[1] प्रहोतेति दशर्चस्य सूक्तस्य भालंदनो वत्सप्रिरग्निस्त्रिष्टुप् | |
प्र होता᳚ जा॒तो म॒हान्न॑भो॒विन्नृ॒षद्वा᳚ सीदद॒पामु॒पस्थे᳚ |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्} दधि॒र्यो धायि॒ स ते॒ वयां᳚सि य॒न्ता वसू᳚नि विध॒ते त॑नू॒पाः ||{1/10}{8.1.1.1}{10.46.1}{10.4.4.1}{1, 883, 9272} प्र¦होता᳚¦जा॒तः¦म॒हान्¦न॒भः॒ऽवित्¦नृ॒ऽसद्वा᳚¦सी॒द॒त्¦अ॒पाम्¦उ॒पऽस्थे᳚ | |
इ॒मं वि॒धन्तो᳚, अ॒पां स॒धस्थे᳚ प॒शुं न न॒ष्टं प॒दैरनु॑ ग्मन् |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्} गुहा॒ चत᳚न्तमु॒शिजो॒ नमो᳚भिरि॒च्छन्तो॒ धीरा॒ भृग॑वोऽविन्दन् ||{2/10}{8.1.1.2}{10.46.2}{10.4.4.2}{2, 883, 9273} इ॒मम्¦वि॒धन्तः॑¦अ॒पाम्¦स॒धऽस्थे᳚¦प॒शुम्¦न¦न॒ष्टम्¦प॒दैः¦अनु॑¦ग्म॒न् | |
इ॒मं त्रि॒तो भूर्य॑विन्ददि॒च्छन्वै᳚भूव॒सो मू॒र्धन्यघ्न्या᳚याः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्} स शेवृ॑धो जा॒त आ ह॒र्म्येषु॒ नाभि॒र्युवा᳚ भवति रोच॒नस्य॑ ||{3/10}{8.1.1.3}{10.46.3}{10.4.4.3}{3, 883, 9274} इ॒मम्¦त्रि॒तः¦भूरि॑¦अ॒वि॒न्द॒त्¦इ॒च्छन्¦वै॒भु॒ऽव॒सः¦मू॒र्धनि॑¦अघ्न्या᳚याः | |
म॒न्द्रं होता᳚रमु॒शिजो॒ नमो᳚भिः॒ प्राञ्चं᳚ य॒ज्ञं ने॒तार॑मध्व॒राणा᳚म् |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्} वि॒शाम॑कृण्वन्नर॒तिं पा᳚व॒कं ह᳚व्य॒वाहं॒ दध॑तो॒ मानु॑षेषु ||{4/10}{8.1.1.4}{10.46.4}{10.4.4.4}{4, 883, 9275} म॒न्द्रम्¦होता᳚रम्¦उ॒शिजः॑¦नमः॑ऽभिः¦प्रांच᳚म्¦य॒ज्ञम्¦ने॒तार᳚म्¦अ॒ध्व॒राणा᳚म् | |
प्र भू॒र्जय᳚न्तं म॒हां वि॑पो॒धां मू॒रा, अमू᳚रं पु॒रां द॒र्माण᳚म् |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्} नय᳚न्तो॒ गर्भं᳚ व॒नां धियं᳚ धु॒र्हिरि॑श्मश्रुं॒ नार्वा᳚णं॒ धन॑र्चम् ||{5/10}{8.1.1.5}{10.46.5}{10.4.4.5}{5, 883, 9276} प्र¦भूः॒¦जय᳚न्तम्¦म॒हान्¦वि॒पः॒ऽधाम्¦मू॒राः¦अमू᳚रम्¦पु॒राम्¦द॒र्माण᳚म् | |
नि प॒स्त्या᳚सु त्रि॒तः स्त॑भू॒यन् परि॑वीतो॒ योनौ᳚ सीदद॒न्तः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्} अतः॑ सं॒गृभ्या᳚ वि॒शां दमू᳚ना॒ विध᳚र्मणाय॒न्त्रैरी᳚यते॒ नॄन् ||{6/10}{8.1.2.1}{10.46.6}{10.4.4.6}{6, 883, 9277} नि¦प॒स्त्या᳚सु¦त्रि॒तः¦स्त॒भु॒ऽयन्¦परि॑ऽवीतः¦योनौ᳚¦सी॒द॒त्¦अ॒न्तरिति॑ | |
अ॒स्याजरा᳚सो द॒माम॒रित्रा᳚, अ॒र्चद्धू᳚मासो, अ॒ग्नयः॑ पाव॒काः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्} श्वि॒ती॒चयः॑ श्वा॒त्रासो᳚ भुर॒ण्यवो᳚ वन॒र्षदो᳚ वा॒यवो॒ न सोमाः᳚ ||{7/10}{8.1.2.2}{10.46.7}{10.4.4.7}{7, 883, 9278} अ॒स्य¦अ॒जरा᳚सः¦द॒माम्¦अ॒रित्राः᳚¦अ॒र्चत्ऽधू᳚मासः¦अ॒ग्नयः॑¦पा॒व॒काः | |
प्र जि॒ह्वया᳚ भरते॒ वेपो᳚, अ॒ग्निः प्र व॒युना᳚नि॒ चेत॑सा पृथि॒व्याः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्} तमा॒यवः॑ शु॒चय᳚न्तं पाव॒कं म॒न्द्रं होता᳚रं दधिरे॒ यजि॑ष्ठम् ||{8/10}{8.1.2.3}{10.46.8}{10.4.4.8}{8, 883, 9279} प्र¦जि॒ह्वया᳚¦भ॒र॒ते॒¦वेपः॑¦अ॒ग्निः¦प्र¦व॒युना᳚नि¦चेत॑सा¦पृ॒थि॒व्याः | |
द्यावा॒ यम॒ग्निं पृ॑थि॒वी जनि॑ष्टा॒माप॒स्त्वष्टा॒ भृग॑वो॒ यं सहो᳚भिः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्} ई॒ळेन्यं᳚ प्रथ॒मं मा᳚त॒रिश्वा᳚ दे॒वास्त॑तक्षु॒र्मन॑वे॒ यज॑त्रम् ||{9/10}{8.1.2.4}{10.46.9}{10.4.4.9}{9, 883, 9280} द्यावा᳚¦यम्¦अ॒ग्निम्¦पृ॒थि॒वी इति॑¦जनि॑ष्टाम्¦आपः॑¦त्वष्टा᳚¦भृग॑वः¦यम्¦सहः॑ऽभिः | |
यं त्वा᳚ दे॒वा द॑धि॒रे ह᳚व्य॒वाहं᳚ पुरु॒स्पृहो॒ मानु॑षासो॒ यज॑त्रम् |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्} स याम᳚न्नग्ने स्तुव॒ते वयो᳚ धाः॒ प्र दे᳚व॒यन्य॒शसः॒ सं हि पू॒र्वीः ||{10/10}{8.1.2.5}{10.46.10}{10.4.4.10}{10, 883, 9281} यम्¦त्वा॒¦दे॒वाः¦द॒धि॒रे¦ह॒व्य॒ऽवाह᳚म्¦पु॒रु॒ऽस्पृहः॑¦मानु॑षासः¦यज॑त्रम् | |
[2] जगृभ्मेत्यष्टर्चस्य सूक्तस्य सप्तगुर्वैकुंठइंद्रत्रिष्टुप् | |
ज॒गृ॒भ्मा ते॒ दक्षि॑णमिन्द्र॒ हस्तं᳚ वसू॒यवो᳚ वसुपते॒ वसू᳚नाम् |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्} वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना᳚म॒स्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{1/8}{8.1.3.1}{10.47.1}{10.4.5.1}{11, 884, 9282} ज॒गृ॒भ्म¦ते॒¦दक्षि॑णम्¦इ॒न्द्र॒¦हस्त᳚म्¦व॒सु॒ऽयवः॑¦व॒सु॒ऽप॒ते॒¦वसू᳚नाम् | |
स्वा॒यु॒धं स्वव॑सं सुनी॒थं चतुः॑समुद्रं ध॒रुणं᳚ रयी॒णाम् |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्} च॒र्कृत्यं॒ शंस्यं॒ भूरि॑वारम॒स्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{2/8}{8.1.3.2}{10.47.2}{10.4.5.2}{12, 884, 9283} सु॒ऽआ॒यु॒धम्¦सु॒।आव॑सम्¦सु॒ऽनी॒थम्¦चतुः॑ऽसमुद्रम्¦ध॒रुण᳚म्¦र॒यी॒णाम् | |
सु॒ब्रह्मा᳚णं दे॒वव᳚न्तं बृ॒हन्त॑मु॒रुं ग॑भी॒रं पृ॒थुबु॑ध्नमिन्द्र |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्} श्रु॒तऋ॑षिमु॒ग्रम॑भिमाति॒षाह॑म॒स्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{3/8}{8.1.3.3}{10.47.3}{10.4.5.3}{13, 884, 9284} सु॒ऽब्रह्मा᳚णम्¦दे॒वऽव᳚न्तम्¦बृ॒हन्त᳚म्¦उ॒रुम्¦ग॒भी॒रम्¦पृ॒थुऽबु॑ध्नम्¦इ॒न्द्र॒ | |
स॒नद्वा᳚जं॒ विप्र॑वीरं॒ तरु॑त्रं धन॒स्पृतं᳚ शूशु॒वांसं᳚ सु॒दक्ष᳚म् |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्} द॒स्यु॒हनं᳚ पू॒र्भिद॑मिन्द्र स॒त्यम॒स्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{4/8}{8.1.3.4}{10.47.4}{10.4.5.4}{14, 884, 9285} स॒नत्ऽवा᳚जम्¦विप्र॑ऽवीरम्¦तरु॑त्रम्¦ध॒न॒ऽस्पृत᳚म्¦शू॒शु॒ऽवांस᳚म्¦सु॒ऽदक्ष᳚म् | |
अश्वा᳚वन्तं र॒थिनं᳚ वी॒रव᳚न्तं सह॒स्रिणं᳚ श॒तिनं॒ वाज॑मिन्द्र |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्} भ॒द्रव्रा᳚तं॒ विप्र॑वीरं स्व॒र्षाम॒स्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{5/8}{8.1.3.5}{10.47.5}{10.4.5.5}{15, 884, 9286} अश्व॑ऽवन्तम्¦र॒थिन᳚म्¦वी॒रऽव᳚न्तम्¦स॒ह॒स्रिण᳚म्¦श॒तिन᳚म्¦वाज᳚म्¦इ॒न्द्र॒ | |
प्र स॒प्तगु॑मृ॒तधी᳚तिं सुमे॒धां बृह॒स्पतिं᳚ म॒तिरच्छा᳚ जिगाति |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्} य आ᳚ङ्गिर॒सो नम॑सोप॒सद्यो॒ऽस्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{6/8}{8.1.4.1}{10.47.6}{10.4.5.6}{16, 884, 9287} प्र¦स॒प्तऽगु᳚म्¦ऋ॒तऽधी᳚तिम्¦सु॒ऽमे॒धाम्¦बृ॒ह॒स्पति᳚म्¦म॒तिः¦अच्छ॑¦जि॒गा॒ति॒ | |
वनी᳚वानो॒ मम॑ दू॒तास॒ इन्द्रं॒ स्तोमा᳚श्चरन्ति सुम॒तीरि॑या॒नाः |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्} हृ॒दि॒स्पृशो॒ मन॑सा व॒च्यमा᳚ना, अ॒स्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{7/8}{8.1.4.2}{10.47.7}{10.4.5.7}{17, 884, 9288} वनी᳚वानः¦मम॑¦दू॒तासः॑¦इन्द्र᳚म्¦सोमाः᳚¦च॒र॒न्ति॒¦सु॒ऽम॒तीः¦इ॒या॒नाः | |
यत् त्वा॒ यामि॑ द॒द्धि तन्न॑ इन्द्र बृ॒हन्तं॒ क्षय॒मस॑मं॒ जना᳚नाम् |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्} अ॒भि तद्द्यावा᳚पृथि॒वी गृ॑णीताम॒स्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{8/8}{8.1.4.3}{10.47.8}{10.4.5.8}{18, 884, 9289} यत्¦त्वा॒¦यामि॑¦द॒द्धि¦तत्¦नः॒¦इ॒न्द्र॒¦बृ॒हन्त᳚म्¦क्षय᳚म्¦अस॑मम्¦जना᳚नाम् | |
[3] अहंभुवमित्येकादशर्चस्य सूक्तस्य वैकुंठइंद्रो वैकुंठइंद्रो जगती सप्तमीदशम्येकादश्यस्त्रिष्टुभः | |
अ॒हं भु॑वं॒ वसु॑नः पू॒र्व्यस्पति॑र॒हं धना᳚नि॒ सं ज॑यामि॒ शश्व॑तः |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती} मां ह॑वन्ते पि॒तरं॒ न ज॒न्तवो॒ऽहं दा॒शुषे॒ वि भ॑जामि॒ भोज॑नम् ||{1/11}{8.1.5.1}{10.48.1}{10.4.6.1}{19, 885, 9290} अ॒हम्¦भु॒व॒म्¦वसु॑नः¦पू॒र्व्यः¦पतिः॑¦अ॒हम्¦धना᳚नि¦सम्¦ज॒जा॒मि॒¦शश्व॑तः | |
अ॒हमिन्द्रो॒ रोधो॒ वक्षो॒, अथ᳚र्वणस्त्रि॒ताय॒ गा, अ॑जनय॒महे॒रधि॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती} अ॒हं दस्यु॑भ्यः॒ परि॑ नृ॒म्णमा द॑दे गो॒त्रा शिक्ष᳚न्दधी॒चे मा᳚त॒रिश्व॑ने ||{2/11}{8.1.5.2}{10.48.2}{10.4.6.2}{20, 885, 9291} अ॒हम्¦इन्द्रः॑¦रोधः॑¦वक्षः॑¦अथ᳚र्वणः¦त्रि॒तायः॑¦गाः¦अ॒ज॒न॒य॒म्¦अहेः᳚¦अधि॑ | |
मह्यं॒ त्वष्टा॒ वज्र॑मतक्षदाय॒सं मयि॑ दे॒वासो᳚ऽवृज॒न्नपि॒ क्रतु᳚म् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती} ममानी᳚कं॒ सूर्य॑स्येव दु॒ष्टरं॒ मामार्य᳚न्ति कृ॒तेन॒ कर्त्वे᳚न च ||{3/11}{8.1.5.3}{10.48.3}{10.4.6.3}{21, 885, 9292} मह्य᳚म्¦त्वष्टा᳚¦वज्र᳚म्¦अ॒त॒क्ष॒त्¦आ॒य॒सम्¦मयि॑¦दे॒वासः॑¦अ॒वृ॒ज॒न्¦अपि॑¦क्रतु᳚म् | |
अ॒हमे॒तं ग॒व्यय॒मश्व्यं᳚ प॒शुं पु॑री॒षिणं॒ साय॑केना हिर॒ण्यय᳚म् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती} पु॒रू स॒हस्रा॒ नि शि॑शामि दा॒शुषे॒ यन्मा॒ सोमा᳚स उ॒क्थिनो॒, अम᳚न्दिषुः ||{4/11}{8.1.5.4}{10.48.4}{10.4.6.4}{22, 885, 9293} अ॒हम्¦ए॒तम्¦ग॒व्यय᳚म्¦अश्व्य᳚म्¦प॒शुम्¦पु॒री॒षिण᳚म्¦साय॑केन¦हि॒र॒ण्यय᳚म् | |
अ॒हमिन्द्रो॒ न परा᳚ जिग्य॒ इद्धनं॒ न मृ॒त्यवेऽव॑ तस्थे॒ कदा᳚ च॒न |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती} सोम॒मिन्मा᳚ सु॒न्वन्तो᳚ याचता॒ वसु॒ न मे᳚ पूरवः स॒ख्ये रि॑षाथन ||{5/11}{8.1.5.5}{10.48.5}{10.4.6.5}{23, 885, 9294} अ॒हम्¦इन्द्रः॑¦न¦परा᳚¦जि॒ग्ये॒¦इत्¦धन᳚म्¦न¦मृ॒त्यवे᳚¦अव॑¦त॒स्थे॒¦कदा᳚¦च॒न | |
अ॒हमे॒ताञ्छाश्व॑सतो॒ द्वाद्वेन्द्रं॒ ये वज्रं᳚ यु॒धयेऽकृ᳚ण्वत |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती} आ॒ह्वय॑मानाँ॒, अव॒ हन्म॑नाहनं दृ॒ळ्हा वद॒न्नन॑मस्युर्नम॒स्विनः॑ ||{6/11}{8.1.6.1}{10.48.6}{10.4.6.6}{24, 885, 9295} अ॒हम्¦ए॒तान्¦शाश्व॑सतः¦द्वाऽद्वा᳚¦इन्द्र᳚म्¦ये¦वज्र᳚म्¦यु॒धये᳚¦अकृ᳚ण्वत | |
अ॒भी॒३॑(ई॒)दमेक॒मेको᳚, अस्मि नि॒ष्षाळ॒भी द्वा किमु॒ त्रयः॑ करन्ति |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्} खले॒ न प॒र्षान् प्रति॑ हन्मि॒ भूरि॒ किं मा᳚ निन्दन्ति॒ शत्र॑वोऽनि॒न्द्राः ||{7/11}{8.1.6.2}{10.48.7}{10.4.6.7}{25, 885, 9296} अ॒भि¦इ॒दम्¦एक᳚म्¦एकः॑¦अ॒स्मि॒¦नि॒ष्षाट्¦अ॒भि¦द्वा¦किम्¦ऊँ॒ इति॑¦त्रयः॑¦क॒र॒न्ति॒ | |
अ॒हं गु॒ङ्गुभ्यो᳚, अतिथि॒ग्वमिष्क॑र॒मिषं॒ न वृ॑त्र॒तुरं᳚ वि॒क्षु धा᳚रयम् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती} यत्प᳚र्णय॒घ्न उ॒त वा᳚ करञ्ज॒हे प्राहं म॒हे वृ॑त्र॒हत्ये॒, अशु॑श्रवि ||{8/11}{8.1.6.3}{10.48.8}{10.4.6.8}{26, 885, 9297} अ॒हम्¦गु॒ङ्गुऽभ्यः॑¦अ॒ति॒थि॒ऽग्वम्¦इष्क॑रम्¦इष᳚म्¦न¦वृ॒त्र॒ऽतुर᳚म्¦वि॒क्षु¦धा॒र॒य॒म् | |
प्र मे॒ नमी᳚ सा॒प्य इ॒षे भु॒जे भू॒द्गवा॒मेषे᳚ स॒ख्या कृ॑णुत द्वि॒ता |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती} दि॒द्युं यद॑स्य समि॒थेषु॑ मं॒हय॒मादिदे᳚नं॒ शंस्य॑मु॒क्थ्यं᳚ करम् ||{9/11}{8.1.6.4}{10.48.9}{10.4.6.9}{27, 885, 9298} प्र¦मे॒¦नमी᳚¦सा॒प्यः¦इ॒षे¦भु॒जे¦भू॒त्¦गवा᳚म्¦एषे᳚¦स॒ख्या¦कृ॒णु॒त॒¦द्वि॒ता | |
प्र नेम॑स्मिन्ददृशे॒ सोमो᳚, अ॒न्तर्गो॒पा नेम॑मा॒विर॒स्था कृ॑णोति |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्} स ति॒ग्मशृ᳚ङ्गं वृष॒भं युयु॑त्सन्द्रु॒हस्त॑स्थौ बहु॒ले ब॒द्धो, अ॒न्तः ||{10/11}{8.1.6.5}{10.48.10}{10.4.6.10}{28, 885, 9299} प्र¦नेम॑स्मिन्¦द॒दृ॒शे॒¦सोमः॑¦अ॒न्तः¦गो॒पाः¦नेम᳚म्¦आ॒विः¦अ॒स्था¦कृ॒णो॒ति॒ | |
आ॒दि॒त्यानां॒ वसू᳚नां रु॒द्रिया᳚णां दे॒वो दे॒वानां॒ न मि॑नामि॒ धाम॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्} ते मा᳚ भ॒द्राय॒ शव॑से ततक्षु॒रप॑राजित॒मस्तृ॑त॒मषा᳚ळ्हम् ||{11/11}{8.1.6.6}{10.48.11}{10.4.6.11}{29, 885, 9300} आ॒दि॒त्याना᳚म्¦वसू᳚नाम्¦रु॒द्रिया᳚णाम्¦दे॒वः¦दे॒वाना᳚म्¦न¦मि॒ना॒मि॒¦धाम॑ | |
[4] अहंदामित्येकादशर्चस्य सूक्तस्य वैकुंठ इंद्रो वैकुंठइंद्रो जगती द्वितीयांत्येत्रिष्टुभौ | |
अ॒हं दां᳚ गृण॒ते पूर्व्यं॒ वस्व॒हं ब्रह्म॑ कृणवं॒ मह्यं॒ वर्ध॑नम् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती} अ॒हं भु॑वं॒ यज॑मानस्य चोदि॒ताय॑ज्वनः साक्षि॒ विश्व॑स्मि॒न् भरे᳚ ||{1/11}{8.1.7.1}{10.49.1}{10.4.7.1}{30, 886, 9301} अ॒हम्¦दा॒म्¦गृ॒ण॒ते¦पूर्व्य᳚म्¦वसु॑¦अ॒हम्¦ब्रह्म॑¦कृ॒ण॒व॒म्¦मह्य᳚म्¦वर्ध॑नम् | |
मां धु॒रिन्द्रं॒ नाम॑ दे॒वता᳚ दि॒वश्च॒ ग्मश्चा॒पां च॑ ज॒न्तवः॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्} अ॒हं हरी॒ वृष॑णा॒ विव्र॑ता र॒घू, अ॒हं वज्रं॒ शव॑से धृ॒ष्ण्वा द॑दे ||{2/11}{8.1.7.2}{10.49.2}{10.4.7.2}{31, 886, 9302} माम्¦धुः॒¦इन्द्र᳚म्¦नाम॑¦दे॒वता᳚¦दि॒वः¦च॒¦ग्मः¦च॒¦अ॒पाम्¦च॒¦ज॒न्तवः॑ | |
अ॒हमत्कं᳚ क॒वये᳚ शिश्नथं॒ हथै᳚र॒हं कुत्स॑मावमा॒भिरू॒तिभिः॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती} अ॒हं शुष्ण॑स्य॒ श्नथि॑ता॒ वध᳚र्यमं॒ न यो र॒र आर्यं॒ नाम॒ दस्य॑वे ||{3/11}{8.1.7.3}{10.49.3}{10.4.7.3}{32, 886, 9303} अ॒हम्¦अत्क᳚म्¦क॒वये᳚¦शि॒श्न॒थ॒म्¦हथैः᳚¦अ॒हम्¦कुत्स᳚म्¦आ॒व॒म्¦आ॒भिः¦ऊ॒तिऽभिः॑ | |
अ॒हं पि॒तेव॑ वेत॒सूँर॒भिष्ट॑ये॒ तुग्रं॒ कुत्सा᳚य॒ स्मदि॑भं च रन्धयम् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती} अ॒हं भु॑वं॒ यज॑मानस्य रा॒जनि॒ प्र यद्भरे॒ तुज॑ये॒ न प्रि॒याधृषे᳚ ||{4/11}{8.1.7.4}{10.49.4}{10.4.7.4}{33, 886, 9304} अ॒हम्¦पि॒ताऽइ᳚व¦वे॒त॒सून्¦अ॒भिष्ट॑ये¦तुग्र᳚म्¦कुत्सा᳚य¦स्मत्ऽइ᳚भम्¦च॒¦र॒न्ध॒य॒म् | |
अ॒हं र᳚न्धयं॒ मृग॑यं श्रु॒तर्व॑णे॒ यन्माजि॑हीत व॒युना᳚ च॒नानु॒षक् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती} अ॒हं वे॒शं न॒म्रमा॒यवे᳚ऽकरम॒हं सव्या᳚य॒ पड्गृ॑भिमरन्धयम् ||{5/11}{8.1.7.5}{10.49.5}{10.4.7.5}{34, 886, 9305} अ॒हम्¦र॒न्ध॒य॒म्¦मृग॑यम्¦श्रु॒तर्व॑णे¦यत्¦मा॒¦अजि॑हीत¦व॒युना᳚¦च॒न¦आ॒नु॒षक् | |
अ॒हं स यो नव॑वास्त्वं बृ॒हद्र॑थं॒ सं वृ॒त्रेव॒ दासं᳚ वृत्र॒हारु॑जम् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती} यद्व॒र्धय᳚न्तं प्र॒थय᳚न्तमानु॒षग् दू॒रे पा॒रे रज॑सो रोच॒नाक॑रम् ||{6/11}{8.1.8.1}{10.49.6}{10.4.7.6}{35, 886, 9306} अ॒हम्¦सः¦यः¦नव॑ऽवास्त्वम्¦बृ॒हत्ऽर॑थम्¦सम्¦वृ॒त्राऽइ᳚व¦दास᳚म्¦वृ॒त्र॒ऽहा¦अरु॑जम् | |
अ॒हं सूर्य॑स्य॒ परि॑ याम्या॒शुभिः॒ प्रैत॒शेभि॒र्वह॑मान॒ ओज॑सा |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती} यन्मा᳚ सा॒वो मनु॑ष॒ आह॑ नि॒र्णिज॒ ऋध॑क्कृषे॒ दासं॒ कृत्व्यं॒ हथैः᳚ ||{7/11}{8.1.8.2}{10.49.7}{10.4.7.7}{36, 886, 9307} अ॒हम्¦सूर्य॑स्य¦परि॑¦या॒मि॒¦आ॒शुऽभिः॑¦प्र¦ए॒त॒शेभिः॑¦वह॑मानः¦ओज॑सा | |
अ॒हं स॑प्त॒हा नहु॑षो॒ नहु॑ष्टरः॒ प्राश्रा᳚वयं॒ शव॑सा तु॒र्वशं॒ यदु᳚म् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती} अ॒हं न्य१॑(अ॒)न्यं सह॑सा॒ सह॑स्करं॒ नव॒ व्राध॑तो नव॒तिं च॑ वक्षयम् ||{8/11}{8.1.8.3}{10.49.8}{10.4.7.8}{37, 886, 9308} अ॒हम्¦स॒प्त॒ऽहा¦नहु॑षः¦नहुः॑ऽतरः¦प्र¦अ॒श्र॒व॒य॒म्¦शव॑सा¦तु॒र्वश᳚म्¦यदु᳚म् | |
अ॒हं स॒प्त स्र॒वतो᳚ धारयं॒ वृषा᳚ द्रवि॒त्न्वः॑ पृथि॒व्यां सी॒रा, अधि॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती} अ॒हमर्णां᳚सि॒ वि ति॑रामि सु॒क्रतु᳚र्यु॒धा वि॑दं॒ मन॑वे गा॒तुमि॒ष्टये᳚ ||{9/11}{8.1.8.4}{10.49.9}{10.4.7.9}{38, 886, 9309} अ॒हम्¦स॒प्त¦स्र॒वतः॑¦धा॒र॒य॒म्¦वृषा᳚¦द्र॒वि॒त्न्वः॑¦पृ॒थि॒व्याम्¦सी॒राः¦अधि॑ | |
अ॒हं तदा᳚सु धारयं॒ यदा᳚सु॒ न दे॒वश्च॒न त्वष्टाधा᳚रय॒द्रुश॑त् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती} स्पा॒र्हं गवा॒मूध॑स्सु व॒क्षणा॒स्वा मधो॒र्मधु॒ श्वात्र्यं॒ सोम॑मा॒शिर᳚म् ||{10/11}{8.1.8.5}{10.49.10}{10.4.7.10}{39, 886, 9310} अ॒हम्¦तत्¦आ॒सु॒¦धा॒र॒य॒म्¦यत्¦आ॒सु॒¦न¦दे॒वः¦च॒न¦त्वष्टा᳚¦अधा᳚रयत्¦रुश॑त् | |
ए॒वा दे॒वाँ, इन्द्रो᳚ विव्ये॒ नॄन् प्र च्यौ॒त्नेन॑ म॒घवा᳚ स॒त्यरा᳚धाः |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्} विश्वेत्ता ते᳚ हरिवः शचीवो॒ऽभि तु॒रासः॑ स्वयशो गृणन्ति ||{11/11}{8.1.8.6}{10.49.11}{10.4.7.11}{40, 886, 9311} ए॒व¦दे॒वान्¦इन्द्रः॑¦वि॒व्ये॒¦नॄन्¦प्र¦च्यौ॒त्नेन॑¦म॒घऽवा᳚¦स॒त्यऽरा᳚धाः | |
[5] प्रवोमहइति सप्तर्चस्य सूक्तस्य वैकुंठ इंद्रो वैकुंठ इंद्रो जगती तृतीया चतुर्थ्यावभिसारिण्यौ पंचमीत्रिष्टुप् | |
प्र वो᳚ म॒हे मन्द॑माना॒यान्ध॒सोऽर्चा᳚ वि॒श्वान॑राय विश्वा॒भुवे᳚ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती} इन्द्र॑स्य॒ यस्य॒ सुम॑खं॒ सहो॒ महि॒ श्रवो᳚ नृ॒म्णं च॒ रोद॑सी सप॒र्यतः॑ ||{1/7}{8.1.9.1}{10.50.1}{10.4.8.1}{41, 887, 9312} प्र¦वः॒¦म॒हे¦मन्द॑मानाय¦अन्ध॑सः¦अर्च॑¦वि॒श्वान॑राय¦वि॒श्व॒ऽभुवे᳚ | |
सो चि॒न्नु सख्या॒ नर्य॑ इ॒नः स्तु॒तश्च॒र्कृत्य॒ इन्द्रो॒ माव॑ते॒ नरे᳚ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती} विश्वा᳚सु धू॒र्षु वा᳚ज॒कृत्ये᳚षु सत्पते वृ॒त्रे वा॒प्स्व१॑(अ॒)भि शू᳚र मन्दसे ||{2/7}{8.1.9.2}{10.50.2}{10.4.8.2}{42, 887, 9313} सः¦चि॒त्¦नु¦सख्या᳚¦नर्यः॑¦इ॒नः¦स्तु॒तः¦च॒र्कृत्यः॑¦इन्द्रः॑¦माऽव॑ते¦नरे᳚ | |
के ते नर॑ इन्द्र॒ ये त॑ इ॒षे ये ते᳚ सु॒म्नं स॑ध॒न्य१॑(अ॒)मिय॑क्षान् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | अभिसारिण्यः} के ते॒ वाजा᳚यासु॒र्या᳚य हिन् विरे॒ के, अ॒प्सु स्वासू॒र्वरा᳚सु॒ पौंस्ये᳚ ||{3/7}{8.1.9.3}{10.50.3}{10.4.8.3}{43, 887, 9314} के¦ते¦नरः॑¦इ॒न्द्र॒¦ये¦ते॒¦इ॒षे¦ये¦ते॒¦सु॒म्नम्¦स॒ऽध॒न्य᳚म्¦इय॑क्षान् | |
भुव॒स्त्वमि᳚न्द्र॒ ब्रह्म॑णा म॒हान् भुवो॒ विश्वे᳚षु॒ सव॑नेषु य॒ज्ञियः॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | अभिसारिण्यः} भुवो॒ नॄँश्च्यौ॒त्नो विश्व॑स्मि॒न् भरे॒ ज्येष्ठ॑श्च॒ मन्त्रो᳚ विश्वचर्षणे ||{4/7}{8.1.9.4}{10.50.4}{10.4.8.4}{44, 887, 9315} भुवः॑¦त्वम्¦इ॒न्द्र॒¦ब्रह्म॑णा¦म॒हान्¦भुवः॑¦विश्वे᳚षु¦सव॑नेषु¦य॒ज्ञियः॑ | |
अवा॒ नु कं॒ ज्याया᳚न् य॒ज्ञव॑नसो म॒हीं त॒ ओमा᳚त्रां कृ॒ष्टयो᳚ विदुः |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्} असो॒ नु क॑म॒जरो॒ वर्धा᳚श्च॒ विश्वेदे॒ता सव॑ना तूतु॒मा कृ॑षे ||{5/7}{8.1.9.5}{10.50.5}{10.4.8.5}{45, 887, 9316} अव॑¦नु¦क॒म्¦ज्याया᳚न्¦य॒ज्ञऽव॑नसः¦म॒हीम्¦ते॒¦ओमा᳚त्राम्¦कृ॒ष्टयः॑¦वि॒दुः॒ | |
ए॒ता विश्वा॒ सव॑ना तूतु॒मा कृ॑षे स्व॒यं सू᳚नो सहसो॒ यानि॑ दधि॒षे |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती} वरा᳚य ते॒ पात्रं॒ धर्म॑णे॒ तना᳚ य॒ज्ञो मन्त्रो॒ ब्रह्मोद्य॑तं॒ वचः॑ ||{6/7}{8.1.9.6}{10.50.6}{10.4.8.6}{46, 887, 9317} ए॒ता¦विश्वा᳚¦सव॑ना¦तू॒तु॒मा¦कृ॒षे॒¦स्व॒यम्¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦यानि॑¦द॒धि॒षे | |
ये ते᳚ विप्र ब्रह्म॒कृतः॑ सु॒ते सचा॒ वसू᳚नां च॒ वसु॑नश्च दा॒वने᳚ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती} प्र ते सु॒म्नस्य॒ मन॑सा प॒था भु॑व॒न्मदे᳚ सु॒तस्य॑ सो॒म्यस्यान्ध॑सः ||{7/7}{8.1.9.7}{10.50.7}{10.4.8.7}{47, 887, 9318} ये¦ते॒¦वि॒प्र॒¦ब्र॒ह्म॒ऽकृतः॑¦सु॒ते¦सचा᳚¦वसू᳚नाम्¦च॒¦वसु॑नः¦च॒¦दा॒वने᳚ | |
[6] महत्तदिति नवर्चस्य सूक्तस्य द्वितीयादियुगृचां सौचीकोग्निऋषिः अयुजांदेवाऋषयः युजांदेवादेवताः अयुजामग्निर्देवतात्रिष्टुप् | |
म॒हत्तदुल्बं॒ स्थवि॑रं॒ तदा᳚सी॒द्येनावि॑ष्टितः प्रवि॒वेशि॑था॒पः |{देवाः | अग्निः सौचीकः | त्रिष्टुप्} विश्वा᳚, अपश्यद्बहु॒धा ते᳚, अग्ने॒ जात॑वेदस्त॒न्वो᳚ दे॒व एकः॑ ||{1/9}{8.1.10.1}{10.51.1}{10.4.9.1}{48, 888, 9319} म॒हत्¦तत्¦उल्ब᳚म्¦स्थवि॑रम्¦तत्¦आ॒सी॒त्¦येन॑¦आऽवि॑ष्टितः¦प्र॒ऽवि॒वेशि॑थ¦अ॒पः | |
को मा᳚ ददर्श कत॒मः स दे॒वो यो मे᳚ त॒न्वो᳚ बहु॒धा प॒र्यप॑श्यत् |{सौचीकोग्निः | देवाः | त्रिष्टुप्} क्वाह॑ मित्रावरुणा क्षियन्त्य॒ग्नेर्विश्वाः᳚ स॒मिधो᳚ देव॒यानीः᳚ ||{2/9}{8.1.10.2}{10.51.2}{10.4.9.2}{49, 888, 9320} कः¦मा॒¦द॒द॒र्श॒¦क॒त॒मः¦सः¦दे॒वः¦यः¦मे॒¦त॒न्वः॑¦ब॒हु॒धा¦प॒रि॒।आप॑श्यत् | |
ऐच्छा᳚म त्वा बहु॒धा जा᳚तवेदः॒ प्रवि॑ष्टमग्ने, अ॒प्स्वोष॑धीषु |{देवाः | अग्निः सौचीकः | त्रिष्टुप्} तं त्वा᳚ य॒मो, अ॑चिकेच्चित्रभानो दशान्तरु॒ष्याद॑ति॒रोच॑मानम् ||{3/9}{8.1.10.3}{10.51.3}{10.4.9.3}{50, 888, 9321} ऐच्छा᳚म¦त्वा॒¦ब॒हु॒धा¦जा॒त॒ऽवे॒दः॒¦प्रऽवि॑ष्टम्¦अ॒ग्ने॒¦अ॒प्ऽसु¦ओष॑धीषु | |
हो॒त्राद॒हं व॑रुण॒ बिभ्य॑दायं॒ नेदे॒व मा᳚ यु॒नज॒न्नत्र॑ दे॒वाः |{सौचीकोग्निः | देवाः | त्रिष्टुप्} तस्य॑ मे त॒न्वो᳚ बहु॒धा निवि॑ष्टा, ए॒तमर्थं॒ न चि॑केता॒हम॒ग्निः ||{4/9}{8.1.10.4}{10.51.4}{10.4.9.4}{51, 888, 9322} हो॒त्रात्¦अ॒हम्¦व॒रु॒ण॒¦बिभ्य॑त्¦आ॒य॒म्¦न¦इत्¦ए॒व¦मा॒¦यु॒नज॑न्¦अत्र॑¦दे॒वाः | |
एहि॒ मनु॑र्देव॒युर्य॒ज्ञका᳚मोऽरं॒कृत्या॒ तम॑सि क्षेष्यग्ने |{देवाः | अग्निः सौचीकः | त्रिष्टुप्} सु॒गान् प॒थः कृ॑णुहि देव॒याना॒न्वह॑ ह॒व्यानि॑ सुमन॒स्यमा᳚नः ||{5/9}{8.1.10.5}{10.51.5}{10.4.9.5}{52, 888, 9323} आ¦इ॒हि॒¦मनुः॑¦दे॒व॒ऽयुः¦य॒ज्ञऽका᳚मः¦अ॒र॒म्ऽकृत्य॑¦तम॑सि¦क्षे॒षि॒¦अ॒ग्ने॒ | |
अ॒ग्नेः पूर्वे॒ भ्रात॑रो॒, अर्थ॑मे॒तं र॒थीवाध्वा᳚न॒मन्वाव॑रीवुः |{सौचीकोग्निः | देवाः | त्रिष्टुप्} तस्मा᳚द्भि॒या व॑रुण दू॒रमा᳚यं गौ॒रो न क्षे॒प्नोर॑विजे॒ ज्यायाः᳚ ||{6/9}{8.1.11.1}{10.51.6}{10.4.9.6}{53, 888, 9324} अ॒ग्नेः¦पूर्वे᳚¦भ्रात॑रः¦अर्थ᳚म्¦ए॒तम्¦र॒थीऽइ᳚व¦अध्वा᳚नम्¦अनु॑¦आ¦अ॒व॒री॒वु॒रिति॑ | |
कु॒र्मस्त॒ आयु॑र॒जरं॒ यद॑ग्ने॒ यथा᳚ यु॒क्तो जा᳚तवेदो॒ न रिष्याः᳚ |{देवाः | अग्निः सौचीकः | त्रिष्टुप्} अथा᳚ वहासि सुमन॒स्यमा᳚नो भा॒गं दे॒वेभ्यो᳚ ह॒विषः॑ सुजात ||{7/9}{8.1.11.2}{10.51.7}{10.4.9.7}{54, 888, 9325} कु॒र्मः¦ते॒¦आयुः॑¦अ॒जर᳚म्¦यत्¦अ॒ग्ने॒¦यथा᳚¦यु॒क्तः¦जा॒त॒ऽवे॒दः॒¦न¦रिष्याः᳚ | |
प्र॒या॒जान्मे᳚, अनुया॒जाँश्च॒ केव॑ला॒नूर्ज॑स्वन्तं ह॒विषो᳚ दत्त भा॒गम् |{सौचीकोग्निः | देवाः | भुरिक्त्रिष्टुप्} घृ॒तं चा॒पां पुरु॑षं॒ चौष॑धीनाम॒ग्नेश्च॑ दी॒र्घमायु॑रस्तु देवाः ||{8/9}{8.1.11.3}{10.51.8}{10.4.9.8}{55, 888, 9326} प्र॒ऽया॒जान्¦मे॒¦अ॒नु॒ऽया॒जान्¦च॒¦केव॑लान्¦ऊर्ज॑स्वन्तम्¦ह॒विषः॑¦द॒त्त॒¦भा॒गम् | |
तव॑ प्रया॒जा, अ॑नुया॒जाश्च॒ केव॑ल॒ ऊर्ज॑स्वन्तो ह॒विषः॑ सन्तु भा॒गाः |{देवाः | अग्निः सौचीकः | भुरिक्त्रिष्टुप्} तवा᳚ग्ने य॒ज्ञो॒३॑(ओ॒)ऽयम॑स्तु॒ सर्व॒स्तुभ्यं᳚ नमन्तां प्र॒दिश॒श्चत॑स्रः ||{9/9}{8.1.11.4}{10.51.9}{10.4.9.9}{56, 888, 9327} तव॑¦प्र॒ऽया॒जाः¦अ॒नु॒ऽया॒जाः¦च॒¦केव॑ले¦ऊर्ज॑स्वन्तः¦ह॒विषः॑¦स॒न्तु॒¦भा॒गाः | |
[7] विश्वेदेवाइति षडृचस्य सूक्तस्यसौचीकोग्निर्देवास्त्रिष्टुप् | |
विश्वे᳚ देवाः शा॒स्तन॑ मा॒ यथे॒ह होता᳚ वृ॒तो म॒नवै॒ यन्नि॒षद्य॑ |{सौचीकोग्निः | देवाः | त्रिष्टुप्} प्र मे᳚ ब्रूत भाग॒धेयं॒ यथा᳚ वो॒ येन॑ प॒था ह॒व्यमा वो॒ वहा᳚नि ||{1/6}{8.1.12.1}{10.52.1}{10.4.10.1}{57, 889, 9328} विश्वे᳚¦दे॒वाः॒¦शा॒स्तन॑¦मा॒¦यथा᳚¦इ॒ह¦होता᳚¦वृ॒तः¦म॒नवै᳚¦यत्¦नि॒ऽसद्य॑ | |
अ॒हं होता॒ न्य॑सीदं॒ यजी᳚या॒न् विश्वे᳚ दे॒वा म॒रुतो᳚ मा जुनन्ति |{सौचीकोग्निः | देवाः | त्रिष्टुप्} अह॑रहरश्वि॒नाध्व᳚र्यवं वां ब्र॒ह्मा स॒मिद्भ॑वति॒ साहु॑तिर्वाम् ||{2/6}{8.1.12.2}{10.52.2}{10.4.10.2}{58, 889, 9329} अ॒हम्¦होता᳚¦नि¦अ॒सी॒द॒म्¦यजी᳚यान्¦विश्वे᳚¦दे॒वाः॒¦म॒रुतः॑¦मा॒¦जु॒न॒न्ति॒ | |
अ॒यं यो होता॒ किरु॒ स य॒मस्य॒ कमप्यू᳚हे॒ यत्स॑म॒ञ्जन्ति॑ दे॒वाः |{सौचीकोग्निः | देवाः | त्रिष्टुप्} अह॑रहर्जायते मा॒सिमा॒स्यथा᳚ दे॒वा द॑धिरे हव्य॒वाह᳚म् ||{3/6}{8.1.12.3}{10.52.3}{10.4.10.3}{59, 889, 9330} अ॒यम्¦यः¦होता᳚¦किः¦ऊँ॒ इति॑¦सः¦य॒मस्य॑¦कम्¦अपि॑¦ऊ॒हे॒¦यत्¦स॒म्।आं॒जन्ति॑¦दे॒वाः | |
मां दे॒वा द॑धिरे हव्य॒वाह॒मप᳚म्लुक्तं ब॒हु कृ॒च्छ्रा चर᳚न्तम् |{सौचीकोग्निः | देवाः | त्रिष्टुप्} अ॒ग्निर्वि॒द्वान् य॒ज्ञं नः॑ कल्पयाति॒ पञ्च॑यामं त्रि॒वृतं᳚ स॒प्तत᳚न्तुम् ||{4/6}{8.1.12.4}{10.52.4}{10.4.10.4}{60, 889, 9331} माम्¦दे॒वाः¦द॒धि॒रे॒¦ह॒व्य॒ऽवाह᳚म्¦अप॑ऽम्लुक्तम्¦ब॒हु¦कृ॒च्छ्रा¦चर᳚न्तम् | |
आ वो᳚ यक्ष्यमृत॒त्वं सु॒वीरं॒ यथा᳚ वो देवा॒ वरि॑वः॒ करा᳚णि |{सौचीकोग्निः | देवाः | त्रिष्टुप्} आ बा॒ह्वोर्वज्र॒मिन्द्र॑स्य धेया॒मथे॒मा विश्वाः॒ पृत॑ना जयाति ||{5/6}{8.1.12.5}{10.52.5}{10.4.10.5}{61, 889, 9332} आ¦वः॒¦य॒क्षि॒¦अ॒मृ॒त॒ऽत्वम्¦सु॒ऽवीर᳚म्¦यथा᳚¦वः॒¦दे॒वाः॒¦वरि॑वः¦करा᳚णि | |
त्रीणि॑ श॒ता त्री स॒हस्रा᳚ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् |{सौचीकोग्निः | देवाः | त्रिष्टुप्} औक्ष॑न् घृ॒तैरस्तृ॑णन् ब॒र्हिर॑स्मा॒, आदिद्धोता᳚रं॒ न्य॑सादयन्त ||{6/6}{8.1.12.6}{10.52.6}{10.4.10.6}{62, 889, 9333} त्रीणि॑¦श॒ता¦त्री¦स॒हस्रा᳚णि¦अ॒ग्निम्¦त्रिं॒शत्¦च॒¦दे॒वाः¦नव॑¦च॒¦अ॒स॒प॒र्य॒न् | |
[8] यमैच्छामेत्येकादशर्चस्य सूक्तस्य देवाऋषयः चतुर्थीपंचम्योः सौचीकोग्निरृषिः अग्निर्देवता चतुर्थीपंचम्योर्देवादेवता जगती अश्मन्वतीरितित्रिष्टुप् | |
यमैच्छा᳚म॒ मन॑सा॒ सो॒३॑(ओ॒)ऽयमागा᳚द् य॒ज्ञस्य॑ वि॒द्वान् परु॑षश्चिकि॒त्वान् |{देवाः | अग्निः | त्रिष्टुप्} स नो᳚ यक्षद्दे॒वता᳚ता॒ यजी᳚या॒न्नि हि षत्स॒दन्त॑रः॒ पूर्वो᳚, अ॒स्मत् ||{1/11}{8.1.13.1}{10.53.1}{10.4.11.1}{63, 890, 9334} यम्¦ऐच्छा᳚म¦मन॑सा¦सः¦अ॒यम्¦आ¦अ॒गा॒त्¦य॒ज्ञस्य॑¦वि॒द्वान्¦परु॑षः¦चि॒कि॒त्वान् | |
अरा᳚धि॒ होता᳚ नि॒षदा॒ यजी᳚यान॒भि प्रयां᳚सि॒ सुधि॑तानि॒ हि ख्यत् |{देवाः | अग्निः | त्रिष्टुप्} यजा᳚महै य॒ज्ञिया॒न्हन्त॑ दे॒वाँ, ईळा᳚महा॒, ईड्याँ॒, आज्ये᳚न ||{2/11}{8.1.13.2}{10.53.2}{10.4.11.2}{64, 890, 9335} अरा᳚धि¦होता᳚¦नि॒ऽसदा᳚¦यजी᳚यान्¦अ॒भि¦प्रयां᳚सि¦सुऽधि॑तानि¦हि¦ख्यत् | |
सा॒ध्वीम॑कर्दे॒ववी᳚तिं नो, अ॒द्य य॒ज्ञस्य॑ जि॒ह्वाम॑विदाम॒ गुह्या᳚म् |{देवाः | अग्निः | त्रिष्टुप्} स आयु॒रागा᳚त्सुर॒भिर्वसा᳚नो भ॒द्राम॑कर्दे॒वहू᳚तिं नो, अ॒द्य ||{3/11}{8.1.13.3}{10.53.3}{10.4.11.3}{65, 890, 9336} सा॒ध्वीम्¦अ॒कः॒¦दे॒वऽवी᳚तिम्¦नः॒¦अ॒द्य¦य॒ज्ञस्य॑¦जि॒ह्वाम्¦अ॒वि॒दा॒म॒¦गुह्या᳚म् | |
तद॒द्य वा॒चः प्र॑थ॒मं म॑सीय॒ येनासु॑राँ, अ॒भि दे॒वा, असा᳚म |{सौचीकोग्निः | देवाः | त्रिष्टुप्} ऊर्जा᳚द उ॒त य॑ज्ञियासः॒ पञ्च॑ जना॒ मम॑ हो॒त्रं जु॑षध्वम् ||{4/11}{8.1.13.4}{10.53.4}{10.4.11.4}{66, 890, 9337} तत्¦अ॒द्य¦वा॒च¦प्र॒थ॒मम्¦म॒सी॒य॒¦येन॑¦असु॑रान्¦अ॒भि¦दे॒वाः¦असा᳚म | |
पञ्च॒ जना॒ मम॑ हो॒त्रं जु॑षन्तां॒ गोजा᳚ता, उ॒त ये य॒ज्ञिया᳚सः |{सौचीकोग्निः | देवाः | त्रिष्टुप्} पृ॒थि॒वी नः॒ पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा᳚त्व॒स्मान् ||{5/11}{8.1.13.5}{10.53.5}{10.4.11.5}{67, 890, 9338} पंच॑¦ज॒नाः॒¦मम॑¦हो॒त्रम्¦जु॒ष॒न्ता॒म्¦गोऽजा᳚ताः¦उ॒त¦ये¦य॒ज्ञिया᳚सः | |
तन्तुं᳚ त॒न्वन् रज॑सो भा॒नुमन् वि॑हि॒ ज्योति॑ष्मतः प॒थो र॑क्ष धि॒या कृ॒तान् |{देवाः | अग्निः | जगती} अ॒नु॒ल्ब॒णं व॑यत॒ जोगु॑वा॒मपो॒ मनु॑र्भव ज॒नया॒ दैव्यं॒ जन᳚म् ||{6/11}{8.1.14.1}{10.53.6}{10.4.11.6}{68, 890, 9339} तन्तु᳚म्¦त॒न्वन्¦रज॑सः¦भा॒नुम्¦अनु॑¦इ॒हि॒¦ज्योति॑ष्मतः¦प॒थः¦र॒क्ष॒¦धि॒या¦कृ॒तान् | |
अ॒क्षा॒नहो᳚ नह्यतनो॒त सो᳚म्या॒, इष्कृ॑णुध्वं रश॒ना, ओत पिं᳚शत |{देवाः | अग्निः | जगती} अ॒ष्टाव᳚न्धुरं वहता॒भितो॒ रथं॒ येन॑ दे॒वासो॒, अन॑यन्न॒भि प्रि॒यम् ||{7/11}{8.1.14.2}{10.53.7}{10.4.11.7}{69, 890, 9340} अ॒क्ष॒ऽनहः॑¦न॒ह्य॒त॒न॒¦उ॒त¦सो॒म्याः॒¦इष्कृ॑णुध्वम्¦र॒श॒नाः¦आ¦उ॒त¦पिं॒श॒त॒ | |
अश्म᳚न्वती रीयते॒ सं र॑भध्व॒मुत्ति॑ष्ठत॒ प्र त॑रता सखायः |{देवाः | अग्निः | त्रिष्टुप्} अत्रा᳚ जहाम॒ ये, अस॒न्नशे᳚वाः शि॒वान् व॒यमुत्त॑रेमा॒भि वाजा॑न् ||{8/11}{8.1.14.3}{10.53.8}{10.4.11.8}{70, 890, 9341} अश्म॑न्ऽवती¦री॒य॒ते॒¦सम्¦र॒भ॒ध्व॒म्¦उत्¦ति॒ष्ठ॒त॒¦प्र¦त॒र॒त॒¦स॒खा॒यः॒ | |
त्वष्टा᳚ मा॒या वे᳚द॒पसा᳚म॒पस्त॑मो॒ बिभ्र॒त्पात्रा᳚ देव॒पाना᳚नि॒ शंत॑मा |{देवाः | अग्निः | जगती} शिशी᳚ते नू॒नं प॑र॒शुं स्वा᳚य॒सं येन॑ वृ॒श्चादेत॑शो॒ ब्रह्म॑ण॒स्पतिः॑ ||{9/11}{8.1.14.4}{10.53.9}{10.4.11.9}{71, 890, 9342} त्वष्टा᳚¦मा॒या¦वे॒त्¦अ॒पसा᳚म्¦अ॒पःऽत॑मः¦बिभ्र॑त्¦पात्रा᳚¦दे॒व॒ऽपाना᳚नि¦शम्ऽत॑मा | |
स॒तो नू॒नं क॑वयः॒ सं शि॑शीत॒ वाशी᳚भि॒र्याभि॑र॒मृता᳚य॒ तक्ष॑थ |{देवाः | अग्निः | जगती} वि॒द्वांसः॑ प॒दा गुह्या᳚नि कर्तन॒ येन॑ दे॒वासो᳚, अमृत॒त्वमा᳚न॒शुः ||{10/11}{8.1.14.5}{10.53.10}{10.4.11.10}{72, 890, 9343} स॒तः¦नू॒नम्¦क॒व॒यः॒¦सम्¦शि॒शी॒त॒¦वाशी᳚भिः¦याभिः॑¦अ॒मृता᳚य¦तक्ष॑थ | |
गर्भे॒ योषा॒मद॑धुर्व॒त्समा॒सन्य॑पी॒च्ये᳚न॒ मन॑सो॒त जि॒ह्वया᳚ |{देवाः | अग्निः | जगती} स वि॒श्वाहा᳚ सु॒मना᳚ यो॒ग्या, अ॒भि सि॑षा॒सनि᳚र्वनते का॒र इज्जिति᳚म् ||{11/11}{8.1.14.6}{10.53.11}{10.4.11.11}{73, 890, 9344} गर्भे᳚¦योषा᳚म्¦अद॑धुः¦व॒त्सम्¦आ॒सनि॑¦अ॒पी॒च्ये᳚न¦मन॑सा¦उ॒त¦जि॒ह्वया᳚ | |
[9] तांसुतइति षडृचस्य सूक्तस्य वामदेव्यो बृहदुक्थ इंद्रस्त्रिष्टुप् | |
तां सु ते᳚ की॒र्तिं म॑घवन्महि॒त्वा यत् त्वा᳚ भी॒ते रोद॑सी॒, अह्व॑येताम् |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्} प्रावो᳚ दे॒वाँ, आति॑रो॒ दास॒मोजः॑ प्र॒जायै᳚ त्वस्यै॒ यदशि॑क्ष इन्द्र ||{1/6}{8.1.15.1}{10.54.1}{10.4.12.1}{74, 891, 9345} ताम्¦सु¦ते॒¦की॒र्तिम्¦म॒घ॒ऽव॒न्¦म॒हि॒ऽत्वा¦यत्¦त्वा॒¦भी॒ते इति॑¦रोद॑सी॒ इति॑¦अह्व॑येताम् | |
यदच॑रस्त॒न्वा᳚ वावृधा॒नो बला᳚नीन्द्र प्रब्रुवा॒णो जने᳚षु |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्} मा॒येत्सा ते॒ यानि॑ यु॒द्धान्या॒हुर्नाद्य शत्रुं᳚ न॒नु पु॒रा वि॑वित्से ||{2/6}{8.1.15.2}{10.54.2}{10.4.12.2}{75, 891, 9346} यत्¦अच॑रः¦त॒न्वा᳚¦व॒वृ॒धा॒नः¦बला᳚नि¦इ॒न्द्र॒¦प्र॒ऽब्रु॒वा॒णः¦जने᳚षु | |
क उ॒ नु ते᳚ महि॒मनः॑ समस्या॒स्मत्पूर्व॒ ऋष॒योऽन्त॑मापुः |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्} यन्मा॒तरं᳚ च पि॒तरं᳚ च सा॒कमज॑नयथास्त॒न्व१॑(अः॒) स्वायाः᳚ ||{3/6}{8.1.15.3}{10.54.3}{10.4.12.3}{76, 891, 9347} के¦ऊँ॒ इति॑¦नु¦ते॒¦म॒हि॒मनः॑¦स॒म॒स्य॒¦अ॒स्मत्¦पूर्वे᳚¦ऋष॑यः¦अन्त᳚म्¦आ॒पुः॒ | |
च॒त्वारि॑ ते, असु॒र्या᳚णि॒ नामादा᳚भ्यानि महि॒षस्य॑ सन्ति |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्} त्वम॒ङ्ग तानि॒ विश्वा᳚नि वित्से॒ येभिः॒ कर्मा᳚णि मघवञ्च॒कर्थ॑ ||{4/6}{8.1.15.4}{10.54.4}{10.4.12.4}{77, 891, 9348} च॒त्वारि॑¦ते॒¦अ॒सु॒र्या᳚णि¦नाम॑¦अदा᳚भ्यानि¦म॒हि॒षस्य॑¦स॒न्ति॒ | |
त्वं विश्वा᳚ दधिषे॒ केव॑लानि॒ यान्या॒विर्या च॒ गुहा॒ वसू᳚नि |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्} काम॒मिन्मे᳚ मघव॒न्मा वि ता᳚री॒स्त्वमा᳚ज्ञा॒ता त्वमि᳚न्द्रासि दा॒ता ||{5/6}{8.1.15.5}{10.54.5}{10.4.12.5}{78, 891, 9349} त्वम्¦विश्वा᳚¦द॒धि॒षे॒¦केव॑लानि¦यानि॑¦आ॒विः¦या¦च॒¦गुहा᳚¦वसू᳚नि | |
यो, अद॑धा॒ज्ज्योति॑षि॒ ज्योति॑र॒न्तर्यो, असृ॑ज॒न्मधु॑ना॒ सं मधू᳚नि |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्} अध॑ प्रि॒यं शू॒षमिन्द्रा᳚य॒ मन्म॑ ब्रह्म॒कृतो᳚ बृ॒हदु॑क्थादवाचि ||{6/6}{8.1.15.6}{10.54.6}{10.4.12.6}{79, 891, 9350} यः¦अद॑धात्¦ज्योति॑षि¦ज्योतिः॑¦अ॒न्तः¦यः¦असृ॑जत्¦मधु॑ना¦सम्¦मधू᳚नि | |
[10] दूरेतदित्यष्टर्चस्य सूक्तस्य वामदेव्यो बृहदुक्थइंद्रत्रिष्टुप् | |
दू॒रे तन्नाम॒ गुह्यं᳚ परा॒चैर्यत् त्वा᳚ भी॒ते, अह्व॑येतां वयो॒धै |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्} उद॑स्तभ्नाः पृथि॒वीं द्याम॒भीके॒ भ्रातुः॑ पु॒त्रान्म॑घवन्तित्विषा॒णः ||{1/8}{8.1.16.1}{10.55.1}{10.4.13.1}{80, 892, 9351} दू॒रे¦तत्¦नाम॑¦गुह्य᳚म्¦प॒रा॒चैः¦यत्¦त्वा॒¦भी॒ते इति॑¦अह्व॑येताम्¦व॒यः॒ऽधै | |
म॒हत्तन्नाम॒ गुह्यं᳚ पुरु॒स्पृग्येन॑ भू॒तं ज॒नयो॒ येन॒ भव्य᳚म् |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्} प्र॒त्नं जा॒तं ज्योति॒र्यद॑स्य प्रि॒यं प्रि॒याः सम॑विशन्त॒ पञ्च॑ ||{2/8}{8.1.16.2}{10.55.2}{10.4.13.2}{81, 892, 9352} म॒हत्¦तत्¦नाम॑¦गुह्य᳚म्¦पु॒रु॒ऽस्पृक्¦येन॑¦भू॒तम्¦ज॒नयः॑¦येन॑¦भव्य᳚म् | |
आ रोद॑सी, अपृणा॒दोत मध्यं॒ पञ्च॑ दे॒वाँ, ऋ॑तु॒शः स॒प्तस॑प्त |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्} चतु॑स्त्रिंशता पुरु॒धा वि च॑ष्टे॒ सरू᳚पेण॒ ज्योति॑षा॒ विव्र॑तेन ||{3/8}{8.1.16.3}{10.55.3}{10.4.13.3}{82, 892, 9353} आ¦रोद॑सी॒ इति॑¦अ॒पृ॒णा॒त्¦आ¦उ॒त¦मध्य᳚म्¦पंच॑¦दे॒वान्¦ऋ॒तु॒ऽशः¦स॒प्तऽस॑प्त | |
यदु॑ष॒ औच्छः॑ प्रथ॒मा वि॒भाना॒मज॑नयो॒ येन॑ पु॒ष्टस्य॑ पु॒ष्टम् |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्} यत्ते᳚ जामि॒त्वमव॑रं॒ पर॑स्या म॒हन्म॑ह॒त्या, अ॑सुर॒त्वमेक᳚म् ||{4/8}{8.1.16.4}{10.55.4}{10.4.13.4}{83, 892, 9354} यत्¦उ॒षः॒¦औच्छः॑¦प्र॒थ॒मा¦वि॒ऽभाना᳚म्¦अज॑नयः¦येन॑¦पु॒ष्टस्य॑¦पु॒ष्टम् | |
वि॒धुं द॑द्रा॒णं सम॑ने बहू॒नां युवा᳚नं॒ सन्तं᳚ पलि॒तो ज॑गार |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्} दे॒वस्य॑ पश्य॒ काव्यं᳚ महि॒त्वाद्या म॒मार॒ स ह्यः समा᳚न ||{5/8}{8.1.16.5}{10.55.5}{10.4.13.5}{84, 892, 9355} वि॒धुम्¦द॒द्रा॒णम्¦सम॑ने¦ब॒हू॒नाम्¦युवा᳚नम्¦सन्त᳚म्¦प॒लि॒तः¦ज॒गा॒र॒ | |
शाक्म॑ना शा॒को, अ॑रु॒णः सु॑प॒र्ण आ यो म॒हः शूरः॑ स॒नादनी᳚ळः |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्} यच्चि॒केत॑ स॒त्यमित्तन्न मोघं॒ वसु॑ स्पा॒र्हमु॒त जेतो॒त दाता᳚ ||{6/8}{8.1.17.1}{10.55.6}{10.4.13.6}{85, 892, 9356} शाक्म॑ना¦शा॒कः¦अ॒रु॒णः¦सु॒ऽप॒र्णः¦आ¦यः¦म॒हः¦शूरः॑¦स॒नात्¦अनी᳚ळः | |
ऐभि॑र्ददे॒ वृष्ण्या॒ पौंस्या᳚नि॒ येभि॒रौक्ष॑द्वृत्र॒हत्या᳚य व॒ज्री |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्} ये कर्म॑णः क्रि॒यमा᳚णस्य म॒ह्न ऋ॑तेक॒र्ममु॒दजा᳚यन्त दे॒वाः ||{7/8}{8.1.17.2}{10.55.7}{10.4.13.7}{86, 892, 9357} आ¦ए॒भिः॒¦द॒दे॒¦वृ॒ष्ण्या॒¦पौंस्या᳚नि¦येभिः॑¦औक्ष॑त्¦वृ॒त्र॒ऽहत्या᳚य¦व॒ज्री | |
यु॒जा कर्मा᳚णि ज॒नय᳚न् वि॒श्वौजा᳚, अशस्ति॒हा वि॒श्वम॑नास्तुरा॒षाट् |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्} पी॒त्वी सोम॑स्य दि॒व आ वृ॑धा॒नः शूरो॒ निर्यु॒धाध॑म॒द्दस्यू॑न् ||{8/8}{8.1.17.3}{10.55.8}{10.4.13.8}{87, 892, 9358} यु॒जा¦कर्मा᳚णि¦ज॒नय॑न्¦वि॒श्वाऽओ᳚जाः¦अ॒श॒स्ति॒ऽहा¦वि॒श्वऽम॑नाः¦तु॒रा॒षाट् | |
[11] इदंतइति सप्तर्चस्य सूक्तस्य वामदेव्यो बृहदुक्थो विश्वेदेवास्त्रिष्टुप् चतुर्थ्यादितिस्रोजगत्यः | |
इ॒दं त॒ एकं᳚ प॒र ऊ᳚ त॒ एकं᳚ तृ॒तीये᳚न॒ ज्योति॑षा॒ सं वि॑शस्व |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | त्रिष्टुप्} सं॒वेश॑ने त॒न्व१॑(अ॒)श्चारु॑रेधि प्रि॒यो दे॒वानां᳚ पर॒मे ज॒नित्रे᳚ ||{1/7}{8.1.18.1}{10.56.1}{10.4.14.1}{88, 893, 9359} इ॒दम्¦ते॒¦एक᳚म्¦प॒रः¦ऊँ॒ इति॑¦ते॒¦एक᳚म्¦तृ॒तीये᳚न¦ज्योति॑षा¦सम्¦वि॒श॒स्व॒ | |
त॒नूष्टे᳚ वाजिन्त॒न्व१॑(अं॒) नय᳚न्ती वा॒मम॒स्मभ्यं॒ धातु॒ शर्म॒ तुभ्य᳚म् |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | त्रिष्टुप्} अह्रु॑तो म॒हो ध॒रुणा᳚य दे॒वान्दि॒वी᳚व॒ ज्योतिः॒ स्वमा मि॑मीयाः ||{2/7}{8.1.18.2}{10.56.2}{10.4.14.2}{89, 893, 9360} त॒नूः¦ते॒¦वा॒जि॒न्¦त॒न्व᳚म्¦नय᳚न्ती¦वा॒मम्¦अ॒स्मभ्य᳚म्¦धातु॑¦शर्म॑¦तुभ्य᳚म् | |
वा॒ज्य॑सि॒ वाजि॑नेना सुवे॒नीः सु॑वि॒तः स्तोमं᳚ सुवि॒तो दिवं᳚ गाः |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | त्रिष्टुप्} सु॒वि॒तो धर्म॑ प्रथ॒मानु॑ स॒त्या सु॑वि॒तो दे॒वान् त्सु॑वि॒तोऽनु॒ पत्म॑ ||{3/7}{8.1.18.3}{10.56.3}{10.4.14.3}{90, 893, 9361} वा॒जी¦अ॒सि॒¦वाजि॑नेन¦सु॒ऽवे॒नीः¦सु॒वि॒तः¦स्तोम᳚म्¦सु॒वि॒तः¦दिव᳚म्¦गाः॒ | |
म॒हि॒म्न ए᳚षां पि॒तर॑श्च॒नेशि॑रे दे॒वा दे॒वेष्व॑दधु॒रपि॒ क्रतु᳚म् |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | जगती} सम॑विव्यचुरु॒त यान्यत्वि॑षु॒रैषां᳚ त॒नूषु॒ नि वि॑विशुः॒ पुनः॑ ||{4/7}{8.1.18.4}{10.56.4}{10.4.14.4}{91, 893, 9362} म॒हि॒म्नः¦ए॒षा॒म्¦पि॒तरः॑¦च॒न¦ई॒शि॒रे॒¦दे॒वाः¦दे॒वेषु॑¦अ॒द॒धुः॒¦अपि॑¦क्रतु᳚म् | |
सहो᳚भि॒र्विश्वं॒ परि॑ चक्रमू॒ रजः॒ पूर्वा॒ धामा॒न्यमि॑ता॒ मिमा᳚नाः |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | जगती} त॒नूषु॒ विश्वा॒ भुव॑ना॒ नि ये᳚मिरे॒ प्रासा᳚रयन्त पुरु॒ध प्र॒जा, अनु॑ ||{5/7}{8.1.18.5}{10.56.5}{10.4.14.5}{92, 893, 9363} सहः॑ऽभिः¦विश्व᳚म्¦परि॑¦च॒क्र॒मुः॒¦रजः॑¦पूर्वा᳚¦धा॒मानि॑¦अमि॑ता¦मिमा᳚नाः | |
द्विधा᳚ सू॒नवोऽसु॑रं स्व॒र्विद॒मास्था᳚पयन्त तृ॒तीये᳚न॒ कर्म॑णा |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | जगती} स्वां प्र॒जां पि॒तरः॒ पित्र्यं॒ सह॒ आव॑रेष्वदधु॒स्तन्तु॒मात॑तम् ||{6/7}{8.1.18.6}{10.56.6}{10.4.14.6}{93, 893, 9364} द्विधा᳚¦सू॒नवः॑¦असु॑रम्¦स्वः॒ऽविद᳚म्¦आ¦अ॒स्था॒प॒य॒न्त॒¦तृ॒तीये᳚न¦कर्म॑णा | |
ना॒वा न क्षोदः॑ प्र॒दिशः॑ पृथि॒व्याः स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | त्रिष्टुप्} स्वां प्र॒जां बृ॒हदु॑क्थो महि॒त्वाव॑रेष्वदधा॒दा परे᳚षु ||{7/7}{8.1.18.7}{10.56.7}{10.4.14.7}{94, 893, 9365} ना॒वा¦न¦क्षोदः॑¦प्र॒ऽदिशः॑¦पृ॒थि॒व्याः¦स्व॒स्तिऽभिः॑¦अति॑¦दुः॒ऽगानि॑¦विश्वा᳚ | |
[12] माप्रगामेति षडृचस्य सूक्तस्य गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुर्विश्वेदेवागायत्री | (भेदपक्षे - इंद्रः १ अग्निस्तंतुः १ विश्वेदेवाः ३ सोमः १ एवं ६ माप्रगामेति सूक्तानां बंध्वाध्याऋषयइत्यार्षानुक्रमण्यां शौनकः) | (अत्रैषांगौपायनत्वमेवनलौपायनत्वं तथासुबंधोर्लोपश्च सर्वा । भा। ) | |
मा प्र गा᳚म प॒थो व॒यं मा य॒ज्ञादि᳚न्द्र सो॒मिनः॑ |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री} मान्तः स्थु᳚र्नो॒, अरा᳚तयः ||{1/6}{8.1.19.1}{10.57.1}{10.4.15.1}{95, 894, 9366} मा¦प्र¦गा॒म॒¦प॒थः¦व॒यम्¦मा¦य॒ज्ञात्¦इ॒न्द्र॒¦सो॒मिनः॑ | मा¦अ॒न्तरिति॑¦स्थुः॒¦नः॒¦अरा᳚तयः || |
यो य॒ज्ञस्य॑ प्र॒साध॑न॒स्तन्तु॑र्दे॒वेष्वात॑तः |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री} तमाहु॑तं नशीमहि ||{2/6}{8.1.19.2}{10.57.2}{10.4.15.2}{96, 894, 9367} यः¦य॒ज्ञस्य॑¦प्र॒ऽसाध॑नः¦तन्तुः॑¦दे॒वेषु॑¦आऽत॑तः | तम्¦आऽहु॑तम्¦न॒शी॒म॒हि॒ || |
मनो॒ न्वा हु॑वामहे नाराशं॒सेन॒ सोमे᳚न |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री} पि॒तॄ॒णां च॒ मन्म॑भिः ||{3/6}{8.1.19.3}{10.57.3}{10.4.15.3}{97, 894, 9368} मनः॑¦नु¦आ¦हु॒वा॒म॒हे॒¦ना॒रा॒शं॒सेन॑¦सोमे᳚न | पि॒तॄ॒णाम्¦च॒¦मन्म॑ऽभिः || |
आ त॑ एतु॒ मनः॒ पुनः॒ क्रत्वे॒ दक्षा᳚य जी॒वसे᳚ |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री} ज्योक्च॒ सूर्यं᳚ दृ॒शे ||{4/6}{8.1.19.4}{10.57.4}{10.4.15.4}{98, 894, 9369} आ¦ते॒¦ए॒तु॒¦मनः॑¦पुन॒रिति॑¦क्रत्वे᳚¦दक्षा᳚य¦जी॒वसे᳚ | ज्योक्¦च॒¦सूर्य᳚म्¦दृ॒शे || |
पुन᳚र्नः पितरो॒ मनो॒ ददा᳚तु॒ दैव्यो॒ जनः॑ |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री} जी॒वं व्रातं᳚ सचेमहि ||{5/6}{8.1.19.5}{10.57.5}{10.4.15.5}{99, 894, 9370} पुनः॑¦नः॒¦पि॒त॒रः॒¦मनः॑¦ददा᳚तु¦दैव्यः॑¦जनः॑ | जी॒वम्¦व्रात᳚म्¦स॒चे॒म॒हि॒ || |
व॒यं सो᳚म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री} प्र॒जाव᳚न्तः सचेमहि ||{6/6}{8.1.19.6}{10.57.6}{10.4.15.6}{100, 894, 9371} व॒यम्¦सो॒म॒¦व्र॒ते¦तव॑¦मनः॑¦त॒नूषु॑¦बिभ्र॑तः | प्र॒जाऽव᳚न्तः¦स॒चे॒म॒हि॒ || |
[13] यत्तेयममिति द्वादशर्चस्य सूक्तस्य गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुर्मनोनुष्टुप् | |
यत्ते᳚ य॒मं वै᳚वस्व॒तं मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्} तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{1/12}{8.1.20.1}{10.58.1}{10.4.16.1}{101, 895, 9372} यत्¦ते॒¦य॒मम्¦वै॒व॒स्व॒तम्¦मनः॑¦ज॒गाम॑¦दू॒र॒कम् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ || |
यत्ते॒ दिवं॒ यत् पृ॑थि॒वीं मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्} तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{2/12}{8.1.20.2}{10.58.2}{10.4.16.2}{102, 895, 9373} यत्¦ते॒¦दिव᳚म्¦यत्¦पृ॒थि॒वीम्¦मनः॑¦ज॒गाम॑¦दू॒र॒कम् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ || |
यत्ते॒ भूमिं॒ चतु॑र्भृष्टिं॒ मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्} तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{3/12}{8.1.20.3}{10.58.3}{10.4.16.3}{103, 895, 9374} यत्¦ते॒¦भूमि᳚म्¦चतुः॑ऽभृष्टिम्¦मनः॑¦ज॒गाम॑¦दू॒र॒कम् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ || |
यत्ते॒ चत॑स्रः प्र॒दिशो॒ मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्} तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{4/12}{8.1.20.4}{10.58.4}{10.4.16.4}{104, 895, 9375} यत्¦ते॒¦चत॑स्रः¦प्र॒ऽदिशः॑¦मनः॑¦ज॒गाम॑¦दू॒र॒कम् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ || |
यत्ते᳚ समु॒द्रम᳚र्ण॒वं मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्} तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{5/12}{8.1.20.5}{10.58.5}{10.4.16.5}{105, 895, 9376} यत्¦ते॒¦स॒मु॒द्रम्¦अ॒र्ण॒वम्¦मनः॑¦ज॒गाम॑¦दू॒र॒कम् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ || |
यत्ते॒ मरी᳚चीः प्र॒वतो॒ मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्} तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{6/12}{8.1.20.6}{10.58.6}{10.4.16.6}{106, 895, 9377} यत्¦ते॒¦मरी᳚चीः¦प्र॒ऽवतः॑¦मनः॑¦ज॒गाम॑¦दू॒र॒कम् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ || |
यत्ते᳚, अ॒पो यदोष॑धी॒र्मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्} तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{7/12}{8.1.21.1}{10.58.7}{10.4.16.7}{107, 895, 9378} यत्¦ते॒¦अ॒पः¦यत्¦ओष॑धीः¦मनः॑¦ज॒गाम॑¦दू॒र॒कम् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ || |
यत्ते॒ सूर्यं॒ यदु॒षसं॒ मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्} तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{8/12}{8.1.21.2}{10.58.8}{10.4.16.8}{108, 895, 9379} यत्¦ते॒¦सूर्य᳚म्¦यत्¦उ॒षस᳚म्¦मनः॑¦ज॒गाम॑¦दू॒र॒कम् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ || |
यत्ते॒ पर्व॑तान् बृह॒तो मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्} तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{9/12}{8.1.21.3}{10.58.9}{10.4.16.9}{109, 895, 9380} यत्¦ते॒¦पर्व॑तान्¦बृ॒ह॒तः¦मनः॑¦ज॒गाम॑¦दू॒र॒कम् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ || |
यत्ते॒ विश्व॑मि॒दं जग॒न्मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्} तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{10/12}{8.1.21.4}{10.58.10}{10.4.16.10}{110, 895, 9381} यत्¦ते॒¦विश्व᳚म्¦इ॒दम्¦जग॑त्¦मनः॑¦ज॒गाम॑¦दू॒र॒कम् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ || |
यत्ते॒ पराः᳚ परा॒वतो॒ मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्} तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{11/12}{8.1.21.5}{10.58.11}{10.4.16.11}{111, 895, 9382} यत्¦ते॒¦पराः᳚¦प॒रा॒ऽवतः॑¦मनः॑¦ज॒गाम॑¦दू॒र॒कम् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ || |
यत्ते᳚ भू॒तं च॒ भव्यं᳚ च॒ मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्} तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{12/12}{8.1.21.6}{10.58.12}{10.4.16.12}{112, 895, 9383} यत्¦ते॒¦भू॒तम्¦च॒¦भव्य᳚म्¦च॒¦मनः॑¦ज॒गाम॑¦दू॒र॒कम् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ || |
[14] प्रतार्यायुरिति दशर्चस्य सूक्तस्य गौपायनाबंध्वादय ऋषयः आद्यानांचतसृणां निरृतिर्देवता चतुर्थ्यानिरृतिसोमौ पंचमीषष्ठयोरसुनीतिदेवी सप्तम्याः पृथिवीद्यावंतरिक्षसोमपूषपथ्यास्वस्तयोदेवताः अंत्यानांतिसृणां द्यावापृथिव्यौत्रिष्टुप् अंत्यार्धर्चस्येंद्रः अंत्यास्तिस्रःक्रमेणपंक्तिमहा पंक्तिपंक्त्युत्तराः । |
प्र ता॒र्यायुः॑ प्रत॒रं नवी᳚यः॒ स्थाता᳚रेव॒ क्रतु॑मता॒ रथ॑स्य |{गौपायना बंध्वादयः | निरृतिः | त्रिष्टुप्} अध॒ च्यवा᳚न॒ उत्त॑वी॒त्यर्थं᳚ परात॒रं सु निरृ॑तिर्जिहीताम् ||{1/10}{8.1.22.1}{10.59.1}{10.4.17.1}{113, 896, 9384} प्र¦ता॒रि॒¦आयुः॑¦प्र॒ऽत॒रम्¦नवी᳚यः¦स्थाता᳚राऽइव¦क्रतु॑ऽमता¦रथ॑स्य | |
साम॒न्नु रा॒ये नि॑धि॒मन्न्वन्नं॒ करा᳚महे॒ सु पु॑रु॒ध श्रवां᳚सि |{गौपायना बंध्वादयः | निरृतिः | त्रिष्टुप्} ता नो॒ विश्वा᳚नि जरि॒ता म॑मत्तु परात॒रं सु निरृ॑तिर्जिहीताम् ||{2/10}{8.1.22.2}{10.59.2}{10.4.17.2}{114, 896, 9385} साम॑न्¦नु¦रा॒ये¦नि॒धि॒ऽमत्¦नु¦अन्न᳚म्¦करा᳚महे¦सु¦पु॒रु॒ध¦श्रवां᳚सि | |
अ॒भी ष्व१॑(अ॒)र्यः पौंस्यै᳚र्भवेम॒ द्यौर्न भूमिं᳚ गि॒रयो॒ नाज्रा॑न् |{गौपायना बंध्वादयः | निरृतिः | त्रिष्टुप्} ता नो॒ विश्वा᳚नि जरि॒ता चि॑केत परात॒रं सु निरृ॑तिर्जिहीताम् ||{3/10}{8.1.22.3}{10.59.3}{10.4.17.3}{115, 896, 9386} अ॒भि¦सु¦अ॒र्यः¦पौंस्यैः᳚¦भ॒वे॒म॒¦द्यौः¦न¦भूमि᳚म्¦गि॒रयः॑¦न¦अज्रा॑न् | |
मो षु णः॑ सोम मृ॒त्यवे॒ परा᳚ दाः॒ पश्ये᳚म॒ नु सूर्य॑मु॒च्चर᳚न्तम् |{गौपायना बंध्वादयः | निरृतिः सोमाश्च | त्रिष्टुप्} द्युभि᳚र्हि॒तो ज॑रि॒मा सू नो᳚, अस्तु परात॒रं सु निरृ॑तिर्जिहीताम् ||{4/10}{8.1.22.4}{10.59.4}{10.4.17.4}{116, 896, 9387} मो इति॑¦सु¦नः॒¦सो॒म॒¦मृ॒त्यवे᳚¦परा᳚¦दाः॒¦पश्ये᳚म¦नु¦सूर्य᳚म्¦उ॒त्ऽचर᳚न्तम् | |
असु॑नीते॒ मनो᳚, अ॒स्मासु॑ धारय जी॒वात॑वे॒ सु प्र ति॑रा न॒ आयुः॑ |{गौपायना बंध्वादयः | असुनीतिः | त्रिष्टुप्} रा॒र॒न्धि नः॒ सूर्य॑स्य सं॒दृशि॑ घृ॒तेन॒ त्वं त॒न्वं᳚ वर्धयस्व ||{5/10}{8.1.22.5}{10.59.5}{10.4.17.5}{117, 896, 9388} असु॑ऽनीते¦मनः॑¦अ॒स्मासु॑¦धा॒र॒य॒¦जी॒वात॑वे¦सु¦प्र¦ति॒र॒¦नः॒¦आयुः॑ | |
असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षुः॒ पुनः॑ प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् |{गौपायना बंध्वादयः | असुनीतिः | त्रिष्टुप्} ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒मनु॑मते मृ॒ळया᳚ नः स्व॒स्ति ||{6/10}{8.1.23.1}{10.59.6}{10.4.17.6}{118, 896, 9389} असु॑ऽनीते¦पुनः॑¦अ॒स्मासु॑¦चक्षुः॑¦पुन॒रिति॑¦प्रा॒णम्¦इ॒ह¦नः॒¦धे॒हि॒¦भोग᳚म् | |
पुन᳚र्नो॒, असुं᳚ पृथि॒वी द॑दातु॒ पुन॒र्द्यौर्दे॒वी पुन॑र॒न्तरि॑क्षम् |{गौपायना बंध्वादयः | पृथिवीद्यावंतरिक्षसोमपूषपथ्यास्वस्तयोदेवताः | त्रिष्टुप्} पुन᳚र्नः॒ सोम॑स्त॒न्वं᳚ ददातु॒ पुनः॑ पू॒षा प॒थ्या॒३॑(आं॒) या स्व॒स्तिः ||{7/10}{8.1.23.2}{10.59.7}{10.4.17.7}{119, 896, 9390} पुनः॑¦नः॒¦असु᳚म्¦पृ॒थि॒वी¦द॒दा॒तु॒¦पुनः॑¦द्यौः¦दे॒वी¦पुनः॑¦अ॒न्तरि॑क्षम् | |
शं रोद॑सी सु॒बन्ध॑वे य॒ह्वी, ऋ॒तस्य॑ मा॒तरा᳚ |{गौपायना बंध्वादयः | द्यावापृथिव्यौ | पङ्क्ति} भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ||{8/10}{8.1.23.3}{10.59.8}{10.4.17.8}{120, 896, 9391} शम्¦रोद॑सी॒ इति॑¦सु॒ऽबन्ध॑वे¦य॒ह्वी इति॑¦ऋ॒तस्य॑¦मा॒तरा᳚ | |
अव॑ द्व॒के, अव॑ त्रि॒का दि॒वश्च॑रन्ति भेष॒जा |{गौपायना बंध्वादयः | द्यावापृथिव्यौ | महापङ्क्तिः} क्ष॒मा च॑रि॒ष्ण्वे᳚क॒कं भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ||{9/10}{8.1.23.4}{10.59.9}{10.4.17.9}{121, 896, 9392} अव॑¦द्व॒के इति॑¦अव॑¦त्रि॒का¦दि॒वः¦च॒र॒न्ति॒¦भे॒ष॒जा | |
समि᳚न्द्रेरय॒ गाम॑न॒ड्वाहं॒ य आव॑हदुशी॒नरा᳚ण्या॒, अनः॑ |{गौपायना बंध्वादयः | द्यावापृथिव्यौ, इंद्रः | पंक्त्युत्तराः} भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ||{10/10}{8.1.23.5}{10.59.10}{10.4.17.10}{122, 896, 9393} सम्¦इ॒न्द्र॒¦ई॒र॒य॒¦गाम्¦अ॒न॒ड्वाह᳚म्¦यः¦आ¦अव॑हत्¦उ॒शी॒नरा᳚ण्याः¦अनः॑ | |
[15] आजमिति द्वादशर्चस्य सूक्तस्य गौपायनाबंध्वादय ऋषयः षष्ठ्याअगस्त्यस्वसा ऋषिका आद्यानांचतसृणांषष्ठ्याश्च समातिर्देवता पंचम्याइंद्रः सप्तम्यादिपंचानांजीवः द्वादश्याहस्तोऽनुष्टुप् आद्याःपंचगायत्र्यः अष्टमीनवम्यौपंक्ती | |
आ जनं᳚ त्वे॒षसं᳚दृशं॒ माही᳚नाना॒मुप॑स्तुतम् |{गौपायना बंध्वादयः | समातिर्देवता | गायत्री} अग᳚न्म॒ बिभ्र॑तो॒ नमः॑ ||{1/12}{8.1.24.1}{10.60.1}{10.4.18.1}{123, 897, 9394} आ¦जन᳚म्¦त्वे॒षऽस᳚न्दृशम्¦माही᳚नानाम्¦उप॑ऽस्तुतम् | अग᳚न्म¦बिभ्र॑तः¦नमः॑ || |
अस॑मातिं नि॒तोश॑नं त्वे॒षं नि॑य॒यिनं॒ रथ᳚म् |{गौपायना बंध्वादयः | समातिर्देवता | गायत्री} भ॒जेर॑थस्य॒ सत्प॑तिम् ||{2/12}{8.1.24.2}{10.60.2}{10.4.18.2}{124, 897, 9395} अस॑मातिम्¦नि॒ऽतोश॑नम्¦त्वे॒षम्¦नि॒ऽय॒यिन᳚म्¦रथ᳚म् | भ॒जेऽर॑थस्य¦सत्ऽप॑तिम् || |
यो जना᳚न्महि॒षाँ, इ॑वातित॒स्थौ पवी᳚रवान् |{गौपायना बंध्वादयः | समातिर्देवता | गायत्री} उ॒ताप॑वीरवान् यु॒धा ||{3/12}{8.1.24.3}{10.60.3}{10.4.18.3}{125, 897, 9396} यः¦जना᳚न्¦म॒हि॒षान्ऽइ᳚व¦अ॒ति॒ऽत॒स्थौ¦पवी᳚रवान् | उ॒त¦अप॑वीरवान्¦यु॒धा || |
यस्ये᳚क्ष्वा॒कुरुप᳚ व्र॒ते रे॒वान् म॑रा॒य्येध॑ते |{गौपायना बंध्वादयः | समातिर्देवता | गायत्री} दि॒वी᳚व॒ पञ्च॑ कृ॒ष्टयः॑ ||{4/12}{8.1.24.4}{10.60.4}{10.4.18.4}{126, 897, 9397} यस्य॑¦इ॒क्ष्वा॒कुः¦उप॑¦व्र॒ते¦रे॒वान्¦म॒रा॒यी¦एध॑ते | दि॒विऽइ᳚व¦पंच॑¦कृ॒ष्टयः॑ || |
इन्द्र॑ क्ष॒त्रास॑मातिषु॒ रथ॑प्रोष्ठेषु धारय |{गौपायना बंध्वादयः | इन्द्रः | गायत्री} दि॒वी᳚व॒ सूर्यं᳚ दृ॒शे ||{5/12}{8.1.24.5}{10.60.5}{10.4.18.5}{127, 897, 9398} इन्द्र॑¦क्ष॒त्रा¦अस॑मातिषु¦रथ॑ऽप्रोष्ठेषु¦धा॒र॒य॒ | दि॒विऽइ᳚व¦सूर्य᳚म्¦दृ॒शे || |
अ॒गस्त्य॑स्य॒ नद्भ्यः॒ सप्ती᳚ युनक्षि॒ रोहि॑ता |{अगस्त्यस्वसा | समातिर्देवता | अनुष्टुप्} प॒णीन्न्य॑क्रमीर॒भि विश्वा᳚न् राजन्नरा॒धसः॑ ||{6/12}{8.1.24.6}{10.60.6}{10.4.18.6}{128, 897, 9399} अ॒गस्त्य॑स्य¦नत्ऽभ्यः॑¦सप्ती॒ इति॑¦यु॒न॒क्षि॒¦रोहि॑ता | प॒णीन्¦नि¦अ॒क्र॒मीः॒¦अ॒भि¦विश्वा᳚न्¦रा॒ज॒न्¦अ॒रा॒धसः॑ || |
अ॒यं मा॒तायं पि॒तायं जी॒वातु॒राग॑मत् |{गौपायना बंध्वादयः | जीवः | अनुष्टुप्} इ॒दं तव॑ प्र॒सर्प॑णं॒ सुब᳚न्ध॒वेहि॒ निरि॑हि ||{7/12}{8.1.25.1}{10.60.7}{10.4.18.7}{129, 897, 9400} अ॒यम्¦मा॒ता¦अ॒यम्¦पि॒ता¦अ॒यम्¦जी॒वातुः॑¦आ¦अ॒ग॒म॒त् | इ॒दम्¦तव॑¦प्र॒ऽसर्प॑णम्¦सुब᳚न्धो॒ इति॒ सुऽब᳚न्धो¦आ¦इ॒हि॒¦निः¦इ॒हि॒ || |
यथा᳚ यु॒गं व॑र॒त्रया॒ नह्य᳚न्ति ध॒रुणा᳚य॒ कम् |{गौपायना बंध्वादयः | जीवः | पङ्क्तिः} ए॒वा दा᳚धार ते॒ मनो᳚ जी॒वात॑वे॒ न मृ॒त्यवेऽथो᳚, अरि॒ष्टता᳚तये ||{8/12}{8.1.25.2}{10.60.8}{10.4.18.8}{130, 897, 9401} यथा᳚¦यु॒गम्¦व॒र॒त्रया᳚¦नह्य᳚न्ति¦ध॒रुणा᳚य¦कम् | |
यथे॒यं पृ॑थि॒वी म॒ही दा॒धारे॒मान्वन॒स्पती॑न् |{गौपायना बंध्वादयः | जीवः | पङ्क्तिः} ए॒वा दा᳚धार ते॒ मनो᳚ जी॒वात॑वे॒ न मृ॒त्यवेऽथो᳚, अरि॒ष्टता᳚तये ||{9/12}{8.1.25.3}{10.60.9}{10.4.18.9}{131, 897, 9402} यथा᳚¦इ॒यम्¦पृ॒थि॒वी¦म॒ही¦दा॒धार॑¦इ॒मान्¦वन॒स्पती॑न् | |
य॒माद॒हं वै᳚वस्व॒तात्सु॒बन्धो॒र्मन॒ आभ॑रम् |{गौपायना बंध्वादयः | जीवः | अनुष्टुप्} जी॒वात॑वे॒ न मृ॒त्यवेऽथो᳚, अरि॒ष्टता᳚तये ||{10/12}{8.1.25.4}{10.60.10}{10.4.18.10}{132, 897, 9403} य॒मात्¦अ॒हम्¦वै॒व॒स्व॒तात्¦सु॒ऽबन्धोः᳚¦मनः॑¦आ¦अ॒भ॒र॒म् | जी॒वात॑वे¦न¦मृ॒त्यवे᳚¦अथो॒ इति॑¦अ॒रि॒ष्टऽता᳚तये || |
न्य१॑(अ॒)ग्वातोऽव॑ वाति॒ न्य॑क्तपति॒ सूर्यः॑ |{गौपायना बंध्वादयः | जीवः | अनुष्टुप्} नी॒चीन॑म॒घ्न्या दु॑हे॒ न्य॑ग्भवतु ते॒ रपः॑ ||{11/12}{8.1.25.5}{10.60.11}{10.4.18.11}{133, 897, 9404} न्य॑क्¦वातः॑¦अव॑¦वा॒ति॒¦न्य॑क्¦त॒प॒ति॒¦सूर्यः॑ | नी॒चीन᳚म्¦अ॒घ्न्या¦दु॒हे॒¦न्य॑क्¦भ॒व॒तु॒¦ते॒¦रपः॑ || |
अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः |{गौपायना बंध्वादयः | हस्तः | अनुष्टुप्} अ॒यं मे᳚ वि॒श्वभे᳚षजो॒ऽयं शि॒वाभि॑मर्शनः ||{12/12}{8.1.25.6}{10.60.12}{10.4.18.12}{134, 897, 9405} अ॒यम्¦मे॒¦हस्तः॑¦भग॑ऽवान्¦अ॒यम्¦मे॒¦भग॑वत्ऽतरः | अ॒यम्¦मे॒¦वि॒श्वऽभे᳚षजः¦अ॒यम्¦शि॒व।आ॑भिमर्शनः || |
[16] इदमित्थेति सप्तविंशत्यृचस्य सूक्तस्य मानवो नाभानेदिष्ठो विश्वेदेवास्त्रिष्टुप् (भेदपक्षे - रुद्रः २ अश्विनौ २ रुद्रः २ विश्वेदेवाः १ वास्तोष्पतिरुद्रौ १ वास्तोष्पत्यग्नी १ अंगिरसः १ इंद्रः ३ अग्निः १ नासत्येंद्राः १ सोमः १ अग्निः १ आदित्यनाभानेदिष्ठौ १ नाभानेदिष्ठथेनू १ अग्निः १ इंद्राग्नी १ इंद्र: १ मित्रावरुणनाभानेदिष्ठाः १ वरुणः १ मित्रावरुणौ १वरुणः १ देवाः १ एवं २७ ) | |
इ॒दमि॒त्था रौद्रं᳚ गू॒र्तव॑चा॒ ब्रह्म॒ क्रत्वा॒ शच्या᳚म॒न्तरा॒जौ |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्} क्रा॒णा यद॑स्य पि॒तरा᳚ मंहने॒ष्ठाः पर्ष॑त्प॒क्थे, अह॒न्ना स॒प्त होतॄ॑न् ||{1/27}{8.1.26.1}{10.61.1}{10.5.1.1}{135, 898, 9406} इ॒दम्¦इ॒त्था¦रौद्र᳚म्¦गू॒र्तऽव॑चाः¦ब्रह्म॑¦क्रत्वा᳚¦शच्या᳚म्¦अ॒न्तः¦आ॒जौ | |
स इद्दा॒नाय॒ दभ्या᳚य व॒न्वञ्च्यवा᳚नः॒ सूदै᳚रमिमीत॒ वेदि᳚म् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्} तूर्व॑याणो गू॒र्तव॑चस्तमः॒, क्षोदो॒ न रेत॑ इ॒तऊ᳚ति सिञ्चत् ||{2/27}{8.1.26.2}{10.61.2}{10.5.1.2}{136, 898, 9407} सः¦इत्¦दा॒नाय॑¦दभ्या᳚य¦व॒न्वन्¦च्यवा᳚नः¦सूदैः᳚¦अ॒मि॒मी॒त॒¦वेदि᳚म् | |
मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विपः॒ शच्या᳚ वनु॒थो द्रव᳚न्ता |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्} आ यः शर्या᳚भिस्तुविनृ॒म्णो, अ॒स्याश्री᳚णीता॒दिशं॒ गभ॑स्तौ ||{3/27}{8.1.26.3}{10.61.3}{10.5.1.3}{137, 898, 9408} मनः॑¦न¦येषु॑¦हव॑नेषु¦ति॒ग्मम्¦विपः॑¦शच्या᳚¦व॒नु॒थः¦द्रव᳚न्ता | |
कृ॒ष्णा यद्गोष्व॑रु॒णीषु॒ सीद॑द्दि॒वो नपा᳚ताश्विना हुवे वाम् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्} वी॒तं मे᳚ य॒ज्ञमा ग॑तं मे॒, अन्नं᳚ वव॒न्वांसा॒ नेष॒मस्मृ॑तध्रू ||{4/27}{8.1.26.4}{10.61.4}{10.5.1.4}{138, 898, 9409} कृ॒ष्णा¦यत्¦गोषु॑¦अ॒रु॒णीषु॑¦सीद॑त्¦दि॒वः¦नपा᳚ता¦अ॒श्वि॒ना॒¦हु॒वे॒¦वा॒म् | |
प्रथि॑ष्ट॒ यस्य॑ वी॒रक᳚र्ममि॒ष्णदनु॑ष्ठितं॒ नु नर्यो॒, अपौ᳚हत् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्} पुन॒स्तदा वृ॑हति॒ यत्क॒नाया᳚ दुहि॒तुरा, अनु॑भृतमन॒र्वा ||{5/27}{8.1.26.5}{10.61.5}{10.5.1.5}{139, 898, 9410} प्रथि॑ष्ट¦यस्य॑¦वी॒रऽक᳚र्मम्¦इ॒ष्णत्¦अनु॑ऽस्थितम्¦नु¦नर्यः॑¦अप॑¦औ॒ह॒त् | |
म॒ध्या यत्कर्त्व॒मभ॑वद॒भीके॒ कामं᳚ कृण्वा॒ने पि॒तरि॑ युव॒त्याम् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्} म॒ना॒नग्रेतो᳚ जहतुर्वि॒यन्ता॒ सानौ॒ निषि॑क्तं सुकृ॒तस्य॒ योनौ᳚ ||{6/27}{8.1.27.1}{10.61.6}{10.5.1.6}{140, 898, 9411} म॒ध्या¦यत्¦कर्त्व᳚म्¦अभ॑वत्¦अ॒भीके᳚¦काम᳚म्¦कृ॒ण्वा॒ने¦पि॒तरि॑¦यु॒व॒त्याम् | |
पि॒ता यत्स्वां दु॑हि॒तर॑मधि॒ष्कन् क्ष्म॒या रेतः॑ संजग्मा॒नो नि षि᳚ञ्चत् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्} स्वा॒ध्यो᳚ऽजनय॒न् ब्रह्म॑ दे॒वा वास्तो॒ष्पतिं᳚ व्रत॒पां निर॑तक्षन् ||{7/27}{8.1.27.2}{10.61.7}{10.5.1.7}{141, 898, 9412} पि॒ता¦यत्¦स्वाम्¦दु॒हि॒तर᳚म्¦अ॒धि॒ऽस्कन्¦क्ष्म॒या¦रेतः॑¦स॒म्ऽज॒ग्मा॒नः¦नि¦सिं॒च॒त् | |
स ईं॒ वृषा॒ न फेन॑मस्यदा॒जौ स्मदा परै॒दप॑ द॒भ्रचे᳚ताः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्} सर॑त्प॒दा न दक्षि॑णा परा॒वृङ्न ता नु मे᳚ पृश॒न्यो᳚ जगृभ्रे ||{8/27}{8.1.27.3}{10.61.8}{10.5.1.8}{142, 898, 9413} सः¦ई॒म्¦वृषा᳚¦न¦फेन᳚म्¦अ॒स्य॒त्¦आ॒जौ¦स्मत्¦आ¦परा᳚¦ऐ॒त्¦अप॑¦द॒भ्रऽचे᳚ताः | |
म॒क्षू न वह्निः॑ प्र॒जाया᳚, उप॒ब्दिर॒ग्निं न न॒ग्न उप॑ सीद॒दूधः॑ |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्} सनि॑ते॒ध्मं सनि॑तो॒त वाजं॒ स ध॒र्ता ज॑ज्ञे॒ सह॑सा यवी॒युत् ||{9/27}{8.1.27.4}{10.61.9}{10.5.1.9}{143, 898, 9414} म॒क्षु¦न¦वह्निः॑¦प्र॒ऽजायाः᳚¦उ॒प॒ब्दिः¦अ॒ग्निम्¦न¦न॒ग्नः¦उप॑¦सीद॑त्¦ऊधः॑ | |
म॒क्षू क॒नायाः᳚ स॒ख्यं नव॑ग्वा, ऋ॒तं वद᳚न्त ऋ॒तयु॑क्तिमग्मन् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्} द्वि॒बर्ह॑सो॒ य उप॑ गो॒पमागु॑रदक्षि॒णासो॒, अच्यु॑ता दुदुक्षन् ||{10/27}{8.1.27.5}{10.61.10}{10.5.1.10}{144, 898, 9415} म॒क्षु¦क॒नायाः᳚¦स॒ख्यम्¦नव॑ऽग्वाः¦ऋ॒तम्¦वद᳚न्तः¦ऋ॒तऽयु॑क्तिम्¦अ॒ग्म॒न् | |
म॒क्षू क॒नायाः᳚ स॒ख्यं नवी᳚यो॒ राधो॒ न रेत॑ ऋ॒तमित्तु॑रण्यन् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्} शुचि॒ यत्ते॒ रेक्ण॒ आय॑जन्त सब॒र्दुघा᳚याः॒ पय॑ उ॒स्रिया᳚याः ||{11/27}{8.1.28.1}{10.61.11}{10.5.1.11}{145, 898, 9416} म॒क्षु¦क॒नायाः᳚¦स॒ख्यम्¦नवी᳚यः¦राधः॑¦न¦रेतः॑¦ऋ॒तम्¦इत्¦तु॒र॒ण्य॒न् | |
प॒श्वा यत्प॒श्चा वियु॑ता बु॒धन्तेति॑ ब्रवीति व॒क्तरी॒ ररा᳚णः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्} वसो᳚र्वसु॒त्वा का॒रवो᳚ऽने॒हा विश्वं᳚ विवेष्टि॒ द्रवि॑ण॒मुप॒ क्षु ||{12/27}{8.1.28.2}{10.61.12}{10.5.1.12}{146, 898, 9417} प॒श्वा¦यत्¦प॒श्चा¦विऽयु॑ता¦बु॒धन्त॑¦इति॑¦ब्र॒वी॒ति॒¦व॒क्तरि॑¦ररा᳚णः | |
तदिन्न्व॑स्य परि॒षद्वा᳚नो, अग्मन् पु॒रू सद᳚न्तो नार्ष॒दं बि॑भित्सन् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्} वि शुष्ण॑स्य॒ संग्र॑थितमन॒र्वा वि॒दत्पु॑रुप्रजा॒तस्य॒ गुहा॒ यत् ||{13/27}{8.1.28.3}{10.61.13}{10.5.1.13}{147, 898, 9418} तत्¦इत्¦नु¦अ॒स्य॒¦प॒रि॒ऽसद्वा᳚नः¦अ॒ग्म॒न्¦पु॒रु¦सद᳚न्तः¦ना॒र्स॒दम्¦बि॒भि॒त्सन् | |
भर्गो᳚ ह॒ नामो॒त यस्य॑ दे॒वाः स्व१॑(अ॒)र्ण ये त्रि॑षध॒स्थे नि॑षे॒दुः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्} अ॒ग्निर्ह॒ नामो॒त जा॒तवे᳚दाः श्रु॒धी नो᳚ होतरृ॒तस्य॒ होता॒ध्रुक् ||{14/27}{8.1.28.4}{10.61.14}{10.5.1.14}{148, 898, 9419} भर्गः॑¦ह॒¦नाम॑¦उ॒त¦यस्य॑¦दे॒वाः¦स्वः॑¦न¦ये¦त्रि॒ऽस॒ध॒स्थे¦नि॒ऽसे॒दुः | |
उ॒त त्या मे॒ रौद्रा᳚वर्चि॒मन्ता॒ नास॑त्याविन्द्र गू॒र्तये॒ यज॑ध्यै |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्} म॒नु॒ष्वद्वृ॒क्तब᳚र्हिषे॒ ररा᳚णा म॒न्दू हि॒तप्र॑यसा वि॒क्षु यज्यू᳚ ||{15/27}{8.1.28.5}{10.61.15}{10.5.1.15}{149, 898, 9420} उ॒त¦त्या¦मे॒¦रौद्रौ᳚¦अ॒र्चि॒ऽमन्ता᳚¦नास॑त्यौ¦इ॒न्द्र॒¦गृ॒तये᳚¦यज॑ध्यै | |
अ॒यं स्तु॒तो राजा᳚ वन्दि वे॒धा, अ॒पश्च॒ विप्र॑स्तरति॒ स्वसे᳚तुः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्} स क॒क्षीव᳚न्तं रेजय॒त्सो, अ॒ग्निं ने॒मिं न च॒क्रमर्व॑तो रघु॒द्रु ||{16/27}{8.1.29.1}{10.61.16}{10.5.1.16}{150, 898, 9421} अ॒यम्¦स्तु॒तः¦राजा᳚¦व॒न्दि॒¦वे॒धाः¦अ॒पः¦च॒¦विप्रः॑¦त॒र॒ति॒¦स्वऽसे᳚तुः | |
स द्वि॒बन्धु᳚र्वैतर॒णो यष्टा᳚ सब॒र्धुं धे॒नुम॒स्वं᳚ दु॒हध्यै᳚ |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्} सं यन्मि॒त्रावरु॑णा वृ॒ञ्ज उ॒क्थैर्ज्येष्ठे᳚भिरर्य॒मणं॒ वरू᳚थैः ||{17/27}{8.1.29.2}{10.61.17}{10.5.1.17}{151, 898, 9422} सः¦द्वि॒ऽबन्धुः॑¦वै॒त॒र॒णः¦यष्टा᳚¦स॒बः॒ऽधुम्¦धे॒नुम्¦अ॒स्व᳚म्¦दु॒हध्यै᳚ | |
तद् ब᳚न्धुः सू॒रिर्दि॒वि ते᳚ धियं॒धा नाभा॒नेदि॑ष्ठो रपति॒ प्र वेन॑न् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्} सा नो॒ नाभिः॑ पर॒मास्य वा᳚ घा॒हं तत् प॒श्चा क॑ति॒थश्चि॑दास ||{18/27}{8.1.29.3}{10.61.18}{10.5.1.18}{152, 898, 9423} तत्ऽब᳚न्धुः¦सू॒रिः¦दि॒वि¦ते॒¦धि॒य॒म्ऽधाः¦नाभा॒नेदि॑ष्ठः¦र॒प॒ति॒¦प्र¦वेन॑न् | |
इ॒यं मे॒ नाभि॑रि॒ह मे᳚ स॒धस्थ॑मि॒मे मे᳚ दे॒वा, अ॒यम॑स्मि॒ सर्वः॑ |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्} द्वि॒जा, अह॑ प्रथम॒जा, ऋ॒तस्ये॒दं धे॒नुर॑दुह॒ज्जाय॑माना ||{19/27}{8.1.29.4}{10.61.19}{10.5.1.19}{153, 898, 9424} इ॒यम्¦मे॒¦नाभिः॑¦इ॒ह¦मे॒¦स॒धऽस्थ᳚म्¦इ॒मे¦मे॒¦दे॒वाः¦अ॒यम्¦अ॒स्मि॒¦सर्वः॑ | |
अधा᳚सु म॒न्द्रो, अ॑र॒तिर्वि॒भावाव॑ स्यति द्विवर्त॒निर्व॑ने॒षाट् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्} ऊ॒र्ध्वा यच्छ्रेणि॒र्न शिशु॒र्दन्म॒क्षू स्थि॒रं शे᳚वृ॒धं सू᳚त मा॒ता ||{20/27}{8.1.29.5}{10.61.20}{10.5.1.20}{154, 898, 9425} अध॑¦आ॒सु॒¦म॒न्द्रः¦अ॒र॒तिः¦वि॒भाऽवा᳚¦अव॑¦स्य॒ति॒¦द्वि॒ऽव॒र्त॒निः¦व॒ने॒षाट् | |
अधा॒ गाव॒ उप॑मातिं क॒नाया॒, अनु॑ श्वा॒न्तस्य॒ कस्य॑ चि॒त्परे᳚युः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्} श्रु॒धि त्वं सु॑द्रविणो न॒स्त्वं या᳚ळाश्व॒घ्नस्य॑ वावृधे सू॒नृता᳚भिः ||{21/27}{8.1.30.1}{10.61.21}{10.5.1.21}{155, 898, 9426} अध॑¦गावः॑¦उप॑ऽमातिम्¦क॒नायाः᳚¦अनु॑¦श्वा॒न्तस्य॑¦कस्य॑¦चि॒त्¦परा᳚¦ई॒युः॒ | |
अध॒ त्वमि᳚न्द्र वि॒द्ध्य१॑(अ॒)स्मान्म॒हो रा॒ये नृ॑पते॒ वज्र॑बाहुः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्} रक्षा᳚ च नो म॒घोनः॑ पा॒हि सू॒रीन॑ने॒हस॑स्ते हरिवो, अ॒भिष्टौ᳚ ||{22/27}{8.1.30.2}{10.61.22}{10.5.1.22}{156, 898, 9427} अध॑¦त्वम्¦इ॒न्द्र॒¦वि॒द्धि¦अ॒स्मान्¦म॒हः¦रा॒ये¦नृ॒ऽप॒ते॒¦वज्र॑ऽबाहुः | |
अध॒ यद्रा᳚जाना॒ गवि॑ष्टौ॒ सर॑त्सर॒ण्युः का॒रवे᳚ जर॒ण्युः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्} विप्रः॒ प्रेष्ठः॒ स ह्ये᳚षां ब॒भूव॒ परा᳚ च॒ वक्ष॑दु॒त प॑र्षदेनान् ||{23/27}{8.1.30.3}{10.61.23}{10.5.1.23}{157, 898, 9428} अध॑¦यत्¦रा॒जा॒ना॒¦गोऽइ᳚ष्टौ¦सर॑त्¦स॒र॒ण्युः¦का॒रवे᳚¦ज॒र॒ण्युः | |
अधा॒ न्व॑स्य॒ जेन्य॑स्य पु॒ष्टौ वृथा॒ रेभ᳚न्त ईमहे॒ तदू॒ नु |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्} स॒र॒ण्युर॑स्य सू॒नुरश्वो॒ विप्र॑श्चासि॒ श्रव॑सश्च सा॒तौ ||{24/27}{8.1.30.4}{10.61.24}{10.5.1.24}{158, 898, 9429} अध॑¦नु¦अ॒स्य॒¦जेन्य॑स्य¦पु॒ष्टौ¦वृथा᳚¦रेभ᳚न्तः¦ई॒म॒हे॒¦तत्¦ऊँ॒ इति॑¦नु | |
यु॒वोर्यदि॑ स॒ख्याया॒स्मे शर्धा᳚य॒ स्तोमं᳚ जुजु॒षे नम॑स्वान् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्} वि॒श्वत्र॒ यस्मि॒न्ना गिरः॑ समी॒चीः पू॒र्वीव॑ गा॒तुर्दाश॑त्सू॒नृता᳚यै ||{25/27}{8.1.30.5}{10.61.25}{10.5.1.25}{159, 898, 9430} यु॒वोः¦यदि॑¦स॒ख्याय॑¦अ॒स्मे इति॑¦शर्धा᳚य¦स्तोम᳚म्¦जु॒जु॒षे¦नम॑स्वान् | |
स गृ॑णा॒नो, अ॒द्भिर्दे॒ववा॒निति॑ सु॒बन्धु॒र्नम॑सा सू॒क्तैः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्} वर्ध॑दु॒क्थैर्वचो᳚भि॒रा हि नू॒नं व्यध्वै᳚ति॒ पय॑स उ॒स्रिया᳚याः ||{26/27}{8.1.30.6}{10.61.26}{10.5.1.26}{160, 898, 9431} सः¦गृ॒णा॒नः¦अ॒त्ऽभिः¦दे॒वऽवा᳚न्¦इति॑¦सु॒ऽबन्धुः॑¦नम॑सा¦सु॒।औ॒क्तैः | |
त ऊ॒ षु णो᳚ म॒हो य॑जत्रा भू॒त दे᳚वास ऊ॒तये᳚ स॒जोषाः᳚ |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्} ये वाजाँ॒, अन॑यता वि॒यन्तो॒ ये स्था नि॑चे॒तारो॒, अमू᳚राः ||{27/27}{8.1.30.7}{10.61.27}{10.5.1.27}{161, 898, 9432} ते¦ऊँ॒ इति॑¦सु¦नः॒¦म॒हः¦य॒ज॒त्राः॒¦भू॒त¦दे॒वा॒सः॒¦ऊ॒तये᳚¦स॒ऽजोषाः᳚ | |
[17] येयज्ञेनेत्येकादशर्चस्य सूक्तस्य मानवोनाभानेदिष्ठो विश्वेदेवाः प्रनूनमित्यादिचतसृणां सावर्णिर्जगती पंचम्यष्टमीनवम्योनुष्टुभः षष्टी बृहती सप्तमीसतोबृहती दशमीगायत्री अंत्यात्रिष्टुप् (भेदपक्षे - अंगिरसः ६ विश्वेदेवाः १ सावर्णिः ४ एवं ११ | अंगिरसोनुक्रमण्यांपाक्षिकाउक्ताः) | येयज्ञेनेतिचतसृणां त्रिष्टुप् छंदस्त्वं कश्चिद्भूतेतद्बहुविरुद्धं | विरोधास्तु - षळंगिरसां स्तुतिर्वांत्यात्रिष्टुबित्यनुक्रमाच्छेष जगत्यइति परिभाषाव्याघात एकः । तासां त्रिष्टुप् छंदस्त्वेनादेशपरिभाषयातासामंत्यायाश्चत्रिष्टुब्वे सिद्धेत्यात्रिष्टुबिति सिद्धानुवादलक्षणदोषा विष्करणद्वितीयः | दशमीत्वस्य गायत्री जगत्यन्याविनोत्तमामिति शौनकवचनाज्ञानेनस्वेच्छयाव्याख्यानमिति तृतीयश्चेति) | |
ये य॒ज्ञेन॒ दक्षि॑णया॒ सम॑क्ता॒, इन्द्र॑स्य स॒ख्यम॑मृत॒त्वमा᳚न॒श |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | जगती} तेभ्यो᳚ भ॒द्रम᳚ङ्गिरसो वो, अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ||{1/11}{8.2.1.1}{10.62.1}{10.5.2.1}{162, 899, 9433} ये¦य॒ज्ञेन॑¦दक्षि॑णया¦सम्।आ॑क्ताः¦इन्द्र॑स्य¦स॒ख्यम्¦अ॒मृ॒त॒ऽत्वम्¦आ॒न॒श | |
य उ॒दाज᳚न् पि॒तरो᳚ गो॒मयं॒ वस्वृ॒तेनाभि᳚न्दन् परिवत्स॒रे व॒लम् |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | जगती} दी॒र्घा॒यु॒त्वम᳚ङ्गिरसो वो, अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ||{2/11}{8.2.1.2}{10.62.2}{10.5.2.2}{163, 899, 9434} ये¦उ॒त्ऽआज॑न्¦पि॒तरः॑¦गो॒ऽमय᳚म्¦वसु॑¦ऋ॒तेन॑¦अभि᳚न्दन्¦प॒रि॒ऽव॒त्स॒रे¦व॒लम् | |
य ऋ॒तेन॒ सूर्य॒मारो᳚हयन्दि॒व्यप्र॑थयन् पृथि॒वीं मा॒तरं॒ वि |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | जगती} सु॒प्र॒जा॒स्त्वम᳚ङ्गिरसो वो, अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ||{3/11}{8.2.1.3}{10.62.3}{10.5.2.3}{164, 899, 9435} ये¦ऋ॒तेन॑¦सूर्य᳚म्¦आ¦अरो᳚हयन्¦दि॒वि¦अप्र॑थयन्¦पृ॒थि॒वीम्¦मा॒तर᳚म्¦वि | |
अ॒यं नाभा᳚ वदति व॒ल्गु वो᳚ गृ॒हे देव॑पुत्रा, ऋषय॒स्तच्छृ॑णोतन |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | जगती} सु॒ब्र॒ह्म॒ण्यम᳚ङ्गिरसो वो, अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ||{4/11}{8.2.1.4}{10.62.4}{10.5.2.4}{165, 899, 9436} अ॒यम्¦नाभा᳚¦व॒द॒ति॒¦व॒ल्गु¦वः॒¦गृ॒हे¦देव॑ऽपुत्राः¦ऋ॒ष॒यः॒¦तत्¦शृ॒णो॒त॒न॒ | |
विरू᳚पास॒ इदृष॑य॒स्त इद्ग᳚म्भी॒रवे᳚पसः |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | अनुष्टुप्} ते, अङ्गि॑रसः सू॒नव॒स्ते, अ॒ग्नेः परि॑ जज्ञिरे ||{5/11}{8.2.1.5}{10.62.5}{10.5.2.5}{166, 899, 9437} विऽरू᳚पासः¦इत्¦ऋष॑यः¦ते¦इत्¦ग॒म्भी॒रऽवे᳚पसः | ते¦अङ्गि॑रसः¦सू॒नवः॑¦ते¦अ॒ग्नेः¦परि॑¦ज॒ज्ञि॒रे॒ || |
ये, अ॒ग्नेः परि॑ जज्ञि॒रे विरू᳚पासो दि॒वस्परि॑ |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | बृहती} नव॑ग्वो॒ नु दश॑ग्वो॒, अङ्गि॑रस्तमो॒ सचा᳚ दे॒वेषु॑ मंहते ||{6/11}{8.2.2.1}{10.62.6}{10.5.2.6}{167, 899, 9438} ये¦अ॒ग्नेः¦परि॑¦ज॒ज्ञि॒रे¦विऽरू᳚पासः¦दि॒वः¦परि॑ | |
इन्द्रे᳚ण यु॒जा निः सृ॑जन्त वा॒घतो᳚ व्र॒जं गोम᳚न्तम॒श्विन᳚म् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | सतोबृहती} स॒हस्रं᳚ मे॒ दद॑तो, अष्टक॒र्ण्य१॑(अः॒) श्रवो᳚ दे॒वेष्व॑क्रत ||{7/11}{8.2.2.2}{10.62.7}{10.5.2.7}{168, 899, 9439} इन्द्रे᳚ण¦यु॒जा¦निः¦सृ॒ज॒न्त॒¦वा॒घतः॑¦व्र॒जम्¦गोऽम᳚न्तम्¦अ॒श्विन᳚म् | |
प्र नू॒नं जा᳚यताम॒यं मनु॒स्तोक्मे᳚व रोहतु |{मानवो नाभानेदिष्ठः | सावर्णिः | अनुष्टुप्} यः स॒हस्रं᳚ श॒ताश्वं᳚ स॒द्यो दा॒नाय॒ मंह॑ते ||{8/11}{8.2.2.3}{10.62.8}{10.5.2.8}{169, 899, 9440} प्र¦नू॒नम्¦जा॒य॒ता॒म्¦अ॒यम्¦मनुः॑¦तोक्म॑ऽइव¦रो॒ह॒तु॒ | यः¦स॒हस्र᳚म्¦श॒त।आ॑श्वम्¦स॒द्यः¦दा॒नाय॑¦मंह॑ते || |
न तम॑श्नोति॒ कश्च॒न दि॒व इ॑व॒ सान्वा॒रभ᳚म् |{मानवो नाभानेदिष्ठः | सावर्णिः | अनुष्टुप्} सा॒व॒र्ण्यस्य॒ दक्षि॑णा॒ वि सिन्धु॑रिव पप्रथे ||{9/11}{8.2.2.4}{10.62.9}{10.5.2.9}{170, 899, 9441} न¦तम्¦अ॒श्नो॒ति॒¦कः¦च॒न¦दि॒वःऽइ᳚व¦सानु॑¦आ॒ऽरभ᳚म् | सा॒व॒र्ण्यस्य॑¦दक्षि॑णा¦वि¦सिन्धुः॑ऽइव¦प॒प्र॒थे॒ || |
उ॒त दा॒सा प॑रि॒विषे॒ स्मद्दि॑ष्टी॒ गोप॑रीणसा |{मानवो नाभानेदिष्ठः | सावर्णिः | गायत्री} यदु॑स्तु॒र्वश्च॑ मामहे ||{10/11}{8.2.2.5}{10.62.10}{10.5.2.10}{171, 899, 9442} उ॒त¦दा॒सा¦प॒रि॒ऽविषे᳚¦स्मद्दि॑ष्टी॒ इति॒ स्मत्ऽदि॑ष्टी¦गोऽप॑रीणसा | यदुः॑¦तु॒र्वः¦च॒¦मा॒म॒हे॒ || |
स॒ह॒स्र॒दा ग्रा᳚म॒णीर्मा रि॑ष॒न्मनुः॒ सूर्ये᳚णास्य॒ यत॑मानैतु॒ दक्षि॑णा |{मानवो नाभानेदिष्ठः | सावर्णिः | त्रिष्टुप्} साव᳚र्णेर्दे॒वाः प्र ति॑र॒न्त्वायु॒र्यस्मि॒न्नश्रा᳚न्ता॒, अस॑नाम॒ वाज᳚म् ||{11/11}{8.2.2.6}{10.62.11}{10.5.2.11}{172, 899, 9443} स॒ह॒स्र॒ऽदाः¦ग्रा॒म॒ऽनीः¦मा¦रि॒ष॒त्¦मनुः॑¦सूर्ये᳚ण¦अ॒स्य॒¦यत॑माना¦ए॒तु॒¦दक्षि॑णा | |
[18] परावतइति सप्तदशर्चस्य सूक्तस्य गयःप्लातो विश्वेदेवाः पंचदशीषोडश्योः पथ्यास्वस्तिर्जगत्यंत्येद्वेत्रिष्टुभौ स्वस्तिस्त्रिष्टुब्वा | (भेदपक्षे - विश्वेदेवाः९ दिवः १ विश्वेदेवाः४ पथ्यास्वस्ति २ विश्वेदेवाः १ एवं १७) । गयः प्लातइत्यत्र प्लातोगयो विश्वेदेवा इत्यपिकचित्प्रयुंजते ) | |
प॒रा॒वतो॒ ये दिधि॑षन्त॒ आप्यं॒ मनु॑प्रीतासो॒ जनि॑मा वि॒वस्व॑तः |{गयः प्लातः | विश्वदेवाः | जगती} य॒याते॒र्ये न॑हु॒ष्य॑स्य ब॒र्हिषि॑ दे॒वा, आस॑ते॒ ते, अधि॑ ब्रुवन्तु नः ||{1/17}{8.2.3.1}{10.63.1}{10.5.3.1}{173, 900, 9444} प॒रा॒ऽवतः॑¦ये¦दिधि॑षन्ते¦आप्य᳚म्¦मनु॑ऽप्रीतासः¦जनि॑म¦वि॒वस्व॑तः | |
विश्वा॒ हि वो᳚ नम॒स्या᳚नि॒ वन्द्या॒ नामा᳚नि देवा, उ॒त य॒ज्ञिया᳚नि वः |{गयः प्लातः | विश्वदेवाः | जगती} ये स्थ जा॒ता, अदि॑तेर॒द्भ्यस्परि॒ ये पृ॑थि॒व्यास्ते म॑ इ॒ह श्रु॑ता॒ हव᳚म् ||{2/17}{8.2.3.2}{10.63.2}{10.5.3.2}{174, 900, 9445} विश्वा᳚¦हि¦वः॒¦न॒म॒स्या᳚नि¦वन्द्या᳚¦नामा᳚नि¦दे॒वाः॒¦उ॒त¦य॒ज्ञिया᳚नि¦वः॒ | |
येभ्यो᳚ मा॒ता मधु॑म॒त् पिन्व॑ते॒ पयः॑ पी॒यूषं॒ द्यौरदि॑ति॒रद्रि॑बर्हाः |{गयः प्लातः | विश्वदेवाः | जगती} उ॒क्थशु॑ष्मान् वृषभ॒रान् त्स्वप्न॑स॒स्ताँ, आ᳚दि॒त्याँ, अनु॑ मदा स्व॒स्तये᳚ ||{3/17}{8.2.3.3}{10.63.3}{10.5.3.3}{175, 900, 9446} येभ्यः॑¦मा॒ता¦मधु॑ऽमत्¦पिन्व॑ते¦पयः॑¦पी॒यूष᳚म्¦द्यौः¦अदि॑तिः¦अद्रि॑ऽबर्हाः | |
नृ॒चक्ष॑सो॒, अनि॑मिषन्तो, अ॒र्हणा᳚ बृ॒हद्दे॒वासो᳚, अमृत॒त्वमा᳚नशुः |{गयः प्लातः | विश्वदेवाः | जगती} ज्यो॒तीर॑था॒, अहि॑माया॒, अना᳚गसो दि॒वो व॒र्ष्माणं᳚ वसते स्व॒स्तये᳚ ||{4/17}{8.2.3.4}{10.63.4}{10.5.3.4}{176, 900, 9447} नृ॒ऽचक्ष॑सः¦अनि॑ऽमिषन्तः¦अ॒र्हणा᳚¦बृ॒हत्¦दे॒वासः॑¦अ॒मृ॒त॒ऽत्वम्¦आ॒न॒शुः॒ | |
स॒म्राजो॒ ये सु॒वृधो᳚ य॒ज्ञमा᳚य॒युरप॑रिह्वृता दधि॒रे दि॒वि क्षय᳚म् |{गयः प्लातः | विश्वदेवाः | जगती} ताँ, आ वि॑वास॒ नम॑सा सुवृ॒क्तिभि᳚र्म॒हो, आ᳚दि॒त्याँ, अदि॑तिं स्व॒स्तये᳚ ||{5/17}{8.2.3.5}{10.63.5}{10.5.3.5}{177, 900, 9448} स॒म्ऽराजः॑¦ये¦सु॒ऽवृधः॑¦य॒ज्ञम्¦आ॒ऽय॒युः¦अप॑रिऽह्वृताः¦द॒धि॒रे¦दि॒वि¦क्षय᳚म् | |
को वः॒ स्तोमं᳚ राधति॒ यं जुजो᳚षथ॒ विश्वे᳚ देवासो मनुषो॒ यति॒ ष्ठन॑ |{गयः प्लातः | विश्वदेवाः | जगती} को वो᳚ऽध्व॒रं तु॑विजाता॒, अरं᳚ कर॒द्यो नः॒ पर्ष॒दत्यंहः॑ स्व॒स्तये᳚ ||{6/17}{8.2.4.1}{10.63.6}{10.5.3.6}{178, 900, 9449} कः¦वः॒¦स्तोम᳚म्¦रा॒ध॒ति॒¦यम्¦जुजो᳚षथ¦विश्वे᳚¦दे॒वा॒सः॒¦म॒नु॒षः॒¦यति॑¦स्थन॑ | |
येभ्यो॒ होत्रां᳚ प्रथ॒मामा᳚ये॒जे मनुः॒ समि॑द्धाग्नि॒र्मन॑सा स॒प्त होतृ॑भिः |{गयः प्लातः | विश्वदेवाः | जगती} त आ᳚दित्या॒, अभ॑यं॒ शर्म॑ यच्छत सु॒गा नः॑ कर्त सु॒पथा᳚ स्व॒स्तये᳚ ||{7/17}{8.2.4.2}{10.63.7}{10.5.3.7}{179, 900, 9450} येभ्यः॑¦होत्रा᳚म्¦प्र॒थ॒माम्¦आ॒ऽये॒जे¦मनुः॑¦समि॑द्ध।आग्निः¦मन॑सा¦स॒प्त¦होतृ॑ऽभिः | |
य ईशि॑रे॒ भुव॑नस्य॒ प्रचे᳚तसो॒ विश्व॑स्य स्था॒तुर्जग॑तश्च॒ मन्त॑वः |{गयः प्लातः | विश्वदेवाः | जगती} ते नः॑ कृ॒तादकृ॑ता॒देन॑स॒स्पर्य॒द्या दे᳚वासः पिपृता स्व॒स्तये᳚ ||{8/17}{8.2.4.3}{10.63.8}{10.5.3.8}{180, 900, 9451} ये¦ईशि॑रे¦भुव॑नस्य¦प्रऽचे᳚तसः¦विश्व॑स्य¦स्था॒तुः¦जग॑तः¦च॒¦मन्त॑वः | |
भरे॒ष्विन्द्रं᳚ सु॒हवं᳚ हवामहेंऽहो॒मुचं᳚ सु॒कृतं॒ दैव्यं॒ जन᳚म् |{गयः प्लातः | विश्वदेवाः | जगती} अ॒ग्निं मि॒त्रं वरु॑णं सा॒तये॒ भगं॒ द्यावा᳚पृथि॒वी म॒रुतः॑ स्व॒स्तये᳚ ||{9/17}{8.2.4.4}{10.63.9}{10.5.3.9}{181, 900, 9452} भरे᳚षु¦इन्द्र᳚म्¦सु॒ऽहव᳚म्¦ह॒वा॒म॒हे॒¦अं॒हः॒ऽमुच᳚म्¦सु॒ऽकृत᳚म्¦दैव्य᳚म्¦जन᳚म् | |
सु॒त्रामा᳚णं पृथि॒वीं द्याम॑ने॒हसं᳚ सु॒शर्मा᳚ण॒मदि॑तिं सु॒प्रणी᳚तिम् |{गयः प्लातः | विश्वदेवाः | जगती} दैवीं॒ नावं᳚ स्वरि॒त्रामना᳚गस॒मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये᳚ ||{10/17}{8.2.4.5}{10.63.10}{10.5.3.10}{182, 900, 9453} सु॒ऽत्रामा᳚णम्¦पृ॒थि॒वीम्¦द्याम्¦अ॒ने॒हस᳚म्¦सु॒ऽशर्मा᳚णम्¦अदि॑तिम्¦सु॒ऽप्रनी᳚तिम् | |
विश्वे᳚ यजत्रा॒, अधि॑ वोचतो॒तये॒ त्राय॑ध्वं नो दु॒रेवा᳚या, अभि॒ह्रुतः॑ |{गयः प्लातः | विश्वदेवाः | जगती} स॒त्यया᳚ वो दे॒वहू᳚त्या हुवेम शृण्व॒तो दे᳚वा॒, अव॑से स्व॒स्तये᳚ ||{11/17}{8.2.5.1}{10.63.11}{10.5.3.11}{183, 900, 9454} विश्वे᳚¦य॒ज॒त्राः॒¦अधि॑¦वो॒च॒त॒¦ऊ॒तये᳚¦त्राय॑ध्वम्¦नः॒¦दुः॒ऽएवा᳚याः¦अ॒भि॒ऽह्रुतः॑ | |
अपामी᳚वा॒मप॒ विश्वा॒मना᳚हुति॒मपारा᳚तिं दुर्वि॒दत्रा᳚मघाय॒तः |{गयः प्लातः | विश्वदेवाः | जगती} आ॒रे दे᳚वा॒ द्वेषो᳚, अ॒स्मद्यु॑योतनो॒रु णः॒ शर्म॑ यच्छता स्व॒स्तये᳚ ||{12/17}{8.2.5.2}{10.63.12}{10.5.3.12}{184, 900, 9455} अप॑¦अमी᳚वाम्¦अप॑¦विश्वा᳚म्¦अना᳚हुतिम्¦अप॑¦अरा᳚तिम्¦दुः॒ऽवि॒दत्रा᳚म्¦अ॒घ॒ऽय॒तः | |
अरि॑ष्टः॒ स मर्तो॒ विश्व॑ एधते॒ प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ |{गयः प्लातः | विश्वदेवाः | जगती} यमा᳚दित्यासो॒ नय॑था सुनी॒तिभि॒रति॒ विश्वा᳚नि दुरि॒ता स्व॒स्तये᳚ ||{13/17}{8.2.5.3}{10.63.13}{10.5.3.13}{185, 900, 9456} अरि॑ष्टः¦सः¦मर्तः॑¦विश्वः॑¦ए॒ध॒ते॒¦प्र¦प्र॒ऽजाभिः॑¦जा॒य॒ते॒¦धर्म॑णः¦परि॑ | |
यं दे᳚वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं शूर॑साता मरुतो हि॒ते धने᳚ |{गयः प्लातः | विश्वदेवाः | जगती} प्रा॒त॒र्यावा᳚णं॒ रथ॑मिन्द्र सान॒सिमरि॑ष्यन्त॒मा रु॑हेमा स्व॒स्तये᳚ ||{14/17}{8.2.5.4}{10.63.14}{10.5.3.14}{186, 900, 9457} यम्¦दे॒वा॒सः॒¦अव॑थ¦वाज॑ऽसातौ¦यम्¦शूर॑ऽसाता¦म॒रु॒तः॒¦हि॒ते¦धने᳚ | |
स्व॒स्ति नः॑ प॒थ्या᳚सु॒ धन्व॑सु स्व॒स्त्य१॑(अ॒)प्सु वृ॒जने॒ स्व᳚र्वति |{गयः प्लातः | पथ्यास्वस्तिः | जगती} स्व॒स्ति नः॑ पुत्रकृ॒थेषु॒ योनि॑षु स्व॒स्ति रा॒ये म॑रुतो दधातन ||{15/17}{8.2.5.5}{10.63.15}{10.5.3.15}{187, 900, 9458} स्व॒स्ति¦नः॒¦प॒थ्या᳚सु¦धन्व॑ऽसु¦स्व॒स्ति¦अ॒प्ऽसु¦वृ॒जने᳚¦स्वः॑ऽवति | |
स्व॒स्तिरिद्धि प्रप॑थे॒ श्रेष्ठा॒ रेक्ण॑स्वत्य॒भि या वा॒ममेति॑ |{गयः प्लातः | पथ्यास्वस्तिः | त्रिष्टुप्} सा नो᳚, अ॒मा सो, अर॑णे॒ नि पा᳚तु स्वावे॒शा भ॑वतु दे॒वगो᳚पा ||{16/17}{8.2.5.6}{10.63.16}{10.5.3.16}{188, 900, 9459} स्व॒स्तिः¦इत्¦हि¦प्रऽप॑थे¦श्रेष्ठा᳚¦रेक्ण॑स्वती¦अ॒भि¦या¦वा॒मम्¦एति॑ | |
ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या, अदिते मनी॒षी |{गयः प्लातः | विश्वदेवाः | त्रिष्टुप्} ई॒शा॒नासो॒ नरो॒, अम॑र्त्ये॒नास्ता᳚वि॒ जनो᳚ दि॒व्यो गये᳚न ||{17/17}{8.2.5.7}{10.63.17}{10.5.3.17}{189, 900, 9460} ए॒व¦प्ल॒तेः¦सू॒नुः¦अ॒वी॒वृ॒ध॒त्¦वः॒¦विश्वे᳚¦आ॒दि॒त्याः॒¦अ॒दि॒ते॒¦म॒नी॒षी | |
[19] कथादेवानामिति सप्तदशर्चस्य सूक्तस्य गयःप्लातोविश्वेदेवाजगती द्वादशीषोडशीसप्तदृश्यस्त्रिष्टुभः ( भेदपक्षे - विश्वे - देवाः ४ आदित्यार्यमणः १ विश्वेदेवाः ३ नद्यः १ विश्वेदेवाः ४ द्यावापृथिव्यौ १ विश्वेदेवाः ३ एवं १७ ) | |
क॒था दे॒वानां᳚ कत॒मस्य॒ याम॑नि सु॒मन्तु॒ नाम॑ शृण्व॒तां म॑नामहे |{गयः प्लातः | विश्वदेवाः | जगती} को मृ॑ळाति कत॒मो नो॒ मय॑स्करत्कत॒म ऊ॒ती, अ॒भ्या व॑वर्तति ||{1/17}{8.2.6.1}{10.64.1}{10.5.4.1}{190, 901, 9461} क॒था¦दे॒वाना᳚म्¦क॒त॒मस्य॑¦याम॑नि¦सु॒ऽमन्तु॑¦नाम॑¦शृ॒ण्व॒ताम्¦म॒ना॒म॒हे॒ | |
क्र॒तू॒यन्ति॒ क्रत॑वो हृ॒त्सु धी॒तयो॒ वेन᳚न्ति वे॒नाः प॒तय॒न्त्या दिशः॑ |{गयः प्लातः | विश्वदेवाः | जगती} न म॑र्डि॒ता वि॑द्यते, अ॒न्य ए᳚भ्यो दे॒वेषु॑ मे॒, अधि॒ कामा᳚, अयंसत ||{2/17}{8.2.6.2}{10.64.2}{10.5.4.2}{191, 901, 9462} क्र॒तु॒ऽयन्ति॑¦क्रत॑वः¦हृ॒त्ऽसु¦धी॒तयः॑¦वेन᳚न्ति¦वे॒नाः¦प॒तय᳚न्ति¦आ¦दिशः॑ | |
नरा᳚ वा॒ शंसं᳚ पू॒षण॒मगो᳚ह्यम॒ग्निं दे॒वेद्ध॑म॒भ्य॑र्चसे गि॒रा |{गयः प्लातः | विश्वदेवाः | जगती} सूर्या॒मासा᳚ च॒न्द्रम॑सा य॒मं दि॒वि त्रि॒तं वात॑मु॒षस॑म॒क्तुम॒श्विना᳚ ||{3/17}{8.2.6.3}{10.64.3}{10.5.4.3}{192, 901, 9463} नरा॒शंस᳚म्¦वा॒¦पू॒षण᳚म्¦अगो᳚ह्यम्¦अ॒ग्निम्¦दे॒वऽइ᳚द्धम्¦अ॒भि¦अ॒र्च॒से॒¦गि॒रा | |
क॒था क॒विस्तु॑वी॒रवा॒न् कया᳚ गि॒रा बृह॒स्पति᳚र्वावृधते सुवृ॒क्तिभिः॑ |{गयः प्लातः | विश्वदेवाः | जगती} अ॒ज एक॑पात्सु॒हवे᳚भि॒रृक्व॑भि॒रहिः॑ शृणोतु बु॒ध्न्यो॒३॑(ओ॒) हवी᳚मनि ||{4/17}{8.2.6.4}{10.64.4}{10.5.4.4}{193, 901, 9464} क॒था¦क॒विः¦तु॒वि॒ऽरवा᳚न्¦कया᳚¦गि॒रा¦बृह॒स्पतिः॑¦व॒वृ॒ध॒ते॒¦सु॒वृ॒क्तिऽभिः॑ | |
दक्ष॑स्य वादिते॒ जन्म॑नि व्र॒ते राजा᳚ना मि॒त्रावरु॒णा वि॑वाससि |{गयः प्लातः | विश्वदेवाः | जगती} अतू᳚र्तपन्थाः पुरु॒रथो᳚, अर्य॒मा स॒प्तहो᳚ता॒ विषु॑रूपेषु॒ जन्म॑सु ||{5/17}{8.2.6.5}{10.64.5}{10.5.4.5}{194, 901, 9465} दक्ष॑स्य¦वा॒¦अ॒दि॒ते॒¦जन्म॑नि¦व्र॒ते¦राजा᳚ना¦मि॒त्रावरु॑णा¦आ¦वि॒वा॒स॒सि॒ | |
ते नो॒, अर्व᳚न्तो हवन॒श्रुतो॒ हवं॒ विश्वे᳚ शृण्वन्तु वा॒जिनो᳚ मि॒तद्र॑वः |{गयः प्लातः | विश्वदेवाः | जगती} स॒ह॒स्र॒सा मे॒धसा᳚ताविव॒ त्मना᳚ म॒हो ये धनं᳚ समि॒थेषु॑ जभ्रि॒रे ||{6/17}{8.2.7.1}{10.64.6}{10.5.4.6}{195, 901, 9466} ते¦नः॒¦अर्व᳚न्तः¦ह॒व॒न॒ऽश्रुतः॑¦हव᳚म्¦विश्वे᳚¦शृ॒ण्व॒न्तु॒¦वा॒जिनः॑¦मि॒तऽद्र॑वः | |
प्र वो᳚ वा॒युं र॑थ॒युजं॒ पुरं᳚धिं॒ स्तोमैः᳚ कृणुध्वं स॒ख्याय॑ पू॒षण᳚म् |{गयः प्लातः | विश्वदेवाः | जगती} ते हि दे॒वस्य॑ सवि॒तुः सवी᳚मनि॒ क्रतुं॒ सच᳚न्ते स॒चितः॒ सचे᳚तसः ||{7/17}{8.2.7.2}{10.64.7}{10.5.4.7}{196, 901, 9467} प्र¦वः॒¦वा॒युम्¦र॒थ॒ऽयुज᳚म्¦पुर᳚म्ऽधिम्¦स्तोमैः᳚¦कृ॒णु॒ध्व॒म्¦स॒ख्याय॑¦पू॒षण᳚म् | |
त्रिः स॒प्त स॒स्रा न॒द्यो᳚ म॒हीर॒पो वन॒स्पती॒न् पर्व॑ताँ, अ॒ग्निमू॒तये᳚ |{गयः प्लातः | विश्वदेवाः | जगती} कृ॒शानु॒मस्तॄ᳚न्ति॒ष्यं᳚ स॒धस्थ॒ आ रु॒द्रं रु॒द्रेषु॑ रु॒द्रियं᳚ हवामहे ||{8/17}{8.2.7.3}{10.64.8}{10.5.4.8}{197, 901, 9468} त्रिः¦स॒प्त¦स॒स्राः¦न॒द्यः॑¦म॒हीः¦अ॒पः¦वन॒स्पती॒न्¦पर्व॑तान्¦अ॒ग्निम्¦ऊ॒तये᳚ | |
सर॑स्वती स॒रयुः॒ सिन्धु॑रू॒र्मिभि᳚र्म॒हो म॒हीरव॒सा य᳚न्तु॒ वक्ष॑णीः |{गयः प्लातः | विश्वदेवाः | जगती} दे॒वीरापो᳚ मा॒तरः॑ सूदयि॒त्न्वो᳚ घृ॒तव॒त्पयो॒ मधु॑मन्नो, अर्चत ||{9/17}{8.2.7.4}{10.64.9}{10.5.4.9}{198, 901, 9469} सर॑स्वती¦स॒रयुः॑¦सिन्धुः॑¦ऊ॒र्मिऽभिः॑¦म॒हः¦म॒हीः¦अव॑सा¦आ¦य॒न्तु॒¦वक्ष॑णीः | |
उ॒त मा॒ता बृ॑हद्दि॒वा शृ॑णोतु न॒स्त्वष्टा᳚ दे॒वेभि॒र्जनि॑भिः पि॒ता वचः॑ |{गयः प्लातः | विश्वदेवाः | जगती} ऋ॒भु॒क्षा वाजो॒ रथ॒स्पति॒र्भगो᳚ र॒ण्वः शंसः॑ शशमा॒नस्य॑ पातु नः ||{10/17}{8.2.7.5}{10.64.10}{10.5.4.10}{199, 901, 9470} उ॒त¦मा॒ता¦बृ॒ह॒त्ऽदि॒वा¦शृ॒णो॒तु॒¦नः॒¦त्वष्टा᳚¦दे॒वेभिः॑¦जनि॑ऽभिः¦पिता᳚¦वचः॑ | |
र॒ण्वः संदृ॑ष्टौ पितु॒माँ, इ॑व॒ क्षयो᳚ भ॒द्रा रु॒द्राणां᳚ म॒रुता॒मुप॑स्तुतिः |{गयः प्लातः | विश्वदेवाः | जगती} गोभिः॑ ष्याम य॒शसो॒ जने॒ष्वा सदा᳚ देवास॒ इळ॑या सचेमहि ||{11/17}{8.2.8.1}{10.64.11}{10.5.4.11}{200, 901, 9471} र॒ण्वः¦सम्ऽदृ॑ष्टौ¦पि॒तु॒मान्ऽइ᳚व¦क्षयः॑¦भ॒द्रा¦रु॒द्राणा᳚म्¦म॒रुता᳚म्¦उप॑ऽस्तुतिः | |
यां मे॒ धियं॒ मरु॑त॒ इन्द्र॒ देवा॒, अद॑दात वरुण मित्र यू॒यम् |{गयः प्लातः | विश्वदेवाः | त्रिष्टुप्} तां पी᳚पयत॒ पय॑सेव धे॒नुं कु॒विद्गिरो॒, अधि॒ रथे॒ वहा᳚थ ||{12/17}{8.2.8.2}{10.64.12}{10.5.4.12}{201, 901, 9472} यम्¦मे॒¦धिय᳚म्¦मरु॑तः¦इन्द्र॑¦देवाः᳚¦अद॑दात¦व॒रु॒ण॒¦मि॒त्र॒¦यू॒यम् | |
कु॒विद॒ङ्ग प्रति॒ यथा᳚ चिद॒स्य नः॑ सजा॒त्य॑स्य मरुतो॒ बुबो᳚धथ |{गयः प्लातः | विश्वदेवाः | जगती} नाभा॒ यत्र॑ प्रथ॒मं सं॒नसा᳚महे॒ तत्र॑ जामि॒त्वमदि॑तिर्दधातु नः ||{13/17}{8.2.8.3}{10.64.13}{10.5.4.13}{202, 901, 9473} कु॒वित्¦अ॒ङ्ग¦प्रति॑¦यथा᳚¦चि॒त्¦अ॒स्य¦नः॒¦स॒ऽजा॒त्य॑स्य¦म॒रु॒तः॒¦बुबो᳚धथ | |
ते हि द्यावा᳚पृथि॒वी मा॒तरा᳚ म॒ही दे॒वी दे॒वाञ्जन्म॑ना य॒ज्ञिये᳚, इ॒तः |{गयः प्लातः | विश्वदेवाः | जगती} उ॒भे बि॑भृत उ॒भयं॒ भरी᳚मभिः पु॒रू रेतां᳚सि पि॒तृभि॑श्च सिञ्चतः ||{14/17}{8.2.8.4}{10.64.14}{10.5.4.14}{203, 901, 9474} ते इति॑¦हि¦द्यावा᳚पृथि॒वी इति॑¦मा॒तरा᳚¦म॒ही इति॑¦दे॒वी इति॑¦दे॒वान्¦जन्म॑ना¦य॒ज्ञिये॒ इति॑¦इ॒तः | |
वि षा होत्रा॒ विश्व॑मश्नोति॒ वार्यं॒ बृह॒स्पति॑र॒रम॑तिः॒ पनी᳚यसी |{गयः प्लातः | विश्वदेवाः | जगती} ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते᳚ बृ॒हदवी᳚वशन्त म॒तिभि᳚र्मनी॒षिणः॑ ||{15/17}{8.2.8.5}{10.64.15}{10.5.4.15}{204, 901, 9475} वि¦सा¦होत्रा᳚¦विश्व᳚म्¦अ॒श्नो॒ति॒¦वार्य᳚म्¦बृह॒स्पतिः॑¦अ॒रम॑तिः¦पनी᳚यसी | |
ए॒वा क॒विस्तु॑वी॒रवाँ᳚, ऋत॒ज्ञा द्र॑विण॒स्युर्द्रवि॑णसश्चका॒नः |{गयः प्लातः | विश्वदेवाः | त्रिष्टुप्} उ॒क्थेभि॒रत्र॑ म॒तिभि॑श्च॒ विप्रोऽपी᳚पय॒द्गयो᳚ दि॒व्यानि॒ जन्म॑ ||{16/17}{8.2.8.6}{10.64.16}{10.5.4.16}{205, 901, 9476} ए॒व¦क॒विः¦तु॒वि॒ऽरवा᳚न्¦ऋ॒त॒ऽज्ञाः¦द्र॒वि॒ण॒स्युः¦द्रवि॑णसः¦च॒का॒नः | |
ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या, अदिते मनी॒षी |{गयः प्लातः | विश्वदेवाः | त्रिष्टुप्} ई॒शा॒नासो॒ नरो॒, अम॑र्त्ये॒नास्ता᳚वि॒ जनो᳚ दि॒व्यो गये᳚न ||{17/17}{8.2.8.7}{10.64.17}{10.5.4.17}{206, 901, 9477} ए॒व¦प्ल॒तेः¦सू॒नुः¦अ॒वी॒वृ॒ध॒त्¦वः॒¦विश्वे᳚¦आ॒दि॒त्याः॒¦अ॒दि॒ते॒¦म॒नी॒षी | |
[20] अग्निरिंद्रइति पंचदशर्चस्य सूक्तस्य वासुक्रोव सुकर्णो विश्वेदेवाजगत्यंव्यात्रिष्टुप् | ( भेदपक्षे –विश्वेदेवाः ४ मित्रावरुणौ १ गौः१ विश्वेदेवाः १ द्यावापृथिव्यौ १ विश्वेदेवाः ३ अश्विनौ १ विश्वेदेवाः ३ एवं १५ ) | |
अ॒ग्निरिन्द्रो॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा वा॒युः पू॒षा सर॑स्वती स॒जोष॑सः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती} आ॒दि॒त्या विष्णु᳚र्म॒रुतः॒ स्व॑र्बृ॒हत्सोमो᳚ रु॒द्रो, अदि॑ति॒र्ब्रह्म॑ण॒स्पतिः॑ ||{1/15}{8.2.9.1}{10.65.1}{10.5.5.1}{207, 902, 9478} अ॒ग्निः¦इन्द्रः॑¦वरु॑णः¦मि॒त्रः¦आ॒र्य॒मा¦वा॒युः¦पू॒षा¦सर॑स्वती¦स॒ऽजोष॑सः | |
इ॒न्द्रा॒ग्नी वृ॑त्र॒हत्ये᳚षु॒ सत्प॑ती मि॒थो हि᳚न्वा॒ना त॒न्वा॒३॑(आ॒) समो᳚कसा |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती} अ॒न्तरि॑क्षं॒ मह्या प॑प्रु॒रोज॑सा॒ सोमो᳚ घृत॒श्रीर्म॑हि॒मान॑मी॒रय॑न् ||{2/15}{8.2.9.2}{10.65.2}{10.5.5.2}{208, 902, 9479} इ॒न्द्रा॒ग्नी इति॑¦वृ॒त्र॒ऽहत्ये᳚षु¦सत्प॑ती॒ इति॒ सत्ऽप॑ती¦मि॒थः¦हि॒न्वा॒ना¦त॒न्वा᳚¦सम्ऽओ᳚कसा | |
तेषां॒ हि म॒ह्ना म॑ह॒ताम॑न॒र्वणां॒ स्तोमाँ॒, इय᳚र्म्यृत॒ज्ञा, ऋ॑ता॒वृधा᳚म् |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती} ये, अ॑प्स॒वम᳚र्ण॒वं चि॒त्ररा᳚धस॒स्ते नो᳚ रासन्तां म॒हये᳚ सुमि॒त्र्याः ||{3/15}{8.2.9.3}{10.65.3}{10.5.5.3}{209, 902, 9480} तेषा᳚म्¦हि¦म॒ह्ना¦मा॒ह॒ताम्¦अ॒न॒र्वणा᳚म्¦स्तोमा᳚न्¦इय᳚र्मि¦ऋ॒त॒ऽज्ञाः¦ऋ॒त॒ऽवृधा᳚म् | |
स्व᳚र्णरम॒न्तरि॑क्षाणि रोच॒ना द्यावा॒भूमी᳚ पृथि॒वीं स्क᳚म्भु॒रोज॑सा |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती} पृ॒क्षा, इ॑व म॒हय᳚न्तः सुरा॒तयो᳚ दे॒वाः स्त॑वन्ते॒ मनु॑षाय सू॒रयः॑ ||{4/15}{8.2.9.4}{10.65.4}{10.5.5.4}{210, 902, 9481} स्वः॑ऽनरम्¦अ॒न्तरि॑क्षाणि¦रो॒च॒ना¦द्यावा॒भूमी॒ इति॑¦पृ॒थि॒वीम्¦स्क॒म्भुः॒¦ओज॑सा | |
मि॒त्राय॑ शिक्ष॒ वरु॑णाय दा॒शुषे॒ या स॒म्राजा॒ मन॑सा॒ न प्र॒युच्छ॑तः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती} ययो॒र्धाम॒ धर्म॑णा॒ रोच॑ते बृ॒हद्ययो᳚रु॒भे रोद॑सी॒ नाध॑सी॒ वृतौ᳚ ||{5/15}{8.2.9.5}{10.65.5}{10.5.5.5}{211, 902, 9482} मि॒त्राय॑¦शि॒क्ष॒¦वरु॑णाय¦दा॒शुषे᳚¦या¦स॒म्ऽराजा᳚¦मन॑सा¦न¦प्र॒ऽयुच्छ॑तः | |
या गौर्व॑र्त॒निं प॒र्येति॑ निष्कृ॒तं पयो॒ दुहा᳚ना व्रत॒नीर॑वा॒रतः॑ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती} सा प्र॑ब्रुवा॒णा वरु॑णाय दा॒शुषे᳚ दे॒वेभ्यो᳚ दाशद्ध॒विषा᳚ वि॒वस्व॑ते ||{6/15}{8.2.10.1}{10.65.6}{10.5.5.6}{212, 902, 9483} या¦गौः¦व॒र्त॒निम्¦प॒रि॒ऽएति॑¦निः॒ऽकृ॒तम्¦पयः॑¦दुहा᳚ना¦व्र॒त॒ऽनीः¦अ॒वा॒रतः॑ | |
दि॒वक्ष॑सो, अग्निजि॒ह्वा, ऋ॑ता॒वृध॑ ऋ॒तस्य॒ योनिं᳚ विमृ॒शन्त॑ आसते |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती} द्यां स्क॑भि॒त्व्य१॑(अ॒)प आ च॑क्रु॒रोज॑सा य॒ज्ञं ज॑नि॒त्वी त॒न्वी॒३॑(ई॒) नि मा᳚मृजुः ||{7/15}{8.2.10.2}{10.65.7}{10.5.5.7}{213, 902, 9484} दि॒वक्ष॑सः¦अ॒ग्नि॒ऽजि॒ह्वाः¦ऋ॒त॒ऽवृधः॑¦ऋ॒तस्य॑¦योनि᳚म्¦वि॒ऽमृ॒शन्तः॑¦आ॒स॒ते॒ | |
प॒रि॒क्षिता᳚ पि॒तरा᳚ पूर्व॒जाव॑री, ऋ॒तस्य॒ योना᳚ क्षयतः॒ समो᳚कसा |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती} द्यावा᳚पृथि॒वी वरु॑णाय॒ सव्र॑ते घृ॒तव॒त्पयो᳚ महि॒षाय॑ पिन्वतः ||{8/15}{8.2.10.3}{10.65.8}{10.5.5.8}{214, 902, 9485} प॒रि॒ऽक्षिता᳚¦पि॒तरा᳚¦पू॒र्व॒जाव॑री॒ इति॑ पूर्व॒ऽजाव॑री¦ऋ॒तस्य॑¦योना᳚¦क्ष॒य॒तः॒¦सम्ऽओ᳚कसा | |
प॒र्जन्या॒वाता᳚ वृष॒भा पु॑री॒षिणे᳚न्द्रवा॒यू वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती} दे॒वाँ, आ᳚दि॒त्याँ, अदि॑तिं हवामहे॒ ये पार्थि॑वासो दि॒व्यासो᳚, अ॒प्सु ये ||{9/15}{8.2.10.4}{10.65.9}{10.5.5.9}{215, 902, 9486} प॒र्जन्या॒वाता᳚¦वृ॒ष॒भा¦पु॒री॒षिणा᳚¦इ॒न्द्र॒वा॒यू इति॑¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा | |
त्वष्टा᳚रं वा॒युमृ॑भवो॒ य ओह॑ते॒ दैव्या॒ होता᳚रा, उ॒षसं᳚ स्व॒स्तये᳚ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती} बृह॒स्पतिं᳚ वृत्रखा॒दं सु॑मे॒धस॑मिन्द्रि॒यं सोमं᳚ धन॒सा, उ॑ ईमहे ||{10/15}{8.2.10.5}{10.65.10}{10.5.5.10}{216, 902, 9487} त्वष्टा᳚रम्¦वा॒युम्¦ऋ॒भ॒वः॒¦यः¦ओह॑ते¦दैव्या᳚¦होता᳚रौ¦उ॒षस᳚म्¦स्व॒स्तये᳚ | |
ब्रह्म॒ गामश्वं᳚ ज॒नय᳚न्त॒ ओष॑धी॒र्वन॒स्पती᳚न् पृथि॒वीं पर्व॑ताँ, अ॒पः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती} सूर्यं᳚ दि॒वि रो॒हय᳚न्तः सु॒दान॑व॒ आर्या᳚ व्र॒ता वि॑सृ॒जन्तो॒, अधि॒ क्षमि॑ ||{11/15}{8.2.11.1}{10.65.11}{10.5.5.11}{217, 902, 9488} ब्रह्म॑¦गाम्¦अश्व᳚म्¦ज॒नय᳚न्तः¦ओष॑धीः¦वन॒स्पती᳚न्¦पृ॒थि॒वीम्¦पर्व॑तान्¦अ॒पः | |
भु॒ज्युमंह॑सः पिपृथो॒ निर॑श्विना॒ श्यावं᳚ पु॒त्रं व॑ध्रिम॒त्या, अ॑जिन्वतम् |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती} क॒म॒द्युवं᳚ विम॒दायो᳚हथुर्यु॒वं वि॑ष्णा॒प्व१॑(अं॒) विश्व॑का॒याव॑ सृजथः ||{12/15}{8.2.11.2}{10.65.12}{10.5.5.12}{218, 902, 9489} भु॒ज्युम्¦अंह॑सः¦पि॒पृ॒थः॒¦निः¦अ॒श्वि॒ना॒¦श्याव᳚म्¦पु॒त्रम्¦व॒ध्रि॒ऽम॒त्याः¦अ॒जि॒न्व॒त॒म् | |
पावी᳚रवी तन्य॒तुरेक॑पाद॒जो दि॒वो ध॒र्ता सिन्धु॒रापः॑ समु॒द्रियः॑ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती} विश्वे᳚ दे॒वासः॑ शृणव॒न्वचां᳚सि मे॒ सर॑स्वती स॒ह धी॒भिः पुरं᳚ध्या ||{13/15}{8.2.11.3}{10.65.13}{10.5.5.13}{219, 902, 9490} पावी᳚रवी¦त॒न्य॒तुः¦एक॑ऽपात्¦अ॒जः¦दि॒वः¦ध॒र्ता¦सिन्धुः॑¦आपः॑¦स॒मु॒द्रियः॑ | |
विश्वे᳚ दे॒वाः स॒ह धी॒भिः पुरं᳚ध्या॒ मनो॒र्यज॑त्रा, अ॒मृता᳚ ऋत॒ज्ञाः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती} रा॒ति॒षाचो᳚, अभि॒षाचः॑ स्व॒र्विदः॒ स्व१॑(अ॒)र्गिरो॒ ब्रह्म॑ सू॒क्तं जु॑षेरत ||{14/15}{8.2.11.4}{10.65.14}{10.5.5.14}{220, 902, 9491} विश्वे᳚¦दे॒वाः¦स॒ह¦धी॒भिः¦पुर᳚म्ऽध्या¦मनोः᳚¦यज॑त्राः¦अ॒मृताः᳚¦ऋ॒त॒ऽज्ञाः | |
दे॒वान् वसि॑ष्ठो, अ॒मृता᳚न्ववन्दे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः |{वसुकर्णो वासुक्रः | विश्वदेवाः | त्रिष्टुप्} ते नो᳚ रासन्तामुरुगा॒यम॒द्य यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{15/15}{8.2.11.5}{10.65.15}{10.5.5.15}{221, 902, 9492} दे॒वान्¦वसि॑ष्ठः¦अ॒मृता᳚न्¦व॒व॒न्दे॒¦ये¦विश्वा᳚¦भुव॑ना¦अ॒भि¦प्र॒ऽत॒स्थुः | |
[21] देवान्हुवइति पंचदशर्चस्य सूक्तस्य वासुक्रोवसुकर्णो विश्वेदेवाजगत्यंत्यात्रिष्टुप् (पक्षे-विश्वेदेवाः ६ अग्नीषोमौ १ विश्वेदेवाः ८ एवं १५) | |
दे॒वान् हु॑वे बृ॒हच्छ्र॑वसः स्व॒स्तये᳚ ज्योति॒ष्कृतो᳚, अध्व॒रस्य॒ प्रचे᳚तसः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती} ये वा᳚वृ॒धुः प्र॑त॒रं वि॒श्ववे᳚दस॒ इन्द्र॑ज्येष्ठासो, अ॒मृता᳚ ऋता॒वृधः॑ ||{1/15}{8.2.12.1}{10.66.1}{10.5.6.1}{222, 903, 9493} दे॒वान्¦हु॒वे॒¦बृ॒हत्ऽश्र॑वसः¦स्व॒स्तये᳚¦ज्यो॒तिः॒ऽकृतः॑¦अ॒ध्व॒रस्य॑¦प्रऽचे᳚तसः | |
इन्द्र॑प्रसूता॒ वरु॑णप्रशिष्टा॒ ये सूर्य॑स्य॒ ज्योति॑षो भा॒गमा᳚न॒शुः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती} म॒रुद्ग॑णे वृ॒जने॒ मन्म॑ धीमहि॒ माघो᳚ने य॒ज्ञं ज॑नयन्त सू॒रयः॑ ||{2/15}{8.2.12.2}{10.66.2}{10.5.6.2}{223, 903, 9494} इन्द्र॑ऽप्रसूताः¦वरु॑णऽप्रशिष्टाः¦ये¦सूर्य॑स्य¦ज्योति॑षः¦भा॒गम्¦आ॒न॒शुः | |
इन्द्रो॒ वसु॑भिः॒ परि॑ पातु नो॒ गय॑मादि॒त्यैर्नो॒, अदि॑तिः॒ शर्म॑ यच्छतु |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती} रु॒द्रो रु॒द्रेभि॑र्दे॒वो मृ॑ळयाति न॒स्त्वष्टा᳚ नो॒ ग्नाभिः॑ सुवि॒ताय॑ जिन्वतु ||{3/15}{8.2.12.3}{10.66.3}{10.5.6.3}{224, 903, 9495} इन्द्रः॑¦वसु॑ऽभिः¦परि॑¦पा॒तु॒¦नः॒¦गय᳚म्¦आ॒दि॒त्यैः¦नः॒¦अदि॑तिः¦शर्म॑¦य॒च्छ॒तु॒ | |
अदि॑ति॒र्द्यावा᳚पृथि॒वी, ऋ॒तं म॒हदिन्द्रा॒विष्णू᳚ म॒रुतः॒ स्व॑र्बृ॒हत् |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती} दे॒वाँ, आ᳚दि॒त्याँ, अव॑से हवामहे॒ वसू᳚न् रु॒द्रान् त्स॑वि॒तारं᳚ सु॒दंस॑सम् ||{4/15}{8.2.12.4}{10.66.4}{10.5.6.4}{225, 903, 9496} अदि॑तिः¦द्यावा᳚पृथि॒वी इति॑¦ऋ॒तम्¦म॒हत्¦इन्द्रा॒विष्णू॒ इति॑¦म॒रुतः॒¦स्वः॑¦बृ॒हत् | |
सर॑स्वान्धी॒भिर्वरु॑णो धृ॒तव्र॑तः पू॒षा विष्णु᳚र्महि॒मा वा॒युर॒श्विना᳚ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती} ब्र॒ह्म॒कृतो᳚, अ॒मृता᳚ वि॒श्ववे᳚दसः॒ शर्म॑ नो यंसन्त्रि॒वरू᳚थ॒मंह॑सः ||{5/15}{8.2.12.5}{10.66.5}{10.5.6.5}{226, 903, 9497} सर॑स्वान्¦धी॒भिः¦वरु॑णः¦धृ॒तऽव्र॑तः¦पू॒षा¦विष्णुः॑¦म॒हि॒मा¦वा॒युः¦अ॒श्विना᳚ | |
वृषा᳚ य॒ज्ञो वृष॑णः सन्तु य॒ज्ञिया॒ वृष॑णो दे॒वा वृष॑णो हवि॒ष्कृतः॑ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती} वृष॑णा॒ द्यावा᳚पृथि॒वी, ऋ॒ताव॑री॒ वृषा᳚ प॒र्जन्यो॒ वृष॑णो वृष॒स्तुभः॑ ||{6/15}{8.2.13.1}{10.66.6}{10.5.6.6}{227, 903, 9498} वृषा᳚¦य॒ज्ञः¦वृष॑णः¦स॒न्तु॒¦य॒ज्ञियाः᳚¦वृष॑णः¦दे॒वाः¦वृष॑णः¦ह॒विः॒ऽकृतः॑ | |
अ॒ग्नीषोमा॒ वृष॑णा॒ वाज॑सातये पुरुप्रश॒स्ता वृष॑णा॒, उप॑ ब्रुवे |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती} यावी᳚जि॒रे वृष॑णो देवय॒ज्यया॒ ता नः॒ शर्म॑ त्रि॒वरू᳚थं॒ वि यं᳚सतः ||{7/15}{8.2.13.2}{10.66.7}{10.5.6.7}{228, 903, 9499} अ॒ग्नीषोमा᳚¦वृष॑णा¦वाज॑ऽसातये¦पु॒रु॒ऽप्र॒श॒स्ता¦वृष॑णौ¦उप॑¦ब्रु॒वे॒ | |
धृ॒तव्र॑ताः, क्ष॒त्रिया᳚ यज्ञनि॒ष्कृतो᳚ बृहद्दि॒वा, अ॑ध्व॒राणा᳚मभि॒श्रियः॑ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती} अ॒ग्निहो᳚तार ऋत॒सापो᳚, अ॒द्रुहो॒ऽपो, अ॑सृज॒न्ननु॑ वृत्र॒तूर्ये᳚ ||{8/15}{8.2.13.3}{10.66.8}{10.5.6.8}{229, 903, 9500} धृ॒तऽव्र॑ताः¦क्ष॒त्रियाः᳚¦य॒ज्ञ॒निः॒ऽकृतः॑¦बृ॒ह॒त्ऽदि॒वाः¦अ॒ध्व॒राणा᳚म्¦अ॒भि॒ऽश्रियः॑ | |
द्यावा᳚पृथि॒वी ज॑नयन्न॒भि व्र॒ताप॒ ओष॑धीर्व॒निना᳚नि य॒ज्ञिया᳚ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती} अ॒न्तरि॑क्षं॒ स्व१॑(अ॒)रा प॑प्रुरू॒तये॒ वशं᳚ दे॒वास॑स्त॒न्वी॒३॑(ई॒) नि मा᳚मृजुः ||{9/15}{8.2.13.4}{10.66.9}{10.5.6.9}{230, 903, 9501} द्यावा᳚पृथि॒वी इति॑¦ज॒न॒य॒न्¦अ॒भि¦व्र॒ता¦आपः॑¦ओष॑धीः¦व॒निना᳚नि¦य॒ज्ञिया᳚ | |
ध॒र्तारो᳚ दि॒व ऋ॒भवः॑ सु॒हस्ता᳚ वातापर्ज॒न्या म॑हि॒षस्य॑ तन्य॒तोः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती} आप॒ ओष॑धीः॒ प्र ति॑रन्तु नो॒ गिरो॒ भगो᳚ रा॒तिर्वा॒जिनो᳚ यन्तु मे॒ हव᳚म् ||{10/15}{8.2.13.5}{10.66.10}{10.5.6.10}{231, 903, 9502} ध॒र्तारः॑¦दि॒वः¦ऋ॒भवः॑¦सु॒ऽहस्ताः᳚¦वा॒ता॒प॒र्ज॒न्या¦म॒हि॒षस्य॑¦त॒न्य॒तोः | |
स॒मु॒द्रः सिन्धू॒ रजो᳚, अ॒न्तरि॑क्षम॒ज एक॑पात्तनयि॒त्नुर᳚र्ण॒वः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती} अहि॑र्बु॒ध्न्यः॑ शृणव॒द्वचां᳚सि मे॒ विश्वे᳚ दे॒वास॑ उ॒त सू॒रयो॒ मम॑ ||{11/15}{8.2.14.1}{10.66.11}{10.5.6.11}{232, 903, 9503} स॒मु॒द्रः¦सिन्धुः॑¦रजः॑¦अ॒न्तरि॑क्षम्¦अ॒जः¦एक॑ऽपात्¦त॒न॒यि॒त्नुः¦अ॒र्ण॒वः | |
स्याम॑ वो॒ मन॑वो दे॒ववी᳚तये॒ प्राञ्चं᳚ नो य॒ज्ञं प्र ण॑यत साधु॒या |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती} आदि॑त्या॒ रुद्रा॒ वस॑वः॒ सुदा᳚नव इ॒मा ब्रह्म॑ श॒स्यमा᳚नानि जिन्वत ||{12/15}{8.2.14.2}{10.66.12}{10.5.6.12}{233, 903, 9504} स्याम॑¦वः॒¦मन॑वः¦दे॒वऽवी᳚तये¦प्रांच᳚म्¦नः॒¦य॒ज्ञम्¦प्र¦न॒य॒त॒¦सा॒धु॒ऽया | |
दैव्या॒ होता᳚रा प्रथ॒मा पु॒रोहि॑त ऋ॒तस्य॒ पन्था॒मन्वे᳚मि साधु॒या |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती} क्षेत्र॑स्य॒ पतिं॒ प्रति॑वेशमीमहे॒ विश्वा᳚न्दे॒वाँ, अ॒मृताँ॒, अप्र॑युच्छतः ||{13/15}{8.2.14.3}{10.66.13}{10.5.6.13}{234, 903, 9505} दैव्या᳚¦होता᳚रा¦प्र॒थ॒मा¦पु॒रःऽहि॑ता¦ऋ॒तस्य॑¦पन्था᳚म्¦अनु॑¦ए॒मि॒¦सा॒धु॒ऽया | |
वसि॑ष्ठासः पितृ॒वद्वाच॑मक्रत दे॒वाँ, ईळा᳚ना, ऋषि॒वत्स्व॒स्तये᳚ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती} प्री॒ता, इ॑व ज्ञा॒तयः॒ काम॒मेत्या॒स्मे दे᳚वा॒सोऽव॑ धूनुता॒ वसु॑ ||{14/15}{8.2.14.4}{10.66.14}{10.5.6.14}{235, 903, 9506} वसि॑ष्ठासः¦पि॒तृ॒ऽवत्¦वाच᳚म्¦अ॒क्र॒त॒¦दे॒वान्¦ईळा᳚नाः¦ऋ॒षि॒ऽवत्¦स्व॒स्तये᳚ | |
दे॒वान् वसि॑ष्ठो, अ॒मृता᳚न्ववन्दे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः |{वसुकर्णो वासुक्रः | विश्वदेवाः | त्रिष्टुप्} ते नो᳚ रासन्तामुरुगा॒यम॒द्य यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{15/15}{8.2.14.5}{10.66.15}{10.5.6.15}{236, 903, 9507} दे॒वान्¦वसि॑ष्ठः¦अ॒मृता᳚न्¦व॒व॒न्दे॒¦ये¦विश्वा᳚¦भुव॑ना¦अ॒भि¦प्र॒ऽत॒स्थुः | |
[22] इमांधियमिति द्वादशर्चस्य सूक्तस्यांगिरसोऽयास्यो बृहस्पतिस्त्रिष्टुप् | |
इ॒मां धियं᳚ स॒प्तशी᳚र्ष्णीं पि॒ता न॑ ऋ॒तप्र॑जातां बृह॒तीम॑विन्दत् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्} तु॒रीयं᳚ स्विज्जनयद्वि॒श्वज᳚न्यो॒ऽयास्य॑ उ॒क्थमिन्द्रा᳚य॒ शंस॑न् ||{1/12}{8.2.15.1}{10.67.1}{10.5.7.1}{237, 904, 9508} इ॒माम्¦धिय᳚म्¦स॒प्तऽशी᳚र्ष्णीम्¦पि॒ता¦नः॒¦ऋ॒तऽप्र॑जाताम्¦बृ॒ह॒तीम्¦अ॒वि॒न्द॒त् | |
ऋ॒तं शंस᳚न्त ऋ॒जु दीध्या᳚ना दि॒वस्पु॒त्रासो॒, असु॑रस्य वी॒राः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्} विप्रं᳚ प॒दमङ्गि॑रसो॒ दधा᳚ना य॒ज्ञस्य॒ धाम॑ प्रथ॒मं म॑नन्त ||{2/12}{8.2.15.2}{10.67.2}{10.5.7.2}{238, 904, 9509} ऋ॒तम्¦शंस᳚न्तः¦ऋ॒जु¦दीध्या᳚नाः¦दि॒वः¦पु॒त्रासः॑¦असु॑रस्य¦वी॒राः | |
हं॒सैरि॑व॒ सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया᳚नि॒ नह॑ना॒ व्यस्य॑न् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्} बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गा, उ॒त प्रास्तौ॒दुच्च॑ वि॒द्वाँ, अ॑गायत् ||{3/12}{8.2.15.3}{10.67.3}{10.5.7.3}{239, 904, 9510} हं॒सैःऽइ᳚व¦सखि॑ऽभिः¦वाव॑दत्ऽभिः¦अ॒श्म॒न्ऽमया᳚नि¦नह॑ना¦वि॒।आस्य॑न् | |
अ॒वो द्वाभ्यां᳚ प॒र एक॑या॒ गा गुहा॒ तिष्ठ᳚न्ती॒रनृ॑तस्य॒ सेतौ᳚ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्} बृह॒स्पति॒स्तम॑सि॒ ज्योति॑रि॒च्छन्नुदु॒स्रा, आक॒र्वि हि ति॒स्र आवः॑ ||{4/12}{8.2.15.4}{10.67.4}{10.5.7.4}{240, 904, 9511} अ॒वः¦द्वाभ्या᳚म्¦प॒रः¦एक॑या¦गाः¦गुहा᳚¦तिष्ठ᳚न्तीः¦अनृ॑तस्य¦सेतौ᳚ | |
वि॒भिद्या॒ पुरं᳚ श॒यथे॒मपा᳚चीं॒ निस्त्रीणि॑ सा॒कमु॑द॒धेर॑कृन्तत् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्} बृह॒स्पति॑रु॒षसं॒ सूर्यं॒ गाम॒र्कं वि॑वेद स्त॒नय᳚न्निव॒ द्यौः ||{5/12}{8.2.15.5}{10.67.5}{10.5.7.5}{241, 904, 9512} वि॒ऽभिद्य॑¦पुर᳚म्¦श॒यथा᳚¦ई॒म्¦अपा᳚चीम्¦निः¦त्रीणि॑¦सा॒कम्¦उ॒द॒ऽधेः¦अ॒कृ॒न्त॒त् | |
इन्द्रो᳚ व॒लं र॑क्षि॒तारं॒ दुघा᳚नां क॒रेणे᳚व॒ वि च॑कर्ता॒ रवे᳚ण |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्} स्वेदा᳚ञ्जिभिरा॒शिर॑मि॒च्छमा॒नोऽरो᳚दयत्प॒णिमा गा, अ॑मुष्णात् ||{6/12}{8.2.15.6}{10.67.6}{10.5.7.6}{242, 904, 9513} इन्द्रः॑¦व॒लम्¦र॒क्षि॒तार᳚म्¦दुघा᳚नाम्¦क॒रेण॑ऽइव¦वि¦च॒क॒र्त॒¦रवे᳚ण | |
स ईं᳚ स॒त्येभिः॒ सखि॑भिः शु॒चद्भि॒र्गोधा᳚यसं॒ वि ध॑न॒सैर॑दर्दः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्} ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहै᳚र्घ॒र्मस्वे᳚देभि॒र्द्रवि॑णं॒ व्या᳚नट् ||{7/12}{8.2.16.1}{10.67.7}{10.5.7.7}{243, 904, 9514} सः¦ई॒म्¦स॒त्येभिः॑¦सखि॑ऽभिः¦शु॒चत्ऽभिः॑¦गोऽधा᳚यसम्¦वि¦ध॒न॒ऽसैः¦अ॒द॒र्द॒रित्य॑दर्दः | |
ते स॒त्येन॒ मन॑सा॒ गोप॑तिं॒ गा, इ॑या॒नास॑ इषणयन्त धी॒भिः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्} बृह॒स्पति᳚र्मि॒थो,अ॑वद्यपेभि॒रुदु॒स्रिया᳚, असृजत स्व॒युग्भिः॑ ||{8/12}{8.2.16.2}{10.67.8}{10.5.7.8}{244, 904, 9515} ते¦स॒त्येन॑¦मन॑सा¦गोऽप॑तिम्¦गाः¦इ॒या॒नासः॑¦इ॒ष॒ण॒य॒न्त॒¦धी॒भिः | |
तं व॒र्धय᳚न्तो म॒तिभिः॑ शि॒वाभिः॑ सिं॒हमि॑व॒ नान॑दतं स॒धस्थे᳚ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्} बृह॒स्पतिं॒ वृष॑णं॒ शूर॑सातौ॒ भरे᳚भरे॒, अनु॑ मदेम जि॒ष्णुम् ||{9/12}{8.2.16.3}{10.67.9}{10.5.7.9}{245, 904, 9516} तम्¦व॒र्धय᳚न्तः¦म॒तिऽभिः॑¦शि॒वाभिः॑¦सिं॒हम्ऽइ᳚व¦नान॑दतम्¦स॒धऽस्थे᳚ | |
य॒दा वाज॒मस॑नद्वि॒श्वरू᳚प॒मा द्यामरु॑क्ष॒दुत्त॑राणि॒ सद्म॑ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्} बृह॒स्पतिं॒ वृष॑णं व॒र्धय᳚न्तो॒ नाना॒ सन्तो॒ बिभ्र॑तो॒ ज्योति॑रा॒सा ||{10/12}{8.2.16.4}{10.67.10}{10.5.7.10}{246, 904, 9517} य॒दा¦वाज᳚म्¦अस॑नत्¦वि॒श्वऽरू᳚पम्¦आ¦द्याम्¦अरु॑क्षत्¦उत्ऽत॑राणि¦सद्म॑ | |
स॒त्यामा॒शिषं᳚ कृणुता वयो॒धै की॒रिं चि॒द्ध्यव॑थ॒ स्वेभि॒रेवैः᳚ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्} प॒श्चा मृधो॒, अप॑ भवन्तु॒ विश्वा॒स्तद्रो᳚दसी शृणुतं विश्वमि॒न्वे ||{11/12}{8.2.16.5}{10.67.11}{10.5.7.11}{247, 904, 9518} स॒त्याम्¦आ॒ऽशिष᳚म्¦कृ॒णु॒त॒¦व॒यः॒ऽधै¦की॒रिम्¦चि॒त्¦हि¦अव॑थ¦स्वेभिः॑¦एवैः᳚ | |
इन्द्रो᳚ म॒ह्ना म॑ह॒तो, अ᳚र्ण॒वस्य॒ वि मू॒र्धान॑मभिनदर्बु॒दस्य॑ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्} अह॒न्नहि॒मरि॑णात्स॒प्त सिन्धू᳚न्दे॒वैर्द्या᳚वापृथिवी॒ प्राव॑तं नः ||{12/12}{8.2.16.6}{10.67.12}{10.5.7.12}{248, 904, 9519} इन्द्रः॑¦म॒ह्ना¦म॒ह॒तः¦अ॒र्ण॒वस्य॑¦वि¦मू॒र्धान᳚म्¦अ॒भि॒न॒त्¦अ॒र्बु॒दस्य॑ | |
[23] उदप्रुतइति द्वादशर्चस्य सूक्तस्यांगिरसोयास्योबृहस्पतिस्त्रिष्टुप् | |
उ॒द॒प्रुतो॒ न वयो॒ रक्ष॑माणा॒ वाव॑दतो, अ॒भ्रिय॑स्येव॒ घोषाः᳚ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्} गि॒रि॒भ्रजो॒ नोर्मयो॒ मद᳚न्तो॒ बृह॒स्पति॑म॒भ्य१॑(अ॒)र्का, अ॑नावन् ||{1/12}{8.2.17.1}{10.68.1}{10.5.8.1}{249, 905, 9520} उ॒द॒ऽप्रुतः॑¦न¦वयः॑¦रक्ष॑माणाः¦वाव॑दतः¦अ॒भ्रिय॑स्यऽइव¦घोषाः᳚ | |
सं गोभि॑राङ्गिर॒सो नक्ष॑माणो॒ भग॑ इ॒वेद᳚र्य॒मणं᳚ निनाय |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्} जने᳚ मि॒त्रो न दम्प॑ती, अनक्ति॒ बृह॑स्पते वा॒जया॒शूँरि॑वा॒जौ ||{2/12}{8.2.17.2}{10.68.2}{10.5.8.2}{250, 905, 9521} सम्¦गोभिः॑¦आ॒ङ्गि॒र॒सः¦नक्ष॑माणः¦भगः॑ऽइव¦इत्¦अ॒र्य॒मण᳚म्¦नि॒ना॒य॒ | |
सा॒ध्व॒र्या, अ॑ति॒थिनी᳚रिषि॒राः स्पा॒र्हाः सु॒वर्णा᳚, अनव॒द्यरू᳚पाः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्} बृह॒स्पतिः॒ पर्व॑तेभ्यो वि॒तूर्या॒ निर्गा, ऊ᳚पे॒ यव॑मिव स्थि॒विभ्यः॑ ||{3/12}{8.2.17.3}{10.68.3}{10.5.8.3}{251, 905, 9522} सा॒धु॒।आ॒र्याः¦अ॒ति॒थिनीः᳚¦इ॒षि॒राः¦स्पा॒र्हाः¦सु॒ऽवर्णाः᳚¦अ॒न॒व॒द्यऽरू᳚पाः | |
आ॒प्रु॒षा॒यन्मधु॑न ऋ॒तस्य॒ योनि॑मवक्षि॒पन्न॒र्क उ॒ल्कामि॑व॒ द्योः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्} बृह॒स्पति॑रु॒द्धर॒न्नश्म॑नो॒ गा भूम्या᳚, उ॒द्नेव॒ वि त्वचं᳚ बिभेद ||{4/12}{8.2.17.4}{10.68.4}{10.5.8.4}{252, 905, 9523} आ॒ऽप्रु॒षा॒यन्¦मधु॑ना¦ऋ॒तस्य॑¦योनि᳚म्¦अ॒व॒ऽक्षि॒पन्¦अ॒र्कः¦उ॒ल्काम्ऽइ᳚व¦द्योः | |
अप॒ ज्योति॑षा॒ तमो᳚, अ॒न्तरि॑क्षादु॒द्नः शीपा᳚लमिव॒ वात॑ आजत् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्} बृह॒स्पति॑रनु॒मृश्या᳚ व॒लस्या॒भ्रमि॑व॒ वात॒ आ च॑क्र॒ आ गाः ||{5/12}{8.2.17.5}{10.68.5}{10.5.8.5}{253, 905, 9524} अप॑¦ज्योति॑षा¦तमः॑¦अ॒न्तरि॑क्षात्¦उ॒द्नः¦शीपा᳚लम्ऽइव¦वातः॑¦आ॒ज॒त् | |
य॒दा व॒लस्य॒ पीय॑तो॒ जसुं॒ भेद्बृह॒स्पति॑रग्नि॒तपो᳚भिर॒र्कैः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्} द॒द्भिर्न जि॒ह्वा परि॑विष्ट॒माद॑दा॒विर्नि॒धीँर॑कृणोदु॒स्रिया᳚णाम् ||{6/12}{8.2.17.6}{10.68.6}{10.5.8.6}{254, 905, 9525} य॒दा¦व॒लस्य॑¦पीय॑तः¦जसु᳚म्¦भेत्¦बृह॒स्पतिः॑¦अ॒ग्नि॒तपः॑ऽभिः¦अ॒र्कैः | |
बृह॒स्पति॒रम॑त॒ हि त्यदा᳚सां॒ नाम॑ स्व॒रीणां॒ सद॑ने॒ गुहा॒ यत् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्} आ॒ण्डेव॑ भि॒त् त्वा श॑कु॒नस्य॒ गर्भ॒मुदु॒स्रियाः॒ पर्व॑तस्य॒ त्मना᳚जत् ||{7/12}{8.2.18.1}{10.68.7}{10.5.8.7}{255, 905, 9526} बृह॒स्पतिः॑¦अम॑त¦हि¦त्यत्¦आ॒सा॒म्¦नाम॑¦स्व॒रीणा᳚म्¦सद॑ने¦गुहा᳚¦यत् | |
अश्नापि॑नद्धं॒ मधु॒ पर्य॑पश्य॒न्मत्स्यं॒ न दी॒न उ॒दनि॑ क्षि॒यन्त᳚म् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्} निष्टज्ज॑भार चम॒सं न वृ॒क्षाद्बृह॒स्पति᳚र्विर॒वेणा᳚ वि॒कृत्य॑ ||{8/12}{8.2.18.2}{10.68.8}{10.5.8.8}{256, 905, 9527} अश्ना᳚¦अपि॑ऽनद्धम्¦मधु॑¦परि॑¦अ॒प॒श्य॒त्¦मत्स्य᳚म्¦न¦दी॒ने¦उ॒दनि॑¦क्षि॒यन्त᳚म् | |
सोषाम॑विन्द॒त्स स्व१॑(अः॒) सो, अ॒ग्निं सो, अ॒र्केण॒ वि ब॑बाधे॒ तमां᳚सि |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्} बृह॒स्पति॒र्गोव॑पुषो व॒लस्य॒ निर्म॒ज्जानं॒ न पर्व॑णो जभार ||{9/12}{8.2.18.3}{10.68.9}{10.5.8.9}{257, 905, 9528} सः¦उ॒षाम्¦अ॒वि॒न्द॒त्¦सः¦स्व१॒॑रिति॒ स्वः॑¦सः¦अ॒ग्निम्¦सः¦अ॒र्केण॑¦वि¦ब॒बा॒धे॒¦तमां᳚सि | |
हि॒मेव॑ प॒र्णा मु॑षि॒ता वना᳚नि॒ बृह॒स्पति॑नाकृपयद्व॒लो गाः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्} अ॒ना॒नु॒कृ॒त्यम॑पु॒नश्च॑कार॒ यात्सूर्या॒मासा᳚ मि॒थ उ॒च्चरा᳚तः ||{10/12}{8.2.18.4}{10.68.10}{10.5.8.10}{258, 905, 9529} हि॒माऽइ᳚व¦प॒र्णा¦मु॒षि॒ता¦वना᳚नि¦बृह॒स्पति॑ना¦अ॒कृ॒प॒य॒त्¦व॒लः¦गाः | |
अ॒भि श्या॒वं न कृश॑नेभि॒रश्वं॒ नक्ष॑त्रेभिः पि॒तरो॒ द्याम॑पिंशन् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्} रात्र्यां॒ तमो॒, अद॑धु॒र्ज्योति॒रह॒न् बृह॒स्पति॑र्भि॒नदद्रिं᳚ वि॒दद्गाः ||{11/12}{8.2.18.5}{10.68.11}{10.5.8.11}{259, 905, 9530} अ॒भि¦श्या॒वम्¦न¦कृश॑नेभिः¦अश्व᳚म्¦नक्ष॑त्रेभिः¦पि॒तरः॑¦द्याम्¦अ॒पिं॒श॒न् | |
इ॒दम॑कर्म॒ नमो᳚, अभ्रि॒याय॒ यः पू॒र्वीरन्वा॒नोन॑वीति |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्} बृह॒स्पतिः॒ स हि गोभिः॒ सो, अश्वैः॒ स वी॒रेभिः॒ स नृभि᳚र्नो॒ वयो᳚ धात् ||{12/12}{8.2.18.6}{10.68.12}{10.5.8.12}{260, 905, 9531} इ॒दम्¦अ॒क॒र्म॒¦नमः॑¦अ॒भ्रि॒याय॑¦यः¦पू॒र्वीः¦अनु॑¦आ॒ऽनोन॑वीति | |
[24] भद्राअग्नेरिति द्वादशर्चस्य सूक्तस्य वाध्र्यश्वः सुमित्रोग्निस्त्रिष्टुबाद्येद्वेजगत्यौ | |
भ॒द्रा, अ॒ग्नेर्व॑ध्र्य॒श्वस्य॑ सं॒दृशो᳚ वा॒मी प्रणी᳚तिः सु॒रणा॒, उपे᳚तयः |{वाध्र्यश्वः सुमित्रः | अग्निः | जगती} यदीं᳚ सुमि॒त्रा विशो॒, अग्र॑ इ॒न्धते᳚ घृ॒तेनाहु॑तो जरते॒ दवि॑द्युतत् ||{1/12}{8.2.19.1}{10.69.1}{10.6.1.1}{261, 906, 9532} भ॒द्राः¦अ॒ग्नेः¦व॒ध्रि॒।आ॒श्वस्य॑¦स॒म्ऽदृशः॑¦वा॒मी¦प्रऽणी᳚तिः¦सु॒ऽरणाः᳚¦उप॑ऽइतयः | |
घृ॒तम॒ग्नेर्व॑ध्र्य॒श्वस्य॒ वर्ध॑नं घृ॒तमन्नं᳚ घृ॒तम्व॑स्य॒ मेद॑नम् |{वाध्र्यश्वः सुमित्रः | अग्निः | जगती} घृ॒तेनाहु॑त उर्वि॒या वि प॑प्रथे॒ सूर्य॑ इव रोचते स॒र्पिरा᳚सुतिः ||{2/12}{8.2.19.2}{10.69.2}{10.6.1.2}{262, 906, 9533} घृ॒तम्¦अ॒ग्नेः¦व॒ध्रि॒।आ॒श्वस्य॑¦वर्ध॑नम्¦घृ॒तम्¦अन्न᳚म्¦घृ॒तम्¦ऊँ॒ इति॑¦अ॒स्य॒¦भेद॑नम् | |
यत्ते॒ मनु॒र्यदनी᳚कं सुमि॒त्रः स॑मी॒धे, अ॑ग्ने॒ तदि॒दं नवी᳚यः |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्} स रे॒वच्छो᳚च॒ स गिरो᳚ जुषस्व॒ स वाजं᳚ दर्षि॒ स इ॒ह श्रवो᳚ धाः ||{3/12}{8.2.19.3}{10.69.3}{10.6.1.3}{263, 906, 9534} यत्¦ते॒¦मनुः॑¦यत्¦अनी᳚कम्¦सु॒ऽमि॒त्रः¦स॒म्ऽई॒धे¦अ॒ग्ने॒¦तत्¦इ॒दम्¦नवी᳚यः | |
यं त्वा॒ पूर्व॑मीळि॒तो व॑ध्र्य॒श्वः स॑मी॒धे, अ॑ग्ने॒ स इ॒दं जु॑षस्व |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्} स नः॑ स्ति॒पा, उ॒त भ॑वा तनू॒पा दा॒त्रं र॑क्षस्व॒ यदि॒दं ते᳚, अ॒स्मे ||{4/12}{8.2.19.4}{10.69.4}{10.6.1.4}{264, 906, 9535} यम्¦त्वा॒¦पूर्व᳚म्¦ई॒ळि॒तः¦व॒ध्रि॒।आ॒श्वः¦स॒म्ऽई॒धे¦अ॒ग्ने॒¦सः¦इ॒दम्¦जु॒ष॒स्व॒ | |
भवा᳚ द्यु॒म्नी वा᳚ध्र्यश्वो॒त गो॒पा मा त्वा᳚ तारीद॒भिमा᳚ति॒र्जना᳚नाम् |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्} शूर॑ इव धृ॒ष्णुश्च्यव॑नः सुमि॒त्रः प्र नु वो᳚चं॒ वाध्र्य॑श्वस्य॒ नाम॑ ||{5/12}{8.2.19.5}{10.69.5}{10.6.1.5}{265, 906, 9536} भव॑¦द्यु॒म्नी¦वा॒ध्रि॒।आ॒श्व॒¦उ॒त¦गो॒पाः¦मा¦त्वा॒¦ता॒री॒त्¦अ॒भिऽमा᳚तिः¦जना᳚नाम् | |
सम॒ज्र्या᳚ पर्व॒त्या॒३॑(आ॒) वसू᳚नि॒ दासा᳚ वृ॒त्राण्यार्या᳚ जिगेथ |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्} शूर॑ इव धृ॒ष्णुश्च्यव॑नो॒ जना᳚नां॒ त्वम॑ग्ने पृतना॒यूँर॒भि ष्याः᳚ ||{6/12}{8.2.19.6}{10.69.6}{10.6.1.6}{266, 906, 9537} सम्¦अ॒ज्र्या᳚¦प॒र्व॒त्या᳚¦वसू᳚नि¦दासा᳚¦वृ॒त्राणि॑¦आर्या᳚¦जि॒गे॒थ॒ | |
दी॒र्घत᳚न्तुर्बृ॒हदु॑क्षा॒यम॒ग्निः स॒हस्र॑स्तरीः श॒तनी᳚थ॒ ऋभ्वा᳚ |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्} द्यु॒मान्द्यु॒मत्सु॒ नृभि᳚र्मृ॒ज्यमा᳚नः सुमि॒त्रेषु॑ दीदयो देव॒यत्सु॑ ||{7/12}{8.2.20.1}{10.69.7}{10.6.1.7}{267, 906, 9538} दी॒र्घऽत᳚न्तुः¦बृ॒हत्।औ᳚क्षा¦अ॒यम्¦अ॒ग्निः¦स॒हस्र॑ऽस्तरीः¦श॒तऽनी᳚थः¦ऋभ्वा᳚ | |
त्वे धे॒नुः सु॒दुघा᳚ जातवेदोऽस॒श्चते᳚व सम॒ना स॑ब॒र्धुक् |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्} त्वं नृभि॒र्दक्षि॑णावद्भिरग्ने सुमि॒त्रेभि॑रिध्यसे देव॒यद्भिः॑ ||{8/12}{8.2.20.2}{10.69.8}{10.6.1.8}{268, 906, 9539} त्वे इति॑¦धे॒नुः¦सु॒ऽदुघा᳚¦जा॒त॒वे॒दः॒¦अ॒स॒श्चता᳚ऽइव¦स॒म॒ना¦स॒बः॒ऽधुक् | |
दे॒वाश्चि॑त्ते, अ॒मृता᳚ जातवेदो महि॒मानं᳚ वाध्र्यश्व॒ प्र वो᳚चन् |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्} यत्स॒म्पृच्छं॒ मानु॑षी॒र्विश॒ आय॒न्त्वं नृभि॑रजय॒स्त्वावृ॑धेभिः ||{9/12}{8.2.20.3}{10.69.9}{10.6.1.9}{269, 906, 9540} दे॒वाः¦चि॒त्¦ते॒¦अ॒मृताः᳚¦जा॒त॒ऽवे॒दः॒¦म॒हि॒मान᳚म्¦वा॒धि॒।आ॒श्व॒¦प्र¦वो॒च॒न् | |
पि॒तेव॑ पु॒त्रम॑बिभरु॒पस्थे॒ त्वाम॑ग्ने वध्र्य॒श्वः स॑प॒र्यन् |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्} जु॒षा॒णो, अ॑स्य स॒मिधं᳚ यविष्ठो॒त पूर्वाँ᳚, अवनो॒र्व्राध॑तश्चित् ||{10/12}{8.2.20.4}{10.69.10}{10.6.1.10}{270, 906, 9541} पि॒ताऽइ᳚व¦पु॒त्रम्¦अ॒बि॒भः॒¦उ॒पऽस्थे᳚¦त्वाम्¦अ॒ग्ने॒¦व॒ध्रि॒।आ॒श्वः¦स॒प॒र्यन् | |
शश्व॑द॒ग्निर्व॑ध्र्य॒श्वस्य॒ शत्रू॒न्नृभि॑र्जिगाय सु॒तसो᳚मवद्भिः |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्} सम॑नं चिददहश्चित्रभा॒नोऽव॒ व्राध᳚न्तमभिनद्वृ॒धश्चि॑त् ||{11/12}{8.2.20.5}{10.69.11}{10.6.1.11}{271, 906, 9542} शश्व॑त्¦अ॒ग्निः¦व॒ध्रि॒।आ॒श्वस्य॑¦शत्रू᳚न्¦नृऽभिः॑¦जि॒गा॒य॒¦सु॒तसो᳚मवत्ऽभिः | |
अ॒यम॒ग्निर्व॑ध्र्य॒श्वस्य॑ वृत्र॒हा स॑न॒कात्प्रेद्धो॒ नम॑सोपवा॒क्यः॑ |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्} स नो॒, अजा᳚मीँरु॒त वा॒ विजा᳚मीन॒भि ति॑ष्ठ॒ शर्ध॑तो वाध्र्यश्व ||{12/12}{8.2.20.6}{10.69.12}{10.6.1.12}{272, 906, 9543} अ॒यम्¦अ॒ग्निः¦व॒ध्रि॒।आ॒श्वस्य॑¦वृ॒त्र॒ऽहा¦स॒न॒कात्¦प्रऽइ᳚द्धः¦नम॑सा¦उ॒प॒ऽवा॒क्यः॑ | |
[25] इमांमइत्येकादशर्चस्य सूक्तस्य वाध्र्यश्वः सुमित्रइध्मोनराशंस इळो बर्हिर्देवीर्द्वार उषासानक्ता दैव्यौहोतारौप्रचेतसौ सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिः स्वाहाकृतयस्त्रिष्टुप् | |
इ॒मां मे᳚, अग्ने स॒मिधं᳚ जुषस्वे॒ळस्प॒दे प्रति॑ हर्या घृ॒ताची᳚म् |{वाध्र्यश्वः सुमित्रः | इध्मः | त्रिष्टुप्} वर्ष्म᳚न् पृथि॒व्याः सु॑दिन॒त्वे, अह्ना᳚मू॒र्ध्वो भ॑व सुक्रतो देवय॒ज्या ||{1/11}{8.2.21.1}{10.70.1}{10.6.2.1}{273, 907, 9544} इ॒माम्¦मे॒¦अ॒ग्ने॒¦स॒म्ऽइध᳚म्¦जु॒ष॒स्व॒¦इ॒ळः¦प॒दे¦प्रति॑¦ह॒र्य॒¦घृ॒ताची᳚म् | |
आ दे॒वाना᳚मग्र॒यावे॒ह या᳚तु॒ नरा॒शंसो᳚ वि॒श्वरू᳚पेभि॒रश्वैः᳚ |{वाध्र्यश्वः सुमित्रः | नराशंसः | त्रिष्टुप्} ऋ॒तस्य॑ प॒था नम॑सा मि॒येधो᳚ दे॒वेभ्यो᳚ दे॒वत॑मः सुषूदत् ||{2/11}{8.2.21.2}{10.70.2}{10.6.2.2}{274, 907, 9545} आ¦दे॒वाना᳚म्¦अ॒ग्र॒ऽयावा᳚¦इ॒ह¦या॒तु॒¦नरा॒शंसः॑¦वि॒श्वऽरू᳚पेभिः¦अश्वैः᳚ | |
श॒श्व॒त्त॒ममी᳚ळते दू॒त्या᳚य ह॒विष्म᳚न्तो मनु॒ष्या᳚सो, अ॒ग्निम् |{वाध्र्यश्वः सुमित्रः | इळः | त्रिष्टुप्} वहि॑ष्ठै॒रश्वैः᳚ सु॒वृता॒ रथे॒ना दे॒वान् व॑क्षि॒ नि ष॑दे॒ह होता᳚ ||{3/11}{8.2.21.3}{10.70.3}{10.6.2.3}{275, 907, 9546} श॒श्व॒त्ऽत॒मम्¦ई॒ळ॒ते॒¦दू॒त्या᳚य¦ह॒विष्म᳚न्तः¦म॒नु॒ष्या᳚सः¦अ॒ग्निम् | |
वि प्र॑थतां दे॒वजु॑ष्टं तिर॒श्चा दी॒र्घं द्रा॒घ्मा सु॑र॒भि भू᳚त्व॒स्मे |{वाध्र्यश्वः सुमित्रः | बर्हिः | त्रिष्टुप्} अहे᳚ळता॒ मन॑सा देव बर्हि॒रिन्द्र॑ज्येष्ठाँ, उश॒तो य॑क्षि दे॒वान् ||{4/11}{8.2.21.4}{10.70.4}{10.6.2.4}{276, 907, 9547} वि¦प्र॒थ॒ता॒म्¦दे॒वऽजु॑ष्टम्¦ति॒र॒श्चा¦दी॒र्घम्¦द्रा॒घ्मा¦सु॒र॒भि¦भू॒तु॒¦अ॒स्मे इति॑ | |
दि॒वो वा॒ सानु॑ स्पृ॒शता॒ वरी᳚यः पृथि॒व्या वा॒ मात्र॑या॒ वि श्र॑यध्वम् |{वाध्र्यश्वः सुमित्रः | देवीर्द्वार | त्रिष्टुप्} उ॒श॒तीर्द्वा᳚रो महि॒ना म॒हद्भि॑र्दे॒वं रथं᳚ रथ॒युर्धा᳚रयध्वम् ||{5/11}{8.2.21.5}{10.70.5}{10.6.2.5}{277, 907, 9548} दि॒वः¦वा॒¦सानु॑¦स्पृ॒शत॑¦वरी᳚यः¦पृ॒थि॒व्या¦वा॒¦मात्र॑या¦वि¦श्र॒य॒ध्व॒म् | |
दे॒वी दि॒वो दु॑हि॒तरा᳚ सुशि॒ल्पे, उ॒षासा॒नक्ता᳚ सदतां॒ नि योनौ᳚ |{वाध्र्यश्वः सुमित्रः | उषासानक्ता | त्रिष्टुप्} आ वां᳚ दे॒वास॑ उशती, उ॒शन्त॑ उ॒रौ सी᳚दन्तु सुभगे, उ॒पस्थे᳚ ||{6/11}{8.2.22.1}{10.70.6}{10.6.2.6}{278, 907, 9549} दे॒वी इति॑¦दि॒वः¦दु॒हि॒तरा᳚¦सु॒शि॒ल्पे इति॑ सु॒ऽशि॒ल्पे¦उ॒षसा॒नक्ता᳚¦स॒द॒ता॒म्¦नि¦योनौ᳚ | |
ऊ॒र्ध्वो ग्रावा᳚ बृ॒हद॒ग्निः समि॑द्धः प्रि॒या धामा॒न्यदि॑तेरु॒पस्थे᳚ |{वाध्र्यश्वः सुमित्रः | दैव्यौहोतारौप्रचेतसौ | त्रिष्टुप्} पु॒रोहि॑तावृत्विजा य॒ज्ञे, अ॒स्मिन् वि॒दुष्ट॑रा॒ द्रवि॑ण॒मा य॑जेथाम् ||{7/11}{8.2.22.2}{10.70.7}{10.6.2.7}{279, 907, 9550} ऊ॒र्ध्वः¦ग्रावा᳚¦बृ॒हत्¦अ॒ग्निः¦सम्ऽइ᳚द्धः¦प्रि॒या¦धामा᳚नि¦अदि॑तेः¦उ॒पऽस्थे᳚ | |
तिस्रो᳚ देवीर्ब॒र्हिरि॒दं वरी᳚य॒ आ सी᳚दत चकृ॒मा वः॑ स्यो॒नम् |{वाध्र्यश्वः सुमित्रः | सरस्वती | त्रिष्टुप्} म॒नु॒ष्वद् य॒ज्ञं सुधि॑ता ह॒वींषीळा᳚ दे॒वी घृ॒तप॑दी जुषन्त ||{8/11}{8.2.22.3}{10.70.8}{10.6.2.8}{280, 907, 9551} तिस्रः॑¦दे॒वीः॒¦ब॒र्हिः¦इ॒दम्¦वरी᳚यः¦आ¦सी॒द॒त॒¦च॒कृ॒म¦वः॒¦स्यो॒नम् | |
देव॑ त्वष्ट॒र्यद्ध॑ चारु॒त्वमान॒ड्यदङ्गि॑रसा॒मभ॑वः सचा॒भूः |{वाध्र्यश्वः सुमित्रः | वष्टा | त्रिष्टुप्} स दे॒वानां॒ पाथ॒ उप॒ प्र वि॒द्वाँ, उ॒शन्य॑क्षि द्रविणोदः सु॒रत्नः॑ ||{9/11}{8.2.22.4}{10.70.9}{10.6.2.9}{281, 907, 9552} देव॑¦त्व॒ष्टः॒¦यत्¦ह॒¦चा॒रु॒ऽत्वम्¦आन॑ट्¦यत्¦अङ्गि॑रसाम्¦अभ॑वः¦स॒चा॒ऽभूः | |
वन॑स्पते रश॒नया᳚ नि॒यूया᳚ दे॒वानां॒ पाथ॒ उप॑ वक्षि वि॒द्वान् |{वाध्र्यश्वः सुमित्रः | वनस्पतिः | त्रिष्टुप्} स्वदा᳚ति दे॒वः कृ॒णव॑द्ध॒वींष्यव॑तां॒ द्यावा᳚पृथि॒वी हवं᳚ मे ||{10/11}{8.2.22.5}{10.70.10}{10.6.2.10}{282, 907, 9553} वन॑स्पते¦र॒श॒नया᳚¦नि॒ऽयूय॑¦दे॒वाना᳚म्¦पाथः॑¦उप॑¦व॒क्षि॒¦वि॒द्वान् | |
आग्ने᳚ वह॒ वरु॑णमि॒ष्टये᳚ न॒ इन्द्रं᳚ दि॒वो म॒रुतो᳚, अ॒न्तरि॑क्षात् |{वाध्र्यश्वः सुमित्रः | स्वाहाकृतयः | त्रिष्टुप्} सीद᳚न्तु ब॒र्हिर्विश्व॒ आ यज॑त्राः॒ स्वाहा᳚ दे॒वा, अ॒मृता᳚ मादयन्ताम् ||{11/11}{8.2.22.6}{10.70.11}{10.6.2.11}{283, 907, 9554} आ¦अ॒ग्ने॒¦व॒ह॒¦वरु॑णम्¦इ॒ष्टये᳚¦नः॒¦इन्द्र᳚म्¦दि॒वः¦म॒रुतः॑¦अ॒न्तरि॑क्षात् | |
[26] बृहस्पतइत्येकादशर्चस्य सूक्तस्यांगिरसो बृहस्पतिर्ज्ञानंत्रिष्टुप् नवमी जगती | |
बृह॑स्पते प्रथ॒मं वा॒चो, अग्रं॒ यत्प्रैर॑त नाम॒धेयं॒ दधा᳚नाः |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्} यदे᳚षां॒ श्रेष्ठं॒ यद॑रि॒प्रमासी᳚त्प्रे॒णा तदे᳚षां॒ निहि॑तं॒ गुहा॒विः ||{1/11}{8.2.23.1}{10.71.1}{10.6.3.1}{284, 908, 9555} बृह॑स्पते¦प्र॒थ॒मम्¦वा॒चः¦अग्र᳚म्¦यत्¦प्र¦ऐर॑त¦ना॒म॒ऽधेय᳚म्¦दधा᳚नाः | |
सक्तु॑मिव॒ तित॑उना पु॒नन्तो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒मक्र॑त |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्} अत्रा॒ सखा᳚यः स॒ख्यानि॑ जानते भ॒द्रैषां᳚ ल॒क्ष्मीर्निहि॒ताधि॑ वा॒चि ||{2/11}{8.2.23.2}{10.71.2}{10.6.3.2}{285, 908, 9556} सक्तु᳚म्ऽइव¦तित॑उना¦पु॒नन्तः॑¦यत्र॑¦धीराः᳚¦मन॑सा¦वाच᳚म्¦अक्र॑त | |
य॒ज्ञेन॑ वा॒चः प॑द॒वीय॑माय॒न्तामन्व॑विन्द॒न्नृषि॑षु॒ प्रवि॑ष्टाम् |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्} तामा॒भृत्या॒ व्य॑दधुः पुरु॒त्रा तां स॒प्त रे॒भा, अ॒भि सं न॑वन्ते ||{3/11}{8.2.23.3}{10.71.3}{10.6.3.3}{286, 908, 9557} य॒ज्ञेन॑¦वा॒चः¦प॒द॒ऽवीय᳚म्¦आ॒य॒न्¦ताम्¦अनु॑¦अ॒वि॒न्द॒न्¦ऋषि॑षु¦प्रऽवि॑ष्टाम् | |
उ॒त त्वः॒ पश्य॒न्न द॑दर्श॒ वाच॑मु॒त त्वः॑ शृ॒ण्वन्न शृ॑णोत्येनाम् |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्} उ॒तो त्व॑स्मै त॒न्व१॑(अं॒) वि स॑स्रे जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः᳚ ||{4/11}{8.2.23.4}{10.71.4}{10.6.3.4}{287, 908, 9558} उ॒त¦त्वः॒¦पश्य॑न्¦न¦द॒द॒र्श॒¦वाच᳚म्¦उ॒त¦त्वः॒¦शृ॒ण्वन्¦न¦शृ॒णो॒ति॒¦ए॒ना॒म् | |
उ॒त त्वं᳚ स॒ख्ये स्थि॒रपी᳚तमाहु॒र्नैनं᳚ हिन्व॒न्त्यपि॒ वाजि॑नेषु |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्} अधे᳚न्वा चरति मा॒ययै॒ष वाचं᳚ शुश्रु॒वाँ, अ॑फ॒लाम॑पु॒ष्पाम् ||{5/11}{8.2.23.5}{10.71.5}{10.6.3.5}{288, 908, 9559} उ॒त¦त्व॒म्¦स॒ख्ये¦स्थि॒रऽपी᳚तम्¦आहुः॑¦न¦ए॒न॒म्¦हि॒न्व॒न्ति॒¦अपि॑¦वाजि॑नेषु | |
यस्ति॒त्याज॑ सचि॒विदं॒ सखा᳚यं॒ न तस्य॑ वा॒च्यपि॑ भा॒गो, अ॑स्ति |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्} यदीं᳚ शृ॒णोत्यल॑कं शृणोति न॒हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था᳚म् ||{6/11}{8.2.24.1}{10.71.6}{10.6.3.6}{289, 908, 9560} यः¦ति॒त्याज॑¦स॒चि॒ऽविद᳚म्¦सखा᳚यम्¦न¦तस्य॑¦वा॒चि¦अपि॑¦भा॒गः¦अ॒स्ति॒ | |
अ॒क्ष॒ण्वन्तः॒ कर्ण॑वन्तः॒ सखा᳚यो मनोज॒वेष्वस॑मा बभूवुः |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्} आ॒द॒घ्नास॑ उपक॒क्षास॑ उ त्वे ह्र॒दा, इ॑व॒ स्नात्वा᳚, उ त्वे ददृश्रे ||{7/11}{8.2.24.2}{10.71.7}{10.6.3.7}{290, 908, 9561} अ॒क्ष॒ण्ऽवन्तः॑¦कर्ण॑ऽवन्तः¦सखा᳚यः¦म॒नः॒ऽज॒वेषु॑¦अस॑माः¦ब॒भू॒वुः॒ | |
हृ॒दा त॒ष्टेषु॒ मन॑सो ज॒वेषु॒ यद्ब्रा᳚ह्म॒णाः सं॒यज᳚न्ते॒ सखा᳚यः |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्} अत्राह॑ त्वं॒ वि ज॑हुर्वे॒द्याभि॒रोह॑ब्रह्माणो॒ वि च॑रन्त्यु त्वे ||{8/11}{8.2.24.3}{10.71.8}{10.6.3.8}{291, 908, 9562} हृ॒दा¦त॒ष्टेषु॑¦मन॑सः¦ज॒वेषु॑¦यत्¦ब्रा॒ह्म॒णाः¦स॒म्ऽयज᳚न्ते¦सखा᳚यः | |
इ॒मे ये नार्वाङ्न प॒रश्चर᳚न्ति॒ न ब्रा᳚ह्म॒णासो॒ न सु॒तेक॑रासः |{बृहस्पतिः | ज्ञानम् | जगती} त ए॒ते वाच॑मभि॒पद्य॑ पा॒पया᳚ सि॒रीस्तन्त्रं᳚ तन्वते॒, अप्र॑जज्ञयः ||{9/11}{8.2.24.4}{10.71.9}{10.6.3.9}{292, 908, 9563} इ॒मे¦ये¦न¦अ॒र्वाक्¦न¦प॒रः¦चर᳚न्ति¦न¦ब्रा॒ह्म॒णासः॑¦न¦सु॒तेऽक॑रासः | |
सर्वे᳚ नन्दन्ति य॒शसाग॑तेन सभासा॒हेन॒ सख्या॒ सखा᳚यः |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्} कि॒ल्बि॒ष॒स्पृत्पि॑तु॒षणि॒र्ह्ये᳚षा॒मरं᳚ हि॒तो भव॑ति॒ वाजि॑नाय ||{10/11}{8.2.24.5}{10.71.10}{10.6.3.10}{293, 908, 9564} सर्वे᳚¦न॒न्द॒न्ति॒¦य॒शसा᳚¦आऽग॑तेन¦स॒भा॒ऽसा॒हेन॑¦सख्या᳚¦सखा᳚यः | |
ऋ॒चां त्वः॒ पोष॑मास्ते पुपु॒ष्वान् गा᳚य॒त्रं त्वो᳚ गायति॒ शक्व॑रीषु |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्} ब्र॒ह्मा त्वो॒ वद॑ति जातवि॒द्यां य॒ज्ञस्य॒ मात्रां॒ वि मि॑मीत उ त्वः ||{11/11}{8.2.24.6}{10.71.11}{10.6.3.11}{294, 908, 9565} ऋ॒चाम्¦त्वः॒¦पोष᳚म्¦आ॒स्ते॒¦पु॒पु॒ष्वान्¦गा॒य॒त्रम्¦त्वः॒¦गा॒य॒ति॒¦शक्व॑रीषु | |
[27] देवानामिति नवर्चस्य सूक्तस्य लौक्योबृहस्पतिर्देवाअनुष्टुप् | (आंगिरसोवा बृहस्पतिऋषिर्दाक्षायण्यदितिर्वाऋषिका)| |
दे॒वानां॒ नु व॒यं जाना॒ प्र वो᳚चाम विप॒न्यया᳚ |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्} उ॒क्थेषु॑ श॒स्यमा᳚नेषु॒ यः पश्या॒दुत्त॑रे यु॒गे ||{1/9}{8.3.1.1}{10.72.1}{10.6.4.1}{295, 909, 9566} दे॒वाना᳚म्¦नु¦व॒यम्¦जाना᳚¦प्र¦वो॒चा॒म॒¦वि॒प॒न्यया᳚ | उ॒क्थेषु॑¦श॒स्यमा᳚नेषु¦यः¦पश्या᳚त्¦उत्ऽत॑रे¦यु॒गे || |
ब्रह्म॑ण॒स्पति॑रे॒ता सं क॒र्मार॑ इवाधमत् |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्} दे॒वानां᳚ पू॒र्व्ये यु॒गेऽस॑तः॒ सद॑जायत ||{2/9}{8.3.1.2}{10.72.2}{10.6.4.2}{296, 909, 9567} ब्रह्म॑णः¦पतिः॑¦ए॒ता¦सम्¦क॒र्मारः॑ऽइव¦अ॒ध॒म॒त् | दे॒वाना᳚म्¦पू॒र्व्ये¦यु॒गे¦अस॑तः¦सत्¦अ॒जा॒य॒त॒ || |
दे॒वानां᳚ यु॒गे प्र॑थ॒मेऽस॑तः॒ सद॑जायत |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्} तदाशा॒, अन्व॑जायन्त॒ तदु॑त्ता॒नप॑द॒स्परि॑ ||{3/9}{8.3.1.3}{10.72.3}{10.6.4.3}{297, 909, 9568} दे॒वाना᳚म्¦यु॒गे¦प्र॒थ॒मे¦अस॑तः¦सत्¦अ॒जा॒य॒त॒ | तत्¦आशाः᳚¦अनु॑¦अ॒जा॒य॒न्त॒¦तत्¦उ॒त्ता॒नऽप॑दः¦परि॑ || |
भूर्ज॑ज्ञ उत्ता॒नप॑दो भु॒व आशा᳚, अजायन्त |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्} अदि॑ते॒र्दक्षो᳚, अजायत॒ दक्षा॒द्वदि॑तिः॒ परि॑ ||{4/9}{8.3.1.4}{10.72.4}{10.6.4.4}{298, 909, 9569} भूः¦ज॒ज्ञे॒¦उ॒त्ता॒नऽप॑दः¦भु॒वः¦आशाः᳚¦अ॒जा॒य॒न्त॒ | अदि॑तेः¦दक्षः॑¦अ॒जा॒य॒त॒¦दक्षा᳚त्¦ऊँ॒ इति॑¦अदि॑तिः¦परि॑ || |
अदि॑ति॒र्ह्यज॑निष्ट॒ दक्ष॒ या दु॑हि॒ता तव॑ |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्} तां दे॒वा, अन्व॑जायन्त भ॒द्रा, अ॒मृत॑बन्धवः ||{5/9}{8.3.1.5}{10.72.5}{10.6.4.5}{299, 909, 9570} अदि॑तिः¦हि¦अज॑निष्ट¦दक्ष॑¦या¦दु॒हि॒ता¦तव॑ | ताम्¦दे॒वाः¦अनु॑¦अ॒जा॒य॒न्त॒¦भ॒द्राः¦अ॒मृत॑ऽबन्धवः || |
यद्दे᳚वा, अ॒दः स॑लि॒ले सुसं᳚रब्धा॒, अति॑ष्ठत |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्} अत्रा᳚ वो॒ नृत्य॑तामिव ती॒व्रो रे॒णुरपा᳚यत ||{6/9}{8.3.2.1}{10.72.6}{10.6.4.6}{300, 909, 9571} यत्¦दे॒वाः॒¦अ॒दः¦स॒लि॒ले¦सुऽसं᳚रब्धाः¦अति॑ष्ठत | अत्र॑¦वः॒¦नृत्य॑ताम्ऽइव¦ती॒व्रः¦रे॒णुः¦अप॑¦आ॒य॒त॒ || |
यद्दे᳚वा॒ यत॑यो यथा॒ भुव॑ना॒न्यपि᳚न्वत |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्} अत्रा᳚ समु॒द्र आ गू॒ळ्हमा सूर्य॑मजभर्तन ||{7/9}{8.3.2.2}{10.72.7}{10.6.4.7}{301, 909, 9572} यत्¦दे॒वाः॒¦यत॑यः¦य॒था॒¦भुव॑नानि¦अपि᳚न्वत | अत्र॑¦स॒मु॒द्रे¦आ¦गू॒ळ्हम्¦आ¦सूर्य᳚म्¦अ॒ज॒भ॒र्त॒न॒ || |
अ॒ष्टौ पु॒त्रासो॒, अदि॑ते॒र्ये जा॒तास्त॒न्व१॑(अ॒)स्परि॑ |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्} दे॒वाँ, उप॒ प्रैत्स॒प्तभिः॒ परा᳚ मार्ता॒ण्डमा᳚स्यत् ||{8/9}{8.3.2.3}{10.72.8}{10.6.4.8}{302, 909, 9573} अ॒ष्टौ¦पु॒त्रासः॑¦अदि॑तेः¦ये¦जा॒ताः¦त॒न्वः॑¦परि॑ | दे॒वान्¦उप॑¦प्र¦ऐ॒त्¦स॒प्तऽभिः॑¦परा᳚¦मा॒र्ता॒ण्डम्¦आ॒स्य॒त् || |
स॒प्तभिः॑ पु॒त्रैरदि॑ति॒रुप॒ प्रैत्पू॒र्व्यं यु॒गम् |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्} प्र॒जायै᳚ मृ॒त्यवे᳚ त्व॒त्पुन᳚र्मार्ता॒ण्डमाभ॑रत् ||{9/9}{8.3.2.4}{10.72.9}{10.6.4.9}{303, 909, 9574} स॒प्तऽभिः॑¦पु॒त्रैः¦अदि॑तिः¦उप॑¦प्र¦ऐ॒त्¦पू॒र्व्यम्¦यु॒गम् | प्र॒ऽजायै᳚¦मृ॒त्यवे᳚¦त्व॒त्¦पुनः॑¦मा॒र्ता॒ण्डम्¦आ¦अ॒भ॒र॒त् || |
[28] जनिष्ठाइत्येकादशर्चस्य सूक्तस्य शाक्त्यो गौरिवीतिरिंद्रस्त्रिष्टुप् | |
जनि॑ष्ठा, उ॒ग्रः सह॑से तु॒राय॑ म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} अव॑र्ध॒न्निन्द्रं᳚ म॒रुत॑श्चि॒दत्र॑ मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा ||{1/11}{8.3.3.1}{10.73.1}{10.6.5.1}{304, 910, 9575} जनि॑ष्ठाः¦उ॒ग्रः¦सह॑से¦तु॒राय॑¦म॒न्द्रः¦ओजि॑ष्ठः¦ब॒हु॒ल।आ॑भिमानः | |
द्रु॒हो निष॑त्ता पृश॒नी चि॒देवैः᳚ पु॒रू शंसे᳚न वावृधु॒ष्ट इन्द्र᳚म् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} अ॒भीवृ॑तेव॒ ता म॑हाप॒देन॑ ध्वा॒न्तात्प्र॑पि॒त्वादुद॑रन्त॒ गर्भाः᳚ ||{2/11}{8.3.3.2}{10.73.2}{10.6.5.2}{305, 910, 9576} द्रु॒हः¦निऽस॑त्ता¦पृ॒श॒नी¦चि॒त्¦एवैः᳚¦पु॒रु¦शंसे᳚न¦व॒वृ॒धुः॒¦ते¦इन्द्र᳚म् | |
ऋ॒ष्वा ते॒ पादा॒ प्र यज्जिगा॒स्यव॑र्ध॒न्वाजा᳚, उ॒त ये चि॒दत्र॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} त्वमि᳚न्द्र सालावृ॒कान् त्स॒हस्र॑मा॒सन्द॑धिषे, अ॒श्विना व॑वृत्याः ||{3/11}{8.3.3.3}{10.73.3}{10.6.5.3}{306, 910, 9577} ऋ॒ष्वा¦ते॒¦पादा᳚¦प्र¦यत्¦जिगा᳚सि¦अव॑र्धन्¦वाजाः᳚¦उ॒त¦ये¦चि॒त्¦अत्र॑ | |
स॒म॒ना तूर्णि॒रुप॑ यासि य॒ज्ञमा नास॑त्या स॒ख्याय॑ वक्षि |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} व॒साव्या᳚मिन्द्र धारयः स॒हस्रा॒श्विना᳚ शूर ददतुर्म॒घानि॑ ||{4/11}{8.3.3.4}{10.73.4}{10.6.5.4}{307, 910, 9578} स॒म॒ना¦तूर्णिः॑¦उप॑¦या॒सि॒¦य॒ज्ञम्¦आ¦नास॑त्या¦स॒ख्याय॑¦व॒क्षि॒ | |
मन्द॑मान ऋ॒तादधि॑ प्र॒जायै॒ सखि॑भि॒रिन्द्र॑ इषि॒रेभि॒रर्थ᳚म् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} आभि॒र्हि मा॒या, उप॒ दस्यु॒मागा॒न्मिहः॒ प्र त॒म्रा, अ॑वप॒त्तमां᳚सि ||{5/11}{8.3.3.5}{10.73.5}{10.6.5.5}{308, 910, 9579} मन्द॑मानः¦ऋ॒तात्¦अधि॑¦प्र॒ऽजायै᳚¦सखि॑ऽभिः¦इन्द्रः॑¦इ॒षि॒रेभिः॑¦अर्थ᳚म् | |
सना᳚माना चिद्ध्वसयो॒ न्य॑स्मा॒, अवा᳚ह॒न्निन्द्र॑ उ॒षसो॒ यथानः॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} ऋ॒ष्वैर॑गच्छः॒ सखि॑भि॒र्निका᳚मैः सा॒कं प्र॑ति॒ष्ठा हृद्या᳚ जघन्थ ||{6/11}{8.3.4.1}{10.73.6}{10.6.5.6}{309, 910, 9580} सऽना᳚माना¦चि॒त्¦ध्व॒स॒यः॒¦नि¦अ॒स्मै॒¦अव॑¦अ॒ह॒न्¦इन्द्रः॑¦उ॒षसः॑¦यथा᳚¦अनः॑ | |
त्वं ज॑घन्थ॒ नमु॑चिं मख॒स्युं दासं᳚ कृण्वा॒न ऋष॑ये॒ विमा᳚यम् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} त्वं च॑कर्थ॒ मन॑वे स्यो॒नान् प॒थो दे᳚व॒त्राञ्ज॑सेव॒ याना॑न् ||{7/11}{8.3.4.2}{10.73.7}{10.6.5.7}{310, 910, 9581} त्वम्¦जा॒घ॒न्थ॒¦नमु॑चिम्¦म॒ख॒स्युम्¦दास᳚म्¦कृ॒ण्वा॒नः¦ऋष॑ये¦विऽमा᳚यम् | |
त्वमे॒तानि॑ पप्रिषे॒ वि नामेशा᳚न इन्द्र दधिषे॒ गभ॑स्तौ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} अनु॑ त्वा दे॒वाः शव॑सा मदन्त्यु॒परि॑बुध्नान्व॒निन॑श्चकर्थ ||{8/11}{8.3.4.3}{10.73.8}{10.6.5.8}{311, 910, 9582} त्वम्¦ए॒तानि॑¦प॒प्रि॒षे॒¦वि¦नाम॑¦ईशा᳚नः¦इ॒न्द्र॒¦द॒धि॒षे॒¦गभ॑स्तौ | |
च॒क्रं यद॑स्या॒प्स्वा निष॑त्तमु॒तो तद॑स्मै॒ मध्विच्च॑च्छद्यात् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} पृ॒थि॒व्यामति॑षितं॒ यदूधः॒ पयो॒ गोष्वद॑धा॒, ओष॑धीषु ||{9/11}{8.3.4.4}{10.73.9}{10.6.5.9}{312, 910, 9583} च॒क्रम्¦यत्¦अ॒स्य॒¦अ॒प्ऽसु¦आ¦निऽस॑त्तम्¦उ॒तो इति॑¦तत्¦अ॒स्मै॒¦मधु॑¦इत्¦च॒च्छ॒द्या॒त् | |
अश्वा᳚दिया॒येति॒ यद्वद॒न्त्योज॑सो जा॒तमु॒त म᳚न्य एनम् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} म॒न्योरि॑याय ह॒र्म्येषु॑ तस्थौ॒ यतः॑ प्रज॒ज्ञ इन्द्रो᳚, अस्य वेद ||{10/11}{8.3.4.5}{10.73.10}{10.6.5.10}{313, 910, 9584} अश्वा᳚त्¦इ॒या॒य॒¦इति॑¦यत्¦वद᳚न्ति¦ओज॑सः¦जा॒तम्¦उ॒त¦म॒न्ये॒¦ए॒न॒म् | |
वयः॑ सुप॒र्णा, उप॑ सेदु॒रिन्द्रं᳚ प्रि॒यमे᳚धा॒ ऋष॑यो॒ नाध॑मानाः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} अप॑ ध्वा॒न्तमू᳚र्णु॒हि पू॒र्धि चक्षु᳚र्मुमु॒ग्ध्य१॑(अ॒)स्मान्नि॒धये᳚व ब॒द्धान् ||{11/11}{8.3.4.6}{10.73.11}{10.6.5.11}{314, 910, 9585} वयः॑¦सु॒ऽप॒र्णाः¦उप॑¦से॒दुः॒¦इन्द्र᳚म्¦प्रि॒यऽमे᳚धाः¦ऋष॑यः¦नाध॑मानाः | |
[29] वसूनामिति षडृचस्य सूक्तस्य शाक्त्यो गौरिवीतिरिंद्रस्त्रिष्टुप् | |
वसू᳚नां वा चर्कृष॒ इय॑क्षन्धि॒या वा᳚ य॒ज्ञैर्वा॒ रोद॑स्योः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} अर्व᳚न्तो वा॒ ये र॑यि॒मन्तः॑ सा॒तौ व॒नुं वा॒ ये सु॒श्रुणं᳚ सु॒श्रुतो॒ धुः ||{1/6}{8.3.5.1}{10.74.1}{10.6.6.1}{315, 911, 9586} वसू᳚नाम्¦वा॒¦च॒र्कृ॒षे॒¦इय॑क्षन्¦धि॒या¦वा॒¦य॒ज्ञैः¦वा॒¦रोद॑स्योः | |
हव॑ एषा॒मसु॑रो नक्षत॒ द्यां श्र॑वस्य॒ता मन॑सा निंसत॒ क्षाम् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} चक्षा᳚णा॒ यत्र॑ सुवि॒ताय॑ दे॒वा द्यौर्न वारे᳚भिः कृ॒णव᳚न्त॒ स्वैः ||{2/6}{8.3.5.2}{10.74.2}{10.6.6.2}{316, 911, 9587} हवः॑¦ए॒षा॒म्¦असु॑रः¦न॒क्ष॒त॒¦द्याम्¦श्र॒व॒स्य॒ता¦मन॑सा¦निं॒स॒त॒¦क्षाम् | |
इ॒यमे᳚षाम॒मृता᳚नां॒ गीः स॒र्वता᳚ता॒ ये कृ॒पण᳚न्त॒ रत्न᳚म् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} धियं᳚ च य॒ज्ञं च॒ साध᳚न्त॒स्ते नो᳚ धान्तु वस॒व्य१॑(अ॒)मसा᳚मि ||{3/6}{8.3.5.3}{10.74.3}{10.6.6.3}{317, 911, 9588} इ॒यम्¦ए॒षा॒म्¦अ॒मृता᳚नाम्¦गीः¦स॒र्वऽता᳚ता¦ये¦कृ॒पण᳚न्त¦रत्न᳚म् | |
आ तत्त॑ इन्द्रा॒यवः॑ पनन्ता॒भि य ऊ॒र्वं गोम᳚न्तं॒ तितृ॑त्सान् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} स॒कृ॒त्स्व१॑(अं॒) ये पु॑रुपु॒त्रां म॒हीं स॒हस्र॑धारां बृह॒तीं दुदु॑क्षन् ||{4/6}{8.3.5.4}{10.74.4}{10.6.6.4}{318, 911, 9589} आ¦तत्¦ते॒¦इ॒न्द्र॒¦आ॒यवः॑¦प॒न॒न्त॒¦अ॒भि¦ये¦ऊ॒र्वम्¦गोऽम᳚न्तम्¦तितृ॑त्सान् | |
शची᳚व॒ इन्द्र॒मव॑से कृणुध्व॒मना᳚नतं द॒मय᳚न्तं पृत॒न्यून् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} ऋ॒भु॒क्षणं᳚ म॒घवा᳚नं सुवृ॒क्तिं भर्ता॒ यो वज्रं॒ नर्यं᳚ पुरु॒क्षुः ||{5/6}{8.3.5.5}{10.74.5}{10.6.6.5}{319, 911, 9590} शची᳚ऽवः¦इन्द्र᳚म्¦अव॑से¦कृ॒णु॒ध्व॒म्¦अना᳚नतम्¦द॒मय᳚न्तम्¦पृ॒त॒न्यून् | |
यद्वा॒वान॑ पुरु॒तमं᳚ पुरा॒षाळा वृ॑त्र॒हेन्द्रो॒ नामा᳚न्यप्राः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} अचे᳚ति प्रा॒सह॒स्पति॒स्तुवि॑ष्मा॒न्यदी᳚मु॒श्मसि॒ कर्त॑वे॒ कर॒त्तत् ||{6/6}{8.3.5.6}{10.74.6}{10.6.6.6}{320, 911, 9591} यत्¦व॒वान॑¦पु॒रु॒ऽतम᳚म्¦पु॒रा॒षाट्¦आ¦वृ॒त्र॒ऽहा¦इन्द्रः॑¦नामा᳚नि¦अ॒प्राः॒ | |
[30] प्रसुवइति नवर्चस्य सूक्तस्य प्रैयमेधः सिंधुक्षिन्नद्योजगती | |
प्र सु व॑ आपो महि॒मान॑मुत्त॒मं का॒रुर्वो᳚चाति॒ सद॑ने वि॒वस्व॑तः |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती} प्र स॒प्तस॑प्त त्रे॒धा हि च॑क्र॒मुः प्र सृत्व॑रीणा॒मति॒ सिन्धु॒रोज॑सा ||{1/9}{8.3.6.1}{10.75.1}{10.6.7.1}{321, 912, 9592} प्र¦सु¦वः॒¦आ॒पः॒¦म॒हि॒मान᳚म्¦उ॒त्ऽत॒मम्¦का॒रुः¦वो॒चा॒ति॒¦सद॑ने¦वि॒वस्व॑तः | |
प्र ते᳚ऽरद॒द्वरु॑णो॒ यात॑वे प॒थः सिन्धो॒ यद्वाजाँ᳚, अ॒भ्यद्र॑व॒स्त्वम् |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती} भूम्या॒, अधि॑ प्र॒वता᳚ यासि॒ सानु॑ना॒ यदे᳚षा॒मग्रं॒ जग॑तामिर॒ज्यसि॑ ||{2/9}{8.3.6.2}{10.75.2}{10.6.7.2}{322, 912, 9593} प्र¦ते॒¦अ॒र॒द॒त्¦वरु॑णः¦यात॑वे¦प॒थः¦सिन्धो॒ इति॑¦यत्¦वाजा᳚न्¦अ॒भि¦अद्र॑वः¦त्वम् | |
दि॒वि स्व॒नो य॑तते॒ भूम्यो॒पर्य॑न॒न्तं शुष्म॒मुदि॑यर्ति भा॒नुना᳚ |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती} अ॒भ्रादि॑व॒ प्र स्त॑नयन्ति वृ॒ष्टयः॒ सिन्धु॒र्यदेति॑ वृष॒भो न रोरु॑वत् ||{3/9}{8.3.6.3}{10.75.3}{10.6.7.3}{323, 912, 9594} दि॒वि¦स्व॒नः¦य॒त॒ते॒¦भूम्या᳚¦उ॒परि॑¦अ॒न॒न्तम्¦शुष्म᳚म्¦उत्¦इ॒य॒र्ति॒¦भा॒नुना᳚ | |
अ॒भि त्वा᳚ सिन्धो॒ शिशु॒मिन्न मा॒तरो᳚ वा॒श्रा, अ॑र्षन्ति॒ पय॑सेव धे॒नवः॑ |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती} राजे᳚व॒ युध्वा᳚ नयसि॒ त्वमित्सिचौ॒ यदा᳚सा॒मग्रं᳚ प्र॒वता॒मिन॑क्षसि ||{4/9}{8.3.6.4}{10.75.4}{10.6.7.4}{324, 912, 9595} अ॒भि¦त्वा॒¦सिन्धो॒ इति॑¦शिशु᳚म्¦इत्¦न¦मा॒तरः॑¦वा॒श्राः¦अ॒र्ष॒न्ति॒¦पय॑साऽइव¦धे॒नवः॑ | |
इ॒मं मे᳚ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमं᳚ सचता॒ परु॒ष्ण्या |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती} अ॒सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒याऽऽर्जी᳚कीये शृणु॒ह्या सु॒षोम॑या ||{5/9}{8.3.6.5}{10.75.5}{10.6.7.5}{325, 912, 9596} इ॒मम्¦मे॒¦ग॒ङ्गे॒¦य॒मु॒ने॒¦स॒र॒स्व॒ति॒¦शुतु॑द्रि¦स्तोम᳚म्¦स॒च॒त॒¦परु॑ष्णि¦आ | |
तृ॒ष्टाम॑या प्रथ॒मं यात॑वे स॒जूः सु॒सर्त्वा᳚ र॒सया᳚ श्वे॒त्या त्या |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती} त्वं सि᳚न्धो॒ कुभ॑या गोम॒तीं क्रुमुं᳚ मेह॒त्न्वा स॒रथं॒ याभि॒रीय॑से ||{6/9}{8.3.7.1}{10.75.6}{10.6.7.6}{326, 912, 9597} तृ॒ष्ट।आ॑मया¦प्र॒थ॒मम्¦यात॑वे¦स॒ऽजूः¦सु॒ऽसर्त्वा᳚¦र॒सया᳚¦श्वे॒त्या¦त्या | |
ऋजी॒त्येनी॒ रुश॑ती महि॒त्वा परि॒ ज्रयां᳚सि भरते॒ रजां᳚सि |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती} अद॑ब्धा॒ सिन्धु॑र॒पसा᳚म॒पस्त॒माश्वा॒ न चि॒त्रा वपु॑षीव दर्श॒ता ||{7/9}{8.3.7.2}{10.75.7}{10.6.7.7}{327, 912, 9598} ऋजी᳚ती¦एनी᳚¦रुश॑ती¦म॒हि॒ऽत्वा¦परि॑¦ज्रयां᳚सि¦भ॒र॒ते॒¦रजां᳚सि | |
स्वश्वा॒ सिन्धुः॑ सु॒रथा᳚ सु॒वासा᳚ हिर॒ण्ययी॒ सुकृ॑ता वा॒जिनी᳚वती |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती} ऊर्णा᳚वती युव॒तिः सी॒लमा᳚वत्यु॒ताधि॑ वस्ते सु॒भगा᳚ मधु॒वृध᳚म् ||{8/9}{8.3.7.3}{10.75.8}{10.6.7.8}{328, 912, 9599} सु॒।आश्वा᳚¦सिन्धुः॑¦सु॒ऽरथा᳚¦सु॒ऽवासाः᳚¦हि॒र॒ण्ययी᳚¦सुऽकृ॑ता¦वा॒जिनी᳚ऽवती | |
सु॒खं रथं᳚ युयुजे॒ सिन्धु॑र॒श्विनं॒ तेन॒ वाजं᳚ सनिषद॒स्मिन्ना॒जौ |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती} म॒हान्ह्य॑स्य महि॒मा प॑न॒स्यतेऽद॑ब्धस्य॒ स्वय॑शसो विर॒प्शिनः॑ ||{9/9}{8.3.7.4}{10.75.9}{10.6.7.9}{329, 912, 9600} सु॒खम्¦रथ᳚म्¦यु॒यु॒जे॒¦सिन्धुः॑¦अ॒श्विन᳚म्¦तेन॑¦वाज᳚म्¦स॒नि॒ष॒त्¦अ॒स्मिन्¦आ॒जौ | |
[31] आवऋंजसइत्यष्टर्चस्य सूक्तस्यैरावतो जरत्कर्णः सर्पोग्रावाणोजगती | |
आ व॑ ऋञ्जस ऊ॒र्जां व्यु॑ष्टि॒ष्विन्द्रं᳚ म॒रुतो॒ रोद॑सी, अनक्तन |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती} उ॒भे यथा᳚ नो॒, अह॑नी सचा॒भुवा॒ सदः॑सदो वरिव॒स्यात॑ उ॒द्भिदा᳚ ||{1/8}{8.3.8.1}{10.76.1}{10.6.8.1}{330, 913, 9601} आ¦वः॒¦ऋं॒ज॒से॒¦ऊ॒र्जाम्¦वि।औ᳚ष्टिषु¦इन्द्र᳚म्¦म॒रुतः॑¦रोद॑सी॒ इति॑¦अ॒न॒क्त॒न॒ | |
तदु॒ श्रेष्ठं॒ सव॑नं सुनोत॒नात्यो॒ न हस्त॑यतो॒, अद्रिः॑ सो॒तरि॑ |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती} वि॒दद्ध्य१॑(अ॒)र्यो, अ॒भिभू᳚ति॒ पौंस्यं᳚ म॒हो रा॒ये चि॑त्तरुते॒ यदर्व॑तः ||{2/8}{8.3.8.2}{10.76.2}{10.6.8.2}{331, 913, 9602} तत्¦ऊँ॒ इति॑¦श्रेष्ठ᳚म्¦सव॑नम्¦सु॒नो॒त॒न॒¦अत्यः॑¦न¦हस्त॑ऽयतः¦अद्रिः॑¦सो॒तरि॑ | |
तदिद्ध्य॑स्य॒ सव॑नं वि॒वेर॒पो यथा᳚ पु॒रा मन॑वे गा॒तुमश्रे᳚त् |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती} गो,अ᳚र्णसि त्वा॒ष्ट्रे, अश्व॑निर्णिजि॒ प्रेम॑ध्व॒रेष्व॑ध्व॒राँ, अ॑शिश्रयुः ||{3/8}{8.3.8.3}{10.76.3}{10.6.8.3}{332, 913, 9603} तत्¦इत्¦हि¦अ॒स्य॒¦सव॑नम्¦वि॒वेः¦अ॒पः¦यथा᳚¦पु॒रा¦मन॑वे¦गा॒तुम्¦अश्रे᳚त् | |
अप॑ हत र॒क्षसो᳚ भङ्गु॒राव॑तः स्कभा॒यत॒ निरृ॑तिं॒ सेध॒ताम॑तिम् |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती} आ नो᳚ र॒यिं सर्व॑वीरं सुनोतन देवा॒व्यं᳚ भरत॒ श्लोक॑मद्रयः ||{4/8}{8.3.8.4}{10.76.4}{10.6.8.4}{333, 913, 9604} अप॑¦ह॒त॒¦र॒क्षसः॑¦भ॒ङ्गु॒रऽव॑तः¦स्क॒भा॒यत॑¦निःऽऋ॑तिम्¦सेध॑त¦अम॑तिम् | |
दि॒वश्चि॒दा वोऽम॑वत्तरेभ्यो वि॒भ्वना᳚ चिदा॒श्व॑पस्तरेभ्यः |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती} वा॒योश्चि॒दा सोम॑रभस्तरेभ्यो॒ऽग्नेश्चि॑दर्च पितु॒कृत्त॑रेभ्यः ||{5/8}{8.3.8.5}{10.76.5}{10.6.8.5}{334, 913, 9605} दि॒वः¦चि॒त्¦आ¦वः॒¦अम॑वत्ऽतरेभ्यः¦वि॒ऽभ्वना᳚¦चि॒त्¦आ॒श्व॑पःऽतरेभ्यः | |
भु॒रन्तु॑ नो य॒शसः॒ सोत्वन्ध॑सो॒ ग्रावा᳚णो वा॒चा दि॒विता᳚ दि॒वित्म॑ता |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती} नरो॒ यत्र॑ दुह॒ते काम्यं॒ मध्वा᳚घो॒षय᳚न्तो, अ॒भितो᳚ मिथ॒स्तुरः॑ ||{6/8}{8.3.9.1}{10.76.6}{10.6.8.6}{335, 913, 9606} भु॒रन्तु॑¦नः॒¦य॒शसः॑¦सोतु॑¦अन्ध॑सः¦ग्रावा᳚णः¦वा॒चा¦दि॒विता᳚¦दि॒वित्म॑ता | |
सु॒न्वन्ति॒ सोमं᳚ रथि॒रासो॒, अद्र॑यो॒ निर॑स्य॒ रसं᳚ ग॒विषो᳚ दुहन्ति॒ ते |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती} दु॒हन्त्यूध॑रुप॒सेच॑नाय॒ कं नरो᳚ ह॒व्या न म॑र्जयन्त आ॒सभिः॑ ||{7/8}{8.3.9.2}{10.76.7}{10.6.8.7}{336, 913, 9607} सु॒न्वन्ति॑¦सोम᳚म्¦र॒थि॒रासः॑¦अद्र॑यः¦निः¦अ॒स्य॒¦रस᳚म्¦गो॒ऽइषः॑¦दु॒ह॒न्ति॒¦ते | |
ए॒ते न॑रः॒ स्वप॑सो, अभूतन॒ य इन्द्रा᳚य सुनु॒थ सोम॑मद्रयः |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती} वा॒मंवा᳚मं वो दि॒व्याय॒ धाम्ने॒ वसु॑वसु वः॒ पार्थि॑वाय सुन्व॒ते ||{8/8}{8.3.9.3}{10.76.8}{10.6.8.8}{337, 913, 9608} ए॒ते¦न॒रः॒¦सु॒।आप॑सः¦अ॒भू॒त॒न॒¦ये¦इन्द्रा᳚य¦सु॒नु॒थ¦सोम᳚म्¦अ॒द्र॒यः॒ | |
[32] अभ्रप्रुषइत्यष्टर्चस्य सूक्तस्य भार्गवः स्यूमरश्मिर्मरुतस्त्रिष्टुप् पंचमी जगती | |
अ॒भ्र॒प्रुषो॒ न वा॒चा प्रु॑षा॒ वसु॑ ह॒विष्म᳚न्तो॒ न य॒ज्ञा वि॑जा॒नुषः॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्} सु॒मारु॑तं॒ न ब्र॒ह्माण॑म॒र्हसे᳚ ग॒णम॑स्तोष्येषां॒ न शो॒भसे᳚ ||{1/8}{8.3.10.1}{10.77.1}{10.6.9.1}{338, 914, 9609} अ॒भ्र॒ऽप्रुषः॑¦न¦वा॒चा¦प्रु॒ष॒¦वसु॑¦ह॒विष्म᳚न्तः¦न¦य॒ज्ञाः¦वि॒ऽजा॒नुषः॑ | |
श्रि॒ये मर्या᳚सो, अ॒ञ्जीँर॑कृण्वत सु॒मारु॑तं॒ न पू॒र्वीरति॒ क्षपः॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्} दि॒वस्पु॒त्रास॒ एता॒ न ये᳚तिर आदि॒त्यास॒स्ते, अ॒क्रा न वा᳚वृधुः ||{2/8}{8.3.10.2}{10.77.2}{10.6.9.2}{339, 914, 9610} श्रि॒ये¦मर्या᳚सः¦अं॒जीन्¦अ॒कृ॒ण्व॒त॒¦सु॒ऽमारु॑तम्¦न¦पू॒र्वीः¦अति॑¦क्षपः॑ | |
प्र ये दि॒वः पृ॑थि॒व्या न ब॒र्हणा॒ त्मना᳚ रिरि॒च्रे, अ॒भ्रान्न सूर्यः॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्} पाज॑स्वन्तो॒ न वी॒राः प॑न॒स्यवो᳚ रि॒शाद॑सो॒ न मर्या᳚, अ॒भिद्य॑वः ||{3/8}{8.3.10.3}{10.77.3}{10.6.9.3}{340, 914, 9611} प्र¦ये¦दि॒वः¦पृ॒थि॒व्याः¦न¦ब॒र्हणा᳚¦त्मना᳚¦रि॒रि॒च्रे¦अ॒भ्रात्¦न¦सूर्यः॑ | |
यु॒ष्माकं᳚ बु॒ध्ने, अ॒पां न याम॑नि विथु॒र्यति॒ न म॒ही श्र॑थ॒र्यति॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्} वि॒श्वप्सु᳚र्य॒ज्ञो, अ॒र्वाग॒यं सु वः॒ प्रय॑स्वन्तो॒ न स॒त्राच॒ आ ग॑त ||{4/8}{8.3.10.4}{10.77.4}{10.6.9.4}{341, 914, 9612} यु॒ष्माक᳚म्¦बु॒ध्ने¦अ॒पाम्¦न¦याम॑नि¦वि॒थु॒र्यति॑¦न¦म॒ही¦श्र॒थ॒र्यति॑ | |
यू॒यं धू॒र्षु प्र॒युजो॒ न र॒श्मिभि॒र्ज्योति॑ष्मन्तो॒ न भा॒सा व्यु॑ष्टिषु |{भार्गवः स्यूमरश्मिः | मरुतः | जगती} श्ये॒नासो॒ न स्वय॑शसो रि॒शाद॑सः प्र॒वासो॒ न प्रसि॑तासः परि॒प्रुषः॑ ||{5/8}{8.3.10.5}{10.77.5}{10.6.9.5}{342, 914, 9613} यू॒यम्¦धूः॒ऽसु¦प्र॒ऽयुजः॑¦न¦र॒श्मिऽभिः॑¦ज्योति॑ष्मन्तः¦न¦भा॒सा¦वि।औ᳚ष्टिषु | |
प्र यद्वह॑ध्वे मरुतः परा॒काद्यू॒यं म॒हः सं॒वर॑णस्य॒ वस्वः॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्} वि॒दा॒नासो᳚ वसवो॒ राध्य॑स्या॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योत ||{6/8}{8.3.11.1}{10.77.6}{10.6.9.6}{343, 914, 9614} प्र¦यत्¦वह॑ध्वे¦म॒रु॒तः॒¦प॒रा॒कात्¦यू॒यम्¦म॒हः¦स॒म्ऽवर॑णस्य¦वस्वः॑ | |
य उ॒दृचि॑ य॒ज्ञे, अ॑ध्वरे॒ष्ठा म॒रुद्भ्यो॒ न मानु॑षो॒ ददा᳚शत् |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्} रे॒वत्स वयो᳚ दधते सु॒वीरं॒ स दे॒वाना॒मपि॑ गोपी॒थे, अ॑स्तु ||{7/8}{8.3.11.2}{10.77.7}{10.6.9.7}{344, 914, 9615} यः¦उ॒त्ऽऋचि॑¦य॒ज्ञे¦अ॒ध्व॒रे॒ऽस्थाः¦म॒रुत्ऽभ्यः॑¦न¦मानु॑षः¦ददा᳚शत् | |
ते हि य॒ज्ञेषु॑ य॒ज्ञिया᳚स॒ ऊमा᳚, आदि॒त्येन॒ नाम्ना॒ शम्भ॑विष्ठाः |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्} ते नो᳚ऽवन्तु रथ॒तूर्म॑नी॒षां म॒हश्च॒ याम᳚न्नध्व॒रे च॑का॒नाः ||{8/8}{8.3.11.3}{10.77.8}{10.6.9.8}{345, 914, 9616} ते¦हि¦य॒ज्ञेषु॑¦य॒ज्ञिया᳚सः¦ऊमाः᳚¦आ॒दि॒त्येन॑¦नाम्ना᳚¦शम्ऽभ॑विष्ठाः | |
[33] विप्रासइत्यष्टर्चस्य सूक्तस्य भार्गवः स्यूमरश्मिर्मरुतस्त्रिष्टुप् द्वितीयापंचम्याद्याश्चतस्रश्चजगत्यः | |
विप्रा᳚सो॒ न मन्म॑भिः स्वा॒ध्यो᳚ देवा॒व्यो॒३॑(ओ॒) न य॒ज्ञैः स्वप्न॑सः |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्} राजा᳚नो॒ न चि॒त्राः सु॑सं॒दृशः॑, क्षिती॒नां न मर्या᳚, अरे॒पसः॑ ||{1/8}{8.3.12.1}{10.78.1}{10.6.10.1}{346, 915, 9617} विप्रा᳚सः¦न¦मन्म॑ऽभिः¦सु॒ऽआ॒ध्यः॑¦दे॒व॒।आ॒व्यः॑¦न¦य॒ज्ञैः¦सु॒।आप्न॑सः | |
अ॒ग्निर्न ये भ्राज॑सा रु॒क्मव॑क्षसो॒ वाता᳚सो॒ न स्व॒युजः॑ स॒द्यऊ᳚तयः |{भार्गवः स्यूमरश्मिः | मरुतः | जगती} प्र॒ज्ञा॒तारो॒ न ज्येष्ठाः᳚ सुनी॒तयः॑ सु॒शर्मा᳚णो॒ न सोमा᳚ ऋ॒तं य॒ते ||{2/8}{8.3.12.2}{10.78.2}{10.6.10.2}{347, 915, 9618} अ॒ग्निः¦न¦ये¦भ्राज॑सा¦रु॒क्मऽव॑क्षसः¦वाता᳚सः¦न¦स्व॒ऽयुजः॑¦स॒द्यःऽऊ᳚तयः | |
वाता᳚सो॒ न ये धुन॑यो जिग॒त्नवो᳚ऽग्नी॒नां न जि॒ह्वा वि॑रो॒किणः॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्} वर्म᳚ण्वन्तो॒ न यो॒धाः शिमी᳚वन्तः पितॄ॒णां न शंसाः᳚ सुरा॒तयः॑ ||{3/8}{8.3.12.3}{10.78.3}{10.6.10.3}{348, 915, 9619} वाता᳚सः¦न¦ये¦धुन॑यः¦जि॒ग॒त्नवः॑¦अ॒ग्नी॒नाम्¦न¦जि॒ह्वाः¦वि॒ऽरो॒किणः॑ | |
रथा᳚नां॒ न ये॒३॑(ए॒)ऽराः सना᳚भयो जिगी॒वांसो॒ न शूरा᳚, अ॒भिद्य॑वः |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्} व॒रे॒यवो॒ न मर्या᳚ घृत॒प्रुषो᳚ऽभिस्व॒र्तारो᳚, अ॒र्कं न सु॒ष्टुभः॑ ||{4/8}{8.3.12.4}{10.78.4}{10.6.10.4}{349, 915, 9620} रथा᳚नाम्¦न¦ये¦अ॒राः¦सऽना᳚भयः¦जि॒गी॒वांसः॑¦न¦शूराः᳚¦अ॒भिऽद्य॑वः | |
अश्वा᳚सो॒ न ये ज्येष्ठा᳚स आ॒शवो᳚ दिधि॒षवो॒ न र॒थ्यः॑ सु॒दान॑वः |{भार्गवः स्यूमरश्मिः | मरुतः | जगती} आपो॒ न नि॒म्नैरु॒दभि॑र्जिग॒त्नवो᳚ वि॒श्वरू᳚पा॒, अङ्गि॑रसो॒ न साम॑भिः ||{5/8}{8.3.12.5}{10.78.5}{10.6.10.5}{350, 915, 9621} अश्वा᳚सः¦न¦ये¦ज्येष्ठा᳚सः¦आ॒शवः॑¦दि॒धि॒षवः॑¦न¦र॒थ्यः॑¦सु॒ऽदान॑वः | |
ग्रावा᳚णो॒ न सू॒रयः॒ सिन्धु॑मातर आदर्दि॒रासो॒, अद्र॑यो॒ न वि॒श्वहा᳚ |{भार्गवः स्यूमरश्मिः | मरुतः | जगती} शि॒शूला॒ न क्री॒ळयः॑ सुमा॒तरो᳚ महाग्रा॒मो न याम᳚न्नु॒त त्वि॒षा ||{6/8}{8.3.13.1}{10.78.6}{10.6.10.6}{351, 915, 9622} ग्रावा᳚णः¦न¦सू॒रयः॑¦सिन्धु॑ऽमातरः¦आ॒ऽद॒र्दि॒रासः॑¦अद्र॑यः¦न¦वि॒श्वहा᳚ | |
उ॒षसां॒ न के॒तवो᳚ऽध्वर॒श्रियः॑ शुभं॒यवो॒ नाञ्जिभि॒र्व्य॑श्वितन् |{भार्गवः स्यूमरश्मिः | मरुतः | जगती} सिन्ध॑वो॒ न य॒यियो॒ भ्राज॑दृष्टयः परा॒वतो॒ न योज॑नानि ममिरे ||{7/8}{8.3.13.2}{10.78.7}{10.6.10.7}{352, 915, 9623} उ॒षसा᳚म्¦न¦के॒तवः॑¦अ॒ध्व॒र॒ऽश्रियः॑¦शु॒भ॒म्ऽयवः॑¦न¦अं॒जिऽभिः॑¦वि¦अ॒श्वि॒त॒न् | |
सु॒भा॒गान्नो᳚ देवाः कृणुता सु॒रत्ना᳚न॒स्मान् त्स्तो॒तॄन्म॑रुतो वावृधा॒नाः |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्} अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गात स॒नाद्धि वो᳚ रत्न॒धेया᳚नि॒ सन्ति॑ ||{8/8}{8.3.13.3}{10.78.8}{10.6.10.8}{353, 915, 9624} सु॒ऽभा॒गान्¦नः॒¦दे॒वाः॒¦कृ॒णु॒त॒¦सु॒ऽरत्ना᳚न्¦अ॒स्मान्¦स्तो॒तॄन्¦म॒रु॒तः॒¦व॒वृ॒धा॒नाः | |
[34] अपश्यमिति सप्तर्चस्य सूक्तस्य सौचीकोग्निरग्नित्रिष्टुप् (वैश्वानरोग्निर्वाजंभरः सप्तिरितीमावृषीपाक्षिकौ) | |
अप॑श्यमस्य मह॒तो म॑हि॒त्वमम॑र्त्यस्य॒ मर्त्या᳚सु वि॒क्षु |{सौचीकोग्निः | अग्निः | त्रिष्टुप्} नाना॒ हनू॒ विभृ॑ते॒ सं भ॑रेते॒, असि᳚न्वती॒ बप्स॑ती॒ भूर्य॑त्तः ||{1/7}{8.3.14.1}{10.79.1}{10.6.11.1}{354, 916, 9625} अप॑श्यम्¦अ॒स्य॒¦म॒ह॒तः¦म॒हि॒ऽत्वम्¦अम॑र्त्यस्य¦मर्त्या᳚सु¦वि॒क्षु | |
गुहा॒ शिरो॒ निहि॑त॒मृध॑ग॒क्षी, असि᳚न्वन्नत्ति जि॒ह्वया॒ वना᳚नि |{सौचीकोग्निः | अग्निः | त्रिष्टुप्} अत्रा᳚ण्यस्मै प॒ड्भिः सं भ॑रन्त्युत्ता॒नह॑स्ता॒ नम॒साधि॑ वि॒क्षु ||{2/7}{8.3.14.2}{10.79.2}{10.6.11.2}{355, 916, 9626} गुहा᳚¦शिरः॑¦निऽहि॑तम्¦ऋध॑क्¦अ॒क्षी इति॑¦असि᳚न्वन्¦अ॒त्ति॒¦जि॒ह्वया᳚¦वना᳚नि | |
प्र मा॒तुः प्र॑त॒रं गुह्य॑मि॒च्छन् कु॑मा॒रो न वी॒रुधः॑ सर्पदु॒र्वीः |{सौचीकोग्निः | अग्निः | त्रिष्टुप्} स॒सं न प॒क्वम॑विदच्छु॒चन्तं᳚ रिरि॒ह्वांसं᳚ रि॒प उ॒पस्थे᳚, अ॒न्तः ||{3/7}{8.3.14.3}{10.79.3}{10.6.11.3}{356, 916, 9627} प्र¦मा॒तुः¦प्र॒ऽत॒रम्¦गुह्य᳚म्¦इ॒च्छन्¦कु॒मा॒रः¦न¦वी॒रुधः॑¦स॒र्प॒त्¦उ॒र्वीः | |
तद्वा᳚मृ॒तं रो᳚दसी॒ प्र ब्र॑वीमि॒ जाय॑मानो मा॒तरा॒ गर्भो᳚, अत्ति |{सौचीकोग्निः | अग्निः | त्रिष्टुप्} नाहं दे॒वस्य॒ मर्त्य॑श्चिकेता॒ग्निर॒ङ्ग विचे᳚ताः॒ स प्रचे᳚ताः ||{4/7}{8.3.14.4}{10.79.4}{10.6.11.4}{357, 916, 9628} तत्¦वा॒म्¦ऋ॒तम्¦रो॒द॒सी॒ इति॑¦प्र¦ब्र॒वी॒मि॒¦जाय॑मानः¦मा॒तरा᳚¦गर्भः॑¦अ॒त्ति॒ | |
यो, अ॑स्मा॒, अन्नं᳚ तृ॒ष्वा॒३॑(आ॒)दधा॒त्याज्यै᳚र्घृ॒तैर्जु॒होति॒ पुष्य॑ति |{सौचीकोग्निः | अग्निः | त्रिष्टुप्} तस्मै᳚ स॒हस्र॑म॒क्षभि॒र्वि च॒क्षेऽग्ने᳚ वि॒श्वतः॑ प्र॒त्यङ्ङ॑सि॒ त्वम् ||{5/7}{8.3.14.5}{10.79.5}{10.6.11.5}{358, 916, 9629} यः¦अ॒स्मै॒¦अन्न᳚म्¦तृ॒षु¦आ॒ऽदधा᳚ति¦आज्यैः᳚¦घृ॒तैः¦जु॒होति॑¦पुष्य॑ति | |
किं दे॒वेषु॒ त्यज॒ एन॑श्चक॒र्थाग्ने᳚ पृ॒च्छामि॒ नु त्वामवि॑द्वान् |{सौचीकोग्निः | अग्निः | त्रिष्टुप्} अक्री᳚ळ॒न् क्रीळ॒न्हरि॒रत्त॑वे॒ऽदन् वि प᳚र्व॒शश्च॑कर्त॒ गामि॑वा॒सिः ||{6/7}{8.3.14.6}{10.79.6}{10.6.11.6}{359, 916, 9630} किम्¦दे॒वेषु॑¦त्यजः॑¦एनः॑¦च॒क॒र्थ॒¦अग्ने᳚¦पृ॒च्छामि॑¦नु¦त्वाम्¦अवि॑द्वान् | |
विषू᳚चो॒, अश्वा᳚न्युयुजे वने॒जा, ऋजी᳚तिभी रश॒नाभि॑र्गृभी॒तान् |{सौचीकोग्निः | अग्निः | त्रिष्टुप्} च॒क्ष॒दे मि॒त्रो वसु॑भिः॒ सुजा᳚तः॒ समा᳚नृधे॒ पर्व॑भिर्वावृधा॒नः ||{7/7}{8.3.14.7}{10.79.7}{10.6.11.7}{360, 916, 9631} विषू᳚चः¦अश्वा᳚न्¦यु॒यु॒जे॒¦व॒ने॒ऽजाः¦ऋजी᳚तिऽभिः¦र॒श॒नाभिः॑¦गृ॒भी॒तान् | |
[35] अग्निःसप्तिमिति सप्तर्चस्य सूक्तस्य सौचीकोग्निरग्नित्रिष्टुप् (वैश्वानरोग्निर्वाजंभरः सप्तिरितीमावृषीपाक्षिकौ) | |
अ॒ग्निः सप्तिं᳚ वाजम्भ॒रं द॑दात्य॒ग्निर्वी॒रं श्रुत्यं᳚ कर्मनिः॒ष्ठाम् |{सौचीकोग्निः | अग्निः | त्रिष्टुप्} अ॒ग्नी रोद॑सी॒ वि च॑रत् सम॒ञ्जन्न॒ग्निर्नारीं᳚ वी॒रकु॑क्षिं॒ पुरं᳚धिम् ||{1/7}{8.3.15.1}{10.80.1}{10.6.12.1}{361, 917, 9632} अ॒ग्निः¦सप्ति᳚म्¦वा॒ज॒म्ऽभ॒रम्¦द॒दा॒ति॒¦अ॒ग्निः¦वी॒रम्¦श्रुत्य᳚म्¦क॒र्म॒निः॒ऽस्थाम् | |
अ॒ग्नेरप्न॑सः स॒मिद॑स्तु भ॒द्राऽग्निर्म॒ही रोद॑सी॒, आ वि॑वेश |{सौचीकोग्निः | अग्निः | त्रिष्टुप्} अ॒ग्निरेकं᳚ चोदयत् स॒मत्स्व॒ग्निर्वृ॒त्राणि॑ दयते पु॒रूणि॑ ||{2/7}{8.3.15.2}{10.80.2}{10.6.12.2}{362, 917, 9633} अ॒ग्नेः¦अप्न॑सः¦स॒म्ऽइत्¦अ॒स्तु॒¦भ॒द्रा¦अ॒ग्निः¦म॒ही इति॑¦रोद॑सी॒ इति॑¦आ¦वि॒वे॒श॒ | |
अ॒ग्निर्ह॒ त्यं जर॑तः॒ कर्ण॑मावा॒ऽग्निर॒द्भ्यो निर॑दह॒ज्जरू᳚थम् |{सौचीकोग्निः | अग्निः | त्रिष्टुप्} अ॒ग्निरत्रिं᳚ घ॒र्म उ॑रुष्यद॒न्तर॒ग्निर्नृ॒मेधं᳚ प्र॒जया᳚सृज॒त्सम् ||{3/7}{8.3.15.3}{10.80.3}{10.6.12.3}{363, 917, 9634} अ॒ग्निः¦ह॒¦त्यम्¦जर॑तः¦कर्ण᳚म्¦आ॒व॒¦अ॒ग्निः¦अ॒त्ऽभ्यः¦निः¦अ॒द॒ह॒त्¦जरू᳚थम् | |
अ॒ग्निर्दा॒द्द्रवि॑णं वी॒रपे᳚शा, अ॒ग्निरृषिं॒ यः स॒हस्रा᳚ स॒नोति॑ |{सौचीकोग्निः | अग्निः | त्रिष्टुप्} अ॒ग्निर्दि॒वि ह॒व्यमा त॑ताना॒ऽग्नेर्धामा᳚नि॒ विभृ॑ता पुरु॒त्रा ||{4/7}{8.3.15.4}{10.80.4}{10.6.12.4}{364, 917, 9635} अ॒ग्निः¦दा॒त्¦द्रवि॑णम्¦वी॒रऽपे᳚शाः¦अ॒ग्निः¦ऋषि᳚म्¦यः¦स॒हस्रा᳚¦स॒नोति॑ | |
अ॒ग्निमु॒क्थैरृष॑यो॒ वि ह्व॑यन्ते॒ऽग्निं नरो॒ याम॑नि बाधि॒तासः॑ |{सौचीकोग्निः | अग्निः | त्रिष्टुप्} अ॒ग्निं वयो᳚, अ॒न्तरि॑क्षे॒ पत᳚न्तो॒ऽग्निः स॒हस्रा॒ परि॑ याति॒ गोना᳚म् ||{5/7}{8.3.15.5}{10.80.5}{10.6.12.5}{365, 917, 9636} अ॒ग्निम्¦उ॒क्थैः¦ऋष॑यः¦वि¦ह्व॒य॒न्ते॒¦अ॒ग्निम्¦नरः॑¦याम॑नि¦बा॒धि॒तासः॑ | |
अ॒ग्निं विश॑ ईळते॒ मानु॑षी॒र्या, अ॒ग्निं मनु॑षो॒ नहु॑षो॒ वि जा॒ताः |{सौचीकोग्निः | अग्निः | त्रिष्टुप्} अ॒ग्निर्गान्ध᳚र्वीं प॒थ्या᳚मृ॒तस्या॒ऽग्नेर्गव्यू᳚तिर्घृ॒त आ निष॑त्ता ||{6/7}{8.3.15.6}{10.80.6}{10.6.12.6}{366, 917, 9637} अ॒ग्निम्¦विशः॑¦ई॒ळ॒ते॒¦मानु॑षीः¦याः¦अ॒ग्निम्¦मनु॑षः¦नहु॑षः¦वि¦जा॒ताः | |
अ॒ग्नये॒ ब्रह्म॑ ऋ॒भव॑स्ततक्षुर॒ग्निं म॒हाम॑वोचामा सुवृ॒क्तिम् |{सौचीकोग्निः | अग्निः | त्रिष्टुप्} अग्ने॒ प्राव॑ जरि॒तारं᳚ यवि॒ष्ठाऽग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ||{7/7}{8.3.15.7}{10.80.7}{10.6.12.7}{367, 917, 9638} अ॒ग्नये᳚¦ब्रह्म॑¦ऋ॒भवः॑¦त॒त॒क्षुः॒¦अ॒ग्निम्¦म॒हाम्¦अ॒वो॒चा॒म॒¦सु॒ऽवृ॒क्तिम् | |
[36] यइमाविश्वेति सप्तर्चस्य सूक्तस्य भौवनोविश्वकर्माविश्वकर्मात्रिष्टुप् द्वितीयाविराड्रूपा | |
य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी᳚दत्पि॒ता नः॑ |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्} स आ॒शिषा॒ द्रवि॑णमि॒च्छमा᳚नः प्रथम॒च्छदव॑राँ॒, आ वि॑वेश ||{1/7}{8.3.16.1}{10.81.1}{10.6.13.1}{368, 918, 9639} यः¦इ॒मा¦विश्वा᳚¦भुव॑नानि¦जुह्व॑त्¦ऋषिः॑¦होता᳚¦नि¦असी᳚दत्¦पि॒ता¦नः॒ | |
किं स्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत्स्वि॑त्क॒थासी᳚त् |{भौवनो विश्वकर्माः | विश्वकर्मा | विराड्रूपा} यतो॒ भूमिं᳚ ज॒नय᳚न् वि॒श्वक᳚र्मा॒ वि द्यामौर्णो᳚न्महि॒ना वि॒श्वच॑क्षाः ||{2/7}{8.3.16.2}{10.81.2}{10.6.13.2}{369, 918, 9640} किम्¦स्वि॒त्¦आ॒सी॒त्¦अ॒धि॒ऽस्थान᳚म्¦आ॒ऽरम्भ॑णम्¦क॒त॒मत्¦स्वि॒त्¦क॒था¦आ॒सी॒त् | |
वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो᳚मुखो वि॒श्वतो᳚बाहुरु॒त वि॒श्वत॑स्पात् |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्} सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी᳚ ज॒नय᳚न् दे॒व एकः॑ ||{3/7}{8.3.16.3}{10.81.3}{10.6.13.3}{370, 918, 9641} वि॒श्वतः॑ऽचक्षुः¦उ॒त¦वि॒श्वतः॑ऽमुखः¦वि॒श्वतः॑ऽबाहुः¦उ॒त¦वि॒श्वतः॑ऽपात् | |
किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ᳚स॒ यतो॒ द्यावा᳚पृथि॒वी नि॑ष्टत॒क्षुः |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्} मनी᳚षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ||{4/7}{8.3.16.4}{10.81.4}{10.6.13.4}{371, 918, 9642} किम्¦स्वि॒त्¦वन᳚म्¦कः¦ऊँ॒ इति॑¦सः¦वृ॒क्षः¦आ॒स॒¦यतः॑¦द्यावा᳚पृथि॒वी इति॑¦निः॒ऽत॒त॒क्षुः | |
या ते॒ धामा᳚नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्} शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒न्वं᳚ वृधा॒नः ||{5/7}{8.3.16.5}{10.81.5}{10.6.13.5}{372, 918, 9643} या¦ते॒¦धामा᳚नि¦प॒र॒माणि॑¦या¦अ॒व॒मा¦या¦म॒ध्य॒मा¦वि॒श्व॒ऽक॒र्म॒न्¦उ॒त¦इ॒मा | |
विश्व॑कर्मन्ह॒विषा᳚ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्याम् |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्} मुह्य᳚न्त्व॒न्ये, अ॒भितो॒ जना᳚स इ॒हास्माकं᳚ म॒घवा᳚ सू॒रिर॑स्तु ||{6/7}{8.3.16.6}{10.81.6}{10.6.13.6}{373, 918, 9644} विश्व॑ऽकर्मन्¦ह॒विषा᳚¦व॒वृ॒धा॒नः¦स्व॒यम्¦य॒ज॒स्व॒¦पृ॒थि॒वीम्¦उ॒त¦द्याम् | |
वा॒चस्पतिं᳚ वि॒श्वक᳚र्माणमू॒तये᳚ मनो॒जुवं॒ वाजे᳚, अ॒द्या हु॑वेम |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्} स नो॒ विश्वा᳚नि॒ हव॑नानि जोषद्वि॒श्वश᳚म्भू॒रव॑से सा॒धुक᳚र्मा ||{7/7}{8.3.16.7}{10.81.7}{10.6.13.7}{374, 918, 9645} वा॒चः¦पति᳚म्¦वि॒श्वऽक᳚र्माणम्¦ऊ॒तये᳚¦म॒नः॒ऽजुव᳚म्¦वाजे᳚¦अ॒द्य¦हु॒वे॒म॒ | |
[37] चक्षुषइति सप्तर्चस्य सूक्तस्य भौवनोविश्वकर्माविश्वकर्मात्रिष्टुप् | |
चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो᳚ घृ॒तमे᳚ने, अजन॒न्नन्न॑माने |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्} य॒देदन्ता॒, अद॑दृहन्त॒ पूर्व॒ आदिद्द्यावा᳚पृथि॒वी, अ॑प्रथेताम् ||{1/7}{8.3.17.1}{10.82.1}{10.6.14.1}{375, 919, 9646} चक्षु॑षः¦पि॒ता¦मन॑सा¦हि¦धीरः॑¦घृ॒तम्¦ए॒ने॒¦अ॒ज॒न॒त्¦नम्न॑माने॒ इति॑ | |
वि॒श्वक᳚र्मा॒ विम॑ना॒, आद्विहा᳚या धा॒ता वि॑धा॒ता प॑र॒मोत सं॒दृक् |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्} तेषा᳚मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्रा᳚ सप्तऋ॒षीन् प॒र एक॑मा॒हुः ||{2/7}{8.3.17.2}{10.82.2}{10.6.14.2}{376, 919, 9647} वि॒श्वऽक᳚र्मा¦विऽम॑नाः¦आत्¦विऽहा᳚याः¦धा॒ता¦वि॒ऽधा॒ता¦प॒र॒मा¦उ॒त¦स॒म्ऽदृक् | |
यो नः॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ता धामा᳚नि॒ वेद॒ भुव॑नानि॒ विश्वा᳚ |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्} यो दे॒वानां᳚ नाम॒धा, एक॑ ए॒व तं स᳚म्प्र॒श्नं भुव॑ना यन्त्य॒न्या ||{3/7}{8.3.17.3}{10.82.3}{10.6.14.3}{377, 919, 9648} यः¦नः॒¦पि॒ता¦ज॒नि॒ता¦यः¦वि॒ऽधा॒ता¦धामा᳚नि¦वेद॑¦भुव॑नानि¦विश्वा᳚ | |
त आय॑जन्त॒ द्रवि॑णं॒ सम॑स्मा॒ ऋष॑यः॒ पूर्वे᳚ जरि॒तारो॒ न भू॒ना |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्} अ॒सूर्ते॒ सूर्ते॒ रज॑सि निष॒त्ते ये भू॒तानि॑ स॒मकृ᳚ण्वन्नि॒मानि॑ ||{4/7}{8.3.17.4}{10.82.4}{10.6.14.4}{378, 919, 9649} ते¦आ¦अ॒य॒ज॒न्त॒¦द्रवि॑णम्¦सम्¦अ॒स्मै॒¦ऋष॑यः¦पूर्वे᳚¦ज॒रि॒तारः॑¦न¦भू॒ना | |
प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्यदस्ति॑ |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्} कं स्वि॒द्गर्भं᳚ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मप॑श्यन्त॒ विश्वे᳚ ||{5/7}{8.3.17.5}{10.82.5}{10.6.14.5}{379, 919, 9650} प॒रः¦दि॒वा¦प॒रः¦ए॒ना¦पृ॒थि॒व्या¦प॒रः¦दे॒वेभिः॑¦असु॑रैः¦यत्¦अस्ति॑ | |
तमिद्गर्भं᳚ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे᳚ |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्} अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒ यस्मि॒न् विश्वा᳚नि॒ भुव॑नानि त॒स्थुः ||{6/7}{8.3.17.6}{10.82.6}{10.6.14.6}{380, 919, 9651} तम्¦इत्¦गर्भ᳚म्¦प्र॒थ॒मम्¦द॒ध्रे॒¦आपः॑¦यत्र॑¦दे॒वाः¦स॒म्।आग॑च्छन्त¦विश्वे᳚ | |
न तं वि॑दाथ॒ य इ॒मा ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रं बभूव |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्} नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या᳚ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति ||{7/7}{8.3.17.7}{10.82.7}{10.6.14.7}{381, 919, 9652} न¦तम्¦वि॒दा॒थ॒¦यः¦इ॒मा¦ज॒जान॑¦अ॒न्यत्¦यु॒ष्माक᳚म्¦अन्त॑रम्¦ब॒भू॒व॒ | |
[38] यस्तेमन्यविति सप्तर्चस्य सूक्तस्य तापसो मन्युर्मन्युस्त्रिष्टुबाद्याजगती | |
यस्ते᳚ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक् |{तापसो मन्युः | मन्युः | जगती} सा॒ह्याम॒ दास॒मार्यं॒ त्वया᳚ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ||{1/7}{8.3.18.1}{10.83.1}{10.6.15.1}{382, 920, 9653} यः¦ते॒¦म॒न्यो॒ इति॑¦अवि॑धत्¦व॒ज्र॒¦सा॒य॒क॒¦सहः॑¦ओजः॑¦पु॒ष्य॒ति॒¦विश्व᳚म्¦आ॒नु॒षक् | |
म॒न्युरिन्द्रो᳚ म॒न्युरे॒वास॑ दे॒वो म॒न्युर्होता॒ वरु॑णो जा॒तवे᳚दाः |{तापसो मन्युः | मन्युः | त्रिष्टुप्} म॒न्युं विश॑ ईळते॒ मानु॑षी॒र्याः पा॒हि नो᳚ मन्यो॒ तप॑सा स॒जोषाः᳚ ||{2/7}{8.3.18.2}{10.83.2}{10.6.15.2}{383, 920, 9654} म॒न्युः¦इन्द्रः॑¦म॒न्युः¦ए॒व¦आ॒स॒¦दे॒वः¦म॒न्युः¦होता᳚¦वरु॑णः¦जा॒तऽवे᳚दाः | |
अ॒भी᳚हि मन्यो त॒वस॒स्तवी᳚या॒न् तप॑सा यु॒जा वि ज॑हि॒ शत्रू॑न् |{तापसो मन्युः | मन्युः | त्रिष्टुप्} अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ||{3/7}{8.3.18.3}{10.83.3}{10.6.15.3}{384, 920, 9655} अ॒भि¦इ॒हि॒¦म॒न्यो॒ इति॑¦त॒वसः॑¦तवी᳚यान्¦तप॑सा¦यु॒जा¦वि¦ज॒हि॒¦शत्रू॑न् | |
त्वं हि म᳚न्यो, अ॒भिभू᳚त्योजाः स्वय॒म्भूर्भामो᳚, अभिमातिषा॒हः |{तापसो मन्युः | मन्युः | त्रिष्टुप्} वि॒श्वच॑र्षणिः॒ सहु॑रिः॒ सहा᳚वान॒स्मास्वोजः॒ पृत॑नासु धेहि ||{4/7}{8.3.18.4}{10.83.4}{10.6.15.4}{385, 920, 9656} त्वम्¦हि¦म॒न्यो॒ इति॑¦अ॒भिभू᳚तिऽओजाः¦स्व॒य॒म्ऽभूः¦भामः॑¦अ॒भि॒मा॒ति॒ऽस॒हः | |
अ॒भा॒गः सन्नप॒ परे᳚तो, अस्मि॒ तव॒ क्रत्वा᳚ तवि॒षस्य॑ प्रचेतः |{तापसो मन्युः | मन्युः | त्रिष्टुप्} तं त्वा᳚ मन्यो, अक्र॒तुर्जि॑हीळा॒हं स्वा त॒नूर्ब॑ल॒देया᳚य॒ मेहि॑ ||{5/7}{8.3.18.5}{10.83.5}{10.6.15.5}{386, 920, 9657} अ॒भा॒गः¦सन्¦अप॑¦परा᳚ऽइतः¦अ॒स्मि॒¦तव॑¦क्रत्वा᳚¦त॒वि॒षस्य॑¦प्र॒चे॒त॒ इति॑ प्रऽचेतः | |
अ॒यं ते᳚, अ॒स्म्युप॒ मेह्य॒र्वाङ् प्र॑तीची॒नः स॑हुरे विश्वधायः |{तापसो मन्युः | मन्युः | त्रिष्टुप्} मन्यो᳚ वज्रिन्न॒भि मामा व॑वृत्स्व॒ हना᳚व॒ दस्यूँ᳚रु॒त बो᳚ध्या॒पेः ||{6/7}{8.3.18.6}{10.83.6}{10.6.15.6}{387, 920, 9658} अ॒यम्¦ते॒¦अ॒स्मि॒¦उप॑¦मा॒¦आ¦इ॒हि॒¦अ॒र्वाङ्¦प्र॒ती॒ची॒नः¦स॒हु॒रे॒¦वि॒श्व॒ऽधा॒यः॒ | |
अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ मेऽधा᳚ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ |{तापसो मन्युः | मन्युः | त्रिष्टुप्} जु॒होमि॑ ते ध॒रुणं॒ मध्वो॒, अग्र॑मु॒भा, उ॑पां॒शु प्र॑थ॒मा पि॑बाव ||{7/7}{8.3.18.7}{10.83.7}{10.6.15.7}{388, 920, 9659} अ॒भि¦प्र¦इ॒हि॒¦द॒क्षि॒ण॒तः¦भ॒व॒¦मे॒¦अध॑¦वृ॒त्राणि॑¦ज॒ङ्घ॒ना॒व॒¦भूरि॑ | |
[39] त्वयामन्यविति सप्तर्चस्य सूक्तस्य तापसो मन्युर्मन्युर्जगती आद्यास्तिस्रस्त्रिष्टुभः | |
त्वया᳚ मन्यो स॒रथ॑मारु॒जन्तो॒ हर्ष॑माणासो धृषि॒ता म॑रुत्वः |{तापसो मन्युः | मन्युः | त्रिष्टुप्} ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा᳚ना, अ॒भि प्र य᳚न्तु॒ नरो᳚, अ॒ग्निरू᳚पाः ||{1/7}{8.3.19.1}{10.84.1}{10.6.16.1}{389, 921, 9660} त्वया᳚¦म॒न्यो॒ इति॑¦स॒ऽरथ᳚म्¦आ॒ऽरु॒जन्तः॑¦हर्ष॑मानासः¦धृ॒षि॒ताः¦म॒रु॒त्वः॒ | |
अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व सेना॒नीर्नः॑ सहुरे हू॒त ए᳚धि |{तापसो मन्युः | मन्युः | त्रिष्टुप्} ह॒त्वाय॒ शत्रू॒न् वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा᳚नो॒ वि मृधो᳚ नुदस्व ||{2/7}{8.3.19.2}{10.84.2}{10.6.16.2}{390, 921, 9661} अ॒ग्निःऽइ᳚व¦म॒न्यो॒ इति॑¦त्वि॒षि॒तः¦स॒ह॒स्व॒¦से॒ना॒ऽनीः¦नः॒¦स॒हु॒रे॒¦हू॒तः¦ए॒धि॒ | |
सह॑स्व मन्यो, अ॒भिमा᳚तिम॒स्मे रु॒जन् मृ॒णन् प्र॑मृ॒णन् प्रेहि॒ शत्रू॑न् |{तापसो मन्युः | मन्युः | त्रिष्टुप्} उ॒ग्रं ते॒ पाजो᳚ न॒न्वा रु॑रुध्रे व॒शी वशं᳚ नयस एकज॒ त्वम् ||{3/7}{8.3.19.3}{10.84.3}{10.6.16.3}{391, 921, 9662} सह॑स्व¦म॒न्यो॒ इति॑¦अ॒भिऽमा᳚तिम्¦अ॒स्मे इति॑¦रु॒जन्¦मृ॒णन्¦प्र॒ऽमृ॒णन्¦प्र¦इ॒हि॒¦शत्रू॑न् | |
एको᳚ बहू॒नाम॑सि मन्यवीळि॒तो विशं᳚विशं यु॒धये॒ सं शि॑शाधि |{तापसो मन्युः | मन्युः | जगती} अकृ॑त्तरु॒क्त्वया᳚ यु॒जा व॒यं द्यु॒मन्तं॒ घोषं᳚ विज॒याय॑ कृण्महे ||{4/7}{8.3.19.4}{10.84.4}{10.6.16.4}{392, 921, 9663} एकः॑¦ब॒हू॒नाम्¦अ॒सि॒¦म॒न्यो॒ इति॑¦ई॒ळि॒तः¦विश᳚म्ऽविशम्¦यु॒धये᳚¦सम्¦शि॒शा॒धि॒ | |
वि॒जे॒ष॒कृदिन्द्र॑ इवानवब्र॒वो॒३॑(ओ॒)ऽस्माकं᳚ मन्यो, अधि॒पा भ॑वे॒ह |{तापसो मन्युः | मन्युः | जगती} प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑ ||{5/7}{8.3.19.5}{10.84.5}{10.6.16.5}{393, 921, 9664} वि॒जे॒ष॒ऽकृत्¦इन्द्रः॑ऽइव¦अ॒न॒व॒ऽब्र॒वः¦अ॒स्माक᳚म्¦म॒न्यो॒ इति॑¦अ॒धि॒ऽपाः¦भ॒व॒¦इ॒ह | |
आभू᳚त्या सह॒जा व॑ज्र सायक॒ सहो᳚ बिभर्ष्यभिभूत॒ उत्त॑रम् |{तापसो मन्युः | मन्युः | जगती} क्रत्वा᳚ नो मन्यो स॒ह मे॒द्ये᳚धि महाध॒नस्य॑ पुरुहूत सं॒सृजि॑ ||{6/7}{8.3.19.6}{10.84.6}{10.6.16.6}{394, 921, 9665} आऽभू᳚त्या¦स॒ह॒ऽजाः¦व॒ज्र॒¦सा॒य॒क॒¦सहः॑¦बि॒भ॒र्षि॒¦अ॒भि॒ऽभू॒ते॒¦उत्ऽत॑रम् | |
संसृ॑ष्टं॒ धन॑मु॒भयं᳚ स॒माकृ॑तम॒स्मभ्यं᳚ दत्तां॒ वरु॑णश्च म॒न्युः |{तापसो मन्युः | मन्युः | जगती} भियं॒ दधा᳚ना॒ हृद॑येषु॒ शत्र॑वः॒ परा᳚जितासो॒, अप॒ नि ल॑यन्ताम् ||{7/7}{8.3.19.7}{10.84.7}{10.6.16.7}{395, 921, 9666} सम्ऽसृ॑ष्टम्¦धन᳚म्¦उ॒भय᳚म्¦स॒म्ऽआकृ॑तम्¦अ॒स्मभ्य᳚म्¦द॒त्ता॒म्¦वरु॑णः¦च॒¦म॒न्युः | |
[40] सत्येनेति सप्तचत्वारिंशदृचस्य सूक्तस्य सूर्यासावित्रीऋषिका पंचानांसोमोदेवता ततएकादशानां सूर्याविवाहः सप्तदश्यादेवाः अष्टादश्याः सोमार्कौ एकोनविंश्याश्चंद्रमाः ततोनवानांनृणां विवाह मंत्राआशीः प्रायाः ततोद्वयोर्वधूर्वासोदेवता एकत्रिंश्यायक्ष्महा शिष्टानामृचसूर्यांसावित्री अनुष्टुप्चतुर्दशीएकोनविंश्यादि तिस्रस्रयोविंशी चतुर्विंशीषड्विंशी षट्त्रिंशी सप्तत्रिंशी चतुश्चत्वारिंश्यश्चत्रिष्टुभः अष्टादशी सप्तविंशीत्रिचत्वारिंश्यश्च जगत्यः चतुस्त्रिंश्युरोबृहती | |
स॒त्येनोत्त॑भिता॒ भूमिः॒ सूर्ये॒णोत्त॑भिता॒ द्यौः |{सूर्या सावित्री | सोमः | अनुष्टुप्} ऋ॒तेना᳚दि॒त्यास्ति॑ष्ठन्ति दि॒वि सोमो॒, अधि॑ श्रि॒तः ||{1/47}{8.3.20.1}{10.85.1}{10.7.1.1}{396, 922, 9667} स॒त्येन॑¦उत्त॑भिता¦भूमिः॑¦सूर्ये᳚ण¦उत्त॑भिता¦द्यौः | ऋ॒तेन॑¦आ॒दि॒त्याः¦ति॒ष्ठ॒न्ति॒¦दि॒वि¦सोमः॑¦अधि॑¦श्रि॒तः || |
सोमे᳚नादि॒त्या ब॒लिनः॒ सोमे᳚न पृथि॒वी म॒ही |{सूर्या सावित्री | सोमः | अनुष्टुप्} अथो॒ नक्ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आहि॑तः ||{2/47}{8.3.20.2}{10.85.2}{10.7.1.2}{397, 922, 9668} सोमे᳚न¦आ॒दि॒त्याः¦ब॒लिनः॑¦सोमे᳚न¦पृ॒थि॒वी¦म॒ही | अथो॒ इति॑¦नक्ष॑त्राणाम्¦ए॒षाम्¦उ॒पऽस्थे᳚¦सोमः॑¦आऽहि॑तः || |
सोमं᳚ मन्यते पपि॒वान् यत् स᳚म्पिं॒षन्त्योष॑धिम् |{सूर्या सावित्री | सोमः | अनुष्टुप्} सोमं॒ यं ब्र॒ह्माणो᳚ वि॒दुर्न तस्या᳚श्नाति॒ कश्च॒न ||{3/47}{8.3.20.3}{10.85.3}{10.7.1.3}{398, 922, 9669} सोम᳚म्¦म॒न्य॒ते॒¦प॒पि॒ऽवान्¦यत्¦स॒म्ऽपिं॒षन्ति॑¦ओष॑धिम् | सोम᳚म्¦यम्¦ब्र॒ह्माणः॑¦वि॒दुः¦न¦तस्य॑¦अ॒श्ना॒ति॒¦कः¦च॒न || |
आ॒च्छद्वि॑धानैर्गुपि॒तो बार्ह॑तैः सोम रक्षि॒तः |{सूर्या सावित्री | सोमः | अनुष्टुप्} ग्राव्णा॒मिच्छृ॒ण्वन्ति॑ष्ठसि॒ न ते᳚, अश्नाति॒ पार्थि॑वः ||{4/47}{8.3.20.4}{10.85.4}{10.7.1.4}{399, 922, 9670} आ॒च्छत्ऽवि॑धानैः¦गु॒पि॒तः¦बार्ह॑तैः¦सो॒म॒¦र॒क्षि॒तः | ग्राव्णा᳚म्¦इत्¦शृ॒ण्वन्¦ति॒ष्ठ॒सि॒¦न¦ते॒¦अ॒श्ना॒ति॒¦पार्थि॑वः || |
यत् त्वा᳚ देव प्र॒पिब᳚न्ति॒ तत॒ आ प्या᳚यसे॒ पुनः॑ |{सूर्या सावित्री | सोमः | अनुष्टुप्} वा॒युः सोम॑स्य रक्षि॒ता समा᳚नां॒ मास॒ आकृ॑तिः ||{5/47}{8.3.20.5}{10.85.5}{10.7.1.5}{400, 922, 9671} यत्¦त्वा॒¦दे॒व॒¦प्र॒ऽपिब᳚न्ति¦ततः॑¦आ¦प्या॒य॒से॒¦पुन॒रिति॑ | वा॒युः¦सोम॑स्य¦र॒क्षि॒ता¦समा᳚नाम्¦मासः॑¦आऽकृ॑तिः || |
रैभ्या᳚सीदनु॒देयी᳚ नाराशं॒सी न्योच॑नी |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्} सू॒र्याया᳚ भ॒द्रमिद्वासो॒ गाथ॑यैति॒ परि॑ष्कृतम् ||{6/47}{8.3.21.1}{10.85.6}{10.7.1.6}{401, 922, 9672} रैभी᳚¦आ॒सी॒त्¦अ॒नु॒ऽदेयी᳚¦ना॒रा॒शं॒सी¦नि॒ऽओच॑नी | सू॒र्यायाः᳚¦भ॒द्रम्¦इत्¦वासः॑¦गाथ॑या¦ए॒ति॒¦परि॑ऽकृतम् || |
चित्ति॑रा, उप॒बर्ह॑णं॒ चक्षु॑रा, अ॒भ्यञ्ज॑नम् |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्} द्यौर्भूमिः॒ कोश॑ आसी॒द् यदया᳚त् सू॒र्या पति᳚म् ||{7/47}{8.3.21.2}{10.85.7}{10.7.1.7}{402, 922, 9673} चित्तिः॑¦आः॒¦उ॒प॒ऽबर्ह॑णम्¦चक्षुः॑¦आः॒¦अ॒भि॒।आंज॑नम् | द्यौः¦भूमिः॑¦कोशः॑¦आ॒सी॒त्¦यत्¦अया᳚त्¦सू॒र्या¦पति᳚म् || |
स्तोमा᳚, आसन् प्रति॒धयः॑ कु॒रीरं॒ छन्द॑ ओप॒शः |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्} सू॒र्याया᳚, अ॒श्विना᳚ व॒राऽग्निरा᳚सीत् पुरोग॒वः ||{8/47}{8.3.21.3}{10.85.8}{10.7.1.8}{403, 922, 9674} स्तोमाः᳚¦आ॒स॒न्¦प्र॒ति॒ऽधयः॑¦कु॒रीर᳚म्¦छन्दः॑¦ओ॒प॒शः | सू॒र्यायाः᳚¦अ॒श्विना᳚¦व॒रा¦अ॒ग्निः¦आ॒सी॒त्¦पु॒रः॒ऽग॒वः || |
सोमो᳚ वधू॒युर॑भवद॒श्विना᳚स्तामु॒भा व॒रा |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्} सू॒र्यां यत् पत्ये॒ शंस᳚न्तीं॒ मन॑सा सवि॒ताद॑दात् ||{9/47}{8.3.21.4}{10.85.9}{10.7.1.9}{404, 922, 9675} सोमः॑¦व॒धू॒ऽयुः¦अ॒भ॒व॒त्¦अ॒श्विना᳚¦आ॒स्ता॒म्¦उ॒भा¦व॒रा | सू॒र्याम्¦यत्¦पत्ये᳚¦शंस᳚न्तीम्¦मन॑सा¦स॒वि॒ता¦अद॑दात् || |
मनो᳚, अस्या॒, अन॑ आसी॒द् द्यौरा᳚सीदु॒त च्छ॒दिः |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्} शु॒क्राव॑न॒ड्वाहा᳚वास्तां॒ यदया᳚त् सू॒र्या गृ॒हम् ||{10/47}{8.3.21.5}{10.85.10}{10.7.1.10}{405, 922, 9676} मनः॑¦अ॒स्याः॒¦अनः॑¦आ॒सी॒त्¦द्यौः¦आ॒सी॒त्¦उ॒त¦छ॒दिः | शु॒क्रौ¦अ॒न॒ड्वाहौ᳚¦आ॒स्ता॒म्¦यत्¦अया᳚त्¦सू॒र्या¦गृ॒हम् || |
ऋ॒क्सा॒माभ्या᳚म॒भिहि॑तौ॒ गावौ᳚ ते साम॒नावि॑तः |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्} श्रोत्रं᳚ ते च॒क्रे, आ᳚स्तां दि॒वि पन्था᳚श्चराचा॒रः ||{11/47}{8.3.22.1}{10.85.11}{10.7.1.11}{406, 922, 9677} ऋ॒क्ऽसा॒माभ्या᳚म्¦अ॒भिऽहि॑तौ¦गावौ᳚¦ते॒¦सा॒म॒नौ¦इ॒तः॒ | श्रोत्र᳚म्¦ते॒¦च॒क्रे इति॑¦आ॒स्ता॒म्¦दि॒वि¦पन्थाः᳚¦च॒रा॒च॒रः || |
शुची᳚ ते च॒क्रे या॒त्या व्या॒नो, अक्ष॒ आह॑तः |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्} अनो᳚ मन॒स्मयं᳚ सू॒र्याऽऽरो᳚हत् प्रय॒ती पति᳚म् ||{12/47}{8.3.22.2}{10.85.12}{10.7.1.12}{407, 922, 9678} शुची᳚¦ते॒¦च॒क्रे इति॑¦या॒त्याः¦वि॒ऽआ॒नः¦अक्षः॑¦आऽह॑तः | अनः॑¦म॒न॒स्मय᳚म्¦सू॒र्या¦आ¦अ॒रो॒ह॒त्¦प्र॒ऽय॒ती¦पति᳚म् || |
सू॒र्याया᳚ वह॒तुः प्रागा᳚त् सवि॒ता यम॒वासृ॑जत् |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्} अ॒घासु॑ हन्यन्ते॒ गावोऽर्जु᳚न्योः॒ पर्यु॑ह्यते ||{13/47}{8.3.22.3}{10.85.13}{10.7.1.13}{408, 922, 9679} सू॒र्यायाः᳚¦व॒ह॒तुः¦प्र¦अ॒गा॒त्¦स॒वि॒ता¦यम्¦अ॒व॒।आसृ॑जत् | अ॒घासु॑¦ह॒न्य॒न्ते॒¦गावः॑¦अर्जु᳚न्योः¦परि॑¦उ॒ह्य॒ते॒ || |
यद॑श्विना पृ॒च्छमा᳚ना॒वया᳚तं त्रिच॒क्रेण॑ वह॒तुं सू॒र्यायाः᳚ |{सूर्या सावित्री | सूर्याविवाहः | त्रिष्टुप्} विश्वे᳚ दे॒वा, अनु॒ तद्वा᳚मजानन् पु॒त्रः पि॒तरा᳚ववृणीत पू॒षा ||{14/47}{8.3.22.4}{10.85.14}{10.7.1.14}{409, 922, 9680} यत्¦अ॒श्वि॒ना॒¦पृ॒च्छमा᳚नौ¦अया᳚तम्¦त्रि॒ऽच॒क्रेण॑¦व॒ह॒तुम्¦सू॒र्यायाः᳚ | |
यदया᳚तं शुभस्पती वरे॒यं सू॒र्यामुप॑ |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्} क्वैकं᳚ च॒क्रं वा᳚मासी॒त् क्व॑ दे॒ष्ट्राय॑ तस्थथुः ||{15/47}{8.3.22.5}{10.85.15}{10.7.1.15}{410, 922, 9681} यत्¦अया᳚तम्¦शु॒भः॒¦प॒ती॒ इति॑¦व॒रे॒ऽयम्¦सू॒र्याम्¦उप॑ | क्व॑¦एक᳚म्¦च॒क्रम्¦वा॒म्¦आ॒सी॒त्¦क्व॑¦दे॒ष्ट्राय॑¦त॒स्थ॒थुः॒ || |
द्वे ते᳚ च॒क्रे सू᳚र्ये ब्र॒ह्माण॑ ऋतु॒था वि॑दुः |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्} अथैकं᳚ च॒क्रं यद्गुहा॒ तद॑द्धा॒तय॒ इद्वि॑दुः ||{16/47}{8.3.23.1}{10.85.16}{10.7.1.16}{411, 922, 9682} द्वे इति॑¦ते॒¦च॒क्रे इति॑¦सू॒र्ये॒¦ब्र॒ह्माणः॑¦ऋ॒तु॒ऽथा¦वि॒दुः॒ | अथ॑¦एक᳚म्¦च॒क्रम्¦यत्¦गुहा᳚¦तत्¦अ॒द्धा॒तयः॑¦इत्¦वि॒दुः॒ || |
सू॒र्यायै᳚ दे॒वेभ्यो᳚ मि॒त्राय॒ वरु॑णाय च |{सूर्या सावित्री | देवाः | अनुष्टुप्} ये भू॒तस्य॒ प्रचे᳚तस इ॒दं तेभ्यो᳚ऽकरं॒ नमः॑ ||{17/47}{8.3.23.2}{10.85.17}{10.7.1.17}{412, 922, 9683} सू॒र्यायै᳚¦दे॒वेभ्यः॑¦मि॒त्राय॑¦वरु॑णाय¦च॒ | ये¦भू॒तस्य॑¦प्रऽचे᳚तसः¦इ॒दम्¦तेभ्यः॑¦अ॒क॒र॒म्¦नमः॑ || |
पू॒र्वा॒प॒रं च॑रतो मा॒ययै॒तौ शिशू॒ क्रीळ᳚न्तौ॒ परि॑ यातो, अध्व॒रम् |{सूर्या सावित्री | सोमार्कौ | जगती} विश्वा᳚न्य॒न्यो भुव॑नाभि॒चष्ट॑ ऋ॒तूँर॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ ||{18/47}{8.3.23.3}{10.85.18}{10.7.1.18}{413, 922, 9684} पू॒र्व॒।आ॒प॒रम्¦च॒र॒तः॒¦मा॒यया᳚¦ए॒तौ¦शिशू॒ इति॑¦क्रीळ᳚न्तौ¦परि॑¦या॒तः॒¦अ॒ध्व॒रम् | |
नवो᳚नवो भवति॒ जाय॑मा॒नोऽह्नां᳚ के॒तुरु॒षसा᳚मे॒त्यग्र᳚म् |{सूर्या सावित्री | चन्द्रमाः | त्रिष्टुप्} भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन् प्र च॒न्द्रमा᳚स्तिरते दी॒र्घमायुः॑ ||{19/47}{8.3.23.4}{10.85.19}{10.7.1.19}{414, 922, 9685} नवः॑ऽनवः¦भ॒व॒ति॒¦जाय॑मानः¦अह्ना᳚म्¦के॒तुः¦उ॒षसा᳚म्¦ए॒ति॒¦अग्र᳚म् | |
सु॒किं॒शु॒कं श॑ल्म॒लिं वि॒श्वरू᳚पं॒ हिर᳚ण्यवर्णं सु॒वृतं᳚ सुच॒क्रम् |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्} आ रो᳚ह सूर्ये, अ॒मृत॑स्य लो॒कं स्यो॒नं पत्ये᳚ वह॒तुं कृ॑णुष्व ||{20/47}{8.3.23.5}{10.85.20}{10.7.1.20}{415, 922, 9686} सु॒ऽकिं॒शु॒कम्¦श॒ल्म॒लिम्¦वि॒श्वऽरू᳚पम्¦हिर᳚ण्यऽवर्णम्¦सु॒ऽवृत᳚म्¦सु॒ऽच॒क्रम् | |
उदी॒र्ष्वातः॒ पति॑वती॒ ह्ये॒३॑(ए॒)षा वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिरी᳚ळे |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्} अ॒न्यामि॑च्छ पितृ॒षदं॒ व्य॑क्तां॒ स ते᳚ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ||{21/47}{8.3.24.1}{10.85.21}{10.7.1.21}{416, 922, 9687} उत्¦ई॒र्ष्व॒¦अतः॑¦पति॑ऽवती¦हि¦ए॒षा¦वि॒श्वऽव॑सुम्¦नम॑सा¦गीः॒ऽभिः¦ई॒ळे॒ | |
उदी॒र्ष्वातो᳚ विश्वावसो॒ नम॑सेळा महे त्वा |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | अनुष्टुप्} अ॒न्यामि॑च्छ प्रफ॒र्व्य१॑(अं॒) सं जा॒यां पत्या᳚ सृज ||{22/47}{8.3.24.2}{10.85.22}{10.7.1.22}{417, 922, 9688} उत्¦ई॒र्ष्व॒¦अतः॑¦वि॒श्व॒व॒सो॒ इति॑ विश्वऽवसो¦नम॑सा¦ई॒ळा॒म॒हे॒¦त्वा | अ॒न्याम्¦इ॒च्छ॒¦प्र॒ऽफ॒र्व्य᳚म्¦सम्¦जा॒याम्¦पत्या᳚¦सृ॒ज॒ || |
अ॒नृ॒क्ष॒रा, ऋ॒जवः॑ सन्तु॒ पन्था॒ येभिः॒ सखा᳚यो॒ यन्ति॑ नो वरे॒यम् |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्} सम᳚र्य॒मा सं भगो᳚ नो निनीया॒त् सं जा᳚स्प॒त्यं सु॒यम॑मस्तु देवाः ||{23/47}{8.3.24.3}{10.85.23}{10.7.1.23}{418, 922, 9689} अ॒नृ॒क्ष॒राः¦ऋ॒जवः॑¦स॒न्तु॒¦पन्थाः᳚¦येभिः॑¦सखा᳚यः¦यन्ति॑¦नः॒¦व॒रे॒ऽयम् | |
प्र त्वा᳚ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द् येन॒ त्वाब॑ध्नात् सवि॒ता सु॒शेवः॑ |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्} ऋ॒तस्य॒ योनौ᳚ सुकृ॒तस्य॑ लो॒केऽरि॑ष्टां त्वा स॒ह पत्या᳚ दधामि ||{24/47}{8.3.24.4}{10.85.24}{10.7.1.24}{419, 922, 9690} प्र¦त्वा॒¦मुं॒चा॒मि॒¦वरु॑णस्य¦पाशा᳚त्¦येन॑¦त्वा॒¦अब॑ध्नात्¦स॒वि॒ता¦सु॒ऽशेवः॑ | |
प्रेतो मु॒ञ्चामि॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करम् |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | अनुष्टुप्} यथे॒यमि᳚न्द्र मीढ्वः सुपु॒त्रा सु॒भगास॑ति ||{25/47}{8.3.24.5}{10.85.25}{10.7.1.25}{420, 922, 9691} प्र¦इ॒तः¦मुं॒चामि॑¦न¦अ॒मुतः॑¦सु॒ऽब॒द्धाम्¦अ॒मुतः॑¦क॒र॒म् | यथा᳚¦इ॒यम्¦इ॒न्द्र॒¦मी॒ढ्वः॒¦सु॒ऽपु॒त्रा¦सु॒ऽभगा᳚¦अस॑ति || |
पू॒षा त्वे॒तो न॑यतु हस्त॒गृह्या॒श्विना᳚ त्वा॒ प्र व॑हतां॒ रथे᳚न |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्} गृ॒हान् ग॑च्छ गृ॒हप॑त्नी॒ यथासो᳚ व॒शिनी॒ त्वं वि॒दथ॒मा व॑दासि ||{26/47}{8.3.25.1}{10.85.26}{10.7.1.26}{421, 922, 9692} पू॒षा¦त्वा॒¦इ॒तः¦न॒य॒तु॒¦ह॒स्त॒ऽगृह्य॑¦अ॒श्विना᳚¦त्वा॒¦प्र¦व॒ह॒ता॒म्¦रथे᳚न | |
इ॒ह प्रि॒यं प्र॒जया᳚ ते॒ समृ॑ध्यताम॒स्मिन् गृ॒हे गार्ह॑पत्याय जागृहि |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्} ए॒ना पत्या᳚ त॒न्व१॑(अं॒) सं सृ॑ज॒स्वाऽधा॒ जिव्री᳚ वि॒दथ॒मा व॑दाथः ||{27/47}{8.3.25.2}{10.85.27}{10.7.1.27}{422, 922, 9693} इ॒ह¦प्रि॒यम्¦प्र॒ऽजया᳚¦ते॒¦सम्¦ऋ॒ध्य॒ता॒म्¦अ॒स्मिन्¦गृ॒हे¦गार्ह॑ऽपत्याय¦जा॒गृ॒हि॒ | |
नी॒ल॒लो॒हि॒तं भ॑वति कृ॒त्यास॒क्तिर्व्य॑ज्यते |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | अनुष्टुप्} एध᳚न्ते, अस्या ज्ञा॒तयः॒ पति॑र्ब॒न्धेषु॑ बध्यते ||{28/47}{8.3.25.3}{10.85.28}{10.7.1.28}{423, 922, 9694} नी॒ल॒ऽलो॒हि॒तम्¦भ॒व॒ति॒¦कृ॒त्या¦आ॒स॒क्तिः¦वि¦अ॒ज्य॒ते॒ | एध᳚न्ते¦अ॒स्याः॒¦ज्ञा॒तयः॑¦पतिः॑¦ब॒न्धेषु॑¦ब॒ध्य॒ते॒ || |
परा᳚ देहि शामु॒ल्यं᳚ ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑ |{सूर्या सावित्री | धूर्वासः | अनुष्टुप्} कृ॒त्यैषा प॒द्वती᳚ भू॒त्व्या जा॒या वि॑शते॒ पति᳚म् ||{29/47}{8.3.25.4}{10.85.29}{10.7.1.29}{424, 922, 9695} परा᳚¦दे॒हि॒¦शा॒मु॒ल्य᳚म्¦ब्र॒ह्मऽभ्यः॑¦वि¦भ॒ज॒¦वसु॑ | कृ॒त्या¦ए॒षा¦प॒त्ऽवती᳚¦भू॒त्वी¦आ¦जा॒या¦वि॒श॒ते॒¦पति᳚म् || |
अ॒श्री॒रा त॒नूर्भ॑वति॒ रुश॑ती पा॒पया᳚मु॒या |{सूर्या सावित्री | धूर्वासः | अनुष्टुप्} पति॒र्यद्व॒ध्वो॒३॑(ओ॒) वास॑सा॒ स्वमङ्ग॑मभि॒धित्स॑ते ||{30/47}{8.3.25.5}{10.85.30}{10.7.1.30}{425, 922, 9696} अ॒श्री॒रा¦त॒नूः¦भ॒व॒ति॒¦रुश॑ती¦पा॒पया᳚¦अ॒मु॒या | पतिः॑¦यत्¦व॒ध्वः॑¦वास॑सा¦स्वम्¦अङ्ग᳚म्¦अ॒भि॒ऽधित्स॑ते || |
ये व॒ध्व॑श्च॒न्द्रं व॑ह॒तुं यक्ष्मा॒ यन्ति॒ जना॒दनु॑ |{सूर्या सावित्री | यायक्ष्महा | अनुष्टुप्} पुन॒स्तान् य॒ज्ञिया᳚ दे॒वा नय᳚न्तु॒ यत॒ आग॑ताः ||{31/47}{8.3.26.1}{10.85.31}{10.7.1.31}{426, 922, 9697} ये¦व॒ध्वः॑¦च॒न्द्रम्¦व॒ह॒तुम्¦यक्ष्माः᳚¦यन्ति॑¦जना᳚त्¦अनु॑ | पुन॒रिति॑¦तान्¦य॒ज्ञियाः᳚¦दे॒वाः¦नय᳚न्तु¦यतः॑¦आऽग॑ताः || |
मा वि॑दन् परिप॒न्थिनो॒ य आ॒सीद᳚न्ति॒ दम्प॑ती |{सूर्या सावित्री | सूर्या | अनुष्टुप्} सु॒गेभि॑र्दु॒र्गमती᳚ता॒मप॑ द्रा॒न्त्वरा᳚तयः ||{32/47}{8.3.26.2}{10.85.32}{10.7.1.32}{427, 922, 9698} मा¦वि॒द॒न्¦प॒रि॒ऽप॒न्थिनः॑¦ये¦आ॒ऽसीद᳚न्ति¦दंप॑ती॒ इति॒ दम्ऽप॑ती | सु॒ऽगेभिः॑¦दुः॒ऽगम्¦अति॑¦इ॒ता॒म्¦अप॑¦द्रा॒न्तु॒¦अरा᳚तयः || |
सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒मां स॒मेत॒ पश्य॑त |{सूर्या सावित्री | सूर्या | अनुष्टुप्} सौभा᳚ग्यमस्यै द॒त् त्वायाऽथास्तं॒ वि परे᳚तन ||{33/47}{8.3.26.3}{10.85.33}{10.7.1.33}{428, 922, 9699} सु॒ऽम॒ङ्ग॒लीः¦इ॒यम्¦व॒धूः¦इ॒माम्¦स॒म्ऽएत॑¦पश्य॑त | सौभा᳚ग्यम्¦अ॒स्यै॒¦द॒त् त्वाय॑¦अथ॑¦अस्त᳚म्¦वि¦परा᳚¦इ॒त॒न॒ || |
तृ॒ष्टमे॒तत् कटु॑कमे॒तद॑पा॒ष्ठव॑द्वि॒षव॒न्नैतदत्त॑वे |{सूर्या सावित्री | सूर्या | बृहती} सू॒र्यां यो ब्र॒ह्मा वि॒द्यात् स इद्वाधू᳚यमर्हति ||{34/47}{8.3.26.4}{10.85.34}{10.7.1.34}{429, 922, 9700} तृ॒ष्टम्¦ए॒तत्¦कटु॑कम्¦ए॒तत्¦अ॒पा॒ष्ठऽव॑त्¦वि॒षऽव॑त्¦न¦ए॒तत्¦अत्त॑वे | |
आ॒शस॑नं वि॒शस॑न॒मथो᳚, अधिवि॒कर्त॑नम् |{सूर्या सावित्री | सूर्या | अनुष्टुप्} सू॒र्यायाः᳚ पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मा तु शु᳚न्धति ||{35/47}{8.3.26.5}{10.85.35}{10.7.1.35}{430, 922, 9701} आ॒ऽशस॑नम्¦वि॒ऽशस॑नम्¦अथो॒ इति॑¦अ॒धि॒ऽवि॒कर्त॑नम् | सू॒र्यायाः᳚¦प॒श्य॒¦रू॒पाणि॑¦तानि॑¦ब्र॒ह्मा¦तु¦शु॒न्ध॒ति॒ || |
गृ॒भ्णामि॑ ते सौभग॒त्वाय॒ हस्तं॒ मया॒ पत्या᳚ ज॒रद॑ष्टि॒र्यथासः॑ |{सूर्या सावित्री | सूर्या | त्रिष्टुप्} भगो᳚, अर्य॒मा स॑वि॒ता पुरं᳚धि॒र्मह्यं᳚ त्वादु॒र्गार्ह॑पत्याय दे॒वाः ||{36/47}{8.3.27.1}{10.85.36}{10.7.1.36}{431, 922, 9702} गृ॒भ्णामि॑¦ते॒¦सौ॒भ॒ग॒ऽत्वाय॑¦हस्त᳚म्¦मया᳚¦पत्या᳚¦ज॒रत्।आ॑ष्टिः¦यथा᳚¦असः॑ | |
तां पू᳚षञ्छि॒वत॑मा॒मेर॑यस्व॒ यस्यां॒ बीजं᳚ मनु॒ष्या॒३॑(आ॒) वप᳚न्ति |{सूर्या सावित्री | सूर्या | त्रिष्टुप्} या न॑ ऊ॒रू, उ॑श॒ती वि॒श्रया᳚ते॒ यस्या᳚मु॒शन्तः॑ प्र॒हरा᳚म॒ शेप᳚म् ||{37/47}{8.3.27.2}{10.85.37}{10.7.1.37}{432, 922, 9703} ताम्¦पू॒ष॒न्¦शि॒वऽत॑माम्¦आ¦ई॒र॒य॒स्व॒¦यस्या᳚म्¦बीज᳚म्¦म॒नु॒ष्याः᳚¦वप᳚न्ति | |
तुभ्य॒मग्रे॒ पर्य॑वहन् त्सू॒र्यां व॑ह॒तुना᳚ स॒ह |{सूर्या सावित्री | सूर्या | अनुष्टुप्} पुनः॒ पति॑भ्यो जा॒यां दा, अ॑ग्ने प्र॒जया᳚ स॒ह ||{38/47}{8.3.27.3}{10.85.38}{10.7.1.38}{433, 922, 9704} तुभ्य᳚म्¦अग्रे᳚¦परि॑¦अ॒व॒ह॒न्¦सू॒र्याम्¦व॒ह॒तुना᳚¦स॒ह | पुन॒रिति॑¦पति॑ऽभ्यः¦जा॒याम्¦दाः¦अ॒ग्ने॒¦प्र॒ऽजया᳚¦स॒ह || |
पुनः॒ पत्नी᳚म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा |{सूर्या सावित्री | सूर्या | अनुष्टुप्} दी॒र्घायु॑रस्या॒ यः पति॒र्जीवा᳚ति श॒रदः॑ श॒तम् ||{39/47}{8.3.27.4}{10.85.39}{10.7.1.39}{434, 922, 9705} पुन॒रिति॑¦पत्नी᳚म्¦अ॒ग्निः¦अ॒दा॒त्¦आयु॑षा¦स॒ह¦वर्च॑सा | दी॒र्घऽआ᳚युः¦अ॒स्याः॒¦यः¦पतिः॑¦जीवा᳚ति¦श॒रदः॑¦श॒तम् || |
सोमः॑ प्रथ॒मो वि॑विदे गन्ध॒र्वो वि॑विद॒ उत्त॑रः |{सूर्या सावित्री | सूर्या | अनुष्टुप्} तृ॒तीयो᳚, अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः ||{40/47}{8.3.27.5}{10.85.40}{10.7.1.40}{435, 922, 9706} सोमः॑¦प्र॒थ॒मः¦वि॒वि॒दे॒¦ग॒न्ध॒र्वः¦वि॒वि॒दे॒¦उत्ऽत॑रः | तृ॒तीयः॑¦अ॒ग्निः¦ते॒¦पतिः॑¦तु॒रीयः॑¦ते॒¦म॒नु॒ष्य॒ऽजाः || |
सोमो᳚ ददद्गन्ध॒र्वाय॑ गन्ध॒र्वो द॑दद॒ग्नये᳚ |{सूर्या सावित्री | सूर्या | अनुष्टुप्} र॒यिं च॑ पु॒त्राँश्चा᳚दाद॒ग्निर्मह्य॒मथो᳚, इ॒माम् ||{41/47}{8.3.28.1}{10.85.41}{10.7.1.41}{436, 922, 9707} सोमः॑¦द॒द॒त्¦ग॒न्ध॒र्वाय॑¦ग॒न्ध॒र्वः¦द॒द॒त्¦अ॒ग्नये᳚ | र॒यिम्¦च॒¦पु॒त्रान्¦च॒¦अ॒दा॒त्¦अ॒ग्निः¦मह्य᳚म्¦अथो॒ इति॑¦इ॒माम् || |
इ॒हैव स्तं॒ मा वि यौ᳚ष्टं॒ विश्व॒मायु॒र्व्य॑श्नुतम् |{सूर्या सावित्री | सूर्या | अनुष्टुप्} क्रीळ᳚न्तौ पु॒त्रैर्नप्तृ॑भि॒र्मोद॑मानौ॒ स्वे गृ॒हे ||{42/47}{8.3.28.2}{10.85.42}{10.7.1.42}{437, 922, 9708} इ॒ह¦ए॒व¦स्त॒म्¦मा¦वि¦यौ॒ष्ट॒म्¦विश्व᳚म्¦आयुः॑¦वि¦अ॒श्नु॒त॒म् | क्रीळ᳚न्तौ¦पु॒त्रैः¦नप्तृ॑ऽभिः¦मोद॑मानौ¦स्वे¦गृ॒हे || |
आ नः॑ प्र॒जां ज॑नयतु प्र॒जाप॑तिराजर॒साय॒ सम॑नक्त्वर्य॒मा |{सूर्या सावित्री | सूर्या | जगती} अदु᳚र्मङ्गलीः पतिलो॒कमा वि॑श॒ शं नो᳚ भव द्वि॒पदे॒ शं चतु॑ष्पदे ||{43/47}{8.3.28.3}{10.85.43}{10.7.1.43}{438, 922, 9709} आ¦नः॒¦प्र॒ऽजाम्¦ज॒न॒य॒तु॒¦प्र॒जाऽप॑तिः¦आ॒ऽज॒र॒साय॑¦सम्¦अ॒न॒क्तु॒¦अ॒र्य॒मा | |
अघो᳚रचक्षु॒रप॑तिघ्न्येधि शि॒वा प॒शुभ्यः॑ सु॒मनाः᳚ सु॒वर्चाः᳚ |{सूर्या सावित्री | सूर्या | त्रिष्टुप्} वी॒र॒सूर्दे॒वका᳚मा स्यो॒ना शं नो᳚ भव द्वि॒पदे॒ शं चतु॑ष्पदे ||{44/47}{8.3.28.4}{10.85.44}{10.7.1.44}{439, 922, 9710} अघो᳚रऽचक्षुः¦अप॑तिऽघ्नी¦ए॒धि॒¦शि॒वा¦प॒शुऽभ्यः॑¦सु॒ऽमनाः᳚¦सु॒ऽवर्चाः᳚ | |
इ॒मां त्वमि᳚न्द्र मीढ्वः सुपु॒त्रां सु॒भगां᳚ कृणु |{सूर्या सावित्री | सूर्या | अनुष्टुप्} दशा᳚स्यां पु॒त्राना धे᳚हि॒ पति॑मेकाद॒शं कृ॑धि ||{45/47}{8.3.28.5}{10.85.45}{10.7.1.45}{440, 922, 9711} इ॒माम्¦त्वम्¦इ॒न्द्र॒¦मी॒ढ्वः॒¦सु॒ऽपु॒त्राम्¦सु॒ऽभगा᳚म्¦कृ॒णु॒ | दश॑¦अ॒स्या॒म्¦पु॒त्रान्¦आ¦धे॒हि॒¦पति᳚म्¦ए॒का॒द॒शम्¦कृ॒धि॒ || |
स॒म्राज्ञी॒ श्वशु॑रे भव स॒म्राज्ञी᳚ श्व॒श्र्वां भ॑व |{सूर्या सावित्री | सूर्या | अनुष्टुप्} नना᳚न्दरि स॒म्राज्ञी᳚ भव स॒म्राज्ञी॒, अधि॑ दे॒वृषु॑ ||{46/47}{8.3.28.6}{10.85.46}{10.7.1.46}{441, 922, 9712} स॒म्ऽराज्ञी᳚¦श्वशु॑रे¦भ॒व॒¦स॒म्ऽराज्ञी᳚¦श्व॒श्र्वाम्¦भ॒व॒ | नना᳚न्दरि¦स॒म्ऽराज्ञी᳚¦भ॒व॒¦स॒म्ऽराज्ञी᳚¦अधि॑¦दे॒वृषु॑ || |
सम᳚ञ्जन्तु॒ विश्वे᳚ दे॒वाः समापो॒ हृद॑यानि नौ |{सूर्या सावित्री | सूर्या | अनुष्टुप्} सं मा᳚त॒रिश्वा॒ सं धा॒ता समु॒ देष्ट्री᳚ दधातु नौ ||{47/47}{8.3.28.7}{10.85.47}{10.7.1.47}{442, 922, 9713} सम्¦अं॒ज॒न्तु॒¦विश्वे᳚¦दे॒वाः¦सम्¦आपः॑¦हृद॑यानि¦नौ॒ | सम्¦मा॒त॒रिश्वा᳚¦सम्¦धा॒ता¦सम्¦ऊँ॒ इति॑¦देष्ट्री᳚¦द॒धा॒तु॒¦नौ॒ || |
[41] विहिसोतोरिति त्रयोविंशत्यृचस्य सूक्तस्य आद्याष्टम्येकादशी द्वादशीचतुर्दशीनामेकोनविंश्यादिचतसृणांचेंद्र ऋषिः सप्तमीत्रयोदशीत्रयोविंशीनामैंद्रो वृषाकपि ऋषिः शिष्टानामेकादशर्चामिंद्राणी ऋषिकाइंद्रः पंक्तिः | (अत्रयस्य वाक्यमिति परिभाषां स्वीकृत्य इंद्रेंद्राणी वृषाकपीनांविभागशोदेवतात्वं केचिन्मन्यंते तद्भाष्यकारादिविरुद्धं) | |
वि हि सोतो॒रसृ॑क्षत॒ नेन्द्रं᳚ दे॒वम॑मंसत |{एंद्रः | वरुणः | पङ्क्तिः} यत्राम॑दद् वृ॒षाक॑पिर॒र्यः पु॒ष्टेषु॒ मत्स॑खा॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{1/23}{8.4.1.1}{10.86.1}{10.7.2.1}{443, 923, 9714} वि¦हि¦सोतोः᳚¦असृ॑क्षत¦न¦इन्द्र᳚म्¦दे॒वम्¦अ॒मं॒स॒त॒ | |
परा॒ ही᳚न्द्र॒ धाव॑सि वृ॒षाक॑पे॒रति॒ व्यथिः॑ |{इंद्राणी | वरुणः | पङ्क्तिः} नो, अह॒ प्र वि᳚न्दस्य॒न्यत्र॒ सोम॑पीतये॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{2/23}{8.4.1.2}{10.86.2}{10.7.2.2}{444, 923, 9715} परा᳚¦हि¦इ॒न्द्र॒¦धाव॑सि¦वृ॒षाक॑पेः¦अति॑¦व्यथिः॑ | |
किम॒यं त्वां वृ॒षाक॑पिश्च॒कार॒ हरि॑तो मृ॒गः |{एंद्रः | वरुणः | पङ्क्तिः} यस्मा᳚, इर॒स्यसीदु॒ न्व१॑(अ॒)र्यो वा᳚ पुष्टि॒मद्वसु॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{3/23}{8.4.1.3}{10.86.3}{10.7.2.3}{445, 923, 9716} किम्¦अ॒यम्¦त्वाम्¦वृ॒षाक॑पिः¦च॒कार॑¦हरि॑तः¦मृ॒गः | |
यमि॒मं त्वं वृ॒षाक॑पिं प्रि॒यमि᳚न्द्राभि॒रक्ष॑सि |{इंद्राणी | वरुणः | पङ्क्तिः} श्वा न्व॑स्य जम्भिष॒दपि॒ कर्णे᳚ वराह॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{4/23}{8.4.1.4}{10.86.4}{10.7.2.4}{446, 923, 9717} यम्¦इ॒मम्¦त्वम्¦वृ॒षाक॑पिम्¦प्रि॒यम्¦इ॒न्द्र॒¦अ॒भि॒ऽरक्ष॑सि | |
प्रि॒या त॒ष्टानि॑ मे क॒पिर्व्य॑क्ता॒ व्य॑दूदुषत् |{इंद्राणी | वरुणः | पङ्क्तिः} शिरो॒ न्व॑स्य राविषं॒ न सु॒गं दु॒ष्कृते᳚ भुवं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{5/23}{8.4.1.5}{10.86.5}{10.7.2.5}{447, 923, 9718} प्रि॒या¦त॒ष्टानि॑¦मे॒¦क॒पिः¦वि।आ॑क्ता¦वि¦अ॒दू॒दु॒ष॒त् | |
न मत् स्त्री सु॑भ॒सत्त॑रा॒ न सु॒याशु॑तरा भुवत् |{इंद्राणी | वरुणः | पङ्क्तिः} न मत्प्रति॑च्यवीयसी॒ न सक्थ्युद्य॑मीयसी॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{6/23}{8.4.2.1}{10.86.6}{10.7.2.6}{448, 923, 9719} न¦मत्¦स्त्री¦सु॒भ॒सत्ऽत॑रा¦न¦सु॒याशु॑ऽतरा¦भु॒व॒त् | |
उ॒वे, अ᳚म्ब सुलाभिके॒ यथे᳚वा॒ङ्ग भ॑वि॒ष्यति॑ |{इंद्रो वृषाकपि | वरुणः | पङ्क्तिः} भ॒सन्मे᳚, अम्ब॒ सक्थि॑ मे॒ शिरो᳚ मे॒ वी᳚व हृष्यति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{7/23}{8.4.2.2}{10.86.7}{10.7.2.7}{449, 923, 9720} सु॒वे¦अ॒म्ब॒¦सु॒ला॒भि॒के॒¦यथा᳚ऽइव¦अ॒ङ्ग¦भ॒वि॒ष्यति॑ | |
किं सु॑बाहो स्वङ्गुरे॒ पृथु॑ष्टो॒ पृथु॑जाघने |{इंद्राणी | वरुणः | पङ्क्तिः} किं शू᳚रपत्नि न॒स्त्वम॒भ्य॑मीषि वृ॒षाक॑पिं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{8/23}{8.4.2.3}{10.86.8}{10.7.2.8}{450, 923, 9721} किम्¦सु॒बा॒हो॒ इति॑ सुऽबाहो¦सु॒।आ॒ङ्गु॒रे॒¦पृथु॑स्तो॒ इति॒ पृथु॑ऽस्तो¦पृथु॑ऽजघने | |
अ॒वीरा᳚मिव॒ माम॒यं श॒रारु॑र॒भि म᳚न्यते |{इंद्राणी | वरुणः | पङ्क्तिः} उ॒ताहम॑स्मि वी॒रिणीन्द्र॑पत्नी म॒रुत्स॑खा॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{9/23}{8.4.2.4}{10.86.9}{10.7.2.9}{451, 923, 9722} अ॒वीरा᳚म्ऽइव¦माम्¦अ॒यम्¦श॒रारुः॑¦अ॒भि¦म॒न्य॒ते॒ | |
सं॒हो॒त्रं स्म॑ पु॒रा नारी॒ सम॑नं॒ वाव॑ गच्छति |{इंद्राणी | वरुणः | पङ्क्तिः} वे॒धा, ऋ॒तस्य॑ वी॒रिणीन्द्र॑पत्नी महीयते॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{10/23}{8.4.2.5}{10.86.10}{10.7.2.10}{452, 923, 9723} स॒म्ऽहो॒त्रम्¦स्म॒¦पु॒रा¦नारी᳚¦सम॑नम्¦वा॒¦अव॑¦ग॒च्छ॒ति॒ | |
इ॒न्द्रा॒णीमा॒सु नारि॑षु सु॒भगा᳚म॒हम॑श्रवम् |{एंद्रः | वरुणः | पङ्क्तिः} न॒ह्य॑स्या, अप॒रं च॒न ज॒रसा॒ मर॑ते॒ पति॒र्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{11/23}{8.4.3.1}{10.86.11}{10.7.2.11}{453, 923, 9724} इ॒न्द्रा॒णीम्¦आ॒सु¦नारि॑षु¦सु॒ऽभगा᳚म्¦अ॒हम्¦अ॒श्र॒व॒म् | |
नाहमि᳚न्द्राणि रारण॒ सख्यु᳚र्वृ॒षाक॑पेरृ॒ते |{एंद्रः | वरुणः | पङ्क्तिः} यस्ये॒दमप्यं᳚ ह॒विः प्रि॒यं दे॒वेषु॒ गच्छ॑ति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{12/23}{8.4.3.2}{10.86.12}{10.7.2.12}{454, 923, 9725} न¦अ॒हम्¦इ॒न्द्रा॒णि॒¦र॒र॒ण॒¦सख्युः॑¦वृ॒षाक॑पेः¦ऋ॒ते | |
वृषा᳚कपायि॒ रेव॑ति॒ सुपु॑त्र॒ आदु॒ सुस्नु॑षे |{इंद्रो वृषाकपि | वरुणः | पङ्क्तिः} घस॑त्त॒ इन्द्र॑ उ॒क्षणः॑ प्रि॒यं का᳚चित्क॒रं ह॒विर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{13/23}{8.4.3.3}{10.86.13}{10.7.2.13}{455, 923, 9726} वृषा᳚कपायि¦रेव॑ति¦सुऽपु॑त्रे¦आत्¦ऊँ॒ इति॑¦सुऽस्नु॑षे | |
उ॒क्ष्णो हि मे॒ पञ्च॑दश सा॒कं पच᳚न्ति विंश॒तिम् |{इंद्राणी | वरुणः | पङ्क्तिः} उ॒ताहम॑द्मि॒ पीव॒ इदु॒भा कु॒क्षी पृ॑णन्ति मे॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{14/23}{8.4.3.4}{10.86.14}{10.7.2.14}{456, 923, 9727} उ॒क्ष्णः¦हि¦मे॒¦पंच॑ऽदश¦सा॒कम्¦पच᳚न्ति¦विं॒श॒तिम् | |
वृ॒ष॒भो न ति॒ग्मशृ᳚ङ्गो॒ऽन्तर्यू॒थेषु॒ रोरु॑वत् |{इंद्राणी | वरुणः | पङ्क्तिः} म॒न्थस्त॑ इन्द्र॒ शं हृ॒दे यं ते᳚ सु॒नोति॑ भाव॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{15/23}{8.4.3.5}{10.86.15}{10.7.2.15}{457, 923, 9728} वृ॒ष॒भः¦न¦ति॒ग्मऽशृ᳚ङ्गः¦अ॒न्तः¦यू॒थेषु॑¦रोरु॑वत् | |
न सेशे॒ यस्य॒ रम्ब॑तेऽन्त॒रा स॒क्थ्या॒३॑(आ॒) कपृ॑त् |{इंद्राणी | वरुणः | पङ्क्तिः} सेदी᳚शे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो᳚ वि॒जृम्भ॑ते॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{16/23}{8.4.4.1}{10.86.16}{10.7.2.16}{458, 923, 9729} न¦सः¦ई॒शे॒¦यस्य॑¦रम्ब॑ते¦अ॒न्त॒रा¦स॒क्थ्या᳚¦कपृ॑त् | |
न सेशे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो᳚ वि॒जृम्भ॑ते |{इंद्राणी | वरुणः | पङ्क्तिः} सेदी᳚शे॒ यस्य॒ रम्ब॑तेऽन्त॒रा स॒क्थ्या॒३॑(आ॒) कपृ॒द्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{17/23}{8.4.4.2}{10.86.17}{10.7.2.17}{459, 923, 9730} न¦सः¦ई॒शे॒¦यस्य॑¦रो॒म॒शम्¦नि॒ऽसे॒दुषः॑¦वि॒ऽजृम्भ॑ते | |
अ॒यमि᳚न्द्र वृ॒षाक॑पिः॒ पर॑स्वन्तं ह॒तं वि॑दत् |{इंद्राणी | वरुणः | पङ्क्तिः} अ॒सिं सू॒नां नवं᳚ च॒रुमादेध॒स्यान॒ आचि॑तं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{18/23}{8.4.4.3}{10.86.18}{10.7.2.18}{460, 923, 9731} अ॒यम्¦इ॒न्द्र॒¦वृ॒षाक॑पिः¦पर॑स्वन्तम्¦ह॒तम्¦वि॒द॒त् | |
अ॒यमे᳚मि वि॒चाक॑शद्विचि॒न्वन्दास॒मार्य᳚म् |{एंद्रः | वरुणः | पङ्क्तिः} पिबा᳚मि पाक॒सुत्व॑नो॒ऽभि धीर॑मचाकशं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{19/23}{8.4.4.4}{10.86.19}{10.7.2.19}{461, 923, 9732} अ॒यम्¦ए॒मि॒¦वि॒ऽचाक॑शत्¦वि॒ऽचि॒न्वन्¦दास᳚म्¦आर्य᳚म् | |
धन्व॑ च॒ यत्कृ॒न्तत्रं᳚ च॒ कति॑ स्वि॒त्ता वि योज॑ना |{एंद्रः | वरुणः | पङ्क्तिः} नेदी᳚यसो वृषाक॒पेऽस्त॒मेहि॑ गृ॒हाँ, उप॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{20/23}{8.4.4.5}{10.86.20}{10.7.2.20}{462, 923, 9733} धन्व॑¦च॒¦यत्¦कृ॒न्तत्र᳚म्¦च॒¦कति॑¦स्वि॒त्¦ता¦वि¦योज॑ना | |
पुन॒रेहि॑ वृषाकपे सुवि॒ता क॑ल्पयावहै |{एंद्रः | वरुणः | पङ्क्तिः} य ए॒ष स्व॑प्न॒नंश॒नोऽस्त॒मेषि॑ प॒था पुन॒र्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{21/23}{8.4.4.6}{10.86.21}{10.7.2.21}{463, 923, 9734} पुनः॑¦आ¦इ॒हि॒¦वृ॒षा॒क॒पे॒¦सु॒वि॒ता¦क॒ल्प॒या॒व॒है॒ | |
यदुद᳚ञ्चो वृषाकपे गृ॒हमि॒न्द्राज॑गन्तन |{एंद्रः | वरुणः | पङ्क्तिः} क्व१॑(अ॒) स्य पु॑ल्व॒घो मृ॒गः कम॑गञ्जन॒योप॑नो॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{22/23}{8.4.4.7}{10.86.22}{10.7.2.22}{464, 923, 9735} यत्¦उदं᳚चः¦वृ॒षा॒क॒पे॒¦गृ॒हम्¦इ॒न्द्र॒¦अज॑गन्तन | |
पर्शु᳚र्ह॒ नाम॑ मान॒वी सा॒कं स॑सूव विंश॒तिम् |{इंद्रो वृषाकपि | वरुणः | पङ्क्तिः} भ॒द्रं भ॑ल॒ त्यस्या᳚, अभू॒द्यस्या᳚, उ॒दर॒माम॑य॒द्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{23/23}{8.4.4.8}{10.86.23}{10.7.2.23}{465, 923, 9736} पशुः॑¦ह॒¦नाम॑¦मा॒न॒वी¦सा॒कम्¦स॒सू॒व॒¦विं॒श॒तिम् | |
[42] रक्षोहणमिति पंचविंशत्यृचस्य सूक्तस्य भारद्वाजःपायूरक्षोहाग्निस्त्रिष्टुप् अंत्याश्चतस्रोनुष्टुभः | |
र॒क्षो॒हणं᳚ वा॒जिन॒मा जि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्} शिशा᳚नो, अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः॒ स नो॒ दिवा॒ स रि॒षः पा᳚तु॒ नक्त᳚म् ||{1/25}{8.4.5.1}{10.87.1}{10.7.3.1}{466, 924, 9737} र॒क्षः॒ऽहन᳚म्¦वा॒जिन᳚म्¦आ¦जि॒घ॒र्मि॒¦मि॒त्रम्¦प्रथि॑ष्ठम्¦उप॑¦या॒मि॒¦शर्म॑ | |
अयो᳚दंष्ट्रो, अ॒र्चिषा᳚ यातु॒धाना॒नुप॑ स्पृश जातवेदः॒ समि॑द्धः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्} आ जि॒ह्वया॒ मूर॑देवान् रभस्व क्र॒व्यादो᳚ वृ॒क्त्व्यपि॑ धत्स्वा॒सन् ||{2/25}{8.4.5.2}{10.87.2}{10.7.3.2}{467, 924, 9738} अयः॑ऽदंष्ट्रः¦अ॒र्चिषा᳚¦या॒तु॒ऽधाना᳚न्¦उप॑¦स्पृ॒श॒¦जा॒त॒ऽवे॒दः॒¦सम्ऽइ᳚द्धः | |
उ॒भोभ॑यावि॒न्नुप॑ धेहि॒ दंष्ट्रा᳚ हिं॒स्रः शिशा॒नोऽव॑रं॒ परं᳚ च |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्} उ॒तान्तरि॑क्षे॒ परि॑ याहि राज॒ञ्जम्भैः॒ सं धे᳚ह्य॒भि या᳚तु॒धाना॑न् ||{3/25}{8.4.5.3}{10.87.3}{10.7.3.3}{468, 924, 9739} उ॒भा¦उ॒भ॒या॒वि॒न्¦उप॑¦धे॒हि॒¦दंष्ट्रा᳚¦हिं॒स्रः¦शिशा᳚नः¦अव॑रम्¦पर᳚म्¦च॒ | |
य॒ज्ञैरिषूः᳚ सं॒नम॑मानो, अग्ने वा॒चा श॒ल्याँ, अ॒शनि॑भिर्दिहा॒नः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्} ताभि᳚र्विध्य॒ हृद॑ये यातु॒धाना᳚न् प्रती॒चो बा॒हून् प्रति॑ भङ्ध्येषाम् ||{4/25}{8.4.5.4}{10.87.4}{10.7.3.4}{469, 924, 9740} य॒ज्ञैः¦इषूः᳚¦स॒म्ऽनम॑मानः¦अ॒ग्ने॒¦वा॒चा¦श॒ल्यान्¦अ॒शनि॑ऽभिः¦दि॒हा॒नः | |
अग्ने॒ त्वचं᳚ यातु॒धान॑स्य भिन्धि हिं॒स्राशनि॒र्हर॑सा हन्त्वेनम् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्} प्र पर्वा᳚णि जातवेदः शृणीहि क्र॒व्यात्क्र॑वि॒ष्णुर्वि चि॑नोतु वृ॒क्णम् ||{5/25}{8.4.5.5}{10.87.5}{10.7.3.5}{470, 924, 9741} अग्ने᳚¦त्वच᳚म्¦या॒तु॒ऽधान॑स्य¦भि॒न्धि॒¦हिं॒स्रा¦अ॒शनिः॑¦हर॑सा¦ह॒न्तु॒¦ए॒न॒म् | |
यत्रे॒दानीं॒ पश्य॑सि जातवेद॒स्तिष्ठ᳚न्तमग्न उ॒त वा॒ चर᳚न्तम् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्} यद्वा॒न्तरि॑क्षे प॒थिभिः॒ पत᳚न्तं॒ तमस्ता᳚ विध्य॒ शर्वा॒ शिशा᳚नः ||{6/25}{8.4.6.1}{10.87.6}{10.7.3.6}{471, 924, 9742} यत्र॑¦इ॒दानी᳚म्¦पश्य॑सि¦जा॒त॒ऽवे॒दः॒¦तिष्ठ᳚न्तम्¦अ॒ग्ने॒¦उ॒त¦वा॒¦चर᳚न्तम् | |
उ॒ताल॑ब्धं स्पृणुहि जातवेद आलेभा॒नादृ॒ष्टिभि᳚र्यातु॒धाना᳚त् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्} अग्ने॒ पूर्वो॒ नि ज॑हि॒ शोशु॑चान आ॒मादः॒, क्ष्विङ्का॒स्तम॑द॒न्त्वेनीः᳚ ||{7/25}{8.4.6.2}{10.87.7}{10.7.3.7}{472, 924, 9743} उ॒त¦आऽल॑ब्धम्¦स्पृ॒णु॒हि॒¦जा॒त॒ऽवे॒दः॒¦आ॒ऽले॒भा॒नात्¦ऋ॒ष्टिऽभिः॑¦या॒तु॒ऽधाना᳚त् | |
इ॒ह प्र ब्रू᳚हि यत॒मः सो, अ॑ग्ने॒ यो या᳚तु॒धानो॒ य इ॒दं कृ॒णोति॑ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्} तमा र॑भस्व स॒मिधा᳚ यविष्ठ नृ॒चक्ष॑स॒श्चक्षु॑षे रन्धयैनम् ||{8/25}{8.4.6.3}{10.87.8}{10.7.3.8}{473, 924, 9744} इ॒ह¦प्र¦ब्रू॒हि॒¦य॒त॒मः¦सः¦अ॒ग्ने॒¦यः¦या॒तु॒ऽधानः॑¦यः¦इ॒दम्¦कृ॒णोति॑ | |
ती॒क्ष्णेना᳚ग्ने॒ चक्षु॑षा रक्ष य॒ज्ञं प्राञ्चं॒ वसु॑भ्यः॒ प्र ण॑य प्रचेतः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्} हिं॒स्रं रक्षां᳚स्य॒भि शोशु॑चानं॒ मा त्वा᳚ दभन्यातु॒धाना᳚ नृचक्षः ||{9/25}{8.4.6.4}{10.87.9}{10.7.3.9}{474, 924, 9745} ती॒क्ष्णेन॑¦अ॒ग्ने॒¦चक्षु॑षा¦र॒क्ष॒¦य॒ज्ञम्¦प्रांच᳚म्¦वसु॑ऽभ्यः¦प्र¦न॒य॒¦प्र॒ऽचे॒तः॒ | |
नृ॒चक्षा॒ रक्षः॒ परि॑ पश्य वि॒क्षु तस्य॒ त्रीणि॒ प्रति॑ शृणी॒ह्यग्रा᳚ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्} तस्या᳚ग्ने पृ॒ष्टीर्हर॑सा शृणीहि त्रे॒धा मूलं᳚ यातु॒धान॑स्य वृश्च ||{10/25}{8.4.6.5}{10.87.10}{10.7.3.10}{475, 924, 9746} नृ॒ऽचक्षाः᳚¦रक्षः॑¦परि॑¦प॒श्य॒¦वि॒क्षु¦तस्य॑¦त्रीणि॑¦प्रति॑¦शृ॒णी॒हि॒¦अग्रा᳚ | |
त्रिर्या᳚तु॒धानः॒ प्रसि॑तिं त एत्वृ॒तं यो, अ॑ग्ने॒, अनृ॑तेन॒ हन्ति॑ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्} तम॒र्चिषा᳚ स्फू॒र्जय᳚ञ्जातवेदः सम॒क्षमे᳚नं गृण॒ते नि वृ᳚ङ्धि ||{11/25}{8.4.7.1}{10.87.11}{10.7.3.11}{476, 924, 9747} त्रिः¦या॒तु॒ऽधानः॑¦प्रऽसि॑तिम्¦ते॒¦ए॒तु॒¦ऋ॒तम्¦यः¦अ॒ग्ने॒¦अनृ॑तेन¦हन्ति॑ | |
तद॑ग्ने॒ चक्षुः॒ प्रति॑ धेहि रे॒भे श॑फा॒रुजं॒ येन॒ पश्य॑सि यातु॒धान᳚म् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्} अ॒थ॒र्व॒वज्ज्योति॑षा॒ दैव्ये᳚न स॒त्यं धूर्व᳚न्तम॒चितं॒ न्यो᳚ष ||{12/25}{8.4.7.2}{10.87.12}{10.7.3.12}{477, 924, 9748} तत्¦अ॒ग्ने॒¦चक्षुः॑¦प्रति॑¦धे॒हि॒¦रे॒भे¦श॒फ॒ऽआ॒रुज᳚म्¦येन॑¦पश्य॑सि¦या॒तु॒ऽधान᳚म् | |
यद॑ग्ने, अ॒द्य मि॑थु॒ना शपा᳚तो॒ यद्वा॒चस्तृ॒ष्टं ज॒नय᳚न्त रे॒भाः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्} म॒न्योर्मन॑सः शर॒व्या॒३॑(आ॒) जाय॑ते॒ या तया᳚ विध्य॒ हृद॑ये यातु॒धाना॑न् ||{13/25}{8.4.7.3}{10.87.13}{10.7.3.13}{478, 924, 9749} यत्¦अ॒ग्ने॒¦अ॒द्य¦मि॒थु॒ना¦शपा᳚तः¦यत्¦वा॒चः¦तृ॒ष्टम्¦ज॒नय᳚न्त¦रे॒भाः | |
परा᳚ शृणीहि॒ तप॑सा यातु॒धाना॒न् परा᳚ग्ने॒ रक्षो॒ हर॑सा शृणीहि |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्} परा॒र्चिषा॒ मूर॑देवाञ्छृणीहि॒ परा᳚सु॒तृपो᳚, अ॒भि शोशु॑चानः ||{14/25}{8.4.7.4}{10.87.14}{10.7.3.14}{479, 924, 9750} परा᳚¦शृ॒णी॒हि॒¦तप॑सा¦या॒तु॒ऽधाना᳚न्¦परा᳚¦अ॒ग्ने॒¦रक्षः॑¦हर॑सा¦शृ॒णी॒हि॒ | |
परा॒द्य दे॒वा वृ॑जि॒नं शृ॑णन्तु प्र॒त्यगे᳚नं श॒पथा᳚ यन्तु तृ॒ष्टाः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्} वा॒चास्ते᳚नं॒ शर॑व ऋच्छन्तु॒ मर्म॒न् विश्व॑स्यैतु॒ प्रसि॑तिं यातु॒धानः॑ ||{15/25}{8.4.7.5}{10.87.15}{10.7.3.15}{480, 924, 9751} परा᳚¦अ॒द्य¦दे॒वाः¦वृ॒जि॒नम्¦शृ॒ण॒न्तु॒¦प्र॒त्यक्¦ए॒न॒म्¦श॒पथाः᳚¦य॒न्तु॒¦तृ॒ष्टाः | |
यः पौरु॑षेयेण क्र॒विषा᳚ सम॒ङ्क्ते यो, अश्व्ये᳚न प॒शुना᳚ यातु॒धानः॑ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्} यो, अ॒घ्न्याया॒ भर॑ति क्षी॒रम॑ग्ने॒ तेषां᳚ शी॒र्षाणि॒ हर॒सापि॑ वृश्च ||{16/25}{8.4.8.1}{10.87.16}{10.7.3.16}{481, 924, 9752} यः¦पौरु॑षेयेण¦क्र॒विषा᳚¦स॒म्।आ॒ङ्क्ते¦यः¦अश्व्ये᳚न¦प॒शुना᳚¦या॒तु॒ऽधानः॑ | |
सं॒व॒त्स॒रीणं॒ पय॑ उ॒स्रिया᳚या॒स्तस्य॒ माशी᳚द्यातु॒धानो᳚ नृचक्षः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्} पी॒यूष॑मग्ने यत॒मस्तितृ॑प्सा॒त्तं प्र॒त्यञ्च॑म॒र्चिषा᳚ विध्य॒ मर्म॑न् ||{17/25}{8.4.8.2}{10.87.17}{10.7.3.17}{482, 924, 9753} सं॒व॒त्स॒रीण᳚म्¦पयः॑¦उ॒स्रिया᳚याः¦तस्य॑¦मा¦अ॒शी॒त्¦या॒तु॒ऽधानः॑¦नृ॒ऽच॒क्षः॒ | |
वि॒षं गवां᳚ यातु॒धानाः᳚ पिब॒न्त्वा वृ॑श्च्यन्ता॒मदि॑तये दु॒रेवाः᳚ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्} परै᳚नान्दे॒वः स॑वि॒ता द॑दातु॒ परा᳚ भा॒गमोष॑धीनां जयन्ताम् ||{18/25}{8.4.8.3}{10.87.18}{10.7.3.18}{483, 924, 9754} वि॒षम्¦गवा᳚म्¦या॒तु॒ऽधानाः᳚¦पि॒ब॒न्तु॒¦आ¦वृ॒श्च्य॒न्ता॒म्¦अदि॑तये¦दुः॒ऽएवाः᳚ | |
स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां᳚सि॒ पृत॑नासु जिग्युः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्} अनु॑ दह स॒हमू᳚रान् क्र॒व्यादो॒ मा ते᳚ हे॒त्या मु॑क्षत॒ दैव्या᳚याः ||{19/25}{8.4.8.4}{10.87.19}{10.7.3.19}{484, 924, 9755} स॒नात्¦अ॒ग्ने॒¦मृ॒ण॒सि॒¦या॒तु॒ऽधाना᳚न्¦न¦त्वा॒¦रक्षां᳚सि¦पृत॑नासु¦जि॒ग्युः॒ | |
त्वं नो᳚, अग्ने, अध॒रादुद॑क्ता॒त् त्वं प॒श्चादु॒त र॑क्षा पु॒रस्ता᳚त् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्} प्रति॒ ते ते᳚, अ॒जरा᳚स॒स्तपि॑ष्ठा, अ॒घशं᳚सं॒ शोशु॑चतो दहन्तु ||{20/25}{8.4.8.5}{10.87.20}{10.7.3.20}{485, 924, 9756} त्वम्¦नः॒¦अ॒ग्ने॒¦अ॒ध॒रात्¦उद॑क्तात्¦त्वम्¦प॒श्चात्¦उ॒त¦र॒क्ष॒¦पु॒रस्ता᳚त् | |
प॒श्चात्पु॒रस्ता᳚दध॒रादुद॑क्तात्क॒विः काव्ये᳚न॒ परि॑ पाहि राजन् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्} सखे॒ सखा᳚यम॒जरो᳚ जरि॒म्णेऽग्ने॒ मर्ताँ॒, अम॑र्त्य॒स्त्वं नः॑ ||{21/25}{8.4.9.1}{10.87.21}{10.7.3.21}{486, 924, 9757} प॒श्चात्¦पु॒रस्ता᳚त्¦अ॒ध॒रात्¦उद॑क्तात्¦क॒विः¦काव्ये᳚न¦परि॑¦पा॒हि॒¦रा॒ज॒न् | |
परि॑ त्वाग्ने॒ पुरं᳚ व॒यं विप्रं᳚ सहस्य धीमहि |{भारद्वाजः पायूः | रक्षोहाग्निः | अनुष्टुप्} धृ॒षद्व᳚र्णं दि॒वेदि॑वे ह॒न्तारं᳚ भङ्गु॒राव॑ताम् ||{22/25}{8.4.9.2}{10.87.22}{10.7.3.22}{487, 924, 9758} परि॑¦त्वा॒¦अ॒ग्ने॒¦पुर᳚म्¦व॒यम्¦विप्र᳚म्¦स॒ह॒स्य॒¦धी॒म॒हि॒ | धृ॒षत्ऽव᳚र्णम्¦दि॒वेऽदि॑वे¦ह॒न्तार᳚म्¦भ॒ङ्गु॒रऽव॑ताम् || |
वि॒षेण॑ भङ्गु॒राव॑तः॒ प्रति॑ ष्म र॒क्षसो᳚ दह |{भारद्वाजः पायूः | रक्षोहाग्निः | अनुष्टुप्} अग्ने᳚ ति॒ग्मेन॑ शो॒चिषा॒ तपु॑रग्राभिरृ॒ष्टिभिः॑ ||{23/25}{8.4.9.3}{10.87.23}{10.7.3.23}{488, 924, 9759} वि॒षेण॑¦भ॒ङ्गु॒रऽव॑तः¦प्रति॑¦स्म॒¦र॒क्षसः॑¦द॒ह॒ | अग्ने᳚¦ति॒ग्मेन॑¦शो॒चिषा᳚¦तपुः॑।आग्राभिः¦ऋ॒ष्टिऽभिः॑ || |
प्रत्य॑ग्ने मिथु॒ना द॑ह यातु॒धाना᳚ किमी॒दिना᳚ |{भारद्वाजः पायूः | रक्षोहाग्निः | अनुष्टुप्} सं त्वा᳚ शिशामि जागृ॒ह्यद॑ब्धं विप्र॒ मन्म॑भिः ||{24/25}{8.4.9.4}{10.87.24}{10.7.3.24}{489, 924, 9760} प्रति॑¦अ॒ग्ने॒¦मि॒थु॒ना¦द॒ह॒¦या॒तु॒ऽधाना᳚¦कि॒मी॒दिना᳚ | सम्¦त्वा॒¦शि॒शा॒मि॒¦जा॒गृ॒हि¦अद॑ब्धम्¦वि॒प्र॒¦मन्म॑ऽभिः || |
प्रत्य॑ग्ने॒ हर॑सा॒ हरः॑ शृणी॒हि वि॒श्वतः॒ प्रति॑ |{भारद्वाजः पायूः | रक्षोहाग्निः | अनुष्टुप्} या॒तु॒धान॑स्य र॒क्षसो॒ बलं॒ वि रु॑ज वी॒र्य᳚म् ||{25/25}{8.4.9.5}{10.87.25}{10.7.3.25}{490, 924, 9761} प्रति॑¦अ॒ग्ने॒¦हर॑सा¦हरः॑¦शृ॒णी॒हि¦वि॒श्वतः॑¦प्रति॑ | या॒तु॒ऽधान॑स्य¦र॒क्षसः॑¦बल᳚म्¦वि¦रु॒ज॒¦वी॒र्य᳚म् || |
[43] हनिष्पांतमित्येकोन विंशत्यृचस्य सूक्तस्यांगिरसोमूर्धन्वान्सूर्यवैश्वानरौत्रिष्टुप् | (मरीचिः - हविष्पांतद्विदैवत्यं सौर्यवैश्वानरी यकमितिद्वेदेवतेअत्र । तेनसूर्यवैश्वानरइत्यग्नेर्गुणइतिवदंतः परास्ताः ) | |
ह॒विष्पान्त॑म॒जरं᳚ स्व॒र्विदि॑ दिवि॒स्पृश्याहु॑तं॒ जुष्ट॑म॒ग्नौ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्} तस्य॒ भर्म॑णे॒ भुव॑नाय दे॒वा धर्म॑णे॒ कं स्व॒धया᳚ पप्रथन्त ||{1/19}{8.4.10.1}{10.88.1}{10.7.4.1}{491, 925, 9762} ह॒विः¦पान्त᳚म्¦अ॒जर᳚म्¦स्वः॒ऽविदि॑¦दि॒वि॒ऽस्पृशि॑¦आऽहु॑तम्¦जुष्ट᳚म्¦अ॒ग्नौ | |
गी॒र्णं भुव॑नं॒ तम॒साप॑गूळ्हमा॒विः स्व॑रभवज्जा॒ते, अ॒ग्नौ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्} तस्य॑ दे॒वाः पृ॑थि॒वी द्यौरु॒तापोऽर॑णय॒न्नोष॑धीः स॒ख्ये, अ॑स्य ||{2/19}{8.4.10.2}{10.88.2}{10.7.4.2}{492, 925, 9763} गी॒र्णम्¦भुव॑नम्¦तम॑सा¦अप॑ऽगूळ्हम्¦आ॒विः¦स्वः॑¦अ॒भ॒व॒त्¦जा॒ते¦अ॒ग्नौ | |
दे॒वेभि॒र्न् वि॑षि॒तो य॒ज्ञिये᳚भिर॒ग्निं स्तो᳚षाण्य॒जरं᳚ बृ॒हन्त᳚म् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्} यो भा॒नुना᳚ पृथि॒वीं द्यामु॒तेमामा᳚त॒तान॒ रोद॑सी, अ॒न्तरि॑क्षम् ||{3/19}{8.4.10.3}{10.88.3}{10.7.4.3}{493, 925, 9764} दे॒वेभिः॑¦नु¦इ॒षि॒तः¦य॒ज्ञिये᳚भिः¦अ॒ग्निम्¦स्तो॒षा॒णि॒¦अ॒जर᳚म्¦बृ॒हन्त᳚म् | |
यो होतासी᳚त्प्रथ॒मो दे॒वजु॑ष्टो॒ यं स॒माञ्ज॒न्नाज्ये᳚ना वृणा॒नाः |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्} स प॑त॒त्री᳚त्व॒रं स्था जग॒द्यच्छ्वा॒त्रम॒ग्निर॑कृणोज्जा॒तवे᳚दाः ||{4/19}{8.4.10.4}{10.88.4}{10.7.4.4}{494, 925, 9765} यः¦होता᳚¦आसी᳚त्¦प्र॒थ॒मः¦दे॒वऽजु॑ष्टः¦यम्¦स॒म्ऽआंज॑न्¦आज्ये᳚न¦वृ॒णा॒नाः | |
यज्जा᳚तवेदो॒ भुव॑नस्य मू॒र्धन्नति॑ष्ठो, अग्ने स॒ह रो᳚च॒नेन॑ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्} तं त्वा᳚हेम म॒तिभि॑र्गी॒र्भिरु॒क्थैः स य॒ज्ञियो᳚, अभवो रोदसि॒प्राः ||{5/19}{8.4.10.5}{10.88.5}{10.7.4.5}{495, 925, 9766} यत्¦जा॒त॒ऽवे॒दः॒¦भुव॑नस्य¦मू॒र्धन्¦अति॑ष्ठः¦अ॒ग्ने॒¦स॒ह¦रो॒च॒नेन॑ | |
मू॒र्धा भु॒वो भ॑वति॒ नक्त॑म॒ग्निस्ततः॒ सूर्यो᳚ जायते प्रा॒तरु॒द्यन् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्} मा॒यामू॒ तु य॒ज्ञिया᳚नामे॒तामपो॒ यत् तूर्णि॒श्चर॑ति प्रजा॒नन् ||{6/19}{8.4.11.1}{10.88.6}{10.7.4.6}{496, 925, 9767} मू॒र्धा¦भु॒वः¦भ॒व॒ति॒¦नक्त᳚म्¦अ॒ग्निः¦ततः॑¦सूर्यः॑¦जा॒य॒ते॒¦प्रा॒तः¦उ॒त्ऽयन् | |
दृ॒शेन्यो॒ यो म॑हि॒ना समि॒द्धोऽरो᳚चत दि॒वियो᳚निर्वि॒भावा᳚ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्} तस्मि᳚न्न॒ग्नौ सू᳚क्तवा॒केन॑ दे॒वा ह॒विर्विश्व॒ आजु॑हवुस्तनू॒पाः ||{7/19}{8.4.11.2}{10.88.7}{10.7.4.7}{497, 925, 9768} दृ॒शेन्यः॑¦यः¦म॒हि॒ना¦सम्ऽइ᳚द्धः¦अरो᳚चत¦दि॒विऽयो᳚निः¦वि॒भाऽवा᳚ | |
सू॒क्त॒वा॒कं प्र॑थ॒ममादिद॒ग्निमादिद्ध॒विर॑जनयन्त दे॒वाः |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्} स ए᳚षां य॒ज्ञो, अ॑भवत्तनू॒पास्तं द्यौर्वे᳚द॒ तं पृ॑थि॒वी तमापः॑ ||{8/19}{8.4.11.3}{10.88.8}{10.7.4.8}{498, 925, 9769} सू॒क्त॒ऽवा॒कम्¦प्र॒थ॒मम्¦आत्¦इत्¦अ॒ग्निम्¦आत्¦इत्¦ह॒विः¦अ॒ज॒न॒य॒न्त॒¦दे॒वाः | |
यं दे॒वासोऽज॑नयन्ता॒ग्निं यस्मि॒न्नाजु॑हवु॒र्भुव॑नानि॒ विश्वा᳚ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्} सो, अ॒र्चिषा᳚ पृथि॒वीं द्यामु॒तेमामृ॑जू॒यमा᳚नो, अतपन्महि॒त्वा ||{9/19}{8.4.11.4}{10.88.9}{10.7.4.9}{499, 925, 9770} यम्¦दे॒वासः॑¦अज॑नयन्त¦अ॒ग्निम्¦यस्मि॑न्¦आ¦अजु॑हवुः¦भुव॑नानि¦विश्वा᳚ | |
स्तोमे᳚न॒ हि दि॒वि दे॒वासो᳚, अ॒ग्निमजी᳚जन॒ञ्छक्ति॑भी रोदसि॒प्राम् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्} तमू᳚, अकृण्वन्त्रे॒धा भु॒वे कं स ओष॑धीः पचति वि॒श्वरू᳚पाः ||{10/19}{8.4.11.5}{10.88.10}{10.7.4.10}{500, 925, 9771} स्तोमे᳚न¦हि¦दि॒वि¦दे॒वासः॑¦अ॒ग्निम्¦अजी᳚जनन्¦शक्ति॑ऽभिः¦रो॒द॒सि॒ऽप्राम् | |
य॒देदे᳚न॒मद॑धुर्य॒ज्ञिया᳚सो दि॒वि दे॒वाः सूर्य॑मादिते॒यम् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्} य॒दा च॑रि॒ष्णू मि॑थु॒नावभू᳚ता॒मादित्प्राप॑श्य॒न् भुव॑नानि॒ विश्वा᳚ ||{11/19}{8.4.12.1}{10.88.11}{10.7.4.11}{501, 925, 9772} य॒दा¦इत्¦ए॒न॒म्¦अद॑धुः¦य॒ज्ञिया᳚सः¦दि॒वि¦दे॒वाः¦सूर्य᳚म्¦आ॒दि॒ते॒यम् | |
विश्व॑स्मा, अ॒ग्निं भुव॑नाय दे॒वा वै᳚श्वान॒रं के॒तुमह्ना᳚मकृण्वन् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्} आ यस्त॒तानो॒षसो᳚ विभा॒तीरपो᳚, ऊर्णोति॒ तमो᳚, अ॒र्चिषा॒ यन् ||{12/19}{8.4.12.2}{10.88.12}{10.7.4.12}{502, 925, 9773} विश्व॑स्मै¦अ॒ग्निम्¦भुव॑नाय¦दे॒वाः¦वै॒श्वा॒न॒रम्¦के॒तुम्¦अह्ना᳚म्¦अ॒कृ॒ण्व॒न् | |
वै॒श्वा॒न॒रं क॒वयो᳚ य॒ज्ञिया᳚सो॒ऽग्निं दे॒वा, अ॑जनयन्नजु॒र्यम् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्} नक्ष॑त्रं प्र॒त्नममि॑नच्चरि॒ष्णु य॒क्षस्याध्य॑क्षं तवि॒षं बृ॒हन्त᳚म् ||{13/19}{8.4.12.3}{10.88.13}{10.7.4.13}{503, 925, 9774} वै॒श्वा॒न॒रम्¦क॒वयः॑¦य॒ज्ञियाः᳚¦अ॒ग्निम्¦दे॒वाः¦अ॒ज॒न॒य॒न्¦अ॒जु॒र्यम् | |
वै॒श्वा॒न॒रं वि॒श्वहा᳚ दीदि॒वांसं॒ मन्त्रै᳚र॒ग्निं क॒विमच्छा᳚ वदामः |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्} यो म॑हि॒म्ना प॑रिब॒भूवो॒र्वी, उ॒तावस्ता᳚दु॒त दे॒वः प॒रस्ता᳚त् ||{14/19}{8.4.12.4}{10.88.14}{10.7.4.14}{504, 925, 9775} वै॒श्वा॒न॒रम्¦वि॒श्वहा᳚¦दी॒दि॒ऽवांस᳚म्¦मन्त्रैः᳚¦अ॒ग्निम्¦क॒विम्¦अच्छ॑¦व॒दा॒मः॒ | |
द्वे स्रु॒ती, अ॑शृणवं पितॄ॒णाम॒हं दे॒वाना᳚मु॒त मर्त्या᳚नाम् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्} ताभ्या᳚मि॒दं विश्व॒मेज॒त्समे᳚ति॒ यद᳚न्त॒रा पि॒तरं᳚ मा॒तरं᳚ च ||{15/19}{8.4.12.5}{10.88.15}{10.7.4.15}{505, 925, 9776} द्वे इति॑¦स्रु॒ती इति॑¦अ॒शृ॒ण॒व॒म्¦पि॒तॄ॒णाम्¦अ॒हम्¦दे॒वाना᳚म्¦उ॒त¦मर्त्या᳚नाम् | |
द्वे स॑मी॒ची बि॑भृत॒श्चर᳚न्तं शीर्ष॒तो जा॒तं मन॑सा॒ विमृ॑ष्टम् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्} स प्र॒त्यङ्विश्वा॒ भुव॑नानि तस्था॒वप्र॑युच्छन्त॒रणि॒र्भ्राज॑मानः ||{16/19}{8.4.13.1}{10.88.16}{10.7.4.16}{506, 925, 9777} द्वे इति॑¦स॒मी॒ची इति॑ सम्ऽई॒ची¦बि॒भृ॒तः॒¦चर᳚न्तम्¦शी॒र्ष॒तः¦जा॒तम्¦मन॑सा¦विऽमृ॑ष्टम् | |
यत्रा॒ वदे᳚ते॒, अव॑रः॒ पर॑श्च यज्ञ॒न्योः᳚ कत॒रो नौ॒ वि वे᳚द |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्} आ शे᳚कु॒रित्स॑ध॒मादं॒ सखा᳚यो॒ नक्ष᳚न्त य॒ज्ञं क इ॒दं वि वो᳚चत् ||{17/19}{8.4.13.2}{10.88.17}{10.7.4.17}{507, 925, 9778} यत्र॑¦वदे᳚ते॒ इति॑¦अव॑रः¦परः॑¦च॒¦य॒ज्ञ॒ऽन्योः᳚¦क॒त॒रः¦नौ॒¦वि¦वे॒द॒ | |
कत्य॒ग्नयः॒ कति॒ सूर्या᳚सः॒ कत्यु॒षासः॒ कत्यु॑ स्वि॒दापः॑ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्} नोप॒स्पिजं᳚ वः पितरो वदामि पृ॒च्छामि॑ वः कवयो वि॒द्मने॒ कम् ||{18/19}{8.4.13.3}{10.88.18}{10.7.4.18}{508, 925, 9779} कति॑¦अ॒ग्नयः॑¦कति॑¦सूर्या᳚सः¦कति॑¦उ॒षसः॑¦कति॑¦ऊँ॒ इति॑¦स्वि॒त्¦आपः॑ | |
या॒व॒न्मा॒त्रमु॒षसो॒ न प्रती᳚कं सुप॒र्ण्यो॒३॑(ओ॒) वस॑ते मातरिश्वः |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्} ताव॑द्दधा॒त्युप॑ य॒ज्ञमा॒यन् ब्रा᳚ह्म॒णो होतु॒रव॑रो नि॒षीद॑न् ||{19/19}{8.4.13.4}{10.88.19}{10.7.4.19}{509, 925, 9780} या॒व॒त्ऽमा॒त्रम्¦उ॒षसः॑¦न¦प्रती᳚कम्¦सु॒ऽप॒र्ण्यः॑¦वस॑ते¦मा॒त॒रि॒श्वः॒ | |
[44] इंद्रस्तवेत्यष्टादशर्चस्य सूक्तस्य वैश्वामित्रोरेणुरिंद्रः पंचम्याइंद्रासोमौत्रिष्टुप् | |
इन्द्रं᳚ स्तवा॒ नृत॑मं॒ यस्य॑ म॒ह्ना वि॑बबा॒धे रो᳚च॒ना वि ज्मो, अन्ता॑न् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्} आ यः प॒प्रौ च॑र्षणी॒धृद्वरो᳚भिः॒ प्र सिन्धु॑भ्यो रिरिचा॒नो म॑हि॒त्वा ||{1/18}{8.4.14.1}{10.89.1}{10.7.5.1}{510, 926, 9781} इन्द्र᳚म्¦स्त॒व॒¦नृऽत॑मम्¦यस्य॑¦म॒ह्ना¦वि॒ऽब॒बा॒धे¦रो॒च॒ना¦वि¦ज्मः¦अन्ता॑न् | |
स सूर्यः॒ पर्यु॒रू वरां॒स्येन्द्रो᳚ ववृत्या॒द्रथ्ये᳚व च॒क्रा |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्} अति॑ष्ठन्तमप॒स्य१॑(अं॒) न सर्गं᳚ कृ॒ष्णा तमां᳚सि॒ त्विष्या᳚ जघान ||{2/18}{8.4.14.2}{10.89.2}{10.7.5.2}{511, 926, 9782} सः¦सूर्यः॑¦परि॑¦उ॒रु¦वरां᳚सि¦आ¦इन्द्रः॑¦व॒वृ॒त्या॒त्¦रथ्या᳚ऽइव¦च॒क्रा | |
स॒मा॒नम॑स्मा॒, अन॑पावृदर्च क्ष्म॒या दि॒वो, अस॑मं॒ ब्रह्म॒ नव्य᳚म् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्} वि यः पृ॒ष्ठेव॒ जनि॑मान्य॒र्य इन्द्र॑श्चि॒काय॒ न सखा᳚यमी॒षे ||{3/18}{8.4.14.3}{10.89.3}{10.7.5.3}{512, 926, 9783} स॒मा॒नम्¦अ॒स्मै॒¦अन॑पऽवृत्¦अ॒र्च॒¦क्ष्म॒या¦दि॒वः¦अस॑मम्¦ब्रह्म॑¦नव्य᳚म् | |
इन्द्रा᳚य॒ गिरो॒, अनि॑शितसर्गा, अ॒पः प्रेर॑यं॒ सग॑रस्य बु॒ध्नात् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्} यो, अक्षे᳚णेव च॒क्रिया॒ शची᳚भि॒र्विष्व॑क्त॒स्तम्भ॑ पृथि॒वीमु॒त द्याम् ||{4/18}{8.4.14.4}{10.89.4}{10.7.5.4}{513, 926, 9784} इन्द्रा᳚य¦गिरः॑¦अनि॑शितऽसर्गाः¦अ॒पः¦प्र¦ई॒र॒य॒म्¦सग॑रस्य¦बु॒ध्नात् | |
आपा᳚न्तमन्युस्तृ॒पल॑प्रभर्मा॒ धुनिः॒ शिमी᳚वा॒ञ्छरु॑माँ, ऋजी॒षी |{वैश्वामित्रो रेणुः | इन्द्रासोमौ | त्रिष्टुप्} सोमो॒ विश्वा᳚न्यत॒सा वना᳚नि॒ नार्वागिन्द्रं᳚ प्रति॒माना᳚नि देभुः ||{5/18}{8.4.14.5}{10.89.5}{10.7.5.5}{514, 926, 9785} आपा᳚न्तऽमन्युः¦तृ॒पल॑ऽप्रभर्मा¦धुनिः॑¦शिमी᳚ऽवान्¦शरु॑ऽमान्¦ऋ॒जी॒षी | |
न यस्य॒ द्यावा᳚पृथि॒वी न धन्व॒ नान्तरि॑क्षं॒ नाद्र॑यः॒ सोमो᳚, अक्षाः |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्} यद॑स्य म॒न्युर॑धिनी॒यमा᳚नः शृ॒णाति॑ वी॒ळु रु॒जति॑ स्थि॒राणि॑ ||{6/18}{8.4.15.1}{10.89.6}{10.7.5.6}{515, 926, 9786} न¦यस्य॑¦द्यावा᳚पृथि॒वी इति॑¦न¦धन्व॑¦न¦अ॒न्तरि॑क्षम्¦न¦अद्र॑यः¦सोमः॑¦अ॒क्षा॒रिति॑ | |
ज॒घान॑ वृ॒त्रं स्वधि॑ति॒र्वने᳚व रु॒रोज॒ पुरो॒, अर॑द॒न्न सिन्धू॑न् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्} बि॒भेद॑ गि॒रिं नव॒मिन्न कु॒म्भमा गा, इन्द्रो᳚, अकृणुत स्व॒युग्भिः॑ ||{7/18}{8.4.15.2}{10.89.7}{10.7.5.7}{516, 926, 9787} ज॒घान॑¦वृ॒त्रम्¦स्वऽधि॑तिः¦वना᳚ऽइव¦रु॒रोज॑¦पुरः॑¦अर॑दत्¦न¦सिन्धू॑न् | |
त्वं ह॒ त्यदृ॑ण॒या, इ᳚न्द्र॒ धीरो॒ऽसिर्न पर्व॑ वृजि॒ना शृ॑णासि |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्} प्र ये मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ युजं॒ न जना᳚ मि॒नन्ति॑ मि॒त्रम् ||{8/18}{8.4.15.3}{10.89.8}{10.7.5.8}{517, 926, 9788} त्वम्¦ह॒¦त्यत्¦ऋ॒ण॒ऽयाः¦इ॒न्द्र॒¦धीरः॑¦अ॒सिः¦न¦पर्व॑¦वृ॒जि॒ना¦शृ॒णा॒सि॒ | |
प्र ये मि॒त्रं प्रार्य॒मणं᳚ दु॒रेवाः॒ प्र सं॒गिरः॒ प्र वरु॑णं मि॒नन्ति॑ |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्} न्य१॑(अ॒)मित्रे᳚षु व॒धमि᳚न्द्र॒ तुम्रं॒ वृष॒न् वृषा᳚णमरु॒षं शि॑शीहि ||{9/18}{8.4.15.4}{10.89.9}{10.7.5.9}{518, 926, 9789} प्र¦ये¦मि॒त्रम्¦प्र¦अ॒र्य॒मण᳚म्¦दुः॒ऽएवाः᳚¦प्र¦स॒म्ऽगिरः॑¦प्र¦वरु॑णम्¦मि॒नन्ति॑ | |
इन्द्रो᳚ दि॒व इन्द्र॑ ईशे पृथि॒व्या, इन्द्रो᳚, अ॒पामिन्द्र॒ इत्पर्व॑तानाम् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्} इन्द्रो᳚ वृ॒धामिन्द्र॒ इन्मेधि॑राणा॒मिन्द्रः॒, क्षेमे॒ योगे॒ हव्य॒ इन्द्रः॑ ||{10/18}{8.4.15.5}{10.89.10}{10.7.5.10}{519, 926, 9790} इन्द्रः॑¦दि॒वः¦इन्द्रः॑¦ई॒शे॒¦पृ॒थि॒व्याः¦इन्द्रः॑¦अ॒पाम्¦इन्द्रः॑¦इत्¦पर्व॑तानाम् | |
प्राक्तुभ्य॒ इन्द्रः॒ प्र वृ॒धो, अह॑भ्यः॒ प्रान्तरि॑क्षा॒त्प्र स॑मु॒द्रस्य॑ धा॒सेः |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्} प्र वात॑स्य॒ प्रथ॑सः॒ प्र ज्मो, अन्ता॒त्प्र सिन्धु॑भ्यो रिरिचे॒ प्र क्षि॒तिभ्यः॑ ||{11/18}{8.4.16.1}{10.89.11}{10.7.5.11}{520, 926, 9791} प्र¦अ॒क्तुऽभ्यः॑¦इन्द्रः॑¦प्र¦वृ॒धः¦अह॑ऽभ्यः¦प्र¦अ॒न्तरि॑क्षात्¦प्र¦स॒मु॒द्रस्य॑¦धा॒सेः | |
प्र शोशु॑चत्या, उ॒षसो॒ न के॒तुर॑सि॒न्वा ते᳚ वर्ततामिन्द्र हे॒तिः |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्} अश्मे᳚व विध्य दि॒व आ सृ॑जा॒नस्तपि॑ष्ठेन॒ हेष॑सा॒ द्रोघ॑मित्रान् ||{12/18}{8.4.16.2}{10.89.12}{10.7.5.12}{521, 926, 9792} प्र¦शोशु॑चत्याः¦उ॒षसः॑¦न¦के॒तुः¦अ॒सि॒न्वा¦ते॒¦व॒र्त॒ता॒म्¦इ॒न्द्र॒¦हे॒तिः | |
अन्वह॒ मासा॒, अन् विद्वना॒न्यन्वोष॑धी॒रनु॒ पर्व॑तासः |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्} अन् विन्द्रं॒ रोद॑सी वावशा॒ने, अन्वापो᳚, अजिहत॒ जाय॑मानम् ||{13/18}{8.4.16.3}{10.89.13}{10.7.5.13}{522, 926, 9793} अनु॑¦अह॑¦मासाः᳚¦अनु॑¦इत्¦वना᳚नि¦अनु॑¦ओष॑धीः¦अनु॑¦पर्व॑तासः | |
कर्हि॑ स्वि॒त्सा त॑ इन्द्र चे॒त्यास॑द॒घस्य॒ यद्भि॒नदो॒ रक्ष॒ एष॑त् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्} मि॒त्र॒क्रुवो॒ यच्छस॑ने॒ न गावः॑ पृथि॒व्या, आ॒पृग॑मु॒या शय᳚न्ते ||{14/18}{8.4.16.4}{10.89.14}{10.7.5.14}{523, 926, 9794} कर्हि॑¦स्वि॒त्¦सा¦ते॒¦इ॒न्द्र॒¦चे॒त्या¦अ॒स॒त्¦अ॒घस्य॑¦यत्¦भि॒नदः॑¦रक्षः॑¦आ॒ऽईष॑त् | |
श॒त्रू॒यन्तो᳚, अ॒भि ये न॑स्तत॒स्रे महि॒ व्राध᳚न्त ओग॒णास॑ इन्द्र |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्} अ॒न्धेना॒मित्रा॒स्तम॑सा सचन्तां सुज्यो॒तिषो᳚, अ॒क्तव॒स्ताँ, अ॒भि ष्युः॑ ||{15/18}{8.4.16.5}{10.89.15}{10.7.5.15}{524, 926, 9795} श॒त्रु॒ऽयन्तः॑¦अ॒भि¦ये¦नः॒¦त॒त॒स्रे¦महि॑¦व्राध᳚न्तः¦ओ॒ग॒णासः॑¦इ॒न्द्र॒ | |
पु॒रूणि॒ हि त्वा॒ सव॑ना॒ जना᳚नां॒ ब्रह्मा᳚णि॒ मन्द॑न् गृण॒तामृषी᳚णाम् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्} इ॒मामा॒घोष॒न्नव॑सा॒ सहू᳚तिं ति॒रो विश्वाँ॒, अर्च॑तो याह्य॒र्वाङ् ||{16/18}{8.4.16.6}{10.89.16}{10.7.5.16}{525, 926, 9796} पु॒रूणि॑¦हि¦त्वा॒¦सव॑ना¦जना᳚नाम्¦ब्रह्मा᳚णि¦मन्द॑न्¦गृ॒ण॒ताम्¦ऋषी᳚णाम् | |
ए॒वा ते᳚ व॒यमि᳚न्द्र भुञ्जती॒नां वि॒द्याम॑ सुमती॒नां नवा᳚नाम् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्} वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो᳚ वि॒श्वामि॑त्रा, उ॒त त॑ इन्द्र नू॒नम् ||{17/18}{8.4.16.7}{10.89.17}{10.7.5.17}{526, 926, 9797} ए॒व¦ते॒¦व॒यम्¦इ॒न्द्र॒¦भुं॒ज॒ती॒नाम्¦वि॒द्याम॑¦सु॒ऽम॒ती॒नाम्¦नवा᳚नाम् | |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{18/18}{8.4.16.8}{10.89.18}{10.7.5.18}{527, 926, 9798} शु॒नम्¦हु॒वे॒म॒¦म॒घऽवा᳚नम्¦इन्द्र᳚म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑मम्¦वाज॑ऽसातौ | |
[45] सहस्रशीर्षेति षोळशर्चस्य सूक्तस्य नारायणः पुरुषोनुष्टुबंत्यात्रिष्टुप् | |
स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् |{नारायणः | पुरुषः | अनुष्टुप्} स भूमिं᳚ वि॒श्वतो᳚ वृ॒त्वाऽत्य॑तिष्ठद्दशाङ्गु॒लम् ||{1/16}{8.4.17.1}{10.90.1}{10.7.6.1}{528, 927, 9799} स॒हस्र॑ऽशीर्षा¦पुरु॑षः¦स॒ह॒स्र॒।आ॒क्षः¦स॒हस्र॑ऽपात् | सः¦भूमि᳚म्¦वि॒श्वतः॑¦वृ॒त्वा¦अति॑¦अ॒ति॒ष्ठ॒त्¦द॒श॒।आ॒ङ्गु॒लम् || |
पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॒ भव्य᳚म् |{नारायणः | पुरुषः | अनुष्टुप्} उ॒तामृ॑त॒त्वस्येशा᳚नो॒ यदन्ने᳚नाति॒रोह॑ति ||{2/16}{8.4.17.2}{10.90.2}{10.7.6.2}{529, 927, 9800} पुरु॑षः¦ए॒व¦इ॒दम्¦सर्व᳚म्¦यत्¦भू॒तम्¦यत्¦च॒¦भव्य᳚म् | उ॒त¦अ॒मृ॒त॒ऽत्वस्य॑¦ईशा᳚नः¦यत्¦अन्ने᳚न¦अ॒ति॒ऽरोह॑ति || |
ए॒तावा᳚नस्य महि॒माऽतो॒ ज्यायाँ᳚श्च॒ पूरु॑षः |{नारायणः | पुरुषः | अनुष्टुप्} पादो᳚ऽस्य॒ विश्वा᳚ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं᳚ दि॒वि ||{3/16}{8.4.17.3}{10.90.3}{10.7.6.3}{530, 927, 9801} ए॒तावा᳚न्¦अ॒स्य॒¦म॒हि॒मा¦अतः॑¦ज्याया᳚न्¦च॒¦पुरु॑षः | पादः॑¦अ॒स्य॒¦विश्वा᳚¦भू॒तानि॑¦त्रि॒ऽपात्¦अ॒स्य॒¦अ॒मृत᳚म्¦दि॒वि || |
त्रि॒पादू॒र्ध्व उदै॒त् पुरु॑षः॒ पादो᳚ऽस्ये॒हाभ॑व॒त् पुनः॑ |{नारायणः | पुरुषः | अनुष्टुप्} ततो॒ विष्व॒ङ् व्य॑क्रामत् साशनानश॒ने, अ॒भि ||{4/16}{8.4.17.4}{10.90.4}{10.7.6.4}{531, 927, 9802} त्रि॒ऽपात्¦ऊ॒र्ध्व¦उत्¦ऐ॒त्¦पुरु॑षः¦पादः॑¦अ॒स्य॒¦इ॒ह¦अ॒भ॒व॒त्¦पुन॒रिति॑ | ततः॑¦विष्व᳚ङ्¦वि¦अ॒क्रा॒म॒त्¦सा॒श॒ना॒न॒श॒ने इति॑¦अ॒भि || |
तस्मा᳚द्वि॒राळ॑जायत वि॒राजो॒, अधि॒ पूरु॑षः |{नारायणः | पुरुषः | अनुष्टुप्} स जा॒तो, अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो᳚ पु॒रः ||{5/16}{8.4.17.5}{10.90.5}{10.7.6.5}{532, 927, 9803} तस्मा᳚त्¦वि॒राट्¦अ॒जा॒य॒त॒¦वि॒ऽराजः॑¦अधि॑¦पुरु॑षः | सः¦जा॒तः¦अति॑¦अ॒रि॒च्य॒त॒¦प॒श्चात्¦भूमि᳚म्¦अथो॒ इति॑¦पु॒रः || |
यत् पुरु॑षेण ह॒विषा᳚ दे॒वा य॒ज्ञमत᳚न्वत |{नारायणः | पुरुषः | अनुष्टुप्} व॒स॒न्तो, अ॑स्यासी॒दाज्यं᳚ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ||{6/16}{8.4.18.1}{10.90.6}{10.7.6.6}{533, 927, 9804} यत्¦पुरु॑षेण¦ह॒विषा᳚¦दे॒वाः¦य॒ज्ञम्¦अत᳚न्वत | व॒स॒न्तः¦अ॒स्य॒¦आ॒सी॒त्¦आज्य᳚म्¦ग्री॒ष्मः¦इ॒द्मः¦श॒रत्¦ह॒विः || |
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॒न् पुरु॑षं जा॒तम॑ग्र॒तः |{नारायणः | पुरुषः | अनुष्टुप्} तेन॑ दे॒वा, अ॑यजन्त सा॒ध्या, ऋष॑यश्च॒ ये ||{7/16}{8.4.18.2}{10.90.7}{10.7.6.7}{534, 927, 9805} तम्¦य॒ज्ञम्¦ब॒र्हिषि॑¦प्र¦औ॒क्ष॒न्¦पुरु॑षम्¦जा॒तम्¦अ॒ग्र॒तः | तेन॑¦दे॒वाः¦अ॒य॒ज॒न्त॒¦सा॒ध्याः¦ऋष॑यः¦च॒¦ये || |
तस्मा᳚द्य॒ज्ञात् स᳚र्व॒हुतः॒ सम्भृ॑तं पृषदा॒ज्यम् |{नारायणः | पुरुषः | अनुष्टुप्} प॒शून् ताँश्च॑क्रे वाय॒व्या᳚नार॒ण्यान् ग्रा॒म्याश्च॒ ये ||{8/16}{8.4.18.3}{10.90.8}{10.7.6.8}{535, 927, 9806} तस्मा᳚त्¦य॒ज्ञात्¦स॒र्व॒ऽहुतः॑¦सम्ऽभृ॑तम्¦पृ॒ष॒त्ऽआ॒ज्यम् | प॒शून्¦तान्¦च॒क्रे॒¦वा॒य॒व्या᳚न्¦आ॒र॒ण्यान्¦ग्रा॒म्याः¦च॒¦ये || |
तस्मा᳚द्य॒ज्ञात् स᳚र्व॒हुत॒ ऋचः॒ सामा᳚नि जज्ञिरे |{नारायणः | पुरुषः | अनुष्टुप्} छन्दां᳚सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा᳚दजायत ||{9/16}{8.4.18.4}{10.90.9}{10.7.6.9}{536, 927, 9807} तस्मा᳚त्¦य॒ज्ञात्¦स॒र्व॒ऽहुतः॑¦ऋचः॑¦सामा᳚नि¦ज॒ज्ञि॒रे॒ | छन्दां᳚सि¦ज॒ज्ञि॒रे॒¦तस्मा᳚त्¦यजुः॑¦तस्मा᳚त्¦अ॒जा॒य॒त॒ || |
तस्मा॒दश्वा᳚, अजायन्त॒ ये के चो᳚भ॒याद॑तः |{नारायणः | पुरुषः | अनुष्टुप्} गावो᳚ ह जज्ञिरे॒ तस्मा॒त् तस्मा᳚ज्जा॒ता, अ॑जा॒वयः॑ ||{10/16}{8.4.18.5}{10.90.10}{10.7.6.10}{537, 927, 9808} तस्मा᳚त्¦अश्वाः᳚¦अ॒जा॒य॒न्त॒¦ये¦के¦च॒¦उ॒भ॒याद॑तः | गावः॑¦ह॒¦ज॒ज्ञि॒रे॒¦तस्मा᳚त्¦तस्मा᳚त्¦जा॒ताः¦अ॒जा॒वयः॑ || |
यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् |{नारायणः | पुरुषः | अनुष्टुप्} मुखं॒ किम॑स्य॒ कौ बा॒हू का, ऊ॒रू पादा᳚, उच्येते ||{11/16}{8.4.19.1}{10.90.11}{10.7.6.11}{538, 927, 9809} यत्¦पुरु॑षम्¦वि¦अद॑धुः¦क॒ति॒धा¦वि¦अ॒क॒ल्प॒य॒न् | मुख᳚म्¦किम्¦अ॒स्य॒¦कौ¦बा॒हू इति॑¦कौ¦ऊ॒रू इति॑¦पादौ᳚¦उ॒च्ये॒ते॒ इति॑ || |
ब्रा॒ह्म॒णो᳚ स्य॒ मुख॑मासीद्बा॒हू रा᳚ज॒न्यः॑ कृ॒तः |{नारायणः | पुरुषः | अनुष्टुप्} ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्यां शू॒द्रो, अ॑जायत ||{12/16}{8.4.19.2}{10.90.12}{10.7.6.12}{539, 927, 9810} ब्रा॒ह्म॒णः¦अ॒स्य॒¦मुख᳚म्¦आ॒सी॒त्¦बा॒हू इति॑¦रा॒ज॒न्यः॑¦कृ॒तः | ऊ॒रू इति॑¦तत्¦अ॒स्य॒¦यत्¦वैश्यः॑¦प॒त्ऽभ्याम्¦शू॒द्रः¦अ॒जा॒य॒त॒ || |
च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो᳚, अजायत |{नारायणः | पुरुषः | अनुष्टुप्} मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत ||{13/16}{8.4.19.3}{10.90.13}{10.7.6.13}{540, 927, 9811} च॒न्द्रमाः᳚¦मन॑सः¦जा॒तः¦चक्षोः᳚¦सूर्यः॑¦अ॒जा॒य॒त॒ | मुखा᳚त्¦इन्द्रः॑¦च॒¦अ॒ग्निः¦च॒¦प्रा॒णात्¦वा॒युः¦अ॒जा॒य॒त॒ || |
नाभ्या᳚, आसीद॒न्तरि॑क्षं शी॒र्ष्णो द्यौः सम॑वर्तत |{नारायणः | पुरुषः | अनुष्टुप्} प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॒त् तथा᳚ लो॒काँ, अ॑कल्पयन् ||{14/16}{8.4.19.4}{10.90.14}{10.7.6.14}{541, 927, 9812} नाभ्याः᳚¦आ॒सी॒त्¦अ॒न्तरि॑क्षम्¦शी॒र्ष्णः¦द्यौः¦सम्¦अ॒व॒र्त॒त॒ | प॒त्ऽभ्याम्¦भूमिः॑¦दिशः॑¦श्रोत्रा᳚त्¦तथा᳚¦लो॒कान्¦अ॒क॒ल्प॒य॒न् || |
स॒प्तास्या᳚सन् परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः |{नारायणः | पुरुषः | अनुष्टुप्} दे॒वा यद्य॒ज्ञं त᳚न्वा॒ना, अब॑ध्न॒न् पुरु॑षं प॒शुम् ||{15/16}{8.4.19.5}{10.90.15}{10.7.6.15}{542, 927, 9813} स॒प्त¦अ॒स्य॒¦आ॒स॒न्¦प॒रि॒ऽधयः॑¦त्रिः¦स॒प्त¦स॒म्ऽइधः॑¦कृ॒ताः | दे॒वाः¦यत्¦य॒ज्ञम्¦त॒न्वा॒नाः¦अब॑ध्नन्¦पुरु॑षम्¦प॒शुम् || |
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा᳚णि प्रथ॒मान्या᳚सन् |{नारायणः | पुरुषः | त्रिष्टुप्} ते ह॒ नाकं᳚ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे᳚ सा॒ध्याः सन्ति॑ दे॒वाः ||{16/16}{8.4.19.6}{10.90.16}{10.7.6.16}{543, 927, 9814} य॒ज्ञेन॑¦य॒ज्ञम्¦अ॒य॒ज॒न्त॒¦दे॒वाः¦तानि॑¦धर्मा᳚णि¦प्र॒थ॒मानि॑¦आ॒स॒न् | |
[46] संजागृवद्भिरिति पंचदशर्चस्य सूक्तस्य वैतहव्योरुणोग्निर्जगत्यंयात्रिष्टुप् | |
सं जा᳚गृ॒वद्भि॒र्जर॑माण इध्यते॒ दमे॒ दमू᳚ना, इ॒षय᳚न्नि॒ळस्प॒दे |{वैतहव्यो रुणः | अग्निः | जगती} विश्व॑स्य॒ होता᳚ ह॒विषो॒ वरे᳚ण्यो वि॒भुर्वि॒भावा᳚ सु॒षखा᳚ सखीय॒ते ||{1/15}{8.4.20.1}{10.91.1}{10.8.1.1}{544, 928, 9815} सम्¦जा॒गृ॒वत्ऽभिः॑¦जर॑माणः¦इ॒द्य॒ते॒¦दमे᳚¦दमू᳚नाः¦इ॒षय॑न्¦इ॒ळः¦प॒दे | |
स द॑र्शत॒श्रीरति॑थिर्गृ॒हेगृ॑हे॒ वने᳚वने शिश्रिये तक्व॒वीरि॑व |{वैतहव्यो रुणः | अग्निः | जगती} जनं᳚जनं॒ जन्यो॒ नाति॑ मन्यते॒ विश॒ आ क्षे᳚ति वि॒श्यो॒३॑(ओ॒) विशं᳚विशम् ||{2/15}{8.4.20.2}{10.91.2}{10.8.1.2}{545, 928, 9816} सः¦द॒र्श॒त॒ऽश्रीः¦अति॑थिः¦गृ॒हेऽगृ॑हे¦वने᳚ऽवने¦शि॒श्रि॒ये॒¦त॒क्व॒वीःऽइ᳚व | |
सु॒दक्षो॒ दक्षैः॒ क्रतु॑नासि सु॒क्रतु॒रग्ने᳚ क॒विः काव्ये᳚नासि विश्व॒वित् |{वैतहव्यो रुणः | अग्निः | जगती} वसु॒र्वसू᳚नां क्षयसि॒ त्वमेक॒ इद्द्यावा᳚ च॒ यानि॑ पृथि॒वी च॒ पुष्य॑तः ||{3/15}{8.4.20.3}{10.91.3}{10.8.1.3}{546, 928, 9817} सु॒ऽदक्षः॑¦दक्षः॑¦क्रतु॑ना¦अ॒सि॒¦सु॒ऽक्रतुः॑¦अग्ने᳚¦क॒विः¦काव्ये᳚न¦अ॒सि॒¦वि॒श्व॒ऽवित् | |
प्र॒जा॒नन्न॑ग्ने॒ तव॒ योनि॑मृ॒त्विय॒मिळा᳚यास्प॒दे घृ॒तव᳚न्त॒मास॑दः |{वैतहव्यो रुणः | अग्निः | जगती} आ ते᳚ चिकित्र उ॒षसा᳚मि॒वेत॑योऽरे॒पसः॒ सूर्य॑स्येव र॒श्मयः॑ ||{4/15}{8.4.20.4}{10.91.4}{10.8.1.4}{547, 928, 9818} प्र॒ऽजा॒नन्¦अ॒ग्ने॒¦तव॑¦योनि᳚म्¦ऋ॒त्विय᳚म्¦इळा᳚याः¦प॒दे¦घृ॒तऽव᳚न्तम्¦आ¦अ॒स॒दः॒ | |
तव॒ श्रियो᳚ व॒र्ष्य॑स्येव वि॒द्युत॑श्चि॒त्राश्चि॑कित्र उ॒षसां॒ न के॒तवः॑ |{वैतहव्यो रुणः | अग्निः | जगती} यदोष॑धीर॒भिसृ॑ष्टो॒ वना᳚नि च॒ परि॑ स्व॒यं चि॑नु॒षे, अन्न॑मा॒स्ये᳚ ||{5/15}{8.4.20.5}{10.91.5}{10.8.1.5}{548, 928, 9819} तव॑¦श्रियः॑¦व॒र्ष्य॑स्यऽइव¦वि॒ऽद्युतः॑¦चि॒त्राः¦चि॒कि॒त्रे॒¦उ॒षसा᳚म्¦न¦के॒तवः॑ | |
तमोष॑धीर्दधिरे॒ गर्भ॑मृ॒त्वियं॒ तमापो᳚, अ॒ग्निं ज॑नयन्त मा॒तरः॑ |{वैतहव्यो रुणः | अग्निः | जगती} तमित्स॑मा॒नं व॒निन॑श्च वी॒रुधो॒ऽन्तर्व॑तीश्च॒ सुव॑ते च वि॒श्वहा᳚ ||{6/15}{8.4.21.1}{10.91.6}{10.8.1.6}{549, 928, 9820} तम्¦ओष॑धीः¦द॒धि॒रे॒¦गर्भ᳚म्¦ऋ॒त्विय᳚म्¦तम्¦आपः॑¦अ॒ग्निम्¦ज॒न॒य॒न्त॒¦मा॒तरः॑ | |
वातो᳚पधूत इषि॒तो वशाँ॒, अनु॑ तृ॒षु यदन्ना॒ वेवि॑षद्वि॒तिष्ठ॑से |{वैतहव्यो रुणः | अग्निः | जगती} आ ते᳚ यतन्ते र॒थ्यो॒३॑(ओ॒) यथा॒ पृथ॒क्छर्धां᳚स्यग्ने, अ॒जरा᳚णि॒ धक्ष॑तः ||{7/15}{8.4.21.2}{10.91.7}{10.8.1.7}{550, 928, 9821} वात॑।औपधूतः¦इ॒षि॒तः¦वशा᳚न्¦अनु॑¦तृ॒षु¦यत्¦अन्ना᳚¦वेवि॑षत्¦व्ऽतिष्ठ॑से | |
मे॒धा॒का॒रं वि॒दथ॑स्य प्र॒साध॑नम॒ग्निं होता᳚रं परि॒भूत॑मं म॒तिम् |{वैतहव्यो रुणः | अग्निः | जगती} तमिदर्भे᳚ ह॒विष्या स॑मा॒नमित्तमिन्म॒हे वृ॑णते॒ नान्यं त्वत् ||{8/15}{8.4.21.3}{10.91.8}{10.8.1.8}{551, 928, 9822} मे॒धा॒ऽका॒रम्¦वि॒दथ॑स्य¦प्र॒ऽसाध॑नम्¦अ॒ग्निम्¦होता᳚रम्¦प॒रि॒ऽभूत॑मम्¦म॒तिम् | |
त्वामिदत्र॑ वृणते त्वा॒यवो॒ होता᳚रमग्ने वि॒दथे᳚षु वे॒धसः॑ |{वैतहव्यो रुणः | अग्निः | जगती} यद्दे᳚व॒यन्तो॒ दध॑ति॒ प्रयां᳚सि ते ह॒विष्म᳚न्तो॒ मन॑वो वृ॒क्तब᳚र्हिषः ||{9/15}{8.4.21.4}{10.91.9}{10.8.1.9}{552, 928, 9823} त्वाम्¦इत्¦अत्र॑¦वृ॒ण॒ते॒¦त्वा॒ऽयवः॑¦होता᳚रम्¦अ॒ग्ने॒¦वि॒दथे᳚षु¦वे॒धसः॑ | |
तवा᳚ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः |{वैतहव्यो रुणः | अग्निः | जगती} तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे᳚ ||{10/15}{8.4.21.5}{10.91.10}{10.8.1.10}{553, 928, 9824} तव॑¦अ॒ग्ने॒¦हो॒त्रम्¦तव॑¦पो॒त्रम्¦ऋ॒त्विय᳚म्¦तव॑¦ने॒ष्ट्रम्¦त्वम्¦अ॒ग्नित्¦ऋ॒त॒ऽय॒तः | |
यस्तुभ्य॑मग्ने, अ॒मृता᳚य॒ मर्त्यः॑ स॒मिधा॒ दाश॑दु॒त वा᳚ ह॒विष्कृ॑ति |{वैतहव्यो रुणः | अग्निः | जगती} तस्य॒ होता᳚ भवसि॒ यासि॑ दू॒त्य१॑(अ॒)मुप॑ ब्रूषे॒ यज॑स्यध्वरी॒यसि॑ ||{11/15}{8.4.22.1}{10.91.11}{10.8.1.11}{554, 928, 9825} यः¦तुभ्य᳚म्¦अ॒ग्ने॒¦अ॒मृता᳚य¦मर्त्यः॑¦स॒म्ऽइधा᳚¦दाश॑त्¦उ॒त¦वा॒¦ह॒विःऽकृ॑ति | |
इ॒मा, अ॑स्मै म॒तयो॒ वाचो᳚, अ॒स्मदाँ, ऋचो॒ गिरः॑ सुष्टु॒तयः॒ सम॑ग्मत |{वैतहव्यो रुणः | अग्निः | जगती} व॒सू॒यवो॒ वस॑वे जा॒तवे᳚दसे वृ॒द्धासु॑ चि॒द्वर्ध॑नो॒ यासु॑ चा॒कन॑त् ||{12/15}{8.4.22.2}{10.91.12}{10.8.1.12}{555, 928, 9826} इ॒माः¦अ॒स्मै॒¦म॒तयः॑¦वाचः॑¦अ॒स्मत्¦आ¦ऋचः॑¦गिरः॑¦सु॒ऽस्तु॒तयः॑¦सम्¦अ॒ग्म॒त॒ | |
इ॒मां प्र॒त्नाय॑ सुष्टु॒तिं नवी᳚यसीं वो॒चेय॑मस्मा, उश॒ते शृ॒णोतु॑ नः |{वैतहव्यो रुणः | अग्निः | जगती} भू॒या, अन्त॑रा हृ॒द्य॑स्य नि॒स्पृशे᳚ जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः᳚ ||{13/15}{8.4.22.3}{10.91.13}{10.8.1.13}{556, 928, 9827} इ॒माम्¦प्र॒त्नाय॑¦सु॒ऽस्तु॒तिम्¦नवी᳚यसीम्¦वो॒चेय᳚म्¦अ॒स्मै॒¦उ॒श॒ते¦शृ॒णोतु॑¦नः॒ | |
यस्मि॒न्नश्वा᳚स ऋष॒भास॑ उ॒क्षणो᳚ व॒शा मे॒षा, अ॑वसृ॒ष्टास॒ आहु॑ताः |{वैतहव्यो रुणः | अग्निः | जगती} की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे᳚ हृ॒दा म॒तिं ज॑नये॒ चारु॑म॒ग्नये᳚ ||{14/15}{8.4.22.4}{10.91.14}{10.8.1.14}{557, 928, 9828} यस्मि॑न्¦अश्वा᳚सः¦ऋ॒ष॒भासः॑¦उ॒क्षणः॑¦व॒शाः¦मे॒षाः¦अ॒व॒ऽसृ॒ष्टासः॑¦आऽहु॑ताः | |
अहा᳚व्यग्ने ह॒विरा॒स्ये᳚ ते स्रु॒ची᳚व घृ॒तं च॒म्वी᳚व॒ सोमः॑ |{वैतहव्यो रुणः | अग्निः | त्रिष्टुप्} वा॒ज॒सनिं᳚ र॒यिम॒स्मे सु॒वीरं᳚ प्रश॒स्तं धे᳚हि य॒शसं᳚ बृ॒हन्त᳚म् ||{15/15}{8.4.22.5}{10.91.15}{10.8.1.15}{558, 928, 9829} अहा᳚वि¦अ॒ग्ने॒¦ह॒विः¦आ॒स्ये᳚¦ते॒¦स्रु॒चिऽइ᳚व¦घृ॒तम्¦च॒म्वि॑ऽइव¦सोमः॑ | |
[47] यज्ञस्येति पंचदशर्चस्य सूक्तस्य मानवःशार्यातोविश्वेदेवाजगती | |
य॒ज्ञस्य॑ वो र॒थ्यं᳚ वि॒श्पतिं᳚ वि॒शां होता᳚रम॒क्तोरति॑थिं वि॒भाव॑सुम् |{मानवो शार्यातः | विश्वदेवाः | जगती} शोच॒ञ्छुष्का᳚सु॒ हरि॑णीषु॒ जर्भु॑र॒द्वृषा᳚ के॒तुर्य॑ज॒तो द्याम॑शायत ||{1/15}{8.4.23.1}{10.92.1}{10.8.2.1}{559, 929, 9830} य॒ज्ञस्य॑¦वः॒¦र॒थ्य᳚म्¦वि॒श्पति᳚म्¦वि॒शाम्¦होता᳚रम्¦अ॒क्तोः¦अति॑थिम्¦वि॒भाऽव॑सुम् | |
इ॒मम᳚ञ्ज॒स्पामु॒भये᳚, अकृण्वत ध॒र्माण॑म॒ग्निं वि॒दथ॑स्य॒ साध॑नम् |{मानवो शार्यातः | विश्वदेवाः | जगती} अ॒क्तुं न य॒ह्वमु॒षसः॑ पु॒रोहि॑तं॒ तनू॒नपा᳚तमरु॒षस्य॑ निंसते ||{2/15}{8.4.23.2}{10.92.2}{10.8.2.2}{560, 929, 9831} इ॒मम्¦अं॒जः॒ऽपाम्¦उ॒भये᳚¦अ॒कृ॒ण्व॒त॒¦ध॒र्माण᳚म्¦अ॒ग्निम्¦वि॒दथ॑स्य¦साध॑नम् | |
बळ॑स्य नी॒था वि प॒णेश्च॑ मन्महे व॒या, अ॑स्य॒ प्रहु॑ता, आसु॒रत्त॑वे |{मानवो शार्यातः | विश्वदेवाः | जगती} य॒दा घो॒रासो᳚, अमृत॒त्वमाश॒तादिज्जन॑स्य॒ दैव्य॑स्य चर्किरन् ||{3/15}{8.4.23.3}{10.92.3}{10.8.2.3}{561, 929, 9832} बट्¦अ॒स्य॒¦नी॒था¦वि¦प॒णेः¦च॒¦म॒न्म॒हे॒¦व॒याः¦अ॒स्य॒¦प्रऽहु॑ताः¦आ॒सुः॒¦अत्त॑वे | |
ऋ॒तस्य॒ हि प्रसि॑ति॒र्द्यौरु॒रु व्यचो॒ नमो᳚ म॒ह्य१॑(अ॒)रम॑तिः॒ पनी᳚यसी |{मानवो शार्यातः | विश्वदेवाः | जगती} इन्द्रो᳚ मि॒त्रो वरु॑णः॒ सं चि॑कित्रि॒रेऽथो॒ भगः॑ सवि॒ता पू॒तद॑क्षसः ||{4/15}{8.4.23.4}{10.92.4}{10.8.2.4}{562, 929, 9833} ऋ॒तस्य॑¦हि¦प्रऽसि॑तिः¦द्यौः¦उ॒रु¦व्यचः॑¦नमः॑¦म॒ही¦अ॒रम॑तिः¦पना᳚यसी | |
प्र रु॒द्रेण॑ य॒यिना᳚ यन्ति॒ सिन्ध॑वस्ति॒रो म॒हीम॒रम॑तिं दधन् विरे |{मानवो शार्यातः | विश्वदेवाः | जगती} येभिः॒ परि॑ज्मा परि॒यन्नु॒रु ज्रयो॒ वि रोरु॑वज्ज॒ठरे॒ विश्व॑मु॒क्षते᳚ ||{5/15}{8.4.23.5}{10.92.5}{10.8.2.5}{563, 929, 9834} प्र¦रु॒द्रेण॑¦य॒यिना᳚¦य॒न्ति॒¦सिन्ध॑वः¦ति॒रः¦म॒हीम्¦अ॒रम॑तिम्¦द॒ध॒न्वि॒रे॒ | |
क्रा॒णा रु॒द्रा म॒रुतो᳚ वि॒श्वकृ॑ष्टयो दि॒वः श्ये॒नासो॒, असु॑रस्य नी॒ळयः॑ |{मानवो शार्यातः | विश्वदेवाः | जगती} तेभि॑श्चष्टे॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मेन्द्रो᳚ दे॒वेभि॑रर्व॒शेभि॒रर्व॑शः ||{6/15}{8.4.24.1}{10.92.6}{10.8.2.6}{564, 929, 9835} क्रा॒णाः¦रु॒द्राः¦म॒रुतः॑¦वि॒श्वऽकृ॑ष्टयः¦दि॒वः¦श्ये॒नासः॑¦असु॑रस्य¦नी॒ळयः॑ | |
इन्द्रे॒ भुजं᳚ शशमा॒नास॑ आशत॒ सूरो॒ दृशी᳚के॒ वृष॑णश्च॒ पौंस्ये᳚ |{मानवो शार्यातः | विश्वदेवाः | जगती} प्र ये न्व॑स्या॒र्हणा᳚ ततक्षि॒रे युजं॒ वज्रं᳚ नृ॒षद॑नेषु का॒रवः॑ ||{7/15}{8.4.24.2}{10.92.7}{10.8.2.7}{565, 929, 9836} इन्द्रे᳚¦भुज᳚म्¦श॒श॒मा॒नासः॑¦आ॒श॒त॒¦सूरः॑¦दृशी᳚के¦वृष॑णः¦च॒¦पौंस्ये᳚ | |
सूर॑श्चि॒दा ह॒रितो᳚, अस्य रीरम॒दिन्द्रा॒दा कश्चि॑द्भयते॒ तवी᳚यसः |{मानवो शार्यातः | विश्वदेवाः | जगती} भी॒मस्य॒ वृष्णो᳚ ज॒ठरा᳚दभि॒श्वसो᳚ दि॒वेदि॑वे॒ सहु॑रिः स्त॒न्नबा᳚धितः ||{8/15}{8.4.24.3}{10.92.8}{10.8.2.8}{566, 929, 9837} सूरः॑¦चि॒त्¦आ¦ह॒रितः॑¦अ॒स्य॒¦री॒र॒म॒त्¦इन्द्रा᳚त्¦आ¦कः¦चि॒त्¦भ॒य॒ते॒¦तवी᳚यसः | |
स्तोमं᳚ वो, अ॒द्य रु॒द्राय॒ शिक्व॑से क्ष॒यद्वी᳚राय॒ नम॑सा दिदिष्टन |{मानवो शार्यातः | विश्वदेवाः | जगती} येभिः॑ शि॒वः स्ववाँ᳚, एव॒याव॑भिर्दि॒वः सिष॑क्ति॒ स्वय॑शा॒ निका᳚मभिः ||{9/15}{8.4.24.4}{10.92.9}{10.8.2.9}{567, 929, 9838} स्तोम᳚म्¦वः॒¦अ॒द्य¦रु॒द्राय॑¦शिक्व॑से¦क्ष॒यत्ऽवी᳚राय¦नम॑सा¦दि॒दि॒ष्ट॒न॒ | |
ते हि प्र॒जाया॒, अभ॑रन्त॒ वि श्रवो॒ बृह॒स्पति᳚र्वृष॒भः सोम॑जामयः |{मानवो शार्यातः | विश्वदेवाः | जगती} य॒ज्ञैरथ᳚र्वा प्रथ॒मो वि धा᳚रयद्दे॒वा दक्षै॒र्भृग॑वः॒ सं चि॑कित्रिरे ||{10/15}{8.4.24.5}{10.92.10}{10.8.2.10}{568, 929, 9839} ते¦हि¦प्र॒ऽजायाः᳚¦अभ॑रन्त¦वि¦श्रवः॑¦बृह॒स्पतिः॑¦वृ॒ष॒भः¦सोम॑ऽजामयः | |
ते हि द्यावा᳚पृथि॒वी भूरि॑रेतसा॒ नरा॒शंस॒श्चतु॑रङ्गो य॒मोऽदि॑तिः |{मानवो शार्यातः | विश्वदेवाः | जगती} दे॒वस्त्वष्टा᳚ द्रविणो॒दा, ऋ॑भु॒क्षणः॒ प्र रो᳚द॒सी म॒रुतो॒ विष्णु॑रर्हिरे ||{11/15}{8.4.25.1}{10.92.11}{10.8.2.11}{569, 929, 9840} ते¦हि¦द्यावा᳚पृथि॒वी इति॑¦भूरि॑ऽरेतसा¦नरा॒शंसः॑¦चतुः॑।आङ्गः¦य॒मः¦अदि॑तिः | |
उ॒त स्य न॑ उ॒शिजा᳚मुर्वि॒या क॒विरहिः॑ शृणोतु बु॒ध्न्यो॒३॑(ओ॒) हवी᳚मनि |{मानवो शार्यातः | विश्वदेवाः | जगती} सूर्या॒मासा᳚ वि॒चर᳚न्ता दिवि॒क्षिता᳚ धि॒या श॑मीनहुषी, अ॒स्य बो᳚धतम् ||{12/15}{8.4.25.2}{10.92.12}{10.8.2.12}{570, 929, 9841} उ॒त¦स्यः¦नः॒¦उ॒शिजा᳚म्¦उ॒र्वि॒या¦क॒विः¦अहिः॑¦शृ॒णो॒तु॒¦बु॒ध्न्यः॑¦हवी᳚मनि | |
प्र नः॑ पू॒षा च॒रथं᳚ वि॒श्वदे᳚व्यो॒ऽपां नपा᳚दवतु वा॒युरि॒ष्टये᳚ |{मानवो शार्यातः | विश्वदेवाः | जगती} आ॒त्मानं॒ वस्यो᳚, अ॒भि वात॑मर्चत॒ तद॑श्विना सुहवा॒ याम॑नि श्रुतम् ||{13/15}{8.4.25.3}{10.92.13}{10.8.2.13}{571, 929, 9842} प्र¦नः॒¦पू॒षा¦च॒रथ᳚म्¦वि॒श्वऽदे᳚व्यः¦अ॒पाम्¦नपा᳚त्¦अ॒व॒तु॒¦वा॒युः¦इ॒ष्टये᳚ | |
वि॒शामा॒सामभ॑यानामधि॒क्षितं᳚ गी॒र्भिरु॒ स्वय॑शसं गृणीमसि |{मानवो शार्यातः | विश्वदेवाः | जगती} ग्नाभि॒र्विश्वा᳚भि॒रदि॑तिमन॒र्वण॑म॒क्तोर्युवा᳚नं नृ॒मणा॒, अधा॒ पति᳚म् ||{14/15}{8.4.25.4}{10.92.14}{10.8.2.14}{572, 929, 9843} वि॒शाम्¦आ॒साम्¦अभ॑यानाम्¦अ॒धि॒ऽक्षित᳚म्¦गीः॒ऽभिः¦ऊँ॒ इति॑¦स्वऽय॑शसम्¦गृ॒णी॒म॒सि॒ | |
रेभ॒दत्र॑ ज॒नुषा॒ पूर्वो॒, अङ्गि॑रा॒ ग्रावा᳚ण ऊ॒र्ध्वा, अ॒भि च॑क्षुरध्व॒रम् |{मानवो शार्यातः | विश्वदेवाः | जगती} येभि॒र्विहा᳚या॒, अभ॑वद्विचक्ष॒णः पाथः॑ सु॒मेकं॒ स्वधि॑ति॒र्वन᳚न्वति ||{15/15}{8.4.25.5}{10.92.15}{10.8.2.15}{573, 929, 9844} रेभ॑त्¦अत्र॑¦ज॒नुषा᳚¦पूर्वः॑¦अङ्गि॑राः¦ग्रावा᳚णः¦ऊ॒र्ध्वाः᳚¦अ॒भि¦च॒क्षुः॒¦अ॒ध्व॒रम् | |
[48] महीति पंचदशर्चस्य सूक्तस्य पार्थ्यस्तान्वो विश्वेदेवाः प्रस्तारपंक्तिर्द्वितीयात्रयोदश्यनुष्टुभौ नवम्यक्षरौपंक्तिरेकादशीन्यं कुसारिण्यंत्यापुरस्ताद्बृहती | |
महि॑ द्यावापृथिवी भूतमु॒र्वी नारी᳚ य॒ह्वी न रोद॑सी॒ सदं᳚ नः |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति} तेभि᳚र्नः पातं॒ सह्य॑स ए॒भिर्नः॑ पातं शू॒षणि॑ ||{1/15}{8.4.26.1}{10.93.1}{10.8.3.1}{574, 930, 9845} महि॑¦द्या॒वा॒पृ॒थि॒वी॒ इति॑¦भू॒त॒म्¦उ॒र्वी इति॑¦नारी॒ इति॑¦य॒ह्वी इति॑¦न¦रोद॑सी॒ इति॑¦सद᳚म्¦नः॒ | |
य॒ज्ञेय॑ज्ञे॒ स मर्त्यो᳚ दे॒वान् त्स॑पर्यति |{पार्थ्यस्तान्वः | विश्वदेवाः | अनुष्टुप्} यः सु॒म्नैर्दी᳚र्घ॒श्रुत्त॑म आ॒विवा᳚सत्येनान् ||{2/15}{8.4.26.2}{10.93.2}{10.8.3.2}{575, 930, 9846} य॒ज्ञेऽय॑ज्ञे¦सः¦मर्त्यः॑¦दे॒वान्¦स॒प॒र्य॒ति॒ | यः¦सु॒म्नैः¦दी॒र्घ॒श्रुत्ऽत॑मः¦आ॒ऽविवा᳚साति¦ए॒ना॒न् || |
विश्वे᳚षामिरज्यवो दे॒वानां॒ वार्म॒हः |{पार्थ्यस्तान्वः | विश्वदेवाः | अनुष्टुप्} विश्वे॒ हि वि॒श्वम॑हसो॒ विश्वे᳚ य॒ज्ञेषु॑ य॒ज्ञियाः᳚ ||{3/15}{8.4.26.3}{10.93.3}{10.8.3.3}{576, 930, 9847} विश्वे᳚षाम्¦इ॒र॒ज्य॒वः॒¦दे॒वाना᳚म्¦वाः¦म॒हः | विश्वे᳚¦हि¦वि॒श्वऽम॑हसः¦विश्वे᳚¦य॒ज्ञेषु॑¦य॒ज्ञियाः᳚ || |
ते घा॒ राजा᳚नो, अ॒मृत॑स्य म॒न्द्रा, अ᳚र्य॒मा मि॒त्रो वरु॑णः॒ परि॑ज्मा |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति} कद्रु॒द्रो नृ॒णां स्तु॒तो म॒रुतः॑ पू॒षणो॒ भगः॑ ||{4/15}{8.4.26.4}{10.93.4}{10.8.3.4}{577, 930, 9848} ते¦घ॒¦राजा᳚नः¦अ॒मृत॑स्य¦म॒न्द्राः¦अ॒र्य॒मा¦मि॒त्रः¦वरु॑णः¦परि॑ऽज्मा | |
उ॒त नो॒ नक्त॑म॒पां वृ॑षण्वसू॒ सूर्या॒मासा॒ सद॑नाय सध॒न्या᳚ |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति} सचा॒ यत्साद्ये᳚षा॒महि॑र्बु॒ध्नेषु॑ बु॒ध्न्यः॑ ||{5/15}{8.4.26.5}{10.93.5}{10.8.3.5}{578, 930, 9849} उ॒त¦नः॒¦नक्त᳚म्¦अ॒पाम्¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू¦सूर्या॒मासा᳚¦सद॑नाय¦स॒ऽध॒न्या᳚ | |
उ॒त नो᳚ दे॒वाव॒श्विना᳚ शु॒भस्पती॒ धाम॑भिर्मि॒त्रावरु॑णा, उरुष्यताम् |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति} म॒हः स रा॒य एष॒तेऽति॒ धन्वे᳚व दुरि॒ता ||{6/15}{8.4.27.1}{10.93.6}{10.8.3.6}{579, 930, 9850} उ॒त¦नः॒¦दे॒वौ¦अ॒श्विना᳚¦शु॒भः¦पती॒ इति॑¦धाम॑ऽभिः¦मि॒त्रावरु॑णौ¦उ॒रु॒ष्य॒ता॒म् | |
उ॒त नो᳚ रु॒द्रा चि᳚न् मृळताम॒श्विना॒ विश्वे᳚ दे॒वासो॒ रथ॒स्पति॒र्भगः॑ |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति} ऋ॒भुर्वाज॑ ऋभुक्षणः॒ परि॑ज्मा विश्ववेदसः ||{7/15}{8.4.27.2}{10.93.7}{10.8.3.7}{580, 930, 9851} उ॒त¦नः॒¦रु॒द्रा¦चि॒त्¦मृ॒ळ॒ता॒म्¦अ॒श्विना᳚¦विश्वे᳚¦दे॒वासः॑¦रथः॒पतिः॑¦भगः॑ | |
ऋ॒भुरृ॑भु॒क्षा, ऋ॒भुर्वि॑ध॒तो मद॒ आ ते॒ हरी᳚ जूजुवा॒नस्य॑ वा॒जिना᳚ |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति} दु॒ष्टरं॒ यस्य॒ साम॑ चि॒दृध॑ग्य॒ज्ञो न मानु॑षः ||{8/15}{8.4.27.3}{10.93.8}{10.8.3.8}{581, 930, 9852} ऋ॒भुः¦ऋ॒भु॒क्षाः¦ऋ॒भुः¦वि॒ध॒तः¦मदः॑¦आ¦ते॒¦हरी॒ इति॑¦जू॒जु॒वा॒नस्य॑¦वा॒जिना᳚ | |
कृ॒धी नो॒, अह्र॑यो देव सवितः॒ स च॑ स्तुषे म॒घोना᳚म् |{पार्थ्यस्तान्वः | विश्वदेवाः | पङ्क्ति} स॒हो न॒ इन्द्रो॒ वह्नि॑भि॒र्न्ये᳚षां चर्षणी॒नां च॒क्रं र॒श्मिं न यो᳚युवे ||{9/15}{8.4.27.4}{10.93.9}{10.8.3.9}{582, 930, 9853} कृ॒धि¦नः॒¦अह्र॑यः¦दे॒व॒¦स॒वि॒त॒रिति॑¦सः¦च॒¦स्तु॒षे॒¦म॒घोना᳚म् | |
ऐषु॑ द्यावापृथिवी धातं म॒हद॒स्मे वी॒रेषु॑ वि॒श्वच॑र्षणि॒ श्रवः॑ |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति} पृ॒क्षं वाज॑स्य सा॒तये᳚ पृ॒क्षं रा॒योत तु॒र्वणे᳚ ||{10/15}{8.4.27.5}{10.93.10}{10.8.3.10}{583, 930, 9854} आ¦ए॒षु॒¦द्या॒वा॒पृ॒थि॒वी॒ इति॑¦धा॒त॒म्¦म॒हत्¦अ॒स्मे इति॑¦वी॒रेषु॑¦वि॒श्वऽच॑र्षणि¦श्रवः॑ | |
ए॒तं शंस॑मिन्द्रास्म॒युष्ट्वं कूचि॒त्सन्तं᳚ सहसावन्न॒भिष्ट॑ये |{पार्थ्यस्तान्वः | विश्वदेवाः | सारिणी बृहती} सदा᳚ पाह्य॒भिष्ट॑ये मे॒दतां᳚ वे॒दता᳚ वसो ||{11/15}{8.4.28.1}{10.93.11}{10.8.3.11}{584, 930, 9855} ए॒तम्¦शंस᳚म्¦इ॒न्द्र॒¦अ॒स्म॒ऽयुः¦त्वम्¦कूऽचि॑त्¦सन्त᳚म्¦स॒ह॒सा॒ऽव॒न्¦अ॒भिष्ट॑ये¦सदा᳚¦पा॒हि॒¦अ॒भिष्ट॑ये | |
ए॒तं मे॒ स्तोमं᳚ त॒ना न सूर्ये᳚ द्यु॒तद्या᳚मानं वावृधन्त नृ॒णाम् |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति} सं॒वन॑नं॒ नाश्व्यं॒ तष्टे॒वान॑पच्युतम् ||{12/15}{8.4.28.2}{10.93.12}{10.8.3.12}{585, 930, 9856} ए॒तम्¦मे॒¦स्तोम᳚म्¦त॒ना¦न¦सूर्ये᳚¦द्यु॒तत्ऽया᳚मानम्¦व॒वृ॒ध॒न्त॒¦नृ॒णाम् | |
वा॒वर्त॒ येषां᳚ रा॒या यु॒क्तैषां᳚ हिर॒ण्ययी᳚ |{पार्थ्यस्तान्वः | विश्वदेवाः | अनुष्टुप्} ने॒मधि॑ता॒ न पौंस्या॒ वृथे᳚व वि॒ष्टान्ता᳚ ||{13/15}{8.4.28.3}{10.93.13}{10.8.3.13}{586, 930, 9857} व॒वर्त॑¦येषा᳚म्¦रा॒या¦यु॒क्ता¦ए॒षा॒म्¦हि॒र॒ण्ययी᳚ | ने॒मऽधि॑ता¦न¦पौंस्या᳚¦वृथा᳚ऽइव¦वि॒ष्ट।आ᳚न्ता || |
प्र तद्दुः॒शीमे॒ पृथ॑वाने वे॒ने प्र रा॒मे वो᳚च॒मसु॑रे म॒घव॑त्सु |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति} ये यु॒क्त्वाय॒ पञ्च॑ श॒तास्म॒यु प॒था वि॒श्राव्ये᳚षाम् ||{14/15}{8.4.28.4}{10.93.14}{10.8.3.14}{587, 930, 9858} प्र¦तत्¦दुः॒ऽशीमे᳚¦पृथ॑वाने¦वे॒ने¦प्र¦रा॒मे¦वो॒च॒म्¦असु॑रे¦म॒घव॑त्ऽसु | |
अधीन्न्वत्र॑ सप्त॒तिं च॑ स॒प्त च॑ |{पार्थ्यस्तान्वः | विश्वदेवाः | बृहती} स॒द्यो दि॑दिष्ट॒ तान्वः॑ स॒द्यो दि॑दिष्ट पा॒र्थ्यः स॒द्यो दि॑दिष्ट माय॒वः ||{15/15}{8.4.28.5}{10.93.15}{10.8.3.15}{588, 930, 9859} अधि॑¦इत्¦नु¦अत्र॑¦स॒प्त॒तिम्¦च॒¦स॒प्त¦च॒ | |
[49] प्रैतइति चतुर्दशर्चस्य सूक्तस्य काद्रवेयोर्बुदः सर्पोग्रावाणोजगती पंचमीसप्तमीचर्तुदृश्यस्त्रिष्टुभः | |
प्रैते व॑दन्तु॒ प्र व॒यं व॑दाम॒ ग्राव॑भ्यो॒ वाचं᳚ वदता॒ वद॑द्भ्यः |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती} यद॑द्रयः पर्वताः सा॒कमा॒शवः॒ श्लोकं॒ घोषं॒ भर॒थेन्द्रा᳚य सो॒मिनः॑ ||{1/14}{8.4.29.1}{10.94.1}{10.8.4.1}{589, 931, 9860} प्र¦ए॒ते¦व॒द॒न्तु॒¦प्र¦व॒यम्¦व॒दा॒म॒¦ग्राव॑ऽभ्यः¦वाच᳚म्¦व॒द॒त॒¦वद॑त्ऽभ्यः | |
ए॒ते व॑दन्ति श॒तव॑त्स॒हस्र॑वद॒भि क्र᳚न्दन्ति॒ हरि॑तेभिरा॒सभिः॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती} वि॒ष्ट्वी ग्रावा᳚णः सु॒कृतः॑ सुकृ॒त्यया॒ होतु॑श्चि॒त्पूर्वे᳚ हवि॒रद्य॑माशत ||{2/14}{8.4.29.2}{10.94.2}{10.8.4.2}{590, 931, 9861} ए॒ते¦व॒द॒न्ति॒¦श॒तऽव॑त्¦स॒हस्र॑ऽवत्¦अ॒भि¦क्र॒न्द॒न्ति॒¦हरि॑तेभिः¦आ॒सऽभिः॑ | |
ए॒ते व॑द॒न्त्यवि॑दन्न॒ना मधु॒ न्यू᳚ङ्खयन्ते॒, अधि॑ प॒क्व आमि॑षि |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती} वृ॒क्षस्य॒ शाखा᳚मरु॒णस्य॒ बप्स॑त॒स्ते सूभ᳚र्वा वृष॒भाः प्रेम॑राविषुः ||{3/14}{8.4.29.3}{10.94.3}{10.8.4.3}{591, 931, 9862} ए॒ते¦व॒द॒न्ति॒¦अवि॑दन्¦अ॒ना¦मधु॑¦नि¦ऊ॒ङ्ख॒य॒न्ते॒¦अधि॑¦प॒क्वे¦आमि॑षि | |
बृ॒हद्व॑दन्ति मदि॒रेण॑ म॒न्दिनेन्द्रं॒ क्रोश᳚न्तोऽविदन्न॒ना मधु॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती} सं॒रभ्या॒ धीराः॒ स्वसृ॑भिरनर्तिषुराघो॒षय᳚न्तः पृथि॒वीमु॑प॒ब्दिभिः॑ ||{4/14}{8.4.29.4}{10.94.4}{10.8.4.4}{592, 931, 9863} बृ॒हत्¦व॒द॒न्ति॒¦म॒दि॒रेण॑¦म॒न्दिना᳚¦इन्द्र᳚म्¦क्रोश᳚न्तः¦अ॒वि॒द॒न्¦अ॒ना¦मधु॑ | |
सु॒प॒र्णा वाच॑मक्र॒तोप॒ द्यव्या᳚ख॒रे कृष्णा᳚, इषि॒रा, अ॑नर्तिषुः |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | त्रिष्टुप्} न्य१॑(अ॒)ङ्नि य॒न्त्युप॑रस्य निष्कृ॒तं पु॒रू रेतो᳚ दधिरे सूर्य॒श्वितः॑ ||{5/14}{8.4.29.5}{10.94.5}{10.8.4.5}{593, 931, 9864} सु॒ऽप॒र्णाः¦वाच᳚म्¦अ॒क्र॒त॒¦उप॑¦द्यवि॑¦आ॒ऽख॒रे¦कृष्णाः᳚¦इ॒षि॒राः¦अ॒न॒र्ति॒षुः॒ | |
उ॒ग्रा, इ॑व प्र॒वह᳚न्तः स॒माय॑मुः सा॒कं यु॒क्ता वृष॑णो॒ बिभ्र॑तो॒ धुरः॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती} यच्छ्व॒सन्तो᳚ जग्रसा॒ना, अरा᳚विषुः शृ॒ण्व ए᳚षां प्रो॒थथो॒, अर्व॑तामिव ||{6/14}{8.4.30.1}{10.94.6}{10.8.4.6}{594, 931, 9865} उ॒ग्राःऽइ᳚व¦प्र॒ऽवह᳚न्तः¦स॒म्ऽआय॑मुः¦सा॒कम्¦यु॒क्ताः¦वृष॑णः¦बिभ्र॑तः¦धुरः॑ | |
दशा᳚वनिभ्यो॒ दश॑कक्ष्येभ्यो॒ दश॑योक्त्रेभ्यो॒ दश॑योजनेभ्यः |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | त्रिष्टुप्} दशा᳚भीशुभ्यो, अर्चता॒जरे᳚भ्यो॒ दश॒ धुरो॒ दश॑ यु॒क्ता वह॑द्भ्यः ||{7/14}{8.4.30.2}{10.94.7}{10.8.4.7}{595, 931, 9866} दशा᳚वनिऽभ्यः¦दश॑कक्ष्येभ्यः¦दश॑ऽयोक्त्रेभ्यः¦दश॑ऽयोजनेभ्यः | |
ते, अद्र॑यो॒ दश॑यन्त्रास आ॒शव॒स्तेषा᳚मा॒धानं॒ पर्ये᳚ति हर्य॒तम् |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती} त ऊ᳚ सु॒तस्य॑ सो॒म्यस्यान्ध॑सों॒ऽशोः पी॒यूषं᳚ प्रथ॒मस्य॑ भेजिरे ||{8/14}{8.4.30.3}{10.94.8}{10.8.4.8}{596, 931, 9867} ते¦अद्र॑यः¦दश॑ऽयन्त्रासः¦आ॒शवः॑¦तेषा᳚म्¦आ॒ऽधान᳚म्¦परि॑¦ए॒ति॒¦ह॒र्य॒तम् | |
ते सो॒मादो॒ हरी॒, इन्द्र॑स्य निंसतें॒ऽशुं दु॒हन्तो॒, अध्या᳚सते॒ गवि॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती} तेभि॑र्दु॒ग्धं प॑पि॒वान् त्सो॒म्यं मध्विन्द्रो᳚ वर्धते॒ प्रथ॑ते वृषा॒यते᳚ ||{9/14}{8.4.30.4}{10.94.9}{10.8.4.9}{597, 931, 9868} ते¦सो॒म॒।आदः॑¦हरी॒ इति॑¦इन्द्र॑स्य¦निं॒स॒ते॒¦अं॒शुम्¦दु॒हन्तः॑¦अधि॑¦आ॒स॒ते॒¦गवि॑ | |
वृषा᳚ वो, अं॒शुर्न किला᳚ रिषाथ॒नेळा᳚वन्तः॒ सद॒मित् स्थ॒नाशि॑ताः |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती} रै॒व॒त्येव॒ मह॑सा॒ चार॑वः स्थन॒ यस्य॑ ग्रावाणो॒, अजु॑षध्वमध्व॒रम् ||{10/14}{8.4.30.5}{10.94.10}{10.8.4.10}{598, 931, 9869} वृषा᳚¦वः॒¦अं॒शुः¦न¦किल॑¦रि॒षा॒थ॒न॒¦इळा᳚ऽवन्तः¦सद᳚म्¦इत्¦स्थ॒न॒¦आशि॑ताः | |
तृ॒दि॒ला, अतृ॑दिलासो॒, अद्र॑योऽश्रम॒णा, अशृ॑थिता॒, अमृ॑त्यवः |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती} अ॒ना॒तु॒रा, अ॒जराः॒ स्थाम॑विष्णवः सुपी॒वसो॒, अतृ॑षिता॒, अतृ॑ष्णजः ||{11/14}{8.4.31.1}{10.94.11}{10.8.4.11}{599, 931, 9870} तृ॒दि॒लाः¦अतृ॑दिलासः¦अद्र॑यः¦अ॒श्र॒म॒णाः¦अशृ॑थिताः¦अमृ॑त्यवः | |
ध्रु॒वा, ए॒व वः॑ पि॒तरो᳚ यु॒गेयु॑गे॒ क्षेम॑कामासः॒ सद॑सो॒ न यु᳚ञ्जते |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती} अ॒जु॒र्यासो᳚ हरि॒षाचो᳚ ह॒रिद्र॑व॒ आ द्यां रवे᳚ण पृथि॒वीम॑शुश्रवुः ||{12/14}{8.4.31.2}{10.94.12}{10.8.4.12}{600, 931, 9871} ध्रु॒वाः¦ए॒व¦वः॒¦पि॒तरः॑¦यु॒गेऽयु॑गे¦क्षेम॑ऽकामासः¦सद॑सः¦न¦युं॒ज॒ते॒ | |
तदिद्व॑द॒न्त्यद्र॑यो वि॒मोच॑ने॒ याम᳚न्नञ्ज॒स्पा, इ॑व॒ घेदु॑प॒ब्दिभिः॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती} वप᳚न्तो॒ बीज॑मिव धान्या॒कृतः॑ पृ॒ञ्चन्ति॒ सोमं॒ न मि॑नन्ति॒ बप्स॑तः ||{13/14}{8.4.31.3}{10.94.13}{10.8.4.13}{601, 931, 9872} तत्¦इत्¦व॒द॒न्ति॒¦अद्र॑यः¦वि॒ऽमोच॑ने¦याम॑न्¦अं॒जः॒पाःऽइ᳚व¦घ॒¦इत्¦उ॒प॒ब्दिऽभिः॑ | |
सु॒ते, अ॑ध्व॒रे, अधि॒ वाच॑मक्र॒ता क्री॒ळयो॒ न मा॒तरं᳚ तु॒दन्तः॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | त्रिष्टुप्} वि षू मु᳚ञ्चा सुषु॒वुषो᳚ मनी॒षां वि व॑र्तन्ता॒मद्र॑य॒श्चाय॑मानाः ||{14/14}{8.4.31.4}{10.94.14}{10.8.4.14}{602, 931, 9873} सु॒ते¦अ॒ध्व॒रे¦अधि॑¦वाच᳚म्¦अ॒क्र॒त॒¦आ¦क्री॒ळयः॑¦न¦मा॒तर᳚म्¦तु॒दन्तः॑ | |
[50] हयेजाये इत्यष्टादशर्चस्य सूक्तस्य आद्यातृतीयाषष्ठीनवम्यादिचतसृणां चतुर्दशी सप्तदशीत्येवं नवानामैलः पुरूरवाऋषिरुर्वशी देवता शिष्टानामुर्वशीऋषिका पुरूरवादेवतात्रिष्टुप् | |
ह॒ये जाये॒ मन॑सा॒ तिष्ठ॑ घोरे॒ वचां᳚सि मि॒श्रा कृ॑णवावहै॒ नु |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्} न नौ॒ मन्त्रा॒, अनु॑दितास ए॒ते मय॑स्कर॒न् पर॑तरे च॒नाह॑न् ||{1/18}{8.5.1.1}{10.95.1}{10.8.5.1}{603, 932, 9874} ह॒ये¦जाये᳚¦मन॑सा¦तिष्ठ॑¦घोरे᳚¦वचां᳚सि¦मि॒श्रा¦कृ॒ण॒वा॒व॒है॒¦नु | |
किमे॒ता वा॒चा कृ॑णवा॒ तवा॒हं प्राक्र॑मिषमु॒षसा᳚मग्रि॒येव॑ |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्} पुरू᳚रवः॒ पुन॒रस्तं॒ परे᳚हि दुराप॒ना वात॑ इवा॒हम॑स्मि ||{2/18}{8.5.1.2}{10.95.2}{10.8.5.2}{604, 932, 9875} किम्¦ए॒ता¦वा॒चा¦कृ॒ण॒व॒¦तव॑¦अ॒हम्¦प्र¦अ॒क्र॒मि॒ष॒म्¦उ॒षसा᳚म्¦अ॒ग्रि॒याऽइ᳚व | |
इषु॒र्न श्रि॒य इ॑षु॒धेर॑स॒ना गो॒षाः श॑त॒सा न रंहिः॑ |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्} अ॒वीरे॒ क्रतौ॒ वि द॑विद्युत॒न्नोरा॒ न मा॒युं चि॑तयन्त॒ धुन॑यः ||{3/18}{8.5.1.3}{10.95.3}{10.8.5.3}{605, 932, 9876} इषुः॑¦न¦श्रि॒ये¦इ॒षु॒ऽधेः¦अ॒स॒ना¦गो॒ऽसाः¦श॒त॒ऽसाः¦न¦रंहिः॑ | |
सा वसु॒ दध॑ती॒ श्वशु॑राय॒ वय॒ उषो॒ यदि॒ वष्ट्यन्ति॑गृहात् |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्} अस्तं᳚ ननक्षे॒ यस्मि᳚ञ्चा॒कन्दिवा॒ नक्तं᳚ श्नथि॒ता वै᳚त॒सेन॑ ||{4/18}{8.5.1.4}{10.95.4}{10.8.5.4}{606, 932, 9877} सा¦वसु॑¦दध॑ती¦श्वशु॑राय¦वयः॑¦उषः॑¦यदि॑¦वष्टि॑¦अन्ति॑ऽगृहात् | |
त्रिः स्म॒ माह्नः॑ श्नथयो वैत॒सेनो॒त स्म॒ मेऽव्य॑त्यै पृणासि |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्} पुरू᳚र॒वोऽनु॑ ते॒ केत॑मायं॒ राजा᳚ मे वीर त॒न्व१॑(अ॒)स्तदा᳚सीः ||{5/18}{8.5.1.5}{10.95.5}{10.8.5.5}{607, 932, 9878} त्रिः¦स्म॒¦मा॒¦अह्नः॑¦श्न॒थ॒यः॒¦वै॒त॒सेन॑¦उ॒त¦स्म॒¦मे॒¦अव्य॑त्यै¦पृ॒णा॒सि॒ | |
या सु॑जू॒र्णिः श्रेणिः॑ सु॒म्नआ᳚पिर्ह्र॒देच॑क्षु॒र्न ग्र॒न्थिनी᳚ चर॒ण्युः |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्} ता, अ॒ञ्जयो᳚ऽरु॒णयो॒ न स॑स्रुः श्रि॒ये गावो॒ न धे॒नवो᳚ऽनवन्त ||{6/18}{8.5.2.1}{10.95.6}{10.8.5.6}{608, 932, 9879} या¦सु॒ऽजू॒र्णिः¦श्रेणिः॑¦सु॒म्नेऽआ᳚पिः¦ह्र॒देऽच॑क्षुः¦न¦ग्र॒न्थिनी᳚¦च॒र॒ण्युः | |
सम॑स्मि॒ञ्जाय॑मान आसत॒ ग्ना, उ॒तेम॑वर्धन्न॒द्य१॑(अः॒) स्वगू᳚र्ताः |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्} म॒हे यत् त्वा᳚ पुरूरवो॒ रणा॒याव॑र्धयन्दस्यु॒हत्या᳚य दे॒वाः ||{7/18}{8.5.2.2}{10.95.7}{10.8.5.7}{609, 932, 9880} सम्¦अ॒स्मि॒न्¦जाय॑माने¦आ॒स॒त॒¦ग्नाः¦उ॒त¦ई॒म्¦अ॒व॒र्ध॒न्¦न॒द्यः॑¦स्वऽगू᳚र्ताः | |
सचा॒ यदा᳚सु॒ जह॑ती॒ष्वत्क॒ममा᳚नुषीषु॒ मानु॑षो नि॒षेवे᳚ |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्} अप॑ स्म॒ मत्त॒रस᳚न्ती॒ न भु॒ज्युस्ता, अ॑त्रसन् रथ॒स्पृशो॒ नाश्वाः᳚ ||{8/18}{8.5.2.3}{10.95.8}{10.8.5.8}{610, 932, 9881} सचा᳚¦यत्¦आ॒सु॒¦जह॑तीषु¦अत्क᳚म्¦अमा᳚नुषीषु¦मानु॑षः¦नि॒ऽसेवे᳚ | |
यदा᳚सु॒ मर्तो᳚, अ॒मृता᳚सु नि॒स्पृक्सं क्षो॒णीभिः॒ क्रतु॑भि॒र्न पृ॒ङ्क्ते |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्} ता, आ॒तयो॒ न त॒न्वः॑ शुम्भत॒ स्वा, अश्वा᳚सो॒ न क्री॒ळयो॒ दन्द॑शानाः ||{9/18}{8.5.2.4}{10.95.9}{10.8.5.9}{611, 932, 9882} यत्¦आ॒सु॒¦मर्तः॑¦अ॒मृता᳚सु¦नि॒ऽस्पृक्¦सम्¦क्षो॒णीभिः॑¦क्रतु॑ऽभिः¦न¦पृ॒ङ्क्ते | |
वि॒द्युन्न या पत᳚न्ती॒ दवि॑द्यो॒द्भर᳚न्ती मे॒, अप्या॒ काम्या᳚नि |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्} जनि॑ष्टो, अ॒पो नर्यः॒ सुजा᳚तः॒ प्रोर्वशी᳚ तिरत दी॒र्घमायुः॑ ||{10/18}{8.5.2.5}{10.95.10}{10.8.5.10}{612, 932, 9883} वि॒ऽद्युत्¦न¦या¦पत᳚न्ती¦दवि॑द्योत्¦भर᳚न्ती¦मे॒¦अप्या᳚¦काम्या᳚नि | |
ज॒ज्ञि॒ष इ॒त्था गो॒पीथ्या᳚य॒ हि द॒धाथ॒ तत् पु॑रूरवो म॒ ओजः॑ |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्} अशा᳚सं त्वा वि॒दुषी॒ सस्मि॒न्नह॒न्न म॒ आशृ॑णोः॒ किम॒भुग्व॑दासि ||{11/18}{8.5.3.1}{10.95.11}{10.8.5.11}{613, 932, 9884} ज॒ज्ञि॒षे¦इ॒त्था¦गो॒ऽपीथ्या᳚य¦हि¦द॒धाथ॑¦तत्¦पु॒रू॒र॒वः॒¦मे॒¦ओजः॑ | |
क॒दा सू॒नुः पि॒तरं᳚ जा॒त इ॑च्छाच्च॒क्रन्नाश्रु॑ वर्तयद्विजा॒नन् |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्} को दम्प॑ती॒ सम॑नसा॒ वि यू᳚यो॒दध॒ यद॒ग्निः श्वशु॑रेषु॒ दीद॑यत् ||{12/18}{8.5.3.2}{10.95.12}{10.8.5.12}{614, 932, 9885} क॒दा¦सू॒नुः¦पि॒तर᳚म्¦जा॒तः¦इ॒च्छा॒त्¦च॒क्रन्¦न¦अश्रु॑¦व॒र्त॒य॒त्¦वि॒ऽजा॒नन् | |
प्रति॑ ब्रवाणि व॒र्तय॑ते॒, अश्रु॑ च॒क्रन्न क्र᳚न्ददा॒ध्ये᳚ शि॒वायै᳚ |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्} प्र तत्ते᳚ हिनवा॒ यत्ते᳚, अ॒स्मे परे॒ह्यस्तं᳚ न॒हि मू᳚र॒ मापः॑ ||{13/18}{8.5.3.3}{10.95.13}{10.8.5.13}{615, 932, 9886} प्रति॑¦ब्र॒वा॒णि॒¦व॒र्तय॑ते¦अश्रु॑¦च॒क्रन्¦न¦क्र॒न्द॒त्¦आ॒ऽध्ये᳚¦शि॒वायै᳚ | |
सु॒दे॒वो, अ॒द्य प्र॒पते॒दना᳚वृत्परा॒वतं᳚ पर॒मां गन्त॒वा, उ॑ |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्} अधा॒ शयी᳚त॒ निरृ॑तेरु॒पस्थेऽधै᳚नं॒ वृका᳚ रभ॒सासो᳚, अ॒द्युः ||{14/18}{8.5.3.4}{10.95.14}{10.8.5.14}{616, 932, 9887} सु॒ऽदे॒वः¦अ॒द्य¦प्र॒ऽपते᳚त्¦अना᳚वृत्¦प॒रा॒ऽवत᳚म्¦प॒र॒माम्¦गन्त॒वै¦ऊँ॒ इति॑ | |
पुरू᳚रवो॒ मा मृ॑था॒ मा प्र प॑प्तो॒ मा त्वा॒ वृका᳚सो॒, अशि॑वास उ क्षन् |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्} न वै स्त्रैणा᳚नि स॒ख्यानि॑ सन्ति सालावृ॒काणां॒ हृद॑यान्ये॒ता ||{15/18}{8.5.3.5}{10.95.15}{10.8.5.15}{617, 932, 9888} पुरू᳚रवः¦मा¦मृ॒थाः॒¦मा¦प्र¦प॒प्तः॒¦मा¦त्वा॒¦वृका᳚सः¦अशि॑वासः¦ऊँ॒ इति॑¦क्ष॒न् | |
यद्विरू॒पाच॑रं॒ मर्त्ये॒ष्वव॑सं॒ रात्रीः᳚ श॒रद॒श्चत॑स्रः |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्} घृ॒तस्य॑ स्तो॒कं स॒कृदह्न॑ आश्नां॒ तादे॒वेदं ता᳚तृपा॒णा च॑रामि ||{16/18}{8.5.4.1}{10.95.16}{10.8.5.16}{618, 932, 9889} यत्¦विऽरू᳚पा¦अच॑रम्¦मर्त्ये᳚षु¦अव॑सम्¦रात्रीः᳚¦श॒रदः॑¦चत॑स्रः | |
अ॒न्त॒रि॒क्ष॒प्रां रज॑सो वि॒मानी॒मुप॑ शिक्षाम्यु॒र्वशीं॒ वसि॑ष्ठः |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्} उप॑ त्वा रा॒तिः सु॑कृ॒तस्य॒ तिष्ठा॒न्नि व॑र्तस्व॒ हृद॑यं तप्यते मे ||{17/18}{8.5.4.2}{10.95.17}{10.8.5.17}{619, 932, 9890} अ॒न्त॒रि॒क्ष॒ऽप्राम्¦रज॑सः¦वि॒ऽमानी᳚म्¦उप॑¦शि॒क्षा॒मि॒¦उ॒र्वशी᳚म्¦वसि॑ष्ठः | |
इति॑ त्वा दे॒वा, इ॒म आ᳚हुरैळ॒ यथे᳚मे॒तद् भव॑सि मृ॒त्युब᳚न्धुः |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्} प्र॒जा ते᳚ दे॒वान् ह॒विषा᳚ यजाति स्व॒र्ग उ॒ त्वमपि॑ मादयासे ||{18/18}{8.5.4.3}{10.95.18}{10.8.5.18}{620, 932, 9891} इति॑¦त्वा॒¦दे॒वाः¦इ॒मे¦आ॒हुः॒¦ऐ॒ळ॒¦यथा᳚¦ई॒म्¦ए॒तत्¦भव॑सि¦मृ॒त्युऽब᳚न्धुः | |
[51] प्रतइति त्रयोदशर्चस्य सूक्तस्यांगिरसोबरुर्हरिर्जगत्यंत्येद्वेत्रिष्टुभौ ( ऐंद्रः सर्वहरिर्वर्षिरत्र | हरिरितींद्रनाम | शौनकस्तु मुखतएवैतत्सूक्तर्मेंद्रमित्याह । हरिरितींद्राश्वनामेतिचकश्चित् । एवंहरिशब्दार्थे विप्रतिपत्तावप्याकरो दितरिशब्दोच्चारणंयुक्तमुत्पश्यामः) | |
प्र ते᳚ म॒हे वि॒दथे᳚ शंसिषं॒ हरी॒ प्र ते᳚ वन्वे व॒नुषो᳚ हर्य॒तं मद᳚म् |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती} घृ॒तं न यो हरि॑भि॒श्चारु॒ सेच॑त॒ आ त्वा᳚ विशन्तु॒ हरि॑वर्पसं॒ गिरः॑ ||{1/13}{8.5.5.1}{10.96.1}{10.8.6.1}{621, 933, 9892} प्र¦ते॒¦म॒हे¦वि॒दथे᳚¦श॒म्सि॒ष॒म्¦हरी॒ इति॑¦प्र¦ते॒¦व॒न्वे॒¦व॒नुषः॑¦ह॒र्य॒तम्¦मद᳚म् | |
हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन्हि॒न्वन्तो॒ हरी᳚ दि॒व्यं यथा॒ सदः॑ |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती} आ यं पृ॒णन्ति॒ हरि॑भि॒र्न धे॒नव॒ इन्द्रा᳚य शू॒षं हरि॑वन्तमर्चत ||{2/13}{8.5.5.2}{10.96.2}{10.8.6.2}{622, 933, 9893} हरि᳚म्¦हि¦योनि᳚म्¦अ॒भि¦ये¦स॒म्।आस्व॑रन्¦हि॒न्वन्तः॑¦हरी॒ इति॑¦दि॒व्यम्¦यथा᳚¦सदः॑ | |
सो, अ॑स्य॒ वज्रो॒ हरि॑तो॒ य आ᳚य॒सो हरि॒र्निका᳚मो॒ हरि॒रा गभ॑स्त्योः |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती} द्यु॒म्नी सु॑शि॒प्रो हरि॑मन्युसायक॒ इन्द्रे॒ नि रू॒पा हरि॑ता मिमिक्षिरे ||{3/13}{8.5.5.3}{10.96.3}{10.8.6.3}{623, 933, 9894} सः¦अ॒स्य॒¦वज्रः॑¦हरि॑तः¦यः¦आ॒य॒सः¦हरिः॑¦निऽका᳚मः¦हरिः॑¦आ¦गभ॑स्त्योः | |
दि॒वि न के॒तुरधि॑ धायि हर्य॒तो वि॒व्यच॒द्वज्रो॒ हरि॑तो॒ न रंह्या᳚ |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती} तु॒ददहिं॒ हरि॑शिप्रो॒ य आ᳚य॒सः स॒हस्र॑शोका, अभवद्धरिम्भ॒रः ||{4/13}{8.5.5.4}{10.96.4}{10.8.6.4}{624, 933, 9895} दि॒वि¦न¦के॒तुः¦अधि॑¦धा॒यि॒¦ह॒र्य॒तः¦वि॒व्यच॑त्¦वज्रः॑¦हरि॑तः¦न¦रंह्या᳚ | |
त्वंत्व॑महर्यथा॒, उप॑स्तुतः॒ पूर्वे᳚भिरिन्द्र हरिकेश॒ यज्व॑भिः |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती} त्वं ह᳚र्यसि॒ तव॒ विश्व॑मु॒क्थ्य१॑(अ॒)मसा᳚मि॒ राधो᳚ हरिजात हर्य॒तम् ||{5/13}{8.5.5.5}{10.96.5}{10.8.6.5}{625, 933, 9896} त्वम्ऽत्व᳚म्¦अ॒ह॒र्य॒थाः॒¦उप॑ऽस्तुतः¦पूर्वे᳚भिः¦इ॒न्द्र॒¦ह॒रि॒ऽके॒श॒¦यज्व॑ऽभिः | |
ता व॒ज्रिणं᳚ म॒न्दिनं॒ स्तोम्यं॒ मद॒ इन्द्रं॒ रथे᳚ वहतो हर्य॒ता हरी᳚ |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती} पु॒रूण्य॑स्मै॒ सव॑नानि॒ हर्य॑त॒ इन्द्रा᳚य॒ सोमा॒ हर॑यो दधन् विरे ||{6/13}{8.5.6.1}{10.96.6}{10.8.6.6}{626, 933, 9897} ता¦व॒ज्रिण᳚म्¦म॒न्दिन᳚म्¦स्तोम्य᳚म्¦मदे᳚¦इन्द्र᳚म्¦रथे᳚¦व॒ह॒तः॒¦ह॒र्य॒ता¦हरी॒ इति॑ | |
अरं॒ कामा᳚य॒ हर॑यो दधन् विरे स्थि॒राय॑ हिन्व॒न्हर॑यो॒ हरी᳚ तु॒रा |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती} अर्व॑द्भि॒र्यो हरि॑भि॒र्जोष॒मीय॑ते॒ सो, अ॑स्य॒ कामं॒ हरि॑वन्तमानशे ||{7/13}{8.5.6.2}{10.96.7}{10.8.6.7}{627, 933, 9898} अर᳚म्¦कामा᳚य¦हर॑यः¦द॒ध॒न्वि॒रे॒¦स्थि॒राय॑¦हि॒न्व॒न्¦हर॑यः¦हरी॒ इति॑¦तु॒रा | |
हरि॑श्मशारु॒र्हरि॑केश आय॒सस्तु॑र॒स्पेये॒ यो ह॑रि॒पा, अव॑र्धत |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती} अर्व॑द्भि॒र्यो हरि॑भिर्वा॒जिनी᳚वसु॒रति॒ विश्वा᳚ दुरि॒ता पारि॑ष॒द्धरी᳚ ||{8/13}{8.5.6.3}{10.96.8}{10.8.6.8}{628, 933, 9899} हरि॑ऽश्मशारुः¦हरि॑ऽकेशः¦आ॒य॒सः¦तु॒रः॒ऽपेये᳚¦यः¦ह॒रि॒ऽपाः¦अव॑र्धत | |
स्रुवे᳚व॒ यस्य॒ हरि॑णी विपे॒ततुः॒ शिप्रे॒ वाजा᳚य॒ हरि॑णी॒ दवि॑ध्वतः |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती} प्र यत्कृ॒ते च॑म॒से मर्मृ॑ज॒द्धरी᳚ पी॒त्वा मद॑स्य हर्य॒तस्यान्ध॑सः ||{9/13}{8.5.6.4}{10.96.9}{10.8.6.9}{629, 933, 9900} स्रुवा᳚ऽइव¦यस्य॑¦हरि॑णी॒ इति॑¦वि॒ऽपे॒ततुः॑¦शिप्रे॒ इति॑¦वाजा᳚य¦हरि॑णी॒ इति॑¦दवि॑ध्वतः | |
उ॒त स्म॒ सद्म॑ हर्य॒तस्य॑ प॒स्त्यो॒३॑(ओ॒)रत्यो॒ न वाजं॒ हरि॑वाँ, अचिक्रदत् |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती} म॒ही चि॒द्धि धि॒षणाह᳚र्य॒दोज॑सा बृ॒हद्वयो᳚ दधिषे हर्य॒तश्चि॒दा ||{10/13}{8.5.6.5}{10.96.10}{10.8.6.10}{630, 933, 9901} उ॒त¦स्म॒¦सद्म॑¦ह॒र्य॒तस्य॑¦प॒स्त्योः᳚¦अत्यः॑¦न¦वाज᳚म्¦हरि॑ऽवान्¦अ॒चि॒क्र॒द॒त् | |
आ रोद॑सी॒ हर्य॑माणो महि॒त्वा नव्यं᳚नव्यं हर्यसि॒ मन्म॒ नु प्रि॒यम् |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती} प्र प॒स्त्य॑मसुर हर्य॒तं गोरा॒विष्कृ॑धि॒ हर॑ये॒ सूर्या᳚य ||{11/13}{8.5.7.1}{10.96.11}{10.8.6.11}{631, 933, 9902} आ¦रोद॑सी॒ इति॑¦हर्य॑माणः¦म॒हि॒ऽत्वा¦नव्य᳚म्ऽनव्यम्¦ह॒र्य॒सि॒¦मन्म॑¦नु¦प्रि॒यम् | |
आ त्वा᳚ ह॒र्यन्तं᳚ प्र॒युजो॒ जना᳚नां॒ रथे᳚ वहन्तु॒ हरि॑शिप्रमिन्द्र |{आङ्गिरसो बरुः | हरिस्तुतिः | त्रिष्टुप्} पिबा॒ यथा॒ प्रति॑भृतस्य॒ मध्वो॒ हर्य᳚न् य॒ज्ञं स॑ध॒मादे॒ दशो᳚णिम् ||{12/13}{8.5.7.2}{10.96.12}{10.8.6.12}{632, 933, 9903} आ¦त्वा॒¦ह॒र्यन्त᳚म्¦प्र॒ऽयुजः॑¦जना᳚नाम्¦रथे᳚¦व॒ह॒न्तु॒¦हरि॑ऽशिप्रम्¦इ॒न्द्र॒ | |
अपाः॒ पूर्वे᳚षां हरिवः सु॒ताना॒मथो᳚, इ॒दं सव॑नं॒ केव॑लं ते |{आङ्गिरसो बरुः | हरिस्तुतिः | त्रिष्टुप्} म॒म॒द्धि सोमं॒ मधु॑मन्तमिन्द्र स॒त्रा वृ॑षञ्ज॒ठर॒ आ वृ॑षस्व ||{13/13}{8.5.7.3}{10.96.13}{10.8.6.13}{633, 933, 9904} अपाः᳚¦पूर्वे᳚षाम्¦ह॒रि॒ऽवः॒¦सु॒ताना᳚म्¦अथो॒ इति॑¦इ॒दम्¦सव॑नम्¦केव॑लम्¦ते॒ | |
[52] याओषधीरिति त्रयोविंशत्यृचस्य सूक्तस्याथर्वणोभिषगोषधयोनुष्टुप् | |
या, ओष॑धीः॒ पूर्वा᳚ जा॒ता दे॒वेभ्य॑स्त्रियु॒गं पु॒रा |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्} मनै॒ नु ब॒भ्रूणा᳚म॒हं श॒तं धामा᳚नि स॒प्त च॑ ||{1/23}{8.5.8.1}{10.97.1}{10.8.7.1}{634, 934, 9905} याः¦ओष॑धीः¦पूर्वाः᳚¦जा॒ताः¦दे॒वेभ्यः॑¦त्रि॒ऽयु॒गम्¦पु॒रा | मनै᳚¦नु¦ब॒भ्रूणा᳚म्¦अ॒हम्¦श॒तम्¦धामा᳚नि¦स॒प्त¦च॒ || |
श॒तं वो᳚, अम्ब॒ धामा᳚नि स॒हस्र॑मु॒त वो॒ रुहः॑ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्} अधा᳚ शतक्रत्वो यू॒यमि॒मं मे᳚, अग॒दं कृ॑त ||{2/23}{8.5.8.2}{10.97.2}{10.8.7.2}{635, 934, 9906} श॒तम्¦वः॒¦अ॒म्ब॒¦धामा᳚नि¦स॒हस्र᳚म्¦उ॒त¦वः॒¦रुहः॑ | अध॑¦श॒त॒ऽक्र॒त्वः॒¦यू॒यम्¦इ॒मम्¦मे॒¦अ॒ग॒दम्¦कृ॒त॒ || |
ओष॑धीः॒ प्रति॑ मोदध्वं॒ पुष्प॑वतीः प्र॒सूव॑रीः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्} अश्वा᳚, इव स॒जित्व॑रीर्वी॒रुधः॑ पारयि॒ष्ण्वः॑ ||{3/23}{8.5.8.3}{10.97.3}{10.8.7.3}{636, 934, 9907} ओष॑धीः¦प्रति॑¦मो॒द॒ध्व॒म्¦पुष्प॑ऽवतीः¦प्र॒ऽसूव॑रीः | अश्वाः᳚ऽइव¦स॒ऽजित्व॑रीः¦वी॒रुधः॑¦पा॒र॒यि॒ष्ण्वः॑ || |
ओष॑धी॒रिति॑ मातर॒स्तद्वो᳚ देवी॒रुप॑ ब्रुवे |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्} स॒नेय॒मश्वं॒ गां वास॑ आ॒त्मानं॒ तव॑ पूरुष ||{4/23}{8.5.8.4}{10.97.4}{10.8.7.4}{637, 934, 9908} ओष॑धीः¦इति॑¦मा॒त॒रः॒¦तत्¦वः॒¦दे॒वीः॒¦उप॑¦ब्रु॒वे॒ | स॒नेय᳚म्¦अश्व᳚म्¦गाम्¦वासः॑¦आ॒त्मान᳚म्¦तव॑¦पु॒रु॒ष॒ || |
अ॒श्व॒त्थे वो᳚ नि॒षद॑नं प॒र्णे वो᳚ वस॒तिष्कृ॒ता |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्} गो॒भाज॒ इत्किला᳚सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् ||{5/23}{8.5.8.5}{10.97.5}{10.8.7.5}{638, 934, 9909} अ॒श्व॒त्थे¦वः॒¦नि॒ऽसद॑नम्¦प॒र्णे¦वः॒¦व॒स॒तिः¦कृ॒ता | गो॒ऽभाजः॑¦इत्¦किल॑¦अ॒स॒थ॒¦यत्¦स॒नव॑थ¦पुरु॑षम् || |
यत्रौष॑धीः स॒मग्म॑त॒ राजा᳚नः॒ समि॑ताविव |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्} विप्रः॒ स उ॑च्यते भि॒षग्र॑क्षो॒हामी᳚व॒चात॑नः ||{6/23}{8.5.9.1}{10.97.6}{10.8.7.6}{639, 934, 9910} यत्र॑¦ओष॑धीः¦स॒म्।आग्म॑त¦राजा᳚नः¦समि॑तौऽइव | विप्रः॑¦सः¦उ॒च्य॒ते॒¦भि॒षक्¦र॒क्षः॒ऽहा¦अ॒मी॒व॒ऽचात॑नः || |
अ॒श्वा॒व॒तीं सो᳚माव॒तीमू॒र्जय᳚न्ती॒मुदो᳚जसम् |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्} आवि॑त्सि॒ सर्वा॒, ओष॑धीर॒स्मा, अ॑रि॒ष्टता᳚तये ||{7/23}{8.5.9.2}{10.97.7}{10.8.7.7}{640, 934, 9911} अ॒श्व॒ऽव॒तीम्¦स॒म॒ऽव॒तीम्¦ऊ॒र्जय᳚न्तीम्¦उत्ऽओ᳚जसम् | आ¦अ॒वि॒त्सि॒¦सर्वाः᳚¦ओष॑धीः¦अ॒स्मै¦अ॒रि॒ष्टऽता᳚तये || |
उच्छुष्मा॒, ओष॑धीनां॒ गावो᳚ गो॒ष्ठादि॑वेरते |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्} धनं᳚ सनि॒ष्यन्ती᳚नामा॒त्मानं॒ तव॑ पूरुष ||{8/23}{8.5.9.3}{10.97.8}{10.8.7.8}{641, 934, 9912} उत्¦शुष्माः᳚¦ओष॑धीनाम्¦गावः॑¦गो॒स्थात्ऽइ᳚व¦ई॒र॒ते॒ | धन᳚म्¦स॒नि॒ष्यन्ती᳚नाम्¦आ॒त्मान᳚म्¦तव॑¦पु॒रु॒ष॒ || |
इष्कृ॑ति॒र्नाम॑ वो मा॒ताथो᳚ यू॒यं स्थ॒ निष्कृ॑तीः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्} सी॒राः प॑त॒त्रिणीः᳚ स्थन॒ यदा॒मय॑ति॒ निष्कृ॑थ ||{9/23}{8.5.9.4}{10.97.9}{10.8.7.9}{642, 934, 9913} इष्कृ॑तिः¦नाम॑¦वः॒¦मा॒ता¦अथो॒ इति॑¦यू॒यम्¦स्थ॒¦निःऽकृ॑तीः | सी॒राः¦प॒त॒त्रिणीः᳚¦स्थ॒न॒¦यत्¦आ॒मय॑ति¦निः¦कृ॒थ॒ || |
अति॒ विश्वाः᳚ परि॒ष्ठाः स्ते॒न इ॑व व्र॒जम॑क्रमुः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्} ओष॑धीः॒ प्राचु॑च्यवु॒र्यत्किं च॑ त॒न्वो॒३॑(ओ॒) रपः॑ ||{10/23}{8.5.9.5}{10.97.10}{10.8.7.10}{643, 934, 9914} अति॑¦विश्वाः᳚¦प॒रि॒ऽस्थाः¦स्ते॒नःऽइ᳚व¦व्र॒जम्¦अ॒क्र॒मुः॒ | ओष॑धीः¦प्र¦अ॒चु॒च्य॒वुः॒¦यत्¦किम्¦च॒¦त॒न्वः॑¦रपः॑ || |
यदि॒मा वा॒जय᳚न्न॒हमोष॑धी॒र्हस्त॑ आद॒धे |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्} आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी᳚व॒गृभो᳚ यथा ||{11/23}{8.5.10.1}{10.97.11}{10.8.7.11}{644, 934, 9915} यत्¦इ॒माः¦वा॒जय॑न्¦अ॒हम्¦ओष॑धीः¦हस्ते᳚¦आ॒ऽद॒धे | आ॒त्मा¦यक्ष्म॑स्य¦न॒श्य॒ति॒¦पु॒रा¦जी॒व॒ऽगृभः॑¦य॒था॒ || |
यस्यौ᳚षधीः प्र॒सर्प॒थाङ्ग॑मङ्गं॒ परु॑ष्परुः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्} ततो॒ यक्ष्मं॒ वि बा᳚धध्व उ॒ग्रो म॑ध्यम॒शीरि॑व ||{12/23}{8.5.10.2}{10.97.12}{10.8.7.12}{645, 934, 9916} यस्य॑¦ओ॒ष॒धीः॒¦प्र॒ऽसर्प॑थ¦अङ्ग᳚म्।आङ्गम्¦परुः॑ऽपरुः | ततः॑¦यक्ष्म᳚म्¦वि¦बा॒ध॒ध्वे॒¦उ॒ग्रः¦म॒ध्य॒म॒शीःऽइ᳚व || |
सा॒कं य॑क्ष्म॒ प्र प॑त॒ चाषे᳚ण किकिदी॒विना᳚ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्} सा॒कं वात॑स्य॒ ध्राज्या᳚ सा॒कं न॑श्य नि॒हाक॑या ||{13/23}{8.5.10.3}{10.97.13}{10.8.7.13}{646, 934, 9917} सा॒कम्¦य॒क्ष्म॒¦प्र¦प॒त॒¦चाषे᳚ण¦कि॒कि॒दी॒विना᳚ | सा॒कम्¦वात॑स्य¦ध्राज्या᳚¦सा॒कम्¦न॒श्य॒¦नि॒ऽहाक॑या || |
अ॒न्या वो᳚, अ॒न्याम॑वत्व॒न्यान्यस्या॒, उपा᳚वत |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्} ताः सर्वाः᳚ संविदा॒ना, इ॒दं मे॒ प्राव॑ता॒ वचः॑ ||{14/23}{8.5.10.4}{10.97.14}{10.8.7.14}{647, 934, 9918} अ॒न्या¦वः॒¦अ॒न्याम्¦अ॒व॒तु॒¦अ॒न्या¦अ॒न्यस्याः᳚¦उप॑¦अ॒व॒त॒ | ताः¦सर्वाः᳚¦स॒म्ऽवि॒दा॒नाः¦इ॒दम्¦मे॒¦प्र¦अ॒व॒त॒¦वचः॑ || |
याः फ॒लिनी॒र्या, अ॑फ॒ला, अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः᳚ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्} बृह॒स्पति॑प्रसूता॒स्ता नो᳚ मुञ्च॒न्त्वंह॑सः ||{15/23}{8.5.10.5}{10.97.15}{10.8.7.15}{648, 934, 9919} याः¦फ॒लिनीः᳚¦याः¦अ॒फ॒लाः¦अ॒पु॒ष्पाः¦याः¦च॒¦पु॒ष्पिणीः᳚ | बृह॒स्पति॑ऽप्रसूताः¦ताः¦नः॒¦मुं॒च॒न्तु॒¦अंह॑सः || |
मु॒ञ्चन्तु॑ मा शप॒थ्या॒३॑(आ॒)दथो᳚ वरु॒ण्या᳚दु॒त |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्} अथो᳚ य॒मस्य॒ पड्बी᳚शा॒त्सर्व॑स्माद्देवकिल्बि॒षात् ||{16/23}{8.5.11.1}{10.97.16}{10.8.7.16}{649, 934, 9920} मुं॒चन्तु॑¦मा॒¦श॒प॒थ्या᳚त्¦अथो॒ इति॑¦व॒रु॒ण्या᳚त्¦उ॒त | अथो॒ इति॑¦य॒मस्य॑¦पड्बी᳚शात्¦सर्व॑स्मात्¦दे॒व॒ऽकि॒ल्बि॒षात् || |
अ॒व॒पत᳚न्तीरवदन्दि॒व ओष॑धय॒स्परि॑ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्} यं जी॒वम॒श्नवा᳚महै॒ न स रि॑ष्याति॒ पूरु॑षः ||{17/23}{8.5.11.2}{10.97.17}{10.8.7.17}{650, 934, 9921} अ॒व॒ऽपत᳚न्तीः¦अ॒व॒द॒न्¦दि॒वः¦ओष॑धयः¦परि॑ | यम्¦जी॒वम्¦अ॒श्नवा᳚महै¦न¦सः¦रि॒ष्या॒ति॒¦पुरु॑षः || |
या, ओष॑धीः॒ सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्} तासां॒ त्वम॑स्युत्त॒मारं॒ कामा᳚य॒ शं हृ॒दे ||{18/23}{8.5.11.3}{10.97.18}{10.8.7.18}{651, 934, 9922} याः¦ओष॑धीः¦सोम॑ऽराज्ञीः¦ब॒ह्वीः¦श॒तऽवि॑चक्षणाः | तासा᳚म्¦त्वम्¦अ॒सि॒¦उ॒त्ऽत॒मा¦अर᳚म्¦कामा᳚य¦शम्¦हृ॒दे || |
या, ओष॑धीः॒ सोम॑राज्ञी॒र्विष्ठि॑ताः पृथि॒वीमनु॑ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्} बृह॒स्पति॑प्रसूता, अ॒स्यै सं द॑त्त वी॒र्य᳚म् ||{19/23}{8.5.11.4}{10.97.19}{10.8.7.19}{652, 934, 9923} याः¦ओष॑धीः¦सोम॑ऽराज्ञीः¦विऽस्थि॑ताः¦पृ॒थि॒वीम्¦अनु॑ | बृ॒ह॒स्पति॑ऽप्रसूताः¦अ॒स्यै¦सम्¦द॒त्त॒¦वी॒र्य᳚म् || |
मा वो᳚ रिषत्खनि॒ता यस्मै᳚ चा॒हं खना᳚मि वः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्} द्वि॒पच्चतु॑ष्पद॒स्माकं॒ सर्व॑मस्त्वनातु॒रम् ||{20/23}{8.5.11.5}{10.97.20}{10.8.7.20}{653, 934, 9924} मा¦वः॒¦रि॒ष॒त्¦ख॒नि॒ता¦यस्मै᳚¦च॒¦अ॒हम्¦खना᳚मि¦वः॒ | द्वि॒ऽपत्¦चतुः॑ऽपत्¦अ॒स्माक᳚म्¦सर्व᳚म्¦अ॒स्तु॒¦अ॒ना॒तु॒रम् || |
याश्चे॒दमु॑पशृ॒ण्वन्ति॒ याश्च॑ दू॒रं परा᳚गताः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्} सर्वाः᳚ सं॒गत्य॑ वीरुधो॒ऽस्यै सं द॑त्त वी॒र्य᳚म् ||{21/23}{8.5.11.6}{10.97.21}{10.8.7.21}{654, 934, 9925} याः¦च॒¦इ॒दम्¦उ॒प॒ऽशृ॒ण्वन्ति॑¦याः¦च॒¦दू॒रम्¦परा᳚ऽगताः | सर्वाः᳚¦स॒म्ऽगत्य॑¦वी॒रु॒धः॒¦अ॒स्यै¦सम्¦द॒त्त॒¦वी॒र्य᳚म् || |
ओष॑धयः॒ सं व॑दन्ते॒ सोमे᳚न स॒ह राज्ञा᳚ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्} यस्मै᳚ कृ॒णोति॑ ब्राह्म॒णस्तं रा᳚जन् पारयामसि ||{22/23}{8.5.11.7}{10.97.22}{10.8.7.22}{655, 934, 9926} ओष॑धयः¦सम्¦व॒द॒न्ते॒¦सोमे᳚न¦स॒ह¦राज्ञा᳚ | यस्मै᳚¦कृ॒णोति॑¦ब्रा॒ह्म॒णः¦तम्¦रा॒ज॒न्¦पा॒र॒या॒म॒सि॒ || |
त्वमु॑त्त॒मास्यो᳚षधे॒ तव॑ वृ॒क्षा, उप॑स्तयः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्} उप॑स्तिरस्तु॒ सो॒३॑(ओ॒)ऽस्माकं॒ यो, अ॒स्माँ, अ॑भि॒दास॑ति ||{23/23}{8.5.11.8}{10.97.23}{10.8.7.23}{656, 934, 9927} त्वम्¦उ॒त्ऽत॒मा¦अ॒सि॒¦ओ॒ष॒धे॒¦तव॑¦वृ॒क्षाः¦उप॑स्तयः | उप॑स्तिः¦अ॒स्तु॒¦सः¦अ॒स्माक᳚म्¦यः¦अ॒स्मान्¦अ॒भि॒ऽदास॑ति || |
[53] बृहस्पत इति द्वादशर्चस्य सूक्तस्यार्ष्टिषेणो देवापिर्देवास्त्रिष्टुप् | (शौनकस्त्वस्मिन्सूक्ते आद्यानांचतसृणां बृहस्पतिस्ततश्चतसृणां देवास्ततः पंचानामग्निरित्येवं देवताव्यवस्थामाह) | |
बृह॑स्पते॒ प्रति॑ मे दे॒वता᳚मिहि मि॒त्रो वा॒ यद्वरु॑णो॒ वासि॑ पू॒षा |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्} आ॒दि॒त्यैर्वा॒ यद्वसु॑भिर्म॒रुत्वा॒न् त्स प॒र्जन्यं॒ शंत॑नवे वृषाय ||{1/12}{8.5.12.1}{10.98.1}{10.8.8.1}{657, 935, 9928} बृह॑स्पते¦प्रति॑¦मे॒¦दे॒वता᳚म्¦इ॒हि॒¦मि॒त्रः¦वा॒¦यत्¦वरु॑णः¦वा॒¦अ॒सि॒¦पू॒षा | |
आ दे॒वो दू॒तो, अ॑जि॒रश्चि॑कि॒त्वान् त्वद्दे᳚वापे, अ॒भि माम॑गच्छत् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्} प्र॒ती॒ची॒नः प्रति॒ मामा व॑वृत्स्व॒ दधा᳚मि ते द्यु॒मतीं॒ वाच॑मा॒सन् ||{2/12}{8.5.12.2}{10.98.2}{10.8.8.2}{658, 935, 9929} आ¦दे॒वः¦दू॒तः¦अ॒जि॒रः¦चि॒कि॒त्वान्¦त्वत्¦दे॒व॒ऽआ॒पे॒¦अ॒भि¦माम्¦अ॒ग॒च्छ॒त् | |
अ॒स्मे धे᳚हि द्यु॒मतीं॒ वाच॑मा॒सन् बृह॑स्पते, अनमी॒वामि॑षि॒राम् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्} यया᳚ वृ॒ष्टिं शंत॑नवे॒ वना᳚व दि॒वो द्र॒प्सो मधु॑माँ॒, आ वि॑वेश ||{3/12}{8.5.12.3}{10.98.3}{10.8.8.3}{659, 935, 9930} अ॒स्मे इति॑¦धे॒हि॒¦द्यु॒ऽमती᳚म्¦वाच᳚म्¦आ॒सन्¦बृह॑स्पते¦अ॒न॒मी॒वाम्¦इ॒षि॒राम् | |
आ नो᳚ द्र॒प्सा मधु॑मन्तो विश॒न्त्विन्द्र॑ दे॒ह्यधि॑रथं स॒हस्र᳚म् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्} नि षी᳚द हो॒त्रमृ॑तु॒था य॑जस्व दे॒वान् दे᳚वापे ह॒विषा᳚ सपर्य ||{4/12}{8.5.12.4}{10.98.4}{10.8.8.4}{660, 935, 9931} आ¦नः॒¦द्र॒प्साः¦मधु॑ऽमन्तः¦वि॒श॒न्तु॒¦इन्द्र॑¦दे॒हि¦अधि॑ऽरथम्¦स॒हस्र᳚म् | |
आ॒र्ष्टि॒षे॒णो हो॒त्रमृषि᳚र्नि॒षीद᳚न्दे॒वापि॑र्देवसुम॒तिं चि॑कि॒त्वान् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्} स उत्त॑रस्मा॒दध॑रं समु॒द्रम॒पो दि॒व्या, अ॑सृजद्व॒र्ष्या᳚, अ॒भि ||{5/12}{8.5.12.5}{10.98.5}{10.8.8.5}{661, 935, 9932} आ॒र्ष्टि॒षे॒णः¦हो॒त्रम्¦ऋषिः॑¦नि॒ऽसीद॑न्¦दे॒वऽआ᳚पिः¦दे॒व॒ऽसु॒म॒तिम्¦चि॒कि॒त्वान् | |
अ॒स्मिन् त्स॑मु॒द्रे, अध्युत्त॑रस्मि॒न्नापो᳚ दे॒वेभि॒र्निवृ॑ता, अतिष्ठन् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्} ता, अ॑द्रवन्नार्ष्टिषे॒णेन॑ सृ॒ष्टा दे॒वापि॑ना॒ प्रेषि॑ता मृ॒क्षिणी᳚षु ||{6/12}{8.5.12.6}{10.98.6}{10.8.8.6}{662, 935, 9933} अ॒स्मिन्¦स॒मु॒द्रे¦अधि॑¦उत्ऽत॑रस्मिन्¦आपः॑¦दे॒वेभिः॑¦निऽवृ॑ताः¦अ॒ति॒ष्ठ॒न् | |
यद्दे॒वापिः॒ शंत॑नवे पु॒रोहि॑तो हो॒त्राय॑ वृ॒तः कृ॒पय॒न्नदी᳚धेत् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्} दे॒व॒श्रुतं᳚ वृष्टि॒वनिं॒ ररा᳚णो॒ बृह॒स्पति॒र्वाच॑मस्मा, अयच्छत् ||{7/12}{8.5.13.1}{10.98.7}{10.8.8.7}{663, 935, 9934} यत्¦दे॒वऽआ᳚पिः¦शम्ऽत॑नवे¦पु॒रःऽहि॑तः¦हो॒त्राय॑¦वृ॒तः¦कृ॒पय॑न्¦अदी᳚धेत् | |
यं त्वा᳚ दे॒वापिः॑ शुशुचा॒नो, अ॑ग्न आर्ष्टिषे॒णो म॑नु॒ष्यः॑ समी॒धे |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्} विश्वे᳚भिर्दे॒वैर॑नुम॒द्यमा᳚नः॒ प्र प॒र्जन्य॑मीरया वृष्टि॒मन्त᳚म् ||{8/12}{8.5.13.2}{10.98.8}{10.8.8.8}{664, 935, 9935} यम्¦त्वा॒¦दे॒वऽआ᳚पिः¦शु॒शु॒चा॒नः¦अ॒ग्ने॒¦आ॒र्ष्टि॒षे॒णः¦म॒नु॒ष्यः॑¦स॒म्ऽई॒धे | |
त्वां पूर्व॒ ऋष॑यो गी॒र्भिरा᳚य॒न्त्वाम॑ध्व॒रेषु॑ पुरुहूत॒ विश्वे᳚ |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्} स॒हस्रा॒ण्यधि॑रथान्य॒स्मे, आ नो᳚ य॒ज्ञं रो᳚हिद॒श्वोप॑ याहि ||{9/12}{8.5.13.3}{10.98.9}{10.8.8.9}{665, 935, 9936} त्वाम्¦पूर्वे᳚¦ऋष॑यः¦गीः॒ऽभिः¦आ॒य॒न्¦त्वाम्¦अ॒ध्व॒रेषु॑¦पु॒रु॒ऽहू॒त॒¦विश्वे᳚ | |
ए॒तान्य॑ग्ने नव॒तिर्नव॒ त्वे, आहु॑ता॒न्यधि॑रथा स॒हस्रा᳚ |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्} तेभि᳚र्वर्धस्व त॒न्वः॑ शूर पू॒र्वीर्दि॒वो नो᳚ वृ॒ष्टिमि॑षि॒तो रि॑रीहि ||{10/12}{8.5.13.4}{10.98.10}{10.8.8.10}{666, 935, 9937} ए॒तानि॑¦अ॒ग्ने॒¦न॒व॒तिः¦नव॑¦त्वे इति॑¦आऽहु॑तानि¦अधि॑ऽरथा¦स॒हस्रा᳚ | |
ए॒तान्य॑ग्ने नव॒तिं स॒हस्रा॒ सं प्र य॑च्छ॒ वृष्ण॒ इन्द्रा᳚य भा॒गम् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्} वि॒द्वान् प॒थ ऋ॑तु॒शो दे᳚व॒याना॒नप्यौ᳚ला॒नं दि॒वि दे॒वेषु॑ धेहि ||{11/12}{8.5.13.5}{10.98.11}{10.8.8.11}{667, 935, 9938} ए॒तानि॑¦अ॒ग्ने॒¦न॒व॒तिम्¦स॒हस्रा᳚¦सम्¦प्र¦य॒च्छ॒¦वृष्णे᳚¦इन्द्रा᳚य¦भा॒गम् | |
अग्ने॒ बाध॑स्व॒ वि मृधो॒ वि दु॒र्गहापामी᳚वा॒मप॒ रक्षां᳚सि सेध |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्} अ॒स्मात्स॑मु॒द्राद्बृ॑ह॒तो दि॒वो नो॒ऽपां भू॒मान॒मुप॑ नः सृजे॒ह ||{12/12}{8.5.13.6}{10.98.12}{10.8.8.12}{668, 935, 9939} अग्ने᳚¦बाध॑स्व¦वि¦मृधः॑¦वि¦दुः॒ऽगहा᳚¦अप॑¦अमी᳚वाम्¦अप॑¦रक्षां᳚सि¦से॒ध॒ | |
[54] कन्नइति द्वादशर्चस्य सूक्तस्य वैखानसोवम्र इंद्रस्त्रिष्टुप् | |
कं न॑श्चि॒त्रमि॑षण्यसि चिकि॒त्वान् पृ॑थु॒ग्मानं᳚ वा॒श्रं वा᳚वृ॒धध्यै᳚ |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्} कत्तस्य॒ दातु॒ शव॑सो॒ व्यु॑ष्टौ॒ तक्ष॒द्वज्रं᳚ वृत्र॒तुर॒मपि᳚न्वत् ||{1/12}{8.5.14.1}{10.99.1}{10.8.9.1}{669, 936, 9940} कम्¦नः॒¦चि॒त्रम्¦इ॒ष॒ण्य॒सि॒¦चि॒कि॒त्वान्¦पृ॒थु॒ऽग्मान᳚म्¦वा॒श्रम्¦व॒वृ॒धध्यै᳚ | |
स हि द्यु॒ता वि॒द्युता॒ वेति॒ साम॑ पृ॒थुं योनि॑मसुर॒त्वा स॑साद |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्} स सनी᳚ळेभिः प्रसहा॒नो, अ॑स्य॒ भ्रातु॒र्न ऋ॒ते स॒प्तथ॑स्य मा॒याः ||{2/12}{8.5.14.2}{10.99.2}{10.8.9.2}{670, 936, 9941} सः¦हि¦द्यु॒ता¦वि॒ऽद्युता᳚¦वेति॑¦साम॑¦पृ॒थुम्¦योनि᳚म्¦अ॒सु॒र॒ऽत्वा¦आ¦स॒सा॒द॒ | |
स वाजं॒ याताप॑दुष्पदा॒ यन् त्स्व॑र्षाता॒ परि॑ षदत्सनि॒ष्यन् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्} अ॒न॒र्वा यच्छ॒तदु॑रस्य॒ वेदो॒ घ्नञ्छि॒श्नदे᳚वाँ, अ॒भि वर्प॑सा॒ भूत् ||{3/12}{8.5.14.3}{10.99.3}{10.8.9.3}{671, 936, 9942} सः¦वाज᳚म्¦याता᳚¦अप॑दुःऽपदा¦यन्¦स्वः॑ऽसाता¦परि॑¦स॒द॒त्¦स॒नि॒ष्यन् | |
स य॒ह्व्यो॒३॑(ओ॒)ऽवनी॒र्गोष्वर्वा जु॑होति प्रध॒न्या᳚सु॒ सस्रिः॑ |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्} अ॒पादो॒ यत्र॒ युज्या᳚सोऽर॒था द्रो॒ण्य॑श्वास॒ ईर॑ते घृ॒तं वाः ||{4/12}{8.5.14.4}{10.99.4}{10.8.9.4}{672, 936, 9943} सः¦य॒ह्व्यः॑¦अ॒वनीः᳚¦गोषु॑¦अर्वा᳚¦आ¦जु॒हो॒ति॒¦प्र॒ऽध॒न्या᳚सु¦सस्रिः॑ | |
स रु॒द्रेभि॒रश॑स्तवार॒ ऋभ्वा᳚ हि॒त्वी गय॑मा॒रे,अ॑वद्य॒ आगा᳚त् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्} व॒म्रस्य॑ मन्ये मिथु॒ना विव᳚व्री॒, अन्न॑म॒भीत्या᳚रोदयन्मुषा॒यन् ||{5/12}{8.5.14.5}{10.99.5}{10.8.9.5}{673, 936, 9944} सः¦रु॒द्रेभिः॑¦अश॑स्तऽवारः¦ऋभ्वा᳚¦हि॒त्वी¦गय᳚म्¦आ॒रे।आ॑वद्यः¦आ¦अ॒गा॒त् | |
स इद्दासं᳚ तुवी॒रवं॒ पति॒र्दन्ष॑ळ॒क्षं त्रि॑शी॒र्षाणं᳚ दमन्यत् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्} अ॒स्य त्रि॒तो न्वोज॑सा वृधा॒नो वि॒पा व॑रा॒हमयो᳚अग्रया हन् ||{6/12}{8.5.14.6}{10.99.6}{10.8.9.6}{674, 936, 9945} सः¦इत्¦दास᳚म्¦तु॒वि॒ऽरव᳚म्¦पतिः॑¦दन्¦ष॒ट्।आ॒क्षम्¦त्रि॒ऽशी॒र्षाण᳚म्¦द॒म॒न्य॒त् | |
स द्रुह्व॑णे॒ मनु॑ष ऊर्ध्वसा॒न आ सा᳚विषदर्शसा॒नाय॒ शरु᳚म् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्} स नृत॑मो॒ नहु॑षो॒ऽस्मत्सुजा᳚तः॒ पुरो᳚ऽभिन॒दर्ह᳚न्दस्यु॒हत्ये᳚ ||{7/12}{8.5.15.1}{10.99.7}{10.8.9.7}{675, 936, 9946} सः¦द्रुह्व॑णे¦मनु॑षे¦ऊ॒र्ध्व॒सा॒नः¦आ¦सा॒वि॒ष॒त्¦अ॒र्श॒सा॒नाय॑¦शरु᳚म् | |
सो, अ॒भ्रियो॒ न यव॑स उद॒न्यन् क्षया᳚य गा॒तुं वि॒दन्नो᳚, अ॒स्मे |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्} उप॒ यत्सीद॒दिन्दुं॒ शरी᳚रैः श्ये॒नोऽयो᳚पाष्टिर्हन्ति॒ दस्यू॑न् ||{8/12}{8.5.15.2}{10.99.8}{10.8.9.8}{676, 936, 9947} सः¦अ॒भ्रियः॑¦न¦यव॑से¦उ॒द॒न्यन्¦क्षया᳚य¦गा॒तुम्¦वि॒दत्¦नः॒¦अ॒स्मे इति॑ | |
स व्राध॑तः शवसा॒नेभि॑रस्य॒ कुत्सा᳚य॒ शुष्णं᳚ कृ॒पणे॒ परा᳚दात् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्} अ॒यं क॒विम॑नयच्छ॒स्यमा᳚न॒मत्कं॒ यो, अ॑स्य॒ सनि॑तो॒त नृ॒णाम् ||{9/12}{8.5.15.3}{10.99.9}{10.8.9.9}{677, 936, 9948} सः¦व्राध॑तः¦श॒व॒सा॒नेभिः॑¦अ॒स्य॒¦कुत्सा᳚य¦शुष्ण᳚म्¦कृ॒पणे᳚¦परा᳚¦अ॒दा॒त् | |
अ॒यं द॑श॒स्यन्नर्ये᳚भिरस्य द॒स्मो दे॒वेभि॒र्वरु॑णो॒ न मा॒यी |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्} अ॒यं क॒नीन॑ ऋतु॒पा, अ॑वे॒द्यमि॑मीता॒ररुं॒ यश्चतु॑ष्पात् ||{10/12}{8.5.15.4}{10.99.10}{10.8.9.10}{678, 936, 9949} अ॒यम्¦द॒श॒स्यन्¦नर्ये᳚भिः¦अ॒स्य॒¦द॒स्मः¦दे॒वेभिः॑¦वरु॑णः¦न¦मा॒यी | |
अ॒स्य स्तोमे᳚भिरौशि॒ज ऋ॒जिश्वा᳚ व्र॒जं द॑रयद्वृष॒भेण॒ पिप्रोः᳚ |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्} सुत्वा॒ यद्य॑ज॒तो दी॒दय॒द्गीः पुर॑ इया॒नो, अ॒भि वर्प॑सा॒ भूत् ||{11/12}{8.5.15.5}{10.99.11}{10.8.9.11}{679, 936, 9950} अ॒स्य¦स्तोमे᳚भिः¦औ॒शि॒जः¦ऋ॒जिश्वा᳚¦व्र॒जम्¦द॒र॒य॒त्¦वृ॒ष॒भेण॑¦पिप्रोः᳚ | |
ए॒वा म॒हो, अ॑सुर व॒क्षथा᳚य वम्र॒कः प॒ड्भिरुप॑ सर्प॒दिन्द्र᳚म् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्} स इ॑या॒नः क॑रति स्व॒स्तिम॑स्मा॒, इष॒मूर्जं᳚ सुक्षि॒तिं विश्व॒माभाः᳚ ||{12/12}{8.5.15.6}{10.99.12}{10.8.9.12}{680, 936, 9951} ए॒व¦म॒हः¦अ॒सु॒र॒¦व॒क्षथा᳚य¦व॒म्र॒कः¦प॒ट्ऽभिः¦उप॑¦स॒र्प॒त्¦इन्द्र᳚म् | |
[55] इंद्रदृह्येति द्वादशर्चस्य सूक्तस्य वांदनोदुवस्युर्विश्वेदेवाजगत्यंत्यात्रिष्टुप् (भेदपक्षे - विश्वेदेवाः १० इंद्रादिती १ इंद्र: १ एवं १२) | |
इन्द्र॒ दृह्य॑ मघव॒न्त्वाव॒दिद्भु॒ज इ॒ह स्तु॒तः सु॑त॒पा बो᳚धि नो वृ॒धे |{वांदनो दुवस्युः | विश्वदेवाः | जगती} दे॒वेभि᳚र्नः सवि॒ता प्राव॑तु श्रु॒तमा स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{1/12}{8.5.16.1}{10.100.1}{10.9.1.1}{681, 937, 9952} इन्द्र॑¦दृह्य॑¦म॒घ॒ऽव॒न्¦त्वाऽव॑त्¦इत्¦भु॒जे¦इ॒ह¦स्तु॒तः¦सु॒त॒ऽपाः¦बो॒धि॒¦नः॒¦वृ॒धे | |
भरा᳚य॒ सु भ॑रत भा॒गमृ॒त्वियं॒ प्र वा॒यवे᳚ शुचि॒पे क्र॒न्ददि॑ष्टये |{वांदनो दुवस्युः | विश्वदेवाः | जगती} गौ॒रस्य॒ यः पय॑सः पी॒तिमा᳚न॒श आ स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{2/12}{8.5.16.2}{10.100.2}{10.9.1.2}{682, 937, 9953} भरा᳚य¦सु¦भ॒र॒त॒¦भा॒गम्¦ऋ॒त्विय᳚म्¦प्र¦वा॒यवे᳚¦शु॒चि॒ऽपे¦क्र॒न्दत्ऽइ᳚ष्टये | |
आ नो᳚ दे॒वः स॑वि॒ता सा᳚विष॒द्वय॑ ऋजूय॒ते यज॑मानाय सुन्व॒ते |{वांदनो दुवस्युः | विश्वदेवाः | जगती} यथा᳚ दे॒वान् प्र॑ति॒भूषे᳚म पाक॒वदा स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{3/12}{8.5.16.3}{10.100.3}{10.9.1.3}{683, 937, 9954} आ¦नः॒¦दे॒वः¦स॒वि॒ता¦सा॒वि॒ष॒त्¦वयः॑¦ऋ॒जु॒ऽय॒ते¦यज॑मानाय¦सु॒न्व॒ते | |
इन्द्रो᳚, अ॒स्मे सु॒मना᳚, अस्तु वि॒श्वहा॒ राजा॒ सोमः॑ सुवि॒तस्याध्ये᳚तु नः |{वांदनो दुवस्युः | विश्वदेवाः | जगती} यथा᳚यथा मि॒त्रधि॑तानि संद॒धुरा स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{4/12}{8.5.16.4}{10.100.4}{10.9.1.4}{684, 937, 9955} इन्द्रः॑¦अ॒स्मे इति॑¦सु॒ऽमनाः᳚¦अ॒स्तु॒¦वि॒श्वहा᳚¦राजा᳚¦सोमः॑¦सु॒वि॒तस्य॑¦अधि॑¦ए॒तु॒¦नः॒ | |
इन्द्र॑ उ॒क्थेन॒ शव॑सा॒ परु॑र्दधे॒ बृह॑स्पते प्रतरी॒तास्यायु॑षः |{वांदनो दुवस्युः | विश्वदेवाः | जगती} य॒ज्ञो मनुः॒ प्रम॑तिर्नः पि॒ता हि क॒मा स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{5/12}{8.5.16.5}{10.100.5}{10.9.1.5}{685, 937, 9956} इन्द्रः॑¦उ॒क्थेन॑¦शव॑सा¦परुः॑¦द॒धे॒¦बृह॑स्पते¦प्र॒ऽत॒री॒ता¦अ॒सि॒¦आयु॑षः | |
इन्द्र॑स्य॒ नु सुकृ॑तं॒ दैव्यं॒ सहो॒ऽग्निर्गृ॒हे ज॑रि॒ता मेधि॑रः क॒विः |{वांदनो दुवस्युः | विश्वदेवाः | जगती} य॒ज्ञश्च॑ भूद्वि॒दथे॒ चारु॒रन्त॑म॒ आ स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{6/12}{8.5.16.6}{10.100.6}{10.9.1.6}{686, 937, 9957} इन्द्र॑स्य¦नु¦सुऽकृ॑तम्¦दैव्य᳚म्¦सहः॑¦अ॒ग्निः¦गृ॒हे¦ज॒रि॒ता¦मेधि॑रः¦क॒विः | |
न वो॒ गुहा᳚ चकृम॒ भूरि॑ दुष्कृ॒तं नाविष्ट्यं᳚ वसवो देव॒हेळ॑नम् |{वांदनो दुवस्युः | विश्वदेवाः | जगती} माकि᳚र्नो देवा॒, अनृ॑तस्य॒ वर्प॑स॒ आ स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{7/12}{8.5.17.1}{10.100.7}{10.9.1.7}{687, 937, 9958} न¦वः॒¦गुहा᳚¦च॒कृ॒म॒¦भूरि॑¦दुः॒ऽकृ॒तम्¦न¦आ॒विःऽत्य᳚म्¦व॒स॒वः॒¦दे॒व॒ऽहेळ॑नम् | |
अपामी᳚वां सवि॒ता सा᳚विष॒न्न्य१॑(अ॒)ग्वरी᳚य॒ इदप॑ सेध॒न्त्वद्र॑यः |{वांदनो दुवस्युः | विश्वदेवाः | जगती} ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते᳚ बृ॒हदा स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{8/12}{8.5.17.2}{10.100.8}{10.9.1.8}{688, 937, 9959} अप॑¦अमी᳚वाम्¦स॒वि॒ता¦सा॒वि॒ष॒त्¦न्य॑क्¦वरी᳚यः¦इत्¦अप॑¦से॒ध॒न्तु॒¦अद्र॑यः | |
ऊ॒र्ध्वो ग्रावा᳚ वसवोऽस्तु सो॒तरि॒ विश्वा॒ द्वेषां᳚सि सनु॒तर्यु॑योत |{वांदनो दुवस्युः | विश्वदेवाः | जगती} स नो᳚ दे॒वः स॑वि॒ता पा॒युरीड्य॒ आ स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{9/12}{8.5.17.3}{10.100.9}{10.9.1.9}{689, 937, 9960} ऊ॒र्ध्वः¦ग्रावा᳚¦व॒स॒वः॒¦अ॒स्तु॒¦सो॒तरि॑¦विश्वा᳚¦द्वेषां᳚सि¦स॒नु॒तः¦यु॒यो॒त॒ | |
ऊर्जं᳚ गावो॒ यव॑से॒ पीवो᳚, अत्तन ऋ॒तस्य॒ याः सद॑ने॒ कोशे᳚, अ॒ङ्ग्ध्वे |{वांदनो दुवस्युः | विश्वदेवाः | जगती} त॒नूरे॒व त॒न्वो᳚, अस्तु भेष॒जमा स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{10/12}{8.5.17.4}{10.100.10}{10.9.1.10}{690, 937, 9961} ऊर्ज᳚म्¦गा॒वः॒¦यव॑से¦पीवः॑¦अ॒त्त॒न॒¦ऋ॒तस्य॑¦याः¦सद॑ने¦कोशे᳚¦अ॒ङ्ध्वे | |
क्र॒तु॒प्रावा᳚ जरि॒ता शश्व॑ता॒मव॒ इन्द्र॒ इद्भ॒द्रा प्रम॑तिः सु॒ताव॑ताम् |{वांदनो दुवस्युः | विश्वदेवाः | जगती} पू॒र्णमूध॑र्दि॒व्यं यस्य॑ सि॒क्तय॒ आ स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{11/12}{8.5.17.5}{10.100.11}{10.9.1.11}{691, 937, 9962} क्र॒तु॒ऽप्रावा᳚¦ज॒रि॒ता¦शश्व॑ताम्¦अवः॑¦इन्द्रः॑¦इत्¦भ॒द्रा¦प्रऽम॑तिः¦सु॒तऽव॑ताम् | |
चि॒त्रस्ते᳚ भा॒नुः क्र॑तु॒प्रा, अ॑भि॒ष्टिः सन्ति॒ स्पृधो᳚ जरणि॒प्रा, अधृ॑ष्टाः |{वांदनो दुवस्युः | विश्वदेवाः | त्रिष्टुप्} रजि॑ष्ठया॒ रज्या᳚ प॒श्व आ गोस्तूतू᳚र्षति॒ पर्यग्रं᳚ दुव॒स्युः ||{12/12}{8.5.17.6}{10.100.12}{10.9.1.12}{692, 937, 9963} चि॒त्रः¦ते॒¦भा॒नुः¦क्र॒तु॒ऽप्राः¦अ॒भि॒ष्टिः¦सन्ति॑¦स्पृधः॑¦ज॒र॒णि॒ऽप्राः¦अधृ॑ष्टाः | |
[56] उद्बुध्यध्वमिति द्वादशर्चस्य सूक्तस्य सौम्योबुधो विश्वेदेवास्त्रिप् चतुर्थीषष्ठ्यौगायत्र्यौ पंचमीबृहती नवमीद्वादश्यौजगत्यौ (ऋत्विजोदेवतावा) | |
उद्बु॑ध्यध्वं॒ सम॑नसः सखायः॒ सम॒ग्निमि᳚न्ध्वं ब॒हवः॒ सनी᳚ळाः |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्} द॒धि॒क्राम॒ग्निमु॒षसं᳚ च दे॒वीमिन्द्रा᳚व॒तोऽव॑से॒ नि ह्व॑ये वः ||{1/12}{8.5.18.1}{10.101.1}{10.9.2.1}{693, 938, 9964} उत्¦बु॒ध्य॒ध्व॒म्¦सऽम॑नसः¦स॒खा॒यः॒¦सम्¦अ॒ग्निम्¦इ॒न्ध्व॒म्¦ब॒हवः॑¦सऽनी᳚ळाः | |
म॒न्द्रा कृ॑णुध्वं॒ धिय॒ आ त॑नुध्वं॒ नाव॑मरित्र॒पर॑णीं कृणुध्वम् |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्} इष्कृ॑णुध्व॒मायु॒धारं᳚ कृणुध्वं॒ प्राञ्चं᳚ य॒ज्ञं प्र ण॑यता सखायः ||{2/12}{8.5.18.2}{10.101.2}{10.9.2.2}{694, 938, 9965} म॒न्द्रा¦कृ॒णु॒ध्व॒म्¦धियः॑¦आ¦त॒नु॒ध्व॒म्¦नाव᳚म्¦अ॒रि॒त्र॒ऽपर॑णीम्¦कृ॒णु॒ध्व॒म् | |
यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नुध्वं कृ॒ते योनौ᳚ वपते॒ह बीज᳚म् |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्} गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒, अस᳚न्नो॒ नेदी᳚य॒ इत्सृ॒ण्यः॑ प॒क्वमेया᳚त् ||{3/12}{8.5.18.3}{10.101.3}{10.9.2.3}{695, 938, 9966} यु॒नक्त॑¦सीरा᳚¦वि¦यु॒गा¦त॒नु॒ध्व॒म्¦कृ॒ते¦योनौ᳚¦व॒प॒त॒¦इ॒ह¦बीज᳚म् | |
सीरा᳚ युञ्जन्ति क॒वयो᳚ यु॒गा वि त᳚न्वते॒ पृथ॑क् |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | गायत्री} धीरा᳚ दे॒वेषु॑ सुम्न॒या ||{4/12}{8.5.18.4}{10.101.4}{10.9.2.4}{696, 938, 9967} सीरा᳚¦युं॒ज॒न्ति॒¦क॒वयः॑¦यु॒गा¦वि¦त॒न्व॒ते॒¦पृथ॑क् | धीराः᳚¦दे॒वेषु॑¦सु॒म्न॒ऽया || |
निरा᳚हा॒वान् कृ॑णोतन॒ सं व॑र॒त्रा द॑धातन |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | बृहती} सि॒ञ्चाम॑हा, अव॒तमु॒द्रिणं᳚ व॒यं सु॒षेक॒मनु॑पक्षितम् ||{5/12}{8.5.18.5}{10.101.5}{10.9.2.5}{697, 938, 9968} निः¦आ॒ऽहा॒वान्¦कृ॒णो॒त॒न॒¦सम्¦व॒र॒त्राः¦द॒धा॒त॒न॒ | |
इष्कृ॑ताहावमव॒तं सु॑वर॒त्रं सु॑षेच॒नम् |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | गायत्री} उ॒द्रिणं᳚ सिञ्चे॒, अक्षि॑तम् ||{6/12}{8.5.18.6}{10.101.6}{10.9.2.6}{698, 938, 9969} इष्कृ॑तऽआहावम्¦अ॒व॒तम्¦सु॒ऽव॒र॒त्रम्¦सु॒ऽसे॒च॒नम् | उ॒द्रिण᳚म्¦सिं॒चे॒¦अक्षि॑तम् || |
प्री॒णी॒ताश्वा᳚न्हि॒तं ज॑याथ स्वस्ति॒वाहं॒ रथ॒मित्कृ॑णुध्वम् |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | पादत्रिष्टुप्} द्रोणा᳚हावमव॒तमश्म॑चक्र॒मंस॑त्रकोशं सिञ्चता नृ॒पाण᳚म् ||{7/12}{8.5.19.1}{10.101.7}{10.9.2.7}{699, 938, 9970} प्री॒णी॒त¦अश्वा᳚न्¦हि॒तम्¦ज॒या॒थ॒¦स्व॒स्ति॒ऽवाह᳚म्¦रथ᳚म्¦इत्¦कृ॒णु॒ध्व॒म् | |
व्र॒जं कृ॑णुध्वं॒ स हि वो᳚ नृ॒पाणो॒ वर्म॑ सीव्यध्वं बहु॒ला पृ॒थूनि॑ |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्} पुरः॑ कृणुध्व॒माय॑सी॒रधृ॑ष्टा॒ मा वः॑ सुस्रोच्चम॒सो दृंह॑ता॒ तम् ||{8/12}{8.5.19.2}{10.101.8}{10.9.2.8}{700, 938, 9971} व्र॒जम्¦कृ॒णु॒ध्व॒म्¦सः¦हि¦वः॒¦नृ॒ऽपानः॑¦वर्म॑¦सी॒व्य॒ध्व॒म्¦ब॒हु॒ला¦पृ॒थूनि॑ | |
आ वो॒ धियं᳚ य॒ज्ञियां᳚ वर्त ऊ॒तये॒ देवा᳚ दे॒वीं य॑ज॒तां य॒ज्ञिया᳚मि॒ह |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | जगती} सा नो᳚ दुहीय॒द्यव॑सेव ग॒त्वी स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ||{9/12}{8.5.19.3}{10.101.9}{10.9.2.9}{701, 938, 9972} आ¦वः॒¦धिय᳚म्¦य॒ज्ञिया᳚म्¦व॒र्ते॒¦ऊ॒तये᳚¦देवाः᳚¦दे॒वीम्¦य॒ज॒ताम्¦य॒ज्ञिया᳚म्¦इ॒ह | |
आ तू षि᳚ञ्च॒ हरि॑मीं॒ द्रोरु॒पस्थे॒ वाशी᳚भिस्तक्षताश्म॒न्मयी᳚भिः |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्} परि॑ ष्वजध्वं॒ दश॑ क॒क्ष्या᳚भिरु॒भे धुरौ॒ प्रति॒ वह्निं᳚ युनक्त ||{10/12}{8.5.19.4}{10.101.10}{10.9.2.10}{702, 938, 9973} आ¦तु¦सिं॒च॒¦हरि᳚म्¦ई॒म्¦द्रोः¦उ॒पऽस्थे᳚¦वाशी᳚भिः¦त॒क्ष॒त॒¦अ॒श्म॒न्ऽमयी᳚भिः | |
उ॒भे धुरौ॒ वह्नि॑रा॒पिब्द॑मानो॒ऽन्तर्योने᳚व चरति द्वि॒जानिः॑ |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्} वन॒स्पतिं॒ वन॒ आस्था᳚पयध्वं॒ नि षू द॑धिध्व॒मख॑नन्त॒ उत्स᳚म् ||{11/12}{8.5.19.5}{10.101.11}{10.9.2.11}{703, 938, 9974} उ॒भे इति॑¦धुरौ᳚¦वह्निः॑¦आ॒ऽपिब्द॑मानः¦अ॒न्तः¦योना᳚ऽइव¦च॒र॒ति॒¦द्वि॒ऽजानिः॑ | |
कपृ᳚न्नरः कपृ॒थमुद्द॑धातन चो॒दय॑त खु॒दत॒ वाज॑सातये |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | जगती} नि॒ष्टि॒ग्र्यः॑ पु॒त्रमा च्या᳚वयो॒तय॒ इन्द्रं᳚ स॒बाध॑ इ॒ह सोम॑पीतये ||{12/12}{8.5.19.6}{10.101.12}{10.9.2.12}{704, 938, 9975} कपृ॑त्¦न॒रः॒¦क॒पृ॒थम्¦उत्¦द॒धा॒त॒न॒¦चो॒दय॑त¦खु॒दत॑¦वाज॑ऽसातये | |
[57] प्रतेरथमिति द्वादशर्चस्य सूक्तस्य भार्म्यश्वो मुद्गलो द्रुघणस्त्रिष्टुप् आद्यातृतीयांत्याबृहत्यः | (प्रतेरथमिति सूक्तदेवतात्वे विप्रतिपत्तिः परस्परमाचार्याणां | उक्तंचशौनकेन - प्रेतीतिहाससूक्तंतुमन्यतेशाकटायनः | यास्कोद्रौघणमैंद्रंवा वैश्वदेवंतुशौनकः | आजानवेनंभार्म्यश्व इंद्रासोमौतुमुद्गलइति) | |
प्र ते॒ रथं᳚ मिथू॒कृत॒मिन्द्रो᳚ऽवतु धृष्णु॒या |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | ऋहती} अ॒स्मिन्ना॒जौ पु॑रुहूत श्र॒वाय्ये᳚ धनभ॒क्षेषु॑ नोऽव ||{1/12}{8.5.20.1}{10.102.1}{10.9.3.1}{705, 939, 9976} प्र¦ते॒¦रथ᳚म्¦मि॒थु॒ऽकृत᳚म्¦इन्द्रः॑¦अ॒व॒तु॒¦धृ॒ष्णु॒ऽया | |
उत्स्म॒ वातो᳚ वहति॒ वासो᳚ऽस्या॒, अधि॑रथं॒ यदज॑यत्स॒हस्र᳚म् |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्} र॒थीर॑भून्मुद्ग॒लानी॒ गवि॑ष्टौ॒ भरे᳚ कृ॒तं व्य॑चेदिन्द्रसे॒ना ||{2/12}{8.5.20.2}{10.102.2}{10.9.3.2}{706, 939, 9977} उत्¦स्म॒¦वातः॑¦व॒ह॒ति॒¦वासः॑¦अ॒स्याः॒¦अधि॑ऽरथम्¦यत्¦अज॑यत्¦स॒हस्र᳚म् | |
अ॒न्तर्य॑च्छ॒ जिघां᳚सतो॒ वज्र॑मिन्द्राभि॒दास॑तः |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | बृहती} दास॑स्य वा मघव॒न्नार्य॑स्य वा सनु॒तर्य॑वया व॒धम् ||{3/12}{8.5.20.3}{10.102.3}{10.9.3.3}{707, 939, 9978} अ॒न्तः¦य॒च्छ॒¦जिघां᳚सतः¦वज्र᳚म्¦इ॒न्द्र॒¦अ॒भि॒ऽदास॑तः | |
उ॒द्नो ह्र॒दम॑पिब॒ज्जर्हृ॑षाणः॒ कूटं᳚ स्म तृं॒हद॒भिमा᳚तिमेति |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्} प्र मु॒ष्कभा᳚रः॒ श्रव॑ इ॒च्छमा᳚नोऽजि॒रं बा॒हू, अ॑भर॒त्सिषा᳚सन् ||{4/12}{8.5.20.4}{10.102.4}{10.9.3.4}{708, 939, 9979} उ॒द्नः¦ह्र॒दम्¦अ॒पि॒ब॒त्¦जर्हृ॑षाणः¦कूट᳚म्¦स्म॒¦तृं॒हत्¦अ॒भिऽमा᳚तिम्¦ए॒ति॒ | |
न्य॑क्रन्दयन्नुप॒यन्त॑ एन॒ममे᳚हयन् वृष॒भं मध्य॑ आ॒जेः |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्} तेन॒ सूभ᳚र्वं श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः प्र॒धने᳚ जिगाय ||{5/12}{8.5.20.5}{10.102.5}{10.9.3.5}{709, 939, 9980} नि¦अ॒क्र॒न्द॒य॒न्¦उ॒प॒ऽयन्तः॑¦ए॒न॒म्¦अमे᳚हयन्¦वृ॒ष॒भम्¦मध्ये᳚¦आ॒जेः | |
क॒कर्द॑वे वृष॒भो यु॒क्त आ᳚सी॒दवा᳚वची॒त्सार॑थिरस्य के॒शी |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्} दुधे᳚र्यु॒क्तस्य॒ द्रव॑तः स॒हान॑स ऋ॒च्छन्ति॑ ष्मा नि॒ष्पदो᳚ मुद्ग॒लानी᳚म् ||{6/12}{8.5.20.6}{10.102.6}{10.9.3.6}{710, 939, 9981} क॒कर्द॑वे¦वृ॒ष॒भः¦यु॒क्तः¦आ॒सी॒त्¦अवा᳚वचीत्¦सार॑थिः¦अ॒स्य॒¦के॒शी | |
उ॒त प्र॒धिमुद॑हन्नस्य वि॒द्वानुपा᳚युन॒ग्वंस॑ग॒मत्र॒ शिक्ष॑न् |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्} इन्द्र॒ उदा᳚व॒त्पति॒मघ्न्या᳚ना॒मरं᳚हत॒ पद्या᳚भिः क॒कुद्मा॑न् ||{7/12}{8.5.21.1}{10.102.7}{10.9.3.7}{711, 939, 9982} उ॒त¦प्र॒ऽधिम्¦उत्¦अ॒ह॒न्¦अ॒स्य॒¦वि॒द्वान्¦उप॑¦अ॒यु॒न॒क्¦वंस॑गम्¦अत्र॑¦शिक्ष॑न् | |
शु॒नम॑ष्ट्रा॒व्य॑चरत्कप॒र्दी व॑र॒त्रायां॒ दार्वा॒नह्य॑मानः |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्} नृ॒म्णानि॑ कृ॒ण्वन् ब॒हवे॒ जना᳚य॒ गाः प॑स्पशा॒नस्तवि॑षीरधत्त ||{8/12}{8.5.21.2}{10.102.8}{10.9.3.8}{712, 939, 9983} शु॒नम्¦अ॒ष्ट्रा॒ऽवी¦अ॒च॒र॒त्¦क॒प॒र्दी¦व॒र॒त्राया᳚म्¦दारु॑¦आ॒ऽनह्य॑मानः | |
इ॒मं तं प॑श्य वृष॒भस्य॒ युञ्जं॒ काष्ठा᳚या॒ मध्ये᳚ द्रुघ॒णं शया᳚नम् |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्} येन॑ जि॒गाय॑ श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः पृत॒नाज्ये᳚षु ||{9/12}{8.5.21.3}{10.102.9}{10.9.3.9}{713, 939, 9984} इ॒मम्¦तम्¦प॒श्य॒¦वृ॒ष॒भस्य॑¦युंज᳚म्¦काष्ठा᳚याः¦मध्ये᳚¦द्रु॒ऽघ॒णम्¦शया᳚नम् | |
आ॒रे, अ॒घा को न् वि१॑(इ॒)त्था द॑दर्श॒ यं यु॒ञ्जन्ति॒ तम्वा स्था᳚पयन्ति |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्} नास्मै॒ तृणं॒ नोद॒कमा भ॑र॒न्त्युत्त॑रो धु॒रो व॑हति प्र॒देदि॑शत् ||{10/12}{8.5.21.4}{10.102.10}{10.9.3.10}{714, 939, 9985} आ॒रे¦अ॒घा¦कः¦नु¦इ॒त्था¦द॒द॒र्श॒¦यम्¦युं॒जन्ति॑¦तम्¦ऊँ॒ इति॑¦आ¦स्था॒प॒य॒न्ति॒ | |
प॒रि॒वृ॒क्तेव॑ पति॒विद्य॑मान॒ट् पीप्या᳚ना॒ कूच॑क्रेणेव सि॒ञ्चन् |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्} ए॒षै॒ष्या᳚ चिद्र॒थ्या᳚ जयेम सुम॒ङ्गलं॒ सिन॑वदस्तु सा॒तम् ||{11/12}{8.5.21.5}{10.102.11}{10.9.3.11}{715, 939, 9986} प॒रि॒वृ॒क्ताऽइ᳚व¦प॒ति॒ऽविद्य᳚म्¦आ॒न॒ट्¦पीप्या᳚ना¦कूच॑क्रेणऽइव¦सिं॒चन् | |
त्वं विश्व॑स्य॒ जग॑त॒श्चक्षु॑रिन्द्रासि॒ चक्षु॑षः |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | ऋहती} वृषा॒ यदा॒जिं वृष॑णा॒ सिषा᳚ससि चो॒दय॒न्वध्रि॑णा यु॒जा ||{12/12}{8.5.21.6}{10.102.12}{10.9.3.12}{716, 939, 9987} त्वम्¦विश्व॑स्य¦जग॑तः¦चक्षुः॑¦इ॒न्द्र॒¦अ॒सि॒¦चक्षु॑षः | |
[58] आशुःशिशानइति त्रयोदशर्चस्य सूक्तस्यैंद्रो प्रतिरथइंद्रश्चतुर्थ्यां बृहस्पतिर्द्वादश्याअप्वादेव्यंत्यायामरुतस्त्रिष्टुबंत्यानुष्टुप् | (आशुः शिशानः सूक्तोपांत्यायाआप्वादेवीत्यनुक्रमण्यां मप्वादेवीतिशौनकीये) |
आ॒शुः शिशा᳚नो वृष॒भो न भी॒मो घ॑नाघ॒नः, क्षोभ॑णश्चर्षणी॒नाम् |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्} सं॒क्रन्द॑नोऽनिमि॒ष ए᳚कवी॒रः श॒तं सेना᳚, अजयत्सा॒कमिन्द्रः॑ ||{1/13}{8.5.22.1}{10.103.1}{10.9.4.1}{717, 940, 9988} आ॒शुः¦शिशा᳚नः¦वृ॒ष॒भः¦न¦भी॒मः¦घ॒ना॒घ॒नः¦क्षोभ॑णः¦च॒र्ष॒णी॒नाम् | |
सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना᳚ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना᳚ |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्} तदिन्द्रे᳚ण जयत॒ तत्स॑हध्वं॒ युधो᳚ नर॒ इषु॑हस्तेन॒ वृष्णा᳚ ||{2/13}{8.5.22.2}{10.103.2}{10.9.4.2}{718, 940, 9989} स॒म्ऽक्रन्द॑नेन¦अ॒नि॒ऽमि॒षेण॑¦जि॒ष्णुना᳚¦यु॒त्ऽका॒रेण॑¦दुः॒ऽच्य॒व॒नेन॑¦धृ॒ष्णुना᳚ | |
स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि᳚र्व॒शी संस्र॑ष्टा॒ स युध॒ इन्द्रो᳚ ग॒णेन॑ |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्} सं॒सृ॒ष्ट॒जित्सो᳚म॒पा बा᳚हुश॒र्ध्यु१॑(उ॒)ग्रध᳚न्वा॒ प्रति॑हिताभि॒रस्ता᳚ ||{3/13}{8.5.22.3}{10.103.3}{10.9.4.3}{719, 940, 9990} सः¦इषु॑ऽहस्तैः¦सः¦नि॒ष॒ङ्गिऽभिः॑¦व॒शी¦सम्ऽस्र॑ष्टा¦सः¦युधः॑¦इन्द्रः॑¦ग॒णेन॑ | |
बृह॑स्पते॒ परि॑ दीया॒ रथे᳚न रक्षो॒हामित्राँ᳚, अप॒बाध॑मानः |{इंद्रो प्रतिरथः | बृहस्पतिः | त्रिष्टुप्} प्र॒भ॒ञ्जन् त्सेनाः᳚ प्रमृ॒णो यु॒धा जय᳚न्न॒स्माक॑मेध्यवि॒ता रथा᳚नाम् ||{4/13}{8.5.22.4}{10.103.4}{10.9.4.4}{720, 940, 9991} बृह॑स्पते¦परि॑¦दी॒य॒¦रथे᳚न¦र॒क्षः॒ऽहा¦अ॒मित्रा᳚न्¦अ॒प॒ऽबाध॑मानः | |
ब॒ल॒वि॒ज्ञा॒यः स्थवि॑रः॒ प्रवी᳚रः॒ सह॑स्वान् वा॒जी सह॑मान उ॒ग्रः |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्} अ॒भिवी᳚रो, अ॒भिस॑त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒वित् ||{5/13}{8.5.22.5}{10.103.5}{10.9.4.5}{721, 940, 9992} ब॒ल॒ऽवि॒ज्ञा॒यः¦स्थवि॑रः¦प्रऽवी᳚रः¦सह॑स्वान्¦वा॒जी¦सह॑मानः¦उ॒ग्रः | |
गो॒त्र॒भिदं᳚ गो॒विदं॒ वज्र॑बाहुं॒ जय᳚न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्} इ॒मं स॑जाता॒, अनु॑ वीरयध्व॒मिन्द्रं᳚ सखायो॒, अनु॒ सं र॑भध्वम् ||{6/13}{8.5.22.6}{10.103.6}{10.9.4.6}{722, 940, 9993} गो॒त्र॒ऽभिद᳚म्¦गो॒ऽविद᳚म्¦वज्र॑ऽबाहुम्¦जय᳚न्तम्¦अज्म॑¦प्र॒ऽमृ॒णन्त᳚म्¦ओज॑सा | |
अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽद॒यो वी॒रः श॒तम᳚न्यु॒रिन्द्रः॑ |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्} दु॒श्च्य॒व॒नः पृ॑तना॒षाळ॑यु॒ध्यो॒३॑(ओ॒)ऽस्माकं॒ सेना᳚, अवतु॒ प्र यु॒त्सु ||{7/13}{8.5.23.1}{10.103.7}{10.9.4.7}{723, 940, 9994} अ॒भि¦गो॒त्राणि॑¦सह॑सा¦गाह॑मानः¦अ॒द॒यः¦वी॒रः¦श॒तऽम᳚न्युः¦इन्द्रः॑ | |
इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए᳚तु॒ सोमः॑ |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्} दे॒व॒से॒नाना᳚मभिभञ्जती॒नां जय᳚न्तीनां म॒रुतो᳚ य॒न्त्वग्र᳚म् ||{8/13}{8.5.23.2}{10.103.8}{10.9.4.8}{724, 940, 9995} इन्द्रः॑¦आ॒सा॒म्¦ने॒ता¦बृह॒स्पतिः॑¦दक्षि॑णा¦य॒ज्ञः¦पु॒रः¦ए॒तु॒¦सोमः॑ | |
इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां᳚ म॒रुतां॒ शर्ध॑ उ॒ग्रम् |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्} म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो᳚ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ||{9/13}{8.5.23.3}{10.103.9}{10.9.4.9}{725, 940, 9996} इन्द्र॑स्य¦वृष्णः॑¦वरु॑णस्य¦राज्ञः॑¦आ॒दि॒त्याना᳚म्¦म॒रुता᳚म्¦शर्धः॑¦उ॒ग्रम् | |
उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नां माम॒कानां॒ मनां᳚सि |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्} उद्वृ॑त्रहन्वा॒जिनां॒ वाजि॑ना॒न्युद्रथा᳚नां॒ जय॑तां यन्तु॒ घोषाः᳚ ||{10/13}{8.5.23.4}{10.103.10}{10.9.4.10}{726, 940, 9997} उत्¦ह॒र्ष॒य॒¦म॒घ॒ऽव॒न्¦आयु॑धानि¦उत्¦सत्व॑नाम्¦मा॒म॒काना᳚म्¦मनां᳚सि | |
अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या, इष॑व॒स्ता ज॑यन्तु |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्} अ॒स्माकं᳚ वी॒रा, उत्त॑रे भवन्त्व॒स्माँ, उ॑ देवा, अवता॒ हवे᳚षु ||{11/13}{8.5.23.5}{10.103.11}{10.9.4.11}{727, 940, 9998} अ॒स्माक᳚म्¦इन्द्रः॑¦सम्ऽऋ॑तेषु¦ध्व॒जेषु॑¦अ॒स्माक᳚म्¦याः¦इष॑वः¦ताः¦ज॒य॒न्तु॒ | |
अ॒मीषां᳚ चि॒त्तं प्र॑तिलो॒भय᳚न्ती गृहा॒णाङ्गा᳚न्यप्वे॒ परे᳚हि |{इंद्रो प्रतिरथः | अप्वा | त्रिष्टुप्} अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै᳚र॒न्धेना॒मित्रा॒स्तम॑सा सचन्ताम् ||{12/13}{8.5.23.6}{10.103.12}{10.9.4.12}{728, 940, 9999} अ॒मीषा᳚म्¦चि॒त्तम्¦प्र॒ति॒ऽलो॒भय᳚न्ती¦गृ॒हा॒ण¦अङ्गा᳚नि¦अ॒प्वे॒¦परा᳚¦इ॒हि॒ | |
प्रेता॒ जय॑ता नर॒ इन्द्रो᳚ वः॒ शर्म॑ यच्छतु |{इंद्रो प्रतिरथः | इन्द्रो मरुतो वा | अनुष्टुप्} उ॒ग्रा वः॑ सन्तु बा॒हवो᳚ऽनाधृ॒ष्या यथास॑थ ||{13/13}{8.5.23.7}{10.103.13}{10.9.4.13}{729, 940, 10000} प्र¦इ॒त॒¦जय॑त¦न॒रः॒¦इन्द्रः॑¦वः॒¦शर्म॑¦य॒च्छ॒तु॒ | उ॒ग्राः¦वः॒¦स॒न्तु॒¦बा॒हवः॑¦अ॒ना॒धृ॒ष्याः¦यथा᳚¦अस॑थ || |
[59] असावीत्येकादशर्चस्य सूक्तस्य वैश्वामित्रोष्टकइंद्रस्त्रिष्टुप् | |
असा᳚वि॒ सोमः॑ पुरुहूत॒ तुभ्यं॒ हरि॑भ्यां य॒ज्ञमुप॑ याहि॒ तूय᳚म् |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्} तुभ्यं॒ गिरो॒ विप्र॑वीरा, इया॒ना द॑धन् वि॒र इ᳚न्द्र॒ पिबा᳚ सु॒तस्य॑ ||{1/11}{8.5.24.1}{10.104.1}{10.9.5.1}{730, 941, 10001} असा᳚वि¦सोमः॑¦पु॒रु॒ऽहू॒त॒¦तुभ्य᳚म्¦हरि॑ऽभ्याम्¦य॒ज्ञम्¦उप॑¦या॒हि॒¦तूय᳚म् | |
अ॒प्सु धू॒तस्य॑ हरिवः॒ पिबे॒ह नृभिः॑ सु॒तस्य॑ ज॒ठरं᳚ पृणस्व |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्} मि॒मि॒क्षुर्यमद्र॑य इन्द्र॒ तुभ्यं॒ तेभि᳚र्वर्धस्व॒ मद॑मुक्थवाहः ||{2/11}{8.5.24.2}{10.104.2}{10.9.5.2}{731, 941, 10002} अ॒प्ऽसु¦धू॒तस्य॑¦ह॒रि॒ऽवः॒¦पिब॑¦इ॒ह¦नृऽभिः॑¦सु॒तस्य॑¦ज॒ठर᳚म्¦पृ॒ण॒स्व॒ | |
प्रोग्रां पी॒तिं वृष्ण॑ इयर्मि स॒त्यां प्र॒यै सु॒तस्य॑ हर्यश्व॒ तुभ्य᳚म् |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्} इन्द्र॒ धेना᳚भिरि॒ह मा᳚दयस्व धी॒भिर्विश्वा᳚भिः॒ शच्या᳚ गृणा॒नः ||{3/11}{8.5.24.3}{10.104.3}{10.9.5.3}{732, 941, 10003} प्र¦उ॒ग्राम्¦पी॒तिम्¦वृष्णे᳚¦इ॒य॒र्मि॒¦स॒त्याम्¦प्र॒ऽयै¦सु॒तस्य॑¦ह॒रि॒।आ॒श्व॒¦तुभ्य᳚म् | |
ऊ॒ती श॑चीव॒स्तव॑ वी॒र्ये᳚ण॒ वयो॒ दधा᳚ना, उ॒शिज॑ ऋत॒ज्ञाः |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्} प्र॒जाव॑दिन्द्र॒ मनु॑षो दुरो॒णे त॒स्थुर्गृ॒णन्तः॑ सध॒माद्या᳚सः ||{4/11}{8.5.24.4}{10.104.4}{10.9.5.4}{733, 941, 10004} ऊ॒ती¦श॒ची॒ऽवः॒¦तव॑¦वी॒र्ये᳚ण¦वयः॑¦दधा᳚नाः¦उ॒शिजः॑¦ऋ॒त॒ऽज्ञाः | |
प्रणी᳚तिभिष्टे हर्यश्व सु॒ष्टोः सु॑षु॒म्नस्य॑ पुरु॒रुचो॒ जना᳚सः |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्} मंहि॑ष्ठामू॒तिं वि॒तिरे॒ दधा᳚नाः स्तो॒तार॑ इन्द्र॒ तव॑ सू॒नृता᳚भिः ||{5/11}{8.5.24.5}{10.104.5}{10.9.5.5}{734, 941, 10005} प्रनी᳚तिऽभिः¦ते॒¦ह॒रि॒।आ॒श्व॒¦सु॒ऽस्तोः¦सु॒ऽसु॒म्नस्य॑¦पु॒रु॒ऽरुचः॑¦जना᳚सः | |
उप॒ ब्रह्मा᳚णि हरिवो॒ हरि॑भ्यां॒ सोम॑स्य याहि पी॒तये᳚ सु॒तस्य॑ |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्} इन्द्र॑ त्वा य॒ज्ञः, क्षम॑माणमानड्दा॒श्वाँ, अ॑स्यध्व॒रस्य॑ प्रके॒तः ||{6/11}{8.5.25.1}{10.104.6}{10.9.5.6}{735, 941, 10006} उप॑¦ब्रह्मा᳚णि¦ह॒रि॒ऽवः॒¦हरि॑ऽभ्याम्¦सोम॑स्य¦या॒हि॒¦पी॒तये᳚¦सु॒तस्य॑ | |
स॒हस्र॑वाजमभिमाति॒षाहं᳚ सु॒तेर॑णं म॒घवा᳚नं सुवृ॒क्तिम् |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्} उप॑ भूषन्ति॒ गिरो॒, अप्र॑तीत॒मिन्द्रं᳚ नम॒स्या ज॑रि॒तुः प॑नन्त ||{7/11}{8.5.25.2}{10.104.7}{10.9.5.7}{736, 941, 10007} स॒हस्र॑ऽवाजम्¦अ॒भि॒मा॒ति॒ऽसह᳚म्¦सु॒तेऽर॑णम्¦म॒घऽवा᳚नम्¦सु॒ऽवृ॒क्तिम् | |
स॒प्तापो᳚ दे॒वीः सु॒रणा॒, अमृ॑क्ता॒ याभिः॒ सिन्धु॒मत॑र इन्द्र पू॒र्भित् |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्} न॒व॒तिं स्रो॒त्या नव॑ च॒ स्रव᳚न्तीर्दे॒वेभ्यो᳚ गा॒तुं मनु॑षे च विन्दः ||{8/11}{8.5.25.3}{10.104.8}{10.9.5.8}{737, 941, 10008} स॒प्त¦आपः॑¦दे॒वीः¦सु॒ऽरणाः᳚¦अमृ॑क्ताः¦याभिः॑¦सिन्धु᳚म्¦अत॑रः¦इ॒न्द्र॒¦पूः॒ऽभित् | |
अ॒पो म॒हीर॒भिश॑स्तेरमु॒ञ्चोऽजा᳚गरा॒स्वधि॑ दे॒व एकः॑ |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्} इन्द्र॒ यास्त्वं वृ॑त्र॒तूर्ये᳚ च॒कर्थ॒ ताभि᳚र्वि॒श्वायु॑स्त॒न्वं᳚ पुपुष्याः ||{9/11}{8.5.25.4}{10.104.9}{10.9.5.9}{738, 941, 10009} अ॒पः¦म॒हीः¦अ॒भिऽश॑स्तेः¦अ॒मुं॒चः॒¦अजा᳚गः¦आ॒सु॒¦अधि॑¦दे॒वः¦एकः॑ | |
वी॒रेण्यः॒ क्रतु॒रिन्द्रः॑ सुश॒स्तिरु॒तापि॒ धेना᳚ पुरुहू॒तमी᳚ट्टे |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्} आर्द॑यद्वृ॒त्रमकृ॑णोदु लो॒कं स॑सा॒हे श॒क्रः पृत॑ना, अभि॒ष्टिः ||{10/11}{8.5.25.5}{10.104.10}{10.9.5.10}{739, 941, 10010} वी॒रेण्यः॑¦क्रतुः॑¦इन्द्रः॑¦सु॒ऽश॒स्तिः¦उ॒त¦अपि॑¦धेना᳚¦पु॒रु॒ऽहू॒तम्¦ई॒ट्टे॒ | |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{11/11}{8.5.25.6}{10.104.11}{10.9.5.11}{740, 941, 10011} शु॒नम्¦हु॒वे॒म॒¦म॒घऽवा᳚नम्¦इन्द्र᳚म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑मम्¦वाज॑ऽसातौ | |
[60] कदेत्येकादशर्चस्य सूक्तस्य कौत्सोदुर्मित्र इंद्र उष्णिक् आद्यागायत्रीवा द्वितीयासप्तम्यौपिपीलिकमध्येअंत्यात्रिष्टुप् | |
क॒दा व॑सो स्तो॒त्रं हर्य॑त॒ आव॑ श्म॒शा रु॑ध॒द्वाः |{कौत्सो दुर्मित्रः | इन्द्रः | गायत्री} दी॒र्घं सु॒तं वा॒ताप्या᳚य ||{1/11}{8.5.26.1}{10.105.1}{10.9.6.1}{741, 942, 10012} क॒दा¦व॒सो॒ इति॑¦स्तो॒त्रम्¦हर्य॑ते¦आ¦अव॑¦श्म॒शा¦रु॒ध॒त्¦वारिति॒ वाः | दी॒र्घम्¦सु॒तम्¦वा॒ताप्या᳚य || |
हरी॒ यस्य॑ सु॒युजा॒ विव्र॑ता॒ वेरर्व॒न्तानु॒ शेपा᳚ |{कौत्सो दुर्मित्रः | इन्द्रः | गायत्री} उ॒भा र॒जी न के॒शिना॒ पति॒र्दन् ||{2/11}{8.5.26.2}{10.105.2}{10.9.6.2}{742, 942, 10013} हरी॒ इति॑¦यस्य॑¦सु॒ऽयुजा᳚¦विऽव्र॑ता¦वेः¦अर्व᳚न्ता¦अनु॑¦शेपा᳚ | उ॒भा¦र॒जी इति॑¦न¦के॒शिना᳚¦पतिः॑¦द॒न् || |
अप॒ योरिन्द्रः॒ पाप॑ज॒ आ मर्तो॒ न श॑श्रमा॒णो बि॑भी॒वान् |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्} शु॒भे यद्यु॑यु॒जे तवि॑षीवान् ||{3/11}{8.5.26.3}{10.105.3}{10.9.6.3}{743, 942, 10014} अप॑¦योः¦इन्द्रः॑¦पाप॑जे¦आ¦मर्तः॑¦न¦श॒श्र॒मा॒णः¦बि॒भी॒वान् | शु॒भे¦यत्¦यु॒यु॒जे¦तवि॑षीऽवान् || |
सचा॒योरिन्द्र॒श्चर्कृ॑ष॒ आँ, उ॑पान॒सः स॑प॒र्यन् |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्} न॒दयो॒र्विव्र॑तयोः॒ शूर॒ इन्द्रः॑ ||{4/11}{8.5.26.4}{10.105.4}{10.9.6.4}{744, 942, 10015} सचा᳚¦आ॒योः¦इन्द्रः॑¦चर्कृ॑षे¦आ¦उ॒पा॒न॒सः¦स॒प॒र्यन् | न॒दयोः᳚¦विऽव्र॑तयोः¦शूरः॑¦इन्द्रः॑ || |
अधि॒ यस्त॒स्थौ केश॑वन्ता॒ व्यच॑स्वन्ता॒ न पु॒ष्ट्यै |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्} व॒नोति॒ शिप्रा᳚भ्यां शि॒प्रिणी᳚वान् ||{5/11}{8.5.26.5}{10.105.5}{10.9.6.5}{745, 942, 10016} अधि॑¦यः¦त॒स्थौ¦केष॑ऽवन्ता¦व्यच॑स्वन्ता¦न¦पु॒ष्ट्यै | व॒नोति॑¦शिप्रा᳚भ्याम्¦शि॒प्रिणी᳚ऽवान् || |
प्रास्तौ᳚दृ॒ष्वौजा᳚ ऋ॒ष्वेभि॑स्त॒तक्ष॒ शूरः॒ शव॑सा |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्} ऋ॒भुर्न क्रतु॑भिर्मात॒रिश्वा᳚ ||{6/11}{8.5.27.1}{10.105.6}{10.9.6.6}{746, 942, 10017} प्र¦अ॒स्तौ॒त्¦ऋ॒ष्वऽओ᳚जाः॒¦ऋ॒ष्वेभिः॑¦त॒तक्ष॑¦शूरः॑¦शव॑सा | ऋ॒भुः¦न¦क्रतु॑ऽभिः¦मा॒त॒रिश्वा᳚ || |
वज्रं॒ यश्च॒क्रे सु॒हना᳚य॒ दस्य॑वे हिरीम॒शो हिरी᳚मान् |{कौत्सो दुर्मित्रः | इन्द्रः | गायत्री} अरु॑तहनु॒रद्भु॑तं॒ न रजः॑ ||{7/11}{8.5.27.2}{10.105.7}{10.9.6.7}{747, 942, 10018} वज्र᳚म्¦यः¦च॒क्रे¦सु॒ऽहना᳚य¦दस्य॑वे¦हि॒री॒म॒शः¦हिरी᳚मान् | अरु॑तऽहनुः¦अद्भु॑तम्¦न¦रजः॑ || |
अव॑ नो वृजि॒ना शि॑शीह्यृ॒चा व॑नेमा॒नृचः॑ |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्} नाब्र᳚ह्मा य॒ज्ञ ऋध॒ग्जोष॑ति॒ त्वे ||{8/11}{8.5.27.3}{10.105.8}{10.9.6.8}{748, 942, 10019} अव॑¦नः॒¦वृ॒जि॒ना¦शि॒शी॒हि॒¦ऋ॒चा¦व॒ने॒म॒¦अ॒नृचः॑ | न¦अब्र᳚ह्मा¦य॒ज्ञः¦ऋध॑क्¦जोष॑ति¦त्वे इति॑ || |
ऊ॒र्ध्वा यत्ते᳚ त्रे॒तिनी॒ भूद् य॒ज्ञस्य॑ धू॒र्षु सद्म॑न् |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्} स॒जूर्नावं॒ स्वय॑शसं॒ सचा॒योः ||{9/11}{8.5.27.4}{10.105.9}{10.9.6.9}{749, 942, 10020} ऊ॒र्ध्वा¦यत्¦ते॒¦त्रे॒तिनी᳚¦भूत्¦य॒ज्ञस्य॑¦धूः॒ऽसु¦सद्म॑न् | स॒ऽजूः¦नाव᳚म्¦स्वऽय॑शसम्¦सचा᳚¦आ॒योः || |
श्रि॒ये ते॒ पृश्नि॑रुप॒सेच॑नी भूच्छ्रि॒ये दर्वि॑ररे॒पाः |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्} यया॒ स्वे पात्रे᳚ सि॒ञ्चस॒ उत् ||{10/11}{8.5.27.5}{10.105.10}{10.9.6.10}{750, 942, 10021} श्रि॒ये¦ते॒¦पृश्निः॑¦उ॒प॒ऽसेच॑नी¦भू॒त्¦श्रि॒ये¦दर्विः॑¦अ॒रे॒पाः | यया᳚¦स्वे¦पात्रे᳚¦सिं॒चसे᳚¦उत् || |
श॒तं वा॒ यद॑सुर्य॒ प्रति॑ त्वा सुमि॒त्र इ॒त्थास्तौ᳚द्दुर्मि॒त्र इ॒त्थास्तौ᳚त् |{कौत्सो दुर्मित्रः | इन्द्रः | त्रिष्टुप्} आवो॒ यद्द॑स्यु॒हत्ये᳚ कुत्सपु॒त्रं प्रावो॒ यद्द॑स्यु॒हत्ये᳚ कुत्सव॒त्सम् ||{11/11}{8.5.27.6}{10.105.11}{10.9.6.11}{751, 942, 10022} श॒तम्¦वा॒¦यत्¦अ॒सु॒र्य॒¦प्रति॑¦त्वा॒¦सु॒ऽमि॒त्रः¦इ॒त्था¦अ॒स्तौ॒त्¦दुः॒ऽमि॒त्रः¦इ॒त्था¦अ॒स्तौ॒त् | |
[61] उभाउनूनमित्येकादशर्चस्य सूक्तस्य काश्यपोभूतांशोश्विनौत्रिष्टुप् | |
उ॒भा, उ॑ नू॒नं तदिद॑र्थयेथे॒ वि त᳚न्वाथे॒ धियो॒ वस्त्रा॒पसे᳚व |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्} स॒ध्री॒ची॒ना यात॑वे॒ प्रेम॑जीगः सु॒दिने᳚व॒ पृक्ष॒ आ तं᳚सयेथे ||{1/11}{8.6.1.1}{10.106.1}{10.9.7.1}{752, 943, 10023} उ॒भौ¦ऊँ॒ इति॑¦नू॒नम्¦तत्¦इत्¦अ॒र्थ॒ये॒थे॒ इति॑¦वि¦त॒न्वा॒थे॒ इति॑¦धियः॑¦वस्त्रा᳚¦अ॒पसा᳚ऽइव | |
उ॒ष्टारे᳚व॒ फर्व॑रेषु श्रयेथे प्रायो॒गेव॒ श्वात्र्या॒ शासु॒रेथः॑ |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्} दू॒तेव॒ हि ष्ठो य॒शसा॒ जने᳚षु॒ माप॑ स्थातं महि॒षेवा᳚व॒पाना᳚त् ||{2/11}{8.6.1.2}{10.106.2}{10.9.7.2}{753, 943, 10024} उ॒ष्टारा᳚ऽइव¦फर्व॑रेषु¦श्र॒ये॒थे॒ इति॑¦प्रा॒यो॒गाऽइ᳚व¦श्वात्र्या᳚¦शासुः॑¦आ¦इ॒थः॒ | |
सा॒कं॒युजा᳚ शकु॒नस्ये᳚व प॒क्षा प॒श्वेव॑ चि॒त्रा यजु॒रा ग॑मिष्टम् |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्} अ॒ग्निरि॑व देव॒योर्दी᳚दि॒वांसा॒ परि॑ज्मानेव यजथः पुरु॒त्रा ||{3/11}{8.6.1.3}{10.106.3}{10.9.7.3}{754, 943, 10025} सा॒क॒म्ऽयुजा᳚¦श॒कु॒नस्य॑ऽइव¦प॒क्षा¦प॒श्वाऽइ᳚व¦चि॒त्रा¦यजुः॑¦आ¦ग॒मि॒ष्ट॒म् | |
आ॒पी वो᳚, अ॒स्मे पि॒तरे᳚व पु॒त्रोग्रेव॑ रु॒चा नृ॒पती᳚व तु॒र्यै |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्} इर्ये᳚व पु॒ष्ट्यै कि॒रणे᳚व भु॒ज्यै श्रु॑ष्टी॒वाने᳚व॒ हव॒मा ग॑मिष्टम् ||{4/11}{8.6.1.4}{10.106.4}{10.9.7.4}{755, 943, 10026} आ॒पी इति॑¦वः॒¦अ॒स्मे इति॑¦पि॒तरा᳚ऽइव¦पु॒त्रा¦उ॒ग्राऽइ᳚व¦रु॒चा¦नृ॒पती᳚ इ॒वेति॑ नृ॒पती᳚ऽइव¦तु॒र्यै | |
वंस॑गेव पूष॒र्या᳚ शि॒म्बाता᳚ मि॒त्रेव॑ ऋ॒ता श॒तरा॒ शात॑पन्ता |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्} वाजे᳚वो॒च्चा वय॑सा घर्म्ये॒ष्ठा मेषे᳚वे॒षा स॑प॒र्या॒३॑(आ॒) पुरी᳚षा ||{5/11}{8.6.1.5}{10.106.5}{10.9.7.5}{756, 943, 10027} वंस॑गाऽइव¦पू॒ष॒र्या᳚¦शि॒म्बाता᳚¦मि॒त्राऽइ᳚व¦ऋ॒ता¦श॒तरा᳚¦शात॑पन्ता | |
सृ॒ण्ये᳚व ज॒र्भरी᳚ तु॒र्फरी᳚तू नैतो॒शेव॑ तु॒र्फरी᳚ पर्फ॒रीका᳚ |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्} उ॒द॒न्य॒जेव॒ जेम॑ना मदे॒रू ता मे᳚ ज॒राय्व॒जरं᳚ म॒रायु॑ ||{6/11}{8.6.2.1}{10.106.6}{10.9.7.6}{757, 943, 10028} सृ॒ण्या᳚ऽइव¦ज॒र्भरी॒ इति॑¦तु॒र्फरी᳚तू॒ इति॑¦नै॒तो॒शाऽइ᳚व¦तु॒र्फरी॒ इति॑¦प॒र्फ॒रीका᳚ | |
प॒ज्रेव॒ चर्च॑रं॒ जारं᳚ म॒रायु॒ क्षद्मे॒वार्थे᳚षु तर्तरीथ उग्रा |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्} ऋ॒भू नाप॑त्खरम॒ज्रा ख॒रज्रु᳚र्वा॒युर्न प॑र्फरत् क्षयद्रयी॒णाम् ||{7/11}{8.6.2.2}{10.106.7}{10.9.7.7}{758, 943, 10029} प॒ज्राऽइ᳚व¦चर्च॑रम्¦जार᳚म्¦म॒रायु॑¦क्षद्म॑ऽइव¦अर्थे᳚षु¦त॒र्त॒री॒थः॒¦उ॒ग्रा॒ | |
घ॒र्मेव॒ मधु॑ ज॒ठरे᳚ स॒नेरू॒ भगे᳚विता तु॒र्फरी॒ फारि॒वार᳚म् |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्} प॒त॒रेव॑ चच॒रा च॒न्द्रनि᳚र्णि॒ङ्मन॑ऋङ्गा मन॒न्या॒३॑(आ॒) न जग्मी᳚ ||{8/11}{8.6.2.3}{10.106.8}{10.9.7.8}{759, 943, 10030} घ॒र्माऽइ᳚व¦मधु॑¦ज॒ठरे᳚¦स॒नेरू॒ इति॑¦भगे᳚।आविता¦तु॒र्फरी॒ इति॑¦फारि॑वा¦अर᳚म् | |
बृ॒हन्ते᳚व ग॒म्भरे᳚षु प्रति॒ष्ठां पादे᳚व गा॒धं तर॑ते विदाथः |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्} कर्णे᳚व॒ शासु॒रनु॒ हि स्मरा॒थोंऽशे᳚व नो भजतं चि॒त्रमप्नः॑ ||{9/11}{8.6.2.4}{10.106.9}{10.9.7.9}{760, 943, 10031} बृ॒हन्ता᳚ऽइव¦ग॒म्भरे᳚षु¦प्र॒ति॒ऽस्थाम्¦पादा᳚ऽइव¦गा॒धम्¦तर॑ते¦वि॒दा॒थः॒ | |
आ॒र॒ङ्ग॒रेव॒ मध्वेर॑येथे सार॒घेव॒ गवि॑ नी॒चीन॑बारे |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्} की॒नारे᳚व॒ स्वेद॑मासिष्विदा॒ना क्षामे᳚वो॒र्जा सू᳚यव॒सात्स॑चेथे ||{10/11}{8.6.2.5}{10.106.10}{10.9.7.10}{761, 943, 10032} आ॒र॒ङ्ग॒राऽइ᳚व¦मधु॑¦आ¦ई॒र॒ये॒थे॒ इति॑¦सा॒र॒घाऽइ᳚व¦गवि॑¦नी॒चीन॑ऽबारे | |
ऋ॒ध्याम॒ स्तोमं᳚ सनु॒याम॒ वाज॒मा नो॒ मन्त्रं᳚ स॒रथे॒होप॑ यातम् |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्} यशो॒ न प॒क्वं मधु॒ गोष्व॒न्तरा भू॒तांशो᳚, अ॒श्विनोः॒ काम॑मप्राः ||{11/11}{8.6.2.6}{10.106.11}{10.9.7.11}{762, 943, 10033} ऋ॒ध्याम॑¦स्तोम᳚म्¦स॒नु॒याम॑¦वाज᳚म्¦आ¦नः॒¦मन्त्र᳚म्¦स॒ऽरथा᳚¦इ॒ह¦उप॑¦या॒त॒म् | |
[62] आविरित्येका दशर्चस्य सूक्तस्यांगिरसोदिव्योदक्षिणात्रिष्टुप् चतुर्थीजगती | (प्राजापत्यादक्षिणानामग्निरृषिका वा दक्षिणादातारोवा देवता) | |
आ॒विर॑भू॒न्महि॒ माघो᳚नमेषां॒ विश्वं᳚ जी॒वं तम॑सो॒ निर॑मोचि |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्} महि॒ ज्योतिः॑ पि॒तृभि॑र्द॒त्तमागा᳚दु॒रुः पन्था॒ दक्षि॑णाया, अदर्शि ||{1/11}{8.6.3.1}{10.107.1}{10.9.8.1}{763, 944, 10034} आ॒विः¦अ॒भू॒त्¦महि॑¦माघो᳚नम्¦ए॒षा॒म्¦विश्व᳚म्¦जी॒वम्¦तम॑सः¦निः¦अ॒मो॒चि॒ | |
उ॒च्चा दि॒वि दक्षि॑णावन्तो, अस्थु॒र्ये, अ॑श्व॒दाः स॒ह ते सूर्ये᳚ण |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्} हि॒र॒ण्य॒दा, अ॑मृत॒त्वं भ॑जन्ते वासो॒दाः सो᳚म॒ प्र ति॑रन्त॒ आयुः॑ ||{2/11}{8.6.3.2}{10.107.2}{10.9.8.2}{764, 944, 10035} उ॒च्चा¦दि॒वि¦दक्षि॑णाऽवन्तः¦अ॒स्थुः॒¦ये¦अ॒श्व॒ऽदाः¦स॒ह¦ते¦सूर्ये᳚ण | |
दैवी᳚ पू॒र्तिर्दक्षि॑णा देवय॒ज्या न क॑वा॒रिभ्यो᳚ न॒हि ते पृ॒णन्ति॑ |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्} अथा॒ नरः॒ प्रय॑तदक्षिणासोऽवद्यभि॒या ब॒हवः॑ पृणन्ति ||{3/11}{8.6.3.3}{10.107.3}{10.9.8.3}{765, 944, 10036} दैवी᳚¦पू॒र्तिः¦दक्षि॑णा¦दे॒व॒ऽय॒ज्या¦न¦क॒व॒।आ॒रिभ्यः॑¦न॒हि¦ते¦पृ॒णन्ति॑ | |
श॒तधा᳚रं वा॒युम॒र्कं स्व॒र्विदं᳚ नृ॒चक्ष॑स॒स्ते, अ॒भि च॑क्षते ह॒विः |{आङ्गिरसो दिव्यः | दक्षिणाः | जगती} ये पृ॒णन्ति॒ प्र च॒ यच्छ᳚न्ति संग॒मे ते दक्षि॑णां दुहते स॒प्तमा᳚तरम् ||{4/11}{8.6.3.4}{10.107.4}{10.9.8.4}{766, 944, 10037} श॒तऽधा᳚रम्¦वा॒युम्¦अ॒र्कम्¦स्वः॒ऽविद᳚म्¦नृ॒ऽचक्ष॑सः¦ते॒¦अ॒भि¦च॒क्ष॒ते॒¦ह॒विः | |
दक्षि॑णावान् प्रथ॒मो हू॒त ए᳚ति॒ दक्षि॑णावान् ग्राम॒णीरग्र॑मेति |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्} तमे॒व म᳚न्ये नृ॒पतिं॒ जना᳚नां॒ यः प्र॑थ॒मो दक्षि॑णामावि॒वाय॑ ||{5/11}{8.6.3.5}{10.107.5}{10.9.8.5}{767, 944, 10038} दक्षि॑णाऽवान्¦प्र॒थ॒मः¦हू॒तः¦ए॒ति॒¦दक्षि॑णाऽवान्¦ग्रा॒म॒ऽनीः¦अग्र᳚म्¦ए॒ति॒ | |
तमे॒व ऋषिं॒ तमु॑ ब्र॒ह्माण॑माहुर्यज्ञ॒न्यं᳚ साम॒गामु॑क्थ॒शास᳚म् |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्} स शु॒क्रस्य॑ त॒न्वो᳚ वेद ति॒स्रो यः प्र॑थ॒मो दक्षि॑णया र॒राध॑ ||{6/11}{8.6.4.1}{10.107.6}{10.9.8.6}{768, 944, 10039} तम्¦ए॒व¦ऋषि᳚म्¦तम्¦ऊँ॒ इति॑¦ब्र॒ह्माण᳚म्¦आ॒हुः॒¦य॒ज्ञ॒ऽन्य᳚म्¦सा॒म॒ऽगाम्¦उ॒क्थ॒ऽशास᳚म् | |
दक्षि॒णाश्वं॒ दक्षि॑णा॒ गां द॑दाति॒ दक्षि॑णा च॒न्द्रमु॒त यद्धिर᳚ण्यम् |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्} दक्षि॒णान्नं᳚ वनुते॒ यो न॑ आ॒त्मा दक्षि॑णां॒ वर्म॑ कृणुते विजा॒नन् ||{7/11}{8.6.4.2}{10.107.7}{10.9.8.7}{769, 944, 10040} दक्षि॑णा¦अश्व᳚म्¦दक्षि॑णा¦गाम्¦द॒दा॒ति॒¦दक्षि॑णा¦च॒न्द्रम्¦उ॒त¦यत्¦हिर᳚ण्यम् | |
न भो॒जा म᳚म्रु॒र्न न्य॒र्थमी᳚यु॒र्न रि॑ष्यन्ति॒ न व्य॑थन्ते ह भो॒जाः |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्} इ॒दं यद्विश्वं॒ भुव॑नं॒ स्व॑श्चै॒तत्सर्वं॒ दक्षि॑णैभ्यो ददाति ||{8/11}{8.6.4.3}{10.107.8}{10.9.8.8}{770, 944, 10041} न¦भो॒जाः¦म॒म्रुः॒¦न¦नि॒।आ॒र्थम्¦ई॒युः॒¦न¦रि॒ष्य॒न्ति॒¦न¦व्य॒थ॒न्ते॒¦ह॒¦भो॒जाः | |
भो॒जा जि॑ग्युः सुर॒भिं योनि॒मग्रे᳚ भो॒जा जि॑ग्युर्व॒ध्व१॑(अं॒) या सु॒वासाः᳚ |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्} भो॒जा जि॑ग्युरन्तः॒पेयं॒ सुरा᳚या भो॒जा जि॑ग्यु॒र्ये, अहू᳚ताः प्र॒यन्ति॑ ||{9/11}{8.6.4.4}{10.107.9}{10.9.8.9}{771, 944, 10042} भो॒जाः¦जि॒ग्युः॒¦सु॒र॒भिम्¦योनि᳚म्¦अग्रे᳚¦भो॒जाः¦जि॒ग्युः॒¦व॒ध्व᳚म्¦या¦सु॒ऽवासाः᳚ | |
भो॒जायाश्वं॒ सं मृ॑जन्त्या॒शुं भो॒जाया᳚स्ते क॒न्या॒३॑(आ॒) शुम्भ॑माना |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्} भो॒जस्ये॒दं पु॑ष्क॒रिणी᳚व॒ वेश्म॒ परि॑ष्कृतं देवमा॒नेव॑ चि॒त्रम् ||{10/11}{8.6.4.5}{10.107.10}{10.9.8.10}{772, 944, 10043} भो॒जाय॑¦अश्व᳚म्¦सम्¦मृ॒ज॒न्ति॒¦आ॒शुम्¦भो॒जाय॑¦आ॒स्ते॒¦क॒न्या᳚¦शुम्भ॑माना | |
भो॒जमश्वाः᳚ सुष्ठु॒वाहो᳚ वहन्ति सु॒वृद्रथो᳚ वर्तते॒ दक्षि॑णायाः |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्} भो॒जं दे᳚वासोऽवता॒ भरे᳚षु भो॒जः शत्रू᳚न् त्समनी॒केषु॒ जेता᳚ ||{11/11}{8.6.4.6}{10.107.11}{10.9.8.11}{773, 944, 10044} भो॒जम्¦अश्वाः᳚¦सु॒ष्ठु॒ऽवाहः॑¦व॒ह॒न्ति॒¦सु॒ऽवृत्¦रथः॑¦व॒र्त॒ते॒¦दक्षि॑णायाः | |
[63] किमिच्छंतीत्येकादशर्चस्य सूक्तस्यायुजां पणिनामासुराऋषयः युजामेकादश्याश्च सरमानाग्नीदेवशुनीऋषिका अयुजांसरमादेवता युजामेकादश्याश्चपणयस्त्रिष्टुप् | |
किमि॒च्छन्ती᳚ स॒रमा॒ प्रेदमा᳚नड्दू॒रे ह्यध्वा॒ जगु॑रिः परा॒चैः |{पणिनामासुराः | सरमा | त्रिष्टुप्} कास्मेहि॑तिः॒ का परि॑तक्म्यासीत्क॒थं र॒साया᳚, अतरः॒ पयां᳚सि ||{1/11}{8.6.5.1}{10.108.1}{10.9.9.1}{774, 945, 10045} किम्¦इ॒च्छन्ती᳚¦स॒रमा᳚¦प्र¦इ॒दम्¦आ॒न॒ट्¦दू॒रे¦हि¦अध्वा᳚¦जगु॑रिः¦प॒रा॒चैः | |
इन्द्र॑स्य दू॒तीरि॑षि॒ता च॑रामि म॒ह इ॒च्छन्ती᳚ पणयो नि॒धीन्वः॑ |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्} अ॒ति॒ष्कदो᳚ भि॒यसा॒ तन्न॑ आव॒त्तथा᳚ र॒साया᳚, अतरं॒ पयां᳚सि ||{2/11}{8.6.5.2}{10.108.2}{10.9.9.2}{775, 945, 10046} इन्द्र॑स्य¦दू॒तीः¦इ॒षि॒ता¦च॒रा॒मि॒¦म॒हः¦इ॒च्छन्ती᳚¦प॒ण॒यः॒¦नि॒ऽधीन्¦वः॒ | |
की॒दृङ्ङिन्द्रः॑ सरमे॒ का दृ॑शी॒का यस्ये॒दं दू॒तीरस॑रः परा॒कात् |{पणिनामासुराः | सरमा | त्रिष्टुप्} आ च॒ गच्छा᳚न्मि॒त्रमे᳚ना दधा॒माथा॒ गवां॒ गोप॑तिर्नो भवाति ||{3/11}{8.6.5.3}{10.108.3}{10.9.9.3}{776, 945, 10047} की॒दृक्¦इन्द्रः॑¦स॒र॒मे॒¦का¦दृ॒शी॒का¦यस्य॑¦इ॒दम्¦दू॒तीः¦अस॑रः¦प॒रा॒कात् | |
नाहं तं वे᳚द॒ दभ्यं॒ दभ॒त्स यस्ये॒दं दू॒तीरस॑रं परा॒कात् |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्} न तं गू᳚हन्ति स्र॒वतो᳚ गभी॒रा ह॒ता, इन्द्रे᳚ण पणयः शयध्वे ||{4/11}{8.6.5.4}{10.108.4}{10.9.9.4}{777, 945, 10048} न¦अ॒हम्¦तम्¦वे॒द॒¦दभ्य᳚म्¦दभ॑त्¦सः¦यस्य॑¦इ॒दम्¦दू॒तीः¦अस॑रम्¦प॒रा॒कात् | |
इ॒मा गावः॑ सरमे॒ या, ऐच्छः॒ परि॑ दि॒वो, अन्ता᳚न् त्सुभगे॒ पत᳚न्ती |{पणिनामासुराः | सरमा | त्रिष्टुप्} कस्त॑ एना॒, अव॑ सृजा॒दयु॑ध्व्यु॒तास्माक॒मायु॑धा सन्ति ति॒ग्मा ||{5/11}{8.6.5.5}{10.108.5}{10.9.9.5}{778, 945, 10049} इ॒माः¦गावः॑¦स॒र॒मे॒¦याः¦ऐच्छः॑¦परि॑¦दि॒वः¦अन्ता᳚न्¦सु॒ऽभ॒गे॒¦पत᳚न्ती | |
अ॒से॒न्या वः॑ पणयो॒ वचां᳚स्यनिष॒व्यास्त॒न्वः॑ सन्तु पा॒पीः |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्} अधृ॑ष्टो व॒ एत॒वा, अ॑स्तु॒ पन्था॒ बृह॒स्पति᳚र्व उभ॒या न मृ॑ळात् ||{6/11}{8.6.6.1}{10.108.6}{10.9.9.6}{779, 945, 10050} अ॒से॒न्या¦वः॒¦प॒ण॒यः॒¦वचां᳚सि¦अ॒नि॒ष॒व्याः¦त॒न्वः॑¦स॒न्तु॒¦पा॒पीः | |
अ॒यं नि॒धिः स॑रमे॒, अद्रि॑बुध्नो॒ गोभि॒रश्वे᳚भि॒र्वसु॑भि॒र्न्यृ॑ष्टः |{पणिनामासुराः | सरमा | त्रिष्टुप्} रक्ष᳚न्ति॒ तं प॒णयो॒ ये सु॑गो॒पा रेकु॑ प॒दमल॑क॒मा ज॑गन्थ ||{7/11}{8.6.6.2}{10.108.7}{10.9.9.7}{780, 945, 10051} अ॒यम्¦नि॒ऽधिः¦स॒र॒मे॒¦अद्रि॑ऽबुध्नः¦गोभिः॑¦अश्वे᳚भिः¦वसु॑ऽभिः¦निऽऋ॑ष्टः | |
एह ग॑म॒न्नृष॑यः॒ सोम॑शिता, अ॒यास्यो॒, अङ्गि॑रसो॒ नव॑ग्वाः |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्} त ए॒तमू॒र्वं वि भ॑जन्त॒ गोना॒मथै॒तद्वचः॑ प॒णयो॒ वम॒न्नित् ||{8/11}{8.6.6.3}{10.108.8}{10.9.9.8}{781, 945, 10052} आ¦इ॒ह¦ग॒म॒न्¦ऋष॑यः¦सोम॑ऽशिताः¦अ॒यास्यः॑¦अङ्गि॑रसः¦नव॑ऽग्वाः | |
ए॒वा च॒ त्वं स॑रम आज॒गन्थ॒ प्रबा᳚धिता॒ सह॑सा॒ दैव्ये᳚न |{पणिनामासुराः | सरमा | त्रिष्टुप्} स्वसा᳚रं त्वा कृणवै॒ मा पुन॑र्गा॒, अप॑ ते॒ गवां᳚ सुभगे भजाम ||{9/11}{8.6.6.4}{10.108.9}{10.9.9.9}{782, 945, 10053} ए॒व¦च॒¦त्वम्¦स॒र॒मे॒¦आ॒ऽज॒गन्थ॑¦प्रऽबा᳚धिता¦सह॑सा¦दैव्ये᳚न | |
नाहं वे᳚द भ्रातृ॒त्वं नो स्व॑सृ॒त्वमिन्द्रो᳚ विदु॒रङ्गि॑रसश्च घो॒राः |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्} गोका᳚मा मे, अच्छदय॒न्यदाय॒मपात॑ इत पणयो॒ वरी᳚यः ||{10/11}{8.6.6.5}{10.108.10}{10.9.9.10}{783, 945, 10054} न¦अ॒हम्¦वे॒द॒¦भ्रा॒तृ॒ऽत्वम्¦नो इति॑¦स्व॒सृ॒ऽत्वम्¦इन्द्रः॑¦वि॒दुः॒¦अङ्गि॑रसः¦च॒¦घो॒राः | |
दू॒रमि॑त पणयो॒ वरी᳚य॒ उद्गावो᳚ यन्तु मिन॒तीरृ॒तेन॑ |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्} बृह॒स्पति॒र्या, अवि᳚न्द॒न्निगू᳚ळ्हाः॒ सोमो॒ ग्रावा᳚ण॒ ऋष॑यश्च॒ विप्राः᳚ ||{11/11}{8.6.6.6}{10.108.11}{10.9.9.11}{784, 945, 10055} दू॒रम्¦इ॒त॒¦प॒ण॒यः॒¦वरी᳚यः¦उत्¦गावः॑¦य॒न्तु॒¦मि॒न॒तीः¦ऋ॒तेन॑ | |
[64] तेवदन्निति सप्तर्चस्य सूक्तस्य ब्रह्मजायाजुहूर्विश्वेदेवास्त्रिष्टुबंत्येद्वेअनुष्टुभौ | (ब्राह्मोवोर्ध्वनाभऋषिः) | |
ते᳚ऽवदन् प्रथ॒मा ब्र᳚ह्मकिल्बि॒षेऽकू᳚पारः सलि॒लो मा᳚त॒रिश्वा᳚ |{ब्रह्मजायाजुहू | विश्वदेवाः | त्रिष्टुप्} वी॒ळुह॑रा॒स्तप॑ उ॒ग्रो म॑यो॒भूरापो᳚ दे॒वीः प्र॑थम॒जा, ऋ॒तेन॑ ||{1/7}{8.6.7.1}{10.109.1}{10.9.10.1}{785, 946, 10056} ते¦अ॒व॒द॒न्¦प्र॒थ॒माः¦ब्र॒ह्म॒ऽकि॒ल्बि॒षे¦अकू᳚पारः¦स॒लि॒लः¦मा॒त॒रिश्वा᳚ | |
सोमो॒ राजा᳚ प्रथ॒मो ब्र᳚ह्मजा॒यां पुनः॒ प्राय॑च्छ॒दहृ॑णीयमानः |{ब्रह्मजायाजुहू | विश्वदेवाः | त्रिष्टुप्} अ॒न्व॒र्ति॒ता वरु॑णो मि॒त्र आ᳚सीद॒ग्निर्होता᳚ हस्त॒गृह्या नि॑नाय ||{2/7}{8.6.7.2}{10.109.2}{10.9.10.2}{786, 946, 10057} सोमः॑¦राजा᳚¦प्र॒थ॒मः¦ब्र॒ह्म॒ऽजा॒याम्¦पुन॒रिति॑¦प्र¦अ॒य॒च्छ॒त्¦अहृ॑णीयमानः | |
हस्ते᳚नै॒व ग्रा॒ह्य॑ आ॒धिर॑स्या ब्रह्मजा॒येयमिति॒ चेदवो᳚चन् |{ब्रह्मजायाजुहू | विश्वदेवाः | त्रिष्टुप्} न दू॒ताय॑ प्र॒ह्ये᳚ तस्थ ए॒षा तथा᳚ रा॒ष्ट्रं गु॑पि॒तं क्ष॒त्रिय॑स्य ||{3/7}{8.6.7.3}{10.109.3}{10.9.10.3}{787, 946, 10058} हस्ते᳚न¦ए॒व¦ग्रा॒ह्यः॑¦आ॒ऽधिः¦अ॒स्याः॒¦ब्र॒ह्म॒ऽजा॒या¦इ॒यम्¦इति॑¦च॒¦इत्¦अवो᳚चन् | |
दे॒वा, ए॒तस्या᳚मवदन्त॒ पूर्वे᳚ सप्तऋ॒षय॒स्तप॑से॒ ये नि॑षे॒दुः |{ब्रह्मजायाजुहू | विश्वदेवाः | त्रिष्टुप्} भी॒मा जा॒या ब्रा᳚ह्म॒णस्योप॑नीता दु॒र्धां द॑धाति पर॒मे व्यो᳚मन् ||{4/7}{8.6.7.4}{10.109.4}{10.9.10.4}{788, 946, 10059} दे॒वाः¦ए॒तस्या᳚म्¦अ॒व॒द॒न्त॒¦पूर्वे᳚¦स॒प्त॒ऽऋ॒षयः॑¦तप॑से¦ये¦नि॒ऽसे॒दुः | |
ब्र॒ह्म॒चा॒री च॑रति॒ वेवि॑ष॒द्विषः॒ स दे॒वानां᳚ भव॒त्येक॒मङ्ग᳚म् |{ब्रह्मजायाजुहू | विश्वदेवाः | त्रिष्टुप्} तेन॑ जा॒यामन्व॑विन्द॒द्बृह॒स्पतिः॒ सोमे᳚न नी॒तां जु॒ह्व१॑(अं॒) न दे᳚वाः ||{5/7}{8.6.7.5}{10.109.5}{10.9.10.5}{789, 946, 10060} ब्र॒ह्म॒ऽचा॒री¦च॒र॒ति॒¦वेवि॑षत्¦विषः॑¦सः¦दे॒वाना᳚म्¦भ॒व॒ति॒¦एक᳚म्¦अङ्ग᳚म् | |
पुन॒र्वै दे॒वा, अ॑ददुः॒ पुन᳚र्मनु॒ष्या᳚, उ॒त |{ब्रह्मजायाजुहू | विश्वदेवाः | अनुष्टुप्} राजा᳚नः स॒त्यं कृ᳚ण्वा॒ना ब्र᳚ह्मजा॒यां पुन॑र्ददुः ||{6/7}{8.6.7.6}{10.109.6}{10.9.10.6}{790, 946, 10061} पुनः॑¦वै¦दे॒वाः¦अ॒द॒दुः॒¦पुनः॑¦म॒नु॒ष्याः᳚¦उ॒त | राजा᳚नः¦स॒त्यम्¦कृ॒ण्वा॒नाः¦ब्र॒ह्म॒ऽजा॒याम्¦पुनः॑¦द॒दुः॒ || |
पु॒न॒र्दाय॑ ब्रह्मजा॒यां कृ॒त्वी दे॒वैर्नि॑किल्बि॒षम् |{ब्रह्मजायाजुहू | विश्वदेवाः | अनुष्टुप्} ऊर्जं᳚ पृथि॒व्या भ॒क्त्वायो᳚रुगा॒यमुपा᳚सते ||{7/7}{8.6.7.7}{10.109.7}{10.9.10.7}{791, 946, 10062} पु॒नः॒ऽदाय॑¦ब्र॒ह्म॒ऽजा॒याम्¦कृ॒त्वी¦दे॒वैः¦नि॒ऽकि॒ल्बि॒षम् | ऊर्ज᳚म्¦पृ॒थि॒व्याः¦भ॒क्त्वाय॑¦उ॒रु॒ऽगा॒यम्¦उप॑¦आ॒स॒ते॒ || |
[65] समिद्धइत्येकादशर्चस्य सूक्तस्य भार्गवो जमदग्निरिध्म स्तनूनपाद् इळो बर्हिर्देवीर्द्वारउषासानक्ता दैव्यौहोतारौसरस्वतीळाभारत्यस्त्वष्टावनस्पति स्वाहाकृतयस्त्रिष्टुप् | (जामदग्नि: परशुरामोवा)| |
समि॑द्धो, अ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान् य॑जसि जातवेदः |{भार्गवो जमदग्निः | इध्मः | त्रिष्टुप्} आ च॒ वह॑ मित्रमहश्चिकि॒त्वान् त्वं दू॒तः क॒विर॑सि॒ प्रचे᳚ताः ||{1/11}{8.6.8.1}{10.110.1}{10.9.11.1}{792, 947, 10063} सम्ऽइ᳚द्धः¦अ॒द्य¦मनु॑षः¦दु॒रो॒णे¦दे॒वः¦दे॒वान्¦य॒ज॒सि॒¦जा॒त॒ऽवे॒दः॒ | |
तनू᳚नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा᳚ सम॒ञ्जन् त्स्व॑दया सुजिह्व |{भार्गवो जमदग्निः | तनूनपाद् | त्रिष्टुप्} मन्मा᳚नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन्दे᳚व॒त्रा च॑ कृणुह्यध्व॒रं नः॑ ||{2/11}{8.6.8.2}{10.110.2}{10.9.11.2}{793, 947, 10064} तनू᳚ऽनपात्¦प॒थः¦ऋ॒तस्य॑¦याना᳚न्¦मध्वा᳚¦स॒म्।आं॒जन्¦स्व॒द॒य॒¦सु॒ऽजि॒ह्व॒ | |
आ॒जुह्वा᳚न॒ ईड्यो॒ वन्द्य॒श्चा या᳚ह्यग्ने॒ वसु॑भिः स॒जोषाः᳚ |{भार्गवो जमदग्निः | इळः | त्रिष्टुप्} त्वं दे॒वाना᳚मसि यह्व॒ होता॒ स ए᳚नान्यक्षीषि॒तो यजी᳚यान् ||{3/11}{8.6.8.3}{10.110.3}{10.9.11.3}{794, 947, 10065} आ॒ऽजुह्वा᳚नः¦ईड्यः॑¦वन्द्यः॑¦च॒¦आ¦या॒हि॒¦अ॒ग्ने॒¦वसु॑ऽभिः¦स॒ऽजोषाः᳚ | |
प्रा॒चीनं᳚ ब॒र्हिः प्र॒दिशा᳚ पृथि॒व्या वस्तो᳚र॒स्या वृ॑ज्यते॒, अग्रे॒, अह्ना᳚म् |{भार्गवो जमदग्निः | बर्हिः | त्रिष्टुप्} व्यु॑ प्रथते वित॒रं वरी᳚यो दे॒वेभ्यो॒, अदि॑तये स्यो॒नम् ||{4/11}{8.6.8.4}{10.110.4}{10.9.11.4}{795, 947, 10066} प्रा॒चीन᳚म्¦ब॒र्हिः¦प्र॒ऽदिशा᳚¦पृ॒थि॒व्याः¦वस्तोः᳚¦अ॒स्याः¦वृ॒ज्य॒ते॒¦अग्रे᳚¦अह्ना᳚म् | |
व्यच॑स्वतीरुर्वि॒या वि श्र॑यन्तां॒ पति॑भ्यो॒ न जन॑यः॒ शुम्भ॑मानाः |{भार्गवो जमदग्निः | देवीर्द्वार | त्रिष्टुप्} देवी᳚र्द्वारो बृहतीर्विश्वमिन्वा दे॒वेभ्यो᳚ भवत सुप्राय॒णाः ||{5/11}{8.6.8.5}{10.110.5}{10.9.11.5}{796, 947, 10067} व्यच॑स्वतीः¦उ॒र्वि॒या¦वि¦श्र॒य॒न्ता॒म्¦पति॑ऽभ्यः¦न¦जन॑यः¦शुम्भ॑मानाः | |
आ सु॒ष्वय᳚न्ती यज॒ते, उपा᳚के, उ॒षासा॒नक्ता᳚ सदतां॒ नि योनौ᳚ |{भार्गवो जमदग्निः | उषासानक्ता | त्रिष्टुप्} दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे, अधि॒ श्रियं᳚ शुक्र॒पिशं॒ दधा᳚ने ||{6/11}{8.6.9.1}{10.110.6}{10.9.11.6}{797, 947, 10068} आ¦सु॒स्वय᳚न्ती॒ इति॑¦य॒ज॒ते इति॑¦उपा᳚के॒ इति॑¦उ॒षसा॒नक्ता᳚¦स॒द॒ता॒म्¦नि¦योनौ᳚ | |
दैव्या॒ होता᳚रा प्रथ॒मा सु॒वाचा॒ मिमा᳚ना य॒ज्ञं मनु॑षो॒ यज॑ध्यै |{भार्गवो जमदग्निः | दैव्यौहोतारौ | त्रिष्टुप्} प्र॒चो॒दय᳚न्ता वि॒दथे᳚षु का॒रू प्रा॒चीनं॒ ज्योतिः॑ प्र॒दिशा᳚ दि॒शन्ता᳚ ||{7/11}{8.6.9.2}{10.110.7}{10.9.11.7}{798, 947, 10069} दैव्या᳚¦होता᳚रा¦प्र॒थ॒मा¦सु॒ऽवाचा᳚¦मिमा᳚ना¦य॒ज्ञम्¦मनु॑षः¦यज॑ध्यै | |
आ नो᳚ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विळा᳚ मनु॒ष्वदि॒ह चे॒तय᳚न्ती |{भार्गवो जमदग्निः | सरस्वतीळाभारत्यः | त्रिष्टुप्} ति॒स्रो दे॒वीर्ब॒र्हिरेदं स्यो॒नं सर॑स्वती॒ स्वप॑सः सदन्तु ||{8/11}{8.6.9.3}{10.110.8}{10.9.11.8}{799, 947, 10070} आ¦नः॒¦य॒ज्ञम्¦भार॑ती¦तूय᳚म्¦ए॒तु॒¦इळा᳚¦म॒नु॒ष्वत्¦इ॒ह¦चे॒तय᳚न्ती | |
य इ॒मे द्यावा᳚पृथि॒वी जनि॑त्री रू॒पैरपिं᳚श॒द्भुव॑नानि॒ विश्वा᳚ |{भार्गवो जमदग्निः | वष्टा | त्रिष्टुप्} तम॒द्य हो᳚तरिषि॒तो यजी᳚यान्दे॒वं त्वष्टा᳚रमि॒ह य॑क्षि वि॒द्वान् ||{9/11}{8.6.9.4}{10.110.9}{10.9.11.9}{800, 947, 10071} यः¦इ॒मे इति॑¦द्यावा᳚पृथि॒वी इति॑¦जनि॑त्री॒ इति॑¦रू॒पैः¦अपिं᳚शत्¦भुव॑नानि¦विश्वा᳚ | |
उ॒पाव॑सृज॒ त्मन्या᳚ सम॒ञ्जन्दे॒वानां॒ पाथ॑ ऋतु॒था ह॒वींषि॑ |{भार्गवो जमदग्निः | वनस्पतिः | त्रिष्टुप्} वन॒स्पतिः॑ शमि॒ता दे॒वो, अ॒ग्निः स्वद᳚न्तु ह॒व्यं मधु॑ना घृ॒तेन॑ ||{10/11}{8.6.9.5}{10.110.10}{10.9.11.10}{801, 947, 10072} उ॒प॒।आव॑सृज¦त्मन्या᳚¦स॒म्।आं॒जन्¦दे॒वाना᳚म्¦पाथः॑¦ऋ॒तु॒ऽथा¦ह॒वींषि॑ | |
स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना᳚मभवत्पुरो॒गाः |{भार्गवो जमदग्निः | स्वाहाकृतयः | त्रिष्टुप्} अ॒स्य होतुः॑ प्र॒दिश्यृ॒तस्य॑ वा॒चि स्वाहा᳚कृतं ह॒विर॑दन्तु दे॒वाः ||{11/11}{8.6.9.6}{10.110.11}{10.9.11.11}{802, 947, 10073} स॒द्यः¦जा॒तः¦वि¦अ॒मि॒मी॒त॒¦य॒ज्ञम्¦अ॒ग्निः¦दे॒वाना᳚म्¦अ॒भ॒व॒त्¦पु॒रः॒ऽगाः | |
[66] मनीषिणइति दशर्चस्य सुक्तस्य वैरूपोष्टादंष्त्रः इंद्रत्रिष्टुप् | |
मनी᳚षिणः॒ प्र भ॑रध्वं मनी॒षां यथा᳚यथा म॒तयः॒ सन्ति॑ नृ॒णाम् |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्} इन्द्रं᳚ स॒त्यैरेर॑यामा कृ॒तेभिः॒ स हि वी॒रो गि᳚र्वण॒स्युर्विदा᳚नः ||{1/10}{8.6.10.1}{10.111.1}{10.9.12.1}{803, 948, 10074} मनी᳚षिणः¦प्र¦भ॒र॒ध्व॒म्¦म॒नी॒षाम्¦यथा᳚ऽयथा¦म॒तयः॑¦सन्ति॑¦नृ॒णाम् | |
ऋ॒तस्य॒ हि सद॑सो धी॒तिरद्यौ॒त्सं गा᳚र्ष्टे॒यो वृ॑ष॒भो गोभि॑रानट् |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्} उद॑तिष्ठत्तवि॒षेणा॒ रवे᳚ण म॒हान्ति॑ चि॒त्सं वि᳚व्याचा॒ रजां᳚सि ||{2/10}{8.6.10.2}{10.111.2}{10.9.12.2}{804, 948, 10075} ऋ॒तस्य॑¦हि¦सद॑सः¦धी॒तिः¦अद्यौ᳚त्¦सम्¦गा॒र्ष्टे॒यः¦वृ॒ष॒भः¦गोभिः॑¦आ॒न॒ट् | |
इन्द्रः॒ किल॒ श्रुत्या᳚, अ॒स्य वे᳚द॒ स हि जि॒ष्णुः प॑थि॒कृत्सूर्या᳚य |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्} आन्मेनां᳚ कृ॒ण्वन्नच्यु॑तो॒ भुव॒द्गोः पति॑र्दि॒वः स॑न॒जा, अप्र॑तीतः ||{3/10}{8.6.10.3}{10.111.3}{10.9.12.3}{805, 948, 10076} इन्द्रः॑¦किल॑¦श्रुत्यै᳚¦अ॒स्य¦वे॒द॒¦सः¦हि¦जि॒ष्णुः¦प॒थि॒ऽकृत्¦सूर्या᳚य | |
इन्द्रो᳚ म॒ह्ना म॑ह॒तो, अ᳚र्ण॒वस्य᳚ व्र॒तामि॑ना॒दङ्गि॑रोभिर्गृणा॒नः |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्} पु॒रूणि॑ चि॒न्नि त॑ताना॒ रजां᳚सि दा॒धार॒ यो ध॒रुणं᳚ स॒त्यता᳚ता ||{4/10}{8.6.10.4}{10.111.4}{10.9.12.4}{806, 948, 10077} इन्द्रः॑¦म॒ह्ना¦म॒ह॒तः¦अ॒र्ण॒वस्य॑¦व्र॒ता¦अ॒मि॒ना॒त्¦अङ्गि॑रःऽभिः¦गृ॒णा॒नः | |
इन्द्रो᳚ दि॒वः प्र॑ति॒मानं᳚ पृथि॒व्या विश्वा᳚ वेद॒ सव॑ना॒ हन्ति॒ शुष्ण᳚म् |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्} म॒हीं चि॒द्द्यामात॑नो॒त्सूर्ये᳚ण चा॒स्कम्भ॑ चि॒त्कम्भ॑नेन॒ स्कभी᳚यान् ||{5/10}{8.6.10.5}{10.111.5}{10.9.12.5}{807, 948, 10078} इन्द्रः॑¦दि॒वः¦प्र॒ति॒ऽमान᳚म्¦पृ॒थि॒व्याः¦विश्वा᳚¦वे॒द॒¦सव॑ना¦हन्ति॑¦शुष्ण᳚म् | |
वज्रे᳚ण॒ हि वृ॑त्र॒हा वृ॒त्रमस्त॒रदे᳚वस्य॒ शूशु॑वानस्य मा॒याः |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्} वि धृ॑ष्णो॒, अत्र॑ धृष॒ता ज॑घ॒न्थाथा᳚भवो मघवन् बा॒ह्वो᳚जाः ||{6/10}{8.6.11.1}{10.111.6}{10.9.12.6}{808, 948, 10079} वज्रे᳚ण¦हि¦वृ॒त्र॒ऽहा¦वृ॒त्रम्¦अस्तः॑¦अदे᳚वस्य¦शूशु॑वानस्य¦मा॒याः | |
सच᳚न्त॒ यदु॒षसः॒ सूर्ये᳚ण चि॒त्राम॑स्य के॒तवो॒ राम॑विन्दन् |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्} आ यन्नक्ष॑त्रं॒ ददृ॑शे दि॒वो न पुन᳚र्य॒तो नकि॑र॒द्धा नु वे᳚द ||{7/10}{8.6.11.2}{10.111.7}{10.9.12.7}{809, 948, 10080} सच᳚न्त¦यत्¦उ॒षसः॑¦सूर्ये᳚ण¦चि॒त्राम्¦अ॒स्य॒¦के॒तवः॑¦राम्¦अ॒वि॒न्द॒न् | |
दू॒रं किल॑ प्रथ॒मा ज॑ग्मुरासा॒मिन्द्र॑स्य॒ याः प्र॑स॒वे स॒स्रुरापः॑ |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्} क्व॑ स्वि॒दग्रं॒ क्व॑ बु॒ध्न आ᳚सा॒मापो॒ मध्यं॒ क्व॑ वो नू॒नमन्तः॑ ||{8/10}{8.6.11.3}{10.111.8}{10.9.12.8}{810, 948, 10081} दू॒रम्¦किल॑¦प्र॒थ॒माः¦ज॒ग्मुः॒¦आ॒सा॒म्¦इन्द्र॑स्य¦याः¦प्र॒ऽस॒वे¦स॒स्रुः¦आपः॑ | |
सृ॒जः सिन्धूँ॒रहि॑ना जग्रसा॒नाँ, आदिदे॒ताः प्र वि॑विज्रे ज॒वेन॑ |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्} मुमु॑क्षमाणा, उ॒त या मु॑मु॒च्रेऽधेदे॒ता न र॑मन्ते॒ निति॑क्ताः ||{9/10}{8.6.11.4}{10.111.9}{10.9.12.9}{811, 948, 10082} सृ॒जः¦सिन्धू᳚न्¦अहि॑ना¦ज॒ग्र॒सा॒नान्¦आत्¦इत्¦ए॒ताः¦प्र¦वि॒वि॒ज्रे॒¦ज॒वेन॑ | |
स॒ध्रीचीः॒ सिन्धु॑मुश॒तीरि॑वायन् त्स॒नाज्जा॒र आ᳚रि॒तः पू॒र्भिदा᳚साम् |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्} अस्त॒मा ते॒ पार्थि॑वा॒ वसू᳚न्य॒स्मे ज॑ग्मुः सू॒नृता᳚, इन्द्र पू॒र्वीः ||{10/10}{8.6.11.5}{10.111.10}{10.9.12.10}{812, 948, 10083} स॒ध्रीचीः᳚¦सिन्धु᳚म्¦उ॒श॒तीःऽइ᳚व¦आ॒य॒न्¦स॒नात्¦जा॒रः¦आ॒रि॒तः¦पूः॒ऽभित्¦आ॒सा॒म् | |
[67] इंद्रपिबेति दशर्चस्य सूक्तस्य वैरूपोनभः प्रभेदनइंद्रस्त्रिष्टुप् | |
इन्द्र॒ पिब॑ प्रतिका॒मं सु॒तस्य॑ प्रातःसा॒वस्तव॒ हि पू॒र्वपी᳚तिः |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्} हर्ष॑स्व॒ हन्त॑वे शूर॒ शत्रू᳚नु॒क्थेभि॑ष्टे वी॒र्या॒३॑(आ॒) प्र ब्र॑वाम ||{1/10}{8.6.12.1}{10.112.1}{10.9.13.1}{813, 949, 10084} इन्द्र॑¦पिब॑¦प्र॒ति॒ऽका॒मम्¦सु॒तस्य॑¦प्रा॒तः॒ऽसा॒वः¦तव॑¦हि¦पू॒र्वऽपी᳚तिः | |
यस्ते॒ रथो॒ मन॑सो॒ जवी᳚या॒नेन्द्र॒ तेन॑ सोम॒पेया᳚य याहि |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्} तूय॒मा ते॒ हर॑यः॒ प्र द्र॑वन्तु॒ येभि॒र्यासि॒ वृष॑भि॒र्मन्द॑मानः ||{2/10}{8.6.12.2}{10.112.2}{10.9.13.2}{814, 949, 10085} यः¦ते॒¦रथः॑¦मन॑सः¦जवी᳚यान्¦आ॒¦इ॒न्द्र॒¦तेन॑¦सो॒म॒ऽपेया᳚य¦या॒हि॒ | |
हरि॑त्वता॒ वर्च॑सा॒ सूर्य॑स्य॒ श्रेष्ठै᳚ रू॒पैस्त॒न्वं᳚ स्पर्शयस्व |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्} अ॒स्माभि॑रिन्द्र॒ सखि॑भिर्हुवा॒नः स॑ध्रीची॒नो मा᳚दयस्वा नि॒षद्य॑ ||{3/10}{8.6.12.3}{10.112.3}{10.9.13.3}{815, 949, 10086} हरि॑त्वता¦वर्च॑सा¦सूर्य॑स्य¦श्रेष्ठैः᳚¦रू॒पैः¦त॒न्व᳚म्¦स्प॒र्श॒य॒स्व॒ | |
यस्य॒ त्यत्ते᳚ महि॒मानं॒ मदे᳚ष्वि॒मे म॒ही रोद॑सी॒ नावि॑विक्ताम् |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्} तदोक॒ आ हरि॑भिरिन्द्र यु॒क्तैः प्रि॒येभि᳚र्याहि प्रि॒यमन्न॒मच्छ॑ ||{4/10}{8.6.12.4}{10.112.4}{10.9.13.4}{816, 949, 10087} यस्य॑¦त्यत्¦ते॒¦म॒हि॒मान᳚म्¦मदे᳚षु¦इ॒मे इति॑¦म॒ही इति॑¦रोद॑सी॒ इति॑¦न¦अवि॑विक्ताम् | |
यस्य॒ शश्व॑त्पपि॒वाँ, इ᳚न्द्र॒ शत्रू᳚ननानुकृ॒त्या रण्या᳚ च॒कर्थ॑ |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्} स ते॒ पुरं᳚धिं॒ तवि॑षीमियर्ति॒ स ते॒ मदा᳚य सु॒त इ᳚न्द्र॒ सोमः॑ ||{5/10}{8.6.12.5}{10.112.5}{10.9.13.5}{817, 949, 10088} यस्य॑¦शश्व॑त्¦प॒पि॒ऽवान्¦इ॒न्द्र॒¦शत्रू᳚न्¦अ॒न॒नु॒ऽकृ॒त्या¦रण्या᳚¦च॒कर्थ॑ | |
इ॒दं ते॒ पात्रं॒ सन॑वित्तमिन्द्र॒ पिबा॒ सोम॑मे॒ना श॑तक्रतो |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्} पू॒र्ण आ᳚हा॒वो म॑दि॒रस्य॒ मध्वो॒ यं विश्व॒ इद॑भि॒हर्य᳚न्ति दे॒वाः ||{6/10}{8.6.13.1}{10.112.6}{10.9.13.6}{818, 949, 10089} इ॒दम्¦ते॒¦पात्र᳚म्¦सन॑ऽवित्तम्¦इ॒न्द्र॒¦पिब॑¦सोम᳚म्¦ए॒ना¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | |
वि हि त्वामि᳚न्द्र पुरु॒धा जना᳚सो हि॒तप्र॑यसो वृषभ॒ ह्वय᳚न्ते |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्} अ॒स्माकं᳚ ते॒ मधु॑मत्तमानी॒मा भु॑व॒न् त्सव॑ना॒ तेषु॑ हर्य ||{7/10}{8.6.13.2}{10.112.7}{10.9.13.7}{819, 949, 10090} वि¦हि¦त्वाम्¦इ॒न्द्र॒¦पु॒रु॒धा¦जना᳚सः¦हि॒तऽप्र॑यसः¦वृ॒ष॒भ॒¦ह्वय᳚न्ते | |
प्र त॑ इन्द्र पू॒र्व्याणि॒ प्र नू॒नं वी॒र्या᳚ वोचं प्रथ॒मा कृ॒तानि॑ |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्} स॒ती॒नम᳚न्युरश्रथायो॒, अद्रिं᳚ सुवेद॒नाम॑कृणो॒र्ब्रह्म॑णे॒ गाम् ||{8/10}{8.6.13.3}{10.112.8}{10.9.13.8}{820, 949, 10091} प्र¦ते॒¦इ॒न्द्र॒¦पू॒र्व्याणि॑¦प्र¦नू॒नम्¦वी॒र्या᳚¦वो॒च॒म्¦प्र॒थ॒मा¦कृ॒तानि॑ | |
नि षु सी᳚द गणपते ग॒णेषु॒ त्वामा᳚हु॒र्विप्र॑तमं कवी॒नाम् |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्} न ऋ॒ते त्वत् क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवञ्चि॒त्रम॑र्च ||{9/10}{8.6.13.4}{10.112.9}{10.9.13.9}{821, 949, 10092} नि¦सु¦सी॒द॒¦ग॒ण॒ऽप॒ते॒¦ग॒णेषु॑¦त्वाम्¦आ॒हुः॒¦विप्र॑ऽतमम्¦क॒वी॒नाम् | |
अ॒भि॒ख्या नो᳚ मघव॒न् नाध॑माना॒न् त्सखे᳚ बो॒धि व॑सुपते॒ सखी᳚नाम् |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्} रणं᳚ कृधि रणकृत् सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये, अ॒स्मान् ||{10/10}{8.6.13.5}{10.112.10}{10.9.13.10}{822, 949, 10093} अ॒भि॒ऽख्या¦नः॒¦म॒घ॒ऽव॒न्¦नाध॑मानान्¦सखे᳚¦बो॒धि¦व॒सु॒ऽप॒ते॒¦सखी᳚नाम् | |
[68] तमस्येति दशर्चस्य सूक्तस्य वैरूपः शतप्रभेदनइंद्रजगत्यंत्या त्रिष्टुप् | |
तम॑स्य॒ द्यावा᳚पृथि॒वी सचे᳚तसा॒ विश्वे᳚भिर्दे॒वैरनु॒ शुष्म॑मावताम् |{वैरूपः शतप्रभेदः | इन्द्रः | जगती} यदैत्कृ᳚ण्वा॒नो म॑हि॒मान॑मिन्द्रि॒यं पी॒त्वी सोम॑स्य॒ क्रतु॑माँ, अवर्धत ||{1/10}{8.6.14.1}{10.113.1}{10.10.1.1}{823, 950, 10094} तम्¦अ॒स्य॒¦द्यावा᳚पृथि॒वी इति॑¦सऽचे᳚तसा¦विश्वे᳚भिः¦दे॒वैः¦अनु॑¦शुष्म᳚म्¦आ॒व॒ता॒म् | |
तम॑स्य॒ विष्णु᳚र्महि॒मान॒मोज॑सां॒शुं द॑ध॒न्वान् मधु॑नो॒ वि र॑प्शते |{वैरूपः शतप्रभेदः | इन्द्रः | जगती} दे॒वेभि॒रिन्द्रो᳚ म॒घवा᳚ स॒याव॑भिर्वृ॒त्रं ज॑घ॒न्वाँ, अ॑भव॒द्वरे᳚ण्यः ||{2/10}{8.6.14.2}{10.113.2}{10.10.1.2}{824, 950, 10095} तम्¦अ॒स्य॒¦विष्णुः॑¦म॒हि॒मान᳚म्¦ओज॑सा¦अं॒शुम्¦द॒ध॒न्वान्¦मधु॑नः¦वि¦र॒प्श॒ते॒ | |
वृ॒त्रेण॒ यदहि॑ना॒ बिभ्र॒दायु॑धा स॒मस्थि॑था यु॒धये॒ शंस॑मा॒विदे᳚ |{वैरूपः शतप्रभेदः | इन्द्रः | जगती} विश्वे᳚ ते॒, अत्र॑ म॒रुतः॑ स॒ह त्मनाव॑र्धन्नुग्र महि॒मान॑मिन्द्रि॒यम् ||{3/10}{8.6.14.3}{10.113.3}{10.10.1.3}{825, 950, 10096} वृ॒त्रेण॑¦यत्¦अहि॑ना¦बिभ्र॑त्¦आयु॑धा¦स॒म्।आस्थि॑थाः¦यु॒धये᳚¦शंस᳚म्¦आ॒ऽविदे᳚ | |
ज॒ज्ञा॒न ए॒व व्य॑बाधत॒ स्पृधः॒ प्राप॑श्यद्वी॒रो, अ॒भि पौंस्यं॒ रण᳚म् |{वैरूपः शतप्रभेदः | इन्द्रः | जगती} अवृ॑श्च॒दद्रि॒मव॑ स॒स्यदः॑ सृज॒दस्त॑भ्ना॒न्नाकं᳚ स्वप॒स्यया᳚ पृ॒थुम् ||{4/10}{8.6.14.4}{10.113.4}{10.10.1.4}{826, 950, 10097} ज॒ज्ञा॒नः¦ए॒व¦वि¦अ॒बा॒ध॒त॒¦स्पृधः॑¦प्र¦अ॒प॒श्य॒त्¦वी॒रः¦अ॒भि¦पौंस्य᳚म्¦रण᳚म् | |
आदिन्द्रः॑ स॒त्रा तवि॑षीरपत्यत॒ वरी᳚यो॒ द्यावा᳚पृथि॒वी, अ॑बाधत |{वैरूपः शतप्रभेदः | इन्द्रः | जगती} अवा᳚भरद्धृषि॒तो वज्र॑माय॒सं शेवं᳚ मि॒त्राय॒ वरु॑णाय दा॒शुषे᳚ ||{5/10}{8.6.14.5}{10.113.5}{10.10.1.5}{827, 950, 10098} आत्¦इन्द्रः॑¦स॒त्रा¦तवि॑षीः¦अ॒प॒त्य॒त॒¦वरी᳚यः¦द्यावा᳚पृथि॒वी इति॑¦अ॒बा॒ध॒त॒ | |
इन्द्र॒स्यात्र॒ तवि॑षीभ्यो विर॒प्शिन॑ ऋघाय॒तो, अ॑रंहयन्त म॒न्यवे᳚ |{वैरूपः शतप्रभेदः | इन्द्रः | जगती} वृ॒त्रं यदु॒ग्रो व्यवृ॑श्च॒दोज॑सा॒पो बिभ्र॑तं॒ तम॑सा॒ परी᳚वृतम् ||{6/10}{8.6.15.1}{10.113.6}{10.10.1.6}{828, 950, 10099} इन्द्र॑स्य¦अत्र॑¦तवि॑षीभ्यः¦वि॒ऽर॒प्शिनः॑¦ऋ॒घा॒य॒तः¦अ॒रं॒ह॒य॒न्त॒¦म॒न्यवे᳚ | |
या वी॒र्या᳚णि प्रथ॒मानि॒ कर्त्वा᳚ महि॒त्वेभि॒र्यत॑मानौ समी॒यतुः॑ |{वैरूपः शतप्रभेदः | इन्द्रः | जगती} ध्वा॒न्तं तमोऽव॑ दध्वसे ह॒त इन्द्रो᳚ म॒ह्ना पू॒र्वहू᳚तावपत्यत ||{7/10}{8.6.15.2}{10.113.7}{10.10.1.7}{829, 950, 10100} या¦वी॒र्या᳚णि¦प्र॒थ॒मानि॑¦कर्त्वा᳚¦म॒हि॒ऽत्वेभिः॑¦यत॑मानौ¦स॒म्ऽई॒यतुः॑ | |
विश्वे᳚ दे॒वासो॒, अध॒ वृष्ण्या᳚नि॒ तेऽव॑र्धय॒न् त्सोम॑वत्या वच॒स्यया᳚ |{वैरूपः शतप्रभेदः | इन्द्रः | जगती} र॒द्धं वृ॒त्रमहि॒मिन्द्र॑स्य॒ हन्म॑ना॒ग्निर्न जम्भै᳚स्तृ॒ष्वन्न॑मावयत् ||{8/10}{8.6.15.3}{10.113.8}{10.10.1.8}{830, 950, 10101} विश्वे᳚¦दे॒वासः॑¦अध॑¦वृष्ण्या᳚नि¦ते¦अव॑र्धयन्¦सोम॑ऽवत्या¦व॒च॒स्यया᳚ | |
भूरि॒ दक्षे᳚भिर्वच॒नेभि॒रृक्व॑भिः स॒ख्येभिः॑ स॒ख्यानि॒ प्र वो᳚चत |{वैरूपः शतप्रभेदः | इन्द्रः | जगती} इन्द्रो॒ धुनिं᳚ च॒ चुमु॑रिं च द॒म्भय᳚ञ्छ्रद्धामन॒स्या शृ॑णुते द॒भीत॑ये ||{9/10}{8.6.15.4}{10.113.9}{10.10.1.9}{831, 950, 10102} भूरि॑¦दक्षे᳚भिः¦व॒च॒नेभिः॑¦ऋक्व॑ऽभिः¦स॒ख्येभिः॑¦स॒ख्यानि॑¦प्र¦वो॒च॒त॒ | |
त्वं पु॒रूण्या भ॑रा॒ स्वश्व्या॒ येभि॒र्मंसै᳚ नि॒वच॑नानि॒ शंस॑न् |{वैरूपः शतप्रभेदः | इन्द्रः | त्रिष्टुप्} सु॒गेभि॒र्विश्वा᳚ दुरि॒ता त॑रेम वि॒दो षु ण॑ उर्वि॒या गा॒धम॒द्य ||{10/10}{8.6.15.5}{10.113.10}{10.10.1.10}{832, 950, 10103} त्वम्¦पु॒रूणि॑¦आ¦भ॒र॒¦सु॒।आश्व्या᳚¦येभिः॑¦मंसै᳚¦नि॒ऽवच॑नानि¦शंस॑न् | |
[69] घर्मेति दशर्चस्य सूक्तस्य वैरूपः सघ्निर्विश्वेदेवास्त्रिष्टुष्चतुर्थीजगती | ( तापसोघर्मोवाऋषिः) | |
घ॒र्मा सम᳚न्ता त्रि॒वृतं॒ व्या᳚पतु॒स्तयो॒र्जुष्टिं᳚ मात॒रिश्वा᳚ जगाम |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्} दि॒वस्पयो॒ दिधि॑षाणा, अवेषन् वि॒दुर्दे॒वाः स॒हसा᳚मानम॒र्कम् ||{1/10}{8.6.16.1}{10.114.1}{10.10.2.1}{833, 951, 10104} घ॒र्मा¦सम्।आ᳚न्ता¦त्रि॒ऽवृत᳚म्¦वि¦आ॒प॒तुः॒¦तयोः᳚¦जुष्टि᳚म्¦मा॒त॒रिश्वा᳚¦ज॒गा॒म॒ | |
ति॒स्रो दे॒ष्ट्राय॒ निरृ॑ती॒रुपा᳚सते दीर्घ॒श्रुतो॒ वि हि जा॒नन्ति॒ वह्न॑यः |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्} तासां॒ नि चि॑क्युः क॒वयो᳚ नि॒दानं॒ परे᳚षु॒ या गुह्ये᳚षु व्र॒तेषु॑ ||{2/10}{8.6.16.2}{10.114.2}{10.10.2.2}{834, 951, 10105} ति॒स्रः¦दे॒ष्ट्राय॑¦निःऽऋ॑तीः¦उप॑¦आ॒स॒ते॒¦दी॒र्घ॒ऽश्रुतः॑¦वि¦हि¦जा॒नन्ति॑¦वह्न॑यः | |
चतु॑ष्कपर्दा युव॒तिः सु॒पेशा᳚ घृ॒तप्र॑तीका व॒युना᳚नि वस्ते |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्} तस्यां᳚ सुप॒र्णा वृष॑णा॒ नि षे᳚दतु॒र्यत्र॑ दे॒वा द॑धि॒रे भा᳚ग॒धेय᳚म् ||{3/10}{8.6.16.3}{10.114.3}{10.10.2.3}{835, 951, 10106} चतुः॑ऽकपर्दा¦यु॒व॒तिः¦सु॒ऽपेशाः᳚¦घृ॒तऽप्र॑तीका¦व॒युना᳚नि¦व॒स्ते॒ | |
एकः॑ सुप॒र्णः स स॑मु॒द्रमा वि॑वेश॒ स इ॒दं विश्वं॒ भुव॑नं॒ वि च॑ष्टे |{वैरूपः सघ्निः | विश्वदेवाः | जगती} तं पाके᳚न॒ मन॑सापश्य॒मन्ति॑त॒स्तं मा॒ता रे᳚ळ्हि॒ स उ॑ रेळ्हि मा॒तर᳚म् ||{4/10}{8.6.16.4}{10.114.4}{10.10.2.4}{836, 951, 10107} एकः॑¦सु॒ऽप॒र्णः¦सः¦स॒मु॒द्रम्¦आ¦वि॒वे॒श॒¦सः¦इ॒दम्¦विश्व᳚म्¦भुव॑नम्¦वि¦च॒ष्टे॒ | |
सु॒प॒र्णं विप्राः᳚ क॒वयो॒ वचो᳚भि॒रेकं॒ सन्तं᳚ बहु॒धा क॑ल्पयन्ति |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्} छन्दां᳚सि च॒ दध॑तो, अध्व॒रेषु॒ ग्रहा॒न् त्सोम॑स्य मिमते॒ द्वाद॑श ||{5/10}{8.6.16.5}{10.114.5}{10.10.2.5}{837, 951, 10108} सु॒ऽप॒र्णम्¦विप्रा᳚¦क॒वयः॑¦वचः॑ऽभिः¦एक᳚म्¦सन्त᳚म्¦ब॒हु॒धा¦क॒ल्प॒य॒न्ति॒ | |
ष॒ट्त्रिं॒शाँश्च॑ च॒तुरः॑ क॒ल्पय᳚न्त॒श्छन्दां᳚सि च॒ दध॑त आद्वाद॒शम् |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्} य॒ज्ञं वि॒माय॑ क॒वयो᳚ मनी॒ष ऋ॑क्सा॒माभ्यां॒ प्र रथं᳚ वर्तयन्ति ||{6/10}{8.6.17.1}{10.114.6}{10.10.2.6}{838, 951, 10109} ष॒ट्ऽत्रिं॒शान्¦च॒¦च॒तुरः॑¦क॒ल्पय᳚न्तः¦छन्दां᳚सि¦च॒¦दध॑तः¦आ॒ऽद्वा॒द॒शम् | |
चतु॑र्दशा॒न्ये म॑हि॒मानो᳚, अस्य॒ तं धीरा᳚ वा॒चा प्र ण॑यन्ति स॒प्त |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्} आप्ना᳚नं ती॒र्थं क इ॒ह प्र वो᳚च॒द्येन॑ प॒था प्र॒पिब᳚न्ते सु॒तस्य॑ ||{7/10}{8.6.17.2}{10.114.7}{10.10.2.7}{839, 951, 10110} चतुः॑ऽदश¦अ॒न्ये¦म॒हि॒मानः॑¦अ॒स्य॒¦तम्¦धीराः᳚¦वा॒चा¦प्र¦न॒य॒न्ति॒¦स॒प्त | |
स॒ह॒स्र॒धा प᳚ञ्चद॒शान्यु॒क्था याव॒द्द्यावा᳚पृथि॒वी ताव॒दित्तत् |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्} स॒ह॒स्र॒धा म॑हि॒मानः॑ स॒हस्रं॒ याव॒द्ब्रह्म॒ विष्ठि॑तं॒ ताव॑ती॒ वाक् ||{8/10}{8.6.17.3}{10.114.8}{10.10.2.8}{840, 951, 10111} स॒ह॒स्र॒धा¦पं॒च॒ऽद॒शानि॑¦उ॒क्था¦याव॑त्¦द्यावा᳚पृथि॒वी इति॑¦ताव॑त्¦इत्¦तत् | |
कश्छन्द॑सां॒ योग॒मा वे᳚द॒ धीरः॒ को धिष्ण्यां॒ प्रति॒ वाचं᳚ पपाद |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्} कमृ॒त्विजा᳚मष्ट॒मं शूर॑माहु॒र्हरी॒, इन्द्र॑स्य॒ नि चि॑काय॒ कः स्वि॑त् ||{9/10}{8.6.17.4}{10.114.9}{10.10.2.9}{841, 951, 10112} कः¦छन्द॑साम्¦योग᳚म्¦आ¦वे॒द॒¦धीरः॑¦कः¦धिष्ण्या᳚म्¦प्रति॑¦वाच᳚म्¦प॒पा॒द॒ | |
भूम्या॒, अन्तं॒ पर्येके᳚ चरन्ति॒ रथ॑स्य धू॒र्षु यु॒क्तासो᳚, अस्थुः |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्} श्रम॑स्य दा॒यं वि भ॑जन्त्येभ्यो य॒दा य॒मो भव॑ति ह॒र्म्ये हि॒तः ||{10/10}{8.6.17.5}{10.114.10}{10.10.2.10}{842, 951, 10113} भूम्याः᳚¦अन्त᳚म्¦परि॑¦एके᳚¦च॒र॒न्ति॒¦रथ॑स्य¦धूः॒ऽसु¦यु॒क्तासः॑¦अ॒स्थुः॒ | |
[70] चित्रइति नवर्चस्य सूक्तस्य वार्ष्तिहव्य उपस्तुतोग्निर्जगती अष्टमीनवम्यौ त्रिष्टुप्शक्वर्यौ | |
चि॒त्र इच्छिशो॒स्तरु॑णस्य व॒क्षथो॒ न यो मा॒तरा᳚व॒प्येति॒ धात॑वे |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती} अ॒नू॒धा यदि॒ जीज॑न॒दधा᳚ च॒ नु व॒वक्ष॑ स॒द्यो महि॑ दू॒त्य१॑(अं॒) चर॑न् ||{1/9}{8.6.18.1}{10.115.1}{10.10.3.1}{843, 952, 10114} चि॒त्रः¦इत्¦शिशोः᳚¦तरु॑णस्य¦व॒क्षथः॑¦न¦यः¦मा॒तरौ᳚¦अ॒पि॒ऽएति॑¦धात॑वे | |
अ॒ग्निर्ह॒ नाम॑ धायि॒ दन्न॒पस्त॑मः॒ सं यो वना᳚ यु॒वते॒ भस्म॑ना द॒ता |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती} अ॒भि॒प्र॒मुरा᳚ जु॒ह्वा᳚ स्वध्व॒र इ॒नो न प्रोथ॑मानो॒ यव॑से॒ वृषा᳚ ||{2/9}{8.6.18.2}{10.115.2}{10.10.3.2}{844, 952, 10115} अ॒ग्निः¦ह॒¦नाम॑¦धा॒यि॒¦दन्¦अ॒पःऽत॑मः¦सम्¦यः¦वना᳚¦यु॒वते᳚¦भस्म॑ना¦द॒ता | |
तं वो॒ विं न द्रु॒षदं᳚ दे॒वमन्ध॑स॒ इन्दुं॒ प्रोथ᳚न्तं प्र॒वप᳚न्तमर्ण॒वम् |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती} आ॒सा वह्निं॒ न शो॒चिषा᳚ विर॒प्शिनं॒ महि᳚व्रतं॒ न स॒रज᳚न्त॒मध्व॑नः ||{3/9}{8.6.18.3}{10.115.3}{10.10.3.3}{845, 952, 10116} तम्¦वः॒¦विम्¦न¦द्रु॒ऽसद᳚म्¦दे॒वम्¦अन्ध॑सः¦इन्दु᳚म्¦प्रोथ᳚न्तम्¦प्र॒ऽवप᳚न्तम्¦अ॒र्ण॒वम् | |
वि यस्य॑ ते ज्रयसा॒नस्या᳚जर॒ धक्षो॒र्न वाताः॒ परि॒ सन्त्यच्यु॑ताः |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती} आ र॒ण्वासो॒ युयु॑धयो॒ न स॑त्व॒नं त्रि॒तं न॑शन्त॒ प्र शि॒षन्त॑ इ॒ष्टये᳚ ||{4/9}{8.6.18.4}{10.115.4}{10.10.3.4}{846, 952, 10117} वि¦यस्य॑¦ते॒¦ज्र॒य॒सा॒नस्य॑¦अ॒ज॒र॒¦धक्षोः᳚¦न¦वाताः᳚¦परि॑¦सन्ति॑¦अच्यु॑ताः | |
स इद॒ग्निः कण्व॑तमः॒ कण्व॑सखा॒र्यः पर॒स्यान्त॑रस्य॒ तरु॑षः |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती} अ॒ग्निः पा᳚तु गृण॒तो, अ॒ग्निः सू॒रीन॒ग्निर्द॑दातु॒ तेषा॒मवो᳚ नः ||{5/9}{8.6.18.5}{10.115.5}{10.10.3.5}{847, 952, 10118} सः¦इत्¦अ॒ग्निः¦कण्व॑ऽतमः¦कण्व॑ऽसखा¦अ॒र्यः¦पर॑स्य¦अन्त॑रस्य¦तरु॑षः | |
वा॒जिन्त॑माय॒ सह्य॑से सुपित्र्य तृ॒षु च्यवा᳚नो॒, अनु॑ जा॒तवे᳚दसे |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती} अ॒नु॒द्रे चि॒द्यो धृ॑ष॒ता वरं᳚ स॒ते म॒हिन्त॑माय॒ धन्व॒नेद॑विष्य॒ते ||{6/9}{8.6.19.1}{10.115.6}{10.10.3.6}{848, 952, 10119} वा॒जिन्ऽत॑माय¦सह्य॑से¦सु॒ऽपि॒त्र्य॒¦तृ॒षु¦च्यवा᳚नः¦अनु॑¦जा॒तऽवे᳚दसे | |
ए॒वाग्निर्मर्तैः᳚ स॒ह सू॒रिभि॒र्वसुः॑ ष्टवे॒ सह॑सः सू॒नरो॒ नृभिः॑ |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती} मि॒त्रासो॒ न ये सुधि॑ता, ऋता॒यवो॒ द्यावो॒ न द्यु॒म्नैर॒भि सन्ति॒ मानु॑षान् ||{7/9}{8.6.19.2}{10.115.7}{10.10.3.7}{849, 952, 10120} ए॒व¦अ॒ग्निः¦मर्तैः᳚¦स॒ह¦सू॒रिऽभिः॑¦वसुः॑¦स्त॒वे॒¦सह॑सः¦सू॒नरः॑¦नृऽभिः॑ | |
ऊर्जो᳚ नपात्सहसाव॒न्निति॑ त्वोपस्तु॒तस्य॑ वन्दते॒ वृषा॒ वाक् |{वार्ष्तिहव्य उपस्तुतः | अग्निः | त्रिष्टुप्} त्वां स्तो᳚षाम॒ त्वया᳚ सु॒वीरा॒ द्राघी᳚य॒ आयुः॑ प्रत॒रं दधा᳚नाः ||{8/9}{8.6.19.3}{10.115.8}{10.10.3.8}{850, 952, 10121} ऊर्जः॑¦न॒पा॒त्¦स॒ह॒सा॒ऽव॒न्¦इति॑¦त्वा॒¦उ॒प॒ऽस्तु॒तस्य॑¦व॒न्द॒ते॒¦वृषा᳚¦वाक् | |
इति॑ त्वाग्ने वृष्टि॒हव्य॑स्य पु॒त्रा, उ॑पस्तु॒तास॒ ऋष॑योऽवोचन् |{वार्ष्तिहव्य उपस्तुतः | अग्निः | शक्वरी} ताँश्च॑ पा॒हि गृ॑ण॒तश्च॑ सू॒रीन्वष॒ड्वष॒ळित्यू॒र्ध्वासो᳚, अनक्ष॒न्नमो॒ नम॒ इत्यू॒र्ध्वासो᳚, अनक्षन् ||{9/9}{8.6.19.4}{10.115.9}{10.10.3.9}{851, 952, 10122} इति॑¦त्वा॒¦अ॒ग्ने॒¦वृ॒ष्टि॒ऽहव्य॑स्य¦पु॒त्राः¦उ॒प॒ऽस्तु॒तासः॑¦ऋष॑यः¦अ॒वो॒च॒न् | |
[71] पिबेति नवर्चस्य सूक्तस्य स्थौरोग्नियुत इंद्रस्त्रिष्टुप् | (अग्नियूपोवा ऋषिः) | |
पिबा॒ सोमं᳚ मह॒त इ᳚न्द्रि॒याय॒ पिबा᳚ वृ॒त्राय॒ हन्त॑वे शविष्ठ |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्} पिब॑ रा॒ये शव॑से हू॒यमा᳚नः॒ पिब॒ मध्व॑स्तृ॒पदि॒न्द्रा वृ॑षस्व ||{1/9}{8.6.20.1}{10.116.1}{10.10.4.1}{852, 953, 10123} पिब॑¦सोम᳚म्¦म॒ह॒ते¦इ॒न्द्रि॒याय॑¦पिब॑¦वृ॒त्राय॑¦हन्त॑वे¦श॒वि॒ष्ठ॒ | |
अ॒स्य पि॑ब क्षु॒मतः॒ प्रस्थि॑त॒स्येन्द्र॒ सोम॑स्य॒ वर॒मा सु॒तस्य॑ |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्} स्व॒स्ति॒दा मन॑सा मादयस्वार्वाची॒नो रे॒वते॒ सौभ॑गाय ||{2/9}{8.6.20.2}{10.116.2}{10.10.4.2}{853, 953, 10124} अ॒स्य¦पि॒ब॒¦क्षु॒ऽमतः॑¦प्रऽस्थि॑तस्य¦इन्द्र॑¦सोम॑स्य¦वर᳚म्¦आ¦सु॒तस्य॑ | |
म॒मत्तु॑ त्वा दि॒व्यः सोम॑ इन्द्र म॒मत्तु॒ यः सू॒यते॒ पार्थि॑वेषु |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्} म॒मत्तु॒ येन॒ वरि॑वश्च॒कर्थ॑ म॒मत्तु॒ येन॑ निरि॒णासि॒ शत्रू॑न् ||{3/9}{8.6.20.3}{10.116.3}{10.10.4.3}{854, 953, 10125} म॒मत्तु॑¦त्वा॒¦दि॒व्यः¦सोमः॑¦इ॒न्द्र॒¦म॒मत्तु॑¦यः¦सू॒यते᳚¦पार्थि॑वेषु | |
आ द्वि॒बर्हा᳚, अमि॒नो या॒त्विन्द्रो॒ वृषा॒ हरि॑भ्यां॒ परि॑षिक्त॒मन्धः॑ |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्} गव्या सु॒तस्य॒ प्रभृ॑तस्य॒ मध्वः॑ स॒त्रा खेदा᳚मरुश॒हा वृ॑षस्व ||{4/9}{8.6.20.4}{10.116.4}{10.10.4.4}{855, 953, 10126} आ¦द्वि॒ऽबर्हाः᳚¦अ॒मि॒नः¦या॒तु॒¦इन्द्रः॑¦वृषा᳚¦हरि॑ऽभ्याम्¦परि॑ऽसिक्तम्¦अन्धः॑ | |
नि ति॒ग्मानि॑ भ्रा॒शय॒न् भ्राश्या॒न्यव॑ स्थि॒रा त॑नुहि यातु॒जूना᳚म् |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्} उ॒ग्राय॑ ते॒ सहो॒ बलं᳚ ददामि प्र॒तीत्या॒ शत्रू᳚न् विग॒देषु॑ वृश्च ||{5/9}{8.6.20.5}{10.116.5}{10.10.4.5}{856, 953, 10127} नि¦ति॒ग्मानि॑¦भ्रा॒शय॑न्¦भ्राश्या᳚नि¦अव॑¦स्थि॒रा¦त॒नु॒हि॒¦या॒तु॒ऽजूना᳚म् | |
व्य१॑(अ॒)र्य इ᳚न्द्र तनुहि॒ श्रवां॒स्योजः॑ स्थि॒रेव॒ धन्व॑नो॒ऽभिमा᳚तीः |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्} अ॒स्म॒द्र्य॑ग्वावृधा॒नः सहो᳚भि॒रनि॑भृष्टस्त॒न्वं᳚ वावृधस्व ||{6/9}{8.6.21.1}{10.116.6}{10.10.4.6}{857, 953, 10128} वि¦अ॒र्यः¦इ॒न्द्र॒¦त॒नु॒हि॒¦श्रवां᳚सि¦ओजः॑¦स्थि॒राऽइ᳚व¦धन्व॑नः¦अ॒भिऽमा᳚तीः | |
इ॒दं ह॒विर्म॑घव॒न्तुभ्यं᳚ रा॒तं प्रति॑ सम्रा॒ळहृ॑णानो गृभाय |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्} तुभ्यं᳚ सु॒तो म॑घव॒न्तुभ्यं᳚ प॒क्वो॒३॑(ओ॒)ऽद्धी᳚न्द्र॒ पिब॑ च॒ प्रस्थि॑तस्य ||{7/9}{8.6.21.2}{10.116.7}{10.10.4.7}{858, 953, 10129} इ॒दम्¦ह॒विः¦म॒घ॒ऽव॒न्¦तुभ्य᳚म्¦रा॒तम्¦प्रति॑¦सम्ऽरा᳚ट्¦अहृ॑णानः¦गृ॒भा॒य॒ | |
अ॒द्धीदि᳚न्द्र॒ प्रस्थि॑ते॒मा ह॒वींषि॒ चनो᳚ दधिष्व पच॒तोत सोम᳚म् |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्} प्रय॑स्वन्तः॒ प्रति॑ हर्यामसि त्वा स॒त्याः स᳚न्तु॒ यज॑मानस्य॒ कामाः᳚ ||{8/9}{8.6.21.3}{10.116.8}{10.10.4.8}{859, 953, 10130} अ॒द्धि¦इत्¦इ॒न्द्र॒¦प्रऽस्थि॑ता¦इ॒मा¦ह॒वींषि॑¦चनः॑¦द॒धि॒ष्व॒¦प॒च॒ता¦उ॒त¦सोम᳚म् | |
प्रेन्द्रा॒ग्निभ्यां᳚ सुवच॒स्यामि॑यर्मि॒ सिन्धा᳚विव॒ प्रेर॑यं॒ नाव॑म॒र्कैः |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्} अया᳚, इव॒ परि॑ चरन्ति दे॒वा ये, अ॒स्मभ्यं᳚ धन॒दा, उ॒द्भिद॑श्च ||{9/9}{8.6.21.4}{10.116.9}{10.10.4.9}{860, 953, 10131} प्र¦इ॒न्द्रा॒ग्निऽभ्या᳚म्¦सु॒ऽव॒च॒स्याम्¦इ॒य॒र्मि॒¦सिन्धौ᳚ऽइव¦प्र¦ई॒र॒य॒म्¦नाव᳚म्¦अ॒र्कैः | |
[72] नवाइति नवर्चस्य सूक्तस्यांगिरसो भिक्षुर्धनान्नदानंत्रिष्टुबाद्येजगत्यौ | |
न वा, उ॑ दे॒वाः, क्षुध॒मिद्व॒धं द॑दुरु॒ताशि॑त॒मुप॑ गच्छन्ति मृ॒त्यवः॑ |{आंगिरसो भिक्षुः | धनान्नदानः | जगती} उ॒तो र॒यिः पृ॑ण॒तो नोप॑ दस्यत्यु॒तापृ॑णन्मर्डि॒तारं॒ न वि᳚न्दते ||{1/9}{8.6.22.1}{10.117.1}{10.10.5.1}{861, 954, 10132} न¦वै¦ऊँ॒ इति॑¦दे॒वाः¦क्षुध᳚म्¦इत्¦व॒धम्¦द॒दुः॒¦उ॒त¦आशि॑तम्¦उप॑¦ग॒च्छ॒न्ति॒¦मृ॒त्यवः॑ | |
य आ॒ध्राय॑ चकमा॒नाय॑ पि॒त्वोऽन्न॑वा॒न् त्सन् र॑फि॒तायो᳚पज॒ग्मुषे᳚ |{आंगिरसो भिक्षुः | धनान्नदानः | जगती} स्थि॒रं मनः॑ कृणु॒ते सेव॑ते पु॒रोतो चि॒त्स म॑र्डि॒तारं॒ न वि᳚न्दते ||{2/9}{8.6.22.2}{10.117.2}{10.10.5.2}{862, 954, 10133} यः¦आ॒ध्राय॑¦च॒क॒मा॒नाय॑¦पि॒त्वः¦अन्न॑ऽवान्¦सन्¦र॒फि॒ताय॑¦उ॒प॒ऽज॒ग्मुषे᳚ | |
स इद्भो॒जो यो गृ॒हवे॒ ददा॒त्यन्न॑कामाय॒ चर॑ते कृ॒शाय॑ |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्} अर॑मस्मै भवति॒ याम॑हूता, उ॒ताप॒रीषु॑ कृणुते॒ सखा᳚यम् ||{3/9}{8.6.22.3}{10.117.3}{10.10.5.3}{863, 954, 10134} सः¦इत्¦भो॒जः¦यः¦गृ॒हवे᳚¦ददा᳚ति¦अन्न॑ऽकामाय¦चर॑ते¦कृ॒शाय॑ | |
न स सखा॒ यो न ददा᳚ति॒ सख्ये᳚ सचा॒भुवे॒ सच॑मानाय पि॒त्वः |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्} अपा᳚स्मा॒त्प्रेया॒न्न तदोको᳚, अस्ति पृ॒णन्त॑म॒न्यमर॑णं चिदिच्छेत् ||{4/9}{8.6.22.4}{10.117.4}{10.10.5.4}{864, 954, 10135} न¦सः¦सखा᳚¦यः¦न¦ददा᳚ति¦सख्ये᳚¦स॒चा॒ऽभुवे᳚¦सच॑मानाय¦पि॒त्वः | |
पृ॒णी॒यादिन्नाध॑मानाय॒ तव्या॒न्द्राघी᳚यांस॒मनु॑ पश्येत॒ पन्था᳚म् |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्} ओ हि वर्त᳚न्ते॒ रथ्ये᳚व च॒क्रान्यम᳚न्य॒मुप॑ तिष्ठन्त॒ रायः॑ ||{5/9}{8.6.22.5}{10.117.5}{10.10.5.5}{865, 954, 10136} पृ॒णी॒यात्¦इत्¦नाध॑मानाय¦तव्या᳚न्¦द्राघी᳚यांसम्¦अनु॑¦प॒श्ये॒त॒¦पन्था᳚म् | |
मोघ॒मन्नं᳚ विन्दते॒, अप्र॑चेताः स॒त्यं ब्र॑वीमि व॒ध इत्स तस्य॑ |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्} नार्य॒मणं॒ पुष्य॑ति॒ नो सखा᳚यं॒ केव॑लाघो भवति केवला॒दी ||{6/9}{8.6.23.1}{10.117.6}{10.10.5.6}{866, 954, 10137} मोघ᳚म्¦अन्न᳚म्¦वि॒न्द॒ते॒¦अप्र॑ऽचेताः¦स॒त्यम्¦ब्र॒वी॒मि॒¦व॒धः¦इत्¦सः¦तस्य॑ | |
कृ॒षन्नित्फाल॒ आशि॑तं कृणोति॒ यन्नध्वा᳚न॒मप॑ वृङ्क्ते च॒रित्रैः᳚ |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्} वद᳚न् ब्र॒ह्माव॑दतो॒ वनी᳚यान् पृ॒णन्ना॒पिरपृ॑णन्तम॒भि ष्या᳚त् ||{7/9}{8.6.23.2}{10.117.7}{10.10.5.7}{867, 954, 10138} कृ॒षन्¦इत्¦फालः॑¦आशि॑तम्¦कृ॒णो॒ति॒¦यन्¦अध्वा᳚नम्¦अप॑¦वृ॒ङ्क्ते॒¦च॒रित्रैः᳚ | |
एक॑पा॒द्भूयो᳚ द्वि॒पदो॒ वि च॑क्रमे द्वि॒पात्त्रि॒पाद॑म॒भ्ये᳚ति प॒श्चात् |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्} चतु॑ष्पादेति द्वि॒पदा᳚मभिस्व॒रे स॒म्पश्य᳚न् प॒ङ्क्तीरु॑प॒तिष्ठ॑मानः ||{8/9}{8.6.23.3}{10.117.8}{10.10.5.8}{868, 954, 10139} एक॑ऽपात्¦भूयः॑¦द्वि॒ऽपदः॑¦वि¦च॒क्र॒मे॒¦द्वि॒ऽपात्¦त्रि॒ऽपाद᳚म्¦अ॒भि¦ए॒ति॒¦प॒श्चात् | |
स॒मौ चि॒द्धस्तौ॒ न स॒मं वि॑विष्टः सम्मा॒तरा᳚ चि॒न्न स॒मं दु॑हाते |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्} य॒मयो᳚श्चि॒न्न स॒मा वी॒र्या᳚णि ज्ञा॒ती चि॒त्सन्तौ॒ न स॒मं पृ॑णीतः ||{9/9}{8.6.23.4}{10.117.9}{10.10.5.9}{869, 954, 10140} स॒मौ¦चि॒त्¦हस्तौ᳚¦न¦स॒मम्¦वि॒वि॒ष्टः¦स॒म्ऽमा॒तरा᳚¦चि॒त्¦न¦स॒मम्¦दु॒हा॒ते॒ इति॑ | |
[73] अग्नेहंसीति नवर्चस्य सूक्तस्यामहीयव उरुक्षयोरक्षोहाग्निर्गायत्री | |
अग्ने॒ हंसि॒ न्य१॑(अ॒)त्रिणं॒ दीद्य॒न्मर्त्ये॒ष्वा |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री} स्वे क्षये᳚ शुचिव्रत ||{1/9}{8.6.24.1}{10.118.1}{10.10.6.1}{870, 955, 10141} अग्ने᳚¦हंसि॑¦नि¦अ॒त्रिण᳚म्¦दीद्य॑त्¦मर्त्ये᳚षु¦आ | स्वे¦क्षये᳚¦शु॒चि॒ऽव्र॒त॒ || |
उत्ति॑ष्ठसि॒ स्वा᳚हुतो घृ॒तानि॒ प्रति॑ मोदसे |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री} यत् त्वा॒ स्रुचः॑ स॒मस्थि॑रन् ||{2/9}{8.6.24.2}{10.118.2}{10.10.6.2}{871, 955, 10142} उत्¦ति॒ष्ठ॒सि॒¦सुऽआ᳚हुतः¦घृ॒तानि॑¦प्रति॑¦मो॒द॒से॒ | यत्¦त्वा॒¦स्रुचः॑¦स॒म्।आस्थि॑रन् || |
स आहु॑तो॒ वि रो᳚चते॒ऽग्निरी॒ळेन्यो᳚ गि॒रा |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री} स्रु॒चा प्रती᳚कमज्यते ||{3/9}{8.6.24.3}{10.118.3}{10.10.6.3}{872, 955, 10143} सः¦आऽहु॑तः¦वि¦रो॒च॒ते॒¦अ॒ग्निः¦ई॒ळेन्यः॑¦गि॒रा | स्रु॒चा¦प्रती᳚कम्¦अ॒ज्य॒ते॒ || |
घृ॒तेना॒ग्निः सम॑ज्यते॒ मधु॑प्रतीक॒ आहु॑तः |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री} रोच॑मानो वि॒भाव॑सुः ||{4/9}{8.6.24.4}{10.118.4}{10.10.6.4}{873, 955, 10144} घृ॒तेन॑¦अ॒ग्निः¦सम्¦अ॒ज्य॒ते॒¦मधु॑ऽप्रतीकः¦आऽहु॑तः | रोच॑मानः¦वि॒भाऽव॑सुः || |
जर॑माणः॒ समि॑ध्यसे दे॒वेभ्यो᳚ हव्यवाहन |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री} तं त्वा᳚ हवन्त॒ मर्त्याः᳚ ||{5/9}{8.6.24.5}{10.118.5}{10.10.6.5}{874, 955, 10145} जर॑माणः¦सम्¦इ॒ध्य॒से॒¦दे॒वेभ्यः॑¦ह॒व्य॒ऽवा॒ह॒न॒ | तम्¦त्वा॒¦ह॒व॒न्त॒¦मर्त्याः᳚ || |
तं म॑र्ता॒, अम॑र्त्यं घृ॒तेना॒ग्निं स॑पर्यत |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री} अदा᳚भ्यं गृ॒हप॑तिम् ||{6/9}{8.6.25.1}{10.118.6}{10.10.6.6}{875, 955, 10146} तम्¦म॒र्ताः॒¦अम॑र्त्यम्¦घृ॒तेन॑¦अ॒ग्निम्¦स॒प॒र्य॒त॒ | अदा᳚भ्यम्¦गृ॒हऽप॑तिम् || |
अदा᳚भ्येन शो॒चिषाग्ने॒ रक्ष॒स्त्वं द॑ह |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री} गो॒पा, ऋ॒तस्य॑ दीदिहि ||{7/9}{8.6.25.2}{10.118.7}{10.10.6.7}{876, 955, 10147} अदा᳚भ्येन¦शो॒चिषा᳚¦अग्ने᳚¦रक्षः॑¦त्वम्¦द॒ह॒ | गो॒पाः¦ऋ॒तस्य॑¦दी॒दि॒हि॒ || |
स त्वम॑ग्ने॒ प्रती᳚केन॒ प्रत्यो᳚ष यातुधा॒न्यः॑ |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री} उ॒रु॒क्षये᳚षु॒ दीद्य॑त् ||{8/9}{8.6.25.3}{10.118.8}{10.10.6.8}{877, 955, 10148} सः¦त्वम्¦अ॒ग्ने॒¦प्रती᳚केन¦प्रति॑¦ओ॒ष॒¦या॒तु॒ऽधा॒न्यः॑ | उ॒रु॒ऽक्षये᳚षु¦दीद्य॑त् || |
तं त्वा᳚ गी॒र्भिरु॑रु॒क्षया᳚ हव्य॒वाहं॒ समी᳚धिरे |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री} यजि॑ष्ठं॒ मानु॑षे॒ जने᳚ ||{9/9}{8.6.25.4}{10.118.9}{10.10.6.9}{878, 955, 10149} तम्¦त्वा॒¦गीः॒ऽभिः¦उ॒रु॒ऽक्षयाः᳚¦ह॒व्य॒ऽवाह᳚म्¦सम्¦ई॒धि॒रे॒ | यजि॑ष्ठम्¦मानु॑षे¦जने᳚ || |
[74] इतिवाइति त्रयोदशर्चस्य सूक्तस्यैंद्रो लबोगायत्री | |
इति॒ वा, इति॑ मे॒ मनो॒ गामश्वं᳚ सनुया॒मिति॑ |{ऐंद्रो | लबः | गायत्री} कु॒वित्सोम॒स्यापा॒मिति॑ ||{1/13}{8.6.26.1}{10.119.1}{10.10.7.1}{879, 956, 10150} इति॑¦वै¦इति॑¦मे॒¦मनः॑¦गाम्¦अश्व᳚म्¦स॒नु॒या॒म्¦इति॑ | कु॒वित्¦सोम॑स्य¦अपा᳚म्¦इति॑ || |
प्र वाता᳚, इव॒ दोध॑त॒ उन्मा᳚ पी॒ता, अ॑यंसत |{ऐंद्रो | लबः | गायत्री} कु॒वित्सोम॒स्यापा॒मिति॑ ||{2/13}{8.6.26.2}{10.119.2}{10.10.7.2}{880, 956, 10151} प्र¦वाताः᳚ऽइव¦दोध॑तः¦उत्¦मा॒¦पी॒ताः¦अ॒यं॒स॒त॒ | कु॒वित्¦सोम॑स्य¦अपा᳚म्¦इति॑ || |
उन्मा᳚ पी॒ता, अ॑यंसत॒ रथ॒मश्वा᳚, इवा॒शवः॑ |{ऐंद्रो | लबः | गायत्री} कु॒वित्सोम॒स्यापा॒मिति॑ ||{3/13}{8.6.26.3}{10.119.3}{10.10.7.3}{881, 956, 10152} उत्¦मा॒¦पी॒ताः¦अ॒यं॒स॒त॒¦रथ᳚म्¦अश्वाः᳚ऽइव¦आ॒शवः॑ | कु॒वित्¦सोम॑स्य¦अपा᳚म्¦इति॑ || |
उप॑ मा म॒तिर॑स्थित वा॒श्रा पु॒त्रमि॑व प्रि॒यम् |{ऐंद्रो | लबः | गायत्री} कु॒वित्सोम॒स्यापा॒मिति॑ ||{4/13}{8.6.26.4}{10.119.4}{10.10.7.4}{882, 956, 10153} उप॑¦मा¦म॒तिः¦अ॒स्थि॒त॒¦वा॒श्रा¦पु॒त्रम्ऽइ᳚व¦प्रि॒यम् | कु॒वित्¦सोम॑स्य¦अपा᳚म्¦इति॑ || |
अ॒हं तष्टे᳚व व॒न्धुरं॒ पर्य॑चामि हृ॒दा म॒तिम् |{ऐंद्रो | लबः | गायत्री} कु॒वित्सोम॒स्यापा॒मिति॑ ||{5/13}{8.6.26.5}{10.119.5}{10.10.7.5}{883, 956, 10154} अ॒हम्¦तष्टा᳚ऽइव¦व॒न्धुर᳚म्¦परि॑¦अ॒चा॒मि॒¦हृ॒दा¦म॒तिम् | कु॒वित्¦सोम॑स्य¦अपा᳚म्¦इति॑ || |
न॒हि मे᳚, अक्षि॒पच्च॒नाऽच्छा᳚न् त्सुः॒ पञ्च॑ कृ॒ष्टयः॑ |{ऐंद्रो | लबः | गायत्री} कु॒वित्सोम॒स्यापा॒मिति॑ ||{6/13}{8.6.26.6}{10.119.6}{10.10.7.6}{884, 956, 10155} न॒हि¦मे॒¦अ॒क्षि॒ऽपत्¦च॒न¦अच्छा᳚न्त्सुः¦पंच॑¦कृ॒ष्टयः॑ | कु॒वित्¦सोम॑स्य¦अपा᳚म्¦इति॑ || |
न॒हि मे॒ रोद॑सी, उ॒भे, अ॒न्यं प॒क्षं च॒न प्रति॑ |{ऐंद्रो | लबः | गायत्री} कु॒वित्सोम॒स्यापा॒मिति॑ ||{7/13}{8.6.27.1}{10.119.7}{10.10.7.7}{885, 956, 10156} न॒हि¦मे॒¦रोद॑सी॒ इति॑¦उ॒भे इति॑¦अ॒न्यम्¦प॒क्षम्¦च॒न¦प्रति॑ | कु॒वित्¦सोम॑स्य¦अपा᳚म्¦इति॑ || |
अ॒भि द्यां म॑हि॒ना भु॑वम॒भी॒३॑(ई॒)मां पृ॑थि॒वीं म॒हीम् |{ऐंद्रो | लबः | गायत्री} कु॒वित्सोम॒स्यापा॒मिति॑ ||{8/13}{8.6.27.2}{10.119.8}{10.10.7.8}{886, 956, 10157} अ॒भि¦द्याम्¦म॒हि॒ना¦भु॒व॒म्¦अ॒भि¦इ॒माम्¦पृ॒थि॒वीम्¦म॒हीम् | कु॒वित्¦सोम॑स्य¦अपा᳚म्¦इति॑ || |
हन्ता॒हं पृ॑थि॒वीमि॒मां नि द॑धानी॒ह वे॒ह वा᳚ |{ऐंद्रो | लबः | गायत्री} कु॒वित्सोम॒स्यापा॒मिति॑ ||{9/13}{8.6.27.3}{10.119.9}{10.10.7.9}{887, 956, 10158} हन्त॑¦अ॒हम्¦पृ॒थि॒वीम्¦इ॒माम्¦नि¦द॒धा॒नि॒¦इ॒ह¦वा॒¦इ॒ह¦वा॒ | कु॒वित्¦सोम॑स्य¦अपा᳚म्¦इति॑ || |
ओ॒षमित् पृ॑थि॒वीम॒हं ज॒ङ्घना᳚नी॒ह वे॒ह वा᳚ |{ऐंद्रो | लबः | गायत्री} कु॒वित्सोम॒स्यापा॒मिति॑ ||{10/13}{8.6.27.4}{10.119.10}{10.10.7.10}{888, 956, 10159} ओ॒षम्¦इत्¦पृ॒थि॒वीम्¦अ॒हम्¦ज॒ङ्घना᳚नि¦इ॒ह¦वा॒¦इ॒ह¦वा॒ | कु॒वित्¦सोम॑स्य¦अपा᳚म्¦इति॑ || |
दि॒वि मे᳚, अ॒न्यः प॒क्षो॒३॑(ओ॒) ऽधो, अ॒न्यम॑चीकृषम् |{ऐंद्रो | लबः | गायत्री} कु॒वित्सोम॒स्यापा॒मिति॑ ||{11/13}{8.6.27.5}{10.119.11}{10.10.7.11}{889, 956, 10160} दि॒वि¦मे॒¦अ॒न्यः¦प॒क्षः¦अ॒धः¦अ॒न्यम्¦अ॒ची॒कृ॒ष॒म् | कु॒वित्¦सोम॑स्य¦अपा᳚म्¦इति॑ || |
अ॒हम॑स्मि महाम॒हो᳚ ऽभिन॒भ्यमुदी᳚षितः |{ऐंद्रो | लबः | गायत्री} कु॒वित्सोम॒स्यापा॒मिति॑ ||{12/13}{8.6.27.6}{10.119.12}{10.10.7.12}{890, 956, 10161} अ॒हम्¦अ॒स्मि॒¦म॒हा॒ऽम॒हः¦अ॒भि॒ऽन॒भ्यम्¦उत्ऽई᳚षितः | कु॒वित्¦सोम॑स्य¦अपा᳚म्¦इति॑ || |
गृ॒हो या॒म्यरं᳚कृतो दे॒वेभ्यो᳚ हव्य॒वाह॑नः |{ऐंद्रो | लबः | गायत्री} कु॒वित्सोम॒स्यापा॒मिति॑ ||{13/13}{8.6.27.7}{10.119.13}{10.10.7.13}{891, 956, 10162} गृ॒हः¦या॒मि॒¦अर᳚म्ऽकृतः¦दे॒वेभ्यः॑¦ह॒व्य॒ऽवाह॑नः | कु॒वित्¦सोम॑स्य¦अपा᳚म्¦इति॑ || |
[75] तदिदिति नवर्चस्य सूक्तस्याथर्वणोबृहद्दिवइंद्रस्त्रिष्टुप् | |
तदिदा᳚स॒ भुव॑नेषु॒ ज्येष्ठं॒ यतो᳚ ज॒ज्ञ उ॒ग्रस्त्वे॒षनृ᳚म्णः |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्} स॒द्यो ज॑ज्ञा॒नो नि रि॑णाति॒ शत्रू॒ननु॒ यं विश्वे॒ मद॒न्त्यूमाः᳚ ||{1/9}{8.7.1.1}{10.120.1}{10.10.8.1}{892, 957, 10163} तत्¦इत्¦आ॒स॒¦भुव॑नेषु¦ज्येष्ठ᳚म्¦यतः॑¦ज॒ज्ञे¦उ॒ग्रः¦त्वे॒षऽनृ᳚म्णः | |
वा॒वृ॒धा॒नः शव॑सा॒ भूर्यो᳚जाः॒ शत्रु॑र्दा॒साय॑ भि॒यसं᳚ दधाति |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्} अव्य॑नच्च व्य॒नच्च॒ सस्नि॒ सं ते᳚ नवन्त॒ प्रभृ॑ता॒ मदे᳚षु ||{2/9}{8.7.1.2}{10.120.2}{10.10.8.2}{893, 957, 10164} व॒वृ॒धा॒नः¦शव॑सा¦भूरि॑ऽओजाः¦शत्रुः॑¦दा॒साय॑¦भि॒यस᳚म्¦द॒धा॒ति॒ | |
त्वे क्रतु॒मपि॑ वृञ्जन्ति॒ विश्वे॒ द्विर्यदे॒ते त्रिर्भव॒न्त्यूमाः᳚ |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्} स्वा॒दोः स्वादी᳚यः स्वा॒दुना᳚ सृजा॒ सम॒दः सु मधु॒ मधु॑ना॒भि यो᳚धीः ||{3/9}{8.7.1.3}{10.120.3}{10.10.8.3}{894, 957, 10165} त्वे इति॑¦क्रतु᳚म्¦अपि॑¦वृं॒ज॒न्ति॒¦विश्वे᳚¦द्विः¦यत्¦ए॒ते¦त्रिः¦भव᳚न्ति¦ऊमाः᳚ | |
इति॑ चि॒द्धि त्वा॒ धना॒ जय᳚न्तं॒ मदे᳚मदे, अनु॒मद᳚न्ति॒ विप्राः᳚ |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्} ओजी᳚यो धृष्णो स्थि॒रमा त॑नुष्व॒ मा त्वा᳚ दभन्यातु॒धाना᳚ दु॒रेवाः᳚ ||{4/9}{8.7.1.4}{10.120.4}{10.10.8.4}{895, 957, 10166} इति॑¦चि॒त्¦हि¦त्वा॒¦धना᳚¦जय᳚न्तम्¦मदे᳚ऽमदे¦अ॒नु॒ऽमद᳚न्ति¦विप्राः᳚ | |
त्वया᳚ व॒यं शा᳚शद्महे॒ रणे᳚षु प्र॒पश्य᳚न्तो यु॒धेन्या᳚नि॒ भूरि॑ |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्} चो॒दया᳚मि त॒ आयु॑धा॒ वचो᳚भिः॒ सं ते᳚ शिशामि॒ ब्रह्म॑णा॒ वयां᳚सि ||{5/9}{8.7.1.5}{10.120.5}{10.10.8.5}{896, 957, 10167} त्वया᳚¦व॒यम्¦शा॒श॒द्म॒हे॒¦रणे᳚षु¦प्र॒ऽपश्य᳚न्तः¦यु॒धेन्या᳚नि¦भूरि॑ | |
स्तु॒षेय्यं᳚ पुरु॒वर्प॑स॒मृभ्व॑मि॒नत॑ममा॒प्त्यमा॒प्त्याना᳚म् |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्} आ द॑र्षते॒ शव॑सा स॒प्त दानू॒न् प्र सा᳚क्षते प्रति॒माना᳚नि॒ भूरि॑ ||{6/9}{8.7.2.1}{10.120.6}{10.10.8.6}{897, 957, 10168} स्तु॒षेय्य᳚म्¦पु॒रु॒ऽवर्प॑सम्¦ऋभ्व᳚म्¦इ॒नऽत॑मम्¦आ॒प्त्यम्¦आ॒प्त्याना᳚म् | |
नि तद्द॑धि॒षेऽव॑रं॒ परं᳚ च॒ यस्मि॒न्नावि॒थाव॑सा दुरो॒णे |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्} आ मा॒तरा᳚ स्थापयसे जिग॒त्नू, अत॑ इनोषि॒ कर्व॑रा पु॒रूणि॑ ||{7/9}{8.7.2.2}{10.120.7}{10.10.8.7}{898, 957, 10169} नि¦तत्¦द॒धि॒षे॒¦अव॑रम्¦पर᳚म्¦च॒¦यस्मि॑न्¦आवि॑थ¦अव॑सा¦दु॒रो॒णे | |
इ॒मा ब्रह्म॑ बृ॒हद्दि॑वो विव॒क्तीन्द्रा᳚य शू॒षम॑ग्रि॒यः स्व॒र्षाः |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्} म॒हो गो॒त्रस्य॑ क्षयति स्व॒राजो॒ दुर॑श्च॒ विश्वा᳚, अवृणो॒दप॒ स्वाः ||{8/9}{8.7.2.3}{10.120.8}{10.10.8.8}{899, 957, 10170} इ॒मा¦ब्रह्म॑¦बृ॒हत्ऽदि॑वः¦वि॒व॒क्ति॒¦इन्द्रा᳚य¦शू॒षम्¦अ॒ग्रि॒यः¦स्वः॒ऽसाः | |
ए॒वा म॒हान् बृ॒हद्दि॑वो॒, अथ॒र्वावो᳚च॒त्स्वां त॒न्व१॑(अ॒)मिन्द्र॑मे॒व |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्} स्वसा᳚रो मात॒रिभ्व॑रीररि॒प्रा हि॒न्वन्ति॑ च॒ शव॑सा व॒र्धय᳚न्ति च ||{9/9}{8.7.2.4}{10.120.9}{10.10.8.9}{900, 957, 10171} ए॒व¦म॒हान्¦बृ॒हत्ऽदि॑वः¦अथ᳚र्वा¦अवो᳚चत्¦स्वाम्¦त॒न्व᳚म्¦इन्द्र᳚म्¦ए॒व | |
[76] हिरण्यगर्भइति दशर्चस्य सूक्तस्य प्राजापत्योहिरण्यगर्भः प्रजापतिस्त्रिष्टुप् | |
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे᳚ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्} स दा᳚धार पृथि॒वीं द्यामु॒तेमां कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{1/10}{8.7.3.1}{10.121.1}{10.10.9.1}{901, 958, 10172} हि॒र॒ण्य॒ऽग॒र्भः¦सम्¦अ॒व॒र्त॒त॒¦अग्रे᳚¦भू॒तस्य॑¦जा॒तः¦पतिः॑¦एकः॑¦आ॒सी॒त् | |
य आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्} यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{2/10}{8.7.3.2}{10.121.2}{10.10.9.2}{902, 958, 10173} यः¦आ॒त्म॒ऽदाः¦ब॒ल॒ऽदाः¦यस्य॑¦विश्वे᳚¦उ॒प॒ऽआस॑ते¦प्र॒ऽशिष᳚म्¦यस्य॑¦दे॒वाः | |
यः प्रा᳚ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्} य ईशे᳚, अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{3/10}{8.7.3.3}{10.121.3}{10.10.9.3}{903, 958, 10174} यः¦प्रा॒ण॒तः¦नि॒ऽमि॒ष॒तः¦म॒हि॒ऽत्वा¦एकः॑¦इत्¦राजा᳚¦जग॑तः¦ब॒भूव॑ | |
यस्ये॒मे हि॒मव᳚न्तो महि॒त्वा यस्य॑ समु॒द्रं र॒सया᳚ स॒हाहुः |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्} यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{4/10}{8.7.3.4}{10.121.4}{10.10.9.4}{904, 958, 10175} यस्य॑¦इ॒मे¦हि॒मऽव᳚न्तः¦म॒हि॒ऽत्वा¦यस्य॑¦स॒मु॒द्रम्¦र॒सया᳚¦स॒ह¦आ॒हुः॒ | |
येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ळ्हा येन॒ स्वः॑ स्तभि॒तं येन॒ नाकः॑ |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्} यो, अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः॒ कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{5/10}{8.7.3.5}{10.121.5}{10.10.9.5}{905, 958, 10176} येन॑¦द्यौः¦उ॒ग्रा¦पृ॒थि॒वी¦च॒¦दृ॒ळ्हा¦येन॑¦स्व१॒॑रिति॒ स्वः॑¦स्त॒भि॒तम्¦येन॑¦नाकः॑ | |
यं क्रन्द॑सी॒, अव॑सा तस्तभा॒ने, अ॒भ्यैक्षे᳚तां॒ मन॑सा॒ रेज॑माने |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्} यत्राधि॒ सूर॒ उदि॑तो वि॒भाति॒ कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{6/10}{8.7.4.1}{10.121.6}{10.10.9.6}{906, 958, 10177} यम्¦क्रन्द॑सी॒ इति॑¦अव॑सा¦त॒स्त॒भा॒ने इति॑¦अ॒भि¦ऐक्षे᳚ताम्¦मन॑सा¦रेज॑माने | |
आपो᳚ ह॒ यद् बृ॑ह॒तीर्विश्व॒माय॒न् गर्भं॒ दधा᳚ना ज॒नय᳚न्तीर॒ग्निम् |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्} ततो᳚ दे॒वानां॒ सम॑वर्त॒तासु॒रेकः॒ कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{7/10}{8.7.4.2}{10.121.7}{10.10.9.7}{907, 958, 10178} आपः॑¦ह॒¦यत्¦बृ॒ह॒तीः¦विश्व᳚म्¦आय॑न्¦गर्भ᳚म्¦दधा᳚नाः¦ज॒नय᳚न्तीः¦अ॒ग्निम् | |
यश्चि॒दापो᳚ महि॒ना प॒र्यप॑श्य॒द् दक्षं॒ दधा᳚ना ज॒नय᳚न्तीर्य॒ज्ञम् |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्} यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त् कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{8/10}{8.7.4.3}{10.121.8}{10.10.9.8}{908, 958, 10179} यः¦चि॒त्¦आपः॑¦म॒हि॒ना¦प॒रि॒।आप॑श्यत्¦दक्ष᳚म्¦दधा᳚नाः¦ज॒नय᳚न्तीः¦य॒ज्ञम् | |
मा नो᳚ हिंसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवं᳚ स॒त्यध᳚र्मा ज॒जान॑ |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्} यश्चा॒पश्च॒न्द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{9/10}{8.7.4.4}{10.121.9}{10.10.9.9}{909, 958, 10180} मा¦नः॒¦हिं॒सी॒त्¦ज॒नि॒ता¦यः¦पृ॒थि॒व्याः¦यः¦वा॒¦दिव᳚म्¦स॒त्यऽध᳚र्मा¦ज॒जान॑ | |
प्रजा᳚पते॒ न त्वदे॒तान्य॒न्यो विश्वा᳚ जा॒तानि॒ परि॒ ता ब॑भूव |{प्राजापत्यो हिरण्यगर्भः | प्रजापति | त्रिष्टुप्} यत् का᳚मास्ते जुहु॒मस्तन्नो᳚, अस्तु व॒यं स्या᳚म॒ पत॑यो रयी॒णाम् ||{10/10}{8.7.4.5}{10.121.10}{10.10.9.10}{910, 958, 10181} प्रजा᳚ऽपते¦न¦त्वत्¦ए॒तानि॑¦अ॒न्यः¦विश्वा᳚¦जा॒तानि॑¦परि॑¦ता¦ब॒भू॒व॒ | |
[77] वसुमित्यष्टर्चस्य सूक्तस्य वासिष्ठश्चित्रमहाअग्निर्जगती आद्यापंचम्यौत्रिष्टुभौ | |
वसुं॒ न चि॒त्रम॑हसं गृणीषे वा॒मं शेव॒मति॑थिमद्विषे॒ण्यम् |{वासिष्ठश्चित्रमहा | अग्निः | त्रिष्टुप्} स रा᳚सते शु॒रुधो᳚ वि॒श्वधा᳚यसो॒ऽग्निर्होता᳚ गृ॒हप॑तिः सु॒वीर्य᳚म् ||{1/8}{8.7.5.1}{10.122.1}{10.10.10.1}{911, 959, 10182} वसु᳚म्¦न¦चि॒त्रऽम॑हसम्¦गृ॒णी॒षे॒¦वा॒मम्¦शेव᳚म्¦अति॑थिम्¦अ॒द्वि॒षे॒ण्यम् | |
जु॒षा॒णो, अ॑ग्ने॒ प्रति॑ हर्य मे॒ वचो॒ विश्वा᳚नि वि॒द्वान् व॒युना᳚नि सुक्रतो |{वासिष्ठश्चित्रमहा | अग्निः | त्रिष्टुप्} घृत॑निर्णि॒ग्ब्रह्म॑णे गा॒तुमेर॑य॒ तव॑ दे॒वा, अ॑जनय॒न्ननु᳚ व्र॒तम् ||{2/8}{8.7.5.2}{10.122.2}{10.10.10.2}{912, 959, 10183} जु॒षा॒णः¦अ॒ग्ने॒¦प्रति॑¦ह॒र्य॒¦मे॒¦वचः॑¦विश्वा᳚नि¦वि॒द्वान्¦व॒युना᳚नि¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो | |
स॒प्त धामा᳚नि परि॒यन्नम॑र्त्यो॒ दाश॑द्दा॒शुषे᳚ सु॒कृते᳚ मामहस्व |{वासिष्ठश्चित्रमहा | अग्निः | त्रिष्टुप्} सु॒वीरे᳚ण र॒यिणा᳚ग्ने स्वा॒भुवा॒ यस्त॒ आन॑ट्स॒मिधा॒ तं जु॑षस्व ||{3/8}{8.7.5.3}{10.122.3}{10.10.10.3}{913, 959, 10184} स॒प्त¦धामा᳚नि¦प॒रि॒ऽयन्¦अम॑र्त्यः¦दाश॑त्¦दा॒शुषे᳚¦सु॒ऽकृते᳚¦म॒म॒ह॒स्व॒ | |
य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तं ह॒विष्म᳚न्त ईळते स॒प्त वा॒जिन᳚म् |{वासिष्ठश्चित्रमहा | अग्निः | त्रिष्टुप्} शृ॒ण्वन्त॑म॒ग्निं घृ॒तपृ॑ष्ठमु॒क्षणं᳚ पृ॒णन्तं᳚ दे॒वं पृ॑ण॒ते सु॒वीर्य᳚म् ||{4/8}{8.7.5.4}{10.122.4}{10.10.10.4}{914, 959, 10185} य॒ज्ञस्य॑¦के॒तुम्¦प्र॒थ॒मम्¦पु॒रःऽहि॑तम्¦ह॒विष्म᳚न्तः¦ई॒ळ॒ते॒¦स॒प्त¦वा॒जिन᳚म् | |
त्वं दू॒तः प्र॑थ॒मो वरे᳚ण्यः॒ स हू॒यमा᳚नो, अ॒मृता᳚य मत्स्व |{वासिष्ठश्चित्रमहा | अग्निः | त्रिष्टुप्} त्वां म॑र्जयन्म॒रुतो᳚ दा॒शुषो᳚ गृ॒हे त्वां स्तोमे᳚भि॒र्भृग॑वो॒ वि रु॑रुचुः ||{5/8}{8.7.5.5}{10.122.5}{10.10.10.5}{915, 959, 10186} त्वम्¦दू॒तः¦प्र॒थ॒मः¦वरे᳚ण्यः¦सः¦हू॒यमा᳚नः¦अ॒मृता᳚य¦म॒त्स्व॒ | |
इषं᳚ दु॒हन् त्सु॒दुघां᳚ वि॒श्वधा᳚यसं यज्ञ॒प्रिये॒ यज॑मानाय सुक्रतो |{वासिष्ठश्चित्रमहा | अग्निः | जगती} अग्ने᳚ घृ॒तस्नु॒स्त्रिरृ॒तानि॒ दीद्य॑द्व॒र्तिर्य॒ज्ञं प॑रि॒यन् त्सु॑क्रतूयसे ||{6/8}{8.7.6.1}{10.122.6}{10.10.10.6}{916, 959, 10187} इष᳚म्¦दु॒हन्¦सु॒ऽदुघा᳚म्¦वि॒श्वऽधा᳚यसम्¦य॒ज्ञ॒ऽप्रिये᳚¦यज॑मानाय¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो | |
त्वामिद॒स्या, उ॒षसो॒ व्यु॑ष्टिषु दू॒तं कृ᳚ण्वा॒ना, अ॑यजन्त॒ मानु॑षाः |{वासिष्ठश्चित्रमहा | अग्निः | जगती} त्वां दे॒वा म॑ह॒याय्या᳚य वावृधु॒राज्य॑मग्ने निमृ॒जन्तो᳚, अध्व॒रे ||{7/8}{8.7.6.2}{10.122.7}{10.10.10.7}{917, 959, 10188} त्वाम्¦इत्¦अ॒स्याः¦उ॒षसः॑¦वि।औ᳚ष्टिषु¦दू॒तम्¦कृ॒ण्वा॒नाः¦अ॒य॒ज॒न्त॒¦मानु॑षाः | |
नि त्वा॒ वसि॑ष्ठा, अह्वन्त वा॒जिनं᳚ गृ॒णन्तो᳚, अग्ने वि॒दथे᳚षु वे॒धसः॑ |{वासिष्ठश्चित्रमहा | अग्निः | जगती} रा॒यस्पोषं॒ यज॑मानेषु धारय यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{8/8}{8.7.6.3}{10.122.8}{10.10.10.8}{918, 959, 10189} नि¦त्वा॒¦वसि॑ष्ठाः¦अ॒ह्व॒न्त॒¦वा॒जिन᳚म्¦गृ॒णन्तः॑¦अ॒ग्ने॒¦वि॒दथे᳚षु¦वे॒धसः॑ | |
[78] अयमित्यष्टर्चस्यसूक्तस्य भार्गवोवेनोवेनस्त्रिष्टुप् | |
अ॒यं वे॒नश्चो᳚दय॒त् पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने᳚ |{भार्गवो वेनः | वेनः | त्रिष्टुप्} इ॒मम॒पां सं᳚ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा᳚ म॒तिभी᳚ रिहन्ति ||{1/8}{8.7.7.1}{10.123.1}{10.10.11.1}{919, 960, 10190} अ॒यम्¦वे॒नः¦चो॒द॒य॒त्¦पृश्नि॑ऽगर्भाः¦ज्योतिः॑ऽजरायुः¦रज॑सः¦वि॒ऽमाने᳚ | |
स॒मु॒द्रादू॒र्मिमुदि॑यर्ति वे॒नो न॑भो॒जाः पृ॒ष्ठं ह᳚र्य॒तस्य॑ दर्शि |{भार्गवो वेनः | वेनः | त्रिष्टुप्} ऋ॒तस्य॒ साना॒वधि॑ वि॒ष्टपि॒ भ्राट्स॑मा॒नं योनि॑म॒भ्य॑नूषत॒ व्राः ||{2/8}{8.7.7.2}{10.123.2}{10.10.11.2}{920, 960, 10191} स॒मु॒द्रात्¦ऊ॒र्मिम्¦उत्¦इ॒य॒र्ति॒¦वे॒नः¦न॒भः॒ऽजाः¦पृ॒ष्ठम्¦ह॒र्य॒तस्य॑¦द॒र्शि॒ | |
स॒मा॒नं पू॒र्वीर॒भि वा᳚वशा॒नास्तिष्ठ᳚न्व॒त्सस्य॑ मा॒तरः॒ सनी᳚ळाः |{भार्गवो वेनः | वेनः | त्रिष्टुप्} ऋ॒तस्य॒ साना॒वधि॑ चक्रमा॒णा रि॒हन्ति॒ मध्वो᳚, अ॒मृत॑स्य॒ वाणीः᳚ ||{3/8}{8.7.7.3}{10.123.3}{10.10.11.3}{921, 960, 10192} स॒मा॒नम्¦पू॒र्वीः¦अ॒भि¦व॒व॒शा॒नाः¦तिष्ठ॑न्¦व॒त्सस्य॑¦मा॒तरः॑¦सऽनी᳚ळाः | |
जा॒नन्तो᳚ रू॒पम॑कृपन्त॒ विप्रा᳚ मृ॒गस्य॒ घोषं᳚ महि॒षस्य॒ हि ग्मन् |{भार्गवो वेनः | वेनः | त्रिष्टुप्} ऋ॒तेन॒ यन्तो॒, अधि॒ सिन्धु॑मस्थुर्वि॒दद्ग᳚न्ध॒र्वो, अ॒मृता᳚नि॒ नाम॑ ||{4/8}{8.7.7.4}{10.123.4}{10.10.11.4}{922, 960, 10193} जा॒नन्तः॑¦रू॒पम्¦अ॒कृ॒प॒न्त॒¦विप्राः᳚¦मृ॒गस्य॑¦घोष᳚म्¦म॒हि॒षस्य॑¦हि¦ग्मन् | |
अ॒प्स॒रा जा॒रमु॑पसिष्मिया॒णा योषा᳚ बिभर्ति पर॒मे व्यो᳚मन् |{भार्गवो वेनः | वेनः | त्रिष्टुप्} चर॑त्प्रि॒यस्य॒ योनि॑षु प्रि॒यः सन् त्सीद॑त्प॒क्षे हि॑र॒ण्यये॒ स वे॒नः ||{5/8}{8.7.7.5}{10.123.5}{10.10.11.5}{923, 960, 10194} अ॒प्स॒राः¦जा॒रम्¦उ॒प॒ऽसि॒ष्मि॒या॒णा¦योषा᳚¦बि॒भ॒र्ति॒¦प॒र॒मे¦विऽओ᳚मन् | |
नाके᳚ सुप॒र्णमुप॒ यत् पत᳚न्तं हृ॒दा वेन᳚न्तो, अ॒भ्यच॑क्षत त्वा |{भार्गवो वेनः | वेनः | त्रिष्टुप्} हिर᳚ण्यपक्षं॒ वरु॑णस्य दू॒तं य॒मस्य॒ योनौ᳚ शकु॒नं भु॑र॒ण्युम् ||{6/8}{8.7.8.1}{10.123.6}{10.10.11.6}{924, 960, 10195} नाके᳚¦सु॒ऽप॒र्णम्¦उप॑¦यत्¦पत᳚न्तम्¦हृ॒दा¦वेन᳚न्तः¦अ॒भि¦अच॑क्षत¦त्वा॒ | |
ऊ॒र्ध्वो ग᳚न्ध॒र्वो, अधि॒ नाके᳚, अस्थात्प्र॒त्यङ्चि॒त्रा बिभ्र॑द॒स्यायु॑धानि |{भार्गवो वेनः | वेनः | त्रिष्टुप्} वसा᳚नो॒, अत्कं᳚ सुर॒भिं दृ॒शे कं स्व१॑(अ॒)र्ण नाम॑ जनत प्रि॒याणि॑ ||{7/8}{8.7.8.2}{10.123.7}{10.10.11.7}{925, 960, 10196} ऊ॒र्ध्वः¦ग॒न्ध॒र्वः¦अधि॑¦नाके᳚¦अ॒स्था॒त्¦प्र॒त्यङ्¦चि॒त्रा¦बिभ्र॑त्¦अ॒स्य॒¦आयु॑धानि | |
द्र॒प्सः स॑मु॒द्रम॒भि यज्जिगा᳚ति॒ पश्य॒न् गृध्र॑स्य॒ चक्ष॑सा॒ विध᳚र्मन् |{भार्गवो वेनः | वेनः | त्रिष्टुप्} भा॒नुः शु॒क्रेण॑ शो॒चिषा᳚ चका॒नस्तृ॒तीये᳚ चक्रे॒ रज॑सि प्रि॒याणि॑ ||{8/8}{8.7.8.3}{10.123.8}{10.10.11.8}{926, 960, 10197} द्र॒प्सः¦स॒मु॒द्रम्¦अ॒भि¦यत्¦जिगा᳚ति¦पश्य॑न्¦गृध्र॑स्य¦चक्ष॑सा¦विऽध᳚र्मन् | |
[79] इमंनइति नवर्चस्य सूक्तस्याद्यायाः पंचम्यादिचतसृणांचाग्निवरुणसोमाऋषयः द्वितीयादितिसृणामग्निरृषिः आद्यानांचतसृणामग्निः पंचमीसप्तम्यष्टमीनांवरुणः षष्ठ्याः सोमो नवम्याः सोमेंद्रौत्रिष्टुप् सप्तमीजगती | |
इ॒मं नो᳚, अग्न॒ उप॑ य॒ज्ञमेहि॒ पञ्च॑यामं त्रि॒वृतं᳚ स॒प्तत᳚न्तुम् |{अग्नि वरुण सोमाः | अग्निः | त्रिष्टुप्} असो᳚ हव्य॒वाळु॒त नः॑ पुरो॒गा ज्योगे॒व दी॒र्घं तम॒ आश॑यिष्ठाः ||{1/9}{8.7.9.1}{10.124.1}{10.10.12.1}{927, 961, 10198} इ॒मम्¦नः॒¦अ॒ग्ने॒¦उप॑¦य॒ज्ञम्¦आ¦इ॒हि॒¦पंच॑ऽयामम्¦त्रि॒ऽवृत᳚म्¦स॒प्तऽत᳚न्तुम् | |
अदे᳚वाद्दे॒वः प्र॒चता॒ गुहा॒ यन् प्र॒पश्य॑मानो, अमृत॒त्वमे᳚मि |{अग्निः | अग्निः | त्रिष्टुप्} शि॒वं यत्सन्त॒मशि॑वो॒ जहा᳚मि॒ स्वात्स॒ख्यादर॑णीं॒ नाभि॑मेमि ||{2/9}{8.7.9.2}{10.124.2}{10.10.12.2}{928, 961, 10199} अदे᳚वात्¦दे॒वः¦प्र॒ऽचता᳚¦गुहा᳚¦यन्¦प्र॒ऽपश्य॑मानः¦अ॒मृ॒त॒ऽत्वम्¦ए॒मि॒ | |
पश्य᳚न्न॒न्यस्या॒, अति॑थिं व॒याया᳚ ऋ॒तस्य॒ धाम॒ वि मि॑मे पु॒रूणि॑ |{अग्निः | अग्निः | त्रिष्टुप्} शंसा᳚मि पि॒त्रे, असु॑राय॒ शेव॑मयज्ञि॒याद् य॒ज्ञियं᳚ भा॒गमे᳚मि ||{3/9}{8.7.9.3}{10.124.3}{10.10.12.3}{929, 961, 10200} पश्य॑न्¦अ॒न्यस्याः᳚¦अति॑थिम्¦व॒यायाः᳚¦ऋ॒तस्य॑¦धाम॑¦वि¦मि॒मे॒¦पु॒रूणि॑ | |
ब॒ह्वीः समा᳚, अकरम॒न्तर॑स्मि॒न्निन्द्रं᳚ वृणा॒नः पि॒तरं᳚ जहामि |{अग्निः | अग्निः | त्रिष्टुप्} अ॒ग्निः सोमो॒ वरु॑ण॒स्ते च्य॑वन्ते प॒र्याव॑र्द्रा॒ष्ट्रं तद॑वाम्या॒यन् ||{4/9}{8.7.9.4}{10.124.4}{10.10.12.4}{930, 961, 10201} ब॒ह्वीः¦समाः᳚¦अ॒क॒र॒म्¦अ॒न्तः¦अ॒स्मि॒न्¦इन्द्र᳚म्¦वृ॒णा॒नः¦पि॒तर᳚म्¦ज॒हा॒मि॒ | |
निर्मा᳚या, उ॒ त्ये, असु॑रा, अभूव॒न्त्वं च॑ मा वरुण का॒मया᳚से |{अग्नि वरुण सोमाः | वरुणः | त्रिष्टुप्} ऋ॒तेन॑ राज॒न्ननृ॑तं विवि॒ञ्चन्मम॑ रा॒ष्ट्रस्याधि॑पत्य॒मेहि॑ ||{5/9}{8.7.9.5}{10.124.5}{10.10.12.5}{931, 961, 10202} निःऽमा᳚याः¦ऊँ॒ इति॑¦त्ये¦असु॑राः¦अ॒भू॒व॒न्¦त्वम्¦च॒¦मा॒¦व॒रु॒ण॒¦का॒मया᳚से | |
इ॒दं स्व॑रि॒दमिदा᳚स वा॒मम॒यं प्र॑का॒श उ॒र्व१॑(अ॒)न्तरि॑क्षम् |{अग्नि वरुण सोमाः | सोमः | त्रिष्टुप्} हना᳚व वृ॒त्रं नि॒रेहि॑ सोम ह॒विष्ट्वा॒ सन्तं᳚ ह॒विषा᳚ यजाम ||{6/9}{8.7.10.1}{10.124.6}{10.10.12.6}{932, 961, 10203} इ॒दम्¦स्वः॑¦इ॒दम्¦इत्¦आ॒स॒¦वा॒मम्¦अ॒यम्¦प्र॒ऽका॒शः¦उ॒रु¦अ॒न्तरि॑क्षम् | |
क॒विः क॑वि॒त्वा दि॒वि रू॒पमास॑ज॒दप्र॑भूती॒ वरु॑णो॒ निर॒पः सृ॑जत् |{अग्नि वरुण सोमाः | वरुणः | त्रिष्टुप्} क्षेमं᳚ कृण्वा॒ना जन॑यो॒ न सिन्ध॑व॒स्ता, अ॑स्य॒ वर्णं॒ शुच॑यो भरिभ्रति ||{7/9}{8.7.10.2}{10.124.7}{10.10.12.7}{933, 961, 10204} क॒विः¦क॒वि॒ऽत्वा¦दि॒वि¦रू॒पम्¦आ¦अ॒स॒ज॒त्¦अप्र॑ऽभूती¦वरु॑णः¦निः¦अ॒पः¦सृ॒ज॒त् | |
ता, अ॑स्य॒ ज्येष्ठ॑मिन्द्रि॒यं स॑चन्ते॒ ता, ई॒मा क्षे᳚ति स्व॒धया॒ मद᳚न्तीः |{अग्नि वरुण सोमाः | वरुणः | त्रिष्टुप्} ता, ईं॒ विशो॒ न राजा᳚नं वृणा॒ना बी᳚भ॒त्सुवो॒, अप॑ वृ॒त्राद॑तिष्ठन् ||{8/9}{8.7.10.3}{10.124.8}{10.10.12.8}{934, 961, 10205} ताः¦अ॒स्य॒¦ज्येष्ठ᳚म्¦इ॒न्द्रि॒यम्¦स॒च॒न्ते॒¦ताः¦ई॒म्¦आ¦क्षे॒ति॒¦स्व॒धया᳚¦मद᳚न्तीः | |
बी॒भ॒त्सूनां᳚ स॒युजं᳚ हं॒समा᳚हुर॒पां दि॒व्यानां᳚ स॒ख्ये चर᳚न्तम् |{अग्नि वरुण सोमाः | सोमेंद्रौ | त्रिष्टुप्} अ॒नु॒ष्टुभ॒मनु॑ चर्चू॒र्यमा᳚ण॒मिन्द्रं॒ नि चि॑क्युः क॒वयो᳚ मनी॒षा ||{9/9}{8.7.10.4}{10.124.9}{10.10.12.9}{935, 961, 10206} बी॒भ॒त्सूना᳚म्¦स॒ऽयुज᳚म्¦हं॒सम्¦आ॒हुः॒¦अ॒पाम्¦दि॒व्याना᳚म्¦स॒ख्ये¦चर᳚न्तम् | |
[80] अहंरुद्रेभिरित्यष्टर्चस्य सूक्तस्यांभृणिर्वागांभृणिर्वाक्त्रिष्टुप्द्वितीयाजगती | |
अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा᳚दि॒त्यैरु॒त वि॒श्वदे᳚वैः |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्} अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि᳚न्द्रा॒ग्नी, अ॒हम॒श्विनो॒भा ||{1/8}{8.7.11.1}{10.125.1}{10.10.13.1}{936, 962, 10207} अ॒हम्¦रु॒द्रेभिः॑¦वसु॑ऽभिः¦च॒रा॒मि॒¦अ॒हम्¦आ॒दि॒त्यैः¦उ॒त¦वि॒श्वऽदे᳚वैः | |
अ॒हं सोम॑माह॒नसं᳚ बिभर्म्य॒हं त्वष्टा᳚रमु॒त पू॒षणं॒ भग᳚म् |{आंभृणिर्वागांभृणि | वाक् | जगती} अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒३॑(ए॒) यज॑मानाय सुन्व॒ते ||{2/8}{8.7.11.2}{10.125.2}{10.10.13.2}{937, 962, 10208} अ॒हम्¦सोम᳚म्¦आ॒ह॒नस᳚म्¦बि॒भ॒र्मि॒¦अ॒हम्¦त्वष्टा᳚रम्¦उ॒त¦पू॒षण᳚म्¦भग᳚म् | |
अ॒हं राष्ट्री᳚ सं॒गम॑नी॒ वसू᳚नां चिकि॒तुषी᳚ प्रथ॒मा य॒ज्ञिया᳚नाम् |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्} तां मा᳚ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या᳚वे॒शय᳚न्तीम् ||{3/8}{8.7.11.3}{10.125.3}{10.10.13.3}{938, 962, 10209} अ॒हम्¦राष्ट्री᳚¦स॒म्ऽगम॑नी¦वसू᳚नाम्¦चि॒कि॒तुषी᳚¦प्र॒थ॒मा¦य॒ज्ञिया᳚नाम् | |
मया॒ सो, अन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं᳚ शृ॒णोत्यु॒क्तम् |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्} अ॒म॒न्तवो॒ मां त उप॑ क्षियन्ति श्रु॒धि श्रु॑त श्रद्धि॒वं ते᳚ वदामि ||{4/8}{8.7.11.4}{10.125.4}{10.10.13.4}{939, 962, 10210} मया᳚¦सः¦अन्न᳚म्¦अ॒त्ति॒¦यः¦वि॒ऽपश्य॑ति¦यः¦प्राणि॑ति¦यः¦ई॒म्¦शृ॒णोति॑¦उ॒क्तम् | |
अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं᳚ दे॒वेभि॑रु॒त मानु॑षेभिः |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्} यं का॒मये॒ तंत॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ||{5/8}{8.7.11.5}{10.125.5}{10.10.13.5}{940, 962, 10211} अ॒हम्¦ए॒व¦स्व॒यम्¦इ॒दम्¦व॒दा॒मि॒¦जुष्ट᳚म्¦दे॒वेभिः॑¦उ॒त¦मानु॑षेभिः | |
अ॒हं रु॒द्राय॒ धनु॒रा त॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒ हन्त॒वा, उ॑ |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्} अ॒हं जना᳚य स॒मदं᳚ कृणोम्य॒हं द्यावा᳚पृथि॒वी, आ वि॑वेश ||{6/8}{8.7.12.1}{10.125.6}{10.10.13.6}{941, 962, 10212} अ॒हम्¦रु॒द्राय॑¦धनुः॑¦आ¦त॒नो॒मि॒¦ब्र॒ह्म॒ऽद्विषे᳚¦शर॑वे¦हन्त॒वै¦ऊँ॒ इति॑ | |
अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन् मम॒ योनि॑र॒प्स्व१॑(अ॒)न्तः स॑मु॒द्रे |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्} ततो॒ वि ति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ||{7/8}{8.7.12.2}{10.125.7}{10.10.13.7}{942, 962, 10213} अ॒हम्¦सु॒वे॒¦पि॒तर᳚म्¦अ॒स्य॒¦मू॒र्धन्¦मम॑¦योनिः॑¦अ॒प्ऽसु¦अ॒न्तरिति॑¦स॒मु॒द्रे | |
अ॒हमे॒व वात॑ इव॒ प्र वा᳚म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा᳚ |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्} प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्यैताव॑ती महि॒ना सं ब॑भूव ||{8/8}{8.7.12.3}{10.125.8}{10.10.13.8}{943, 962, 10214} अ॒हम्¦ए॒व¦वातः॑ऽइव¦प्र¦वा॒मि॒¦आ॒ऽरभ॑माणा¦भुव॑नानि¦विश्वा᳚ | |
[81] नतमित्यष्टर्चस्य सूक्तस्य शैलूषिः कुल्मलबर्हिषो विश्वेदेवाउपरिष्टाद्बृहत्यंत्यात्रिष्टुप् | (अत्रवामदेव्यहोमुक्पाक्षिकऋषिः । कुल्मलबर्हिषइत्यदंतं प्रातिपदिकं) | |
न तमंहो॒ न दु॑रि॒तं देवा᳚सो, अष्ट॒ मर्त्य᳚म् |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती} स॒जोष॑सो॒ यम᳚र्य॒मा मि॒त्रो नय᳚न्ति॒ वरु॑णो॒, अति॒ द्विषः॑ ||{1/8}{8.7.13.1}{10.126.1}{10.10.14.1}{944, 963, 10215} न¦तम्¦अंहः॑¦न¦दुः॒ऽइ॒तम्¦देवा᳚सः¦अष्ट॑¦मर्त्य᳚म् | |
तद्धि व॒यं वृ॑णी॒महे॒ वरु॑ण॒ मित्रार्य॑मन् |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती} येना॒ निरंह॑सो यू॒यं पा॒थ ने॒था च॒ मर्त्य॒मति॒ द्विषः॑ ||{2/8}{8.7.13.2}{10.126.2}{10.10.14.2}{945, 963, 10216} तत्¦हि¦व॒यम्¦वृ॒णी॒महे᳚¦वरु॑ण¦मित्र॑¦अर्य॑मन् | |
ते नू॒नं नो॒ऽयमू॒तये॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती} नयि॑ष्ठा, उ नो ने॒षणि॒ पर्षि॑ष्ठा, उ नः प॒र्षण्यति॒ द्विषः॑ ||{3/8}{8.7.13.3}{10.126.3}{10.10.14.3}{946, 963, 10217} ते¦नू॒नम्¦नः॒¦अ॒यम्¦ऊ॒तये᳚¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा | |
यू॒यं विश्वं॒ परि॑ पाथ॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती} यु॒ष्माकं॒ शर्म॑णि प्रि॒ये स्याम॑ सुप्रणीत॒योऽति॒ द्विषः॑ ||{4/8}{8.7.13.4}{10.126.4}{10.10.14.4}{947, 963, 10218} यू॒यम्¦विश्व᳚म्¦परि॑¦पा॒थ॒¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा | |
आ॒दि॒त्यासो॒, अति॒ स्रिधो॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती} उ॒ग्रं म॒रुद्भी᳚ रु॒द्रं हु॑वे॒मेन्द्र॑म॒ग्निं स्व॒स्तयेऽति॒ द्विषः॑ ||{5/8}{8.7.13.5}{10.126.5}{10.10.14.5}{948, 963, 10219} आ॒दि॒त्यासः॑¦अति॑¦स्रिधः॑¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा | |
नेता᳚र ऊ॒ षु ण॑स्ति॒रो वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती} अति॒ विश्वा᳚नि दुरि॒ता राजा᳚नश्चर्षणी॒नामति॒ द्विषः॑ ||{6/8}{8.7.13.6}{10.126.6}{10.10.14.6}{949, 963, 10220} नेता᳚रः¦ऊँ॒ इति॑¦सु¦नः॒¦ति॒रः¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा | |
शु॒नम॒स्मभ्य॑मू॒तये॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती} शर्म॑ यच्छन्तु स॒प्रथ॑ आदि॒त्यासो॒ यदीम॑हे॒, अति॒ द्विषः॑ ||{7/8}{8.7.13.7}{10.126.7}{10.10.14.7}{950, 963, 10221} शु॒नम्¦अ॒स्मभ्य᳚म्¦ऊ॒तये᳚¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा | |
यथा᳚ ह॒ त्यद्व॑सवो गौ॒र्यं᳚ चित् प॒दि षि॒ताममु᳚ञ्चता यजत्राः |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | त्रिष्टुप्} ए॒वो ष्व१॑(अ॒)स्मन्मु᳚ञ्चता॒ व्यंहः॒ प्र ता᳚र्यग्ने प्रत॒रं न॒ आयुः॑ ||{8/8}{8.7.13.8}{10.126.8}{10.10.14.8}{951, 963, 10222} यथा᳚¦ह॒¦त्यत्¦व॒स॒वः॒¦गौ॒र्य᳚म्¦चि॒त्¦प॒दि¦सि॒ताम्¦अमुं᳚चत¦य॒ज॒त्राः॒ | |
[82] रात्रीत्यष्टर्चस्य सूक्तस्य सौभरः कुशिकोरात्रिर्गायत्री (अत्रभारद्वाजीरात्रिऋषिकापाक्षिकी) | |
रात्री॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्य१॑(अ॒)क्षभिः॑ |{सौभरो कुशिकः | रात्रिदेवता | गायत्री} विश्वा॒, अधि॒ श्रियो᳚ऽधित ||{1/8}{8.7.14.1}{10.127.1}{10.10.15.1}{952, 964, 10223} रात्री᳚¦वि¦अ॒ख्य॒त्¦आ॒ऽय॒ती¦पु॒रु॒ऽत्रा¦दे॒वी¦अ॒क्षऽभिः॑ | विश्वाः᳚¦अधि॑¦श्रियः॑¦अ॒धि॒त॒ || |
ओर्व॑प्रा॒, अम॑र्त्या नि॒वतो᳚ दे॒व्यु१॑(उ॒)द्वतः॑ |{सौभरो कुशिकः | रात्रिदेवता | गायत्री} ज्योति॑षा बाधते॒ तमः॑ ||{2/8}{8.7.14.2}{10.127.2}{10.10.15.2}{953, 964, 10224} आ¦उ॒रु¦अ॒प्राः॒¦अम॑र्त्या¦नि॒ऽवतः॑¦दे॒वी¦उ॒त्ऽवतः॑ | ज्योति॑षा¦बा॒ध॒ते॒¦तमः॑ || |
निरु॒ स्वसा᳚रमस्कृतो॒षसं᳚ दे॒व्या᳚य॒ती |{सौभरो कुशिकः | रात्रिदेवता | गायत्री} अपेदु॑ हासते॒ तमः॑ ||{3/8}{8.7.14.3}{10.127.3}{10.10.15.3}{954, 964, 10225} निः¦ऊँ॒ इति॑¦स्वसा᳚रम्¦अ॒कृ॒त॒¦उ॒षस᳚म्¦दे॒वी¦आ॒ऽय॒ती | अप॑¦इत्¦ऊँ॒ इति॑¦हा॒स॒ते॒¦तमः॑ || |
सा नो᳚, अ॒द्य यस्या᳚ व॒यं नि ते॒ याम॒न्नवि॑क्ष्महि |{सौभरो कुशिकः | रात्रिदेवता | गायत्री} वृ॒क्षे न व॑स॒तिं वयः॑ ||{4/8}{8.7.14.4}{10.127.4}{10.10.15.4}{955, 964, 10226} सा¦नः॒¦अ॒द्य¦यस्याः᳚¦व॒यम्¦नि¦ते॒¦याम॑न्¦अवि॑क्ष्महि | वृ॒क्षे¦न¦व॒स॒तिम्¦वयः॑ || |
नि ग्रामा᳚सो, अविक्षत॒ नि प॒द्वन्तो॒ नि प॒क्षिणः॑ |{सौभरो कुशिकः | रात्रिदेवता | गायत्री} नि श्ये॒नास॑श्चिद॒र्थिनः॑ ||{5/8}{8.7.14.5}{10.127.5}{10.10.15.5}{956, 964, 10227} नि¦ग्रामा᳚सः¦अ॒वि॒क्ष॒त॒¦नि¦प॒त्ऽवन्तः॑¦नि¦प॒क्षिणः॑ | नि¦श्ये॒नासः॑¦चि॒त्¦अ॒र्थिनः॑ || |
या॒वया᳚ वृ॒क्य१॑(अं॒) वृकं᳚ य॒वय॑ स्ते॒नमू᳚र्म्ये |{सौभरो कुशिकः | रात्रिदेवता | गायत्री} अथा᳚ नः सु॒तरा᳚ भव ||{6/8}{8.7.14.6}{10.127.6}{10.10.15.6}{957, 964, 10228} य॒वय॑¦वृ॒क्य᳚म्¦वृक᳚म्¦य॒वय॑¦स्ते॒नम्¦ऊ॒र्म्ये॒ | अथ॑¦नः॒¦सु॒ऽतरा᳚¦भ॒व॒ || |
उप॑ मा॒ पेपि॑श॒त्तमः॑ कृ॒ष्णं व्य॑क्तमस्थित |{सौभरो कुशिकः | रात्रिदेवता | गायत्री} उष॑ ऋ॒णेव॑ यातय ||{7/8}{8.7.14.7}{10.127.7}{10.10.15.7}{958, 964, 10229} उप॑¦मा॒¦पेपि॑शत्¦तमः॑¦कृ॒ष्णम्¦वि।आ॑क्तम्¦अ॒स्थि॒त॒ | उषः॑¦ऋ॒णाऽइ᳚व¦या॒त॒य॒ || |
उप॑ ते॒ गा, इ॒वाक॑रं वृणी॒ष्व दु॑हितर्दिवः |{सौभरो कुशिकः | रात्रिदेवता | गायत्री} रात्रि॒ स्तोमं॒ न जि॒ग्युषे᳚ ||{8/8}{8.7.14.8}{10.127.8}{10.10.15.8}{959, 964, 10230} उप॑¦ते॒¦गाःऽइ᳚व¦आ¦अ॒क॒र॒म्¦वृ॒णी॒ष्व¦दु॒हि॒तः॒¦दि॒वः॒ | रात्रि॑¦स्तोम᳚म्¦न¦जि॒ग्युषे᳚ || |
[83] ममाग्नइति नवर्चस्य सूक्तस्यांगिरसोविहव्यो विश्वेदेवास्त्रिष्टुबंत्याजगती | |
ममा᳚ग्ने॒ वर्चो᳚ विह॒वेष्व॑स्तु व॒यं त्वेन्धा᳚नास्त॒न्वं᳚ पुषेम |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्} मह्यं᳚ नमन्तां प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ||{1/9}{8.7.15.1}{10.128.1}{10.10.16.1}{960, 965, 10231} मम॑¦अ॒ग्ने॒¦वर्चः॑¦वि॒ऽह॒वेषु॑¦अ॒स्तु॒¦व॒यम्¦त्वा॒¦इन्धा᳚नाः¦त॒न्व᳚म्¦पु॒षे॒म॒ | |
मम॑ दे॒वा वि॑ह॒वे स᳚न्तु॒ सर्व॒ इन्द्र॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्} ममा॒न्तरि॑क्षमु॒रुलो᳚कमस्तु॒ मह्यं॒ वातः॑ पवतां॒ कामे᳚, अ॒स्मिन् ||{2/9}{8.7.15.2}{10.128.2}{10.10.16.2}{961, 965, 10232} मम॑¦दे॒वाः¦वि॒ऽह॒वे¦स॒न्तु॒¦सर्वे᳚¦इन्द्र॑ऽवन्तः¦म॒रुतः॑¦विष्णुः॑¦अ॒ग्निः | |
मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्तां॒ मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू᳚तिः |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्} दैव्या॒ होता᳚रो वनुषन्त॒ पूर्वेऽरि॑ष्टाः स्याम त॒न्वा᳚ सु॒वीराः᳚ ||{3/9}{8.7.15.3}{10.128.3}{10.10.16.3}{962, 965, 10233} मयि॑¦दे॒वाः¦द्रवि॑णम्¦आ¦य॒ज॒न्ता॒म्¦मयि॑¦आ॒ऽशीः¦अ॒स्तु॒¦मयि॑¦दे॒वऽहू᳚तिः | |
मह्यं᳚ यजन्तु॒ मम॒ यानि॑ ह॒व्याकू᳚तिः स॒त्या मन॑सो मे, अस्तु |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्} एनो॒ मा नि गां᳚ कत॒मच्च॒नाहं विश्वे᳚ देवासो॒, अधि॑ वोचता नः ||{4/9}{8.7.15.4}{10.128.4}{10.10.16.4}{963, 965, 10234} मह्य᳚म्¦य॒ज॒न्तु॒¦मम॑¦यानि॑¦ह॒व्या¦आऽकू᳚तिः¦स॒त्या¦मन॑सः¦मे॒¦अ॒स्तु॒ | |
देवीः᳚ षळुर्वीरु॒रु नः॑ कृणोत॒ विश्वे᳚ देवास इ॒ह वी᳚रयध्वम् |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्} मा हा᳚स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो᳚म राजन् ||{5/9}{8.7.15.5}{10.128.5}{10.10.16.5}{964, 965, 10235} देवीः᳚¦षट्¦उ॒र्वीः॒¦उ॒रु¦नः॒¦कृ॒णो॒त॒¦विश्वे᳚¦दे॒वा॒सः॒¦इ॒ह¦वी॒र॒य॒ध्व॒म् | |
अग्ने᳚ म॒न्युं प्र॑तिनु॒दन् परे᳚षा॒मद॑ब्धो गो॒पाः परि॑ पाहि न॒स्त्वम् |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्} प्र॒त्यञ्चो᳚ यन्तु नि॒गुतः॒ पुन॒स्ते॒३॑(ए॒)ऽमैषां᳚ चि॒त्तं प्र॒बुधां॒ वि ने᳚शत् ||{6/9}{8.7.16.1}{10.128.6}{10.10.16.6}{965, 965, 10236} अग्ने᳚¦म॒न्युम्¦प्र॒ति॒ऽनु॒दन्¦परे᳚षाम्¦अद॑ब्धः¦गो॒पाः¦परि॑¦पा॒हि॒¦नः॒¦त्वम् | |
धा॒ता धा᳚तॄ॒णां भुव॑नस्य॒ यस्पति॑र्दे॒वं त्रा॒तार॑मभिमातिषा॒हम् |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्} इ॒मं य॒ज्ञम॒श्विनो॒भा बृह॒स्पति॑र्दे॒वाः पा᳚न्तु॒ यज॑मानं न्य॒र्थात् ||{7/9}{8.7.16.2}{10.128.7}{10.10.16.7}{966, 965, 10237} धा॒ता¦धा॒तॄ॒णाम्¦भुव॑नस्य¦यः¦पतिः॑¦दे॒वम्¦त्रा॒तार᳚म्¦अ॒भि॒मा॒ति॒ऽस॒हम् | |
उ॒रु॒व्यचा᳚ नो महि॒षः शर्म॑ यंसद॒स्मिन्हवे᳚ पुरुहू॒तः पु॑रु॒क्षुः |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्} स नः॑ प्र॒जायै᳚ हर्यश्व मृळ॒येन्द्र॒ मा नो᳚ रीरिषो॒ मा परा᳚ दाः ||{8/9}{8.7.16.3}{10.128.8}{10.10.16.8}{967, 965, 10238} उ॒रु॒ऽव्यचाः᳚¦नः॒¦म॒हि॒षः¦शर्म॑¦यं॒स॒त्¦अ॒स्मिन्¦हवे᳚¦पु॒रु॒ऽहू॒तः¦पु॒रु॒ऽक्षुः | |
ये नः॑ स॒पत्ना॒, अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् |{आंगिरसो विहव्यः | विश्वदेवाः | जगती} वस॑वो रु॒द्रा, आ᳚दि॒त्या, उ॑परि॒स्पृशं᳚ मो॒ग्रं चेत्ता᳚रमधिरा॒जम॑क्रन् ||{9/9}{8.7.16.4}{10.128.9}{10.10.16.9}{968, 965, 10239} ये¦नः॒¦स॒ऽपत्नाः᳚¦अप॑¦ते¦भ॒व॒न्तु॒¦इ॒न्द्रा॒ग्निऽभ्या᳚म्¦अव॑¦बा॒धा॒म॒हे॒¦तान् | |
[84] नासदिति सप्तर्चस्य सूक्तस्य परमेष्ठी प्रजापतिर्भाववृत्तिस्त्रिष्टुप् | |
नास॑दासी॒न्नो सदा᳚सीत्त॒दानीं॒ नासी॒द्रजो॒ नो व्यो᳚मा प॒रो यत् |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्} किमाव॑रीवः॒ कुह॒ कस्य॒ शर्म॒न्नम्भः॒ किमा᳚सी॒द्गह॑नं गभी॒रम् ||{1/7}{8.7.17.1}{10.129.1}{10.11.1.1}{969, 966, 10240} न¦अस॑त्¦आ॒सी॒त्¦नो इति॑¦सत्¦आ॒सी॒त्¦त॒दानी᳚म्¦न¦आ॒सी॒त्¦रजः॑¦नो इति॑¦विऽओ᳚म¦प॒रः¦यत् | |
न मृ॒त्युरा᳚सीद॒मृतं॒ न तर्हि॒ न रात्र्या॒, अह्न॑ आसीत् प्रके॒तः |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्} आनी᳚दवा॒तं स्व॒धया॒ तदेकं॒ तस्मा᳚द्धा॒न्यन्न प॒रः किं च॒नास॑ ||{2/7}{8.7.17.2}{10.129.2}{10.11.1.2}{970, 966, 10241} न¦मृ॒त्युः¦आ॒सी॒त्¦अ॒मृत᳚म्¦न¦तर्हि॑¦न¦रात्र्याः᳚¦अह्नः॑¦आ॒सी॒त्¦प्र॒ऽके॒तः | |
तम॑ आसी॒त्तम॑सा गू॒ळ्हमग्रे᳚ऽप्रके॒तं स॑लि॒लं सर्व॑मा, इ॒दम् |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्} तु॒च्छ्येना॒भ्वपि॑हितं॒ यदासी॒त् तप॑स॒स्तन्म॑हि॒नाजा᳚य॒तैक᳚म् ||{3/7}{8.7.17.3}{10.129.3}{10.11.1.3}{971, 966, 10242} तमः॑¦आ॒सी॒त्¦तम॑सा¦गू॒ळ्हम्¦अग्रे᳚¦अ॒प्र॒ऽके॒तम्¦स॒लि॒लम्¦सर्व᳚म्¦आः॒¦इ॒दम् | |
काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॒ मन॑सो॒ रेतः॑ प्रथ॒मं यदासी᳚त् |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्} स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन् हृ॒दि प्र॒तीष्या᳚ क॒वयो᳚ मनी॒षा ||{4/7}{8.7.17.4}{10.129.4}{10.11.1.4}{972, 966, 10243} कामः॑¦तत्¦अग्रे᳚¦सम्¦अ॒व॒र्त॒त॒¦अधि॑¦मन॑सः¦रेतः॑¦प्र॒थ॒मम्¦यत्¦आसी᳚त् | |
ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे᳚षाम॒धः स्वि॑दा॒सी३दु॒परि॑ स्विदासी३त् |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्} रे॒तो॒धा, आ᳚सन् महि॒मान॑ आसन् त्स्व॒धा, अ॒वस्ता॒त् प्रय॑तिः प॒रस्ता᳚त् ||{5/7}{8.7.17.5}{10.129.5}{10.11.1.5}{973, 966, 10244} ति॒र॒श्चीनः॑¦विऽत॑तः¦र॒श्मिः¦ए॒षा॒म्¦अ॒धः¦स्वि॒त्¦आ॒सी३त्¦उ॒परि॑¦स्वि॒त्¦आ॒सी॒३त् | |
को, अ॒द्धा वे᳚द॒ क इ॒ह प्र वो᳚च॒त् कुत॒ आजा᳚ता॒ कुत॑ इ॒यं विसृ॑ष्टिः |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्} अ॒र्वाग्दे॒वा, अ॒स्य वि॒सर्ज॑ने॒नाथा॒ को वे᳚द॒ यत॑ आब॒भूव॑ ||{6/7}{8.7.17.6}{10.129.6}{10.11.1.6}{974, 966, 10245} कः¦अ॒द्धा¦वे॒द॒¦कः¦इ॒ह¦प्र¦वो॒च॒त्¦कुतः॑¦आऽजा᳚ता¦कुतः॑¦इ॒यम्¦विऽसृ॑ष्टिः | |
इ॒यं विसृ॑ष्टि॒र्यत॑ आब॒भूव॒ यदि॑ वा द॒धे यदि॑ वा॒ न |{परमेष्ठी प्रजापतिः | भाववृत्तिः | पादत्रिष्टुप्} यो, अ॒स्याध्य॑क्षः पर॒मे व्यो᳚म॒न् त्सो, अ॒ङ्ग वे᳚द॒ यदि॑ वा॒ न वेद॑ ||{7/7}{8.7.17.7}{10.129.7}{10.11.1.7}{975, 966, 10246} इ॒यम्¦विऽसृ॑ष्टिः¦यतः॑¦आ॒ऽब॒भूव॑¦यदि॑¦वा॒¦द॒धे¦यदि॑¦वा॒¦न | |
[85] योयज्ञइति सप्तर्चस्य सूक्तस्य प्राजापत्योयज्ञोभाववृत्तिस्त्रिष्टुबाद्याजगती | |
यो य॒ज्ञो वि॒श्वत॒स्तन्तु॑भिस्त॒त एक॑शतं देवक॒र्मेभि॒राय॑तः |{प्राजापत्यो यज्ञः | भाववृत्तिः | जगती} इ॒मे व॑यन्ति पि॒तरो॒ य आ᳚य॒युः प्र व॒याप॑ व॒येत्या᳚सते त॒ते ||{1/7}{8.7.18.1}{10.130.1}{10.11.2.1}{976, 967, 10247} यः¦य॒ज्ञः¦वि॒श्वतः॑¦तन्तु॑ऽभिः¦त॒तः¦एक॑ऽशतम्¦दे॒व॒ऽक॒र्मेभिः॑¦आऽय॑तः | |
पुमाँ᳚, एनं तनुत॒ उत्कृ॑णत्ति॒ पुमा॒न् वि त॑त्ने॒, अधि॒ नाके᳚, अ॒स्मिन् |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्} इ॒मे म॒यूखा॒, उप॑ सेदुरू॒ सदः॒ सामा᳚नि चक्रु॒स्तस॑रा॒ण्योत॑वे ||{2/7}{8.7.18.2}{10.130.2}{10.11.2.2}{977, 967, 10248} पुमा᳚न्¦ए॒न॒म्¦त॒नु॒ते॒¦उत्¦कृ॒ण॒त्ति॒¦पुमा᳚न्¦वि¦त॒त्ने॒¦अधि॑¦नाके᳚¦अ॒स्मिन् | |
कासी᳚त्प्र॒मा प्र॑ति॒मा किं नि॒दान॒माज्यं॒ किमा᳚सीत्परि॒धिः क आ᳚सीत् |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्} छन्दः॒ किमा᳚सी॒त्प्रौ᳚गं॒ किमु॒क्थं यद्दे॒वा दे॒वमय॑जन्त॒ विश्वे᳚ ||{3/7}{8.7.18.3}{10.130.3}{10.11.2.3}{978, 967, 10249} का¦आ॒सी॒त्¦प्र॒ऽमा¦प्र॒ति॒ऽमा¦किम्¦नि॒ऽदान᳚म्¦आज्य᳚म्¦किम्¦आ॒सी॒त्¦प॒रि॒ऽधिः¦कः¦आ॒सी॒त् | |
अ॒ग्नेर्गा᳚य॒त्र्य॑भवत्स॒युग्वो॒ष्णिह॑या सवि॒ता सं ब॑भूव |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्} अ॒नु॒ष्टुभा॒ सोम॑ उ॒क्थैर्मह॑स्वा॒न् बृह॒स्पते᳚र्बृह॒ती वाच॑मावत् ||{4/7}{8.7.18.4}{10.130.4}{10.11.2.4}{979, 967, 10250} अ॒ग्नेः¦गा॒य॒त्री¦अ॒भ॒व॒त्¦स॒ऽयुग्वा᳚¦उ॒ष्णिह॑या¦स॒वि॒ता¦सम्¦ब॒भू॒व॒ | |
वि॒राण्मि॒त्रावरु॑णयोरभि॒श्रीरिन्द्र॑स्य त्रि॒ष्टुबि॒ह भा॒गो, अह्नः॑ |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्} विश्वा᳚न्दे॒वाञ्जग॒त्या वि॑वेश॒ तेन॑ चाकॢप्र॒ ऋष॑यो मनु॒ष्याः᳚ ||{5/7}{8.7.18.5}{10.130.5}{10.11.2.5}{980, 967, 10251} वि॒राट्¦मि॒त्रावरु॑णयोः¦अ॒भि॒ऽश्रीः¦इन्द्र॑स्य¦त्रि॒ऽस्तुप्¦इ॒ह¦भा॒गः¦अह्नः॑ | |
चा॒कॢ॒प्रे तेन॒ ऋष॑यो मनु॒ष्या᳚ य॒ज्ञे जा॒ते पि॒तरो᳚ नः पुरा॒णे |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्} पश्य᳚न्मन्ये॒ मन॑सा॒ चक्ष॑सा॒ तान्य इ॒मं य॒ज्ञमय॑जन्त॒ पूर्वे᳚ ||{6/7}{8.7.18.6}{10.130.6}{10.11.2.6}{981, 967, 10252} चा॒कॢ॒प्रे¦तेन॑¦ऋष॑यः¦म॒नु॒ष्याः᳚¦य॒ज्ञे¦जा॒ते¦पि॒तरः॑¦नः॒¦पु॒रा॒णे | |
स॒हस्तो᳚माः स॒हछ᳚न्दस आ॒वृतः॑ स॒हप्र॑मा॒ ऋष॑यः स॒प्त दैव्याः᳚ |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्} पूर्वे᳚षां॒ पन्था᳚मनु॒दृश्य॒ धीरा᳚, अ॒न्वाले᳚भिरे र॒थ्यो॒३॑(ओ॒) न र॒श्मीन् ||{7/7}{8.7.18.7}{10.130.7}{10.11.2.7}{982, 967, 10253} स॒हऽस्तो᳚माः¦स॒हऽछ᳚न्दसः¦आ॒ऽवृतः॑¦स॒हऽप्र॑माः¦ऋष॑यः¦स॒प्त¦दैव्याः᳚ | |
[86] अपप्राचइति सप्तर्चस्य सूक्तस्य काक्षीवतः सुकीर्तिरिंद्रश्चतुर्थीपंचम्योरश्विनौत्रिष्टुप् चतुर्थ्यनुष्टुप् | |
अप॒ प्राच॑ इन्द्र॒ विश्वाँ᳚, अ॒मित्रा॒नपापा᳚चो, अभिभूते नुदस्व |{काक्षीवतः सुकीर्तिः | इन्द्रः | त्रिष्टुप्} अपोदी᳚चो॒, अप॑ शूराध॒राच॑ उ॒रौ यथा॒ तव॒ शर्म॒न्मदे᳚म ||{1/7}{8.7.19.1}{10.131.1}{10.11.3.1}{983, 968, 10254} अप॑¦प्राचः॑¦इ॒न्द्र॒¦विश्वा᳚न्¦अ॒मित्रा᳚न्¦अप॑¦अपा᳚चः¦अ॒भि॒ऽभू॒ते॒¦नु॒द॒स्व॒ | |
कु॒विद॒ङ्ग यव॑मन्तो॒ यवं᳚ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ |{काक्षीवतः सुकीर्तिः | इन्द्रः | त्रिष्टुप्} इ॒हेहै᳚षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नमो᳚वृक्तिं॒ न ज॒ग्मुः ||{2/7}{8.7.19.2}{10.131.2}{10.11.3.2}{984, 968, 10255} कु॒वित्¦अ॒ङ्ग¦यव॑ऽमन्तः¦यव᳚म्¦चि॒त्¦यथा᳚¦दान्ति॑¦अ॒नु॒ऽपू॒र्वम्¦वि॒ऽयूय॑ | |
न॒हि स्थूर्यृ॑तु॒था या॒तमस्ति॒ नोत श्रवो᳚ विविदे संग॒मेषु॑ |{काक्षीवतः सुकीर्तिः | इन्द्रः | त्रिष्टुप्} ग॒व्यन्त॒ इन्द्रं᳚ स॒ख्याय॒ विप्रा᳚, अश्वा॒यन्तो॒ वृष॑णं वा॒जय᳚न्तः ||{3/7}{8.7.19.3}{10.131.3}{10.11.3.3}{985, 968, 10256} न॒हि¦स्थूरि॑¦ऋ॒तु॒ऽथा¦या॒तम्¦अस्ति॑¦न¦उ॒त¦श्रवः॑¦वि॒वि॒दे॒¦स॒म्ऽग॒मेषु॑ | |
यु॒वं सु॒राम॑मश्विना॒ नमु॑चावासु॒रे सचा᳚ |{काक्षीवतः सुकीर्तिः | अश्विनौ | अनुष्टुप्} वि॒पि॒पा॒ना शु॑भस्पती॒, इन्द्रं॒ कर्म॑स्वावतम् ||{4/7}{8.7.19.4}{10.131.4}{10.11.3.4}{986, 968, 10257} यु॒वम्¦सु॒राम᳚म्¦अ॒श्वि॒ना॒¦नमु॑चौ¦आ॒सु॒रे¦सचा᳚ | वि॒ऽपि॒पा॒ना¦शु॒भः॒¦प॒ती॒ इति॑¦इन्द्र᳚म्¦कर्म॑ऽसु¦आ॒व॒त॒म् || |
पु॒त्रमि॑व पि॒तरा᳚व॒श्विनो॒भेन्द्रा॒वथुः॒ काव्यै᳚र्दं॒सना᳚भिः |{काक्षीवतः सुकीर्तिः | अश्विनौ | त्रिष्टुप्} यत्सु॒रामं॒ व्यपि॑बः॒ शची᳚भिः॒ सर॑स्वती त्वा मघवन्नभिष्णक् ||{5/7}{8.7.19.5}{10.131.5}{10.11.3.5}{987, 968, 10258} पु॒त्रम्ऽइ᳚व¦पि॒तरौ᳚¦अ॒श्विना᳚¦उ॒भा¦इन्द्र॑¦आ॒वथुः॑¦काव्यैः᳚¦दं॒सना᳚भिः | |
इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒, अवो᳚भिः सुमृळी॒को भ॑वतु वि॒श्ववे᳚दाः |{काक्षीवतः सुकीर्तिः | इन्द्रः | त्रिष्टुप्} बाध॑तां॒ द्वेषो॒, अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ||{6/7}{8.7.19.6}{10.131.6}{10.11.3.6}{988, 968, 10259} इन्द्रः॑¦सु॒ऽत्रामा᳚¦स्वऽवा᳚न्¦अवः॑ऽभिः¦सु॒ऽमृ॒ळी॒कः¦भ॒व॒तु॒¦वि॒श्वऽवे᳚दाः | |
तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ᳚मन॒से स्या᳚म |{काक्षीवतः सुकीर्तिः | इन्द्रः | त्रिष्टुप्} स सु॒त्रामा॒ स्ववाँ॒, इन्द्रो᳚, अ॒स्मे, आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु ||{7/7}{8.7.19.7}{10.131.7}{10.11.3.7}{989, 968, 10260} तस्य॑¦व॒यम्¦सु॒ऽम॒तौ¦य॒ज्ञिय॑स्य¦अपि॑¦भ॒द्रे¦सौ॒म॒न॒से¦स्या॒म॒ | |
[87] ईजानमिति सप्तर्चस्य सूक्तस्य नार्मेधः शकपूतो मित्रावरुणावाद्यायाद्युभूम्यश्विनोविराड्रूपाः आद्यान्यंकुसारिणी द्वितीयाषष्ठ्यौ प्रस्तारपंक्ती अंत्यामहासतोबृहती | |
ई॒जा॒नमिद्द्यौर्गू॒र्ताव॑सुरीजा॒नं भूमि॑र॒भि प्र॑भू॒षणि॑ |{नार्मेधः शकपूतः | द्युभूम्यश्विनः | अंकुसारिणी} ई॒जा॒नं दे॒वाव॒श्विना᳚व॒भि सु॒म्नैर॑वर्धताम् ||{1/7}{8.7.20.1}{10.132.1}{10.11.4.1}{990, 969, 10261} ई॒जा॒नम्¦इत्¦द्यौः¦गू॒र्तऽव॑सुः¦ई॒जा॒नम्¦भूमिः॑¦अ॒भि¦प्र॒ऽभू॒षणि॑ | |
ता वां᳚ मित्रावरुणा धार॒यत् क्षि॑ती सुषु॒म्नेषि॑त॒त्वता᳚ यजामसि |{नार्मेधः शकपूतः | मित्रावरुणौ | प्रस्तारपंक्ती} यु॒वोः क्रा॒णाय॑ स॒ख्यैर॒भि ष्या᳚म र॒क्षसः॑ ||{2/7}{8.7.20.2}{10.132.2}{10.11.4.2}{991, 969, 10262} ता¦वा॒म्¦मि॒त्रा॒व॒रु॒णा॒¦धा॒र॒यत् क्षि॑ती॒ इति॑ धा॒र॒यत्ऽक्षि॑ती¦सु॒ऽसु॒म्ना¦इ॒षि॒त॒त्वता᳚¦य॒जा॒म॒सि॒ | |
अधा᳚ चि॒न्नु यद्दिधि॑षामहे वाम॒भि प्रि॒यं रेक्णः॒ पत्य॑मानाः |{नार्मेधः शकपूतः | मित्रावरुणौ | विराड्रूपा} द॒द्वाँऽ वा॒ यत्पुष्य॑ति॒ रेक्णः॒ सम्वा᳚र॒न्नकि॑रस्य म॒घानि॑ ||{3/7}{8.7.20.3}{10.132.3}{10.11.4.3}{992, 969, 10263} अध॑¦चि॒त्¦नु¦यत्¦दधि॑षामहे¦वा॒म्¦अ॒भि¦प्रि॒यम्¦रेक्णः॑¦पत्य॑मानाः | |
अ॒साव॒न्यो, अ॑सुर सूयत॒ द्यौस्त्वं विश्वे᳚षां वरुणासि॒ राजा᳚ |{नार्मेधः शकपूतः | मित्रावरुणौ | पादपङ्क्तिः} मू॒र्धा रथ॑स्य चाक॒न्नैताव॒तैन॑सान्तक॒ध्रुक् ||{4/7}{8.7.20.4}{10.132.4}{10.11.4.4}{993, 969, 10264} अ॒सौ¦अ॒न्यः¦अ॒सु॒र॒¦सू॒य॒त॒¦द्यौः¦त्वम्¦विश्वे᳚षाम्¦व॒रु॒ण॒¦अ॒सि॒¦राजा᳚ | |
अ॒स्मिन् त्स्वे॒३॑(ए॒)तच्छक॑पूत॒ एनो᳚ हि॒ते मि॒त्रे निग॑तान्हन्ति वी॒रान् |{नार्मेधः शकपूतः | मित्रावरुणौ | विराड्रूपा} अ॒वोर्वा॒ यद्धात्त॒नूष्ववः॑ प्रि॒यासु॑ य॒ज्ञिया॒स्वर्वा᳚ ||{5/7}{8.7.20.5}{10.132.5}{10.11.4.5}{994, 969, 10265} अ॒स्मिन्¦सु¦ए॒तत्¦शक॑ऽपूते¦एनः॑¦हि॒ते¦मि॒त्रे¦निऽग॑तान्¦ह॒न्ति॒¦वी॒रान् | |
यु॒वोर्हि मा॒तादि॑तिर्विचेतसा॒ द्यौर्न भूमिः॒ पय॑सा पुपू॒तनि॑ |{नार्मेधः शकपूतः | मित्रावरुणौ | प्रस्तारपंक्ती} अव॑ प्रि॒या दि॑दिष्टन॒ सूरो᳚ निनिक्त र॒श्मिभिः॑ ||{6/7}{8.7.20.6}{10.132.6}{10.11.4.6}{995, 969, 10266} यु॒वोः¦हि¦मा॒ता¦अदि॑तिः¦वि॒ऽचे॒त॒सा॒¦द्यौः¦न¦भूमिः॑¦पय॑सा¦पु॒पू॒तनि॑ | |
यु॒वं ह्य॑प्न॒राजा॒वसी᳚दतं॒ तिष्ठ॒द्रथं॒ न धू॒र्षदं᳚ वन॒र्षद᳚म् |{नार्मेधः शकपूतः | मित्रावरुणौ | महासतोबृहती} ता नः॑ कणूक॒यन्ती᳚र्नृ॒मेध॑स्तत्रे॒, अंह॑सः सु॒मेध॑स्तत्रे॒, अंह॑सः ||{7/7}{8.7.20.7}{10.132.7}{10.11.4.7}{996, 969, 10267} यु॒वम्¦हि¦अ॒प्न॒ऽराजौ᳚¦असी᳚दतम्¦तिष्ठ॑त्¦रथ᳚म्¦न¦धूः॒ऽसद᳚म्¦व॒न॒ऽसद᳚म् | |
[88] प्रोष्विति सप्तर्चस्य सूक्तस्य सुदाः पैजवनइंद्रः शक्वरीचतुर्थ्यादितिस्रो महापंक्तयोत्यात्रिष्टुप् | |
प्रो ष्व॑स्मै पुरोर॒थमिन्द्रा᳚य शू॒षम॑र्चत |{सुदाः पैजवनः | इन्द्रः | शक्वरी} अ॒भीके᳚ चिदु लोक॒कृत्सं॒गे स॒मत्सु॑ वृत्र॒हास्माकं᳚ बोधि चोदि॒ता नभ᳚न्तामन्य॒केषां᳚ ज्या॒का, अधि॒ धन्व॑सु ||{1/7}{8.7.21.1}{10.133.1}{10.11.5.1}{997, 970, 10268} प्रो इति॑¦सु¦अ॒स्मै॒¦पु॒रः॒ऽर॒थम्¦इन्द्रा᳚य¦शू॒षम्¦अ॒र्च॒त॒ | |
त्वं सिन्धूँ॒रवा᳚सृजोऽध॒राचो॒, अह॒न्नहि᳚म् |{सुदाः पैजवनः | इन्द्रः | शक्वरी} अ॒श॒त्रुरि᳚न्द्र जज्ञिषे॒ विश्वं᳚ पुष्यसि॒ वार्यं॒ तं त्वा॒ परि॑ ष्वजामहे॒ नभ᳚न्तामन्य॒केषां᳚ ज्या॒का, अधि॒ धन्व॑सु ||{2/7}{8.7.21.2}{10.133.2}{10.11.5.2}{998, 970, 10269} त्वम्¦सिन्धू᳚न्¦अव॑¦अ॒सृ॒जः॒¦अ॒ध॒राचः॑¦अह॑न्¦अहि᳚म् | |
वि षु विश्वा॒, अरा᳚तयो॒ऽर्यो न॑शन्त नो॒ धियः॑ |{सुदाः पैजवनः | इन्द्रः | शक्वरी} अस्ता᳚सि॒ शत्र॑वे व॒धं यो न॑ इन्द्र॒ जिघां᳚सति॒ या ते᳚ रा॒तिर्द॒दिर्वसु॒ नभ᳚न्तामन्य॒केषां᳚ ज्या॒का, अधि॒ धन्व॑सु ||{3/7}{8.7.21.3}{10.133.3}{10.11.5.3}{999, 970, 10270} वि¦सु¦विश्वा᳚¦अरा᳚तयः¦अ॒र्यः¦न॒श॒न्त॒¦नः॒¦धियः॑ | |
यो न॑ इन्द्रा॒भितो॒ जनो᳚ वृका॒युरा॒दिदे᳚शति |{सुदाः पैजवनः | इन्द्रः | महापङ्क्तिः} अ॒ध॒स्प॒दं तमीं᳚ कृधि विबा॒धो, अ॑सि सास॒हिर्नभ᳚न्तामन्य॒केषां᳚ ज्या॒का, अधि॒ धन्व॑सु ||{4/7}{8.7.21.4}{10.133.4}{10.11.5.4}{1000, 970, 10271} यः¦नः॒¦इ॒न्द्र॒¦अ॒भितः॑¦जनः॑¦वृ॒क॒ऽयुः¦आ॒ऽदिदे᳚शति | |
यो न॑ इन्द्राभि॒दास॑ति॒ सना᳚भि॒र्यश्च॒ निष्ट्यः॑ |{सुदाः पैजवनः | इन्द्रः | महापङ्क्तिः} अव॒ तस्य॒ बलं᳚ तिर म॒हीव॒ द्यौरध॒ त्मना॒ नभ᳚न्तामन्य॒केषां᳚ ज्या॒का, अधि॒ धन्व॑सु ||{5/7}{8.7.21.5}{10.133.5}{10.11.5.5}{1001, 970, 10272} यः¦नः॒¦इ॒न्द्र॒¦अ॒भि॒ऽदास॑ति¦सऽना᳚भिः¦यः¦च॒¦निष्ट्यः॑ | |
व॒यमि᳚न्द्र त्वा॒यवः॑ सखि॒त्वमा र॑भामहे |{सुदाः पैजवनः | इन्द्रः | महापङ्क्तिः} ऋ॒तस्य॑ नः प॒था न॒याति॒ विश्वा᳚नि दुरि॒ता नभ᳚न्तामन्य॒केषां᳚ ज्या॒का, अधि॒ धन्व॑सु ||{6/7}{8.7.21.6}{10.133.6}{10.11.5.6}{1002, 970, 10273} व॒यम्¦इ॒न्द्र॒¦त्वा॒ऽयवः॑¦स॒खि॒ऽत्वम्¦आ¦र॒भा॒म॒हे॒ | |
अ॒स्मभ्यं॒ सु त्वमि᳚न्द्र॒ तां शि॑क्ष॒ या दोह॑ते॒ प्रति॒ वरं᳚ जरि॒त्रे |{सुदाः पैजवनः | इन्द्रः | त्रिष्टुप्} अच्छि॑द्रोध्नी पी॒पय॒द्यथा᳚ नः स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ||{7/7}{8.7.21.7}{10.133.7}{10.11.5.7}{1003, 970, 10274} अ॒स्मभ्य᳚म्¦सु¦त्वम्¦इ॒न्द्र॒¦ताम्¦शि॒क्ष॒¦या¦दोह॑ते¦प्रति॑¦वर᳚म्¦ज॒रि॒त्रे | |
[89] उभेयदिति सप्तर्चस्य सूक्तस्य यौवनाश्वोमांधातेंद्रः अंत्यानां तिसृणामर्धर्चागोधेंद्रो महापंक्तिरंत्यापंक्तिः | |
उ॒भे यदि᳚न्द्र॒ रोद॑सी, आप॒प्राथो॒षा, इ॑व |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः} म॒हान्तं᳚ त्वा म॒हीनां᳚ स॒म्राजं᳚ चर्षणी॒नां दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ||{1/7}{8.7.22.1}{10.134.1}{10.11.6.1}{1004, 971, 10275} उ॒भे इति॑¦यत्¦इ॒न्द्र॒¦रोद॑सी॒ इति॑¦आ॒ऽप॒प्राथ॑¦उ॒षाःऽइ᳚व | |
अव॑ स्म दुर्हणाय॒तो मर्त॑स्य तनुहि स्थि॒रम् |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः} अ॒ध॒स्प॒दं तमीं᳚ कृधि॒ यो, अ॒स्माँ, आ॒दिदे᳚शति दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ||{2/7}{8.7.22.2}{10.134.2}{10.11.6.2}{1005, 971, 10276} अव॑¦स्म॒¦दुः॒ऽह॒ना॒य॒तः¦मर्त॑स्य¦त॒नु॒हि॒¦स्थि॒रम् | |
अव॒ त्या बृ॑ह॒तीरिषो᳚ वि॒श्वश्च᳚न्द्रा, अमित्रहन् |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः} शची᳚भिः शक्र धूनु॒हीन्द्र॒ विश्वा᳚भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ||{3/7}{8.7.22.3}{10.134.3}{10.11.6.3}{1006, 971, 10277} अव॑¦त्याः¦बृ॒ह॒तीः¦इषः॑¦वि॒श्वऽच᳚न्द्राः¦अ॒मि॒त्र॒ऽह॒न् | |
अव॒ यत् त्वं श॑तक्रत॒विन्द्र॒ विश्वा᳚नि धूनु॒षे |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः} र॒यिं न सु᳚न्व॒ते सचा᳚ सह॒स्रिणी᳚भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ||{4/7}{8.7.22.4}{10.134.4}{10.11.6.4}{1007, 971, 10278} अव॑¦यत्¦त्वम्¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो¦इन्द्र॑¦विश्वा᳚नि¦धू॒नु॒षे | |
अव॒ स्वेदा᳚, इवा॒भितो॒ विष्व॑क्पतन्तु दि॒द्यवः॑ |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः} दूर्वा᳚या, इव॒ तन्त॑वो॒ व्य१॑(अ॒)स्मदे᳚तु दुर्म॒तिर्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ||{5/7}{8.7.22.5}{10.134.5}{10.11.6.5}{1008, 971, 10279} अव॑¦स्वेदाः᳚ऽइव¦अ॒भितः॑¦विष्व॑क्¦प॒त॒न्तु॒¦दि॒द्यवः॑ | |
दी॒र्घं ह्य᳚ङ्कु॒शं य॑था॒ शक्तिं॒ बिभ॑र्षि मन्तुमः |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः} पूर्वे᳚ण मघवन् प॒दाजो व॒यां यथा᳚ यमो दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ||{6/7}{8.7.22.6}{10.134.6}{10.11.6.6}{1009, 971, 10280} दी॒र्घम्¦हि¦अ॒ङ्कु॒शम्¦य॒था॒¦शक्ति᳚म्¦बिभ॑र्षि¦म॒न्तु॒ऽमः॒ | |
नकि॑र्देवा मिनीमसि॒ नकि॒रा यो᳚पयामसि मन्त्र॒श्रुत्यं᳚ चरामसि |{गोधा, यौवनाश्वोमांधातेंद्रः | इन्द्रः | पङ्क्तिः} प॒क्षेभि॑रपिक॒क्षेभि॒रत्रा॒भि सं र॑भामहे ||{7/7}{8.7.22.7}{10.134.7}{10.11.6.7}{1010, 971, 10281} नकिः॑¦दे॒वाः॒¦मि॒नी॒म॒सि॒¦नकिः॑¦आ¦यो॒प॒या॒म॒सि॒¦म॒न्त्र॒ऽश्रुत्य᳚म्¦च॒रा॒म॒सि॒ | |
[90] यस्मिन्निति सप्तर्चस्य सूक्तस्य यामायनः कुमारोयमोनुष्टुप् | |
यस्मि᳚न् वृ॒क्षे सु॑पला॒शे दे॒वैः स॒म्पिब॑ते य॒मः |{यामायनः कुमारः | यमः | अनुष्टुप्} अत्रा᳚ नो वि॒श्पतिः॑ पि॒ता पु॑रा॒णाँ, अनु॑ वेनति ||{1/7}{8.7.23.1}{10.135.1}{10.11.7.1}{1011, 972, 10282} यस्मि॑न्¦वृ॒क्षे¦सु॒ऽप॒ला॒शे¦दे॒वैः¦स॒म्ऽपिब॑ते¦य॒मः | अत्र॑¦नः॒¦वि॒श्पतिः॑¦पि॒ता¦पु॒रा॒णान्¦अनु॑¦वे॒न॒ति॒ || |
पु॒रा॒णाँ, अ॑नु॒वेन᳚न्तं॒ चर᳚न्तं पा॒पया᳚मु॒या |{यामायनः कुमारः | यमः | अनुष्टुप्} अ॒सू॒यन्न॒भ्य॑चाकशं॒ तस्मा᳚, अस्पृहयं॒ पुनः॑ ||{2/7}{8.7.23.2}{10.135.2}{10.11.7.2}{1012, 972, 10283} पु॒रा॒णा᳚न्¦अ॒नु॒ऽवेन᳚न्तम्¦चर᳚न्तम्¦पा॒पया᳚¦अ॒मु॒या | अ॒सू॒यन्¦अ॒भि¦अ॒चा॒क॒श॒म्¦तस्मै᳚¦अ॒स्पृ॒ह॒य॒म्¦पुन॒रिति॑ || |
यं कु॑मार॒ नवं॒ रथ॑मच॒क्रं मन॒साकृ॑णोः |{यामायनः कुमारः | यमः | अनुष्टुप्} एके᳚षं वि॒श्वतः॒ प्राञ्च॒मप॑श्य॒न्नधि॑ तिष्ठसि ||{3/7}{8.7.23.3}{10.135.3}{10.11.7.3}{1013, 972, 10284} यम्¦कु॒मा॒र॒¦नव᳚म्¦रथ᳚म्¦अ॒च॒क्रम्¦मन॑सा¦अकृ॑णोः | एक॑ऽईषम्¦वि॒श्वतः॑¦प्रांच᳚म्¦अप॑श्यन्¦अधि॑¦ति॒ष्ठ॒सि॒ || |
यं कु॑मार॒ प्राव॑र्तयो॒ रथं॒ विप्रे᳚भ्य॒स्परि॑ |{यामायनः कुमारः | यमः | अनुष्टुप्} तं सामानु॒ प्राव॑र्तत॒ समि॒तो ना॒व्याहि॑तम् ||{4/7}{8.7.23.4}{10.135.4}{10.11.7.4}{1014, 972, 10285} यम्¦कु॒मा॒र॒¦प्र¦अव॑र्तयः¦रथ᳚म्¦विप्रे᳚भ्यः¦परि॑ | तम्¦साम॑¦अनु॑¦प्र¦अ॒व॒र्त॒त॒¦सम्¦इ॒तः¦ना॒वि¦आऽहि॑तम् || |
कः कु॑मा॒रम॑जनय॒द्रथं॒ को निर॑वर्तयत् |{यामायनः कुमारः | यमः | अनुष्टुप्} कः स्वि॒त्तद॒द्य नो᳚ ब्रूयादनु॒देयी॒ यथाभ॑वत् ||{5/7}{8.7.23.5}{10.135.5}{10.11.7.5}{1015, 972, 10286} कः¦कु॒मा॒रम्¦अ॒ज॒न॒य॒त्¦रथ᳚म्¦कः¦निः¦अ॒व॒र्त॒य॒त् | कः¦स्वि॒त्¦तत्¦अ॒द्य¦नः॒¦ब्रू॒या॒त्¦अ॒नु॒ऽदेयी᳚¦यथा᳚¦अभ॑वत् || |
यथाभ॑वदनु॒देयी॒ ततो॒, अग्र॑मजायत |{यामायनः कुमारः | यमः | अनुष्टुप्} पु॒रस्ता᳚द्बु॒ध्न आत॑तः प॒श्चान्नि॒रय॑णं कृ॒तम् ||{6/7}{8.7.23.6}{10.135.6}{10.11.7.6}{1016, 972, 10287} यथा᳚¦अभ॑वत्¦अ॒नु॒ऽदेयी᳚¦ततः॑¦अग्र᳚म्¦अ॒जा॒य॒त॒ | पु॒रस्ता᳚त्¦बु॒ध्नः¦आऽत॑तः¦प॒श्चात्¦निः॒।आय॑नम्¦कृ॒तम् || |
इ॒दं य॒मस्य॒ साद॑नं देवमा॒नं यदु॒च्यते᳚ |{यामायनः कुमारः | यमः | अनुष्टुप्} इ॒यम॑स्य धम्यते ना॒ळीर॒यं गी॒र्भिः परि॑ष्कृतः ||{7/7}{8.7.23.7}{10.135.7}{10.11.7.7}{1017, 972, 10288} इ॒दम्¦य॒मस्य॑¦सद॑नम्¦दे॒व॒ऽमा॒नम्¦यत्¦उ॒च्यते᳚ | इ॒यम्¦अ॒स्य॒¦ध॒म्य॒ते॒¦ना॒ळीः¦अ॒यम्¦गीः॒ऽभिः¦परि॑ऽकृतः || |
[91] केशीति सप्तर्चस्य सूक्तस्य वातरशना जूतिर्वातजूतिर्विप्र जूतिर्वृषाणकः करिक्रत एतशऋष्यशृंग इति क्रमेणैकर्चाऋषयः | केश्यग्निसूर्यवायवोदेवताअनुष्टुप् | |
के॒श्य१॑(अ॒)ग्निं के॒शी वि॒षं के॒शी बि॑भर्ति॒ रोद॑सी |{जूतिः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्} के॒शी विश्वं॒ स्व॑र्दृ॒शे के॒शीदं ज्योति॑रुच्यते ||{1/7}{8.7.24.1}{10.136.1}{10.11.8.1}{1018, 973, 10289} के॒शी¦अ॒ग्निम्¦के॒शी¦वि॒षम्¦के॒शी¦बि॒भ॒र्ति॒¦रोद॑सी॒ इति॑ | के॒शी¦विश्व᳚म्¦स्वः॑¦दृ॒शे¦के॒शी¦इ॒दम्¦ज्योतिः॑¦उ॒च्य॒ते॒ || |
मुन॑यो॒ वात॑रशनाः पि॒शङ्गा᳚ वसते॒ मला᳚ |{वातजूतिः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्} वात॒स्यानु॒ ध्राजिं᳚ यन्ति॒ यद्दे॒वासो॒, अवि॑क्षत ||{2/7}{8.7.24.2}{10.136.2}{10.11.8.2}{1019, 973, 10290} मुन॑यः¦वात॑ऽरशनाः¦पि॒शङ्गाः᳚¦व॒स॒ते॒¦मला᳚ | वात॑स्य¦अनु॑¦ध्राजि᳚म्¦यन्ति॑¦यत्¦दे॒वासः॑¦अवि॑क्षत || |
उन्म॑दिता॒ मौने᳚येन॒ वाताँ॒, आ त॑स्थिमा व॒यम् |{विप्र जूतिः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्} शरी॒रेद॒स्माकं᳚ यू॒यं मर्ता᳚सो, अ॒भि प॑श्यथ ||{3/7}{8.7.24.3}{10.136.3}{10.11.8.3}{1020, 973, 10291} उत्ऽम॑दिताः¦मौने᳚येन¦वाता᳚न्¦आ¦त॒स्थि॒म॒¦व॒यम् | शरी᳚रा¦इत्¦अ॒स्माक᳚म्¦यू॒यम्¦मर्ता᳚सः¦अ॒भि¦प॒श्य॒थ॒ || |
अ॒न्तरि॑क्षेण पतति॒ विश्वा᳚ रू॒पाव॒चाक॑शत् |{ऋषाणकः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्} मुनि॑र्दे॒वस्य॑देवस्य॒ सौकृ॑त्याय॒ सखा᳚ हि॒तः ||{4/7}{8.7.24.4}{10.136.4}{10.11.8.4}{1021, 973, 10292} अ॒न्तरि॑क्षेण¦प॒त॒ति॒¦विश्वा᳚¦रू॒पा¦अ॒व॒ऽचाक॑शत् | मुनिः॑¦दे॒वस्य॑ऽदेवस्य¦सौकृ॑त्याय¦सखा᳚¦हि॒तः || |
वात॒स्याश्वो᳚ वा॒योः सखाथो᳚ दे॒वेषि॑तो॒ मुनिः॑ |{करिक्रतः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्} उ॒भौ स॑मु॒द्रावा क्षे᳚ति॒ यश्च॒ पूर्व॑ उ॒ताप॑रः ||{5/7}{8.7.24.5}{10.136.5}{10.11.8.5}{1022, 973, 10293} वात॑स्य¦अश्वः॑¦वा॒योः¦सखा᳚¦अथो॒ इति॑¦दे॒वऽइ᳚षितः¦मुनिः॑ | उ॒भौ¦स॒मु॒द्रौ¦आ¦क्षे॒ति॒¦यः¦च॒¦पूर्वः॑¦उ॒त¦अप॑रः || |
अ॒प्स॒रसां᳚ गन्ध॒र्वाणां᳚ मृ॒गाणां॒ चर॑णे॒ चर॑न् |{एतशः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्} के॒शी केत॑स्य वि॒द्वान् त्सखा᳚ स्वा॒दुर्म॒दिन्त॑मः ||{6/7}{8.7.24.6}{10.136.6}{10.11.8.6}{1023, 973, 10294} अ॒प्स॒रसा᳚म्¦ग॒न्ध॒र्वाणा᳚म्¦मृ॒गाणा᳚म्¦चर॑णे¦चर॑न् | के॒शी¦केत॑स्य¦वि॒द्वान्¦सखा᳚¦स्वा॒दुः¦म॒दिन्ऽत॑मः || |
वा॒युर॑स्मा॒, उपा᳚मन्थत्पि॒नष्टि॑ स्मा कुनन्न॒मा |{ऋष्यशृंगः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्} के॒शी वि॒षस्य॒ पात्रे᳚ण॒ यद्रु॒द्रेणापि॑बत्स॒ह ||{7/7}{8.7.24.7}{10.136.7}{10.11.8.7}{1024, 973, 10295} वा॒युर्¦अ॒स्मै॒¦उप॑¦अ॒म॒न्थ॒त्¦पि॒नष्टि॑¦स्म॒¦कु॒न॒न्न॒मा | के॒शी¦वि॒षस्य॑¦पात्रे᳚ण¦यत्¦रु॒द्रेण॑¦अपि॑बत्¦स॒ह || |
[92] उतेति सप्तर्चस्य सूक्तस्य भरद्वाजः कश्यपोगौतमोत्रिर्विश्वामित्रोजमदग्निर्वसिष्ठ इतिक्रमेणैकर्चाऋषयो विश्वेदेवा अनुष्टुप् (भेदपक्षे-देवाः १ वातः ३ विश्वेदेवाः १ आपः २ एवं ७) | |
उ॒त दे᳚वा॒, अव॑हितं॒ देवा॒, उन्न॑यथा॒ पुनः॑ |{भरद्वाजः | विश्वदेवाः | अनुष्टुप्} उ॒ताग॑श्च॒क्रुषं᳚ देवा॒ देवा᳚ जी॒वय॑था॒ पुनः॑ ||{1/7}{8.7.25.1}{10.137.1}{10.11.9.1}{1025, 974, 10296} उ॒त¦दे॒वाः॒¦अव॑ऽहितम्¦देवाः᳚¦उत्¦न॒य॒थ॒¦पुन॒रिति॑ | उ॒त¦आगः॑¦च॒क्रुष᳚म्¦दे॒वः॒¦देवाः᳚¦जी॒वय॑थ¦पुन॒रिति॑ || |
द्वावि॒मौ वातौ᳚ वात॒ आ सिन्धो॒रा प॑रा॒वतः॑ |{कश्यपः | विश्वदेवाः | अनुष्टुप्} दक्षं᳚ ते, अ॒न्य आ वा᳚तु॒ परा॒न्यो वा᳚तु॒ यद्रपः॑ ||{2/7}{8.7.25.2}{10.137.2}{10.11.9.2}{1026, 974, 10297} द्वौ¦इ॒मौ¦वातौ᳚¦वा॒तः॒¦आ¦सिन्धोः᳚¦आ¦प॒रा॒ऽवतः॑ | दक्ष᳚म्¦ते॒¦अ॒न्यः¦आ¦वा॒तु॒¦परा᳚¦अ॒न्यः¦वा॒तु॒¦यत्¦रपः॑ || |
आ वा᳚त वाहि भेष॒जं वि वा᳚त वाहि॒ यद्रपः॑ |{गोतमः | विश्वदेवाः | अनुष्टुप्} त्वं हि वि॒श्वभे᳚षजो दे॒वानां᳚ दू॒त ईय॑से ||{3/7}{8.7.25.3}{10.137.3}{10.11.9.3}{1027, 974, 10298} आ¦वा॒त॒¦वा॒हि॒¦भे॒ष॒जम्¦वि¦वा॒त॒¦वा॒हि॒¦यत्¦रपः॑ | त्वम्¦हि¦वि॒श्वऽभे᳚षजः¦दे॒वाना᳚म्¦दू॒तः¦ईय॑से || |
आ त्वा᳚गमं॒ शंता᳚तिभि॒रथो᳚, अरि॒ष्टता᳚तिभिः |{अत्रिः | विश्वदेवाः | अनुष्टुप्} दक्षं᳚ ते भ॒द्रमाभा᳚र्षं॒ परा॒ यक्ष्मं᳚ सुवामि ते ||{4/7}{8.7.25.4}{10.137.4}{10.11.9.4}{1028, 974, 10299} आ¦त्वा॒¦अ॒ग॒म॒म्¦शन्ता᳚तिऽभिः¦अथो॒ इति॑¦अ॒रि॒ष्टता᳚तिऽभिः | दक्ष᳚म्¦ते॒¦भ॒द्रम्¦आ¦अ॒भा॒र्ष॒म्¦परा᳚¦यक्ष्म᳚म्¦सु॒वा॒मि॒¦ते || |
त्राय᳚न्तामि॒ह दे॒वास्त्राय॑तां म॒रुतां᳚ ग॒णः |{विश्वामित्रः | विश्वदेवाः | अनुष्टुप्} त्राय᳚न्तां॒ विश्वा᳚ भू॒तानि॒ यथा॒यम॑र॒पा, अस॑त् ||{5/7}{8.7.25.5}{10.137.5}{10.11.9.5}{1029, 974, 10300} त्राय᳚न्ताम्¦इ॒ह¦दे॒वाः¦त्राय॑ताम्¦म॒रुता᳚म्¦ग॒णः | त्राय᳚न्ताम्¦विश्वा᳚¦भू॒तानि॑¦यथा᳚¦अ॒यम्¦अ॒र॒पाः¦अस॑त् || |
आप॒ इद्वा, उ॑ भेष॒जीरापो᳚, अमीव॒चात॑नीः |{जमदग्निः | विश्वदेवाः | अनुष्टुप्} आपः॒ सर्व॑स्य भेष॒जीस्तास्ते᳚ कृण्वन्तु भेष॒जम् ||{6/7}{8.7.25.6}{10.137.6}{10.11.9.6}{1030, 974, 10301} आपः॑¦इत्¦वा॒¦ऊँ॒ इति॑¦भे॒ष॒जीः¦आपः॑¦अ॒मी॒व॒ऽचात॑नीः | आपः॑¦सर्व॑स्य¦भे॒ष॒जीः¦ताः¦ते॒¦कृ॒ण्व॒न्तु॒¦भे॒ष॒जम् || |
हस्ता᳚भ्यां॒ दश॑शाखाभ्यां जि॒ह्वा वा॒चः पु॑रोग॒वी |{वसिष्ठः | विश्वदेवाः | अनुष्टुप्} अ॒ना॒म॒यि॒त्नुभ्यां᳚ त्वा॒ ताभ्यां॒ त्वोप॑ स्पृशामसि ||{7/7}{8.7.25.7}{10.137.7}{10.11.9.7}{1031, 974, 10302} हस्ता᳚भ्याम्¦दश॑ऽशाखाभ्याम्¦जि॒ह्वा¦वा॒चः¦पु॒रः॒ऽग॒वी | अ॒ना॒म॒यि॒त्नुऽभ्या᳚म्¦त्वा॒¦ताभ्या᳚म्¦त्वा॒¦उप॑¦स्पृ॒शा॒म॒सि॒ || |
[93] तवत्यइति षडृचस्य सूक्तस्यौरवोंग इंद्रोजगती | |
तव॒ त्य इ᳚न्द्र स॒ख्येषु॒ वह्न॑य ऋ॒तं म᳚न्वा॒ना व्य॑दर्दिरुर्व॒लम् |{औरवोंगः | इन्द्रः | जगती} यत्रा᳚ दश॒स्यन्नु॒षसो᳚ रि॒णन्न॒पः कुत्सा᳚य॒ मन्म᳚न्न॒ह्य॑श्च दं॒सयः॑ ||{1/6}{8.7.26.1}{10.138.1}{10.11.10.1}{1032, 975, 10303} तव॑¦त्ये¦इ॒न्द्र॒¦स॒ख्येषु॑¦वह्न॑यः¦ऋ॒तम्¦म॒न्वा॒नाः¦वि¦अ॒द॒र्दि॒रुः॒¦व॒लम् | |
अवा᳚सृजः प्र॒स्वः॑ श्व॒ञ्चयो᳚ गि॒रीनुदा᳚ज उ॒स्रा, अपि॑बो॒ मधु॑ प्रि॒यम् |{औरवोंगः | इन्द्रः | जगती} अव॑र्धयो व॒निनो᳚, अस्य॒ दंस॑सा शु॒शोच॒ सूर्य॑ ऋ॒तजा᳚तया गि॒रा ||{2/6}{8.7.26.2}{10.138.2}{10.11.10.2}{1033, 975, 10304} अव॑¦अ॒सृ॒जः॒¦प्र॒ऽस्वः॑¦श्वं॒चयः॑¦गि॒रीन्¦उत्¦आ॒जः॒¦उ॒स्राः¦अपि॑बः¦मधु॑¦प्रि॒यम् | |
वि सूर्यो॒ मध्ये᳚, अमुच॒द्रथं᳚ दि॒वो वि॒दद्दा॒साय॑ प्रति॒मान॒मार्यः॑ |{औरवोंगः | इन्द्रः | जगती} दृ॒ळ्हानि॒ पिप्रो॒रसु॑रस्य मा॒यिन॒ इन्द्रो॒ व्या᳚स्यच्चकृ॒वाँ, ऋ॒जिश्व॑ना ||{3/6}{8.7.26.3}{10.138.3}{10.11.10.3}{1034, 975, 10305} वि¦सूर्यः॑¦मध्ये᳚¦अ॒मु॒च॒त्¦रथ᳚म्¦दि॒वः¦वि॒दत्¦दा॒साय॑¦प्र॒ति॒ऽमान᳚म्¦आर्यः॑ | |
अना᳚धृष्टानि धृषि॒तो व्या᳚स्यन्नि॒धीँरदे᳚वाँ, अमृणद॒यास्यः॑ |{औरवोंगः | इन्द्रः | जगती} मा॒सेव॒ सूर्यो॒ वसु॒ पुर्य॒मा द॑दे गृणा॒नः शत्रूँ᳚रशृणाद्वि॒रुक्म॑ता ||{4/6}{8.7.26.4}{10.138.4}{10.11.10.4}{1035, 975, 10306} अना᳚धृष्टानि¦धृ॒षि॒तः¦वि¦आ॒स्य॒त्¦नि॒ऽधीन्¦अदे᳚वान्¦अ॒मृ॒ण॒त्¦अ॒यास्यः॑ | |
अयु॑द्धसेनो वि॒भ्वा᳚ विभिन्द॒ता दाश॑द्वृत्र॒हा तुज्या᳚नि तेजते |{औरवोंगः | इन्द्रः | जगती} इन्द्र॑स्य॒ वज्रा᳚दबिभेदभि॒श्नथः॒ प्राक्रा᳚मच्छु॒न्ध्यूरज॑हादु॒षा, अनः॑ ||{5/6}{8.7.26.5}{10.138.5}{10.11.10.5}{1036, 975, 10307} अयु॑द्धऽसेनः¦वि॒ऽभ्वा᳚¦वि॒ऽभि॒न्द॒ता¦दाश॑त्¦वृ॒त्र॒ऽहा¦तुज्या᳚नि¦ते॒ज॒ते॒ | |
ए॒ता त्या ते॒ श्रुत्या᳚नि॒ केव॑ला॒ यदेक॒ एक॒मकृ॑णोरय॒ज्ञम् |{औरवोंगः | इन्द्रः | जगती} मा॒सां वि॒धान॑मदधा॒, अधि॒ द्यवि॒ त्वया॒ विभि᳚न्नं भरति प्र॒धिं पि॒ता ||{6/6}{8.7.26.6}{10.138.6}{10.11.10.6}{1037, 975, 10308} ए॒ता¦त्या¦ते॒¦श्रुत्या᳚नि¦केव॑ला¦यत्¦एकः॑¦एक᳚म्¦अकृ॑णोः¦अ॒य॒ज्ञम् | |
[94] सूर्यरश्मिरिति षडृचस्य सूक्तस्य देवगंधर्वोविश्वावसुः सवितांत्यतिसृणां देवगंधर्वोविश्वावसुस्त्रिष्टुप् | |
सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता᳚त्सवि॒ता ज्योति॒रुद॑याँ॒, अज॑स्रम् |{देवगंधर्वोविश्वावसुः | सविता | त्रिष्टुप्} तस्य॑ पू॒षा प्र॑स॒वे या᳚ति वि॒द्वान् त्स॒म्पश्य॒न् विश्वा॒ भुव॑नानि गो॒पाः ||{1/6}{8.7.27.1}{10.139.1}{10.11.11.1}{1038, 976, 10309} सूर्य॑ऽरश्मिः¦हरि॑ऽकेशः¦पु॒रस्ता᳚त्¦स॒वि॒ता¦ज्योतिः॑¦उत्¦अ॒या॒न्¦अज॑स्रम् | |
नृ॒चक्षा᳚, ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान् रोद॑सी, अ॒न्तरि॑क्षम् |{देवगंधर्वोविश्वावसुः | सविता | त्रिष्टुप्} स वि॒श्वाची᳚र॒भि च॑ष्टे घृ॒ताची᳚रन्त॒रा पूर्व॒मप॑रं च के॒तुम् ||{2/6}{8.7.27.2}{10.139.2}{10.11.11.2}{1039, 976, 10310} नृ॒ऽचक्षाः᳚¦ए॒षः¦दि॒वः¦मध्ये᳚¦आ॒स्ते॒¦आ॒प॒प्रि॒ऽवान्¦रोद॑सी॒ इति॑¦अ॒न्तरि॑क्षम् | |
रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू᳚नां॒ विश्वा᳚ रू॒पाभि च॑ष्टे॒ शची᳚भिः |{देवगंधर्वोविश्वावसुः | सविता | त्रिष्टुप्} दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे धना᳚नाम् ||{3/6}{8.7.27.3}{10.139.3}{10.11.11.3}{1040, 976, 10311} रा॒यः¦बु॒ध्नः¦स॒म्ऽगम॑नः¦वसू᳚नाम्¦विश्वा᳚¦रू॒पा¦अ॒भि¦च॒ष्टे॒¦शची᳚भिः | |
वि॒श्वाव॑सुं सोम गन्ध॒र्वमापो᳚ ददृ॒शुषी॒स्तदृ॒तेना॒ व्या᳚यन् |{देवगंधर्वोविश्वावसुः | देवगंधर्वोविश्वावसुः | त्रिष्टुप्} तद॒न्ववै॒दिन्द्रो᳚ रारहा॒ण आ᳚सां॒ परि॒ सूर्य॑स्य परि॒धीँर॑पश्यत् ||{4/6}{8.7.27.4}{10.139.4}{10.11.11.4}{1041, 976, 10312} वि॒श्वऽव॑सुम्¦सो॒म॒¦ग॒न्ध॒र्वम्¦आपः॑¦द॒दृ॒शुषीः᳚¦तत्¦ऋ॒तेन॑¦वि¦आ॒य॒न् | |
वि॒श्वाव॑सुर॒भि तन्नो᳚ गृणातु दि॒व्यो ग᳚न्ध॒र्वो रज॑सो वि॒मानः॑ |{देवगंधर्वोविश्वावसुः | देवगंधर्वोविश्वावसुः | त्रिष्टुप्} यद्वा᳚ घा स॒त्यमु॒त यन्न वि॒द्म धियो᳚ हिन्वा॒नो धिय॒ इन्नो᳚, अव्याः ||{5/6}{8.7.27.5}{10.139.5}{10.11.11.5}{1042, 976, 10313} वि॒श्वऽव॑सुः¦अ॒भि¦तत्¦नः॒¦गृ॒णा॒तु॒¦दि॒व्यः¦ग॒न्ध॒र्वः¦रज॑सः¦वि॒ऽमानः॑ | |
सस्नि॑मविन्द॒च्चर॑णे न॒दीना॒मपा᳚वृणो॒द्दुरो॒, अश्म᳚व्रजानाम् |{देवगंधर्वोविश्वावसुः | देवगंधर्वोविश्वावसुः | त्रिष्टुप्} प्रासां᳚ गन्ध॒र्वो, अ॒मृता᳚नि वोच॒दिन्द्रो॒ दक्षं॒ परि॑ जानाद॒हीना᳚म् ||{6/6}{8.7.27.6}{10.139.6}{10.11.11.6}{1043, 976, 10314} सस्नि᳚म्¦अ॒वि॒न्द॒त्¦चर॑णे¦न॒दीना᳚म्¦अप॑¦अ॒वृ॒णो॒त्¦दुरः॑¦अश्म॑ऽव्रजानाम् | |
[95] अग्नेतवेति षडृचस्य सूक्तस्य पावकोग्निरग्निः सतोबृहती आध्येविष्टारपंक्ती अंत्योपरिष्टाज्ज्योतिः | |
अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजन्ते, अ॒र्चयो᳚ विभावसो |{पावकोग्निः | अग्निः | विष्टारपङ्क्तिः} बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्य१॑(अं॒) दधा᳚सि दा॒शुषे᳚ कवे ||{1/6}{8.7.28.1}{10.140.1}{10.11.12.1}{1044, 977, 10315} अग्ने᳚¦तव॑¦श्रवः॑¦वयः॑¦महि॑¦भ्रा॒ज॒न्ते॒¦अ॒र्चयः॑¦वि॒भा॒व॒सो॒ इति॑ विभाऽवसो | |
पा॒व॒कव॑र्चाः शु॒क्रव॑र्चा॒, अनू᳚नवर्चा॒, उदि॑यर्षि भा॒नुना᳚ |{पावकोग्निः | अग्निः | विष्टारपङ्क्तिः} पु॒त्रो मा॒तरा᳚ वि॒चर॒न्नुपा᳚वसि पृ॒णक्षि॒ रोद॑सी, उ॒भे ||{2/6}{8.7.28.2}{10.140.2}{10.11.12.2}{1045, 977, 10316} पा॒व॒कऽव॑र्चाः¦शु॒क्रऽव॑र्चाः¦अनू᳚नऽवर्चाः¦उत्¦इ॒य॒र्षि॒¦भा॒नुना᳚ | |
ऊर्जो᳚ नपाज्जातवेदः सुश॒स्तिभि॒र्मन्द॑स्व धी॒तिभि᳚र्हि॒तः |{पावकोग्निः | अग्निः | सतोबृहती} त्वे, इषः॒ सं द॑धु॒र्भूरि॑वर्पसश्चि॒त्रोत॑यो वा॒मजा᳚ताः ||{3/6}{8.7.28.3}{10.140.3}{10.11.12.3}{1046, 977, 10317} ऊर्जः॑¦न॒पा॒त्¦जा॒त॒ऽवे॒दः॒¦सु॒श॒स्तिऽभिः॑¦मन्द॑स्व¦धी॒तिऽभिः॑¦हि॒तः | |
इ॒र॒ज्यन्न॑ग्ने प्रथयस्व ज॒न्तुभि॑र॒स्मे रायो᳚, अमर्त्य |{पावकोग्निः | अग्निः | सतोबृहती} स द॑र्श॒तस्य॒ वपु॑षो॒ वि रा᳚जसि पृ॒णक्षि॑ सान॒सिं क्रतु᳚म् ||{4/6}{8.7.28.4}{10.140.4}{10.11.12.4}{1047, 977, 10318} इ॒र॒ज्यन्¦अ॒ग्ने॒¦प्र॒थ॒य॒स्व॒¦ज॒न्तुऽभिः॑¦अ॒स्मे इति॑¦रायः॑¦अ॒म॒र्त्य॒ | |
इ॒ष्क॒र्तार॑मध्व॒रस्य॒ प्रचे᳚तसं॒ क्षय᳚न्तं॒ राध॑सो म॒हः |{पावकोग्निः | अग्निः | सतोबृहती} रा॒तिं वा॒मस्य॑ सु॒भगां᳚ म॒हीमिषं॒ दधा᳚सि सान॒सिं र॒यिम् ||{5/6}{8.7.28.5}{10.140.5}{10.11.12.5}{1048, 977, 10319} इ॒ष्क॒र्तार᳚म्¦अ॒ध्व॒रस्य॑¦प्रऽचे᳚तसम्¦क्षय᳚न्तम्¦राध॑सः¦म॒हः | |
ऋ॒तावा᳚नं महि॒षं वि॒श्वद॑र्शतम॒ग्निं सु॒म्नाय॑ दधिरे पु॒रो जनाः᳚ |{पावकोग्निः | अग्निः | परिष्टाज्ज्योतिः} श्रुत्क᳚र्णं स॒प्रथ॑स्तमं त्वा गि॒रा दैव्यं॒ मानु॑षा यु॒गा ||{6/6}{8.7.28.6}{10.140.6}{10.11.12.6}{1049, 977, 10320} ऋ॒तऽवा᳚नम्¦म॒हि॒षम्¦वि॒श्वऽद॑र्शतम्¦अ॒ग्निम्¦सु॒म्नाय॑¦द॒धि॒रे॒¦पु॒रः¦जनाः᳚ | |
[96] अग्नेअच्छेति षडृचस्य सूक्तस्य तापसोग्निर्विश्वेदेवा अनुष्टुप् | |
अग्ने॒, अच्छा᳚ वदे॒ह नः॑ प्र॒त्यङ्नः॑ सु॒मना᳚ भव |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्} प्र नो᳚ यच्छ विशस्पते धन॒दा, अ॑सि न॒स्त्वम् ||{1/6}{8.7.29.1}{10.141.1}{10.11.13.1}{1050, 978, 10321} अग्ने᳚¦अच्छ॑¦व॒द॒¦इ॒ह¦नः॒¦प्र॒त्यङ्¦नः॒¦सु॒ऽमनाः᳚¦भ॒व॒ | प्र¦नः॒¦य॒च्छ॒¦वि॒शः॒¦प॒ते॒¦ध॒न॒ऽदाः¦अ॒सि॒¦नः॒¦त्वम् || |
प्र नो᳚ यच्छत्वर्य॒मा प्र भगः॒ प्र बृह॒स्पतिः॑ |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्} प्र दे॒वाः प्रोत सू॒नृता᳚ रा॒यो दे॒वी द॑दातु नः ||{2/6}{8.7.29.2}{10.141.2}{10.11.13.2}{1051, 978, 10322} प्र¦नः॒¦य॒च्छ॒तु॒¦अ॒र्य॒मा¦प्र¦भगः॑¦प्र¦बृह॒स्पतिः॑ | प्र¦दे॒वाः¦प्र¦उ॒त¦सू॒नृता᳚¦रा॒यः¦दे॒वी¦द॒दा॒तु॒¦नः॒ || |
सोमं॒ राजा᳚न॒मव॑से॒ऽग्निं गी॒र्भिर्ह॑वामहे |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्} आ॒दि॒त्यान् विष्णुं॒ सूर्यं᳚ ब्र॒ह्माणं᳚ च॒ बृह॒स्पति᳚म् ||{3/6}{8.7.29.3}{10.141.3}{10.11.13.3}{1052, 978, 10323} सोम᳚म्¦राजा᳚नम्¦अव॑से¦अ॒ग्निम्¦गीः॒ऽभिः¦ह॒वा॒म॒हे॒ | आ॒दि॒त्यान्¦विष्णु᳚म्¦सूर्य᳚म्¦ब्र॒ह्माण᳚म्¦च॒¦बृह॒स्पति᳚म् || |
इ॒न्द्र॒वा॒यू बृह॒स्पतिं᳚ सु॒हवे॒ह ह॑वामहे |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्} यथा᳚ नः॒ सर्व॒ इज्जनः॒ संग॑त्यां सु॒मना॒, अस॑त् ||{4/6}{8.7.29.4}{10.141.4}{10.11.13.4}{1053, 978, 10324} इ॒न्द्र॒वा॒यू इति॑¦बृह॒स्पति᳚म्¦सु॒ऽहवा᳚¦इ॒ह¦ह॒वा॒म॒हे॒ | यथा᳚¦नः॒¦सर्वः॑¦इत्¦जनः॑¦सम्ऽग॑त्याम्¦सु॒ऽमनाः᳚¦अस॑त् || |
अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना᳚य चोदय |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्} वातं॒ विष्णुं॒ सर॑स्वतीं सवि॒तारं᳚ च वा॒जिन᳚म् ||{5/6}{8.7.29.5}{10.141.5}{10.11.13.5}{1054, 978, 10325} अ॒र्य॒मण᳚म्¦बृह॒स्पति᳚म्¦इन्द्र᳚म्¦दाना᳚य¦चो॒द॒य॒ | वात᳚म्¦विष्णु᳚म्¦सर॑स्वतीम्¦स॒वि॒तार᳚म्¦च॒¦वा॒जिन᳚म् || |
त्वं नो᳚, अग्ने, अ॒ग्निभि॒र्ब्रह्म॑ य॒ज्ञं च॑ वर्धय |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्} त्वं नो᳚ दे॒वता᳚तये रा॒यो दाना᳚य चोदय ||{6/6}{8.7.29.6}{10.141.6}{10.11.13.6}{1055, 978, 10326} त्वम्¦नः॒¦अ॒ग्ने॒¦अ॒ग्निऽभिः॑¦ब्रह्म॑¦य॒ज्ञम्¦च॒¦व॒र्ध॒य॒ | त्वम्¦नः॒¦दे॒वऽता᳚तये¦रा॒यः¦दाना᳚य¦चो॒द॒य॒ || |
[97] अयमग्नइत्यष्टर्चस्य सूक्तस्य प्रथमयोः शार्ङ्गोजरिता तृतीयाचतुर्थ्योः शार्ङ्गोद्रोणः पंचमीषष्ट्योः शार्ङ्गःसारिसृक्कः सप्तम्यष्टम्योः शार्ङ्गस्तम्बमित्रोग्निस्त्रिष्टुप् आद्येजगत्यावंत्येअनुष्टुभौ | |
अ॒यम॑ग्ने जरि॒ता त्वे, अ॑भू॒दपि॒ सह॑सः सूनो न॒ह्य१॑(अ॒)न्यदस्त्याप्य᳚म् |{शार्ङ्गोजरिताः | अग्निः | जगती} भ॒द्रं हि शर्म॑ त्रि॒वरू᳚थ॒मस्ति॑ त आ॒रे हिंसा᳚ना॒मप॑ दि॒द्युमा कृ॑धि ||{1/8}{8.7.30.1}{10.142.1}{10.11.14.1}{1056, 979, 10327} अ॒यम्¦अ॒ग्ने॒¦ज॒रि॒ता¦त्वे इति॑¦अ॒भू॒त्¦अपि॑¦सह॑सः¦सू॒नो॒ इति॑¦न॒हि¦अ॒न्यत्¦अस्ति॑¦आप्य᳚म् | |
प्र॒वत्ते᳚, अग्ने॒ जनि॑मा पितूय॒तः सा॒चीव॒ विश्वा॒ भुव॑ना॒ न्यृ᳚ञ्जसे |{शार्ङ्गोजरिताः | अग्निः | जगती} प्र सप्त॑यः॒ प्र स॑निषन्त नो॒ धियः॑ पु॒रश्च॑रन्ति पशु॒पा, इ॑व॒ त्मना᳚ ||{2/8}{8.7.30.2}{10.142.2}{10.11.14.2}{1057, 979, 10328} प्र॒ऽवत्¦ते॒¦अ॒ग्ने॒¦जनि॑म¦पि॒तु॒ऽय॒तः¦सा॒चीऽइ᳚व¦विश्वा᳚¦भुव॑ना¦नि¦ऋं॒ज॒से॒ | |
उ॒त वा, उ॒ परि॑ वृणक्षि॒ बप्स॑द्ब॒होर॑ग्न॒ उल॑पस्य स्वधावः |{शार्ङ्गोद्रोणः | अग्निः | त्रिष्टुप्} उ॒त खि॒ल्या, उ॒र्वरा᳚णां भवन्ति॒ मा ते᳚ हे॒तिं तवि॑षीं चुक्रुधाम ||{3/8}{8.7.30.3}{10.142.3}{10.11.14.3}{1058, 979, 10329} उ॒त¦वा॒¦ऊँ॒ इति॑¦परि॑¦वृ॒ण॒क्षि॒¦बप्स॑त्¦ब॒होः¦अ॒ग्ने॒¦उल॑पस्य¦स्व॒धा॒ऽवः॒ | |
यदु॒द्वतो᳚ नि॒वतो॒ यासि॒ बप्स॒त् पृथ॑गेषि प्रग॒र्धिनी᳚व॒ सेना᳚ |{शार्ङ्गोद्रोणः | अग्निः | त्रिष्टुप्} य॒दा ते॒ वातो᳚, अनु॒वाति॑ शो॒चिर्वप्ते᳚व॒ श्मश्रु॑ वपसि॒ प्र भूम॑ ||{4/8}{8.7.30.4}{10.142.4}{10.11.14.4}{1059, 979, 10330} यत्¦उ॒त्ऽवतः॑¦नि॒ऽवतः॑¦या॒सि॒¦बप्स॑त्¦पृथ॑क्¦ए॒षि॒¦प्र॒ग॒र्धिनी᳚ऽइव¦सेना᳚ | |
प्रत्य॑स्य॒ श्रेण॑यो ददृश्र॒ एकं᳚ नि॒यानं᳚ ब॒हवो॒ रथा᳚सः |{शार्ङ्गःसारिसृक्कः | अग्निः | त्रिष्टुप्} बा॒हू यद॑ग्ने, अनु॒मर्मृ॑जानो॒ न्य᳚ङ्ङुत्ता॒नाम॒न्वेषि॒ भूमि᳚म् ||{5/8}{8.7.30.5}{10.142.5}{10.11.14.5}{1060, 979, 10331} प्रति॑¦अ॒स्य॒¦श्रेण॑यः¦द॒दृ॒श्रे॒¦एक᳚म्¦नि॒ऽयान᳚म्¦ब॒हवः॑¦रथा᳚सः | |
उत्ते॒ शुष्मा᳚ जिहता॒मुत्ते᳚, अ॒र्चिरुत्ते᳚, अग्ने शशमा॒नस्य॒ वाजाः᳚ |{शार्ङ्गःसारिसृक्कः | अग्निः | त्रिष्टुप्} उच्छ्व᳚ञ्चस्व॒ नि न॑म॒ वर्ध॑मान॒ आ त्वा॒द्य विश्वे॒ वस॑वः सदन्तु ||{6/8}{8.7.30.6}{10.142.6}{10.11.14.6}{1061, 979, 10332} उत्¦ते॒¦शुष्माः᳚¦जि॒ह॒ता॒म्¦उत्¦ते॒¦अ॒र्चिः¦उत्¦ते॒¦अ॒ग्ने॒¦श॒श॒मा॒नस्य॑¦वाजाः᳚ | |
अ॒पामि॒दं न्यय॑नं समु॒द्रस्य॑ नि॒वेश॑नम् |{शार्ङ्गस्तम्बमित्रः | अग्निः | अनुष्टुप्} अ॒न्यं कृ॑णुष्वे॒तः पन्थां॒ तेन॑ याहि॒ वशाँ॒, अनु॑ ||{7/8}{8.7.30.7}{10.142.7}{10.11.14.7}{1062, 979, 10333} अ॒पाम्¦इ॒दम्¦नि॒।आय॑नम्¦स॒मु॒द्रस्य॑¦नि॒ऽवेश॑नम् | अ॒न्यम्¦कृ॒णु॒ष्व॒¦इ॒तः¦पन्था᳚म्¦तेन॑¦या॒हि॒¦वशा᳚न्¦अनु॑ || |
आय॑ने ते प॒राय॑णे॒ दूर्वा᳚ रोहन्तु पु॒ष्पिणीः᳚ |{शार्ङ्गस्तम्बमित्रः | अग्निः | अनुष्टुप्} ह्र॒दाश्च॑ पु॒ण्डरी᳚काणि समु॒द्रस्य॑ गृ॒हा, इ॒मे ||{8/8}{8.7.30.8}{10.142.8}{10.11.14.8}{1063, 979, 10334} आ॒।आय॑ने¦ते॒¦प॒रा॒।आय॑ने¦दूर्वाः᳚¦रो॒ह॒न्तु॒¦पु॒ष्पिणीः᳚ | ह्र॒दाः¦च॒¦पु॒ण्डरी᳚काणि¦स॒मु॒द्रस्य॑¦गृ॒हाः¦इ॒मे || |
[98] त्यंचिदिति षडृचस्य सूक्तस्य सांख्योत्रिरश्विनावनुष्टुप् | |
त्यं चि॒दत्रि॑मृत॒जुर॒मर्थ॒मश्वं॒ न यात॑वे |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्} क॒क्षीव᳚न्तं॒ यदी॒ पुना॒ रथं॒ न कृ॑णु॒थो नव᳚म् ||{1/6}{8.8.1.1}{10.143.1}{10.11.15.1}{1064, 980, 10335} त्यम्¦चि॒त्¦अत्रि᳚म्¦ऋ॒त॒ऽजुर᳚म्¦अर्थ᳚म्¦अश्व᳚म्¦न¦यात॑वे | क॒क्षीव᳚न्तम्¦यदि॑¦पुन॒रिति॑¦रथ᳚म्¦न¦कृ॒णु॒थः¦नव᳚म् || |
त्यं चि॒दश्वं॒ न वा॒जिन॑मरे॒णवो॒ यमत्न॑त |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्} दृ॒ळ्हं ग्र॒न्थिं न वि ष्य॑त॒मत्रिं॒ यवि॑ष्ठ॒मा रजः॑ ||{2/6}{8.8.1.2}{10.143.2}{10.11.15.2}{1065, 980, 10336} त्यम्¦चि॒त्¦अश्व᳚म्¦न¦वा॒जिन᳚म्¦अ॒रे॒णवः॑¦यम्¦अत्न॑त | दृ॒ळ्हम्¦ग्र॒न्थिम्¦न¦वि¦स्य॒त॒म्¦अत्रि᳚म्¦यवि॑ष्ठम्¦आ¦रजः॑ || |
नरा॒ दंसि॑ष्ठा॒वत्र॑ये॒ शुभ्रा॒ सिषा᳚सतं॒ धियः॑ |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्} अथा॒ हि वां᳚ दि॒वो न॑रा॒ पुनः॒ स्तोमो॒ न वि॒शसे᳚ ||{3/6}{8.8.1.3}{10.143.3}{10.11.15.3}{1066, 980, 10337} नरा᳚¦दंसि॑ष्ठौ¦अत्र॑ये¦शुभ्रा᳚¦सिसा᳚सतम्¦धियः॑ | अथ॑¦हि¦वा॒म्¦दि॒वः¦न॒रा॒¦पुन॒रिति॑¦स्तोमः॑¦न¦वि॒शसे᳚ || |
चि॒ते तद्वां᳚ सुराधसा रा॒तिः सु॑म॒तिर॑श्विना |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्} आ यन्नः॒ सद॑ने पृ॒थौ सम॑ने॒ पर्ष॑थो नरा ||{4/6}{8.8.1.4}{10.143.4}{10.11.15.4}{1067, 980, 10338} चि॒ते¦तत्¦वा॒म्¦सु॒ऽरा॒ध॒सा॒¦रा॒तिः¦सु॒ऽम॒तिः¦अ॒श्वि॒ना॒ | आ¦यत्¦नः॒¦सद॑ने¦पृ॒थौ¦सम॑ने¦पर्ष॑थः¦न॒रा॒ || |
यु॒वं भु॒ज्युं स॑मु॒द्र आ रज॑सः पा॒र ई᳚ङ्खि॒तम् |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्} या॒तमच्छा᳚ पत॒त्रिभि॒र्नास॑त्या सा॒तये᳚ कृतम् ||{5/6}{8.8.1.5}{10.143.5}{10.11.15.5}{1068, 980, 10339} यु॒वम्¦भु॒ज्युम्¦स॒मु॒द्रे¦आ¦रज॑सः¦पा॒रे¦ई॒ङ्खि॒तम् | या॒तम्¦अच्छ॑¦प॒त॒त्रिऽभिः॑¦नास॑त्या¦सा॒तये᳚¦कृ॒त॒म् || |
आ वां᳚ सु॒म्नैः शं॒यू, इ॑व॒ मंहि॑ष्ठा॒ विश्व॑वेदसा |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्} सम॒स्मे भू᳚षतं न॒रोत्सं॒ न पि॒प्युषी॒रिषः॑ ||{6/6}{8.8.1.6}{10.143.6}{10.11.15.6}{1069, 980, 10340} आ¦वा॒म्¦सु॒म्नैः¦शं॒यू इ॒वेति॑ शं॒यूऽइ᳚व¦मंहि॑ष्ठा¦विश्व॑ऽवेदसा | सम्¦अ॒स्मे इति॑¦भू॒ष॒त॒म्¦न॒रा॒¦उत्स᳚म्¦न¦पि॒प्युषीः᳚¦इषः॑ || |
[99] अयंहीति षडृचस्य सूक्तस्य तार्क्ष्यपुत्रः सुपर्णइंद्रो गायत्री द्वितीयाबृहती पंचमीसतोबृहती षष्ठीविष्टारपंक्तिः (यामायन ऊर्ध्वकृशनोवात्रऋषिः) | |
अ॒यं हि ते॒, अम॑र्त्य॒ इन्दु॒रत्यो॒ न पत्य॑ते |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | गायत्री} दक्षो᳚ वि॒श्वायु᳚र्वे॒धसे᳚ ||{1/6}{8.8.2.1}{10.144.1}{10.11.16.1}{1070, 981, 10341} अ॒यम्¦हि¦ते॒¦अम॑र्त्यः¦इन्दुः॑¦अत्यः॑¦न¦पत्य॑ते | दक्षः॑¦वि॒श्वऽआ᳚युः¦वे॒धसे᳚ || |
अ॒यम॒स्मासु॒ काव्य॑ ऋ॒भुर्वज्रो॒ दास्व॑ते |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | बृहती^इहती} अ॒यं बि॑भर्त्यू॒र्ध्वकृ॑शनं॒ मद॑मृ॒भुर्न कृत्व्यं॒ मद᳚म् ||{2/6}{8.8.2.2}{10.144.2}{10.11.16.2}{1071, 981, 10342} अ॒यम्¦अ॒स्मासु॑¦काव्यः॑¦ऋ॒भुः¦वज्रः॑¦दास्व॑ते | |
घृषुः॑ श्ये॒नाय॒ कृत्व॑न आ॒सु स्वासु॒ वंस॑गः |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | गायत्री} अव॑ दीधेदही॒शुवः॑ ||{3/6}{8.8.2.3}{10.144.3}{10.11.16.3}{1072, 981, 10343} घृषुः॑¦श्ये॒नाय॑¦कृत्व॑ने¦आ॒सु¦स्वासु॑¦वंस॑गः | अव॑¦दी॒धे॒त्¦अ॒ही॒शुवः॑ || |
यं सु॑प॒र्णः प॑रा॒वतः॑ श्ये॒नस्य॑ पु॒त्र आभ॑रत् |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | गायत्री} श॒तच॑क्रं॒ यो॒३॑(ओ॒)ऽह्यो᳚ वर्त॒निः ||{4/6}{8.8.2.4}{10.144.4}{10.11.16.4}{1073, 981, 10344} यम्¦सु॒ऽप॒र्णः¦प॒रा॒ऽवतः॑¦श्ये॒नस्य॑¦पु॒त्रः¦आ¦अभ॑रत् | श॒तऽच॑क्रम्¦यः¦अ॒ह्यः॑¦व॒र्त॒निः || |
यं ते᳚ श्ये॒नश्चारु॑मवृ॒कं प॒दाभ॑रदरु॒णं मा॒नमन्ध॑सः |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | सतोबृहती} ए॒ना वयो॒ वि ता॒र्यायु॑र्जी॒वस॑ ए॒ना जा᳚गार ब॒न्धुता᳚ ||{5/6}{8.8.2.5}{10.144.5}{10.11.16.5}{1074, 981, 10345} यम्¦ते॒¦श्ये॒नः¦चारु᳚म्¦अ॒वृ॒कम्¦प॒दा¦आ¦अभ॑रत्¦अ॒रु॒णम्¦मा॒नम्¦अन्ध॑सः | |
ए॒वा तदिन्द्र॒ इन्दु॑ना दे॒वेषु॑ चिद्धारयाते॒ महि॒ त्यजः॑ |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | विष्टारपङ्क्तिः} क्रत्वा॒ वयो॒ वि ता॒र्यायुः॑ सुक्रतो॒ क्रत्वा॒यम॒स्मदा सु॒तः ||{6/6}{8.8.2.6}{10.144.6}{10.11.16.6}{1075, 981, 10346} ए॒व¦तत्¦इन्द्रः॑¦इन्दु॑ना¦दे॒वेषु॑¦चि॒त्¦धा॒र॒या॒ते॒¦महि॑¦त्यजः॑ | |
[100] इमामिति षडृचस्य सूक्तस्येंद्राणीसपत्नीनाशनमनुष्टुबंत्यापंक्तिः | |
इ॒मां ख॑ना॒म्योष॑धिं वी॒रुधं॒ बल॑वत्तमाम् |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | अनुष्टुप्} यया᳚ स॒पत्नीं॒ बाध॑ते॒ यया᳚ संवि॒न्दते॒ पति᳚म् ||{1/6}{8.8.3.1}{10.145.1}{10.11.17.1}{1076, 982, 10347} इ॒माम्¦ख॒ना॒मि॒¦ओष॑धिम्¦वी॒रुध᳚म्¦बल॑वत्ऽतमाम् | यया᳚¦स॒ऽपत्नी᳚म्¦बाध॑ते¦यया᳚¦स॒म्ऽवि॒न्दते᳚¦पति᳚म् || |
उत्ता᳚नपर्णे॒ सुभ॑गे॒ देव॑जूते॒ सह॑स्वति |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | अनुष्टुप्} स॒पत्नीं᳚ मे॒ परा᳚ धम॒ पतिं᳚ मे॒ केव॑लं कुरु ||{2/6}{8.8.3.2}{10.145.2}{10.11.17.2}{1077, 982, 10348} उत्ता᳚नऽपर्णे¦सुऽभ॑गे¦देव॑ऽजूते¦सह॑स्वति | स॒ऽपत्नी᳚म्¦मे॒¦परा᳚¦ध॒म॒¦पति᳚म्¦मे॒¦केव॑लम्¦कु॒रु॒ || |
उत्त॑रा॒हमु॑त्तर॒ उत्त॒रेदुत्त॑राभ्यः |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | अनुष्टुप्} अथा᳚ स॒पत्नी॒ या ममाध॑रा॒ साध॑राभ्यः ||{3/6}{8.8.3.3}{10.145.3}{10.11.17.3}{1078, 982, 10349} उत्ऽत॑रा¦अ॒हम्¦उ॒त्ऽत॒रे॒¦उ॒त्ऽत॒रा¦इत्¦उत्ऽत॑राभ्यः | अथ॑¦स॒ऽपत्नी᳚¦या¦मम॑¦अध॑रा¦सा¦अध॑राभ्यः || |
न॒ह्य॑स्या॒ नाम॑ गृ॒भ्णामि॒ नो, अ॒स्मिन् र॑मते॒ जने᳚ |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | अनुष्टुप्} परा᳚मे॒व प॑रा॒वतं᳚ स॒पत्नीं᳚ गमयामसि ||{4/6}{8.8.3.4}{10.145.4}{10.11.17.4}{1079, 982, 10350} न॒हि¦अ॒स्याः॒¦नाम॑¦गृ॒भ्णामि॑¦नो इति॑¦अ॒स्मिन्¦र॒म॒ते॒¦जने᳚ | परा᳚म्¦ए॒व¦प॒रा॒ऽवत᳚म्¦स॒ऽपत्नी᳚म्¦ग॒म॒या॒म॒सि॒ || |
अ॒हम॑स्मि॒ सह॑मा॒नाथ॒ त्वम॑सि सास॒हिः |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | अनुष्टुप्} उ॒भे सह॑स्वती भू॒त्वी स॒पत्नीं᳚ मे सहावहै ||{5/6}{8.8.3.5}{10.145.5}{10.11.17.5}{1080, 982, 10351} अ॒हम्¦अ॒स्मि॒¦सह॑माना¦अथ॑¦त्वम्¦अ॒सि॒¦स॒स॒हिः | उ॒भे इति॑¦सह॑स्वती॒ इति॑¦भू॒त्वी¦स॒ऽपत्नी᳚म्¦मे॒¦स॒हा॒व॒है॒ || |
उप॑ तेऽधां॒ सह॑मानाम॒भि त्वा᳚धां॒ सही᳚यसा |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | पङ्क्तिः} मामनु॒ प्र ते॒ मनो᳚ व॒त्सं गौरि॑व धावतु प॒था वारि॑व धावतु ||{6/6}{8.8.3.6}{10.145.6}{10.11.17.6}{1081, 982, 10352} उप॑¦ते॒¦अ॒धा॒म्¦सह॑मानाम्¦अ॒भि¦त्वा॒¦अ॒धा॒म्¦सही᳚यसा | |
[101] अरण्यानीति षडृचस्य सूक्तस्यैरंमदोदेवमुनिररण्यान्यनुष्टुप् | |
अर᳚ण्या॒न्यर᳚ण्यान्य॒सौ या प्रेव॒ नश्य॑सि |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्} क॒था ग्रामं॒ न पृ॑च्छसि॒ न त्वा॒ भीरि॑व विन्दती३ँ ||{1/6}{8.8.4.1}{10.146.1}{10.11.18.1}{1082, 983, 10353} अर᳚ण्यानि¦अर᳚ण्यान्यि¦अ॒सौ¦या¦प्रऽइ᳚व¦नश्य॑सि | क॒था¦ग्राम᳚म्¦न¦पृ॒च्छ॒सि॒¦न¦त्वा॒¦भीःऽइ᳚व¦वि॒न्द॒तीँ॒३ || |
वृ॒षा॒र॒वाय॒ वद॑ते॒ यदु॒पाव॑ति चिच्चि॒कः |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्} आ॒घा॒टिभि॑रिव धा॒वय᳚न्नरण्या॒निर्म॑हीयते ||{2/6}{8.8.4.2}{10.146.2}{10.11.18.2}{1083, 983, 10354} वृ॒षा॒ऽर॒वाय॑¦वद॑ते¦यत्¦उ॒प॒।आव॑ति¦चि॒च्चि॒कः | आ॒घा॒टिभिः॑ऽइव¦धा॒वय॑न्¦अ॒र॒ण्या॒निः¦म॒ही॒य॒ते॒ || |
उ॒त गाव॑ इवादन्त्यु॒त वेश्मे᳚व दृश्यते |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्} उ॒तो, अ॑रण्या॒निः सा॒यं श॑क॒टीरि॑व सर्जति ||{3/6}{8.8.4.3}{10.146.3}{10.11.18.3}{1084, 983, 10355} उ॒त¦गावः॑ऽइव¦अ॒द॒न्ति॒¦उ॒त¦वेश्म॑ऽइव¦दृ॒श्य॒ते॒ | उ॒तो इति॑¦अ॒र॒ण्या॒निः¦सा॒यम्¦श॒क॒टीःऽइ᳚व¦स॒र्ज॒ति॒ || |
गाम॒ङ्गैष आ ह्व॑यति॒ दार्व॒ङ्गैषो, अपा᳚वधीत् |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्} वस᳚न्नरण्या॒न्यां सा॒यमक्रु॑क्ष॒दिति॑ मन्यते ||{4/6}{8.8.4.4}{10.146.4}{10.11.18.4}{1085, 983, 10356} गाम्¦अ॒ङ्ग¦ए॒षः¦आ¦ह्व॒य॒ति॒¦दारु॑¦अ॒ङ्ग¦ए॒षः¦अप॑¦अ॒व॒धी॒त् | वस॑न्¦अ॒र॒ण्या॒न्याम्¦सा॒यम्¦अक्रु॑क्षत्¦इति॑¦म॒न्य॒ते॒ || |
न वा, अ॑रण्या॒निर्ह᳚न्त्य॒न्यश्चेन्नाभि॒गच्छ॑ति |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्} स्वा॒दोः फल॑स्य ज॒ग्ध्वाय॑ यथा॒कामं॒ नि प॑द्यते ||{5/6}{8.8.4.5}{10.146.5}{10.11.18.5}{1086, 983, 10357} न¦वै¦अ॒र॒ण्या॒निः¦ह॒न्ति॒¦अ॒न्यः¦च॒¦इत्¦न¦अ॒भि॒ऽगच्छ॑ति | स्वा॒दोः¦फल॑स्य¦ज॒ग्ध्वाय॑¦य॒था॒ऽकाम᳚म्¦नि¦प॒द्य॒ते॒ || |
आञ्ज॑नगन्धिं सुर॒भिं ब॑ह्व॒न्नामकृ॑षीवलाम् |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्} प्राहं मृ॒गाणां᳚ मा॒तर॑मरण्या॒निम॑शंसिषम् ||{6/6}{8.8.4.6}{10.146.6}{10.11.18.6}{1087, 983, 10358} आंज॑नऽगन्धिम्¦सु॒र॒भिम्¦ब॒हु॒।आ॒न्नाम्¦अकृ॑षिऽवलाम् | प्र¦अ॒हम्¦मृ॒गाणा᳚म्¦मा॒तर᳚म्¦अ॒र॒ण्या॒निम्¦अ॒शं॒सि॒ष॒म् || |
[102] श्रत्तइति पंचर्चस्य सूक्तस्य शैरीषिः सुवेदाइंद्रोजगत्यंत्यात्रिष्टुप् | |
श्रत्ते᳚ दधामि प्रथ॒माय॑ म॒न्यवेऽह॒न्यद्वृ॒त्रं नर्यं᳚ वि॒वेर॒पः |{शैरीषिः सुवेदाः | इन्द्रः | जगती} उ॒भे यत् त्वा॒ भव॑तो॒ रोद॑सी॒, अनु॒ रेज॑ते॒ शुष्मा᳚त् पृथि॒वी चि॑दद्रिवः ||{1/5}{8.8.5.1}{10.147.1}{10.11.19.1}{1088, 984, 10359} श्रत्¦ते॒¦द॒धा॒मि॒¦प्र॒थ॒माय॑¦म॒न्यवे᳚¦अह॑न्¦यत्¦वृ॒त्रम्¦नर्य᳚म्¦वि॒वेः¦अ॒पः | |
त्वं मा॒याभि॑रनवद्य मा॒यिनं᳚ श्रवस्य॒ता मन॑सा वृ॒त्रम॑र्दयः |{शैरीषिः सुवेदाः | इन्द्रः | जगती} त्वामिन्नरो᳚ वृणते॒ गवि॑ष्टिषु॒ त्वां विश्वा᳚सु॒ हव्या॒स्विष्टि॑षु ||{2/5}{8.8.5.2}{10.147.2}{10.11.19.2}{1089, 984, 10360} त्वम्¦मा॒याभिः॑¦अ॒न॒व॒द्य॒¦मा॒यिन᳚म्¦श्र॒व॒स्य॒ता¦मन॑सा¦वृ॒त्रम्¦अ॒र्द॒य॒ | |
ऐषु॑ चाकन्धि पुरुहूत सू॒रिषु॑ वृ॒धासो॒ ये म॑घवन्नान॒शुर्म॒घम् |{शैरीषिः सुवेदाः | इन्द्रः | जगती} अर्च᳚न्ति तो॒के तन॑ये॒ परि॑ष्टिषु मे॒धसा᳚ता वा॒जिन॒मह्र॑ये॒ धने᳚ ||{3/5}{8.8.5.3}{10.147.3}{10.11.19.3}{1090, 984, 10361} आ¦ए॒षु॒¦चा॒क॒न्धि॒¦पु॒रु॒ऽहू॒त॒¦सू॒रिषु॑¦वृ॒धासः॑¦ये¦म॒घ॒ऽव॒न्¦आ॒न॒शुः¦म॒घम् | |
स इन्नु रा॒यः सुभृ॑तस्य चाकन॒न्मदं॒ यो, अ॑स्य॒ रंह्यं॒ चिके᳚तति |{शैरीषिः सुवेदाः | इन्द्रः | जगती} त्वावृ॑धो मघवन्दा॒श्व॑ध्वरो म॒क्षू स वाजं᳚ भरते॒ धना॒ नृभिः॑ ||{4/5}{8.8.5.4}{10.147.4}{10.11.19.4}{1091, 984, 10362} सः¦इत्¦नु¦रा॒यः¦सुऽभृ॑तस्य¦चा॒क॒न॒त्¦मद᳚म्¦यः¦अ॒स्य॒¦रंह्य᳚म्¦चिके᳚तति | |
त्वं शर्धा᳚य महि॒ना गृ॑णा॒न उ॒रु कृ॑धि मघवञ्छ॒ग्धि रा॒यः |{शैरीषिः सुवेदाः | इन्द्रः | त्रिष्टुप्} त्वं नो᳚ मि॒त्रो वरु॑णो॒ न मा॒यी पि॒त्वो न द॑स्म दयसे विभ॒क्ता ||{5/5}{8.8.5.5}{10.147.5}{10.11.19.5}{1092, 984, 10363} त्वम्¦शर्धा᳚य¦म॒हि॒ना¦गृ॒णा॒नः¦उ॒रु¦कृ॒धि॒¦म॒घ॒ऽव॒न्¦श॒ग्धि¦रा॒यः | |
[103] सुष्वाणासइति पंचर्चस्य सूक्तस्य वैन्यः पृथुरिंद्रस्त्रिष्टुप् | |
सु॒ष्वा॒णास॑ इन्द्र स्तु॒मसि॑ त्वा सस॒वांस॑श्च तुविनृम्ण॒ वाज᳚म् |{वैन्यः पृथुः | इन्द्रः | त्रिष्टुप्} आ नो᳚ भर सुवि॒तं यस्य॑ चा॒कन्त्मना॒ तना᳚ सनुयाम॒ त्वोताः᳚ ||{1/5}{8.8.6.1}{10.148.1}{10.11.20.1}{1093, 985, 10364} सु॒स्वा॒नासः॑¦इ॒न्द्र॒¦स्तु॒मसि॑¦त्वा॒¦स॒स॒ऽवांसः॑¦च॒¦तु॒वि॒ऽनृ॒म्ण॒¦वाज᳚म् | |
ऋ॒ष्वस्त्वमि᳚न्द्र शूर जा॒तो दासी॒र्विशः॒ सूर्ये᳚ण सह्याः |{वैन्यः पृथुः | इन्द्रः | त्रिष्टुप्} गुहा᳚ हि॒तं गुह्यं᳚ गू॒ळ्हम॒प्सु बि॑भृ॒मसि॑ प्र॒स्रव॑णे॒ न सोम᳚म् ||{2/5}{8.8.6.2}{10.148.2}{10.11.20.2}{1094, 985, 10365} ऋ॒ष्वः¦त्वम्¦इ॒न्द्र॒¦शू॒र॒¦जा॒तः¦दासीः᳚¦विशः॑¦सूर्ये᳚ण¦स॒ह्याः॒ | |
अ॒र्यो वा॒ गिरो᳚, अ॒भ्य॑र्च वि॒द्वानृषी᳚णां॒ विप्रः॑ सुम॒तिं च॑का॒नः |{वैन्यः पृथुः | इन्द्रः | त्रिष्टुप्} ते स्या᳚म॒ ये र॒णय᳚न्त॒ सोमै᳚रे॒नोत तुभ्यं᳚ रथोळ्ह भ॒क्षैः ||{3/5}{8.8.6.3}{10.148.3}{10.11.20.3}{1095, 985, 10366} अ॒र्यः¦वा॒¦गिरः॑¦अ॒भि¦अ॒र्च॒¦वि॒द्वान्¦ऋषी᳚णाम्¦विप्रः॑¦सु॒ऽम॒तिम्¦च॒का॒नः | |
इ॒मा ब्रह्मे᳚न्द्र॒ तुभ्यं᳚ शंसि॒ दा नृभ्यो᳚ नृ॒णां शू᳚र॒ शवः॑ |{वैन्यः पृथुः | इन्द्रः | त्रिष्टुप्} तेभि॑र्भव॒ सक्र॑तु॒र्येषु॑ चा॒कन्नु॒त त्रा᳚यस्व गृण॒त उ॒त स्तीन् ||{4/5}{8.8.6.4}{10.148.4}{10.11.20.4}{1096, 985, 10367} इ॒मा¦ब्रह्म॑¦इ॒न्द्र॒¦तुभ्य᳚म्¦शं॒सि॒¦दाः¦नृऽभ्यः॑¦नृ॒णाम्¦शू॒र॒¦शवः॑ | |
श्रु॒धी हव॑मिन्द्र शूर॒ पृथ्या᳚, उ॒त स्त॑वसे वे॒न्यस्या॒र्कैः |{वैन्यः पृथुः | इन्द्रः | त्रिष्टुप्} आ यस्ते॒ योनिं᳚ घृ॒तव᳚न्त॒मस्वा᳚रू॒र्मिर्न निम्नैर्द्र॑वयन्त॒ वक्वाः᳚ ||{5/5}{8.8.6.5}{10.148.5}{10.11.20.5}{1097, 985, 10368} श्रु॒धि¦हव᳚म्¦इ॒न्द्र॒¦शू॒र॒¦पृथ्याः᳚¦उ॒त¦स्त॒व॒ते॒¦वे॒न्यस्य॑¦अ॒र्कैः | |
[104] सवितेति पंचर्चस्य सूक्तस्य हैरण्यस्तूपोर्चन्न सवितात्रिष्टुप् | |
स॒वि॒ता य॒न्त्रैः पृ॑थि॒वीम॑रम्णादस्कम्भ॒ने स॑वि॒ता द्याम॑दृंहत् |{हैरण्य स्तूपोर्चन्नः | सविता | त्रिष्टुप्} अश्व॑मिवाधुक्ष॒द्धुनि॑म॒न्तरि॑क्षम॒तूर्ते᳚ ब॒द्धं स॑वि॒ता स॑मु॒द्रम् ||{1/5}{8.8.7.1}{10.149.1}{10.11.21.1}{1098, 986, 10369} स॒वि॒ता¦य॒न्त्रैः¦पृ॒थि॒वीम्¦अ॒र॒म्णा॒त्¦अ॒स्क॒म्भ॒ने¦स॒वि॒ता¦द्याम्¦अ॒दृं॒ह॒त् | |
यत्रा᳚ समु॒द्रः स्क॑भि॒तो व्यौन॒दपां᳚ नपात्सवि॒ता तस्य॑ वेद |{हैरण्य स्तूपोर्चन्नः | सविता | त्रिष्टुप्} अतो॒ भूरत॑ आ॒, उत्थि॑तं॒ रजोऽतो॒ द्यावा᳚पृथि॒वी, अ॑प्रथेताम् ||{2/5}{8.8.7.2}{10.149.2}{10.11.21.2}{1099, 986, 10370} यत्र॑¦स॒मु॒द्रः¦स्क॒भि॒तः¦वि¦औन॑त्¦अपा᳚म्¦न॒पा॒त्¦स॒वि॒ता¦तस्य॑¦वे॒द॒ | |
प॒श्चेदम॒न्यद॑भव॒द्यज॑त्र॒मम॑र्त्यस्य॒ भुव॑नस्य भू॒ना |{हैरण्य स्तूपोर्चन्नः | सविता | त्रिष्टुप्} सु॒प॒र्णो, अ॒ङ्ग स॑वि॒तुर्ग॒रुत्मा॒न् पूर्वो᳚ जा॒तः स उ॑ अ॒स्यानु॒ धर्म॑ ||{3/5}{8.8.7.3}{10.149.3}{10.11.21.3}{1100, 986, 10371} प॒श्चा¦इ॒दम्¦अ॒न्यत्¦अ॒भ॒व॒त्¦यज॑त्रम्¦अम॑र्त्यस्य¦भुव॑नस्य¦भू॒ना | |
गाव॑ इव॒ ग्रामं॒ यूयु॑धिरि॒वाश्वा᳚न्वा॒श्रेव॑ व॒त्सं सु॒मना॒ दुहा᳚ना |{हैरण्य स्तूपोर्चन्नः | सविता | त्रिष्टुप्} पति॑रिव जा॒याम॒भि नो॒ न्ये᳚तु ध॒र्ता दि॒वः स॑वि॒ता वि॒श्ववा᳚रः ||{4/5}{8.8.7.4}{10.149.4}{10.11.21.4}{1101, 986, 10372} गावः॑ऽइव¦ग्राम᳚म्¦यूयु॑धिःऽइव¦अश्वा᳚न्¦वा॒श्राऽइ᳚व¦व॒त्सम्¦सु॒ऽमनाः᳚¦दुहा᳚ना | |
हिर᳚ण्यस्तूपः सवित॒र्यथा᳚ त्वाङ्गिर॒सो जु॒ह्वे वाजे᳚, अ॒स्मिन् |{हैरण्य स्तूपोर्चन्नः | सविता | त्रिष्टुप्} ए॒वा त्वार्च॒न्नव॑से॒ वन्द॑मानः॒ सोम॑स्येवां॒शुं प्रति॑ जागरा॒हम् ||{5/5}{8.8.7.5}{10.149.5}{10.11.21.5}{1102, 986, 10373} हिर᳚ण्यऽस्तूपः¦स॒वि॒तः॒¦यथा᳚¦त्वा॒¦आ॒ङ्गि॒र॒सः¦जु॒ह्वे¦वाजे᳚¦अ॒स्मिन् | |
[105] समिद्धइति पंचर्चस्य सूक्तस्य वासिष्ठोमृळीकोग्निर्बृहती अंत्येद्वेउपरिष्टाज्ज्योतिषी (उपांत्या जगतीवा) | |
समि॑द्धश्चि॒त्समि॑ध्यसे दे॒वेभ्यो᳚ हव्यवाहन |{वासिष्ठो मृळीकः | अग्निः | बृहती} आ॒दि॒त्यै रु॒द्रैर्वसु॑भिर्न॒ आ ग॑हि मृळी॒काय॑ न॒ आ ग॑हि ||{1/5}{8.8.8.1}{10.150.1}{10.11.22.1}{1103, 987, 10374} सम्ऽइ᳚द्धः¦चि॒त्¦सम्¦इ॒ध्य॒से॒¦दे॒वेभ्यः॑¦ह॒व्य॒ऽवा॒ह॒न॒ | |
इ॒मं य॒ज्ञमि॒दं वचो᳚ जुजुषा॒ण उ॒पाग॑हि |{वासिष्ठो मृळीकः | अग्निः | बृहती} मर्ता᳚सस्त्वा समिधान हवामहे मृळी॒काय॑ हवामहे ||{2/5}{8.8.8.2}{10.150.2}{10.11.22.2}{1104, 987, 10375} इ॒मम्¦य॒ज्ञम्¦इ॒दम्¦वचः॑¦जु॒जु॒षा॒णः¦उ॒प॒ऽआग॑हि | |
त्वामु॑ जा॒तवे᳚दसं वि॒श्ववा᳚रं गृणे धि॒या |{वासिष्ठो मृळीकः | अग्निः | बृहती} अग्ने᳚ दे॒वाँ, आ व॑ह नः प्रि॒यव्र॑तान् मृळी॒काय॑ प्रि॒यव्र॑तान् ||{3/5}{8.8.8.3}{10.150.3}{10.11.22.3}{1105, 987, 10376} त्वाम्¦ऊँ॒ इति॑¦जा॒तऽवे᳚दसम्¦वि॒श्वऽवा᳚रम्¦गृ॒णे॒¦धि॒या | |
अ॒ग्निर्दे॒वो दे॒वाना᳚मभवत्पु॒रोहि॑तो॒ऽग्निं म॑नु॒ष्या॒३॑(आ॒) ऋष॑यः॒ समी᳚धिरे |{वासिष्ठो मृळीकः | अग्निः | उपरिष्टाज्योति} अ॒ग्निं म॒हो धन॑साताव॒हं हु॑वे मृळी॒कं धन॑सातये ||{4/5}{8.8.8.4}{10.150.4}{10.11.22.4}{1106, 987, 10377} अ॒ग्निः¦दे॒वः¦दे॒वाना᳚म्¦अ॒भ॒व॒त्¦पु॒रःऽहि॑तः¦अ॒ग्निम्¦म॒नु॒ष्याः᳚¦ऋष॑यः¦सम्¦ई॒धि॒रे॒ | |
अ॒ग्निरत्रिं᳚ भ॒रद्वा᳚जं॒ गवि॑ष्ठिरं॒ प्राव᳚न्नः॒ कण्वं᳚ त्र॒सद॑स्युमाह॒वे |{वासिष्ठो मृळीकः | अग्निः | उपरिष्टाज्योति} अ॒ग्निं वसि॑ष्ठो हवते पु॒रोहि॑तो मृळी॒काय॑ पु॒रोहि॑तः ||{5/5}{8.8.8.5}{10.150.5}{10.11.22.5}{1107, 987, 10378} अ॒ग्निः¦अत्रि᳚म्¦भ॒रत्ऽवा᳚जम्¦गवि॑ष्ठिरम्¦प्र¦आ॒व॒त्¦नः॒¦कण्व᳚म्¦त्र॒सद॑स्युम्¦आ॒ऽह॒वे | |
[106] श्रद्धयेति पंचर्चस्य सूक्तस्य श्रद्धाकामायनीश्रद्धानुष्टुप् | |
श्र॒द्धया॒ग्निः समि॑ध्यते श्र॒द्धया᳚ हूयते ह॒विः |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्} श्र॒द्धां भग॑स्य मू॒र्धनि॒ वच॒सा वे᳚दयामसि ||{1/5}{8.8.9.1}{10.151.1}{10.11.23.1}{1108, 988, 10379} श्र॒द्धया᳚¦अ॒ग्निः¦सम्¦इ॒ध्य॒ते॒¦श्र॒द्धया᳚¦हू॒य॒ते॒¦ह॒विः | श्र॒द्धाम्¦भग॑स्य¦मू॒र्धनि॑¦वच॑सा¦आ¦वे॒द॒या॒म॒सि॒ || |
प्रि॒यं श्र॑द्धे॒ दद॑तः प्रि॒यं श्र॑द्धे॒ दिदा᳚सतः |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्} प्रि॒यं भो॒जेषु॒ यज्व॑स्वि॒दं म॑ उदि॒तं कृ॑धि ||{2/5}{8.8.9.2}{10.151.2}{10.11.23.2}{1109, 988, 10380} प्रि॒यम्¦श्र॒द्धे॒¦दद॑तः¦प्रि॒यम्¦श्र॒द्धे॒¦दिदा᳚सतः | प्रि॒यम्¦भो॒जेषु॑¦यज्व॑सु¦इ॒दम्¦मे॒¦उ॒दि॒तम्¦कृ॒धि॒ || |
यथा᳚ दे॒वा, असु॑रेषु श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्} ए॒वं भो॒जेषु॒ यज्व॑स्व॒स्माक॑मुदि॒तं कृ॑धि ||{3/5}{8.8.9.3}{10.151.3}{10.11.23.3}{1110, 988, 10381} यथा᳚¦दे॒वाः¦असु॑रेषु¦श्र॒द्धाम्¦उ॒ग्रेषु॑¦च॒क्रि॒रे | ए॒वम्¦भो॒जेषु॑¦यज्व॑ऽसु¦अ॒स्माक᳚म्¦उ॒दि॒तम्¦कृ॒धि॒ || |
श्र॒द्धां दे॒वा यज॑माना वा॒युगो᳚पा॒, उपा᳚सते |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्} श्र॒द्धां हृ॑द॒य्य१॑(अ॒)याकू᳚त्या श्र॒द्धया᳚ विन्दते॒ वसु॑ ||{4/5}{8.8.9.4}{10.151.4}{10.11.23.4}{1111, 988, 10382} श्र॒द्धाम्¦दे॒वाः¦यज॑मानाः¦वा॒युऽगो᳚पाः¦उप॑¦आ॒स॒ते॒ | श्र॒द्धाम्¦हृ॒द॒य्य॑या¦आऽकू᳚त्या¦श्र॒द्धया᳚¦वि॒न्द॒ते॒¦वसु॑ || |
श्र॒द्धां प्रा॒तर्ह॑वामहे श्र॒द्धां म॒ध्यंदि॑नं॒ परि॑ |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्} श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒ श्रद्धे॒ श्रद्धा᳚पये॒ह नः॑ ||{5/5}{8.8.9.5}{10.151.5}{10.11.23.5}{1112, 988, 10383} श्र॒द्धाम्¦प्रा॒तः¦ह॒वा॒म॒हे॒¦श्र॒द्धाम्¦म॒ध्यंदि॑नम्¦परि॑ | श्र॒द्धाम्¦सूर्य॑स्य¦नि॒ऽम्रुचि॑¦श्रद्धे᳚¦श्रत्¦धा॒प॒य॒¦इ॒ह¦नः॒ || |
[107] शासइति पंचर्चस्य सूक्तस्य भारद्वाजः शासइंद्रोनुष्टुप् | |
शा॒स इ॒त्था म॒हाँ, अ॑स्यमित्रखा॒दो, अद्भु॑तः |{भारद्वाजः शासः | इन्द्रः | अनुष्टुप्} न यस्य॑ ह॒न्यते॒ सखा॒ न जीय॑ते॒ कदा᳚ च॒न ||{1/5}{8.8.10.1}{10.152.1}{10.12.1.1}{1113, 989, 10384} शा॒सः¦इ॒त्था¦म॒हान्¦अ॒सि॒¦अ॒मि॒त्र॒ऽखा॒दः¦अद्भु॑तः | न¦यस्य॑¦ह॒न्यते᳚¦सखा᳚¦न¦जीय॑ते¦कदा᳚¦च॒न || |
स्व॒स्ति॒दा वि॒शस्पति᳚र्वृत्र॒हा वि॑मृ॒धो व॒शी |{भारद्वाजः शासः | इन्द्रः | अनुष्टुप्} वृषेन्द्रः॑ पु॒र ए᳚तु नः सोम॒पा, अ॑भयंक॒रः ||{2/5}{8.8.10.2}{10.152.2}{10.12.1.2}{1114, 989, 10385} स्व॒स्ति॒ऽदाः¦वि॒शः¦पतिः॑¦वृ॒त्र॒ऽहा¦वि॒ऽमृ॒धः¦व॒शी | वृषा᳚¦इन्द्रः॑¦पु॒रः¦ए॒तु॒¦नः॒¦सो॒म॒ऽपाः¦अ॒भ॒य॒म्ऽक॒रः || |
वि रक्षो॒ वि मृधो᳚ जहि॒ वि वृ॒त्रस्य॒ हनू᳚ रुज |{भारद्वाजः शासः | इन्द्रः | अनुष्टुप्} वि म॒न्युमि᳚न्द्र वृत्रहन्न॒मित्र॑स्याभि॒दास॑तः ||{3/5}{8.8.10.3}{10.152.3}{10.12.1.3}{1115, 989, 10386} वि¦रक्षः॑¦वि¦मृधः॑¦ज॒हि॒¦वि¦वृ॒त्रस्य॑¦हनू॒ इति॑¦रु॒ज॒ | वि¦म॒न्युम्¦इ॒न्द्र॒¦वृ॒त्र॒ऽह॒न्¦अ॒मित्र॑स्य¦अ॒भि॒ऽदास॑तः || |
वि न॑ इन्द्र॒ मृधो᳚ जहि नी॒चा य॑च्छ पृतन्य॒तः |{भारद्वाजः शासः | इन्द्रः | अनुष्टुप्} यो, अ॒स्माँ, अ॑भि॒दास॒त्यध॑रं गमया॒ तमः॑ ||{4/5}{8.8.10.4}{10.152.4}{10.12.1.4}{1116, 989, 10387} वि¦नः॒¦इ॒न्द्र॒¦मृधः॑¦ज॒हि॒¦नी॒चा¦य॒च्छ॒¦पृ॒त॒न्य॒तः | यः¦अ॒स्मान्¦अ॒भि॒ऽदास॑ति¦अध॑रम्¦ग॒म॒य॒¦तमः॑ || |
अपे᳚न्द्र द्विष॒तो मनोऽप॒ जिज्या᳚सतो व॒धम् |{भारद्वाजः शासः | इन्द्रः | अनुष्टुप्} वि म॒न्योः शर्म॑ यच्छ॒ वरी᳚यो यवया व॒धम् ||{5/5}{8.8.10.5}{10.152.5}{10.12.1.5}{1117, 989, 10388} अप॑¦इ॒न्द्र॒¦द्वि॒ष॒तः¦मनः॑¦अप॑¦जिज्या᳚सतः¦व॒धम् | वि¦म॒न्योः¦शर्म॑¦य॒च्छ॒¦वरी᳚यः¦य॒व॒य॒¦व॒धम् || |
[108] ईंखयंतीरिति पंचर्चस्य सूक्तस्य देवजामयइंद्रमातरइंद्रोगायत्री | |
ई॒ङ्खय᳚न्तीरप॒स्युव॒ इन्द्रं᳚ जा॒तमुपा᳚सते |{देवजामयइंद्रमातरः | इन्द्रः | गायत्री} भे॒जा॒नासः॑ सु॒वीर्य᳚म् ||{1/5}{8.8.11.1}{10.153.1}{10.12.2.1}{1118, 990, 10389} ई॒ङ्खय᳚न्तीः¦अ॒प॒स्युवः॑¦इन्द्र᳚म्¦जा॒तम्¦उप॑¦आ॒स॒ते॒ | भे॒जा॒नासः॑¦सु॒ऽवीर्य᳚म् || |
त्वमि᳚न्द्र॒ बला॒दधि॒ सह॑सो जा॒त ओज॑सः |{देवजामयइंद्रमातरः | इन्द्रः | गायत्री} त्वं वृ॑ष॒न् वृषेद॑सि ||{2/5}{8.8.11.2}{10.153.2}{10.12.2.2}{1119, 990, 10390} त्वम्¦इ॒न्द्र॒¦बला᳚त्¦अधि॑¦सह॑सः¦जा॒तः¦ओज॑सः | त्वम्¦वृ॒ष॒न्¦वृषा᳚¦इत्¦अ॒सि॒ || |
त्वमि᳚न्द्रासि वृत्र॒हा व्य१॑(अ॒)न्तरि॑क्षमतिरः |{देवजामयइंद्रमातरः | इन्द्रः | गायत्री} उद्द्याम॑स्तभ्ना॒, ओज॑सा ||{3/5}{8.8.11.3}{10.153.3}{10.12.2.3}{1120, 990, 10391} त्वम्¦इ॒न्द्र॒¦अ॒सि॒¦वृ॒त्र॒ऽहा¦वि¦अ॒न्तरि॑क्षम्¦अ॒ति॒रः॒ | उत्¦द्याम्¦अ॒स्त॒भ्नाः॒¦ओज॑सा || |
त्वमि᳚न्द्र स॒जोष॑सम॒र्कं बि॑भर्षि बा॒ह्वोः |{देवजामयइंद्रमातरः | इन्द्रः | गायत्री} वज्रं॒ शिशा᳚न॒ ओज॑सा ||{4/5}{8.8.11.4}{10.153.4}{10.12.2.4}{1121, 990, 10392} त्वम्¦इ॒न्द्र॒¦स॒ऽजोष॑सम्¦अ॒र्कम्¦बि॒भ॒र्षि॒¦बा॒ह्वोः | वज्र᳚म्¦शिशा᳚नः¦ओज॑सा || |
त्वमि᳚न्द्राभि॒भूर॑सि॒ विश्वा᳚ जा॒तान्योज॑सा |{देवजामयइंद्रमातरः | इन्द्रः | गायत्री} स विश्वा॒ भुव॒ आभ॑वः ||{5/5}{8.8.11.5}{10.153.5}{10.12.2.5}{1122, 990, 10393} त्वम्¦इ॒न्द्र॒¦अ॒भि॒ऽभूः¦अ॒सि॒¦विश्वा᳚¦जा॒तानि॑¦ओज॑सा | सः¦विश्वाः᳚¦भुवः॑¦आ¦अ॒भ॒वः॒ || |
[109] सोमइति पंचर्चस्य सूक्तस्य वैवस्वती यमी भाववृत्तिरनुष्टुप् | |
सोम॒ एके᳚भ्यः पवते घृ॒तमेक॒ उपा᳚सते |{वैवस्वती यमी | भाववृत्तिः | अनुष्टुप्} येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ||{1/5}{8.8.12.1}{10.154.1}{10.12.3.1}{1123, 991, 10394} सोमः॑¦एके᳚भ्यः¦प॒व॒ते॒¦घृ॒तम्¦एके᳚¦उप॑¦आ॒स॒ते॒ | येभ्यः॑¦मधु॑¦प्र॒ऽधाव॑ति¦तान्¦चि॒त्¦ए॒व¦अपि॑¦ग॒च्छ॒ता॒त् || |
तप॑सा॒ ये, अ॑नाधृ॒ष्यास्तप॑सा॒ ये स्व᳚र्य॒युः |{वैवस्वती यमी | भाववृत्तिः | अनुष्टुप्} तपो॒ ये च॑क्रि॒रे मह॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ||{2/5}{8.8.12.2}{10.154.2}{10.12.3.2}{1124, 991, 10395} तप॑सा¦ये¦अ॒ना॒धृ॒ष्याः¦तप॑सा¦ये¦स्वः॑¦य॒युः | तपः॑¦ये¦च॒क्रि॒रे¦महः॑¦तान्¦चि॒त्¦ए॒व¦अपि॑¦ग॒च्छ॒ता॒त् || |
ये युध्य᳚न्ते प्र॒धने᳚षु॒ शूरा᳚सो॒ ये त॑नू॒त्यजः॑ |{वैवस्वती यमी | भाववृत्तिः | अनुष्टुप्} ये वा᳚ स॒हस्र॑दक्षिणा॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ||{3/5}{8.8.12.3}{10.154.3}{10.12.3.3}{1125, 991, 10396} ये¦युध्य᳚न्ते¦प्र॒ऽधने᳚षु¦शूरा᳚सः¦ये¦त॒नू॒ऽत्यजः॑ | ये¦वा॒¦स॒हस्र॑ऽदक्षिणाः¦तान्¦चि॒त्¦ए॒व¦अपि॑¦ग॒च्छ॒ता॒त् || |
ये चि॒त्पूर्व॑ ऋत॒साप॑ ऋ॒तावा᳚न ऋता॒वृधः॑ |{वैवस्वती यमी | भाववृत्तिः | अनुष्टुप्} पि॒तॄन् तप॑स्वतो यम॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ||{4/5}{8.8.12.4}{10.154.4}{10.12.3.4}{1126, 991, 10397} ये¦चि॒त्¦पूर्वे᳚¦ऋ॒त॒ऽसापः॑¦ऋ॒तऽवा᳚नः¦ऋ॒त॒ऽवृधः॑ | पि॒तॄन्¦तप॑स्वतः¦य॒म॒¦तान्¦चि॒त्¦ए॒व¦अपि॑¦ग॒च्छ॒ता॒त् || |
स॒हस्र॑णीथाः क॒वयो॒ ये गो᳚पा॒यन्ति॒ सूर्य᳚म् |{वैवस्वती यमी | भाववृत्तिः | अनुष्टुप्} ऋषी॒न् तप॑स्वतो यम तपो॒जाँ, अपि॑ गच्छतात् ||{5/5}{8.8.12.5}{10.154.5}{10.12.3.5}{1127, 991, 10398} स॒हस्र॑ऽनीथाः¦क॒वयः॑¦ये¦गो॒पा॒यन्ति॑¦सूर्य᳚म् | ऋषी᳚न्¦तप॑स्वतः¦य॒म॒¦त॒पः॒ऽजान्¦अपि॑¦ग॒च्छ॒ता॒त् || |
[110] अरायीति पंचर्चस्य सूक्तस्य भारद्वाजः शिरिंबिठोऽलक्ष्मीनाशनो द्वितीयातृतीययोर्ब्रह्मणस्पतिरंत्याया विश्वेदेवाअनुष्टुप् | |
अरा᳚यि॒ काणे॒ विक॑टे गि॒रिं ग॑च्छ सदान्वे |{भारद्वाजो शिरिंबिठः | अलक्ष्मीनाशनः | अनुष्टुप्} शि॒रिम्बि॑ठस्य॒ सत्व॑भि॒स्तेभि॑ष्ट्वा चातयामसि ||{1/5}{8.8.13.1}{10.155.1}{10.12.4.1}{1128, 992, 10399} अरा᳚यि¦काणे᳚¦विऽक॑टे¦गि॒रिम्¦ग॒च्छ॒¦स॒दा॒न्वे॒ | शि॒रिम्बि॑ठस्य¦सत्व॑ऽभिः¦तेभिः॑¦त्वा॒¦चा॒त॒या॒म॒सि॒ || |
च॒त्तो, इ॒तश्च॒त्तामुतः॒ सर्वा᳚ भ्रू॒णान्या॒रुषी᳚ |{भारद्वाजो शिरिंबिठः | ब्रह्मणस्पतिः | अनुष्टुप्} अ॒रा॒य्यं᳚ ब्रह्मणस्पते॒ तीक्ष्ण॑शृण्गोदृ॒षन्नि॑हि ||{2/5}{8.8.13.2}{10.155.2}{10.12.4.2}{1129, 992, 10400} च॒त्तो इति॑¦इ॒तः¦च॒त्ता¦अ॒मुतः॑¦सर्वा᳚¦भ्रू॒णानि॑¦आ॒रुषी᳚ | अ॒रा॒य्य᳚म्¦ब्र॒ह्म॒णः॒¦प॒ते॒¦तीक्ष्ण॑ऽशृङ्ग¦उ॒त्ऽऋ॒षन्¦इ॒हि॒ || |
अ॒दो यद्दारु॒ प्लव॑ते॒ सिन्धोः᳚ पा॒रे, अ॑पूरु॒षम् |{भारद्वाजो शिरिंबिठः | ब्रह्मणस्पतिः | अनुष्टुप्} तदा र॑भस्व दुर्हणो॒ तेन॑ गच्छ परस्त॒रम् ||{3/5}{8.8.13.3}{10.155.3}{10.12.4.3}{1130, 992, 10401} अ॒दः¦यत्¦दारु॑¦प्लव॑ते¦सिन्धोः᳚¦पा॒रे¦अ॒पु॒रु॒षम् | तत्¦आ¦र॒भ॒स्व॒¦दु॒र्ह॒नो॒ इति॑ दुःऽहनो¦तेन॑¦ग॒च्छ॒¦प॒रः॒ऽत॒रम् || |
यद्ध॒ प्राची॒रज॑ग॒न्तोरो᳚ मण्डूरधाणिकीः |{भारद्वाजो शिरिंबिठः | अलक्ष्मीनाशनः | अनुष्टुप्} ह॒ता, इन्द्र॑स्य॒ शत्र॑वः॒ सर्वे᳚ बुद्बु॒दया᳚शवः ||{4/5}{8.8.13.4}{10.155.4}{10.12.4.4}{1131, 992, 10402} यत्¦ह॒¦प्राचीः᳚¦अज॑गन्त¦उरः॑¦म॒ण्डू॒र॒ऽधा॒णि॒कीः॒ | ह॒ताः¦इन्द्र॑स्य¦शत्र॑वः¦सर्वे᳚¦बु॒द्बु॒दऽया᳚शवः || |
परी॒मे गाम॑नेषत॒ पर्य॒ग्निम॑हृषत |{भारद्वाजो शिरिंबिठः | विश्वदेवाः | अनुष्टुप्} दे॒वेष्व॑क्रत॒ श्रवः॒ क इ॒माँ, आ द॑धर्षति ||{5/5}{8.8.13.5}{10.155.5}{10.12.4.5}{1132, 992, 10403} परि॑¦इ॒मे¦गाम्¦अ॒ने॒ष॒त॒¦परि॑¦अ॒ग्निम्¦अ॒हृ॒ष॒त॒ | दे॒वेषु॑¦अ॒क्र॒त॒¦श्रवः॑¦कः¦इ॒मान्¦आ¦द॒ध॒र्ष॒ति॒ || |
[111] अग्निमिति पंचर्चस्य सूक्तस्याग्नेयः केतुरग्निर्गायत्री | |
अ॒ग्निं हि᳚न्वन्तु नो॒ धियः॒ सप्ति॑मा॒शुमि॑वा॒जिषु॑ |{आग्नेयः केतुः | अग्निः | गायत्री} तेन॑ जेष्म॒ धनं᳚धनम् ||{1/5}{8.8.14.1}{10.156.1}{10.12.5.1}{1133, 993, 10404} अ॒ग्निम्¦हि॒न्व॒न्तु॒¦नः॒¦धियः॑¦सप्ति᳚म्¦आ॒शुम्ऽइ᳚व¦आ॒जिषु॑ | तेन॑¦जे॒ष्म॒¦धन᳚म्ऽधनम् || |
यया॒ गा, आ॒करा᳚महे॒ सेन॑याग्ने॒ तवो॒त्या |{आग्नेयः केतुः | अग्निः | गायत्री} तां नो᳚ हिन्व म॒घत्त॑ये ||{2/5}{8.8.14.2}{10.156.2}{10.12.5.2}{1134, 993, 10405} यया᳚¦गाः¦आ॒ऽकरा᳚महे¦सेन॑या¦अ॒ग्ने॒¦तव॑¦ऊ॒त्या | ताम्¦नः॒¦हि॒न्व॒¦म॒घत्त॑ये || |
आग्ने᳚ स्थू॒रं र॒यिं भ॑र पृ॒थुं गोम᳚न्तम॒श्विन᳚म् |{आग्नेयः केतुः | अग्निः | गायत्री} अ॒ङ्धि खं व॒र्तया᳚ प॒णिम् ||{3/5}{8.8.14.3}{10.156.3}{10.12.5.3}{1135, 993, 10406} आ¦अ॒ग्ने॒¦स्थू॒रम्¦र॒यिम्¦भ॒र॒¦पृ॒थुम्¦गोऽम᳚न्तम्¦अ॒श्विन᳚म् | अ॒ङ्धि¦खम्¦व॒र्तय॑¦प॒णिम् || |
अग्ने॒ नक्ष॑त्रम॒जर॒मा सूर्यं᳚ रोहयो दि॒वि |{आग्नेयः केतुः | अग्निः | गायत्री} दध॒ज्ज्योति॒र्जने᳚भ्यः ||{4/5}{8.8.14.4}{10.156.4}{10.12.5.4}{1136, 993, 10407} अग्ने᳚¦नक्ष॑त्रम्¦अ॒जर᳚म्¦आ¦सूर्य᳚म्¦रो॒ह॒यः॒¦दि॒वि | दध॑त्¦ज्योतिः॑¦जने᳚भ्यः || |
अग्ने᳚ के॒तुर्वि॒शाम॑सि॒ प्रेष्ठः॒ श्रेष्ठ॑ उपस्थ॒सत् |{आग्नेयः केतुः | अग्निः | गायत्री} बोधा᳚ स्तो॒त्रे वयो॒ दध॑त् ||{5/5}{8.8.14.5}{10.156.5}{10.12.5.5}{1137, 993, 10408} अग्ने᳚¦के॒तुः¦वि॒शाम्¦अ॒सि॒¦प्रेष्ठः॑¦श्रेष्ठः॑¦उ॒प॒स्थ॒ऽसत् | बोध॑¦स्तो॒त्रे¦वयः॑¦दध॑त् || |
[112] इमान्विति पंचर्चस्य सूक्तस्याप्त्यो भुवनो विश्वेदेवाद्विपदात्रिष्टुप् | (अत्रभौवनः साधनोवैकल्पिकः) |
इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे᳚ च दे॒वाः ||{आप्त्यो भुवनः | विश्वदेवाः | त्रिष्टुप्}{1/5}{8.8.15.1}{10.157.1}{10.12.6.1}{1138, 994, 10409} |
य॒ज्ञं च॑ नस्त॒न्वं᳚ च प्र॒जां चा᳚दि॒त्यैरिन्द्रः॑ स॒ह ची᳚कॢपाति ||{आप्त्यो भुवनः | विश्वदेवाः | त्रिष्टुप्}{2/5}{8.8.15.2}{10.157.2}{10.12.6.2}{1139, 994, 10410} |
आ॒दि॒त्यैरिन्द्रः॒ सग॑णो म॒रुद्भि॑र॒स्माकं᳚ भूत्ववि॒ता त॒नूना᳚म् ||{आप्त्यो भुवनः | विश्वदेवाः | त्रिष्टुप्}{3/5}{8.8.15.3}{10.157.3}{10.12.6.3}{1140, 994, 10411} |
ह॒त्वाय॑ दे॒वा, असु॑रा॒न्यदाय᳚न्दे॒वा दे᳚व॒त्वम॑भि॒रक्ष॑माणाः ||{आप्त्यो भुवनः | विश्वदेवाः | त्रिष्टुप्}{4/5}{8.8.15.4}{10.157.4}{10.12.6.4}{1141, 994, 10412} |
प्र॒त्यञ्च॑म॒र्कम॑नय॒ञ्छची᳚भि॒रादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ||{आप्त्यो भुवनः | विश्वदेवाः | त्रिष्टुप्}{5/5}{8.8.15.5}{10.157.5}{10.12.6.5}{1142, 994, 10413} |
[113] सूर्योन इति पंचर्चस्य सूक्तस्य सौर्यश्चक्षुर्मानवः सूर्यो गायत्री | |
सूर्यो᳚ नो दि॒वस्पा᳚तु॒ वातो᳚, अ॒न्तरि॑क्षात् |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री} अ॒ग्निर्नः॒ पार्थि॑वेभ्यः ||{1/5}{8.8.16.1}{10.158.1}{10.12.7.1}{1143, 995, 10414} सूर्यः॑¦नः॒¦दि॒वः¦पा॒तु॒¦वातः॑¦अ॒न्तरि॑क्षात् | अ॒ग्निः¦नः॒¦पार्थि॑वेभ्यः || |
जोषा᳚ सवित॒र्यस्य॑ ते॒ हरः॑ श॒तं स॒वाँ, अर्ह॑ति |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री} पा॒हि नो᳚ दि॒द्युतः॒ पत᳚न्त्याः ||{2/5}{8.8.16.2}{10.158.2}{10.12.7.2}{1144, 995, 10415} जोष॑¦स॒वि॒तः॒¦यस्य॑¦ते॒¦हरः॑¦श॒तम्¦स॒वान्¦अर्ह॑ति | पा॒हि¦नः॒¦दि॒द्युतः॑¦पत᳚न्त्याः || |
चक्षु᳚र्नो दे॒वः स॑वि॒ता चक्षु᳚र्न उ॒त पर्व॑तः |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री} चक्षु॑र्धा॒ता द॑धातु नः ||{3/5}{8.8.16.3}{10.158.3}{10.12.7.3}{1145, 995, 10416} चक्षुः॑¦नः॒¦दे॒वः¦स॒वि॒ता¦चक्षुः॑¦नः॒¦उ॒त¦पर्व॑तः | चक्षुः॑¦धा॒ता¦द॒धा॒तु॒¦नः॒ || |
चक्षु᳚र्नो धेहि॒ चक्षु॑षे॒ चक्षु᳚र्वि॒ख्यै त॒नूभ्यः॑ |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री} सं चे॒दं वि च॑ पश्येम ||{4/5}{8.8.16.4}{10.158.4}{10.12.7.4}{1146, 995, 10417} चक्षुः॑¦नः॒¦धे॒हि॒¦चक्षु॑षे¦चक्षुः॑¦वि॒ऽख्यै¦त॒नूभ्यः॑ | सम्¦च॒¦इ॒दम्¦वि¦च॒¦प॒श्ये॒म॒ || |
सु॒सं॒दृशं᳚ त्वा व॒यं प्रति॑ पश्येम सूर्य |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री} वि प॑श्येम नृ॒चक्ष॑सः ||{5/5}{8.8.16.5}{10.158.5}{10.12.7.5}{1147, 995, 10418} सु॒ऽस॒न्दृश᳚म्¦त्वा॒¦व॒यम्¦प्रति॑¦प॒श्ये॒म॒¦सू॒र्य॒ | वि¦प॒श्ये॒म॒¦नृ॒ऽचक्ष॑सः || |
[114] उदसाविति षढचस्य सूक्तस्य पौलोमी शचीशच्यनुष्टुप् | |
उद॒सौ सूर्यो᳚, अगा॒दुद॒यं मा᳚म॒को भगः॑ |{पौलोमी शचीः | शची | अनुष्टुप्} अ॒हं तद्वि॑द्व॒ला पति॑म॒भ्य॑साक्षि विषास॒हिः ||{1/6}{8.8.17.1}{10.159.1}{10.12.8.1}{1148, 996, 10419} उत्¦अ॒सौ¦सूर्यः॑¦अ॒गा॒त्¦उत्¦अ॒यम्¦मा॒म॒कः¦भगः॑ | अ॒हम्¦तत्¦वि॒द्व॒ला¦पति᳚म्¦अ॒भि¦आ॒सा॒क्षि॒¦वि॒ऽस॒स॒हिः || |
अ॒हं के॒तुर॒हं मू॒र्धाहमु॒ग्रा वि॒वाच॑नी |{पौलोमी शचीः | शची | अनुष्टुप्} ममेदनु॒ क्रतुं॒ पतिः॑ सेहा॒नाया᳚, उ॒पाच॑रेत् ||{2/6}{8.8.17.2}{10.159.2}{10.12.8.2}{1149, 996, 10420} अ॒हम्¦के॒तुः¦अ॒हम्¦मू॒र्धा¦अ॒हम्¦उ॒ग्रा¦वि॒ऽवाच॑नी | मम॑¦इत्¦अनु॑¦क्रतु᳚म्¦पतिः॑¦से॒हा॒नायाः᳚¦उ॒प॒ऽआच॑रेत् || |
मम॑ पु॒त्राः श॑त्रु॒हणोऽथो᳚ मे दुहि॒ता वि॒राट् |{पौलोमी शचीः | शची | अनुष्टुप्} उ॒ताहम॑स्मि संज॒या पत्यौ᳚ मे॒ श्लोक॑ उत्त॒मः ||{3/6}{8.8.17.3}{10.159.3}{10.12.8.3}{1150, 996, 10421} मम॑¦पु॒त्राः¦श॒त्रु॒ऽहनः॑¦अथो॒ इति॑¦मे॒¦दु॒हि॒ता¦वि॒राट् | उ॒त¦अ॒हम्¦अ॒स्मि॒¦स॒म्ऽज॒या¦पत्यौ᳚¦मे॒¦श्लोकः॑¦उ॒त्ऽत॒मः || |
येनेन्द्रो᳚ ह॒विषा᳚ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः |{पौलोमी शचीः | शची | अनुष्टुप्} इ॒दं तद॑क्रि देवा, असप॒त्ना किला᳚भुवम् ||{4/6}{8.8.17.4}{10.159.4}{10.12.8.4}{1151, 996, 10422} येन॑¦इन्द्रः॑¦ह॒विषा᳚¦कृ॒त्वी¦अभ॑वत्¦द्यु॒म्नी¦उ॒त्ऽत॒मः | इ॒दन्म्¦तत्¦अ॒क्रि॒¦दे॒वाः॒¦अ॒स॒प॒त्ना¦किल॑¦अ॒भु॒व॒म् || |
अ॒स॒प॒त्ना स॑पत्न॒घ्नी जय᳚न्त्यभि॒भूव॑री |{पौलोमी शचीः | शची | अनुष्टुप्} आवृ॑क्षम॒न्यासां॒ वर्चो॒ राधो॒, अस्थे᳚यसामिव ||{5/6}{8.8.17.5}{10.159.5}{10.12.8.5}{1152, 996, 10423} अ॒स॒प॒त्ना¦स॒प॒त्न॒ऽघ्नी¦जय᳚न्ती¦अ॒भि॒ऽभूव॑री | आ¦अ॒वृ॒क्ष॒म्¦अ॒न्यासा᳚म्¦वर्चः॑¦राधः॑¦अस्थे᳚यसाम्ऽइव || |
सम॑जैषमि॒मा, अ॒हं स॒पत्नी᳚रभि॒भूव॑री |{पौलोमी शचीः | शची | अनुष्टुप्} यथा॒हम॒स्य वी॒रस्य॑ वि॒राजा᳚नि॒ जन॑स्य च ||{6/6}{8.8.17.6}{10.159.6}{10.12.8.6}{1153, 996, 10424} सम्¦अ॒जै॒ष॒म्¦इ॒माः¦अ॒हम्¦स॒ऽपत्नीः᳚¦अ॒भि॒ऽभूव॑री | यथा᳚¦अ॒हम्¦अ॒स्य¦वी॒रस्य॑¦वि॒ऽराजा᳚नि¦जन॑स्य¦च॒ || |
[115] तीव्रस्येति पंचर्चस्य सूक्तस्य वैश्वामित्रः पूरणइंद्रस्त्रिष्टुप् | |
ती॒व्रस्या॒भिव॑यसो, अ॒स्य पा᳚हि सर्वर॒था वि हरी᳚, इ॒ह मु᳚ञ्च |{वैश्वामित्रः पूरणः | इन्द्रः | त्रिष्टुप्} इन्द्र॒ मा त्वा॒ यज॑मानासो, अ॒न्ये नि री᳚रम॒न्तुभ्य॑मि॒मे सु॒तासः॑ ||{1/5}{8.8.18.1}{10.160.1}{10.12.9.1}{1154, 997, 10425} ती॒व्रस्य॑¦अ॒भिऽव॑यसः¦अ॒स्य¦पा॒हि॒¦स॒र्व॒ऽर॒था¦वि¦हरी॒ इति॑¦इ॒ह¦मुं॒च॒ | |
तुभ्यं᳚ सु॒तास्तुभ्य॑मु॒ सोत्वा᳚स॒स्त्वां गिरः॒ श्वात्र्या॒, आ ह्व॑यन्ति |{वैश्वामित्रः पूरणः | इन्द्रः | त्रिष्टुप्} इन्द्रे॒दम॒द्य सव॑नं जुषा॒णो विश्व॑स्य वि॒द्वाँ, इ॒ह पा᳚हि॒ सोम᳚म् ||{2/5}{8.8.18.2}{10.160.2}{10.12.9.2}{1155, 997, 10426} तुभ्य᳚म्¦सु॒ताः¦तुभ्य᳚म्¦ऊँ॒ इति॑¦सोत्वा᳚सः¦त्वाम्¦गिरः॑¦श्वात्र्याः᳚¦आ¦ह्व॒य॒न्ति॒ | |
य उ॑श॒ता मन॑सा॒ सोम॑मस्मै सर्वहृ॒दा दे॒वका᳚मः सु॒नोति॑ |{वैश्वामित्रः पूरणः | इन्द्रः | त्रिष्टुप्} न गा, इन्द्र॒स्तस्य॒ परा᳚ ददाति प्रश॒स्तमिच्चारु॑मस्मै कृणोति ||{3/5}{8.8.18.3}{10.160.3}{10.12.9.3}{1156, 997, 10427} यः¦उ॒श॒ता¦मन॑सा¦सोम᳚म्¦अ॒स्मै॒¦स॒र्व॒ऽहृ॒दा¦दे॒वऽका᳚मः¦सु॒नोति॑ | |
अनु॑स्पष्टो भवत्ये॒षो, अ॑स्य॒ यो, अ॑स्मै रे॒वान्न सु॒नोति॒ सोम᳚म् |{वैश्वामित्रः पूरणः | इन्द्रः | त्रिष्टुप्} निर॑र॒त्नौ म॒घवा॒ तं द॑धाति ब्रह्म॒द्विषो᳚ ह॒न्त्यना᳚नुदिष्टः ||{4/5}{8.8.18.4}{10.160.4}{10.12.9.4}{1157, 997, 10428} अनु॑ऽस्पष्टः¦भ॒व॒ति॒¦ए॒षः¦अ॒स्य॒¦यः¦अ॒स्मै॒¦रे॒वान्¦न¦सु॒नोति॑¦सोम᳚म् | |
अ॒श्वा॒यन्तो᳚ ग॒व्यन्तो᳚ वा॒जय᳚न्तो॒ हवा᳚महे॒ त्वोप॑गन्त॒वा, उ॑ |{वैश्वामित्रः पूरणः | इन्द्रः | त्रिष्टुप्} आ॒भूष᳚न्तस्ते सुम॒तौ नवा᳚यां व॒यमि᳚न्द्र त्वा शु॒नं हु॑वेम ||{5/5}{8.8.18.5}{10.160.5}{10.12.9.5}{1158, 997, 10429} अ॒श्व॒यन्तः॑¦ग॒व्यन्तः॑¦वा॒जय᳚न्तः¦हवा᳚महे¦त्वा॒¦उप॑ऽग॒न्त॒वै¦ऊँ॒ इति॑ | |
[116] मुंचामित्वेति पंचर्चस्य सूक्तस्य प्राजापत्यो यक्ष्मनाशन इंद्राग्नीत्रिष्टुबंत्यानुष्टुप् | (मुंचामीति सूक्ते राज यक्ष्मघ्नमित्युक्ते राजयक्ष्मनाशनो देवतेतिकेचित् अन्येप्रजापतिमाहुः इंद्राग्नीइतितुयास्कः इत्थंमतवैविध्येपि 'षळाहुतिश्चरुर्मुंचामित्वाहविषा जीवनायकमित्येतेनेति' गृह्यसूत्रानुसारिवृत्तिकृत्कारिका कारादिभिरस्य सूक्तस्यैंद्राग्नि (देवतात्वनिर्देशत्तेएवस्माभिरुक्ते) |
मु॒ञ्चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा᳚जय॒क्ष्मात् |{प्राजापत्यो यक्ष्मनाशनः | इन्द्राग्नी राजयक्ष्मघ्नरूपोर्थो वा देवता | त्रिष्टुप्} ग्राहि॑र्ज॒ग्राह॒ यदि॑ वै॒तदे᳚नं॒ तस्या᳚, इन्द्राग्नी॒ प्र मु॑मुक्तमेनम् ||{1/5}{8.8.19.1}{10.161.1}{10.12.10.1}{1159, 998, 10430} मुं॒चामि॑¦त्वा॒¦ह॒विषा᳚¦जीव॑नाय¦कम्¦अ॒ज्ञा॒त॒ऽय॒क्ष्मात्¦उ॒त¦रा॒ज॒ऽय॒क्ष्मात् | |
यदि॑ क्षि॒तायु॒र्यदि॑ वा॒ परे᳚तो॒ यदि॑ मृ॒त्योर᳚न्ति॒कं नी᳚त ए॒व |{प्राजापत्यो यक्ष्मनाशनः | इन्द्राग्नी राजयक्ष्मघ्नरूपोर्थो वा देवता | त्रिष्टुप्} तमा ह॑रामि॒ निरृ॑तेरु॒पस्था॒दस्पा᳚र्षमेनं श॒तशा᳚रदाय ||{2/5}{8.8.19.2}{10.161.2}{10.12.10.2}{1160, 998, 10431} यदि॑¦क्षि॒तऽआ᳚युः¦यदि॑¦वा॒¦परा᳚ऽइतः¦यदि॑¦मृ॒त्योः¦अ॒न्ति॒कम्¦निऽइ᳚तः¦ए॒व | |
स॒ह॒स्रा॒क्षेण॑ श॒तशा᳚रदेन श॒तायु॑षा ह॒विषाहा᳚र्षमेनम् |{प्राजापत्यो यक्ष्मनाशनः | इन्द्राग्नी राजयक्ष्मघ्नरूपोर्थो वा देवता | त्रिष्टुप्} श॒तं यथे॒मं श॒रदो॒ नया॒तीन्द्रो॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रम् ||{3/5}{8.8.19.3}{10.161.3}{10.12.10.3}{1161, 998, 10432} स॒ह॒स्र॒।आ॒क्षेण॑¦श॒तऽशा᳚रदेन¦श॒तऽआ᳚युषा¦ह॒विषा᳚¦आ¦अ॒हा॒र्ष॒म्¦ए॒न॒म् | |
श॒तं जी᳚व श॒रदो॒ वर्ध॑मानः श॒तं हे᳚म॒न्ताञ्छ॒तमु॑ वस॒न्तान् |{प्राजापत्यो यक्ष्मनाशनः | इन्द्राग्नी राजयक्ष्मघ्नरूपोर्थो वा देवता | त्रिष्टुप्} श॒तमि᳚न्द्रा॒ग्नी स॑वि॒ता बृह॒स्पतिः॑ श॒तायु॑षा ह॒विषे॒मं पुन॑र्दुः ||{4/5}{8.8.19.4}{10.161.4}{10.12.10.4}{1162, 998, 10433} श॒तम्¦जी॒व॒¦श॒रदः॑¦वर्ध॑मानः¦श॒तम्¦हे॒म॒न्तान्¦श॒तम्¦ऊँ॒ इति॑¦व॒स॒न्तान् | |
आहा᳚र्षं॒ त्वावि॑दं त्वा॒ पुन॒रागाः᳚ पुनर्नव |{प्राजापत्यो यक्ष्मनाशनः | इन्द्राग्नी राजयक्ष्मघ्नरूपोर्थो वा देवता | अनुष्टुप्} सर्वा᳚ङ्ग॒ सर्वं᳚ ते॒ चक्षुः॒ सर्व॒मायु॑श्च तेऽविदम् ||{5/5}{8.8.19.5}{10.161.5}{10.12.10.5}{1163, 998, 10434} आ¦अ॒हा॒र्ष॒म्¦त्वा॒¦अवि॑दम्¦त्वा॒¦पुनः॑¦आ¦अ॒गाः॒¦पु॒नः॒ऽन॒व॒ | सर्व॑।आङ्ग¦सर्व᳚म्¦ते॒¦चक्षुः॑¦सर्व᳚म्¦आयुः॑¦च॒¦ते॒¦अ॒वि॒द॒म् || |
[117] ब्रह्मणाग्रिरिति षडृचस्य सूक्तस्य ब्राह्मोरक्षोहा प्रजापतिरनुष्टुप् | (अत्रसूक्तेऽनुक्रमण्यवष्टंभेनदेवतानिर्णयोनभवति | यतस्तत्र गर्भस्रावे प्रायश्चित्तिरित्युक्तं तेनसूक्तस्य प्रभावमात्रंद्योत्यतेनतुदेवता | अतोत्रप्रजापतिर्देवताग्राह्या | तथाच शौनकः 'मंत्रेषुह्यनिरुक्तेषु देवतांकर्मतोवदेत् | मंत्रतः कर्मणाचैव प्रजापतिरसंभवे' इति | भाष्यकारैरपिप्रजापतिरेवोक्तः | बृहद्देवतायांतु राक्षोघ्नाग्नेयमित्युक्तं तत्रयुक्तायुक्तंसद्भिर्विचारणीयम् ) | |
ब्रह्म॑णा॒ग्निः सं᳚विदा॒नो र॑क्षो॒हा बा᳚धतामि॒तः |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्} अमी᳚वा॒ यस्ते॒ गर्भं᳚ दु॒र्णामा॒ योनि॑मा॒शये᳚ ||{1/6}{8.8.20.1}{10.162.1}{10.12.11.1}{1164, 999, 10435} ब्रह्म॑णा¦अ॒ग्निः¦सा॒म्ऽवि॒दा॒नः¦र॒क्षः॒ऽहा¦बा॒ध॒ता॒म्¦इ॒तः | अमी᳚वा¦यः¦ते॒¦गर्भ᳚म्¦दुः॒ऽनामा᳚¦योनि᳚म्¦आ॒शये᳚ || |
यस्ते॒ गर्भ॒ममी᳚वा दु॒र्णामा॒ योनि॑मा॒शये᳚ |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्} अ॒ग्निष्टं ब्रह्म॑णा स॒ह निष्क्र॒व्याद॑मनीनशत् ||{2/6}{8.8.20.2}{10.162.2}{10.12.11.2}{1165, 999, 10436} यः¦ते॒¦गर्भ᳚म्¦अमी᳚वा¦दुः॒ऽनामा᳚¦योनि᳚म्¦आ॒ऽशये᳚ | अ॒ग्निः¦तम्¦ब्रह्म॑णा¦स॒ह¦निः¦क्र॒व्य॒।आद᳚म्¦अ॒नी॒न॒श॒त् || |
यस्ते॒ हन्ति॑ प॒तय᳚न्तं निष॒त्स्नुं यः स॑रीसृ॒पम् |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्} जा॒तं यस्ते॒ जिघां᳚सति॒ तमि॒तो ना᳚शयामसि ||{3/6}{8.8.20.3}{10.162.3}{10.12.11.3}{1166, 999, 10437} यः¦ते॒¦हन्ति॑¦प॒तय᳚न्तम्¦नि॒ऽस॒त्स्नुम्¦यः¦स॒री॒सृ॒पम् | जा॒तम्¦यः¦ते॒¦जिघां᳚सति¦तम्¦इ॒तः¦ना॒श॒या॒म॒सि॒ || |
यस्त॑ ऊ॒रू वि॒हर॑त्यन्त॒रा दम्प॑ती॒ शये᳚ |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्} योनिं॒ यो, अ॒न्तरा॒रेळ्हि॒ तमि॒तो ना᳚शयामसि ||{4/6}{8.8.20.4}{10.162.4}{10.12.11.4}{1167, 999, 10438} यः¦ते॒¦ऊ॒रू इति॑¦वि॒ऽहर॑ति¦अ॒न्त॒रा¦दंप॑ती॒ इति॒ दम्ऽप॑ती¦शये᳚ | योनि᳚म्¦यः¦अ॒न्तः¦आ॒ऽरेळ्हि॑¦तम्¦इ॒तः¦ना॒श॒या॒म॒सि॒ || |
यस्त्वा॒ भ्राता॒ पति॑र्भू॒त्वा जा॒रो भू॒त्वा नि॒पद्य॑ते |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्} प्र॒जां यस्ते॒ जिघां᳚सति॒ तमि॒तो ना᳚शयामसि ||{5/6}{8.8.20.5}{10.162.5}{10.12.11.5}{1168, 999, 10439} यः¦त्वा॒¦भ्राता᳚¦पतिः॑¦भू॒त्वा¦जा॒रः¦भू॒त्वा¦नि॒ऽपद्य॑ते | प्र॒ऽजाम्¦यः¦ते॒¦जिघां᳚सति¦तम्¦इ॒तः¦ना॒श॒या॒म॒सि॒ || |
यस्त्वा॒ स्वप्ने᳚न॒ तम॑सा मोहयि॒त्वा नि॒पद्य॑ते |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्} प्र॒जां यस्ते॒ जिघां᳚सति॒ तमि॒तो ना᳚शयामसि ||{6/6}{8.8.20.6}{10.162.6}{10.12.11.6}{1169, 999, 10440} यः¦त्वा॒¦स्वप्ने᳚न¦तम॑सा¦मो॒ह॒यि॒त्वा¦नि॒ऽपद्य॑ते | प्र॒ऽजाम्¦यः¦ते॒¦जिघां᳚सति¦तम्¦इ॒तः¦ना॒श॒या॒म॒सि॒ || |
[118] अक्षीभ्यामिति षडृचस्य सूक्तस्य काश्यपोविवृहायक्ष्महानुष्टुप् | |
अ॒क्षीभ्यां᳚ ते॒ नासि॑काभ्यां॒ कर्णा᳚भ्यां॒ छुबु॑का॒दधि॑ |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्} यक्ष्मं᳚ शीर्ष॒ण्यं᳚ म॒स्तिष्का᳚ज्जि॒ह्वाया॒ वि वृ॑हामि ते ||{1/6}{8.8.21.1}{10.163.1}{10.12.12.1}{1170, 1000, 10441} अ॒क्षीभ्या᳚म्¦ते॒¦नासि॑काभ्याम्¦कर्णा᳚भ्याम्¦छुबु॑कात्¦अधि॑ | यक्ष्म᳚म्¦शी॒र्ष॒ण्य᳚म्¦म॒स्तिष्का᳚त्¦जि॒ह्वायाः᳚¦वि¦वृ॒हा॒मि॒¦ते॒ || |
ग्री॒वाभ्य॑स्त उ॒ष्णिहा᳚भ्यः॒ कीक॑साभ्यो, अनू॒क्या᳚त् |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्} यक्ष्मं᳚ दोष॒ण्य१॑(अ॒)मंसा᳚भ्यां बा॒हुभ्यां॒ वि वृ॑हामि ते ||{2/6}{8.8.21.2}{10.163.2}{10.12.12.2}{1171, 1000, 10442} ग्री॒वाभ्यः॑¦ते॒¦उ॒ष्णिहा᳚भ्यः¦कीक॑साभ्यः¦अ॒नू॒क्या᳚त् | यक्ष्म᳚म्¦दो॒ष॒ण्य᳚म्¦अंसा᳚भ्याम्¦बा॒हुऽभ्या᳚म्¦वि¦वृ॒हा॒मि॒¦ते॒ || |
आ॒न्त्रेभ्य॑स्ते॒ गुदा᳚भ्यो वनि॒ष्ठोर्हृद॑या॒दधि॑ |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्} यक्ष्मं॒ मत॑स्नाभ्यां य॒क्नः प्ला॒शिभ्यो॒ वि वृ॑हामि ते ||{3/6}{8.8.21.3}{10.163.3}{10.12.12.3}{1172, 1000, 10443} आ॒न्त्रेभ्यः॑¦ते॒¦गुदा᳚भ्यः¦व॒नि॒ष्ठोः¦हृद॑यात्¦अधि॑ | यक्ष्म᳚म्¦मत॑स्नाभ्याम्¦य॒क्नः¦प्ला॒शिऽभ्यः॑¦वि¦वृ॒हा॒मि॒¦ते॒ || |
ऊ॒रुभ्यां᳚ ते, अष्ठी॒वद्भ्यां॒ पार्ष्णि॑भ्यां॒ प्रप॑दाभ्याम् |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्} यक्ष्मं॒ श्रोणि॑भ्यां॒ भास॑दा॒द्भंस॑सो॒ वि वृ॑हामि ते ||{4/6}{8.8.21.4}{10.163.4}{10.12.12.4}{1173, 1000, 10444} ऊ॒रुऽभ्या᳚म्¦ते॒¦अ॒ष्ठी॒वत्ऽभ्या᳚म्¦पार्ष्णि॑ऽभ्याम्¦प्रऽप॑दाभ्याम् | यक्ष्म᳚म्¦श्रोणि॑ऽभ्य्म्¦भास॑दात्¦भंस॑सः¦वि¦वृ॒हा॒मि॒¦ते॒ || |
मेह॑नाद्वनं॒कर॑णा॒ल्लोम॑भ्यस्ते न॒खेभ्यः॑ |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्} यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ||{5/6}{8.8.21.5}{10.163.5}{10.12.12.5}{1174, 1000, 10445} मेह॑नात्¦व॒न॒म्ऽकर॑णात्¦लोम॑ऽभ्यः¦ते॒¦न॒खेभ्यः॑ | यक्ष्म᳚म्¦सर्व॑स्मात्¦आ॒त्मनः॑¦तम्¦इ॒दम्¦वि¦वृ॒हा॒मि॒¦ते॒ || |
अङ्गा᳚दङ्गा॒ल्लोम्नो᳚लोम्नो जा॒तं पर्व॑णिपर्वणि |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्} यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ||{6/6}{8.8.21.6}{10.163.6}{10.12.12.6}{1175, 1000, 10446} अङ्गा᳚त्।आङ्गात्¦लोम्नः॑ऽलोम्नः¦जा॒तम्¦पर्व॑णिऽपर्वणि | यक्ष्म᳚म्¦सर्व॑स्मात्¦आ॒त्मनः॑¦तम्¦इ॒दम्¦वि¦वृ॒हा॒मि॒¦ते॒ || |
[119] अपेहीति पंचर्चस्य सूक्तस्यांगिरसः प्रचेता दुःस्वप्ननाशनोनुष्टुप् तृतीया त्रिष्टुप् अंत्यापंक्तिः | |
अपे᳚हि मनसस्प॒तेऽप॑ क्राम प॒रश्च॑र |{आंगिरसः प्रचेतादुः | दुःस्वप्ननाशनः | अनुष्टुप्} प॒रो निरृ॑त्या॒, आ च॑क्ष्व बहु॒धा जीव॑तो॒ मनः॑ ||{1/5}{8.8.22.1}{10.164.1}{10.12.13.1}{1176, 1001, 10447} अप॑¦इ॒हि॒¦म॒न॒सः॒¦प॒ते॒¦अप॑¦क्रा॒म॒¦प॒रः¦च॒र॒ | प॒रः¦निःऽऋ॑त्यै¦आ¦च॒क्ष्व॒¦ब॒हु॒धा¦जीव॑तः¦मनः॑ || |
भ॒द्रं वै वरं᳚ वृणते भ॒द्रं यु᳚ञ्जन्ति॒ दक्षि॑णम् |{आंगिरसः प्रचेतादुः | दुःस्वप्ननाशनः | अनुष्टुप्} भ॒द्रं वै᳚वस्व॒ते चक्षु॑र्बहु॒त्रा जीव॑तो॒ मनः॑ ||{2/5}{8.8.22.2}{10.164.2}{10.12.13.2}{1177, 1001, 10448} भ॒द्रम्¦वै¦वर᳚म्¦वृ॒ण॒ते॒¦भ॒द्रम्¦युं॒ज॒न्ति॒¦दक्षि॑णम् | भ॒द्रम्¦वै॒व॒स्व॒ते¦चक्षुः॑¦ब॒हु॒ऽत्रा¦जीव॑तः¦मनः॑ || |
यदा॒शसा᳚ निः॒शसा᳚भि॒शसो᳚पारि॒म जाग्र॑तो॒ यत्स्व॒पन्तः॑ |{आंगिरसः प्रचेतादुः | दुःस्वप्ननाशनः | त्रिष्टुप्} अ॒ग्निर्विश्वा॒न्यप॑ दुष्कृ॒तान्यजु॑ष्टान्या॒रे, अ॒स्मद्द॑धातु ||{3/5}{8.8.22.3}{10.164.3}{10.12.13.3}{1178, 1001, 10449} यत्¦आ॒ऽशसा᳚¦निः॒ऽशसा᳚¦अ॒भि॒ऽशसा᳚¦उ॒प॒ऽआ॒रि॒म¦जाग्र॑तः¦यत्¦स्व॒पन्तः॑ | |
यदि᳚न्द्र ब्रह्मणस्पतेऽभिद्रो॒हं चरा᳚मसि |{आंगिरसः प्रचेतादुः | दुःस्वप्ननाशनः | अनुष्टुप्} प्रचे᳚ता न आङ्गिर॒सो द्वि॑ष॒तां पा॒त्वंह॑सः ||{4/5}{8.8.22.4}{10.164.4}{10.12.13.4}{1179, 1001, 10450} यत्¦इ॒न्द्र॒¦ब्र॒ह्म॒णः॒¦प॒ते॒¦अ॒भि॒ऽद्रो॒हम्¦चरा᳚मसि | प्रऽचे᳚ताः¦नः॒¦आ॒ङ्गि॒र॒सः¦द्वि॒ष॒ताम्¦पा॒तु॒¦अंह॑सः || |
अजै᳚ष्मा॒द्यास॑नाम॒ चाभू॒माना᳚गसो व॒यम् |{आंगिरसः प्रचेतादुः | दुःस्वप्ननाशनः | पङ्क्तिः} जा॒ग्र॒त्स्व॒प्नः सं᳚क॒ल्पः पा॒पो यं द्वि॒ष्मस्तं स ऋ॑च्छतु॒ यो नो॒ द्वेष्टि॒ तमृ॑च्छतु ||{5/5}{8.8.22.5}{10.164.5}{10.12.13.5}{1180, 1001, 10451} अजै᳚ष्म¦अ॒द्य¦अस॑नाम¦च॒¦अभू᳚म¦अना᳚गसः¦व॒यम् | |
[120] देवाइति पंचर्चस्य सूक्तस्य नैरृतः कपोतोर्विश्वेदेवास्त्रिष्टुप् | |
देवाः᳚ क॒पोत॑ इषि॒तो यदि॒च्छन्दू॒तो निरृ॑त्या, इ॒दमा᳚ज॒गाम॑ |{नैरृतः कपोतः | विश्वेदेवाः | त्रिष्टुप्} तस्मा᳚, अर्चाम कृ॒णवा᳚म॒ निष्कृ॑तिं॒ शं नो᳚, अस्तु द्वि॒पदे॒ शं चतु॑ष्पदे ||{1/5}{8.8.23.1}{10.165.1}{10.12.14.1}{1181, 1002, 10452} देवाः᳚¦क॒पोतः॑¦इ॒षि॒तः¦यत्¦इ॒च्छन्¦दू॒तः¦निःऽऋ॑त्याः¦इ॒दम्¦आ॒ऽज॒गाम॑ | |
शि॒वः क॒पोत॑ इषि॒तो नो᳚, अस्त्वना॒गा दे᳚वाः शकु॒नो गृ॒हेषु॑ |{नैरृतः कपोतः | विश्वेदेवाः | त्रिष्टुप्} अ॒ग्निर्हि विप्रो᳚ जु॒षतां᳚ ह॒विर्नः॒ परि॑ हे॒तिः प॒क्षिणी᳚ नो वृणक्तु ||{2/5}{8.8.23.2}{10.165.2}{10.12.14.2}{1182, 1002, 10453} शि॒वः¦क॒पोतः॑¦इ॒षि॒तः¦नः॒¦अ॒स्तु॒¦अ॒ना॒गाः¦दे॒वाः॒¦श॒कु॒नः¦गृ॒हेषु॑ | |
हे॒तिः प॒क्षिणी॒ न द॑भात्य॒स्माना॒ष्ट्र्यां प॒दं कृ॑णुते, अग्नि॒धाने᳚ |{नैरृतः कपोतः | विश्वेदेवाः | त्रिष्टुप्} शं नो॒ गोभ्य॑श्च॒ पुरु॑षेभ्यश्चास्तु॒ मा नो᳚ हिंसीदि॒ह दे᳚वाः क॒पोतः॑ ||{3/5}{8.8.23.3}{10.165.3}{10.12.14.3}{1183, 1002, 10454} हे॒तिः¦प॒क्षिणी᳚¦न¦द॒भा॒ति॒¦अ॒स्मान्¦आ॒ष्ट्र्याम्¦प॒दम्¦कृ॒णु॒ते॒¦अ॒ग्नि॒ऽधाने᳚ | |
यदुलू᳚को॒ वद॑ति मो॒घमे॒तद्यत्क॒पोतः॑ प॒दम॒ग्नौ कृ॒णोति॑ |{नैरृतः कपोतः | विश्वेदेवाः | त्रिष्टुप्} यस्य॑ दू॒तः प्रहि॑त ए॒ष ए॒तत्तस्मै᳚ य॒माय॒ नमो᳚, अस्तु मृ॒त्यवे᳚ ||{4/5}{8.8.23.4}{10.165.4}{10.12.14.4}{1184, 1002, 10455} यत्¦उलू᳚कः¦वद॑ति¦मो॒घम्¦ए॒तत्¦यत्¦क॒पोतः॑¦प॒दम्¦अ॒ग्नौ¦कृ॒णोति॑ | |
ऋ॒चा क॒पोतं᳚ नुदत प्र॒णोद॒मिषं॒ मद᳚न्तः॒ परि॒ गां न॑यध्वम् |{नैरृतः कपोतः | विश्वेदेवाः | त्रिष्टुप्} सं॒यो॒पय᳚न्तो दुरि॒तानि॒ विश्वा᳚ हि॒त्वा न॒ ऊर्जं॒ प्र प॑ता॒त्पति॑ष्ठः ||{5/5}{8.8.23.5}{10.165.5}{10.12.14.5}{1185, 1002, 10456} ऋ॒चा¦क॒पोत᳚म्¦नु॒द॒त॒¦प्र॒ऽनोद᳚म्¦इष᳚म्¦मद᳚न्तः¦परि॑¦गाम्¦न॒य॒ध्व॒म् | |
[121] ऋषभमिति पंचर्चस्य सूक्तस्य वैराजऋषभः सपत्ननाशनोनुष्ठुबंत्या महापंक्तिः | (शाक्वरोवाऋषिः)| |
ऋ॒ष॒भं मा᳚ समा॒नानां᳚ स॒पत्ना᳚नां विषास॒हिम् |{वैराजऋषभः | सपत्ननाशनः | अनुष्टुप्} ह॒न्तारं॒ शत्रू᳚णां कृधि वि॒राजं॒ गोप॑तिं॒ गवा᳚म् ||{1/5}{8.8.24.1}{10.166.1}{10.12.15.1}{1186, 1003, 10457} ऋ॒ष॒भम्¦मा॒¦स॒मा॒नाना᳚म्¦स॒ऽपत्ना᳚नाम्¦वि॒ऽस॒स॒हिम् | ह॒न्तार᳚म्¦शत्रू᳚णाम्¦कृ॒धि॒¦वि॒ऽराज᳚म्¦गोऽप॑तिम्¦गवा᳚म् || |
अ॒हम॑स्मि सपत्न॒हेन्द्र॑ इ॒वारि॑ष्टो॒, अक्ष॑तः |{वैराजऋषभः | सपत्ननाशनः | अनुष्टुप्} अ॒धः स॒पत्ना᳚ मे प॒दोरि॒मे सर्वे᳚, अ॒भिष्ठि॑ताः ||{2/5}{8.8.24.2}{10.166.2}{10.12.15.2}{1187, 1003, 10458} अ॒हम्¦अ॒स्मि॒¦स॒प॒त्न॒ऽहा¦इन्द्रः॑ऽइव¦अरि॑ष्टः¦अक्ष॑तः | अ॒धः¦स॒ऽपत्नाः᳚¦मे॒¦प॒दोः¦इ॒मे¦सर्वे᳚¦अ॒भिऽस्थि॑ताः || |
अत्रै॒व वोऽपि॑ नह्याम्यु॒भे, आर्त्नी᳚, इव॒ ज्यया᳚ |{वैराजऋषभः | सपत्ननाशनः | अनुष्टुप्} वाच॑स्पते॒ नि षे᳚धे॒मान्यथा॒ मदध॑रं॒ वदा॑न् ||{3/5}{8.8.24.3}{10.166.3}{10.12.15.3}{1188, 1003, 10459} अत्र॑¦ए॒व¦वः॒¦अपि॑¦न॒ह्या॒मि॒¦उ॒भे इति॑¦आर्त्नी᳚ इ॒वेत्यार्त्नी᳚ऽइव¦ज्यया᳚ | वाचः॑¦प॒ते॒¦नि¦से॒ध॒¦इ॒मान्¦यथा᳚¦मत्¦अध॑रम्¦वदा॑न् || |
अ॒भि॒भूर॒हमाग॑मं वि॒श्वक᳚र्मेण॒ धाम्ना᳚ |{वैराजऋषभः | सपत्ननाशनः | अनुष्टुप्} आ व॑श्चि॒त्तमा वो᳚ व्र॒तमा वो॒ऽहं समि॑तिं ददे ||{4/5}{8.8.24.4}{10.166.4}{10.12.15.4}{1189, 1003, 10460} अ॒भि॒ऽभूः¦अ॒हम्¦आ¦अ॒ग॒म॒म्¦वि॒श्वऽक᳚र्मेण¦धाम्ना᳚ | आ¦वः॒¦चि॒त्तम्¦आ¦वः॒¦व्र॒तम्¦आ¦वः॒¦अ॒हम्¦सम्ऽइ᳚तिम्¦द॒दे॒ || |
यो॒ग॒क्षे॒मं व॑ आ॒दाया॒हं भू᳚यासमुत्त॒म आ वो᳚ मू॒र्धान॑मक्रमीम् |{वैराजऋषभः | सपत्ननाशनः | महापङ्क्तिः} अ॒ध॒स्प॒दान्म॒ उद्व॑दत म॒ण्डूका᳚, इवोद॒कान्म॒ण्डूका᳚, उद॒कादि॑व ||{5/5}{8.8.24.5}{10.166.5}{10.12.15.5}{1190, 1003, 10461} यो॒ग॒ऽक्षे॒मम्¦वः॒¦आ॒ऽदाय॑¦अ॒हम्¦भू॒या॒स॒म्¦उ॒त्ऽत॒मः¦आ¦वः॒¦मू॒र्धान᳚म्¦अ॒क्र॒मी॒म् | |
[122] तुभ्येदमिति चतुरृचस्य सूक्तस्य गाथिभार्गवौ विश्वामित्र जमदग्नी इंद्रस्त्रतीयायाः सोमवरुण बृहस्पत्यनुमतिधातृविधातारोजगती | |
तुभ्ये॒दमि᳚न्द्र॒ परि॑ षिच्यते॒ मधु॒ त्वं सु॒तस्य॑ क॒लश॑स्य राजसि |{गाथिभार्गवौ विश्वामित्र जमदग्नी | इन्द्रः | जगती} त्वं र॒यिं पु॑रु॒वीरा᳚मु नस्कृधि॒ त्वं तपः॑ परि॒तप्या᳚जयः॒ स्वः॑ ||{1/4}{8.8.25.1}{10.167.1}{10.12.16.1}{1191, 1004, 10462} तुभ्य॑¦इ॒दम्¦इ॒न्द्र॒¦परि॑¦सि॒च्य॒ते॒¦मधु॑¦त्वम्¦सु॒तस्य॑¦क॒लश॑स्य¦रा॒ज॒सि॒ | |
स्व॒र्जितं॒ महि॑ मन्दा॒नमन्ध॑सो॒ हवा᳚महे॒ परि॑ श॒क्रं सु॒ताँ, उप॑ |{गाथिभार्गवौ विश्वामित्र जमदग्नी | इन्द्रः | जगती} इ॒मं नो᳚ य॒ज्ञमि॒ह बो॒ध्या ग॑हि॒ स्पृधो॒ जय᳚न्तं म॒घवा᳚नमीमहे ||{2/4}{8.8.25.2}{10.167.2}{10.12.16.2}{1192, 1004, 10463} स्वः॒ऽजित᳚म्¦महि॑¦म॒न्दा॒नम्¦अन्ध॑सः¦हवा᳚महे¦परि॑¦श॒क्रम्¦सु॒तान्¦उप॑ | |
सोम॑स्य॒ राज्ञो॒ वरु॑णस्य॒ धर्म॑णि॒ बृह॒स्पते॒रनु॑मत्या, उ॒ शर्म॑णि |{गाथिभार्गवौ विश्वामित्र जमदग्नी | सोमवरुण बृहस्पत्यनुमतिधातृविधातारः | जगती} तवा॒हम॒द्य म॑घव॒न्नुप॑स्तुतौ॒ धात॒र्विधा᳚तः क॒लशाँ᳚, अभक्षयम् ||{3/4}{8.8.25.3}{10.167.3}{10.12.16.3}{1193, 1004, 10464} सोम॑स्य¦राज्ञः॑¦वरु॑णस्य¦धर्म॑णि¦बृह॒स्पतेः᳚¦अनु॑ऽमत्याः¦ऊँ॒ इति॑¦शर्म॑णि | |
प्रसू᳚तो भ॒क्षम॑करं च॒रावपि॒ स्तोमं᳚ चे॒मं प्र॑थ॒मः सू॒रिरुन् मृ॑जे |{गाथिभार्गवौ विश्वामित्र जमदग्नी | इन्द्रः | जगती} सु॒ते सा॒तेन॒ यद्याग॑मं वां॒ प्रति॑ विश्वामित्रजमदग्नी॒ दमे᳚ ||{4/4}{8.8.25.4}{10.167.4}{10.12.16.4}{1194, 1004, 10465} प्रऽसू᳚तः¦भ॒क्षम्¦अ॒क॒र॒म्¦च॒रौ¦अपि॑¦स्तोम᳚म्¦च॒¦इ॒मम्¦प्र॒थ॒मः¦सू॒रिः¦उत्¦मृ॒जे॒ | |
[123] वातस्येति चतुरृचस्य सूक्तस्य वातायनोनिलोवायुस्त्रिष्टुप् | |
वात॑स्य॒ नु म॑हि॒मानं॒ रथ॑स्य रु॒जन्ने᳚ति स्त॒नय᳚न्नस्य॒ घोषः॑ |{वातायनो निलः | वायुः | त्रिष्टुप्} दि॒वि॒स्पृग्या᳚त्यरु॒णानि॑ कृ॒ण्वन्नु॒तो, ए᳚ति पृथि॒व्या रे॒णुमस्य॑न् ||{1/4}{8.8.26.1}{10.168.1}{10.12.17.1}{1195, 1005, 10466} वात॑स्य¦नु¦म॒हि॒मान᳚म्¦रथ॑स्य¦रु॒जन्¦ए॒ति॒¦स्त॒नय॑न्¦अ॒स्य॒¦घोषः॑ | |
सं प्रेर॑ते॒, अनु॒ वात॑स्य वि॒ष्ठा, ऐनं᳚ गच्छन्ति॒ सम॑नं॒ न योषाः᳚ |{वातायनो निलः | वायुः | त्रिष्टुप्} ताभिः॑ स॒युक्स॒रथं᳚ दे॒व ई᳚यते॒ऽस्य विश्व॑स्य॒ भुव॑नस्य॒ राजा᳚ ||{2/4}{8.8.26.2}{10.168.2}{10.12.17.2}{1196, 1005, 10467} सम्¦प्र¦ई॒र॒ते॒¦अनु॑¦वात॑स्य¦वि॒ऽस्थाः¦आ¦ए॒न॒म्¦ग॒च्छ॒न्ति॒¦सम॑नम्¦न¦योषाः᳚ | |
अ॒न्तरि॑क्षे प॒थिभि॒रीय॑मानो॒ न नि वि॑शते कत॒मच्च॒नाहः॑ |{वातायनो निलः | वायुः | त्रिष्टुप्} अ॒पां सखा᳚ प्रथम॒जा, ऋ॒तावा॒ क्व॑ स्विज्जा॒तः कुत॒ आ ब॑भूव ||{3/4}{8.8.26.3}{10.168.3}{10.12.17.3}{1197, 1005, 10468} अ॒न्तरि॑क्षे¦प॒थिऽभिः॑¦ईय॑मानः¦न¦नि¦वि॒श॒ते॒¦क॒त॒मत्¦च॒न¦अह॒रिति॑ | |
आ॒त्मा दे॒वानां॒ भुव॑नस्य॒ गर्भो᳚ यथाव॒शं च॑रति दे॒व ए॒षः |{वातायनो निलः | वायुः | त्रिष्टुप्} घोषा॒, इद॑स्य शृण्विरे॒ न रू॒पं तस्मै॒ वाता᳚य ह॒विषा᳚ विधेम ||{4/4}{8.8.26.4}{10.168.4}{10.12.17.4}{1198, 1005, 10469} आ॒त्मा¦दे॒वाना᳚म्¦भुव॑नस्य¦गर्भः॑¦य॒था॒ऽव॒शम्¦च॒र॒ति॒¦दे॒वः¦ए॒षः | |
[124] मयोभूरिति चतुरृचस्य सूक्तस्य काक्षीवतः शंबरोगावस्त्रिष्टुप् | |
म॒यो॒भूर्वातो᳚, अ॒भि वा᳚तू॒स्रा, ऊर्ज॑स्वती॒रोष॑धी॒रा रि॑शन्ताम् |{काक्षीवतः शंबरः | गावः | त्रिष्टुप्} पीव॑स्वतीर्जी॒वध᳚न्याः पिबन्त्वव॒साय॑ प॒द्वते᳚ रुद्र मृळ ||{1/4}{8.8.27.1}{10.169.1}{10.12.18.1}{1199, 1006, 10470} म॒यः॒ऽभूः¦वातः॑¦अ॒भि¦वा॒तु॒¦उ॒स्राः¦ऊर्ज॑स्वतीः¦ओष॑धीः¦आ¦रि॒श॒न्ता॒म् | |
याः सरू᳚पा॒ विरू᳚पा॒, एक॑रूपा॒ यासा᳚म॒ग्निरिष्ट्या॒ नामा᳚नि॒ वेद॑ |{काक्षीवतः शंबरः | गावः | त्रिष्टुप्} या, अङ्गि॑रस॒स्तप॑से॒ह च॒क्रुस्ताभ्यः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ||{2/4}{8.8.27.2}{10.169.2}{10.12.18.2}{1200, 1006, 10471} याः¦सऽरू᳚पाः¦विऽरू᳚पाः¦एक॑ऽरूपाः¦यासा᳚म्¦अ॒ग्निः¦इष्ट्या᳚¦नामा᳚नि¦वेद॑ | |
या दे॒वेषु॑ त॒न्व१॑(अ॒)मैर॑यन्त॒ यासां॒ सोमो॒ विश्वा᳚ रू॒पाणि॒ वेद॑ |{काक्षीवतः शंबरः | गावः | त्रिष्टुप्} ता, अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः प्र॒जाव॑तीरिन्द्र गो॒ष्ठे रि॑रीहि ||{3/4}{8.8.27.3}{10.169.3}{10.12.18.3}{1201, 1006, 10472} याः¦दे॒वेषु॑¦त॒न्व᳚म्¦ऐर॑यन्त¦यासा᳚म्¦सोमः॑¦विश्वा᳚¦रू॒पाणि॑¦वेद॑ | |
प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा᳚णो॒ विश्वै᳚र्दे॒वैः पि॒तृभिः॑ संविदा॒नः |{काक्षीवतः शंबरः | गावः | त्रिष्टुप्} शि॒वाः स॒तीरुप॑ नो गो॒ष्ठमाक॒स्तासां᳚ व॒यं प्र॒जया॒ सं स॑देम ||{4/4}{8.8.27.4}{10.169.4}{10.12.18.4}{1202, 1006, 10473} प्र॒जाऽप॑तिः¦मह्य᳚म्¦ए॒ताः¦ररा᳚णः¦विश्वैः᳚¦दे॒वैः¦पि॒तृऽभिः॑¦स॒म्ऽवि॒दा॒नः | |
[125] विभ्राडिति चतुरृचस्य सूक्तस्य सौर्यो विभ्राट् सूर्योजगत्यंयास्तारपंक्तिः | |
वि॒भ्राड् बृ॒हत् पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतम् |{सौर्यो विभ्राट् | सूर्यः | जगती} वात॑जूतो॒ यो, अ॑भि॒रक्ष॑ति॒ त्मना᳚ प्र॒जाः पु॑पोष पुरु॒धा वि रा᳚जति ||{1/4}{8.8.28.1}{10.170.1}{10.12.19.1}{1203, 1007, 10474} वि॒ऽभ्राट्¦बृ॒हत्¦पि॒ब॒तु॒¦सो॒म्यम्¦मधु॑¦आयुः॑¦दध॑त्¦य॒ज्ञऽप॑तौ¦अवि॑ऽहुतम् | |
वि॒भ्राड् बृ॒हत् सुभृ॑तं वाज॒सात॑मं॒ धर्म᳚न् दि॒वो ध॒रुणे᳚ स॒त्यमर्पि॑तम् |{सौर्यो विभ्राट् | सूर्यः | जगती} अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हन्त॑मं॒ ज्योति॑र्जज्ञे, असुर॒हा स॑पत्न॒हा ||{2/4}{8.8.28.2}{10.170.2}{10.12.19.2}{1204, 1007, 10475} वि॒ऽभ्राट्¦बृ॒हत्¦सुऽभृ॑तम्¦वा॒ज॒ऽसात॑मम्¦धर्म᳚म्¦दि॒वः¦ध॒रुणे᳚¦स॒त्यम्¦अर्पि॑तम् | |
इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॑रुत्त॒मं वि॑श्व॒जिद्ध॑न॒जिदु॑च्यते बृ॒हत् |{सौर्यो विभ्राट् | सूर्यः | जगती} वि॒श्व॒भ्राड् भ्रा॒जो महि॒ सूर्यो᳚ दृ॒श उ॒रु प॑प्रथे॒ सह॒ ओजो॒, अच्यु॑तम् ||{3/4}{8.8.28.3}{10.170.3}{10.12.19.3}{1205, 1007, 10476} इ॒दम्¦श्रेष्ठ᳚म्¦ज्योति॑षाम्¦ज्योतिः॑¦उ॒त्ऽत॒मम्¦वि॒श्व॒ऽजित्¦ध॒न॒ऽजित्¦उ॒च्य॒ते॒¦बृ॒हत् | |
वि॒भ्राज॒ञ्ज्योति॑षा॒ स्व१॑(अ॒)रग॑च्छो रोच॒नं दि॒वः |{सौर्यो विभ्राट् | सूर्यः | आस्तारपङ्क्ति} येने॒मा विश्वा॒ भुव॑ना॒न्याभृ॑ता वि॒श्वक᳚र्मणा वि॒श्वदे᳚व्यावता ||{4/4}{8.8.28.4}{10.170.4}{10.12.19.4}{1206, 1007, 10477} वि॒ऽभ्राज᳚म्¦ज्योति॑षा¦स्वः॑¦अग॑च्छः¦रो॒च॒नम्¦दि॒वः | |
[126] त्वंत्यमिति चतुर्भचस्य सूक्तस्य भार्गवइटइंद्रोगायत्री | |
त्वं त्यमि॒टतो॒ रथ॒मिन्द्र॒ प्रावः॑ सु॒ताव॑तः |{भार्गव इटः | इन्द्रः | गायत्री} अशृ॑णोः सो॒मिनो॒ हव᳚म् ||{1/4}{8.8.29.1}{10.171.1}{10.12.20.1}{1207, 1008, 10478} त्वम्¦त्यम्¦इ॒टतः॑¦रथ᳚म्¦इन्द्र॑¦प्र¦आ॒वः॒¦सु॒तऽव॑तः | अशृ॑णोः¦सो॒मिन॑¦हव᳚म् || |
त्वं म॒खस्य॒ दोध॑तः॒ शिरोऽव॑ त्व॒चो भ॑रः |{भार्गव इटः | इन्द्रः | गायत्री} अग॑च्छः सो॒मिनो᳚ गृ॒हम् ||{2/4}{8.8.29.2}{10.171.2}{10.12.20.2}{1208, 1008, 10479} त्वम्¦म॒खस्य॑¦दोध॑तः¦शिरः॑¦अव॑¦त्व॒चः¦भ॒रः॒ | अग॑च्छः¦सो॒मिनः॑¦गृ॒हम् || |
त्वं त्यमि᳚न्द्र॒ मर्त्य॑मास्त्रबु॒ध्नाय॑ वे॒न्यम् |{भार्गव इटः | इन्द्रः | गायत्री} मुहुः॑ श्रथ्ना मन॒स्यवे᳚ ||{3/4}{8.8.29.3}{10.171.3}{10.12.20.3}{1209, 1008, 10480} त्वम्¦त्यम्¦इ॒न्द्र॒¦मर्त्य᳚म्¦आ॒स्त्र॒ऽबु॒ध्नाय॑¦वे॒न्यम् | मुहुः॑¦श्र॒थ्नाः॒¦म॒न॒स्यवे᳚ || |
त्वं त्यमि᳚न्द्र॒ सूर्यं᳚ प॒श्चा सन्तं᳚ पु॒रस्कृ॑धि |{भार्गव इटः | इन्द्रः | गायत्री} दे॒वानां᳚ चित्ति॒रो वश᳚म् ||{4/4}{8.8.29.4}{10.171.4}{10.12.20.4}{1210, 1008, 10481} त्वम्¦त्यम्¦इ॒न्द्र॒¦सूर्य᳚म्¦प॒श्चा¦सन्त᳚म्¦पु॒रः¦कृ॒धि॒ | दे॒वाना᳚म्¦चि॒त्¦ति॒रः¦वश᳚म् || |
[127] आयाहीति चतुरृचस्य सूक्तस्यांगिरसः संवर्त उषाद्विपदाविराट् | |
आ या᳚हि॒ वन॑सा स॒ह गावः॑ सचन्त वर्त॒निं यदूध॑भिः ||{आङ्गिरसः संवर्तः | उषाः | द्विपदाविराट्}{1/4}{8.8.30.1}{10.172.1}{10.12.21.1}{1211, 1009, 10482} आ¦या॒हि॒¦वन॑सा¦स॒ह¦गावः॑¦स॒च॒न्त॒¦व॒र्त॒निम्¦यत्¦ऊध॑ऽभिः || |
आ या᳚हि॒ वस्व्या᳚ धि॒या मंहि॑ष्ठो जार॒यन्म॑खः सु॒दानु॑भिः ||{आङ्गिरसः संवर्तः | उषाः | द्विपदाविराट्}{2/4}{8.8.30.2}{10.172.2}{10.12.21.2}{1212, 1009, 10483} आ¦या॒हि॒¦वस्व्या᳚¦धि॒या¦मंहि॑ष्ठः¦जा॒र॒यत्ऽम॑खः¦सु॒दानु॑ऽभिः || |
पि॒तु॒भृतो॒ न तन्तु॒मित्सु॒दान॑वः॒ प्रति॑ दध्मो॒ यजा᳚मसि ||{आङ्गिरसः संवर्तः | उषाः | द्विपदाविराट्}{3/4}{8.8.30.3}{10.172.3}{10.12.21.3}{1213, 1009, 10484} पि॒तु॒ऽभृतः॑¦न¦तन्तु᳚म्¦इत्¦सु॒ऽदान॑वः¦प्रति॑¦द॒ध्मः॒¦यजा᳚मसि || |
उ॒षा, अप॒ स्वसु॒स्तमः॒ सं व॑र्तयति वर्त॒निं सु॑जा॒तता᳚ ||{आङ्गिरसः संवर्तः | उषाः | द्विपदाविराट्}{4/4}{8.8.30.4}{10.172.4}{10.12.21.4}{1214, 1009, 10485} उ॒षाः¦अप॑¦स्वसुः॑¦तमः॑¦सम्¦व॒र्त॒य॒ति॒¦व॒र्त॒निम्¦सु॒ऽजा॒तता᳚ || |
[128] आत्वेति षडृचस्य सूक्तस्यांगिरसोध्रुवोराजानुष्टुप् | |
आ त्वा᳚हार्षम॒न्तरे᳚धि ध्रु॒वस्ति॒ष्ठावि॑चाचलिः |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्} विश॑स्त्वा॒ सर्वा᳚ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ||{1/6}{8.8.31.1}{10.173.1}{10.12.22.1}{1215, 1010, 10486} आ¦त्वा॒¦अ॒हा॒र्ष॒म्¦अ॒न्तः¦ए॒धि॒¦ध्रु॒वः¦ति॒ष्ठ॒¦अवि॑ऽचाचलिः | विशः॑¦त्वा॒¦सर्वाः᳚¦वां॒छ॒न्तु॒¦मा¦त्वत्¦रा॒ष्ट्रम्¦अधि॑¦भ्र॒श॒त् || |
इ॒हैवैधि॒ माप॑ च्योष्ठाः॒ पर्व॑त इ॒वावि॑चाचलिः |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्} इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑ धारय ||{2/6}{8.8.31.2}{10.173.2}{10.12.22.2}{1216, 1010, 10487} इ॒ह¦ए॒व¦ए॒धि॒¦मा¦अप॑¦च्यो॒ष्ठाः॒¦पर्व॑तःऽइव¦अवि॑ऽचाचलिः | इन्द्र॑ऽइव¦इ॒ह¦ध्रु॒वः¦ति॒ष्ठ॒¦इ॒ह¦रा॒ष्ट्रम्¦ऊँ॒ इति॑¦धा॒र॒य॒ || |
इ॒ममिन्द्रो᳚, अदीधरद्ध्रु॒वं ध्रु॒वेण॑ ह॒विषा᳚ |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्} तस्मै॒ सोमो॒, अधि॑ ब्रव॒त्तस्मा᳚, उ॒ ब्रह्म॑ण॒स्पतिः॑ ||{3/6}{8.8.31.3}{10.173.3}{10.12.22.3}{1217, 1010, 10488} इ॒मम्¦इन्द्रः॑¦अ॒दी॒ध॒र॒त्¦ध्रु॒वम्¦ध्रु॒वेण॑¦ह॒विषा᳚ | तस्मै᳚¦सोमः॑¦अधि॑¦ब्र॒व॒त्¦तस्मै᳚¦ऊँ॒ इति॑¦ब्रह्म॑णः¦पतिः॑ || |
ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वासः॒ पर्व॑ता, इ॒मे |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्} ध्रु॒वं विश्व॑मि॒दं जग॑द् ध्रु॒वो राजा᳚ वि॒शाम॒यम् ||{4/6}{8.8.31.4}{10.173.4}{10.12.22.4}{1218, 1010, 10489} ध्रु॒वा¦द्यौः¦ध्रु॒वा¦पृ॒थि॒वी¦ध्रु॒वासः॑¦पर्व॑ताः¦इ॒मे | ध्रु॒वम्¦विश्व᳚म्¦इ॒दम्¦जग॑त्¦ध्रु॒वः¦राजा᳚¦वि॒शाम्¦अ॒यम् || |
ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वं दे॒वो बृह॒स्पतिः॑ |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्} ध्रु॒वं त॒ इन्द्र॑श्चा॒ग्निश्च॑ रा॒ष्ट्रं धा᳚रयतां ध्रु॒वम् ||{5/6}{8.8.31.5}{10.173.5}{10.12.22.5}{1219, 1010, 10490} ध्रु॒वम्¦ते॒¦राजा᳚¦वरु॑णः¦ध्रु॒वम्¦दे॒वः¦बृह॒स्पतिः॑ | ध्रु॒वम्¦ते॒¦इन्द्रः॑¦च॒¦अ॒ग्निः¦च॒¦रा॒ष्ट्रम्¦धा॒र॒य॒ता॒म्¦ध्रु॒वम् || |
ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॒ऽभि सोमं᳚ मृशामसि |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्} अथो᳚ त॒ इन्द्रः॒ केव॑ली॒र्विशो᳚ बलि॒हृत॑स्करत् ||{6/6}{8.8.31.6}{10.173.6}{10.12.22.6}{1220, 1010, 10491} ध्रु॒वम्¦ध्रु॒वेण॑¦ह॒विषा᳚¦अ॒भि¦सोम᳚म्¦मृ॒शा॒म॒सि॒ | अथो॒ इति॑¦ते॒¦इन्द्रः॑¦केव॑लीः¦विशः॑¦ब॒लि॒ऽहृतः॑¦क॒र॒त् || |
[129] अभीवर्तेनेति पंचर्चस्य सूक्तस्यांगिरसोभीवर्तो राजानुष्टुप् | |
अ॒भी॒व॒र्तेन॑ ह॒विषा॒ येनेन्द्रो᳚, अभिवावृ॒ते |{आङ्गिरसो भीवर्तः | राजाः | अनुष्टुप्} तेना॒स्मान् ब्र᳚ह्मणस्पते॒ऽभि रा॒ष्ट्राय॑ वर्तय ||{1/5}{8.8.32.1}{10.174.1}{10.12.23.1}{1221, 1011, 10492} अ॒भि॒ऽव॒र्तेन॑¦ह॒विषा᳚¦येन॑¦इन्द्रः॑¦अ॒भि॒ऽव॒वृ॒ते | तेन॑¦अ॒स्मान्¦ब्र॒ह्म॒णः॒¦प॒ते॒¦अ॒भि¦रा॒ष्ट्राय॑¦व॒र्त॒य॒ || |
अ॒भि॒वृत्य॑ स॒पत्ना᳚न॒भि या नो॒, अरा᳚तयः |{आङ्गिरसो भीवर्तः | राजाः | अनुष्टुप्} अ॒भि पृ॑त॒न्यन्तं᳚ तिष्ठा॒भि यो न॑ इर॒स्यति॑ ||{2/5}{8.8.32.2}{10.174.2}{10.12.23.2}{1222, 1011, 10493} अ॒भि॒ऽवृत्य॑¦स॒ऽपत्ना᳚न्¦अ॒भि¦याः¦नः॒¦अरा᳚तयः | अ॒भि¦पृ॒त॒न्यन्त᳚म्¦ति॒ष्ठ॒¦अ॒भि¦यः¦नः॒¦इ॒र॒स्यति॑ || |
अ॒भि त्वा᳚ दे॒वः स॑वि॒ताभि सोमो᳚, अवीवृतत् |{आङ्गिरसो भीवर्तः | राजाः | अनुष्टुप्} अ॒भि त्वा॒ विश्वा᳚ भू॒तान्य॑भीव॒र्तो यथास॑सि ||{3/5}{8.8.32.3}{10.174.3}{10.12.23.3}{1223, 1011, 10494} अ॒भि¦त्वा᳚¦दे॒वः¦स॒वि॒ता¦अ॒भि¦सोमः॑¦अ॒वी॒वृ॒त॒त् | अ॒भि¦त्वा॒¦विश्वा᳚¦भू॒तानि॑¦अ॒भि॒ऽव॒र्तः¦यथा᳚¦अस॑सि || |
येनेन्द्रो᳚ ह॒विषा᳚ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः |{आङ्गिरसो भीवर्तः | राजाः | अनुष्टुप्} इ॒दं तद॑क्रि देवा, असप॒त्नः किला᳚भुवम् ||{4/5}{8.8.32.4}{10.174.4}{10.12.23.4}{1224, 1011, 10495} येन॑¦इन्द्रः॑¦ह॒विषा᳚¦कृ॒त्वी¦अभ॑वत्¦द्यु॒म्नी¦उ॒त्ऽत॒मः | इ॒दम्¦तत्¦अ॒क्रि॒¦दे॒वाः॒¦अ॒स॒प॒त्नः¦किल॑¦अ॒भु॒व॒म् || |
अ॒स॒प॒त्नः स॑पत्न॒हाभिरा᳚ष्ट्रो विषास॒हिः |{आङ्गिरसो भीवर्तः | राजाः | अनुष्टुप्} यथा॒हमे᳚षां भू॒तानां᳚ वि॒राजा᳚नि॒ जन॑स्य च ||{5/5}{8.8.32.5}{10.174.5}{10.12.23.5}{1225, 1011, 10496} अ॒स॒प॒त्नः¦स॒प॒त्न॒ऽहा¦अ॒भिऽरा᳚ष्ट्रः¦वि॒ऽस॒स॒हिः | यथा᳚¦अ॒हम्¦ए॒षाम्¦भू॒ताना᳚म्¦वि॒ऽराजा᳚नि¦जन॑स्य¦च॒ || |
[130] प्रवइति चतुरृचस्य सूक्तस्योर्ध्वग्रावार्बुदः सर्पऋषिपुत्रोग्रावाणोगायत्री | |
प्र वो᳚ ग्रावाणः सवि॒ता दे॒वः सु॑वतु॒ धर्म॑णा |{ऊर्ध्वग्रावार्बुदः | ग्रावाणः | गायत्री} धू॒र्षु यु॑ज्यध्वं सुनु॒त ||{1/4}{8.8.33.1}{10.175.1}{10.12.24.1}{1226, 1012, 10497} प्र¦वः॒¦ग्रा॒वा॒णः॒¦स॒वि॒ता¦दे॒वः¦सु॒व॒तु॒¦धर्म॑णा | धूः॒ऽसु¦यु॒ज्य॒ध्व॒म्¦सु॒नु॒त || |
ग्रावा᳚णो॒, अप॑ दु॒च्छुना॒मप॑ सेधत दुर्म॒तिम् |{ऊर्ध्वग्रावार्बुदः | ग्रावाणः | गायत्री} उ॒स्राः क॑र्तन भेष॒जम् ||{2/4}{8.8.33.2}{10.175.2}{10.12.24.2}{1227, 1012, 10498} ग्रावा᳚णः¦अप॑¦दु॒च्छुना᳚म्¦अप॑¦से॒ध॒त॒¦दुः॒ऽम॒तिम् | उ॒स्राः¦क॒र्त॒न॒¦भे॒ष॒जम् || |
ग्रावा᳚ण॒ उप॑रे॒ष्वा म॑ही॒यन्ते᳚ स॒जोष॑सः |{ऊर्ध्वग्रावार्बुदः | ग्रावाणः | गायत्री} वृष्णे॒ दध॑तो॒ वृष्ण्य᳚म् ||{3/4}{8.8.33.3}{10.175.3}{10.12.24.3}{1228, 1012, 10499} ग्रावा᳚णः¦उप॑रेषु¦आ¦म॒ही॒यन्ते᳚¦स॒ऽजोष॑सः | वृ॒ष्णे॒¦दध॑तः¦वृष्ण्य᳚म् || |
ग्रावा᳚णः सवि॒ता नु वो᳚ दे॒वः सु॑वतु॒ धर्म॑णा |{ऊर्ध्वग्रावार्बुदः | ग्रावाणः | गायत्री} यज॑मानाय सुन्व॒ते ||{4/4}{8.8.33.4}{10.175.4}{10.12.24.4}{1229, 1012, 10500} ग्रावा᳚णः¦स॒वि॒ता¦नु¦वः॒¦दे॒वः¦सु॒व॒तु॒¦धर्म॑णा | यज॑मानाय¦सु॒न्व॒ते || |
[131] प्रसूनवइति चतुरृचस्य सूक्तस्यार्भवः सूनुरग्निराद्यायाऋभवोनुष्टुप् द्वितीया गायत्री | |
प्र सू॒नव॑ ऋभू॒णां बृ॒हन्न॑वन्त वृ॒जना᳚ |{सूनुरार्भवः | ऋभवः | अनुष्टुप्} क्षामा॒ ये वि॒श्वधा᳚य॒सोऽश्न᳚न्धे॒नुं न मा॒तर᳚म् ||{1/4}{8.8.34.1}{10.176.1}{10.12.25.1}{1230, 1013, 10501} प्र¦सू॒नवः॑¦ऋ॒भू॒णाम्¦बृ॒हत्¦न॒व॒न्त॒¦वृ॒जना᳚ | क्षाम॑¦ये¦वि॒श्वऽधा᳚यसः¦अश्न॑न्¦धे॒नुम्¦न¦मा॒तर᳚म् || |
प्र दे॒वं दे॒व्या धि॒या भर॑ता जा॒तवे᳚दसम् |{सूनुरार्भवः | अग्निः | गायत्री} ह॒व्या नो᳚ वक्षदानु॒षक् ||{2/4}{8.8.34.2}{10.176.2}{10.12.25.2}{1231, 1013, 10502} प्र¦दे॒वम्¦दे॒व्या¦धि॒या¦भर॑त¦जा॒तऽवे᳚दसम् | ह॒व्या¦नः॒¦व॒क्ष॒त्¦आ॒नु॒षक् || |
अ॒यमु॒ ष्य प्र दे᳚व॒युर्होता᳚ य॒ज्ञाय॑ नीयते |{सूनुरार्भवः | अग्निः | अनुष्टुप्} रथो॒ न योर॒भीवृ॑तो॒ घृणी᳚वाञ्चेतति॒ त्मना᳚ ||{3/4}{8.8.34.3}{10.176.3}{10.12.25.3}{1232, 1013, 10503} अ॒यम्¦ऊँ॒ इति॑¦स्यः¦प्र¦दे॒व॒ऽयुः¦होता᳚¦य॒ज्ञाय॑¦नी॒य॒ते॒ | रथः॑¦न¦योः¦अ॒भिऽवृ॑तः¦घृणि॑ऽवान्¦चे॒त॒ति॒¦त्मना᳚ || |
अ॒यम॒ग्निरु॑रुष्यत्य॒मृता᳚दिव॒ जन्म॑नः |{सूनुरार्भवः | अग्निः | अनुष्टुप्} सह॑सश्चि॒त्सही᳚यान्दे॒वो जी॒वात॑वे कृ॒तः ||{4/4}{8.8.34.4}{10.176.4}{10.12.25.4}{1233, 1013, 10504} अ॒यम्¦अ॒ग्निः¦उ॒रु॒ष्य॒ति॒¦अ॒मृता᳚त्ऽइव¦जन्म॑नः | सह॑सः¦चि॒त्¦सही᳚यान्¦दे॒वः¦जी॒वात॑वे¦कृ॒तः || |
[132] पतंगमिति तृचस्य सूक्तस्य प्राजापत्यः पतंगोमायाभेदस्त्रिष्टुप् आद्याजगती | |
प॒तं॒गम॒क्तमसु॑रस्य मा॒यया᳚ हृ॒दा प॑श्यन्ति॒ मन॑सा विप॒श्चितः॑ |{प्राजापत्यः पतंगः | मायाभेदः | जगती} स॒मु॒द्रे, अ॒न्तः क॒वयो॒ वि च॑क्षते॒ मरी᳚चीनां प॒दमि॑च्छन्ति वे॒धसः॑ ||{1/3}{8.8.35.1}{10.177.1}{10.12.26.1}{1234, 1014, 10505} प॒त॒ङ्गम्¦अ॒क्तम्¦असु॑रस्य¦मा॒यया᳚¦हृ॒दा¦प॒श्य॒न्ति॒¦मन॑सा¦वि॒पः॒ऽचितः॑ | |
प॒तं॒गो वाचं॒ मन॑सा बिभर्ति॒ तां ग᳚न्ध॒र्वो᳚ऽवद॒द्गर्भे᳚, अ॒न्तः |{प्राजापत्यः पतंगः | मायाभेदः | त्रिष्टुप्} तां द्योत॑मानां स्व॒र्यं᳚ मनी॒षामृ॒तस्य॑ प॒दे क॒वयो॒ नि पा᳚न्ति ||{2/3}{8.8.35.2}{10.177.2}{10.12.26.2}{1235, 1014, 10506} प॒त॒ङ्गः¦वाच᳚म्¦मन॑सा¦बि॒भ॒र्ति॒¦तान्¦ग॒न्ध॒र्वः¦अ॒व॒द॒त्¦गर्भे᳚¦अ॒न्तरिति॑ | |
अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा᳚ च प॒थिभि॒श्चर᳚न्तम् |{प्राजापत्यः पतंगः | मायाभेदः | त्रिष्टुप्} स स॒ध्रीचीः॒ स विषू᳚ची॒र्वसा᳚न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ||{3/3}{8.8.35.3}{10.177.3}{10.12.26.3}{1236, 1014, 10507} अप॑श्यम्¦गो॒पाम्¦अनि॑ऽपद्यमानम्¦आ¦च॒¦परा᳚¦च॒¦प॒थिऽभिः॑¦चर᳚न्तम् | |
[133] त्यमूष्विति तृचस्य सूक्तस्य तार्क्ष्योरिष्टनेमिस्तार्क्ष्यस्त्रिष्टुप् | |
त्यमू॒ षु वा॒जिनं᳚ दे॒वजू᳚तं स॒हावा᳚नं तरु॒तारं॒ रथा᳚नाम् |{तार्क्ष्योरिष्टनेमिः | तार्क्ष्यः | त्रिष्टुप्} अरि॑ष्टनेमिं पृत॒नाज॑मा॒शुं स्व॒स्तये॒ तार्क्ष्य॑मि॒हा हु॑वेम ||{1/3}{8.8.36.1}{10.178.1}{10.12.27.1}{1237, 1015, 10508} त्यम्¦ऊँ॒ इति॑¦सु¦वा॒जिन᳚म्¦दे॒वऽजू᳚तम्¦स॒हऽवा᳚नम्¦त॒रु॒ऽतार᳚म्¦रथा᳚नाम् | |
इन्द्र॑स्येव रा॒तिमा॒जोहु॑वानाः स्व॒स्तये॒ नाव॑मि॒वा रु॑हेम |{तार्क्ष्योरिष्टनेमिः | तार्क्ष्यः | त्रिष्टुप्} उर्वी॒ न पृथ्वी॒ बहु॑ले॒ गभी᳚रे॒ मा वा॒मेतौ॒ मा परे᳚तौ रिषाम ||{2/3}{8.8.36.2}{10.178.2}{10.12.27.2}{1238, 1015, 10509} इन्द्र॑स्यऽइव¦रा॒तिम्¦आ॒ऽजोहु॑वानाः¦स्व॒स्तये᳚¦नाव᳚म्ऽइव¦आ¦रु॒हे॒म॒ | |
स॒द्यश्चि॒द्यः शव॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस्त॒तान॑ |{तार्क्ष्योरिष्टनेमिः | तार्क्ष्यः | त्रिष्टुप्} स॒ह॒स्र॒साः श॑त॒सा, अ॑स्य॒ रंहि॒र्न स्मा᳚ वरन्ते युव॒तिं न शर्या᳚म् ||{3/3}{8.8.36.3}{10.178.3}{10.12.27.3}{1239, 1015, 10510} स॒द्यः¦चि॒त्¦यः¦शव॑सा¦पंच॑¦कृ॒ष्टीः¦सूर्यः॑ऽइव¦ज्योति॑षा¦अ॒पः¦त॒तान॑ | |
[134] उत्तिष्ठतेति तृचस्य सूक्तस्यौशीनरः शिबिः १ काशिराजः प्रतर्दनो रोहिदश्ववसुमना३ इर्तिक्रर्मेणैकर्चा इंद्रत्रिष्टुबाद्यानुष्टुप् | |
उत्ति॑ष्ठ॒ताव॑ पश्य॒तेन्द्र॑स्य भा॒गमृ॒त्विय᳚म् |{शिबिरौशीनरः | इन्द्रः | अनुष्टुप्} यदि॑ श्रा॒तो जु॒होत॑न॒ यद्यश्रा᳚तो मम॒त्तन॑ ||{1/3}{8.8.37.1}{10.179.1}{10.12.28.1}{1240, 1016, 10511} उत्¦ति॒ष्ठ॒त॒¦अव॑¦प॒श्य॒त॒¦इन्द्र॑स्य¦भा॒गम्¦ऋ॒त्विय᳚म् | यदि॑¦श्रा॒तः¦जु॒होत॑न¦यदि॑¦अश्रा᳚तः¦म॒म॒त्तन॑ || |
श्रा॒तं ह॒विरो ष्वि᳚न्द्र॒ प्र या᳚हि ज॒गाम॒ सूरो॒, अध्व॑नो॒ विम॑ध्यम् |{प्रतर्दनः काशिराजः | इन्द्रः | त्रिष्टुप्} परि॑ त्वासते नि॒धिभिः॒ सखा᳚यः कुल॒पा न व्रा॒जप॑तिं॒ चर᳚न्तम् ||{2/3}{8.8.37.2}{10.179.2}{10.12.28.2}{1241, 1016, 10512} श्रा॒तम्¦ह॒विः¦ओ इति॑¦सु¦इ॒न्द्र॒¦प्र¦या॒हि॒¦ज॒गाम॑¦सूरः॑¦अध्व॑नः¦विऽम॑ध्यम् | |
श्रा॒तं म᳚न्य॒ ऊध॑नि श्रा॒तम॒ग्नौ सुश्रा᳚तं मन्ये॒ तदृ॒तं नवी᳚यः |{वसुमना रौहिदश्वः | इन्द्रः | त्रिष्टुप्} माध्यं᳚दिनस्य॒ सव॑नस्य द॒ध्नः पिबे᳚न्द्र वज्रिन् पुरुकृज्जुषा॒णः ||{3/3}{8.8.37.3}{10.179.3}{10.12.28.3}{1242, 1016, 10513} श्रा॒तम्¦म॒न्ये॒¦ऊध॑नि¦श्रा॒तम्¦अ॒ग्नौ¦सुऽश्रा᳚तम्¦म॒न्ये॒¦तत्¦ऋ॒तम्¦नवी᳚यः | |
[135] प्रससाहिषइति तृचस्य सूक्तस्यैंद्रिर्जयइंद्रस्त्रिष्टुप् | |
प्र स॑साहिषे पुरुहूत॒ शत्रू॒ञ्ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु |{जयः | इन्द्रः | त्रिष्टुप्} इन्द्रा भ॑र॒ दक्षि॑णेना॒ वसू᳚नि॒ पतिः॒ सिन्धू᳚नामसि रे॒वती᳚नाम् ||{1/3}{8.8.38.1}{10.180.1}{10.12.29.1}{1243, 1017, 10514} प्र¦स॒स॒हि॒षे॒¦पु॒रु॒ऽहू॒त॒¦शत्रू᳚न्¦ज्येष्ठः॑¦ते॒¦शुष्मः॑¦इ॒ह¦रा॒तिः¦अ॒स्तु॒ | |
मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ आ ज॑गन्था॒ पर॑स्याः |{जयः | इन्द्रः | त्रिष्टुप्} सृ॒कं सं॒शाय॑ प॒विमि᳚न्द्र ति॒ग्मं वि शत्रू᳚न्ताळ्हि॒ वि मृधो᳚ नुदस्व ||{2/3}{8.8.38.2}{10.180.2}{10.12.29.2}{1244, 1017, 10515} मृ॒गः¦न¦भी॒मः¦कु॒च॒रः¦गि॒रि॒ऽस्थाः¦प॒रा॒ऽवतः॑¦आ¦ज॒ग॒न्थ॒¦पर॑स्याः | |
इन्द्र॑ क्ष॒त्रम॒भि वा॒ममोजोऽजा᳚यथा वृषभ चर्षणी॒नाम् |{जयः | इन्द्रः | त्रिष्टुप्} अपा᳚नुदो॒ जन॑ममित्र॒यन्त॑मु॒रुं दे॒वेभ्यो᳚, अकृणोरु लो॒कम् ||{3/3}{8.8.38.3}{10.180.3}{10.12.29.3}{1245, 1017, 10516} इन्द्र॑¦क्ष॒त्रम्¦अ॒भि¦वा॒मम्¦ओजः॑¦अजा᳚यथाः¦वृ॒ष॒भ॒¦च॒र्ष॒णी॒नाम् | |
[136] प्रथेश्चेति तृचस्य सूक्तस्य वासिष्ठः प्रथो १। भारद्वाजःसप्रथ२ सौर्याघर्म३ कर्चाविश्वेदेवास्त्रिष्टुप् | |
प्रथ॑श्च॒ यस्य॑ स॒प्रथ॑श्च॒ नामानु॑ष्टुभस्य ह॒विषो᳚ ह॒विर्यत् |{प्रथो वासिष्ठः | विश्वदेवाः | त्रिष्टुप्} धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒ विष्णो᳚ रथंत॒रमा ज॑भारा॒ वसि॑ष्ठः ||{1/3}{8.8.39.1}{10.181.1}{10.12.30.1}{1246, 1018, 10517} प्रथः॑¦च॒¦यस्य॑¦स॒ऽप्रथः॑¦च॒¦नाम॑¦आनु॑ऽस्तुभस्य¦ह॒विषः॑¦ह॒विः¦यत् | |
अवि᳚न्द॒न्ते, अति॑हितं॒ यदासी᳚द् य॒ज्ञस्य॒ धाम॑ पर॒मं गुहा॒ यत् |{सप्रथो भारद्वाजः | विश्वदेवाः | त्रिष्टुप्} धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒ विष्णो᳚र्भ॒रद्वा᳚जो बृ॒हदा च॑क्रे, अ॒ग्नेः ||{2/3}{8.8.39.2}{10.181.2}{10.12.30.2}{1247, 1018, 10518} अवि᳚न्दन्¦ते¦अति॑ऽहितम्¦यत्¦आसी᳚त्¦य॒ज्ञस्य॑¦धाम॑¦प॒र॒मम्¦गुहा᳚¦यत् | |
ते᳚ऽविन्द॒न्मन॑सा॒ दीध्या᳚ना॒ यजुः॑ ष्क॒न्नं प्र॑थ॒मं दे᳚व॒यान᳚म् |{धर्मः सौर्यः | विश्वदेवाः | पादत्रिष्टुप्} धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒ विष्णो॒रा सूर्या᳚दभरन् घ॒र्ममे॒ते ||{3/3}{8.8.39.3}{10.181.3}{10.12.30.3}{1248, 1018, 10519} ते¦अ॒वि॒न्द॒न्¦मन॑सा¦दीध्या᳚नाः¦यजुः॑¦स्क॒न्नम्¦प्र॒थ॒मम्¦दे॒व॒ऽयान᳚म् | |
[137] बृहस्पतिरिति तृचस्य सूक्तस्य बार्हस्पत्यस्त पुर्मूर्धा बृहस्पतिस्त्रिष्टुप् | |
बृह॒स्पति᳚र्नयतु दु॒र्गहा᳚ ति॒रः पुन᳚र्नेषद॒घशं᳚साय॒ मन्म॑ |{बार्हस्पत्यस्तः पुर्मूर्धाः | बृहस्पतिः | त्रिष्टुप्} क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा᳚ कर॒द्यज॑मानाय॒ शं योः ||{1/3}{8.8.40.1}{10.182.1}{10.12.31.1}{1249, 1019, 10520} बृह॒स्पतिः॑¦न॒य॒तु॒¦दुः॒ऽगहा᳚¦ति॒रः¦पुनः॑¦ने॒ष॒त्¦अ॒घऽशं᳚साय¦मन्म॑ | |
नरा॒शंसो᳚ नोऽवतु प्रया॒जे शं नो᳚, अस्त्वनुया॒जो हवे᳚षु |{बार्हस्पत्यस्तः पुर्मूर्धाः | बृहस्पतिः | त्रिष्टुप्} क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा᳚ कर॒द्यज॑मानाय॒ शं योः ||{2/3}{8.8.40.2}{10.182.2}{10.12.31.2}{1250, 1019, 10521} नरा॒शंसः॑¦नः॒¦अ॒व॒तु॒¦प्र॒ऽया॒जे¦शम्¦नः॒¦अ॒स्तु॒¦अ॒नु॒ऽया॒जः¦हवे᳚षु | |
तपु᳚र्मूर्धा तपतु र॒क्षसो॒ ये ब्र᳚ह्म॒द्विषः॒ शर॑वे॒ हन्त॒वा, उ॑ |{बार्हस्पत्यस्तः पुर्मूर्धाः | बृहस्पतिः | त्रिष्टुप्} क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा᳚ कर॒द्यज॑मानाय॒ शं योः ||{3/3}{8.8.40.3}{10.182.3}{10.12.31.3}{1251, 1019, 10522} तपुः॑ऽमूर्धा¦त॒प॒तु॒¦र॒क्षसः॑¦ये¦ब्र॒ह्म॒ऽद्विषः॑¦शर॑वे¦हन्त॒वै¦ऊँ॒ इति॑ | |
[138] अपश्यमिति तृचस्य सूक्तस्य प्राजापत्यः प्रजावानृषिः यजमानोयजमानपत्नीहोता इतिक्रमेणदेवतास्त्रिष्टुप् | (अपश्यंत्वेत्येतस्याद्य यायजमानमीक्षते द्वितीयया पत्नींतृतीययात्मानं आ। श्रौ।) |
अप॑श्यं त्वा॒ मन॑सा॒ चेकि॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभू᳚तम् |{प्राजापत्यः प्रजावान् | यजमानः | त्रिष्टुप्} इ॒ह प्र॒जामि॒ह र॒यिं ररा᳚णः॒ प्र जा᳚यस्व प्र॒जया᳚ पुत्रकाम ||{1/3}{8.8.41.1}{10.183.1}{10.12.32.1}{1252, 1020, 10523} अप॑श्यम्¦त्वा॒¦मन॑सा¦चेकि॑तानम्¦तप॑सः¦जा॒तम्¦तप॑सः¦विऽभू᳚तम् | |
अप॑श्यं त्वा॒ मन॑सा॒ दीध्या᳚नां॒ स्वायां᳚ त॒नू, ऋत्व्ये॒ नाध॑मानाम् |{प्राजापत्यः प्रजावान् | यजमानपत्नी | त्रिष्टुप्} उप॒ मामु॒च्चा यु॑व॒तिर्ब॑भूयाः॒ प्र जा᳚यस्व प्र॒जया᳚ पुत्रकामे ||{2/3}{8.8.41.2}{10.183.2}{10.12.32.2}{1253, 1020, 10524} अप॑श्यम्¦त्वा॒¦मन॑सा¦दीध्या᳚नाम्¦स्वाया᳚म्¦त॒नू इति॑¦ऋत्व्ये᳚¦नाध॑मानाम् | |
अ॒हं गर्भ॑मदधा॒मोष॑धीष्व॒हं विश्वे᳚षु॒ भुव॑नेष्व॒न्तः |{प्राजापत्यः प्रजावान् | होता | त्रिष्टुप्} अ॒हं प्र॒जा, अ॑जनयं पृथि॒व्याम॒हं जनि॑भ्यो, अप॒रीषु॑ पु॒त्रान् ||{3/3}{8.8.41.3}{10.183.3}{10.12.32.3}{1254, 1020, 10525} अ॒हम्¦गर्भ᳚म्¦अ॒द॒धा॒म्¦ओष॑धीषु¦अ॒हम्¦विश्वे᳚षु¦भुव॑नेषु¦अ॒न्तरिति॑ | |
[139] विष्णुरिति तृचस्य सूक्तस्य गर्भकर्तात्वष्टा आद्याया विष्णुत्वष्टृप्रजापतिधातारो द्वितीयायाः सिनीवालि सरस्वत्यश्विनस्तृतीयायाअश्विनावनुष्टुप् | (प्राजापत्योविष्णुर्वाऋषिः) | |
विष्णु॒र्योनिं᳚ कल्पयतु॒ त्वष्टा᳚ रू॒पाणि॑ पिंशतु |{गर्भकर्तात्वष्टाः | विष्णुत्वष्टृप्रजापतिधातारः | अनुष्टुप्} आ सि᳚ञ्चतु प्र॒जाप॑तिर्धा॒ता गर्भं᳚ दधातु ते ||{1/3}{8.8.42.1}{10.184.1}{10.12.33.1}{1255, 1021, 10526} विष्णुः॑¦योनि᳚म्¦क॒ल्प॒य॒तु॒¦त्वष्टा᳚¦रू॒पाणि॑¦पिं॒श॒तु॒ | आ¦सिं॒च॒तु॒¦प्र॒जाऽप॑तिः¦धा॒ता¦गर्भ᳚म्¦द॒धा॒तु॒¦ते॒ || |
गर्भं᳚ धेहि सिनीवालि॒ गर्भं᳚ धेहि सरस्वति |{गर्भकर्तात्वष्टाः | सिनीवालीसरस्वत्यश्विनः | अनुष्टुप्} गर्भं᳚ ते, अ॒श्विनौ᳚ दे॒वावा ध॑त्तां॒ पुष्क॑रस्रजा ||{2/3}{8.8.42.2}{10.184.2}{10.12.33.2}{1256, 1021, 10527} गर्भ᳚म्¦धे॒हि॒¦सि॒नी॒वा॒लि॒¦गर्भ᳚म्¦धे॒हि॒¦स॒र॒स्व॒ति॒ | गर्भ᳚म्¦ते॒¦अ॒श्विनौ᳚¦दे॒वौ¦आ¦ध॒त्ता॒म्¦पुष्क॑रऽस्रजा || |
हि॒र॒ण्ययी᳚, अ॒रणी॒ यं नि॒र्मन्थ॑तो, अ॒श्विना᳚ |{गर्भकर्तात्वष्टाः | अश्विनौ | अनुष्टुप्} तं ते॒ गर्भं᳚ हवामहे दश॒मे मा॒सि सूत॑वे ||{3/3}{8.8.42.3}{10.184.3}{10.12.33.3}{1257, 1021, 10528} हि॒र॒ण्ययी॒ इति॑¦अ॒रणी॒ इति॑¦यम्¦निः॒ऽमन्थ॑तः¦अ॒श्विना᳚ | तम्¦ते॒¦गर्भ᳚म्¦ह॒वा॒म॒हे॒¦द॒श॒मे¦मा॒सि¦सूत॑वे || |
[140] महीति तृचस्य सूक्तस्य वारुणिः सत्यधृतिरादित्या गायत्री | (महि सत्यधृतिर्वारुणिरादित्यं स्वस्त्ययनमित्यनुक्रमण्या अदितिर्देवतायस्येत्यादित्यं आदित्योदेवतायस्येत्यादित्यमिति द्वैविध्येनप्राप्ता वप्यत्रादित्यानामेवदेवतात्वंनादितेः 'माहित्रंयन्महित्रीणामादित्यानांस्तुतिर्विदुः' इतिशौनकोक्तेः)| |
महि॑ त्री॒णामवो᳚ऽस्तु द्यु॒क्षं मि॒त्रस्या᳚र्य॒म्णः |{वारुणिः सत्यधृतिः | आदित्या | गायत्री} दु॒रा॒धर्षं॒ वरु॑णस्य ||{1/3}{8.8.43.1}{10.185.1}{10.12.34.1}{1258, 1022, 10529} महि॑¦त्री॒णाम्¦अवः॑¦अ॒स्तु॒¦द्यु॒क्षम्¦मि॒त्रस्य॑¦अ॒र्य॒म्णः | दुः॒ऽआ॒धर्ष᳚म्¦वरु॑णस्य || |
न॒हि तेषा᳚म॒मा च॒न नाध्व॑सु वार॒णेषु॑ |{वारुणिः सत्यधृतिः | आदित्या | गायत्री} ईशे᳚ रि॒पुर॒घशं᳚सः ||{2/3}{8.8.43.2}{10.185.2}{10.12.34.2}{1259, 1022, 10530} न॒हि¦तेषा᳚म्¦अ॒मा¦च॒न¦न¦अध्व॑ऽसु¦वा॒र॒णेषु॑ | ईशे᳚¦रि॒पुः¦अ॒घऽशं᳚सः || |
यस्मै᳚ पु॒त्रासो॒, अदि॑तेः॒ प्र जी॒वसे॒ मर्त्या᳚य |{वारुणिः सत्यधृतिः | आदित्या | गायत्री} ज्योति॒र्यच्छ॒न्त्यज॑स्रम् ||{3/3}{8.8.43.3}{10.185.3}{10.12.34.3}{1260, 1022, 10531} यस्मै᳚¦पु॒त्रासः॑¦अदि॑तेः¦प्र¦जी॒वसे᳚¦मर्त्या᳚य | ज्योतिः॑¦यच्छ᳚न्ति¦अज॑स्रम् || |
[141] वातइति तृचस्य सूकस्य वातायनउलोवायुर्गायत्री | |
वात॒ आ वा᳚तु भेष॒जं श॒म्भु म॑यो॒भु नो᳚ हृ॒दे |{वातायन उलः | वायुः | गायत्री} प्र ण॒ आयूं᳚षि तारिषत् ||{1/3}{8.8.44.1}{10.186.1}{10.12.35.1}{1261, 1023, 10532} वातः॑¦आ¦वा॒तु॒¦भे॒ष॒जम्¦श॒म्ऽभु¦मा॒यः॒ऽभु¦नः॒¦हृ॒दे | प्र¦नः॒¦आयूं᳚षि¦ता॒रि॒ष॒त् || |
उ॒त वा᳚त पि॒तासि॑ न उ॒त भ्रातो॒त नः॒ सखा᳚ |{वातायन उलः | वायुः | गायत्री} स नो᳚ जी॒वात॑वे कृधि ||{2/3}{8.8.44.2}{10.186.2}{10.12.35.2}{1262, 1023, 10533} उ॒त¦वा॒त॒¦पि॒ता¦अ॒सि॒¦नः॒¦उ॒त¦भ्राता᳚¦उ॒त¦नः॒¦सखा᳚ | सः¦नः॒¦जी॒वात॑वे¦कृ॒धि॒ || |
यद॒दो वा᳚त ते गृ॒हे॒३॑(ए॒)ऽमृत॑स्य नि॒धिर्हि॒तः |{वातायन उलः | वायुः | गायत्री} ततो᳚ नो देहि जी॒वसे᳚ ||{3/3}{8.8.44.3}{10.186.3}{10.12.35.3}{1263, 1023, 10534} यत्¦अ॒दः¦वा॒त॒¦ते॒¦गृ॒हे¦अ॒मृत॑स्य¦नि॒धिः¦हि॒तः | ततः॑¦नः॒¦दे॒हि॒¦जी॒वसे᳚ || |
[142] प्राग्नयइति पंचर्चस्य सूक्तस्याग्नेयोवत्सोग्निर्गायत्री | |
प्राग्नये॒ वाच॑मीरय वृष॒भाय॑ क्षिती॒नाम् |{आग्नेयो वत्सः | अग्निः | गायत्री} स नः॑ पर्ष॒दति॒ द्विषः॑ ||{1/5}{8.8.45.1}{10.187.1}{10.12.36.1}{1264, 1024, 10535} प्र¦अ॒ग्नये᳚¦वाच᳚म्¦ई॒र॒य॒¦वृ॒ष॒भाय॑¦क्षि॒ती॒नाम् | सः¦नः॒¦प॒र्ष॒त्¦अति॑¦द्विषः॑ || |
यः पर॑स्याः परा॒वत॑स्ति॒रो धन्वा᳚ति॒रोच॑ते |{आग्नेयो वत्सः | अग्निः | गायत्री} स नः॑ पर्ष॒दति॒ द्विषः॑ ||{2/5}{8.8.45.2}{10.187.2}{10.12.36.2}{1265, 1024, 10536} यः¦पर॑स्याः¦प॒रा॒ऽवतः॑¦ति॒रः¦धन्व॑¦अ॒ति॒ऽरोच॑ते | सः¦नः॒¦प॒र्ष॒त्¦अति॑¦द्विषः॑ || |
यो रक्षां᳚सि नि॒जूर्व॑ति॒ वृषा᳚ शु॒क्रेण॑ शो॒चिषा᳚ |{आग्नेयो वत्सः | अग्निः | गायत्री} स नः॑ पर्ष॒दति॒ द्विषः॑ ||{3/5}{8.8.45.3}{10.187.3}{10.12.36.3}{1266, 1024, 10537} यः¦रक्षां᳚सि¦नि॒ऽजूर्व॑ति¦वृषा᳚¦शु॒क्रेण॑¦शो॒चिषा᳚ | सः¦नः॒¦प॒र्ष॒त्¦अति॑¦द्विषः॑ || |
यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति |{आग्नेयो वत्सः | अग्निः | गायत्री} स नः॑ पर्ष॒दति॒ द्विषः॑ ||{4/5}{8.8.45.4}{10.187.4}{10.12.36.4}{1267, 1024, 10538} यः¦विश्वा᳚¦अ॒भि¦वि॒ऽपश्य॑ति¦भुव॑ना¦सम्¦च॒¦पश्य॑ति | सः¦नः॒¦प॒र्ष॒त्¦अति॑¦द्विषः॑ || |
यो, अ॒स्य पा॒रे रज॑सः शु॒क्रो, अ॒ग्निरजा᳚यत |{आग्नेयो वत्सः | अग्निः | गायत्री} स नः॑ पर्ष॒दति॒ द्विषः॑ ||{5/5}{8.8.45.5}{10.187.5}{10.12.36.5}{1268, 1024, 10539} यः¦अ॒स्य¦पा॒रे¦रज॑सः¦शु॒क्रः¦अ॒ग्निः¦अजा᳚यत | सः¦नः॒¦प॒र्ष॒त्¦अति॑¦द्विषः॑ || |
[143] प्रनूनमिति तृचस्य सूक्तस्याग्नेयः श्येनोजातवेदाअग्निर्गायत्री | |
प्र नू॒नं जा॒तवे᳚दस॒मश्वं᳚ हिनोत वा॒जिन᳚म् |{श्येनः | अग्निर्जातवेदाः | गायत्री} इ॒दं नो᳚ ब॒र्हिरा॒सदे᳚ ||{1/3}{8.8.46.1}{10.188.1}{10.12.37.1}{1269, 1025, 10540} प्र¦नू॒नम्¦जा॒तऽवे᳚दसम्¦अश्व᳚म्¦हि॒नो॒त॒¦वा॒जिन᳚म् | इ॒दम्¦नः॒¦ब॒र्हिः¦आ॒ऽसदे᳚ || |
अ॒स्य प्र जा॒तवे᳚दसो॒ विप्र॑वीरस्य मी॒ळ्हुषः॑ |{श्येनः | अग्निर्जातवेदाः | गायत्री} म॒हीमि॑यर्मि सुष्टु॒तिम् ||{2/3}{8.8.46.2}{10.188.2}{10.12.37.2}{1270, 1025, 10541} अ॒स्य¦प्र¦जा॒तऽवे᳚दसः¦विप्र॑ऽवीरस्य¦मी॒ळ्हुषः॑ | म॒हीम्¦इ॒य॒र्मि॒¦सु॒ऽस्तु॒तिम् || |
या रुचो᳚ जा॒तवे᳚दसो देव॒त्रा ह᳚व्य॒वाह॑नीः |{श्येनः | अग्निर्जातवेदाः | गायत्री} ताभि᳚र्नो य॒ज्ञमि᳚न्वतु ||{3/3}{8.8.46.3}{10.188.3}{10.12.37.3}{1271, 1025, 10542} याः¦रुचः॑¦जा॒तऽवे᳚दसः¦दे॒व॒ऽत्रा¦ह॒व्य॒ऽवाह॑नीः | ताभिः॑¦नः॒¦य॒ज्ञम्¦इ॒न्व॒तु॒ || |
[144] आयंगौरिति तृचस्य सूक्तस्य सार्पराज्ञी सूर्यगायत्री । (अत्रयद्यपि सार्पराज्ञ्यात्मदैवतमित्यनेनप्रकृतासार्पराज्ञीदेवताप्राप्नोति तथापि प्रयोक्तृभिः सूर्यस्यग्रहणात्पाक्षिकोपिसूर्योस्माभि रुपाक्तः |
आयं गौः पृश्नि॑रक्रमी॒दस॑दन् मा॒तरं᳚ पु॒रः |{सार्पराज्ञी | सार्पराज्ञी सूर्यो वा | गायत्री} पि॒तरं᳚ च प्र॒यन् त्स्वः॑ ||{1/3}{8.8.47.1}{10.189.1}{10.12.38.1}{1272, 1026, 10543} आ¦अ॒यम्¦गौः¦पृश्निः॑¦अ॒क्र॒मी॒त्¦अस॑दत्¦मा॒तर᳚म्¦पु॒रः | पि॒तर᳚म्¦च॒¦प्र॒ऽयन्¦स्व१॒॑रिति॒ स्वः॑ || |
अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती |{सार्पराज्ञी | सार्पराज्ञी सूर्यो वा | गायत्री} व्य॑ख्यन् महि॒षो दिव᳚म् ||{2/3}{8.8.47.2}{10.189.2}{10.12.38.2}{1273, 1026, 10544} अ॒न्तरिति॑¦च॒र॒ति॒¦रो॒च॒ना¦अ॒स्य¦प्रा॒णात्¦अ॒प॒।आ॒न॒ती | वि¦अ॒ख्य॒त्¦म॒हि॒षः¦दिव᳚म् || |
त्रिं॒शद्धाम॒ वि रा᳚जति॒ वाक् प॑तं॒गाय॑ धीयते |{सार्पराज्ञी | सार्पराज्ञी सूर्यो वा | गायत्री} प्रति॒ वस्तो॒रह॒ द्युभिः॑ ||{3/3}{8.8.47.3}{10.189.3}{10.12.38.3}{1274, 1026, 10545} त्रिं॒शत्¦धाम॑¦वि¦रा॒ज॒ति॒¦वाक्¦प॒तं॒गाय॑¦धी॒य॒ते॒ | प्रति॑¦वस्तोः᳚¦अह॑¦द्युऽभिः॑ || |
[145] ऋतंचेति तृचस्य सूक्तस्य माधुच्छंदसोघमर्षणोभाववृत्तिरनुष्टुप् | |
ऋ॒तं च॑ स॒त्यं चा॒भी᳚द्धा॒त् तप॒सोऽध्य॑जायत |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्} ततो॒ रात्र्य॑जायत॒ ततः॑ समु॒द्रो, अ᳚र्ण॒वः ||{1/3}{8.8.48.1}{10.190.1}{10.12.39.1}{1275, 1027, 10546} ऋ॒तम्¦च॒¦स॒त्यम्¦च॒¦अ॒भिऽइ᳚द्धात्¦तप॑सः¦अधि॑¦अ॒जा॒य॒त॒ | ततः॑¦रात्री᳚¦अ॒जा॒य॒त॒¦ततः॑¦स॒मु॒द्रः¦अ॒र्ण॒वः || |
स॒मु॒द्राद᳚र्ण॒वादधि॑ संवत्स॒रो, अ॑जायत |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्} अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ||{2/3}{8.8.48.2}{10.190.2}{10.12.39.2}{1276, 1027, 10547} स॒मु॒द्रात्¦अ॒र्ण॒वात्¦अधि॑¦सं॒व॒त्स॒रः¦अ॒जा॒य॒त॒ | अ॒हो॒रा॒त्राणि॑¦वि॒ऽदध॑त्¦विश्व॑स्य¦मि॒ष॒तः¦व॒शी || |
सू॒र्या॒च॒न्द्र॒मसौ᳚ धा॒ता य॑थापू॒र्वम॑कल्पयत् |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्} दिवं᳚ च पृथि॒वीं चा॒ऽन्तरि॑क्ष॒मथो॒ स्वः॑ ||{3/3}{8.8.48.3}{10.190.3}{10.12.39.3}{1277, 1027, 10548} सू॒र्या॒च॒न्द्र॒मसौ᳚¦धा॒ता¦य॒था॒पू॒र्वम्¦अ॒क॒ल्प॒य॒त् | दिव᳚म्¦च॒¦पृ॒थि॒वीम्¦च॒¦अ॒न्तरि॑क्षम्¦अथो॒ इति॑¦स्वः॑ || |
[146] संसमिति चतुरृचस्य सूक्तस्यांगिरसः संवननः आद्याया अग्निस्ततस्तिसृणां संज्ञानमनुष्टुप् तृतीयात्रिष्टुप् | |
संस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा᳚न्य॒र्य आ |{आङ्गिरसः संवननः | अग्निः | अनुष्टुप्} इ॒ळस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ||{1/4}{8.8.49.1}{10.191.1}{10.12.40.1}{1278, 1028, 10549} सम्ऽस᳚म्¦इत्¦यु॒व॒से॒¦वृ॒ष॒न्¦अग्ने᳚¦विश्वा᳚नि¦अ॒र्यः¦आ | इ॒ळः¦प॒दे¦सम्¦इ॒ध्य॒से॒¦सः¦नः॒¦वसू᳚नि¦आ¦भ॒र॒ || |
सं ग॑च्छध्वं॒ सं व॑दध्वं॒ सं वो॒ मनां᳚सि जानताम् |{आङ्गिरसः संवननः | संज्ञानम् | अनुष्टुप्} दे॒वा भा॒गं यथा॒ पूर्वे᳚ संजाना॒ना, उ॒पास॑ते ||{2/4}{8.8.49.2}{10.191.2}{10.12.40.2}{1279, 1028, 10550} सम्¦ग॒च्छ॒ध्व॒म्¦सम्¦व॒द॒ध्व॒म्¦सम्¦वः॒¦मनां᳚सि¦जा॒न॒ता॒म् | दे॒वाः¦भा॒गम्¦यथा᳚¦पूर्वे᳚¦स॒म्ऽजा॒ना॒नाः¦उ॒प॒ऽआस॑ते || |
स॒मा॒नो मन्त्रः॒ समि॑तिः समा॒नी स॑मा॒नं मनः॑ स॒ह चि॒त्तमे᳚षाम् |{आङ्गिरसः संवननः | संज्ञानम् | त्रिष्टुप्} स॒मा॒नं मन्त्र॑म॒भि म᳚न्त्रये वः समा॒नेन॑ वो ह॒विषा᳚ जुहोमि ||{3/4}{8.8.49.3}{10.191.3}{10.12.40.3}{1280, 1028, 10551} स॒मा॒नः¦मन्त्रः॑¦सम्ऽइ᳚तिः¦स॒मा॒नी¦स॒मा॒नम्¦मनः॑¦स॒ह¦चि॒त्तम्¦ए॒षा॒म् | |
स॒मा॒नी व॒ आकू᳚तिः समा॒ना हृद॑यानि वः |{आङ्गिरसः संवननः | संज्ञानम् | अनुष्टुप्} स॒मा॒नम॑स्तु वो॒ मनो॒ यथा᳚ वः॒ सुस॒हास॑ति ||{4/4}{8.8.49.4}{10.191.4}{10.12.40.4}{1281, 1028, 10552} स॒मा॒नी¦वः॒¦आऽकू᳚तिः¦स॒मा॒ना¦हृद॑यानि¦वः॒ | स॒मा॒नम्¦अ॒स्तु॒¦वः॒¦मनः॑¦यथा᳚¦वः॒¦सुऽस॑ह¦अस॑ति || |