑त्रे॒ रुश॑द्गवि |{आत्रेयोर्चनाना | मित्रावरुणौ | पङ्क्तिः} सु॒तं सोमं॒ न ह॒स्तिभि॒रा प॒ड्भिर्धा᳚वतं नरा॒ बिभ्र॑तावर्च॒नान॑सम् ||{7/7}{4.4.2.7}{5.64.7}{5.5.8.7}{492, 418, 4218} उ॒च्छन्त्या᳚म्¦मे॒¦य॒ज॒ता¦दे॒वऽक्ष॑त्रे¦रुश॑त्ऽगवि | |
[57] यश्चिकेतेति षडृचस्य सूक्तस्यात्रेयोरातहव्योमित्रावरुणावनुष्टुबन्त्यापंक्तिः | |
यश्चि॒केत॒ स सु॒क्रतु॑र्देव॒त्रा स ब्र॑वीतु नः |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्} वरु॑णो॒ यस्य॑ दर्श॒तो मि॒त्रो वा॒ वन॑ते॒ गिरः॑ ||{1/6}{4.4.3.1}{5.65.1}{5.5.9.1}{493, 419, 4219} यः¦चि॒केत॑¦सः¦सु॒ऽक्रतुः॑¦दे॒व॒ऽत्रा¦सः¦ब्र॒वी॒तु॒¦नः॒ | वरु॑णः¦यस्य॑¦द॒र्श॒तः¦मि॒त्रः¦वा॒¦वन॑ते¦गिरः॑ || |
ता हि श्रेष्ठ॑वर्चसा॒ राजा᳚ना दीर्घ॒श्रुत्त॑मा |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्} ता सत्प॑ती, ऋता॒वृध॑ ऋ॒तावा᳚ना॒ जने᳚जने ||{2/6}{4.4.3.2}{5.65.2}{5.5.9.2}{494, 419, 4220} ता¦हि¦श्रेष्ठ॑ऽवर्चसा¦राजा᳚ना¦दी॒र्घ॒श्रुत्ऽत॑मा | ता¦सत्प॑ती॒ इति॒ सत्ऽप॑ती¦ऋ॒त॒ऽवृधा᳚¦ऋ॒तऽवा᳚ना¦जने᳚ऽजने || |
ता वा᳚मिया॒नोऽव॑से॒ पूर्वा॒, उप॑ ब्रुवे॒ सचा᳚ |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्} स्वश्वा᳚सः॒ सु चे॒तुना॒ वाजाँ᳚, अ॒भि प्र दा॒वने᳚ ||{3/6}{4.4.3.3}{5.65.3}{5.5.9.3}{495, 419, 4221} ता¦वा॒म्¦इ॒या॒नः¦अव॑से¦पूर्वौ᳚¦उप॑¦ब्रु॒वे॒¦सचा᳚ | सु॒।आश्वा᳚सः¦सु¦चे॒तुना᳚¦वाजा᳚न्¦अ॒भि¦प्र¦दा॒वने᳚ || |
मि॒त्रो, अं॒होश्चि॒दादु॒रु क्षया᳚य गा॒तुं व॑नते |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्} मि॒त्रस्य॒ हि प्र॒तूर्व॑तः सुम॒तिरस्ति॑ विध॒तः ||{4/6}{4.4.3.4}{5.65.4}{5.5.9.4}{496, 419, 4222} मि॒त्रः¦अं॒होः¦चि॒त्¦आत्¦उ॒रु¦क्षया᳚य¦गा॒तुम्¦व॒न॒ते॒ | मि॒त्रस्य॑¦हि¦प्र॒ऽतूर्व॑तः¦सु॒ऽम॒तिः¦अस्ति॑¦वि॒ध॒तः || |
व॒यं मि॒त्रस्याव॑सि॒ स्याम॑ स॒प्रथ॑स्तमे |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्} अ॒ने॒हस॒स्त्वोत॑यः स॒त्रा वरु॑णशेषसः ||{5/6}{4.4.3.5}{5.65.5}{5.5.9.5}{497, 419, 4223} व॒यम्¦मि॒त्रस्य॑¦अव॑सि¦स्याम॑¦स॒प्रथः॑ऽतमे | अ॒ने॒हसः॑¦त्वाऽऊ᳚तयः¦स॒त्रा¦वरु॑णऽशेषसः || |
यु॒वं मि॑त्रे॒मं जनं॒ यत॑थः॒ सं च॑ नयथः |{आत्रेयो रातहव्यः | मित्रावरुणौ | पङ्क्तिः} मा म॒घोनः॒ परि॑ ख्यतं॒ मो, अ॒स्माक॒मृषी᳚णां गोपी॒थे न॑ उरुष्यतम् ||{6/6}{4.4.3.6}{5.65.6}{5.5.9.6}{498, 419, 4224} यु॒वम्¦मि॒त्रा॒¦इ॒मम्¦जन᳚म्¦यत॑थः¦सम्¦च॒¦न॒य॒थः॒ | |
[58] आचिकितानेति षडृचस्य सूक्तस्यात्रेयोरातहव्योमित्रावरुणावनुष्टुप् | |
आ चि॑कितान सु॒क्रतू᳚ दे॒वौ म॑र्त रि॒शाद॑सा |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्} वरु॑णाय ऋ॒तपे᳚शसे दधी॒त प्रय॑से म॒हे ||{1/6}{4.4.4.1}{5.66.1}{5.5.10.1}{499, 420, 4225} आ¦चि॒कि॒ता॒न॒¦सु॒क्रतू॒ इति॑ सु॒ऽक्रतू᳚¦दे॒वौ¦म॒र्त॒¦रि॒शाद॑सा | वरु॑णाय¦ऋ॒तऽपे᳚शसे¦द॒धी॒त¦प्रय॑से¦म॒हे || |
ता हि क्ष॒त्रमवि॑ह्रुतं स॒म्यग॑सु॒र्य१॑(अ॒)माशा᳚ते |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्} अध᳚ व्र॒तेव॒ मानु॑षं॒ स्व१॑(अ॒)र्ण धा᳚यि दर्श॒तम् ||{2/6}{4.4.4.2}{5.66.2}{5.5.10.2}{500, 420, 4226} ता¦हि¦क्ष॒त्रम्¦अवि॑ऽह्रुतम्¦स॒म्यक्¦अ॒सु॒र्य᳚म्¦आशा᳚ते॒ इति॑ | अध॑¦व्र॒ताऽइ᳚व¦मानु॑षम्¦स्वः॑¦न¦धा॒यि॒¦द॒र्श॒तम् || |
ता वा॒मेषे॒ रथा᳚नामु॒र्वीं गव्यू᳚तिमेषाम् |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्} रा॒तह᳚व्यस्य सुष्टु॒तिं द॒धृक् स्तोमै᳚र्मनामहे ||{3/6}{4.4.4.3}{5.66.3}{5.5.10.3}{501, 420, 4227} ता¦वा॒म्¦एषे᳚¦रथा᳚नाम्¦उ॒र्वीम्¦गव्यू᳚तिम्¦ए॒षा॒म् | रा॒तऽह᳚व्यस्य¦सु॒ऽस्तु॒तिम्¦द॒धृक्¦स्तोमैः᳚¦म॒ना॒म॒हे॒ || |
अधा॒ हि काव्या᳚ यु॒वं दक्ष॑स्य पू॒र्भिर॑द्भुता |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्} नि के॒तुना॒ जना᳚नां चि॒केथे᳚ पूतदक्षसा ||{4/6}{4.4.4.4}{5.66.4}{5.5.10.4}{502, 420, 4228} अध॑¦हि¦काव्या᳚¦यु॒वम्¦दक्ष॑स्य¦पूः॒ऽभिः¦अ॒द्भु॒ता॒ | नि¦के॒तुना᳚¦जना᳚नाम्¦चि॒केथे॒ इति॑¦पू॒त॒ऽद॒क्ष॒सा॒ || |
तदृ॒तं पृ॑थिवि बृ॒हच्छ्र॑वए॒ष ऋषी᳚णाम् |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्} ज्र॒य॒सा॒नावरं᳚ पृ॒थ्वति॑ क्षरन्ति॒ याम॑भिः ||{5/6}{4.4.4.5}{5.66.5}{5.5.10.5}{503, 420, 4229} तत्¦ऋ॒तम्¦पृ॒थि॒वि॒¦बृ॒हत्¦श्र॒वः॒ऽए॒षे¦ऋषी᳚णाम् | ज्र॒य॒सा॒नौ¦अर᳚म्¦पृ॒थु¦अति॑¦क्ष॒र॒न्ति॒¦याम॑ऽभिः || |
आ यद् वा᳚मीयचक्षसा॒ मित्र॑ व॒यं च॑ सू॒रयः॑ |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्} व्यचि॑ष्ठे बहु॒पाय्ये॒ यते᳚महि स्व॒राज्ये᳚ ||{6/6}{4.4.4.6}{5.66.6}{5.5.10.6}{504, 420, 4230} आ¦यत्¦वा॒म्¦ई॒य॒ऽच॒क्ष॒सा॒¦मित्रा᳚¦व॒यम्¦च॒¦सू॒रयः॑ | व्यचि॑ष्ठे¦ब॒हु॒ऽपाय्ये᳚¦यते᳚महि¦स्व॒ऽराज्ये᳚ || |
[59] बळित्थादेवेति पंचर्चस्य सूक्तस्यात्रेयोयजतो मित्रावरुणावनुष्टुप् | |
बळि॒त्था दे᳚व निष्कृ॒तमादि॑त्या यज॒तं बृ॒हत् |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्} वरु॑ण॒ मित्रार्य॑म॒न् वर्षि॑ष्ठं क्ष॒त्रमा᳚शाथे ||{1/5}{4.4.5.1}{5.67.1}{5.5.11.1}{505, 421, 4231} बट्¦इ॒त्था¦दे॒वा॒¦निः॒ऽकृ॒तम्¦आदि॑त्या¦य॒ज॒तम्¦बृ॒हत् | वरु॑ण¦मित्र॑¦अर्य॑मन्¦वर्षि॑ष्ठम्¦क्ष॒त्रम्¦आ॒शा॒थे॒ इति॑ || |
आ यद् योनिं᳚ हिर॒ण्ययं॒ वरु॑ण॒ मित्र॒ सद॑थः |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्} ध॒र्तारा᳚ चर्षणी॒नां य॒न्तं सु॒म्नं रि॑शादसा ||{2/5}{4.4.5.2}{5.67.2}{5.5.11.2}{506, 421, 4232} आ¦यत्¦योनि᳚म्¦हि॒र॒ण्यय᳚म्¦वरु॑ण¦मित्र॑¦सद॑थः | ध॒र्तारा᳚¦च॒र्ष॒णी॒नाम्¦य॒न्तम्¦सु॒म्नम्¦रि॒शा॒द॒सा॒ || |
विश्वे॒ हि वि॒श्ववे᳚दसो॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्} व्र॒ता प॒देव॑ सश्चिरे॒ पान्ति॒ मर्त्यं᳚ रि॒षः ||{3/5}{4.4.5.3}{5.67.3}{5.5.11.3}{507, 421, 4233} विश्वे᳚¦हि¦वि॒श्वऽवे᳚दसः¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा | व्र॒ता¦प॒दाऽइ᳚व¦स॒श्चि॒रे॒¦पान्ति॑¦मर्त्य᳚म्¦रि॒षः || |
ते हि स॒त्या, ऋ॑त॒स्पृश॑ ऋ॒तावा᳚नो॒ जने᳚जने |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्} सु॒नी॒थासः॑ सु॒दान॑वों॒ऽहोश्चि॑दुरु॒चक्र॑यः ||{4/5}{4.4.5.4}{5.67.4}{5.5.11.4}{508, 421, 4234} ते¦हि¦स॒त्याः¦ऋ॒त॒ऽस्पृशः॑¦ऋ॒तऽवा᳚नः¦जने᳚ऽजने | सु॒ऽनी॒थासः॑¦सु॒ऽदान॑वः¦अं॒होः¦चि॒त्¦उ॒रु॒ऽचक्र॑यः || |
को नु वां᳚ मि॒त्रास्तु॑तो॒ वरु॑णो वा त॒नूना᳚म् |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्} तत्सु वा॒मेष॑ते म॒तिरत्रि॑भ्य॒ एष॑ते म॒तिः ||{5/5}{4.4.5.5}{5.67.5}{5.5.11.5}{509, 421, 4235} कः¦नु¦वा॒म्¦मि॒त्र॒¦अस्तु॑तः¦वरु॑णः¦वा॒¦त॒नूना᳚म् | तत्¦सु¦वा॒म्¦आ¦ई॒ष॒ते॒¦म॒तिः¦अत्रि॑ऽभ्यः¦आ¦ई॒ष॒ते॒¦म॒तिः || |
[60] प्रवोमित्रायेति पंचर्चस्य सूक्तस्यात्रेयो यजतोमित्रावरुणौगायत्री | |
प्र वो᳚ मि॒त्राय॑ गायत॒ वरु॑णाय वि॒पा गि॒रा |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री} महि॑क्षत्रावृ॒तं बृ॒हत् ||{1/5}{4.4.6.1}{5.68.1}{5.5.12.1}{510, 422, 4236} प्र¦वः॒¦मि॒त्राय॑¦गा॒य॒त॒¦वरु॑णाय¦वि॒पा¦गि॒रा | महि॑ऽक्षत्रौ¦ऋ॒तम्¦बृ॒हत् || |
स॒म्राजा॒ या घृ॒तयो᳚नी मि॒त्रश्चो॒भा वरु॑णश्च |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री} दे॒वा दे॒वेषु॑ प्रश॒स्ता ||{2/5}{4.4.6.2}{5.68.2}{5.5.12.2}{511, 422, 4237} स॒म्ऽराजा᳚¦या¦घृ॒तयो᳚नी॒ इति॑ घृ॒तऽयो᳚नी¦मि॒त्रः¦च॒¦उ॒भा¦वरु॑णः¦च॒ | दे॒वा¦दे॒वेषु॑¦प्र॒ऽश॒स्ता || |
ता नः॑ शक्तं॒ पार्थि॑वस्य म॒हो रा॒यो दि॒व्यस्य॑ |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री} महि॑ वां क्ष॒त्रं दे॒वेषु॑ ||{3/5}{4.4.6.3}{5.68.3}{5.5.12.3}{512, 422, 4238} ता¦नः॒¦श॒क्त॒म्¦पार्थि॑वस्य¦म॒हः¦रा॒यः¦दि॒व्यस्य॑ | महि॑¦वा॒म्¦क्ष॒त्रम्¦दे॒वेषु॑ || |
ऋ॒तमृ॒तेन॒ सप᳚न्तेषि॒रं दक्ष॑माशाते |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री} अ॒द्रुहा᳚ दे॒वौ व॑र्धेते ||{4/5}{4.4.6.4}{5.68.4}{5.5.12.4}{513, 422, 4239} ऋ॒तम्¦ऋ॒तेन॑¦सप᳚न्ता¦इ॒षि॒रम्¦दक्ष᳚म्¦आ॒शा॒ते॒ इति॑ | अ॒द्रुहा᳚¦दे॒वौ¦व॒र्धे॒ते॒ इति॑ || |
वृ॒ष्टिद्या᳚वा री॒त्या᳚पे॒षस्पती॒ दानु॑मत्याः |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री} बृ॒हन्तं॒ गर्त॑माशाते ||{5/5}{4.4.6.5}{5.68.5}{5.5.12.5}{514, 422, 4240} वृ॒ष्टिऽद्या᳚वा¦री॒तिऽआ᳚पा¦इ॒षः¦पती॒ इति॑¦दानु॑ऽमत्याः | बृ॒हन्त᳚म्¦गर्त᳚म्¦आ॒शा॒ते॒ इति॑ || |
[61] त्रीरोचनेति चतुरृचस्य सूक्तस्यात्रेय उरुचक्रिर्मित्रावरुणौत्रिष्टुप् | |
त्री रो᳚च॒ना व॑रुण॒ त्रीँरु॒त द्यून् त्रीणि॑ मित्र धारयथो॒ रजां᳚सि |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्} वा॒वृ॒धा॒नाव॒मतिं᳚ क्ष॒त्रिय॒स्याऽनु᳚ व्र॒तं रक्ष॑माणावजु॒र्यम् ||{1/4}{4.4.7.1}{5.69.1}{5.5.13.1}{515, 423, 4241} त्री¦रो॒च॒ना¦व॒रु॒ण॒¦त्रीन्¦उ॒त¦द्यून्¦त्रीणि॑¦मि॒त्र॒¦धा॒र॒य॒थः॒¦रजां᳚सि | |
इरा᳚वतीर्वरुण धे॒नवो᳚ वां॒ मधु॑मद्वां॒ सिन्ध॑वो मित्र दुह्रे |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्} त्रय॑स्तस्थुर्वृष॒भास॑स्तिसॄ॒णां धि॒षणा᳚नां रेतो॒धा वि द्यु॒मन्तः॑ ||{2/4}{4.4.7.2}{5.69.2}{5.5.13.2}{516, 423, 4242} इरा᳚ऽवतीः¦व॒रु॒ण॒¦धे॒नवः॑¦वा॒म्¦मधु॑ऽमत्¦वा॒म्¦सिन्ध॑वः¦मि॒त्र॒¦दु॒ह्रे॒ | |
प्रा॒तर्दे॒वीमदि॑तिं जोहवीमि म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्} रा॒ये मि॑त्रावरुणा स॒र्वता॒तेळे᳚ तो॒काय॒ तन॑याय॒ शं योः ||{3/4}{4.4.7.3}{5.69.3}{5.5.13.3}{517, 423, 4243} प्रा॒तः¦दे॒वीम्¦अदि॑तिम्¦जो॒ह॒वी॒मि॒¦म॒ध्यंदि॑ने¦उत्ऽइ᳚ता¦सूर्य॑स्य | |
या ध॒र्तारा॒ रज॑सो रोच॒नस्यो॒तादि॒त्या दि॒व्या पार्थि॑वस्य |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्} न वां᳚ दे॒वा, अ॒मृता॒, आ मि॑नन्ति व्र॒तानि॑ मित्रावरुणा ध्रु॒वाणि॑ ||{4/4}{4.4.7.4}{5.69.4}{5.5.13.4}{518, 423, 4244} या¦ध॒र्तारा᳚¦रज॑सः¦रो॒च॒नस्य॑¦उ॒त¦आ॒दि॒त्या¦दि॒व्या¦पार्थि॑वस्य | |
[62] पुरुरुणेति चतुरृचस्य सूक्तस्यात्रेय उरुचक्रिर्मित्रावरुणौगायत्री | |
पु॒रू॒रुणा᳚ चि॒द्ध्यस्त्यवो᳚ नू॒नं वां᳚ वरुण |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | गायत्री} मित्र॒ वंसि॑ वां सुम॒तिम् ||{1/4}{4.4.8.1}{5.70.1}{5.5.14.1}{519, 424, 4245} पु॒रु॒।औ॒रुणा᳚¦चि॒त्¦हि¦अस्ति॑¦अवः॑¦नू॒नम्¦वा॒म्¦व॒रु॒ण॒ | मित्र॑¦वंसि॑¦वा॒म्¦सु॒ऽम॒तिम् || |
ता वां᳚ स॒म्यग॑द्रुह्वा॒णेष॑मश्याम॒ धाय॑से |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | गायत्री} व॒यं ते रु॑द्रा स्याम ||{2/4}{4.4.8.2}{5.70.2}{5.5.14.2}{520, 424, 4246} ता¦वा॒म्¦स॒म्यक्¦अ॒द्रु॒ह्वा॒णा॒¦इष᳚म्¦अ॒श्या॒म॒¦धाय॑से | व॒यम्¦ते¦रु॒द्रा॒¦स्या॒म॒ || |
पा॒तं नो᳚ रुद्रा पा॒युभि॑रु॒त त्रा᳚येथां सुत्रा॒त्रा |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | गायत्री} तु॒र्याम॒ दस्यू᳚न् त॒नूभिः॑ ||{3/4}{4.4.8.3}{5.70.3}{5.5.14.3}{521, 424, 4247} पा॒तम्¦नः॒¦रु॒द्रा॒¦पा॒युऽभिः॑¦उ॒त¦त्रा॒ये॒था॒म्¦सु॒ऽत्रा॒त्रा | तु॒र्याम॑¦दस्यू᳚न्¦त॒नूभिः॑ || |
मा कस्या᳚द्भुतक्रतू य॒क्षं भु॑जेमा त॒नूभिः॑ |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | गायत्री} मा शेष॑सा॒ मा तन॑सा ||{4/4}{4.4.8.4}{5.70.4}{5.5.14.4}{522, 424, 4248} मा¦कस्य॑¦अ॒द्भु॒त॒क्र॒तू॒ इत्य॑द्भुतऽक्रतू¦य॒क्षम्¦भु॒जे॒म॒¦त॒नूभिः॑ | मा¦शेष॑सा¦मा¦तन॑सा || |
[63] आनोगंतरिति तृचस्य सूक्तस्यात्रेयोबाहुवृक्तोमित्रावरुणौगायत्री | |
आ नो᳚ गन्तं रिशादसा॒ वरु॑ण॒ मित्र॑ ब॒र्हणा᳚ |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | गायत्री} उपे॒मं चारु॑मध्व॒रम् ||{1/3}{4.4.9.1}{5.71.1}{5.5.15.1}{523, 425, 4249} आ¦नः॒¦ग॒न्त॒म्¦रि॒शा॒द॒सा॒¦वरु॑ण¦मित्र॑¦ब॒र्हणा᳚ | उप॑¦इ॒मम्¦चारु᳚म्¦अ॒ध्व॒रम् || |
विश्व॑स्य॒ हि प्र॑चेतसा॒ वरु॑ण॒ मित्र॒ राज॑थः |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | गायत्री} ई॒शा॒ना पि॑प्यतं॒ धियः॑ ||{2/3}{4.4.9.2}{5.71.2}{5.5.15.2}{524, 425, 4250} विश्व॑स्य¦हि¦प्र॒ऽचे॒त॒सा॒¦वरु॑ण¦मित्र॑¦राज॑थः | ई॒शा॒ना¦पि॒प्य॒त॒म्¦धियः॑ || |
उप॑ नः सु॒तमा ग॑तं॒ वरु॑ण॒ मित्र॑ दा॒शुषः॑ |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | गायत्री} अ॒स्य सोम॑स्य पी॒तये᳚ ||{3/3}{4.4.9.3}{5.71.3}{5.5.15.3}{525, 425, 4251} उप॑¦नः॒¦सु॒तम्¦आ¦ग॒त॒म्¦वरु॑ण¦मित्र॑¦दा॒शुषः॑ | अ॒स्य¦सोम॑स्य¦पी॒तये᳚ || |
[64] आमित्रइति तृचस्य सूक्तस्यात्रेयोबाहुवृक्तोमित्रावरुणावुष्णिक् | |
आ मि॒त्रे वरु॑णे व॒यं गी॒र्भिर्जु॑हुमो, अत्रि॒वत् |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | उष्णिक्} नि ब॒र्हिषि॑ सदतं॒ सोम॑पीतये ||{1/3}{4.4.10.1}{5.72.1}{5.5.16.1}{526, 426, 4252} आ¦मि॒त्रे¦वरु॑णे¦व॒यम्¦गीः॒ऽभिः¦जु॒हु॒मः॒¦अ॒त्रि॒ऽवत् | नि¦ब॒र्हिषि॑¦स॒द॒त॒म्¦सोम॑ऽपीतये || |
व्र॒तेन॑ स्थो ध्रु॒वक्षे᳚मा॒ धर्म॑णा यात॒यज्ज॑ना |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | उष्णिक्} नि ब॒र्हिषि॑ सदतं॒ सोम॑पीतये ||{2/3}{4.4.10.2}{5.72.2}{5.5.16.2}{527, 426, 4253} व्र॒तेन॑¦स्थः॒¦ध्रु॒वऽक्षे᳚मा¦धर्म॑णा¦या॒त॒यत्ऽज॑ना | नि¦ब॒र्हिषि॑¦स॒द॒त॒म्¦सोम॑ऽपीतये || |
मि॒त्रश्च॑ नो॒ वरु॑णश्च जु॒षेतां᳚ य॒ज्ञमि॒ष्टये᳚ |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | उष्णिक्} नि ब॒र्हिषि॑ सदतां॒ सोम॑पीतये ||{3/3}{4.4.10.3}{5.72.3}{5.5.16.3}{528, 426, 4254} मि॒त्रः¦च॒¦नः॒¦वरु॑णः¦च॒¦जु॒षेता᳚म्¦य॒ज्ञम्¦इ॒ष्टये᳚ | नि¦ब॒र्हिषि॑¦स॒द॒त॒म्¦सोम॑ऽपीतये || |
[65] यदद्यस्थइति दशर्चस्यसूतस्यात्रेयः पौरोश्विनावनुष्टुप् | |
यद॒द्य स्थः प॑रा॒वति॒ यद᳚र्वा॒वत्य॑श्विना |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} यद् वा᳚ पु॒रू पु॑रुभुजा॒ यद॒न्तरि॑क्ष॒ आ ग॑तम् ||{1/10}{4.4.11.1}{5.73.1}{5.6.1.1}{529, 427, 4255} यत्¦अ॒द्य¦स्थः¦पा॒रा॒ऽवति॑¦यत्¦आ॒र्वा॒ऽवति॑¦अ॒श्वि॒ना॒ | यत्¦वा॒¦पु॒रु¦पु॒रु॒ऽभु॒जा॒¦यत्¦अ॒न्तरि॑क्षे¦आ¦ग॒त॒म् || |
इ॒ह त्या पु॑रु॒भूत॑मा पु॒रू दंसां᳚सि॒ बिभ्र॑ता |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} व॒र॒स्या या॒म्यध्रि॑गू हु॒वे तु॒विष्ट॑मा भु॒जे ||{2/10}{4.4.11.2}{5.73.2}{5.6.1.2}{530, 427, 4256} इ॒ह¦त्या¦पु॒रु॒ऽभूत॑मा¦पु॒रु¦दंसां᳚सि¦बिभ्र॑ता | व॒र॒स्या¦या॒मि॒¦अध्रि॑गू॒ इत्यध्रि॑ऽगू¦हु॒वे¦तु॒विःऽत॑मा¦भु॒जे || |
ई॒र्मान्यद् वपु॑षे॒ वपु॑श्च॒क्रं रथ॑स्य येमथुः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} पर्य॒न्या नाहु॑षा यु॒गा म॒ह्ना रजां᳚सि दीयथः ||{3/10}{4.4.11.3}{5.73.3}{5.6.1.3}{531, 427, 4257} ई॒र्मा¦अ॒न्यत्¦वपु॑षे¦वपुः॑¦च॒क्रम्¦रथ॑स्य¦ये॒म॒थुः॒ | परि॑¦अ॒न्या¦नाहु॑षा¦यु॒गा¦म॒ह्ना¦रजां᳚सि¦दी॒य॒थः॒ || |
तदू॒ षु वा᳚मे॒ना कृ॒तं विश्वा॒ यद् वा॒मनु॒ ष्टवे᳚ |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} नाना᳚ जा॒ताव॑रे॒पसा॒ सम॒स्मे बन्धु॒मेय॑थुः ||{4/10}{4.4.11.4}{5.73.4}{5.6.1.4}{532, 427, 4258} तत्¦ऊँ॒ इति॑¦सु¦वा॒म्¦ए॒ना¦कृ॒तम्¦विश्वा᳚¦यत्¦वा॒म्¦अनु॑¦स्तवे᳚ | नाना᳚¦जा॒तौ¦अ॒रे॒पसा᳚¦सम्¦अ॒स्मे इति॑¦बन्धु᳚म्¦आ¦ई॒य॒थुः॒ || |
आ यद् वां᳚ सू॒र्या रथं॒ तिष्ठ॑द् रघु॒ष्यदं॒ सदा᳚ |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} परि॑ वामरु॒षा वयो᳚ घृ॒णा व॑रन्त आ॒तपः॑ ||{5/10}{4.4.11.5}{5.73.5}{5.6.1.5}{533, 427, 4259} आ¦यत्¦वा॒म्¦सू॒र्या¦रथ᳚म्¦तिष्ठ॑त्¦र॒घु॒ऽस्यद᳚म्¦सदा᳚ | परि॑¦वा॒म्¦अ॒रु॒षाः¦वयः॑¦घृ॒णा¦व॒र॒न्ते॒¦आ॒ऽतपः॑ || |
यु॒वोरत्रि॑श्चिकेतति॒ नरा᳚ सु॒म्नेन॒ चेत॑सा |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} घ॒र्मं यद् वा᳚मरे॒पसं॒ नास॑त्या॒स्ना भु॑र॒ण्यति॑ ||{6/10}{4.4.12.1}{5.73.6}{5.6.1.6}{534, 427, 4260} यु॒वोः¦अत्रिः॑¦चि॒के॒त॒ति॒¦नरा᳚¦सु॒म्नेन॑¦चेत॑सा | घ॒र्मम्¦यत्¦वा॒म्¦अ॒रे॒पस᳚म्¦नास॑त्या¦आ॒स्ना¦भु॒र॒ण्यति॑ || |
उ॒ग्रो वां᳚ ककु॒हो य॒यिः शृ॒ण्वे यामे᳚षु संत॒निः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} यद् वां॒ दंसो᳚भिरश्वि॒नाऽत्रि᳚र्नराव॒वर्त॑ति ||{7/10}{4.4.12.2}{5.73.7}{5.6.1.7}{535, 427, 4261} उ॒ग्रः¦वा॒म्¦क॒कु॒हः¦य॒यिः¦शृ॒ण्वे¦यामे᳚षु¦स॒म्ऽत॒निः | यत्¦वा॒म्¦दंसः॑ऽभिः¦अ॒श्वि॒ना॒¦अत्रिः॑¦न॒रा॒¦आ॒ऽव॒वर्त॑ति || |
मध्व॑ ऊ॒ षु म॑धूयुवा॒ रुद्रा॒ सिष॑क्ति पि॒प्युषी᳚ |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} यत् स॑मु॒द्राति॒ पर्ष॑थः प॒क्वाः पृक्षो᳚ भरन्त वाम् ||{8/10}{4.4.12.3}{5.73.8}{5.6.1.8}{536, 427, 4262} मध्वः॑¦ऊँ॒ इति॑¦सु¦म॒धु॒ऽयु॒वा॒¦रुद्रा᳚¦सिस॑क्ति¦पि॒प्युषी᳚ | यत्¦स॒मु॒द्रा¦अति॑¦पर्ष॑थः¦प॒क्वाः¦पृक्षः॑¦भ॒र॒न्त॒¦वा॒म् || |
स॒त्यमिद् वा, उ॑ अश्विना यु॒वामा᳚हुर्मयो॒भुवा᳚ |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} ता याम᳚न् याम॒हूत॑मा॒ याम॒न्ना मृ॑ळ॒यत्त॑मा ||{9/10}{4.4.12.4}{5.73.9}{5.6.1.9}{537, 427, 4263} स॒त्यम्¦इत्¦वै¦ऊँ॒ इति॑¦अ॒श्वि॒ना॒¦यु॒वाम्¦आ॒हुः॒¦म॒यः॒ऽभुवा᳚ | ता¦याम॑न्¦या॒म॒ऽहूत॑मा¦याम॑न्¦आ¦मृ॒ळ॒यत्ऽत॑मा || |
इ॒मा ब्रह्मा᳚णि॒ वर्ध॑ना॒ ऽश्विभ्यां᳚ सन्तु॒ शंत॑मा |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} या तक्षा᳚म॒ रथाँ᳚, इ॒वाऽवो᳚चाम बृ॒हन्नमः॑ ||{10/10}{4.4.12.5}{5.73.10}{5.6.1.10}{538, 427, 4264} इ॒मा¦ब्रह्मा᳚णि¦वर्ध॑ना¦अ॒श्विऽभ्या᳚म्¦स॒न्तु॒¦शम्ऽत॑मा | या¦तक्षा᳚म¦रथा᳚न्ऽइव¦अवो᳚चाम¦बृ॒हत्¦नमः॑ || |
[66] कूष्ठोदेवाविति दशर्चस्य सूक्तस्यात्रेयः पौरोश्विनावनुष्टुप् | |
कूष्ठो᳚ देवावश्विना॒ऽद्या दि॒वो म॑नावसू |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} तच्छ्र॑वथो वृषण्वसू॒, अत्रि᳚र्वा॒मा वि॑वासति ||{1/10}{4.4.13.1}{5.74.1}{5.6.2.1}{539, 428, 4265} कूऽस्थः॑¦दे॒वौ॒¦अ॒श्वि॒ना॒¦अ॒द्य¦दि॒वः¦म॒ना॒व॒सू॒ इति॑ | तत्¦श्र॒व॒थः॒¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू¦अत्रिः॑¦वा॒म्¦आ¦वि॒वा॒स॒ति॒ || |
कुह॒ त्या कुह॒ नु श्रु॒ता दि॒वि दे॒वा नास॑त्या |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} कस्मि॒न्ना य॑तथो॒ जने॒ को वां᳚ न॒दीनां॒ सचा᳚ ||{2/10}{4.4.13.2}{5.74.2}{5.6.2.2}{540, 428, 4266} कुह॑¦त्या¦कुह॑¦नु¦श्रु॒ता¦दि॒वि¦दे॒वा¦नास॑त्या | कस्मि॑न्¦आ¦य॒त॒थः॒¦जने᳚¦कः¦वा॒म्¦न॒दीना᳚म्¦सचा᳚ || |
कं या᳚थः॒ कं ह॑ गच्छथः॒ कमच्छा᳚ युञ्जाथे॒ रथ᳚म् |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} कस्य॒ ब्रह्मा᳚णि रण्यथो व॒यं वा᳚मुश्मसी॒ष्टये᳚ ||{3/10}{4.4.13.3}{5.74.3}{5.6.2.3}{541, 428, 4267} कम्¦या॒थः॒¦कम्¦ह॒¦ग॒च्छ॒थः॒¦कम्¦अच्छ॑¦युं॒जा॒थे॒ इति॑¦रथ᳚म् | कस्य॑¦ब्रह्मा᳚णि¦र॒ण्य॒थः॒¦व॒यम्¦वा॒म्¦उ॒श्म॒सि॒¦इ॒ष्टये᳚ || |
पौ॒रं चि॒द्ध्यु॑द॒प्रुतं॒ पौर॑ पौ॒राय॒ जिन्व॑थः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} यदीं᳚ गृभी॒तता᳚तये सिं॒हमि॑व द्रु॒हस्प॒दे ||{4/10}{4.4.13.4}{5.74.4}{5.6.2.4}{542, 428, 4268} पौ॒रम्¦चि॒त्¦हि¦उ॒द॒ऽप्रुत᳚म्¦पौर॑¦पौ॒राय॑¦जिन्व॑थः | यत्¦ई॒म्¦गृ॒भी॒तऽता᳚तये¦सिं॒हम्ऽइ᳚व¦द्रु॒हः¦प॒दे || |
प्र च्यवा᳚नाज्जुजु॒रुषो᳚ व॒व्रिमत्कं॒ न मु᳚ञ्चथः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} युवा॒ यदी᳚ कृ॒थः पुन॒रा काम॑मृण्वे व॒ध्वः॑ ||{5/10}{4.4.13.5}{5.74.5}{5.6.2.5}{543, 428, 4269} प्र¦च्यवा᳚नात्¦जु॒जु॒रुषः॑¦व॒व्रिम्¦अत्क᳚म्¦न¦मुं॒च॒थः॒ | युवा᳚¦यदि॑¦कृ॒थः¦पुनः॑¦आ¦काम᳚म्¦ऋ॒ण्वे॒¦व॒ध्वः॑ || |
अस्ति॒ हि वा᳚मि॒ह स्तो॒ता स्मसि॑ वां सं॒दृशि॑ श्रि॒ये |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} नू श्रु॒तं म॒ आ ग॑त॒मवो᳚भिर्वाजिनीवसू ||{6/10}{4.4.14.1}{5.74.6}{5.6.2.6}{544, 428, 4270} अस्ति॑¦हि¦वा॒म्¦इ॒ह¦स्तो॒ता¦स्मसि॑¦वा॒म्¦स॒म्ऽदृशि॑¦श्रि॒ये | नु¦श्रु॒तम्¦मे॒¦आ¦ग॒त॒म्¦अवः॑ऽभिः¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू || |
को वा᳚म॒द्य पु॑रू॒णामा व᳚व्ने॒ मर्त्या᳚नाम् |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} को विप्रो᳚ विप्रवाहसा॒ को य॒ज्ञैर्वा᳚जिनीवसू ||{7/10}{4.4.14.2}{5.74.7}{5.6.2.7}{545, 428, 4271} कः¦वा॒म्¦अ॒द्य¦पु॒रू॒णाम्¦आ¦व॒व्ने॒¦मर्त्या᳚नाम् | कः¦विप्रः॑¦वि॒प्र॒ऽवा॒ह॒सा॒¦कः¦य॒ज्ञैः¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू || |
आ वां॒ रथो॒ रथा᳚नां॒ येष्ठो᳚ यात्वश्विना |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} पु॒रू चि॑दस्म॒युस्ति॒र आ᳚ङ्गू॒षो मर्त्ये॒ष्वा ||{8/10}{4.4.14.3}{5.74.8}{5.6.2.8}{546, 428, 4272} आ¦वा॒म्¦रथः॑¦रथा᳚नाम्¦येष्ठः॑¦या॒तु॒¦अ॒श्वि॒ना॒ | पु॒रु¦चि॒त्¦अ॒स्म॒ऽयुः¦ति॒रः¦आ॒ङ्गू॒षः¦मर्त्ये᳚षु¦आ || |
शमू॒ षु वां᳚ मधूयुवा॒ ऽस्माक॑मस्तु चर्कृ॒तिः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} अ॒र्वा॒ची॒ना वि॑चेतसा॒ विभिः॑ श्ये॒नेव॑ दीयतम् ||{9/10}{4.4.14.4}{5.74.9}{5.6.2.9}{547, 428, 4273} शम्¦ऊँ॒ इति॑¦सु¦वा॒म्¦म॒धु॒ऽयु॒वा॒¦अ॒स्माक᳚म्¦अ॒स्तु॒¦च॒र्कृ॒तिः | अ॒र्वा॒ची॒ना¦वि॒ऽचे॒त॒सा॒¦विऽभिः॑¦श्ये॒नाऽइ᳚व¦दी॒य॒त॒म् || |
अश्वि॑ना॒ यद्ध॒ कर्हि॑ चिच्छुश्रू॒यात॑मि॒मं हव᳚म् |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} वस्वी᳚रू॒ षु वां॒ भुजः॑ पृ॒ञ्चन्ति॒ सु वां॒ पृचः॑ ||{10/10}{4.4.14.5}{5.74.10}{5.6.2.10}{548, 428, 4274} अश्वि॑ना¦यत्¦ह॒¦कर्हि॑¦चि॒त्¦शु॒श्रु॒यात᳚म्¦इ॒मम्¦हव᳚म् | वस्वीः᳚¦ऊँ॒ इति॑¦सु¦वा॒म्¦भुजः॑¦पृं॒चन्ति॑¦सु¦वा॒म्¦पृचः॑ || |
[67] प्रतिप्रियतममिति नवर्चस्य सूक्तस्यात्रेयोवस्युरश्विनौपङ्क्तिः | |
प्रति॑ प्रि॒यत॑मं॒ रथं॒ वृष॑णं वसु॒वाह॑नम् |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः} स्तो॒ता वा᳚मश्विना॒वृषिः॒ स्तोमे᳚न॒ प्रति॑ भूषति॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{1/9}{4.4.15.1}{5.75.1}{5.6.3.1}{549, 429, 4275} प्रति॑¦प्रि॒यऽत॑मम्¦रथ᳚म्¦वृष॑णम्¦व॒सु॒ऽवाह॑नम् | |
अ॒त्याया᳚तमश्विना ति॒रो विश्वा᳚, अ॒हं सना᳚ |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः} दस्रा॒ हिर᳚ण्यवर्तनी॒ सुषु᳚म्ना॒ सिन्धु॑वाहसा॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{2/9}{4.4.15.2}{5.75.2}{5.6.3.2}{550, 429, 4276} अ॒ति॒ऽआया᳚तम्¦अ॒श्वि॒ना॒¦ति॒रः¦विश्वाः᳚¦अ॒हम्¦सना᳚ | |
आ नो॒ रत्ना᳚नि॒ बिभ्र॑ता॒वश्वि॑ना॒ गच्छ॑तं यु॒वम् |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः} रुद्रा॒ हिर᳚ण्यवर्तनी जुषा॒णा वा᳚जिनीवसू॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{3/9}{4.4.15.3}{5.75.3}{5.6.3.3}{551, 429, 4277} आ¦नः॒¦रत्ना᳚नि¦बिभ्र॑तौ¦अश्वि॑ना¦गच्छ॑तम्¦यु॒वम् | |
सु॒ष्टुभो᳚ वां वृषण्वसू॒ रथे॒ वाणी॒च्याहि॑ता |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः} उ॒त वां᳚ ककु॒हो मृ॒गः पृक्षः॑ कृणोति वापु॒षो माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{4/9}{4.4.15.4}{5.75.4}{5.6.3.4}{552, 429, 4278} सु॒ऽस्तुभः॑¦वा॒म्¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू¦रथे᳚¦वाणी᳚ची¦आऽहि॑ता | |
बो॒धिन्म॑नसा र॒थ्ये᳚षि॒रा ह॑वन॒श्रुता᳚ |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः} विभि॒श्च्यवा᳚नमश्विना॒ नि या᳚थो॒, अद्व॑याविनं॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{5/9}{4.4.15.5}{5.75.5}{5.6.3.5}{553, 429, 4279} बो॒धित्ऽम॑नसा¦र॒थ्या᳚¦इ॒षि॒रा¦ह॒व॒न॒ऽश्रुता᳚ | |
आ वां᳚ नरा मनो॒युजो ऽश्वा᳚सः प्रुषि॒तप्स॑वः |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः} वयो᳚ वहन्तु पी॒तये᳚ स॒ह सु॒म्नेभि॑रश्विना॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{6/9}{4.4.16.1}{5.75.6}{5.6.3.6}{554, 429, 4280} आ¦वा॒म्¦न॒रा॒¦म॒नः॒ऽयुजः॑¦अश्वा᳚सः¦प्रु॒षि॒तऽप्स॑वः | |
अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे᳚नतम् |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः} ति॒रश्चि॑दर्य॒या परि॑ व॒र्तिर्या᳚तमदाभ्या॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{7/9}{4.4.16.2}{5.75.7}{5.6.3.7}{555, 429, 4281} अश्वि॑नौ¦आ¦इ॒ह¦ग॒च्छ॒त॒म्¦नास॑त्या¦मा¦वि¦वे॒न॒त॒म् | |
अ॒स्मिन् य॒ज्ञे, अ॑दाभ्या जरि॒तारं᳚ शुभस्पती |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः} अ॒व॒स्युम॑श्विना यु॒वं गृ॒णन्त॒मुप॑ भूषथो॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{8/9}{4.4.16.3}{5.75.8}{5.6.3.8}{556, 429, 4282} अ॒स्मिन्¦य॒ज्ञे¦अ॒दा॒भ्या॒¦ज॒रि॒तार᳚म्¦शु॒भः॒¦प॒ती॒ इति॑ | |
अभू᳚दु॒षा रुश॑त्पशु॒राग्निर॑धाय्यृ॒त्वियः॑ |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः} अयो᳚जि वां वृषण्वसू॒ रथो᳚ दस्रा॒वम॑र्त्यो॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{9/9}{4.4.16.4}{5.75.9}{5.6.3.9}{557, 429, 4283} अभू᳚त्¦उ॒षाः¦रुश॑त्ऽपशुः¦आ¦अ॒ग्निः¦अ॒धा॒यि॒¦ऋ॒त्वियः॑ | |
[68] आभात्यग्निरिति पंचर्चस्य सूक्तस्य भौमोत्रिरश्विनौत्रिष्टुप् | |
आ भा᳚त्य॒ग्निरु॒षसा॒मनी᳚क॒मुद् विप्रा᳚णां देव॒या वाचो᳚, अस्थुः |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्} अ॒र्वाञ्चा᳚ नू॒नं र॑थ्ये॒ह या᳚तं पीपि॒वांस॑मश्विना घ॒र्ममच्छ॑ ||{1/5}{4.4.17.1}{5.76.1}{5.6.4.1}{558, 430, 4284} आ¦भा॒ति॒¦अ॒ग्निः¦उ॒षसा᳚म्¦अनी᳚कम्¦उत्¦विप्रा᳚णाम्¦दे॒व॒ऽयाः¦वाचः॑¦अ॒स्थुः॒ | |
न सं᳚स्कृ॒तं प्र मि॑मीतो॒ गमि॒ष्ठा ऽन्ति॑ नू॒नम॒श्विनोप॑स्तुते॒ह |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्} दिवा᳚भिपि॒त्वेऽव॒साग॑मिष्ठा॒ प्रत्यव॑र्तिं दा॒शुषे॒ शम्भ॑विष्ठा ||{2/5}{4.4.17.2}{5.76.2}{5.6.4.2}{559, 430, 4285} न¦सं॒स्कृ॒तम्¦प्र¦मि॒मी॒तः॒¦गमि॑ष्ठा¦अन्ति॑¦नू॒नम्¦अ॒श्विना᳚¦उप॑ऽस्तुता¦इ॒ह | |
उ॒ता या᳚तं संग॒वे प्रा॒तरह्नो᳚ म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्} दिवा॒ नक्त॒मव॑सा॒ शंत॑मेन॒ नेदानीं᳚ पी॒तिर॒श्विना त॑तान ||{3/5}{4.4.17.3}{5.76.3}{5.6.4.3}{560, 430, 4286} उ॒त¦आ¦या॒त॒म्¦स॒म्ऽग॒वे¦प्रा॒तः¦अह्नः॑¦म॒ध्यंदि॑ने¦उत्ऽइ᳚ता¦सूर्य॑स्य | |
इ॒दं हि वां᳚ प्र॒दिवि॒ स्थान॒मोक॑ इ॒मे गृ॒हा, अ॑श्विने॒दं दु॑रो॒णम् |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्} आ नो᳚ दि॒वो बृ॑ह॒तः पर्व॑ता॒दा ऽद्भ्यो या᳚त॒मिष॒मूर्जं॒ वह᳚न्ता ||{4/5}{4.4.17.4}{5.76.4}{5.6.4.4}{561, 430, 4287} इ॒दम्¦हि¦वा॒म्¦प्र॒ऽदिवि॑¦स्थान᳚म्¦ओकः॑¦इ॒मे¦गृ॒हाः¦अ॒श्वि॒ना॒¦इ॒दम्¦दु॒रो॒णम् | |
सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा᳚ सु॒प्रणी᳚ती गमेम |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्} आ नो᳚ र॒यिं व॑हत॒मोत वी॒राना विश्वा᳚न्यमृता॒ सौभ॑गानि ||{5/5}{4.4.17.5}{5.76.5}{5.6.4.5}{562, 430, 4288} सम्¦अ॒श्विनोः᳚¦अव॑सा¦नूत॑नेन¦म॒यः॒ऽभुवा᳚¦सु॒ऽप्रनी᳚ती¦ग॒मे॒म॒ | |
[69] प्रातर्यावाणेति पंचर्चस्य सूक्तस्य भौमोत्रिरश्विनौत्रिष्टुप् | |
प्रा॒त॒र्यावा᳚णा प्रथ॒मा य॑जध्वं पु॒रा गृध्रा॒दर॑रुषः पिबातः |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्} प्रा॒तर्हि य॒ज्ञम॒श्विना᳚ द॒धाते॒ प्र शं᳚सन्ति क॒वयः॑ पूर्व॒भाजः॑ ||{1/5}{4.4.18.1}{5.77.1}{5.6.5.1}{563, 431, 4289} प्रा॒तः॒ऽयावा᳚ना¦प्र॒थ॒मा¦य॒ज॒ध्व॒म्¦पु॒रा¦गृध्रा᳚त्¦अर॑रुषः¦पि॒बा॒तः॒ | |
प्रा॒तर्य॑जध्वम॒श्विना᳚ हिनोत॒ न सा॒यम॑स्ति देव॒या, अजु॑ष्टम् |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्} उ॒तान्यो, अ॒स्मद् य॑जते॒ वि चावः॒ पूर्वः॑पूर्वो॒ यज॑मानो॒ वनी᳚यान् ||{2/5}{4.4.18.2}{5.77.2}{5.6.5.2}{564, 431, 4290} प्रा॒तः¦य॒ज॒ध्व॒म्¦अ॒श्विना᳚¦हि॒नो॒त॒¦न¦सा॒यम्¦अ॒स्ति॒¦दे॒व॒ऽयाः¦अजु॑ष्टम् | |
हिर᳚ण्यत्व॒ङ्मधु॑वर्णो घृ॒तस्नुः॒ पृक्षो॒ वह॒न्ना रथो᳚ वर्तते वाम् |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्} मनो᳚जवा, अश्विना॒ वात॑रंहा॒ येना᳚तिया॒थो दु॑रि॒तानि॒ विश्वा᳚ ||{3/5}{4.4.18.3}{5.77.3}{5.6.5.3}{565, 431, 4291} हिर᳚ण्यऽत्वक्¦मधु॑ऽवर्णः¦घृ॒तऽस्नुः॑¦पृक्षः॑¦वह॑न्¦आ¦रथः॑¦व॒र्त॒ते॒¦वा॒म् | |
यो भूयि॑ष्ठं॒ नास॑त्याभ्यां वि॒वेष॒ चनि॑ष्ठं पि॒त्वो रर॑ते विभा॒गे |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्} स तो॒कम॑स्य पीपर॒च्छमी᳚भि॒रनू᳚र्ध्वभासः॒ सद॒मित् तु॑तुर्यात् ||{4/5}{4.4.18.4}{5.77.4}{5.6.5.4}{566, 431, 4292} यः¦भूयि॑ष्ठम्¦नास॑त्याभ्याम्¦वि॒वेष॑¦चनि॑ष्ठम्¦पि॒त्वः¦रर॑ते¦वि॒ऽभा॒गे | |
सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा᳚ सु॒प्रणी᳚ती गमेम |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्} आ नो᳚ र॒यिं व॑हत॒मोत वी॒राना विश्वा᳚न्यमृता॒ सौभ॑गानि ||{5/5}{4.4.18.5}{5.77.5}{5.6.5.5}{567, 431, 4293} सम्¦अ॒श्विनोः᳚¦अव॑सा¦नूत॑नेन¦म॒यः॒ऽभुवा᳚¦सु॒ऽप्रनी᳚ती¦ग॒मे॒म॒ | |
[70] अश्विनाविति नवर्चस्य सूक्तस्यात्रेयःसप्तवध्रिरश्विनावनुष्टुप् आद्यास्तिस्रउष्णिहश्चतुर्थीत्रिष्टुप् ( पंचम्यादिपंचगर्भस्राविण्यउपनिषदः ) | |
अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे᳚नतम् |{आत्रेयः सप्तवध्रिः | अश्विनौ | उष्णिक्} हं॒सावि॑व पतत॒मा सु॒ताँ, उप॑ ||{1/9}{4.4.19.1}{5.78.1}{5.6.6.1}{568, 432, 4294} अश्वि॑नौ¦आ¦इ॒ह¦ग॒च्छ॒त॒म्¦नास॑त्या¦मा¦वि¦वे॒न॒त॒म् | हं॒सौऽइ᳚व¦प॒त॒त॒म्¦आ¦सु॒तान्¦उप॑ || |
अश्वि॑ना हरि॒णावि॑व गौ॒रावि॒वानु॒ यव॑सम् |{आत्रेयः सप्तवध्रिः | अश्विनौ | उष्णिक्} हं॒सावि॑व पतत॒मा सु॒ताँ, उप॑ ||{2/9}{4.4.19.2}{5.78.2}{5.6.6.2}{569, 432, 4295} अश्वि॑ना¦ह॒रि॒णौऽइ᳚व¦गौ॒रौऽइ᳚व¦अनु॑¦यव॑सम् | हं॒सौऽइ᳚व¦प॒त॒त॒म्¦आ¦सु॒तान्¦उप॑ || |
अश्वि॑ना वाजिनीवसू जु॒षेथां᳚ य॒ज्ञमि॒ष्टये᳚ |{आत्रेयः सप्तवध्रिः | अश्विनौ | उष्णिक्} हं॒सावि॑व पतत॒मा सु॒ताँ, उप॑ ||{3/9}{4.4.19.3}{5.78.3}{5.6.6.3}{570, 432, 4296} अश्वि॑ना¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू¦जु॒षेथा᳚म्¦य॒ज्ञम्¦इ॒ष्टये᳚ | हं॒सौऽइ᳚व¦प॒त॒त॒म्¦आ¦सु॒तान्¦उप॑ || |
अत्रि॒र्यद् वा᳚मव॒रोह᳚न्नृ॒बीस॒मजो᳚हवी॒न्नाध॑मानेव॒ योषा᳚ |{आत्रेयः सप्तवध्रिः | अश्विनौ | त्रिष्टुप्} श्ये॒नस्य॑ चि॒ज्जव॑सा॒ नूत॑ने॒ना ऽऽग॑च्छतमश्विना॒ शंत॑मेन ||{4/9}{4.4.19.4}{5.78.4}{5.6.6.4}{571, 432, 4297} अत्रिः॑¦यत्¦वा॒म्¦अ॒व॒ऽरोह॑न्¦ऋ॒बीस᳚म्¦अजो᳚हवीत्¦नाध॑मानाऽइव¦योषा᳚ | |
वि जि॑हीष्व वनस्पते॒ योनिः॒ सूष्य᳚न्त्या, इव |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्} श्रु॒तं मे᳚, अश्विना॒ हवं᳚ स॒प्तव॑ध्रिं च मुञ्चतम् ||{5/9}{4.4.20.1}{5.78.5}{5.6.6.5}{572, 432, 4298} वि¦जि॒ही॒ष्व॒¦व॒न॒स्प॒ते॒¦योनिः॑¦सूष्य᳚न्त्याःऽइव | श्रु॒तम्¦मे॒¦अ॒श्वि॒ना॒¦हव᳚म्¦स॒प्तऽव॑ध्रिम्¦च॒¦मुं॒च॒त॒म् || |
भी॒ताय॒ नाध॑मानाय॒ ऋष॑ये स॒प्तव॑ध्रये |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्} मा॒याभि॑रश्विना यु॒वं वृ॒क्षं सं च॒ वि चा᳚चथः ||{6/9}{4.4.20.2}{5.78.6}{5.6.6.6}{573, 432, 4299} भी॒ताय॑¦नाध॑मानाय¦ऋष॑ये¦स॒प्तऽव॑ध्रये | मा॒याभिः॑¦अ॒श्वि॒ना॒¦यु॒वम्¦वृ॒क्षम्¦सम्¦च॒¦वि¦च॒¦अ॒च॒थः॒ || |
यथा॒ वातः॑ पुष्क॒रिणीं᳚ समि॒ङ्गय॑ति स॒र्वतः॑ |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्} ए॒वा ते॒ गर्भ॑ एजतु नि॒रैतु॒ दश॑मास्यः ||{7/9}{4.4.20.3}{5.78.7}{5.6.6.7}{574, 432, 4300} यथा᳚¦वातः॑¦पु॒ष्क॒रिणी᳚म्¦स॒म्ऽइ॒ङ्गय॑ति¦स॒र्वतः॑ | ए॒व¦ते॒¦गर्भः॑¦ए॒ज॒तु॒¦निः॒।आइतु॑¦दश॑ऽमास्यः || |
यथा॒ वातो॒ यथा॒ वनं॒ यथा᳚ समु॒द्र एज॑ति |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्} ए॒वा त्वं द॑शमास्य स॒हावे᳚हि ज॒रायु॑णा ||{8/9}{4.4.20.4}{5.78.8}{5.6.6.8}{575, 432, 4301} यथा᳚¦वातः॑¦यथा᳚¦वन᳚म्¦यथा᳚¦स॒मु॒द्रः¦एज॑ति | ए॒व¦त्वम्¦द॒श॒ऽमा॒स्य॒¦स॒ह¦अव॑¦इ॒हि॒¦ज॒रायु॑णा || |
दश॒ मासा᳚ञ्छशया॒नः कु॑मा॒रो, अधि॑ मा॒तरि॑ |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्} नि॒रैतु॑ जी॒वो, अक्ष॑तो जी॒वो जीव᳚न्त्या॒, अधि॑ ||{9/9}{4.4.20.5}{5.78.9}{5.6.6.9}{576, 432, 4302} दश॑¦मासा᳚न्¦श॒श॒या॒नः¦कु॒मा॒रः¦अधि॑¦मा॒तरि॑ | निः॒।आइतु॑¦जी॒वः¦अक्ष॑तः¦जी॒वः¦जीव᳚न्त्याः¦अधि॑ || |
[71] महेनइति दशर्चस्य सूक्तस्यात्रेयःसत्यश्रवाउषाःपंक्तिः | |
म॒हे नो᳚, अ॒द्य बो᳚ध॒योषो᳚ रा॒ये दि॒वित्म॑ती |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः} यथा᳚ चिन्नो॒, अबो᳚धयः स॒त्यश्र॑वसि वा॒य्ये सुजा᳚ते॒, अश्व॑सूनृते ||{1/10}{4.4.21.1}{5.79.1}{5.6.7.1}{577, 433, 4303} म॒हे¦नः॒¦अ॒द्य¦बो॒ध॒य॒¦उषः॑¦रा॒ये¦दि॒वित्म॑ती | |
या सु॑नी॒थे शौ᳚चद्र॒थे व्यौच्छो᳚ दुहितर्दिवः |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः} सा व्यु॑च्छ॒ सही᳚यसि स॒त्यश्र॑वसि वा॒य्ये सुजा᳚ते॒, अश्व॑सूनृते ||{2/10}{4.4.21.2}{5.79.2}{5.6.7.2}{578, 433, 4304} या¦सु॒ऽनी॒थे¦शौ॒च॒त्ऽर॒थे¦वि¦औच्छः॑¦दु॒हि॒तः॒¦दि॒वः॒ | |
सा नो᳚, अ॒द्याभ॒रद्व॑सु॒र्व्यु॑च्छा दुहितर्दिवः |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः} यो व्यौच्छः॒ सही᳚यसि स॒त्यश्र॑वसि वा॒य्ये सुजा᳚ते॒, अश्व॑सूनृते ||{3/10}{4.4.21.3}{5.79.3}{5.6.7.3}{579, 433, 4305} सा¦नः॒¦अ॒द्य¦आ॒भ॒रत्ऽव॑सुः¦वि¦उ॒च्छ॒¦दु॒हि॒तः॒¦दि॒वः॒ | |
अ॒भि ये त्वा᳚ विभावरि॒ स्तोमै᳚र्गृ॒णन्ति॒ वह्न॑यः |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः} म॒घैर्म॑घोनि सु॒श्रियो॒ दाम᳚न्वन्तः सुरा॒तयः॒ सुजा᳚ते॒, अश्व॑सूनृते ||{4/10}{4.4.21.4}{5.79.4}{5.6.7.4}{580, 433, 4306} अ॒भि¦ये¦त्वा॒¦वि॒भा॒ऽव॒रि॒¦स्तोमैः᳚¦गृ॒णन्ति॑¦वह्न॑यः | |
यच्चि॒द्धि ते᳚ ग॒णा, इ॒मे छ॒दय᳚न्ति म॒घत्त॑ये |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः} परि॑ चि॒द् वष्ट॑यो दधु॒र्दद॑तो॒ राधो॒, अह्र॑यं॒ सुजा᳚ते॒, अश्व॑सूनृते ||{5/10}{4.4.21.5}{5.79.5}{5.6.7.5}{581, 433, 4307} यत्¦चि॒त्¦हि¦ते॒¦ग॒णाः¦इ॒मे¦छ॒दय᳚न्ति¦म॒घत्त॑ये | |
ऐषु॑ धा वी॒रव॒द् यश॒ उषो᳚ मघोनि सू॒रिषु॑ |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः} ये नो॒ राधां॒स्यह्र॑या म॒घवा᳚नो॒, अरा᳚सत॒ सुजा᳚ते॒, अश्व॑सूनृते ||{6/10}{4.4.22.1}{5.79.6}{5.6.7.6}{582, 433, 4308} आ¦ए॒षु॒¦धाः॒¦वी॒रऽव॑त्¦यशः॑¦उषः॑¦म॒घो॒नि॒¦सू॒रिषु॑ | |
तेभ्यो᳚ द्यु॒म्नं बृ॒हद् यश॒ उषो᳚ मघो॒न्या व॑ह |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः} ये नो॒ राधां॒स्यश्व्या᳚ ग॒व्या भज᳚न्त सू॒रयः॒ सुजा᳚ते॒, अश्व॑सूनृते ||{7/10}{4.4.22.2}{5.79.7}{5.6.7.7}{583, 433, 4309} तेभ्यः॑¦द्यु॒म्नम्¦बृ॒हत्¦यशः॑¦उषः॑¦म॒घो॒नि॒¦आ¦व॒ह॒ | |
उ॒त नो॒ गोम॑ती॒रिष॒ आ व॑हा दुहितर्दिवः |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः} सा॒कं सूर्य॑स्य र॒श्मिभिः॑ शु॒क्रैः शोच॑द्भिर॒र्चिभिः॒ सुजा᳚ते॒, अश्व॑सूनृते ||{8/10}{4.4.22.3}{5.79.8}{5.6.7.8}{584, 433, 4310} उ॒त¦नः॒¦गोऽम॑तीः¦इषः॑¦आ¦व॒ह॒¦दु॒हि॒तः॒¦दि॒वः॒ | |
व्यु॑च्छा दुहितर्दिवो॒ मा चि॒रं त॑नुथा॒, अपः॑ |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः} नेत् त्वा᳚ स्ते॒नं यथा᳚ रि॒पुं तपा᳚ति॒ सूरो᳚, अ॒र्चिषा॒ सुजा᳚ते॒, अश्व॑सूनृते ||{9/10}{4.4.22.4}{5.79.9}{5.6.7.9}{585, 433, 4311} वि¦उ॒च्छ॒¦दु॒हि॒तः॒¦दि॒वः॒¦मा¦चि॒रम्¦त॒नु॒थाः॒¦अपः॑ | |
ए॒ताव॒द् वेदु॑ष॒स्त्वं भूयो᳚ वा॒ दातु॑मर्हसि |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः} या स्तो॒तृभ्यो᳚ विभावर्यु॒च्छन्ती॒ न प्र॒मीय॑से॒ सुजा᳚ते॒, अश्व॑सूनृते ||{10/10}{4.4.22.5}{5.79.10}{5.6.7.10}{586, 433, 4312} ए॒ताव॑त्¦वा॒¦इत्¦उ॒षः॒¦त्वम्¦भूयः॑¦वा॒¦दातु᳚म्¦अ॒र्ह॒सि॒ | |
[72] द्युतद्यामानमिति षडृचस्य सूक्तस्यात्रेयःसत्यश्रवाउषास्त्रिष्टुप् | |
द्यु॒तद्या᳚मानं बृह॒तीमृ॒तेन॑ ऋ॒ताव॑रीमरु॒णप्सुं᳚ विभा॒तीम् |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्} दे॒वीमु॒षसं॒ स्व॑रा॒वह᳚न्तीं॒ प्रति॒ विप्रा᳚सो म॒तिभि॑र्जरन्ते ||{1/6}{4.4.23.1}{5.80.1}{5.6.8.1}{587, 434, 4313} द्यु॒तत्ऽया᳚मानम्¦बृ॒ह॒तीम्¦ऋ॒तेन॑¦ऋ॒तऽव॑रीम्¦अ॒रु॒णऽप्सु᳚म्¦वि॒ऽभा॒तीम् | |
ए॒षा जनं᳚ दर्श॒ता बो॒धय᳚न्ती सु॒गान् प॒थः कृ᳚ण्व॒ती या॒त्यग्रे᳚ |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्} बृ॒ह॒द्र॒था बृ॑ह॒ती वि॑श्वमि॒न्वोषा ज्योति᳚र्यच्छ॒त्यग्रे॒, अह्ना᳚म् ||{2/6}{4.4.23.2}{5.80.2}{5.6.8.2}{588, 434, 4314} ए॒षा¦जन᳚म्¦द॒र्श॒ता¦बो॒धय᳚न्ती¦सु॒ऽमान्¦प॒थः¦कृ॒ण्व॒ती¦या॒ति॒¦अग्रे᳚ | |
ए॒षा गोभि॑ररु॒णेभि᳚र्युजा॒ना ऽस्रे᳚धन्ती र॒यिमप्रा᳚यु चक्रे |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्} प॒थो रद᳚न्ती सुवि॒ताय॑ दे॒वी पु॑रुष्टु॒ता वि॒श्ववा᳚रा॒ वि भा᳚ति ||{3/6}{4.4.23.3}{5.80.3}{5.6.8.3}{589, 434, 4315} ए॒षा¦गोभिः॑¦अ॒रु॒णेभिः॑¦यु॒जा॒ना¦अस्रे᳚धन्ती¦र॒यिम्¦अप्र॑ऽआयु¦च॒क्रे॒ | |
ए॒षा व्ये᳚नी भवति द्वि॒बर्हा᳚, आविष्कृण्वा॒ना त॒न्वं᳚ पु॒रस्ता᳚त् |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्} ऋ॒तस्य॒ पन्था॒मन्वे᳚ति सा॒धु प्र॑जान॒तीव॒ न दिशो᳚ मिनाति ||{4/6}{4.4.23.4}{5.80.4}{5.6.8.4}{590, 434, 4316} ए॒षा¦विऽए᳚नी¦भ॒व॒ति॒¦द्वि॒ऽबर्हाः᳚¦आ॒विः॒ऽकृ॒ण्वा॒ना¦त॒न्व᳚म्¦पु॒रस्ता᳚त् | |
ए॒षा शु॒भ्रा न त॒न्वो᳚ विदा॒नोर्ध्वेव॑ स्ना॒ती दृ॒शये᳚ नो, अस्थात् |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्} अप॒ द्वेषो॒ बाध॑माना॒ तमां᳚स्यु॒षा दि॒वो दु॑हि॒ता ज्योति॒षागा᳚त् ||{5/6}{4.4.23.5}{5.80.5}{5.6.8.5}{591, 434, 4317} ए॒षा¦शु॒भ्रा¦न¦त॒न्वः॑¦वि॒दा॒ना¦ऊ॒र्ध्वाऽइ᳚व¦स्ना॒ती¦दृ॒शये᳚¦नः॒¦अ॒स्था॒त् | |
ए॒षा प्र॑ती॒ची दु॑हि॒ता दि॒वो नॄन् योषे᳚व भ॒द्रा नि रि॑णीते॒, अप्सः॑ |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्} व्यू॒र्ण्व॒ती दा॒शुषे॒ वार्या᳚णि॒ पुन॒र्ज्योति᳚र्युव॒तिः पू॒र्वथा᳚कः ||{6/6}{4.4.23.6}{5.80.6}{5.6.8.6}{592, 434, 4318} ए॒षा¦प्र॒ती॒ची¦दु॒हि॒ता¦दि॒वः¦नॄन्¦योषा᳚ऽइव¦भ॒द्रा¦नि¦रि॒णी॒ते॒¦अप्सः॑ | |
[73] युंजतेमनइति पंचर्चस्य सूक्तस्यात्रेयः श्यावाश्वः सविताजगती | |
यु॒ञ्जते॒ मन॑ उ॒त यु᳚ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ |{आत्रेयः श्यावाश्वः | सविता | जगती} वि होत्रा᳚ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ||{1/5}{4.4.24.1}{5.81.1}{5.6.9.1}{593, 435, 4319} युं॒जते᳚¦मनः॑¦उ॒त¦युं॒जते᳚¦धियः॑¦विप्राः᳚¦विप्र॑स्य¦बृ॒ह॒तः¦वि॒पः॒ऽचितः॑ | |
विश्वा᳚ रू॒पाणि॒ प्रति॑ मुञ्चते क॒विः प्रासा᳚वीद् भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे |{आत्रेयः श्यावाश्वः | सविता | जगती} वि नाक॑मख्यत् सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ वि रा᳚जति ||{2/5}{4.4.24.2}{5.81.2}{5.6.9.2}{594, 435, 4320} विश्वा᳚¦रू॒पाणि॑¦प्रति॑¦मुं॒च॒ते॒¦क॒विः¦प्र¦अ॒सा॒वी॒त्¦भ॒द्रम्¦द्वि॒ऽपदे᳚¦चतुः॑ऽपदे | |
यस्य॑ प्र॒याण॒मन्व॒न्य इद् य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मोज॑सा |{आत्रेयः श्यावाश्वः | सविता | जगती} यः पार्थि॑वानि विम॒मे स एत॑शो॒ रजां᳚सि दे॒वः स॑वि॒ता म॑हित्व॒ना ||{3/5}{4.4.24.3}{5.81.3}{5.6.9.3}{595, 435, 4321} यस्य॑¦प्र॒ऽयान᳚म्¦अनु॑¦अ॒न्ये¦इत्¦य॒युः¦दे॒वाः¦दे॒वस्य॑¦म॒हि॒मान᳚म्¦ओज॑सा | |
उ॒त या᳚सि सवित॒स्त्रीणि॑ रोच॒नोत सूर्य॑स्य र॒श्मिभिः॒ समु॑च्यसि |{आत्रेयः श्यावाश्वः | सविता | जगती} उ॒त रात्री᳚मुभ॒यतः॒ परी᳚यस उ॒त मि॒त्रो भ॑वसि देव॒ धर्म॑भिः ||{4/5}{4.4.24.4}{5.81.4}{5.6.9.4}{596, 435, 4322} उ॒त¦या॒सि॒¦स॒वि॒त॒रिति॑¦त्रीणि॑¦रो॒च॒ना¦उ॒त¦सूर्य॑स्य¦र॒श्मिऽभिः॑¦सम्¦उ॒च्य॒सि॒ | |
उ॒तेशि॑षे प्रस॒वस्य॒ त्वमेक॒ इदु॒त पू॒षा भ॑वसि देव॒ याम॑भिः |{आत्रेयः श्यावाश्वः | सविता | जगती} उ॒तेदं विश्वं॒ भुव॑नं॒ वि रा᳚जसि श्या॒वाश्व॑स्ते सवितः॒ स्तोम॑मानशे ||{5/5}{4.4.24.5}{5.81.5}{5.6.9.5}{597, 435, 4323} उ॒त¦ई॒शि॒षे॒¦प्र॒ऽस॒वस्य॑¦त्वम्¦एकः॑¦इत्¦उ॒त¦पू॒षा¦भ॒व॒सि॒¦दे॒व॒¦याम॑ऽभिः | |
[74] तत्सवितुरिति नवर्चस्य सूक्तस्यात्रेयःश्यावाश्वः सवितागायत्री आद्यानुष्टुप् | |
तत् स॑वि॒तुर्वृ॑णीमहे व॒यं दे॒वस्य॒ भोज॑नम् |{आत्रेयः श्यावाश्वः | सविता | अनुष्टुप्} श्रेष्ठं᳚ सर्व॒धात॑मं॒ तुरं॒ भग॑स्य धीमहि ||{1/9}{4.4.25.1}{5.82.1}{5.6.10.1}{598, 436, 4324} तत्¦स॒वि॒तुः¦वृ॒णी॒म॒हे॒¦व॒यम्¦दे॒वस्य॑¦भोज॑नम् | श्रेष्ठ᳚म्¦स॒र्व॒ऽधात॑मम्¦तुर᳚म्¦भग॑स्य¦धी॒म॒हि॒ || |
अस्य॒ हि स्वय॑शस्तरं सवि॒तुः कच्च॒न प्रि॒यम् |{आत्रेयः श्यावाश्वः | सविता | गायत्री} न मि॒नन्ति॑ स्व॒राज्य᳚म् ||{2/9}{4.4.25.2}{5.82.2}{5.6.10.2}{599, 436, 4325} अस्य॑¦हि¦स्वय॑शःऽतरम्¦स॒वि॒तुः¦कत्¦च॒न¦प्रि॒यम् | न¦मि॒नन्ति॑¦स्व॒ऽराज्य᳚म् || |
स हि रत्ना᳚नि दा॒शुषे᳚ सु॒वाति॑ सवि॒ता भगः॑ |{आत्रेयः श्यावाश्वः | सविता | गायत्री} तं भा॒गं चि॒त्रमी᳚महे ||{3/9}{4.4.25.3}{5.82.3}{5.6.10.3}{600, 436, 4326} सः¦हि¦रत्ना᳚नि¦दा॒शुषे᳚¦सु॒वाति॑¦स॒वि॒ता¦भगः॑ | तम्¦भा॒गम्¦चि॒त्रम्¦ई॒म॒हे॒ || |
अ॒द्या नो᳚ देव सवितः प्र॒जाव॑त् सावीः॒ सौभ॑गम् |{आत्रेयः श्यावाश्वः | सविता | गायत्री} परा᳚ दु॒ष्ष्वप्न्यं᳚ सुव ||{4/9}{4.4.25.4}{5.82.4}{5.6.10.4}{601, 436, 4327} अ॒द्य¦नः॒¦दे॒व॒¦स॒वि॒त॒रिति॑¦प्र॒जाऽव॑त्¦सा॒वीः॒¦सौभ॑गम् | परा᳚¦दुः॒ऽस्वप्न्य᳚म्¦सु॒व॒ || |
विश्वा᳚नि देव सवितर्दुरि॒तानि॒ परा᳚ सुव |{आत्रेयः श्यावाश्वः | सविता | गायत्री} यद् भ॒द्रं तन्न॒ आ सु॑व ||{5/9}{4.4.25.5}{5.82.5}{5.6.10.5}{602, 436, 4328} विश्वा᳚नि¦दे॒व॒¦स॒वि॒तः॒¦दुः॒ऽइ॒तानि॑¦परा᳚¦सु॒व॒ | यत्¦भ॒द्रम्¦तत्¦नः॒¦आ¦सु॒व॒ || |
अना᳚गसो॒, अदि॑तये दे॒वस्य॑ सवि॒तुः स॒वे |{आत्रेयः श्यावाश्वः | सविता | गायत्री} विश्वा᳚ वा॒मानि॑ धीमहि ||{6/9}{4.4.26.1}{5.82.6}{5.6.10.6}{603, 436, 4329} अना᳚गसः¦अदि॑तये¦दे॒वस्य॑¦स॒वि॒तुः¦स॒वे | विश्वा᳚¦वा॒मानि॑¦धी॒म॒हि॒ || |
आ वि॒श्वदे᳚वं॒ सत्प॑तिं सू॒क्तैर॒द्या वृ॑णीमहे |{आत्रेयः श्यावाश्वः | सविता | गायत्री} स॒त्यस॑वं सवि॒तार᳚म् ||{7/9}{4.4.26.2}{5.82.7}{5.6.10.7}{604, 436, 4330} आ¦वि॒श्वऽदे᳚वम्¦सत्ऽप॑तिम्¦सु॒।औ॒क्तैः¦अ॒द्य¦वृ॒णी॒म॒हे॒ | स॒त्यऽस॑वम्¦स॒वि॒तार᳚म् || |
य इ॒मे, उ॒भे, अह॑नी पु॒र एत्यप्र॑युच्छन् |{आत्रेयः श्यावाश्वः | सविता | गायत्री} स्वा॒धीर्दे॒वः स॑वि॒ता ||{8/9}{4.4.26.3}{5.82.8}{5.6.10.8}{605, 436, 4331} यः¦इ॒मे इति॑¦उ॒भे इति॑¦अह॑नी॒ इति॑¦पु॒रः¦एति॑¦अप्र॑ऽयुच्छन् | सु॒ऽआ॒धीः¦दे॒वः¦स॒वि॒ता || |
य इ॒मा विश्वा᳚ जा॒तान्या᳚श्रा॒वय॑ति॒ श्लोके᳚न |{आत्रेयः श्यावाश्वः | सविता | गायत्री} प्र च॑ सु॒वाति॑ सवि॒ता ||{9/9}{4.4.26.4}{5.82.9}{5.6.10.9}{606, 436, 4332} यः¦इ॒मा¦विश्वा᳚¦जा॒तानि॑¦आ॒ऽश्र॒वय॑ति¦श्लोके᳚न | प्र¦च॒¦सु॒वाति॑¦स॒वि॒ता || |
[75] अच्छावदेति दशर्चस्य सूक्तस्य भौमोत्रिः पर्जन्यस्त्रिष्टुप् द्वितीयादितिस्रोजगत्यो नवम्यनुष्टुप् | |
अच्छा᳚ वद त॒वसं᳚ गी॒र्भिरा॒भिः स्तु॒हि प॒र्जन्यं॒ नम॒सा वि॑वास |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्} कनि॑क्रदद् वृष॒भो जी॒रदा᳚नू॒ रेतो᳚ दधा॒त्योष॑धीषु॒ गर्भ᳚म् ||{1/10}{4.4.27.1}{5.83.1}{5.6.11.1}{607, 437, 4333} अच्छ॑¦व॒द॒¦त॒वस᳚म्¦गीः॒ऽभिः¦आ॒भिः¦स्तु॒हि¦प॒र्जन्य᳚म्¦नम॑सा¦आ |वि॒वा॒स॒ | |
वि वृ॒क्षान् ह᳚न्त्यु॒त ह᳚न्ति र॒क्षसो॒ विश्वं᳚ बिभाय॒ भुव॑नं म॒हाव॑धात् |{भौमोत्रिः | पर्जन्यः | जगती} उ॒ताना᳚गा, ईषते॒ वृष्ण्या᳚वतो॒ यत् प॒र्जन्यः॑ स्त॒नय॒न् हन्ति॑ दु॒ष्कृतः॑ ||{2/10}{4.4.27.2}{5.83.2}{5.6.11.2}{608, 437, 4334} वि¦वृ॒क्षान्¦ह॒न्ति॒¦उ॒त¦ह॒न्ति॒¦र॒क्षसः॑¦विश्व᳚म्¦बि॒भा॒य॒¦भुव॑नम्¦म॒हाऽव॑धात् | |
र॒थीव॒ कश॒याश्वाँ᳚, अभिक्षि॒पन्ना॒विर्दू॒तान् कृ॑णुते व॒र्ष्या॒३॑(आँ॒) अह॑ |{भौमोत्रिः | पर्जन्यः | जगती} दू॒रात् सिं॒हस्य॑ स्त॒नथा॒, उदी᳚रते॒ यत् प॒र्जन्यः॑ कृणु॒ते व॒र्ष्य१॑(अं॒) नभः॑ ||{3/10}{4.4.27.3}{5.83.3}{5.6.11.3}{609, 437, 4335} र॒थीऽइ᳚व¦कश॑या¦अश्वा᳚न्¦अ॒भि॒ऽक्षि॒पन्¦आ॒विः¦दू॒तान्¦कृ॒णु॒ते॒¦व॒र्ष्या᳚न्¦अह॑ | |
प्र वाता॒ वान्ति॑ प॒तय᳚न्ति वि॒द्युत॒ उदोष॑धी॒र्जिह॑ते॒ पिन्व॑ते॒ स्वः॑ |{भौमोत्रिः | पर्जन्यः | जगती} इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते॒ यत् प॒र्जन्यः॑ पृथि॒वीं रेत॒साव॑ति ||{4/10}{4.4.27.4}{5.83.4}{5.6.11.4}{610, 437, 4336} प्र¦वाताः᳚¦वान्ति॑¦प॒तय᳚न्ति¦वि॒ऽद्युतः॑¦उत्¦ओष॑धीः¦जिह॑ते¦पिन्व॑ते¦स्व१॒॑रिति॒ स्वः॑ | |
यस्य᳚ व्र॒ते पृ॑थि॒वी नन्न॑मीति॒ यस्य᳚ व्र॒ते श॒फव॒ज्जर्भु॑रीति |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्} यस्य᳚ व्र॒त ओष॑धीर्वि॒श्वरू᳚पाः॒ स नः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ||{5/10}{4.4.27.5}{5.83.5}{5.6.11.5}{611, 437, 4337} यस्य॑¦व्र॒ते¦पृ॒थि॒वी¦नन्न॑मीति¦यस्य॑¦व्र॒ते¦श॒फऽव॑त्¦जर्भु॑रीति | |
दि॒वो नो᳚ वृ॒ष्टिं म॑रुतो ररीध्वं॒ प्र पि᳚न्वत॒ वृष्णो॒, अश्व॑स्य॒ धाराः᳚ |{भौमोत्रिः | पर्जन्यः | जगती} अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुनेह्य॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॑ ||{6/10}{4.4.28.1}{5.83.6}{5.6.11.6}{612, 437, 4338} दि॒वः¦नः॒¦वृ॒ष्टिम्¦म॒रु॒तः॒¦र॒री॒ध्व॒म्¦प्र¦पि॒न्व॒त॒¦वृष्णः॑¦अश्व॑स्य¦धाराः᳚ | |
अ॒भि क्र᳚न्द स्त॒नय॒ गर्भ॒मा धा᳚, उद॒न्वता॒ परि॑ दीया॒ रथे᳚न |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्} दृतिं॒ सु क॑र्ष॒ विषि॑तं॒ न्य᳚ञ्चं स॒मा भ॑वन्तू॒द्वतो᳚ निपा॒दाः ||{7/10}{4.4.28.2}{5.83.7}{5.6.11.7}{613, 437, 4339} अ॒भि¦क्र॒न्द॒¦स्त॒नय॑¦गर्भ᳚म्¦आ¦धाः॒¦उ॒द॒न्ऽवता᳚¦परि॑¦दी॒य॒¦रथे᳚न | |
म॒हान्तं॒ कोश॒मुद॑चा॒ नि षि᳚ञ्च॒ स्यन्द᳚न्तां कु॒ल्या विषि॑ताः पु॒रस्ता᳚त् |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्} घृ॒तेन॒ द्यावा᳚पृथि॒वी व्यु᳚न्धि सुप्रपा॒णं भ॑वत्व॒घ्न्याभ्यः॑ ||{8/10}{4.4.28.3}{5.83.8}{5.6.11.8}{614, 437, 4340} म॒हान्त᳚म्¦कोश᳚म्¦उत्¦अ॒च॒¦नि¦सिं॒च॒¦स्यन्द᳚न्ताम्¦कु॒ल्याः¦विऽसि॑ताः¦पु॒रस्ता᳚त् | |
यत् प॑र्जन्य॒ कनि॑क्रदत् स्त॒नय॒न् हंसि॑ दु॒ष्कृतः॑ |{भौमोत्रिः | पर्जन्यः | अनुष्टुप्} प्रती॒दं विश्वं᳚ मोदते॒ यत् किं च॑ पृथि॒व्यामधि॑ ||{9/10}{4.4.28.4}{5.83.9}{5.6.11.9}{615, 437, 4341} यत्¦प॒र्ज॒न्य॒¦कनि॑क्रदत्¦स्त॒नय॑न्¦हंसि॑¦दुः॒ऽकृतः॑ | प्रति॑¦इ॒दम्¦विश्व᳚म्¦मो॒द॒ते॒¦यत्¦किम्¦च॒¦पृ॒थि॒व्याम्¦अधि॑ || |
अव॑र्षीर्व॒र्षमुदु॒ षू गृ॑भा॒याऽक॒र्धन्वा॒न्यत्ये᳚त॒वा, उ॑ |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्} अजी᳚जन॒ ओष॑धी॒र्भोज॑नाय॒ कमु॒त प्र॒जाभ्यो᳚ऽविदो मनी॒षाम् ||{10/10}{4.4.28.5}{5.83.10}{5.6.11.10}{616, 437, 4342} अव॑र्षीः¦व॒र्षम्¦उत्¦ऊँ॒ इति॑¦सु¦गृ॒भा॒य॒¦अकः॑¦धन्वा᳚नि¦अति॑ऽए॒त॒वै¦ऊँ॒ इति॑ | |
[76] बळित्थेति तृचस्य सूक्तस्य भौमोत्रिःपृथिव्यनुष्टुप् | |
बळि॒त्था पर्व॑तानां खि॒द्रं बि॑भर्षि पृथिवि |{भौमोत्रिः | पृथिवी | अनुष्टुप्} प्र या भूमिं᳚ प्रवत्वति म॒ह्ना जि॒नोषि॑ महिनि ||{1/3}{4.4.29.1}{5.84.1}{5.6.12.1}{617, 438, 4343} बट्¦इ॒त्था¦पर्व॑तानाम्¦खि॒द्रम्¦बि॒भ॒र्षि॒¦पृ॒थि॒वि॒ | प्र¦या¦भूमि᳚म्¦प्र॒व॒त्व॒ति॒¦म॒ह्ना¦जि॒नोषि॑¦म॒हि॒नि॒ || |
स्तोमा᳚सस्त्वा विचारिणि॒ प्रति॑ ष्टोभन्त्य॒क्तुभिः॑ |{भौमोत्रिः | पृथिवी | अनुष्टुप्} प्र या वाजं॒ न हेष᳚न्तं पे॒रुमस्य॑स्यर्जुनि ||{2/3}{4.4.29.2}{5.84.2}{5.6.12.2}{618, 438, 4344} स्तोमा᳚सः¦त्वा॒¦वि॒ऽचा॒रि॒णि॒¦प्रति॑¦स्तो॒भ॒न्ति॒¦अ॒क्तुऽभिः॑ | प्र¦या¦वाज᳚म्¦न¦हेष᳚न्तम्¦पे॒रुम्¦अस्य॑सि¦अ॒र्जु॒नि॒ || |
दृ॒ळ्हा चि॒द् या वन॒स्पती᳚न् क्ष्म॒या दर्ध॒र्ष्योज॑सा |{भौमोत्रिः | पृथिवी | अनुष्टुप्} यत्ते᳚, अ॒भ्रस्य॑ वि॒द्युतो᳚ दि॒वो वर्ष᳚न्ति वृ॒ष्टयः॑ ||{3/3}{4.4.29.3}{5.84.3}{5.6.12.3}{619, 438, 4345} दृ॒ळ्हा¦चि॒त्¦या¦वन॒स्पती᳚न्¦क्ष्म॒या¦दर्ध॑र्षि¦ओज॑सा | यत्¦ते॒¦अ॒भ्रस्य॑¦वि॒ऽद्युतः॑¦दि॒वः¦वर्ष᳚न्ति¦वृ॒ष्टयः॑ || |
[77] प्रसम्राजइत्यष्टर्चस्य सूक्तस्य भौमोत्रिर्वरुणत्रिष्टुप् | |
प्र स॒म्राजे᳚ बृ॒हद॑र्चा गभी॒रं ब्रह्म॑ प्रि॒यं वरु॑णाय श्रु॒ताय॑ |{भौमोत्रिः | वरुणः | त्रिष्टुप्} वि यो ज॒घान॑ शमि॒तेव॒ चर्मो᳚प॒स्तिरे᳚ पृथि॒वीं सूर्या᳚य ||{1/8}{4.4.30.1}{5.85.1}{5.6.13.1}{620, 439, 4346} प्र¦स॒म्ऽराजे᳚¦बृ॒हत्¦अ॒र्च॒¦ग॒भी॒रम्¦ब्रह्म॑¦प्रि॒यम्¦वरु॑णाय¦श्रु॒ताय॑ | |
वने᳚षु॒ व्य१॑(अ॒)न्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया᳚सु |{भौमोत्रिः | वरुणः | त्रिष्टुप्} हृ॒त्सु क्रतुं॒ वरु॑णो, अ॒प्स्व१॑(अ॒)ग्निं दि॒वि सूर्य॑मदधा॒त् सोम॒मद्रौ᳚ ||{2/8}{4.4.30.2}{5.85.2}{5.6.13.2}{621, 439, 4347} वने᳚षु¦वि¦अ॒न्तरि॑क्षम्¦त॒ता॒न॒¦वाज᳚म्¦अर्व॑त्ऽसु¦पयः॑¦उ॒स्रिया᳚सु | |
नी॒चीन॑बारं॒ वरु॑णः॒ कव᳚न्धं॒ प्र स॑सर्ज॒ रोद॑सी, अ॒न्तरि॑क्षम् |{भौमोत्रिः | वरुणः | त्रिष्टुप्} तेन॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ यवं॒ न वृ॒ष्टिर्व्यु॑नत्ति॒ भूम॑ ||{3/8}{4.4.30.3}{5.85.3}{5.6.13.3}{622, 439, 4348} नी॒चीन॑ऽबारम्¦वरु॑णः¦कव᳚न्धम्¦प्र¦स॒स॒र्ज॒¦रोद॑सी॒ इति॑¦अ॒न्तरि॑क्षम् | |
उ॒नत्ति॒ भूमिं᳚ पृथि॒वीमु॒त द्यां य॒दा दु॒ग्धं वरु॑णो॒ वष्ट्यादित् |{भौमोत्रिः | वरुणः | त्रिष्टुप्} सम॒भ्रेण॑ वसत॒ पर्व॑तासस्तविषी॒यन्तः॑ श्रथयन्त वी॒राः ||{4/8}{4.4.30.4}{5.85.4}{5.6.13.4}{623, 439, 4349} उ॒नत्ति॑¦भूमि᳚म्¦पृ॒थि॒वीम्¦उ॒त¦द्याम्¦य॒दा¦दु॒ग्धम्¦वरु॑णः¦वष्टि॑¦आत्¦इत् | |
इ॒मामू॒ ष्वा᳚सु॒रस्य॑ श्रु॒तस्य॑ म॒हीं मा॒यां वरु॑णस्य॒ प्र वो᳚चम् |{भौमोत्रिः | वरुणः | त्रिष्टुप्} माने᳚नेव तस्थि॒वाँ, अ॒न्तरि॑क्षे॒ वि यो म॒मे पृ॑थि॒वीं सूर्ये᳚ण ||{5/8}{4.4.30.5}{5.85.5}{5.6.13.5}{624, 439, 4350} इ॒माम्¦ऊँ॒ इति॑¦सु¦आ॒सु॒रस्य॑¦श्रु॒तस्य॑¦म॒हीम्¦मा॒याम्¦वरु॑णस्य¦प्र¦वो॒च॒म् | |
इ॒मामू॒ नु क॒वित॑मस्य मा॒यां म॒हीं दे॒वस्य॒ नकि॒रा द॑धर्ष |{भौमोत्रिः | वरुणः | त्रिष्टुप्} एकं॒ यदु॒द्ना न पृ॒णन्त्येनी᳚रासि॒ञ्चन्ती᳚र॒वन॑यः समु॒द्रम् ||{6/8}{4.4.31.1}{5.85.6}{5.6.13.6}{625, 439, 4351} इ॒माम्¦ऊँ॒ इति॑¦नु¦क॒विऽत॑मस्य¦मा॒याम्¦म॒हीम्¦दे॒वस्य॑¦नकिः॑¦आ¦द॒ध॒र्ष॒ | |
अ॒र्य॒म्यं᳚ वरुण मि॒त्र्यं᳚ वा॒ सखा᳚यं वा॒ सद॒मिद् भ्रात॑रं वा |{भौमोत्रिः | वरुणः | त्रिष्टुप्} वे॒शं वा॒ नित्यं᳚ वरु॒णार॑णं वा॒ यत् सी॒माग॑श्चकृ॒मा शि॒श्रथ॒स्तत् ||{7/8}{4.4.31.2}{5.85.7}{5.6.13.7}{626, 439, 4352} अ॒र्य॒म्य᳚म्¦व॒रु॒ण॒¦मि॒त्र्य᳚म्¦वा॒¦सखा᳚यम्¦वा॒¦सद᳚म्¦इत्¦भ्रात॑रम्¦वा॒ | |
कि॒त॒वासो॒ यद् रि॑रि॒पुर्न दी॒वि यद् वा᳚ घा स॒त्यमु॒त यन्न वि॒द्म |{भौमोत्रिः | वरुणः | त्रिष्टुप्} सर्वा॒ ता वि ष्य॑ शिथि॒रेव॑ दे॒वाऽधा᳚ ते स्याम वरुण प्रि॒यासः॑ ||{8/8}{4.4.31.3}{5.85.8}{5.6.13.8}{627, 439, 4353} कि॒त॒वासः॑¦यत्¦रि॒रि॒पुः¦न¦दी॒वि¦यत्¦वा॒¦घ॒¦स॒त्यम्¦उ॒त¦यत्¦न¦वि॒द्म | |
[78] इंद्राग्नीयमिति षडृचस्य सूक्तस्य भौमोत्रिरिंद्राग्न्यनुष्टुप् अंत्याविराट्पूर्वापंक्त्युत्तरावा | |
इन्द्रा᳚ग्नी॒ यमव॑थ उ॒भा वाजे᳚षु॒ मर्त्य᳚म् |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्} दृ॒ळ्हा चि॒त् स प्र भे᳚दति द्यु॒म्ना वाणी᳚रिव त्रि॒तः ||{1/6}{4.4.32.1}{5.86.1}{5.6.14.1}{628, 440, 4354} इन्द्रा᳚ग्नी॒ इति॑¦यम्¦अव॑थः¦उ॒भा¦वाजे᳚षु¦मर्त्य᳚म् | दृ॒ळ्हा¦चि॒त्¦सः¦प्र¦भे॒द॒ति॒¦द्यु॒म्ना¦वाणीः᳚ऽइव¦त्रि॒तः || |
या पृत॑नासु दु॒ष्टरा॒ या वाजे᳚षु श्र॒वाय्या᳚ |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्} या पञ्च॑ चर्ष॒णीर॒भी᳚न्द्रा॒ग्नी ता ह॑वामहे ||{2/6}{4.4.32.2}{5.86.2}{5.6.14.2}{629, 440, 4355} या¦पृत॑नासु¦दु॒स्तरा᳚¦या¦वाजे᳚षु¦श्र॒वाय्या᳚ | या¦पंच॑¦च॒र्ष॒णीः¦अ॒भि¦इ॒न्द्रा॒ग्नी इति॑¦ता¦ह॒वा॒म॒हे॒ || |
तयो॒रिदम॑व॒च्छव॑स्ति॒ग्मा दि॒द्युन्म॒घोनोः᳚ |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्} प्रति॒ द्रुणा॒ गभ॑स्त्यो॒र्गवां᳚ वृत्र॒घ्न एष॑ते ||{3/6}{4.4.32.3}{5.86.3}{5.6.14.3}{630, 440, 4356} तयोः᳚¦इत्¦अम॑ऽवत्¦शवः॑¦ति॒ग्मा¦दि॒द्युत्¦म॒घोनोः᳚ | प्रति॑¦द्रुणा᳚¦गभ॑स्त्योः¦गवा᳚म्¦वृ॒त्र॒ऽघ्ने¦आ¦ई॒ष॒ते॒ || |
ता वा॒मेषे॒ रथा᳚नामिन्द्रा॒ग्नी ह॑वामहे |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्} पती᳚ तु॒रस्य॒ राध॑सो वि॒द्वांसा॒ गिर्व॑णस्तमा ||{4/6}{4.4.32.4}{5.86.4}{5.6.14.4}{631, 440, 4357} ता¦वा॒म्¦एषे᳚¦रथा᳚नाम्¦इ॒न्द्रा॒ग्नी इति॑¦ह॒वा॒म॒हे॒ | पती॒ इति॑¦तु॒रस्य॑¦राध॑सः¦वि॒द्वांसा᳚¦गिर्व॑णःऽतमा || |
ता वृ॒धन्ता॒वनु॒ द्यून् मर्ता᳚य दे॒वाव॒दभा᳚ |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्} अर्ह᳚न्ता चित् पु॒रो द॒धेंऽशे᳚व दे॒वावर्व॑ते ||{5/6}{4.4.32.5}{5.86.5}{5.6.14.5}{632, 440, 4358} ता¦वृ॒धन्तौ᳚¦अनु॑¦द्यून्¦मर्ता᳚य¦दे॒वौ¦अ॒दभा᳚ | अर्ह᳚न्ता¦चि॒त्¦पु॒रः¦द॒धे॒¦अंशा᳚ऽइव¦दे॒वौ¦अर्व॑ते || |
ए॒वेन्द्रा॒ग्निभ्या॒महा᳚वि ह॒व्यं शू॒ष्यं᳚ घृ॒तं न पू॒तमद्रि॑भिः |{भौमोत्रिः | इन्द्राग्नी | १/२:विराट् २/२:पङ्क्तिः} ता सू॒रिषु॒ श्रवो᳚ बृ॒हद् र॒यिं गृ॒णत्सु॑ दिधृत॒मिषं᳚ गृ॒णत्सु॑ दिधृतम् ||{6/6}{4.4.32.6}{5.86.6}{5.6.14.6}{633, 440, 4359} ए॒व¦इ॒न्द्रा॒ग्निऽभ्या᳚म्¦अहा᳚वि¦ह॒व्यम्¦शू॒ष्य᳚म्¦घृ॒तम्¦न¦पू॒तम्¦अद्रि॑ऽभिः | ता¦सू॒रिषु॑¦श्रवः॑¦बृ॒हत्¦र॒यिम्¦गृ॒णत्ऽसु॑¦दि॒धृ॒त॒म्¦इष᳚म्¦गृ॒णत्ऽसु॑¦दि॒धृ॒त॒म् || |
[79] प्रवोमहइति नवर्चस्य सूक्तस्यात्रेय एवयामरुन्मरुतोतिजगती | |
प्र वो᳚ म॒हे म॒तयो᳚ यन्तु॒ विष्ण॑वे म॒रुत्व॑ते गिरि॒जा, ए᳚व॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती} प्र शर्धा᳚य॒ प्रय॑ज्यवे सुखा॒दये᳚ त॒वसे᳚ भ॒न्ददि॑ष्टये॒ धुनि᳚व्रताय॒ शव॑से ||{1/9}{4.4.33.1}{5.87.1}{5.6.15.1}{634, 441, 4360} प्र¦वः॒¦म॒हे¦म॒तयः॑¦य॒न्तु॒¦विष्ण॑वे¦म॒रुत्व॑ते¦गि॒रि॒ऽजाः¦ए॒व॒याम॑रुत् | |
प्र ये जा॒ता म॑हि॒ना ये च॒ नु स्व॒यं प्र वि॒द्मना᳚ ब्रु॒वत॑ एव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती} क्रत्वा॒ तद् वो᳚ मरुतो॒ नाधृषे॒ शवो᳚ दा॒ना म॒ह्ना तदे᳚षा॒मधृ॑ष्टासो॒ नाद्र॑यः ||{2/9}{4.4.33.2}{5.87.2}{5.6.15.2}{635, 441, 4361} प्र¦ये¦जा॒ताः¦म॒हि॒ना¦ये¦च॒¦नु¦स्व॒यम्¦प्र¦वि॒द्मना᳚¦ब्रु॒वते᳚¦ए॒व॒याम॑रुत् | |
प्र ये दि॒वो बृ॑ह॒तः शृ᳚ण्वि॒रे गि॒रा सु॒शुक्वा᳚नः सु॒भ्व॑ एव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती} न येषा॒मिरी᳚ स॒धस्थ॒ ईष्ट॒ आँ, अ॒ग्नयो॒ न स्ववि॑द्युतः॒ प्र स्प॒न्द्रासो॒ धुनी᳚नाम् ||{3/9}{4.4.33.3}{5.87.3}{5.6.15.3}{636, 441, 4362} प्र¦ये¦दि॒वः¦बृ॒ह॒तः¦शृ॒ण्वि॒रे¦गि॒रा¦सु॒ऽशुक्वा᳚नः¦सु॒ऽभ्वः॑¦ए॒व॒याम॑रुत् | |
स च॑क्रमे मह॒तो निरु॑रुक्र॒मः स॑मा॒नस्मा॒त् सद॑स एव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती} य॒दायु॑क्त॒ त्मना॒ स्वादधि॒ ष्णुभि॒र्विष्प॑र्धसो॒ विम॑हसो॒ जिगा᳚ति॒ शेवृ॑धो॒ नृभिः॑ ||{4/9}{4.4.33.4}{5.87.4}{5.6.15.4}{637, 441, 4363} सः¦च॒क्र॒मे॒¦म॒ह॒तः¦निः¦उ॒रु॒ऽक्र॒मः¦स॒मा॒नस्मा᳚त्¦सद॑सः¦ए॒व॒याम॑रुत् | |
स्व॒नो न वोऽम॑वान् रेजय॒द् वृषा᳚ त्वे॒षो य॒यिस्त॑वि॒ष ए᳚व॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती} येना॒ सह᳚न्त ऋ॒ञ्जत॒ स्वरो᳚चिषः॒ स्थार॑श्मानो हिर॒ण्ययाः᳚ स्वायु॒धास॑ इ॒ष्मिणः॑ ||{5/9}{4.4.33.5}{5.87.5}{5.6.15.5}{638, 441, 4364} स्व॒नः¦न¦वः॒¦अम॑ऽवान्¦रे॒ज॒य॒त्¦वृषा᳚¦त्वे॒षः¦य॒यिः¦त॒वि॒षः¦ए॒व॒याम॑रुत् | |
अ॒पा॒रो वो᳚ महि॒मा वृ॑द्धशवसस्त्वे॒षं शवो᳚ऽवत्वेव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती} स्थाता᳚रो॒ हि प्रसि॑तौ सं॒दृशि॒ स्थन॒ ते न॑ उरुष्यता नि॒दः शु॑शु॒क्वांसो॒ नाग्नयः॑ ||{6/9}{4.4.34.1}{5.87.6}{5.6.15.6}{639, 441, 4365} अ॒पा॒रः¦वः॒¦म॒हि॒मा¦वृ॒द्ध॒ऽश॒व॒सः॒¦त्वे॒षम्¦शवः॑¦अ॒व॒तु॒¦ए॒व॒याम॑रुत् | |
ते रु॒द्रासः॒ सुम॑खा, अ॒ग्नयो᳚ यथा तुविद्यु॒म्ना, अ॑वन्त्वेव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती} दी॒र्घं पृ॒थु प॑प्रथे॒ सद्म॒ पार्थि॑वं॒ येषा॒मज्मे॒ष्वा म॒हः शर्धां॒स्यद्भु॑तैनसाम् ||{7/9}{4.4.34.2}{5.87.7}{5.6.15.7}{640, 441, 4366} ते¦रु॒द्रासः॑¦सुऽम॑खाः¦अ॒ग्नयः॑¦य॒था॒¦तु॒वि॒ऽद्यु॒म्नाः¦अ॒व॒न्तु॒¦ए॒व॒याम॑रुत् | |
अ॒द्वे॒षो नो᳚ मरुतो गा॒तुमेत॑न॒ श्रोता॒ हवं᳚ जरि॒तुरे᳚व॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती} विष्णो᳚र्म॒हः स॑मन्यवो युयोतन॒ स्मद् र॒थ्यो॒३॑(ओ॒) न दं॒सनाऽप॒ द्वेषां᳚सि सनु॒तः ||{8/9}{4.4.34.3}{5.87.8}{5.6.15.8}{641, 441, 4367} अ॒द्वे॒षः¦नः॒¦म॒रु॒तः॒¦गा॒तुम्¦आ¦इ॒त॒न॒¦श्रोत॑¦हव᳚म्¦ज॒रि॒तुः¦ए॒व॒याम॑रुत् | |
गन्ता᳚ नो य॒ज्ञं य॑ज्ञियाः सु॒शमि॒ श्रोता॒ हव॑मर॒क्ष ए᳚व॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती} ज्येष्ठा᳚सो॒ न पर्व॑तासो॒ व्यो᳚मनि यू॒यं तस्य॑ प्रचेतसः॒ स्यात॑ दु॒र्धर्त॑वो नि॒दः ||{9/9}{4.4.34.4}{5.87.9}{5.6.15.9}{642, 441, 4368} गन्त॑¦नः॒¦य॒ज्ञम्¦य॒ज्ञि॒याः॒¦सु॒ऽशमि॑¦श्रोत॑¦हव᳚म्¦अ॒र॒क्षः¦ए॒व॒याम॑रुत् | |
[80] त्वंह्यग्नइति त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् | |
त्वं ह्य॑ग्ने प्रथ॒मो म॒नोता॒ऽस्या धि॒यो, अभ॑वो दस्म॒ होता᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} त्वं सीं᳚ वृषन्नकृणोर्दु॒ष्टरी᳚तु॒ सहो॒ विश्व॑स्मै॒ सह॑से॒ सह॑ध्यै ||{1/13}{4.4.35.1}{6.1.1}{6.1.1.1}{643, 442, 4369} त्वम्¦हि¦अ॒ग्ने॒¦प्र॒थ॒मः¦म॒नोता᳚¦अ॒स्याः¦धि॒यः¦अभ॑वः¦दस्म॑¦होता᳚ | |
अधा॒ होता॒ न्य॑सीदो॒ यजी᳚यानि॒ळस्प॒द इ॒षय॒न्नीड्यः॒ सन् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} तं त्वा॒ नरः॑ प्रथ॒मं दे᳚व॒यन्तो᳚ म॒हो रा॒ये चि॒तय᳚न्तो॒, अनु॑ ग्मन् ||{2/13}{4.4.35.2}{6.1.2}{6.1.1.2}{644, 442, 4370} अध॑¦होता᳚¦नि¦अ॒सी॒दः॒¦यजी᳚यान्¦इ॒ळः¦प॒दे¦इ॒षय॑न्¦ईड्यः॑¦सन् | |
वृ॒तेव॒ यन्तं᳚ ब॒हुभि᳚र्वस॒व्यै॒३॑(ऐ॒)स्त्वे र॒यिं जा᳚गृ॒वांसो॒, अनु॑ ग्मन् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} रुश᳚न्तम॒ग्निं द॑र्श॒तं बृ॒हन्तं᳚ व॒पाव᳚न्तं वि॒श्वहा᳚ दीदि॒वांस᳚म् ||{3/13}{4.4.35.3}{6.1.3}{6.1.1.3}{645, 442, 4371} वृ॒ताऽइ᳚व¦यन्त᳚म्¦ब॒हुऽभिः॑¦व॒स॒व्यैः᳚¦त्वे इति॑¦र॒यिम्¦जा॒गृ॒ऽवांसः॑¦अनु॑¦ग्म॒न् | |
प॒दं दे॒वस्य॒ नम॑सा॒ व्यन्तः॑ श्रव॒स्यवः॒ श्रव॑ आप॒न्नमृ॑क्तम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} नामा᳚नि चिद् दधिरे य॒ज्ञिया᳚नि भ॒द्रायां᳚ ते रणयन्त॒ संदृ॑ष्टौ ||{4/13}{4.4.35.4}{6.1.4}{6.1.1.4}{646, 442, 4372} प॒दम्¦दे॒वस्य॑¦नम॑सा¦व्यन्तः॑¦श्र॒व॒स्यवः॑¦श्रवः॑¦आ॒प॒न्¦अमृ॑क्तम् | |
त्वां व॑र्धन्ति क्षि॒तयः॑ पृथि॒व्यां त्वां राय॑ उ॒भया᳚सो॒ जना᳚नाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} त्वं त्रा॒ता त॑रणे॒ चेत्यो᳚ भूः पि॒ता मा॒ता सद॒मिन्मानु॑षाणाम् ||{5/13}{4.4.35.5}{6.1.5}{6.1.1.5}{647, 442, 4373} त्वाम्¦व॒र्ध॒न्ति॒¦क्षि॒तयः॑¦पृ॒थि॒व्याम्¦त्वाम्¦रायः॑¦उ॒भया᳚सः¦जना᳚नाम् | |
स॒प॒र्येण्यः॒ स प्रि॒यो वि॒क्ष्व१॑(अ॒)ग्निर्होता᳚ म॒न्द्रो नि ष॑सादा॒ यजी᳚यान् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} तं त्वा᳚ व॒यं दम॒ आ दी᳚दि॒वांस॒मुप॑ ज्ञु॒बाधो॒ नम॑सा सदेम ||{6/13}{4.4.36.1}{6.1.6}{6.1.1.6}{648, 442, 4374} स॒प॒र्येण्यः॑¦सः¦प्रि॒यः¦वि॒क्षु¦अ॒ग्निः¦होता᳚¦म॒न्द्रः¦नि¦सि॒सा॒द॒¦यजी᳚यान् | |
तं त्वा᳚ व॒यं सु॒ध्यो॒३॑(ओ॒) नव्य॑मग्ने सुम्ना॒यव॑ ईमहे देव॒यन्तः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} त्वं विशो᳚, अनयो॒ दीद्या᳚नो दि॒वो, अ॑ग्ने बृह॒ता रो᳚च॒नेन॑ ||{7/13}{4.4.36.2}{6.1.7}{6.1.1.7}{649, 442, 4375} त्वम्¦त्वा॒¦व॒यम्¦सु॒ऽध्यः॑¦नव्य᳚म्¦अ॒ग्ने॒¦सु॒म्न॒ऽयवः॑¦ई॒म॒हे॒¦दे॒व॒ऽयन्तः॑ | |
वि॒शां क॒विं वि॒श्पतिं॒ शश्व॑तीनां नि॒तोश॑नं वृष॒भं च॑र्षणी॒नाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} प्रेती᳚षणिमि॒षय᳚न्तं पाव॒कं राज᳚न्तम॒ग्निं य॑ज॒तं र॑यी॒णाम् ||{8/13}{4.4.36.3}{6.1.8}{6.1.1.8}{650, 442, 4376} वि॒शाम्¦क॒विम्¦वि॒श्पति᳚म्¦शश्व॑तीनाम्¦नि॒ऽतोश॑नम्¦वृ॒ष॒भम्¦च॒र्ष॒णी॒नाम् | |
सो, अ॑ग्न ईजे शश॒मे च॒ मर्तो॒ यस्त॒ आन॑ट् स॒मिधा᳚ ह॒व्यदा᳚तिम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} य आहु॑तिं॒ परि॒ वेदा॒ नमो᳚भि॒र्विश्वेत् स वा॒मा द॑धते॒ त्वोतः॑ ||{9/13}{4.4.36.4}{6.1.9}{6.1.1.9}{651, 442, 4377} सः¦अ॒ग्ने॒¦ई॒जे॒¦श॒श॒मे¦च॒¦मर्तः॑¦यः¦ते॒¦आन॑ट्¦स॒म्ऽइधा᳚¦ह॒व्यऽदा᳚तिम् | |
अ॒स्मा, उ॑ ते॒ महि॑ म॒हे वि॑धेम॒ नमो᳚भिरग्ने स॒मिधो॒त ह॒व्यैः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} वेदी᳚ सूनो सहसो गी॒र्भिरु॒क्थैरा ते᳚ भ॒द्रायां᳚ सुम॒तौ य॑तेम ||{10/13}{4.4.36.5}{6.1.10}{6.1.1.10}{652, 442, 4378} अ॒स्मै¦ऊँ॒ इति॑¦ते॒¦महि॑¦म॒हे¦वि॒धे॒म॒¦नमः॑ऽभिः¦अ॒ग्ने॒¦स॒म्ऽइधा᳚¦उ॒त¦ह॒व्यैः | |
आ यस्त॒तन्थ॒ रोद॑सी॒ वि भा॒सा श्रवो᳚भिश्च श्रव॒स्य१॑(अ॒)स्तरु॑त्रः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} बृ॒हद्भि॒र्वाजैः॒ स्थवि॑रेभिर॒स्मे रे॒वद्भि॑रग्ने वित॒रं वि भा᳚हि ||{11/13}{4.4.36.6}{6.1.11}{6.1.1.11}{653, 442, 4379} आ¦यः¦त॒तन्थ॑¦रोद॑सी॒ इति॑¦वि¦भा॒सा¦श्रवः॑ऽभिः¦च॒¦श्र॒व॒स्यः॑¦तरु॑त्रः | |
नृ॒वद् व॑सो॒ सद॒मिद्धे᳚ह्य॒स्मे भूरि॑ तो॒काय॒ तन॑याय प॒श्वः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} पू॒र्वीरिषो᳚ बृह॒तीरा॒रे,अ॑घा, अ॒स्मे भ॒द्रा सौ᳚श्रव॒सानि॑ सन्तु ||{12/13}{4.4.36.7}{6.1.12}{6.1.1.12}{654, 442, 4380} नृ॒ऽवत्¦व॒सो॒ इति॑¦सद᳚म्¦इत्¦धे॒हि॒¦अ॒स्मे इति॑¦भूरि॑¦तो॒काय॑¦तन॑याय¦प॒श्वः | |
पु॒रूण्य॑ग्ने पुरु॒धा त्वा॒या वसू᳚नि राजन् व॒सुता᳚ ते, अश्याम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} पु॒रूणि॒ हि त्वे पु॑रुवार॒ सन्त्यग्ने॒ वसु॑ विध॒ते राज॑नि॒ त्वे ||{13/13}{4.4.36.8}{6.1.13}{6.1.1.13}{655, 442, 4381} पु॒रूणि॑¦अ॒ग्ने॒¦पु॒रु॒धा¦त्वा॒ऽया¦वसू᳚नि¦रा॒ज॒न्¦व॒सुता᳚¦ते॒¦अ॒श्या॒म् | |
[81] त्वंहिक्षैतवदित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निरनुष्टुबंत्याशक्वरी | |
त्वं हि क्षैत॑व॒द् यशो ऽग्ने᳚ मि॒त्रो न पत्य॑से |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} त्वं वि॑चर्षणे॒ श्रवो॒ वसो᳚ पु॒ष्टिं न पु॑ष्यसि ||{1/11}{4.5.1.1}{6.2.1}{6.1.2.1}{656, 443, 4382} त्वम्¦हि¦क्षैत॑ऽवत्¦यशः॑¦अग्ने᳚¦मि॒त्रः¦न¦पत्य॑से | त्वम्¦वि॒ऽच॒र्ष॒णे॒¦श्रवः॑¦वसो॒ इति॑¦पु॒ष्टिम्¦न¦पु॒ष्य॒सि॒ || |
त्वां हि ष्मा᳚ चर्ष॒णयो᳚ य॒ज्ञेभि॑र्गी॒र्भिरीळ॑ते |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} त्वां वा॒जी या᳚त्यवृ॒को र॑ज॒स्तूर्वि॒श्वच॑र्षणिः ||{2/11}{4.5.1.2}{6.2.2}{6.1.2.2}{657, 443, 4383} त्वाम्¦हि¦स्म॒¦च॒र्ष॒णयः॑¦य॒ज्ञेभिः॑¦गीः॒ऽभिः¦ईळ॑ते | त्वाम्¦वा॒जी¦या॒ति॒¦अ॒वृ॒कः¦र॒जः॒ऽतूः¦वि॒श्वऽच॑र्षणिः || |
स॒जोष॑स्त्वा दि॒वो नरो᳚ य॒ज्ञस्य॑ के॒तुमि᳚न्धते |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} यद्ध॒ स्य मानु॑षो॒ जनः॑ सुम्ना॒युर्जु॒ह्वे, अ॑ध्व॒रे ||{3/11}{4.5.1.3}{6.2.3}{6.1.2.3}{658, 443, 4384} स॒ऽजोषः॑¦त्वा॒¦दि॒वः¦नरः॑¦य॒ज्ञस्य॑¦के॒तुम्¦इ॒न्ध॒ते॒ | यत्¦ह॒¦स्यः¦मानु॑षः¦जनः॑¦सु॒म्न॒ऽयुः¦जु॒ह्वे¦अ॒ध्व॒रे || |
ऋध॒द् यस्ते᳚ सु॒दान॑वे धि॒या मर्तः॑ श॒शम॑ते |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} ऊ॒ती ष बृ॑ह॒तो दि॒वो द्वि॒षो, अंहो॒ न त॑रति ||{4/11}{4.5.1.4}{6.2.4}{6.1.2.4}{659, 443, 4385} ऋध॑त्¦यः¦ते॒¦सु॒ऽदान॑वे¦धि॒या¦मर्तः॑¦श॒शम॑ते | ऊ॒ती¦सः¦बृ॒ह॒तः¦दि॒वः¦द्वि॒षः¦अंहः॑¦न¦त॒र॒ति॒ || |
स॒मिधा॒ यस्त॒ आहु॑तिं॒ निशि॑तिं॒ मर्त्यो॒ नश॑त् |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} व॒याव᳚न्तं॒ स पु॑ष्यति॒ क्षय॑मग्ने श॒तायु॑षम् ||{5/11}{4.5.1.5}{6.2.5}{6.1.2.5}{660, 443, 4386} स॒म्ऽइधा᳚¦यः¦ते॒¦आऽहु॑तिम्¦निऽशि॑तिम्¦मर्त्यः॑¦नश॑त् | व॒याऽव᳚न्तम्¦सः¦पु॒ष्य॒ति॒¦क्षय᳚म्¦अ॒ग्ने॒¦श॒तऽआ᳚युषम् || |
त्वे॒षस्ते᳚ धू॒म ऋ᳚ण्वति दि॒वि षञ्छु॒क्र आत॑तः |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} सूरो॒ न हि द्यु॒ता त्वं कृ॒पा पा᳚वक॒ रोच॑से ||{6/11}{4.5.2.1}{6.2.6}{6.1.2.6}{661, 443, 4387} त्वे॒षः¦ते॒¦धू॒मः¦ऋ॒ण्व॒ति॒¦दि॒वि¦सन्¦शु॒क्रः¦आऽत॑तः | सूरः॑¦न¦हि¦द्यु॒ता¦त्वम्¦कृ॒पा¦पा॒व॒क॒¦रोच॑से || |
अधा॒ हि वि॒क्ष्वीड्यो ऽसि॑ प्रि॒यो नो॒, अति॑थिः |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} र॒ण्वः पु॒री᳚व॒ जूर्यः॑ सू॒नुर्न त्र॑य॒याय्यः॑ ||{7/11}{4.5.2.2}{6.2.7}{6.1.2.7}{662, 443, 4388} अध॑¦हि¦वि॒क्षु¦ईड्यः॑¦असि॑¦प्रि॒यः¦नः॒¦अति॑थिः | र॒ण्वः¦पु॒रिऽइ᳚व¦जूर्यः॑¦सू॒नुः¦न¦त्र॒य॒याय्यः॑ || |
क्रत्वा॒ हि द्रोणे᳚, अ॒ज्यसे ऽग्ने᳚ वा॒जी न कृत्व्यः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} परि॑ज्मेव स्व॒धा गयो ऽत्यो॒ न ह्वा॒र्यः शिशुः॑ ||{8/11}{4.5.2.3}{6.2.8}{6.1.2.8}{663, 443, 4389} क्रत्वा᳚¦हि¦द्रोणे᳚¦अ॒ज्यसे᳚¦अग्ने᳚¦वा॒जी¦न¦कृत्व्यः॑ | परि॑ज्माऽइव¦स्व॒धा¦गयः॑¦अत्यः॑¦न¦ह्वा॒र्यः¦शिशुः॑ || |
त्वं त्या चि॒दच्यु॒ता ऽग्ने᳚ प॒शुर्न यव॑से |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} धामा᳚ ह॒ यत् ते᳚, अजर॒ वना᳚ वृ॒श्चन्ति॒ शिक्व॑सः ||{9/11}{4.5.2.4}{6.2.9}{6.1.2.9}{664, 443, 4390} त्वम्¦त्या¦चि॒त्¦अच्यु॑ता¦अग्ने᳚¦प॒शुः¦न¦यव॑से | धाम॑¦ह॒¦यत्¦ते॒¦अ॒ज॒र॒¦वना᳚¦वृ॒श्चन्ति॑¦शिक्व॑सः || |
वेषि॒ ह्य॑ध्वरीय॒तामग्ने॒ होता॒ दमे᳚ वि॒शाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} स॒मृधो᳚ विश्पते कृणु जु॒षस्व॑ ह॒व्यम᳚ङ्गिरः ||{10/11}{4.5.2.5}{6.2.10}{6.1.2.10}{665, 443, 4391} वेषि॑¦हि¦अ॒ध्व॒रि॒ऽय॒ताम्¦अग्ने᳚¦होता᳚¦दमे᳚¦वि॒शाम् | स॒म्ऽऋधः॑¦वि॒श्प॒ते॒¦कृ॒णु॒¦जु॒षस्व॑¦ह॒व्यम्¦अ॒ङ्गि॒रः॒ || |
अच्छा᳚ नो मित्रमहो देव दे॒वानग्ने॒ वोचः॑ सुम॒तिं रोद॑स्योः |{बार्हस्पत्यो भरद्वाजः | अग्निः | शक्वरी} वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄन् द्वि॒षो, अंहां᳚सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ||{11/11}{4.5.2.6}{6.2.11}{6.1.2.11}{666, 443, 4392} अच्छ॑¦नः॒¦मि॒त्र॒ऽम॒हः॒¦दे॒व॒¦दे॒वान्¦अग्ने᳚¦वोचः॑¦सु॒ऽम॒तिम्¦रोद॑स्योः | |
[82] अग्नेसक्षेषदित्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् | |
अग्ने॒ स क्षे᳚षदृत॒पा, ऋ॑ते॒जा, उ॒रु ज्योति᳚र्नशते देव॒युष्टे᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} यं त्वं मि॒त्रेण॒ वरु॑णः स॒जोषा॒ देव॒ पासि॒ त्यज॑सा॒ मर्त॒मंहः॑ ||{1/8}{4.5.3.1}{6.3.1}{6.1.3.1}{667, 444, 4393} अग्ने᳚¦सः¦क्षे॒ष॒त्¦ऋ॒त॒ऽपाः¦ऋ॒ते॒ऽजाः¦उ॒रु¦ज्योतिः॑¦न॒श॒ते॒¦दे॒व॒ऽयुः¦ते॒ | |
ई॒जे य॒ज्ञेभिः॑ शश॒मे शमी᳚भिरृ॒धद्वा᳚राया॒ग्नये᳚ ददाश |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} ए॒वा च॒न तं य॒शसा॒मजु॑ष्टि॒र्नांहो॒ मर्तं᳚ नशते॒ न प्रदृ॑प्तिः ||{2/8}{4.5.3.2}{6.3.2}{6.1.3.2}{668, 444, 4394} ई॒जे¦य॒ज्ञेभिः॑¦श॒श॒मे¦शमी᳚भिः¦ऋ॒धत्ऽवा᳚राय¦अ॒ग्नये᳚¦द॒दा॒श॒ | |
सूरो॒ न यस्य॑ दृश॒तिर॑रे॒पा भी॒मा यदेति॑ शुच॒तस्त॒ आ धीः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} हेष॑स्वतः शु॒रुधो॒ नायम॒क्तोः कुत्रा᳚ चिद् र॒ण्वो व॑स॒तिर्व॑ने॒जाः ||{3/8}{4.5.3.3}{6.3.3}{6.1.3.3}{669, 444, 4395} सूरः॑¦न¦यस्य॑¦दृ॒श॒तिः¦अ॒रे॒पाः¦भी॒मा¦यत्¦एति॑¦शु॒च॒तः¦ते॒¦आ¦धीः | |
ति॒ग्मं चि॒देम॒ महि॒ वर्पो᳚, अस्य॒ भस॒दश्वो॒ न य॑मसा॒न आ॒सा |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} वि॒जेह॑मानः पर॒शुर्न जि॒ह्वां द्र॒विर्न द्रा᳚वयति॒ दारु॒ धक्ष॑त् ||{4/8}{4.5.3.4}{6.3.4}{6.1.3.4}{670, 444, 4396} ति॒ग्मम्¦चि॒त्¦एम॑¦महि॑¦वर्पः॑¦अ॒स्य॒¦भस॑त्¦अश्वः॑¦न¦य॒म॒सा॒न¦आ॒सा | |
स इदस्ते᳚व॒ प्रति॑ धादसि॒ष्यञ्छिशी᳚त॒ तेजोऽय॑सो॒ न धारा᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} चि॒त्रध्र॑जतिरर॒तिर्यो, अ॒क्तोर्वेर्न द्रु॒षद्वा᳚ रघु॒पत्म॑जंहाः ||{5/8}{4.5.3.5}{6.3.5}{6.1.3.5}{671, 444, 4397} सः¦इत्¦अस्ता᳚ऽइव¦प्रति॑¦धा॒त्¦अ॒सि॒ष्यन्¦शिशी᳚त¦तेजः॑¦अय॑सः¦न¦धारा᳚म् | |
स ईं᳚ रे॒भो न प्रति॑ वस्त उ॒स्राः शो॒चिषा᳚ रारपीति मि॒त्रम॑हाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} नक्तं॒ य ई᳚मरु॒षो यो दिवा॒ नॄनम॑र्त्यो, अरु॒षो यो दिवा॒ नॄन् ||{6/8}{4.5.4.1}{6.3.6}{6.1.3.6}{672, 444, 4398} सः¦ई॒म्¦रे॒भः¦न¦प्रति॑¦व॒स्ते॒¦उ॒स्राः¦शो॒चिषा᳚¦र॒र॒पी॒ति॒¦मि॒त्रऽम॑हाः | |
दि॒वो न यस्य॑ विध॒तो नवी᳚नो॒द् वृषा᳚ रु॒क्ष ओष॑धीषु नूनोत् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} घृणा॒ न यो ध्रज॑सा॒ पत्म॑ना॒ यन्ना रोद॑सी॒ वसु॑ना॒ दं सु॒पत्नी᳚ ||{7/8}{4.5.4.2}{6.3.7}{6.1.3.7}{673, 444, 4399} दि॒वः¦न¦यस्य॑¦वि॒ध॒तः¦नवी᳚नोत्¦वृषा᳚¦रु॒क्षः¦ओष॑धीषु¦नू॒नो॒त् | |
धायो᳚भिर्वा॒ यो युज्ये᳚भिर॒र्कैर्वि॒द्युन्न द॑विद्यो॒त् स्वेभिः॒ शुष्मैः᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} शर्धो᳚ वा॒ यो म॒रुतां᳚ त॒तक्ष॑ ऋ॒भुर्न त्वे॒षो र॑भसा॒नो, अ॑द्यौत् ||{8/8}{4.5.4.3}{6.3.8}{6.1.3.8}{674, 444, 4400} धायः॑ऽभिः¦वा॒¦यः¦युज्ये᳚भिः¦अ॒र्कैः¦वि॒ऽद्युत्¦न¦द॒वि॒द्यो॒त्¦स्वेभिः॑¦शुष्मैः᳚ | |
[83] यथाहोतरित्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् | |
यथा᳚ होत॒र्मनु॑षो दे॒वता᳚ता य॒ज्ञेभिः॑ सूनो सहसो॒ यजा᳚सि |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} ए॒वा नो᳚, अ॒द्य स॑म॒ना स॑मा॒नानु॒शन्न॑ग्न उश॒तो य॑क्षि दे॒वान् ||{1/8}{4.5.5.1}{6.4.1}{6.1.4.1}{675, 445, 4401} यथा᳚¦हो॒तः॒¦मनु॑षः¦दे॒वऽता᳚ता¦य॒ज्ञेभिः॑¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦यजा᳚सि | |
स नो᳚ वि॒भावा᳚ च॒क्षणि॒र्न वस्तो᳚र॒ग्निर्व॒न्दारु॒ वेद्य॒श्चनो᳚ धात् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} वि॒श्वायु॒र्यो, अ॒मृतो॒ मर्त्ये᳚षूष॒र्भुद् भूदति॑थिर्जा॒तवे᳚दाः ||{2/8}{4.5.5.2}{6.4.2}{6.1.4.2}{676, 445, 4402} सः¦नः॒¦वि॒भाऽवा᳚¦च॒क्षणिः॑¦न¦वस्तोः᳚¦अ॒ग्निः¦व॒न्दारु॑¦वेद्यः॑¦चनः॑¦धा॒त् | |
द्यावो॒ न यस्य॑ प॒नय॒न्त्यभ्वं॒ भासां᳚सि वस्ते॒ सूर्यो॒ न शु॒क्रः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} वि य इ॒नोत्य॒जरः॑ पाव॒को ऽश्न॑स्य चिच्छिश्नथत् पू॒र्व्याणि॑ ||{3/8}{4.5.5.3}{6.4.3}{6.1.4.3}{677, 445, 4403} द्यावः॑¦न¦यस्य॑¦प॒नय᳚न्ति¦अभ्व᳚म्¦भासां᳚सि¦व॒स्ते॒¦सूर्यः॑¦न¦शु॒क्रः | |
व॒द्मा हि सू᳚नो॒, अस्य॑द्म॒सद्वा᳚ च॒क्रे, अ॒ग्निर्ज॒नुषाज्मान्न᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} स त्वं न॑ ऊर्जसन॒ ऊर्जं᳚ धा॒ राजे᳚व जेरवृ॒के क्षे᳚ष्य॒न्तः ||{4/8}{4.5.5.4}{6.4.4}{6.1.4.4}{678, 445, 4404} व॒द्मा¦हि¦सू॒नो॒ इति॑¦असि॑¦अ॒द्म॒ऽसद्वा᳚¦च॒क्रे¦अ॒ग्निः¦ज॒नुषा᳚¦अज्म॑¦अन्न᳚म् | |
निति॑क्ति॒ यो वा᳚र॒णमन्न॒मत्ति॑ वा॒युर्न राष्ट्र्यत्ये᳚त्य॒क्तून् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुपि} तु॒र्याम॒ यस्त॑ आ॒दिशा॒मरा᳚ती॒रत्यो॒ न ह्रुतः॒ पत॑तः परि॒ह्रुत् ||{5/8}{4.5.5.5}{6.4.5}{6.1.4.5}{679, 445, 4405} निऽति॑क्ति¦यः¦वा॒र॒णम्¦अन्न᳚म्¦अत्ति॑¦वा॒युः¦न¦राष्ट्री᳚¦अति॑¦ए॒ति॒¦अ॒क्तून् | |
आ सूर्यो॒ न भा᳚नु॒मद्भि॑र॒र्कैरग्ने᳚ त॒तन्थ॒ रोद॑सी॒ वि भा॒सा |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} चि॒त्रो न॑य॒त् परि॒ तमां᳚स्य॒क्तः शो॒चिषा॒ पत्म᳚न्नौशि॒जो न दीय॑न् ||{6/8}{4.5.6.1}{6.4.6}{6.1.4.6}{680, 445, 4406} आ¦सूर्यः॑¦न¦भा॒नु॒मत्ऽभिः॑¦अ॒र्कैः¦अग्ने᳚¦त॒तन्थ॑¦रोद॑सी॒ इति॑¦वि¦भा॒सा | |
त्वां हि म॒न्द्रत॑ममर्कशो॒कैर्व॑वृ॒महे॒ महि॑ नः॒ श्रोष्य॑ग्ने |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} इन्द्रं॒ न त्वा॒ शव॑सा दे॒वता᳚ वा॒युं पृ॑णन्ति॒ राध॑सा॒ नृत॑माः ||{7/8}{4.5.6.2}{6.4.7}{6.1.4.7}{681, 445, 4407} त्वाम्¦हि¦म॒न्द्रऽत॑मम्¦अ॒र्क॒ऽशो॒कैः¦व॒वृ॒महे᳚¦महि॑¦नः॒¦श्रोषि॑¦अ॒ग्ने॒ | |
नू नो᳚, अग्नेऽवृ॒केभिः॑ स्व॒स्ति वेषि॑ रा॒यः प॒थिभिः॒ पर्ष्यंहः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} ता सू॒रिभ्यो᳚ गृण॒ते रा᳚सि सु॒म्नं मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{8/8}{4.5.6.3}{6.4.8}{6.1.4.8}{682, 445, 4408} नु¦नः॒¦अ॒ग्ने॒¦अ॒वृ॒केभिः॑¦स्व॒स्ति¦वेषि॑¦रा॒यः¦प॒थिऽभिः॑¦पर्षि॑¦अंहः॑ | |
[84] हुवेवइति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् | |
हु॒वे वः॑ सू॒नुं सह॑सो॒ युवा᳚न॒मद्रो᳚घवाचं म॒तिभि॒र्यवि॑ष्ठम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} य इन्व॑ति॒ द्रवि॑णानि॒ प्रचे᳚ता वि॒श्ववा᳚राणि पुरु॒वारो᳚, अ॒ध्रुक् ||{1/7}{4.5.7.1}{6.5.1}{6.1.5.1}{683, 446, 4409} हु॒वे¦वः॒¦सू॒नुम्¦सह॑सः¦युवा᳚नम्¦अद्रो᳚घऽवाचम्¦म॒तिऽभिः॑¦यवि॑ष्ठम् | |
त्वे वसू᳚नि पुर्वणीक होतर्दो॒षा वस्तो॒रेरि॑रे य॒ज्ञिया᳚सः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} क्षामे᳚व॒ विश्वा॒ भुव॑नानि॒ यस्मि॒न् त्सं सौभ॑गानि दधि॒रे पा᳚व॒के ||{2/7}{4.5.7.2}{6.5.2}{6.1.5.2}{684, 446, 4410} त्वे इति॑¦वसू᳚नि¦पु॒रु॒।आ॒णी॒क॒¦हो॒तः॒¦दो॒षा¦वस्तोः᳚¦आ¦ई॒रि॒रे॒¦य॒ज्ञिया᳚सः | |
त्वं वि॒क्षु प्र॒दिवः॑ सीद आ॒सु क्रत्वा᳚ र॒थीर॑भवो॒ वार्या᳚णाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} अत॑ इनोषि विध॒ते चि॑कित्वो॒ व्या᳚नु॒षग्जा᳚तवेदो॒ वसू᳚नि ||{3/7}{4.5.7.3}{6.5.3}{6.1.5.3}{685, 446, 4411} त्वम्¦वि॒क्षु¦प्र॒ऽदिवः॑¦सी॒दः॒¦आ॒सु¦क्रत्वा᳚¦र॒थीः¦अ॒भ॒वः॒¦वार्या᳚णाम् | |
यो नः॒ सनु॑त्यो, अभि॒दास॑दग्ने॒ यो, अन्त॑रो मित्रमहो वनु॒ष्यात् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} तम॒जरे᳚भि॒र्वृष॑भि॒स्तव॒ स्वैस्तपा᳚ तपिष्ठ॒ तप॑सा॒ तप॑स्वान् ||{4/7}{4.5.7.4}{6.5.4}{6.1.5.4}{686, 446, 4412} यः¦नः॒¦सनु॑त्यः¦अ॒भि॒ऽदास॑त्¦अ॒ग्ने॒¦यः¦अन्त॑रः¦मि॒त्र॒ऽम॒हः॒¦व॒नु॒ष्यात् | |
यस्ते᳚ य॒ज्ञेन॑ स॒मिधा॒ य उ॒क्थैर॒र्केभिः॑ सूनो सहसो॒ ददा᳚शत् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} स मर्त्ये᳚ष्वमृत॒ प्रचे᳚ता रा॒या द्यु॒म्नेन॒ श्रव॑सा॒ वि भा᳚ति ||{5/7}{4.5.7.5}{6.5.5}{6.1.5.5}{687, 446, 4413} यः¦ते॒¦य॒ज्ञेन॑¦स॒म्ऽइधा᳚¦यः¦उ॒क्थैः¦अ॒र्केभिः॑¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦ददा᳚शत् | |
स तत् कृ॑धीषि॒तस्तूय॑मग्ने॒ स्पृधो᳚ बाधस्व॒ सह॑सा॒ सह॑स्वान् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} यच्छ॒स्यसे॒ द्युभि॑र॒क्तो वचो᳚भि॒स्तज्जु॑षस्व जरि॒तुर्घोषि॒ मन्म॑ ||{6/7}{4.5.7.6}{6.5.6}{6.1.5.6}{688, 446, 4414} सः¦तत्¦कृ॒धि॒¦इ॒षि॒तः¦तूय᳚म्¦अ॒ग्ने॒¦स्पृधः॑¦बा॒ध॒स्व॒¦सह॑सा¦सह॑स्वान् | |
अ॒श्याम॒ तं काम॑मग्ने॒ तवो॒ती, अ॒श्याम॑ र॒यिं र॑यिवः सु॒वीर᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} अ॒श्याम॒ वाज॑म॒भि वा॒जय᳚न्तो॒ऽश्याम॑ द्यु॒म्नम॑जरा॒जरं᳚ ते ||{7/7}{4.5.7.7}{6.5.7}{6.1.5.7}{689, 446, 4415} अ॒श्याम॑¦तम्¦काम᳚म्¦अ॒ग्ने॒¦तव॑¦ऊ॒ती¦अ॒श्याम॑¦र॒यिम्¦र॒यि॒ऽवः॒¦सु॒ऽवीर᳚म् | |
[85] प्रनव्यसेति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् | |
प्र नव्य॑सा॒ सह॑सः सू॒नुमच्छा᳚ य॒ज्ञेन॑ गा॒तुमव॑ इ॒च्छमा᳚नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} वृ॒श्चद्व॑नं कृ॒ष्णया᳚मं॒ रुश᳚न्तं वी॒ती होता᳚रं दि॒व्यं जि॑गाति ||{1/7}{4.5.8.1}{6.6.1}{6.1.6.1}{690, 447, 4416} प्र¦नव्य॑सा¦सह॑सः¦सू॒नुम्¦अच्छ॑¦य॒ज्ञेन॑¦गा॒तुम्¦अवः॑¦इ॒च्छमा᳚नः | |
स श्वि॑ता॒नस्त᳚न्य॒तू रो᳚चन॒स्था, अ॒जरे᳚भि॒र्नान॑दद्भि॒र्यवि॑ष्ठः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} यः पा᳚व॒कः पु॑रु॒तमः॑ पु॒रूणि॑ पृ॒थून्य॒ग्निर॑नु॒याति॒ भर्व॑न् ||{2/7}{4.5.8.2}{6.6.2}{6.1.6.2}{691, 447, 4417} सः¦श्वि॒ता॒नः¦ता॒न्य॒तुः¦रो॒च॒न॒ऽस्थाः¦अ॒जरे᳚भिः¦नान॑दत्ऽभिः¦यवि॑ष्ठः | |
वि ते॒ विष्व॒ग्वात॑जूतासो, अग्ने॒ भामा᳚सः शुचे॒ शुच॑यश्चरन्ति |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} तु॒वि॒म्र॒क्षासो᳚ दि॒व्या नव॑ग्वा॒ वना᳚ वनन्ति धृष॒ता रु॒जन्तः॑ ||{3/7}{4.5.8.3}{6.6.3}{6.1.6.3}{692, 447, 4418} वि¦ते॒¦विष्व॑क्¦वात॑ऽजूतासः¦अ॒ग्ने॒¦भामा᳚सः¦शु॒चे॒¦शुच॑यः¦च॒र॒न्ति॒ | |
ये ते᳚ शु॒क्रासः॒ शुच॑यः शुचिष्मः॒, क्षां वप᳚न्ति॒ विषि॑तासो॒, अश्वाः᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} अध॑ भ्र॒मस्त॑ उर्वि॒या वि भा᳚ति या॒तय॑मानो॒, अधि॒ सानु॒ पृश्नेः᳚ ||{4/7}{4.5.8.4}{6.6.4}{6.1.6.4}{693, 447, 4419} ये¦ते॒¦शु॒क्रासः॑¦शुच॑यः¦शु॒चि॒ष्मः॒¦क्षाम्¦वप᳚न्ति¦विऽसि॑तासः¦अश्वाः᳚ | |
अध॑ जि॒ह्वा पा᳚पतीति॒ प्र वृष्णो᳚ गोषु॒युधो॒ नाशनिः॑ सृजा॒ना |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} शूर॑स्येव॒ प्रसि॑तिः, क्षा॒तिर॒ग्नेर्दु॒र्वर्तु॑र्भी॒मो द॑यते॒ वना᳚नि ||{5/7}{4.5.8.5}{6.6.5}{6.1.6.5}{694, 447, 4420} अध॑¦जि॒ह्वा¦पा॒प॒ती॒ति॒¦प्र¦वृष्णः॑¦गो॒षु॒ऽयुधः॑¦न¦अ॒शनिः॑¦सृ॒जा॒ना | |
आ भा॒नुना॒ पार्थि॑वानि॒ ज्रयां᳚सि म॒हस्तो॒दस्य॑ धृष॒ता त॑तन्थ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} स बा᳚ध॒स्वाप॑ भ॒या सहो᳚भिः॒ स्पृधो᳚ वनु॒ष्यन् व॒नुषो॒ नि जू᳚र्व ||{6/7}{4.5.8.6}{6.6.6}{6.1.6.6}{695, 447, 4421} आ¦भा॒नुना᳚¦पार्थि॑वानि¦ज्रयां᳚सि¦म॒हः¦तो॒दस्य॑¦धृ॒ष॒ता¦त॒त॒न्थ॒ | |
स चि॑त्र चि॒त्रं चि॒तय᳚न्तम॒स्मे चित्र॑क्षत्र चि॒त्रत॑मं वयो॒धाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} च॒न्द्रं र॒यिं पु॑रु॒वीरं᳚ बृ॒हन्तं॒ चन्द्र॑ च॒न्द्राभि॑र्गृण॒ते यु॑वस्व ||{7/7}{4.5.8.7}{6.6.7}{6.1.6.7}{696, 447, 4422} सः¦चि॒त्र॒¦चि॒त्रम्¦चि॒तय᳚न्तम्¦अ॒स्मे इति॑¦चित्र॑ऽक्षत्र¦चि॒त्रऽत॑मम्¦व॒यः॒ऽधाम् | |
[86] मूर्धाननिति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोवैश्वानरस्त्रिष्टुबंत्येद्वेजगत्यौ | |
मू॒र्धानं᳚ दि॒वो, अ॑र॒तिं पृ॑थि॒व्या वै᳚श्वान॒रमृ॒त आ जा॒तम॒ग्निम् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} क॒विं स॒म्राज॒मति॑थिं॒ जना᳚नामा॒सन्ना पात्रं᳚ जनयन्त दे॒वाः ||{1/7}{4.5.9.1}{6.7.1}{6.1.7.1}{697, 448, 4423} मू॒र्धान᳚म्¦दि॒वः¦अ॒र॒तिम्¦पृ॒थि॒व्याः¦वै॒श्वा॒न॒रम्¦ऋ॒ते¦आ¦जा॒तम्¦अ॒ग्निम् | |
नाभिं᳚ य॒ज्ञानां॒ सद॑नं रयी॒णां म॒हामा᳚हा॒वम॒भि सं न॑वन्त |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} वै॒श्वा॒न॒रं र॒थ्य॑मध्व॒राणां᳚ य॒ज्ञस्य॑ के॒तुं ज॑नयन्त दे॒वाः ||{2/7}{4.5.9.2}{6.7.2}{6.1.7.2}{698, 448, 4424} नाभि᳚म्¦य॒ज्ञाना᳚म्¦सद॑नम्¦र॒यी॒णाम्¦म॒हाम्¦आ॒ऽहा॒वम्¦अ॒भि¦सम्¦न॒व॒न्त॒ | |
त्वद् विप्रो᳚ जायते वा॒ज्य॑ग्ने॒ त्वद् वी॒रासो᳚, अभिमाति॒षाहः॑ |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} वैश्वा᳚नर॒ त्वम॒स्मासु॑ धेहि॒ वसू᳚नि राजन् त्स्पृह॒याय्या᳚णि ||{3/7}{4.5.9.3}{6.7.3}{6.1.7.3}{699, 448, 4425} त्वत्¦विप्रः॑¦जा॒य॒ते॒¦वा॒जी¦अ॒ग्ने॒¦त्वत्¦वी॒रासः॑¦अ॒भि॒मा॒ति॒ऽसहः॑ | |
त्वां विश्वे᳚, अमृत॒ जाय॑मानं॒ शिशुं॒ न दे॒वा, अ॒भि सं न॑वन्ते |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} तव॒ क्रतु॑भिरमृत॒त्वमा᳚य॒न् वैश्वा᳚नर॒ यत् पि॒त्रोरदी᳚देः ||{4/7}{4.5.9.4}{6.7.4}{6.1.7.4}{700, 448, 4426} त्वाम्¦विश्वे᳚¦अ॒मृ॒त॒¦जाय॑मानम्¦शिशु᳚म्¦न¦दे॒वाः¦अ॒भि¦सम्¦न॒व॒न्ते॒ | |
वैश्वा᳚नर॒ तव॒ तानि᳚ व्र॒तानि॑ म॒हान्य॑ग्ने॒ नकि॒रा द॑धर्ष |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} यज्जाय॑मानः पि॒त्रोरु॒पस्थे ऽवि᳚न्दः के॒तुं व॒युने॒ष्वह्ना᳚म् ||{5/7}{4.5.9.5}{6.7.5}{6.1.7.5}{701, 448, 4427} वैश्वा᳚नर¦तव॑¦तानि॑¦व्र॒तानि॑¦म॒हानि॑¦अ॒ग्ने॒¦नकिः॑¦आ¦द॒ध॒र्ष॒ | |
वै॒श्वा॒न॒रस्य॒ विमि॑तानि॒ चक्ष॑सा॒ सानू᳚नि दि॒वो, अ॒मृत॑स्य के॒तुना᳚ |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती} तस्येदु॒ विश्वा॒ भुव॒नाधि॑ मू॒र्धनि॑ व॒या, इ॑व रुरुहुः स॒प्त वि॒स्रुहः॑ ||{6/7}{4.5.9.6}{6.7.6}{6.1.7.6}{702, 448, 4428} वै॒श्वा॒न॒रस्य॑¦विऽमि॑तानि¦चक्ष॑सा¦सानू᳚नि¦दि॒वः¦अ॒मृत॑स्य¦के॒तुना᳚ | |
वि यो रजां॒स्यमि॑मीत सु॒क्रतु᳚र्वैश्वान॒रो वि दि॒वो रो᳚च॒ना क॒विः |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती} परि॒ यो विश्वा॒ भुव॑नानि पप्र॒थे ऽद॑ब्धो गो॒पा, अ॒मृत॑स्य रक्षि॒ता ||{7/7}{4.5.9.7}{6.7.7}{6.1.7.7}{703, 448, 4429} वि¦यः¦रजां᳚सि¦अमि॑मीत¦सु॒ऽक्रतुः॑¦वै॒श्वा॒न॒रः¦वि¦दि॒वः¦रो॒च॒ना¦क॒विः | |
[87] पृक्षस्येति सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजोवैश्वानरोग्निर्जगत्यंत्यात्रिष्टुप् | |
पृ॒क्षस्य॒ वृष्णो᳚, अरु॒षस्य॒ नू सहः॒ प्र नु वो᳚चं वि॒दथा᳚ जा॒तवे᳚दसः |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती} वै॒श्वा॒न॒राय॑ म॒तिर्नव्य॑सी॒ शुचिः॒ सोम॑ इव पवते॒ चारु॑र॒ग्नये᳚ ||{1/7}{4.5.10.1}{6.8.1}{6.1.8.1}{704, 449, 4430} पृ॒क्षस्य॑¦वृष्णः॑¦अ॒रु॒षस्य॑¦नु¦सहः॑¦प्र¦नु¦वो॒च॒म्¦वि॒दथा᳚¦जा॒तऽवे᳚दसः | |
स जाय॑मानः पर॒मे व्यो᳚मनि व्र॒तान्य॒ग्निर्व्र॑त॒पा, अ॑रक्षत |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती} व्य१॑(अ॒)न्तरि॑क्षममिमीत सु॒क्रतु᳚र्वैश्वान॒रो म॑हि॒ना नाक॑मस्पृशत् ||{2/7}{4.5.10.2}{6.8.2}{6.1.8.2}{705, 449, 4431} सः¦जाय॑मानः¦प॒र॒मे¦विऽओ᳚मनि¦व्र॒तानि॑¦अ॒ग्निः¦व्र॒त॒ऽपाः¦अ॒र॒क्ष॒त॒ | |
व्य॑स्तभ्ना॒द् रोद॑सी मि॒त्रो, अद्भु॑तो ऽन्त॒र्वाव॑दकृणो॒ज्ज्योति॑षा॒ तमः॑ |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती} वि चर्म॑णीव धि॒षणे᳚, अवर्तयद् वैश्वान॒रो विश्व॑मधत्त॒ वृष्ण्य᳚म् ||{3/7}{4.5.10.3}{6.8.3}{6.1.8.3}{706, 449, 4432} वि¦अ॒स्त॒भ्ना॒त्¦रोद॑सी॒ इति॑¦मि॒त्रः¦अद्भु॑तः¦अ॒न्तः॒ऽवाव॑त्¦अ॒कृ॒णो॒त्¦ज्योति॑षा¦तमः॑ | |
अ॒पामु॒पस्थे᳚ महि॒षा, अ॑गृभ्णत॒ विशो॒ राजा᳚न॒मुप॑ तस्थुरृ॒ग्मिय᳚म् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती} आ दू॒तो, अ॒ग्निम॑भरद् वि॒वस्व॑तो वैश्वान॒रं मा᳚त॒रिश्वा᳚ परा॒वतः॑ ||{4/7}{4.5.10.4}{6.8.4}{6.1.8.4}{707, 449, 4433} अ॒पाम्¦उ॒पऽस्थे᳚¦म॒हि॒षाः¦अ॒गृ॒भ्ण॒त॒¦विशः॑¦राजा᳚नम्¦उप॑¦त॒स्थुः॒¦ऋ॒ग्मिय᳚म् | |
यु॒गेयु॑गे विद॒थ्यं᳚ गृ॒णद्भ्यो ऽग्ने᳚ र॒यिं य॒शसं᳚ धेहि॒ नव्य॑सीम् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती} प॒व्येव॑ राजन्न॒घशं᳚समजर नी॒चा नि वृ॑श्च व॒निनं॒ न तेज॑सा ||{5/7}{4.5.10.5}{6.8.5}{6.1.8.5}{708, 449, 4434} यु॒गेऽयु॑गे¦वि॒द॒थ्य᳚म्¦गृ॒णत्ऽभ्यः॑¦अग्ने᳚¦र॒यिम्¦य॒शस᳚म्¦धे॒हि॒¦नव्य॑सीम् | |
अ॒स्माक॑मग्ने म॒घव॑त्सु धार॒याऽना᳚मि क्ष॒त्रम॒जरं᳚ सु॒वीर्य᳚म् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती} व॒यं ज॑येम श॒तिनं᳚ सह॒स्रिणं॒ वैश्वा᳚नर॒ वाज॑मग्ने॒ तवो॒तिभिः॑ ||{6/7}{4.5.10.6}{6.8.6}{6.1.8.6}{709, 449, 4435} अ॒स्माक᳚म्¦अ॒ग्ने॒¦म॒घव॑त्ऽसु¦धा॒र॒य॒¦अना᳚मि¦क्ष॒त्रम्¦अ॒जर᳚म्¦सु॒ऽवीर्य᳚म् | |
अद॑ब्धेभि॒स्तव॑ गो॒पाभि॑रिष्टे॒ ऽस्माकं᳚ पाहि त्रिषधस्थ सू॒रीन् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} रक्षा᳚ च नो द॒दुषां॒ शर्धो᳚, अग्ने॒ वैश्वा᳚नर॒ प्र च॑ तारीः॒ स्तवा᳚नः ||{7/7}{4.5.10.7}{6.8.7}{6.1.8.7}{710, 449, 4436} अद॑ब्धेभिः¦तव॑¦गो॒पाभिः॑¦इ॒ष्टे॒¦अ॒स्माक᳚म्¦पा॒हि॒¦त्रि॒ऽस॒ध॒स्थ॒¦सू॒रीन् | |
[88] अहश्चकृष्णमिति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोवैश्वानरोग्निस्त्रिष्टुप् | |
अह॑श्च कृ॒ष्णमह॒रर्जु॑नं च॒ वि व॑र्तेते॒ रज॑सी वे॒द्याभिः॑ |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} वै॒श्वा॒न॒रो जाय॑मानो॒ न राजा ऽवा᳚तिर॒ज्ज्योति॑षा॒ग्निस्तमां᳚सि ||{1/7}{4.5.11.1}{6.9.1}{6.1.9.1}{711, 450, 4437} अहः॑¦च॒¦कृ॒ष्णम्¦अहः॑¦अर्जु॑नम्¦च॒¦वि¦व॒र्ते॒ते॒ इति॑¦रज॑सी॒ इति॑¦वे॒द्याभिः॑ | |
नाहं तन्तुं॒ न वि जा᳚ना॒म्योतुं॒ न यं वय᳚न्ति सम॒रेऽत॑मानाः |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} कस्य॑ स्वित् पु॒त्र इ॒ह वक्त्वा᳚नि प॒रो व॑दा॒त्यव॑रेण पि॒त्रा ||{2/7}{4.5.11.2}{6.9.2}{6.1.9.2}{712, 450, 4438} न¦अ॒हम्¦तन्तु᳚म्¦न¦वि¦जा॒ना॒मि॒¦ओतु᳚म्¦न¦यम्¦वय᳚न्ति¦स॒म्।आ॒रे¦अत॑मानाः | |
स इत् तन्तुं॒ स वि जा᳚ना॒त्योतुं॒ स वक्त्वा᳚न्यृतु॒था व॑दाति |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} य ईं॒ चिके᳚तद॒मृत॑स्य गो॒पा, अ॒वश्चर᳚न् प॒रो, अ॒न्येन॒ पश्य॑न् ||{3/7}{4.5.11.3}{6.9.3}{6.1.9.3}{713, 450, 4439} सः¦इत्¦तन्तु᳚म्¦सः¦वि¦जा॒ना॒ति॒¦ओतु᳚म्¦सः¦वक्त्वा᳚नि¦ऋ॒तु॒ऽथा¦व॒दा॒ति॒ | |
अ॒यं होता᳚ प्रथ॒मः पश्य॑ते॒ममि॒दं ज्योति॑र॒मृतं॒ मर्त्ये᳚षु |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} अ॒यं स ज॑ज्ञे ध्रु॒व आ निष॒त्तो ऽम॑र्त्यस्त॒न्वा॒३॑(आ॒) वर्ध॑मानः ||{4/7}{4.5.11.4}{6.9.4}{6.1.9.4}{714, 450, 4440} अ॒यम्¦होता᳚¦प्र॒थ॒मः¦पश्य॑त¦इ॒मम्¦इ॒दम्¦ज्योतिः॑¦अ॒मृत᳚म्¦मर्त्ये᳚षु | |
ध्रु॒वं ज्योति॒र्निहि॑तं दृ॒शये॒ कं मनो॒ जवि॑ष्ठं प॒तय॑त्स्व॒न्तः |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} विश्वे᳚ दे॒वाः सम॑नसः॒ सके᳚ता॒, एकं॒ क्रतु॑म॒भि वि य᳚न्ति सा॒धु ||{5/7}{4.5.11.5}{6.9.5}{6.1.9.5}{715, 450, 4441} ध्रु॒वम्¦ज्योतिः॑¦निऽहि॑तम्¦दृ॒शये᳚¦कम्¦मनः॑¦जवि॑ष्ठम्¦प॒तय॑त्ऽसु¦अ॒न्तरिति॑ | |
वि मे॒ कर्णा᳚ पतयतो॒ वि चक्षु॒र्वी॒३॑(ई॒)दं ज्योति॒र्हृद॑य॒ आहि॑तं॒ यत् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} वि मे॒ मन॑श्चरति दू॒रआ᳚धीः॒ किं स्वि॑द् व॒क्ष्यामि॒ किमु॒ नू म॑निष्ये ||{6/7}{4.5.11.6}{6.9.6}{6.1.9.6}{716, 450, 4442} वि¦मे॒¦कर्णा᳚¦प॒त॒य॒तः॒¦वि¦चक्षुः॑¦वि¦इ॒दम्¦ज्योतिः॑¦हृद॑ये¦आऽहि॑तम्¦यत् | |
विश्वे᳚ दे॒वा, अ॑नमस्यन् भिया॒नास्त्वाम॑ग्ने॒ तम॑सि तस्थि॒वांस᳚म् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} वै॒श्वा॒न॒रो᳚ऽवतू॒तये॒ नो ऽम॑र्त्योऽवतू॒तये᳚ नः ||{7/7}{4.5.11.7}{6.9.7}{6.1.9.7}{717, 450, 4443} विश्वे᳚¦दे॒वाः¦अ॒न॒म॒स्य॒न्¦भि॒या॒नाः¦त्वाम्¦अ॒ग्ने॒¦तम॑सि¦त॒स्थि॒ऽवांस᳚म् | |
[89] पुरोवइति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजग्निस्त्रिष्टुबंत्याद्विपदाविराट् | |
पु॒रो वो᳚ म॒न्द्रं दि॒व्यं सु॑वृ॒क्तिं प्र॑य॒ति य॒ज्ञे, अ॒ग्निम॑ध्व॒रे द॑धिध्वम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} पु॒र उ॒क्थेभिः॒ स हि नो᳚ वि॒भावा᳚ स्वध्व॒रा क॑रति जा॒तवे᳚दाः ||{1/7}{4.5.12.1}{6.10.1}{6.1.10.1}{718, 451, 4444} पु॒रः¦वः॒¦म॒न्द्रम्¦दि॒व्यम्¦सु॒ऽवृ॒क्तिम्¦प्र॒ऽय॒ति¦य॒ज्ञे¦अ॒ग्निम्¦अ॒ध्व॒रे¦द॒धि॒ध्व॒म् | |
तमु॑ द्युमः पुर्वणीक होत॒रग्ने᳚, अ॒ग्निभि॒र्मनु॑ष इधा॒नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} स्तोमं॒ यम॑स्मै म॒मते᳚व शू॒षं घृ॒तं न शुचि॑ म॒तयः॑ पवन्ते ||{2/7}{4.5.12.2}{6.10.2}{6.1.10.2}{719, 451, 4445} तम्¦ऊँ॒ इति॑¦द्यु॒ऽमः॒¦पु॒रु॒।आ॒नी॒क॒¦हो॒तः॒¦अग्ने᳚¦अ॒ग्निऽभिः॑¦मनु॑षः¦इ॒धा॒नः | |
पी॒पाय॒ स श्रव॑सा॒ मर्त्ये᳚षु॒ यो, अ॒ग्नये᳚ द॒दाश॒ विप्र॑ उ॒क्थैः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} चि॒त्राभि॒स्तमू॒तिभि॑श्चि॒त्रशो᳚चिर्व्र॒जस्य॑ सा॒ता गोम॑तो दधाति ||{3/7}{4.5.12.3}{6.10.3}{6.1.10.3}{720, 451, 4446} पी॒पाय॑¦सः¦श्रव॑सा¦मर्त्ये᳚षु¦यः¦अ॒ग्नये᳚¦द॒दाश॑¦विप्रः॑¦उ॒क्थैः | |
आ यः प॒प्रौ जाय॑मान उ॒र्वी दू᳚रे॒दृशा᳚ भा॒सा कृ॒ष्णाध्वा᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} अध॑ ब॒हु चि॒त् तम॒ ऊर्म्या᳚यास्ति॒रः शो॒चिषा᳚ ददृशे पाव॒कः ||{4/7}{4.5.12.4}{6.10.4}{6.1.10.4}{721, 451, 4447} आ¦यः¦प॒प्रौ¦जाय॑मानः¦उ॒र्वी इति॑¦दू॒रे॒ऽदृशा᳚¦भा॒सा¦कृ॒ष्ण।आ॑ध्वा | |
नू न॑श्चि॒त्रं पु॑रु॒वाजा᳚भिरू॒ती, अग्ने᳚ र॒यिं म॒घव॑द्भ्यश्च धेहि |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} ये राध॑सा॒ श्रव॑सा॒ चात्य॒न्यान् त्सु॒वीर्ये᳚भिश्चा॒भि सन्ति॒ जना॑न् ||{5/7}{4.5.12.5}{6.10.5}{6.1.10.5}{722, 451, 4448} नु¦नः॒¦चि॒त्रम्¦पु॒रु॒ऽवाजा᳚भिः¦ऊ॒ती¦अग्ने᳚¦र॒यिम्¦म॒घव॑त्ऽभ्यः¦च॒¦धे॒हि॒ | |
इ॒मं य॒ज्ञं चनो᳚ धा, अग्न उ॒शन् यं त॑ आसा॒नो जु॑हु॒ते ह॒विष्मा॑न् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} भ॒रद्वा᳚जेषु दधिषे सुवृ॒क्तिमवी॒र्वाज॑स्य॒ गध्य॑स्य सा॒तौ ||{6/7}{4.5.12.6}{6.10.6}{6.1.10.6}{723, 451, 4449} इ॒मम्¦य॒ज्ञम्¦चनः॑¦धाः॒¦अ॒ग्ने॒¦उ॒शन्¦यम्¦ते॒¦आ॒सा॒नः¦जु॒हु॒ते¦ह॒विष्मा॑न् | |
वि द्वेषां᳚सीनु॒हि व॒र्धयेळां॒ मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{बार्हस्पत्यो भरद्वाजः | अग्निः | द्विपदाविराट्}{7/7}{4.5.12.7}{6.10.7}{6.1.10.7}{724, 451, 4450} वि¦द्वेषां᳚सि¦इ॒नु॒हि¦व॒र्धय॑¦इळा᳚म्¦मदे᳚म¦श॒तऽहि॑माः¦सु॒ऽवीराः᳚ || |
[90] यजस्वहोतरिति षडृचस्य सूक्तस्यबार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् | |
यज॑स्व होतरिषि॒तो यजी᳚या॒नग्ने॒ बाधो᳚ म॒रुतां॒ न प्रयु॑क्ति |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} आ नो᳚ मि॒त्रावरु॑णा॒ नास॑त्या॒ द्यावा᳚ हो॒त्राय॑ पृथि॒वी व॑वृत्याः ||{1/6}{4.5.13.1}{6.11.1}{6.1.11.1}{725, 452, 4451} यज॑स्व¦हो॒तः॒¦इ॒षि॒तः¦यजी᳚यान्¦अग्ने᳚¦बाधः॑¦म॒रुता᳚म्¦न¦प्रऽयु॑क्ति | |
त्वं होता᳚ म॒न्द्रत॑मो नो, अ॒ध्रुग॒न्तर्दे॒वो वि॒दथा॒ मर्त्ये᳚षु |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} पा॒व॒कया᳚ जु॒ह्वा॒३॑(आ॒) वह्नि॑रा॒सा ऽग्ने॒ यज॑स्व त॒न्व१॑(अं॒) तव॒ स्वाम् ||{2/6}{4.5.13.2}{6.11.2}{6.1.11.2}{726, 452, 4452} त्वम्¦होता᳚¦म॒न्द्रऽत॑मः¦नः॒¦अ॒ध्रुक्¦अ॒न्तः¦दे॒वः¦वि॒दथा᳚¦मर्त्ये᳚षु | |
धन्या᳚ चि॒द्धि त्वे धि॒षणा॒ वष्टि॒ प्र दे॒वाञ्जन्म॑ गृण॒ते यज॑ध्यै |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} वेपि॑ष्ठो॒, अङ्गि॑रसां॒ यद्ध॒ विप्रो॒ मधु॑ च्छ॒न्दो भन॑ति रे॒भ इ॒ष्टौ ||{3/6}{4.5.13.3}{6.11.3}{6.1.11.3}{727, 452, 4453} धन्या᳚¦चि॒त्¦हि¦त्वे इति॑¦धि॒षणा᳚¦वष्टि॑¦प्र¦दे॒वान्¦जन्म॑¦गृ॒ण॒ते¦यज॑ध्यै | |
अदि॑द्युत॒त् स्वपा᳚को वि॒भावा ऽग्ने॒ यज॑स्व॒ रोद॑सी, उरू॒ची |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} आ॒युं न यं नम॑सा रा॒तह᳚व्या, अ॒ञ्जन्ति॑ सुप्र॒यसं॒ पञ्च॒ जनाः᳚ ||{4/6}{4.5.13.4}{6.11.4}{6.1.11.4}{728, 452, 4454} अदि॑द्युतत्¦सु¦अपा᳚कः¦वि॒ऽभावा᳚¦अग्ने᳚¦यज॑स्व¦रोद॑सी॒ इति॑¦उ॒रू॒ची इति॑ | |
वृ॒ञ्जे ह॒ यन्नम॑सा ब॒र्हिर॒ग्नावया᳚मि॒ स्रुग्घृ॒तव॑ती सुवृ॒क्तिः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} अम्य॑क्षि॒ सद्म॒ सद॑ने पृथि॒व्या, अश्रा᳚यि य॒ज्ञः सूर्ये॒ न चक्षुः॑ ||{5/6}{4.5.13.5}{6.11.5}{6.1.11.5}{729, 452, 4455} वृं॒जे¦ह॒¦यत्¦नम॑सा¦ब॒र्हिः¦अ॒ग्नौ¦अया᳚मि¦स्रुक्¦घृ॒तऽव॑ती¦सु॒ऽवृ॒क्तिः | |
द॒श॒स्या नः॑ पुर्वणीक होतर्दे॒वेभि॑रग्ने, अ॒ग्निभि॑रिधा॒नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} रा॒यः सू᳚नो सहसो वावसा॒ना, अति॑ स्रसेम वृ॒जनं॒ नांहः॑ ||{6/6}{4.5.13.6}{6.11.6}{6.1.11.6}{730, 452, 4456} द॒श॒स्य¦नः॒¦पु॒रु॒।आ॒णी॒क॒¦हो॒तः॒¦दे॒वेभिः॑¦अ॒ग्ने॒¦अ॒ग्निऽभिः॑¦इ॒धा॒नः | |
[91] मध्येहोतेति षडृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाजोऽग्निस्त्रिष्टुप् | |
मध्ये॒ होता᳚ दुरो॒णे ब॒र्हिषो॒ राळ॒ग्निस्तो॒दस्य॒ रोद॑सी॒ यज॑ध्यै |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} अ॒यं स सू॒नुः सह॑स ऋ॒तावा᳚ दू॒रात् सूर्यो॒ न शो॒चिषा᳚ ततान ||{1/6}{4.5.14.1}{6.12.1}{6.1.12.1}{731, 453, 4457} मध्ये᳚¦होता᳚¦दु॒रो॒णे¦ब॒र्हिषः॑¦राट्¦अ॒ग्निः¦तो॒दस्य॑¦रोद॑सी॒ इति॑¦यज॑ध्यै | |
आ यस्मि॒न् त्वे स्वपा᳚के यजत्र॒ यक्ष॑द् राजन् त्स॒र्वता᳚तेव॒ नु द्यौः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} त्रि॒ष॒धस्थ॑स्तत॒रुषो॒ न जंहो᳚ ह॒व्या म॒घानि॒ मानु॑षा॒ यज॑ध्यै ||{2/6}{4.5.14.2}{6.12.2}{6.1.12.2}{732, 453, 4458} आ¦यस्मि॑न्¦त्वे इति॑¦सु¦अपा᳚के¦य॒ज॒त्र॒¦यक्ष॑त्¦रा॒ज॒न्¦स॒र्वता᳚ताऽइव¦नु¦द्यौः | |
तेजि॑ष्ठा॒ यस्या᳚र॒तिर्व॑ने॒राट् तो॒दो, अध्व॒न् न वृ॑धसा॒नो, अ॑द्यौत् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} अ॒द्रो॒घो न द्र॑वि॒ता चे᳚तति॒ त्मन्नम॑र्त्योऽव॒र्त्र ओष॑धीषु ||{3/6}{4.5.14.3}{6.12.3}{6.1.12.3}{733, 453, 4459} तेजि॑ष्ठा¦यस्य॑¦अ॒र॒तिः¦व॒ने॒ऽराट्¦तो॒दः¦अध्व॑न्¦न¦वृ॒ध॒सा॒नः¦अ॒द्यौ॒त् | |
सास्माके᳚भिरे॒तरी॒ न शू॒षैर॒ग्निः ष्ट॑वे॒ दम॒ आ जा॒तवे᳚दाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} द्र्व᳚न्नो व॒न्वन् क्रत्वा॒ नार्वो॒स्रः पि॒तेव॑ जार॒यायि॑ य॒ज्ञैः ||{4/6}{4.5.14.4}{6.12.4}{6.1.12.4}{734, 453, 4460} सः¦अ॒स्माके᳚भिः¦ए॒तरि॑¦न¦शू॒षैः¦अ॒ग्निः¦स्त॒वे॒¦दमे᳚¦आ¦जा॒तऽवे᳚दाः | |
अध॑ स्मास्य पनयन्ति॒ भासो॒ वृथा॒ यत् तक्ष॑दनु॒याति॑ पृ॒थ्वीम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} स॒द्यो यः स्प॒न्द्रो विषि॑तो॒ धवी᳚यानृ॒णो न ता॒युरति॒ धन्वा᳚ राट् ||{5/6}{4.5.14.5}{6.12.5}{6.1.12.5}{735, 453, 4461} अध॑¦स्म॒¦अ॒स्य॒¦प॒न॒य॒न्ति॒¦भासः॑¦वृथा᳚¦यत्¦तक्ष॑त्¦अ॒नु॒ऽयाति॑¦पृ॒थ्वीम् | |
स त्वं नो᳚, अर्व॒न् निदा᳚या॒ विश्वे᳚भिरग्ने, अ॒ग्निभि॑रिधा॒नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} वेषि॑ रा॒यो वि या᳚सि दु॒च्छुना॒ मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{6/6}{4.5.14.6}{6.12.6}{6.1.12.6}{736, 453, 4462} सः¦त्वम्¦नः॒¦अ॒र्व॒न्¦निदा᳚याः¦विश्वे᳚भिः¦अ॒ग्ने॒¦अ॒ग्निऽभिः॑¦इ॒धा॒नः | |
[92] त्वद्विश्वेति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् | |
त्वद् विश्वा᳚ सुभग॒ सौभ॑गा॒न्यग्ने॒ वि य᳚न्ति व॒निनो॒ न व॒याः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} श्रु॒ष्टी र॒यिर्वाजो᳚ वृत्र॒तूर्ये᳚ दि॒वो वृ॒ष्टिरीड्यो᳚ री॒तिर॒पाम् ||{1/6}{4.5.15.1}{6.13.1}{6.1.13.1}{737, 454, 4463} त्वत्¦विश्वा᳚¦सु॒ऽभ॒ग॒¦सौभ॑गानि¦अग्ने᳚¦वि¦य॒न्ति॒¦व॒निनः॑¦न¦व॒याः | |
त्वं भगो᳚ न॒ आ हि रत्न॑मि॒षे परि॑ज्मेव क्षयसि द॒स्मव॑र्चाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} अग्ने᳚ मि॒त्रो न बृ॑ह॒त ऋ॒तस्याऽसि॑ क्ष॒त्ता वा॒मस्य॑ देव॒ भूरेः᳚ ||{2/6}{4.5.15.2}{6.13.2}{6.1.13.2}{738, 454, 4464} त्वम्¦भगः॑¦नः॒¦आ¦हि¦रत्न᳚म्¦इ॒षे¦परि॑ज्माऽइव¦क्ष॒य॒सि॒¦द॒स्मऽव॑र्चाः | |
स सत्प॑तिः॒ शव॑सा हन्ति वृ॒त्रमग्ने॒ विप्रो॒ वि प॒णेर्भ॑र्ति॒ वाज᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} यं त्वं प्र॑चेत ऋतजात रा॒या स॒जोषा॒ नप्त्रा॒पां हि॒नोषि॑ ||{3/6}{4.5.15.3}{6.13.3}{6.1.13.3}{739, 454, 4465} सः¦सत्ऽप॑तिः¦शव॑सा¦ह॒न्ति॒¦वृ॒त्रम्¦अग्ने᳚¦विप्रः॑¦वि¦प॒णेः¦भ॒र्ति॒¦वाज᳚म् | |
यस्ते᳚ सूनो सहसो गी॒र्भिरु॒क्थैर्य॒ज्ञैर्मर्तो॒ निशि॑तिं वे॒द्यान॑ट् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} विश्वं॒ स दे᳚व॒ प्रति॒ वार॑मग्ने ध॒त्ते धा॒न्य१॑(अं॒) पत्य॑ते वस॒व्यैः᳚ ||{4/6}{4.5.15.4}{6.13.4}{6.1.13.4}{740, 454, 4466} यः¦ते॒¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦गीः॒ऽभिः¦उ॒क्थैः¦य॒ज्ञैः¦मर्तः॑¦निऽशि॑तिम्¦वे॒द्या¦आन॑ट् | |
ता नृभ्य॒ आ सौ᳚श्रव॒सा सु॒वीरा ऽग्ने᳚ सूनो सहसः पु॒ष्यसे᳚ धाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} कृ॒णोषि॒ यच्छव॑सा॒ भूरि॑ प॒श्वो वयो॒ वृका᳚या॒रये॒ जसु॑रये ||{5/6}{4.5.15.5}{6.13.5}{6.1.13.5}{741, 454, 4467} ता¦नृऽभ्यः॑¦आ¦सौ॒श्र॒व॒सा¦सु॒ऽवीरा᳚¦अग्ने᳚¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦पु॒ष्यसे᳚¦धाः॒ | |
व॒द्मा सू᳚नो सहसो नो॒ विहा᳚या॒, अग्ने᳚ तो॒कं तन॑यं वा॒जि नो᳚ दाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} विश्वा᳚भिर्गी॒र्भिर॒भि पू॒र्तिम॑श्यां॒ मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{6/6}{4.5.15.6}{6.13.6}{6.1.13.6}{742, 454, 4468} व॒द्मा¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦नः॒¦विऽहा᳚याः¦अग्ने᳚¦तो॒कम्¦तन॑यम्¦वा॒जि¦नः॒¦दाः॒ | |
[93] अग्नायइति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निरनुष्टुबन्त्याशक्वरी | |
अ॒ग्ना यो मर्त्यो॒ दुवो॒ धियं᳚ जु॒जोष॑ धी॒तिभिः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} भस॒न्नु ष प्र पू॒र्व्य इषं᳚ वुरी॒ताव॑से ||{1/6}{4.5.16.1}{6.14.1}{6.1.14.1}{743, 455, 4469} अ॒ग्ना¦यः¦मर्त्यः॑¦दुवः॑¦धिय᳚म्¦जु॒जोष॑¦धी॒तिऽभिः॑ | भस॑त्¦नु¦सः¦प्र¦पू॒र्व्यः¦इष᳚म्¦वु॒री॒त॒¦अव॑से || |
अ॒ग्निरिद्धि प्रचे᳚ता, अ॒ग्निर्वे॒धस्त॑म॒ ऋषिः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} अ॒ग्निं होता᳚रमीळते य॒ज्ञेषु॒ मनु॑षो॒ विशः॑ ||{2/6}{4.5.16.2}{6.14.2}{6.1.14.2}{744, 455, 4470} अ॒ग्निः¦इत्¦हि¦प्रऽचे᳚ताः¦अ॒ग्निः¦वे॒धःऽत॑मः¦ऋषिः॑ | अ॒ग्निम्¦होता᳚रम्¦ई॒ळ॒ते॒¦य॒ज्ञेषु॑¦मनु॑षः¦विशः॑ || |
नाना॒ ह्य१॑(अ॒)ग्नेऽव॑से॒ स्पर्ध᳚न्ते॒ रायो᳚, अ॒र्यः |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} तूर्व᳚न्तो॒ दस्यु॑मा॒यवो᳚ व्र॒तैः सीक्ष᳚न्तो, अव्र॒तम् ||{3/6}{4.5.16.3}{6.14.3}{6.1.14.3}{745, 455, 4471} नाना᳚¦हि¦अ॒ग्ने॒¦अव॑से¦स्पर्ध᳚न्ते¦रायः॑¦अ॒र्यः | तूर्व᳚न्तः¦दस्यु᳚म्¦आ॒यवः॑¦व्र॒तैः¦सीक्ष᳚न्तः¦अ॒व्र॒तम् || |
अ॒ग्निर॒प्सामृ॑ती॒षहं᳚ वी॒रं द॑दाति॒ सत्प॑तिम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} यस्य॒ त्रस᳚न्ति॒ शव॑सः सं॒चक्षि॒ शत्र॑वो भि॒या ||{4/6}{4.5.16.4}{6.14.4}{6.1.14.4}{746, 455, 4472} अ॒ग्निः¦अ॒प्साम्¦ऋ॒ति॒ऽसह᳚म्¦वी॒रम्¦द॒दा॒ति॒¦सत्ऽप॑तिम् | यस्य॑¦त्रस᳚न्ति¦शव॑सः¦स॒म्ऽचक्षि॑¦शत्र॑वः¦भि॒या || |
अ॒ग्निर्हि वि॒द्मना᳚ नि॒दो दे॒वो मर्त॑मुरु॒ष्यति॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} स॒हावा॒ यस्यावृ॑तो र॒यिर्वाजे॒ष्ववृ॑तः ||{5/6}{4.5.16.5}{6.14.5}{6.1.14.5}{747, 455, 4473} अ॒ग्निः¦हि¦वि॒द्मना᳚¦नि॒दः¦दे॒वः¦मर्त᳚म्¦उ॒रु॒ष्यति॑ | स॒हऽवा᳚¦यस्य॑¦अवृ॑तः¦र॒यिः¦वाजे᳚षु¦अवृ॑तः || |
अच्छा᳚ नो मित्रमहो देव दे॒वानग्ने॒ वोचः॑ सुम॒तिं रोद॑स्योः |{बार्हस्पत्यो भरद्वाजः | अग्निः | शक्वरी} वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄन् द्वि॒षो, अंहां᳚सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ||{6/6}{4.5.16.6}{6.14.6}{6.1.14.6}{748, 455, 4474} अच्छ॑¦नः॒¦मि॒त्र॒ऽम॒हः॒¦दे॒व॒¦दे॒वान्¦अग्ने᳚¦वोचः॑¦सु॒ऽम॒तिम्¦रोद॑स्योः | |
[94] इममूष्वित्येकोनविंशत्यृचस्य सूक्तस्यांगिरसोवीतहव्यो (भरद्वाजोवा) ग्निर्जगती तृतीयापंचदृश्यौशक्वर्यौ षष्ट्यतिशक्वरी सप्तदश्यनुष्टुप् अष्टादशीबृहती दशम्याद्याः पंचषोडश्येकोनविंशीचत्रिष्टुभः | |
इ॒ममू॒ षु वो॒, अति॑थिमुष॒र्बुधं॒ विश्वा᳚सां वि॒शां पति॑मृञ्जसे गि॒रा |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती} वेतीद् दि॒वो ज॒नुषा॒ कच्चि॒दा शुचि॒र्ज्योक् चि॑दत्ति॒ गर्भो॒ यदच्यु॑तम् ||{1/19}{4.5.17.1}{6.15.1}{6.1.15.1}{749, 456, 4475} इ॒मम्¦ऊँ॒ इति॑¦सु¦वः॒¦अति॑थिम्¦उ॒षः॒ऽबुध᳚म्¦विश्वा᳚साम्¦वि॒शाम्¦पति᳚म्¦ऋं॒ज॒से॒¦गि॒रा | |
मि॒त्रं न यं सुधि॑तं॒ भृग॑वो द॒धुर्वन॒स्पता॒वीड्य॑मू॒र्ध्वशो᳚चिषम् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती} स त्वं सुप्री᳚तो वी॒तह᳚व्ये, अद्भुत॒ प्रश॑स्तिभिर्महयसे दि॒वेदि॑वे ||{2/19}{4.5.17.2}{6.15.2}{6.1.15.2}{750, 456, 4476} मि॒त्रम्¦न¦यम्¦सुऽधि॑तम्¦भृग॑वः¦द॒धुः¦वन॒स्पतौ᳚¦ईड्य᳚म्¦ऊ॒र्ध्वऽशो᳚चिषम् | |
स त्वं दक्ष॑स्यावृ॒को वृ॒धो भू᳚र॒र्यः पर॒स्यान्त॑रस्य॒ तरु॑षः |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | शक्वरी} रा॒यः सू᳚नो सहसो॒ मर्त्ये॒ष्वा छ॒र्दिर्य॑च्छ वी॒तह᳚व्याय स॒प्रथो᳚ भ॒रद्वा᳚जाय स॒प्रथः॑ ||{3/19}{4.5.17.3}{6.15.3}{6.1.15.3}{751, 456, 4477} सः¦त्वम्¦दक्ष॑स्य¦अ॒वृ॒कः¦वृ॒धः¦भूः॒¦अ॒र्यः¦पर॑स्य¦अन्त॑रस्य¦तरु॑षः | |
द्यु॒ता॒नं वो॒, अति॑थिं॒ स्व᳚र्णरम॒ग्निं होता᳚रं॒ मनु॑षः स्वध्व॒रम् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती} विप्रं॒ न द्यु॒क्षव॑चसं सुवृ॒क्तिभि᳚र्हव्य॒वाह॑मर॒तिं दे॒वमृ᳚ञ्जसे ||{4/19}{4.5.17.4}{6.15.4}{6.1.15.4}{752, 456, 4478} द्यु॒ता॒नम्¦वः॒¦अति॑थिम्¦स्वः॑ऽनरम्¦अ॒ग्निम्¦होता᳚रम्¦मनु॑षः¦सु॒।आ॒ध्व॒रम् | |
पा॒व॒कया॒ यश्चि॒तय᳚न्त्या कृ॒पा क्षाम᳚न् रुरु॒च उ॒षसो॒ न भा॒नुना᳚ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती} तूर्व॒न् न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे न त॑तृषा॒णो, अ॒जरः॑ ||{5/19}{4.5.17.5}{6.15.5}{6.1.15.5}{753, 456, 4479} पा॒व॒कया᳚¦यः¦चि॒तय᳚न्त्या¦कृ॒पा¦क्षाम॑न्¦रु॒रु॒चे¦उ॒षसः॑¦न¦भा॒नुना᳚ | |
अ॒ग्निम॑ग्निं वः स॒मिधा᳚ दुवस्यत प्रि॒यम्प्रि॑यं वो॒, अति॑थिं गृणी॒षणि॑ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | अतिशक्वरी} उप॑ वो गी॒र्भिर॒मृतं᳚ विवासत दे॒वो दे॒वेषु॒ वन॑ते॒ हि वार्यं᳚ दे॒वो दे॒वेषु॒ वन॑ते॒ हि नो॒ दुवः॑ ||{6/19}{4.5.18.1}{6.15.6}{6.1.15.6}{754, 456, 4480} अ॒ग्निम्।आ॑ग्निम्¦वः॒¦स॒म्ऽइधा᳚¦दु॒व॒स्य॒त॒¦प्रि॒यम्ऽप्रि॑यम्¦वः॒¦अति॑थिम्¦गृ॒णी॒षणि॑ | |
समि॑द्धम॒ग्निं स॒मिधा᳚ गि॒रा गृ॑णे॒ शुचिं᳚ पाव॒कं पु॒रो, अ॑ध्व॒रे ध्रु॒वम् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती} विप्रं॒ होता᳚रं पुरु॒वार॑म॒द्रुहं᳚ क॒विं सु॒म्नैरी᳚महे जा॒तवे᳚दसम् ||{7/19}{4.5.18.2}{6.15.7}{6.1.15.7}{755, 456, 4481} सम्ऽइ᳚द्धम्¦अ॒ग्निम्¦स॒म्ऽइधा᳚¦गि॒रा¦गृ॒णे॒¦शुचि᳚म्¦पा॒व॒कम्¦पु॒रः¦अ॒ध्व॒रे¦ध्रु॒वम् | |
त्वां दू॒तम॑ग्ने, अ॒मृतं᳚ यु॒गेयु॑गे हव्य॒वाहं᳚ दधिरे पा॒युमीड्य᳚म् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती} दे॒वास॑श्च॒ मर्ता᳚सश्च॒ जागृ॑विं वि॒भुं वि॒श्पतिं॒ नम॑सा॒ नि षे᳚दिरे ||{8/19}{4.5.18.3}{6.15.8}{6.1.15.8}{756, 456, 4482} त्वाम्¦दू॒तम्¦अ॒ग्ने॒¦अ॒मृत᳚म्¦यु॒गेऽयु॑गे¦ह॒व्य॒ऽवाह᳚म्¦द॒धि॒रे॒¦पा॒युम्¦ईड्य᳚म् | |
वि॒भूष᳚न्नग्न उ॒भयाँ॒, अनु᳚ व्र॒ता दू॒तो दे॒वानां॒ रज॑सी॒ समी᳚यसे |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती} यत् ते᳚ धी॒तिं सु॑म॒तिमा᳚वृणी॒महे ऽध॑ स्मा नस्त्रि॒वरू᳚थः शि॒वो भ॑व ||{9/19}{4.5.18.4}{6.15.9}{6.1.15.9}{757, 456, 4483} वि॒ऽभूष॑न्¦अ॒ग्ने॒¦उ॒भया॒न्¦अनु॑¦व्र॒ता¦दू॒तः¦दे॒वाना᳚म्¦रज॑सी॒ इति॑¦सम्¦ई॒य॒से॒ | |
तं सु॒प्रती᳚कं सु॒दृशं॒ स्वञ्च॒मवि॑द्वांसो वि॒दुष्ट॑रं सपेम |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्} स य॑क्ष॒द् विश्वा᳚ व॒युना᳚नि वि॒द्वान् प्र ह॒व्यम॒ग्निर॒मृते᳚षु वोचत् ||{10/19}{4.5.18.5}{6.15.10}{6.1.15.10}{758, 456, 4484} तम्¦सु॒ऽप्रती᳚कम्¦सु॒ऽदृश᳚म्¦सु॒।आंच᳚म्¦अवि॑द्वांसः¦वि॒दुःऽत॑रम्¦स॒पे॒म॒ | |
तम॑ग्ने पास्यु॒त तं पि॑पर्षि॒ यस्त॒ आन॑ट् क॒वये᳚ शूर धी॒तिम् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्} य॒ज्ञस्य॑ वा॒ निशि॑तिं॒ वोदि॑तिं वा॒ तमित् पृ॑णक्षि॒ शव॑सो॒त रा॒या ||{11/19}{4.5.19.1}{6.15.11}{6.1.15.11}{759, 456, 4485} तम्¦अ॒ग्ने॒¦पा॒सि॒¦उ॒त¦तम्¦पि॒प॒र्षि॒¦यः¦ते॒¦आन॑ट्¦क॒वये᳚¦शू॒र॒¦धी॒तिम् | |
त्वम॑ग्ने वनुष्य॒तो नि पा᳚हि॒ त्वमु॑ नः सहसावन्नव॒द्यात् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्} सं त्वा᳚ ध्वस्म॒न्वद॒भ्ये᳚तु॒ पाथः॒ सं र॒यिः स्पृ॑ह॒याय्यः॑ सह॒स्री ||{12/19}{4.5.19.2}{6.15.12}{6.1.15.12}{760, 456, 4486} त्वम्¦अ॒ग्ने॒¦व॒नु॒ष्य॒तः¦नि¦पा॒हि॒¦त्वम्¦ऊँ॒ इति॑¦नः॒¦स॒ह॒सा॒ऽव॒न्¦अ॒व॒द्यात् | |
अ॒ग्निर्होता᳚ गृ॒हप॑तिः॒ स राजा॒ विश्वा᳚ वेद॒ जनि॑मा जा॒तवे᳚दाः |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्} दे॒वाना᳚मु॒त यो मर्त्या᳚नां॒ यजि॑ष्ठः॒ स प्र य॑जतामृ॒तावा᳚ ||{13/19}{4.5.19.3}{6.15.13}{6.1.15.13}{761, 456, 4487} अ॒ग्निः¦होता᳚¦गृ॒हऽप॑तिः¦सः¦राजा᳚¦विश्वा᳚¦वे॒द॒¦जनि॑म¦जा॒तऽवे᳚दाः | |
अग्ने॒ यद॒द्य वि॒शो, अ॑ध्वरस्य होतः॒ पाव॑कशोचे॒ वेष्ट्वं हि यज्वा᳚ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्} ऋ॒ता य॑जासि महि॒ना वि यद् भूर्ह॒व्या व॑ह यविष्ठ॒ या ते᳚, अ॒द्य ||{14/19}{4.5.19.4}{6.15.14}{6.1.15.14}{762, 456, 4488} अग्ने᳚¦यत्¦अ॒द्य¦वि॒शः¦अ॒ध्व॒र॒स्य॒¦हो॒त॒रिति॑¦पाव॑कऽशोचे¦वेः¦त्वम्¦हि¦यज्वा᳚ | |
अ॒भि प्रयां᳚सि॒ सुधि॑तानि॒ हि ख्यो नि त्वा᳚ दधीत॒ रोद॑सी॒ यज॑ध्यै |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | शक्वरी} अवा᳚ नो मघव॒न् वाज॑साता॒वग्ने॒ विश्वा᳚नि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ||{15/19}{4.5.19.5}{6.15.15}{6.1.15.15}{763, 456, 4489} अ॒भि¦प्रयां᳚सि¦सुऽधि॑तानि¦हि¦ख्यः¦नि¦त्वा॒¦द॒धी॒त॒¦रोद॑सी॒ इति॑¦यज॑ध्यै | |
अग्ने॒ विश्वे᳚भिः स्वनीक दे॒वैरूर्णा᳚वन्तं प्रथ॒मः सी᳚द॒ योनि᳚म् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्} कु॒ला॒यिनं᳚ घृ॒तव᳚न्तं सवि॒त्रे य॒ज्ञं न॑य॒ यज॑मानाय सा॒धु ||{16/19}{4.5.20.1}{6.15.16}{6.1.15.16}{764, 456, 4490} अग्ने᳚¦विश्वे᳚भिः¦सु॒।आ॒नी॒क॒¦दे॒वैः¦ऊर्णा᳚ऽवन्तम्¦प्र॒थ॒मः¦सी॒द॒¦योनि᳚म् | |
इ॒ममु॒ त्यम॑थर्व॒वद॒ग्निं म᳚न्थन्ति वे॒धसः॑ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | अनुष्टुप्} यम᳚ङ्कू॒यन्त॒मान॑य॒न्नमू᳚रं श्या॒व्या᳚भ्यः ||{17/19}{4.5.20.2}{6.15.17}{6.1.15.17}{765, 456, 4491} इ॒मम्¦ऊँ॒ इति॑¦त्यम्¦अ॒थ॒र्व॒ऽवत्¦अ॒ग्निम्¦म॒न्थ॒न्ति॒¦वे॒धसः॑ | यम्¦अ॒ङ्कु॒ऽयन्त᳚म्¦आ¦अन॑यन्¦अमू᳚रम्¦श्या॒व्या᳚भ्यः || |
जनि॑ष्वा दे॒ववी᳚तये स॒र्वता᳚ता स्व॒स्तये᳚ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | बृहती} आ दे॒वान् व॑क्ष्य॒मृताँ᳚, ऋता॒वृधो᳚ य॒ज्ञं दे॒वेषु॑ पिस्पृशः ||{18/19}{4.5.20.3}{6.15.18}{6.1.15.18}{766, 456, 4492} जनि॑ष्व¦दे॒वऽवी᳚तये¦स॒र्वऽता᳚ता¦स्व॒स्तये᳚ | |
व॒यमु॑ त्वा गृहपते जनाना॒मग्ने॒, अक᳚र्म स॒मिधा᳚ बृ॒हन्त᳚म् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्} अ॒स्थू॒रि नो॒ गार्ह॑पत्यानि सन्तु ति॒ग्मेन॑ न॒स्तेज॑सा॒ सं शि॑शाधि ||{19/19}{4.5.20.4}{6.15.19}{6.1.15.19}{767, 456, 4493} व॒यम्¦ऊँ॒ इति॑¦त्वा॒¦गृ॒ह॒ऽप॒ते॒¦ज॒ना॒ना॒म्¦अग्ने᳚¦अक᳚र्म¦स॒म्ऽइधा᳚¦बृ॒हन्त᳚म् | |
[95] त्वमग्नेयज्ञानामित्यष्टाचत्वारिंशदृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोग्निर्गायत्री आद्याषष्ठ्यौवर्धमाने सप्तविंश्यनुष्टुप् षट्चत्वारिंशीत्रिष्टुप् अंत्येद्वेअनुष्टुभौ | |
त्वम॑ग्ने य॒ज्ञानां॒ होता॒ विश्वे᳚षां हि॒तः |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री} दे॒वेभि॒र्मानु॑षे॒ जने᳚ ||{1/48}{4.5.21.1}{6.16.1}{6.2.1.1}{768, 457, 4494} त्वम्¦अ॒ग्ने॒¦य॒ज्ञाना᳚म्¦होता᳚¦विश्वे᳚षाम्¦हि॒तः | दे॒वेभिः॑¦मानु॑षे¦जने᳚ || |
स नो᳚ म॒न्द्राभि॑रध्व॒रे जि॒ह्वाभि᳚र्यजा म॒हः |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री} आ दे॒वान् व॑क्षि॒ यक्षि॑ च ||{2/48}{4.5.21.2}{6.16.2}{6.2.1.2}{769, 457, 4495} सः¦नः॒¦म॒न्द्राभिः॑¦अ॒ध्व॒रे¦जि॒ह्वाभिः॑¦य॒ज॒¦म॒हः | आ¦दे॒वान्¦व॒क्षि॒¦यक्षि॑¦च॒ || |
वेत्था॒ हि वे᳚धो॒, अध्व॑नः प॒थश्च॑ दे॒वाञ्ज॑सा |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री} अग्ने᳚ य॒ज्ञेषु॑ सुक्रतो ||{3/48}{4.5.21.3}{6.16.3}{6.2.1.3}{770, 457, 4496} वेत्थ॑¦हि¦वे॒धः॒¦अध्व॑नः¦प॒थः¦चे॒¦दे॒व॒¦अंज॑सा | अग्ने᳚¦य॒ज्ञेषु॑¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो || |
त्वामी᳚ळे॒, अध॑ द्वि॒ता भ॑र॒तो वा॒जिभिः॑ शु॒नम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री} ई॒जे य॒ज्ञेषु॑ य॒ज्ञिय᳚म् ||{4/48}{4.5.21.4}{6.16.4}{6.2.1.4}{771, 457, 4497} त्वाम्¦ई॒ळे॒¦अध॑¦द्वि॒ता¦भ॒र॒तः¦वा॒जिऽभिः॑¦शु॒नम् | ई॒जे¦य॒ज्ञेषु॑¦य॒ज्ञिय᳚म् || |
त्वमि॒मा वार्या᳚ पु॒रु दिवो᳚दासाय सुन्व॒ते |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री} भ॒रद्वा᳚जाय दा॒शुषे᳚ ||{5/48}{4.5.21.5}{6.16.5}{6.2.1.5}{772, 457, 4498} त्वम्¦इ॒मा¦वार्या᳚¦पु॒रु¦दिवः॑ऽदासाय¦सु॒न्व॒ते | भ॒रत्ऽवा᳚जाय¦दा॒शुषे᳚ || |
त्वं दू॒तो, अम॑र्त्य॒ आ व॑हा॒ दैव्यं॒ जन᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री} शृ॒ण्वन् विप्र॑स्य सुष्टु॒तिम् ||{6/48}{4.5.22.1}{6.16.6}{6.2.1.6}{773, 457, 4499} त्वम्¦दू॒तः¦अम॑र्त्यः¦आ¦व॒ह॒¦दैव्य᳚म्¦जन᳚म् | शृ॒ण्वन्¦विप्र॑स्य¦सु॒ऽस्तु॒तिम् || |
त्वाम॑ग्ने स्वा॒ध्यो॒३॑(ओ॒) मर्ता᳚सो दे॒ववी᳚तये |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} य॒ज्ञेषु॑ दे॒वमी᳚ळते ||{7/48}{4.5.22.2}{6.16.7}{6.2.1.7}{774, 457, 4500} त्वाम्¦अ॒ग्ने॒¦सु॒ऽआ॒ध्यः॑¦मर्ता᳚सः¦दे॒वऽवी᳚तये | य॒ज्ञेषु॑¦दे॒वम्¦ई॒ळ॒ते॒ || |
तव॒ प्र य॑क्षि सं॒दृश॑मु॒त क्रतुं᳚ सु॒दान॑वः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} विश्वे᳚ जुषन्त का॒मिनः॑ ||{8/48}{4.5.22.3}{6.16.8}{6.2.1.8}{775, 457, 4501} तव॑¦प्र¦य॒क्षि॒¦स॒म्ऽदृश᳚म्¦उ॒त¦क्रतु᳚म्¦सु॒ऽदान॑वः | विश्वे᳚¦जु॒ष॒न्त॒¦का॒मिनः॑ || |
त्वं होता॒ मनु᳚र्हितो॒ वह्नि॑रा॒सा वि॒दुष्ट॑रः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अग्ने॒ यक्षि॑ दि॒वो विशः॑ ||{9/48}{4.5.22.4}{6.16.9}{6.2.1.9}{776, 457, 4502} त्वम्¦होता᳚¦मनुः॑ऽहितः¦वह्निः॑¦आ॒सा¦वि॒दुःऽत॑रः | अग्ने᳚¦यक्षि॑¦दि॒वः¦विशः॑ || |
अग्न॒ आ या᳚हि वी॒तये᳚ गृणा॒नो ह॒व्यदा᳚तये |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} नि होता᳚ सत्सि ब॒र्हिषि॑ ||{10/48}{4.5.22.5}{6.16.10}{6.2.1.10}{777, 457, 4503} अग्ने᳚¦आ¦या॒हि॒¦वी॒तये᳚¦गृ॒णा॒नः¦ह॒व्यऽदा᳚तये | नि¦होता᳚¦स॒त्सि॒¦ब॒र्हिषि॑ || |
तं त्वा᳚ स॒मिद्भि॑रङ्गिरो घृ॒तेन॑ वर्धयामसि |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} बृ॒हच्छो᳚चा यविष्ठ्य ||{11/48}{4.5.23.1}{6.16.11}{6.2.1.11}{778, 457, 4504} तम्¦त्वा॒¦स॒मित्ऽभिः॑¦अ॒ङ्गि॒रः॒¦घृ॒तेन॑¦व॒र्ध॒या॒म॒सि॒ | बृ॒हत्¦शो॒च॒¦य॒वि॒ष्ठ्य॒ || |
स नः॑ पृ॒थु श्र॒वाय्य॒मच्छा᳚ देव विवाससि |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} बृ॒हद॑ग्ने सु॒वीर्य᳚म् ||{12/48}{4.5.23.2}{6.16.12}{6.2.1.12}{779, 457, 4505} सः¦नः॒¦पृ॒थु¦श्र॒वाय्य᳚म्¦अच्छ॑¦दे॒व॒¦वि॒वा॒स॒सि॒ | बृ॒हत्¦अ॒ग्ने॒¦सु॒ऽवीर्य᳚म् || |
त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ᳚र्वा॒ निर॑मन्थत |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ||{13/48}{4.5.23.3}{6.16.13}{6.2.1.13}{780, 457, 4506} त्वाम्¦अ॒ग्ने॒¦पुष्क॑रात्¦अधि॑¦अथ᳚र्वा¦निः¦अ॒म॒न्थ॒त॒ | मू॒र्ध्नः¦विश्व॑स्य¦वा॒घतः॑ || |
तमु॑ त्वा द॒ध्यङ्ङृषिः॑ पु॒त्र ई᳚धे॒, अथ᳚र्वणः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} वृ॒त्र॒हणं᳚ पुरंद॒रम् ||{14/48}{4.5.23.4}{6.16.14}{6.2.1.14}{781, 457, 4507} तम्¦ऊँ॒ इति॑¦त्वा॒¦द॒ध्यङ्¦ऋषिः॑¦पु॒त्रः¦ई॒धे॒¦अथ᳚र्वणः | वृ॒त्र॒ऽहन᳚म्¦पु॒र॒म्ऽद॒रम् || |
तमु॑ त्वा पा॒थ्यो वृषा॒ समी᳚धे दस्यु॒हन्त॑मम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} ध॒नं॒ज॒यं रणे᳚रणे ||{15/48}{4.5.23.5}{6.16.15}{6.2.1.15}{782, 457, 4508} तम्¦ऊँ॒ इति॑¦त्वा॒¦पा॒थ्यः¦वृषा᳚¦सम्¦ई॒धे॒¦द॒स्यु॒हन्ऽत॑मम् | ध॒न॒म्ऽज॒यम्¦रणे᳚ऽरणे || |
एह्यू॒ षु ब्रवा᳚णि॒ ते ऽग्न॑ इ॒त्थेत॑रा॒ गिरः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} ए॒भिर्व॑र्धास॒ इन्दु॑भिः ||{16/48}{4.5.24.1}{6.16.16}{6.2.1.16}{783, 457, 4509} आ¦इ॒हि॒¦ऊँ॒ इति॑¦सु¦ब्रवा᳚णि¦ते॒¦अग्ने᳚¦इ॒त्था¦इत॑राः¦गिरः॑ | ए॒भिः¦व॒र्धा॒से॒¦इन्दु॑ऽभिः || |
यत्र॒ क्व॑ च ते॒ मनो॒ दक्षं᳚ दधस॒ उत्त॑रम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} तत्रा॒ सदः॑ कृणवसे ||{17/48}{4.5.24.2}{6.16.17}{6.2.1.17}{784, 457, 4510} यत्र॑¦क्व॑¦च॒¦ते॒¦मनः॑¦दक्ष᳚म्¦द॒ध॒से॒¦उत्ऽत॑रम् | तत्र॑¦सदः॑¦कृ॒ण॒व॒से॒ || |
न॒हि ते᳚ पू॒र्तम॑क्षि॒पद् भुव᳚न्नेमानां वसो |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अथा॒ दुवो᳚ वनवसे ||{18/48}{4.5.24.3}{6.16.18}{6.2.1.18}{785, 457, 4511} न॒हि¦ते॒¦पू॒रम्¦अ॒क्षि॒ऽपत्¦भुव॑त्¦ने॒मा॒ना॒म्¦व॒सो॒ इति॑ | अथ॑¦दुवः॑¦व॒न॒व॒से॒ || |
आग्निर॑गामि॒ भार॑तो वृत्र॒हा पु॑रु॒चेत॑नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} दिवो᳚दासस्य॒ सत्प॑तिः ||{19/48}{4.5.24.4}{6.16.19}{6.2.1.19}{786, 457, 4512} आ¦अ॒ग्निः¦अ॒गा॒मि॒¦भार॑तः¦वृ॒त्र॒ऽहा¦पु॒रु॒ऽचेत॑नः | दिवः॑ऽदासस्य¦सत्ऽप॑तिः || |
स हि विश्वाति॒ पार्थि॑वा र॒यिं दाश᳚न्महित्व॒ना |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} व॒न्वन्नवा᳚तो॒, अस्तृ॑तः ||{20/48}{4.5.24.5}{6.16.20}{6.2.1.20}{787, 457, 4513} सः¦हि¦विश्वा᳚¦अति॑¦पार्थि॑वा¦र॒यिम्¦दाश॑त्¦म॒हि॒ऽत्व॒ना | व॒न्वन्¦अवा᳚तः¦अस्तृ॑तः || |
स प्र॑त्न॒वन्नवी᳚य॒सा ऽग्ने᳚ द्यु॒म्नेन॑ सं॒यता᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} बृ॒हत् त॑तन्थ भा॒नुना᳚ ||{21/48}{4.5.25.1}{6.16.21}{6.2.1.21}{788, 457, 4514} सः¦प्र॒त्न॒ऽवत्¦नवी᳚यसा¦अग्ने᳚¦द्यु॒म्नेन॑¦स॒म्ऽयता᳚ | बृ॒हत्¦त॒त॒न्थ॒¦भा॒नुना᳚ || |
प्र वः॑ सखायो, अ॒ग्नये॒ स्तोमं᳚ य॒ज्ञं च॑ धृष्णु॒या |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अर्च॒ गाय॑ च वे॒धसे᳚ ||{22/48}{4.5.25.2}{6.16.22}{6.2.1.22}{789, 457, 4515} प्र¦वः॒¦स॒खा॒यः॒¦अ॒ग्नये᳚¦स्तोम᳚म्¦य॒ज्ञम्¦च॒¦धृ॒ष्णु॒ऽया | अर्च॑¦गाय॑¦च॒¦वे॒धसे᳚ || |
स हि यो मानु॑षा यु॒गा सीद॒द्धोता᳚ क॒विक्र॑तुः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} दू॒तश्च॑ हव्य॒वाह॑नः ||{23/48}{4.5.25.3}{6.16.23}{6.2.1.23}{790, 457, 4516} सः¦हि¦यः¦मानु॑षा¦यु॒गा¦सीद॑त्¦होता᳚¦क॒विऽक्र॑तुः | दू॒तः¦च॒¦ह॒व्य॒ऽवाह॑नः || |
ता राजा᳚ना॒ शुचि᳚व्रता ऽऽदि॒त्यान् मारु॑तं ग॒णम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} वसो॒ यक्षी॒ह रोद॑सी ||{24/48}{4.5.25.4}{6.16.24}{6.2.1.24}{791, 457, 4517} ता¦राजा᳚ना¦शुचि॑ऽव्रता¦आ॒दि॒त्यान्¦मारु॑तम्¦ग॒णम् | वसो॒ इति॑¦यक्षि॑¦इ॒ह¦रोद॑सी॒ इति॑ || |
वस्वी᳚ ते, अग्ने॒ संदृ॑ष्टिरिषय॒ते मर्त्या᳚य |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} ऊर्जो᳚ नपाद॒मृत॑स्य ||{25/48}{4.5.25.5}{6.16.25}{6.2.1.25}{792, 457, 4518} वस्वी᳚¦ते॒¦अ॒ग्ने॒¦सम्ऽदृ॑ष्टिः¦इ॒ष॒ऽय॒ते¦मर्त्या᳚य | ऊर्जः॑¦न॒पा॒त्¦अ॒मृत॑स्य || |
क्रत्वा॒ दा, अ॑स्तु॒ श्रेष्ठो॒ ऽद्य त्वा᳚ व॒न्वन् त्सु॒रेक्णाः᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} मर्त॑ आनाश सुवृ॒क्तिम् ||{26/48}{4.5.26.1}{6.16.26}{6.2.1.26}{793, 457, 4519} क्रत्वा᳚¦दाः¦अ॒स्तु॒¦श्रेष्ठः॑¦अ॒द्य¦त्वा॒¦व॒न्वन्¦सु॒ऽरेक्णाः᳚ | मर्तः॑¦आ॒ना॒श॒¦सु॒ऽवृ॒क्तिम् || |
ते ते᳚, अग्ने॒ त्वोता᳚, इ॒षय᳚न्तो॒ विश्व॒मायुः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} तर᳚न्तो, अ॒र्यो, अरा᳚तीर्व॒न्वन्तो᳚, अ॒र्यो, अरा᳚तीः ||{27/48}{4.5.26.2}{6.16.27}{6.2.1.27}{794, 457, 4520} ते¦ते॒¦अ॒ग्ने॒¦त्वाऽऊ᳚ताः¦इ॒षय᳚न्तः¦विश्व᳚म्¦आयुः॑ | तर᳚न्तः¦अ॒र्यः¦अरा᳚तीः¦व॒न्वन्तः॑¦अ॒र्यः¦अरा᳚तीः || |
अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यास॒द् विश्वं॒ न्य१॑(अ॒)त्रिण᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अ॒ग्निर्नो᳚ वनते र॒यिम् ||{28/48}{4.5.26.3}{6.16.28}{6.2.1.28}{795, 457, 4521} अ॒ग्निः¦ति॒ग्मेन॑¦शो॒चिषा᳚¦यास॑त्¦विश्व᳚म्¦नि¦अ॒त्रिण᳚म् | अ॒ग्निः¦नः॒¦व॒न॒ते॒¦र॒यिम् || |
सु॒वीरं᳚ र॒यिमा भ॑र॒ जात॑वेदो॒ विच॑र्षणे |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} ज॒हि रक्षां᳚सि सुक्रतो ||{29/48}{4.5.26.4}{6.16.29}{6.2.1.29}{796, 457, 4522} सु॒ऽवीर᳚म्¦र॒यिम्¦आ¦भ॒र॒¦जात॑ऽवेदः¦विऽच॑र्षणे | ज॒हि¦रक्षां᳚सि¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो || |
त्वं नः॑ पा॒ह्यंह॑सो॒ जात॑वेदो, अघाय॒तः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} रक्षा᳚ णो ब्रह्मणस्कवे ||{30/48}{4.5.26.5}{6.16.30}{6.2.1.30}{797, 457, 4523} त्वम्¦नः॒¦पा॒हि॒¦अंह॑सः¦जात॑ऽवेदः¦अ॒घ॒ऽय॒तः | रक्ष॑¦नः॒¦ब्र॒ह्म॒णः॒¦क॒वे॒ || |
यो नो᳚, अग्ने दु॒रेव॒ आ मर्तो᳚ व॒धाय॒ दाश॑ति |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} तस्मा᳚न्नः पा॒ह्यंह॑सः ||{31/48}{4.5.27.1}{6.16.31}{6.2.1.31}{798, 457, 4524} यः¦नः॒¦अ॒ग्ने॒¦दुः॒ऽएवः॑¦आ¦मर्तः॑¦व॒धाय॑¦दाश॑ति | तस्मा᳚त्¦नः॒¦पा॒हि॒¦अंह॑सः || |
त्वं तं दे᳚व जि॒ह्वया॒ परि॑ बाधस्व दु॒ष्कृत᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} मर्तो॒ यो नो॒ जिघां᳚सति ||{32/48}{4.5.27.2}{6.16.32}{6.2.1.32}{799, 457, 4525} त्वम्¦तम्¦दे॒व॒¦जि॒ह्वया᳚¦परि॑¦बा॒ध॒स्व॒¦दुः॒ऽकृत᳚म् | मर्तः॑¦यः¦नः॒¦जिघां᳚सति || |
भ॒रद्वा᳚जाय स॒प्रथः॒ शर्म॑ यच्छ सहन्त्य |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अग्ने॒ वरे᳚ण्यं॒ वसु॑ ||{33/48}{4.5.27.3}{6.16.33}{6.2.1.33}{800, 457, 4526} भ॒रत्ऽवा᳚जाय¦स॒ऽप्रथः॑¦शर्म॑¦य॒च्छ॒¦स॒ह॒न्त्य॒ | अग्ने᳚¦वरे᳚ण्यम्¦वसु॑ || |
अ॒ग्निर्वृ॒त्राणि॑ जङ्घनद् द्रविण॒स्युर्वि॑प॒न्यया᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} समि॑द्धः शु॒क्र आहु॑तः ||{34/48}{4.5.27.4}{6.16.34}{6.2.1.34}{801, 457, 4527} अ॒ग्निः¦वृ॒त्राणि॑¦ज॒ङ्घ॒न॒त्¦द्र॒वि॒ण॒स्युः¦वि॒प॒न्यया᳚ | सम्ऽइ᳚द्धः¦शु॒क्रः¦आऽहु॑तः || |
गर्भे᳚ मा॒तुः पि॒तुष्पि॒ता वि॑दिद्युता॒नो, अ॒क्षरे᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} सीद᳚न्नृ॒तस्य॒ योनि॒मा ||{35/48}{4.5.27.5}{6.16.35}{6.2.1.35}{802, 457, 4528} गर्भे᳚¦मा॒तुः¦पि॒तुः¦पि॒ता¦वि॒ऽदि॒द्यु॒ता॒नः¦अ॒क्षरे᳚ | सीद॑न्¦ऋ॒तस्य॑¦योनि᳚म्¦आ || |
ब्रह्म॑ प्र॒जाव॒दा भ॑र॒ जात॑वेदो॒ विच॑र्षणे |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अग्ने॒ यद् दी॒दय॑द् दि॒वि ||{36/48}{4.5.28.1}{6.16.36}{6.2.1.36}{803, 457, 4529} ब्रह्म॑¦प्र॒जाऽव॑त्¦आ¦भ॒र॒¦जात॑ऽवेदः¦विऽच॑र्षणे | अग्ने᳚¦यत्¦दी॒दय॑त्¦दि॒वि || |
उप॑ त्वा र॒ण्वसं᳚दृशं॒ प्रय॑स्वन्तः सहस्कृत |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अग्ने᳚ ससृ॒ज्महे॒ गिरः॑ ||{37/48}{4.5.28.2}{6.16.37}{6.2.1.37}{804, 457, 4530} उप॑¦त्वा॒¦र॒ण्वऽसं᳚दृशम्¦प्रय॑स्वन्तः¦स॒हः॒ऽकृ॒त॒ | अग्ने᳚¦स॒सृ॒ज्महे᳚¦गिरः॑ || |
उप॑ च्छा॒यामि॑व॒ घृणे॒रग᳚न्म॒ शर्म॑ ते व॒यम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अग्ने॒ हिर᳚ण्यसंदृशः ||{38/48}{4.5.28.3}{6.16.38}{6.2.1.38}{805, 457, 4531} उप॑¦छा॒याम्ऽइ᳚व¦घृणेः᳚¦अग᳚न्म¦शर्म॑¦ते॒¦व॒यम् | अग्ने᳚¦हिर᳚ण्यऽसंदृशः || |
य उ॒ग्र इ॑व शर्य॒हा ति॒ग्मशृ᳚ङ्गो॒ न वंस॑गः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अग्ने॒ पुरो᳚ रु॒रोजि॑थ ||{39/48}{4.5.28.4}{6.16.39}{6.2.1.39}{806, 457, 4532} यः¦उ॒ग्रःऽइ᳚व¦श॒र्य॒ऽहा¦ति॒ग्मऽशृ᳚ङ्गः¦न¦वंस॑गः | अग्ने᳚¦पुरः॑¦रु॒रोजि॑थ || |
आ यं हस्ते॒ न खा॒दिनं॒ शिशुं᳚ जा॒तं न बिभ्र॑ति |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} वि॒शाम॒ग्निं स्व॑ध्व॒रम् ||{40/48}{4.5.28.5}{6.16.40}{6.2.1.40}{807, 457, 4533} आ¦यम्¦हस्ते᳚¦न¦खा॒दिन᳚म्¦शिशु᳚म्¦जा॒तम्¦न¦बिभ्र॑ति | वि॒शाम्¦अ॒ग्निम्¦सु॒।आ॒ध्व॒रम् || |
प्र दे॒वं दे॒ववी᳚तये॒ भर॑ता वसु॒वित्त॑मम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} आ स्वे योनौ॒ नि षी᳚दतु ||{41/48}{4.5.29.1}{6.16.41}{6.2.1.41}{808, 457, 4534} प्र¦दे॒वम्¦दे॒वऽवी᳚तये¦भर॑त¦व॒सु॒वित्ऽत॑मम् | आ¦स्वे¦योनौ᳚¦नि¦सी॒द॒तु॒ || |
आ जा॒तं जा॒तवे᳚दसि प्रि॒यं शि॑शी॒ताति॑थिम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} स्यो॒न आ गृ॒हप॑तिम् ||{42/48}{4.5.29.2}{6.16.42}{6.2.1.42}{809, 457, 4535} आ¦जा॒तम्¦जा॒तऽवे᳚दसि¦प्रि॒यम्¦शि॒शी॒त॒¦अति॑थिम् | स्यो॒ने¦आ¦गृ॒हऽप॑तिम् || |
अग्ने᳚ यु॒क्ष्वा हि ये तवा ऽश्वा᳚सो देव सा॒धवः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अरं॒ वह᳚न्ति म॒न्यवे᳚ ||{43/48}{4.5.29.3}{6.16.43}{6.2.1.43}{810, 457, 4536} अग्ने᳚¦यु॒क्ष्व¦हि¦ये¦तव॑¦अश्वा᳚सः¦दे॒व॒¦सा॒धवः॑ | अर᳚म्¦वह᳚न्ति¦म॒न्यवे᳚ || |
अच्छा᳚ नो या॒ह्या व॑हा॒अभि प्रयां᳚सि वी॒तये᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} आ दे॒वान् त्सोम॑पीतये ||{44/48}{4.5.29.4}{6.16.44}{6.2.1.44}{811, 457, 4537} अच्छ॑¦नः॒¦या॒हि॒¦आ¦व॒ह॒¦अ॒भि¦प्रयां᳚सि¦वी॒तये᳚ | आ¦दे॒वान्¦सोम॑ऽपीतये || |
उद॑ग्ने भारत द्यु॒मदज॑स्रेण॒ दवि॑द्युतत् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} शोचा॒ वि भा᳚ह्यजर ||{45/48}{4.5.29.5}{6.16.45}{6.2.1.45}{812, 457, 4538} उत्¦अ॒ग्ने॒¦भा॒र॒त॒¦द्यु॒ऽमत्¦अज॑स्रेण¦दवि॑द्युतत् | शोच॑¦वि¦भा॒हि॒¦अ॒ज॒र॒ || |
वी॒ती यो दे॒वं मर्तो᳚ दुव॒स्येद॒ग्निमी᳚ळीताध्व॒रे ह॒विष्मा॑न् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} होता᳚रं सत्य॒यजं॒ रोद॑स्योरुत्ता॒नह॑स्तो॒ नम॒सा वि॑वासेत् ||{46/48}{4.5.30.1}{6.16.46}{6.2.1.46}{813, 457, 4539} वी॒ती¦यः¦दे॒वम्¦मर्तः॑¦दु॒व॒स्येत्¦अ॒ग्निम्¦ई॒ळी॒त॒¦अ॒ध्व॒रे¦ह॒विष्मा॑न् | |
आ ते᳚, अग्न ऋ॒चा ह॒विर्हृ॒दा त॒ष्टं भ॑रामसि |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} ते ते᳚ भवन्तू॒क्षण॑ ऋष॒भासो᳚ व॒शा, उ॒त ||{47/48}{4.5.30.2}{6.16.47}{6.2.1.47}{814, 457, 4540} आ¦ते॒¦अ॒ग्ने॒¦ऋ॒चा¦ह॒विः¦हृ॒दा¦त॒ष्टम्¦भ॒रा॒म॒सि॒ | ते¦ते॒¦भ॒व॒न्तु॒¦उ॒क्षणः॑¦ऋ॒ष॒भासः॑¦व॒शाः¦उ॒त || |
अ॒ग्निं दे॒वासो᳚, अग्रि॒यमि॒न्धते᳚ वृत्र॒हन्त॑मम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} येना॒ वसू॒न्याभृ॑ता तृ॒ळ्हा रक्षां᳚सि वा॒जिना᳚ ||{48/48}{4.5.30.3}{6.16.48}{6.2.1.48}{815, 457, 4541} अ॒ग्निम्¦दे॒वासः॑¦अ॒ग्रि॒यम्¦इ॒न्धते᳚¦वृ॒त्र॒हन्ऽत॑मम् | येन॑¦वसू᳚नि¦आऽभृ॑ता¦तृ॒ळ्हा¦रक्षां᳚सि¦वा॒जिना᳚ || |
[96] पिबासोममिति पंचदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजइंद्रत्रिष्टुंबंत्याद्विपदात्रिष्टुप् | |
पिबा॒ सोम॑म॒भि यमु॑ग्र॒ तर्द॑ ऊ॒र्वं गव्यं॒ महि॑ गृणा॒न इ᳚न्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वि यो धृ॑ष्णो॒ वधि॑षो वज्रहस्त॒ विश्वा᳚ वृ॒त्रम॑मि॒त्रिया॒ शवो᳚भिः ||{1/15}{4.6.1.1}{6.17.1}{6.2.2.1}{816, 458, 4542} पिब॑¦सोम᳚म्¦अ॒भि¦यम्¦उ॒ग्र॒¦तर्दः॑¦ऊ॒र्वम्¦गव्य᳚म्¦महि॑¦गृ॒णा॒नः¦इ॒न्द्र॒ | |
स ईं᳚ पाहि॒ य ऋ॑जी॒षी तरु॑त्रो॒ यः शिप्र॑वान् वृष॒भो यो म॑ती॒नाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यो गो᳚त्र॒भिद् व॑ज्र॒भृद् यो ह॑रि॒ष्ठाः स इ᳚न्द्र चि॒त्राँ, अ॒भि तृ᳚न्धि॒ वाजा॑न् ||{2/15}{4.6.1.2}{6.17.2}{6.2.2.2}{817, 458, 4543} सः¦ई॒म्¦पा॒हि॒¦यः¦ऋ॒जी॒षी¦तरु॑त्रः¦यः¦शिप्र॑ऽवान्¦वृ॒ष॒भः¦यः¦म॒ती॒नाम् | |
ए॒वा पा᳚हि प्र॒त्नथा॒ मन्द॑तु त्वा श्रु॒धि ब्रह्म॑ वावृ॒धस्वो॒त गी॒र्भिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} आ॒विः सूर्यं᳚ कृणु॒हि पी᳚पि॒हीषो᳚ ज॒हि शत्रूँ᳚र॒भि गा, इ᳚न्द्र तृन्धि ||{3/15}{4.6.1.3}{6.17.3}{6.2.2.3}{818, 458, 4544} ए॒व¦पा॒हि॒¦प्र॒त्नऽथा᳚¦मन्द॑तु¦त्वा॒¦श्रु॒धि¦ब्रह्म॑¦व॒वृ॒धस्व॑¦उ॒त¦गीः॒ऽभिः | |
ते त्वा॒ मदा᳚ बृ॒हदि᳚न्द्र स्वधाव इ॒मे पी॒ता, उ॑क्षयन्त द्यु॒मन्त᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} म॒हामनू᳚नं त॒वसं॒ विभू᳚तिं मत्स॒रासो᳚ जर्हृषन्त प्र॒साह᳚म् ||{4/15}{4.6.1.4}{6.17.4}{6.2.2.4}{819, 458, 4545} ते¦त्वा॒¦मदाः᳚¦बृ॒हत्¦इ॒न्द्र॒¦स्व॒धा॒ऽवः॒¦इ॒मे¦पी॒ताः¦उ॒क्ष॒य॒न्त॒¦द्यु॒ऽमन्त᳚म् | |
येभिः॒ सूर्य॑मु॒षसं᳚ मन्दसा॒नो ऽवा᳚स॒योऽप॑ दृ॒ळ्हानि॒ दर्द्र॑त् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} म॒हामद्रिं॒ परि॒ गा, इ᳚न्द्र॒ सन्तं᳚ नु॒त्था, अच्यु॑तं॒ सद॑स॒स्परि॒ स्वात् ||{5/15}{4.6.1.5}{6.17.5}{6.2.2.5}{820, 458, 4546} येभिः॑¦सूर्य᳚म्¦उ॒षस᳚म्¦म॒न्द॒सा॒नः¦अवा᳚सयः¦अप॑¦दृ॒ळ्हानि॑¦दर्द्र॑त् | |
तव॒ क्रत्वा॒ तव॒ तद् दं॒सना᳚भिरा॒मासु॑ प॒क्वं शच्या॒ नि दी᳚धः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} और्णो॒र्दुर॑ उ॒स्रिया᳚भ्यो॒ वि दृ॒ळ्होदू॒र्वाद् गा, अ॑सृजो॒, अङ्गि॑रस्वान् ||{6/15}{4.6.2.1}{6.17.6}{6.2.2.6}{821, 458, 4547} तव॑¦क्रत्वा᳚¦तव॑¦तत्¦दं॒सना᳚भिः¦आ॒मासु॑¦प॒क्वम्¦शच्या᳚¦नि¦दी॒ध॒रिति॑ दीधः | |
प॒प्राथ॒ क्षां महि॒ दंसो॒ व्यु१॑(उ॒)र्वीमुप॒ द्यामृ॒ष्वो बृ॒हदि᳚न्द्र स्तभायः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अधा᳚रयो॒ रोद॑सी दे॒वपु॑त्रे प्र॒त्ने मा॒तरा᳚ य॒ह्वी, ऋ॒तस्य॑ ||{7/15}{4.6.2.2}{6.17.7}{6.2.2.7}{822, 458, 4548} प॒प्राथ॑¦क्षाम्¦महि॑¦दंसः॑¦वि¦उ॒र्वीम्¦उप॑¦द्याम्¦ऋ॒ष्वः¦बृ॒हत्¦इ॒न्द्र॒¦स्त॒भा॒यः॒ | |
अध॑ त्वा॒ विश्वे᳚ पु॒र इ᳚न्द्र दे॒वा, एकं᳚ त॒वसं᳚ दधिरे॒ भरा᳚य |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अदे᳚वो॒ यद॒भ्यौहि॑ष्ट दे॒वान् त्स्व॑र्षाता वृणत॒ इन्द्र॒मत्र॑ ||{8/15}{4.6.2.3}{6.17.8}{6.2.2.8}{823, 458, 4549} अध॑¦त्वा॒¦विश्वे᳚¦पु॒रः¦इ॒न्द्र॒¦दे॒वाः¦एक᳚म्¦त॒वस᳚म्¦द॒धि॒रे॒¦भरा᳚य | |
अध॒ द्यौश्चि॑त् ते॒, अप॒ सा नु वज्रा᳚द् द्वि॒तान॑मद् भि॒यसा॒ स्वस्य॑ म॒न्योः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अहिं॒ यदिन्द्रो᳚, अ॒भ्योह॑सानं॒ नि चि॑द् वि॒श्वायुः॑ श॒यथे᳚ ज॒घान॑ ||{9/15}{4.6.2.4}{6.17.9}{6.2.2.9}{824, 458, 4550} अध॑¦द्यौः¦चि॒त्¦ते॒¦अप॑¦सा¦नु¦वज्रा᳚त्¦द्वि॒ता¦अ॒न॒म॒त्¦भि॒यसा᳚¦स्वस्य॑¦म॒न्योः | |
अध॒ त्वष्टा᳚ ते म॒ह उ॑ग्र॒ वज्रं᳚ स॒हस्र॑भृष्टिं ववृतच्छ॒ताश्रि᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} निका᳚मम॒रम॑णसं॒ येन॒ नव᳚न्त॒महिं॒ सं पि॑णगृजीषिन् ||{10/15}{4.6.2.5}{6.17.10}{6.2.2.10}{825, 458, 4551} अध॑¦त्वष्टा᳚¦ते॒¦म॒हः¦उ॒ग्र॒¦वज्र᳚म्¦स॒हस्र॑ऽभृष्टिम्¦व॒वृ॒त॒त्¦श॒त।आ॑श्रिम् | |
वर्धा॒न् यं विश्वे᳚ म॒रुतः॑ स॒जोषाः॒ पच॑च्छ॒तं म॑हि॒षाँ, इ᳚न्द्र॒ तुभ्य᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} पू॒षा विष्णु॒स्त्रीणि॒ सरां᳚सि धावन् वृत्र॒हणं᳚ मदि॒रमं॒शुम॑स्मै ||{11/15}{4.6.3.1}{6.17.11}{6.2.2.11}{826, 458, 4552} वर्धा᳚न्¦यम्¦विश्वे᳚¦म॒रुतः॑¦स॒ऽजोषाः᳚¦पच॑त्¦श॒तम्¦म॒हि॒षान्¦इ॒न्द्र॒¦तुभ्य᳚म् | |
आ क्षोदो॒ महि॑ वृ॒तं न॒दीनां॒ परि॑ष्ठितमसृज ऊ॒र्मिम॒पाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तासा॒मनु॑ प्र॒वत॑ इन्द्र॒ पन्थां॒ प्रार्द॑यो॒ नीची᳚र॒पसः॑ समु॒द्रम् ||{12/15}{4.6.3.2}{6.17.12}{6.2.2.12}{827, 458, 4553} आ¦क्षोदः॑¦महि॑¦वृ॒तम्¦न॒दीना᳚म्¦परि॑ऽस्थितम्¦अ॒सृ॒जः॒¦ऊ॒र्मिम्¦अ॒पाम् | |
ए॒वा ता विश्वा᳚ चकृ॒वांस॒मिन्द्रं᳚ म॒हामु॒ग्रम॑जु॒र्यं स॑हो॒दाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} सु॒वीरं᳚ त्वा स्वायु॒धं सु॒वज्र॒मा ब्रह्म॒ नव्य॒मव॑से ववृत्यात् ||{13/15}{4.6.3.3}{6.17.13}{6.2.2.13}{828, 458, 4554} ए॒व¦ता¦विश्वा᳚¦च॒कृ॒ऽवांस᳚म्¦इन्द्र᳚म्¦म॒हाम्¦उ॒ग्रम्¦अ॒जु॒र्यम्¦स॒हः॒ऽदाम् | |
स नो॒ वाजा᳚य॒ श्रव॑स इ॒षे च॑ रा॒ये धे᳚हि द्यु॒मत॑ इन्द्र॒ विप्रा॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} भ॒रद्वा᳚जे नृ॒वत॑ इन्द्र सू॒रीन् दि॒वि च॑ स्मैधि॒ पार्ये᳚ न इन्द्र ||{14/15}{4.6.3.4}{6.17.14}{6.2.2.14}{829, 458, 4555} सः¦नः॒¦वाजा᳚य¦श्रव॑से¦इ॒षे¦च॒¦रा॒ये¦धे॒हि॒¦द्यु॒ऽमतः॑¦इ॒न्द्र॒¦विप्रा॑न् | |
अ॒या वाजं᳚ दे॒वहि॑तं सनेम॒ मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{बार्हस्पत्यो भरद्वाजः | इन्द्रः | द्विपदात्रिष्टुप्}{15/15}{4.6.3.5}{6.17.15}{6.2.2.15}{830, 458, 4556} |
[97] तमुष्नुहीति पंचदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् | |
तमु॑ ष्टुहि॒ यो, अ॒भिभू᳚त्योजा व॒न्वन्नवा᳚तः पुरुहू॒त इन्द्रः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अषा᳚ळ्हमु॒ग्रं सह॑मानमा॒भिर्गी॒र्भिर्व॑र्ध वृष॒भं च॑र्षणी॒नाम् ||{1/15}{4.6.4.1}{6.18.1}{6.2.3.1}{831, 459, 4557} तम्¦ऊँ॒ इति॑¦स्तु॒हि॒¦यः¦अ॒भिभू᳚तिऽओजाः¦व॒न्वन्¦अवा᳚तः¦पु॒रु॒ऽहू॒तः¦इन्द्रः॑ | |
स यु॒ध्मः सत्वा᳚ खज॒कृत् स॒मद्वा᳚ तुविम्र॒क्षो न॑दनु॒माँ, ऋ॑जी॒षी |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} बृ॒हद्रे᳚णु॒श्च्यव॑नो॒ मानु॑षीणा॒मेकः॑ कृष्टी॒नाम॑भवत् स॒हावा᳚ ||{2/15}{4.6.4.2}{6.18.2}{6.2.3.2}{832, 459, 4558} सः¦यु॒ध्मः¦सत्वा᳚¦ख॒ज॒ऽकृत्¦स॒मत्ऽवा᳚¦तु॒वि॒ऽम्र॒क्षः¦न॒द॒नु॒ऽमान्¦ऋ॒जी॒षी | |
त्वं ह॒ नु त्यद॑दमायो॒ दस्यूँ॒रेकः॑ कृ॒ष्टीर॑वनो॒रार्या᳚य |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अस्ति॑ स्वि॒न्नु वी॒र्य१॑(अं॒) तत् त॑ इन्द्र॒ न स्वि॑दस्ति॒ तदृ॑तु॒था वि वो᳚चः ||{3/15}{4.6.4.3}{6.18.3}{6.2.3.3}{833, 459, 4559} त्वम्¦ह॒¦नु¦त्यत्¦अ॒द॒म॒यः॒¦दस्यू᳚न्¦एकः॑¦कृ॒ष्टीः¦अ॒व॒नोः॒¦आर्या᳚य | |
सदिद्धि ते᳚ तुविजा॒तस्य॒ मन्ये॒ सहः॑ सहिष्ठ तुर॒तस्तु॒रस्य॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} उ॒ग्रमु॒ग्रस्य॑ त॒वस॒स्तवी॒यो ऽर॑ध्रस्य रध्र॒तुरो᳚ बभूव ||{4/15}{4.6.4.4}{6.18.4}{6.2.3.4}{834, 459, 4560} सत्¦इत्¦हि¦ते॒¦तु॒वि॒ऽजा॒तस्य॑¦मन्ये᳚¦सहः॑¦स॒हि॒ष्ठ॒¦तु॒र॒तः¦तु॒रस्य॑ | |
तन्नः॑ प्र॒त्नं स॒ख्यम॑स्तु यु॒ष्मे, इ॒त्था वद॑द्भिर्व॒लमङ्गि॑रोभिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} हन्न॑च्युतच्युद् दस्मे॒षय᳚न्तमृ॒णोः पुरो॒ वि दुरो᳚, अस्य॒ विश्वाः᳚ ||{5/15}{4.6.4.5}{6.18.5}{6.2.3.5}{835, 459, 4561} तत्¦नः॒¦प्र॒त्नम्¦स॒ख्यम्¦अ॒स्तु॒¦यु॒ष्मे इति॑¦इ॒त्था¦वद॑त्ऽभिः¦व॒लम्¦अङ्गि॑रःऽभिः | |
स हि धी॒भिर्हव्यो॒, अस्त्यु॒ग्र ई᳚शान॒कृन्म॑ह॒ति वृ॑त्र॒तूर्ये᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} स तो॒कसा᳚ता॒ तन॑ये॒ स व॒ज्री वि॑तन्त॒साय्यो᳚, अभवत् स॒मत्सु॑ ||{6/15}{4.6.5.1}{6.18.6}{6.2.3.6}{836, 459, 4562} सः¦हि¦धी॒भिः¦हव्यः॑¦अस्ति॑¦उ॒ग्रः¦ई॒शा॒न॒ऽकृत्¦म॒ह॒ति¦वृ॒त्र॒ऽतूर्ये᳚ | |
स म॒ज्मना॒ जनि॑म॒ मानु॑षाणा॒मम॑र्त्येन॒ नाम्नाति॒ प्र स॑र्स्रे |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} स द्यु॒म्नेन॒ स शव॑सो॒त रा॒या स वी॒र्ये᳚ण॒ नृत॑मः॒ समो᳚काः ||{7/15}{4.6.5.2}{6.18.7}{6.2.3.7}{837, 459, 4563} सः¦म॒ज्मना᳚¦जनि॑म¦मानु॑षाणाम्¦अम॑र्त्येन¦नाम्ना᳚¦अति॑¦प्र¦स॒र्स्रे॒ | |
स यो न मु॒हे न मिथू॒ जनो॒ भूत् सु॒मन्तु॑नामा॒ चुमु॑रिं॒ धुनिं᳚ च |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वृ॒णक् पिप्रुं॒ शम्ब॑रं॒ शुष्ण॒मिन्द्रः॑ पु॒रां च्यौ॒त्नाय॑ श॒यथा᳚य॒ नू चि॑त् ||{8/15}{4.6.5.3}{6.18.8}{6.2.3.8}{838, 459, 4564} सः¦यः¦न¦मु॒हे¦न¦मिथु॑¦जनः॑¦भूत्¦सु॒मन्तु॑ऽनामा¦चुमु॑रिम्¦धुनि᳚म्¦च॒ | |
उ॒दाव॑ता॒ त्वक्ष॑सा॒ पन्य॑सा च वृत्र॒हत्या᳚य॒ रथ॑मिन्द्र तिष्ठ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} धि॒ष्व वज्रं॒ हस्त॒ आ द॑क्षिण॒त्रा ऽभि प्र म᳚न्द पुरुदत्र मा॒याः ||{9/15}{4.6.5.4}{6.18.9}{6.2.3.9}{839, 459, 4565} उ॒त्।आव॑ता¦त्वक्ष॑सा¦पन्य॑सा¦च॒¦वृ॒त्र॒ऽहत्या᳚य¦रथ᳚म्¦इ॒न्द्र॒¦ति॒ष्ठ॒ | |
अ॒ग्निर्न शुष्कं॒ वन॑मिन्द्र हे॒ती रक्षो॒ नि ध॑क्ष्य॒शनि॒र्न भी॒मा |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} ग॒म्भी॒रय॑ ऋ॒ष्वया॒ यो रु॒रोजाध्वा᳚नयद् दुरि॒ता द॒म्भय॑च्च ||{10/15}{4.6.5.5}{6.18.10}{6.2.3.10}{840, 459, 4566} अ॒ग्निः¦न¦शुष्क᳚म्¦वन᳚म्¦इ॒न्द्र॒¦हे॒ती¦रक्षः॑¦नि¦ध॒क्षि॒¦अ॒शनिः॑¦न¦भी॒मा | |
आ स॒हस्रं᳚ प॒थिभि॑रिन्द्र रा॒या तुवि॑द्युम्न तुवि॒वाजे᳚भिर॒र्वाक् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} या॒हि सू᳚नो सहसो॒ यस्य॒ नू चि॒ददे᳚व॒ ईशे᳚ पुरुहूत॒ योतोः᳚ ||{11/15}{4.6.6.1}{6.18.11}{6.2.3.11}{841, 459, 4567} आ¦स॒हस्र᳚म्¦प॒थिऽभिः॑¦इ॒न्द्र॒¦रा॒या¦तुवि॑ऽद्युम्न¦तु॒वि॒ऽवाजे᳚भिः¦अ॒र्वाक् | |
प्र तु॑विद्यु॒म्नस्य॒ स्थवि॑रस्य॒ घृष्वे᳚र्दि॒वो र॑रप्शे महि॒मा पृ॑थि॒व्याः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} नास्य॒ शत्रु॒र्न प्र॑ति॒मान॑मस्ति॒ न प्र॑ति॒ष्ठिः पु॑रुमा॒यस्य॒ सह्योः᳚ ||{12/15}{4.6.6.2}{6.18.12}{6.2.3.12}{842, 459, 4568} प्र¦तु॒वि॒ऽद्यु॒म्नस्य॑¦स्थवि॑रस्य¦घृष्वेः᳚¦दि॒वः¦र॒र॒प्शे॒¦म॒हि॒मा¦पृ॒थि॒व्याः | |
प्र तत् ते᳚, अ॒द्या कर॑णं कृ॒तं भू॒त् कुत्सं॒ यदा॒युम॑तिथि॒ग्वम॑स्मै |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} पु॒रू स॒हस्रा॒ नि शि॑शा, अ॒भि क्षामुत् तूर्व॑याणं धृष॒ता नि॑नेथ ||{13/15}{4.6.6.3}{6.18.13}{6.2.3.13}{843, 459, 4569} प्र¦तत्¦ते॒¦अ॒द्य¦कर॑णम्¦कृ॒तम्¦भू॒त्¦कुत्स᳚म्¦यत्¦आ॒युम्¦अ॒ति॒थि॒ऽग्वम्¦अ॒स्मै॒ | |
अनु॒ त्वाहि॑घ्ने॒, अध॑ देव दे॒वा मद॒न् विश्वे᳚ क॒वित॑मं कवी॒नाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} करो॒ यत्र॒ वरि॑वो बाधि॒ताय॑ दि॒वे जना᳚य त॒न्वे᳚ गृणा॒नः ||{14/15}{4.6.6.4}{6.18.14}{6.2.3.14}{844, 459, 4570} अनु॑¦त्वा॒¦अहि॑ऽघ्ने¦अध॑¦दे॒व॒¦दे॒वाः¦मद॑न्¦विश्वे᳚¦क॒विऽत॑मम्¦क॒वी॒नाम् | |
अनु॒ द्यावा᳚पृथि॒वी तत् त॒ ओजो ऽम॑र्त्या जिहत इन्द्र दे॒वाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} कृ॒ष्वा कृ॑त्नो॒, अकृ॑तं॒ यत् ते॒, अस्त्यु॒क्थं नवी᳚यो जनयस्व य॒ज्ञैः ||{15/15}{4.6.6.5}{6.18.15}{6.2.3.15}{845, 459, 4571} अनु॑¦द्यावा᳚पृथि॒वी इति॑¦तत्¦ते॒¦ओजः॑¦अम॑र्त्याः¦जि॒ह॒ते॒¦इ॒न्द्र॒¦दे॒वाः | |
[98] महाँइंद्रइति त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् | |
म॒हाँ, इन्द्रो᳚ नृ॒वदा च॑र्षणि॒प्रा, उ॒त द्वि॒बर्हा᳚, अमि॒नः सहो᳚भिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अ॒स्म॒द्र्य॑ग्वावृधे वी॒र्या᳚यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत् ||{1/13}{4.6.7.1}{6.19.1}{6.2.4.1}{846, 460, 4572} म॒हान्¦इन्द्रः॑¦नृ॒ऽवत्¦आ¦च॒र्ष॒णि॒ऽप्राः¦उ॒त¦द्वि॒ऽबर्हाः᳚¦अ॒मि॒नः¦सहः॑ऽभिः | |
इन्द्र॑मे॒व धि॒षणा᳚ सा॒तये᳚ धाद् बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा᳚नम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अषा᳚ळ्हेन॒ शव॑सा शूशु॒वांसं᳚ स॒द्यश्चि॒द् यो वा᳚वृ॒धे, असा᳚मि ||{2/13}{4.6.7.2}{6.19.2}{6.2.4.2}{847, 460, 4573} इन्द्र᳚म्¦ए॒व¦धि॒षणा᳚¦सा॒तये᳚¦धा॒त्¦बृ॒हन्त᳚म्¦ऋ॒ष्वम्¦अ॒जर᳚म्¦युवा᳚नम् | |
पृ॒थू क॒रस्ना᳚ बहु॒ला गभ॑स्ती, अस्म॒द्र्य१॑(अ॒)क् सं मि॑मीहि॒ श्रवां᳚सि |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यू॒थेव॑ प॒श्वः प॑शु॒पा दमू᳚ना, अ॒स्माँ, इ᳚न्द्रा॒भ्या व॑वृत्स्वा॒जौ ||{3/13}{4.6.7.3}{6.19.3}{6.2.4.3}{848, 460, 4574} पृ॒थू इति॑¦क॒रस्ना᳚¦ब॒हु॒ला¦गभ॑स्ती॒ इति॑¦अ॒स्म॒द्र्य॑क्¦सम्¦मि॒मी॒हि॒¦श्रवां᳚सि | |
तं व॒ इन्द्रं᳚ च॒तिन॑मस्य शा॒कैरि॒ह नू॒नं वा᳚ज॒यन्तो᳚ हुवेम |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यथा᳚ चि॒त् पूर्वे᳚ जरि॒तार॑ आ॒सुरने᳚द्या, अनव॒द्या, अरि॑ष्टाः ||{4/13}{4.6.7.4}{6.19.4}{6.2.4.4}{849, 460, 4575} तम्¦वः॒¦इन्द्र᳚म्¦च॒तिन᳚म्¦अ॒स्य॒¦शा॒कैः¦इ॒ह¦नू॒नम्¦वा॒ज॒ऽयन्तः॑¦हु॒वे॒म॒ | |
धृ॒तव्र॑तो धन॒दाः सोम॑वृद्धः॒ स हि वा॒मस्य॒ वसु॑नः पुरु॒क्षुः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} सं ज॑ग्मिरे प॒थ्या॒३॑(आ॒) रायो᳚, अस्मिन् त्समु॒द्रे न सिन्ध॑वो॒ याद॑मानाः ||{5/13}{4.6.7.5}{6.19.5}{6.2.4.5}{850, 460, 4576} धृ॒तऽव्र॑तः¦ध॒न॒ऽदाः¦सोम॑ऽवृद्धः¦सः¦हि¦वा॒मस्य॑¦वसु॑नः¦पु॒रु॒ऽक्षुः | |
शवि॑ष्ठं न॒ आ भ॑र शूर॒ शव॒ ओजि॑ष्ठ॒मोजो᳚, अभिभूत उ॒ग्रम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} विश्वा᳚ द्यु॒म्ना वृष्ण्या॒ मानु॑षाणाम॒स्मभ्यं᳚ दा हरिवो माद॒यध्यै᳚ ||{6/13}{4.6.8.1}{6.19.6}{6.2.4.6}{851, 460, 4577} शवि॑ष्ठम्¦नः॒¦आ¦भ॒र॒¦शू॒र॒¦शवः॑¦ओजि॑ष्ठम्¦ओजः॑¦अ॒भि॒ऽभू॒ते॒¦उ॒ग्रम् | |
यस्ते॒ मदः॑ पृतना॒षाळमृ॑ध्र॒ इन्द्र॒ तं न॒ आ भ॑र शूशु॒वांस᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} येन॑ तो॒कस्य॒ तन॑यस्य सा॒तौ मं᳚सी॒महि॑ जिगी॒वांस॒स्त्वोताः᳚ ||{7/13}{4.6.8.2}{6.19.7}{6.2.4.7}{852, 460, 4578} यः¦ते॒¦मदः॑¦पृ॒त॒ना॒षाट्¦अमृ॑ध्रः¦इन्द्र॑¦तम्¦नः॒¦आ¦भ॒र॒¦शू॒शु॒ऽवांस᳚म् | |
आ नो᳚ भर॒ वृष॑णं॒ शुष्म॑मिन्द्र धन॒स्पृतं᳚ शूशु॒वांसं᳚ सु॒दक्ष᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} येन॒ वंसा᳚म॒ पृत॑नासु॒ शत्रू॒न् तवो॒तिभि॑रु॒त जा॒मीँरजा᳚मीन् ||{8/13}{4.6.8.3}{6.19.8}{6.2.4.8}{853, 460, 4579} आ¦नः॒¦भ॒र॒¦वृष॑णम्¦शुष्म᳚म्¦इ॒न्द्र॒¦ध॒न॒ऽस्पृत᳚म्¦शू॒शु॒ऽवांस᳚म्¦सु॒ऽदक्ष᳚म् | |
आ ते॒ शुष्मो᳚ वृष॒भ ए᳚तु प॒श्चादोत्त॒राद॑ध॒रादा पु॒रस्ता᳚त् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} आ वि॒श्वतो᳚, अ॒भि समे᳚त्व॒र्वाङिन्द्र॑ द्यु॒म्नं स्व᳚र्वद्धेह्य॒स्मे ||{9/13}{4.6.8.4}{6.19.9}{6.2.4.9}{854, 460, 4580} आ¦ते॒¦शुष्मः॑¦वृ॒ष॒भः¦ए॒तु॒¦प॒श्चात्¦आ¦उ॒त्त॒रात्¦अ॒ध॒रात्¦आ¦पु॒रस्ता᳚त् | |
नृ॒वत् त॑ इन्द्र॒ नृत॑माभिरू॒ती वं᳚सी॒महि॑ वा॒मं श्रोम॑तेभिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} ईक्षे॒ हि वस्व॑ उ॒भय॑स्य राज॒न् धा रत्नं॒ महि॑ स्थू॒रं बृ॒हन्त᳚म् ||{10/13}{4.6.8.5}{6.19.10}{6.2.4.10}{855, 460, 4581} नृ॒ऽवत्¦ते॒¦इ॒न्द्र॒¦नृऽत॑माभिः¦ऊ॒ती¦वं॒सी॒महि॑¦वा॒मम्¦श्रोम॑तेभिः | |
म॒रुत्व᳚न्तं वृष॒भं वा᳚वृधा॒नमक॑वारिं दि॒व्यं शा॒समिन्द्र᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ||{11/13}{4.6.8.6}{6.19.11}{6.2.4.11}{856, 460, 4582} म॒रुत्व᳚न्तम्¦वृ॒ष॒भम्¦व॒वृ॒धा॒नम्¦अक॑व।आरिम्¦दि॒व्यम्¦शा॒सम्¦इन्द्र᳚म् | |
जनं᳚ वज्रि॒न् महि॑ चि॒न्मन्य॑मानमे॒भ्यो नृभ्यो᳚ रन्धया॒ येष्वस्मि॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अधा॒ हि त्वा᳚ पृथि॒व्यां शूर॑सातौ॒ हवा᳚महे॒ तन॑ये॒ गोष्व॒प्सु ||{12/13}{4.6.8.7}{6.19.12}{6.2.4.12}{857, 460, 4583} जन᳚म्¦व॒ज्रि॒न्¦महि॑¦चि॒त्¦मन्य॑मानम्¦ए॒भ्यः¦नृऽभ्यः॑¦र॒न्ध॒य॒¦येषु॑¦अस्मि॑ | |
व॒यं त॑ ए॒भिः पु॑रुहूत स॒ख्यैः शत्रोः᳚शत्रो॒रुत्त॑र॒ इत् स्या᳚म |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} घ्नन्तो᳚ वृ॒त्राण्यु॒भया᳚नि शूर रा॒या म॑देम बृह॒ता त्वोताः᳚ ||{13/13}{4.6.8.8}{6.19.13}{6.2.4.13}{858, 460, 4584} व॒यम्¦ते॒¦ए॒भिः¦पु॒रु॒ऽहू॒त॒¦स॒ख्यैः¦शत्रोः᳚ऽशत्रोः¦उत्ऽत॑रे¦इत्¦स्या॒म॒ | |
[99] द्यौर्नयइति त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप्सप्तमीविराट्पंक्तिः | |
द्यौर्न य इ᳚न्द्रा॒भि भूमा॒र्यस्त॒स्थौ र॒यिः शव॑सा पृ॒त्सु जना॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तं नः॑ स॒हस्र॑भरमुर्वरा॒सां द॒द्धि सू᳚नो सहसो वृत्र॒तुर᳚म् ||{1/13}{4.6.9.1}{6.20.1}{6.2.5.1}{859, 461, 4585} द्यौः¦न¦यः¦इ॒न्द्र॒¦अ॒भि¦भूम॑¦अ॒र्यः¦त॒स्थौ¦र॒यिः¦शव॑सा¦पृ॒त्ऽसु¦जना॑न् | |
दि॒वो न तुभ्य॒मन् वि᳚न्द्र स॒त्रा ऽसु॒र्यं᳚ दे॒वेभि॑र्धायि॒ विश्व᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अहिं॒ यद् वृ॒त्रम॒पो व᳚व्रि॒वांसं॒ हन्नृ॑जीषि॒न् विष्णु॑ना सचा॒नः ||{2/13}{4.6.9.2}{6.20.2}{6.2.5.2}{860, 461, 4586} दि॒वः¦न¦तुभ्य᳚म्¦अनु॑¦इ॒न्द्र॒¦स॒त्रा¦अ॒सु॒र्य᳚म्¦दे॒वेभिः॑¦धा॒यि॒¦विश्व᳚म् | |
तूर्व॒न्नोजी᳚यान् त॒वस॒स्तवी᳚यान् कृ॒तब्र॒ह्मेन्द्रो᳚ वृ॒द्धम॑हाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} राजा᳚भव॒न्मधु॑नः सो॒म्यस्य॒ विश्वा᳚सां॒ यत् पु॒रां द॒र्त्नुमाव॑त् ||{3/13}{4.6.9.3}{6.20.3}{6.2.5.3}{861, 461, 4587} तूर्व॑न्¦ओजी᳚यान्¦त॒वसः॑¦तवी᳚यान्¦कृ॒तऽब्र᳚ह्मा¦इन्द्रः॑¦वृ॒द्धऽम॑हाः | |
श॒तैर॑पद्रन् प॒णय॑ इ॒न्द्रात्र॒ दशो᳚णये क॒वये॒ऽर्कसा᳚तौ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} व॒धैः शुष्ण॑स्या॒शुष॑स्य मा॒याः पि॒त्वो नारि॑रेची॒त् किं च॒न प्र ||{4/13}{4.6.9.4}{6.20.4}{6.2.5.4}{862, 461, 4588} श॒तैः¦अ॒प॒द्र॒न्¦प॒णयः॑¦इ॒न्द्र॒¦अत्र॑¦दश॑ऽओणये¦क॒वये᳚¦अ॒र्कऽसा᳚तौ | |
म॒हो द्रु॒हो, अप॑ वि॒श्वायु॑ धायि॒ वज्र॑स्य॒ यत् पत॑ने॒ पादि॒ शुष्णः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} उ॒रु ष स॒रथं॒ सार॑थये क॒रिन्द्रः॒ कुत्सा᳚य॒ सूर्य॑स्य सा॒तौ ||{5/13}{4.6.9.5}{6.20.5}{6.2.5.5}{863, 461, 4589} म॒हः¦द्रु॒हः¦अप॑¦वि॒श्वऽआ᳚यु¦धा॒यि॒¦वज्र॑स्य¦यत्¦पत॑ने¦पादि॑¦शुष्णः॑ | |
प्र श्ये॒नो न म॑दि॒रमं॒शुम॑स्मै॒ शिरो᳚ दा॒सस्य॒ नमु॑चेर्मथा॒यन् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} प्राव॒न्नमीं᳚ सा॒प्यं स॒सन्तं᳚ पृ॒णग्रा॒या समि॒षा सं स्व॒स्ति ||{6/13}{4.6.10.1}{6.20.6}{6.2.5.6}{864, 461, 4590} प्र¦श्ये॒नः¦न¦म॒दि॒रम्¦अं॒शुम्¦अ॒स्मै॒¦शिरः॑¦दा॒सस्य॑¦नमु॑चेः¦म॒था॒यन् | |
वि पिप्रो॒रहि॑मायस्य दृ॒ळ्हाः पुरो᳚ वज्रि॒ञ्छव॑सा॒ न द॑र्दः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | पङ्क्तिः} सुदा᳚म॒न् तद् रेक्णो᳚, अप्रमृ॒ष्यमृ॒जिश्व॑ने दा॒त्रं दा॒शुषे᳚ दाः ||{7/13}{4.6.10.2}{6.20.7}{6.2.5.7}{865, 461, 4591} वि¦पिप्रोः᳚¦अहि॑ऽमायस्य¦दृ॒ळ्हाः¦पुरः॑¦व॒ज्रि॒न्¦शव॑सा¦न¦द॒र्द॒रिति॑ दर्दः | |
स वे᳚त॒सुं दश॑मायं॒ दशो᳚णिं॒ तूतु॑जि॒मिन्द्रः॑ स्वभि॒ष्टिसु᳚म्नः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} आ तुग्रं॒ शश्व॒दिभं॒ द्योत॑नाय मा॒तुर्न सी॒मुप॑ सृजा, इ॒यध्यै᳚ ||{8/13}{4.6.10.3}{6.20.8}{6.2.5.8}{866, 461, 4592} सः¦वे॒त॒सुम्¦दश॑ऽमायम्¦दश॑ऽओणिम्¦तूतु॑जिम्¦इन्द्रः॑¦स्व॒भि॒ष्टिऽसु᳚म्नः | |
स ईं॒ स्पृधो᳚ वनते॒, अप्र॑तीतो॒ बिभ्र॒द् वज्रं᳚ वृत्र॒हणं॒ गभ॑स्तौ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तिष्ठ॒द्धरी॒, अध्यस्ते᳚व॒ गर्ते᳚ वचो॒युजा᳚ वहत॒ इन्द्र॑मृ॒ष्वम् ||{9/13}{4.6.10.4}{6.20.9}{6.2.5.9}{867, 461, 4593} सः¦ई॒म्¦स्पृधः॑¦व॒न॒ते॒¦अप्र॑तिऽइतः¦बिभ्र॑त्¦वज्र᳚म्¦वृ॒त्र॒ऽहन᳚म्¦गभ॑स्तौ | |
स॒नेम॒ तेऽव॑सा॒ नव्य॑ इन्द्र॒ प्र पू॒रवः॑ स्तवन्त ए॒ना य॒ज्ञैः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} स॒प्त यत् पुरः॒ शर्म॒ शार॑दी॒र्दर्द्धन्दासीः᳚ पुरु॒कुत्सा᳚य॒ शिक्ष॑न् ||{10/13}{4.6.10.5}{6.20.10}{6.2.5.10}{868, 461, 4594} स॒नेम॑¦ते॒¦अव॑सा¦नव्यः॑¦इ॒न्द्र॒¦प्र¦पू॒रवः॑¦स्त॒व॒न्ते॒¦ए॒ना¦य॒ज्ञैः | |
त्वं वृ॒ध इ᳚न्द्र पू॒र्व्यो भू᳚र्वरिव॒स्यन्नु॒शने᳚ का॒व्याय॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} परा॒ नव॑वास्त्वमनु॒देयं᳚ म॒हे पि॒त्रे द॑दाथ॒ स्वं नपा᳚तम् ||{11/13}{4.6.10.6}{6.20.11}{6.2.5.11}{869, 461, 4595} त्वम्¦वृ॒धः¦इ॒न्द्र॒¦पू॒र्व्यः¦भूः॒¦व॒रि॒व॒स्यन्¦उ॒शने᳚¦का॒व्याय॑ | |
त्वं धुनि॑रिन्द्र॒ धुनि॑मतीरृ॒णोर॒पः सी॒रा न स्रव᳚न्तीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} प्र यत् स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया᳚ तु॒र्वशं॒ यदुं᳚ स्व॒स्ति ||{12/13}{4.6.10.7}{6.20.12}{6.2.5.12}{870, 461, 4596} त्वम्¦धुनिः॑¦इ॒न्द्र॒¦धुनि॑ऽमतीः¦ऋ॒णोः¦अ॒पः¦सी॒राः¦न¦स्रव᳚न्तीः | |
तव॑ ह॒ त्यदि᳚न्द्र॒ विश्व॑मा॒जौ स॒स्तो धुनी॒चुमु॑री॒ या ह॒ सिष्व॑प् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} दी॒दय॒दित् तुभ्यं॒ सोमे᳚भिः सु॒न्वन् द॒भीति॑रि॒ध्मभृ॑तिः प॒क्थ्य१॑(अ॒)र्कैः ||{13/13}{4.6.10.8}{6.20.13}{6.2.5.13}{871, 461, 4597} तव॑¦ह॒¦त्यत्¦इ॒न्द्र॒¦विश्व᳚म्¦आ॒जौ¦स॒स्तः¦धुनी॒चुमु॑री॒ इति॑¦या¦ह॒¦सिस्व॑प् | |
[100] इमाउत्वेति द्वादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रो नवम्येकादश्योर्विश्वेदेवास्त्रिष्टुप् | |
इ॒मा, उ॑ त्वा पुरु॒तम॑स्य का॒रोर्हव्यं᳚ वीर॒ हव्या᳚ हवन्ते |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} धियो᳚ रथे॒ष्ठाम॒जरं॒ नवी᳚यो र॒यिर्विभू᳚तिरीयते वच॒स्या ||{1/12}{4.6.11.1}{6.21.1}{6.2.6.1}{872, 462, 4598} इ॒माः¦ऊँ॒ इति॑¦त्वा॒¦पु॒रु॒ऽतम॑स्य¦का॒रोः¦हव्य᳚म्¦वी॒र॒¦हव्याः᳚¦ह॒व॒न्ते॒ | |
तमु॑ स्तुष॒ इन्द्रं॒ यो विदा᳚नो॒ गिर्वा᳚हसं गी॒र्भिर्य॒ज्ञवृ॑द्धम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यस्य॒ दिव॒मति॑ म॒ह्ना पृ॑थि॒व्याः पु॑रुमा॒यस्य॑ रिरि॒चे म॑हि॒त्वम् ||{2/12}{4.6.11.2}{6.21.2}{6.2.6.2}{873, 462, 4599} तम्¦ऊँ॒ इति॑¦स्तु॒षे॒¦इन्द्र᳚म्¦यः¦विदा᳚नः¦गिर्वा᳚हसम्¦गीः॒ऽभिः¦य॒ज्ञऽवृ॑द्धम् | |
स इत् तमो᳚ऽवयु॒नं त॑त॒न्वत् सूर्ये᳚ण व॒युन॑वच्चकार |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} क॒दा ते॒ मर्ता᳚, अ॒मृत॑स्य॒ धामेय॑क्षन्तो॒ न मि॑नन्ति स्वधावः ||{3/12}{4.6.11.3}{6.21.3}{6.2.6.3}{874, 462, 4600} सः¦इत्¦तमः॑¦अ॒व॒यु॒नम्¦त॒त॒न्वत्¦सूर्ये᳚ण¦व॒युन॑ऽवत्¦च॒का॒र॒ | |
यस्ता च॒कार॒ स कुह॑ स्वि॒दिन्द्रः॒ कमा जनं᳚ चरति॒ कासु॑ वि॒क्षु |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} कस्ते᳚ य॒ज्ञो मन॑से॒ शं वरा᳚य॒ को, अ॒र्क इ᳚न्द्र कत॒मः स होता᳚ ||{4/12}{4.6.11.4}{6.21.4}{6.2.6.4}{875, 462, 4601} यः¦ता¦च॒कार॑¦सः¦कुह॑¦स्वि॒त्¦इन्द्रः॑¦कम्¦आ¦जन᳚म्¦च॒र॒ति॒¦कासु॑¦वि॒क्षु | |
इ॒दा हि ते॒ वेवि॑षतः पुरा॒जाः प्र॒त्नास॑ आ॒सुः पु॑रुकृ॒त् सखा᳚यः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} ये म॑ध्य॒मास॑ उ॒त नूत॑नास उ॒ताव॒मस्य॑ पुरुहूत बोधि ||{5/12}{4.6.11.5}{6.21.5}{6.2.6.5}{876, 462, 4602} इ॒दा¦हि¦ते॒¦वेवि॑षतः¦पु॒रा॒ऽजाः¦प्र॒त्नासः॑¦आ॒सुः¦पु॒रु॒ऽकृ॒त्¦सखा᳚यः | |
तं पृ॒च्छन्तोऽव॑रासः॒ परा᳚णि प्र॒त्ना त॑ इन्द्र॒ श्रुत्यानु॑ येमुः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अर्चा᳚मसि वीर ब्रह्मवाहो॒ यादे॒व वि॒द्म तात् त्वा᳚ म॒हान्त᳚म् ||{6/12}{4.6.12.1}{6.21.6}{6.2.6.6}{877, 462, 4603} तम्¦पृ॒च्छन्तः॑¦अव॑रासः¦परा᳚णि¦प्र॒त्ना¦ते॒¦इ॒न्द्र॒¦श्रुत्या᳚¦अनु॑¦ये॒मुः॒ | |
अ॒भि त्वा॒ पाजो᳚ र॒क्षसो॒ वि त॑स्थे॒ महि॑ जज्ञा॒नम॒भि तत्सु ति॑ष्ठ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तव॑ प्र॒त्नेन॒ युज्ये᳚न॒ सख्या॒ वज्रे᳚ण धृष्णो॒, अप॒ ता नु॑दस्व ||{7/12}{4.6.12.2}{6.21.7}{6.2.6.7}{878, 462, 4604} अ॒भि¦त्वा॒¦पाजः॑¦र॒क्षसः॑¦वि¦त॒स्थे॒¦महि॑¦ज॒ज्ञा॒नम्¦अ॒भि¦तत्¦सु¦ति॒ष्ठ॒ | |
स तु श्रु॑धीन्द्र॒ नूत॑नस्य ब्रह्मण्य॒तो वी᳚र कारुधायः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} त्वं ह्या॒३॑(आ॒)पिः प्र॒दिवि॑ पितॄ॒णां शश्व॑द् ब॒भूथ॑ सु॒हव॒ एष्टौ᳚ ||{8/12}{4.6.12.3}{6.21.8}{6.2.6.8}{879, 462, 4605} सः¦तु¦श्रु॒धि॒¦इ॒न्द्र॒¦नूत॑नस्य¦ब्र॒ह्म॒ण्य॒तः¦वी॒र॒¦का॒रु॒ऽधा॒यः॒ | |
प्रोतये॒ वरु॑णं मि॒त्रमिन्द्रं᳚ म॒रुतः॑ कृ॒ष्वाव॑से नो, अ॒द्य |{बार्हस्पत्यो भरद्वाजः | विश्वेदेवाः | त्रिष्टुप्} प्र पू॒षणं॒ विष्णु॑म॒ग्निं पुरं᳚धिं सवि॒तार॒मोष॑धीः॒ पर्व॑ताँश्च ||{9/12}{4.6.12.4}{6.21.9}{6.2.6.9}{880, 462, 4606} प्र¦ऊ॒तये᳚¦वरु॑णम्¦मि॒त्रम्¦इन्द्र᳚म्¦म॒रुतः॑¦कृ॒ष्व॒¦अव॑से¦नः॒¦अ॒द्य | |
इ॒म उ॑ त्वा पुरुशाक प्रयज्यो जरि॒तारो᳚, अ॒भ्य॑र्चन्त्य॒र्कैः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} श्रु॒धी हव॒मा हु॑व॒तो हु॑वा॒नो न त्वावाँ᳚, अ॒न्यो, अ॑मृत॒ त्वद॑स्ति ||{10/12}{4.6.12.5}{6.21.10}{6.2.6.10}{881, 462, 4607} इ॒मे¦ऊँ॒ इति॑¦त्वा॒¦पु॒रु॒ऽशा॒क॒¦प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो¦ज॒रि॒तारः॑¦अ॒भि¦अ॒र्च॒न्ति॒¦अ॒र्कैः | |
नू म॒ आ वाच॒मुप॑ याहि वि॒द्वान् विश्वे᳚भिः सूनो सहसो॒ यज॑त्रैः |{बार्हस्पत्यो भरद्वाजः | विश्वेदेवाः | त्रिष्टुप्} ये, अ॑ग्निजि॒ह्वा, ऋ॑त॒साप॑ आ॒सुर्ये मनुं᳚ च॒क्रुरुप॑रं॒ दसा᳚य ||{11/12}{4.6.12.6}{6.21.11}{6.2.6.11}{882, 462, 4608} नु¦मे॒¦आ¦वाच᳚म्¦उप॑¦या॒हि॒¦वि॒द्वान्¦विश्वे᳚भिः¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦यज॑त्रैः | |
स नो᳚ बोधि पुरए॒ता सु॒गेषू॒त दु॒र्गेषु॑ पथि॒कृद् विदा᳚नः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} ये, अश्र॑मास उ॒रवो॒ वहि॑ष्ठा॒स्तेभि᳚र्न इन्द्रा॒भि व॑क्षि॒ वाज᳚म् ||{12/12}{4.6.12.7}{6.21.12}{6.2.6.12}{883, 462, 4609} सः¦नः॒¦बो॒धि॒¦पु॒रः॒ऽए॒ता¦सु॒ऽगेषु॑¦उ॒त¦दुः॒ऽगेषु॑¦प॒थि॒ऽकृत्¦विदा᳚नः | |
[101] यएकइदित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् | |
य एक॒ इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒ तं गी॒र्भिर॒भ्य॑र्च आ॒भिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यः पत्य॑ते वृष॒भो वृष्ण्या᳚वान् त्स॒त्यः सत्वा᳚ पुरुमा॒यः सह॑स्वान् ||{1/11}{4.6.13.1}{6.22.1}{6.2.7.1}{884, 463, 4610} यः¦एकः॑¦इत्¦हव्यः॑¦च॒र्ष॒णी॒नाम्¦इन्द्र᳚म्¦तम्¦गीः॒ऽभिः¦अ॒भि¦अ॒र्चे॒¦आ॒भिः | |
तमु॑ नः॒ पूर्वे᳚ पि॒तरो॒ नव॑ग्वाः स॒प्त विप्रा᳚सो, अ॒भि वा॒जय᳚न्तः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} न॒क्ष॒द्दा॒भं ततु॑रिं पर्वते॒ष्ठामद्रो᳚घवाचं म॒तिभिः॒ शवि॑ष्ठम् ||{2/11}{4.6.13.2}{6.22.2}{6.2.7.2}{885, 463, 4611} तम्¦ऊँ॒ इति॑¦नः॒¦पूर्वे᳚¦पि॒तरः॑¦नव॑ऽग्वाः¦स॒प्त¦विप्रा᳚सः¦अ॒भि¦वा॒जय᳚न्तः | |
तमी᳚मह॒ इन्द्र॑मस्य रा॒यः पु॑रु॒वीर॑स्य नृ॒वतः॑ पुरु॒क्षोः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यो, अस्कृ॑धोयुर॒जरः॒ स्व᳚र्वा॒न् तमा भ॑र हरिवो माद॒यध्यै᳚ ||{3/11}{4.6.13.3}{6.22.3}{6.2.7.3}{886, 463, 4612} तम्¦ई॒म॒हे॒¦इन्द्र᳚म्¦अ॒स्य॒¦रा॒यः¦पु॒रु॒ऽवीर॑स्य¦नृ॒ऽवतः॑¦पु॒रु॒ऽक्षोः | |
तन्नो॒ वि वो᳚चो॒ यदि॑ ते पु॒रा चि॑ज्जरि॒तार॑ आन॒शुः सु॒म्नमि᳚न्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} कस्ते᳚ भा॒गः किं वयो᳚ दुध्र खिद्वः॒ पुरु॑हूत पुरूवसोऽसुर॒घ्नः ||{4/11}{4.6.13.4}{6.22.4}{6.2.7.4}{887, 463, 4613} तत्¦नः॒¦वि¦वो॒चः॒¦यदि॑¦ते॒¦पु॒रा¦चि॒त्¦ज॒रि॒तारः॑¦आ॒न॒शुः¦सु॒म्नम्¦इ॒न्द्र॒ | |
तं पृ॒च्छन्ती॒ वज्र॑हस्तं रथे॒ष्ठामिन्द्रं॒ वेपी॒ वक्व॑री॒ यस्य॒ नू गीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तु॒वि॒ग्रा॒भं तु॑विकू॒र्मिं र॑भो॒दां गा॒तुमि॑षे॒ नक्ष॑ते॒ तुम्र॒मच्छ॑ ||{5/11}{4.6.13.5}{6.22.5}{6.2.7.5}{888, 463, 4614} तम्¦पृ॒च्छन्ती᳚¦वज्र॑ऽहस्तम्¦र॒थे॒ऽस्थाम्¦इन्द्र᳚म्¦वेपी᳚¦वक्व॑री¦यस्य॑¦नु¦गीः | |
अ॒या ह॒ त्यं मा॒यया᳚ वावृधा॒नं म॑नो॒जुवा᳚ स्वतवः॒ पर्व॑तेन |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अच्यु॑ता चिद् वीळि॒ता स्वो᳚जो रु॒जो वि दृ॒ळ्हा धृ॑ष॒ता वि॑रप्शिन् ||{6/11}{4.6.14.1}{6.22.6}{6.2.7.6}{889, 463, 4615} अ॒या¦ह॒¦त्यम्¦मा॒यया᳚¦व॒वृ॒धा॒नम्¦म॒नः॒ऽजुवा᳚¦स्व॒ऽत॒वः॒¦पर्व॑तेन | |
तं वो᳚ धि॒या नव्य॑स्या॒ शवि॑ष्ठं प्र॒त्नं प्र॑त्न॒वत् प॑रितंस॒यध्यै᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} स नो᳚ वक्षदनिमा॒नः सु॒वह्मेन्द्रो॒ विश्वा॒न्यति॑ दु॒र्गहा᳚णि ||{7/11}{4.6.14.2}{6.22.7}{6.2.7.7}{890, 463, 4616} तम्¦वः॒¦धि॒या¦नव्य॑स्या¦शवि॑ष्ठम्¦प्र॒त्नम्¦प्र॒त्न॒ऽवत्¦प॒रि॒ऽतं॒स॒यध्यै᳚ | |
आ जना᳚य॒ द्रुह्व॑णे॒ पार्थि॑वानि दि॒व्यानि॑ दीपयो॒ऽन्तरि॑क्षा |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तपा᳚ वृषन् वि॒श्वतः॑ शो॒चिषा॒ तान् ब्र᳚ह्म॒द्विषे᳚ शोचय॒ क्षाम॒पश्च॑ ||{8/11}{4.6.14.3}{6.22.8}{6.2.7.8}{891, 463, 4617} आ¦जना᳚य¦द्रुह्व॑णे¦पार्थि॑वानि¦दि॒व्यानि॑¦दी॒प॒यः॒¦अ॒न्तरि॑क्षा | |
भुवो॒ जन॑स्य दि॒व्यस्य॒ राजा॒ पार्थि॑वस्य॒ जग॑तस्त्वेषसंदृक् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} धि॒ष्व वज्रं॒ दक्षि॑ण इन्द्र॒ हस्ते॒ विश्वा᳚, अजुर्य दयसे॒ वि मा॒याः ||{9/11}{4.6.14.4}{6.22.9}{6.2.7.9}{892, 463, 4618} भुवः॑¦जन॑स्य¦दि॒व्यस्य॑¦राजा᳚¦पार्थि॑वस्य¦जग॑तः¦त्वे॒ष॒ऽसं॒दृ॒क् | |
आ सं॒यत॑मिन्द्र णः स्व॒स्तिं श॑त्रु॒तूर्या᳚य बृह॒तीममृ॑ध्राम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यया॒ दासा॒न्यार्या᳚णि वृ॒त्रा करो᳚ वज्रिन् त्सु॒तुका॒ नाहु॑षाणि ||{10/11}{4.6.14.5}{6.22.10}{6.2.7.10}{893, 463, 4619} आ¦स॒म्ऽयत᳚म्¦इ॒न्द्र॒¦नः॒¦स्व॒स्तिम्¦श॒त्रु॒ऽतूर्या᳚य¦बृ॒ह॒तीम्¦अमृ॑ध्राम् | |
स नो᳚ नि॒युद्भिः॑ पुरुहूत वेधो वि॒श्ववा᳚राभि॒रा ग॑हि प्रयज्यो |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} न या, अदे᳚वो॒ वर॑ते॒ न दे॒व आभि᳚र्याहि॒ तूय॒मा म॑द्र्य॒द्रिक् ||{11/11}{4.6.14.6}{6.22.11}{6.2.7.11}{894, 463, 4620} सः¦नः॒¦नि॒युत्ऽभिः॑¦पु॒रु॒ऽहू॒त॒¦वे॒धः॒¦वि॒श्वऽवा᳚राभिः¦आ¦ग॒हि॒¦प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो | |
[102] सुतइदिति दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् | |
सु॒त इत् त्वं निमि॑श्ल इन्द्र॒ सोमे॒ स्तोमे॒ ब्रह्म॑णि श॒स्यमा᳚न उ॒क्थे |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यद् वा᳚ यु॒क्ताभ्यां᳚ मघव॒न् हरि॑भ्यां॒ बिभ्र॒द् वज्रं᳚ बा॒ह्वोरि᳚न्द्र॒ यासि॑ ||{1/10}{4.6.15.1}{6.23.1}{6.2.8.1}{895, 464, 4621} सु॒ते¦इत्¦त्वम्¦निऽमि॑श्लः¦इ॒न्द्र॒¦सोमे᳚¦स्तोमे᳚¦ब्रह्म॑णि¦श॒स्यमा᳚ने¦उ॒क्थे | |
यद् वा᳚ दि॒वि पार्ये॒ सुष्वि॑मिन्द्र वृत्र॒हत्येऽव॑सि॒ शूर॑सातौ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यद् वा॒ दक्ष॑स्य बि॒भ्युषो॒, अबि॑भ्य॒दर᳚न्धयः॒ शर्ध॑त इन्द्र॒ दस्यू॑न् ||{2/10}{4.6.15.2}{6.23.2}{6.2.8.2}{896, 464, 4622} यत्¦वा॒¦दि॒वि¦पार्ये᳚¦सुस्वि᳚म्¦इ॒न्द्र॒¦वृ॒त्र॒ऽहत्ये᳚¦अव॑सि¦शूर॑ऽसातौ | |
पाता᳚ सु॒तमिन्द्रो᳚, अस्तु॒ सोमं᳚ प्रणे॒नीरु॒ग्रो ज॑रि॒तार॑मू॒ती |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} कर्ता᳚ वी॒राय॒ सुष्व॑य उ लो॒कं दाता॒ वसु॑ स्तुव॒ते की॒रये᳚ चित् ||{3/10}{4.6.15.3}{6.23.3}{6.2.8.3}{897, 464, 4623} पाता᳚¦सु॒तम्¦इन्द्रः॑¦अ॒स्तु॒¦सोम᳚म्¦प्र॒ऽने॒नीः¦उ॒ग्रः¦ज॒रि॒तार᳚म्¦ऊ॒ती | |
गन्तेया᳚न्ति॒ सव॑ना॒ हरि॑भ्यां ब॒भ्रिर्वज्रं᳚ प॒पिः सोमं᳚ द॒दिर्गाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} कर्ता᳚ वी॒रं नर्यं॒ सर्व॑वीरं॒ श्रोता॒ हवं᳚ गृण॒तः स्तोम॑वाहाः ||{4/10}{4.6.15.4}{6.23.4}{6.2.8.4}{898, 464, 4624} गन्ता᳚¦इय᳚न्ति¦सव॑ना¦हरि॑ऽभ्याम्¦ब॒भ्रिः¦वज्र᳚म्¦प॒पिः¦सोम᳚म्¦द॒दिः¦गाः | |
अस्मै᳚ व॒यं यद् वा॒वान॒ तद् वि॑विष्म॒ इन्द्रा᳚य॒ यो नः॑ प्र॒दिवो॒, अप॒स्कः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} सु॒ते सोमे᳚ स्तु॒मसि॒ शंस॑दु॒क्थेन्द्रा᳚य॒ ब्रह्म॒ वर्ध॑नं॒ यथास॑त् ||{5/10}{4.6.15.5}{6.23.5}{6.2.8.5}{899, 464, 4625} अस्मै᳚¦व॒यम्¦यत्¦व॒वान॑¦तत्¦वि॒वि॒ष्मः॒¦इन्द्रा᳚य¦यः¦नः॒¦प्र॒ऽदिवः॑¦अपः॑¦करिति॑ कः | |
ब्रह्मा᳚णि॒ हि च॑कृ॒षे वर्ध॑नानि॒ ताव॑त् त इन्द्र म॒तिभि᳚र्विविष्मः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} सु॒ते सोमे᳚ सुतपाः॒ शंत॑मानि॒ रान्द्र्या᳚ क्रियास्म॒ वक्ष॑णानि य॒ज्ञैः ||{6/10}{4.6.16.1}{6.23.6}{6.2.8.6}{900, 464, 4626} ब्रह्मा᳚णि¦हि¦च॒कृ॒षे¦वर्ध॑नानि¦ताव॑त्¦ते॒¦इ॒न्द्र॒¦म॒तिऽभिः॑¦वि॒वि॒ष्मः॒ | |
स नो᳚ बोधि पुरो॒ळाशं॒ ररा᳚णः॒ पिबा॒ तु सोमं॒ गो,ऋ॑जीकमिन्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} एदं ब॒र्हिर्यज॑मानस्य सीदो॒रुं कृ॑धि त्वाय॒त उ॑ लो॒कम् ||{7/10}{4.6.16.2}{6.23.7}{6.2.8.7}{901, 464, 4627} सः¦नः॒¦बो॒धि॒¦पु॒रो॒ळाश᳚म्¦ररा᳚णः¦पिब॑¦तु¦सोम᳚म्¦गोऽऋ॑जीकम्¦इ॒न्द्र॒ | |
स म᳚न्दस्वा॒ ह्यनु॒ जोष॑मुग्र॒ प्र त्वा᳚ य॒ज्ञास॑ इ॒मे, अ॑श्नुवन्तु |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} प्रेमे हवा᳚सः पुरुहू॒तम॒स्मे, आ त्वे॒यं धीरव॑स इन्द्र यम्याः ||{8/10}{4.6.16.3}{6.23.8}{6.2.8.8}{902, 464, 4628} सः¦म॒न्द॒स्व॒¦हि¦अनु॑¦जोष᳚म्¦उ॒ग्र॒¦प्र¦त्वा॒¦य॒ज्ञासः॑¦इ॒मे¦अ॒श्नु॒व॒न्तु॒ | |
तं वः॑ सखायः॒ सं यथा᳚ सु॒तेषु॒ सोमे᳚भिरीं पृणता भो॒जमिन्द्र᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} कु॒वित् तस्मा॒, अस॑ति नो॒ भरा᳚य॒ न सुष्वि॒मिन्द्रोऽव॑से मृधाति ||{9/10}{4.6.16.4}{6.23.9}{6.2.8.9}{903, 464, 4629} तम्¦वः॒¦स॒खा॒यः॒¦सम्¦यथा᳚¦सु॒तेषु॑¦सोमे᳚भिः¦ई॒म्¦पृ॒ण॒त॒¦भो॒जम्¦इन्द्र᳚म् | |
ए॒वेदिन्द्रः॑ सु॒ते, अ॑स्तावि॒ सोमे᳚ भ॒रद्वा᳚जेषु॒ क्षय॒दिन्म॒घोनः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अस॒द् यथा᳚ जरि॒त्र उ॒त सू॒रिरिन्द्रो᳚ रा॒यो वि॒श्ववा᳚रस्य दा॒ता ||{10/10}{4.6.16.5}{6.23.10}{6.2.8.10}{904, 464, 4630} ए॒व¦इत्¦इन्द्रः॑¦सु॒ते¦अ॒स्ता॒वि॒¦सोमे᳚¦भ॒रत्ऽवा᳚जेषु¦क्षय॑त्¦इत्¦म॒घोनः॑ | |
[103] वृषामदइति दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रत्रिष्टुप् | |
वृषा॒ मद॒ इन्द्रे॒ श्लोक॑ उ॒क्था सचा॒ सोमे᳚षु सुत॒पा, ऋ॑जी॒षी |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अ॒र्च॒त्र्यो᳚ म॒घवा॒ नृभ्य॑ उ॒क्थैर्द्यु॒क्षो राजा᳚ गि॒रामक्षि॑तोतिः ||{1/10}{4.6.17.1}{6.24.1}{6.3.1.1}{905, 465, 4631} वृषा᳚¦मदः॑¦इन्द्रे᳚¦श्लोकः॑¦उ॒क्था¦सचा᳚¦सोमे᳚षु¦सु॒त॒ऽपाः¦ऋ॒जी॒षी | |
ततु॑रिर्वी॒रो नर्यो॒ विचे᳚ताः॒ श्रोता॒ हवं᳚ गृण॒त उ॒र्व्यू᳚तिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वसुः॒ शंसो᳚ न॒रां का॒रुधा᳚या वा॒जी स्तु॒तो वि॒दथे᳚ दाति॒ वाज᳚म् ||{2/10}{4.6.17.2}{6.24.2}{6.3.1.2}{906, 465, 4632} ततु॑रिः¦वी॒रः¦नर्यः॑¦विऽचे᳚ताः¦श्रोता᳚¦हव᳚म्¦गृ॒ण॒तः¦उ॒र्विऽऊ᳚तिः | |
अक्षो॒ न च॒क्र्योः᳚ शूर बृ॒हन् प्र ते᳚ म॒ह्ना रि॑रिचे॒ रोद॑स्योः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वृ॒क्षस्य॒ नु ते᳚ पुरुहूत व॒या व्यू॒३॑(ऊ॒)तयो᳚ रुरुहुरिन्द्र पू॒र्वीः ||{3/10}{4.6.17.3}{6.24.3}{6.3.1.3}{907, 465, 4633} अक्षः॑¦न¦च॒क्र्योः᳚¦शू॒र॒¦बृ॒हन्¦प्र¦ते॒¦म॒ह्ना¦रि॒रि॒चे॒¦रोद॑स्योः | |
शची᳚वतस्ते पुरुशाक॒ शाका॒ गवा᳚मिव स्रु॒तयः॑ सं॒चर॑णीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} व॒त्सानां॒ न त॒न्तय॑स्त इन्द्र॒ दाम᳚न्वन्तो, अदा॒मानः॑ सुदामन् ||{4/10}{4.6.17.4}{6.24.4}{6.3.1.4}{908, 465, 4634} शची᳚ऽवतः¦ते॒¦पु॒रु॒ऽशा॒क॒¦शाकाः᳚¦गवा᳚म्ऽइव¦स्रु॒तयः॑¦स॒म्ऽचर॑णीः | |
अ॒न्यद॒द्य कर्व॑रम॒न्यदु॒ श्वो ऽस॑च्च॒ सन्मुहु॑राच॒क्रिरिन्द्रः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} मि॒त्रो नो॒, अत्र॒ वरु॑णश्च पू॒षा र्यो वश॑स्य पर्ये॒तास्ति॑ ||{5/10}{4.6.17.5}{6.24.5}{6.3.1.5}{909, 465, 4635} अ॒न्यत्¦अ॒द्य¦कर्व॑रम्¦अ॒न्यत्¦ऊँ॒ इति॑¦श्वः¦अस॑त्¦च॒¦सत्¦मुहुः॑¦आ॒ऽच॒क्रिः¦इन्द्रः॑ | |
वि त्वदापो॒ न पर्व॑तस्य पृ॒ष्ठादु॒क्थेभि॑रिन्द्रानयन्त य॒ज्ञैः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तं त्वा॒भिः सु॑ष्टु॒तिभि᳚र्वा॒जय᳚न्त आ॒जिं न ज॑ग्मुर्गिर्वाहो॒, अश्वाः᳚ ||{6/10}{4.6.18.1}{6.24.6}{6.3.1.6}{910, 465, 4636} वि¦त्वत्¦आपः॑¦न¦पर्व॑तस्य¦पृ॒ष्ठात्¦उ॒क्थेभिः॑¦इ॒न्द्र॒¦अ॒न॒य॒न्त॒¦य॒ज्ञैः | |
न यं जर᳚न्ति श॒रदो॒ न मासा॒ न द्याव॒ इन्द्र॑मवक॒र्शय᳚न्ति |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वृ॒द्धस्य॑ चिद् वर्धतामस्य त॒नूः स्तोमे᳚भिरु॒क्थैश्च॑ श॒स्यमा᳚ना ||{7/10}{4.6.18.2}{6.24.7}{6.3.1.7}{911, 465, 4637} न¦यम्¦जर᳚न्ति¦श॒रदः॑¦न¦मासाः᳚¦न¦द्यावः॑¦इन्द्र᳚म्¦अ॒व॒ऽक॒र्शय᳚न्ति | |
न वी॒ळवे॒ नम॑ते॒ न स्थि॒राय॒ न शर्ध॑ते॒ दस्यु॑जूताय स्त॒वान् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अज्रा॒, इन्द्र॑स्य गि॒रय॑श्चिदृ॒ष्वा ग᳚म्भी॒रे चि॑द् भवति गा॒धम॑स्मै ||{8/10}{4.6.18.3}{6.24.8}{6.3.1.8}{912, 465, 4638} न¦वी॒ळवे᳚¦नम॑ते¦न¦स्थि॒राय॑¦न¦शर्ध॑ते¦दस्यु॑ऽजूताय¦स्त॒वान् | |
ग॒म्भी॒रेण॑ न उ॒रुणा᳚मत्रि॒न् प्रेषो य᳚न्धि सुतपाव॒न् वाजा॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} स्था, ऊ॒ षु ऊ॒र्ध्व ऊ॒ती, अरि॑षण्यन्न॒क्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाम् ||{9/10}{4.6.18.4}{6.24.9}{6.3.1.9}{913, 465, 4639} ग॒म्भी॒रेण॑¦नः॒¦उ॒रुणा᳚¦अ॒म॒त्रि॒न्¦प्र¦इ॒षः¦य॒न्धि॒¦सु॒त॒ऽपा॒व॒न्¦वाजा॑न् | |
सच॑स्व ना॒यमव॑से, अ॒भीक॑ इ॒तो वा॒ तमि᳚न्द्र पाहि रि॒षः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अ॒मा चै᳚न॒मर᳚ण्ये पाहि रि॒षो मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{10/10}{4.6.18.5}{6.24.10}{6.3.1.10}{914, 465, 4640} सच॑स्व¦ना॒यम्¦अव॑से¦अ॒भीके᳚¦इ॒तः¦वा॒¦तम्¦इ॒न्द्र॒¦पा॒हि॒¦रि॒षः | |
[104] यातऊतिरिति नवर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् | |
या त॑ ऊ॒तिर॑व॒मा या प॑र॒मा या म॑ध्य॒मेन्द्र॑ शुष्मि॒न्नस्ति॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} ताभि॑रू॒ षु वृ॑त्र॒हत्ये᳚ऽवीर्न ए॒भिश्च॒ वाजै᳚र्म॒हान्न॑ उग्र ||{1/9}{4.6.19.1}{6.25.1}{6.3.2.1}{915, 466, 4641} या¦ते॒¦ऊ॒तिः¦अ॒व॒मा¦या¦प॒र॒मा¦या¦म॒ध्य॒मा¦इ॒न्द्र॒¦शु॒ष्मि॒न्¦अस्ति॑ | |
आभिः॒ स्पृधो᳚ मिथ॒तीररि॑षण्यन्न॒मित्र॑स्य व्यथया म॒न्युमि᳚न्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} आभि॒र्विश्वा᳚, अभि॒युजो॒ विषू᳚ची॒रार्या᳚य॒ विशोऽव॑ तारी॒र्दासीः᳚ ||{2/9}{4.6.19.2}{6.25.2}{6.3.2.2}{916, 466, 4642} आभिः॑¦स्पृधः॑¦मि॒थ॒तीः¦अरि॑षण्यन्¦अ॒मित्र॑स्य¦व्य॒थ॒य॒¦म॒न्युम्¦इ॒न्द्र॒ | |
इन्द्र॑ जा॒मय॑ उ॒त येऽजा᳚मयोऽर्वाची॒नासो᳚ व॒नुषो᳚ युयु॒ज्रे |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} त्वमे᳚षां विथु॒रा शवां᳚सि ज॒हि वृष्ण्या᳚नि कृणु॒ही परा᳚चः ||{3/9}{4.6.19.3}{6.25.3}{6.3.2.3}{917, 466, 4643} इन्द्र॑¦जा॒मयः॑¦उ॒त¦ये¦अजा᳚मयः¦अ॒र्वा॒ची॒नासः॑¦व॒नुषः॑¦यु॒यु॒ज्रे | |
शूरो᳚ वा॒ शूरं᳚ वनते॒ शरी᳚रैस्तनू॒रुचा॒ तरु॑षि॒ यत्कृ॒ण्वैते᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तो॒के वा॒ गोषु॒ तन॑ये॒ यद॒प्सु वि क्रन्द॑सी, उ॒र्वरा᳚सु॒ ब्रवै᳚ते ||{4/9}{4.6.19.4}{6.25.4}{6.3.2.4}{918, 466, 4644} शूरः॑¦वा॒¦शूर᳚म्¦व॒न॒ते॒¦शरी᳚रैः¦त॒नू॒ऽरुचा᳚¦तरु॑षि¦यत्¦कृ॒ण्वैते॒ इति॑ | |
न॒हि त्वा॒ शूरो॒ न तु॒रो न धृ॒ष्णुर्न त्वा᳚ यो॒धो मन्य॑मानो यु॒योध॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} इन्द्र॒ नकि॑ष्ट्वा॒ प्रत्य॑स्त्येषां॒ विश्वा᳚ जा॒तान्य॒भ्य॑सि॒ तानि॑ ||{5/9}{4.6.19.5}{6.25.5}{6.3.2.5}{919, 466, 4645} न॒हि¦त्वा॒¦शूरः॑¦न¦तु॒रः¦न¦धृ॒ष्णुः¦न¦त्वा॒¦यो॒धः¦मन्य॑मानः¦यु॒योध॑ | |
स प॑त्यत उ॒भयो᳚र्नृ॒म्णम॒योर्यदी᳚ वे॒धसः॑ समि॒थे हव᳚न्ते |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वृ॒त्रे वा᳚ म॒हो नृ॒वति॒ क्षये᳚ वा॒ व्यच॑स्वन्ता॒ यदि॑ वितन्त॒सैते᳚ ||{6/9}{4.6.20.1}{6.25.6}{6.3.2.6}{920, 466, 4646} सः¦प॒त्य॒ते॒¦उ॒भयोः᳚¦नृ॒म्णम्¦अ॒योः¦यदि॑¦वे॒धसः॑¦स॒म्ऽइ॒थे¦हव᳚न्ते | |
अध॑ स्मा ते चर्ष॒णयो॒ यदेजा॒निन्द्र॑ त्रा॒तोत भ॑वा वरू॒ता |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अ॒स्माका᳚सो॒ ये नृत॑मासो, अ॒र्य इन्द्र॑ सू॒रयो᳚ दधि॒रे पु॒रो नः॑ ||{7/9}{4.6.20.2}{6.25.7}{6.3.2.7}{921, 466, 4647} अध॑¦स्म॒¦ते॒¦च॒र्ष॒णयः॑¦यत्¦एजा᳚न्¦इन्द्र॑¦त्रा॒ता¦उ॒त¦भ॒व॒¦व॒रू॒ता | |
अनु॑ ते दायि म॒ह इ᳚न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अनु॑ क्ष॒त्रमनु॒ सहो᳚ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये᳚ ||{8/9}{4.6.20.3}{6.25.8}{6.3.2.8}{922, 466, 4648} अनु॑¦ते॒¦दा॒यि॒¦म॒हे¦इ॒न्द्रि॒याय॑¦स॒त्रा¦ते॒¦विश्व᳚म्¦अनु॑¦वृ॒त्र॒ऽहत्ये᳚ | |
ए॒वा नः॒ स्पृधः॒ सम॑जा स॒मत्स्विन्द्र॑ रार॒न्धि मि॑थ॒तीरदे᳚वीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो᳚ भ॒रद्वा᳚जा, उ॒त त॑ इन्द्र नू॒नम् ||{9/9}{4.6.20.4}{6.25.9}{6.3.2.9}{923, 466, 4649} ए॒व¦नः॒¦स्पृधः॑¦सम्¦अ॒ज॒¦स॒मत्ऽसु॑¦इन्द्र॑¦र॒र॒न्धि¦मि॒थ॒तीः¦अदे᳚वीः | |
[105] श्रुधीनइत्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् | |
श्रु॒धी न॑ इन्द्र॒ ह्वया᳚मसि त्वा म॒हो वाज॑स्य सा॒तौ वा᳚वृषा॒णाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} सं यद्विशोऽय᳚न्त॒ शूर॑साता, उ॒ग्रं नोऽवः॒ पार्ये॒, अह᳚न्दाः ||{1/8}{4.6.21.1}{6.26.1}{6.3.3.1}{924, 467, 4650} श्रु॒धि¦नः॒¦इ॒न्द्र॒¦ह्वया᳚मसि¦त्वा॒¦म॒हः¦वाज॑स्य¦सा॒तौ¦व॒वृ॒षा॒णाः | |
त्वां वा॒जी ह॑वते वाजिने॒यो म॒हो वाज॑स्य॒ गध्य॑स्य सा॒तौ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} त्वां वृ॒त्रेष्वि᳚न्द्र॒ सत्प॑तिं॒ तरु॑त्रं॒ त्वां च॑ष्टे मुष्टि॒हा गोषु॒ युध्य॑न् ||{2/8}{4.6.21.2}{6.26.2}{6.3.3.2}{925, 467, 4651} त्वाम्¦वा॒जी¦ह॒व॒ते॒¦वा॒जि॒ने॒यः¦म॒हः¦वाज॑स्य¦गध्य॑स्य¦सा॒तौ | |
त्वं क॒विं चो᳚दयो॒ऽर्कसा᳚तौ॒ त्वं कुत्सा᳚य॒ शुष्णं᳚ दा॒शुषे᳚ वर्क् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} त्वं शिरो᳚, अम॒र्मणः॒ परा᳚हन्नतिथि॒ग्वाय॒ शंस्यं᳚ करि॒ष्यन् ||{3/8}{4.6.21.3}{6.26.3}{6.3.3.3}{926, 467, 4652} त्वम्¦क॒विम्¦चो॒द॒यः॒¦अ॒र्कऽसा᳚तौ¦त्वम्¦कुत्सा᳚य¦शुष्ण᳚म्¦दा॒शुषे᳚¦व॒र्क् | |
त्वं रथं॒ प्र भ॑रो यो॒धमृ॒ष्वमावो॒ युध्य᳚न्तं वृष॒भं दश॑द्युम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} त्वं तुग्रं᳚ वेत॒सवे॒ सचा᳚ह॒न्त्वं तुजिं᳚ गृ॒णन्त॑मिन्द्र तूतोः ||{4/8}{4.6.21.4}{6.26.4}{6.3.3.4}{927, 467, 4653} त्वम्¦रथ᳚म्¦प्र¦भ॒रः॒¦यो॒धम्¦ऋ॒ष्वम्¦आवः॑¦युध्य᳚न्तम्¦वृ॒ष॒भम्¦दश॑ऽद्युम् | |
त्वं तदु॒क्थमि᳚न्द्र ब॒र्हणा᳚ कः॒ प्र यच्छ॒ता स॒हस्रा᳚ शूर॒ दर्षि॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अव॑ गि॒रेर्दासं॒ शम्ब॑रं ह॒न् प्रावो॒ दिवो᳚दासं चि॒त्राभि॑रू॒ती ||{5/8}{4.6.21.5}{6.26.5}{6.3.3.5}{928, 467, 4654} त्वम्¦तत्¦उ॒क्थम्¦इ॒न्द्र॒¦ब॒र्हणा᳚¦क॒रिति॑ कः¦प्र¦य॒त्¦श॒ता¦स॒हस्रा᳚¦शू॒र॒¦दर्षि॑ | |
त्वं श्र॒द्धाभि᳚र्मन्दसा॒नः सोमै᳚र्द॒भीत॑ये॒ चुमु॑रिमिन्द्र सिष्वप् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} त्वं र॒जिं पिठी᳚नसे दश॒स्यन्ष॒ष्टिं स॒हस्रा॒ शच्या॒ सचा᳚हन् ||{6/8}{4.6.22.1}{6.26.6}{6.3.3.6}{929, 467, 4655} त्वम्¦श्र॒द्धाभिः॑¦म॒न्द॒सा॒नः¦सोमैः᳚¦द॒भीत॑ये¦चुमु॑रिम्¦इ॒न्द्र॒¦सि॒स्व॒प् | |
अ॒हं च॒न तत्सू॒रिभि॑रानश्यां॒ तव॒ ज्याय॑ इन्द्र सु॒म्नमोजः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} त्वया॒ यत् स्तव᳚न्ते सधवीर वी॒रास्त्रि॒वरू᳚थेन॒ नहु॑षा शविष्ठ ||{7/8}{4.6.22.2}{6.26.7}{6.3.3.7}{930, 467, 4656} अ॒हम्¦च॒न¦तत्¦सू॒रिऽभिः॑¦आ॒न॒श्या॒म्¦तव॑¦ज्यायः॑¦इ॒न्द्र॒¦सु॒म्नम्¦ओजः॑ | |
व॒यं ते᳚, अ॒स्यामि᳚न्द्र द्यु॒म्नहू᳚तौ॒ सखा᳚यः स्याम महिन॒ प्रेष्ठाः᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} प्रात॑र्दनिः, क्षत्र॒श्रीर॑स्तु॒ श्रेष्ठो᳚ घ॒ने वृ॒त्राणां᳚ स॒नये॒ धना᳚नाम् ||{8/8}{4.6.22.3}{6.26.8}{6.3.3.8}{931, 467, 4657} व॒यम्¦ते॒¦अ॒स्याम्¦इ॒न्द्र॒¦द्यु॒म्नऽहू᳚तौ¦सखा᳚यः¦स्या॒म॒¦म॒हि॒न॒¦प्रेष्ठाः᳚ | |
[106] किमस्यमदइत्यष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजरंद्र अंत्यायाश्चायमानोराजात्रिष्टुप् (चायमानस्यराज्ञोदानस्तुतिः) | |
किम॑स्य॒ मदे॒ किम्व॑स्य पी॒ताविन्द्रः॒ किम॑स्य स॒ख्ये च॑कार |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} रणा᳚ वा॒ ये नि॒षदि॒ किं ते, अ॑स्य पु॒रा वि॑विद्रे॒ किमु॒ नूत॑नासः ||{1/8}{4.6.23.1}{6.27.1}{6.3.4.1}{932, 468, 4658} किम्¦अ॒स्य॒¦मदे᳚¦किम्¦ऊँ॒ इति॑¦अ॒स्य॒¦पी॒तौ¦इन्द्रः॑¦किम्¦अ॒स्य॒¦स॒ख्ये¦च॒का॒र॒ | |
सद॑स्य॒ मदे॒ सद्व॑स्य पी॒ताविन्द्रः॒ सद॑स्य स॒ख्ये च॑कार |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} रणा᳚ वा॒ ये नि॒षदि॒ सत्ते, अ॑स्य पु॒रा वि॑विद्रे॒ सदु॒ नूत॑नासः ||{2/8}{4.6.23.2}{6.27.2}{6.3.4.2}{933, 468, 4659} सत्¦अ॒स्य॒¦मदे᳚¦सत्¦ऊँ॒ इति॑¦अ॒स्य॒¦पी॒तौ¦इन्द्रः॑¦सत्¦अ॒स्य॒¦स॒ख्ये¦च॒का॒र॒ | |
न॒हि नु ते᳚ महि॒मनः॑ समस्य॒ न म॑घवन्मघव॒त् त्वस्य॑ वि॒द्म |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} न राध॑सोराधसो॒ नूत॑न॒स्येन्द्र॒ नकि॑र्ददृश इन्द्रि॒यं ते᳚ ||{3/8}{4.6.23.3}{6.27.3}{6.3.4.3}{934, 468, 4660} न॒हि¦नु¦ते॒¦म॒हि॒मनः॑¦स॒म॒स्य॒¦न¦म॒घ॒ऽव॒न्¦म॒घ॒व॒त्ऽत्वस्य॑¦वि॒द्म | |
ए॒तत् त्यत्त॑ इन्द्रि॒यम॑चेति॒ येनाव॑धीर्व॒रशि॑खस्य॒ शेषः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वज्र॑स्य॒ यत्ते॒ निह॑तस्य॒ शुष्मा᳚त्स्व॒नाच्चि॑दिन्द्र पर॒मो द॒दार॑ ||{4/8}{4.6.23.4}{6.27.4}{6.3.4.4}{935, 468, 4661} ए॒तत्¦त्यत्¦ते॒¦इ॒न्द्रि॒यम्¦अ॒चे॒ति॒¦येन॑¦अव॑धीः¦व॒रऽशि॑खस्य¦शेषः॑ | |
वधी॒दिन्द्रो᳚ व॒रशि॑खस्य॒ शेषो᳚ऽभ्याव॒र्तिने᳚ चायमा॒नाय॒ शिक्ष॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वृ॒चीव॑तो॒ यद्ध॑रियू॒पीया᳚यां॒ हन् पूर्वे॒, अर्धे᳚ भि॒यसाप॑रो॒ दर्त् ||{5/8}{4.6.23.5}{6.27.5}{6.3.4.5}{936, 468, 4662} वधी᳚त्¦इन्द्रः॑¦व॒रऽशि॑खस्य¦शेषः॑¦अ॒भि॒ऽआ॒व॒र्तिने᳚¦चा॒य॒मा॒नाय॑¦शिक्ष॑न् | |
त्रिं॒शच्छ॑तं व॒र्मिण॑ इन्द्र सा॒कं य॒व्याव॑त्यां पुरुहूत श्रव॒स्या |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वृ॒चीव᳚न्तः॒ शर॑वे॒ पत्य॑मानाः॒ पात्रा᳚ भिन्दा॒ना न्य॒र्थान्या᳚यन् ||{6/8}{4.6.24.1}{6.27.6}{6.3.4.6}{937, 468, 4663} त्रिं॒शत्ऽश॑तम्¦व॒र्मिणः॑¦इ॒न्द्र॒¦सा॒कम्¦य॒व्याऽव॑त्याम्¦पु॒रु॒ऽहू॒त॒¦श्र॒व॒स्या | |
यस्य॒ गावा᳚वरु॒षा सू᳚यव॒स्यू, अ॒न्तरू॒ षु चर॑तो॒ रेरि॑हाणा |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} स सृञ्ज॑याय तु॒र्वशं॒ परा᳚दाद्वृ॒चीव॑तो दैववा॒ताय॒ शिक्ष॑न् ||{7/8}{4.6.24.2}{6.27.7}{6.3.4.7}{938, 468, 4664} यस्य॑¦गावौ᳚¦अ॒रु॒षा¦सु॒य॒व॒स्यू इति॑ सु॒ऽय॒व॒स्यू¦अ॒न्तः¦ऊँ॒ इति॑¦सु¦चर॑तः¦रेरि॑हाणा | |
द्व॒याँ, अ॑ग्ने र॒थिनो᳚ विंश॒तिं गा व॒धूम॑तो म॒घवा॒ मह्यं᳚ स॒म्राट् |{बार्हस्पत्यो भरद्वाजः | चायमानोराजा | त्रिष्टुप्} अ॒भ्या॒व॒र्ती चा᳚यमा॒नो द॑दाति दू॒णाशे॒यं दक्षि॑णा पार्थ॒वाना᳚म् ||{8/8}{4.6.24.3}{6.27.8}{6.3.4.8}{939, 468, 4665} द्व॒यान्¦अ॒ग्ने॒¦र॒थिनः॑¦विं॒श॒तिम्¦गाः¦व॒धूऽम॑तः¦म॒घऽवा᳚¦मह्य᳚म्¦स॒म्ऽराट् | |
[107] आगावइत्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोगौस्त्रिष्टुप् (द्वितीयाया इंद्रश्चांत्यपादस्यच) द्वितीयाध्यास्तिस्रोजगत्योंत्यानुष्टुप् | |
आ गावो᳚, अग्मन्नु॒त भ॒द्रम॑क्र॒न् त्सीद᳚न्तु गो॒ष्ठे र॒णय᳚न्त्व॒स्मे |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्} प्र॒जाव॑तीः पुरु॒रूपा᳚, इ॒ह स्यु॒रिन्द्रा᳚य पू॒र्वीरु॒षसो॒ दुहा᳚नाः ||{1/8}{4.6.25.1}{6.28.1}{6.3.5.1}{940, 469, 4666} आ¦गावः॑¦अ॒ग्म॒न्¦उ॒त¦भ॒द्रम्¦अ॒क्र॒न्¦सीद᳚न्तु¦गो॒ऽस्थे¦र॒णय᳚न्तु¦अ॒स्मे इति॑ | |
इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिक्ष॒त्युपेद् द॑दाति॒ न स्वं मु॑षायति |{बार्हस्पत्यो भरद्वाजः | गाव इन्द्रो वा | जगती} भूयो᳚भूयो र॒यिमिद॑स्य व॒र्धय॒न्नभि᳚न्ने खि॒ल्ये नि द॑धाति देव॒युम् ||{2/8}{4.6.25.2}{6.28.2}{6.3.5.2}{941, 469, 4667} इन्द्रः॑¦यज्व॑ने¦पृ॒ण॒ते¦च॒¦शि॒क्ष॒ति॒¦उप॑¦इत्¦द॒दा॒ति॒¦न¦स्वम्¦मु॒षा॒य॒ति॒ | |
न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रो॒ नासा᳚मामि॒त्रो व्यथि॒रा द॑धर्षति |{बार्हस्पत्यो भरद्वाजः | गावः | जगती} दे॒वाँश्च॒ याभि॒र्यज॑ते॒ ददा᳚ति च॒ ज्योगित्ताभिः॑ सचते॒ गोप॑तिः स॒ह ||{3/8}{4.6.25.3}{6.28.3}{6.3.5.3}{942, 469, 4668} न¦ताः¦न॒श॒न्ति॒¦न¦द॒भा॒ति॒¦तस्क॑रः¦न¦आ॒सा॒म्¦आ॒मि॒त्रः¦व्यथिः॑¦आ¦द॒ध॒र्ष॒ति॒ | |
न ता, अर्वा᳚ रे॒णुक॑काटो, अश्नुते॒ न सं᳚स्कृत॒त्रमुप॑ यन्ति॒ ता, अ॒भि |{बार्हस्पत्यो भरद्वाजः | गावः | जगती} उ॒रु॒गा॒यमभ॑यं॒ तस्य॒ ता, अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ||{4/8}{4.6.25.4}{6.28.4}{6.3.5.4}{943, 469, 4669} न¦ताः¦अर्वा᳚¦रे॒णुऽक॑काटः¦अ॒श्नु॒ते॒¦न¦सं॒स्कृ॒त॒ऽत्रम्¦उप॑¦य॒न्ति॒¦ताः¦अ॒भि | |
गावो॒ भगो॒ गाव॒ इन्द्रो᳚ मे, अच्छा॒न् गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्} इ॒मा या गावः॒ स ज॑नास॒ इन्द्र॑ इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्र᳚म् ||{5/8}{4.6.25.5}{6.28.5}{6.3.5.5}{944, 469, 4670} गावः॑¦भगः॑¦गावः॑¦इन्द्रः॑¦मे॒¦अ॒च्छा॒न्¦गावः॑¦सोम॑स्य¦प्र॒थ॒मस्य॑¦भ॒क्षः | |
यू॒यं गा᳚वो मेदयथा कृ॒शं चि॑दश्री॒रं चि॑त् कृणुथा सु॒प्रती᳚कम् |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्} भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचो बृ॒हद् वो॒ वय॑ उच्यते स॒भासु॑ ||{6/8}{4.6.25.6}{6.28.6}{6.3.5.6}{945, 469, 4671} यू॒यम्¦गा॒वः॒¦मे॒द॒य॒थ॒¦कृ॒शम्¦चि॒त्¦अ॒श्री॒रम्¦चि॒त्¦कृ॒णु॒थ॒¦सु॒ऽप्रती᳚कम् | |
प्र॒जाव॑तीः सू॒यव॑सं रि॒शन्तीः᳚ शु॒द्धा, अ॒पः सु॑प्रपा॒णे पिब᳚न्तीः |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्} मा वः॑ स्ते॒न ई᳚शत॒ माघशं᳚सः॒ परि॑ वो हे॒ती रु॒द्रस्य॑ वृज्याः ||{7/8}{4.6.25.7}{6.28.7}{6.3.5.7}{946, 469, 4672} प्र॒जाऽव॑तीः¦सु॒ऽयव॑सम्¦रि॒शन्तीः᳚¦शु॒द्धाः¦अ॒पः¦सु॒ऽप्र॒पा॒ने¦पिब᳚न्तीः | |
उपे॒दमु॑प॒पर्च॑नमा॒सु गोषूप॑ पृच्यताम् |{बार्हस्पत्यो भरद्वाजः | गाव इन्द्रो वा | अनुष्टुप्} उप॑ ऋष॒भस्य॒ रेत॒स्युपे᳚न्द्र॒ तव॑ वी॒र्ये᳚ ||{8/8}{4.6.25.8}{6.28.8}{6.3.5.8}{947, 469, 4673} उप॑¦इ॒दम्¦उ॒प॒ऽपर्च॑नम्¦आ॒सु¦गोषु॑¦उप॑¦पृ॒च्य॒ता॒म् | उप॑¦ऋ॒ष॒भस्य॑¦रेत॑सि¦उप॑¦इ॒न्द्र॒¦तव॑¦वी॒र्ये᳚ || |
[108] इंद्रंवइति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् | |
इन्द्रं᳚ वो॒ नरः॑ स॒ख्याय॑ सेपुर्म॒हो यन्तः॑ सुम॒तये᳚ चका॒नाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} म॒हो हि दा॒ता वज्र॑हस्तो॒, अस्ति॑ म॒हामु॑ र॒ण्वमव॑से यजध्वम् ||{1/6}{4.7.1.1}{6.29.1}{6.3.6.1}{948, 470, 4674} इन्द्र᳚म्¦वः॒¦नरः॑¦स॒ख्याय॑¦से॒पुः॒¦म॒हः¦यन्तः॑¦सु॒ऽम॒तये᳚¦च॒का॒नाः | |
आ यस्मि॒न्हस्ते॒ नर्या᳚ मिमि॒क्षुरा रथे᳚ हिर॒ण्यये᳚ रथे॒ष्ठाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} आ र॒श्मयो॒ गभ॑स्त्योः स्थू॒रयो॒राध्व॒न्नश्वा᳚सो॒ वृष॑णो युजा॒नाः ||{2/6}{4.7.1.2}{6.29.2}{6.3.6.2}{949, 470, 4675} आ¦यस्मि॑न्¦हस्ते᳚¦नर्याः᳚¦मि॒मि॒क्षुः¦आ¦रथे᳚¦हि॒र॒ण्यये᳚¦र॒थे॒ऽस्थाः | |
श्रि॒ये ते॒ पादा॒ दुव॒ आ मि॑मिक्षुर्धृ॒ष्णुर्व॒ज्री शव॑सा॒ दक्षि॑णावान् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वसा᳚नो॒, अत्कं᳚ सुर॒भिं दृ॒शे कं स्व१॑(अ॒)र्ण नृ॑तविषि॒रो ब॑भूथ ||{3/6}{4.7.1.3}{6.29.3}{6.3.6.3}{950, 470, 4676} श्रि॒ये¦ते॒¦पादा᳚¦दुवः॑¦आ¦मि॒मि॒क्षुः॒¦धृ॒ष्णुः¦व॒ज्री¦शव॑सा¦दक्षि॑णऽवान् | |
स सोम॒ आमि॑श्लतमः सु॒तो भू॒द्यस्मि᳚न् प॒क्तिः प॒च्यते॒ सन्ति॑ धा॒नाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} इन्द्रं॒ नरः॑ स्तु॒वन्तो᳚ ब्रह्मका॒रा, उ॒क्था शंस᳚न्तो दे॒ववा᳚ततमाः ||{4/6}{4.7.1.4}{6.29.4}{6.3.6.4}{951, 470, 4677} सः¦सोमः॑¦आमि॑श्लऽतमः¦सु॒तः¦भू॒त्¦यस्मि॑न्¦प॒क्तिः¦प॒च्यते᳚¦सन्ति॑¦धा॒नाः | |
न ते॒, अन्तः॒ शव॑सो धाय्य॒स्य वि तु बा᳚बधे॒ रोद॑सी महि॒त्वा |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} आ ता सू॒रिः पृ॑णति॒ तूतु॑जानो यू॒थेवा॒प्सु स॒मीज॑मान ऊ॒ती ||{5/6}{4.7.1.5}{6.29.5}{6.3.6.5}{952, 470, 4678} न¦ते॒¦अन्तः॑¦शव॑सः¦धा॒यि॒¦अ॒स्य¦वि¦तु¦बा॒ब॒धे॒¦रोद॑सी॒ इति॑¦म॒हि॒ऽत्वा | |
ए॒वेदिन्द्रः॑ सु॒हव॑ ऋ॒ष्वो, अ॑स्तू॒ती, अनू᳚ती हिरिशि॒प्रः सत्वा᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} ए॒वा हि जा॒तो, अस॑मात्योजाः पु॒रू च॑ वृ॒त्रा ह॑नति॒ नि दस्यू॑न् ||{6/6}{4.7.1.6}{6.29.6}{6.3.6.6}{953, 470, 4679} ए॒व¦इत्¦इन्द्रः॑¦सु॒ऽहवः॑¦ऋ॒ष्वः¦अ॒स्तु॒¦ऊ॒ती¦अनू᳚ती¦हि॒रि॒ऽशि॒प्रः¦सत्वा᳚ | |
[109] भूयइति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् | |
भूय॒ इद्वा᳚वृधे वी॒र्या᳚यँ॒, एको᳚, अजु॒र्यो द॑यते॒ वसू᳚नि |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} प्र रि॑रिचे दि॒व इन्द्रः॑ पृथि॒व्या, अ॒र्धमिद॑स्य॒ प्रति॒ रोद॑सी, उ॒भे ||{1/5}{4.7.2.1}{6.30.1}{6.3.7.1}{954, 471, 4680} भूयः॑¦इत्¦व॒वृ॒धे॒¦वी॒र्या᳚य¦एकः॑¦अ॒जु॒र्यः¦द॒य॒ते॒¦वसू᳚नि | |
अधा᳚ मन्ये बृ॒हद॑सु॒र्य॑मस्य॒ यानि॑ दा॒धार॒ नकि॒रा मि॑नाति |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} दि॒वेदि॑वे॒ सूर्यो᳚ दर्श॒तो भू॒द्वि सद्मा᳚न्युर्वि॒या सु॒क्रतु॑र्धात् ||{2/5}{4.7.2.2}{6.30.2}{6.3.7.2}{955, 471, 4681} अध॑¦म॒न्ये॒¦बृ॒हत्¦अ॒सु॒र्य᳚म्¦अ॒स्य॒¦यानि॑¦दा॒धार॑¦नकिः॑¦आ¦मि॒ना॒ति॒ | |
अ॒द्या चि॒न्नू चि॒त्तदपो᳚ न॒दीनां॒ यदा᳚भ्यो॒, अर॑दो गा॒तुमि᳚न्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} नि पर्व॑ता, अद्म॒सदो॒ न से᳚दु॒स्त्वया᳚ दृ॒ळ्हानि॑ सुक्रतो॒ रजां᳚सि ||{3/5}{4.7.2.3}{6.30.3}{6.3.7.3}{956, 471, 4682} अ॒द्य¦चि॒त्¦नु¦चि॒त्¦तत्¦अपः॑¦न॒दीना᳚म्¦यत्¦आ॒भ्यः॒¦अर॑दः¦गा॒तुम्¦इ॒न्द्र॒ | |
स॒त्यमित्तन्न त्वावाँ᳚, अ॒न्यो, अ॒स्तीन्द्र॑ दे॒वो न मर्त्यो॒ ज्याया॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अह॒न्नहिं᳚ परि॒शया᳚न॒मर्णोऽवा᳚सृजो, अ॒पो, अच्छा᳚ समु॒द्रम् ||{4/5}{4.7.2.4}{6.30.4}{6.3.7.4}{957, 471, 4683} स॒त्यम्¦इत्¦तत्¦न¦त्वाऽवा᳚न्¦अ॒न्यः¦अ॒स्ति॒¦इन्द्र॑¦दे॒वः¦न¦मर्त्यः॑¦ज्याया॑न् | |
त्वम॒पो वि दुरो॒ विषू᳚ची॒रिन्द्र॑ दृ॒ळ्हम॑रुजः॒ पर्व॑तस्य |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} राजा᳚भवो॒ जग॑तश्चर्षणी॒नां सा॒कं सूर्यं᳚ ज॒नय॒न्द्यामु॒षास᳚म् ||{5/5}{4.7.2.5}{6.30.5}{6.3.7.5}{958, 471, 4684} त्वम्¦अ॒पः¦वि¦दुरः॑¦विषू᳚चीः¦इन्द्र॑¦दृ॒ळ्हम्¦अ॒रु॒जः॒¦पर्व॑तस्य | |
[110] अभूरेकइति पंचर्चस्य सूक्तस्य भारद्वाजः सुहोत्रइंद्रस्त्रिष्टुप् चतुर्थीशक्वरी (सुहोत्रः शुनहोत्रोनरो गर्गऋजिश्वाइत्येते ऋषयोबृहस्पतेः पौत्राउतदौष्षंतेर्भरतस्य पौत्रा इति विषयेइतिहासः श्रूयते) | |
अभू॒रेको᳚ रयिपते रयी॒णामा हस्त॑योरधिथा, इन्द्र कृ॒ष्टीः |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्} वि तो॒के, अ॒प्सु तन॑ये च॒ सूरेऽवो᳚चन्त चर्ष॒णयो॒ विवा᳚चः ||{1/5}{4.7.3.1}{6.31.1}{6.3.8.1}{959, 472, 4685} अभूः᳚¦एकः॑¦र॒यि॒ऽप॒ते॒¦र॒यी॒णाम्¦आ¦हस्त॑योः¦अ॒धि॒थाः॒¦इ॒न्द्र॒¦कृ॒ष्टीः | |
त्वद्भि॒येन्द्र॒ पार्थि॑वानि॒ विश्वाच्यु॑ता चिच्च्यावयन्ते॒ रजां᳚सि |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्} द्यावा॒क्षामा॒ पर्व॑तासो॒ वना᳚नि॒ विश्वं᳚ दृ॒ळ्हं भ॑यते॒, अज्म॒न्ना ते᳚ ||{2/5}{4.7.3.2}{6.31.2}{6.3.8.2}{960, 472, 4686} त्वत्¦भि॒या¦इ॒न्द्र॒¦पार्थि॑वानि¦विश्वा᳚¦अच्यु॑ता¦चि॒त्¦च्य॒व॒य॒न्ते॒¦रजां᳚सि | |
त्वं कुत्से᳚ना॒भि शुष्ण॑मिन्द्रा॒शुषं᳚ युध्य॒ कुय॑वं॒ गवि॑ष्टौ |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्} दश॑ प्रपि॒त्वे, अध॒ सूर्य॑स्य मुषा॒यश्च॒क्रमवि॑वे॒ रपां᳚सि ||{3/5}{4.7.3.3}{6.31.3}{6.3.8.3}{961, 472, 4687} त्वम्¦कुत्से᳚न¦अ॒भि¦शुष्ण᳚म्¦इ॒न्द्र॒¦अ॒शुष᳚म्¦यु॒ध्य॒¦कुय॑वम्¦गोऽइ᳚ष्टौ | |
त्वं श॒तान्यव॒ शम्ब॑रस्य॒ पुरो᳚ जघन्थाप्र॒तीनि॒ दस्योः᳚ |{भारद्वाजः सुहोत्रः | इन्द्रः | शक्वरी} अशि॑क्षो॒ यत्र॒ शच्या᳚ शचीवो॒ दिवो᳚दासाय सुन्व॒ते सु॑तक्रे भ॒रद्वा᳚जाय गृण॒ते वसू᳚नि ||{4/5}{4.7.3.4}{6.31.4}{6.3.8.4}{962, 472, 4688} त्वम्¦श॒तानि॑¦अव॑¦शम्ब॑रस्य¦पुरः॑¦ज॒घ॒न्थ॒¦अ॒प्र॒तीनि॑¦दस्योः᳚ | |
स स॑त्यसत्वन्मह॒ते रणा᳚य॒ रथ॒मा ति॑ष्ठ तुविनृम्ण भी॒मम् |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्} या॒हि प्र॑पथि॒न्नव॒सोप॑ म॒द्रिक्प्र च॑ श्रुत श्रावय चर्ष॒णिभ्यः॑ ||{5/5}{4.7.3.5}{6.31.5}{6.3.8.5}{963, 472, 4689} सः¦स॒त्य॒ऽस॒त्व॒न्¦म॒ह॒ते¦रणा᳚य¦रथ᳚म्¦आ¦ति॒ष्ठ॒¦तु॒वि॒ऽनृ॒म्ण॒¦भी॒मम् | |
[111] अपूर्व्येति पंचर्चस्य सूक्तस्य भारद्वाजः सुहोत्रइंद्रस्त्रिष्टुप् | |
अपू᳚र्व्या पुरु॒तमा᳚न्यस्मै म॒हे वी॒राय॑ त॒वसे᳚ तु॒राय॑ |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्} वि॒र॒प्शिने᳚ व॒ज्रिणे॒ शंत॑मानि॒ वचां᳚स्या॒सा स्थवि॑राय तक्षम् ||{1/5}{4.7.4.1}{6.32.1}{6.3.9.1}{964, 473, 4690} अपू᳚र्व्या¦पु॒रु॒ऽतमा᳚नि¦अ॒स्मै॒¦म॒हे¦वी॒राय॑¦त॒वसे᳚¦तु॒राय॑ | |
स मा॒तरा॒ सूर्ये᳚णा कवी॒नामवा᳚सयद्रु॒जदद्रिं᳚ गृणा॒नः |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्} स्वा॒धीभि॒रृक्व॑भिर्वावशा॒न उदु॒स्रिया᳚णामसृजन्नि॒दान᳚म् ||{2/5}{4.7.4.2}{6.32.2}{6.3.9.2}{965, 473, 4691} सः¦मा॒तरा᳚¦सूर्ये᳚ण¦क॒वी॒नाम्¦अवा᳚सयत्¦रु॒जत्¦अद्रि᳚म्¦गृ॒णा॒नः | |
स वह्नि॑भि॒रृक्व॑भि॒र्गोषु॒ शश्व᳚न्मि॒तज्ञु॑भिः पुरु॒कृत्वा᳚ जिगाय |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्} पुरः॑ पुरो॒हा सखि॑भिः सखी॒यन्दृ॒ळ्हा रु॑रोज क॒विभिः॑ क॒विः सन् ||{3/5}{4.7.4.3}{6.32.3}{6.3.9.3}{966, 473, 4692} सः¦वह्नि॑ऽभिः¦ऋक्व॑ऽभिः¦गोषु॑¦शश्व॑त्¦मि॒तज्ञु॑ऽभिः¦पु॒रु॒ऽकृत्वा᳚¦जि॒गा॒य॒ | |
स नी॒व्या᳚भिर्जरि॒तार॒मच्छा᳚ म॒हो वाजे᳚भिर्म॒हद्भि॑श्च॒ शुष्मैः᳚ |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्} पु॒रु॒वीरा᳚भिर्वृषभ क्षिती॒नामा गि᳚र्वणः सुवि॒ताय॒ प्र या᳚हि ||{4/5}{4.7.4.4}{6.32.4}{6.3.9.4}{967, 473, 4693} सः¦नी॒व्या᳚भिः¦ज॒रि॒तार᳚म्¦अच्छ॑¦म॒हः¦वाजे᳚भिः¦म॒हत्ऽभिः॑¦च॒¦शुष्मैः᳚ | |
स सर्गे᳚ण॒ शव॑सा त॒क्तो, अत्यै᳚र॒प इन्द्रो᳚ दक्षिण॒तस्तु॑रा॒षाट् |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्} इ॒त्था सृ॑जा॒ना, अन॑पावृ॒दर्थं᳚ दि॒वेदि॑वे विविषुरप्रमृ॒ष्यम् ||{5/5}{4.7.4.5}{6.32.5}{6.3.9.5}{968, 473, 4694} सः¦सर्गे᳚ण¦शव॑सा¦त॒क्तः¦अत्यैः᳚¦अ॒पः¦इन्द्रः॑¦द॒क्षि॒ण॒तः¦तु॒रा॒षाट् | |
[112] यओजिष्ठइति पंचर्चस्य सूक्तस्य भारद्वाजः शुनहोत्र इंद्रस्त्रिष्टुप् | |
य ओजि॑ष्ठ इन्द्र॒ तं सु नो᳚ दा॒ मदो᳚ वृषन् त्स्वभि॒ष्टिर्दास्वा॑न् |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} सौव॑श्व्यं॒ यो व॒नव॒त्स्वश्वो᳚ वृ॒त्रा स॒मत्सु॑ सा॒सह॑द॒मित्रा॑न् ||{1/5}{4.7.5.1}{6.33.1}{6.3.10.1}{969, 474, 4695} यः¦ओजि॑ष्ठः¦इ॒न्द्र॒¦तम्¦सु¦नः॒¦दाः॒¦मदः॑¦वृ॒ष॒न्¦सु॒।आ॒भि॒ष्टिः¦दास्वा॑न् | |
त्वां ही॒३॑(ई॒)न्द्राव॑से॒ विवा᳚चो॒ हव᳚न्ते चर्ष॒णयः॒ शूर॑सातौ |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} त्वं विप्रे᳚भि॒र्वि प॒णीँर॑शाय॒स्त्वोत॒ इत्सनि॑ता॒ वाज॒मर्वा᳚ ||{2/5}{4.7.5.2}{6.33.2}{6.3.10.2}{970, 474, 4696} त्वाम्¦हि¦इ॒न्द्र॒¦अव॑से¦विऽवा᳚चः¦हव᳚न्ते¦च॒र्ष॒णयः॑¦शूर॑ऽसातौ | |
त्वं ताँ, इ᳚न्द्रो॒भयाँ᳚, अ॒मित्रा॒न्दासा᳚ वृ॒त्राण्यार्या᳚ च शूर |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} वधी॒र्वने᳚व॒ सुधि॑तेभि॒रत्कै॒रा पृ॒त्सु द॑र्षि नृ॒णां नृ॑तम ||{3/5}{4.7.5.3}{6.33.3}{6.3.10.3}{971, 474, 4697} त्वम्¦तान्¦इ॒न्द्र॒¦उ॒भया᳚न्¦अ॒मित्रा᳚न्¦दासा᳚¦वृ॒त्राणि॑¦आर्या᳚¦च॒¦शू॒र॒ | |
स त्वं न॑ इ॒न्द्राक॑वाभिरू॒ती सखा᳚ वि॒श्वायु॑रवि॒ता वृ॒धे भूः᳚ |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} स्व॑र्षाता॒ यद्ध्वया᳚मसि त्वा॒ युध्य᳚न्तो ने॒मधि॑ता पृ॒त्सु शू᳚र ||{4/5}{4.7.5.4}{6.33.4}{6.3.10.4}{972, 474, 4698} सः¦त्वम्¦नः॒¦इ॒न्द्र॒¦अक॑वाभिः¦ऊ॒ती¦सखा᳚¦वि॒श्वऽआ᳚युः¦अ॒वि॒ता¦वृ॒धे¦भूः॒ | |
नू॒नं न॑ इन्द्राप॒राय॑ च स्या॒ भवा᳚ मृळी॒क उ॒त नो᳚, अ॒भिष्टौ᳚ |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} इ॒त्था गृ॒णन्तो᳚ म॒हिन॑स्य॒ शर्म᳚न्दि॒वि ष्या᳚म॒ पार्ये᳚ गो॒षत॑माः ||{5/5}{4.7.5.5}{6.33.5}{6.3.10.5}{973, 474, 4699} नू॒नम्¦नः॒¦इ॒न्द्र॒¦अ॒प॒राय॑¦च॒¦स्याः॒¦भव॑¦मृ॒ळी॒कः¦उ॒त¦नः॒¦अ॒भिष्टौ᳚ | |
[113] संचत्वइति पंचर्चस्य सूक्तस्य भारद्वाजः शुनहोत्र-इंद्रस्त्रिष्टुप् | |
सं च॒ त्वे ज॒ग्मुर्गिर॑ इन्द्र पू॒र्वीर्वि च॒ त्वद्य᳚न्ति वि॒भ्वो᳚ मनी॒षाः |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} पु॒रा नू॒नं च॑ स्तु॒तय॒ ऋषी᳚णां पस्पृ॒ध्र इन्द्रे॒, अध्यु॑क्था॒र्का ||{1/5}{4.7.6.1}{6.34.1}{6.3.11.1}{974, 475, 4700} सम्¦च॒¦त्वे इति॑¦ज॒ग्मुः¦गिरः॑¦इ॒न्द्र॒¦पू॒र्वीः¦वि¦च॒¦त्वत्¦य॒न्ति॒¦वि॒ऽभ्वः॑¦म॒नी॒षाः | |
पु॒रु॒हू॒तो यः पु॑रुगू॒र्त ऋभ्वाँ॒, एकः॑ पुरुप्रश॒स्तो, अस्ति॑ य॒ज्ञैः |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} रथो॒ न म॒हे शव॑से युजा॒नो॒३॑(ओ॒)ऽस्माभि॒रिन्द्रो᳚, अनु॒माद्यो᳚ भूत् ||{2/5}{4.7.6.2}{6.34.2}{6.3.11.2}{975, 475, 4701} पु॒रु॒ऽहू॒तः¦यः¦पु॒रु॒ऽगू॒र्तः¦ऋभ्वा᳚¦एकः॑¦पु॒रु॒ऽप्र॒श॒स्तः¦अस्ति॑¦य॒ज्ञैः | |
न यं हिंस᳚न्ति धी॒तयो॒ न वाणी॒रिन्द्रं॒ नक्ष॒न्तीद॒भि व॒र्धय᳚न्तीः |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} यदि॑ स्तो॒तारः॑ श॒तं यत्स॒हस्रं᳚ गृ॒णन्ति॒ गिर्व॑णसं॒ शं तद॑स्मै ||{3/5}{4.7.6.3}{6.34.3}{6.3.11.3}{976, 475, 4702} न¦यम्¦हिंस᳚न्ति¦धी॒तयः॑¦न¦वाणीः᳚¦इन्द्र᳚म्¦नक्ष᳚न्ति¦इत्¦अ॒भि¦व॒र्धय᳚न्तीः | |
अस्मा᳚, ए॒तद्दि॒व्य१॑(अ॒)र्चेव॑ मा॒सा मि॑मि॒क्ष इन्द्रे॒ न्य॑यामि॒ सोमः॑ |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} जनं॒ न धन्व᳚न्न॒भि सं यदापः॑ स॒त्रा वा᳚वृधु॒र्हव॑नानि य॒ज्ञैः ||{4/5}{4.7.6.4}{6.34.4}{6.3.11.4}{977, 475, 4703} अस्मै᳚¦ए॒तत्¦दि॒वि¦अ॒र्चाऽइ᳚व¦मा॒सा¦मि॒मि॒क्षः¦इन्द्रे᳚¦नि¦अ॒या॒मि॒¦सोमः॑ | |
अस्मा᳚, ए॒तन्मह्या᳚ङ्गू॒षम॑स्मा॒, इन्द्रा᳚य स्तो॒त्रं म॒तिभि॑रवाचि |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} अस॒द्यथा᳚ मह॒ति वृ॑त्र॒तूर्य॒ इन्द्रो᳚ वि॒श्वायु॑रवि॒ता वृ॒धश्च॑ ||{5/5}{4.7.6.5}{6.34.5}{6.3.11.5}{978, 475, 4704} अस्मै᳚¦ए॒तत्¦महि॑¦आ॒ङ्गू॒षम्¦अ॒स्मै॒¦इन्द्रा᳚य¦स्तो॒त्रम्¦म॒तिऽभिः॑¦अ॒वा॒चि॒ | |
[114] कदाभुवन्निति पंचर्चस्य सूक्तस्य भारद्वाजोनर इंद्रस्त्रिष्टुप् | |
क॒दा भु॑व॒न् रथ॑क्षयाणि॒ ब्रह्म॑ क॒दा स्तो॒त्रे स॑हस्रपो॒ष्यं᳚ दाः |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} क॒दा स्तोमं᳚ वासयोऽस्य रा॒या क॒दा धियः॑ करसि॒ वाज॑रत्नाः ||{1/5}{4.7.7.1}{6.35.1}{6.3.12.1}{979, 476, 4705} क॒दा¦भु॒व॒न्¦रथ॑ऽक्षयाणि¦ब्रह्म॑¦क॒दा¦स्तो॒त्रे¦स॒ह॒स्र॒ऽपो॒ष्य᳚म्¦दाः॒ | |
कर्हि॑ स्वि॒त्तदि᳚न्द्र॒ यन्नृभि॒र्नॄन्वी॒रैर्वी॒रान्नी॒ळया᳚से॒ जया॒जीन् |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} त्रि॒धातु॒ गा, अधि॑ जयासि॒ गोष्विन्द्र॑ द्यु॒म्नं स्व᳚र्वद्धेह्य॒स्मे ||{2/5}{4.7.7.2}{6.35.2}{6.3.12.2}{980, 476, 4706} कर्हि॑¦स्वि॒त्¦तत्¦इ॒न्द्र॒¦यत्¦नृऽभिः॑¦नॄन्¦वी॒रैः¦वी॒रान्¦नी॒ळया᳚से¦जय॑¦आ॒जीन् | |
कर्हि॑ स्वि॒त्तदि᳚न्द्र॒ यज्ज॑रि॒त्रे वि॒श्वप्सु॒ ब्रह्म॑ कृ॒णवः॑ शविष्ठ |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} क॒दा धियो॒ न नि॒युतो᳚ युवासे क॒दा गोम॑घा॒ हव॑नानि गच्छाः ||{3/5}{4.7.7.3}{6.35.3}{6.3.12.3}{981, 476, 4707} कर्हि॑¦स्वि॒त्¦तत्¦इ॒न्द्र॒¦यत्¦ज॒रि॒त्रे¦वि॒श्वऽप्सु॑¦ब्रह्म॑¦कृ॒णवः॑¦श॒वि॒ष्ठ॒ | |
स गोम॑घा जरि॒त्रे, अश्व॑श्चन्द्रा॒ वाज॑श्रवसो॒, अधि॑ धेहि॒ पृक्षः॑ |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} पी॒पि॒हीषः॑ सु॒दुघा᳚मिन्द्र धे॒नुं भ॒रद्वा᳚जेषु सु॒रुचो᳚ रुरुच्याः ||{4/5}{4.7.7.4}{6.35.4}{6.3.12.4}{982, 476, 4708} सः¦गोऽम॑घाः¦ज॒रि॒त्रे¦अश्व॑ऽचन्द्राः¦वाज॑ऽश्रवसः¦अधि॑¦धे॒हि॒¦पृक्षः॑ | |
तमा नू॒नं वृ॒जन॑म॒न्यथा᳚ चि॒च्छूरो॒ यच्छ॑क्र॒ वि दुरो᳚ गृणी॒षे |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} मा निर॑रं शुक्र॒दुघ॑स्य धे॒नोरा᳚ङ्गिर॒सान् ब्रह्म॑णा विप्र जिन्व ||{5/5}{4.7.7.5}{6.35.5}{6.3.12.5}{983, 476, 4709} तम्¦आ¦नू॒नम्¦वृ॒जन᳚म्¦अ॒न्यथा᳚¦चि॒त्¦शूरः॑¦यत्¦श॒क्र॒¦वि¦दुरः॑¦गृ॒णी॒षे | |
[115] सत्रामदासइति पंचर्चस्य सूक्तस्य भारद्वाजोनरइंद्रस्त्रिष्टुप् | |
स॒त्रा मदा᳚स॒स्तव॑ वि॒श्वज᳚न्याः स॒त्रा रायोऽध॒ ये पार्थि॑वासः |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} स॒त्रा वाजा᳚नामभवो विभ॒क्ता यद्दे॒वेषु॑ धा॒रय॑था, असु॒र्य᳚म् ||{1/5}{4.7.8.1}{6.36.1}{6.3.13.1}{984, 477, 4710} स॒त्रा¦मदा᳚सः¦तव॑¦वि॒श्वऽज᳚न्याः¦स॒त्रा¦रायः॑¦अध॑¦ये¦पार्थि॑वासः | |
अनु॒ प्र ये᳚जे॒ जन॒ ओजो᳚, अस्य स॒त्रा द॑धिरे॒, अनु॑ वी॒र्या᳚य |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} स्यू॒म॒गृभे॒ दुध॒येऽर्व॑ते च॒ क्रतुं᳚ वृञ्ज॒न्त्यपि॑ वृत्र॒हत्ये᳚ ||{2/5}{4.7.8.2}{6.36.2}{6.3.13.2}{985, 477, 4711} अनु॑¦प्र¦ये॒जे॒¦जनः॑¦ओजः॑¦अ॒स्य॒¦स॒त्रा¦द॒धि॒रे॒¦अनु॑¦वी॒र्या᳚य | |
तं स॒ध्रीची᳚रू॒तयो॒ वृष्ण्या᳚नि॒ पौंस्या᳚नि नि॒युतः॑ सश्चु॒रिन्द्र᳚म् |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} स॒मु॒द्रं न सिन्ध॑व उ॒क्थशु॑ष्मा, उरु॒व्यच॑सं॒ गिर॒ आ वि॑शन्ति ||{3/5}{4.7.8.3}{6.36.3}{6.3.13.3}{986, 477, 4712} तम्¦स॒ध्रीचीः᳚¦ऊ॒तयः॑¦वृष्ण्या᳚नि¦पौंस्या᳚नि¦नि॒ऽयुतः॑¦स॒श्चु॒ः॑¦इन्द्र᳚म् | |
स रा॒यस्खामुप॑ सृजा गृणा॒नः पु॑रुश्च॒न्द्रस्य॒ त्वमि᳚न्द्र॒ वस्वः॑ |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} पति॑र्बभू॒थास॑मो॒ जना᳚ना॒मेको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा᳚ ||{4/5}{4.7.8.4}{6.36.4}{6.3.13.4}{987, 477, 4713} सः¦रा॒यः¦खाम्¦उप॑¦सृ॒ज॒¦गृ॒णा॒नः¦पु॒रु॒ऽच॒न्द्रस्य॑¦त्वम्¦इ॒न्द्र॒¦वस्वः॑ | |
स तु श्रु॑धि॒ श्रुत्या॒ यो दु॑वो॒युर्द्यौर्न भूमा॒भि रायो᳚, अ॒र्यः |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} असो॒ यथा᳚ नः॒ शव॑सा चका॒नो यु॒गेयु॑गे॒ वय॑सा॒ चेकि॑तानः ||{5/5}{4.7.8.5}{6.36.5}{6.3.13.5}{988, 477, 4714} सः¦तु¦श्रु॒धि॒¦श्रुत्या᳚¦यः¦दु॒वः॒ऽयुः¦द्यौः¦न¦भूम॑¦अ॒भि¦रायः॑¦अ॒र्यः | |
[116] अर्वाग्रथमिति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजः इंद्रस्त्रिष्टुप् | |
अ॒र्वाग्रथं᳚ वि॒श्ववा᳚रं त उ॒ग्रेन्द्र॑ यु॒क्तासो॒ हर॑यो वहन्तु |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} की॒रिश्चि॒द्धि त्वा॒ हव॑ते॒ स्व᳚र्वानृधी॒महि॑ सध॒माद॑स्ते, अ॒द्य ||{1/5}{4.7.9.1}{6.37.1}{6.3.14.1}{989, 478, 4715} अ॒र्वाक्¦रथ᳚म्¦वि॒श्वऽवा᳚रम्¦ते॒¦उ॒ग्र॒¦इन्द्र॑¦यु॒क्तासः॑¦हर॑यः¦व॒ह॒न्तु॒ | |
प्रो द्रोणे॒ हर॑यः॒ कर्मा᳚ग्मन् पुना॒नास॒ ऋज्य᳚न्तो, अभूवन् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} इन्द्रो᳚ नो, अ॒स्य पू॒र्व्यः प॑पीयाद्द्यु॒क्षो मद॑स्य सो॒म्यस्य॒ राजा᳚ ||{2/5}{4.7.9.2}{6.37.2}{6.3.14.2}{990, 478, 4716} प्रो इति॑¦द्रोणे᳚¦हर॑यः¦कर्म॑¦अ॒ग्म॒न्¦पु॒ना॒नासः॑¦ऋज्य᳚न्तः¦अ॒भू॒व॒न् | |
आ॒स॒स्रा॒णासः॑ शवसा॒नमच्छेन्द्रं᳚ सुच॒क्रे र॒थ्या᳚सो॒, अश्वाः᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अ॒भि श्रव॒ ऋज्य᳚न्तो वहेयु॒र्नू चि॒न्नु वा॒योर॒मृतं॒ वि द॑स्येत् ||{3/5}{4.7.9.3}{6.37.3}{6.3.14.3}{991, 478, 4717} आ॒ऽस॒स्रा॒णासः॑¦श॒व॒सा॒नम्¦अच्छ॑¦इन्द्र᳚म्¦सु॒ऽच॒क्रे¦र॒थ्या᳚सः¦अश्वाः᳚ | |
वरि॑ष्ठो, अस्य॒ दक्षि॑णामिय॒र्तीन्द्रो᳚ म॒घोनां᳚ तुविकू॒र्मित॑मः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यया᳚ वज्रिवः परि॒यास्यंहो᳚ म॒घा च॑ धृष्णो॒ दय॑से॒ वि सू॒रीन् ||{4/5}{4.7.9.4}{6.37.4}{6.3.14.4}{992, 478, 4718} वरि॑ष्ठः¦अ॒स्य॒¦दक्षि॑णाम्¦इ॒य॒र्ति॒¦इन्द्रः॑¦म॒घोना᳚म्¦तु॒वि॒कू॒र्मिऽत॑मः | |
इन्द्रो॒ वाज॑स्य॒ स्थवि॑रस्य दा॒तेन्द्रो᳚ गी॒र्भिर्व॑र्धतां वृ॒द्धम॑हाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} इन्द्रो᳚ वृ॒त्रं हनि॑ष्ठो, अस्तु॒ सत्वा ता सू॒रिः पृ॑णति॒ तूतु॑जानः ||{5/5}{4.7.9.5}{6.37.5}{6.3.14.5}{993, 478, 4719} इन्द्रः॑¦वाज॑स्य¦स्थवि॑रस्य¦दा॒ता¦इन्द्रः॑¦गीः॒ऽभिः¦व॒र्ध॒ता॒म्¦वृ॒द्धऽम॑हाः | |
[117] अपादितइति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् | |
अपा᳚दि॒त उदु॑ नश्चि॒त्रत॑मो म॒हीं भ॑र्षद्द्यु॒मती॒मिन्द्र॑हूतिम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} पन्य॑सीं धी॒तिं दैव्य॑स्य॒ याम॒ञ्जन॑स्य रा॒तिं व॑नते सु॒दानुः॑ ||{1/5}{4.7.10.1}{6.38.1}{6.3.15.1}{994, 479, 4720} अपा᳚त्¦इ॒तः¦उत्¦ऊँ॒ इति॑¦नः॒¦चि॒त्रऽत॑मः¦म॒हीम्¦भ॒र्ष॒त्¦द्यु॒ऽमती᳚म्¦इन्द्र॑ऽहूतिम् | |
दू॒राच्चि॒दा व॑सतो, अस्य॒ कर्णा॒ घोषा॒दिन्द्र॑स्य तन्यति ब्रुवा॒णः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} एयमे᳚नं दे॒वहू᳚तिर्ववृत्यान्म॒द्र्य१॑(अ॒)गिन्द्र॑मि॒यमृ॒च्यमा᳚ना ||{2/5}{4.7.10.2}{6.38.2}{6.3.15.2}{995, 479, 4721} दू॒रात्¦चि॒त्¦आ¦व॒स॒तः॒¦अ॒स्य॒¦कर्णा᳚¦घोषा᳚त्¦इन्द्र॑स्य¦त॒न्य॒ति॒¦ब्रु॒वा॒णः | |
तं वो᳚ धि॒या प॑र॒मया᳚ पुरा॒जाम॒जर॒मिन्द्र॑म॒भ्य॑नूष्य॒र्कैः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} ब्रह्मा᳚ च॒ गिरो᳚ दधि॒रे सम॑स्मिन्म॒हाँश्च॒ स्तोमो॒, अधि॑ वर्ध॒दिन्द्रे᳚ ||{3/5}{4.7.10.3}{6.38.3}{6.3.15.3}{996, 479, 4722} तम्¦वः॒¦धि॒या¦प॒र॒मया᳚¦पु॒रा॒ऽजाम्¦अ॒जर᳚म्¦इन्द्र᳚म्¦अ॒भि¦अ॒नू॒षि॒¦अ॒र्कैः | |
वर्धा॒द्यं य॒ज्ञ उ॒त सोम॒ इन्द्रं॒ वर्धा॒द्ब्रह्म॒ गिर॑ उ॒क्था च॒ मन्म॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वर्धाहै᳚नमु॒षसो॒ याम᳚न्न॒क्तोर्वर्धा॒न्मासाः᳚ श॒रदो॒ द्याव॒ इन्द्र᳚म् ||{4/5}{4.7.10.4}{6.38.4}{6.3.15.4}{997, 479, 4723} वर्धा᳚त्¦यम्¦य॒ज्ञः¦उ॒त¦सोमः॑¦इन्द्र᳚म्¦वर्धा᳚त्¦ब्रह्म॑¦गिरः॑¦उ॒क्था¦च॒¦मन्म॑ | |
ए॒वा ज॑ज्ञा॒नं सह॑से॒, असा᳚मि वावृधा॒नं राध॑से च श्रु॒ताय॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} म॒हामु॒ग्रमव॑से विप्र नू॒नमा वि॑वासेम वृत्र॒तूर्ये᳚षु ||{5/5}{4.7.10.5}{6.38.5}{6.3.15.5}{998, 479, 4724} ए॒व¦ज॒ज्ञा॒नम्¦सह॑से¦असा᳚मि¦व॒वृ॒धा॒नम्¦राध॑से¦च॒¦श्रु॒ताय॑ | |
[118] मंद्रस्य कवेरितिपंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् | |
म॒न्द्रस्य॑ क॒वेर्दि॒व्यस्य॒ वह्ने॒र्विप्र॑मन्मनो वच॒नस्य॒ मध्वः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अपा᳚ न॒स्तस्य॑ सच॒नस्य॑ दे॒वेषो᳚ युवस्व गृण॒ते गो,अ॑ग्राः ||{1/5}{4.7.11.1}{6.39.1}{6.3.16.1}{999, 480, 4725} म॒न्द्रस्य॑¦क॒वेः¦दि॒व्यस्य॑¦वह्नेः᳚¦विप्र॑ऽमन्मनः¦व॒च॒नस्य॑¦मध्वः॑ | |
अ॒यमु॑शा॒नः पर्यद्रि॑मु॒स्रा, ऋ॒तधी᳚तिभिरृत॒युग्यु॑जा॒नः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} रु॒जदरु॑ग्णं॒ वि व॒लस्य॒ सानुं᳚ प॒णीँर्वचो᳚भिर॒भि यो᳚ध॒दिन्द्रः॑ ||{2/5}{4.7.11.2}{6.39.2}{6.3.16.2}{1000, 480, 4726} अ॒यम्¦उ॒शा॒नः¦परि॑¦अद्रि᳚म्¦उ॒स्राः¦ऋ॒तधी᳚तिऽभिः¦ऋ॒त॒ऽयुक्¦यु॒जा॒नः | |
अ॒यं द्यो᳚तयद॒द्युतो॒ व्य१॑(अ॒)क्तून्दो॒षा वस्तोः᳚ श॒रद॒ इन्दु॑रिन्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} इ॒मं के॒तुम॑दधु॒र्नू चि॒दह्नां॒ शुचि॑जन्मन उ॒षस॑श्चकार ||{3/5}{4.7.11.3}{6.39.3}{6.3.16.3}{1001, 480, 4727} अ॒यम्¦द्यो॒त॒य॒त्¦अ॒द्युतः॑¦वि¦अ॒क्तून्¦दो॒षा¦वस्तोः᳚¦श॒रदः॑¦इन्दुः॑¦इ॒न्द्र॒ | |
अ॒यं रो᳚चयद॒रुचो᳚ रुचा॒नो॒३॑(ओ॒)ऽयं वा᳚सय॒द्व्यृ१॑(ऋ॒)तेन॑ पू॒र्वीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अ॒यमी᳚यत ऋत॒युग्भि॒रश्वैः᳚ स्व॒र्विदा॒ नाभि॑ना चर्षणि॒प्राः ||{4/5}{4.7.11.4}{6.39.4}{6.3.16.4}{1002, 480, 4728} अ॒यम्¦रो॒च॒य॒त्¦अ॒रुचः॑¦रु॒चा॒नः¦अ॒यम्¦वा॒स॒य॒त्¦वि¦ऋ॒तेन॑¦पू॒र्वीः | |
नू गृ॑णा॒नो गृ॑ण॒ते प्र॑त्न राज॒न्निषः॑ पिन्व वसु॒देया᳚य पू॒र्वीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अ॒प ओष॑धीरवि॒षा वना᳚नि॒ गा, अर्व॑तो॒ नॄनृ॒चसे᳚ रिरीहि ||{5/5}{4.7.11.5}{6.39.5}{6.3.16.5}{1003, 480, 4729} नु¦गृ॒णा॒नः¦गृ॒ण॒ते¦प्र॒त्न॒¦रा॒ज॒न्¦इषः॑¦पि॒न्व॒¦व॒सु॒ऽदेया᳚य¦पू॒र्वीः | |
[119] इंद्रपिबेति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् | |
इन्द्र॒ पिब॒ तुभ्यं᳚ सु॒तो मदा॒याव॑ स्य॒ हरी॒ वि मु॑चा॒ सखा᳚या |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} उ॒त प्र गा᳚य ग॒ण आ नि॒षद्याथा᳚ य॒ज्ञाय॑ गृण॒ते वयो᳚ धाः ||{1/5}{4.7.12.1}{6.40.1}{6.3.17.1}{1004, 481, 4730} इन्द्र॑¦पिब॑¦तुभ्य᳚म्¦सु॒तः¦मदा᳚य¦अव॑¦स्य॒¦हरी॒ इति॑¦वि¦मु॒च॒¦सखा᳚या | |
अस्य॑ पिब॒ यस्य॑ जज्ञा॒न इ᳚न्द्र॒ मदा᳚य॒ क्रत्वे॒, अपि॑बो विरप्शिन् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तमु॑ ते॒ गावो॒ नर॒ आपो॒, अद्रि॒रिन्दुं॒ सम॑ह्यन् पी॒तये॒ सम॑स्मै ||{2/5}{4.7.12.2}{6.40.2}{6.3.17.2}{1005, 481, 4731} अस्य॑¦पि॒ब॒¦यस्य॑¦ज॒ज्ञा॒नः¦इ॒न्द्र॒¦मदा᳚य¦क्रत्वे᳚¦अपि॑बः¦वि॒ऽर॒प्शि॒न् | |
समि॑द्धे, अ॒ग्नौ सु॒त इ᳚न्द्र॒ सोम॒ आ त्वा᳚ वहन्तु॒ हर॑यो॒ वहि॑ष्ठाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} त्वा॒य॒ता मन॑सा जोहवी॒मीन्द्रा या᳚हि सुवि॒ताय॑ म॒हे नः॑ ||{3/5}{4.7.12.3}{6.40.3}{6.3.17.3}{1006, 481, 4732} सम्ऽइ᳚द्धे¦अ॒ग्नौ¦सु॒ते¦इ॒न्द्र॒¦सोमे᳚¦आ¦त्वा॒¦व॒ह॒न्तु॒¦हर॑यः¦वहि॑ष्ठाः | |
आ या᳚हि॒ शश्व॑दुश॒ता य॑या॒थेन्द्र॑ म॒हा मन॑सा सोम॒पेय᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} उप॒ ब्रह्मा᳚णि शृणव इ॒मा नोऽथा᳚ ते य॒ज्ञस्त॒न्वे॒३॑(ए॒) वयो᳚ धात् ||{4/5}{4.7.12.4}{6.40.4}{6.3.17.4}{1007, 481, 4733} आ¦या॒हि॒¦शश्व॑त्¦उ॒श॒ता¦य॒या॒थ॒¦इन्द्र॑¦म॒हा¦मन॑सा¦सो॒म॒ऽपेय᳚म् | |
यदि᳚न्द्र दि॒वि पार्ये॒ यदृध॒ग्यद्वा॒ स्वे सद॑ने॒ यत्र॒ वासि॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अतो᳚ नो य॒ज्ञमव॑से नि॒युत्वा᳚न् त्स॒जोषाः᳚ पाहि गिर्वणो म॒रुद्भिः॑ ||{5/5}{4.7.12.5}{6.40.5}{6.3.17.5}{1008, 481, 4734} यत्¦इ॒न्द्र॒¦दि॒वि¦पार्ये᳚¦यत्¦ऋध॑क्¦यत्¦वा॒¦स्वे¦सद॑ने¦यत्र॑¦वा॒¦असि॑ | |
[120] अहेळमानइति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् | |
अहे᳚ळमान॒ उप॑ याहि य॒ज्ञं तुभ्यं᳚ पवन्त॒ इन्द॑वः सु॒तासः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} गावो॒ न व॑ज्रि॒न् त्स्वमोको॒, अच्छेन्द्रा ग॑हि प्रथ॒मो य॒ज्ञिया᳚नाम् ||{1/5}{4.7.13.1}{6.41.1}{6.3.18.1}{1009, 482, 4735} अहे᳚ळमानः¦उप॑¦या॒हि॒¦य॒ज्ञम्¦तुभ्य᳚म्¦प॒व॒न्ते॒¦इन्द॑वः¦सु॒तासः॑ | |
या ते᳚ का॒कुत्सुकृ॑ता॒ या वरि॑ष्ठा॒ यया॒ शश्व॒त्पिब॑सि॒ मध्व॑ ऊ॒र्मिम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तया᳚ पाहि॒ प्र ते᳚, अध्व॒र्युर॑स्था॒त्सं ते॒ वज्रो᳚ वर्ततामिन्द्र ग॒व्युः ||{2/5}{4.7.13.2}{6.41.2}{6.3.18.2}{1010, 482, 4736} या¦ते॒¦का॒कुत्¦सुऽकृ॑ता¦या¦वरि॑ष्ठा¦यया᳚¦शश्व॑त्¦पिब॑सि¦मध्वः॑¦ऊ॒र्मिम् | |
ए॒ष द्र॒प्सो वृ॑ष॒भो वि॒श्वरू᳚प॒ इन्द्रा᳚य॒ वृष्णे॒ सम॑कारि॒ सोमः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} ए॒तं पि॑ब हरिवः स्थातरुग्र॒ यस्येशि॑षे प्र॒दिवि॒ यस्ते॒, अन्न᳚म् ||{3/5}{4.7.13.3}{6.41.3}{6.3.18.3}{1011, 482, 4737} ए॒षः¦द्र॒प्सः¦वृ॒ष॒भः¦वि॒श्वऽरू᳚पः¦इन्द्रा᳚य¦वृष्णे᳚¦सम्¦अ॒का॒रि॒¦सोमः॑ | |
सु॒तः सोमो॒, असु॑तादिन्द्र॒ वस्या᳚न॒यं श्रेया᳚ञ्चिकि॒तुषे॒ रणा᳚य |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} ए॒तं ति॑तिर्व॒ उप॑ याहि य॒ज्ञं तेन॒ विश्वा॒स्तवि॑षी॒रा पृ॑णस्व ||{4/5}{4.7.13.4}{6.41.4}{6.3.18.4}{1012, 482, 4738} सु॒तः¦सोमः॑¦असु॑तात्¦इ॒न्द्र॒¦वस्या᳚न्¦अ॒यम्¦श्रेया᳚न्¦चि॒कि॒तुषे᳚¦रणा᳚य | |
ह्वया᳚मसि॒ त्वेन्द्र॑ याह्य॒र्वाङरं᳚ ते॒ सोम॑स्त॒न्वे᳚ भवाति |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} शत॑क्रतो मा॒दय॑स्वा सु॒तेषु॒ प्रास्माँ, अ॑व॒ पृत॑नासु॒ प्र वि॒क्षु ||{5/5}{4.7.13.5}{6.41.5}{6.3.18.5}{1013, 482, 4739} ह्वया᳚मसि¦त्वा॒¦आ¦इ॒न्द्र॒¦या॒हि॒¦अ॒र्वाङ्¦अर᳚म्¦ते॒¦सोमः॑¦त॒न्वे᳚¦भ॒वा॒ति॒ | |
[121] प्रत्यस्मा इति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रोनुष्टुबंत्याबृहती | |
प्रत्य॑स्मै॒ पिपी᳚षते॒ विश्वा᳚नि वि॒दुषे᳚ भर |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | अनुष्टुप्} अ॒रं॒ग॒माय॒ जग्म॒येऽप॑श्चाद्दघ्वने॒ नरे᳚ ||{1/4}{4.7.14.1}{6.42.1}{6.3.19.1}{1014, 483, 4740} प्रति॑¦अ॒स्मै॒¦पिपी᳚षते¦विश्वा᳚नि¦वि॒दुषे᳚¦भ॒र॒ | अ॒र॒म्ऽग॒माय॑¦जग्म॑ये¦अप॑श्चात्ऽदघ्वने¦नरे᳚ || |
एमे᳚नं प्र॒त्येत॑न॒ सोमे᳚भिः सोम॒पात॑मम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | अनुष्टुप्} अम॑त्रेभिरृजी॒षिण॒मिन्द्रं᳚ सु॒तेभि॒रिन्दु॑भिः ||{2/4}{4.7.14.2}{6.42.2}{6.3.19.2}{1015, 483, 4741} आ¦ई॒म्¦ए॒न॒म्¦प्र॒ति॒ऽएत॑न¦सोमे᳚भिः¦सो॒म॒ऽपात॑मम् | अम॑त्रेभिः¦ऋ॒जी॒षिण᳚म्¦इन्द्र᳚म्¦सु॒तेभिः॑¦इन्दु॑ऽभिः || |
यदी᳚ सु॒तेभि॒रिन्दु॑भिः॒ सोमे᳚भिः प्रति॒भूष॑थ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | अनुष्टुप्} वेदा॒ विश्व॑स्य॒ मेधि॑रो धृ॒षत्तंत॒मिदेष॑ते ||{3/4}{4.7.14.3}{6.42.3}{6.3.19.3}{1016, 483, 4742} यदि॑¦सु॒तेभिः॑¦इन्दु॑ऽभिः¦सोमे᳚भिः¦प्र॒ति॒ऽभूष॑थ | वेद॑¦विश्व॑स्य¦मेधि॑रः¦धृ॒षत्¦तम्ऽत᳚म्¦इत्¦आ¦ई॒ष॒ते॒ || |
अ॒स्मा,अ॑स्मा॒, इदन्ध॒सोऽध्व᳚र्यो॒ प्र भ॑रा सु॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | बृहती} कु॒वित्स॑मस्य॒ जेन्य॑स्य॒ शर्ध॑तो॒ऽभिश॑स्तेरव॒स्पर॑त् ||{4/4}{4.7.14.4}{6.42.4}{6.3.19.4}{1017, 483, 4743} अ॒स्मै।आ॑स्मै¦इत्¦अन्ध॑सः¦अध्व᳚र्यो॒ इति॑¦प्र¦भ॒र॒¦सु॒तम् | |
[122] यस्यत्यदिति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रउष्णिक् | |
यस्य॒ त्यच्छम्ब॑रं॒ मदे॒ दिवो᳚दासाय र॒न्धयः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | उष्णिक्} अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ||{1/4}{4.7.15.1}{6.43.1}{6.3.20.1}{1018, 484, 4744} यस्य॑¦त्यत्¦शम्ब॑रम्¦मदे᳚¦दिवः॑ऽदासाय¦र॒न्धयः॑ | अ॒यम्¦सः¦सोमः॑¦इ॒न्द्र॒¦ते॒¦सु॒तः¦पिब॑ || |
यस्य॑ तीव्र॒सुतं॒ मदं॒ मध्य॒मन्तं᳚ च॒ रक्ष॑से |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | उष्णिक्} अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ||{2/4}{4.7.15.2}{6.43.2}{6.3.20.2}{1019, 484, 4745} यस्य॑¦ती॒व्र॒ऽसुत᳚म्¦मद᳚म्¦मध्य᳚म्¦अन्त᳚म्¦च॒¦रक्ष॑से | अ॒यम्¦सः¦सोमः॑¦इ॒न्द्र॒¦ते॒¦सु॒तः¦पिब॑ || |
यस्य॒ गा, अ॒न्तरश्म॑नो॒ मदे᳚ दृ॒ळ्हा, अ॒वासृ॑जः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | उष्णिक्} अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ||{3/4}{4.7.15.3}{6.43.3}{6.3.20.3}{1020, 484, 4746} यस्य॑¦गाः¦अ॒न्तः¦अश्म॑नः¦मदे᳚¦दृ॒ळ्हाः¦अ॒व॒।आसृ॑जः | अ॒यम्¦सः¦सोमः॑¦इ॒न्द्र॒¦ते॒¦सु॒तः¦पिब॑ || |
यस्य॑ मन्दा॒नो, अन्ध॑सो॒ माघो᳚नं दधि॒षे शवः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | उष्णिक्} अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ||{4/4}{4.7.15.4}{6.43.4}{6.3.20.4}{1021, 484, 4747} यस्य॑¦म॒न्दा॒नः¦अन्ध॑सः¦माघो᳚नम्¦द॒धि॒षे¦शवः॑ | अ॒यम्¦सः¦सोमः॑¦इ॒न्द्र॒¦ते॒¦सु॒तः¦पिब॑ || |
[123] योरयिवइति चतुर्विंशत्यृचस्य सूक्तस्य बार्हस्पत्यः शंयुरिंद्रस्त्रिष्टुबाद्याः षढनुष्टुभः सप्तम्यादितिस्रो विराट्पंक्त्यः | (तिसृष्वष्टम्येवविराट् सप्तमीनवम्यौतु त्रिष्टुभाविति केचित्) | |
यो र॑यिवो र॒यिंत॑मो॒ यो द्यु॒म्नैर्द्यु॒म्नव॑त्तमः |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्} सोमः॑ सु॒तः स इ᳚न्द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ||{1/24}{4.7.16.1}{6.44.1}{6.4.1.1}{1022, 485, 4748} यः¦र॒यि॒ऽवः॒¦र॒यिम्ऽत॑मः¦यः¦द्यु॒म्नैः¦द्यु॒म्नव॑त्ऽतमः | सोमः॑¦सु॒तः¦सः¦इ॒न्द्र॒¦ते॒¦अस्ति॑¦स्व॒धा॒ऽप॒ते॒¦मदः॑ || |
यः श॒ग्मस्तु॑विशग्म ते रा॒यो दा॒मा म॑ती॒नाम् |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्} सोमः॑ सु॒तः स इ᳚न्द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ||{2/24}{4.7.16.2}{6.44.2}{6.4.1.2}{1023, 485, 4749} यः¦श॒ग्मः¦तु॒वि॒ऽश॒ग्म॒¦ते॒¦रा॒यः¦दा॒मा¦म॒ती॒नाम् | सोमः॑¦सु॒तः¦सः¦इ॒न्द्र॒¦ते॒¦अस्ति॑¦स्व॒धा॒ऽप॒ते॒¦मदः॑ || |
येन॑ वृ॒द्धो न शव॑सा तु॒रो न स्वाभि॑रू॒तिभिः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्} सोमः॑ सु॒तः स इ᳚न्द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ||{3/24}{4.7.16.3}{6.44.3}{6.4.1.3}{1024, 485, 4750} येन॑¦वृ॒द्धः¦न¦शव॑सा¦तु॒रः¦न¦स्वाभिः॑¦ऊ॒तिऽभिः॑ | सोमः॑¦सु॒तः¦सः¦इ॒न्द्र॒¦ते॒¦अस्ति॑¦स्व॒धा॒ऽप॒ते॒¦मदः॑ || |
त्यमु॑ वो॒, अप्र॑हणं गृणी॒षे शव॑स॒स्पति᳚म् |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्} इन्द्रं᳚ विश्वा॒साहं॒ नरं॒ मंहि॑ष्ठं वि॒श्वच॑र्षणिम् ||{4/24}{4.7.16.4}{6.44.4}{6.4.1.4}{1025, 485, 4751} त्यम्¦ऊँ॒ इति॑¦वः॒¦अप्र॑ऽहनम्¦गृ॒णी॒षे¦शव॑सः¦पति᳚म् | इन्द्र᳚म्¦वि॒श्व॒ऽसह᳚म्¦नर᳚म्¦मंहि॑ष्ठम्¦वि॒श्वऽच॑र्षणिम् || |
यं व॒र्धय॒न्तीद्गिरः॒ पतिं᳚ तु॒रस्य॒ राध॑सः |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्} तमिन्न्व॑स्य॒ रोद॑सी दे॒वी शुष्मं᳚ सपर्यतः ||{5/24}{4.7.16.5}{6.44.5}{6.4.1.5}{1026, 485, 4752} यम्¦व॒र्धय᳚न्ति¦इत्¦गिरः॑¦पति᳚म्¦तु॒रस्य॑¦राध॑सः | तम्¦इत्¦नु¦अ॒स्य॒¦रोद॑सी॒ इति॑¦दे॒वी इति॑¦शुष्म᳚म्¦स॒प॒र्य॒तः॒ || |
तद्व॑ उ॒क्थस्य॑ ब॒र्हणेन्द्रा᳚योपस्तृणी॒षणि॑ |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्} विपो॒ न यस्यो॒तयो॒ वि यद्रोह᳚न्ति स॒क्षितः॑ ||{6/24}{4.7.17.1}{6.44.6}{6.4.1.6}{1027, 485, 4753} तत्¦वः॒¦उ॒क्थस्य॑¦ब॒र्हणा᳚¦इन्द्रा᳚य¦उ॒प॒ऽस्तृ॒णी॒षणि॑ | विपः॑¦न¦यस्य॑¦ऊ॒तयः॑¦वि¦यत्¦रोह᳚न्ति¦स॒ऽक्षितः॑ || |
अवि॑द॒द्दक्षं᳚ मि॒त्रो नवी᳚यान् पपा॒नो दे॒वेभ्यो॒ वस्यो᳚, अचैत् |{बार्हस्पत्यः शंयः | इन्द्रः | पङ्क्तिः} स॒स॒वान् त्स्तौ॒लाभि॑र्धौ॒तरी᳚भिरुरु॒ष्या पा॒युर॑भव॒त्सखि॑भ्यः ||{7/24}{4.7.17.2}{6.44.7}{6.4.1.7}{1028, 485, 4754} अवि॑दत्¦दक्ष᳚म्¦मि॒त्रः¦नवी᳚यान्¦प॒पा॒नः¦दे॒वेभ्यः॑¦वस्यः॑¦अ॒चै॒त् | |
ऋ॒तस्य॑ प॒थि वे॒धा, अ॑पायि श्रि॒ये मनां᳚सि दे॒वासो᳚, अक्रन् |{बार्हस्पत्यः शंयः | इन्द्रः | पङ्क्तिः} दधा᳚नो॒ नाम॑ म॒हो वचो᳚भि॒र्वपु॑र्दृ॒शये᳚ वे॒न्यो व्या᳚वः ||{8/24}{4.7.17.3}{6.44.8}{6.4.1.8}{1029, 485, 4755} ऋ॒तस्य॑¦प॒थि¦वे॒धाः¦अ॒पा॒यि॒¦श्रि॒ये¦मनां᳚सि¦दे॒वासः॑¦अ॒क्र॒न् | |
द्यु॒मत्त॑मं॒ दक्षं᳚ धेह्य॒स्मे सेधा॒ जना᳚नां पू॒र्वीररा᳚तीः |{बार्हस्पत्यः शंयः | इन्द्रः | पङ्क्तिः} वर्षी᳚यो॒ वयः॑ कृणुहि॒ शची᳚भि॒र्धन॑स्य सा॒ताव॒स्माँ, अ॑विड्ढि ||{9/24}{4.7.17.4}{6.44.9}{6.4.1.9}{1030, 485, 4756} द्यु॒मत्ऽत॑मम्¦दक्ष᳚म्¦धे॒हि॒¦अ॒स्मे इति॑¦सेध॑¦जना᳚नाम्¦पू॒र्वीः¦अरा᳚तीः | |
इन्द्र॒ तुभ्य॒मिन्म॑घवन्नभूम व॒यं दा॒त्रे ह॑रिवो॒ मा वि वे᳚नः |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} नकि॑रा॒पिर्द॑दृशे मर्त्य॒त्रा किम॒ङ्ग र॑ध्र॒चोद॑नं त्वाहुः ||{10/24}{4.7.17.5}{6.44.10}{6.4.1.10}{1031, 485, 4757} इन्द्र॑¦तुभ्य᳚म्¦इत्¦म॒घ॒ऽव॒न्¦अ॒भू॒म॒¦व॒यम्¦दा॒त्रे¦ह॒रि॒ऽवः॒¦मा¦वि¦वे॒नः॒ | |
मा जस्व॑ने वृषभ नो ररीथा॒ मा ते᳚ रे॒वतः॑ स॒ख्ये रि॑षाम |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} पू॒र्वीष्ट॑ इन्द्र नि॒ष्षिधो॒ जने᳚षु ज॒ह्यसु॑ष्वी॒न् प्र वृ॒हापृ॑णतः ||{11/24}{4.7.18.1}{6.44.11}{6.4.1.11}{1032, 485, 4758} मा¦जस्व॑ने¦वृ॒ष॒भ॒¦नः॒¦र॒री॒थाः॒¦मा¦ते॒¦रे॒वतः॑¦स॒ख्ये¦रि॒षा॒म॒ | |
उद॒भ्राणी᳚व स्त॒नय᳚न्निय॒र्तीन्द्रो॒ राधां॒स्यश्व्या᳚नि॒ गव्या᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} त्वम॑सि प्र॒दिवः॑ का॒रुधा᳚या॒ मा त्वा᳚दा॒मान॒ आ द॑भन्म॒घोनः॑ ||{12/24}{4.7.18.2}{6.44.12}{6.4.1.12}{1033, 485, 4759} उत्¦अ॒भ्राणि॑ऽइव¦स्त॒नय॑न्¦इ॒य॒र्ति॒¦इन्द्रः॑¦राधां᳚सि¦अश्व्या᳚नि¦गव्या᳚ | |
अध्व᳚र्यो वीर॒ प्र म॒हे सु॒ताना॒मिन्द्रा᳚य भर॒ स ह्य॑स्य॒ राजा᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} यः पू॒र्व्याभि॑रु॒त नूत॑नाभिर्गी॒र्भिर्वा᳚वृ॒धे गृ॑ण॒तामृषी᳚णाम् ||{13/24}{4.7.18.3}{6.44.13}{6.4.1.13}{1034, 485, 4760} अध्व᳚र्यो॒ इति॑¦वी॒र॒¦प्र¦म॒हे¦सु॒ताना᳚म्¦इन्द्रा᳚य¦भ॒र॒¦सः¦हि¦अ॒स्य॒¦राजा᳚ | |
अ॒स्य मदे᳚ पु॒रु वर्पां᳚सि वि॒द्वानिन्द्रो᳚ वृ॒त्राण्य॑प्र॒ती ज॑घान |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} तमु॒ प्र हो᳚षि॒ मधु॑मन्तमस्मै॒ सोमं᳚ वी॒राय॑ शि॒प्रिणे॒ पिब॑ध्यै ||{14/24}{4.7.18.4}{6.44.14}{6.4.1.14}{1035, 485, 4761} अ॒स्य¦मदे᳚¦पु॒रु¦वर्पां᳚सि¦वि॒द्वान्¦इन्द्रः॑¦वृ॒त्राणि॑¦अ॒प्र॒ति¦ज॒घा॒न॒ | |
पाता᳚ सु॒तमिन्द्रो᳚, अस्तु॒ सोमं॒ हन्ता᳚ वृ॒त्रं वज्रे᳚ण मन्दसा॒नः |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} गन्ता᳚ य॒ज्ञं प॑रा॒वत॑श्चि॒दच्छा॒ वसु॑र्धी॒नाम॑वि॒ता का॒रुधा᳚याः ||{15/24}{4.7.18.5}{6.44.15}{6.4.1.15}{1036, 485, 4762} पाता᳚¦सु॒तम्¦इन्द्रः॑¦अ॒स्तु॒¦सोम᳚म्¦हन्ता᳚¦वृ॒त्रम्¦वज्रे᳚ण¦म॒न्द॒सा॒नः | |
इ॒दं त्यत्पात्र॑मिन्द्र॒पान॒मिन्द्र॑स्य प्रि॒यम॒मृत॑मपायि |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} मत्स॒द्यथा᳚ सौमन॒साय॑ दे॒वं व्य१॑(अ॒)स्मद्द्वेषो᳚ यु॒यव॒द् व्यंहः॑ ||{16/24}{4.7.19.1}{6.44.16}{6.4.1.16}{1037, 485, 4763} इ॒दम्¦त्यत्¦पात्र᳚म्¦इ॒न्द्र॒ऽपान᳚म्¦इन्द्र॑स्य¦प्रि॒यम्¦अ॒मृत᳚म्¦अ॒पा॒यि॒ | |
ए॒ना म᳚न्दा॒नो ज॒हि शू᳚र॒ शत्रू᳚ञ्जा॒मिमजा᳚मिं मघवन्न॒मित्रा॑न् |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} अ॒भि॒षे॒णाँ, अ॒भ्या॒३॑(आ॒)देदि॑शाना॒न् परा᳚च इन्द्र॒ प्र मृ॑णा ज॒ही च॑ ||{17/24}{4.7.19.2}{6.44.17}{6.4.1.17}{1038, 485, 4764} ए॒ना¦म॒न्दा॒नः¦ज॒हि¦शू॒र॒¦शत्रू᳚न्¦जा॒मिम्¦अजा᳚मिम्¦म॒घ॒ऽव॒न्¦अ॒मित्रा॑न् | |
आ॒सु ष्मा᳚ णो मघवन्निन्द्र पृ॒त्स्व१॑(अ॒)स्मभ्यं॒ महि॒ वरि॑वः सु॒गं कः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} अ॒पां तो॒कस्य॒ तन॑यस्य जे॒ष इन्द्र॑ सू॒रीन् कृ॑णु॒हि स्मा᳚ नो, अ॒र्धम् ||{18/24}{4.7.19.3}{6.44.18}{6.4.1.18}{1039, 485, 4765} आ॒सु¦स्म॒¦नः॒¦म॒घ॒ऽव॒न्¦इ॒न्द्र॒¦पृ॒त्ऽसु¦अ॒स्मभ्य᳚म्¦महि॑¦वरि॑वः¦सु॒ऽगम्¦क॒रिति॑ कः | |
आ त्वा॒ हर॑यो॒ वृष॑णो युजा॒ना वृष॑रथासो॒ वृष॑रश्म॒योऽत्याः᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} अ॒स्म॒त्राञ्चो॒ वृष॑णो वज्र॒वाहो॒ वृष्णे॒ मदा᳚य सु॒युजो᳚ वहन्तु ||{19/24}{4.7.19.4}{6.44.19}{6.4.1.19}{1040, 485, 4766} आ¦त्वा॒¦हर॑यः¦वृष॑णः¦यु॒जा॒नाः¦वृष॑ऽरथासः¦वृष॑ऽरश्मयः¦अत्याः᳚ | |
आ ते᳚ वृष॒न् वृष॑णो॒ द्रोण॑मस्थुर्घृत॒प्रुषो॒ नोर्मयो॒ मद᳚न्तः |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} इन्द्र॒ प्र तुभ्यं॒ वृष॑भिः सु॒तानां॒ वृष्णे᳚ भरन्ति वृष॒भाय॒ सोम᳚म् ||{20/24}{4.7.19.5}{6.44.20}{6.4.1.20}{1041, 485, 4767} आ¦ते॒¦वृ॒ष॒न्¦वृष॑णः¦द्रोण᳚म्¦अ॒स्थुः॒¦घृ॒त॒ऽप्रुषः॑¦न¦ऊ॒र्मयः॑¦मद᳚न्तः | |
वृषा᳚सि दि॒वो वृ॑ष॒भः पृ॑थि॒व्या वृषा॒ सिन्धू᳚नां वृष॒भः स्तिया᳚नाम् |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} वृष्णे᳚ त॒ इन्दु᳚र्वृषभ पीपाय स्वा॒दू रसो᳚ मधु॒पेयो॒ वरा᳚य ||{21/24}{4.7.20.1}{6.44.21}{6.4.1.21}{1042, 485, 4768} वृषा᳚¦अ॒सि॒¦दि॒वः¦वृ॒ष॒भः¦पृ॒थि॒व्याः¦वृषा᳚¦सिन्धू᳚नाम्¦वृ॒ष॒भः¦स्तिया᳚नाम् | |
अ॒यं दे॒वः सह॑सा॒ जाय॑मान॒ इन्द्रे᳚ण यु॒जा प॒णिम॑स्तभायत् |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} अ॒यं स्वस्य॑ पि॒तुरायु॑धा॒नीन्दु॑रमुष्णा॒दशि॑वस्य मा॒याः ||{22/24}{4.7.20.2}{6.44.22}{6.4.1.22}{1043, 485, 4769} अ॒यम्¦दे॒वः¦सह॑सा¦जाय॑मानः¦इन्द्रे᳚ण¦यु॒जा¦प॒णिम्¦अ॒स्त॒भा॒य॒त् | |
अ॒यम॑कृणोदु॒षसः॑ सु॒पत्नी᳚र॒यं सूर्ये᳚, अदधा॒ज्ज्योति॑र॒न्तः |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} अ॒यं त्रि॒धातु॑ दि॒वि रो᳚च॒नेषु॑ त्रि॒तेषु॑ विन्दद॒मृतं॒ निगू᳚ळ्हम् ||{23/24}{4.7.20.3}{6.44.23}{6.4.1.23}{1044, 485, 4770} अ॒यम्¦अ॒कृ॒णो॒त्¦उ॒षसः॑¦सु॒ऽपत्नीः᳚¦अ॒यम्¦सूर्ये᳚¦अ॒द॒धा॒त्¦ज्योतिः॑¦अ॒न्तरिति॑ | |
अ॒यं द्यावा᳚पृथि॒वी वि ष्क॑भायद॒यं रथ॑मयुनक्स॒प्तर॑श्मिम् |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} अ॒यं गोषु॒ शच्या᳚ प॒क्वम॒न्तः सोमो᳚ दाधार॒ दश॑यन्त्र॒मुत्स᳚म् ||{24/24}{4.7.20.4}{6.44.24}{6.4.1.24}{1045, 485, 4771} अ॒यम्¦द्यावा᳚पृथि॒वी इति॑¦वि¦स्क॒भा॒य॒त्¦अ॒यम्¦रथ᳚म्¦अ॒यु॒न॒क्¦स॒प्तऽर॑श्मिम् | |
[124] यआनयदिति त्रयस्त्रिंशदृचस्य सूक्तस्य बार्हस्पत्यः शंयुरिंद्रोंत्यतृचस्यबृबुस्तक्षा गायत्री एकोनत्रिंश्यतिनिचृद् एकत्रिंशीपादनिचृदंत्यानुष्टुप् | |
य आन॑यत्परा॒वतः॒ सुनी᳚ती तु॒र्वशं॒ यदु᳚म् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} इन्द्रः॒ स नो॒ युवा॒ सखा᳚ ||{1/33}{4.7.21.1}{6.45.1}{6.4.2.1}{1046, 486, 4772} यः¦आ¦अन॑यत्¦प॒रा॒ऽवतः॑¦सुऽनी᳚ती¦तु॒र्वश᳚म्¦यदु᳚म् | इन्द्रः॑¦सः¦नः॒¦युवा᳚¦सखा᳚ || |
अ॒वि॒प्रे चि॒द्वयो॒ दध॑दना॒शुना᳚ चि॒दर्व॑ता |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} इन्द्रो॒ जेता᳚ हि॒तं धन᳚म् ||{2/33}{4.7.21.2}{6.45.2}{6.4.2.2}{1047, 486, 4773} अ॒वि॒प्रे¦चि॒त्¦वयः॑¦दध॑त्¦अ॒ना॒शुना᳚¦चि॒त्¦अर्व॑ता | इन्द्रः॑¦जेता᳚¦हि॒तम्¦धन᳚म् || |
म॒हीर॑स्य॒ प्रणी᳚तयः पू॒र्वीरु॒त प्रश॑स्तयः |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} नास्य॑ क्षीयन्त ऊ॒तयः॑ ||{3/33}{4.7.21.3}{6.45.3}{6.4.2.3}{1048, 486, 4774} म॒हीः¦अ॒स्य॒¦प्रऽनी᳚तयः¦पू॒र्वीः¦उ॒त¦प्रऽश॑स्तयः | न¦अ॒स्य॒¦क्षी॒य॒न्ते॒¦ऊ॒तयः॑ || |
सखा᳚यो॒ ब्रह्म॑वाह॒सेऽर्च॑त॒ प्र च॑ गायत |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} स हि नः॒ प्रम॑तिर्म॒ही ||{4/33}{4.7.21.4}{6.45.4}{6.4.2.4}{1049, 486, 4775} सखा᳚यः¦ब्रह्म॑ऽवाहसे¦अर्च॑त¦प्र¦च॒¦गा॒य॒त॒ | सः¦हि¦नः॒¦प्रऽम॑तिः¦म॒ही || |
त्वमेक॑स्य वृत्रहन्नवि॒ता द्वयो᳚रसि |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} उ॒तेदृशे॒ यथा᳚ व॒यम् ||{5/33}{4.7.21.5}{6.45.5}{6.4.2.5}{1050, 486, 4776} त्वम्¦एक॑स्य¦वृ॒त्र॒ऽह॒न्¦अ॒वि॒ता¦द्वयोः᳚¦अ॒सि॒ | उ॒त¦ई॒दृशे᳚¦यथा᳚¦व॒यम् || |
नय॒सीद्वति॒ द्विषः॑ कृ॒णोष्यु॑क्थशं॒सिनः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} नृभिः॑ सु॒वीर॑ उच्यसे ||{6/33}{4.7.22.1}{6.45.6}{6.4.2.6}{1051, 486, 4777} नय॑सि¦इत्¦ऊँ॒ इति॑¦अति॑¦द्विषः॑¦कृ॒णोषि॑¦उ॒क्थ॒ऽशं॒सिनः॑ | नृऽभिः॑¦सु॒ऽवीरः॑¦उ॒च्य॒से॒ || |
ब्र॒ह्माणं॒ ब्रह्म॑वाहसं गी॒र्भिः सखा᳚यमृ॒ग्मिय᳚म् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} गां न दो॒हसे᳚ हुवे ||{7/33}{4.7.22.2}{6.45.7}{6.4.2.7}{1052, 486, 4778} ब्र॒ह्माण᳚म्¦ब्रह्म॑ऽवाहसम्¦गीः॒ऽभिः¦सखा᳚यम्¦ऋ॒ग्मिय᳚म् | गाम्¦न¦दो॒हसे᳚¦हु॒वे॒ || |
यस्य॒ विश्वा᳚नि॒ हस्त॑योरू॒चुर्वसू᳚नि॒ नि द्वि॒ता |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} वी॒रस्य॑ पृतना॒षहः॑ ||{8/33}{4.7.22.3}{6.45.8}{6.4.2.8}{1053, 486, 4779} यस्य॑¦विश्वा᳚नि¦हस्त॑योः¦ऊ॒चुः¦वसू᳚नि¦नि¦द्वि॒ता | वी॒रस्य॑¦पृ॒त॒ना॒ऽसहः॑ || |
वि दृ॒ळ्हानि॑ चिदद्रिवो॒ जना᳚नां शचीपते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} वृ॒ह मा॒या, अ॑नानत ||{9/33}{4.7.22.4}{6.45.9}{6.4.2.9}{1054, 486, 4780} वि¦दृ॒ळ्हानि॑¦चि॒त्¦अ॒द्रि॒ऽवः॒¦जना᳚नाम्¦श॒ची॒ऽप॒ते॒ | वृ॒ह¦मा॒याः¦अ॒ना॒न॒त॒ || |
तमु॑ त्वा सत्य सोमपा॒, इन्द्र॑ वाजानां पते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} अहू᳚महि श्रव॒स्यवः॑ ||{10/33}{4.7.22.5}{6.45.10}{6.4.2.10}{1055, 486, 4781} तम्¦ऊँ॒ इति॑¦त्वा॒¦स॒त्य॒¦सो॒म॒ऽपाः॒¦इन्द्र॑¦वा॒जा॒ना॒म्¦प॒ते॒ | अहू᳚महि¦श्र॒व॒स्यवः॑ || |
तमु॑ त्वा॒ यः पु॒रासि॑थ॒ यो वा᳚ नू॒नं हि॒ते धने᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} हव्यः॒ स श्रु॑धी॒ हव᳚म् ||{11/33}{4.7.23.1}{6.45.11}{6.4.2.11}{1056, 486, 4782} तम्¦ऊँ॒ इति॑¦त्वा॒¦यः¦पु॒रा¦आसि॑थ¦यः¦वा॒¦नू॒नम्¦हि॒ते¦धने᳚ | हव्यः॑¦सः¦श्रु॒धि॒¦हव᳚म् || |
धी॒भिरर्व॑द्भि॒रर्व॑तो॒ वाजाँ᳚, इन्द्र श्र॒वाय्या॑न् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} त्वया᳚ जेष्म हि॒तं धन᳚म् ||{12/33}{4.7.23.2}{6.45.12}{6.4.2.12}{1057, 486, 4783} धी॒भिः¦अर्व॑त्ऽभिः¦अर्व॑तः¦वाजा᳚न्¦इ॒न्द्र॒¦श्र॒वाय्या॑न् | त्वया᳚¦जे॒ष्म॒¦हि॒तम्¦धन᳚म् || |
अभू᳚रु वीर गिर्वणो म॒हाँ, इ᳚न्द्र॒ धने᳚ हि॒ते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} भरे᳚ वितन्त॒साय्यः॑ ||{13/33}{4.7.23.3}{6.45.13}{6.4.2.13}{1058, 486, 4784} अभूः᳚¦ऊँ॒ इति॑¦वी॒र॒¦गि॒र्व॒णः॒¦म॒हान्¦इ॒न्द्र॒¦धने᳚¦हि॒ते | भरे᳚¦वि॒त॒न्त॒साय्यः॑ || |
या त॑ ऊ॒तिर॑मित्रहन्म॒क्षूज॑वस्त॒मास॑ति |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} तया᳚ नो हिनुही॒ रथ᳚म् ||{14/33}{4.7.23.4}{6.45.14}{6.4.2.14}{1059, 486, 4785} या¦ते॒¦ऊ॒तिः¦अ॒मि॒त्र॒ऽह॒न्¦म॒क्षुज॑वःऽतमा¦अस॑ति | तया᳚¦नः॒¦हि॒नु॒हि॒¦रथ᳚म् || |
स रथे᳚न र॒थीत॑मो॒ऽस्माके᳚नाभि॒युग्व॑ना |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} जेषि॑ जिष्णो हि॒तं धन᳚म् ||{15/33}{4.7.23.5}{6.45.15}{6.4.2.15}{1060, 486, 4786} सः¦रथे᳚न¦र॒थिऽत॑मः¦अ॒स्माके᳚न¦अ॒भि॒ऽयुग्व॑ना | जेषि॑¦जि॒ष्णो॒ इति॑¦हि॒तम्¦धन᳚म् || |
य एक॒ इत्तमु॑ ष्टुहि कृष्टी॒नां विच॑र्षणिः |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} पति॑र्ज॒ज्ञे वृष॑क्रतुः ||{16/33}{4.7.24.1}{6.45.16}{6.4.2.16}{1061, 486, 4787} यः¦एकः॑¦इत्¦तम्¦ऊँ॒ इति॑¦स्तु॒हि॒¦कृ॒ष्टी॒नाम्¦विऽच॑र्षणिः | पतिः॑¦ज॒ज्ञे¦वृष॑ऽक्रतुः || |
यो गृ॑ण॒तामिदासि॑था॒पिरू॒ती शि॒वः सखा᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} स त्वं न॑ इन्द्र मृळय ||{17/33}{4.7.24.2}{6.45.17}{6.4.2.17}{1062, 486, 4788} यः¦गृ॒ण॒ताम्¦इत्¦आसि॑थ¦आ॒पिः¦ऊ॒ती¦शि॒वः¦सखा᳚ | सः¦त्वम्¦नः॒¦इ॒न्द्र॒¦मृ॒ळ॒य॒ || |
धि॒ष्व वज्रं॒ गभ॑स्त्यो रक्षो॒हत्या᳚य वज्रिवः |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} सा॒स॒ही॒ष्ठा, अ॒भि स्पृधः॑ ||{18/33}{4.7.24.3}{6.45.18}{6.4.2.18}{1063, 486, 4789} धि॒ष्व¦वज्र᳚म्¦गभ॑स्त्योः¦र॒क्षः॒ऽहत्या᳚य¦व॒ज्रि॒ऽवः॒ | स॒स॒ही॒ष्ठाः¦अ॒भि¦स्पृधः॑ || |
प्र॒त्नं र॑यी॒णां युजं॒ सखा᳚यं कीरि॒चोद॑नम् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} ब्रह्म॑वाहस्तमं हुवे ||{19/33}{4.7.24.4}{6.45.19}{6.4.2.19}{1064, 486, 4790} प्र॒त्नम्¦र॒यी॒णाम्¦युज᳚म्¦सखा᳚यम्¦की॒रि॒ऽचोद॑नम् | ब्रह्म॑वाहःऽतमम्¦हु॒वे॒ || |
स हि विश्वा᳚नि॒ पार्थि॑वाँ॒, एको॒ वसू᳚नि॒ पत्य॑ते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} गिर्व॑णस्तमो॒, अध्रि॑गुः ||{20/33}{4.7.24.5}{6.45.20}{6.4.2.20}{1065, 486, 4791} सः¦हि¦विश्वा᳚नि¦पार्थि॑वा¦एकः॑¦वसू᳚नि¦पत्य॑ते | गिर्व॑णःऽतमः¦अध्रि॑ऽगुः || |
स नो᳚ नि॒युद्भि॒रा पृ॑ण॒ कामं॒ वाजे᳚भिर॒श्विभिः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} गोम॑द्भिर्गोपते धृ॒षत् ||{21/33}{4.7.25.1}{6.45.21}{6.4.2.21}{1066, 486, 4792} सः¦नः॒¦नि॒युत्ऽभिः॑¦आ¦पृ॒ण॒¦काम᳚म्¦वाजे᳚भिः¦अ॒श्विऽभिः॑ | गोम॑त्ऽभिः¦गो॒ऽप॒ते॒¦धृ॒षत् || |
तद्वो᳚ गाय सु॒ते सचा᳚ पुरुहू॒ताय॒ सत्व॑ने |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} शं यद्गवे॒ न शा॒किने᳚ ||{22/33}{4.7.25.2}{6.45.22}{6.4.2.22}{1067, 486, 4793} तत्¦वः॒¦गा॒य॒¦सु॒ते¦सचा᳚¦पु॒रु॒ऽहू॒ताय॑¦सत्व॑ने | शम्¦यत्¦गवे᳚¦न¦शा॒किने᳚ || |
न घा॒ वसु॒र्नि य॑मते दा॒नं वाज॑स्य॒ गोम॑तः |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} यत्सी॒मुप॒ श्रव॒द्गिरः॑ ||{23/33}{4.7.25.3}{6.45.23}{6.4.2.23}{1068, 486, 4794} न¦घ॒¦वसुः॑¦नि¦य॒म॒ते॒¦दा॒नम्¦वाज॑स्य¦गोऽम॑तः | यत्¦सी॒म्¦उप॑¦श्र॒व॒त्¦गिरः॑ || |
कु॒वित्स॑स्य॒ प्र हि व्र॒जं गोम᳚न्तं दस्यु॒हा गम॑त् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} शची᳚भि॒रप॑ नो वरत् ||{24/33}{4.7.25.4}{6.45.24}{6.4.2.24}{1069, 486, 4795} कु॒वित्ऽस॑स्य¦प्र¦हि¦व्र॒जम्¦गोऽम᳚न्तम्¦द॒स्यु॒ऽहा¦गम॑त् | शची᳚भिः¦अप॑¦नः॒¦व॒र॒त् || |
इ॒मा, उ॑ त्वा शतक्रतो॒ऽभि प्र णो᳚नुवु॒र्गिरः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} इन्द्र॑ व॒त्सं न मा॒तरः॑ ||{25/33}{4.7.25.5}{6.45.25}{6.4.2.25}{1070, 486, 4796} इ॒माः¦ऊँ॒ इति॑¦त्वा॒¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो¦अ॒भि¦प्र¦नो॒नु॒वुः॒¦गिरः॑ | इन्द्र॑¦व॒त्सम्¦न¦मा॒तरः॑ || |
दू॒णाशं᳚ स॒ख्यं तव॒ गौर॑सि वीर गव्य॒ते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} अश्वो᳚, अश्वाय॒ते भ॑व ||{26/33}{4.7.26.1}{6.45.26}{6.4.2.26}{1071, 486, 4797} दुः॒ऽनश᳚म्¦स॒ख्यम्¦तव॑¦गौः¦अ॒सि॒¦वी॒र॒¦ग॒व्य॒ते | अश्वः॑¦अ॒श्व॒ऽय॒ते¦भ॒व॒ || |
स म᳚न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वा᳚ म॒हे |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} न स्तो॒तारं᳚ नि॒दे क॑रः ||{27/33}{4.7.26.2}{6.45.27}{6.4.2.27}{1072, 486, 4798} सः¦म॒न्द॒स्व॒¦हि¦अन्ध॑सः¦राध॑से¦त॒न्वा᳚¦म॒हे | न¦स्तो॒तार᳚म्¦नि॒दे¦क॒रः॒ || |
इ॒मा, उ॑ त्वा सु॒तेसु॑ते॒ नक्ष᳚न्ते गिर्वणो॒ गिरः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} व॒त्सं गावो॒ न धे॒नवः॑ ||{28/33}{4.7.26.3}{6.45.28}{6.4.2.28}{1073, 486, 4799} इ॒माः¦ऊँ॒ इति॑¦त्वा॒¦सु॒तेऽसु॑ते¦नक्ष᳚न्ते¦गि॒र्व॒णः॒¦गिरः॑ | व॒त्सम्¦गावः॑¦न¦धे॒नवः॑ || |
पु॒रू॒तमं᳚ पुरू॒णां स्तो᳚तॄ॒णां विवा᳚चि |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} वाजे᳚भिर्वाजय॒ताम् ||{29/33}{4.7.26.4}{6.45.29}{6.4.2.29}{1074, 486, 4800} पु॒रु॒ऽतम᳚म्¦पु॒रू॒णाम्¦स्तो॒तॄ॒णाम्¦विऽवा᳚चि | वाजे᳚भिः¦वा॒ज॒ऽय॒ताम् || |
अ॒स्माक॑मिन्द्र भूतु ते॒ स्तोमो॒ वाहि॑ष्ठो॒, अन्त॑मः |{बार्हस्पत्यः शंयः | बृबुस्तक्षा | गायत्री} अ॒स्मान् रा॒ये म॒हे हि॑नु ||{30/33}{4.7.26.5}{6.45.30}{6.4.2.30}{1075, 486, 4801} अ॒स्माक᳚म्¦इ॒न्द्र॒¦भू॒तु॒¦ते॒¦स्तोमः॑¦वाहि॑ष्ठः¦अन्त॑मः | अ॒स्मान्¦रा॒ये¦म॒हे¦हि॒नु॒ || |
अधि॑ बृ॒बुः प॑णी॒नां वर्षि॑ष्ठे मू॒र्धन्न॑स्थात् |{बार्हस्पत्यः शंयः | बृबुस्तक्षा | गायत्री} उ॒रुः कक्षो॒ न गा॒ङ्ग्यः ||{31/33}{4.7.26.6}{6.45.31}{6.4.2.31}{1076, 486, 4802} अधि॑¦बृ॒बुः¦प॒णी॒नाम्¦वर्षि॑ष्ठे¦मू॒र्धन्¦अ॒स्था॒त् | उ॒रुः¦कक्षः॑¦न¦गा॒ङ्ग्यः || |
यस्य॑ वा॒योरि॑व द्र॒वद्भ॒द्रा रा॒तिः स॑ह॒स्रिणी᳚ |{बार्हस्पत्यः शंयः | बृबुस्तक्षा | गायत्री} स॒द्यो दा॒नाय॒ मंह॑ते ||{32/33}{4.7.26.7}{6.45.32}{6.4.2.32}{1077, 486, 4803} यस्य॑¦वा॒योःऽइ᳚व¦द्र॒वत्¦भ॒द्रा¦रा॒तिः¦स॒ह॒स्रिणी᳚ | स॒द्यः¦दा॒नाय॑¦मंह॑ते || |
तत्सु नो॒ विश्वे᳚, अ॒र्य आ सदा᳚ गृणन्ति का॒रवः॑ |{बार्हस्पत्यः शंयः | बृबुस्तक्षा | अनुष्टुप्} बृ॒बुं स॑हस्र॒दात॑मं सू॒रिं स॑हस्र॒सात॑मम् ||{33/33}{4.7.26.8}{6.45.33}{6.4.2.33}{1078, 486, 4804} तत्¦सु¦नः॒¦विश्वे᳚¦अ॒र्यः¦आ¦सदा᳚¦गृ॒ण॒न्ति॒¦का॒रवः॑ | बृ॒बुम्¦स॒ह॒स्र॒ऽदात॑मम्¦सू॒रिम्¦स॒ह॒स्र॒ऽसात॑मम् || |
[125] त्वामिद्धीति चतुर्दशर्चस्य सूक्तस्य बार्हस्पत्यः शंयुरिंद्रः अयुजोबृहत्यः युजःसतोबृहत्यः | |
त्वामिद्धि हवा᳚महे सा॒ता वाज॑स्य का॒रवः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती} त्वां वृ॒त्रेष्वि᳚न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः ||{1/14}{4.7.27.1}{6.46.1}{6.4.3.1}{1079, 487, 4805} त्वाम्¦इत्¦हि¦हवा᳚महे¦सा॒ता¦वाज॑स्य¦का॒रवः॑ | |
स त्वं न॑श्चित्र वज्रहस्त धृष्णु॒या म॒हः स्त॑वा॒नो, अ॑द्रिवः |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती} गामश्वं᳚ र॒थ्य॑मिन्द्र॒ सं कि॑र स॒त्रा वाजं॒ न जि॒ग्युषे᳚ ||{2/14}{4.7.27.2}{6.46.2}{6.4.3.2}{1080, 487, 4806} सः¦त्वम्¦नः॒¦चि॒त्र॒¦व॒ज्र॒ऽह॒स्त॒¦धृ॒ष्णु॒ऽया¦म॒हः¦स्त॒वा॒नः¦अ॒द्रि॒ऽवः॒ | |
यः स॑त्रा॒हा विच॑र्षणि॒रिन्द्रं॒ तं हू᳚महे व॒यम् |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती} सह॑स्रमुष्क॒ तुवि॑नृम्ण॒ सत्प॑ते॒ भवा᳚ स॒मत्सु॑ नो वृ॒धे ||{3/14}{4.7.27.3}{6.46.3}{6.4.3.3}{1081, 487, 4807} यः¦स॒त्रा॒ऽहा¦विऽच॑र्षणिः¦इन्द्र᳚म्¦तम्¦हू॒म॒हे॒¦व॒यम् | |
बाध॑से॒ जना᳚न् वृष॒भेव॑ म॒न्युना॒ घृषौ᳚ मी॒ळ्ह ऋ॑चीषम |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती} अ॒स्माकं᳚ बोध्यवि॒ता म॑हाध॒ने त॒नूष्व॒प्सु सूर्ये᳚ ||{4/14}{4.7.27.4}{6.46.4}{6.4.3.4}{1082, 487, 4808} बाध॑से¦जना᳚न्¦वृ॒ष॒भाऽइ᳚व¦म॒न्युना᳚¦घृषौ᳚¦मी॒ळ्हे¦ऋ॒ची॒ष॒म॒ | |
इन्द्र॒ ज्येष्ठं᳚ न॒ आ भ॑रँ॒, ओजि॑ष्ठं॒ पपु॑रि॒ श्रवः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती} येने॒मे चि॑त्र वज्रहस्त॒ रोद॑सी॒, ओभे सु॑शिप्र॒ प्राः ||{5/14}{4.7.27.5}{6.46.5}{6.4.3.5}{1083, 487, 4809} इन्द्र॑¦ज्येष्ठ᳚म्¦नः॒¦आ¦भ॒र॒¦ओजि॑ष्ठम्¦पपु॑रि¦श्रवः॑ | |
त्वामु॒ग्रमव॑से चर्षणी॒सहं॒ राज᳚न्दे॒वेषु॑ हूमहे |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती} विश्वा॒ सु नो᳚ विथु॒रा पि॑ब्द॒ना व॑सो॒ऽमित्रा᳚न् त्सु॒षहा᳚न् कृधि ||{6/14}{4.7.28.1}{6.46.6}{6.4.3.6}{1084, 487, 4810} त्वाम्¦उ॒ग्रम्¦अव॑से¦च॒र्ष॒णि॒ऽसह᳚म्¦राज॑न्¦दे॒वेषु॑¦हू॒म॒हे॒ | |
यदि᳚न्द्र॒ नाहु॑षी॒ष्वाँ, ओजो᳚ नृ॒म्णं च॑ कृ॒ष्टिषु॑ |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती} यद्वा॒ पञ्च॑ क्षिती॒नां द्यु॒म्नमा भ॑र स॒त्रा विश्वा᳚नि॒ पौंस्या᳚ ||{7/14}{4.7.28.2}{6.46.7}{6.4.3.7}{1085, 487, 4811} यत्¦इ॒न्द्र॒¦नाहु॑षीषु¦आ¦ओजः॑¦नृ॒म्णम्¦च॒¦कृ॒ष्टिषु॑ | |
यद्वा᳚ तृ॒क्षौ म॑घवन्द्रु॒ह्यावा जने॒ यत्पू॒रौ कच्च॒ वृष्ण्य᳚म् |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती} अ॒स्मभ्यं॒ तद्रि॑रीहि॒ सं नृ॒षाह्ये॒ऽमित्रा᳚न् पृ॒त्सु तु॒र्वणे᳚ ||{8/14}{4.7.28.3}{6.46.8}{6.4.3.8}{1086, 487, 4812} यत्¦वा॒¦तृ॒क्षौ¦म॒घ॒ऽव॒न्¦द्रु॒ह्यौ¦आ¦जने᳚¦यत्¦पू॒रौ¦कत्¦च॒¦वृष्ण्य᳚म् | |
इन्द्र॑ त्रि॒धातु॑ शर॒णं त्रि॒वरू᳚थं स्वस्ति॒मत् |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती} छ॒र्दिर्य॑च्छ म॒घव॑द्भ्यश्च॒ मह्यं᳚ च या॒वया᳚ दि॒द्युमे᳚भ्यः ||{9/14}{4.7.28.4}{6.46.9}{6.4.3.9}{1087, 487, 4813} इन्द्र॑¦त्रि॒ऽधातु॑¦श॒र॒णम्¦त्रि॒ऽवरू᳚थम्¦स्व॒स्ति॒ऽमत् | |
ये ग᳚व्य॒ता मन॑सा॒ शत्रु॑माद॒भुर॑भिप्र॒घ्नन्ति॑ धृष्णु॒या |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती} अध॑ स्मा नो मघवन्निन्द्र गिर्वणस्तनू॒पा, अन्त॑मो भव ||{10/14}{4.7.28.5}{6.46.10}{6.4.3.10}{1088, 487, 4814} ये¦ग॒व्य॒ता¦मन॑सा¦शत्रु᳚म्¦आ॒ऽद॒भुः¦अ॒भि॒ऽप्र॒घ्नन्ति॑¦धृ॒ष्णु॒ऽया | |
अध॑ स्मा नो वृ॒धे भ॒वेन्द्र॑ ना॒यम॑वा यु॒धि |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती} यद॒न्तरि॑क्षे प॒तय᳚न्ति प॒र्णिनो᳚ दि॒द्यव॑स्ति॒ग्ममू᳚र्धानः ||{11/14}{4.7.29.1}{6.46.11}{6.4.3.11}{1089, 487, 4815} अध॑¦स्म॒¦नः॒¦वृ॒धे¦भ॒व॒¦इन्द्र॑¦ना॒यम्¦अ॒व॒¦यु॒धि | |
यत्र॒ शूरा᳚सस्त॒न्वो᳚ वितन्व॒ते प्रि॒या शर्म॑ पितॄ॒णाम् |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती} अध॑ स्मा यच्छ त॒न्वे॒३॑(ए॒) तने᳚ च छ॒र्दिर॒चित्तं᳚ या॒वय॒ द्वेषः॑ ||{12/14}{4.7.29.2}{6.46.12}{6.4.3.12}{1090, 487, 4816} यत्र॑¦शूरा᳚सः¦त॒न्वः॑¦वि॒ऽत॒न्व॒ते¦प्रि॒या¦शर्म॑¦पि॒तॄ॒णाम् | |
यदि᳚न्द्र॒ सर्गे॒, अर्व॑तश्चो॒दया᳚से महाध॒ने |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती} अ॒स॒म॒ने, अध्व॑नि वृजि॒ने प॒थि श्ये॒नाँ, इ॑व श्रवस्य॒तः ||{13/14}{4.7.29.3}{6.46.13}{6.4.3.13}{1091, 487, 4817} यत्¦इ॒न्द्र॒¦सर्गे᳚¦अर्व॑तः¦चो॒दया᳚से¦म॒हा॒ऽध॒ने | |
सिन्धूँ᳚रिव प्रव॒ण आ᳚शु॒या य॒तो यदि॒ क्लोश॒मनु॒ ष्वणि॑ |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती} आ ये वयो॒ न वर्वृ॑त॒त्यामि॑षि गृभी॒ता बा॒ह्वोर्गवि॑ ||{14/14}{4.7.29.4}{6.46.14}{6.4.3.14}{1092, 487, 4818} सिन्धू᳚न्ऽइव¦प्र॒व॒णे¦आ॒शु॒ऽया¦य॒तः¦यदि॑¦क्लोश᳚म्¦अनु॑¦स्वनि॑ | |
[126] स्वादुष्किलायमित्येक त्रिंशदृचस्य सूक्तस्य भारद्वाजोगर्गइंद्रः आद्यानांपंचानां सोमोऽगव्यूतीत्यस्यादेवभूमींद्राः प्रस्तोकइत्यादिचतसृणां प्रस्तोकोवनस्पतइत्यादितिसृणां रथउपश्वासयेतिद्वयोर्दुंदुभिः आमूरजइत्यस्यादुंदुभींद्रौत्रिष्टुप् एकोनविंशीबृहती त्रयोविंश्यनुष्टुप् चतुर्विंशीगायत्री पंचविंशीद्विपदा सप्तविंशीजगती | |
स्वा॒दुष्किला॒यं मधु॑माँ, उ॒तायं ती॒व्रः किला॒यं रस॑वाँ, उ॒तायम् |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्} उ॒तो न्व१॑(अ॒)स्य प॑पि॒वांस॒मिन्द्रं॒ न कश्च॒न स॑हत आह॒वेषु॑ ||{1/31}{4.7.30.1}{6.47.1}{6.4.4.1}{1093, 488, 4819} स्वा॒दुः¦किल॑¦अ॒यम्¦मधु॑ऽमान्¦उ॒त¦अ॒यम्¦ती॒व्रः¦किल॑¦अ॒यम्¦रस॑ऽवान्¦उ॒त¦अ॒यम् | |
अ॒यं स्वा॒दुरि॒ह मदि॑ष्ठ आस॒ यस्येन्द्रो᳚ वृत्र॒हत्ये᳚ म॒माद॑ |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्} पु॒रूणि॒ यश्च्यौ॒त्ना शम्ब॑रस्य॒ वि न॑व॒तिं नव॑ च दे॒ह्यो॒३॑(ओ॒) हन् ||{2/31}{4.7.30.2}{6.47.2}{6.4.4.2}{1094, 488, 4820} अ॒यम्¦स्वा॒दुः¦इ॒ह¦मदि॑ष्ठः¦आ॒स॒¦यस्य॑¦इन्द्रः॑¦वृ॒त्र॒ऽहत्ये᳚¦म॒माद॑ | |
अ॒यं मे᳚ पी॒त उदि॑यर्ति॒ वाच॑म॒यं म॑नी॒षामु॑श॒तीम॑जीगः |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्} अ॒यं षळु॒र्वीर॑मिमीत॒ धीरो॒ न याभ्यो॒ भुव॑नं॒ कच्च॒नारे ||{3/31}{4.7.30.3}{6.47.3}{6.4.4.3}{1095, 488, 4821} अ॒यम्¦मे॒¦पी॒तः¦उत्¦इ॒य॒र्ति॒¦वाच᳚म्¦अ॒यम्¦म॒नी॒षाम्¦उ॒श॒तीम्¦अ॒जी॒ग॒रिति॑ | |
अ॒यं स यो व॑रि॒माणं᳚ पृथि॒व्या व॒र्ष्माणं᳚ दि॒वो, अकृ॑णोद॒यं सः |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्} अ॒यं पी॒यूषं᳚ ति॒सृषु॑ प्र॒वत्सु॒ सोमो᳚ दाधारो॒र्व१॑(अ॒)न्तरि॑क्षम् ||{4/31}{4.7.30.4}{6.47.4}{6.4.4.4}{1096, 488, 4822} अ॒यम्¦सः¦यः¦व॒रि॒माण᳚म्¦पृ॒थि॒व्याः¦व॒र्ष्माण᳚म्¦दि॒वः¦अकृ॑णोत्¦अ॒यम्¦सः | |
अ॒यं वि॑दच्चित्र॒दृशी᳚क॒मर्णः॑ शु॒क्रस॑द्मनामु॒षसा॒मनी᳚के |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्} अ॒यं म॒हान्म॑ह॒ता स्कम्भ॑ने॒नोद्द्याम॑स्तभ्नाद्वृष॒भो म॒रुत्वा॑न् ||{5/31}{4.7.30.5}{6.47.5}{6.4.4.5}{1097, 488, 4823} अ॒यम्¦वि॒द॒त्¦चि॒त्र॒ऽदृशी᳚कम्¦अर्णः॑¦शु॒क्रऽस॑द्मनाम्¦उ॒षसा᳚म्¦अनी᳚के | |
धृ॒षत्पि॑ब क॒लशे॒ सोम॑मिन्द्र वृत्र॒हा शू᳚र सम॒रे वसू᳚नाम् |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} माध्यं᳚दिने॒ सव॑न॒ आ वृ॑षस्व रयि॒स्थानो᳚ र॒यिम॒स्मासु॑ धेहि ||{6/31}{4.7.31.1}{6.47.6}{6.4.4.6}{1098, 488, 4824} धृ॒षत्¦पि॒ब॒¦क॒लशे᳚¦सोम᳚म्¦इ॒न्द्र॒¦वृ॒त्र॒ऽहा¦शू॒र॒¦स॒म्।आ॒रे¦वसू᳚नाम् | |
इन्द्र॒ प्र णः॑ पुरए॒तेव॑ पश्य॒ प्र नो᳚ नय प्रत॒रं वस्यो॒, अच्छ॑ |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} भवा᳚ सुपा॒रो, अ॑तिपार॒यो नो॒ भवा॒ सुनी᳚तिरु॒त वा॒मनी᳚तिः ||{7/31}{4.7.31.2}{6.47.7}{6.4.4.7}{1099, 488, 4825} इन्द्र॑¦प्र¦नः॒¦पु॒र॒ए॒ताऽइ᳚व¦प॒श्य॒¦प्र¦नः॒¦न॒य॒¦प्र॒ऽत॒रम्¦वस्यः॑¦अच्छ॑ | |
उ॒रुं नो᳚ लो॒कमनु॑ नेषि वि॒द्वान् त्स्व᳚र्व॒ज्ज्योति॒रभ॑यं स्व॒स्ति |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} ऋ॒ष्वा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू, उप॑ स्थेयाम शर॒णा बृ॒हन्ता᳚ ||{8/31}{4.7.31.3}{6.47.8}{6.4.4.8}{1100, 488, 4826} उ॒रुम्¦नः॒¦लो॒कम्¦अनु॑¦ने॒षि॒¦वि॒द्वान्¦स्वः॑ऽवत्¦ज्योतिः॑¦अभ॑यम्¦स्व॒स्ति | |
वरि॑ष्ठे न इन्द्र व॒न्धुरे᳚ धा॒ वहि॑ष्ठयोः शताव॒न्नश्व॑यो॒रा |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} इष॒मा व॑क्षी॒षां वर्षि॑ष्ठां॒ मा न॑स्तारीन्मघव॒न् रायो᳚, अ॒र्यः ||{9/31}{4.7.31.4}{6.47.9}{6.4.4.9}{1101, 488, 4827} वरि॑ष्ठे¦नः॒¦इ॒न्द्र॒¦व॒न्धुरे᳚¦धाः॒¦वहि॑ष्ठयोः¦श॒त॒ऽव॒न्¦अश्व॑योः¦आ | |
इन्द्र॑ मृ॒ळ मह्यं᳚ जी॒वातु॑मिच्छ चो॒दय॒ धिय॒मय॑सो॒ न धारा᳚म् |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} यत्किं चा॒हं त्वा॒युरि॒दं वदा᳚मि॒ तज्जु॑षस्व कृ॒धि मा᳚ दे॒वव᳚न्तम् ||{10/31}{4.7.31.5}{6.47.10}{6.4.4.10}{1102, 488, 4828} इन्द्र॑¦मृ॒ळ¦मह्य᳚म्¦जी॒वातु᳚म्¦इ॒च्छ॒¦चो॒दय॑¦धिय᳚म्¦अय॑सः¦न¦धारा᳚म् | |
त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒ हवे᳚हवे सु॒हवं॒ शूर॒मिन्द्र᳚म् |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} ह्वया᳚मि श॒क्रं पु॑रुहू॒तमिन्द्रं᳚ स्व॒स्ति नो᳚ म॒घवा᳚ धा॒त्विन्द्रः॑ ||{11/31}{4.7.32.1}{6.47.11}{6.4.4.11}{1103, 488, 4829} त्रा॒तार᳚म्¦इन्द्र᳚म्¦अ॒वि॒तार᳚म्¦इन्द्र᳚म्¦हवे᳚ऽहवे¦सु॒ऽहव᳚म्¦शूर᳚म्¦इन्द्र᳚म् | |
इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒, अवो᳚भिः सुमृळी॒को भ॑वतु वि॒श्ववे᳚दाः |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} बाध॑तां॒ द्वेषो॒, अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ||{12/31}{4.7.32.2}{6.47.12}{6.4.4.12}{1104, 488, 4830} इन्द्रः॑¦सु॒ऽत्रामा᳚¦स्वऽवा᳚न्¦अवः॑ऽभिः¦सु॒ऽमृ॒ळी॒कः¦भ॒व॒तु॒¦वि॒श्वऽवे᳚दाः | |
तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ᳚मन॒से स्या᳚म |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} स सु॒त्रामा॒ स्ववाँ॒, इन्द्रो᳚, अ॒स्मे, आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु ||{13/31}{4.7.32.3}{6.47.13}{6.4.4.13}{1105, 488, 4831} तस्य॑¦व॒यम्¦सु॒ऽम॒तौ¦य॒ज्ञिय॑स्य¦अपि॑¦भ॒द्रे¦सौ॒म॒न॒से¦स्या॒म॒ | |
अव॒ त्वे, इ᳚न्द्र प्र॒वतो॒ नोर्मिर्गिरो॒ ब्रह्मा᳚णि नि॒युतो᳚ धवन्ते |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} उ॒रू न राधः॒ सव॑ना पु॒रूण्य॒पो गा व॑ज्रिन्युवसे॒ समिन्दू॑न् ||{14/31}{4.7.32.4}{6.47.14}{6.4.4.14}{1106, 488, 4832} अव॑¦त्वे इति॑¦इ॒न्द्र॒¦प्र॒ऽवतः॑¦न¦ऊ॒र्मिः¦गिरः॑¦ब्रह्मा᳚णि¦नि॒ऽयुतः॑¦ध॒व॒न्ते॒ | |
क ईं᳚ स्तव॒त्कः पृ॑णा॒त्को य॑जाते॒ यदु॒ग्रमिन्म॒घवा᳚ वि॒श्वहावे᳚त् |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} पादा᳚विव प्र॒हर᳚न्न॒न्यम᳚न्यं कृ॒णोति॒ पूर्व॒मप॑रं॒ शची᳚भिः ||{15/31}{4.7.32.5}{6.47.15}{6.4.4.15}{1107, 488, 4833} कः¦ई॒म्¦स्त॒व॒त्¦कः¦पृ॒णा॒त्¦कः¦य॒जा॒ते॒¦यत्¦उ॒ग्रम्¦इत्¦म॒घऽवा᳚¦वि॒श्वहा᳚¦अवे᳚त् | |
शृ॒ण्वे वी॒र उ॒ग्रमु॑ग्रं दमा॒यन्न॒न्यम᳚न्यमतिनेनी॒यमा᳚नः |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} ए॒ध॒मा॒न॒द्विळु॒भय॑स्य॒ राजा᳚ चोष्कू॒यते॒ विश॒ इन्द्रो᳚ मनु॒ष्या॑न् ||{16/31}{4.7.33.1}{6.47.16}{6.4.4.16}{1108, 488, 4834} शृ॒ण्वे¦वी॒रः¦उ॒ग्रम्।औ᳚ग्रम्¦द॒म॒ऽयन्¦अ॒न्यम्।आ᳚न्यम्¦अ॒ति॒ऽने॒नी॒यमा᳚नः | |
परा॒ पूर्वे᳚षां स॒ख्या वृ॑णक्ति वि॒तर्तु॑राणो॒, अप॑रेभिरेति |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} अना᳚नुभूतीरवधून्वा॒नः पू॒र्वीरिन्द्रः॑ श॒रद॑स्तर्तरीति ||{17/31}{4.7.33.2}{6.47.17}{6.4.4.17}{1109, 488, 4835} परा᳚¦पूर्वे᳚षाम्¦स॒ख्या¦वृ॒ण॒क्ति॒¦वि॒ऽतर्तु॑राणः¦अप॑रेभिः¦ए॒ति॒ | |
रू॒पंरू᳚पं॒ प्रति॑रूपो बभूव॒ तद॑स्य रू॒पं प्र॑ति॒चक्ष॑णाय |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} इन्द्रो᳚ मा॒याभिः॑ पुरु॒रूप॑ ईयते यु॒क्ता ह्य॑स्य॒ हर॑यः श॒ता दश॑ ||{18/31}{4.7.33.3}{6.47.18}{6.4.4.18}{1110, 488, 4836} रू॒पम्ऽरू᳚पम्¦प्रति॑ऽरूपः¦ब॒भू॒व॒¦तत्¦अ॒स्य॒¦रू॒पम्¦प्र॒ति॒ऽचक्ष॑णाय | |
यु॒जा॒नो ह॒रिता॒ रथे॒ भूरि॒ त्वष्टे॒ह रा᳚जति |{भारद्वाजो गर्गः | इन्द्रः | बृहती} को वि॒श्वाहा᳚ द्विष॒तः पक्ष॑ आसत उ॒तासी᳚नेषु सू॒रिषु॑ ||{19/31}{4.7.33.4}{6.47.19}{6.4.4.19}{1111, 488, 4837} यु॒जा॒नः¦ह॒रिता᳚¦रथे᳚¦भूरि॑¦त्वष्टा᳚¦इ॒ह¦रा॒ज॒ति॒ | |
अ॒ग॒व्यू॒ति क्षेत्र॒माग᳚न्म देवा, उ॒र्वी स॒ती भूमि॑रंहूर॒णाभू᳚त् |{भारद्वाजो गर्गः | १/४:देवाः २/४:भूमिः २/४:बृहस्पतिः ४/४:इन्द्रः | त्रिष्टुप्} बृह॑स्पते॒ प्र चि॑कित्सा॒ गवि॑ष्टावि॒त्था स॒ते ज॑रि॒त्र इ᳚न्द्र॒ पन्था᳚म् ||{20/31}{4.7.33.5}{6.47.20}{6.4.4.20}{1112, 488, 4838} अ॒ग॒व्यू॒ति¦क्षेत्र᳚म्¦आ¦अ॒ग॒न्म॒¦दे॒वाः॒¦उ॒र्वी¦स॒ती¦भूमिः॑¦अं॒हू॒र॒णा¦अ॒भू॒त् | |
दि॒वेदि॑वे स॒दृशी᳚र॒न्यमर्धं᳚ कृ॒ष्णा, अ॑सेध॒दप॒ सद्म॑नो॒ जाः |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} अह᳚न्दा॒सा वृ॑ष॒भो व॑स्न॒यन्तो॒दव्र॑जे व॒र्चिनं॒ शम्ब॑रं च ||{21/31}{4.7.34.1}{6.47.21}{6.4.4.21}{1113, 488, 4839} दि॒वेऽदि॑वे¦स॒ऽदृशीः᳚¦अ॒न्यम्¦अर्ध᳚म्¦कृ॒ष्णाः¦अ॒से॒ध॒त्¦अप॑¦सद्म॑नः¦जाः | |
प्र॒स्तो॒क इन्नु राध॑सस्त इन्द्र॒ दश॒ कोश॑यी॒र्दश॑ वा॒जिनो᳚ऽदात् |{भारद्वाजो गर्गः | प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः | त्रिष्टुप्} दिवो᳚दासादतिथि॒ग्वस्य॒ राधः॑ शाम्ब॒रं वसु॒ प्रत्य॑ग्रभीष्म ||{22/31}{4.7.34.2}{6.47.22}{6.4.4.22}{1114, 488, 4840} प्र॒ऽस्तो॒कः¦इत्¦नु¦राध॑सः¦ते॒¦इ॒न्द्र॒¦दश॑¦कोश॑यीः¦दश॑¦वा॒जिनः॑¦अ॒दा॒त् | |
दशाश्वा॒न्दश॒ कोशा॒न्दश॒ वस्त्राधि॑भोजना |{भारद्वाजो गर्गः | प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः | अनुष्टुप्} दशो᳚ हिरण्यपि॒ण्डान्दिवो᳚दासादसानिषम् ||{23/31}{4.7.34.3}{6.47.23}{6.4.4.23}{1115, 488, 4841} दश॑¦अश्वा᳚न्¦दश॑¦कोशा᳚न्¦दश॑¦वस्त्रा᳚¦अधि॑ऽभोजना | दशो॒ इति॑¦हि॒र॒ण्य॒ऽपि॒ण्डान्¦दिवः॑ऽदासात्¦अ॒सा॒नि॒ष॒म् || |
दश॒ रथा॒न् प्रष्टि॑मतः श॒तं गा, अथ᳚र्वभ्यः |{भारद्वाजो गर्गः | प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः | गायत्री} अ॒श्व॒थः पा॒यवे᳚ऽदात् ||{24/31}{4.7.34.4}{6.47.24}{6.4.4.24}{1116, 488, 4842} दश॑¦रथा᳚न्¦प्रष्टि॑ऽमतः¦श॒तम्¦गाः¦अथ᳚र्वऽभ्यः | अ॒श्व॒थः¦पा॒यवे᳚¦अ॒दा॒त् || |
महि॒ राधो᳚ वि॒श्वज᳚न्यं॒ दधा᳚नान् भ॒रद्वा᳚जान् त्सार्ञ्ज॒यो, अ॒भ्य॑यष्ट ||{भारद्वाजो गर्गः | प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः | द्विपदा त्रिष्टुप्}{25/31}{4.7.34.5}{6.47.25}{6.4.4.25}{1117, 488, 4843} |
वन॑स्पते वी॒ड्व᳚ङ्गो॒ हि भू॒या, अ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीरः॑ |{भारद्वाजो गर्गः | रथः | त्रिष्टुप्} गोभिः॒ संन॑द्धो, असि वी॒ळय॑स्वास्था॒ता ते᳚ जयतु॒ जेत्वा᳚नि ||{26/31}{4.7.35.1}{6.47.26}{6.4.4.26}{1118, 488, 4844} वन॑स्पते¦वी॒ळु।आ᳚ङ्गः¦हि¦भू॒याः¦अ॒स्मत्ऽस॑खा¦प्र॒ऽतर॑णः¦सु॒ऽवीरः॑ | |
दि॒वस्पृ॑थि॒व्याः पर्योज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्यः॒ पर्याभृ॑तं॒ सहः॑ |{भारद्वाजो गर्गः | रथः | जगती} अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्रं᳚ ह॒विषा॒ रथं᳚ यज ||{27/31}{4.7.35.2}{6.47.27}{6.4.4.27}{1119, 488, 4845} दि॒वः¦पृ॒थि॒व्याः¦परि॑¦ओजः॑¦उत्ऽभृ॑तम्¦वन॒स्पति॑ऽभ्यः¦परि॑¦आऽभृ॑तम्¦सहः॑ | |
इन्द्र॑स्य॒ वज्रो᳚ म॒रुता॒मनी᳚कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑ |{भारद्वाजो गर्गः | रथः | त्रिष्टुप्} सेमां नो᳚ ह॒व्यदा᳚तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ||{28/31}{4.7.35.3}{6.47.28}{6.4.4.28}{1120, 488, 4846} इन्द्र॑स्य¦वज्रः॑¦म॒रुता᳚म्¦अनी᳚कम्¦मि॒त्रस्य॑¦गर्भः॑¦वरु॑णस्य¦नाभिः॑ | |
उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते᳚ मनुतां॒ विष्ठि॑तं॒ जग॑त् |{भारद्वाजो गर्गः | दुन्दुभिः | त्रिष्टुप्} स दु᳚न्दुभे स॒जूरिन्द्रे᳚ण दे॒वैर्दू॒राद्दवी᳚यो॒, अप॑ सेध॒ शत्रू॑न् ||{29/31}{4.7.35.4}{6.47.29}{6.4.4.29}{1121, 488, 4847} उप॑¦श्वा॒स॒य॒¦पृ॒थि॒वीम्¦उ॒त¦द्याम्¦पु॒रु॒ऽत्रा¦ते॒¦म॒नु॒ता॒म्¦विऽस्थि॑तम्¦जग॑त् | |
आ क्र᳚न्दय॒ बल॒मोजो᳚ न॒ आ धा॒ निः ष्ट॑निहि दुरि॒ता बाध॑मानः |{भारद्वाजो गर्गः | दुन्दुभिः | त्रिष्टुप्} अप॑ प्रोथ दुन्दुभे दु॒च्छुना᳚, इ॒त इन्द्र॑स्य मु॒ष्टिर॑सि वी॒ळय॑स्व ||{30/31}{4.7.35.5}{6.47.30}{6.4.4.30}{1122, 488, 4848} आ¦क्र॒न्द॒य॒¦बल᳚म्¦ओजः॑¦नः॒¦आ¦धाः॒¦निः¦स्त॒नि॒हि॒¦दुः॒ऽइ॒ता¦बाध॑मानः | |
आमूर॑ज प्र॒त्याव॑र्तये॒माः के᳚तु॒मद्दु᳚न्दु॒भिर्वा᳚वदीति |{भारद्वाजो गर्गः | १/२:दुन्दुभिः २/२:इन्द्रः | त्रिष्टुप्} समश्व॑पर्णा॒श्चर᳚न्ति नो॒ नरो॒ऽस्माक॑मिन्द्र र॒थिनो᳚ जयन्तु ||{31/31}{4.7.35.6}{6.47.31}{6.4.4.31}{1123, 488, 4849} आ¦अ॒मूः¦अ॒ज॒¦प्र॒ति॒ऽआव॑र्तय¦इ॒माः¦के॒तु॒ऽमत्¦दु॒न्दु॒भिः¦वा॒व॒दी॒ति॒ | |
[127] यज्ञायज्ञावइति द्वाविंशत्यृचस्य सूक्तस्य बार्हस्पत्यःशंयुस्तृणपाणिः आद्यानांदशानामग्निरेकादश्यादिपंचानांमरुतस्ततश्चतुर्णां पूषाततस्तृचस्यमरुतः (त्रयोदश्यादितिसृणाम् इंद्रार्यमपूषविष्ण्वाद्यालिंगोक्तदेवतावा अंत्ययोर्द्यावाभूमीवापृश्निर्वा) आद्याबृहती द्वितीयासतोबृहती तृतीयाबृहती चतुर्थीसतोबृहती पंचमी बृहती षष्ठीमहासतोबृहती सप्तमीमहाबृहती अष्टमीमहासतोबृहती नवमीबृहती दशमीसतोबृहती एकादशीककुप् द्वादशीसतोबृहती त्रयोदशीपुर उष्णिक् चतुर्दशीबृहती पंचदश्यतिजगती षोडशीककुप् सप्तदशीसतोबृहती अष्टादशीपुरउष्णिक् एकोनविंशीविंशीबृहती एकविंशीमहाबृहती यवमध्याद्वाविंश्यनुष्टुप् | (पृष्निसूक्तमिदं) | |
य॒ज्ञाय॑ज्ञा वो, अ॒ग्नये᳚ गि॒रागि॑रा च॒ दक्ष॑से |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | बृहती} प्रप्र॑ व॒यम॒मृतं᳚ जा॒तवे᳚दसं प्रि॒यं मि॒त्रं न शं᳚सिषम् ||{1/22}{4.8.1.1}{6.48.1}{6.4.5.1}{1124, 489, 4850} य॒ज्ञाऽय॑ज्ञा¦वः॒¦अ॒ग्नये᳚¦गि॒राऽगि॑रा¦च॒¦दक्ष॑से | |
ऊ॒र्जो नपा᳚तं॒ स हि॒नायम॑स्म॒युर्दाशे᳚म ह॒व्यदा᳚तये |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | सतोबृहती} भुव॒द्वाजे᳚ष्ववि॒ता भुव॑द्वृ॒ध उ॒त त्रा॒ता त॒नूना᳚म् ||{2/22}{4.8.1.2}{6.48.2}{6.4.5.2}{1125, 489, 4851} ऊ॒र्जः¦नपा᳚तम्¦सः¦हि॒न¦अ॒यम्¦अ॒स्म॒ऽयुः¦दाशे᳚म¦ह॒व्यऽदा᳚तये | |
वृषा॒ ह्य॑ग्ने, अ॒जरो᳚ म॒हान् वि॒भास्य॒र्चिषा᳚ |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | बृहती} अज॑स्रेण शो॒चिषा॒ शोशु॑चच्छुचे सुदी॒तिभिः॒ सु दी᳚दिहि ||{3/22}{4.8.1.3}{6.48.3}{6.4.5.3}{1126, 489, 4852} वृषा᳚¦हि¦अ॒ग्ने॒¦अ॒जरः॑¦म॒हान्¦वि॒ऽभासि॑¦अ॒र्चिषा᳚ | |
म॒हो दे॒वान् यज॑सि॒ यक्ष्या᳚नु॒षक्तव॒ क्रत्वो॒त दं॒सना᳚ |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | सतोबृहती} अ॒र्वाचः॑ सीं कृणुह्य॒ग्नेऽव॑से॒ रास्व॒ वाजो॒त वं᳚स्व ||{4/22}{4.8.1.4}{6.48.4}{6.4.5.4}{1127, 489, 4853} म॒हः¦दे॒वान्¦यज॑सि¦यक्षि॑¦आ॒नु॒षक्¦तव॑¦क्रत्वा᳚¦उ॒त¦दं॒सना᳚ | |
यमापो॒, अद्र॑यो॒ वना॒ गर्भ॑मृ॒तस्य॒ पिप्र॑ति |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | बृहती} सह॑सा॒ यो म॑थि॒तो जाय॑ते॒ नृभिः॑ पृथि॒व्या, अधि॒ सान॑वि ||{5/22}{4.8.1.5}{6.48.5}{6.4.5.5}{1128, 489, 4854} यम्¦आपः॑¦अद्र॑यः¦वना᳚¦गर्भ᳚म्¦ऋ॒तस्य॑¦पिप्र॑ति | |
आ यः प॒प्रौ भा॒नुना॒ रोद॑सी, उ॒भे धू॒मेन॑ धावते दि॒वि |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | महा सतोबृहती} ति॒रस्तमो᳚ ददृश॒ ऊर्म्या॒स्वा श्या॒वास्व॑रु॒षो वृषा श्या॒वा, अ॑रु॒षो वृषा᳚ ||{6/22}{4.8.2.1}{6.48.6}{6.4.5.6}{1129, 489, 4855} आ¦यः¦प॒प्रौ¦भा॒नुना᳚¦रोद॑सी॒ इति॑¦उ॒भे इति॑¦धू॒मेन॑¦धा॒व॒ते॒¦दि॒वि | |
बृ॒हद्भि॑रग्ने, अ॒र्चिभिः॑ शु॒क्रेण॑ देव शो॒चिषा᳚ |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | महा बृहती} भ॒रद्वा᳚जे समिधा॒नो य॑विष्ठ्य रे॒वन्नः॑ शुक्र दीदिहि द्यु॒मत्पा᳚वक दीदिहि ||{7/22}{4.8.2.2}{6.48.7}{6.4.5.7}{1130, 489, 4856} बृ॒हत्ऽभिः॑¦अ॒ग्ने॒¦अ॒र्चिऽभिः॑¦शु॒क्रेण॑¦दे॒व॒¦शो॒चिषा᳚ | |
विश्वा᳚सां गृ॒हप॑तिर्वि॒शाम॑सि॒ त्वम॑ग्ने॒ मानु॑षीणाम् |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | महा सतोबृहती} श॒तं पू॒र्भिर्य॑विष्ठ पा॒ह्यंह॑सः समे॒द्धारं᳚ श॒तं हिमाः᳚ स्तो॒तृभ्यो॒ ये च॒ दद॑ति ||{8/22}{4.8.2.3}{6.48.8}{6.4.5.8}{1131, 489, 4857} विश्वा᳚साम्¦गृ॒हऽप॑तिः¦वि॒शाम्¦अ॒सि॒¦त्वम्¦अ॒ग्ने॒¦मानु॑षीणाम् | |
त्वं न॑श्चि॒त्र ऊ॒त्या वसो॒ राधां᳚सि चोदय |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | बृहती} अ॒स्य रा॒यस्त्वम॑ग्ने र॒थीर॑सि वि॒दा गा॒धं तु॒चे तु नः॑ ||{9/22}{4.8.2.4}{6.48.9}{6.4.5.9}{1132, 489, 4858} त्वम्¦नः॒¦चि॒त्रः¦ऊ॒त्या¦वसो॒ इति॑¦राधां᳚सि¦चो॒द॒य॒ | |
पर्षि॑ तो॒कं तन॑यं प॒र्तृभि॒ष्ट्वमद॑ब्धै॒रप्र॑युत्वभिः |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | सतोबृहती} अग्ने॒ हेळां᳚सि॒ दैव्या᳚ युयोधि॒ नोऽदे᳚वानि॒ ह्वरां᳚सि च ||{10/22}{4.8.2.5}{6.48.10}{6.4.5.10}{1133, 489, 4859} पर्षि॑¦तो॒कम्¦तन॑यम्¦प॒र्तृऽभिः॑¦त्वम्¦अद॑ब्धैः¦अप्र॑युत्वऽभिः | |
आ स॑खायः सब॒र्दुघां᳚ धे॒नुम॑जध्व॒मुप॒ नव्य॑सा॒ वचः॑ |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | ककुप्} सृ॒जध्व॒मन॑पस्फुराम् ||{11/22}{4.8.3.1}{6.48.11}{6.4.5.11}{1134, 489, 4860} आ¦स॒खा॒यः॒¦स॒बः॒ऽदुघा᳚म्¦धे॒नुम्¦अ॒ज॒ध्व॒म्¦उप॑¦नव्य॑सा¦वचः॑ | सृ॒जध्व᳚म्¦अन॑पऽस्फुराम् || |
या शर्धा᳚य॒ मारु॑ताय॒ स्वभा᳚नवे॒ श्रवोऽमृ॑त्यु॒ धुक्ष॑त |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | सतोबृहती} या मृ॑ळी॒के म॒रुतां᳚ तु॒राणां॒ या सु॒म्नैरे᳚व॒याव॑री ||{12/22}{4.8.3.2}{6.48.12}{6.4.5.12}{1135, 489, 4861} या¦शर्धा᳚य¦मारु॑ताय¦स्वऽभा᳚नवे¦श्रवः॑¦अमृ॑त्यु¦धुक्ष॑त | |
भ॒रद्वा᳚जा॒याव॑ धुक्षत द्वि॒ता |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | पुर उष्णिक्} धे॒नुं च॑ वि॒श्वदो᳚हस॒मिषं᳚ च वि॒श्वभो᳚जसम् ||{13/22}{4.8.3.3}{6.48.13}{6.4.5.13}{1136, 489, 4862} भ॒रत्ऽवा᳚जाय¦अव॑¦धु॒क्ष॒त॒¦द्वि॒ता | धे॒नुम्¦च॒¦वि॒श्वऽदो᳚हसम्¦इष᳚म्¦च॒¦वि॒श्वऽभो᳚जसम् || |
तं व॒ इन्द्रं॒ न सु॒क्रतुं॒ वरु॑णमिव मा॒यिन᳚म् |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | बृहती} अ॒र्य॒मणं॒ न म॒न्द्रं सृ॒प्रभो᳚जसं॒ विष्णुं॒ न स्तु॑ष आ॒दिशे᳚ ||{14/22}{4.8.3.4}{6.48.14}{6.4.5.14}{1137, 489, 4863} तम्¦वः॒¦इन्द्र᳚म्¦न¦सु॒ऽक्रतु᳚म्¦वरु॑णम्ऽइव¦मा॒यिन᳚म् | |
त्वे॒षं शर्धो॒ न मारु॑तं तुवि॒ष्वण्य॑न॒र्वाणं᳚ पू॒षणं॒ सं यथा᳚ श॒ता |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | अतिजगती} सं स॒हस्रा॒ कारि॑षच्चर्ष॒णिभ्य॒ आँ, आ॒विर्गू॒ळ्हा वसू᳚ करत्सु॒वेदा᳚ नो॒ वसू᳚ करत् ||{15/22}{4.8.3.5}{6.48.15}{6.4.5.15}{1138, 489, 4864} त्वे॒षम्¦शर्धः॑¦न¦मारु॑तम्¦तु॒वि॒ऽस्वणि॑¦अ॒न॒र्वाण᳚म्¦पू॒षण᳚म्¦सम्¦यथा᳚¦श॒ता | |
आ मा᳚ पूष॒न्नुप॑ द्रव॒ शंसि॑षं॒ नु ते᳚, अपिक॒र्ण आ᳚घृणे |{बार्हस्पत्यः शंयुस्तृणपाणिः | पूषा | ककुप्} अ॒घा, अ॒र्यो, अरा᳚तयः ||{16/22}{4.8.3.6}{6.48.16}{6.4.5.16}{1139, 489, 4865} आ¦मा॒¦पू॒ष॒न्¦उप॑¦द्र॒व॒¦शंसि॑षम्¦नु¦ते॒¦अ॒पि॒ऽक॒र्णे¦आ॒घृ॒णे॒ | अ॒घाः¦अ॒र्यः¦अरा᳚तयः || |
मा का᳚क॒म्बीर॒मुद्वृ॑हो॒ वन॒स्पति॒मश॑स्ती॒र्वि हि नीन॑शः |{बार्हस्पत्यः शंयुस्तृणपाणिः | पूषा | सतोबृहती} मोत सूरो॒, अह॑ ए॒वा च॒न ग्री॒वा, आ॒दध॑ते॒ वेः ||{17/22}{4.8.4.1}{6.48.17}{6.4.5.17}{1140, 489, 4866} मा¦का॒क॒म्बीर᳚म्¦उत्¦वृ॒हः॒¦वन॒स्पति᳚म्¦अश॑स्तीः¦वि¦हि¦नीन॑शः | |
दृते᳚रिव तेऽवृ॒कम॑स्तु स॒ख्यम् |{बार्हस्पत्यः शंयुस्तृणपाणिः | पूषा | पुर उष्णिक्} अच्छि॑द्रस्य दध॒न्वतः॒ सुपू᳚र्णस्य दध॒न्वतः॑ ||{18/22}{4.8.4.2}{6.48.18}{6.4.5.18}{1141, 489, 4867} दृतेः᳚ऽइव¦ते॒¦अ॒वृ॒कम्¦अ॒स्तु॒¦स॒ख्यम् | अच्छि॑द्रस्य¦द॒ध॒न्ऽवतः॑¦सुऽपू᳚र्णस्य¦द॒ध॒न्ऽवतः॑ || |
प॒रो हि मर्त्यै॒रसि॑ स॒मो दे॒वैरु॒त श्रि॒या |{बार्हस्पत्यः शंयुस्तृणपाणिः | पूषा | बृहती} अ॒भि ख्यः॑ पूष॒न् पृत॑नासु न॒स्त्वमवा᳚ नू॒नं यथा᳚ पु॒रा ||{19/22}{4.8.4.3}{6.48.19}{6.4.5.19}{1142, 489, 4868} प॒रः¦हि¦मर्त्यैः᳚¦असि॑¦स॒मः¦दे॒वैः¦उ॒त¦श्रि॒या | |
वा॒मी वा॒मस्य॑ धूतयः॒ प्रणी᳚तिरस्तु सू॒नृता᳚ |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | बृहती} दे॒वस्य॑ वा मरुतो॒ मर्त्य॑स्य वेजा॒नस्य॑ प्रयज्यवः ||{20/22}{4.8.4.4}{6.48.20}{6.4.5.20}{1143, 489, 4869} वा॒मी¦वा॒मस्य॑¦धू॒त॒यः॒¦प्रऽनी᳚तिः¦अ॒स्तु॒¦सू॒नृता᳚ | |
स॒द्यश्चि॒द्यस्य॑ चर्कृ॒तिः परि॒ द्यां दे॒वो नैति॒ सूर्यः॑ |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | महा बृहती यवमध्या} त्वे॒षं शवो᳚ दधिरे॒ नाम॑ य॒ज्ञियं᳚ म॒रुतो᳚ वृत्र॒हं शवो॒ ज्येष्ठं᳚ वृत्र॒हं शवः॑ ||{21/22}{4.8.4.5}{6.48.21}{6.4.5.21}{1144, 489, 4870} स॒द्यः¦चि॒त्¦यस्य॑¦च॒र्कृ॒तिः¦परि॑¦द्याम्¦दे॒वः¦न¦एति॑¦सूर्यः॑ | |
स॒कृद्ध॒ द्यौर॑जायत स॒कृद्भूमि॑रजायत |{बार्हस्पत्यः शंयुस्तृणपाणिः | द्यावाभूमीवापृश्निर्वा | अनुष्टुप्} पृश्न्या᳚ दु॒ग्धं स॒कृत्पय॒स्तद॒न्यो नानु॑ जायते ||{22/22}{4.8.4.6}{6.48.22}{6.4.5.22}{1145, 489, 4871} स॒कृत्¦ह॒¦द्यौः¦अ॒जा॒य॒त॒¦स॒कृत्¦भूमिः॑¦अ॒जा॒य॒त॒ | पृश्न्याः᳚¦दु॒ग्धम्¦स॒कृत्¦पयः॑¦तत्¦अ॒न्यः¦न¦अनु॑¦जा॒य॒ते॒ || |
[128] स्तुषेजनमिति पंचदशर्चस्य सूक्तस्य भारद्वाजऋजिश्वा विश्वेदेवास्त्रिष्टुबंत्याशक्वरी | (इतश्चत्वारिवैश्व | भेदपक्षे - विश्वेदेवाः १ | अग्निः १ अहोरात्रे १ वायुः १ अश्विनौ १ विश्वेदेवाः १ सरस्वती १ पूषा १ अग्नित्वष्टारौ १ रुद्रः १ मरुतः २ विष्णुः १ विश्वेदेवाः २ एवं १५) | |
स्तु॒षे जनं᳚ सुव्र॒तं नव्य॑सीभिर्गी॒र्भिर्मि॒त्रावरु॑णा सुम्न॒यन्ता᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} त आ ग॑मन्तु॒ त इ॒ह श्रु॑वन्तु सुक्ष॒त्रासो॒ वरु॑णो मि॒त्रो, अ॒ग्निः ||{1/15}{4.8.5.1}{6.49.1}{6.4.6.1}{1146, 490, 4872} स्तु॒षे¦जन᳚म्¦सु॒ऽव्र॒तम्¦नव्य॑सीभिः¦गीः॒ऽभिः¦मि॒त्रावरु॑णा¦सु॒म्न॒ऽयन्ता᳚ | |
वि॒शोवि॑श॒ ईड्य॑मध्व॒रेष्वदृ॑प्तक्रतुमर॒तिं यु॑व॒त्योः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} दि॒वः शिशुं॒ सह॑सः सू॒नुम॒ग्निं य॒ज्ञस्य॑ के॒तुम॑रु॒षं यज॑ध्यै ||{2/15}{4.8.5.2}{6.49.2}{6.4.6.2}{1147, 490, 4873} वि॒शःऽवि॑शः¦ईड्य᳚म्¦अ॒ध्व॒रेषु॑¦अदृ॑प्तऽक्रतुम्¦अ॒र॒तिम्¦यु॒व॒त्योः | |
अ॒रु॒षस्य॑ दुहि॒तरा॒ विरू᳚पे॒ स्तृभि॑र॒न्या पि॑पि॒शे सूरो᳚, अ॒न्या |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} मि॒थ॒स्तुरा᳚ वि॒चर᳚न्ती पाव॒के मन्म॑ श्रु॒तं न॑क्षत ऋ॒च्यमा᳚ने ||{3/15}{4.8.5.3}{6.49.3}{6.4.6.3}{1148, 490, 4874} अ॒रु॒षस्य॑¦दु॒हि॒तरा᳚¦विरू᳚पे॒ इति॒ विऽरू᳚पे¦स्तृऽभिः॑¦अ॒न्या¦पि॒पि॒शे¦सूरः॑¦अ॒न्या | |
प्र वा॒युमच्छा᳚ बृह॒ती म॑नी॒षा बृ॒हद्र॑यिं वि॒श्ववा᳚रं रथ॒प्राम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} द्यु॒तद्या᳚मा नि॒युतः॒ पत्य॑मानः क॒विः क॒विमि॑यक्षसि प्रयज्यो ||{4/15}{4.8.5.4}{6.49.4}{6.4.6.4}{1149, 490, 4875} प्र¦वा॒युम्¦अच्छ॑¦बृ॒ह॒ती¦म॒नी॒षा¦बृ॒हत्ऽर॑यिम्¦वि॒श्वऽवा᳚रम्¦र॒थ॒ऽप्राम् | |
स मे॒ वपु॑श्छदयद॒श्विनो॒र्यो रथो᳚ वि॒रुक्मा॒न्मन॑सा युजा॒नः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} येन॑ नरा नासत्येष॒यध्यै᳚ व॒र्तिर्या॒थस्तन॑याय॒ त्मने᳚ च ||{5/15}{4.8.5.5}{6.49.5}{6.4.6.5}{1150, 490, 4876} सः¦मे॒¦वपुः॑¦छ॒द॒य॒त्¦अ॒श्विनोः᳚¦यः¦रथः॑¦वि॒रुक्मा᳚न्¦मन॑सा¦यु॒जा॒नः | |
पर्ज᳚न्यवाता वृषभा पृथि॒व्याः पुरी᳚षाणि जिन्वत॒मप्या᳚नि |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} सत्य॑श्रुतः कवयो॒ यस्य॑ गी॒र्भिर्जग॑तः स्थात॒र्जग॒दा कृ॑णुध्वम् ||{6/15}{4.8.6.1}{6.49.6}{6.4.6.6}{1151, 490, 4877} पर्ज᳚न्यवाता¦वृ॒ष॒भा॒¦पृ॒थि॒व्याः¦पुरी᳚षाणि¦जि॒न्व॒त॒म्¦अप्या᳚नि | |
पावी᳚रवी क॒न्या᳚ चि॒त्रायुः॒ सर॑स्वती वी॒रप॑त्नी॒ धियं᳚ धात् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} ग्नाभि॒रच्छि॑द्रं शर॒णं स॒जोषा᳚ दुरा॒धर्षं᳚ गृण॒ते शर्म॑ यंसत् ||{7/15}{4.8.6.2}{6.49.7}{6.4.6.7}{1152, 490, 4878} पावी᳚रवी¦क॒न्या᳚¦चि॒त्रऽआ᳚युः¦सर॑स्वती¦वी॒रऽप॑त्नी¦धिय᳚म्¦धा॒त् | |
प॒थस्प॑थः॒ परि॑पतिं वच॒स्या कामे᳚न कृ॒तो, अ॒भ्या᳚नळ॒र्कम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} स नो᳚ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धियं᳚धियं सीषधाति॒ प्र पू॒षा ||{8/15}{4.8.6.3}{6.49.8}{6.4.6.8}{1153, 490, 4879} प॒थःऽप॑थः¦परि॑ऽपतिम्¦व॒च॒स्या¦कामे᳚न¦कृ॒तः¦अ॒भि¦आ॒न॒ट्¦अ॒र्कम् | |
प्र॒थ॒म॒भाजं᳚ य॒शसं᳚ वयो॒धां सु॑पा॒णिं दे॒वं सु॒गभ॑स्ति॒मृभ्व᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} होता᳚ यक्षद्यज॒तं प॒स्त्या᳚नाम॒ग्निस्त्वष्टा᳚रं सु॒हवं᳚ वि॒भावा᳚ ||{9/15}{4.8.6.4}{6.49.9}{6.4.6.9}{1154, 490, 4880} प्र॒थ॒म॒ऽभाज᳚म्¦य॒शस᳚म्¦व॒यः॒ऽधाम्¦सु॒ऽपा॒णिम्¦दे॒वम्¦सु॒ऽगभ॑स्तिम्¦ऋभ्व᳚म् | |
भुव॑नस्य पि॒तरं᳚ गी॒र्भिरा॒भी रु॒द्रं दिवा᳚ व॒र्धया᳚ रु॒द्रम॒क्तौ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} बृ॒हन्त॑मृ॒ष्वम॒जरं᳚ सुषु॒म्नमृध॑ग्घुवेम क॒विने᳚षि॒तासः॑ ||{10/15}{4.8.6.5}{6.49.10}{6.4.6.10}{1155, 490, 4881} भुव॑नस्य¦पि॒तर᳚म्¦गीः॒ऽभिः¦आ॒भिः¦रु॒द्रम्¦दिवा᳚¦व॒र्धय॑¦रु॒द्रम्¦अ॒क्तौ | |
आ यु॑वानः कवयो यज्ञियासो॒ मरु॑तो ग॒न्त गृ॑ण॒तो व॑र॒स्याम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} अ॒चि॒त्रं चि॒द्धि जिन्व॑था वृ॒धन्त॑ इ॒त्था नक्ष᳚न्तो नरो, अङ्गिर॒स्वत् ||{11/15}{4.8.7.1}{6.49.11}{6.4.6.11}{1156, 490, 4882} आ¦यु॒वा॒नः॒¦क॒व॒यः॒¦य॒ज्ञि॒या॒सः॒¦मरु॑तः¦ग॒न्त¦गृ॒ण॒तः¦व॒र॒स्याम् | |
प्र वी॒राय॒ प्र त॒वसे᳚ तु॒रायाजा᳚ यू॒थेव॑ पशु॒रक्षि॒रस्त᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} स पि॑स्पृशति त॒न् वि॑ श्रु॒तस्य॒ स्तृभि॒र्न नाकं᳚ वच॒नस्य॒ विपः॑ ||{12/15}{4.8.7.2}{6.49.12}{6.4.6.12}{1157, 490, 4883} प्र¦वी॒राय॑¦प्र¦त॒वसे᳚¦तु॒राय॑¦अज॑¦यू॒थाऽइ᳚व¦प॒शु॒ऽरक्षिः॑¦अस्त᳚म् | |
यो रजां᳚सि विम॒मे पार्थि॑वानि॒ त्रिश्चि॒द्विष्णु॒र्मन॑वे बाधि॒ताय॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} तस्य॑ ते॒ शर्म᳚न्नुपद॒द्यमा᳚ने रा॒या म॑देम त॒न्वा॒३॑(आ॒) तना᳚ च ||{13/15}{4.8.7.3}{6.49.13}{6.4.6.13}{1158, 490, 4884} यः¦रजां᳚सि¦वि॒ऽम॒मे¦पार्थि॑वानि¦त्रिः¦चि॒त्¦विष्णुः॑¦मन॑वे¦बा॒धि॒ताय॑ | |
तन्नोऽहि॑र्बु॒ध्न्यो᳚, अ॒द्भिर॒र्कैस्तत् पर्व॑त॒स्तत्स॑वि॒ता चनो᳚ धात् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} तदोष॑धीभिर॒भि रा᳚ति॒षाचो॒ भगः॒ पुरं᳚धिर्जिन्वतु॒ प्र रा॒ये ||{14/15}{4.8.7.4}{6.49.14}{6.4.6.14}{1159, 490, 4885} तत्¦नः॒¦अहिः॑¦बु॒ध्न्यः॑¦अ॒त्ऽभिः¦अ॒र्कैः¦तत्¦पर्व॑तः¦तत्¦स॒वि॒ता¦चनः॑¦धा॒त् | |
नु नो᳚ र॒यिं र॒थ्यं᳚ चर्षणि॒प्रां पु॑रु॒वीरं᳚ म॒ह ऋ॒तस्य॑ गो॒पाम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | शक्वरी} क्षयं᳚ दाता॒जरं॒ येन॒ जना॒न् त्स्पृधो॒, अदे᳚वीर॒भि च॒ क्रमा᳚म॒ विश॒ आदे᳚वीर॒भ्य१॑(अ॒)श्नवा᳚म ||{15/15}{4.8.7.5}{6.49.15}{6.4.6.15}{1160, 490, 4886} नु¦नः॒¦र॒यिम्¦र॒थ्य᳚म्¦च॒र्ष॒णि॒ऽप्राम्¦पु॒रु॒ऽवीर᳚म्¦म॒हः¦ऋ॒तस्य॑¦गो॒पाम् | |
[129] हुवेवइति पंचदशर्चस्य सूक्तस्य भारद्वाजऋजिश्वाविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे –विश्वे। १ सूर्यः १ द्यावापृथिवी १ मरुतः २ इंद्रः १ अपः १ सविता १ अग्निः १ अश्विनौ १ विश्वे० ५ एवं १५) | |
हु॒वे वो᳚ दे॒वीमदि॑तिं॒ नमो᳚भिर्मृळी॒काय॒ वरु॑णं मि॒त्रम॒ग्निम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} अ॒भि॒क्ष॒दाम᳚र्य॒मणं᳚ सु॒शेवं᳚ त्रा॒तॄन्दे॒वान् त्स॑वि॒तारं॒ भगं᳚ च ||{1/15}{4.8.8.1}{6.50.1}{6.5.1.1}{1161, 491, 4887} हु॒वे¦वः॒¦दे॒वीम्¦अदि॑तिम्¦नमः॑ऽभिः¦मृ॒ळी॒काय॑¦वरु॑णम्¦मि॒त्रम्¦अ॒ग्निम् | |
सु॒ज्योति॑षः सूर्य॒ दक्ष॑पितॄननागा॒स्त्वे सु॑महो वीहि दे॒वान् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} द्वि॒जन्मा᳚नो॒ य ऋ॑त॒सापः॑ स॒त्याः स्व᳚र्वन्तो यज॒ता, अ॑ग्निजि॒ह्वाः ||{2/15}{4.8.8.2}{6.50.2}{6.5.1.2}{1162, 491, 4888} सु॒ऽज्योति॑षः¦सू॒र्य॒¦दक्ष॑ऽपितॄन्¦अ॒ना॒गाः॒ऽत्वे¦सु॒ऽम॒हः॒¦वी॒हि॒¦दे॒वान् | |
उ॒त द्या᳚वापृथिवी क्ष॒त्रमु॒रु बृ॒हद्रो᳚दसी शर॒णं सु॑षुम्ने |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} म॒हस्क॑रथो॒ वरि॑वो॒ यथा᳚ नो॒ऽस्मे क्षया᳚य धिषणे, अने॒हः ||{3/15}{4.8.8.3}{6.50.3}{6.5.1.3}{1163, 491, 4889} उ॒त¦द्या॒वा॒पृ॒थि॒वी॒ इति॑¦क्ष॒त्रम्¦उ॒रु¦बृ॒हत्¦रो॒द॒सी॒ इति॑¦श॒र॒णम्¦सु॒सु॒म्ने॒ इति॑ सुऽसुम्ने | |
आ नो᳚ रु॒द्रस्य॑ सू॒नवो᳚ नमन्ताम॒द्या हू॒तासो॒ वस॒वोऽधृ॑ष्टाः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} यदी॒मर्भे᳚ मह॒ति वा᳚ हि॒तासो᳚ बा॒धे म॒रुतो॒, अह्वा᳚म दे॒वान् ||{4/15}{4.8.8.4}{6.50.4}{6.5.1.4}{1164, 491, 4890} आ¦नः॒¦रु॒द्रस्य॑¦सू॒नवः॑¦न॒म॒न्ता॒म्¦अ॒द्य¦हू॒तासः॑¦वस॑वः¦अधृ॑ष्टाः | |
मि॒म्यक्ष॒ येषु॑ रोद॒सी नु दे॒वी सिष॑क्ति पू॒षा, अ॑भ्यर्ध॒यज्वा᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} श्रु॒त्वा हवं᳚ मरुतो॒ यद्ध॑ या॒थ भूमा᳚ रेजन्ते॒, अध्व॑नि॒ प्रवि॑क्ते ||{5/15}{4.8.8.5}{6.50.5}{6.5.1.5}{1165, 491, 4891} मि॒म्यक्ष॑¦येषु॑¦रो॒द॒सी¦नु¦दे॒वी¦सिस॑क्ति¦पू॒षा¦अ॒भ्य॒र्ध॒ऽयज्वा᳚ | |
अ॒भि त्यं वी॒रं गिर्व॑णसम॒र्चेन्द्रं॒ ब्रह्म॑णा जरित॒र्नवे᳚न |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} श्रव॒दिद्धव॒मुप॑ च॒ स्तवा᳚नो॒ रास॒द्वाजाँ॒, उप॑ म॒हो गृ॑णा॒नः ||{6/15}{4.8.9.1}{6.50.6}{6.5.1.6}{1166, 491, 4892} अ॒भि¦त्यम्¦वी॒रम्¦गिर्व॑णसम्¦अ॒र्च॒¦इन्द्र᳚म्¦ब्रह्म॑णा¦ज॒रि॒तः॒¦नवे᳚न | |
ओ॒मान॑मापो मानुषी॒रमृ॑क्तं॒ धात॑ तो॒काय॒ तन॑याय॒ शं योः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} यू॒यं हि ष्ठा भि॒षजो᳚ मा॒तृत॑मा॒ विश्व॑स्य स्था॒तुर्जग॑तो॒ जनि॑त्रीः ||{7/15}{4.8.9.2}{6.50.7}{6.5.1.7}{1167, 491, 4893} ओ॒मान᳚म्¦आ॒पः॒¦मा॒नु॒षीः॒¦अमृ॑क्तम्¦धात॑¦तो॒काय॑¦तन॑याय¦शम्¦योः | |
आ नो᳚ दे॒वः स॑वि॒ता त्राय॑माणो॒ हिर᳚ण्यपाणिर्यज॒तो ज॑गम्यात् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} यो दत्र॑वाँ, उ॒षसो॒ न प्रती᳚कं व्यूर्णु॒ते दा॒शुषे॒ वार्या᳚णि ||{8/15}{4.8.9.3}{6.50.8}{6.5.1.8}{1168, 491, 4894} आ¦नः॒¦दे॒वः¦स॒वि॒ता¦त्राय॑माणः¦हिर᳚ण्यऽपाणिः¦य॒ज॒तः¦ज॒ग॒म्या॒त् | |
उ॒त त्वं सू᳚नो सहसो नो, अ॒द्या दे॒वाँ, अ॒स्मिन्न॑ध्व॒रे व॑वृत्याः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} स्याम॒हं ते॒ सद॒मिद्रा॒तौ तव॑ स्याम॒ग्नेऽव॑सा सु॒वीरः॑ ||{9/15}{4.8.9.4}{6.50.9}{6.5.1.9}{1169, 491, 4895} उ॒त¦त्वम्¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦नः॒¦अ॒द्य¦आ¦दे॒वान्¦अ॒स्मिन्¦अ॒ध्व॒रे¦व॒वृ॒त्याः॒ | |
उ॒त त्या मे॒ हव॒मा ज॑ग्म्यातं॒ नास॑त्या धी॒भिर्यु॒वम॒ङ्ग वि॑प्रा |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} अत्रिं॒ न म॒हस्तम॑सोऽमुमुक्तं॒ तूर्व॑तं नरा दुरि॒ताद॒भीके᳚ ||{10/15}{4.8.9.5}{6.50.10}{6.5.1.10}{1170, 491, 4896} उ॒त¦त्या¦मे॒¦हव᳚म्¦आ¦ज॒ग्म्या॒त॒म्¦नास॑त्या¦धी॒भिः¦यु॒वम्¦अ॒ङ्ग¦वि॒प्रा॒ | |
ते नो᳚ रा॒यो द्यु॒मतो॒ वाज॑वतो दा॒तारो᳚ भूत नृ॒वतः॑ पुरु॒क्षोः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} द॒श॒स्यन्तो᳚ दि॒व्याः पार्थि॑वासो॒ गोजा᳚ता॒, अप्या᳚ मृ॒ळता᳚ च देवाः ||{11/15}{4.8.10.1}{6.50.11}{6.5.1.11}{1171, 491, 4897} ते¦नः॒¦रा॒यः¦द्यु॒ऽमतः॑¦वाज॑ऽवतः¦दा॒तारः॑¦भू॒त॒¦नृ॒ऽवतः॑¦पु॒रु॒ऽक्षोः | |
ते नो᳚ रु॒द्रः सर॑स्वती स॒जोषा᳚ मी॒ळ्हुष्म᳚न्तो॒ विष्णु᳚र्मृळन्तु वा॒युः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} ऋ॒भु॒क्षा वाजो॒ दैव्यो᳚ विधा॒ता प॒र्जन्या॒वाता᳚ पिप्यता॒मिषं᳚ नः ||{12/15}{4.8.10.2}{6.50.12}{6.5.1.12}{1172, 491, 4898} ते¦नः॒¦रु॒द्रः¦सर॑स्वती¦स॒ऽजोषाः᳚¦मी॒ळ्हुष्म᳚न्तः¦विष्णुः॑¦मृ॒ळ॒न्तु॒¦वा॒युः | |
उ॒त स्य दे॒वः स॑वि॒ता भगो᳚ नो॒ऽपां नपा᳚दवतु॒ दानु॒ पप्रिः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} त्वष्टा᳚ दे॒वेभि॒र्जनि॑भिः स॒जोषा॒ द्यौर्दे॒वेभिः॑ पृथि॒वी स॑मु॒द्रैः ||{13/15}{4.8.10.3}{6.50.13}{6.5.1.13}{1173, 491, 4899} उ॒त¦स्यः¦दे॒वः¦स॒वि॒ता¦भगः॑¦नः॒¦अ॒पाम्¦नपा᳚त्¦अ॒व॒तु॒¦दानु॑¦पप्रिः॑ | |
उ॒त नोऽहि॑र्बु॒ध्न्यः॑ शृणोत्व॒ज एक॑पात् पृथि॒वी स॑मु॒द्रः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} विश्वे᳚ दे॒वा, ऋ॑ता॒वृधो᳚ हुवा॒नाः स्तु॒ता मन्त्राः᳚ कविश॒स्ता, अ॑वन्तु ||{14/15}{4.8.10.4}{6.50.14}{6.5.1.14}{1174, 491, 4900} उ॒त¦नः॒¦अहिः॑¦बु॒ध्न्यः॑¦शृ॒णो॒तु॒¦अ॒जः¦एक॑ऽपात्¦पृ॒थि॒वी¦स॒मु॒द्रः | |
ए॒वा नपा᳚तो॒ मम॒ तस्य॑ धी॒भिर्भ॒रद्वा᳚जा, अ॒भ्य॑र्चन्त्य॒र्कैः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} ग्ना हु॒तासो॒ वस॒वोऽधृ॑ष्टा॒ विश्वे᳚ स्तु॒तासो᳚ भूता यजत्राः ||{15/15}{4.8.10.5}{6.50.15}{6.5.1.15}{1175, 491, 4901} ए॒व¦नपा᳚तः¦मम॑¦तस्य॑¦धी॒भिः¦भ॒रत्ऽवा᳚जाः¦अ॒भि¦अ॒र्च॒न्ति॒¦अ॒र्कैः | |
[130] उदुत्यदिति षोळशर्चस्य सूक्तस्य भारद्वाजऋजिश्वा विश्वेदेवातिष्टुप् त्रयोदश्याद्यास्तिस्राउष्णिहोन्त्यानुष्टुप् | (भेदपक्षे- सूर्य : २ विश्वेदेवाः १० अग्निः १ सोमः १ विश्वेदेवाः २ एवं १६) | |
उदु॒ त्यच्चक्षु॒र्महि॑ मि॒त्रयो॒राँ, एति॑ प्रि॒यं वरु॑णयो॒रद॑ब्धम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} ऋ॒तस्य॒ शुचि॑ दर्श॒तमनी᳚कं रु॒क्मो न दि॒व उदि॑ता॒ व्य॑द्यौत् ||{1/16}{4.8.11.1}{6.51.1}{6.5.2.1}{1176, 492, 4902} उत्¦ऊँ॒ इति॑¦त्यत्¦चक्षुः॑¦महि॑¦मि॒त्रयोः᳚¦आ¦एति॑¦प्रि॒यम्¦वरु॑णयोः¦अद॑ब्धम् | |
वेद॒ यस्त्रीणि॑ वि॒दथा᳚न्येषां दे॒वानां॒ जन्म॑ सनु॒तरा च॒ विप्रः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} ऋ॒जु मर्ते᳚षु वृजि॒ना च॒ पश्य᳚न्न॒भि च॑ष्टे॒ सूरो᳚, अ॒र्य एवा॑न् ||{2/16}{4.8.11.2}{6.51.2}{6.5.2.2}{1177, 492, 4903} वेद॑¦यः¦त्रीणि॑¦वि॒दथा᳚नि¦ए॒षा॒म्¦दे॒वाना᳚म्¦जन्म॑¦स॒नु॒तः¦आ¦च॒¦विप्रः॑ | |
स्तु॒ष उ॑ वो म॒ह ऋ॒तस्य॑ गो॒पानदि॑तिं मि॒त्रं वरु॑णं सुजा॒तान् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} अ॒र्य॒मणं॒ भग॒मद॑ब्धधीती॒नच्छा᳚ वोचे सध॒न्यः॑ पाव॒कान् ||{3/16}{4.8.11.3}{6.51.3}{6.5.2.3}{1178, 492, 4904} स्तु॒षे¦ऊँ॒ इति॑¦वः॒¦म॒हः¦ऋ॒तस्य॑¦गो॒पान्¦अदि॑तिम्¦मि॒त्रम्¦वरु॑णम्¦सु॒ऽजा॒तान् | |
रि॒शाद॑सः॒ सत्प॑तीँ॒रद॑ब्धान्म॒हो राज्ञः॑ सुवस॒नस्य॑ दा॒तॄन् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} यूनः॑ सुक्ष॒त्रान् क्षय॑तो दि॒वो नॄना᳚दि॒त्यान्या॒म्यदि॑तिं दुवो॒यु ||{4/16}{4.8.11.4}{6.51.4}{6.5.2.4}{1179, 492, 4905} रि॒शाद॑सः¦सत्ऽप॑तीन्¦अद॑ब्धान्¦म॒हः¦राज्ञः॑¦सु॒ऽव॒स॒नस्य॑¦दा॒तॄन् | |
द्यौ॒३॑(औ॒)ष्पितः॒ पृथि॑वि॒ मात॒रध्रु॒गग्ने᳚ भ्रातर्वसवो मृ॒ळता᳚ नः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} विश्व॑ आदित्या, अदिते स॒जोषा᳚, अ॒स्मभ्यं॒ शर्म॑ बहु॒लं वि य᳚न्त ||{5/16}{4.8.11.5}{6.51.5}{6.5.2.5}{1180, 492, 4906} द्यौः᳚¦पित॒रिति॑¦पृ॒थि॑वि¦मातः॑¦अध्रु॑क्¦अग्ने᳚¦भ्रा॒तः॒¦व॒स॒वः॒¦मृ॒ळत॑¦नः॒ | |
मा नो॒ वृका᳚य वृ॒क्ये᳚ समस्मा, अघाय॒ते री᳚रधता यजत्राः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} यू॒यं हि ष्ठा र॒थ्यो᳚ नस्त॒नूनां᳚ यू॒यं दक्ष॑स्य॒ वच॑सो बभू॒व ||{6/16}{4.8.12.1}{6.51.6}{6.5.2.6}{1181, 492, 4907} मा¦नः॒¦वृका᳚य¦वृ॒क्ये᳚¦स॒म॒स्मै॒¦अ॒घ॒ऽय॒ते¦री॒र॒ध॒त॒¦य॒ज॒त्राः॒ | |
मा व॒ एनो᳚, अ॒न्यकृ॑तं भुजेम॒ मा तत्क᳚र्म वसवो॒ यच्चय॑ध्वे |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} विश्व॑स्य॒ हि क्षय॑थ विश्वदेवाः स्व॒यं रि॒पुस्त॒न्वं᳚ रीरिषीष्ट ||{7/16}{4.8.12.2}{6.51.7}{6.5.2.7}{1182, 492, 4908} मा¦वः॒¦एनः॑¦अ॒न्यऽकृ॑तम्¦भु॒जे॒म॒¦मा¦तत्¦क॒र्म॒¦व॒स॒वः॒¦यत्¦चय॑ध्वे | |
नम॒ इदु॒ग्रं नम॒ आ वि॑वासे॒ नमो᳚ दाधार पृथि॒वीमु॒त द्याम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} नमो᳚ दे॒वेभ्यो॒ नम॑ ईश एषां कृ॒तं चि॒देनो॒ नम॒सा वि॑वासे ||{8/16}{4.8.12.3}{6.51.8}{6.5.2.8}{1183, 492, 4909} नमः॑¦इत्¦उ॒ग्रम्¦नमः॑¦आ¦वि॒वा॒से॒¦नमः॑¦दा॒धा॒र॒¦पृ॒थि॒वीम्¦उ॒त¦द्याम् | |
ऋ॒तस्य॑ वो र॒थ्यः॑ पू॒तद॑क्षानृ॒तस्य॑ पस्त्य॒सदो॒, अद॑ब्धान् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} ताँ, आ नमो᳚भिरुरु॒चक्ष॑सो॒ नॄन् विश्वा᳚न्व॒ आ न॑मे म॒हो य॑जत्राः ||{9/16}{4.8.12.4}{6.51.9}{6.5.2.9}{1184, 492, 4910} ऋ॒तस्य॑¦वः॒¦र॒थ्यः॑¦पू॒तऽद॑क्षान्¦ऋ॒तस्य॑¦प॒स्त्य॒ऽसदः॑¦अद॑ब्धान् | |
ते हि श्रेष्ठ॑वर्चस॒स्त उ॑ नस्ति॒रो विश्वा᳚नि दुरि॒ता नय᳚न्ति |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} सु॒क्ष॒त्रासो॒ वरु॑णो मि॒त्रो, अ॒ग्निरृ॒तधी᳚तयो वक्म॒राज॑सत्याः ||{10/16}{4.8.12.5}{6.51.10}{6.5.2.10}{1185, 492, 4911} ते¦हि¦श्रेष्ठ॑ऽवर्चसः¦ते¦ऊँ॒ इति॑¦नः॒¦ति॒रः¦विश्वा᳚नि¦दुः॒ऽइ॒ता¦नय᳚न्ति | |
ते न॒ इन्द्रः॑ पृथि॒वी क्षाम॑ वर्धन् पू॒षा भगो॒, अदि॑तिः॒ पञ्च॒ जनाः᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} सु॒शर्मा᳚णः॒ स्वव॑सः सुनी॒था भव᳚न्तु नः सुत्रा॒त्रासः॑ सुगो॒पाः ||{11/16}{4.8.13.1}{6.51.11}{6.5.2.11}{1186, 492, 4912} ते¦नः॒¦इन्द्रः॑¦पृ॒थि॒वी¦क्षाम॑¦व॒र्ध॒न्¦पू॒षा¦भगः॑¦अदि॑तिः¦पंच॑¦जनाः᳚ | |
नू स॒द्मानं᳚ दि॒व्यं नंशि॑ देवा॒ भार॑द्वाजः सुम॒तिं या᳚ति॒ होता᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} आ॒सा॒नेभि॒र्यज॑मानो मि॒येधै᳚र्दे॒वानां॒ जन्म॑ वसू॒युर्व॑वन्द ||{12/16}{4.8.13.2}{6.51.12}{6.5.2.12}{1187, 492, 4913} नु¦स॒द्मान᳚म्¦दि॒व्यम्¦नंशि॑¦दे॒वाः॒¦भार॑त्ऽवाजः¦सु॒ऽम॒तिम्¦या॒ति॒¦होता᳚ | |
अप॒ त्यं वृ॑जि॒नं रि॒पुं स्ते॒नम॑ग्ने दुरा॒ध्य᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | उष्णिक्} द॒वि॒ष्ठम॑स्य सत्पते कृ॒धी सु॒गम् ||{13/16}{4.8.13.3}{6.51.13}{6.5.2.13}{1188, 492, 4914} अप॑¦त्यम्¦वृ॒जि॒नम्¦रि॒पुम्¦स्ते॒नम्¦अ॒ग्ने॒¦दुः॒ऽआ॒ध्य᳚म् | द॒वि॒ष्ठम्¦अ॒स्य॒¦स॒त्ऽप॒ते॒¦कृ॒धि¦सु॒ऽगम् || |
ग्रावा᳚णः सोम नो॒ हि कं᳚ सखित्व॒नाय॑ वाव॒शुः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | उष्णिक्} ज॒ही न्य१॑(अ॒)त्रिणं᳚ प॒णिं वृको॒ हि षः ||{14/16}{4.8.13.4}{6.51.14}{6.5.2.14}{1189, 492, 4915} ग्रावा᳚णः¦सो॒म॒¦नः॒¦हि¦क॒म्¦स॒खि॒ऽत्व॒नाय॑¦वा॒व॒शुः | ज॒हि¦नि¦अ॒त्रिण᳚म्¦प॒णिम्¦वृकः॑¦हि¦सः || |
यू॒यं हि ष्ठा सु॑दानव॒ इन्द्र॑ज्येष्ठा, अ॒भिद्य॑वः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | उष्णिक्} कर्ता᳚ नो॒, अध्व॒न्ना सु॒गं गो॒पा, अ॒मा ||{15/16}{4.8.13.5}{6.51.15}{6.5.2.15}{1190, 492, 4916} यू॒यम्¦हि¦स्थ¦सु॒ऽदा॒न॒वः॒¦इन्द्र॑ऽज्येष्ठाः¦अ॒भिऽद्य॑वः | कर्त॑¦नः॒¦अध्व॑न्¦आ¦सु॒ऽगम्¦गो॒पाः¦अ॒मा || |
अपि॒ पन्था᳚मगन्महि स्वस्ति॒गाम॑ने॒हस᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | अनुष्टुप्} येन॒ विश्वाः॒ परि॒ द्विषो᳚ वृ॒णक्ति॑ वि॒न्दते॒ वसु॑ ||{16/16}{4.8.13.6}{6.51.16}{6.5.2.16}{1191, 492, 4917} अपि॑¦पन्था᳚म्¦अ॒ग॒न्म॒हि॒¦स्व॒स्ति॒ऽगाम्¦अ॒ने॒हस᳚म् | येन॑¦विश्वाः᳚¦परि॑¦द्विषः॑¦वृ॒णक्ति॑¦वि॒न्दते᳚¦वसु॑ || |
[131] नतद्दिवेति सप्तदशर्चस्य सूक्तस्य भारद्वाजऋजिश्व विश्वेदेवास्त्रिष्टुप्सप्तम्याद्याःषट्गायत्र्यश्चतुर्दशी जगती | (भेदपक्षे-विश्वेदेवाः २ सोमः १ विश्वे ८ अग्निः १ विश्वे ३ अग्निपर्जन्यौ १ विश्वे १ एवं १७) | |
न तद्दि॒वा न पृ॑थि॒व्यानु॑ मन्ये॒ न य॒ज्ञेन॒ नोत शमी᳚भिरा॒भिः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} उ॒ब्जन्तु॒ तं सु॒भ्व१॑(अः॒) पर्व॑तासो॒ नि ही᳚यतामतिया॒जस्य॑ य॒ष्टा ||{1/17}{4.8.14.1}{6.52.1}{6.5.3.1}{1192, 493, 4918} न¦तत्¦दि॒वा¦न¦पृ॒थि॒व्या¦अनु॑¦म॒न्ये॒¦न¦य॒ज्ञेन॑¦न¦उ॒त¦शमी᳚भिः¦आ॒भिः | |
अति॑ वा॒ यो म॑रुतो॒ मन्य॑ते नो॒ ब्रह्म॑ वा॒ यः क्रि॒यमा᳚णं॒ निनि॑त्सात् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} तपूं᳚षि॒ तस्मै᳚ वृजि॒नानि॑ सन्तु ब्रह्म॒द्विष॑म॒भि तं शो᳚चतु॒ द्यौः ||{2/17}{4.8.14.2}{6.52.2}{6.5.3.2}{1193, 493, 4919} अति॑¦वा॒¦यः¦म॒रु॒तः॒¦मन्य॑ते¦नः॒¦ब्रह्म॑¦वा॒¦यः¦क्रि॒यमा᳚णम्¦निनि॑त्सात् | |
किम॒ङ्ग त्वा॒ ब्रह्म॑णः सोम गो॒पां किम॒ङ्ग त्वा᳚हुरभिशस्ति॒पां नः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} किम॒ङ्ग नः॑ पश्यसि नि॒द्यमा᳚नान् ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ||{3/17}{4.8.14.3}{6.52.3}{6.5.3.3}{1194, 493, 4920} किम्¦अ॒ङ्ग¦त्वा॒¦ब्रह्म॑णः¦सो॒म॒¦गो॒पाम्¦किम्¦अ॒ङ्ग¦त्वा॒¦आ॒हुः॒¦अ॒भि॒श॒स्ति॒ऽपाम्¦नः॒ | |
अव᳚न्तु॒ मामु॒षसो॒ जाय॑माना॒, अव᳚न्तु मा॒ सिन्ध॑वः॒ पिन्व॑मानाः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} अव᳚न्तु मा॒ पर्व॑तासो ध्रु॒वासोऽव᳚न्तु मा पि॒तरो᳚ दे॒वहू᳚तौ ||{4/17}{4.8.14.4}{6.52.4}{6.5.3.4}{1195, 493, 4921} अव᳚न्तु¦माम्¦उ॒षसः॑¦जाय॑मानाः¦अव᳚न्तु¦मा॒¦सिन्ध॑वः¦पिन्व॑मानाः | |
वि॒श्व॒दानीं᳚ सु॒मन॑सः स्याम॒ पश्ये᳚म॒ नु सूर्य॑मु॒च्चर᳚न्तम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} तथा᳚ कर॒द्वसु॑पति॒र्वसू᳚नां दे॒वाँ, ओहा॒नोऽव॒साग॑मिष्ठः ||{5/17}{4.8.14.5}{6.52.5}{6.5.3.5}{1196, 493, 4922} वि॒श्व॒ऽदानी᳚म्¦सु॒ऽमन॑सः¦स्या॒म॒¦पश्ये᳚म¦नु¦सूर्य᳚म्¦उ॒त्ऽचर᳚न्तम् | |
इन्द्रो॒ नेदि॑ष्ठ॒मव॒साग॑मिष्ठः॒ सर॑स्वती॒ सिन्धु॑भिः॒ पिन्व॑माना |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} प॒र्जन्यो᳚ न॒ ओष॑धीभिर्मयो॒भुर॒ग्निः सु॒शंसः॑ सु॒हवः॑ पि॒तेव॑ ||{6/17}{4.8.15.1}{6.52.6}{6.5.3.6}{1197, 493, 4923} इन्द्रः॑¦नेदि॑ष्ठम्¦अव॑सा¦आऽग॑मिष्ठः¦सर॑स्वती¦सिन्धु॑ऽभिः¦पिन्व॑माना | |
विश्वे᳚ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मं हव᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री} एदं ब॒र्हिर्नि षी᳚दत ||{7/17}{4.8.15.2}{6.52.7}{6.5.3.7}{1198, 493, 4924} विश्वे᳚¦दे॒वा॒सः॒¦आ¦ग॒त॒¦शृ॒णु॒त¦मे॒¦इ॒मम्¦हव᳚म् | आ¦इ॒दम्¦ब॒र्हिः¦नि¦सी॒द॒त॒ || |
यो वो᳚ देवा घृ॒तस्नु॑ना ह॒व्येन॑ प्रति॒भूष॑ति |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री} तं विश्व॒ उप॑ गच्छथ ||{8/17}{4.8.15.3}{6.52.8}{6.5.3.8}{1199, 493, 4925} यः¦वः॒¦दे॒वाः॒¦घृ॒तऽस्नु॑ना¦ह॒व्येन॑¦प्र॒ति॒ऽभूष॑ति | तम्¦विश्वे᳚¦उप॑¦ग॒च्छ॒थ॒ || |
उप॑ नः सू॒नवो॒ गिरः॑ शृ॒ण्वन्त्व॒मृत॑स्य॒ ये |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री} सु॒मृ॒ळी॒का भ॑वन्तु नः ||{9/17}{4.8.15.4}{6.52.9}{6.5.3.9}{1200, 493, 4926} उप॑¦नः॒¦सू॒नवः॑¦गिरः॑¦शृ॒ण्वन्तु॑¦अ॒मृत॑स्य¦ये | सु॒ऽमृ॒ळी॒काः¦भ॒व॒न्तु॒¦नः॒ || |
विश्वे᳚ दे॒वा, ऋ॑ता॒वृध॑ ऋ॒तुभि᳚र्हवन॒श्रुतः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री} जु॒षन्तां॒ युज्यं॒ पयः॑ ||{10/17}{4.8.15.5}{6.52.10}{6.5.3.10}{1201, 493, 4927} विश्वे᳚¦दे॒वाः¦ऋ॒त॒ऽवृधः॑¦ऋ॒तुऽभिः॑¦ह॒व॒न॒ऽश्रुतः॑ | जु॒षन्ता᳚म्¦युज्य᳚म्¦पयः॑ || |
स्तो॒त्रमिन्द्रो᳚ म॒रुद्ग॑ण॒स्त्वष्टृ॑मान्मि॒त्रो, अ᳚र्य॒मा |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री} इ॒मा ह॒व्या जु॑षन्त नः ||{11/17}{4.8.16.1}{6.52.11}{6.5.3.11}{1202, 493, 4928} स्तो॒त्रम्¦इन्द्रः॑¦म॒रुत्ऽग॑णः¦त्वष्टृ॑ऽमान्¦मि॒त्रः¦अ॒र्य॒मा | इ॒मा¦ह॒व्या¦जु॒ष॒न्त॒¦नः॒ || |
इ॒मं नो᳚, अग्ने, अध्व॒रं होत᳚र्वयुन॒शो य॑ज |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री} चि॒कि॒त्वान् दैव्यं॒ जन᳚म् ||{12/17}{4.8.16.2}{6.52.12}{6.5.3.12}{1203, 493, 4929} इ॒मम्¦नः॒¦अ॒ग्ने॒¦अ॒ध्व॒रम्¦होतः॑¦व॒यु॒न॒ऽशः¦य॒ज॒ | चि॒कि॒त्वान्¦दैव्य᳚म्¦जन᳚म् || |
विश्वे᳚ देवाः शृणु॒तेमं हवं᳚ मे॒ ये, अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} ये, अ॑ग्निजि॒ह्वा, उ॒त वा॒ यज॑त्रा, आ॒सद्या॒स्मिन् ब॒र्हिषि॑ मादयध्वम् ||{13/17}{4.8.16.3}{6.52.13}{6.5.3.13}{1204, 493, 4930} विश्वे᳚¦दे॒वाः॒¦शृ॒णु॒त¦इ॒मम्¦हव᳚म्¦मे॒¦ये¦अ॒न्तरि॑क्षे¦ये¦उप॑¦द्यवि॑¦स्थ | |
विश्वे᳚ दे॒वा मम॑ शृण्वन्तु य॒ज्ञिया᳚, उ॒भे रोद॑सी, अ॒पां नपा᳚च्च॒ मन्म॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | जगती} मा वो॒ वचां᳚सि परि॒चक्ष्या᳚णि वोचं सु॒म्नेष्विद्वो॒, अन्त॑मा मदेम ||{14/17}{4.8.16.4}{6.52.14}{6.5.3.14}{1205, 493, 4931} विश्वे᳚¦दे॒वाः¦मम॑¦शृ॒ण्व॒न्तु॒¦य॒ज्ञियाः᳚¦उ॒भे इति॑¦रोद॑सी॒ इति॑¦अ॒पाम्¦नपा᳚त्¦च॒¦मन्म॑ | |
ये के च॒ ज्मा म॒हिनो॒, अहि॑माया दि॒वो ज॑ज्ञि॒रे, अ॒पां स॒धस्थे᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} ते, अ॒स्मभ्य॑मि॒षये॒ विश्व॒मायुः॒, क्षप॑ उ॒स्रा व॑रिवस्यन्तु दे॒वाः ||{15/17}{4.8.16.5}{6.52.15}{6.5.3.15}{1206, 493, 4932} ये¦के¦च॒¦ज्मा¦म॒हिनः॑¦अहि॑ऽमायाः¦दि॒वः¦ज॒ज्ञि॒रे¦अ॒पाम्¦स॒धऽस्थे᳚ | |
अग्नी᳚पर्जन्या॒वव॑तं॒ धियं᳚ मे॒ऽस्मिन्हवे᳚ सुहवा सुष्टु॒तिं नः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} इळा᳚म॒न्यो ज॒नय॒द्गर्भ॑म॒न्यः प्र॒जाव॑ती॒रिष॒ आ ध॑त्तम॒स्मे ||{16/17}{4.8.16.6}{6.52.16}{6.5.3.16}{1207, 493, 4933} अग्नी᳚पर्जन्यौ¦अव॑तम्¦धिय᳚म्¦मे॒¦अ॒स्मिन्¦हवे᳚¦सु॒ऽह॒वा॒¦सु॒ऽस्तु॒तिम्¦नः॒ | |
स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने, अ॒ग्नौ सू॒क्तेन॑ म॒हा नम॒सा वि॑वासे |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} अ॒स्मिन्नो᳚, अ॒द्य वि॒दथे᳚ यजत्रा॒ विश्वे᳚ देवा ह॒विषि॑ मादयध्वम् ||{17/17}{4.8.16.7}{6.52.17}{6.5.3.17}{1208, 493, 4934} स्ती॒र्णे¦ब॒र्हिषि॑¦स॒म्ऽइ॒धा॒ने¦अ॒ग्नौ¦सु॒।औ॒क्तेन॑¦म॒हा¦नम॑सा¦आ¦वि॒वा॒से॒ | |
[132] वयमुत्वेति दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजः पूषा गायत्री अष्टम्यनुष्टुप् | |
व॒यमु॑ त्वा पथस्पते॒ रथं॒ न वाज॑सातये |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} धि॒ये पू᳚षन्नयुज्महि ||{1/10}{4.8.17.1}{6.53.1}{6.5.4.1}{1209, 494, 4935} व॒यम्¦ऊँ॒ इति॑¦त्वा॒¦प॒थः॒¦प॒ते॒¦रथ᳚म्¦न¦वाज॑ऽसातये | धि॒ये¦पू॒ष॒न्¦अ॒यु॒ज्म॒हि॒ || |
अ॒भि नो॒ नर्यं॒ वसु॑ वी॒रं प्रय॑तदक्षिणम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} वा॒मं गृ॒हप॑तिं नय ||{2/10}{4.8.17.2}{6.53.2}{6.5.4.2}{1210, 494, 4936} अ॒भि¦नः॒¦नर्य᳚म्¦वसु॑¦वी॒रम्¦प्रय॑तऽदक्षिणम् | वा॒मम्¦गृ॒हऽप॑तिम्¦न॒य॒ || |
अदि॑त्सन्तं चिदाघृणे॒ पूष॒न्दाना᳚य चोदय |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} प॒णेश्चि॒द्वि म्र॑दा॒ मनः॑ ||{3/10}{4.8.17.3}{6.53.3}{6.5.4.3}{1211, 494, 4937} अदि॑त्सन्तम्¦चि॒त्¦आ॒घृ॒णे॒¦पूष॑न्¦दाना᳚य¦चो॒द॒य॒ | प॒णेः¦चि॒त्¦वि¦म्र॒द॒¦मनः॑ || |
वि प॒थो वाज॑सातये चिनु॒हि वि मृधो᳚ जहि |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} साध᳚न्तामुग्र नो॒ धियः॑ ||{4/10}{4.8.17.4}{6.53.4}{6.5.4.4}{1212, 494, 4938} वि¦प॒थः¦वाज॑ऽसातये¦चि॒नु॒हि¦वि¦मृधः॑¦ज॒हि॒ | साध᳚न्ताम्¦उ॒ग्र॒¦नः॒¦धियः॑ || |
परि॑ तृन्धि पणी॒नामार॑या॒ हृद॑या कवे |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} अथे᳚म॒स्मभ्यं᳚ रन्धय ||{5/10}{4.8.17.5}{6.53.5}{6.5.4.5}{1213, 494, 4939} परि॑¦तृ॒न्धि॒¦प॒णी॒नाम्¦आर॑या¦हृद॑या¦क॒वे॒ | अथ॑¦ई॒म्¦अ॒स्मभ्य᳚म्¦र॒न्ध॒य॒ || |
वि पू᳚ष॒न्नार॑या तुद प॒णेरि॑च्छ हृ॒दि प्रि॒यम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} अथे᳚म॒स्मभ्यं᳚ रन्धय ||{6/10}{4.8.18.1}{6.53.6}{6.5.4.6}{1214, 494, 4940} वि¦पू॒ष॒न्¦आर॑या¦तु॒द॒¦प॒णेः¦इ॒च्छ॒¦हृ॒दि¦प्रि॒यम् | अथ॑¦ई॒म्¦अ॒स्मभ्य᳚म्¦र॒न्ध॒य॒ || |
आ रि॑ख किकि॒रा कृ॑णु पणी॒नां हृद॑या कवे |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} अथे᳚म॒स्मभ्यं᳚ रन्धय ||{7/10}{4.8.18.2}{6.53.7}{6.5.4.7}{1215, 494, 4941} आ¦रि॒ख॒¦कि॒कि॒रा¦कृ॒णु॒¦प॒णी॒नाम्¦हृद॑या¦क॒वे॒ | अथ॑¦ई॒म्¦अ॒स्मभ्य᳚म्¦र॒न्ध॒य॒ || |
यां पू᳚षन् ब्रह्म॒चोद॑नी॒मारां॒ बिभ॑र्ष्याघृणे |{बार्हस्पत्यो भरद्वाजः | पूषा | अनुष्टुप्} तया᳚ समस्य॒ हृद॑य॒मा रि॑ख किकि॒रा कृ॑णु ||{8/10}{4.8.18.3}{6.53.8}{6.5.4.8}{1216, 494, 4942} याम्¦पू॒ष॒न्¦ब्र॒ह्म॒ऽचोद॑नीम्¦आरा᳚म्¦बिभ॑र्षि¦आ॒घृ॒णे॒ | तया᳚¦स॒म॒स्य॒¦हृद॑यम्¦आ¦रि॒ख॒¦कि॒कि॒रा¦कृ॒णु॒ || |
या ते॒, अष्ट्रा॒ गो,ओ᳚प॒शाघृ॑णे पशु॒साध॑नी |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} तस्या᳚स्ते सु॒म्नमी᳚महे ||{9/10}{4.8.18.4}{6.53.9}{6.5.4.9}{1217, 494, 4943} या¦ते॒¦अष्ट्रा᳚¦गोऽओ᳚पशा¦आघृ॑णे¦प॒शु॒ऽसाध॑नी | तस्याः᳚¦ते॒¦सु॒म्नम्¦ई॒म॒हे॒ || |
उ॒त नो᳚ गो॒षणिं॒ धिय॑मश्व॒सां वा᳚ज॒सामु॒त |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} नृ॒वत्कृ॑णुहि वी॒तये᳚ ||{10/10}{4.8.18.5}{6.53.10}{6.5.4.10}{1218, 494, 4944} उ॒त¦नः॒¦गो॒ऽसनि᳚म्¦धिय᳚म्¦अ॒श्व॒साम्¦वा॒ज॒ऽसाम्¦उ॒त | नृ॒ऽवत्¦कृ॒णु॒हि॒¦वी॒तये᳚ || |
[133] संपूषन्निति दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजः पूषागायत्री | |
सं पू᳚षन् वि॒दुषा᳚ नय॒ यो, अञ्ज॑सानु॒शास॑ति |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} य ए॒वेदमिति॒ ब्रव॑त् ||{1/10}{4.8.19.1}{6.54.1}{6.5.5.1}{1219, 495, 4945} सम्¦पू॒ष॒न्¦वि॒दुषा᳚¦न॒य॒¦यः¦अंज॑सा¦अ॒नु॒ऽशास॑ति | यः¦ए॒व¦इ॒दम्¦इति॑¦ब्रव॑त् || |
समु॑ पू॒ष्णा ग॑मेमहि॒ यो गृ॒हाँ, अ॑भि॒शास॑ति |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} इ॒म ए॒वेति॑ च॒ ब्रव॑त् ||{2/10}{4.8.19.2}{6.54.2}{6.5.5.2}{1220, 495, 4946} सम्¦ऊँ॒ इति॑¦पू॒ष्णा¦ग॒मे॒म॒हि॒¦यः¦गृ॒हान्¦अ॒भि॒ऽशास॑ति | इ॒मे¦ए॒व¦इति॑¦च॒¦ब्रव॑त् || |
पू॒ष्णश्च॒क्रं न रि॑ष्यति॒ न कोशोऽव॑ पद्यते |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} नो, अ॑स्य व्यथते प॒विः ||{3/10}{4.8.19.3}{6.54.3}{6.5.5.3}{1221, 495, 4947} पू॒ष्णः¦च॒क्रम्¦न¦रि॒ष्य॒ति॒¦न¦कोशः॑¦अव॑¦प॒द्य॒ते॒ | नो इति॑¦अ॒स्य॒¦व्य॒थ॒ते॒¦प॒विः || |
यो, अ॑स्मै ह॒विषावि॑ध॒न्न तं पू॒षापि॑ मृष्यते |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} प्र॒थ॒मो वि᳚न्दते॒ वसु॑ ||{4/10}{4.8.19.4}{6.54.4}{6.5.5.4}{1222, 495, 4948} यः¦अ॒स्मै॒¦ह॒विषा᳚¦अवि॑धत्¦न¦तम्¦पू॒षा¦अपि॑¦मृ॒ष्य॒ते॒ | प्र॒थ॒मः¦वि॒न्द॒ते॒¦वसु॑ || |
पू॒षा गा, अन्वे᳚तु नः पू॒षा र॑क्ष॒त्वर्व॑तः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} पू॒षा वाजं᳚ सनोतु नः ||{5/10}{4.8.19.5}{6.54.5}{6.5.5.5}{1223, 495, 4949} पू॒षा¦गाः¦अनु॑¦ए॒तु॒¦नः॒¦पू॒षा¦र॒क्ष॒तु॒¦अर्व॑तः | पू॒षा¦वाज᳚म्¦स॒नो॒तु॒¦नः॒ || |
पूष॒न्ननु॒ प्र गा, इ॑हि॒ यज॑मानस्य सुन्व॒तः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} अ॒स्माकं᳚ स्तुव॒तामु॒त ||{6/10}{4.8.20.1}{6.54.6}{6.5.5.6}{1224, 495, 4950} पूष॑न्¦अनु॑¦प्र¦गाः¦इ॒हि॒¦यज॑मानस्य¦सु॒न्व॒तः | अ॒स्माक᳚म्¦स्तु॒व॒ताम्¦उ॒त || |
माकि᳚र्नेश॒न्माकीं᳚ रिष॒न्माकीं॒ सं शा᳚रि॒ केव॑टे |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} अथारि॑ष्टाभि॒रा ग॑हि ||{7/10}{4.8.20.2}{6.54.7}{6.5.5.7}{1225, 495, 4951} माकिः॑¦नेश॑त्¦माकी᳚म्¦रिष॑त्¦माकी᳚म्¦सम्¦शा॒रि॒¦केव॑टे | अथ॑¦अरि॑ष्टाभिः¦आ¦गा॒हि॒ || |
शृ॒ण्वन्तं᳚ पू॒षणं᳚ व॒यमिर्य॒मन॑ष्टवेदसम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} ईशा᳚नं रा॒य ई᳚महे ||{8/10}{4.8.20.3}{6.54.8}{6.5.5.8}{1226, 495, 4952} शृ॒ण्वन्त᳚म्¦पू॒षण᳚म्¦व॒यम्¦इर्य᳚म्¦अन॑ष्टऽवेदसम् | ईशा᳚नम्¦रा॒यः¦ई॒म॒हे॒ || |
पूष॒न्तव᳚ व्र॒ते व॒यं न रि॑ष्येम॒ कदा᳚ च॒न |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} स्तो॒तार॑स्त इ॒ह स्म॑सि ||{9/10}{4.8.20.4}{6.54.9}{6.5.5.9}{1227, 495, 4953} पूष॑न्¦तव॑¦व्र॒ते¦व॒यम्¦न¦रि॒ष्ये॒म॒¦कदा᳚¦च॒न | स्तो॒तारः॑¦ते॒¦इ॒ह¦स्म॒सि॒ || |
परि॑ पू॒षा प॒रस्ता॒द्धस्तं᳚ दधातु॒ दक्षि॑णम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} पुन᳚र्नो न॒ष्टमाज॑तु ||{10/10}{4.8.20.5}{6.54.10}{6.5.5.10}{1228, 495, 4954} परि॑¦पू॒षा¦प॒रस्ता᳚त्¦हस्त᳚म्¦द॒धा॒तु॒¦दक्षि॑णम् | पुनः॑¦नः॒¦न॒ष्टम्¦आ¦अ॒ज॒तु॒ || |
[134] एहिवामिति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजः पूषागायत्री | |
एहि॒ वां वि॑मुचो नपा॒दाघृ॑णे॒ सं स॑चावहै |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} र॒थीरृ॒तस्य॑ नो भव ||{1/6}{4.8.21.1}{6.55.1}{6.5.6.1}{1229, 496, 4955} आ¦इ॒हि॒¦वाम्¦वि॒ऽमु॒चः॒¦न॒पा॒त्¦आघृ॑णे¦सम्¦स॒चा॒व॒है॒ | र॒थीः¦ऋ॒तस्य॑¦नः॒¦भ॒व॒ || |
र॒थीत॑मं कप॒र्दिन॒मीशा᳚नं॒ राध॑सो म॒हः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} रा॒यः सखा᳚यमीमहे ||{2/6}{4.8.21.2}{6.55.2}{6.5.6.2}{1230, 496, 4956} र॒थिऽत॑मम्¦क॒प॒र्दिन᳚म्¦ईशा᳚नम्¦राध॑सः¦म॒हः | रा॒यः¦सखा᳚यम्¦ई॒म॒हे॒ || |
रा॒यो धारा᳚स्याघृणे॒ वसो᳚ रा॒शिर॑जाश्व |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} धीव॑तोधीवतः॒ सखा᳚ ||{3/6}{4.8.21.3}{6.55.3}{6.5.6.3}{1231, 496, 4957} रा॒यः¦धारा᳚¦अ॒सि॒¦आ॒घृ॒णे॒¦वसोः᳚¦रा॒शिः¦अ॒ज॒।आ॒श्व॒ | धीव॑तःऽधीवतः¦सखा᳚ || |
पू॒षणं॒ न्व१॑(अ॒)जाश्व॒मुप॑ स्तोषाम वा॒जिन᳚म् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} स्वसु॒र्यो जा॒र उ॒च्यते᳚ ||{4/6}{4.8.21.4}{6.55.4}{6.5.6.4}{1232, 496, 4958} पू॒षण᳚म्¦नु¦अ॒ज।आ॑श्वम्¦उप॑¦स्तो॒षा॒म॒¦वा॒जिन᳚म् | स्वसुः॑¦यः¦जा॒रः¦उ॒च्यते᳚ || |
मा॒तुर्दि॑धि॒षुम॑ब्रवं॒ स्वसु॑र्जा॒रः शृ॑णोतु नः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} भ्रातेन्द्र॑स्य॒ सखा॒ मम॑ ||{5/6}{4.8.21.5}{6.55.5}{6.5.6.5}{1233, 496, 4959} मा॒तुः¦दि॒धि॒षुम्¦अ॒ब्र॒व॒म्¦स्वसुः॑¦जा॒रः¦शृ॒णो॒तु॒¦नः॒ | भ्राता᳚¦इन्द्र॑स्य¦सखा᳚¦मम॑ || |
आजासः॑ पू॒षणं॒ रथे᳚ निशृ॒म्भास्ते ज॑न॒श्रिय᳚म् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} दे॒वं व॑हन्तु॒ बिभ्र॑तः ||{6/6}{4.8.21.6}{6.55.6}{6.5.6.6}{1234, 496, 4960} आ¦अ॒जासः॑¦पू॒षण᳚म्¦रथे᳚¦नि॒ऽशृ॒म्भाः¦ते¦ज॒न॒ऽश्रिय᳚म् | दे॒वम्¦व॒ह॒न्तु॒¦बिभ्र॑तः || |
[135] यएनमिति षडृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाजः पूषागायत्री अंत्यानुष्टुप् | |
य ए᳚नमा॒दिदे᳚शति कर॒म्भादिति॑ पू॒षण᳚म् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} न तेन॑ दे॒व आ॒दिशे᳚ ||{1/6}{4.8.22.1}{6.56.1}{6.5.7.1}{1235, 497, 4961} यः¦ए॒न॒म्¦आ॒ऽदिदे᳚शति¦क॒र॒म्भ॒।आत्¦इति॑¦पू॒षण᳚म् | न¦तेन॑¦दे॒वः¦आ॒ऽदिशे᳚ || |
उ॒त घा॒ स र॒थीत॑मः॒ सख्या॒ सत्प॑तिर्यु॒जा |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} इन्द्रो᳚ वृ॒त्राणि॑ जिघ्नते ||{2/6}{4.8.22.2}{6.56.2}{6.5.7.2}{1236, 497, 4962} उ॒त¦घ॒¦सः¦र॒थिऽत॑मः¦सख्या᳚¦सत्ऽप॑तिः¦यु॒जा | इन्द्रः॑¦वृ॒त्राणि॑¦जि॒घ्न॒ते॒ || |
उ॒तादः प॑रु॒षे गवि॒ सूर॑श्च॒क्रं हि॑र॒ण्यय᳚म् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} न्यै᳚रयद्र॒थीत॑मः ||{3/6}{4.8.22.3}{6.56.3}{6.5.7.3}{1237, 497, 4963} उ॒त¦अ॒दः¦प॒रु॒षे¦गवि॑¦सूरः॑¦च॒क्रम्¦हि॒र॒ण्यय᳚म् | नि¦ऐ॒र॒य॒त्¦र॒थिऽत॑मः || |
यद॒द्य त्वा᳚ पुरुष्टुत॒ ब्रवा᳚म दस्र मन्तुमः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} तत्सु नो॒ मन्म॑ साधय ||{4/6}{4.8.22.4}{6.56.4}{6.5.7.4}{1238, 497, 4964} यत्¦अ॒द्य¦त्वा॒¦पु॒रु॒ऽस्तु॒त॒¦ब्रवा᳚म¦द॒स्र॒¦म॒न्तु॒ऽमः॒ | तत्¦सु¦नः॒¦मन्म॑¦सा॒ध॒य॒ || |
इ॒मं च॑ नो ग॒वेष॑णं सा॒तये᳚ सीषधो ग॒णम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} आ॒रात्पू᳚षन्नसि श्रु॒तः ||{5/6}{4.8.22.5}{6.56.5}{6.5.7.5}{1239, 497, 4965} इ॒मम्¦च॒¦नः॒¦गो॒ऽएष॑णम्¦सा॒तये᳚¦सी॒स॒धः॒¦ग॒णम् | आ॒रात्¦पू॒ष॒न्¦अ॒सि॒¦श्रु॒तः || |
आ ते᳚ स्व॒स्तिमी᳚मह आ॒रे,अ॑घा॒मुपा᳚वसुम् |{बार्हस्पत्यो भरद्वाजः | पूषा | अनुष्टुप्} अ॒द्या च॑ स॒र्वता᳚तये॒ श्वश्च॑ स॒र्वता᳚तये ||{6/6}{4.8.22.6}{6.56.6}{6.5.7.6}{1240, 497, 4966} आ¦ते॒¦स्व॒स्तिम्¦ई॒म॒हे॒¦आ॒रे।आ॑घाम्¦उप॑ऽवसुम् | अ॒द्य¦च॒¦स॒र्वऽता᳚तये¦श्वः¦च॒¦स॒र्वऽता᳚तये || |
[136] इंद्रान्विति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रापूषणौगायत्री | |
इन्द्रा॒ नु पू॒षणा᳚ व॒यं स॒ख्याय॑ स्व॒स्तये᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री} हु॒वेम॒ वाज॑सातये ||{1/6}{4.8.23.1}{6.57.1}{6.5.8.1}{1241, 498, 4967} इन्द्रा᳚¦नु¦पू॒षणा᳚¦व॒यम्¦स॒ख्याय॑¦स्व॒स्तये᳚ | हु॒वेम॑¦वाज॑ऽसातये || |
सोम॑म॒न्य उपा᳚सद॒त्पात॑वे च॒म्वोः᳚ सु॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री} क॒र॒म्भम॒न्य इ॑च्छति ||{2/6}{4.8.23.2}{6.57.2}{6.5.8.2}{1242, 498, 4968} सोम᳚म्¦अ॒न्यः¦उप॑¦अ॒स॒द॒त्¦पात॑वे¦च॒म्वोः᳚¦सु॒तम् | क॒र॒म्भम्¦अ॒न्यः¦इ॒च्छ॒ति॒ || |
अ॒जा, अ॒न्यस्य॒ वह्न॑यो॒ हरी᳚, अ॒न्यस्य॒ सम्भृ॑ता |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री} ताभ्यां᳚ वृ॒त्राणि॑ जिघ्नते ||{3/6}{4.8.23.3}{6.57.3}{6.5.8.3}{1243, 498, 4969} अ॒जाः¦अ॒न्यस्य॑¦वह्न॑यः¦हरी॒ इति॑¦अ॒न्यस्य॑¦सम्ऽभृ॑ता | ताभ्या᳚म्¦वृ॒त्राणि॑¦जि॒घ्न॒ते॒ || |
यदिन्द्रो॒, अन॑य॒द्रितो᳚ म॒हीर॒पो वृष᳚न्तमः |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री} तत्र॑ पू॒षाभ॑व॒त्सचा᳚ ||{4/6}{4.8.23.4}{6.57.4}{6.5.8.4}{1244, 498, 4970} यत्¦इन्द्रः॑¦अन॑यत्¦रितः॑¦म॒हीः¦अ॒पः¦वृष॑न्ऽतमः | तत्र॑¦पू॒षा¦अ॒भ॒व॒त्¦सचा᳚ || |
तां पू॒ष्णः सु॑म॒तिं व॒यं वृ॒क्षस्य॒ प्र व॒यामि॑व |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री} इन्द्र॑स्य॒ चा र॑भामहे ||{5/6}{4.8.23.5}{6.57.5}{6.5.8.5}{1245, 498, 4971} ताम्¦पू॒ष्णः¦सु॒ऽम॒तिम्¦व॒यम्¦वृ॒क्षस्य॑¦प्र¦व॒याम्ऽइ᳚व | इन्द्र॑स्य¦च॒¦आ¦र॒भा॒म॒हे॒ || |
उत्पू॒षणं᳚ युवामहे॒ऽभीशूँ᳚रिव॒ सार॑थिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री} म॒ह्या, इन्द्रं᳚ स्व॒स्तये᳚ ||{6/6}{4.8.23.6}{6.57.6}{6.5.8.6}{1246, 498, 4972} उत्¦पू॒षण᳚म्¦यु॒वा॒म॒हे॒¦अ॒भीशू᳚न्ऽइव¦सार॑थिः | म॒ह्यै¦इन्द्र᳚म्¦स्व॒स्तये᳚ || |
[137] शुक्रंतइति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजः पूषात्रिष्टुप् द्वितीयाजगती | |
शु॒क्रं ते᳚, अ॒न्यद् य॑ज॒तं ते᳚, अ॒न्यद् विषु॑रूपे॒, अह॑नी॒ द्यौरि॑वासि |{बार्हस्पत्यो भरद्वाजः | पूषा | त्रिष्टुप्} विश्वा॒ हि मा॒या, अव॑सि स्वधावो भ॒द्रा ते᳚ पूषन्नि॒ह रा॒तिर॑स्तु ||{1/4}{4.8.24.1}{6.58.1}{6.5.9.1}{1247, 499, 4973} शु॒क्रम्¦ते॒¦अ॒न्यत्¦य॒ज॒तम्¦ते॒¦अ॒न्यत्¦विषु॑रूपे॒ इति॒ विषु॑ऽरूपे¦अह॑नी॒ इति॑¦द्यौःऽइ᳚व¦अ॒सि॒ | |
अ॒जाश्वः॑ पशु॒पा वाज॑पस्त्यो धियंजि॒न्वो भुव॑ने॒ विश्वे॒, अर्पि॑तः |{बार्हस्पत्यो भरद्वाजः | पूषा | जगती} अष्ट्रां᳚ पू॒षा शि॑थि॒रामु॒द्वरी᳚वृजत्सं॒चक्षा᳚णो॒ भुव॑ना दे॒व ई᳚यते ||{2/4}{4.8.24.2}{6.58.2}{6.5.9.2}{1248, 499, 4974} अ॒ज।आ॑श्वः¦प॒शु॒ऽपाः¦वाज॑ऽपस्त्यः¦धि॒य॒म्ऽजि॒न्वः¦भुव॑ने¦विश्वे᳚¦अर्पि॑तः | |
यास्ते᳚ पूष॒न्नावो᳚, अ॒न्तः स॑मु॒द्रे हि॑र॒ण्ययी᳚र॒न्तरि॑क्षे॒ चर᳚न्ति |{बार्हस्पत्यो भरद्वाजः | पूषा | त्रिष्टुप्} ताभि᳚र्यासि दू॒त्यां सूर्य॑स्य॒ कामे᳚न कृत॒ श्रव॑ इ॒च्छमा᳚नः ||{3/4}{4.8.24.3}{6.58.3}{6.5.9.3}{1249, 499, 4975} याः¦ते॒¦पू॒ष॒न्¦नावः॑¦अ॒न्तरिति॑¦स॒मु॒द्रे¦हि॒र॒ण्ययीः᳚¦अ॒न्तरि॑क्षे¦चर᳚न्ति | |
पू॒षा सु॒बन्धु॑र्दि॒व आ पृ॑थि॒व्या, इ॒ळस्पति᳚र्म॒घवा᳚ द॒स्मव॑र्चाः |{बार्हस्पत्यो भरद्वाजः | पूषा | त्रिष्टुप्} यं दे॒वासो॒, अद॑दुः सू॒र्यायै॒ कामे᳚न कृ॒तं त॒वसं॒ स्वञ्च᳚म् ||{4/4}{4.8.24.4}{6.58.4}{6.5.9.4}{1250, 499, 4976} पू॒षा¦सु॒ऽबन्धुः॑¦दि॒वः¦आ¦पृ॒थि॒व्याः¦इ॒ळः¦पतिः॑¦म॒घऽवा᳚¦द॒स्मऽव॑र्चाः | |
[138] प्रनुवोचेति दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज इंद्राग्नी बृहती अंत्याश्चतस्रोनुष्टुभः | |
प्र नु वो᳚चा सु॒तेषु॑ वां वी॒र्या॒३॑(आ॒) यानि॑ च॒क्रथुः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती} ह॒तासो᳚ वां पि॒तरो᳚ दे॒वश॑त्रव॒ इन्द्रा᳚ग्नी॒ जीव॑थो यु॒वम् ||{1/10}{4.8.25.1}{6.59.1}{6.5.10.1}{1251, 500, 4977} प्र¦नु¦वो॒च॒¦सु॒तेषु॑¦वा॒म्¦वी॒र्या᳚¦यानि॑¦च॒क्रथुः॑ | |
बळि॒त्था म॑हि॒मा वा॒मिन्द्रा᳚ग्नी॒ पनि॑ष्ठ॒ आ |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती} स॒मा॒नो वां᳚ जनि॒ता भ्रात॑रा यु॒वं य॒मावि॒हेह॑मातरा ||{2/10}{4.8.25.2}{6.59.2}{6.5.10.2}{1252, 500, 4978} बट्¦इ॒त्था¦म॒हि॒मा¦वा॒म्¦इन्द्रा᳚ग्नी॒ इति॑¦पनि॑ष्ठः¦आ | |
ओ॒कि॒वांसा᳚ सु॒ते सचाँ॒, अश्वा॒ सप्ती᳚, इ॒वाद॑ने |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती} इन्द्रा॒ न्व१॑(अ॒)ग्नी, अव॑से॒ह व॒ज्रिणा᳚ व॒यं दे॒वा ह॑वामहे ||{3/10}{4.8.25.3}{6.59.3}{6.5.10.3}{1253, 500, 4979} ओ॒कि॒ऽवांसा᳚¦सु॒ते¦सचा᳚¦अश्वा᳚¦सप्ती᳚ इ॒वेति॒ सप्ती᳚ऽइव¦आद॑ने | |
य इ᳚न्द्राग्नी सु॒तेषु॑ वां॒ स्तव॒त्तेष्वृ॑तावृधा |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती} जो॒ष॒वा॒कं वद॑तः पज्रहोषिणा॒ न दे᳚वा भ॒सथ॑श्च॒न ||{4/10}{4.8.25.4}{6.59.4}{6.5.10.4}{1254, 500, 4980} यः¦इ॒न्द्रा॒ग्नी॒ इति॑¦सु॒तेषु॑¦वा॒म्¦स्तव॑त्¦तेषु॑¦ऋ॒त॒ऽवृ॒धा॒ | |
इन्द्रा᳚ग्नी॒ को, अ॒स्य वां॒ देवौ॒ मर्त॑श्चिकेतति |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती} विषू᳚चो॒, अश्वा᳚न्युयुजा॒न ई᳚यत॒ एकः॑ समा॒न आ रथे᳚ ||{5/10}{4.8.25.5}{6.59.5}{6.5.10.5}{1255, 500, 4981} इन्द्रा᳚ग्नी॒ इति॑¦कः¦अ॒स्य¦वा॒म्¦देवौ᳚¦मर्तः॑¦चि॒के॒त॒ति॒ | |
इन्द्रा᳚ग्नी, अ॒पादि॒यं पूर्वागा᳚त्प॒द्वती᳚भ्यः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती} हि॒त्वी शिरो᳚ जि॒ह्वया॒ वाव॑द॒च्चर॑त्त्रिं॒शत्प॒दा न्य॑क्रमीत् ||{6/10}{4.8.26.1}{6.59.6}{6.5.10.6}{1256, 500, 4982} इन्द्रा᳚ग्नी॒ इति॑¦अ॒पात्¦इ॒यम्¦पूर्वा᳚¦आ¦अ॒गा॒त्¦प॒त्ऽवती᳚भ्यः | |
इन्द्रा᳚ग्नी॒, आ हि त᳚न्व॒ते नरो॒ धन्वा᳚नि बा॒ह्वोः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्} मा नो᳚, अ॒स्मिन्म॑हाध॒ने परा᳚ वर्क्तं॒ गवि॑ष्टिषु ||{7/10}{4.8.26.2}{6.59.7}{6.5.10.7}{1257, 500, 4983} इन्द्रा᳚ग्नी॒ इति॑¦आ¦हि¦त॒न्व॒ते¦नरः॑¦धन्वा᳚नि¦बा॒ह्वोः | मा¦नः॒¦अ॒स्मिन्¦म॒हा॒ऽध॒ने¦परा᳚¦व॒र्क्त॒म्¦गोऽइ᳚ष्टिषु || |
इन्द्रा᳚ग्नी॒ तप᳚न्ति मा॒घा, अ॒र्यो, अरा᳚तयः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्} अप॒ द्वेषां॒स्या कृ॑तं युयु॒तं सूर्या॒दधि॑ ||{8/10}{4.8.26.3}{6.59.8}{6.5.10.8}{1258, 500, 4984} इन्द्रा᳚ग्नी॒ इति॑¦तप᳚न्ति¦मा॒¦अ॒घाः¦अ॒र्यः¦अरा᳚तयः | अप॑¦द्वेषां᳚सि¦आ¦कृ॒त॒म्¦यु॒यु॒तम्¦सूर्या᳚त्¦अधि॑ || |
इन्द्रा᳚ग्नी यु॒वोरपि॒ वसु॑ दि॒व्यानि॒ पार्थि॑वा |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्} आ न॑ इ॒ह प्र य॑च्छतं र॒यिं वि॒श्वायु॑पोषसम् ||{9/10}{4.8.26.4}{6.59.9}{6.5.10.9}{1259, 500, 4985} इन्द्रा᳚ग्नी॒ इति॑¦यु॒वोः¦अपि॑¦वसु॑¦दि॒व्यानि॑¦पार्थि॑वा | आ¦नः॒¦इ॒ह¦प्र¦य॒च्छ॒त॒म्¦र॒यिम्¦वि॒श्वायु॑ऽपोषसम् || |
इन्द्रा᳚ग्नी, उक्थवाहसा॒ स्तोमे᳚भिर्हवनश्रुता |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्} विश्वा᳚भिर्गी॒र्भिरा ग॑तम॒स्य सोम॑स्य पी॒तये᳚ ||{10/10}{4.8.26.5}{6.59.10}{6.5.10.10}{1260, 500, 4986} इन्द्रा᳚ग्नी॒ इति॑¦उ॒क्थ॒ऽवा॒ह॒सा॒¦स्तोमे᳚भिः¦ह॒व॒न॒ऽश्रु॒ता॒ | विश्वा᳚भिः¦गीः॒ऽभिः¦आ¦ग॒त॒म्¦अ॒स्य¦सोम॑स्य¦पी॒तये᳚ || |
[139] श्नथद्वृत्रमिति पंचदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्राग्नीगायत्री आद्यास्तिस्रस्त्रयोदशीचत्रिष्टुभः चतुर्दशीबृहत्यंत्यानुष्टुप् | |
श्नथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो, अ॒ग्नी सहु॑री सप॒र्यात् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | त्रिष्टुप्} इ॒र॒ज्यन्ता᳚ वस॒व्य॑स्य॒ भूरेः॒ सह॑स्तमा॒ सह॑सा वाज॒यन्ता᳚ ||{1/15}{4.8.27.1}{6.60.1}{6.5.11.1}{1261, 501, 4987} श्नथ॑त्¦वृ॒त्रम्¦उ॒त¦स॒नो॒ति॒¦वाज᳚म्¦इन्द्रा᳚¦यः¦अ॒ग्नी इति॑¦सहु॑री॒ इति॑¦स॒प॒र्यात् | |
ता यो᳚धिष्टम॒भि गा, इ᳚न्द्र नू॒नम॒पः स्व॑रु॒षसो᳚, अग्न ऊ॒ळ्हाः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | त्रिष्टुप्} दिशः॒ स्व॑रु॒षस॑ इन्द्र चि॒त्रा, अ॒पो गा, अ॑ग्ने युवसे नि॒युत्वा॑न् ||{2/15}{4.8.27.2}{6.60.2}{6.5.11.2}{1262, 501, 4988} ता¦यो॒धि॒ष्ट॒म्¦अ॒भि¦गाः¦इ॒न्द्र॒¦नू॒नम्¦अ॒पः¦स्वः॑¦उ॒षसः॑¦अ॒ग्ने॒¦ऊ॒ळ्हाः | |
आ वृ॑त्रहणा वृत्र॒हभिः॒ शुष्मै॒रिन्द्र॑ या॒तं नमो᳚भिरग्ने, अ॒र्वाक् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | त्रिष्टुप्} यु॒वं राधो᳚भि॒रक॑वेभिरि॒न्द्राग्ने᳚, अ॒स्मे भ॑वतमुत्त॒मेभिः॑ ||{3/15}{4.8.27.3}{6.60.3}{6.5.11.3}{1263, 501, 4989} आ¦वृ॒त्र॒ऽह॒ना॒¦वृ॒त्र॒हऽभिः॑¦शुष्मैः᳚¦इन्द्र॑¦या॒तम्¦नमः॑ऽभिः¦अ॒ग्ने॒¦अ॒र्वाक् | |
ता हु॑वे॒ ययो᳚रि॒दं प॒प्ने विश्वं᳚ पु॒रा कृ॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री} इ॒न्द्रा॒ग्नी न म॑र्धतः ||{4/15}{4.8.27.4}{6.60.4}{6.5.11.4}{1264, 501, 4990} ता¦हु॒वे॒¦ययोः᳚¦इ॒दम्¦प॒प्ने¦विश्व᳚म्¦पु॒रा¦कृ॒तम् | इ॒न्द्रा॒ग्नी इति॑¦न¦म॒र्ध॒तः॒ || |
उ॒ग्रा वि॑घ॒निना॒ मृध॑ इन्द्रा॒ग्नी ह॑वामहे |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री} ता नो᳚ मृळात ई॒दृशे᳚ ||{5/15}{4.8.27.5}{6.60.5}{6.5.11.5}{1265, 501, 4991} उ॒ग्रा¦वि॒ऽघ॒निना᳚¦मृधः॑¦इ॒न्द्रा॒ग्नी इति॑¦ह॒वा॒म॒हे॒ | ता¦नः॒¦मृ॒ळा॒तः॒¦ई॒दृशे᳚ || |
ह॒तो वृ॒त्राण्यार्या᳚ ह॒तो दासा᳚नि॒ सत्प॑ती |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री} ह॒तो विश्वा॒, अप॒ द्विषः॑ ||{6/15}{4.8.28.1}{6.60.6}{6.5.11.6}{1266, 501, 4992} ह॒तः¦वृ॒त्राणि॑¦आर्या᳚¦ह॒तः¦दासा᳚नि¦सत्प॑ती॒ इति॒ सत्ऽप॑ती | ह॒तः¦विश्वाः᳚¦अप॑¦द्विषः॑ || |
इन्द्रा᳚ग्नी यु॒वामि॒मे॒३॑(ए॒)ऽभि स्तोमा᳚, अनूषत |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री} पिब॑तं शम्भुवा सु॒तम् ||{7/15}{4.8.28.2}{6.60.7}{6.5.11.7}{1267, 501, 4993} इन्द्रा᳚ग्नी॒ इति॑¦यु॒वाम्¦इ॒मे¦अ॒भि¦स्तोमाः᳚¦अ॒नू॒ष॒त॒ | पिब॑तम्¦श॒म्ऽभु॒वा॒¦सु॒तम् || |
या वां॒ सन्ति॑ पुरु॒स्पृहो᳚ नि॒युतो᳚ दा॒शुषे᳚ नरा |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री} इन्द्रा᳚ग्नी॒ ताभि॒रा ग॑तम् ||{8/15}{4.8.28.3}{6.60.8}{6.5.11.8}{1268, 501, 4994} याः¦वा॒म्¦सन्ति॑¦पु॒रु॒ऽस्पृहः॑¦नि॒ऽयुतः॑¦दा॒शुषे᳚¦न॒रा॒ | इन्द्रा᳚ग्नी॒ इति॑¦ताभिः॑¦आ¦ग॒त॒म् || |
ताभि॒रा ग॑च्छतं न॒रोपे॒दं सव॑नं सु॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री} इन्द्रा᳚ग्नी॒ सोम॑पीतये ||{9/15}{4.8.28.4}{6.60.9}{6.5.11.9}{1269, 501, 4995} ताभिः॑¦आ¦ग॒च्छ॒त॒म्¦न॒रा॒¦उप॑¦इ॒दम्¦सव॑नम्¦सु॒तम् | इन्द्रा᳚ग्नी॒ इति॑¦सोम॑ऽपीतये || |
तमी᳚ळिष्व॒ यो, अ॒र्चिषा॒ वना॒ विश्वा᳚ परि॒ष्वज॑त् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री} कृ॒ष्णा कृ॒णोति॑ जि॒ह्वया᳚ ||{10/15}{4.8.28.5}{6.60.10}{6.5.11.10}{1270, 501, 4996} तम्¦ई॒ळि॒ष्व॒¦यः¦अ॒र्चिषा᳚¦वना᳚¦विश्वा᳚¦प॒रि॒ऽस्वज॑त् | कृ॒ष्णा¦कृ॒णोति॑¦जि॒ह्वया᳚ || |
य इ॒द्ध आ॒विवा᳚सति सु॒म्नमिन्द्र॑स्य॒ मर्त्यः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री} द्यु॒म्नाय॑ सु॒तरा᳚, अ॒पः ||{11/15}{4.8.29.1}{6.60.11}{6.5.11.11}{1271, 501, 4997} यः¦इ॒द्धे¦आ॒ऽविवा᳚सति¦सु॒म्नम्¦इन्द्र॑स्य¦मर्त्यः॑ | द्यु॒म्नाय॑¦सु॒ऽतराः᳚¦अ॒पः || |
ता नो॒ वाज॑वती॒रिष॑ आ॒शून् पि॑पृत॒मर्व॑तः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री} इन्द्र॑म॒ग्निं च॒ वोळ्ह॑वे ||{12/15}{4.8.29.2}{6.60.12}{6.5.11.12}{1272, 501, 4998} ता¦नः॒¦वाज॑ऽवतीः¦इषः॑¦आ॒शून्¦पि॒पृ॒त॒म्¦अर्व॑तः | इन्द्र᳚म्¦अ॒ग्निम्¦च॒¦वोळ्ह॑वे || |
उ॒भा वा᳚मिन्द्राग्नी, आहु॒वध्या᳚, उ॒भा राध॑सः स॒ह मा᳚द॒यध्यै᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | त्रिष्टुप्} उ॒भा दा॒तारा᳚वि॒षां र॑यी॒णामु॒भा वाज॑स्य सा॒तये᳚ हुवे वाम् ||{13/15}{4.8.29.3}{6.60.13}{6.5.11.13}{1273, 501, 4999} उ॒भा¦वा॒म्¦इ॒न्द्रा॒ग्नी॒ इति॑¦आ॒ऽहु॒वध्यै᳚¦उ॒भा¦राध॑सः¦स॒ह¦मा॒द॒यध्यै᳚ | |
आ नो॒ गव्ये᳚भि॒रश्व्यै᳚र्वस॒व्यै॒३॑(ऐ॒)रुप॑ गच्छतम् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती} सखा᳚यौ दे॒वौ स॒ख्याय॑ श॒म्भुवे᳚न्द्रा॒ग्नी ता ह॑वामहे ||{14/15}{4.8.29.4}{6.60.14}{6.5.11.14}{1274, 501, 5000} आ¦नः॒¦गव्ये᳚भिः¦अश्व्यैः᳚¦व॒स॒व्यैः᳚¦उप॑¦ग॒च्छ॒त॒म् | |
इन्द्रा᳚ग्नी शृणु॒तं हवं॒ यज॑मानस्य सुन्व॒तः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्} वी॒तं ह॒व्यान्या ग॑तं॒ पिब॑तं सो॒म्यं मधु॑ ||{15/15}{4.8.29.5}{6.60.15}{6.5.11.15}{1275, 501, 5001} इन्द्रा᳚ग्नी॒ इति॑¦शृ॒णु॒तम्¦हव᳚म्¦यज॑मानस्य¦सु॒न्व॒तः | वी॒तम्¦ह॒व्यानि॑¦आ¦ग॒त॒म्¦पिब॑तम्¦सो॒म्यम्¦मधु॑ || |
[140] इयमददादिति चतुर्दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजः सरस्वतीगायत्री आद्यास्तिस्रत्रयोदशीचजगत्योंत्यात्रिष्टुप् | |
इ॒यम॑ददाद् रभ॒समृ॑ण॒च्युतं॒ दिवो᳚दासं वध्र्य॒श्वाय॑ दा॒शुषे᳚ |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती} या शश्व᳚न्तमाच॒खादा᳚व॒सं प॒णिं ता ते᳚ दा॒त्राणि॑ तवि॒षा स॑रस्वति ||{1/14}{4.8.30.1}{6.61.1}{6.5.12.1}{1276, 502, 5002} इ॒यम्¦अ॒द॒दा॒त्¦र॒भ॒सम्¦ऋ॒ण॒ऽच्युत᳚म्¦दिवः॑ऽदासम्¦व॒ध्रि॒।आ॒श्वाय॑¦दा॒शुषे᳚ | |
इ॒यं शुष्मे᳚भिर्बिस॒खा, इ॑वारुज॒त् सानु॑ गिरी॒णां त॑वि॒षेभि॑रू॒र्मिभिः॑ |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती} पा॒रा॒व॒त॒घ्नीमव॑से सुवृ॒क्तिभिः॒ सर॑स्वती॒मा वि॑वासेम धी॒तिभिः॑ ||{2/14}{4.8.30.2}{6.61.2}{6.5.12.2}{1277, 502, 5003} इ॒यम्¦शुष्मे᳚भिः¦बि॒स॒खाःऽइ᳚व¦अ॒रु॒ज॒त्¦सानु॑¦गि॒री॒णाम्¦त॒वि॒षेभिः॑¦ऊ॒र्मिऽभिः॑ | |
सर॑स्वति देव॒निदो॒ नि ब᳚र्हय प्र॒जां विश्व॑स्य॒ बृस॑यस्य मा॒यिनः॑ |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती} उ॒त क्षि॒तिभ्यो॒ऽवनी᳚रविन्दो वि॒षमे᳚भ्यो, अस्रवो वाजिनीवति ||{3/14}{4.8.30.3}{6.61.3}{6.5.12.3}{1278, 502, 5004} सर॑स्वति¦दे॒व॒ऽनिदः॑¦नि¦ब॒र्ह॒य॒¦प्र॒ऽजाम्¦विश्व॑स्य¦बृस॑यस्य¦मा॒यिनः॑ | |
प्र णो᳚ दे॒वी सर॑स्वती॒ वाजे᳚भिर्वा॒जिनी᳚वती |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री} धी॒नाम॑वि॒त्र्य॑वतु ||{4/14}{4.8.30.4}{6.61.4}{6.5.12.4}{1279, 502, 5005} प्र¦नः॒¦दे॒वी¦सर॑स्वती¦वाजे᳚भिः¦वा॒जिनी᳚ऽवती | धी॒नाम्¦अ॒वि॒त्री¦अ॒व॒तु॒ || |
यस्त्वा᳚ देवि सरस्वत्युपब्रू॒ते धने᳚ हि॒ते |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री} इन्द्रं॒ न वृ॑त्र॒तूर्ये᳚ ||{5/14}{4.8.30.5}{6.61.5}{6.5.12.5}{1280, 502, 5006} यः¦त्वा॒¦दे॒वि॒¦स॒र॒स्व॒ति॒¦उ॒प॒ऽब्रू॒ते¦धने᳚¦हि॒ते | इन्द्र᳚म्¦न¦वृ॒त्र॒ऽतूर्ये᳚ || |
त्वं दे᳚वि सरस्व॒त्यवा॒ वाजे᳚षु वाजिनि |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री} रदा᳚ पू॒षेव॑ नः स॒निम् ||{6/14}{4.8.31.1}{6.61.6}{6.5.12.6}{1281, 502, 5007} त्वम्¦दे॒वि॒¦स॒र॒स्व॒ति॒¦अव॑¦वाजे᳚षु¦वा॒जि॒नि॒ | रद॑¦पू॒षाऽइ᳚व¦नः॒¦स॒निम् || |
उ॒त स्या नः॒ सर॑स्वती घो॒रा हिर᳚ण्यवर्तनिः |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री} वृ॒त्र॒घ्नी व॑ष्टि सुष्टु॒तिम् ||{7/14}{4.8.31.2}{6.61.7}{6.5.12.7}{1282, 502, 5008} उ॒त¦स्या¦नः॒¦सर॑स्वती¦घो॒रा¦हिर᳚ण्यऽवर्तनिः | वृ॒त्र॒ऽघ्नी¦व॒ष्टि॒¦सु॒ऽस्तु॒तिम् || |
यस्या᳚, अन॒न्तो, अह्रु॑तस्त्वे॒षश्च॑रि॒ष्णुर᳚र्ण॒वः |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री} अम॒श्चर॑ति॒ रोरु॑वत् ||{8/14}{4.8.31.3}{6.61.8}{6.5.12.8}{1283, 502, 5009} यस्याः᳚¦अ॒न॒न्तः¦अह्रु॑तः¦त्वे॒षः¦च॒रि॒ष्णुः¦अ॒र्ण॒वः | अमः॑¦चर॑ति¦रोरु॑वत् || |
सा नो॒ विश्वा॒, अति॒ द्विषः॒ स्वसॄ᳚र॒न्या, ऋ॒ताव॑री |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री} अत॒न्नहे᳚व॒ सूर्यः॑ ||{9/14}{4.8.31.4}{6.61.9}{6.5.12.9}{1284, 502, 5010} सा¦नः॒¦विश्वाः᳚¦अति॑¦द्विषः॑¦स्वसॄः᳚¦अ॒न्याः¦ऋ॒तऽव॑री | अत॑न्¦अहा᳚ऽइव¦सूर्यः॑ || |
उ॒त नः॑ प्रि॒या प्रि॒यासु॑ स॒प्तस्व॑सा॒ सुजु॑ष्टा |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री} सर॑स्वती॒ स्तोम्या᳚ भूत् ||{10/14}{4.8.31.5}{6.61.10}{6.5.12.10}{1285, 502, 5011} उ॒त¦नः॒¦प्रि॒या¦प्रि॒यासु॑¦स॒प्तऽस्व॑सा¦सुऽजु॑ष्टा | सर॑स्वती¦स्तोम्या᳚¦भू॒त् || |
आ॒प॒प्रुषी॒ पार्थि॑वान्यु॒रु रजो᳚, अ॒न्तरि॑क्षम् |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री} सर॑स्वती नि॒दस्पा᳚तु ||{11/14}{4.8.32.1}{6.61.11}{6.5.12.11}{1286, 502, 5012} आ॒ऽप॒प्रुषी᳚¦पार्थि॑वानि¦उ॒रु¦रजः॑¦अ॒न्तरि॑क्षम् | सर॑स्वती¦नि॒दः¦पा॒तु॒ || |
त्रि॒ष॒धस्था᳚ स॒प्तधा᳚तुः॒ पञ्च॑ जा॒ता व॒र्धय᳚न्ती |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री} वाजे᳚वाजे॒ हव्या᳚ भूत् ||{12/14}{4.8.32.2}{6.61.12}{6.5.12.12}{1287, 502, 5013} त्रि॒ऽस॒धस्था᳚¦स॒प्तऽधा᳚तुः¦पंच॑¦जा॒ता¦व॒र्धय᳚न्ती | वाजे᳚ऽवाजे¦हव्या᳚¦भू॒त् || |
प्र या म॑हि॒म्ना म॒हिना᳚सु॒ चेकि॑ते द्यु॒म्नेभि॑र॒न्या, अ॒पसा᳚म॒पस्त॑मा |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती} रथ॑ इव बृह॒ती वि॒भ्वने᳚ कृ॒तोप॒स्तुत्या᳚ चिकि॒तुषा॒ सर॑स्वती ||{13/14}{4.8.32.3}{6.61.13}{6.5.12.13}{1288, 502, 5014} प्र¦या¦म॒हि॒म्ना¦म॒हिना᳚¦आ॒सु॒¦चेकि॑ते¦द्यु॒म्नेभिः॑¦अ॒न्याः¦अ॒पसा᳚म्¦अ॒पःऽत॑मा | |
सर॑स्वत्य॒भि नो᳚ नेषि॒ वस्यो॒ माप॑ स्फरीः॒ पय॑सा॒ मा न॒ आ ध॑क् |{बार्हस्पत्यो भरद्वाजः | सरस्वती | त्रिष्टुप्} जु॒षस्व॑ नः स॒ख्या वे॒श्या᳚ च॒ मा त्वत् क्षेत्रा॒ण्यर॑णानि गन्म ||{14/14}{4.8.32.4}{6.61.14}{6.5.12.14}{1289, 502, 5015} सर॑स्वति¦अ॒भि¦नः॒¦ने॒षि॒¦वस्यः॑¦मा¦अप॑¦स्फ॒रीः॒¦पय॑सा¦मा¦नः॒¦आ¦ध॒क् | |