|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||

|| ऋग्वेद संहिता (अष्टक: 07) ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
Mantra classification is following this convention{अष्टक,अध्याय,वर्ग,मंत्र}{मंडल,सूक्त,मंत्र}{मंडल,अनुवाक,सूक्त,मंत्र}{अष्टक मन्त्र संख्या,ऋक्संहित सूक्त संख्या,ऋक्संहित मन्त्र संख्या}
[Last updated on: 03-Jun-2025]

[1] प्रणइंदविति षडृचस्य सूक्तस्यांगिरसोयास्यः पवमानसोमो गायत्री | (पवमान पारायण तृतीयोध्यायः)
प्र ण॑ इन्दो म॒हे तन॑ ऊ॒र्मिं न बिभ्र॑दर्षसि |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

अ॒भि दे॒वाँ, अ॒यास्यः॑ ||{1/6}{7.1.1.1}{9.44.1}{9.2.20.1}{1, 767, 8009}

प्र¦नः॒¦इ॒न्दो॒ इति॑¦म॒हे¦तने᳚¦ऊ॒र्मि‌म्¦न¦बिभ्र॑त्¦अ॒र्ष॒सि॒ | अ॒भि¦दे॒वान्¦अ॒यास्यः॑ ||

म॒ती जु॒ष्टो धि॒या हि॒तः सोमो᳚ हिन्वे परा॒वति॑ |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

विप्र॑स्य॒ धार॑या क॒विः ||{2/6}{7.1.1.2}{9.44.2}{9.2.20.2}{2, 767, 8010}

म॒ती¦जु॒ष्टः¦धि॒या¦हि॒तः¦सोमः॑¦हि॒न्वे॒¦प॒रा॒ऽवति॑ | विप्र॑स्य¦धार॑या¦क॒विः ||

अ॒यं दे॒वेषु॒ जागृ॑विः सु॒त ए᳚ति प॒वित्र॒ आ |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

सोमो᳚ याति॒ विच॑र्षणिः ||{3/6}{7.1.1.3}{9.44.3}{9.2.20.3}{3, 767, 8011}

अ॒य‌म्¦दे॒वेषु॑¦जागृ॑विः¦सु॒तः¦ए॒ति॒¦प॒वित्रे᳚¦आ | सोमः॑¦या॒ति॒¦विऽच॑र्षणिः ||

स नः॑ पवस्व वाज॒युश्च॑क्रा॒णश्‌ चारु॑मध्व॒रम् |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

ब॒र्हिष्माँ॒, आ वि॑वासति ||{4/6}{7.1.1.4}{9.44.4}{9.2.20.4}{4, 767, 8012}

सः¦नः॒¦प॒व॒स्व॒¦वा॒ज॒ऽयुः¦च॒क्रा॒णः¦चारु᳚‌म्¦अ॒ध्व॒र‌म् | ब॒र्हिष्मा᳚न्¦आ¦वि॒वा॒स॒ति॒ ||

स नो॒ भगा᳚य वा॒यवे॒ विप्र॑वीरः स॒दावृ॑धः |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

सोमो᳚ दे॒वेष्वा य॑मत् ||{5/6}{7.1.1.5}{9.44.5}{9.2.20.5}{5, 767, 8013}

सः¦नः॒¦भगा᳚य¦वा॒यवे᳚¦विप्र॑ऽवीरः¦स॒दाऽवृ॑धः | सोमः॑¦दे॒वेषु॑¦आ¦य॒म॒त् ||

स नो᳚, अ॒द्य वसु॑त्तये क्रतु॒विद्‌ गा᳚तु॒वित्त॑मः |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

वाजं᳚ जेषि॒ श्रवो᳚ बृ॒हत् ||{6/6}{7.1.1.6}{9.44.6}{9.2.20.6}{6, 767, 8014}

सः¦नः॒¦अ॒द्य¦वसु॑त्तये¦क्र॒तु॒ऽवित्¦गा॒तु॒वित्ऽत॑मः | वाज᳚‌म्¦जे॒षि॒¦श्रवः॑¦बृ॒हत् ||

[2] स पवस्वेति षडृचस्य सूक्तस्यांगिरसोयास्यः पवमानसोमो गायत्री |
स प॑वस्व॒ मदा᳚य॒ कं नृ॒चक्षा᳚ दे॒ववी᳚तये |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

इन्द॒विन्द्रा᳚य पी॒तये᳚ ||{1/6}{7.1.2.1}{9.45.1}{9.2.21.1}{7, 768, 8015}

सः¦प॒व॒स्व॒¦मदा᳚य¦क‌म्¦नृ॒ऽचक्षाः᳚¦दे॒वऽवी᳚तये | इन्दो॒ इति॑¦इन्द्रा᳚य¦पी॒तये᳚ ||

स नो᳚, अर्षा॒भि दू॒त्य१॑(अं॒) त्वमिन्द्रा᳚य तोशसे |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

दे॒वान्‌ त्सखि॑भ्य॒ आ वर᳚म् ||{2/6}{7.1.2.2}{9.45.2}{9.2.21.2}{8, 768, 8016}

सः¦नः॒¦अ॒र्ष॒¦अ॒भि¦दू॒त्य᳚‌म्¦त्व‌म्¦इन्द्रा᳚य¦तो॒श॒से॒ | दे॒वान्¦सखि॑ऽभ्यः¦आ¦वर᳚‌म् ||

उ॒त त्वाम॑रु॒णं व॒यं गोभि॑रञ्ज्मो॒ मदा᳚य॒ कम् |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

वि नो᳚ रा॒ये दुरो᳚ वृधि ||{3/6}{7.1.2.3}{9.45.3}{9.2.21.3}{9, 768, 8017}

उ॒त¦त्वा‌म्¦अ॒रु॒ण‌म्¦व॒य‌म्¦गोभिः॑¦अं॒ज्मः॒¦मदा᳚य¦क‌म् | वि¦नः॒¦रा॒ये¦दुरः॑¦वृ॒धि॒ ||

अत्यू᳚ प॒वित्र॑मक्रमीद् वा॒जी धुरं॒ न याम॑नि |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

इन्दु॑र्दे॒वेषु॑ पत्यते ||{4/6}{7.1.2.4}{9.45.4}{9.2.21.4}{10, 768, 8018}

अति॑¦ऊँ॒ इति॑¦प॒वित्र᳚‌म्¦अ॒क्र॒मी॒त्¦वा॒जी¦धुर᳚‌म्¦न¦याम॑नि | इन्दुः॑¦दे॒वेषु॑¦प॒त्य॒ते॒ ||

समी॒ सखा᳚यो, अस्वर॒न् वने॒ क्रीळ᳚न्त॒मत्य॑विम् |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

इन्दुं᳚ ना॒वा, अ॑नूषत ||{5/6}{7.1.2.5}{9.45.5}{9.2.21.5}{11, 768, 8019}

स‌म्¦ई॒मिति॑¦सखा᳚यः¦अ॒स्व॒र॒न्¦वने᳚¦क्रीळ᳚न्त‌म्¦अति॑।आवि‌म् | इन्दु᳚‌म्¦ना॒वाः¦अ॒नू॒ष॒त॒ ||

तया᳚ पवस्व॒ धार॑या॒ यया᳚ पी॒तो वि॒चक्ष॑से |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

इन्दो᳚ स्तो॒त्रे सु॒वीर्य᳚म् ||{6/6}{7.1.2.6}{9.45.6}{9.2.21.6}{12, 768, 8020}

तया᳚¦प॒व॒स्व॒¦धार॑या¦यया᳚¦पी॒तः¦वि॒ऽचक्ष॑से | इन्दो॒ इति॑¦स्तो॒त्रे¦सु॒ऽवीर्य᳚‌म् ||

[3] असृग्रनिति षडृचस्य सूक्तस्यांगिरसोयास्यः पवमानसोमो गायत्री |
असृ॑ग्रन्‌ दे॒ववी᳚त॒येऽत्या᳚सः॒ कृत्व्या᳚, इव |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

क्षर᳚न्तः पर्वता॒वृधः॑ ||{1/6}{7.1.3.1}{9.46.1}{9.2.22.1}{13, 769, 8021}

असृ॑ग्रन्¦दे॒वऽवी᳚तये¦अत्या᳚सः¦कृत्व्याः᳚ऽ‌इव | क्षर᳚न्तः¦प॒र्व॒त॒ऽवृधः॑ ||

परि॑ष्कृतास॒ इन्द॑वो॒ योषे᳚व॒ पित्र्या᳚वती |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

वा॒युं सोमा᳚, असृक्षत ||{2/6}{7.1.3.2}{9.46.2}{9.2.22.2}{14, 769, 8022}

परि॑ऽकृतासः¦इन्द॑वः¦योषा᳚ऽ‌इव¦पित्र्य॑ऽवती | वा॒यु‌म्¦सोमाः᳚¦अ॒सृ॒क्ष॒त॒ ||

ए॒ते सोमा᳚स॒ इन्द॑वः॒ प्रय॑स्वन्तश्च॒मू सु॒ताः |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

इन्द्रं᳚ वर्धन्ति॒ कर्म॑भिः ||{3/6}{7.1.3.3}{9.46.3}{9.2.22.3}{15, 769, 8023}

ए॒ते¦सोमा᳚सः¦इन्द॑वः¦प्रय॑स्वन्तः¦च॒मू इति॑¦सु॒ताः | इन्द्र᳚‌म्¦व॒र्ध॒न्ति॒¦कर्म॑ऽभिः ||

आ धा᳚वता सुहस्त्यः शु॒क्रा गृ॑भ्णीत म॒न्थिना᳚ |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

गोभिः॑ श्रीणीत मत्स॒रम् ||{4/6}{7.1.3.4}{9.46.4}{9.2.22.4}{16, 769, 8024}

आ¦धा॒व॒त॒¦सु॒ऽह॒स्त्यः॒¦शु॒क्रा¦गृ॒भ्णी॒त॒¦म॒न्थिना᳚ | गोभिः॑¦श्री॒णी॒त॒¦म॒त्स॒र‌म् ||

स प॑वस्व धनंजय प्रय॒न्ता राध॑सो म॒हः |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

अ॒स्मभ्यं᳚ सोम गातु॒वित् ||{5/6}{7.1.3.5}{9.46.5}{9.2.22.5}{17, 769, 8025}

सः¦प॒व॒स्व॒¦ध॒न॒‌म्ऽज॒य॒¦प्र॒ऽय॒न्ता¦राध॑सः¦म॒हः | अ॒स्मभ्य᳚‌म्¦सो॒म॒¦गा॒तु॒ऽवित् ||

ए॒तं मृ॑जन्ति॒ मर्ज्यं॒ पव॑मानं॒ दश॒ क्षिपः॑ |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

इन्द्रा᳚य मत्स॒रं मद᳚म् ||{6/6}{7.1.3.6}{9.46.6}{9.2.22.6}{18, 769, 8026}

ए॒त‌म्¦मृ॒ज॒न्ति॒¦मर्ज्य᳚‌म्¦पव॑मान‌म्¦दश॑¦क्षिपः॑ | इन्द्रा᳚य¦म॒त्स॒र‌म्¦मद᳚‌म् ||

[4] अयासोमइति पञ्चर्चस्य सूक्तस्य भार्गवःकविः पवमानसोमो गायत्री
अ॒या सोमः॑ सुकृ॒त्यया᳚ म॒हश्चि॑द॒भ्य॑वर्धत |{भार्गवः कविः | पवमानः सोमः | गायत्री}

म॒न्दा॒न उद्‌ वृ॑षायते ||{1/5}{7.1.4.1}{9.47.1}{9.2.23.1}{19, 770, 8027}

अ॒या¦सोमः॑¦सु॒ऽकृ॒त्यया᳚¦म॒हः¦चि॒त्¦अ॒भि¦अ॒व॒र्ध॒त॒ | म॒न्दा॒नः¦उत्¦वृ॒ष॒ऽय॒ते॒ ||

कृ॒तानीद॑स्य॒ कर्त्वा॒ चेत᳚न्ते दस्यु॒तर्ह॑णा |{भार्गवः कविः | पवमानः सोमः | गायत्री}

ऋ॒णा च॑ धृ॒ष्णुश्च॑यते ||{2/5}{7.1.4.2}{9.47.2}{9.2.23.2}{20, 770, 8028}

कृ॒तानि॑¦इत्¦अ॒स्य॒¦कर्त्वा᳚¦चेत᳚न्ते¦द॒स्यु॒ऽतर्ह॑णा | ऋ॒णा¦च॒¦धृ॒ष्णुः¦च॒य॒ते॒ ||

आत्‌ सोम॑ इन्द्रि॒यो रसो॒ वज्रः॑ सहस्र॒सा भु॑वत् |{भार्गवः कविः | पवमानः सोमः | गायत्री}

उ॒क्थं यद॑स्य॒ जाय॑ते ||{3/5}{7.1.4.3}{9.47.3}{9.2.23.3}{21, 770, 8029}

आत्¦सोमः॑¦इ॒न्द्रि॒यः¦रसः॑¦वज्रः॑¦स॒ह॒स्र॒ऽसाः¦भु॒व॒त् | उ॒क्थ‌म्¦यत्¦अ॒स्य॒¦जाय॑ते ||

स्व॒यं क॒विर्वि॑ध॒र्तरि॒ विप्रा᳚य॒ रत्न॑मिच्छति |{भार्गवः कविः | पवमानः सोमः | गायत्री}

यदी᳚ मर्मृ॒ज्यते॒ धियः॑ ||{4/5}{7.1.4.4}{9.47.4}{9.2.23.4}{22, 770, 8030}

स्व॒य‌म्¦क॒विः¦वि॒ऽध॒र्तरि॑¦विप्रा᳚य¦रत्न᳚‌म्¦इ॒च्छ॒ति॒ | यदि॑¦म॒र्मृ॒ज्यते᳚¦धियः॑ ||

सि॒षा॒सतू᳚ रयी॒णां वाजे॒ष्वर्व॑तामिव |{भार्गवः कविः | पवमानः सोमः | गायत्री}

भरे᳚षु जि॒ग्युषा᳚मसि ||{5/5}{7.1.4.5}{9.47.5}{9.2.23.5}{23, 770, 8031}

सि॒सा॒सतुः॑¦र॒यी॒णा‌म्¦वाजे᳚षु¦अर्व॑ता‌म्ऽ‌इव | भरे᳚षु¦जि॒ग्युषा᳚‌म्¦अ॒सि॒ ||

[5] तंत्वेति पञ्चर्चस्य सूक्तस्य भार्गवःकविः पवमानसोमो गायत्री |
तं त्वा᳚ नृ॒म्णानि॒ बिभ्र॑तं स॒धस्थे᳚षु म॒हो दि॒वः |{भार्गवः कविः | पवमानः सोमः | गायत्री}

चारुं᳚ सुकृ॒त्यये᳚महे ||{1/5}{7.1.5.1}{9.48.1}{9.2.24.1}{24, 771, 8032}

त‌म्¦त्वा॒¦नृ॒म्णानि॑¦विभ्र॑त‌म्¦स॒धऽस्थे᳚षु¦म॒हः¦दि॒वः | चारु᳚‌म्¦सु॒ऽकृ॒त्यया᳚¦ई॒म॒हे॒ ||

संवृ॑क्तधृष्णुमु॒क्थ्यं᳚ म॒हाम॑हिव्रतं॒ मद᳚म् |{भार्गवः कविः | पवमानः सोमः | गायत्री}

श॒तं पुरो᳚ रुरु॒क्षणि᳚म् ||{2/5}{7.1.5.2}{9.48.2}{9.2.24.2}{25, 771, 8033}

संवृ॑क्तऽधृष्णु‌म्¦उ॒क्थ्य᳚‌म्¦म॒हाऽम॑हिव्रत‌म्¦मद᳚‌म् | श॒त‌म्¦पुरः॑¦रु॒रु॒क्षणि᳚‌म् ||

अत॑स्त्वा र॒यिम॒भि राजा᳚नं सुक्रतो दि॒वः |{भार्गवः कविः | पवमानः सोमः | गायत्री}

सु॒प॒र्णो, अ᳚व्य॒थिर्भ॑रत् ||{3/5}{7.1.5.3}{9.48.3}{9.2.24.3}{26, 771, 8034}

अतः॑¦त्वा॒¦र॒यि‌म्¦अ॒भि¦राजा᳚न‌म्¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो¦दि॒वः | सु॒ऽप॒र्णः¦अ॒व्य॒थिः¦भ॒र॒त् ||

विश्व॑स्मा॒, इत्‌ स्व॑र्दृ॒शे साधा᳚रणं रज॒स्तुर᳚म् |{भार्गवः कविः | पवमानः सोमः | गायत्री}

गो॒पामृ॒तस्य॒ विर्भ॑रत् ||{4/5}{7.1.5.4}{9.48.4}{9.2.24.4}{27, 771, 8035}

विश्व॑स्मै¦इत्¦स्वः॑¦दृ॒शे¦साधा᳚रण‌म्¦र॒जः॒ऽतुर᳚‌म् | गो॒पा‌म्¦ऋ॒तस्य॑¦विः¦भ॒र॒त् ||

अधा᳚ हिन्वा॒न इ᳚न्द्रि॒यं ज्यायो᳚ महि॒त्वमा᳚नशे |{भार्गवः कविः | पवमानः सोमः | गायत्री}

अ॒भि॒ष्टि॒कृद्‌ विच॑र्षणिः ||{5/5}{7.1.5.5}{9.48.5}{9.2.24.5}{28, 771, 8036}

अध॑¦हि॒न्वा॒नः¦इ॒न्द्रि॒य‌म्¦ज्यायः॑¦म॒हि॒ऽत्व‌म्¦आ॒न॒शे॒ | अ॒भि॒ष्टि॒ऽकृत्¦विऽच॑र्षणिः ||

[6] पवस्वेति पञ्चर्चस्य सूक्तस्य भार्गवःकविः पवमानसोमो गायत्री |
पव॑स्व वृ॒ष्टिमा सु नो॒ऽपामू॒र्मिं दि॒वस्परि॑ |{भार्गवः कविः | पवमानः सोमः | गायत्री}

अ॒य॒क्ष्मा बृ॑ह॒तीरिषः॑ ||{1/5}{7.1.6.1}{9.49.1}{9.2.25.1}{29, 772, 8037}

पव॑स्व¦वृ॒ष्टि‌म्¦आ¦सु¦नः॒¦अ॒पा‌म्¦ऊ॒र्मि‌म्¦दि॒वः¦परि॑ | अ॒य॒क्ष्माः¦बृ॒ह॒तीः¦इषः॑ ||

तया᳚ पवस्व॒ धार॑या॒ यया॒ गाव॑ इ॒हागम॑न् |{भार्गवः कविः | पवमानः सोमः | गायत्री}

जन्या᳚स॒ उप॑ नो गृ॒हम् ||{2/5}{7.1.6.2}{9.49.2}{9.2.25.2}{30, 772, 8038}

तया᳚¦प॒व॒स्व॒¦धार॑या¦यया᳚¦गावः॑¦इ॒ह¦आ॒ऽगम॑न् | जन्या᳚सः¦उप॑¦नः॒¦गृ॒ह‌म् ||

घृ॒तं प॑वस्व॒ धार॑या य॒ज्ञेषु॑ देव॒वीत॑मः |{भार्गवः कविः | पवमानः सोमः | गायत्री}

अ॒स्मभ्यं᳚ वृ॒ष्टिमा प॑व ||{3/5}{7.1.6.3}{9.49.3}{9.2.25.3}{31, 772, 8039}

घृ॒त‌म्¦प॒व॒स्व॒¦धार॑या¦य॒ज्ञेषु॑¦दे॒व॒ऽवीत॑मः | अ॒स्मभ्य᳚‌म्¦वृ॒ष्टि‌म्¦आ¦प॒व॒ ||

स न॑ ऊ॒र्जे व्य१॑(अ॒)व्ययं᳚ प॒वित्रं᳚ धाव॒ धार॑या |{भार्गवः कविः | पवमानः सोमः | गायत्री}

दे॒वासः॑ शृ॒णव॒न्‌ हि क᳚म् ||{4/5}{7.1.6.4}{9.49.4}{9.2.25.4}{32, 772, 8040}

सः¦नः॒¦ऊ॒र्जे¦वि¦अ॒व्यय᳚‌म्¦प॒वित्र᳚‌म्¦धा॒व॒¦धार॑या | दे॒वासः॑¦शृ॒णव॑न्¦हि¦क॒‌म् ||

पव॑मानो, असिष्यद॒द् रक्षां᳚स्यप॒जङ्घ॑नत् |{भार्गवः कविः | पवमानः सोमः | गायत्री}

प्र॒त्न॒वद्‌ रो॒चय॒न्‌ रुचः॑ ||{5/5}{7.1.6.5}{9.49.5}{9.2.25.5}{33, 772, 8041}

पव॑मानः¦अ॒सि॒स्य॒द॒त्¦रक्षां᳚सि¦अ॒प॒ऽजङ्घ॑नत् | प्र॒त्न॒ऽवत्¦रो॒चय॑न्¦रुचः॑ ||

[7] उत्तेशुष्मासइति पञ्चर्चस्य सूक्तस्यांगिरस उचथ्यः पवमान सोमोगायत्री |
उत्ते॒ शुष्मा᳚स ईरते॒ सिन्धो᳚रू॒र्मेरि॑व स्व॒नः |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

वा॒णस्य॑ चोदया प॒विम् ||{1/5}{7.1.7.1}{9.50.1}{9.2.26.1}{34, 773, 8042}

उत्¦ते॒¦शुष्मा᳚सः¦ई॒र॒ते॒¦सिन्धोः᳚¦ऊ॒र्मेःऽ‌इ᳚व¦स्व॒नः | वा॒णस्य॑¦चो॒द॒य॒¦प॒वि‌म् ||

प्र॒स॒वे त॒ उदी᳚रते ति॒स्रो वाचो᳚ मख॒स्युवः॑ |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

यदव्य॒ एषि॒ सान॑वि ||{2/5}{7.1.7.2}{9.50.2}{9.2.26.2}{35, 773, 8043}

प्र॒ऽस॒वे¦ते॒¦उत्¦ई॒र॒ते॒¦ति॒स्रः¦वाचः॑¦म॒ख॒स्युवः॑ | यत्¦अव्ये᳚¦एषि॑¦सान॑वि ||

अव्यो॒ वारे॒ परि॑ प्रि॒यं हरिं᳚ हिन्व॒न्त्यद्रि॑भिः |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

पव॑मानं मधु॒श्चुत᳚म् ||{3/5}{7.1.7.3}{9.50.3}{9.2.26.3}{36, 773, 8044}

अव्यः॑¦वारे᳚¦परि॑¦प्रि॒य‌म्¦हरि᳚‌म्¦हि॒न्व॒न्ति॒¦अद्रि॑ऽभिः | पव॑मान‌म्¦म॒धु॒ऽश्चुत᳚‌म् ||

आ प॑वस्व मदिन्तम प॒वित्रं॒ धार॑या कवे |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

अ॒र्कस्य॒ योनि॑मा॒सद᳚म् ||{4/5}{7.1.7.4}{9.50.4}{9.2.26.4}{37, 773, 8045}

आ¦प॒व॒स्व॒¦म॒दि॒न्ऽत॒म॒¦प॒वित्र᳚‌म्¦धार॑या¦क॒वे॒ | अ॒र्कस्य॑¦योनि᳚‌म्¦आ॒ऽसद᳚‌म् ||

स प॑वस्व मदिन्तम॒ गोभि॑रञ्जा॒नो, अ॒क्तुभिः॑ |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

इन्द॒विन्द्रा᳚य पी॒तये᳚ ||{5/5}{7.1.7.5}{9.50.5}{9.2.26.5}{38, 773, 8046}

सः¦प॒व॒स्व॒¦म॒दि॒न्ऽत॒म॒¦गोभिः॑¦अं॒जा॒नः¦अ॒क्तुऽभिः॑ | इन्दो॒ इति॑¦इन्द्रा᳚य¦पी॒तये᳚ ||

[8] अध्वर्यविति पञ्चर्चस्य सूक्तस्यांगिरस उचथ्यः पवमान सोमोगायत्री |
अध्व᳚र्यो॒, अद्रि॑भिः सु॒तं सोमं᳚ प॒वित्र॒ आ सृ॑ज |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

पु॒नी॒हीन्द्रा᳚य॒ पात॑वे ||{1/5}{7.1.8.1}{9.51.1}{9.2.27.1}{39, 774, 8047}

अध्व᳚र्यो॒ इति॑¦अद्रि॑ऽभिः¦सु॒त‌म्¦सोम᳚‌म्¦प॒वित्रे᳚¦आ¦सृ॒ज॒ | पु॒नी॒हि¦इन्द्रा᳚य¦पात॑वे ||

दि॒वः पी॒यूष॑मुत्त॒मं सोम॒मिन्द्रा᳚य व॒ज्रिणे᳚ |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

सु॒नोता॒ मधु॑मत्तमम् ||{2/5}{7.1.8.2}{9.51.2}{9.2.27.2}{40, 774, 8048}

दि॒वः¦पी॒यूष᳚‌म्¦उ॒त्ऽत॒म‌म्¦सोम᳚‌म्¦इन्द्रा᳚य¦व॒ज्रिणे᳚ | सु॒नोत॑¦मधु॑मत्ऽतम‌म् ||

तव॒ त्य इ᳚न्दो॒, अन्ध॑सो दे॒वा मधो॒र्व्य॑श्नते |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

पव॑मानस्य म॒रुतः॑ ||{3/5}{7.1.8.3}{9.51.3}{9.2.27.3}{41, 774, 8049}

तव॑¦त्ये¦इ॒न्दो॒ इति॑¦अन्ध॑सः¦दे॒वाः¦मधोः᳚¦वि¦अ॒श्न॒ते॒ | पव॑मानस्य¦म॒रुतः॑ ||

त्वं हि सो᳚म व॒र्धय᳚न् त्सु॒तो मदा᳚य॒ भूर्ण॑ये |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

वृष᳚न्त्‌ स्तो॒तार॑मू॒तये᳚ ||{4/5}{7.1.8.4}{9.51.4}{9.2.27.4}{42, 774, 8050}

त्व‌म्¦हि¦सो॒म॒¦व॒र्धय॑न्¦सु॒तः¦मदा᳚य¦भूर्ण॑ये | वृष॑न्¦स्तो॒तार᳚‌म्¦ऊ॒तये᳚ ||

अ॒भ्य॑र्ष विचक्षण प॒वित्रं॒ धार॑या सु॒तः |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

अ॒भि वाज॑मु॒त श्रवः॑ ||{5/5}{7.1.8.5}{9.51.5}{9.2.27.5}{43, 774, 8051}

अ॒भि¦अ॒र्ष॒¦वि॒ऽच॒क्ष॒ण॒¦प॒वित्र᳚‌म्¦धार॑या¦सु॒तः | अ॒भि¦वाज᳚‌म्¦उ॒त¦श्रवः॑ ||

[9] परिद्युक्षइति पञ्चर्चस्य सूक्तस्यांगिरस उचथ्यः पवमान सोमोगायत्री |
परि॑ द्यु॒क्षः स॒नद्र॑यि॒र्भर॒द्वाजं᳚ नो॒, अन्ध॑सा |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

सु॒वा॒नो, अ॑र्ष प॒वित्र॒ आ ||{1/5}{7.1.9.1}{9.52.1}{9.2.28.1}{44, 775, 8052}

परि॑¦द्यु॒क्षः¦स॒नत्ऽर॑यिः¦भर॑त्¦वाज᳚‌म्¦नः॒¦अन्ध॑सा | सु॒वा॒नः¦अ॒र्ष॒¦प॒वित्रे᳚¦आ ||

तव॑ प्र॒त्नेभि॒रध्व॑भि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

स॒हस्र॑धारो या॒त्तना᳚ ||{2/5}{7.1.9.2}{9.52.2}{9.2.28.2}{45, 775, 8053}

तव॑¦प्र॒त्नेभिः॑¦अध्व॑ऽभिः¦अव्यः॑¦वारे᳚¦परि॑¦प्रि॒यः | स॒हस्र॑ऽधारः¦या॒त्¦तना᳚ ||

च॒रुर्न यस्तमी᳚ङ्ख॒येन्दो॒ न दान॑मीङ्खय |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

व॒धैर्व॑धस्नवीङ्खय ||{3/5}{7.1.9.3}{9.52.3}{9.2.28.3}{46, 775, 8054}

च॒रुः¦न¦यः¦त‌म्¦ई॒ङ्ख॒य॒¦इन्दो॒ इति॑¦न¦दान᳚‌म्¦ई॒ङ्ख॒य॒ | व॒धैः¦व॒ध॒स्नो॒ इति॑ वधऽस्नो¦ई॒ङ्ख॒य॒ ||

नि शुष्म॑मिन्दवेषां॒ पुरु॑हूत॒ जना᳚नाम् |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

यो, अ॒स्माँ, आ॒दिदे᳚शति ||{4/5}{7.1.9.4}{9.52.4}{9.2.28.4}{47, 775, 8055}

नि¦शुष्म᳚‌म्¦इ॒न्दो॒ इति॑¦एषा᳚‌म्¦पुरु॑ऽहूत¦जना᳚ना‌म् | यः¦अ॒स्मान्¦आ॒ऽदिदे᳚शति ||

श॒तं न॑ इन्द ऊ॒तिभिः॑ स॒हस्रं᳚ वा॒ शुची᳚नाम् |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

पव॑स्व मंह॒यद्र॑यिः ||{5/5}{7.1.9.5}{9.52.5}{9.2.28.5}{48, 775, 8056}

श॒त‌म्¦नः॒¦इ॒न्दो॒ इति॑¦ऊ॒तिऽभिः॑¦स॒हस्र᳚‌म्¦वा॒¦शुची᳚णा‌म् | पव॑स्व¦मं॒ह॒यत्ऽर॑यिः ||

[10] उत्तेशुष्मासइति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री |
उत्ते॒ शुष्मा᳚सो, अस्थू॒ रक्षो᳚ भि॒न्दन्तो᳚, अद्रिवः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

नु॒दस्व॒ याः प॑रि॒स्पृधः॑ ||{1/4}{7.1.10.1}{9.53.1}{9.2.29.1}{49, 776, 8057}

उत्¦ते॒¦शुष्मा᳚सः¦अ॒स्थुः॒¦रक्षः॑¦भि॒न्दन्तः॑¦अ॒द्रि॒ऽवः॒ | नु॒दस्व॑¦याः¦प॒रि॒ऽस्पृधः॑ ||

अ॒या नि॑ज॒घ्निरोज॑सा रथसं॒गे धने᳚ हि॒ते |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

स्तवा॒, अबि॑भ्युषा हृ॒दा ||{2/4}{7.1.10.2}{9.53.2}{9.2.29.2}{50, 776, 8058}

अ॒या¦नि॒ऽज॒घ्निः¦ओज॑सा¦र॒थ॒ऽस॒ङ्गे¦धने᳚¦हि॒ते | स्तवै᳚¦अबि॑भ्युषा¦हृ॒दा ||

अस्य᳚ व्र॒तानि॒ नाधृषे॒ पव॑मानस्य दू॒ढ्या᳚ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

रु॒ज यस्त्वा᳚ पृत॒न्यति॑ ||{3/4}{7.1.10.3}{9.53.3}{9.2.29.3}{51, 776, 8059}

अस्य॑¦व्र॒तानि॑¦न¦आ॒ऽधृषे᳚¦पव॑मानस्य¦दुः॒ऽध्या᳚ | रु॒ज¦यः¦त्वा॒¦पृ॒त॒न्यति॑ ||

तं हि᳚न्वन्ति मद॒च्युतं॒ हरिं᳚ न॒दीषु॑ वा॒जिन᳚म् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

इन्दु॒मिन्द्रा᳚य मत्स॒रम् ||{4/4}{7.1.10.4}{9.53.4}{9.2.29.4}{52, 776, 8060}

त‌म्¦हि॒न्व॒न्ति॒¦म॒द॒ऽच्युत᳚‌म्¦हरि᳚‌म्¦न॒दीषु॑¦वा॒जिन᳚‌म् | इन्दु᳚‌म्¦इन्द्रा᳚य¦म॒त्स॒र‌म् ||

[11] अस्यप्रत्नामिति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री |
अ॒स्य प्र॒त्नामनु॒ द्युतं᳚ शु॒क्रं दु॑दुह्रे॒, अह्र॑यः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

पयः॑ सहस्र॒सामृषि᳚म् ||{1/4}{7.1.11.1}{9.54.1}{9.2.30.1}{53, 777, 8061}

अ॒स्य¦प्र॒त्ना‌म्¦अनु॑¦द्युत᳚‌म्¦शु॒क्र‌म्¦दु॒दु॒ह्रे॒¦अह्र॑यः | पयः॑¦स॒ह॒स्र॒ऽसा‌म्¦ऋषि᳚‌म् ||

अ॒यं सूर्य॑ इवोप॒दृग॒यं सरां᳚सि धावति |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

स॒प्त प्र॒वत॒ आ दिव᳚म् ||{2/4}{7.1.11.2}{9.54.2}{9.2.30.2}{54, 777, 8062}

अ॒य‌म्¦सूर्यः॑ऽ‌इव¦उ॒प॒ऽदृक्¦अ॒य‌म्¦सरां᳚सि¦धा॒व॒ति॒ | स॒प्त¦प्र॒ऽवतः॑¦आ¦दिव᳚‌म् ||

अ॒यं विश्वा᳚नि तिष्ठति पुना॒नो भुव॑नो॒परि॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

सोमो᳚ दे॒वो न सूर्यः॑ ||{3/4}{7.1.11.3}{9.54.3}{9.2.30.3}{55, 777, 8063}

अ॒य‌म्¦विश्वा᳚नि¦ति॒ष्ठ॒ति॒¦पु॒ना॒नः¦भुव॑ना¦उ॒परि॑ | सोमः॑¦दे॒वः¦न¦सूर्यः॑ ||

परि॑ णो दे॒ववी᳚तये॒ वाजाँ᳚, अर्षसि॒ गोम॑तः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

पु॒ना॒न इ᳚न्दविन्द्र॒युः ||{4/4}{7.1.11.4}{9.54.4}{9.2.30.4}{56, 777, 8064}

परि॑¦नः॒¦दे॒वऽवी᳚तये¦वाजा᳚न्¦अ॒र्ष॒सि॒¦गोऽम॑तः | पु॒ना॒नः¦इ॒न्दो॒ इति॑¦इ॒न्द्र॒ऽयुः ||

[12] यवंयवमिति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री |
यवं᳚यवं नो॒, अन्ध॑सा पु॒ष्टम्पु॑ष्टं॒ परि॑ स्रव |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

सोम॒ विश्वा᳚ च॒ सौभ॑गा ||{1/4}{7.1.12.1}{9.55.1}{9.2.31.1}{57, 778, 8065}

यव᳚‌म्ऽयव‌म्¦नः॒¦अन्ध॑सा¦पु॒ष्ट‌म्ऽपु॑ष्ट‌म्¦परि॑¦स्र॒व॒ | सोम॑¦विश्वा᳚¦च॒¦सौभ॑गा ||

इन्दो॒ यथा॒ तव॒ स्तवो॒ यथा᳚ ते जा॒तमन्ध॑सः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

नि ब॒र्हिषि॑ प्रि॒ये स॑दः ||{2/4}{7.1.12.2}{9.55.2}{9.2.31.2}{58, 778, 8066}

इन्दो॒ इति॑¦यथा᳚¦तव॑¦स्तवः॑¦यथा᳚¦ते॒¦जा॒त‌म्¦अन्ध॑सः | नि¦ब॒र्हिषि॑¦प्रि॒ये¦स॒दः॒ ||

उ॒त नो᳚ गो॒विद॑श्व॒वित् पव॑स्व सो॒मान्ध॑सा |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

म॒क्षूत॑मेभि॒रह॑भिः ||{3/4}{7.1.12.3}{9.55.3}{9.2.31.3}{59, 778, 8067}

उ॒त¦नः॒¦गो॒ऽवित्¦अ॒श्व॒ऽवित्¦पव॑स्व¦सो॒म॒¦अन्ध॑सा | म॒क्षुऽत॑मेभिः¦अह॑ऽभिः ||

यो जि॒नाति॒ न जीय॑ते॒ हन्ति॒ शत्रु॑म॒भीत्य॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

स प॑वस्व सहस्रजित् ||{4/4}{7.1.12.4}{9.55.4}{9.2.31.4}{60, 778, 8068}

यः¦जि॒नाति॑¦न¦जीय॑ते¦हन्ति॑¦शत्रु᳚‌म्¦अ॒भि॒ऽ‌इत्य॑ | सः¦प॒व॒स्व॒¦स॒ह॒स्र॒ऽजि॒त् ||

[13] परिसोमइति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री |
परि॒ सोम॑ ऋ॒तं बृ॒हदा॒शुः प॒वित्रे᳚, अर्षति |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

वि॒घ्नन्‌ रक्षां᳚सि देव॒युः ||{1/4}{7.1.13.1}{9.56.1}{9.2.32.1}{61, 779, 8069}

परि॑¦सोमः॑¦ऋ॒त‌म्¦बृ॒हत्¦आ॒शुः¦प॒वित्रे᳚¦अ॒र्ष॒ति॒ | वि॒ऽघ्नन्¦रक्षां᳚सि¦दे॒व॒ऽयुः ||

यत्‌ सोमो॒ वाज॒मर्ष॑ति श॒तं धारा᳚, अप॒स्युवः॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

इन्द्र॑स्य स॒ख्यमा᳚वि॒शन् ||{2/4}{7.1.13.2}{9.56.2}{9.2.32.2}{62, 779, 8070}

यत्¦सोमः॑¦वाज᳚‌म्¦अर्ष॑ति¦श॒त‌म्¦धाराः᳚¦अ॒प॒स्युवः॑ | इन्द्र॑स्य¦स॒ख्य‌म्¦आ॒ऽवि॒शन् ||

अ॒भि त्वा॒ योष॑णो॒ दश॑ जा॒रं न क॒न्या᳚नूषत |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

मृ॒ज्यसे᳚ सोम सा॒तये᳚ ||{3/4}{7.1.13.3}{9.56.3}{9.2.32.3}{63, 779, 8071}

अ॒भि¦त्वा॒¦योष॑णः¦दश॑¦जा॒र‌म्¦न¦क॒न्या᳚¦अ॒नू॒ष॒त॒ | मृ॒ज्यसे᳚¦सो॒म॒¦सा॒तये᳚ ||

त्वमिन्द्रा᳚य॒ विष्ण॑वे स्वा॒दुरि᳚न्दो॒ परि॑ स्रव |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

नॄन्त्‌ स्तो॒तॄन्‌ पा॒ह्यंह॑सः ||{4/4}{7.1.13.4}{9.56.4}{9.2.32.4}{64, 779, 8072}

त्व‌म्¦इन्द्रा᳚य¦विष्ण॑वे¦स्वा॒दुः¦इ॒न्दो॒ इति॑¦परि॑¦स्र॒व॒ | नॄन्¦स्तो॒तॄन्¦पा॒हि॒¦अंह॑सः ||

[14] प्रतेधाराइति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री |
प्र ते॒ धारा᳚, अस॒श्चतो᳚ दि॒वो न य᳚न्ति वृ॒ष्टयः॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

अच्छा॒ वाजं᳚ सह॒स्रिण᳚म् ||{1/4}{7.1.14.1}{9.57.1}{9.2.33.1}{65, 780, 8073}

प्र¦ते॒¦धाराः᳚¦अ॒स॒श्चतः॑¦दि॒वः¦न¦य॒न्ति॒¦वृ॒ष्टयः॑ | अच्छ॑¦वाज᳚‌म्¦स॒ह॒स्रिण᳚‌म् ||

अ॒भि प्रि॒याणि॒ काव्या॒ विश्वा॒ चक्षा᳚णो, अर्षति |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

हरि॑स्तुञ्जा॒न आयु॑धा ||{2/4}{7.1.14.2}{9.57.2}{9.2.33.2}{66, 780, 8074}

अ॒भि¦प्रि॒याणि॑¦काव्या᳚¦विश्वा᳚¦चक्षा᳚णः¦अ॒र्ष॒ति॒ | हरिः॑¦तुं॒जा॒नः¦आयु॑धा ||

स म᳚र्मृजा॒न आ॒युभि॒रिभो॒ राजे᳚व सुव्र॒तः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

श्ये॒नो न वंसु॑ षीदति ||{3/4}{7.1.14.3}{9.57.3}{9.2.33.3}{67, 780, 8075}

सः¦म॒र्मृजा॒नः¦आ॒युऽभिः॑¦इभः॑¦राजा᳚ऽ‌इव¦सु॒ऽव्र॒तः | श्ये॒नः¦न¦वंसु॑¦सी॒द॒ति॒ ||

स नो॒ विश्वा᳚ दि॒वो वसू॒तो पृ॑थि॒व्या, अधि॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

पु॒ना॒न इ᳚न्द॒वा भ॑र ||{4/4}{7.1.14.4}{9.57.4}{9.2.33.4}{68, 780, 8076}

सः¦नः॒¦विश्वा᳚¦दि॒वः¦वसु॑¦उ॒तो इति॑¦पृ॒थि॒व्याः¦अधि॑ | पु॒नानः॑¦इ॒न्दो॒ इति॑¦आ¦भ॒र॒ ||

[15] तरत्समंदीति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री |
तर॒त्‌ स म॒न्दी धा᳚वति॒ धारा᳚ सु॒तस्यान्ध॑सः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

तर॒त्‌ स म॒न्दी धा᳚वति ||{1/4}{7.1.15.1}{9.58.1}{9.2.34.1}{69, 781, 8077}

तर॑त्¦सः¦म॒न्दी¦धा॒व॒ति॒¦धारा᳚¦सु॒तस्य॑¦अन्ध॑सः | तर॑त्¦सः¦म॒न्दी¦धा॒व॒ति॒ ||

उ॒स्रा वे᳚द॒ वसू᳚नां॒ मर्त॑स्य दे॒व्यव॑सः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

तर॒त्‌ स म॒न्दी धा᳚वति ||{2/4}{7.1.15.2}{9.58.2}{9.2.34.2}{70, 781, 8078}

उ॒स्रा¦वे॒द॒¦वसू᳚ना‌म्¦मर्त॑स्य¦दे॒वी¦अव॑सः | तर॑त्¦सः¦म॒न्दी¦धा॒व॒ति॒ ||

ध्व॒स्रयोः᳚ पुरु॒षन्त्यो॒रा स॒हस्रा᳚णि दद्महे |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

तर॒त्‌ स म॒न्दी धा᳚वति ||{3/4}{7.1.15.3}{9.58.3}{9.2.34.3}{71, 781, 8079}

ध्व॒स्रयोः᳚¦पु॒रु॒ऽसन्त्योः᳚¦आ¦स॒हस्रा᳚णि¦द॒द्म॒हे॒ | तर॑त्¦सः¦म॒न्दी¦धा॒व॒ति॒ ||

आ ययो᳚स्त्रिं॒शतं॒ तना᳚ स॒हस्रा᳚णि च॒ दद्म॑हे |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

तर॒त्‌ स म॒न्दी धा᳚वति ||{4/4}{7.1.15.4}{9.58.4}{9.2.34.4}{72, 781, 8080}

आ¦ययोः᳚¦त्रिं॒शत᳚‌म्¦तना᳚¦स॒हस्रा᳚णि¦च॒¦दद्म॑हे | तर॑त्¦सः¦म॒न्दी¦धा॒व॒ति॒ ||

[16] पवस्वेति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री |
पव॑स्व गो॒जिद॑श्व॒जिद् वि॑श्व॒जित्‌ सो᳚म रण्य॒जित् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

प्र॒जाव॒द्‌ रत्न॒मा भ॑र ||{1/4}{7.1.16.1}{9.59.1}{9.2.35.1}{73, 782, 8081}

पव॑स्व¦गो॒ऽजित्¦अ॒श्व॒ऽजित्¦वि॒श्व॒ऽजित्¦सो॒म॒¦र॒ण्य॒ऽजित् | प्र॒जाऽव॑त्¦रत्न᳚‌म्¦आ¦भ॒र॒ ||

पव॑स्वा॒द्भ्यो, अदा᳚भ्यः॒ पव॒स्वौष॑धीभ्यः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

पव॑स्व धि॒षणा᳚भ्यः ||{2/4}{7.1.16.2}{9.59.2}{9.2.35.2}{74, 782, 8082}

पव॑स्व¦अ॒त्ऽभ्यः¦अदा᳚भ्यः¦पव॑स्व¦ओष॑धीभ्यः | पव॑स्व¦धि॒षणा᳚भ्यः ||

त्वं सो᳚म॒ पव॑मानो॒ विश्वा᳚नि दुरि॒ता त॑र |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

क॒विः सी᳚द॒ नि ब॒र्हिषि॑ ||{3/4}{7.1.16.3}{9.59.3}{9.2.35.3}{75, 782, 8083}

त्व‌म्¦सो॒म॒¦पव॑मानः¦विश्वा᳚नि¦दुः॒ऽ‌इ॒ता¦त॒र॒ | क॒विः¦सी॒द॒¦नि¦ब॒र्हिषि॑ ||

पव॑मान॒ स्व᳚र्विदो॒ जाय॑मानोऽभवो म॒हान् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

इन्दो॒ विश्वाँ᳚, अ॒भीद॑सि ||{4/4}{7.1.16.4}{9.59.4}{9.2.35.4}{76, 782, 8084}

पव॑मान¦स्वः॑¦वि॒दः॒¦जाय॑मानः¦अ॒भ॒वः॒¦म॒हान् | इन्दो॒ इति॑¦विश्वा᳚न्¦अ॒भि¦इत्¦अ॒सि॒ ||

[17] प्रगायत्रेणेति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमान सोमोगायत्री तृतीयापुरउष्णिक्
प्र गा᳚य॒त्रेण॑ गायत॒ पव॑मानं॒ विच॑र्षणिम् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

इन्दुं᳚ स॒हस्र॑चक्षसम् ||{1/4}{7.1.17.1}{9.60.1}{9.2.36.1}{77, 783, 8085}

प्र¦गा॒य॒त्रेण॑¦गा॒य॒त॒¦पव॑मान‌म्¦विऽच॑र्षणि‌म् | इन्दु᳚‌म्¦स॒हस्र॑ऽचक्षस‌म् ||

तं त्वा᳚ स॒हस्र॑चक्षस॒मथो᳚ स॒हस्र॑भर्णसम् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

अति॒ वार॑मपाविषुः ||{2/4}{7.1.17.2}{9.60.2}{9.2.36.2}{78, 783, 8086}

त्व‌म्¦त्वा॒¦स॒हस्र॑ऽचक्षस‌म्¦अथो॒ इति॑¦स॒हस्र॑ऽभर्णस‌म् | अति॑¦वार᳚‌म्¦अ॒पा॒वि॒षुः॒ ||

अति॒ वारा॒न्‌ पव॑मानो, असिष्यदत् क॒लशाँ᳚, अ॒भि धा᳚वति |{काश्यपोवत्सारः | पवमानः सोमः | पुरउष्णिक्}

इन्द्र॑स्य॒ हार्द्या᳚वि॒शन् ||{3/4}{7.1.17.3}{9.60.3}{9.2.36.3}{79, 783, 8087}

अति॑¦वारा᳚न्¦पव॑मानः¦अ॒सि॒स्य॒द॒त्¦क॒लशा᳚न्¦अ॒भि¦धा॒व॒ति॒ | इन्द्र॑स्य¦हार्दि॑¦आ॒ऽवि॒शन् ||

इन्द्र॑स्य सोम॒ राध॑से॒ शं प॑वस्व विचर्षणे |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

प्र॒जाव॒द्‌ रेत॒ आ भ॑र ||{4/4}{7.1.17.4}{9.60.4}{9.2.36.4}{80, 783, 8088}

इन्द्र॑स्य¦सो॒म॒¦राध॑से¦श‌म्¦प॒व॒स्व॒¦वि॒ऽच॒र्ष॒णे॒ | प्र॒जाऽव॑त्¦रेतः॑¦आ¦भ॒र॒ ||

[18] अयावीतीति त्रिंशदृचस्य सूक्तस्यांगिरसोऽमहीयुः पवमान सोमो गायत्री |
अ॒या वी॒ती परि॑ स्रव॒ यस्त॑ इन्दो॒ मदे॒ष्वा |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

अ॒वाह᳚न्‌ नव॒तीर्नव॑ ||{1/30}{7.1.18.1}{9.61.1}{9.3.1.1}{81, 784, 8089}

अ॒या¦वी॒ती¦परि॑¦स्र॒व॒¦यः¦ते॒¦इ॒न्दो॒ इति॑¦मदे᳚षु¦आ | अ॒व॒।आह॑न्¦न॒व॒तीः¦नव॑ ||

पुरः॑ स॒द्य इ॒त्थाधि॑ये॒ दिवो᳚दासाय॒ शम्ब॑रम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

अध॒ त्यं तु॒र्वशं॒ यदु᳚म् ||{2/30}{7.1.18.2}{9.61.2}{9.3.1.2}{82, 784, 8090}

पुरः॑¦स॒द्यः¦इ॒त्थाऽधि॑ये¦दिवः॑ऽदासाय¦शम्ब॑र‌म् | अध॑¦त्य‌म्¦तु॒र्वश᳚‌म्¦यदु᳚‌म् ||

परि॑ णो॒, अश्व॑मश्व॒विद्गोम॑दिन्दो॒ हिर᳚ण्यवत् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

क्षरा᳚ सह॒स्रिणी॒रिषः॑ ||{3/30}{7.1.18.3}{9.61.3}{9.3.1.3}{83, 784, 8091}

परि॑¦नः॒¦अश्व᳚‌म्¦अ॒श्व॒ऽवित्¦गोऽम॑त्¦इ॒न्दो॒ इति॑¦हिर᳚ण्यऽवत् | क्षर॑¦स॒ह॒स्रिणीः᳚¦इषः॑ ||

पव॑मानस्य ते व॒यं प॒वित्र॑मभ्युन्द॒तः |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

स॒खि॒त्वमा वृ॑णीमहे ||{4/30}{7.1.18.4}{9.61.4}{9.3.1.4}{84, 784, 8092}

पव॑मानस्य¦ते॒¦व॒य‌म्¦प॒वित्र᳚‌म्¦अ॒भि॒।औ॒न्द॒तः | स॒खि॒ऽत्व‌म्¦आ¦वृ॒णी॒म॒हे॒ ||

ये ते᳚ प॒वित्र॑मू॒र्मयो᳚ऽभि॒क्षर᳚न्ति॒ धार॑या |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

तेभि᳚र्नः सोम मृळय ||{5/30}{7.1.18.5}{9.61.5}{9.3.1.5}{85, 784, 8093}

ये¦ते॒¦प॒वित्र᳚‌म्¦ऊ॒र्मयः॑¦अ॒भि॒ऽक्षर᳚न्ति¦धार॑या | तेभिः॑¦नः॒¦सो॒म॒¦मृ॒ळ॒य॒ ||

स नः॑ पुना॒न आ भ॑र र॒यिं वी॒रव॑ती॒मिष᳚म् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

ईशा᳚नः सोम वि॒श्वतः॑ ||{6/30}{7.1.19.1}{9.61.6}{9.3.1.6}{86, 784, 8094}

सः¦नः॒¦पु॒ना॒नः¦आ¦भ॒र॒¦र॒यि‌म्¦वी॒रऽव॑ती‌म्¦इष᳚‌म् | ईशा᳚नः¦सो॒म॒¦वि॒श्वतः॑ ||

ए॒तमु॒ त्यं दश॒ क्षिपो᳚ मृ॒जन्ति॒ सिन्धु॑मातरम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

समा᳚दि॒त्येभि॑रख्यत ||{7/30}{7.1.19.2}{9.61.7}{9.3.1.7}{87, 784, 8095}

ए॒त‌म्¦ऊँ॒ इति॑¦त्य‌म्¦दश॑¦क्षिपः॑¦मृ॒जन्ति॑¦सिन्धु॑ऽमातर‌म् | स‌म्¦आ॒दि॒त्येभिः॑¦अ॒ख्य॒त॒ ||

समिन्द्रे᳚णो॒त वा॒युना᳚ सु॒त ए᳚ति प॒वित्र॒ आ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

सं सूर्य॑स्य र॒श्मिभिः॑ ||{8/30}{7.1.19.3}{9.61.8}{9.3.1.8}{88, 784, 8096}

स‌म्¦इन्द्रे᳚ण¦उ॒त¦वा॒युना᳚¦सु॒तः¦ए॒ति॒¦प॒वित्रे᳚¦आ | स‌म्¦सूर्य॑स्य¦र॒श्मिऽभिः॑ ||

स नो॒ भगा᳚य वा॒यवे᳚ पू॒ष्णे प॑वस्व॒ मधु॑मान् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

चारु᳚र्मि॒त्रे वरु॑णे च ||{9/30}{7.1.19.4}{9.61.9}{9.3.1.9}{89, 784, 8097}

सः¦नः॒¦भगा᳚य¦वा॒यवे᳚¦पू॒ष्णे¦प॒व॒स्व॒¦मधु॑ऽमान् | चारुः॑¦मि॒त्रे¦वरु॑णे¦च॒ ||

उ॒च्चा ते᳚ जा॒तमन्ध॑सो दि॒वि षद्‌ भूम्या द॑दे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

उ॒ग्रं शर्म॒ महि॒ श्रवः॑ ||{10/30}{7.1.19.5}{9.61.10}{9.3.1.10}{90, 784, 8098}

उ॒च्चा¦ते॒¦जा॒त‌म्¦अन्ध॑सः¦दि॒वि¦सत्¦भूमिः॑¦आ¦द॒दे॒ | उ॒ग्र‌म्¦शर्म॑¦महि॑¦श्रवः॑ ||

ए॒ना विश्वा᳚न्य॒र्य आ द्यु॒म्नानि॒ मानु॑षाणाम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

सिषा᳚सन्तो वनामहे ||{11/30}{7.1.20.1}{9.61.11}{9.3.1.11}{91, 784, 8099}

ए॒ना¦विश्वा᳚नि¦अ॒र्यः¦आ¦द्यु॒म्नानि॑¦मानु॑षाणा‌म् | सिसा᳚सन्तः¦व॒ना॒म॒हे॒ ||

स न॒ इन्द्रा᳚य॒ यज्य॑वे॒ वरु॑णाय म॒रुद्भ्यः॑ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

व॒रि॒वो॒वित्‌ परि॑ स्रव ||{12/30}{7.1.20.2}{9.61.12}{9.3.1.12}{92, 784, 8100}

सः¦नः॒¦इन्द्रा᳚य¦यज्य॑वे¦वरु॑णाय¦म॒रुत्ऽभ्यः॑ | व॒रि॒वः॒ऽवित्¦परि॑¦स्र॒व॒ ||

उपो॒ षु जा॒तम॒प्तुरं॒ गोभि॑र्भ॒ङ्गं परि॑ष्कृतम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

इन्दुं᳚ दे॒वा, अ॑यासिषुः ||{13/30}{7.1.20.3}{9.61.13}{9.3.1.13}{93, 784, 8101}

उपो॒ इति॑¦सु¦जा॒त‌म्¦अ॒प्ऽतुर᳚‌म्¦गोभिः॑¦भ॒ङ्ग‌म्¦परि॑ऽकृत‌म् | इन्दु᳚‌म्¦दे॒वाः¦अ॒या॒सि॒षुः॒ ||

तमिद्‌ व॑र्धन्तु नो॒ गिरो᳚ व॒त्सं सं॒शिश्व॑रीरिव |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

य इन्द्र॑स्य हृदं॒सनिः॑ ||{14/30}{7.1.20.4}{9.61.14}{9.3.1.14}{94, 784, 8102}

त‌म्¦इत्¦व॒र्ध॒न्तु॒¦नः॒¦गिरः॑¦व॒त्स‌म्¦सं॒शिश्व॑रीःऽ‌इव | यः¦इन्द्र॑स्य¦हृ॒द॒‌म्ऽसनिः॑ ||

अर्षा᳚ णः सोम॒ शं गवे᳚ धु॒क्षस्व॑ पि॒प्युषी॒मिष᳚म् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

वर्धा᳚ समु॒द्रमु॒क्थ्य᳚म् ||{15/30}{7.1.20.5}{9.61.15}{9.3.1.15}{95, 784, 8103}

अर्ष॑¦नः॒¦सो॒म॒¦श‌म्¦गवे᳚¦धु॒क्षस्व॑¦पि॒प्युषी᳚‌म्¦इष᳚‌म् | वर्ध॑¦स॒मु॒द्र‌म्¦उ॒क्थ्य᳚‌म् ||

पव॑मानो, अजीजनद्दि॒वश्चि॒त्रं न त᳚न्य॒तुम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

ज्योति᳚र्वैश्वान॒रं बृ॒हत् ||{16/30}{7.1.21.1}{9.61.16}{9.3.1.16}{96, 784, 8104}

पव॑मानः¦अ॒जी॒ज॒न॒त्¦दि॒वः¦चि॒त्र‌म्¦न¦त॒न्य॒तु‌म् | ज्योतिः॑¦वै॒श्वा॒न॒र‌म्¦बृ॒हत् ||

पव॑मानस्य ते॒ रसो॒ मदो᳚ राजन्नदुच्छु॒नः |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

वि वार॒मव्य॑मर्षति ||{17/30}{7.1.21.2}{9.61.17}{9.3.1.17}{97, 784, 8105}

पव॑मानस्य¦ते॒¦रसः॑¦मदः॑¦रा॒ज॒न्¦अ॒दु॒च्छु॒नः | वि¦वार᳚‌म्¦अव्य᳚‌म्¦अ॒र्ष॒ति॒ ||

पव॑मान॒ रस॒स्तव॒ दक्षो॒ वि रा᳚जति द्यु॒मान् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

ज्योति॒र्विश्वं॒ स्व॑र्दृ॒शे ||{18/30}{7.1.21.3}{9.61.18}{9.3.1.18}{98, 784, 8106}

पव॑मान¦रसः॑¦तव॑¦दक्षः॑¦वि¦रा॒ज॒ति॒¦द्यु॒ऽमान् | ज्योतिः॑¦विश्व᳚‌म्¦स्वः॑¦दृ॒शे ||

यस्ते॒ मदो॒ वरे᳚ण्य॒स्तेना᳚ पव॒स्वान्ध॑सा |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

दे॒वा॒वीर॑घशंस॒हा ||{19/30}{7.1.21.4}{9.61.19}{9.3.1.19}{99, 784, 8107}

यः¦ते॒¦मदः॑¦वरे᳚ण्यः¦तेन॑¦प॒व॒स्व॒¦अन्ध॑सा | दे॒व॒।आ॒वीः¦अ॒घ॒शं॒स॒ऽहा ||

जघ्नि᳚र्वृ॒त्रम॑मि॒त्रियं॒ सस्नि॒र्वाजं᳚ दि॒वेदि॑वे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

गो॒षा, उ॑ अश्व॒सा, अ॑सि ||{20/30}{7.1.21.5}{9.61.20}{9.3.1.20}{100, 784, 8108}

जघ्निः॑¦वृ॒त्र‌म्¦अ॒मि॒त्रिय᳚‌म्¦सस्निः॑¦वाज᳚‌म्¦दि॒वेऽदि॑वे | गो॒ऽसाः¦ऊँ॒ इति॑¦अ॒श्व॒ऽसाः¦अ॒सि॒ ||

सम्मि॑श्लो, अरु॒षो भ॑व सूप॒स्थाभि॒र्न धे॒नुभिः॑ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

सीद᳚ञ्छ्ये॒नो न योनि॒मा ||{21/30}{7.1.22.1}{9.61.21}{9.3.1.21}{101, 784, 8109}

स‌म्ऽमि॑श्लः¦अ॒रु॒षः¦भ॒व॒¦सु॒।औ॒प॒स्थाभिः॑¦न¦धे॒नुऽभिः॑ | सीद॑न्¦श्ये॒नः¦न¦योनि᳚‌म्¦आ ||

स प॑वस्व॒ य आवि॒थेन्द्रं᳚ वृ॒त्राय॒ हन्त॑वे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

व॒व्रि॒वांसं᳚ म॒हीर॒पः ||{22/30}{7.1.22.2}{9.61.22}{9.3.1.22}{102, 784, 8110}

सः¦प॒व॒स्व॒¦यः¦आवि॑थ¦इन्द्र᳚‌म्¦वृ॒त्राय॑¦हन्त॑वे | व॒व्रि॒ऽवांस᳚‌म्¦म॒हीः¦अ॒पः ||

सु॒वीरा᳚सो व॒यं धना॒ जये᳚म सोम मीढ्वः |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

पु॒ना॒नो व॑र्ध नो॒ गिरः॑ ||{23/30}{7.1.22.3}{9.61.23}{9.3.1.23}{103, 784, 8111}

सु॒ऽवीरा᳚सः¦व॒य‌म्¦धना᳚¦जये᳚म¦सो॒म॒¦मी॒ढ्वः॒ | पु॒ना॒नः¦व॒र्ध॒¦नः॒¦गिरः॑ ||

त्वोता᳚स॒स्तवाव॑सा॒ स्याम॑ व॒न्वन्त॑ आ॒मुरः॑ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

सोम᳚ व्र॒तेषु॑ जागृहि ||{24/30}{7.1.22.4}{9.61.24}{9.3.1.24}{104, 784, 8112}

त्वाऽऊ᳚तासः¦तव॑¦अव॑सा¦स्याम॑¦व॒न्वन्तः॑¦आ॒ऽमुरः॑ | सोम॑¦व्र॒तेषु॑¦जा॒गृ॒हि॒ ||

अ॒प॒घ्नन्‌ प॑वते॒ मृधोऽप॒ सोमो॒, अरा᳚व्णः |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

गच्छ॒न्निन्द्र॑स्य निष्कृ॒तम् ||{25/30}{7.1.22.5}{9.61.25}{9.3.1.25}{105, 784, 8113}

अ॒प॒ऽघ्नन्¦प॒व॒ते॒¦मृधः॑¦अप॑¦सोमः॑¦अरा᳚व्णः | गच्छ॑न्¦इन्द्र॑स्य¦निः॒ऽकृ॒त‌म् ||

म॒हो नो᳚ रा॒य आ भ॑र॒ पव॑मान ज॒ही मृधः॑ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

रास्वे᳚न्दो वी॒रव॒द्‌ यशः॑ ||{26/30}{7.1.23.1}{9.61.26}{9.3.1.26}{106, 784, 8114}

म॒हः¦नः॒¦रा॒यः¦आ¦भ॒र॒¦पव॑मान¦ज॒हि¦मृधः॑ | रास्व॑¦इ॒न्दो॒ इति॑¦वी॒रऽव॑त्¦यशः॑ ||

न त्वा᳚ श॒तं च॒न ह्रुतो॒ राधो॒ दित्स᳚न्त॒मा मि॑नन् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

यत्‌ पु॑ना॒नो म॑ख॒स्यसे᳚ ||{27/30}{7.1.23.2}{9.61.27}{9.3.1.27}{107, 784, 8115}

न¦त्वा॒¦श॒त‌म्¦च॒न¦हुतः॑¦राधः॑¦दित्स᳚न्त‌म्¦आ¦मि॒न॒न् | यत्¦पु॒ना॒नः¦म॒ख॒स्यसे᳚ ||

पव॑स्वेन्दो॒ वृषा᳚ सु॒तः कृ॒धी नो᳚ य॒शसो॒ जने᳚ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

विश्वा॒, अप॒ द्विषो᳚ जहि ||{28/30}{7.1.23.3}{9.61.28}{9.3.1.28}{108, 784, 8116}

पव॑स्व¦इ॒न्दो॒ इति॑¦वृषा᳚¦सु॒तः¦कृ॒धि¦नः॒¦य॒शसः॑¦जने᳚ | विश्वाः᳚¦अप॑¦द्विषः॑¦ज॒हि॒ ||

अस्य॑ ते स॒ख्ये व॒यं तवे᳚न्दो द्यु॒म्न उ॑त्त॒मे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

सा॒स॒ह्याम॑ पृतन्य॒तः ||{29/30}{7.1.23.4}{9.61.29}{9.3.1.29}{109, 784, 8117}

अस्य॑¦ते॒¦स॒ख्ये¦व॒य‌म्¦तव॑¦इ॒न्दो॒ इति॑¦द्यु॒म्ने¦उ॒त्ऽत॒मे | स॒स॒ह्याम॑¦पृ॒त॒न्य॒तः ||

या ते᳚ भी॒मान्यायु॑धा ति॒ग्मानि॒ सन्ति॒ धूर्व॑णे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

रक्षा᳚ समस्य नो नि॒दः ||{30/30}{7.1.23.5}{9.61.30}{9.3.1.30}{110, 784, 8118}

या¦ते॒¦भी॒मानि॑¦आयु॑धा¦ति॒ग्मानि॑¦सन्ति॑¦धूर्व॑णे | रक्ष॑¦स॒म॒स्य॒¦नः॒¦नि॒दः ||

[19] एतेअसृग्रमिति त्रिंशदृचस्य सूक्तस्य भार्गवोजमदग्निः पवमानसोमो गायत्री |
ए॒ते, अ॑सृग्र॒मिन्द॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

विश्वा᳚न्य॒भि सौभ॑गा ||{1/30}{7.1.24.1}{9.62.1}{9.3.2.1}{111, 785, 8119}

ए॒ते¦अ॒सृ॒ग्र॒‌म्¦इन्द॑वः¦ति॒रः¦प॒वित्र᳚‌म्¦आ॒शवः॑ | विश्वा᳚नि¦अ॒भि¦सौभ॑गा ||

वि॒घ्नन्तो᳚ दुरि॒ता पु॒रु सु॒गा तो॒काय॑ वा॒जिनः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

तना᳚ कृ॒ण्वन्तो॒, अर्व॑ते ||{2/30}{7.1.24.2}{9.62.2}{9.3.2.2}{112, 785, 8120}

वि॒ऽघ्नन्तः॑¦दुः॒ऽ‌इ॒ता¦पु॒रु¦सु॒ऽगा¦तो॒काय॑¦वा॒जिनः॑ | तना᳚¦कृ॒ण्वन्तः॑¦अर्व॑ते ||

कृ॒ण्वन्तो॒ वरि॑वो॒ गवे॒ऽभ्य॑र्षन्ति सुष्टु॒तिम् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

इळा᳚म॒स्मभ्यं᳚ सं॒यत᳚म् ||{3/30}{7.1.24.3}{9.62.3}{9.3.2.3}{113, 785, 8121}

कृ॒ण्वन्तः॑¦वरि॑वः¦गवे᳚¦अ॒भि¦अ॒र्ष॒न्ति॒¦सु॒ऽस्तु॒ति‌म् | इळा᳚‌म्¦अ॒स्मभ्य᳚‌म्¦स॒‌म्ऽयत᳚‌म् ||

असा᳚व्यं॒शुर्मदा᳚या॒ऽप्सु दक्षो᳚ गिरि॒ष्ठाः |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

श्ये॒नो न योनि॒मास॑दत् ||{4/30}{7.1.24.4}{9.62.4}{9.3.2.4}{114, 785, 8122}

असा᳚वि¦अं॒शुः¦मदा᳚य¦अ॒प्ऽसु¦दक्षः॑¦गि॒रि॒ऽस्थाः | श्ये॒नः¦न¦योनि᳚‌म्¦आ¦अ॒स॒द॒त् ||

शु॒भ्रमन्धो᳚ दे॒ववा᳚तम॒प्सु धू॒तो नृभिः॑ सु॒तः |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

स्वद᳚न्ति॒ गावः॒ पयो᳚भिः ||{5/30}{7.1.24.5}{9.62.5}{9.3.2.5}{115, 785, 8123}

शु॒भ्र‌म्¦अन्धः॑¦दे॒वऽवा᳚त‌म्¦अ॒प्ऽसु¦धू॒तः¦नृऽभिः॑¦सु॒तः | स्वद᳚न्ति¦गावः॑¦पयः॑ऽभिः ||

आदी॒मश्वं॒ न हेता॒रोऽशू᳚शुभन्न॒मृता᳚य |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

मध्वो॒ रसं᳚ सध॒मादे᳚ ||{6/30}{7.1.25.1}{9.62.6}{9.3.2.6}{116, 785, 8124}

आत्¦ई॒‌म्¦अश्व᳚‌म्¦न¦हेता᳚रः¦अशू᳚शुभन्¦अ॒मृता᳚य | मध्वः॑¦रस᳚‌म्¦स॒ध॒ऽमादे᳚ ||

यास्ते॒ धारा᳚ मधु॒श्चुतोऽसृ॑ग्रमिन्द ऊ॒तये᳚ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

ताभिः॑ प॒वित्र॒मास॑दः ||{7/30}{7.1.25.2}{9.62.7}{9.3.2.7}{117, 785, 8125}

याः¦ते॒¦धाराः᳚¦म॒धु॒ऽश्चुतः॑¦असृ॑ग्र‌म्¦इ॒न्दो॒ इति॑¦ऊ॒तये᳚ | ताभिः॑¦प॒वित्र᳚‌म्¦आ¦अ॒स॒दः॒ ||

सो, अ॒र्षेन्द्रा᳚य पी॒तये᳚ ति॒रो रोमा᳚ण्य॒व्यया᳚ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

सीद॒न्‌ योना॒ वने॒ष्वा ||{8/30}{7.1.25.3}{9.62.8}{9.3.2.8}{118, 785, 8126}

सः¦अ॒र्ष॒¦इन्द्रा᳚य¦पी॒तये᳚¦ति॒रः¦रोमा᳚णि¦अ॒व्यया᳚ | सीद॑न्¦योना᳚¦वने᳚षु¦आ ||

त्वमि᳚न्दो॒ परि॑ स्रव॒ स्वादि॑ष्ठो॒, अङ्गि॑रोभ्यः |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

व॒रि॒वो॒विद्‌ घृ॒तं पयः॑ ||{9/30}{7.1.25.4}{9.62.9}{9.3.2.9}{119, 785, 8127}

त्व‌म्¦इ॒न्दो॒ इति॑¦परि॑¦स्र॒व॒¦स्वादि॑ष्ठः¦अङ्गि॑रःऽभ्यः | व॒रि॒वः॒ऽवित्¦घृ॒त‌म्¦पयः॑ ||

अ॒यं विच॑र्षणिर्हि॒तः पव॑मानः॒ स चे᳚तति |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

हि॒न्वा॒न आप्यं᳚ बृ॒हत् ||{10/30}{7.1.25.5}{9.62.10}{9.3.2.10}{120, 785, 8128}

अ॒य‌म्¦विऽच॑र्षणिः¦हि॒तः¦पव॑मानः¦सः¦चे॒त॒ति॒ | हि॒न्वा॒नः¦आप्य᳚‌म्¦बृ॒हत् ||

ए॒ष वृषा॒ वृष᳚व्रतः॒ पव॑मानो, अशस्ति॒हा |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

कर॒द्‌ वसू᳚नि दा॒शुषे᳚ ||{11/30}{7.1.26.1}{9.62.11}{9.3.2.11}{121, 785, 8129}

ए॒षः¦वृषा᳚¦वृष॑ऽव्रतः¦पव॑मानः¦अ॒श॒स्ति॒ऽहा | कर॑त्¦वसू᳚नि¦दा॒शुषे᳚ ||

आ प॑वस्व सह॒स्रिणं᳚ र॒यिं गोम᳚न्तम॒श्विन᳚म् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

पु॒रु॒श्च॒न्द्रं पु॑रु॒स्पृह᳚म् ||{12/30}{7.1.26.2}{9.62.12}{9.3.2.12}{122, 785, 8130}

आ¦प॒व॒स्व॒¦स॒ह॒स्रिण᳚‌म्¦र॒यि‌म्¦गोऽम᳚न्त‌म्¦अ॒श्विन᳚‌म् | पु॒रु॒ऽच॒न्द्र‌म्¦पु॒रु॒ऽस्पृह᳚‌म् ||

ए॒ष स्य परि॑ षिच्यते मर्मृ॒ज्यमा᳚न आ॒युभिः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

उ॒रु॒गा॒यः क॒विक्र॑तुः ||{13/30}{7.1.26.3}{9.62.13}{9.3.2.13}{123, 785, 8131}

ए॒षः¦स्यः¦परि॑¦सि॒च्य॒ते॒¦म॒र्मृ॒ज्यमा᳚नः¦आ॒युऽभिः॑ | उ॒रु॒ऽगा॒यः¦क॒विऽक्र॑तुः ||

स॒हस्रो᳚तिः श॒ताम॑घो वि॒मानो॒ रज॑सः क॒विः |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

इन्द्रा᳚य पवते॒ मदः॑ ||{14/30}{7.1.26.4}{9.62.14}{9.3.2.14}{124, 785, 8132}

स॒हस्र॑ऽऊतिः¦श॒तऽम॑घः¦वि॒ऽमानः॑¦रज॑सः¦क॒विः | इन्द्रा᳚य¦प॒व॒ते॒¦मदः॑ ||

गि॒रा जा॒त इ॒ह स्तु॒त इन्दु॒रिन्द्रा᳚य धीयते |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

विर्योना᳚ वस॒तावि॑व ||{15/30}{7.1.26.5}{9.62.15}{9.3.2.15}{125, 785, 8133}

गि॒रा¦जा॒तः¦इ॒ह¦स्तु॒तः¦इन्दुः॑¦इन्द्रा᳚य¦धी॒य॒ते॒ | विः¦योना᳚¦व॒स॒तौऽ‌इ᳚व ||

पव॑मानः सु॒तो नृभिः॒ सोमो॒ वाज॑मिवासरत् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

च॒मूषु॒ शक्म॑ना॒सद᳚म् ||{16/30}{7.1.27.1}{9.62.16}{9.3.2.16}{126, 785, 8134}

पव॑मानः¦सु॒तः¦नृऽभिः॑¦सोमः॑¦वाज᳚‌म्ऽ‌इव¦अ॒स॒रत् | च॒मूषु॑¦शक्म॑ना¦आ॒ऽसद᳚‌म् ||

तं त्रि॑पृ॒ष्ठे त्रि॑वन्धु॒रे रथे᳚ युञ्जन्ति॒ यात॑वे |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

ऋषी᳚णां स॒प्त धी॒तिभिः॑ ||{17/30}{7.1.27.2}{9.62.17}{9.3.2.17}{127, 785, 8135}

त‌म्¦त्रि॒ऽपृ॒ष्ठे¦त्रि॒ऽब॒न्धु॒रे¦रथे᳚¦युं॒ज॒न्ति॒¦यात॑वे | ऋषी᳚णा‌म्¦स॒प्त¦धी॒तिऽभिः॑ ||

तं सो᳚तारो धन॒स्पृत॑मा॒शुं वाजा᳚य॒ यात॑वे |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

हरिं᳚ हिनोत वा॒जिन᳚म् ||{18/30}{7.1.27.3}{9.62.18}{9.3.2.18}{128, 785, 8136}

त‌म्¦सो॒ता॒रः॒¦ध॒न॒ऽस्पृत᳚‌म्¦आ॒शु‌म्¦वाजा᳚य¦यात॑वे | हरि᳚‌म्¦हि॒नो॒त॒¦वा॒जिन᳚‌म् ||

आ॒वि॒शन्‌ क॒लशं᳚ सु॒तो विश्वा॒, अर्ष᳚न्न॒भि श्रियः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

शूरो॒ न गोषु॑ तिष्ठति ||{19/30}{7.1.27.4}{9.62.19}{9.3.2.19}{129, 785, 8137}

आ॒ऽवि॒शन्¦क॒लश᳚‌म्¦सु॒तः¦विश्वाः᳚¦अर्ष॑न्¦अ॒भि¦श्रियः॑ | शूरः॑¦न¦गोषु॑¦ति॒ष्ठ॒ति॒ ||

आ त॑ इन्दो॒ मदा᳚य॒ कं पयो᳚ दुहन्त्या॒यवः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

दे॒वा दे॒वेभ्यो॒ मधु॑ ||{20/30}{7.1.27.5}{9.62.20}{9.3.2.20}{130, 785, 8138}

आ¦ते॒¦इ॒न्दो॒ इति॑¦मदा᳚य¦क‌म्¦पयः॑¦दु॒ह॒न्ति॒¦आ॒यवः॑ | दे॒वाः¦दे॒वेभ्यः॑¦मधु॑ ||

आ नः॒ सोमं᳚ प॒वित्र॒ आ सृ॒जता॒ मधु॑मत्तमम् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

दे॒वेभ्यो᳚ देव॒श्रुत्त॑मम् ||{21/30}{7.1.28.1}{9.62.21}{9.3.2.21}{131, 785, 8139}

आ¦नः॒¦सोम᳚‌म्¦प॒वित्रे᳚¦आ¦सृ॒जत॑¦मधु॑मत्ऽतम‌म् | दे॒वेभ्यः॑¦दे॒व॒श्रुत्ऽत॑म‌म् ||

ए॒ते सोमा᳚, असृक्षत गृणा॒नाः श्रव॑से म॒हे |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

म॒दिन्त॑मस्य॒ धार॑या ||{22/30}{7.1.28.2}{9.62.22}{9.3.2.22}{132, 785, 8140}

ए॒ते¦सोमाः᳚¦अ॒सृ॒क्ष॒त॒¦गृ॒णा॒नाः¦श्रव॑से¦म॒हे | म॒दिन्ऽत॑मस्य¦धार॑या ||

अ॒भि गव्या᳚नि वी॒तये᳚ नृ॒म्णा पु॑ना॒नो, अ॑र्षसि |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

स॒नद्वा᳚जः॒ परि॑ स्रव ||{23/30}{7.1.28.3}{9.62.23}{9.3.2.23}{133, 785, 8141}

अ॒भि¦गव्या᳚नि¦वी॒तये᳚¦नृ॒म्णा¦पु॒ना॒नः¦अ॒र्ष॒सि॒ | स॒नत्ऽवा᳚जः¦परि॑¦स्र॒व॒ ||

उ॒त नो॒ गोम॑ती॒रिषो॒ विश्वा᳚, अर्ष परि॒ष्टुभः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

गृ॒णा॒नो ज॒मद॑ग्निना ||{24/30}{7.1.28.4}{9.62.24}{9.3.2.24}{134, 785, 8142}

उ॒त¦नः॒¦गोऽम॑तीः¦इषः॑¦विश्वाः᳚¦अ॒र्ष॒¦प॒रि॒ऽस्तुभः॑ | गृ॒णा॒नः¦ज॒मत्।आ॑ग्निना ||

पव॑स्व वा॒चो, अ॑ग्रि॒यः सोम॑ चि॒त्राभि॑रू॒तिभिः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

अ॒भि विश्वा᳚नि॒ काव्या᳚ ||{25/30}{7.1.28.5}{9.62.25}{9.3.2.25}{135, 785, 8143}

पव॑स्व¦वा॒चः¦अ॒ग्रि॒यः¦सोम॑¦चि॒त्राभिः॑¦ऊ॒तिऽभिः॑ | अ॒भि¦विश्वा᳚नि¦काव्या᳚ ||

त्वं स॑मु॒द्रिया᳚, अ॒पो᳚ऽग्रि॒यो वाच॑ ई॒रय॑न् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

पव॑स्व विश्वमेजय ||{26/30}{7.1.29.1}{9.62.26}{9.3.2.26}{136, 785, 8144}

त्व‌म्¦स॒मु॒द्रियाः᳚¦अ॒पः¦अ॒ग्रि॒यः¦वाचः॑¦ई॒रय॑न् | पव॑स्व¦वि॒श्व॒‌म्ऽए॒ज॒य॒ ||

तुभ्ये॒मा भुव॑ना कवे महि॒म्ने सो᳚म तस्थिरे |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

तुभ्य॑मर्षन्ति॒ सिन्ध॑वः ||{27/30}{7.1.29.2}{9.62.27}{9.3.2.27}{137, 785, 8145}

तुभ्य॑¦इ॒मा¦भुव॑ना¦क॒वे॒¦म॒हि॒म्ने¦सो॒म॒¦त॒स्थि॒रे॒ | तुभ्य᳚‌म्¦अ॒र्ष॒न्ति॒¦सिन्ध॑वः ||

प्र ते᳚ दि॒वो न वृ॒ष्टयो॒ धारा᳚ यन्त्यस॒श्चतः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

अ॒भि शु॒क्रामु॑प॒स्तिर᳚म् ||{28/30}{7.1.29.3}{9.62.28}{9.3.2.28}{138, 785, 8146}

प्र¦ते॒¦दि॒वः¦न¦वृ॒ष्टयः॑¦धाराः᳚¦य॒न्ति॒¦अ॒स॒श्चतः॑ | अ॒भि¦शु॒क्रा‌म्¦उ॒प॒ऽस्तिर᳚‌म् ||

इन्द्रा॒येन्दुं᳚ पुनीतनो॒ग्रं दक्षा᳚य॒ साध॑नम् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

ई॒शा॒नं वी॒तिरा᳚धसम् ||{29/30}{7.1.29.4}{9.62.29}{9.3.2.29}{139, 785, 8147}

इन्द्रा᳚य¦इन्दु᳚‌म्¦पु॒नी॒त॒न॒¦उ॒ग्र‌म्¦दक्षा᳚य¦साध॑न‌म् | ई॒शा॒न‌म्¦वी॒तिऽरा᳚धस‌म् ||

पव॑मान ऋ॒तः क॒विः सोमः॑ प॒वित्र॒मास॑दत् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

दध॑त्‌ स्तो॒त्रे सु॒वीर्य᳚म् ||{30/30}{7.1.29.5}{9.62.30}{9.3.2.30}{140, 785, 8148}

पव॑मानः¦ऋ॒तः¦क॒विः¦सोमः॑¦प॒वित्र᳚‌म्¦आ¦अ॒स॒द॒त् | दध॑त्¦स्तो॒त्रे¦सु॒ऽवीर्य᳚‌म् ||

[20] आपवस्वेति त्रिंशदृचस्य सूक्तस्य काश्यपोनिध्रुविः पवमान सोमो गायत्री |
आ प॑वस्व सह॒स्रिणं᳚ र॒यिं सो᳚म सु॒वीर्य᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

अ॒स्मे श्रवां᳚सि धारय ||{1/30}{7.1.30.1}{9.63.1}{9.3.3.1}{141, 786, 8149}

आ¦प॒व॒स्व॒¦स॒ह॒स्रिण᳚‌म्¦र॒यि‌म्¦सो॒म॒¦सु॒ऽवीर्य᳚‌म् | अ॒स्मे इति॑¦श्रवां᳚सि¦धा॒र॒य॒ ||

इष॒मूर्जं᳚ च पिन्वस॒ इन्द्रा᳚य मत्स॒रिन्त॑मः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

च॒मूष्वा नि षी᳚दसि ||{2/30}{7.1.30.2}{9.63.2}{9.3.3.2}{142, 786, 8150}

इष᳚‌म्¦ऊर्ज᳚‌म्¦च॒¦पि॒न्व॒से॒¦इन्द्रा᳚य¦म॒त्स॒रिन्ऽत॑मः | च॒मूषु॑¦आ¦नि¦सी॒द॒सि॒ ||

सु॒त इन्द्रा᳚य॒ विष्ण॑वे॒ सोमः॑ क॒लशे᳚, अक्षरत् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

मधु॑माँ, अस्तु वा॒यवे᳚ ||{3/30}{7.1.30.3}{9.63.3}{9.3.3.3}{143, 786, 8151}

सु॒तः¦इन्द्रा᳚य¦विष्ण॑वे¦सोमः॑¦क॒लशे᳚¦अ॒क्ष॒र॒त् | मधु॑ऽमान्¦अ॒स्तु॒¦वा॒यवे᳚ ||

ए॒ते, अ॑सृग्रमा॒शवोऽति॒ ह्वरां᳚सि ब॒भ्रवः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

सोमा᳚ ऋ॒तस्य॒ धार॑या ||{4/30}{7.1.30.4}{9.63.4}{9.3.3.4}{144, 786, 8152}

ए॒ते¦अ॒सृ॒ग्र॒‌म्¦आ॒शवः॑¦अति॑¦ह्वरां᳚सि¦ब॒भ्रवः॑ | सोमाः᳚¦ऋ॒तस्य॑¦धार॑या ||

इन्द्रं॒ वर्ध᳚न्तो, अ॒प्तुरः॑ कृ॒ण्वन्तो॒ विश्व॒मार्य᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

अ॒प॒घ्नन्तो॒, अरा᳚व्णः ||{5/30}{7.1.30.5}{9.63.5}{9.3.3.5}{145, 786, 8153}

इन्द्र᳚‌म्¦वर्ध᳚न्तः¦अ॒प्ऽतुरः॑¦कृ॒ण्वन्तः॑¦विश्व᳚‌म्¦आर्य᳚‌म् | अ॒प॒ऽघ्नन्तः॑¦अरा᳚व्णः ||

सु॒ता, अनु॒ स्वमा रजो॒ऽभ्य॑र्षन्ति ब॒भ्रवः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

इन्द्रं॒ गच्छ᳚न्त॒ इन्द॑वः ||{6/30}{7.1.31.1}{9.63.6}{9.3.3.6}{146, 786, 8154}

सु॒ताः¦अनु॑¦स्व‌म्¦आ¦रजः॑¦अ॒भि¦अ॒र्ष॒न्ति॒¦ब॒भ्रवः॑ | इन्द्र᳚‌म्¦गच्छ᳚न्तः¦इन्द॑वः ||

अ॒या प॑वस्व॒ धार॑या॒ यया॒ सूर्य॒मरो᳚चयः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

हि॒न्वा॒नो मानु॑षीर॒पः ||{7/30}{7.1.31.2}{9.63.7}{9.3.3.7}{147, 786, 8155}

अ॒या¦प॒व॒स्व॒¦धार॑या¦यया᳚¦सूर्य᳚‌म्¦अरो᳚चयः | हि॒न्वा॒नः¦मानु॑षीः¦अ॒पः ||

अयु॑क्त॒ सूर॒ एत॑शं॒ पव॑मानो म॒नावधि॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

अ॒न्तरि॑क्षेण॒ यात॑वे ||{8/30}{7.1.31.3}{9.63.8}{9.3.3.8}{148, 786, 8156}

अयु॑क्त¦सूरः॑¦एत॑श‌म्¦पव॑मानः¦म॒नौ¦अधि॑ | अ॒न्तरि॑क्षेण¦यात॑वे ||

उ॒त त्या ह॒रितो॒ दश॒ सूरो᳚, अयुक्त॒ यात॑वे |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

इन्दु॒रिन्द्र॒ इति॑ ब्रु॒वन् ||{9/30}{7.1.31.4}{9.63.9}{9.3.3.9}{149, 786, 8157}

उ॒त¦त्याः¦ह॒रितः॑¦दश॑¦सूरः॑¦अ॒यु॒क्त॒¦यात॑वे | इन्दुः॑¦इन्द्रः॑¦इति॑¦ब्रु॒वन् ||

परी॒तो वा॒यवे᳚ सु॒तं गिर॒ इन्द्रा᳚य मत्स॒रम् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

अव्यो॒ वारे᳚षु सिञ्चत ||{10/30}{7.1.31.5}{9.63.10}{9.3.3.10}{150, 786, 8158}

परि॑¦इ॒तः¦वा॒यवे᳚¦सु॒त‌म्¦गिरः॑¦इन्द्रा᳚य¦म॒त्स॒र‌म् | अव्यः॑¦वारे᳚षु¦सिं॒च॒त॒ ||

पव॑मान वि॒दा र॒यिम॒स्मभ्यं᳚ सोम दु॒ष्टर᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

यो दू॒णाशो᳚ वनुष्य॒ता ||{11/30}{7.1.32.1}{9.63.11}{9.3.3.11}{151, 786, 8159}

पव॑मान¦वि॒दाः¦र॒यि‌म्¦अ॒स्मभ्य᳚‌म्¦सो॒म॒¦दु॒स्तर᳚‌म् | यः¦दुः॒ऽनशः॑¦व॒नु॒ष्य॒ता ||

अ॒भ्य॑र्ष सह॒स्रिणं᳚ र॒यिं गोम᳚न्तम॒श्विन᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

अ॒भि वाज॑मु॒त श्रवः॑ ||{12/30}{7.1.32.2}{9.63.12}{9.3.3.12}{152, 786, 8160}

अ॒भि¦अ॒र्ष॒¦स॒ह॒स्रिण᳚‌म्¦र॒यि‌म्¦गोऽम᳚न्त‌म्¦अ॒श्विन᳚‌म् | अ॒भि¦वाज᳚‌म्¦उ॒त¦श्रवः॑ ||

सोमो᳚ दे॒वो न सूर्योऽद्रि॑भिः पवते सु॒तः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

दधा᳚नः क॒लशे॒ रस᳚म् ||{13/30}{7.1.32.3}{9.63.13}{9.3.3.13}{153, 786, 8161}

सोमः॑¦दे॒वः¦न¦सूर्यः॑¦अद्रि॑ऽभिः¦प॒व॒ते॒¦सु॒तः | दधा᳚नः¦क॒लशे᳚¦रस᳚‌म् ||

ए॒ते धामा॒न्यार्या᳚ शु॒क्रा, ऋ॒तस्य॒ धार॑या |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

वाजं॒ गोम᳚न्तमक्षरन् ||{14/30}{7.1.32.4}{9.63.14}{9.3.3.14}{154, 786, 8162}

ए॒ते¦धामा᳚नि¦आर्या᳚¦शु॒क्राः¦ऋ॒तस्य॑¦धार॑या | वाज᳚‌म्¦गोऽम᳚न्त‌म्¦अ॒क्ष॒र॒न् ||

सु॒ता, इन्द्रा᳚य व॒ज्रिणे॒ सोमा᳚सो॒ दध्या᳚शिरः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

प॒वित्र॒मत्य॑क्षरन् ||{15/30}{7.1.32.5}{9.63.15}{9.3.3.15}{155, 786, 8163}

सु॒ताः¦इन्द्रा᳚य¦व॒ज्रिणे᳚¦सोमा᳚सः¦दधि॑ऽआशिरः | प॒वित्र᳚‌म्¦अति॑¦अ॒क्ष॒र॒न् ||

प्र सो᳚म॒ मधु॑मत्तमो रा॒ये, अ॑र्ष प॒वित्र॒ आ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

मदो॒ यो दे᳚व॒वीत॑मः ||{16/30}{7.1.33.1}{9.63.16}{9.3.3.16}{156, 786, 8164}

प्र¦सो॒म॒¦मधु॑मत्ऽतमः¦रा॒ये¦अ॒र्ष॒¦प॒वित्रे᳚¦आ | मदः॑¦यः¦दे॒व॒ऽवीत॑मः ||

तमी᳚ मृजन्त्या॒यवो॒ हरिं᳚ न॒दीषु॑ वा॒जिन᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

इन्दु॒मिन्द्रा᳚य मत्स॒रम् ||{17/30}{7.1.33.2}{9.63.17}{9.3.3.17}{157, 786, 8165}

त‌म्¦ई॒मिति॑¦मृ॒ज॒न्ति॒¦आ॒यवः॑¦हरि᳚‌म्¦न॒दीषु॑¦वा॒जिन᳚‌म् | इन्दु᳚‌म्¦इन्द्रा᳚य¦म॒त्स॒र‌म् ||

आ प॑वस्व॒ हिर᳚ण्यव॒दश्वा᳚वत्‌ सोम वी॒रव॑त् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

वाजं॒ गोम᳚न्त॒मा भ॑र ||{18/30}{7.1.33.3}{9.63.18}{9.3.3.18}{158, 786, 8166}

आ¦प॒व॒स्व॒¦हिर᳚ण्यऽवत्¦अश्व॑ऽवत्¦सो॒म॒¦वी॒रऽव॑त् | वाज᳚‌म्¦गोऽम᳚न्त‌म्¦आ¦भ॒र॒ ||

परि॒ वाजे॒ न वा᳚ज॒युमव्यो॒ वारे᳚षु सिञ्चत |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

इन्द्रा᳚य॒ मधु॑मत्तमम् ||{19/30}{7.1.33.4}{9.63.19}{9.3.3.19}{159, 786, 8167}

परि॑¦वाजे᳚¦न¦वा॒ज॒ऽयु‌म्¦अव्यः॑¦वारे᳚षु¦सिं॒च॒त॒ | इन्द्रा᳚य¦मधु॑मत्ऽतम‌म् ||

क॒विं मृ॑जन्ति॒ मर्ज्यं᳚ धी॒भिर्विप्रा᳚, अव॒स्यवः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

वृषा॒ कनि॑क्रदर्षति ||{20/30}{7.1.33.5}{9.63.20}{9.3.3.20}{160, 786, 8168}

क॒वि‌म्¦मृ॒ज॒न्ति॒¦मर्ज्य᳚‌म्¦धी॒भिः¦विप्राः᳚¦अ॒व॒स्यवः॑ | वृषा᳚¦कनि॑क्रत्¦अ॒र्ष॒ति॒ ||

वृष॑णं धी॒भिर॒प्तुरं॒ सोम॑मृ॒तस्य॒ धार॑या |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

म॒ती विप्राः॒ सम॑स्वरन् ||{21/30}{7.1.34.1}{9.63.21}{9.3.3.21}{161, 786, 8169}

वृष॑ण‌म्¦धी॒भिः¦अ॒प्ऽतुर᳚‌म्¦सोम᳚‌म्¦ऋ॒तस्य॑¦धार॑या | म॒ती¦विप्राः᳚¦स‌म्¦अ॒स्व॒र॒न् ||

पव॑स्व देवायु॒षगिन्द्रं᳚ गच्छतु ते॒ मदः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

वा॒युमा रो᳚ह॒ धर्म॑णा ||{22/30}{7.1.34.2}{9.63.22}{9.3.3.22}{162, 786, 8170}

पव॑स्व¦दे॒व॒¦आ॒यु॒षक्¦इन्द्र᳚‌म्¦ग॒च्छ॒तु॒¦ते॒¦मदः॑ | वा॒यु‌म्¦आ¦रो॒ह॒¦धर्म॑णा ||

पव॑मान॒ नि तो᳚शसे र॒यिं सो᳚म श्र॒वाय्य᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

प्रि॒यः स॑मु॒द्रमा वि॑श ||{23/30}{7.1.34.3}{9.63.23}{9.3.3.23}{163, 786, 8171}

पव॑मान¦नि¦तो॒श॒से॒¦र॒यि‌म्¦सो॒म॒¦श्र॒वाय्य᳚‌म् | प्रि॒यः¦स॒मु॒द्र‌म्¦आ¦वि॒श॒ ||

अ॒प॒घ्नन्‌ प॑वसे॒ मृधः॑ क्रतु॒वित्‌ सो᳚म मत्स॒रः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

नु॒दस्वादे᳚वयुं॒ जन᳚म् ||{24/30}{7.1.34.4}{9.63.24}{9.3.3.24}{164, 786, 8172}

अ॒प॒ऽघ्नन्¦प॒व॒से॒¦मृधः॑¦क्र॒तु॒ऽवित्¦सो॒म॒¦म॒त्स॒रः | नु॒दस्व॑¦अदे᳚वऽयु‌म्¦जन᳚‌म् ||

पव॑माना, असृक्षत॒ सोमाः᳚ शु॒क्रास॒ इन्द॑वः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

अ॒भि विश्वा᳚नि॒ काव्या᳚ ||{25/30}{7.1.34.5}{9.63.25}{9.3.3.25}{165, 786, 8173}

पव॑मानाः¦अ॒सृ॒क्ष॒त॒¦सोमाः᳚¦शु॒क्रासः॑¦इन्द॑वः | अ॒भि¦विश्वा᳚नि¦काव्या᳚ ||

पव॑मानास आ॒शवः॑ शु॒भ्रा, अ॑सृग्र॒मिन्द॑वः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

घ्नन्तो॒ विश्वा॒, अप॒ द्विषः॑ ||{26/30}{7.1.35.1}{9.63.26}{9.3.3.26}{166, 786, 8174}

पव॑मानासः¦आ॒शवः॑¦शु॒भ्राः¦अ॒सृ॒ग्र॒‌म्¦इन्द॑वः | घ्नन्तः॑¦विश्वाः᳚¦अप॑¦द्विषः॑ ||

पव॑माना दि॒वस्पर्य॒न्तरि॑क्षादसृक्षत |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

पृ॒थि॒व्या, अधि॒ सान॑वि ||{27/30}{7.1.35.2}{9.63.27}{9.3.3.27}{167, 786, 8175}

पव॑मानाः¦दि॒वः¦परि॑¦अ॒न्तरि॑क्षात्¦अ॒सृ॒क्ष॒त॒ | पृ॒थि॒व्याः¦अधि॑¦सान॑वि ||

पु॒ना॒नः सो᳚म॒ धार॒येन्दो॒ विश्वा॒, अप॒ स्रिधः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

ज॒हि रक्षां᳚सि सुक्रतो ||{28/30}{7.1.35.3}{9.63.28}{9.3.3.28}{168, 786, 8176}

पु॒ना॒नः¦सो॒म॒¦धार॑या¦इन्दो॒ इति॑¦विश्वाः᳚¦अप॑¦स्रिधः॑ | ज॒हि¦रक्षां᳚सि¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो ||

अ॒प॒घ्नन्‌ त्सो᳚म र॒क्षसो॒ऽभ्य॑र्ष॒ कनि॑क्रदत् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ||{29/30}{7.1.35.4}{9.63.29}{9.3.3.29}{169, 786, 8177}

अ॒प॒ऽघ्नन्¦सो॒म॒¦र॒क्षसः॑¦अ॒भि¦अ॒र्ष॒¦कनि॑क्रदत् | द्यु॒ऽमन्त᳚‌म्¦शुष्म᳚‌म्¦उ॒त्ऽत॒म‌म् ||

अ॒स्मे वसू᳚नि धारय॒ सोम॑ दि॒व्यानि॒ पार्थि॑वा |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

इन्दो॒ विश्वा᳚नि॒ वार्या᳚ ||{30/30}{7.1.35.5}{9.63.30}{9.3.3.30}{170, 786, 8178}

अ॒स्मे इति॑¦वसू᳚नि¦धा॒र॒य॒¦सोम॑¦दि॒व्यानि॑¦पार्थि॑वा | इन्दो॒ इति॑¦विश्वा᳚नि¦वार्या᳚ ||

[21] वृषासोमेति त्रिंशदृचस्यसूक्तस्य मारीचः कश्यपः पवमानसोमोगायत्री |
वृषा᳚ सोम द्यु॒माँ, अ॑सि॒ वृषा᳚ देव॒ वृष᳚व्रतः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

वृषा॒ धर्मा᳚णि दधिषे ||{1/30}{7.1.36.1}{9.64.1}{9.3.4.1}{171, 787, 8179}

वृषा᳚¦सो॒म॒¦द्यु॒ऽमान्¦अ॒सि॒¦वृषा᳚¦दे॒व॒¦वृष॑ऽव्रतः | वृषा᳚¦धर्मा᳚णि¦द॒धि॒षे॒ ||

वृष्ण॑स्ते॒ वृष्ण्यं॒ शवो॒ वृषा॒ वनं॒ वृषा॒ मदः॑ |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

स॒त्यं वृ॑ष॒न्‌ वृषेद॑सि ||{2/30}{7.1.36.2}{9.64.2}{9.3.4.2}{172, 787, 8180}

वृष्णः॑¦ते॒¦वृष्ण्य᳚‌म्¦शवः॑¦वृषा᳚¦वन᳚‌म्¦वृषा᳚¦मदः॑ | स॒त्य‌म्¦वृ॒ष॒न्¦वृषा᳚¦इत्¦अ॒सि॒ ||

अश्वो॒ न च॑क्रदो॒ वृषा॒ सं गा, इ᳚न्दो॒ समर्व॑तः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

वि नो᳚ रा॒ये दुरो᳚ वृधि ||{3/30}{7.1.36.3}{9.64.3}{9.3.4.3}{173, 787, 8181}

अश्वः॑¦न¦च॒क्र॒दः॒¦वृषा᳚¦स‌म्¦गाः¦इ॒न्दो॒ इति॑¦स‌म्¦अर्व॑तः | वि¦नः॒¦रा॒ये¦दुरः॑¦वृ॒धि॒ ||

असृ॑क्षत॒ प्र वा॒जिनो᳚ ग॒व्या सोमा᳚सो, अश्व॒या |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

शु॒क्रासो᳚ वीर॒याशवः॑ ||{4/30}{7.1.36.4}{9.64.4}{9.3.4.4}{174, 787, 8182}

असृ॑क्षत¦प्र¦वा॒जिनः॑¦ग॒व्या¦सोमा᳚सः¦अ॒श्व॒ऽया | शु॒क्रासः॑¦वी॒र॒ऽया¦आ॒शवः॑ ||

शु॒म्भमा᳚ना, ऋता॒युभि᳚र्मृ॒ज्यमा᳚ना॒ गभ॑स्त्योः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

पव᳚न्ते॒ वारे᳚, अ॒व्यये᳚ ||{5/30}{7.1.36.5}{9.64.5}{9.3.4.5}{175, 787, 8183}

शु॒म्भमा᳚नाः¦ऋ॒त॒युऽभिः॑¦मृ॒ज्यमा᳚नाः¦गभ॑स्त्योः | पव᳚न्ते¦वारे᳚¦अ॒व्यये᳚ ||

ते विश्वा᳚ दा॒शुषे॒ वसु॒ सोमा᳚ दि॒व्यानि॒ पार्थि॑वा |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

पव᳚न्ता॒मान्तरि॑क्ष्या ||{6/30}{7.1.37.1}{9.64.6}{9.3.4.6}{176, 787, 8184}

ते¦विश्वा᳚¦दा॒शुषे᳚¦वसु॑¦सोमाः᳚¦दि॒व्यानि॑¦पार्थि॑वा | पव᳚न्ता‌म्¦आ¦अ॒न्तरि॑क्ष्या ||

पव॑मानस्य विश्ववि॒त् प्र ते॒ सर्गा᳚, असृक्षत |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

सूर्य॑स्येव॒ न र॒श्मयः॑ ||{7/30}{7.1.37.2}{9.64.7}{9.3.4.7}{177, 787, 8185}

पव॑मानस्य¦वि॒श्व॒ऽवि॒त्¦प्र¦ते॒¦सर्गाः᳚¦अ॒सृ॒क्ष॒त॒ | सूर्य॑स्यऽ‌इव¦न¦र॒श्मयः॑ ||

के॒तुं कृ॒ण्वन्‌ दि॒वस्परि॒ विश्वा᳚ रू॒पाभ्य॑र्षसि |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

स॒मु॒द्रः सो᳚म पिन्वसे ||{8/30}{7.1.37.3}{9.64.8}{9.3.4.8}{178, 787, 8186}

के॒तु‌म्¦कृ॒ण्वन्¦दि॒वः¦परि॑¦विश्वा᳚¦रू॒पा¦अ॒भि¦अ॒र्ष॒सि॒ | स॒मु॒द्रः¦सो॒म॒¦पि॒न्व॒से॒ ||

हि॒न्वा॒नो वाच॑मिष्यसि॒ पव॑मान॒ विध᳚र्मणि |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

अक्रा᳚न्‌ दे॒वो न सूर्यः॑ ||{9/30}{7.1.37.4}{9.64.9}{9.3.4.9}{179, 787, 8187}

हि॒न्वा॒नः¦वाच᳚‌म्¦इ॒ष्य॒सि॒¦पव॑मान¦विऽध᳚र्मणि | अक्रा᳚न्¦दे॒वः¦न¦सूर्यः॑ ||

इन्दुः॑ पविष्ट॒ चेत॑नः प्रि॒यः क॑वी॒नां म॒ती |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

सृ॒जदश्वं᳚ र॒थीरि॑व ||{10/30}{7.1.37.5}{9.64.10}{9.3.4.10}{180, 787, 8188}

इन्दुः॑¦प॒वि॒ष्ट॒¦चेत॑नः¦प्रि॒यः¦क॒वी॒ना‌म्¦म॒ती | सृ॒जत्¦अश्व᳚‌म्¦र॒थीःऽ‌इ᳚व ||

ऊ॒र्मिर्यस्ते᳚ प॒वित्र॒ आ दे᳚वा॒वीः प॒र्यक्ष॑रत् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

सीद᳚न्नृ॒तस्य॒ योनि॒मा ||{11/30}{7.1.38.1}{9.64.11}{9.3.4.11}{181, 787, 8189}

ऊ॒र्मिः¦यः¦ते॒¦प॒वित्रे᳚¦आ¦द॒व॒।आ॒वीः¦प॒रि॒।आक्ष॑रत् | सीद॑न्¦ऋ॒तस्य॑¦योनि᳚‌म्¦आ ||

स नो᳚, अर्ष प॒वित्र॒ आ मदो॒ यो दे᳚व॒वीत॑मः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

इन्द॒विन्द्रा᳚य पी॒तये᳚ ||{12/30}{7.1.38.2}{9.64.12}{9.3.4.12}{182, 787, 8190}

सः¦नः॒¦अ॒र्ष॒¦प॒वित्रे᳚¦आ¦मदः॑¦यः¦दे॒व॒ऽवीत॑मः | इन्दो॒ इति॑¦इन्द्रा᳚य¦पी॒तये᳚ ||

इ॒षे प॑वस्व॒ धार॑या मृ॒ज्यमा᳚नो मनी॒षिभिः॑ |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

इन्दो᳚ रु॒चाभि गा, इ॑हि ||{13/30}{7.1.38.3}{9.64.13}{9.3.4.13}{183, 787, 8191}

इ॒षे¦प॒व॒स्व॒¦धार॑या¦मृ॒ज्यमा᳚नः¦म॒नी॒षिऽभिः॑ | इन्दो॒ इति॑¦रु॒चा¦अ॒भि¦गाः¦इ॒हि॒ ||

पु॒ना॒नो वरि॑वस्कृ॒ध्यूर्जं॒ जना᳚य गिर्वणः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

हरे᳚ सृजा॒न आ॒शिर᳚म् ||{14/30}{7.1.38.4}{9.64.14}{9.3.4.14}{184, 787, 8192}

पु॒ना॒नः¦वरि॑वः¦कृ॒धि॒¦ऊर्ज᳚‌म्¦जना᳚य¦गि॒र्व॒णः॒ | हरे᳚¦सृ॒जा॒नः¦आ॒ऽशिर᳚‌म् ||

पु॒ना॒नो दे॒ववी᳚तय॒ इन्द्र॑स्य याहि निष्कृ॒तम् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

द्यु॒ता॒नो वा॒जिभि᳚र्य॒तः ||{15/30}{7.1.38.5}{9.64.15}{9.3.4.15}{185, 787, 8193}

पु॒ना॒नः¦दे॒वऽवी᳚तये¦इन्द्र॑स्य¦या॒हि॒¦निः॒ऽकृ॒त‌म् | द्यु॒ता॒नः¦वा॒जिऽभिः॑¦य॒तः ||

प्र हि᳚न्वा॒नास॒ इन्द॒वोऽच्छा᳚ समु॒द्रमा॒शवः॑ |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

धि॒या जू॒ता, अ॑सृक्षत ||{16/30}{7.1.39.1}{9.64.16}{9.3.4.16}{186, 787, 8194}

प्र¦हि॒न्वा॒नासः॑¦इन्द॑वः¦अच्छ॑¦स॒मु॒द्र‌म्¦आ॒शवः॑ | धि॒या¦जू॒ताः¦अ॒सृ॒क्ष॒त॒ ||

म॒र्मृ॒जा॒नास॑ आ॒यवो॒ वृथा᳚ समु॒द्रमिन्द॑वः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

अग्म᳚न्नृ॒तस्य॒ योनि॒मा ||{17/30}{7.1.39.2}{9.64.17}{9.3.4.17}{187, 787, 8195}

म॒र्मृ॒जा॒नासः॑¦आ॒यवः॑¦वृथा᳚¦स॒मु॒द्र‌म्¦इन्द॑वः | अग्म॑न्¦ऋ॒तस्य॑¦योनि᳚‌म्¦आ ||

परि॑ णो याह्यस्म॒युर्विश्वा॒ वसू॒न्योज॑सा |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

पा॒हि नः॒ शर्म॑ वी॒रव॑त् ||{18/30}{7.1.39.3}{9.64.18}{9.3.4.18}{188, 787, 8196}

परि॑¦नः॒¦या॒हि॒¦अ॒स्म॒ऽयुः¦विश्वा᳚¦वसू᳚नि¦ओज॑सा | पा॒हि¦नः॒¦शर्म॑¦वी॒रऽव॑त् ||

मिमा᳚ति॒ वह्नि॒रेत॑शः प॒दं यु॑जा॒न ऋक्व॑भिः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

प्र यत्‌ स॑मु॒द्र आहि॑तः ||{19/30}{7.1.39.4}{9.64.19}{9.3.4.19}{189, 787, 8197}

मिमा᳚ति¦वह्निः॑¦एत॑शः¦प॒द‌म्¦यु॒जा॒नः¦ऋक्व॑ऽभिः | प्र¦यत्¦स॒मु॒द्रे¦आऽहि॑तः ||

आ यद्‌ योनिं᳚ हिर॒ण्यय॑मा॒शुरृ॒तस्य॒ सीद॑ति |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

जहा॒त्यप्र॑चेतसः ||{20/30}{7.1.39.5}{9.64.20}{9.3.4.20}{190, 787, 8198}

आ¦यत्¦योनि᳚‌म्¦हि॒र॒ण्यय᳚‌म्¦आ॒शुः¦ऋ॒तस्य॑¦सीद॑ति | जहा᳚ति¦अप्र॑ऽचेतसः ||

अ॒भि वे॒ना, अ॑नूष॒तेय॑क्षन्ति॒ प्रचे᳚तसः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

मज्ज॒न्त्यवि॑चेतसः ||{21/30}{7.1.40.1}{9.64.21}{9.3.4.21}{191, 787, 8199}

अ॒भि¦वे॒नाः¦अ॒नू॒ष॒त॒¦इय॑क्षन्ति¦प्रऽचे᳚तसः | मज्ज᳚न्ति¦अवि॑ऽचेतसः ||

इन्द्रा᳚येन्दो म॒रुत्व॑ते॒ पव॑स्व॒ मधु॑मत्तमः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

ऋ॒तस्य॒ योनि॑मा॒सद᳚म् ||{22/30}{7.1.40.2}{9.64.22}{9.3.4.22}{192, 787, 8200}

इन्द्रा᳚य¦इ॒न्दो॒ इति॑¦म॒रुत्व॑ते¦पव॑स्व¦मधु॑मत्ऽतमः | ऋ॒तस्य॑¦योनि᳚‌म्¦आ॒ऽसद᳚‌म् ||

तं त्वा॒ विप्रा᳚ वचो॒विदः॒ परि॑ ष्कृण्वन्ति वे॒धसः॑ |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

सं त्वा᳚ मृजन्त्या॒यवः॑ ||{23/30}{7.1.40.3}{9.64.23}{9.3.4.23}{193, 787, 8201}

त‌म्¦त्वा॒¦विप्राः᳚¦व॒चः॒ऽविदः॑¦परि॑¦कृ॒ण्व॒न्ति॒¦वे॒धसः॑ | स‌म्¦त्वा॒¦मृ॒ज॒न्ति॒¦आ॒यवः॑ ||

रसं᳚ ते मि॒त्रो, अ᳚र्य॒मा पिब᳚न्ति॒ वरु॑णः कवे |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

पव॑मानस्य म॒रुतः॑ ||{24/30}{7.1.40.4}{9.64.24}{9.3.4.24}{194, 787, 8202}

रस᳚‌म्¦ते॒¦मि॒त्रः¦अ॒र्य॒मा¦पिब᳚न्ति¦वरु॑णः¦क॒वे॒ | पव॑मानस्य¦म॒रुतः॑ ||

त्वं सो᳚म विप॒श्चितं᳚ पुना॒नो वाच॑मिष्यसि |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

इन्दो᳚ स॒हस्र॑भर्णसम् ||{25/30}{7.1.40.5}{9.64.25}{9.3.4.25}{195, 787, 8203}

त्व‌म्¦सो॒म॒¦वि॒पः॒ऽचित᳚‌म्¦पु॒ना॒नः¦वाच᳚‌म्¦इ॒ष्य॒सि॒ | इन्दो॒ इति॑¦स॒हस्र॑ऽभर्णस‌म् ||

उ॒तो स॒हस्र॑भर्णसं॒ वाचं᳚ सोम मख॒स्युव᳚म् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

पु॒ना॒न इ᳚न्द॒वा भ॑र ||{26/30}{7.1.41.1}{9.64.26}{9.3.4.26}{196, 787, 8204}

उ॒तो इति॑¦स॒हस्र॑ऽभर्णस‌म्¦वाच᳚‌म्¦सो॒म॒¦म॒ख॒स्युव᳚‌म् | पु॒ना॒नः¦इ॒न्दो॒ इति॑¦आ¦भ॒र॒ ||

पु॒ना॒न इ᳚न्दवेषां॒ पुरु॑हूत॒ जना᳚नाम् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

प्रि॒यः स॑मु॒द्रमा वि॑श ||{27/30}{7.1.41.2}{9.64.27}{9.3.4.27}{197, 787, 8205}

पु॒ना॒नः¦इ॒न्दो॒ इति॑¦ए॒षा॒‌म्¦पुरु॑ऽहूत¦जना᳚ना‌म् | प्रि॒यः¦स॒मु॒द्र‌म्¦आ¦वि॒श॒ ||

दवि॑द्युतत्या रु॒चा प॑रि॒ष्टोभ᳚न्त्या कृ॒पा |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

सोमाः᳚ शु॒क्रा गवा᳚शिरः ||{28/30}{7.1.41.3}{9.64.28}{9.3.4.28}{198, 787, 8206}

दवि॑द्युतत्या¦रु॒चा¦प॒रि॒ऽस्तोभ᳚न्त्या¦कृ॒पा | सोमाः᳚¦शु॒क्राः¦गोऽआ᳚शिरः ||

हि॒न्वा॒नो हे॒तृभि᳚र्य॒त आ वाजं᳚ वा॒ज्य॑क्रमीत् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

सीद᳚न्तो व॒नुषो᳚ यथा ||{29/30}{7.1.41.4}{9.64.29}{9.3.4.29}{199, 787, 8207}

हि॒न्वा॒नः¦हे॒तृऽभिः॑¦य॒तः¦आ¦वाज᳚‌म्¦वा॒जी¦अ॒क्र॒मी॒त् | सीद᳚न्तः¦व॒नुषः॑¦य॒था॒ ||

ऋ॒धक्‌ सो᳚म स्व॒स्तये᳚ संजग्मा॒नो दि॒वः क॒विः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

पव॑स्व॒ सूर्यो᳚ दृ॒शे ||{30/30}{7.1.41.5}{9.64.30}{9.3.4.30}{200, 787, 8208}

ऋ॒धक्¦सो॒म॒¦स्व॒स्तये᳚¦स॒‌म्ऽज॒ग्मा॒नः¦दि॒वः¦क॒विः | पव॑स्व¦सूर्यः॑¦दृ॒शे ||

[22] हिन्वन्तीति त्रिंशदृचस्य सूक्तस्य वारुणिर्भृगुः पवमानसोमोगायत्री | (अत्रभार्गवोजमदग्निः पाक्षिकः) (पवमान पारायण चतुर्थोध्यायः)
हि॒न्वन्ति॒ सूर॒मुस्र॑यः॒ स्वसा᳚रो जा॒मय॒स्पति᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

म॒हामिन्दुं᳚ मही॒युवः॑ ||{1/30}{7.2.1.1}{9.65.1}{9.3.5.1}{201, 788, 8209}

हि॒न्वन्ति॑¦सूर᳚‌म्¦उस्र॑यः¦स्वसा᳚रः¦जा॒मयः॑¦पति᳚‌म् | म॒हा‌म्¦इन्दु᳚‌म्¦म॒ही॒युवः॑ ||

पव॑मान रु॒चारु॑चा दे॒वो दे॒वेभ्य॒स्परि॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

विश्वा॒ वसू॒न्या वि॑श ||{2/30}{7.2.1.2}{9.65.2}{9.3.5.2}{202, 788, 8210}

पव॑मान¦रु॒चाऽरु॑चा¦दे॒वः¦दे॒वेभ्यः॑¦परि॑ | विश्वा᳚¦वसू᳚नि¦आ¦वि॒श॒ ||

आ प॑वमान सुष्टु॒तिं वृ॒ष्टिं दे॒वेभ्यो॒ दुवः॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

इ॒षे प॑वस्व सं॒यत᳚म् ||{3/30}{7.2.1.3}{9.65.3}{9.3.5.3}{203, 788, 8211}

आ¦प॒व॒मा॒न॒¦सु॒ऽस्तु॒ति‌म्¦वृ॒ष्टि‌म्¦दे॒वेभ्यः॑¦दुवः॑ | इ॒षे¦प॒व॒स्व॒¦स॒‌म्ऽयत᳚‌म् ||

वृषा॒ ह्यसि॑ भा॒नुना᳚ द्यु॒मन्तं᳚ त्वा हवामहे |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

पव॑मान स्वा॒ध्यः॑ ||{4/30}{7.2.1.4}{9.65.4}{9.3.5.4}{204, 788, 8212}

वृषा᳚¦हि¦असि॑¦भा॒नुना᳚¦द्यु॒ऽमन्त᳚‌म्¦त्वा॒¦ह॒वा॒म॒हे॒ | पव॑मान¦सु॒ऽआ॒ध्यः॑ ||

आ प॑वस्व सु॒वीर्यं॒ मन्द॑मानः स्वायुध |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

इ॒हो ष्वि᳚न्द॒वा ग॑हि ||{5/30}{7.2.1.5}{9.65.5}{9.3.5.5}{205, 788, 8213}

आ¦पा॒व॒स्व॒¦सु॒ऽवीर्य᳚‌म्¦मन्द॑मानः¦सु॒ऽआ॒यु॒ध॒ | इ॒हो इति॑¦सु¦इ॒न्दो॒ इति॑¦आ¦ग॒हि॒ ||

यद॒द्भिः प॑रिषि॒च्यसे᳚ मृ॒ज्यमा᳚नो॒ गभ॑स्त्योः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

द्रुणा᳚ स॒धस्थ॑मश्नुषे ||{6/30}{7.2.2.1}{9.65.6}{9.3.5.6}{206, 788, 8214}

यत्¦अ॒त्ऽभिः¦प॒रि॒ऽसि॒च्यसे᳚¦मृ॒ज्यमा᳚नः¦गभ॑स्त्योः | द्रुणा᳚¦स॒धऽस्थ᳚‌म्¦अ॒श्नु॒षे॒ ||

प्र सोमा᳚य व्यश्व॒वत् पव॑मानाय गायत |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

म॒हे स॒हस्र॑चक्षसे ||{7/30}{7.2.2.2}{9.65.7}{9.3.5.7}{207, 788, 8215}

प्र¦सोमा᳚य¦व्य॒श्व॒ऽवत्¦पव॑मानाय¦गा॒य॒त॒ | म॒हे¦स॒हस्र॑ऽचक्षसे ||

यस्य॒ वर्णं᳚ मधु॒श्चुतं॒ हरिं᳚ हि॒न्वन्त्यद्रि॑भिः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

इन्दु॒मिन्द्रा᳚य पी॒तये᳚ ||{8/30}{7.2.2.3}{9.65.8}{9.3.5.8}{208, 788, 8216}

यस्य॑¦वर्ण᳚‌म्¦म॒धु॒ऽश्चुत᳚‌म्¦हरि᳚‌म्¦हि॒न्वन्ति॑¦अद्रि॑ऽभिः | इन्दु᳚‌म्¦इन्द्रा᳚य¦पी॒तये᳚ ||

तस्य॑ ते वा॒जिनो᳚ व॒यं विश्वा॒ धना᳚नि जि॒ग्युषः॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

स॒खि॒त्वमा वृ॑णीमहे ||{9/30}{7.2.2.4}{9.65.9}{9.3.5.9}{209, 788, 8217}

तस्य॑¦ते॒¦वा॒जिनः॑¦व॒य‌म्¦विश्वा᳚¦धना᳚नि¦जि॒ग्युषः॑ | स॒खि॒ऽत्व‌म्¦आ¦वृ॒णी॒म॒हे॒ ||

वृषा᳚ पवस्व॒ धार॑या म॒रुत्व॑ते च मत्स॒रः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

विश्वा॒ दधा᳚न॒ ओज॑सा ||{10/30}{7.2.2.5}{9.65.10}{9.3.5.10}{210, 788, 8218}

वृषा᳚¦प॒व॒स्व॒¦धार॑या¦म॒रुत्व॑ते¦च॒¦म॒त्स॒रः | विश्वा᳚¦दधा᳚नः¦ओज॑सा ||

तं त्वा᳚ ध॒र्तार॑मो॒ण्यो॒३॑(ओः॒) पव॑मान स्व॒र्दृश᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

हि॒न्वे वाजे᳚षु वा॒जिन᳚म् ||{11/30}{7.2.3.1}{9.65.11}{9.3.5.11}{211, 788, 8219}

त‌म्¦त्वा॒¦ध॒र्तार᳚‌म्¦ओ॒ण्योः᳚¦पव॑मान¦स्वः॒ऽदृश᳚‌म् | हि॒न्वे¦वाजे᳚षु¦वा॒जिन᳚‌म् ||

अ॒या चि॒त्तो वि॒पानया॒ हरिः॑ पवस्व॒ धार॑या |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

युजं॒ वाजे᳚षु चोदय ||{12/30}{7.2.3.2}{9.65.12}{9.3.5.12}{212, 788, 8220}

अ॒या¦चि॒त्तः¦वि॒पा¦अ॒नया᳚¦हरिः॑¦प॒व॒स्व॒¦धार॑या | युज᳚‌म्¦वाजे᳚षु¦चो॒द॒य॒ ||

आ न॑ इन्दो म॒हीमिषं॒ पव॑स्व वि॒श्वद॑र्शतः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

अ॒स्मभ्यं᳚ सोम गातु॒वित् ||{13/30}{7.2.3.3}{9.65.13}{9.3.5.13}{213, 788, 8221}

आ¦नः॒¦इ॒न्दो॒ इति॑¦म॒ही‌म्¦इष᳚‌म्¦पव॑स्व¦वि॒श्वऽद॑र्शतः | अ॒स्मभ्य᳚‌म्¦सो॒म॒¦गा॒तु॒ऽवित् ||

आ क॒लशा᳚, अनूष॒तेन्दो॒ धारा᳚भि॒रोज॑सा |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

एन्द्र॑स्य पी॒तये᳚ विश ||{14/30}{7.2.3.4}{9.65.14}{9.3.5.14}{214, 788, 8222}

आ¦क॒लशाः᳚¦अ॒नू॒ष॒त॒¦इन्दो॒ इति॑¦धारा᳚भिः¦ओज॑सा | आ¦इन्द्र॑स्य¦पी॒तये᳚¦वि॒श॒ ||

यस्य॑ ते॒ मद्यं॒ रसं᳚ ती॒व्रं दु॒हन्त्यद्रि॑भिः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

स प॑वस्वाभिमाति॒हा ||{15/30}{7.2.3.5}{9.65.15}{9.3.5.15}{215, 788, 8223}

यस्य॑¦ते॒¦मद्य᳚‌म्¦रस᳚‌म्¦ती॒व्र‌म्¦दु॒हन्ति॑¦अद्रि॑ऽभिः | सः¦प॒व॒स्व॒¦अ॒भि॒मा॒ति॒ऽहा ||

राजा᳚ मे॒धाभि॑रीयते॒ पव॑मानो म॒नावधि॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

अ॒न्तरि॑क्षेण॒ यात॑वे ||{16/30}{7.2.4.1}{9.65.16}{9.3.5.16}{216, 788, 8224}

राजा᳚¦मे॒धाभिः॑¦ई॒य॒ते॒¦पव॑मानः¦म॒नौ¦अधि॑ | अ॒न्तरि॑क्षेण¦यात॑वे ||

आ न॑ इन्दो शत॒ग्विनं॒ गवां॒ पोषं॒ स्वश्व्य᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

वहा॒ भग॑त्तिमू॒तये᳚ ||{17/30}{7.2.4.2}{9.65.17}{9.3.5.17}{217, 788, 8225}

आ¦नः॒¦इ॒न्दो॒ इति॑¦श॒त॒ऽग्विन᳚‌म्¦गवा᳚‌म्¦पोष᳚‌म्¦सु॒।आश्व्य᳚‌म् | वह॑¦भग॑त्ति‌म्¦ऊ॒तये᳚ ||

आ नः॑ सोम॒ सहो॒ जुवो᳚ रू॒पं न वर्च॑से भर |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

सु॒ष्वा॒णो दे॒ववी᳚तये ||{18/30}{7.2.4.3}{9.65.18}{9.3.5.18}{218, 788, 8226}

आ¦नः॒¦सो॒म॒¦सहः॑¦जुवः॑¦रू॒प‌म्¦न¦वर्च॑से¦भ॒र॒ | सु॒स्वा॒नः¦दे॒वऽवी᳚तये ||

अर्षा᳚ सोम द्यु॒मत्त॑मो॒ऽभि द्रोणा᳚नि॒ रोरु॑वत् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

सीद᳚ञ्छ्ये॒नो न योनि॒मा ||{19/30}{7.2.4.4}{9.65.19}{9.3.5.19}{219, 788, 8227}

अर्ष॑¦सो॒म॒¦द्यु॒मत्ऽत॑मः¦अ॒भि¦द्रोणा᳚नि¦रोरु॑वत् | सीद॑न्¦श्ये॒नः¦न¦योनि᳚‌म्¦आ ||

अ॒प्सा, इन्द्रा᳚य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

सोमो᳚, अर्षति॒ विष्ण॑वे ||{20/30}{7.2.4.5}{9.65.20}{9.3.5.20}{220, 788, 8228}

अ॒प्साः¦इन्द्रा᳚य¦वा॒यवे᳚¦वरु॑णाय¦म॒रुत्ऽभ्यः॑ | सोमः॑¦अ॒र्ष॒ति॒¦विष्ण॑वे ||

इषं᳚ तो॒काय॑ नो॒ दध॑द॒स्मभ्यं᳚ सोम वि॒श्वतः॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

आ प॑वस्व सह॒स्रिण᳚म् ||{21/30}{7.2.5.1}{9.65.21}{9.3.5.21}{221, 788, 8229}

इष᳚‌म्¦तो॒काय॑¦नः॒¦दध॑त्¦अ॒स्मभ्य᳚‌म्¦सो॒म॒¦वि॒श्वतः॑ | आ¦प॒व॒स्व॒¦स॒ह॒स्रिण᳚‌म् ||

ये सोमा᳚सः परा॒वति॒ ये, अ᳚र्वा॒वति॑ सुन्वि॒रे |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

ये वा॒दः श᳚र्य॒णाव॑ति ||{22/30}{7.2.5.2}{9.65.22}{9.3.5.22}{222, 788, 8230}

ये¦सोमा᳚सः¦प॒रा॒ऽवति॑¦ये¦अ॒र्वा॒ऽवति॑¦सु॒न्वि॒रे | ये¦वा॒¦अ॒दः¦श॒र्य॒णाऽव॑ति ||

य आ᳚र्जी॒केषु॒ कृत्व॑सु॒ ये मध्ये᳚ प॒स्त्या᳚नाम् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

ये वा॒ जने᳚षु प॒ञ्चसु॑ ||{23/30}{7.2.5.3}{9.65.23}{9.3.5.23}{223, 788, 8231}

ये¦आ॒र्जी॒केषु॑¦कृत्व॑ऽसु¦ये¦मध्ये᳚¦प॒स्त्या᳚ना‌म् | ये¦वा॒¦जने᳚षु¦पं॒चऽसु॑ ||

ते नो᳚ वृ॒ष्टिं दि॒वस्परि॒ पव᳚न्ता॒मा सु॒वीर्य᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

सु॒वा॒ना दे॒वास॒ इन्द॑वः ||{24/30}{7.2.5.4}{9.65.24}{9.3.5.24}{224, 788, 8232}

ते¦नः॒¦वृ॒ष्टि‌म्¦दि॒वः¦परि॑¦पव᳚न्ता‌म्¦आ¦सु॒ऽवीर्य᳚‌म् | सु॒वा॒नाः¦दे॒वासः॑¦इन्द॑वः ||

पव॑ते हर्य॒तो हरि॑र्गृणा॒नो ज॒मद॑ग्निना |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

हि॒न्वा॒नो गोरधि॑ त्व॒चि ||{25/30}{7.2.5.5}{9.65.25}{9.3.5.25}{225, 788, 8233}

पव॑ते¦ह॒र्य॒तः¦हरिः॑¦गृ॒णा॒नः¦ज॒मत्।आ॑ग्निना | हि॒न्वा॒नः¦गोः¦अधि॑¦त्व॒चि ||

प्र शु॒क्रासो᳚ वयो॒जुवो᳚ हिन्वा॒नासो॒ न सप्त॑यः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

श्री॒णा॒ना, अ॒प्सु मृ᳚ञ्जत ||{26/30}{7.2.6.1}{9.65.26}{9.3.5.26}{226, 788, 8234}

प्र¦शु॒क्रासः॑¦व॒यः॒ऽजुवः॑¦हि॒न्वा॒नासः॑¦न¦सप्त॑यः | श्री॒णा॒नाः¦अ॒प्ऽसु¦मृं॒ज॒त॒ ||

तं त्वा᳚ सु॒तेष्वा॒भुवो᳚ हिन्वि॒रे दे॒वता᳚तये |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

स प॑वस्वा॒नया᳚ रु॒चा ||{27/30}{7.2.6.2}{9.65.27}{9.3.5.27}{227, 788, 8235}

त‌म्¦त्वा॒¦सु॒तेषु॑¦आ॒ऽभुवः॑¦हि॒न्वि॒रे¦दे॒वऽता᳚तये | सः¦प॒व॒स्व॒¦अ॒नया᳚¦रु॒चा ||

आ ते॒ दक्षं᳚ मयो॒भुवं॒ वह्नि॑म॒द्या वृ॑णीमहे |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

पान्त॒मा पु॑रु॒स्पृह᳚म् ||{28/30}{7.2.6.3}{9.65.28}{9.3.5.28}{228, 788, 8236}

आ¦ते॒¦दक्ष᳚‌म्¦म॒यः॒ऽभुव᳚‌म्¦वह्नि᳚‌म्¦अ॒द्य¦वृ॒णी॒म॒हे॒ | पान्त᳚‌म्¦आ¦पु॒रु॒ऽस्पृह᳚‌म् ||

आ म॒न्द्रमा वरे᳚ण्य॒मा विप्र॒मा म॑नी॒षिण᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

पान्त॒मा पु॑रु॒स्पृह᳚म् ||{29/30}{7.2.6.4}{9.65.29}{9.3.5.29}{229, 788, 8237}

आ¦म॒न्द्र‌म्¦आ¦वरे᳚ण्य‌म्¦आ¦विप्र᳚‌म्¦आ¦म॒नी॒षिण᳚‌म् | पान्त᳚‌म्¦आ¦पु॒रु॒ऽस्पृह᳚‌म् ||

आ र॒यिमा सु॑चे॒तुन॒मा सु॑क्रतो त॒नूष्वा |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

पान्त॒मा पु॑रु॒स्पृह᳚म् ||{30/30}{7.2.6.5}{9.65.30}{9.3.5.30}{230, 788, 8238}

आ¦र॒यि‌म्¦आ¦सु॒ऽचे॒तुन᳚‌म्¦आ¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो¦त॒नूषु॑¦आ | पान्त᳚‌म्¦आ¦पु॒रु॒ऽस्पृह᳚‌म् ||

[23] पवस्वेति त्रिंशदृचस्य सूक्तस्य शतंवैखानसाः पवमानसोम एकोनविंश्यादितिसृणामग्निः पवमानोगायत्र्यष्टादश्यनुष्टुप् (शतं वैखानसाएतेस्वायंभुवाः अतएषांगोत्रंनास्तिएवमग्रेपिनारायणादयऊह्याः) |
पव॑स्व विश्वचर्षणे॒ऽभि विश्वा᳚नि॒ काव्या᳚ |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

सखा॒ सखि॑भ्य॒ ईड्यः॑ ||{1/30}{7.2.7.1}{9.66.1}{9.3.6.1}{231, 789, 8239}

पव॑स्व¦वि॒श्व॒ऽच॒र्ष॒णे॒¦अ॒भि¦विश्वा᳚नि¦काव्या᳚ | सखा᳚¦सखि॑ऽभ्यः¦ईड्यः॑ ||

ताभ्यां॒ विश्व॑स्य राजसि॒ ये प॑वमान॒ धाम॑नी |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

प्र॒ती॒ची सो᳚म त॒स्थतुः॑ ||{2/30}{7.2.7.2}{9.66.2}{9.3.6.2}{232, 789, 8240}

ताभ्य᳚‌म्¦विश्व॑स्य¦रा॒ज॒सि॒¦ये इति॑¦प॒व॒मा॒न॒¦धाम॑नी॒ इति॑ | प्र॒ती॒ची इति॑¦सो॒म॒¦त॒स्थतुः॑ ||

परि॒ धामा᳚नि॒ यानि॑ ते॒ त्वं सो᳚मासि वि॒श्वतः॑ |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

पव॑मान ऋ॒तुभिः॑ कवे ||{3/30}{7.2.7.3}{9.66.3}{9.3.6.3}{233, 789, 8241}

परि॑¦धामा᳚नि¦यानि॑¦ते॒¦त्व‌म्¦सो॒म॒¦अ॒सि॒¦वि॒श्वतः॑ | पव॑मान¦ऋ॒तुऽभिः॑¦क॒वे॒ ||

पव॑स्व ज॒नय॒न्निषो॒ऽभि विश्वा᳚नि॒ वार्या᳚ |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

सखा॒ सखि॑भ्य ऊ॒तये᳚ ||{4/30}{7.2.7.4}{9.66.4}{9.3.6.4}{234, 789, 8242}

पव॑स्व¦ज॒नय॑न्¦इषः॑¦अ॒भि¦विश्वा᳚नि¦वार्या᳚ | सखा᳚¦सखि॑ऽभ्यः¦ऊ॒तये᳚ ||

तव॑ शु॒क्रासो᳚, अ॒र्चयो᳚ दि॒वस्पृ॒ष्ठे वि त᳚न्वते |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

प॒वित्रं᳚ सोम॒ धाम॑भिः ||{5/30}{7.2.7.5}{9.66.5}{9.3.6.5}{235, 789, 8243}

तव॑¦शु॒क्रासः॑¦अ॒र्चयः॑¦दि॒वः¦पृ॒ष्ठे¦वि¦त॒न्व॒ते॒ | प॒वित्र᳚‌म्¦सो॒म॒¦धाम॑ऽभिः ||

तवे॒मे स॒प्त सिन्ध॑वः प्र॒शिषं᳚ सोम सिस्रते |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

तुभ्यं᳚ धावन्ति धे॒नवः॑ ||{6/30}{7.2.8.1}{9.66.6}{9.3.6.6}{236, 789, 8244}

तव॑¦इ॒मे¦स॒प्त¦सिन्ध॑वः¦प्र॒ऽशिष᳚‌म्¦सो॒म॒¦सि॒स्र॒ते॒ | तुभ्य᳚‌म्¦धा॒व॒न्ति॒¦धे॒नवः॑ ||

प्र सो᳚म याहि॒ धार॑या सु॒त इन्द्रा᳚य मत्स॒रः |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

दधा᳚नो॒, अक्षि॑ति॒ श्रवः॑ ||{7/30}{7.2.8.2}{9.66.7}{9.3.6.7}{237, 789, 8245}

प्र¦सो॒म॒¦या॒हि॒¦धार॑या¦सु॒तः¦इन्द्रा᳚य¦म॒त्स॒रः | दधा᳚नः¦अक्षि॑ति¦श्रवः॑ ||

समु॑ त्वा धी॒भिर॑स्वरन् हिन्व॒तीः स॒प्त जा॒मयः॑ |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

विप्र॑मा॒जा वि॒वस्व॑तः ||{8/30}{7.2.8.3}{9.66.8}{9.3.6.8}{238, 789, 8246}

स‌म्¦ऊँ॒ इति॑¦त्वा॒¦धी॒भिः¦अ॒स्व॒र॒न्¦हि॒न्व॒तीः¦स॒प्त¦जा॒मयः॑ | विप्र᳚‌म्¦आ॒जा¦वि॒वस्व॑तः ||

मृ॒जन्ति॑ त्वा॒ सम॒ग्रुवोऽव्ये᳚ जी॒रावधि॒ ष्वणि॑ |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

रे॒भो यद॒ज्यसे॒ वने᳚ ||{9/30}{7.2.8.4}{9.66.9}{9.3.6.9}{239, 789, 8247}

मृ॒जन्ति॑¦त्वा॒¦स‌म्¦अ॒ग्रुवः॑¦अव्ये᳚¦जी॒रौ¦अधि॑¦स्वनि॑ | रे॒भः¦यत्¦अ॒ज्यसे᳚¦वने᳚ ||

पव॑मानस्य ते कवे॒ वाजि॒न्‌ त्सर्गा᳚, असृक्षत |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

अर्व᳚न्तो॒ न श्र॑व॒स्यवः॑ ||{10/30}{7.2.8.5}{9.66.10}{9.3.6.10}{240, 789, 8248}

पव॑मानस्य¦ते॒¦क॒वे॒¦वाजि॑न्¦सर्गाः᳚¦अ॒सृ॒क्ष॒त॒ | अर्व᳚न्तः¦न¦श्र॒व॒स्यवः॑ ||

अच्छा॒ कोशं᳚ मधु॒श्चुत॒मसृ॑ग्रं॒ वारे᳚, अ॒व्यये᳚ |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

अवा᳚वशन्त धी॒तयः॑ ||{11/30}{7.2.9.1}{9.66.11}{9.3.6.11}{241, 789, 8249}

अच्छ॑¦कोश᳚‌म्¦म॒धु॒ऽश्चुत᳚‌म्¦असृ॑ग्र‌म्¦वारे᳚¦अ॒व्यये᳚ | अवा᳚वशन्त¦धी॒तयः॑ ||

अच्छा᳚ समु॒द्रमिन्द॒वोऽस्तं॒ गावो॒ न धे॒नवः॑ |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

अग्म᳚न्नृ॒तस्य॒ योनि॒मा ||{12/30}{7.2.9.2}{9.66.12}{9.3.6.12}{242, 789, 8250}

अच्छ॑¦स॒मु॒द्र‌म्¦इन्द॑वः¦अस्त᳚‌म्¦गावः॑¦न¦धे॒नवः॑ | अग्म॑न्¦ऋ॒तस्य॑¦योनि᳚‌म्¦आ ||

प्र ण॑ इन्दो म॒हे रण॒ आपो᳚, अर्षन्ति॒ सिन्ध॑वः |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

यद्गोभि᳚र्वासयि॒ष्यसे᳚ ||{13/30}{7.2.9.3}{9.66.13}{9.3.6.13}{243, 789, 8251}

प्र¦नः॒¦इ॒न्दो॒ इति॑¦म॒हे¦रणे᳚¦आपः॑¦अ॒र्ष॒न्ति॒¦सिन्ध॑वः | यत्¦गोभिः॑¦वा॒स॒यि॒ष्यसे᳚ ||

अस्य॑ ते स॒ख्ये व॒यमिय॑क्षन्त॒स्त्वोत॑यः |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

इन्दो᳚ सखि॒त्वमु॑श्मसि ||{14/30}{7.2.9.4}{9.66.14}{9.3.6.14}{244, 789, 8252}

अस्य॑¦ते॒¦स॒ख्ये¦व॒य‌म्¦इय॑क्षन्तः¦त्वाऽऊ᳚तयः | इन्दो॒ इति॑¦स॒खि॒ऽत्व‌म्¦उ॒श्म॒सि॒ ||

आ प॑वस्व॒ गवि॑ष्टये म॒हे सो᳚म नृ॒चक्ष॑से |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

एन्द्र॑स्य ज॒ठरे᳚ विश ||{15/30}{7.2.9.5}{9.66.15}{9.3.6.15}{245, 789, 8253}

आ¦प॒व॒स्व॒¦गोऽ‌इ᳚ष्टये¦म॒हे¦सो॒म॒¦नृ॒ऽचक्ष॑से | आ¦इन्द्र॑स्य¦ज॒ठरे᳚¦वि॒श॒ ||

म॒हाँ, अ॑सि सोम॒ ज्येष्ठ॑ उ॒ग्राणा᳚मिन्द॒ ओजि॑ष्ठः |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

युध्वा॒ सञ्छश्व॑ज्जिगेथ ||{16/30}{7.2.10.1}{9.66.16}{9.3.6.16}{246, 789, 8254}

म॒हान्¦अ॒सि॒¦सो॒म॒¦ज्येष्ठः॑¦उ॒ग्राणा᳚‌म्¦इ॒न्दो॒ इति॑¦ओजि॑ष्ठः | युध्वा᳚¦सन्¦शश्व॑त्¦जि॒गे॒थ॒ ||

य उ॒ग्रेभ्य॑श्चि॒दोजी᳚या॒ञ्छूरे᳚भ्यश्चि॒च्छूर॑तरः |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

भू॒रि॒दाभ्य॑श्चि॒न्मंही᳚यान् ||{17/30}{7.2.10.2}{9.66.17}{9.3.6.17}{247, 789, 8255}

यः¦उ॒ग्रेभ्यः॑¦चि॒त्¦ओजी᳚यान्¦शूरे᳚भ्यः¦चि॒त्¦शूर॑ऽतरः | भू॒रि॒ऽदाभ्यः॑¦चि॒त्¦मंही᳚यान् ||

त्वं सो᳚म॒ सूर॒ एष॑स्तो॒कस्य॑ सा॒ता त॒नूना᳚म् |{शतं वैखानसाः | पवमानः सोमः | अनुष्टुप्}

वृ॒णी॒महे᳚ स॒ख्याय॑ वृणी॒महे॒ युज्या᳚य ||{18/30}{7.2.10.3}{9.66.18}{9.3.6.18}{248, 789, 8256}

त्व‌म्¦सो॒म॒¦सूरः॑¦आ¦इषः॑¦तो॒कस्य॑¦सा॒ता¦त॒नूना᳚‌म् | वृ॒णी॒महे᳚¦स॒ख्याय॑¦वृ॒णी॒महे᳚¦युज्या᳚य ||

अग्न॒ आयूं᳚षि पवस॒ आ सु॒वोर्ज॒मिषं᳚ च नः |{शतं वैखानसाः | पवमानोग्निः | गायत्री}

आ॒रे बा᳚धस्व दु॒च्छुना᳚म् ||{19/30}{7.2.10.4}{9.66.19}{9.3.6.19}{249, 789, 8257}

अग्ने᳚¦आयूं᳚षि¦प॒व॒से॒¦आ¦सु॒व॒¦ऊर्ज᳚‌म्¦इष᳚‌म्¦च॒¦नः॒ | आ॒रे¦बा॒ध॒स्व॒¦दु॒च्छुना᳚‌म् ||

अ॒ग्निरृषिः॒ पव॑मानः॒ पाञ्च॑जन्यः पु॒रोहि॑तः |{शतं वैखानसाः | पवमानोग्निः | गायत्री}

तमी᳚महे महाग॒यम् ||{20/30}{7.2.10.5}{9.66.20}{9.3.6.20}{250, 789, 8258}

अ॒ग्निः¦ऋषिः॑¦पव॑मानः¦पांच॑ऽजन्यः¦पु॒रःऽहि॑तः | त‌म्¦ई॒म॒हे॒¦म॒हा॒ऽग॒य‌म् ||

अग्ने॒ पव॑स्व॒ स्वपा᳚, अ॒स्मे वर्चः॑ सु॒वीर्य᳚म् |{शतं वैखानसाः | पवमानोग्निः | गायत्री}

दध॑द्र॒यिं मयि॒ पोष᳚म् ||{21/30}{7.2.11.1}{9.66.21}{9.3.6.21}{251, 789, 8259}

अग्ने᳚¦पव॑स्व¦सु॒।आपाः᳚¦अ॒स्मे इति॑¦वर्चः॑¦सु॒ऽवीर्य᳚‌म् | दध॑त्¦र॒यि‌म्¦मयि॑¦पोष᳚‌म् ||

पव॑मानो॒, अति॒ स्रिधो॒ऽभ्य॑र्षति सुष्टु॒तिम् |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

सूरो॒ न वि॒श्वद॑र्शतः ||{22/30}{7.2.11.2}{9.66.22}{9.3.6.22}{252, 789, 8260}

पव॑मानः¦अति॑¦स्रिधः॑¦अ॒भि¦अ॒र्ष॒ति॒¦सु॒ऽस्तु॒ति‌म् | सूरः॑¦न¦वि॒श्वऽद॑र्शतः ||

स म᳚र्मृजा॒न आ॒युभिः॒ प्रय॑स्वा॒न्‌ प्रय॑से हि॒तः |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

इन्दु॒रत्यो᳚ विचक्ष॒णः ||{23/30}{7.2.11.3}{9.66.23}{9.3.6.23}{253, 789, 8261}

सः¦म॒र्मृ॒जा॒नः¦आ॒युऽभिः॑¦प्रय॑स्वान्¦प्रय॑से¦हि॒तः | इन्दुः॑¦अत्यः॑¦वि॒ऽच॒क्ष॒णः ||

पव॑मान ऋ॒तं बृ॒हच्छु॒क्रं ज्योति॑रजीजनत् |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

कृ॒ष्णा तमां᳚सि॒ जङ्घ॑नत् ||{24/30}{7.2.11.4}{9.66.24}{9.3.6.24}{254, 789, 8262}

पव॑मानः¦ऋ॒त‌म्¦बृ॒हत्¦शु॒क्र‌म्¦ज्योतिः॑¦अ॒जी॒ज॒न॒त् | कृ॒ष्णा¦तमां᳚सि¦जङ्घ॑नत् ||

पव॑मानस्य॒ जङ्घ्न॑तो॒ हरे᳚श्च॒न्द्रा, अ॑सृक्षत |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

जी॒रा, अ॑जि॒रशो᳚चिषः ||{25/30}{7.2.11.5}{9.66.25}{9.3.6.25}{255, 789, 8263}

पव॑मानस्य¦जङ्घ्न॑तः¦हरेः᳚¦च॒न्द्राः¦अ॒सृ॒क्ष॒त॒ | जी॒राः¦अ॒जि॒रऽशो᳚चिषः ||

पव॑मानो र॒थीत॑मः शु॒भ्रेभिः॑ शु॒भ्रश॑स्तमः |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

हरि॑श्चन्द्रो म॒रुद्ग॑णः ||{26/30}{7.2.12.1}{9.66.26}{9.3.6.26}{256, 789, 8264}

पव॑मानः¦र॒थिऽत॑मः¦शु॒भ्रेभिः॑¦शु॒भ्रशः॑ऽतमः | हरि॑ऽचन्द्रः¦म॒रुत्ऽग॑णः ||

पव॑मानो॒ व्य॑श्नवद्र॒श्मिभि᳚र्वाज॒सात॑मः |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

दध॑त्‌ स्तो॒त्रे सु॒वीर्य᳚म् ||{27/30}{7.2.12.2}{9.66.27}{9.3.6.27}{257, 789, 8265}

पव॑मानः¦वि¦अ॒श्न॒व॒त्¦र॒श्मिऽभिः॑¦वा॒ज॒ऽसात॑मः | दध॑त्¦स्तो॒त्रे¦सु॒ऽवीर्य᳚‌म् ||

प्र सु॑वा॒न इन्दु॑रक्षाः प॒वित्र॒मत्य॒व्यय᳚म् |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

पु॒ना॒न इन्दु॒रिन्द्र॒मा ||{28/30}{7.2.12.3}{9.66.28}{9.3.6.28}{258, 789, 8266}

प्र¦सु॒वा॒नः¦इन्दुः॑¦अ॒क्षा॒रिति॑¦प॒वित्र᳚‌म्¦अति॑¦अ॒व्यय᳚‌म् | पु॒ना॒नः¦इन्दुः॑¦इन्द्र᳚‌म्¦आ ||

ए॒ष सोमो॒, अधि॑ त्व॒चि गवां᳚ क्रीळ॒त्यद्रि॑भिः |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

इन्द्रं॒ मदा᳚य॒ जोहु॑वत् ||{29/30}{7.2.12.4}{9.66.29}{9.3.6.29}{259, 789, 8267}

ए॒षः¦सोमः॑¦अधि॑¦त्व॒चि¦गवा᳚‌म्¦क्री॒ळ॒ति॒¦अद्रि॑ऽभिः | इन्द्र᳚‌म्¦मदा᳚य¦जोहु॑वत् ||

यस्य॑ ते द्यु॒म्नव॒त्‌ पयः॒ पव॑मा॒नाभृ॑तं दि॒वः |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

तेन॑ नो मृळ जी॒वसे᳚ ||{30/30}{7.2.12.5}{9.66.30}{9.3.6.30}{260, 789, 8268}

यस्य॑¦ते॒¦द्यु॒म्नऽव॑त्¦पयः॑¦पव॑मान¦आऽभृ॑त‌म्¦दि॒वः | तेन॑¦नः॒¦मृ॒ळ॒¦जी॒वसे᳚ ||

[24] त्वंसोमासीति द्वात्रिंशदृचस्य सूक्तस्य आद्यानांसप्तानांतृचानांभरद्वाजकश्यपगोतमात्रिविश्वामित्र जमदग्निवसिष्ठा ऋषयः शिष्टानामांगिरसः पवित्रऋषिः (अत्रवसिष्ठोवापवित्रवसिष्ठौवेतिविपक्षौ) पवमानसोमोदेवता दशम्यादितिसृणांपूषावा यत्तेपवित्रमित्यादिपंचानामग्निः अंत्ययोर्द्वयोः पावमान्यधेतागायत्री षोडश्याद्यास्तिस्रोद्विपदागायत्र्यः त्रिंशीपुरउष्णिक् सप्तविंश्येकत्रिंशीद्वात्रिंश्योनुष्टुभः |( पंचविंश्यादितिसृणांक्रमात्सविताग्निसवितारौविश्वेदेवाइतिदेवताअग्निनासह विकल्पंते ) |
त्वं सो᳚मासि धार॒युर्म॒न्द्र ओजि॑ष्ठो, अध्व॒रे |{भरद्वाजः | पवमानः सोमः | गायत्री}

पव॑स्व मंह॒यद्र॑यिः ||{1/32}{7.2.13.1}{9.67.1}{9.3.7.1}{261, 790, 8269}

त्व‌म्¦सो॒म॒¦अ॒सि॒¦धा॒र॒युः¦म॒न्द्रः¦ओजि॑ष्ठः¦अ॒ध्व॒रे | पव॑स्व¦मं॒ह॒यत्ऽर॑यिः ||

त्वं सु॒तो नृ॒माद॑नो दध॒न्वान्‌ म॑त्स॒रिन्त॑मः |{भरद्वाजः | पवमानः सोमः | गायत्री}

इन्द्रा᳚य सू॒रिरन्ध॑सा ||{2/32}{7.2.13.2}{9.67.2}{9.3.7.2}{262, 790, 8270}

त्व‌म्¦सु॒तः¦नृ॒ऽमाद॑नः¦द॒ध॒न्वान्¦म॒त्स॒रिन्ऽत॑मः | इन्द्रा᳚य¦सू॒रिः¦अन्ध॑सा ||

त्वं सु॑ष्वा॒णो, अद्रि॑भिर॒भ्य॑र्ष॒ कनि॑क्रदत् |{भरद्वाजः | पवमानः सोमः | गायत्री}

द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ||{3/32}{7.2.13.3}{9.67.3}{9.3.7.3}{263, 790, 8271}

त्व‌म्¦सु॒स्वा॒नः¦अद्रि॑ऽभिः¦अ॒भि¦अ॒र्ष॒¦कनि॑क्रदत् | द्यु॒ऽमन्त᳚‌म्¦शुष्म᳚‌म्¦उ॒त्ऽत॒म‌म् ||

इन्दु᳚र्हिन्वा॒नो, अ॑र्षति ति॒रो वारा᳚ण्य॒व्यया᳚ |{कश्यपः | पवमानः सोमः | गायत्री}

हरि॒र्वाज॑मचिक्रदत् ||{4/32}{7.2.13.4}{9.67.4}{9.3.7.4}{264, 790, 8272}

इन्दुः॑¦हि॒न्वा॒नः¦अ॒र्ष॒ति॒¦ति॒रः¦वारा᳚णि¦अ॒व्यया᳚ | हरिः॑¦वाज᳚‌म्¦अ॒चि॒क्र॒द॒त् ||

इन्दो॒ व्यव्य॑मर्षसि॒ वि श्रवां᳚सि॒ वि सौभ॑गा |{कश्यपः | पवमानः सोमः | गायत्री}

वि वाजा᳚न्‌ त्सोम॒ गोम॑तः ||{5/32}{7.2.13.5}{9.67.5}{9.3.7.5}{265, 790, 8273}

इन्दो॒ इति॑¦वि¦अव्य᳚‌म्¦अ॒र्ष॒सि॒¦वि¦श्रवां᳚सि¦वि¦सौभ॑गा | वि¦वाजा᳚न्¦सो॒म॒¦गोऽम॑तः ||

आ न॑ इन्दो शत॒ग्विनं᳚ र॒यिं गोम᳚न्तम॒श्विन᳚म् |{कश्यपः | पवमानः सोमः | गायत्री}

भरा᳚ सोम सह॒स्रिण᳚म् ||{6/32}{7.2.14.1}{9.67.6}{9.3.7.6}{266, 790, 8274}

आ¦नः॒¦इ॒न्दो॒ इति॑¦श॒त॒ऽग्विन᳚‌म्¦र॒यि‌म्¦गोऽम᳚न्त‌म्¦अ॒श्विन᳚‌म् | भर॑¦सो॒म॒¦स॒ह॒स्रिण᳚‌म् ||

पव॑मानास॒ इन्द॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ |{गोतमः | पवमानः सोमः | गायत्री}

इन्द्रं॒ यामे᳚भिराशत ||{7/32}{7.2.14.2}{9.67.7}{9.3.7.7}{267, 790, 8275}

पव॑मानासः¦इन्द॑वः¦ति॒रः¦प॒वित्र᳚‌म्¦आ॒शवः॑ | इन्द्र᳚‌म्¦यामे᳚भिः¦आ॒श॒त॒ ||

क॒कु॒हः सो॒म्यो रस॒ इन्दु॒रिन्द्रा᳚य पू॒र्व्यः |{गोतमः | पवमानः सोमः | गायत्री}

आ॒युः प॑वत आ॒यवे᳚ ||{8/32}{7.2.14.3}{9.67.8}{9.3.7.8}{268, 790, 8276}

क॒कु॒हः¦सो॒म्यः¦रसः॑¦इन्दुः॑¦इन्द्रा᳚य¦पू॒र्व्यः | आ॒युः¦प॒व॒ते॒¦आ॒यवे᳚ ||

हि॒न्वन्ति॒ सूर॒मुस्र॑यः॒ पव॑मानं मधु॒श्चुत᳚म् |{गोतमः | पवमानः सोमः | गायत्री}

अ॒भि गि॒रा सम॑स्वरन् ||{9/32}{7.2.14.4}{9.67.9}{9.3.7.9}{269, 790, 8277}

हि॒न्वन्ति॑¦सूर᳚‌म्¦उस्र॑यः¦पव॑मान‌म्¦म॒धु॒ऽश्चुत᳚‌म् | अ॒भि¦गि॒रा¦स‌म्¦अ॒स्व॒र॒न् ||

अ॒वि॒ता नो᳚, अ॒जाश्वः॑ पू॒षा याम॑नियामनि |{अत्रिः | पवमानः सोमः पूषा वा | गायत्री}

आ भ॑क्षत्‌ क॒न्या᳚सु नः ||{10/32}{7.2.14.5}{9.67.10}{9.3.7.10}{270, 790, 8278}

अ॒वि॒ता¦नः॒¦अ॒ज।आ॑श्वः¦पू॒षा¦याम॑निऽयामनि | आ¦भ॒क्ष॒त्¦क॒न्या᳚सु¦नः॒ ||

अ॒यं सोमः॑ कप॒र्दिने᳚ घृ॒तं न प॑वते॒ मधु॑ |{अत्रिः | पवमानः सोमः पूषा वा | गायत्री}

आ भ॑क्षत्‌ क॒न्या᳚सु नः ||{11/32}{7.2.15.1}{9.67.11}{9.3.7.11}{271, 790, 8279}

अ॒य‌म्¦सोमः॑¦क॒प॒र्दिने᳚¦घृ॒त‌म्¦न¦प॒व॒ते॒¦मधु॑ | आ¦भ॒क्ष॒त्¦क॒न्या᳚सु¦नः॒ ||

अ॒यं त॑ आघृणे सु॒तो घृ॒तं न प॑वते॒ शुचि॑ |{अत्रिः | पवमानः सोमः पूषा वा | गायत्री}

आ भ॑क्षत्‌ क॒न्या᳚सु नः ||{12/32}{7.2.15.2}{9.67.12}{9.3.7.12}{272, 790, 8280}

अ॒य‌म्¦ते॒¦आ॒घृ॒णे॒¦सु॒तः¦घृ॒त‌म्¦न¦प॒व॒ते॒¦शुचि॑ | आ¦भ॒क्ष॒त्¦क॒न्या᳚सु¦नः॒ ||

वा॒चो ज॒न्तुः क॑वी॒नां पव॑स्व सोम॒ धार॑या |{विश्वामित्रः | पवमानः सोमः | गायत्री}

दे॒वेषु॑ रत्न॒धा, अ॑सि ||{13/32}{7.2.15.3}{9.67.13}{9.3.7.13}{273, 790, 8281}

वा॒चः¦ज॒न्तुः¦क॒वी॒ना‌म्¦पव॑स्व¦सो॒म॒¦धार॑या | दे॒वेषु॑¦र॒त्न॒ऽधाः¦अ॒सि॒ ||

आ क॒लशे᳚षु धावति श्ये॒नो वर्म॒ वि गा᳚हते |{विश्वामित्रः | पवमानः सोमः | गायत्री}

अ॒भि द्रोणा॒ कनि॑क्रदत् ||{14/32}{7.2.15.4}{9.67.14}{9.3.7.14}{274, 790, 8282}

आ¦क॒लशे᳚षु¦धा॒व॒ति॒¦श्ये॒नः¦वर्म॑¦वि¦गा॒ह॒ते॒ | अ॒भि¦द्रोणा᳚¦कनि॑क्रदत् ||

परि॒ प्र सो᳚म ते॒ रसोऽस॑र्जि क॒लशे᳚ सु॒तः |{विश्वामित्रः | पवमानः सोमः | गायत्री}

श्ये॒नो न त॒क्तो, अ॑र्षति ||{15/32}{7.2.15.5}{9.67.15}{9.3.7.15}{275, 790, 8283}

परि॑¦प्र¦सो॒म॒¦ते॒¦रसः॑¦अस॑र्जि¦क॒लशे᳚¦सु॒तः | श्ये॒नः¦न¦त॒क्तः¦अ॒र्ष॒ति॒ ||

पव॑स्व सोम म॒न्दय॒न्निन्द्रा᳚य॒ मधु॑मत्तमः ||{जमदग्निः | पवमानः सोमः | द्विपदा गायत्री}{16/32}{7.2.16.1}{9.67.16}{9.3.7.16}{276, 790, 8284}

पव॑स्व¦सो॒म॒¦म॒न्दय॑न्¦इन्द्रा᳚य¦मधु॑मत्ऽतमः ||

असृ॑ग्रन्‌ दे॒ववी᳚तये वाज॒यन्तो॒ रथा᳚, इव ||{जमदग्निः | पवमानः सोमः | द्विपदा गायत्री}{17/32}{7.2.16.2}{9.67.17}{9.3.7.17}{277, 790, 8285}

असृ॑ग्रन्¦दे॒वऽवी᳚तये¦वा॒ज॒ऽयन्तः॑¦रथाः᳚ऽ‌इव ||

ते सु॒तासो᳚ म॒दिन्त॑माः शु॒क्रा वा॒युम॑सृक्षत ||{जमदग्निः | पवमानः सोमः | द्विपदा गायत्री}{18/32}{7.2.16.3}{9.67.18}{9.3.7.18}{278, 790, 8286}

ते¦सु॒तासः॑¦म॒दिन्ऽत॑माः¦शु॒क्राः¦वा॒यु‌म्¦अ॒सृ॒क्ष॒त॒ ||

ग्राव्णा᳚ तु॒न्नो, अ॒भिष्टु॑तः प॒वित्रं᳚ सोम गच्छसि |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री}

दध॑त्‌ स्तो॒त्रे सु॒वीर्य᳚म् ||{19/32}{7.2.16.4}{9.67.19}{9.3.7.19}{279, 790, 8287}

ग्राव्णा᳚¦तु॒न्नः¦अ॒भिऽस्तु॑तः¦प॒वित्र᳚‌म्¦सो॒म॒¦ग॒च्छ॒सि॒ | दध॑त्¦स्तो॒त्रे¦सु॒ऽवीर्य᳚‌म् ||

ए॒ष तु॒न्नो, अ॒भिष्टु॑तः प॒वित्र॒मति॑ गाहते |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री}

र॒क्षो॒हा वार॑म॒व्यय᳚म् ||{20/32}{7.2.16.5}{9.67.20}{9.3.7.20}{280, 790, 8288}

ए॒षः¦तु॒न्नः¦अ॒भिऽस्तु॑तः¦प॒वित्र᳚‌म्¦अति॑¦गा॒ह॒ते॒ | र॒क्षः॒ऽहा¦वार᳚‌म्¦अ॒व्यय᳚‌म् ||

यदन्ति॒ यच्च॑ दूर॒के भ॒यं वि॒न्दति॒ मामि॒ह |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री}

पव॑मान॒ वि तज्ज॑हि ||{21/32}{7.2.17.1}{9.67.21}{9.3.7.21}{281, 790, 8289}

यत्¦अन्ति॑¦यत्¦च॒¦दू॒र॒के¦भ॒य‌म्¦वि॒न्दति॑¦मा‌म्¦इ॒ह | पव॑मान¦वि¦तत्¦ज॒हि॒ ||

पव॑मानः॒ सो, अ॒द्य नः॑ प॒वित्रे᳚ण॒ विच॑र्षणिः |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री}

यः पो॒ता स पु॑नातु नः ||{22/32}{7.2.17.2}{9.67.22}{9.3.7.22}{282, 790, 8290}

पव॑मानः¦सः¦अ॒द्य¦नः॒¦प॒वित्रे᳚ण¦विऽच॑र्षणिः | यः¦पो॒ता¦सः¦पु॒ना॒तु॒¦नः॒ ||

यत्ते᳚ प॒वित्र॑म॒र्चिष्यग्ने॒ वित॑तम॒न्तरा |{आंगिरसः पवित्रः | अग्निः | गायत्री}

ब्रह्म॒ तेन॑ पुनीहि नः ||{23/32}{7.2.17.3}{9.67.23}{9.3.7.23}{283, 790, 8291}

यत्¦ते॒¦प॒वित्र᳚‌म्¦अ॒र्चिषि॑¦अग्ने᳚¦विऽत॑त‌म्¦अ॒न्तः¦आ | ब्रह्म॑¦तेन॑¦पु॒नी॒हि॒¦नः॒ ||

यत्ते᳚ प॒वित्र॑मर्चि॒वदग्ने॒ तेन॑ पुनीहि नः |{आंगिरसः पवित्रः | अग्निः | गायत्री}

ब्र॒ह्म॒स॒वैः पु॑नीहि नः ||{24/32}{7.2.17.4}{9.67.24}{9.3.7.24}{284, 790, 8292}

यत्¦ते॒¦प॒वित्र᳚‌म्¦अ॒र्चि॒ऽवत्¦अग्ने᳚¦तेन॑¦पु॒नी॒हि॒¦नः॒ | ब्र॒ह्म॒ऽस॒वैः¦पु॒नी॒हि॒¦नः॒ ||

उ॒भाभ्यां᳚ देव सवितः प॒वित्रे᳚ण स॒वेन॑ च |{आंगिरसः पवित्रः | अग्निः | गायत्री}

मां पु॑नीहि वि॒श्वतः॑ ||{25/32}{7.2.17.5}{9.67.25}{9.3.7.25}{285, 790, 8293}

उ॒भाभ्या᳚‌म्¦दे॒व॒¦स॒वि॒त॒रिति॑¦प॒वित्रे᳚ण¦स॒वेन॑¦च॒ | मा‌म्¦पु॒नी॒हि॒¦वि॒श्वतः॑ ||

त्रि॒भिष्ट्वं दे᳚व सवित॒र्वर्षि॑ष्ठैः सोम॒ धाम॑भिः |{आंगिरसः पवित्रः | अग्निः | गायत्री}

अग्ने॒ दक्षैः᳚ पुनीहि नः ||{26/32}{7.2.18.1}{9.67.26}{9.3.7.26}{286, 790, 8294}

त्रि॒ऽभिः¦त्व‌म्¦दे॒व॒¦स॒वि॒तः॒¦वर्षि॑ष्ठैः¦सो॒म॒¦धाम॑ऽभिः | अग्ने᳚¦दक्षैः᳚¦पु॒नी॒हि॒¦नः॒ ||

पु॒नन्तु॒ मां दे᳚वज॒नाः पु॒नन्तु॒ वस॑वो धि॒या |{आंगिरसः पवित्रः | अग्निः | अनुष्टुप्}

विश्वे᳚ देवाः पुनी॒त मा॒ जात॑वेदः पुनी॒हि मा᳚ ||{27/32}{7.2.18.2}{9.67.27}{9.3.7.27}{287, 790, 8295}

पु॒नन्तु॑¦मा‌म्¦दे॒व॒ऽज॒नाः¦पु॒नन्तु॑¦वस॑वः¦धि॒या | विश्वे᳚¦दे॒वाः॒¦पु॒नी॒त¦मा॒¦जात॑ऽवेदः¦पु॒नी॒हि¦मा॒ ||

प्र प्या᳚यस्व॒ प्र स्य᳚न्दस्व॒ सोम॒ विश्वे᳚भिरं॒शुभिः॑ |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री}

दे॒वेभ्य॑ उत्त॒मं ह॒विः ||{28/32}{7.2.18.3}{9.67.28}{9.3.7.28}{288, 790, 8296}

प्र¦प्या॒य॒स्व॒¦प्र¦स्य॒न्द॒स्व॒¦सोम॑¦विश्वे᳚भिः¦अं॒शुऽभिः॑ | दे॒वेभ्यः॑¦उ॒त्ऽत॒म‌म्¦ह॒विः ||

उप॑ प्रि॒यं पनि॑प्नतं॒ युवा᳚नमाहुती॒वृध᳚म् |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री}

अग᳚न्म॒ बिभ्र॑तो॒ नमः॑ ||{29/32}{7.2.18.4}{9.67.29}{9.3.7.29}{289, 790, 8297}

उप॑¦प्रि॒य‌म्¦पनि॑प्नत‌म्¦युवा᳚न‌म्¦आ॒हु॒ति॒ऽवृध᳚‌म् | अग᳚न्म¦बिभ्र॑तः¦नमः॑ ||

अ॒लाय्य॑स्य पर॒शुर्न॑नाश॒ तमा प॑वस्व देव सोम |{आंगिरसः पवित्रः | पवमानः सोमः | पुर उष्णिक्}

आ॒खुं चि॑दे॒व दे᳚व सोम ||{30/32}{7.2.18.5}{9.67.30}{9.3.7.30}{290, 790, 8298}

अ॒लाय्य॑स्य¦प॒र॒शुः¦न॒ना॒श॒¦त‌म्¦आ¦प॒व॒स्व॒¦दे॒व॒¦सो॒म॒ | आ॒खु‌म्¦चि॒त्¦ए॒व¦दे॒व॒¦सो॒म॒ ||

यः पा᳚वमा॒नीर॒ध्येत्यृषि॑भिः॒ सम्भृ॑तं॒ रस᳚म् |{आंगिरसः पवित्रः | पावमान्य धेतः | अनुष्टुप्}

सर्वं॒ स पू॒तम॑श्नाति स्वदि॒तं मा᳚त॒रिश्व॑ना ||{31/32}{7.2.18.6}{9.67.31}{9.3.7.31}{291, 790, 8299}

यः¦पा॒व॒मा॒नीः¦अ॒धि॒ऽएति॑¦ऋषि॑ऽभिः¦स‌म्ऽभृ॑त‌म्¦रस᳚‌म् | सर्व॒‌म्¦सः¦पू॒त‌म्¦अ॒श्ना॒ति॒¦स्व॒दि॒त‌म्¦मा॒त॒रिश्व॑ना ||

पा॒व॒मा॒नीर्यो, अ॒ध्येत्यृषि॑भिः॒ सम्भृ॑तं॒ रस᳚म् |{आंगिरसः पवित्रः | पावमान्य धेतः | अनुष्टुप्}

तस्मै॒ सर॑स्वती दुहे क्षी॒रं स॒र्पिर्मधू᳚द॒कम् ||{32/32}{7.2.18.7}{9.67.32}{9.3.7.32}{292, 790, 8300}

पा॒व॒मा॒नीः¦यः¦अ॒धि॒ऽएति॑¦ऋषि॑ऽभिः॒¦स‌म्ऽभृ॑त‌म्¦रस᳚‌म् | तस्मै᳚¦सर॑स्वती¦दु॒हे॒¦क्षी॒र‌म्¦स॒र्पिः¦मधु॑¦उ॒द॒क‌म् ||

[25] प्रदेवमिति दशर्चस्य सूक्तस्य भालंदनो वत्सप्रिः पवमानसोमोजगत्यंत्यात्रिष्टुप् |
प्र दे॒वमच्छा॒ मधु॑मन्त॒ इन्द॒वोऽसि॑ष्यदन्त॒ गाव॒ आ न धे॒नवः॑ |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती}

ब॒र्हि॒षदो᳚ वच॒नाव᳚न्त॒ ऊध॑भिः परि॒स्रुत॑मु॒स्रिया᳚ नि॒र्णिजं᳚ धिरे ||{1/10}{7.2.19.1}{9.68.1}{9.4.1.1}{293, 791, 8301}

प्र¦दे॒व‌म्¦अच्छ॑¦मधु॑ऽमन्तः¦इन्द॑वः¦असि॑स्यदन्त¦गावः॑¦आ¦न¦धे॒नवः॑ |
ब॒र्हि॒ऽसदः॑¦व॒च॒नाऽव᳚न्तः¦ऊध॑ऽभिः¦प॒रि॒ऽस्रुत᳚‌म्¦उ॒स्रियाः᳚¦निः॒ऽनिज᳚‌म्¦धि॒रे॒ ||

स रोरु॑वद॒भि पूर्वा᳚, अचिक्रददुपा॒रुहः॑ श्र॒थय᳚न्‌ त्स्वादते॒ हरिः॑ |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती}

ति॒रः प॒वित्रं᳚ परि॒यन्नु॒रु ज्रयो॒ नि शर्या᳚णि दधते दे॒व आ वर᳚म् ||{2/10}{7.2.19.2}{9.68.2}{9.4.1.2}{294, 791, 8302}

सः¦रोरु॑वत्¦अ॒भि¦पूर्वाः᳚¦अ॒चि॒क्र॒द॒त्¦उ॒प॒ऽआ॒रुहः॑¦श्र॒थय॑न्¦स्वा॒द॒ते॒¦हरिः॑ |
ति॒रः¦प॒वित्र᳚‌म्¦प॒रि॒ऽयन्¦उ॒रु¦ज्रयः॑¦नि¦शर्या᳚णि¦द॒ध॒ते॒¦दे॒वः¦आ¦वर᳚‌म् ||

वि यो म॒मे य॒म्या᳚ संय॒ती मदः॑ साकं॒वृधा॒ पय॑सा पिन्व॒दक्षि॑ता |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती}

म॒ही, अ॑पा॒रे रज॑सी वि॒वेवि॑ददभि॒व्रज॒न्नक्षि॑तं॒ पाज॒ आ द॑दे ||{3/10}{7.2.19.3}{9.68.3}{9.4.1.3}{295, 791, 8303}

वि¦यः¦म॒मे¦य॒म्या᳚¦सं॒य॒ती इति॑ स॒‌म्ऽय॒ती¦मदः॑¦सा॒क॒‌म्ऽवृधा᳚¦पय॑सा¦पि॒न्व॒त्¦अक्षि॑ता |
म॒ही इति॑¦अ॒पा॒रे इति॑¦रज॑सी॒ इति॑¦वि॒ऽवेवि॑दत्¦अ॒भि॒ऽव्रज॑न्¦अक्षि॑त‌म्¦पाजः॑¦आ¦द॒दे॒ ||

स मा॒तरा᳚ वि॒चर᳚न्वा॒जय᳚न्न॒पः प्र मेधि॑रः स्व॒धया᳚ पिन्वते प॒दम् |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती}

अं॒शुर्यवे᳚न पिपिशे य॒तो नृभिः॒ सं जा॒मिभि॒र्नस॑ते॒ रक्ष॑ते॒ शिरः॑ ||{4/10}{7.2.19.4}{9.68.4}{9.4.1.4}{296, 791, 8304}

सः¦मा॒तरा᳚¦वि॒ऽचर॑न्¦वा॒जय॑न्¦अ॒पः¦प्र¦मेधि॑रः¦स्व॒धया᳚¦पि॒न्व॒ते॒¦प॒द‌म् |
अं॒शुः¦यवे᳚न¦पि॒पि॒शे॒¦य॒तः¦नृऽभिः॑¦स‌म्¦जा॒मिऽभिः॑¦नस॑ते¦रक्ष॑ते¦शिरः॑ ||

सं दक्षे᳚ण॒ मन॑सा जायते क॒विरृ॒तस्य॒ गर्भो॒ निहि॑तो य॒मा प॒रः |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती}

यूना᳚ ह॒ सन्ता᳚ प्रथ॒मं वि ज॑ज्ञतु॒र्गुहा᳚ हि॒तं जनि॑म॒ नेम॒मुद्य॑तम् ||{5/10}{7.2.19.5}{9.68.5}{9.4.1.5}{297, 791, 8305}

स‌म्¦दक्षे᳚ण¦मन॑सा¦जा॒य॒ते॒¦क॒विः¦ऋ॒तस्य॑¦गर्भः॑¦निऽहि॑तः¦य॒मा¦प॒रः |
यूना᳚¦ह॒¦सन्ता᳚¦प्र॒थ॒म‌म्¦वि¦ज॒ज्ञ॒तुः॒¦गुहा᳚¦हि॒त‌म्¦जनि॑म¦नेम᳚‌म्¦उत्ऽय॑त‌म् ||

म॒न्द्रस्य॑ रू॒पं वि॑विदुर्मनी॒षिणः॑ श्ये॒नो यदन्धो॒, अभ॑रत्परा॒वतः॑ |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती}

तं म॑र्जयन्त सु॒वृधं᳚ न॒दीष्वाँ, उ॒शन्त॑मं॒शुं प॑रि॒यन्त॑मृ॒ग्मिय᳚म् ||{6/10}{7.2.20.1}{9.68.6}{9.4.1.6}{298, 791, 8306}

म॒न्द्रस्य॑¦रू॒प‌म्¦वि॒वि॒दुः॒¦म॒नी॒षिणः॑¦श्ये॒नः¦यत्¦अन्धः॑¦अभ॑रत्¦प॒रा॒ऽवतः॑ |
त‌म्¦म॒र्ज॒य॒न्त॒¦सु॒ऽवृध᳚‌म्¦न॒दीषु॑¦आ¦उ॒शन्त᳚‌म्¦अं॒शु‌म्¦प॒रि॒ऽयन्त᳚‌म्¦ऋ॒ग्मिय᳚‌म् ||

त्वां मृ॑जन्ति॒ दश॒ योष॑णः सु॒तं सोम॒ ऋषि॑भिर्म॒तिभि॑र्धी॒तिभि᳚र्हि॒तम् |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती}

अव्यो॒ वारे᳚भिरु॒त दे॒वहू᳚तिभि॒र्नृभि᳚र्य॒तो वाज॒मा द॑र्षि सा॒तये᳚ ||{7/10}{7.2.20.2}{9.68.7}{9.4.1.7}{299, 791, 8307}

त्वा‌म्¦मृ॒ज॒न्ति॒¦दश॑¦योष॑णः¦सु॒त‌म्¦सो॒म॒¦ऋषि॑ऽभिः¦म॒तिऽभिः॑¦धी॒तिऽभिः॑¦हि॒त‌म् |
अव्यः॑¦वारे᳚भिः¦उ॒त¦दे॒वहू᳚तिऽभिः¦नृऽभिः॑¦य॒तः¦वाज᳚‌म्¦आ¦द॒र्षि॒¦सा॒तये᳚ ||

प॒रि॒प्र॒यन्तं᳚ व॒य्यं᳚ सुषं॒सदं॒ सोमं᳚ मनी॒षा, अ॒भ्य॑नूषत॒ स्तुभः॑ |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती}

यो धार॑या॒ मधु॑माँ, ऊ॒र्मिणा᳚ दि॒व इय॑र्ति॒ वाचं᳚ रयि॒षाळम॑र्त्यः ||{8/10}{7.2.20.3}{9.68.8}{9.4.1.8}{300, 791, 8308}

प॒रि॒ऽप्र॒यन्त᳚‌म्¦व॒य्य᳚‌म्¦सु॒ऽसं॒सद᳚‌म्¦सोम᳚‌म्¦म॒नी॒षाः¦अ॒भि¦अ॒नू॒ष॒त॒¦स्तुभः॑ |
यः¦धार॑या¦मधु॑ऽमान्¦ऊ॒र्मिणा᳚¦दि॒वः¦इय॑र्ति¦वाच᳚‌म्¦र॒यि॒षाट्¦अम॑र्त्यः ||

अ॒यं दि॒व इ॑यर्ति॒ विश्व॒मा रजः॒ सोमः॑ पुना॒नः क॒लशे᳚षु सीदति |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती}

अ॒द्भिर्गोभि᳚र्मृज्यते॒, अद्रि॑भिः सु॒तः पु॑ना॒न इन्दु॒र्वरि॑वो विदत्प्रि॒यम् ||{9/10}{7.2.20.4}{9.68.9}{9.4.1.9}{301, 791, 8309}

अ॒य‌म्¦दि॒वः¦इ॒य॒र्ति॒¦विश्व᳚‌म्¦आ¦रजः॑¦सोमः॑¦पु॒ना॒नः¦क॒लशे᳚षु¦सी॒द॒ति॒ |
अ॒त्ऽभिः¦गोभिः॑¦मृ॒ज्य॒ते॒¦अद्रि॑ऽभिः¦सु॒तः¦पु॒ना॒नः¦इन्दुः॑¦वरि॑वः¦वि॒द॒त्¦प्रि॒य‌म् ||

ए॒वा नः॑ सोम परिषि॒च्यमा᳚नो॒ वयो॒ दध॑च्चि॒त्रत॑मं पवस्व |{भालंदनो वत्सप्रिः | पवमानः सोमः | त्रिष्टुप्}

अ॒द्वे॒षे द्यावा᳚पृथि॒वी हु॑वेम॒ देवा᳚ ध॒त्त र॒यिम॒स्मे सु॒वीर᳚म् ||{10/10}{7.2.20.5}{9.68.10}{9.4.1.10}{302, 791, 8310}

ए॒व¦नः॒¦सो॒म॒¦प॒रि॒ऽसि॒च्यमा᳚नः¦वयः॑¦दध॑त्¦चि॒त्रऽत॑म‌म्¦प॒व॒स्व॒ |
अ॒द्वे॒षे इति॑¦द्यावा᳚पृथि॒वी इति॑¦हु॒वे॒म॒¦देवाः᳚¦ध॒त्त¦र॒यि‌म्¦अ॒स्मे इति॑¦सु॒ऽवीर᳚‌म् ||

[26] इषुर्नेति दशर्चस्य सूक्तस्यांगिरसोहिरण्यस्तूपः पवमानसोमोजगत्यंत्येद्वेत्रिष्टुभौ |
इषु॒र्न धन्व॒न्‌ प्रति॑ धीयते म॒तिर्व॒त्सो न मा॒तुरुप॑ स॒र्ज्यूध॑नि |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती}

उ॒रुधा᳚रेव दुहे॒, अग्र॑ आय॒त्यस्य᳚ व्र॒तेष्वपि॒ सोम॑ इष्यते ||{1/10}{7.2.21.1}{9.69.1}{9.4.2.1}{303, 792, 8311}

इषुः॑¦न¦धन्व॑न्¦प्रति॑¦धी॒य॒ते॒¦म॒तिः¦व॒त्सः¦न¦मा॒तुः¦उप॑¦स॒र्जि॒¦ऊर्ध॑नि |
उ॒रुधा᳚राऽ‌इव¦दु॒हे॒¦अग्रे᳚¦आ॒ऽय॒ती¦अस्य॑¦व्र॒तेषु॑¦अपि॑¦सोमः॑¦इ॒ष्य॒ते॒ ||

उपो᳚ म॒तिः पृ॒च्यते᳚ सि॒च्यते॒ मधु॑ म॒न्द्राज॑नी चोदते, अ॒न्तरा॒सनि॑ |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती}

पव॑मानः संत॒निः प्र॑घ्न॒तामि॑व॒ मधु॑मान्द्र॒प्सः परि॒ वार॑मर्षति ||{2/10}{7.2.21.2}{9.69.2}{9.4.2.2}{304, 792, 8312}

उपो॒ इति॑¦म॒तिः¦पृ॒च्यते᳚¦सि॒च्यते᳚¦मधु॑¦म॒न्द्र॒।आज॑नी¦चो॒द॒ते॒¦अ॒न्तः¦आ॒सनि॑ |
पव॑मानः¦स॒‌म्ऽत॒निः¦प्र॒घ्न॒ता‌म्ऽ‌इ᳚व¦मधु॑ऽमान्¦द्र॒प्सः¦परि॑¦वार᳚‌म्¦अ॒र्ष॒ति॒ ||

अव्ये᳚ वधू॒युः प॑वते॒ परि॑ त्व॒चि श्र॑थ्नी॒ते न॒प्तीरदि॑तेरृ॒तं य॒ते |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती}

हरि॑रक्रान्यज॒तः सं᳚य॒तो मदो᳚ नृ॒म्णा शिशा᳚नो महि॒षो न शो᳚भते ||{3/10}{7.2.21.3}{9.69.3}{9.4.2.3}{305, 792, 8313}

अव्ये᳚¦व॒धू॒ऽयुः¦प॒व॒ते॒¦परि॑¦त्व॒चि¦श्र॒थ्नी॒ते¦न॒प्तीः¦अदि॑तेः¦ऋ॒त‌म्¦य॒ते |
हरिः॑¦अ॒क्रा॒न्¦य॒ज॒तः¦स॒‌म्ऽय॒तः¦मदः॑¦नृ॒म्ना¦शिशा᳚नः¦म॒हि॒षः¦न¦शो॒भ॒ते॒ ||

उ॒क्षा मि॑माति॒ प्रति॑ यन्ति धे॒नवो᳚ दे॒वस्य॑ दे॒वीरुप॑ यन्ति निष्कृ॒तम् |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती}

अत्य॑क्रमी॒दर्जु॑नं॒ वार॑म॒व्यय॒मत्कं॒ न नि॒क्तं परि॒ सोमो᳚, अव्यत ||{4/10}{7.2.21.4}{9.69.4}{9.4.2.4}{306, 792, 8314}

उ॒क्षा¦मि॒मा॒ति॒¦प्रति॑¦य॒न्ति॒¦धे॒नवः॑¦दे॒वस्य॑¦दे॒वीः¦उप॑¦य॒न्ति॒¦निः॒ऽकृ॒त‌म् |
अति॑¦अ॒क्र॒मी॒त्¦अर्जु॑न‌म्¦वार᳚‌म्¦अ॒व्यय᳚‌म्¦अत्क᳚‌म्¦न¦नि॒क्त‌म्¦परि॑¦सोमः॑¦अ॒व्य॒त॒ ||

अमृ॑क्तेन॒ रुश॑ता॒ वास॑सा॒ हरि॒रम॑र्त्यो निर्णिजा॒नः परि᳚ व्यत |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती}

दि॒वस्पृ॒ष्ठं ब॒र्हणा᳚ नि॒र्णिजे᳚ कृतोप॒स्तर॑णं च॒म्वो᳚र्नभ॒स्मय᳚म् ||{5/10}{7.2.21.5}{9.69.5}{9.4.2.5}{307, 792, 8315}

अमृ॑क्तेन¦रुश॑ता¦वास॑सा¦हरिः॑¦अम॑र्त्यः¦निः॒ऽनि॒जा॒नः¦परि॑¦व्य॒त॒ |
दि॒वः¦पृ॒ष्ठ‌म्¦ब॒र्हणा᳚¦निः॒ऽनिजे᳚¦कृ॒त॒¦उ॒प॒ऽस्तर॑ण‌म्¦च॒म्वोः᳚¦न॒भ॒स्मय᳚‌म् ||

सूर्य॑स्येव र॒श्मयो᳚ द्रावयि॒त्नवो᳚ मत्स॒रासः॑ प्र॒सुपः॑ सा॒कमी᳚रते |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती}

तन्तुं᳚ त॒तं परि॒ सर्गा᳚स आ॒शवो॒ नेन्द्रा᳚दृ॒ते प॑वते॒ धाम॒ किं च॒न ||{6/10}{7.2.22.1}{9.69.6}{9.4.2.6}{308, 792, 8316}

सूर्य॑स्यऽ‌इव¦र॒श्मयः॑¦द्र॒व॒यि॒त्नवः॑¦म॒त्स॒रासः॑¦प्र॒ऽसुपः॑¦सा॒क‌म्¦ई॒र॒ते॒ |
तन्तु᳚‌म्¦त॒त‌म्¦परि॑¦सर्गा᳚सः¦आ॒शवः॑¦न¦इन्द्रा᳚त्¦ऋ॒ते¦प॒व॒ते॒¦धाम॑¦कि‌म्¦च॒न ||

सिन्धो᳚रिव प्रव॒णे नि॒म्न आ॒शवो॒ वृष॑च्युता॒ मदा᳚सो गा॒तुमा᳚शत |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती}

शं नो᳚ निवे॒शे द्वि॒पदे॒ चतु॑ष्पदे॒ऽस्मे वाजाः᳚ सोम तिष्ठन्तु कृ॒ष्टयः॑ ||{7/10}{7.2.22.2}{9.69.7}{9.4.2.7}{309, 792, 8317}

सिन्धोः᳚ऽ‌इव¦प्र॒व॒णे¦नि॒म्ने¦आ॒शवः॑¦वृष॑ऽच्युताः¦मदा᳚सः¦गा॒तु‌म्¦आ॒श॒त॒ |
श‌म्¦नः॒¦नि॒ऽवे॒शे¦द्वि॒ऽपदे᳚¦चतुः॑ऽपदे¦अ॒स्मे इति॑¦वाजाः᳚¦सो॒म॒¦ति॒ष्ठ॒न्तु॒¦कृ॒ष्टयः॑ ||

आ नः॑ पवस्व॒ वसु॑म॒द्धिर᳚ण्यव॒दश्वा᳚व॒द्गोम॒द्यव॑मत्सु॒वीर्य᳚म् |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती}

यू॒यं हि सो᳚म पि॒तरो॒ मम॒ स्थन॑ दि॒वो मू॒र्धानः॒ प्रस्थि॑ता वय॒स्कृतः॑ ||{8/10}{7.2.22.3}{9.69.8}{9.4.2.8}{310, 792, 8318}

आ¦नः॒¦प॒व॒स्व॒¦वसु॑ऽमत्¦हिर᳚ण्यऽवत्¦अश्व॑ऽवत्¦गोऽम॑त्¦यव॑ऽमत्¦सु॒ऽवीर्य᳚‌म् |
यू॒य‌म्¦हि¦सो॒म॒¦पि॒तरः॑¦मम॑¦स्थन॑¦दि॒वः¦मू॒र्धानः॑¦प्रऽस्थि॑ताः¦व॒यः॒ऽकृतः॑ ||

ए॒ते सोमाः॒ पव॑मानास॒ इन्द्रं॒ रथा᳚, इव॒ प्र य॑युः सा॒तिमच्छ॑ |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | त्रिष्टुप्}

सु॒ताः प॒वित्र॒मति॑ य॒न्त्यव्यं᳚ हि॒त्वी व॒व्रिं ह॒रितो᳚ वृ॒ष्टिमच्छ॑ ||{9/10}{7.2.22.4}{9.69.9}{9.4.2.9}{311, 792, 8319}

ए॒ते¦सोमाः᳚¦पव॑मानासः¦इन्द्र᳚‌म्¦रथाः᳚ऽ‌इव¦प्र¦य॒युः॒¦सा॒ति‌म्¦अच्छ॑ |
सु॒ताः¦प॒वित्र᳚‌म्¦अति॑¦य॒न्ति॒¦अव्य᳚‌म्¦हि॒त्वी¦व॒व्रि‌म्¦ह॒रितः॑¦वृ॒ष्टि‌म्¦अच्छ॑ ||

इन्द॒विन्द्रा᳚य बृह॒ते प॑वस्व सुमृळी॒को, अ॑नव॒द्यो रि॒शादाः᳚ |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | त्रिष्टुप्}

भरा᳚ च॒न्द्राणि॑ गृण॒ते वसू᳚नि दे॒वैर्द्या᳚वापृथिवी॒ प्राव॑तं नः ||{10/10}{7.2.22.5}{9.69.10}{9.4.2.10}{312, 792, 8320}

इन्दो॒ इति॑¦इन्द्रा᳚य¦बृ॒ह॒ते¦प॒व॒स्व॒¦सु॒ऽमृ॒ळी॒कः¦अ॒न॒व॒द्यः¦रि॒शादाः᳚ |
भर॑¦च॒न्द्राणि॑¦गृ॒ण॒ते¦वसू᳚नि¦दे॒वैः¦द्या॒वा॒पृ॒थि॒वी॒ इति॑¦प्र¦अ॒व॒त॒‌म्¦नः॒ ||

[27] त्रिरस्माइति दशर्चस्यक्तसूस्य वैश्वामित्रोरेणुः पवमानसोमोजगत्यंत्यात्रिष्टुप् |
त्रिर॑स्मै स॒प्त धे॒नवो᳚ दुदुह्रे स॒त्यामा॒शिरं᳚ पू॒र्व्ये व्यो᳚मनि |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती}

च॒त्वार्य॒न्या भुव॑नानि नि॒र्णिजे॒ चारू᳚णि चक्रे॒ यदृ॒तैरव॑र्धत ||{1/10}{7.2.23.1}{9.70.1}{9.4.3.1}{313, 793, 8321}

त्रिः¦अ॒स्मै॒¦स॒प्त¦धे॒नवः॑¦दु॒दु॒ह्रे॒¦स॒त्या‌म्¦आ॒ऽशिर᳚‌म्¦पू॒र्व्ये¦विऽओ᳚मनि |
च॒त्वारि॑¦अ॒न्या¦भुव॑नानि¦निः॒ऽनिजे᳚¦चारू᳚णि¦च॒क्रे॒¦यत्¦ऋ॒तैः¦अव॑र्धत ||

स भिक्ष॑माणो, अ॒मृत॑स्य॒ चारु॑ण उ॒भे द्यावा॒ काव्ये᳚ना॒ वि श॑श्रथे |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती}

तेजि॑ष्ठा, अ॒पो मं॒हना॒ परि᳚ व्यत॒ यदी᳚ दे॒वस्य॒ श्रव॑सा॒ सदो᳚ वि॒दुः ||{2/10}{7.2.23.2}{9.70.2}{9.4.3.2}{314, 793, 8322}

सः¦भिक्ष॑माणः¦अ॒मृत॑स्य¦चारु॑णः¦उ॒भे इति॑¦द्यावा᳚¦काव्ये᳚न¦वि¦श॒श्र॒थे॒ |
तेजि॑ष्ठाः¦अ॒पः¦मं॒हना᳚¦परि॑¦व्य॒त॒¦यदि॑¦दे॒वस्य॑¦श्रव॑सा¦सदः॑¦वि॒दुः ||

ते, अ॑स्य सन्तु के॒तवोऽमृ॑त्य॒वोऽदा᳚भ्यासो ज॒नुषी᳚, उ॒भे, अनु॑ |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती}

येभि᳚र्नृ॒म्णा च॑ दे॒व्या᳚ च पुन॒त आदिद्राजा᳚नं म॒नना᳚, अगृभ्णत ||{3/10}{7.2.23.3}{9.70.3}{9.4.3.3}{315, 793, 8323}

ते¦अ॒स्य॒¦स॒न्तु॒¦के॒तवः॑¦अमृ॑त्यवः¦अदा᳚भ्यासः¦ज॒नुषी॒ इति॑¦उ॒भे इति॑¦अनु॑ |
येभिः॑¦नृ॒म्णा¦च॒¦दे॒व्या᳚¦च॒¦पु॒न॒ते¦आत्¦इत्¦राजा᳚न‌म्¦म॒ननाः᳚¦अ॒गृ॒भ्ण॒त॒ ||

स मृ॒ज्यमा᳚नो द॒शभिः॑ सु॒कर्म॑भिः॒ प्र म॑ध्य॒मासु॑ मा॒तृषु॑ प्र॒मे सचा᳚ |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती}

व्र॒तानि॑ पा॒नो, अ॒मृत॑स्य॒ चारु॑ण उ॒भे नृ॒चक्षा॒, अनु॑ पश्यते॒ विशौ᳚ ||{4/10}{7.2.23.4}{9.70.4}{9.4.3.4}{316, 793, 8324}

सः¦मृ॒ज्यमा᳚नः¦द॒शऽभिः॑¦सु॒कर्म॑ऽभिः¦प्र¦म॒ध्य॒मासु॑¦मा॒तृषु॑¦प्र॒ऽमे¦सचा᳚ |
व्र॒तानि॑¦पा॒नः¦अ॒मृत॑स्य¦चारु॑णः¦उ॒भे इति॑¦नृ॒ऽचक्षाः᳚¦अनु॑¦प॒श्य॒ते॒¦विशौ᳚ ||

स म᳚र्मृजा॒न इ᳚न्द्रि॒याय॒ धाय॑स॒ ओभे, अ॒न्ता रोद॑सी हर्षते हि॒तः |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती}

वृषा॒ शुष्मे᳚ण बाधते॒ वि दु᳚र्म॒तीरा॒देदि॑शानः शर्य॒हेव॑ शु॒रुधः॑ ||{5/10}{7.2.23.5}{9.70.5}{9.4.3.5}{317, 793, 8325}

सः¦म॒र्मृ॒जा॒नः¦इ॒न्द्रि॒याय॑¦धाय॑से¦आ¦उ॒भे इति॑¦अ॒न्तरिति॑¦रोद॑सी॒ इति॑¦ह॒र्ष॒ते॒¦हि॒तः |
वृषा᳚¦शुष्मे᳚ण¦बा॒ध॒ते॒¦वि¦दुः॒ऽम॒तीः¦आ॒देदि॑शानः¦श॒र्य॒हाऽ‌इ᳚व¦शु॒रुधः॑ ||

स मा॒तरा॒ न ददृ॑शान उ॒स्रियो॒ नान॑ददेति म॒रुता᳚मिव स्व॒नः |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती}

जा॒नन्नृ॒तं प्र॑थ॒मं यत्स्व᳚र्णरं॒ प्रश॑स्तये॒ कम॑वृणीत सु॒क्रतुः॑ ||{6/10}{7.2.24.1}{9.70.6}{9.4.3.6}{318, 793, 8326}

सः¦मा॒तरा᳚¦न¦ददृ॑शानः¦उ॒स्रियः॑¦नान॑दत्¦ए॒ति॒¦म॒रुता᳚‌म्ऽ‌इव¦स्व॒नः |
जा॒नन्¦ऋ॒त‌म्¦प्र॒थ॒म‌म्¦यत्¦स्वः॑ऽनर‌म्¦प्रऽश॑स्तये¦क‌म्¦अ॒वृ॒णी॒त॒¦सु॒ऽक्रतुः॑ ||

रु॒वति॑ भी॒मो वृ॑ष॒भस्त॑वि॒ष्यया॒ शृङ्गे॒ शिशा᳚नो॒ हरि॑णी विचक्ष॒णः |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती}

आ योनिं॒ सोमः॒ सुकृ॑तं॒ नि षी᳚दति ग॒व्ययी॒ त्वग्भ॑वति नि॒र्णिग॒व्ययी᳚ ||{7/10}{7.2.24.2}{9.70.7}{9.4.3.7}{319, 793, 8327}

रु॒वति॑¦भी॒मः¦वृ॒ष॒भः¦त॒वि॒ष्यया᳚¦शृङ्गे॒ इति॑¦शिशा᳚नः¦हरि॑णी॒ इति॑¦वि॒ऽच॒क्ष॒णः |
आ¦योनि᳚‌म्¦सोमः॑¦सुऽकृ॑त‌म्¦नि¦सी॒द॒ति॒¦ग॒व्ययी᳚¦त्वक्¦भ॒व॒ति॒¦निः॒ऽनिक्¦अ॒व्ययी᳚ ||

शुचिः॑ पुना॒नस्त॒न्व॑मरे॒पस॒मव्ये॒ हरि॒र्न्य॑धाविष्ट॒ सान॑वि |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती}

जुष्टो᳚ मि॒त्राय॒ वरु॑णाय वा॒यवे᳚ त्रि॒धातु॒ मधु॑ क्रियते सु॒कर्म॑भिः ||{8/10}{7.2.24.3}{9.70.8}{9.4.3.8}{320, 793, 8328}

शुचिः॑¦पु॒ना॒नः¦त॒न्व᳚‌म्¦अ॒रे॒पस᳚‌म्¦अव्ये᳚¦हरिः॑¦नि¦अ॒धा॒वि॒ष्ट॒¦सान॑वि |
जुष्टः॑¦मि॒त्राय॑¦वरु॑णाय¦वा॒यवे᳚¦त्रि॒ऽधातु॑¦मधु॑¦क्रि॒य॒ते॒¦सु॒कर्म॑ऽभिः ||

पव॑स्व सोम दे॒ववी᳚तये॒ वृषेन्द्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती}

पु॒रा नो᳚ बा॒धाद्दु॑रि॒ताति॑ पारय क्षेत्र॒विद्धि दिश॒ आहा᳚ विपृच्छ॒ते ||{9/10}{7.2.24.4}{9.70.9}{9.4.3.9}{321, 793, 8329}

पव॑स्व¦सो॒म॒¦दे॒वऽवी᳚तये¦वृषा᳚¦इन्द्र॑स्य¦हार्दि॑¦सो॒म॒ऽधान᳚‌म्¦आ¦वि॒श॒ |
पु॒रा¦नः॒¦बा॒धात्¦दुः॒ऽ‌इ॒ता¦अति॑¦पा॒र॒य॒¦क्षे॒त्र॒ऽवित्¦हि¦दिशः॑¦आह॑¦वि॒ऽपृ॒च्छ॒ते ||

हि॒तो न सप्ति॑र॒भि वाज॑म॒र्षेन्द्र॑स्येन्दो ज॒ठर॒मा प॑वस्व |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | त्रिष्टुप्}

ना॒वा न सिन्धु॒मति॑ पर्षि वि॒द्वाञ्छूरो॒ न युध्य॒न्नव॑ नो नि॒दः स्पः॑ ||{10/10}{7.2.24.5}{9.70.10}{9.4.3.10}{322, 793, 8330}

हि॒तः¦न¦सप्तिः॑¦अ॒भि¦वाज᳚‌म्¦अ॒र्ष॒¦इन्द्र॑स्य¦इ॒न्दो॒ इति॑¦ज॒ठर᳚‌म्¦आ¦प॒व॒स्व॒ |
ना॒वा¦न¦सिन्धु᳚‌म्¦अति॑¦प॒र्षि॒¦वि॒द्वान्¦शूरः॑¦न¦युध्य॑न्¦अव॑¦नः॒¦नि॒दः¦स्प॒रिति॑ स्पः ||

[28] आदक्षिणेति नवर्चस्य सूक्तस्य वैश्वामित्र ऋषभः पवमानसोमोजगत्यंत्यान्त्रिष्टुप् |
आ दक्षि॑णा सृज्यते शु॒ष्म्या॒३॑(आ॒)सदं॒ वेति॑ द्रु॒हो र॒क्षसः॑ पाति॒ जागृ॑विः |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती}

हरि॑रोप॒शं कृ॑णुते॒ नभ॒स्पय॑ उप॒स्तिरे᳚ च॒म्वो॒३॑(ओ॒)र्ब्रह्म॑ नि॒र्णिजे᳚ ||{1/9}{7.2.25.1}{9.71.1}{9.4.4.1}{323, 794, 8331}

आ¦दक्षि॑णा¦सृ॒ज्य॒ते॒¦शु॒ष्मी¦आ॒ऽसद᳚‌म्¦वेति॑¦द्रु॒हः¦र॒क्षसः॑¦पा॒ति॒¦जागृ॑विः |
हरिः॑¦ओ॒प॒श‌म्¦कृ॒णु॒ते॒¦नभः॑¦पयः॑¦उ॒प॒ऽस्तिरे᳚¦च॒म्वोः᳚¦ब्रह्म॑¦निः॒ऽनिजे᳚ ||

प्र कृ॑ष्टि॒हेव॑ शू॒ष ए᳚ति॒ रोरु॑वदसु॒र्य१॑(अं॒) वर्णं॒ नि रि॑णीते, अस्य॒ तम् |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती}

जहा᳚ति व॒व्रिं पि॒तुरे᳚ति निष्कृ॒तमु॑प॒प्रुतं᳚ कृणुते नि॒र्णिजं॒ तना᳚ ||{2/9}{7.2.25.2}{9.71.2}{9.4.4.2}{324, 794, 8332}

प्र¦कृ॒ष्टि॒हाऽ‌इ᳚व¦शू॒षः¦ए॒ति॒¦रोरु॑वत्¦अ॒सु॒र्य᳚‌म्¦वर्ण᳚‌म्¦नि¦रि॒णी॒ते॒¦अ॒स्य॒¦त‌म् |
जहा᳚ति¦व॒व्रि‌म्¦पि॒तुः¦ए॒ति॒¦निः॒ऽकृ॒त‌म्¦उ॒प॒ऽप्रुत᳚‌म्¦कृ॒णु॒ते॒¦निः॒ऽनिज᳚‌म्¦तना᳚ ||

अद्रि॑भिः सु॒तः प॑वते॒ गभ॑स्त्योर्वृषा॒यते॒ नभ॑सा॒ वेप॑ते म॒ती |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती}

स मो᳚दते॒ नस॑ते॒ साध॑ते गि॒रा ने᳚नि॒क्ते, अ॒प्सु यज॑ते॒ परी᳚मणि ||{3/9}{7.2.25.3}{9.71.3}{9.4.4.3}{325, 794, 8333}

अद्रि॑ऽभिः¦सु॒तः¦प॒व॒ते॒¦गभ॑स्त्योः¦वृ॒ष॒ऽयते᳚¦नभ॑सा¦वेप॑ते¦म॒ती |
सः¦मो॒द॒ते॒¦नस॑ते¦साध॑ते¦गि॒रा¦ने॒नि॒क्ते¦अ॒प्ऽसु¦यज॑ते¦परी᳚मणि ||

परि॑ द्यु॒क्षं सह॑सः पर्वता॒वृधं॒ मध्वः॑ सिञ्चन्ति ह॒र्म्यस्य॑ स॒क्षणि᳚म् |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती}

आ यस्मि॒न्‌ गावः॑ सुहु॒ताद॒ ऊध॑नि मू॒र्धञ्छ्री॒णन्त्य॑ग्रि॒यं वरी᳚मभिः ||{4/9}{7.2.25.4}{9.71.4}{9.4.4.4}{326, 794, 8334}

परि॑¦द्यु॒क्ष‌म्¦सह॑सः¦प॒र्व॒त॒ऽवृध᳚‌म्¦मध्वः॑¦सिं॒च॒न्ति॒¦ह॒र्म्यस्य॑¦स॒क्षणि᳚‌म् |
आ¦यस्मि॑न्¦गावः॑¦सु॒हु॒त॒।आदः॑¦ऊध॑नि¦मू॒र्धन्¦श्री॒णन्ति॑¦अ॒ग्रि॒य‌म्¦वरी᳚मऽभिः ||

समी॒ रथं॒ न भु॒रिजो᳚रहेषत॒ दश॒ स्वसा᳚रो॒, अदि॑तेरु॒पस्थ॒ आ |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती}

जिगा॒दुप॑ ज्रयति॒ गोर॑पी॒च्यं᳚ प॒दं यद॑स्य म॒तुथा॒, अजी᳚जनन् ||{5/9}{7.2.25.5}{9.71.5}{9.4.4.5}{327, 794, 8335}

स‌म्¦ई॒मिति॑¦रथ᳚‌म्¦न¦भु॒रिजोः᳚¦अ॒हे॒ष॒त॒¦दश॑¦स्वसा᳚रः¦अदि॑तेः¦उ॒पऽस्थे᳚¦आ |
जिगा᳚त्¦उप॑¦ज्र॒य॒ति॒¦गोः¦अ॒पी॒च्य᳚‌म्¦प॒द‌म्¦यत्¦अ॒स्य॒¦म॒तुथाः᳚¦अजी᳚जनन् ||

श्ये॒नो न योनिं॒ सद॑नं धि॒या कृ॒तं हि॑र॒ण्यय॑मा॒सदं᳚ दे॒व एष॑ति |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती}

ए रि॑णन्ति ब॒र्हिषि॑ प्रि॒यं गि॒राश्वो॒ न दे॒वाँ, अप्ये᳚ति य॒ज्ञियः॑ ||{6/9}{7.2.26.1}{9.71.6}{9.4.4.6}{328, 794, 8336}

श्ये॒नः¦न¦योनि᳚‌म्¦सद॑न‌म्¦धि॒या¦कृ॒त‌म्¦हि॒र॒ण्यय᳚‌म्¦आ॒ऽसद᳚‌म्¦दे॒वः¦आ¦ई॒ष॒ति॒ |
आ¦ई॒मिति॑¦रि॒ण॒न्ति॒¦ब॒र्हिषि॑¦प्रि॒य‌म्¦गि॒रा¦अश्वः॑¦न¦दे॒वान्¦अपि॑¦ए॒ति॒¦य॒ज्ञियः॑ ||

परा॒ व्य॑क्तो, अरु॒षो दि॒वः क॒विर्वृषा᳚ त्रिपृ॒ष्ठो, अ॑नविष्ट॒ गा, अ॒भि |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती}

स॒हस्र॑णीति॒र्यतिः॑ परा॒यती᳚ रे॒भो न पू॒र्वीरु॒षसो॒ वि रा᳚जति ||{7/9}{7.2.26.2}{9.71.7}{9.4.4.7}{329, 794, 8337}

परा᳚¦वि।आ॑क्तः¦अ॒रु॒षः¦दि॒वः¦क॒विः¦वृषा᳚¦त्रि॒ऽपृ॒ष्ठः¦अ॒न॒वि॒ष्ट॒¦गाः¦अ॒भि |
स॒हस्र॑ऽनीतिः¦यतिः॑¦प॒रा॒ऽयतिः॑¦रे॒भः¦न¦पू॒र्वीः¦उ॒षसः॑¦वि¦रा॒ज॒ति॒ ||

त्वे॒षं रू॒पं कृ॑णुते॒ वर्णो᳚, अस्य॒ स यत्राश॑य॒त्समृ॑ता॒ सेध॑ति स्रि॒धः |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती}

अ॒प्सा या᳚ति स्व॒धया॒ दैव्यं॒ जनं॒ सं सु॑ष्टु॒ती नस॑ते॒ सं गो,अ॑ग्रया ||{8/9}{7.2.26.3}{9.71.8}{9.4.4.8}{330, 794, 8338}

त्वे॒ष‌म्¦रू॒प‌म्¦कृ॒णु॒ते॒¦वर्णः॑¦अ॒स्य॒¦सः¦यत्र॑¦अश॑यत्¦स‌म्ऽऋ॑ता¦सेध॑ति¦स्रि॒धः |
अ॒प्साः¦या॒ति॒¦स्व॒धया᳚¦दैव्य᳚‌म्¦जन᳚‌म्¦स‌म्¦सु॒ऽस्तु॒ती¦नस॑ते¦स‌म्¦गो।आ॑ग्रया ||

उ॒क्षेव॑ यू॒था प॑रि॒यन्न॑रावी॒दधि॒ त्विषी᳚रधित॒ सूर्य॑स्य |{वैश्वामित्र ऋषभः | पवमानः सोमः | त्रिष्टुप्}

दि॒व्यः सु॑प॒र्णोऽव॑ चक्षत॒ क्षां सोमः॒ परि॒ क्रतु॑ना पश्यते॒ जाः ||{9/9}{7.2.26.4}{9.71.9}{9.4.4.9}{331, 794, 8339}

उ॒क्षाऽ‌इ᳚व¦यू॒था¦प॒रि॒ऽयन्¦अ॒रा॒वी॒त्¦अधि॑¦त्विषीः᳚¦अ॒धि॒त॒¦सूर्य॑स्य |
दि॒व्यः¦सु॒ऽप॒र्णः¦अव॑¦च॒क्ष॒त॒¦क्षा‌म्¦सोमः॑¦परि॑¦क्रतु॑ना¦प॒श्य॒ते॒¦जाः ||

[29] हरिंमृजंतीति नवर्चस्य सूक्तस्य आंगिरसोहरिमंतः पवमानसोमोजगती |
हरिं᳚ मृजन्त्यरु॒षो न यु॑ज्यते॒ सं धे॒नुभिः॑ क॒लशे॒ सोमो᳚, अज्यते |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती}

उद्वाच॑मी॒रय॑ति हि॒न्वते᳚ म॒ती पु॑रुष्टु॒तस्य॒ कति॑ चित्परि॒प्रियः॑ ||{1/9}{7.2.27.1}{9.72.1}{9.4.5.1}{332, 795, 8340}

हरि᳚‌म्¦मृ॒ज॒न्ति॒¦अ॒रु॒षः¦न¦यु॒ज्य॒ते॒¦स‌म्¦धे॒नुऽभिः॑¦क॒लशे᳚¦सोमः॑¦अ॒ज्य॒ते॒ |
उत्¦वाच᳚‌म्¦ई॒रय॑ति¦हि॒न्वते᳚¦म॒ती¦पु॒रु॒ऽस्तु॒तस्य॑¦कति॑¦चि॒त्¦प॒रि॒ऽप्रियः॑ ||

सा॒कं व॑दन्ति ब॒हवो᳚ मनी॒षिण॒ इन्द्र॑स्य॒ सोमं᳚ ज॒ठरे॒ यदा᳚दु॒हुः |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती}

यदी᳚ मृ॒जन्ति॒ सुग॑भस्तयो॒ नरः॒ सनी᳚ळाभिर्द॒शभिः॒ काम्यं॒ मधु॑ ||{2/9}{7.2.27.2}{9.72.2}{9.4.5.2}{333, 795, 8341}

सा॒क‌म्¦व॒द॒न्ति॒¦ब॒हवः॑¦म॒नी॒षिणः॑¦इन्द्र॑स्य¦सोम᳚‌म्¦ज॒ठरे᳚¦यत्¦आ॒ऽदु॒हुः |
यदि॑¦मृ॒जन्ति॑¦सुऽग॑भस्तयः¦नरः॑¦सऽनी᳚ळाभिः¦द॒शऽभिः॑¦काम्य᳚‌म्¦मधु॑ ||

अर॑ममाणो॒, अत्ये᳚ति॒ गा, अ॒भि सूर्य॑स्य प्रि॒यं दु॑हि॒तुस्ति॒रो रव᳚म् |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती}

अन्व॑स्मै॒ जोष॑मभरद्विनंगृ॒सः सं द्व॒यीभिः॒ स्वसृ॑भिः, क्षेति जा॒मिभिः॑ ||{3/9}{7.2.27.3}{9.72.3}{9.4.5.3}{334, 795, 8342}

अर॑ममाणः¦अति॑¦ए॒ति॒¦गाः¦अ॒भि¦सूर्य॑स्य¦प्रि॒य‌म्¦दु॒हि॒तुः¦ति॒रः¦रव᳚‌म् |
अनु॑¦अ॒स्मै॒¦जोष᳚‌म्¦अ॒भ॒र॒त्¦वि॒न॒‌म्ऽगृ॒सः¦स‌म्¦द्व॒यीभिः॑¦स्वसृ॑ऽभिः¦क्षे॒ति॒¦जा॒मिऽभिः॑ ||

नृधू᳚तो॒, अद्रि॑षुतो ब॒र्हिषि॑ प्रि॒यः पति॒र्गवां᳚ प्र॒दिव॒ इन्दु᳚रृ॒त्वियः॑ |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती}

पुरं᳚धिवा॒न्मनु॑षो यज्ञ॒साध॑नः॒ शुचि॑र्धि॒या प॑वते॒ सोम॑ इन्द्र ते ||{4/9}{7.2.27.4}{9.72.4}{9.4.5.4}{335, 795, 8343}

नृऽधू᳚तः¦अद्रि॑ऽसुतः¦ब॒र्हिषि॑¦प्रि॒यः¦पतिः॑¦गवा᳚‌म्¦प्र॒ऽदिवः॑¦इन्दुः॑¦ऋ॒त्वियः॑ |
पुर᳚न्धिऽवान्¦मनु॑षः¦य॒ज्ञ॒ऽसाध॑नः¦शुचिः॑¦धि॒या¦प॒व॒ते॒¦सोमः॑¦इ॒न्द्र॒¦ते॒ ||

नृबा॒हुभ्यां᳚ चोदि॒तो धार॑या सु॒तो᳚ऽनुष्व॒धं प॑वते॒ सोम॑ इन्द्र ते |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती}

आप्राः॒ क्रतू॒न्‌ त्सम॑जैरध्व॒रे म॒तीर्वेर्न द्रु॒षच्च॒म्वो॒३॑(ओ॒)रास॑द॒द्धरिः॑ ||{5/9}{7.2.27.5}{9.72.5}{9.4.5.5}{336, 795, 8344}

नृबा॒हुऽभ्या᳚‌म्¦चो॒दि॒तः¦धार॑या¦सु॒तः¦अ॒नु॒ऽस्व॒ध‌म्¦प॒व॒ते॒¦सोमः॑¦इ॒न्द्र॒¦ते॒ |
आ¦अ॒प्राः॒¦क्रतू᳚न्¦स‌म्¦अ॒जैः॒¦अ॒ध्व॒रे¦म॒तीः¦वेः¦न¦द्रु॒ऽसत्¦च॒म्वोः᳚¦आ¦अ॒स॒द॒त्¦हरिः॑ ||

अं॒शुं दु॑हन्ति स्त॒नय᳚न्त॒मक्षि॑तं क॒विं क॒वयो॒ऽपसो᳚ मनी॒षिणः॑ |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती}

समी॒ गावो᳚ म॒तयो᳚ यन्ति सं॒यत॑ ऋ॒तस्य॒ योना॒ सद॑ने पुन॒र्भुवः॑ ||{6/9}{7.2.28.1}{9.72.6}{9.4.5.6}{337, 795, 8345}

अं॒शु‌म्¦दु॒ह॒न्ति॒¦स्त॒नय᳚न्त‌म्¦अक्षि॑त‌म्¦क॒वि‌म्¦क॒वयः॑¦अ॒पसः॑¦म॒नी॒षिणः॑ |
स‌म्¦ई॒मिति॑¦गावः॑¦म॒तयः॑¦य॒न्ति॒¦स॒‌म्ऽयतः॑¦ऋ॒तस्य॑¦योना᳚¦सद॑ने¦पु॒नः॒ऽभुवः॑ ||

नाभा᳚ पृथि॒व्या ध॒रुणो᳚ म॒हो दि॒वो॒३॑(ओ॒)ऽपामू॒र्मौ सिन्धु॑ष्व॒न्तरु॑क्षि॒तः |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती}

इन्द्र॑स्य॒ वज्रो᳚ वृष॒भो वि॒भूव॑सुः॒ सोमो᳚ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ||{7/9}{7.2.28.2}{9.72.7}{9.4.5.7}{338, 795, 8346}

नाभा᳚¦पृ॒थि॒व्याः¦ध॒रुणः॑¦म॒हः¦दि॒वः¦अ॒पा‌म्¦ऊ॒र्मौ¦सिन्धु॑षु¦अ॒न्तः¦उ॒क्षि॒तः |
इन्द्र॑स्य¦वज्रः॑¦वृ॒ष॒भः¦वि॒भुऽव॑सुः¦सोमः॑¦हृ॒दे¦प॒व॒ते॒¦चारु॑¦म॒त्स॒रः ||

स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रजः॑ स्तो॒त्रे शिक्ष᳚न्नाधून्व॒ते च॑ सुक्रतो |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती}

मा नो॒ निर्भा॒ग्वसु॑नः सादन॒स्पृशो᳚ र॒यिं पि॒शङ्गं᳚ बहु॒लं व॑सीमहि ||{8/9}{7.2.28.3}{9.72.8}{9.4.5.8}{339, 795, 8347}

सः¦तु¦प॒व॒स्व॒¦परि॑¦पार्थि॑व‌म्¦रजः॑¦स्तो॒त्रे¦शिक्ष॑न्¦आ॒ऽधू॒न्व॒ते¦च॒¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो |
मा¦नः॒¦निः¦भा॒क्¦वसु॑नः¦स॒द॒न॒ऽस्पृशः॑¦र॒यि‌म्¦पि॒शङ्ग᳚‌म्¦ब॒हु॒ल‌म्¦व॒सी॒म॒हि॒ ||

आ तू न॑ इन्दो श॒तदा॒त्वश्व्यं᳚ स॒हस्र॑दातु पशु॒मद्धिर᳚ण्यवत् |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती}

उप॑ मास्व बृह॒ती रे॒वती॒रिषोऽधि॑ स्तो॒त्रस्य॑ पवमान नो गहि ||{9/9}{7.2.28.4}{9.72.9}{9.4.5.9}{340, 795, 8348}

आ¦तु¦नः॒¦इ॒न्दो॒ इति॑¦श॒तऽदा᳚तु¦अश्व्य᳚‌म्¦स॒हस्र॑ऽदातु¦प॒शु॒ऽमत्¦हिर᳚ण्यऽवत् |
उप॑¦मा॒स्व॒¦बृ॒ह॒तीः¦रे॒वतीः᳚¦इषः॑¦अधि॑¦स्तो॒त्रस्य॑¦प॒व॒मा॒न॒¦नः॒¦ग॒हि॒ ||

[30] स्रक्वेद्रप्सस्येति नवर्चस्य सूक्तस्यांगिरसः पवित्रः पवमान सोमो जगती |
स्रक्वे᳚ द्र॒प्सस्य॒ धम॑तः॒ सम॑स्वरन्नृ॒तस्य॒ योना॒ सम॑रन्त॒ नाभ॑यः |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती}

त्रीन्‌ त्स मू॒र्ध्नो, असु॑रश्चक्र आ॒रभे᳚ स॒त्यस्य॒ नावः॑ सु॒कृत॑मपीपरन् ||{1/9}{7.2.29.1}{9.73.1}{9.4.6.1}{341, 796, 8349}

स्रक्वे᳚¦द्र॒प्सस्य॑¦धम॑तः¦स‌म्¦अ॒स्व॒र॒न्¦ऋ॒तस्य॑¦योना᳚¦स‌म्¦अ॒र॒न्त॒¦नाभ॑यः |
त्रीन्¦सः¦मू॒र्ध्नः¦असु॑रः¦च॒क्रे॒¦आ॒ऽरभे᳚¦स॒त्यस्य॑¦नावः॑¦सु॒ऽकृत᳚‌म्¦अ॒पी॒प॒र॒न् ||

स॒म्यक्स॒म्यञ्चो᳚ महि॒षा, अ॑हेषत॒ सिन्धो᳚रू॒र्मावधि॑ वे॒ना, अ॑वीविपन् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती}

मधो॒र्धारा᳚भिर्ज॒नय᳚न्तो, अ॒र्कमित्प्रि॒यामिन्द्र॑स्य त॒न्व॑मवीवृधन् ||{2/9}{7.2.29.2}{9.73.2}{9.4.6.2}{342, 796, 8350}

स॒म्यक्¦स॒म्यंचः॑¦म॒हि॒षाः¦अ॒हे॒ष॒त॒¦सिन्धोः᳚¦ऊ॒र्मौ¦अधि॑¦वे॒नाः¦अ॒वी॒वि॒प॒न् |
मधोः᳚¦धारा᳚भिः¦ज॒नय᳚न्तः¦अ॒र्क‌म्¦इत्¦प्रि॒या‌म्¦इन्द्र॑स्य¦त॒न्व᳚‌म्¦अ॒वी॒वृ॒ध॒न् ||

प॒वित्र॑वन्तः॒ परि॒ वाच॑मासते पि॒तैषां᳚ प्र॒त्नो, अ॒भि र॑क्षति व्र॒तम् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती}

म॒हः स॑मु॒द्रं वरु॑णस्ति॒रो द॑धे॒ धीरा॒, इच्छे᳚कुर्ध॒रुणे᳚ष्वा॒रभ᳚म् ||{3/9}{7.2.29.3}{9.73.3}{9.4.6.3}{343, 796, 8351}

प॒वित्र॑ऽवन्तः¦परि॑¦वाच᳚‌म्¦आ॒स॒ते॒¦पि॒ता¦ए॒षा॒‌म्¦प्र॒त्नः¦अ॒भि¦र॒क्ष॒ति॒¦व्र॒त‌म् |
म॒हः¦स॒मु॒द्र‌म्¦वरु॑णः¦ति॒रः¦द॒धे॒¦धीराः᳚¦इत्¦शे॒कुः॒¦ध॒रुणे᳚षु¦आ॒ऽरभ᳚‌म् ||

स॒हस्र॑धा॒रेऽव॒ ते सम॑स्वरन्दि॒वो नाके॒ मधु॑जिह्वा, अस॒श्चतः॑ |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती}

अस्य॒ स्पशो॒ न नि मि॑षन्ति॒ भूर्ण॑यः प॒देप॑दे पा॒शिनः॑ सन्ति॒ सेत॑वः ||{4/9}{7.2.29.4}{9.73.4}{9.4.6.4}{344, 796, 8352}

स॒हस्र॑ऽधारे¦अव॑¦ते¦स‌म्¦अ॒स्व॒र॒न्¦दि॒वः¦नाके᳚¦मधु॑ऽजिह्वाः¦अ॒स॒श्चतः॑ |
अस्य॑¦स्पशः॑¦न¦नि¦मि॒ष॒न्ति॒¦भूर्ण॑यः¦प॒देऽप॑दे¦पा॒शिनः॑¦स॒न्ति॒¦सेत॑वः ||

पि॒तुर्मा॒तुरध्या ये स॒मस्व॑रन्नृ॒चा शोच᳚न्तः सं॒दह᳚न्तो, अव्र॒तान् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती}

इन्द्र॑द्विष्टा॒मप॑ धमन्ति मा॒यया॒ त्वच॒मसि॑क्नीं॒ भूम॑नो दि॒वस्परि॑ ||{5/9}{7.2.29.5}{9.73.5}{9.4.6.5}{345, 796, 8353}

पि॒तुः¦मा॒तुः¦अधि॑¦आ¦ये¦स॒‌म्।आस्व॑रन्¦ऋ॒चा¦शोच᳚न्तः¦स॒‌म्ऽदह᳚न्तः¦अ॒व्र॒तान् |
इन्द्र॑ऽद्विष्टा‌म्¦अप॑¦ध॒म॒न्ति॒¦मा॒यया᳚¦त्वच᳚‌म्¦असि॑क्नी‌म्¦भूम॑नः¦दि॒वः¦परि॑ ||

प्र॒त्नान्माना॒दध्या ये स॒मस्व॑र॒ञ्छ्लोक॑यन्त्रासो रभ॒सस्य॒ मन्त॑वः |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती}

अपा᳚न॒क्षासो᳚ बधि॒रा, अ॑हासत ऋ॒तस्य॒ पन्थां॒ न त॑रन्ति दु॒ष्कृतः॑ ||{6/9}{7.2.30.1}{9.73.6}{9.4.6.6}{346, 796, 8354}

प्र॒त्नात्¦माना᳚त्¦अधि॑¦आ¦ये¦स॒‌म्।आस्व॑रन्¦श्लोक॑ऽयन्त्रासः¦र॒भ॒सस्य॑¦मन्त॑वः |
अप॑¦अ॒न॒क्षासः॑¦ब॒धि॒राः¦अ॒हा॒स॒त॒¦ऋ॒तस्य॑¦पन्था᳚‌म्¦न¦त॒र॒न्ति॒¦दुः॒ऽकृतः॑ ||

स॒हस्र॑धारे॒ वित॑ते प॒वित्र॒ आ वाचं᳚ पुनन्ति क॒वयो᳚ मनी॒षिणः॑ |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती}

रु॒द्रास॑ एषामिषि॒रासो᳚, अ॒द्रुहः॒ स्पशः॒ स्वञ्चः॑ सु॒दृशो᳚ नृ॒चक्ष॑सः ||{7/9}{7.2.30.2}{9.73.7}{9.4.6.7}{347, 796, 8355}

स॒हस्र॑ऽधारे¦विऽत॑ते¦प॒वित्रे᳚¦आ¦वाच᳚‌म्¦पु॒न॒न्ति॒¦क॒वयः॑¦म॒नी॒षिणः॑ |
रु॒द्रासः॑¦ए॒षा॒‌म्¦इ॒षि॒रासः॑¦अ॒द्रुहः॑¦स्पशः॑¦सु॒।आंचः॑¦सु॒ऽदृशः॑¦नृ॒ऽचक्ष॑सः ||

ऋ॒तस्य॑ गो॒पा न दभा᳚य सु॒क्रतु॒स्त्री ष प॒वित्रा᳚ हृ॒द्य१॑(अ॒)न्तरा द॑धे |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती}

वि॒द्वान्‌ त्स विश्वा॒ भुव॑ना॒भि प॑श्य॒त्यवाजु॑ष्टान्‌ विध्यति क॒र्ते, अ᳚व्र॒तान् ||{8/9}{7.2.30.3}{9.73.8}{9.4.6.8}{348, 796, 8356}

ऋ॒तस्य॑¦गो॒पाः¦न¦दभा᳚य¦सु॒ऽक्रतुः॑¦त्री¦सः¦प॒वित्रा᳚¦हृ॒दि¦अ॒न्तः¦आ¦द॒धे॒ |
वि॒द्वान्¦सः¦विश्वा᳚¦भुव॑ना¦अ॒भि¦प॒श्य॒ति॒¦अव॑¦अजु॑ष्टान्¦वि॒ध्य॒ति¦क॒र्ते¦अ॒व्र॒तान् ||

ऋ॒तस्य॒ तन्तु॒र्वित॑तः प॒वित्र॒ आ जि॒ह्वाया॒, अग्रे॒ वरु॑णस्य मा॒यया᳚ |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती}

धीरा᳚श्चि॒त्तत्स॒मिन॑क्षन्त आश॒तात्रा᳚ क॒र्तमव॑ पदा॒त्यप्र॑भुः ||{9/9}{7.2.30.4}{9.73.9}{9.4.6.9}{349, 796, 8357}

ऋ॒तस्य॑¦तन्तुः॑¦विऽत॑तः¦प॒वित्रे᳚¦आ¦जि॒ह्वायाः᳚¦अग्रे᳚¦वरु॑णस्य¦मा॒यया᳚ |
धीराः᳚¦चि॒त्¦तत्¦स॒‌म्ऽ‌इन॑क्षन्तः¦आ॒श॒त॒¦अत्र॑¦क॒र्त‌म्¦अव॑¦प॒दा॒ति॒¦अप्र॑ऽभुः ||

[31] शिशुर्नेति नवर्चस्य सूक्तस्य दैर्घतमसः कक्षीवान्पवमान सोमोजगत्यष्टमीत्रिष्टुप् |
शिशु॒र्न जा॒तोऽव॑ चक्रद॒द्वने॒ स्व१॑(अ॒)र्यद्वा॒ज्य॑रु॒षः सिषा᳚सति |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती}

दि॒वो रेत॑सा सचते पयो॒वृधा॒ तमी᳚महे सुम॒ती शर्म॑ स॒प्रथः॑ ||{1/9}{7.2.31.1}{9.74.1}{9.4.7.1}{350, 797, 8358}

शिशुः॑¦न¦जा॒तः¦अव॑¦च॒क्र॒द॒त्¦वने᳚¦स्वः॑¦यत्¦वा॒जी¦अ॒रु॒षः¦सिसा᳚सति |
दि॒वः¦रेत॑सा¦स॒च॒ते॒¦प॒यः॒ऽवृधा᳚¦त‌म्¦ई॒म॒हे॒¦सु॒ऽम॒ती¦शर्म॑¦स॒ऽप्रथः॑ ||

दि॒वो यः स्क॒म्भो ध॒रुणः॒ स्वा᳚तत॒ आपू᳚र्णो, अं॒शुः प॒र्येति॑ वि॒श्वतः॑ |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती}

सेमे म॒ही रोद॑सी यक्षदा॒वृता᳚ समीची॒ने दा᳚धार॒ समिषः॑ क॒विः ||{2/9}{7.2.31.2}{9.74.2}{9.4.7.2}{351, 797, 8359}

दि॒वः¦यः¦स्क॒म्भः¦ध॒रुणः॑¦सुऽआ᳚ततः¦आऽपू᳚र्णः¦अं॒शुः¦प॒रि॒ऽएति॑¦वि॒श्वतः॑ |
सः¦इ॒मे इति॑¦म॒ही इति॑¦रोद॑सी॒ इति॑¦य॒क्ष॒त्¦आ॒ऽवृता᳚¦स॒मी॒ची॒ने इति॑ स॒‌म्ऽई॒ची॒ने¦दा॒हा॒र॒¦स‌म्¦इषः॑¦क॒विः ||

महि॒ प्सरः॒ सुकृ॑तं सो॒म्यं मधू॒र्वी गव्यू᳚ति॒रदि॑तेरृ॒तं य॒ते |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती}

ईशे॒ यो वृ॒ष्टेरि॒त उ॒स्रियो॒ वृषा॒पां ने॒ता य इ॒तऊ᳚तिरृ॒ग्मियः॑ ||{3/9}{7.2.31.3}{9.74.3}{9.4.7.3}{352, 797, 8360}

महि॑¦प्सरः॑¦सुऽकृ॑त‌म्¦सो॒म्य‌म्¦मधु॑¦उ॒र्वी¦गव्यू᳚तिः¦अदि॑तेः¦ऋ॒त‌म्¦य॒ते |
ईशे᳚¦यः¦वृ॒ष्टेः¦इ॒तः¦उ॒स्रियः॑¦वृषा᳚¦अ॒पा‌म्¦ने॒ता¦यः¦इ॒तःऽऊ᳚तिः¦ऋ॒ग्मियः॑ ||

आ॒त्म॒न्वन्नभो᳚ दुह्यते घृ॒तं पय॑ ऋ॒तस्य॒ नाभि॑र॒मृतं॒ वि जा᳚यते |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती}

स॒मी॒ची॒नाः सु॒दान॑वः प्रीणन्ति॒ तं नरो᳚ हि॒तमव॑ मेहन्ति॒ पेर॑वः ||{4/9}{7.2.31.4}{9.74.4}{9.4.7.4}{353, 797, 8361}

आ॒त्म॒न्ऽवत्¦नभः॑¦दु॒ह्य॒ते॒¦घृ॒त‌म्¦पयः॑¦ऋ॒तस्य॑¦नाभिः॑¦अ॒मृत᳚‌म्¦वि¦जा॒य॒ते॒ |
स॒‌म्ऽई॒ची॒नाः¦सु॒ऽदान॑वः¦प्री॒ण॒न्ति॒¦त‌म्¦नरः॑¦हि॒त‌म्¦अव॑¦मे॒ह॒न्ति॒¦पेर॑वः ||

अरा᳚वीदं॒शुः सच॑मान ऊ॒र्मिणा᳚ देवा॒व्य१॑(अं॒) मनु॑षे पिन्वति॒ त्वच᳚म् |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती}

दधा᳚ति॒ गर्भ॒मदि॑तेरु॒पस्थ॒ आ येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ||{5/9}{7.2.31.5}{9.74.5}{9.4.7.5}{354, 797, 8362}

अरा᳚वीत्¦अं॒शुः¦सच॑मानः¦ऊ॒र्मिणा᳚¦दे॒व॒।आ॒व्य᳚‌म्¦मनु॑षे¦पि॒न्व॒ति॒¦त्वच᳚‌म् |
दधा᳚ति¦गर्भ᳚‌म्¦अदि॑तेः¦उ॒पऽस्थे᳚¦आ¦येन॑¦तो॒क‌म्¦च॒¦तन॑य‌म्¦च॒¦धाम॑हे ||

स॒हस्र॑धा॒रेऽव॒ ता, अ॑स॒श्चत॑स्तृ॒तीये᳚ सन्तु॒ रज॑सि प्र॒जाव॑तीः |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती}

चत॑स्रो॒ नाभो॒ निहि॑ता, अ॒वो दि॒वो ह॒विर्भ॑रन्त्य॒मृतं᳚ घृत॒श्चुतः॑ ||{6/9}{7.2.32.1}{9.74.6}{9.4.7.6}{355, 797, 8363}

स॒हस्र॑ऽधारे¦अव॑¦ताः¦अ॒स॒श्चतः॑¦तृ॒तीये᳚¦स॒न्तु॒¦रज॑सि¦प्र॒जाऽव॑तीः |
चत॑स्रः¦नाभः॑¦निऽहि॑ताः¦अ॒वः¦दि॒वः¦ह॒विः¦भ॒र॒न्ति॒¦अ॒मृत᳚‌म्¦घृ॒त॒ऽश्चुतः॑ ||

श्वे॒तं रू॒पं कृ॑णुते॒ यत्सिषा᳚सति॒ सोमो᳚ मी॒ढ्वाँ, असु॑रो वेद॒ भूम॑नः |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती}

धि॒या शमी᳚ सचते॒ सेम॒भि प्र॒वद्दि॒वस्कव᳚न्ध॒मव॑ दर्षदु॒द्रिण᳚म् ||{7/9}{7.2.32.2}{9.74.7}{9.4.7.7}{356, 797, 8364}

श्वे॒त‌म्¦रू॒प‌म्¦कृ॒णु॒ते॒¦यत्¦सिसा᳚सति¦सोमः॑¦मी॒ढ्वान्¦असु॑रः¦वे॒द॒¦भूम॑नः |
धि॒या¦शमी᳚¦स॒च॒ते॒¦सः¦ई॒‌म्¦अ॒भि¦प्र॒ऽवत्¦दि॒वः¦कव᳚न्ध‌म्¦अव॑¦द॒र्ष॒त्¦उ॒द्रिण᳚‌म् ||

अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तं कार्ष्म॒न्ना वा॒ज्य॑क्रमीत्सस॒वान् |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | त्रिष्टुप्}

आ हि᳚न्‌ विरे॒ मन॑सा देव॒यन्तः॑ क॒क्षीव॑ते श॒तहि॑माय॒ गोना᳚म् ||{8/9}{7.2.32.3}{9.74.8}{9.4.7.8}{357, 797, 8365}

अध॑¦श्वे॒त‌म्¦क॒लश᳚‌म्¦गोभिः॑¦अ॒क्त‌म्¦कार्ष्म॑न्¦आ¦वा॒जी¦अ॒क्र॒मी॒त्¦स॒स॒ऽवान् |
आ¦हि॒न्वि॒रे॒¦मन॑सा¦दे॒व॒ऽयन्तः॑¦क॒क्षीव॑ते¦श॒तऽहि॑माय¦गोना᳚‌म् ||

अ॒द्भिः सो᳚म पपृचा॒नस्य॑ ते॒ रसोऽव्यो॒ वारं॒ वि प॑वमान धावति |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती}

स मृ॒ज्यमा᳚नः क॒विभि᳚र्मदिन्तम॒ स्वद॒स्वेन्द्रा᳚य पवमान पी॒तये᳚ ||{9/9}{7.2.32.4}{9.74.9}{9.4.7.9}{358, 797, 8366}

अ॒त्ऽभिः¦सो॒म॒¦प॒पृ॒चा॒नस्य॑¦ते॒¦रसः॑¦अव्यः॑¦वार᳚‌म्¦वि¦प॒व॒मा॒न॒¦धा॒व॒ति॒ |
सः¦मृ॒ज्यमा᳚नः¦क॒विऽभिः॑¦म॒दि॒न्ऽत॒म॒¦स्वद॑स्व¦इन्द्रा᳚य¦प॒व॒मा॒न॒¦पी॒तये᳚ ||

[32] अभिप्रियाणीति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमानसोमोजगती |
अ॒भि प्रि॒याणि॑ पवते॒ चनो᳚हितो॒ नामा᳚नि य॒ह्वो, अधि॒ येषु॒ वर्ध॑ते |{भार्गवः कविः | पवमानः सोमः | जगती}

आ सूर्य॑स्य बृह॒तो बृ॒हन्नधि॒ रथं॒ विष्व᳚ञ्चमरुहद्विचक्ष॒णः ||{1/5}{7.2.33.1}{9.75.1}{9.4.8.1}{359, 798, 8367}

अ॒भि¦प्रि॒याणि॑¦प॒व॒ते॒¦चनः॑ऽहितः¦नामा᳚नि¦य॒ह्वः¦अधि॑¦येषु॑¦वर्ध॑ते |
आ¦सूर्य॑स्य¦बृ॒ह॒तः¦बृ॒हन्¦अधि॑¦रथ᳚‌म्¦विष्वं᳚च‌म्¦अ॒रु॒ह॒त्¦वि॒ऽच॒क्ष॒णः ||

ऋ॒तस्य॑ जि॒ह्वा प॑वते॒ मधु॑ प्रि॒यं व॒क्ता पति॑र्धि॒यो, अ॒स्या, अदा᳚भ्यः |{भार्गवः कविः | पवमानः सोमः | जगती}

दधा᳚ति पु॒त्रः पि॒त्रोर॑पी॒च्य१॑(अं॒) नाम॑ तृ॒तीय॒मधि॑ रोच॒ने दि॒वः ||{2/5}{7.2.33.2}{9.75.2}{9.4.8.2}{360, 798, 8368}

ऋ॒तस्य॑¦जि॒ह्वा¦प॒व॒ते॒¦मधु॑¦प्रि॒य‌म्¦व॒क्ता¦पतिः॑¦धि॒यः¦अ॒स्याः¦अदा᳚भ्यः |
दधा᳚ति¦पु॒त्रः¦पि॒त्रोः¦अ॒पी॒च्य᳚‌म्¦नाम॑¦तृ॒तीय᳚‌म्¦अधि॑¦रो॒च॒ने¦दि॒वः ||

अव॑ द्युता॒नः क॒लशाँ᳚, अचिक्रद॒न्नृभि᳚र्येमा॒नः कोश॒ आ हि॑र॒ण्यये᳚ |{भार्गवः कविः | पवमानः सोमः | जगती}

अ॒भीमृ॒तस्य॑ दो॒हना᳚, अनूष॒ताधि॑ त्रिपृ॒ष्ठ उ॒षसो॒ वि रा᳚जति ||{3/5}{7.2.33.3}{9.75.3}{9.4.8.3}{361, 798, 8369}

अव॑¦द्यु॒ता॒नः¦क॒लशा᳚न्¦अ॒चि॒क्र॒द॒त्¦नृऽभिः॑¦ये॒मा॒नः¦कोशे᳚¦आ¦हि॒र॒ण्यये᳚ |
अ॒भि¦ई॒‌म्¦ऋ॒तस्य॑¦दो॒हनाः᳚¦अ॒नू॒ष॒त॒¦अधि॑¦त्रि॒ऽपृ॒ष्ठः¦उ॒षसः॑¦वि¦रा॒ज॒ति॒ ||

अद्रि॑भिः सु॒तो म॒तिभि॒श्चनो᳚हितः प्ररो॒चय॒न्‌ रोद॑सी मा॒तरा॒ शुचिः॑ |{भार्गवः कविः | पवमानः सोमः | जगती}

रोमा॒ण्यव्या᳚ स॒मया॒ वि धा᳚वति॒ मधो॒र्धारा॒ पिन्व॑माना दि॒वेदि॑वे ||{4/5}{7.2.33.4}{9.75.4}{9.4.8.4}{362, 798, 8370}

अद्रि॑ऽभिः¦सु॒तः¦म॒तिऽभिः॑¦चनः॑ऽहितः¦प्र॒ऽरो॒चय॑न्¦रोद॑सी॒ इति॑¦मा॒तरा᳚¦शुचिः॑ |
रोमा᳚णि¦अव्या᳚¦स॒मया᳚¦वि¦धा॒व॒ति॒¦मधोः᳚¦धारा᳚¦पिन्व॑माना¦दि॒वेऽदि॑वे ||

परि॑ सोम॒ प्र ध᳚न्वा स्व॒स्तये॒ नृभिः॑ पुना॒नो, अ॒भि वा᳚सया॒शिर᳚म् |{भार्गवः कविः | पवमानः सोमः | जगती}

ये ते॒ मदा᳚, आह॒नसो॒ विहा᳚यस॒स्तेभि॒रिन्द्रं᳚ चोदय॒ दात॑वे म॒घम् ||{5/5}{7.2.33.5}{9.75.5}{9.4.8.5}{363, 798, 8371}

परि॑¦सो॒म॒¦प्र¦ध॒न्व॒¦स्व॒स्तये᳚¦नृऽभिः॑¦पु॒ना॒नः¦अ॒भि¦वा॒स॒य॒¦आ॒ऽशिर᳚‌म् |
ये¦ते॒¦मदाः᳚¦आ॒ह॒नसः॑¦विऽहा᳚यसः¦तेभिः॑¦इन्द्र᳚‌म्¦चो॒द॒य॒¦दात॑वे¦म॒घ‌म् ||

[33] धर्तेति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमानसोमोजगती |
ध॒र्ता दि॒वः प॑वते॒ कृत्व्यो॒ रसो॒ दक्षो᳚ दे॒वाना᳚मनु॒माद्यो॒ नृभिः॑ |{भार्गवः कविः | पवमानः सोमः | जगती}

हरिः॑ सृजा॒नो, अत्यो॒ न सत्व॑भि॒र्वृथा॒ पाजां᳚सि कृणुते न॒दीष्वा ||{1/5}{7.3.1.1}{9.76.1}{9.4.9.1}{364, 799, 8372}

ध॒र्ता¦दि॒वः¦प॒व॒ते॒¦कृत्व्यः॑¦रसः॑¦दक्षः॑¦दे॒वाना᳚‌म्¦अ॒नु॒ऽमाद्यः॑¦नृऽभिः॑ |
हरिः॑¦सृ॒जा॒नः¦अत्यः॑¦न¦सत्व॑ऽभिः¦वृथा᳚¦पाजां᳚सि¦कृ॒णु॒ते॒¦न॒दीषु॑¦आ ||

शूरो॒ न ध॑त्त॒ आयु॑धा॒ गभ॑स्त्योः॒ स्व१॑(अः॒) सिषा᳚सन्‌ रथि॒रो गवि॑ष्टिषु |{भार्गवः कविः | पवमानः सोमः | जगती}

इन्द्र॑स्य॒ शुष्म॑मी॒रय᳚न्नप॒स्युभि॒रिन्दु᳚र्हिन्वा॒नो, अ॑ज्यते मनी॒षिभिः॑ ||{2/5}{7.3.1.2}{9.76.2}{9.4.9.2}{365, 799, 8373}

शूरः॑¦न¦ध॒त्ते॒¦आयु॑धा¦गभ॑स्त्योः¦स्व१॒॑रिति॒ स्वः॑¦सिसा᳚सन्¦र॒थि॒रः¦गोऽ‌इ᳚ष्टिषु |
इन्द्र॑स्य¦शुष्म᳚‌म्¦ई॒रय॑न्¦अ॒प॒स्युऽभिः॑¦इन्दुः॑¦हि॒न्वा॒नः¦अ॒ज्य॒ते॒¦म॒नी॒षिऽभिः॑ ||

इन्द्र॑स्य सोम॒ पव॑मान ऊ॒र्मिणा᳚ तवि॒ष्यमा᳚णो ज॒ठरे॒ष्वा वि॑श |{भार्गवः कविः | पवमानः सोमः | जगती}

प्र णः॑ पिन्व वि॒द्युद॒भ्रेव॒ रोद॑सी धि॒या न वाजाँ॒, उप॑ मासि॒ शश्व॑तः ||{3/5}{7.3.1.3}{9.76.3}{9.4.9.3}{366, 799, 8374}

इन्द्र॑स्य¦सो॒म॒¦पव॑मानः¦ऊ॒र्मिणा᳚¦त॒वि॒ष्यमा᳚णः¦ज॒ठरे᳚षु¦आ¦वि॒श॒ |
प्र¦नः॒¦पि॒न्व॒¦वि॒ऽद्युत्¦अ॒भ्राऽ‌इ᳚व¦रोद॑सी॒ इति॑¦धि॒या¦न¦वाजा᳚न्¦उप॑¦मा॒सि॒¦शश्व॑तः ||

विश्व॑स्य॒ राजा᳚ पवते स्व॒र्दृश॑ ऋ॒तस्य॑ धी॒तिमृ॑षि॒षाळ॑वीवशत् |{भार्गवः कविः | पवमानः सोमः | जगती}

यः सूर्य॒स्यासि॑रेण मृ॒ज्यते᳚ पि॒ता म॑ती॒नामस॑मष्टकाव्यः ||{4/5}{7.3.1.4}{9.76.4}{9.4.9.4}{367, 799, 8375}

विश्व॑स्य¦राजा᳚¦प॒व॒ते॒¦स्वः॒ऽदृशः॑¦ऋ॒तस्य॑¦धी॒ति‌म्¦ऋ॒षि॒षाट्¦अ॒वी॒व॒श॒त् |
यः¦सूर्य॑स्य¦असि॑रेण¦मृ॒ज्यते᳚¦पि॒ता¦म॒ती॒ना‌म्¦अस॑मष्टऽकाव्यः ||

वृषे᳚व यू॒था परि॒ कोश॑मर्षस्य॒पामु॒पस्थे᳚ वृष॒भः कनि॑क्रदत् |{भार्गवः कविः | पवमानः सोमः | जगती}

स इन्द्रा᳚य पवसे मत्स॒रिन्त॑मो॒ यथा॒ जेषा᳚म समि॒थे त्वोत॑यः ||{5/5}{7.3.1.5}{9.76.5}{9.4.9.5}{368, 799, 8376}

वृषा᳚ऽ‌इव¦यू॒था¦परि॑¦कोश᳚‌म्¦अ॒र्ष॒सि॒¦अ॒पा‌म्¦उ॒पऽस्थे᳚¦वृ॒ष॒भः¦कनि॑क्रदत् |
सः¦इन्द्रा᳚य¦प॒व॒से॒¦म॒त्स॒रिन्ऽत॑मः¦यथा᳚¦जेषा᳚म¦स॒‌म्ऽ‌इ॒थे¦त्वाऽऊ᳚तयः ||

[34] एषइति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमान सोमोजगती |
ए॒ष प्र कोशे॒ मधु॑माँ, अचिक्रद॒दिन्द्र॑स्य॒ वज्रो॒ वपु॑षो॒ वपु॑ष्टरः |{भार्गवः कविः | पवमानः सोमः | जगती}

अ॒भीमृ॒तस्य॑ सु॒दुघा᳚ घृत॒श्चुतो᳚ वा॒श्रा, अ॑र्षन्ति॒ पय॑सेव धे॒नवः॑ ||{1/5}{7.3.2.1}{9.77.1}{9.4.10.1}{369, 800, 8377}

ए॒षः¦प्र¦कोशे᳚¦मधु॑ऽमान्¦अ॒चि॒क्र॒द॒त्¦इन्द्र॑स्य¦वज्रः॑¦वपु॑षः¦वपुः॑ऽतरः |
अ॒भि¦ई॒‌म्¦ऋ॒तस्य॑¦सु॒ऽदुघाः᳚¦घृ॒त॒ऽश्चुतः॑¦वा॒श्राः¦अ॒र्ष॒न्ति॒¦पय॑साऽ‌इव¦धे॒नवः॑ ||

स पू॒र्व्यः प॑वते॒ यं दि॒वस्परि॑ श्ये॒नो म॑था॒यदि॑षि॒तस्ति॒रो रजः॑ |{भार्गवः कविः | पवमानः सोमः | जगती}

स मध्व॒ आ यु॑वते॒ वेवि॑जान॒ इत्कृ॒शानो॒रस्तु॒र्मन॒साह॑ बि॒भ्युषा᳚ ||{2/5}{7.3.2.2}{9.77.2}{9.4.10.2}{370, 800, 8378}

सः¦पू॒र्व्यः¦प॒व॒ते॒¦य‌म्¦दि॒वः¦परि॑¦श्ये॒नः¦म॒था॒यत्¦इ॒षि॒तः¦ति॒रः¦रजः॑ |
सः¦मध्वः॑¦आ¦यु॒व॒ते॒¦वेवि॑जानः¦इत्¦कृ॒शानोः᳚¦अस्तुः॑¦मन॑सा¦अह॑¦बि॒भ्युषा᳚ ||

ते नः॒ पूर्वा᳚स॒ उप॑रास॒ इन्द॑वो म॒हे वाजा᳚य धन्वन्तु॒ गोम॑ते |{भार्गवः कविः | पवमानः सोमः | जगती}

ई॒क्षे॒ण्या᳚सो, अ॒ह्यो॒३॑(ओ॒) न चार॑वो॒ ब्रह्म॑ब्रह्म॒ ये जु॑जु॒षुर्ह॒विर्ह॑विः ||{3/5}{7.3.2.3}{9.77.3}{9.4.10.3}{371, 800, 8379}

ते¦नः॒¦पूर्वा᳚सः¦उप॑रासः¦इन्द॑वः¦म॒हे¦वाजा᳚य¦ध॒न्व॒न्तु॒¦गोऽम॑ते |
ई॒क्षे॒ण्या᳚सः¦अ॒ह्यः॑¦न¦चार॑वः¦ब्रह्म॑ऽब्रह्म¦ये¦जु॒जु॒षुः¦ह॒विःऽह॑विः ||

अ॒यं नो᳚ वि॒द्वान्‌ व॑नवद्वनुष्य॒त इन्दुः॑ स॒त्राचा॒ मन॑सा पुरुष्टु॒तः |{भार्गवः कविः | पवमानः सोमः | जगती}

इ॒नस्य॒ यः सद॑ने॒ गर्भ॑माद॒धे गवा᳚मुरु॒ब्जम॒भ्यर्ष॑ति व्र॒जम् ||{4/5}{7.3.2.4}{9.77.4}{9.4.10.4}{372, 800, 8380}

अ॒य‌म्¦नः॒¦वि॒द्वान्¦व॒न॒व॒त्¦व॒नु॒ष्य॒तः¦इन्दुः॑¦स॒त्राचा᳚¦मन॑सा¦पु॒रु॒ऽस्तु॒तः |
इ॒नस्य॑¦यः¦सद॑ने¦गर्भ᳚‌म्¦आ॒ऽद॒धे¦गवा᳚‌म्¦उ॒रु॒ब्ज‌म्¦अ॒भि¦अर्ष॑ति¦व्र॒ज‌म् ||

चक्रि॑र्दि॒वः प॑वते॒ कृत्व्यो॒ रसो᳚ म॒हाँ, अद॑ब्धो॒ वरु॑णो हु॒रुग्य॒ते |{भार्गवः कविः | पवमानः सोमः | जगती}

असा᳚वि मि॒त्रो वृ॒जने᳚षु य॒ज्ञियोऽत्यो॒ न यू॒थे वृ॑ष॒युः कनि॑क्रदत् ||{5/5}{7.3.2.5}{9.77.5}{9.4.10.5}{373, 800, 8381}

चक्रिः॑¦दि॒वः¦प॒व॒ते॒¦कृत्व्यः॑¦रसः॑¦म॒हान्¦अद॑ब्धः¦वरु॑णः¦हु॒रुक्¦य॒ते |
असा᳚वि¦मि॒त्रः¦वृ॒जने᳚षु¦य॒ज्ञियः॑¦अत्यः॑¦न¦यू॒थे¦वृ॒ष॒ऽयुः¦कनि॑क्रदत् ||

[35] प्रराजेति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमान सोमो जगती |
प्र राजा॒ वाचं᳚ ज॒नय᳚न्नसिष्यदद॒पो वसा᳚नो, अ॒भि गा, इ॑यक्षति |{भार्गवः कविः | पवमानः सोमः | जगती}

गृ॒भ्णाति॑ रि॒प्रमवि॑रस्य॒ तान्वा᳚ शु॒द्धो दे॒वाना॒मुप॑ याति निष्कृ॒तम् ||{1/5}{7.3.3.1}{9.78.1}{9.4.11.1}{374, 801, 8382}

प्र¦राजा᳚¦वाच᳚‌म्¦ज॒नय॑न्¦अ॒सि॒स्य॒द॒त्¦अ॒पः¦वसा᳚नः¦अ॒भि¦गाः¦इ॒य॒क्ष॒ति॒ |
गृ॒भ्णाति॑¦रि॒प्र‌म्¦अविः॑¦अ॒स्य॒¦तान्वा᳚¦शु॒द्धः¦दे॒वाना᳚‌म्¦उप॑¦या॒ति॒¦निः॒ऽकृ॒त‌म् ||

इन्द्रा᳚य सोम॒ परि॑ षिच्यसे॒ नृभि᳚र्नृ॒चक्षा᳚, ऊ॒र्मिः क॒विर॑ज्यसे॒ वने᳚ |{भार्गवः कविः | पवमानः सोमः | जगती}

पू॒र्वीर्हि ते᳚ स्रु॒तयः॒ सन्ति॒ यात॑वे स॒हस्र॒मश्वा॒ हर॑यश्चमू॒षदः॑ ||{2/5}{7.3.3.2}{9.78.2}{9.4.11.2}{375, 801, 8383}

इन्द्रा᳚य¦सो॒म॒¦परि॑¦सि॒च्य॒से॒¦नृऽभिः॑¦नृ॒ऽचक्षाः᳚¦ऊ॒र्मिः¦क॒विः¦अ॒ज्य॒से॒¦वने᳚ |
पू॒र्वीः¦हि¦ते॒¦स्रु॒तयः॑¦सन्ति॑¦यात॑वे¦स॒हस्र᳚‌म्¦अश्वाः᳚¦हर॑यः¦च॒मू॒ऽसदः॑ ||

स॒मु॒द्रिया᳚, अप्स॒रसो᳚ मनी॒षिण॒मासी᳚ना, अ॒न्तर॒भि सोम॑मक्षरन् |{भार्गवः कविः | पवमानः सोमः | जगती}

ता, ईं᳚ हिन्वन्ति ह॒र्म्यस्य॑ स॒क्षणिं॒ याच᳚न्ते सु॒म्नं पव॑मान॒मक्षि॑तम् ||{3/5}{7.3.3.3}{9.78.3}{9.4.11.3}{376, 801, 8384}

स॒मु॒द्रियाः᳚¦अ॒प्स॒रसः॑¦म॒नी॒षिण᳚‌म्¦आसी᳚नाः¦अ॒न्तः¦अ॒भि¦सोम᳚‌म्¦अ॒क्ष॒र॒न् |
ताः¦ई॒‌म्¦हि॒न्व॒न्ति॒¦ह॒र्म्यस्य॑¦स॒क्षणि᳚‌म्¦याच᳚न्ते¦सु॒म्न‌म्¦पव॑मान‌म्¦अक्षि॑त‌म् ||

गो॒जिन्नः॒ सोमो᳚ रथ॒जिद्धि॑रण्य॒जित्स्व॒र्जिद॒ब्जित्प॑वते सहस्र॒जित् |{भार्गवः कविः | पवमानः सोमः | जगती}

यं दे॒वास॑श्चक्रि॒रे पी॒तये॒ मदं॒ स्वादि॑ष्ठं द्र॒प्सम॑रु॒णं म॑यो॒भुव᳚म् ||{4/5}{7.3.3.4}{9.78.4}{9.4.11.4}{377, 801, 8385}

गो॒ऽजित्¦नः॒¦सोमः॑¦र॒थ॒ऽजित्¦हि॒र॒ण्य॒ऽजित्¦स्वः॒ऽजित्¦अ॒प्ऽजित्¦प॒व॒ते॒¦स॒ह॒स्र॒ऽजित् |
य‌म्¦दे॒वासः॑¦च॒क्रि॒रे¦पी॒तये᳚¦मद᳚‌म्¦स्वादि॑ष्ठ‌म्¦द्र॒प्स‌म्¦अ॒रु॒ण‌म्¦म॒यः॒ऽभुव᳚‌म् ||

ए॒तानि॑ सोम॒ पव॑मानो, अस्म॒युः स॒त्यानि॑ कृ॒ण्वन्द्रवि॑णान्यर्षसि |{भार्गवः कविः | पवमानः सोमः | जगती}

ज॒हि शत्रु॑मन्ति॒के दू᳚र॒के च॒ य उ॒र्वीं गव्यू᳚ति॒मभ॑यं च नस्कृधि ||{5/5}{7.3.3.5}{9.78.5}{9.4.11.5}{378, 801, 8386}

ए॒तानि॑¦सो॒म॒¦पव॑मानः¦अ॒स्म॒ऽयुः¦स॒त्यानि॑¦कृ॒ण्वन्¦द्रवि॑णानि¦अ॒र्ष॒सि॒ |
ज॒हि¦शत्रु᳚‌म्¦अ॒न्ति॒के¦दू॒र॒के¦च॒¦यः¦उ॒र्वी‌म्¦गव्यू᳚ति‌म्¦अभ॑य‌म्¦च॒¦नः॒¦कृ॒धि॒ ||

[36] अचोदसइति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमानसोमोजगती |
अ॒चो॒दसो᳚ नो धन्व॒न्त्विन्द॑वः॒ प्र सु॑वा॒नासो᳚ बृ॒हद्दि॑वेषु॒ हर॑यः |{भार्गवः कविः | पवमानः सोमः | जगती}

वि च॒ नश᳚न्न इ॒षो, अरा᳚तयो॒ऽर्यो न॑शन्त॒ सनि॑षन्त नो॒ धियः॑ ||{1/5}{7.3.4.1}{9.79.1}{9.4.12.1}{379, 802, 8387}

अ॒चो॒दसः॑¦नः॒¦ध॒न्व॒न्तु॒¦इन्द॑वः¦प्र¦सु॒वा॒नासः॑¦बृ॒हत्ऽदि॑वेषु¦हर॑यः |
वि¦च॒¦नश॑न्¦नः॒¦इ॒षः¦अरा᳚तयः¦अ॒र्यः¦न॒श॒न्त॒¦सनि॑षन्त¦नः॒¦धियः॑ ||

प्र णो᳚ धन्व॒न्त्विन्द॑वो मद॒च्युतो॒ धना᳚ वा॒ येभि॒रर्व॑तो जुनी॒मसि॑ |{भार्गवः कविः | पवमानः सोमः | जगती}

ति॒रो मर्त॑स्य॒ कस्य॑ चि॒त्परि॑ह्वृतिं व॒यं धना᳚नि वि॒श्वधा᳚ भरेमहि ||{2/5}{7.3.4.2}{9.79.2}{9.4.12.2}{380, 802, 8388}

प्र¦नः॒¦ध॒न्व॒न्तु॒¦इन्द॑वः¦म॒द॒ऽच्युतः॑¦धना᳚¦वा॒¦येभिः॑¦अर्व॑तः¦जु॒नी॒मसि॑ |
ति॒रः¦मर्त॑स्य¦कस्य॑¦चि॒त्¦परि॑ऽह्वृति‌म्¦व॒य‌म्¦धना᳚नि¦वि॒श्वधा᳚¦भ॒रे॒म॒हि॒ ||

उ॒त स्वस्या॒, अरा᳚त्या, अ॒रिर्हि ष उ॒तान्यस्या॒, अरा᳚त्या॒ वृको॒ हि षः |{भार्गवः कविः | पवमानः सोमः | जगती}

धन्व॒न्न तृष्णा॒ सम॑रीत॒ ताँ, अ॒भि सोम॑ ज॒हि प॑वमान दुरा॒ध्यः॑ ||{3/5}{7.3.4.3}{9.79.3}{9.4.12.3}{381, 802, 8389}

उ॒त¦स्वस्याः᳚¦अरा᳚त्याः¦अ॒रिः¦हि¦सः¦उ॒त¦अ॒न्यस्याः᳚¦अरा᳚त्याः¦वृकः॑¦हि¦सः |
धन्व॑न्¦न¦तृष्णा᳚¦स‌म्¦अ॒री॒त॒¦तान्¦अ॒भि¦सोम॑¦ज॒हि¦प॒व॒मा॒न॒¦दुः॒ऽआ॒ध्यः॑ ||

दि॒वि ते॒ नाभा᳚ पर॒मो य आ᳚द॒दे पृ॑थि॒व्यास्ते᳚ रुरुहुः॒ सान॑वि॒ क्षिपः॑ |{भार्गवः कविः | पवमानः सोमः | जगती}

अद्र॑यस्त्वा बप्सति॒ गोरधि॑ त्व॒च्य१॑(अ॒)प्सु त्वा॒ हस्तै᳚र्दुदुहुर्मनी॒षिणः॑ ||{4/5}{7.3.4.4}{9.79.4}{9.4.12.4}{382, 802, 8390}

दि॒वि¦ते॒¦नाभा᳚¦प॒र॒मः¦यः¦आ॒ऽद॒दे¦पृ॒थि॒व्याः¦ते॒¦रु॒रु॒हुः॒¦सान॑वि¦क्षिपः॑ |
अद्र॑यः¦त्वा॒¦ब॒प्स॒ति॒¦गोः¦अधि॑¦त्व॒चि¦अ॒प्ऽसु¦त्वा॒¦हस्तैः᳚¦दु॒दु॒हुः॒¦म॒नी॒षिणः॑ ||

ए॒वा त॑ इन्दो सु॒भ्वं᳚ सु॒पेश॑सं॒ रसं᳚ तुञ्जन्ति प्रथ॒मा, अ॑भि॒श्रियः॑ |{भार्गवः कविः | पवमानः सोमः | जगती}

निदं᳚निदं पवमान॒ नि ता᳚रिष आ॒विस्ते॒ शुष्मो᳚ भवतु प्रि॒यो मदः॑ ||{5/5}{7.3.4.5}{9.79.5}{9.4.12.5}{383, 802, 8391}

ए॒व¦ते॒¦इ॒न्दो॒ इति॑¦सु॒ऽभ्व᳚‌म्¦सु॒ऽपेश॑स‌म्¦रस᳚‌म्¦तुं॒ज॒न्ति॒¦प्र॒थ॒माः¦अ॒भि॒ऽश्रियः॑ |
निद᳚‌म्ऽनिद‌म्¦प॒व॒मा॒न॒¦नि¦ता॒रि॒षः॒¦आ॒विः¦ते॒¦शुष्मः॑¦भ॒व॒तु॒¦प्रि॒यः¦मदः॑ ||

[37] सोमस्येति पंचर्चस्य सूक्तस्य भारद्वाजो वसुः पवमान सोमोजगती |
सोम॑स्य॒ धारा᳚ पवते नृ॒चक्ष॑स ऋ॒तेन॑ दे॒वान्‌ ह॑वते दि॒वस्परि॑ |{भारद्वाजो वसुः | पवमानः सोमः | जगती}

बृह॒स्पते᳚ र॒वथे᳚ना॒ वि दि॑द्युते समु॒द्रासो॒ न सव॑नानि विव्यचुः ||{1/5}{7.3.5.1}{9.80.1}{9.4.13.1}{384, 803, 8392}

सोम॑स्य¦धारा᳚¦प॒व॒ते॒¦नृ॒ऽचक्ष॑सः¦ऋ॒तेन॑¦दे॒वान्¦ह॒व॒ते॒¦दि॒वः¦परि॑ |
बृह॒स्पतेः᳚¦र॒वथे᳚न¦वि¦दि॒द्यु॒ते॒¦स॒मु॒द्रासः॑¦न¦सव॑नानि¦वि॒व्य॒चुः॒ ||

यं त्वा᳚ वाजिन्न॒घ्न्या, अ॒भ्यनू᳚ष॒तायो᳚हतं॒ योनि॒मा रो᳚हसि द्यु॒मान् |{भारद्वाजो वसुः | पवमानः सोमः | जगती}

म॒घोना॒मायुः॑ प्रति॒रन्महि॒ श्रव॒ इन्द्रा᳚य सोम पवसे॒ वृषा॒ मदः॑ ||{2/5}{7.3.5.2}{9.80.2}{9.4.13.2}{385, 803, 8393}

य‌म्¦त्वा॒¦वा॒जि॒न्¦अ॒घ्न्याः¦अ॒भि¦अनू᳚षत¦अयः॑ऽहत‌म्¦योनि᳚‌म्¦आ¦रो॒ह॒सि॒¦द्यु॒ऽमान् |
म॒घोना᳚‌म्¦आयुः॑¦प्र॒ऽति॒रन्¦महि॑¦श्रवः॑¦इन्द्रा᳚य¦सो॒म॒¦प॒व॒से॒¦वृषा᳚¦मदः॑ ||

एन्द्र॑स्य कु॒क्षा प॑वते म॒दिन्त॑म॒ ऊर्जं॒ वसा᳚नः॒ श्रव॑से सुम॒ङ्गलः॑ |{भारद्वाजो वसुः | पवमानः सोमः | जगती}

प्र॒त्यङ्स विश्वा॒ भुव॑ना॒भि प॑प्रथे॒ क्रीळ॒न्हरि॒रत्यः॑ स्यन्दते॒ वृषा᳚ ||{3/5}{7.3.5.3}{9.80.3}{9.4.13.3}{386, 803, 8394}

आ¦इन्द्र॑स्य¦कु॒क्षा¦प॒व॒ते॒¦म॒दिन्ऽत॑मः¦ऊर्ज᳚‌म्¦वसा᳚नः¦श्रव॑से¦सु॒ऽम॒ङ्गलः॑ |
प्र॒त्यङ्¦सः¦विश्वा᳚¦भुव॑ना¦अ॒भि¦प॒प्र॒थे॒¦क्रीळ॑न्¦हरिः॑¦अत्यः॑¦स्य॒न्द॒ते॒¦वृषा᳚ ||

तं त्वा᳚ दे॒वेभ्यो॒ मधु॑मत्तमं॒ नरः॑ स॒हस्र॑धारं दुहते॒ दश॒ क्षिपः॑ |{भारद्वाजो वसुः | पवमानः सोमः | जगती}

नृभिः॑ सोम॒ प्रच्यु॑तो॒ ग्राव॑भिः सु॒तो विश्वा᳚न्दे॒वाँ, आ प॑वस्वा सहस्रजित् ||{4/5}{7.3.5.4}{9.80.4}{9.4.13.4}{387, 803, 8395}

त‌म्¦त्वा॒¦दे॒वेभ्यः॑¦मधु॑मत्ऽतम‌म्¦नरः॑¦स॒हस्र॑ऽधार‌म्¦दु॒ह॒ते॒¦दश॑¦क्षिपः॑ |
नृऽभिः॑¦सो॒म॒¦प्रऽच्यु॑तः¦ग्राव॑ऽभिः¦सु॒तः¦विश्वा᳚न्¦दे॒वान्¦आ¦प॒व॒स्व॒¦स॒ह॒स्र॒ऽजि॒त् ||

तं त्वा᳚ ह॒स्तिनो॒ मधु॑मन्त॒मद्रि॑भिर्दु॒हन्त्य॒प्सु वृ॑ष॒भं दश॒ क्षिपः॑ |{भारद्वाजो वसुः | पवमानः सोमः | जगती}

इन्द्रं᳚ सोम मा॒दय॒न्दैव्यं॒ जनं॒ सिन्धो᳚रिवो॒र्मिः पव॑मानो, अर्षसि ||{5/5}{7.3.5.5}{9.80.5}{9.4.13.5}{388, 803, 8396}

त‌म्¦त्वा॒¦ह॒स्तिनः॑¦मधु॑ऽमन्त‌म्¦अद्रि॑ऽभिः¦दु॒हन्ति॑¦अ॒प्ऽसु¦वृ॒ष॒भ‌म्¦दश॑¦क्षिपः॑ |
इन्द्र᳚‌म्¦सो॒म॒¦मा॒दय॑न्¦दैव्य᳚‌म्¦जन᳚‌म्¦सिन्धोः᳚ऽ‌इव¦ऊ॒र्मिः¦पव॑मानः¦अ॒र्ष॒सि॒ ||

[38] प्रसोमस्येति पंचर्चस्य सूक्तस्य भारद्वाजो वसुः पवमान सोमोजगत्यंत्यात्रिष्टुप् |
प्र सोम॑स्य॒ पव॑मानस्यो॒र्मय॒ इन्द्र॑स्य यन्ति ज॒ठरं᳚ सु॒पेश॑सः |{भारद्वाजो वसुः | पवमानः सोमः | जगती}

द॒ध्ना यदी॒मुन्नी᳚ता य॒शसा॒ गवां᳚ दा॒नाय॒ शूर॑मु॒दम᳚न्दिषुः सु॒ताः ||{1/5}{7.3.6.1}{9.81.1}{9.4.14.1}{389, 804, 8397}

प्र¦सोम॑स्य¦पव॑मानस्य¦ऊ॒र्मयः॑¦इन्द्र॑स्य¦य॒न्ति॒¦ज॒ठर᳚‌म्¦सु॒ऽपेश॑सः |
द॒ध्ना¦यत्¦ई॒‌म्¦उत्ऽनी᳚ताः¦य॒शसा᳚¦गवा᳚‌म्¦दा॒नाय॑¦शूर᳚‌म्¦उ॒त्।आम᳚न्दिषुः¦सु॒ताः ||

अच्छा॒ हि सोमः॑ क॒लशाँ॒, असि॑ष्यद॒दत्यो॒ न वोळ्हा᳚ र॒घुव॑र्तनि॒र्वृषा᳚ |{भारद्वाजो वसुः | पवमानः सोमः | जगती}

अथा᳚ दे॒वाना᳚मु॒भय॑स्य॒ जन्म॑नो वि॒द्वाँ, अ॑श्नोत्य॒मुत॑ इ॒तश्च॒ यत् ||{2/5}{7.3.6.2}{9.81.2}{9.4.14.2}{390, 804, 8398}

अच्छ॑¦हि¦सोमः॑¦क॒लशा᳚न्¦असि॑स्यदत्¦अत्यः॑¦न¦वोळ्हा᳚¦र॒घुऽव॑र्तनिः¦वृषा᳚ |
अथ॑¦दे॒वाना᳚‌म्¦उ॒भय॑स्य¦जन्म॑नः¦वि॒द्वान्¦अ॒श्नो॒ति॒¦अ॒मुतः॑¦इ॒तः¦च॒¦यत् ||

आ नः॑ सोम॒ पव॑मानः किरा॒ वस्विन्दो॒ भव॑ म॒घवा॒ राध॑सो म॒हः |{भारद्वाजो वसुः | पवमानः सोमः | जगती}

शिक्षा᳚ वयोधो॒ वस॑वे॒ सु चे॒तुना॒ मा नो॒ गय॑मा॒रे, अ॒स्मत्परा᳚ सिचः ||{3/5}{7.3.6.3}{9.81.3}{9.4.14.3}{391, 804, 8399}

आ¦नः॒¦सो॒म॒¦पव॑मानः¦कि॒र॒¦वसु॑¦इन्दो॒ इति॑¦भव॑¦म॒घऽवा᳚¦राध॑सः¦म॒हः |
शिक्ष॑¦व॒यः॒ऽधः॒¦वस॑वे¦सु¦चे॒तुना᳚¦मा¦नः॒¦गय᳚‌म्¦आ॒रे¦अ॒स्मत्¦परा᳚¦सि॒चः॒ ||

आ नः॑ पू॒षा पव॑मानः सुरा॒तयो᳚ मि॒त्रो ग॑च्छन्तु॒ वरु॑णः स॒जोष॑सः |{भारद्वाजो वसुः | पवमानः सोमः | जगती}

बृह॒स्पति᳚र्म॒रुतो᳚ वा॒युर॒श्विना॒ त्वष्टा᳚ सवि॒ता सु॒यमा॒ सर॑स्वती ||{4/5}{7.3.6.4}{9.81.4}{9.4.14.4}{392, 804, 8400}

आ¦नः॒¦पू॒षा¦पव॑मानः¦सु॒ऽरा॒तयः॑¦मि॒त्रः¦ग॒च्छ॒न्तु॒¦वरु॑णः¦स॒ऽजोष॑सः |
बृह॒स्पतिः॑¦म॒रुतः॑¦वा॒युः¦अ॒श्विना᳚¦त्वष्टा᳚¦स॒वि॒ता¦सु॒ऽयमा᳚¦सर॑स्वती ||

उ॒भे द्यावा᳚पृथि॒वी वि॑श्वमि॒न्वे, अ᳚र्य॒मा दे॒वो, अदि॑तिर्विधा॒ता |{भारद्वाजो वसुः | पवमानः सोमः | त्रिष्टुप्}

भगो॒ नृशंस॑ उ॒र्व१॑(अ॒)न्तरि॑क्षं॒ विश्वे᳚ दे॒वाः पव॑मानं जुषन्त ||{5/5}{7.3.6.5}{9.81.5}{9.4.14.5}{393, 804, 8401}

उ॒भे इति॑¦द्यावा᳚पृथि॒वी इति॑¦वि॒श्व॒‌म्ऽ‌इ॒न्वे¦अ॒र्य॒मा¦दे॒वः¦अदि॑तिः¦वि॒ऽधा॒ता |
भगः॑¦नृऽशंसः॑¦उ॒रु¦अ॒न्तरि॑क्ष‌म्¦विश्वे᳚¦दे॒वाः¦पव॑मान‌म्¦जु॒ष॒न्त॒ ||

[39] असावीति पंचर्चस्य सूक्तस्य भारद्वाजो वसुः पवमान सोमोजगत्यंत्यात्रिष्टुप् |
असा᳚वि॒ सोमो᳚, अरु॒षो वृषा॒ हरी॒ राजे᳚व द॒स्मो, अ॒भि गा, अ॑चिक्रदत् |{भारद्वाजो वसुः | पवमानः सोमः | जगती}

पु॒ना॒नो वारं॒ पर्ये᳚त्य॒व्ययं᳚ श्ये॒नो न योनिं᳚ घृ॒तव᳚न्तमा॒सद᳚म् ||{1/5}{7.3.7.1}{9.82.1}{9.4.15.1}{394, 805, 8402}

असा᳚वि¦सोमः॑¦अ॒रु॒षः¦वृषा᳚¦हरिः॑¦राजा᳚ऽ‌इव¦द॒स्मः¦अ॒भि¦गाः¦अ॒चि॒क्र॒द॒त् |
पु॒ना॒नः¦वार᳚‌म्¦परि॑¦ए॒ति॒¦अ॒व्यय᳚‌म्¦श्ये॒नः¦न¦योनि᳚‌म्¦घृ॒तऽव᳚न्त‌म्¦आ॒ऽसद᳚‌म् ||

क॒विर्वे᳚ध॒स्या पर्ये᳚षि॒ माहि॑न॒मत्यो॒ न मृ॒ष्टो, अ॒भि वाज॑मर्षसि |{भारद्वाजो वसुः | पवमानः सोमः | जगती}

अ॒प॒सेध᳚न्दुरि॒ता सो᳚म मृळय घृ॒तं वसा᳚नः॒ परि॑ यासि नि॒र्णिज᳚म् ||{2/5}{7.3.7.2}{9.82.2}{9.4.15.2}{395, 805, 8403}

क॒विः¦वे॒ध॒स्या¦परि॑¦ए॒षि॒¦माहि॑न‌म्¦अत्यः॑¦न¦मृ॒ष्टः¦अ॒भि¦वाज᳚‌म्¦अ॒र्ष॒सि॒ |
अ॒प॒ऽसेध॑न्¦दुः॒ऽ‌इ॒ता¦सो॒म॒¦मृ॒ळ॒य॒¦घृ॒त‌म्¦वसा᳚नः¦परि॑¦या॒सि॒¦निः॒ऽनिज᳚‌म् ||

प॒र्जन्यः॑ पि॒ता म॑हि॒षस्य॑ प॒र्णिनो॒ नाभा᳚ पृथि॒व्या गि॒रिषु॒ क्षयं᳚ दधे |{भारद्वाजो वसुः | पवमानः सोमः | जगती}

स्वसा᳚र॒ आपो᳚, अ॒भि गा, उ॒तास॑र॒न्‌ त्सं ग्राव॑भिर्नसते वी॒ते, अ॑ध्व॒रे ||{3/5}{7.3.7.3}{9.82.3}{9.4.15.3}{396, 805, 8404}

प॒र्जन्यः॑¦पि॒ता¦म॒हि॒षस्य॑¦प॒र्णिनः॑¦नाभा᳚¦पृ॒थि॒व्याः¦गि॒रिषु॑¦क्षय᳚‌म्¦द॒धे॒ |
स्वसा᳚रः¦आपः॑¦अ॒भि¦गाः¦उ॒त¦अ॒स॒र॒न्¦स‌म्¦ग्राव॑ऽभिः¦न॒स॒ते॒¦वी॒ते¦अ॒ध्व॒रे ||

जा॒येव॒ पत्या॒वधि॒ शेव॑ मंहसे॒ पज्रा᳚या गर्भ शृणु॒हि ब्रवी᳚मि ते |{भारद्वाजो वसुः | पवमानः सोमः | जगती}

अ॒न्तर्वाणी᳚षु॒ प्र च॑रा॒ सु जी॒वसे᳚ऽनि॒न्द्यो वृ॒जने᳚ सोम जागृहि ||{4/5}{7.3.7.4}{9.82.4}{9.4.15.4}{397, 805, 8405}

जा॒याऽ‌इ᳚व¦पत्यौ᳚¦अधि॑¦शेव॑¦मं॒ह॒से॒¦पज्रा᳚याः¦ग॒र्भ॒¦शृ॒णु॒हि¦ब्रवी᳚मि¦ते॒ |
अ॒न्तः¦वाणी᳚षु¦प्र¦च॒र॒¦सु¦जी॒वसे᳚¦अ॒नि॒न्द्यः¦वृ॒जने᳚¦सो॒म॒¦जा॒गृ॒हि॒ ||

यथा॒ पूर्वे᳚भ्यः शत॒सा, अमृ॑ध्रः सहस्र॒साः प॒र्यया॒ वाज॑मिन्दो |{भारद्वाजो वसुः | पवमानः सोमः | त्रिष्टुप्}

ए॒वा प॑वस्व सुवि॒ताय॒ नव्य॑से॒ तव᳚ व्र॒तमन्वापः॑ सचन्ते ||{5/5}{7.3.7.5}{9.82.5}{9.4.15.5}{398, 805, 8406}

यथा᳚¦पूर्वे᳚भ्यः¦श॒त॒ऽसाः¦अमृ॑ध्रः¦स॒ह॒स्र॒ऽसाः¦प॒रि॒।आयाः᳚¦वाज᳚‌म्¦इ॒न्दो॒ इति॑ |
ए॒व¦प॒व॒स्व॒¦सु॒वि॒ताय॑¦नव्य॑से¦तव॑¦व्र॒त‌म्¦अनु॑¦आपः॑¦स॒च॒न्ते॒ ||

[40] पवित्रंतइति पंचर्चस्य सूक्तस्यांगिरसः पवित्रः पवमानसोमोजगती |
प॒वित्रं᳚ ते॒ वित॑तं ब्रह्मणस्पते प्र॒भुर्गात्रा᳚णि॒ पर्ये᳚षि वि॒श्वतः॑ |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती}

अत॑प्ततनू॒र्न तदा॒मो, अ॑श्नुते शृ॒तास॒ इद्वह᳚न्त॒स्तत्समा᳚शत ||{1/5}{7.3.8.1}{9.83.1}{9.4.16.1}{399, 806, 8407}

प॒वित्र᳚‌म्¦ते॒¦विऽत॑त‌म्¦ब्र॒ह्म॒णः॒¦प॒ते॒¦प्र॒ऽभुः¦गात्रा᳚णि¦परि॑¦ए॒षि॒¦वि॒श्वतः॑ |
अत॑प्तऽतनूः¦न¦तत्¦आ॒मः¦अ॒श्नु॒ते॒¦शृ॒तासः॑¦इत्¦वह᳚न्तः¦तत्¦स‌म्¦आ॒श॒त॒ ||

तपो᳚ष्प॒वित्रं॒ वित॑तं दि॒वस्प॒दे शोच᳚न्तो, अस्य॒ तन्त॑वो॒ व्य॑स्थिरन् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती}

अव᳚न्त्यस्य पवी॒तार॑मा॒शवो᳚ दि॒वस्पृ॒ष्ठमधि॑ तिष्ठन्ति॒ चेत॑सा ||{2/5}{7.3.8.2}{9.83.2}{9.4.16.2}{400, 806, 8408}

तपोः᳚¦प॒वित्र᳚‌म्¦विऽत॑त‌म्¦दि॒वः¦प॒दे¦शोच᳚न्तः¦अ॒स्य॒¦तन्त॑वः¦वि¦अ॒स्थि॒र॒न् |
अव᳚न्ति¦अ॒स्य॒¦प॒वि॒तार᳚‌म्¦आ॒शवः॑¦दि॒वः¦पृ॒ष्ठ‌म्¦अधि॑¦ति॒ष्ठ॒न्ति॒¦चेत॑सा ||

अरू᳚रुचदु॒षसः॒ पृश्नि॑रग्रि॒य उ॒क्षा बि॑भर्ति॒ भुव॑नानि वाज॒युः |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती}

मा॒या॒विनो᳚ ममिरे, अस्य मा॒यया᳚ नृ॒चक्ष॑सः पि॒तरो॒ गर्भ॒मा द॑धुः ||{3/5}{7.3.8.3}{9.83.3}{9.4.16.3}{401, 806, 8409}

अरू᳚रुचत्¦उ॒षसः॑¦पृश्निः॑¦अ॒ग्रि॒यः¦उ॒क्षा¦बि॒भ॒र्ति॒¦भुव॑नानि¦वा॒ज॒ऽयुः |
मा॒या॒ऽविनः॑¦म॒मि॒रे॒¦अ॒स्य॒¦मा॒यया᳚¦नृ॒ऽचक्ष॑सः¦पि॒तरः॑¦गर्भ᳚‌म्¦आ¦द॒धुः॒ ||

ग॒न्ध॒र्व इ॒त्था प॒दम॑स्य रक्षति॒ पाति॑ दे॒वानां॒ जनि॑मा॒न्यद्भु॑तः |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती}

गृ॒भ्णाति॑ रि॒पुं नि॒धया᳚ नि॒धाप॑तिः सु॒कृत्त॑मा॒ मधु॑नो भ॒क्षमा᳚शत ||{4/5}{7.3.8.4}{9.83.4}{9.4.16.4}{402, 806, 8410}

ग॒न्ध॒र्वः¦इ॒त्था¦प॒द‌म्¦अ॒स्य॒¦र॒क्ष॒ति॒¦पाति॑¦दे॒वाना᳚‌म्¦जनि॑मानि¦अद्भु॑तः |
गृ॒भ्णाति॑¦रि॒पु‌म्¦नि॒ऽधया᳚¦नि॒धाऽप॑तिः¦सु॒कृत्ऽत॑माः¦मधु॑नः¦भ॒क्ष‌म्¦आ॒श॒त॒ ||

ह॒विर्ह॑विष्मो॒ महि॒ सद्म॒ दैव्यं॒ नभो॒ वसा᳚नः॒ परि॑ यास्यध्व॒रम् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती}

राजा᳚ प॒वित्र॑रथो॒ वाज॒मारु॑हः स॒हस्र॑भृष्टिर्जयसि॒ श्रवो᳚ बृ॒हत् ||{5/5}{7.3.8.5}{9.83.5}{9.4.16.5}{403, 806, 8411}

ह॒विः¦ह॒वि॒ष्मः॒¦महि॑¦सद्म॑¦दैव्य᳚‌म्¦नभः॑¦वसा᳚नः¦परि॑¦या॒सि॒¦अ॒ध्व॒र‌म् |
राजा᳚¦प॒वित्र॑ऽरथः¦वाज᳚‌म्¦आ¦अ॒रु॒हः॒¦स॒हस्र॑ऽभृष्टिः¦ज॒य॒सि॒¦श्रवः॑¦बृ॒हत् ||

[41] पवस्वेति पंचर्चस्य सूक्तस्य वाच्यः प्रजापतिः पवमान सोमोजगती |
पव॑स्व देव॒माद॑नो॒ विच॑र्षणिर॒प्सा, इन्द्रा᳚य॒ वरु॑णाय वा॒यवे᳚ |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती}

कृ॒धी नो᳚, अ॒द्य वरि॑वः स्वस्ति॒मदु॑रुक्षि॒तौ गृ॑णीहि॒ दैव्यं॒ जन᳚म् ||{1/5}{7.3.9.1}{9.84.1}{9.4.17.1}{404, 807, 8412}

पव॑स्व¦दे॒व॒ऽमाद॑नः¦विऽच॑र्षणिः¦अ॒प्साः¦इन्द्रा᳚य¦वरु॑णाय¦वा॒यवे᳚ |
कृ॒धि¦नः॒¦अ॒द्य¦वरि॑वः¦स्व॒स्ति॒ऽमत्¦उ॒रु॒ऽक्षि॒तौ¦गृ॒णी॒हि॒¦दैव्य᳚‌म्¦जन᳚‌म् ||

आ यस्त॒स्थौ भुव॑ना॒न्यम॑र्त्यो॒ विश्वा᳚नि॒ सोमः॒ परि॒ तान्य॑र्षति |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती}

कृ॒ण्वन्‌ त्सं॒चृतं᳚ वि॒चृत॑म॒भिष्ट॑य॒ इन्दुः॑ सिषक्त्यु॒षसं॒ न सूर्यः॑ ||{2/5}{7.3.9.2}{9.84.2}{9.4.17.2}{405, 807, 8413}

आ¦यः¦त॒स्थौ¦भुव॑नानि¦अम॑र्त्यः¦विश्वा᳚नि¦सोमः॑¦परि॑¦तानि॑¦अ॒र्ष॒ति॒ |
कृ॒ण्वन्¦स॒‌म्ऽचृत᳚‌म्¦वि॒ऽचृत᳚‌म्¦अ॒भिष्ट॑ये¦इन्दुः॑¦सि॒स॒क्ति॒¦उ॒षस᳚‌म्¦न¦सूर्यः॑ ||

आ यो गोभिः॑ सृ॒ज्यत॒ ओष॑धी॒ष्वा दे॒वानां᳚ सु॒म्न इ॒षय॒न्नुपा᳚वसुः |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती}

आ वि॒द्युता᳚ पवते॒ धार॑या सु॒त इन्द्रं॒ सोमो᳚ मा॒दय॒न्दैव्यं॒ जन᳚म् ||{3/5}{7.3.9.3}{9.84.3}{9.4.17.3}{406, 807, 8414}

आ¦यः¦गोभिः॑¦सृ॒ज्यते᳚¦ओष॑धीषु¦आ¦दे॒वाना᳚‌म्¦सु॒म्ने¦इ॒षय॑न्¦उप॑ऽवसुः |
आ¦वि॒ऽद्युता᳚¦प॒व॒ते॒¦धार॑या¦सु॒तः¦इन्द्र᳚‌म्¦सोमः॑¦मा॒दय॑न्¦दैव्य᳚‌म्¦जन᳚‌म् ||

ए॒ष स्य सोमः॑ पवते सहस्र॒जिद्धि᳚न्वा॒नो वाच॑मिषि॒रामु॑ष॒र्बुध᳚म् |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती}

इन्दुः॑ समु॒द्रमुदि॑यर्ति वा॒युभि॒रेन्द्र॑स्य॒ हार्दि॑ क॒लशे᳚षु सीदति ||{4/5}{7.3.9.4}{9.84.4}{9.4.17.4}{407, 807, 8415}

ए॒षः¦स्यः¦सोमः॑¦प॒व॒ते॒¦स॒ह॒स्र॒ऽजित्¦हि॒न्वा॒नः¦वाच᳚‌म्¦इ॒षि॒रा‌म्¦उ॒षः॒ऽबुध᳚‌म् |
इन्दुः॑¦स॒मु॒द्र‌म्¦उत्¦इ॒य॒र्ति॒¦वा॒युऽभिः॑¦आ¦इन्द्र॑स्य¦हार्दि॑¦क॒लशे᳚षु¦सी॒द॒ति॒ ||

अ॒भि त्यं गावः॒ पय॑सा पयो॒वृधं॒ सोमं᳚ श्रीणन्ति म॒तिभिः॑ स्व॒र्विद᳚म् |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती}

ध॒नं॒ज॒यः प॑वते॒ कृत्व्यो॒ रसो॒ विप्रः॑ क॒विः काव्ये᳚ना॒ स्व॑र्चनाः ||{5/5}{7.3.9.5}{9.84.5}{9.4.17.5}{408, 807, 8416}

अ॒भि¦त्य‌म्¦गावः॑¦पय॑सा¦प॒यः॒ऽवृध᳚‌म्¦सोम᳚‌म्¦श्री॒ण॒न्ति॒¦म॒तिऽभिः॑¦स्वः॒ऽविद᳚‌म् |
ध॒न॒‌म्ऽज॒यः¦प॒व॒ते॒¦कृत्व्यः॑¦रसः॑¦विप्रः॑¦क॒विः¦काव्ये᳚न¦स्वः॑ऽचनाः ||

[42] इंद्रायेति द्वादशर्चस्य सूक्तस्य भार्गवोवेनः पवमानसोमो जगत्यंत्येद्वेत्रिष्टुभौ |
इन्द्रा᳚य सोम॒ सुषु॑तः॒ परि॑ स्र॒वापामी᳚वा भवतु॒ रक्ष॑सा स॒ह |{भार्गवो वेनः | पवमानः सोमः | जगती}

मा ते॒ रस॑स्य मत्सत द्वया॒विनो॒ द्रवि॑णस्वन्त इ॒ह स॒न्त्विन्द॑वः ||{1/12}{7.3.10.1}{9.85.1}{9.4.18.1}{409, 808, 8417}

इन्द्रा᳚य¦सो॒म॒¦सुऽसु॑तः¦परि॑¦स्र॒व॒¦अप॑¦अमी᳚वा¦भ॒व॒तु॒¦रक्ष॑सा¦स॒ह |
मा¦ते॒¦रस॑स्य¦म॒त्स॒त॒¦द्व॒या॒विनः॑¦द्रवि॑णस्वन्तः¦इ॒ह¦स॒न्तु॒¦इन्द॑वः ||

अ॒स्मान्‌ त्स॑म॒र्ये प॑वमान चोदय॒ दक्षो᳚ दे॒वाना॒मसि॒ हि प्रि॒यो मदः॑ |{भार्गवो वेनः | पवमानः सोमः | जगती}

ज॒हि शत्रूँ᳚र॒भ्या भ᳚न्दनाय॒तः पिबे᳚न्द्र॒ सोम॒मव॑ नो॒ मृधो᳚ जहि ||{2/12}{7.3.10.2}{9.85.2}{9.4.18.2}{410, 808, 8418}

अ॒स्मान्¦स॒ऽम॒र्ये¦प॒व॒मा॒न॒¦चो॒द॒य॒¦दक्षः॑¦दे॒वाना᳚‌म्¦असि॑¦हि¦प्रि॒यः¦मदः॑ |
ज॒हि¦शत्रू᳚न्¦अ॒भि¦आ¦भ॒न्द॒ना॒ऽय॒तः¦पिब॑¦इ॒न्द्र॒¦सोम᳚‌म्¦अव॑¦नः॒¦मृधः॑¦ज॒हि॒ ||

अद॑ब्ध इन्दो पवसे म॒दिन्त॑म आ॒त्मेन्द्र॑स्य भवसि धा॒सिरु॑त्त॒मः |{भार्गवो वेनः | पवमानः सोमः | जगती}

अ॒भि स्व॑रन्ति ब॒हवो᳚ मनी॒षिणो॒ राजा᳚नम॒स्य भुव॑नस्य निंसते ||{3/12}{7.3.10.3}{9.85.3}{9.4.18.3}{411, 808, 8419}

अद॑ब्धः¦इ॒न्दो॒ इति॑¦प॒व॒से॒¦म॒दिन्ऽत॑मः¦आ॒त्मा¦इन्द्र॑स्य¦भ॒व॒सि॒¦धा॒सिः¦उ॒त्ऽत॒मः |
अ॒भि¦स्व॒र॒न्ति॒¦ब॒हवः॑¦म॒नी॒षिणः॑¦राजा᳚न‌म्¦अ॒स्य¦भुव॑नस्य¦निं॒स॒ते॒ ||

स॒हस्र॑णीथः श॒तधा᳚रो॒, अद्भु॑त॒ इन्द्रा॒येन्दुः॑ पवते॒ काम्यं॒ मधु॑ |{भार्गवो वेनः | पवमानः सोमः | जगती}

जय॒न्‌ क्षेत्र॑म॒भ्य॑र्षा॒ जय᳚न्न॒प उ॒रुं नो᳚ गा॒तुं कृ॑णु सोम मीढ्वः ||{4/12}{7.3.10.4}{9.85.4}{9.4.18.4}{412, 808, 8420}

स॒हस्र॑ऽनीथः¦श॒तऽधा᳚रः¦अद्भु॑तः¦इन्द्रा᳚य¦इन्दुः॑¦प॒व॒ते॒¦काम्य᳚‌म्¦मधु॑ |
जय॑न्¦क्षेत्र᳚‌म्¦अ॒भि¦अ॒र्ष॒¦जय॑न्¦अ॒पः¦उ॒रु‌म्¦नः॒¦गा॒तु‌म्¦कृ॒णु॒¦सो॒म॒¦मी॒ढ्वः॒ ||

कनि॑क्रदत्क॒लशे॒ गोभि॑रज्यसे॒ व्य१॑(अ॒)व्ययं᳚ स॒मया॒ वार॑मर्षसि |{भार्गवो वेनः | पवमानः सोमः | जगती}

म॒र्मृ॒ज्यमा᳚नो॒, अत्यो॒ न सा᳚न॒सिरिन्द्र॑स्य सोम ज॒ठरे॒ सम॑क्षरः ||{5/12}{7.3.10.5}{9.85.5}{9.4.18.5}{413, 808, 8421}

कनि॑क्रदत्¦क॒लशे᳚¦गोभिः॑¦अ॒ज्य॒से॒¦वि¦अ॒व्यय᳚‌म्¦स॒मया᳚¦वार᳚‌म्¦अ॒र्ष॒सि॒ |
म॒र्मृ॒ज्यमा᳚नः¦अत्यः॑¦न¦सा॒न॒सिः¦इन्द्र॑स्य¦सो॒म॒¦ज॒ठरे᳚¦स‌म्¦अ॒क्ष॒रः॒ ||

स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने स्वा॒दुरिन्द्रा᳚य सु॒हवी᳚तुनाम्ने |{भार्गवो वेनः | पवमानः सोमः | जगती}

स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ बृह॒स्पत॑ये॒ मधु॑माँ॒, अदा᳚भ्यः ||{6/12}{7.3.11.1}{9.85.6}{9.4.18.6}{414, 808, 8422}

स्वा॒दुः¦प॒व॒स्व॒¦दि॒व्याय॑¦जन्म॑ने¦स्वा॒दुः¦इन्द्रा᳚य¦सु॒हवी᳚तुऽनाम्ने |
स्वा॒दुः¦मि॒त्राय॑¦वरु॑णाय¦वा॒यवे᳚¦बृह॒स्पत॑ये¦मधु॑ऽमान्¦अदा᳚भ्यः ||

अत्यं᳚ मृजन्ति क॒लशे॒ दश॒ क्षिपः॒ प्र विप्रा᳚णां म॒तयो॒ वाच॑ ईरते |{भार्गवो वेनः | पवमानः सोमः | जगती}

पव॑माना, अ॒भ्य॑र्षन्ति सुष्टु॒तिमेन्द्रं᳚ विशन्ति मदि॒रास॒ इन्द॑वः ||{7/12}{7.3.11.2}{9.85.7}{9.4.18.7}{415, 808, 8423}

अत्य᳚‌म्¦मृ॒ज॒न्ति॒¦क॒लशे᳚¦दश॑¦क्षिपः॑¦प्र¦विप्रा᳚णा‌म्¦म॒तयः॑¦वाचः॑¦ई॒र॒ते॒ |
पव॑मानाः¦अ॒भि¦अ॒र्ष॒न्ति॒¦सु॒ऽस्तु॒ति‌म्¦आ¦इन्द्र᳚‌म्¦वि॒श॒न्ति॒¦म॒दि॒रासः॑¦इन्द॑वः ||

पव॑मानो, अ॒भ्य॑र्षा सु॒वीर्य॑मु॒र्वीं गव्यू᳚तिं॒ महि॒ शर्म॑ स॒प्रथः॑ |{भार्गवो वेनः | पवमानः सोमः | जगती}

माकि᳚र्नो, अ॒स्य परि॑षूतिरीश॒तेन्दो॒ जये᳚म॒ त्वया॒ धनं᳚धनम् ||{8/12}{7.3.11.3}{9.85.8}{9.4.18.8}{416, 808, 8424}

पव॑मानः¦अ॒भि¦अ॒र्ष॒¦सु॒ऽवीर्य᳚‌म्¦उ॒र्वी‌म्¦गव्यू᳚ति‌म्¦महि॑¦शर्म॑¦स॒ऽप्रथः॑ |
माकिः॑¦नः॒¦अ॒स्य¦परि॑ऽसूतिः¦ई॒श॒त॒¦इन्दो॒ इति॑¦जये᳚म¦त्वया᳚¦धन᳚‌म्ऽधन‌म् ||

अधि॒ द्याम॑स्थाद्वृष॒भो वि॑चक्ष॒णोऽरू᳚रुच॒द्वि दि॒वो रो᳚च॒ना क॒विः |{भार्गवो वेनः | पवमानः सोमः | जगती}

राजा᳚ प॒वित्र॒मत्ये᳚ति॒ रोरु॑वद्दि॒वः पी॒यूषं᳚ दुहते नृ॒चक्ष॑सः ||{9/12}{7.3.11.4}{9.85.9}{9.4.18.9}{417, 808, 8425}

अधि॑¦द्या‌म्¦अ॒स्था॒त्¦वृ॒ष॒भः¦वि॒ऽच॒क्ष॒णः¦अरू᳚रुचत्¦वि¦दि॒वः¦रो॒च॒ना¦क॒विः |
राजा᳚¦प॒वित्र᳚‌म्¦अति॑¦ए॒ति॒¦रोरु॑वत्¦दि॒वः¦पी॒यूष᳚‌म्¦दु॒ह॒ते॒¦नृ॒ऽचक्ष॑सः ||

दि॒वो नाके॒ मधु॑जिह्वा, अस॒श्चतो᳚ वे॒ना दु॑हन्त्यु॒क्षणं᳚ गिरि॒ष्ठाम् |{भार्गवो वेनः | पवमानः सोमः | जगती}

अ॒प्सु द्र॒प्सं वा᳚वृधा॒नं स॑मु॒द्र आ सिन्धो᳚रू॒र्मा मधु॑मन्तं प॒वित्र॒ आ ||{10/12}{7.3.11.5}{9.85.10}{9.4.18.10}{418, 808, 8426}

दि॒वः¦नाके᳚¦मधु॑ऽजिह्वाः¦अ॒स॒श्चतः॑¦वे॒नाः¦दु॒ह॒न्ति॒¦उ॒क्षण᳚‌म्¦गि॒रि॒ऽस्था‌म् |
अ॒प्ऽसु¦द्र॒प्स‌म्¦व॒वृ॒धा॒न‌म्¦स॒मु॒द्रे¦आ¦सिन्धोः᳚¦ऊ॒र्मा¦मधु॑ऽमन्त‌म्¦प॒वित्रे᳚¦आ ||

नाके᳚ सुप॒र्णमु॑पपप्ति॒वांसं॒ गिरो᳚ वे॒नाना᳚मकृपन्त पू॒र्वीः |{भार्गवो वेनः | पवमानः सोमः | त्रिष्टुप्}

शिशुं᳚ रिहन्ति म॒तयः॒ पनि॑प्नतं हिर॒ण्ययं᳚ शकु॒नं क्षाम॑णि॒ स्थाम् ||{11/12}{7.3.11.6}{9.85.11}{9.4.18.11}{419, 808, 8427}

नाके᳚¦सु॒ऽप॒र्ण‌म्¦उ॒प॒प॒प्ति॒ऽवांस᳚‌म्¦गिरः॑¦वे॒नाना᳚‌म्¦अ॒कृ॒प॒न्त॒¦पू॒र्वीः |
शिशु᳚‌म्¦रि॒ह॒न्ति॒¦म॒तयः॑¦पनि॑प्नत‌म्¦हि॒र॒ण्यय᳚‌म्¦श॒कु॒न‌म्¦क्षाम॑णि¦स्था॒‌म् ||

ऊ॒र्ध्वो ग᳚न्ध॒र्वो, अधि॒ नाके᳚, अस्था॒द्विश्वा᳚ रू॒पा प्र॑ति॒चक्षा᳚णो, अस्य |{भार्गवो वेनः | पवमानः सोमः | त्रिष्टुप्}

भा॒नुः शु॒क्रेण॑ शो॒चिषा॒ व्य॑द्यौ॒त्प्रारू᳚रुच॒द्रोद॑सी मा॒तरा॒ शुचिः॑ ||{12/12}{7.3.11.7}{9.85.12}{9.4.18.12}{420, 808, 8428}

ऊ॒र्ध्वः¦ग॒न्ध॒र्वः¦अधि॑¦नाके᳚¦अ॒स्था॒त्¦विश्वा᳚¦रू॒पा¦प्र॒ति॒ऽचक्षा᳚णः¦अ॒स्य॒ |
भा॒नुः¦शु॒क्रेण॑¦शो॒चिषा᳚¦वि¦अ॒द्यौ॒त्¦प्र¦अ॒रू॒रु॒च॒त्¦रोद॑सी॒ इति॑¦मा॒तरा᳚¦शुचिः॑ ||

[43] प्रतआशवइत्यष्टाचत्वारिंशदृचस्य सूक्तस्य आद्यानांदशानामकृष्टामाषाऋषयः एकादश्यादिदशानांसिकतानिवावरी एकविंश्यादिदशानां पृश्नियोजाः एकत्रिंश्यादिदशानामत्रेयः एकचत्वारिंश्यादिपंचानांभौमोत्रिः अत्यानांतिसृणां शौनकोगृत्समदः पवमान सोमोजगती |
प्र त॑ आ॒शवः॑ पवमान धी॒जवो॒ मदा᳚, अर्षन्ति रघु॒जा, इ॑व॒ त्मना᳚ |{कृष्टामाषा | पवमानः सोमः | जगती}

दि॒व्याः सु॑प॒र्णा मधु॑मन्त॒ इन्द॑वो म॒दिन्त॑मासः॒ परि॒ कोश॑मासते ||{1/48}{7.3.12.1}{9.86.1}{9.5.1.1}{421, 809, 8429}

प्र¦ते॒¦आ॒शवः॑¦प॒व॒मा॒न॒¦धी॒ऽजवः॑¦मदाः᳚¦अ॒र्ष॒न्ति॒¦र॒घु॒जाःऽ‌इ᳚व¦त्मना᳚ |
दि॒व्याः¦सु॒ऽप॒र्णाः¦मधु॑ऽमन्तः¦इन्द॑वः¦म॒दिन्ऽत॑मासः¦परि॑¦कोश᳚‌म्¦आ॒स॒ते॒ ||

प्र ते॒ मदा᳚सो मदि॒रास॑ आ॒शवोऽसृ॑क्षत॒ रथ्या᳚सो॒ यथा॒ पृथ॑क् |{कृष्टामाषा | पवमानः सोमः | जगती}

धे॒नुर्न व॒त्सं पय॑सा॒भि व॒ज्रिण॒मिन्द्र॒मिन्द॑वो॒ मधु॑मन्त ऊ॒र्मयः॑ ||{2/48}{7.3.12.2}{9.86.2}{9.5.1.2}{422, 809, 8430}

प्र¦ते॒¦मदा᳚सः¦म॒दि॒रासः॑¦आ॒शवः॑¦असृ॑क्षत¦रथ्या᳚सः¦यथा᳚¦पृथ॑क् |
धे॒नुः¦न¦व॒त्स‌म्¦पय॑सा¦अ॒भि¦व॒ज्रिण᳚‌म्¦इन्द्र᳚‌म्¦इन्द॑वः¦मधु॑ऽमन्तः¦ऊ॒र्मयः॑ ||

अत्यो॒ न हि॑या॒नो, अ॒भि वाज॑मर्ष स्व॒र्वित्कोशं᳚ दि॒वो, अद्रि॑मातरम् |{कृष्टामाषा | पवमानः सोमः | जगती}

वृषा᳚ प॒वित्रे॒, अधि॒ सानो᳚, अ॒व्यये॒ सोमः॑ पुना॒न इ᳚न्द्रि॒याय॒ धाय॑से ||{3/48}{7.3.12.3}{9.86.3}{9.5.1.3}{423, 809, 8431}

अत्यः॑¦न¦हि॒या॒नः¦अ॒भि¦वाज᳚‌म्¦अ॒र्ष॒¦स्वः॒ऽवित्¦कोश᳚‌म्¦दि॒वः¦अद्रि॑ऽमातर‌म् |
वृषा᳚¦प॒वित्रे᳚¦अधि॑¦सानौ᳚¦अ॒व्यये᳚¦सोमः॑¦पु॒ना॒नः¦इ॒न्द्रि॒याय॑¦धाय॑से ||

प्र त॒ आश्वि॑नीः पवमान धी॒जुवो᳚ दि॒व्या, अ॑सृग्र॒न्‌ पय॑सा॒ धरी᳚मणि |{कृष्टामाषा | पवमानः सोमः | जगती}

प्रान्तरृष॑यः॒ स्थावि॑रीरसृक्षत॒ ये त्वा᳚ मृ॒जन्त्यृ॑षिषाण वे॒धसः॑ ||{4/48}{7.3.12.4}{9.86.4}{9.5.1.4}{424, 809, 8432}

प्र¦ते॒¦आश्वि॑नीः¦प॒व॒मा॒न॒¦धी॒ऽजुवः॑¦दि॒व्याः¦अ॒सृ॒ग्र॒न्¦पय॑सा¦धरी᳚मणि |
प्र¦अ॒न्तः¦ऋष॑यः¦स्थावि॑रीः¦अ॒सृ॒क्ष॒त॒¦ये¦त्वा॒¦मृ॒जन्ति॑¦ऋ॒षि॒ऽसा॒न॒¦वे॒धसः॑ ||

विश्वा॒ धामा᳚नि विश्वचक्ष॒ ऋभ्व॑सः प्र॒भोस्ते᳚ स॒तः परि॑ यन्ति के॒तवः॑ |{कृष्टामाषा | पवमानः सोमः | जगती}

व्या॒न॒शिः प॑वसे सोम॒ धर्म॑भिः॒ पति॒र्विश्व॑स्य॒ भुव॑नस्य राजसि ||{5/48}{7.3.12.5}{9.86.5}{9.5.1.5}{425, 809, 8433}

विश्वा᳚¦धामा᳚नि¦वि॒श्व॒ऽच॒क्षः॒¦ऋभ्व॑सः¦प्र॒ऽभोः¦ते॒¦स॒तः¦परि॑¦य॒न्ति॒¦के॒तवः॑ |
वि॒ऽआ॒न॒शिः¦प॒व॒से॒¦सो॒म॒¦धर्म॑ऽभिः¦पतिः॑¦विश्व॑स्य¦भुव॑नस्य¦रा॒ज॒सि॒ ||

उ॒भ॒यतः॒ पव॑मानस्य र॒श्मयो᳚ ध्रु॒वस्य॑ स॒तः परि॑ यन्ति के॒तवः॑ |{कृष्टामाषा | पवमानः सोमः | जगती}

यदी᳚ प॒वित्रे॒, अधि॑ मृ॒ज्यते॒ हरिः॒ सत्ता॒ नि योना᳚ क॒लशे᳚षु सीदति ||{6/48}{7.3.13.1}{9.86.6}{9.5.1.6}{426, 809, 8434}

उ॒भ॒यतः॑¦पव॑मानस्य¦र॒श्मयः॑¦ध्रु॒वस्य॑¦स॒तः¦परि॑¦य॒न्ति॒¦के॒तवः॑ |
यदि॑¦प॒वित्रे᳚¦अधि॑¦मृ॒ज्यते᳚¦हरिः॑¦सत्ता᳚¦नि¦योना᳚¦क॒लशे᳚षु¦सी॒द॒ति॒ ||

य॒ज्ञस्य॑ के॒तुः प॑वते स्वध्व॒रः सोमो᳚ दे॒वाना॒मुप॑ याति निष्कृ॒तम् |{कृष्टामाषा | पवमानः सोमः | जगती}

स॒हस्र॑धारः॒ परि॒ कोश॑मर्षति॒ वृषा᳚ प॒वित्र॒मत्ये᳚ति॒ रोरु॑वत् ||{7/48}{7.3.13.2}{9.86.7}{9.5.1.7}{427, 809, 8435}

य॒ज्ञस्य॑¦के॒तुः¦प॒व॒ते॒¦सु॒।आ॒ध्व॒रः¦सोमः॑¦दे॒वाना᳚‌म्¦उप॑¦या॒ति॒¦निः॒ऽकृ॒त‌म् |
स॒हस्र॑ऽधारः¦परि॑¦कोश᳚‌म्¦अ॒र्ष॒ति॒¦वृषा᳚¦प॒वित्र᳚‌म्¦अति॑¦ए॒ति॒¦रोरु॑वत् ||

राजा᳚ समु॒द्रं न॒द्यो॒३॑(ओ॒) वि गा᳚हते॒ऽपामू॒र्मिं स॑चते॒ सिन्धु॑षु श्रि॒तः |{कृष्टामाषा | पवमानः सोमः | जगती}

अध्य॑स्था॒त्सानु॒ पव॑मानो, अ॒व्ययं॒ नाभा᳚ पृथि॒व्या ध॒रुणो᳚ म॒हो दि॒वः ||{8/48}{7.3.13.3}{9.86.8}{9.5.1.8}{428, 809, 8436}

राजा᳚¦स॒मु॒द्र‌म्¦न॒द्यः॑¦वि¦गा॒ह॒ते॒¦अ॒पा‌म्¦ऊ॒र्मि‌म्¦स॒च॒ते॒¦सिन्धु॑षु¦श्रि॒तः |
अधि॑¦अ॒स्था॒त्¦सानु॑¦पव॑मानः¦अ॒व्यय᳚‌म्¦नाभा᳚¦पृ॒थि॒व्याः¦ध॒रुणः॑¦म॒हः¦दि॒वः ||

दि॒वो न सानु॑ स्त॒नय᳚न्नचिक्रद॒द्द्यौश्च॒ यस्य॑ पृथि॒वी च॒ धर्म॑भिः |{कृष्टामाषा | पवमानः सोमः | जगती}

इन्द्र॑स्य स॒ख्यं प॑वते वि॒वेवि॑द॒त्सोमः॑ पुना॒नः क॒लशे᳚षु सीदति ||{9/48}{7.3.13.4}{9.86.9}{9.5.1.9}{429, 809, 8437}

दि॒वः¦न¦सानु॑¦स्त॒नय॑न्¦अ॒चि॒क्र॒द॒त्¦द्यौः¦च॒¦यस्य॑¦पृ॒थि॒वी¦च॒¦धर्म॑ऽभिः |
इन्द्र॑स्य¦स॒ख्य‌म्¦प॒व॒ते॒¦वि॒ऽवेवि॑दत्¦सोमः॑¦पु॒ना॒नः¦क॒लशे᳚षु¦सी॒द॒ति॒ ||

ज्योति᳚र्य॒ज्ञस्य॑ पवते॒ मधु॑ प्रि॒यं पि॒ता दे॒वानां᳚ जनि॒ता वि॒भूव॑सुः |{कृष्टामाषा | पवमानः सोमः | जगती}

दधा᳚ति॒ रत्नं᳚ स्व॒धयो᳚रपी॒च्यं᳚ म॒दिन्त॑मो मत्स॒र इ᳚न्द्रि॒यो रसः॑ ||{10/48}{7.3.13.5}{9.86.10}{9.5.1.10}{430, 809, 8438}

ज्योतिः॑¦य॒ज्ञस्य॑¦प॒व॒ते॒¦मधु॑¦प्रि॒य‌म्¦पि॒ता¦दे॒वाना᳚‌म्¦ज॒नि॒ता¦वि॒भुऽव॑सुः |
दधा᳚ति¦रत्न᳚‌म्¦स्व॒धयोः᳚¦अ॒पी॒च्य᳚‌म्¦म॒दिन्ऽत॑मः¦म॒त्स॒रः¦इ॒न्द्रि॒यः¦रसः॑ ||

अ॒भि॒क्रन्द᳚न्‌ क॒लशं᳚ वा॒ज्य॑र्षति॒ पति॑र्दि॒वः श॒तधा᳚रो विचक्ष॒णः |{सिकतानिवावरी | पवमानः सोमः | जगती}

हरि᳚र्मि॒त्रस्य॒ सद॑नेषु सीदति मर्मृजा॒नोऽवि॑भिः॒ सिन्धु॑भि॒र्वृषा᳚ ||{11/48}{7.3.14.1}{9.86.11}{9.5.1.11}{431, 809, 8439}

अ॒भि॒ऽक्रन्द॑न्¦क॒लश᳚‌म्¦वा॒जी¦अ॒र्ष॒ति॒¦पतिः॑¦दि॒वः¦श॒तऽधा᳚रः¦वि॒ऽच॒क्ष॒णः |
हरिः॑¦मि॒त्रस्य॑¦सद॑नेषु¦सी॒द॒ति॒¦म॒र्मृ॒जा॒नः¦अवि॑ऽभिः¦सिन्धु॑ऽभिः¦वृषा᳚ ||

अग्रे॒ सिन्धू᳚नां॒ पव॑मानो, अर्ष॒त्यग्रे᳚ वा॒चो, अ॑ग्रि॒यो गोषु॑ गच्छति |{सिकतानिवावरी | पवमानः सोमः | जगती}

अग्रे॒ वाज॑स्य भजते महाध॒नं स्वा᳚यु॒धः सो॒तृभिः॑ पूयते॒ वृषा᳚ ||{12/48}{7.3.14.2}{9.86.12}{9.5.1.12}{432, 809, 8440}

अग्रे᳚¦सिन्धू᳚ना‌म्¦पव॑मानः¦अ॒र्ष॒ति॒¦अग्रे᳚¦वा॒चः¦अ॒ग्रि॒यः¦गोषु॑¦ग॒च्छ॒ति॒ |
अग्रे᳚¦वाज॑स्य¦भ॒ज॒ते॒¦म॒हा॒ऽध॒न‌म्¦सु॒ऽआ॒यु॒धः¦सो॒तृऽभिः॑¦पू॒य॒ते॒¦वृषा᳚ ||

अ॒यं म॒तवा᳚ञ्छकु॒नो यथा᳚ हि॒तोऽव्ये᳚ ससार॒ पव॑मान ऊ॒र्मिणा᳚ |{सिकतानिवावरी | पवमानः सोमः | जगती}

तव॒ क्रत्वा॒ रोद॑सी, अन्त॒रा क॑वे॒ शुचि॑र्धि॒या प॑वते॒ सोम॑ इन्द्र ते ||{13/48}{7.3.14.3}{9.86.13}{9.5.1.13}{433, 809, 8441}

अ॒य‌म्¦म॒तऽवा᳚न्¦श॒कु॒नः¦यथा᳚¦हि॒तः¦अव्ये᳚¦स॒सा॒र॒¦पव॑मानः¦ऊ॒र्मिणा᳚ |
तव॑¦क्रत्वा᳚¦रोद॑सी॒ इति॑¦अ॒न्त॒रा¦क॒वे॒¦शुचिः॑¦धि॒या¦प॒व॒ते॒¦सोमः॑¦इ॒न्द्र॒¦ते॒ ||

द्रा॒पिं वसा᳚नो यज॒तो दि॑वि॒स्पृश॑मन्तरिक्ष॒प्रा भुव॑ने॒ष्वर्पि॑तः |{सिकतानिवावरी | पवमानः सोमः | जगती}

स्व॑र्जज्ञा॒नो नभ॑सा॒भ्य॑क्रमीत्प्र॒त्नम॑स्य पि॒तर॒मा वि॑वासति ||{14/48}{7.3.14.4}{9.86.14}{9.5.1.14}{434, 809, 8442}

द्रा॒पि‌म्¦वसा᳚नः¦य॒ज॒तः¦दि॒वि॒ऽस्पृश᳚‌म्¦अ॒न्त॒रि॒क्ष॒ऽप्राः¦भुव॑नेषु¦अर्पि॑तः |
स्वः॑¦ज॒ज्ञा॒नः¦नभ॑सा¦अ॒भि¦अ॒क्र॒मी॒त्¦प्र॒त्न‌म्¦अ॒स्य॒¦पि॒तर᳚‌म्¦आ¦वि॒वा॒स॒ति॒ ||

सो, अ॑स्य वि॒शे महि॒ शर्म॑ यच्छति॒ यो, अ॑स्य॒ धाम॑ प्रथ॒मं व्या᳚न॒शे |{सिकतानिवावरी | पवमानः सोमः | जगती}

प॒दं यद॑स्य पर॒मे व्यो᳚म॒न्यतो॒ विश्वा᳚, अ॒भि सं या᳚ति सं॒यतः॑ ||{15/48}{7.3.14.5}{9.86.15}{9.5.1.15}{435, 809, 8443}

सः¦अ॒स्य॒¦वि॒शे¦महि॑¦शर्म॑¦य॒च्छ॒ति॒¦यः¦अ॒स्य॒¦धाम॑¦प्र॒थ॒म‌म्¦वि॒ऽआ॒न॒शे |
प॒द‌म्¦यत्¦अ॒स्य॒¦प॒र॒मे¦विऽओ᳚मनि¦अतः॑¦विश्वाः᳚¦अ॒भि¦स‌म्¦या॒ति॒¦स॒‌म्ऽयतः॑ ||

प्रो, अ॑यासी॒दिन्दु॒रिन्द्र॑स्य निष्कृ॒तं सखा॒ सख्यु॒र्न प्र मि॑नाति सं॒गिर᳚म् |{सिकतानिवावरी | पवमानः सोमः | जगती}

मर्य॑ इव युव॒तिभिः॒ सम॑र्षति॒ सोमः॑ क॒लशे᳚ श॒तया᳚म्ना प॒था ||{16/48}{7.3.15.1}{9.86.16}{9.5.1.16}{436, 809, 8444}

प्रो इति॑¦अ॒या॒सी॒त्¦इन्दुः॑¦इन्द्र॑स्य¦निः॒ऽकृ॒त‌म्¦सखा᳚¦सख्युः॑¦न¦प्र¦मि॒ना॒ति॒¦स॒‌म्ऽगिर᳚‌म् |
मर्यः॑ऽ‌इव¦यु॒व॒तिऽभिः॑¦स‌म्¦अ॒र्ष॒ति॒¦सोमः॑¦क॒लशे᳚¦श॒तऽया᳚म्ना¦प॒था ||

प्र वो॒ धियो᳚ मन्द्र॒युवो᳚ विप॒न्युवः॑ पन॒स्युवः॑ सं॒वस॑नेष्वक्रमुः |{सिकतानिवावरी | पवमानः सोमः | जगती}

सोमं᳚ मनी॒षा, अ॒भ्य॑नूषत॒ स्तुभो॒ऽभि धे॒नवः॒ पय॑सेमशिश्रयुः ||{17/48}{7.3.15.2}{9.86.17}{9.5.1.17}{437, 809, 8445}

प्र¦वः॒¦धियः॑¦म॒न्द्र॒ऽयुवः॑¦वि॒प॒न्युवः॑¦प॒न॒स्युवः॑¦स॒‌म्ऽवस॑नेषु¦अ॒क्र॒मुः॒ |
सोम᳚‌म्¦म॒नी॒षाः¦अ॒भि¦अ॒नू॒ष॒त॒¦स्तुभः॑¦अ॒भि¦धे॒नवः॑¦पय॑सा¦ई॒‌म्¦अ॒शि॒श्र॒युः॒ ||

आ नः॑ सोम सं॒यतं᳚ पि॒प्युषी॒मिष॒मिन्दो॒ पव॑स्व॒ पव॑मानो, अ॒स्रिध᳚म् |{सिकतानिवावरी | पवमानः सोमः | जगती}

या नो॒ दोह॑ते॒ त्रिरह॒न्नस॑श्चुषी क्षु॒मद्वाज॑व॒न्मधु॑मत्सु॒वीर्य᳚म् ||{18/48}{7.3.15.3}{9.86.18}{9.5.1.18}{438, 809, 8446}

आ¦नः॒¦सो॒म॒¦स॒‌म्ऽयत᳚‌म्¦पि॒प्युषी᳚‌म्¦इष᳚‌म्¦इन्दो॒ इति॑¦पव॑स्व¦पव॑मानः¦अ॒स्रिध᳚‌म् |
या¦नः॒¦दोह॑ते¦त्रिः¦अह॑न्¦अस॑श्चुषी¦क्षु॒ऽमत्¦वाज॑ऽवत्¦मधु॑ऽमत्¦सु॒ऽवीर्य᳚‌म् ||

वृषा᳚ मती॒नां प॑वते विचक्ष॒णः सोमो॒, अह्नः॑ प्रतरी॒तोषसो᳚ दि॒वः |{सिकतानिवावरी | पवमानः सोमः | जगती}

क्रा॒णा सिन्धू᳚नां क॒लशाँ᳚, अवीवश॒दिन्द्र॑स्य॒ हार्द्या᳚वि॒शन्म॑नी॒षिभिः॑ ||{19/48}{7.3.15.4}{9.86.19}{9.5.1.19}{439, 809, 8447}

वृषा᳚¦म॒ती॒ना‌म्¦प॒व॒ते॒¦वि॒ऽच॒क्ष॒णः¦सोमः॑¦अह्नः॑¦प्र॒ऽत॒री॒ता¦उ॒षसः॑¦दि॒वः |
क्रा॒णा¦सिन्धू᳚ना‌म्¦क॒लशा᳚न्¦अ॒वी॒व॒श॒त्¦इन्द्र॑स्य¦हार्दि॑¦आ॒ऽवि॒शन्¦म॒नी॒षिऽभिः॑ ||

म॒नी॒षिभिः॑ पवते पू॒र्व्यः क॒विर्नृभि᳚र्य॒तः परि॒ कोशाँ᳚, अचिक्रदत् |{सिकतानिवावरी | पवमानः सोमः | जगती}

त्रि॒तस्य॒ नाम॑ ज॒नय॒न्मधु॑ क्षर॒दिन्द्र॑स्य वा॒योः स॒ख्याय॒ कर्त॑वे ||{20/48}{7.3.15.5}{9.86.20}{9.5.1.20}{440, 809, 8448}

म॒नी॒षिऽभिः॑¦प॒व॒ते॒¦पू॒र्व्यः¦क॒विः¦नृऽभिः॑¦य॒तः¦परि॑¦कोशा᳚न्¦अ॒चि॒क्र॒द॒त् |
त्रि॒तस्य॑¦नाम॑¦ज॒नय॑न्¦मधु॑¦क्ष॒र॒त्¦इन्द्र॑स्य¦वा॒योः¦स॒ख्याय॑¦कर्त॑वे ||

अ॒यं पु॑ना॒न उ॒षसो॒ वि रो᳚चयद॒यं सिन्धु॑भ्यो, अभवदु लोक॒कृत् |{पृश्नियोजाः | पवमानः सोमः | जगती}

अ॒यं त्रिः स॒प्त दु॑दुहा॒न आ॒शिरं॒ सोमो᳚ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ||{21/48}{7.3.16.1}{9.86.21}{9.5.1.21}{441, 809, 8449}

अ॒य‌म्¦पु॒ना॒नः¦उ॒षसः॑¦वि¦रो॒च॒य॒त्¦अ॒य‌म्¦सिन्धु॑ऽभ्यः¦अ॒भ॒व॒त्¦ऊँ॒ इति॑¦लो॒क॒ऽकृत् |
अ॒य‌म्¦त्रिः¦स॒प्त¦दु॒दु॒हा॒नः¦आ॒ऽशिर᳚‌म्¦सोमः॑¦हृ॒दे¦प॒व॒ते॒¦चारु॑¦म॒त्स॒रः ||

पव॑स्व सोम दि॒व्येषु॒ धाम॑सु सृजा॒न इ᳚न्दो क॒लशे᳚ प॒वित्र॒ आ |{पृश्नियोजाः | पवमानः सोमः | जगती}

सीद॒न्निन्द्र॑स्य ज॒ठरे॒ कनि॑क्रद॒न्नृभि᳚र्य॒तः सूर्य॒मारो᳚हयो दि॒वि ||{22/48}{7.3.16.2}{9.86.22}{9.5.1.22}{442, 809, 8450}

पव॑स्व¦सो॒म॒¦दि॒व्येषु॑¦धाम॑ऽसु¦सृ॒जा॒नः¦इ॒न्दो॒ इति॑¦क॒लशे᳚¦प॒वित्रे᳚¦आ |
सीद॑न्¦इन्द्र॑स्य¦ज॒ठरे᳚¦कनि॑क्रदत्¦नृऽभिः॑¦य॒तः¦सूर्य᳚‌म्¦आ¦अ॒रो॒ह॒यः॒¦दि॒वि ||

अद्रि॑भिः सु॒तः प॑वसे प॒वित्र॒ आँ, इन्द॒विन्द्र॑स्य ज॒ठरे᳚ष्वावि॒शन् |{पृश्नियोजाः | पवमानः सोमः | जगती}

त्वं नृ॒चक्षा᳚, अभवो विचक्षण॒ सोम॑ गो॒त्रमङ्गि॑रोभ्योऽवृणो॒रप॑ ||{23/48}{7.3.16.3}{9.86.23}{9.5.1.23}{443, 809, 8451}

अद्रि॑ऽभिः¦सु॒तः¦प॒व॒से॒¦प॒वित्रे᳚¦आ¦इन्दो॒ इति॑¦इन्द्र॑स्य¦ज॒ठरे᳚षु¦आ॒ऽवि॒शन् |
त्व‌म्¦नृ॒ऽचक्षाः᳚¦अ॒भ॒वः॒¦वि॒ऽच॒क्ष॒ण॒¦सोम॑¦गो॒त्र‌म्¦अङ्गि॑रःऽभ्यः¦अ॒वृ॒णोः॒¦अप॑ ||

त्वां सो᳚म॒ पव॑मानं स्वा॒ध्योऽनु॒ विप्रा᳚सो, अमदन्नव॒स्यवः॑ |{पृश्नियोजाः | पवमानः सोमः | जगती}

त्वां सु॑प॒र्ण आभ॑रद्दि॒वस्परीन्दो॒ विश्वा᳚भिर्म॒तिभिः॒ परि॑ष्कृतम् ||{24/48}{7.3.16.4}{9.86.24}{9.5.1.24}{444, 809, 8452}

त्वा‌म्¦सो॒म॒¦पव॑मान‌म्¦सु॒ऽआ॒ध्यः॑¦अनु॑¦विप्रा᳚सः¦अ॒म॒द॒न्¦अ॒व॒स्यवः॑ |
त्वा‌म्¦सु॒ऽप॒र्णः¦आ¦अ॒भ॒र॒त्¦दि॒वः¦परि॑¦इन्दो॒ इति॑¦विश्वा᳚भिः¦म॒तिऽभिः॑¦परि॑ऽकृत‌म् ||

अव्ये᳚ पुना॒नं परि॒ वार॑ ऊ॒र्मिणा॒ हरिं᳚ नवन्ते, अ॒भि स॒प्त धे॒नवः॑ |{पृश्नियोजाः | पवमानः सोमः | जगती}

अ॒पामु॒पस्थे॒, अध्या॒यवः॑ क॒विमृ॒तस्य॒ योना᳚ महि॒षा, अ॑हेषत ||{25/48}{7.3.16.5}{9.86.25}{9.5.1.25}{445, 809, 8453}

अव्ये᳚¦पु॒ना॒न‌म्¦परि॑¦वारे᳚¦ऊ॒र्मिणा᳚¦हरि᳚‌म्¦न॒व॒न्ते॒¦अ॒भि¦स॒प्त¦धे॒नवः॑ |
अ॒पा‌म्¦उ॒पऽस्थे᳚¦अधि॑¦आ॒यवः॑¦क॒वि‌म्¦ऋ॒तस्य॑¦योना᳚¦म॒हि॒षाः¦अ॒हे॒ष॒त॒ ||

इन्दुः॑ पुना॒नो, अति॑ गाहते॒ मृधो॒ विश्वा᳚नि कृ॒ण्वन्‌ त्सु॒पथा᳚नि॒ यज्य॑वे |{पृश्नियोजाः | पवमानः सोमः | जगती}

गाः कृ᳚ण्वा॒नो नि॒र्णिजं᳚ हर्य॒तः क॒विरत्यो॒ न क्रीळ॒न्‌ परि॒ वार॑मर्षति ||{26/48}{7.3.17.1}{9.86.26}{9.5.1.26}{446, 809, 8454}

इन्दुः॑¦पु॒ना॒नः¦अति॑¦गा॒ह॒ते॒¦मृधः॑¦विश्वा᳚नि¦कृ॒ण्वन्¦सु॒ऽपथा᳚नि¦यज्य॑वे |
गाः¦कृ॒ण्वा॒नः¦निः॒ऽनिज᳚‌म्¦ह॒र्य॒तः¦क॒विः¦अत्यः॑¦न¦क्रीळ॑न्¦परि॑¦वार᳚‌म्¦अ॒र्ष॒ति॒ ||

अ॒स॒श्चतः॑ श॒तधा᳚रा, अभि॒श्रियो॒ हरिं᳚ नव॒न्तेऽव॒ ता, उ॑द॒न्युवः॑ |{पृश्नियोजाः | पवमानः सोमः | जगती}

क्षिपो᳚ मृजन्ति॒ परि॒ गोभि॒रावृ॑तं तृ॒तीये᳚ पृ॒ष्ठे, अधि॑ रोच॒ने दि॒वः ||{27/48}{7.3.17.2}{9.86.27}{9.5.1.27}{447, 809, 8455}

अ॒स॒श्चतः॑¦श॒तऽधा᳚राः¦अ॒भि॒ऽश्रियः॑¦हरि᳚‌म्¦न॒व॒न्ते¦अव॑¦ताः¦उ॒द॒न्युवः॑ |
क्षिपः॑¦मृ॒ज॒न्ति॒¦परि॑¦गोभिः॑¦आऽवृ॑त‌म्¦तृ॒तीये᳚¦पृ॒ष्ठे¦अधि॑¦रो॒च॒ने¦दि॒वः ||

तवे॒माः प्र॒जा दि॒व्यस्य॒ रेत॑स॒स्त्वं विश्व॑स्य॒ भुव॑नस्य राजसि |{पृश्नियोजाः | पवमानः सोमः | जगती}

अथे॒दं विश्वं᳚ पवमान ते॒ वशे॒ त्वमि᳚न्दो प्रथ॒मो धा᳚म॒धा, अ॑सि ||{28/48}{7.3.17.3}{9.86.28}{9.5.1.28}{448, 809, 8456}

तव॑¦इ॒माः¦प्र॒ऽजाः¦दि॒व्यस्य॑¦रेत॑सः¦त्व‌म्¦विश्व॑स्य¦भुव॑नस्य¦रा॒ज॒सि॒ |
अथ॑¦इ॒द‌म्¦विश्व᳚‌म्¦प॒व॒मा॒न॒¦ते॒¦वशे᳚¦त्व‌म्¦इ॒न्दो॒ इति॑¦प्र॒थ॒मः¦धा॒म॒ऽधाः¦अ॒सि॒ ||

त्वं स॑मु॒द्रो, अ॑सि विश्व॒वित्क॑वे॒ तवे॒माः पञ्च॑ प्र॒दिशो॒ विध᳚र्मणि |{पृश्नियोजाः | पवमानः सोमः | जगती}

त्वं द्यां च॑ पृथि॒वीं चाति॑ जभ्रिषे॒ तव॒ ज्योतीं᳚षि पवमान॒ सूर्यः॑ ||{29/48}{7.3.17.4}{9.86.29}{9.5.1.29}{449, 809, 8457}

त्व‌म्¦स॒मु॒द्रः¦अ॒सि॒¦वि॒श्व॒ऽवित्¦क॒वे॒¦तव॑¦इ॒माः¦पंच॑¦प्र॒ऽदिशः॑¦विऽध᳚र्मणि |
त्व‌म्¦द्या‌म्¦च॒¦पृ॒थि॒वी‌म्¦च॒¦अति॑¦ज॒भ्रि॒षे॒¦तव॑¦ज्योतीं᳚षि¦प॒व॒मा॒न॒¦सूर्यः॑ ||

त्वं प॒वित्रे॒ रज॑सो॒ विध᳚र्मणि दे॒वेभ्यः॑ सोम पवमान पूयसे |{पृश्नियोजाः | पवमानः सोमः | जगती}

त्वामु॒शिजः॑ प्रथ॒मा, अ॑गृभ्णत॒ तुभ्ये॒मा विश्वा॒ भुव॑नानि येमिरे ||{30/48}{7.3.17.5}{9.86.30}{9.5.1.30}{450, 809, 8458}

त्व‌म्¦प॒वित्रे᳚¦रज॑सः¦विऽध᳚र्मणि¦दे॒वेभ्यः॑¦सो॒म॒¦प॒व॒मा॒न॒¦पू॒य॒से॒ |
त्वा‌म्¦उ॒शिजः॑¦प्र॒थ॒माः¦अ॒गृ॒भ्ण॒त॒¦तुभ्य॑¦इ॒मा¦विश्वा᳚¦भुव॑नानि¦ये॒मि॒रे॒ ||

प्र रे॒भ ए॒त्यति॒ वार॑म॒व्ययं॒ वृषा॒ वने॒ष्वव॑ चक्रद॒द्धरिः॑ |{अत्रेयः | पवमानः सोमः | जगती}

सं धी॒तयो᳚ वावशा॒ना, अ॑नूषत॒ शिशुं᳚ रिहन्ति म॒तयः॒ पनि॑प्नतम् ||{31/48}{7.3.18.1}{9.86.31}{9.5.1.31}{451, 809, 8459}

प्र¦रे॒भः¦ए॒ति॒¦अति॑¦वार᳚‌म्¦अ॒व्यय᳚‌म्¦वृषा᳚¦वने᳚षु¦अव॑¦च॒क्र॒द॒त्¦हरिः॑ |
स‌म्¦धी॒तयः॑¦वा॒व॒शा॒नाः¦अ॒नू॒ष॒त॒¦शिशु᳚‌म्¦रि॒ह॒न्ति॒¦म॒तयः॑¦पनि॑प्नत‌म् ||

स सूर्य॑स्य र॒श्मिभिः॒ परि᳚ व्यत॒ तन्तुं᳚ तन्वा॒नस्त्रि॒वृतं॒ यथा᳚ वि॒दे |{अत्रेयः | पवमानः सोमः | जगती}

नय᳚न्नृ॒तस्य॑ प्र॒शिषो॒ नवी᳚यसीः॒ पति॒र्जनी᳚ना॒मुप॑ याति निष्कृ॒तम् ||{32/48}{7.3.18.2}{9.86.32}{9.5.1.32}{452, 809, 8460}

सः¦सूर्य॑स्य¦र॒श्मिऽभिः॑¦परि॑¦व्य॒त॒¦तन्तु᳚‌म्¦त॒न्वा॒नः¦त्रि॒ऽवृत᳚‌म्¦यथा᳚¦वि॒दे |
नय॑न्¦ऋ॒तस्य॑¦प्र॒ऽशिषः॑¦नवी᳚यसीः¦पतिः॑¦जनी᳚ना‌म्¦उप॑¦या॒ति॒¦निः॒ऽकृ॒त‌म् ||

राजा॒ सिन्धू᳚नां पवते॒ पति॑र्दि॒व ऋ॒तस्य॑ याति प॒थिभिः॒ कनि॑क्रदत् |{अत्रेयः | पवमानः सोमः | जगती}

स॒हस्र॑धारः॒ परि॑ षिच्यते॒ हरिः॑ पुना॒नो वाचं᳚ ज॒नय॒न्नुपा᳚वसुः ||{33/48}{7.3.18.3}{9.86.33}{9.5.1.33}{453, 809, 8461}

राजा᳚¦सिन्धू᳚ना‌म्¦प॒व॒ते॒¦पतिः॑¦दि॒वः¦ऋ॒तस्य॑¦या॒ति॒¦प॒थिऽभिः॑¦कनि॑क्रदत् |
स॒हस्र॑ऽधारः¦परि॑¦सि॒च्य॒ते॒¦हरिः॑¦पु॒ना॒नः¦वाच᳚‌म्¦ज॒नय॑न्¦उप॑ऽवसुः ||

पव॑मान॒ मह्यर्णो॒ वि धा᳚वसि॒ सूरो॒ न चि॒त्रो, अव्य॑यानि॒ पव्य॑या |{अत्रेयः | पवमानः सोमः | जगती}

गभ॑स्तिपूतो॒ नृभि॒रद्रि॑भिः सु॒तो म॒हे वाजा᳚य॒ धन्या᳚य धन्वसि ||{34/48}{7.3.18.4}{9.86.34}{9.5.1.34}{454, 809, 8462}

पव॑मान¦महि॑¦अर्णः॑¦वि¦धा॒व॒सि॒¦सूरः॑¦न¦चि॒त्रः¦अव्य॑यानि¦पव्य॑या |
गभ॑स्तिऽपूतः¦नृऽभिः॑¦अद्रि॑ऽभिः¦सु॒तः¦म॒हे¦वाजा᳚य¦धन्या᳚य¦ध॒न्व॒सि॒ ||

इष॒मूर्जं᳚ पवमाना॒भ्य॑र्षसि श्ये॒नो न वंसु॑ क॒लशे᳚षु सीदसि |{अत्रेयः | पवमानः सोमः | जगती}

इन्द्रा᳚य॒ मद्वा॒ मद्यो॒ मदः॑ सु॒तो दि॒वो वि॑ष्ट॒म्भ उ॑प॒मो वि॑चक्ष॒णः ||{35/48}{7.3.18.5}{9.86.35}{9.5.1.35}{455, 809, 8463}

इष᳚‌म्¦ऊर्ज᳚‌म्¦प॒व॒मा॒न॒¦अ॒भि¦अ॒र्ष॒सि॒¦श्ये॒नः¦न¦वंसु॑¦क॒लशे᳚षु¦सी॒द॒सि॒ |
इन्द्रा᳚य¦मद्वा᳚¦मद्यः॑¦मदः॑¦सु॒तः¦दि॒वः¦वि॒ष्ट॒म्भः¦उ॒प॒ऽमः¦वि॒ऽच॒क्ष॒णः ||

स॒प्त स्वसा᳚रो, अ॒भि मा॒तरः॒ शिशुं॒ नवं᳚ जज्ञा॒नं जेन्यं᳚ विप॒श्चित᳚म् |{अत्रेयः | पवमानः सोमः | जगती}

अ॒पां ग᳚न्ध॒र्वं दि॒व्यं नृ॒चक्ष॑सं॒ सोमं॒ विश्व॑स्य॒ भुव॑नस्य रा॒जसे᳚ ||{36/48}{7.3.19.1}{9.86.36}{9.5.1.36}{456, 809, 8464}

स॒प्त¦स्वसा᳚रः¦अ॒भि¦मा॒तरः॑¦शिशु᳚‌म्¦नव᳚‌म्¦ज॒ज्ञा॒न‌म्¦जेन्य᳚‌म्¦वि॒पः॒ऽचित᳚‌म् |
अ॒पा‌म्¦ग॒न्ध॒र्व‌म्¦दि॒व्य‌म्¦नृ॒ऽचक्ष॑स‌म्¦सोम᳚‌म्¦विश्व॑स्य¦भुव॑नस्य¦रा॒जसे᳚ ||

ई॒शा॒न इ॒मा भुव॑नानि॒ वीय॑से युजा॒न इ᳚न्दो ह॒रितः॑ सुप॒र्ण्यः॑ |{अत्रेयः | पवमानः सोमः | जगती}

तास्ते᳚ क्षरन्तु॒ मधु॑मद्‌ घृ॒तं पय॒स्तव᳚ व्र॒ते सो᳚म तिष्ठन्तु कृ॒ष्टयः॑ ||{37/48}{7.3.19.2}{9.86.37}{9.5.1.37}{457, 809, 8465}

ई॒शा॒नः¦इ॒मा¦भुव॑नानि¦वि¦ई॒य॒से॒¦यु॒जा॒नः¦इ॒न्दो॒ इति॑¦ह॒रितः॑¦सु॒ऽप॒र्ण्यः॑ |
ताः¦ते॒¦क्ष॒र॒न्तु॒¦मधु॑ऽमत्¦घृ॒त‌म्¦पयः॑¦तव॑¦व्र॒ते¦सो॒म॒¦ति॒ष्ठ॒न्तु॒¦कृ॒ष्टयः॑ ||

त्वं नृ॒चक्षा᳚, असि सोम वि॒श्वतः॒ पव॑मान वृषभ॒ ता वि धा᳚वसि |{अत्रेयः | पवमानः सोमः | जगती}

स नः॑ पवस्व॒ वसु॑म॒द्धिर᳚ण्यवद्व॒यं स्या᳚म॒ भुव॑नेषु जी॒वसे᳚ ||{38/48}{7.3.19.3}{9.86.38}{9.5.1.38}{458, 809, 8466}

त्व‌म्¦नृ॒ऽचक्षाः᳚¦अ॒सि॒¦सो॒म॒¦वि॒श्वतः॑¦पव॑मान¦वृ॒ष॒भ॒¦ता¦वि¦धा॒व॒सि॒ |
सः¦नः॒¦प॒व॒स्व॒¦वसु॑ऽमत्¦हिर᳚ण्यऽवत्¦व॒य‌म्¦स्या॒म॒¦भुव॑नेषु¦जी॒वसे᳚ ||

गो॒वित्प॑वस्व वसु॒विद्धि॑रण्य॒विद्रे᳚तो॒धा, इ᳚न्दो॒ भुव॑ने॒ष्वर्पि॑तः |{अत्रेयः | पवमानः सोमः | जगती}

त्वं सु॒वीरो᳚, असि सोम विश्व॒वित्तं त्वा॒ विप्रा॒, उप॑ गि॒रेम आ᳚सते ||{39/48}{7.3.19.4}{9.86.39}{9.5.1.39}{459, 809, 8467}

गो॒ऽवित्¦प॒व॒स्व॒¦व॒सु॒ऽवित्¦हि॒र॒ण्य॒ऽवित्¦रे॒तः॒ऽधाः¦इ॒न्दो॒ इति॑¦भुव॑नेषु¦अर्पि॑तः |
त्व‌म्¦सु॒ऽवीरः॑¦अ॒सि॒¦सो॒म॒¦वि॒श्व॒ऽवित्¦त‌म्¦त्वा॒¦विप्राः᳚¦उप॑¦गि॒रा¦इ॒मे¦आ॒स॒ते॒ ||

उन्मध्व॑ ऊ॒र्मिर्व॒नना᳚, अतिष्ठिपद॒पो वसा᳚नो महि॒षो वि गा᳚हते |{अत्रेयः | पवमानः सोमः | जगती}

राजा᳚ प॒वित्र॑रथो॒ वाज॒मारु॑हत्स॒हस्र॑भृष्टिर्जयति॒ श्रवो᳚ बृ॒हत् ||{40/48}{7.3.19.5}{9.86.40}{9.5.1.40}{460, 809, 8468}

उत्¦मध्वः॑¦ऊ॒र्मिः¦व॒ननाः᳚¦अ॒ति॒स्थि॒प॒त्¦अ॒पः¦वसा᳚नः¦म॒हि॒षः¦वि¦गा॒ह॒ते॒ |
राजा᳚¦प॒वित्र॑ऽरथः¦वाज᳚‌म्¦आ¦अ॒रु॒ह॒त्¦स॒हस्र॑ऽभृष्टिः¦ज॒य॒ति॒¦श्रवः॑¦बृ॒हत् ||

स भ॒न्दना॒, उदि॑यर्ति प्र॒जाव॑तीर्वि॒श्वायु॒र्विश्वाः᳚ सु॒भरा॒, अह॑र्दिवि |{भौमोत्रिः | पवमानः सोमः | जगती}

ब्रह्म॑ प्र॒जाव॑द्र॒यिमश्व॑पस्त्यं पी॒त इ᳚न्द॒विन्द्र॑म॒स्मभ्यं᳚ याचतात् ||{41/48}{7.3.20.1}{9.86.41}{9.5.1.41}{461, 809, 8469}

सः¦भ॒न्दनाः᳚¦उत्¦इ॒य॒र्ति॒¦प्र॒जाऽव॑तीः¦वि॒श्वऽआ᳚युः¦विश्वाः᳚¦सु॒ऽभराः᳚¦अहः॑ऽदिवि |
ब्रह्म॑¦प्र॒जाऽव॑त्¦र॒यि‌म्¦अश्व॑ऽपस्त्य‌म्¦पी॒तः¦इ॒न्दो॒ इति॑¦इन्द्र᳚‌म्¦अ॒स्मभ्य᳚‌म्¦या॒च॒ता॒त् ||

सो, अग्रे॒, अह्नां॒ हरि᳚र्हर्य॒तो मदः॒ प्र चेत॑सा चेतयते॒, अनु॒ द्युभिः॑ |{भौमोत्रिः | पवमानः सोमः | जगती}

द्वा जना᳚ या॒तय᳚न्न॒न्तरी᳚यते॒ नरा᳚ च॒ शंसं॒ दैव्यं᳚ च ध॒र्तरि॑ ||{42/48}{7.3.20.2}{9.86.42}{9.5.1.42}{462, 809, 8470}

सः¦अग्रे᳚¦अह्ना᳚‌म्¦हरिः॑¦ह॒र्य॒तः¦मदः॑¦प्र¦चेत॑सा¦चे॒त॒य॒ते॒¦अनु॑¦द्युऽभिः॑ |
द्वा¦जना᳚¦या॒तय॑न्¦अ॒न्तः¦ई॒य॒ते॒¦नरा॒शंस᳚‌म्¦च॒¦दैव्य᳚‌म्¦च॒¦ध॒र्तरि॑ ||

अ॒ञ्जते॒ व्य᳚ञ्जते॒ सम᳚ञ्जते॒ क्रतुं᳚ रिहन्ति॒ मधु॑ना॒भ्य᳚ञ्जते |{भौमोत्रिः | पवमानः सोमः | जगती}

सिन्धो᳚रुच्छ्वा॒से प॒तय᳚न्तमु॒क्षणं᳚ हिरण्यपा॒वाः प॒शुमा᳚सु गृभ्णते ||{43/48}{7.3.20.3}{9.86.43}{9.5.1.43}{463, 809, 8471}

अं॒जते᳚¦वि¦अं॒ज॒ते॒¦स‌म्¦अं॒ज॒ते॒¦क्रतु᳚‌म्¦रि॒ह॒न्ति॒¦मधु॑ना¦अ॒भि¦अं॒ज॒ते॒ |
सिन्धोः᳚¦उ॒त्ऽश्वा॒से¦प॒तय᳚न्त‌म्¦उ॒क्षण᳚‌म्¦हि॒र॒ण्य॒ऽपा॒वाः¦प॒शु‌म्¦आ॒सु॒¦गृ॒भ्ण॒ते॒ ||

वि॒प॒श्चिते॒ पव॑मानाय गायत म॒ही न धारात्यन्धो᳚, अर्षति |{भौमोत्रिः | पवमानः सोमः | जगती}

अहि॒र्न जू॒र्णामति॑ सर्पति॒ त्वच॒मत्यो॒ न क्रीळ᳚न्नसर॒द्वृषा॒ हरिः॑ ||{44/48}{7.3.20.4}{9.86.44}{9.5.1.44}{464, 809, 8472}

वि॒पः॒ऽचिते᳚¦पव॑मानाय¦गा॒य॒त॒¦म॒ही¦न¦धारा᳚¦अति॑¦अन्धः॑¦अ॒र्ष॒ति॒ |
अहिः॑¦न¦जू॒णा‌म्¦अति॑¦स॒र्प॒ति॒¦त्वच᳚‌म्¦अत्यः॑¦न¦क्रीळ॑न्¦अ॒स॒र॒त्¦वृषा᳚¦हरिः॑ ||

अ॒ग्रे॒गो राजाप्य॑स्तविष्यते वि॒मानो॒, अह्नां॒ भुव॑ने॒ष्वर्पि॑तः |{भौमोत्रिः | पवमानः सोमः | जगती}

हरि॑र्घृ॒तस्नुः॑ सु॒दृशी᳚को, अर्ण॒वो ज्यो॒तीर॑थः पवते रा॒य ओ॒क्यः॑ ||{45/48}{7.3.20.5}{9.86.45}{9.5.1.45}{465, 809, 8473}

अ॒ग्रे॒ऽगः¦राजा᳚¦अप्यः॑¦त॒वि॒ष्य॒ते॒¦वि॒ऽमानः॑¦अह्ना᳚‌म्¦भुव॑नेषु¦अर्पि॑तः |
हरिः॑¦घृ॒तऽस्नुः॑¦सु॒ऽदृशी᳚कः¦अ॒र्ण॒वः¦ज्यो॒तिःऽर॑थः¦प॒व॒ते॒¦रा॒ये¦ओ॒क्यः॑ ||

अस॑र्जि स्क॒म्भो दि॒व उद्य॑तो॒ मदः॒ परि॑ त्रि॒धातु॒र्भुव॑नान्यर्षति |{शौनको गृत्समदः | पवमानः सोमः | जगती}

अं॒शुं रि॑हन्ति म॒तयः॒ पनि॑प्नतं गि॒रा यदि॑ नि॒र्णिज॑मृ॒ग्मिणो᳚ य॒युः ||{46/48}{7.3.21.1}{9.86.46}{9.5.1.46}{466, 809, 8474}

अस॑र्जि¦स्क॒म्भः¦दि॒वः¦उत्ऽय॑तः¦मदः॑¦परि॑¦त्रि॒ऽधातुः॑¦भुव॑नानि¦अ॒र्ष॒ति॒ |
अं॒शु‌म्¦रि॒ह॒न्ति॒¦म॒तयः॑¦पनि॑प्नत‌म्¦गि॒रा¦यदि॑¦निः॒ऽनिज᳚‌म्¦ऋ॒ग्मिणः॑¦य॒युः ||

प्र ते॒ धारा॒, अत्यण्वा᳚नि मे॒ष्यः॑ पुना॒नस्य॑ सं॒यतो᳚ यन्ति॒ रंह॑यः |{शौनको गृत्समदः | पवमानः सोमः | जगती}

यद्गोभि॑रिन्दो च॒म्वोः᳚ सम॒ज्यस॒ आ सु॑वा॒नः सो᳚म क॒लशे᳚षु सीदसि ||{47/48}{7.3.21.2}{9.86.47}{9.5.1.47}{467, 809, 8475}

प्र¦ते॒¦धाराः᳚¦अति॑¦अण्वा᳚नि¦मे॒ष्यः॑¦पु॒ना॒नस्य॑¦स॒‌म्ऽयतः॑¦य॒न्ति॒¦रंह॑यः |
यत्¦गोभिः॑¦इ॒न्दो॒ इति॑¦च॒म्वोः᳚¦स॒‌म्।आ॒ज्यसे᳚¦आ¦सु॒वा॒नः¦सो॒म॒¦क॒लशे᳚षु¦सी॒द॒सि॒ ||

पव॑स्व सोम क्रतु॒विन्न॑ उ॒क्थ्योऽव्यो॒ वारे॒ परि॑ धाव॒ मधु॑ प्रि॒यम् |{शौनको गृत्समदः | पवमानः सोमः | जगती}

ज॒हि विश्वा᳚न्‌ र॒क्षस॑ इन्दो, अ॒त्रिणो᳚ बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{48/48}{7.3.21.3}{9.86.48}{9.5.1.48}{468, 809, 8476}

पव॑स्व¦सो॒म॒¦क्र॒तु॒ऽवित्¦नः॒¦उ॒क्थ्यः॑¦अव्यः॑¦वारे᳚¦परि॑¦धा॒व॒¦मधु॑¦प्रि॒य‌म् |
ज॒हि¦विश्वा᳚न्¦र॒क्षसः॑¦इ॒न्दो॒ इति॑¦अ॒त्रिणः॑¦बृ॒हत्¦व॒दे॒म॒¦वि॒दथे᳚¦सु॒ऽवीराः᳚ ||

[44] प्रतुद्रवेति नवर्चस्य सूक्तस्य काव्यउशना पवमानसोमस्त्रिष्टुप् |
प्र तु द्र॑व॒ परि॒ कोशं॒ नि षी᳚द॒ नृभिः॑ पुना॒नो, अ॒भि वाज॑मर्ष |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

अश्वं॒ न त्वा᳚ वा॒जिनं᳚ म॒र्जय॒न्तोऽच्छा᳚ ब॒र्ही र॑श॒नाभि᳚र्नयन्ति ||{1/9}{7.3.22.1}{9.87.1}{9.5.2.1}{469, 810, 8477}

प्र¦तु¦द्र॒व॒¦परि॑¦कोश᳚‌म्¦नि¦सी॒द॒¦नृऽभिः॑¦पु॒ना॒नः¦अ॒भि¦वाज᳚‌म्¦अ॒र्ष॒ |
अश्व᳚‌म्¦न¦त्वा॒¦वा॒जिन᳚‌म्¦म॒र्जय᳚न्तः¦अच्छ॑¦ब॒र्हिः¦र॒श॒नाभिः॑¦न॒य॒न्ति॒ ||

स्वा॒यु॒धः प॑वते दे॒व इन्दु॑रशस्ति॒हा वृ॒जनं॒ रक्ष॑माणः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

पि॒ता दे॒वानां᳚ जनि॒ता सु॒दक्षो᳚ विष्ट॒म्भो दि॒वो ध॒रुणः॑ पृथि॒व्याः ||{2/9}{7.3.22.2}{9.87.2}{9.5.2.2}{470, 810, 8478}

सु॒ऽआ॒यु॒धः¦प॒व॒ते॒¦दे॒वः¦इन्दुः॑¦अ॒श॒स्ति॒ऽहा¦वृ॒जन᳚‌म्¦रक्ष॑माणः |
पि॒ता¦दे॒वाना᳚‌म्¦ज॒नि॒ता¦सु॒ऽदक्षः॑¦वि॒ष्ट॒म्भः¦दि॒वः¦ध॒रुणः॑¦पृ॒थि॒व्याः ||

ऋषि॒र्विप्रः॑ पुरए॒ता जना᳚नामृ॒भुर्धीर॑ उ॒शना॒ काव्ये᳚न |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

स चि॑द्विवेद॒ निहि॑तं॒ यदा᳚सामपी॒च्य१॑(अं॒) गुह्यं॒ नाम॒ गोना᳚म् ||{3/9}{7.3.22.3}{9.87.3}{9.5.2.3}{471, 810, 8479}

ऋषिः॑¦विप्रः॑¦पु॒रः॒ऽए॒ता¦जना᳚ना‌म्¦ऋ॒भुः¦धीरः॑¦उ॒शना᳚¦काव्ये᳚न |
सः¦चि॒त्¦वि॒वे॒द॒¦निऽहि॑त‌म्¦यत्¦आ॒सा॒‌म्¦अ॒पी॒च्य᳚‌म्¦गुह्य᳚‌म्¦नाम॑¦गोना᳚‌म् ||

ए॒ष स्य ते॒ मधु॑माँ, इन्द्र॒ सोमो॒ वृषा॒ वृष्णे॒ परि॑ प॒वित्रे᳚, अक्षाः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

स॒ह॒स्र॒साः श॑त॒सा भू᳚रि॒दावा᳚ शश्वत्त॒मं ब॒र्हिरा वा॒ज्य॑स्थात् ||{4/9}{7.3.22.4}{9.87.4}{9.5.2.4}{472, 810, 8480}

ए॒षः¦स्यः¦ते॒¦मधु॑ऽमान्¦इ॒न्द्र॒¦सोमः॑¦वृषा᳚¦वृष्णे᳚¦परि॑¦प॒वित्रे᳚¦अ॒क्षा॒रिति॑ |
स॒ह॒स्र॒ऽसाः¦श॒त॒ऽसाः¦भू॒रि॒ऽदावा᳚¦श॒श्व॒त्ऽत॒म‌म्¦ब॒र्हिः¦आ¦वा॒जी¦अ॒स्था॒त् ||

ए॒ते सोमा᳚, अ॒भि ग॒व्या स॒हस्रा᳚ म॒हे वाजा᳚या॒मृता᳚य॒ श्रवां᳚सि |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

प॒वित्रे᳚भिः॒ पव॑माना, असृग्रञ्छ्रव॒स्यवो॒ न पृ॑त॒नाजो॒, अत्याः᳚ ||{5/9}{7.3.22.5}{9.87.5}{9.5.2.5}{473, 810, 8481}

ए॒ते¦सोमाः᳚¦अ॒भि¦ग॒व्या¦स॒हस्रा᳚¦म॒हे¦वाजा᳚य¦अ॒मृता᳚य¦श्रवां᳚सि |
प॒वित्रे᳚भिः¦पव॑मानाः¦अ॒सृ॒ग्र॒न्¦श्र॒व॒स्यवः॑¦न¦पृ॒त॒नाजः॑¦अत्याः᳚ ||

परि॒ हि ष्मा᳚ पुरुहू॒तो जना᳚नां॒ विश्वास॑र॒द्भोज॑ना पू॒यमा᳚नः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

अथा भ॑र श्येनभृत॒ प्रयां᳚सि र॒यिं तुञ्जा᳚नो, अ॒भि वाज॑मर्ष ||{6/9}{7.3.23.1}{9.87.6}{9.5.2.6}{474, 810, 8482}

परि॑¦हि¦स्म॒¦पु॒रु॒ऽहू॒तः¦जना᳚ना‌म्¦विश्वा᳚¦अस॑रत्¦भोज॑ना¦पू॒यमा᳚नः |
अथ॑¦आ¦भ॒र॒¦श्ये॒न॒ऽभृ॒त॒¦प्रयां᳚सि¦र॒यि‌म्¦तुंजा᳚नः¦अ॒भि¦वाज᳚‌म्¦अ॒र्ष॒ ||

ए॒ष सु॑वा॒नः परि॒ सोमः॑ प॒वित्रे॒ सर्गो॒ न सृ॒ष्टो, अ॑दधाव॒दर्वा᳚ |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

ति॒ग्मे शिशा᳚नो महि॒षो न शृङ्गे॒ गा ग॒व्यन्न॒भि शूरो॒ न सत्वा᳚ ||{7/9}{7.3.23.2}{9.87.7}{9.5.2.7}{475, 810, 8483}

ए॒षः¦सु॒वा॒नः¦परि॑¦सोमः॑¦प॒वित्रे᳚¦सर्गः॑¦न¦सृ॒ष्टः¦अ॒द॒धा॒व॒त्¦अर्वा᳚ |
ति॒ग्मे इति॑¦शिशा᳚नः¦म॒हि॒षः¦न¦शृङ्गे॒ इति॑¦गाः¦ग॒व्यन्¦अ॒भि¦शूरः॑¦न¦सत्वा᳚ ||

ए॒षा य॑यौ पर॒माद॒न्तरद्रेः॒ कूचि॑त्स॒तीरू॒र्वे गा वि॑वेद |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

दि॒वो न वि॒द्युत्‌ स्त॒नय᳚न्त्य॒भ्रैः सोम॑स्य ते पवत इन्द्र॒ धारा᳚ ||{8/9}{7.3.23.3}{9.87.8}{9.5.2.8}{476, 810, 8484}

ए॒षा¦आ¦य॒यौ॒¦प॒र॒मात्¦अ॒न्तः¦अद्रेः᳚¦कूऽचि॑त्¦स॒तीः¦ऊ॒र्वे¦गाः¦वि॒वे॒द॒ |
दि॒वः¦न¦वि॒ऽद्युत्¦स्त॒नय᳚न्ती¦अ॒भ्रैः¦सोम॑स्य¦ते॒¦प॒व॒ते॒¦इ॒न्द्र॒¦धारा᳚ ||

उ॒त स्म॑ रा॒शिं परि॑ यासि॒ गोना॒मिन्द्रे᳚ण सोम स॒रथं᳚ पुना॒नः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

पू॒र्वीरिषो᳚ बृह॒तीर्जी᳚रदानो॒ शिक्षा᳚ शचीव॒स्तव॒ ता, उ॑प॒ष्टुत् ||{9/9}{7.3.23.4}{9.87.9}{9.5.2.9}{477, 810, 8485}

उ॒त¦स्म॒¦रा॒शि‌म्¦परि॑¦या॒सि॒¦गोना᳚‌म्¦इन्द्रे᳚ण¦सो॒म॒¦स॒ऽरथ᳚‌म्¦पु॒ना॒नः |
पू॒र्वीः¦इषः॑¦बृ॒ह॒तीः¦जी॒र॒दा॒नो॒ इति॑ जीरऽदानो¦शिक्ष॑¦श॒ची॒ऽवः॒¦तव॑¦ताः¦उ॒प॒ऽस्तुत् ||

[45] अयंसोमइत्यष्टर्चस्य सूक्तस्य काव्य उशना पवमानसोमस्त्रिष्टुप् |
अ॒यं सोम॑ इन्द्र॒ तुभ्यं᳚ सुन्वे॒ तुभ्यं᳚ पवते॒ त्वम॑स्य पाहि |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

त्वं ह॒ यं च॑कृ॒षे त्वं व॑वृ॒ष इन्दुं॒ मदा᳚य॒ युज्या᳚य॒ सोम᳚म् ||{1/8}{7.3.24.1}{9.88.1}{9.5.3.1}{478, 811, 8486}

अ॒य‌म्¦सोमः॑¦इ॒न्द्र॒¦तुभ्य᳚‌म्¦सु॒न्वे॒¦तुभ्य᳚‌म्¦प॒व॒ते॒¦त्व‌म्¦अ॒स्य॒¦पा॒हि॒ |
त्व‌म्¦ह॒¦य‌म्¦च॒कृ॒षे¦त्व‌म्¦व॒वृ॒षे¦इन्दु᳚‌म्¦मदा᳚य¦युज्या᳚य¦सोम᳚‌म् ||

स ईं॒ रथो॒ न भु॑रि॒षाळ॑योजि म॒हः पु॒रूणि॑ सा॒तये॒ वसू᳚नि |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

आदीं॒ विश्वा᳚ नहु॒ष्या᳚णि जा॒ता स्व॑र्षाता॒ वन॑ ऊ॒र्ध्वा न॑वन्त ||{2/8}{7.3.24.2}{9.88.2}{9.5.3.2}{479, 811, 8487}

सः¦ई॒‌म्¦रथः॑¦न¦भु॒रि॒षाट्¦अ॒यो॒जि॒¦म॒हः¦पु॒रूणि॑¦सा॒तये᳚¦वसू᳚नि |
आत्¦ई॒‌म्¦विश्वा᳚¦न॒हु॒ष्या᳚णि¦जा॒ता¦स्वः॑ऽसाता¦वने᳚¦ऊ॒र्ध्वा¦न॒व॒न्त॒ ||

वा॒युर्न यो नि॒युत्वाँ᳚, इ॒ष्टया᳚मा॒ नास॑त्येव॒ हव॒ आ शम्भ॑विष्ठः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

वि॒श्ववा᳚रो द्रविणो॒दा, इ॑व॒ त्मन्‌ पू॒षेव॑ धी॒जव॑नोऽसि सोम ||{3/8}{7.3.24.3}{9.88.3}{9.5.3.3}{480, 811, 8488}

वा॒युः¦न¦यः¦नि॒युत्वा᳚न्¦इ॒ष्टऽया᳚मा¦नास॑त्याऽ‌इव¦हवे᳚¦आ¦श‌म्ऽभ॑विष्ठः |
वि॒श्वऽवा᳚रः¦द्र॒वि॒णो॒दाःऽ‌इ᳚व¦त्मन्¦पू॒षाऽ‌इ᳚व¦धी॒ऽजव॑नः¦अ॒सि॒¦सो॒म॒ ||

इन्द्रो॒ न यो म॒हा कर्मा᳚णि॒ चक्रि᳚र्ह॒न्ता वृ॒त्राणा᳚मसि सोम पू॒र्भित् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

पै॒द्वो न हि त्वमहि॑नाम्नां ह॒न्ता विश्व॑स्यासि सोम॒ दस्योः᳚ ||{4/8}{7.3.24.4}{9.88.4}{9.5.3.4}{481, 811, 8489}

इन्द्रः॑¦न¦यः¦म॒हा¦कर्मा᳚णि¦चक्रिः॑¦ह॒न्ता¦वृ॒त्राणा᳚‌म्¦अ॒सि॒¦सो॒म॒¦पूः॒ऽभित् |
पै॒द्वः¦न¦हि¦त्व‌म्¦अहि॑ऽनाम्ना‌म्¦ह॒न्ता¦विश्व॑स्य¦अ॒सि॒¦सो॒म॒¦दस्योः᳚ ||

अ॒ग्निर्न यो वन॒ आ सृ॒ज्यमा᳚नो॒ वृथा॒ पाजां᳚सि कृणुते न॒दीषु॑ |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

जनो॒ न युध्वा᳚ मह॒त उ॑प॒ब्दिरिय॑र्ति॒ सोमः॒ पव॑मान ऊ॒र्मिम् ||{5/8}{7.3.24.5}{9.88.5}{9.5.3.5}{482, 811, 8490}

अ॒ग्निः¦न¦यः¦वने᳚¦आ¦सृ॒ज्यमा᳚नः¦वृथा᳚¦पाजां᳚सि¦कृ॒णु॒ते॒¦न॒दीषु॑ |
जनः॑¦न¦युध्वा᳚¦म॒ह॒तः¦उ॒प॒ब्दिः¦इय॑र्ति¦सोमः॑¦पव॑मानः¦ऊ॒र्मि‌म् ||

ए॒ते सोमा॒, अति॒ वारा॒ण्यव्या᳚ दि॒व्या न कोशा᳚सो, अ॒भ्रव॑र्षाः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

वृथा᳚ समु॒द्रं सिन्ध॑वो॒ न नीचीः᳚ सु॒तासो᳚, अ॒भि क॒लशाँ᳚, असृग्रन् ||{6/8}{7.3.24.6}{9.88.6}{9.5.3.6}{483, 811, 8491}

ए॒ते¦सोमाः᳚¦अति॑¦वारा᳚णि¦अव्या᳚¦दि॒व्याः¦न¦कोशा᳚सः¦अ॒भ्रऽव॑र्षाः |
वृथा᳚¦स॒मु॒द्र‌म्¦सिन्ध॑वः¦न¦नीचीः᳚¦सु॒तासः॑¦अ॒भि¦क॒लशा᳚न्¦अ॒सृ॒ग्र॒न् ||

शु॒ष्मी शर्धो॒ न मारु॑तं पव॒स्वान॑भिशस्ता दि॒व्या यथा॒ विट् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

आपो॒ न म॒क्षू सु॑म॒तिर्भ॑वा नः स॒हस्रा᳚प्साः पृतना॒षाण्न य॒ज्ञः ||{7/8}{7.3.24.7}{9.88.7}{9.5.3.7}{484, 811, 8492}

शु॒ष्मी¦शर्धः॑¦न¦मारु॑त‌म्¦प॒व॒स्व॒¦अन॑भिऽशस्ता¦दि॒व्या¦यथा᳚¦विट् |
आपः॑¦न¦म॒क्षु¦सु॒ऽम॒तिः¦भ॒व॒¦नः॒¦स॒हस्र॑।आप्साः¦पृ॒त॒ना॒षाट्¦न¦य॒ज्ञः ||

राज्ञो॒ नु ते॒ वरु॑णस्य व्र॒तानि॑ बृ॒हद्ग॑भी॒रं तव॑ सोम॒ धाम॑ |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

शुचि॒ष्ट्वम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो᳚, अर्य॒मेवा᳚सि सोम ||{8/8}{7.3.24.8}{9.88.8}{9.5.3.8}{485, 811, 8493}

राज्ञः॑¦नु¦ते॒¦वरु॑णस्य¦व्र॒तानि॑¦बृ॒हत्¦ग॒भी॒र‌म्¦तव॑¦सो॒म॒¦धाम॑ |
शुचिः॑¦त्व‌म्¦अ॒सि॒¦प्रि॒यः¦न¦मि॒त्रः¦द॒क्षाय्यः॑¦अ॒र्य॒माऽ‌इ᳚व¦अ॒सि॒¦सो॒म॒ ||

[46] प्रोस्यवह्निरिति सप्तर्चस्य सूक्तस्य काव्य उशना पवमानसोमस्त्रिष्टुप् |
प्रो स्य वह्निः॑ प॒थ्या᳚भिरस्यान्दि॒वो न वृ॒ष्टिः पव॑मानो, अक्षाः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

स॒हस्र॑धारो, असद॒न्न्य१॑(अ॒)स्मे मा॒तुरु॒पस्थे॒ वन॒ आ च॒ सोमः॑ ||{1/7}{7.3.25.1}{9.89.1}{9.5.4.1}{486, 812, 8494}

प्रो इति॑¦स्यः¦वह्निः॑¦प॒थ्या᳚भिः¦अ॒स्या॒न्¦दि॒वः¦न¦वृ॒ष्टिः¦पव॑मानः¦अ॒क्षा॒रिति॑ |
स॒हस्र॑ऽधारः¦अ॒स॒द॒त्¦नि¦अ॒स्मे इति॑¦मा॒तुः¦उ॒पऽस्थे᳚¦वने᳚¦आ¦च॒¦सोमः॑ ||

राजा॒ सिन्धू᳚नामवसिष्ट॒ वास॑ ऋ॒तस्य॒ नाव॒मारु॑ह॒द्रजि॑ष्ठाम् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

अ॒प्सु द्र॒प्सो वा᳚वृधे श्ये॒नजू᳚तो दु॒ह ईं᳚ पि॒ता दु॒ह ईं᳚ पि॒तुर्जाम् ||{2/7}{7.3.25.2}{9.89.2}{9.5.4.2}{487, 812, 8495}

राजा᳚¦सिन्धू᳚ना‌म्¦अ॒व॒सि॒ष्ट॒¦वासः॑¦ऋ॒तस्य॑¦नाव᳚‌म्¦आ¦अ॒रु॒ह॒त्¦रजि॑ष्ठा‌म् |
अ॒प्ऽसु¦द्र॒प्सः¦व॒वृ॒धे॒¦श्ये॒नऽजू᳚तः¦दु॒हे¦ई॒‌म्¦पि॒ता¦दु॒हे¦ई॒‌म्¦पि॒तुः¦जा‌म् ||

सिं॒हं न॑सन्त॒ मध्वो᳚, अ॒यासं॒ हरि॑मरु॒षं दि॒वो, अ॒स्य पति᳚म् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

शूरो᳚ यु॒त्सु प्र॑थ॒मः पृ॑च्छते॒ गा, अस्य॒ चक्ष॑सा॒ परि॑ पात्यु॒क्षा ||{3/7}{7.3.25.3}{9.89.3}{9.5.4.3}{488, 812, 8496}

सिं॒ह‌म्¦न॒स॒न्त॒¦मध्वः॑¦अ॒यास᳚‌म्¦हरि᳚‌म्¦अ॒रु॒ष‌म्¦दि॒वः¦अ॒स्य¦पति᳚‌म् |
शूरः॑¦यु॒त्ऽसु¦प्र॒थ॒मः¦पृ॒च्छ॒ते॒¦गाः¦अस्य॑¦चक्ष॑सा¦परि॑¦पा॒ति॒¦उ॒क्षा ||

मधु॑पृष्ठं घो॒रम॒यास॒मश्वं॒ रथे᳚ युञ्जन्त्युरुच॒क्र ऋ॒ष्वम् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

स्वसा᳚र ईं जा॒मयो᳚ मर्जयन्ति॒ सना᳚भयो वा॒जिन॑मूर्जयन्ति ||{4/7}{7.3.25.4}{9.89.4}{9.5.4.4}{489, 812, 8497}

मधु॑ऽपृष्ठ‌म्¦घो॒र‌म्¦अ॒यास᳚‌म्¦अश्व᳚‌म्¦रथे᳚¦युं॒ज॒न्ति॒¦उ॒रु॒ऽच॒क्रे¦ऋ॒ष्व‌म् |
स्वसा᳚रः¦ई॒‌म्¦जा॒मयः॑¦म॒र्ज॒य॒न्ति॒¦सऽना᳚भयः¦वा॒जिन᳚‌म्¦ऊ॒र्ज॒य॒न्ति॒ ||

चत॑स्र ईं घृत॒दुहः॑ सचन्ते समा॒ने, अ॒न्तर्ध॒रुणे॒ निष॑त्ताः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

ता, ई᳚मर्षन्ति॒ नम॑सा पुना॒नास्ता, ईं᳚ वि॒श्वतः॒ परि॑ षन्ति पू॒र्वीः ||{5/7}{7.3.25.5}{9.89.5}{9.5.4.5}{490, 812, 8498}

चत॑स्रः¦ई॒‌म्¦घृ॒त॒ऽदुहः॑¦स॒च॒न्ते॒¦स॒मा॒ने¦अ॒न्तः¦ध॒रुणे᳚¦निऽस॑त्ताः |
ताः¦ई॒‌म्¦अ॒र्ष॒न्ति॒¦नम॑सा¦पु॒ना॒नाः¦ताः¦ई॒‌म्¦वि॒श्वतः॑¦परि॑¦स॒न्ति॒¦पू॒र्वीः ||

वि॒ष्ट॒म्भो दि॒वो ध॒रुणः॑ पृथि॒व्या विश्वा᳚, उ॒त क्षि॒तयो॒ हस्ते᳚, अस्य |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

अस॑त्त॒ उत्सो᳚ गृण॒ते नि॒युत्वा॒न्मध्वो᳚, अं॒शुः प॑वत इन्द्रि॒याय॑ ||{6/7}{7.3.25.6}{9.89.6}{9.5.4.6}{491, 812, 8499}

वि॒ष्ट॒म्भः¦दि॒वः¦ध॒रुणः॑¦पृ॒थि॒व्याः¦विश्वाः᳚¦उ॒त¦क्षि॒तयः॑¦हस्ते᳚¦अ॒स्य॒ |
अस॑त्¦ते॒¦उत्सः॑¦गृ॒ण॒ते¦नि॒युत्वा᳚न्¦मध्वः॑¦अं॒शुः¦प॒व॒ते॒¦इ॒न्द्रि॒याय॑ ||

व॒न्वन्नवा᳚तो, अ॒भि दे॒ववी᳚ति॒मिन्द्रा᳚य सोम वृत्र॒हा प॑वस्व |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

श॒ग्धि म॒हः पु॑रुश्च॒न्द्रस्य॑ रा॒यः सु॒वीर्य॑स्य॒ पत॑यः स्याम ||{7/7}{7.3.25.7}{9.89.7}{9.5.4.7}{492, 812, 8500}

व॒न्वन्¦अवा᳚तः¦अ॒भि¦दे॒वऽवी᳚ति‌म्¦इन्द्रा᳚य¦सो॒म॒¦वृ॒त्र॒ऽहा¦प॒व॒स्व॒ |
श॒ग्धि¦म॒हः¦पु॒रु॒ऽच॒न्द्रस्य॑¦रा॒यः¦सु॒ऽवीर्य॑स्य¦पत॑यः¦स्या॒म॒ ||

[47] प्रहिन्वानइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः पवमानसोमस्त्रिष्टुप् |
प्र हि᳚न्वा॒नो ज॑नि॒ता रोद॑स्यो॒ रथो॒ न वाजं᳚ सनि॒ष्यन्न॑यासीत् |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्}

इन्द्रं॒ गच्छ॒न्नायु॑धा सं॒शिशा᳚नो॒ विश्वा॒ वसु॒ हस्त॑योरा॒दधा᳚नः ||{1/6}{7.3.26.1}{9.90.1}{9.5.5.1}{493, 813, 8501}

प्र¦हि॒न्वा॒नः¦ज॒नि॒ता¦रोद॑स्योः¦रथः॑¦न¦वाज᳚‌म्¦स॒नि॒ष्यन्¦अ॒या॒सी॒त् |
इन्द्र᳚‌म्¦गच्छ॑न्¦आयु॑धा¦स॒‌म्ऽशिशा᳚नः¦विश्वा᳚¦वसु॑¦हस्त॑योः¦आ॒ऽदधा᳚नः ||

अ॒भि त्रि॑पृ॒ष्ठं वृष॑णं वयो॒धामा᳚ङ्गू॒षाणा᳚मवावशन्त॒ वाणीः᳚ |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्}

वना॒ वसा᳚नो॒ वरु॑णो॒ न सिन्धू॒न्‌ वि र॑त्न॒धा द॑यते॒ वार्या᳚णि ||{2/6}{7.3.26.2}{9.90.2}{9.5.5.2}{494, 813, 8502}

अ॒भि¦त्रि॒ऽपृ॒ष्ठ‌म्¦वृष॑ण‌म्¦व॒यः॒ऽधा‌म्¦आ॒ङ्गू॒षाणा᳚‌म्¦अ॒वा॒व॒श॒न्त॒¦वाणीः᳚ |
वना᳚¦वसा᳚नः¦वरु॑णः¦न¦सिन्धू᳚न्¦वि¦र॒त्न॒ऽधाः¦द॒य॒ते॒¦वार्या᳚णि ||

शूर॑ग्रामः॒ सर्व॑वीरः॒ सहा᳚वा॒ञ्जेता᳚ पवस्व॒ सनि॑ता॒ धना᳚नि |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्}

ति॒ग्मायु॑धः, क्षि॒प्रध᳚न्वा स॒मत्स्वषा᳚ळ्हः सा॒ह्वान्‌ पृत॑नासु॒ शत्रू॑न् ||{3/6}{7.3.26.3}{9.90.3}{9.5.5.3}{495, 813, 8503}

शूर॑ऽग्रामः¦सर्व॑ऽवीरः¦सहा᳚वान्¦जेता᳚¦प॒व॒स्व॒¦सनि॑ता¦धना᳚नि |
ति॒ग्मऽआ᳚युधः¦क्षि॒प्रऽध᳚न्वा¦स॒मत्ऽसु॑¦अषा᳚ळ्हः¦स॒ह्वान्¦पृत॑नासु¦शत्रू॑न् ||

उ॒रुग᳚व्यूति॒रभ॑यानि कृ॒ण्वन्‌ त्स॑मीची॒ने, आ प॑वस्वा॒ पुरं᳚धी |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्}

अ॒पः सिषा᳚सन्नु॒षसः॒ स्व१॑(अ॒)र्गाः सं चि॑क्रदो म॒हो, अ॒स्मभ्यं॒ वाजा॑न् ||{4/6}{7.3.26.4}{9.90.4}{9.5.5.4}{496, 813, 8504}

उ॒रुऽग᳚व्यूतिः¦अभ॑यानि¦कृ॒ण्वन्¦स॒मी॒ची॒ने इति॑ स॒‌म्ऽई॒ची॒ने¦आ¦प॒व॒स्व॒¦पुरं᳚धी॒ इति॒ पुर᳚‌म्ऽधी |
अ॒पः¦सिसा᳚सन्¦उ॒षसः॑¦स्वः॑¦गाः¦स‌म्¦चि॒क्र॒दः॒¦म॒हः¦अ॒स्मभ्य᳚‌म्¦वाजा॑न् ||

मत्सि॑ सोम॒ वरु॑णं॒ मत्सि॑ मि॒त्रं मत्सीन्द्र॑मिन्दो पवमान॒ विष्णु᳚म् |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्}

मत्सि॒ शर्धो॒ मारु॑तं॒ मत्सि॑ दे॒वान्‌ मत्सि॑ म॒हामिन्द्र॑मिन्दो॒ मदा᳚य ||{5/6}{7.3.26.5}{9.90.5}{9.5.5.5}{497, 813, 8505}

मत्सि॑¦सो॒म॒¦वरु॑ण‌म्¦मत्सि॑¦मि॒त्र‌म्¦मत्सि॑¦इन्द्र᳚‌म्¦इ॒न्दो॒ इति॑¦प॒व॒मा॒न॒¦विष्णु᳚‌म् |
मत्सि॑¦शर्धः॑¦मारु॑त‌म्¦मत्सि॑¦दे॒वान्¦मत्सि॑¦म॒हा‌म्¦इन्द्र᳚‌म्¦इ॒न्दो॒ इति॑¦मदा᳚य ||

ए॒वा राजे᳚व॒ क्रतु॑माँ॒, अमे᳚न॒ विश्वा॒ घनि॑घ्नद्दुरि॒ता प॑वस्व |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्}

इन्दो᳚ सू॒क्ताय॒ वच॑से॒ वयो᳚ धा यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/6}{7.3.26.6}{9.90.6}{9.5.5.6}{498, 813, 8506}

ए॒व¦राजा᳚ऽ‌इव¦क्रतु॑ऽमान्¦अमे᳚न¦विश्वा᳚¦घनि॑घ्नत्¦दुः॒ऽ‌इ॒ता¦प॒व॒स्व॒ |
इन्दो॒ इति॑¦सु॒।औ॒क्ताय॑¦वच॑से¦वयः॑¦धाः॒¦यू॒य‌म्¦पा॒त॒¦स्व॒स्तिऽभिः॑¦सदा᳚¦नः॒ ||

[48] असर्जीति षडृचस्य सूक्तस्य मारीचः कश्यपः पवमानसोमस्त्रिष्टुप् |
अस॑र्जि॒ वक्वा॒ रथ्ये॒ यथा॒जौ धि॒या म॒नोता᳚ प्रथ॒मो म॑नी॒षी |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्}

दश॒ स्वसा᳚रो॒, अधि॒ सानो॒, अव्येऽज᳚न्ति॒ वह्निं॒ सद॑ना॒न्यच्छ॑ ||{1/6}{7.4.1.1}{9.91.1}{9.5.6.1}{499, 814, 8507}

अस॑र्जि¦वक्वा᳚¦रथ्ये᳚¦यथा᳚¦आ॒जौ¦धि॒या¦म॒नोता᳚¦प्र॒थ॒मः¦म॒नी॒षी |
दश॑¦स्वसा᳚रः¦अधि॑¦सानौ᳚¦अव्ये᳚¦अज᳚न्ति¦वह्नि᳚‌म्¦सद॑नानि¦अच्छ॑ ||

वी॒ती जन॑स्य दि॒व्यस्य॑ क॒व्यैरधि॑ सुवा॒नो न॑हु॒ष्ये᳚भि॒रिन्दुः॑ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्}

प्र यो नृभि॑र॒मृतो॒ मर्त्ये᳚भिर्मर्मृजा॒नोऽवि॑भि॒र्गोभि॑र॒द्भिः ||{2/6}{7.4.1.2}{9.91.2}{9.5.6.2}{500, 814, 8508}

वी॒ती¦जन॑स्य¦दि॒व्यस्य॑¦क॒व्यैः¦अधि॑¦सु॒वा॒नः¦न॒हु॒ष्ये᳚भिः¦इन्दुः॑ |
प्र¦यः¦नृऽभिः॑¦अ॒मृतः॑¦मर्त्ये᳚भिः¦म॒र्मृ॒जा॒नः¦अवि॑ऽभिः¦गोभिः॑¦अ॒त्ऽभिः ||

वृषा॒ वृष्णे॒ रोरु॑वदं॒शुर॑स्मै॒ पव॑मानो॒ रुश॑दीर्ते॒ पयो॒ गोः |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्}

स॒हस्र॒मृक्वा᳚ प॒थिभि᳚र्वचो॒विद॑ध्व॒स्मभिः॒ सूरो॒, अण्वं॒ वि या᳚ति ||{3/6}{7.4.1.3}{9.91.3}{9.5.6.3}{501, 814, 8509}

वृषा᳚¦वृष्णे᳚¦रोरु॑वत्¦अं॒शुः¦अ॒स्मै॒¦पव॑मानः¦रुश॑त्¦ई॒र्ते॒¦पयः॑¦गोः |
स॒हस्र᳚‌म्¦ऋक्वा᳚¦प॒थिऽभिः॑¦व॒चः॒ऽवित्¦अ॒ध्व॒स्मऽभिः॑¦सूरः॑¦अण्व᳚‌म्¦वि¦या॒ति॒ ||

रु॒जा दृ॒ळ्हा चि॑द्र॒क्षसः॒ सदां᳚सि पुना॒न इ᳚न्द ऊर्णुहि॒ वि वाजा॑न् |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्}

वृ॒श्चोपरि॑ष्टात्तुज॒ता व॒धेन॒ ये, अन्ति॑ दू॒रादु॑पना॒यमे᳚षाम् ||{4/6}{7.4.1.4}{9.91.4}{9.5.6.4}{502, 814, 8510}

रु॒ज¦दृ॒ळ्हा¦चि॒त्¦र॒क्षसः॑¦सदां᳚सि¦पु॒ना॒नः¦इ॒न्दो॒ इति॑¦ऊ॒र्णु॒हि॒¦वि¦वाजा॑न् |
वृ॒श्च¦उ॒परि॑ष्टात्¦तु॒ज॒ता¦व॒धेन॑¦ये¦अन्ति॑¦दू॒रात्¦उ॒प॒ऽना॒य‌म्¦ए॒षा॒‌म् ||

स प्र॑त्न॒वन्नव्य॑से विश्ववार सू॒क्ताय॑ प॒थः कृ॑णुहि॒ प्राचः॑ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्}

ये दुः॒षहा᳚सो व॒नुषा᳚ बृ॒हन्त॒स्ताँस्ते᳚, अश्याम पुरुकृत्पुरुक्षो ||{5/6}{7.4.1.5}{9.91.5}{9.5.6.5}{503, 814, 8511}

सः¦प्र॒त्न॒ऽवत्¦नव्य॑से¦वि॒श्व॒ऽवा॒र॒¦सु॒।औ॒क्ताय॑¦प॒थः¦कृ॒णु॒हि॒¦प्राचः॑ |
ये¦दुः॒ऽसहा᳚सः¦व॒नुषा᳚¦बृ॒हन्तः॑¦तान्¦ते॒¦अ॒श्या॒म॒¦पु॒रु॒ऽकृ॒त्¦पु॒रु॒क्षो॒ इति॑ पुरुऽक्षो ||

ए॒वा पु॑ना॒नो, अ॒पः स्व१॑(अ॒)र्गा, अ॒स्मभ्यं᳚ तो॒का तन॑यानि॒ भूरि॑ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्}

शं नः॒, क्षेत्र॑मु॒रु ज्योतीं᳚षि सोम॒ ज्योङ्नः॒ सूर्यं᳚ दृ॒शये᳚ रिरीहि ||{6/6}{7.4.1.6}{9.91.6}{9.5.6.6}{504, 814, 8512}

ए॒व¦पु॒ना॒नः¦अ॒पः¦स्वः॑¦गाः¦अ॒स्मभ्य᳚‌म्¦तो॒का¦तन॑यानि¦भूरि॑ |
श‌म्¦नः॒¦क्षेत्र᳚‌म्¦उ॒रु¦ज्योतीं᳚षि¦सो॒म॒¦ज्योक्¦नः॒¦सूर्य᳚‌म्¦दृ॒शये᳚¦रि॒री॒हि॒ ||

[49] परिसुवानइति षडृचस्य सूक्तस्य मारीचः कश्यपः पवमानसोमस्त्रिष्टुप् |
परि॑ सुवा॒नो हरि॑रं॒शुः प॒वित्रे॒ रथो॒ न स॑र्जि स॒नये᳚ हिया॒नः |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्}

आप॒च्छ्लोक॑मिन्द्रि॒यं पू॒यमा᳚नः॒ प्रति॑ दे॒वाँ, अ॑जुषत॒ प्रयो᳚भिः ||{1/6}{7.4.2.1}{9.92.1}{9.5.7.1}{505, 815, 8513}

परि॑¦सु॒वा॒नः¦हरिः॑¦अं॒शुः¦प॒वित्रे᳚¦रथः॑¦न¦स॒र्जि॒¦स॒नये᳚¦हि॒या॒नः |
आप॑त्¦श्लोक᳚‌म्¦इ॒न्द्रि॒य‌म्¦पू॒यमा᳚नः¦प्रति॑¦दे॒वान्¦अ॒जु॒ष॒त॒¦प्रयः॑ऽभिः ||

अच्छा᳚ नृ॒चक्षा᳚, असरत्प॒वित्रे॒ नाम॒ दधा᳚नः क॒विर॑स्य॒ योनौ᳚ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्}

सीद॒न्होते᳚व॒ सद॑ने च॒मूषूपे᳚मग्म॒न्नृष॑यः स॒प्त विप्राः᳚ ||{2/6}{7.4.2.2}{9.92.2}{9.5.7.2}{506, 815, 8514}

अच्छ॑¦नृ॒ऽचक्षाः᳚¦अ॒स॒र॒त्¦प॒वित्रे᳚¦नाम॑¦दधा᳚नः¦क॒विः¦अ॒स्य॒¦योनौ᳚ |
सीद॑न्¦होता᳚ऽ‌इव¦सद॑ने¦च॒मूषु॑¦उप॑¦ई॒‌म्¦अ॒ग्म॒न्¦ऋष॑यः¦स॒प्त¦विप्राः᳚ ||

प्र सु॑मे॒धा गा᳚तु॒विद्वि॒श्वदे᳚वः॒ सोमः॑ पुना॒नः सद॑ एति॒ नित्य᳚म् |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्}

भुव॒द्विश्वे᳚षु॒ काव्ये᳚षु॒ रन्तानु॒ जना᳚न्यतते॒ पञ्च॒ धीरः॑ ||{3/6}{7.4.2.3}{9.92.3}{9.5.7.3}{507, 815, 8515}

प्र¦सु॒ऽमे॒धाः¦गा॒तु॒ऽवित्¦वि॒श्वऽदे᳚वः¦सोमः॑¦पु॒ना॒नः¦सदः॑¦ए॒ति॒¦नित्य᳚‌म् |
भुव॑त्¦विश्वे᳚षु¦काव्ये᳚षु¦रन्ता᳚¦अनु॑¦जना᳚न्¦य॒त॒ते॒¦पंच॑¦धीरः॑ ||

तव॒ त्ये सो᳚म पवमान नि॒ण्ये विश्वे᳚ दे॒वास्त्रय॑ एकाद॒शासः॑ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्}

दश॑ स्व॒धाभि॒रधि॒ सानो॒, अव्ये᳚ मृ॒जन्ति॑ त्वा न॒द्यः॑ स॒प्त य॒ह्वीः ||{4/6}{7.4.2.4}{9.92.4}{9.5.7.4}{508, 815, 8516}

तव॑¦त्ये¦सो॒म॒¦प॒व॒मा॒न॒¦नि॒ण्ये¦विश्वे᳚¦दे॒वाः¦त्रयः॑¦ए॒का॒द॒शासः॑ |
दश॑¦स्व॒धाभिः॑¦अधि॑¦सानौ᳚¦अव्ये᳚¦मृ॒जन्ति॑¦त्वा॒¦न॒द्यः॑¦स॒प्त¦य॒ह्वीः ||

तन्नु स॒त्यं पव॑मानस्यास्तु॒ यत्र॒ विश्वे᳚ का॒रवः॑ सं॒नस᳚न्त |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्}

ज्योति॒र्यदह्ने॒, अकृ॑णोदु लो॒कं प्राव॒न्मनुं॒ दस्य॑वे कर॒भीक᳚म् ||{5/6}{7.4.2.5}{9.92.5}{9.5.7.5}{509, 815, 8517}

तत्¦नु¦स॒त्य‌म्¦पव॑मानस्य¦अ॒स्तु॒¦यत्र॑¦विश्वे᳚¦का॒रवः॑¦स॒‌म्ऽनस᳚न्त |
ज्योतिः॑¦यत्¦अह्ने᳚¦अकृ॑णोत्¦ऊँ॒ इति॑¦लो॒क‌म्¦प्र¦आ॒व॒त्¦मनु᳚‌म्¦दस्य॑वे¦कः॒¦अ॒भीक᳚‌म् ||

परि॒ सद्मे᳚व पशु॒मान्ति॒ होता॒ राजा॒ न स॒त्यः समि॑तीरिया॒नः |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्}

सोमः॑ पुना॒नः क॒लशाँ᳚, अयासी॒त्सीद᳚न्‌ मृ॒गो न म॑हि॒षो वने᳚षु ||{6/6}{7.4.2.6}{9.92.6}{9.5.7.6}{510, 815, 8518}

परि॑¦सद्म॑ऽ‌इव¦प॒शु॒ऽमन्ति॑¦होता᳚¦राजा᳚¦न¦स॒त्यः¦स‌म्ऽ‌इ᳚तीः¦इ॒या॒नः |
सोमः॑¦पु॒ना॒नः¦क॒लशा᳚न्¦अ॒या॒सी॒त्¦सीद॑न्¦मृ॒गः¦न¦म॒हि॒षः¦वने᳚षु ||

[50] साकमुक्षइति पंचर्चस्य सूक्तस्य गौतमो नोधाः पवमानसोमस्त्रिष्टुप् |
सा॒क॒मुक्षो᳚ मर्जयन्त॒ स्वसा᳚रो॒ दश॒ धीर॑स्य धी॒तयो॒ धनु॑त्रीः |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्}

हरिः॒ पर्य॑द्रव॒ज्जाः सूर्य॑स्य॒ द्रोणं᳚ ननक्षे॒, अत्यो॒ न वा॒जी ||{1/5}{7.4.3.1}{9.93.1}{9.5.8.1}{511, 816, 8519}

सा॒क॒‌म्।औक्षः॑¦म॒र्ज॒य॒न्त॒¦स्वसा᳚रः¦दश॑¦धीर॑स्य¦धी॒तयः॑¦धनु॑त्रीः |
हरिः॑¦परि॑¦अ॒द्र॒व॒त्¦जाः¦सूर्य॑स्य¦द्रोण᳚‌म्¦न॒न॒क्षे॒¦अत्यः॑¦न¦वा॒जी ||

सं मा॒तृभि॒र्न शिशु᳚र्वावशा॒नो वृषा᳚ दधन्वे पुरु॒वारो᳚, अ॒द्भिः |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्}

मर्यो॒ न योषा᳚म॒भि नि॑ष्कृ॒तं यन्‌ त्सं ग॑च्छते क॒लश॑ उ॒स्रिया᳚भिः ||{2/5}{7.4.3.2}{9.93.2}{9.5.8.2}{512, 816, 8520}

स‌म्¦मा॒तृऽभिः॑¦न¦शिशुः॑¦वा॒व॒शा॒नः¦वृषा᳚¦द॒ध॒न्वे॒¦पु॒रु॒ऽवारः॑¦अ॒त्ऽभिः |
मर्यः॑¦न¦योषा᳚‌म्¦अ॒भि¦निः॒ऽकृ॒त‌म्¦यन्¦स‌म्¦ग॒च्छ॒ते॒¦क॒लशे᳚¦उ॒स्रिया᳚भिः ||

उ॒त प्र पि॑प्य॒ ऊध॒रघ्न्या᳚या॒, इन्दु॒र्धारा᳚भिः सचते सुमे॒धाः |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्}

मू॒र्धानं॒ गावः॒ पय॑सा च॒मूष्व॒भि श्री᳚णन्ति॒ वसु॑भि॒र्न नि॒क्तैः ||{3/5}{7.4.3.3}{9.93.3}{9.5.8.3}{513, 816, 8521}

उ॒त¦प्र¦पि॒प्ये॒¦ऊधः॑¦अघ्न्या᳚याः¦इन्दुः॑¦धारा᳚भिः¦स॒च॒ते॒¦सु॒ऽमे॒धाः |
मू॒र्धान᳚‌म्¦गावः॑¦पय॑सा¦च॒मूषु॑¦अ॒भि¦श्री॒ण॒न्ति॒¦वसु॑ऽभिः¦न¦नि॒क्तैः ||

स नो᳚ दे॒वेभिः॑ पवमान र॒देन्दो᳚ र॒यिम॒श्विनं᳚ वावशा॒नः |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्}

र॒थि॒रा॒यता᳚मुश॒ती पुरं᳚धिरस्म॒द्र्य१॑(अ॒)गा दा॒वने॒ वसू᳚नाम् ||{4/5}{7.4.3.4}{9.93.4}{9.5.8.4}{514, 816, 8522}

सः¦नः॒¦दे॒वेभिः॑¦प॒व॒मा॒न॒¦र॒द॒¦इन्दो॒ इति॑¦र॒यि‌म्¦अ॒श्विन᳚‌म्¦वा॒व॒शा॒नः |
र॒थि॒रा॒यता᳚‌म्¦उ॒श॒ती¦पुर᳚‌म्ऽधिः¦अ॒स्म॒द्र्य॑क्¦आ¦दा॒वने᳚¦वसू᳚ना‌म् ||

नू नो᳚ र॒यिमुप॑ मास्व नृ॒वन्तं᳚ पुना॒नो वा॒ताप्यं᳚ वि॒श्वश्च᳚न्द्रम् |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्}

प्र व᳚न्दि॒तुरि᳚न्दो ता॒र्यायुः॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ||{5/5}{7.4.3.5}{9.93.5}{9.5.8.5}{515, 816, 8523}

नु¦नः॒¦र॒यि‌म्¦उप॑¦मा॒स्व॒¦नृ॒ऽवन्त᳚‌म्¦पु॒ना॒नः¦वा॒ताप्य᳚‌म्¦वि॒श्वऽच᳚न्द्र‌म् |
प्र¦व॒न्दि॒तुः¦इ॒न्दो॒ इति॑¦ता॒रि॒¦आयुः॑¦प्रा॒तः¦म॒क्षु¦धि॒याऽव॑सुः¦ज॒ग॒म्या॒त् ||

[51] अधियदिति पंचर्चस्य सूक्तस्य घौरः कण्वः पवमानसोमस्त्रिष्टुप् |
अधि॒ यद॑स्मिन्वा॒जिनी᳚व॒ शुभः॒ स्पर्ध᳚न्ते॒ धियः॒ सूर्ये॒ न विशः॑ |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्}

अ॒पो वृ॑णा॒नः प॑वते कवी॒यन्व्र॒जं न प॑शु॒वर्ध॑नाय॒ मन्म॑ ||{1/5}{7.4.4.1}{9.94.1}{9.5.9.1}{516, 817, 8524}

अधि॑¦यत्¦अ॒स्मि॒न्¦वा॒जिनि॑ऽ‌इव¦शुभः॑¦स्पर्ध᳚न्ते¦धियः॑¦सूर्ये᳚¦न¦विशः॑ |
अ॒पः¦वृ॒णा॒नः¦प॒व॒ते॒¦क॒वि॒ऽयन्¦व्र॒ज‌म्¦न¦प॒शु॒ऽवर्ध॑नाय¦मन्म॑ ||

द्वि॒ता व्यू॒र्ण्वन्न॒मृत॑स्य॒ धाम॑ स्व॒र्विदे॒ भुव॑नानि प्रथन्त |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्}

धियः॑ पिन्वा॒नाः स्वस॑रे॒ न गाव॑ ऋता॒यन्ती᳚र॒भि वा᳚वश्र॒ इन्दु᳚म् ||{2/5}{7.4.4.2}{9.94.2}{9.5.9.2}{517, 817, 8525}

द्वि॒ता¦वि॒ऽऊ॒र्ण्वन्¦अ॒मृत॑स्य¦धाम॑¦स्वः॒ऽविदे᳚¦भुव॑नानि¦प्र॒थ॒न्त॒ |
धियः॑¦पि॒न्वा॒नाः¦स्वस॑रे¦न¦गावः॑¦ऋ॒त॒ऽयन्तीः᳚¦अ॒भि¦वा॒व॒श्रे॒¦इन्दु᳚‌म् ||

परि॒ यत्क॒विः काव्या॒ भर॑ते॒ शूरो॒ न रथो॒ भुव॑नानि॒ विश्वा᳚ |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्}

दे॒वेषु॒ यशो॒ मर्ता᳚य॒ भूष॒न्दक्षा᳚य रा॒यः पु॑रु॒भूषु॒ नव्यः॑ ||{3/5}{7.4.4.3}{9.94.3}{9.5.9.3}{518, 817, 8526}

परि॑¦यत्¦क॒विः¦काव्या᳚¦भर॑ते¦शूरः॑¦न¦रथः॑¦भुव॑नानि¦विश्वा᳚ |
दे॒वेषु॑¦यशः॑¦मर्ता᳚य¦भूष॑न्¦दक्षा᳚य¦रा॒यः¦पु॒रु॒ऽभूषु॑¦नव्यः॑ ||

श्रि॒ये जा॒तः श्रि॒य आ निरि॑याय॒ श्रियं॒ वयो᳚ जरि॒तृभ्यो᳚ दधाति |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्}

श्रियं॒ वसा᳚ना, अमृत॒त्वमा᳚य॒न् भव᳚न्ति स॒त्या स॑मि॒था मि॒तद्रौ᳚ ||{4/5}{7.4.4.4}{9.94.4}{9.5.9.4}{519, 817, 8527}

श्रि॒ये¦जा॒तः¦श्रि॒ये¦आ¦निः¦इ॒या॒य॒¦श्रिय᳚‌म्¦वयः॑¦ज॒रि॒तृऽभ्यः॑¦द॒धा॒ति॒ |
श्रिय᳚‌म्¦वसा᳚नाः¦अ॒मृ॒त॒ऽत्व‌म्¦आ॒य॒न्¦भव᳚न्ति¦स॒त्या¦स॒‌म्ऽ‌इ॒था¦मि॒तऽद्रौ᳚ ||

इष॒मूर्ज॑म॒भ्य१॑(अ॒)र्षाश्वं॒ गामु॒रु ज्योतिः॑ कृणुहि॒ मत्सि॑ दे॒वान् |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्}

विश्वा᳚नि॒ हि सु॒षहा॒ तानि॒ तुभ्यं॒ पव॑मान॒ बाध॑से सोम॒ शत्रू॑न् ||{5/5}{7.4.4.5}{9.94.5}{9.5.9.5}{520, 817, 8528}

इष᳚‌म्¦ऊर्ज᳚‌म्¦अ॒भि¦अ॒र्ष॒¦अश्व᳚‌म्¦गा‌म्¦उ॒रु¦ज्योतिः॑¦कृ॒णु॒हि॒¦मत्सि॑¦दे॒वान् |
विश्वा᳚नि¦हि¦सु॒ऽसहा᳚¦तानि॑¦तुभ्य᳚‌म्¦पव॑मान¦बाध॑से¦सो॒म॒¦शत्रू॑न् ||

[52] कनिक्रंतीति पंचर्चस्य सूक्तस्य कण्वः प्रस्कण्वः पवमानसोमस्त्रिष्टुप् |
कनि॑क्रन्ति॒ हरि॒रा सृ॒ज्यमा᳚नः॒ सीद॒न्वन॑स्य ज॒ठरे᳚ पुना॒नः |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्}

नृभि᳚र्य॒तः कृ॑णुते नि॒र्णिजं॒ गा, अतो᳚ म॒तीर्ज॑नयत स्व॒धाभिः॑ ||{1/5}{7.4.5.1}{9.95.1}{9.5.10.1}{521, 818, 8529}

कनि॑क्रन्ति¦हरिः॑¦आ¦सृ॒ज्यमा᳚नः¦सीद॑न्¦वन॑स्य¦ज॒ठरे᳚¦पु॒ना॒नः |
नृऽभिः॑¦य॒तः¦कृ॒णु॒ते॒¦निः॒ऽनिज᳚‌म्¦गाः¦अतः॑¦म॒तीः¦ज॒न॒य॒त॒¦स्व॒धाभिः॑ ||

हरिः॑ सृजा॒नः प॒थ्या᳚मृ॒तस्येय॑र्ति॒ वाच॑मरि॒तेव॒ नाव᳚म् |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्}

दे॒वो दे॒वानां॒ गुह्या᳚नि॒ नामा॒विष्कृ॑णोति ब॒र्हिषि॑ प्र॒वाचे᳚ ||{2/5}{7.4.5.2}{9.95.2}{9.5.10.2}{522, 818, 8530}

हरिः॑¦सृ॒जा॒नः¦प॒थ्या᳚‌म्¦ऋ॒तस्य॑¦इय॑र्ति¦वाच᳚‌म्¦अ॒रि॒ताऽ‌इ᳚व¦नाव᳚‌म् |
दे॒वः¦दे॒वाना᳚‌म्¦गुह्या᳚नि¦नाम॑¦आ॒विः¦कृ॒णो॒ति॒¦ब॒र्हिषि॑¦प्र॒ऽवाचे᳚ ||

अ॒पामि॒वेदू॒र्मय॒स्तर्तु॑राणाः॒ प्र म॑नी॒षा, ई᳚रते॒ सोम॒मच्छ॑ |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्}

न॒म॒स्यन्ती॒रुप॑ च॒ यन्ति॒ सं चा च॑ विशन्त्युश॒तीरु॒शन्त᳚म् ||{3/5}{7.4.5.3}{9.95.3}{9.5.10.3}{523, 818, 8531}

अ॒पा‌म्ऽ‌इ᳚व¦इत्¦ऊ॒र्मयः॑¦तर्तु॑राणाः¦प्र¦म॒नी॒षाः¦ई॒र॒ते॒¦सोम᳚‌म्¦अच्छ॑ |
न॒म॒स्यन्तीः᳚¦उप॑¦च॒¦यन्ति॑¦स‌म्¦च॒¦आ¦च॒¦वि॒श॒न्ति॒¦उ॒श॒तीः¦उ॒शन्त᳚‌म् ||

तं म᳚र्मृजा॒नं म॑हि॒षं न साना᳚वं॒शुं दु॑हन्त्यु॒क्षणं᳚ गिरि॒ष्ठाम् |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्}

तं वा᳚वशा॒नं म॒तयः॑ सचन्ते त्रि॒तो बि॑भर्ति॒ वरु॑णं समु॒द्रे ||{4/5}{7.4.5.4}{9.95.4}{9.5.10.4}{524, 818, 8532}

त‌म्¦म॒र्मृ॒जा॒न‌म्¦म॒हि॒ष‌म्¦न¦सानौ᳚¦अं॒शु‌म्¦दु॒ह॒न्ति॒¦उ॒क्षण᳚‌म्¦गि॒रि॒ऽस्था‌म् |
त‌म्¦वा॒व॒शा॒न‌म्¦म॒तयः॑¦स॒च॒न्ते॒¦त्रि॒तः¦बि॒भ॒र्ति॒¦वरु॑ण‌म्¦स॒मु॒द्रे ||

इष्य॒न्वाच॑मुपव॒क्तेव॒ होतुः॑ पुना॒न इ᳚न्दो॒ वि ष्या᳚ मनी॒षाम् |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्}

इन्द्र॑श्च॒ यत्‌ क्षय॑थः॒ सौभ॑गाय सु॒वीर्य॑स्य॒ पत॑यः स्याम ||{5/5}{7.4.5.5}{9.95.5}{9.5.10.5}{525, 818, 8533}

इष्य॑न्¦वाच᳚‌म्¦उ॒प॒व॒क्ताऽ‌इ᳚व¦होतुः॑¦पु॒ना॒नः¦इ॒न्दो॒ इति॑¦वि¦स्य॒¦म॒नी॒षा‌म् |
इन्द्रः॑¦च॒¦यत्¦क्षय॑थः¦सौभ॑गाय¦सु॒ऽवीर्य॑स्य¦पत॑यः¦स्या॒म॒ ||

[53] प्रसेनानीरिति चतुर्विंशत्यृचस्य सूक्तस्य दैवोदासिः प्रतर्दनः पवमानसोमस्त्रिष्टुप् |
प्र से᳚ना॒नीः शूरो॒, अग्रे॒ रथा᳚नां ग॒व्यन्ने᳚ति॒ हर्ष॑ते, अस्य॒ सेना᳚ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

भ॒द्रान्‌ कृ॒ण्वन्नि᳚न्द्रह॒वान्‌ त्सखि॑भ्य॒ आ सोमो॒ वस्त्रा᳚ रभ॒सानि॑ दत्ते ||{1/24}{7.4.6.1}{9.96.1}{9.5.11.1}{526, 819, 8534}

प्र¦से॒ना॒ऽनीः¦शूरः॑¦अग्रे᳚¦रथा᳚ना‌म्¦ग॒व्यन्¦ए॒ति॒¦हर्ष॑ते¦अ॒स्य॒¦सेना᳚ |
भ॒द्रान्¦कृ॒ण्वन्¦इ॒न्द्र॒ऽह॒वान्¦सखि॑ऽभ्यः¦आ¦सोमः॑¦वस्त्रा᳚¦र॒भ॒सानि॑¦द॒त्ते॒ ||

सम॑स्य॒ हरिं॒ हर॑यो मृजन्त्यश्वह॒यैरनि॑शितं॒ नमो᳚भिः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

आ ति॑ष्ठति॒ रथ॒मिन्द्र॑स्य॒ सखा᳚ वि॒द्वाँ, ए᳚ना सुम॒तिं या॒त्यच्छ॑ ||{2/24}{7.4.6.2}{9.96.2}{9.5.11.2}{527, 819, 8535}

स‌म्¦अ॒स्य॒¦हरि᳚‌म्¦हर॑यः¦मृ॒ज॒न्ति॒¦अ॒श्व॒ऽह॒यैः¦अनि॑ऽशित‌म्¦नमः॑ऽभिः |
आ¦ति॒ष्ठ॒ति॒¦रथ᳚‌म्¦इन्द्र॑स्य¦सखा᳚¦वि॒द्वान्¦ए॒न॒¦सु॒ऽम॒ति‌म्¦या॒ति॒¦अच्छ॑ ||

स नो᳚ देव दे॒वता᳚ते पवस्व म॒हे सो᳚म॒ प्सर॑स इन्द्र॒पानः॑ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

कृ॒ण्वन्न॒पो व॒र्षय॒न्द्यामु॒तेमामु॒रोरा नो᳚ वरिवस्या पुना॒नः ||{3/24}{7.4.6.3}{9.96.3}{9.5.11.3}{528, 819, 8536}

सः¦नः॒¦दे॒व॒¦दे॒वऽता᳚ते¦प॒व॒स्व॒¦म॒हे¦सो॒म॒¦प्सर॑से¦इ॒न्द्र॒ऽपानः॑ |
कृ॒ण्वन्¦अ॒पः¦व॒र्षय॑न्¦द्या‌म्¦उ॒त¦इ॒मा‌म्¦उ॒रोः¦आ¦नः॒¦व॒रि॒व॒स्य॒¦पु॒ना॒नः ||

अजी᳚त॒येऽह॑तये पवस्व स्व॒स्तये᳚ स॒र्वता᳚तये बृह॒ते |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

तदु॑शन्ति॒ विश्व॑ इ॒मे सखा᳚य॒स्तद॒हं व॑श्मि पवमान सोम ||{4/24}{7.4.6.4}{9.96.4}{9.5.11.4}{529, 819, 8537}

अजी᳚तये¦अह॑तये¦प॒व॒स्व॒¦स्व॒स्तये᳚¦स॒र्वऽता᳚तये¦बृ॒ह॒ते |
तत्¦उ॒श॒न्ति॒¦विश्वे᳚¦इ॒मे¦सखा᳚यः¦तत्¦अ॒ह‌म्¦व॒श्मि॒¦प॒व॒मा॒न॒¦सो॒म॒ ||

सोमः॑ पवते जनि॒ता म॑ती॒नां ज॑नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

ज॒नि॒ताग्नेर्ज॑नि॒ता सूर्य॑स्य जनि॒तेन्द्र॑स्य जनि॒तोत विष्णोः᳚ ||{5/24}{7.4.6.5}{9.96.5}{9.5.11.5}{530, 819, 8538}

सोमः॑¦प॒व॒ते॒¦ज॒नि॒ता¦म॒ती॒ना‌म्¦ज॒नि॒ता¦दि॒वः¦ज॒नि॒ता¦पृ॒थि॒व्याः |
ज॒नि॒ता¦अ॒ग्नेः¦ज॒नि॒ता¦सूर्य॑स्य¦ज॒नि॒ता¦इन्द्र॑स्य¦ज॒नि॒ता¦उ॒त¦विष्णोः᳚ ||

ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒नामृषि॒र्विप्रा᳚णां महि॒षो मृ॒गाणा᳚म् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

श्ये॒नो गृध्रा᳚णां॒ स्वधि॑ति॒र्वना᳚नां॒ सोमः॑ प॒वित्र॒मत्ये᳚ति॒ रेभ॑न् ||{6/24}{7.4.7.1}{9.96.6}{9.5.11.6}{531, 819, 8539}

ब्र॒ह्मा¦दे॒वाना᳚‌म्¦प॒द॒ऽवीः¦क॒वी॒ना‌म्¦ऋषिः॑¦विप्रा᳚णा‌म्¦म॒हि॒षः¦मृ॒गाणा᳚‌म् |
श्ये॒नः¦गृध्रा᳚णा‌म्¦स्वऽधि॑तिः¦वना᳚ना‌म्¦सोमः॑¦प॒वित्र᳚‌म्¦अति॑¦ए॒ति॒¦रेभ॑न् ||

प्रावी᳚विपद्वा॒च ऊ॒र्मिं न सिन्धु॒र्गिरः॒ सोमः॒ पव॑मानो मनी॒षाः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

अ॒न्तः पश्य᳚न्‌ वृ॒जने॒माव॑रा॒ण्या ति॑ष्ठति वृष॒भो गोषु॑ जा॒नन् ||{7/24}{7.4.7.2}{9.96.7}{9.5.11.7}{532, 819, 8540}

प्र¦अ॒वी॒वि॒प॒त्¦वा॒चः¦ऊ॒र्मि‌म्¦न¦सिन्धुः॑¦गिरः॑¦सोमः॑¦पव॑मानः¦म॒नी॒षाः |
अ॒न्तरिति॑¦पश्य॑न्¦वृ॒जना᳚¦इ॒मा¦अव॑राणि¦आ¦ति॒ष्ठ॒ति॒¦वृ॒ष॒भः¦गोषु॑¦जा॒नन् ||

स म॑त्स॒रः पृ॒त्सु व॒न्वन्नवा᳚तः स॒हस्र॑रेता, अ॒भि वाज॑मर्ष |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

इन्द्रा᳚येन्दो॒ पव॑मानो मनी॒ष्य१॑(अं॒)शोरू॒र्मिमी᳚रय॒ गा, इ॑ष॒ण्यन् ||{8/24}{7.4.7.3}{9.96.8}{9.5.11.8}{533, 819, 8541}

सः¦म॒त्स॒रः¦पृ॒त्ऽसु¦व॒न्वन्¦अवा᳚तः¦स॒हस्र॑ऽरेताः¦अ॒भि¦वाज᳚‌म्¦अ॒र्ष॒ |
इन्द्रा᳚य¦इ॒न्दो॒ इति॑¦पव॑मानः¦म॒नी॒षी¦अं॒शोः¦ऊ॒र्मि‌म्¦ई॒र॒य॒¦गाः¦इ॒ष॒ण्यन् ||

परि॑ प्रि॒यः क॒लशे᳚ दे॒ववा᳚त॒ इन्द्रा᳚य॒ सोमो॒ रण्यो॒ मदा᳚य |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

स॒हस्र॑धारः श॒तवा᳚ज॒ इन्दु᳚र्वा॒जी न सप्तिः॒ सम॑ना जिगाति ||{9/24}{7.4.7.4}{9.96.9}{9.5.11.9}{534, 819, 8542}

परि॑¦प्रि॒यः¦क॒लशे᳚¦दे॒वऽवा᳚तः¦इन्द्रा᳚य¦सोमः॑¦रण्यः॑¦मदा᳚य |
स॒हस्र॑ऽधारः¦श॒तऽवा᳚जः¦इन्दुः॑¦वा॒जी¦न¦सप्तिः॑¦सम॑ना¦जि॒गा॒ति॒ ||

स पू॒र्व्यो व॑सु॒विज्जाय॑मानो मृजा॒नो, अ॒प्सु दु॑दुहा॒नो, अद्रौ᳚ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

अ॒भि॒श॒स्ति॒पा भुव॑नस्य॒ राजा᳚ वि॒दद्गा॒तुं ब्रह्म॑णे पू॒यमा᳚नः ||{10/24}{7.4.7.5}{9.96.10}{9.5.11.10}{535, 819, 8543}

सः¦पू॒र्व्यः¦व॒सु॒ऽवित्¦जाय॑मानः¦मृ॒जा॒नः¦अ॒प्ऽसु¦दु॒दु॒हा॒नः¦अद्रौ᳚ |
अ॒भि॒श॒स्ति॒ऽपाः¦भुव॑नस्य¦राजा᳚¦वि॒दत्¦गा॒तु‌म्¦ब्रह्म॑णे¦पू॒यमा᳚नः ||

त्वया॒ हि नः॑ पि॒तरः॑ सोम॒ पूर्वे॒ कर्मा᳚णि च॒क्रुः प॑वमान॒ धीराः᳚ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

व॒न्वन्नवा᳚तः परि॒धीँरपो᳚र्णु वी॒रेभि॒रश्वै᳚र्म॒घवा᳚ भवा नः ||{11/24}{7.4.8.1}{9.96.11}{9.5.11.11}{536, 819, 8544}

त्वया᳚¦हि¦नः॒¦पि॒तरः॑¦सो॒म॒¦पूर्वे᳚¦कर्मा᳚णि¦च॒क्रुः¦प॒व॒मा॒न॒¦धीराः᳚ |
व॒न्वन्¦अवा᳚तः¦प॒रि॒ऽधीन्¦अप॑¦ऊ॒र्णु॒¦वी॒रेभिः॑¦अश्वैः᳚¦म॒घऽवा᳚¦भ॒व॒¦नः॒ ||

यथाप॑वथा॒ मन॑वे वयो॒धा, अ॑मित्र॒हा व॑रिवो॒विद्ध॒विष्मा॑न् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

ए॒वा प॑वस्व॒ द्रवि॑णं॒ दधा᳚न॒ इन्द्रे॒ सं ति॑ष्ठ ज॒नयायु॑धानि ||{12/24}{7.4.8.2}{9.96.12}{9.5.11.12}{537, 819, 8545}

यथा᳚¦अप॑वथाः¦मन॑वे¦व॒यः॒ऽधाः¦अ॒मि॒त्र॒ऽहा¦व॒रि॒वः॒ऽवित्¦ह॒विष्मा॑न् |
ए॒व¦प॒व॒स्व॒¦द्रवि॑ण‌म्¦दधा᳚नः¦इन्द्रे᳚¦स‌म्¦ति॒ष्ठ॒¦ज॒नय॑¦आयु॑धानि ||

पव॑स्व सोम॒ मधु॑माँ, ऋ॒तावा॒पो वसा᳚नो॒, अधि॒ सानो॒, अव्ये᳚ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

अव॒ द्रोणा᳚नि घृ॒तवा᳚न्ति सीद म॒दिन्त॑मो मत्स॒र इ᳚न्द्र॒पानः॑ ||{13/24}{7.4.8.3}{9.96.13}{9.5.11.13}{538, 819, 8546}

पव॑स्व¦सो॒म॒¦मधु॑ऽमान्¦ऋ॒तऽवा᳚¦अ॒पः¦वसा᳚नः¦अधि॑¦सानौ᳚¦अव्ये᳚ |
अव॑¦द्रोणा᳚नि¦घृ॒तऽव᳚न्ति¦सी॒द॒¦म॒दिन्ऽत॑मः¦म॒त्स॒रः¦इ॒न्द्र॒ऽपानः॑ ||

वृ॒ष्टिं दि॒वः श॒तधा᳚रः पवस्व सहस्र॒सा वा᳚ज॒युर्दे॒ववी᳚तौ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

सं सिन्धु॑भिः क॒लशे᳚ वावशा॒नः समु॒स्रिया᳚भिः प्रति॒रन्न॒ आयुः॑ ||{14/24}{7.4.8.4}{9.96.14}{9.5.11.14}{539, 819, 8547}

वृ॒ष्टि‌म्¦दि॒वः¦श॒तऽधा᳚रः¦प॒व॒स्व॒¦स॒ह॒स्र॒ऽसाः¦वा॒ज॒ऽयुः¦दे॒वऽवी᳚तौ |
स‌म्¦सिन्धु॑ऽभिः¦क॒लशे᳚¦वा॒व॒शा॒नः¦स‌म्¦उ॒स्रिया᳚भिः¦प्र॒ऽति॒रन्¦नः॒¦आयुः॑ ||

ए॒ष स्य सोमो᳚ म॒तिभिः॑ पुना॒नोऽत्यो॒ न वा॒जी तर॒तीदरा᳚तीः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

पयो॒ न दु॒ग्धमदि॑तेरिषि॒रमु॒र्वि॑व गा॒तुः सु॒यमो॒ न वोळ्हा᳚ ||{15/24}{7.4.8.5}{9.96.15}{9.5.11.15}{540, 819, 8548}

ए॒षः¦स्यः¦सोमः॑¦म॒तिऽभिः॑¦पु॒ना॒नः¦अत्यः॑¦न¦वा॒जी¦तर॑ति¦इत्¦अरा᳚तीः |
पयः॑¦न¦दु॒ग्ध‌म्¦अदि॑तेः¦इ॒षि॒र‌म्¦उ॒रुऽ‌इ᳚व¦गा॒तुः¦सु॒ऽयमः॑¦न¦वोळ्हा᳚ ||

स्वा॒यु॒धः सो॒तृभिः॑ पू॒यमा᳚नो॒ऽभ्य॑र्ष॒ गुह्यं॒ चारु॒ नाम॑ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

अ॒भि वाजं॒ सप्ति॑रिव श्रव॒स्याभि वा॒युम॒भि गा दे᳚व सोम ||{16/24}{7.4.9.1}{9.96.16}{9.5.11.16}{541, 819, 8549}

सु॒ऽआ॒यु॒धः¦सो॒तृऽभिः॑¦पू॒यमा᳚नः¦अ॒भि¦अ॒र्ष॒¦गुह्य᳚‌म्¦चारु॑¦नाम॑ |
अ॒भि¦वाज᳚‌म्¦सप्तिः॑ऽ‌इव¦श्र॒व॒स्या¦अ॒भि¦वा॒यु‌म्¦अ॒भि¦गाः¦दे॒व॒¦सो॒म॒ ||

शिशुं᳚ जज्ञा॒नं ह᳚र्य॒तं मृ॑जन्ति शु॒म्भन्ति॒ वह्निं᳚ म॒रुतो᳚ ग॒णेन॑ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

क॒विर्गी॒र्भिः काव्ये᳚ना क॒विः सन्‌ त्सोमः॑ प॒वित्र॒मत्ये᳚ति॒ रेभ॑न् ||{17/24}{7.4.9.2}{9.96.17}{9.5.11.17}{542, 819, 8550}

शिशु᳚‌म्¦ज॒ज्ञा॒न‌म्¦ह॒र्य॒त‌म्¦मृ॒ज॒न्ति॒¦शु॒म्भन्ति॑¦वह्नि᳚‌म्¦म॒रुतः॑¦ग॒णेन॑ |
क॒विः¦गीः॒ऽभिः¦काव्ये᳚न¦क॒विः¦सन्¦सोमः॑¦प॒वित्र᳚‌म्¦अति॑¦ए॒ति॒¦रेभ॑न् ||

ऋषि॑मना॒ य ऋ॑षि॒कृत्स्व॒र्षाः स॒हस्र॑णीथः पद॒वीः क॑वी॒नाम् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

तृ॒तीयं॒ धाम॑ महि॒षः सिषा᳚स॒न्‌ त्सोमो᳚ वि॒राज॒मनु॑ राजति॒ ष्टुप् ||{18/24}{7.4.9.3}{9.96.18}{9.5.11.18}{543, 819, 8551}

ऋषि॑ऽमनाः¦यः¦ऋ॒षि॒ऽकृत्¦स्वः॒ऽसाः¦स॒हस्र॑ऽनीथः¦प॒द॒ऽवीः¦क॒वी॒ना‌म् |
तृ॒तीय᳚‌म्¦धाम॑¦म॒हि॒षः¦सिसा᳚सन्¦सोमः॑¦वि॒ऽराज᳚‌म्¦अनु॑¦रा॒ज॒ति॒¦स्तुप् ||

च॒मू॒षच्छ्ये॒नः श॑कु॒नो वि॒भृत्वा᳚ गोवि॒न्दुर्द्र॒प्स आयु॑धानि॒ बिभ्र॑त् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

अ॒पामू॒र्मिं सच॑मानः समु॒द्रं तु॒रीयं॒ धाम॑ महि॒षो वि॑वक्ति ||{19/24}{7.4.9.4}{9.96.19}{9.5.11.19}{544, 819, 8552}

च॒मू॒ऽसत्¦श्ये॒नः¦श॒कु॒नः¦वि॒ऽभृत्वा᳚¦गो॒ऽवि॒न्दुः¦द्र॒प्सः¦आयु॑धानि¦बिभ्र॑त् |
अ॒पा‌म्¦ऊ॒र्मि‌म्¦सच॑मानः¦स॒मु॒द्र‌म्¦तु॒रीय᳚‌म्¦धाम॑¦म॒हि॒षः¦वि॒व॒क्ति॒ ||

मर्यो॒ न शु॒भ्रस्त॒न्वं᳚ मृजा॒नोऽत्यो॒ न सृत्वा᳚ स॒नये॒ धना᳚नाम् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

वृषे᳚व यू॒था परि॒ कोश॒मर्ष॒न्‌ कनि॑क्रदच्च॒म्वो॒३॑(ओ॒)रा वि॑वेश ||{20/24}{7.4.9.5}{9.96.20}{9.5.11.20}{545, 819, 8553}

मर्यः॑¦न¦शु॒भ्रः¦त॒न्व᳚‌म्¦मृ॒जा॒नः¦अत्यः॑¦न¦सृत्वा᳚¦स॒नये᳚¦धना᳚ना‌म् |
वृषा᳚ऽ‌इव¦यू॒था¦परि॑¦कोश᳚‌म्¦अर्ष॑न्¦कनि॑क्रदत्¦च॒म्वोः᳚¦आ¦वि॒वे॒श॒ ||

पव॑स्वेन्दो॒ पव॑मानो॒ महो᳚भिः॒ कनि॑क्रद॒त्परि॒ वारा᳚ण्यर्ष |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

क्रीळ᳚ञ्च॒म्वो॒३॑(ओ॒)रा वि॑श पू॒यमा᳚न॒ इन्द्रं᳚ ते॒ रसो᳚ मदि॒रो म॑मत्तु ||{21/24}{7.4.10.1}{9.96.21}{9.5.11.21}{546, 819, 8554}

पव॑स्व¦इ॒न्दो॒ इति॑¦पव॑मानः¦महः॑ऽभिः¦कनि॑क्रदत्¦परि॑¦वारा᳚णि¦अ॒र्ष॒ |
क्रीळ॑न्¦च॒म्वोः᳚¦आ¦वि॒श॒¦पू॒यमा᳚नः¦इन्द्र᳚‌म्¦ते॒¦रसः॑¦म॒दि॒रः¦म॒म॒त्तु॒ ||

प्रास्य॒ धारा᳚ बृह॒तीर॑सृग्रन्न॒क्तो गोभिः॑ क॒लशाँ॒, आ वि॑वेश |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

साम॑ कृ॒ण्वन्‌ त्सा᳚म॒न्यो᳚ विप॒श्चित्क्रन्द᳚न्नेत्य॒भि सख्यु॒र्न जा॒मिम् ||{22/24}{7.4.10.2}{9.96.22}{9.5.11.22}{547, 819, 8555}

प्र¦अ॒स्य॒¦धाराः᳚¦बृ॒ह॒तीः¦अ॒सृ॒ग्र॒न्¦अ॒क्तः¦गोभिः॑¦क॒लशा᳚न्¦आ¦वि॒वे॒श॒ |
साम॑¦कृ॒ण्वन्¦सा॒म॒न्यः॑¦वि॒पः॒ऽचित्¦क्रन्द॑न्¦ए॒ति॒¦अ॒भि¦सख्युः॑¦न¦जा॒मि‌म् ||

अ॒प॒घ्नन्ने᳚षि पवमान॒ शत्रू᳚न्‌ प्रि॒यां न जा॒रो, अ॒भिगी᳚त॒ इन्दुः॑ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

सीद॒न्वने᳚षु शकु॒नो न पत्वा॒ सोमः॑ पुना॒नः क॒लशे᳚षु॒ सत्ता᳚ ||{23/24}{7.4.10.3}{9.96.23}{9.5.11.23}{548, 819, 8556}

अ॒प॒ऽघ्नन्¦ए॒षि॒¦प॒व॒मा॒न॒¦शत्रू᳚न्¦प्रि॒या‌म्¦न¦जा॒रः¦अ॒भिऽगी᳚तः¦इन्दुः॑ |
सीद॑न्¦वने᳚षु¦श॒कु॒नः¦न¦पत्वा᳚¦सोमः॑¦पु॒ना॒नः¦क॒लशे᳚षु¦सत्ता᳚ ||

आ ते॒ रुचः॒ पव॑मानस्य सोम॒ योषे᳚व यन्ति सु॒दुघाः᳚ सुधा॒राः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

हरि॒रानी᳚तः पुरु॒वारो᳚, अ॒प्स्वचि॑क्रदत्क॒लशे᳚ देवयू॒नाम् ||{24/24}{7.4.10.4}{9.96.24}{9.5.11.24}{549, 819, 8557}

आ¦ते॒¦रुचः॑¦पव॑मानस्य¦सो॒म॒¦योषा᳚ऽ‌इव¦य॒न्ति॒¦सु॒ऽदुघाः᳚¦सु॒ऽधा॒राः |
हरिः॑¦आऽनी᳚तः¦पु॒रु॒ऽवारः॑¦अ॒प्ऽसु¦अचि॑क्रदत्¦क॒लशे᳚¦दे॒व॒ऽयू॒ना‌म् ||

[54] अस्यप्रेपेत्यष्टपंचाशदृचस्य सूक्तस्याद्यानांतिसृणांमैत्रावरुणिर्वसिष्ठः चतुर्थ्यादितिसृणांवासिष्ठइंद्रप्रमतिः सप्तम्यादितिसृणांवासिष्ठोवृषगणः दशम्यादितिसृणांवासिष्टोमन्युः त्रयोदश्यादितिसृणां वासिष्ठ उपमन्युः षोडश्यादितिसृणांवासिष्ठोव्याघ्रपादः एकोनविंश्यादितिसृणां वासिष्ठःशक्तिः द्वाविंश्यादितिसृणां वासिष्ठःकर्णश्रुतः पंचविंश्यादितिसृणां वासिष्ठो मृळीकः अष्टविंश्यादितिसृणां वासिष्ठोवसुक्र एकत्रिंश्यादि चतुर्दशानां शाक्त्यः पराशरः पंचचत्वारिंश्यादिचतुर्दशानामांगिरसः कुत्स ऋषयः पवमानसोमस्त्रिष्टुप् |
अ॒स्य प्रे॒षा हे॒मना᳚ पू॒यमा᳚नो दे॒वो दे॒वेभिः॒ सम॑पृक्त॒ रस᳚म् |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्}

सु॒तः प॒वित्रं॒ पर्ये᳚ति॒ रेभ᳚न्मि॒तेव॒ सद्म॑ पशु॒मान्ति॒ होता᳚ ||{1/58}{7.4.11.1}{9.97.1}{9.6.1.1}{550, 820, 8558}

अ॒स्य¦प्रे॒षा¦हे॒मना᳚¦पू॒यमा᳚नः¦दे॒वः¦दे॒वेभिः॑¦स‌म्¦अ॒पृ॒क्त॒¦रस᳚‌म् |
सु॒तः¦प॒वित्र᳚‌म्¦परि॑¦ए॒ति॒¦रेभ॑न्¦मि॒ताऽ‌इ᳚व¦सद्म॑¦प॒शु॒ऽमन्ति॑¦होता᳚ ||

भ॒द्रा वस्त्रा᳚ सम॒न्या॒३॑(आ॒) वसा᳚नो म॒हान्‌ क॒विर्नि॒वच॑नानि॒ शंस॑न् |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्}

आ व॑च्यस्व च॒म्वोः᳚ पू॒यमा᳚नो विचक्ष॒णो जागृ॑विर्दे॒ववी᳚तौ ||{2/58}{7.4.11.2}{9.97.2}{9.6.1.2}{551, 820, 8559}

भ॒द्रा¦वस्त्रा᳚¦स॒म॒न्या᳚¦वसा᳚नः¦म॒हान्¦क॒विः¦नि॒ऽवच॑नानि¦शं॒स॒न् |
आ¦व॒च्य॒स्व॒¦च॒म्वोः᳚¦पू॒यमा᳚नः¦वि॒ऽच॒क्ष॒णः¦जागृ॑विः¦दे॒वऽवी᳚तौ ||

समु॑ प्रि॒यो मृ॑ज्यते॒ सानो॒, अव्ये᳚ य॒शस्त॑रो य॒शसां॒ क्षैतो᳚, अ॒स्मे |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्}

अ॒भि स्व॑र॒ धन्वा᳚ पू॒यमा᳚नो यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{3/58}{7.4.11.3}{9.97.3}{9.6.1.3}{552, 820, 8560}

स‌म्¦ऊँ॒ इति॑¦प्रि॒यः¦मृ॒ज्य॒ते॒¦सानौ᳚¦अव्ये᳚¦य॒शःऽत॑रः¦य॒शसा᳚‌म्¦क्षैतः॑¦अ॒स्मे इति॑ |
अ॒भि¦स्व॒र॒¦धन्व॑¦पू॒यमा᳚नः¦यू॒य‌म्¦पा॒त॒¦स्व॒स्तिऽभिः॑¦सदा᳚¦नः॒ ||

प्र गा᳚यता॒भ्य॑र्चाम दे॒वान्‌ त्सोमं᳚ हिनोत मह॒ते धना᳚य |{वासिष्ठइंद्रप्रमतिः | पवमानः सोमः | त्रिष्टुप्}

स्वा॒दुः प॑वाते॒, अति॒ वार॒मव्य॒मा सी᳚दाति क॒लशं᳚ देव॒युर्नः॑ ||{4/58}{7.4.11.4}{9.97.4}{9.6.1.4}{553, 820, 8561}

प्र¦गा॒य॒त॒¦अ॒भि¦अ॒र्चा॒म॒¦दे॒वान्¦सोम᳚‌म्¦हि॒नो॒त॒¦म॒ह॒ते¦धना᳚य |
स्वा॒दुः¦प॒वा॒ते॒¦अति॑¦वार᳚‌म्¦अव्य᳚‌म्¦आ¦सी॒दा॒ति॒¦क॒लश᳚‌म्¦दे॒व॒ऽयुः¦नः॒ ||

इन्दु॑र्दे॒वाना॒मुप॑ स॒ख्यमा॒यन्‌ त्स॒हस्र॑धारः पवते॒ मदा᳚य |{वासिष्ठइंद्रप्रमतिः | पवमानः सोमः | त्रिष्टुप्}

नृभिः॒ स्तवा᳚नो॒, अनु॒ धाम॒ पूर्व॒मग॒न्निन्द्रं᳚ मह॒ते सौभ॑गाय ||{5/58}{7.4.11.5}{9.97.5}{9.6.1.5}{554, 820, 8562}

इन्दुः॑¦दे॒वाना᳚‌म्¦उप॑¦स॒ख्य‌म्¦आ॒ऽयन्¦स॒हस्र॑ऽधारः¦प॒व॒ते॒¦मदा᳚य |
नृऽभिः॑¦स्तवा᳚नः¦अनु॑¦धाम॑¦पूर्व᳚‌म्¦अग॑न्¦इन्द्र᳚‌म्¦म॒ह॒ते¦सौभ॑गाय ||

स्तो॒त्रे रा॒ये हरि॑रर्षा पुना॒न इन्द्रं॒ मदो᳚ गच्छतु ते॒ भरा᳚य |{वासिष्ठइंद्रप्रमतिः | पवमानः सोमः | त्रिष्टुप्}

दे॒वैर्या᳚हि स॒रथं॒ राधो॒, अच्छा᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/58}{7.4.12.1}{9.97.6}{9.6.1.6}{555, 820, 8563}

स्तो॒त्रे¦रा॒ये¦हरिः॑¦अ॒र्ष॒¦पु॒ना॒नः¦इन्द्र᳚‌म्¦मदः॑¦ग॒च्छ॒तु॒¦ते॒¦भरा᳚य |
दे॒वैः¦या॒हि॒¦स॒ऽरथ᳚‌म्¦राधः॑¦अच्छ॑¦यू॒य‌म्¦पा॒त॒¦स्व॒स्तिऽभिः॑¦सदा᳚¦नः॒ ||

प्र काव्य॑मु॒शने᳚व ब्रुवा॒णो दे॒वो दे॒वानां॒ जनि॑मा विवक्ति |{वासिष्ठो वृषगणः | पवमानः सोमः | त्रिष्टुप्}

महि᳚व्रतः॒ शुचि॑बन्धुः पाव॒कः प॒दा व॑रा॒हो, अ॒भ्ये᳚ति॒ रेभ॑न् ||{7/58}{7.4.12.2}{9.97.7}{9.6.1.7}{556, 820, 8564}

प्र¦काव्य᳚‌म्¦उ॒शना᳚ऽ‌इव¦ब्रु॒वा॒णः¦दे॒वः¦दे॒वाना᳚‌म्¦जनि॑म¦वि॒व॒क्ति॒ |
महि॑ऽव्रतः¦शुचि॑ऽबन्धुः¦पा॒व॒कः¦प॒दा¦व॒रा॒हः¦अ॒भि¦ए॒ति॒¦रेभ॑न् ||

प्र हं॒सास॑स्तृ॒पलं᳚ म॒न्युमच्छा॒मादस्तं॒ वृष॑गणा, अयासुः |{वासिष्ठो वृषगणः | पवमानः सोमः | त्रिष्टुप्}

आ॒ङ्गू॒ष्य१॑(अं॒) पव॑मानं॒ सखा᳚यो दु॒र्मर्षं᳚ सा॒कं प्र व॑दन्ति वा॒णम् ||{8/58}{7.4.12.3}{9.97.8}{9.6.1.8}{557, 820, 8565}

प्र¦हं॒सासः॑¦तृ॒पल᳚‌म्¦म॒न्यु‌म्¦अच्छ॑¦अ॒मात्¦अस्त᳚‌म्¦वृष॑ऽगणाः¦अ॒या॒सुः॒ |
आ॒ङ्गू॒ष्य᳚‌म्¦पव॑मान‌म्¦सखा᳚यः¦दुः॒ऽमर्ष᳚‌म्¦सा॒क‌म्¦प्र¦व॒द॒न्ति॒¦वा॒ण‌म् ||

स रं᳚हत उरुगा॒यस्य॑ जू॒तिं वृथा॒ क्रीळ᳚न्तं मिमते॒ न गावः॑ |{वासिष्ठो वृषगणः | पवमानः सोमः | त्रिष्टुप्}

प॒री॒ण॒सं कृ॑णुते ति॒ग्मशृ᳚ङ्गो॒ दिवा॒ हरि॒र्ददृ॑शे॒ नक्त॑मृ॒ज्रः ||{9/58}{7.4.12.4}{9.97.9}{9.6.1.9}{558, 820, 8566}

सः¦रं॒ह॒ते॒¦उ॒रु॒ऽगा॒यस्य॑¦जू॒ति‌म्¦वृथा᳚¦क्रीळ᳚न्त‌म्¦मि॒म॒ते॒¦न¦गावः॑ |
प॒री॒ण॒स‌म्¦कृ॒णु॒ते॒¦ति॒ग्मऽशृ᳚ङ्गः¦दिवा᳚¦हरिः॑¦ददृ॑शे¦नक्त᳚‌म्¦ऋ॒ज्रः ||

इन्दु᳚र्वा॒जी प॑वते॒ गोन्यो᳚घा॒, इन्द्रे॒ सोमः॒ सह॒ इन्व॒न्मदा᳚य |{वासिष्टो मन्युः | पवमानः सोमः | त्रिष्टुप्}

हन्ति॒ रक्षो॒ बाध॑ते॒ पर्यरा᳚ती॒र्वरि॑वः कृ॒ण्वन्‌ वृ॒जन॑स्य॒ राजा᳚ ||{10/58}{7.4.12.5}{9.97.10}{9.6.1.10}{559, 820, 8567}

इन्दुः॑¦वा॒जी¦प॒व॒ते॒¦गोऽन्यो᳚घाः¦इन्द्रे᳚¦सोमः॑¦सह॑¦इन्व॑न्¦मदा᳚य |
हन्ति॑¦रक्षः॑¦बाध॑ते¦परि॑¦अरा᳚तीः¦वरि॑वः¦कृ॒ण्वन्¦वृ॒जन॑स्य¦राजा᳚ ||

अध॒ धार॑या॒ मध्वा᳚ पृचा॒नस्ति॒रो रोम॑ पवते॒, अद्रि॑दुग्धः |{वासिष्टो मन्युः | पवमानः सोमः | त्रिष्टुप्}

इन्दु॒रिन्द्र॑स्य स॒ख्यं जु॑षा॒णो दे॒वो दे॒वस्य॑ मत्स॒रो मदा᳚य ||{11/58}{7.4.13.1}{9.97.11}{9.6.1.11}{560, 820, 8568}

अध॑¦धार॑या¦मध्वा᳚¦पृ॒चा॒नः¦ति॒रः¦रोम॑¦प॒व॒ते॒¦अद्रि॑ऽदुग्धः |
इन्दुः॑¦इन्द्र॑स्य¦स॒ख्य‌म्¦जु॒षा॒णः¦दे॒वः¦दे॒वस्य॑¦म॒त्स॒रः¦मदा᳚य ||

अ॒भि प्रि॒याणि॑ पवते पुना॒नो दे॒वो दे॒वान्‌ त्स्वेन॒ रसे᳚न पृ॒ञ्चन् |{वासिष्टो मन्युः | पवमानः सोमः | त्रिष्टुप्}

इन्दु॒र्धर्मा᳚ण्यृतु॒था वसा᳚नो॒ दश॒ क्षिपो᳚, अव्यत॒ सानो॒, अव्ये᳚ ||{12/58}{7.4.13.2}{9.97.12}{9.6.1.12}{561, 820, 8569}

अ॒भि¦प्रि॒याणि॑¦प॒व॒ते॒¦पु॒ना॒नः¦दे॒वः¦दे॒वान्¦स्वेन॑¦रसे᳚न¦पृं॒चन् |
इन्दुः॑¦धर्मा᳚णि¦ऋ॒तु॒ऽथा¦वसा᳚नः¦दश॑¦क्षिपः॑¦अ॒व्य॒त॒¦सानौ᳚¦अव्ये᳚ ||

वृषा॒ शोणो᳚, अभि॒कनि॑क्रद॒द्गा न॒दय᳚न्नेति पृथि॒वीमु॒त द्याम् |{वासिष्ठ उपमन्युः | पवमानः सोमः | त्रिष्टुप्}

इन्द्र॑स्येव व॒ग्नुरा शृ᳚ण्व आ॒जौ प्र॑चे॒तय᳚न्नर्षति॒ वाच॒मेमाम् ||{13/58}{7.4.13.3}{9.97.13}{9.6.1.13}{562, 820, 8570}

वृषा᳚¦शोणः॑¦अ॒भि॒ऽकनि॑क्रदत्¦गाः¦न॒दय॑न्¦ए॒ति॒¦पृ॒थि॒वी‌म्¦उ॒त¦द्या‌म् |
इन्द्र॑स्यऽ‌इव¦व॒ग्नुः¦आ¦शृ॒ण्वे॒¦आ॒जौ¦प्र॒ऽचे॒तय॑न्¦अ॒र्ष॒ति॒¦वाच᳚‌म्¦आ¦इ॒मा‌म् ||

र॒साय्यः॒ पय॑सा॒ पिन्व॑मान ई॒रय᳚न्नेषि॒ मधु॑मन्तमं॒शुम् |{वासिष्ठ उपमन्युः | पवमानः सोमः | त्रिष्टुप्}

पव॑मानः संत॒निमे᳚षि कृ॒ण्वन्निन्द्रा᳚य सोम परिषि॒च्यमा᳚नः ||{14/58}{7.4.13.4}{9.97.14}{9.6.1.14}{563, 820, 8571}

र॒साय्यः॑¦पय॑सा¦पिन्व॑मानः¦ई॒रय॑न्¦ए॒षि॒¦मधु॑ऽमन्त‌म्¦अं॒शु‌म् |
पव॑मानः¦स॒‌म्ऽत॒नि‌म्¦ए॒षि॒¦कृ॒ण्वन्¦इन्द्रा᳚य¦सो॒म॒¦प॒रि॒ऽसि॒च्यमा᳚नः ||

ए॒वा प॑वस्व मदि॒रो मदा᳚योदग्रा॒भस्य॑ न॒मय᳚न्वध॒स्नैः |{वासिष्ठ उपमन्युः | पवमानः सोमः | त्रिष्टुप्}

परि॒ वर्णं॒ भर॑माणो॒ रुश᳚न्तं ग॒व्युर्नो᳚, अर्ष॒ परि॑ सोम सि॒क्तः ||{15/58}{7.4.13.5}{9.97.15}{9.6.1.15}{564, 820, 8572}

ए॒व¦प॒व॒स्व॒¦म॒दि॒रः¦मदा᳚य¦उ॒द॒ऽग्रा॒भस्य॑¦न॒मय॑न्¦व॒ध॒ऽस्नैः |
परि॑¦वर्ण᳚‌म्¦भर॑माणः¦रुश᳚न्त‌म्¦ग॒व्युः¦नः॒¦अ॒र्ष॒¦परि॑¦सो॒म॒¦सि॒क्तः ||

जु॒ष्ट्वी न॑ इन्दो सु॒पथा᳚ सु॒गान्यु॒रौ प॑वस्व॒ वरि॑वांसि कृ॒ण्वन् |{वासिष्ठो व्याघ्रपादः | पवमानः सोमः | त्रिष्टुप्}

घ॒नेव॒ विष्व॑ग्दुरि॒तानि॑ वि॒घ्नन्नधि॒ ष्णुना᳚ धन्व॒ सानो॒, अव्ये᳚ ||{16/58}{7.4.14.1}{9.97.16}{9.6.1.16}{565, 820, 8573}

जु॒ष्ट्वी¦नः॒¦इ॒न्दो॒ इति॑¦सु॒ऽपथा᳚¦सु॒ऽगानि॑¦उ॒रौ¦प॒व॒स्व॒¦वरि॑वांसि¦कृ॒ण्वन् |
घ॒नाऽ‌इ᳚व¦विष्व॑क्¦दुः॒ऽ‌इ॒तानि॑¦वि॒ऽघ्नन्¦अधि॑¦स्नुना᳚¦ध॒न्व॒¦सानौ᳚¦अव्ये᳚ ||

वृ॒ष्टिं नो᳚, अर्ष दि॒व्यां जि॑ग॒त्नुमिळा᳚वतीं शं॒गयीं᳚ जी॒रदा᳚नुम् |{वासिष्ठो व्याघ्रपादः | पवमानः सोमः | त्रिष्टुप्}

स्तुके᳚व वी॒ता ध᳚न्वा विचि॒न्वन्‌ बन्धूँ᳚रि॒माँ, अव॑राँ, इन्दो वा॒यून् ||{17/58}{7.4.14.2}{9.97.17}{9.6.1.17}{566, 820, 8574}

वृ॒ष्टि‌म्¦नः॒¦अ॒र्ष॒¦दि॒व्या‌म्¦जि॒ग॒त्नु‌म्¦इळा᳚ऽवती‌म्¦श॒‌म्ऽगयी᳚‌म्¦जी॒रऽदा᳚नु‌म् |
स्तुका᳚ऽ‌इव¦वी॒ता¦ध॒न्व॒¦वि॒ऽचि॒न्वन्¦बन्धू᳚न्¦इ॒मान्¦अव॑रान्¦इ॒न्दो॒ इति॑¦वा॒यून् ||

ग्र॒न्थिं न वि ष्य॑ ग्रथि॒तं पु॑ना॒न ऋ॒जुं च॑ गा॒तुं वृ॑जि॒नं च॑ सोम |{वासिष्ठो व्याघ्रपादः | पवमानः सोमः | त्रिष्टुप्}

अत्यो॒ न क्र॑दो॒ हरि॒रा सृ॑जा॒नो मर्यो᳚ देव धन्व प॒स्त्या᳚वान् ||{18/58}{7.4.14.3}{9.97.18}{9.6.1.18}{567, 820, 8575}

ग्र॒न्थि‌म्¦न¦वि¦स्य॒¦ग्र॒थि॒त‌म्¦पु॒ना॒नः¦ऋ॒जु‌म्¦च॒¦गा॒तु‌म्¦वृ॒जि॒न‌म्¦च॒¦सो॒म॒ |
अत्यः॑¦न¦क्र॒दः॒¦हरिः॑¦आ¦सृ॒जा॒नः¦मर्यः॑¦दे॒व॒¦ध॒न्व॒¦प॒स्त्य॑ऽवान् ||

जुष्टो॒ मदा᳚य दे॒वता᳚त इन्दो॒ परि॒ ष्णुना᳚ धन्व॒ सानो॒, अव्ये᳚ |{वासिष्ठःशक्तिः | पवमानः सोमः | त्रिष्टुप्}

स॒हस्र॑धारः सुर॒भिरद॑ब्धः॒ परि॑ स्रव॒ वाज॑सातौ नृ॒षह्ये᳚ ||{19/58}{7.4.14.4}{9.97.19}{9.6.1.19}{568, 820, 8576}

जुष्टः॑¦मदा᳚य¦दे॒वऽता᳚ते¦इ॒न्दो॒ इति॑¦परि॑¦स्नुना᳚¦ध॒न्व॒¦सानौ᳚¦अव्ये᳚ |
स॒हस्र॑ऽधारः¦सु॒र॒भिः¦अद॑ब्धः¦परि॑¦स्र॒व॒¦वाज॑ऽसातौ¦नृ॒ऽसह्ये᳚ ||

अ॒र॒श्मानो॒ ये᳚ऽर॒था, अयु॑क्ता॒, अत्या᳚सो॒ न स॑सृजा॒नास॑ आ॒जौ |{वासिष्ठःशक्तिः | पवमानः सोमः | त्रिष्टुप्}

ए॒ते शु॒क्रासो᳚ धन्वन्ति॒ सोमा॒ देवा᳚स॒स्ताँ, उप॑ याता॒ पिब॑ध्यै ||{20/58}{7.4.14.5}{9.97.20}{9.6.1.20}{569, 820, 8577}

अ॒र॒श्मानः॑¦ये¦अ॒र॒थाः¦अयु॑क्ताः¦अत्या᳚सः¦न¦स॒सृ॒जा॒नासः॑¦आ॒जौ |
ए॒ते¦शु॒क्रासः॑¦ध॒न्व॒न्ति॒¦सोमाः᳚¦देवा᳚सः¦तान्¦उप॑¦या॒त॒¦पिब॑ध्यै ||

ए॒वा न॑ इन्दो, अ॒भि दे॒ववी᳚तिं॒ परि॑ स्रव॒ नभो॒, अर्ण॑श्च॒मूषु॑ |{वासिष्ठःशक्तिः | पवमानः सोमः | त्रिष्टुप्}

सोमो᳚, अ॒स्मभ्यं॒ काम्यं᳚ बृ॒हन्तं᳚ र॒यिं द॑दातु वी॒रव᳚न्तमु॒ग्रम् ||{21/58}{7.4.15.1}{9.97.21}{9.6.1.21}{570, 820, 8578}

ए॒व¦नः॒¦इ॒न्दो॒¦अ॒भि¦दे॒वऽवी᳚ति‌म्¦परि॑¦स्र॒व॒¦नभः॑¦अर्णः॑¦च॒मूषु॑ |
सोमः॑¦अ॒स्मभ्य᳚‌म्¦काम्य᳚‌म्¦बृ॒हन्त᳚‌म्¦र॒यि‌म्¦द॒दा॒तु॒¦वी॒रऽव᳚न्त‌म्¦उ॒ग्र‌म् ||

तक्ष॒द्यदी॒ मन॑सो॒ वेन॑तो॒ वाग्ज्येष्ठ॑स्य वा॒ धर्म॑णि॒ क्षोरनी᳚के |{वासिष्ठःकर्णश्रुतः | पवमानः सोमः | त्रिष्टुप्}

आदी᳚माय॒न्वर॒मा वा᳚वशा॒ना जुष्टं॒ पतिं᳚ क॒लशे॒ गाव॒ इन्दु᳚म् ||{22/58}{7.4.15.2}{9.97.22}{9.6.1.22}{571, 820, 8579}

तक्ष॑त्¦यदि॑¦मन॑सः¦वेन॑तः¦वाक्¦ज्येष्ठ॑स्य¦वा॒¦धर्म॑णि¦क्षोः¦अनी᳚के |
आत्¦ई॒‌म्¦आ॒य॒न्¦वर᳚‌म्¦आ¦वा॒व॒शा॒नाः¦जुष्ट᳚‌म्¦पति᳚‌म्¦क॒लशे᳚¦गावः॑¦इन्दु᳚‌म् ||

प्र दा᳚नु॒दो दि॒व्यो दा᳚नुपि॒न्व ऋ॒तमृ॒ताय॑ पवते सुमे॒धाः |{वासिष्ठःकर्णश्रुतः | पवमानः सोमः | त्रिष्टुप्}

ध॒र्मा भु॑वद्वृज॒न्य॑स्य॒ राजा॒ प्र र॒श्मिभि॑र्द॒शभि॑र्भारि॒ भूम॑ ||{23/58}{7.4.15.3}{9.97.23}{9.6.1.23}{572, 820, 8580}

प्र¦दा॒नु॒ऽदः¦दि॒व्यः¦दा॒नु॒ऽपि॒न्वः¦ऋ॒त‌म्¦ऋ॒ताय॑¦प॒व॒ते॒¦सु॒ऽमे॒धाः |
ध॒र्मा¦भु॒व॒त्¦वृ॒ज॒न्य॑स्य¦राजा᳚¦प्र¦रा॒स्मिऽभिः॑¦द॒शऽभिः॑¦भा॒रि॒¦भूम॑ ||

प॒वित्रे᳚भिः॒ पव॑मानो नृ॒चक्षा॒ राजा᳚ दे॒वाना᳚मु॒त मर्त्या᳚नाम् |{वासिष्ठःकर्णश्रुतः | पवमानः सोमः | त्रिष्टुप्}

द्वि॒ता भु॑वद्रयि॒पती᳚ रयी॒णामृ॒तं भ॑र॒त्सुभृ॑तं॒ चार्विन्दुः॑ ||{24/58}{7.4.15.4}{9.97.24}{9.6.1.24}{573, 820, 8581}

प॒वित्रे᳚भिः¦पव॑मानः¦नृ॒ऽचक्षाः᳚¦राजा᳚¦दे॒वाना᳚‌म्¦उ॒त¦मर्त्या᳚ना‌म् |
द्वि॒ता¦भु॒व॒त्¦र॒यि॒ऽपतिः॑¦र॒यी॒णा‌म्¦ऋ॒त‌म्¦भ॒र॒त्¦सुऽभृ॑त‌म्¦चारु॑¦इन्दुः॑ ||

अर्वाँ᳚, इव॒ श्रव॑से सा॒तिमच्छेन्द्र॑स्य वा॒योर॒भि वी॒तिम॑र्ष |{वासिष्ठो मृळीकः | पवमानः सोमः | त्रिष्टुप्}

स नः॑ स॒हस्रा᳚ बृह॒तीरिषो᳚ दा॒ भवा᳚ सोम द्रविणो॒वित्पु॑ना॒नः ||{25/58}{7.4.15.5}{9.97.25}{9.6.1.25}{574, 820, 8582}

अर्वा᳚न्ऽ‌इव¦श्रव॑से¦सा॒ति‌म्¦अच्छ॑¦इन्द्र॑स्य¦वा॒योः¦अ॒भि¦वी॒ति‌म्¦अ॒र्ष॒ |
सः¦नः॒¦स॒हस्रा᳚¦बृ॒ह॒तीः¦इषः॑¦दाः॒¦भव॑¦सो॒म॒¦द्र॒वि॒णः॒ऽवित्¦पु॒ना॒नः ||

दे॒वा॒व्यो᳚ नः परिषि॒च्यमा᳚नाः॒, क्षयं᳚ सु॒वीरं᳚ धन्वन्तु॒ सोमाः᳚ |{वासिष्ठो मृळीकः | पवमानः सोमः | त्रिष्टुप्}

आ॒य॒ज्यवः॑ सुम॒तिं वि॒श्ववा᳚रा॒ होता᳚रो॒ न दि॑वि॒यजो᳚ म॒न्द्रत॑माः ||{26/58}{7.4.16.1}{9.97.26}{9.6.1.26}{575, 820, 8583}

दे॒व॒।आ॒व्यः॑¦नः॒¦प॒रि॒ऽसि॒च्यमा᳚नाः¦क्षय᳚‌म्¦सु॒ऽवीर᳚‌म्¦ध॒न्व॒न्तु॒¦सोमाः᳚ |
आ॒ऽय॒ज्यवः॑¦सु॒ऽम॒ति‌म्¦वि॒श्वऽवा᳚राः¦होता᳚रः¦न¦दि॒वि॒ऽयजः॑¦म॒न्द्रऽत॑माः ||

ए॒वा दे᳚व दे॒वता᳚ते पवस्व म॒हे सो᳚म॒ प्सर॑से देव॒पानः॑ |{वासिष्ठो मृळीकः | पवमानः सोमः | त्रिष्टुप्}

म॒हश्चि॒द्धि ष्मसि॑ हि॒ताः स॑म॒र्ये कृ॒धि सु॑ष्ठा॒ने रोद॑सी पुना॒नः ||{27/58}{7.4.16.2}{9.97.27}{9.6.1.27}{576, 820, 8584}

ए॒व¦दे॒व॒¦दे॒वऽता᳚ते¦प॒व॒स्व॒¦म॒हे¦सो॒म॒¦प्सर॑से¦दे॒व॒ऽपानः॑ |
म॒हः¦चि॒त्¦हि¦स्मसि॑¦हि॒ताः¦स॒ऽम॒र्ये¦कृ॒धि¦सु॒स्था॒ने इति॑ सु॒ऽस्था॒ने ¦रोद॑सी॒ इति॑¦पु॒ना॒नः ||

अश्वो॒ नो क्र॑दो॒ वृष॑भिर्युजा॒नः सिं॒हो न भी॒मो मन॑सो॒ जवी᳚यान् |{वासिष्ठो वसुक्रः | पवमानः सोमः | त्रिष्टुप्}

अ॒र्वा॒चीनैः᳚ प॒थिभि॒र्ये रजि॑ष्ठा॒, आ प॑वस्व सौमन॒सं न॑ इन्दो ||{28/58}{7.4.16.3}{9.97.28}{9.6.1.28}{577, 820, 8585}

अश्वः॑¦न¦क्र॒दः॒¦वृष॑ऽभिः¦यु॒जा॒नः¦सिं॒हः¦न¦भी॒मः¦मन॑सः¦जवी᳚यान् |
अ॒र्वा॒चीनैः᳚¦प॒थिऽभिः॑¦ये¦रजि॑ष्ठाः¦आ¦प॒व॒स्व॒¦सौ॒म॒न॒स‌म्¦नः॒¦इ॒न्दो॒ इति॑ ||

श॒तं धारा᳚ दे॒वजा᳚ता, असृग्रन्‌ त्स॒हस्र॑मेनाः क॒वयो᳚ मृजन्ति |{वासिष्ठो वसुक्रः | पवमानः सोमः | त्रिष्टुप्}

इन्दो᳚ स॒नित्रं᳚ दि॒व आ प॑वस्व पुरए॒तासि॑ मह॒तो धन॑स्य ||{29/58}{7.4.16.4}{9.97.29}{9.6.1.29}{578, 820, 8586}

श॒त‌म्¦धाराः᳚¦दे॒वऽजा᳚ताः¦अ॒सृ॒ग्र॒न्¦स॒हस्र᳚‌म्¦ए॒नाः॒¦क॒वयः॑¦मृ॒ज॒न्ति॒ |
इन्दो॒ इति॑¦स॒नित्र᳚‌म्¦दि॒वः¦आ¦प॒व॒स्व॒¦पु॒रः॒ऽए॒ता¦अ॒सि॒¦म॒ह॒तः¦धन॑स्य ||

दि॒वो न सर्गा᳚, अससृग्र॒मह्नां॒ राजा॒ न मि॒त्रं प्र मि॑नाति॒ धीरः॑ |{वासिष्ठो वसुक्रः | पवमानः सोमः | त्रिष्टुप्}

पि॒तुर्न पु॒त्रः क्रतु॑भिर्यता॒न आ प॑वस्व वि॒शे, अ॒स्या, अजी᳚तिम् ||{30/58}{7.4.16.5}{9.97.30}{9.6.1.30}{579, 820, 8587}

दि॒वः¦न¦सर्गाः᳚¦अ॒स॒सृ॒ग्र॒‌म्¦अह्ना᳚‌म्¦राजा᳚¦न¦मि॒त्र‌म्¦प्र¦मि॒ना॒ति॒¦धीरः॑ |
पि॒तुः¦न¦पु॒त्रः¦क्रतु॑ऽभिः¦य॒ता॒नः¦आ¦प॒व॒स्व॒¦वि॒शे¦अ॒स्यै¦अजी᳚ति‌म् ||

प्र ते॒ धारा॒ मधु॑मतीरसृग्र॒न्वारा॒न्यत्पू॒तो, अ॒त्येष्यव्या॑न् |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्}

पव॑मान॒ पव॑से॒ धाम॒ गोनां᳚ जज्ञा॒नः सूर्य॑मपिन्वो, अ॒र्कैः ||{31/58}{7.4.17.1}{9.97.31}{9.6.1.31}{580, 820, 8588}

प्र¦ते॒¦धाराः᳚¦मधु॑ऽमतीः¦अ॒सृ॒ग्र॒न्¦वारा᳚न्¦यत्¦पू॒तः¦अ॒ति॒ऽएषि॑¦अव्या॑न् |
पव॑मान¦पव॑से¦धाम॑¦गोना᳚‌म्¦ज॒ज्ञा॒नः¦सूर्य᳚‌म्¦अ॒पि॒न्वः॒¦अ॒र्कैः ||

कनि॑क्रद॒दनु॒ पन्था᳚मृ॒तस्य॑ शु॒क्रो वि भा᳚स्य॒मृत॑स्य॒ धाम॑ |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्}

स इन्द्रा᳚य पवसे मत्स॒रवा᳚न्हिन्वा॒नो वाचं᳚ म॒तिभिः॑ कवी॒नाम् ||{32/58}{7.4.17.2}{9.97.32}{9.6.1.32}{581, 820, 8589}

कनि॑क्रदत्¦अनु॑¦पन्था᳚‌म्¦ऋ॒तस्य॑¦शु॒क्रः¦वि¦भा॒सि॒¦अ॒मृत॑स्य¦धाम॑ |
सः¦इन्द्रा᳚य¦प॒व॒से॒¦म॒त्स॒रऽवा᳚न्¦हि॒न्वा॒नः¦वाच᳚‌म्¦म॒तिऽभिः॑¦क॒वी॒ना‌म् ||

दि॒व्यः सु॑प॒र्णोऽव॑ चक्षि सोम॒ पिन्व॒न्धाराः॒ कर्म॑णा दे॒ववी᳚तौ |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्}

एन्दो᳚ विश क॒लशं᳚ सोम॒धानं॒ क्रन्द᳚न्निहि॒ सूर्य॒स्योप॑ र॒श्मिम् ||{33/58}{7.4.17.3}{9.97.33}{9.6.1.33}{582, 820, 8590}

दि॒व्यः¦सु॒ऽप॒र्णः¦अव॑¦च॒क्षि॒¦सो॒म॒¦पिन्व॑न्¦धाराः᳚¦कर्म॑णा¦दे॒वऽवी᳚तौ |
आ¦इ॒न्दो॒ इति॑¦वि॒श॒¦क॒लश᳚‌म्¦सो॒म॒ऽधान᳚‌म्¦क्रन्द॑न्¦इ॒हि॒¦सूर्य॑स्य¦उप॑¦र॒श्मि‌म् ||

ति॒स्रो वाच॑ ईरयति॒ प्र वह्नि᳚रृ॒तस्य॑ धी॒तिं ब्रह्म॑णो मनी॒षाम् |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्}

गावो᳚ यन्ति॒ गोप॑तिं पृ॒च्छमा᳚नाः॒ सोमं᳚ यन्ति म॒तयो᳚ वावशा॒नाः ||{34/58}{7.4.17.4}{9.97.34}{9.6.1.34}{583, 820, 8591}

ति॒स्रः¦वाचः॑¦ई॒र॒य॒ति॒¦प्र¦वह्निः॑¦ऋ॒तस्य॑¦धी॒ति‌म्¦ब्रह्म॑णः¦म॒नी॒षा‌म् |
गावः॑¦य॒न्ति॒¦गोऽप॑ति‌म्¦पृ॒च्छमा᳚नाः¦सोम᳚‌म्¦य॒न्ति॒¦म॒तयः॑¦वा॒व॒शा॒नाः ||

सोमं॒ गावो᳚ धे॒नवो᳚ वावशा॒नाः सोमं॒ विप्रा᳚ म॒तिभिः॑ पृ॒च्छमा᳚नाः |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्}

सोमः॑ सु॒तः पू᳚यते, अ॒ज्यमा᳚नः॒ सोमे᳚, अ॒र्कास्त्रि॒ष्टुभः॒ सं न॑वन्ते ||{35/58}{7.4.17.5}{9.97.35}{9.6.1.35}{584, 820, 8592}

सोम᳚‌म्¦गावः॑¦धे॒नवः॑¦वा॒व॒शा॒नाः¦सोम᳚‌म्¦विप्राः᳚¦म॒तिऽभिः॑¦पृ॒च्छमा᳚नाः |
सोमः॑¦सु॒तः¦पू॒य॒ते॒¦अ॒ज्यमा᳚नः¦सोमे᳚¦अ॒र्काः¦त्रि॒ऽस्तुभः॑¦स‌म्¦न॒व॒न्ते॒ ||

ए॒वा नः॑ सोम परिषि॒च्यमा᳚न॒ आ प॑वस्व पू॒यमा᳚नः स्व॒स्ति |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्}

इन्द्र॒मा वि॑श बृह॒ता रवे᳚ण व॒र्धया॒ वाचं᳚ ज॒नया॒ पुरं᳚धिम् ||{36/58}{7.4.18.1}{9.97.36}{9.6.1.36}{585, 820, 8593}

ए॒व¦नः॒¦सो॒म॒¦प॒रि॒ऽसि॒च्यमा᳚नः¦आ¦प॒व॒स्व॒¦पू॒यमा᳚नः¦स्व॒स्ति |
इन्द्र᳚‌म्¦आ¦वि॒श॒¦बृ॒ह॒ता¦रवे᳚ण¦व॒र्धय॑¦वाच᳚‌म्¦ज॒नय॑¦पुर᳚‌म्ऽधि‌म् ||

आ जागृ॑वि॒र्विप्र॑ ऋ॒ता म॑ती॒नां सोमः॑ पुना॒नो, अ॑सदच्च॒मूषु॑ |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्}

सप᳚न्ति॒ यं मि॑थु॒नासो॒ निका᳚मा, अध्व॒र्यवो᳚ रथि॒रासः॑ सु॒हस्ताः᳚ ||{37/58}{7.4.18.2}{9.97.37}{9.6.1.37}{586, 820, 8594}

आ¦जागृ॑विः¦विप्रः॑¦ऋ॒ता¦म॒ती॒ना‌म्¦सोमः॑¦पु॒ना॒नः¦अ॒स॒द॒त्¦च॒मूषु॑ |
सप᳚न्ति¦य‌म्¦मि॒थु॒नासः॑¦निऽका᳚माः¦अ॒ध्व॒र्यवः॑¦र॒थि॒रासः॑¦सु॒ऽहस्ताः᳚ ||

स पु॑ना॒न उप॒ सूरे॒ न धातोभे, अ॑प्रा॒ रोद॑सी॒ वि ष आ᳚वः |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्}

प्रि॒या चि॒द्यस्य॑ प्रिय॒सास॑ ऊ॒ती स तू धनं᳚ का॒रिणे॒ न प्र यं᳚सत् ||{38/58}{7.4.18.3}{9.97.38}{9.6.1.38}{587, 820, 8595}

सः¦पु॒ना॒नः¦उप॑¦सूरे᳚¦न¦धाता᳚¦आ¦उ॒भे इति॑¦अ॒प्राः॒¦रोद॑सी॒ इति॑¦वि¦सः¦आ॒व॒रित्या᳚वः |
प्रि॒या¦चि॒त्¦यस्य॑¦प्रि॒य॒सासः॑¦ऊ॒ती¦सः¦तु¦धन᳚‌म्¦का॒रिणे᳚¦न¦प्र¦यं॒स॒त् ||

स व॑र्धि॒ता वर्ध॑नः पू॒यमा᳚नः॒ सोमो᳚ मी॒ढ्वाँ, अ॒भि नो॒ ज्योति॑षावीत् |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्}

येना᳚ नः॒ पूर्वे᳚ पि॒तरः॑ पद॒ज्ञाः स्व॒र्विदो᳚, अ॒भि गा, अद्रि॑मु॒ष्णन् ||{39/58}{7.4.18.4}{9.97.39}{9.6.1.39}{588, 820, 8596}

सः¦व॒र्धि॒ता¦वर्ध॑नः¦पू॒यमा᳚नः¦सोमः॑¦मी॒ढ्वान्¦अ॒भि¦नः॒¦ज्योति॑षा¦आ॒वी॒त् |
येन॑¦नः॒¦पूर्वे᳚¦पि॒तरः॑¦प॒द॒ऽज्ञाः¦स्वः॒ऽविदः॑¦अ॒भि¦गाः¦अद्रि᳚‌म्¦उ॒ष्णन् ||

अक्रा᳚न्‌ त्समु॒द्रः प्र॑थ॒मे विध᳚र्मञ्ज॒नय᳚न्‌ प्र॒जा भुव॑नस्य॒ राजा᳚ |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्}

वृषा᳚ प॒वित्रे॒, अधि॒ सानो॒, अव्ये᳚ बृ॒हत्सोमो᳚ वावृधे सुवा॒न इन्दुः॑ ||{40/58}{7.4.18.5}{9.97.40}{9.6.1.40}{589, 820, 8597}

अक्रा᳚न्¦स॒मु॒द्रः¦प्र॒थ॒मे¦विऽध᳚र्मन्¦ज॒नय॑न्¦प्र॒ऽजाः¦भुव॑नस्य¦राजा᳚ |
वृषा᳚¦प॒वित्रे᳚¦अधि॑¦सानौ᳚¦अव्ये᳚¦बृ॒हत्¦सोमः॑¦व॒वृ॒धे॒¦सु॒वा॒नः¦इन्दुः॑ ||

म॒हत्तत्सोमो᳚ महि॒षश्च॑कारा॒पां यद्गर्भोऽवृ॑णीत दे॒वान् |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्}

अद॑धा॒दिन्द्रे॒ पव॑मान॒ ओजोऽज॑नय॒त्सूर्ये॒ ज्योति॒रिन्दुः॑ ||{41/58}{7.4.19.1}{9.97.41}{9.6.1.41}{590, 820, 8598}

म॒हत्¦तत्¦सोमः॑¦म॒हि॒षः¦च॒का॒र॒¦अ॒पा‌म्¦यत्¦गर्भः॑¦अवृ॑णीत¦दे॒वान् |
अद॑धात्¦इन्द्रे᳚¦पव॑मानः¦ओजः॑¦अज॑नयत्¦सूर्ये᳚¦ज्योतिः॑¦इन्दुः॑ ||

मत्सि॑ वा॒युमि॒ष्टये॒ राध॑से च॒ मत्सि॑ मि॒त्रावरु॑णा पू॒यमा᳚नः |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्}

मत्सि॒ शर्धो॒ मारु॑तं॒ मत्सि॑ दे॒वान्‌ मत्सि॒ द्यावा᳚पृथि॒वी दे᳚व सोम ||{42/58}{7.4.19.2}{9.97.42}{9.6.1.42}{591, 820, 8599}

मत्सि॑¦वा॒यु‌म्¦इ॒ष्टये᳚¦राध॑से¦च॒¦मत्सि॑¦मि॒त्रावरु॑णा¦पू॒यमा᳚नः |
मत्सि॑¦शर्धः॑¦मारु॑त‌म्¦मत्सि॑¦दे॒वान्¦मत्सि॑¦द्यावा᳚पृथि॒वी इति॑¦दे॒व॒¦सो॒म॒ ||

ऋ॒जुः प॑वस्व वृजि॒नस्य॑ ह॒न्तापामी᳚वां॒ बाध॑मानो॒ मृध॑श्च |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्}

अ॒भि॒श्री॒णन्‌ पयः॒ पय॑सा॒भि गोना॒मिन्द्र॑स्य॒ त्वं तव॑ व॒यं सखा᳚यः ||{43/58}{7.4.19.3}{9.97.43}{9.6.1.43}{592, 820, 8600}

ऋ॒जुः¦प॒व॒स्व॒¦वृ॒जि॒नस्य॑¦ह॒न्ता¦अप॑¦अमी᳚वा‌म्¦बाध॑मानः¦मृधः॑¦च॒ |
अ॒भि॒ऽश्री॒णन्¦पयः॑¦पय॑सा¦अ॒भि¦गोना᳚‌म्¦इन्द्र॑स्य¦त्व‌म्¦तव॑¦व॒य‌म्¦सखा᳚यः ||

मध्वः॒ सूदं᳚ पवस्व॒ वस्व॒ उत्सं᳚ वी॒रं च॑ न॒ आ प॑वस्वा॒ भगं᳚ च |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्}

स्वद॒स्वेन्द्रा᳚य॒ पव॑मान इन्दो र॒यिं च॑ न॒ आ प॑वस्वा समु॒द्रात् ||{44/58}{7.4.19.4}{9.97.44}{9.6.1.44}{593, 820, 8601}

मध्वः॑¦सूद᳚‌म्¦प॒व॒स्व॒¦वस्वः॑¦उत्स᳚‌म्¦वी॒र‌म्¦च॒¦नः॒¦आ¦प॒व॒स्व॒¦भग᳚‌म्¦च॒ |
स्वद॑स्व¦इन्द्रा᳚य¦पव॑मानः¦इ॒न्दो॒ इति॑¦र॒यि‌म्¦च॒¦नः॒¦आ¦प॒व॒स्व॒¦स॒मु॒द्रात् ||

सोमः॑ सु॒तो धार॒यात्यो॒ न हित्वा॒ सिन्धु॒र्न नि॒म्नम॒भि वा॒ज्य॑क्षाः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्}

आ योनिं॒ वन्य॑मसदत्पुना॒नः समिन्दु॒र्गोभि॑रसर॒त्सम॒द्भिः ||{45/58}{7.4.19.5}{9.97.45}{9.6.1.45}{594, 820, 8602}

सोमः॑¦सु॒तः¦धार॑या¦अत्यः॑¦न¦हित्वा᳚¦सिन्धुः॑¦न¦नि॒म्न‌म्¦अ॒भि¦वा॒जी¦अ॒क्षा॒रिति॑ |
आ¦योनि᳚‌म्¦वन्य᳚‌म्¦अ॒स॒द॒त्¦पु॒ना॒नः¦स‌म्¦इन्दुः॑¦गोभिः॑¦अ॒स॒र॒त्¦स‌म्¦अ॒त्ऽभिः ||

ए॒ष स्य ते᳚ पवत इन्द्र॒ सोम॑श्च॒मूषु॒ धीर॑ उश॒ते तव॑स्वान् |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्}

स्व॑र्चक्षा रथि॒रः स॒त्यशु॑ष्मः॒ कामो॒ न यो दे᳚वय॒तामस॑र्जि ||{46/58}{7.4.20.1}{9.97.46}{9.6.1.46}{595, 820, 8603}

ए॒षः¦स्यः¦ते॒¦प॒व॒ते॒¦इ॒न्द्र॒¦सोमः॑¦च॒मूषु॑¦धीरः॑¦उ॒श॒ते¦तव॑स्वान् |
स्वः॑ऽचक्षाः¦र॒थि॒रः¦स॒त्यऽशु॑ष्मः¦कामः॑¦न¦यः¦दे॒व॒ऽय॒ता‌म्¦अस॑र्जि ||

ए॒ष प्र॒त्नेन॒ वय॑सा पुना॒नस्ति॒रो वर्पां᳚सि दुहि॒तुर्दधा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्}

वसा᳚नः॒ शर्म॑ त्रि॒वरू᳚थम॒प्सु होते᳚व याति॒ सम॑नेषु॒ रेभ॑न् ||{47/58}{7.4.20.2}{9.97.47}{9.6.1.47}{596, 820, 8604}

ए॒षः¦प्र॒त्नेन॑¦वय॑सा¦पु॒ना॒नः¦ति॒रः¦वर्पां᳚सि¦दु॒हि॒तुः¦दधा᳚नः |
वसा᳚नः¦शर्म॑¦त्रि॒ऽवरू᳚थ‌म्¦अ॒प्ऽसु¦होता᳚ऽ‌इव¦या॒ति॒¦सम॑नेषु¦रेभ॑न् ||

नू न॒स्त्वं र॑थि॒रो दे᳚व सोम॒ परि॑ स्रव च॒म्वोः᳚ पू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्}

अ॒प्सु स्वादि॑ष्ठो॒ मधु॑माँ, ऋ॒तावा᳚ दे॒वो न यः स॑वि॒ता स॒त्यम᳚न्मा ||{48/58}{7.4.20.3}{9.97.48}{9.6.1.48}{597, 820, 8605}

नु¦नः॒¦त्व‌म्¦र॒थि॒रः¦दे॒व॒¦सो॒म॒¦परि॑¦स्र॒व॒¦च॒म्वोः᳚¦पू॒यमा᳚नः |
अ॒प्ऽसु¦स्वादि॑ष्ठः¦मधु॑ऽमान्¦ऋ॒तऽवा᳚¦दे॒वः¦न¦यः¦स॒वि॒ता¦स॒त्यऽम᳚न्मा ||

अ॒भि वा॒युं वी॒त्य॑र्षा गृणा॒नो॒३॑(ओ॒)ऽभि मि॒त्रावरु॑णा पू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्}

अ॒भी नरं᳚ धी॒जव॑नं रथे॒ष्ठाम॒भीन्द्रं॒ वृष॑णं॒ वज्र॑बाहुम् ||{49/58}{7.4.20.4}{9.97.49}{9.6.1.49}{598, 820, 8606}

अ॒भि¦वा॒यु‌म्¦वी॒ती¦अ॒र्ष॒¦गृ॒णा॒नः¦अ॒भि¦मि॒त्रावरु॑णा¦पू॒यमा᳚नः |
अ॒भि¦नर᳚‌म्¦धी॒ऽजव॑न‌म्¦र॒थे॒ऽस्था‌म्¦अ॒भि¦इन्द्र᳚‌म्¦वृष॑ण‌म्¦वज्र॑ऽबाहु‌म् ||

अ॒भि वस्त्रा᳚ सुवस॒नान्य॑र्षा॒भि धे॒नूः सु॒दुघाः᳚ पू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्}

अ॒भि च॒न्द्रा भर्त॑वे नो॒ हिर᳚ण्या॒भ्यश्वा᳚न्‌ र॒थिनो᳚ देव सोम ||{50/58}{7.4.20.5}{9.97.50}{9.6.1.50}{599, 820, 8607}

अ॒भि¦वस्त्रा᳚¦सु॒ऽव॒स॒नानि॑¦अ॒र्ष॒¦अ॒भि¦धे॒नूः¦सु॒ऽदुघाः᳚¦पू॒यमा᳚नः |
अ॒भि¦च॒न्द्रा¦भर्त॑वे¦नः॒¦हिर᳚ण्या¦अ॒भि¦अश्वा᳚न्¦र॒थिनः॑¦दे॒व॒¦सो॒म॒ ||

अ॒भी नो᳚, अर्ष दि॒व्या वसू᳚न्य॒भि विश्वा॒ पार्थि॑वा पू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्}

अ॒भि येन॒ द्रवि॑णम॒श्नवा᳚मा॒भ्या᳚र्षे॒यं ज॑मदग्नि॒वन्नः॑ ||{51/58}{7.4.21.1}{9.97.51}{9.6.1.51}{600, 820, 8608}

अ॒भि¦नः॒¦अ॒र्ष॒¦दि॒व्या¦वसू᳚नि¦अ॒भि¦विश्वा᳚¦पार्थि॑वा¦पू॒यमा᳚नः |
अ॒भि¦येन॑¦द्रवि॑ण‌म्¦अ॒श्नवा᳚म¦अ॒भि¦आ॒र्षे॒य‌म्¦ज॒म॒द॒ग्नि॒ऽवत्¦नः॒ ||

अ॒या प॒वा प॑वस्वै॒ना वसू᳚नि माँश्च॒त्व इ᳚न्दो॒ सर॑सि॒ प्र ध᳚न्व |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्}

ब्र॒ध्नश्चि॒दत्र॒ वातो॒ न जू॒तः पु॑रु॒मेध॑श्चि॒त्तक॑वे॒ नरं᳚ दात् ||{52/58}{7.4.21.2}{9.97.52}{9.6.1.52}{601, 820, 8609}

अ॒या¦प॒वा¦प॒व॒स्व॒¦ए॒ना¦वसू᳚नि¦माँ॒श्च॒त्वे¦इ॒न्दो॒ इति॑¦सर॑सि¦प्र¦ध॒न्व॒ |
ब्र॒ध्नः¦चि॒त्¦अत्र॑¦वातः॑¦न¦जू॒तः¦पु॒रु॒ऽमेधः॑¦चि॒त्¦तक॑वे¦नर᳚‌म्¦दा॒त् ||

उ॒त न॑ ए॒ना प॑व॒या प॑व॒स्वाधि॑ श्रु॒ते श्र॒वाय्य॑स्य ती॒र्थे |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्}

ष॒ष्टिं स॒हस्रा᳚ नैगु॒तो वसू᳚नि वृ॒क्षं न प॒क्वं धू᳚नव॒द्रणा᳚य ||{53/58}{7.4.21.3}{9.97.53}{9.6.1.53}{602, 820, 8610}

उ॒त¦नः॒¦ए॒ना¦प॒व॒या¦प॒व॒स्व॒¦अधि॑¦श्रु॒ते¦श्र॒वाय्य॑स्य¦ती॒र्थे |
ष॒ष्टि‌म्¦स॒हस्रा᳚¦नै॒गु॒तः¦वसू᳚नि¦वृ॒क्ष‌म्¦न¦प॒क्व‌म्¦धू॒न॒व॒त्¦रणा᳚य ||

मही॒मे, अ॑स्य॒ वृष॒नाम॑ शू॒षे माँश्च॑त्वे वा॒ पृश॑ने वा॒ वध॑त्रे |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्}

अस्वा᳚पयन्नि॒गुतः॑ स्ने॒हय॒च्चापा॒मित्राँ॒, अपा॒चितो᳚, अचे॒तः ||{54/58}{7.4.21.4}{9.97.54}{9.6.1.54}{603, 820, 8611}

महि॑¦इ॒मे इति॑¦अ॒स्य॒¦वृष॒नाम॑¦शू॒षे इति॑¦माँश्च॑त्वे¦वा॒¦पृश॑ने¦वा॒¦वध॑त्रे॒ इति॑ |
अस्वा᳚पयत्¦नि॒ऽगुतः॑¦स्ने॒हय॑त्¦च॒¦अप॑¦अ॒मित्रा᳚न्¦अप॑¦अ॒चितः॑¦अ॒च॒¦इ॒तः ||

सं त्री प॒वित्रा॒ वित॑तान्ये॒ष्यन्वेकं᳚ धावसि पू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्}

असि॒ भगो॒, असि॑ दा॒त्रस्य॑ दा॒तासि॑ म॒घवा᳚ म॒घव॑द्भ्य इन्दो ||{55/58}{7.4.21.5}{9.97.55}{9.6.1.55}{604, 820, 8612}

स‌म्¦त्री¦प॒वित्रा᳚¦विऽत॑तानि¦ए॒षि॒¦अनु॑¦एक᳚‌म्¦धा॒व॒सि॒¦पू॒यमा᳚नः |
असि॑¦भगः॑¦असि॑¦दा॒त्रस्य॑¦दा॒ता¦असि॑¦म॒घऽवा᳚¦म॒घव॑त्ऽभ्यः¦इ॒न्दो॒ इति॑ ||

ए॒ष वि॑श्व॒वित्प॑वते मनी॒षी सोमो॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा᳚ |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्}

द्र॒प्साँ, ई॒रय᳚न्‌ वि॒दथे॒ष्विन्दु॒र्वि वार॒मव्यं᳚ स॒मयाति॑ याति ||{56/58}{7.4.22.1}{9.97.56}{9.6.1.56}{605, 820, 8613}

ए॒षः¦वि॒श्व॒ऽवित्¦प॒व॒ते॒¦म॒नी॒षी¦सोमः॑¦विश्व॑स्य¦भुव॑नस्य¦राजा᳚ |
द्र॒प्सान्¦ई॒रय॑न्¦वि॒दथे᳚षु¦इन्दुः॑¦वि¦वार᳚‌म्¦अव्य᳚‌म्¦स॒मया᳚¦अति॑¦या॒ति॒ ||

इन्दुं᳚ रिहन्ति महि॒षा, अद॑ब्धाः प॒दे रे᳚भन्ति क॒वयो॒ न गृध्राः᳚ |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्}

हि॒न्वन्ति॒ धीरा᳚ द॒शभिः॒, क्षिपा᳚भिः॒ सम᳚ञ्जते रू॒पम॒पां रसे᳚न ||{57/58}{7.4.22.2}{9.97.57}{9.6.1.57}{606, 820, 8614}

इन्दु᳚‌म्¦रि॒ह॒न्ति॒¦म॒हि॒षाः¦अद॑ब्धाः¦प॒दे¦रे॒भ॒न्ति॒¦क॒वयः॑¦न¦गृध्राः᳚ |
हि॒न्वन्ति॑¦धीराः᳚¦द॒शऽभिः॑¦क्षिपा᳚भिः¦स‌म्¦अं॒ज॒ते॒¦रू॒प‌म्¦अ॒पा‌म्¦रसे᳚न ||

त्वया᳚ व॒यं पव॑मानेन सोम॒ भरे᳚ कृ॒तं वि चि॑नुयाम॒ शश्व॑त् |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्}

तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{58/58}{7.4.22.3}{9.97.58}{9.6.1.58}{607, 820, 8615}

त्वया᳚¦व॒य‌म्¦पव॑मानेन¦सो॒म॒¦भरे᳚¦कृ॒त‌म्¦वि¦चि॒नु॒या॒म॒¦शश्व॑त् |
तत्¦नः॒¦मि॒त्रः¦वरु॑णः¦म॒म॒ह॒न्ता॒‌म्¦अदि॑तिः¦सिन्धुः॑¦पृ॒थि॒वी¦उ॒त¦द्यौः ||

[55] अभिनइति द्वादशर्चस्य सूक्तस्यांबरीषऋजिश्वानौ पवमानसोमोनुष्टुबेकादशीबृहती |
अ॒भि नो᳚ वाज॒सात॑मं र॒यिम॑र्ष पुरु॒स्पृह᳚म् |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्}

इन्दो᳚ स॒हस्र॑भर्णसं तुविद्यु॒म्नं वि॑भ्वा॒सह᳚म् ||{1/12}{7.4.23.1}{9.98.1}{9.6.2.1}{608, 821, 8616}

अ॒भि¦नः॒¦वा॒ज॒ऽसात॑म‌म्¦र॒यि‌म्¦अ॒र्ष॒¦पु॒रु॒ऽस्पृह᳚‌म् | इन्दो॒ इति॑¦स॒हस्र॑ऽभर्णस‌म्¦तु॒वि॒ऽद्यु॒म्न‌म्¦वि॒भ्व॒ऽसह᳚‌म् ||

परि॒ ष्य सु॑वा॒नो, अ॒व्ययं॒ रथे॒ न वर्मा᳚व्यत |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्}

इन्दु॑र॒भि द्रुणा᳚ हि॒तो हि॑या॒नो धारा᳚भिरक्षाः ||{2/12}{7.4.23.2}{9.98.2}{9.6.2.2}{609, 821, 8617}

परि॑¦स्यः¦सु॒वा॒नः¦अ॒व्यय᳚‌म्¦रथे᳚¦न¦वर्म॑¦अ॒व्य॒त॒ | इन्दुः॑¦अ॒भि¦द्रुणा᳚¦हि॒तः¦हि॒या॒नः¦धारा᳚भिः¦अ॒क्षा॒रिति॑ ||

परि॒ ष्य सु॑वा॒नो, अ॑क्षा॒, इन्दु॒रव्ये॒ मद॑च्युतः |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्}

धारा॒ य ऊ॒र्ध्वो, अ॑ध्व॒रे भ्रा॒जा नैति॑ गव्य॒युः ||{3/12}{7.4.23.3}{9.98.3}{9.6.2.3}{610, 821, 8618}

परि॑¦स्यः¦सु॒वा॒नः¦अ॒क्षा॒रिति॑¦इन्दुः॑¦अव्ये᳚¦मद॑ऽच्युतः | धारा᳚¦यः¦ऊ॒र्ध्वः¦अ॒ध्व॒रे¦भ्रा॒जा¦न¦एति॑¦ग॒व्य॒ऽयुः ||

स हि त्वं दे᳚व॒ शश्व॑ते॒ वसु॒ मर्ता᳚य दा॒शुषे᳚ |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्}

इन्दो᳚ सह॒स्रिणं᳚ र॒यिं श॒तात्मा᳚नं विवाससि ||{4/12}{7.4.23.4}{9.98.4}{9.6.2.4}{611, 821, 8619}

सः¦हि¦त्व‌म्¦दे॒व॒¦शश्व॑ते¦वसु॑¦मर्ता᳚य¦दा॒शुषे᳚ | इन्दो॒ इति॑¦स॒ह॒स्रिण᳚‌म्¦र॒यि‌म्¦श॒तऽआ᳚त्मान‌म्¦वि॒वा॒स॒सि॒ ||

व॒यं ते᳚, अ॒स्य वृ॑त्रह॒न्वसो॒ वस्वः॑ पुरु॒स्पृहः॑ |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्}

नि नेदि॑ष्ठतमा, इ॒षः स्याम॑ सु॒म्नस्या᳚ध्रिगो ||{5/12}{7.4.23.5}{9.98.5}{9.6.2.5}{612, 821, 8620}

व॒य‌म्¦ते॒¦अ॒स्य¦वृ॒त्र॒ऽह॒न्¦वसो॒ इति॑¦वस्वः॑¦पु॒रु॒ऽस्पृहः॑ | नि¦नेदि॑ष्ठऽतमाः¦इ॒षः¦स्याम॑¦सु॒म्नस्य॑¦अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो ||

द्विर्यं पञ्च॒ स्वय॑शसं॒ स्वसा᳚रो॒, अद्रि॑संहतम् |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्}

प्रि॒यमिन्द्र॑स्य॒ काम्यं᳚ प्रस्ना॒पय᳚न्त्यू॒र्मिण᳚म् ||{6/12}{7.4.23.6}{9.98.6}{9.6.2.6}{613, 821, 8621}

द्विः¦य‌म्¦पंच॑¦स्वऽय॑शस‌म्¦स्वसा᳚रः¦अद्रि॑ऽसंहत‌म् | प्रि॒य‌म्¦इन्द्र॑स्य¦काम्य᳚‌म्¦प्र॒ऽस्ना॒पय᳚न्ति¦ऊ॒र्मिण᳚‌म् ||

परि॒ त्यं ह᳚र्य॒तं हरिं᳚ ब॒भ्रुं पु॑नन्ति॒ वारे᳚ण |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्}

यो दे॒वान्‌ विश्वाँ॒, इत्परि॒ मदे᳚न स॒ह गच्छ॑ति ||{7/12}{7.4.24.1}{9.98.7}{9.6.2.7}{614, 821, 8622}

परि॑¦त्य‌म्¦ह॒र्य॒त‌म्¦हरि᳚‌म्¦ब॒भ्रु‌म्¦पु॒न॒न्ति॒¦वारे᳚ण | यः¦दे॒वान्¦विश्वा᳚न्¦इत्¦परि॑¦मदे᳚न¦स॒ह¦गच्छ॑ति ||

अ॒स्य वो॒ ह्यव॑सा॒ पान्तो᳚ दक्ष॒साध॑नम् |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्}

यः सू॒रिषु॒ श्रवो᳚ बृ॒हद्द॒धे स्व१॑(अ॒)र्ण ह᳚र्य॒तः ||{8/12}{7.4.24.2}{9.98.8}{9.6.2.8}{615, 821, 8623}

अ॒स्य¦वः॒¦हि¦अव॑सा¦पान्तः॑¦द॒क्ष॒ऽसाध॑न‌म् | यः¦सू॒रिषु॑¦श्रवः॑¦बृ॒हत्¦द॒धे¦स्वः॑¦न¦ह॒र्य॒तः ||

स वां᳚ य॒ज्ञेषु॑ मानवी॒, इन्दु॑र्जनिष्ट रोदसी |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्}

दे॒वो दे᳚वी गिरि॒ष्ठा, अस्रे᳚ध॒न्तं तु॑वि॒ष्वणि॑ ||{9/12}{7.4.24.3}{9.98.9}{9.6.2.9}{616, 821, 8624}

सः¦वा॒‌म्¦य॒ज्ञेषु॑¦मा॒न॒वी॒ इति॑¦इन्दुः॑¦ज॒नि॒ष्ट॒¦रो॒द॒सी॒ इति॑ | दे॒वः¦दे॒वी॒ इति॑¦गि॒रि॒ऽस्थाः¦अस्रे᳚धन्¦त‌म्¦तु॒वि॒ऽस्वनि॑ ||

इन्द्रा᳚य सोम॒ पात॑वे वृत्र॒घ्ने परि॑ षिच्यसे |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्}

नरे᳚ च॒ दक्षि॑णावते दे॒वाय॑ सदना॒सदे᳚ ||{10/12}{7.4.24.4}{9.98.10}{9.6.2.10}{617, 821, 8625}

इन्द्रा᳚य¦सो॒म॒¦पात॑वे¦वृ॒त्र॒ऽघ्ने¦परि॑¦सि॒च्य॒से॒ | नरे᳚¦च॒¦दक्षि॑णाऽवते¦दे॒वाय॑¦स॒द॒न॒ऽसदे᳚ ||

ते प्र॒त्नासो॒ व्यु॑ष्टिषु॒ सोमाः᳚ प॒वित्रे᳚, अक्षरन् |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | बृहती}

अ॒प॒प्रोथ᳚न्तः सनु॒तर्हु॑र॒श्चितः॑ प्रा॒तस्ताँ, अप्र॑चेतसः ||{11/12}{7.4.24.5}{9.98.11}{9.6.2.11}{618, 821, 8626}

ते¦प्र॒त्नासः॑¦वि।औ᳚ष्टिषु¦सोमाः᳚¦प॒वित्रे᳚¦अ॒क्ष॒र॒न् |
अ॒प॒ऽप्रोथ᳚न्तः¦स॒नु॒तः¦हु॒रः॒ऽचितः॑¦प्रा॒तरिति॑¦तान्¦अप्र॑ऽचेतसः ||

तं स॑खायः पुरो॒रुचं᳚ यू॒यं व॒यं च॑ सू॒रयः॑ |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्}

अ॒श्याम॒ वाज॑गन्ध्यं स॒नेम॒ वाज॑पस्त्यम् ||{12/12}{7.4.24.6}{9.98.12}{9.6.2.12}{619, 821, 8627}

त‌म्¦स॒खा॒यः॒¦पु॒रः॒ऽरुच᳚‌म्¦यू॒य‌म्¦व॒य‌म्¦च॒¦सू॒रयः॑ | अ॒श्याम॑¦वाज॑ऽगन्ध्य‌म्¦स॒नेम॑¦वाज॑ऽपस्त्य‌म् ||

[56] आहर्यतायेत्यष्टर्चस्य सूक्तस्य काश्यपौ रेभसूनु पवमानसोमोनुष्ठुबाद्याबृहती |
आ ह᳚र्य॒ताय॑ धृ॒ष्णवे॒ धनु॑स्तन्वन्ति॒ पौंस्य᳚म् |{काश्यपौ रेभसूनु | पवमानः सोमः | बृहती}

शु॒क्रां व॑य॒न्त्यसु॑राय नि॒र्णिजं᳚ वि॒पामग्रे᳚ मही॒युवः॑ ||{1/8}{7.4.25.1}{9.99.1}{9.6.3.1}{620, 822, 8628}

आ¦ह॒र्य॒ताय॑¦धृ॒ष्णवे᳚¦धनुः॑¦त॒न्व॒न्ति॒¦पौंस्य᳚‌म् |
शु॒क्रा‌म्¦व॒य॒न्ति॒¦असु॑राय¦निः॒ऽनिज᳚‌म्¦वि॒पा‌म्¦अग्रे᳚¦म॒ही॒युवः॑ ||

अध॑ क्ष॒पा परि॑ष्कृतो॒ वाजाँ᳚, अ॒भि प्र गा᳚हते |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

यदी᳚ वि॒वस्व॑तो॒ धियो॒ हरिं᳚ हि॒न्वन्ति॒ यात॑वे ||{2/8}{7.4.25.2}{9.99.2}{9.6.3.2}{621, 822, 8629}

अध॑¦क्ष॒पा¦परि॑ऽकृतः¦वाजा᳚न्¦अ॒भि¦प्र¦गा॒ह॒ते॒ | यदि॑¦वि॒वस्व॑तः¦धियः॑¦हरि᳚‌म्¦हि॒न्वन्ति॑¦यात॑वे ||

तम॑स्य मर्जयामसि॒ मदो॒ य इ᳚न्द्र॒पात॑मः |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

यं गाव॑ आ॒सभि॑र्द॒धुः पु॒रा नू॒नं च॑ सू॒रयः॑ ||{3/8}{7.4.25.3}{9.99.3}{9.6.3.3}{622, 822, 8630}

त‌म्¦अ॒स्य॒¦म॒र्ज॒या॒म॒सि॒¦मदः॑¦यः¦इ॒न्द्र॒ऽपात॑मः | य‌म्¦गावः॑¦आ॒सऽभिः॑¦द॒धुः¦पु॒रा¦नू॒न‌म्¦च॒¦सू॒रयः॑ ||

तं गाथ॑या पुरा॒ण्या पु॑ना॒नम॒भ्य॑नूषत |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

उ॒तो कृ॑पन्त धी॒तयो᳚ दे॒वानां॒ नाम॒ बिभ्र॑तीः ||{4/8}{7.4.25.4}{9.99.4}{9.6.3.4}{623, 822, 8631}

त‌म्¦गाथ॑या¦पु॒रा॒ण्या¦पु॒ना॒न‌म्¦अ॒भि¦अ॒नू॒ष॒त॒ | उ॒तो इति॑¦कृ॒प॒न्त॒¦धी॒तयः॑¦दे॒वाना᳚‌म्¦नाम॑¦बिभ्र॑तीः ||

तमु॒क्षमा᳚णम॒व्यये॒ वारे᳚ पुनन्ति धर्ण॒सिम् |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

दू॒तं न पू॒र्वचि॑त्तय॒ आ शा᳚सते मनी॒षिणः॑ ||{5/8}{7.4.25.5}{9.99.5}{9.6.3.5}{624, 822, 8632}

त‌म्¦उ॒क्षमा᳚ण‌म्¦अ॒व्यये᳚¦वारे᳚¦पु॒न॒न्ति॒¦ध॒र्ण॒सि‌म् | दू॒त‌म्¦न¦पू॒र्वऽचि॑त्तये¦आ¦शा॒स॒ते॒¦म॒नी॒षिणः॑ ||

स पु॑ना॒नो म॒दिन्त॑मः॒ सोम॑श्च॒मूषु॑ सीदति |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

प॒शौ न रेत॑ आ॒दध॒त्पति᳚र्वचस्यते धि॒यः ||{6/8}{7.4.26.1}{9.99.6}{9.6.3.6}{625, 822, 8633}

सः¦पु॒ना॒नः¦म॒दिन्ऽत॑मः¦सोमः॑¦च॒मूषु॑¦सी॒द॒ति॒ | प॒शौ¦न¦रेतः॑¦आ॒ऽदध॑त्¦पतिः॑¦व॒च॒स्य॒ते॒¦धि॒यः ||

स मृ॑ज्यते सु॒कर्म॑भिर्दे॒वो दे॒वेभ्यः॑ सु॒तः |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

वि॒दे यदा᳚सु संद॒दिर्म॒हीर॒पो वि गा᳚हते ||{7/8}{7.4.26.2}{9.99.7}{9.6.3.7}{626, 822, 8634}

सः¦मृ॒ज्य॒ते॒¦सु॒कर्म॑ऽभिः¦दे॒वः¦दे॒वेभ्यः॑¦सु॒तः | वि॒दे¦यत्¦आ॒सु॒¦स॒‌म्ऽद॒दिः¦म॒हीः¦अ॒पः¦वि¦गा॒ह॒ते॒ ||

सु॒त इ᳚न्दो प॒वित्र॒ आ नृभि᳚र्य॒तो वि नी᳚यसे |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

इन्द्रा᳚य मत्स॒रिन्त॑मश्च॒मूष्वा नि षी᳚दसि ||{8/8}{7.4.26.3}{9.99.8}{9.6.3.8}{627, 822, 8635}

सु॒तः¦इ॒न्दो॒ इति॑¦प॒वित्रे᳚¦आ¦नृऽभिः॑¦य॒तः¦वि¦नी॒य॒से॒ | इन्द्रा᳚य¦म॒त्स॒रिन्ऽत॑मः¦च॒मूषु॑¦आ¦नि¦सी॒द॒सि॒ ||

[57] अभीनवंतइति नवर्चस्य सूक्तस्य काश्यपौ रेभसूनू पवमान सोमोनुष्टुप् |
अ॒भी न॑वन्ते, अ॒द्रुहः॑ प्रि॒यमिन्द्र॑स्य॒ काम्य᳚म् |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

व॒त्सं न पूर्व॒ आयु॑नि जा॒तं रि॑हन्ति मा॒तरः॑ ||{1/9}{7.4.27.1}{9.100.1}{9.6.4.1}{628, 823, 8636}

अ॒भि¦न॒व॒न्ते॒¦अ॒द्रुहः॑¦प्रि॒य‌म्¦इन्द्र॑स्य¦काम्य᳚‌म् | व॒त्स‌म्¦न¦पूर्वे᳚¦आयु॑नि¦जा॒त‌म्¦रि॒ह॒न्ति॒¦मा॒तरः॑ ||

पु॒ना॒न इ᳚न्द॒वा भ॑र॒ सोम॑ द्वि॒बर्ह॑सं र॒यिम् |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

त्वं वसू᳚नि पुष्यसि॒ विश्वा᳚नि दा॒शुषो᳚ गृ॒हे ||{2/9}{7.4.27.2}{9.100.2}{9.6.4.2}{629, 823, 8637}

पु॒ना॒नः¦इ॒न्दो॒ इति॑¦आ¦भ॒र॒¦सोम॑¦द्वि॒ऽबर्ह॑स‌म्¦र॒यि‌म् | त्व‌म्¦वसू᳚नि¦पु॒ष्य॒सि॒¦विश्वा᳚नि¦दा॒शुषः॑¦गृ॒हे ||

त्वं धियं᳚ मनो॒युजं᳚ सृ॒जा वृ॒ष्टिं न त᳚न्य॒तुः |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

त्वं वसू᳚नि॒ पार्थि॑वा दि॒व्या च॑ सोम पुष्यसि ||{3/9}{7.4.27.3}{9.100.3}{9.6.4.3}{630, 823, 8638}

त्व‌म्¦धिय᳚‌म्¦म॒नः॒ऽयुज᳚‌म्¦सृ॒ज¦वृ॒ष्टि‌म्¦न¦त॒न्य॒तुः | त्व‌म्¦वसू᳚नि¦पार्थि॑वा¦दि॒व्या¦च॒¦सो॒म॒¦पु॒ष्य॒सि॒ ||

परि॑ ते जि॒ग्युषो᳚ यथा॒ धारा᳚ सु॒तस्य॑ धावति |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

रंह॑माणा॒ व्य१॑(अ॒)व्ययं॒ वारं᳚ वा॒जीव॑ सान॒सिः ||{4/9}{7.4.27.4}{9.100.4}{9.6.4.4}{631, 823, 8639}

परि॑¦ते॒¦जि॒ग्युषः॑¦य॒था॒¦धारा᳚¦सु॒तस्य॑¦धा॒व॒ति॒ | रंह॑माणा¦वि¦अ॒व्यय᳚‌म्¦वार᳚‌म्¦वा॒जीऽ‌इ᳚व¦सा॒न॒सिः ||

क्रत्वे॒ दक्षा᳚य नः कवे॒ पव॑स्व सोम॒ धार॑या |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

इन्द्रा᳚य॒ पात॑वे सु॒तो मि॒त्राय॒ वरु॑णाय च ||{5/9}{7.4.27.5}{9.100.5}{9.6.4.5}{632, 823, 8640}

क्रत्वे᳚¦दक्षा᳚य¦नः॒¦क॒वे॒¦पव॑स्व¦सो॒म॒¦धार॑या | इन्द्रा᳚य¦पात॑वे¦सु॒तः¦मि॒त्राय॑¦वरु॑णाय¦च॒ ||

पव॑स्व वाज॒सात॑मः प॒वित्रे॒ धार॑या सु॒तः |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

इन्द्रा᳚य सोम॒ विष्ण॑वे दे॒वेभ्यो॒ मधु॑मत्तमः ||{6/9}{7.4.28.1}{9.100.6}{9.6.4.6}{633, 823, 8641}

पव॑स्व¦वा॒ज॒ऽसात॑मः¦प॒वित्रे᳚¦धार॑या¦सु॒तः | इन्द्रा᳚य¦सो॒म॒¦विष्ण॑वे¦दे॒वेभ्यः॑¦मधु॑मत्ऽतमः ||

त्वां रि॑हन्ति मा॒तरो॒ हरिं᳚ प॒वित्रे᳚, अ॒द्रुहः॑ |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

व॒त्सं जा॒तं न धे॒नवः॒ पव॑मान॒ विध᳚र्मणि ||{7/9}{7.4.28.2}{9.100.7}{9.6.4.7}{634, 823, 8642}

त्वा‌म्¦रि॒ह॒न्ति॒¦मा॒तरः॑¦हरि᳚‌म्¦प॒वित्रे᳚¦अ॒द्रुहः॑ | व॒त्स‌म्¦जा॒त‌म्¦न¦धे॒नवः॑¦पव॑मान¦विऽध᳚र्मणि ||

पव॑मान॒ महि॒ श्रव॑श्चि॒त्रेभि᳚र्यासि र॒श्मिभिः॑ |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

शर्ध॒न्तमां᳚सि जिघ्नसे॒ विश्वा᳚नि दा॒शुषो᳚ गृ॒हे ||{8/9}{7.4.28.3}{9.100.8}{9.6.4.8}{635, 823, 8643}

पव॑मान¦महि॑¦श्रवः॑¦चि॒त्रेभिः॑¦या॒सि॒¦र॒श्मिऽभिः॑ | शर्ध॑न्¦तमां᳚सि¦जि॒घ्न॒से॒¦विश्वा᳚नि¦दा॒शुषः॑¦गृ॒हे ||

त्वं द्यां च॑ महिव्रत पृथि॒वीं चाति॑ जभ्रिषे |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

प्रति॑ द्रा॒पिम॑मुञ्चथाः॒ पव॑मान महित्व॒ना ||{9/9}{7.4.28.4}{9.100.9}{9.6.4.9}{636, 823, 8644}

त्व‌म्¦द्या‌म्¦च॒¦म॒हि॒ऽव्र॒त॒¦पृ॒थि॒वी‌म्¦च॒¦अति॑¦ज॒भ्रि॒षे॒ | प्रति॑¦द्रा॒पि‌म्¦अ॒मुं॒च॒थाः॒¦पव॑मान¦म॒हि॒ऽत्व॒ना ||

[58] पुरोजितीति षोळशर्चस्य सूक्तस्याद्यानांतिसृणांश्यावाश्विरंधीगुः चतुर्थ्यादितिसृणांनाहुषोययातिः सप्तम्यादितिसृणांमानवोनहुषः दशम्यादितिसृणांसांवरणोमनुः त्रयोदश्यादिचतसृणां वैश्वामित्रः प्रजापतिः पवमान सोमोनुष्टुप् द्वितीयातृतीये गायत्र्यौ |
पु॒रोजि॑ती वो॒, अन्ध॑सः सु॒ताय॑ मादयि॒त्नवे᳚ |{श्यावाश्विरंधीगुः | पवमानः सोमः | अनुष्टुप्}

अप॒ श्वानं᳚ श्नथिष्टन॒ सखा᳚यो दीर्घजि॒ह्व्य᳚म् ||{1/16}{7.5.1.1}{9.101.1}{9.6.5.1}{637, 824, 8645}

पु॒रःऽजि॑ती¦वः॒¦अन्ध॑सः¦सु॒ताय॑¦मा॒द॒यि॒त्नवे᳚ | अप॑¦श्वान᳚‌म्¦श्न॒थि॒ष्ट॒न॒¦सखा᳚यः¦दी॒र्घ॒ऽजि॒ह्व्य᳚‌म् ||

यो धार॑या पाव॒कया᳚ परिप्र॒स्यन्द॑ते सु॒तः |{श्यावाश्विरंधीगुः | पवमानः सोमः | गायत्री}

इन्दु॒रश्वो॒ न कृत्व्यः॑ ||{2/16}{7.5.1.2}{9.101.2}{9.6.5.2}{638, 824, 8646}

यः¦धार॑या¦पा॒व॒कया᳚¦प॒रि॒ऽप्र॒स्यन्द॑ते¦सु॒तः | इन्दुः॑¦अश्वः॑¦न¦कृत्व्यः॑ ||

तं दु॒रोष॑म॒भी नरः॒ सोमं᳚ वि॒श्वाच्या᳚ धि॒या |{श्यावाश्विरंधीगुः | पवमानः सोमः | गायत्री}

य॒ज्ञं हि᳚न्व॒न्त्यद्रि॑भिः ||{3/16}{7.5.1.3}{9.101.3}{9.6.5.3}{639, 824, 8647}

त‌म्¦दु॒रोष᳚‌म्¦अ॒भि¦नरः॑¦सोम᳚‌म्¦वि॒श्वाच्या᳚¦धि॒या | य॒ज्ञ‌म्¦हि॒न्व॒न्ति॒¦अद्रि॑ऽभिः ||

सु॒तासो॒ मधु॑मत्तमाः॒ सोमा॒, इन्द्रा᳚य म॒न्दिनः॑ |{नाहुषो ययातिः | पवमानः सोमः | अनुष्टुप्}

प॒वित्र॑वन्तो, अक्षरन्दे॒वान्‌ ग॑च्छन्तु वो॒ मदाः᳚ ||{4/16}{7.5.1.4}{9.101.4}{9.6.5.4}{640, 824, 8648}

सु॒तासः॑¦मधु॑मत्ऽतमाः¦सोमाः᳚¦इन्द्रा᳚य¦म॒न्दिनः॑ | प॒वित्र॑ऽवन्तः¦अ॒क्ष॒र॒न्¦दे॒वान्¦ग॒च्छ॒न्तु॒¦वः॒¦मदाः᳚ ||

इन्दु॒रिन्द्रा᳚य पवत॒ इति॑ दे॒वासो᳚, अब्रुवन् |{नाहुषो ययातिः | पवमानः सोमः | अनुष्टुप्}

वा॒चस्पति᳚र्मखस्यते॒ विश्व॒स्येशा᳚न॒ ओज॑सा ||{5/16}{7.5.1.5}{9.101.5}{9.6.5.5}{641, 824, 8649}

इन्दुः॑¦इन्द्रा᳚य¦प॒व॒ते॒¦इति॑¦दे॒वासः॑¦अ॒ब्रु॒व॒न् | वा॒चः¦पतिः॑¦म॒ख॒स्य॒ते॒¦विश्व॑स्य¦ईशा᳚नः¦ओज॑सा ||

स॒हस्र॑धारः पवते समु॒द्रो वा᳚चमीङ्ख॒यः |{नाहुषो ययातिः | पवमानः सोमः | अनुष्टुप्}

सोमः॒ पती᳚ रयी॒णां सखेन्द्र॑स्य दि॒वेदि॑वे ||{6/16}{7.5.2.1}{9.101.6}{9.6.5.6}{642, 824, 8650}

स॒हस्र॑ऽधारः¦प॒व॒ते॒¦स॒मु॒द्रः¦वा॒च॒‌म्ऽई॒ङ्ख॒यः | सोमः॑¦पतिः॑¦र॒यी॒णा‌म्¦सखा᳚¦इन्द्र॑स्य¦दि॒वेऽदि॑वे ||

अ॒यं पू॒षा र॒यिर्भगः॒ सोमः॑ पुना॒नो, अ॑र्षति |{नहुषो मानवः | पवमानः सोमः | अनुष्टुप्}

पति॒र्विश्व॑स्य॒ भूम॑नो॒ व्य॑ख्य॒द्रोद॑सी, उ॒भे ||{7/16}{7.5.2.2}{9.101.7}{9.6.5.7}{643, 824, 8651}

अ॒य‌म्¦पू॒षा¦र॒यिः¦भगः॑¦सोमः॑¦पु॒ना॒नः¦अ॒र्ष॒ति॒ | पतिः॑¦विश्व॑स्य¦भूम॑नः¦वि¦अ॒ख्य॒त्¦रोद॑सी॒ इति॑¦उ॒भे इति॑ ||

समु॑ प्रि॒या, अ॑नूषत॒ गावो॒ मदा᳚य॒ घृष्व॑यः |{नहुषो मानवः | पवमानः सोमः | अनुष्टुप्}

सोमा᳚सः कृण्वते प॒थः पव॑मानास॒ इन्द॑वः ||{8/16}{7.5.2.3}{9.101.8}{9.6.5.8}{644, 824, 8652}

स‌म्¦ऊँ॒ इति॑¦प्रि॒याः¦अ॒नू॒ष॒त॒¦गावः॑¦मदा᳚य¦घृष्व॑यः | सोमा᳚सः¦कृ॒ण्व॒ते॒¦प॒थः¦पव॑मानासः¦इन्द॑वः ||

य ओजि॑ष्ठ॒स्तमा भ॑र॒ पव॑मान श्र॒वाय्य᳚म् |{नहुषो मानवः | पवमानः सोमः | अनुष्टुप्}

यः पञ्च॑ चर्ष॒णीर॒भि र॒यिं येन॒ वना᳚महै ||{9/16}{7.5.2.4}{9.101.9}{9.6.5.9}{645, 824, 8653}

यः¦ओजि॑ष्ठः¦त‌म्¦आ¦भ॒र॒¦पव॑मान¦श्र॒वाय्य᳚‌म् | यः¦पंच॑¦च॒र्ष॒णीः¦अ॒भि¦र॒यि‌म्¦येन॑¦वना᳚महै ||

सोमाः᳚ पवन्त॒ इन्द॑वो॒ऽस्मभ्यं᳚ गातु॒वित्त॑माः |{सांवरणो मनुः | पवमानः सोमः | अनुष्टुप्}

मि॒त्राः सु॑वा॒ना, अ॑रे॒पसः॑ स्वा॒ध्यः॑ स्व॒र्विदः॑ ||{10/16}{7.5.2.5}{9.101.10}{9.6.5.10}{646, 824, 8654}

सोमाः᳚¦प॒व॒न्ते॒¦इन्द॑वः¦अ॒स्मभ्य᳚‌म्¦गा॒तु॒वित्ऽत॑माः | मि॒त्राः¦सु॒वा॒नाः¦अ॒रे॒पसः॑¦सु॒ऽआ॒ध्यः॑¦स्वः॒ऽविदः॑ ||

सु॒ष्वा॒णासो॒ व्यद्रि॑भि॒श्चिता᳚ना॒ गोरधि॑ त्व॒चि |{सांवरणो मनुः | पवमानः सोमः | अनुष्टुप्}

इष॑म॒स्मभ्य॑म॒भितः॒ सम॑स्वरन्वसु॒विदः॑ ||{11/16}{7.5.3.1}{9.101.11}{9.6.5.11}{647, 824, 8655}

सु॒स्वा॒णासः॑¦वि¦अद्रि॑ऽभिः¦चिता᳚नाः¦गोः¦अधि॑¦त्व॒चि | इष᳚‌म्¦अ॒स्मभ्य᳚‌म्¦अ॒भितः॑¦स‌म्¦अ॒स्व॒र॒न्¦व॒सु॒ऽविदः॑ ||

ए॒ते पू॒ता वि॑प॒श्चितः॒ सोमा᳚सो॒ दध्या᳚शिरः |{सांवरणो मनुः | पवमानः सोमः | अनुष्टुप्}

सूर्या᳚सो॒ न द॑र्श॒तासो᳚ जिग॒त्नवो᳚ ध्रु॒वा घृ॒ते ||{12/16}{7.5.3.2}{9.101.12}{9.6.5.12}{648, 824, 8656}

ए॒ते¦पू॒ताः¦वि॒पः॒ऽचितः॑¦सोमा᳚सः¦दधि॑ऽआशिरः | सूर्या᳚सः¦न¦द॒र्श॒तासः॑¦जि॒ग॒त्नवः॑¦ध्रु॒वाः¦घृ॒ते ||

प्र सु᳚न्वा॒नस्यान्ध॑सो॒ मर्तो॒ न वृ॑त॒ तद्वचः॑ |{वैश्वामित्रो प्रजापतिः | पवमानः सोमः | अनुष्टुप्}

अप॒ श्वान॑मरा॒धसं᳚ ह॒ता म॒खं न भृग॑वः ||{13/16}{7.5.3.3}{9.101.13}{9.6.5.13}{649, 824, 8657}

प्र¦सु॒न्वा॒नस्य॑¦अन्ध॑सः¦मर्तः॑¦न¦वृ॒त॒¦तत्¦वचः॑ | अप॑¦श्वान᳚‌म्¦अ॒रा॒धस᳚‌म्¦ह॒त¦म॒ख‌म्¦न¦भृग॑वः ||

आ जा॒मिरत्के᳚, अव्यत भु॒जे न पु॒त्र ओ॒ण्योः᳚ |{वैश्वामित्रो प्रजापतिः | पवमानः सोमः | अनुष्टुप्}

सर॑ज्जा॒रो न योष॑णां व॒रो न योनि॑मा॒सद᳚म् ||{14/16}{7.5.3.4}{9.101.14}{9.6.5.14}{650, 824, 8658}

आ¦जा॒मिः¦अत्के᳚¦अ॒व्य॒त॒¦भु॒जे¦न¦पु॒त्रः¦ओ॒ण्योः᳚ | सर॑त्¦जा॒रः¦न¦योष॑णा‌म्¦व॒रः¦न¦योनि᳚‌म्¦आ॒ऽसद᳚‌म् ||

स वी॒रो द॑क्ष॒साध॑नो॒ वि यस्त॒स्तम्भ॒ रोद॑सी |{वैश्वामित्रो प्रजापतिः | पवमानः सोमः | अनुष्टुप्}

हरिः॑ प॒वित्रे᳚, अव्यत वे॒धा न योनि॑मा॒सद᳚म् ||{15/16}{7.5.3.5}{9.101.15}{9.6.5.15}{651, 824, 8659}

सः¦वी॒रः¦द॒क्ष॒ऽसाध॑नः¦वि¦यः¦त॒स्तम्भ॑¦रोद॑सी॒ इति॑ | हरिः॑¦प॒वित्रे᳚¦अ॒व्य॒त॒¦वे॒धाः¦न¦योनि᳚‌म्¦आ॒ऽसद᳚‌म् ||

अव्यो॒ वारे᳚भिः पवते॒ सोमो॒ गव्ये॒, अधि॑ त्व॒चि |{वैश्वामित्रो प्रजापतिः | पवमानः सोमः | अनुष्टुप्}

कनि॑क्रद॒द्वृषा॒ हरि॒रिन्द्र॑स्या॒भ्ये᳚ति निष्कृ॒तम् ||{16/16}{7.5.3.6}{9.101.16}{9.6.5.16}{652, 824, 8660}

अव्यः॑¦वारे᳚भिः¦प॒व॒ते॒¦सोमः॑¦गव्ये᳚¦अधि॑¦त्व॒चि | कनि॑क्रदत्¦वृषा᳚¦हरिः॑¦इन्द्र॑स्य¦अ॒भि¦ए॒ति॒¦निः॒ऽकृ॒त‌म् ||

[59] क्राणाशिशुरित्यष्टर्चस्य सूक्तस्याप्त्यस्त्रितः पवमानसोमउष्णिक् |
क्रा॒णा शिशु᳚र्म॒हीनां᳚ हि॒न्वन्नृ॒तस्य॒ दीधि॑तिम् |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्}

विश्वा॒ परि॑ प्रि॒या भु॑व॒दध॑ द्वि॒ता ||{1/8}{7.5.4.1}{9.102.1}{9.6.6.1}{653, 825, 8661}

क्रा॒णा¦शिशुः॑¦म॒हीना᳚‌म्¦हि॒न्वन्¦ऋ॒तस्य॑¦दीधि॑ति‌म् | विश्वा᳚¦परि॑¦प्रि॒या¦भु॒व॒त्¦अध॑¦द्वि॒ता ||

उप॑ त्रि॒तस्य॑ पा॒ष्यो॒३॑(ओ॒)रभ॑क्त॒ यद्गुहा᳚ प॒दम् |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्}

य॒ज्ञस्य॑ स॒प्त धाम॑भि॒रध॑ प्रि॒यम् ||{2/8}{7.5.4.2}{9.102.2}{9.6.6.2}{654, 825, 8662}

उप॑¦त्रि॒तस्य॑¦पा॒ष्योः᳚¦अभ॑क्त¦यत्¦गुहा᳚¦प॒द‌म् | य॒ज्ञस्य॑¦स॒प्त¦धाम॑ऽभिः¦अध॑¦प्रि॒य‌म् ||

त्रीणि॑ त्रि॒तस्य॒ धार॑या पृ॒ष्ठेष्वेर॑या र॒यिम् |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्}

मिमी᳚ते, अस्य॒ योज॑ना॒ वि सु॒क्रतुः॑ ||{3/8}{7.5.4.3}{9.102.3}{9.6.6.3}{655, 825, 8663}

त्रीणि॑¦त्रि॒तस्य॑¦धार॑या¦पृ॒ष्ठेषु॑¦आ¦ई॒र॒य॒¦र॒यि‌म् | मिमी᳚ते¦अ॒स्य॒¦योज॑ना¦वि¦सु॒ऽक्रतुः॑ ||

ज॒ज्ञा॒नं स॒प्त मा॒तरो᳚ वे॒धाम॑शासत श्रि॒ये |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्}

अ॒यं ध्रु॒वो र॑यी॒णां चिके᳚त॒ यत् ||{4/8}{7.5.4.4}{9.102.4}{9.6.6.4}{656, 825, 8664}

ज॒ज्ञा॒न‌म्¦स॒प्त¦मा॒तरः॑¦वे॒धा‌म्¦अ॒शा॒स॒त॒¦श्रि॒ये | अ॒य‌म्¦ध्रु॒वः¦र॒यी॒णा‌म्¦चिके᳚त¦यत् ||

अ॒स्य व्र॒ते स॒जोष॑सो॒ विश्वे᳚ दे॒वासो᳚, अ॒द्रुहः॑ |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्}

स्पा॒र्हा भ॑वन्ति॒ रन्त॑यो जु॒षन्त॒ यत् ||{5/8}{7.5.4.5}{9.102.5}{9.6.6.5}{657, 825, 8665}

अ॒स्य¦व्र॒ते¦स॒ऽजोष॑सः¦विश्वे᳚¦दे॒वासः॑¦अ॒द्रुहः॑ | स्पा॒र्हाः¦भ॒व॒न्ति॒¦रन्त॑यः¦जु॒षन्त॑¦यत् ||

यमी॒ गर्भ॑मृता॒वृधो᳚ दृ॒शे चारु॒मजी᳚जनन् |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्}

क॒विं मंहि॑ष्ठमध्व॒रे पु॑रु॒स्पृह᳚म् ||{6/8}{7.5.5.1}{9.102.6}{9.6.6.6}{658, 825, 8666}

य‌म्¦ई॒मिति॑¦गर्भ᳚‌म्¦ऋ॒त॒ऽवृधः॑¦दृ॒शे¦चारु᳚‌म्¦अजी᳚जनन् | क॒वि‌म्¦मंहि॑ष्ठ‌म्¦अ॒ध्व॒रे¦पु॒रु॒ऽस्पृह᳚‌म् ||

स॒मी॒ची॒ने, अ॒भि त्मना᳚ य॒ह्वी, ऋ॒तस्य॑ मा॒तरा᳚ |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्}

त॒न्वा॒ना य॒ज्ञमा᳚नु॒षग्यद᳚ञ्ज॒ते ||{7/8}{7.5.5.2}{9.102.7}{9.6.6.7}{659, 825, 8667}

स॒मी॒ची॒ने इति॑ स॒‌म्ऽई॒ची॒ने¦अ॒भि¦त्मना᳚¦य॒ह्वी इति॑¦ऋ॒तस्य॑¦मा॒तरा᳚ | त॒न्वा॒नाः¦य॒ज्ञ‌म्¦आ॒नु॒षक्¦यत्¦अं॒ज॒ते ||

क्रत्वा᳚ शु॒क्रेभि॑र॒क्षभि᳚रृ॒णोरप᳚ व्र॒जं दि॒वः |{आप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्}

हि॒न्वन्नृ॒तस्य॒ दीधि॑तिं॒ प्राध्व॒रे ||{8/8}{7.5.5.3}{9.102.8}{9.6.6.8}{660, 825, 8668}

क्रत्वा᳚¦शु॒क्रेभिः॑¦अ॒क्षऽभिः॑¦ऋ॒णोः¦अप॑¦व्र॒ज‌म्¦दि॒वः | हि॒न्वन्¦ऋ॒तस्य॑¦दीदि॑ति‌म्¦प्र¦अ॒ध्व॒रे ||

[60] प्रपुनानायेति षडृचस्य सूक्तस्याप्त्योद्वितः पवमानसोमउष्णिक् |
प्र पु॑ना॒नाय॑ वे॒धसे॒ सोमा᳚य॒ वच॒ उद्य॑तम् |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्}

भृ॒तिं न भ॑रा म॒तिभि॒र्जुजो᳚षते ||{1/6}{7.5.6.1}{9.103.1}{9.6.7.1}{661, 826, 8669}

प्र¦पु॒ना॒नाय॑¦वे॒धसे᳚¦सोमा᳚य¦वचः॑¦उत्ऽय॑त‌म् | भृ॒ति‌म्¦न¦भ॒र॒¦म॒तिऽभिः॑¦जुजो᳚षते ||

परि॒ वारा᳚ण्य॒व्यया॒ गोभि॑रञ्जा॒नो, अ॑र्षति |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्}

त्री ष॒धस्था᳚ पुना॒नः कृ॑णुते॒ हरिः॑ ||{2/6}{7.5.6.2}{9.103.2}{9.6.7.2}{662, 826, 8670}

परि॑¦वारा᳚णि¦अ॒व्यया᳚¦गोभिः॑¦अं॒जा॒नः¦अ॒र्ष॒ति॒ | त्री¦स॒धऽस्था᳚¦पु॒ना॒नः¦कृ॒णु॒ते॒¦हरिः॑ ||

परि॒ कोशं᳚ मधु॒श्चुत॑म॒व्यये॒ वारे᳚, अर्षति |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्}

अ॒भि वाणी॒रृषी᳚णां स॒प्त नू᳚षत ||{3/6}{7.5.6.3}{9.103.3}{9.6.7.3}{663, 826, 8671}

परि॑¦कोश᳚‌म्¦म॒धु॒ऽश्चुत᳚‌म्¦अ॒व्यये᳚¦वारे᳚¦अ॒र्ष॒ति॒ | अ॒भि¦वाणीः᳚¦ऋषी᳚णा‌म्¦स॒प्त¦नू॒ष॒त॒ ||

परि॑ णे॒ता म॑ती॒नां वि॒श्वदे᳚वो॒, अदा᳚भ्यः |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्}

सोमः॑ पुना॒नश्च॒म्वो᳚र्विश॒द्धरिः॑ ||{4/6}{7.5.6.4}{9.103.4}{9.6.7.4}{664, 826, 8672}

परि॑¦ने॒ता¦म॒ती॒ना‌म्¦वि॒श्वऽदे᳚वः¦अदा᳚भ्यः | सोमः॑¦पु॒ना॒नः¦च॒म्वोः᳚¦वि॒श॒त्¦हरिः॑ ||

परि॒ दैवी॒रनु॑ स्व॒धा, इन्द्रे᳚ण याहि स॒रथ᳚म् |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्}

पु॒ना॒नो वा॒घद्वा॒घद्भि॒रम॑र्त्यः ||{5/6}{7.5.6.5}{9.103.5}{9.6.7.5}{665, 826, 8673}

परि॑¦दैवीः᳚¦अनु॑¦स्व॒धाः¦इन्द्रे᳚ण¦या॒हि॒¦स॒ऽरथ᳚‌म् | पु॒ना॒नः¦वा॒घत्¦वा॒घत्ऽभिः॑¦अम॑र्त्यः ||

परि॒ सप्ति॒र्न वा᳚ज॒युर्दे॒वो दे॒वेभ्यः॑ सु॒तः |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्}

व्या॒न॒शिः पव॑मानो॒ वि धा᳚वति ||{6/6}{7.5.6.6}{9.103.6}{9.6.7.6}{666, 826, 8674}

परि॑¦सप्तिः॑¦न¦वा॒ज॒ऽयुः¦दे॒वः¦दे॒वेभ्यः॑¦सु॒तः | वि॒ऽआ॒न॒शिः¦पव॑मानः¦वि¦धा॒व॒ति॒ ||

[61] सखायइति षडृचस्य सूक्तस्य काश्यपौपर्वतनारदौ पवमान सोमउष्णिक् (शिखंडिन्यावप्सरसौऋषिकेत्रपाक्षिकं किंचपर्वतनारदौकाण्वावपि) |
सखा᳚य॒ आ नि षी᳚दत पुना॒नाय॒ प्र गा᳚यत |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्}

शिशुं॒ न य॒ज्ञैः परि॑ भूषत श्रि॒ये ||{1/6}{7.5.7.1}{9.104.1}{9.7.1.1}{667, 827, 8675}

सखा᳚यः¦आ¦नि¦सी॒द॒त॒¦पु॒ना॒नाय॑¦प्र¦गा॒य॒त॒ | शिशु᳚‌म्¦न¦य॒ज्ञैः¦परि॑¦भू॒ष॒त॒¦श्रि॒ये ||

समी᳚ व॒त्सं न मा॒तृभिः॑ सृ॒जता᳚ गय॒साध॑नम् |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्}

दे॒वा॒व्य१॑(अं॒) मद॑म॒भि द्विश॑वसम् ||{2/6}{7.5.7.2}{9.104.2}{9.7.1.2}{668, 827, 8676}

स‌म्¦ई॒मिति॑¦व॒त्स‌म्¦न¦मा॒तृऽभिः॑¦सृ॒जत॑¦ग॒य॒ऽसाध॑न‌म् | दे॒व॒।आ॒व्य᳚‌म्¦मद᳚‌म्¦अ॒भि¦द्विऽश॑वस‌म् ||

पु॒नाता᳚ दक्ष॒साध॑नं॒ यथा॒ शर्धा᳚य वी॒तये᳚ |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्}

यथा᳚ मि॒त्राय॒ वरु॑णाय॒ शंत॑मः ||{3/6}{7.5.7.3}{9.104.3}{9.7.1.3}{669, 827, 8677}

पु॒नात॑¦द॒क्ष॒ऽसाध॑न‌म्¦यथा᳚¦शर्धा᳚य¦वी॒तये᳚ | यथा᳚¦मि॒त्राय॑¦वरु॑णाय¦श‌म्ऽत॑मः ||

अ॒स्मभ्यं᳚ त्वा वसु॒विद॑म॒भि वाणी᳚रनूषत |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्}

गोभि॑ष्टे॒ वर्ण॑म॒भि वा᳚सयामसि ||{4/6}{7.5.7.4}{9.104.4}{9.7.1.4}{670, 827, 8678}

अ॒स्मभ्य᳚‌म्¦त्वा॒¦व॒सु॒ऽविद᳚‌म्¦अ॒भि¦वाणीः᳚¦अ॒नू॒ष॒त॒ | गोभिः॑¦ते॒¦वर्ण᳚‌म्¦अ॒भि¦वा॒स॒या॒म॒सि॒ ||

स नो᳚ मदानां पत॒ इन्दो᳚ दे॒वप्स॑रा, असि |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्}

सखे᳚व॒ सख्ये᳚ गातु॒वित्त॑मो भव ||{5/6}{7.5.7.5}{9.104.5}{9.7.1.5}{671, 827, 8679}

सः¦नः॒¦म॒दा॒ना॒‌म्¦प॒ते॒¦इन्दो॒ इति॑¦दे॒वऽप्स॑राः¦अ॒सि॒ | सखा᳚ऽ‌इव¦सख्ये᳚¦गा॒तु॒वित्ऽत॑मः¦भ॒व॒ ||

सने᳚मि कृ॒ध्य१॑(अ॒)स्मदा र॒क्षसं॒ कं चि॑द॒त्रिण᳚म् |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्}

अपादे᳚वं द्व॒युमंहो᳚ युयोधि नः ||{6/6}{7.5.7.6}{9.104.6}{9.7.1.6}{672, 827, 8680}

सने᳚मि¦कृ॒धि¦अ॒स्मत्¦आ¦र॒क्षस᳚‌म्¦क‌म्¦चि॒त्¦अ॒त्रिण᳚‌म् | अप॑¦अदे᳚व‌म्¦द्व॒यु‌म्¦अंहः॑¦यु॒यो॒धि॒¦नः॒ ||

[62] तंवइति षडृचस्य सूक्तस्य पर्वतनारदौ पवमानसोमउष्णिक् |
तं वः॑ सखायो॒ मदा᳚य पुना॒नम॒भि गा᳚यत |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्}

शिशुं॒ न य॒ज्ञैः स्व॑दयन्त गू॒र्तिभिः॑ ||{1/6}{7.5.8.1}{9.105.1}{9.7.2.1}{673, 828, 8681}

त‌म्¦वः॒¦स॒खा॒यः॒¦मदा᳚य¦पु॒ना॒न‌म्¦अ॒भि¦गा॒य॒त॒ | शिशु᳚‌म्¦न¦य॒ज्ञैः¦स्व॒द॒य॒न्त॒¦गू॒र्तिऽभिः॑ ||

सं व॒त्स इ॑व मा॒तृभि॒रिन्दु᳚र्हिन्वा॒नो, अ॑ज्यते |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्}

दे॒वा॒वीर्मदो᳚ म॒तिभिः॒ परि॑ष्कृतः ||{2/6}{7.5.8.2}{9.105.2}{9.7.2.2}{674, 828, 8682}

स‌म्¦व॒त्सःऽ‌इ᳚व¦मा॒तृऽभिः॑¦इन्दुः॑¦हि॒न्वा॒नः¦अ॒ज्य॒ते॒ | दे॒व॒।आ॒वीः¦मदः॑¦म॒तिऽभिः॑¦परि॑ऽकृतः ||

अ॒यं दक्षा᳚य॒ साध॑नो॒ऽयं शर्धा᳚य वी॒तये᳚ |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्}

अ॒यं दे॒वेभ्यो॒ मधु॑मत्तमः सु॒तः ||{3/6}{7.5.8.3}{9.105.3}{9.7.2.3}{675, 828, 8683}

अ॒य‌म्¦दक्षा᳚य¦साध॑नः¦अ॒य‌म्¦शर्धा᳚य¦वी॒तये᳚ | अ॒य‌म्¦दे॒वेभ्यः॑¦मधु॑मत्ऽतमः¦सु॒तः ||

गोम᳚न्न इन्दो॒, अश्व॑वत्सु॒तः सु॑दक्ष धन्व |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्}

शुचिं᳚ ते॒ वर्ण॒मधि॒ गोषु॑ दीधरम् ||{4/6}{7.5.8.4}{9.105.4}{9.7.2.4}{676, 828, 8684}

गोऽम॑त्¦नः॒¦इ॒न्दो॒ इति॑¦अश्व॑ऽवत्¦सु॒तः¦सु॒ऽद॒क्ष॒¦ध॒न्व॒ | शुचि᳚‌म्¦ते॒¦वर्ण᳚‌म्¦अधि॑¦गोषु॑¦दी॒ध॒र॒‌म् ||

स नो᳚ हरीणां पत॒ इन्दो᳚ दे॒वप्स॑रस्तमः |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्}

सखे᳚व॒ सख्ये॒ नर्यो᳚ रु॒चे भ॑व ||{5/6}{7.5.8.5}{9.105.5}{9.7.2.5}{677, 828, 8685}

सः¦नः॒¦ह॒री॒णा॒‌म्¦प॒ते॒¦इन्दो॒ इति॑¦दे॒वप्स॑रःऽतमः | सखा᳚ऽ‌इव¦सख्ये᳚¦नर्यः॑¦रु॒चे¦भ॒व॒ ||

सने᳚मि॒ त्वम॒स्मदाँ, अदे᳚वं॒ कं चि॑द॒त्रिण᳚म् |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्}

सा॒ह्वाँ, इ᳚न्दो॒ परि॒ बाधो॒, अप॑ द्व॒युम् ||{6/6}{7.5.8.6}{9.105.6}{9.7.2.6}{678, 828, 8686}

सने᳚मि¦त्व‌म्¦अ॒स्मत्¦आ¦अदे᳚व‌म्¦क‌म्¦चि॒त्¦अ॒त्रिण᳚‌म् | सा॒ह्वान्¦इ॒न्दो॒ इति॑¦परि॑¦बाधः॑¦अप॑¦द्व॒यु‌म् ||

[63] इंद्रमच्छेति चतुर्दशर्चस्यसूक्तस्याद्यानांतिसृणां चाक्षुषोग्निः चतुर्थ्यादितिसृणां मानवश्चक्षुः सप्तम्यादितिसृणामाप्सवोमनुः दशम्यादिपंचानां चाक्षुषोग्निः पवमान सोमउष्णिक् |
इन्द्र॒मच्छ॑ सु॒ता, इ॒मे वृष॑णं यन्तु॒ हर॑यः |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्}

श्रु॒ष्टी जा॒तास॒ इन्द॑वः स्व॒र्विदः॑ ||{1/14}{7.5.9.1}{9.106.1}{9.7.3.1}{679, 829, 8687}

इन्द्र᳚‌म्¦अच्छ॑¦सु॒ताः¦इ॒मे¦वृष॑ण‌म्¦य॒न्तु॒¦हर॑यः | श्रु॒ष्टी¦जा॒तासः॑¦इन्द॑वः¦स्वः॒ऽविदः॑ ||

अ॒यं भरा᳚य सान॒सिरिन्द्रा᳚य पवते सु॒तः |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्}

सोमो॒ जैत्र॑स्य चेतति॒ यथा᳚ वि॒दे ||{2/14}{7.5.9.2}{9.106.2}{9.7.3.2}{680, 829, 8688}

अ॒य‌म्¦भरा᳚य¦सा॒न॒सिः¦इन्द्रा᳚य¦प॒व॒ते॒¦सु॒तः | सोमः॑¦जैत्र॑स्य¦चे॒त॒ति॒¦यथा᳚¦वि॒दे ||

अ॒स्येदिन्द्रो॒ मदे॒ष्वा ग्रा॒भं गृ॑भ्णीत सान॒सिम् |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्}

वज्रं᳚ च॒ वृष॑णं भर॒त्सम॑प्सु॒जित् ||{3/14}{7.5.9.3}{9.106.3}{9.7.3.3}{681, 829, 8689}

अ॒स्य¦इत्¦इन्द्रः॑¦मदे᳚षु¦आ¦ग्रा॒भ‌म्¦गृ॒भ्णी॒त॒¦सा॒न॒सि‌म् | वज्र᳚‌म्¦च॒¦वृष॑ण‌म्¦भ॒र॒त्¦स‌म्¦अ॒प्सु॒ऽजित् ||

प्र ध᳚न्वा सोम॒ जागृ॑वि॒रिन्द्रा᳚येन्दो॒ परि॑ स्रव |{मानवश्चक्षुः | पवमानः सोमः | उष्णिक्}

द्यु॒मन्तं॒ शुष्म॒मा भ॑रा स्व॒र्विद᳚म् ||{4/14}{7.5.9.4}{9.106.4}{9.7.3.4}{682, 829, 8690}

प्र¦ध॒न्व॒¦सो॒म॒¦जागृ॑विः¦इन्द्रा᳚य¦इ॒न्दो॒ इति॑¦परि॑¦स्र॒व॒ | द्यु॒ऽमन्त᳚‌म्¦शुष्म᳚‌म्¦आ¦भ॒र॒¦स्वः॒ऽविद᳚‌म् ||

इन्द्रा᳚य॒ वृष॑णं॒ मदं॒ पव॑स्व वि॒श्वद॑र्शतः |{मानवश्चक्षुः | पवमानः सोमः | उष्णिक्}

स॒हस्र॑यामा पथि॒कृद्वि॑चक्ष॒णः ||{5/14}{7.5.9.5}{9.106.5}{9.7.3.5}{683, 829, 8691}

इन्द्रा᳚य¦वृष॑ण‌म्¦मद᳚‌म्¦पव॑स्व¦वि॒श्वऽद॑र्शतः | स॒हस्र॑ऽयामा¦प॒थि॒ऽकृत्¦वि॒ऽच॒क्ष॒णः ||

अ॒स्मभ्यं᳚ गातु॒वित्त॑मो दे॒वेभ्यो॒ मधु॑मत्तमः |{मानवश्चक्षुः | पवमानः सोमः | उष्णिक्}

स॒हस्रं᳚ याहि प॒थिभिः॒ कनि॑क्रदत् ||{6/14}{7.5.10.1}{9.106.6}{9.7.3.6}{684, 829, 8692}

अ॒स्मभ्य᳚‌म्¦गा॒तु॒वित्ऽत॑मः¦दे॒वेभ्यः॑¦मधु॑मत्ऽतमः | स॒हस्र᳚‌म्¦या॒हि॒¦प॒थिऽभिः॑¦कनि॑क्रदत् ||

पव॑स्व दे॒ववी᳚तय॒ इन्दो॒ धारा᳚भि॒रोज॑सा |{अप्सवो मनुः | पवमानः सोमः | उष्णिक्}

आ क॒लशं॒ मधु॑मान्‌ त्सोम नः सदः ||{7/14}{7.5.10.2}{9.106.7}{9.7.3.7}{685, 829, 8693}

पव॑स्व¦दे॒वऽवी᳚तये¦इन्दो॒ इति॑¦धारा᳚भिः¦ओज॑सा | आ¦क॒लश᳚‌म्¦मधु॑ऽमान्¦सो॒म॒¦नः॒¦स॒दः॒ ||

तव॑ द्र॒प्सा, उ॑द॒प्रुत॒ इन्द्रं॒ मदा᳚य वावृधुः |{अप्सवो मनुः | पवमानः सोमः | उष्णिक्}

त्वां दे॒वासो᳚, अ॒मृता᳚य॒ कं प॑पुः ||{8/14}{7.5.10.3}{9.106.8}{9.7.3.8}{686, 829, 8694}

तव॑¦द्र॒प्साः¦उ॒द॒ऽप्रुतः॑¦इन्द्र᳚‌म्¦मदा᳚य¦व॒वृ॒धुः॒ | त्वा‌म्¦दे॒वासः॑¦अ॒मृता᳚य¦क‌म्¦प॒पुः॒ ||

आ नः॑ सुतास इन्दवः पुना॒ना धा᳚वता र॒यिम् |{अप्सवो मनुः | पवमानः सोमः | उष्णिक्}

वृ॒ष्टिद्या᳚वो रीत्यापः स्व॒र्विदः॑ ||{9/14}{7.5.10.4}{9.106.9}{9.7.3.9}{687, 829, 8695}

आ¦नः॒¦सु॒ता॒सः॒¦इ॒न्द॒वः॒¦पु॒ना॒नाः¦धा॒व॒त॒¦र॒यि‌म् | वृ॒ष्टिऽद्या᳚वः¦री॒ति॒ऽआ॒पः॒¦स्वः॒ऽविदः॑ ||

सोमः॑ पुना॒न ऊ॒र्मिणाव्यो॒ वारं॒ वि धा᳚वति |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्}

अग्रे᳚ वा॒चः पव॑मानः॒ कनि॑क्रदत् ||{10/14}{7.5.10.5}{9.106.10}{9.7.3.10}{688, 829, 8696}

सोमः॑¦पु॒ना॒नः¦ऊ॒र्मिणा᳚¦अव्यः॑¦वार᳚‌म्¦वि¦धा॒व॒ति॒ | अग्रे᳚¦वा॒चः¦पव॑मानः¦कनि॑क्रदत् ||

धी॒भिर्हि᳚न्वन्ति वा॒जिनं॒ वने॒ क्रीळ᳚न्त॒मत्य॑विम् |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्}

अ॒भि त्रि॑पृ॒ष्ठं म॒तयः॒ सम॑स्वरन् ||{11/14}{7.5.11.1}{9.106.11}{9.7.3.11}{689, 829, 8697}

धी॒भिः¦हि॒न्व॒न्ति॒¦वा॒जिन᳚‌म्¦वने᳚¦क्रीळ᳚न्त‌म्¦अति॑।आवि‌म् | अ॒भि¦त्रि॒ऽपृ॒ष्ठ‌म्¦म॒तयः॑¦स‌म्¦अ॒स्व॒र॒न् ||

अस॑र्जि क॒लशाँ᳚, अ॒भि मी॒ळ्हे सप्ति॒र्न वा᳚ज॒युः |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्}

पु॒ना॒नो वाचं᳚ ज॒नय᳚न्नसिष्यदत् ||{12/14}{7.5.11.2}{9.106.12}{9.7.3.12}{690, 829, 8698}

अस॑र्जि¦क॒लशा᳚न्¦अ॒भि¦मी॒ळ्हे¦सप्तिः॑¦न¦वा॒ज॒ऽयुः | पु॒ना॒नः¦वाच᳚‌म्¦ज॒नय॑न्¦अ॒सि॒स्य॒द॒त् ||

पव॑ते हर्य॒तो हरि॒रति॒ ह्वरां᳚सि॒ रंह्या᳚ |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्}

अ॒भ्यर्ष᳚न्‌ त्स्तो॒तृभ्यो᳚ वी॒रव॒द्यशः॑ ||{13/14}{7.5.11.3}{9.106.13}{9.7.3.13}{691, 829, 8699}

पव॑ते¦ह॒र्य॒तः¦हरिः॑¦अति॑¦ह्वरां᳚सि¦रंह्या᳚ | अ॒भि॒।आर्ष॑न्¦स्तो॒तृऽभ्यः॑¦वी॒रऽव॑त्¦यशः॑ ||

अ॒या प॑वस्व देव॒युर्मधो॒र्धारा᳚, असृक्षत |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्}

रेभ᳚न्‌ प॒वित्रं॒ पर्ये᳚षि वि॒श्वतः॑ ||{14/14}{7.5.11.4}{9.106.14}{9.7.3.14}{692, 829, 8700}

अ॒या¦प॒व॒स्व॒¦दे॒व॒ऽयुः¦मधोः᳚¦धाराः᳚¦अ॒सृ॒क्ष॒त॒ | रेभ॑न्¦प॒वित्र᳚‌म्¦परि॑¦ए॒षि॒¦वि॒श्वतः॑ ||

[64] परीतइति षड्विंशत्यृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाजो मारीचः कश्यपो राहूगणो गोतमोभौमोत्रिर्गाथिनो विश्वामित्रो भार्गवोजमदग्निः मैत्रावरुणिर्वसिष्ट ऋषयः पवमान सोमोदेवता आद्याचतुर्थीषष्ट्यष्टमी नवमीदशमी द्वादशी चतुर्दश्यः सप्तदश्यायश्चयुजः बृहत्यः द्वितीयापंचमी सप्तम्येकादशी त्रयोदशी पंचदश्योष्टादश्यादि युजश्चसतोबृहत्यः षोडशीचद्विपदाविराट् |
परी॒तो षि᳚ञ्चता सु॒तं सोमो॒ य उ॑त्त॒मं ह॒विः |{सप्तर्षयः | पवमानः सोमः | बृहती}

द॒ध॒न्वाँऽ यो नर्यो᳚, अ॒प्स्व१॑(अ॒)न्तरा सु॒षाव॒ सोम॒मद्रि॑भिः ||{1/26}{7.5.12.1}{9.107.1}{9.7.4.1}{693, 830, 8701}

परि॑¦इ॒तः¦सिं॒च॒त॒¦सु॒त‌म्¦सोमः॑¦यः¦उ॒त्ऽत॒म‌म्¦ह॒विः |
द॒ध॒न्वान्¦यः¦नर्यः॑¦अ॒प्ऽसु¦अ॒न्तः¦आ¦सु॒साव॑¦सोम᳚‌म्¦अद्रि॑ऽभिः ||

नू॒नं पु॑ना॒नोऽवि॑भिः॒ परि॑ स्र॒वाद॑ब्धः सुर॒भिन्त॑रः |{सप्तर्षयः | पवमानः सोमः | सतोबृहती}

सु॒ते चि॑त्‌ त्वा॒प्सु म॑दामो॒, अन्ध॑सा श्री॒णन्तो॒ गोभि॒रुत्त॑रम् ||{2/26}{7.5.12.2}{9.107.2}{9.7.4.2}{694, 830, 8702}

नू॒न‌म्¦पु॒ना॒नः¦अवि॑ऽभिः¦परि॑¦स्र॒व॒¦अद॑ब्धः¦सु॒र॒भि‌म्ऽत॑रः |
सु॒ते¦चि॒त्¦त्वा॒¦अ॒प्ऽसु¦मा॒दा॒मः॒¦अन्ध॑सा¦श्री॒णन्तः॑¦गोभिः॑¦उत्ऽत॑र‌म् ||

परि॑ सुवा॒नश्चक्ष॑से देव॒माद॑नः॒ क्रतु॒रिन्दु᳚र्विचक्ष॒णः ||{सप्तर्षयः | पवमानः सोमः | बृहती}{3/26}{7.5.12.3}{9.107.3}{9.7.4.3}{695, 830, 8703}
पु॒ना॒नः सो᳚म॒ धार॑या॒पो वसा᳚नो, अर्षसि |{सप्तर्षयः | पवमानः सोमः | सतोबृहती}

आ र॑त्न॒धा योनि॑मृ॒तस्य॑ सीद॒स्युत्सो᳚ देव हिर॒ण्ययः॑ ||{4/26}{7.5.12.4}{9.107.4}{9.7.4.4}{696, 830, 8704}

पु॒ना॒नः¦सो॒म॒¦धार॑या¦अ॒पः¦वसा᳚नः¦अ॒र्ष॒सि॒ |
आ¦र॒त्न॒ऽधाः¦योनि᳚‌म्¦ऋ॒तस्य॑¦सी॒द॒सि॒¦उत्सः॑¦दे॒व॒¦हि॒र॒ण्ययः॑ ||

दु॒हा॒न ऊध॑र्दि॒व्यं मधु॑ प्रि॒यं प्र॒त्नं स॒धस्थ॒मास॑दत् |{सप्तर्षयः | पवमानः सोमः | बृहती}

आ॒पृच्छ्यं᳚ ध॒रुणं᳚ वा॒ज्य॑र्षति॒ नृभि॑र्धू॒तो वि॑चक्ष॒णः ||{5/26}{7.5.12.5}{9.107.5}{9.7.4.5}{697, 830, 8705}

दु॒हा॒नः¦ऊधः॑¦दि॒व्य‌म्¦मधु॑¦प्रि॒य‌म्¦प्र॒त्न‌म्¦स॒धऽस्थ᳚‌म्¦आ¦अ॒स॒द॒त् |
आ॒ऽपृच्छ्य᳚‌म्¦ध॒रुण᳚‌म्¦वा॒जी¦अ॒र्ष॒ति॒¦नृऽभिः॑¦धू॒तः¦वि॒ऽच॒क्ष॒णः ||

पु॒ना॒नः सो᳚म॒ जागृ॑वि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः |{सप्तर्षयः | पवमानः सोमः | सतोबृहती}

त्वं विप्रो᳚, अभ॒वोऽङ्गि॑रस्तमो॒ मध्वा᳚ य॒ज्ञं मि॑मिक्ष नः ||{6/26}{7.5.13.1}{9.107.6}{9.7.4.6}{698, 830, 8706}

पु॒ना॒नः¦सो॒म॒¦जागृ॑विः¦अव्यः॑¦वारे᳚¦परि॑¦प्रि॒यः |
त्व‌म्¦विप्रः॑¦अ॒भ॒वः॒¦अङ्गि॑रःऽतमः¦मध्वा᳚¦य॒ज्ञ‌म्¦मि॒मि॒क्ष॒¦नः॒ ||

सोमो᳚ मी॒ढ्वान्‌ प॑वते गातु॒वित्त॑म॒ ऋषि॒र्विप्रो᳚ विचक्ष॒णः |{सप्तर्षयः | पवमानः सोमः | बृहती}

त्वं क॒विर॑भवो देव॒वीत॑म॒ आ सूर्यं᳚ रोहयो दि॒वि ||{7/26}{7.5.13.2}{9.107.7}{9.7.4.7}{699, 830, 8707}

सोमः॑¦मी॒ढ्वान्¦प॒व॒ते॒¦गा॒तु॒वित्ऽत॑मः¦ऋषिः॑¦विप्रः॑¦वि॒ऽच॒क्ष॒णः |
त्व‌म्¦क॒विः¦अ॒भ॒वः॒¦दे॒व॒ऽवीत॑मः¦आ¦सूर्य᳚‌म्¦रो॒ह॒यः॒¦दि॒वि ||

सोम॑ उ षुवा॒णः सो॒तृभि॒रधि॒ ष्णुभि॒रवी᳚नाम् |{सप्तर्षयः | पवमानः सोमः | सतोबृहती}

अश्व॑येव ह॒रिता᳚ याति॒ धार॑या म॒न्द्रया᳚ याति॒ धार॑या ||{8/26}{7.5.13.3}{9.107.8}{9.7.4.8}{700, 830, 8708}

सोमः॑¦ऊँ॒ इति॑¦सु॒वा॒नः¦सो॒तृऽभिः॑¦अधि॑¦स्नुऽभिः॑¦अवी᳚ना‌म् |
अश्व॑याऽ‌इव¦ह॒रिता᳚¦या॒ति॒¦धार॑या¦म॒न्द्रया᳚¦या॒ति॒¦धार॑या ||

अ॒नू॒पे गोमा॒न्‌ गोभि॑रक्षाः॒ सोमो᳚ दु॒ग्धाभि॑रक्षाः |{सप्तर्षयः | पवमानः सोमः | बृहती}

स॒मु॒द्रं न सं॒वर॑णान्यग्मन्म॒न्दी मदा᳚य तोशते ||{9/26}{7.5.13.4}{9.107.9}{9.7.4.9}{701, 830, 8709}

अ॒नू॒पे¦गोऽमा᳚न्¦गोभिः॑¦अ॒क्षा॒रिति॑¦सोमः॑¦दु॒ग्धाभिः॑¦अ॒क्षा॒रिति॑ |
स॒मु॒द्र‌म्¦न¦स॒‌म्ऽवर॑णानि¦अ॒ग्म॒न्¦म॒न्दी¦मदा᳚य¦तो॒श॒ते॒ ||

आ सो᳚म सुवा॒नो, अद्रि॑भिस्ति॒रो वारा᳚ण्य॒व्यया᳚ |{सप्तर्षयः | पवमानः सोमः | सतोबृहती}

जनो॒ न पु॒रि च॒म्वो᳚र्विश॒द्धरिः॒ सदो॒ वने᳚षु दधिषे ||{10/26}{7.5.13.5}{9.107.10}{9.7.4.10}{702, 830, 8710}

आ¦सो॒म॒¦सु॒वा॒नः¦अद्रि॑ऽभिः¦ति॒रः¦वारा᳚णि¦अ॒व्यया᳚ |
जनः॑¦न¦पु॒रि¦च॒म्वोः᳚¦वि॒श॒त्¦हरिः॑¦सदः॑¦वने᳚षु¦द॒धि॒षे॒ ||

स मा᳚मृजे ति॒रो, अण्वा᳚नि मे॒ष्यो᳚ मी॒ळ्हे सप्ति॒र्न वा᳚ज॒युः |{सप्तर्षयः | पवमानः सोमः | बृहती}

अ॒नु॒माद्यः॒ पव॑मानो मनी॒षिभिः॒ सोमो॒ विप्रे᳚भि॒रृक्व॑भिः ||{11/26}{7.5.14.1}{9.107.11}{9.7.4.11}{703, 830, 8711}

सः¦म॒मृ॒जे॒¦ति॒रः¦अण्वा᳚नि¦मे॒ष्यः॑¦मी॒ळ्हे¦सप्तिः॑¦न¦वा॒ज॒ऽयुः |
अ॒नु॒ऽमाद्यः॑¦पव॑मानः¦म॒नी॒षिऽभिः॑¦सोमः॑¦विप्रे᳚भिः¦ऋक्व॑ऽभिः ||

प्र सो᳚म दे॒ववी᳚तये॒ सिन्धु॒र्न पि॑प्ये॒, अर्ण॑सा |{सप्तर्षयः | पवमानः सोमः | सतोबृहती}

अं॒शोः पय॑सा मदि॒रो न जागृ॑वि॒रच्छा॒ कोशं᳚ मधु॒श्चुत᳚म् ||{12/26}{7.5.14.2}{9.107.12}{9.7.4.12}{704, 830, 8712}

प्र¦सो॒म॒¦दे॒वऽवी᳚तये¦सिन्धुः॑¦न¦पि॒प्ये॒¦अर्ण॑सा |
अं॒शोः¦पय॑सा¦म॒दि॒रः¦न¦जागृ॑विः¦अच्छ॑¦कोश᳚‌म्¦म॒धु॒ऽश्चुत᳚‌म् ||

आ ह᳚र्य॒तो, अर्जु॑ने॒, अत्के᳚, अव्यत प्रि॒यः सू॒नुर्न मर्ज्यः॑ |{सप्तर्षयः | पवमानः सोमः | बृहती}

तमीं᳚ हिन्वन्त्य॒पसो॒ यथा॒ रथं᳚ न॒दीष्वा गभ॑स्त्योः ||{13/26}{7.5.14.3}{9.107.13}{9.7.4.13}{705, 830, 8713}

आ¦ह॒र्य॒तः¦अर्जु॑ने¦अत्के᳚¦अ॒व्य॒त॒¦प्रि॒यः¦सू॒नुः¦न¦मर्ज्यः॑ |
त‌म्¦ई॒‌म्¦हि॒न्व॒न्ति॒¦अ॒पसः॑¦यथा᳚¦रथ᳚‌म्¦न॒दीषु॑¦आ¦गभ॑स्त्योः ||

अ॒भि सोमा᳚स आ॒यवः॒ पव᳚न्ते॒ मद्यं॒ मद᳚म् |{सप्तर्षयः | पवमानः सोमः | सतोबृहती}

स॒मु॒द्रस्याधि॑ वि॒ष्टपि॑ मनी॒षिणो᳚ मत्स॒रासः॑ स्व॒र्विदः॑ ||{14/26}{7.5.14.4}{9.107.14}{9.7.4.14}{706, 830, 8714}

अ॒भि¦सोमा᳚सः¦आ॒यवः॑¦पव᳚न्ते¦मद्य᳚‌म्¦मद᳚‌म् |
स॒मु॒द्रस्य॑¦अधि॑¦वि॒ष्टपि॑¦म॒नी॒षिणः॑¦म॒त्स॒रासः॑¦स्वः॒ऽविदः॑ ||

तर॑त्समु॒द्रं पव॑मान ऊ॒र्मिणा॒ राजा᳚ दे॒व ऋ॒तं बृ॒हत् |{सप्तर्षयः | पवमानः सोमः | बृहती}

अर्ष᳚न्मि॒त्रस्य॒ वरु॑णस्य॒ धर्म॑णा॒ प्र हि᳚न्वा॒न ऋ॒तं बृ॒हत् ||{15/26}{7.5.14.5}{9.107.15}{9.7.4.15}{707, 830, 8715}

तर॑त्¦स॒मु॒द्र‌म्¦पव॑मानः¦ऊ॒र्मिणा᳚¦राजा᳚¦दे॒वः¦ऋ॒त‌म्¦बृ॒हत् |
अर्ष॑त्¦मि॒त्रस्य॑¦वरु॑णस्य¦धर्म॑णा¦प्र¦हि॒न्वा॒नः¦ऋ॒त‌म्¦बृ॒हत् ||

नृभि᳚र्येमा॒नो ह᳚र्य॒तो वि॑चक्ष॒णो राजा᳚ दे॒वः स॑मु॒द्रियः॑ ||{सप्तर्षयः | पवमानः सोमः | द्विपदाविराट्}{16/26}{7.5.15.1}{9.107.16}{9.7.4.16}{708, 830, 8716}

नृऽभिः॑¦ये॒मा॒नः¦ह॒र्य॒तः¦वि॒ऽच॒क्ष॒णः¦राजा᳚¦दे॒वः¦स॒मु॒द्रियः॑ ||

इन्द्रा᳚य पवते॒ मदः॒ सोमो᳚ म॒रुत्व॑ते सु॒तः |{सप्तर्षयः | पवमानः सोमः | बृहती}

स॒हस्र॑धारो॒, अत्यव्य॑मर्षति॒ तमी᳚ मृजन्त्या॒यवः॑ ||{17/26}{7.5.15.2}{9.107.17}{9.7.4.17}{709, 830, 8717}

इन्द्रा᳚य¦प॒व॒ते॒¦मदः॑¦सोमः॑¦म॒रुत्व॑ते¦सु॒तः |
स॒हस्र॑ऽधारः¦अति॑¦अव्य᳚‌म्¦अ॒र्ष॒ति॒¦त‌म्¦ई॒मिति॑¦मृ॒ज॒न्ति॒¦आ॒यवः॑ ||

पु॒ना॒नश्च॒मू ज॒नय᳚न्म॒तिं क॒विः सोमो᳚ दे॒वेषु॑ रण्यति |{सप्तर्षयः | पवमानः सोमः | सतोबृहती}

अ॒पो वसा᳚नः॒ परि॒ गोभि॒रुत्त॑रः॒ सीद॒न्वने᳚ष्वव्यत ||{18/26}{7.5.15.3}{9.107.18}{9.7.4.18}{710, 830, 8718}

पु॒ना॒नः¦च॒मू इति॑¦ज॒नय॑न्¦म॒ति‌म्¦क॒विः¦सोमः॑¦दे॒वेषु॑¦र॒ण्य॒ति॒ |
अ॒पः¦वसा᳚नः¦परि॑¦गोभिः॑¦उत्ऽत॑रः¦सीद॑न्¦वने᳚षु¦अ॒व्य॒त॒ ||

तवा॒हं सो᳚म रारण स॒ख्य इ᳚न्दो दि॒वेदि॑वे |{सप्तर्षयः | पवमानः सोमः | बृहती}

पु॒रूणि॑ बभ्रो॒ नि च॑रन्ति॒ मामव॑ परि॒धीँरति॒ ताँ, इ॑हि ||{19/26}{7.5.15.4}{9.107.19}{9.7.4.19}{711, 830, 8719}

तव॑¦अ॒ह‌म्¦सो॒म॒¦र॒र॒ण॒¦स॒ख्ये¦इ॒न्दो॒ इति॑¦दि॒वेऽदि॑वे |
पु॒रूणि॑¦ब॒भ्रो॒ इति॑¦नि¦च॒र॒न्ति॒¦मा‌म्¦अव॑¦प॒रि॒ऽधीन्¦अति॑¦तान्¦इ॒हि॒ ||

उ॒ताहं नक्त॑मु॒त सो᳚म ते॒ दिवा᳚ स॒ख्याय॑ बभ्र॒ ऊध॑नि |{सप्तर्षयः | पवमानः सोमः | सतोबृहती}

घृ॒णा तप᳚न्त॒मति॒ सूर्यं᳚ प॒रः श॑कु॒ना, इ॑व पप्तिम ||{20/26}{7.5.15.5}{9.107.20}{9.7.4.20}{712, 830, 8720}

उ॒त¦अ॒ह‌म्¦नक्त᳚‌म्¦उ॒त¦सो॒म॒¦ते॒¦दिवा᳚¦स॒ख्याय॑¦ब॒भ्रो॒ इति॑¦ऊध॑नि |
घृ॒णा¦तप᳚न्त‌म्¦अति॑¦सूर्य᳚‌म्¦प॒रः¦श॒कु॒नाःऽ‌इ᳚व¦प॒प्ति॒म॒ ||

मृ॒ज्यमा᳚नः सुहस्त्य समु॒द्रे वाच॑मिन्वसि |{सप्तर्षयः | पवमानः सोमः | बृहती}

र॒यिं पि॒शङ्गं᳚ बहु॒लं पु॑रु॒स्पृहं॒ पव॑माना॒भ्य॑र्षसि ||{21/26}{7.5.16.1}{9.107.21}{9.7.4.21}{713, 830, 8721}

मृ॒ज्यमा᳚नः¦सु॒ऽह॒स्त्य॒¦स॒मु॒द्रे¦वाच᳚‌म्¦इ॒न्व॒सि॒ |
र॒यि‌म्¦पि॒शङ्ग᳚‌म्¦ब॒हु॒ल‌म्¦पु॒रु॒ऽस्पृह᳚‌म्¦पव॑मान¦अ॒भि¦अ॒र्ष॒सि॒ ||

मृ॒जा॒नो वारे॒ पव॑मानो, अ॒व्यये॒ वृषाव॑ चक्रदो॒ वने᳚ |{सप्तर्षयः | पवमानः सोमः | सतोबृहती}

दे॒वानां᳚ सोम पवमान निष्कृ॒तं गोभि॑रञ्जा॒नो, अ॑र्षसि ||{22/26}{7.5.16.2}{9.107.22}{9.7.4.22}{714, 830, 8722}

मृ॒जा॒नः¦वारे᳚¦पव॑मानः¦अ॒व्यये᳚¦वृषा᳚¦अव॑¦च॒क्र॒दः॒¦वने᳚ |
दे॒वाना᳚‌म्¦सो॒म॒¦प॒व॒मा॒न॒¦निः॒ऽकृ॒त‌म्¦गोभिः॑¦अं॒जा॒नः¦अ॒र्ष॒सि॒ ||

पव॑स्व॒ वाज॑सातये॒ऽभि विश्वा᳚नि॒ काव्या᳚ |{सप्तर्षयः | पवमानः सोमः | बृहती}

त्वं स॑मु॒द्रं प्र॑थ॒मो वि धा᳚रयो दे॒वेभ्यः॑ सोम मत्स॒रः ||{23/26}{7.5.16.3}{9.107.23}{9.7.4.23}{715, 830, 8723}

पव॑स्व¦वाज॑ऽसातये¦अ॒भि¦विश्वा᳚नि¦काव्या᳚ |
त्व‌म्¦स॒मु॒द्र‌म्¦प्र॒थ॒मः¦वि¦धा॒र॒यः॒¦दे॒वेभ्यः॑¦सो॒म॒¦म॒त्स॒रः ||

स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रजो᳚ दि॒व्या च॑ सोम॒ धर्म॑भिः |{सप्तर्षयः | पवमानः सोमः | सतोबृहती}

त्वां विप्रा᳚सो म॒तिभि᳚र्विचक्षण शु॒भ्रं हि᳚न्वन्ति धी॒तिभिः॑ ||{24/26}{7.5.16.4}{9.107.24}{9.7.4.24}{716, 830, 8724}

सः¦तु¦प॒व॒स्व॒¦परि॑¦पार्थि॑व‌म्¦रजः॑¦दि॒व्या¦च॒¦सो॒म॒¦धर्म॑ऽभिः |
त्वा‌म्¦विप्रा᳚सः¦म॒तिऽभिः॑¦वि॒ऽच॒क्ष॒ण॒¦शु॒भ्र‌म्¦हि॒न्व॒न्ति॒¦धी॒तिऽभिः॑ ||

पव॑माना, असृक्षत प॒वित्र॒मति॒ धार॑या |{सप्तर्षयः | पवमानः सोमः | बृहती}

म॒रुत्व᳚न्तो मत्स॒रा, इ᳚न्द्रि॒या हया᳚ मे॒धाम॒भि प्रयां᳚सि च ||{25/26}{7.5.16.5}{9.107.25}{9.7.4.25}{717, 830, 8725}

पव॑मानाः¦अ॒सृ॒क्ष॒त॒¦प॒वित्र᳚‌म्¦अति॑¦धार॑या |
म॒रुत्व᳚न्तः¦म॒त्स॒राः¦इ॒न्द्रि॒याः¦हयाः᳚¦मे॒धा‌म्¦अ॒भि¦प्रयां᳚सि¦च॒ ||

अ॒पो वसा᳚नः॒ परि॒ कोश॑मर्ष॒तीन्दु᳚र्हिया॒नः सो॒तृभिः॑ |{सप्तर्षयः | पवमानः सोमः | सतोबृहती}

ज॒नय॒ञ्ज्योति᳚र्म॒न्दना᳚, अवीवश॒द्गाः कृ᳚ण्वा॒नो न नि॒र्णिज᳚म् ||{26/26}{7.5.16.6}{9.107.26}{9.7.4.26}{718, 830, 8726}

अ॒पः¦वसा᳚नः¦परि॑¦कोश᳚‌म्¦अ॒र्ष॒ति॒¦इन्दुः॑¦हि॒या॒नः¦सो॒तृऽभिः॑ |
ज॒नय॑न्¦ज्योतिः॑¦म॒न्दनाः᳚¦अ॒वी॒व॒श॒त्¦गाः¦कृ॒ण्वा॒नः¦न¦निः॒ऽनिज᳚‌म् ||

[65] पवस्वेति षोळशर्चस्य सूक्तस्याद्ययोर्द्वयोः शाक्तयोगौरिवीतिः तृतीयायावसिष्ठःशक्तिः चतुर्थ्यादिद्वयोरांगिरसउरुः षष्ठ्यादिद्वयोर्भारद्वाजऋजिश्वः अष्टम्यादिद्वयोरांगिरस ऊर्ध्वसद्मः दशम्यादिद्वयोरांगिरसः कृतयशः द्वादश्यादिद्वयोरृणंचयः चतुर्दश्यादितिसृणांवासिष्ठःशक्तिः इत्य ऋषयः पवमानसोमोदेवता अयुजः ककुभो युजःसतोबृहत्यः ससुन्वेय इति यवमध्यागायत्री |
पव॑स्व॒ मधु॑मत्तम॒ इन्द्रा᳚य सोम क्रतु॒वित्त॑मो॒ मदः॑ |{शाक्तयोगौरिवीतिः | पवमानः सोमः | ककुभः}

महि॑ द्यु॒क्षत॑मो॒ मदः॑ ||{1/16}{7.5.17.1}{9.108.1}{9.7.5.1}{719, 831, 8727}

पव॑स्व¦मधु॑मत्ऽतमः¦इन्द्रा᳚य¦सो॒म॒¦क्र॒तु॒वित्ऽत॑मः¦मदः॑ | महि॑¦द्यु॒क्षऽत॑मः¦मदः॑ ||

यस्य॑ ते पी॒त्वा वृ॑ष॒भो वृ॑षा॒यते॒ऽस्य पी॒ता स्व॒र्विदः॑ |{शाक्तयोगौरिवीतिः | पवमानः सोमः | सतोबृहती}

स सु॒प्रके᳚तो, अ॒भ्य॑क्रमी॒दिषोऽच्छा॒ वाजं॒ नैत॑शः ||{2/16}{7.5.17.2}{9.108.2}{9.7.5.2}{720, 831, 8728}

यस्य॑¦ते॒¦पी॒त्वा¦वृ॒ष॒भः¦वृ॒ष॒ऽयते᳚¦अ॒स्य¦पी॒ता¦स्वः॒ऽविदः॑ |
सः¦सु॒ऽप्रके᳚तः¦अ॒भि¦अ॒क्र॒मी॒त्¦इषः॑¦अच्छ॑¦वाज᳚‌म्¦न¦एत॑शः ||

त्वं ह्य१॑(अ॒)ङ्ग दैव्या॒ पव॑मान॒ जनि॑मानि द्यु॒मत्त॑मः |{वसिष्ठःशक्तिः | पवमानः सोमः | ककुभः}

अ॒मृ॒त॒त्वाय॑ घो॒षयः॑ ||{3/16}{7.5.17.3}{9.108.3}{9.7.5.3}{721, 831, 8729}

त्व‌म्¦हि¦अ॒ङ्ग¦दैव्या᳚¦पव॑मान¦जनि॑मानि¦द्यु॒मत्ऽत॑मः | अ॒मृ॒त॒ऽत्वाय॑¦घो॒षयः॑ ||

येना॒ नव॑ग्वो द॒ध्यङ्ङ॑पोर्णु॒ते येन॒ विप्रा᳚स आपि॒रे |{आङ्गिरस उरुः | पवमानः सोमः | सतोबृहती}

दे॒वानां᳚ सु॒म्ने, अ॒मृत॑स्य॒ चारु॑णो॒ येन॒ श्रवां᳚स्यान॒शुः ||{4/16}{7.5.17.4}{9.108.4}{9.7.5.4}{722, 831, 8730}

येन॑¦नव॑ऽग्वः¦द॒ध्यङ्¦अ॒प॒ऽऊ॒र्णु॒ते¦येन॑¦विप्रा᳚सः¦आ॒पि॒रे |
दे॒वाना᳚‌म्¦सु॒म्ने¦अ॒मृत॑स्य¦चारु॑णः¦येन॑¦श्रवां᳚सि¦आ॒न॒शुः ||

ए॒ष स्य धार॑या सु॒तोऽव्यो॒ वारे᳚भिः पवते म॒दिन्त॑मः |{आङ्गिरस उरुः | पवमानः सोमः | ककुभः}

क्रीळ᳚न्नू॒र्मिर॒पामि॑व ||{5/16}{7.5.17.5}{9.108.5}{9.7.5.5}{723, 831, 8731}

ए॒षः¦स्यः¦धार॑या¦सु॒तः¦अव्यः॑¦वारे᳚भिः¦प॒व॒ते॒¦म॒दिन्ऽत॑मः | क्रीळ॑न्¦ऊ॒र्मिः¦अ॒पा‌म्ऽ‌इ᳚व ||

य उ॒स्रिया॒, अप्या᳚, अ॒न्तरश्म॑नो॒ निर्गा, अकृ᳚न्त॒दोज॑सा |{भारद्वाजऋजिश्वः | पवमानः सोमः | सतोबृहती}

अ॒भि व्र॒जं त॑त्निषे॒ गव्य॒मश्व्यं᳚ व॒र्मीव॑ धृष्ण॒वा रु॑ज ||{6/16}{7.5.18.1}{9.108.6}{9.7.5.6}{724, 831, 8732}

यः¦उ॒स्रियाः᳚¦अप्याः᳚¦अ॒न्तः¦अश्म॑नः¦निः¦गाः¦अकृ᳚न्तत्¦ओज॑सा |
अ॒भि¦व्र॒ज‌म्¦त॒त्नि॒षे॒¦गव्य᳚‌म्¦अश्व्य᳚‌म्¦व॒र्मीऽ‌इ᳚व¦धृ॒ष्णो॒ इति॑¦आ¦रु॒ज॒ ||

आ सो᳚ता॒ परि॑ षिञ्च॒ताश्वं॒ न स्तोम॑म॒प्तुरं᳚ रज॒स्तुर᳚म् |{भारद्वाजऋजिश्वः | पवमानः सोमः | ककुभः}

व॒न॒क्र॒क्षमु॑द॒प्रुत᳚म् ||{7/16}{7.5.18.2}{9.108.7}{9.7.5.7}{725, 831, 8733}

आ¦सो॒त॒¦परि॑¦सिं॒च॒त॒¦अश्व᳚‌म्¦न¦स्तोम᳚‌म्¦अ॒प्ऽतुर᳚‌म्¦र॒जः॒ऽतुर᳚‌म् | व॒न॒ऽक्र॒क्ष‌म्¦उ॒द॒ऽप्रुत᳚‌म् ||

स॒हस्र॑धारं वृष॒भं प॑यो॒वृधं᳚ प्रि॒यं दे॒वाय॒ जन्म॑ने |{आंगिरस ऊर्ध्वसद्मः | पवमानः सोमः | सतोबृहती}

ऋ॒तेन॒ य ऋ॒तजा᳚तो विवावृ॒धे राजा᳚ दे॒व ऋ॒तं बृ॒हत् ||{8/16}{7.5.18.3}{9.108.8}{9.7.5.8}{726, 831, 8734}

स॒हस्र॑ऽधार‌म्¦वृ॒ष॒भ‌म्¦प॒यः॒ऽवृध᳚‌म्¦प्रि॒य‌म्¦दे॒वाय॑¦जन्म॑ने |
ऋ॒तेन॑¦यः¦ऋ॒तऽजा᳚तः¦वि॒ऽव॒वृ॒धे¦राजा᳚¦दे॒वः¦ऋ॒त‌म्¦बृ॒हत् ||

अ॒भि द्यु॒म्नं बृ॒हद्यश॒ इष॑स्पते दिदी॒हि दे᳚व देव॒युः |{आंगिरस ऊर्ध्वसद्मः | पवमानः सोमः | ककुभः}

वि कोशं᳚ मध्य॒मं यु॑व ||{9/16}{7.5.18.4}{9.108.9}{9.7.5.9}{727, 831, 8735}

अ॒भि¦द्यु॒म्न‌म्¦बृ॒हत्¦यशः॑¦इषः॑¦प॒ते॒¦दि॒दी॒हि¦दे॒व॒¦दे॒व॒ऽयुः | वि¦कोश᳚‌म्¦म॒ध्य॒म‌म्¦यु॒व॒ ||

आ व॑च्यस्व सुदक्ष च॒म्वोः᳚ सु॒तो वि॒शां वह्नि॒र्न वि॒श्पतिः॑ |{आंगिरसः कृतयशः | पवमानः सोमः | सतोबृहती}

वृ॒ष्टिं दि॒वः प॑वस्व री॒तिम॒पां जिन्वा॒ गवि॑ष्टये॒ धियः॑ ||{10/16}{7.5.18.5}{9.108.10}{9.7.5.10}{728, 831, 8736}

आ¦व॒च्य॒स्व॒¦सु॒ऽद॒क्ष॒¦च॒म्वोः᳚¦सु॒तः¦वि॒शा‌म्¦वह्निः॑¦न¦वि॒श्पतिः॑ |
वृ॒ष्टि‌म्¦दि॒वः¦प॒व॒स्व॒¦री॒ति‌म्¦अ॒पा‌म्¦जिन्व॑¦गोऽ‌इ᳚ष्टये¦धियः॑ ||

ए॒तमु॒ त्यं म॑द॒च्युतं᳚ स॒हस्र॑धारं वृष॒भं दिवो᳚ दुहुः |{आंगिरसः कृतयशः | पवमानः सोमः | ककुभः}

विश्वा॒ वसू᳚नि॒ बिभ्र॑तम् ||{11/16}{7.5.19.1}{9.108.11}{9.7.5.11}{729, 831, 8737}

ए॒त‌म्¦ऊँ॒ इति॑¦त्य‌म्¦म॒द॒ऽच्युत᳚‌म्¦स॒हस्र॑ऽधार‌म्¦वृ॒ष॒भ‌म्¦दिवः॑¦दु॒हुः॒ | विश्वा᳚¦वसू᳚नि¦बिभ्र॑त‌म् ||

वृषा॒ वि ज॑ज्ञे ज॒नय॒न्नम॑र्त्यः प्र॒तप॒ञ्ज्योति॑षा॒ तमः॑ |{ऋणंचयः | पवमानः सोमः | सतोबृहती}

स सुष्टु॑तः क॒विभि᳚र्नि॒र्णिजं᳚ दधे त्रि॒धात्व॑स्य॒ दंस॑सा ||{12/16}{7.5.19.2}{9.108.12}{9.7.5.12}{730, 831, 8738}

वृषा᳚¦वि¦ज॒ज्ञे॒¦ज॒नय॑न्¦अम॑र्त्यः¦प्र॒ऽतप॑न्¦ज्योति॑षा¦तमः॑ |
सः¦सुऽस्तु॑तः¦क॒विऽभिः॑¦निः॒ऽनिज᳚‌म्¦द॒धे॒¦त्रि॒ऽधातु॑¦अ॒स्य॒¦दंस॑सा ||

स सु᳚न्वे॒ यो वसू᳚नां॒ यो रा॒यामा᳚ने॒ता य इळा᳚नाम् |{ऋणंचयः | पवमानः सोमः | यवमध्यागायत्री}

सोमो॒ यः सु॑क्षिती॒नाम् ||{13/16}{7.5.19.3}{9.108.13}{9.7.5.13}{731, 831, 8739}

सः¦सु॒न्वे॒¦यः¦वसू᳚ना‌म्¦यः¦रा॒या‌म्¦आ॒ऽने॒ता¦यः¦इळा᳚ना‌म् | सोमः॑¦यः¦सु॒ऽक्षि॒ती॒ना‌म् ||

यस्य॑ न॒ इन्द्रः॒ पिबा॒द्यस्य॑ म॒रुतो॒ यस्य॑ वार्य॒मणा॒ भगः॑ |{वसिष्ठःशक्तिः | पवमानः सोमः | सतोबृहती}

आ येन॑ मि॒त्रावरु॑णा॒ करा᳚मह॒ एन्द्र॒मव॑से म॒हे ||{14/16}{7.5.19.4}{9.108.14}{9.7.5.14}{732, 831, 8740}

यस्य॑¦नः॒¦इन्द्रः॑¦पिबा᳚त्¦यस्य॑¦म॒रुतः॑¦यस्य॑¦वा॒¦अ॒र्य॒मणा᳚¦भगः॑ |
आ¦येन॑¦मि॒त्रावरु॑णा¦करा᳚महे¦आ¦इन्द्र᳚‌म्¦अव॑से¦म॒हे ||

इन्द्रा᳚य सोम॒ पात॑वे॒ नृभि᳚र्य॒तः स्वा᳚यु॒धो म॒दिन्त॑मः |{वसिष्ठःशक्तिः | पवमानः सोमः | ककुभः}

पव॑स्व॒ मधु॑मत्तमः ||{15/16}{7.5.19.5}{9.108.15}{9.7.5.15}{733, 831, 8741}

इन्द्रा᳚य¦सो॒म॒¦पात॑वे¦नृऽभिः॑¦य॒तः¦सु॒ऽआ॒यु॒धः¦म॒दिन्ऽत॑मः | पव॑स्व¦मधु॑मत्ऽतमः ||

इन्द्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श समु॒द्रमि॑व॒ सिन्ध॑वः |{वसिष्ठःशक्तिः | पवमानः सोमः | सतोबृहती}

जुष्टो᳚ मि॒त्राय॒ वरु॑णाय वा॒यवे᳚ दि॒वो वि॑ष्ट॒म्भ उ॑त्त॒मः ||{16/16}{7.5.19.6}{9.108.16}{9.7.5.16}{734, 831, 8742}

इन्द्र॑स्य¦हार्दि॑¦सो॒म॒ऽधान᳚‌म्¦आ¦वि॒श॒¦स॒मु॒द्र‌म्ऽ‌इ᳚व¦सिन्ध॑वः |
जुष्टः॑¦मि॒त्राय॑¦वरु॑णाय¦वा॒यवे᳚¦दि॒वः¦वि॒ष्ट॒म्भः¦उ॒त्ऽत॒मः ||

[66] परिप्रेतिद्वाविंशत्यृचस्य सूक्तस्यैश्वरयोधिष्ण्याग्नयः पवमान सोमोद्विपदा विराट् |
परि॒ प्र ध॒न्वेन्द्रा᳚य सोम स्वा॒दुर्मि॒त्राय॑ पू॒ष्णे भगा᳚य ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{1/22}{7.5.20.1}{9.109.1}{9.7.6.1}{735, 832, 8743}

परि॑¦प्र¦ध॒न्व॒¦इन्द्रा᳚य¦सो॒म॒¦स्वा॒दुः¦मि॒त्राय॑¦पू॒ष्णे¦भगा᳚य ||

इन्द्र॑स्ते सोम सु॒तस्य॑ पेयाः॒ क्रत्वे॒ दक्षा᳚य॒ विश्वे᳚ च दे॒वाः ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{2/22}{7.5.20.2}{9.109.2}{9.7.6.2}{736, 832, 8744}

इन्द्रः॑¦ते॒¦सो॒म॒¦सु॒तस्य॑¦पे॒याः॒¦क्रत्वे᳚¦दक्षा᳚य¦विश्वे᳚¦च॒¦दे॒वाः ||

ए॒वामृता᳚य म॒हे क्षया᳚य॒ स शु॒क्रो, अ॑र्ष दि॒व्यः पी॒यूषः॑ ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{3/22}{7.5.20.3}{9.109.3}{9.7.6.3}{737, 832, 8745}

ए॒व¦अ॒मृता᳚य¦म॒हे¦क्षया᳚य¦सः¦शु॒क्रः¦अ॒र्ष॒¦दि॒व्यः¦पी॒यूषः॑ ||

पव॑स्व सोम म॒हान्‌ त्स॑मु॒द्रः पि॒ता दे॒वानां॒ विश्वा॒भि धाम॑ ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{4/22}{7.5.20.4}{9.109.4}{9.7.6.4}{738, 832, 8746}

पव॑स्व¦सो॒म॒¦म॒हान्¦स॒मु॒द्रः¦पि॒ता¦दे॒वाना᳚‌म्¦विश्वा᳚¦अ॒भि¦धाम॑ ||

शु॒क्रः प॑वस्व दे॒वेभ्यः॑ सोम दि॒वे पृ॑थि॒व्यै शं च॑ प्र॒जायै᳚ ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{5/22}{7.5.20.5}{9.109.5}{9.7.6.5}{739, 832, 8747}

शु॒क्रः¦प॒व॒स्व॒¦दे॒वेभ्यः॑¦सो॒म॒¦दि॒वे¦पृ॒थि॒व्यै¦श‌म्¦च॒¦प्र॒ऽजायै᳚ ||

दि॒वो ध॒र्तासि॑ शु॒क्रः पी॒यूषः॑ स॒त्ये विध᳚र्मन्वा॒जी प॑वस्व ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{6/22}{7.5.20.6}{9.109.6}{9.7.6.6}{740, 832, 8748}

दि॒वः¦ध॒र्ता¦अ॒सि॒¦शु॒क्रः¦पी॒यूषः॑¦स॒त्ये¦विऽध᳚र्मन्¦वा॒जी¦प॒व॒स्व॒ ||

पव॑स्व सोम द्यु॒म्नी सु॑धा॒रो म॒हामवी᳚ना॒मनु॑ पू॒र्व्यः ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{7/22}{7.5.20.7}{9.109.7}{9.7.6.7}{741, 832, 8749}

पव॑स्व¦सो॒म॒¦द्यु॒म्नी¦सु॒ऽधा॒रः¦म॒हा‌म्¦अवी᳚ना‌म्¦अनु॑¦पू॒र्व्यः ||

नृभि᳚र्येमा॒नो ज॑ज्ञा॒नः पू॒तः, क्षर॒द्विश्वा᳚नि म॒न्द्रः स्व॒र्वित् ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{8/22}{7.5.20.8}{9.109.8}{9.7.6.8}{742, 832, 8750}

नृऽभिः॑¦ये॒मा॒नः¦ज॒ज्ञा॒नः¦पू॒तः¦क्षर॑त्¦विश्वा᳚नि¦म॒न्द्रः¦स्वः॒ऽवित् ||

इन्दुः॑ पुना॒नः प्र॒जामु॑रा॒णः कर॒द्विश्वा᳚नि॒ द्रवि॑णानि नः ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{9/22}{7.5.20.9}{9.109.9}{9.7.6.9}{743, 832, 8751}

इन्दुः॑¦पु॒ना॒नः¦प्र॒ऽजा‌म्¦उ॒रा॒णः¦क॒र॒त्¦विश्वा᳚नि¦द्रवि॑णानि¦नः॒ ||

पव॑स्व सोम॒ क्रत्वे॒ दक्षा॒याश्वो॒ न नि॒क्तो वा॒जी धना᳚य ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{10/22}{7.5.20.10}{9.109.10}{9.7.6.10}{744, 832, 8752}

पव॑स्व¦सो॒म॒¦क्रत्वे᳚¦दक्षा᳚य¦अश्वः॑¦न¦नि॒क्तः¦वा॒जी¦धना᳚य ||

तं ते᳚ सो॒तारो॒ रसं॒ मदा᳚य पु॒नन्ति॒ सोमं᳚ म॒हे द्यु॒म्नाय॑ ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{11/22}{7.5.21.1}{9.109.11}{9.7.6.11}{745, 832, 8753}

त‌म्¦ते॒¦सो॒तारः॑¦रस᳚‌म्¦मदा᳚य¦पु॒नन्ति॑¦सोम᳚‌म्¦म॒हे¦द्यु॒म्नाय॑ ||

शिशुं᳚ जज्ञा॒नं हरिं᳚ मृजन्ति प॒वित्रे॒ सोमं᳚ दे॒वेभ्य॒ इन्दु᳚म् ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{12/22}{7.5.21.2}{9.109.12}{9.7.6.12}{746, 832, 8754}

शिशु᳚‌म्¦ज॒ज्ञा॒न‌म्¦हरि᳚‌म्¦मृ॒ज॒न्ति॒¦प॒वित्रे᳚¦सोम᳚‌म्¦दे॒वेभ्यः॑¦इन्दु᳚‌म् ||

इन्दुः॑ पविष्ट॒ चारु॒र्मदा᳚या॒पामु॒पस्थे᳚ क॒विर्भगा᳚य ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{13/22}{7.5.21.3}{9.109.13}{9.7.6.13}{747, 832, 8755}

इन्दुः॑¦प॒वि॒ष्ट॒¦चारुः॑¦मदा᳚य¦अ॒पा‌म्¦उ॒पऽस्थे᳚¦क॒विः¦भगा᳚य ||

बिभ॑र्ति॒ चार्विन्द्र॑स्य॒ नाम॒ येन॒ विश्वा᳚नि वृ॒त्रा ज॒घान॑ ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{14/22}{7.5.21.4}{9.109.14}{9.7.6.14}{748, 832, 8756}

बिभ॑र्ति¦चारु॑¦इन्द्र॑स्य¦नाम॑¦येन॑¦विश्वा᳚नि¦वृ॒त्रा¦ज॒घान॑ ||

पिब᳚न्त्यस्य॒ विश्वे᳚ दे॒वासो॒ गोभिः॑ श्री॒तस्य॒ नृभिः॑ सु॒तस्य॑ ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{15/22}{7.5.21.5}{9.109.15}{9.7.6.15}{749, 832, 8757}

पिब᳚न्ति¦अ॒स्य॒¦विश्वे᳚¦दे॒वासः॑¦गोभिः॑¦श्री॒तस्य॑¦नृऽभिः॑¦सु॒तस्य॑ ||

प्र सु॑वा॒नो, अ॑क्षाः स॒हस्र॑धारस्ति॒रः प॒वित्रं॒ वि वार॒मव्य᳚म् ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{16/22}{7.5.21.6}{9.109.16}{9.7.6.16}{750, 832, 8758}

प्र¦सु॒वा॒नः¦अ॒क्षा॒रिति॑¦स॒हस्र॑ऽधारः¦ति॒रः¦प॒वित्र᳚‌म्¦वि¦वार᳚‌म्¦अव्य᳚‌म् ||

स वा॒ज्य॑क्षाः स॒हस्र॑रेता, अ॒द्भिर्मृ॑जा॒नो गोभिः॑ श्रीणा॒नः ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{17/22}{7.5.21.7}{9.109.17}{9.7.6.17}{751, 832, 8759}

सः¦वा॒जी¦अ॒क्षा॒रिति॑¦स॒हस्र॑ऽरेताः¦अ॒त्ऽभिः¦मृ॒जा॒नः¦गोभिः॑¦श्री॒णा॒नः ||

प्र सो᳚म या॒हीन्द्र॑स्य कु॒क्षा नृभि᳚र्येमा॒नो, अद्रि॑भिः सु॒तः ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{18/22}{7.5.21.8}{9.109.18}{9.7.6.18}{752, 832, 8760}

प्र¦सो॒म॒¦या॒हि॒¦इन्द्र॑स्य¦कु॒क्षा¦नृऽभिः॑¦ये॒मा॒नः¦अद्रि॑ऽभिः¦सु॒तः ||

अस॑र्जि वा॒जी ति॒रः प॒वित्र॒मिन्द्रा᳚य॒ सोमः॑ स॒हस्र॑धारः ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{19/22}{7.5.21.9}{9.109.19}{9.7.6.19}{753, 832, 8761}

अस॑र्जि¦वा॒जी¦ति॒रः¦प॒वित्र᳚‌म्¦इन्द्रा᳚य¦सोमः॑¦स॒हस्र॑ऽधारः ||

अ॒ञ्जन्त्ये᳚नं॒ मध्वो॒ रसे॒नेन्द्रा᳚य॒ वृष्ण॒ इन्दुं॒ मदा᳚य ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{20/22}{7.5.21.10}{9.109.20}{9.7.6.20}{754, 832, 8762}

अं॒जन्ति॑¦ए॒न॒‌म्¦मध्वः॑¦रसे᳚न¦इन्द्रा᳚य¦वृष्णे᳚¦इन्दु᳚‌म्¦मदा᳚य ||

दे॒वेभ्य॑स्त्वा॒ वृथा॒ पाज॑से॒ऽपो वसा᳚नं॒ हरिं᳚ मृजन्ति ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{21/22}{7.5.21.11}{9.109.21}{9.7.6.21}{755, 832, 8763}

दे॒वेभ्यः॑¦त्वा॒¦वृथा᳚¦पाज॑से¦अ॒पः¦वसा᳚न‌म्¦हरि᳚‌म्¦मृ॒ज॒न्ति॒ ||

इन्दु॒रिन्द्रा᳚य तोशते॒ नि तो᳚शते श्री॒णन्नु॒ग्रो रि॒णन्न॒पः ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{22/22}{7.5.21.12}{9.109.22}{9.7.6.22}{756, 832, 8764}

इन्दुः॑¦इन्द्रा᳚य¦तो॒श॒ते॒¦नि¦तो॒श॒ते॒¦श्री॒णन्¦उ॒ग्रः¦रि॒णन्¦अ॒पः ||

[67] पर्यूष्विति द्वादशर्चस्य सूक्तस्य त्र्यरुणत्रसदस्यू राजानौ पवमान सोमः आद्यास्तिस्रोनुष्टुभः पिपीलिकमध्याः चतुर्थ्यादिषळूर्ध्व बृहत्योंऽत्यास्तिस्रोविराजः |
पर्यू॒ षु प्र ध᳚न्व॒ वाज॑सातये॒ परि॑ वृ॒त्राणि॑ स॒क्षणिः॑ |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | अनुष्टुप्}

द्वि॒षस्त॒रध्या᳚ ऋण॒या न॑ ईयसे ||{1/12}{7.5.22.1}{9.110.1}{9.7.7.1}{757, 833, 8765}

परि॑¦ऊँ॒ इति॑¦सु¦प्र¦ध॒न्व॒¦वाज॑ऽसातये¦परि॑¦वृ॒त्राणि॑¦स॒क्षणिः॑ | द्वि॒षः¦त॒रध्यै᳚¦ऋ॒ण॒ऽयाः¦नः॒¦ई॒य॒से॒ ||

अनु॒ हि त्वा᳚ सु॒तं सो᳚म॒ मदा᳚मसि म॒हे स॑मर्य॒राज्ये᳚ |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | अनुष्टुप्}

वाजाँ᳚, अ॒भि प॑वमान॒ प्र गा᳚हसे ||{2/12}{7.5.22.2}{9.110.2}{9.7.7.2}{758, 833, 8766}

अनु॑¦हि¦त्वा॒¦सु॒त‌म्¦सो॒म॒¦मदा᳚मसि¦म॒हे¦स॒म॒र्य॒ऽराज्ये᳚ | वाजा᳚न्¦अ॒भि¦प॒व॒मा॒न॒¦प्र¦गा॒ह॒से॒ ||

अजी᳚जनो॒ हि प॑वमान॒ सूर्यं᳚ वि॒धारे॒ शक्म॑ना॒ पयः॑ |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | अनुष्टुप्}

गोजी᳚रया॒ रंह॑माणः॒ पुरं᳚ध्या ||{3/12}{7.5.22.3}{9.110.3}{9.7.7.3}{759, 833, 8767}

अजी᳚जनः¦हि¦प॒व॒मा॒न॒¦सूर्य᳚‌म्¦वि॒ऽधारे᳚¦शक्म॑ना¦पयः॑ | गोऽजी᳚रया¦रंह॑माणः¦पुर᳚न्ध्या ||

अजी᳚जनो, अमृत॒ मर्त्ये॒ष्वाँ, ऋ॒तस्य॒ धर्म᳚न्न॒मृत॑स्य॒ चारु॑णः |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती}

सदा᳚सरो॒ वाज॒मच्छा॒ सनि॑ष्यदत् ||{4/12}{7.5.22.4}{9.110.4}{9.7.7.4}{760, 833, 8768}

अजी᳚जनः¦अ॒मृ॒त॒¦मर्त्ये᳚षु¦आ¦ऋ॒तस्य॑¦धर्म॑न्¦अ॒मृत॑स्य¦चारु॑णः |
सदा᳚¦अ॒स॒रः॒¦वाज᳚‌म्¦अच्छ॑¦सनि॑स्यदत् ||

अ॒भ्य॑भि॒ हि श्रव॑सा त॒तर्दि॒थोत्सं॒ न कं चि॑ज्जन॒पान॒मक्षि॑तम् |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती}

शर्या᳚भि॒र्न भर॑माणो॒ गभ॑स्त्योः ||{5/12}{7.5.22.5}{9.110.5}{9.7.7.5}{761, 833, 8769}

अ॒भि।आ॑भि¦हि¦श्रव॑सा¦त॒तर्दि॑थ¦उत्स᳚‌म्¦न¦क‌म्¦चि॒त्¦ज॒न॒ऽपान᳚‌म्¦अक्षि॑त‌म् |
शर्या᳚भिः¦न¦भर॑माणः¦गभ॑स्त्योः ||

आदीं॒ के चि॒त्पश्य॑मानास॒ आप्यं᳚ वसु॒रुचो᳚ दि॒व्या, अ॒भ्य॑नूषत |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती}

वारं॒ न दे॒वः स॑वि॒ता व्यू᳚र्णुते ||{6/12}{7.5.22.6}{9.110.6}{9.7.7.6}{762, 833, 8770}

आत्¦ई॒‌म्¦के¦चि॒त्¦पश्य॑मानासः¦आप्य᳚‌म्¦व॒सु॒ऽरुचः॑¦दि॒व्याः¦अ॒भि¦अ॒नू॒ष॒त॒ |
वार᳚‌म्¦न¦दे॒वः¦स॒वि॒ता¦वि¦ऊ॒र्णु॒ते॒ ||

त्वे सो᳚म प्रथ॒मा वृ॒क्तब᳚र्हिषो म॒हे वाजा᳚य॒ श्रव॑से॒ धियं᳚ दधुः |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती}

स त्वं नो᳚ वीर वी॒र्या᳚य चोदय ||{7/12}{7.5.23.1}{9.110.7}{9.7.7.7}{763, 833, 8771}

त्वे इति॑¦सो॒म॒¦प्र॒थ॒माः¦वृ॒क्तऽब॑र्हिषः¦म॒हे¦वाजा᳚य¦श्रव॑से¦धिय᳚‌म्¦द॒धुः॒ |
सः¦त्व‌म्¦नः॒¦वी॒र॒¦वी॒र्या᳚य¦चो॒द॒य॒ ||

दि॒वः पी॒यूषं᳚ पू॒र्व्यं यदु॒क्थ्यं᳚ म॒हो गा॒हाद्दि॒व आ निर॑धुक्षत |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती}

इन्द्र॑म॒भि जाय॑मानं॒ सम॑स्वरन् ||{8/12}{7.5.23.2}{9.110.8}{9.7.7.8}{764, 833, 8772}

दि॒वः¦पी॒यूष᳚‌म्¦पू॒र्व्य‌म्¦यत्¦उ॒क्थ्य᳚‌म्¦म॒हः¦गा॒हात्¦दि॒वः¦आ¦निः¦अ॒धु॒क्ष॒त॒ |
इन्द्र᳚‌म्¦अ॒भि¦जाय॑मान‌म्¦स‌म्¦अ॒स्व॒र॒न् ||

अध॒ यदि॒मे प॑वमान॒ रोद॑सी, इ॒मा च॒ विश्वा॒ भुव॑ना॒भि म॒ज्मना᳚ |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती}

यू॒थे न नि॒ष्ठा वृ॑ष॒भो वि ति॑ष्ठसे ||{9/12}{7.5.23.3}{9.110.9}{9.7.7.9}{765, 833, 8773}

अध॑¦यत्¦इ॒मे इति॑¦प॒व॒मा॒न॒¦रोद॑सी॒ इति॑¦इ॒मा¦च॒¦विश्वा᳚¦भुव॑ना¦अ॒भि¦म॒ज्मना᳚ |
यू॒थे¦न¦निः॒ऽस्थाः¦वृ॒ष॒भः¦वि¦ति॒ष्ठ॒से॒ ||

सोमः॑ पुना॒नो, अ॒व्यये॒ वारे॒ शिशु॒र्न क्रीळ॒न्‌ पव॑मानो, अक्षाः |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | विराट्}

स॒हस्र॑धारः श॒तवा᳚ज॒ इन्दुः॑ ||{10/12}{7.5.23.4}{9.110.10}{9.7.7.10}{766, 833, 8774}

सोमः॑¦पु॒ना॒नः¦अ॒व्यये᳚¦वारे᳚¦शिशुः॑¦न¦क्रीळ॑न्¦पव॑मानः¦अ॒क्षा॒रिति॑ | स॒हस्र॑ऽधारः¦श॒तऽवा᳚जः¦इन्दुः॑ ||

ए॒ष पु॑ना॒नो मधु॑माँ, ऋ॒तावेन्द्रा॒येन्दुः॑ पवते स्वा॒दुरू॒र्मिः |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | विराट्}

वा॒ज॒सनि᳚र्वरिवो॒विद्व॑यो॒धाः ||{11/12}{7.5.23.5}{9.110.11}{9.7.7.11}{767, 833, 8775}

ए॒षः¦पु॒ना॒नः¦मधु॑ऽमान्¦ऋ॒तऽवा᳚¦इन्द्रा᳚य¦इन्दुः॑¦प॒व॒ते॒¦स्वा॒दुः¦ऊ॒र्मिः | वा॒ज॒ऽसनिः॑¦व॒रि॒वः॒ऽवित्¦व॒यः॒ऽधाः ||

स प॑वस्व॒ सह॑मानः पृत॒न्यून्‌ त्सेध॒न्‌ रक्षां॒स्यप॑ दु॒र्गहा᳚णि |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | विराट्}

स्वा॒यु॒धः सा᳚स॒ह्वान्‌ त्सो᳚म॒ शत्रू॑न् ||{12/12}{7.5.23.6}{9.110.12}{9.7.7.12}{768, 833, 8776}

सः¦प॒व॒स्व॒¦सह॑मानः¦पृ॒त॒न्यून्¦सेध॑न्¦रक्षां᳚सि¦अप॑¦दुः॒ऽगहा᳚णि | सु॒ऽआ॒यु॒धः¦स॒स॒ह्वान्¦सो॒म॒¦शत्रू॑न् ||

[68] अयारुचेति तृचस्य सूक्तस्य पारुच्छेपिरनानतः पवमान सोमोत्यष्टिः |
अ॒या रु॒चा हरि᳚ण्या पुना॒नो विश्वा॒ द्वेषां᳚सि तरति स्व॒युग्व॑भिः॒ सूरो॒ न स्व॒युग्व॑भिः |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः}

धारा᳚ सु॒तस्य॑ रोचते पुना॒नो, अ॑रु॒षो हरिः॑ |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः}

विश्वा॒ यद्रू॒पा प॑रि॒यात्यृक्व॑भिः स॒प्तास्ये᳚भि॒रृक्व॑भिः ||{1/3}{7.5.24.1}{9.111.1}{9.7.8.1}{769, 834, 8777}

अ॒या¦रु॒चा¦हरि᳚ण्या¦पु॒ना॒नः¦विश्वा᳚¦द्वेषां᳚सि¦त॒र॒ति॒¦स्व॒युग्व॑ऽभिः¦सूरः॑¦न¦स्व॒युग्व॑ऽभिः |
धारा᳚¦सु॒तस्य॑¦रो॒च॒ते॒¦पु॒ना॒नः¦अ॒रु॒षः¦हरिः॑ |
विश्वा᳚¦यत्¦रू॒पा¦प॒रि॒ऽयाति॑¦ऋक्व॑ऽभिः¦स॒प्तऽआ᳚स्येभिः¦ऋक्व॑ऽभिः ||

त्वं त्यत्प॑णी॒नां वि॑दो॒ वसु॒ सं मा॒तृभि᳚र्मर्जयसि॒ स्व आ दम॑ ऋ॒तस्य॑ धी॒तिभि॒र्दमे᳚ |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः}

प॒रा॒वतो॒ न साम॒ तद्यत्रा॒ रण᳚न्ति धी॒तयः॑ |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः}

त्रि॒धातु॑भि॒ररु॑षीभि॒र्वयो᳚ दधे॒ रोच॑मानो॒ वयो᳚ दधे ||{2/3}{7.5.24.2}{9.111.2}{9.7.8.2}{770, 834, 8778}

त्व‌म्¦त्यत्¦प॒णी॒ना‌म्¦वि॒दः॒¦वसु॑¦स‌म्¦मा॒तृऽभिः॑¦म॒र्ज॒य॒सि॒¦स्वे¦आ¦दमे᳚¦ऋ॒तस्य॑¦धी॒तिऽभिः॑¦दमे᳚ |
प॒रा॒ऽवतः॑¦न¦साम॑¦तत्¦यत्र॑¦रण᳚न्ति¦धी॒तयः॑ |
त्रि॒धातु॑ऽभिः¦अरु॑षीभिः¦वयः॑¦द॒धे॒¦रोच॑मानः¦वयः॑¦द॒धे॒ ||

पूर्वा॒मनु॑ प्र॒दिशं᳚ याति॒ चेकि॑त॒त्सं र॒श्मिभि᳚र्यतते दर्श॒तो रथो॒ दैव्यो᳚ दर्श॒तो रथः॑ |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः}

अग्म᳚न्नु॒क्थानि॒ पौंस्येन्द्रं॒ जैत्रा᳚य हर्षयन् |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः}

वज्र॑श्च॒ यद्भव॑थो॒, अन॑पच्युता स॒मत्स्वन॑पच्युता ||{3/3}{7.5.24.3}{9.111.3}{9.7.8.3}{771, 834, 8779}

पूर्वा᳚‌म्¦अनु॑¦प्र॒ऽदिश᳚‌म्¦या॒ति॒¦चेकि॑तत्¦स‌म्¦र॒श्मिऽभिः॑¦य॒त॒ते॒¦द॒र्श॒तः¦रथः॑¦दैव्यः॑¦द॒र्श॒तः¦रथः॑ |
अग्म॑न्¦उ॒क्थानि॑¦पौंस्या᳚¦इन्द्र᳚‌म्¦जैत्रा᳚य¦ह॒र्ष॒य॒न् |
वज्रः॑¦च॒¦यत्¦भव॑थः¦अन॑पऽच्युता¦स॒मत्ऽसु॑¦अन॑पऽच्युता ||

[69] नानानमिति चतुरृचस्य सूक्तस्यांगिरसः शिशुः पवमानसोमःपंक्तिः |
ना॒ना॒नं वा, उ॑ नो॒ धियो॒ वि व्र॒तानि॒ जना᳚नाम् |{आंगिरसः शिशुः | पवमानः सोमः | पङ्क्तिः}

तक्षा᳚ रि॒ष्टं रु॒तं भि॒षग्ब्र॒ह्मा सु॒न्वन्त॑मिच्छ॒तीन्द्रा᳚येन्दो॒ परि॑ स्रव ||{1/4}{7.5.25.1}{9.112.1}{9.7.9.1}{772, 835, 8780}

ना॒ना॒न‌म्¦वै¦ऊँ॒ इति॑¦नः॒¦धियः॑¦वि¦व्र॒तानि॑¦जना᳚ना‌म् |
तक्षा᳚¦रि॒ष्ट‌म्¦रु॒त‌म्¦भि॒षक्¦ब्र॒ह्मा¦सु॒न्वन्त᳚‌म्¦इ॒च्छ॒ति॒¦इन्द्रा᳚य¦इ॒न्दो॒ इति॑¦परि॑¦स्र॒व॒ ||

जर॑तीभि॒रोष॑धीभिः प॒र्णेभिः॑ शकु॒नाना᳚म् |{आंगिरसः शिशुः | पवमानः सोमः | पङ्क्तिः}

का॒र्मा॒रो, अश्म॑भि॒र्द्युभि॒र्हिर᳚ण्यवन्तमिच्छ॒तीन्द्रा᳚येन्दो॒ परि॑ स्रव ||{2/4}{7.5.25.2}{9.112.2}{9.7.9.2}{773, 835, 8781}

जर॑तीभिः¦ओष॑धीभिः¦प॒र्णेभिः॑¦श॒कु॒नाना᳚‌म् |
का॒र्मा॒रः¦अश्म॑ऽभिः¦द्युऽभिः॑¦हिर᳚ण्यऽवन्त‌म्¦इ॒च्छ॒ति॒¦इन्द्रा᳚य¦इ॒न्दो॒ इति॑¦परि॑¦स्र॒व॒ ||

का॒रुर॒हं त॒तो भि॒षगु॑पलप्र॒क्षिणी᳚ न॒ना |{आंगिरसः शिशुः | पवमानः सोमः | पङ्क्तिः}

नाना᳚धियो वसू॒यवोऽनु॒ गा, इ॑व तस्थि॒मेन्द्रा᳚येन्दो॒ परि॑ स्रव ||{3/4}{7.5.25.3}{9.112.3}{9.7.9.3}{774, 835, 8782}

का॒रुः¦अ॒ह‌म्¦त॒तः¦भि॒षक्¦उ॒प॒ल॒ऽप्र॒क्षिणी᳚¦न॒ना |
नाना᳚ऽधियः¦व॒सु॒ऽयवः॑¦अनु॑¦गाःऽ‌इ᳚व¦त॒स्थि॒म॒¦इन्द्रा᳚य¦इ॒न्दो॒ इति॑¦परि॑¦स्र॒व॒ ||

अश्वो॒ वोळ्हा᳚ सु॒खं रथं᳚ हस॒नामु॑पम॒न्त्रिणः॑ |{आंगिरसः शिशुः | पवमानः सोमः | पङ्क्तिः}

शेपो॒ रोम᳚ण्वन्तौ भे॒दौ वारिन्म॒ण्डूक॑ इच्छ॒तीन्द्रा᳚येन्दो॒ परि॑ स्रव ||{4/4}{7.5.25.4}{9.112.4}{9.7.9.4}{775, 835, 8783}

अश्वः॑¦वोळ्हा᳚¦सु॒ऽख‌म्¦रथ᳚‌म्¦ह॒स॒ना‌म्¦उ॒प॒ऽम॒न्त्रिणः॑ |
शेपः॑¦रोम॑ण्ऽवन्तौ¦भे॒दौ¦वाः¦इत्¦म॒ण्डूकः॑¦इ॒च्छ॒ति॒¦इन्द्रा᳚य¦इ॒न्दो॒ इति॑¦परि॑¦स्र॒व॒ ||

[70] शर्यणावतीत्येकादशर्चस्य सूक्तस्य मारीचः कश्यपः पवमानसोमः पंक्तिः |
श॒र्य॒णाव॑ति॒ सोम॒मिन्द्रः॑ पिबतु वृत्र॒हा |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

बलं॒ दधा᳚न आ॒त्मनि॑ करि॒ष्यन्वी॒र्यं᳚ म॒हदिन्द्रा᳚येन्दो॒ परि॑ स्रव ||{1/11}{7.5.26.1}{9.113.1}{9.7.10.1}{776, 836, 8784}

श॒र्य॒णाऽव॑ति¦सोम᳚‌म्¦इन्द्रः॑¦पि॒ब॒तु॒¦वृ॒त्र॒ऽहा |
बल᳚‌म्¦दधा᳚नः¦आ॒त्मनि॑¦क॒रि॒ष्यन्¦वी॒र्य᳚‌म्¦म॒हत्¦इन्द्रा᳚य¦इ॒न्दो॒ इति॑¦परि॑¦स्र॒व॒ ||

आ प॑वस्व दिशां पत आर्जी॒कात्सो᳚म मीढ्वः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

ऋ॒त॒वा॒केन॑ स॒त्येन॑ श्र॒द्धया॒ तप॑सा सु॒त इन्द्रा᳚येन्दो॒ परि॑ स्रव ||{2/11}{7.5.26.2}{9.113.2}{9.7.10.2}{777, 836, 8785}

आ¦प॒व॒स्व॒¦दि॒शा॒‌म्¦प॒ते॒¦आ॒र्जी॒कात्¦सोम॑¦मीढ्वः॑ |
ऋ॒त॒ऽवा॒केन॑¦स॒त्येन॑¦श्र॒द्धया᳚¦तप॑सा¦सु॒तः¦इन्द्रा᳚य¦इ॒न्दो॒ इति॑¦परि॑¦स्र॒व॒ ||

प॒र्जन्य॑वृद्धं महि॒षं तं सूर्य॑स्य दुहि॒ताभ॑रत् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

तं ग᳚न्ध॒र्वाः प्रत्य॑गृभ्ण॒न्तं सोमे॒ रस॒माद॑धु॒रिन्द्रा᳚येन्दो॒ परि॑ स्रव ||{3/11}{7.5.26.3}{9.113.3}{9.7.10.3}{778, 836, 8786}

प॒र्जन्य॑ऽवृद्ध‌म्¦म॒हि॒ष‌म्¦त‌म्¦सूर्य॑स्य¦दु॒हि॒ता¦आ¦अ॒भ॒र॒त् |
त‌म्¦ग॒न्ध॒र्वाः¦प्रति॑¦अ॒गृ॒भ्ण॒न्¦त‌म्¦सोमे᳚¦रस᳚‌म्¦आ¦अ॒द॒धुः॒¦इन्द्रा᳚य¦इ॒न्दो॒ इति॑¦परि॑¦स्र॒व॒ ||

ऋ॒तं वद᳚न्नृतद्युम्न स॒त्यं वद᳚न्‌ त्सत्यकर्मन् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

श्र॒द्धां वद᳚न्‌ त्सोम राजन्धा॒त्रा सो᳚म॒ परि॑ष्कृत॒ इन्द्रा᳚येन्दो॒ परि॑ स्रव ||{4/11}{7.5.26.4}{9.113.4}{9.7.10.4}{779, 836, 8787}

ऋ॒त‌म्¦वद॑न्¦ऋ॒त॒ऽद्यु॒म्न॒¦स॒त्य‌म्¦वद॑न्¦स॒त्य॒ऽक॒र्म॒न् |
श्र॒द्धा‌म्¦वद॑न्¦सो॒म॒¦रा॒ज॒न्¦धा॒त्रा¦सो॒म॒¦परि॑ऽकृत¦इन्द्रा᳚य¦इ॒न्दो॒ इति॑¦परि॑¦स्र॒व॒ ||

स॒त्यमु॑ग्रस्य बृह॒तः सं स्र॑वन्ति संस्र॒वाः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

सं य᳚न्ति र॒सिनो॒ रसाः᳚ पुना॒नो ब्रह्म॑णा हर॒ इन्द्रा᳚येन्दो॒ परि॑ स्रव ||{5/11}{7.5.26.5}{9.113.5}{9.7.10.5}{780, 836, 8788}

स॒त्य‌म्।औ᳚ग्रस्य¦बृ॒ह॒तः¦स‌म्¦स्र॒व॒न्ति॒¦स॒‌म्ऽस्र॒वाः |
स‌म्¦य॒न्ति॒¦र॒सिनः॑¦रसाः᳚¦पु॒ना॒नः¦ब्रह्म॑णा¦ह॒रे॒¦इन्द्रा᳚य¦इ॒न्दो॒ इति॑¦परि॑¦स्र॒व॒ ||

यत्र॑ ब्र॒ह्मा प॑वमान छन्द॒स्या॒३॑(आं॒) वाचं॒ वद॑न् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

ग्राव्णा॒ सोमे᳚ मही॒यते॒ सोमे᳚नान॒न्दं ज॒नय॒न्निन्द्रा᳚येन्दो॒ परि॑ स्रव ||{6/11}{7.5.27.1}{9.113.6}{9.7.10.6}{781, 836, 8789}

यत्र॑¦ब्र॒ह्मा¦प॒व॒मा॒न॒¦छ॒न्द॒स्या᳚‌म्¦वाच᳚‌म्¦वद॑न् |
ग्राव्णा᳚¦सोमे᳚¦म॒ही॒यते᳚¦सोमे᳚न¦आ॒ऽन॒न्द‌म्¦ज॒नय॑न्¦इन्द्रा᳚य¦इ॒न्दो॒ इति॑¦परि॑¦स्र॒व॒ ||

यत्र॒ ज्योति॒रज॑स्रं॒ यस्मिँ᳚ल्लो॒के स्व᳚र्हि॒तम् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

तस्मि॒न्मां धे᳚हि पवमाना॒मृते᳚ लो॒के, अक्षि॑त॒ इन्द्रा᳚येन्दो॒ परि॑ स्रव ||{7/11}{7.5.27.2}{9.113.7}{9.7.10.7}{782, 836, 8790}

यत्र॑¦ज्योतिः॑¦अज॑स्र‌म्¦यस्मि॑न्¦लो॒के¦स्वः॑¦हि॒त‌म् |
तस्मि॑न्¦मा‌म्¦धे॒हि॒¦प॒व॒मा॒न॒¦अ॒मृते᳚¦लो॒के¦अक्षि॑ते¦इन्द्रा᳚य¦इ॒न्दो॒ इति॑¦परि॑¦स्र॒व॒ ||

यत्र॒ राजा᳚ वैवस्व॒तो यत्रा᳚व॒रोध॑नं दि॒वः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

यत्रा॒मूर्य॒ह्वती॒राप॒स्तत्र॒ माम॒मृतं᳚ कृ॒धीन्द्रा᳚येन्दो॒ परि॑ स्रव ||{8/11}{7.5.27.3}{9.113.8}{9.7.10.8}{783, 836, 8791}

यत्र॑¦राजा᳚¦वै॒व॒स्व॒तः¦यत्र॑¦अ॒व॒ऽरोध॑न‌म्¦दि॒वः |
यत्र॑¦अ॒मूः¦य॒ह्वतीः᳚¦आपः॑¦तत्र॑¦मा‌म्¦अ॒मृत᳚‌म्¦कृ॒धि॒¦इन्द्रा᳚य¦इ॒न्दो॒ इति॑¦परि॑¦स्र॒व॒ ||

यत्रा᳚नुका॒मं चर॑णं त्रिना॒के त्रि॑दि॒वे दि॒वः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

लो॒का यत्र॒ ज्योति॑ष्मन्त॒स्तत्र॒ माम॒मृतं᳚ कृ॒धीन्द्रा᳚येन्दो॒ परि॑ स्रव ||{9/11}{7.5.27.4}{9.113.9}{9.7.10.9}{784, 836, 8792}

यत्र॑¦अ॒नु॒ऽका॒म‌म्¦चर॑ण‌म्¦त्रि॒ऽना॒के¦त्रि॒ऽदि॒वे¦दि॒वः |
लो॒काः¦यत्र॑¦ज्योति॑ष्मन्तः¦तत्र॑¦मा‌म्¦अ॒मृत᳚‌म्¦कृ॒धि॒¦इन्द्रा᳚य¦इ॒न्दो॒ इति॑¦परि॑¦स्र॒व॒ ||

यत्र॒ कामा᳚ निका॒माश्च॒ यत्र॑ ब्र॒ध्नस्य॑ वि॒ष्टप᳚म् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

स्व॒धा च॒ यत्र॒ तृप्ति॑श्च॒ तत्र॒ माम॒मृतं᳚ कृ॒धीन्द्रा᳚येन्दो॒ परि॑ स्रव ||{10/11}{7.5.27.5}{9.113.10}{9.7.10.10}{785, 836, 8793}

यत्र॑¦कामाः᳚¦नि॒ऽका॒माः¦च॒¦यत्र॑¦ब्र॒ध्नस्य॑¦वि॒ष्टप᳚‌म् |
स्व॒धा¦च॒¦यत्र॑¦तृप्तिः॑¦च॒¦तत्र॑¦मा‌म्¦अ॒मृत᳚‌म्¦कृ॒धि॒¦इन्द्रा᳚य¦इ॒न्दो॒ इति॑¦परि॑¦स्र॒व॒ ||

यत्रा᳚न॒न्दाश्च॒ मोदा᳚श्च॒ मुदः॑ प्र॒मुद॒ आस॑ते |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

काम॑स्य॒ यत्रा॒प्ताः कामा॒स्तत्र॒ माम॒मृतं᳚ कृ॒धीन्द्रा᳚येन्दो॒ परि॑ स्रव ||{11/11}{7.5.27.6}{9.113.11}{9.7.10.11}{786, 836, 8794}

यत्र॑¦आ॒ऽन॒न्दाः¦च॒¦मोदाः᳚¦च॒¦मुदः॑¦प्र॒ऽमुदः॑¦आस॑ते |
काम॑स्य¦यत्र॑¦आ॒प्ताः¦कामाः᳚¦तत्र॑¦मा‌म्¦अ॒मृत᳚‌म्¦कृ॒धि॒¦इन्द्रा᳚य¦इ॒न्दो॒ इति॑¦परि॑¦स्र॒व॒ ||

[71] यइंदोरिति चतुरृचस्य सूक्तस्य मारीचः कश्यपः पवमानसोमःपंक्तिः |
य इन्दोः॒ पव॑मान॒स्यानु॒ धामा॒न्यक्र॑मीत् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

तमा᳚हुः सुप्र॒जा, इति॒ यस्ते᳚ सो॒मावि॑ध॒न्मन॒ इन्द्रा᳚येन्दो॒ परि॑ स्रव ||{1/4}{7.5.28.1}{9.114.1}{9.7.11.1}{787, 837, 8795}

यः¦इन्दोः᳚¦पव॑मानस्य¦अनु॑¦धामा᳚नि¦अक्र॑मीत् |
त‌म्¦आ॒हुः॒¦सु॒ऽप्र॒जाः¦इति॑¦यः¦ते॒¦सो॒म॒¦अवि॑धत्¦मनः॑¦इन्द्रा᳚य¦इ॒न्दो॒ इति॑¦परि॑¦स्र॒व॒ ||

ऋषे᳚ मन्त्र॒कृतां॒ स्तोमैः॒ कश्य॑पोद्व॒र्धय॒न्‌ गिरः॑ |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

सोमं᳚ नमस्य॒ राजा᳚नं॒ यो ज॒ज्ञे वी॒रुधां॒ पति॒रिन्द्रा᳚येन्दो॒ परि॑ स्रव ||{2/4}{7.5.28.2}{9.114.2}{9.7.11.2}{788, 837, 8796}

ऋषे᳚¦म॒न्त्र॒ऽकृता᳚‌म्¦स्तोमैः᳚¦कश्य॑प¦उ॒त्ऽव॒र्धय॑न्¦गिरः॑ |
सोम᳚‌म्¦न॒म॒स्य॒¦राजा᳚न‌म्¦यः¦ज॒ज्ञे¦वी॒रुधा᳚‌म्¦पतिः॑¦इन्द्रा᳚य¦इ॒न्दो॒ इति॑¦परि॑¦स्र॒व॒ ||

स॒प्त दिशो॒ नाना᳚सूर्याः स॒प्त होता᳚र ऋ॒त्विजः॑ |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

दे॒वा, आ᳚दि॒त्या ये स॒प्त तेभिः॑ सोमा॒भि र॑क्ष न॒ इन्द्रा᳚येन्दो॒ परि॑ स्रव ||{3/4}{7.5.28.3}{9.114.3}{9.7.11.3}{789, 837, 8797}

स॒प्त¦दिशः॑¦नाना᳚ऽसूर्याः¦स॒प्त¦होता᳚रः¦ऋ॒त्विजः॑ |
दे॒वाः¦आ॒दि॒त्याः¦ये¦स॒प्त¦तेभिः॑¦सो॒म॒¦अ॒भि¦र॒क्ष॒¦नः॒¦इन्द्रा᳚य¦इ॒न्दो॒ इति॑¦परि॑¦स्र॒व॒ ||

यत्ते᳚ राजञ्छृ॒तं ह॒विस्तेन॑ सोमा॒भि र॑क्ष नः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

अ॒रा॒ती॒वा मा न॑स्तारी॒न्मो च॑ नः॒ किं च॒नाम॑म॒दिन्द्रा᳚येन्दो॒ परि॑ स्रव ||{4/4}{7.5.28.4}{9.114.4}{9.7.11.4}{790, 837, 8798}

यत्¦ते॒¦रा॒ज॒न्¦शृ॒त‌म्¦ह॒विः¦तेन॑¦सो॒म॒¦अ॒भि¦र॒क्ष॒¦नः॒ |
अ॒रा॒ति॒ऽवा¦मा¦नः॒¦ता॒री॒त्¦मो इति॑¦च॒¦नः॒¦कि‌म्¦च॒न¦आ॒म॒म॒त्¦इन्द्रा᳚य¦इ॒न्दो॒ इति॑¦परि॑¦स्र॒व॒ ||

[72] अग्नेबृहन्निति सप्तर्चस्य सूक्तस्याप्त्यस्त्रितोग्निस्त्रिष्टुप् |
अग्रे᳚ बृ॒हन्नु॒षसा᳚मू॒र्ध्वो, अ॑स्थान्निर्जग॒न्वान्‌ तम॑सो॒ ज्योति॒षागा᳚त् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ जा॒तो विश्वा॒ सद्मा᳚न्यप्राः ||{1/7}{7.5.29.1}{10.1.1}{10.1.1.1}{791, 838, 8799}

अग्रे᳚¦बृ॒हन्¦उ॒षसा᳚‌म्¦ऊ॒र्ध्वः¦अ॒स्था॒त्¦निः॒ऽज॒ग॒न्वान्¦तम॑सः¦ज्योति॑षा¦आ¦अ॒गा॒त् |
अ॒ग्निः¦भा॒नुना᳚¦रुश॑ता¦सु॒।आङ्गः॑¦आ¦जा॒तः¦विश्वा᳚¦सद्मा᳚नि¦अ॒प्राः॒ ||

स जा॒तो गर्भो᳚, असि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

चि॒त्रः शिशुः॒ परि॒ तमां᳚स्य॒क्तून्‌ प्र मा॒तृभ्यो॒, अधि॒ कनि॑क्रदद्गाः ||{2/7}{7.5.29.2}{10.1.2}{10.1.1.2}{792, 838, 8800}

सः¦जा॒तः¦गर्भः॑¦अ॒सि॒¦रोद॑स्योः¦अग्ने᳚¦चारुः॑¦विऽभृ॑तः¦ओष॑धीषु |
चि॒त्रः¦शिशुः॑¦परि॑¦तमां᳚सि¦अ॒क्तून्¦प्र¦मा॒तृऽभ्यः॑¦अधि॑¦कनि॑क्रदत्¦गाः॒ ||

विष्णु॑रि॒त्था प॑र॒मम॑स्य वि॒द्वाञ्जा॒तो बृ॒हन्न॒भि पा᳚ति तृ॒तीय᳚म् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

आ॒सा यद॑स्य॒ पयो॒, अक्र॑त॒ स्वं सचे᳚तसो, अ॒भ्य॑र्च॒न्त्यत्र॑ ||{3/7}{7.5.29.3}{10.1.3}{10.1.1.3}{793, 838, 8801}

विष्णुः॑¦इ॒त्था¦प॒र॒म‌म्¦अ॒स्य॒¦वि॒द्वान्¦जा॒तः¦बृ॒हन्¦अ॒भि¦पा॒ति॒¦तृ॒तीय᳚‌म् |
आ॒सा¦यत्¦अ॒स्य॒¦पयः॑¦अक्र॑त¦स्व‌म्¦सऽचे᳚तसः¦अ॒भि¦अ॒र्च॒न्ति॒¦अत्र॑ ||

अत॑ उ त्वा पितु॒भृतो॒ जनि॑त्रीरन्ना॒वृधं॒ प्रति॑ चर॒न्त्यन्नैः᳚ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

ता, ईं॒ प्रत्ये᳚षि॒ पुन॑र॒न्यरू᳚पा॒, असि॒ त्वं वि॒क्षु मानु॑षीषु॒ होता᳚ ||{4/7}{7.5.29.4}{10.1.4}{10.1.1.4}{794, 838, 8802}

अतः॑¦ऊँ॒ इति॑¦त्वा॒¦पि॒तु॒ऽभृतः॑¦जनि॑त्रीः¦अ॒न्न॒ऽवृध᳚‌म्¦प्रति॑¦च॒र॒न्ति॒¦अन्नैः᳚ |
ताः¦ई॒‌म्¦प्रति॑¦ए॒षि॒¦पुनः॑¦अ॒न्यऽरू᳚पाः¦असि॑¦त्व‌म्¦वि॒क्षु¦मानु॑षीषु¦होता᳚ ||

होता᳚रं चि॒त्रर॑थमध्व॒रस्य॑ य॒ज्ञस्य॑यज्ञस्य के॒तुं रुश᳚न्तम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

प्रत्य॑र्धिं दे॒वस्य॑देवस्य म॒ह्ना श्रि॒या त्व१॑(अ॒)ग्निमति॑थिं॒ जना᳚नाम् ||{5/7}{7.5.29.5}{10.1.5}{10.1.1.5}{795, 838, 8803}

होता᳚र‌म्¦चि॒त्रऽर॑थ‌म्¦अ॒ध्व॒रस्य॑¦य॒ज्ञस्य॑ऽयज्ञस्य¦के॒तु‌म्¦रुश᳚न्त‌म् |
प्रति॑।आर्धि‌म्¦दे॒वस्य॑ऽदेवस्य¦म॒ह्ना¦श्रि॒या¦त्व‌म्¦अ॒ग्नि‌म्¦अति॑थि‌म्¦जना᳚ना‌म् ||

स तु वस्त्रा॒ण्यध॒ पेश॑नानि॒ वसा᳚नो, अ॒ग्निर्नाभा᳚ पृथि॒व्याः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒रु॒षो जा॒तः प॒द इळा᳚याः पु॒रोहि॑तो राजन्यक्षी॒ह दे॒वान् ||{6/7}{7.5.29.6}{10.1.6}{10.1.1.6}{796, 838, 8804}

सः¦तु¦वस्त्रा᳚णि¦अध॑¦पेश॑नानि¦वसा᳚नः¦अ॒ग्निः¦नाभा᳚¦पृ॒थि॒व्याः |
अ॒रु॒षः¦जा॒तः¦प॒दे¦इळा᳚याः¦पु॒रःऽहि॑तः¦रा॒ज॒न्¦य॒क्षि॒¦इ॒ह¦दे॒वान् ||

आ हि द्यावा᳚पृथि॒वी, अ॑ग्न उ॒भे सदा᳚ पु॒त्रो न मा॒तरा᳚ त॒तन्थ॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

प्र या॒ह्यच्छो᳚श॒तो य॑वि॒ष्ठाथा व॑ह सहस्ये॒ह दे॒वान् ||{7/7}{7.5.29.7}{10.1.7}{10.1.1.7}{797, 838, 8805}

आ¦हि¦द्यावा᳚पृथि॒वी इति॑¦अ॒ग्ने॒¦उ॒भे इति॑¦सदा᳚¦पु॒त्रः¦न¦मा॒तरा᳚¦त॒तन्थ॑ |
प्र¦या॒हि॒¦अच्छ॑¦उ॒श॒तः¦य॒वि॒ष्ठ॒¦अथ॑¦आ¦व॒ह॒¦स॒ह॒स्य॒¦इ॒ह¦दे॒वान् ||

[73] पिप्रीहीति सप्तर्चस्य सूक्तस्याप्त्यस्त्रितोग्निस्त्रिष्टुप् | (१ नात्रस्वाहाकारः किंतुमंत्रांत एव हविः प्रक्षेपः)|
पि॒प्री॒हि दे॒वाँ, उ॑श॒तो य॑विष्ठ वि॒द्वाँ, ऋ॒तूँरृ॑तुपते यजे॒ह |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

ये दैव्या᳚ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वं होतॄ᳚णाम॒स्याय॑जिष्ठः ||{1/7}{7.5.30.1}{10.2.1}{10.1.2.1}{798, 839, 8806}

पि॒प्री॒हि¦दे॒वान्¦उ॒श॒तः¦य॒वि॒ष्ठ॒¦वि॒द्वान्¦ऋ॒तून्¦ऋ॒तु॒ऽप॒ते॒¦य॒ज॒¦इ॒ह |
ये¦दैव्याः᳚¦ऋ॒त्विजः॑¦तेभिः॑¦अ॒ग्ने॒¦त्व‌म्¦होतॄ᳚णा‌म्¦अ॒सि॒¦आऽय॑जिष्ठः ||

वेषि॑ हो॒त्रमु॒त पो॒त्रं जना᳚नां मन्धा॒तासि॑ द्रविणो॒दा, ऋ॒तावा᳚ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

स्वाहा᳚ व॒यं कृ॒णवा᳚मा ह॒वींषि॑ दे॒वो दे॒वान्‌ य॑जत्व॒ग्निरर्ह॑न् ||{2/7}{7.5.30.2}{10.2.2}{10.1.2.2}{799, 839, 8807}

वेषि॑¦हो॒त्र‌म्¦उ॒त¦पो॒त्र‌म्¦जना᳚ना‌म्¦म॒न्धा॒ता¦अ॒सि॒¦द्र॒वि॒णः॒ऽदाः¦ऋ॒तऽवा᳚ |
स्वाहा᳚¦व॒य‌म्¦कृ॒णवा᳚म¦ह॒वींषि॑¦दे॒वः¦दे॒वान्¦य॒ज॒तु॒¦अ॒ग्निः¦अर्ह॑न् ||

आ दे॒वाना॒मपि॒ पन्था᳚मगन्म॒ यच्छ॒क्नवा᳚म॒ तदनु॒ प्रवो᳚ळ्हुम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒ग्निर्वि॒द्वान्‌ त्स य॑जा॒त्सेदु॒ होता॒ सो, अ॑ध्व॒रान्‌ त्स ऋ॒तून्‌ क॑ल्पयाति ||{3/7}{7.5.30.3}{10.2.3}{10.1.2.3}{800, 839, 8808}

आ¦दे॒वाना᳚‌म्¦अपि॑¦पन्था᳚‌म्¦अ॒ग॒न्म॒¦यत्¦श॒क्नवा᳚म¦तत्¦अनु॑¦प्रऽवो᳚ळ्हु‌म् |
अ॒ग्निः¦वि॒द्वान्¦सः¦य॒ज॒त्¦सः¦इत्¦ऊँ॒ इति॑¦होता᳚¦सः¦अ॒ध्व॒रान्¦सः¦ऋ॒तून्¦क॒ल्प॒या॒ति॒ ||

यद्वो᳚ व॒यं प्र॑मि॒नाम᳚ व्र॒तानि॑ वि॒दुषां᳚ देवा॒, अवि॑दुष्टरासः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒ग्निष्टद्विश्व॒मा पृ॑णाति वि॒द्वान्‌ येभि॑र्दे॒वाँ, ऋ॒तुभिः॑ क॒ल्पया᳚ति ||{4/7}{7.5.30.4}{10.2.4}{10.1.2.4}{801, 839, 8809}

तत्¦वः॒¦व॒य‌म्¦प्र॒ऽमि॒नाम॑¦व्र॒तानि॑¦वि॒दुषा᳚‌म्¦दे॒वाः॒¦अवि॑दुःऽतरासः |
अ॒ग्निः¦तत्¦विश्व᳚‌म्¦आ¦पृ॒णा॒ति॒¦वि॒द्वान्¦येभिः॑¦दे॒वान्¦ऋ॒तुऽभिः॑¦क॒ल्पया᳚ति ||

यत्पा᳚क॒त्रा मन॑सा दी॒नद॑क्षा॒ न य॒ज्ञस्य॑ मन्व॒ते मर्त्या᳚सः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒ग्निष्टद्धोता᳚ क्रतु॒विद्वि॑जा॒नन्यजि॑ष्ठो दे॒वाँ, ऋ॑तु॒शो य॑जाति ||{5/7}{7.5.30.5}{10.2.5}{10.1.2.5}{802, 839, 8810}

यत्¦पा॒क॒ऽत्रा¦मन॑सा¦दी॒नऽद॑क्षाः¦न¦य॒ज्ञस्य॑¦म॒न्व॒ते¦मर्त्या᳚सः |
अ॒ग्निः¦तत्¦होता᳚¦क्र॒तु॒ऽवित्¦वि॒ऽजा॒नन्¦यजि॑ष्ठः¦दे॒वान्¦ऋ॒तु॒ऽशः¦य॒जा॒ति॒ ||

विश्वे᳚षां॒ ह्य॑ध्व॒राणा॒मनी᳚कं चि॒त्रं के॒तुं जनि॑ता त्वा ज॒जान॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

स आ य॑जस्व नृ॒वती॒रनु॒ क्षाः स्पा॒र्हा, इषः॑, क्षु॒मती᳚र्वि॒श्वज᳚न्याः ||{6/7}{7.5.30.6}{10.2.6}{10.1.2.6}{803, 839, 8811}

विश्वे᳚षा‌म्¦हि¦अ॒ध्व॒राणा᳚‌म्¦अनी᳚क‌म्¦चि॒त्र‌म्¦के॒तु‌म्¦जनि॑ता¦त्वा॒¦ज॒जान॑ |
सः¦आ¦य॒ज॒स्व॒¦नृ॒ऽवतीः᳚¦अनु॑¦क्षाः¦स्पा॒र्हाः¦इषः॑¦क्षु॒ऽमतीः᳚¦वि॒स्वऽज᳚न्याः ||

यं त्वा॒ द्यावा᳚पृथि॒वी यं त्वाप॒स्त्वष्टा॒ यं त्वा᳚ सु॒जनि॑मा ज॒जान॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

पन्था॒मनु॑ प्रवि॒द्वान्‌ पि॑तृ॒याणं᳚ द्यु॒मद॑ग्ने समिधा॒नो वि भा᳚हि ||{7/7}{7.5.30.7}{10.2.7}{10.1.2.7}{804, 839, 8812}

य‌म्¦त्वा॒¦द्यावा᳚पृथि॒वी इति॑¦य‌म्¦त्वा॒¦आपः॑¦त्वष्टा᳚¦य‌म्¦त्वा॒¦सु॒ऽजमि॑मा¦ज॒जान॑ |
पन्था᳚‌म्¦अनु॑¦प्र॒ऽवि॒द्वान्¦पि॒तृ॒ऽयान᳚‌म्¦द्यु॒ऽमत्¦अ॒ग्ने॒¦स॒‌म्ऽ‌इ॒धा॒नः¦वि¦भा॒हि॒ ||

[74] इनोराजन्निति सप्तर्चस्य सूक्तस्याप्त्यस्त्रितोग्निस्त्रिष्टुप् |
इ॒नो रा᳚जन्नर॒तिः समि॑द्धो॒ रौद्रो॒ दक्षा᳚य सुषु॒माँ, अ॑दर्शि |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

चि॒किद्वि भा᳚ति भा॒सा बृ॑ह॒तासि॑क्नीमेति॒ रुश॑तीम॒पाज॑न् ||{1/7}{7.5.31.1}{10.3.1}{10.1.3.1}{805, 840, 8813}

इ॒नः¦रा॒ज॒न्¦अ॒र॒तिः¦स‌म्ऽ‌इ᳚द्धः¦रौद्रः॑¦दक्षा᳚य¦सु॒सु॒ऽमान्¦अ॒द॒र्शि॒ |
चि॒कित्¦वि¦भा॒ति॒¦भा॒सा¦बृ॒ह॒ता¦असि॑क्नी‌म्¦ए॒ति॒¦रुश॑ती‌म्¦अ॒प॒।आज॑न् ||

कृ॒ष्णां यदेनी᳚म॒भि वर्प॑सा॒ भूज्ज॒नय॒न्योषां᳚ बृह॒तः पि॒तुर्जाम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

ऊ॒र्ध्वं भा॒नुं सूर्य॑स्य स्तभा॒यन्दि॒वो वसु॑भिरर॒तिर्वि भा᳚ति ||{2/7}{7.5.31.2}{10.3.2}{10.1.3.2}{806, 840, 8814}

कृ॒ष्णा‌म्¦यत्¦एनी᳚‌म्¦अ॒भि¦वर्प॑सा¦भूत्¦ज॒नय॑न्¦योषा᳚‌म्¦बृ॒ह॒तः¦पि॒तुः¦जा‌म् |
ऊ॒र्ध्व‌म्¦भा॒नु‌म्¦सूर्य॑स्य¦स्त॒भा॒यन्¦दि॒वः¦वसु॑ऽभिः¦अ॒र॒तिः¦वि¦भा॒ति॒ ||

भ॒द्रो भ॒द्रया॒ सच॑मान॒ आगा॒त्स्वसा᳚रं जा॒रो, अ॒भ्ये᳚ति प॒श्चात् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

सु॒प्र॒के॒तैर्द्युभि॑र॒ग्निर्वि॒तिष्ठ॒न्‌ रुश॑द्भि॒र्वर्णै᳚र॒भि रा॒मम॑स्थात् ||{3/7}{7.5.31.3}{10.3.3}{10.1.3.3}{807, 840, 8815}

भ॒द्रः¦भ॒द्रया᳚¦सच॑मानः¦आ¦अ॒गा॒त्¦स्वसा᳚र‌म्¦जा॒रः¦अ॒भि¦ए॒ति॒¦प॒श्चात् |
सु॒ऽप्र॒के॒तैः¦द्युऽभिः॑¦अ॒ग्निः¦वि॒ऽतिष्ठ॑न्¦रुश॑त्ऽभिः¦वर्णैः᳚¦अ॒भि¦रा॒म‌म्¦अ॒स्था॒त् ||

अ॒स्य यामा᳚सो बृह॒तो न व॒ग्नूनिन्धा᳚ना, अ॒ग्नेः सख्युः॑ शि॒वस्य॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

ईड्य॑स्य॒ वृष्णो᳚ बृह॒तः स्वासो॒ भामा᳚सो॒ याम᳚न्न॒क्तव॑श्चिकित्रे ||{4/7}{7.5.31.4}{10.3.4}{10.1.3.4}{808, 840, 8816}

अ॒स्य¦यामा᳚सः¦बृ॒ह॒तः¦न¦व॒ग्नून्¦इन्धा᳚नाः¦अ॒ग्नेः¦सख्युः॑¦शि॒वस्य॑ |
ईड्य॑स्य¦वृष्णः॑¦बृ॒ह॒तः¦सु॒ऽआसः॑¦भामा᳚सः¦याम॑न्¦अ॒क्तवः॑¦चि॒कि॒त्रे॒ ||

स्व॒ना न यस्य॒ भामा᳚सः॒ पव᳚न्ते॒ रोच॑मानस्य बृह॒तः सु॒दिवः॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

ज्येष्ठे᳚भि॒र्यस्तेजि॑ष्ठैः क्रीळु॒मद्भि॒र्वर्षि॑ष्ठेभिर्भा॒नुभि॒र्नक्ष॑ति॒ द्याम् ||{5/7}{7.5.31.5}{10.3.5}{10.1.3.5}{809, 840, 8817}

स्व॒नाः¦न¦यस्य॑¦भामा᳚सः¦पव᳚न्ते¦रोच॑मानस्य¦बृ॒ह॒तः¦सु॒ऽदिवः॑ |
ज्येष्ठे᳚भिः¦यः¦तेजि॑ष्ठैः¦क्री॒ळु॒मत्ऽभिः॑¦वर्षि॑ष्ठेभिः¦भा॒नुऽभिः॑¦नक्ष॑ति¦द्या‌म् ||

अ॒स्य शुष्मा᳚सो ददृशा॒नप॑वे॒र्जेह॑मानस्य स्वनयन्नि॒युद्भिः॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

प्र॒त्नेभि॒र्यो रुश॑द्भिर्दे॒वत॑मो॒ वि रेभ॑द्भिरर॒तिर्भाति॒ विभ्वा᳚ ||{6/7}{7.5.31.6}{10.3.6}{10.1.3.6}{810, 840, 8818}

अ॒स्य¦शुष्मा᳚सः¦द॒दृ॒शा॒नऽप॑वेः¦जेह॑मानस्य¦स्व॒न॒य॒न्¦नि॒युत्ऽभिः॑ |
प्र॒त्नेभिः॑¦यः¦रुश॑त्ऽभिः¦दे॒वऽत॑मः¦वि¦रेभ॑त्ऽभिः¦अ॒र॒तिः¦भाति॑¦विऽभ्वा᳚ ||

स आ व॑क्षि॒ महि॑ न॒ आ च॑ सत्सि दि॒वस्पृ॑थि॒व्योर॑र॒तिर्यु॑व॒त्योः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒ग्निः सु॒तुकः॑ सु॒तुके᳚भि॒रश्वै॒ रभ॑स्वद्भी॒ रभ॑स्वाँ॒, एह ग᳚म्याः ||{7/7}{7.5.31.7}{10.3.7}{10.1.3.7}{811, 840, 8819}

सः¦आ¦व॒क्षि॒¦महि॑¦नः॒¦आ¦च॒¦स॒त्सि॒¦दि॒वःपृ॑थि॒व्योः¦अ॒र॒तिः¦यु॒व॒त्योः |
अ॒ग्निः¦सु॒ऽतुकः॑¦सु॒त्।औके᳚भिः¦अश्वैः᳚¦रभ॑स्वत्ऽभिः¦रभ॑स्वान्¦आ¦इ॒ह¦ग॒म्याः॒ ||

[75] प्रतइति सप्तर्चस्य सूक्तस्याप्त्यस्त्रितोग्निस्त्रिष्टुप् |
प्र ते᳚ यक्षि॒ प्र त॑ इयर्मि॒ मन्म॒ भुवो॒ यथा॒ वन्द्यो᳚ नो॒ हवे᳚षु |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

धन्व᳚न्निव प्र॒पा, अ॑सि॒ त्वम॑ग्न इय॒क्षवे᳚ पू॒रवे᳚ प्रत्न राजन् ||{1/7}{7.5.32.1}{10.4.1}{10.1.4.1}{812, 841, 8820}

प्र¦ते॒¦य॒क्षि॒¦प्र¦ते॒¦इ॒य॒र्मि॒¦मन्म॑¦भुवः॑¦यथा᳚¦वन्द्यः॑¦नः॒¦हवे᳚षु |
धन्व॑न्ऽ‌इव¦प्र॒ऽपा¦अ॒सि॒¦त्व‌म्¦अ॒ग्ने॒¦इ॒य॒क्षवे᳚¦पू॒रवे᳚¦प्र॒त्न॒¦रा॒ज॒न् ||

यं त्वा॒ जना᳚सो, अ॒भि सं॒चर᳚न्ति॒ गाव॑ उ॒ष्णमि॑व व्र॒जं य॑विष्ठ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

दू॒तो दे॒वाना᳚मसि॒ मर्त्या᳚नाम॒न्तर्म॒हाँश्च॑रसि रोच॒नेन॑ ||{2/7}{7.5.32.2}{10.4.2}{10.1.4.2}{813, 841, 8821}

य‌म्¦त्वा॒¦जना᳚सः¦अ॒भि¦स॒‌म्ऽचर᳚न्ति¦गावः॑¦उ॒ष्ण‌म्ऽ‌इ᳚व¦व्र॒ज‌म्¦य॒वि॒ष्ठ॒ |
दू॒तः¦दे॒वाना᳚‌म्¦अ॒सि॒¦मर्त्या᳚ना‌म्¦अ॒न्तः¦म॒हान्¦च॒र॒सि॒¦रो॒च॒नेन॑ ||

शिशुं॒ न त्वा॒ जेन्यं᳚ व॒र्धय᳚न्ती मा॒ता बि॑भर्ति सचन॒स्यमा᳚ना |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

धनो॒रधि॑ प्र॒वता᳚ यासि॒ हर्य॒ञ्जिगी᳚षसे प॒शुरि॒वाव॑सृष्टः ||{3/7}{7.5.32.3}{10.4.3}{10.1.4.3}{814, 841, 8822}

शिशु᳚‌म्¦न¦त्वा॒¦जेन्य᳚‌म्¦व॒र्धय᳚न्ती¦मा॒ता¦बि॒भ॒र्ति॒¦स॒च॒न॒स्यमा᳚ना |
धनोः᳚¦अधि॑¦प्र॒ऽवता᳚¦या॒सि॒¦हर्य॑न्¦जिगी᳚षसे¦प॒शुःऽ‌इ᳚व¦अव॑ऽसृष्टः ||

मू॒रा, अ॑मूर॒ न व॒यं चि॑कित्वो महि॒त्वम॑ग्ने॒ त्वम॒ङ्ग वि॑त्से |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

शये᳚ व॒व्रिश्चर॑ति जि॒ह्वया॒दन्‌ रे᳚रि॒ह्यते᳚ युव॒तिं वि॒श्पतिः॒ सन् ||{4/7}{7.5.32.4}{10.4.4}{10.1.4.4}{815, 841, 8823}

मू॒राः¦अ॒मू॒र॒¦न¦व॒य‌म्¦चि॒कि॒त्वः॒¦म॒हि॒ऽत्व‌म्¦अ॒ग्ने॒¦त्व‌म्¦अ॒ङ्ग¦वि॒त्से॒ |
शये᳚¦व॒व्रिः¦चर॑ति¦जि॒ह्वया᳚¦अ॒दन्¦रे॒रि॒ह्यते᳚¦यु॒व॒ति‌म्¦वि॒श्पतिः॑¦सन् ||

कूचि॑ज्जायते॒ सन॑यासु॒ नव्यो॒ वने᳚ तस्थौ पलि॒तो धू॒मके᳚तुः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒स्ना॒तापो᳚ वृष॒भो न प्र वे᳚ति॒ सचे᳚तसो॒ यं प्र॒णय᳚न्त॒ मर्ताः᳚ ||{5/7}{7.5.32.5}{10.4.5}{10.1.4.5}{816, 841, 8824}

कूऽचि॑त्¦जा॒य॒ते॒¦सन॑यासु¦नव्यः॑¦वने᳚¦त॒स्थौ॒¦प॒लि॒तः¦धू॒मऽके᳚तुः |
अ॒स्ना॒ता¦आपः॑¦वृ॒ष॒भः¦न¦प्र¦वे॒ति॒¦सऽचे᳚तसः¦य‌म्¦प्र॒ऽनय᳚न्त¦मर्ताः᳚ ||

त॒नू॒त्यजे᳚व॒ तस्क॑रा वन॒र्गू र॑श॒नाभि॑र्द॒शभि॑र॒भ्य॑धीताम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

इ॒यं ते᳚, अग्ने॒ नव्य॑सी मनी॒षा यु॒क्ष्वा रथं॒ न शु॒चय॑द्भि॒रङ्गैः᳚ ||{6/7}{7.5.32.6}{10.4.6}{10.1.4.6}{817, 841, 8825}

त॒नू॒त्यजा᳚ऽ‌इव¦तस्क॑रा¦व॒न॒र्गू इति॑¦र॒श॒नाभिः॑¦द॒शऽभिः॑¦अ॒भि¦अ॒धी॒ता॒‌म् |
इ॒य‌म्¦ते॒¦अ॒ग्ने॒¦नव्य॑सी¦म॒नी॒षा¦यु॒क्ष्व¦रथ᳚‌म्¦न¦शु॒चय॑त्ऽभिः¦अङ्गैः᳚ ||

ब्रह्म॑ च ते जातवेदो॒ नम॑श्चे॒यं च॒ गीः सद॒मिद्वर्ध॑नी भूत् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

रक्षा᳚ णो, अग्ने॒ तन॑यानि तो॒का रक्षो॒त न॑स्त॒न्वो॒३॑(ओ॒) अप्र॑युच्छन् ||{7/7}{7.5.32.7}{10.4.7}{10.1.4.7}{818, 841, 8826}

ब्रह्म॑¦च॒¦ते॒¦जा॒त॒ऽवे॒दः॒¦नमः॑¦च॒¦इ॒य‌म्¦च॒¦गीः¦सद᳚‌म्¦इत्¦वर्ध॑नी¦भू॒त् |
रक्ष॑¦नः॒¦अ॒ग्ने॒¦तन॑यानि¦तो॒का¦रक्ष॑¦उ॒त¦नः॒¦त॒न्वः॑¦अप्र॑ऽयुच्छन् ||

[76] एकःसमुद्रइति सप्तर्चस्य सूक्तस्यात्यस्त्रितोग्नित्रिष्टुप् |
एकः॑ समु॒द्रो ध॒रुणो᳚ रयी॒णाम॒स्मद्धृ॒दो भूरि॑जन्मा॒ वि च॑ष्टे |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

सिष॒क्त्यूध᳚र्नि॒ण्योरु॒पस्थ॒ उत्स॑स्य॒ मध्ये॒ निहि॑तं प॒दं वेः ||{1/7}{7.5.33.1}{10.5.1}{10.1.5.1}{819, 842, 8827}

एकः॑¦स॒मु॒द्रः¦ध॒रुणः॑¦र॒यी॒णा‌म्¦अ॒स्मत्¦हृ॒दः¦भूरि॑ऽजन्मा¦वि¦च॒ष्टे॒ |
सिस॑क्ति¦ऊधः॑¦नि॒ण्योः¦उ॒पऽस्थे᳚¦उत्स॑स्य¦मध्ये᳚¦निऽहि॑त‌म्¦प॒द‌म्¦वेरिति॒ वेः ||

स॒मा॒नं नी॒ळं वृष॑णो॒ वसा᳚नाः॒ सं ज॑ग्मिरे महि॒षा, अर्व॑तीभिः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

ऋ॒तस्य॑ प॒दं क॒वयो॒ नि पा᳚न्ति॒ गुहा॒ नामा᳚नि दधिरे॒ परा᳚णि ||{2/7}{7.5.33.2}{10.5.2}{10.1.5.2}{820, 842, 8828}

स॒मा॒न‌म्¦नी॒ळ‌म्¦वृष॑णः¦वसा᳚नाः¦स‌म्¦ज॒ग्मि॒रे॒¦म॒हि॒षाः¦अर्व॑तीभिः |
ऋ॒तस्य॑¦प॒द‌म्¦क॒वयः॑¦नि¦पा॒न्ति॒¦गुहा᳚¦नामा᳚नि¦द॒धि॒रे॒¦परा᳚णि ||

ऋ॒ता॒यिनी᳚ मा॒यिनी॒ सं द॑धाते मि॒त्वा शिशुं᳚ जज्ञतुर्व॒र्धय᳚न्ती |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

विश्व॑स्य॒ नाभिं॒ चर॑तो ध्रु॒वस्य॑ क॒वेश्चि॒त्तन्तुं॒ मन॑सा वि॒यन्तः॑ ||{3/7}{7.5.33.3}{10.5.3}{10.1.5.3}{821, 842, 8829}

ऋ॒त॒यिनी॒ इत्यृ॑त॒ऽयिनी᳚¦मा॒यिनी॒ इति॑¦स‌म्¦द॒धा॒ते॒ इति॑¦मि॒त्वा¦शिशु᳚‌म्¦ज॒ज्ञ॒तुः॒¦व॒र्धय᳚न्ती॒ इति॑ |
विश्व॑स्य¦नाभि᳚‌म्¦चर॑तः¦ध्रु॒वस्य॑¦क॒वेः¦चि॒त्¦तन्तु᳚‌म्¦मन॑सा¦वि॒ऽयन्तः॑ ||

ऋ॒तस्य॒ हि व॑र्त॒नयः॒ सुजा᳚त॒मिषो॒ वाजा᳚य प्र॒दिवः॒ सच᳚न्ते |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒धी॒वा॒सं रोद॑सी वावसा॒ने घृ॒तैरन्नै᳚र्वावृधाते॒ मधू᳚नाम् ||{4/7}{7.5.33.4}{10.5.4}{10.1.5.4}{822, 842, 8830}

ऋ॒तस्य॑¦हि¦व॒र्त॒नयः॑¦सुऽजा᳚त‌म्¦इषः॑¦वाजा᳚य¦प्र॒ऽदिवः॑¦सच᳚न्ते |
अ॒धी॒वा॒स‌म्¦रोद॑सी॒ इति॑¦व॒व॒सा॒ने इति॑¦घृ॒तैः¦अन्नैः᳚¦व॒वृ॒धा॒ते॒ इति॑¦मधू᳚ना‌म् ||

स॒प्त स्वसॄ॒ररु॑षीर्वावशा॒नो वि॒द्वान्‌ मध्व॒ उज्ज॑भारा दृ॒शे कम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒न्तर्ये᳚मे, अ॒न्तरि॑क्षे पुरा॒जा, इ॒च्छन्व॒व्रिम॑विदत्पूष॒णस्य॑ ||{5/7}{7.5.33.5}{10.5.5}{10.1.5.5}{823, 842, 8831}

स॒प्त¦स्वसॄः᳚¦अरु॑षीः¦वा॒व॒शा॒नः¦वि॒द्वान्¦मध्वः॑¦उत्¦ज॒भा॒र॒¦दृ॒शे¦क‌म् |
अ॒न्तः¦ये॒मे॒¦अ॒न्तरि॑क्षे¦पु॒रा॒ऽजाः¦इ॒च्छन्¦व॒व्रि‌म्¦अ॒वि॒द॒त्¦पू॒ष॒णस्य॑ ||

स॒प्त म॒र्यादाः᳚ क॒वय॑स्ततक्षु॒स्तासा॒मेका॒मिद॒भ्यं᳚हु॒रो गा᳚त् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

आ॒योर्ह॑ स्क॒म्भ उ॑प॒मस्य॑ नी॒ळे प॒थां वि॑स॒र्गे ध॒रुणे᳚षु तस्थौ ||{6/7}{7.5.33.6}{10.5.6}{10.1.5.6}{824, 842, 8832}

स॒प्त¦म॒र्यादाः᳚¦क॒वयः॑¦त॒त॒क्षुः॒¦तासा᳚‌म्¦एका᳚‌म्¦इत्¦अ॒भि¦अं॒हु॒रः¦गा॒त् |
आ॒योः¦ह॒¦स्क॒म्भः¦उ॒प॒ऽमस्य॑¦नी॒ळे¦प॒था‌म्¦वि॒ऽस॒र्गे¦ध॒रुणे᳚षु¦त॒स्थौ॒ ||

अस॑च्च॒ सच्च॑ पर॒मे व्यो᳚म॒न्दक्ष॑स्य॒ जन्म॒न्नदि॑तेरु॒पस्थे᳚ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒ग्निर्ह॑ नः प्रथम॒जा, ऋ॒तस्य॒ पूर्व॒ आयु॑नि वृष॒भश्च॑ धे॒नुः ||{7/7}{7.5.33.7}{10.5.7}{10.1.5.7}{825, 842, 8833}

अस॑त्¦च॒¦स॒त्¦च॒¦प॒र॒मे¦विऽओ᳚मन्¦दक्ष॑स्य¦जन्म॑न्¦अदि॑तेः¦उ॒पऽस्थे᳚ |
अ॒ग्निः¦ह॒¦नः॒¦प्र॒थ॒म॒ऽजाः¦ऋ॒तस्य॑¦पूर्वे᳚¦आयु॑नि¦वृ॒ष॒भः¦च॒¦धे॒नुः ||

[77] अयंसइति सप्तर्चस्य सूक्तस्यात्यस्त्रितोग्नित्रिष्टुप् |
अ॒यं स यस्य॒ शर्म॒न्नवो᳚भिर॒ग्नेरेध॑ते जरि॒ताभिष्टौ᳚ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

ज्येष्ठे᳚भि॒र्यो भा॒नुभि᳚रृषू॒णां प॒र्येति॒ परि॑वीतो वि॒भावा᳚ ||{1/7}{7.6.1.1}{10.6.1}{10.1.6.1}{826, 843, 8834}

अ॒य‌म्¦सः¦यस्य॑¦शर्म॑न्¦अवः॑ऽभिः¦अ॒ग्नेः¦एध॑ते¦ज॒रि॒ता¦अ॒भिष्टौ᳚ |
ज्येष्ठे᳚भिः¦यः¦भा॒नुऽभिः॑¦ऋ॒षू॒णा‌म्¦प॒रि॒ऽएति॑¦परि॑ऽवीतः¦वि॒भाऽवा᳚ ||

यो भा॒नुभि᳚र्वि॒भावा᳚ वि॒भात्य॒ग्निर्दे॒वेभि᳚रृ॒तावाज॑स्रः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

आ यो वि॒वाय॑ स॒ख्या सखि॒भ्योऽप॑रिह्वृतो॒, अत्यो॒ न सप्तिः॑ ||{2/7}{7.6.1.2}{10.6.2}{10.1.6.2}{827, 843, 8835}

यः¦भा॒नुऽभिः॑¦वि॒भाऽवा᳚¦वि॒ऽभाति॑¦अ॒ग्निः¦दे॒वेभिः॑¦ऋ॒तऽवा᳚¦अज॑स्रः |
आ¦यः¦वि॒वाय॑¦स॒ख्या¦सखि॑ऽभ्यः¦अप॑रिऽह्वृतः¦अत्यः॑¦न¦सप्तिः॑ ||

ईशे॒ यो विश्व॑स्या दे॒ववी᳚ते॒रीशे᳚ वि॒श्वायु॑रु॒षसो॒ व्यु॑ष्टौ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

आ यस्मि᳚न्म॒ना ह॒वींष्य॒ग्नावरि॑ष्टरथः स्क॒भ्नाति॑ शू॒षैः ||{3/7}{7.6.1.3}{10.6.3}{10.1.6.3}{828, 843, 8836}

ईशे᳚¦यः¦विश्व॑स्याः¦दे॒वऽवी᳚तेः¦ईशे᳚¦वि॒श्वऽआ᳚युः¦उ॒षसः॑¦वि।औ᳚ष्टौ |
आ¦यस्मि॑न्¦म॒ना¦ह॒वींषि॑¦अ॒ग्नौ¦अरि॑ष्टऽरथः¦स्क॒भ्नाति॑¦शू॒षैः ||

शू॒षेभि᳚र्वृ॒धो जु॑षा॒णो, अ॒र्कैर्दे॒वाँ, अच्छा᳚ रघु॒पत्वा᳚ जिगाति |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

म॒न्द्रो होता॒ स जु॒ह्वा॒३॑(आ॒) यजि॑ष्ठः॒ सम्मि॑श्लो, अ॒ग्निरा जि॑घर्ति दे॒वान् ||{4/7}{7.6.1.4}{10.6.4}{10.1.6.4}{829, 843, 8837}

शू॒षेभिः॑¦वृ॒धः¦जु॒षा॒णः¦अ॒र्कैः¦दे॒वान्¦अच्छ॑¦र॒घु॒ऽपत्वा᳚¦ज॒गा॒ति॒ |
म॒न्द्रः¦होता᳚¦सः¦जु॒ह्वा᳚¦यजि॑ष्ठः¦स‌म्ऽमि॑श्लः¦अ॒ग्निः¦आ¦जि॒घ॒र्ति॒¦दे॒वान् ||

तमु॒स्रामिन्द्रं॒ न रेज॑मानम॒ग्निं गी॒र्भिर्नमो᳚भि॒रा कृ॑णुध्वम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

आ यं विप्रा᳚सो म॒तिभि॑र्गृ॒णन्ति॑ जा॒तवे᳚दसं जु॒ह्वं᳚ स॒हाना᳚म् ||{5/7}{7.6.1.5}{10.6.5}{10.1.6.5}{830, 843, 8838}

त‌म्¦उ॒स्रा‌म्¦इन्द्र᳚‌म्¦न¦रेज॑मान‌म्¦अ॒ग्नि‌म्¦गीः॒ऽभिः¦नमः॑ऽभिः¦आ¦कृ॒णु॒ध्व॒‌म् |
आ¦य‌म्¦विप्रा᳚सः¦म॒तिऽभिः॑¦गृ॒णन्ति॑¦जा॒तऽवे᳚दस‌म्¦जु॒ह्व᳚‌म्¦स॒हाना᳚‌म् ||

सं यस्मि॒न्‌ विश्वा॒ वसू᳚नि ज॒ग्मुर्वाजे॒ नाश्वाः॒ सप्ती᳚वन्त॒ एवैः᳚ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒स्मे, ऊ॒तीरिन्द्र॑वाततमा, अर्वाची॒ना, अ॑ग्न॒ आ कृ॑णुष्व ||{6/7}{7.6.1.6}{10.6.6}{10.1.6.6}{831, 843, 8839}

स‌म्¦यस्मि॑न्¦विश्वा᳚¦वसू᳚नि¦ज॒ग्मुः¦वाजे᳚¦न¦अश्वाः᳚¦सप्ति॑ऽवन्तः¦एवैः᳚ |
अ॒स्मे इति॑¦ऊ॒तीः¦इन्द्र॑वातऽतमाः¦अ॒र्वा॒ची॒नाः¦अ॒ग्ने॒¦आ¦कृ॒णु॒ष्व॒ ||

अधा॒ ह्य॑ग्ने म॒ह्ना नि॒षद्या᳚ स॒द्यो ज॑ज्ञा॒नो हव्यो᳚ ब॒भूथ॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

तं ते᳚ दे॒वासो॒, अनु॒ केत॑माय॒न्नधा᳚वर्धन्त प्रथ॒मास॒ ऊमाः᳚ ||{7/7}{7.6.1.7}{10.6.7}{10.1.6.7}{832, 843, 8840}

अध॑¦हि¦अ॒ग्ने॒¦म॒ह्ना¦नि॒ऽसद्य॑¦स॒द्यः¦ज॒ज्ञा॒नः¦हव्यः॑¦ब॒भूथ॑ |
त‌म्¦ते॒¦दे॒वासः॑¦अनु॑¦केत᳚‌म्¦आ॒य॒न्¦अध॑¦अ॒व॒र्ध॒न्त॒¦प्र॒थ॒मासः॑¦ऊमाः᳚ ||

[78] स्वस्तिनइति सप्तर्चस्य सूक्तस्यात्यस्त्रितोग्नित्रिष्टुप् |
स्व॒स्ति नो᳚ दि॒वो, अ॑ग्ने पृथि॒व्या वि॒श्वायु॑र्धेहि य॒जथा᳚य देव |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

सचे᳚महि॒ तव॑ दस्म प्रके॒तैरु॑रु॒ष्या ण॑ उ॒रुभि॑र्देव॒ शंसैः᳚ ||{1/7}{7.6.2.1}{10.7.1}{10.1.7.1}{833, 844, 8841}

स्व॒स्ति¦नः॒¦दि॒वः¦अ॒ग्ने॒¦पृ॒थि॒व्याः¦वि॒श्वऽआ᳚युः¦धे॒हि॒¦य॒जथा᳚य¦दे॒व॒ |
सचे᳚महि¦तव॑¦द॒स्म॒¦प्र॒ऽके॒तैः¦उ॒रु॒ष्य¦नः॒¦उ॒रुऽभिः॑¦दे॒व॒¦शंसैः᳚ ||

इ॒मा, अ॑ग्ने म॒तय॒स्तुभ्यं᳚ जा॒ता गोभि॒रश्वै᳚र॒भि गृ॑णन्ति॒ राधः॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

य॒दा ते॒ मर्तो॒, अनु॒ भोग॒मान॒ड्वसो॒ दधा᳚नो म॒तिभिः॑ सुजात ||{2/7}{7.6.2.2}{10.7.2}{10.1.7.2}{834, 844, 8842}

इ॒माः¦अ॒ग्ने॒¦म॒तयः॑¦तुभ्य᳚‌म्¦जा॒ताः¦गोभिः॑¦अश्वैः᳚¦अ॒भि¦गृ॒ण॒न्ति॒¦राधः॑ |
य॒दा¦ते॒¦मर्तः॑¦अनु॑¦भोग᳚‌म्¦आन॑ट्¦वसो॒ इति॑¦दधा᳚नः¦म॒तिऽभिः॑¦सु॒ऽजा॒त॒ ||

अ॒ग्निं म᳚न्ये पि॒तर॑म॒ग्निमा॒पिम॒ग्निं भ्रात॑रं॒ सद॒मित्सखा᳚यम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒ग्नेरनी᳚कं बृह॒तः स॑पर्यं दि॒वि शु॒क्रं य॑ज॒तं सूर्य॑स्य ||{3/7}{7.6.2.3}{10.7.3}{10.1.7.3}{835, 844, 8843}

अ॒ग्नि‌म्¦म॒न्ये॒¦पि॒तर᳚‌म्¦अ॒ग्नि‌म्¦आ॒पि‌म्¦अ॒ग्नि‌म्¦भ्रात॑र‌म्¦सद᳚‌म्¦इत्¦सखा᳚य‌म् |
अ॒ग्नेः¦अनी᳚क‌म्¦बृ॒ह॒तः¦स॒प॒र्य॒‌म्¦दि॒वि¦शु॒क्र‌म्¦य॒ज॒त‌म्¦सूर्य॑स्य ||

सि॒ध्रा, अ॑ग्ने॒ धियो᳚, अ॒स्मे सनु॑त्री॒र्यं त्राय॑से॒ दम॒ आ नित्य॑होता |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

ऋ॒तावा॒ स रो॒हिद॑श्वः पुरु॒क्षुर्द्युभि॑रस्मा॒, अह॑भिर्वा॒मम॑स्तु ||{4/7}{7.6.2.4}{10.7.4}{10.1.7.4}{836, 844, 8844}

सि॒ध्राः¦अ॒ग्ने॒¦धियः॑¦अ॒स्मे इति॑¦सनु॑त्रीः¦य‌म्¦त्राय॑से¦दमे᳚¦आ¦नित्य॑ऽहोता |
ऋ॒तऽवा᳚¦सः¦रो॒हित्।आ॑श्वः¦पु॒रु॒ऽक्षुः¦द्युऽभिः॑¦अ॒स्मै॒¦अह॑ऽभिः¦वा॒म‌म्¦अ॒स्तु॒ ||

द्युभि᳚र्हि॒तं मि॒त्रमि॑व प्र॒योगं᳚ प्र॒त्नमृ॒त्विज॑मध्व॒रस्य॑ जा॒रम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

बा॒हुभ्या᳚म॒ग्निमा॒यवो᳚ऽजनन्त वि॒क्षु होता᳚रं॒ न्य॑सादयन्त ||{5/7}{7.6.2.5}{10.7.5}{10.1.7.5}{837, 844, 8845}

द्युऽभिः॑¦हि॒त‌म्¦मि॒त्र‌म्ऽ‌इ᳚व¦प्र॒ऽयोग᳚‌म्¦प्र॒त्न‌म्¦ऋ॒त्विज᳚‌म्¦अ॒ध्व॒रस्य॑¦जा॒र‌म् |
बा॒हुऽभ्या᳚‌म्¦अ॒ग्नि‌म्¦आ॒यवः॑¦अ॒ज॒न॒न्त॒¦वि॒क्षु¦होता᳚र‌म्¦नि¦अ॒सा॒द॒य॒न्त॒ ||

स्व॒यं य॑जस्व दि॒वि दे᳚व दे॒वान्‌ किं ते॒ पाकः॑ कृणव॒दप्र॑चेताः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

यथाय॑ज ऋ॒तुभि॑र्देव दे॒वाने॒वा य॑जस्व त॒न्वं᳚ सुजात ||{6/7}{7.6.2.6}{10.7.6}{10.1.7.6}{838, 844, 8846}

स्व॒य‌म्¦य॒ज॒स्व॒¦दि॒वि¦दे॒व॒¦दे॒वान्¦कि‌म्¦ते॒¦पाकः॑¦कृ॒ण॒व॒त्¦अप्र॑ऽचेताः |
यथा᳚¦अय॑जः¦ऋ॒तुऽभिः॑¦दे॒व॒¦दे॒वान्¦ए॒व¦य॒ज॒स्व॒¦त॒न्व᳚‌म्¦सु॒ऽजा॒त॒ ||

भवा᳚ नो, अग्नेऽवि॒तोत गो॒पा भवा᳚ वय॒स्कृदु॒त नो᳚ वयो॒धाः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

रास्वा᳚ च नः सुमहो ह॒व्यदा᳚तिं॒ त्रास्वो॒त न॑स्त॒न्वो॒३॑(ओ॒) अप्र॑युच्छन् ||{7/7}{7.6.2.7}{10.7.7}{10.1.7.7}{839, 844, 8847}

भव॑¦नः॒¦अ॒ग्ने॒¦अ॒वि॒ता¦उ॒त¦गो॒पाः¦भव॑¦व॒यः॒ऽकृत्¦उ॒त¦नः॒¦व॒यः॒ऽधाः |
रास्व॑¦च॒¦नः॒¦सु॒ऽम॒हः¦ह॒व्यऽदा᳚ति‌म्¦त्रास्व॑¦उ॒त¦नः॒¦त॒न्वः॑¦अप्र॑ऽयुच्छन् ||

[79] प्रकेतुनेति नवर्चस्य सूक्तस्यत्वाष्ट्रस्त्रिशिराअग्निः अंत्यतृचस्येंद्रस्त्रिष्टुप् |
प्र के॒तुना᳚ बृह॒ता या᳚त्य॒ग्निरा रोद॑सी वृष॒भो रो᳚रवीति |{त्वाष्ट्रस्त्रिशिरः | अग्निः | त्रिष्टुप्}

दि॒वश्चि॒दन्ताँ᳚, उप॒माँ, उदा᳚नळ॒पामु॒पस्थे᳚ महि॒षो व॑वर्ध ||{1/9}{7.6.3.1}{10.8.1}{10.1.8.1}{840, 845, 8848}

प्र¦के॒तुना᳚¦बृ॒ह॒ता¦या॒ति॒¦अ॒ग्निः¦आ¦रोद॑सी॒ इति॑¦वृ॒ष॒भः¦रो॒र॒वी॒ति॒ |
दि॒वः¦चि॒त्¦अन्ता᳚न्¦उ॒प॒ऽमान्¦उत्¦आ॒न॒ट्¦अ॒पा‌म्¦उ॒पऽस्थे᳚¦म॒हि॒षः¦व॒व॒र्ध॒ ||

मु॒मोद॒ गर्भो᳚ वृष॒भः क॒कुद्मा᳚नस्रे॒मा व॒त्सः शिमी᳚वाँ, अरावीत् |{त्वाष्ट्रस्त्रिशिरः | अग्निः | त्रिष्टुप्}

स दे॒वता॒त्युद्य॑तानि कृ॒ण्वन्‌ त्स्वेषु॒ क्षये᳚षु प्रथ॒मो जि॑गाति ||{2/9}{7.6.3.2}{10.8.2}{10.1.8.2}{841, 845, 8849}

मु॒मोद॑¦गर्भः॑¦वृ॒ष॒भः¦क॒कुत्ऽमा᳚न्¦अ॒स्रे॒मा¦व॒त्सः¦शिमी᳚ऽवान्¦अ॒रा॒वी॒त् |
सः¦दे॒वऽता᳚ति¦उत्ऽय॑तानि¦कृ॒ण्वन्¦स्वेषु॑¦क्षये᳚षु¦प्र॒थ॒मः¦जि॒गा॒ति॒ ||

आ यो मू॒र्धानं᳚ पि॒त्रोरर॑ब्ध॒ न्य॑ध्व॒रे द॑धिरे॒ सूरो॒, अर्णः॑ |{त्वाष्ट्रस्त्रिशिरः | अग्निः | त्रिष्टुप्}

अस्य॒ पत्म॒न्नरु॑षी॒रश्व॑बुध्ना, ऋ॒तस्य॒ योनौ᳚ त॒न्वो᳚ जुषन्त ||{3/9}{7.6.3.3}{10.8.3}{10.1.8.3}{842, 845, 8850}

आ¦यः¦मू॒र्धान᳚‌म्¦पि॒त्रोः¦अर॑ब्ध¦नि¦अ॒ध्व॒रे¦द॒धि॒रे॒¦सूरः॑¦अर्णः॑ |
अस्य॑¦पत्म॑न्¦अरु॑षीः¦अश्व॑ऽबुध्नाः¦ऋ॒तस्य॑¦योनौ᳚¦त॒न्वः॑¦जु॒ष॒न्त॒ ||

उ॒षौ᳚षो॒ हि व॑सो॒, अग्र॒मेषि॒ त्वं य॒मयो᳚रभवो वि॒भावा᳚ |{त्वाष्ट्रस्त्रिशिरः | अग्निः | त्रिष्टुप्}

ऋ॒ताय॑ स॒प्त द॑धिषे प॒दानि॑ ज॒नय᳚न्मि॒त्रं त॒न्वे॒३॑(ए॒) स्वायै᳚ ||{4/9}{7.6.3.4}{10.8.4}{10.1.8.4}{843, 845, 8851}

उ॒षः।औ᳚षः¦हि¦व॒सो॒ इति॑¦अग्र᳚‌म्¦एषि॑¦त्व‌म्¦य॒मयोः᳚¦अ॒भ॒वः॒¦वि॒भाऽवा᳚ |
ऋ॒ताय॑¦स॒प्त¦द॒धि॒षे॒¦प॒दानि॑¦ज॒नय॑न्¦मि॒त्र‌म्¦त॒न्वे᳚¦स्वायै᳚ ||

भुव॒श्चक्षु᳚र्म॒ह ऋ॒तस्य॑ गो॒पा भुवो॒ वरु॑णो॒ यदृ॒ताय॒ वेषि॑ |{त्वाष्ट्रस्त्रिशिरः | अग्निः | त्रिष्टुप्}

भुवो᳚, अ॒पां नपा᳚ज्जातवेदो॒ भुवो᳚ दू॒तो यस्य॑ ह॒व्यं जुजो᳚षः ||{5/9}{7.6.3.5}{10.8.5}{10.1.8.5}{844, 845, 8852}

भुवः॑¦चक्षुः॑¦म॒हः¦ऋ॒तस्य॑¦गो॒पाः¦भुवः॑¦वरु॑णः¦यत्¦ऋ॒ताय॑¦वेषि॑ |
भुवः॑¦अ॒पा‌म्¦नपा᳚त्¦जा॒त॒ऽवे॒दः॒¦भुवः॑¦दू॒तः¦यस्य॑¦ह॒व्य‌म्¦जुजो᳚षः ||

भुवो᳚ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा᳚ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑ |{त्वाष्ट्रस्त्रिशिरः | अग्निः | त्रिष्टुप्}

दि॒वि मू॒र्धानं᳚ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह᳚म् ||{6/9}{7.6.4.1}{10.8.6}{10.1.8.6}{845, 845, 8853}

भुवः॑¦य॒ज्ञस्य॑¦रज॑सः¦च॒¦ने॒ता¦यत्र॑¦नि॒युत्ऽभिः॑¦सच॑से¦शि॒वाभिः॑ |
दि॒वि¦मू॒र्धान᳚‌म्¦द॒धि॒षे॒¦स्वः॒ऽसा‌म्¦जि॒ह्वा‌म्¦अ॒ग्ने॒¦च॒कृ॒षे॒¦ह॒व्य॒ऽवाह᳚‌म् ||

अ॒स्य त्रि॒तः क्रतु॑ना व॒व्रे, अ॒न्तरि॒च्छन्धी॒तिं पि॒तुरेवैः॒ पर॑स्य |{त्वाष्ट्रस्त्रिशिरः | इन्द्रः | त्रिष्टुप्}

स॒च॒स्यमा᳚नः पि॒त्रोरु॒पस्थे᳚ जा॒मि ब्रु॑वा॒ण आयु॑धानि वेति ||{7/9}{7.6.4.2}{10.8.7}{10.1.8.7}{846, 845, 8854}

अ॒स्य¦त्रि॒तः¦क्रतु॑ना¦व॒व्रे¦अ॒न्तः¦इ॒च्छन्¦धी॒ति‌म्¦पि॒तुः¦एवैः᳚¦पर॑स्य |
स॒च॒स्यमा᳚नः¦पि॒त्रोः¦उ॒पऽस्थे᳚¦जा॒मि¦ब्रु॒वा॒णः¦आयु॑धानि¦वे॒ति॒ ||

स पित्र्या॒ण्यायु॑धानि वि॒द्वानिन्द्रे᳚षित आ॒प्त्यो, अ॒भ्य॑युध्यत् |{त्वाष्ट्रस्त्रिशिरः | इन्द्रः | त्रिष्टुप्}

त्रि॒शी॒र्षाणं᳚ स॒प्तर॑श्मिं जघ॒न्वान्‌ त्वा॒ष्ट्रस्य॑ चि॒न्निः स॑सृजे त्रि॒तो गाः ||{8/9}{7.6.4.3}{10.8.8}{10.1.8.8}{847, 845, 8855}

सः¦पित्र्या᳚णि¦आयु॑धानि¦वि॒द्वान्¦इन्द्र॑ऽ‌इषितः¦आ॒प्त्यः¦अ॒भि¦अ॒यु॒ध्य॒त् |
त्रि॒ऽशी॒र्षाण᳚‌म्¦स॒प्तऽर॑श्मि‌म्¦ज॒घ॒न्वान्¦त्वा॒ष्ट्रस्य॑¦चि॒त्¦निः¦स॒सृ॒जे॒¦त्रि॒तः¦गाः ||

भूरीदिन्द्र॑ उ॒दिन॑क्षन्त॒मोजोऽवा᳚भिन॒त्सत्प॑ति॒र्मन्य॑मानम् |{त्वाष्ट्रस्त्रिशिरः | इन्द्रः | त्रिष्टुप्}

त्वा॒ष्ट्रस्य॑ चिद्वि॒श्वरू᳚पस्य॒ गोना᳚माचक्रा॒णस्त्रीणि॑ शी॒र्षा परा᳚ वर्क् ||{9/9}{7.6.4.4}{10.8.9}{10.1.8.9}{848, 845, 8856}

भूरि॑¦इत्¦इन्द्रः॑¦उ॒त्ऽ‌इन॑क्षन्त‌म्¦ओजः॑¦अव॑¦अ॒भि॒न॒त्¦सत्ऽप॑तिः¦मन्य॑मान‌म् |
त्वा॒ष्ट्रस्य॑¦चि॒त्¦वि॒श्वऽरू᳚पस्य¦गोना᳚‌म्¦आ॒ऽच॒क्रा॒णः¦त्रीणि॑¦शी॒र्षा¦परा᳚¦व॒र्गिति॑ वर्क् ||

[80] आपोहिष्ठेति नवर्चस्य सूक्तस्य आंबरीषः सिंधुद्वीप आपो गायत्री पंचमीवर्धमाना सप्तमीप्रतिष्ठांत्येद्वेअनुष्टुभौ | आपोहिसिंधुद्वीपोवांबरीष इत्येवमनुक्रमण्यां सिंधुद्वीपस्य पाक्षिकत्व स्वीकारे पूर्वोक्तस्त्रिशिराः प्राप्नोतितथापि प्रयोक्तृभिः सिंधुद्वीप एवाद्रियते |
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री}

म॒हे रणा᳚य॒ चक्ष॑से ||{1/9}{7.6.5.1}{10.9.1}{10.1.9.1}{849, 846, 8857}

आपः॑¦हि¦स्थ¦म॒यः॒ऽभुवः॑¦ताः¦नः॒¦ऊ॒र्जे¦द॒धा॒त॒न॒ | म॒हे¦रणा᳚य¦चक्ष॑से ||

यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री}

उ॒श॒तीरि॑व मा॒तरः॑ ||{2/9}{7.6.5.2}{10.9.2}{10.1.9.2}{850, 846, 8858}

यः¦वः॒¦शि॒वऽत॑मः¦रसः॑¦तस्य॑¦भा॒ज॒य॒त॒¦इ॒ह¦नः॒ | उ॒श॒तीःऽ‌इ᳚व¦मा॒तरः॑ ||

तस्मा॒, अरं᳚ गमाम वो॒ यस्य॒ क्षया᳚य॒ जिन्व॑थ |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री}

आपो᳚ ज॒नय॑था च नः ||{3/9}{7.6.5.3}{10.9.3}{10.1.9.3}{851, 846, 8859}

तस्मै᳚¦अर᳚‌म्¦ग॒मा॒म॒¦वः॒¦यस्य॑¦क्षया᳚य¦जिन्व॑थ | आपः॑¦ज॒नय॑थ¦च॒¦नः॒ ||

शं नो᳚ दे॒वीर॒भिष्ट॑य॒ आपो᳚ भवन्तु पी॒तये᳚ |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री}

शं योर॒भि स्र॑वन्तु नः ||{4/9}{7.6.5.4}{10.9.4}{10.1.9.4}{852, 846, 8860}

श‌म्¦नः॒¦दे॒वीः¦अ॒भिष्ट॑ये¦आपः॑¦भ॒व॒न्तु॒¦पी॒तये᳚ | श‌म्¦योः¦अ॒भि¦स्र॒व॒न्तु॒¦नः॒ ||

ईशा᳚ना॒ वार्या᳚णां॒ क्षय᳚न्तीश्चर्षणी॒नाम् |{आंबरीषः सिंधुद्वीपः | आपः | वर्धमाना गायत्री}

अ॒पो या᳚चामि भेष॒जम् ||{5/9}{7.6.5.5}{10.9.5}{10.1.9.5}{853, 846, 8861}

ईशा᳚नाः¦वार्या᳚णा‌म्¦क्षय᳚न्तीः¦च॒र्ष॒णी॒ना‌म् | अ॒पः¦या॒चा॒मि॒¦भे॒ष॒ज‌म् ||

अ॒प्सु मे॒ सोमो᳚, अब्रवीद॒न्तर्विश्वा᳚नि भेष॒जा |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री}

अ॒ग्निं च॑ वि॒श्वश᳚म्भुवम् ||{6/9}{7.6.5.6}{10.9.6}{10.1.9.6}{854, 846, 8862}

अ॒प्ऽसु¦मे॒¦सोमः॑¦अ॒ब्र॒वी॒त्¦अ॒न्तः¦विश्वा᳚नि¦भे॒ष॒जा | अ॒ग्नि‌म्¦च॒¦वि॒श्वऽश᳚म्भुव‌म् ||

आपः॑ पृणी॒त भे᳚ष॒जं वरू᳚थं त॒न्वे॒३॑(ए॒) मम॑ |{आंबरीषः सिंधुद्वीपः | आपः | प्रतिष्ठागायत्री}

ज्योक्‌ च॒ सूर्यं᳚ दृ॒शे ||{7/9}{7.6.5.7}{10.9.7}{10.1.9.7}{855, 846, 8863}

आपः॑¦पृ॒णी॒त¦भे॒ष॒ज‌म्¦वरू᳚थ‌म्¦त॒न्वे᳚¦मम॑ | ज्योक्¦च॒¦सूर्य᳚‌म्¦दृ॒शे ||

इ॒दमा᳚पः॒ प्र व॑हत॒ यत्‌ किं च॑ दुरि॒तं मयि॑ |{आंबरीषः सिंधुद्वीपः | आपः | अनुष्टुप्}

यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा᳚ शे॒प उ॒तानृ॑तम् ||{8/9}{7.6.5.8}{10.9.8}{10.1.9.8}{856, 846, 8864}

इ॒द‌म्¦आ॒पः॒¦प्र¦व॒ह॒त॒¦यत्¦कि‌म्¦च॒¦दुः॒ऽ‌इ॒त‌म्¦मयि॑ | यत्¦वा॒¦अ॒ह‌म्¦अ॒भि॒ऽदु॒द्रोह॑¦यत्¦वा॒¦शे॒पे¦उ॒त¦अनृ॑त‌म् ||

आपो᳚, अ॒द्यान्व॑चारिषं॒ रसे᳚न॒ सम॑गस्महि |{आंबरीषः सिंधुद्वीपः | आपः | अनुष्टुप्}

पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ||{9/9}{7.6.5.9}{10.9.9}{10.1.9.9}{857, 846, 8865}

आपः॑¦अ॒द्य¦अनु॑¦अ॒चा॒रि॒ष॒‌म्¦रसे᳚न¦स‌म्¦अ॒ग॒स्म॒हि॒ | पय॑स्वान्¦अ॒ग्ने॒¦आ¦ग॒हि॒¦त‌म्¦मा॒¦स‌म्¦सृ॒ज॒¦वर्च॑सा ||

[81] ओचिदिति चतुर्दशर्चस्य सूक्तस्य नवमी वर्ज्यानामयुजां षष्ठ्याश्च वैवस्वतीयमी ऋषिका यमोदेवता षष्ठीवर्ज्यानांयुजां नवम्याश्च वैवस्वतोयमीत्रिष्टुप् |
ओ चि॒त्सखा᳚यं स॒ख्या व॑वृत्यां ति॒रः पु॒रू चि॑दर्ण॒वं ज॑ग॒न्वान् |{वैवस्वती यमी | यमः | त्रिष्टुप्}

पि॒तुर्नपा᳚त॒मा द॑धीत वे॒धा, अधि॒ क्षमि॑ प्रत॒रं दीध्या᳚नः ||{1/14}{7.6.6.1}{10.10.1}{10.1.10.1}{858, 847, 8866}

ओ इति॑¦चि॒त्¦सखा᳚य‌म्¦स॒ख्या¦व॒वृ॒त्या॒‌म्¦ति॒रः¦पु॒रु¦चि॒त्¦अ॒र्ण॒व‌म्¦ज॒ग॒न्वान् |
पि॒तुः¦नपा᳚त‌म्¦आ¦द॒धी॒त॒¦वे॒धाः¦अधि॑¦क्षमि॑¦प्र॒ऽत॒र‌म्¦दीध्या᳚नः ||

न ते॒ सखा᳚ स॒ख्यं व॑ष्ट्ये॒तत्सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा᳚ति |{यमः | वैवस्वती यमी | त्रिष्टुप्}

म॒हस्पु॒त्रासो॒, असु॑रस्य वी॒रा दि॒वो ध॒र्तार॑ उर्वि॒या परि॑ ख्यन् ||{2/14}{7.6.6.2}{10.10.2}{10.1.10.2}{859, 847, 8867}

न¦ते॒¦सखा᳚¦स॒ख्य‌म्¦व॒ष्टि॒¦ए॒तत्¦सऽल॑क्ष्मा¦यत्¦विषु॑ऽरूपा¦भवा᳚ति |
म॒हः¦पु॒त्रासः॑¦असु॑रस्य¦वी॒राः¦दि॒वः¦ध॒र्तारः॑¦उ॒र्वि॒या¦परि॑¦ख्य॒न् ||

उ॒शन्ति॑ घा॒ ते, अ॒मृता᳚स ए॒तदेक॑स्य चित्‌ त्य॒जसं॒ मर्त्य॑स्य |{वैवस्वती यमी | यमः | त्रिष्टुप्}

नि ते॒ मनो॒ मन॑सि धाय्य॒स्मे जन्युः॒ पति॑स्त॒न्व१॑(अ॒)मा वि॑विश्याः ||{3/14}{7.6.6.3}{10.10.3}{10.1.10.3}{860, 847, 8868}

उ॒शन्ति॑¦घ॒¦ते¦अ॒मृता᳚सः¦ए॒तत्¦एक॑स्य¦चि॒त्¦त्य॒जस᳚‌म्¦मर्त्य॑स्य |
नि¦ते॒¦मनः॑¦मन॑सि¦धा॒यि॒¦अ॒स्मे इति॑¦जन्युः॑¦पतिः॑¦त॒न्व᳚‌म्¦आ¦वि॒वि॒श्याः॒ ||

न यत्पु॒रा च॑कृ॒मा कद्ध॑ नू॒नमृ॒ता वद᳚न्तो॒, अनृ॑तं रपेम |{यमः | वैवस्वती यमी | त्रिष्टुप्}

ग॒न्ध॒र्वो, अ॒प्स्वप्या᳚ च॒ योषा॒ सा नो॒ नाभिः॑ पर॒मं जा॒मि तन्नौ᳚ ||{4/14}{7.6.6.4}{10.10.4}{10.1.10.4}{861, 847, 8869}

न¦यत्¦पु॒रा¦च॒कृ॒म॒¦कत्¦ह॒¦नू॒न‌म्¦ऋ॒ता¦वद᳚न्तः¦अनृ॑त‌म्¦र॒पे॒म॒ |
ग॒न्ध॒र्वः¦अ॒प्ऽसु¦अप्या᳚¦च॒¦योषा᳚¦सा¦नः॒¦नाभिः॑¦प॒र॒म‌म्¦जा॒मि¦तत्¦नौ॒ ||

गर्भे॒ नु नौ᳚ जनि॒ता दम्प॑ती कर्दे॒वस्त्वष्टा᳚ सवि॒ता वि॒श्वरू᳚पः |{वैवस्वती यमी | यमः | त्रिष्टुप्}

नकि॑रस्य॒ प्र मि॑नन्ति व्र॒तानि॒ वेद॑ नाव॒स्य पृ॑थि॒वी, उ॒त द्यौः ||{5/14}{7.6.6.5}{10.10.5}{10.1.10.5}{862, 847, 8870}

गर्भे᳚¦नु¦नौ॒¦ज॒नि॒ता¦दंप॑ती॒ इति॒ द‌म्ऽप॑ती¦कः॒¦दे॒वः¦त्वष्टा᳚¦स॒वि॒ता¦वि॒श्वऽरू᳚पः |
नकिः॑¦अ॒स्य॒¦प्र¦मि॒न॒न्ति॒¦व्र॒तानि॑¦वेद॑¦नौ॒¦अ॒स्य¦पृ॒थि॒वी¦उ॒त¦द्यौः ||

को, अ॒स्य वे᳚द प्रथ॒मस्याह्नः॒ क ईं᳚ ददर्श॒ क इ॒ह प्र वो᳚चत् |{वैवस्वती यमी | यमः | त्रिष्टुप्}

बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ कदु॑ ब्रव आहनो॒ वीच्या॒ नॄन् ||{6/14}{7.6.7.1}{10.10.6}{10.1.10.6}{863, 847, 8871}

कः¦अ॒स्य¦वे॒द॒¦प्र॒थ॒मस्य॑¦अह्नः॑¦कः¦ई॒‌म्¦द॒द॒र्श॒¦कः¦इ॒ह¦प्र¦वो॒च॒त् |
बृ॒हत्¦मि॒त्रस्य॑¦वरु॑णस्य¦धाम॑¦कत्¦ऊँ॒ इति॑¦ब्र॒वः॒¦आ॒ह॒नः॒¦वीच्या᳚¦नॄन् ||

य॒मस्य॑ मा य॒म्य१॑(अं॒) काम॒ आग᳚न्‌ त्समा॒ने योनौ᳚ सह॒शेय्या᳚य |{वैवस्वती यमी | यमः | त्रिष्टुप्}

जा॒येव॒ पत्ये᳚ त॒न्वं᳚ रिरिच्यां॒ वि चि॑द्वृहेव॒ रथ्ये᳚व च॒क्रा ||{7/14}{7.6.7.2}{10.10.7}{10.1.10.7}{864, 847, 8872}

य॒मस्य॑¦मा॒¦य॒म्य᳚‌म्¦कामः॑¦आ¦अ॒ग॒न्¦स॒मा॒ने¦योनौ᳚¦स॒ह॒ऽशेय्या᳚य |
जा॒याऽ‌इ᳚व¦पत्ये᳚¦त॒न्व᳚‌म्¦रि॒रि॒च्या॒‌म्¦वि¦चि॒त्¦वृ॒हे॒व॒¦रथ्या᳚ऽ‌इव¦च॒क्रा ||

न ति॑ष्ठन्ति॒ न नि मि॑षन्त्ये॒ते दे॒वानां॒ स्पश॑ इ॒ह ये चर᳚न्ति |{यमः | वैवस्वती यमी | त्रिष्टुप्}

अ॒न्येन॒ मदा᳚हनो याहि॒ तूयं॒ तेन॒ वि वृ॑ह॒ रथ्ये᳚व च॒क्रा ||{8/14}{7.6.7.3}{10.10.8}{10.1.10.8}{865, 847, 8873}

न¦ति॒ष्ठ॒न्ति॒¦न¦नि¦मि॒ष॒न्ति॒¦ए॒ते¦दे॒वाना᳚‌म्¦स्पशः॑¦इ॒ह¦ये¦चर᳚न्ति |
अ॒न्येन॑¦मत्¦आ॒ह॒नः॒¦या॒हि॒¦तूय᳚‌म्¦तेन॑¦वि¦वृ॒हे॒व॒¦रथ्या᳚ऽ‌इव¦च॒क्रा ||

रात्री᳚भिरस्मा॒, अह॑भिर्दशस्ये॒त्सूर्य॑स्य॒ चक्षु॒र्मुहु॒रुन्मि॑मीयात् |{यमः | वैवस्वती यमी | त्रिष्टुप्}

दि॒वा पृ॑थि॒व्या मि॑थु॒ना सब᳚न्धू य॒मीर्य॒मस्य॑ बिभृया॒दजा᳚मि ||{9/14}{7.6.7.4}{10.10.9}{10.1.10.9}{866, 847, 8874}

रात्री᳚भिः¦अ॒स्मै॒¦अह॑ऽभिः¦द॒श॒स्ये॒त्¦सूर्य॑स्य¦चक्षुः॑¦मुहुः॑¦उत्¦मि॒मी॒या॒त् |
दि॒वा¦पृ॒थि॒व्या¦मि॒थु॒ना¦सब᳚न्धू॒ इति॒ सऽब᳚न्धू¦य॒मीः¦य॒मस्य॑¦बि॒भृ॒या॒त्¦अजा᳚मि ||

आ घा॒ ता ग॑च्छा॒नुत्त॑रा यु॒गानि॒ यत्र॑ जा॒मयः॑ कृ॒णव॒न्नजा᳚मि |{यमः | वैवस्वती यमी | त्रिष्टुप्}

उप॑ बर्बृहि वृष॒भाय॑ बा॒हुम॒न्यमि॑च्छस्व सुभगे॒ पतिं॒ मत् ||{10/14}{7.6.7.5}{10.10.10}{10.1.10.10}{867, 847, 8875}

आ¦घ॒¦ता¦ग॒च्छा॒न्¦उत्ऽत॑रा¦यु॒गानि॑¦यत्र॑¦जा॒मयः॑¦कृ॒णव॑न्¦अजा᳚मि |
उप॑¦बर्बृ॑हि¦वृ॒ष॒भाय॑¦बा॒हु‌म्¦अ॒न्य‌म्¦इ॒च्छ॒स्व॒¦सु॒ऽभ॒गे॒¦पति᳚‌म्¦मत् ||

किं भ्राता᳚स॒द्यद॑ना॒थं भवा᳚ति॒ किमु॒ स्वसा॒ यन्निरृ॑तिर्नि॒गच्छा᳚त् |{वैवस्वती यमी | यमः | त्रिष्टुप्}

काम॑मूता ब॒ह्वे॒३॑(ए॒)तद्र॑पामि त॒न्वा᳚ मे त॒न्व१॑(अं॒) सं पि॑पृग्धि ||{11/14}{7.6.8.1}{10.10.11}{10.1.10.11}{868, 847, 8876}

कि‌म्¦भ्राता᳚¦अ॒स॒त्¦यत्¦अ॒ना॒थ‌म्¦भवा᳚ति¦कि‌म्¦ऊँ॒ इति॑¦स्वसा᳚¦यत्¦निःऽऋ॑तिः¦नि॒ऽगच्छा᳚त् |
काम॑ऽमूता¦ब॒हु¦ए॒तत्¦र॒पा॒मि॒¦त॒न्वा᳚¦मे॒¦त॒न्व᳚‌म्¦स‌म्¦पि॒पृ॒ग्धि॒ ||

न वा, उ॑ ते त॒न्वा᳚ त॒न्व१॑(अं॒) सं प॑पृच्यां पा॒पमा᳚हु॒र्यः स्वसा᳚रं नि॒गच्छा᳚त् |{यमः | वैवस्वती यमी | त्रिष्टुप्}

अ॒न्येन॒ मत्प्र॒मुदः॑ कल्पयस्व॒ न ते॒ भ्राता᳚ सुभगे वष्ट्ये॒तत् ||{12/14}{7.6.8.2}{10.10.12}{10.1.10.12}{869, 847, 8877}

न¦वै¦ऊँ॒ इति॑¦ते॒¦त॒न्वा᳚¦त॒न्व᳚‌म्¦स‌म्¦प॒पृ॒च्या॒‌म्¦पा॒प‌म्¦आ॒हुः॒¦यः¦स्वसा᳚र‌म्¦नि॒ऽगच्छा᳚त् |
अ॒न्येन॑¦मत्¦प्र॒ऽमुदः॑¦क॒ल्प॒य॒स्व॒¦न¦ते॒¦भ्राता᳚¦सु॒ऽभ॒गे॒¦व॒ष्टि॒¦ए॒तत् ||

ब॒तो ब॑तासि यम॒ नैव ते॒ मनो॒ हृद॑यं चाविदाम |{वैवस्वती यमी | यमः | त्रिष्टुप्}

अ॒न्या किल॒ त्वां क॒क्ष्ये᳚व यु॒क्तं परि॑ ष्वजाते॒ लिबु॑जेव वृ॒क्षम् ||{13/14}{7.6.8.3}{10.10.13}{10.1.10.13}{870, 847, 8878}

ब॒तः¦ब॒त॒¦अ॒सि॒¦य॒म॒¦न¦ए॒व¦ते॒¦मनः॑¦हृद॑य‌म्¦च॒¦अ॒वि॒दा॒म॒ |
अ॒न्या¦किल॑¦त्वा‌म्¦क॒क्ष्या᳚ऽ‌इव¦यु॒क्त‌म्¦परि॑¦स्व॒जा॒ते॒¦लिबु॑जाऽ‌इव¦वृ॒क्ष‌म् ||

अ॒न्यमू॒ षु त्वं य᳚म्य॒न्य उ॒ त्वां परि॑ ष्वजाते॒ लिबु॑जेव वृ॒क्षम् |{यमः | वैवस्वती यमी | त्रिष्टुप्}

तस्य॑ वा॒ त्वं मन॑ इ॒च्छा स वा॒ तवाधा᳚ कृणुष्व सं॒विदं॒ सुभ॑द्राम् ||{14/14}{7.6.8.4}{10.10.14}{10.1.10.14}{871, 847, 8879}

अ॒न्य‌म्¦ऊँ॒ इति॑¦सु¦त्व‌म्¦य॒मि॒¦अ॒न्यः¦ऊँ॒ इति॑¦त्वा‌म्¦परि॑¦स्व॒जा॒ते॒¦लिबु॑जाऽ‌इव¦वृ॒क्ष‌म् |
तस्य॑¦वा॒¦त्व‌म्¦मनः॑¦इ॒च्छा¦सः¦वा॒¦तव॑¦अध॑¦कृ॒णु॒ष्व॒¦स॒‌म्ऽविद᳚‌म्¦सुऽभ॑द्रा‌म् ||

[82] वृषावृष्ण इति नवर्चस्य सूक्तस्यांगिर्हविर्धानोऽग्निर्जगती अंत्यास्तिस्रत्रिष्टुभः |
वृषा॒ वृष्णे᳚ दुदुहे॒ दोह॑सा दि॒वः पयां᳚सि य॒ह्वो, अदि॑ते॒रदा᳚भ्यः |{आङ्गिर्हविर्धानः | अग्निः | जगती}

विश्वं॒ स वे᳚द॒ वरु॑णो॒ यथा᳚ धि॒या स य॒ज्ञियो᳚ यजतु य॒ज्ञियाँ᳚, ऋ॒तून् ||{1/9}{7.6.9.1}{10.11.1}{10.1.11.1}{872, 848, 8880}

वृषा᳚¦वृष्णे᳚¦दु॒दु॒हे॒¦दोह॑सा¦दि॒वः¦पयां᳚सि¦य॒ह्वः¦अदि॑तेः¦अदा᳚भ्यः |
विश्व᳚‌म्¦सः¦वे॒द॒¦वरु॑णः¦यथा᳚¦धि॒या¦सः¦य॒ज्ञियः॑¦य॒ज॒तु॒¦य॒ज्ञिया᳚न्¦ऋ॒तून् ||

रप॑द्गन्ध॒र्वीरप्या᳚ च॒ योष॑णा न॒दस्य॑ ना॒दे परि॑ पातु मे॒ मनः॑ |{आङ्गिर्हविर्धानः | अग्निः | जगती}

इ॒ष्टस्य॒ मध्ये॒, अदि॑ति॒र्नि धा᳚तु नो॒ भ्राता᳚ नो ज्ये॒ष्ठः प्र॑थ॒मो वि वो᳚चति ||{2/9}{7.6.9.2}{10.11.2}{10.1.11.2}{873, 848, 8881}

रप॑त्¦ग॒न्ध॒र्वीः¦अप्या᳚¦च॒¦योष॑णा¦न॒दस्य॑¦ना॒दे¦परि॑¦पा॒तु॒¦मे॒¦मनः॑ |
इ॒ष्टस्य॑¦मध्ये᳚¦अदि॑तिः¦नि¦धा॒तु॒¦नः॒¦भ्राता᳚¦नः॒¦ज्ये॒ष्ठः¦प्र॒थ॒मः¦वि¦वो॒च॒ति॒ ||

सो चि॒न्नु भ॒द्रा क्षु॒मती॒ यश॑स्वत्यु॒षा, उ॑वास॒ मन॑वे॒ स्व᳚र्वती |{आङ्गिर्हविर्धानः | अग्निः | जगती}

यदी᳚मु॒शन्त॑मुश॒तामनु॒ क्रतु॑म॒ग्निं होता᳚रं वि॒दथा᳚य॒ जीज॑नन् ||{3/9}{7.6.9.3}{10.11.3}{10.1.11.3}{874, 848, 8882}

सो इति॑¦चि॒त्¦नु¦भ॒द्रा¦क्षु॒ऽमती᳚¦यश॑स्वती¦उ॒षाः¦उ॒वा॒स॒¦मन॑वे¦स्वः॑ऽवती |
यत्¦ई॒‌म्¦उ॒शन्त᳚‌म्¦उ॒श॒ता‌म्¦अनु॑¦ऋतु᳚‌म्¦अ॒ग्नि‌म्¦होता᳚र‌म्¦वि॒दथा᳚य¦जीज॑नन् ||

अध॒ त्यं द्र॒प्सं वि॒भ्वं᳚ विचक्ष॒णं विराभ॑रदिषि॒तः श्ये॒नो, अ॑ध्व॒रे |{आङ्गिर्हविर्धानः | अग्निः | जगती}

यदी॒ विशो᳚ वृ॒णते᳚ द॒स्ममार्या᳚, अ॒ग्निं होता᳚र॒मध॒ धीर॑जायत ||{4/9}{7.6.9.4}{10.11.4}{10.1.11.4}{875, 848, 8883}

अध॑¦त्य‌म्¦द्र॒प्स‌म्¦वि॒भ्व᳚‌म्¦वि॒ऽच॒क्ष॒ण‌म्¦विः¦आ¦अ॒भ॒र॒त्¦इ॒षि॒तः¦श्ये॒नः¦अ॒ध्व॒रे |
यदि॑¦विशः॑¦वृ॒णते᳚¦द॒स्म‌म्¦आर्याः᳚¦अ॒ग्नि‌म्¦होता᳚र‌म्¦अध॑¦धीः¦अ॒जा॒य॒त॒ ||

सदा᳚सि र॒ण्वो यव॑सेव॒ पुष्य॑ते॒ होत्रा᳚भिरग्ने॒ मनु॑षः स्वध्व॒रः |{आङ्गिर्हविर्धानः | अग्निः | जगती}

विप्र॑स्य वा॒ यच्छ॑शमा॒न उ॒क्थ्य१॑(अं॒) वाजं᳚ सस॒वाँ, उ॑प॒यासि॒ भूरि॑भिः ||{5/9}{7.6.9.5}{10.11.5}{10.1.11.5}{876, 848, 8884}

सदा᳚¦अ॒सि॒¦र॒ण्वः¦यव॑साऽ‌इव¦पुष्य॑ते¦होत्रा᳚भिः¦अ॒ग्ने॒¦मनु॑षः¦सु॒।आ॒ध्व॒रः |
विप्र॑स्य¦वा॒¦यत्¦श॒श॒मा॒नः¦उ॒क्थ्य᳚‌म्¦वाज᳚‌म्¦स॒स॒ऽवान्¦उ॒प॒ऽयासि॑¦भूरि॑ऽभिः ||

उदी᳚रय पि॒तरा᳚ जा॒र आ भग॒मिय॑क्षति हर्य॒तो हृ॒त्त इ॑ष्यति |{आङ्गिर्हविर्धानः | अग्निः | जगती}

विव॑क्ति॒ वह्निः॑ स्वप॒स्यते᳚ म॒खस्त॑वि॒ष्यते॒, असु॑रो॒ वेप॑ते म॒ती ||{6/9}{7.6.10.1}{10.11.6}{10.1.11.6}{877, 848, 8885}

उत्¦ई॒र॒य॒¦पि॒तरा᳚¦जा॒रः¦आ¦भग᳚‌म्¦इय॑क्षति¦ह॒र्य॒तः¦हृ॒त्तः¦इ॒ष्य॒ति॒ |
विव॑क्ति¦वह्निः॑¦सु॒।आ॒प॒स्यते᳚¦म॒खः¦त॒वि॒ष्यते᳚¦असु॑रः¦वेप॑ते¦म॒ती ||

यस्ते᳚, अग्ने सुम॒तिं मर्तो॒, अक्ष॒त्सह॑सः सूनो॒, अति॒ स प्र शृ᳚ण्वे |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

इषं॒ दधा᳚नो॒ वह॑मानो॒, अश्वै॒रा स द्यु॒माँ, अम॑वान्‌ भूषति॒ द्यून् ||{7/9}{7.6.10.2}{10.11.7}{10.1.11.7}{878, 848, 8886}

यः¦ते॒¦अ॒ग्ने॒¦सु॒ऽम॒ति‌म्¦मर्तः॑¦अक्ष॑त्¦सह॑सः¦सू॒नो॒ इति॑¦अति॑¦सः¦प्र¦शृ॒ण्वे॒ |
इष᳚‌म्¦दधा᳚नः¦वह॑मानः¦अश्वैः᳚¦आ¦सः¦द्यु॒ऽमान्¦अम॑ऽवान्¦भू॒ष॒ति॒¦द्यून् ||

यद॑ग्न ए॒षा समि॑ति॒र्भवा᳚ति दे॒वी दे॒वेषु॑ यज॒ता य॑जत्र |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

रत्ना᳚ च॒ यद्वि॒भजा᳚सि स्वधावो भा॒गं नो॒, अत्र॒ वसु॑मन्तं वीतात् ||{8/9}{7.6.10.3}{10.11.8}{10.1.11.8}{879, 848, 8887}

यत्¦अ॒ग्ने॒¦ए॒षा¦स‌म्ऽ‌इ᳚तिः¦भवा᳚ति¦दे॒वी¦दे॒वेषु॑¦य॒ज॒ता¦य॒ज॒त्र॒ |
रत्ना᳚¦च॒¦यत्¦वि॒ऽभजा᳚सि¦स्व॒धा॒ऽवः॒¦भा॒ग‌म्¦नः॒¦अत्र॑¦वसु॑ऽमन्त‌म्¦वी॒ता॒त् ||

श्रु॒धी नो᳚, अग्ने॒ सद॑ने स॒धस्थे᳚ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुम् |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

आ नो᳚ वह॒ रोद॑सी दे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्याः᳚ ||{9/9}{7.6.10.4}{10.11.9}{10.1.11.9}{880, 848, 8888}

श्रु॒धि¦नः॒¦अ॒ग्ने॒¦सद॑ने¦स॒धऽस्थे᳚¦यु॒क्ष्व¦रथ᳚‌म्¦अ॒मृत॑स्य¦द्र॒वि॒त्नु‌म् |
आ¦नः॒¦व॒ह॒¦रोद॑सी॒ इति॑¦दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे¦माकिः॑¦दे॒वाना᳚‌म्¦अप॑¦भूः॒¦इ॒ह¦स्याः॒ ||

[83] द्यावाहेति नवर्चस्य सूक्तस्यहविर्धानोग्निस्त्रिष्टुप् |
द्यावा᳚ ह॒ क्षामा᳚ प्रथ॒मे, ऋ॒तेना᳚भिश्रा॒वे भ॑वतः सत्य॒वाचा᳚ |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

दे॒वो यन्मर्ता᳚न्य॒जथा᳚य कृ॒ण्वन्‌ त्सीद॒द्धोता᳚ प्र॒त्यङ्स्वमसुं॒ यन् ||{1/9}{7.6.11.1}{10.12.1}{10.1.12.1}{881, 849, 8889}

द्यावा᳚¦ह॒¦क्षामा᳚¦प्र॒थ॒मे इति॑¦ऋ॒तेन॑¦अ॒भि॒ऽश्रा॒वे¦भ॒व॒तः॒¦स॒त्य॒ऽवाचा᳚ |
दे॒वः¦यत्¦मर्ता᳚न्¦य॒जथा᳚य¦कृ॒ण्वन्¦सीद॑त्¦होता᳚¦प्र॒त्यङ्¦स्व‌म्¦असु᳚‌म्¦यन् ||

दे॒वो दे॒वान्‌ प॑रि॒भूरृ॒तेन॒ वहा᳚ नो ह॒व्यं प्र॑थ॒मश्चि॑कि॒त्वान् |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

धू॒मके᳚तुः स॒मिधा॒ भा,ऋ॑जीको म॒न्द्रो होता॒ नित्यो᳚ वा॒चा यजी᳚यान् ||{2/9}{7.6.11.2}{10.12.2}{10.1.12.2}{882, 849, 8890}

दे॒वः¦दे॒वान्¦प॒रि॒ऽभूः¦ऋ॒तेन॑¦वह॑¦नः॒¦ह॒व्य‌म्¦प्र॒थ॒मः¦चि॒कि॒त्वान् |
धू॒मऽके᳚तुः¦स॒‌म्ऽ‌इधा᳚¦भाःऽऋ॑जीकः¦म॒न्द्रः¦होता᳚¦नित्यः॑¦वा॒चा¦यजी᳚यान् ||

स्वावृ॑ग्दे॒वस्या॒मृतं॒ यदी॒ गोरतो᳚ जा॒तासो᳚ धारयन्त उ॒र्वी |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

विश्वे᳚ दे॒वा, अनु॒ तत्ते॒ यजु॑र्गुर्दु॒हे यदेनी᳚ दि॒व्यं घृ॒तं वाः ||{3/9}{7.6.11.3}{10.12.3}{10.1.12.3}{883, 849, 8891}

स्वावृ॑क्¦दे॒वस्य॑¦अ॒मृत᳚‌म्¦यदि॑¦गोः¦अतः॑¦जा॒तासः॑¦धा॒र॒य॒न्ते॒¦उ॒र्वी इति॑ |
विश्वे᳚¦दे॒वाः¦अनु॑¦तत्¦ते॒¦यजुः॑¦गुः॒¦दु॒हे¦यत्¦एनी᳚¦दि॒व्य‌म्¦घृ॒त‌म्¦वारिति॒ वाः ||

अर्चा᳚मि वां॒ वर्धा॒यापो᳚ घृतस्नू॒ द्यावा᳚भूमी शृणु॒तं रो᳚दसी मे |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

अहा॒ यद्द्यावोऽसु॑नीति॒मय॒न्मध्वा᳚ नो॒, अत्र॑ पि॒तरा᳚ शिशीताम् ||{4/9}{7.6.11.4}{10.12.4}{10.1.12.4}{884, 849, 8892}

अर्चा᳚मि¦वा॒‌म्¦वर्धा᳚य¦अपः॑¦घृ॒त॒स्नू॒ इति॑ घृतऽस्नू¦द्यावा᳚भूमी॒ इति॑¦शृ॒णु॒त‌म्¦रो॒द॒सी॒ इति॑¦मे॒ |
अहा᳚¦यत्¦द्यावः॑¦असु॑ऽनीति‌म्¦अय॑न्¦मध्वा᳚¦नः॒¦अत्र॑¦पि॒तरा᳚¦शि॒शी॒ता॒‌म् ||

किं स्वि᳚न्नो॒ राजा᳚ जगृहे॒ कद॒स्याति᳚ व्र॒तं च॑कृमा॒ को वि वे᳚द |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

मि॒त्रश्चि॒द्धि ष्मा᳚ जुहुरा॒णो दे॒वाञ्छ्लोको॒ न या॒तामपि॒ वाजो॒, अस्ति॑ ||{5/9}{7.6.11.5}{10.12.5}{10.1.12.5}{885, 849, 8893}

कि‌म्¦स्वि॒त्¦नः॒¦राजा᳚¦ज॒गृ॒हे॒¦कत्¦अ॒स्य॒¦अति॑¦व्र॒त‌म्¦च॒कृ॒म॒¦कः¦वि¦वे॒द॒ |
मि॒त्रः¦चि॒त्¦हि¦स्म॒¦जु॒हु॒रा॒णः¦दे॒वान्¦श्लोकः॑¦न¦या॒ता‌म्¦अपि॑¦वाजः॑¦अस्ति॑ ||

दु॒र्मन्त्वत्रा॒मृत॑स्य॒ नाम॒ सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा᳚ति |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

य॒मस्य॒ यो म॒नव॑ते सु॒मन्त्वग्ने॒ तमृ॑ष्व पा॒ह्यप्र॑युच्छन् ||{6/9}{7.6.12.1}{10.12.6}{10.1.12.6}{886, 849, 8894}

दुः॒ऽमन्तु॑¦अत्र॑¦अ॒मृत॑स्य¦नाम॑¦सऽल॑क्ष्मा¦यत्¦विषु॑ऽरूपा¦भवा᳚ति |
य॒मस्य॑¦यः¦म॒नव॑ते¦सु॒ऽमन्तु॑¦अग्ने᳚¦त‌म्¦ऋ॒ष्व॒¦पा॒हि॒¦अप्र॑ऽयुच्छन् ||

यस्मि᳚न्दे॒वा वि॒दथे᳚ मा॒दय᳚न्ते वि॒वस्व॑तः॒ सद॑ने धा॒रय᳚न्ते |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

सूर्ये॒ ज्योति॒रद॑धुर्मा॒स्य१॑(अ॒)क्तून्‌ परि॑ द्योत॒निं च॑रतो॒, अज॑स्रा ||{7/9}{7.6.12.2}{10.12.7}{10.1.12.7}{887, 849, 8895}

यस्मि॑न्¦दे॒वाः¦वि॒दथे᳚¦मा॒दय᳚न्ते¦वि॒वस्व॑तः¦सद॑ने¦धा॒रय᳚न्ते |
सूर्ये᳚¦ज्योतिः॑¦अद॑धुः¦मा॒सि¦अ॒क्तून्¦परि॑¦द्यो॒त॒नि‌म्¦च॒र॒तः॒¦अज॑स्रा ||

यस्मि᳚न्दे॒वा मन्म॑नि सं॒चर᳚न्त्यपी॒च्ये॒३॑(ए॒) न व॒यम॑स्य विद्म |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

मि॒त्रो नो॒, अत्रादि॑ति॒रना᳚गान्‌ त्सवि॒ता दे॒वो वरु॑णाय वोचत् ||{8/9}{7.6.12.3}{10.12.8}{10.1.12.8}{888, 849, 8896}

यस्मि॑न्¦दे॒वाः¦मन्म॑नि¦स॒‌म्ऽचर᳚न्ति¦अ॒पी॒च्ये᳚¦न¦व॒य‌म्¦अ॒स्य॒¦वि॒द्म॒ |
मि॒त्रः¦नः॒¦अत्र॑¦अदि॑तिः¦अना᳚गान्¦स॒वि॒ता¦दे॒वः¦वरु॑णाय¦वो॒च॒त् ||

श्रु॒धी नो᳚, अग्ने॒ सद॑ने स॒धस्थे᳚ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुम् |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

आ नो᳚ वह॒ रोद॑सी दे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्याः᳚ ||{9/9}{7.6.12.4}{10.12.9}{10.1.12.9}{889, 849, 8897}

श्रु॒धि¦नः॒¦अ॒ग्ने॒¦सद॑ने¦स॒धऽस्थे᳚¦यु॒क्ष्व¦रथ᳚‌म्¦अ॒मृत॑स्य¦द्र॒वि॒त्नु‌म् |
आ¦नः॒¦व॒ह॒¦रोद॑सी॒ इति॑¦दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे¦माकिः॑¦दे॒वाना᳚‌म्¦अप॑¦भूः॒¦इ॒ह¦स्याः॒ ||

[84] युजेवामिति पंचर्चस्य सूक्तस्यादित्योविवस्वान्हविर्धानस्त्रिष्टुबंत्याजगती |
यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो᳚भि॒र्वि श्लोक॑ एतु प॒थ्ये᳚व सू॒रेः |{आदित्यो विवस्वानः | हविर्धानः | त्रिष्टुप्}

शृ॒ण्वन्तु॒ विश्वे᳚, अ॒मृत॑स्य पु॒त्रा, आ ये धामा᳚नि दि॒व्यानि॑ त॒स्थुः ||{1/5}{7.6.13.1}{10.13.1}{10.1.13.1}{890, 850, 8898}

यु॒जे¦वा॒‌म्¦ब्रह्म॑¦पू॒र्व्य‌म्¦नमः॑ऽभिः¦वि¦श्लोकः॑¦ए॒तु॒¦प॒थ्या᳚ऽ‌इव¦सू॒रेः |
शृ॒ण्वन्तु॑¦विश्वे᳚¦अ॒मृत॑स्य¦पु॒त्राः¦आ¦ये¦धामा᳚नि¦दि॒व्यानि॑¦त॒स्थुः ||

य॒मे, इ॑व॒ यत॑माने॒ यदैतं॒ प्र वां᳚ भर॒न्मानु॑षा देव॒यन्तः॑ |{आदित्यो विवस्वानः | हविर्धानः | त्रिष्टुप्}

आ सी᳚दतं॒ स्वमु॑ लो॒कं विदा᳚ने स्वास॒स्थे भ॑वत॒मिन्द॑वे नः ||{2/5}{7.6.13.2}{10.13.2}{10.1.13.2}{891, 850, 8899}

य॒मे इ॒वेति॑ य॒मेऽ‌इ᳚व¦यत॑माने॒ इति॑¦यत्¦ऐत᳚‌म्¦प्र¦वा॒‌म्¦भ॒र॒न्¦मानु॑षाः¦दे॒व॒ऽयन्तः॑ |
आ¦सी॒द॒त॒‌म्¦स्व‌म्¦ऊँ॒ इति॑¦लो॒क‌म्¦विदा᳚ने॒ इति॑¦स्वा॒स॒स्थे इति॑ सु॒ऽआ॒स॒स्थे¦भ॒व॒त॒‌म्¦इन्द॑वे¦नः॒ ||

पञ्च॑ प॒दानि॑ रु॒पो, अन्व॑रोहं॒ चतु॑ष्पदी॒मन्वे᳚मि व्र॒तेन॑ |{आदित्यो विवस्वानः | हविर्धानः | त्रिष्टुप्}

अ॒क्षरे᳚ण॒ प्रति॑ मिम ए॒तामृ॒तस्य॒ नाभा॒वधि॒ सं पु॑नामि ||{3/5}{7.6.13.3}{10.13.3}{10.1.13.3}{892, 850, 8900}

पंच॑¦प॒दानि॑¦रु॒पः¦अनु॑¦अ॒रो॒ह॒‌म्¦चतुः॑ऽपदी‌म्¦अनु॑¦ए॒मि॒¦व्र॒तेन॑ |
अ॒क्षरे᳚ण¦प्रति॑¦मि॒मे॒¦ए॒ता‌म्¦ऋ॒तस्य॑¦नाभौ᳚¦अधि॑¦स‌म्¦पु॒ना॒मि॒ ||

दे॒वेभ्यः॒ कम॑वृणीत मृ॒त्युं प्र॒जायै॒ कम॒मृतं॒ नावृ॑णीत |{आदित्यो विवस्वानः | हविर्धानः | त्रिष्टुप्}

बृह॒स्पतिं᳚ य॒ज्ञम॑कृण्वत॒ ऋषिं᳚ प्रि॒यां य॒मस्त॒न्व१॑(अं॒) प्रारि॑रेचीत् ||{4/5}{7.6.13.4}{10.13.4}{10.1.13.4}{893, 850, 8901}

दे॒वेभ्यः॑¦क‌म्¦अ॒वृ॒णी॒त॒¦मृ॒त्यु‌म्¦प्र॒ऽजायै᳚¦क‌म्¦अ॒मृत᳚‌म्¦न¦अ॒वृ॒णी॒त॒ |
बृह॒स्पति᳚‌म्¦य॒ज्ञ‌म्¦अ॒कृ॒ण्व॒त॒¦ऋषि᳚‌म्¦प्रि॒या‌म्¦य॒मः¦त॒न्व᳚‌म्¦प्र¦अ॒रि॒रे॒ची॒त् ||

स॒प्त क्ष॑रन्ति॒ शिश॑वे म॒रुत्व॑ते पि॒त्रे पु॒त्रासो॒, अप्य॑वीवतन्नृ॒तम् |{आदित्यो विवस्वानः | हविर्धानः | जगती}

उ॒भे, इद॑स्यो॒भय॑स्य राजत उ॒भे य॑तेते, उ॒भय॑स्य पुष्यतः ||{5/5}{7.6.13.5}{10.13.5}{10.1.13.5}{894, 850, 8902}

स॒प्त¦क्ष॒र॒न्ति॒¦शिश॑वे¦म॒रुत्व॑ते¦पि॒त्रे¦पु॒त्रासः॑¦अपि॑¦अ॒वी॒व॒त॒न्¦ऋ॒त‌म् |
उ॒भे इति॑¦इत्¦अ॒स्य॒¦उ॒भय॑स्य¦रा॒ज॒तः॒¦उ॒भे इति॑¦य॒ते॒ते॒ इति॑¦उ॒भय॑स्य¦पु॒ष्य॒तः॒ ||

[85] परेयिवांसमिति षोळशर्चस्य सूक्तस्य वैवस्वतोयमऋषिः यमोदेवता षष्ठ्यांगिरःपित्रथर्वभृगुसोमाः दशम्यादितिसृणांश्वानौ त्रिष्टुप् त्रयोदशीचतुर्दशीषोडश्योनुष्टुभः पंचदशीबृहती ( प्रेहिप्रेहीत्यादितिसृणां पितृदेवतावैकल्पिकी ) |
प॒रे॒यि॒वांसं᳚ प्र॒वतो᳚ म॒हीरनु॑ ब॒हुभ्यः॒ पन्था᳚मनुपस्पशा॒नम् |{वैवस्वतो यमः | यमः | त्रिष्टुप्}

वै॒व॒स्व॒तं सं॒गम॑नं॒ जना᳚नां य॒मं राजा᳚नं ह॒विषा᳚ दुवस्य ||{1/16}{7.6.14.1}{10.14.1}{10.1.14.1}{895, 851, 8903}

प॒रे॒यि॒ऽवांस᳚‌म्¦प्र॒ऽवतः॑¦म॒हीः¦अनु॑¦ब॒हुऽभ्यः॑¦पन्था᳚‌म्¦अ॒नु॒ऽप॒स्प॒शा॒न‌म् |
वै॒व॒स्व॒त‌म्¦स॒‌म्ऽगम॑न‌म्¦जना᳚ना‌म्¦य॒म‌म्¦राजा᳚न‌म्¦ह॒विषा᳚¦दु॒व॒स्य॒ ||

य॒मो नो᳚ गा॒तुं प्र॑थ॒मो वि॑वेद॒ नैषा गव्यू᳚ति॒रप॑भर्त॒वा, उ॑ |{वैवस्वतो यमः | यमः | त्रिष्टुप्}

यत्रा᳚ नः॒ पूर्वे᳚ पि॒तरः॑ परे॒युरे॒ना ज॑ज्ञा॒नाः प॒थ्या॒३॑(आ॒) अनु॒ स्वाः ||{2/16}{7.6.14.2}{10.14.2}{10.1.14.2}{896, 851, 8904}

य॒मः¦नः॒¦गा॒तु‌म्¦प्र॒थ॒मः¦वि॒वे॒द॒¦न¦ए॒षा¦गव्यू᳚तिः¦अप॑ऽभ॒र्त॒वै¦ऊँ॒ इति॑ |
यत्र॑¦नः॒¦पूर्वे᳚¦पि॒तरः॑¦प॒रा॒ऽई॒युः¦ए॒ना¦ज॒ज्ञा॒नाः¦प॒थ्याः᳚¦अनु॑¦स्वाः ||

मात॑ली क॒व्यैर्य॒मो, अङ्गि॑रोभि॒र्बृह॒स्पति॒रृक्व॑भिर्वावृधा॒नः |{वैवस्वतो यमः | यमः | त्रिष्टुप्}

याँश्च॑ दे॒वा वा᳚वृ॒धुर्ये च॑ दे॒वान्‌ त्स्वाहा॒न्ये स्व॒धया॒न्ये म॑दन्ति ||{3/16}{7.6.14.3}{10.14.3}{10.1.14.3}{897, 851, 8905}

मात॑ली¦क॒व्यैः¦य॒मः¦अङ्गि॑रःऽभिः¦बृह॒स्पतिः॑¦ऋक्व॑ऽभिः¦व॒वृ॒धा॒नः |
यान्¦च॒¦दे॒वाः¦व॒वृ॒धुः¦ये¦च॒¦दे॒वान्¦स्वाहा᳚¦अ॒न्ये¦स्व॒धया᳚¦अ॒न्ये¦म॒द॒न्ति॒ ||

इ॒मं य॑म प्रस्त॒रमा हि सीदाङ्गि॑रोभिः पि॒तृभिः॑ संविदा॒नः |{वैवस्वतो यमः | यमः | त्रिष्टुप्}

आ त्वा॒ मन्त्राः᳚ कविश॒स्ता व॑हन्त्वे॒ना रा᳚जन्ह॒विषा᳚ मादयस्व ||{4/16}{7.6.14.4}{10.14.4}{10.1.14.4}{898, 851, 8906}

इ॒म‌म्¦य॒म॒¦प्र॒ऽस्त॒र‌म्¦आ¦हि¦सीद॑¦अङ्गि॑रःऽभिः¦पि॒तृऽभिः॑¦स॒‌म्ऽवि॒दा॒नः |
आ¦त्वा॒¦मन्त्राः᳚¦क॒वि॒ऽश॒स्ताः¦व॒ह॒न्तु॒¦ए॒ना¦रा॒ज॒न्¦ह॒विषा᳚¦मा॒द॒य॒स्व॒ ||

अङ्गि॑रोभि॒रा ग॑हि य॒ज्ञिये᳚भि॒र्यम॑ वैरू॒पैरि॒ह मा᳚दयस्व |{वैवस्वतो यमः | यमः | त्रिष्टुप्}

विव॑स्वन्तं हुवे॒ यः पि॒ता ते॒ऽस्मिन्‌ य॒ज्ञे ब॒र्हिष्या नि॒षद्य॑ ||{5/16}{7.6.14.5}{10.14.5}{10.1.14.5}{899, 851, 8907}

अङ्गि॑रःऽभिः¦आ¦ग॒हि॒¦य॒ज्ञिये᳚भिः¦यम॑¦वै॒रू॒पैः¦इ॒ह¦मा॒द॒य॒स्व॒ |
विव॑स्वन्त‌म्¦हु॒वे॒¦यः¦पि॒ता¦ते॒¦अ॒स्मिन्¦य॒ज्ञे¦ब॒र्हिषि॑¦आ¦नि॒ऽसद्य॑ ||

अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒, अथ᳚र्वाणो॒ भृग॑वः सो॒म्यासः॑ |{वैवस्वतो यमः | आंगिरःपित्रथर्वभृगुःसोमाः | त्रिष्टुप्}

तेषां᳚ व॒यं सु॑म॒तौ य॒ज्ञिया᳚ना॒मपि॑ भ॒द्रे सौ᳚मन॒से स्या᳚म ||{6/16}{7.6.15.1}{10.14.6}{10.1.14.6}{900, 851, 8908}

अङ्गि॑रसः¦नः॒¦पि॒तरः॑¦नव॑ऽग्वाः¦अथ᳚र्वाणः¦भृग॑वः¦सो॒म्यासः॑ |
तेषा᳚‌म्¦व॒य‌म्¦सु॒ऽम॒तौ¦य॒ज्ञिया᳚ना‌म्¦अपि॑¦भ॒द्रे¦सौ॒म॒न॒से¦स्या॒म॒ ||

प्रेहि॒ प्रेहि॑ प॒थिभिः॑ पू॒र्व्येभि॒र्यत्रा᳚ नः॒ पूर्वे᳚ पि॒तरः॑ परे॒युः |{वैवस्वतो यमः | पितृदेवता | त्रिष्टुप्}

उ॒भा राजा᳚ना स्व॒धया॒ मद᳚न्ता य॒मं प॑श्यासि॒ वरु॑णं च दे॒वम् ||{7/16}{7.6.15.2}{10.14.7}{10.1.14.7}{901, 851, 8909}

प्र¦इ॒हि॒¦प्र¦इ॒हि॒¦प॒थिऽभिः॑¦पू॒र्व्येभिः॑¦यत्र॑¦नः॒¦पूर्वे᳚¦पि॒तरः॑¦प॒रा॒ऽई॒युः |
उ॒भा¦राजा᳚ना¦स्व॒धया᳚¦मद᳚न्ता¦य॒म‌म्¦प॒श्या॒सि॒¦वरु॑ण‌म्¦च॒¦दे॒व‌म् ||

सं ग॑च्छस्व पि॒तृभिः॒ सं य॒मेने᳚ष्टापू॒र्तेन॑ पर॒मे व्यो᳚मन् |{वैवस्वतो यमः | पितृदेवता | त्रिष्टुप्}

हि॒त्वाया᳚व॒द्यं पुन॒रस्त॒मेहि॒ सं ग॑च्छस्व त॒न्वा᳚ सु॒वर्चाः᳚ ||{8/16}{7.6.15.3}{10.14.8}{10.1.14.8}{902, 851, 8910}

स‌म्¦ग॒च्छ॒स्व॒¦पि॒तृऽभिः॑¦स‌म्¦य॒मेन॑¦इ॒ष्टा॒पू॒र्तेन॑¦प॒र॒मे¦विऽओ᳚मन् |
हि॒त्वाय॑¦अ॒व॒द्य‌म्¦पुनः॑¦अस्त᳚‌म्¦आ¦इ॒हि॒¦स‌म्¦ग॒च्छ॒स्व॒¦त॒न्वा᳚¦सु॒ऽवर्चाः᳚ ||

अपे᳚त॒ वी᳚त॒ वि च॑ सर्प॒तातो॒ऽस्मा, ए॒तं पि॒तरो᳚ लो॒कम॑क्रन् |{वैवस्वतो यमः | पितृदेवता | त्रिष्टुप्}

अहो᳚भिर॒द्भिर॒क्तुभि॒र्व्य॑क्तं य॒मो द॑दात्यव॒सान॑मस्मै ||{9/16}{7.6.15.4}{10.14.9}{10.1.14.9}{903, 851, 8911}

अप॑¦इ॒त॒¦वि¦इ॒त॒¦वि¦च॒¦स॒र्प॒त॒¦अतः॑¦अ॒स्मै¦ए॒त‌म्¦पि॒तरः॑¦लो॒क‌म्¦अ॒क्र॒न् |
अहः॑ऽभिः¦अ॒त्ऽभिः¦अ॒क्तुऽभिः॑¦वि।आ॑क्त‌म्¦य॒मः¦द॒दा॒ति॒¦अ॒व॒ऽसान᳚‌म्¦अ॒स्मै॒ ||

अति॑ द्रव सारमे॒यौ श्वानौ᳚ चतुर॒क्षौ श॒बलौ᳚ सा॒धुना᳚ प॒था |{वैवस्वतो यमः | श्वानौ | त्रिष्टुप्}

अथा᳚ पि॒तॄन्‌ त्सु॑वि॒दत्राँ॒, उपे᳚हि य॒मेन॒ ये स॑ध॒मादं॒ मद᳚न्ति ||{10/16}{7.6.15.5}{10.14.10}{10.1.14.10}{904, 851, 8912}

अति॑¦द्र॒व॒¦सा॒र॒मे॒यौ¦श्वानौ᳚¦च॒तुः॒।आ॒क्षौ¦श॒बलौ᳚¦सा॒धुना᳚¦प॒था |
अथ॑¦पि॒तॄन्¦सु॒ऽवि॒दत्रा᳚न्¦उप॑¦इ॒हि॒¦य॒मेन॑¦ये¦स॒ध॒ऽमाद᳚‌म्¦मद᳚न्ति ||

यौ ते॒ श्वानौ᳚ यम रक्षि॒तारौ᳚ चतुर॒क्षौ प॑थि॒रक्षी᳚ नृ॒चक्ष॑सौ |{वैवस्वतो यमः | श्वानौ | त्रिष्टुप्}

ताभ्या᳚मेनं॒ परि॑ देहि राजन्‌ त्स्व॒स्ति चा᳚स्मा, अनमी॒वं च॑ धेहि ||{11/16}{7.6.16.1}{10.14.11}{10.1.14.11}{905, 851, 8913}

यौ¦ते॒¦श्वानौ᳚¦य॒म॒¦र॒क्षि॒तारौ᳚¦च॒तुः॒।आ॒क्षौ¦प॒थि॒रक्षी॒ इति॑ प॒थि॒ऽरक्षी᳚¦नृ॒ऽचक्ष॑सौ |
ताभ्या᳚‌म्¦ए॒न॒‌म्¦परि॑¦दे॒हि॒¦रा॒ज॒न्¦स्व॒स्ति¦च॒¦अ॒स्मै॒¦अ॒न॒मी॒व‌म्¦च॒¦धे॒हि॒ ||

उ॒रू॒ण॒साव॑सु॒तृपा᳚, उदुम्ब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ जनाँ॒, अनु॑ |{वैवस्वतो यमः | श्वानौ | त्रिष्टुप्}

ताव॒स्मभ्यं᳚ दृ॒शये॒ सूर्या᳚य॒ पुन॑र्दाता॒मसु॑म॒द्येह भ॒द्रम् ||{12/16}{7.6.16.2}{10.14.12}{10.1.14.12}{906, 851, 8914}

उ॒रु॒ऽन॒सौ¦अ॒सु॒ऽतृपौ᳚¦उ॒दु॒म्ब॒लौ¦य॒मस्य॑¦दू॒तौ¦च॒र॒तः॒¦जना᳚न्¦अनु॑ |
तौ¦अ॒स्मभ्य᳚‌म्¦दृ॒शये᳚¦सूर्या᳚य¦पुनः॑¦दा॒ता॒‌म्¦असु᳚‌म्¦अ॒द्य¦इ॒ह¦भ॒द्र‌म् ||

य॒माय॒ सोमं᳚ सुनुत य॒माय॑ जुहुता ह॒विः |{वैवस्वतो यमः | यमः | अनुष्टुप्}

य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू᳚तो॒, अरं᳚कृतः ||{13/16}{7.6.16.3}{10.14.13}{10.1.14.13}{907, 851, 8915}

य॒माय॑¦सोम᳚‌म्¦सु॒नु॒त॒¦य॒माय॑¦जु॒हु॒त॒¦ह॒विः | य॒म‌म्¦ह॒¦य॒ज्ञः¦ग॒च्छ॒ति॒¦अ॒ग्निऽदू᳚तः¦अर᳚‌म्ऽकृतः ||

य॒माय॑ घृ॒तव॑द्ध॒विर्जु॒होत॒ प्र च॑ तिष्ठत |{वैवस्वतो यमः | यमः | अनुष्टुप्}

स नो᳚ दे॒वेष्वा य॑मद्दी॒र्घमायुः॒ प्र जी॒वसे᳚ ||{14/16}{7.6.16.4}{10.14.14}{10.1.14.14}{908, 851, 8916}

य॒माय॑¦घृ॒तऽव॑त्¦ह॒विः¦जु॒होत॑¦प्र¦च॒¦ति॒ष्ठ॒त॒ | सः¦नः॒¦दे॒वेषु॑¦आ¦य॒म॒त्¦दी॒र्घ‌म्¦आयुः॑¦प्र¦जी॒वसे᳚ ||

य॒माय॒ मधु॑मत्तमं॒ राज्ञे᳚ ह॒व्यं जु॑होतन |{वैवस्वतो यमः | यमः | बृहती}

इ॒दं नम॒ ऋषि॑भ्यः पूर्व॒जेभ्यः॒ पूर्वे᳚भ्यः पथि॒कृद्भ्यः॑ ||{15/16}{7.6.16.5}{10.14.15}{10.1.14.15}{909, 851, 8917}

य॒माय॑¦मधु॑मत्ऽतम‌म्¦राज्ञे᳚¦ह॒व्य‌म्¦जु॒हो॒त॒न॒ |
इ॒द‌म्¦नमः॑¦ऋषि॑ऽभ्यः¦पू॒र्व॒ऽजेभ्यः॑¦पूर्वे᳚भ्यः¦प॒थि॒कृत्ऽभ्यः॑ ||

त्रिक॑द्रुकेभिः पतति॒ षळु॒र्वीरेक॒मिद्बृ॒हत् |{वैवस्वतो यमः | यमः | अनुष्टुप्}

त्रि॒ष्टुब्गा᳚य॒त्री छन्दां᳚सि॒ सर्वा॒ ता य॒म आहि॑ता ||{16/16}{7.6.16.6}{10.14.16}{10.1.14.16}{910, 851, 8918}

त्रिऽक॑द्रुकेभिः¦प॒त॒ति॒¦षट्¦उ॒र्वीः¦एक᳚‌म्¦इत्¦बृ॒हत् | त्रि॒ऽस्तुप्¦गा॒य॒त्री¦छन्दां᳚सि¦सर्वा᳚¦ता¦य॒मे¦आऽहि॑ता ||

[86] उदीरतामिति चतुर्दशर्चस्य सूक्तस्य यामायनः शंखः पितरस्त्रिष्टुप् एकादशीजगती |
उदी᳚रता॒मव॑र॒ उत्परा᳚स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ |{यामायनः शंखः | पितरः | त्रिष्टुप्}

असुं॒ य ई॒युर॑वृ॒का, ऋ॑त॒ज्ञास्ते नो᳚ऽवन्तु पि॒तरो॒ हवे᳚षु ||{1/14}{7.6.17.1}{10.15.1}{10.1.15.1}{911, 852, 8919}

उत्¦ई॒र॒ता॒‌म्¦अव॑रे¦उत्¦परा᳚सः¦उत्¦म॒ध्य॒माः¦पि॒तरः॑¦सो॒म्यासः॑ |
असु᳚‌म्¦ये¦ई॒युः¦अ॒वृ॒काः¦ऋ॒त॒ऽज्ञाः¦ते¦नः॒¦अ॒व॒न्तु॒¦पि॒तरः॑¦हवे᳚षु ||

इ॒दं पि॒तृभ्यो॒ नमो᳚, अस्त्व॒द्य ये पूर्वा᳚सो॒ य उप॑रास ई॒युः |{यामायनः शंखः | पितरः | त्रिष्टुप्}

ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा᳚ नू॒नं सु॑वृ॒जना᳚सु वि॒क्षु ||{2/14}{7.6.17.2}{10.15.2}{10.1.15.2}{912, 852, 8920}

इ॒द‌म्¦पि॒तृऽभ्यः॑¦नमः॑¦अ॒स्तु॒¦अ॒द्य¦ये¦पूर्वा᳚सः¦ये¦उप॑रासः¦ई॒युः |
ये¦पार्थि॑वे¦रज॑सि¦आ¦निऽस॑त्ताः¦ये¦वा॒¦नू॒न‌म्¦सु॒ऽवृ॒जना᳚सु¦वि॒क्षु ||

आहं पि॒तॄन्‌ त्सु॑वि॒दत्राँ᳚, अवित्सि॒ नपा᳚तं च वि॒क्रम॑णं च॒ विष्णोः᳚ |{यामायनः शंखः | पितरः | त्रिष्टुप्}

ब॒र्हि॒षदो॒ ये स्व॒धया᳚ सु॒तस्य॒ भज᳚न्त पि॒त्वस्त इ॒हाग॑मिष्ठाः ||{3/14}{7.6.17.3}{10.15.3}{10.1.15.3}{913, 852, 8921}

आ¦अ॒ह‌म्¦पि॒तॄन्¦सु॒ऽवि॒दत्रा᳚न्¦अ॒वि॒त्सि॒¦नपा᳚त‌म्¦च॒¦वि॒ऽक्रम॑ण‌म्¦च॒¦विष्णोः᳚ |
ब॒र्हि॒ऽसदः॑¦ये¦स्व॒धया᳚¦सु॒तस्य॑¦भज᳚न्त¦पि॒त्वः¦ते¦इ॒ह¦आऽग॑मिष्ठाः ||

बर्हि॑षदः पितर ऊ॒त्य१॑(अ॒)र्वागि॒मा वो᳚ ह॒व्या च॑कृमा जु॒षध्व᳚म् |{यामायनः शंखः | पितरः | त्रिष्टुप्}

त आ ग॒ताव॑सा॒ शंत॑मे॒नाथा᳚ नः॒ शं योर॑र॒पो द॑धात ||{4/14}{7.6.17.4}{10.15.4}{10.1.15.4}{914, 852, 8922}

बर्हि॑ऽसदः¦पि॒त॒रः॒¦ऊ॒ती¦अ॒र्वाक्¦इ॒मा¦वः॒¦ह॒व्या¦च॒कृ॒म॒¦जु॒षध्व᳚‌म् |
ते¦आ¦ग॒त॒¦अव॑सा¦श‌म्ऽत॑मेन¦अथ॑¦नः॒¦श‌म्¦योः¦अ॒र॒पः¦द॒धा॒त॒ ||

उप॑हूताः पि॒तरः॑ सो॒म्यासो᳚ बर्हि॒ष्ये᳚षु नि॒धिषु॑ प्रि॒येषु॑ |{यामायनः शंखः | पितरः | त्रिष्टुप्}

त आ ग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते᳚ऽवन्त्व॒स्मान् ||{5/14}{7.6.17.5}{10.15.5}{10.1.15.5}{915, 852, 8923}

उप॑ऽहूताः¦पि॒तरः॑¦सो॒म्यासः॑¦ब॒र्हि॒ष्ये᳚षु¦नि॒ऽधिषु॑¦प्रि॒येषु॑ |
ते¦आ¦ग॒म॒न्तु॒¦ते¦इ॒ह¦श्रि॒व॒न्तु॒¦अधि॑¦ब्रु॒व॒न्तु॒¦ते¦अ॒व॒न्तु॒¦अ॒स्मान् ||

आच्या॒ जानु॑ दक्षिण॒तो नि॒षद्ये॒मं य॒ज्ञम॒भि गृ॑णीत॒ विश्वे᳚ |{यामायनः शंखः | पितरः | त्रिष्टुप्}

मा हिं᳚सिष्ट पितरः॒ केन॑ चिन्नो॒ यद्व॒ आगः॑ पुरु॒षता॒ करा᳚म ||{6/14}{7.6.18.1}{10.15.6}{10.1.15.6}{916, 852, 8924}

आ॒।आच्य॑¦जानु॑¦द॒क्षि॒ण॒तः¦नि॒ऽसद्य॑¦इ॒म‌म्¦य॒ज्ञ‌म्¦अ॒भि¦गृ॒णी॒त॒¦विश्वे᳚ |
मा¦हिं॒सि॒ष्ट॒¦पि॒त॒रः॒¦केन॑¦चि॒त्¦नः॒¦यत्¦वः॒¦आगः॑¦पु॒रु॒षता᳚¦करा᳚म ||

आसी᳚नासो, अरु॒णीना᳚मु॒पस्थे᳚ र॒यिं ध॑त्त दा॒शुषे॒ मर्त्या᳚य |{यामायनः शंखः | पितरः | त्रिष्टुप्}

पु॒त्रेभ्यः॑ पितर॒स्तस्य॒ वस्वः॒ प्र य॑च्छत॒ त इ॒होर्जं᳚ दधात ||{7/14}{7.6.18.2}{10.15.7}{10.1.15.7}{917, 852, 8925}

आसी᳚नासः¦अ॒रु॒णीना᳚‌म्¦उ॒पऽस्थे᳚¦र॒यि‌म्¦ध॒त्त॒¦दा॒शुषे᳚¦मर्त्या᳚य |
पु॒त्रेभ्यः॑¦पि॒त॒रः॒¦तस्य॑¦वस्वः॑¦प्र¦य॒च्छ॒त॒¦ते¦इ॒ह¦ऊर्ज᳚‌म्¦द॒धा॒त॒ ||

ये नः॒ पूर्वे᳚ पि॒तरः॑ सो॒म्यासो᳚ऽनूहि॒रे सो᳚मपी॒थं वसि॑ष्ठाः |{यामायनः शंखः | पितरः | त्रिष्टुप्}

तेभि᳚र्य॒मः सं᳚ररा॒णो ह॒वींष्यु॒शन्नु॒शद्भिः॑ प्रतिका॒मम॑त्तु ||{8/14}{7.6.18.3}{10.15.8}{10.1.15.8}{918, 852, 8926}

ये¦नः॒¦पूर्वे᳚¦पि॒तरः॑¦सो॒म्यासः॑¦अ॒नु॒ऽऊ॒हि॒रे¦सो॒म॒ऽपी॒थ‌म्¦वसि॑ष्ठाः |
तेभिः॑¦य॒मः¦स॒‌म्ऽर॒रा॒णः¦ह॒वींषि॑¦उ॒शन्¦ए॒शत्ऽभिः॑¦प्र॒ति॒ऽका॒म‌म्¦अ॒त्तु॒ ||

ये ता᳚तृ॒षुर्दे᳚व॒त्रा जेह॑माना होत्रा॒विदः॒ स्तोम॑तष्टासो, अ॒र्कैः |{यामायनः शंखः | पितरः | त्रिष्टुप्}

आग्ने᳚ याहि सुवि॒दत्रे᳚भिर॒र्वाङ्स॒त्यैः क॒व्यैः पि॒तृभि॑र्घर्म॒सद्भिः॑ ||{9/14}{7.6.18.4}{10.15.9}{10.1.15.9}{919, 852, 8927}

ये¦त॒तृ॒षुः¦दे॒व॒त्रा¦जेह॑मानाः¦हो॒त्रा॒ऽविदः॑¦स्तोम॑ऽतष्टासः¦अ॒र्कैः |
आ¦अ॒ग्ने॒¦या॒हि॒¦सु॒ऽवि॒दत्रे᳚भिः¦अ॒र्वाङ्¦स॒त्यैः¦क॒व्यैः¦पि॒तृऽभिः॑¦घ॒र्म॒सत्ऽभिः॑ ||

ये स॒त्यासो᳚ हवि॒रदो᳚ हवि॒ष्पा, इन्द्रे᳚ण दे॒वैः स॒रथं॒ दधा᳚नाः |{यामायनः शंखः | पितरः | त्रिष्टुप्}

आग्ने᳚ याहि स॒हस्रं᳚ देवव॒न्दैः परैः॒ पूर्वैः᳚ पि॒तृभि॑र्घर्म॒सद्भिः॑ ||{10/14}{7.6.18.5}{10.15.10}{10.1.15.10}{920, 852, 8928}

ये¦स॒त्यासः॑¦ह॒विः॒।आदः॑¦ह॒विः॒ऽपाः¦इन्द्रे᳚ण¦दे॒वैः¦स॒ऽरथ᳚‌म्¦दधा᳚नाः |
आ¦अ॒ग्ने॒¦या॒हि॒¦स॒हस्र᳚‌म्¦दे॒व॒ऽव॒न्दैः¦परैः᳚¦पूर्वैः᳚¦पि॒तृऽभिः॑¦घ॒र्म॒सत्ऽभिः॑ ||

अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः |{यामायनः शंखः | पितरः | जगती}

अ॒त्ता ह॒वींषि॒ प्रय॑तानि ब॒र्हिष्यथा᳚ र॒यिं सर्व॑वीरं दधातन ||{11/14}{7.6.19.1}{10.15.11}{10.1.15.11}{921, 852, 8929}

अग्नि॑ऽस्वात्ताः¦पि॒त॒रः॒¦आ¦इ॒ह¦ग॒च्छ॒त॒¦सदः॑ऽसदः¦स॒द॒त॒¦सु॒ऽप्र॒नी॒त॒यः॒ |
अ॒त्त¦ह॒वींषि॑¦प्रऽय॑तानि¦ब॒र्हिषि॑¦अथ॑¦र॒यि‌म्¦सर्व॑ऽवीर‌म्¦द॒धा॒त॒न॒ ||

त्वम॑ग्न ईळि॒तो जा᳚तवे॒दोऽवा᳚ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वी |{यामायनः शंखः | पितरः | त्रिष्टुप्}

प्रादाः᳚ पि॒तृभ्यः॑ स्व॒धया॒ ते, अ॑क्षन्न॒द्धि त्वं दे᳚व॒ प्रय॑ता ह॒वींषि॑ ||{12/14}{7.6.19.2}{10.15.12}{10.1.15.12}{922, 852, 8930}

त्व‌म्¦अ॒ग्ने॒¦ई॒ळि॒तः¦जा॒त॒ऽवे॒दः॒¦अवा᳚ट्¦ह॒व्यानि॑¦सु॒र॒भीणि॑¦कृ॒त्वी |
प्र¦अ॒दाः॒¦पि॒तृऽभ्यः॑¦स्व॒धया᳚¦ते¦अ॒क्ष॒न्¦अ॒द्धि¦त्व‌म्¦दे॒व॒¦प्रऽय॑ता¦ह॒वींषि॑ ||

ये चे॒ह पि॒तरो॒ ये च॒ नेह याँश्च॑ वि॒द्म याँ, उ॑ च॒ न प्र॑वि॒द्म |{यामायनः शंखः | पितरः | त्रिष्टुप्}

त्वं वे᳚त्थ॒ यति॒ ते जा᳚तवेदः स्व॒धाभि᳚र्य॒ज्ञं सुकृ॑तं जुषस्व ||{13/14}{7.6.19.3}{10.15.13}{10.1.15.13}{923, 852, 8931}

ये¦च॒¦इ॒ह¦पि॒तरः॑¦ये¦च॒¦न¦इ॒ह¦यान्¦च॒¦वि॒द्म¦यान्¦ऊँ॒ इति॑¦च॒¦न¦प्र॒ऽवि॒द्म |
त्व‌म्¦वे॒त्थ॒¦यति॑¦ते¦जा॒त॒ऽवे॒दः॒¦स्व॒धाभिः॑¦य॒ज्ञ‌म्¦सुऽकृ॑त‌म्¦जु॒ष॒स्व॒ ||

ये, अ॑ग्निद॒ग्धा ये, अन॑ग्निदग्धा॒ मध्ये᳚ दि॒वः स्व॒धया᳚ मा॒दय᳚न्ते |{यामायनः शंखः | पितरः | त्रिष्टुप्}

तेभिः॑ स्व॒राळसु॑नीतिमे॒तां य॑थाव॒शं त॒न्वं᳚ कल्पयस्व ||{14/14}{7.6.19.4}{10.15.14}{10.1.15.14}{924, 852, 8932}

ये¦अ॒ग्नि॒ऽद॒ग्धाः¦ये¦अन॑ग्निऽदग्धाः¦मध्ये᳚¦दि॒वः¦स्व॒धया᳚¦मा॒दय᳚न्ते |
तेभिः॑¦स्व॒ऽराट्¦असु॑ऽनीति‌म्¦ए॒ता‌म्¦य॒था॒ऽव॒श‌म्¦त॒न्व᳚‌म्¦क॒ल्प॒य॒स्व॒ ||

[87] मैनमिति चतुर्दशर्चस्य सूक्तस्य यामायनोदमनोग्निस्त्रिष्टुबंत्याञ्चतस्रोनुष्टुभः |
मैन॑मग्ने॒ वि द॑हो॒ माभि शो᳚चो॒ मास्य॒ त्वचं᳚ चिक्षिपो॒ मा शरी᳚रम् |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

य॒दा शृ॒तं कृ॒णवो᳚ जातवे॒दोऽथे᳚मेनं॒ प्र हि॑णुतात्पि॒तृभ्यः॑ ||{1/14}{7.6.20.1}{10.16.1}{10.1.16.1}{925, 853, 8933}

मा¦ए॒न॒‌म्¦अ॒ग्ने॒¦वि¦द॒हः॒¦मा¦अ॒भि¦शो॒चः॒¦मा¦अ॒स्य॒¦त्वच᳚‌म्¦चि॒क्षि॒पः॒¦मा¦शरी᳚र‌म् |
य॒दा¦शृ॒त‌म्¦कृ॒णवः॑¦जा॒त॒ऽवे॒दः॒¦अथ॑¦ई॒‌म्¦ए॒न॒‌म्¦प्र¦हि॒णु॒ता॒त्¦पि॒तृऽभ्यः॑ ||

शृ॒तं य॒दा कर॑सि जातवे॒दोऽथे᳚मेनं॒ परि॑ दत्तात्पि॒तृभ्यः॑ |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

य॒दा गच्छा॒त्यसु॑नीतिमे॒तामथा᳚ दे॒वानां᳚ वश॒नीर्भ॑वाति ||{2/14}{7.6.20.2}{10.16.2}{10.1.16.2}{926, 853, 8934}

शृ॒त‌म्¦य॒दा¦कर॑सि¦जा॒त॒ऽवे॒दः॒¦अथ॑¦ई॒‌म्¦ए॒न॒‌म्¦परि॑¦द॒त्ता॒त्¦पि॒तृऽभ्यः॑ |
य॒दा¦गच्छा᳚ति¦असु॑ऽनीति‌म्¦ए॒ता‌म्¦अथ॑¦दे॒वाना᳚‌म्¦व॒श॒ऽनीः¦भ॒वा॒ति॒ ||

सूर्यं॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्यां च॑ गच्छ पृथि॒वीं च॒ धर्म॑णा |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

अ॒पो वा᳚ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी᳚रैः ||{3/14}{7.6.20.3}{10.16.3}{10.1.16.3}{927, 853, 8935}

सूर्य᳚‌म्¦चक्षुः॑¦ग॒च्छ॒तु॒¦वात᳚‌म्¦आ॒त्मा¦द्या‌म्¦च॒¦ग॒च्छ॒¦पृ॒थि॒वी‌म्¦च॒¦धर्म॑णा |
अ॒पः¦वा॒¦ग॒च्छ॒¦यदि॑¦तत्र॑¦ते॒¦हि॒त‌म्¦ओष॑धीषु¦प्रति॑¦ति॒ष्ठ॒¦शरी᳚रैः ||

अ॒जो भा॒गस्तप॑सा॒ तं त॑पस्व॒ तं ते᳚ शो॒चिस्त॑पतु॒ तं ते᳚, अ॒र्चिः |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

यास्ते᳚ शि॒वास्त॒न्वो᳚ जातवेद॒स्ताभि᳚र्वहैनं सु॒कृता᳚मु लो॒कम् ||{4/14}{7.6.20.4}{10.16.4}{10.1.16.4}{928, 853, 8936}

अ॒जः¦भा॒गः¦तप॑सा॒¦त‌म्¦त॒प॒स्व॒¦त‌म्¦ते॒¦शो॒चिः¦त॒प॒तु॒¦त‌म्¦ते॒¦अ॒र्चिः |
याः¦ते॒¦शि॒वाः¦त॒न्वः॑¦जा॒त॒ऽवे॒दः॒¦ताभिः॑¦व॒ह॒¦ए॒न॒‌म्¦सु॒ऽकृता᳚‌म्¦ऊँ॒ इति॑¦लो॒क‌म् ||

अव॑ सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धाभिः॑ |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

आयु॒र्वसा᳚न॒ उप॑ वेतु॒ शेषः॒ सं ग॑च्छतां त॒न्वा᳚ जातवेदः ||{5/14}{7.6.20.5}{10.16.5}{10.1.16.5}{929, 853, 8937}

अव॑¦सृ॒ज॒¦पुनः॑¦अ॒ग्ने॒¦पि॒तृऽभ्यः॑¦यः¦ते॒¦आऽहु॑तः¦चर॑ति¦स्व॒धाभिः॑ |
आयुः॑¦वसा᳚नः¦उप॑¦वे॒तु॒¦शेषः॑¦स‌म्¦ग॒च्छ॒ता॒‌म्¦त॒न्वा᳚¦जा॒त॒ऽवे॒दः॒ ||

यत्ते᳚ कृ॒ष्णः श॑कु॒न आ᳚तु॒तोद॑ पिपी॒लः स॒र्प उ॒त वा॒ श्वाप॑दः |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

अ॒ग्निष्टद्वि॒श्वाद॑ग॒दं कृ॑णोतु॒ सोम॑श्च॒ यो ब्रा᳚ह्म॒णाँ, आ᳚वि॒वेश॑ ||{6/14}{7.6.21.1}{10.16.6}{10.1.16.6}{930, 853, 8938}

यत्¦ते॒¦कृ॒ष्णः¦श॒कु॒नः¦आ॒ऽतु॒तोद॑¦पि॒पी॒लः¦स॒र्पः¦उ॒त¦वा॒¦श्वाप॑दः |
अ॒ग्निः¦तत्¦वि॒श्व॒।आत्¦अ॒ग॒द‌म्¦कृ॒णो॒तु॒¦सोमः॑¦च॒¦यः¦ब्रा॒ह्म॒णान्¦आ॒ऽवि॒वेश॑ ||

अ॒ग्नेर्वर्म॒ परि॒ गोभि᳚र्व्ययस्व॒ सं प्रोर्णु॑ष्व॒ पीव॑सा॒ मेद॑सा च |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

नेत्‌ त्वा᳚ धृ॒ष्णुर्हर॑सा॒ जर्हृ॑षाणो द॒धृग्वि॑ध॒क्ष्यन्‌ प᳚र्य॒ङ्खया᳚ते ||{7/14}{7.6.21.2}{10.16.7}{10.1.16.7}{931, 853, 8939}

अ॒ग्नेः¦वर्म॑¦परि॑¦गोभिः॑¦व्य॒य॒स्व॒¦स‌म्¦प्र¦ऊ॒णु॒ष्व॒¦पीव॑सा¦मेद॑सा¦च॒ |
न¦इत्¦त्वा॒¦धृ॒ष्णुः¦हर॑सा¦जर्हृ॑षाणः¦द॒धृक्¦वि॒ऽध॒क्ष्यन्¦प॒रि॒।आ॒ङ्खया᳚ते ||

इ॒मम॑ग्ने चम॒सं मा वि जि॑ह्वरः प्रि॒यो दे॒वाना᳚मु॒त सो॒म्याना᳚म् |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

ए॒ष यश्च॑म॒सो दे᳚व॒पान॒स्तस्मि᳚न्दे॒वा, अ॒मृता᳚ मादयन्ते ||{8/14}{7.6.21.3}{10.16.8}{10.1.16.8}{932, 853, 8940}

इ॒म‌म्¦अ॒ग्ने॒¦च॒म॒स‌म्¦मा¦वि¦जि॒ह्व॒रः॒¦प्रि॒यः¦दे॒वाना᳚‌म्¦उ॒त¦सो॒म्याना᳚‌म् |
ए॒षः¦यः¦च॒म॒सः¦दे॒व॒ऽपानः॑¦तस्मि॑न्¦दे॒वाः¦अ॒मृताः᳚¦मा॒द॒य॒न्ते॒ ||

क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॒मरा᳚ज्ञो गच्छतु रिप्रवा॒हः |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

इ॒हैवायमित॑रो जा॒तवे᳚दा दे॒वेभ्यो᳚ ह॒व्यं व॑हतु प्रजा॒नन् ||{9/14}{7.6.21.4}{10.16.9}{10.1.16.9}{933, 853, 8941}

क्र॒व्य॒।आद᳚‌म्¦अ॒ग्नि‌म्¦प्र¦हि॒णो॒मि॒¦दू॒र‌म्¦य॒मऽरा᳚ज्ञः¦ग॒च्छ॒तु॒¦रि॒प्र॒ऽवा॒हः |
इ॒ह¦ए॒व¦अ॒य‌म्¦इत॑रः¦जा॒तऽवे᳚दाः¦दे॒वेभ्यः॑¦ह॒व्य‌म्¦व॒ह॒तु॒¦प्र॒ऽजा॒नन् ||

यो, अ॒ग्निः क्र॒व्यात्प्र॑वि॒वेश॑ वो गृ॒हमि॒मं पश्य॒न्नित॑रं जा॒तवे᳚दसम् |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

तं ह॑रामि पितृय॒ज्ञाय॑ दे॒वं स घ॒र्ममि᳚न्वात्पर॒मे स॒धस्थे᳚ ||{10/14}{7.6.21.5}{10.16.10}{10.1.16.10}{934, 853, 8942}

यः¦अ॒ग्निः¦क्र॒व्य॒।आत्¦प्र॒ऽवि॒वेश॑¦वः॒¦गृ॒ह‌म्¦इ॒म‌म्¦पश्य॑न्¦इत॑र‌म्¦जा॒तऽवे᳚दस‌म् |
त‌म्¦ह॒रा॒मि॒¦पि॒तृ॒ऽय॒ज्ञाय॑¦दे॒व‌म्¦सः¦घ॒र्म‌म्¦इ॒न्वा॒त्¦प॒र॒मे¦स॒धऽस्थे᳚ ||

यो, अ॒ग्निः क्र᳚व्य॒वाह॑नः पि॒तॄन्यक्ष॑दृता॒वृधः॑ |{यामायनो दमनः | अग्निः | अनुष्टुप्}

प्रेदु॑ ह॒व्यानि॑ वोचति दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ ||{11/14}{7.6.22.1}{10.16.11}{10.1.16.11}{935, 853, 8943}

यः¦अ॒ग्निः¦क्र॒व्य॒ऽवाह॑नः¦पि॒तॄन्¦यक्ष॑त्¦ऋ॒त॒ऽवृधः॑ | प्र¦इत्¦ऊँ॒ इति॑¦ह॒व्यानि॑¦वो॒च॒ति॒¦दे॒वेभ्यः॑¦च॒¦पि॒तृऽभ्यः॑¦आ ||

उ॒शन्त॑स्त्वा॒ नि धी᳚मह्यु॒शन्तः॒ समि॑धीमहि |{यामायनो दमनः | अग्निः | अनुष्टुप्}

उ॒शन्नु॑श॒त आ व॑ह पि॒तॄन्ह॒विषे॒, अत्त॑वे ||{12/14}{7.6.22.2}{10.16.12}{10.1.16.12}{936, 853, 8944}

उ॒शन्तः॑¦त्वा॒¦नि¦धी॒म॒हि॒¦उ॒शन्तः॑¦स‌म्¦इ॒धी॒म॒हि॒ | उ॒शन्¦उ॒श॒तः¦आ¦व॒ह॒¦पि॒तॄन्¦ह॒विषे᳚¦अत्त॑वे ||

यं त्वम॑ग्ने स॒मद॑ह॒स्तमु॒ निर्वा᳚पया॒ पुनः॑ |{यामायनो दमनः | अग्निः | अनुष्टुप्}

कि॒याम्ब्वत्र॑ रोहतु पाकदू॒र्वा व्य॑ल्कशा ||{13/14}{7.6.22.3}{10.16.13}{10.1.16.13}{937, 853, 8945}

य‌म्¦त्व‌म्¦अ॒ग्ने॒¦स॒‌म्।आद॑हः¦त‌म्¦ऊँ॒ इति॑¦निः¦वा॒प॒य॒¦पुन॒रिति॑ | कि॒याम्बु॑¦अत्र॑¦रो॒ह॒तु॒¦पा॒क॒ऽदू॒र्वा¦वि।आ॑ल्कशा ||

शीति॑के॒ शीति॑कावति॒ ह्लादि॑के॒ ह्लादि॑कावति |{यामायनो दमनः | अग्निः | अनुष्टुप्}

म॒ण्डू॒क्या॒३॑(आ॒) सु सं ग॑म इ॒मं स्व१॑(अ॒)ग्निं ह॑र्षय ||{14/14}{7.6.22.4}{10.16.14}{10.1.16.14}{938, 853, 8946}

शीति॑के¦शीति॑काऽवति¦ह्लादि॑के¦ह्लादि॑काऽवति | म॒ण्डू॒क्या᳚¦सु¦स‌म्¦ग॒मः॒¦इ॒म‌म्¦सु¦अ॒ग्नि‌म्¦ह॒र्ष॒य॒ ||

[88] त्वष्टादुहित्र इति चतुर्दशर्चस्य सूक्तस्य यामायनोवेदश्रवाऋषिः आद्ययोर्द्वयोः सरण्यूदेवता ततश्चतसृणांपूषा ततस्तिसृणांसरस्वती ततःपंचानामापस्त्रिष्टुप् अंत्येद्वेअनुष्टुभौ (द्रप्सश्चस्कन्देति तिसृणां सोमोदेवतावाउपांत्यापुरस्ताद्बृहतीवेतिच) |
त्वष्टा᳚ दुहि॒त्रे व॑ह॒तुं कृ॑णो॒तीती॒दं विश्वं॒ भुव॑नं॒ समे᳚ति |{यामायनो वेदश्रवाः | सरण्यूः | त्रिष्टुप्}

य॒मस्य॑ मा॒ता प᳚र्यु॒ह्यमा᳚ना म॒हो जा॒या विव॑स्वतो ननाश ||{1/14}{7.6.23.1}{10.17.1}{10.2.1.1}{939, 854, 8947}

त्वष्टा᳚¦दु॒हि॒त्रे¦व॒ह॒तु‌म्¦कृ॒णो॒ति॒¦इति॑¦इ॒द‌म्¦विश्व᳚‌म्¦भुव॑न‌म्¦स‌म्¦ए॒ति॒ |
य॒मस्य॑¦मा॒ता¦प॒रि॒।औ॒ह्यमा᳚ना¦म॒हः¦जा॒या¦विव॑वस्वतः¦न॒ना॒श॒ ||

अपा᳚गूहन्न॒मृतां॒ मर्त्ये᳚भ्यः कृ॒त्वी सव᳚र्णामददु॒र्विव॑स्वते |{यामायनो वेदश्रवाः | सरण्यूः | त्रिष्टुप्}

उ॒ताश्विना᳚वभर॒द्यत्तदासी॒दज॑हादु॒ द्वा मि॑थु॒ना स॑र॒ण्यूः ||{2/14}{7.6.23.2}{10.17.2}{10.2.1.2}{940, 854, 8948}

अप॑¦अ॒गू॒ह॒न्¦अ॒मृता᳚‌म्¦मर्त्ये᳚भ्यः¦कृ॒त्वी¦सऽव᳚र्णा‌म्¦अ॒द॒दुः॒¦विव॑स्वते |
उ॒त¦अ॒श्विनौ᳚¦अ॒भ॒र॒त्¦यत्¦तत्¦आसी᳚त्¦अज॑हात्¦ऊँ॒ इति॑¦द्वा¦मि॒थु॒ना¦स॒र॒ण्यूः ||

पू॒षा त्वे॒तश्च्या᳚वयतु॒ प्र वि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः |{यामायनो वेदश्रवाः | पूषा | त्रिष्टुप्}

स त्वै॒तेभ्यः॒ परि॑ ददत्पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्यः॑ सुविद॒त्रिये᳚भ्यः ||{3/14}{7.6.23.3}{10.17.3}{10.2.1.3}{941, 854, 8949}

पू॒षा¦त्वा॒¦इ॒तः¦च्य॒व॒य॒तु॒¦प्र¦वि॒द्वान्¦अन॑ष्टऽपशुः¦भुव॑नस्य¦गो॒पाः |
सः¦त्वा॒¦ए॒तेभ्यः॑¦परि॑¦द॒द॒त्¦पि॒तृऽभ्यः॑¦अ॒ग्निः¦दे॒वेभ्यः॑¦सु॒ऽवि॒द॒त्रिये᳚भ्यः ||

आयु᳚र्वि॒श्वायुः॒ परि॑ पासति त्वा पू॒षा त्वा᳚ पातु॒ प्रप॑थे पु॒रस्ता᳚त् |{यामायनो वेदश्रवाः | पूषा | त्रिष्टुप्}

यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ||{4/14}{7.6.23.4}{10.17.4}{10.2.1.4}{942, 854, 8950}

आयुः॑¦वि॒श्वऽआ᳚युः¦परि॑¦पा॒स॒ति॒¦त्वा॒¦पू॒षा¦त्वा॒¦पा॒तु॒¦प्रऽप॑थे¦पु॒रस्ता᳚त् |
यत्र॑¦आस॑ते¦सु॒ऽकृतः॑¦यत्र॑¦ते¦य॒युः¦तत्र॑¦त्वा॒¦दे॒वः¦स॒वि॒ता¦द॒धा॒तु॒ ||

पू॒षेमा, आशा॒, अनु॑ वेद॒ सर्वाः॒ सो, अ॒स्माँ, अभ॑यतमेन नेषत् |{यामायनो वेदश्रवाः | पूषा | त्रिष्टुप्}

स्व॒स्ति॒दा, आघृ॑णिः॒ सर्व॑वी॒रोऽप्र॑युच्छन्‌ पु॒र ए᳚तु प्रजा॒नन् ||{5/14}{7.6.23.5}{10.17.5}{10.2.1.5}{943, 854, 8951}

पू॒षा¦इ॒माः¦आशाः᳚¦अनु॑¦वे॒द॒¦सर्वाः᳚¦सः¦अ॒स्मान्¦अभ॑यऽतमेन¦ने॒ष॒त् |
स्व॒स्ति॒ऽदाः¦आघृ॑णिः¦सर्व॑ऽवीरः¦अप्र॑ऽयुच्छन्¦पु॒रः¦ए॒तु॒¦प्र॒ऽजा॒नन् ||

प्रप॑थे प॒थाम॑जनिष्ट पू॒षा प्रप॑थे दि॒वः प्रप॑थे पृथि॒व्याः |{यामायनो वेदश्रवाः | पूषा | त्रिष्टुप्}

उ॒भे, अ॒भि प्रि॒यत॑मे स॒धस्थे॒, आ च॒ परा᳚ च चरति प्रजा॒नन् ||{6/14}{7.6.24.1}{10.17.6}{10.2.1.6}{944, 854, 8952}

प्रऽप॑थे¦प॒था‌म्¦अ॒ज॒नि॒ष्ट॒¦पू॒षा¦प्रऽप॑थे¦दि॒वः¦प्रऽप॑थे¦पृ॒थि॒व्याः |
उ॒भे इति॑¦अ॒भि¦प्रि॒यत॑मे॒ इति॑ प्रि॒यऽत॑मे¦स॒धस्थे॒ इति॑ स॒धऽस्थे᳚¦आ¦च॒¦परा᳚¦च॒¦च॒र॒ति॒¦प्र॒ऽजा॒नन् ||

सर॑स्वतीं देव॒यन्तो᳚ हवन्ते॒ सर॑स्वतीमध्व॒रे ता॒यमा᳚ने |{यामायनो वेदश्रवाः | सरस्वती | त्रिष्टुप्}

सर॑स्वतीं सु॒कृतो᳚, अह्वयन्त॒ सर॑स्वती दा॒शुषे॒ वार्यं᳚ दात् ||{7/14}{7.6.24.2}{10.17.7}{10.2.1.7}{945, 854, 8953}

सर॑स्वती‌म्¦दे॒व॒ऽयन्तः॑¦ह॒व॒न्ते॒¦सर॑स्वती‌म्¦अ॒ध्व॒रे¦ता॒यमा᳚ने |
सर॑स्वती‌म्¦सु॒ऽकृतः॑¦अ॒ह्व॒य॒न्त॒¦सर॑स्वती¦दा॒शुषे᳚¦वार्य᳚‌म्¦दा॒त् ||

सर॑स्वति॒ या स॒रथं᳚ य॒याथ॑ स्व॒धाभि॑र्देवि पि॒तृभि॒र्मद᳚न्ती |{यामायनो वेदश्रवाः | सरस्वती | त्रिष्टुप्}

आ॒सद्या॒स्मिन्‌ ब॒र्हिषि॑ मादयस्वानमी॒वा, इष॒ आ धे᳚ह्य॒स्मे ||{8/14}{7.6.24.3}{10.17.8}{10.2.1.8}{946, 854, 8954}

सर॑स्वति¦या¦स॒ऽरथ᳚‌म्¦य॒याथ॑¦स्व॒धाभिः॑¦दे॒वि॒¦पि॒तृऽभिः॑¦मद᳚न्ती |
आ॒ऽसद्य॑¦अ॒स्मिन्¦ब॒र्हिषि॑¦मा॒द॒य॒स्व॒¦अ॒न॒मी॒वाः¦इषः॑¦आ¦धे॒हि॒¦अ॒स्मे इति॑ ||

सर॑स्वतीं॒ यां पि॒तरो॒ हव᳚न्ते दक्षि॒णा य॒ज्ञम॑भि॒नक्ष॑माणाः |{यामायनो वेदश्रवाः | सरस्वती | त्रिष्टुप्}

स॒ह॒स्रा॒र्घमि॒ळो, अत्र॑ भा॒गं रा॒यस्पोषं॒ यज॑मानेषु धेहि ||{9/14}{7.6.24.4}{10.17.9}{10.2.1.9}{947, 854, 8955}

सर॑स्वती‌म्¦या‌म्¦पि॒तरः॑¦हव᳚न्ते¦द॒क्षि॒णा¦य॒ज्ञ‌म्¦अ॒भि॒ऽनक्ष॑माणाः |
स॒ह॒स्र॒।आ॒र्घ‌म्¦इ॒ळः¦अत्र॑¦भा॒ग‌म्¦रा॒यः¦पोष᳚‌म्¦यज॑मानेषु¦धे॒हि॒ ||

आपो᳚, अ॒स्मान्मा॒तरः॑ शुन्धयन्तु घृ॒तेन॑ नो घृत॒प्वः॑ पुनन्तु |{यामायनो वेदश्रवाः | आपः | त्रिष्टुप्}

विश्वं॒ हि रि॒प्रं प्र॒वह᳚न्ति दे॒वीरुदिदा᳚भ्यः॒ शुचि॒रा पू॒त ए᳚मि ||{10/14}{7.6.24.5}{10.17.10}{10.2.1.10}{948, 854, 8956}

आपः॑¦अ॒स्मान्¦मा॒तरः॑¦शु॒न्ध॒य॒न्तु॒¦घृ॒तेन॑¦नः॒¦घृ॒त॒ऽप्वः॑¦पु॒न॒न्तु॒ |
विश्व᳚‌म्¦हि¦रि॒प्र‌म्¦प्र॒ऽवह᳚न्ति¦दे॒वीः¦उत्¦इत्¦आ॒भ्यः॒¦शुचिः॑¦आ¦पू॒तः¦ए॒मि॒ ||

द्र॒प्सश्च॑स्कन्द प्रथ॒माँ, अनु॒ द्यूनि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ |{यामायनो वेदश्रवाः | आपः सोमो वा | त्रिष्टुप्}

स॒मा॒नं योनि॒मनु॑ सं॒चर᳚न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः᳚ ||{11/14}{7.6.25.1}{10.17.11}{10.2.1.11}{949, 854, 8957}

द्र॒प्सः¦च॒स्क॒न्द॒¦प्र॒थ॒मा‌म्¦अनु॑¦द्यून्¦इ॒म‌म्¦च॒¦योनि᳚‌म्¦अनु॑¦यः¦च॒¦पूर्वः॑ |
स॒मा॒न‌म्¦योनि᳚‌म्¦अनु॑¦स॒‌म्ऽचर᳚न्त‌म्¦द्र॒प्स‌म्¦जु॒हो॒मि॒¦अनु॑¦स॒प्त¦होत्राः᳚ ||

यस्ते᳚ द्र॒प्सः स्कन्द॑ति॒ यस्ते᳚, अं॒शुर्बा॒हुच्यु॑तो धि॒षणा᳚या, उ॒पस्था᳚त् |{यामायनो वेदश्रवाः | आपः सोमो वा | त्रिष्टुप्}

अ॒ध्व॒र्योर्वा॒ परि॑ वा॒ यः प॒वित्रा॒त्तं ते᳚ जुहोमि॒ मन॑सा॒ वष॑ट्कृतम् ||{12/14}{7.6.25.2}{10.17.12}{10.2.1.12}{950, 854, 8958}

यः¦ते॒¦द्र॒प्सः¦स्कन्द॑ति¦यः¦ते॒¦अं॒शुः¦बा॒हुऽच्यु॑तः¦धि॒षणा᳚याः¦उ॒पऽस्था᳚त् |
अ॒ध्व॒र्योः¦वा॒¦परि॑¦वा॒¦यः¦प॒वित्रा᳚त्¦त‌म्¦ते॒¦जु॒हो॒मि॒¦मन॑सा¦वष॑ट्ऽकृत‌म् ||

यस्ते᳚ द्र॒प्सः स्क॒न्नो यस्ते᳚, अं॒शुर॒वश्च॒ यः प॒रः स्रु॒चा |{यामायनो वेदश्रवाः | आपः सोमो वा | पुरस्ताद्‌बृहती}

अ॒यं दे॒वो बृह॒स्पतिः॒ सं तं सि᳚ञ्चतु॒ राध॑से ||{13/14}{7.6.25.3}{10.17.13}{10.2.1.13}{951, 854, 8959}

यः¦ते॒¦द्र॒प्सः¦स्क॒न्नः¦यः¦ते॒¦अं॒शुः¦अ॒वः¦च॒¦यः¦प॒रः¦स्रु॒चा |
अ॒य‌म्¦दे॒वः¦बृह॒स्पतिः॑¦स‌म्¦त‌म्¦सिं॒च॒तु॒¦राध॑से ||

पय॑स्वती॒रोष॑धयः॒ पय॑स्वन्माम॒कं वचः॑ |{यामायनो वेदश्रवाः | आपः | अनुष्टुप्}

अ॒पां पय॑स्व॒दित्पय॒स्तेन॑ मा स॒ह शु᳚न्धत ||{14/14}{7.6.25.4}{10.17.14}{10.2.1.14}{952, 854, 8960}

पय॑स्वतीः¦ओष॑धयः¦पय॑स्वत्¦मा॒म॒क‌म्¦वचः॑ | अ॒पा‌म्¦पय॑स्वत्¦इत्¦पयः॑¦तेन॑¦मा॒¦स॒ह¦शु॒न्ध॒त॒ ||

[89] परंमृत्योइति चतुर्दशर्चस्य सूक्तस्य यामायनः संकुसुकः आद्यानांचतसृणांमृत्युः पंचम्याधाता षष्ठ्यास्त्वष्टा शिष्टानां पितृमेधास्त्रिष्टुप् एकादशीप्रस्तारपंक्तिः त्रयोदशीजगत्यंत्येनुष्टुभौ (अंत्यायाः प्रजापतिर्वादेवता) |
परं᳚ मृत्यो॒, अनु॒ परे᳚हि॒ पन्थां॒ यस्ते॒ स्व इत॑रो देव॒याना᳚त् |{यामायनः संकुसुकः | मृत्युः | त्रिष्टुप्}

चक्षु॑ष्मते शृण्व॒ते ते᳚ ब्रवीमि॒ मा नः॑ प्र॒जां री᳚रिषो॒ मोत वी॒रान् ||{1/14}{7.6.26.1}{10.18.1}{10.2.2.1}{953, 855, 8961}

पर᳚‌म्¦मृ॒त्यो॒ इति॑¦अनु॑¦परा᳚¦इ॒हि॒¦पन्था᳚‌म्¦यः¦ते॒¦स्वः¦इत॑रः¦दे॒व॒ऽयाना᳚त् |
चक्षु॑ष्मते¦शृ॒ण्व॒ते¦ते॒¦ब्र॒वी॒मि॒¦मा¦नः॒¦प्र॒ऽजा‌म्¦रि॒रि॒षः॒¦मा¦उ॒त¦वी॒रान् ||

मृ॒त्योः प॒दं यो॒पय᳚न्तो॒ यदैत॒ द्राघी᳚य॒ आयुः॑ प्रत॒रं दधा᳚नाः |{यामायनः संकुसुकः | मृत्युः | त्रिष्टुप्}

आ॒प्याय॑मानाः प्र॒जया॒ धने᳚न शु॒द्धाः पू॒ता भ॑वत यज्ञियासः ||{2/14}{7.6.26.2}{10.18.2}{10.2.2.2}{954, 855, 8962}

मृ॒त्योः¦प॒द‌म्¦यो॒पय᳚न्तः¦यत्¦ऐत॑¦द्राघी᳚यः¦आयुः॑¦प्र॒ऽत॒र‌म्¦दधा᳚नाः |
आ॒प्याय॑मानाः¦प्र॒ऽजया᳚¦धने᳚न¦शु॒द्धाः¦पू॒ताः¦भ॒व॒त॒¦य॒ज्ञि॒या॒सः॒ ||

इ॒मे जी॒वा वि मृ॒तैराव॑वृत्र॒न्नभू᳚द्भ॒द्रा दे॒वहू᳚तिर्नो, अ॒द्य |{यामायनः संकुसुकः | मृत्युः | त्रिष्टुप्}

प्राञ्चो᳚, अगाम नृ॒तये॒ हसा᳚य॒ द्राघी᳚य॒ आयुः॑ प्रत॒रं दधा᳚नाः ||{3/14}{7.6.26.3}{10.18.3}{10.2.2.3}{955, 855, 8963}

इ॒मे¦जी॒वाः¦वि¦मृ॒तैः¦आ¦अ॒व॒वृ॒त्र॒न्¦अभू᳚त्¦भ॒द्रा¦दे॒वऽहू᳚तिः¦नः॒¦अ॒द्य |
प्रांचः॑¦अ॒गा॒म॒¦नृ॒तये᳚¦हसा᳚य¦द्राघी᳚यः¦आयुः॑¦प्र॒ऽत॒र‌म्¦दधा᳚नाः ||

इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒, अर्थ॑मे॒तम् |{यामायनः संकुसुकः | मृत्युः | त्रिष्टुप्}

श॒तं जी᳚वन्तु श॒रदः॑ पुरू॒चीर॒न्तर्मृ॒त्युं द॑धतां॒ पर्व॑तेन ||{4/14}{7.6.26.4}{10.18.4}{10.2.2.4}{956, 855, 8964}

इ॒म‌म्¦जी॒वेभ्यः॑¦प॒रि॒ऽधि‌म्¦दा॒धा॒मि॒¦मा¦ए॒षा॒‌म्¦नु¦गा॒त्¦अप॑रः¦अर्थ᳚‌म्¦ए॒त‌म् |
श॒त‌म्¦जी॒व॒न्तु॒¦श॒रदः॑¦पु॒रू॒चीः¦अ॒न्तः¦मृ॒त्यु‌म्¦द॒ध॒ता॒‌म्¦पर्व॑तेन ||

यथाहा᳚न्यनुपू॒र्वं भव᳚न्ति॒ यथ॑ ऋ॒तव॑ ऋ॒तुभि॒र्यन्ति॑ सा॒धु |{यामायनः संकुसुकः | धाता | त्रिष्टुप्}

यथा॒ न पूर्व॒मप॑रो॒ जहा᳚त्ये॒वा धा᳚त॒रायूं᳚षि कल्पयैषाम् ||{5/14}{7.6.26.5}{10.18.5}{10.2.2.5}{957, 855, 8965}

यथा᳚¦अहा᳚नि¦अ॒नु॒ऽपू॒र्व‌म्¦भव᳚न्ति¦यथा᳚¦ऋ॒तवः॑¦ऋ॒तुऽभिः॑¦य॒न्ति¦सा॒धु |
यथा᳚¦न¦पूर्व᳚‌म्¦अप॑रः¦जहा᳚ति¦ए॒व¦धा॒तः॒¦आयूं᳚षि¦क॒ल्प॒य॒¦ए॒षा‌म् ||

आ रो᳚ह॒तायु॑र्ज॒रसं᳚ वृणा॒ना, अ॑नुपू॒र्वं यत॑माना॒ यति॒ ष्ठ |{यामायनः संकुसुकः | त्वष्टा | त्रिष्टुप्}

इ॒ह त्वष्टा᳚ सु॒जनि॑मा स॒जोषा᳚ दी॒र्घमायुः॑ करति जी॒वसे᳚ वः ||{6/14}{7.6.27.1}{10.18.6}{10.2.2.6}{958, 855, 8966}

आ¦र॒ह॒त॒¦आयुः॑¦ज॒रस᳚‌म्¦वृ॒णा॒नाः¦अ॒नु॒ऽपू॒र्व‌म्¦यत॑मानाः¦यति॑¦स्थ |
इ॒ह¦त्वष्टा᳚¦सु॒ऽजनि॑मा¦स॒ऽजोषाः᳚¦दी॒र्घ‌म्¦आयुः॑¦क॒र॒ति॒¦जी॒वसे᳚¦वः॒ ||

इ॒मा नारी᳚रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सं वि॑शन्तु |{यामायनः संकुसुकः | पितृमेधः | त्रिष्टुप्}

अ॒न॒श्रवो᳚ऽनमी॒वाः सु॒रत्ना॒, आ रो᳚हन्तु॒ जन॑यो॒ योनि॒मग्रे᳚ ||{7/14}{7.6.27.2}{10.18.7}{10.2.2.7}{959, 855, 8967}

इ॒माः¦नारीः᳚¦अ॒वि॒ध॒वाः¦सु॒ऽपत्नीः᳚¦आ॒।आंज॑नेन¦स॒र्पिषा᳚¦स‌म्¦वि॒श॒न्तु॒ |
अ॒न॒श्रवः॑¦अ॒न॒मी॒वाः¦सु॒ऽरत्नाः᳚¦आ¦रो॒ह॒न्तु॒¦जन॑यः¦योनि᳚‌म्¦अग्रे᳚ ||

उदी᳚र्ष्व नार्य॒भि जी᳚वलो॒कं ग॒तासु॑मे॒तमुप॑ शेष॒ एहि॑ |{यामायनः संकुसुकः | पितृमेधः | त्रिष्टुप्}

ह॒स्त॒ग्रा॒भस्य॑ दिधि॒षोस्तवे॒दं पत्यु॑र्जनि॒त्वम॒भि सं ब॑भूथ ||{8/14}{7.6.27.3}{10.18.8}{10.2.2.8}{960, 855, 8968}

उत्¦ई॒र्ष्व॒¦ना॒रि॒¦अ॒भि¦जी॒व॒ऽलो॒क‌म्¦ग॒त।आ॑सु‌म्¦ए॒त‌म्¦उप॑¦शे॒षे॒¦आ¦इ॒हि॒ |
ह॒स्त॒ऽग्रा॒भस्य॑¦दि॒धि॒षोः¦तव॑¦इ॒द‌म्¦पत्युः॑¦ज॒नि॒ऽत्व‌म्¦अ॒भि¦स‌म्¦ब॒भू॒थ॒ ||

धनु॒र्हस्ता᳚दा॒ददा᳚नो मृ॒तस्या॒स्मे क्ष॒त्राय॒ वर्च॑से॒ बला᳚य |{यामायनः संकुसुकः | पितृमेधः | त्रिष्टुप्}

अत्रै॒व त्वमि॒ह व॒यं सु॒वीरा॒ विश्वाः॒ स्पृधो᳚, अ॒भिमा᳚तीर्जयेम ||{9/14}{7.6.27.4}{10.18.9}{10.2.2.9}{961, 855, 8969}

धनुः॑¦हस्ता᳚त्¦आ॒ऽददा᳚नः¦मृ॒तस्य॑¦अ॒स्मे इति॑¦क्ष॒त्राय॑¦वर्च॑से¦बला᳚य |
अत्र॑¦ए॒व¦त्व‌म्¦इ॒ह¦व॒य‌म्¦सु॒ऽवीराः᳚¦विश्वाः᳚¦स्पृधः॑¦अ॒भिऽमा᳚तीः¦ज॒ये॒म॒ ||

उप॑ सर्प मा॒तरं॒ भूमि॑मे॒तामु॑रु॒व्यच॑सं पृथि॒वीं सु॒शेवा᳚म् |{यामायनः संकुसुकः | पितृमेधः | त्रिष्टुप्}

ऊर्ण᳚म्रदा युव॒तिर्दक्षि॑णावत ए॒षा त्वा᳚ पातु॒ निरृ॑तेरु॒पस्था᳚त् ||{10/14}{7.6.27.5}{10.18.10}{10.2.2.10}{962, 855, 8970}

उप॑¦स॒र्प॒¦मा॒तर᳚‌म्¦भूमि᳚‌म्¦ए॒ता‌म्¦उ॒रु॒ऽव्यच॑स‌म्¦पृ॒थि॒वी‌म्¦सु॒ऽशेवा᳚‌म् |
ऊर्ण॑ऽम्रदाः¦यु॒व॒तिः¦दक्षि॑णाऽवते¦ए॒षा¦त्वा॒¦पा॒तु॒¦निःऽऋ॑तेः¦उ॒पऽस्था᳚त् ||

उच्छ्व᳚ञ्चस्व पृथिवि॒ मा नि बा᳚धथाः सूपाय॒नास्मै᳚ भव सूपवञ्च॒ना |{यामायनः संकुसुकः | पितृमेधः | प्रस्तार पङ्क्तिः}

मा॒ता पु॒त्रं यथा᳚ सि॒चाभ्ये᳚नं भूम ऊर्णुहि ||{11/14}{7.6.28.1}{10.18.11}{10.2.2.11}{963, 855, 8971}

उत्¦श्वं॒च॒स्व॒¦पृ॒थि॒वि॒¦मा¦नि¦बा॒ध॒थाः॒¦सु॒।औ॒पा॒य॒ना¦अ॒स्मै॒¦भ॒व॒¦सु॒।औ॒प॒वं॒च॒ना |
मा॒ता¦पु॒त्र‌म्¦यथा᳚¦सि॒चा¦अ॒भि¦ए॒न॒‌म्¦भू॒मे॒¦ऊ॒र्णु॒हि॒ ||

उ॒च्छ्वञ्च॑माना पृथि॒वी सु ति॑ष्ठतु स॒हस्रं॒ मित॒ उप॒ हि श्रय᳚न्ताम् |{यामायनः संकुसुकः | पितृमेधः | त्रिष्टुप्}

ते गृ॒हासो᳚ घृत॒श्चुतो᳚ भवन्तु वि॒श्वाहा᳚स्मै शर॒णाः स॒न्त्वत्र॑ ||{12/14}{7.6.28.2}{10.18.12}{10.2.2.12}{964, 855, 8972}

उ॒त्ऽश्वंच॑माना¦पृ॒थि॒वी¦सु¦ति॒ष्ठ॒तु॒¦स॒हस्र᳚‌म्¦मितः॑¦उप॑¦हि¦श्रय᳚न्ता‌म् |
ते¦गृ॒हासः॑¦घृ॒त॒ऽश्चुतः॑¦भ॒व॒न्तु॒¦वि॒श्वाहा᳚¦अ॒स्मै॒¦श॒र॒णाः¦स॒न्तु॒¦अत्र॑ ||

उत्ते᳚ स्तभ्नामि पृथि॒वीं त्वत्परी॒मं लो॒गं नि॒दध॒न्मो, अ॒हं रि॑षम् |{यामायनः संकुसुकः | पितृमेधः | जगती}

ए॒तां स्थूणां᳚ पि॒तरो᳚ धारयन्तु॒ तेऽत्रा᳚ य॒मः साद॑ना ते मिनोतु ||{13/14}{7.6.28.3}{10.18.13}{10.2.2.13}{965, 855, 8973}

उत्¦ते॒¦स्त॒भ्ना॒मि॒¦पृ॒थि॒वी‌म्¦त्वत्¦परि॑¦इ॒म‌म्¦लो॒ग‌म्¦नि॒ऽदध॑त्¦मो इति॑¦अ॒ह‌म्¦रि॒ष॒‌म् |
ए॒ता‌म्¦स्थूणा᳚‌म्¦पि॒तरः॑¦धा॒र॒य॒न्तु॒¦ते॒¦अत्र॑¦य॒मः¦सद॑ना¦ते॒¦मि॒नो॒तु॒ ||

प्र॒ती॒चीने॒ मामह॒नीष्वाः᳚ प॒र्णमि॒वा द॑धुः |{यामायनः संकुसुकः | पितृमेधः प्रजापतिर्वा | अनुष्टुप्}

प्र॒तीचीं᳚ जग्रभा॒ वाच॒मश्वं᳚ रश॒नया᳚ यथा ||{14/14}{7.6.28.4}{10.18.14}{10.2.2.14}{966, 855, 8974}

प्र॒ती॒चीने᳚¦मा‌म्¦अह॑नि¦इष्वाः᳚¦प॒र्ण‌म्ऽ‌इ᳚व¦आ¦द॒धुः॒ | प्र॒तीची᳚‌म्¦ज॒ग्र॒भ॒¦वाच᳚‌म्¦अश्व᳚‌म्¦र॒श॒नया᳚¦य॒था॒ ||

[90] निवर्तध्वमित्यष्टर्चस्य सूक्तस्य यामायनोमथितऋषिः आपोदेवताः आद्यायाअग्नीषोमा अनुष्टुप् षष्ठीगायत्री | (अत्रसूक्ते वारुणिर्भृगुर्भार्गवश्च यवनश्चेमौ पाक्षिकावृषीगौर्वादेवता) |
नि व॑र्तध्वं॒ मानु॑ गाता॒स्मान्‌ त्सि॑षक्त रेवतीः |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा, अग्नीसोमौ | अनुष्टुप्}

अग्नी᳚षोमा पुनर्वसू, अ॒स्मे धा᳚रयतं र॒यिम् ||{1/8}{7.7.1.1}{10.19.1}{10.2.3.1}{967, 856, 8975}

नि¦व॒र्त॒ध्व॒‌म्¦मा¦अनु॑¦गा॒त॒¦अ॒स्मान्¦सि॒स॒क्त॒¦रे॒व॒तीः॒ | अग्नी᳚षोमा¦पु॒न॒र्व॒सू॒ इति॑ पुनःऽवसू¦अ॒स्मे इति॑¦धा॒र॒य॒त॒‌म्¦र॒यि‌म् ||

पुन॑रेना॒ नि व॑र्तय॒ पुन॑रेना॒ न्या कु॑रु |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा | अनुष्टुप्}

इन्द्र॑ एणा॒ नि य॑च्छत्व॒ग्निरे᳚ना, उ॒पाज॑तु ||{2/8}{7.7.1.2}{10.19.2}{10.2.3.2}{968, 856, 8976}

पुनः॑¦ए॒नाः॒¦नि¦व॒र्त॒य॒¦पुनः॑¦ए॒नाः॒¦नि¦आ¦कु॒रु॒ | इन्द्र॑¦ए॒नाः॒¦नि¦य॒च्छ॒तु॒¦अ॒ग्निः¦ए॒नाः॒¦उ॒प॒ऽआज॑तु ||

पुन॑रे॒ता नि व॑र्तन्ताम॒स्मिन्‌ पु॑ष्यन्तु॒ गोप॑तौ |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा | अनुष्टुप्}

इ॒हैवाग्ने॒ नि धा᳚रये॒ह ति॑ष्ठतु॒ या र॒यिः ||{3/8}{7.7.1.3}{10.19.3}{10.2.3.3}{969, 856, 8977}

पुनः॑¦ए॒ताः¦नि¦व॒र्त॒न्ता॒‌म्¦अ॒स्मिन्¦पु॒ष्य॒न्तु॒¦गोऽप॑तौ | इ॒ह¦ए॒व¦अ॒ग्ने॒¦नि¦धा॒र॒य॒¦इ॒ह¦ति॒ष्ठ॒तु॒¦या¦र॒यिः ||

यन्नि॒यानं॒ न्यय॑नं सं॒ज्ञानं॒ यत्प॒राय॑णम् |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा | अनुष्टुप्}

आ॒वर्त॑नं नि॒वर्त॑नं॒ यो गो॒पा, अपि॒ तं हु॑वे ||{4/8}{7.7.1.4}{10.19.4}{10.2.3.4}{970, 856, 8978}

यत्¦नि॒ऽयान᳚‌म्¦नि॒।आय॑न‌म्¦स॒‌म्ऽज्ञान᳚‌म्¦यत्¦प॒रा॒।आय॑न‌म् | आ॒ऽवर्त॑न‌म्¦नि॒ऽवर्त॑न‌म्¦यः¦गो॒पाः¦अपि॑¦त‌म्¦हु॒वे॒ ||

य उ॒दान॒ड्व्यय॑नं॒ य उ॒दान॑ट् प॒राय॑णम् |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा | अनुष्टुप्}

आ॒वर्त॑नं नि॒वर्त॑न॒मपि॑ गो॒पा नि व॑र्तताम् ||{5/8}{7.7.1.5}{10.19.5}{10.2.3.5}{971, 856, 8979}

यः¦उ॒त्ऽआन॑ट्¦वि॒।आय॑न‌म्¦यः¦उ॒त्ऽआन॑ट्¦प॒रा॒।आय॑न‌म् | आ॒ऽवर्त॑न‌म्¦नि॒ऽवर्त॑न‌म्¦अपि॑¦गो॒पाः¦नि¦व॒र्त॒ता॒‌म् ||

आ नि॑वर्त॒ नि व॑र्तय॒ पुन᳚र्न इन्द्र॒ गा दे᳚हि |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा | गायत्री}

जी॒वाभि॑र्भुनजामहै ||{6/8}{7.7.1.6}{10.19.6}{10.2.3.6}{972, 856, 8980}

आ¦नि॒ऽव॒र्त॒¦नि¦व॒र्त॒य॒¦पुनः॑¦नः॒¦इ॒न्द्र॒¦गाः¦दे॒हि॒ | जी॒वाभिः॑¦भु॒न॒जा॒म॒है॒ ||

परि॑ वो वि॒श्वतो᳚ दध ऊ॒र्जा घृ॒तेन॒ पय॑सा |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा | अनुष्टुप्}

ये दे॒वाः के च॑ य॒ज्ञिया॒स्ते र॒य्या सं सृ॑जन्तु नः ||{7/8}{7.7.1.7}{10.19.7}{10.2.3.7}{973, 856, 8981}

परि॑¦वः॒¦वि॒श्वतः॑¦द॒धे॒¦ऊ॒र्जा¦घृ॒तेन॑¦पय॑सा | ये¦दे॒वाः¦के¦च॒¦य॒ज्ञियाः᳚¦ते¦र॒य्या¦स‌म्¦सृ॒ज॒न्तु॒¦नः॒ ||

आ नि॑वर्तन वर्तय॒ नि नि॑वर्तन वर्तय |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा | अनुष्टुप्}

भूम्या॒श्चत॑स्रः प्र॒दिश॒स्ताभ्य॑ एना॒ नि व॑र्तय ||{8/8}{7.7.1.8}{10.19.8}{10.2.3.8}{974, 856, 8982}

आ¦नि॒ऽव॒र्त॒न॒¦व॒र्त॒य॒¦नि¦नि॒ऽव॒र्त॒न॒¦व॒र्त॒य॒ | भूम्याः᳚¦चत॑स्रः¦प्र॒ऽदिशः॑¦ताभ्यः॑¦ए॒नाः॒¦नि¦व॒र्त॒य॒ ||

[91] भद्रमिति दशर्चस्य सूक्तस्यैंद्रो विमदोग्निर्गायत्री आद्यैकपदाविराट् द्वितीयानुष्टुबंत्येविराट् त्रिष्टुभौ (भद्रंनःप्रभृति सप्तसूक्तेषु य एंद्रोविमदः सप्राजापत्योर्वैकल्पिकः किंचवासुक्रोवसुकृद्वा) |
भ॒द्रं नो॒, अपि॑ वातय॒ मनः॑ ||{ऐंद्रो विमदः | अग्निः | एकपदा विराट्}{1/10}{7.7.2.1}{10.20.1}{10.2.4.1}{975, 857, 8983}

भ॒द्र‌म्¦नः॒¦अपि॑¦वा॒त॒य॒¦मनः॑ ||

अ॒ग्निमी᳚ळे भु॒जां यवि॑ष्ठं शा॒सा मि॒त्रं दु॒र्धरी᳚तुम् |{ऐंद्रो विमदः | अग्निः | अनुष्टुप्}

यस्य॒ धर्म॒न्‌ त्स्व१॑(अ॒)रेनीः᳚ सप॒र्यन्ति॑ मा॒तुरूधः॑ ||{2/10}{7.7.2.2}{10.20.2}{10.2.4.2}{976, 857, 8984}

अ॒ग्नि‌म्¦ई॒ळे॒¦भु॒जा‌म्¦यवि॑ष्ठ‌म्¦शा॒सा¦मि॒त्र‌म्¦दुः॒ऽधरी᳚तु‌म् | यस्य॑¦धर्म॑न्¦स्वः॑¦एनीः᳚¦स॒प॒र्यन्ति॑¦मा॒तुः¦ऊधः॑ ||

यमा॒सा कृ॒पनी᳚ळं भा॒साके᳚तुं व॒र्धय᳚न्ति |{ऐंद्रो विमदः | अग्निः | गायत्री}

भ्राज॑ते॒ श्रेणि॑दन् ||{3/10}{7.7.2.3}{10.20.3}{10.2.4.3}{977, 857, 8985}

य‌म्¦आ॒साः¦कृ॒पऽनी᳚ळ‌म्¦भा॒साऽके᳚तु‌म्¦व॒र्धय᳚न्ति | भ्राज॑ते¦श्रेणि॑ऽदन् ||

अ॒र्यो वि॒शां गा॒तुरे᳚ति॒ प्र यदान॑ड्दि॒वो, अन्ता॑न् |{ऐंद्रो विमदः | अग्निः | गायत्री}

क॒विर॒भ्रं दीद्या᳚नः ||{4/10}{7.7.2.4}{10.20.4}{10.2.4.4}{978, 857, 8986}

अ॒र्यः¦वि॒शा‌म्¦गा॒तुः¦ए॒ति॒¦प्र¦यत्¦आन॑ट्¦दि॒वः¦अन्ता॑न् | क॒विः¦अ॒भ्र‌म्¦दीद्या᳚नः ||

जु॒षद्ध॒व्या मानु॑षस्यो॒र्ध्वस्त॑स्था॒वृभ्वा᳚ य॒ज्ञे |{ऐंद्रो विमदः | अग्निः | गायत्री}

मि॒न्वन्‌ त्सद्म॑ पु॒र ए᳚ति ||{5/10}{7.7.2.5}{10.20.5}{10.2.4.5}{979, 857, 8987}

जु॒षत्¦ह॒व्या¦मानु॑षस्य¦ऊ॒र्ध्वः¦त॒स्थौ॒¦ऋभ्वा᳚¦य॒ज्ञे | मि॒न्वन्¦सद्म॑¦पु॒रः¦ए॒ति॒ ||

स हि क्षेमो᳚ ह॒विर्य॒ज्ञः श्रु॒ष्टीद॑स्य गा॒तुरे᳚ति |{ऐंद्रो विमदः | अग्निः | गायत्री}

अ॒ग्निं दे॒वा वाशी᳚मन्तम् ||{6/10}{7.7.2.6}{10.20.6}{10.2.4.6}{980, 857, 8988}

सः¦हि¦क्षेमः॑¦ह॒विः¦य॒ज्ञः¦श्रु॒ष्टी¦इत्¦अ॒स्य॒¦गा॒तुः¦ए॒ति॒ | अ॒ग्नि‌म्¦दे॒वाः¦वाशी᳚ऽमन्त‌म् ||

य॒ज्ञा॒साहं॒ दुव॑ इषे॒ऽग्निं पूर्व॑स्य॒ शेव॑स्य |{ऐंद्रो विमदः | अग्निः | गायत्री}

अद्रेः᳚ सू॒नुमा॒युमा᳚हुः ||{7/10}{7.7.3.1}{10.20.7}{10.2.4.7}{981, 857, 8989}

य॒ज्ञ॒ऽसह᳚‌म्¦दुवः॑¦इ॒षे॒¦अ॒ग्नि‌म्¦पूर्व॑स्य¦शेव॑स्य | अद्रेः᳚¦सू॒नु‌म्¦आ॒यु‌म्¦आ॒हुः॒ ||

नरो॒ ये के चा॒स्मदा विश्वेत्ते वा॒म आ स्युः॑ |{ऐंद्रो विमदः | अग्निः | गायत्री}

अ॒ग्निं ह॒विषा॒ वर्ध᳚न्तः ||{8/10}{7.7.3.2}{10.20.8}{10.2.4.8}{982, 857, 8990}

नरः॑¦ये¦के¦च॒¦अ॒स्मत्¦आ¦विश्वा᳚¦इत्¦ते¦वा॒मे¦आ¦स्यु॒रिति॑ स्युः | अ॒ग्नि‌म्¦ह॒विषा᳚¦वर्ध᳚न्तः ||

कृ॒ष्णः श्वे॒तो᳚ऽरु॒षो यामो᳚, अस्य ब्र॒ध्न ऋ॒ज्र उ॒त शोणो॒ यश॑स्वान् |{ऐंद्रो विमदः | अग्निः | विराट्}

हिर᳚ण्यरूपं॒ जनि॑ता जजान ||{9/10}{7.7.3.3}{10.20.9}{10.2.4.9}{983, 857, 8991}

कृ॒ष्णः¦श्वे॒तः¦अ॒रु॒षः¦यामः॑¦अ॒स्य॒¦ब्र॒ध्नः¦ऋ॒ज्रः¦उ॒त¦शोणः॑¦यश॑स्वान् | हिर᳚ण्यऽरूप‌म्¦जनि॑ता¦ज॒जा॒न॒ ||

ए॒वा ते᳚, अग्ने विम॒दो म॑नी॒षामूर्जो᳚ नपाद॒मृते᳚भिः स॒जोषाः᳚ |{ऐंद्रो विमदः | अग्निः | त्रिष्टुप्}

गिर॒ आ व॑क्षत्सुम॒तीरि॑या॒न इष॒मूर्जं᳚ सुक्षि॒तिं विश्व॒माभाः᳚ ||{10/10}{7.7.3.4}{10.20.10}{10.2.4.10}{984, 857, 8992}

ए॒व¦ते॒¦अ॒ग्ने॒¦वि॒ऽम॒दः¦म॒नी॒षा‌म्¦ऊर्जः॑¦न॒पा॒त्¦अ॒मृते᳚भिः¦स॒ऽजोषाः᳚ |
गिरः॑¦आ¦व॒क्ष॒त्¦सु॒ऽम॒तीः¦इ॒या॒नः¦इष᳚‌म्¦ऊर्ज᳚‌म्¦सु॒ऽक्षि॒ति‌म्¦विश्व᳚‌म्¦आ¦अ॒भा॒रित्य॑भाः ||

[92] आग्निंनेत्यष्टर्चस्य सूक्तस्यैंद्रो विमदोग्निरास्तारपंक्तिः |
आग्निं न स्ववृ॑क्तिभि॒र्होता᳚रं त्वा वृणीमहे |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः}

य॒ज्ञाय॑ स्ती॒र्णब᳚र्हिषे॒ वि वो॒ मदे᳚ शी॒रं पा᳚व॒कशो᳚चिषं॒ विव॑क्षसे ||{1/8}{7.7.4.1}{10.21.1}{10.2.5.1}{985, 858, 8993}

आ¦अ॒ग्नि‌म्¦न¦स्ववृ॑क्तिऽभिः¦होता᳚र‌म्¦त्वा॒¦वृ॒णी॒म॒हे॒ |
य॒ज्ञाय॑¦स्ती॒र्णऽब॑र्हिषे¦वि¦वः॒¦मदे᳚¦शी॒र‌म्¦पा॒व॒कऽशो᳚चिष‌म्¦विव॑क्षसे ||

त्वामु॒ ते स्वा॒भुवः॑ शु॒म्भन्त्यश्व॑राधसः |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः}

वेति॒ त्वामु॑प॒सेच॑नी॒ वि वो॒ मद॒ ऋजी᳚तिरग्न॒ आहु॑ति॒र्विव॑क्षसे ||{2/8}{7.7.4.2}{10.21.2}{10.2.5.2}{986, 858, 8994}

त्वा‌म्¦ऊँ॒ इति॑¦ते¦सु॒ऽआ॒भुवः॑¦शु॒म्भन्ति॑¦अश्व॑ऽराधसः |
वेति॑¦त्वा‌म्¦उ॒प॒ऽसेच॑नी¦वि¦वः॒¦मदे᳚¦ऋजी᳚तिः¦अ॒ग्ने॒¦आऽहु॑तिः¦विव॑क्षसे ||

त्वे ध॒र्माण॑ आसते जु॒हूभिः॑ सिञ्च॒तीरि॑व |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः}

कृ॒ष्णा रू॒पाण्यर्जु॑ना॒ वि वो॒ मदे॒ विश्वा॒, अधि॒ श्रियो᳚ धिषे॒ विव॑क्षसे ||{3/8}{7.7.4.3}{10.21.3}{10.2.5.3}{987, 858, 8995}

त्वे इति॑¦ध॒र्माणः॑¦आ॒स॒ते॒¦जु॒हूभिः॑¦सिं॒च॒तीःऽ‌इ᳚व |
कृ॒ष्णा¦रू॒पाणि॑¦अर्जु॑ना¦वि¦वः॒¦मदे᳚¦विश्वाः᳚¦अधि॑¦श्रियः॑¦धि॒षे॒¦विव॑क्षसे ||

यम॑ग्ने॒ मन्य॑से र॒यिं सह॑सावन्नमर्त्य |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः}

तमा नो॒ वाज॑सातये॒ वि वो॒ मदे᳚ य॒ज्ञेषु॑ चि॒त्रमा भ॑रा॒ विव॑क्षसे ||{4/8}{7.7.4.4}{10.21.4}{10.2.5.4}{988, 858, 8996}

य‌म्¦अ॒ग्ने॒¦मन्य॑से¦र॒यि‌म्¦सह॑साऽवन्¦अ॒म॒र्त्य॒ |
त‌म्¦आ¦नः॒¦वाज॑ऽसातये¦वि¦वः॒¦मदे᳚¦य॒ज्ञेषु॑¦चि॒त्र‌म्¦आ¦भ॒र॒¦विव॑क्षसे ||

अ॒ग्निर्जा॒तो, अथ᳚र्वणा वि॒दद्विश्वा᳚नि॒ काव्या᳚ |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः}

भुव॑द्दू॒तो वि॒वस्व॑तो॒ वि वो॒ मदे᳚ प्रि॒यो य॒मस्य॒ काम्यो॒ विव॑क्षसे ||{5/8}{7.7.4.5}{10.21.5}{10.2.5.5}{989, 858, 8997}

अ॒ग्निः¦जा॒तः¦अथ᳚र्वणा¦वि॒दत्¦विश्वा᳚नि¦काव्या᳚ |
भुव॑त्¦दू॒तः¦वि॒वस्व॑तः¦वि¦वः॒¦मदे᳚¦प्रि॒यः¦य॒मस्य॑¦काम्यः॑¦विव॑क्षसे ||

त्वां य॒ज्ञेष्वी᳚ळ॒तेऽग्ने᳚ प्रय॒त्य॑ध्व॒रे |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः}

त्वं वसू᳚नि॒ काम्या॒ वि वो॒ मदे॒ विश्वा᳚ दधासि दा॒शुषे॒ विव॑क्षसे ||{6/8}{7.7.5.1}{10.21.6}{10.2.5.6}{990, 858, 8998}

त्वा‌म्¦य॒ज्ञेषु॑¦ई॒ळ॒ते॒¦अग्ने᳚¦प्र॒ऽय॒ति¦अ॒ध्व॒रे |
त्व‌म्¦वसू᳚नि¦काम्या᳚¦वि¦वः॒¦मदे᳚¦विश्वा᳚¦द॒धा॒सि॒¦दा॒शुषे᳚¦विव॑क्षसे ||

त्वां य॒ज्ञेष्वृ॒त्विजं॒ चारु॑मग्ने॒ नि षे᳚दिरे |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः}

घृ॒तप्र॑तीकं॒ मनु॑षो॒ वि वो॒ मदे᳚ शु॒क्रं चेति॑ष्ठम॒क्षभि॒र्विव॑क्षसे ||{7/8}{7.7.5.2}{10.21.7}{10.2.5.7}{991, 858, 8999}

त्वा‌म्¦य॒ज्ञेषु॑¦ऋ॒त्विज᳚‌म्¦चारु᳚‌म्¦अ॒ग्ने॒¦नि¦से॒दि॒रे॒ |
घृ॒तऽप्र॑तीक‌म्¦मनु॑षः¦वि¦वः॒¦मदे᳚¦शु॒क‌म्¦चेति॑ष्ठ‌म्¦अ॒क्षऽभिः॑¦विव॑क्षसे ||

अग्ने᳚ शु॒क्रेण॑ शो॒चिषो॒रु प्र॑थयसे बृ॒हत् |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः}

अ॒भि॒क्रन्द᳚न्‌ वृषायसे॒ वि वो॒ मदे॒ गर्भं᳚ दधासि जा॒मिषु॒ विव॑क्षसे ||{8/8}{7.7.5.3}{10.21.8}{10.2.5.8}{992, 858, 9000}

अग्ने᳚¦शु॒क्रेण॑¦शो॒चिषा᳚¦उ॒रु¦प्र॒थ॒य॒से॒¦बृ॒हत् |
अ॒भि॒ऽक्रन्द॑न्¦वृ॒ष॒ऽय॒से॒¦वि¦वः॒¦मदे᳚¦गर्भ᳚‌म्¦द॒धा॒सि॒¦जा॒मिषु॑¦विव॑क्षसे ||

[93] कुहश्रुतइति पंचदशर्चस्य सूक्तस्यैंद्रोविमदइंद्रः पुरस्ताद्बहती पंचमी सप्तमी नवम्योनुष्टुभोंत्यात्रिष्टुप् |
कुह॑ श्रु॒त इन्द्रः॒ कस्मि᳚न्न॒द्य जने᳚ मि॒त्रो न श्रू᳚यते |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

ऋषी᳚णां वा॒ यः, क्षये॒ गुहा᳚ वा॒ चर्कृ॑षे गि॒रा ||{1/15}{7.7.6.1}{10.22.1}{10.2.6.1}{993, 859, 9001}

कुह॑¦श्रु॒तः¦इन्द्रः॑¦कस्मि॑न्¦अ॒द्य¦जने᳚¦मि॒त्रः¦न¦श्रू॒य॒ते॒ |
ऋषी᳚णा‌म्¦वा॒¦यः¦क्षये᳚¦गुहा᳚¦वा॒¦चर्कृ॑षे¦गि॒रा ||

इ॒ह श्रु॒त इन्द्रो᳚, अ॒स्मे, अ॒द्य स्तवे᳚ व॒ज्र्यृची᳚षमः |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

मि॒त्रो न यो जने॒ष्वा यश॑श्च॒क्रे, असा॒म्या ||{2/15}{7.7.6.2}{10.22.2}{10.2.6.2}{994, 859, 9002}

इ॒ह¦श्रु॒तः¦इन्द्रः॑¦अ॒स्मे इति॑¦अ॒द्य¦स्तवे᳚¦व॒ज्री¦ऋची᳚षमः |
मि॒त्रः¦न¦यः¦जने᳚षु¦आ¦यशः॑¦च॒क्रे¦असा᳚मि¦आ ||

म॒हो यस्पतिः॒ शव॑सो॒, असा॒म्या म॒हो नृ॒म्णस्य॑ तूतु॒जिः |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

भ॒र्ता वज्र॑स्य धृ॒ष्णोः पि॒ता पु॒त्रमि॑व प्रि॒यम् ||{3/15}{7.7.6.3}{10.22.3}{10.2.6.3}{995, 859, 9003}

म॒हः¦यः¦पतिः॑¦शव॑सः¦असा᳚मि¦आ¦म॒हः¦नृ॒म्णस्य॑¦तू॒तु॒जिः |
भ॒र्ता¦वज्र॑स्य¦धृ॒ष्णोः¦पि॒ता¦पु॒त्र‌म्ऽ‌इ᳚व¦प्रि॒य‌म् ||

यु॒जा॒नो, अश्वा॒ वात॑स्य॒ धुनी᳚ दे॒वो दे॒वस्य॑ वज्रिवः |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

स्यन्ता᳚ प॒था वि॒रुक्म॑ता सृजा॒नः स्तो॒ष्यध्व॑नः ||{4/15}{7.7.6.4}{10.22.4}{10.2.6.4}{996, 859, 9004}

यु॒जा॒नः¦अश्वा᳚¦वात॑स्य¦धुनी॒ इति॑¦दे॒वः¦दे॒वस्य॑¦व॒ज्रि॒ऽवः॒ |
स्यन्ता᳚¦प॒था¦वि॒रुक्म॑ता¦सृ॒जा॒नः¦स्तो॒षि॒¦अध्व॑नः ||

त्वं त्या चि॒द्वात॒स्याश्वागा᳚ ऋ॒ज्रा त्मना॒ वह॑ध्यै |{ऐंद्रो विमदः | इन्द्रः | अनुष्टुप्}

ययो᳚र्दे॒वो न मर्त्यो᳚ य॒न्ता नकि᳚र्वि॒दाय्यः॑ ||{5/15}{7.7.6.5}{10.22.5}{10.2.6.5}{997, 859, 9005}

त्व‌म्¦त्या¦चि॒त्¦वात॑स्य¦अश्वा᳚¦आ¦अ॒गाः॒¦ऋ॒ज्रा¦त्मना᳚¦वह॑ध्यै | ययोः᳚¦दे॒वः¦न¦मर्त्यः॑¦य॒न्ता¦नकिः॑¦वि॒दाय्यः॑ ||

अध॒ ग्मन्तो॒शना᳚ पृच्छते वां॒ कद॑र्था न॒ आ गृ॒हम् |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

आ ज॑ग्मथुः परा॒काद्दि॒वश्च॒ ग्मश्च॒ मर्त्य᳚म् ||{6/15}{7.7.7.1}{10.22.6}{10.2.6.6}{998, 859, 9006}

अध॑¦ग्मन्ता᳚¦उ॒शना᳚¦पृ॒च्छ॒ते॒¦वा॒‌म्¦कत्।आ॑र्था¦नः॒¦आ¦गृ॒ह‌म् |
आ¦ज॒ग्म॒थुः॒¦प॒रा॒कात्¦दि॒वः¦च॒¦ग्मः¦च॒¦मर्त्य᳚‌म् ||

आ न॑ इन्द्र पृक्षसे॒ऽस्माकं॒ ब्रह्मोद्य॑तम् |{ऐंद्रो विमदः | इन्द्रः | अनुष्टुप्}

तत्‌ त्वा᳚ याचाम॒हेऽवः॒ शुष्णं॒ यद्धन्नमा᳚नुषम् ||{7/15}{7.7.7.2}{10.22.7}{10.2.6.7}{999, 859, 9007}

आ¦नः॒¦इ॒न्द्र॒¦पृ॒क्ष॒से॒¦अ॒स्माक᳚‌म्¦ब्रह्म॑¦उत्ऽय॑त‌म् | तत्¦त्वा॒¦या॒चा॒म॒हे॒¦अवः॑¦शुष्ण᳚‌म्¦यत्¦हन्¦अमा᳚नुष‌म् ||

अ॒क॒र्मा दस्यु॑र॒भि नो᳚, अम॒न्तुर॒न्यव्र॑तो॒, अमा᳚नुषः |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

त्वं तस्या᳚मित्रह॒न्वध॑र्दा॒सस्य॑ दम्भय ||{8/15}{7.7.7.3}{10.22.8}{10.2.6.8}{1000, 859, 9008}

अ॒क॒र्मा¦दसुः॑¦अ॒भि¦नः॒¦अ॒म॒न्तुः¦अ॒न्यऽव्र॑तः¦अमा᳚नुषः |
त्व‌म्¦तस्य॑¦अ॒मि॒त्र॒ऽह॒न्¦वधः॑¦दा॒सस्य॑¦द॒म्भ॒य॒ ||

त्वं न॑ इन्द्र शूर॒ शूरै᳚रु॒त त्वोता᳚सो ब॒र्हणा᳚ |{ऐंद्रो विमदः | इन्द्रः | अनुष्टुप्}

पु॒रु॒त्रा ते॒ वि पू॒र्तयो॒ नव᳚न्त क्षो॒णयो᳚ यथा ||{9/15}{7.7.7.4}{10.22.9}{10.2.6.9}{1001, 859, 9009}

त्व‌म्¦नः॒¦इ॒न्द्र॒¦शू॒र॒¦शूरैः᳚¦उ॒त¦त्वाऽऊ᳚तासः¦ब॒र्हना᳚ | पु॒रु॒ऽत्रा¦ते॒¦वि¦पू॒र्तयः॑¦नव᳚न्त¦क्षो॒णयः॑¦य॒था॒ ||

त्वं तान्‌ वृ॑त्र॒हत्ये᳚ चोदयो॒ नॄन्‌ का᳚र्पा॒णे शू᳚र वज्रिवः |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

गुहा॒ यदी᳚ कवी॒नां वि॒शां नक्ष॑त्रशवसाम् ||{10/15}{7.7.7.5}{10.22.10}{10.2.6.10}{1002, 859, 9010}

त्व‌म्¦तान्¦वृ॒त्र॒ऽहत्ये᳚¦चो॒दय॒ः॒¦नॄन्¦का॒र्पा॒णे¦शू॒र॒¦व॒ज्रि॒ऽवः॒ |
गुहा᳚¦यदि॑¦क॒वी॒ना‌म्¦वि॒शा‌म्¦नक्ष॑त्रऽशवसा‌म् ||

म॒क्षू ता त॑ इन्द्र दा॒नाप्न॑स आक्षा॒णे शू᳚र वज्रिवः |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

यद्ध॒ शुष्ण॑स्य द॒म्भयो᳚ जा॒तं विश्वं᳚ स॒याव॑भिः ||{11/15}{7.7.8.1}{10.22.11}{10.2.6.11}{1003, 859, 9011}

म॒क्षु¦ता¦ते॒¦इ॒न्द्र॒¦दा॒न।आ॑प्नसः¦आ॒क्षा॒णे¦शू॒र॒¦व॒ज्रि॒ऽवः॒ |
यत्¦ह॒¦शुष्ण॑स्य¦द॒म्भयः॑¦जा॒त‌म्¦विश्व᳚‌म्¦स॒याव॑ऽभिः ||

माकु॒ध्र्य॑गिन्द्र शूर॒ वस्वी᳚र॒स्मे भू᳚वन्न॒भिष्ट॑यः |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

व॒यंव॑यं त आसां सु॒म्ने स्या᳚म वज्रिवः ||{12/15}{7.7.8.2}{10.22.12}{10.2.6.12}{1004, 859, 9012}

मा¦अ॒कु॒ध्र्य॑क्¦इ॒न्द्र॒¦शू॒र॒¦वस्वीः᳚¦अ॒स्मे इति॑¦भू॒व॒न्¦अ॒भिष्ट॑यः |
व॒य‌म्ऽव॑य‌म्¦ते॒¦आ॒सा॒‌म्¦सु॒म्ने¦स्या॒म॒¦व॒ज्रि॒ऽवः॒ ||

अ॒स्मे ता त॑ इन्द्र सन्तु स॒त्याहिं᳚सन्तीरुप॒स्पृशः॑ |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

वि॒द्याम॒ यासां॒ भुजो᳚ धेनू॒नां न व॑ज्रिवः ||{13/15}{7.7.8.3}{10.22.13}{10.2.6.13}{1005, 859, 9013}

अ॒स्मे इति॑¦ता¦ते॒¦इ॒न्द्र॒¦स॒न्तु॒¦स॒त्या¦अहिं᳚सन्तीः¦उ॒प॒ऽस्पृषः॑ |
वि॒द्याम॑¦यासा᳚‌म्¦भुजः॑¦धे॒नू॒ना‌म्¦न¦व॒ज्रि॒ऽवः॒ ||

अ॒ह॒स्ता यद॒पदी॒ वर्ध॑त॒ क्षाः शची᳚भिर्वे॒द्याना᳚म् |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

शुष्णं॒ परि॑ प्रदक्षि॒णिद्वि॒श्वाय॑वे॒ नि शि॑श्नथः ||{14/15}{7.7.8.4}{10.22.14}{10.2.6.14}{1006, 859, 9014}

अ॒ह॒स्ता¦यत्¦अ॒पदी᳚¦वर्ध॑त¦क्षाः¦शची᳚भिः¦वे॒द्याना᳚‌म् |
शुष्ण᳚‌म्¦परि॑¦प्र॒ऽद॒क्षि॒णित्¦वि॒श्वऽआ᳚यवे¦नि¦शि॒श्न॒थः॒ ||

पिबा᳚पि॒बेदि᳚न्द्र शूर॒ सोमं॒ मा रि॑षण्यो वसवान॒ वसुः॒ सन् |{ऐंद्रो विमदः | इन्द्रः | त्रिष्टुप्}

उ॒त त्रा᳚यस्व गृण॒तो म॒घोनो᳚ म॒हश्च॑ रा॒यो रे॒वत॑स्कृधी नः ||{15/15}{7.7.8.5}{10.22.15}{10.2.6.15}{1007, 859, 9015}

पिब॑ऽपिब¦इत्¦इ॒न्द्र॒¦शू॒र॒¦सोम᳚‌म्¦मा¦रि॒ष॒ण्यः॒¦व॒स॒वा॒न॒¦वसुः॑¦सन् |
उ॒त¦त्रा॒य॒स्व॒¦गृ॒ण॒तः¦म॒घोनः॑¦म॒हः¦च॒¦रा॒यः¦रे॒वतः॑¦कृ॒धि॒¦नः॒ ||

[94] यजामहइति सप्तर्चस्य सूक्तस्यैंद्रो विमदइंद्रोजगत्याद्यांत्येत्रिष्टुभौ पंचम्यभिसारिणी |
यजा᳚मह॒ इन्द्रं॒ वज्र॑दक्षिणं॒ हरी᳚णां र॒थ्य१॑(अं॒) विव्र॑तानाम् |{ऐंद्रो विमदः | इन्द्रः | त्रिष्टुप्}

प्र श्मश्रु॒ दोधु॑वदू॒र्ध्वथा᳚ भू॒द्वि सेना᳚भि॒र्दय॑मानो॒ वि राध॑सा ||{1/7}{7.7.9.1}{10.23.1}{10.2.7.1}{1008, 860, 9016}

यजा᳚महे¦इन्द्र᳚‌म्¦वज्र॑ऽदक्षिण‌म्¦हरी᳚ना‌म्¦र॒थ्य᳚‌म्¦विऽव्र॑ताना‌म् |
प्र¦श्मश्रु॑¦दोधु॑वत्¦ऊ॒र्ध्वऽथा᳚¦भू॒त्¦वि¦सेना᳚भिः¦दय॑मानः¦वि¦राध॑सा ||

हरी॒ न्व॑स्य॒ या वने᳚ वि॒दे वस्विन्द्रो᳚ म॒घैर्म॒घवा᳚ वृत्र॒हा भु॑वत् |{ऐंद्रो विमदः | इन्द्रः | जगती}

ऋ॒भुर्वाज॑ ऋभु॒क्षाः प॑त्यते॒ शवोऽव॑ क्ष्णौमि॒ दास॑स्य॒ नाम॑ चित् ||{2/7}{7.7.9.2}{10.23.2}{10.2.7.2}{1009, 860, 9017}

हरी॒ इति॑¦नु¦अ॒स्य॒¦या¦वने᳚¦वि॒दे¦वसु॑¦इन्द्रः॑¦म॒घैः¦म॒घऽवा᳚¦वृ॒त्र॒ऽहा¦भु॒व॒त् |
ऋ॒भुः¦वाजः॑¦ऋ॒भु॒क्षाः¦प॒त्य॒ते॒¦शवः॑¦अव॑¦क्ष्णौ॒मि॒¦दास॑स्य¦नाम॑¦चि॒त् ||

य॒दा वज्रं॒ हिर᳚ण्य॒मिदथा॒ रथं॒ हरी॒ यम॑स्य॒ वह॑तो॒ वि सू॒रिभिः॑ |{ऐंद्रो विमदः | इन्द्रः | जगती}

आ ति॑ष्ठति म॒घवा॒ सन॑श्रुत॒ इन्द्रो॒ वाज॑स्य दी॒र्घश्र॑वस॒स्पतिः॑ ||{3/7}{7.7.9.3}{10.23.3}{10.2.7.3}{1010, 860, 9018}

य॒दा¦वज्र᳚‌म्¦हिर᳚ण्य‌म्¦इत्¦अथ॑¦रथ᳚‌म्¦हरी॒ इति॑¦य‌म्¦अ॒स्य॒¦वह॑तः¦वि¦सू॒रिऽभिः॑ |
आ¦ति॒ष्ठ॒ति॒¦म॒घऽवा᳚¦सन॑ऽश्रुतः¦इन्द्रः॑¦वाज॑स्य¦दी॒र्घऽश्र॑वसः¦पतिः॑ ||

सो चि॒न्नु वृ॒ष्टिर्यू॒थ्या॒३॑(आ॒) स्वा सचाँ॒, इन्द्रः॒ श्मश्रू᳚णि॒ हरि॑ता॒भि प्रु॑ष्णुते |{ऐंद्रो विमदः | इन्द्रः | जगती}

अव॑ वेति सु॒क्षयं᳚ सु॒ते मधूदिद्धू᳚नोति॒ वातो॒ यथा॒ वन᳚म् ||{4/7}{7.7.9.4}{10.23.4}{10.2.7.4}{1011, 860, 9019}

सो इति॑¦चि॒त्¦नु¦वृ॒ष्टिः¦यू॒थ्या᳚¦स्वा¦सचा᳚¦इन्द्रः॑¦श्मश्रू᳚णि¦हरि॑ता¦अ॒भि¦प्रु॒ष्णु॒ते॒ |
अव॑¦वे॒ति॒¦सु॒ऽक्षय᳚‌म्¦सु॒ते¦मधु॑¦उत्¦इत्¦धू॒नो॒ति॒¦वातः॑¦यथा᳚¦वन᳚‌म् ||

यो वा॒चा विवा᳚चो मृ॒ध्रवा᳚चः पु॒रू स॒हस्राशि॑वा ज॒घान॑ |{ऐंद्रो विमदः | इन्द्रः | अभिसारिणी}

तत्त॒दिद॑स्य॒ पौंस्यं᳚ गृणीमसि पि॒तेव॒ यस्तवि॑षीं वावृ॒धे शवः॑ ||{5/7}{7.7.9.5}{10.23.5}{10.2.7.5}{1012, 860, 9020}

यः¦वा॒चा¦विऽवा᳚चः¦मृ॒ध्रऽवा᳚चः¦पु॒रु¦स॒हस्रा᳚¦असि॑वा¦ज॒घान॑ |
तत्ऽत॑त्¦इत्¦अ॒स्य॒¦पौंस्य᳚‌म्¦गृ॒णी॒म॒सि॒¦पि॒ताऽ‌इ᳚व¦यः¦तवि॑षी‌म्¦व॒वृ॒धे¦शवः॑ ||

स्तोमं᳚ त इन्द्र विम॒दा, अ॑जीजन॒न्नपू᳚र्व्यं पुरु॒तमं᳚ सु॒दान॑वे |{ऐंद्रो विमदः | इन्द्रः | जगती}

वि॒द्मा ह्य॑स्य॒ भोज॑नमि॒नस्य॒ यदा प॒शुं न गो॒पाः क॑रामहे ||{6/7}{7.7.9.6}{10.23.6}{10.2.7.6}{1013, 860, 9021}

स्तोम᳚‌म्¦ते॒¦इ॒न्द्र॒¦वि॒ऽम॒दाः¦अ॒जी॒ज॒न॒न्¦अपू᳚र्व्य‌म्¦पु॒रु॒ऽतम᳚‌म्¦सु॒ऽदान॑वे |
वि॒द्म¦हि¦अ॒स्य॒¦भोज॑न‌म्¦इ॒नस्य॑¦यत्¦आ¦प॒शु‌म्¦न¦गो॒पाः¦क॒रा॒म॒हे॒ ||

माकि᳚र्न ए॒ना स॒ख्या वि यौ᳚षु॒स्तव॑ चेन्द्र विम॒दस्य॑ च॒ ऋषेः᳚ |{ऐंद्रो विमदः | इन्द्रः | त्रिष्टुप्}

वि॒द्मा हि ते॒ प्रम॑तिं देव जामि॒वद॒स्मे ते᳚ सन्तु स॒ख्या शि॒वानि॑ ||{7/7}{7.7.9.7}{10.23.7}{10.2.7.7}{1014, 860, 9022}

माकिः॑¦नः॒¦ए॒ना¦स॒ख्या¦वि¦यौ॒षुः॒¦तव॑¦च॒¦इ॒न्द्र॒¦वि॒ऽम॒दस्य॑¦च॒¦ऋषेः᳚ |
वि॒द्म¦हि¦ते॒¦प्रऽम॑ति‌म्¦दे॒व॒¦जा॒मि॒ऽवत्¦अ॒स्मे इति॑¦ते॒¦स॒न्तु॒¦स॒ख्या¦शि॒वानि॑ ||

[95] इंद्रसोममिति षडृचस्य सूक्तस्यैंद्रो विमदइंद्रोंत्यस्तिसृणामश्विनावास्तारपंक्तिः अंत्यास्तिस्रोनुष्टुभः |
इन्द्र॒ सोम॑मि॒मं पि॑ब॒ मधु॑मन्तं च॒मू सु॒तम् |{ऐंद्रो विमदः | इन्द्रः | आस्तारपङ्क्ति}

अ॒स्मे र॒यिं नि धा᳚रय॒ वि वो॒ मदे᳚ सह॒स्रिणं᳚ पुरूवसो॒ विव॑क्षसे ||{1/6}{7.7.10.1}{10.24.1}{10.2.8.1}{1015, 861, 9023}

इन्द्र॑¦सोम᳚‌म्¦इ॒म‌म्¦पि॒ब॒¦मधु॑ऽमन्त‌म्¦च॒मू इति॑¦सु॒त‌म् |
अ॒स्मे इति॑¦र॒यि‌म्¦नि¦धा॒र॒य॒¦वि¦वः॒¦मदे᳚¦स॒ह॒स्रिण᳚‌म्¦पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो¦विव॑क्षसे ||

त्वां य॒ज्ञेभि॑रु॒क्थैरुप॑ ह॒व्येभि॑रीमहे |{ऐंद्रो विमदः | इन्द्रः | आस्तारपङ्क्ति}

शची᳚पते शचीनां॒ वि वो॒ मदे॒ श्रेष्ठं᳚ नो धेहि॒ वार्यं॒ विव॑क्षसे ||{2/6}{7.7.10.2}{10.24.2}{10.2.8.2}{1016, 861, 9024}

त्वा‌म्¦य॒ज्ञेभिः॑¦उ॒क्थैः¦उप॑¦ह॒व्येभिः॑¦ई॒म॒हे॒ |
शची᳚ऽपते¦श॒ची॒न॒‌म्¦वि¦वः॒¦मदे᳚¦श्रेष्ठ᳚‌म्¦नः॒¦धे॒हि॒¦वार्य᳚‌म्¦विव॑क्षसे ||

यस्पति॒र्वार्या᳚णा॒मसि॑ र॒ध्रस्य॑ चोदि॒ता |{ऐंद्रो विमदः | इन्द्रः | आस्तारपङ्क्ति}

इन्द्र॑ स्तोतॄ॒णाम॑वि॒ता वि वो॒ मदे᳚ द्वि॒षो नः॑ पा॒ह्यंह॑सो॒ विव॑क्षसे ||{3/6}{7.7.10.3}{10.24.3}{10.2.8.3}{1017, 861, 9025}

यः¦पति᳚‌म्¦वार्या᳚णा‌म्¦असि॑¦र॒ध्रस्य॑¦चो॒दि॒ता |
इन्द्र॑¦स्तो॒तॄ॒णा‌म्¦अ॒वि॒ता¦वि¦वः॒¦मदे᳚¦द्वि॒षः¦नः॒¦पा॒हि॒¦अंह॑सः¦विव॑क्षसे ||

यु॒वं श॑क्रा माया॒विना᳚ समी॒ची निर॑मन्थतम् |{ऐंद्रो विमदः | अश्विनौ | अनुष्टुप्}

वि॒म॒देन॒ यदी᳚ळि॒ता नास॑त्या नि॒रम᳚न्थतम् ||{4/6}{7.7.10.4}{10.24.4}{10.2.8.4}{1018, 861, 9026}

यु॒व‌म्¦श॒क्रा॒¦मा॒या॒ऽविना᳚¦स॒मी॒ची इति॑ स॒‌म्ऽई॒ची¦निः¦अ॒म॒न्थ॒त॒‌म् | वि॒ऽम॒देन॑¦यत्¦ई॒ळि॒ता¦नास॑त्या¦निः॒।आम᳚न्थत‌म् ||

विश्वे᳚ दे॒वा, अ॑कृपन्त समी॒च्योर्नि॒ष्पत᳚न्त्योः |{ऐंद्रो विमदः | अश्विनौ | अनुष्टुप्}

नास॑त्यावब्रुवन्दे॒वाः पुन॒रा व॑हता॒दिति॑ ||{5/6}{7.7.10.5}{10.24.5}{10.2.8.5}{1019, 861, 9027}

विश्वे᳚¦दे॒वाः¦अ॒कृ॒प॒न्त॒¦स॒‌म्ऽई॒च्योः¦निः॒ऽपत᳚न्त्योः | नास॑त्यौ¦अ॒ब्रु॒व॒न्¦दे॒वाः¦पुनः॑¦आ¦व॒ह॒ता॒त्¦इति॑ ||

मधु॑मन्मे प॒राय॑णं॒ मधु॑म॒त्पुन॒राय॑नम् |{ऐंद्रो विमदः | अश्विनौ | अनुष्टुप्}

ता नो᳚ देवा दे॒वत॑या यु॒वं मधु॑मतस्कृतम् ||{6/6}{7.7.10.6}{10.24.6}{10.2.8.6}{1020, 861, 9028}

मधु॑ऽमत्¦मे॒¦प॒रा॒।आय॑ण‌म्¦मधु॑ऽमत्¦पुनः॑¦आ॒।आय॑न‌म् | ता¦नः॒¦दे॒वा॒¦दे॒वत॑या¦यु॒व‌म्¦मधु॑ऽमतः¦कृ॒त॒‌म् ||

[96] भद्रमित्येकादशर्चस्य सूक्तस्यैंद्रोविमदः सोमआस्तारपंक्तिः |
भ॒द्रं नो॒, अपि॑ वातय॒ मनो॒ दक्ष॑मु॒त क्रतु᳚म् |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

अधा᳚ ते स॒ख्ये, अन्ध॑सो॒ वि वो॒ मदे॒ रण॒न्‌ गावो॒ न यव॑से॒ विव॑क्षसे ||{1/11}{7.7.11.1}{10.25.1}{10.2.9.1}{1021, 862, 9029}

भ॒द्र‌म्¦नः॒¦अपि॑¦वा॒त॒य॒¦मनः॑¦दक्ष᳚‌म्¦उ॒त¦क्रतु᳚‌म् |
अध॑¦ते॒¦स॒ख्ये¦अन्ध॑सः¦वि¦वः॒¦मदे᳚¦रण॑न्¦गावः॑¦न¦यव॑से¦विव॑क्षसे ||

हृ॒दि॒स्पृश॑स्त आसते॒ विश्वे᳚षु सोम॒ धाम॑सु |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

अधा॒ कामा᳚, इ॒मे मम॒ वि वो॒ मदे॒ वि ति॑ष्ठन्ते वसू॒यवो॒ विव॑क्षसे ||{2/11}{7.7.11.2}{10.25.2}{10.2.9.2}{1022, 862, 9030}

हृ॒दि॒ऽस्पृशः॑¦ते॒¦आ॒स॒ते॒¦विश्वे᳚षु¦सो॒म॒¦धाम॑ऽसु |
अध॑¦कामाः᳚¦इ॒मे¦मम॑¦वि¦वः॒¦मदे᳚¦वि¦ति॒ष्ठ॒न्ते॒¦व॒सु॒ऽयवः॑¦विव॑क्षसे ||

उ॒त व्र॒तानि॑ सोम ते॒ प्राहं मि॑नामि पा॒क्या᳚ |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

अधा᳚ पि॒तेव॑ सू॒नवे॒ वि वो॒ मदे᳚ मृ॒ळा नो᳚, अ॒भि चि॑द्व॒धाद्विव॑क्षसे ||{3/11}{7.7.11.3}{10.25.3}{10.2.9.3}{1023, 862, 9031}

उ॒त¦व्र॒तानि॑¦सो॒म॒¦ते॒¦प्र¦अ॒ह‌म्¦मि॒ना॒मि॒¦पा॒क्या᳚ |
अध॑¦पि॒ताऽ‌इ᳚व¦सू॒नवे᳚¦वि¦वः॒¦मदे᳚¦मृ॒ळ¦नः॒¦अ॒भि¦चि॒त्¦व॒धात्¦विव॑क्षसे ||

समु॒ प्र य᳚न्ति धी॒तयः॒ सर्गा᳚सोऽव॒ताँ, इ॑व |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

क्रतुं᳚ नः सोम जी॒वसे॒ वि वो॒ मदे᳚ धा॒रया᳚ चम॒साँ, इ॑व॒ विव॑क्षसे ||{4/11}{7.7.11.4}{10.25.4}{10.2.9.4}{1024, 862, 9032}

स‌म्¦ऊँ॒ इति॑¦प्र¦य॒न्ति॒¦धी॒तयः॑¦सर्गा᳚सः¦अ॒व॒तान्ऽ‌इ᳚व |
क्रतु᳚‌म्¦नः॒¦सो॒म॒¦जी॒वसे᳚¦वि¦वः॒¦मदे᳚¦धा॒रय॑¦च॒म॒सान्ऽ‌इ᳚व¦विव॑क्षसे ||

तव॒ त्ये सो᳚म॒ शक्ति॑भि॒र्निका᳚मासो॒ व्यृ᳚ण्विरे |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

गृत्स॑स्य॒ धीरा᳚स्त॒वसो॒ वि वो॒ मदे᳚ व्र॒जं गोम᳚न्तम॒श्विनं॒ विव॑क्षसे ||{5/11}{7.7.11.5}{10.25.5}{10.2.9.5}{1025, 862, 9033}

तव॑¦त्ये¦सो॒म॒¦शक्ति॑ऽभिः¦निऽका᳚मासः¦वि¦ऋ॒ण्वि॒रे॒ |
गृत्स॑स्य¦धीराः᳚¦त॒वसः॑¦वि¦वः॒¦मदे᳚¦व्र॒ज‌म्¦गोऽम᳚न्त‌म्¦अ॒श्विन᳚‌म्¦विव॑क्षसे ||

प॒शुं नः॑ सोम रक्षसि पुरु॒त्रा विष्ठि॑तं॒ जग॑त् |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

स॒माकृ॑णोषि जी॒वसे॒ वि वो॒ मदे॒ विश्वा᳚ स॒म्पश्य॒न्‌ भुव॑ना॒ विव॑क्षसे ||{6/11}{7.7.12.1}{10.25.6}{10.2.9.6}{1026, 862, 9034}

प॒शु‌म्¦नः॒¦सो॒म॒¦र॒क्ष॒सि॒¦पु॒रु॒ऽत्रा¦विऽस्थि॑त‌म्¦जग॑त् |
स॒‌म्ऽआकृ॑णोषि¦जी॒वसे᳚¦वि¦वः॒¦मदे᳚¦विश्वा᳚¦स॒‌म्ऽपश्य॑न्¦भुव॑ना¦विव॑क्षसे ||

त्वं नः॑ सोम वि॒श्वतो᳚ गो॒पा, अदा᳚भ्यो भव |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

सेध॑ राज॒न्नप॒ स्रिधो॒ वि वो॒ मदे॒ मा नो᳚ दुः॒शंस॑ ईशता॒ विव॑क्षसे ||{7/11}{7.7.12.2}{10.25.7}{10.2.9.7}{1027, 862, 9035}

त्व‌म्¦नः॒¦सो॒म॒¦वि॒श्वतः॑¦गो॒पाः¦अदा᳚भ्यः¦भ॒व॒ |
सेध॑¦रा॒ज॒न्¦अप॑¦स्रिधः॑¦वि¦वः॒¦मदे᳚¦मा¦नः॒¦दुः॒ऽशंसः॑¦ई॒श॒त॒¦विव॑क्षसे ||

त्वं नः॑ सोम सु॒क्रतु᳚र्वयो॒धेया᳚य जागृहि |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

क्षे॒त्र॒वित्त॑रो॒ मनु॑षो॒ वि वो॒ मदे᳚ द्रु॒हो नः॑ पा॒ह्यंह॑सो॒ विव॑क्षसे ||{8/11}{7.7.12.3}{10.25.8}{10.2.9.8}{1028, 862, 9036}

त्व‌म्¦नः॒¦सो॒म॒¦सु॒ऽक्रतुः॑¦व॒यः॒ऽधेया᳚य¦जा॒गृ॒हि॒ |
क्षे॒त्र॒वित्ऽत॑रः¦मनु॑षः¦वि¦वः॒¦मदे᳚¦द्रु॒हः¦नः॒¦पा॒हि॒¦अंह॑सः¦विव॑क्षसे ||

त्वं नो᳚ वृत्रहन्त॒मेन्द्र॑स्येन्दो शि॒वः सखा᳚ |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

यत्सीं॒ हव᳚न्ते समि॒थे वि वो॒ मदे॒ युध्य॑मानास्तो॒कसा᳚तौ॒ विव॑क्षसे ||{9/11}{7.7.12.4}{10.25.9}{10.2.9.9}{1029, 862, 9037}

त्व‌म्¦नः॒¦वृ॒त्र॒ह॒न्ऽत॒म॒¦इन्द्र॑स्य¦इ॒न्दो॒ इति॑¦शि॒वः¦सखा᳚ |
यत्¦सी॒‌म्¦हव᳚न्ते¦स॒‌म्ऽ‌इ॒थे¦वि¦वः॒¦मदे᳚¦युध्य॑मानाः¦तो॒कऽसा᳚तौ¦विव॑क्षसे ||

अ॒यं घ॒ स तु॒रो मद॒ इन्द्र॑स्य वर्धत प्रि॒यः |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

अ॒यं क॒क्षीव॑तो म॒हो वि वो॒ मदे᳚ म॒तिं विप्र॑स्य वर्धय॒द्विव॑क्षसे ||{10/11}{7.7.12.5}{10.25.10}{10.2.9.10}{1030, 862, 9038}

अ॒य‌म्¦घ॒¦सः¦तु॒रः¦मदः॑¦इन्द्र॑स्य¦व॒र्ध॒त॒¦प्रि॒यः |
अ॒य‌म्¦क॒क्षीव॑तः¦म॒हः¦वि¦वः॒¦मदे᳚¦म॒ति‌म्¦विप्र॑स्य¦व॒र्ध॒य॒त्¦विव॑क्षसे ||

अ॒यं विप्रा᳚य दा॒शुषे॒ वाजाँ᳚, इयर्ति॒ गोम॑तः |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

अ॒यं स॒प्तभ्य॒ आ वरं॒ वि वो॒ मदे॒ प्रान्धं श्रो॒णं च॑ तारिष॒द्विव॑क्षसे ||{11/11}{7.7.12.6}{10.25.11}{10.2.9.11}{1031, 862, 9039}

अ॒य‌म्¦विप्रा᳚य¦दा॒शुषे᳚¦वाजा᳚न्¦इ॒य॒र्ति॒¦गोऽम॑तः |
अ॒य‌म्¦स॒प्तऽभ्यः॑¦आ¦वर᳚‌म्¦वि¦वः॒¦मदे᳚¦प्र¦अ॒न्ध‌म्¦श्रो॒ण‌म्¦च॒¦ता॒रि॒ष॒त्¦विव॑क्षसे ||

[97] प्रह्यच्छेति नवर्चस्य सूक्तस्यैंद्रो विमदः पूषानुष्टुप् आद्याचतुर्थ्यावुष्णिहौ |
प्र ह्यच्छा᳚ मनी॒षा स्पा॒र्हा यन्ति॑ नि॒युतः॑ |{ऐंद्रो विमदः | पूषा | उष्णिक्}

प्र द॒स्रा नि॒युद्र॑थः पू॒षा, अ॑विष्टु॒ माहि॑नः ||{1/9}{7.7.13.1}{10.26.1}{10.2.10.1}{1032, 863, 9040}

प्र¦हि¦अच्छ॑¦म॒नी॒षाः¦स्पा॒र्हाः¦यन्ति॑¦नि॒ऽयुतः॑ | प्र¦द॒स्रा¦नि॒युत्ऽर॑थः¦पू॒षा¦अ॒वि॒ष्टु॒¦माहि॑नः ||

यस्य॒ त्यन्म॑हि॒त्वं वा॒ताप्य॑म॒यं जनः॑ |{ऐंद्रो विमदः | पूषा | अनुष्टुप्}

विप्र॒ आ वं᳚सद्धी॒तिभि॒श्चिके᳚त सुष्टुती॒नाम् ||{2/9}{7.7.13.2}{10.26.2}{10.2.10.2}{1033, 863, 9041}

यस्य॑¦त्यत्¦म॒हि॒ऽत्व‌म्¦वा॒ताप्य᳚‌म्¦अ॒य‌म्¦जनः॑ | विप्रः॑¦आ¦वं॒स॒त्¦धी॒तिऽभिः॑¦चिके᳚त¦सु॒ऽस्तु॒ती॒ना‌म् ||

स वे᳚द सुष्टुती॒नामिन्दु॒र्न पू॒षा वृषा᳚ |{ऐंद्रो विमदः | पूषा | अनुष्टुप्}

अ॒भि प्सुरः॑ प्रुषायति व्र॒जं न॒ आ प्रु॑षायति ||{3/9}{7.7.13.3}{10.26.3}{10.2.10.3}{1034, 863, 9042}

सः¦वे॒द॒¦सु॒ऽस्तु॒ती॒ना‌म्¦इन्दुः॑¦न¦पू॒षा¦वृषा᳚ | अ॒भि¦प्सुरः॑¦प्रु॒षा॒य॒ति॒¦व्र॒ज‌म्¦नः॒¦आ¦प्रु॒षा॒य॒ति॒ ||

मं॒सी॒महि॑ त्वा व॒यम॒स्माकं᳚ देव पूषन् |{ऐंद्रो विमदः | पूषा | उष्णिक्}

म॒ती॒नां च॒ साध॑नं॒ विप्रा᳚णां चाध॒वम् ||{4/9}{7.7.13.4}{10.26.4}{10.2.10.4}{1035, 863, 9043}

मं॒सी॒महि॑¦त्वा॒¦व॒य‌म्¦अ॒स्माक᳚‌म्¦दे॒व॒¦पू॒ष॒न् | म॒ती॒ना‌म्¦च॒¦साध॑न‌म्¦विप्रा᳚णा‌म्¦च॒¦आ॒ऽध॒व‌म् ||

प्रत्य॑र्धिर्य॒ज्ञाना᳚मश्वह॒यो रथा᳚नाम् |{ऐंद्रो विमदः | पूषा | अनुष्टुप्}

ऋषिः॒ स यो मनु᳚र्हितो॒ विप्र॑स्य यावयत्स॒खः ||{5/9}{7.7.13.5}{10.26.5}{10.2.10.5}{1036, 863, 9044}

प्रति॑।आर्धिः¦य॒ज्ञाना᳚‌म्¦अ॒श्व॒ऽह॒यः¦रथा᳚ना‌म् | ऋषिः॑¦सः¦यः¦मनुः॑ऽहितः¦विप्र॑स्य¦य॒व॒य॒त्ऽस॒खः ||

आ॒धीष॑माणायाः॒ पतिः॑ शु॒चाया᳚श्च शु॒चस्य॑ च |{ऐंद्रो विमदः | पूषा | अनुष्टुप्}

वा॒सो॒वा॒योऽवी᳚ना॒मा वासां᳚सि॒ मर्मृ॑जत् ||{6/9}{7.7.14.1}{10.26.6}{10.2.10.6}{1037, 863, 9045}

आ॒ऽधीष॑माणायाः¦पतिः॑¦शु॒चायाः᳚¦च॒¦शु॒चस्य॑¦च॒ | वा॒सः॒ऽवा॒यः¦अवी᳚ना‌म्¦आ¦वासां᳚सि¦मर्मृ॑जत् ||

इ॒नो वाजा᳚नां॒ पति॑रि॒नः पु॑ष्टी॒नां सखा᳚ |{ऐंद्रो विमदः | पूषा | अनुष्टुप्}

प्र श्मश्रु॑ हर्य॒तो दू᳚धो॒द्वि वृथा॒ यो, अदा᳚भ्यः ||{7/9}{7.7.14.2}{10.26.7}{10.2.10.7}{1038, 863, 9046}

इ॒नः¦वाजा᳚ना‌म्¦पतिः॑¦इ॒नः¦पु॒ष्टी॒ना‌म्¦सखा᳚ | प्र¦श्मश्रु॑¦ह॒र्य॒तः¦दू॒धो॒त्¦वि¦वृथा᳚¦यः¦अदा᳚भ्यः ||

आ ते॒ रथ॑स्य पूषन्न॒जा धुरं᳚ ववृत्युः |{ऐंद्रो विमदः | पूषा | अनुष्टुप्}

विश्व॑स्या॒र्थिनः॒ सखा᳚ सनो॒जा, अन॑पच्युतः ||{8/9}{7.7.14.3}{10.26.8}{10.2.10.8}{1039, 863, 9047}

आ¦ते॒¦रथ॑स्य¦पू॒ष॒न्¦अ॒जाः¦धुर᳚‌म्¦व॒वृ॒त्युः॒ | विश्व॑स्य¦अ॒र्थिनः॑¦सखा᳚¦स॒नः॒ऽजाः¦अन॑पऽच्युतः ||

अ॒स्माक॑मू॒र्जा रथं᳚ पू॒षा, अ॑विष्टु॒ माहि॑नः |{ऐंद्रो विमदः | पूषा | अनुष्टुप्}

भुव॒द्वाजा᳚नां वृ॒ध इ॒मं नः॑ शृणव॒द्धव᳚म् ||{9/9}{7.7.14.4}{10.26.9}{10.2.10.9}{1040, 863, 9048}

अ॒स्माक᳚‌म्¦ऊ॒र्जा¦रथ᳚‌म्¦पू॒षा¦अ॒वि॒ष्टु॒¦माहि॑नः | भुव॑त्¦वाजा᳚ना‌म्¦वृ॒धः¦इ॒म‌म्¦नः॒¦शृ॒ण॒व॒त्¦हव᳚‌म् ||

[98] असत्स्विति चतुर्विंशत्यृचस्य सूक्तस्यैंद्रोवसुक्रइंद्रस्त्रिष्टुप् |
अस॒त्सु मे᳚ जरितः॒ साभि॑वे॒गो यत्सु᳚न्व॒ते यज॑मानाय॒ शिक्ष᳚म् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

अना᳚शीर्दाम॒हम॑स्मि प्रह॒न्ता स॑त्य॒ध्वृतं᳚ वृजिना॒यन्त॑मा॒भुम् ||{1/24}{7.7.15.1}{10.27.1}{10.2.11.1}{1041, 864, 9049}

अस॑त्¦सु¦मे॒¦ज॒रि॒त॒रिति॑¦सः¦अ॒भि॒ऽवे॒गः¦यत्¦सु॒न्व॒ते¦यज॑मानाय¦शिक्ष᳚‌म् |
अना᳚शीःऽदा‌म्¦अ॒ह‌म्¦अ॒स्मि॒¦प्र॒ऽह॒न्ता¦स॒त्य॒ऽध्वृत᳚‌म्¦वृ॒जि॒न॒ऽयन्त᳚‌म्¦आ॒भु‌म् ||

यदीद॒हं यु॒धये᳚ सं॒नया॒न्यदे᳚वयून्त॒न्वा॒३॑(आ॒) शूशु॑जानान् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

अ॒मा ते॒ तुम्रं᳚ वृष॒भं प॑चानि ती॒व्रं सु॒तं प᳚ञ्चद॒शं नि षि᳚ञ्चम् ||{2/24}{7.7.15.2}{10.27.2}{10.2.11.2}{1042, 864, 9050}

यदि॑¦इत्¦अ॒ह‌म्¦यु॒धये᳚¦स॒‌म्ऽनया᳚नि¦अदे᳚वऽयून्¦त॒न्वा᳚¦शूशु॑जानान् |
अ॒मा¦ते॒¦तुम्र᳚‌म्¦वृ॒ष॒भ‌म्¦प॒चा॒नि॒¦ती॒व्र‌म्¦सु॒त‌म्¦पं॒च॒ऽद॒श‌म्¦नि¦सिं॒च॒‌म् ||

नाहं तं वे᳚द॒ य इति॒ ब्रवी॒त्यदे᳚वयून्‌ त्स॒मर॑णे जघ॒न्वान् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

य॒दावाख्य॑त्स॒मर॑ण॒मृघा᳚व॒दादिद्ध॑ मे वृष॒भा प्र ब्रु॑वन्ति ||{3/24}{7.7.15.3}{10.27.3}{10.2.11.3}{1043, 864, 9051}

न¦अ॒ह‌म्¦त‌म्¦वे॒द॒¦यः¦इति॑¦ब्रवी᳚ति¦अदे᳚वऽयून्¦स॒‌म्।आर॑णे¦ज॒घ॒न्वान् |
य॒दा¦अ॒व॒।आख्य॑त्¦स॒‌म्।आर॑ण‌म्¦ऋघा᳚वत्¦आत्¦इत्¦ह॒¦मे॒¦वृ॒ष॒भा¦प्र¦ब्रु॒व॒न्ति॒ ||

यदज्ञा᳚तेषु वृ॒जने॒ष्वासं॒ विश्वे᳚ स॒तो म॒घवा᳚नो म आसन् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

जि॒नामि॒ वेत्‌ क्षेम॒ आ सन्त॑मा॒भुं प्र तं क्षि॑णां॒ पर्व॑ते पाद॒गृह्य॑ ||{4/24}{7.7.15.4}{10.27.4}{10.2.11.4}{1044, 864, 9052}

यत्¦अज्ञा᳚तेषु¦वृ॒जने᳚षु¦आस᳚‌म्¦विश्वे᳚¦स॒तः¦म॒घऽवा᳚नः¦मे॒¦आ॒स॒न् |
जि॒नामि॑¦वा॒¦इत्¦क्षेमे᳚¦आ¦सन्त᳚‌म्¦आ॒भु‌म्¦प्र¦त‌म्¦क्षि॒णा॒‌म्¦पर्व॑ते¦पा॒द॒ऽगृह्य॑ ||

न वा, उ॒ मां वृ॒जने᳚ वारयन्ते॒ न पर्व॑तासो॒ यद॒हं म॑न॒स्ये |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

मम॑ स्व॒नात्कृ॑धु॒कर्णो᳚ भयात ए॒वेदनु॒ द्यून्‌ कि॒रणः॒ समे᳚जात् ||{5/24}{7.7.15.5}{10.27.5}{10.2.11.5}{1045, 864, 9053}

न¦वै¦ऊँ॒ इति॑¦मा‌म्¦वृ॒जने᳚¦वा॒र॒य॒न्ते॒¦न¦पर्व॑तासः¦यत्¦अ॒ह‌म्¦म॒न॒स्ये |
मम॑¦स्व॒नात्¦कृ॒धु॒ऽकर्णः॑¦भ॒या॒ते॒¦ए॒व¦इत्¦अनु॑¦द्यून्¦कि॒रणः॑¦स‌म्¦ए॒जा॒त् ||

दर्श॒न्न्वत्र॑ शृत॒पाँ, अ॑नि॒न्द्रान्‌ बा᳚हु॒क्षदः॒ शर॑वे॒ पत्य॑मानान् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

घृषुं᳚ वा॒ ये नि॑नि॒दुः सखा᳚य॒मध्यू॒ न्वे᳚षु प॒वयो᳚ ववृत्युः ||{6/24}{7.7.16.1}{10.27.6}{10.2.11.6}{1046, 864, 9054}

दर्श॑न्¦नु¦अत्र॑¦शृ॒त॒ऽपान्¦अ॒नि॒न्द्रान्¦बा॒हु॒ऽक्षदः॑¦शर॑वे¦पत्य॑मानान् |
घृषु᳚‌म्¦वा॒¦ये¦नि॒नि॒दुः¦सखा᳚य‌म्¦अधि॑¦ऊँ॒ इति॑¦नु¦ए॒षु॒¦प॒वयः॑¦व॒वृ॒त्युः॒ ||

अभू॒र्वौक्षी॒र्व्यु१॑(उ॒) आयु॑रान॒ड्दर्ष॒न्नु पूर्वो॒, अप॑रो॒ नु द॑र्षत् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

द्वे प॒वस्ते॒ परि॒ तं न भू᳚तो॒ यो, अ॒स्य पा॒रे रज॑सो वि॒वेष॑ ||{7/24}{7.7.16.2}{10.27.7}{10.2.11.7}{1047, 864, 9055}

अभूः᳚¦ऊँ॒ इति॑¦औक्षीः᳚¦वि¦ऊँ॒ इति॑¦आयुः॑¦आ॒न॒ट्¦दर्ष॑त्¦नु¦पूर्वः॑¦अप॑रः¦नु¦द॒र्ष॒त् |
द्वे इति॑¦प॒वस्ते॒ इति॑¦परि॑¦त‌म्¦न¦भू॒तः॒¦यः¦अ॒स्य¦पा॒रे¦रज॑सः¦वि॒वेष॑ ||

गावो॒ यवं॒ प्रयु॑ता, अ॒र्यो, अ॑क्ष॒न्ता, अ॑पश्यं स॒हगो᳚पा॒श्चर᳚न्तीः |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

हवा॒, इद॒र्यो, अ॒भितः॒ समा᳚य॒न्‌ किय॑दासु॒ स्वप॑तिश्छन्दयाते ||{8/24}{7.7.16.3}{10.27.8}{10.2.11.8}{1048, 864, 9056}

गाव॑¦यव᳚‌म्¦प्रऽयु॑ताः¦अ॒र्यः¦अ॒क्ष॒न्¦ताः¦अ॒प॒श्य॒‌म्¦स॒हऽगो᳚पाः¦चर᳚न्तीः |
हवाः᳚¦इत्¦अ॒र्यः¦अ॒भितः॑¦स‌म्¦आ॒य॒न्¦किय॑त्¦आ॒सु॒¦स्वऽप॑तिः¦छ॒न्द॒या॒ते॒ ||

सं यद्वयं᳚ यव॒सादो॒ जना᳚नाम॒हं य॒वाद॑ उ॒र्वज्रे᳚, अ॒न्तः |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

अत्रा᳚ यु॒क्तो᳚ऽवसा॒तार॑मिच्छा॒दथो॒, अयु॑क्तं युनजद्वव॒न्वान् ||{9/24}{7.7.16.4}{10.27.9}{10.2.11.9}{1049, 864, 9057}

स‌म्¦यत्¦वय᳚‌म्¦य॒व॒स॒।आदः॑¦जना᳚ना‌म्¦अ॒ह‌म्¦य॒व॒।आदः॑¦उ॒रु॒।आज्रे᳚¦अ॒न्तरिति॑ |
अत्र॑¦यु॒क्तः¦अ॒व॒ऽसा॒तार᳚‌म्¦इ॒च्छा॒त्¦अथो॒ इति॑¦अयु॑क्त‌म्¦यु॒न॒ज॒त्¦व॒व॒न्वान् ||

अत्रेदु॑ मे मंससे स॒त्यमु॒क्तं द्वि॒पाच्च॒ यच्चतु॑ष्पात्संसृ॒जानि॑ |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

स्त्री॒भिर्यो, अत्र॒ वृष॑णं पृत॒न्यादयु॑द्धो, अस्य॒ वि भ॑जानि॒ वेदः॑ ||{10/24}{7.7.16.5}{10.27.10}{10.2.11.10}{1050, 864, 9058}

अत्र॑¦इत्¦ऊँ॒ इति॑¦मे॒¦मं॒स॒से॒¦स॒त्य‌म्¦उ॒क्त‌म्¦द्वि॒ऽपात्¦च॒¦यत्¦चतुः॑ऽपात्¦स॒‌म्ऽसृ॒जानि॑ |
स्त्री॒ऽभिः¦यः¦अत्र॑¦वृष॑ण‌म्¦पृ॒त॒न्यात्¦अयु॑द्धः¦अ॒स्य॒¦वि¦भ॒जा॒नि॒¦वेदः॑ ||

यस्या᳚न॒क्षा दु॑हि॒ता जात्वास॒ कस्तां वि॒द्वाँ, अ॒भि म᳚न्याते, अ॒न्धाम् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

क॒त॒रो मे॒निं प्रति॒ तं मु॑चाते॒ य ईं॒ वहा᳚ते॒ य ईं᳚ वा वरे॒यात् ||{11/24}{7.7.17.1}{10.27.11}{10.2.11.11}{1051, 864, 9059}

यस्य॑¦अ॒न॒क्षा¦दु॒हि॒ता¦जातु॑¦आस॑¦कः¦ता‌म्¦वि॒द्वान्¦अ॒भि¦म॒न्या॒ते॒¦अ॒न्धा‌म् |
क॒त॒रः¦मे॒नि‌म्¦प्रति॑¦त‌म्¦मु॒चा॒ते॒¦यः¦ई॒‌म्¦वहा᳚ते¦यः¦ई॒‌म्¦वा॒¦व॒रे॒ऽयात् ||

किय॑ती॒ योषा᳚ मर्य॒तो व॑धू॒योः परि॑प्रीता॒ पन्य॑सा॒ वार्ये᳚ण |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

भ॒द्रा व॒धूर्भ॑वति॒ यत्सु॒पेशाः᳚ स्व॒यं सा मि॒त्रं व॑नुते॒ जने᳚ चित् ||{12/24}{7.7.17.2}{10.27.12}{10.2.11.12}{1052, 864, 9060}

किय॑ती¦योषा᳚¦म॒र्य॒तः¦व॒धू॒ऽयोः¦परि॑ऽप्रीता¦पन्य॑सा¦वार्ये᳚ण |
भ॒द्रा¦व॒धूः¦भ॒व॒ति॒¦यत्¦सु॒ऽपेशाः᳚¦स्व॒य‌म्¦सा¦मि॒त्र‌म्¦व॒नु॒ते॒¦जने᳚¦चि॒त् ||

प॒त्तो ज॑गार प्र॒त्यञ्च॑मत्ति शी॒र्ष्णा शिरः॒ प्रति॑ दधौ॒ वरू᳚थम् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

आसी᳚न ऊ॒र्ध्वामु॒पसि॑ क्षिणाति॒ न्य᳚ङ्ङुत्ता॒नामन्वे᳚ति॒ भूमि᳚म् ||{13/24}{7.7.17.3}{10.27.13}{10.2.11.13}{1053, 864, 9061}

प॒त्तः¦ज॒गा॒र॒¦प्र॒त्यंच᳚‌म्¦अ॒त्ति॒¦शी॒र्ष्णा¦शिरः॑¦प्रति॑¦द॒धौ॒¦वरू᳚थ‌म् |
आसी᳚नः¦ऊ॒र्ध्वा‌म्¦उ॒पसि॑¦क्षि॒णा॒ति॒¦न्य॒ङ्¦उ॒त्ता॒ना‌म्¦अनु॑¦ए॒ति॒¦भूमि᳚‌म् ||

बृ॒हन्न॑च्छा॒यो, अ॑पला॒शो, अर्वा᳚ त॒स्थौ मा॒ता विषि॑तो, अत्ति॒ गर्भः॑ |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

अ॒न्यस्या᳚ व॒त्सं रि॑ह॒ती मि॑माय॒ कया᳚ भु॒वा नि द॑धे धे॒नुरूधः॑ ||{14/24}{7.7.17.4}{10.27.14}{10.2.11.14}{1054, 864, 9062}

बृ॒हन्¦अ॒च्छा॒यः¦अ॒प॒ला॒शः¦अर्वा᳚¦त॒स्थौ¦मा॒ता¦विऽसि॑तः¦अ॒त्ति॒¦गर्भः॑ |
अ॒न्यस्याः᳚¦व॒त्स‌म्¦रि॒ह॒ती¦मि॒मा॒य॒¦कया᳚¦भु॒वा¦नि¦द॒धे॒¦धे॒नुः¦ऊधः॑ ||

स॒प्त वी॒रासो᳚, अध॒रादुदा᳚यन्न॒ष्टोत्त॒रात्ता॒त्सम॑जग्मिर॒न्ते |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

नव॑ प॒श्चाता᳚त्‌ स्थिवि॒मन्त॑ आय॒न्दश॒ प्राक्सानु॒ वि ति॑र॒न्त्यश्नः॑ ||{15/24}{7.7.17.5}{10.27.15}{10.2.11.15}{1055, 864, 9063}

स॒प्त¦वी॒रासः॑¦अ॒ध॒रात्¦उत्¦आ॒य॒न्¦अ॒ष्ट¦उ॒त्त॒रात्ता᳚त्¦स‌म्¦अ॒ज॒ग्मि॒र॒न्¦ते |
नव॑¦प॒श्चाता᳚त्¦स्थि॒वि॒ऽमन्तः॑¦आ॒य॒न्¦दश॑¦प्राक्¦सानु॑¦वि¦ति॒र॒न्ति॒¦अश्नः॑ ||

द॒शा॒नामेकं᳚ कपि॒लं स॑मा॒नं तं हि᳚न्वन्ति॒ क्रत॑वे॒ पार्या᳚य |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

गर्भं᳚ मा॒ता सुधि॑तं व॒क्षणा॒स्ववे᳚नन्तं तु॒षय᳚न्ती बिभर्ति ||{16/24}{7.7.18.1}{10.27.16}{10.2.11.16}{1056, 864, 9064}

द॒शा॒ना‌म्¦एक᳚‌म्¦क॒पि॒ल‌म्¦स॒मा॒न‌म्¦त‌म्¦हि॒न्व॒न्ति॒¦क्रत॑वे¦पार्या᳚य |
गर्भ᳚‌म्¦मा॒ता¦सुऽधि॑त‌म्¦व॒क्षणा᳚सु¦अवे᳚नन्त‌म्¦तु॒षय᳚न्ती¦बि॒भ॒र्ति॒ ||

पीवा᳚नं मे॒षम॑पचन्त वी॒रा न्यु॑प्ता, अ॒क्षा, अनु॑ दी॒व आ᳚सन् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

द्वा धनुं᳚ बृह॒तीम॒प्स्व१॑(अ॒)न्तः प॒वित्र॑वन्ता चरतः पु॒नन्ता᳚ ||{17/24}{7.7.18.2}{10.27.17}{10.2.11.17}{1057, 864, 9065}

पीवा᳚न‌म्¦मे॒ष‌म्¦अ॒प॒च॒न्त॒¦वी॒राः¦नि।औ᳚प्ताः¦अ॒क्षाः¦अनु॑¦दी॒वे¦आ॒स॒न् |
द्वा¦धनु᳚‌म्¦बृ॒ह॒ती‌म्¦अ॒प्ऽसु¦अ॒न्तरिति॑¦प॒वित्र॑ऽवन्ता¦च॒र॒तः॒¦पु॒नन्ता᳚ ||

वि क्रो᳚श॒नासो॒ विष्व᳚ञ्च आय॒न्‌ पचा᳚ति॒ नेमो᳚ न॒हि पक्ष॑द॒र्धः |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

अ॒यं मे᳚ दे॒वः स॑वि॒ता तदा᳚ह॒ द्र्व᳚न्न॒ इद्व॑नवत्स॒र्पिर᳚न्नः ||{18/24}{7.7.18.3}{10.27.18}{10.2.11.18}{1058, 864, 9066}

वि¦क्रो॒श॒नासः॑¦विष्वं᳚चः¦आ॒य॒न्¦पचा᳚ति¦नेमः॑¦न॒हि¦पक्ष॑त्¦अ॒र्धः |
अ॒य‌म्¦मे॒¦दे॒वः¦स॒वि॒ता¦तत्¦आ॒ह॒¦द्रु।आ᳚न्नः¦इत्¦व॒न॒व॒त्¦स॒र्पिः।आ᳚न्नः ||

अप॑श्यं॒ ग्रामं॒ वह॑मानमा॒राद॑च॒क्रया᳚ स्व॒धया॒ वर्त॑मानम् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

सिष॑क्त्य॒र्यः प्र यु॒गा जना᳚नां स॒द्यः शि॒श्ना प्र॑मिना॒नो नवी᳚यान् ||{19/24}{7.7.18.4}{10.27.19}{10.2.11.19}{1059, 864, 9067}

अप॑श्य‌म्¦ग्राम᳚‌म्¦वह॑मान‌म्¦आ॒रात्¦अ॒च॒क्रया᳚¦स्व॒धया᳚¦वर्त॑मान‌म् |
सिस॑क्ति¦अ॒र्यः¦प्र¦यु॒गा¦जना᳚ना‌म्¦स॒द्यः¦शि॒श्ना¦प्र॒ऽमि॒ना॒नः¦नवी᳚यान् ||

ए॒तौ मे॒ गावौ᳚ प्रम॒रस्य॑ यु॒क्तौ मो षु प्र से᳚धी॒र्मुहु॒रिन्म॑मन्धि |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

आप॑श्चिदस्य॒ वि न॑श॒न्त्यर्थं॒ सूर॑श्च म॒र्क उप॑रो बभू॒वान् ||{20/24}{7.7.18.5}{10.27.20}{10.2.11.20}{1060, 864, 9068}

ए॒तौ¦मे॒¦गावौ᳚¦प्र॒ऽम॒रस्य॑¦यु॒क्तौ¦मो इति॑¦सु¦प्र¦से॒धीः॒¦मुहुः॑¦इत्¦म॒म॒न्धि॒ |
आपः॑¦चि॒त्¦अ॒स्य॒¦वि¦न॒श॒न्ति॒¦अर्थ᳚‌म्¦सूरः॑¦च॒¦म॒र्कः¦उप॑रः¦ब॒भू॒वान् ||

अ॒यं यो वज्रः॑ पुरु॒धा विवृ॑त्तो॒ऽवः सूर्य॑स्य बृह॒तः पुरी᳚षात् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

श्रव॒ इदे॒ना प॒रो, अ॒न्यद॑स्ति॒ तद᳚व्य॒थी ज॑रि॒माण॑स्तरन्ति ||{21/24}{7.7.19.1}{10.27.21}{10.2.11.21}{1061, 864, 9069}

अ॒य‌म्¦यः¦वज्रः॑¦पु॒रु॒धा¦विऽवृ॑त्तः¦अ॒वः¦सूर्य॑स्य¦बृ॒ह॒तः¦पुरी᳚षात् |
श्रवः॑¦इत्¦ए॒ना¦प॒रः¦अ॒न्यत्¦अ॒स्ति॒¦तत्¦अ॒व्य॒थी¦ज॒रि॒माणः॑¦त॒र॒न्ति॒ ||

वृ॒क्षेवृ॑क्षे॒ निय॑ता मीमय॒द्गौस्ततो॒ वयः॒ प्र प॑तान्‌ पूरु॒षादः॑ |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

अथे॒दं विश्वं॒ भुव॑नं भयात॒ इन्द्रा᳚य सु॒न्वदृष॑ये च॒ शिक्ष॑त् ||{22/24}{7.7.19.2}{10.27.22}{10.2.11.22}{1062, 864, 9070}

वृ॒क्षेऽवृ॑क्षे¦निऽय॑ता¦मी॒म॒य॒त्¦गौः¦ततः॑¦वयः॑¦प्र¦प॒ता॒न्¦पु॒रु॒ष॒।आदः॑ |
अथ॑¦इ॒द‌म्¦विश्व᳚‌म्¦भुव॑न‌म्¦भ॒या॒ते॒¦इन्द्रा᳚य¦सु॒न्वत्¦ऋष॑ये¦च॒¦शिक्ष॑त् ||

दे॒वानां॒ माने᳚ प्रथ॒मा, अ॑तिष्ठन्‌ कृ॒न्तत्रा᳚देषा॒मुप॑रा॒, उदा᳚यन् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

त्रय॑स्तपन्ति पृथि॒वीम॑नू॒पा द्वा बृबू᳚कं वहतः॒ पुरी᳚षम् ||{23/24}{7.7.19.3}{10.27.23}{10.2.11.23}{1063, 864, 9071}

दे॒वाना᳚‌म्¦माने᳚¦प्र॒थ॒माः¦अ॒ति॒ष्ठ॒न्¦कृ॒न्तत्रा᳚त्¦ए॒षा॒‌म्¦उप॑राः¦उत्¦आ॒य॒न् |
त्रयः॑¦त॒प॒न्ति॒¦पृ॒थि॒वी‌म्¦अ॒नू॒पाः¦द्वा¦बृबू᳚क‌म्¦व॒ह॒तः॒¦पुरी᳚ष‌म् ||

सा ते᳚ जी॒वातु॑रु॒त तस्य॑ विद्धि॒ मा स्मै᳚ता॒दृगप॑ गूहः सम॒र्ये |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

आ॒विः स्वः॑ कृणु॒ते गूह॑ते बु॒सं स पा॒दुर॑स्य नि॒र्णिजो॒ न मु॑च्यते ||{24/24}{7.7.19.4}{10.27.24}{10.2.11.24}{1064, 864, 9072}

सा¦ते॒¦जी॒वातुः॑¦उ॒त¦तस्य॑¦वि॒द्धि॒¦मा¦स्म॒¦ए॒ता॒दृक्¦अप॑¦गू॒हः॒¦स॒म॒र्ये |
आ॒विः¦स्व१॒॑रिति॒ स्वः॑¦कृ॒णु॒ते¦गूह॑ते¦बु॒स‌म्¦सः¦पा॒दुः¦अ॒स्य॒¦निः॒ऽनिजः॑¦न¦मु॒च्य॒ते॒ ||

[99] विश्वेहीति द्वादशर्चस्य सूक्तस्य आद्यायाइंद्रस्नुषाऋषिका द्वितीयादिचतुर्थीवर्जानां युजामिंद्रऋषिः चतुर्थीसहितानामयुजांवसुक्रऋषिः चतुर्थीवर्ज्यानांयुजांवसुक्रोदेवता शिष्टानामिंद्रस्त्रिष्टुप् | (अत्रसूक्तेप्रथमर्चींद्रस्नुषार्षत्वे विकल्पं शौनकोमन्यते तत्‌पक्षे तत्रवसुक्रोविज्ञेयः) |
विश्वो॒ ह्य१॑(अ॒)न्यो, अ॒रिरा᳚ज॒गाम॒ ममेदह॒ श्वशु॑रो॒ ना ज॑गाम |{इन्द्रस्नुषाः | इन्द्रः | त्रिष्टुप्}

ज॒क्षी॒याद्धा॒ना, उ॒त सोमं᳚ पपीया॒त्स्वा᳚शितः॒ पुन॒रस्तं᳚ जगायात् ||{1/12}{7.7.20.1}{10.28.1}{10.2.12.1}{1065, 865, 9073}

विश्वः॑¦हि¦अ॒न्यः¦अ॒रिः¦आ॒ज॒गाम॑¦मम॑¦इत्¦अह॑¦श्वशु॑रः¦न¦आ¦ज॒गा॒म॒ |
ज॒क्षी॒यात्¦धा॒नाः¦उ॒त¦सोम᳚‌म्¦प॒पी॒या॒त्¦सुऽआ᳚शितः¦पुनः॑¦अस्त᳚‌म्¦ज॒गा॒या॒त् ||

स रोरु॑वद्वृष॒भस्ति॒ग्मशृ᳚ङ्गो॒ वर्ष्म᳚न्तस्थौ॒ वरि॑म॒न्ना पृ॑थि॒व्याः |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

विश्वे᳚ष्वेनं वृ॒जने᳚षु पामि॒ यो मे᳚ कु॒क्षी सु॒तसो᳚मः पृ॒णाति॑ ||{2/12}{7.7.20.2}{10.28.2}{10.2.12.2}{1066, 865, 9074}

सः¦रोरु॑वत्¦वृ॒ष॒भः¦ति॒ग्मऽशृ᳚ङ्गः¦वर्ष्म॑न्¦त॒स्थौ॒¦वरि॑मन्¦आ¦पृ॒थि॒व्याः |
विश्वे᳚षु¦ए॒न॒‌म्¦वृ॒जने᳚षु¦पा॒मि॒¦यः¦मे॒¦कु॒क्षी इति॑¦सु॒तऽसो᳚मः¦पृ॒णाति॑ ||

अद्रि॑णा ते म॒न्दिन॑ इन्द्र॒ तूया᳚न्‌ त्सु॒न्वन्ति॒ सोमा॒न्‌ पिब॑सि॒ त्वमे᳚षाम् |{इन्द्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

पच᳚न्ति ते वृष॒भाँ, अत्सि॒ तेषां᳚ पृ॒क्षेण॒ यन्म॑घवन्हू॒यमा᳚नः ||{3/12}{7.7.20.3}{10.28.3}{10.2.12.3}{1067, 865, 9075}

अद्रि॑णा¦ते॒¦म॒न्दिनः॑¦इ॒न्द्र॒¦तूया᳚न्¦सु॒न्वन्ति॑¦सोमा᳚न्¦पिब॑सि¦त्व‌म्¦ए॒षा॒‌म् |
पच᳚न्ति¦ते॒¦वृ॒ष॒भान्¦अत्सि॑¦तेषा᳚‌म्¦पृ॒क्षेण॑¦यत्¦म॒घ॒ऽव॒न्¦हू॒यमा᳚नः ||

इ॒दं सु मे᳚ जरित॒रा चि॑किद्धि प्रती॒पं शापं᳚ न॒द्यो᳚ वहन्ति |{इन्द्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

लो॒पा॒शः सिं॒हं प्र॒त्यञ्च॑मत्साः क्रो॒ष्टा व॑रा॒हं निर॑तक्त॒ कक्षा᳚त् ||{4/12}{7.7.20.4}{10.28.4}{10.2.12.4}{1068, 865, 9076}

इ॒द‌म्¦सु¦मे॒¦ज॒रि॒तः॒¦आ¦चि॒कि॒द्धि॒¦प्र॒ति॒ऽई॒प‌म्¦शाप᳚‌म्¦न॒द्यः॑¦व॒ह॒न्ति॒ |
लो॒पा॒शः¦सिं॒ह‌म्¦प्र॒त्यंच᳚‌म्¦अ॒त्सा॒रिति॑¦क्रो॒ष्टा¦व॒रा॒ह‌म्¦निः¦अ॒त॒क्त॒¦कक्षा᳚त् ||

क॒था त॑ ए॒तद॒हमा चि॑केतं॒ गृत्स॑स्य॒ पाक॑स्त॒वसो᳚ मनी॒षाम् |{इन्द्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

त्वं नो᳚ वि॒द्वाँ, ऋ॑तु॒था वि वो᳚चो॒ यमर्धं᳚ ते मघवन्‌ क्षे॒म्या धूः ||{5/12}{7.7.20.5}{10.28.5}{10.2.12.5}{1069, 865, 9077}

क॒था¦ते॒¦ए॒तत्¦अ॒ह‌म्¦आ¦चि॒के॒त॒‌म्¦गृत्स॑स्य¦पाकः॑¦त॒वसः॑¦म॒नी॒षा‌म् |
त्व‌म्¦नः॒¦वि॒द्वान्¦ऋ॒तु॒ऽथा¦वि¦वो॒चः॒¦य‌म्¦अर्ध᳚‌म्¦ते॒¦म॒घ॒ऽव॒न्¦क्षे॒म्या¦धूः ||

ए॒वा हि मां त॒वसं᳚ व॒र्धय᳚न्ति दि॒वश्चि᳚न्मे बृह॒त उत्त॑रा॒ धूः |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

पु॒रू स॒हस्रा॒ नि शि॑शामि सा॒कम॑श॒त्रुं हि मा॒ जनि॑ता ज॒जान॑ ||{6/12}{7.7.20.6}{10.28.6}{10.2.12.6}{1070, 865, 9078}

ए॒व¦हि¦मा‌म्¦त॒वस᳚‌म्¦व॒र्धय᳚न्ति¦दि॒वः¦चि॒त्¦मे॒¦बृ॒ह॒तः¦उत्ऽत॑रा¦धूः |
पु॒रु¦स॒हस्रा᳚¦नि¦शि॒शा॒मि॒¦सा॒क‌म्¦अ॒श॒त्रु‌म्¦हि¦मा॒¦जनि॑ता¦ज॒जान॑ ||

ए॒वा हि मां त॒वसं᳚ ज॒ज्ञुरु॒ग्रं कर्म᳚न्‌ कर्म॒न्‌ वृष॑णमिन्द्र दे॒वाः |{इन्द्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

वधीं᳚ वृ॒त्रं वज्रे᳚ण मन्दसा॒नोऽप᳚ व्र॒जं म॑हि॒ना दा॒शुषे᳚ वम् ||{7/12}{7.7.21.1}{10.28.7}{10.2.12.7}{1071, 865, 9079}

ए॒व¦हि¦मा‌म्¦त॒वस᳚‌म्¦ज॒ज्ञुः¦उ॒ग्र‌म्¦कर्म॑न्ऽकर्मन्¦वृष॑ण‌म्¦इ॒न्द्र॒¦दे॒वाः |
वधी᳚‌म्¦वृ॒त्र‌म्¦वज्रे᳚ण¦म॒न्द॒सा॒नः¦अप॑¦व्र॒ज‌म्¦म॒हि॒ना¦दा॒शुषे᳚¦व॒‌म् ||

दे॒वास॑ आयन्‌ पर॒शूँर॑बिभ्र॒न्वना᳚ वृ॒श्चन्तो᳚, अ॒भि वि॒ड्भिरा᳚यन् |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

नि सु॒द्र्व१॑(अं॒) दध॑तो व॒क्षणा᳚सु॒ यत्रा॒ कृपी᳚ट॒मनु॒ तद्द॑हन्ति ||{8/12}{7.7.21.2}{10.28.8}{10.2.12.8}{1072, 865, 9080}

दे॒वासः॑¦आ॒य॒न्¦प॒र॒शून्¦अ॒बि॒भ्र॒न्¦वना᳚¦वृ॒श्चन्तः॑¦अ॒भि¦वि॒ट्ऽभिः¦आ॒य॒न् |
नि¦सु॒ऽद्र्व᳚‌म्¦दध॑तः¦व॒क्षणा᳚सु¦यत्र॑¦कृपी᳚ट‌म्¦अनु॑¦तत्¦द॒ह॒न्ति॒ ||

श॒शः, क्षु॒रं प्र॒त्यञ्चं᳚ जगा॒राद्रिं᳚ लो॒गेन॒ व्य॑भेदमा॒रात् |{इन्द्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

बृ॒हन्तं᳚ चिदृह॒ते र᳚न्धयानि॒ वय॑द्व॒त्सो वृ॑ष॒भं शूशु॑वानः ||{9/12}{7.7.21.3}{10.28.9}{10.2.12.9}{1073, 865, 9081}

श॒शः¦क्षु॒र‌म्¦प्र॒त्यंच᳚‌म्¦ज॒गा॒र॒¦अद्रि᳚‌म्¦लो॒गेन॑¦वि¦अ॒भे॒द॒‌म्¦आ॒रात् |
बृ॒हन्त᳚‌म्¦चि॒त्¦ऋ॒ह॒ते¦र॒न्ध॒या॒नि॒¦वय॑त्¦व॒त्सः¦वृ॒ष॒भ‌म्¦शूशु॑वानः ||

सु॒प॒र्ण इ॒त्था न॒खमा सि॑षा॒याव॑रुद्धः परि॒पदं॒ न सिं॒हः |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

नि॒रु॒द्धश्चि᳚न्महि॒षस्त॒र्ष्यावा᳚न्‌ गो॒धा तस्मा᳚, अ॒यथं᳚ कर्षदे॒तत् ||{10/12}{7.7.21.4}{10.28.10}{10.2.12.10}{1074, 865, 9082}

सु॒ऽप॒र्णः¦इ॒त्था¦न॒ख‌म्¦आ¦सि॒सा॒य॒¦अव॑ऽरुद्धः¦प॒रि॒ऽपद᳚‌म्¦न¦सिं॒हः |
नि॒ऽरु॒द्धः¦चि॒त्¦म॒हि॒षः¦त॒र्ष्याऽवा᳚न्¦गो॒धा¦तस्मै᳚¦अ॒यथ᳚‌म्¦क॒र्ष॒त्¦ए॒तत् ||

तेभ्यो᳚ गो॒धा, अ॒यथं᳚ कर्षदे॒तद्ये ब्र॒ह्मणः॑ प्रति॒पीय॒न्त्यन्नैः᳚ |{इन्द्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

सि॒म उ॒क्ष्णो᳚ऽवसृ॒ष्टाँ, अ॑दन्ति स्व॒यं बला᳚नि त॒न्वः॑ शृणा॒नाः ||{11/12}{7.7.21.5}{10.28.11}{10.2.12.11}{1075, 865, 9083}

तेभ्यः॑¦गो॒धाः¦अ॒यथ᳚‌म्¦क॒र्ष॒त्¦ए॒तत्¦ये¦ब्र॒ह्मणः॑¦प्र॒ति॒ऽपीय᳚न्ति¦अन्नैः᳚ |
सि॒मः¦उ॒क्ष्णः¦अ॒व॒ऽसृ॒ष्टान्¦अ॒द॒न्ति॒¦स्व॒य‌म्¦बला᳚नि¦त॒न्वः॑¦शृ॒णा॒नाः ||

ए॒ते शमी᳚भिः सु॒शमी᳚, अभूव॒न्ये हि᳚न्‌ वि॒रे त॒न्व१॑(अः॒) सोम॑ उ॒क्थैः |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

नृ॒वद्वद॒न्नुप॑ नो माहि॒ वाजा᳚न्दि॒वि श्रवो᳚ दधिषे॒ नाम॑ वी॒रः ||{12/12}{7.7.21.6}{10.28.12}{10.2.12.12}{1076, 865, 9084}

ए॒ते¦शमी᳚भिः¦सु॒ऽशमी᳚¦अ॒भू॒व॒न्¦ये¦हि॒न्वि॒रे¦त॒न्वः॑¦सोमे᳚¦उ॒क्थैः |
नृ॒ऽवत्¦वद॑न्¦उप॑¦नः॒¦मा॒हि॒¦वाजा᳚न्¦दि॒वि¦श्रवः॑¦द॒धि॒षे॒¦नाम॑¦वी॒रः ||

[100] वनेनेत्यष्टर्चस्य सूक्तस्यैंद्रोवसुक्रइंद्रस्त्रिष्टुप् |
वने॒ न वा॒ यो न्य॑धायि चा॒कञ्छुचि᳚र्वां॒ स्तोमो᳚ भुरणावजीगः |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

यस्येदिन्द्रः॑ पुरु॒दिने᳚षु॒ होता᳚ नृ॒णां नर्यो॒ नृत॑मः, क्ष॒पावा॑न् ||{1/8}{7.7.22.1}{10.29.1}{10.2.13.1}{1077, 866, 9085}

वने᳚¦न¦वा॒¦यः¦नि¦अ॒धा॒यि॒¦चा॒कन्¦शुचिः॑¦वा॒‌म्¦स्तोमः॑¦भु॒र॒णौ॒¦अ॒जी॒ग॒रिति॑ |
यस्य॑¦इत्¦इन्द्रः॑¦पु॒रु॒ऽदिने᳚षु¦होता᳚¦नृ॒णा‌म्¦नर्यः॑¦नृऽत॑मः¦क्ष॒पाऽवा॑न् ||

प्र ते᳚, अ॒स्या, उ॒षसः॒ प्राप॑रस्या नृ॒तौ स्या᳚म॒ नृत॑मस्य नृ॒णाम् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

अनु॑ त्रि॒शोकः॑ श॒तमाव॑ह॒न्नॄन्‌ कुत्से᳚न॒ रथो॒ यो, अस॑त्सस॒वान् ||{2/8}{7.7.22.2}{10.29.2}{10.2.13.2}{1078, 866, 9086}

प्र¦ते॒¦अ॒स्याः¦उ॒षसः॑¦प्र¦अप॑रस्याः¦नृ॒तौ¦स्या॒म॒¦नृऽत॑मस्य¦नृ॒णा‌म् |
अनु॑¦त्रि॒ऽशोकः॑¦श॒त‌म्¦आ¦अ॒व॒ह॒न्¦नॄन्¦कुत्से᳚न¦रथः॑¦यः¦अस॑त्¦स॒स॒ऽवान् ||

कस्ते॒ मद॑ इन्द्र॒ रन्त्यो᳚ भू॒द्दुरो॒ गिरो᳚, अ॒भ्यु१॑(उ॒)ग्रो वि धा᳚व |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

कद्वाहो᳚, अ॒र्वागुप॑ मा मनी॒षा, आ त्वा᳚ शक्यामुप॒मं राधो॒, अन्नैः᳚ ||{3/8}{7.7.22.3}{10.29.3}{10.2.13.3}{1079, 866, 9087}

कः¦ते॒¦मदः॑¦इ॒न्द्र॒¦रन्त्यः॑¦भू॒त्¦दुरः॑¦गिरः॑¦अ॒भि¦उ॒ग्रः¦वि¦धा॒व॒ |
कत्¦वाहः॑¦अ॒र्वाक्¦उप॑¦मा॒¦म॒नी॒षा¦आ¦त्वा॒¦श॒क्या॒‌म्¦उ॒प॒ऽम‌म्¦राधः॑¦अन्नैः᳚ ||

कदु॑ द्यु॒म्नमि᳚न्द्र॒ त्वाव॑तो॒ नॄन्‌ कया᳚ धि॒या क॑रसे॒ कन्न॒ आग॑न् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

मि॒त्रो न स॒त्य उ॑रुगाय भृ॒त्या, अन्ने᳚ समस्य॒ यदस᳚न्मनी॒षाः ||{4/8}{7.7.22.4}{10.29.4}{10.2.13.4}{1080, 866, 9088}

कत्¦ऊँ॒ इति॑¦द्यु॒म्न‌म्¦इ॒न्द्र॒¦त्वाऽव॑तः¦नॄन्¦कया᳚¦धि॒या¦क॒र॒से॒¦कत्¦नः॒¦आ¦अ॒ग॒न् |
मि॒त्रः¦न¦स॒त्यः¦उ॒रु॒ऽगा॒य॒¦भृ॒त्यै¦अन्ने᳚¦स॒म॒स्य॒¦यत्¦अस॑न्¦म॒नी॒षाः ||

प्रेर॑य॒ सूरो॒, अर्थं॒ न पा॒रं ये, अ॑स्य॒ कामं᳚ जनि॒धा, इ॑व॒ ग्मन् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

गिर॑श्च॒ ये ते᳚ तुविजात पू॒र्वीर्नर॑ इन्द्र प्रति॒शिक्ष॒न्त्यन्नैः᳚ ||{5/8}{7.7.22.5}{10.29.5}{10.2.13.5}{1081, 866, 9089}

प्र¦ई॒र॒य॒¦सूरः॑¦अर्थ᳚‌म्¦न¦पा॒र‌म्¦ये¦अ॒स्य॒¦काम᳚‌म्¦ज॒नि॒धाःऽ‌इ᳚व¦ग्मन् |
गिरः॑¦च॒¦ये¦ते॒¦तु॒वि॒ऽजा॒त॒¦पू॒र्वीः¦नरः॑¦इ॒न्द्र॒¦प्र॒ति॒ऽशिक्ष᳚न्ति¦अन्नैः᳚ ||

मात्रे॒ नु ते॒ सुमि॑ते, इन्द्र पू॒र्वी द्यौर्म॒ज्मना᳚ पृथि॒वी काव्ये᳚न |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

वरा᳚य ते घृ॒तव᳚न्तः सु॒तासः॒ स्वाद्म᳚न्‌ भवन्तु पी॒तये॒ मधू᳚नि ||{6/8}{7.7.23.1}{10.29.6}{10.2.13.6}{1082, 866, 9090}

मात्रे॒ इति॑¦नु¦ते॒¦सुमि॑ते॒ इति॒ सुऽमि॑ते¦इ॒न्द्र॒¦पू॒र्वी इति॑¦द्यौः¦म॒ज्मना᳚¦पृ॒थि॒वी¦काव्ये᳚न |
वरा᳚य¦ते॒¦घृ॒तऽव᳚न्तः¦सु॒तासः॑¦स्वाद्म॑न्¦भ॒व॒न्तु॒¦पी॒तये᳚¦मधू᳚नि ||

आ मध्वो᳚, अस्मा, असिच॒न्नम॑त्र॒मिन्द्रा᳚य पू॒र्णं स हि स॒त्यरा᳚धाः |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

स वा᳚वृधे॒ वरि॑म॒न्ना पृ॑थि॒व्या, अ॒भि क्रत्वा॒ नर्यः॒ पौंस्यै᳚श्च ||{7/8}{7.7.23.2}{10.29.7}{10.2.13.7}{1083, 866, 9091}

आ¦मध्वः॑¦अ॒स्मै॒¦अ॒सि॒च॒न्¦अम॑त्र‌म्¦इन्द्रा᳚य¦पू॒र्ण‌म्¦सः¦हि¦स॒त्यऽरा᳚धाः |
सः¦व॒वृ॒धे॒¦वरि॑मन्¦आ¦पृ॒थि॒व्याः¦अ॒भि¦क्रत्वा᳚¦नर्यः॑¦पौंस्यैः᳚¦च॒ ||

व्या᳚न॒ळिन्द्रः॒ पृत॑नाः॒ स्वोजा॒, आस्मै᳚ यतन्ते स॒ख्याय॑ पू॒र्वीः |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

आ स्मा॒ रथं॒ न पृत॑नासु तिष्ठ॒ यं भ॒द्रया᳚ सुम॒त्या चो॒दया᳚से ||{8/8}{7.7.23.3}{10.29.8}{10.2.13.8}{1084, 866, 9092}

वि¦आ॒न॒ट्¦इन्द्रः॑¦पृत॑नाः¦सु॒ऽओजाः᳚¦आ¦अ॒स्मै॒¦य॒त॒न्ते॒¦स॒ख्याय॑¦पू॒र्वीः |
आ¦स्म॒¦रथ᳚‌म्¦न¦पृत॑नासु¦ति॒ष्ठ॒¦य‌म्¦भ॒द्रया᳚¦सु॒ऽम॒त्या¦चो॒दया᳚से ||

[101] प्रदेवत्रेति पंचदशर्चस्य सूक्तस्यैलूषः कवषआपस्त्रिष्टुप् |
प्र दे᳚व॒त्रा ब्रह्म॑णे गा॒तुरे᳚त्व॒पो, अच्छा॒ मन॑सो॒ न प्रयु॑क्ति |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

म॒हीं मि॒त्रस्य॒ वरु॑णस्य धा॒सिं पृ॑थु॒ज्रय॑से रीरधा सुवृ॒क्तिम् ||{1/15}{7.7.24.1}{10.30.1}{10.3.1.1}{1085, 867, 9093}

प्र¦दे॒व॒ऽत्रा¦ब्रह्म॑णे¦गा॒तुः¦ए॒तु॒¦अ॒पः¦अच्छ॑¦मन॑सः¦न¦प्रऽयु॑क्ति |
म॒ही‌म्¦मि॒त्रस्य॑¦वरु॑णस्य¦धा॒सि‌म्¦पृ॒थु॒ऽज्रय॑से¦री॒र॒ध॒¦सु॒ऽवृ॒क्ति‌म् ||

अध्व᳚र्यवो ह॒विष्म᳚न्तो॒ हि भू॒ताच्छा॒प इ॑तोश॒तीरु॑शन्तः |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

अव॒ याश्चष्टे᳚, अरु॒णः सु॑प॒र्णस्तमास्य॑ध्वमू॒र्मिम॒द्या सु॑हस्ताः ||{2/15}{7.7.24.2}{10.30.2}{10.3.1.2}{1086, 867, 9094}

अध्व᳚र्यवः¦ह॒विष्म᳚न्तः¦हि¦भू॒त¦अच्छ॑¦अ॒पः¦इ॒त॒¦उ॒श॒तीः¦उ॒श॒न्तः॒ |
अव॑¦याः¦चष्टे᳚¦अ॒रु॒णः¦सु॒ऽप॒र्णः¦त‌म्¦आ¦अ॒स्य॒ध्व॒‌म्¦ऊ॒र्मि‌म्¦अ॒द्य¦सु॒ऽह॒स्ताः॒ ||

अध्व᳚र्यवो॒ऽप इ॑ता समु॒द्रम॒पां नपा᳚तं ह॒विषा᳚ यजध्वम् |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

स वो᳚ दददू॒र्मिम॒द्या सुपू᳚तं॒ तस्मै॒ सोमं॒ मधु॑मन्तं सुनोत ||{3/15}{7.7.24.3}{10.30.3}{10.3.1.3}{1087, 867, 9095}

अध्व᳚र्यवः¦अ॒पः¦इ॒त॒¦स॒मु॒द्र‌म्¦अ॒पा‌म्¦नपा᳚त‌म्¦ह॒विषा᳚¦य॒ज॒ध्व॒‌म् |
सः¦वः॒¦द॒द॒त्¦ऊ॒र्मि‌म्¦अ॒द्य¦सुऽपू᳚त‌म्¦तस्मै᳚¦सोम᳚‌म्¦मधु॑ऽमन्त‌म्¦सु॒नो॒त॒ ||

यो, अ॑नि॒ध्मो दीद॑यद॒प्स्व१॑(अ॒)न्तर्यं विप्रा᳚स॒ ईळ॑ते, अध्व॒रेषु॑ |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

अपां᳚ नपा॒न्मधु॑मतीर॒पो दा॒ याभि॒रिन्द्रो᳚ वावृ॒धे वी॒र्या᳚य ||{4/15}{7.7.24.4}{10.30.4}{10.3.1.4}{1088, 867, 9096}

यः¦अ॒नि॒ध्मः¦दीद॑यत्¦अ॒प्ऽसु¦अ॒न्तः¦य‌म्¦विप्रा᳚सः¦ईळ॑ते¦अ॒ध्व॒रेषु॑ |
अपा᳚‌म्¦न॒पा॒त्¦मधु॑ऽमतीः¦अ॒पः¦दाः॒¦याभिः॑¦इन्द्रः॑¦व॒वृ॒धे¦वी॒र्या᳚य ||

याभिः॒ सोमो॒ मोद॑ते॒ हर्ष॑ते च कल्या॒णीभि᳚र्युव॒तिभि॒र्न मर्यः॑ |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

ता, अ॑ध्वर्यो, अ॒पो, अच्छा॒ परे᳚हि॒ यदा᳚सि॒ञ्चा, ओष॑धीभिः पुनीतात् ||{5/15}{7.7.24.5}{10.30.5}{10.3.1.5}{1089, 867, 9097}

याभिः॑¦सोमः॑¦मोद॑ते¦हर्ष॑ते¦च॒¦क॒ल्या॒णीभिः॑¦यु॒व॒तिऽभिः॑¦न¦मर्यः॑ |
ताः¦अ॒ध्व॒र्यो॒ इति॑¦अ॒पः¦अच्छ॑¦परा᳚¦इ॒हि॒¦यत्¦आ॒ऽसिं॒चाः¦ओष॑धीभिः¦पु॒नी॒ता॒त् ||

ए॒वेद्यूने᳚ युव॒तयो᳚ नमन्त॒ यदी᳚मु॒शन्नु॑श॒तीरेत्यच्छ॑ |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

सं जा᳚नते॒ मन॑सा॒ सं चि॑कित्रेऽध्व॒र्यवो᳚ धि॒षणाप॑श्च दे॒वीः ||{6/15}{7.7.25.1}{10.30.6}{10.3.1.6}{1090, 867, 9098}

ए॒व¦इत्¦यूने᳚¦यु॒व॒तयः॑¦न॒म॒न्त॒¦यत्¦ई॒‌म्¦उ॒शन्¦उ॒ष॒तीः¦एति॑¦अच्छ॑ |
स‌म्¦जा॒न॒ते॒¦मन॑सा¦स‌म्¦चि॒कि॒त्रे॒¦अ॒ध्व॒र्यवः॑¦धि॒षणा᳚¦आपः॑¦च॒¦दे॒वीः ||

यो वो᳚ वृ॒ताभ्यो॒, अकृ॑णोदु लो॒कं यो वो᳚ म॒ह्या, अ॒भिश॑स्ते॒रमु᳚ञ्चत् |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

तस्मा॒, इन्द्रा᳚य॒ मधु॑मन्तमू॒र्मिं दे᳚व॒माद॑नं॒ प्र हि॑णोतनापः ||{7/15}{7.7.25.2}{10.30.7}{10.3.1.7}{1091, 867, 9099}

यः¦वः॒¦वृ॒ताभ्यः॑¦अकृ॑णोत्¦ऊँ॒ इति॑¦लो॒क‌म्¦यः¦वः॒¦म॒ह्याः¦अ॒भिऽश॑स्तेः¦अमुं᳚चत् |
तस्मै᳚¦इन्द्रा᳚य¦मधु॑ऽमन्त‌म्¦ऊ॒र्मि‌म्¦दे॒व॒ऽमाद॑न‌म्¦प्र¦हि॒णो॒त॒न॒¦आ॒पः ||

प्रास्मै᳚ हिनोत॒ मधु॑मन्तमू॒र्मिं गर्भो॒ यो वः॑ सिन्धवो॒ मध्व॒ उत्सः॑ |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

घृ॒तपृ॑ष्ठ॒मीड्य॑मध्व॒रेष्वापो᳚ रेवतीः शृणु॒ता हवं᳚ मे ||{8/15}{7.7.25.3}{10.30.8}{10.3.1.8}{1092, 867, 9100}

प्र¦अ॒स्मै॒¦हि॒नो॒त॒¦मधु॑ऽमन्त‌म्¦ऊ॒र्मि‌म्¦गर्भः॑¦यः¦वः॒¦सि॒न्ध॒वः॒¦मध्वः॑¦उत्सः॑ |
घृ॒तऽपृ॑ष्ठ‌म्¦ईड्य᳚‌म्¦अ॒ध्व॒रेषु॑¦आपः॑¦रे॒व॒तीः॒¦शृ॒णु॒त¦हव᳚‌म्¦मे॒ ||

तं सि᳚न्धवो मत्स॒रमि᳚न्द्र॒पान॑मू॒र्मिं प्र हे᳚त॒ य उ॒भे, इय॑र्ति |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

म॒द॒च्युत॑मौशा॒नं न॑भो॒जां परि॑ त्रि॒तन्तुं᳚ वि॒चर᳚न्त॒मुत्स᳚म् ||{9/15}{7.7.25.4}{10.30.9}{10.3.1.9}{1093, 867, 9101}

त‌म्¦सि॒न्ध॒वः॒¦म॒त्स॒र‌म्¦इ॒न्द्र॒ऽपान᳚‌म्¦ऊ॒र्मि‌म्¦प्र¦हे॒त॒¦यः¦उ॒भे इति॑¦इय॑र्ति |
म॒द॒ऽच्युत᳚‌म्¦औ॒शा॒न‌म्¦न॒भः॒ऽजा‌म्¦परि॑¦त्रि॒ऽतन्तु᳚‌म्¦वि॒ऽचर᳚न्त‌म्¦उत्स᳚‌म् ||

आ॒वर्वृ॑तती॒रध॒ नु द्वि॒धारा᳚ गोषु॒युधो॒ न नि॑य॒वं चर᳚न्तीः |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

ऋषे॒ जनि॑त्री॒र्भुव॑नस्य॒ पत्नी᳚र॒पो व᳚न्दस्व स॒वृधः॒ सयो᳚नीः ||{10/15}{7.7.25.5}{10.30.10}{10.3.1.10}{1094, 867, 9102}

आ॒ऽवर्वृ॑ततीः¦अध॑¦नु¦द्वि॒ऽधाराः᳚¦गो॒षु॒ऽयुधः॑¦न¦नि॒ऽय॒व‌म्¦चर᳚न्तीः |
ऋषे᳚¦जनि॑त्रीः¦भुव॑नस्य¦पत्नीः᳚¦अ॒पः¦व॒न्द॒स्व॒¦स॒ऽवृधः॑¦सऽयो᳚नीः ||

हि॒नोता᳚ नो, अध्व॒रं दे᳚वय॒ज्या हि॒नोत॒ ब्रह्म॑ स॒नये॒ धना᳚नाम् |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

ऋ॒तस्य॒ योगे॒ वि ष्य॑ध्व॒मूधः॑ श्रुष्टी॒वरी᳚र्भूतना॒स्मभ्य॑मापः ||{11/15}{7.7.26.1}{10.30.11}{10.3.1.11}{1095, 867, 9103}

हि॒नोत॑¦नः॒¦अ॒ध्व॒र‌म्¦दे॒व॒ऽय॒ज्या¦हि॒नोत॑¦ब्रह्म॑¦स॒नये᳚¦धना᳚ना‌म् |
ऋ॒तस्य॑¦योगे᳚¦वि¦स्य॒ध्व॒‌म्¦ऊधः॑¦श्रु॒ष्टी॒ऽवरीः᳚¦भू॒त॒न॒¦अ॒स्मभ्य᳚‌म्¦आ॒पः॒ ||

आपो᳚ रेवतीः॒, क्षय॑था॒ हि वस्वः॒ क्रतुं᳚ च भ॒द्रं बि॑भृ॒थामृतं᳚ च |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

रा॒यश्च॒ स्थ स्व॑प॒त्यस्य॒ पत्नीः॒ सर॑स्वती॒ तद्गृ॑ण॒ते वयो᳚ धात् ||{12/15}{7.7.26.2}{10.30.12}{10.3.1.12}{1096, 867, 9104}

आ॒पः¦रे॒व॒तीः॒¦क्षय॑थ¦हि¦वस्वः॑¦क्रतु᳚‌म्¦च॒¦भ॒द्र‌म्¦बि॒भृ॒था‌म्¦ऋत᳚‌म्¦च॒ |
रा॒यः¦च॒¦स्थ¦सु॒।आ॒प॒त्यस्य॑¦पत्नीः᳚¦सर॑स्वती¦तत्¦गृ॒ण॒ते¦वयः॑¦धा॒त् ||

प्रति॒ यदापो॒, अदृ॑श्रमाय॒तीर्घृ॒तं पयां᳚सि॒ बिभ्र॑ती॒र्मधू᳚नि |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

अ॒ध्व॒र्युभि॒र्मन॑सा संविदा॒ना, इन्द्रा᳚य॒ सोमं॒ सुषु॑तं॒ भर᳚न्तीः ||{13/15}{7.7.26.3}{10.30.13}{10.3.1.13}{1097, 867, 9105}

प्रति॑¦यत्¦आपः॑¦अदृ॑श्र‌म्¦आ॒ऽय॒तीः¦घृ॒त‌म्¦पयां᳚सि¦बिभ्र॑तीः¦मधू᳚नि |
अ॒ध्व॒र्युऽभिः॑¦मन॑सा¦स॒‌म्ऽवि॒दा॒नाः¦इन्द्रा᳚य¦सोम᳚‌म्¦सुऽसु॑त‌म्¦भर᳚न्तीः ||

एमा, अ॑ग्मन्‌ रे॒वती᳚र्जी॒वध᳚न्या॒, अध्व᳚र्यवः सा॒दय॑ता सखायः |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

नि ब॒र्हिषि॑ धत्तन सोम्यासो॒ऽपां नप्त्रा᳚ संविदा॒नास॑ एनाः ||{14/15}{7.7.26.4}{10.30.14}{10.3.1.14}{1098, 867, 9106}

आ¦इ॒माः¦अ॒ग्म॒न्¦रे॒वतीः᳚¦जी॒वऽध᳚न्याः¦अध्व᳚र्यवः¦सा॒दय॑त¦स॒खा॒यः॒ |
नि¦ब॒र्हिषि॑¦ध॒त्त॒न॒¦सो॒म्या॒सः॒¦अ॒पा‌म्¦नप्त्रा᳚¦स॒‌म्ऽवि॒दा॒नासः॑¦ए॒नाः॒ ||

आग्म॒न्नाप॑ उश॒तीर्ब॒र्हिरेदं न्य॑ध्व॒रे, अ॑सदन्देव॒यन्तीः᳚ |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

अध्व᳚र्यवः सुनु॒तेन्द्रा᳚य॒ सोम॒मभू᳚दु वः सु॒शका᳚ देवय॒ज्या ||{15/15}{7.7.26.5}{10.30.15}{10.3.1.15}{1099, 867, 9107}

आ¦अ॒ग्म॒न्¦आपः॑¦उ॒श॒तीः¦ब॒र्हिः¦आ¦इ॒द‌म्¦नि¦अ॒ध्व॒रे¦अ॒स॒द॒न्¦दे॒व॒ऽयन्तीः᳚ |
अध्व᳚र्यवः¦सु॒नु॒त¦इन्द्रा᳚य¦सोम᳚‌म्¦अभू᳚त्¦ऊँ॒ इति॑¦वः॒¦सु॒ऽशका᳚¦दे॒व॒ऽय॒ज्या ||

[102] आनोदेवानामित्येकादशर्चस्य सूक्तस्यैलूषःकवषो विश्वेदेवात्रिष्टुप् (भेदपक्षे- विश्वेदेवाः ९ अश्वत्थगर्भाशमी १ उषोग्नी १ एवं ११) |
आ नो᳚ दे॒वाना॒मुप॑ वेतु॒ शंसो॒ विश्वे᳚भिस्तु॒रैरव॑से॒ यज॑त्रः |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

तेभि᳚र्व॒यं सु॑ष॒खायो᳚ भवेम॒ तर᳚न्तो॒ विश्वा᳚ दुरि॒ता स्या᳚म ||{1/11}{7.7.27.1}{10.31.1}{10.3.2.1}{1100, 868, 9108}

आ¦नः॒¦दे॒वाना᳚‌म्¦उप॑¦वे॒तु॒¦शंसः॑¦विश्वे᳚भिः¦तु॒रैः¦अव॑से¦यज॑त्रः |
तेभिः॑¦व॒य‌म्¦सु॒ऽस॒खायः॑¦भ॒वे॒म॒¦तर᳚न्तः¦विश्वा᳚¦दुः॒ऽ‌इ॒ता¦स्या॒म॒ ||

परि॑ चि॒न्मर्तो॒ द्रवि॑णं ममन्यादृ॒तस्य॑ प॒था नम॒सा वि॑वासेत् |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

उ॒त स्वेन॒ क्रतु॑ना॒ सं व॑देत॒ श्रेयां᳚सं॒ दक्षं॒ मन॑सा जगृभ्यात् ||{2/11}{7.7.27.2}{10.31.2}{10.3.2.2}{1101, 868, 9109}

परि॑¦चि॒त्¦मर्तः॑¦द्रवि॑ण‌म्¦म॒म॒न्या॒त्¦ऋ॒तस्य॑¦प॒था¦नम॑सा¦आ¦वि॒वा॒से॒त् |
उ॒त¦स्वेन॑¦क्रतु॑ना¦स‌म्¦व॒दे॒त॒¦श्रेयां᳚स‌म्¦दक्ष᳚‌म्¦मन॑सा¦ज॒गृ॒भ्या॒त् ||

अधा᳚यि धी॒तिरस॑सृग्र॒मंशा᳚स्ती॒र्थे न द॒स्ममुप॑ य॒न्त्यूमाः᳚ |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

अ॒भ्या᳚नश्म सुवि॒तस्य॑ शू॒षं नवे᳚दसो, अ॒मृता᳚नामभूम ||{3/11}{7.7.27.3}{10.31.3}{10.3.2.3}{1102, 868, 9110}

अधा᳚यि¦धी॒तिः¦अस॑सृग्र‌म्¦अंशाः᳚¦ती॒र्थे¦न¦द॒स्म‌म्¦उप॑¦य॒न्ति॒¦ऊमाः᳚ |
अ॒भि¦आ॒न॒श्म॒¦सु॒वि॒तस्य॑¦शू॒ष‌म्¦नवे᳚दसः¦अ॒मृता᳚ना‌म्¦अ॒भू॒म॒ ||

नित्य॑श्चाकन्या॒त्स्वप॑ति॒र्दमू᳚ना॒ यस्मा᳚, उ दे॒वः स॑वि॒ता ज॒जान॑ |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

भगो᳚ वा॒ गोभि॑रर्य॒मेम॑नज्या॒त्सो, अ॑स्मै॒ चारु॑श्छदयदु॒त स्या᳚त् ||{4/11}{7.7.27.4}{10.31.4}{10.3.2.4}{1103, 868, 9111}

नित्यः॑¦चा॒क॒न्या॒त्¦स्वऽप॑तिः¦दमू᳚नाः¦यस्मै᳚¦ऊँ॒ इति॑¦दे॒वः¦स॒वि॒ता¦ज॒जान॑ |
भगः॑¦वा॒¦गोभिः॑¦अ॒र्य॒मा¦ई॒‌म्¦अ॒न॒ज्या॒त्¦सः¦अ॒स्मै॒¦चारुः॑¦छ॒द॒य॒त्¦उ॒त¦स्या॒त् ||

इ॒यं सा भू᳚या, उ॒षसा᳚मिव॒ क्षा यद्ध॑ क्षु॒मन्तः॒ शव॑सा स॒माय॑न् |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

अ॒स्य स्तु॒तिं ज॑रि॒तुर्भिक्ष॑माणा॒, आ नः॑ श॒ग्मास॒ उप॑ यन्तु॒ वाजाः᳚ ||{5/11}{7.7.27.5}{10.31.5}{10.3.2.5}{1104, 868, 9112}

इ॒य‌म्¦सा¦भू॒याः॒¦उ॒षसा᳚‌म्ऽ‌इव¦क्षाः¦यत्¦ह॒¦क्षु॒ऽमन्तः॑¦शव॑सा¦स॒‌म्ऽआय॑न् |
अ॒स्य¦स्तु॒ति‌म्¦ज॒रि॒तुः¦भिक्ष॑माणाः¦आ¦नः॒¦श॒ग्मासः॑¦उप॑¦य॒न्तु॒¦वाजाः᳚ ||

अ॒स्येदे॒षा सु॑म॒तिः प॑प्रथा॒नाभ॑वत्पू॒र्व्या भूम॑ना॒ गौः |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

अ॒स्य सनी᳚ळा॒, असु॑रस्य॒ योनौ᳚ समा॒न आ भर॑णे॒ बिभ्र॑माणाः ||{6/11}{7.7.28.1}{10.31.6}{10.3.2.6}{1105, 868, 9113}

अ॒स्य¦इत्¦ए॒षा¦सु॒ऽम॒तिः¦प॒प्र॒था॒ना¦अभ॑वत्¦पू॒र्व्या¦भूम॑ना¦गौः |
अ॒स्य¦सऽनी᳚ळाः¦असु॑रस्य¦योनौ᳚¦स॒मा॒ने¦आ¦भर॑णे¦बिभ्र॑माणाः ||

किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ᳚स॒ यतो॒ द्यावा᳚पृथि॒वी नि॑ष्टत॒क्षुः |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

सं॒त॒स्था॒ने, अ॒जरे᳚, इ॒तऊ᳚ती॒, अहा᳚नि पू॒र्वीरु॒षसो᳚ जरन्त ||{7/11}{7.7.28.2}{10.31.7}{10.3.2.7}{1106, 868, 9114}

कि‌म्¦स्वि॒त्¦वन᳚‌म्¦कः¦ऊँ॒ इति॑¦सः¦वृ॒क्षः¦आ॒स॒¦यतः॑¦द्यावा᳚पृथि॒वी इति॑¦निः॒ऽत॒त॒क्षुः |
सं॒त॒स्था॒ने इति॑ स॒‌म्ऽत॒स्था॒ने¦अ॒जरे॒ इति॑¦इ॒तऊ᳚ती॒ इती॒तःऽऊ᳚ती¦अहा᳚नि¦पू॒र्वीः¦उ॒षसः॑¦ज॒र॒न्त॒ ||

नैताव॑दे॒ना प॒रो, अ॒न्यद॑स्त्यु॒क्षा स द्यावा᳚पृथि॒वी बि॑भर्ति |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

त्वचं᳚ प॒वित्रं᳚ कृणुत स्व॒धावा॒न्यदीं॒ सूर्यं॒ न ह॒रितो॒ वह᳚न्ति ||{8/11}{7.7.28.3}{10.31.8}{10.3.2.8}{1107, 868, 9115}

न¦ए॒ताव॑त्¦ए॒ना¦प॒रः¦अ॒न्यत्¦अ॒स्ति॒¦उ॒क्षा¦सः¦द्यावा᳚पृथि॒वी इति॑¦बि॒भ॒र्ति॒ |
त्वच᳚‌म्¦प॒वित्र᳚‌म्¦कृ॒णु॒त॒¦स्व॒धाऽवा᳚न्¦यत्¦ई॒‌म्¦सूर्य᳚‌म्¦न¦ह॒रितः॑¦वह᳚न्ति ||

स्ते॒गो न क्षामत्ये᳚ति पृ॒थ्वीं मिहं॒ न वातो॒ वि ह॑ वाति॒ भूम॑ |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

मि॒त्रो यत्र॒ वरु॑णो, अ॒ज्यमा᳚नो॒ऽग्निर्वने॒ न व्यसृ॑ष्ट॒ शोक᳚म् ||{9/11}{7.7.28.4}{10.31.9}{10.3.2.9}{1108, 868, 9116}

स्ते॒गः¦न¦क्ष‌म्¦अति॑¦ए॒ति॒¦पृ॒थ्वी‌म्¦मिह᳚‌म्¦न¦वातः॑¦वि¦ह॒¦वाति॑¦भूम॑ |
मि॒त्रः¦यत्र॑¦वरु॑णः¦अ॒ज्यमा᳚नः¦अ॒ग्निः¦वने᳚¦न¦वि¦असृ॑ष्ट¦शोक᳚‌म् ||

स्त॒रीर्यत्सूत॑ स॒द्यो, अ॒ज्यमा᳚ना॒ व्यथि॑रव्य॒थीः कृ॑णुत॒ स्वगो᳚पा |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

पु॒त्रो यत्पूर्वः॑ पि॒त्रोर्जनि॑ष्ट श॒म्यां गौर्ज॑गार॒ यद्ध॑ पृ॒च्छान् ||{10/11}{7.7.28.5}{10.31.10}{10.3.2.10}{1109, 868, 9117}

स्त॒रीः¦यत्¦सूत॑¦स॒द्यः¦अ॒ज्यमा᳚ना¦व्यथिः॑¦अ॒व्य॒थीः¦कृ॒णु॒त॒¦स्वऽगो᳚पा |
पु॒त्रः¦यत्¦पूर्वः॑¦पि॒त्रोः¦जनि॑ष्ट¦श॒म्या‌म्¦गौः¦ज॒गा॒र॒¦यत्¦ह॒¦पृ॒च्छान् ||

उ॒त कण्वं᳚ नृ॒षदः॑ पु॒त्रमा᳚हुरु॒त श्या॒वो धन॒माद॑त्त वा॒जी |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

प्र कृ॒ष्णाय॒ रुश॑दपिन्व॒तोध᳚रृ॒तमत्र॒ नकि॑रस्मा, अपीपेत् ||{11/11}{7.7.28.6}{10.31.11}{10.3.2.11}{1110, 868, 9118}

उ॒त¦कण्व᳚‌म्¦नृ॒ऽसदः॑¦पु॒त्र‌म्¦आ॒हुः॒¦उ॒त¦श्या॒वः¦धन᳚‌म्¦आ¦अ॒द॒त्त॒¦वा॒जी |
प्र¦कृ॒ष्णाय॑¦रुश॑त्¦अ॒पि॒न्व॒त॒¦ऊधः॑¦ऋ॒त‌म्¦अत्र॑¦नकिः॑¦अ॒स्मै॒¦अ॒पी॒पे॒त् ||

[103] प्रसुग्मंतेति नवर्चस्य सूक्तस्यैलूषः कवषइंद्रोजगती अंत्याश्चतस्रस्त्रिष्टुभः |
प्र सु ग्मन्ता᳚ धियसा॒नस्य॑ स॒क्षणि॑ व॒रेभि᳚र्व॒राँ, अ॒भि षु प्र॒सीद॑तः |{ऐलूषः कवषः | इन्द्रः | जगती}

अ॒स्माक॒मिन्द्र॑ उ॒भयं᳚ जुजोषति॒ यत्सो॒म्यस्यान्ध॑सो॒ बुबो᳚धति ||{1/9}{7.7.29.1}{10.32.1}{10.3.3.1}{1111, 869, 9119}

प्र¦सु¦ग्मन्ता᳚¦धि॒य॒सा॒नस्य॑¦स॒क्षणि॑¦व॒रेभिः॑¦व॒रान्¦अ॒भि¦सु¦प्र॒ऽसीद॑तः |
अ॒स्माक᳚‌म्¦इन्द्रः॑¦उ॒भय᳚‌म्¦जु॒जो॒ष॒ति॒¦यत्¦सो॒म्यस्य॑¦अन्ध॑सः¦बुबो᳚धति ||

वी᳚न्द्र यासि दि॒व्यानि॑ रोच॒ना वि पार्थि॑वानि॒ रज॑सा पुरुष्टुत |{ऐलूषः कवषः | इन्द्रः | जगती}

ये त्वा॒ वह᳚न्ति॒ मुहु॑रध्व॒राँ, उप॒ ते सु व᳚न्वन्तु वग्व॒नाँ, अ॑रा॒धसः॑ ||{2/9}{7.7.29.2}{10.32.2}{10.3.3.2}{1112, 869, 9120}

वि¦इ॒न्द्र॒¦या॒सि॒¦दि॒व्यानि॑¦रो॒च॒ना¦वि¦पार्थि॑वानि¦रज॑सा¦पु॒रु॒ऽस्तु॒त॒ |
ये¦त्वा॒¦वह᳚न्ति¦मुहुः॑¦अ॒ध्व॒रान्¦उप॑¦ते¦सु¦व॒न्व॒न्तु॒¦व॒ग्व॒नान्¦अ॒रा॒धसः॑ ||

तदिन्मे᳚ छन्‌ त्स॒द्वपु॑षो॒ वपु॑ष्टरं पु॒त्रो यज्जानं᳚ पि॒त्रोर॒धीय॑ति |{ऐलूषः कवषः | इन्द्रः | जगती}

जा॒या पतिं᳚ वहति व॒ग्नुना᳚ सु॒मत्पुं॒स इद्भ॒द्रो व॑ह॒तुः परि॑ष्कृतः ||{3/9}{7.7.29.3}{10.32.3}{10.3.3.3}{1113, 869, 9121}

तत्¦इत्¦मे॒¦छ॒न्त्स॒त्¦वपु॑षः¦वपुः॑ऽतर‌म्¦पु॒त्रः¦यत्¦जान᳚‌म्¦पि॒त्रोः¦अ॒धि॒ऽ‌इय॑ति |
जा॒या¦पति᳚‌म्¦व॒ह॒ति॒¦व॒नुना᳚¦सु॒ऽमत्¦पुं॒सः¦इत्¦भ॒द्रः¦व॒ह॒तुः¦परि॑ऽकृतः ||

तदित्स॒धस्थ॑म॒भि चारु॑ दीधय॒ गावो॒ यच्छास᳚न्वह॒तुं न धे॒नवः॑ |{ऐलूषः कवषः | इन्द्रः | जगती}

मा॒ता यन्मन्तु᳚र्यू॒थस्य॑ पू॒र्व्याभि वा॒णस्य॑ स॒प्तधा᳚तु॒रिज्जनः॑ ||{4/9}{7.7.29.4}{10.32.4}{10.3.3.4}{1114, 869, 9122}

तत्¦इत्¦स॒धऽस्थ᳚‌म्¦अ॒भि¦चारु॑¦दी॒ध॒य॒¦गावः॑¦यत्¦शास॑न्¦व॒ह॒तु‌म्¦न¦धे॒नवः॑ |
मा॒ता¦यत्¦मन्तुः॑¦यू॒थस्य॑¦पू॒र्व्या¦अ॒भि¦वा॒णस्य॑¦स॒प्तऽधा᳚तुः¦इत्¦जनः॑ ||

प्र वोऽच्छा᳚ रिरिचे देव॒युष्प॒दमेको᳚ रु॒द्रेभि᳚र्याति तु॒र्वणिः॑ |{ऐलूषः कवषः | इन्द्रः | जगती}

ज॒रा वा॒ येष्व॒मृते᳚षु दा॒वने॒ परि॑ व॒ ऊमे᳚भ्यः सिञ्चता॒ मधु॑ ||{5/9}{7.7.29.5}{10.32.5}{10.3.3.5}{1115, 869, 9123}

प्र¦वः॒¦अच्छ॑¦रि॒रि॒चे॒¦दे॒व॒ऽयुः¦प॒द‌म्¦एकः॑¦रु॒द्रेभिः॑¦या॒ति॒¦तु॒र्वणिः॑ |
ज॒रा¦वा॒¦येषु॑¦अ॒मृते᳚षु¦दा॒वने᳚¦परि॑¦वः॒¦ऊमे᳚भ्यः¦सिं॒च॒त॒¦मधु॑ ||

नि॒धी॒यमा᳚न॒मप॑गूळ्हम॒प्सु प्र मे᳚ दे॒वानां᳚ व्रत॒पा, उ॑वाच |{ऐलूषः कवषः | इन्द्रः | त्रिष्टुप्}

इन्द्रो᳚ वि॒द्वाँ, अनु॒ हि त्वा᳚ च॒चक्ष॒ तेना॒हम॑ग्ने॒, अनु॑शिष्ट॒ आगा᳚म् ||{6/9}{7.7.30.1}{10.32.6}{10.3.3.6}{1116, 869, 9124}

नि॒ऽधी॒यमा᳚न‌म्¦अप॑ऽगूळ्ह‌म्¦अ॒प्ऽसु¦प्र¦मे॒¦दे॒वाना᳚‌म्¦व्र॒त॒ऽपाः¦उ॒वा॒च॒ |
इन्द्रः॑¦वि॒द्वान्¦अनु॑¦हि¦त्वा॒¦च॒चक्ष॑¦तेन॑¦अ॒ह‌म्¦अ॒ग्ने॒¦अनु॑ऽशिष्टः¦आ¦अ॒गा॒‌म् ||

अक्षे᳚त्रवित्‌ क्षेत्र॒विदं॒ ह्यप्रा॒ट्स प्रैति॑ क्षेत्र॒विदानु॑शिष्टः |{ऐलूषः कवषः | इन्द्रः | त्रिष्टुप्}

ए॒तद्वै भ॒द्रम॑नु॒शास॑नस्यो॒त स्रु॒तिं वि᳚न्दत्यञ्ज॒सीना᳚म् ||{7/9}{7.7.30.2}{10.32.7}{10.3.3.7}{1117, 869, 9125}

अक्षे᳚त्रऽवित्¦क्षे॒त्र॒ऽविद᳚‌म्¦हि¦अप्रा᳚ट्¦सः¦प्र¦ए॒ति॒¦क्षे॒त्र॒ऽविदा᳚¦अनु॑ऽशिष्टः |
ए॒तत्¦वै॒¦भ॒द्र‌म्¦अ॒नु॒ऽशास॑नस्य¦उ॒त¦स्रु॒ति‌म्¦वि॒न्द॒ति॒¦अं॒ज॒सीना᳚‌म् ||

अ॒द्येदु॒ प्राणी॒दम॑मन्नि॒माहापी᳚वृतो, अधयन्मा॒तुरूधः॑ |{ऐलूषः कवषः | इन्द्रः | त्रिष्टुप्}

एमे᳚नमाप जरि॒मा युवा᳚न॒महे᳚ळ॒न्वसुः॑ सु॒मना᳚ बभूव ||{8/9}{7.7.30.3}{10.32.8}{10.3.3.8}{1118, 869, 9126}

अ॒द्य¦इत्¦ऊँ॒ इति॑¦प्र¦आ॒णी॒त्¦अम॑मन्¦इ॒मा¦अहा᳚¦अपि॑ऽवृतः¦अ॒ध॒य॒त्¦मा॒तुः¦ऊधः॑ |
आ¦ई॒‌म्¦ए॒न॒‌म्¦आ॒प॒¦ज॒रि॒मा¦युवा᳚न‌म्¦अहे᳚ळन्¦वसुः॑¦सु॒ऽमनाः᳚¦ब॒भू॒व॒ ||

ए॒तानि॑ भ॒द्रा क॑लश क्रियाम॒ कुरु॑श्रवण॒ दद॑तो म॒घानि॑ |{ऐलूषः कवषः | इन्द्रः | त्रिष्टुप्}

दा॒न इद्वो᳚ मघवानः॒ सो, अ॑स्त्व॒यं च॒ सोमो᳚ हृ॒दि यं बिभ᳚र्मि ||{9/9}{7.7.30.4}{10.32.9}{10.3.3.9}{1119, 869, 9127}

ए॒तानि॑¦भ॒द्रा¦क॒ल॒श॒¦क्रि॒या॒म॒¦कुरु॑ऽश्रवण¦दद॑तः¦म॒घानि॑ |
दा॒नः¦इत्¦वः॒¦म॒घ॒ऽवा॒नः॒¦सः¦अ॒स्तु॒¦अ॒य‌म्¦च॒¦सोमः॑¦हृ॒दि¦य‌म्¦बिभ᳚र्मि ||

[104] प्रमायुयुज्रइति नवर्चस्य सूक्तस्यैलूषःकवषऋषिः आद्याया विश्वेदेवाः ततोद्वयोरिंद्रः चतुर्थीपंचम्योः कुरुश्रवणः षष्ठ्यदादिचतसृणामुपश्र वा आद्यात्रिष्टुप् द्वितीयाबृहती तृतीया सतोबृहती शेषाः षड्‌गायत्र्यः |
प्र मा᳚ युयुज्रे प्र॒युजो॒ जना᳚नां॒ वहा᳚मि स्म पू॒षण॒मन्त॑रेण |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

विश्वे᳚ दे॒वासो॒, अध॒ माम॑रक्षन्दुः॒शासु॒रागा॒दिति॒ घोष॑ आसीत् ||{1/9}{7.8.1.1}{10.33.1}{10.3.4.1}{1120, 870, 9128}

प्र¦मा॒¦यु॒यु॒ज्रे॒¦प्र॒ऽयुजः॑¦जना᳚ना‌म्¦वहा᳚मि¦स्म॒¦पू॒षण᳚‌म्¦अन्त॑रेण |
विश्वे᳚¦दे॒वासः॑¦अध॑¦मा‌म्¦अ॒र॒क्ष॒न्¦दुः॒ऽशासुः॑¦आ¦अ॒गा॒त्¦इति॑¦घोषः॑¦आ॒सी॒त् ||

सं मा᳚ तपन्त्य॒भितः॑ स॒पत्नी᳚रिव॒ पर्श॑वः |{ऐलूषः कवषः | इंद्रः | बृहती}

नि बा᳚धते॒, अम॑तिर्न॒ग्नता॒ जसु॒र्वेर्न वे᳚वीयते म॒तिः ||{2/9}{7.8.1.2}{10.33.2}{10.3.4.2}{1121, 870, 9129}

स‌म्¦मा॒¦त॒प॒न्ति॒¦अ॒भितः॑¦स॒पत्नीः᳚ऽ‌इव¦पर्श॑वः |
नि¦बा॒ध॒ते॒¦अम॑तिः¦न॒ग्नता᳚¦जसुः॑¦वेः¦न¦वे॒वी॒य॒ते॒¦म॒तिः ||

मूषो॒ न शि॒श्ना व्य॑दन्ति मा॒ध्यः॑ स्तो॒तारं᳚ ते शतक्रतो |{ऐलूषः कवषः | इंद्रः | सतोबृहती}

स॒कृत्सु नो᳚ मघवन्निन्द्र मृळ॒याधा᳚ पि॒तेव॑ नो भव ||{3/9}{7.8.1.3}{10.33.3}{10.3.4.3}{1122, 870, 9130}

मूषः॑¦न¦शि॒श्ना¦वि¦अ॒द॒न्ति॒¦मा॒¦आ॒ऽध्यः॑¦स्तो॒तार᳚‌म्¦ते॒¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो |
स॒कृत्¦सु¦नः॒¦म॒घ॒ऽव॒न्¦इ॒न्द्र॒¦मृ॒ळ॒य॒¦अध॑¦पि॒ताऽ‌इ᳚व¦नः॒¦भ॒व॒ ||

कु॒रु॒श्रव॑णमावृणि॒ राजा᳚नं॒ त्रास॑दस्यवम् |{ऐलूषः कवषः | कुरुश्रवणः | गायत्री}

मंहि॑ष्ठं वा॒घता॒मृषिः॑ ||{4/9}{7.8.1.4}{10.33.4}{10.3.4.4}{1123, 870, 9131}

कु॒रु॒ऽश्रव॑ण‌म्¦अ॒वृ॒णि॒¦राजा᳚न‌म्¦त्रास॑दस्यव‌म् | मंहि॑ष्ठ‌म्¦वा॒घता᳚‌म्¦ऋषिः॑ ||

यस्य॑ मा ह॒रितो॒ रथे᳚ ति॒स्रो वह᳚न्ति साधु॒या |{ऐलूषः कवषः | कुरुश्रवणः | गायत्री}

स्तवै᳚ स॒हस्र॑दक्षिणे ||{5/9}{7.8.1.5}{10.33.5}{10.3.4.5}{1124, 870, 9132}

यस्य॑¦मा॒¦ह॒रितः॑¦रथे᳚¦ति॒स्रः¦वह᳚न्ति¦सा॒धु॒ऽया | स्तवै᳚¦स॒हस्र॑ऽदक्षिणे ||

यस्य॒ प्रस्वा᳚दसो॒ गिर॑ उप॒मश्र॑वसः पि॒तुः |{ऐलूषः कवषः | उपश्र वा | गायत्री}

क्षेत्रं॒ न र॒ण्वमू॒चुषे᳚ ||{6/9}{7.8.2.1}{10.33.6}{10.3.4.6}{1125, 870, 9133}

यस्य॑¦प्रऽस्वा᳚दसः¦गिरः॑¦उ॒प॒मऽश्र॑वसः¦पि॒तुः | क्षेत्र᳚‌म्¦न¦र॒ण्व‌म्¦ऊ॒चुषे᳚ ||

अधि॑ पुत्रोपमश्रवो॒ नपा᳚न्मित्रातिथेरिहि |{ऐलूषः कवषः | उपश्र वा | गायत्री}

पि॒तुष्टे᳚, अस्मि वन्दि॒ता ||{7/9}{7.8.2.2}{10.33.7}{10.3.4.7}{1126, 870, 9134}

अधि॑¦पु॒त्र॒¦उ॒प॒म॒ऽश्र॒वः॒¦नपा᳚त्¦मि॒त्र॒।आ॒ति॒थेः॒¦इ॒हि॒ | पि॒तुः¦ते॒¦अ॒स्मि॒¦व॒न्दि॒ता ||

यदीशी᳚या॒मृता᳚नामु॒त वा॒ मर्त्या᳚नाम् |{ऐलूषः कवषः | उपश्र वा | गायत्री}

जीवे॒दिन्म॒घवा॒ मम॑ ||{8/9}{7.8.2.3}{10.33.8}{10.3.4.8}{1127, 870, 9135}

यत्¦ईशी᳚य¦अ॒मृता᳚ना‌म्¦उ॒त¦वा॒¦मर्त्या᳚ना‌म् | जीवे᳚त्¦इ॒त्¦म॒घऽवा᳚¦मम॑ ||

न दे॒वाना॒मति᳚ व्र॒तं श॒तात्मा᳚ च॒न जी᳚वति |{ऐलूषः कवषः | उपश्र वा | गायत्री}

तथा᳚ यु॒जा वि वा᳚वृते ||{9/9}{7.8.2.4}{10.33.9}{10.3.4.9}{1128, 870, 9136}

न¦दे॒वाना᳚‌म्¦अति॑¦व्र॒त‌म्¦श॒तऽआ᳚त्मा¦च॒न¦जी॒व॒ति॒ | तथा᳚¦यु॒जा¦वि¦व॒वृ॒ते॒ ||

[105] प्रावेपाइति चतुर्दशर्चस्य सूक्तस्य मौजवानक्ष ऋषिः आद्या सप्तमी नवमीद्वादशीनामक्षादेवताः त्रयोदश्याः कृषिः शिष्टानामक्षनिंदा देवता त्रिष्टुप् सप्तमी जगती |
प्रा॒वे॒पा मा᳚ बृह॒तो मा᳚दयन्ति प्रवाते॒जा, इरि॑णे॒ वर्वृ॑तानाः |{मौजवानक्षः | अक्षादेवताः | त्रिष्टुप्}

सोम॑स्येव मौजव॒तस्य॑ भ॒क्षो वि॒भीद॑को॒ जागृ॑वि॒र्मह्य॑मच्छान् ||{1/14}{7.8.3.1}{10.34.1}{10.3.5.1}{1129, 871, 9137}

प्रा॒वे॒पाः¦मा॒¦बृ॒ह॒तः¦मा॒द॒य॒न्ति॒¦प्र॒वा॒ते॒ऽजाः¦इरि॑णे¦वर्वृ॑तानाः |
सोम॑स्यऽ‌इव¦मौ॒ज॒ऽव॒तस्य॑¦भ॒क्षः¦वि॒ऽभीद॑कः¦जागृ॑विः¦मह्य᳚‌म्¦अ॒च्छा॒न् ||

न मा᳚ मिमेथ॒ न जि॑हीळ ए॒षा शि॒वा सखि॑भ्य उ॒त मह्य॑मासीत् |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्}

अ॒क्षस्या॒हमे᳚कप॒रस्य॑ हे॒तोरनु᳚व्रता॒मप॑ जा॒याम॑रोधम् ||{2/14}{7.8.3.2}{10.34.2}{10.3.5.2}{1130, 871, 9138}

न¦मा॒¦मि॒मे॒थ॒¦न¦जि॒ही॒ळे॒¦ए॒षा¦शि॒वा¦सखि॑ऽभ्यः¦उ॒त¦मह्य᳚‌म्¦आ॒सी॒त् |
अ॒क्षस्य॑¦अ॒ह‌म्¦ए॒क॒ऽप॒रस्य॑¦हे॒तोः¦अनु॑ऽव्रता‌म्¦अप॑¦जा॒या‌म्¦अ॒रो॒ध॒‌म् ||

द्वेष्टि॑ श्व॒श्रूरप॑ जा॒या रु॑णद्धि॒ न ना᳚थि॒तो वि᳚न्दते मर्डि॒तार᳚म् |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्}

अश्व॑स्येव॒ जर॑तो॒ वस्न्य॑स्य॒ नाहं वि᳚न्दामि कित॒वस्य॒ भोग᳚म् ||{3/14}{7.8.3.3}{10.34.3}{10.3.5.3}{1131, 871, 9139}

द्वेष्टि॑¦श्व॒श्रूः¦अप॑¦जा॒या¦रु॒ण॒द्धि॒¦न¦ना॒थि॒तः¦वि॒न्द॒ते॒¦म॒र्डि॒तार᳚‌म् |
अश्व॑स्यऽ‌इव¦जर॑तः¦वस्न्य॑स्य¦न¦अ॒ह‌म्¦वि॒न्दा॒मि॒¦कि॒त॒वस्य॑¦भोग᳚‌म् ||

अ॒न्ये जा॒यां परि॑ मृशन्त्यस्य॒ यस्यागृ॑ध॒द्वेद॑ने वा॒ज्य१॑(अ॒)क्षः |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्}

पि॒ता मा॒ता भ्रात॑र एनमाहु॒र्न जा᳚नीमो॒ नय॑ता ब॒द्धमे॒तम् ||{4/14}{7.8.3.4}{10.34.4}{10.3.5.4}{1132, 871, 9140}

अ॒न्ये¦जा॒या‌म्¦परि॑¦मृ॒श॒न्ति॒¦अ॒स्य॒¦यस्य॑¦अगृ॑धत्¦वेद॑ने¦वा॒जी¦अ॒क्षः |
पि॒ता¦मा॒ता¦भ्रात॑रः¦ए॒न॒‌म्¦आ॒हुः॒¦न¦जा॒नी॒मः॒¦नय॑त¦ब॒द्ध‌म्¦ए॒त‌म् ||

यदा॒दीध्ये॒ न द॑विषाण्येभिः परा॒यद्भ्योऽव॑ हीये॒ सखि॑भ्यः |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्}

न्यु॑प्ताश्च ब॒भ्रवो॒ वाच॒मक्र॑तँ॒, एमीदे᳚षां निष्कृ॒तं जा॒रिणी᳚व ||{5/14}{7.8.3.5}{10.34.5}{10.3.5.5}{1133, 871, 9141}

यत्¦आ॒ऽदी॒ध्ये॒¦न¦द॒वि॒षा॒णि॒¦ए॒भिः॒¦प॒रा॒यत्ऽभ्यः॑¦अव॑¦हीये᳚¦सखि॑ऽभ्यः |
नि।औ᳚प्ताः¦च॒¦ब॒भ्रवः॑¦वाच᳚‌म्¦अक्र॑त¦एमि॑¦इत्¦ए॒षा॒‌म्¦निः॒ऽकृ॒त‌म्¦जा॒रिणी᳚ऽ‌इव ||

स॒भामे᳚ति कित॒वः पृ॒च्छमा᳚नो जे॒ष्यामीति॑ त॒न्वा॒३॑(आ॒) शूशु॑जानः |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्}

अ॒क्षासो᳚, अस्य॒ वि ति॑रन्ति॒ कामं᳚ प्रति॒दीव्ने॒ दध॑त॒ आ कृ॒तानि॑ ||{6/14}{7.8.4.1}{10.34.6}{10.3.5.6}{1134, 871, 9142}

स॒भा‌म्¦ए॒ति॒¦कि॒त॒वः¦पृ॒च्छमा᳚नः¦जे॒ष्यामि॑¦इति॑¦त॒न्वा᳚¦शूशु॑जानः |
अ॒क्षासः॑¦अ॒स्य॒¦वि¦ति॒र॒न्ति॒¦काम᳚‌म्¦प्र॒ति॒ऽदीव्ने᳚¦दध॑तः¦आ¦कृ॒तानि॑ ||

अ॒क्षास॒ इद᳚ङ्कु॒शिनो᳚ नितो॒दिनो᳚ नि॒कृत्वा᳚न॒स्तप॑नास्तापयि॒ष्णवः॑ |{मौजवानक्षः | अक्षादेवताः | जगती}

कु॒मा॒रदे᳚ष्णा॒ जय॑तः पुन॒र्हणो॒ मध्वा॒ सम्पृ॑क्ताः कित॒वस्य॑ ब॒र्हणा᳚ ||{7/14}{7.8.4.2}{10.34.7}{10.3.5.7}{1135, 871, 9143}

अ॒क्षासः॑¦इत्¦अ॒ङ्कु॒शिनः॑¦नि॒ऽतो॒दिनः॑¦नि॒ऽकृत्वा᳚नः¦तप॑नाः¦ता॒प॒यि॒ष्णवः॑ |
कु॒मा॒रऽदे᳚ष्णाः¦जय॑तः¦पु॒नः॒ऽहनः॑¦मध्वा᳚¦स‌म्ऽपृ॑क्ताः¦कि॒त॒वस्य॑¦ब॒र्हणा᳚ ||

त्रि॒प॒ञ्चा॒शः क्री᳚ळति॒ व्रात॑ एषां दे॒व इ॑व सवि॒ता स॒त्यध᳚र्मा |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्}

उ॒ग्रस्य॑ चिन्म॒न्यवे॒ ना न॑मन्ते॒ राजा᳚ चिदेभ्यो॒ नम॒ इत्कृ॑णोति ||{8/14}{7.8.4.3}{10.34.8}{10.3.5.8}{1136, 871, 9144}

त्रि॒ऽपं॒चा॒शः¦क्री॒ळ॒ति॒¦व्रातः॑¦ए॒षा॒‌म्¦दे॒वःऽ‌इ᳚व¦स॒वि॒ता¦स॒त्यऽध᳚र्मा |
उ॒ग्रस्य॑¦चि॒त्¦म॒न्यवे᳚¦न¦न॒म॒न्ते॒¦राजा᳚¦चि॒त्¦ए॒भ्यः॒¦नमः॑¦इत्¦कृ॒णो॒ति॒ ||

नी॒चा व॑र्तन्त उ॒परि॑ स्फुरन्त्यह॒स्तासो॒ हस्त॑वन्तं सहन्ते |{मौजवानक्षः | अक्षादेवताः | त्रिष्टुप्}

दि॒व्या, अङ्गा᳚रा॒, इरि॑णे॒ न्यु॑प्ताः शी॒ताः सन्तो॒ हृद॑यं॒ निर्द॑हन्ति ||{9/14}{7.8.4.4}{10.34.9}{10.3.5.9}{1137, 871, 9145}

नी॒चाः¦व॒र्त॒न्ते॒¦उ॒परि॑¦स्फु॒र॒न्ति॒¦अ॒ह॒स्तासः॑¦हस्त॑ऽवन्त‌म्¦स॒ह॒न्ते॒ |
दि॒व्याः¦अङ्गा᳚राः¦इरि॑णे¦नि।औ᳚प्ताः¦शी॒ताः¦सन्तः॑¦हृद॑य‌म्¦निः¦द॒ह॒न्ति॒ ||

जा॒या त॑प्यते कित॒वस्य॑ ही॒ना मा॒ता पु॒त्रस्य॒ चर॑तः॒ क्व॑ स्वित् |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्}

ऋ॒णा॒वा बिभ्य॒द्धन॑मि॒च्छमा᳚नो॒ऽन्येषा॒मस्त॒मुप॒ नक्त॑मेति ||{10/14}{7.8.4.5}{10.34.10}{10.3.5.10}{1138, 871, 9146}

जा॒या¦त॒प्य॒ते॒¦कि॒त॒वस्य॑¦ही॒ना¦मा॒ता¦पु॒त्रस्य॑¦चर॑तः¦क्व॑¦स्वि॒त् |
ऋ॒ण॒ऽवा¦बि॒भ्य॒त्¦धन᳚‌म्¦इ॒च्छमा᳚नः¦अ॒न्येषा᳚‌म्¦अस्त᳚‌म्¦उप॑¦नक्त᳚‌म्¦ए॒ति॒ ||

स्त्रियं᳚ दृ॒ष्ट्वाय॑ कित॒वं त॑तापा॒न्येषां᳚ जा॒यां सुकृ॑तं च॒ योनि᳚म् |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्}

पू॒र्वा॒ह्णे, अश्वा᳚न्युयु॒जे हि ब॒भ्रून्‌ त्सो, अ॒ग्नेरन्ते᳚ वृष॒लः प॑पाद ||{11/14}{7.8.5.1}{10.34.11}{10.3.5.11}{1139, 871, 9147}

स्त्रिय᳚‌म्¦दृ॒ष्ट्वाय॑¦कि॒त॒व‌म्¦त॒ता॒प॒¦अ॒न्येषा᳚‌म्¦जा॒या‌म्¦सुऽकृ॑त‌म्¦च॒¦योनि᳚‌म् |
पू॒र्वा॒ह्णे¦अश्वा᳚न्¦यु॒यु॒जे¦हि¦ब॒भ्रून्¦सः¦अ॒ग्नेः¦अन्ते᳚¦वृ॒ष॒लः¦प॒पा॒द॒ ||

यो वः॑ सेना॒नीर्म॑ह॒तो ग॒णस्य॒ राजा॒ व्रात॑स्य प्रथ॒मो ब॒भूव॑ |{मौजवानक्षः | अक्षादेवताः | त्रिष्टुप्}

तस्मै᳚ कृणोमि॒ न धना᳚ रुणध्मि॒ दशा॒हं प्राची॒स्तदृ॒तं व॑दामि ||{12/14}{7.8.5.2}{10.34.12}{10.3.5.12}{1140, 871, 9148}

यः¦वः॒¦से॒ना॒ऽनीः¦म॒ह॒तः¦ग॒णस्य॑¦राजा᳚¦व्रात॑स्य¦प्र॒थ॒मः¦ब॒भूव॑ |
तस्मै᳚¦कृ॒णो॒मि॒¦न¦धना᳚¦रु॒ण॒ध्मि॒¦दश॑¦अ॒ह‌म्¦प्राचीः᳚¦तत्¦ऋ॒त‌म्¦व॒दा॒मि॒ ||

अ॒क्षैर्मा दी᳚व्यः कृ॒षिमित्कृ॑षस्व वि॒त्ते र॑मस्व ब॒हु मन्य॑मानः |{मौजवानक्षः | कृषिः | त्रिष्टुप्}

तत्र॒ गावः॑ कितव॒ तत्र॑ जा॒या तन्मे॒ वि च॑ष्टे सवि॒तायम॒र्यः ||{13/14}{7.8.5.3}{10.34.13}{10.3.5.13}{1141, 871, 9149}

अ॒क्षैः¦मा¦दी॒व्य॒ह्¦कृ॒षि‌म्¦इत्¦कृ॒ष॒स्व॒¦वि॒त्ते¦र॒म॒स्व॒¦ब॒हु¦मन्य॑मानः |
तत्त्र॑¦गावः॑¦कि॒त॒व॒¦तत्र॑¦जा॒या¦तत्¦मे॒¦वि¦च॒ष्टे॒¦स॒वि॒ता¦अ॒य‌म्¦अ॒र्यः ||

मि॒त्रं कृ॑णुध्वं॒ खलु॑ मृ॒ळता᳚ नो॒ मा नो᳚ घो॒रेण॑ चरता॒भि धृ॒ष्णु |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्}

नि वो॒ नु म॒न्युर्वि॑शता॒मरा᳚तिर॒न्यो ब॑भ्रू॒णां प्रसि॑तौ॒ न्व॑स्तु ||{14/14}{7.8.5.4}{10.34.14}{10.3.5.14}{1142, 871, 9150}

मि॒त्र‌म्¦कृ॒णु॒ध्व॒‌म्¦खलु॑¦मृ॒ळत॑¦नः॒¦मा¦नः॒¦घो॒रेण॑¦च॒र॒त॒¦अ॒भि¦धृ॒ष्णु |
नि¦वः॒¦नु¦म॒न्युः¦वि॒श॒ता॒‌म्¦अरा᳚तिः¦अ॒न्यः¦ब॒भ्रू॒णा‌म्¦प्रऽसि॑तौ¦नु¦अ॒स्तु॒ ||

[106] अबुध्रमिति चतुर्दशर्चस्य सूक्तस्य धानाकोलुशोविश्वेदेवाजगत्यंत्येद्वेत्रिष्टुभौ (भेद - विश्वेदेवाः ३ उषसोग्निः २ विश्वेदेवाः ९ एवं १४) |
अबु॑ध्रमु॒ त्य इन्द्र॑वन्तो, अ॒ग्नयो॒ ज्योति॒र्भर᳚न्त उ॒षसो॒ व्यु॑ष्टिषु |{धानाकोलुशः | विश्वदेवाः | जगती}

म॒ही द्यावा᳚पृथि॒वी चे᳚तता॒मपो॒ऽद्या दे॒वाना॒मव॒ आ वृ॑णीमहे ||{1/14}{7.8.6.1}{10.35.1}{10.3.6.1}{1143, 872, 9151}

अबु॑ध्र‌म्¦ऊँ॒ इति॑¦त्ये¦इन्द्र॑ऽवन्तः¦अ॒ग्नयः॑¦ज्योतिः॑¦भर᳚न्तः¦उ॒षसः॑¦वि।औ᳚ष्टिषु |
म॒ही इति॑¦द्यावा᳚पृथि॒वी इति॑¦चे॒त॒ता॒‌म्¦अपः॑¦अ॒द्य¦दे॒वाना᳚‌म्¦अवः॑¦आ¦वृ॒णी॒म॒हे॒ ||

दि॒वस्पृ॑थि॒व्योरव॒ आ वृ॑णीमहे मा॒तॄन्‌ त्सिन्धू॒न्‌ पर्व॑ताञ्छर्य॒णाव॑तः |{धानाकोलुशः | विश्वदेवाः | जगती}

अ॒ना॒गा॒स्त्वं सूर्य॑मु॒षास॑मीमहे भ॒द्रं सोमः॑ सुवा॒नो, अ॒द्या कृ॑णोतु नः ||{2/14}{7.8.6.2}{10.35.2}{10.3.6.2}{1144, 872, 9152}

दि॒वःपृ॑थि॒व्योः¦अवः॑¦आ¦वृ॒णी॒म॒हे॒¦मा॒तॄन्¦सिन्धू᳚न्¦पर्व॑तान्¦श॒र्य॒णाऽव॑तः |
अ॒ना॒गाः॒ऽत्व‌म्¦सूर्य᳚‌म्¦उ॒षस᳚‌म्¦ई॒म॒हे॒¦भ॒द्र‌म्¦सोमः॑¦सु॒वा॒नः¦अ॒द्य¦कृ॒णो॒तु॒¦नः॒ ||

द्यावा᳚ नो, अ॒द्य पृ॑थि॒वी, अना᳚गसो म॒ही त्रा᳚येतां सुवि॒ताय॑ मा॒तरा᳚ |{धानाकोलुशः | विश्वदेवाः | जगती}

उ॒षा, उ॒च्छन्त्यप॑ बाधताम॒घं स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{3/14}{7.8.6.3}{10.35.3}{10.3.6.3}{1145, 872, 9153}

द्यावा᳚¦नः॒¦अ॒द्य¦पृ॒थि॒वी इति॑¦अना᳚गसः¦म॒ही इति॑¦त्रा॒ये॒ता॒‌म्¦सु॒वि॒ताय॑¦मा॒तरा᳚ |
उ॒षाः¦उ॒च्छन्ती᳚¦अप॑¦बा॒ध॒ता॒‌म्¦अ॒घ‌म्¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

इ॒यं न॑ उ॒स्रा प्र॑थ॒मा सु॑दे॒व्यं᳚ रे॒वत्स॒निभ्यो᳚ रे॒वती॒ व्यु॑च्छतु |{धानाकोलुशः | विश्वदेवाः | जगती}

आ॒रे म॒न्युं दु᳚र्वि॒दत्र॑स्य धीमहि स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{4/14}{7.8.6.4}{10.35.4}{10.3.6.4}{1146, 872, 9154}

इ॒य‌म्¦नः॒¦उ॒स्रा¦प्र॒थ॒मा¦सु॒ऽदे॒व्य᳚‌म्¦रे॒वत्¦स॒निऽभ्यः॑¦रे॒वती᳚¦वि¦उ॒च्छ॒तु॒ |
आ॒रे¦म॒न्यु‌म्¦दुः॒ऽवि॒दत्र॑स्य¦धी॒म॒हि॒¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

प्र याः सिस्र॑ते॒ सूर्य॑स्य र॒श्मिभि॒र्ज्योति॒र्भर᳚न्तीरु॒षसो॒ व्यु॑ष्टिषु |{धानाकोलुशः | विश्वदेवाः | जगती}

भ॒द्रा नो᳚, अ॒द्य श्रव॑से॒ व्यु॑च्छत स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{5/14}{7.8.6.5}{10.35.5}{10.3.6.5}{1147, 872, 9155}

प्र¦याः¦सिस्र॑ते¦सूर्य॑स्य¦र॒श्मिऽभिः॑¦ज्योतिः॑¦भर᳚न्तीः¦उ॒षसः॑¦वि।औ᳚ष्टिषु |
भ॒द्राः¦नः॒¦अ॒द्य¦श्रव॑से¦वि¦उ॒च्छ॒त॒¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

अ॒न॒मी॒वा, उ॒षस॒ आ च॑रन्तु न॒ उद॒ग्नयो᳚ जिहतां॒ ज्योति॑षा बृ॒हत् |{धानाकोलुशः | विश्वदेवाः | जगती}

आयु॑क्षाताम॒श्विना॒ तूतु॑जिं॒ रथं᳚ स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{6/14}{7.8.7.1}{10.35.6}{10.3.6.6}{1148, 872, 9156}

अ॒न॒मी॒वाः¦उ॒षसः॑¦आ¦च॒र॒न्तु॒¦नः॒¦उत्¦अ॒ग्नयः॑¦जि॒ह॒ता॒‌म्¦ज्योति॑षा¦बृ॒हत् |
अयु॑क्षाता‌म्¦अ॒श्विना᳚¦तूतु॑जि‌म्¦रथ᳚‌म्¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

श्रेष्ठं᳚ नो, अ॒द्य स॑वित॒र्वरे᳚ण्यं भा॒गमा सु॑व॒ स हि र॑त्न॒धा, असि॑ |{धानाकोलुशः | विश्वदेवाः | जगती}

रा॒यो जनि॑त्रीं धि॒षणा॒मुप॑ ब्रुवे स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{7/14}{7.8.7.2}{10.35.7}{10.3.6.7}{1149, 872, 9157}

श्रेष्ठ᳚‌म्¦नः॒¦अ॒द्य¦स॒वि॒तः॒¦वरे᳚ण्य‌म्¦भा॒ग‌म्¦आ¦सु॒व॒¦सः¦हि¦र॒त्न॒ऽधाः¦असि॑ |
रा॒यः¦जनि॑त्रीन्¦धि॒षणा᳚‌म्¦उप॑¦ब्रु॒वे॒¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

पिप॑र्तु मा॒ तदृ॒तस्य॑ प्र॒वाच॑नं दे॒वानां॒ यन्म॑नु॒ष्या॒३॑(आ॒) अम᳚न्महि |{धानाकोलुशः | विश्वदेवाः | जगती}

विश्वा॒, इदु॒स्राः स्पळुदे᳚ति॒ सूर्यः॑ स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{8/14}{7.8.7.3}{10.35.8}{10.3.6.8}{1150, 872, 9158}

पिप॑र्तु¦मा॒¦तत्¦ऋ॒तस्य॑¦प्र॒ऽवाच॑न‌म्¦दे॒वाना᳚‌म्¦यत्¦म॒नु॒ष्याः᳚¦अम᳚न्महि |
विश्वाः᳚¦इत्¦उ॒स्राः¦स्पट्¦उत्¦ए॒ति॒¦सूर्यः॑¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

अ॒द्वे॒षो, अ॒द्य ब॒र्हिषः॒ स्तरी᳚मणि॒ ग्राव्णां॒ योगे॒ मन्म॑नः॒ साध॑ ईमहे |{धानाकोलुशः | विश्वदेवाः | जगती}

आ॒दि॒त्यानां॒ शर्म॑णि॒ स्था भु॑रण्यसि स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{9/14}{7.8.7.4}{10.35.9}{10.3.6.9}{1151, 872, 9159}

अ॒द्वे॒षः¦अ॒द्य¦ब॒र्हिषः॑¦स्तरी᳚मणि¦ग्राव्णा᳚‌म्¦योगे᳚¦मन्म॑नः¦साधे᳚¦ई॒म॒हे॒ |
आ॒दि॒त्याना᳚‌म्¦शर्म॑णि¦स्थाः¦भु॒र॒ण्य॒सि॒¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

आ नो᳚ ब॒र्हिः स॑ध॒मादे᳚ बृ॒हद्दि॒वि दे॒वाँ, ई᳚ळे सा॒दया᳚ स॒प्त होतॄ॑न् |{धानाकोलुशः | विश्वदेवाः | जगती}

इन्द्रं᳚ मि॒त्रं वरु॑णं सा॒तये॒ भगं᳚ स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{10/14}{7.8.7.5}{10.35.10}{10.3.6.10}{1152, 872, 9160}

आ¦नः॒¦ब॒र्हिः¦स॒ध॒ऽमादे᳚¦बृ॒हत्¦दि॒वि¦दे॒वान्¦ई॒ळे॒¦सा॒दय॑¦स॒प्त¦होतॄ॑न् |
इन्द्र᳚‌म्¦मि॒त्र‌म्¦वरु॑ण‌म्¦सा॒तये᳚¦भग᳚‌म्¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

त आ᳚दित्या॒, आ ग॑ता स॒र्वता᳚तये वृ॒धे नो᳚ य॒ज्ञम॑वता सजोषसः |{धानाकोलुशः | विश्वदेवाः | जगती}

बृह॒स्पतिं᳚ पू॒षण॑म॒श्विना॒ भगं᳚ स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{11/14}{7.8.8.1}{10.35.11}{10.3.6.11}{1153, 872, 9161}

ते¦आ॒दि॒त्याः॒¦आ¦ग॒त॒¦स॒र्वता᳚तये¦वृ॒धे¦नः॒¦य॒ज्ञ‌म्¦अ॒व॒त॒¦स॒ऽजो॒ष॒सः॒ |
बृह॒स्पति᳚‌म्¦पू॒षण᳚‌म्¦अ॒श्विना᳚¦भग᳚‌म्¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

तन्नो᳚ देवा यच्छत सुप्रवाच॒नं छ॒र्दिरा᳚दित्याः सु॒भरं᳚ नृ॒पाय्य᳚म् |{धानाकोलुशः | विश्वदेवाः | जगती}

पश्वे᳚ तो॒काय॒ तन॑याय जी॒वसे᳚ स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{12/14}{7.8.8.2}{10.35.12}{10.3.6.12}{1154, 872, 9162}

तत्¦नः॒¦दे॒वाः॒¦य॒च्छ॒त॒¦सु॒ऽप्र॒वा॒च॒न‌म्¦छ॒र्दिः¦आ॒दि॒त्याः॒¦सु॒ऽभर᳚‌म्¦नृ॒ऽपाय्य᳚‌म् |
पश्वे᳚¦तो॒काय॑¦तन॑याय¦जी॒वसे᳚¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

विश्वे᳚, अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे᳚ भवन्त्व॒ग्नयः॒ समि॑द्धाः |{धानाकोलुशः | विश्वदेवाः | त्रिष्टुप्}

विश्वे᳚ नो दे॒वा, अव॒सा ग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो᳚, अ॒स्मे ||{13/14}{7.8.8.3}{10.35.13}{10.3.6.13}{1155, 872, 9163}

विश्वे᳚¦अ॒द्य¦म॒रुतः॑¦विश्वे᳚¦ऊ॒ती¦विश्वे᳚¦भ॒व॒न्तु॒¦अ॒ग्नयः॑¦स‌म्ऽ‌इ᳚द्धाः |
विश्वे᳚¦नः॒¦दे॒वाः¦अ॒व॒सा¦आ¦ग॒म॒न्तु॒¦विश्व᳚‌म्¦अ॒स्तु॒¦द्रवि॑ण‌म्¦वाजः॑¦अ॒स्मे इति॑ ||

यं दे᳚वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं त्राय॑ध्वे॒ यं पि॑पृ॒थात्यंहः॑ |{धानाकोलुशः | विश्वदेवाः | त्रिष्टुप्}

यो वो᳚ गोपी॒थे न भ॒यस्य॒ वेद॒ ते स्या᳚म दे॒ववी᳚तये तुरासः ||{14/14}{7.8.8.4}{10.35.14}{10.3.6.14}{1156, 872, 9164}

य‌म्¦दे॒वा॒सः॒¦अव॑थ¦वाज॑ऽसातौ¦य‌म्¦त्राय॑ध्वे¦य‌म्¦पि॒पृ॒थ¦अति॑¦अंहः॑ |
यः¦वः॒¦गो॒ऽपी॒थे¦न¦भ॒यस्य॑¦वेद॑¦ते¦स्या॒म॒¦दे॒वऽवी᳚तये¦तु॒रा॒सः॒ ||

[107] उषासानक्तेति चतुर्दशर्चस्य सूक्तस्य धानाकोलुशोविश्वेदेवाजगत्यंत्येद्वे त्रिष्टुभौ (भेदपक्षे - विश्वेदेवाः १३ सविता १ एवं १४) |
उ॒षासा॒नक्ता᳚ बृह॒ती सु॒पेश॑सा॒ द्यावा॒क्षामा॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{धानाकोलुशः | विश्वदेवाः | जगती}

इन्द्रं᳚ हुवे म॒रुतः॒ पर्व॑ताँ, अ॒प आ᳚दि॒त्यान्द्यावा᳚पृथि॒वी, अ॒पः स्वः॑ ||{1/14}{7.8.9.1}{10.36.1}{10.3.7.1}{1157, 873, 9165}

उ॒षसा॒नक्ता᳚¦बृ॒ह॒ती इति॑¦सु॒ऽपेश॑सा¦द्यावा॒क्षामा᳚¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा |
इन्द्र᳚‌म्¦हु॒वे॒¦म॒रुतः॑¦पर्व॑तान्¦अ॒पः¦आ॒दि॒त्यान्¦द्यावा᳚पृथि॒वी इति॑¦अ॒पः¦स्व१॒॑रिति॒ स्वः॑ ||

द्यौश्च॑ नः पृथि॒वी च॒ प्रचे᳚तस ऋ॒ताव॑री रक्षता॒मंह॑सो रि॒षः |{धानाकोलुशः | विश्वदेवाः | जगती}

मा दु᳚र्वि॒दत्रा॒ निरृ॑तिर्न ईशत॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{2/14}{7.8.9.2}{10.36.2}{10.3.7.2}{1158, 873, 9166}

द्यौः¦च॒¦नः॒¦पृ॒थि॒वी¦च॒¦प्रऽचे᳚तसा¦ऋ॒तव॑री॒ इत्यृ॒तऽव॑री¦र॒क्ष॒ता॒‌म्¦अंह॑सः¦रि॒षः |
मा¦दुः॒ऽवि॒दत्रा᳚¦निःऽऋ॑तिः¦नः॒¦ई॒श॒त॒¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

विश्व॑स्मान्नो॒, अदि॑तिः पा॒त्वंह॑सो मा॒ता मि॒त्रस्य॒ वरु॑णस्य रे॒वतः॑ |{धानाकोलुशः | विश्वदेवाः | जगती}

स्व᳚र्व॒ज्ज्योति॑रवृ॒कं न॑शीमहि॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{3/14}{7.8.9.3}{10.36.3}{10.3.7.3}{1159, 873, 9167}

विश्व॑स्मात्¦नः॒¦अदि॑तिः¦पा॒तु॒¦अंह॑सः¦मा॒ता¦मि॒त्रस्य॑¦वरु॑णस्य¦रे॒वतः॑ |
स्वः॑ऽवत्¦ज्योतिः॑¦अ॒वृ॒क‌म्¦न॒शी॒म॒हि॒¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

ग्रावा॒ वद॒न्नप॒ रक्षां᳚सि सेधतु दु॒ष्ष्वप्न्यं॒ निरृ॑तिं॒ विश्व॑म॒त्रिण᳚म् |{धानाकोलुशः | विश्वदेवाः | जगती}

आ॒दि॒त्यं शर्म॑ म॒रुता᳚मशीमहि॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{4/14}{7.8.9.4}{10.36.4}{10.3.7.4}{1160, 873, 9168}

ग्रावा᳚¦वद॑न्¦अप॑¦रक्षां᳚सि¦से॒ध॒तु॒¦दुः॒ऽस्वप्न्य᳚‌म्¦निःऽऋ॑ति‌म्¦विश्व᳚‌म्¦अ॒त्रिण᳚‌म् |
आ॒दि॒त्य‌म्¦शर्म॑¦म॒रुता᳚‌म्¦अ॒शी॒म॒हि॒¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

एन्द्रो᳚ ब॒र्हिः सीद॑तु॒ पिन्व॑ता॒मिळा॒ बृह॒स्पतिः॒ साम॑भिरृ॒क्वो, अ॑र्चतु |{धानाकोलुशः | विश्वदेवाः | जगती}

सु॒प्र॒के॒तं जी॒वसे॒ मन्म॑ धीमहि॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{5/14}{7.8.9.5}{10.36.5}{10.3.7.5}{1161, 873, 9169}

आ¦इन्द्रः॑¦ब॒र्हिः¦सीद॑तु¦पिन्व॑ता‌म्¦इळा᳚¦बृह॒स्पतिः॑¦साम॑ऽभिः¦ऋ॒क्वः¦अ॒र्च॒तु॒ |
सु॒ऽप्र॒के॒त‌म्¦जी॒वसे᳚¦मन्म॑¦धी॒म॒हि॒¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

दि॒वि॒स्पृशं᳚ य॒ज्ञम॒स्माक॑मश्विना जी॒राध्व॑रं कृणुतं सु॒म्नमि॒ष्टये᳚ |{धानाकोलुशः | विश्वदेवाः | जगती}

प्रा॒चीन॑रश्मि॒माहु॑तं घृ॒तेन॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{6/14}{7.8.10.1}{10.36.6}{10.3.7.6}{1162, 873, 9170}

दि॒वि॒ऽस्पृश᳚‌म्¦य॒ज्ञ‌म्¦अ॒स्माक᳚‌म्¦अ॒श्वि॒ना॒¦जी॒र।आ॑ध्वर‌म्¦कृ॒णु॒त॒‌म्¦सु॒म्न‌म्¦इ॒ष्टये᳚ |
प्रा॒चीन॑ऽरश्मि‌म्¦आऽहु॑त‌म्¦घृ॒तेन॑¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

उप॑ ह्वये सु॒हवं॒ मारु॑तं ग॒णं पा᳚व॒कमृ॒ष्वं स॒ख्याय॑ श॒म्भुव᳚म् |{धानाकोलुशः | विश्वदेवाः | जगती}

रा॒यस्पोषं᳚ सौश्रव॒साय॑ धीमहि॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{7/14}{7.8.10.2}{10.36.7}{10.3.7.7}{1163, 873, 9171}

उप॑¦ह्व॒ये॒¦सु॒ऽहव᳚‌म्¦मारु॑त‌म्¦ग॒ण‌म्¦पा॒व॒क‌म्¦ऋ॒ष्व‌म्¦स॒ख्याय॑¦श॒‌म्ऽभुव᳚‌म् |
रा॒यः¦पोष᳚‌म्¦सौ॒श्र॒व॒साय॑¦धी॒म॒हि॒¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

अ॒पां पेरुं᳚ जी॒वध᳚न्यं भरामहे देवा॒व्यं᳚ सु॒हव॑मध्वर॒श्रिय᳚म् |{धानाकोलुशः | विश्वदेवाः | जगती}

सु॒र॒श्मिं सोम॑मिन्द्रि॒यं य॑मीमहि॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{8/14}{7.8.10.3}{10.36.8}{10.3.7.8}{1164, 873, 9172}

अ॒पा‌म्¦पेरु᳚‌म्¦जी॒वऽध᳚न्य‌म्¦भ॒रा॒म॒हे॒¦दे॒व॒।आ॒व्य᳚‌म्¦सु॒ऽहव᳚‌म्¦अ॒ध्व॒र॒ऽश्रिय᳚‌म् |
सु॒ऽर॒श्मि‌म्¦सोम᳚‌म्¦इ॒न्द्रि॒य‌म्¦य॒मी॒म॒हि॒¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

स॒नेम॒ तत्सु॑स॒निता᳚ स॒नित्व॑भिर्व॒यं जी॒वा जी॒वपु॑त्रा॒, अना᳚गसः |{धानाकोलुशः | विश्वदेवाः | जगती}

ब्र॒ह्म॒द्विषो॒ विष्व॒गेनो᳚ भरेरत॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{9/14}{7.8.10.4}{10.36.9}{10.3.7.9}{1165, 873, 9173}

स॒नेम॑¦तत्¦सु॒ऽस॒निता᳚¦स॒नित्व॑ऽभिः¦व॒य‌म्¦जी॒वाः¦जी॒वऽपु॑त्राः¦अना᳚गसः |
ब्र॒ह्म॒ऽद्विषः॑¦विष्व॑क्¦एनः॑¦भ॒रे॒र॒त॒¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

ये स्था मनो᳚र्य॒ज्ञिया॒स्ते शृ॑णोतन॒ यद्वो᳚ देवा॒, ईम॑हे॒ तद्द॑दातन |{धानाकोलुशः | विश्वदेवाः | जगती}

जैत्रं॒ क्रतुं᳚ रयि॒मद्वी॒रव॒द्यश॒स्तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{10/14}{7.8.10.5}{10.36.10}{10.3.7.10}{1166, 873, 9174}

ये¦स्थाः¦मनोः᳚¦य॒ज्ञियाः᳚¦ते¦शृ॒णो॒त॒न॒¦यत्¦वः॒¦दे॒वाः॒¦ईम॑हे¦तत्¦द॒दा॒त॒न॒ |
जैत्र᳚‌म्¦क्रतु᳚‌म्¦र॒यि॒मत्¦वी॒रऽव॑त्¦यशः॑¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

म॒हद॒द्य म॑ह॒तामा वृ॑णीम॒हेऽवो᳚ दे॒वानां᳚ बृह॒ताम॑न॒र्वणा᳚म् |{धानाकोलुशः | विश्वदेवाः | जगती}

यथा॒ वसु॑ वी॒रजा᳚तं॒ नशा᳚महै॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{11/14}{7.8.11.1}{10.36.11}{10.3.7.11}{1167, 873, 9175}

म॒हत्¦अ॒द्य¦म॒ह॒ता‌म्¦आ¦वृ॒णी॒म॒हे॒¦अवः॑¦दे॒वाना᳚‌म्¦बृ॒ह॒ता‌म्¦अ॒न॒र्वणा᳚‌म् |
यथा᳚¦वसु॑¦वी॒रऽजा᳚त‌म्¦नशा᳚महै¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

म॒हो, अ॒ग्नेः स॑मिधा॒नस्य॒ शर्म॒ण्यना᳚गा मि॒त्रे वरु॑णे स्व॒स्तये᳚ |{धानाकोलुशः | विश्वदेवाः | जगती}

श्रेष्ठे᳚ स्याम सवि॒तुः सवी᳚मनि॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{12/14}{7.8.11.2}{10.36.12}{10.3.7.12}{1168, 873, 9176}

म॒हः¦अ॒ग्नेः¦स॒‌म्ऽ‌इ॒धा॒नस्य॑¦शर्म॑णि¦अना᳚गाः¦मि॒त्रे¦वरु॑णे¦स्व॒स्तये᳚ |
श्रेष्ठे᳚¦स्या॒म॒¦स॒वि॒तुः¦सवी᳚मनि¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

ये स॑वि॒तुः स॒त्यस॑वस्य॒ विश्वे᳚ मि॒त्रस्य᳚ व्र॒ते वरु॑णस्य दे॒वाः |{धानाकोलुशः | विश्वदेवाः | त्रिष्टुप्}

ते सौभ॑गं वी॒रव॒द्गोम॒दप्नो॒ दधा᳚तन॒ द्रवि॑णं चि॒त्रम॒स्मे ||{13/14}{7.8.11.3}{10.36.13}{10.3.7.13}{1169, 873, 9177}

ये¦स॒वि॒तुः¦स॒त्यऽस॑वस्य¦विश्वे᳚¦मि॒त्रस्य॑¦व्र॒ते¦वरु॑णस्य¦दे॒वाः |
ते¦सौभ॑ग‌म्¦वी॒रऽव॑त्¦गोऽम॑त्¦अप्नः॑¦दधा᳚तन¦द्रवि॑ण‌म्¦चि॒त्र‌म्¦अ॒स्मे इति॑ ||

स॒वि॒ता प॒श्चाता᳚त्सवि॒ता पु॒रस्ता᳚त्सवि॒तोत्त॒रात्ता᳚त्सवि॒ताध॒रात्ता᳚त् |{धानाकोलुशः | विश्वदेवाः | त्रिष्टुप्}

स॒वि॒ता नः॑ सुवतु स॒र्वता᳚तिं सवि॒ता नो᳚ रासतां दी॒र्घमायुः॑ ||{14/14}{7.8.11.4}{10.36.14}{10.3.7.14}{1170, 873, 9178}

स॒वि॒ता¦प॒श्चाता᳚त्¦स॒वि॒ता¦पु॒रस्ता᳚त्¦स॒वि॒ता¦उ॒त्त॒रात्ता᳚त्¦स॒वि॒ता¦अ॒ध॒रात्ता᳚त् |
स॒वि॒ता¦नः॒¦सु॒व॒तु॒¦स॒र्वऽता᳚ति‌म्¦स॒वि॒ता¦नः॒¦रा॒स॒ता॒‌म्¦दी॒र्घ‌म्¦आयुः॑ ||

[108] नमोमित्रस्येति द्वादशर्चस्य सूक्तस्य सौर्योभितपाः सूर्योजगती दशमी त्रिष्टुप् |
नमो᳚ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तं स॑पर्यत |{सौर्योभितपाः | सूर्यः | जगती}

दू॒रे॒दृशे᳚ दे॒वजा᳚ताय के॒तवे᳚ दि॒वस्पु॒त्राय॒ सूर्या᳚य शंसत ||{1/12}{7.8.12.1}{10.37.1}{10.3.8.1}{1171, 874, 9179}

नमः॑¦मि॒त्रस्य॑¦वरु॑णस्य¦चक्ष॑से¦म॒हः¦दे॒वाय॑¦तत्¦ऋ॒त‌म्¦स॒प॒र्य॒त॒ |
दू॒रे॒ऽदृशे᳚¦दे॒वऽजा᳚ताय¦के॒तवे᳚¦दि॒वः¦पु॒त्राय॑¦सूर्या᳚य¦शं॒स॒त॒ ||

सा मा᳚ स॒त्योक्तिः॒ परि॑ पातु वि॒श्वतो॒ द्यावा᳚ च॒ यत्र॑ त॒तन॒न्नहा᳚नि च |{सौर्योभितपाः | सूर्यः | जगती}

विश्व॑म॒न्यन्नि वि॑शते॒ यदेज॑ति वि॒श्वाहापो᳚ वि॒श्वाहोदे᳚ति॒ सूर्यः॑ ||{2/12}{7.8.12.2}{10.37.2}{10.3.8.2}{1172, 874, 9180}

सा¦मा॒¦स॒त्य।औ᳚क्तिः¦परि॑¦पा॒तु॒¦वि॒श्वतः॑¦द्यावा᳚¦च॒¦यत्र॑¦त॒तन॑न्¦अहा᳚नि¦च॒ |
विश्व᳚‌म्¦अ॒न्यत्¦नि¦वि॒श॒ते॒¦यत्¦एज॑ति¦वि॒श्वाहा᳚¦आपः॑¦वि॒श्वाहा᳚¦उत्¦ए॒ति॒¦सूर्यः॑ ||

न ते॒, अदे᳚वः प्र॒दिवो॒ नि वा᳚सते॒ यदे᳚त॒शेभिः॑ पत॒रै र॑थ॒र्यसि॑ |{सौर्योभितपाः | सूर्यः | जगती}

प्रा॒चीन॑म॒न्यदनु॑ वर्तते॒ रज॒ उद॒न्येन॒ ज्योति॑षा यासि सूर्य ||{3/12}{7.8.12.3}{10.37.3}{10.3.8.3}{1173, 874, 9181}

न¦ते॒¦अदे᳚वः¦प्र॒ऽदिवः॑¦नि¦वा॒स॒ते॒¦यत्¦ए॒त॒शेभिः॑¦प॒त॒रैः¦र॒थ॒र्यसि॑ |
प्रा॒चीन᳚‌म्¦अ॒न्यत्¦अनु॑¦व॒र्त॒ते॒¦रजः॑¦उत्¦अ॒न्येन॑¦ज्योति॑षा¦या॒सि॒¦सू॒र्य॒ ||

येन॑ सूर्य॒ ज्योति॑षा॒ बाध॑से॒ तमो॒ जग॑च्च॒ विश्व॑मुदि॒यर्षि॑ भा॒नुना᳚ |{सौर्योभितपाः | सूर्यः | जगती}

तेना॒स्मद्विश्वा॒मनि॑रा॒मना᳚हुति॒मपामी᳚वा॒मप॑ दु॒ष्ष्वप्न्यं᳚ सुव ||{4/12}{7.8.12.4}{10.37.4}{10.3.8.4}{1174, 874, 9182}

येन॑¦सू॒र्य॒¦ज्योति॑षा¦बाध॑से¦तमः॑¦जग॑त्¦च॒¦विश्व᳚‌म्¦उ॒त्ऽ‌इ॒यर्षि॑¦भा॒नुना᳚ |
तेन॑¦अ॒स्मत्¦विश्वा᳚‌म्¦अनि॑रा‌म्¦अना᳚हुति‌म्¦अप॑¦अमी᳚वा‌म्¦अप॑¦दुः॒ऽस्वप्न्य᳚‌म्¦सु॒व॒ ||

विश्व॑स्य॒ हि प्रेषि॑तो॒ रक्ष॑सि व्र॒तमहे᳚ळयन्नु॒च्चर॑सि स्व॒धा, अनु॑ |{सौर्योभितपाः | सूर्यः | जगती}

यद॒द्य त्वा᳚ सूर्योप॒ब्रवा᳚महै॒ तं नो᳚ दे॒वा, अनु॑ मंसीरत॒ क्रतु᳚म् ||{5/12}{7.8.12.5}{10.37.5}{10.3.8.5}{1175, 874, 9183}

विश्व॑स्य¦हि¦प्रऽ‌इ᳚षितः¦रक्ष॑सि¦व्र॒त‌म्¦अहे᳚ळयन्¦उ॒त्ऽचर॑सि¦स्व॒धाः¦अनु॑ |
यत्¦अ॒द्य¦त्वा॒¦सू॒र्य॒¦उ॒प॒ऽब्रवा᳚महै¦त‌म्¦नः॒¦दे॒वाः¦अनु॑¦मं॒सी॒र॒त॒¦क्रतु᳚‌म् ||

तं नो॒ द्यावा᳚पृथि॒वी तन्न॒ आप॒ इन्द्रः॑ शृण्वन्तु म॒रुतो॒ हवं॒ वचः॑ |{सौर्योभितपाः | सूर्यः | जगती}

मा शूने᳚ भूम॒ सूर्य॑स्य सं॒दृशि॑ भ॒द्रं जीव᳚न्तो जर॒णाम॑शीमहि ||{6/12}{7.8.12.6}{10.37.6}{10.3.8.6}{1176, 874, 9184}

त‌म्¦नः॒¦द्यावा᳚पृथि॒वी इति॑¦तत्¦नः॒¦आपः॑¦इन्द्रः॑¦शृ॒ण्व॒न्तु॒¦म॒रुतः॑¦हव᳚‌म्¦वचः॑ |
मा¦शूने᳚¦भू॒म॒¦सूर्य॑स्य¦स॒‌म्ऽदृशि॑¦भ॒द्र‌म्¦जीव᳚न्तः¦ज॒र॒णा‌म्¦अ॒शी॒म॒हि॒ ||

वि॒श्वाहा᳚ त्वा सु॒मन॑सः सु॒चक्ष॑सः प्र॒जाव᳚न्तो, अनमी॒वा, अना᳚गसः |{सौर्योभितपाः | सूर्यः | जगती}

उ॒द्यन्तं᳚ त्वा मित्रमहो दि॒वेदि॑वे॒ ज्योग्जी॒वाः प्रति॑ पश्येम सूर्य ||{7/12}{7.8.13.1}{10.37.7}{10.3.8.7}{1177, 874, 9185}

वि॒श्वाहा᳚¦त्वा॒¦सु॒ऽमन॑सः¦सु॒ऽचक्ष॑सः¦प्र॒जाऽव᳚न्तः¦अ॒न॒मी॒वाः¦अना᳚गसः |
उ॒त्ऽयन्त᳚‌म्¦त्वा॒¦मि॒त्र॒ऽम॒हः॒¦दि॒वेऽदि॑वे¦ज्योक्¦जी॒वाः¦प्रति॑¦प॒श्ये॒म॒¦सू॒र्य॒ ||

महि॒ ज्योति॒र्बिभ्र॑तं त्वा विचक्षण॒ भास्व᳚न्तं॒ चक्षु॑षेचक्षुषे॒ मयः॑ |{सौर्योभितपाः | सूर्यः | जगती}

आ॒रोह᳚न्तं बृह॒तः पाज॑स॒स्परि॑ व॒यं जी॒वाः प्रति॑ पश्येम सूर्य ||{8/12}{7.8.13.2}{10.37.8}{10.3.8.8}{1178, 874, 9186}

महि॑¦ज्योतिः॑¦बिभ्र॑त‌म्¦त्वा॒¦वि॒ऽच॒क्ष॒ण॒¦भास्व᳚न्त‌म्¦चक्षु॑षेऽचक्षुषे¦मयः॑ |
आ॒ऽरोह᳚न्त‌म्¦बृ॒ह॒तः¦पाज॑सः¦परि॑¦व॒य‌म्¦जी॒वाः¦प्रति॑¦प॒श्ये॒म॒¦सू॒र्य॒ ||

यस्य॑ ते॒ विश्वा॒ भुव॑नानि के॒तुना॒ प्र चेर॑ते॒ नि च॑ वि॒शन्ते᳚, अ॒क्तुभिः॑ |{सौर्योभितपाः | सूर्यः | जगती}

अ॒ना॒गा॒स्त्वेन॑ हरिकेश सू॒र्याह्ना᳚ह्ना नो॒ वस्य॑सावस्य॒सोदि॑हि ||{9/12}{7.8.13.3}{10.37.9}{10.3.8.9}{1179, 874, 9187}

यस्य॑¦ते॒¦विश्वा᳚¦भुव॑नानि¦के॒तुना᳚¦प्र¦च॒¦ईर॑ते¦नि¦च॒¦वि॒शन्ते᳚¦अ॒क्तुऽभिः॑ |
अ॒ना॒गाः॒ऽत्वेन॑¦ह॒रि॒ऽके॒श॒¦सू॒र्य॒¦अह्ना᳚।आह्ना¦नः॒¦वस्य॑साऽवस्यसा¦उत्¦इ॒हि॒ ||

शं नो᳚ भव॒ चक्ष॑सा॒ शं नो॒, अह्ना॒ शं भा॒नुना॒ शं हि॒मा शं घृ॒णेन॑ |{सौर्योभितपाः | सूर्यः | त्रिष्टुप्}

यथा॒ शमध्व॒ञ्छमस॑द्दुरो॒णे तत्‌ सू᳚र्य॒ द्रवि॑णं धेहि चि॒त्रम् ||{10/12}{7.8.13.4}{10.37.10}{10.3.8.10}{1180, 874, 9188}

श‌म्¦नः॒¦भ॒व॒¦चक्ष॑सा¦स‌म्¦नः॒¦अह्ना᳚¦श‌म्¦भा॒नुना᳚¦श‌म्¦हि॒माः¦श‌म्¦घृ॒णेन॑ |
यथा᳚¦श‌म्¦अध्व॑न्¦श‌म्¦अस॑त्¦दु॒रो॒णे¦तत्¦सू॒र्य॒¦द्रवि॑ण‌म्¦धे॒हि॒¦चि॒त्र‌म् ||

अ॒स्माकं᳚ देवा, उ॒भया᳚य॒ जन्म॑ने॒ शर्म॑ यच्छत द्वि॒पदे॒ चतु॑ष्पदे |{सौर्योभितपाः | सूर्यः | जगती}

अ॒दत्‌ पिब॑दू॒र्जय॑मान॒माशि॑तं॒ तद॒स्मे शं योर॑र॒पो द॑धातन ||{11/12}{7.8.13.5}{10.37.11}{10.3.8.11}{1181, 874, 9189}

अ॒स्माक᳚‌म्¦दे॒वाः॒¦उ॒भया᳚य¦जन्म॑ने¦शर्म॑¦य॒च्छ॒त॒¦द्वि॒ऽपदे᳚¦चतुः॑ऽपदे |
अ॒दत्¦पिब॑त्¦ऊ॒र्जय॑मान‌म्¦आशि॑त‌म्¦तत्¦अ॒स्मे इति॑¦श‌म्¦योः¦अ॒र॒पः¦द॒धा॒त॒न॒ ||

यद्वो᳚ देवाश्चकृ॒म जि॒ह्वया᳚ गु॒रु मन॑सो वा॒ प्रयु॑ती देव॒हेळ॑नम् |{सौर्योभितपाः | सूर्यः | जगती}

अरा᳚वा॒ यो नो᳚, अ॒भि दु॑च्छुना॒यते॒ तस्मि॒न्‌ तदेनो᳚ वसवो॒ नि धे᳚तन ||{12/12}{7.8.13.6}{10.37.12}{10.3.8.12}{1182, 874, 9190}

यत्¦वः॒¦दे॒वाः॒¦च॒कृ॒म¦जि॒ह्वया᳚¦गु॒रु¦मन॑सः¦वा॒¦प्रऽयु॑ती¦दे॒व॒ऽहेळ॑न‌म् |
अरा᳚वा¦यः¦नः॒¦अ॒भि¦दु॒च्छु॒न॒ऽयते᳚¦तस्मि॑न्¦तत्¦एनः॑¦व॒स॒वः॒¦नि¦धे॒त॒न॒ ||

[109] अस्मिन्नइति पंचर्चस्य सूक्तस्य मुष्कवानिंद्रइंद्रोजगती |
अ॒स्मिन्न॑ इन्द्र पृत्सु॒तौ यश॑स्वति॒ शिमी᳚वति॒ क्रन्द॑सि॒ प्राव॑ सा॒तये᳚ |{मुष्कवानिंद्रः | इन्द्रः | जगती}

यत्र॒ गोषा᳚ता धृषि॒तेषु॑ खा॒दिषु॒ विष्व॒क्पत᳚न्ति दि॒द्यवो᳚ नृ॒षाह्ये᳚ ||{1/5}{7.8.14.1}{10.38.1}{10.3.9.1}{1183, 875, 9191}

अ॒स्मिन्¦नः॒¦इ॒न्द्र॒¦पृ॒त्सु॒तौ¦यश॑स्वति¦शिमी᳚ऽवति¦क्रन्द॑सि¦प्र¦अ॒व॒¦सा॒तये᳚ |
यत्र॑¦गोऽसा᳚ता¦धृ॒षि॒तेषु॑¦खा॒दिषु॑¦विष्व॑क्¦पत᳚न्ति¦दि॒द्यवः॑¦नृ॒ऽसह्ये᳚ ||

स नः॑, क्षु॒मन्तं॒ सद॑ने॒ व्यू᳚र्णुहि॒ गो,अ᳚र्णसं र॒यिमि᳚न्द्र श्र॒वाय्य᳚म् |{मुष्कवानिंद्रः | इन्द्रः | जगती}

स्याम॑ ते॒ जय॑तः शक्र मे॒दिनो॒ यथा᳚ व॒यमु॒श्मसि॒ तद्व॑सो कृधि ||{2/5}{7.8.14.2}{10.38.2}{10.3.9.2}{1184, 875, 9192}

सः¦नः॒¦क्षु॒ऽमन्त᳚‌म्¦सद॑ने¦वि¦ऊ॒र्णु॒हि॒¦गो।आ᳚र्णस‌म्¦र॒यि‌म्¦इ॒न्द्र॒¦श्र॒वाय्य᳚‌म् |
स्याम॑¦ते॒¦जय॑तः¦श॒क्र॒¦मे॒दिनः॑¦यथा᳚¦व॒य‌म्¦उ॒श्मसि॑¦तत्¦व॒सो॒ इति॑¦कृ॒धि॒ ||

यो नो॒ दास॒ आर्यो᳚ वा पुरुष्टु॒तादे᳚व इन्द्र यु॒धये॒ चिके᳚तति |{मुष्कवानिंद्रः | इन्द्रः | जगती}

अ॒स्माभि॑ष्टे सु॒षहाः᳚ सन्तु॒ शत्र॑व॒स्त्वया᳚ व॒यं तान्व॑नुयाम संग॒मे ||{3/5}{7.8.14.3}{10.38.3}{10.3.9.3}{1185, 875, 9193}

यः¦नः॒¦दासः॑¦आर्यः॑¦वा॒¦पु॒रु॒ऽस्तु॒त¦अदे᳚वः¦इ॒न्द्र॒¦यु॒धये᳚¦चिके᳚तति |
अ॒स्माभिः॑¦ते॒¦सु॒ऽसहाः᳚¦स॒न्तु॒¦शत्र॑वः¦त्वया᳚¦व॒य‌म्¦तान्¦व॒नु॒या॒म॒¦स॒‌म्ऽग॒मे ||

यो द॒भ्रेभि॒र्हव्यो॒ यश्च॒ भूरि॑भि॒र्यो, अ॒भीके᳚ वरिवो॒विन्नृ॒षाह्ये᳚ |{मुष्कवानिंद्रः | इन्द्रः | जगती}

तं वि॑खा॒दे सस्नि॑म॒द्य श्रु॒तं नर॑म॒र्वाञ्च॒मिन्द्र॒मव॑से करामहे ||{4/5}{7.8.14.4}{10.38.4}{10.3.9.4}{1186, 875, 9194}

यः¦द॒भ्रेभिः॑¦हव्यः॑¦यः¦च॒¦भूरि॑ऽभिः¦यः¦अ॒भीके᳚¦व॒रि॒वः॒ऽवित्¦नृ॒ऽसह्ये᳚ |
त‌म्¦वि॒ऽखा॒दे¦सस्नि᳚‌म्¦अ॒द्य¦श्रु॒त‌म्¦नर᳚‌म्¦अ॒र्वांच᳚‌म्¦इन्द्र᳚‌म्¦अव॑से¦क॒रा॒म॒हे॒ ||

स्व॒वृजं॒ हि त्वाम॒हमि᳚न्द्र शु॒श्रवा᳚नानु॒दं वृ॑षभ रध्र॒चोद॑नम् |{मुष्कवानिंद्रः | इन्द्रः | जगती}

प्र मु᳚ञ्चस्व॒ परि॒ कुत्सा᳚दि॒हा ग॑हि॒ किमु॒ त्वावा᳚न्मु॒ष्कयो᳚र्ब॒द्ध आ᳚सते ||{5/5}{7.8.14.5}{10.38.5}{10.3.9.5}{1187, 875, 9195}

स्व॒ऽवृज᳚‌म्¦हि¦त्वा‌म्¦अ॒ह‌म्¦इ॒न्द्र॒¦शु॒श्रव॑¦अ॒न॒नु॒ऽद‌म्¦वृ॒ष॒भ॒¦र॒ध्र॒ऽचोद॑न‌म् |
प्र¦मुं॒च॒स्व॒¦परि॑¦कुत्सा᳚त्¦इ॒ह¦आ¦ग॒हि॒¦कि‌म्¦ऊँ॒ इति॑¦त्वाऽवा᳚न्¦मु॒ष्कयोः᳚¦ब॒द्धः¦आ॒स॒ते॒ ||

[110] योवामिति चतुर्दशर्चस्य सूक्तस्य काक्षीवतीघोषाश्विनौ जगत्यंत्यात्रिष्टुप् |
यो वां॒ परि॑ज्मा सु॒वृद॑श्विना॒ रथो᳚ दो॒षामु॒षासो॒ हव्यो᳚ ह॒विष्म॑ता |{काक्षीवती घोषा | अश्विनौ | जगती}

श॒श्व॒त्त॒मास॒स्तमु॑ वामि॒दं व॒यं पि॒तुर्न नाम॑ सु॒हवं᳚ हवामहे ||{1/14}{7.8.15.1}{10.39.1}{10.3.10.1}{1188, 876, 9196}

यः¦वा॒‌म्¦परि॑ऽज्मा¦सु॒ऽवृत्¦अ॒श्वि॒ना॒¦रथः॑¦दो॒षा‌म्¦उ॒षसः॑¦हव्यः॑¦ह॒विष्म॑ता |
श॒श्व॒त्ऽत॒मासः॑¦त‌म्¦ऊँ॒ इति॑¦वा॒‌म्¦इ॒द‌म्¦व॒य‌म्¦पि॒तुः¦न¦नाम॑¦सु॒ऽहव᳚‌म्¦ह॒वा॒म॒हे॒ ||

चो॒दय॑तं सू॒नृताः॒ पिन्व॑तं॒ धिय॒ उत्पुरं᳚धीरीरयतं॒ तदु॑श्मसि |{काक्षीवती घोषा | अश्विनौ | जगती}

य॒शसं᳚ भा॒गं कृ॑णुतं नो, अश्विना॒ सोमं॒ न चारुं᳚ म॒घव॑त्सु नस्कृतम् ||{2/14}{7.8.15.2}{10.39.2}{10.3.10.2}{1189, 876, 9197}

चो॒दय॑त‌म्¦सू॒नृताः᳚¦पिन्व॑त‌म्¦धियः॑¦उत्¦पुर᳚‌म्ऽधीः¦ई॒र॒य॒त॒‌म्¦तत्¦उ॒श्म॒सि॒ |
य॒शस᳚‌म्¦भा॒ग‌म्¦कृ॒णु॒त॒‌म्¦नः॒¦अ॒श्वि॒ना॒¦सोम᳚‌म्¦न¦चारु᳚‌म्¦म॒घव॑त्ऽसु¦नः॒¦कृ॒त॒‌म् ||

अ॒मा॒जुर॑श्चिद्भवथो यु॒वं भगो᳚ऽना॒शोश्चि॑दवि॒तारा᳚प॒मस्य॑ चित् |{काक्षीवती घोषा | अश्विनौ | जगती}

अ॒न्धस्य॑ चिन्नासत्या कृ॒शस्य॑ चिद्यु॒वामिदा᳚हुर्भि॒षजा᳚ रु॒तस्य॑ चित् ||{3/14}{7.8.15.3}{10.39.3}{10.3.10.3}{1190, 876, 9198}

अ॒मा॒ऽजुरः॑¦चि॒त्¦भ॒व॒थः॒¦यु॒व‌म्¦भगः॑¦अ॒ना॒शोः¦चि॒त्¦अ॒वि॒तारा᳚¦अ॒प॒मस्य॑¦चि॒त् |
अ॒न्धस्य॑¦चि॒त्¦ना॒स॒त्या॒¦कृ॒शस्य॑¦चि॒त्¦यु॒वा‌म्¦इत्¦आ॒हुः॒¦भि॒षजा᳚¦रु॒तस्य॑¦चि॒त् ||

यु॒वं च्यवा᳚नं स॒नयं॒ यथा॒ रथं॒ पुन॒र्युवा᳚नं च॒रथा᳚य तक्षथुः |{काक्षीवती घोषा | अश्विनौ | जगती}

निष्टौ॒ग्र्यमू᳚हथुर॒द्भ्यस्परि॒ विश्वेत्ता वां॒ सव॑नेषु प्र॒वाच्या᳚ ||{4/14}{7.8.15.4}{10.39.4}{10.3.10.4}{1191, 876, 9199}

यु॒व‌म्¦च्यवा᳚न‌म्¦स॒नय᳚‌म्¦यथा᳚¦रथ᳚‌म्¦पुनः॑¦युवा᳚न‌म्¦च॒रथा᳚य¦त॒क्ष॒थुः॒ |
निः¦तौ॒ग्र्य‌म्¦ऊ॒ह॒थुः॒¦अ॒त्ऽभ्यः¦परि॑¦विश्वा᳚¦इत्¦ता¦वा॒‌म्¦सव॑नेषु¦प्र॒ऽवाच्या᳚ ||

पु॒रा॒णा वां᳚ वी॒र्या॒३॑(आ॒) प्र ब्र॑वा॒ जनेऽथो᳚ हासथुर्भि॒षजा᳚ मयो॒भुवा᳚ |{काक्षीवती घोषा | अश्विनौ | जगती}

ता वां॒ नु नव्या॒वव॑से करामहे॒ऽयं ना᳚सत्या॒ श्रद॒रिर्यथा॒ दध॑त् ||{5/14}{7.8.15.5}{10.39.5}{10.3.10.5}{1192, 876, 9200}

पु॒रा॒णा¦वा॒‌म्¦वी॒र्या᳚¦प्र¦ब्र॒व॒¦जने᳚¦अथो॒ इति॑¦ह॒¦आ॒स॒थुः॒¦भि॒षजा᳚¦म॒यः॒ऽभुवा᳚ |
ता¦वा॒‌म्¦नु¦नव्यौ᳚¦अव॑से¦क॒रा॒म॒हे॒¦अ॒य‌म्¦ना॒स॒त्या॒¦श्रत्¦अ॒रिः¦यथा᳚¦दध॑त् ||

इ॒यं वा᳚मह्वे शृणु॒तं मे᳚, अश्विना पु॒त्राये᳚व पि॒तरा॒ मह्यं᳚ शिक्षतम् |{काक्षीवती घोषा | अश्विनौ | जगती}

अना᳚पि॒रज्ञा᳚, असजा॒त्याम॑तिः पु॒रा तस्या᳚, अ॒भिश॑स्ते॒रव॑ स्पृतम् ||{6/14}{7.8.16.1}{10.39.6}{10.3.10.6}{1193, 876, 9201}

इ॒य‌म्¦वा॒‌म्¦अ॒ह्वे॒¦शृ॒णु॒त‌म्¦मे॒¦अ॒श्वि॒ना॒¦पु॒त्राय॑ऽ‌इव¦पि॒तरा᳚¦मह्य᳚‌म्¦शि॒क्ष॒त॒‌म् |
अना᳚पिः¦अज्ञाः᳚¦अ॒स॒जा॒त्या¦अम॑तिः¦पु॒रा¦तस्याः᳚¦अ॒भिऽश॑स्तेः¦अव॑¦स्पृ॒त॒‌म् ||

यु॒वं रथे᳚न विम॒दाय॑ शु॒न्ध्युवं॒ न्यू᳚हथुः पुरुमि॒त्रस्य॒ योष॑णाम् |{काक्षीवती घोषा | अश्विनौ | जगती}

यु॒वं हवं᳚ वध्रिम॒त्या, अ॑गच्छतं यु॒वं सुषु॑तिं चक्रथुः॒ पुरं᳚धये ||{7/14}{7.8.16.2}{10.39.7}{10.3.10.7}{1194, 876, 9202}

यु॒व‌म्¦रथे᳚न¦वि॒ऽम॒दाय॑¦शु॒न्ध्युव᳚‌म्¦नि¦ऊ॒ह॒थुः॒¦पु॒रु॒ऽमि॒त्रस्य॑¦योष॑ण‌म् |
यु॒व‌म्¦हव᳚‌म्¦व॒ध्रि॒ऽम॒त्याः¦अ॒ग॒च्छ॒त॒‌म्¦यु॒व‌म्¦सुऽसु॑ति‌म्¦च॒क्र॒थुः॒¦पुर᳚‌म्ऽधये ||

यु॒वं विप्र॑स्य जर॒णामु॑पे॒युषः॒ पुनः॑ क॒लेर॑कृणुतं॒ युव॒द्वयः॑ |{काक्षीवती घोषा | अश्विनौ | जगती}

यु॒वं वन्द॑नमृश्य॒दादुदू᳚पथुर्यु॒वं स॒द्यो वि॒श्पला॒मेत॑वे कृथः ||{8/14}{7.8.16.3}{10.39.8}{10.3.10.8}{1195, 876, 9203}

यु॒व‌म्¦विप्र॑स्य¦ज॒र॒णा‌म्¦उ॒प॒ऽई॒युषः॑¦पुन॒रिति॑¦क॒लेः¦अ॒कृ॒णु॒त॒‌म्¦यु॒व॒त्¦वयः॑ |
यु॒व‌म्¦वन्द॑न‌म्¦ऋ॒श्य॒ऽदात्¦उत्¦ऊ॒प॒थुः॒¦यु॒व‌म्¦स॒द्यः¦वि॒श्पला᳚‌म्¦एत॑वे¦कृ॒थः॒ ||

यु॒वं ह॑ रे॒भं वृ॑षणा॒ गुहा᳚ हि॒तमुदै᳚रयतं ममृ॒वांस॑मश्विना |{काक्षीवती घोषा | अश्विनौ | जगती}

यु॒वमृ॒बीस॑मु॒त त॒प्तमत्र॑य॒ ओम᳚न्वन्तं चक्रथुः स॒प्तव॑ध्रये ||{9/14}{7.8.16.4}{10.39.9}{10.3.10.9}{1196, 876, 9204}

यु॒व‌म्¦ह॒¦रे॒भ‌म्¦वृ॒ष॒णा॒¦गुहा᳚¦हि॒त‌म्¦उत्¦ऐ॒र॒य॒त॒‌म्¦म॒मृ॒ऽवांस᳚‌म्¦अ॒श्वि॒ना॒ |
यु॒व‌म्¦ऋ॒बीस᳚‌म्¦उ॒त¦त॒प्त‌म्¦अत्र॑ये¦ओम॑न्ऽवन्त‌म्¦च॒क्र॒थुः॒¦स॒प्तऽव॑ध्रये ||

यु॒वं श्वे॒तं पे॒दवे᳚ऽश्वि॒नाश्वं᳚ न॒वभि॒र्वाजै᳚र्नव॒ती च॑ वा॒जिन᳚म् |{काक्षीवती घोषा | अश्विनौ | जगती}

च॒र्कृत्यं᳚ ददथुर्द्राव॒यत्स॑खं॒ भगं॒ न नृभ्यो॒ हव्यं᳚ मयो॒भुव᳚म् ||{10/14}{7.8.16.5}{10.39.10}{10.3.10.10}{1197, 876, 9205}

यु॒व‌म्¦श्वे॒त‌म्¦पे॒दवे᳚¦अ॒श्वि॒ना॒¦अश्व᳚‌म्¦न॒वऽभिः॑¦वाजैः᳚¦न॒व॒ती¦च॒¦वा॒जिन᳚‌म् |
च॒र्कृत्य᳚‌म्¦द॒द॒थुः॒¦द्र॒व॒यत्ऽस॑ख‌म्¦भग᳚‌म्¦न¦नृऽभ्यः॑¦हव्य᳚‌म्¦म॒यः॒ऽभुव᳚‌म् ||

न तं रा᳚जानावदिते॒ कुत॑श्च॒न नांहो᳚, अश्नोति दुरि॒तं नकि॑र्भ॒यम् |{काक्षीवती घोषा | अश्विनौ | जगती}

यम॑श्विना सुहवा रुद्रवर्तनी पुरोर॒थं कृ॑णु॒थः पत्न्या᳚ स॒ह ||{11/14}{7.8.17.1}{10.39.11}{10.3.10.11}{1198, 876, 9206}

न¦त‌म्¦रा॒जा॒नौ॒¦अ॒दि॒ते॒¦कुतः॑¦च॒न¦न¦अंहः॑¦अ॒श्नो॒ति॒¦दुः॒ऽ‌इ॒त‌म्¦नकिः॑¦भ॒य‌म् |
य‌म्¦अ॒श्वि॒ना॒¦सु॒ऽह॒वा॒¦रु॒द्र॒व॒र्त॒नी॒ इति॑ रुद्रऽवर्तनी¦पु॒रः॒ऽर॒थ‌म्¦कृ॒णु॒थः¦पत्न्या᳚¦स॒ह ||

आ तेन॑ यातं॒ मन॑सो॒ जवी᳚यसा॒ रथं॒ यं वा᳚मृ॒भव॑श्च॒क्रुर॑श्विना |{काक्षीवती घोषा | अश्विनौ | जगती}

यस्य॒ योगे᳚ दुहि॒ता जाय॑ते दि॒व उ॒भे, अह॑नी सु॒दिने᳚ वि॒वस्व॑तः ||{12/14}{7.8.17.2}{10.39.12}{10.3.10.12}{1199, 876, 9207}

आ¦तेन॑¦या॒त॒‌म्¦मन॑सः¦जवी᳚यसा¦रथ᳚‌म्¦य‌म्¦वा॒‌म्¦ऋ॒भवः॑¦च॒क्रुः¦अ॒श्वि॒ना॒ |
यस्य॑¦योगे᳚¦दु॒हि॒ता¦जाय॑ते¦दि॒वः¦उ॒भे इति॑¦अह॑नी॒ इति॑¦सु॒दिने॒ इति॑ सु॒ऽदिने᳚¦वि॒वस्व॑तः ||

ता व॒र्तिर्या᳚तं ज॒युषा॒ वि पर्व॑त॒मपि᳚न्वतं श॒यवे᳚ धे॒नुम॑श्विना |{काक्षीवती घोषा | अश्विनौ | जगती}

वृक॑स्य चि॒द्वर्ति॑काम॒न्तरा॒स्या᳚द्यु॒वं शची᳚भिर्ग्रसि॒ताम॑मुञ्चतम् ||{13/14}{7.8.17.3}{10.39.13}{10.3.10.13}{1200, 876, 9208}

ता¦व॒र्तिः¦या॒त॒‌म्¦ज॒युषा᳚¦वि¦पर्व॑त‌म्¦अपि᳚न्वत‌म्¦श॒यवे᳚¦धे॒नु‌म्¦अ॒श्वि॒ना॒ |
वृक॑स्य¦चि॒त्¦वरि॑का‌म्¦अ॒न्तः¦आ॒स्या᳚त्¦यु॒व‌म्¦शची᳚भिः¦ग्र॒सि॒ता‌म्¦अ॒मुं॒च॒त॒‌म् ||

ए॒तं वां॒ स्तोम॑मश्विनावक॒र्मात॑क्षाम॒ भृग॑वो॒ न रथ᳚म् |{काक्षीवती घोषा | अश्विनौ | त्रिष्टुप्}

न्य॑मृक्षाम॒ योष॑णां॒ न मर्ये॒ नित्यं॒ न सू॒नुं तन॑यं॒ दधा᳚नाः ||{14/14}{7.8.17.4}{10.39.14}{10.3.10.14}{1201, 876, 9209}

ए॒त‌म्¦वा॒‌म्¦स्तोम᳚‌म्¦अ॒श्वि॒नौ॒¦अ॒क॒र्म॒¦अत॑क्षाम¦भृग॑वः¦न¦रथ᳚‌म् |
नि¦अ॒मृ॒क्षा॒म॒¦योष॑णा‌म्¦न¦मर्ये᳚¦नित्य᳚‌म्¦न¦सू॒नु‌म्¦तन॑य‌म्¦दधा᳚नाः ||

[111] रथंयांतमिति चतुर्दशर्चस्य सूक्तस्य काक्षीवतीघोषाश्विनौजगती |
रथं॒ यान्तं॒ कुह॒ को ह॑ वां नरा॒ प्रति॑ द्यु॒मन्तं᳚ सुवि॒ताय॑ भूषति |{काक्षीवती घोषा | अश्विनौ | जगती}

प्रा॒त॒र्यावा᳚णं वि॒भ्वं᳚ वि॒शेवि॑शे॒ वस्तो᳚र्वस्तो॒र्वह॑मानं धि॒या शमि॑ ||{1/14}{7.8.18.1}{10.40.1}{10.3.11.1}{1202, 877, 9210}

रथ᳚‌म्¦यान्त᳚‌म्¦कुह॑¦कः¦ह॒¦वा॒‌म्¦न॒रा॒¦प्रति॑¦द्यु॒ऽमन्त᳚‌म्¦सु॒ऽवि॒ताय॑¦भू॒ष॒ति॒ |
प्रा॒तः॒ऽयावा᳚ण‌म्¦वि॒ऽभ्व᳚‌म्¦वि॒शेऽवि॑शे¦वस्तोः᳚ऽवस्तोः¦वह॑मान‌म्¦धि॒या¦शमि॑ ||

कुह॑ स्विद्दो॒षा कुह॒ वस्तो᳚र॒श्विना॒ कुहा᳚भिपि॒त्वं क॑रतः॒ कुहो᳚षतुः |{काक्षीवती घोषा | अश्विनौ | जगती}

को वां᳚ शयु॒त्रा वि॒धवे᳚व दे॒वरं॒ मर्यं॒ न योषा᳚ कृणुते स॒धस्थ॒ आ ||{2/14}{7.8.18.2}{10.40.2}{10.3.11.2}{1203, 877, 9211}

कुह॑¦स्वि॒त्¦दो॒षा¦कुह॑¦वस्तोः᳚¦अ॒श्विना᳚¦कुह॑¦अ॒भि॒ऽपि॒त्व‌म्¦क॒र॒तः॒¦कुह॑¦ऊ॒ष॒तुः॒ |
कः¦वा॒‌म्¦श॒यु॒ऽत्रा¦वि॒धवा᳚ऽ‌इव¦दे॒वर᳚‌म्¦मर्य᳚‌म्¦न¦योषा᳚¦कृ॒णु॒ते॒¦स॒धऽस्थे᳚¦आ ||

प्रा॒तर्ज॑रेथे जर॒णेव॒ काप॑या॒ वस्तो᳚र्वस्तोर्यज॒ता ग॑च्छथो गृ॒हम् |{काक्षीवती घोषा | अश्विनौ | जगती}

कस्य॑ ध्व॒स्रा भ॑वथः॒ कस्य॑ वा नरा राजपु॒त्रेव॒ सव॒नाव॑ गच्छथः ||{3/14}{7.8.18.3}{10.40.3}{10.3.11.3}{1204, 877, 9212}

प्रा॒तः¦ज॒रे॒थे॒ इति॑¦ज॒र॒णाऽ‌इ᳚व¦काप॑या¦वस्तोः᳚ऽवस्तोः¦य॒ज॒ता¦ग॒च्छ॒थः॒¦गृ॒ह‌म् |
कस्य॑¦ध्व॒स्रा¦भ॒व॒थः॒¦कस्य॑¦वा॒¦न॒रा॒¦रा॒ज॒ऽपु॒त्राऽ‌इ᳚व¦सव॑ना¦अव॑¦ग॒च्छ॒थः॒ ||

यु॒वां मृ॒गेव॑ वार॒णा मृ॑ग॒ण्यवो᳚ दो॒षा वस्तो᳚र्ह॒विषा॒ नि ह्व॑यामहे |{काक्षीवती घोषा | अश्विनौ | जगती}

यु॒वं होत्रा᳚मृतु॒था जुह्व॑ते न॒रेषं॒ जना᳚य वहथः शुभस्पती ||{4/14}{7.8.18.4}{10.40.4}{10.3.11.4}{1205, 877, 9213}

यु॒वा‌म्¦मृ॒गाऽ‌इ᳚व¦वा॒र॒णा¦मृ॒ग॒ण्यवः॑¦दो॒षा¦वस्तोः᳚¦ह॒विषा᳚¦नि¦ह्व॒या॒म॒हे॒ |
यु॒व‌म्¦होत्रा᳚‌म्¦ऋ॒तु॒ऽथा¦जुह्व॑ते¦न॒रा॒¦इष᳚‌म्¦जना᳚य¦व॒ह॒थः॒¦शु॒भः॒¦प॒ती॒ इति॑ ||

यु॒वां ह॒ घोषा॒ पर्य॑श्विना य॒ती राज्ञ॑ ऊचे दुहि॒ता पृ॒च्छे वां᳚ नरा |{काक्षीवती घोषा | अश्विनौ | जगती}

भू॒तं मे॒, अह्न॑ उ॒त भू᳚तम॒क्तवेऽश्वा᳚वते र॒थिने᳚ शक्त॒मर्व॑ते ||{5/14}{7.8.18.5}{10.40.5}{10.3.11.5}{1206, 877, 9214}

यु॒वा‌म्¦ह॒¦घोषा᳚¦परि॑¦अ॒श्वि॒ना॒¦य॒ती¦राज्ञः॑¦ऊ॒चे॒¦दु॒हि॒ता¦पृ॒च्छे¦वा॒‌म्¦न॒रा॒ |
भू॒त‌म्¦मे॒¦अह्ने᳚¦उ॒त¦भू॒त॒‌म्¦अ॒क्तवे᳚¦अश्व॑ऽवते¦र॒थिने᳚¦शक्त᳚‌म्¦अर्व॑ते ||

यु॒वं क॒वी ष्ठः॒ पर्य॑श्विना॒ रथं॒ विशो॒ न कुत्सो᳚ जरि॒तुर्न॑शायथः |{काक्षीवती घोषा | अश्विनौ | जगती}

यु॒वोर्ह॒ मक्षा॒ पर्य॑श्विना॒ मध्वा॒सा भ॑रत निष्कृ॒तं न योष॑णा ||{6/14}{7.8.19.1}{10.40.6}{10.3.11.6}{1207, 877, 9215}

यु॒व‌म्¦क॒वी इति॑¦स्थः॒¦परि॑¦अ॒श्वि॒ना॒¦रथ᳚‌म्¦विशः॑¦न¦कुत्सः॑¦ज॒रि॒तुः¦न॒शा॒य॒थः॒ |
यु॒वोः¦ह॒¦मक्षा᳚¦परि॑¦अ॒श्वि॒ना॒¦मधु॑¦आ॒सा¦भ॒र॒त॒¦निः॒ऽकृ॒त‌म्¦न¦योष॑णा ||

यु॒वं ह॑ भु॒ज्युं यु॒वम॑श्विना॒ वशं᳚ यु॒वं शि॒ञ्जार॑मु॒शना॒मुपा᳚रथुः |{काक्षीवती घोषा | अश्विनौ | जगती}

यु॒वो ररा᳚वा॒ परि॑ स॒ख्यमा᳚सते यु॒वोर॒हमव॑सा सु॒म्नमा च॑के ||{7/14}{7.8.19.2}{10.40.7}{10.3.11.7}{1208, 877, 9216}

यु॒व‌म्¦ह॒¦भु॒ज्यु‌म्¦यु॒व‌म्¦अ॒श्वि॒ना॒¦वश᳚‌म्¦यु॒व‌म्¦शिं॒जार᳚‌म्¦उ॒शना᳚‌म्¦उप॑¦आ॒र॒थुः॒ |
यु॒वोः¦ररा᳚वा¦परि॑¦स॒ख्य‌म्¦आ॒स॒ते॒¦यु॒वोः¦अ॒ह‌म्¦अव॑सा¦सु॒म्न‌म्¦आ¦च॒के॒ ||

यु॒वं ह॑ कृ॒शं यु॒वम॑श्विना श॒युं यु॒वं वि॒धन्तं᳚ वि॒धवा᳚मुरुष्यथः |{काक्षीवती घोषा | अश्विनौ | जगती}

यु॒वं स॒निभ्यः॑ स्त॒नय᳚न्तमश्वि॒नाप᳚ व्र॒जमू᳚र्णुथः स॒प्तास्य᳚म् ||{8/14}{7.8.19.3}{10.40.8}{10.3.11.8}{1209, 877, 9217}

यु॒व‌म्¦ह॒¦कृ॒श‌म्¦यु॒व‌म्¦अ॒श्वि॒ना॒¦श॒यु‌म्¦यु॒व‌म्¦वि॒धन्त᳚‌म्¦वि॒धवा᳚‌म्¦उ॒रु॒ष्य॒थः॒ |
यु॒व‌म्¦स॒निऽभ्यः॑¦स्त॒नय᳚न्त‌म्¦अ॒श्वि॒ना॒¦अप॑¦व्र॒ज‌म्¦ऊ॒र्णु॒थः॒¦स॒प्तऽआ᳚स्य‌म् ||

जनि॑ष्ट॒ योषा᳚ प॒तय॑त्कनीन॒को वि चारु॑हन्वी॒रुधो᳚ दं॒सना॒, अनु॑ |{काक्षीवती घोषा | अश्विनौ | जगती}

आस्मै᳚ रीयन्ते निव॒नेव॒ सिन्ध॑वो॒ऽस्मा, अह्ने᳚ भवति॒ तत्‌ प॑तित्व॒नम् ||{9/14}{7.8.19.4}{10.40.9}{10.3.11.9}{1210, 877, 9218}

जनि॑ष्ठ¦योषा᳚¦प॒तय॑त्¦क॒नी॒न॒कः¦वि¦च॒¦अरु॑हन्¦वी॒रुधः॑¦दं॒सनाः᳚¦अनु॑ |
आ¦अ॒स्मै॒¦री॒य॒न्ते॒¦नि॒व॒नाऽ‌इ᳚व¦सिन्ध॑वः¦अ॒स्मै¦अह्ने᳚¦भ॒व॒ति॒¦तत्¦प॒ति॒ऽत्व॒न‌म् ||

जी॒वं रु॑दन्ति॒ वि म॑यन्ते, अध्व॒रे दी॒र्घामनु॒ प्रसि॑तिं दीधियु॒र्नरः॑ |{काक्षीवती घोषा | अश्विनौ | जगती}

वा॒मं पि॒तृभ्यो॒ य इ॒दं स॑मेरि॒रे मयः॒ पति॑भ्यो॒ जन॑यः परि॒ष्वजे᳚ ||{10/14}{7.8.19.5}{10.40.10}{10.3.11.10}{1211, 877, 9219}

जी॒व‌म्¦रु॒द॒न्ति॒¦वि¦म॒य॒न्ते॒¦अ॒ध्व॒रे¦दी॒र्घा‌म्¦अनु॑¦प्रऽसि॑ति‌म्¦दी॒धि॒युः॒¦नरः॑ |
वा॒म‌म्¦पि॒तृऽभ्यः॑¦ये¦इ॒द‌म्¦स॒‌म्ऽए॒रि॒रे¦मयः॑¦पति॑ऽभ्यः¦जन॑यः¦प॒रि॒ऽस्वजे᳚ ||

न तस्य॑ विद्म॒ तदु॒ षु प्र वो᳚चत॒ युवा᳚ ह॒ यद्यु॑व॒त्याः, क्षेति॒ योनि॑षु |{काक्षीवती घोषा | अश्विनौ | जगती}

प्रि॒योस्रि॑यस्य वृष॒भस्य॑ रे॒तिनो᳚ गृ॒हं ग॑मेमाश्विना॒ तदु॑श्मसि ||{11/14}{7.8.20.1}{10.40.11}{10.3.11.11}{1212, 877, 9220}

न¦तस्य॑¦वि॒द्म॒¦तत्¦ऊँ॒ इति॑¦सु¦प्र¦वो॒च॒त॒¦युवा᳚¦ह॒¦यत्¦यु॒व॒त्याः¦क्षेति॑¦योनि॑षु |
प्रि॒य।औ᳚स्रियस्य¦वृ॒ष॒भस्य॑¦रे॒तिनः॑¦गृ॒ह‌म्¦ग॒मे॒म॒¦अ॒श्वि॒ना॒¦तत्¦उ॒श्म॒सि॒ ||

आ वा᳚मगन्‌ त्सुम॒तिर्वा᳚जिनीवसू॒ न्य॑श्विना हृ॒त्सु कामा᳚, अयंसत |{काक्षीवती घोषा | अश्विनौ | जगती}

अभू᳚तं गो॒पा मि॑थु॒ना शु॑भस्पती प्रि॒या, अ᳚र्य॒म्णो दुर्याँ᳚, अशीमहि ||{12/14}{7.8.20.2}{10.40.12}{10.3.11.12}{1213, 877, 9221}

आ¦वा॒‌म्¦अ॒ग॒न्¦सु॒ऽम॒तिः¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू¦नि¦अ॒श्वि॒ना॒¦हृ॒त्ऽसु¦कामाः᳚¦अ॒यं॒स॒त॒ |
अभू᳚त‌म्¦गो॒पा¦मि॒थु॒ना¦शु॒भः॒¦प॒ती॒ इति॑¦प्रि॒याः¦अ॒र्य॒म्णः¦दुर्या᳚न्¦अ॒शी॒म॒हि॒ ||

ता म᳚न्दसा॒ना मनु॑षो दुरो॒ण आ ध॒त्तं र॒यिं स॒हवी᳚रं वच॒स्यवे᳚ |{काक्षीवती घोषा | अश्विनौ | जगती}

कृ॒तं ती॒र्थं सु॑प्रपा॒णं शु॑भस्पती स्था॒णुं प॑थे॒ष्ठामप॑ दुर्म॒तिं ह॑तम् ||{13/14}{7.8.20.3}{10.40.13}{10.3.11.13}{1214, 877, 9222}

ता¦म॒न्द॒सा॒ना¦मनु॑षः¦दु॒रो॒णे¦आ¦ध॒त्त‌म्¦र॒यि‌म्¦स॒हऽवी᳚र‌म्¦व॒च॒स्यवे᳚ |
कृ॒त‌म्¦ती॒र्थ‌म्¦सु॒ऽप्र॒पा॒न‌म्¦शु॒भः॒¦प॒ती॒ इति॑¦स्था॒णु‌म्¦प॒थे॒ऽस्था‌म्¦अप॑¦दुः॒ऽम॒ति‌म्¦ह॒त॒‌म् ||

क्व॑ स्विद॒द्य क॑त॒मास्व॒श्विना᳚ वि॒क्षु द॒स्रा मा᳚दयेते शु॒भस्पती᳚ |{काक्षीवती घोषा | अश्विनौ | जगती}

क ईं॒ नि ये᳚मे कत॒मस्य॑ जग्मतु॒र्विप्र॑स्य वा॒ यज॑मानस्य वा गृ॒हम् ||{14/14}{7.8.20.4}{10.40.14}{10.3.11.14}{1215, 877, 9223}

क्व॑¦स्वि॒त्¦अ॒द्य¦क॒त॒मासु॑¦अ॒श्विना᳚¦वि॒क्षु¦द॒स्रा¦मा॒द॒ये॒ते॒ इति॑¦शु॒भः¦पती॒ इति॑ |
कः¦ई॒‌म्¦नि¦ये॒मे॒¦क॒त॒मस्य॑¦ज॒ग्म॒तुः॒¦विप्र॑स्य¦वा॒¦यज॑मानस्य¦वा॒¦गृ॒ह‌म् ||

[112] समानमिति तृचस्य सूक्तस्य घौषेयः सुहस्त्योश्विनौजगती |
स॒मा॒नमु॒ त्यं पु॑रुहू॒तमु॒क्थ्य१॑(अं॒) रथं᳚ त्रिच॒क्रं सव॑ना॒ गनि॑ग्मतम् |{घौषेयः सुहस्त्यः | अश्विनौ | जगती}

परि॑ज्मानं विद॒थ्यं᳚ सुवृ॒क्तिभि᳚र्व॒यं व्यु॑ष्टा, उ॒षसो᳚ हवामहे ||{1/3}{7.8.21.1}{10.41.1}{10.3.12.1}{1216, 878, 9224}

स॒मा॒न‌म्¦ऊँ॒ इति॑¦त्य‌म्¦पु॒रु॒ऽहू॒त‌म्¦उ॒क्थ्य᳚‌म्¦रथ᳚‌म्¦त्रि॒ऽच॒क्र‌म्¦सव॑ना¦गनि॑ग्मत‌म् |
परि॑ऽज्मान‌म्¦वि॒द॒थ्य᳚‌म्¦सु॒वृ॒क्तिऽभिः॑¦व॒य‌म्¦वि।औ᳚ष्टौ¦उ॒षसः॑¦ह॒वा॒म॒हे॒ ||

प्रा॒त॒र्युजं᳚ नास॒त्याधि॑ तिष्ठथः प्रात॒र्यावा᳚णं मधु॒वाह॑नं॒ रथ᳚म् |{घौषेयः सुहस्त्यः | अश्विनौ | जगती}

विशो॒ येन॒ गच्छ॑थो॒ यज्व॑रीर्नरा की॒रेश्चि॑द्‌ य॒ज्ञं होतृ॑मन्तमश्विना ||{2/3}{7.8.21.2}{10.41.2}{10.3.12.2}{1217, 878, 9225}

प्रा॒तः॒ऽयुज᳚‌म्¦ना॒स॒त्या॒¦अधि॑¦ति॒ष्ठ॒थः॒¦प्रा॒तः॒ऽयावा᳚न‌म्¦म॒धु॒ऽवाह॑न‌म्¦रथ᳚‌म् |
विशः॑¦येन॑¦गच्छ॑तः¦यज्व॑रीः¦न॒रा॒¦की॒रेः¦चि॒त्¦य॒ज्ञ‌म्¦होतृ॑ऽमन्त‌म्¦अ॒श्वि॒ना॒ ||

अ॒ध्व॒र्युं वा॒ मधु॑पाणिं सु॒हस्त्य॑म॒ग्निधं᳚ वा धृ॒तद॑क्षं॒ दमू᳚नसम् |{घौषेयः सुहस्त्यः | अश्विनौ | जगती}

विप्र॑स्य वा॒ यत्सव॑नानि॒ गच्छ॒थोऽत॒ आ या᳚तं मधु॒पेय॑मश्विना ||{3/3}{7.8.21.3}{10.41.3}{10.3.12.3}{1218, 878, 9226}

अ॒ध्व॒र्यु‌म्¦वा॒¦मधु॑ऽपाणि‌म्¦सु॒ऽहस्त्य᳚‌म्¦अ॒ग्निध᳚‌म्¦वा॒¦धृ॒तऽद॑क्ष‌म्¦दमू᳚नस‌म् |
विप्र॑स्य¦वा॒¦यत्¦सव॑नानि¦गच्छ॑थः¦अतः॑¦आ¦या॒त॒‌म्¦म॒धु॒ऽपेय᳚‌म्¦अ॒श्वि॒न्चा ||

[113] अस्तेवेत्येकादशर्चस्य सूक्तस्यांगिरसः कृष्णइंद्रस्त्रिष्टुप् |
अस्ते᳚व॒ सु प्र॑त॒रं लाय॒मस्य॒न्‌ भूष᳚न्निव॒ प्र भ॑रा॒ स्तोम॑मस्मै |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

वा॒चा वि॑प्रास्तरत॒ वाच॑म॒र्यो नि रा᳚मय जरितः॒ सोम॒ इन्द्र᳚म् ||{1/11}{7.8.22.1}{10.42.1}{10.3.13.1}{1219, 879, 9227}

अस्ता᳚ऽ‌इव¦सु¦प्र॒ऽत॒र‌म्¦लाय᳚‌म्¦अस्य॑न्¦भूष॑न्ऽ‌इव¦प्र¦भ॒र॒¦स्तोम᳚‌म्¦अ॒स्मै॒ |
वा॒चा¦वि॒प्राः॒¦त॒र॒त॒¦वाच᳚‌म्¦अ॒र्यः¦नि¦र॒म॒य॒¦ज॒रि॒त॒रिति॑¦सोमे᳚¦इन्द्र᳚‌म् ||

दोहे᳚न॒ गामुप॑ शिक्षा॒ सखा᳚यं॒ प्र बो᳚धय जरितर्जा॒रमिन्द्र᳚म् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

कोशं॒ न पू॒र्णं वसु॑ना॒ न्यृ॑ष्ट॒मा च्या᳚वय मघ॒देया᳚य॒ शूर᳚म् ||{2/11}{7.8.22.2}{10.42.2}{10.3.13.2}{1220, 879, 9228}

दोहे᳚न¦गा‌म्¦उप॑¦शि॒क्ष॒¦सखा᳚य‌म्¦प्र¦बो॒ध॒य॒¦ज॒रि॒तः॒¦जा॒र‌म्¦इन्द्र᳚‌म् |
कोश᳚‌म्¦न¦पू॒र्ण‌म्¦वसु॑ना¦निऽऋ॑ष्ट‌म्¦आ¦च्य॒व॒य॒¦म॒घ॒ऽदेया᳚य¦शूर᳚‌म् ||

किम॒ङ्ग त्वा᳚ मघवन्‌ भो॒जमा᳚हुः शिशी॒हि मा᳚ शिश॒यं त्वा᳚ शृणोमि |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

अप्न॑स्वती॒ मम॒ धीर॑स्तु शक्र वसु॒विदं॒ भग॑मि॒न्द्रा भ॑रा नः ||{3/11}{7.8.22.3}{10.42.3}{10.3.13.3}{1221, 879, 9229}

कि‌म्¦अ॒ङ्ग¦त्वा॒¦म॒घ॒ऽव॒न्¦भो॒ज‌म्¦आ॒हुः॒¦शि॒शी॒हि¦मा॒¦शि॒श॒य‌म्¦त्वा॒¦शृ॒णो॒मि॒ |
अप्न॑स्वती¦मम॑¦धीः¦अ॒स्तु॒¦श॒क्र॒¦व॒सु॒ऽविद᳚‌म्¦भग᳚‌म्¦इ॒न्द्र॒¦आ¦भ॒र॒¦नः॒ ||

त्वां जना᳚ ममस॒त्येष्वि᳚न्द्र संतस्था॒ना वि ह्व॑यन्ते समी॒के |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

अत्रा॒ युजं᳚ कृणुते॒ यो ह॒विष्मा॒न्नासु᳚न्वता स॒ख्यं व॑ष्टि॒ शूरः॑ ||{4/11}{7.8.22.4}{10.42.4}{10.3.13.4}{1222, 879, 9230}

त्वा‌म्¦जनाः᳚¦म॒म॒ऽस॒त्येषु॑¦इ॒न्द्र॒¦स॒‌म्ऽत॒स्था॒नाः¦वि¦ह्व॒य॒न्ते॒¦स॒‌म्ऽई॒के |
अत्र॑¦युज᳚‌म्¦कृ॒णु॒ते॒¦यः¦ह॒विष्मा᳚न्¦न¦असु᳚न्वता¦स॒ख्य‌म्¦व॒ष्टि॒¦शूरः॑ ||

धनं॒ न स्य॒न्द्रं ब॑हु॒लं यो, अ॑स्मै ती॒व्रान्‌ त्सोमाँ᳚, आसु॒नोति॒ प्रय॑स्वान् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

तस्मै॒ शत्रू᳚न्‌ त्सु॒तुका᳚न्‌ प्रा॒तरह्नो॒ नि स्वष्ट्रा᳚न्यु॒वति॒ हन्ति॑ वृ॒त्रम् ||{5/11}{7.8.22.5}{10.42.5}{10.3.13.5}{1223, 879, 9231}

धन᳚‌म्¦न¦स्प॒न्द्र‌म्¦ब॒हु॒ल‌म्¦यः¦अ॒स्मै॒¦ती॒व्रान्¦सोमा᳚न्¦आ॒ऽसु॒नोति॑¦प्रय॑स्वान् |
तस्मै᳚¦शत्रू᳚न्¦सु॒ऽतुका᳚न्¦प्रा॒तः¦अह्नः॑¦नि¦सु॒।आष्ट्रा᳚न्¦यु॒वति॑¦हन्ति॑¦वृ॒त्र‌म् ||

यस्मि᳚न्व॒यं द॑धि॒मा शंस॒मिन्द्रे॒ यः शि॒श्राय॑ म॒घवा॒ काम॑म॒स्मे |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

आ॒राच्चि॒त्सन्‌ भ॑यतामस्य॒ शत्रु॒र्न्य॑स्मै द्यु॒म्ना जन्या᳚ नमन्ताम् ||{6/11}{7.8.23.1}{10.42.6}{10.3.13.6}{1224, 879, 9232}

यस्मि॑न्¦व॒य‌म्¦द॒धि॒म¦शंस᳚‌म्¦इन्द्रे᳚¦यः¦शि॒श्राय॑¦म॒घऽवा᳚¦काम᳚‌म्¦अ॒स्मे इति॑ |
आ॒रात्¦चि॒त्¦सन्¦भ॒य॒ता॒‌म्¦अ॒स्य॒¦शत्रुः॑¦नि¦अ॒स्मै॒¦द्यु॒म्ना¦जन्या᳚¦न॒म॒न्ता॒‌म् ||

आ॒राच्छत्रु॒मप॑ बाधस्व दू॒रमु॒ग्रो यः शम्बः॑ पुरुहूत॒ तेन॑ |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

अ॒स्मे धे᳚हि॒ यव॑म॒द्गोम॑दिन्द्र कृ॒धी धियं᳚ जरि॒त्रे वाज॑रत्नाम् ||{7/11}{7.8.23.2}{10.42.7}{10.3.13.7}{1225, 879, 9233}

आ॒रात्¦शत्रु᳚‌म्¦अप॑¦बा॒ध॒स्व॒¦दू॒र‌म्¦उ॒ग्रः¦यः¦शम्बः॑¦पु॒रु॒ऽहू॒त॒¦तेन॑ |
अ॒स्मे इति॑¦धे॒हि॒¦यव॑ऽमत्¦गोऽम॑त्¦इ॒न्द्र॒¦कृ॒धि¦धिय᳚‌म्¦ज॒रि॒त्रे¦वाज॑ऽरत्ना‌म् ||

प्र यम॒न्तर्वृ॑षस॒वासो॒, अग्म᳚न्ती॒व्राः सोमा᳚ बहु॒लान्ता᳚स॒ इन्द्र᳚म् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

नाह॑ दा॒मानं᳚ म॒घवा॒ नि यं᳚स॒न्नि सु᳚न्व॒ते व॑हति॒ भूरि॑ वा॒मम् ||{8/11}{7.8.23.3}{10.42.8}{10.3.13.8}{1226, 879, 9234}

प्र¦य‌म्¦अ॒न्तः¦वृ॒ष॒ऽस॒वासः॑¦अग्म॑न्¦ती॒व्राः¦सोमाः᳚¦ब॒हु॒ल।आ᳚न्तासः¦इन्द्र᳚‌म् |
न¦अह॑¦दा॒मान᳚‌म्¦म॒घऽवा᳚¦नि¦यं॒स॒त्¦नि¦सु॒न्व॒ते¦व॒ह॒ति॒¦भूरि॑¦वा॒म‌म् ||

उ॒त प्र॒हाम॑ति॒दीव्या᳚ जयाति कृ॒तं यच्छ्व॒घ्नी वि॑चि॒नोति॑ का॒ले |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

यो दे॒वका᳚मो॒ न धना᳚ रुणद्धि॒ समित्तं रा॒या सृ॑जति स्व॒धावा॑न् ||{9/11}{7.8.23.4}{10.42.9}{10.3.13.9}{1227, 879, 9235}

उ॒त¦प्र॒ऽहा‌म्¦अ॒ति॒ऽदीव्य॑¦ज॒या॒ति॒¦कृ॒त‌म्¦यत्¦श्व॒ऽघ्नी¦वि॒ऽचि॒नोति॑¦का॒ले |
यः¦दे॒वऽका᳚मः¦न¦धना᳚¦रु॒ण॒द्धि॒¦स‌म्¦इत्¦त‌म्¦रा॒या¦सृ॒ज॒ति॒¦स्व॒धाऽवा॑न् ||

गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे᳚न॒ क्षुधं᳚ पुरुहूत॒ विश्वा᳚म् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

व॒यं राज॑भिः प्रथ॒मा धना᳚न्य॒स्माके᳚न वृ॒जने᳚ना जयेम ||{10/11}{7.8.23.5}{10.42.10}{10.3.13.10}{1228, 879, 9236}

गोभिः॑¦त॒रे॒म॒¦अम॑ति‌म्¦दुः॒ऽएवा᳚‌म्¦यवे᳚न¦क्षुध᳚‌म्¦पु॒रु॒ऽहू॒त॒¦विश्वा᳚‌म् |
व॒य‌म्¦राज॑ऽभिः¦प्र॒थ॒माः¦धना᳚नि¦अ॒स्माके᳚न¦वृ॒जने᳚न¦ज॒ये॒म॒ ||

बृह॒स्पति᳚र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

इन्द्रः॑ पु॒रस्ता᳚दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ||{11/11}{7.8.23.6}{10.42.11}{10.3.13.11}{1229, 879, 9237}

बृ॒हस्पतिः॑¦नः॒¦परि॑¦पा॒तु॒¦प॒श्चात्¦उ॒त¦उत्ऽत॑रस्मात्¦अध॑रात्¦अ॒घ॒ऽयोः |
इन्द्रः॑¦पु॒रस्ता᳚त्¦उ॒त¦म॒ध्य॒तः¦नः॒¦सखा᳚¦सखि॑ऽभ्यः¦वरि॑ऽवः¦कृ॒णो॒तु॒ ||

[114] अच्छामइत्येकादशर्चस्य सूक्तस्यांगिरसः कृष्णइंद्रोजगत्यंत्येद्वेत्रिष्टुभौ |
अच्छा᳚ म॒ इन्द्रं᳚ म॒तयः॑ स्व॒र्विदः॑ स॒ध्रीची॒र्विश्वा᳚, उश॒तीर॑नूषत |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

परि॑ ष्वजन्ते॒ जन॑यो॒ यथा॒ पतिं॒ मर्यं॒ न शु॒न्ध्युं म॒घवा᳚नमू॒तये᳚ ||{1/11}{7.8.24.1}{10.43.1}{10.4.1.1}{1230, 880, 9238}

अच्छ॑¦मे॒¦इन्द्र᳚‌म्¦म॒तयः॑¦स्वः॒ऽविदः॑¦स॒ध्रीचीः᳚¦विश्वाः᳚¦उ॒श॒तीः¦अ॒नू॒ष॒त॒ |
परि॑¦स्व॒ज॒न्ते॒¦जन॑यः¦यथा᳚¦पति᳚‌म्¦मर्य᳚‌म्¦न¦शु॒न्ध्यु‌म्¦म॒घऽवा᳚न‌म्¦ऊ॒तये᳚ ||

न घा᳚ त्व॒द्रिगप॑ वेति मे॒ मन॒स्त्वे, इत्कामं᳚ पुरुहूत शिश्रय |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

राजे᳚व दस्म॒ नि ष॒दोऽधि॑ ब॒र्हिष्य॒स्मिन्‌ त्सु सोमे᳚ऽव॒पान॑मस्तु ते ||{2/11}{7.8.24.2}{10.43.2}{10.4.1.2}{1231, 880, 9239}

न¦घ॒¦त्व॒द्रिक्¦अप॑¦वे॒ति॒¦मे॒¦मनः॑¦त्वे इति॑¦इत्¦काम᳚‌म्¦पु॒रु॒ऽहू॒त॒¦शि॒श्र॒य॒ |
राजा᳚ऽ‌इव¦द॒स्म॒¦नि¦स॒दः॒¦अधि॑¦ब॒र्हिषि॑¦अ॒स्मिन्¦सु¦सोमे᳚¦अ॒व॒ऽपान᳚‌म्¦अ॒स्तु॒¦ते॒ ||

वि॒षू॒वृदिन्द्रो॒, अम॑तेरु॒त क्षु॒धः स इद्रा॒यो म॒घवा॒ वस्व॑ ईशते |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

तस्येदि॒मे प्र॑व॒णे स॒प्त सिन्ध॑वो॒ वयो᳚ वर्धन्ति वृष॒भस्य॑ शु॒ष्मिणः॑ ||{3/11}{7.8.24.3}{10.43.3}{10.4.1.3}{1232, 880, 9240}

वि॒षु॒ऽवृत्¦इन्द्रः॑¦अम॑तेः¦उ॒त्¦क्षु॒धः¦सः¦इत्¦रा॒यः¦म॒घऽवा᳚¦वस्वः॑¦ई॒श॒ते॒ |
तस्य॑¦इत्¦इ॒मे¦प्र॒व॒णे¦स॒प्त¦सिन्ध॑वः¦वयः॑¦व॒र्ध॒न्ति॒¦वृ॒ष॒भस्य॑¦शु॒ष्मिणः॑ ||

वयो॒ न वृ॒क्षं सु॑पला॒शमास॑द॒न्‌ त्सोमा᳚स॒ इन्द्रं᳚ म॒न्दिन॑श्चमू॒षदः॑ |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

प्रैषा॒मनी᳚कं॒ शव॑सा॒ दवि॑द्युतद्वि॒दत्स्व१॑(अ॒)र्मन॑वे॒ ज्योति॒रार्य᳚म् ||{4/11}{7.8.24.4}{10.43.4}{10.4.1.4}{1233, 880, 9241}

वयः॑¦न¦वृ॒क्ष‌म्¦सु॒ऽप॒ला॒श‌म्¦आ¦अ॒स॒द॒न्¦सोमा᳚सः¦इन्द्र᳚‌म्¦म॒न्दिनः॑¦च॒मू॒ऽसदः॑ |
प्र¦ए॒षा॒‌म्¦अनी᳚क‌म्¦शव॑सा¦दवि॑द्युतत्¦वि॒दत्¦स्वः॑¦मन॑वे¦ज्योतिः॑¦आर्य᳚‌म् ||

कृ॒तं न श्व॒घ्नी वि चि॑नोति॒ देव॑ने सं॒वर्गं॒ यन्म॒घवा॒ सूर्यं॒ जय॑त् |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

न तत्ते᳚, अ॒न्यो, अनु॑ वी॒र्यं᳚ शक॒न्न पु॑रा॒णो म॑घव॒न्नोत नूत॑नः ||{5/11}{7.8.24.5}{10.43.5}{10.4.1.5}{1234, 880, 9242}

कृ॒त‌म्¦न¦श्व॒ऽघ्नी¦वि¦चि॒नो॒ति॒¦देव॑ने¦स॒‌म्ऽवर्ग᳚‌म्¦यत्¦म॒घऽवा᳚¦सूर्य᳚‌म्¦जय॑त् |
न¦तत्¦ते॒¦अ॒न्यः¦अनु॑¦वी॒र्य᳚‌म्¦श॒क॒त्¦न¦पु॒रा॒णः¦म॒घ॒ऽव॒न्¦न¦उ॒त¦नूत॑नः ||

विशं᳚विशं म॒घवा॒ पर्य॑शायत॒ जना᳚नां॒ धेना᳚, अव॒चाक॑श॒द्वृषा᳚ |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

यस्याह॑ श॒क्रः सव॑नेषु॒ रण्य॑ति॒ स ती॒व्रैः सोमैः᳚ सहते पृतन्य॒तः ||{6/11}{7.8.25.1}{10.43.6}{10.4.1.6}{1235, 880, 9243}

विश᳚‌म्ऽविश‌म्¦म॒घऽवा᳚¦परि॑¦अ॒शा॒य॒त॒¦जना᳚ना‌म्¦धेनाः᳚¦अ॒व॒ऽचाक॑शत्¦वृषा᳚ |
यस्य॑¦अह॑¦श॒क्रः¦सव॑नेषु¦रण्य॑ति¦सः¦ती॒व्रैः¦सोमैः᳚¦स॒ह॒ते॒¦पृ॒त॒न्य॒तः ||

आपो॒ न सिन्धु॑म॒भि यत्स॒मक्ष॑र॒न्‌ त्सोमा᳚स॒ इन्द्रं᳚ कु॒ल्या, इ॑व ह्र॒दम् |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

वर्ध᳚न्ति॒ विप्रा॒ महो᳚, अस्य॒ साद॑ने॒ यवं॒ न वृ॒ष्टिर्दि॒व्येन॒ दानु॑ना ||{7/11}{7.8.25.2}{10.43.7}{10.4.1.7}{1236, 880, 9244}

आपः॑¦न¦सिन्धु᳚‌म्¦अ॒भि¦यत्¦स॒‌म्।आक्ष॑रन्¦सोमा᳚सः¦इन्द्र᳚‌म्¦कु॒ल्याःऽ‌इ᳚व¦ह्र॒द‌म् |
वर्ध᳚न्ति¦विप्राः᳚¦महः॑¦अ॒स्य॒¦साद॑ने¦यव᳚‌म्¦न¦वृ॒ष्टिः¦दि॒व्येन॑¦दानु॑ना ||

वृषा॒ न क्रु॒द्धः प॑तय॒द्रज॒स्स्वा यो, अ॒र्यप॑त्नी॒रकृ॑णोदि॒मा, अ॒पः |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

स सु᳚न्व॒ते म॒घवा᳚ जी॒रदा᳚न॒वेऽवि᳚न्द॒ज्ज्योति॒र्मन॑वे ह॒विष्म॑ते ||{8/11}{7.8.25.3}{10.43.8}{10.4.1.8}{1237, 880, 9245}

वृषा᳚¦न¦क्रु॒द्धः¦प॒त॒य॒त्¦रजः॑ऽसु¦आ¦यः¦अ॒र्यऽप॑त्नीः¦अकृ॑णोत्¦इ॒माः¦अ॒पः |
सः¦सु॒न्व॒ते¦म॒घऽवा᳚¦जी॒रऽदा᳚नवे¦अवि᳚न्दत्¦ज्योतिः॑¦मन॑वे¦ह॒विष्म॑ते ||

उज्जा᳚यतां पर॒शुर्ज्योति॑षा स॒ह भू॒या, ऋ॒तस्य॑ सु॒दुघा᳚ पुराण॒वत् |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

वि रो᳚चतामरु॒षो भा॒नुना॒ शुचिः॒ स्व१॑(अ॒)र्ण शु॒क्रं शु॑शुचीत॒ सत्प॑तिः ||{9/11}{7.8.25.4}{10.43.9}{10.4.1.9}{1238, 880, 9246}

उत्¦जा॒य॒ता॒‌म्¦प॒र॒शुः¦ज्योति॑षा¦स॒ह¦भू॒याः¦ऋ॒तस्य॑¦सु॒ऽदुघा᳚¦पु॒रा॒ण॒ऽवत् |
वि¦रो॒च॒ता॒‌म्¦अ॒रु॒षः¦भा॒नुना᳚¦शुचिः॑¦स्वः॒¦न¦शु॒क्र‌म्¦शु॒शु॒ची॒त॒¦सत्ऽप॑तिः ||

गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे᳚न॒ क्षुधं᳚ पुरुहूत॒ विश्वा᳚म् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

व॒यं राज॑भिः प्रथ॒मा धना᳚न्य॒स्माके᳚न वृ॒जने᳚ना जयेम ||{10/11}{7.8.25.5}{10.43.10}{10.4.1.10}{1239, 880, 9247}

गोभिः॑¦त॒रे॒म॒¦अम॑ति‌म्¦दुः॒ऽएवा᳚‌म्¦यवे᳚न¦क्षुध᳚‌म्¦पु॒रु॒ऽहू॒त॒¦विश्वा᳚‌म् |
व॒य‌म्¦राज॑ऽभिः¦प्र॒थ॒माः¦धना᳚नि¦अ॒स्माके᳚न¦वृ॒जने᳚न¦ज॒ये॒म॒ ||

बृह॒स्पति᳚र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

इन्द्रः॑ पु॒रस्ता᳚दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ||{11/11}{7.8.25.6}{10.43.11}{10.4.1.11}{1240, 880, 9248}

बृ॒हस्पतिः॑¦नः॒¦परि॑¦पा॒तु॒¦प॒श्चात्¦उ॒त¦उत्ऽत॑रस्मात्¦अध॑रात्¦अ॒घ॒ऽयोः |
इन्द्रः॑¦पु॒रस्ता᳚त्¦उ॒त¦म॒ध्य॒तः¦नः॒¦सखा᳚¦सखि॑ऽभ्यः¦वरि॑ऽवः¦कृ॒णो॒तु॒ ||

[115] आयात्वित्येकादशर्चस्य सूक्तस्यांगिरसः कृष्णइंद्रोजगती आद्यास्तिस्रोंत्येद्वेचत्रिष्टुभः |
आ या॒त्विन्द्रः॒ स्वप॑ति॒र्मदा᳚य॒ यो धर्म॑णा तूतुजा॒नस्तुवि॑ष्मान् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

प्र॒त्व॒क्षा॒णो, अति॒ विश्वा॒ सहां᳚स्यपा॒रेण॑ मह॒ता वृष्ण्ये᳚न ||{1/11}{7.8.26.1}{10.44.1}{10.4.2.1}{1241, 881, 9249}

आ¦या॒तु॒¦इन्द्रः॑¦स्वऽप॑तिः¦मदा᳚य¦यः¦धर्म॑णा¦तू॒तु॒जा॒नः¦तुवि॑ष्मान् |
प्र॒ऽत्व॒क्षा॒णः¦अति॑¦विश्वा᳚¦सहां᳚सि¦अ॒पा॒रेण॑¦म॒ह॒ता¦वृष्ण्ये᳚न ||

सु॒ष्ठामा॒ रथः॑ सु॒यमा॒ हरी᳚ ते मि॒म्यक्ष॒ वज्रो᳚ नृपते॒ गभ॑स्तौ |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

शीभं᳚ राजन्‌ त्सु॒पथा या᳚ह्य॒र्वाङ्वर्धा᳚म ते प॒पुषो॒ वृष्ण्या᳚नि ||{2/11}{7.8.26.2}{10.44.2}{10.4.2.2}{1242, 881, 9250}

सु॒ऽस्थामा᳚¦रथः॑¦सु॒ऽयमा᳚¦हरी॒ इति॑¦ते॒¦मि॒म्यक्ष॑¦वज्रः॑¦नृ॒ऽप॒ते॒¦गभ॑स्तौ |
शीभ᳚‌म्¦रा॒ज॒न्¦सु॒ऽपथा᳚¦आ¦या॒हि॒¦अ॒र्वाङ्¦वर्धा᳚म¦ते॒¦प॒पुषः॑¦वृष्ण्या᳚नि ||

एन्द्र॒वाहो᳚ नृ॒पतिं॒ वज्र॑बाहुमु॒ग्रमु॒ग्रास॑स्तवि॒षास॑ एनम् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

प्रत्व॑क्षसं वृष॒भं स॒त्यशु॑ष्म॒मेम॑स्म॒त्रा स॑ध॒मादो᳚ वहन्तु ||{3/11}{7.8.26.3}{10.44.3}{10.4.2.3}{1243, 881, 9251}

आ¦इ॒न्द्र॒ऽवाहः॑¦नृ॒ऽपति᳚‌म्¦वज्र॑ऽबाहु‌म्¦उ॒ग्र‌म्¦उ॒ग्रासः॑¦त॒वि॒षासः॑¦ए॒न॒‌म् |
प्रऽत्व॑क्षस‌म्¦वृ॒ष॒भ‌म्¦स॒त्यऽशु॑ष्म‌म्¦आ¦ई॒‌म्¦अ॒स्म॒ऽत्रा¦स॒ध॒ऽमादः॑¦व॒ह॒न्तु॒ ||

ए॒वा पतिं᳚ द्रोण॒साचं॒ सचे᳚तसमू॒र्जः स्क॒म्भं ध॒रुण॒ आ वृ॑षायसे |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

ओजः॑ कृष्व॒ सं गृ॑भाय॒ त्वे, अप्यसो॒ यथा᳚ केनि॒पाना᳚मि॒नो वृ॒धे ||{4/11}{7.8.26.4}{10.44.4}{10.4.2.4}{1244, 881, 9252}

ए॒व¦पति᳚‌म्¦द्रो॒ण॒ऽसाच᳚‌म्¦सऽचे᳚तस‌म्¦ऊ॒र्जः¦स्क॒म्भ‌म्¦ध॒रुणे᳚¦आ¦वृ॒ष॒ऽय॒से॒ |
ओजः॑¦कृ॒ष्व॒¦स‌म्¦गृ॒भा॒य॒¦त्वे इति॑¦अपि॑¦असः॑¦यथा᳚¦के॒ऽनि॒पाना᳚‌म्¦इ॒नः¦वृ॒धे ||

गम᳚न्न॒स्मे वसू॒न्या हि शंसि॑षं स्वा॒शिषं॒ भर॒मा या᳚हि सो॒मिनः॑ |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

त्वमी᳚शिषे॒ सास्मिन्ना स॑त्सि ब॒र्हिष्य॑नाधृ॒ष्या तव॒ पात्रा᳚णि॒ धर्म॑णा ||{5/11}{7.8.26.5}{10.44.5}{10.4.2.5}{1245, 881, 9253}

गम॑न्¦अ॒स्मे इति॑¦वसू᳚नि¦आ¦हि¦शंसि॑ष‌म्¦सु॒ऽआ॒शिष᳚‌म्¦भर᳚‌म्¦आ¦या॒हि॒¦सो॒मिनः॑ |
त्व‌म्¦ई॒शि॒षे॒¦सः¦अ॒स्मिन्¦आ¦स॒त्सि॒¦ब॒र्हिषि॑¦अ॒ना॒धृ॒ष्या¦तव॑¦पात्रा᳚णि¦धर्म॑णा ||

पृथ॒क्प्राय᳚न्‌ प्रथ॒मा दे॒वहू᳚त॒योऽकृ᳚ण्वत श्रव॒स्या᳚नि दु॒ष्टरा᳚ |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

न ये शे॒कुर्य॒ज्ञियां॒ नाव॑मा॒रुह॑मी॒र्मैव ते न्य॑विशन्त॒ केप॑यः ||{6/11}{7.8.27.1}{10.44.6}{10.4.2.6}{1246, 881, 9254}

पृथ॑क्¦प्र¦आ॒य॒न्¦प्र॒थ॒माः¦दे॒वऽहू᳚तयः¦अकृ᳚ण्वत¦श्र॒व॒स्या᳚नि¦दु॒स्तरा᳚ |
न¦ये¦शे॒कुः¦य॒ज्ञिया᳚‌म्¦नाव᳚‌म्¦आ॒ऽरुह᳚‌म्¦ई॒र्मा¦ए॒व¦ते¦नि¦अ॒वि॒श॒न्त॒¦केप॑यः ||

ए॒वैवापा॒गप॑रे सन्तु दू॒ढ्योऽश्वा॒ येषां᳚ दु॒र्युज॑ आयुयु॒ज्रे |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

इ॒त्था ये प्रागुप॑रे॒ सन्ति॑ दा॒वने᳚ पु॒रूणि॒ यत्र॑ व॒युना᳚नि॒ भोज॑ना ||{7/11}{7.8.27.2}{10.44.7}{10.4.2.7}{1247, 881, 9255}

ए॒व¦ए॒व¦अपा᳚क्¦अप॑रे¦स॒न्तु॒¦दुः॒ऽध्यः॑¦अश्वाः᳚¦येषा᳚‌म्¦दुः॒ऽयुजः॑¦आ॒ऽयु॒यु॒ज्रे |
इ॒त्था¦ये¦प्राक्¦उप॑रे¦सन्ति॑¦दा॒वने᳚¦पु॒रूणि॑¦यत्र॑¦व॒युना᳚नि¦भोज॑ना ||

गि॒रीँरज्रा॒न्‌ रेज॑मानाँ, अधारय॒द्द्यौः क्र᳚न्दद॒न्तरि॑क्षाणि कोपयत् |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

स॒मी॒ची॒ने धि॒षणे॒ वि ष्क॑भायति॒ वृष्णः॑ पी॒त्वा मद॑ उ॒क्थानि॑ शंसति ||{8/11}{7.8.27.3}{10.44.8}{10.4.2.8}{1248, 881, 9256}

गि॒रीन्¦अज्रा᳚न्¦रेज॑मानान्¦अ॒धा॒र॒य॒त्¦द्यौः¦क्र॒न्द॒त्¦अ॒न्तरि॑क्षाणि¦को॒प॒य॒त् |
स॒मी॒ची॒ने इति॑ स॒‌म्ऽई॒ची॒ने¦धि॒षणे॒ इति॑¦वि¦स्क॒भा॒य॒ति॒¦वृष्णः॑¦पी॒त्वा¦मदे᳚¦उ॒क्थानि॑¦शं॒स॒ति॒ ||

इ॒मं बि॑भर्मि॒ सुकृ॑तं ते, अङ्कु॒शं येना᳚रु॒जासि॑ मघवञ्छफा॒रुजः॑ |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

अ॒स्मिन्‌ त्सु ते॒ सव॑ने, अस्त्वो॒क्यं᳚ सु॒त इ॒ष्टौ म॑घवन्‌ बो॒ध्याभ॑गः ||{9/11}{7.8.27.4}{10.44.9}{10.4.2.9}{1249, 881, 9257}

इ॒म‌म्¦बि॒भ॒र्मि॒¦सुऽकृ॑त‌म्¦ते॒¦अ॒ङ्कु॒श‌म्¦येन॑¦आ॒ऽरु॒जासि॑¦म॒घ॒ऽव॒न्¦श॒फ॒ऽआ॒रुजः॑ |
अ॒स्मिन्¦सु¦ते॒¦सव॑ने¦अ॒स्तु॒¦ओ॒क्य᳚‌म्¦सु॒ते¦इ॒ष्टौ¦म॒घ॒ऽव॒न्¦बो॒धि॒¦आऽभ॑गः ||

गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे᳚न॒ क्षुधं᳚ पुरुहूत॒ विश्वा᳚म् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

व॒यं राज॑भिः प्रथ॒मा धना᳚न्य॒स्माके᳚न वृ॒जने᳚ना जयेम ||{10/11}{7.8.27.5}{10.44.10}{10.4.2.10}{1250, 881, 9258}

गोभिः॑¦त॒रे॒म॒¦अम॑ति‌म्¦दुः॒ऽएवा᳚‌म्¦यवे᳚न¦क्षुध᳚‌म्¦पु॒रु॒ऽहू॒त॒¦विश्वा᳚‌म् |
व॒य‌म्¦राज॑ऽभिः¦प्र॒थ॒माः¦धना᳚नि¦अ॒स्माके᳚न¦वृ॒जने᳚न¦ज॒ये॒म॒ ||

बृह॒स्पति᳚र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

इन्द्रः॑ पु॒रस्ता᳚दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ||{11/11}{7.8.27.6}{10.44.11}{10.4.2.11}{1251, 881, 9259}

बृ॒हस्पतिः॑¦नः॒¦परि॑¦पा॒तु॒¦प॒श्चात्¦उ॒त¦उत्ऽत॑रस्मात्¦अध॑रात्¦अ॒घ॒ऽयोः |
इन्द्रः॑¦पु॒रस्ता᳚त्¦उ॒त¦म॒ध्य॒तः¦नः॒¦सखा᳚¦सखि॑ऽभ्यः¦वरि॑ऽवः¦कृ॒णो॒तु॒ ||

[116] दिवस्परीति द्वादशर्चस्य सूक्तस्य भालंदनो वत्सप्रिरग्निस्त्रिष्टुप् |
दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे, अ॒ग्निर॒स्मद्द्वि॒तीयं॒ परि॑ जा॒तवे᳚दाः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

तृ॒तीय॑म॒प्सु नृ॒मणा॒, अज॑स्र॒मिन्धा᳚न एनं जरते स्वा॒धीः ||{1/12}{7.8.28.1}{10.45.1}{10.4.3.1}{1252, 882, 9260}

दि॒वः¦परि॑¦प्र॒थ॒म‌म्¦ज॒ज्ञे॒¦अ॒ग्निः¦अ॒स्मत्¦द्वि॒तीय᳚‌म्¦परि॑¦जा॒तऽवे᳚दाः |
तृ॒तीय᳚‌म्¦अ॒प्ऽसु¦नृ॒ऽमनाः᳚¦अज॑स्र‌म्¦इन्धा᳚नः¦ए॒न॒‌म्¦ज॒र॒ते॒¦सु॒ऽआ॒धीः ||

वि॒द्मा ते᳚, अग्ने त्रे॒धा त्र॒याणि॑ वि॒द्मा ते॒ धाम॒ विभृ॑ता पुरु॒त्रा |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्वि॒द्मा तमुत्सं॒ यत॑ आज॒गन्थ॑ ||{2/12}{7.8.28.2}{10.45.2}{10.4.3.2}{1253, 882, 9261}

वि॒द्म¦ते॒¦अ॒ग्ने॒¦त्रे॒धा¦त्र॒याणि॑¦वि॒द्म¦ते॒¦धाम॑¦विऽभृ॑ता¦पु॒रु॒ऽत्रा |
वि॒द्म¦ते॒¦नाम॑¦प॒र॒म‌म्¦गुहा᳚¦यत्¦वि॒द्म¦त‌म्¦उत्स᳚‌म्¦यतः॑¦आ॒ऽज॒गन्थ॑ ||

स॒मु॒द्रे त्वा᳚ नृ॒मणा᳚, अ॒प्स्व१॑(अ॒)न्तर्नृ॒चक्षा᳚, ईधे दि॒वो, अ॑ग्न॒ ऊध॑न् |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

तृ॒तीये᳚ त्वा॒ रज॑सि तस्थि॒वांस॑म॒पामु॒पस्थे᳚ महि॒षा, अ॑वर्धन् ||{3/12}{7.8.28.3}{10.45.3}{10.4.3.3}{1254, 882, 9262}

स॒मु॒द्रे¦त्वा॒¦नृ॒ऽमनाः᳚¦अ॒प्ऽसु¦अ॒न्तः¦नृ॒ऽचक्षाः᳚¦ई॒धे॒¦दि॒वः¦अ॒ग्ने॒¦ऊध॑न् |
तृ॒तीये᳚¦त्वा॒¦रज॑सि¦त॒स्थि॒ऽवांस᳚‌म्¦अ॒पा‌म्¦उ॒पऽस्थे᳚¦म॒हि॒षाः¦अ॒व॒र्ध॒न् ||

अक्र᳚न्दद॒ग्निः स्त॒नय᳚न्निव॒ द्यौः, क्षामा॒ रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन् |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो, अख्य॒दा रोद॑सी भा॒नुना᳚ भात्य॒न्तः ||{4/12}{7.8.28.4}{10.45.4}{10.4.3.4}{1255, 882, 9263}

अक्र᳚न्दत्¦अ॒ग्निः¦स्त॒नय॑न्ऽ‌इव¦द्यौः¦क्षाम॑¦रेरि॑हत्¦वी॒रुधः॑¦स॒‌म्।आं॒जन् |
स॒द्यः¦ज॒ज्ञा॒नः¦वि¦हि¦ई॒‌म्¦इ॒द्धः¦अख्य॑त्¦आ¦रोद॑सी॒ इति॑¦भा॒नुना᳚¦भा॒ति॒¦अ॒न्तरिति॑ ||

श्री॒णामु॑दा॒रो ध॒रुणो᳚ रयी॒णां म॑नी॒षाणां॒ प्रार्प॑णः॒ सोम॑गोपाः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

वसुः॑ सू॒नुः सह॑सो, अ॒प्सु राजा॒ वि भा॒त्यग्र॑ उ॒षसा᳚मिधा॒नः ||{5/12}{7.8.28.5}{10.45.5}{10.4.3.5}{1256, 882, 9264}

श्री॒णा‌म्¦उ॒त्ऽआ॒रः¦ध॒रुणः॑¦र॒यी॒णा‌म्¦म॒नी॒षाणा᳚‌म्¦प्र॒।आर्प॑णः¦सोम॑ऽगोपाः |
वसुः॑¦सू॒नुः¦सह॑सः¦अ॒प्ऽसु¦राजा᳚¦वि¦भा॒ति॒¦अग्रे᳚¦उ॒षसा᳚‌म्¦इ॒धा॒नः ||

विश्व॑स्य के॒तुर्भुव॑नस्य॒ गर्भ॒ आ रोद॑सी, अपृणा॒ज्जाय॑मानः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

वी॒ळुं चि॒दद्रि॑मभिनत्परा॒यञ्जना॒ यद॒ग्निमय॑जन्त॒ पञ्च॑ ||{6/12}{7.8.28.6}{10.45.6}{10.4.3.6}{1257, 882, 9265}

विश्व॑स्य¦के॒तुः¦भुव॑नस्य¦गर्भः॑¦आ¦रोद॑सी॒ इति॑¦अ॒पृ॒णा॒त्¦जाय॑मानः |
वी॒ळु‌म्¦चि॒त्¦अद्रि᳚‌म्¦अ॒भि॒न॒त्¦प॒रा॒ऽयन्¦जनाः᳚¦यत्¦अ॒ग्नि‌म्¦अय॑जन्त¦पंच॑ ||

उ॒शिक्‌ पा᳚व॒को, अ॑र॒तिः सु॑मे॒धा मर्ते᳚ष्व॒ग्निर॒मृतो॒ नि धा᳚यि |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

इय॑र्ति धू॒मम॑रु॒षं भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षन् ||{7/12}{7.8.29.1}{10.45.7}{10.4.3.7}{1258, 882, 9266}

उ॒शिक्¦पा॒व॒कः¦अ॒र॒तिः¦सु॒ऽमे॒धाः¦मर्ते᳚षु¦अ॒ग्निः¦अ॒मृतः॑¦नि¦धा॒यि॒ |
इय॑र्ति¦धू॒म‌म्¦अ॒रु॒ष‌म्¦भरि॑भ्रत्¦उत्¦शु॒क्रेण॑¦शो॒चिषा᳚¦द्या‌म्¦इन॑क्षन् ||

दृ॒शा॒नो रु॒क्म उ᳚र्वि॒या व्य॑द्यौद्दु॒र्मर्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

अ॒ग्निर॒मृतो᳚, अभव॒द्वयो᳚भि॒र्यदे᳚नं॒ द्यौर्ज॒नय॑त्सु॒रेताः᳚ ||{8/12}{7.8.29.2}{10.45.8}{10.4.3.8}{1259, 882, 9267}

दृ॒शा॒नः¦रु॒क्मः¦उ॒र्वि॒या¦वि¦अ॒द्यौ॒त्¦दुः॒ऽमर्ष᳚‌म्¦आयुः॑¦श्रि॒ये¦रु॒चा॒नः |
अ॒ग्निः¦अ॒मृतः॑¦अ॒भ॒व॒त्¦वयः॑ऽभिः¦यत्¦ए॒न॒‌म्¦द्यौः¦ज॒नय॑त्¦सु॒ऽरेताः᳚ ||

यस्ते᳚, अ॒द्य कृ॒णव॑द्भद्रशोचेऽपू॒पं दे᳚व घृ॒तव᳚न्तमग्ने |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

प्र तं न॑य प्रत॒रं वस्यो॒, अच्छा॒भि सु॒म्नं दे॒वभ॑क्तं यविष्ठ ||{9/12}{7.8.29.3}{10.45.9}{10.4.3.9}{1260, 882, 9268}

यः¦ते॒¦अ॒द्य¦कृ॒णव॑त्¦भ॒द्र॒ऽशो॒चे॒¦अ॒पू॒प‌म्¦दे॒व॒¦घृ॒तऽव᳚न्त‌म्¦अ॒ग्ने॒ |
प्र¦त‌म्¦न॒य॒¦प्र॒ऽत॒र‌म्¦वस्यः॑¦अच्छ॑¦अ॒भि¦सु॒म्न‌म्¦दे॒वऽभ॑क्त‌म्¦य॒वि॒ष्ठ॒ ||

आ तं भ॑ज सौश्रव॒सेष्व॑ग्न उ॒क्थौ᳚क्थ॒ आ भ॑ज श॒स्यमा᳚ने |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

प्रि॒यः सूर्ये᳚ प्रि॒यो, अ॒ग्ना भ॑वा॒त्युज्जा॒तेन॑ भि॒नद॒दुज्जनि॑त्वैः ||{10/12}{7.8.29.4}{10.45.10}{10.4.3.10}{1261, 882, 9269}

आ¦त‌म्¦भ॒ज॒¦सौ॒श्र॒व॒सेषु॑¦अ॒ग्ने॒¦उ॒क्थे।औ᳚क्थे¦आ¦भ॒ज॒¦श॒स्यमा᳚ने |
प्रि॒यः¦सूर्ये᳚¦प्रि॒यः¦अ॒ग्ना¦भ॒वा॒ति॒¦उत्¦जा॒तेन॑¦भि॒नद॑त्¦उत्¦जनि॑ऽत्वैः ||

त्वाम॑ग्ने॒ यज॑माना॒, अनु॒ द्यून्‌ विश्वा॒ वसु॑ दधिरे॒ वार्या᳚णि |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

त्वया᳚ स॒ह द्रवि॑णमि॒च्छमा᳚ना व्र॒जं गोम᳚न्तमु॒शिजो॒ वि व᳚व्रुः ||{11/12}{7.8.29.5}{10.45.11}{10.4.3.11}{1262, 882, 9270}

त्वा‌म्¦अ॒ग्ने॒¦यज॑मानाः¦अनु॑¦द्यून्¦विश्वा᳚¦वसु॑¦द॒धि॒रे॒¦वार्या᳚णि |
त्वया᳚¦स॒ह¦द्रवि॑ण‌म्¦इ॒च्छमा᳚नाः¦व्र॒ज‌म्¦गोऽम᳚न्त‌म्¦उ॒शिजः॑¦वि¦व॒व्रुः॒ ||

अस्ता᳚व्य॒ग्निर्न॒रां सु॒शेवो᳚ वैश्वान॒र ऋषि॑भिः॒ सोम॑गोपाः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

अ॒द्वे॒षे द्यावा᳚पृथि॒वी हु॑वेम॒ देवा᳚ ध॒त्त र॒यिम॒स्मे सु॒वीर᳚म् ||{12/12}{7.8.29.6}{10.45.12}{10.4.3.12}{1263, 882, 9271}

अस्ता᳚वि¦अ॒ग्निः¦न॒रा‌म्¦सु॒ऽशेवः॑¦वै॒श्वा॒न॒रः¦ऋषि॑ऽभिः¦सोम॑ऽगोपाः |
अ॒द्वे॒षे¦द्यावा᳚पृथि॒वी इति॑¦हु॒वे॒म॒¦देवाः᳚¦ध॒त्त¦र॒यि‌म्¦अ॒स्मे इति॑¦सु॒ऽवीर᳚‌म् ||