|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||

|| ऋग्वेद संहिता (अष्टक: 02) ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
Mantra classification is following this convention{अष्टक,अध्याय,वर्ग,मंत्र}{मंडल,सूक्त,मंत्र}{मंडल,अनुवाक,सूक्त,मंत्र}{अष्टक मन्त्र संख्या,ऋक्संहित सूक्त संख्या,ऋक्संहित मन्त्र संख्या}
[Last updated on: 17-Sep-2026]

[1] प्रवःपांतमिति पंचदशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवान्विश्वेदेवास्त्रिष्टुप् पंचमीषष्ठ्यौ विराड्रूपे | (भेदप्रयोगपक्षेतुआद्यानांषण्णांक्रमेणरुद्रमरुतउषासानक्ता विश्वेदेवाअश्विनौविश्वेदेवामित्रावरुणसिंधवोदेवताः ततोद्वयोर्विश्वेदेवाः ततोद्वयोर्मित्रावरुणौ अंत्य पंचानांविश्वेदेवाः एवं १५) |
प्रवः॒पान्तं᳚रघुमन्य॒वोऽन्धो᳚¦य॒ज्ञंरु॒द्राय॑मी॒ळ्हुषे᳚भरध्वम्|{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

दि॒वो,अ॑स्तो॒ष्यसु॑रस्यवी॒रै¦रि॑षु॒ध्येव॑म॒रुतो॒रोद॑स्योः|| {1/15}{2.1.1.1}{1.122.1}{1.18.2.1}{1, 122, 1371}

पत्नी᳚वपू॒र्वहू᳚तिंवावृ॒धध्या᳚¦उ॒षासा॒नक्ता᳚पुरु॒धाविदा᳚ने|{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

स्त॒रीर्नात्कं॒व्यु॑तं॒वसा᳚ना॒¦सूर्य॑स्यश्रि॒यासु॒दृशी॒हिर᳚ण्यैः|| {2/15}{2.1.1.2}{1.122.2}{1.18.2.2}{2, 122, 1372}

म॒मत्तु॑नः॒परि॑ज्मावस॒र्हा¦म॒मत्तु॒वातो᳚अ॒पांवृष᳚ण्वान्|{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

शि॒शी॒तमि᳚न्द्रापर्वतायु॒वंन॒¦स्तन्नो॒विश्वे᳚वरिवस्यन्तुदे॒वाः|| {3/15}{2.1.1.3}{1.122.3}{1.18.2.3}{3, 122, 1373}

उ॒तत्यामे᳚य॒शसा᳚श्वेत॒नायै॒¦व्यन्ता॒पान्तौ᳚शि॒जोहु॒वध्यै᳚|{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

प्रवो॒नपा᳚तम॒पांकृ॑णुध्वं॒¦प्रमा॒तरा᳚रास्पि॒नस्या॒योः|| {4/15}{2.1.1.4}{1.122.4}{1.18.2.4}{4, 122, 1374}

आवो᳚रुव॒ण्युमौ᳚शि॒जोहु॒वध्यै॒¦घोषे᳚व॒शंस॒मर्जु॑नस्य॒नंशे᳚|{दैर्घतमसः कक्षीवान् | विश्वदेवाः | विराड्रूपा}

प्रवः॑पू॒ष्णेदा॒वन॒आँ,¦अच्छा᳚वोचेयव॒सुता᳚तिम॒ग्नेः|| {5/15}{2.1.1.5}{1.122.5}{1.18.2.5}{5, 122, 1375}

श्रु॒तंमे᳚मित्रावरुणा॒हवे॒मो¦तश्रु॑तं॒सद॑नेवि॒श्वतः॑सीम्|{दैर्घतमसः कक्षीवान् | विश्वदेवाः | विराड्रूपा}

श्रोतु॑नः॒श्रोतु॑रातिःसु॒श्रोतुः॑¦सु॒क्षेत्रा॒सिन्धु॑र॒द्भिः|| {6/15}{2.1.2.1}{1.122.6}{1.18.2.6}{6, 122, 1376}

स्तु॒षेसावां᳚वरुणमित्ररा॒ति¦र्गवां᳚श॒तापृ॒क्षया᳚मेषुप॒ज्रे|{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

श्रु॒तर॑थेप्रि॒यर॑थे॒दधा᳚नाः¦स॒द्यःपु॒ष्टिंनि॑रुन्धा॒नासो᳚अग्मन्|| {7/15}{2.1.2.2}{1.122.7}{1.18.2.7}{7, 122, 1377}

अ॒स्यस्तु॑षे॒महि॑मघस्य॒राधः॒¦सचा᳚सनेम॒नहु॑षःसु॒वीराः᳚|{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

जनो॒यःप॒ज्रेभ्यो᳚वा॒जिनी᳚वा॒¦नश्वा᳚वतोर॒थिनो॒मह्यं᳚सू॒रिः|| {8/15}{2.1.2.3}{1.122.8}{1.18.2.8}{8, 122, 1378}

जनो॒योमि॑त्रावरुणावभि॒ध्रु¦ग॒पोनवां᳚सु॒नोत्य॑क्ष्णया॒ध्रुक्|{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

स्व॒यंसयक्ष्मं॒हृद॑ये॒निध॑त्त॒¦आप॒यदीं॒होत्रा᳚भिरृ॒तावा᳚|| {9/15}{2.1.2.4}{1.122.9}{1.18.2.9}{9, 122, 1379}

सव्राध॑तो॒नहु॑षो॒दंसु॑जूतः॒¦शर्ध॑स्तरोन॒रांगू॒र्तश्र॑वाः|{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

विसृ॑ष्टरातिर्यातिबाळ्ह॒सृत्वा॒¦विश्वा᳚सुपृ॒त्सुसद॒मिच्छूरः॑|| {10/15}{2.1.2.5}{1.122.10}{1.18.2.10}{10, 122, 1380}

अध॒ग्मन्ता॒नहु॑षो॒हवं᳚सू॒रेः¦श्रोता᳚राजानो,अ॒मृत॑स्यमन्द्राः|{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

न॒भो॒जुवो॒यन्नि॑र॒वस्य॒राधः॒¦प्रश॑स्तयेमहि॒नारथ॑वते|| {11/15}{2.1.3.1}{1.122.11}{1.18.2.11}{11, 122, 1381}

ए॒तंशर्धं᳚धाम॒यस्य॑सू॒रे¦रित्य॑वोच॒न्दश॑तयस्य॒नंशे᳚|{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

द्यु॒म्नानि॒येषु॑व॒सुता᳚तीरा॒रन्¦विश्वे᳚सन्वन्तुप्रभृ॒थेषु॒वाज᳚म्|| {12/15}{2.1.3.2}{1.122.12}{1.18.2.12}{12, 122, 1382}

मन्दा᳚महे॒दश॑तयस्यधा॒से¦र्द्विर्यत्‌पञ्च॒बिभ्र॑तो॒यन्त्यन्ना᳚|{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

किमि॒ष्टाश्व॑इ॒ष्टर॑श्मिरे॒त¦ई᳚शा॒नास॒स्तरु॑षऋञ्जते॒नॄन्|| {13/15}{2.1.3.3}{1.122.13}{1.18.2.13}{13, 122, 1383}

हिर᳚ण्यकर्णंमणिग्रीव॒मर्ण॒¦स्तन्नो॒विश्वे᳚वरिवस्यन्तुदे॒वाः|{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

अ॒र्योगिरः॑स॒द्यआज॒ग्मुषी॒¦रोस्राश्चा᳚कन्तू॒भये᳚ष्व॒स्मे|| {14/15}{2.1.3.4}{1.122.14}{1.18.2.14}{14, 122, 1384}

च॒त्वारो᳚मामश॒र्शार॑स्य॒शिश्व॒¦स्त्रयो॒राज्ञ॒आय॑वसस्यजि॒ष्णोः|{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

रथो᳚वांमित्रावरुणादी॒र्घाप्साः॒¦स्यूम॑गभस्तिः॒सूरो॒नाद्यौ᳚त्|| {15/15}{2.1.3.5}{1.122.15}{1.18.2.15}{15, 122, 1385}

[2] पृथूरथइति त्रयोदशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानुषास्त्रिष्टुप् |
पृ॒थूरथो॒दक्षि॑णाया,अयो॒ज्यै¦नं᳚दे॒वासो᳚अ॒मृता᳚सो,अस्थुः|{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

कृ॒ष्णादुद॑स्थाद॒र्या॒३॑(आ॒)विहा᳚या॒¦श्चिकि॑त्सन्ती॒मानु॑षाय॒क्षया᳚य|| {1/13}{2.1.4.1}{1.123.1}{1.18.3.1}{16, 123, 1386}

पूर्वा॒विश्व॑स्मा॒द्‌भुव॑नादबोधि॒¦जय᳚न्ती॒वाजं᳚बृह॒तीसनु॑त्री|{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

उ॒च्चाव्य॑ख्यद्‌युव॒तिःपु॑न॒र्भू¦रोषा,अ॑गन्‌प्रथ॒मापू॒र्वहू᳚तौ|| {2/13}{2.1.4.2}{1.123.2}{1.18.3.2}{17, 123, 1387}

यद॒द्यभा॒गंवि॒भजा᳚सि॒नृभ्य॒¦उषो᳚देविमर्त्य॒त्रासु॑जाते|{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

दे॒वोनो॒,अत्र॑सवि॒तादमू᳚ना॒,¦अना᳚गसोवोचति॒सूर्या᳚य|| {3/13}{2.1.4.3}{1.123.3}{1.18.3.3}{18, 123, 1388}

गृ॒हंगृ॑हमह॒नाया॒त्यच्छा᳚¦दि॒वेदि॑वे॒,अधि॒नामा॒दधा᳚ना|{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

सिषा᳚सन्तीद्योत॒नाशश्व॒दागा॒¦दग्र॑मग्र॒मिद्‌भ॑जते॒वसू᳚नाम्|| {4/13}{2.1.4.4}{1.123.4}{1.18.3.4}{19, 123, 1389}

भग॑स्य॒स्वसा॒वरु॑णस्यजा॒मि¦रुषः॑सूनृतेप्रथ॒माज॑रस्व|{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

प॒श्चासद॑घ्या॒यो,अ॒घस्य॑धा॒ता¦जये᳚म॒तंदक्षि॑णया॒रथे᳚न|| {5/13}{2.1.4.5}{1.123.5}{1.18.3.5}{20, 123, 1390}

उदी᳚रतांसू॒नृता॒,उत्‌पुरं᳚धी॒¦रुद॒ग्नयः॑शुशुचा॒नासो᳚अस्थुः|{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

स्पा॒र्हावसू᳚नि॒तम॒साप॑गूळ्हा॒¦विष्कृ᳚ण्वन्त्यु॒षसो᳚विभा॒तीः|| {6/13}{2.1.5.1}{1.123.6}{1.18.3.6}{21, 123, 1391}

अपा॒न्यदेत्य॒भ्य१॑(अ॒)न्यदे᳚ति॒¦विषु॑रूपे॒,अह॑नी॒संच॑रेते|{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

प॒रि॒क्षितो॒स्तमो᳚अ॒न्यागुहा᳚क॒¦रद्यौ᳚दु॒षाःशोशु॑चता॒रथे᳚न|| {7/13}{2.1.5.2}{1.123.7}{1.18.3.7}{22, 123, 1392}

स॒दृशी᳚र॒द्यस॒दृशी॒रिदु॒श्वो¦दी॒र्घंस॑चन्ते॒वरु॑णस्य॒धाम॑|{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

अ॒न॒व॒द्यास्त्रिं॒शतं॒योज॑ना॒¦न्येकै᳚का॒क्रतुं॒परि॑यन्तिस॒द्यः|| {8/13}{2.1.5.3}{1.123.8}{1.18.3.8}{23, 123, 1393}

जा॒न॒त्यह्नः॑प्रथ॒मस्य॒नाम॑¦शु॒क्राकृ॒ष्णाद॑जनिष्टश्विती॒ची|{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

ऋ॒तस्य॒योषा॒नमि॑नाति॒धामा¦ह॑रहर्निष्कृ॒तमा॒चर᳚न्ती|| {9/13}{2.1.5.4}{1.123.9}{1.18.3.9}{24, 123, 1394}

क॒न्ये᳚वत॒न्वा॒३॑(आ॒)शाश॑दानाँ॒,¦एषि॑देविदे॒वमिय॑क्षमाणम्|{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

सं॒स्मय॑मानायुव॒तिःपु॒रस्ता᳚¦दा॒विर्वक्षां᳚सिकृणुषेविभा॒ती|| {10/13}{2.1.5.5}{1.123.10}{1.18.3.10}{25, 123, 1395}

सु॒सं॒का॒शामा॒तृमृ॑ष्टेव॒योषा॒¦विस्त॒न्वं᳚कृणुषेदृ॒शेकम्|{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

भ॒द्रात्वमु॑षोवित॒रंव्यु॑च्छ॒¦नतत्ते᳚अ॒न्या,उ॒षसो᳚नशन्त|| {11/13}{2.1.6.1}{1.123.11}{1.18.3.11}{26, 123, 1396}

अश्वा᳚वती॒र्गोम॑तीर्वि॒श्ववा᳚रा॒¦यत॑मानार॒श्मिभिः॒सूर्य॑स्य|{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

परा᳚च॒यन्ति॒पुन॒राच॑यन्ति¦भ॒द्रानाम॒वह॑माना,उ॒षासः॑|| {12/13}{2.1.6.2}{1.123.12}{1.18.3.12}{27, 123, 1397}

ऋ॒तस्य॑र॒श्मिम॑नु॒यच्छ॑माना¦भ॒द्रम्भ॑द्रं॒क्रतु॑म॒स्मासु॑धेहि|{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

उषो᳚नो,अ॒द्यसु॒हवा॒व्यु॑च्छा॒¦ऽस्मासु॒रायो᳚म॒घव॑त्सुचस्युः|| {13/13}{2.1.6.3}{1.123.13}{1.18.3.13}{28, 123, 1398}

[3] उषा उच्छंतीति त्रयोदशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानुषास्त्रिष्टुप् |
उ॒षा,उ॒च्छन्ती᳚समिधा॒ने,अ॒ग्ना,¦उ॒द्यन्त्सूर्य॑उर्वि॒याज्योति॑रश्रेत्|{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

दे॒वोनो॒,अत्र॑सवि॒तान्वर्थं॒¦प्रासा᳚वीद्‌द्वि॒पत्‌प्रचतु॑ष्पदि॒त्यै|| {1/13}{2.1.7.1}{1.124.1}{1.18.4.1}{29, 124, 1399}

अमि॑नती॒दैव्या᳚निव्र॒तानि॑¦प्रमिन॒तीम॑नु॒ष्या᳚यु॒गानि॑|{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

ई॒युषी᳚णामुप॒माशश्व॑तीना¦मायती॒नांप्र॑थ॒मोषाव्य॑द्यौत्|| {2/13}{2.1.7.2}{1.124.2}{1.18.4.2}{30, 124, 1400}

ए॒षादि॒वोदु॑हि॒ताऽप्रत्य॑दर्शि॒¦ज्योति॒र्वसा᳚नासम॒नापु॒रस्ता᳚त्|{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

ऋ॒तस्य॒पन्था॒मन्वे᳚तिसा॒धु¦प्र॑जान॒तीव॒नदिशो᳚मिनाति|| {3/13}{2.1.7.3}{1.124.3}{1.18.4.3}{31, 124, 1401}

उपो᳚अदर्शिशु॒न्ध्युवो॒नवक्षो᳚¦नो॒धा,इ॑वा॒विर॑कृतप्रि॒याणि॑|{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

अ॒द्म॒सन्नस॑स॒तोबो॒धय᳚न्ती¦शश्वत्त॒मागा॒त्‌पुन॑रे॒युषी᳚णाम्|| {4/13}{2.1.7.4}{1.124.4}{1.18.4.4}{32, 124, 1402}

पूर्वे॒,अर्धे॒रज॑सो,अ॒प्त्यस्य॒¦गवां॒जनि॑त्र्यकृत॒प्रके॒तुम्|{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

व्यु॑प्रथतेवित॒रंवरी᳚य॒¦ओभापृ॒णन्ती᳚पि॒त्रोरु॒पस्था᳚|| {5/13}{2.1.7.5}{1.124.5}{1.18.4.5}{33, 124, 1403}

ए॒वेदे॒षापु॑रु॒तमा᳚दृ॒शेकं¦नाजा᳚मिं॒नपरि॑वृणक्तिजा॒मिम्|{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

अ॒रे॒पसा᳚त॒न्वा॒३॑(आ॒)शाश॑दाना॒¦नार्भा॒दीष॑ते॒नम॒होवि॑भा॒ती|| {6/13}{2.1.8.1}{1.124.6}{1.18.4.6}{34, 124, 1404}

अ॒भ्रा॒तेव॑पुं॒सए᳚तिप्रती॒ची¦ग॑र्ता॒रुगि॑वस॒नये॒धना᳚नाम्|{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

जा॒येव॒पत्य॑उश॒तीसु॒वासा᳚¦उ॒षाह॒स्रेव॒निरि॑णीते॒,अप्सः॑|| {7/13}{2.1.8.2}{1.124.7}{1.18.4.7}{35, 124, 1405}

स्वसा॒स्वस्रे॒ज्याय॑स्यै॒योनि॑मारै॒¦गपै᳚त्यस्याःप्रति॒चक्ष्ये᳚व|{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

व्यु॒च्छन्ती᳚र॒श्मिभिः॒सूर्य॑स्या॒ञ्¦ज्य᳚ङ्क्तेसमन॒गा,इ॑व॒व्राः|| {8/13}{2.1.8.3}{1.124.8}{1.18.4.8}{36, 124, 1406}

आ॒सांपूर्वा᳚सा॒मह॑सु॒स्वसॄ᳚णा॒¦मप॑रा॒पूर्वा᳚म॒भ्ये᳚तिप॒श्चात्|{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

ताःप्र॑त्न॒वन्नव्य॑सीर्नू॒नम॒स्मे¦रे॒वदु॑च्छन्तुसु॒दिना᳚उ॒षासः॑|| {9/13}{2.1.8.4}{1.124.9}{1.18.4.9}{37, 124, 1407}

प्रबो᳚धयोषःपृण॒तोम॑घो॒¦न्यबु॑ध्यमानाःप॒णयः॑ससन्तु|{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

रे॒वदु॑च्छम॒घव॑द्भ्योमघोनि¦रे॒वत्‌स्तो॒त्रेसू᳚नृतेजा॒रय᳚न्ती|| {10/13}{2.1.8.5}{1.124.10}{1.18.4.10}{38, 124, 1408}

अवे॒यम॑श्वैद्‌युव॒तिःपु॒रस्ता᳚द्¦यु॒ङ्क्तेगवा᳚मरु॒णाना॒मनी᳚कम्|{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

विनू॒नमु॑च्छा॒दस॑ति॒प्रके॒तु¦र्गृ॒हंगृ॑ह॒मुप॑तिष्ठाते,अ॒ग्निः|| {11/13}{2.1.9.1}{1.124.11}{1.18.4.11}{39, 124, 1409}

उत्‌ते॒वय॑श्चिद्‌वस॒तेर॑पप्त॒न्¦नर॑श्च॒येपि॑तु॒भाजो॒व्यु॑ष्टौ|{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

अ॒मास॒तेव॑हसि॒भूरि॑वा॒म¦मुषो᳚देविदा॒शुषे॒मर्त्या᳚य|| {12/13}{2.1.9.2}{1.124.12}{1.18.4.12}{40, 124, 1410}

अस्तो᳚ढ्वंस्तोम्या॒ब्रह्म॑णा॒मे¦ऽवी᳚वृधध्वमुश॒तीरु॑षासः|{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

यु॒ष्माकं᳚देवी॒रव॑सासनेम¦सह॒स्रिणं᳚चश॒तिनं᳚च॒वाज᳚म्|| {13/13}{2.1.9.3}{1.124.13}{1.18.4.13}{41, 124, 1411}

[4] प्रातारत्नमिति सप्तर्चस्य सूक्तस्य दैर्घतमसः कक्षीवान्त्स्वनयस्यदानस्तुतिस्त्रिष्टुप् चतुर्थीपंचम्यौजगत्यौ | (स्वनयनाम्नोराज्ञोदानस्तुतिरतःस्वनयोदेवता) |
प्रा॒तारत्नं᳚प्रात॒रित्वा᳚दधाति॒¦तंचि॑कि॒त्वान्‌प्र॑ति॒गृह्या॒निध॑त्ते|{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | त्रिष्टुप्}

तेन॑प्र॒जांव॒र्धय॑मान॒आयू᳚¦रा॒यस्पोषे᳚णसचतेसु॒वीरः॑|| {1/7}{2.1.10.1}{1.125.1}{1.18.5.1}{42, 125, 1412}

सु॒गुर॑सत्‌सुहिर॒ण्यःस्वश्वो᳚¦बृ॒हद॑स्मै॒वय॒इन्द्रो᳚दधाति|{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | त्रिष्टुप्}

यस्त्वा॒यन्तं॒वसु॑नाऽप्रातरित्वो¦मु॒क्षीज॑येव॒पदि॑मुत्सि॒नाति॑|| {2/7}{2.1.10.2}{1.125.2}{1.18.5.2}{43, 125, 1413}

आय॑म॒द्यसु॒कृतं᳚प्रा॒तरि॒च्छ¦न्नि॒ष्टेःपु॒त्रंवसु॑मता॒रथे᳚न|{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | त्रिष्टुप्}

अं॒शोःसु॒तंपा᳚ययमत्स॒रस्य॑¦क्ष॒यद्वी᳚रंवर्धयसू॒नृता᳚भिः|| {3/7}{2.1.10.3}{1.125.3}{1.18.5.3}{44, 125, 1414}

उप॑क्षरन्ति॒सिन्ध॑वोमयो॒भुव॑¦ईजा॒नंच॑य॒क्ष्यमा᳚णंचधे॒नवः॑|{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | जगती}

पृ॒णन्तं᳚च॒पपु॑रिंचश्रव॒स्यवो᳚¦घृ॒तस्य॒धारा॒,उप॑यन्तिवि॒श्वतः॑|| {4/7}{2.1.10.4}{1.125.4}{1.18.5.4}{45, 125, 1415}

नाक॑स्यपृ॒ष्ठे,अधि॑तिष्ठतिश्रि॒तो¦यःपृ॒णाति॒सह॑दे॒वेषु॑गच्छति|{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | जगती}

तस्मा॒,आपो᳚घृ॒तम॑र्षन्ति॒सिन्ध॑व॒¦स्तस्मा᳚इ॒यंदक्षि॑णापिन्वते॒सदा᳚|| {5/7}{2.1.10.5}{1.125.5}{1.18.5.5}{46, 125, 1416}

दक्षि॑णावता॒मिदि॒मानि॑चि॒त्रा¦दक्षि॑णावतांदि॒विसूर्या᳚सः|{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | त्रिष्टुप्}

दक्षि॑णावन्तो,अ॒मृतं᳚भजन्ते॒¦दक्षि॑णावन्तः॒प्रति॑रन्त॒आयुः॑|| {6/7}{2.1.10.6}{1.125.6}{1.18.5.6}{47, 125, 1417}

मापृ॒णन्तो॒दुरि॑त॒मेन॒आर॒न्¦माजा᳚रिषुःसू॒रयः॑सुव्र॒तासः॑|{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | त्रिष्टुप्}

अ॒न्यस्तेषां᳚परि॒धिर॑स्तु॒कश्चि॒¦दपृ॑णन्तम॒भिसंय᳚न्तु॒शोकाः᳚|| {7/7}{2.1.10.7}{1.125.7}{1.18.5.7}{48, 125, 1418}

[5] अमंदानिति सप्तर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानृषिः आगधितेत्यस्यभावयव्यऋषिः रोमशादेवता उपोपमइत्यस्यरोमशाऋषिकास्वनयोदेवतात्रिष्टुप् अंत्येद्वेअनुष्टुभौ | (स्वनयएवभावयव्यशब्देनोच्यते रोमशास्वनयभार्याअंत्येद्वेऋचौतयोः परस्परंसंवादः आद्याभिःपंचभिर्दानुतष्टः कक्षीवान्‌भावयव्यमस्तौत्‌ ततश्चसएवदेवता) |
अम᳚न्दा॒न्‌त्स्तोमा॒न्‌प्रभ॑रेमनी॒षा¦सिन्धा॒वधि॑क्षिय॒तोभा॒व्यस्य॑|{दैर्घतमसः कक्षीवान् | भावयव्यः | त्रिष्टुप्}

योमे᳚स॒हस्र॒ममि॑मीतस॒वा¦न॒तूर्तो॒राजा॒श्रव॑इ॒च्छमा᳚नः|| {1/7}{2.1.11.1}{1.126.1}{1.18.6.1}{49, 126, 1419}

श॒तंराज्ञो॒नाध॑मानस्यनि॒ष्काञ्¦छ॒तमश्वा॒न्‌प्रय॑तान्‌त्स॒द्यआद᳚म्|{दैर्घतमसः कक्षीवान् | भावयव्यः | त्रिष्टुप्}

श॒तंक॒क्षीवाँ॒,असु॑रस्य॒गोनां᳚¦दि॒विश्रवो॒ऽजर॒मात॑तान|| {2/7}{2.1.11.2}{1.126.2}{1.18.6.2}{50, 126, 1420}

उप॑माश्या॒वाःस्व॒नये᳚नद॒त्ता¦व॒धूम᳚न्तो॒दश॒रथा᳚सो,अस्थुः|{दैर्घतमसः कक्षीवान् | भावयव्यः | त्रिष्टुप्}

ष॒ष्टिःस॒हस्र॒मनु॒गव्य॒मागा॒त्¦सन॑त्‌क॒क्षीवाँ᳚,अभिपि॒त्वे,अह्ना᳚म्|| {3/7}{2.1.11.3}{1.126.3}{1.18.6.3}{51, 126, 1421}

च॒त्वा॒रिं॒शद्‌दश॑रथस्य॒शोणाः᳚¦स॒हस्र॒स्याग्रे॒श्रेणिं᳚नयन्ति|{दैर्घतमसः कक्षीवान् | भावयव्यः | त्रिष्टुप्}

म॒द॒च्युतः॑कृश॒नाव॑तो॒,अत्या᳚न्¦क॒क्षीव᳚न्त॒उद॑मृक्षन्तप॒ज्राः|| {4/7}{2.1.11.4}{1.126.4}{1.18.6.4}{52, 126, 1422}

पूर्वा॒मनु॒प्रय॑ति॒माद॑देव॒¦स्त्रीन्‌यु॒क्ताँ,अ॒ष्टाव॒रिधा᳚यसो॒गाः|{दैर्घतमसः कक्षीवान् | भावयव्यः | त्रिष्टुप्}

सु॒बन्ध॑वो॒येवि॒श्या᳚इव॒व्रा,¦अन॑स्वन्तः॒श्रव॒ऐष᳚न्तप॒ज्राः|| {5/7}{2.1.11.5}{1.126.5}{1.18.6.5}{53, 126, 1423}

आग॑धिता॒परि॑गधिता॒¦याक॑शी॒केव॒जङ्ग॑हे|{भावयव्यः | रोमशा | अनुष्टुप्}

ददा᳚ति॒मह्यं॒यादु॑री॒¦याशू᳚नांभो॒ज्या᳚श॒ता|| {6/7}{2.1.11.6}{1.126.6}{1.18.6.6}{54, 126, 1424}

उपो᳚पमे॒परा᳚मृश॒¦मामे᳚द॒भ्राणि॑मन्यथाः|{रोमशा | स्वनयो | अनुष्टुप्}

सर्वा॒हम॑स्मिरोम॒शा¦ग॒न्धारी᳚णामिवावि॒का|| {7/7}{2.1.11.7}{1.126.7}{1.18.6.7}{55, 126, 1425}

[6] अग्निहोतारमित्येकादशर्चस्य सूक्तस्य दैवोदासिःपरुच्छेपोऽग्निरत्यष्टिः षष्ट्यतिधृतिः |
अ॒ग्निंहोता᳚रंमन्ये॒दास्व᳚न्तं॒¦वसुं᳚सू॒नुंसह॑सोजा॒तवे᳚दसं॒¦विप्रं॒नजा॒तवे᳚दसम्|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

यऊ॒र्ध्वया᳚स्वध्व॒रो¦दे॒वोदे॒वाच्या᳚कृ॒पा|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

घृ॒तस्य॒विभ्रा᳚ष्टि॒मनु॑वष्टिशो॒चिषा॒ऽऽ¦जुह्वा᳚नस्यस॒र्पिषः॑|| {1/11}{2.1.12.1}{1.127.1}{1.19.1.1}{56, 127, 1426}

यजि॑ष्ठंत्वा॒यज॑मानाहुवेम॒¦ज्येष्ठ॒मङ्गि॑रसांविप्र॒मन्म॑भि॒¦र्विप्रे᳚भिःशुक्र॒मन्म॑भिः|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

परि॑ज्मानमिव॒द्यां¦होता᳚रंचर्षणी॒नाम्|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

शो॒चिष्के᳚शं॒वृष॑णं॒यमि॒माविशः॒¦प्राव᳚न्तुजू॒तये॒विशः॑|| {2/11}{2.1.12.2}{1.127.2}{1.19.1.2}{57, 127, 1427}

सहिपु॒रूचि॒दोज॑सावि॒रुक्म॑ता॒¦दीद्या᳚नो॒भव॑तिद्रुहंत॒रः¦प॑र॒शुर्नद्रु॑हंत॒रः|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

वी॒ळुचि॒द्यस्य॒समृ॑तौ॒¦श्रुव॒द्‌वने᳚व॒यत्‌स्थि॒रम्|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

निः॒षह॑माणोयमते॒नाय॑ते¦धन्वा॒सहा॒नाय॑ते|| {3/11}{2.1.12.3}{1.127.3}{1.19.1.3}{58, 127, 1428}

दृ॒ळ्हाचि॑दस्मा॒,अनु॑दु॒र्यथा᳚वि॒दे¦तेजि॑ष्ठाभिर॒रणि॑भिर्दा॒ष्ट्यव॑से॒¦ऽग्नये᳚दा॒ष्ट्यव॑से|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

प्रयःपु॒रूणि॒गाह॑ते॒¦तक्ष॒द्‌वने᳚वशो॒चिषा᳚|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

स्थि॒राचि॒दन्ना॒निरि॑णा॒त्योज॑सा॒¦निस्थि॒राणि॑चि॒दोज॑सा|| {4/11}{2.1.12.4}{1.127.4}{1.19.1.4}{59, 127, 1429}

तम॑स्यपृ॒क्षमुप॑रासुधीमहि॒¦नक्तं॒यःसु॒दर्श॑तरो॒दिवा᳚तरा॒¦दप्रा᳚युषे॒दिवा᳚तरात्|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

आद॒स्यायु॒र्ग्रभ॑णवद्¦वी॒ळुशर्म॒नसू॒नवे᳚|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

भ॒क्तमभ॑क्त॒मवो॒व्यन्तो᳚अ॒जरा᳚¦अ॒ग्नयो॒व्यन्तो᳚अ॒जराः᳚|| {5/11}{2.1.12.5}{1.127.5}{1.19.1.5}{60, 127, 1430}

सहिशर्धो॒नमारु॑तंतुवि॒ष्वणि॒¦रप्न॑स्वतीषू॒र्वरा᳚स्वि॒ष्टनि॒¦रार्त॑नास्वि॒ष्टनिः॑|{दैवोदासिः परुच्छेपः | अग्निः | अतिधृतिः}

आद॑द्ध॒व्यान्या᳚द॒दि¦र्य॒ज्ञस्य॑के॒तुर॒र्हणा᳚|{दैवोदासिः परुच्छेपः | अग्निः | अतिधृतिः}

अध॑स्मास्य॒हर्ष॑तो॒हृषी᳚वतो॒¦विश्वे᳚जुषन्त॒पन्थां॒नरः॑शु॒भेनपन्था᳚म्|| {6/11}{2.1.13.1}{1.127.6}{1.19.1.6}{61, 127, 1431}

द्वि॒तायदीं᳚की॒स्तासो᳚अ॒भिद्य॑वो¦नम॒स्यन्त॑उप॒वोच᳚न्त॒भृग॑वो¦म॒थ्नन्तो᳚दा॒शाभृग॑वः|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

अ॒ग्निरी᳚शे॒वसू᳚नां॒¦शुचि॒र्योध॒र्णिरे᳚षाम्|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

प्रि॒याँ,अ॑पि॒धीँर्व॑निषीष्ट॒मेधि॑र॒¦आव॑निषीष्ट॒मेधि॑रः|| {7/11}{2.1.13.2}{1.127.7}{1.19.1.7}{62, 127, 1432}

विश्वा᳚सांत्वावि॒शांपतिं᳚हवामहे॒¦सर्वा᳚सांसमा॒नंदम्प॑तिंभु॒जे¦स॒त्यगि᳚र्वाहसंभु॒जे|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

अति॑थिं॒मानु॑षाणां¦पि॒तुर्नयस्या᳚स॒या|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

अ॒मीच॒विश्वे᳚अ॒मृता᳚स॒आवयो᳚¦ह॒व्यादे॒वेष्वावयः॑|| {8/11}{2.1.13.3}{1.127.8}{1.19.1.8}{63, 127, 1433}

त्वम॑ग्ने॒सह॑सा॒सह᳚न्तमः¦शु॒ष्मिन्त॑मोजायसेदे॒वता᳚तये¦र॒यिर्नदे॒वता᳚तये|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

शु॒ष्मिन्त॑मो॒हिते॒मदो᳚¦द्यु॒म्निन्त॑मउ॒तक्रतुः॑|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

अध॑स्माते॒परि॑चरन्त्यजर¦श्रुष्टी॒वानो॒नाज॑र|| {9/11}{2.1.13.4}{1.127.9}{1.19.1.9}{64, 127, 1434}

प्रवो᳚म॒हेसह॑सा॒सह॑स्वत¦उष॒र्बुधे᳚पशु॒षेनाग्नये॒¦स्तोमो᳚बभूत्व॒ग्नये᳚|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

प्रति॒यदीं᳚ह॒विष्मा॒न्¦विश्वा᳚सु॒क्षासु॒जोगु॑वे|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

अग्रे᳚रे॒भोनज॑रतऋषू॒णां¦जूर्णि॒र्होत॑ऋषू॒णाम्|| {10/11}{2.1.13.5}{1.127.10}{1.19.1.10}{65, 127, 1435}

सनो॒नेदि॑ष्ठं॒ददृ॑शान॒आभ॒रा¦ग्ने᳚दे॒वेभिः॒सच॑नाःसुचे॒तुना᳚¦म॒होरा॒यःसु॑चे॒तुना᳚|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

महि॑शविष्ठनस्कृधि¦सं॒चक्षे᳚भु॒जे,अ॒स्यै|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

महि॑स्तो॒तृभ्यो᳚मघवन्‌त्सु॒वीर्यं॒¦मथी᳚रु॒ग्रोनशव॑सा|| {11/11}{2.1.13.6}{1.127.11}{1.19.1.11}{66, 127, 1436}

[7] अयंजायतेत्यष्टर्चस्य सूक्तस्य दैवोदासिःपरुच्छेपोग्निरत्यष्टिः |
अ॒यंजा᳚यत॒मनु॑षो॒धरी᳚मणि॒¦होता॒यजि॑ष्ठउ॒शिजा॒मनु᳚व्र॒त¦म॒ग्निःस्वमनु᳚व्र॒तम्|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

वि॒श्वश्रु॑ष्टिःसखीय॒ते¦र॒यिरि॑वश्रवस्य॒ते|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

अद॑ब्धो॒होता॒निष॑ददि॒ळस्प॒दे¦परि॑वीतइ॒ळस्प॒दे|| {1/8}{2.1.14.1}{1.128.1}{1.19.2.1}{67, 128, 1437}

तंय॑ज्ञ॒साध॒मपि॑वातयाम¦स्यृ॒तस्य॑प॒थानम॑साह॒विष्म॑ता¦दे॒वता᳚ताह॒विष्म॑ता|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

सन॑ऊ॒र्जामु॒पाभृ॑¦त्य॒याकृ॒पानजू᳚र्यति|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

यंमा᳚त॒रिश्वा॒मन॑वेपरा॒वतो᳚¦दे॒वंभाःप॑रा॒वतः॑|| {2/8}{2.1.14.2}{1.128.2}{1.19.2.2}{68, 128, 1438}

एवे᳚नस॒द्यःपर्ये᳚ति॒पार्थि॑वं¦मुहु॒र्गीरेतो᳚वृष॒भःकनि॑क्रद॒द्¦दध॒द्रेतः॒कनि॑क्रदत्|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

श॒तंचक्षा᳚णो,अ॒क्षभि॑¦र्दे॒वोवने᳚षुतु॒र्वणिः॑|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

सदो॒दधा᳚न॒उप॑रेषु॒सानु॑¦ष्व॒ग्निःपरे᳚षु॒सानु॑षु|| {3/8}{2.1.14.3}{1.128.3}{1.19.2.3}{69, 128, 1439}

ससु॒क्रतुः॑पु॒रोहि॑तो॒दमे᳚दमे॒¦ऽग्निर्य॒ज्ञस्या᳚ध्व॒रस्य॑चेतति॒¦क्रत्वा᳚य॒ज्ञस्य॑चेतति|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

क्रत्वा᳚वे॒धा,इ॑षूय॒ते¦विश्वा᳚जा॒तानि॑पस्पशे|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

यतो᳚घृत॒श्रीरति॑थि॒रजा᳚यत॒¦वह्नि᳚र्वे॒धा,अजा᳚यत|| {4/8}{2.1.14.4}{1.128.4}{1.19.2.4}{70, 128, 1440}

क्रत्वा॒यद॑स्य॒तवि॑षीषुपृ॒ञ्चते॒¦ऽग्नेरवे᳚णम॒रुतां॒नभो॒ज्ये᳚¦षि॒राय॒नभो॒ज्या᳚|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

सहिष्मा॒दान॒मिन्व॑ति॒¦वसू᳚नांचम॒ज्मना᳚|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

सन॑स्त्रासतेदुरि॒ताद॑भि॒ह्रुतः॒¦शंसा᳚द॒घाद॑भि॒ह्रुतः॑|| {5/8}{2.1.14.5}{1.128.5}{1.19.2.5}{71, 128, 1441}

विश्वो॒विहा᳚या,अर॒तिर्वसु॑र्दधे॒¦हस्ते॒दक्षि॑णेत॒रणि॒र्नशि॑श्रथ¦च्छ्रव॒स्यया॒नशि॑श्रथत्|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

विश्व॑स्मा॒,इदि॑षुध्य॒ते¦दे᳚व॒त्राह॒व्यमोहि॑षे|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

विश्व॑स्मा॒,इत्‌सु॒कृते॒वार॑मृण्व¦त्य॒ग्निर्द्वारा॒व्यृ᳚ण्वति|| {6/8}{2.1.15.1}{1.128.6}{1.19.2.6}{72, 128, 1442}

समानु॑षेवृ॒जने॒शंत॑मोहि॒तो॒३॑(ओ॒)¦ऽग्निर्य॒ज्ञेषु॒जेन्यो॒नवि॒श्पतिः॑¦प्रि॒योय॒ज्ञेषु॑वि॒श्पतिः॑|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

सह॒व्यामानु॑षाणा¦मि॒ळाकृ॒तानि॑पत्यते|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

सन॑स्त्रासते॒वरु॑णस्यधू॒र्ते¦र्म॒होदे॒वस्य॑धू॒र्तेः|| {7/8}{2.1.15.2}{1.128.7}{1.19.2.7}{73, 128, 1443}

अ॒ग्निंहोता᳚रमीळते॒वसु॑धितिं¦प्रि॒यंचेति॑ष्ठमर॒तिंन्ये᳚रिरे¦हव्य॒वाहं॒न्ये᳚रिरे|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

वि॒श्वायुं᳚वि॒श्ववे᳚दसं॒¦होता᳚रंयज॒तंक॒विम्|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

दे॒वासो᳚र॒ण्वमव॑सेवसू॒यवो᳚¦गी॒र्भीर॒ण्वंव॑सू॒यवः॑|| {8/8}{2.1.15.3}{1.128.8}{1.19.2.8}{74, 128, 1444}

[8] यंत्वंरथमित्येकादशर्चस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्रः षष्ट्या‌इंदुरत्यष्टिः अष्टमीनवम्यावतिशक्वर्यावेकादश्यष्टिः |
यंत्वंरथ॑मिन्द्रमे॒धसा᳚तये¦ऽपा॒कासन्त॑मिषिरप्र॒णय॑सि॒¦प्रान॑वद्य॒नय॑सि|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

स॒द्यश्चि॒त्तम॒भिष्ट॑ये॒¦करो॒वश॑श्चवा॒जिन᳚म्|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

सास्माक॑मनवद्यतूतुजानवे॒धसा᳚¦मि॒मांवाचं॒नवे॒धसा᳚म्|| {1/11}{2.1.16.1}{1.129.1}{1.19.3.1}{75, 129, 1445}

सश्रु॑धि॒यःस्मा॒पृत॑नासु॒कासु॑चिद्¦द॒क्षाय्य॑इन्द्र॒भर॑हूतये॒नृभि॒¦रसि॒प्रतू᳚र्तये॒नृभिः॑|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

यःशूरैः॒स्व१॑(अः॒)सनि॑ता॒¦योविप्रै॒र्वाजं॒तरु॑ता|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

तमी᳚शा॒नास॑इरधन्तवा॒जिनं᳚¦पृ॒क्षमत्यं॒नवा॒जिन᳚म्|| {2/11}{2.1.16.2}{1.129.2}{1.19.3.2}{76, 129, 1446}

द॒स्मोहिष्मा॒वृष॑णं॒पिन्व॑सि॒त्वचं॒¦कंचि॑द्यावीर॒ररुं᳚शूर॒मर्त्यं᳚¦परिवृ॒णक्षि॒मर्त्य᳚म्|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

इन्द्रो॒ततुभ्यं॒तद्दि॒वे¦तद्रु॒द्राय॒स्वय॑शसे|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

मि॒त्राय॑वोचं॒वरु॑णायस॒प्रथः॑¦सुमृळी॒काय॑स॒प्रथः॑|| {3/11}{2.1.16.3}{1.129.3}{1.19.3.3}{77, 129, 1447}

अ॒स्माकं᳚व॒इन्द्र॑मुश्मसी॒ष्टये॒¦सखा᳚यंवि॒श्वायुं᳚प्रा॒सहं॒युजं॒¦वाजे᳚षुप्रा॒सहं॒युज᳚म्|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

अ॒स्माकं॒ब्रह्मो॒तये¦ऽवा᳚पृ॒त्सुषु॒कासु॑चित्|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

न॒हित्वा॒शत्रुः॒स्तर॑तेस्तृ॒णोषि॒यं¦विश्वं॒शत्रुं᳚स्तृ॒णोषि॒यम्|| {4/11}{2.1.16.4}{1.129.4}{1.19.3.4}{78, 129, 1448}

निषून॒माति॑मतिं॒कय॑स्यचि॒त्¦तेजि॑ष्ठाभिर॒रणि॑भि॒र्नोतिभि॑¦रु॒ग्राभि॑रुग्रो॒तिभिः॑|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

नेषि॑णो॒यथा᳚पु॒रा¦ने॒नाःशू᳚र॒मन्य॑से|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

विश्वा᳚निपू॒रोरप॑पर्षि॒वह्नि॑¦रा॒सावह्नि᳚र्नो॒,अच्छ॑|| {5/11}{2.1.16.5}{1.129.5}{1.19.3.5}{79, 129, 1449}

प्रतद्‌वो᳚चेयं॒भव्या॒येन्द॑वे॒¦हव्यो॒नयइ॒षवा॒न्‌मन्म॒रेज॑ति¦रक्षो॒हामन्म॒रेज॑ति|{दैवोदासिः परुच्छेपः | इन्दुः | अत्यष्टिः}

स्व॒यंसो,अ॒स्मदानि॒दो¦व॒धैर॑जेतदुर्म॒तिम्|{दैवोदासिः परुच्छेपः | इन्दुः | अत्यष्टिः}

अव॑स्रवेद॒घशं᳚सोऽवत॒र¦मव॑क्षु॒द्रमि॑वस्रवेत्|| {6/11}{2.1.17.1}{1.129.6}{1.19.3.6}{80, 129, 1450}

व॒नेम॒तद्धोत्र॑याचि॒तन्त्या᳚¦व॒नेम॑र॒यिंर॑यिवःसु॒वीर्यं᳚¦र॒ण्वंसन्तं᳚सु॒वीर्य᳚म्|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

दु॒र्मन्मा᳚नंसु॒मन्तु॑भि॒¦रेमि॒षापृ॑चीमहि|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

आस॒त्याभि॒रिन्द्रं᳚द्यु॒म्नहू᳚तिभि॒¦र्यज॑त्रंद्यु॒म्नहू᳚तिभिः|| {7/11}{2.1.17.2}{1.129.7}{1.19.3.7}{81, 129, 1451}

प्रप्रा᳚वो,अ॒स्मेस्वय॑शोभिरू॒ती¦प॑रिव॒र्गइन्द्रो᳚दुर्मती॒नां¦दरी᳚मन्‌दुर्मती॒नाम्|{दैवोदासिः परुच्छेपः | इन्द्रः | अतिशक्वरी}

स्व॒यंसारि॑ष॒यध्यै॒¦यान॑उपे॒षे,अ॒त्रैः|{दैवोदासिः परुच्छेपः | इन्द्रः | अतिशक्वरी}

ह॒तेम॑स॒न्नव॑क्षति¦क्षि॒प्ताजू॒र्णिर्नव॑क्षति|| {8/11}{2.1.17.3}{1.129.8}{1.19.3.8}{82, 129, 1452}

त्वंन॑इन्द्ररा॒यापरी᳚णसा¦या॒हिप॒थाँ,अ॑ने॒हसा᳚¦पु॒रोया᳚ह्यर॒क्षसा᳚|{दैवोदासिः परुच्छेपः | इन्द्रः | अतिशक्वरी}

सच॑स्वनःपरा॒कआ¦सच॑स्वास्तमी॒कआ|{दैवोदासिः परुच्छेपः | इन्द्रः | अतिशक्वरी}

पा॒हिनो᳚दू॒रादा॒राद॒भिष्टि॑भिः॒¦सदा᳚पाह्य॒भिष्टि॑भिः|| {9/11}{2.1.17.4}{1.129.9}{1.19.3.9}{83, 129, 1453}

त्वंन॑इन्द्ररा॒यातरू᳚षसो॒ऽ¦ग्रंचि॑त्त्वामहि॒मास॑क्ष॒दव॑से¦म॒हेमि॒त्रंनाव॑से|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

ओजि॑ष्ठ॒त्रात॒रवि॑ता॒¦रथं॒कंचि॑दमर्त्य|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

अ॒न्यम॒स्मद्‌रि॑रिषेः॒कंचि॑दद्रिवो॒¦रिरि॑क्षन्तंचिदद्रिवः|| {10/11}{2.1.17.5}{1.129.10}{1.19.3.10}{84, 129, 1454}

पा॒हिन॑इन्द्रसुष्टुतस्रि॒धो᳚¦ऽवया॒तासद॒मिद्दु᳚र्मती॒नां¦दे॒वःसन्‌दु᳚र्मती॒नाम्|{दैवोदासिः परुच्छेपः | इन्द्रः | अष्टिः}

ह॒न्तापा॒पस्य॑र॒क्षस॑¦स्त्रा॒ताविप्र॑स्य॒माव॑तः|{दैवोदासिः परुच्छेपः | इन्द्रः | अष्टिः}

अधा॒हित्वा᳚जनि॒ताजीज॑नद्‌वसो¦रक्षो॒हणं᳚त्वा॒जीज॑नद्‌वसो|| {11/11}{2.1.17.6}{1.129.11}{1.19.3.11}{85, 129, 1455}

[9] एंद्रयाहीतिदशर्चस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्रोत्यष्टिरंत्यात्रिष्टुप् | (अष्टिरित्येवप्रयोगः साधुः)|
एन्द्र॑या॒ह्युप॑नःपरा॒वतो॒¦नायमच्छा᳚वि॒दथा᳚नीव॒सत्प॑ति॒¦रस्तं॒राजे᳚व॒सत्प॑तिः|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

हवा᳚महेत्वाव॒यं¦प्रय॑स्वन्तःसु॒तेसचा᳚|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

पु॒त्रासो॒नपि॒तरं॒वाज॑सातये॒¦मंहि॑ष्ठं॒वाज॑सातये|| {1/10}{2.1.18.1}{1.130.1}{1.19.4.1}{86, 130, 1456}

पिबा॒सोम॑मिन्द्रसुवा॒नमद्रि॑भिः॒¦कोशे᳚नसि॒क्तम॑व॒तंनवंस॑ग¦स्तातृषा॒णोनवंस॑गः|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

मदा᳚यहर्य॒ताय॑ते¦तु॒विष्ट॑माय॒धाय॑से|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

आत्वा᳚यच्छन्तुह॒रितो॒नसूर्य॒¦महा॒विश्वे᳚व॒सूर्य᳚म्|| {2/10}{2.1.18.2}{1.130.2}{1.19.4.2}{87, 130, 1457}

अवि᳚न्दद्दि॒वोनिहि॑तं॒गुहा᳚नि॒धिं¦वेर्नगर्भं॒परि॑वीत॒मश्म᳚¦न्यन॒न्ते,अ॒न्तरश्म॑नि|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

व्र॒जंव॒ज्रीगवा᳚मिव॒¦सिषा᳚स॒न्नङ्गि॑रस्तमः|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

अपा᳚वृणो॒दिष॒इन्द्रः॒परी᳚वृता॒¦द्वार॒इषः॒परी᳚वृताः|| {3/10}{2.1.18.3}{1.130.3}{1.19.4.3}{88, 130, 1458}

दा॒दृ॒हा॒णोवज्र॒मिन्द्रो॒गभ॑स्त्योः॒,¦क्षद्मे᳚वति॒ग्ममस॑नाय॒संश्य॑¦दहि॒हत्या᳚य॒संश्य॑त्|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

सं॒वि॒व्या॒नओज॑सा॒¦शवो᳚भिरिन्द्रम॒ज्मना᳚|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

तष्टे᳚ववृ॒क्षंव॒निनो॒निवृ॑श्चसि¦पर॒श्वेव॒निवृ॑श्चसि|| {4/10}{2.1.18.4}{1.130.4}{1.19.4.4}{89, 130, 1459}

त्वंवृथा᳚न॒द्य॑इन्द्र॒सर्त॒वे¦ऽच्छा᳚समु॒द्रम॑सृजो॒रथाँ᳚,इव¦वाजय॒तोरथाँ᳚,इव|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

इ॒तऊ॒तीर॑युञ्जत¦समा॒नमर्थ॒मक्षि॑तम्|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

धे॒नूरि॑व॒मन॑वेवि॒श्वदो᳚हसो॒¦जना᳚यवि॒श्वदो᳚हसः|| {5/10}{2.1.18.5}{1.130.5}{1.19.4.5}{90, 130, 1460}

इ॒मांते॒वाचं᳚वसू॒यन्त॑आ॒यवो॒¦रथं॒नधीरः॒स्वपा᳚अतक्षिषुः¦सु॒म्नाय॒त्वाम॑तक्षिषुः|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

शु॒म्भन्तो॒जेन्यं᳚यथा॒¦वाजे᳚षुविप्रवा॒जिन᳚म्|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

अत्य॑मिव॒शव॑सेसा॒तये॒धना॒¦विश्वा॒धना᳚निसा॒तये᳚|| {6/10}{2.1.19.1}{1.130.6}{1.19.4.6}{91, 130, 1461}

भि॒नत्‌पुरो᳚नव॒तिमि᳚न्द्रपू॒रवे॒¦दिवो᳚दासाय॒महि॑दा॒शुषे᳚नृतो॒¦वज्रे᳚णदा॒शुषे᳚नृतो|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

अ॒ति॒थि॒ग्वाय॒शम्ब॑रं¦गि॒रेरु॒ग्रो,अवा᳚भरत्|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

म॒होधना᳚नि॒दय॑मान॒ओज॑सा॒¦विश्वा॒धना॒न्योज॑सा|| {7/10}{2.1.19.2}{1.130.7}{1.19.4.7}{92, 130, 1462}

इन्द्रः॑स॒मत्सु॒यज॑मान॒मार्यं॒¦प्राव॒द्‌विश्वे᳚षुश॒तमू᳚तिरा॒जिषु॒¦स्व᳚र्मीळ्हेष्वा॒जिषु॑|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

मन॑वे॒शास॑दव्र॒तान्¦त्वचं᳚कृ॒ष्णाम॑रन्धयत्|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

दक्ष॒न्नविश्वं᳚ततृषा॒णमो᳚षति॒¦न्य॑र्शसा॒नमो᳚षति|| {8/10}{2.1.19.3}{1.130.8}{1.19.4.8}{93, 130, 1463}

सूर॑श्च॒क्रंप्रवृ॑हज्जा॒तओज॑सा¦ऽप्रपि॒त्वेवाच॑मरु॒णोमु॑षायती¦शा॒नआमु॑षायति|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

उ॒शना॒यत्‌प॑रा॒वतो¦ऽज॑गन्नू॒तये᳚कवे|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

सु॒म्नानि॒विश्वा॒मनु॑षेवतु॒र्वणि॒¦रहा॒विश्वे᳚वतु॒र्वणिः॑|| {9/10}{2.1.19.4}{1.130.9}{1.19.4.9}{94, 130, 1464}

सनो॒नव्ये᳚भिर्वृषकर्मन्नु॒क्थैः¦पुरां᳚दर्तःपा॒युभिः॑पाहिश॒ग्मैः|{दैवोदासिः परुच्छेपः | इन्द्रः | त्रिष्टुप्}

दि॒वो॒दा॒सेभि॑रिन्द्र॒स्तवा᳚नो¦वावृधी॒था,अहो᳚भिरिव॒द्यौः|| {10/10}{2.1.19.5}{1.130.10}{1.19.4.10}{95, 130, 1465}

[10] इंद्रायहीति सप्तर्चस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्रोत्यष्टिः |
इन्द्रा᳚य॒हिद्यौरसु॑रो॒,अन᳚म्न॒ते¦न्द्रा᳚यम॒हीपृ॑थि॒वीवरी᳚मभि¦र्द्यु॒म्नसा᳚ता॒वरी᳚मभिः|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

इन्द्रं॒विश्वे᳚स॒जोष॑सो¦दे॒वासो᳚दधिरेपु॒रः|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

इन्द्रा᳚य॒विश्वा॒सव॑नानि॒मानु॑षा¦रा॒तानि॑सन्तु॒मानु॑षा|| {1/7}{2.1.20.1}{1.131.1}{1.19.5.1}{96, 131, 1466}

विश्वे᳚षु॒हित्वा॒सव॑नेषुतु॒ञ्जते᳚¦समा॒नमेकं॒वृष॑मण्यवः॒पृथ॒क्¦स्वः॑सनि॒ष्यवः॒पृथ॑क्|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

तंत्वा॒नावं॒नप॒र्षणिं᳚¦शू॒षस्य॑धु॒रिधी᳚महि|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

इन्द्रं॒नय॒ज्ञैश्चि॒तय᳚न्तआ॒यवः॒¦स्तोमे᳚भि॒रिन्द्र॑मा॒यवः॑|| {2/7}{2.1.20.2}{1.131.2}{1.19.5.2}{97, 131, 1467}

वित्वा᳚ततस्रेमिथु॒ना,अ॑व॒स्यवो᳚¦व्र॒जस्य॑सा॒तागव्य॑स्यनिः॒सृजः॒¦सक्ष᳚न्तइन्द्रनिः॒सृजः॑|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

यद्‌ग॒व्यन्ता॒द्वाजना॒¦स्व१॑(अ॒)र्यन्ता᳚स॒मूह॑सि|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

आ॒विष्करि॑क्र॒द्‌वृष॑णंसचा॒भुवं॒¦वज्र॑मिन्द्रसचा॒भुव᳚म्|| {3/7}{2.1.20.3}{1.131.3}{1.19.5.3}{98, 131, 1468}

वि॒दुष्टे᳚अ॒स्यवी॒र्य॑स्यपू॒रवः॒¦पुरो॒यदि᳚न्द्र॒शार॑दीर॒वाति॑रः¦सासहा॒नो,अ॒वाति॑रः|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

शास॒स्तमि᳚न्द्र॒मर्त्य॒¦मय॑ज्युंशवसस्पते|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

म॒हीम॑मुष्णाःपृथि॒वीमि॒मा,अ॒पो¦म᳚न्दसा॒नइ॒मा,अ॒पः|| {4/7}{2.1.20.4}{1.131.4}{1.19.5.4}{99, 131, 1469}

आदित्ते᳚अ॒स्यवी॒र्य॑स्यचर्किर॒न्¦मदे᳚षुवृषन्नु॒शिजो॒यदावि॑थ¦सखीय॒तोयदावि॑थ|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

च॒कर्थ॑का॒रमे᳚भ्यः॒¦पृत॑नासु॒प्रव᳚न्तवे|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

ते,अ॒न्याम᳚न्यांन॒द्यं᳚सनिष्णत¦श्रव॒स्यन्तः॑सनिष्णत|| {5/7}{2.1.20.5}{1.131.5}{1.19.5.5}{100, 131, 1470}

उ॒तोनो᳚अ॒स्या,उ॒षसो᳚जु॒षेत॒ह्य१॑(अ॒)¦र्कस्य॑बोधिह॒विषो॒हवी᳚मभिः॒¦स्व॑र्षाता॒हवी᳚मभिः|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

यदि᳚न्द्र॒हन्त॑वे॒मृधो॒¦वृषा᳚वज्रि॒ञ्चिके᳚तसि|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

आमे᳚अ॒स्यवे॒धसो॒नवी᳚यसो॒¦मन्म॑श्रुधि॒नवी᳚यसः|| {6/7}{2.1.20.6}{1.131.6}{1.19.5.6}{101, 131, 1471}

त्वंतमि᳚न्द्रवावृधा॒नो,अ॑स्म॒यु¦र॑मित्र॒यन्तं᳚तुविजात॒मर्त्यं॒¦वज्रे᳚णशूर॒मर्त्य᳚म्|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

ज॒हियोनो᳚अघा॒यति॑¦शृणु॒ष्वसु॒श्रव॑स्तमः|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

रि॒ष्टंनयाम॒न्नप॑भूतुदुर्म॒ति¦र्विश्वाप॑भूतुदुर्म॒तिः|| {7/7}{2.1.20.7}{1.131.7}{1.19.5.7}{102, 131, 1472}

[11] त्वयावयमिति षडृचस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्रोयुवंतमिंद्रेत्यर्धच‌इंद्रापर्वतावत्यष्टिः
त्वया᳚व॒यंम॑घव॒न्‌पूर्व्ये॒धन॒¦इन्द्र॑त्वोताःसासह्यामपृतन्य॒तो¦व॑नु॒याम॑वनुष्य॒तः|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

नेदि॑ष्ठे,अ॒स्मिन्नह॒¦न्यधि॑वोचा॒नुसु᳚न्व॒ते|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

अ॒स्मिन्‌य॒ज्ञेविच॑येमा॒भरे᳚कृ॒तं¦वा᳚ज॒यन्तो॒भरे᳚कृ॒तम्|| {1/6}{2.1.21.1}{1.132.1}{1.19.6.1}{103, 132, 1473}

स्व॒र्जे॒षेभर॑आ॒प्रस्य॒वक्म᳚¦न्युष॒र्बुधः॒स्वस्मि॒न्नञ्ज॑सि¦क्रा॒णस्य॒स्वस्मि॒न्नञ्ज॑सि|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

अह॒न्निन्द्रो॒यथा᳚वि॒दे¦शी॒र्ष्णाशी᳚र्ष्णोप॒वाच्यः॑|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

अ॒स्म॒त्राते᳚स॒ध्र्य॑क्‌सन्तुरा॒तयो᳚¦भ॒द्राभ॒द्रस्य॑रा॒तयः॑|| {2/6}{2.1.21.2}{1.132.2}{1.19.6.2}{104, 132, 1474}

तत्तुप्रयः॑प्र॒त्नथा᳚तेशुशुक्व॒नं¦यस्मि᳚न्‌य॒ज्ञेवार॒मकृ᳚ण्वत॒क्षय॑¦मृ॒तस्य॒वार॑सि॒क्षय᳚म्|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

वितद्वो᳚चे॒रध॑द्वि॒ता¦ऽन्तःप॑श्यन्तिर॒श्मिभिः॑|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

सघा᳚विदे॒,अन्विन्द्रो᳚ग॒वेष॑णो¦बन्धु॒क्षिद्भ्यो᳚ग॒वेष॑णः|| {3/6}{2.1.21.3}{1.132.3}{1.19.6.3}{105, 132, 1475}

नू,इ॒त्थाते᳚पू॒र्वथा᳚चप्र॒वाच्यं॒¦यदङ्गि॑रो॒भ्योऽवृ॑णो॒रप᳚व्र॒ज¦मिन्द्र॒शिक्ष॒न्नप᳚व्र॒जम्|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

ऐभ्यः॑समा॒न्यादि॒शा¦ऽस्मभ्यं᳚जेषि॒योत्सि॑च|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

सु॒न्वद्भ्यो᳚रन्धया॒कंचि॑दव्र॒तं¦हृ॑णा॒यन्तं᳚चिदव्र॒तम्|| {4/6}{2.1.21.4}{1.132.4}{1.19.6.4}{106, 132, 1476}

संयज्जना॒न्‌क्रतु॑भिः॒शूर॑ई॒क्षय॒¦द्धने᳚हि॒तेत॑रुषन्तश्रव॒स्यवः॒¦प्रय॑क्षन्तश्रव॒स्यवः॑|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

तस्मा॒,आयुः॑प्र॒जाव॒दिद्¦बाधे᳚अर्च॒न्त्योज॑सा|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

इन्द्र॑ओ॒क्यं᳚दिधिषन्तधी॒तयो᳚¦दे॒वाँ,अच्छा॒नधी॒तयः॑|| {5/6}{2.1.21.5}{1.132.5}{1.19.6.5}{107, 132, 1477}

यु॒वंतमि᳚न्द्रापर्वतापुरो॒युधा॒¦योनः॑पृत॒न्यादप॒तंत॒मिद्ध॑तं॒¦वज्रे᳚ण॒तंत॒मिद्ध॑तम्|{दैवोदासिः परुच्छेपः | १/२:इंद्रापर्वतौ २/२:इन्द्रः | अत्यष्टिः}

दू॒रेच॒त्ताय॑च्छन्‌त्स॒द्¦गह॑नं॒यदिन॑क्षत्|{दैवोदासिः परुच्छेपः | १/२:इंद्रापर्वतौ २/२:इन्द्रः | अत्यष्टिः}

अ॒स्माकं॒शत्रू॒न्‌परि॑शूरवि॒श्वतो᳚¦द॒र्माद॑र्षीष्टवि॒श्वतः॑|| {6/6}{2.1.21.6}{1.132.6}{1.19.6.6}{108, 132, 1478}

[12] उभेपुनामीति सप्तर्चस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्र आद्यात्रिष्टुप् द्वितीयादितिस्रोनुष्टुभः पंचमीगायत्री षष्ठीधृतिः सप्तम्यष्टिः |
उ॒भेपु॑नामि॒रोद॑सी,ऋ॒तेन॒¦द्रुहो᳚दहामि॒संम॒हीर॑नि॒न्द्राः|{दैवोदासिः परुच्छेपः | इन्द्रः | त्रिष्टुप्}

अ॒भि॒व्लग्य॒यत्र॑ह॒ता,अ॒मित्रा᳚¦वैलस्था॒नंपरि॑तृ॒ळ्हा,अशे᳚रन्|| {1/7}{2.1.22.1}{1.133.1}{1.19.7.1}{109, 133, 1479}

अ॒भि॒व्लग्या᳚चिदद्रिवः¦शी॒र्षाया᳚तु॒मती᳚नाम्|{दैवोदासिः परुच्छेपः | इन्द्रः | अनुष्टुप्}

छि॒न्धिव॑टू॒रिणा᳚प॒दा¦म॒हाव॑टूरिणाप॒दा|| {2/7}{2.1.22.2}{1.133.2}{1.19.7.2}{110, 133, 1480}

अवा᳚सांमघवञ्जहि॒¦शर्धो᳚यातु॒मती᳚नाम्|{दैवोदासिः परुच्छेपः | इन्द्रः | अनुष्टुप्}

वै॒ल॒स्था॒न॒के,अ᳚र्म॒के¦म॒हावै᳚लस्थे,अर्म॒के|| {3/7}{2.1.22.3}{1.133.3}{1.19.7.3}{111, 133, 1481}

यासां᳚ति॒स्रःप᳚ञ्चा॒शतो᳚¦ऽभिव्ल॒ङ्गैर॒पाव॑पः|{दैवोदासिः परुच्छेपः | इन्द्रः | अनुष्टुप्}

तत्सुते᳚मनायति¦त॒कत्सुते᳚मनायति|| {4/7}{2.1.22.4}{1.133.4}{1.19.7.4}{112, 133, 1482}

पि॒शङ्ग॑भृष्टिमम्भृ॒णं¦पि॒शाचि॑मिन्द्र॒संमृ॑ण|{दैवोदासिः परुच्छेपः | इन्द्रः | गायत्री}

सर्वं॒रक्षो॒निब᳚र्हय|| {5/7}{2.1.22.5}{1.133.5}{1.19.7.5}{113, 133, 1483}

अ॒वर्म॒हइ᳚न्द्रदादृ॒हिश्रु॒धीनः॑¦शु॒शोच॒हिद्यौः,क्षानभी॒षाँ,अ॑द्रिवो¦घृ॒णान्नभी॒षाँ,अ॑द्रिवः|{दैवोदासिः परुच्छेपः | इन्द्रः | धृतिः}

शु॒ष्मिन्त॑मो॒हिशु॒ष्मिभि᳚¦र्व॒धैरु॒ग्रेभि॒रीय॑से|{दैवोदासिः परुच्छेपः | इन्द्रः | धृतिः}

अपू᳚रुषघ्नो,अप्रतीतशूर॒सत्व॑भि¦स्त्रिस॒प्तैःशू᳚र॒सत्व॑भिः|| {6/7}{2.1.22.6}{1.133.6}{1.19.7.6}{114, 133, 1484}

व॒नोति॒हिसु॒न्वन्‌क्षयं॒परी᳚णसः¦सुन्वा॒नोहिष्मा॒यज॒त्यव॒द्विषो᳚¦दे॒वाना॒मव॒द्विषः॑|{दैवोदासिः परुच्छेपः | इन्द्रः | अष्टिः}

सु॒न्वा॒नइत्सि॑षासति¦स॒हस्रा᳚वा॒ज्यवृ॑तः|{दैवोदासिः परुच्छेपः | इन्द्रः | अष्टिः}

सु॒न्वा॒नायेन्द्रो᳚ददात्या॒भुवं᳚¦र॒यिंद॑दात्या॒भुव᳚म्|| {7/7}{2.1.22.7}{1.133.7}{1.19.7.7}{115, 133, 1485}

[13] आत्वाजुवइति षडृचस्य सूक्तस्य दैवोदासिः परुच्छेपोवायुरत्यष्टिरंत्याष्टिः |
आत्वा॒जुवो᳚रारहा॒णा,अ॒भिप्रयो॒¦वायो॒वह᳚न्त्वि॒हपू॒र्वपी᳚तये॒¦सोम॑स्यपू॒र्वपी᳚तये|{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

ऊ॒र्ध्वाते॒,अनु॑सू॒नृता॒¦मन॑स्तिष्ठतुजान॒ती|{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

नि॒युत्व॑ता॒रथे॒नाया᳚हिदा॒वने॒¦वायो᳚म॒खस्य॑दा॒वने᳚|| {1/6}{2.1.23.1}{1.134.1}{1.20.1.1}{116, 134, 1486}

मन्द᳚न्तुत्वाम॒न्दिनो᳚वाय॒विन्द॑वो॒¦ऽस्मत्‌क्रा॒णासः॒सुकृ॑ता,अ॒भिद्य॑वो॒¦गोभिः॑क्रा॒णा,अ॒भिद्य॑वः|{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

यद्ध॑क्रा॒णा,इ॒रध्यै॒¦दक्षं॒सच᳚न्तऊ॒तयः॑|{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

स॒ध्री॒ची॒नानि॒युतो᳚दा॒वने॒धिय॒¦उप॑ब्रुवतईं॒धियः॑|| {2/6}{2.1.23.2}{1.134.2}{1.20.1.2}{117, 134, 1487}

वा॒युर्यु᳚ङ्क्ते॒रोहि॑तावा॒युर॑रु॒णा¦वा॒यूरथे᳚अजि॒राधु॒रिवोळ्ह॑वे॒¦वहि॑ष्ठाधु॒रिवोळ्ह॑वे|{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

प्रबो᳚धया॒पुरं᳚धिं¦जा॒रआस॑स॒तीमि॑व|{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

प्रच॑क्षय॒रोद॑सीवासयो॒षसः॒¦श्रव॑सेवासयो॒षसः॑|| {3/6}{2.1.23.3}{1.134.3}{1.20.1.3}{118, 134, 1488}

तुभ्य॑मु॒षासः॒शुच॑यःपरा॒वति॑¦भ॒द्रावस्त्रा᳚तन्वते॒दंसु॑र॒श्मिषु॑¦चि॒त्रानव्ये᳚षुर॒श्मिषु॑|{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

तुभ्यं᳚धे॒नुःस॑ब॒र्दुघा॒¦विश्वा॒वसू᳚निदोहते|{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

अज॑नयोम॒रुतो᳚व॒क्षणा᳚भ्यो¦दि॒वआव॒क्षणा᳚भ्यः|| {4/6}{2.1.23.4}{1.134.4}{1.20.1.4}{119, 134, 1489}

तुभ्यं᳚शु॒क्रासः॒शुच॑यस्तुर॒ण्यवो॒¦मदे᳚षू॒ग्रा,इ॑षणन्तभु॒र्वण्य॒¦पामि॑षन्तभु॒र्वणि॑|{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

त्वांत्सा॒रीदस॑मानो॒¦भग॑मीट्टेतक्व॒वीये᳚|{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

त्वंविश्व॑स्मा॒द्‌भुव॑नात्‌पासि॒धर्म॑णा¦ऽसु॒र्या᳚त्‌पासि॒धर्म॑णा|| {5/6}{2.1.23.5}{1.134.5}{1.20.1.5}{120, 134, 1490}

त्वंनो᳚वायवेषा॒मपू᳚र्व्यः॒¦सोमा᳚नांप्रथ॒मःपी॒तिम᳚र्हसि¦सु॒तानां᳚पी॒तिम᳚र्हसि|{दैवोदासिः परुच्छेपः | वायुः | अष्टिः}

उ॒तोवि॒हुत्म॑तीनां¦वि॒शांव॑व॒र्जुषी᳚णाम्|{दैवोदासिः परुच्छेपः | वायुः | अष्टिः}

विश्वा॒,इत्ते᳚धे॒नवो᳚दुह्रआ॒शिरं᳚¦घृ॒तंदु॑ह्रतआ॒शिर᳚म्|| {6/6}{2.1.23.6}{1.134.6}{1.20.1.6}{121, 134, 1491}

[14] स्तीर्णम्बर्हिरिति नवर्चस्य सूक्तस्य दैवोदासिः परुच्छेपोवायुश्चतुर्थ्यादिपंचानामिंद्रोवाअत्यष्टिः सप्तम्यष्टम्यावष्टी |
स्ती॒र्णंब॒र्हिरुप॑नोयाहिवी॒तये᳚¦स॒हस्रे᳚णनि॒युता᳚नियुत्वते¦श॒तिनी᳚भिर्नियुत्वते|{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

तुभ्यं॒हिपू॒र्वपी᳚तये¦दे॒वादे॒वाय॑येमि॒रे|{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

प्रते᳚सु॒तासो॒मधु॑मन्तो,अस्थिर॒न्¦मदा᳚य॒क्रत्वे᳚अस्थिरन्|| {1/9}{2.1.24.1}{1.135.1}{1.20.2.1}{122, 135, 1492}

तुभ्या॒यंसोमः॒परि॑पूतो॒,अद्रि॑भिः¦स्पा॒र्हावसा᳚नः॒परि॒कोश॑मर्षति¦शु॒क्रावसा᳚नो,अर्षति|{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

तवा॒यंभा॒गआ॒युषु॒¦सोमो᳚दे॒वेषु॑हूयते|{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

वह॑वायोनि॒युतो᳚याह्यस्म॒यु¦र्जु॑षा॒णोया᳚ह्यस्म॒युः|| {2/9}{2.1.24.2}{1.135.2}{1.20.2.2}{123, 135, 1493}

आनो᳚नि॒युद्भिः॑श॒तिनी᳚भिरध्व॒रं¦स॑ह॒स्रिणी᳚भि॒रुप॑याहिवी॒तये॒¦वायो᳚ह॒व्यानि॑वी॒तये᳚|{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

तवा॒यंभा॒गऋ॒त्वियः॒¦सर॑श्मिः॒सूर्ये॒सचा᳚|{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

अ॒ध्व॒र्युभि॒र्भर॑माणा,अयंसत॒¦वायो᳚शु॒क्रा,अ॑यंसत|| {3/9}{2.1.24.3}{1.135.3}{1.20.2.3}{124, 135, 1494}

आवां॒रथो᳚नि॒युत्वा᳚न्‌वक्ष॒दव॑से॒¦ऽभिप्रयां᳚सि॒सुधि॑तानिवी॒तये॒¦वायो᳚ह॒व्यानि॑वी॒तये᳚|{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः}

पिब॑तं॒मध्वो॒,अन्ध॑सः¦पूर्व॒पेयं॒हिवां᳚हि॒तम्|{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः}

वाय॒वाच॒न्द्रेण॒राध॒साग॑त॒¦मिन्द्र॑श्च॒राध॒साग॑तम्|| {4/9}{2.1.24.4}{1.135.4}{1.20.2.4}{125, 135, 1495}

आवां॒धियो᳚ववृत्युरध्व॒राँ,उपे॒¦ममिन्दुं᳚मर्मृजन्तवा॒जिन॑¦मा॒शुमत्यं॒नवा॒जिन᳚म्|{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः}

तेषां᳚पिबतमस्म॒यू,¦आनो᳚गन्तमि॒होत्या|{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः}

इन्द्र॑वायूसु॒ताना॒मद्रि॑भिर्यु॒वं¦मदा᳚यवाजदायु॒वम्|| {5/9}{2.1.24.5}{1.135.5}{1.20.2.5}{126, 135, 1496}

इ॒मेवां॒सोमा᳚अ॒प्स्वासु॒ता,इ॒हा¦ध्व॒र्युभि॒र्भर॑माणा,अयंसत॒¦वायो᳚शु॒क्रा,अ॑यंसत|{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः}

ए॒तेवा᳚म॒भ्य॑सृक्षत¦ति॒रःप॒वित्र॑मा॒शवः॑|{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः}

यु॒वा॒यवोऽति॒रोमा᳚ण्य॒व्यया॒¦सोमा᳚सो॒,अत्य॒व्यया᳚|| {6/9}{2.1.25.1}{1.135.6}{1.20.2.6}{127, 135, 1497}

अति॑वायोसस॒तोया᳚हि॒शश्व॑तो॒¦यत्र॒ग्रावा॒वद॑ति॒तत्र॑गच्छतं¦गृ॒हमिन्द्र॑श्चगच्छतम्|{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अष्टिः}

विसू॒नृता॒ददृ॑शे॒रीय॑तेघृ॒त¦मापू॒र्णया᳚नि॒युता᳚याथो,अध्व॒र¦मिन्द्र॑श्चयाथो,अध्व॒रम्|| {7/9}{2.1.25.2}{1.135.7}{1.20.2.7}{128, 135, 1498}

अत्राह॒तद्‌व॑हेथे॒मध्व॒आहु॑तिं॒¦यम॑श्व॒त्थमु॑प॒तिष्ठ᳚न्तजा॒यवो॒¦ऽस्मेतेस᳚न्तुजा॒यवः॑|{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अष्टिः}

सा॒कंगावः॒सुव॑ते॒पच्य॑ते॒यवो॒¦नते᳚वाय॒उप॑दस्यन्तिधे॒नवो॒¦नाप॑दस्यन्तिधे॒नवः॑|| {8/9}{2.1.25.3}{1.135.8}{1.20.2.8}{129, 135, 1499}

इ॒मेयेते॒सुवा᳚योबा॒ह्वो᳚जसो॒¦ऽन्तर्न॒दीते᳚प॒तय᳚न्त्यु॒क्षणो॒¦महि॒व्राध᳚न्तउ॒क्षणः॑|{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

धन्व᳚ञ्चि॒द्ये,अ॑ना॒शवो᳚¦जी॒राश्चि॒दगि॑रौकसः|{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

सूर्य॑स्येवर॒श्मयो᳚दुर्नि॒यन्त॑वो॒¦हस्त॑योर्दुर्नि॒यन्त॑वः|| {9/9}{2.1.25.4}{1.135.9}{1.20.2.9}{130, 135, 1500}

[15] प्रसुज्येष्ठमिति सप्तर्चस्य सूक्तस्य दैवोदासिः परुच्छेपोमित्रावरुणौ नमोदिवइत्यस्यारोदसी मित्रावरुणेंद्राग्न्यर्यमभगसोमा देवताः ऊतीदेवानामित्यस्यादेवमरुदग्निमित्रवरुणमघवंतोदेवता अत्यष्टिः अंत्यात्रिष्टुप् |
प्रसुज्येष्ठं᳚निचि॒राभ्यां᳚बृ॒हन्नमो᳚¦ह॒व्यंम॒तिंभ॑रतामृळ॒यद्भ्यां॒¦स्वादि॑ष्ठंमृळ॒यद्भ्या᳚म्|{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

तास॒म्राजा᳚घृ॒तासु॑ती¦य॒ज्ञेय॑ज्ञ॒उप॑स्तुता|{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

अथै᳚नोः,क्ष॒त्रंनकुत॑श्च॒नाधृषे᳚¦देव॒त्वंनूचि॑दा॒धृषे᳚|| {1/7}{2.1.26.1}{1.136.1}{1.20.3.1}{131, 136, 1501}

अद॑र्शिगा॒तुरु॒रवे॒वरी᳚यसी॒¦पन्था᳚ऋ॒तस्य॒सम॑यंस्तर॒श्मिभि॒¦श्चक्षु॒र्भग॑स्यर॒श्मिभिः॑|{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

द्यु॒क्षंमि॒त्रस्य॒साद॑न¦मर्य॒म्णोवरु॑णस्यच|{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

अथा᳚दधातेबृ॒हदु॒क्थ्य१॑(अं॒)वय॑¦उप॒स्तुत्यं᳚बृ॒हद्वयः॑|| {2/7}{2.1.26.2}{1.136.2}{1.20.3.2}{132, 136, 1502}

ज्योति॑ष्मती॒मदि॑तिंधार॒यत्क्षि॑तिं॒¦स्व᳚र्वती॒मास॑चेतेदि॒वेदि॑वे¦जागृ॒वांसा᳚दि॒वेदि॑वे|{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

ज्योति॑ष्मत्क्ष॒त्रमा᳚शाते,¦आदि॒त्यादानु॑न॒स्पती᳚|{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

मि॒त्रस्तयो॒र्वरु॑णोयात॒यज्ज॑नो¦ऽर्य॒माया᳚त॒यज्ज॑नः|| {3/7}{2.1.26.3}{1.136.3}{1.20.3.3}{133, 136, 1503}

अ॒यंमि॒त्राय॒वरु॑णाय॒शंत॑मः॒¦सोमो᳚भूत्वव॒पाने॒ष्वाभ॑गो¦दे॒वोदे॒वेष्वाभ॑गः|{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

तंदे॒वासो᳚जुषेरत॒¦विश्वे᳚अ॒द्यस॒जोष॑सः|{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

तथा᳚राजानाकरथो॒यदीम॑ह॒¦ऋता᳚वाना॒यदीम॑हे|| {4/7}{2.1.26.4}{1.136.4}{1.20.3.4}{134, 136, 1504}

योमि॒त्राय॒वरु॑णा॒यावि॑ध॒ज्जनो᳚¦ऽन॒र्वाणं॒तंपरि॑पातो॒,अंह॑सो¦दा॒श्वांसं॒मर्त॒मंह॑सः|{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

तम᳚र्य॒माभिर॑क्ष¦त्यृजू॒यन्त॒मनु᳚व्र॒तम्|{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

उ॒क्थैर्यए᳚नोःपरि॒भूष॑तिव्र॒तं¦स्तोमै᳚रा॒भूष॑तिव्र॒तम्|| {5/7}{2.1.26.5}{1.136.5}{1.20.3.5}{135, 136, 1505}

नमो᳚दि॒वेबृ॑ह॒तेरोद॑सीभ्यां¦मि॒त्राय॑वोचं॒वरु॑णायमी॒ळ्हुषे᳚¦सुमृळी॒काय॑मी॒ळ्हुषे᳚|{दैवोदासिः परुच्छेपः | लिङ्गोक्ता | अत्यष्टिः}

इन्द्र॑म॒ग्निमुप॑स्तुहि¦द्यु॒क्षम᳚र्य॒मणं॒भग᳚म्|{दैवोदासिः परुच्छेपः | लिङ्गोक्ता | अत्यष्टिः}

ज्योग्जीव᳚न्तःप्र॒जया᳚सचेमहि॒¦सोम॑स्यो॒तीस॑चेमहि|| {6/7}{2.1.26.6}{1.136.6}{1.20.3.6}{136, 136, 1506}

ऊ॒तीदे॒वानां᳚व॒यमिन्द्र॑वन्तो¦मंसी॒महि॒स्वय॑शसोम॒रुद्भिः॑|{दैवोदासिः परुच्छेपः | लिङ्गोक्ता | त्रिष्टुप्}

अ॒ग्निर्मि॒त्रोवरु॑णः॒शर्म॑यंस॒न्¦तद॑श्यामम॒घवा᳚नोव॒यंच॑|| {7/7}{2.1.26.7}{1.136.7}{1.20.3.7}{137, 136, 1507}

[16] सुषुमेति तृचस्य सूक्तस्य दैवोदासिःपरुच्छेपोमित्रावरुणावतिशक्वरी |
सु॒षु॒माया᳚त॒मद्रि॑भि॒¦र्गोश्री᳚तामत्स॒रा,इ॒मे¦सोमा᳚सोमत्स॒रा,इ॒मे|{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी}

आरा᳚जानादिविस्पृशा¦ऽस्म॒त्राग᳚न्त॒मुप॑नः|{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी}

इ॒मेवां᳚मित्रावरुणा॒गवा᳚शिरः॒¦सोमाः᳚शु॒क्रागवा᳚शिरः|| {1/3}{2.2.1.1}{1.137.1}{1.20.4.1}{138, 137, 1508}

इ॒मआया᳚त॒मिन्द॑वः॒¦सोमा᳚सो॒दध्या᳚शिरः¦सु॒तासो॒दध्या᳚शिरः|{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी}

उ॒तवा᳚मु॒षसो᳚बु॒धि¦सा॒कंसूर्य॑स्यर॒श्मिभिः॑|{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी}

सु॒तोमि॒त्राय॒वरु॑णायपी॒तये॒¦चारु᳚रृ॒ताय॑पी॒तये᳚|| {2/3}{2.2.1.2}{1.137.2}{1.20.4.2}{139, 137, 1509}

तांवां᳚धे॒नुंनवा᳚स॒री¦मं॒शुंदु॑ह॒न्त्यद्रि॑भिः॒¦सोमं᳚दुह॒न्त्यद्रि॑भिः|{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी}

अ॒स्म॒त्राग᳚न्त॒मुप॑नो॒¦ऽर्वाञ्चा॒सोम॑पीतये|{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी}

अ॒यंवां᳚मित्रावरुणा॒नृभिः॑सु॒तः¦सोम॒आपी॒तये᳚सु॒तः|| {3/3}{2.2.1.3}{1.137.3}{1.20.4.3}{140, 137, 1510}

[17] प्रप्रपूष्णइति चतुरृचस्य सूक्तस्य दैवोदासिःपरुच्छेपःपूषात्यष्टिः |
प्रप्र॑पू॒ष्णस्तु॑विजा॒तस्य॑शस्यते¦महि॒त्वम॑स्यत॒वसो॒नत᳚न्दते¦स्तो॒त्रम॑स्य॒नत᳚न्दते|{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि}

अर्चा᳚मिसुम्न॒यन्न॒ह¦मन्त्यू᳚तिंमयो॒भुव᳚म्|{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि}

विश्व॑स्य॒योमन॑आयुयु॒वेम॒खो¦दे॒वआ᳚युयु॒वेम॒खः|| {1/4}{2.2.2.1}{1.138.1}{1.20.5.1}{141, 138, 1511}

प्रहित्वा᳚पूषन्नजि॒रंनयाम॑नि॒¦स्तोमे᳚भिःकृ॒ण्वऋ॒णवो॒यथा॒मृध॒¦उष्ट्रो॒नपी᳚परो॒मृधः॑|{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि}

हु॒वेयत्त्वा᳚मयो॒भुवं᳚¦दे॒वंस॒ख्याय॒मर्त्यः॑|{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि}

अ॒स्माक॑माङ्गू॒षान्‌द्यु॒म्निन॑स्कृधि॒¦वाजे᳚षुद्यु॒म्निन॑स्कृधि|| {2/4}{2.2.2.2}{1.138.2}{1.20.5.2}{142, 138, 1512}

यस्य॑तेपूषन्‌त्स॒ख्येवि॑प॒न्यवः॒¦क्रत्वा᳚चि॒त्‌सन्तोऽव॑साबुभुज्रि॒र¦इति॒क्रत्वा᳚बुभुज्रि॒रे|{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि}

तामनु॑त्वा॒नवी᳚यसीं¦नि॒युतं᳚रा॒यई᳚महे|{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि}

अहे᳚ळमानउरुशंस॒सरी᳚भव॒¦वाजे᳚वाजे॒सरी᳚भव|| {3/4}{2.2.2.3}{1.138.3}{1.20.5.3}{143, 138, 1513}

अ॒स्या,ऊ॒षुण॒उप॑सा॒तये᳚भु॒वो¦ऽहे᳚ळमानोररि॒वाँ,अ॑जाश्व¦श्रवस्य॒ताम॑जाश्व|{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि}

ओषुत्वा᳚ववृतीमहि॒¦स्तोमे᳚भिर्दस्मसा॒धुभिः॑|{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि}

न॒हित्वा᳚पूषन्नति॒मन्य॑आघृणे॒¦नते᳚स॒ख्यम॑पह्नु॒वे|| {4/4}{2.2.2.4}{1.138.4}{1.20.5.4}{144, 138, 1514}

[18] अस्तुश्रौषडित्येकादशर्चस्य सूक्तस्य दैवोदासिःपरुच्छेप आद्यायाविश्वेदेवाः द्वितीयायामित्रावरुणौ तृतीयादितिसृणामाश्विनौ षष्ठ्याइंद्रः सप्तम्याअग्निरष्टम्यामरुतो नवम्याइंद्राग्नी दशम्याबृहस्पतिरंत्यायाविश्वेदेवाअत्यष्टिः पंचमीबृहत्यंत्यात्रिष्टुप् | ( वैश्वदेवमेतत्सूक्तं | अत्रप्रत्येकं देवताविभागस्त्वाकरएवपठितः | अनयैवदिशासर्वत्रापिवैश्वदेवसूक्ते देवताविभागः कर्तव्यइतिहितदनुज्ञा | यथाह - एवमन्यासामपिसूक्तप्रयोगेवैश्वदेवत्वं सूक्तभेदप्रयोगेतुयल्लिंगंसादेवतेति) |
अस्तु॒श्रौष॑ट्‌पु॒रो,अ॒ग्निंधि॒याद॑ध॒¦आनुतच्छर्धो᳚दि॒व्यंवृ॑णीमह¦इन्द्रवा॒यूवृ॑णीमहे|{दैवोदासिः परुच्छेपः | विश्वदेवाः | अत्यष्टिः}

यद्ध॑क्रा॒णावि॒वस्व॑ति॒¦नाभा᳚सं॒दायि॒नव्य॑सी|{दैवोदासिः परुच्छेपः | विश्वदेवाः | अत्यष्टिः}

अध॒प्रसून॒उप॑यन्तुधी॒तयो᳚¦दे॒वाँ,अच्छा॒नधी॒तयः॑|| {1/11}{2.2.3.1}{1.139.1}{1.20.6.1}{145, 139, 1515}

यद्ध॒त्यन्‌मि॑त्रावरुणावृ॒ताद¦ध्या᳚द॒दाथे॒,अनृ॑तं॒स्वेन॑म॒न्युना॒¦दक्ष॑स्य॒स्वेन॑म॒न्युना᳚|{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

यु॒वोरि॒त्थाधि॒सद्म॒¦स्वप॑श्यामहिर॒ण्यय᳚म्|{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

धी॒भिश्च॒नमन॑सा॒स्वेभि॑र॒क्षभिः॒¦सोम॑स्य॒स्वेभि॑र॒क्षभिः॑|| {2/11}{2.2.3.2}{1.139.2}{1.20.6.2}{146, 139, 1516}

यु॒वांस्तोमे᳚भिर्देव॒यन्तो᳚अश्विना¦ऽऽश्रा॒वय᳚न्तइव॒श्लोक॑मा॒यवो᳚¦यु॒वांह॒व्याभ्या॒३॑(आ॒)यवः॑|{दैवोदासिः परुच्छेपः | अश्विनौ | अत्यष्टिः}

यु॒वोर्विश्वा॒,अधि॒श्रियः॒¦पृक्ष॑श्चविश्ववेदसा|{दैवोदासिः परुच्छेपः | अश्विनौ | अत्यष्टिः}

प्रु॒षा॒यन्ते᳚वांप॒वयो᳚हिर॒ण्यये॒¦रथे᳚दस्राहिर॒ण्यये᳚|| {3/11}{2.2.3.3}{1.139.3}{1.20.6.3}{147, 139, 1517}

अचे᳚तिदस्रा॒व्यु१॑(उ॒)नाक॑मृण्वथो¦यु॒ञ्जते᳚वांरथ॒युजो॒दिवि॑ष्टि¦ष्वध्व॒स्मानो॒दिवि॑ष्टिषु|{दैवोदासिः परुच्छेपः | अश्विनौ | अत्यष्टिः}

अधि॑वां॒स्थाम॑व॒न्धुरे॒¦रथे᳚दस्राहिर॒ण्यये᳚|{दैवोदासिः परुच्छेपः | अश्विनौ | अत्यष्टिः}

प॒थेव॒यन्ता᳚वनु॒शास॑ता॒रजो¦ऽञ्ज॑सा॒शास॑ता॒रजः॑|| {4/11}{2.2.3.4}{1.139.4}{1.20.6.4}{148, 139, 1518}

शची᳚भिर्नःशचीवसू॒¦दिवा॒नक्तं᳚दशस्यतम्|{दैवोदासिः परुच्छेपः | अश्विनौ | बृहतिः}

मावां᳚रा॒तिरुप॑दस॒त्कदा᳚च॒ना¦ऽस्मद्रा॒तिःकदा᳚च॒न|| {5/11}{2.2.3.5}{1.139.5}{1.20.6.5}{149, 139, 1519}

वृष᳚न्निन्द्रवृष॒पाणा᳚स॒इन्द॑व¦इ॒मेसु॒ता,अद्रि॑षुतासउ॒द्भिद॒¦स्तुभ्यं᳚सु॒तास॑उ॒द्भिदः॑|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

तेत्वा᳚मन्दन्तुदा॒वने᳚¦म॒हेचि॒त्राय॒राध॑से|{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

गी॒र्भिर्गि᳚र्वाहः॒स्तव॑मान॒आग॑हि¦सुमृळी॒कोन॒आग॑हि|| {6/11}{2.2.4.1}{1.139.6}{1.20.6.6}{150, 139, 1520}

ओषूणो᳚अग्नेशृणुहि॒त्वमी᳚ळि॒तो¦दे॒वेभ्यो᳚ब्रवसिय॒ज्ञिये᳚भ्यो॒¦राज॑भ्योय॒ज्ञिये᳚भ्यः|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

यद्ध॒त्यामङ्गि॑रोभ्यो¦धे॒नुंदे᳚वा॒,अद॑त्तन|{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

वितांदु॑ह्रे,अर्य॒माक॒र्तरी॒सचाँ᳚,¦ए॒षतांवे᳚दमे॒सचा᳚|| {7/11}{2.2.4.2}{1.139.7}{1.20.6.7}{151, 139, 1521}

मोषुवो᳚अ॒स्मद॒भितानि॒पौंस्या॒¦सना᳚भूवन्‌द्यु॒म्नानि॒मोतजा᳚रिषु¦र॒स्मत्‌पु॒रोतजा᳚रिषुः|{दैवोदासिः परुच्छेपः | मरुतः | अत्यष्टिः}

यद्व॑श्चि॒त्रंयु॒गेयु॑गे॒¦नव्यं॒घोषा॒दम॑र्त्यम्|{दैवोदासिः परुच्छेपः | मरुतः | अत्यष्टिः}

अ॒स्मासु॒तन्म॑रुतो॒यच्च॑दु॒ष्टरं᳚¦दिधृ॒तायच्च॑दु॒ष्टर᳚म्|| {8/11}{2.2.4.3}{1.139.8}{1.20.6.8}{152, 139, 1522}

द॒ध्यङ्‌ह॑मेज॒नुषं॒पूर्वो॒,अङ्गि॑राः¦प्रि॒यमे᳚धः॒कण्वो॒,अत्रि॒र्मनु᳚र्विदु॒¦स्तेमे॒पूर्वे॒मनु᳚र्विदुः|{दैवोदासिः परुच्छेपः | इन्द्राग्नी | अत्यष्टिः}

तेषां᳚दे॒वेष्वाय॑ति¦र॒स्माकं॒तेषु॒नाभ॑यः|{दैवोदासिः परुच्छेपः | इन्द्राग्नी | अत्यष्टिः}

तेषां᳚प॒देन॒मह्यान॑मेगि॒रे¦न्द्रा॒ग्नी,आन॑मेगि॒रा|| {9/11}{2.2.4.4}{1.139.9}{1.20.6.9}{153, 139, 1523}

होता᳚यक्षद्‌व॒निनो᳚वन्त॒वार्यं॒¦बृह॒स्पति᳚र्यजतिवे॒नउ॒क्षभिः॑¦पुरु॒वारे᳚भिरु॒क्षभिः॑|{दैवोदासिः परुच्छेपः | बृहस्पतिः | अत्यष्टिः}

ज॒गृ॒भ्मादू॒रआ᳚दिशं॒¦श्लोक॒मद्रे॒रध॒त्मना᳚|{दैवोदासिः परुच्छेपः | बृहस्पतिः | अत्यष्टिः}

अधा᳚रयदर॒रिन्दा᳚निसु॒क्रतुः॑¦पु॒रूसद्मा᳚निसु॒क्रतुः॑|| {10/11}{2.2.4.5}{1.139.10}{1.20.6.10}{154, 139, 1524}

येदे᳚वासोदि॒व्येका᳚दश॒स्थ¦पृ॑थि॒व्यामध्येका᳚दश॒स्थ|{दैवोदासिः परुच्छेपः | विश्वदेवाः | त्रिष्टुप्}

अ॒प्सु॒क्षितो᳚महि॒नैका᳚दश॒स्थ¦तेदे᳚वासोय॒ज्ञमि॒मंजु॑षध्वम्|| {11/11}{2.2.4.6}{1.139.11}{1.20.6.11}{155, 139, 1525}

[19] वेदिषदइति त्रयोदशर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निर्जगती अंत्येद्वेत्रिष्टुभौदशमीत्रिष्टुब्वा |
वे॒दि॒षदे᳚प्रि॒यधा᳚मायसु॒द्युते᳚¦धा॒सिमि॑व॒प्रभ॑रा॒योनि॑म॒ग्नये᳚|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

वस्त्रे᳚णेववासया॒मन्म॑ना॒शुचिं᳚¦ज्यो॒तीर॑थंशु॒क्रव᳚र्णंतमो॒हन᳚म्|| {1/13}{2.2.5.1}{1.140.1}{1.21.1.1}{156, 140, 1526}

अ॒भिद्वि॒जन्मा᳚त्रि॒वृदन्न॑मृज्यते¦संवत्स॒रेवा᳚वृधेज॒ग्धमी॒पुनः॑|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अ॒न्यस्या॒साजि॒ह्वया॒जेन्यो॒वृषा॒¦न्य१॑(अ॒)न्येन॑व॒निनो᳚मृष्टवार॒णः|| {2/13}{2.2.5.2}{1.140.2}{1.21.1.2}{157, 140, 1527}

कृ॒ष्ण॒प्रुतौ᳚वेवि॒जे,अ॑स्यस॒क्षिता᳚¦उ॒भात॑रेते,अ॒भिमा॒तरा॒शिशु᳚म्|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

प्रा॒चाजि॑ह्वंध्व॒सय᳚न्तंतृषु॒च्युत॒¦मासाच्यं॒कुप॑यं॒वर्ध॑नंपि॒तुः|| {3/13}{2.2.5.3}{1.140.3}{1.21.1.3}{158, 140, 1528}

मु॒मु॒क्ष्वो॒३॑(ओ॒)मन॑वेमानवस्य॒ते¦र॑घु॒द्रुवः॑कृ॒ष्णसी᳚तासऊ॒जुवः॑|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अ॒स॒म॒ना,अ॑जि॒रासो᳚रघु॒ष्यदो॒¦वात॑जूता॒,उप॑युज्यन्तआ॒शवः॑|| {4/13}{2.2.5.4}{1.140.4}{1.21.1.4}{159, 140, 1529}

आद॑स्य॒तेध्व॒सय᳚न्तो॒वृथे᳚रते¦कृ॒ष्णमभ्वं॒महि॒वर्पः॒करि॑क्रतः|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

यत्‌सीं᳚म॒हीम॒वनिं॒प्राभिमर्मृ॑श¦दभिश्व॒सन्त्‌स्त॒नय॒न्नेति॒नान॑दत्|| {5/13}{2.2.5.5}{1.140.5}{1.21.1.5}{160, 140, 1530}

भूष॒न्नयोधि॑ब॒भ्रूषु॒नम्न॑ते॒¦वृषे᳚व॒पत्नी᳚र॒भ्ये᳚ति॒रोरु॑वत्|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

ओ॒जा॒यमा᳚नस्त॒न्व॑श्चशुम्भते¦भी॒मोनशृङ्गा᳚दविधावदु॒र्गृभिः॑|| {6/13}{2.2.6.1}{1.140.6}{1.21.1.6}{161, 140, 1531}

ससं॒स्तिरो᳚वि॒ष्टिरः॒संगृ॑भायति¦जा॒नन्ने॒वजा᳚न॒तीर्नित्य॒आश॑ये|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

पुन᳚र्वर्धन्ते॒,अपि॑यन्तिदे॒व्य॑¦म॒न्यद्वर्पः॑पि॒त्रोःकृ᳚ण्वते॒सचा᳚|| {7/13}{2.2.6.2}{1.140.7}{1.21.1.7}{162, 140, 1532}

तम॒ग्रुवः॑के॒शिनीः॒संहिरे᳚भि॒र¦ऊ॒र्ध्वास्त॑स्थुर्म॒म्रुषीः॒प्रायवे॒पुनः॑|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

तासां᳚ज॒रांप्र॑मु॒ञ्चन्ने᳚ति॒नान॑द॒¦दसुं॒परं᳚ज॒नय᳚ञ्जी॒वमस्तृ॑तम्|| {8/13}{2.2.6.3}{1.140.8}{1.21.1.8}{163, 140, 1533}

अ॒धी॒वा॒संपरि॑मा॒तूरि॒हन्नह॑¦तुवि॒ग्रेभिः॒सत्व॑भिर्याति॒विज्रयः॑|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

वयो॒दध॑त्‌प॒द्वते॒रेरि॑ह॒त्सदा¦ऽनु॒श्येनी᳚सचतेवर्त॒नीरह॑|| {9/13}{2.2.6.4}{1.140.9}{1.21.1.9}{164, 140, 1534}

अ॒स्माक॑मग्नेम॒घव॑त्सुदीदि॒¦ह्यध॒श्वसी᳚वान्‌वृष॒भोदमू᳚नाः|{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुब्वा}

अ॒वास्या॒शिशु॑मतीरदीदे॒¦र्वर्मे᳚वयु॒त्सुप॑रि॒जर्भु॑राणः|| {10/13}{2.2.6.5}{1.140.10}{1.21.1.10}{165, 140, 1535}

इ॒दम॑ग्ने॒सुधि॑तं॒दुर्धि॑ता॒दधि॑¦प्रि॒यादु॑चि॒न्मन्‌म॑नः॒प्रेयो᳚अस्तुते|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

यत्ते᳚शु॒क्रंत॒न्वो॒३॑(ओ॒)रोच॑ते॒शुचि॒¦तेना॒स्मभ्यं᳚वनसे॒रत्न॒मात्वम्|| {11/13}{2.2.7.1}{1.140.11}{1.21.1.11}{166, 140, 1536}

रथा᳚य॒नाव॑मु॒तनो᳚गृ॒हाय॒¦नित्या᳚रित्रांप॒द्वतीं᳚रास्यग्ने|{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

अ॒स्माकं᳚वी॒राँ,उ॒तनो᳚म॒घोनो॒¦जनाँ᳚श्च॒यापा॒रया॒च्छर्म॒याच॑|| {12/13}{2.2.7.2}{1.140.12}{1.21.1.12}{167, 140, 1537}

अ॒भीनो᳚अग्नउ॒क्थमिज्जु॑गुर्या॒¦द्यावा॒क्षामा॒सिन्ध॑वश्च॒स्वगू᳚र्ताः|{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

गव्यं॒यव्यं॒यन्तो᳚दी॒र्घाहे¦षं॒वर॑मरु॒ण्यो᳚वरन्त|| {13/13}{2.2.7.3}{1.140.13}{1.21.1.13}{168, 140, 1538}

[20] बळित्थेति त्रयोदशर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निर्जगती अंत्येद्वेत्रिष्टुभौ|
बळि॒त्थातद्वपु॑षेधायिदर्श॒तं¦दे॒वस्य॒भर्गः॒सह॑सो॒यतो॒जनि॑|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

यदी॒मुप॒ह्वर॑ते॒साध॑तेम॒ति¦रृ॒तस्य॒धेना᳚अनयन्तस॒स्रुतः॑|| {1/13}{2.2.8.1}{1.141.1}{1.21.2.1}{169, 141, 1539}

पृ॒क्षोवपुः॑पितु॒मान्नित्य॒आश॑ये¦द्वि॒तीय॒मास॒प्तशि॑वासुमा॒तृषु॑|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

तृ॒तीय॑मस्यवृष॒भस्य॑दो॒हसे॒¦दश॑प्रमतिंजनयन्त॒योष॑णः|| {2/13}{2.2.8.2}{1.141.2}{1.21.2.2}{170, 141, 1540}

निर्यदीं᳚बु॒ध्नान्म॑हि॒षस्य॒¦वर्प॑सईशा॒नासः॒शव॑सा॒क्रन्त॑सू॒रयः॑|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

यदी॒मनु॑प्र॒दिवो॒मध्व॑आध॒वे¦गुहा॒सन्तं᳚मात॒रिश्वा᳚मथा॒यति॑|| {3/13}{2.2.8.3}{1.141.3}{1.21.2.3}{171, 141, 1541}

प्रयत्‌पि॒तुःप॑र॒मान्नी॒यते॒प¦र्यापृ॒क्षुधो᳚वी॒रुधो॒दंसु॑रोहति|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

उ॒भायद॑स्यज॒नुषं॒यदिन्व॑त॒¦आदिद्यवि॑ष्ठो,अभवद्‌घृ॒णाशुचिः॑|| {4/13}{2.2.8.4}{1.141.4}{1.21.2.4}{172, 141, 1542}

आदिन्मा॒तॄरावि॑श॒द्‌यास्वाशुचि॒¦रहिं᳚स्यमानउर्वि॒याविवा᳚वृधे|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अनु॒यत्‌पूर्वा॒,अरु॑हत्‌सना॒जुवो॒¦निनव्य॑सी॒ष्वव॑रासुधावते|| {5/13}{2.2.8.5}{1.141.5}{1.21.2.5}{173, 141, 1543}

आदिद्धोता᳚रंवृणते॒दिवि॑ष्टिषु॒¦भग॑मिवपपृचा॒नास॑ऋञ्जते|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

दे॒वान्यत्क्रत्वा᳚म॒ज्मना᳚पुरुष्टु॒तो¦मर्तं॒शंसं᳚वि॒श्वधा॒वेति॒धाय॑से|| {6/13}{2.2.9.1}{1.141.6}{1.21.2.6}{174, 141, 1544}

वियदस्था᳚द्‌यज॒तोवात॑चोदितो¦ह्वा॒रोनवक्वा᳚ज॒रणा॒,अना᳚कृतः|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

तस्य॒पत्म᳚न्‌द॒क्षुषः॑¦कृ॒ष्णजं᳚हसः॒शुचि॑जन्मनो॒रज॒आव्य॑ध्वनः|| {7/13}{2.2.9.2}{1.141.7}{1.21.2.7}{175, 141, 1545}

रथो॒नया॒तःशिक्व॑भिःकृ॒तो¦द्यामङ्गे᳚भिररु॒षेभि॑रीयते|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

आद॑स्य॒तेकृ॒ष्णासो᳚दक्षिसू॒रयः॒¦शूर॑स्येवत्वे॒षथा᳚दीषते॒वयः॑|| {8/13}{2.2.9.3}{1.141.8}{1.21.2.8}{176, 141, 1546}

त्वया॒ह्य॑ग्ने॒वरु॑णोधृ॒तव्र॑तो¦मि॒त्रःशा᳚श॒द्रे,अ᳚र्य॒मासु॒दान॑वः|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

यत्‌सी॒मनु॒क्रतु॑नावि॒श्वथा᳚वि॒भु¦र॒रान्नने॒मिःप॑रि॒भूरजा᳚यथाः|| {9/13}{2.2.9.4}{1.141.9}{1.21.2.9}{177, 141, 1547}

त्वम॑ग्नेशशमा॒नाय॑सुन्व॒ते¦रत्नं᳚यविष्ठदे॒वता᳚तिमिन्वसि|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

तंत्वा॒नुनव्यं᳚सहसोयुवन्‌व॒यं¦भगं॒नका॒रेम॑हिरत्नधीमहि|| {10/13}{2.2.9.5}{1.141.10}{1.21.2.10}{178, 141, 1548}

अ॒स्मेर॒यिंनस्वर्थं॒दमू᳚नसं॒¦भगं॒दक्षं॒नप॑पृचासिधर्ण॒सिम्|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

र॒श्मीँऽरि॑व॒योयम॑ति॒जन्म॑नी,उ॒भे¦दे॒वानां॒शंस॑मृ॒तआच॑सु॒क्रतुः॑|| {11/13}{2.2.9.6}{1.141.11}{1.21.2.11}{179, 141, 1549}

उ॒तनः॑सु॒द्योत्मा᳚जी॒राश्वो॒¦होता᳚म॒न्द्रःशृ॑णवच्च॒न्द्रर॑थः|{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

सनो᳚नेष॒न्नेष॑तमै॒रमू᳚रो॒¦ऽग्निर्वा॒मंसु॑वि॒तंवस्यो॒,अच्छ॑|| {12/13}{2.2.9.7}{1.141.12}{1.21.2.12}{180, 141, 1550}

अस्ता᳚व्य॒ग्निःशिमी᳚वद्भिर॒र्कैः¦साम्रा᳚ज्यायप्रत॒रंदधा᳚नः|{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

अ॒मीच॒येम॒घवा᳚नोव॒यंच॒¦मिहं॒नसूरो॒,अति॒निष्ट॑तन्युः|| {13/13}{2.2.9.8}{1.141.13}{1.21.2.13}{181, 141, 1551}

[21] समिद्धोअग्नइति त्रयोदशर्चस्य सूक्तस्यौचथ्योदीर्घतमाऋषिः इध्मस्तनूनपान्नराशंसइळो बर्हिर्देवीर्द्वार उषासानक्ता देव्यौहोतारौ सरस्वतीळाभारत्यस्त्वष्टावनस्पतिः स्वाहाकृतयइतिक्रमेणदेवताः अंत्याया इंद्रोनुष्टुप् |
समि॑द्धो,अग्न॒आव॑ह¦दे॒वाँ,अ॒द्यय॒तस्रु॑चे|{औचथ्यो दीर्घतमाः | इध्मः समिद्धोऽग्निर्वा | अनुष्टुप्}

तन्तुं᳚तनुष्वपू॒र्व्यं¦सु॒तसो᳚मायदा॒शुषे᳚|| {1/13}{2.2.10.1}{1.142.1}{1.21.3.1}{182, 142, 1552}

घृ॒तव᳚न्त॒मुप॑मासि॒¦मधु॑मन्तंतनूनपात्|{औचथ्यो दीर्घतमाः | तनूनपात् | अनुष्टुप्}

य॒ज्ञंविप्र॑स्य॒माव॑तः¦शशमा॒नस्य॑दा॒शुषः॑|| {2/13}{2.2.10.2}{1.142.2}{1.21.3.2}{183, 142, 1553}

शुचिः॑पाव॒को,अद्भु॑तो॒¦मध्वा᳚य॒ज्ञंमि॑मिक्षति|{औचथ्यो दीर्घतमाः | नराशंसः | अनुष्टुप्}

नरा॒शंस॒स्त्रिरादि॒वो¦दे॒वोदे॒वेषु॑य॒ज्ञियः॑|| {3/13}{2.2.10.3}{1.142.3}{1.21.3.3}{184, 142, 1554}

ई॒ळि॒तो,अ॑ग्न॒आव॒हे¦न्द्रं᳚चि॒त्रमि॒हप्रि॒यम्|{औचथ्यो दीर्घतमाः | इळः | अनुष्टुप्}

इ॒यंहित्वा᳚म॒तिर्ममा¦च्छा᳚सुजिह्वव॒च्यते᳚|| {4/13}{2.2.10.4}{1.142.4}{1.21.3.4}{185, 142, 1555}

स्तृ॒णा॒नासो᳚य॒तस्रु॑चो¦ब॒र्हिर्य॒ज्ञेस्व॑ध्व॒रे|{औचथ्यो दीर्घतमाः | बर्हिः | अनुष्टुप्}

वृ॒ञ्जेदे॒वव्य॑चस्तम॒¦मिन्द्रा᳚य॒शर्म॑स॒प्रथः॑|| {5/13}{2.2.10.5}{1.142.5}{1.21.3.5}{186, 142, 1556}

विश्र॑यन्तामृता॒वृधः॑¦प्र॒यैदे॒वेभ्यो᳚म॒हीः|{औचथ्यो दीर्घतमाः | देवीर्द्वारः | अनुष्टुप्}

पा॒व॒कासः॑पुरु॒स्पृहो॒¦द्वारो᳚दे॒वीर॑स॒श्चतः॑|| {6/13}{2.2.10.6}{1.142.6}{1.21.3.6}{187, 142, 1557}

आभन्द॑माने॒,उपा᳚के॒¦नक्तो॒षासा᳚सु॒पेश॑सा|{औचथ्यो दीर्घतमाः | उषासानक्ता | अनुष्टुप्}

य॒ह्वी,ऋ॒तस्य॑मा॒तरा॒¦सीद॑तांब॒र्हिरासु॒मत्|| {7/13}{2.2.11.1}{1.142.7}{1.21.3.7}{188, 142, 1558}

म॒न्द्रजि॑ह्वाजुगु॒र्वणी॒¦होता᳚रा॒दैव्या᳚क॒वी|{औचथ्यो दीर्घतमाः | देव्यौहोतारौ | अनुष्टुप्}

य॒ज्ञंनो᳚यक्षतामि॒मं¦सि॒ध्रम॒द्यदि॑वि॒स्पृश᳚म्|| {8/13}{2.2.11.2}{1.142.8}{1.21.3.8}{189, 142, 1559}

शुचि॑र्दे॒वेष्वर्पि॑ता॒¦होत्रा᳚म॒रुत्सु॒भार॑ती|{औचथ्यो दीर्घतमाः | तिस्रो देव्यः सरस्वतीळाभारत्यः | अनुष्टुप्}

इळा॒सर॑स्वतीम॒ही¦ब॒र्हिःसी᳚दन्तुय॒ज्ञियाः᳚|| {9/13}{2.2.11.3}{1.142.9}{1.21.3.9}{190, 142, 1560}

तन्न॑स्तु॒रीप॒मद्भु॑तं¦पु॒रुवारं᳚पु॒रुत्मना᳚|{औचथ्यो दीर्घतमाः | त्वष्टाः | अनुष्टुप्}

त्वष्टा॒पोषा᳚य॒विष्य॑तु¦रा॒येनाभा᳚नो,अस्म॒युः|| {10/13}{2.2.11.4}{1.142.10}{1.21.3.10}{191, 142, 1561}

अ॒व॒सृ॒जन्नुप॒त्मना᳚¦दे॒वान्‌य॑क्षिवनस्पते|{औचथ्यो दीर्घतमाः | वनस्पतिः | अनुष्टुप्}

अ॒ग्निर्ह॒व्यासु॑षूदति¦दे॒वोदे॒वेषु॒मेधि॑रः|| {11/13}{2.2.11.5}{1.142.11}{1.21.3.11}{192, 142, 1562}

पू॒ष॒ण्वते᳚म॒रुत्व॑ते¦वि॒श्वदे᳚वायवा॒यवे᳚|{औचथ्यो दीर्घतमाः | स्वाहाकृतयः | अनुष्टुप्}

स्वाहा᳚गाय॒त्रवे᳚पसे¦ह॒व्यमिन्द्रा᳚यकर्तन|| {12/13}{2.2.11.6}{1.142.12}{1.21.3.12}{193, 142, 1563}

स्वाहा᳚कृता॒न्याग॒¦ह्युप॑ह॒व्यानि॑वी॒तये᳚|{औचथ्यो दीर्घतमाः | इन्द्रः | अनुष्टुप्}

इन्द्राग॑हिश्रु॒धीहवं॒¦त्वांह॑वन्ते,अध्व॒रे|| {13/13}{2.2.11.7}{1.142.13}{1.21.3.13}{194, 142, 1564}

[22] प्रतव्यसीमित्यष्टर्चस्य सूक्तस्यौचथ्यो दीर्घतमाअग्निर्जगतीअंत्यात्रिष्टुप् |
प्रतव्य॑सीं॒नव्य॑सींधी॒तिम॒ग्नये᳚¦वा॒चोम॒तिंसह॑सःसू॒नवे᳚भरे|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अ॒पांनपा॒द्योवसु॑भिःस॒हप्रि॒यो¦होता᳚पृथि॒व्यांन्यसी᳚ददृ॒त्वियः॑|| {1/8}{2.2.12.1}{1.143.1}{1.21.4.1}{195, 143, 1565}

सजाय॑मानःपर॒मेव्यो᳚म¦न्या॒विर॒ग्निर॑भवन्मात॒रिश्व॑ने|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अ॒स्यक्रत्वा᳚समिधा॒नस्य॑म॒ज्मना॒¦प्रद्यावा᳚शो॒चिःपृ॑थि॒वी,अ॑रोचयत्|| {2/8}{2.2.12.2}{1.143.2}{1.21.4.2}{196, 143, 1566}

अ॒स्यत्वे॒षा,अ॒जरा᳚अ॒स्यभा॒नवः॑¦सुसं॒दृशः॑सु॒प्रती᳚कस्यसु॒द्युतः॑|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

भात्व॑क्षसो॒,अत्य॒क्तुर्नसिन्ध॑वो॒¦ऽग्नेरे᳚जन्ते॒,अस॑सन्तो,अ॒जराः᳚|| {3/8}{2.2.12.3}{1.143.3}{1.21.4.3}{197, 143, 1567}

यमे᳚रि॒रेभृग॑वोवि॒श्ववे᳚दसं॒¦नाभा᳚पृथि॒व्याभुव॑नस्यम॒ज्मना᳚|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अ॒ग्निंतंगी॒र्भिर्हि॑नुहि॒स्वआदमे॒¦यएको॒वस्वो॒वरु॑णो॒नराज॑ति|| {4/8}{2.2.12.4}{1.143.4}{1.21.4.4}{198, 143, 1568}

नयोवरा᳚यम॒रुता᳚मिवस्व॒नः¦सेने᳚वसृ॒ष्टादि॒व्यायथा॒शनिः॑|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अ॒ग्निर्जम्भै᳚स्तिगि॒तैर॑त्ति॒भर्व॑ति¦यो॒धोनशत्रू॒न्‌त्सवना॒न्यृ᳚ञ्जते|| {5/8}{2.2.12.5}{1.143.5}{1.21.4.5}{199, 143, 1569}

कु॒विन्नो᳚अ॒ग्निरु॒चथ॑स्य॒वीरस॒द्¦वसु॑ष्कु॒विद्‌वसु॑भिः॒काम॑मा॒वर॑त्|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

चो॒दःकु॒वित्‌तु॑तु॒ज्यात्‌सा॒तये॒धियः॒¦शुचि॑प्रतीकं॒तम॒याधि॒यागृ॑णे|| {6/8}{2.2.12.6}{1.143.6}{1.21.4.6}{200, 143, 1570}

घृ॒तप्र॑तीकंवऋ॒तस्य॑धू॒र्षद॑¦म॒ग्निंमि॒त्रंनस॑मिधा॒नऋ᳚ञ्जते|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

इन्धा᳚नो,अ॒क्रोवि॒दथे᳚षु॒दीद्य॑¦च्छु॒क्रव᳚र्णा॒मुदु॑नोयंसते॒धिय᳚म्|| {7/8}{2.2.12.7}{1.143.7}{1.21.4.7}{201, 143, 1571}

अप्र॑युच्छ॒न्नप्र॑युच्छद्भिरग्ने¦शि॒वेभि᳚र्नःपा॒युभिः॑पाहिश॒ग्मैः|{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

अद॑ब्धेभि॒रदृ॑पितेभिरि॒ष्टे¦ऽनि॑मिषद्भिः॒परि॑पाहिनो॒जाः|| {8/8}{2.2.12.8}{1.143.8}{1.21.4.8}{202, 143, 1572}

[23] एतीति सप्तर्चस्य सूक्तस्यौचथ्योदीर्घतमाग्निर्जगती |
एति॒प्रहोता᳚व्र॒तम॑स्यमा॒ययो॒¦र्ध्वांदधा᳚नः॒शुचि॑पेशसं॒धिय᳚म्|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अ॒भिस्रुचः॑क्रमतेदक्षिणा॒वृतो॒¦या,अ॑स्य॒धाम॑प्रथ॒मंह॒निंस॑ते|| {1/7}{2.2.13.1}{1.144.1}{1.21.5.1}{203, 144, 1573}

अ॒भीमृ॒तस्य॑दो॒हना᳚अनूषत॒¦योनौ᳚दे॒वस्य॒सद॑ने॒परी᳚वृताः|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अ॒पामु॒पस्थे॒विभृ॑तो॒यदाव॑स॒¦दध॑स्व॒धा,अ॑धय॒द्‌याभि॒रीय॑ते|| {2/7}{2.2.13.2}{1.144.2}{1.21.5.2}{204, 144, 1574}

युयू᳚षतः॒सव॑यसा॒तदिद्‌वपुः॑¦समा॒नमर्थं᳚वि॒तरि॑त्रतामि॒थः|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

आदीं॒भगो॒नहव्यः॒सम॒स्मदा¦वोळ्हु॒र्नर॒श्मीन्‌त्सम॑यंस्त॒सार॑थिः|| {3/7}{2.2.13.3}{1.144.3}{1.21.5.3}{205, 144, 1575}

यमीं॒द्वासव॑यसासप॒र्यतः॑¦समा॒नेयोना᳚मिथु॒नासमो᳚कसा|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

दिवा॒ननक्तं᳚पलि॒तोयुवा᳚जनि¦पु॒रूचर᳚न्‌न॒जरो॒मानु॑षायु॒गा|| {4/7}{2.2.13.4}{1.144.4}{1.21.5.4}{206, 144, 1576}

तमीं᳚हिन्वन्तिधी॒तयो॒दश॒व्रिशो᳚¦दे॒वंमर्ता᳚सऊ॒तये᳚हवामहे|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

धनो॒रधि॑प्र॒वत॒आसऋ᳚ण्व¦त्यभि॒व्रज॑द्भिर्व॒युना॒नवा᳚धित|| {5/7}{2.2.13.5}{1.144.5}{1.21.5.5}{207, 144, 1577}

त्वंह्य॑ग्नेदि॒व्यस्य॒राज॑सि॒¦त्वंपार्थि॑वस्यपशु॒पा,इ॑व॒त्मना᳚|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

एनी᳚तए॒तेबृ॑ह॒ती,अ॑भि॒श्रिया᳚¦हिर॒ण्ययी॒वक्व॑रीब॒र्हिरा᳚शाते|| {6/7}{2.2.13.6}{1.144.6}{1.21.5.6}{208, 144, 1578}

अग्ने᳚जु॒षस्व॒प्रति॑हर्य॒तद्वचो॒¦मन्द्र॒स्वधा᳚व॒ऋत॑जात॒सुक्र॑तो|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

योवि॒श्वतः॑प्र॒त्यङ्ङसि॑दर्श॒तो¦र॒ण्वःसंदृ॑ष्टौपितु॒माँ,इ॑व॒क्षयः॑|| {7/7}{2.2.13.7}{1.144.7}{1.21.5.7}{209, 144, 1579}

[24] तंपृच्छतेति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निर्जगतीअंत्यात्रिष्टुप् |
तंपृ॑च्छता॒सज॑गामा॒सवे᳚द॒¦सचि॑कि॒त्वाँ,ई᳚यते॒सान्वी᳚यते|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

तस्मि᳚न्‌त्सन्तिप्र॒शिष॒स्तस्मि᳚न्नि॒ष्टयः॒¦सवाज॑स्य॒शव॑सःशु॒ष्मिण॒स्पतिः॑|| {1/5}{2.2.14.1}{1.145.1}{1.21.6.1}{210, 145, 1580}

तमित्‌पृ॑च्छन्ति॒नसि॒मोविपृ॑च्छति॒¦स्वेने᳚व॒धीरो॒मन॑सा॒यदग्र॑भीत्|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

नमृ॑ष्यतेप्रथ॒मंनाप॑रं॒वचो॒¦ऽस्यक्रत्वा᳚सचते॒,अप्र॑दृपितः|| {2/5}{2.2.14.2}{1.145.2}{1.21.6.2}{211, 145, 1581}

तमिद्‌ग॑च्छन्तिजु॒ह्व१॑(अ॒)स्तमर्व॑ती॒¦र्विश्वा॒न्येकः॑शृणव॒द्‌वचां᳚सिमे|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

पु॒रु॒प्रै॒षस्ततु॑रिर्यज्ञ॒साध॒नो¦ऽच्छि॑द्रोतिः॒शिशु॒राद॑त्त॒संरभः॑|| {3/5}{2.2.14.3}{1.145.3}{1.21.6.3}{212, 145, 1582}

उ॒प॒स्थायं᳚चरति॒यत्‌स॒मार॑त¦स॒द्योजा॒तस्त॑त्सार॒युज्ये᳚भिः|{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अ॒भिश्वा॒न्तंमृ॑शतेना॒न्द्ये᳚मु॒दे¦यदीं॒गच्छ᳚न्‌त्युश॒तीर॑पिष्ठि॒तम्|| {4/5}{2.2.14.4}{1.145.4}{1.21.6.4}{213, 145, 1583}

सईं᳚मृ॒गो,अप्यो᳚वन॒र्गु¦रुप॑त्व॒च्यु॑प॒मस्यां॒निधा᳚यि|{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

व्य॑ब्रवीद्‌व॒युना॒मर्त्ये᳚भ्यो॒¦ऽग्निर्वि॒द्वाँऋ॑त॒चिद्धिस॒त्यः|| {5/5}{2.2.14.5}{1.145.5}{1.21.6.5}{214, 145, 1584}

[25] त्रिमूर्धानमिति पंचर्चस्य सूक्तस्यौचथ्यो दीर्घतमाअग्निस्त्रिष्टुप् |
त्रि॒मू॒र्धानं᳚स॒प्तर॑श्मिंगृणी॒षे¦ऽनू᳚नम॒ग्निंपि॒त्रोरु॒पस्थे᳚|{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

नि॒ष॒त्तम॑स्य॒चर॑तोध्रु॒वस्य॒¦विश्वा᳚दि॒वोरो᳚च॒नाप॑प्रि॒वांस᳚म्|| {1/5}{2.2.15.1}{1.146.1}{1.21.7.1}{215, 146, 1585}

उ॒क्षाम॒हाँ,अ॒भिव॑वक्षएने,¦अ॒जर॑स्तस्थावि॒तऊ᳚तिरृ॒ष्वः|{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

उ॒र्व्याःप॒दोनिद॑धाति॒सानौ᳚¦रि॒हन्त्यूधो᳚अरु॒षासो᳚अस्य|| {2/5}{2.2.15.2}{1.146.2}{1.21.7.2}{216, 146, 1586}

स॒मा॒नंव॒त्सम॒भिसं॒चर᳚न्ती॒¦विष्व॑ग्धे॒नूविच॑रतःसु॒मेके᳚|{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

अ॒न॒प॒वृ॒ज्याँ,अध्व॑नो॒मिमा᳚ने॒¦विश्वा॒न्‌केताँ॒,अधि॑म॒होदधा᳚ने|| {3/5}{2.2.15.3}{1.146.3}{1.21.7.3}{217, 146, 1587}

धीरा᳚सःप॒दंक॒वयो᳚नयन्ति॒¦नाना᳚हृ॒दारक्ष॑माणा,अजु॒र्यम्|{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

सिषा᳚सन्तः॒पर्य॑पश्यन्त॒सिन्धु॑¦मा॒विरे᳚भ्यो,अभव॒त्‌सूर्यो॒नॄन्|| {4/5}{2.2.15.4}{1.146.4}{1.21.7.4}{218, 146, 1588}

दि॒दृ॒क्षेण्यः॒परि॒काष्ठा᳚सु॒जेन्य॑¦ई॒ळेन्यो᳚म॒हो,अर्भा᳚यजी॒वसे᳚|{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

पु॒रु॒त्रायदभ॑व॒त्‌सूरहै᳚भ्यो॒¦गर्भे᳚भ्योम॒घवा᳚वि॒श्वद॑र्शतः|| {5/5}{2.2.15.5}{1.146.5}{1.21.7.5}{219, 146, 1589}

[26] कथातइतिपंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्नित्रिष्टुप् |
क॒थाते᳚अग्नेशु॒चय᳚न्तआ॒यो¦र्द॑दा॒शुर्वाजे᳚भिराशुषा॒णाः|{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

उ॒भेयत्तो॒केतन॑ये॒दधा᳚ना,¦ऋ॒तस्य॒साम᳚न्र॒णय᳚न्तदे॒वाः|| {1/5}{2.2.16.1}{1.147.1}{1.21.8.1}{220, 147, 1590}

बोधा᳚मे,अ॒स्यवच॑सोयविष्ठ॒¦मंहि॑ष्ठस्य॒प्रभृ॑तस्यस्वधावः|{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

पीय॑तित्वो॒,अनु॑त्वोगृणाति¦व॒न्दारु॑स्तेत॒न्वं᳚वन्दे,अग्ने|| {2/5}{2.2.16.2}{1.147.2}{1.21.8.2}{221, 147, 1591}

येपा॒यवो᳚मामते॒यंते᳚अग्ने॒¦पश्य᳚न्तो,अ॒न्धंदु॑रि॒तादर॑क्षन्|{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

र॒रक्ष॒तान्‌त्सु॒कृतो᳚वि॒श्ववे᳚दा॒¦दिप्स᳚न्त॒इद्‌रि॒पवो॒नाह॑देभुः|| {3/5}{2.2.16.3}{1.147.3}{1.21.8.3}{222, 147, 1592}

योनो᳚अग्ने॒,अर॑रिवाँ,अघा॒यु¦र॑राती॒वाम॒र्चय॑तिद्व॒येन॑|{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

मन्त्रो᳚गु॒रुःपुन॑रस्तु॒सो,अ॑स्मा॒,¦अनु॑मृक्षीष्टत॒न्वं᳚दुरु॒क्तैः|| {4/5}{2.2.16.4}{1.147.4}{1.21.8.4}{223, 147, 1593}

उ॒तवा॒यःस॑हस्यप्रवि॒द्वान्¦मर्तो॒मर्तं᳚म॒र्चय॑तिद्व॒येन॑|{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

अतः॑पाहिस्तवमानस्तु॒वन्त॒¦मग्ने॒माकि᳚र्नोदुरि॒ताय॑धायीः|| {5/5}{2.2.16.5}{1.147.5}{1.21.8.5}{224, 147, 1594}

[27] मथीद्यदीमिति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निस्त्रिष्टुप् |
मथी॒द्‌यदीं᳚वि॒ष्टोमा᳚त॒रिश्वा॒¦होता᳚रंवि॒श्वाप्सुं᳚वि॒श्वदे᳚व्यम्|{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

नियंद॒धुर्म॑नु॒ष्या᳚सुवि॒क्षु¦स्व१॑(अ॒)र्णचि॒त्रंवपु॑षेवि॒भाव᳚म्|| {1/5}{2.2.17.1}{1.148.1}{1.21.9.1}{225, 148, 1595}

द॒दा॒नमिन्नद॑दभन्त॒मन्मा॒¦ग्निर्वरू᳚थं॒मम॒तस्य॑चाकन्|{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

जु॒षन्त॒विश्वा᳚न्यस्य॒कर्मो¦प॑स्तुतिं॒भर॑माणस्यका॒रोः|| {2/5}{2.2.17.2}{1.148.2}{1.21.9.2}{226, 148, 1596}

नित्ये᳚चि॒न्नुयंसद॑नेजगृ॒भ्रे¦प्रश॑स्तिभिर्दधि॒रेय॒ज्ञिया᳚सः|{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

प्रसून॑यन्तगृ॒भय᳚न्तइ॒ष्टा¦वश्वा᳚सो॒नर॒थ्यो᳚रारहा॒णाः|| {3/5}{2.2.17.3}{1.148.3}{1.21.9.3}{227, 148, 1597}

पु॒रूणि॑द॒स्मोनिरि॑णाति॒जम्भै॒¦राद्‌रो᳚चते॒वन॒आवि॒भावा᳚|{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

आद॑स्य॒वातो॒,अनु॑वातिशो॒चि¦रस्तु॒र्नशर्या᳚मस॒नामनु॒द्यून्|| {4/5}{2.2.17.4}{1.148.4}{1.21.9.4}{228, 148, 1598}

नयंरि॒पवो॒नरि॑ष॒ण्यवो॒¦गर्भे॒सन्तं᳚रेष॒णारे॒षय᳚न्ति|{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

अ॒न्धा,अ॑प॒श्यानद॑भन्नभि॒ख्या¦नित्या᳚सईंप्रे॒तारो᳚अरक्षन्|| {5/5}{2.2.17.5}{1.148.5}{1.21.9.5}{229, 148, 1599}

[28] महः सरायइति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निर्विराट् |
म॒हःसरा॒यएष॑ते॒पति॒र्द¦न्नि॒नइ॒नस्य॒वसु॑नःप॒दआ|{औचथ्यो दीर्घतमाः | अग्निः | विराट्}

उप॒ध्रज᳚न्त॒मद्र॑योवि॒धन्नित्|| {1/5}{2.2.18.1}{1.149.1}{1.21.10.1}{230, 149, 1600}

सयोवृषा᳚न॒रांनरोद॑स्योः॒¦श्रवो᳚भि॒रस्ति॑जी॒वपी᳚तसर्गः|{औचथ्यो दीर्घतमाः | अग्निः | विराट्}

प्रयःस॑स्रा॒णःशि॑श्री॒तयोनौ᳚|| {2/5}{2.2.18.2}{1.149.2}{1.21.10.2}{231, 149, 1601}

आयःपुरं॒नार्मि॑णी॒मदी᳚दे॒¦दत्यः॑क॒विर्न॑भ॒न्यो॒३॑(ओ॒)नार्वा᳚|{औचथ्यो दीर्घतमाः | अग्निः | विराट्}

सूरो॒नरु॑रु॒क्वाञ्छ॒तात्मा᳚|| {3/5}{2.2.18.3}{1.149.3}{1.21.10.3}{232, 149, 1602}

अ॒भिद्वि॒जन्मा॒त्रीरो᳚च॒नानि॒¦विश्वा॒रजां᳚सिशुशुचा॒नो,अ॑स्थात्|{औचथ्यो दीर्घतमाः | अग्निः | विराट्}

होता॒यजि॑ष्ठो,अ॒पांस॒धस्थे᳚|| {4/5}{2.2.18.4}{1.149.4}{1.21.10.4}{233, 149, 1603}

अ॒यंसहोता॒योद्वि॒जन्मा॒¦विश्वा᳚द॒धेवार्या᳚णिश्रव॒स्या|{औचथ्यो दीर्घतमाः | अग्निः | विराट्}

मर्तो॒यो,अ॑स्मैसु॒तुको᳚द॒दाश॑|| {5/5}{2.2.18.5}{1.149.5}{1.21.10.5}{234, 149, 1604}

[29] पुरुत्वेति तृचस्य सूक्तस्यौचथ्योदीर्घतमाअग्निरुष्णिक् |
पु॒रुत्वा᳚दा॒श्वान्‌वो᳚चे॒¦ऽरिर॑ग्ने॒तव॑स्वि॒दा|{औचथ्यो दीर्घतमाः | अग्निः | उष्णिक्}

तो॒दस्ये᳚वशर॒णआम॒हस्य॑|| {1/3}{2.2.19.1}{1.150.1}{1.21.11.1}{235, 150, 1605}

व्य॑नि॒नस्य॑ध॒निनः॑¦प्रहो॒षेचि॒दर॑रुषः|{औचथ्यो दीर्घतमाः | अग्निः | उष्णिक्}

क॒दाच॒नप्र॒जिग॑तो॒,अदे᳚वयोः|| {2/3}{2.2.19.2}{1.150.2}{1.21.11.2}{236, 150, 1606}

सच॒न्द्रोवि॑प्र॒मर्त्यो᳚¦म॒होव्राध᳚न्तमोदि॒वि|{औचथ्यो दीर्घतमाः | अग्निः | उष्णिक्}

प्रप्रेत्ते᳚अग्नेव॒नुषः॑स्याम|| {3/3}{2.2.19.3}{1.150.3}{1.21.11.3}{237, 150, 1607}

[30] मित्रंनयमिति नवर्चस्य सूक्तस्यौचथ्योदीर्घतमामित्रावरुणावाद्यायामित्रोजगती |
मि॒त्रंनयंशिम्या॒गोषु॑ग॒व्यवः॑¦स्वा॒ध्यो᳚वि॒दथे᳚अ॒प्सुजीज॑नन्|{औचथ्यो दीर्घतमाः | मित्रः | जगती}

अरे᳚जेतां॒रोद॑सी॒पाज॑सागि॒रा¦प्रति॑प्रि॒यंय॑ज॒तंज॒नुषा॒मवः॑|| {1/9}{2.2.20.1}{1.151.1}{1.21.12.1}{238, 151, 1608}

यद्ध॒त्यद्‌वां᳚पुरुमी॒ळ्हस्य॑सो॒मिनः॒¦प्रमि॒त्रासो॒नद॑धि॒रेस्वा॒भुवः॑|{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती}

अध॒क्रतुं᳚विदतंगा॒तुमर्च॑त¦उ॒तश्रु॑तंवृषणाप॒स्त्या᳚वतः|| {2/9}{2.2.20.2}{1.151.2}{1.21.12.2}{239, 151, 1609}

आवां᳚भूषन्‌क्षि॒तयो॒जन्म॒रोद॑स्योः¦प्र॒वाच्यं᳚वृषणा॒दक्ष॑सेम॒हे|{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती}

यदी᳚मृ॒ताय॒भर॑थो॒यदर्व॑ते॒¦प्रहोत्र॑या॒शिम्या᳚वीथो,अध्व॒रम्|| {3/9}{2.2.20.3}{1.151.3}{1.21.12.3}{240, 151, 1610}

प्रसाक्षि॒तिर॑सुर॒यामहि॑प्रि॒य¦ऋता᳚वानावृ॒तमाघो᳚षथोबृ॒हत्|{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती}

यु॒वंदि॒वोबृ॑ह॒तोदक्ष॑मा॒भुवं॒¦गांनधु॒र्युप॑युञ्जाथे,अ॒पः|| {4/9}{2.2.20.4}{1.151.4}{1.21.12.4}{241, 151, 1611}

म॒ही,अत्र॑महि॒नावार॑मृण्वथो¦ऽरे॒णव॒स्तुज॒आसद्म᳚न्‌धे॒नवः॑|{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती}

स्वर᳚न्ति॒ता,उ॑प॒रता᳚ति॒सूर्य॒¦मानि॒म्रुच॑उ॒षस॑स्तक्व॒वीरि॑व|| {5/9}{2.2.20.5}{1.151.5}{1.21.12.5}{242, 151, 1612}

आवा᳚मृ॒ताय॑के॒शिनी᳚रनूषत॒¦मित्र॒यत्र॒वरु॑णगा॒तुमर्च॑थः|{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती}

अव॒त्मना᳚सृ॒जतं॒पिन्व॑तं॒धियो᳚¦यु॒वंविप्र॑स्य॒मन्म॑नामिरज्यथः|| {6/9}{2.2.21.1}{1.151.6}{1.21.12.6}{243, 151, 1613}

योवां᳚य॒ज्ञैःश॑शमा॒नोह॒दाश॑ति¦क॒विर्होता॒यज॑तिमन्म॒साध॑नः|{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती}

उपाह॒तंगच्छ॑थोवी॒थो,अ॑ध्व॒र¦मच्छा॒गिरः॑सुम॒तिंग᳚न्तमस्म॒यू|| {7/9}{2.2.21.2}{1.151.7}{1.21.12.7}{244, 151, 1614}

यु॒वांय॒ज्ञैःप्र॑थ॒मागोभि॑रञ्जत॒¦ऋता᳚वाना॒मन॑सो॒नप्रयु॑क्तिषु|{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती}

भर᳚न्तिवां॒मन्म॑नासं॒यता॒गिरो¦ऽदृ॑प्यता॒मन॑सारे॒वदा᳚शाथे|| {8/9}{2.2.21.3}{1.151.8}{1.21.12.8}{245, 151, 1615}

रे॒वद्‌वयो᳚दधाथेरे॒वदा᳚शाथे॒¦नरा᳚मा॒याभि॑रि॒तऊ᳚ति॒माहि॑नम्|{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती}

नवां॒द्यावोऽह॑भि॒र्नोतसिन्ध॑वो॒¦नदे᳚व॒त्वंप॒णयो॒नान॑शुर्म॒घम्|| {9/9}{2.2.21.4}{1.151.9}{1.21.12.9}{246, 151, 1616}

[31] युवंवस्त्राणीति सप्तर्चस्य सूक्तस्यौचथ्योदीर्घतमामित्रावरुणौत्रिष्टुप् |
यु॒वंवस्त्रा᳚णिपीव॒साव॑साथे¦यु॒वोरच्छि॑द्रा॒मन्त॑वोह॒सर्गाः᳚|{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

अवा᳚तिरत॒मनृ॑तानि॒विश्व॑¦ऋ॒तेन॑मित्रावरुणासचेथे|| {1/7}{2.2.22.1}{1.152.1}{1.21.13.1}{247, 152, 1617}

ए॒तच्च॒नत्वो॒विचि॑केतदेषां¦स॒त्योमन्त्रः॑कविश॒स्तऋघा᳚वान्|{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

त्रि॒रश्रिं᳚हन्ति॒चतु॑रश्रिरु॒ग्रो¦दे᳚व॒निदो᳚हप्र॑थ॒मा,अ॑जूर्यन्|| {2/7}{2.2.22.2}{1.152.2}{1.21.13.2}{248, 152, 1618}

अ॒पादे᳚तिप्रथ॒माप॒द्वती᳚नां॒¦कस्तद्‌वां᳚मित्रावरु॒णाचि॑केत|{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

गर्भो᳚भा॒रंभ॑र॒त्याचि॑दस्य¦ऋ॒तंपिप॒र्त्यनृ॑तं॒निता᳚रीत्|| {3/7}{2.2.22.3}{1.152.3}{1.21.13.3}{249, 152, 1619}

प्र॒यन्त॒मित्‌परि॑जा॒रंक॒नीनां॒¦पश्या᳚मसि॒नोप॑नि॒पद्य॑मानम्|{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

अन॑वपृग्णा॒वित॑ता॒वसा᳚नं¦प्रि॒यंमि॒त्रस्य॒वरु॑णस्य॒धाम॑|| {4/7}{2.2.22.4}{1.152.4}{1.21.13.4}{250, 152, 1620}

अ॒न॒श्वोजा॒तो,अ॑नभी॒शुरर्वा॒¦कनि॑क्रदत्‌पतयदू॒र्ध्वसा᳚नुः|{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

अ॒चित्तं॒ब्रह्म॑जुजुषु॒र्युवा᳚नः॒¦प्रमि॒त्रेधाम॒वरु॑णेगृ॒णन्तः॑|| {5/7}{2.2.22.5}{1.152.5}{1.21.13.5}{251, 152, 1621}

आधे॒नवो᳚मामते॒यमव᳚न्ती¦र्ब्रह्म॒प्रियं᳚पीपय॒न्‌त्सस्मि॒न्नूध॑न्|{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

पि॒त्वोभि॑क्षेतव॒युना᳚निवि॒द्वा¦ना॒साविवा᳚स॒न्नदि॑तिमुरुष्येत्|| {6/7}{2.2.22.6}{1.152.6}{1.21.13.6}{252, 152, 1622}

आवां᳚मित्रावरुणाह॒व्यजु॑ष्टिं॒¦नम॑सादेवा॒वव॑साववृत्याम्|{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

अ॒स्माकं॒ब्रह्म॒पृत॑नासुसह्या,¦अ॒स्माकं᳚वृ॒ष्टिर्दि॒व्यासु॑पा॒रा|| {7/7}{2.2.22.7}{1.152.7}{1.21.13.7}{253, 152, 1623}

[32] यजामहइति चतुरृचस्य सूक्तस्यौचथ्योदीर्घतमामित्रावरुणौत्रिष्टुप् |
यजा᳚महेवांम॒हःस॒जोषा᳚¦ह॒व्येभि᳚र्मित्रावरुणा॒नमो᳚भिः|{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

घृ॒तैर्घृ॑तस्नू॒,अध॒यद्‌वा᳚म॒स्मे,¦अ॑ध्व॒र्यवो॒नधी॒तिभि॒र्भर᳚न्ति|| {1/4}{2.2.23.1}{1.153.1}{1.21.14.1}{254, 153, 1624}

प्रस्तु॑तिर्वां॒धाम॒नप्रयु॑क्ति॒¦रया᳚मिमित्रावरुणासुवृ॒क्तिः|{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

अ॒नक्ति॒यद्‌वां᳚वि॒दथे᳚षु॒होता᳚¦सु॒म्नंवां᳚सू॒रिर्वृ॑षणा॒विय॑क्षन्|| {2/4}{2.2.23.2}{1.153.2}{1.21.14.2}{255, 153, 1625}

पी॒पाय॑धे॒नुरदि॑तिरृ॒ताय॒¦जना᳚यमित्रावरुणाहवि॒र्दे|{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

हि॒नोति॒यद्‌वां᳚वि॒दथे᳚सप॒र्यन्¦त्सरा॒तह᳚व्यो॒मानु॑षो॒नहोता᳚|| {3/4}{2.2.23.3}{1.153.3}{1.21.14.3}{256, 153, 1626}

उ॒तवां᳚वि॒क्षुमद्या॒स्वन्धो॒¦गाव॒आप॑श्चपीपयन्तदे॒वीः|{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

उ॒तोनो᳚अ॒स्यपू॒र्व्यःपति॒र्दन्¦वी॒तंपा॒तंपय॑सउ॒स्रिया᳚याः|| {4/4}{2.2.23.4}{1.153.4}{1.21.14.4}{257, 153, 1627}

[33] विष्णोर्नुकमिति षडृचस्य सूक्तस्यौचध्योदीर्घतमा विष्णुस्त्रिष्टुप् |
विष्णो॒र्नुकं᳚वी॒र्या᳚णि॒प्रवो᳚चं॒¦यःपार्थि॑वानिविम॒मेरजां᳚सि|{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्}

यो,अस्क॑भाय॒दुत्त॑रंस॒धस्थं᳚¦विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः|| {1/6}{2.2.24.1}{1.154.1}{1.21.15.1}{258, 154, 1628}

प्रतद्‌विष्णुः॑स्तवतेवी॒र्ये᳚ण¦मृ॒गोनभी॒मःकु॑च॒रोगि॑रि॒ष्ठाः|{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्}

यस्यो॒रुषु॑त्रि॒षुवि॒क्रम॑णे¦ष्वधिक्षि॒यन्ति॒भुव॑नानि॒विश्वा᳚|| {2/6}{2.2.24.2}{1.154.2}{1.21.15.2}{259, 154, 1629}

प्रविष्ण॑वेशू॒षमे᳚तु॒मन्म॑¦गिरि॒क्षित॑उरुगा॒याय॒वृष्णे᳚|{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्}

यइ॒दंदी॒र्घंप्रय॑तंस॒धस्थ॒¦मेको᳚विम॒मेत्रि॒भिरित्‌प॒देभिः॑|| {3/6}{2.2.24.3}{1.154.3}{1.21.15.3}{260, 154, 1630}

यस्य॒त्रीपू॒र्णामधु॑नाप॒दा¦न्यक्षी᳚यमाणास्व॒धया॒मद᳚न्ति|{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्}

यउ॑त्रि॒धातु॑पृथि॒वीमु॒तद्या¦मेको᳚दा॒धार॒भुव॑नानि॒विश्वा᳚|| {4/6}{2.2.24.4}{1.154.4}{1.21.15.4}{261, 154, 1631}

तद॑स्यप्रि॒यम॒भिपाथो᳚अश्यां॒¦नरो॒यत्र॑देव॒यवो॒मद᳚न्ति|{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्}

उ॒रु॒क्र॒मस्य॒सहिबन्धु॑रि॒त्था¦विष्णोः᳚प॒देप॑र॒मेमध्व॒उत्सः॑|| {5/6}{2.2.24.5}{1.154.5}{1.21.15.5}{262, 154, 1632}

तावां॒वास्तू᳚न्युश्मसि॒गम॑ध्यै॒¦यत्र॒गावो॒भूरि॑शृङ्गा,अ॒यासः॑|{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्}

अत्राह॒तदु॑रुगा॒यस्य॒वृष्णः॑¦पर॒मंप॒दमव॑भाति॒भूरि॑|| {6/6}{2.2.24.6}{1.154.6}{1.21.15.6}{263, 154, 1633}

[34] प्रवःपांतमिति षडृचस्य सूक्तस्यौचथ्योदीर्घतमा आद्यानांतिसृणामिंद्राविष्णू ततस्तिसृणांविष्णुर्जगती |
प्रवः॒पान्त॒मन्ध॑सोधियाय॒ते¦म॒हेशूरा᳚य॒विष्ण॑वेचार्चत|{औचथ्यो दीर्घतमाः | इंद्राविष्णूः | जगती}

यासानु॑नि॒पर्व॑ताना॒मदा᳚भ्या¦म॒हस्त॒स्थतु॒रर्व॑तेवसा॒धुना᳚|| {1/6}{2.2.25.1}{1.155.1}{1.21.16.1}{264, 155, 1634}

त्वे॒षमि॒त्थास॒मर॑णं॒शिमी᳚वतो॒¦रिन्द्रा᳚विष्णूसुत॒पावा᳚मुरुष्यति|{औचथ्यो दीर्घतमाः | इंद्राविष्णूः | जगती}

यामर्त्या᳚यप्रतिधी॒यमा᳚न॒मित्¦कृ॒शानो॒रस्तु॑रस॒नामु॑रु॒ष्यथः॑|| {2/6}{2.2.25.2}{1.155.2}{1.21.16.2}{265, 155, 1635}

ता,ईं᳚वर्धन्ति॒मह्य॑स्य॒पौंस्यं॒¦निमा॒तरा᳚नयति॒रेत॑सेभु॒जे|{औचथ्यो दीर्घतमाः | इंद्राविष्णूः | जगती}

दधा᳚तिपु॒त्रोऽव॑रं॒परं᳚पि॒तु¦र्नाम॑तृ॒तीय॒मधि॑रोच॒नेदि॒वः|| {3/6}{2.2.25.3}{1.155.3}{1.21.16.3}{266, 155, 1636}

तत्त॒दिद॑स्य॒पौंस्यं᳚गृणीमसी॒¦नस्य॑त्रा॒तुर॑वृ॒कस्य॑मी॒ळ्हुषः॑|{औचथ्यो दीर्घतमाः | विष्णुः | जगती}

यःपार्थि॑वानित्रि॒भिरिद्‌विगा᳚मभि¦रु॒रुक्रमि॑ष्टोरुगा॒याय॑जी॒वसे᳚|| {4/6}{2.2.25.4}{1.155.4}{1.21.16.4}{267, 155, 1637}

द्वे,इद॑स्य॒क्रम॑णेस्व॒र्दृशो᳚¦ऽभि॒ख्याय॒मर्त्यो᳚भुरण्यति|{औचथ्यो दीर्घतमाः | विष्णुः | जगती}

तृ॒तीय॑मस्य॒नकि॒राद॑धर्षति॒¦वय॑श्च॒नप॒तय᳚न्तःपत॒त्रिणः॑|| {5/6}{2.2.25.5}{1.155.5}{1.21.16.5}{268, 155, 1638}

च॒तुर्भिः॑सा॒कंन॑व॒तिंच॒नाम॑भि¦श्च॒क्रंनवृ॒त्तंव्यतीँ᳚रवीविपत्|{औचथ्यो दीर्घतमाः | विष्णुः | जगती}

बृ॒हच्छ॑रीरोवि॒मिमा᳚न॒ऋक्व॑भिर्॒¦युवाकु॑मारः॒प्रत्ये᳚त्याह॒वम्|| {6/6}{2.2.25.6}{1.155.6}{1.21.16.6}{269, 155, 1639}

[35] भवामित्रइति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाविष्णुर्जगती |
भवा᳚मि॒त्रोनशेव्यो᳚घृ॒तासु॑तिर्॒¦विभू᳚तद्युम्नएव॒या,उ॑स॒प्रथाः᳚|{औचथ्यो दीर्घतमाः | विष्णुः | जगती}

अधा᳚तेविष्णोवि॒दुषा᳚चि॒दर्ध्यः॒¦स्तोमो᳚य॒ज्ञश्च॒राध्यो᳚ह॒विष्म॑ता|| {1/5}{2.2.26.1}{1.156.1}{1.21.17.1}{270, 156, 1640}

यःपू॒र्व्याय॑वे॒धसे॒नवी᳚यसे¦सु॒मज्जा᳚नये॒विष्ण॑वे॒ददा᳚शति|{औचथ्यो दीर्घतमाः | विष्णुः | जगती}

योजा॒तम॑स्यमह॒तोमहि॒ब्रव॒त्¦सेदु॒श्रवो᳚भि॒र्युज्यं᳚चिद॒भ्य॑सत्|| {2/5}{2.2.26.2}{1.156.2}{1.21.17.2}{271, 156, 1641}

तमु॑स्तोतारःपू॒र्व्यंयथा᳚वि॒द¦ऋ॒तस्य॒गर्भं᳚ज॒नुषा᳚पिपर्तन|{औचथ्यो दीर्घतमाः | विष्णुः | जगती}

आस्य॑जा॒नन्तो॒नाम॑चिद्‌विवक्तन¦म॒हस्ते᳚विष्णोसुम॒तिंभ॑जामहे|| {3/5}{2.2.26.3}{1.156.3}{1.21.17.3}{272, 156, 1642}

तम॑स्य॒राजा॒वरु॑ण॒स्तम॒श्विना॒¦क्रतुं᳚सचन्त॒मारु॑तस्यवे॒धसः॑|{औचथ्यो दीर्घतमाः | विष्णुः | जगती}

दा॒धार॒दक्ष॑मुत्त॒मम॑ह॒र्विदं᳚¦व्र॒जंच॒विष्णुः॒सखि॑वाँ,अपोर्णु॒ते|| {4/5}{2.2.26.4}{1.156.4}{1.21.17.4}{273, 156, 1643}

आयोवि॒वाय॑स॒चथा᳚य॒दैव्य॒¦इन्द्रा᳚य॒विष्णुः॑सु॒कृते᳚सु॒कृत्त॑रः|{औचथ्यो दीर्घतमाः | विष्णुः | जगती}

वे॒धा,अ॑जिन्वत्‌त्रिषध॒स्थआर्य॑¦मृ॒तस्य॑भा॒गेयज॑मान॒माभ॑जत्|| {5/5}{2.2.26.5}{1.156.5}{1.21.17.5}{274, 156, 1644}

[36] अबोध्यग्निरिति षडृचस्य सूक्तस्यौचथ्योदीर्घतमाअश्विनौ जगत्यंत्येद्वेत्रिष्टुभौ |
अबो᳚ध्य॒ग्निर्ज्मउदे᳚ति॒सूर्यो॒¦व्यु१॑(उ॒)षाश्च॒न्द्राम॒ह्या᳚वो,अ॒र्चिषा᳚|{औचथ्यो दीर्घतमाः | अश्विनौ | जगती}

आयु॑क्षाताम॒श्विना॒यात॑वे॒रथं॒¦प्रासा᳚वीद्दे॒वःस॑वि॒ताजग॒त्‌पृथ॑क्|| {1/6}{2.2.27.1}{1.157.1}{1.22.1.1}{275, 157, 1645}

यद्‌यु॒ञ्जाथे॒वृष॑णमश्विना॒रथं᳚¦घृ॒तेन॑नो॒मधु॑नाक्ष॒त्रमु॑क्षतम्|{औचथ्यो दीर्घतमाः | अश्विनौ | जगती}

अ॒स्माकं॒ब्रह्म॒पृत॑नासुजिन्वतं¦व॒यंधना॒शूर॑साताभजेमहि|| {2/6}{2.2.27.2}{1.157.2}{1.22.1.2}{276, 157, 1646}

अ॒र्वाङ्‌त्रि॑च॒क्रोम॑धु॒वाह॑नो॒रथो᳚¦जी॒राश्वो᳚अ॒श्विनो᳚र्यातु॒सुष्टु॑तः|{औचथ्यो दीर्घतमाः | अश्विनौ | जगती}

त्रि॒व॒न्धु॒रोम॒घवा᳚वि॒श्वसौ᳚भगः॒¦शंन॒आव॑क्षद्द्वि॒पदे॒चतु॑ष्पदे|| {3/6}{2.2.27.3}{1.157.3}{1.22.1.3}{277, 157, 1647}

आन॒ऊर्जं᳚वहतमश्विनायु॒वं¦मधु॑मत्यानः॒कश॑यामिमिक्षतम्|{औचथ्यो दीर्घतमाः | अश्विनौ | जगती}

प्रायु॒स्तारि॑ष्टं॒नीरपां᳚सिमृक्षतं॒¦सेध॑तं॒द्वेषो॒भव॑तंसचा॒भुवा᳚|| {4/6}{2.2.27.4}{1.157.4}{1.22.1.4}{278, 157, 1648}

यु॒वंह॒गर्भं॒जग॑तीषुधत्थो¦यु॒वंविश्वे᳚षु॒भुव॑नेष्व॒न्तः|{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्}

यु॒वम॒ग्निंच॑वृषणाव॒पश्च॒¦वन॒स्पतीँ᳚रश्विना॒वैर॑येथाम्|| {5/6}{2.2.27.5}{1.157.5}{1.22.1.5}{279, 157, 1649}

यु॒वंह॑स्थोभि॒षजा᳚भेष॒जेभि॒¦रथो᳚हस्थोर॒थ्या॒३॑(आ॒)राथ्ये᳚भिः|{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्}

अथो᳚हक्ष॒त्रमधि॑धत्थउग्रा॒¦योवां᳚ह॒विष्मा॒न्‌मन॑साद॒दाश॑|| {6/6}{2.2.27.6}{1.157.6}{1.22.1.6}{280, 157, 1650}

[37] वसूरुद्राइति षडृचस्य सूक्तस्यौचथ्योदीर्घतमाअश्विनौत्रिष्टुबन्त्यानुष्टुप् |
वसू᳚रु॒द्रापु॑रु॒मन्तू᳚वृ॒धन्ता᳚¦दश॒स्यतं᳚नोवृषणाव॒भिष्टौ᳚|{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्}

दस्रा᳚ह॒यद्‌रेक्ण॑औच॒थ्योवां॒¦प्रयत्‌स॒स्राथे॒,अक॑वाभिरू॒ती|| {1/6}{2.3.1.1}{1.158.1}{1.22.2.1}{281, 158, 1651}

कोवां᳚दाशत्‌सुम॒तये᳚चिद॒स्यै¦वसू॒यद्‌धेथे॒नम॑साप॒देगोः|{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्}

जि॒गृ॒तम॒स्मेरे॒वतीः॒पुरं᳚धीः¦काम॒प्रेणे᳚व॒मन॑सा॒चर᳚न्ता|| {2/6}{2.3.1.2}{1.158.2}{1.22.2.2}{282, 158, 1652}

यु॒क्तोह॒यद्‌वां᳚तौ॒ग्र्याय॑पे॒रु¦र्विमध्ये॒,अर्ण॑सो॒धायि॑प॒ज्रः|{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्}

उप॑वा॒मवः॑शर॒णंग॑मेयं॒¦शूरो॒नाज्म॑प॒तय॑द्भि॒रेवैः᳚|| {3/6}{2.3.1.3}{1.158.3}{1.22.2.3}{283, 158, 1653}

उप॑स्तुतिरौच॒थ्यमु॑रुष्ये॒¦न्मामामि॒मेप॑त॒त्रिणी॒विदु॑ग्धाम्|{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्}

मामामेधो॒दश॑तयश्चि॒तोधा॒क्¦प्रयद्‌वां᳚ब॒द्धस्त्मनि॒खाद॑ति॒क्षाम्|| {4/6}{2.3.1.4}{1.158.4}{1.22.2.4}{284, 158, 1654}

नमा᳚गरन्‌न॒द्यो᳚मा॒तृत॑मा¦दा॒सायदीं॒सुस॑मुब्धम॒वाधुः॑|{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्}

शिरो॒यद॑स्यत्रैत॒नोवि॒तक्ष॑त्¦स्व॒यंदा॒सउरो॒,अंसा॒वपि॑ग्ध|| {5/6}{2.3.1.5}{1.158.5}{1.22.2.5}{285, 158, 1655}

दी॒र्घत॑मामामते॒यो¦जु॑जु॒र्वान्‌द॑श॒मेयु॒गे|{औचथ्यो दीर्घतमाः | अश्विनौ | अनुष्टुप्}

अ॒पामर्थं᳚य॒तीनां᳚¦ब्र॒ह्माभ॑वति॒सार॑थिः|| {6/6}{2.3.1.6}{1.158.6}{1.22.2.6}{286, 158, 1656}

[38] प्रद्यावायज्ञैरिति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाद्यावापृथिव्यौजगती |
प्रद्यावा᳚य॒ज्ञैःपृ॑थि॒वी,ऋ॑ता॒वृधा᳚¦म॒हीस्तु॑षेवि॒दथे᳚षु॒प्रचे᳚तसा|{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

दे॒वेभि॒र्येदे॒वपु॑त्रेसु॒दंस॑से॒¦त्थाधि॒यावार्या᳚णिप्र॒भूष॑तः|| {1/5}{2.3.2.1}{1.159.1}{1.22.3.1}{287, 159, 1657}

उ॒तम᳚न्येपि॒तुर॒द्रुहो॒मनो᳚¦मा॒तुर्महि॒स्वत॑व॒स्तद्धवी᳚मभिः|{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

सु॒रेत॑सापि॒तरा॒भूम॑चक्रतु¦रु॒रुप्र॒जाया᳚अ॒मृतं॒वरी᳚मभिः|| {2/5}{2.3.2.2}{1.159.2}{1.22.3.2}{288, 159, 1658}

तेसू॒नवः॒स्वप॑सःसु॒दंस॑सो¦म॒हीज॑ज्ञुर्मा॒तरा᳚पू॒र्वचि॑त्तये|{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

स्था॒तुश्च॑स॒त्यंजग॑तश्च॒धर्म॑णि¦पु॒त्रस्य॑पाथःप॒दमद्व॑याविनः|| {3/5}{2.3.2.3}{1.159.3}{1.22.3.3}{289, 159, 1659}

तेमा॒यिनो᳚ममिरेसु॒प्रचे᳚तसो¦जा॒मीसयो᳚नीमिथु॒नासमो᳚कसा|{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

नव्यं᳚नव्यं॒तन्तु॒मात᳚न्वतेदि॒वि¦स॑मु॒द्रे,अ॒न्तःक॒वयः॑सुदी॒तयः॑|| {4/5}{2.3.2.4}{1.159.4}{1.22.3.4}{290, 159, 1660}

तद्‌राधो᳚अ॒द्यस॑वि॒तुर्वरे᳚ण्यं¦व॒यंदे॒वस्य॑प्रस॒वेम॑नामहे|{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

अ॒स्मभ्यं᳚द्यावापृथिवीसुचे॒तुना᳚¦र॒यिंध॑त्तं॒वसु॑मन्तंशत॒ग्विन᳚म्|| {5/5}{2.3.2.5}{1.159.5}{1.22.3.5}{291, 159, 1661}

[39] तेहीति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाद्यावापृथिव्यौजगती |
तेहिद्यावा᳚पृथि॒वीवि॒श्वश᳚म्भुव¦ऋ॒ताव॑री॒रज॑सोधार॒यत्क॑वी|{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

सु॒जन्म॑नीधि॒षणे᳚अ॒न्तरी᳚यते¦दे॒वोदे॒वीधर्म॑णा॒सूर्यः॒शुचिः॑|| {1/5}{2.3.3.1}{1.160.1}{1.22.4.1}{292, 160, 1662}

उ॒रु॒व्यच॑साम॒हिनी᳚अस॒श्चता᳚¦पि॒तामा॒ताच॒भुव॑नानिरक्षतः|{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

सु॒धृष्ट॑मेवपु॒ष्ये॒३॑(ए॒)नरोद॑सी¦पि॒तायत्‌सी᳚म॒भिरू॒पैरवा᳚सयत्|| {2/5}{2.3.3.2}{1.160.2}{1.22.4.2}{293, 160, 1663}

सवह्निः॑पु॒त्रःपि॒त्रोःप॒वित्र॑वान्¦पु॒नाति॒धीरो॒भुव॑नानिमा॒यया᳚|{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

धे॒नुंच॒पृश्निं᳚वृष॒भंसु॒रेत॑सं¦वि॒श्वाहा᳚शु॒क्रंपयो᳚अस्यदुक्षत|| {3/5}{2.3.3.3}{1.160.3}{1.22.4.3}{294, 160, 1664}

अ॒यंदे॒वाना᳚म॒पसा᳚म॒पस्त॑मो॒¦योज॒जान॒रोद॑सीवि॒श्वश᳚म्भुवा|{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

वियोम॒मेरज॑सीसुक्रतू॒यया॒¦जरे᳚भिः॒स्कम्भ॑नेभिः॒समा᳚नृचे|| {4/5}{2.3.3.4}{1.160.4}{1.22.4.4}{295, 160, 1665}

तेनो᳚गृणा॒नेम॑हिनी॒महि॒श्रवः॑,¦क्ष॒त्रंद्या᳚वापृथिवीधासथोबृ॒हत्|{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

येना॒भिकृ॒ष्टीस्त॒तना᳚मवि॒श्वहा᳚¦प॒नाय्य॒मोजो᳚अ॒स्मेसमि᳚न्वतम्|| {5/5}{2.3.3.5}{1.160.5}{1.22.4.5}{296, 160, 1666}

[40] किमुश्रेष्ठइति चतुर्दशर्चस्य सूक्तस्यौचथ्योदीर्घतमाऋभवोजगत्यंत्या त्रिष्टुप् |
किमु॒श्रेष्ठः॒किंयवि॑ष्ठोन॒आज॑ग॒न्¦किमी᳚यतेदू॒त्य१॑(अं॒)कद्यदू᳚चि॒म|{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

ननि᳚न्दिमचम॒संयोम॑हाकु॒लो¦ऽग्ने᳚भ्रात॒र्द्रुण॒इद्‌भू॒तिमू᳚दिम|| {1/14}{2.3.4.1}{1.161.1}{1.22.5.1}{297, 161, 1667}

एकं᳚चम॒संच॒तुरः॑कृणोतन॒¦तद्‌वो᳚दे॒वा,अ॑ब्रुव॒न्‌तद्‌व॒आग॑मम्|{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

सौध᳚न्वना॒यद्ये॒वाक॑रि॒ष्यथ॑¦सा॒कंदे॒वैर्य॒ज्ञिया᳚सोभविष्यथ|| {2/14}{2.3.4.2}{1.161.2}{1.22.5.2}{298, 161, 1668}

अ॒ग्निंदू॒तंप्रति॒यदब्र॑वीत॒ना¦श्वः॒कर्त्वो॒रथ॑उ॒तेहकर्त्वः॑|{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

धे॒नुःकर्त्वा᳚युव॒शाकर्त्वा॒द्वा¦तानि॑भ्रात॒रनु॑वःकृ॒त्व्येम॑सि|| {3/14}{2.3.4.3}{1.161.3}{1.22.5.3}{299, 161, 1669}

च॒कृ॒वांस॑ऋभव॒स्तद॑पृच्छत॒¦क्वेद॑भू॒द्यःस्यदू॒तोन॒आज॑गन्|{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

य॒दावाख्य॑च्चम॒साञ्च॒तुरः॑कृ॒ता¦नादित्त्वष्टा॒ग्नास्व॒न्तर्न्या᳚नजे|| {4/14}{2.3.4.4}{1.161.4}{1.22.5.4}{300, 161, 1670}

हना᳚मैनाँ॒,इति॒त्वष्टा॒यदब्र॑वी¦च्चम॒संयेदे᳚व॒पान॒मनि᳚न्दिषुः|{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

अ॒न्यानामा᳚निकृण्वतेसु॒तेसचाँ᳚,¦अ॒न्यैरे᳚नान्‌क॒न्या॒३॑(आ॒)नाम॑भिःस्परत्|| {5/14}{2.3.4.5}{1.161.5}{1.22.5.5}{301, 161, 1671}

इन्द्रो॒हरी᳚युयु॒जे,अ॒श्विना॒रथं॒¦बृह॒स्पति᳚र्वि॒श्वरू᳚पा॒मुपा᳚जत|{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

ऋ॒भुर्विभ्वा॒वाजो᳚दे॒वाँ,अ॑गच्छत॒¦स्वप॑सोय॒ज्ञियं᳚भा॒गमै᳚तन|| {6/14}{2.3.5.1}{1.161.6}{1.22.5.6}{302, 161, 1672}

निश्चर्म॑णो॒गाम॑रिणीतधी॒तिभि॒¦र्याजर᳚न्तायुव॒शाताकृ॑णोतन|{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

सौध᳚न्वना॒,अश्वा॒दश्व॑मतक्षत¦यु॒क्त्वारथ॒मुप॑दे॒वाँ,अ॑यातन|| {7/14}{2.3.5.2}{1.161.7}{1.22.5.7}{303, 161, 1673}

इ॒दमु॑द॒कंपि॑ब॒तेत्य॑ब्रवीतने॒¦दंवा᳚घापिबतामुञ्ज॒नेज॑नम्|{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

सौध᳚न्वना॒यदि॒तन्नेव॒हर्य॑थ¦तृ॒तीये᳚घा॒सव॑नेमादयाध्वै|| {8/14}{2.3.5.3}{1.161.8}{1.22.5.8}{304, 161, 1674}

आपो॒भूयि॑ष्ठा॒,इत्येको᳚अब्रवी¦द॒ग्निर्भूयि॑ष्ठ॒इत्य॒न्यो,अ॑ब्रवीत्|{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

व॒ध॒र्यन्तीं᳚ब॒हुभ्यः॒प्रैको᳚अब्रवी¦दृ॒तावद᳚न्तश्चम॒साँ,अ॑पिंशत|| {9/14}{2.3.5.4}{1.161.9}{1.22.5.9}{305, 161, 1675}

श्रो॒णामेक॑उद॒कंगामवा᳚जति¦मां॒समेकः॑पिंशतिसू॒नयाभृ॑तम्|{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

आनि॒म्रुचः॒शकृ॒देको॒,अपा᳚भर॒त्¦किंस्वि॑त्‌पु॒त्रेभ्यः॑पि॒तरा॒,उपा᳚वतुः|| {10/14}{2.3.5.5}{1.161.10}{1.22.5.10}{306, 161, 1676}

उ॒द्वत्स्व॑स्मा,अकृणोतना॒तृणं᳚¦नि॒वत्स्व॒पःस्व॑प॒स्यया᳚नरः|{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

अगो᳚ह्यस्य॒यदस॑स्तनागृ॒हे¦तद॒द्येदमृ॑भवो॒नानु॑गच्छथ|| {11/14}{2.3.6.1}{1.161.11}{1.22.5.11}{307, 161, 1677}

स॒म्मील्य॒यद्‌भुव॑नाप॒र्यस॑र्पत॒¦क्व॑स्वित्ता॒त्यापि॒तरा᳚वआसतुः|{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

अश॑पत॒यःक॒रस्नं᳚वआद॒दे¦यःप्राब्र॑वी॒त्‌प्रोतस्मा᳚अब्रवीतन|| {12/14}{2.3.6.2}{1.161.12}{1.22.5.12}{308, 161, 1678}

सु॒षु॒प्वांस॑ऋभव॒स्तद॑पृच्छ॒ता¦गो᳚ह्य॒कइ॒दंनो᳚अबूबुधत्|{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

श्वानं᳚ब॒स्तोबो᳚धयि॒तार॑मब्रवीत्¦संवत्स॒रइ॒दम॒द्याव्य॑ख्यत|| {13/14}{2.3.6.3}{1.161.13}{1.22.5.13}{309, 161, 1679}

दि॒वाया᳚न्तिम॒रुतो॒भूम्या॒ग्नि¦र॒यंवातो᳚अ॒न्तरि॑क्षेणयाति|{औचथ्यो दीर्घतमाः | ऋभवः | त्रिष्टुप्}

अ॒द्भिर्या᳚ति॒वरु॑णःसमु॒द्रै¦र्यु॒ष्माँ,इ॒च्छन्तः॑शवसोनपातः|| {14/14}{2.3.6.4}{1.161.14}{1.22.5.14}{310, 161, 1680}

[41] मानोमित्रइति द्वाविंशत्यृचस्य सूक्तस्य औचथ्योदीर्घतमाअश्वस्त्रिष्टुप् तृतीयाषष्ट्यौजगत्यौ | (अश्वस्तुत्याश्वोदेवता) |
मानो᳚मि॒त्रोवरु॑णो,अर्य॒मायु¦रिन्द्र॑ऋभु॒क्षाम॒रुतः॒परि॑ख्यन्|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

यद्‌वा॒जिनो᳚दे॒वजा᳚तस्य॒सप्तेः᳚¦प्रव॒क्ष्यामो᳚वि॒दथे᳚वी॒र्या᳚णि|| {1/22}{2.3.7.1}{1.162.1}{1.22.6.1}{311, 162, 1681}

यन्नि॒र्णिजा॒रेक्ण॑सा॒प्रावृ॑तस्य¦रा॒तिंगृ॑भी॒तांमु॑ख॒तोनय᳚न्ति|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

सुप्रा᳚ङ॒जोमेम्य॑द्‌वि॒श्वरू᳚प¦इन्द्रापू॒ष्णोःप्रि॒यमप्ये᳚ति॒पाथः॑|| {2/22}{2.3.7.2}{1.162.2}{1.22.6.2}{312, 162, 1682}

ए॒षच्छागः॑पु॒रो,अश्वे᳚नवा॒जिना᳚¦पू॒ष्णोभा॒गोनी᳚यतेवि॒श्वदे᳚व्यः|{औचथ्यो दीर्घतमाः | अश्वः | जगती}

अ॒भि॒प्रियं॒यत्‌पु॑रो॒ळाश॒मर्व॑ता॒¦त्वष्टेदे᳚नंसौश्रव॒साय॑जिन्वति|| {3/22}{2.3.7.3}{1.162.3}{1.22.6.3}{313, 162, 1683}

यद्ध॑वि॒ष्य॑मृतु॒शोदे᳚व॒यानं॒¦त्रिर्मानु॑षाः॒पर्यश्वं॒नय᳚न्ति|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

अत्रा᳚पू॒ष्णःप्र॑थ॒मोभा॒गए᳚ति¦य॒ज्ञंदे॒वेभ्यः॑प्रतिवे॒दय᳚न्न॒जः|| {4/22}{2.3.7.4}{1.162.4}{1.22.6.4}{314, 162, 1684}

होता᳚ध्व॒र्युराव॑या,अग्निमि॒न्धो¦ग्रा᳚वग्रा॒भउ॒तशंस्ता॒सुवि॑प्रः|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

तेन॑य॒ज्ञेन॒स्व॑रंकृतेन॒¦स्वि॑ष्टेनव॒क्षणा॒,आपृ॑णध्वम्|| {5/22}{2.3.7.5}{1.162.5}{1.22.6.5}{315, 162, 1685}

यू॒प॒व्र॒स्का,उ॒तयेयू᳚पवा॒हा¦श्च॒षालं॒ये,अ॑श्वयू॒पाय॒तक्ष॑ति|{औचथ्यो दीर्घतमाः | अश्वः | जगती}

येचार्व॑ते॒पच॑नंस॒म्भर᳚¦न्त्यु॒तोतेषा᳚म॒भिगू᳚र्तिर्नइन्वतु|| {6/22}{2.3.8.1}{1.162.6}{1.22.6.6}{316, 162, 1686}

उप॒प्रागा᳚त्‌सु॒मन्मे᳚ऽधायि॒मन्म॑¦दे॒वाना॒माशा॒,उप॑वी॒तपृ॑ष्ठः|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

अन्वे᳚नं॒विप्रा॒,ऋष॑योमदन्ति¦दे॒वानां᳚पु॒ष्टेच॑कृमासु॒बन्धु᳚म्|| {7/22}{2.3.8.2}{1.162.7}{1.22.6.7}{317, 162, 1687}

यद्‌वा॒जिनो॒दाम॑सं॒दान॒मर्व॑तो॒¦याशी᳚र्ष॒ण्या᳚रश॒नारज्जु॑रस्य|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

यद्‌वा᳚घास्य॒प्रभृ॑तमा॒स्ये॒३॑(ए॒)तृणं॒¦सर्वा॒ताते॒,अपि॑दे॒वेष्व॑स्तु|| {8/22}{2.3.8.3}{1.162.8}{1.22.6.8}{318, 162, 1688}

यदश्व॑स्यक्र॒विषो॒मक्षि॒काश॒¦यद्‌वा॒स्वरौ॒स्वधि॑तौरि॒प्तमस्ति॑|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

यद्धस्त॑योःशमि॒तुर्यन्न॒खेषु॒¦सर्वा॒ताते॒,अपि॑दे॒वेष्व॑स्तु|| {9/22}{2.3.8.4}{1.162.9}{1.22.6.9}{319, 162, 1689}

यदूव॑ध्यमु॒दर॑स्याप॒वाति॒¦यआ॒मस्य॑क्र॒विषो᳚ग॒न्धो,अस्ति॑|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

सु॒कृ॒तातच्छ॑मि॒तारः॑कृण्वन्तू॒¦तमेधं᳚शृत॒पाकं᳚पचन्तु|| {10/22}{2.3.8.5}{1.162.10}{1.22.6.10}{320, 162, 1690}

यत्ते॒गात्रा᳚द॒ग्निना᳚प॒च्यमा᳚ना¦द॒भिशूलं॒निह॑तस्याव॒धाव॑ति|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

मातद्‌भूम्या॒माश्रि॑ष॒न्मातृणे᳚षु¦दे॒वेभ्य॒स्तदु॒शद्भ्यो᳚रा॒तम॑स्तु|| {11/22}{2.3.9.1}{1.162.11}{1.22.6.11}{321, 162, 1691}

येवा॒जिनं᳚परि॒पश्य᳚न्तिप॒क्वं¦यई᳚मा॒हुःसु॑र॒भिर्निर्ह॒रेति॑|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

येचार्व॑तोमांसभि॒क्षामु॒पास॑त¦उ॒तोतेषा᳚म॒भिगू᳚र्तिर्नइन्वतु|| {12/22}{2.3.9.2}{1.162.12}{1.22.6.12}{322, 162, 1692}

यन्नीक्ष॑णंमां॒स्पच᳚न्या,उ॒खाया॒¦यापात्रा᳚णियू॒ष्णआ॒सेच॑नानि|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

ऊ॒ष्म॒ण्या᳚पि॒धाना᳚चरू॒णा¦म॒ङ्काःसू॒नाःपरि॑भूष॒न्त्यश्व᳚म्|| {13/22}{2.3.9.3}{1.162.13}{1.22.6.13}{323, 162, 1693}

नि॒क्रम॑णंनि॒षद॑नंवि॒वर्त॑नं॒¦यच्च॒पड्बी᳚श॒मर्व॑तः|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

यच्च॑प॒पौयच्च॑घा॒सिंज॒घास॒¦सर्वा॒ताते॒,अपि॑दे॒वेष्व॑स्तु|| {14/22}{2.3.9.4}{1.162.14}{1.22.6.14}{324, 162, 1694}

मात्वा॒ग्निर्ध्व॑नयीद्‌धू॒मग᳚न्धि॒¦र्मोखाभ्राज᳚न्त्य॒भिवि॑क्त॒जघ्रिः॑|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

इ॒ष्टंवी॒तम॒भिगू᳚र्तं॒वष॑ट्कृतं॒¦तंदे॒वासः॒प्रति॑गृभ्ण॒न्त्यश्व᳚म्|| {15/22}{2.3.9.5}{1.162.15}{1.22.6.15}{325, 162, 1695}

यदश्वा᳚य॒वास॑उपस्तृ॒णन्¦त्य॑धीवा॒संयाहिर᳚ण्यान्यस्मै|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

सं॒दान॒मर्व᳚न्तं॒पड्बी᳚शं¦प्रि॒यादे॒वेष्वाया᳚मयन्ति|| {16/22}{2.3.10.1}{1.162.16}{1.22.6.16}{326, 162, 1696}

यत्ते᳚सा॒देमह॑सा॒शूकृ॑तस्य॒¦पार्ष्ण्या᳚वा॒कश॑यावातु॒तोद॑|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

स्रु॒चेव॒ताह॒विषो᳚अध्व॒रेषु॒¦सर्वा॒ताते॒ब्रह्म॑णासूदयामि|| {17/22}{2.3.10.2}{1.162.17}{1.22.6.17}{327, 162, 1697}

चतु॑स्त्रिंशद्‌वा॒जिनो᳚दे॒वब᳚न्धोर्॒¦वङ्क्री॒रश्व॑स्य॒स्वधि॑तिः॒समे᳚ति|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

अच्छि॑द्रा॒गात्रा᳚व॒युना᳚कृणोत॒¦परु॑ष्परुरनु॒घुष्या॒विश॑स्त|| {18/22}{2.3.10.3}{1.162.18}{1.22.6.18}{328, 162, 1698}

एक॒स्त्वष्टु॒रश्व॑स्याविश॒स्ता¦द्वाय॒न्तारा᳚भवत॒स्तथ॑ऋ॒तुः|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

याते॒गात्रा᳚णामृतु॒थाकृ॒णोमि॒¦ताता॒पिण्डा᳚नां॒प्रजु॑होम्य॒ग्नौ|| {19/22}{2.3.10.4}{1.162.19}{1.22.6.19}{329, 162, 1699}

मात्वा᳚तपत्‌प्रि॒यआ॒त्मापि॒यन्तं॒¦मास्वधि॑तिस्त॒न्व१॑(अ॒)आति॑ष्ठिपत्ते|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

माते᳚गृ॒ध्नुर॑विश॒स्ताति॒हाय॑¦छि॒द्रागात्रा᳚ण्य॒सिना॒मिथू᳚कः|| {20/22}{2.3.10.5}{1.162.20}{1.22.6.20}{330, 162, 1700}

नवा,उ॑ए॒तन्‌म्रि॑यसे॒नरि॑ष्यसि¦दे॒वाँ,इदे᳚षिप॒थिभिः॑सु॒गेभिः॑|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

हरी᳚ते॒युञ्जा॒पृष॑ती,अभूता॒¦मुपा᳚स्थाद्‌वा॒जीधु॒रिरास॑भस्य|| {21/22}{2.3.10.6}{1.162.21}{1.22.6.21}{331, 162, 1701}

सु॒गव्यं᳚नोवा॒जीस्वश्व्यं᳚पुं॒सः¦पु॒त्राँ,उ॒तवि॑श्वा॒पुषं᳚र॒यिम्|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

अ॒ना॒गा॒स्त्वंनो॒,अदि॑तिःकृणोतु¦क्ष॒त्रंनो॒,अश्वो᳚वनतांह॒विष्मा॑न्|| {22/22}{2.3.10.7}{1.162.22}{1.22.6.22}{332, 162, 1702}

[42] यदक्रंदइति त्रयोदशर्चस्य सूक्तस्यौचथ्योदीर्घतमाअश्वस्त्रिष्टुप् |
यदक्र᳚न्दःप्रथ॒मंजाय॑मान¦उ॒द्यन्‌त्स॑मु॒द्रादु॒तवा॒पुरी᳚षात्|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

श्ये॒नस्य॑प॒क्षाह॑रि॒णस्य॑बा॒हू,¦उ॑प॒स्तुत्यं॒महि॑जा॒तंते᳚अर्वन्|| {1/13}{2.3.11.1}{1.163.1}{1.22.7.1}{333, 163, 1703}

य॒मेन॑द॒त्तंत्रि॒तए᳚नमायुन॒¦गिन्द्र॑एणंप्रथ॒मो,अध्य॑तिष्ठत्|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

ग॒न्ध॒र्वो,अ॑स्यरश॒नाम॑गृभ्णा॒त्¦सूरा॒दश्वं᳚वसवो॒निर॑तष्ट|| {2/13}{2.3.11.2}{1.163.2}{1.22.7.2}{334, 163, 1704}

असि॑य॒मो,अस्या᳚दि॒त्यो,अ᳚र्व॒¦न्नसि॑त्रि॒तोगुह्ये᳚नव्र॒तेन॑|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

असि॒सोमे᳚नस॒मया॒विपृ॑क्त¦आ॒हुस्ते॒त्रीणि॑दि॒विबन्ध॑नानि|| {3/13}{2.3.11.3}{1.163.3}{1.22.7.3}{335, 163, 1705}

त्रीणि॑तआहुर्दि॒विबन्ध॑नानि॒¦त्रीण्य॒प्सुत्रीण्य॒न्तःस॑मु॒द्रे|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

उ॒तेव॑मे॒वरु॑णश्छन्‌त्स्यर्व॒न्¦यत्रा᳚तआ॒हुःप॑र॒मंज॒नित्र᳚म्|| {4/13}{2.3.11.4}{1.163.4}{1.22.7.4}{336, 163, 1706}

इ॒माते᳚वाजिन्नव॒मार्ज॑नानी॒¦माश॒फानां᳚सनि॒तुर्नि॒धाना᳚|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

अत्रा᳚तेभ॒द्रार॑श॒ना,अ॑पश्य¦मृ॒तस्य॒या,अ॑भि॒रक्ष᳚न्तिगो॒पाः|| {5/13}{2.3.11.5}{1.163.5}{1.22.7.5}{337, 163, 1707}

आ॒त्मानं᳚ते॒मन॑सा॒राद॑जाना¦म॒वोदि॒वाप॒तय᳚न्तंपतं॒गम्|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

शिरो᳚अपश्यंप॒थिभिः॑सु॒गेभि॑¦ररे॒णुभि॒र्जेह॑मानंपत॒त्रि|| {6/13}{2.3.12.1}{1.163.6}{1.22.7.6}{338, 163, 1708}

अत्रा᳚तेरू॒पमु॑त्त॒मम॑पश्यं॒¦जिगी᳚षमाणमि॒षआप॒देगोः|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

य॒दाते॒मर्तो॒,अनु॒भोग॒मान॒¦ळादिद्‌ग्रसि॑ष्ठ॒ओष॑धीरजीगः|| {7/13}{2.3.12.2}{1.163.7}{1.22.7.7}{339, 163, 1709}

अनु॑त्वा॒रथो॒,अनु॒मर्यो᳚अर्व॒¦न्ननु॒गावोऽनु॒भगः॑क॒नीना᳚म्|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

अनु॒व्राता᳚स॒स्तव॑स॒ख्यमी᳚यु॒¦रनु॑दे॒वाम॑मिरेवी॒र्यं᳚ते|| {8/13}{2.3.12.3}{1.163.8}{1.22.7.8}{340, 163, 1710}

हिर᳚ण्यशृ॒ङ्गोऽयो᳚अस्य॒पादा॒¦मनो᳚जवा॒,अव॑र॒इन्द्र॑आसीत्|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

दे॒वा,इद॑स्यहवि॒रद्य॑माय॒न्¦यो,अर्व᳚न्तंप्रथ॒मो,अ॒ध्यति॑ष्ठत्|| {9/13}{2.3.12.4}{1.163.9}{1.22.7.9}{341, 163, 1711}

ई॒र्मान्ता᳚सः॒सिलि॑कमध्यमासः॒¦संशूर॑णासोदि॒व्यासो॒,अत्याः᳚|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

हं॒सा,इ॑वश्रेणि॒शोय॑तन्ते॒¦यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वाः᳚|| {10/13}{2.3.12.5}{1.163.10}{1.22.7.10}{342, 163, 1712}

तव॒शरी᳚रंपतयि॒ष्ण्व᳚र्व॒न्¦तव॑चि॒त्तंवात॑इव॒ध्रजी᳚मान्|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

तव॒शृङ्गा᳚णि॒विष्ठि॑तापुरु॒त्रा¦र᳚ण्येषु॒जर्भु॑राणाचरन्ति|| {11/13}{2.3.13.1}{1.163.11}{1.22.7.11}{343, 163, 1713}

उप॒प्रागा॒च्छस॑नंवा॒ज्यर्वा᳚¦देव॒द्रीचा॒मन॑सा॒दीध्या᳚नः|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

अ॒जःपु॒रोनी᳚यते॒नाभि॑र॒स्या¦नु॑प॒श्चात्‌क॒वयो᳚यन्तिरे॒भाः|| {12/13}{2.3.13.2}{1.163.12}{1.22.7.12}{344, 163, 1714}

उप॒प्रागा᳚त्‌पर॒मंयत्‌स॒धस्थ॒¦मर्वाँ॒,अच्छा᳚पि॒तरं᳚मा॒तरं᳚च|{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

अ॒द्यादे॒वाञ्जुष्ट॑तमो॒हिग॒म्या,¦अथाशा᳚स्तेदा॒शुषे॒वार्या᳚णि|| {13/13}{2.3.13.3}{1.163.13}{1.22.7.13}{345, 163, 1715}

[43] अस्यवामस्येति द्विपंचाशदृचस्य सूक्तस्य औचथ्योदीर्घतमा आद्यानामेकचत्वारिंशटृचां विश्वेदेवास्तस्याः समुद्राइत्यस्यावाक्समुद्राक्षरापः शकमयमित्यस्याःशकधूमसोमौत्रयः केशिनइत्यस्याअग्निसूर्यवायवो (केशिनइतिगुणः) चत्वारिवागित्यस्यावाक्‌इंद्रंमित्रमितिद्वयोः सूर्योद्वादशप्रधयइत्यस्याः कालचक्रं (अत्रसंवत्सरसंस्थंकालचक्रवर्णनं) यस्तइत्यस्याः सरस्वतीयज्ञेनेत्यस्याः साध्याःसमानमित्यस्याः सूर्यः (पर्जन्याग्नीवा) दिव्यंसुपर्णमित्यस्याः सरस्वान् (सूर्योवा) त्रिष्टुप् द्वादशी पंचदशी त्रयोविंशी एकोनत्रिंशी षट्‌त्रिंश्येकचत्वारिं- शीचजगत्यः द्विचत्वारिंशी प्रस्तारपंक्तिः एकपंचाश्यनुष्टुप् |
अ॒स्यवा॒मस्य॑पलि॒तस्य॒होतु॒¦स्तस्य॒भ्राता᳚मध्य॒मो,अ॒स्त्यश्नः॑|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

तृ॒तीयो॒भ्राता᳚घृ॒तपृ॑ष्ठो,अ॒स्या¦त्रा᳚पश्यंवि॒श्पतिं᳚स॒प्तपु॑त्रम्|| {1/52}{2.3.14.1}{1.164.1}{1.22.8.1}{346, 164, 1716}

स॒प्तयु᳚ञ्जन्ति॒रथ॒मेक॑चक्र॒¦मेको॒,अश्वो᳚वहतिस॒प्तना᳚मा|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

त्रि॒नाभि॑च॒क्रम॒जर॑मन॒र्वं¦यत्रे॒माविश्वा॒भुव॒नाधि॑त॒स्थुः|| {2/52}{2.3.14.2}{1.164.2}{1.22.8.2}{347, 164, 1717}

इ॒मंरथ॒मधि॒येस॒प्तत॒स्थुः¦स॒प्तच॑क्रंस॒प्तव॑ह॒न्त्यश्वाः᳚|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

स॒प्तस्वसा᳚रो,अ॒भिसंन॑वन्ते॒¦यत्र॒गवां॒निहि॑तास॒प्तनाम॑|| {3/52}{2.3.14.3}{1.164.3}{1.22.8.3}{348, 164, 1718}

कोद॑दर्शप्रथ॒मंजाय॑मान¦मस्थ॒न्वन्तं॒यद॑न॒स्थाबिभ॑र्ति|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

भूम्या॒,असु॒रसृ॑गा॒त्माक्व॑स्वि॒त्¦कोवि॒द्वांस॒मुप॑गा॒त्‌प्रष्टु॑मे॒तत्|| {4/52}{2.3.14.4}{1.164.4}{1.22.8.4}{349, 164, 1719}

पाकः॑पृच्छामि॒मन॒सावि॑जानन्¦दे॒वाना᳚मे॒नानिहि॑ताप॒दानि॑|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

व॒त्सेब॒ष्कयेऽधि॑स॒प्ततन्तू॒न्¦वित॑त्निरेक॒वय॒ओत॒वा,उ॑|| {5/52}{2.3.14.5}{1.164.5}{1.22.8.5}{350, 164, 1720}

अचि॑कित्वाञ्चिकि॒तुष॑श्चि॒दत्र॑¦क॒वीन्‌पृ॑च्छामिवि॒द्मने॒नवि॒द्वान्|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

वियस्त॒स्तम्भ॒षळि॒मारजां᳚¦स्य॒जस्य॑रू॒पेकिमपि॑स्वि॒देक᳚म्|| {6/52}{2.3.15.1}{1.164.6}{1.22.8.6}{351, 164, 1721}

इ॒हब्र॑वीतु॒यई᳚म॒ङ्गवेदा॒¦स्यवा॒मस्य॒निहि॑तंप॒दंवेः|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

शी॒र्ष्णः,क्षी॒रंदु॑ह्रते॒गावो᳚अस्य¦व॒व्रिंवसा᳚ना,उद॒कंप॒दापुः॑|| {7/52}{2.3.15.2}{1.164.7}{1.22.8.7}{352, 164, 1722}

मा॒तापि॒तर॑मृ॒तआब॑भाज¦धी॒त्यग्रे॒मन॑सा॒संहिज॒ग्मे|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

साबी᳚भ॒त्सुर्गर्भ॑रसा॒निवि॑द्धा॒¦नम॑स्वन्त॒इदु॑पवा॒कमी᳚युः|| {8/52}{2.3.15.3}{1.164.8}{1.22.8.8}{353, 164, 1723}

यु॒क्तामा॒तासी᳚द्‌धु॒रिदक्षि॑णाया॒,¦अति॑ष्ठ॒द्‌गर्भो᳚वृज॒नीष्व॒न्तः|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

अमी᳚मेद्‌व॒त्सो,अनु॒गाम॑पश्यद्¦विश्वरू॒प्यं᳚त्रि॒षुयोज॑नेषु|| {9/52}{2.3.15.4}{1.164.9}{1.22.8.9}{354, 164, 1724}

ति॒स्रोमा॒तॄस्त्रीन्‌पि॒तॄन्‌बिभ्र॒देक॑¦ऊ॒र्ध्वस्त॑स्थौ॒नेमव॑ग्लापयन्ति|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

म॒न्त्रय᳚न्तेदि॒वो,अ॒मुष्य॑पृ॒ष्ठे¦वि॑श्व॒विदं॒वाच॒मवि॑श्वमिन्वाम्|| {10/52}{2.3.15.5}{1.164.10}{1.22.8.10}{355, 164, 1725}

द्वाद॑शारंन॒हितज्जरा᳚य॒¦वर्व॑र्तिच॒क्रंपरि॒द्यामृ॒तस्य॑|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

आपु॒त्रा,अ॑ग्नेमिथु॒नासो॒,अत्र॑¦स॒प्तश॒तानि॑विंश॒तिश्च॑तस्थुः|| {11/52}{2.3.16.1}{1.164.11}{1.22.8.11}{356, 164, 1726}

पञ्च॑पादंपि॒तरं॒द्वाद॑शाकृतिं¦दि॒वआ᳚हुः॒परे॒,अर्धे᳚पुरी॒षिण᳚म्|{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती}

अथे॒मे,अ॒न्यउप॑रेविचक्ष॒णं¦स॒प्तच॑क्रे॒षळ॑रआहु॒रर्पि॑तम्|| {12/52}{2.3.16.2}{1.164.12}{1.22.8.12}{357, 164, 1727}

पञ्चा᳚रेच॒क्रेप॑रि॒वर्त॑माने॒¦तस्मि॒न्नात॑स्थु॒र्भुव॑नानि॒विश्वा᳚|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

तस्य॒नाक्ष॑स्तप्यते॒भूरि॑भारः¦स॒नादे॒वनशी᳚र्यते॒सना᳚भिः|| {13/52}{2.3.16.3}{1.164.13}{1.22.8.13}{358, 164, 1728}

सने᳚मिच॒क्रम॒जरं॒विवा᳚वृत¦उत्ता॒नायां॒दश॑यु॒क्ताव॑हन्ति|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

सूर्य॑स्य॒चक्षू॒रज॑सै॒त्यावृ॑तं॒¦तस्मि॒न्नार्पि॑ता॒भुव॑नानि॒विश्वा᳚|| {14/52}{2.3.16.4}{1.164.14}{1.22.8.14}{359, 164, 1729}

सा॒कं॒जानां᳚स॒प्तथ॑माहुरेक॒जं¦षळिद्‌य॒मा,ऋष॑योदेव॒जा,इति॑|{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती}

तेषा᳚मि॒ष्टानि॒विहि॑तानिधाम॒शः¦स्था॒त्रेरे᳚जन्ते॒विकृ॑तानिरूप॒शः|| {15/52}{2.3.16.5}{1.164.15}{1.22.8.15}{360, 164, 1730}

स्त्रियः॑स॒तीस्ताँ,उ॑मेपुं॒सआ᳚हुः॒¦पश्य॑दक्ष॒ण्वान्‌नविचे᳚तद॒न्धः|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

क॒विर्यःपु॒त्रःसई॒माचि॑केत॒¦यस्तावि॑जा॒नात्‌सपि॒तुष्पि॒तास॑त्|| {16/52}{2.3.17.1}{1.164.16}{1.22.8.16}{361, 164, 1731}

अ॒वःपरे᳚णप॒रए॒नाव॑रेण¦प॒दाव॒त्संबिभ्र॑ती॒गौरुद॑स्थात्|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

साक॒द्रीची॒कंस्वि॒दर्धं॒परा᳚गा॒त्¦क्व॑स्वित्‌सूतेन॒हियू॒थे,अ॒न्तः|| {17/52}{2.3.17.2}{1.164.17}{1.22.8.17}{362, 164, 1732}

अ॒वःपरे᳚णपि॒तरं॒यो,अ॑स्या¦नु॒वेद॑प॒रए॒नाव॑रेण|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

क॒वी॒यमा᳚नः॒कइ॒हप्रवो᳚चद्¦दे॒वंमनः॒कुतो॒,अधि॒प्रजा᳚तम्|| {18/52}{2.3.17.3}{1.164.18}{1.22.8.18}{363, 164, 1733}

ये,अ॒र्वाञ्च॒स्ताँ,उ॒परा᳚चआहु॒¦र्येपरा᳚ञ्च॒स्ताँ,उ॑अ॒र्वाच॑आहुः|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

इन्द्र॑श्च॒याच॒क्रथुः॑सोम॒तानि॑¦धु॒रानयु॒क्तारज॑सोवहन्ति|| {19/52}{2.3.17.4}{1.164.19}{1.22.8.19}{364, 164, 1734}

द्वासु॑प॒र्णास॒युजा॒सखा᳚या¦समा॒नंवृ॒क्षंपरि॑षस्वजाते|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

तयो᳚र॒न्यःपिप्प॑लंस्वा॒द्वत्¦त्यन॑श्नन्न॒न्यो,अ॒भिचा᳚कशीति|| {20/52}{2.3.17.5}{1.164.20}{1.22.8.20}{365, 164, 1735}

यत्रा᳚सुप॒र्णा,अ॒मृत॑स्यभा॒ग¦मनि॑मेषंवि॒दथा᳚भि॒स्वर᳚न्ति|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

इ॒नोविश्व॑स्य॒भुव॑नस्यगो॒पाः¦समा॒धीरः॒पाक॒मत्रावि॑वेश|| {21/52}{2.3.18.1}{1.164.21}{1.22.8.21}{366, 164, 1736}

यस्मि᳚न्‌वृ॒क्षेम॒ध्वदः॑सुप॒र्णा¦नि॑वि॒शन्ते॒सुव॑ते॒चाधि॒विश्वे᳚|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

तस्येदा᳚हुः॒पिप्प॑लंस्वा॒द्वग्रे॒¦तन्नोन्न॑श॒द्यःपि॒तरं॒नवेद॑|| {22/52}{2.3.18.2}{1.164.22}{1.22.8.22}{367, 164, 1737}

यद्‌गा᳚य॒त्रे,अधि॑गाय॒त्रमाहि॑तं॒¦त्रैष्टु॑भाद्‌वा॒त्रैष्टु॑भंनि॒रत॑क्षत|{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती}

यद्‌वा॒जग॒ज्जग॒त्याहि॑तंप॒दं¦यइत्तद्‌वि॒दुस्ते,अ॑मृत॒त्वमा᳚नशुः|| {23/52}{2.3.18.3}{1.164.23}{1.22.8.23}{368, 164, 1738}

गा॒य॒त्रेण॒प्रति॑मिमीते,अ॒र्क¦म॒र्केण॒साम॒त्रैष्टु॑भेनवा॒कम्|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

वा॒केन॑वा॒कंद्वि॒पदा॒चतु॑ष्पदा॒¦क्षरे᳚णमिमतेस॒प्तवाणीः᳚|| {24/52}{2.3.18.4}{1.164.24}{1.22.8.24}{369, 164, 1739}

जग॑ता॒सिन्धुं᳚दि॒व्य॑स्तभायद्¦रथंत॒रेसूर्यं॒पर्य॑पश्यत्|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

गा॒य॒त्रस्य॑स॒मिध॑स्ति॒स्रआ᳚हु॒¦स्ततो᳚म॒ह्नाप्ररि॑रिचेमहि॒त्वा|| {25/52}{2.3.18.5}{1.164.25}{1.22.8.25}{370, 164, 1740}

उप॑ह्वयेसु॒दुघां᳚धे॒नुमे॒तां¦सु॒हस्तो᳚गो॒धुगु॒तदो᳚हदेनाम्|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

श्रेष्ठं᳚स॒वंस॑वि॒तासा᳚विषन्नो॒¦ऽभी᳚द्धोघ॒र्मस्तदु॒षुप्रवो᳚चम्|| {26/52}{2.3.19.1}{1.164.26}{1.22.8.26}{371, 164, 1741}

हि॒ङ्कृ॒ण्व॒तीव॑सु॒पत्नी॒वसू᳚नां¦व॒त्समि॒च्छन्ती॒मन॑सा॒भ्यागा᳚त्|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

दु॒हाम॒श्विभ्यां॒पयो᳚अ॒घ्न्येयं¦साव॑र्धतांमह॒तेसौभ॑गाय|| {27/52}{2.3.19.2}{1.164.27}{1.22.8.27}{372, 164, 1742}

गौर॑मीमे॒दनु॑व॒त्संमि॒षन्तं᳚¦मू॒र्धानं॒हिङ्ङ॑कृणो॒न्मात॒वा,उ॑|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

सृक्वा᳚णंघ॒र्मम॒भिवा᳚वशा॒ना¦मिमा᳚तिमा॒युंपय॑ते॒पयो᳚भिः|| {28/52}{2.3.19.3}{1.164.28}{1.22.8.28}{373, 164, 1743}

अ॒यंसशि᳚ङ्क्ते॒येन॒गौर॒भीवृ॑ता॒¦मिमा᳚तिमा॒युंध्व॒सना॒वधि॑श्रि॒ता|{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती}

साचि॒त्तिभि॒र्निहिच॒कार॒मर्त्यं᳚¦वि॒द्युद्‌भव᳚न्ती॒प्रति॑व॒व्रिमौ᳚हत|| {29/52}{2.3.19.4}{1.164.29}{1.22.8.29}{374, 164, 1744}

अ॒नच्छ॑येतु॒रगा᳚तुजी॒व¦मेज॑द्‌ध्रु॒वंमध्य॒आप॒स्त्या᳚नाम्|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

जी॒वोमृ॒तस्य॑चरतिस्व॒धाभि॒¦रम॑र्त्यो॒मर्त्ये᳚ना॒सयो᳚निः|| {30/52}{2.3.19.5}{1.164.30}{1.22.8.30}{375, 164, 1745}

अप॑श्यंगो॒पामनि॑पद्यमान॒¦माच॒परा᳚चप॒थिभि॒श्चर᳚न्तम्|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

सस॒ध्रीचीः॒सविषू᳚ची॒र्वसा᳚न॒¦आव॑रीवर्ति॒भुव॑नेष्व॒न्तः|| {31/52}{2.3.20.1}{1.164.31}{1.22.8.31}{376, 164, 1746}

यईं᳚च॒कार॒नसो,अ॒स्यवे᳚द॒¦यईं᳚द॒दर्श॒हिरु॒गिन्नुतस्मा᳚त्|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

समा॒तुर्योना॒परि॑वीतो,अ॒न्त¦र्ब॑हुप्र॒जानिरृ॑ति॒मावि॑वेश|| {32/52}{2.3.20.2}{1.164.32}{1.22.8.32}{377, 164, 1747}

द्यौर्मे᳚पि॒ताज॑नि॒तानाभि॒रत्र॒¦बन्धु᳚र्मेमा॒तापृ॑थि॒वीम॒हीयम्|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

उ॒त्ता॒नयो᳚श्च॒म्वो॒३॑(ओ॒)र्योनि॑र॒न्त¦रत्रा᳚पि॒तादु॑हि॒तुर्गर्भ॒माधा᳚त्|| {33/52}{2.3.20.3}{1.164.33}{1.22.8.33}{378, 164, 1748}

पृ॒च्छामि॑त्वा॒पर॒मन्तं᳚पृथि॒व्याः¦पृ॒च्छामि॒यत्र॒भुव॑नस्य॒नाभिः॑|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

पृ॒च्छामि॑त्वा॒वृष्णो॒,अश्व॑स्य॒रेतः॑¦पृ॒च्छामि॑वा॒चःप॑र॒मंव्यो᳚म|| {34/52}{2.3.20.4}{1.164.34}{1.22.8.34}{379, 164, 1749}

इ॒यंवेदिः॒परो॒,अन्तः॑पृथि॒व्या,¦अ॒यंय॒ज्ञोभुव॑नस्य॒नाभिः॑|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

अ॒यंसोमो॒वृष्णो॒,अश्व॑स्य॒रेतो᳚¦ब्र॒ह्मायंवा॒चःप॑र॒मंव्यो᳚म|| {35/52}{2.3.20.5}{1.164.35}{1.22.8.35}{380, 164, 1750}

स॒प्तार्ध॑ग॒र्भाभुव॑नस्य॒रेतो॒¦विष्णो᳚स्तिष्ठन्तिप्र॒दिशा॒विध᳚र्मणि|{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती}

तेधी॒तिभि॒र्मन॑सा॒तेवि॑प॒श्चितः॑¦परि॒भुवः॒परि॑भवन्तिवि॒श्वतः॑|| {36/52}{2.3.21.1}{1.164.36}{1.22.8.36}{381, 164, 1751}

नविजा᳚नामि॒यदि॑वे॒दमस्मि॑¦नि॒ण्यःसंन॑द्धो॒मन॑साचरामि|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

य॒दामाग᳚न्‌प्रथम॒जा,ऋ॒तस्या¦दिद्‌वा॒चो,अ॑श्नुवेभा॒गम॒स्याः|| {37/52}{2.3.21.2}{1.164.37}{1.22.8.37}{382, 164, 1752}

अपा॒ङ्‌प्राङे᳚तिस्व॒धया᳚गृभी॒तो¦ऽम॑र्त्यो॒मर्त्ये᳚ना॒सयो᳚निः|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

ताशश्व᳚न्ताविषू॒चीना᳚वि॒यन्ता॒¦न्य१॑(अ॒)न्यंचि॒क्युर्ननिचि॑क्युर॒न्यम्|| {38/52}{2.3.21.3}{1.164.38}{1.22.8.38}{383, 164, 1753}

ऋ॒चो,अ॒क्षरे᳚पर॒मेव्यो᳚म॒न्¦यस्मि᳚न्‌दे॒वा,अधि॒विश्वे᳚निषे॒दुः|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

यस्तन्नवेद॒किमृ॒चाक॑रिष्यति॒¦यइत्तद्वि॒दुस्तइ॒मेसमा᳚सते|| {39/52}{2.3.21.4}{1.164.39}{1.22.8.39}{384, 164, 1754}

सू॒य॒व॒साद्‌भग॑वती॒हिभू॒या,¦अथो᳚व॒यंभग॑वन्तःस्याम|{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

अ॒द्धितृण॑मघ्न्येविश्व॒दानीं॒¦पिब॑शु॒द्धमु॑द॒कमा॒चर᳚न्ती|| {40/52}{2.3.21.5}{1.164.40}{1.22.8.40}{385, 164, 1755}

गौ॒रीर्मि॑मायसलि॒लानि॒तक्ष॒¦त्येक॑पदीद्वि॒पदी॒साचतु॑ष्पदी|{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती}

अ॒ष्टाप॑दी॒नव॑पदीबभू॒वुषी᳚¦स॒हस्रा᳚क्षरापर॒मेव्यो᳚मन्|| {41/52}{2.3.22.1}{1.164.41}{1.22.8.41}{386, 164, 1756}

तस्याः᳚समु॒द्रा,अधि॒विक्ष॑रन्ति॒¦तेन॑जीवन्तिप्र॒दिश॒श्चत॑स्रः|{औचथ्यो दीर्घतमाः | १/२: वाक् २/२: चापः | प्रस्तारपङ्क्तिः}

ततः॑,क्षरत्य॒क्षरं॒¦तद्‌विश्व॒मुप॑जीवति|| {42/52}{2.3.22.2}{1.164.42}{1.22.8.42}{387, 164, 1757}

श॒क॒मयं᳚धू॒ममा॒राद॑पश्यं¦विषू॒वता᳚प॒रए॒नाव॑रेण|{औचथ्यो दीर्घतमाः | १/२:शकधूमः २/२:सोमः | त्रिष्टुप्}

उ॒क्षाणं॒पृश्नि॑मपचन्तवी॒रा¦स्तानि॒धर्मा᳚णिप्रथ॒मान्या᳚सन्|| {43/52}{2.3.22.3}{1.164.43}{1.22.8.43}{388, 164, 1758}

त्रयः॑के॒शिन॑ऋतु॒थाविच॑क्षते¦संवत्स॒रेव॑पत॒एक॑एषाम्|{औचथ्यो दीर्घतमाः | केशिनः (अग्निः सूर्यो वायुश्च) | त्रिष्टुप्}

विश्व॒मेको᳚अ॒भिच॑ष्टे॒शची᳚भि॒¦र्ध्राजि॒रेक॑स्यददृशे॒नरू॒पम्|| {44/52}{2.3.22.4}{1.164.44}{1.22.8.44}{389, 164, 1759}

च॒त्वारि॒वाक्‌परि॑मिताप॒दानि॒¦तानि॑विदुर्ब्राह्म॒णायेम॑नी॒षिणः॑|{औचथ्यो दीर्घतमाः | वाक् | त्रिष्टुप्}

गुहा॒त्रीणि॒निहि॑ता॒नेङ्ग॑यन्ति¦तु॒रीयं᳚वा॒चोम॑नु॒ष्या᳚वदन्ति|| {45/52}{2.3.22.5}{1.164.45}{1.22.8.45}{390, 164, 1760}

इन्द्रं᳚मि॒त्रंवरु॑णम॒ग्निमा᳚हु॒¦रथो᳚दि॒व्यःससु॑प॒र्णोग॒रुत्मा॑न्|{औचथ्यो दीर्घतमाः | सूर्यः | त्रिष्टुप्}

एकं॒सद्‌विप्रा᳚बहु॒धाव॑द¦न्त्य॒ग्निंय॒मंमा᳚त॒रिश्वा᳚नमाहुः|| {46/52}{2.3.22.6}{1.164.46}{1.22.8.46}{391, 164, 1761}

कृ॒ष्णंनि॒यानं॒हर॑यःसुप॒र्णा,¦अ॒पोवसा᳚ना॒दिव॒मुत्प॑तन्ति|{औचथ्यो दीर्घतमाः | सूर्यः | त्रिष्टुप्}

तआव॑वृत्र॒न्‌त्सद॑नादृ॒तस्या¦दिद्‌घृ॒तेन॑पृथि॒वीव्यु॑द्यते|| {47/52}{2.3.23.1}{1.164.47}{1.22.8.47}{392, 164, 1762}

द्वाद॑शप्र॒धय॑श्च॒क्रमेकं॒¦त्रीणि॒नभ्या᳚नि॒कउ॒तच्चि॑केत|{औचथ्यो दीर्घतमाः | संवत्सरात्मा कालः | त्रिष्टुप्}

तस्मि᳚न्‌त्सा॒कंत्रि॑श॒तानश॒ङ्कवो᳚¦ऽर्पि॒ताःष॒ष्टिर्नच॑लाच॒लासः॑|| {48/52}{2.3.23.2}{1.164.48}{1.22.8.48}{393, 164, 1763}

यस्ते॒स्तनः॑शश॒योयोम॑यो॒भू¦र्येन॒विश्वा॒पुष्य॑सि॒वार्या᳚णि|{औचथ्यो दीर्घतमाः | सरस्वती | त्रिष्टुप्}

योर॑त्न॒धाव॑सु॒विद्‌यःसु॒दत्रः॒¦सर॑स्वति॒तमि॒हधात॑वेकः|| {49/52}{2.3.23.3}{1.164.49}{1.22.8.49}{394, 164, 1764}

य॒ज्ञेन॑य॒ज्ञम॑यजन्तदे॒वा¦स्तानि॒धर्मा᳚णिप्रथ॒मान्या᳚सन्|{औचथ्यो दीर्घतमाः | साध्याः | त्रिष्टुप्}

तेह॒नाकं᳚महि॒मानः॑सचन्त॒¦यत्र॒पूर्वे᳚सा॒ध्याःसन्ति॑दे॒वाः|| {50/52}{2.3.23.4}{1.164.50}{1.22.8.50}{395, 164, 1765}

स॒मा॒नमे॒तदु॑द॒क¦मुच्चैत्यव॒चाह॑भिः|{औचथ्यो दीर्घतमाः | सूर्यः पर्जन्योऽग्नयो वा | अनुष्टुप्}

भूमिं᳚प॒र्जन्या॒जिन्व᳚न्ति॒¦दिवं᳚जिन्वन्त्य॒ग्नयः॑|| {51/52}{2.3.23.5}{1.164.51}{1.22.8.51}{396, 164, 1766}

दि॒व्यंसु॑प॒र्णंवा᳚य॒संबृ॒हन्त॑¦म॒पांगर्भं᳚दर्श॒तमोष॑धीनाम्|{औचथ्यो दीर्घतमाः | सरस्वान् सूर्यो वा | त्रिष्टुप्}

अ॒भी॒प॒तोवृ॒ष्टिभि॑स्त॒र्पय᳚न्तं॒¦सर॑स्वन्त॒मव॑सेजोहवीमि|| {52/52}{2.3.23.6}{1.164.52}{1.22.8.52}{397, 164, 1767}

[44] कयाशुभेति पंचदशर्चस्य सूक्तस्य तृतीयाद्ययुगृचामेकादशीवर्ज्यानां मरुतः त्रयोदश्यादितिसृणामगस्त्यः शिष्टानामिंद्रऋषिः | सर्वसूक्तस्यमरुत्वानिंद्रोदेवतात्रिष्टुप्‌छंदः |
कया᳚शु॒भासव॑यसः॒सनी᳚ळाः¦समा॒न्याम॒रुतः॒संमि॑मिक्षुः|{इन्द्रः | इन्द्रः | त्रिष्टुप्}

कया᳚म॒तीकुत॒एता᳚सए॒ते¦ऽर्च᳚न्ति॒शुष्मं॒वृष॑णोवसू॒या|| {1/15}{2.3.24.1}{1.165.1}{1.23.1.1}{398, 165, 1768}

कस्य॒ब्रह्मा᳚णिजुजुषु॒र्युवा᳚नः॒¦को,अ॑ध्व॒रेम॒रुत॒आव॑वर्त|{इन्द्रः | इन्द्रः | त्रिष्टुप्}

श्ये॒नाँ,इ॑व॒ध्रज॑तो,अ॒न्तरि॑क्षे॒¦केन॑म॒हामन॑सारीरमाम|| {2/15}{2.3.24.2}{1.165.2}{1.23.1.2}{399, 165, 1769}

कुत॒स्त्वमि᳚न्द्र॒माहि॑नः॒स¦न्नेको᳚यासिसत्पते॒किंत॑इ॒त्था|{मरुतः | इन्द्रः | त्रिष्टुप्}

संपृ॑च्छसेसमरा॒णःशु॑भा॒नै¦र्वो॒चेस्तन्नो᳚हरिवो॒यत्ते᳚अ॒स्मे|| {3/15}{2.3.24.3}{1.165.3}{1.23.1.3}{400, 165, 1770}

ब्रह्मा᳚णिमेम॒तयः॒शंसु॒तासः॒¦शुष्म॑इयर्ति॒प्रभृ॑तोमे॒,अद्रिः॑|{इन्द्रः | इन्द्रः | त्रिष्टुप्}

आशा᳚सते॒प्रति॑हर्यन्त्यु॒क्थे¦माहरी᳚वहत॒स्तानो॒,अच्छ॑|| {4/15}{2.3.24.4}{1.165.4}{1.23.1.4}{401, 165, 1771}

अतो᳚व॒यम᳚न्त॒मेभि᳚र्युजा॒नाः¦स्वक्ष॑त्रेभिस्त॒न्व१॑(अः॒)शुम्भ॑मानाः|{मरुतः | इन्द्रः | त्रिष्टुप्}

महो᳚भि॒रेताँ॒,उप॑युज्महे॒न्¦विन्द्र॑स्व॒धामनु॒हिनो᳚ब॒भूथ॑|| {5/15}{2.3.24.5}{1.165.5}{1.23.1.5}{402, 165, 1772}

क्व१॑(अ॒)स्यावो᳚मरुतःस्व॒धासी॒द्¦यन्मामेकं᳚स॒मध॑त्ताहि॒हत्ये᳚|{इन्द्रः | इन्द्रः | त्रिष्टुप्}

अ॒हंह्यु१॑(उ॒)ग्रस्त॑वि॒षस्तुवि॑ष्मा॒न्¦विश्व॑स्य॒शत्रो॒रन॑मंवध॒स्नैः|| {6/15}{2.3.25.1}{1.165.6}{1.23.1.6}{403, 165, 1773}

भूरि॑चकर्थ॒युज्ये᳚भिर॒स्मे¦स॑मा॒नेभि᳚र्वृषभ॒पौंस्ये᳚भिः|{मरुतः | इन्द्रः | त्रिष्टुप्}

भूरी᳚णि॒हिकृ॒णवा᳚माशवि॒ष्ठे¦न्द्र॒क्रत्वा᳚मरुतो॒यद्‌वशा᳚म|| {7/15}{2.3.25.2}{1.165.7}{1.23.1.7}{404, 165, 1774}

वधीं᳚वृ॒त्रंम॑रुतइन्द्रि॒येण॒¦स्वेन॒भामे᳚नतवि॒षोब॑भू॒वान्|{इन्द्रः | इन्द्रः | त्रिष्टुप्}

अ॒हमे॒तामन॑वेवि॒श्वश्च᳚न्द्राः¦सु॒गा,अ॒पश्च॑कर॒वज्र॑बाहुः|| {8/15}{2.3.25.3}{1.165.8}{1.23.1.8}{405, 165, 1775}

अनु॑त्त॒माते᳚मघव॒न्नकि॒र्नु¦नत्वावाँ᳚,अस्तिदे॒वता॒विदा᳚नः|{मरुतः | इन्द्रः | त्रिष्टुप्}

नजाय॑मानो॒नश॑ते॒नजा॒तो¦यानि॑करि॒ष्याकृ॑णु॒हिप्र॑वृद्ध|| {9/15}{2.3.25.4}{1.165.9}{1.23.1.9}{406, 165, 1776}

एक॑स्यचिन्मेवि॒भ्व१॑(अ॒)स्त्वोजो॒¦यानुद॑धृ॒ष्वान्‌कृ॒णवै᳚मनी॒षा|{इन्द्रः | इन्द्रः | त्रिष्टुप्}

अ॒हंह्यु१॑(उ॒)ग्रोम॑रुतो॒विदा᳚नो॒¦यानि॒च्यव॒मिन्द्र॒इदी᳚शएषाम्|| {10/15}{2.3.25.5}{1.165.10}{1.23.1.10}{407, 165, 1777}

अम᳚न्दन्मामरुतः॒स्तोमो॒,अत्र॒¦यन्मे᳚नरः॒श्रुत्यं॒ब्रह्म॑च॒क्र|{इन्द्रः | इन्द्रः | त्रिष्टुप्}

इन्द्रा᳚य॒वृष्णे॒सुम॑खाय॒मह्यं॒¦सख्ये॒सखा᳚यस्त॒न्वे᳚त॒नूभिः॑|| {11/15}{2.3.26.1}{1.165.11}{1.23.1.11}{408, 165, 1778}

ए॒वेदे॒तेप्रति॑मा॒रोच॑माना॒,¦अने᳚द्यः॒श्रव॒एषो॒दधा᳚नाः|{इन्द्रः | इन्द्रः | त्रिष्टुप्}

सं॒चक्ष्या᳚मरुतश्च॒न्द्रव᳚र्णा॒,¦अच्छा᳚न्तमेछ॒दया᳚थाचनू॒नम्|| {12/15}{2.3.26.2}{1.165.12}{1.23.1.12}{409, 165, 1779}

कोन्वत्र॑मरुतोमामहेवः॒¦प्रया᳚तन॒सखीँ॒रच्छा᳚सखायः|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

मन्मा᳚निचित्रा,अपिवा॒तय᳚न्त¦ए॒षांभू᳚त॒नवे᳚दामऋ॒ताना᳚म्|| {13/15}{2.3.26.3}{1.165.13}{1.23.1.13}{410, 165, 1780}

आयद्‌दु॑व॒स्याद्‌दु॒वसे॒नका॒रु¦र॒स्माञ्च॒क्रेमा॒न्यस्य॑मे॒धा|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

ओषुव॑र्त्तमरुतो॒विप्र॒मच्छे॒¦माब्रह्मा᳚णिजरि॒तावो᳚अर्चत्|| {14/15}{2.3.26.4}{1.165.14}{1.23.1.14}{411, 165, 1781}

ए॒षवः॒स्तोमो᳚मरुतइ॒यंगी¦र्मा᳚न्दा॒र्यस्य॑मा॒न्यस्य॑का॒रोः|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

एषाया᳚सीष्टत॒न्वे᳚व॒यां¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम्|| {15/15}{2.3.26.5}{1.165.15}{1.23.1.15}{412, 165, 1782}

[45] तन्नुवोचामेति पंचदशर्चस्य सूक्तस्यमैत्रावरुणिरगस्त्योमरुतोजगत्यंत्येद्वेत्रिष्टुभौ |
तन्नुवो᳚चामरभ॒साय॒जन्म॑ने॒¦पूर्वं᳚महि॒त्वंवृ॑ष॒भस्य॑के॒तवे᳚|{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

ऐ॒धेव॒याम᳚न्‌मरुतस्तुविष्वणो¦यु॒धेव॑शक्रास्तवि॒षाणि॑कर्तन|| {1/15}{2.4.1.1}{1.166.1}{1.23.2.1}{413, 166, 1783}

नित्यं॒नसू॒नुंमधु॒बिभ्र॑त॒उप॒¦क्रीळ᳚न्तिक्री॒ळावि॒दथे᳚षु॒घृष्व॑यः|{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

नक्ष᳚न्तिरु॒द्रा,अव॑सानम॒स्विनं॒¦नम॑र्धन्ति॒स्वत॑वसोहवि॒ष्कृत᳚म्|| {2/15}{2.4.1.2}{1.166.2}{1.23.2.2}{414, 166, 1784}

यस्मा॒,ऊमा᳚सो,अ॒मृता॒,अरा᳚सत¦रा॒यस्पोषं᳚चह॒विषा᳚ददा॒शुषे᳚|{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

उ॒क्षन्त्य॑स्मैम॒रुतो᳚हि॒ता,इ॑व¦पु॒रूरजां᳚सि॒पय॑सामयो॒भुवः॑|| {3/15}{2.4.1.3}{1.166.3}{1.23.2.3}{415, 166, 1785}

आयेरजां᳚सि॒तवि॑षीभि॒रव्य॑त॒¦प्रव॒एवा᳚सः॒स्वय॑तासो,अध्रजन्|{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

भय᳚न्ते॒विश्वा॒भुव॑नानिह॒र्म्या¦चि॒त्रोवो॒यामः॒प्रय॑तास्वृ॒ष्टिषु॑|| {4/15}{2.4.1.4}{1.166.4}{1.23.2.4}{416, 166, 1786}

यत्त्वे॒षया᳚मान॒दय᳚न्त॒पर्व॑तान्¦दि॒वोवा᳚पृ॒ष्ठंनर्या॒,अचु॑च्यवुः|{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

विश्वो᳚वो॒,अज्म᳚न्‌भयते॒वन॒स्पती᳚¦रथी॒यन्ती᳚व॒प्रजि॑हीत॒ओष॑धिः|| {5/15}{2.4.1.5}{1.166.5}{1.23.2.5}{417, 166, 1787}

यू॒यंन॑उग्रामरुतःसुचे॒तुना¦रि॑ष्टग्रामाःसुम॒तिंपि॑पर्तन|{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

यत्रा᳚वोदि॒द्युद्‌रद॑ति॒क्रिवि॑र्दती¦रि॒णाति॑प॒श्वःसुधि॑तेवब॒र्हणा᳚|| {6/15}{2.4.2.1}{1.166.6}{1.23.2.6}{418, 166, 1788}

प्रस्क॒म्भदे᳚ष्णा,अनव॒भ्ररा᳚धसो¦ऽलातृ॒णासो᳚वि॒दथे᳚षु॒सुष्टु॑ताः|{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

अर्च᳚न्त्य॒र्कंम॑दि॒रस्य॑पी॒तये᳚¦वि॒दुर्वी॒रस्य॑प्रथ॒मानि॒पौंस्या᳚|| {7/15}{2.4.2.2}{1.166.7}{1.23.2.7}{419, 166, 1789}

श॒तभु॑जिभि॒स्तम॒भिह्रु॑तेर॒घात्¦पू॒र्भीर॑क्षतामरुतो॒यमाव॑त|{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

जनं॒यमु॑ग्रास्तवसोविरप्शिनः¦पा॒थना॒शंसा॒त्तन॑यस्यपु॒ष्टिषु॑|| {8/15}{2.4.2.3}{1.166.8}{1.23.2.8}{420, 166, 1790}

विश्वा᳚निभ॒द्राम॑रुतो॒रथे᳚षुवो¦मिथ॒स्पृध्ये᳚वतवि॒षाण्याहि॑ता|{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

अंसे॒ष्वावः॒प्रप॑थेषुखा॒दयो¦ऽक्षो᳚वश्च॒क्रास॒मया॒विवा᳚वृते|| {9/15}{2.4.2.4}{1.166.9}{1.23.2.9}{421, 166, 1791}

भूरी᳚णिभ॒द्रानर्ये᳚षुबा॒हुषु॒¦वक्ष॑स्सुरु॒क्मार॑भ॒सासो᳚अ॒ञ्जयः॑|{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

अंसे॒ष्वेताः᳚प॒विषु॑क्षु॒रा,अधि॒¦वयो॒नप॒क्षान्‌व्यनु॒श्रियो᳚धिरे|| {10/15}{2.4.2.5}{1.166.10}{1.23.2.10}{422, 166, 1792}

म॒हान्तो᳚म॒ह्नावि॒भ्वो॒३॑(ओ॒)विभू᳚तयो¦दूरे॒दृशो॒येदि॒व्या,इ॑व॒स्तृभिः॑|{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

म॒न्द्राःसु॑जि॒ह्वाःस्वरि॑तारआ॒सभिः॒¦सम्मि॑श्ला॒,इन्द्रे᳚म॒रुतः॑परि॒ष्टुभः॑|| {11/15}{2.4.3.1}{1.166.11}{1.23.2.11}{423, 166, 1793}

तद्‌वः॑सुजातामरुतोमहित्व॒नं¦दी॒र्घंवो᳚दा॒त्रमदि॑तेरिवव्र॒तम्|{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

इन्द्र॑श्च॒नत्यज॑सा॒विह्रु॑णाति॒त¦ज्जना᳚य॒यस्मै᳚सु॒कृते॒,अरा᳚ध्वम्|| {12/15}{2.4.3.2}{1.166.12}{1.23.2.12}{424, 166, 1794}

तद्‌वो᳚जामि॒त्वंम॑रुतः॒परे᳚यु॒गे¦पु॒रूयच्छंस॑ममृतास॒आव॑त|{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

अ॒याधि॒यामन॑वेश्रु॒ष्टिमाव्या᳚¦सा॒कंनरो᳚दं॒सनै॒राचि॑कित्रिरे|| {13/15}{2.4.3.3}{1.166.13}{1.23.2.13}{425, 166, 1795}

येन॑दी॒र्घंम॑रुतःशू॒शवा᳚म¦यु॒ष्माके᳚न॒परी᳚णसातुरासः|{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

आयत्‌त॒तन᳚न्‌वृ॒जने॒जना᳚स¦ए॒भिर्य॒ज्ञेभि॒स्तद॒भीष्टि॑मश्याम्|| {14/15}{2.4.3.4}{1.166.14}{1.23.2.14}{426, 166, 1796}

ए॒षवः॒स्तोमो᳚मरुतइ॒यंगी¦र्मा᳚न्दा॒र्यस्य॑मा॒न्यस्य॑का॒रोः|{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

एषाया᳚सीष्टत॒न्वे᳚व॒यां¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम्|| {15/15}{2.4.3.5}{1.166.15}{1.23.2.15}{427, 166, 1797}

[46] सहस्रंतइत्येकादशर्चस्य सूक्तस्यमैत्रावरुणिरगस्त्यो मरुत आद्यायाइंद्रस्त्रिष्टुप् |
स॒हस्रं᳚तइन्द्रो॒तयो᳚नः¦स॒हस्र॒मिषो᳚हरिवोगू॒र्तत॑माः|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

स॒हस्रं॒रायो᳚माद॒यध्यै᳚¦सह॒स्रिण॒उप॑नोयन्तु॒वाजाः᳚|| {1/11}{2.4.4.1}{1.167.1}{1.23.3.1}{428, 167, 1798}

आनोऽवो᳚भिर्म॒रुतो᳚या॒न्त्वच्छा॒¦ज्येष्ठे᳚भिर्वाबृ॒हद्दि॑वैःसुमा॒याः|{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

अध॒यदे᳚षांनि॒युतः॑पर॒माः¦स॑मु॒द्रस्य॑चिद्‌ध॒नय᳚न्तपा॒रे|| {2/11}{2.4.4.2}{1.167.2}{1.23.3.2}{429, 167, 1799}

मि॒म्यक्ष॒येषु॒सुधि॑ताघृ॒ताची॒¦हिर᳚ण्यनिर्णि॒गुप॑रा॒नऋ॒ष्टिः|{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

गुहा॒चर᳚न्ती॒मनु॑षो॒नयोषा᳚¦स॒भाव॑तीविद॒थ्ये᳚व॒संवाक्|| {3/11}{2.4.4.3}{1.167.3}{1.23.3.3}{430, 167, 1800}

परा᳚शु॒भ्रा,अ॒यासो᳚य॒व्या¦सा᳚धार॒ण्येव॑म॒रुतो᳚मिमिक्षुः|{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

नरो᳚द॒सी,अप॑नुदन्तघो॒रा¦जु॒षन्त॒वृधं᳚स॒ख्याय॑दे॒वाः|| {4/11}{2.4.4.4}{1.167.4}{1.23.3.4}{431, 167, 1801}

जोष॒द्‌यदी᳚मसु॒र्या᳚स॒चध्यै॒¦विषि॑तस्तुकारोद॒सीनृ॒मणाः᳚|{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

आसू॒र्येव॑विध॒तोरथं᳚गात्¦त्वे॒षप्र॑तीका॒नभ॑सो॒नेत्या|| {5/11}{2.4.4.5}{1.167.5}{1.23.3.5}{432, 167, 1802}

आस्था᳚पयन्तयुव॒तिंयुवा᳚नः¦शु॒भेनिमि॑श्लांवि॒दथे᳚षुप॒ज्राम्|{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

अ॒र्कोयद्‌वो᳚मरुतोह॒विष्मा॒न्¦गाय॑द्‌गा॒थंसु॒तसो᳚मोदुव॒स्यन्|| {6/11}{2.4.5.1}{1.167.6}{1.23.3.6}{433, 167, 1803}

प्रतंवि॑वक्मि॒वक्म्यो॒यए᳚षां¦म॒रुतां᳚महि॒मास॒त्यो,अस्ति॑|{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

सचा॒यदीं॒वृष॑मणा,अहं॒युः¦स्थि॒राचि॒ज्जनी॒र्वह॑तेसुभा॒गाः|| {7/11}{2.4.5.2}{1.167.7}{1.23.3.7}{434, 167, 1804}

पान्ति॑मि॒त्रावरु॑णावव॒द्या¦च्चय॑तईमर्य॒मो,अप्र॑शस्तान्|{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

उ॒तच्य॑वन्ते॒,अच्यु॑ताध्रु॒वाणि॑¦वावृ॒धईं᳚मरुतो॒दाति॑वारः|| {8/11}{2.4.5.3}{1.167.8}{1.23.3.8}{435, 167, 1805}

न॒हीनुवो᳚मरुतो॒,अन्त्य॒स्मे,¦आ॒रात्ता᳚च्चि॒च्छव॑सो॒,अन्त॑मा॒पुः|{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

तेधृ॒ष्णुना॒शव॑साशूशु॒वांसो¦ऽर्णो॒नद्वेषो᳚धृष॒तापरि॑ष्ठुः|| {9/11}{2.4.5.4}{1.167.9}{1.23.3.9}{436, 167, 1806}

व॒यम॒द्येन्द्र॑स्य॒प्रेष्ठा᳚¦व॒यंश्वोवो᳚चेमहिसम॒र्ये|{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

व॒यंपु॒रामहि॑चनो॒,अनु॒द्यून्¦तन्न॑ऋभु॒क्षान॒रामनु॑ष्यात्|| {10/11}{2.4.5.5}{1.167.10}{1.23.3.10}{437, 167, 1807}

ए॒षवः॒स्तोमो᳚मरुतइ॒यंगी¦र्मा᳚न्दा॒र्यस्य॑मा॒न्यस्य॑का॒रोः|{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

एषाया᳚सीष्टत॒न्वे᳚व॒यां¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम्|| {11/11}{2.4.5.6}{1.167.11}{1.23.3.11}{438, 167, 1808}

[47] यज्ञायज्ञेति दशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यो मरुतोजगती अंत्यास्तिस्रस्त्रिष्टुभः |
य॒ज्ञाय॑ज्ञावःसम॒नातु॑तु॒र्वणि॒¦र्धियं᳚धियंवोदेव॒या,उ॑दधिध्वे|{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

आवो॒ऽर्वाचः॑सुवि॒ताय॒रोद॑स्यो¦र्म॒हेव॑वृत्या॒मव॑सेसुवृ॒क्तिभिः॑|| {1/10}{2.4.6.1}{1.168.1}{1.23.4.1}{439, 168, 1809}

व॒व्रासो॒नयेस्व॒जाःस्वत॑वस॒¦इषं॒स्व॑रभि॒जाय᳚न्त॒धूत॑यः|{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

स॒ह॒स्रिया᳚सो,अ॒पांनोर्मय॑¦आ॒सागावो॒वन्द्या᳚सो॒नोक्षणः॑|| {2/10}{2.4.6.2}{1.168.2}{1.23.4.2}{440, 168, 1810}

सोमा᳚सो॒नयेसु॒तास्तृ॒प्तांश॑वो¦हृ॒त्सुपी॒तासो᳚दु॒वसो॒नास॑ते|{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

ऐषा॒मंसे᳚षुर॒म्भिणी᳚वरारभे॒¦हस्ते᳚षुखा॒दिश्च॑कृ॒तिश्च॒संद॑धे|| {3/10}{2.4.6.3}{1.168.3}{1.23.4.3}{441, 168, 1811}

अव॒स्वयु॑क्तादि॒वआवृथा᳚ययु॒¦रम॑र्त्याः॒कश॑याचोदत॒त्मना᳚|{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

अ॒रे॒णव॑स्तुविजा॒ता,अ॑चुच्यवु¦र्दृ॒ळ्हानि॑चिन्म॒रुतो॒भ्राज॑दृष्टयः|| {4/10}{2.4.6.4}{1.168.4}{1.23.4.4}{442, 168, 1812}

कोवो॒ऽन्तर्म॑रुतऋष्टिविद्युतो॒¦रेज॑ति॒त्मना॒हन्वे᳚वजि॒ह्वया᳚|{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

ध॒न्व॒च्युत॑इ॒षांनयाम॑नि¦पुरु॒प्रैषा᳚अह॒न्यो॒३॑(ओ॒)नैत॑शः|| {5/10}{2.4.6.5}{1.168.5}{1.23.4.5}{443, 168, 1813}

क्व॑स्विद॒स्यरज॑सोम॒हस्परं॒¦क्वाव॑रंमरुतो॒यस्मि᳚न्नाय॒य|{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

यच्च्या॒वय॑थविथु॒रेव॒संहि॑तं॒¦व्यद्रि॑णापतथत्वे॒षम᳚र्ण॒वम्|| {6/10}{2.4.7.1}{1.168.6}{1.23.4.6}{444, 168, 1814}

सा॒तिर्नवोऽम॑वती॒स्व᳚र्वती¦त्वे॒षाविपा᳚कामरुतः॒पिपि॑ष्वती|{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

भ॒द्रावो᳚रा॒तिःपृ॑ण॒तोनदक्षि॑णा¦पृथु॒ज्रयी᳚असु॒र्ये᳚व॒जञ्ज॑ती|| {7/10}{2.4.7.2}{1.168.7}{1.23.4.7}{445, 168, 1815}

प्रति॑ष्टोभन्ति॒सिन्ध॑वःप॒विभ्यो॒¦यद॒भ्रियां॒वाच॑मुदी॒रय᳚न्ति|{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

अव॑स्मयन्तवि॒द्युतः॑पृथि॒व्यां¦यदी᳚घृ॒तंम॒रुतः॑प्रुष्णु॒वन्ति॑|| {8/10}{2.4.7.3}{1.168.8}{1.23.4.8}{446, 168, 1816}

असू᳚त॒पृश्नि᳚र्मह॒तेरणा᳚य¦त्वे॒षम॒यासां᳚म॒रुता॒मनी᳚कम्|{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

तेस॑प्स॒रासो᳚ऽजनय॒न्ताभ्व॒¦मादित्‌स्व॒धामि॑षि॒रांपर्य॑पश्यन्|| {9/10}{2.4.7.4}{1.168.9}{1.23.4.9}{447, 168, 1817}

ए॒षवः॒स्तोमो᳚मरुतइ॒यंगी¦र्मा᳚न्दा॒र्यस्य॑मा॒न्यस्य॑का॒रोः|{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

एषाया᳚सीष्टत॒न्वे᳚व॒यां¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम्|| {10/10}{2.4.7.5}{1.168.10}{1.23.4.10}{448, 168, 1818}

[48] महश्चिदित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् द्वितीयाविराट् |
म॒हश्चि॒त्त्वमि᳚न्द्रय॒तए॒तान्¦म॒हश्चि॑दसि॒त्यज॑सोवरू॒ता|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

सनो᳚वेधोम॒रुतां᳚चिकि॒त्वान्¦त्सु॒म्नाव॑नुष्व॒तव॒हिप्रेष्ठा᳚|| {1/8}{2.4.8.1}{1.169.1}{1.23.5.1}{449, 169, 1819}

अयु॑ज्र॒न्तइ᳚न्द्रवि॒श्वकृ॑ष्टी¦र्विदा॒नासो᳚नि॒ष्षिधो᳚मर्त्य॒त्रा|{मैत्रावरुणिरगस्त्यः | इन्द्रः | विराट्}

म॒रुतां᳚पृत्सु॒तिर्हास॑माना॒¦स्व᳚र्मीळ्हस्यप्र॒धन॑स्यसा॒तौ|| {2/8}{2.4.8.2}{1.169.2}{1.23.5.2}{450, 169, 1820}

अम्य॒क्‌सात॑इन्द्रऋ॒ष्टिर॒स्मे¦सने॒म्यभ्वं᳚म॒रुतो᳚जुनन्ति|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

अ॒ग्निश्चि॒द्धिष्मा᳚त॒सेशु॑शु॒क्वा¦नापो॒नद्वी॒पंदध॑ति॒प्रयां᳚सि|| {3/8}{2.4.8.3}{1.169.3}{1.23.5.3}{451, 169, 1821}

त्वंतून॑इन्द्र॒तंर॒यिंदा॒,¦ओजि॑ष्ठया॒दक्षि॑णयेवरा॒तिम्|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

स्तुत॑श्च॒यास्ते᳚च॒कन᳚न्तवा॒योः¦स्तनं॒नमध्वः॑पीपयन्त॒वाजैः᳚|| {4/8}{2.4.8.4}{1.169.4}{1.23.5.4}{452, 169, 1822}

त्वेराय॑इन्द्रतो॒शत॑माः¦प्रणे॒तारः॒कस्य॑चिदृता॒योः|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

तेषुणो᳚म॒रुतो᳚मृळयन्तु॒¦येस्मा᳚पु॒रागा᳚तू॒यन्ती᳚वदे॒वाः|| {5/8}{2.4.8.5}{1.169.5}{1.23.5.5}{453, 169, 1823}

प्रति॒प्रया᳚हीन्द्रमी॒ळ्हुषो॒नॄन्¦म॒हःपार्थि॑वे॒सद॑नेयतस्व|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

अध॒यदे᳚षांपृथुबु॒ध्नास॒एता᳚¦स्ती॒र्थेनार्यःपौंस्या᳚नित॒स्थुः|| {6/8}{2.4.9.1}{1.169.6}{1.23.5.6}{454, 169, 1824}

प्रति॑घो॒राणा॒मेता᳚नाम॒यासां᳚¦म॒रुतां᳚शृण्वआय॒तामु॑प॒ब्दिः|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

येमर्त्यं᳚पृतना॒यन्त॒मूमै᳚¦रृणा॒वानं॒नप॒तय᳚न्त॒सर्गैः᳚|| {7/8}{2.4.9.2}{1.169.7}{1.23.5.7}{455, 169, 1825}

त्वंमाने᳚भ्यइन्द्रवि॒श्वज᳚न्या॒¦रदा᳚म॒रुद्भिः॑शु॒रुधो॒गो,अ॑ग्राः|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

स्तवा᳚नेभिःस्तवसेदेवदे॒वै¦र्वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम्|| {8/8}{2.4.9.3}{1.169.8}{1.23.5.8}{456, 169, 1826}

[49] ननूनमिति पंचर्चस्य सूक्तस्यप्रथमतृतीयाचतुर्थीनामृचामिंद्रोगस्त्यो द्वितीयापंचम्योरगस्यऋषिरिंद्रोदेवता आद्याबृहती ततस्तिस्रोनुष्टुभोंत्यात्रिष्टुप् |
ननू॒नमस्ति॒नोश्वः¦कस्तद्‌वे᳚द॒यदद्भु॑तम्|{इंद्रोगस्त्यो | इन्द्रः | बृहती}

अ॒न्यस्य॑चि॒त्तम॒भिसं᳚च॒रेण्य॑¦मु॒ताधी᳚तं॒विन॑श्यति|| {1/5}{2.4.10.1}{1.170.1}{1.23.6.1}{457, 170, 1827}

किंन॑इन्द्रजिघांससि॒¦भ्रात॑रोम॒रुत॒स्तव॑|{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

तेभिः॑कल्पस्वसाधु॒या¦मानः॑स॒मर॑णेवधीः|| {2/5}{2.4.10.2}{1.170.2}{1.23.6.2}{458, 170, 1828}

किंनो᳚भ्रातरगस्त्य॒¦सखा॒सन्नति॑मन्यसे|{इंद्रोगस्त्यो | इन्द्रः | अनुष्टुप्}

वि॒द्माहिते॒यथा॒मनो॒¦ऽस्मभ्य॒मिन्नदि॑त्ससि|| {3/5}{2.4.10.3}{1.170.3}{1.23.6.3}{459, 170, 1829}

अरं᳚कृण्वन्तु॒वेदिं॒¦सम॒ग्निमि᳚न्धतांपु॒रः|{इंद्रोगस्त्यो | इन्द्रः | अनुष्टुप्}

तत्रा॒मृत॑स्य॒चेत॑नं¦य॒ज्ञंते᳚तनवावहै|| {4/5}{2.4.10.4}{1.170.4}{1.23.6.4}{460, 170, 1830}

त्वमी᳚शिषेवसुपते॒वसू᳚नां॒¦त्वंमि॒त्राणां᳚मित्रपते॒धेष्ठः॑|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒त्वंम॒रुद्भिः॒संव॑द॒स्वा¦ध॒प्राशा᳚नऋतु॒थाह॒वींषि॑|| {5/5}{2.4.10.5}{1.170.5}{1.23.6.5}{461, 170, 1831}

[50] प्रतिवइति षडृचस्य सूक्तस्यागस्त्योमरुतः अंत्यानांचतसृणांमरुत्वानिंद्रस्त्रिष्टुप् |
प्रति॑वए॒नानम॑सा॒हमे᳚मि¦सू॒क्तेन॑भिक्षेसुम॒तिंतु॒राणा᳚म्|{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

र॒रा॒णता᳚मरुतोवे॒द्याभि॒¦र्निहेळो᳚ध॒त्तविमु॑चध्व॒मश्वा॑न्|| {1/6}{2.4.11.1}{1.171.1}{1.23.7.1}{462, 171, 1832}

ए॒षवः॒स्तोमो᳚मरुतो॒नम॑स्वान्¦हृ॒दात॒ष्टोमन॑साधायिदेवाः|{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

उपे॒माया᳚त॒मन॑साजुषा॒णा¦यू॒यंहिष्ठानम॑स॒इद्‌वृ॒धासः॑|| {2/6}{2.4.11.2}{1.171.2}{1.23.7.2}{463, 171, 1833}

स्तु॒तासो᳚नोम॒रुतो᳚मृळयन्तू॒¦तस्तु॒तोम॒घवा॒शम्भ॑विष्ठः|{मैत्रावरुणिरगस्त्यः | मरुत्वानिंद्रः | त्रिष्टुप्}

ऊ॒र्ध्वानः॑सन्तुको॒म्यावना॒¦न्यहा᳚नि॒विश्वा᳚मरुतोजिगी॒षा|| {3/6}{2.4.11.3}{1.171.3}{1.23.7.3}{464, 171, 1834}

अ॒स्माद॒हंत॑वि॒षादीष॑माण॒¦इन्द्रा᳚द्‌भि॒याम॑रुतो॒रेज॑मानः|{मैत्रावरुणिरगस्त्यः | मरुत्वानिंद्रः | त्रिष्टुप्}

यु॒ष्मभ्यं᳚ह॒व्यानिशि॑तान्यास॒न्¦तान्या॒रेच॑कृमामृ॒ळता᳚नः|| {4/6}{2.4.11.4}{1.171.4}{1.23.7.4}{465, 171, 1835}

येन॒माना᳚सश्चि॒तय᳚न्तउ॒स्रा¦व्यु॑ष्टिषु॒शव॑सा॒शश्व॑तीनाम्|{मैत्रावरुणिरगस्त्यः | मरुत्वानिंद्रः | त्रिष्टुप्}

सनो᳚म॒रुद्भि᳚र्वृषभ॒श्रवो᳚धा,¦उ॒ग्रउ॒ग्रेभिः॒स्थवि॑रःसहो॒दाः|| {5/6}{2.4.11.5}{1.171.5}{1.23.7.5}{466, 171, 1836}

त्वंपा᳚हीन्द्र॒सही᳚यसो॒नॄन्¦भवा᳚म॒रुद्भि॒रव॑यातहेळाः|{मैत्रावरुणिरगस्त्यः | मरुत्वानिंद्रः | त्रिष्टुप्}

सु॒प्र॒के॒तेभिः॑सास॒हिर्दधा᳚नो¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम्|| {6/6}{2.4.11.6}{1.171.6}{1.23.7.6}{467, 171, 1837}

[51] चित्रोवइति तृचस्य सूक्तस्य मैत्रावरुणिरगस्त्यो मरुतो गायत्री |
चि॒त्रोवो᳚ऽस्तु॒याम॑¦श्चि॒त्रऊ॒तीसु॑दानवः|{मैत्रावरुणिरगस्त्यः | मरुतः | गायत्री}

मरु॑तो॒,अहि॑भानवः|| {1/3}{2.4.12.1}{1.172.1}{1.23.8.1}{468, 172, 1838}

आ॒रेसावः॑सुदानवो॒¦मरु॑तऋञ्ज॒तीशरुः॑|{मैत्रावरुणिरगस्त्यः | मरुतः | गायत्री}

आ॒रे,अश्मा॒यमस्य॑थ|| {2/3}{2.4.12.2}{1.172.2}{1.23.8.2}{469, 172, 1839}

तृ॒ण॒स्क॒न्दस्य॒नुविशः॒¦परि॑वृङ्क्तसुदानवः|{मैत्रावरुणिरगस्त्यः | मरुतः | गायत्री}

ऊ॒र्ध्वान्‌नः॑कर्तजी॒वसे᳚|| {3/3}{2.4.12.3}{1.172.3}{1.23.8.3}{470, 172, 1840}

[52] गायत्सामेति त्रयोदशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् |
गाय॒त्‌साम॑नभ॒न्य१॑(अं॒)यथा॒वे¦रर्चा᳚म॒तद्‌वा᳚वृधा॒नंस्व᳚र्वत्|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

गावो᳚धे॒नवो᳚ब॒र्हिष्यद॑ब्धा॒,¦आयत्‌स॒द्मानं᳚दि॒व्यंविवा᳚सान्|| {1/13}{2.4.13.1}{1.173.1}{1.23.9.1}{471, 173, 1841}

अर्च॒द्‌वृषा॒वृष॑भिः॒स्वेदु॑हव्यै¦र्मृ॒गोनाश्नो॒,अति॒यज्जु॑गु॒र्यात्|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

प्रम᳚न्द॒युर्म॒नांगू᳚र्त॒होता॒¦भर॑ते॒मर्यो᳚मिथु॒नायज॑त्रः|| {2/13}{2.4.13.2}{1.173.2}{1.23.9.2}{472, 173, 1842}

नक्ष॒द्धोता॒परि॒सद्म॑मि॒तायन्¦भर॒द्‌गर्भ॒माश॒रदः॑पृथि॒व्याः|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

क्रन्द॒दश्वो॒नय॑मानोरु॒वद्‌गौ¦र॒न्तर्दू॒तोनरोद॑सीचर॒द्‌वाक्|| {3/13}{2.4.13.3}{1.173.3}{1.23.9.3}{473, 173, 1843}

ताक॒र्माष॑तरास्मै॒¦प्रच्यौ॒त्नानि॑देव॒यन्तो᳚भरन्ते|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

जुजो᳚ष॒दिन्द्रो᳚द॒स्मव॑र्चा॒¦नास॑त्येव॒सुग्म्यो᳚रथे॒ष्ठाः|| {4/13}{2.4.13.4}{1.173.4}{1.23.9.4}{474, 173, 1844}

तमु॑ष्टु॒हीन्द्रं॒योह॒सत्वा॒¦यःशूरो᳚म॒घवा॒योर॑थे॒ष्ठाः|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

प्र॒ती॒चश्चि॒द्‌योधी᳚या॒न्‌वृष᳚ण्वान्¦वव॒व्रुष॑श्चि॒त्तम॑सोविह॒न्ता|| {5/13}{2.4.13.5}{1.173.5}{1.23.9.5}{475, 173, 1845}

प्रयदि॒त्थाम॑हि॒नानृभ्यो॒,अ¦स्त्यरं॒रोद॑सीक॒क्ष्ये॒३॑(ए॒)नास्मै᳚|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

संवि᳚व्य॒इन्द्रो᳚वृ॒जनं॒नभूमा॒¦भर्ति॑स्व॒धावाँ᳚,ओप॒शमि॑व॒द्याम्|| {6/13}{2.4.14.1}{1.173.6}{1.23.9.6}{476, 173, 1846}

स॒मत्सु॑त्वाशूरस॒तामु॑रा॒णं¦प्र॑प॒थिन्त॑मंपरितंस॒यध्यै᳚|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

स॒जोष॑स॒इन्द्रं॒मदे᳚क्षो॒णीः¦सू॒रिंचि॒द्‌ये,अ॑नु॒मद᳚न्ति॒वाजैः᳚|| {7/13}{2.4.14.2}{1.173.7}{1.23.9.7}{477, 173, 1847}

ए॒वाहिते॒शंसव॑नासमु॒द्र¦आपो॒यत्त॑आ॒सुमद᳚न्तिदे॒वीः|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

विश्वा᳚ते॒,अनु॒जोष्या᳚भू॒द्गौः¦सू॒रीँश्चि॒द्‌यदि॑धि॒षावेषि॒जना॑न्|| {8/13}{2.4.14.3}{1.173.8}{1.23.9.8}{478, 173, 1848}

असा᳚म॒यथा᳚सुष॒खाय॑एन¦स्वभि॒ष्टयो᳚न॒रांनशंसैः᳚|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

अस॒द्‌यथा᳚न॒इन्द्रो᳚वन्दने॒ष्ठा¦स्तु॒रोनकर्म॒नय॑मानउ॒क्था|| {9/13}{2.4.14.4}{1.173.9}{1.23.9.9}{479, 173, 1849}

विष्प॑र्धसोन॒रांनशंसै᳚¦र॒स्माका᳚स॒दिन्द्रो॒वज्र॑हस्तः|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

मि॒त्रा॒युवो॒नपूर्प॑तिं॒सुशि॑ष्टौ¦मध्या॒युव॒उप॑शिक्षन्तिय॒ज्ञैः|| {10/13}{2.4.14.5}{1.173.10}{1.23.9.10}{480, 173, 1850}

य॒ज्ञोहिष्मेन्द्रं॒कश्चि॑दृ॒न्धञ्जु॑हुरा॒णश्चि॒न्मन॑सापरि॒यन्|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

ती॒र्थेनाच्छा᳚तातृषा॒णमोको᳚¦दी॒र्घोनसि॒ध्रमाकृ॑णो॒त्यध्वा᳚|| {11/13}{2.4.15.1}{1.173.11}{1.23.9.11}{481, 173, 1851}

मोषूण॑इ॒न्द्रात्र॑पृ॒त्सुदे॒वै¦रस्ति॒हिष्मा᳚तेशुष्मिन्नव॒याः|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

म॒हश्चि॒द्‌यस्य॑मी॒ळ्हुषो᳚य॒व्या¦ह॒विष्म॑तोम॒रुतो॒वन्द॑ते॒गीः|| {12/13}{2.4.15.2}{1.173.12}{1.23.9.12}{482, 173, 1852}

ए॒षस्तोम॑इन्द्र॒तुभ्य॑म॒स्मे,¦ए॒तेन॑गा॒तुंह॑रिवोविदोनः|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

आनो᳚ववृत्याःसुवि॒ताय॑देव¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम्|| {13/13}{2.4.15.3}{1.173.13}{1.23.9.13}{483, 173, 1853}

[53] त्वंराजेति दशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् |
त्वंराजे᳚न्द्र॒येच॑दे॒वा¦रक्षा॒नॄन्‌पा॒ह्य॑सुर॒त्वम॒स्मान्|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

त्वंसत्प॑तिर्म॒घवा᳚न॒स्तरु॑त्र॒¦स्त्वंस॒त्योवस॑वानःसहो॒दाः|| {1/10}{2.4.16.1}{1.174.1}{1.23.10.1}{484, 174, 1854}

दनो॒विश॑इन्द्रमृ॒ध्रवा᳚चः¦स॒प्तयत्‌पुरः॒शर्म॒शार॑दी॒र्दर्त्|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

ऋ॒णोर॒पो,अ॑नव॒द्यार्णा॒¦यूने᳚वृ॒त्रंपु॑रु॒कुत्सा᳚यरन्धीः|| {2/10}{2.4.16.2}{1.174.2}{1.23.10.2}{485, 174, 1855}

अजा॒वृत॑इन्द्र॒शूर॑पत्नी॒¦र्द्यांच॒येभिः॑पुरुहूतनू॒नम्|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

रक्षो᳚अ॒ग्निम॒शुषं॒तूर्व॑याणं¦सिं॒होनदमे॒,अपां᳚सि॒वस्तोः᳚|| {3/10}{2.4.16.3}{1.174.3}{1.23.10.3}{486, 174, 1856}

शेष॒न्‌नुतइ᳚न्द्र॒सस्मि॒न्‌योनौ॒¦प्रश॑स्तये॒पवी᳚रवस्यम॒ह्ना|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

सृ॒जदर्णां॒स्यव॒यद्‌यु॒धागा¦स्तिष्ठ॒द्धरी᳚धृष॒तामृ॑ष्ट॒वाजा॑न्|| {4/10}{2.4.16.4}{1.174.4}{1.23.10.4}{487, 174, 1857}

वह॒कुत्स॑मिन्द्र॒यस्मि᳚ञ्चा॒कन्¦त्स्यू᳚म॒न्यू,ऋ॒ज्रावात॒स्याश्वा᳚|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

प्रसूर॑श्च॒क्रंवृ॑हताद॒भीके॒¦ऽभिस्पृधो᳚यासिष॒द्‌वज्र॑बाहुः|| {5/10}{2.4.16.5}{1.174.5}{1.23.10.5}{488, 174, 1858}

ज॒घ॒न्वाँ,इ᳚न्द्रमि॒त्रेरू᳚ञ्¦चो॒दप्र॑वृद्धोहरिवो॒,अदा᳚शून्|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

प्रयेपश्य᳚न्नर्य॒मणं॒सचा॒यो¦स्त्वया᳚शू॒र्तावह॑माना॒,अप॑त्यम्|| {6/10}{2.4.17.1}{1.174.6}{1.23.10.6}{489, 174, 1859}

रप॑त्‌क॒विरि᳚न्द्रा॒र्कसा᳚तौ॒¦क्षांदा॒सायो᳚प॒बर्ह॑णींकः|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

कर॑त्ति॒स्रोम॒घवा॒दानु॑चित्रा॒¦निदु᳚र्यो॒णेकुय॑वाचंमृ॒धिश्रे᳚त्|| {7/10}{2.4.17.2}{1.174.7}{1.23.10.7}{490, 174, 1860}

सना॒तात॑इन्द्र॒नव्या॒,आगुः॒¦सहो॒नभोऽवि॑रणायपू॒र्वीः|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

भि॒नत्‌पुरो॒नभिदो॒,अदे᳚वी¦र्न॒नमो॒वध॒रदे᳚वस्यपी॒योः|| {8/10}{2.4.17.3}{1.174.8}{1.23.10.8}{491, 174, 1861}

त्वंधुनि॑रिन्द्र॒धुनि॑मती¦रृ॒णोर॒पःसी॒रानस्रव᳚न्तीः|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

प्रयत्‌स॑मु॒द्रमति॑शूर॒पर्षि॑¦पा॒रया᳚तु॒र्वशं॒यदुं᳚स्व॒स्ति|| {9/10}{2.4.17.4}{1.174.9}{1.23.10.9}{492, 174, 1862}

त्वम॒स्माक॑मिन्द्रवि॒श्वध॑स्या,¦अवृ॒कत॑मोन॒रांनृ॑पा॒ता|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

सनो॒विश्वा᳚सांस्पृ॒धांस॑हो॒दा¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम्|| {10/10}{2.4.17.5}{1.174.10}{1.23.10.10}{493, 174, 1863}

[54] मत्स्यपायीति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्य इंद्रोनुष्टुप् आद्यास्कंधोग्रीवी अंत्यात्रिष्टुप् |
मत्स्यपा᳚यिते॒महः॒¦पात्र॑स्येवहरिवोमत्स॒रोमदः॑|{मैत्रावरुणिरगस्त्यः | इन्द्रः | स्कन्धोग्रीवीबृहती}

वृषा᳚ते॒वृष्ण॒इन्दु᳚¦र्वा॒जीस॑हस्र॒सात॑मः|| {1/6}{2.4.18.1}{1.175.1}{1.23.11.1}{494, 175, 1864}

आन॑स्तेगन्तुमत्स॒रो¦वृषा॒मदो॒वरे᳚ण्यः|{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

स॒हावाँ᳚,इन्द्रसान॒सिः¦पृ॑तना॒षाळम॑र्त्यः|| {2/6}{2.4.18.2}{1.175.2}{1.23.11.2}{495, 175, 1865}

त्वंहिशूरः॒सनि॑ता¦चो॒दयो॒मनु॑षो॒रथ᳚म्|{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

स॒हावा॒न्‌दस्यु॑मव्र॒त¦मोषः॒पात्रं॒नशो॒चिषा᳚|| {3/6}{2.4.18.3}{1.175.3}{1.23.11.3}{496, 175, 1866}

मु॒षा॒यसूर्यं᳚कवे¦च॒क्रमीशा᳚न॒ओज॑सा|{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

वह॒शुष्णा᳚यव॒धं¦कुत्सं॒वात॒स्याश्वैः᳚|| {4/6}{2.4.18.4}{1.175.4}{1.23.11.4}{497, 175, 1867}

शु॒ष्मिन्त॑मो॒हिते॒मदो᳚¦द्यु॒म्निन्त॑मउ॒तक्रतुः॑|{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

वृ॒त्र॒घ्नाव॑रिवो॒विदा᳚¦मंसी॒ष्ठा,अ॑श्व॒सात॑मः|| {5/6}{2.4.18.5}{1.175.5}{1.23.11.5}{498, 175, 1868}

यथा॒पूर्वे᳚भ्योजरि॒तृभ्य॑इन्द्र॒¦मय॑इ॒वापो॒नतृष्य॑तेब॒भूथ॑|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

तामनु॑त्वानि॒विदं᳚जोहवीमि¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम्|| {6/6}{2.4.18.6}{1.175.6}{1.23.11.6}{499, 175, 1869}

[55] मत्सिनइति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्य इंद्रोनुष्टुबन्त्या त्रिष्टुप् |
मत्सि॑नो॒वस्य॑इष्टय॒¦इन्द्र॑मिन्दो॒वृषावि॑श|{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

ऋ॒घा॒यमा᳚णइन्वसि॒¦शत्रु॒मन्ति॒नवि᳚न्दसि|| {1/6}{2.4.19.1}{1.176.1}{1.23.12.1}{500, 176, 1870}

तस्मि॒न्नावे᳚शया॒गिरो॒¦यएक॑श्चर्षणी॒नाम्|{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

अनु॑स्व॒धायमु॒प्यते॒¦यवं॒नचर्कृ॑ष॒द्‌वृषा᳚|| {2/6}{2.4.19.2}{1.176.2}{1.23.12.2}{501, 176, 1871}

यस्य॒विश्वा᳚नि॒हस्त॑योः॒¦पञ्च॑क्षिती॒नांवसु॑|{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

स्पा॒शय॑स्व॒यो,अ॑स्म॒ध्रुग्¦दि॒व्येवा॒शनि॑र्जहि|| {3/6}{2.4.19.3}{1.176.3}{1.23.12.3}{502, 176, 1872}

असु᳚न्वन्तंसमंजहि¦दू॒णाशं॒योनते॒मयः॑|{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

अ॒स्मभ्य॑मस्य॒वेद॑नं¦द॒द्धिसू॒रिश्चि॑दोहते|| {4/6}{2.4.19.4}{1.176.4}{1.23.12.4}{503, 176, 1873}

आवो॒यस्य॑द्वि॒बर्ह॑सो॒¦ऽर्केषु॑सानु॒षगस॑त्|{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

आ॒जाविन्द्र॑स्येन्दो॒¦प्रावो॒वाजे᳚षुवा॒जिन᳚म्|| {5/6}{2.4.19.5}{1.176.5}{1.23.12.5}{504, 176, 1874}

यथा॒पूर्वे᳚भ्योजरि॒तृभ्य॑इन्द्र॒¦मय॑इ॒वापो॒नतृष्य॑तेब॒भूथ॑|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

तामनु॑त्वानि॒विदं᳚जोहवीमि¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम्|| {6/6}{2.4.19.6}{1.176.6}{1.23.12.6}{505, 176, 1875}

[56] आचर्षणिप्राइति पंचर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् |
आच॑र्षणि॒प्रावृ॑ष॒भोजना᳚नां॒¦राजा᳚कृष्टी॒नांपु॑रुहू॒तइन्द्रः॑|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

स्तु॒तःश्र॑व॒स्यन्नव॒सोप॑म॒द्रिग्¦यु॒क्त्वाहरी॒वृष॒णाया᳚ह्य॒र्वाङ्|| {1/5}{2.4.20.1}{1.177.1}{1.23.13.1}{506, 177, 1876}

येते॒वृष॑णोवृष॒भास॑इन्द्र¦ब्रह्म॒युजो॒वृष॑रथासो॒,अत्याः᳚|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

ताँ,आति॑ष्ठ॒तेभि॒राया᳚ह्य॒र्वाङ्¦हवा᳚महेत्वासु॒तइ᳚न्द्र॒सोमे᳚|| {2/5}{2.4.20.2}{1.177.2}{1.23.13.2}{507, 177, 1877}

आति॑ष्ठ॒रथं॒वृष॑णं॒वृषा᳚ते¦सु॒तःसोमः॒परि॑षिक्ता॒मधू᳚नि|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

यु॒क्त्वावृष॑भ्यांवृषभक्षिती॒नां¦हरि॑भ्यांयाहिप्र॒वतोप॑म॒द्रिक्|| {3/5}{2.4.20.3}{1.177.3}{1.23.13.3}{508, 177, 1878}

अ॒यंय॒ज्ञोदे᳚व॒या,अ॒यंमि॒येध॑¦इ॒माब्रह्मा᳚ण्य॒यमि᳚न्द्र॒सोमः॑|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

स्ती॒र्णंब॒र्हिरातुश॑क्र॒प्रया᳚हि॒¦पिबा᳚नि॒षद्य॒विमु॑चा॒हरी᳚इ॒ह|| {4/5}{2.4.20.4}{1.177.4}{1.23.13.4}{509, 177, 1879}

ओसुष्टु॑तइन्द्रयाह्य॒र्वाङ्¦उप॒ब्रह्मा᳚णिमा॒न्यस्य॑का॒रोः|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

वि॒द्याम॒वस्तो॒रव॑सागृ॒णन्तो᳚¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम्|| {5/5}{2.4.20.5}{1.177.5}{1.23.13.5}{510, 177, 1880}

[57] यद्धस्यातइति पंचर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् |
यद्ध॒स्यात॑इन्द्रश्रु॒ष्टिरस्ति॒¦यया᳚ब॒भूथ॑जरि॒तृभ्य॑ऊ॒ती|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

मानः॒कामं᳚म॒हय᳚न्त॒माध॒¦ग्विश्वा᳚ते,अश्यां॒पर्याप॑आ॒योः|| {1/5}{2.4.21.1}{1.178.1}{1.23.14.1}{511, 178, 1881}

नघा॒राजेन्द्र॒आद॑भन्नो॒¦यानुस्वसा᳚राकृ॒णव᳚न्त॒योनौ᳚|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

आप॑श्चिदस्मैसु॒तुका᳚अवेष॒न्¦गम᳚न्न॒इन्द्रः॑स॒ख्यावय॑श्च|| {2/5}{2.4.21.2}{1.178.2}{1.23.14.2}{512, 178, 1882}

जेता॒नृभि॒रिन्द्रः॑पृ॒त्सुशूरः॒¦श्रोता॒हवं॒नाध॑मानस्यका॒रोः|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

प्रभ॑र्ता॒रथं᳚दा॒शुष॑उपा॒क¦उद्य᳚न्ता॒गिरो॒यदि॑च॒त्मना॒भूत्|| {3/5}{2.4.21.3}{1.178.3}{1.23.14.3}{513, 178, 1883}

ए॒वानृभि॒रिन्द्रः॑सुश्रव॒स्या¦प्र॑खा॒दःपृ॒क्षो,अ॒भिमि॒त्रिणो᳚भूत्|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

स॒म॒र्यइ॒षःस्त॑वते॒विवा᳚चि¦सत्राक॒रोयज॑मानस्य॒शंसः॑|| {4/5}{2.4.21.4}{1.178.4}{1.23.14.4}{514, 178, 1884}

त्वया᳚व॒यंम॑घवन्निन्द्र॒शत्रू᳚¦न॒भिष्या᳚ममह॒तोमन्य॑मानान्|{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

त्वंत्रा॒तात्वमु॑नोवृ॒धेभू᳚¦र्वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम्|| {5/5}{2.4.21.5}{1.178.5}{1.23.14.5}{515, 178, 1885}

[58] पूर्वीरमिति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्यः आद्ययोर्द्वयोर्लोपामुद्राऋषिका अंत्ययोर्द्वयोरगस्त्यांतेवासीब्रह्मचारीऋषिः सर्वासांरतिर्देवता त्रिष्टुप् पंचमी बृहती |
पू॒र्वीर॒हंश॒रदः॑शश्रमा॒णा¦दो॒षावस्तो᳚रु॒षसो᳚ज॒रय᳚न्तीः|{लोपामुद्रा ऋषिका | रतिः | त्रिष्टुप्}

मि॒नाति॒श्रियं᳚जरि॒मात॒नूना॒¦मप्यू॒नुपत्नी॒र्वृष॑णोजगम्युः|| {1/6}{2.4.22.1}{1.179.1}{1.23.15.1}{516, 179, 1886}

येचि॒द्धिपूर्व॑ऋत॒साप॒आस॑न्¦त्सा॒कंदे॒वेभि॒रव॑दन्नृ॒तानि॑|{लोपामुद्रा ऋषिका | रतिः | त्रिष्टुप्}

तेचि॒दवा᳚सुर्न॒ह्यन्त॑मा॒पुः¦समू॒नुपत्नी॒र्वृष॑भिर्जगम्युः|| {2/6}{2.4.22.2}{1.179.2}{1.23.15.2}{517, 179, 1887}

नमृषा᳚श्रा॒न्तंयदव᳚न्तिदे॒वा¦विश्वा॒,इत्‌स्पृधो᳚अ॒भ्य॑श्नवाव|{मैत्रावरुणिरगस्त्यः | रतिः | त्रिष्टुप्}

जया॒वेदत्र॑श॒तनी᳚थमा॒जिं¦यत्‌स॒म्यञ्चा᳚मिथु॒नाव॒भ्यजा᳚व|| {3/6}{2.4.22.3}{1.179.3}{1.23.15.3}{518, 179, 1888}

न॒दस्य॑मारुध॒तःकाम॒आग᳚¦न्नि॒तआजा᳚तो,अ॒मुतः॒कुत॑श्चित्|{मैत्रावरुणिरगस्त्यः | रतिः | त्रिष्टुप्}

लोपा᳚मुद्रा॒वृष॑णं॒नीरि॑णाति॒¦धीर॒मधी᳚राधयतिश्व॒सन्त᳚म्|| {4/6}{2.4.22.4}{1.179.4}{1.23.15.4}{519, 179, 1889}

इ॒मंनुसोम॒मन्ति॑तो¦हृ॒त्सुपी॒तमुप॑ब्रुवे|{अगस्त्यान्तेवासी ब्रह्मचारी | रतिः | त्रिष्टुप्}

यत्‌सी॒माग॑श्चकृ॒मातत्‌सुमृ॑ळतु¦पुलु॒कामो॒हिमर्त्यः॑|| {5/6}{2.4.22.5}{1.179.5}{1.23.15.5}{520, 179, 1890}

अ॒गस्त्यः॒खन॑मानःख॒नित्रैः᳚¦प्र॒जामप॑त्यं॒बल॑मि॒च्छमा᳚नः|{अगस्त्यान्तेवासी ब्रह्मचारी | रतिः | त्रिष्टुप्}

उ॒भौवर्णा॒वृषि॑रु॒ग्रःपु॑पोष¦स॒त्यादे॒वेष्वा॒शिषो᳚जगाम|| {6/6}{2.4.22.6}{1.179.6}{1.23.15.6}{521, 179, 1891}

[59] युवोरजांसीति दशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौत्रिष्टुप् |
यु॒वोरजां᳚सिसु॒यमा᳚सो॒,अश्वा॒¦रथो॒यद्‌वां॒पर्यर्णां᳚सि॒दीय॑त्|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

हि॒र॒ण्यया᳚वांप॒वयः॑प्रुषाय॒न्¦मध्वः॒पिब᳚न्ता,उ॒षसः॑सचेथे|| {1/10}{2.4.23.1}{1.180.1}{1.24.1.1}{522, 180, 1892}

यु॒वमत्य॒स्याव॑नक्षथो॒यद्¦विप॑त्मनो॒नर्य॑स्य॒प्रय॑ज्योः|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

स्वसा॒यद्‌वां᳚विश्वगूर्ती॒भरा᳚ति॒¦वाजा॒येट्टे᳚मधुपावि॒षेच॑|| {2/10}{2.4.23.2}{1.180.2}{1.24.1.2}{523, 180, 1893}

यु॒वंपय॑उ॒स्रिया᳚यामधत्तं¦प॒क्वमा॒माया॒मव॒पूर्व्यं॒गोः|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

अ॒न्तर्यद्‌व॒निनो᳚वामृतप्सू¦ह्वा॒रोनशुचि॒र्यज॑तेह॒विष्मा॑न्|| {3/10}{2.4.23.3}{1.180.3}{1.24.1.3}{524, 180, 1894}

यु॒वंह॑घ॒र्मंमधु॑मन्त॒मत्र॑ये॒¦ऽपोनक्षोदो᳚ऽवृणीतमे॒षे|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

तद्‌वां᳚नरावश्विना॒पश्व॑इष्टी॒¦रथ्ये᳚वच॒क्राप्रति॑यन्ति॒मध्वः॑|| {4/10}{2.4.23.4}{1.180.4}{1.24.1.4}{525, 180, 1895}

आवां᳚दा॒नाय॑ववृतीयदस्रा॒¦गोरोहे᳚णतौ॒ग्र्योनजिव्रिः॑|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

अ॒पः,क्षो॒णीस॑चते॒माहि॑नावां¦जू॒र्णोवा॒मक्षु॒रंह॑सोयजत्रा|| {5/10}{2.4.23.5}{1.180.5}{1.24.1.5}{526, 180, 1896}

नियद्‌यु॒वेथे᳚नि॒युतः॑सुदानू॒,¦उप॑स्व॒धाभिः॑सृजथः॒पुरं᳚धिम्|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

प्रेष॒द्‌वेष॒द्‌वातो॒नसू॒रि¦राम॒हेद॑देसुव्र॒तोनवाज᳚म्|| {6/10}{2.4.24.1}{1.180.6}{1.24.1.6}{527, 180, 1897}

व॒यंचि॒द्धिवां᳚जरि॒तारः॑स॒त्या¦वि॑प॒न्याम॑हे॒विप॒णिर्हि॒तावा॑न्|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

अधा᳚चि॒द्धिष्मा᳚श्विनावनिन्द्या¦पा॒थोहिष्मा᳚वृषणा॒वन्ति॑देवम्|| {7/10}{2.4.24.2}{1.180.7}{1.24.1.7}{528, 180, 1898}

यु॒वांचि॒द्धिष्मा᳚श्विना॒वनु॒द्यून्¦विरु॑द्रस्यप्र॒स्रव॑णस्यसा॒तौ|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

अ॒गस्त्यो᳚न॒रांनृषु॒प्रश॑स्तः॒¦कारा᳚धुनीवचितयत्‌स॒हस्रैः᳚|| {8/10}{2.4.24.3}{1.180.8}{1.24.1.8}{529, 180, 1899}

प्रयद्‌वहे᳚थेमहि॒नारथ॑स्य॒¦प्रस्प᳚न्द्रायाथो॒मनु॑षो॒नहोता᳚|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

ध॒त्तंसू॒रिभ्य॑उ॒तवा॒स्वश्व्यं॒¦नास॑त्यारयि॒षाचः॑स्याम|| {9/10}{2.4.24.4}{1.180.9}{1.24.1.9}{530, 180, 1900}

तंवां॒रथं᳚व॒यम॒द्याहु॑वेम॒¦स्तोमै᳚रश्विनासुवि॒ताय॒नव्य᳚म्|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

अरि॑ष्टनेमिं॒परि॒द्यामि॑या॒नं¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम्|| {10/10}{2.4.24.5}{1.180.10}{1.24.1.10}{531, 180, 1901}

[60] कदुप्रेष्ठाविति नवर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौत्रिष्टुप् |
कदु॒प्रेष्टा᳚वि॒षांर॑यी॒णा¦म॑ध्व॒र्यन्ता॒यदु᳚न्निनी॒थो,अ॒पाम्|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

अ॒यंवां᳚य॒ज्ञो,अ॑कृत॒प्रश॑स्तिं॒¦वसु॑धिती॒,अवि॑ताराजनानाम्|| {1/9}{2.4.25.1}{1.181.1}{1.24.2.1}{532, 181, 1902}

आवा॒मश्वा᳚सः॒शुच॑यःपय॒स्पा¦वात॑रंहसोदि॒व्यासो॒,अत्याः᳚|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

म॒नो॒जुवो॒वृष॑णोवी॒तपृ॑ष्ठा॒,¦एहस्व॒राजो᳚अ॒श्विना᳚वहन्तु|| {2/9}{2.4.25.2}{1.181.2}{1.24.2.2}{533, 181, 1903}

आवां॒रथो॒ऽवनि॒र्नप्र॒वत्वा᳚न्¦त्सृ॒प्रव᳚न्धुरःसुवि॒ताय॑गम्याः|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

वृष्णः॑स्थातारा॒मन॑सो॒जवी᳚या¦नहम्पू॒र्वोय॑ज॒तोधि॑ष्ण्या॒यः|| {3/9}{2.4.25.3}{1.181.3}{1.24.2.3}{534, 181, 1904}

इ॒हेह॑जा॒तासम॑वावशीता¦मरे॒पसा᳚त॒न्वा॒३॑(आ॒)नाम॑भिः॒स्वैः|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

जि॒ष्णुर्वा᳚म॒न्यःसुम॑खस्यसू॒रि¦र्दि॒वो,अ॒न्यःसु॒भगः॑पु॒त्रऊ᳚हे|| {4/9}{2.4.25.4}{1.181.4}{1.24.2.4}{535, 181, 1905}

प्रवां᳚निचे॒रुःक॑कु॒होवशाँ॒,अनु॑¦पि॒शङ्ग॑रूपः॒सद॑नानिगम्याः|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

हरी᳚अ॒न्यस्य॑पी॒पय᳚न्त॒वाजै᳚¦र्म॒थ्रारजां᳚स्यश्विना॒विघोषैः᳚|| {5/9}{2.4.25.5}{1.181.5}{1.24.2.5}{536, 181, 1906}

प्रवां᳚श॒रद्वा᳚न्‌वृष॒भोननि॒ष्षाट्¦पू॒र्वीरिष॑श्चरति॒मध्व॑इ॒ष्णन्|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

एवै᳚र॒न्यस्य॑पी॒पय᳚न्त॒वाजै॒¦र्वेष᳚न्तीरू॒र्ध्वान॒द्यो᳚न॒आगुः॑|| {6/9}{2.4.26.1}{1.181.6}{1.24.2.6}{537, 181, 1907}

अस॑र्जिवां॒स्थवि॑रावेधसा॒गी¦र्बा॒ळ्हे,अ॑श्विनात्रे॒धाक्षर᳚न्ती|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

उप॑स्तुताववतं॒नाध॑मानं॒¦याम॒न्नया᳚मञ्छृणुतं॒हवं᳚मे|| {7/9}{2.4.26.2}{1.181.7}{1.24.2.7}{538, 181, 1908}

उ॒तस्यावां॒रुश॑तो॒वप्स॑सो॒गी¦स्त्रि॑ब॒र्हिषि॒सद॑सिपिन्वते॒नॄन्|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

वृषा᳚वांमे॒घोवृ॑षणापीपाय॒¦गोर्नसेके॒मनु॑षोदश॒स्यन्|| {8/9}{2.4.26.3}{1.181.8}{1.24.2.8}{539, 181, 1909}

यु॒वांपू॒षेवा᳚श्विना॒पुरं᳚धि¦र॒ग्निमु॒षांनज॑रतेह॒विष्मा॑न्|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

हु॒वेयद्‌वां᳚वरिव॒स्यागृ॑णा॒नो¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम्|| {9/9}{2.4.26.4}{1.181.9}{1.24.2.9}{540, 181, 1910}

[61] अभूदिदमित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौजगती षष्ठ्यंत्येत्रिष्टुभौ |
अभू᳚दि॒दंव॒युन॒मोषुभू᳚षता॒¦रथो॒वृष᳚ण्वा॒न्‌मद॑तामनीषिणः|{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती}

धि॒यं॒जि॒न्वाधिष्ण्या᳚वि॒श्पला᳚वसू¦दि॒वोनपा᳚तासु॒कृते॒शुचि᳚व्रता|| {1/8}{2.4.27.1}{1.182.1}{1.24.3.1}{541, 182, 1911}

इन्द्र॑तमा॒हिधिष्ण्या᳚म॒रुत्त॑मा¦द॒स्रादंसि॑ष्ठार॒थ्या᳚र॒थीत॑मा|{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती}

पू॒र्णंरथं᳚वहेथे॒मध्व॒आचि॑तं॒¦तेन॑दा॒श्वांस॒मुप॑याथो,अश्विना|| {2/8}{2.4.27.2}{1.182.2}{1.24.3.2}{542, 182, 1912}

किमत्र॑दस्राकृणुथः॒किमा᳚साथे॒¦जनो॒यःकश्चि॒दह॑विर्मही॒यते᳚|{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती}

अति॑क्रमिष्टंजु॒रतं᳚प॒णेरसुं॒¦ज्योति॒र्विप्रा᳚यकृणुतंवच॒स्यवे᳚|| {3/8}{2.4.27.3}{1.182.3}{1.24.3.3}{543, 182, 1913}

ज॒म्भय॑तम॒भितो॒राय॑तः॒शुनो᳚¦ह॒तंमृधो᳚वि॒दथु॒स्तान्य॑श्विना|{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती}

वाचं᳚वाचंजरि॒तूर॒त्निनीं᳚कृत¦मु॒भाशंसं᳚नासत्यावतं॒मम॑|| {4/8}{2.4.27.4}{1.182.4}{1.24.3.4}{544, 182, 1914}

यु॒वमे॒तंच॑क्रथुः॒सिन्धु॑षुप्ल॒व¦मा᳚त्म॒न्वन्तं᳚प॒क्षिणं᳚तौ॒ग्र्याय॒कम्|{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती}

येन॑देव॒त्रामन॑सानिरू॒हथुः॑¦सुपप्त॒नीपे᳚तथुः॒,क्षोद॑सोम॒हः|| {5/8}{2.4.27.5}{1.182.5}{1.24.3.5}{545, 182, 1915}

अव॑विद्धंतौ॒ग्र्यम॒प्स्व१॑(अ॒)न्त¦र॑नारम्भ॒णेतम॑सि॒प्रवि॑द्धम्|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

चत॑स्रो॒नावो॒जठ॑लस्य॒जुष्टा॒,¦उद॒श्विभ्या᳚मिषि॒ताःपा᳚रयन्ति|| {6/8}{2.4.28.1}{1.182.6}{1.24.3.6}{546, 182, 1916}

कःस्वि॑द्‌वृ॒क्षोनिष्ठि॑तो॒मध्ये॒,अर्ण॑सो॒¦यंतौ॒ग्र्योना᳚धि॒तःप॒र्यष॑स्वजत्|{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती}

प॒र्णामृ॒गस्य॑प॒तरो᳚रिवा॒रभ॒¦उद॑श्विना,ऊहथुः॒श्रोम॑ताय॒कम्|| {7/8}{2.4.28.2}{1.182.7}{1.24.3.7}{547, 182, 1917}

तद्‌वां᳚नरानासत्या॒वनु॑ष्या॒द्¦यद्‌वां॒माना᳚सउ॒चथ॒मवो᳚चन्|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

अ॒स्माद॒द्यसद॑सःसो॒म्यादा¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम्|| {8/8}{2.4.28.3}{1.182.8}{1.24.3.8}{548, 182, 1918}

[62] तंयुञ्जाथामिति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौत्रिष्टुप् |
तंयु᳚ञ्जाथां॒मन॑सो॒योजवी᳚यान्¦त्रिवन्धु॒रोवृ॑षणा॒यस्त्रि॑च॒क्रः|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

येनो᳚पया॒थःसु॒कृतो᳚दुरो॒णं¦त्रि॒धातु॑नापतथो॒विर्नप॒र्णैः|| {1/6}{2.4.29.1}{1.183.1}{1.24.4.1}{549, 183, 1919}

सु॒वृद्‌रथो᳚वर्तते॒यन्न॒भिक्षां¦यत्तिष्ठ॑थः॒क्रतु॑म॒न्तानु॑पृ॒क्षे|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

वपु᳚र्वपु॒ष्यास॑चतामि॒यंगी¦र्दि॒वोदु॑हि॒त्रोषसा᳚सचेथे|| {2/6}{2.4.29.2}{1.183.2}{1.24.4.2}{550, 183, 1920}

आति॑ष्ठतंसु॒वृतं॒योरथो᳚वा॒¦मनु᳚व्र॒तानि॒वर्त॑तेह॒विष्मा॑न्|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

येन॑नरानासत्येष॒यध्यै᳚¦व॒र्तिर्या॒थस्तन॑याय॒त्मने᳚च|| {3/6}{2.4.29.3}{1.183.3}{1.24.4.3}{551, 183, 1921}

मावां॒वृको॒मावृ॒कीराद॑धर्षी॒¦न्मापरि॑वर्क्तमु॒तमाति॑धक्तम्|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

अ॒यंवां᳚भा॒गोनिहि॑तइ॒यंगी¦र्दस्रा᳚वि॒मेवां᳚नि॒धयो॒मधू᳚नाम्|| {4/6}{2.4.29.4}{1.183.4}{1.24.4.4}{552, 183, 1922}

यु॒वांगोत॑मःपुरुमी॒ळ्हो,अत्रि॒¦र्दस्रा॒हव॒तेऽव॑सेह॒विष्मा॑न्|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

दिशं॒नदि॒ष्टामृ॑जू॒येव॒यन्ता¦मे॒हवं᳚नास॒त्योप॑यातम्|| {5/6}{2.4.29.5}{1.183.5}{1.24.4.5}{553, 183, 1923}

अता᳚रिष्म॒तम॑सस्पा॒रम॒स्य¦प्रति॑वां॒स्तोमो᳚अश्विनावधायि|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

एहया᳚तंप॒थिभि॑र्देव॒यानै᳚¦र्वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम्|| {6/6}{2.4.29.6}{1.183.6}{1.24.4.6}{554, 183, 1924}

[63] तावामिति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौत्रिष्टुप् |
तावा᳚म॒द्यताव॑प॒रंहु॑वेमो॒¦च्छन्त्या᳚मु॒षसि॒वह्नि॑रु॒क्थैः|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

नास॑त्या॒कुह॑चि॒त्‌सन्ता᳚व॒र्यो¦दि॒वोनपा᳚तासु॒दास्त॑राय|| {1/6}{2.5.1.1}{1.184.1}{1.24.5.1}{555, 184, 1925}

अ॒स्मे,ऊ॒षुवृ॑षणामादयेथा॒¦मुत्‌प॒णीँर्ह॑तमू॒र्म्यामद᳚न्ता|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

श्रु॒तंमे॒,अच्छो᳚क्तिभिर्मती॒ना¦मेष्टा᳚नरा॒निचे᳚ताराच॒कर्णैः᳚|| {2/6}{2.5.1.2}{1.184.2}{1.24.5.2}{556, 184, 1926}

श्रि॒येपू᳚षन्निषु॒कृते᳚वदे॒वा¦नास॑त्यावह॒तुंसू॒र्यायाः᳚|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

व॒च्यन्ते᳚वांककु॒हा,अ॒प्सुजा॒ता¦यु॒गाजू॒र्णेव॒वरु॑णस्य॒भूरेः᳚|| {3/6}{2.5.1.3}{1.184.3}{1.24.5.3}{557, 184, 1927}

अ॒स्मेसावां᳚माध्वीरा॒तिर॑स्तु॒¦स्तोमं᳚हिनोतंमा॒न्यस्य॑का॒रोः|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

अनु॒यद्‌वां᳚श्रव॒स्या᳚सुदानू¦सु॒वीर्या᳚यचर्ष॒णयो॒मद᳚न्ति|| {4/6}{2.5.1.4}{1.184.4}{1.24.5.4}{558, 184, 1928}

ए॒षवां॒स्तोमो᳚अश्विनावकारि॒¦माने᳚भिर्मघवानासुवृ॒क्ति|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

या॒तंव॒र्तिस्तन॑याय॒त्मने᳚चा॒¦गस्त्ये᳚नासत्या॒मद᳚न्ता|| {5/6}{2.5.1.5}{1.184.5}{1.24.5.5}{559, 184, 1929}

अता᳚रिष्म॒तम॑सस्पा॒रम॒स्य¦प्रति॑वां॒स्तोमो᳚अश्विनावधायि|{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

एहया᳚तंप॒थिभि॑र्देव॒यानै᳚¦र्वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम्|| {6/6}{2.5.1.6}{1.184.6}{1.24.5.6}{560, 184, 1930}

[64] कतरेत्येकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योद्यावापृथिवीत्रिष्टुप् |
क॒त॒रापूर्वा᳚कत॒राप॑रा॒योः¦क॒थाजा॒तेक॑वयः॒कोविवे᳚द|{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

विश्वं॒त्मना᳚बिभृतो॒यद्ध॒नाम॒¦विव॑र्तेते॒,अह॑नीच॒क्रिये᳚व|| {1/11}{2.5.2.1}{1.185.1}{1.24.6.1}{561, 185, 1931}

भूरिं॒द्वे,अच॑रन्ती॒चर᳚न्तं¦प॒द्वन्तं॒गर्भ॑म॒पदी᳚दधाते|{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

नित्यं॒नसू॒नुंपि॒त्रोरु॒पस्थे॒¦द्यावा॒रक्ष॑तंपृथिवीनो॒,अभ्वा᳚त्|| {2/11}{2.5.2.2}{1.185.2}{1.24.6.2}{562, 185, 1932}

अ॒ने॒होदा॒त्रमदि॑तेरन॒र्वं¦हु॒वेस्व᳚र्वदव॒धंनम॑स्वत्|{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

तद्‌रो᳚दसीजनयतंजरि॒त्रे¦द्यावा॒रक्ष॑तंपृथिवीनो॒,अभ्वा᳚त्|| {3/11}{2.5.2.3}{1.185.3}{1.24.6.3}{563, 185, 1933}

अत॑प्यमाने॒,अव॒साव᳚न्ती॒,¦अनु॑ष्याम॒रोद॑सीदे॒वपु॑त्रे|{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

उ॒भेदे॒वाना᳚मु॒भये᳚भि॒रह्नां॒¦द्यावा॒रक्ष॑तंपृथिवीनो॒,अभ्वा᳚त्|| {4/11}{2.5.2.4}{1.185.4}{1.24.6.4}{564, 185, 1934}

सं॒गच्छ॑मानेयुव॒तीसम᳚न्ते॒¦स्वसा᳚राजा॒मीपि॒त्रोरु॒पस्थे᳚|{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

अ॒भि॒जिघ्र᳚न्ती॒भुव॑नस्य॒नाभिं॒¦द्यावा॒रक्ष॑तंपृथिवीनो॒,अभ्वा᳚त्|| {5/11}{2.5.2.5}{1.185.5}{1.24.6.5}{565, 185, 1935}

उ॒र्वीसद्म॑नीबृह॒ती,ऋ॒तेन॑¦हु॒वेदे॒वाना॒मव॑सा॒जनि॑त्री|{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

द॒धाते॒ये,अ॒मृतं᳚सु॒प्रती᳚के॒¦द्यावा॒रक्ष॑तंपृथिवीनो॒,अभ्वा᳚त्|| {6/11}{2.5.3.1}{1.185.6}{1.24.6.6}{566, 185, 1936}

उ॒र्वीपृ॒थ्वीब॑हु॒लेदू॒रे,अ᳚न्ते॒,¦उप॑ब्रुवे॒नम॑साय॒ज्ञे,अ॒स्मिन्|{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

द॒धाते॒येसु॒भगे᳚सु॒प्रतू᳚र्ती॒¦द्यावा॒रक्ष॑तंपृथिवीनो॒,अभ्वा᳚त्|| {7/11}{2.5.3.2}{1.185.7}{1.24.6.7}{567, 185, 1937}

दे॒वान्‌वा॒यच्च॑कृ॒माकच्चि॒दागः॒¦सखा᳚यंवा॒सद॒मिज्जास्प॑तिंवा|{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

इ॒यंधीर्भू᳚या,अव॒यान॑मेषां॒¦द्यावा॒रक्ष॑तंपृथिवीनो॒,अभ्वा᳚त्|| {8/11}{2.5.3.3}{1.185.8}{1.24.6.8}{568, 185, 1938}

उ॒भाशंसा॒नर्या॒माम॑विष्टा¦मु॒भेमामू॒ती,अव॑सासचेताम्|{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

भूरि॑चिद॒र्यःसु॒दास्त॑राये॒¦षामद᳚न्तइषयेमदेवाः|| {9/11}{2.5.3.4}{1.185.9}{1.24.6.9}{569, 185, 1939}

ऋ॒तंदि॒वेतद॑वोचंपृथि॒व्या,¦अ॑भिश्रा॒वाय॑प्रथ॒मंसु॑मे॒धाः|{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

पा॒ताम॑व॒द्याद्‌दु॑रि॒ताद॒भीके᳚¦पि॒तामा॒ताच॑रक्षता॒मवो᳚भिः|| {10/11}{2.5.3.5}{1.185.10}{1.24.6.10}{570, 185, 1940}

इ॒दंद्या᳚वापृथिवीस॒त्यम॑स्तु॒¦पित॒र्मात॒र्यदि॒होप॑ब्रु॒वेवा᳚म्|{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

भू॒तंदे॒वाना᳚मव॒मे,अवो᳚भि¦र्वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम्|| {11/11}{2.5.3.6}{1.185.11}{1.24.6.11}{571, 185, 1941}

[65] आनइळाभिरित्येकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योविश्वेदेवास्त्रिष्टुप् | (सूक्तभेदप्रयोगेतु-आद्यचतसृणां विश्वेदेवाः ततएकस्याअहिर्बुध्न्यः ततएकस्यास्त्वष्टा ततएकस्याइंद्रः ततोद्वयोर्मरुतः ततोद्वयोर्विश्वेदेवाः एवमेकादश) |
आन॒इळा᳚भिर्वि॒दथे᳚सुश॒स्ति¦वि॒श्वान॑रःसवि॒तादे॒वए᳚तु|{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

अपि॒यथा᳚युवानो॒मत्स॑थानो॒¦विश्वं॒जग॑दभिपि॒त्वेम॑नी॒षा|| {1/11}{2.5.4.1}{1.186.1}{1.24.7.1}{572, 186, 1942}

आनो॒विश्व॒आस्क्रा᳚गमन्तुदे॒वा¦मि॒त्रो,अ᳚र्य॒मावरु॑णःस॒जोषाः᳚|{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

भुव॒न्‌यथा᳚नो॒विश्वे᳚वृ॒धासः॒¦कर᳚न्‌त्सु॒षाहा᳚विथु॒रंनशवः॑|| {2/11}{2.5.4.2}{1.186.2}{1.24.7.2}{573, 186, 1943}

प्रेष्ठं᳚वो॒,अति॑थिंगृणीषे॒¦ऽग्निंश॒स्तिभि॑स्तु॒र्वणिः॑स॒जोषाः᳚|{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

अस॒द्‌यथा᳚नो॒वरु॑णःसुकी॒र्ति¦रिष॑श्चपर्षदरिगू॒र्तःसू॒रिः|| {3/11}{2.5.4.3}{1.186.3}{1.24.7.3}{574, 186, 1944}

उप॑व॒एषे॒नम॑साजिगी॒षो¦षासा॒नक्ता᳚सु॒दुघे᳚वधे॒नुः|{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

स॒मा॒ने,अह᳚न्‌वि॒मिमा᳚नो,अ॒र्कं¦विषु॑रूपे॒पय॑सि॒सस्मि॒न्नूध॑न्|| {4/11}{2.5.4.4}{1.186.4}{1.24.7.4}{575, 186, 1945}

उ॒तनोऽहि॑र्बु॒ध्न्यो॒३॑(ओ॒)मय॑स्कः॒¦शिशुं॒नपि॒प्युषी᳚ववेति॒सिन्धुः॑|{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

येन॒नपा᳚तम॒पांजु॒नाम॑¦मनो॒जुवो॒वृष॑णो॒यंवह᳚न्ति|| {5/11}{2.5.4.5}{1.186.5}{1.24.7.5}{576, 186, 1946}

उ॒तन॑ईं॒त्वष्टाग॒न्त्वच्छा॒¦स्मत्‌सू॒रिभि॑रभिपि॒त्वेस॒जोषाः᳚|{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

आवृ॑त्र॒हेन्द्र॑श्चर्षणि॒प्रा¦स्तु॒विष्ट॑मोन॒रांन॑इ॒हग᳚म्याः|| {6/11}{2.5.5.1}{1.186.6}{1.24.7.6}{577, 186, 1947}

उ॒तन॑ईंम॒तयोऽश्व॑योगाः॒¦शिशुं॒नगाव॒स्तरु॑णंरिहन्ति|{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

तमीं॒गिरो॒जन॑यो॒नपत्नीः᳚¦सुर॒भिष्ट॑मंन॒रांन॑सन्त|| {7/11}{2.5.5.2}{1.186.7}{1.24.7.7}{578, 186, 1948}

उ॒तन॑ईंम॒रुतो᳚वृ॒द्धसे᳚नाः॒¦स्मद्‌रोद॑सी॒सम॑नसःसदन्तु|{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

पृष॑दश्वासो॒ऽवन॑यो॒नरथा᳚¦रि॒शाद॑सोमित्र॒युजो॒नदे॒वाः|| {8/11}{2.5.5.3}{1.186.8}{1.24.7.8}{579, 186, 1949}

प्रनुयदे᳚षांमहि॒नाचि॑कि॒त्रे¦प्रयु᳚ञ्जतेप्र॒युज॒स्तेसु॑वृ॒क्ति|{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

अध॒यदे᳚षांसु॒दिने॒नशरु॒¦र्विश्व॒मेरि॑णंप्रुषा॒यन्त॒सेनाः᳚|| {9/11}{2.5.5.4}{1.186.9}{1.24.7.9}{580, 186, 1950}

प्रो,अ॒श्विना॒वव॑सेकृणुध्वं॒¦प्रपू॒षणं॒स्वत॑वसो॒हिसन्ति॑|{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

अ॒द्वे॒षोविष्णु॒र्वात॑ऋभु॒क्षा,¦अच्छा᳚सु॒म्नाय॑ववृतीयदे॒वान्|| {10/11}{2.5.5.5}{1.186.10}{1.24.7.10}{581, 186, 1951}

इ॒यंसावो᳚अ॒स्मेदीधि॑तिर्यजत्रा,¦अपि॒प्राणी᳚च॒सद॑नीचभूयाः|{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

नियादे॒वेषु॒यत॑तेवसू॒यु¦र्वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम्|| {11/11}{2.5.5.6}{1.186.11}{1.24.7.11}{582, 186, 1952}

[66] पितुंन्वित्येकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योन्नं गायत्री आद्यानुष्टुगर्भा तृतीयापंचम्याद्याश्चतस्रोनुष्टुभोन्त्याबृहतीवा |
पि॒तुंनुस्तो᳚षं¦म॒होध॒र्माणं॒तवि॑षीम्|{मैत्रावरुणिरगस्त्यः | अन्नं | अनुष्टुगर्भोष्णिक्}

यस्य॑त्रि॒तोव्योज॑सा¦वृ॒त्रंविप᳚र्वम॒र्दय॑त्|| {1/11}{2.5.6.1}{1.187.1}{1.24.8.1}{583, 187, 1953}

स्वादो᳚पितो॒मधो᳚पितो¦व॒यंत्वा᳚ववृमहे|{मैत्रावरुणिरगस्त्यः | अन्नं | गायत्री}

अ॒स्माक॑मवि॒ताभ॑व|| {2/11}{2.5.6.2}{1.187.2}{1.24.8.2}{584, 187, 1954}

उप॑नःपित॒वाच॑र¦शि॒वःशि॒वाभि॑रू॒तिभिः॑|{मैत्रावरुणिरगस्त्यः | अन्नं | अनुष्टुप्}

म॒यो॒भुर॑द्विषे॒ण्यः¦सखा᳚सु॒शेवो॒,अद्व॑याः|| {3/11}{2.5.6.3}{1.187.3}{1.24.8.3}{585, 187, 1955}

तव॒त्येपि॑तो॒रसा॒¦रजां॒स्यनु॒विष्ठि॑ताः|{मैत्रावरुणिरगस्त्यः | अन्नं | गायत्री}

दि॒विवाता᳚इवश्रि॒ताः|| {4/11}{2.5.6.4}{1.187.4}{1.24.8.4}{586, 187, 1956}

तव॒त्येपि॑तो॒दद॑त॒¦स्तव॑स्वादिष्ठ॒तेपि॑तो|{मैत्रावरुणिरगस्त्यः | अन्नं | अनुष्टुप्}

प्रस्वा॒द्मानो॒रसा᳚नां¦तुवि॒ग्रीवा᳚इवेरते|| {5/11}{2.5.6.5}{1.187.5}{1.24.8.5}{587, 187, 1957}

त्वेपि॑तोम॒हानां᳚¦दे॒वानां॒मनो᳚हि॒तम्|{मैत्रावरुणिरगस्त्यः | अन्नं | अनुष्टुप्}

अका᳚रि॒चारु॑के॒तुना॒¦तवाहि॒मव॑सावधीत्|| {6/11}{2.5.7.1}{1.187.6}{1.24.8.6}{588, 187, 1958}

यद॒दोपि॑तो॒,अज॑गन्¦वि॒वस्व॒पर्व॑तानाम्|{मैत्रावरुणिरगस्त्यः | अन्नं | अनुष्टुप्}

अत्रा᳚चिन्नोमधोपि॒तो¦ऽरं᳚भ॒क्षाय॑गम्याः|| {7/11}{2.5.7.2}{1.187.7}{1.24.8.7}{589, 187, 1959}

यद॒पामोष॑धीनां¦परिं॒शमा᳚रि॒शाम॑हे|{मैत्रावरुणिरगस्त्यः | अन्नं | गायत्री}

वाता᳚पे॒पीव॒इद्‌भ॑व|| {8/11}{2.5.7.3}{1.187.8}{1.24.8.8}{590, 187, 1960}

यत्ते᳚सोम॒गवा᳚शिरो॒¦यवा᳚शिरो॒भजा᳚महे|{मैत्रावरुणिरगस्त्यः | अन्नं | गायत्री}

वाता᳚पे॒पीव॒इद्‌भ॑व|| {9/11}{2.5.7.4}{1.187.9}{1.24.8.9}{591, 187, 1961}

क॒र॒म्भओ᳚षधेभव॒¦पीवो᳚वृ॒क्कउ॑दार॒थिः|{मैत्रावरुणिरगस्त्यः | अन्नं | गायत्री}

वाता᳚पे॒पीव॒इद्‌भ॑व|| {10/11}{2.5.7.5}{1.187.10}{1.24.8.10}{592, 187, 1962}

तंत्वा᳚व॒यंपि॑तो॒वचो᳚भि॒¦र्गावो॒नह॒व्यासु॑षूदिम|{मैत्रावरुणिरगस्त्यः | अन्नं | बृहती}

दे॒वेभ्य॑स्त्वासध॒माद॑¦म॒स्मभ्यं᳚त्वासध॒माद᳚म्|| {11/11}{2.5.7.6}{1.187.11}{1.24.8.11}{593, 187, 1963}

[67] समिद्धइत्येकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य इध्मस्तनूनपादिळोबर्हिर्देवीर्द्वार उषासानक्तादैव्यौहोतारौ सरस्वतीळा भारत्यस्त्वष्टा वनस्पति स्वाहाकृतयइतिक्रमेणदेवताः गायत्रीच्छंदः |
समि॑द्धो,अ॒द्यरा᳚जसि¦दे॒वोदे॒वैःस॑हस्रजित्|{मैत्रावरुणिरगस्त्यः | इध्मः समिद्धोऽग्निर्वा | गायत्री}

दू॒तोह॒व्याक॒विर्व॑ह|| {1/11}{2.5.8.1}{1.188.1}{1.24.9.1}{594, 188, 1964}

तनू᳚नपादृ॒तंय॒ते¦मध्वा᳚य॒ज्ञःसम॑ज्यते|{मैत्रावरुणिरगस्त्यः | तनूनपात् | गायत्री}

दध॑त्‌सह॒स्रिणी॒रिषः॑|| {2/11}{2.5.8.2}{1.188.2}{1.24.9.2}{595, 188, 1965}

आ॒जुह्वा᳚नोन॒ईड्यो᳚¦दे॒वाँ,आव॑क्षिय॒ज्ञिया॑न्|{मैत्रावरुणिरगस्त्यः | इळः | गायत्री}

अग्ने᳚सहस्र॒सा,अ॑सि|| {3/11}{2.5.8.3}{1.188.3}{1.24.9.3}{596, 188, 1966}

प्रा॒चीनं᳚ब॒र्हिरोज॑सा¦स॒हस्र॑वीरमस्तृणन्|{मैत्रावरुणिरगस्त्यः | बर्हिः | गायत्री}

यत्रा᳚दित्यावि॒राज॑थ|| {4/11}{2.5.8.4}{1.188.4}{1.24.9.4}{597, 188, 1967}

वि॒राट्‌स॒म्राड्वि॒भ्वीःप्र॒भ्वी¦र्ब॒ह्वीश्च॒भूय॑सीश्च॒याः|{मैत्रावरुणिरगस्त्यः | देवीर्द्वारः | गायत्री}

दुरो᳚घृ॒तान्य॑क्षरन्|| {5/11}{2.5.8.5}{1.188.5}{1.24.9.5}{598, 188, 1968}

सु॒रु॒क्मेहिसु॒पेश॒सा¦धि॑श्रि॒यावि॒राज॑तः|{मैत्रावरुणिरगस्त्यः | उषासानक्ता | गायत्री}

उ॒षासा॒वेहसी᳚दताम्|| {6/11}{2.5.9.1}{1.188.6}{1.24.9.6}{599, 188, 1969}

प्र॒थ॒माहिसु॒वाच॑सा॒¦होता᳚रा॒दैव्या᳚क॒वी|{मैत्रावरुणिरगस्त्यः | दैव्यौ होतारौ प्रचेतसौ | गायत्री}

य॒ज्ञंनो᳚यक्षतामि॒मम्|| {7/11}{2.5.9.2}{1.188.7}{1.24.9.7}{600, 188, 1970}

भार॒तीळे॒सर॑स्वति॒¦यावः॒सर्वा᳚उपब्रु॒वे|{मैत्रावरुणिरगस्त्यः | तिस्रो देव्यः सरस्वतीळाभारत्यः | गायत्री}

तान॑श्चोदयतश्रि॒ये|| {8/11}{2.5.9.3}{1.188.8}{1.24.9.8}{601, 188, 1971}

त्वष्टा᳚रू॒पाणि॒हिप्र॒भुः¦प॒शून्‌विश्वा᳚न्‌त्समान॒जे|{मैत्रावरुणिरगस्त्यः | त्वष्टा | गायत्री}

तेषां᳚नःस्फा॒तिमाय॑ज|| {9/11}{2.5.9.4}{1.188.9}{1.24.9.9}{602, 188, 1972}

उप॒त्मन्या᳚वनस्पते॒¦पाथो᳚दे॒वेभ्यः॑सृज|{मैत्रावरुणिरगस्त्यः | वनस्पतिः | गायत्री}

अ॒ग्निर्ह॒व्यानि॑सिष्वदत्|| {10/11}{2.5.9.5}{1.188.10}{1.24.9.10}{603, 188, 1973}

पु॒रो॒गा,अ॒ग्निर्दे॒वानां᳚¦गाय॒त्रेण॒सम॑ज्यते|{मैत्रावरुणिरगस्त्यः | स्वाहाकृतयः | गायत्री}

स्वाहा᳚कृतीषुरोचते|| {11/11}{2.5.9.6}{1.188.11}{1.24.9.11}{604, 188, 1974}

[68] अग्नेनयेत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योग्निस्त्रिष्टुप् |
अग्ने॒नय॑सु॒पथा᳚रा॒ये,अ॒स्मान्¦विश्वा᳚निदेवव॒युना᳚निवि॒द्वान्|{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्}

यु॒यो॒ध्य१॑(अ॒)स्मज्जु॑हुरा॒णमेनो॒¦भूयि॑ष्ठांते॒नम॑उक्तिंविधेम|| {1/8}{2.5.10.1}{1.189.1}{1.24.10.1}{605, 189, 1975}

अग्ने॒त्वंपा᳚रया॒नव्यो᳚अ॒स्मान्¦त्स्व॒स्तिभि॒रति॑दु॒र्गाणि॒विश्वा᳚|{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्}

पूश्च॑पृ॒थ्वीब॑हु॒लान॑उ॒र्वी¦भवा᳚तो॒काय॒तन॑याय॒शंयोः|| {2/8}{2.5.10.2}{1.189.2}{1.24.10.2}{606, 189, 1976}

अग्ने॒त्वम॒स्मद्‌यु॑यो॒ध्यमी᳚वा॒,¦अन॑ग्नित्रा,अ॒भ्यम᳚न्तकृ॒ष्टीः|{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्}

पुन॑र॒स्मभ्यं᳚सुवि॒ताय॑देव॒¦क्षांविश्वे᳚भिर॒मृते᳚भिर्यजत्र|| {3/8}{2.5.10.3}{1.189.3}{1.24.10.3}{607, 189, 1977}

पा॒हिनो᳚अग्नेपा॒युभि॒रज॑स्रै¦रु॒तप्रि॒येसद॑न॒आशु॑शु॒क्वान्|{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्}

माते᳚भ॒यंज॑रि॒तारं᳚यविष्ठ¦नू॒नंवि॑द॒न्माप॒रंस॑हस्वः|| {4/8}{2.5.10.4}{1.189.4}{1.24.10.4}{608, 189, 1978}

मानो᳚अ॒ग्नेऽव॑सृजो,अ॒घाया᳚¦वि॒ष्यवे᳚रि॒पवे᳚दु॒च्छुना᳚यै|{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्}

माद॒त्वते॒दश॑ते॒मादते᳚नो॒¦मारीष॑तेसहसाव॒न्‌परा᳚दाः|| {5/8}{2.5.10.5}{1.189.5}{1.24.10.5}{609, 189, 1979}

विघ॒त्वावाँ᳚ऋतजातयंसद्¦गृणा॒नो,अ॑ग्नेत॒न्वे॒३॑(ए॒)वरू᳚थम्|{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्}

विश्वा᳚द्‌रिरि॒क्षोरु॒तवा᳚निनि॒त्सो¦र॑भि॒ह्रुता॒मसि॒हिदे᳚ववि॒ष्पट्|| {6/8}{2.5.11.1}{1.189.6}{1.24.10.6}{610, 189, 1980}

त्वंताँ,अ॑ग्नउ॒भया॒न्‌विवि॒द्वान्¦वेषि॑प्रपि॒त्वेमनु॑षोयजत्र|{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्}

अ॒भि॒पि॒त्वेमन॑वे॒शास्यो᳚भू¦र्मर्मृ॒जेन्य॑उ॒शिग्भि॒र्नाक्रः|| {7/8}{2.5.11.2}{1.189.7}{1.24.10.7}{611, 189, 1981}

अवो᳚चामनि॒वच॑नान्यस्मि॒न्¦मान॑स्यसू॒नुःस॑हसा॒ने,अ॒ग्नौ|{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्}

व॒यंस॒हस्र॒मृषि॑भिःसनेम¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम्|| {8/8}{2.5.11.3}{1.189.8}{1.24.10.8}{612, 189, 1982}

[69] अनर्वाणमित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यो बृहस्पतिस्त्रिष्टुप् |
अ॒न॒र्वाणं᳚वृष॒भंम॒न्द्रजि॑ह्वं॒¦बृह॒स्पतिं᳚वर्धया॒नव्य॑म॒र्कैः|{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्}

गा॒था॒न्यः॑सु॒रुचो॒यस्य॑दे॒वा,¦आ᳚शृ॒ण्वन्ति॒नव॑मानस्य॒मर्ताः᳚|| {1/8}{2.5.12.1}{1.190.1}{1.24.11.1}{613, 190, 1983}

तमृ॒त्विया॒,उप॒वाचः॑सचन्ते॒¦सर्गो॒नयोदे᳚वय॒तामस॑र्जि|{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पतिः॒सह्यञ्जो॒वरां᳚सि॒¦विभ्वाभ॑व॒त्‌समृ॒तेमा᳚त॒रिश्वा᳚|| {2/8}{2.5.12.2}{1.190.2}{1.24.11.2}{614, 190, 1984}

उप॑स्तुतिं॒नम॑स॒उद्य॑तिंच॒¦श्लोकं᳚यंसत्‌सवि॒तेव॒प्रबा॒हू|{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्}

अ॒स्यक्रत्वा᳚ह॒न्यो॒३॑(ओ॒)यो,अस्ति॑¦मृ॒गोनभी॒मो,अ॑र॒क्षस॒स्तुवि॑ष्मान्|| {3/8}{2.5.12.3}{1.190.3}{1.24.11.3}{615, 190, 1985}

अ॒स्यश्लोको᳚दि॒वीय॑तेपृथि॒व्या¦मत्यो॒नयं᳚सद्‌यक्ष॒भृद्‌विचे᳚ताः|{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्}

मृ॒गाणां॒नहे॒तयो॒यन्ति॑चे॒मा¦बृह॒स्पते॒रहि॑मायाँ,अ॒भिद्यून्|| {4/8}{2.5.12.4}{1.190.4}{1.24.11.4}{616, 190, 1986}

येत्वा᳚देवोस्रि॒कंमन्य॑मानाः¦पा॒पाभ॒द्रमु॑प॒जीव᳚न्तिप॒ज्राः|{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्}

नदू॒ढ्ये॒३॑(ए॒)अनु॑ददासिवा॒मं¦बृह॑स्पते॒चय॑स॒इत्‌पिया᳚रुम्|| {5/8}{2.5.12.5}{1.190.5}{1.24.11.5}{617, 190, 1987}

सु॒प्रैतुः॑सू॒यव॑सो॒नपन्था᳚¦दुर्नि॒यन्तुः॒परि॑प्रीतो॒नमि॒त्रः|{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्}

अ॒न॒र्वाणो᳚अ॒भियेचक्ष॑ते॒नो¦ऽपी᳚वृता,अपोर्णु॒वन्तो᳚अस्थुः|| {6/8}{2.5.13.1}{1.190.6}{1.24.11.6}{618, 190, 1988}

संयंस्तुभो॒ऽवन॑यो॒नयन्ति॑¦समु॒द्रंनस्र॒वतो॒रोध॑चक्राः|{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्}

सवि॒द्वाँ,उ॒भयं᳚चष्टे,अ॒न्त¦र्बृह॒स्पति॒स्तर॒आप॑श्च॒गृध्रः॑|| {7/8}{2.5.13.2}{1.190.7}{1.24.11.7}{619, 190, 1989}

ए॒वाम॒हस्तु॑विजा॒तस्तुवि॑ष्मा॒न्¦बृह॒स्पति᳚र्वृष॒भोधा᳚यिदे॒वः|{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्}

सनः॑स्तु॒तोवी॒रव॑द्‌धातु॒गोम॑द्¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम्|| {8/8}{2.5.13.3}{1.190.8}{1.24.11.8}{620, 190, 1990}

[70] कङ्कतइति षोळशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योप्तृणसूर्याअनुष्टुप् दशम्याद्यास्तिस्रो महापंक्तयस्त्रयोदशी महाबृहती | (विषन्नसूक्तं) |
कङ्क॑तो॒नकङ्क॒तो¦ऽथो᳚सती॒नक᳚ङ्कतः|{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

द्वाविति॒प्लुषी॒,इति॒¦न्य१॑(अ॒)दृष्टा᳚अलिप्सत|| {1/16}{2.5.14.1}{1.191.1}{1.24.12.1}{621, 191, 1991}

अ॒दृष्टा᳚न्‌हन्त्याय॒¦त्यथो᳚हन्तिपराय॒ती|{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

अथो᳚अवघ्न॒तीह॒¦न्त्यथो᳚पिनष्टिपिंष॒ती|| {2/16}{2.5.14.2}{1.191.2}{1.24.12.2}{622, 191, 1992}

श॒रासः॒कुश॑रासो¦द॒र्भासः॑सै॒र्या,उ॒त|{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

मौ॒ञ्जा,अ॒दृष्टा᳚वैरि॒णाः¦सर्वे᳚सा॒कंन्य॑लिप्सत|| {3/16}{2.5.14.3}{1.191.3}{1.24.12.3}{623, 191, 1993}

निगावो᳚गो॒ष्ठे,अ॑सद॒न्¦निमृ॒गासो᳚अविक्षत|{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

निके॒तवो॒जना᳚नां॒¦न्य१॑(अ॒)दृष्टा᳚अलिप्सत|| {4/16}{2.5.14.4}{1.191.4}{1.24.12.4}{624, 191, 1994}

ए॒तउ॒त्येप्रत्य॑दृश्रन्¦प्रदो॒षंतस्क॑रा,इव|{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

अदृ॑ष्टा॒विश्व॑दृष्टाः॒¦प्रति॑बुद्धा,अभूतन|| {5/16}{2.5.14.5}{1.191.5}{1.24.12.5}{625, 191, 1995}

द्यौर्वः॑पि॒तापृ॑थि॒वीमा॒ता¦सोमो॒भ्रातादि॑तिः॒स्वसा᳚|{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

अदृ॑ष्टा॒विश्व॑दृष्टा॒¦स्तिष्ठ॑ते॒लय॑ता॒सुक᳚म्|| {6/16}{2.5.15.1}{1.191.6}{1.24.12.6}{626, 191, 1996}

ये,अंस्या॒ये,अङ्ग्याः᳚¦सू॒चीका॒येप्र॑कङ्क॒ताः|{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

अदृ॑ष्टाः॒किंच॒नेहवः॒¦सर्वे᳚सा॒कंनिज॑स्यत|| {7/16}{2.5.15.2}{1.191.7}{1.24.12.7}{627, 191, 1997}

उत्‌पु॒रस्ता॒त्‌सूर्य॑एति¦वि॒श्वदृ॑ष्टो,अदृष्ट॒हा|{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

अ॒दृष्टा॒न्‌त्सर्वा᳚ञ्ज॒म्भय॒न्¦त्सर्वा᳚श्चयातुधा॒न्यः॑|| {8/16}{2.5.15.3}{1.191.8}{1.24.12.8}{628, 191, 1998}

उद॑पप्तद॒सौसूर्यः॑¦पु॒रुविश्वा᳚नि॒जूर्व॑न्|{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

आ॒दि॒त्यःपर्व॑तेभ्यो¦वि॒श्वदृ॑ष्टो,अदृष्ट॒हा|| {9/16}{2.5.15.4}{1.191.9}{1.24.12.9}{629, 191, 1999}

सूर्ये᳚वि॒षमास॑जामि॒¦दृतिं॒सुरा᳚वतोगृ॒हे|{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | महापङ्क्तिः}

सोचि॒न्नुनम॑राति॒नो¦व॒यंम॑रामा॒रे,अ॑स्य॒¦योज॑नंहरि॒ष्ठामधु॑¦त्वामधु॒लाच॑कार|| {10/16}{2.5.15.5}{1.191.10}{1.24.12.10}{630, 191, 2000}

इ॒य॒त्ति॒काश॑कुन्ति॒का¦स॒काज॑घासतेवि॒षम्|{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | महापङ्क्तिः}

सोचि॒न्नुनम॑राति॒नो¦व॒यंम॑रामा॒रे,अ॑स्य॒¦योज॑नंहरि॒ष्ठामधु॑¦त्वामधु॒लाच॑कार|| {11/16}{2.5.16.1}{1.191.11}{1.24.12.11}{631, 191, 2001}

त्रिःस॒प्तवि॑ष्पुलिङ्ग॒का¦वि॒षस्य॒पुष्प॑मक्षन्|{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | महापङ्क्तिः}

ताश्चि॒न्नुनम॑रन्ति॒नो¦व॒यंम॑रामा॒रे,अ॑स्य॒¦योज॑नंहरि॒ष्ठामधु॑¦त्वामधु॒लाच॑कार|| {12/16}{2.5.16.2}{1.191.12}{1.24.12.12}{632, 191, 2002}

न॒वा॒नांन॑वती॒नां¦वि॒षस्य॒रोपु॑षीणाम्|{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | महाबृहती}

सर्वा᳚सामग्रभं॒नामा॒¦रे,अ॑स्य॒योज॑नं¦हरि॒ष्ठामधु॑त्वामधु॒लाच॑कार|| {13/16}{2.5.16.3}{1.191.13}{1.24.12.13}{633, 191, 2003}

त्रिःस॒प्तम॑यू॒र्यः॑¦स॒प्तस्वसा᳚रो,अ॒ग्रुवः॑|{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

तास्ते᳚वि॒षंविज॑भ्रिर¦उद॒कंकु॒म्भिनी᳚रिव|| {14/16}{2.5.16.4}{1.191.14}{1.24.12.14}{634, 191, 2004}

इ॒य॒त्त॒कःकु॑षुम्भ॒क¦स्त॒कंभि॑न॒द्म्यश्म॑ना|{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

ततो᳚वि॒षंप्रवा᳚वृते॒¦परा᳚ची॒रनु॑सं॒वतः॑|| {15/16}{2.5.16.5}{1.191.15}{1.24.12.15}{635, 191, 2005}

कु॒षु॒म्भ॒कस्तद॑ब्रवीद्¦गि॒रेःप्र॑वर्तमान॒कः|{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

वृश्चि॑कस्यार॒संवि॒ष¦म॑र॒संवृ॑श्चिकतेवि॒षम्|| {16/16}{2.5.16.6}{1.191.16}{1.24.12.16}{636, 191, 2006}

[71] त्वमग्नइतिषोळशर्चस्य सूक्तस्य शौनकोगृत्समदोग्निर्जगती |
त्वम॑ग्ने॒द्युभि॒स्त्वमा᳚शुशु॒क्षणि॒¦स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑|{शौनको गृत्समदः | अग्निः | जगती}

त्वंवने᳚भ्य॒स्त्वमोष॑धीभ्य॒¦स्त्वंनृ॒णांनृ॑पतेजायसे॒शुचिः॑|| {1/16}{2.5.17.1}{2.1.1}{2.1.1.1}{637, 192, 2007}

तवा᳚ग्नेहो॒त्रंतव॑पो॒त्रमृ॒त्वियं॒¦तव॑ने॒ष्ट्रंत्वम॒ग्निदृ॑ताय॒तः|{शौनको गृत्समदः | अग्निः | जगती}

तव॑प्रशा॒स्त्रंत्वम॑ध्वरीयसि¦ब्र॒ह्माचासि॑गृ॒हप॑तिश्चनो॒दमे᳚|| {2/16}{2.5.17.2}{2.1.2}{2.1.1.2}{638, 192, 2008}

त्वम॑ग्न॒इन्द्रो᳚वृष॒भःस॒ताम॑सि॒¦त्वंविष्णु॑रुरुगा॒योन॑म॒स्यः॑|{शौनको गृत्समदः | अग्निः | जगती}

त्वंब्र॒ह्मार॑यि॒विद्‌ब्र᳚ह्मणस्पते॒¦त्वंवि॑धर्तःसचसे॒पुरं᳚ध्या|| {3/16}{2.5.17.3}{2.1.3}{2.1.1.3}{639, 192, 2009}

त्वम॑ग्ने॒राजा॒वरु॑णोधृ॒तव्र॑त॒¦स्त्वंमि॒त्रोभ॑वसिद॒स्मईड्यः॑|{शौनको गृत्समदः | अग्निः | जगती}

त्वम᳚र्य॒मासत्प॑ति॒र्यस्य॑स॒म्भुजं॒¦त्वमंशो᳚वि॒दथे᳚देवभाज॒युः|| {4/16}{2.5.17.4}{2.1.4}{2.1.1.4}{640, 192, 2010}

त्वम॑ग्ने॒त्वष्टा᳚विध॒तेसु॒वीर्यं॒¦तव॒ग्नावो᳚मित्रमहःसजा॒त्य᳚म्|{शौनको गृत्समदः | अग्निः | जगती}

त्वमा᳚शु॒हेमा᳚ररिषे॒स्वश्व्यं॒¦त्वंन॒रांशर्धो᳚असिपुरू॒वसुः॑|| {5/16}{2.5.17.5}{2.1.5}{2.1.1.5}{641, 192, 2011}

त्वम॑ग्नेरु॒द्रो,असु॑रोम॒होदि॒व¦स्त्वंशर्धो॒मारु॑तंपृ॒क्षई᳚शिषे|{शौनको गृत्समदः | अग्निः | जगती}

त्वंवातै᳚ररु॒णैर्या᳚सिशंग॒य¦स्त्वंपू॒षावि॑ध॒तःपा᳚सि॒नुत्मना᳚|| {6/16}{2.5.18.1}{2.1.6}{2.1.1.6}{642, 192, 2012}

त्वम॑ग्नेद्रविणो॒दा,अ॑रं॒कृते॒¦त्वंदे॒वःस॑वि॒तार॑त्न॒धा,अ॑सि|{शौनको गृत्समदः | अग्निः | जगती}

त्वंभगो᳚नृपते॒वस्व॑ईशिषे॒¦त्वंपा॒युर्दमे॒यस्तेऽवि॑धत्|| {7/16}{2.5.18.2}{2.1.7}{2.1.1.7}{643, 192, 2013}

त्वाम॑ग्ने॒दम॒आवि॒श्पतिं॒विश॒¦स्त्वांराजा᳚नंसुवि॒दत्र॑मृञ्जते|{शौनको गृत्समदः | अग्निः | जगती}

त्वंविश्वा᳚निस्वनीकपत्यसे॒¦त्वंस॒हस्रा᳚णिश॒तादश॒प्रति॑|| {8/16}{2.5.18.3}{2.1.8}{2.1.1.8}{644, 192, 2014}

त्वाम॑ग्नेपि॒तर॑मि॒ष्टिभि॒र्नर॒¦स्त्वांभ्रा॒त्राय॒शम्या᳚तनू॒रुच᳚म्|{शौनको गृत्समदः | अग्निः | जगती}

त्वंपु॒त्रोभ॑वसि॒यस्तेऽवि॑ध॒त्¦त्वंसखा᳚सु॒शेवः॑पास्या॒धृषः॑|| {9/16}{2.5.18.4}{2.1.9}{2.1.1.9}{645, 192, 2015}

त्वम॑ग्नऋ॒भुरा॒केन॑म॒स्य१॑(अ॒)¦स्त्वंवाज॑स्यक्षु॒मतो᳚रा॒यई᳚शिषे|{शौनको गृत्समदः | अग्निः | जगती}

त्वंविभा॒स्यनु॑दक्षिदा॒वने॒¦त्वंवि॒शिक्षु॑रसिय॒ज्ञमा॒तनिः॑|| {10/16}{2.5.18.5}{2.1.10}{2.1.1.10}{646, 192, 2016}

त्वम॑ग्ने॒,अदि॑तिर्देवदा॒शुषे॒¦त्वंहोत्रा॒भार॑तीवर्धसेगि॒रा|{शौनको गृत्समदः | अग्निः | जगती}

त्वमिळा᳚श॒तहि॑मासि॒दक्ष॑से॒¦त्वंवृ॑त्र॒हाव॑सुपते॒सर॑स्वती|| {11/16}{2.5.19.1}{2.1.11}{2.1.1.11}{647, 192, 2017}

त्वम॑ग्ने॒सुभृ॑तउत्त॒मंवय॒¦स्तव॑स्पा॒र्हेवर्ण॒आसं॒दृशि॒श्रियः॑|{शौनको गृत्समदः | अग्निः | जगती}

त्वंवाजः॑प्र॒तर॑णोबृ॒हन्न॑सि॒¦त्वंर॒यिर्ब॑हु॒लोवि॒श्वत॑स्पृ॒थुः|| {12/16}{2.5.19.2}{2.1.12}{2.1.1.12}{648, 192, 2018}

त्वाम॑ग्नआदि॒त्यास॑आ॒स्य१॑(अं॒)¦त्वांजि॒ह्वांशुच॑यश्चक्रिरेकवे|{शौनको गृत्समदः | अग्निः | जगती}

त्वांरा᳚ति॒षाचो᳚अध्व॒रेषु॑सश्चिरे॒¦त्वेदे॒वाह॒विर॑द॒न्त्याहु॑तम्|| {13/16}{2.5.19.3}{2.1.13}{2.1.1.13}{649, 192, 2019}

त्वे,अ॑ग्ने॒विश्वे᳚अ॒मृता᳚सो,अ॒द्रुह॑¦आ॒सादे॒वाह॒विर॑द॒न्त्याहु॑तम्|{शौनको गृत्समदः | अग्निः | जगती}

त्वया॒मर्ता᳚सःस्वदन्तआसु॒तिं¦त्वंगर्भो᳚वी॒रुधां᳚जज्ञिषे॒शुचिः॑|| {14/16}{2.5.19.4}{2.1.14}{2.1.1.14}{650, 192, 2020}

त्वंतान्‌त्संच॒प्रति॑चासिम॒ज्मना¦ग्ने᳚सुजात॒प्रच॑देवरिच्यसे|{शौनको गृत्समदः | अग्निः | जगती}

पृ॒क्षोयदत्र॑महि॒नाविते॒भुव॒¦दनु॒द्यावा᳚पृथि॒वीरोद॑सी,उ॒भे|| {15/16}{2.5.19.5}{2.1.15}{2.1.1.15}{651, 192, 2021}

येस्तो॒तृभ्यो॒गो,अ॑ग्रा॒मश्व॑पेशस॒¦मग्ने᳚रा॒तिमु॑पसृ॒जन्ति॑सू॒रयः॑|{शौनको गृत्समदः | अग्निः | जगती}

अ॒स्माञ्च॒ताँश्च॒प्रहिनेषि॒वस्य॒आ¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚|| {16/16}{2.5.19.6}{2.1.16}{2.1.1.16}{652, 192, 2022}

[72] यज्ञेनेति त्रयोदशर्चस्य सूक्तस्य शौनकोगृत्समदोग्निर्जगती |
य॒ज्ञेन॑वर्धतजा॒तवे᳚दस¦म॒ग्निंय॑जध्वंह॒विषा॒तना᳚गि॒रा|{शौनको गृत्समदः | अग्निः | जगती}

स॒मि॒धा॒नंसु॑प्र॒यसं॒स्व᳚र्णरं¦द्यु॒क्षंहोता᳚रंवृ॒जने᳚षुधू॒र्षद᳚म्|| {1/13}{2.5.20.1}{2.2.1}{2.1.2.1}{653, 193, 2023}

अ॒भित्वा॒नक्ती᳚रु॒षसो᳚ववाशि॒रे¦ऽग्ने᳚व॒त्संनस्वस॑रेषुधे॒नवः॑|{शौनको गृत्समदः | अग्निः | जगती}

दि॒वइ॒वेद॑र॒तिर्मानु॑षायु॒गा¦क्षपो᳚भासिपुरुवारसं॒यतः॑|| {2/13}{2.5.20.2}{2.2.2}{2.1.2.2}{654, 193, 2024}

तंदे॒वाबु॒ध्नेरज॑सःसु॒दंस॑सं¦दि॒वस्पृ॑थि॒व्योर॑र॒तिंन्ये᳚रिरे|{शौनको गृत्समदः | अग्निः | जगती}

रथ॑मिव॒वेद्यं᳚शु॒क्रशो᳚चिष¦म॒ग्निंमि॒त्रंनक्षि॒तिषु॑प्र॒शंस्य᳚म्|| {3/13}{2.5.20.3}{2.2.3}{2.1.2.3}{655, 193, 2025}

तमु॒क्षमा᳚णं॒रज॑सि॒स्वआदमे᳚¦च॒न्द्रमि॑वसु॒रुचं᳚ह्वा॒रआद॑धुः|{शौनको गृत्समदः | अग्निः | जगती}

पृश्न्याः᳚पत॒रंचि॒तय᳚न्तम॒क्षभिः॑¦पा॒थोनपा॒युंजन॑सी,उ॒भे,अनु॑|| {4/13}{2.5.20.4}{2.2.4}{2.1.2.4}{656, 193, 2026}

सहोता॒विश्वं॒परि॑भूत्वध्व॒रं¦तमु॑ह॒व्यैर्मनु॑षऋञ्जतेगि॒रा|{शौनको गृत्समदः | अग्निः | जगती}

हि॒रि॒शि॒प्रोवृ॑धसा॒नासु॒जर्भु॑र॒द्¦द्यौर्नस्तृभि॑श्चितय॒द्‌रोद॑सी॒,अनु॑|| {5/13}{2.5.20.5}{2.2.5}{2.1.2.5}{657, 193, 2027}

सनो᳚रे॒वत्‌स॑मिधा॒नःस्व॒स्तये᳚¦संदद॒स्वान्र॒यिम॒स्मासु॑दीदिहि|{शौनको गृत्समदः | अग्निः | जगती}

आनः॑कृणुष्वसुवि॒ताय॒रोद॑सी॒,¦अग्ने᳚ह॒व्यामनु॑षोदेववी॒तये᳚|| {6/13}{2.5.21.1}{2.2.6}{2.1.2.6}{658, 193, 2028}

दानो᳚अग्नेबृह॒तोदाःस॑ह॒स्रिणो᳚¦दु॒रोनवाजं॒श्रुत्या॒,अपा᳚वृधि|{शौनको गृत्समदः | अग्निः | जगती}

प्राची॒द्यावा᳚पृथि॒वीब्रह्म॑णाकृधि॒¦स्व१॑(अ॒)र्णशु॒क्रमु॒षसो॒विदि॑द्युतुः|| {7/13}{2.5.21.2}{2.2.7}{2.1.2.7}{659, 193, 2029}

सइ॑धा॒नउ॒षसो॒राम्या॒,अनु॒¦स्व१॑(अ॒)र्णदी᳚देदरु॒षेण॑भा॒नुना᳚|{शौनको गृत्समदः | अग्निः | जगती}

होत्रा᳚भिर॒ग्निर्मनु॑षःस्वध्व॒रो¦राजा᳚वि॒शामति॑थि॒श्चारु॑रा॒यवे᳚|| {8/13}{2.5.21.3}{2.2.8}{2.1.2.8}{660, 193, 2030}

ए॒वानो᳚अग्ने,अ॒मृते᳚षुपूर्व्य॒¦धीष्पी᳚पायबृ॒हद्दि॑वेषु॒मानु॑षा|{शौनको गृत्समदः | अग्निः | जगती}

दुहा᳚नाधे॒नुर्वृ॒जने᳚षुका॒रवे॒¦त्मना᳚श॒तिनं᳚पुरु॒रूप॑मि॒षणि॑|| {9/13}{2.5.21.4}{2.2.9}{2.1.2.9}{661, 193, 2031}

व॒यम॑ग्ने॒,अर्व॑तावासु॒वीर्यं॒¦ब्रह्म॑णावाचितयेमा॒जनाँ॒,अति॑|{शौनको गृत्समदः | अग्निः | जगती}

अ॒स्माकं᳚द्यु॒म्नमधि॒पञ्च॑कृ॒ष्टिषू॒¦च्चास्व१॑(अ॒)र्णशु॑शुचीतदु॒ष्टर᳚म्|| {10/13}{2.5.21.5}{2.2.10}{2.1.2.10}{662, 193, 2032}

सनो᳚बोधिसहस्यप्र॒शंस्यो॒¦यस्मि᳚न्‌त्सुजा॒ता,इ॒षय᳚न्तसू॒रयः॑|{शौनको गृत्समदः | अग्निः | जगती}

यम॑ग्नेय॒ज्ञमु॑प॒यन्ति॑वा॒जिनो॒¦नित्ये᳚तो॒केदी᳚दि॒वांसं॒स्वेदमे᳚|| {11/13}{2.5.21.6}{2.2.11}{2.1.2.11}{663, 193, 2033}

उ॒भया᳚सोजातवेदःस्यामते¦स्तो॒तारो᳚अग्नेसू॒रय॑श्च॒शर्म॑णि|{शौनको गृत्समदः | अग्निः | जगती}

वस्वो᳚रा॒यःपु॑रुश्च॒न्द्रस्य॒भूय॑सः¦प्र॒जाव॑तःस्वप॒त्यस्य॑शग्धिनः|| {12/13}{2.5.21.7}{2.2.12}{2.1.2.12}{664, 193, 2034}

येस्तो॒तृभ्यो॒गो,अ॑ग्रा॒मश्व॑पेशस॒¦मग्ने᳚रा॒तिमु॑पसृ॒जन्ति॑सू॒रयः॑|{शौनको गृत्समदः | अग्निः | जगती}

अ॒स्माञ्च॒ताँश्च॒प्रहिनेषि॒वस्य॒आ¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚|| {13/13}{2.5.21.8}{2.2.13}{2.1.2.13}{665, 193, 2035}

[73] समिद्धोअग्निरित्येकादशर्चस्य सूक्तस्य शौनको गृत्समदइध्मो नराशंसइळो बर्हिर्देवीर्द्वारउषासानक्ता दैव्यौहोतारौ सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिस्वाहाकृतयइतिक्रमेणदेवतास्त्रिष्टुप् सप्तम्यौजगत्यौ |
समि॑द्धो,अ॒ग्निर्निहि॑तःपृथि॒व्यां¦प्र॒त्यङ्‌विश्वा᳚नि॒भुव॑नान्यस्थात्|{शौनको गृत्समदः | इध्मः समिद्धोऽग्निर्वा | त्रिष्टुप्}

होता᳚पाव॒कःप्र॒दिवः॑सुमे॒धा¦दे॒वोदे॒वान्‌य॑जत्व॒ग्निरर्ह॑न्|| {1/11}{2.5.22.1}{2.3.1}{2.1.3.1}{666, 194, 2036}

नरा॒शंसः॒प्रति॒धामा᳚न्य॒ञ्जन्¦ति॒स्रोदिवः॒प्रति॑म॒ह्नास्व॒र्चिः|{शौनको गृत्समदः | नराशंसः | त्रिष्टुप्}

घृ॒त॒प्रुषा॒मन॑साह॒व्यमु॒न्दन्¦मू॒र्धन्‌य॒ज्ञस्य॒सम॑नक्तुदे॒वान्|| {2/11}{2.5.22.2}{2.3.2}{2.1.3.2}{667, 194, 2037}

ई॒ळि॒तो,अ॑ग्ने॒मन॑सानो॒,अर्ह॑न्¦दे॒वान्‌य॑क्षि॒मानु॑षा॒त्‌पूर्वो᳚अ॒द्य|{शौनको गृत्समदः | इळः | त्रिष्टुप्}

सआव॑हम॒रुतां॒शर्धो॒,अच्यु॑त॒¦मिन्द्रं᳚नरोबर्हि॒षदं᳚यजध्वम्|| {3/11}{2.5.22.3}{2.3.3}{2.1.3.3}{668, 194, 2038}

देव॑बर्हि॒र्वर्ध॑मानंसु॒वीरं᳚¦स्ती॒र्णंरा॒येसु॒भरं॒वेद्य॒स्याम्|{शौनको गृत्समदः | बर्हिः | त्रिष्टुप्}

घृ॒तेना॒क्तंव॑सवःसीदते॒दं¦विश्वे᳚देवा,आदित्याय॒ज्ञिया᳚सः|| {4/11}{2.5.22.4}{2.3.4}{2.1.3.4}{669, 194, 2039}

विश्र॑यन्तामुर्वि॒याहू॒यमा᳚ना॒¦द्वारो᳚दे॒वीःसु॑प्राय॒णानमो᳚भिः|{शौनको गृत्समदः | देवीर्द्वारः | त्रिष्टुप्}

व्यच॑स्वती॒र्विप्र॑थन्तामजु॒र्या¦वर्णं᳚पुना॒नाय॒शसं᳚सु॒वीर᳚म्|| {5/11}{2.5.22.5}{2.3.5}{2.1.3.5}{670, 194, 2040}

सा॒ध्वपां᳚सिस॒नता᳚नउक्षि॒ते,¦उ॒षासा॒नक्ता᳚व॒य्ये᳚वरण्वि॒ते|{शौनको गृत्समदः | उषासानक्ता | त्रिष्टुप्}

तन्तुं᳚त॒तंसं॒वय᳚न्तीसमी॒ची¦य॒ज्ञस्य॒पेशः॑सु॒दुघे॒पय॑स्वती|| {6/11}{2.5.23.1}{2.3.6}{2.1.3.6}{671, 194, 2041}

दैव्या॒होता᳚राप्रथ॒मावि॒दुष्ट॑र¦ऋ॒जुय॑क्षतः॒समृ॒चाव॒पुष्ट॑रा|{शौनको गृत्समदः | दैव्यौ होतारौ प्रचेतसौ | जगती}

दे॒वान्‌यज᳚न्तावृतु॒थासम᳚ञ्जतो॒¦नाभा᳚पृथि॒व्या,अधि॒सानु॑षुत्रि॒षु|| {7/11}{2.5.23.2}{2.3.7}{2.1.3.7}{672, 194, 2042}

सर॑स्वतीसा॒धय᳚न्ती॒धियं᳚न॒¦इळा᳚दे॒वीभार॑तीवि॒श्वतू᳚र्तिः|{शौनको गृत्समदः | तिस्रो देव्यः सरस्वतीळाभारत्यः | त्रिष्टुप्}

ति॒स्रोदे॒वीःस्व॒धया᳚ब॒र्हिरेद¦मच्छि॑द्रंपान्तुशर॒णंनि॒षद्य॑|| {8/11}{2.5.23.3}{2.3.8}{2.1.3.8}{673, 194, 2043}

पि॒शङ्ग॑रूपःसु॒भरो᳚वयो॒धाः¦श्रु॒ष्टीवी॒रोजा᳚यतेदे॒वका᳚मः|{शौनको गृत्समदः | त्वष्टा | त्रिष्टुप्}

प्र॒जांत्वष्टा॒विष्य॑तु॒नाभि॑म॒स्मे,¦अथा᳚दे॒वाना॒मप्ये᳚तु॒पाथः॑|| {9/11}{2.5.23.4}{2.3.9}{2.1.3.9}{674, 194, 2044}

वन॒स्पति॑रवसृ॒जन्नुप॑स्था¦द॒ग्निर्ह॒विःसू᳚दयाति॒प्रधी॒भिः|{शौनको गृत्समदः | वनस्पतिः | त्रिष्टुप्}

त्रिधा॒सम॑क्तंनयतुप्रजा॒नन्¦दे॒वेभ्यो॒दैव्यः॑शमि॒तोप॑ह॒व्यम्|| {10/11}{2.5.23.5}{2.3.10}{2.1.3.10}{675, 194, 2045}

घृ॒तंमि॑मिक्षेघृ॒तम॑स्य॒योनि॑¦र्घृ॒तेश्रि॒तोघृ॒तम्व॑स्य॒धाम॑|{शौनको गृत्समदः | स्वाहाकृतयः | त्रिष्टुप्}

अ॒नु॒ष्व॒धमाव॑हमा॒दय॑स्व॒¦स्वाहा᳚कृतंवृषभवक्षिह॒व्यम्|| {11/11}{2.5.23.6}{2.3.11}{2.1.3.11}{676, 194, 2046}

[74] हुवेवइति नवर्चस्य सूक्तस्य भार्गवःसोमाहुतिरग्निस्त्रिष्टुप् |
हु॒वेवः॑सु॒द्योत्मा᳚नंसुवृ॒क्तिं¦वि॒शाम॒ग्निमति॑थिंसुप्र॒यस᳚म्|{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्}

मि॒त्रइ॑व॒योदि॑धि॒षाय्यो॒भूद्¦दे॒वआदे᳚वे॒जने᳚जा॒तवे᳚दाः|| {1/9}{2.5.24.1}{2.4.1}{2.1.4.1}{677, 195, 2047}

इ॒मंवि॒धन्तो᳚अ॒पांस॒धस्थे᳚¦द्वि॒ताद॑धु॒र्भृग॑वोवि॒क्ष्वा॒३॑(आ॒)योः|{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्}

ए॒षविश्वा᳚न्य॒भ्य॑स्तु॒भूमा᳚¦दे॒वाना᳚म॒ग्निर॑र॒तिर्जी॒राश्वः॑|| {2/9}{2.5.24.2}{2.4.2}{2.1.4.2}{678, 195, 2048}

अ॒ग्निंदे॒वासो॒मानु॑षीषुवि॒क्षु¦प्रि॒यंधुः॑,क्षे॒ष्यन्तो॒नमि॒त्रम्|{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्}

सदी᳚दयदुश॒तीरूर्म्या॒,आ¦द॒क्षाय्यो॒योदास्व॑ते॒दम॒आ|| {3/9}{2.5.24.3}{2.4.3}{2.1.4.3}{679, 195, 2049}

अ॒स्यर॒ण्वास्वस्ये᳚वपु॒ष्टिः¦संदृ॑ष्टिरस्यहिया॒नस्य॒दक्षोः᳚|{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्}

वियोभरि॑भ्र॒दोष॑धीषुजि॒ह्वा¦मत्यो॒नरथ्यो᳚दोधवीति॒वारा॑न्|| {4/9}{2.5.24.4}{2.4.4}{2.1.4.4}{680, 195, 2050}

आयन्मे॒,अभ्वं᳚व॒नदः॒पन᳚न्तो॒¦शिग्भ्यो॒नामि॑मीत॒वर्ण᳚म्|{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्}

सचि॒त्रेण॑चिकिते॒रंसु॑भा॒सा¦जु॑जु॒र्वाँऽयोमुहु॒रायुवा॒भूत्|| {5/9}{2.5.24.5}{2.4.5}{2.1.4.5}{681, 195, 2051}

आयोवना᳚तातृषा॒णोनभाति॒¦वार्णप॒थारथ्ये᳚वस्वानीत्|{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्}

कृ॒ष्णाध्वा॒तपू᳚र॒ण्वश्चि॑केत॒¦द्यौरि॑व॒स्मय॑मानो॒नभो᳚भिः|| {6/9}{2.5.25.1}{2.4.6}{2.1.4.6}{682, 195, 2052}

सयोव्यस्था᳚द॒भिदक्ष॑दु॒र्वीं¦प॒शुर्नैति॑स्व॒युरगो᳚पाः|{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्}

अ॒ग्निःशो॒चिष्माँ᳚,अत॒सान्यु॒ष्णन्¦कृ॒ष्णव्य॑थिरस्वदय॒न्नभूम॑|| {7/9}{2.5.25.2}{2.4.7}{2.1.4.7}{683, 195, 2053}

नूते॒पूर्व॒स्याव॑सो॒,अधी᳚तौ¦तृ॒तीये᳚वि॒दथे॒मन्म॑शंसि|{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्}

अ॒स्मे,अ॑ग्नेसं॒यद्वी᳚रंबृ॒हन्तं᳚¦क्षु॒मन्तं॒वाजं᳚स्वप॒त्यंर॒यिंदाः᳚|| {8/9}{2.5.25.3}{2.4.8}{2.1.4.8}{684, 195, 2054}

त्वया॒यथा᳚गृत्सम॒दासो᳚अग्ने॒¦गुहा᳚व॒न्वन्त॒उप॑राँ,अ॒भिष्युः|{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्}

सु॒वीरा᳚सो,अभिमाति॒षाहः॒¦स्मत्‌सू॒रिभ्यो᳚गृण॒तेतद्‌वयो᳚धाः|| {9/9}{2.5.25.4}{2.4.9}{2.1.4.9}{685, 195, 2055}

[75] होताजनिष्ठेत्यष्टर्चस्य सूक्तस्य भार्गवः सोमाहुतिरग्निरनुष्टुप् |
होता᳚जनिष्ट॒चेत॑नः¦पि॒तापि॒तृभ्य॑ऊ॒तये᳚|{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्}

प्र॒यक्ष॒ञ्जेन्यं॒वसु॑¦श॒केम॑वा॒जिनो॒यम᳚म्|| {1/8}{2.5.26.1}{2.5.1}{2.1.5.1}{686, 196, 2056}

आयस्मि᳚न्‌त्स॒प्तर॒श्मय॑¦स्त॒ताय॒ज्ञस्य॑ने॒तरि॑|{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्}

म॒नु॒ष्वद्‌दैव्य॑मष्ट॒मं¦पोता॒विश्वं॒तदि᳚न्वति|| {2/8}{2.5.26.2}{2.5.2}{2.1.5.2}{687, 196, 2057}

द॒ध॒न्वेवा॒यदी॒मनु॒¦वोच॒द्‌ब्रह्मा᳚णि॒वेरु॒तत्|{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्}

परि॒विश्वा᳚नि॒काव्या᳚¦ने॒मिश्च॒क्रमि॑वाभवत्|| {3/8}{2.5.26.3}{2.5.3}{2.1.5.3}{688, 196, 2058}

सा॒कंहिशुचि॑ना॒शुचिः॑¦प्रशा॒स्ताक्रतु॒नाज॑नि|{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्}

वि॒द्वाँ,अ॑स्यव्र॒ताध्रु॒वा¦व॒या,इ॒वानु॑रोहते|| {4/8}{2.5.26.4}{2.5.4}{2.1.5.4}{689, 196, 2059}

ता,अ॑स्य॒वर्ण॑मा॒युवो॒¦नेष्टुः॑सचन्तधे॒नवः॑|{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्}

कु॒वित्ति॒सृभ्य॒आवरं॒¦स्वसा᳚रो॒या,इ॒दंय॒युः|| {5/8}{2.5.26.5}{2.5.5}{2.1.5.5}{690, 196, 2060}

यदी᳚मा॒तुरुप॒स्वसा᳚¦घृ॒तंभर॒न्त्यस्थि॑त|{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्}

तासा᳚मध्व॒र्युराग॑तौ॒¦यवो᳚वृ॒ष्टीव॑मोदते|| {6/8}{2.5.26.6}{2.5.6}{2.1.5.6}{691, 196, 2061}

स्वःस्वाय॒धाय॑से¦कृणु॒तामृ॒त्विगृ॒त्विज᳚म्|{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्}

स्तोमं᳚य॒ज्ञंचादरं᳚¦व॒नेमा᳚ररि॒माव॒यम्|| {7/8}{2.5.26.7}{2.5.7}{2.1.5.7}{692, 196, 2062}

यथा᳚वि॒द्वाँ,अरं॒कर॒द्¦विश्वे᳚भ्योयज॒तेभ्यः॑|{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्}

अ॒यम॑ग्ने॒त्वे,अपि॒¦यंय॒ज्ञंच॑कृ॒माव॒यम्|| {8/8}{2.5.26.8}{2.5.8}{2.1.5.8}{693, 196, 2063}

[76] इमांमइत्यष्टर्चस्य सूक्तस्य भार्गवःसोमाहुतिरग्निर्गायत्री |
इ॒मांमे᳚अग्नेस॒मिध॑¦मि॒मामु॑प॒सदं᳚वनेः|{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

इ॒मा,उ॒षुश्रु॑धी॒गिरः॑|| {1/8}{2.5.27.1}{2.6.1}{2.1.6.1}{694, 197, 2064}

अ॒याते᳚अग्नेविधे॒मो¦र्जो᳚नपा॒दश्व॑मिष्टे|{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

ए॒नासू॒क्तेन॑सुजात|| {2/8}{2.5.27.2}{2.6.2}{2.1.6.2}{695, 197, 2065}

तंत्वा᳚गी॒र्भिर्गिर्व॑णसं¦द्रविण॒स्युंद्र॑विणोदः|{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

स॒प॒र्येम॑सप॒र्यवः॑|| {3/8}{2.5.27.3}{2.6.3}{2.1.6.3}{696, 197, 2066}

सबो᳚धिसू॒रिर्म॒घवा॒¦वसु॑पते॒वसु॑दावन्|{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

यु॒यो॒ध्य१॑(अ॒)स्मद्द्वेषां᳚सि|| {4/8}{2.5.27.4}{2.6.4}{2.1.6.4}{697, 197, 2067}

सनो᳚वृ॒ष्टिंदि॒वस्परि॒¦सनो॒वाज॑मन॒र्वाण᳚म्|{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

सनः॑सह॒स्रिणी॒रिषः॑|| {5/8}{2.5.27.5}{2.6.5}{2.1.6.5}{698, 197, 2068}

ईळा᳚नायाव॒स्यवे॒¦यवि॑ष्ठदूतनोगि॒रा|{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

यजि॑ष्ठहोत॒राग॑हि|| {6/8}{2.5.27.6}{2.6.6}{2.1.6.6}{699, 197, 2069}

अ॒न्तर्ह्य॑ग्न॒ईय॑से¦वि॒द्वाञ्जन्मो॒भया᳚कवे|{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

दू॒तोजन्ये᳚व॒मित्र्यः॑|| {7/8}{2.5.27.7}{2.6.7}{2.1.6.7}{700, 197, 2070}

सवि॒द्वाँ,आच॑पिप्रयो॒¦यक्षि॑चिकित्वआनु॒षक्|{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

आचा॒स्मिन्‌त्स॑त्सिब॒र्हिषि॑|| {8/8}{2.5.27.8}{2.6.8}{2.1.6.8}{701, 197, 2071}

[77] श्रेष्ठमिति षडृचस्य सूक्तस्य भार्गवः सोमाहुतिरग्निर्गायत्री |
श्रेष्ठं᳚यविष्ठभार॒ता¦ग्ने᳚द्यु॒मन्त॒माभ॑र|{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

वसो᳚पुरु॒स्पृहं᳚र॒यिम्|| {1/6}{2.5.28.1}{2.7.1}{2.1.7.1}{702, 198, 2072}

मानो॒,अरा᳚तिरीशत¦दे॒वस्य॒मर्त्य॑स्यच|{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

पर्षि॒तस्या᳚उ॒तद्वि॒षः|| {2/6}{2.5.28.2}{2.7.2}{2.1.7.2}{703, 198, 2073}

विश्वा᳚उ॒तत्वया᳚व॒यं¦धारा᳚उद॒न्या᳚इव|{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

अति॑गाहेमहि॒द्विषः॑|| {3/6}{2.5.28.3}{2.7.3}{2.1.7.3}{704, 198, 2074}

शुचिः॑पावक॒वन्द्यो¦ऽग्ने᳚बृ॒हद्‌विरो᳚चसे|{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

त्वंघृ॒तेभि॒राहु॑तः|| {4/6}{2.5.28.4}{2.7.4}{2.1.7.4}{705, 198, 2075}

त्वंनो᳚असिभार॒ता¦ग्ने᳚व॒शाभि॑रु॒क्षभिः॑|{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

अ॒ष्टाप॑दीभि॒राहु॑तः|| {5/6}{2.5.28.5}{2.7.5}{2.1.7.5}{706, 198, 2076}

द्र्व᳚न्नःस॒र्पिरा᳚सुतिः¦प्र॒त्नोहोता॒वरे᳚ण्यः|{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

सह॑सस्पु॒त्रो,अद्भु॑तः|| {6/6}{2.5.28.6}{2.7.6}{2.1.7.6}{707, 198, 2077}

[78] वाजयन्नितिषडृचस्य सूक्तस्य शौनकोगृत्समदोग्निर्गायत्र्यंत्यानुष्टुप् |
वा॒ज॒यन्नि॑व॒नूरथा॒न्¦योगाँ᳚,अ॒ग्नेरुप॑स्तुहि|{शौनको गृत्समदः | अग्निः | गायत्री}

य॒शस्त॑मस्यमी॒ळ्हुषः॑|| {1/6}{2.5.29.1}{2.8.1}{2.1.8.1}{708, 199, 2078}

यःसु॑नी॒थोद॑दा॒शुषे᳚¦ऽजु॒र्योज॒रय᳚न्न॒रिम्|{शौनको गृत्समदः | अग्निः | गायत्री}

चारु॑प्रतीक॒आहु॑तः|| {2/6}{2.5.29.2}{2.8.2}{2.1.8.2}{709, 199, 2079}

यउ॑श्रि॒यादमे॒ष्वा¦दो॒षोषसि॑प्रश॒स्यते᳚|{शौनको गृत्समदः | अग्निः | गायत्री}

यस्य᳚व्र॒तंनमीय॑ते|| {3/6}{2.5.29.3}{2.8.3}{2.1.8.3}{710, 199, 2080}

आयःस्व१॑(अ॒)र्णभा॒नुना᳚¦चि॒त्रोवि॒भात्य॒र्चिषा᳚|{शौनको गृत्समदः | अग्निः | गायत्री}

अ॒ञ्जा॒नो,अ॒जरै᳚र॒भि|| {4/6}{2.5.29.4}{2.8.4}{2.1.8.4}{711, 199, 2081}

अत्रि॒मनु॑स्व॒राज्य॑¦म॒ग्निमु॒क्थानि॑वावृधुः|{शौनको गृत्समदः | अग्निः | गायत्री}

विश्वा॒,अधि॒श्रियो᳚दधे|| {5/6}{2.5.29.5}{2.8.5}{2.1.8.5}{712, 199, 2082}

अ॒ग्नेरिन्द्र॑स्य॒सोम॑स्य¦दे॒वाना᳚मू॒तिभि᳚र्व॒यम्|{शौनको गृत्समदः | अग्निः | अनुष्टुप्}

अरि॑ष्यन्तःसचेमह्य॒¦भिष्या᳚मपृतन्य॒तः|| {6/6}{2.5.29.6}{2.8.6}{2.1.8.6}{713, 199, 2083}

[79] निहोतेति षडृचस्य सूक्तस्य शौनकोगृत्समदोग्निस्त्रिष्टुप् |
निहोता᳚होतृ॒षद॑ने॒विदा᳚न¦स्त्वे॒षोदी᳚दि॒वाँ,अ॑सदत्‌सु॒दक्षः॑|{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः¦सहस्रम्भ॒रःशुचि॑जिह्वो,अ॒ग्निः|| {1/6}{2.6.1.1}{2.9.1}{2.1.9.1}{714, 200, 2084}

त्वंदू॒तस्त्वमु॑नःपर॒स्पा¦स्त्वंवस्य॒आवृ॑षभप्रणे॒ता|{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

अग्ने᳚तो॒कस्य॑न॒स्तने᳚त॒नूना॒¦मप्र॑युच्छ॒न्‌दीद्य॑द्‌बोधिगो॒पाः|| {2/6}{2.6.1.2}{2.9.2}{2.1.9.2}{715, 200, 2085}

वि॒धेम॑तेपर॒मेजन्म᳚न्नग्ने¦वि॒धेम॒स्तोमै॒रव॑रेस॒धस्थे᳚|{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

यस्मा॒द्‌योने᳚रु॒दारि॑था॒यजे॒तं¦प्रत्वेह॒वींषि॑जुहुरे॒समि॑द्धे|| {3/6}{2.6.1.3}{2.9.3}{2.1.9.3}{716, 200, 2086}

अग्ने॒यज॑स्वह॒विषा॒यजी᳚याञ्¦छ्रु॒ष्टीदे॒ष्णम॒भिगृ॑णीहि॒राधः॑|{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

त्वंह्यसि॑रयि॒पती᳚रयी॒णां¦त्वंशु॒क्रस्य॒वच॑सोम॒नोता᳚|| {4/6}{2.6.1.4}{2.9.4}{2.1.9.4}{717, 200, 2087}

उ॒भयं᳚ते॒नक्षी᳚यतेवस॒व्यं᳚¦दि॒वेदि॑वे॒जाय॑मानस्यदस्म|{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

कृ॒धिक्षु॒मन्तं᳚जरि॒तार॑मग्ने¦कृ॒धिपतिं᳚स्वप॒त्यस्य॑रा॒यः|| {5/6}{2.6.1.5}{2.9.5}{2.1.9.5}{718, 200, 2088}

सैनानी᳚केनसुवि॒दत्रो᳚अ॒स्मे¦यष्टा᳚दे॒वाँ,आय॑जिष्ठःस्व॒स्ति|{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

अद॑ब्धोगो॒पा,उ॒तनः॑पर॒स्पा,¦अग्ने᳚द्यु॒मदु॒तरे॒वद्दि॑दीहि|| {6/6}{2.6.1.6}{2.9.6}{2.1.9.6}{719, 200, 2089}

[80] जोहूत्रइति षडृचस्य सूक्तस्य शौनकोगृत्समदोग्निस्त्रिष्टुप् |
जो॒हूत्रो᳚अ॒ग्निःप्र॑थ॒मःपि॒तेवे॒¦ळस्प॒देमनु॑षा॒यत्‌समि॑द्धः|{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

श्रियं॒वसा᳚नो,अ॒मृतो॒विचे᳚ता¦मर्मृ॒जेन्यः॑श्रव॒स्य१॑(अः॒)सवा॒जी|| {1/6}{2.6.2.1}{2.10.1}{2.1.10.1}{720, 201, 2090}

श्रू॒या,अ॒ग्निश्चि॒त्रभा᳚नु॒र्हवं᳚मे॒¦विश्वा᳚भिर्गी॒र्भिर॒मृतो॒विचे᳚ताः|{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

श्या॒वारथं᳚वहतो॒रोहि॑तावो॒¦तारु॒षाह॑चक्रे॒विभृ॑त्रः|| {2/6}{2.6.2.2}{2.10.2}{2.1.10.2}{721, 201, 2091}

उ॒त्ता॒नाया᳚मजनय॒न्‌त्सुषू᳚तं॒¦भुव॑द॒ग्निःपु॑रु॒पेशा᳚सु॒गर्भः॑|{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

शिरि॑णायांचिद॒क्तुना॒महो᳚भि॒¦रप॑रीवृतोवसति॒प्रचे᳚ताः|| {3/6}{2.6.2.3}{2.10.3}{2.1.10.3}{722, 201, 2092}

जिघ᳚र्म्य॒ग्निंह॒विषा᳚घृ॒तेन॑¦प्रतिक्षि॒यन्तं॒भुव॑नानि॒विश्वा᳚|{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

पृ॒थुंति॑र॒श्चावय॑साबृ॒हन्तं॒¦व्यचि॑ष्ठ॒मन्नै᳚रभ॒संदृशा᳚नम्|| {4/6}{2.6.2.4}{2.10.4}{2.1.10.4}{723, 201, 2093}

आवि॒श्वतः॑प्र॒त्यञ्चं᳚जिघर्म्य¦र॒क्षसा॒मन॑सा॒तज्जु॑षेत|{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

मर्य॑श्रीःस्पृह॒यद्व᳚र्णो,अ॒ग्नि¦र्नाभि॒मृशे᳚त॒न्वा॒३॑(आ॒)जर्भु॑राणः|| {5/6}{2.6.2.5}{2.10.5}{2.1.10.5}{724, 201, 2094}

ज्ञे॒याभा॒गंस॑हसा॒नोवरे᳚ण॒¦त्वादू᳚तासोमनु॒वद्‌व॑देम|{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

अनू᳚नम॒ग्निंजु॒ह्वा᳚वच॒स्या¦म॑धु॒पृचं᳚धन॒साजो᳚हवीमि|| {6/6}{2.6.2.6}{2.10.6}{2.1.10.6}{725, 201, 2095}

[81] श्रुधीहवमित्येकविंशत्यृचस्य सूक्तस्य शौनकोगृत्समदइंद्रोविराट्‌स्थानाअंत्यात्रिष्टुप् |
श्रु॒धीहव॑मिन्द्र॒मारि॑षण्यः॒¦स्याम॑तेदा॒वने॒वसू᳚नाम्|{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

इ॒माहित्वामूर्जो᳚व॒र्धय᳚न्ति¦वसू॒यवः॒सिन्ध॑वो॒नक्षर᳚न्तः|| {1/21}{2.6.3.1}{2.11.1}{2.1.11.1}{726, 202, 2096}

सृ॒जोम॒हीरि᳚न्द्र॒या,अपि᳚न्वः॒¦परि॑ष्ठिता॒,अहि॑नाशूरपू॒र्वीः|{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

अम॑र्त्यंचिद्दा॒संमन्य॑मान॒¦मवा᳚भिनदु॒क्थैर्वा᳚वृधा॒नः|| {2/21}{2.6.3.2}{2.11.2}{2.1.11.2}{727, 202, 2097}

उ॒क्थेष्विन्नुशू᳚र॒येषु॑चा॒कन्¦त्स्तोमे᳚ष्विन्द्ररु॒द्रिये᳚षुच|{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

तुभ्येदे॒तायासु॑मन्दसा॒नः¦प्रवा॒यवे᳚सिस्रते॒नशु॒भ्राः|| {3/21}{2.6.3.3}{2.11.3}{2.1.11.3}{728, 202, 2098}

शु॒भ्रंनुते॒शुष्मं᳚व॒र्धय᳚न्तः¦शु॒भ्रंवज्रं᳚बा॒ह्वोर्दधा᳚नाः|{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

शु॒भ्रस्त्वमि᳚न्द्रवावृधा॒नो,अ॒स्मे¦दासी॒र्विशः॒सूर्ये᳚णसह्याः|| {4/21}{2.6.3.4}{2.11.4}{2.1.11.4}{729, 202, 2099}

गुहा᳚हि॒तंगुह्यं᳚गू॒ळ्हम॒प्स्व¦पी᳚वृतंमा॒यिनं᳚क्षि॒यन्त᳚म्|{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

उ॒तो,अ॒पोद्यांत॑स्त॒भ्वांस॒¦मह॒न्नहिं᳚शूरवी॒र्ये᳚ण|| {5/21}{2.6.3.5}{2.11.5}{2.1.11.5}{730, 202, 2100}

स्तवा॒नुत॑इन्द्रपू॒र्व्याम॒हा¦न्यु॒तस्त॑वाम॒नूत॑नाकृ॒तानि॑|{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

स्तवा॒वज्रं᳚बा॒ह्वोरु॒शन्तं॒¦स्तवा॒हरी॒सूर्य॑स्यके॒तू|| {6/21}{2.6.4.1}{2.11.6}{2.1.11.6}{731, 202, 2101}

हरी॒नुत॑इन्द्रवा॒जय᳚न्ता¦घृत॒श्चुतं᳚स्वा॒रम॑स्वार्ष्टाम्|{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

विस॑म॒नाभूमि॑रप्रथि॒ष्टा¦रं᳚स्त॒पर्व॑तश्चित्‌सरि॒ष्यन्|| {7/21}{2.6.4.2}{2.11.7}{2.1.11.7}{732, 202, 2102}

निपर्व॑तःसा॒द्यप्र॑युच्छ॒न्¦त्संमा॒तृभि᳚र्वावशा॒नो,अ॑क्रान्|{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

दू॒रेपा॒रेवाणीं᳚व॒र्धय᳚न्त॒¦इन्द्रे᳚षितांध॒मनिं᳚पप्रथ॒न्‌नि|| {8/21}{2.6.4.3}{2.11.8}{2.1.11.8}{733, 202, 2103}

इन्द्रो᳚म॒हांसिन्धु॑मा॒शया᳚नं¦माया॒विनं᳚वृ॒त्रम॑स्फुर॒न्निः|{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

अरे᳚जेतां॒रोद॑सीभिया॒ने¦कनि॑क्रदतो॒वृष्णो᳚अस्य॒वज्रा᳚त्|| {9/21}{2.6.4.4}{2.11.9}{2.1.11.9}{734, 202, 2104}

अरो᳚रवी॒द्‌वृष्णो᳚अस्य॒वज्रो¦ऽमा᳚नुषं॒यन्मानु॑षोनि॒जूर्वा᳚त्|{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

निमा॒यिनो᳚दान॒वस्य॑मा॒या,¦अपा᳚दयत्‌पपि॒वान्‌त्सु॒तस्य॑|| {10/21}{2.6.4.5}{2.11.10}{2.1.11.10}{735, 202, 2105}

पिबा᳚पि॒बेदि᳚न्द्रशूर॒सोमं॒¦मन्द᳚न्तुत्वाम॒न्दिनः॑सु॒तासः॑|{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

पृ॒णन्त॑स्तेकु॒क्षीव॑र्धयन्त्वि॒¦त्थासु॒तःपौ॒रइन्द्र॑माव|| {11/21}{2.6.5.1}{2.11.11}{2.1.11.11}{736, 202, 2106}

त्वे,इ॒न्द्राप्य॑भूम॒विप्रा॒¦धियं᳚वनेमऋत॒यासप᳚न्तः|{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

अ॒व॒स्यवो᳚धीमहि॒प्रश॑स्तिं¦स॒द्यस्ते᳚रा॒योदा॒वने᳚स्याम|| {12/21}{2.6.5.2}{2.11.12}{2.1.11.12}{737, 202, 2107}

स्याम॒तेत॑इन्द्र॒येत॑ऊ॒ती,¦अ॑व॒स्यव॒ऊर्जं᳚व॒र्धय᳚न्तः|{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

शु॒ष्मिन्त॑मं॒यंचा॒कना᳚मदेवा॒¦स्मेर॒यिंरा᳚सिवी॒रव᳚न्तम्|| {13/21}{2.6.5.3}{2.11.13}{2.1.11.13}{738, 202, 2108}

रासि॒क्षयं॒रासि॑मि॒त्रम॒स्मे¦रासि॒शर्ध॑इन्द्र॒मारु॑तंनः|{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

स॒जोष॑सो॒येच॑मन्दसा॒नाः¦प्रवा॒यवः॑पा॒न्त्यग्र॑णीतिम्|| {14/21}{2.6.5.4}{2.11.14}{2.1.11.14}{739, 202, 2109}

व्यन्त्विन्नुयेषु॑मन्दसा॒न¦स्तृ॒पत्‌सोमं᳚पाहिद्र॒ह्यदि᳚न्द्र|{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

अ॒स्मान्‌त्सुपृ॒त्स्वात॑रु॒त्रा¦व॑र्धयो॒द्यांबृ॒हद्भि॑र॒र्कैः|| {15/21}{2.6.5.5}{2.11.15}{2.1.11.15}{740, 202, 2110}

बृ॒हन्त॒इन्नुयेते᳚तरुत्रो॒¦क्थेभि᳚र्वासु॒म्नमा॒विवा᳚सान्|{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

स्तृ॒णा॒नासो᳚ब॒र्हिःप॒स्त्या᳚व॒त्¦त्वोता॒,इदि᳚न्द्र॒वाज॑मग्मन्|| {16/21}{2.6.6.1}{2.11.16}{2.1.11.16}{741, 202, 2111}

उ॒ग्रेष्विन्नुशू᳚रमन्दसा॒न¦स्त्रिक॑द्रुकेषुपाहि॒सोम॑मिन्द्र|{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

प्र॒दोधु॑व॒च्छ्मश्रु॑षुप्रीणा॒नो¦या॒हिहरि॑भ्यांसु॒तस्य॑पी॒तिम्|| {17/21}{2.6.6.2}{2.11.17}{2.1.11.17}{742, 202, 2112}

धि॒ष्वाशवः॑शूर॒येन॑वृ॒त्र¦म॒वाभि॑न॒द्‌दानु॑मौर्णवा॒भम्|{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

अपा᳚वृणो॒र्ज्योति॒रार्या᳚य॒¦निस᳚व्य॒तःसा᳚दि॒दस्यु॑रिन्द्र|| {18/21}{2.6.6.3}{2.11.18}{2.1.11.18}{743, 202, 2113}

सने᳚म॒येत॑ऊ॒तिभि॒स्तर᳚न्तो॒¦विश्वाः॒स्पृध॒आर्ये᳚ण॒दस्यू॑न्|{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

अ॒स्मभ्यं॒तत्त्वा॒ष्ट्रंवि॒श्वरू᳚प॒¦मर᳚न्धयःसा॒ख्यस्य॑त्रि॒ताय॑|| {19/21}{2.6.6.4}{2.11.19}{2.1.11.19}{744, 202, 2114}

अ॒स्यसु॑वा॒नस्य॑म॒न्दिन॑स्त्रि॒तस्य॒¦न्यर्बु॑दंवावृधा॒नो,अ॑स्तः|{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

अव॑र्तय॒त्‌सूर्यो॒नच॒क्रं¦भि॒नद्‌व॒लमिन्द्रो॒,अङ्गि॑रस्वान्|| {20/21}{2.6.6.5}{2.11.20}{2.1.11.20}{745, 202, 2115}

नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रे¦दु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नो¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚|| {21/21}{2.6.6.6}{2.11.21}{2.1.11.21}{746, 202, 2116}

[82] योजातइति पंचदशर्चस्य सूक्तस्य शौनकोगृत्समद इंद्रस्त्रिष्टुप् |
योजा॒तए॒वप्र॑थ॒मोमन॑स्वान्¦दे॒वोदे॒वान्‌क्रतु॑नाप॒र्यभू᳚षत्|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यस्य॒शुष्मा॒द्‌रोद॑सी॒,अभ्य॑सेतां¦नृ॒म्णस्य॑म॒ह्नासज॑नास॒इन्द्रः॑|| {1/15}{2.6.7.1}{2.12.1}{2.2.1.1}{747, 203, 2117}

यःपृ॑थि॒वींव्यथ॑माना॒मदृं᳚ह॒द्¦यःपर्व॑ता॒न्‌प्रकु॑पिताँ॒,अर᳚म्णात्|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यो,अ॒न्तरि॑क्षंविम॒मेवरी᳚यो॒¦योद्यामस्त॑भ्ना॒त्‌सज॑नास॒इन्द्रः॑|| {2/15}{2.6.7.2}{2.12.2}{2.2.1.2}{748, 203, 2118}

योह॒त्वाहि॒मरि॑णात्‌स॒प्तसिन्धू॒न्¦योगा,उ॒दाज॑दप॒धाव॒लस्य॑|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यो,अश्म॑नोर॒न्तर॒ग्निंज॒जान॑¦सं॒वृक्‌स॒मत्सु॒सज॑नास॒इन्द्रः॑|| {3/15}{2.6.7.3}{2.12.3}{2.2.1.3}{749, 203, 2119}

येने॒माविश्वा॒च्यव॑नाकृ॒तानि॒¦योदासं॒वर्ण॒मध॑रं॒गुहाकः॑|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

श्व॒घ्नीव॒योजि॑गी॒वाँल॒क्षमाद॑¦द॒र्यःपु॒ष्टानि॒सज॑नास॒इन्द्रः॑|| {4/15}{2.6.7.4}{2.12.4}{2.2.1.4}{750, 203, 2120}

यंस्मा᳚पृ॒च्छन्ति॒कुह॒सेति॑घो॒र¦मु॒तेमा᳚हु॒र्नैषो,अ॒स्तीत्ये᳚नम्|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

सो,अ॒र्यःपु॒ष्टीर्विज॑इ॒वामि॑नाति॒¦श्रद॑स्मैधत्त॒सज॑नास॒इन्द्रः॑|| {5/15}{2.6.7.5}{2.12.5}{2.2.1.5}{751, 203, 2121}

योर॒ध्रस्य॑चोदि॒तायःकृ॒शस्य॒¦योब्र॒ह्मणो॒नाध॑मानस्यकी॒रेः|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यु॒क्तग्रा᳚व्णो॒यो᳚वि॒तासु॑शि॒प्रः¦सु॒तसो᳚मस्य॒सज॑नास॒इन्द्रः॑|| {6/15}{2.6.8.1}{2.12.6}{2.2.1.6}{752, 203, 2122}

यस्याश्वा᳚सःप्र॒दिशि॒यस्य॒गावो॒¦यस्य॒ग्रामा॒यस्य॒विश्वे॒रथा᳚सः|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यःसूर्यं॒यउ॒षसं᳚ज॒जान॒¦यो,अ॒पांने॒तासज॑नास॒इन्द्रः॑|| {7/15}{2.6.8.2}{2.12.7}{2.2.1.7}{753, 203, 2123}

यंक्रन्द॑सीसंय॒तीवि॒ह्वये᳚ते॒¦परेऽव॑रउ॒भया᳚अ॒मित्राः᳚|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

स॒मा॒नंचि॒द्‌रथ॑मातस्थि॒वांसा॒¦नाना᳚हवेते॒सज॑नास॒इन्द्रः॑|| {8/15}{2.6.8.3}{2.12.8}{2.2.1.8}{754, 203, 2124}

यस्मा॒न्नऋ॒तेवि॒जय᳚न्ते॒जना᳚सो॒¦यंयुध्य॑माना॒,अव॑से॒हव᳚न्ते|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

योविश्व॑स्यप्रति॒मानं᳚ब॒भूव॒¦यो,अ॑च्युत॒च्युत्‌सज॑नास॒इन्द्रः॑|| {9/15}{2.6.8.4}{2.12.9}{2.2.1.9}{755, 203, 2125}

यःशश्व॑तो॒मह्येनो॒दधा᳚ना॒¦नम᳚न्यमाना॒ञ्छर्वा᳚ज॒घान॑|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यःशर्ध॑ते॒नानु॒ददा᳚तिशृ॒ध्यां¦योदस्यो᳚र्ह॒न्तासज॑नास॒इन्द्रः॑|| {10/15}{2.6.8.5}{2.12.10}{2.2.1.10}{756, 203, 2126}

यःशम्ब॑रं॒पर्व॑तेषुक्षि॒यन्तं᳚¦चत्वारिं॒श्यांश॒रद्य॒न्ववि᳚न्दत्|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

ओ॒जा॒यमा᳚नं॒यो,अहिं᳚ज॒घान॒¦दानुं॒शया᳚नं॒सज॑नास॒इन्द्रः॑|| {11/15}{2.6.9.1}{2.12.11}{2.2.1.11}{757, 203, 2127}

यःस॒प्तर॑श्मिर्वृष॒भस्तुवि॑ष्मा¦न॒वासृ॑ज॒त्‌सर्त॑वेस॒प्तसिन्धू॑न्|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

योरौ᳚हि॒णमस्फु॑र॒द्‌वज्र॑बाहु॒¦र्द्यामा॒रोह᳚न्तं॒सज॑नास॒इन्द्रः॑|| {12/15}{2.6.9.2}{2.12.12}{2.2.1.12}{758, 203, 2128}

द्यावा᳚चिदस्मैपृथि॒वीन॑मेते॒¦शुष्मा᳚च्चिदस्य॒पर्व॑ताभयन्ते|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यःसो᳚म॒पानि॑चि॒तोवज्र॑बाहु॒¦र्योवज्र॑हस्तः॒सज॑नास॒इन्द्रः॑|| {13/15}{2.6.9.3}{2.12.13}{2.2.1.13}{759, 203, 2129}

यःसु॒न्वन्त॒मव॑ति॒यःपच᳚न्तं॒¦यःशंस᳚न्तं॒यःश॑शमा॒नमू॒ती|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यस्य॒ब्रह्म॒वर्ध॑नं॒यस्य॒सोमो॒¦यस्ये॒दंराधः॒सज॑नास॒इन्द्रः॑|| {14/15}{2.6.9.4}{2.12.14}{2.2.1.14}{760, 203, 2130}

यःसु᳚न्व॒तेपच॑तेदु॒ध्रआचि॒द्¦वाजं॒दर्द॑र्षि॒सकिला᳚सिस॒त्यः|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

व॒यंत॑इन्द्रवि॒श्वह॑प्रि॒यासः॑¦सु॒वीरा᳚सोवि॒दथ॒माव॑देम|| {15/15}{2.6.9.5}{2.12.15}{2.2.1.15}{761, 203, 2131}

[83] ऋतुर्जनित्रीति त्रयोदशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रोजगत्यंत्यात्रिष्टुप् |
ऋ॒तुर्जनि॑त्री॒तस्या᳚अ॒पस्परि॑¦म॒क्षूजा॒तआवि॑श॒द्‌यासु॒वर्ध॑ते|{शौनको गृत्समदः | इन्द्रः | जगती}

तदा᳚ह॒ना,अ॑भवत्‌पि॒प्युषी॒पयों॒¦ऽशोःपी॒यूषं᳚प्रथ॒मंतदु॒क्थ्य᳚म्|| {1/13}{2.6.10.1}{2.13.1}{2.2.2.1}{762, 204, 2132}

स॒ध्रीमाय᳚न्ति॒परि॒बिभ्र॑तीः॒पयो᳚¦वि॒श्वप्स्न्या᳚य॒प्रभ॑रन्त॒भोज॑नम्|{शौनको गृत्समदः | इन्द्रः | जगती}

स॒मा॒नो,अध्वा᳚प्र॒वता᳚मनु॒ष्यदे॒¦यस्ताकृ॑णोःप्रथ॒मंसास्यु॒क्थ्यः॑|| {2/13}{2.6.10.2}{2.13.2}{2.2.2.2}{763, 204, 2133}

अन्वेको᳚वदति॒यद्ददा᳚ति॒तद्¦रू॒पामि॒नन्तद॑पा॒,एक॑ईयते|{शौनको गृत्समदः | इन्द्रः | जगती}

विश्वा॒,एक॑स्यवि॒नुद॑स्तितिक्षते॒¦यस्ताकृ॑णोःप्रथ॒मंसास्यु॒क्थ्यः॑|| {3/13}{2.6.10.3}{2.13.3}{2.2.2.3}{764, 204, 2134}

प्र॒जाभ्यः॑पु॒ष्टिंवि॒भज᳚न्तआसते¦र॒यिमि॑वपृ॒ष्ठंप्र॒भव᳚न्तमाय॒ते|{शौनको गृत्समदः | इन्द्रः | जगती}

असि᳚न्व॒न्‌दंष्ट्रैः᳚पि॒तुर॑त्ति॒भोज॑नं॒¦यस्ताकृ॑णोःप्रथ॒मंसास्यु॒क्थ्यः॑|| {4/13}{2.6.10.4}{2.13.4}{2.2.2.4}{765, 204, 2135}

अधा᳚कृणोःपृथि॒वींसं॒दृशे᳚दि॒वे¦योधौ᳚ती॒नाम॑हिह॒न्नारि॑णक्‌प॒थः|{शौनको गृत्समदः | इन्द्रः | जगती}

तंत्वा॒स्तोमे᳚भिरु॒दभि॒र्नवा॒जिनं᳚¦दे॒वंदे॒वा,अ॑जन॒न्‌त्सास्यु॒क्थ्यः॑|| {5/13}{2.6.10.5}{2.13.5}{2.2.2.5}{766, 204, 2136}

योभोज॑नंच॒दय॑सेच॒वर्ध॑न¦मा॒र्द्रादाशुष्कं॒मधु॑मद्‌दु॒दोहि॑थ|{शौनको गृत्समदः | इन्द्रः | जगती}

सशे᳚व॒धिंनिद॑धिषेवि॒वस्व॑ति॒¦विश्व॒स्यैक॑ईशिषे॒सास्यु॒क्थ्यः॑|| {6/13}{2.6.11.1}{2.13.6}{2.2.2.6}{767, 204, 2137}

यःपु॒ष्पिणी᳚श्चप्र॒स्व॑श्च॒धर्म॒णा¦धि॒दाने॒व्य१॑(अ॒)वनी॒रधा᳚रयः|{शौनको गृत्समदः | इन्द्रः | जगती}

यश्चास॑मा॒,अज॑नोदि॒द्युतो᳚दि॒व¦उ॒रुरू॒र्वाँ,अ॒भितः॒सास्यु॒क्थ्यः॑|| {7/13}{2.6.11.2}{2.13.7}{2.2.2.7}{768, 204, 2138}

योना᳚र्म॒रंस॒हव॑सुं॒निह᳚न्तवे¦पृ॒क्षाय॑चदा॒सवे᳚शाय॒चाव॑हः|{शौनको गृत्समदः | इन्द्रः | जगती}

ऊ॒र्जय᳚न्त्या॒,अप॑रिविष्टमा॒स्य॑¦मु॒तैवाद्यपु॑रुकृ॒त्‌सास्यु॒क्थ्यः॑|| {8/13}{2.6.11.3}{2.13.8}{2.2.2.8}{769, 204, 2139}

श॒तंवा॒यस्य॒दश॑सा॒कमाद्य॒¦एक॑स्यश्रु॒ष्टौयद्ध॑चो॒दमावि॑थ|{शौनको गृत्समदः | इन्द्रः | जगती}

अ॒र॒ज्जौदस्यू॒न्‌त्समु॑नब्द॒भीत॑ये¦सुप्रा॒व्यो᳚अभवः॒सास्यु॒क्थ्यः॑|| {9/13}{2.6.11.4}{2.13.9}{2.2.2.9}{770, 204, 2140}

विश्वेदनु॑रोध॒ना,अ॑स्य॒पौंस्यं᳚¦द॒दुर॑स्मैदधि॒रेकृ॒त्नवे॒धन᳚म्|{शौनको गृत्समदः | इन्द्रः | जगती}

षळ॑स्तभ्नावि॒ष्टिरः॒पञ्च॑सं॒दृशः॒¦परि॑प॒रो,अ॑भवः॒सास्यु॒क्थ्यः॑|| {10/13}{2.6.11.5}{2.13.10}{2.2.2.10}{771, 204, 2141}

सु॒प्र॒वा॒च॒नंतव॑वीरवी॒र्य१॑(अं॒)¦यदेके᳚न॒क्रतु॑नावि॒न्दसे॒वसु॑|{शौनको गृत्समदः | इन्द्रः | जगती}

जा॒तूष्ठि॑रस्य॒प्रवयः॒सह॑स्वतो॒¦याच॒कर्थ॒सेन्द्र॒विश्वा᳚स्यु॒क्थ्यः॑|| {11/13}{2.6.12.1}{2.13.11}{2.2.2.11}{772, 204, 2142}

अर॑मयः॒सर॑पस॒स्तरा᳚य॒कं¦तु॒र्वीत॑येचव॒य्या᳚यचस्रु॒तिम्|{शौनको गृत्समदः | इन्द्रः | जगती}

नी॒चासन्त॒मुद॑नयःपरा॒वृजं॒¦प्रान्धंश्रो॒णंश्र॒वय॒न्‌त्सास्यु॒क्थ्यः॑|| {12/13}{2.6.12.2}{2.13.12}{2.2.2.12}{773, 204, 2143}

अ॒स्मभ्यं॒तद्‌व॑सोदा॒नाय॒राधः॒¦सम॑र्थयस्वब॒हुते᳚वस॒व्य᳚म्|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒यच्चि॒त्रंश्र॑व॒स्या,अनु॒द्यून्¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚|| {13/13}{2.6.12.3}{2.13.13}{2.2.2.13}{774, 204, 2144}

[84] अध्वर्यवइति द्वादशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् |
अध्व᳚र्यवो॒भर॒तेन्द्रा᳚य॒सोम॒¦माम॑त्रेभिःसिञ्चता॒मद्य॒मन्धः॑|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

का॒मीहिवी॒रःसद॑मस्यपी॒तिं¦जु॒होत॒वृष्णे॒तदिदे॒षव॑ष्टि|| {1/12}{2.6.13.1}{2.14.1}{2.2.3.1}{775, 205, 2145}

अध्व᳚र्यवो॒यो,अ॒पोव᳚व्रि॒वांसं᳚¦वृ॒त्रंज॒घाना॒शन्ये᳚ववृ॒क्षम्|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

तस्मा᳚ए॒तंभ॑रततद्व॒शायँ᳚,¦ए॒षइन्द्रो᳚अर्हतिपी॒तिम॑स्य|| {2/12}{2.6.13.2}{2.14.2}{2.2.3.2}{776, 205, 2146}

अध्व᳚र्यवो॒योदृभी᳚कंज॒घान॒¦योगा,उ॒दाज॒दप॒हिव॒लंवः|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

तस्मा᳚ए॒तम॒न्तरि॑क्षे॒नवात॒¦मिन्द्रं॒सोमै॒रोर्णु॑त॒जूर्नवस्त्रैः᳚|| {3/12}{2.6.13.3}{2.14.3}{2.2.3.3}{777, 205, 2147}

अध्व᳚र्यवो॒यउर॑णंज॒घान॒¦नव॑च॒ख्वांसं᳚नव॒तिंच॑बा॒हून्|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यो,अर्बु॑द॒मव॑नी॒चाब॑बा॒धे¦तमिन्द्रं॒सोम॑स्यभृ॒थेहि॑नोत|| {4/12}{2.6.13.4}{2.14.4}{2.2.3.4}{778, 205, 2148}

अध्व᳚र्यवो॒यःस्वश्नं᳚ज॒घान॒¦यःशुष्ण॑म॒शुषं॒योव्यं᳚सम्|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यःपिप्रुं॒नमु॑चिं॒योरु॑धि॒क्रां¦तस्मा॒,इन्द्रा॒यान्ध॑सोजुहोत|| {5/12}{2.6.13.5}{2.14.5}{2.2.3.5}{779, 205, 2149}

अध्व᳚र्यवो॒यःश॒तंशम्ब॑रस्य॒¦पुरो᳚बि॒भेदाश्म॑नेवपू॒र्वीः|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

योव॒र्चिनः॑श॒तमिन्द्रः॑स॒हस्र॑¦म॒पाव॑प॒द्‌भर॑ता॒सोम॑मस्मै|| {6/12}{2.6.13.6}{2.14.6}{2.2.3.6}{780, 205, 2150}

अध्व᳚र्यवो॒यःश॒तमास॒हस्रं॒¦भूम्या᳚उ॒पस्थेऽव॑पज्जघ॒न्वान्|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

कुत्स॑स्या॒योर॑तिथि॒ग्वस्य॑वी॒रान्¦न्यावृ॑ण॒ग्‌भर॑ता॒सोम॑मस्मै|| {7/12}{2.6.14.1}{2.14.7}{2.2.3.7}{781, 205, 2151}

अध्व᳚र्यवो॒यन्न॑रःका॒मया᳚ध्वे¦श्रु॒ष्टीवह᳚न्तोनशथा॒तदिन्द्रे᳚|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

गभ॑स्तिपूतंभरतश्रु॒ताये¦न्द्रा᳚य॒सोमं᳚यज्यवोजुहोत|| {8/12}{2.6.14.2}{2.14.8}{2.2.3.8}{782, 205, 2152}

अध्व᳚र्यवः॒कर्त॑नाश्रु॒ष्टिम॑स्मै॒¦वने॒निपू᳚तं॒वन॒उन्न॑यध्वम्|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

जु॒षा॒णोहस्त्य॑म॒भिवा᳚वशेव॒¦इन्द्रा᳚य॒सोमं᳚मदि॒रंजु॑होत|| {9/12}{2.6.14.3}{2.14.9}{2.2.3.9}{783, 205, 2153}

अध्व᳚र्यवः॒पय॒सोध॒र्यथा॒गोः¦सोमे᳚भिरींपृणताभो॒जमिन्द्र᳚म्|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

वेदा॒हम॑स्य॒निभृ॑तंमए॒तद्¦दित्स᳚न्तं॒भूयो᳚यज॒तश्चि॑केत|| {10/12}{2.6.14.4}{2.14.10}{2.2.3.10}{784, 205, 2154}

अध्व᳚र्यवो॒योदि॒व्यस्य॒वस्वो॒¦यःपार्थि॑वस्य॒क्षम्य॑स्य॒राजा᳚|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

तमूर्द॑रं॒नपृ॑णता॒यवे॒ने¦न्द्रं॒सोमे᳚भि॒स्तदपो᳚वो,अस्तु|| {11/12}{2.6.14.5}{2.14.11}{2.2.3.11}{785, 205, 2155}

अ॒स्मभ्यं॒तद्‌व॑सोदा॒नाय॒राधः॒¦सम॑र्थयस्वब॒हुते᳚वस॒व्य᳚म्|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒यच्चि॒त्रंश्र॑व॒स्या,अनु॒द्यून्¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚|| {12/12}{2.6.14.6}{2.14.12}{2.2.3.12}{786, 205, 2156}

[85] प्रघान्विति दशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् |
प्रघा॒न्व॑स्यमह॒तोम॒हानि॑¦स॒त्यास॒त्यस्य॒कर॑णानिवोचम्|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

त्रिक॑द्रुकेष्वपिबत्‌सु॒तस्या॒¦स्यमदे॒,अहि॒मिन्द्रो᳚जघान|| {1/10}{2.6.15.1}{2.15.1}{2.2.4.1}{787, 206, 2157}

अ॒वं॒शेद्याम॑स्तभायद्‌बृ॒हन्त॒¦मारोद॑सी,अपृणद॒न्तरि॑क्षम्|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

सधा᳚रयत्‌पृथि॒वींप॒प्रथ॑च्च॒¦सोम॑स्य॒तामद॒इन्द्र॑श्चकार|| {2/10}{2.6.15.2}{2.15.2}{2.2.4.2}{788, 206, 2158}

सद्मे᳚व॒प्राचो॒विमि॑माय॒मानै॒¦र्वज्रे᳚ण॒खान्य॑तृणन्न॒दीना᳚म्|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

वृथा᳚सृजत्‌प॒थिभि॑र्दीर्घया॒थैः¦सोम॑स्य॒तामद॒इन्द्र॑श्चकार|| {3/10}{2.6.15.3}{2.15.3}{2.2.4.3}{789, 206, 2159}

सप्र॑वो॒ळ्हॄन्‌प॑रि॒गत्या᳚द॒भीते॒¦र्विश्व॑मधा॒गायु॑धमि॒द्धे,अ॒ग्नौ|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

संगोभि॒रश्वै᳚रसृज॒द्‌रथे᳚भिः॒¦सोम॑स्य॒तामद॒इन्द्र॑श्चकार|| {4/10}{2.6.15.4}{2.15.4}{2.2.4.4}{790, 206, 2160}

सईं᳚म॒हींधुनि॒मेतो᳚ररम्णा॒त्¦सो,अ॑स्ना॒तॄन॑पारयत्‌स्व॒स्ति|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

तउ॒त्स्नाय॑र॒यिम॒भिप्रत॑स्थुः॒¦सोम॑स्य॒तामद॒इन्द्र॑श्चकार|| {5/10}{2.6.15.5}{2.15.5}{2.2.4.5}{791, 206, 2161}

सोद᳚ञ्चं॒सिन्धु॑मरिणान्महि॒त्वा¦वज्रे॒णान॑उ॒षसः॒संपि॑पेष|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

अ॒ज॒वसो᳚ज॒विनी᳚भिर्विवृ॒श्चन्¦त्सोम॑स्य॒तामद॒इन्द्र॑श्चकार|| {6/10}{2.6.16.1}{2.15.6}{2.2.4.6}{792, 206, 2162}

सवि॒द्वाँ,अ॑पगो॒हंक॒नीना᳚¦मा॒विर्भव॒न्नुद॑तिष्ठत्‌परा॒वृक्|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

प्रति॑श्रो॒णःस्था॒द्‌व्य१॑(अ॒)नग॑चष्ट॒¦सोम॑स्य॒तामद॒इन्द्र॑श्चकार|| {7/10}{2.6.16.2}{2.15.7}{2.2.4.7}{793, 206, 2163}

भि॒नद्‌व॒लमङ्गि॑रोभिर्गृणा॒नो¦विपर्व॑तस्यदृंहि॒तान्यै᳚रत्|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

रि॒णग्रोधां᳚सिकृ॒त्रिमा᳚ण्येषां॒¦सोम॑स्य॒तामद॒इन्द्र॑श्चकार|| {8/10}{2.6.16.3}{2.15.8}{2.2.4.8}{794, 206, 2164}

स्वप्ने᳚ना॒भ्युप्या॒चुमु॑रिं॒धुनिं᳚च¦ज॒घन्थ॒दस्युं॒प्रद॒भीति॑मावः|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

र॒म्भीचि॒दत्र॑विविदे॒हिर᳚ण्यं॒¦सोम॑स्य॒तामद॒इन्द्र॑श्चकार|| {9/10}{2.6.16.4}{2.15.9}{2.2.4.9}{795, 206, 2165}

नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रे¦दु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नो¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚|| {10/10}{2.6.16.5}{2.15.10}{2.2.4.10}{796, 206, 2166}

[86] प्रवः सतामिति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रो जगत्यंत्यात्रिष्टुप् |
प्रवः॑स॒तांज्येष्ठ॑तमायसुष्टु॒ति¦म॒ग्नावि॑वसमिधा॒नेह॒विर्भ॑रे|{शौनको गृत्समदः | इन्द्रः | जगती}

इन्द्र॑मजु॒र्यंज॒रय᳚न्तमुक्षि॒तं¦स॒नाद्‌युवा᳚न॒मव॑सेहवामहे|| {1/9}{2.6.17.1}{2.16.1}{2.2.5.1}{797, 207, 2167}

यस्मा॒दिन्द्रा᳚द्‌बृह॒तःकिंच॒नेमृ॒ते¦विश्वा᳚न्यस्मि॒न्‌त्सम्भृ॒ताधि॑वी॒र्या᳚|{शौनको गृत्समदः | इन्द्रः | जगती}

ज॒ठरे॒सोमं᳚त॒न्वी॒३॑(ई॒)सहो॒महो॒¦हस्ते॒वज्रं॒भर॑तिशी॒र्षणि॒क्रतु᳚म्|| {2/9}{2.6.17.2}{2.16.2}{2.2.5.2}{798, 207, 2168}

नक्षो॒णीभ्यां᳚परि॒भ्वे᳚तइन्द्रि॒यं¦नस॑मु॒द्रैःपर्व॑तैरिन्द्रते॒रथः॑|{शौनको गृत्समदः | इन्द्रः | जगती}

नते॒वज्र॒मन्व॑श्नोति॒कश्च॒न¦यदा॒शुभिः॒पत॑सि॒योज॑नापु॒रु|| {3/9}{2.6.17.3}{2.16.3}{2.2.5.3}{799, 207, 2169}

विश्वे॒ह्य॑स्मैयज॒ताय॑धृ॒ष्णवे॒¦क्रतुं॒भर᳚न्तिवृष॒भाय॒सश्च॑ते|{शौनको गृत्समदः | इन्द्रः | जगती}

वृषा᳚यजस्वह॒विषा᳚वि॒दुष्ट॑रः॒¦पिबे᳚न्द्र॒सोमं᳚वृष॒भेण॑भा॒नुना᳚|| {4/9}{2.6.17.4}{2.16.4}{2.2.5.4}{800, 207, 2170}

वृष्णः॒कोशः॑पवते॒मध्व॑ऊ॒र्मि¦र्वृ॑ष॒भान्ना᳚यवृष॒भाय॒पात॑वे|{शौनको गृत्समदः | इन्द्रः | जगती}

वृष॑णाध्व॒र्यूवृ॑ष॒भासो॒,अद्र॑यो॒¦वृष॑णं॒सोमं᳚वृष॒भाय॑सुष्वति|| {5/9}{2.6.17.5}{2.16.5}{2.2.5.5}{801, 207, 2171}

वृषा᳚ते॒वज्र॑उ॒तते॒वृषा॒रथो॒¦वृष॑णा॒हरी᳚वृष॒भाण्यायु॑धा|{शौनको गृत्समदः | इन्द्रः | जगती}

वृष्णो॒मद॑स्यवृषभ॒त्वमी᳚शिष॒¦इन्द्र॒सोम॑स्यवृष॒भस्य॑तृप्णुहि|| {6/9}{2.6.18.1}{2.16.6}{2.2.5.6}{802, 207, 2172}

प्रते॒नावं॒नसम॑नेवच॒स्युवं॒¦ब्रह्म॑णायामि॒सव॑नेषु॒दाधृ॑षिः|{शौनको गृत्समदः | इन्द्रः | जगती}

कु॒विन्नो᳚अ॒स्यवच॑सोनि॒बोधि॑ष॒¦दिन्द्र॒मुत्सं॒नवसु॑नःसिचामहे|| {7/9}{2.6.18.2}{2.16.7}{2.2.5.7}{803, 207, 2173}

पु॒रास᳚म्बा॒धाद॒भ्याव॑वृत्स्वनो¦धे॒नुर्नव॒त्संयव॑सस्यपि॒प्युषी᳚|{शौनको गृत्समदः | इन्द्रः | जगती}

स॒कृत्सुते᳚सुम॒तिभिः॑शतक्रतो॒¦संपत्नी᳚भि॒र्नवृष॑णोनसीमहि|| {8/9}{2.6.18.3}{2.16.8}{2.2.5.8}{804, 207, 2174}

नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रे¦दु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नो¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚|| {9/9}{2.6.18.4}{2.16.9}{2.2.5.9}{805, 207, 2175}

[87] तदस्माइति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रोजगत्यंत्येद्वेत्रिष्टुभौ |
तद॑स्मै॒नव्य॑मङ्गिर॒स्वद॑र्चत॒¦शुष्मा॒यद॑स्यप्र॒त्नथो॒दीर॑ते|{शौनको गृत्समदः | इन्द्रः | जगती}

विश्वा॒यद्‌गो॒त्रासह॑सा॒परी᳚वृता॒¦मदे॒सोम॑स्यदृंहि॒तान्यैर॑यत्|| {1/9}{2.6.19.1}{2.17.1}{2.2.6.1}{806, 208, 2176}

सभू᳚तु॒योह॑प्रथ॒माय॒धाय॑स॒¦ओजो॒मिमा᳚नोमहि॒मान॒माति॑रत्|{शौनको गृत्समदः | इन्द्रः | जगती}

शूरो॒योयु॒त्सुत॒न्वं᳚परि॒व्यत॑¦शी॒र्षणि॒द्यांम॑हि॒नाप्रत्य॑मुञ्चत|| {2/9}{2.6.19.2}{2.17.2}{2.2.6.2}{807, 208, 2177}

अधा᳚कृणोःप्रथ॒मंवी॒र्यं᳚म॒हद्¦यद॒स्याग्रे॒ब्रह्म॑णा॒शुष्म॒मैर॑यः|{शौनको गृत्समदः | इन्द्रः | जगती}

र॒थे॒ष्ठेन॒हर्य॑श्वेन॒विच्यु॑ताः॒¦प्रजी॒रयः॑सिस्रतेस॒ध्र्य१॑(अ॒)क्‌पृथ॑क्|| {3/9}{2.6.19.3}{2.17.3}{2.2.6.3}{808, 208, 2178}

अधा॒योविश्वा॒भुव॑ना॒भिम॒ज्मने᳚¦शान॒कृत्‌प्रव॑या,अ॒भ्यव॑र्धत|{शौनको गृत्समदः | इन्द्रः | जगती}

आद्‌रोद॑सी॒ज्योति॑षा॒वह्नि॒रात॑नो॒त्¦सीव्य॒न्‌तमां᳚सि॒दुधि॑ता॒सम᳚व्ययत्|| {4/9}{2.6.19.4}{2.17.4}{2.2.6.4}{809, 208, 2179}

सप्रा॒चीना॒न्‌पर्व॑तान्‌दृंह॒दोज॑सा¦धरा॒चीन॑मकृणोद॒पामपः॑|{शौनको गृत्समदः | इन्द्रः | जगती}

अधा᳚रयत्‌पृथि॒वींवि॒श्वधा᳚यस॒¦मस्त॑भ्नान्मा॒यया॒द्याम॑व॒स्रसः॑|| {5/9}{2.6.19.5}{2.17.5}{2.2.6.5}{810, 208, 2180}

सास्मा॒,अरं᳚बा॒हुभ्यां॒यंपि॒ताकृ॑णो॒द्¦विश्व॑स्मा॒दाज॒नुषो॒वेद॑स॒स्परि॑|{शौनको गृत्समदः | इन्द्रः | जगती}

येना᳚पृथि॒व्यांनिक्रिविं᳚श॒यध्यै॒¦वज्रे᳚णह॒त्व्यवृ॑णक्‌तुवि॒ष्वणिः॑|| {6/9}{2.6.20.1}{2.17.6}{2.2.6.6}{811, 208, 2181}

अ॒मा॒जूरि॑वपि॒त्रोःसचा᳚स॒ती¦स॑मा॒नादासद॑स॒स्त्वामि॑ये॒भग᳚म्|{शौनको गृत्समदः | इन्द्रः | जगती}

कृ॒धिप्र॑के॒तमुप॑मा॒स्याभ॑र¦द॒द्धिभा॒गंत॒न्वो॒३॑(ओ॒)येन॑मा॒महः॑|| {7/9}{2.6.20.2}{2.17.7}{2.2.6.7}{812, 208, 2182}

भो॒जंत्वामि᳚न्द्रव॒यंहु॑वेम¦द॒दिष्ट्वमि॒न्द्रापां᳚सि॒वाजा॑न्|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

अ॒वि॒ड्ढी᳚न्द्रचि॒त्रया᳚नऊ॒ती¦कृ॒धिवृ॑षन्निन्द्र॒वस्य॑सोनः|| {8/9}{2.6.20.3}{2.17.8}{2.2.6.8}{813, 208, 2183}

नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रे¦दु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नो¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚|| {9/9}{2.6.20.4}{2.17.9}{2.2.6.9}{814, 208, 2184}

[88] प्रातारथइति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् |
प्रा॒तारथो॒नवो᳚योजि॒सस्नि॒¦श्चतु᳚र्युगस्त्रिक॒शःस॒प्तर॑श्मिः|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

दशा᳚रित्रोमनु॒ष्यः॑स्व॒र्षाः¦सइ॒ष्टिभि᳚र्म॒तिभी॒रंह्यो᳚भूत्|| {1/9}{2.6.21.1}{2.18.1}{2.2.7.1}{815, 209, 2185}

सास्मा॒,अरं᳚प्रथ॒मंसद्वि॒तीय॑¦मु॒तोतृ॒तीयं॒मनु॑षः॒सहोता᳚|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

अ॒न्यस्या॒गर्भ॑म॒न्यऊ᳚जनन्त॒¦सो,अ॒न्येभिः॑सचते॒जेन्यो॒वृषा᳚|| {2/9}{2.6.21.2}{2.18.2}{2.2.7.2}{816, 209, 2186}

हरी॒नुकं॒रथ॒इन्द्र॑स्ययोज¦मा॒यैसू॒क्तेन॒वच॑सा॒नवे᳚न|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

मोषुत्वामत्र॑ब॒हवो॒हिविप्रा॒¦निरी᳚रम॒न्‌यज॑मानासो,अ॒न्ये|| {3/9}{2.6.21.3}{2.18.3}{2.2.7.3}{817, 209, 2187}

आद्वाभ्यां॒हरि॑भ्यामिन्द्रया॒¦ह्याच॒तुर्भि॒राष॒ड्भिर्हू॒यमा᳚नः|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

आष्टा॒भिर्द॒शभिः॑सोम॒पेय॑¦म॒यंसु॒तःसु॑मख॒मामृध॑स्कः|| {4/9}{2.6.21.4}{2.18.4}{2.2.7.4}{818, 209, 2188}

आविं᳚श॒त्यात्रिं॒शता᳚याह्य॒र्वाङ्¦आच॑त्वारिं॒शता॒हरि॑भिर्युजा॒नः|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

आप᳚ञ्चा॒शता᳚सु॒रथे᳚भिरि॒न्द्रा¦ऽऽष॒ष्ट्यास॑प्त॒त्यासो᳚म॒पेय᳚म्|| {5/9}{2.6.21.5}{2.18.5}{2.2.7.5}{819, 209, 2189}

आशी॒त्यान॑व॒त्याया᳚ह्य॒र्वाङ्¦आश॒तेन॒हरि॑भिरु॒ह्यमा᳚नः|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

अ॒यंहिते᳚शु॒नहो᳚त्रेषु॒सोम॒¦इन्द्र॑त्वा॒यापरि॑षिक्तो॒मदा᳚य|| {6/9}{2.6.22.1}{2.18.6}{2.2.7.6}{820, 209, 2190}

मम॒ब्रह्मे᳚न्द्रया॒ह्यच्छा॒¦विश्वा॒हरी᳚धु॒रिधि॑ष्वा॒रथ॑स्य|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

पु॒रु॒त्राहिवि॒हव्यो᳚ब॒भूथा॒¦स्मिञ्छू᳚र॒सव॑नेमादयस्व|| {7/9}{2.6.22.2}{2.18.7}{2.2.7.7}{821, 209, 2191}

नम॒इन्द्रे᳚णस॒ख्यंवियो᳚ष¦द॒स्मभ्य॑मस्य॒दक्षि॑णादुहीत|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

उप॒ज्येष्ठे॒वरू᳚थे॒गभ॑स्तौ¦प्रा॒येप्रा᳚येजिगी॒वांसः॑स्याम|| {8/9}{2.6.22.3}{2.18.8}{2.2.7.8}{822, 209, 2192}

नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रे¦दु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नो¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚|| {9/9}{2.6.22.4}{2.18.9}{2.2.7.9}{823, 209, 2193}

[89] अपाय्यस्येति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् |
अपा᳚य्य॒स्यान्ध॑सो॒मदा᳚य॒¦मनी᳚षिणःसुवा॒नस्य॒प्रय॑सः|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यस्मि॒न्निन्द्रः॑प्र॒दिवि॑वावृधा॒न¦ओको᳚द॒धेब्र᳚ह्म॒ण्यन्त॑श्च॒नरः॑|| {1/9}{2.6.23.1}{2.19.1}{2.2.8.1}{824, 210, 2194}

अ॒स्यम᳚न्दा॒नोमध्वो॒वज्र॑ह॒स्तो¦ऽहि॒मिन्द्रो᳚अर्णो॒वृतं॒विवृ॑श्चत्|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

प्रयद्‌वयो॒नस्वस॑रा॒ण्यच्छा॒¦प्रयां᳚सिचन॒दीनां॒चक्र॑मन्त|| {2/9}{2.6.23.2}{2.19.2}{2.2.8.2}{825, 210, 2195}

समाहि॑न॒इन्द्रो॒,अर्णो᳚अ॒पां¦प्रैर॑यदहि॒हाच्छा᳚समु॒द्रम्|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

अज॑नय॒त्‌सूर्यं᳚वि॒दद्‌गा,¦अ॒क्तुनाह्नां᳚व॒युना᳚निसाधत्|| {3/9}{2.6.23.3}{2.19.3}{2.2.8.3}{826, 210, 2196}

सो,अ॑प्र॒तीनि॒मन॑वेपु॒रूणी¦न्द्रो᳚दाशद्दा॒शुषे॒हन्ति॑वृ॒त्रम्|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

स॒द्योयोनृभ्यो᳚अत॒साय्यो॒भूत्¦प॑स्पृधा॒नेभ्यः॒सूर्य॑स्यसा॒तौ|| {4/9}{2.6.23.4}{2.19.4}{2.2.8.4}{827, 210, 2197}

ससु᳚न्व॒तइन्द्रः॒सूर्य॒मा¦ऽऽदे॒वोरि॑ण॒ङ्मर्त्या᳚यस्त॒वान्|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

आयद्‌र॒यिंगु॒हद॑वद्यमस्मै॒¦भर॒दंशं॒नैत॑शोदश॒स्यन्|| {5/9}{2.6.23.5}{2.19.5}{2.2.8.5}{828, 210, 2198}

सर᳚न्धयत्‌स॒दिवः॒सार॑थये॒¦शुष्ण॑म॒शुषं॒कुय॑वं॒कुत्सा᳚य|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

दिवो᳚दासायनव॒तिंच॒नवे¦न्द्रः॒पुरो॒व्यै᳚र॒च्छम्ब॑रस्य|| {6/9}{2.6.24.1}{2.19.6}{2.2.8.6}{829, 210, 2199}

ए॒वात॑इन्द्रो॒चथ॑महेम¦श्रव॒स्यानत्मना᳚वा॒जय᳚न्तः|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

अ॒श्याम॒तत्‌साप्त॑माशुषा॒णा¦न॒नमो॒वध॒रदे᳚वस्यपी॒योः|| {7/9}{2.6.24.2}{2.19.7}{2.2.8.7}{830, 210, 2200}

ए॒वाते᳚गृत्सम॒दाःशू᳚र॒मन्मा᳚¦व॒स्यवो॒नव॒युना᳚नितक्षुः|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

ब्र॒ह्म॒ण्यन्त॑इन्द्रते॒नवी᳚य॒¦इष॒मूर्जं᳚सुक्षि॒तिंसु॒म्नम॑श्युः|| {8/9}{2.6.24.3}{2.19.8}{2.2.8.8}{831, 210, 2201}

नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रे¦दु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नो¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚|| {9/9}{2.6.24.4}{2.19.9}{2.2.8.9}{832, 210, 2202}

[90] वयंतइति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् तृतीयाविराड्रूपा |
व॒यंते॒वय॑इन्द्रवि॒द्धिषुणः॒¦प्रभ॑रामहेवाज॒युर्नरथ᳚म्|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

वि॒प॒न्यवो॒दीध्य॑तोमनी॒षा¦सु॒म्नमिय॑क्षन्त॒स्त्वाव॑तो॒नॄन्|| {1/9}{2.6.25.1}{2.20.1}{2.2.9.1}{833, 211, 2203}

त्वंन॑इन्द्र॒त्वाभि॑रू॒ती¦त्वा᳚य॒तो,अ॑भिष्टि॒पासि॒जना॑न्|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

त्वमि॒नोदा॒शुषो᳚वरू॒ते¦त्थाधी᳚र॒भियोनक्ष॑तित्वा|| {2/9}{2.6.25.2}{2.20.2}{2.2.9.2}{834, 211, 2204}

सनो॒युवेन्द्रो᳚जो॒हूत्रः॒सखा᳚¦शि॒वोन॒राम॑स्तुपा॒ता|{शौनको गृत्समदः | इन्द्रः | विराड्रूपा}

यःशंस᳚न्तं॒यःश॑शमा॒नमू॒ती¦पच᳚न्तंचस्तु॒वन्तं᳚चप्र॒णेष॑त्|| {3/9}{2.6.25.3}{2.20.3}{2.2.9.3}{835, 211, 2205}

तमु॑स्तुष॒इन्द्रं॒तंगृ॑णीषे॒¦यस्मि᳚न्‌पु॒रावा᳚वृ॒धुःशा᳚श॒दुश्च॑|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

सवस्वः॒कामं᳚पीपरदिया॒नो¦ब्र᳚ह्मण्य॒तोनूत॑नस्या॒योः|| {4/9}{2.6.25.4}{2.20.4}{2.2.9.4}{836, 211, 2206}

सो,अङ्गि॑रसामु॒चथा᳚जुजु॒ष्वान्¦ब्रह्मा᳚तूतो॒दिन्द्रो᳚गा॒तुमि॒ष्णन्|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

मु॒ष्णन्नु॒षसः॒सूर्ये᳚णस्त॒वान¦श्न॑स्यचिच्छिश्नथत्‌पू॒र्व्याणि॑|| {5/9}{2.6.25.5}{2.20.5}{2.2.9.5}{837, 211, 2207}

सह॑श्रु॒तइन्द्रो॒नाम॑दे॒व¦ऊ॒र्ध्वोभु॑व॒न्मनु॑षेद॒स्मत॑मः|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

अव॑प्रि॒यम॑र्शसा॒नस्य॑सा॒ह्वाञ्¦छिरो᳚भरद्दा॒सस्य॑स्व॒धावा॑न्|| {6/9}{2.6.26.1}{2.20.6}{2.2.9.6}{838, 211, 2208}

सवृ॑त्र॒हेन्द्रः॑कृ॒ष्णयो᳚नीः¦पुरंद॒रोदासी᳚रैरय॒द्वि|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

अज॑नय॒न्‌मन॑वे॒क्षाम॒पश्च॑¦स॒त्राशंसं॒यज॑मानस्यतूतोत्|| {7/9}{2.6.26.2}{2.20.7}{2.2.9.7}{839, 211, 2209}

तस्मै᳚तव॒स्य१॑(अ॒)मनु॑दायिस॒त्रे¦न्द्रा᳚यदे॒वेभि॒रर्ण॑सातौ|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

प्रति॒यद॑स्य॒वज्रं᳚बा॒ह्वोर्धु¦र्ह॒त्वीदस्यू॒न्‌पुर॒आय॑सी॒र्निता᳚रीत्|| {8/9}{2.6.26.3}{2.20.8}{2.2.9.8}{840, 211, 2210}

नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रे¦दु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नो¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚|| {9/9}{2.6.26.4}{2.20.9}{2.2.9.9}{841, 211, 2211}

[91] विश्वजित इति षडृचस्य सूक्तस्यशौनकोगृत्समदइंद्रोजगत्यंत्यात्रिष्टुप् |
वि॒श्व॒जिते᳚धन॒जिते᳚स्व॒र्जिते᳚¦सत्रा॒जिते᳚नृ॒जित॑उर्वरा॒जिते᳚|{शौनको गृत्समदः | इन्द्रः | जगती}

अ॒श्व॒जिते᳚गो॒जिते᳚अ॒ब्जिते᳚भ॒रे¦न्द्रा᳚य॒सोमं᳚यज॒ताय॑हर्य॒तम्|| {1/6}{2.6.27.1}{2.21.1}{2.2.10.1}{842, 212, 2212}

अ॒भि॒भुवे᳚ऽभिभ॒ङ्गाय॑वन्व॒ते¦ऽषा᳚ळ्हाय॒सह॑मानायवे॒धसे᳚|{शौनको गृत्समदः | इन्द्रः | जगती}

तु॒वि॒ग्रये॒वह्न॑येदु॒ष्टरी᳚तवे¦सत्रा॒साहे॒नम॒इन्द्रा᳚यवोचत|| {2/6}{2.6.27.2}{2.21.2}{2.2.10.2}{843, 212, 2213}

स॒त्रा॒सा॒होज॑नभ॒क्षोज॑नंस॒ह¦श्च्यव॑नोयु॒ध्मो,अनु॒जोष॑मुक्षि॒तः|{शौनको गृत्समदः | इन्द्रः | जगती}

वृ॒तं॒च॒यःसहु॑रिर्वि॒क्ष्वा᳚रि॒त¦इन्द्र॑स्यवोचं॒प्रकृ॒तानि॑वी॒र्या᳚|| {3/6}{2.6.27.3}{2.21.3}{2.2.10.3}{844, 212, 2214}

अ॒ना॒नु॒दोवृ॑ष॒भोदोध॑तोव॒धो¦ग᳚म्भी॒रऋ॒ष्वो,अस॑मष्टकाव्यः|{शौनको गृत्समदः | इन्द्रः | जगती}

र॒ध्र॒चो॒दःश्नथ॑नोवीळि॒तस्पृ॒थु¦रिन्द्रः॑सुय॒ज्ञउ॒षसः॒स्व॑र्जनत्|| {4/6}{2.6.27.4}{2.21.4}{2.2.10.4}{845, 212, 2215}

य॒ज्ञेन॑गा॒तुम॒प्तुरो᳚विविद्रिरे॒¦धियो᳚हिन्वा॒ना,उ॒शिजो᳚मनी॒षिणः॑|{शौनको गृत्समदः | इन्द्रः | जगती}

अ॒भि॒स्वरा᳚नि॒षदा॒गा,अ॑व॒स्यव॒¦इन्द्रे᳚हिन्वा॒नाद्रवि॑णान्याशत|| {5/6}{2.6.27.5}{2.21.5}{2.2.10.5}{846, 212, 2216}

इन्द्र॒श्रेष्ठा᳚नि॒द्रवि॑णानिधेहि॒¦चित्तिं॒दक्ष॑स्यसुभग॒त्वम॒स्मे|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

पोषं᳚रयी॒णामरि॑ष्टिंत॒नूनां᳚¦स्वा॒द्मानं᳚वा॒चःसु॑दिन॒त्वमह्ना᳚म्|| {6/6}{2.6.27.6}{2.21.6}{2.2.10.6}{847, 212, 2217}

[92] त्रिकद्रुकेष्विति चतुरृचस्य सूक्तस्य शौनकोगृत्समद आद्याष्टिस्ततोद्वे अतिशक्वर्यावंत्याष्टिर्वा |
त्रिक॑द्रुकेषुमहि॒षोयवा᳚शिरंतुवि॒शुष्म॑¦स्तृ॒पत्‌सोम॑मपिब॒द्‌विष्णु॑नासु॒तंयथाव॑शत्|{शौनको गृत्समदः | इन्द्रः | अष्टिः}

सईं᳚ममाद॒महि॒कर्म॒कर्त॑वेम॒हामु॒रुं¦सैनं᳚सश्चद्दे॒वोदे॒वं¦स॒त्यमिन्द्रं᳚स॒त्यइन्दुः॑|| {1/4}{2.6.28.1}{2.22.1}{2.2.11.1}{848, 213, 2218}

अध॒त्विषी᳚माँ,अ॒भ्योज॑सा॒क्रिविं᳚यु॒धाभ॑व॒¦दारोद॑सी,अपृणदस्यम॒ज्मना॒प्रवा᳚वृधे|{शौनको गृत्समदः | इन्द्रः | अतिशक्वरी}

अध॑त्ता॒न्यंज॒ठरे॒प्रेम॑रिच्यत॒¦सैनं᳚सश्चद्दे॒वोदे॒वं¦स॒त्यमिन्द्रं᳚स॒त्यइन्दुः॑|| {2/4}{2.6.28.2}{2.22.2}{2.2.11.2}{849, 213, 2219}

सा॒कंजा॒तःक्रतु॑नासा॒कमोज॑साववक्षिथ¦सा॒कंवृ॒द्धोवी॒र्यैः᳚सास॒हिर्मृधो॒विच॑र्षणिः|{शौनको गृत्समदः | इन्द्रः | अतिशक्वरी}

दाता॒राधः॑स्तुव॒तेकाम्यं॒वसु॒¦सैनं᳚सश्चद्दे॒वोदे॒वं¦स॒त्यमिन्द्रं᳚स॒त्यइन्दुः॑|| {3/4}{2.6.28.3}{2.22.3}{2.2.11.3}{850, 213, 2220}

तव॒त्यन्नर्यं᳚नृ॒तोऽप॑इन्द्रप्रथ॒मंपू॒र्व्यं¦दि॒विप्र॒वाच्यं᳚कृ॒तम्|{शौनको गृत्समदः | इन्द्रः | अष्टिः अतिशक्वरी वा}

यद्दे॒वस्य॒शव॑सा॒¦प्रारि॑णा॒,असुं᳚रि॒णन्न॒पः|{शौनको गृत्समदः | इन्द्रः | अष्टिः अतिशक्वरी वा}

भुव॒द्‌विश्व॑म॒भ्यादे᳚व॒मोज॑सा¦वि॒दादूर्जं᳚श॒तक्र॑तुर्वि॒दादिष᳚म्|| {4/4}{2.6.28.4}{2.22.4}{2.2.11.4}{851, 213, 2221}

[93] गणानामित्येकोन विंशत्यृचस्य सूक्तस्य शौनकोगृत्समदः आद्यापंचमीनवम्येकादशीसप्तदश्यंत्यानां ब्रह्मणस्पतिः शिष्टानां बृहस्पतिर्जगती पंचदश्यंत्येत्रिष्टुभौ |
ग॒णानां᳚त्वाग॒णप॑तिंहवामहे¦क॒विंक॑वी॒नामु॑प॒मश्र॑वस्तमम्|{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

ज्ये॒ष्ठ॒राजं॒ब्रह्म॑णांब्रह्मणस्पत॒¦आनः॑शृ॒ण्वन्नू॒तिभिः॑सीद॒साद॑नम्|| {1/19}{2.6.29.1}{2.23.1}{2.3.1.1}{852, 214, 2222}

दे॒वाश्चि॑त्ते,असुर्य॒प्रचे᳚तसो॒¦बृह॑स्पतेय॒ज्ञियं᳚भा॒गमा᳚नशुः|{शौनको गृत्समदः | बृहस्पतिः | जगती}

उ॒स्रा,इ॑व॒सूर्यो॒ज्योति॑षाम॒हो¦विश्वे᳚षा॒मिज्ज॑नि॒ताब्रह्म॑णामसि|| {2/19}{2.6.29.2}{2.23.2}{2.3.1.2}{853, 214, 2223}

आवि॒बाध्या᳚परि॒राप॒स्तमां᳚सिच॒¦ज्योति॑ष्मन्तं॒रथ॑मृ॒तस्य॑तिष्ठसि|{शौनको गृत्समदः | बृहस्पतिः | जगती}

बृह॑स्पतेभी॒मम॑मित्र॒दम्भ॑नं¦रक्षो॒हणं᳚गोत्र॒भिदं᳚स्व॒र्विद᳚म्|| {3/19}{2.6.29.3}{2.23.3}{2.3.1.3}{854, 214, 2224}

सु॒नी॒तिभि᳚र्नयसि॒त्राय॑से॒जनं॒¦यस्तुभ्यं॒दाशा॒न्‌नतमंहो᳚अश्नवत्|{शौनको गृत्समदः | बृहस्पतिः | जगती}

ब्र॒ह्म॒द्विष॒स्तप॑नोमन्यु॒मीर॑सि॒¦बृह॑स्पते॒महि॒तत्ते᳚महित्व॒नम्|| {4/19}{2.6.29.4}{2.23.4}{2.3.1.4}{855, 214, 2225}

नतमंहो॒नदु॑रि॒तंकुत॑श्च॒न¦नारा᳚तयस्तितिरु॒र्नद्व॑या॒विनः॑|{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

विश्वा॒,इद॑स्माद्‌ध्व॒रसो॒विबा᳚धसे॒¦यंसु॑गो॒पारक्ष॑सिब्रह्मणस्पते|| {5/19}{2.6.29.5}{2.23.5}{2.3.1.5}{856, 214, 2226}

त्वंनो᳚गो॒पाःप॑थि॒कृद्‌वि॑चक्ष॒ण¦स्तव᳚व्र॒ताय॑म॒तिभि॑र्जरामहे|{शौनको गृत्समदः | बृहस्पतिः | जगती}

बृह॑स्पते॒योनो᳚अ॒भिह्वरो᳚द॒धे¦स्वातंम᳚र्मर्तुदु॒च्छुना॒हर॑स्वती|| {6/19}{2.6.30.1}{2.23.6}{2.3.1.6}{857, 214, 2227}

उ॒तवा॒योनो᳚म॒र्चया॒दना᳚गसो¦ऽराती॒वामर्तः॑सानु॒कोवृकः॑|{शौनको गृत्समदः | बृहस्पतिः | जगती}

बृह॑स्पते॒,अप॒तंव॑र्तयाप॒थः¦सु॒गंनो᳚अ॒स्यैदे॒ववी᳚तयेकृधि|| {7/19}{2.6.30.2}{2.23.7}{2.3.1.7}{858, 214, 2228}

त्रा॒तारं᳚त्वात॒नूनां᳚हवाम॒हे¦ऽव॑स्पर्तरधिव॒क्तार॑मस्म॒युम्|{शौनको गृत्समदः | बृहस्पतिः | जगती}

बृह॑स्पतेदेव॒निदो॒निब᳚र्हय॒¦मादु॒रेवा॒,उत्त॑रंसु॒म्नमुन्न॑शन्|| {8/19}{2.6.30.3}{2.23.8}{2.3.1.8}{859, 214, 2229}

त्वया᳚व॒यंसु॒वृधा᳚ब्रह्मणस्पते¦स्पा॒र्हावसु॑मनु॒ष्याद॑दीमहि|{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

यानो᳚दू॒रेत॒ळितो॒या,अरा᳚तयो॒¦ऽभिसन्ति॑ज॒म्भया॒ता,अ॑न॒प्नसः॑|| {9/19}{2.6.30.4}{2.23.9}{2.3.1.9}{860, 214, 2230}

त्वया᳚व॒यमु॑त्त॒मंधी᳚महे॒वयो॒¦बृह॑स्पते॒पप्रि॑णा॒सस्नि॑नायु॒जा|{शौनको गृत्समदः | बृहस्पतिः | जगती}

मानो᳚दुः॒शंसो᳚अभिदि॒प्सुरी᳚शत॒¦प्रसु॒शंसा᳚म॒तिभि॑स्तारिषीमहि|| {10/19}{2.6.30.5}{2.23.10}{2.3.1.10}{861, 214, 2231}

अ॒ना॒नु॒दोवृ॑ष॒भोजग्मि॑राह॒वं¦निष्ट॑प्ता॒शत्रुं॒पृत॑नासुसास॒हिः|{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

असि॑स॒त्यऋ॑ण॒याब्र᳚ह्मणस्पत¦उ॒ग्रस्य॑चिद्दमि॒तावी᳚ळुह॒र्षिणः॑|| {11/19}{2.6.31.1}{2.23.11}{2.3.1.11}{862, 214, 2232}

अदे᳚वेन॒मन॑सा॒योरि॑ष॒ण्यति॑¦शा॒सामु॒ग्रोमन्य॑मानो॒जिघां᳚सति|{शौनको गृत्समदः | बृहस्पतिः | जगती}

बृह॑स्पते॒माप्रण॒क्‌तस्य॑नोव॒धो¦निक᳚र्मम॒न्युंदु॒रेव॑स्य॒शर्ध॑तः|| {12/19}{2.6.31.2}{2.23.12}{2.3.1.12}{863, 214, 2233}

भरे᳚षु॒हव्यो॒नम॑सोप॒सद्यो॒¦गन्ता॒वाजे᳚षु॒सनि॑ता॒धनं᳚धनम्|{शौनको गृत्समदः | बृहस्पतिः | जगती}

विश्वा॒,इद॒र्यो,अ॑भिदि॒प्स्वो॒३॑(ओ॒)मृधो॒¦बृह॒स्पति॒र्विव॑वर्हा॒रथाँ᳚,इव|| {13/19}{2.6.31.3}{2.23.13}{2.3.1.13}{864, 214, 2234}

तेजि॑ष्ठयातप॒नीर॒क्षस॑स्तप॒¦येत्वा᳚नि॒देद॑धि॒रेदृ॒ष्टवी᳚र्यम्|{शौनको गृत्समदः | बृहस्पतिः | जगती}

आ॒विस्तत्‌कृ॑ष्व॒यदस॑त्तउ॒क्थ्य१॑(अं॒)¦बृह॑स्पते॒विप॑रि॒रापो᳚अर्दय|| {14/19}{2.6.31.4}{2.23.14}{2.3.1.14}{865, 214, 2235}

बृह॑स्पते॒,अति॒यद॒र्यो,अर्हा᳚द्¦द्यु॒मद्‌वि॒भाति॒क्रतु॑म॒ज्जने᳚षु|{शौनको गृत्समदः | बृहस्पतिः | त्रिष्टुप्}

यद्दी॒दय॒च्छव॑सऋतप्रजात॒¦तद॒स्मासु॒द्रवि॑णंधेहिचि॒त्रम्|| {15/19}{2.6.31.5}{2.23.15}{2.3.1.15}{866, 214, 2236}

मानः॑स्ते॒नेभ्यो॒ये,अ॒भिद्रु॒हस्प॒दे¦नि॑रा॒मिणो᳚रि॒पवोऽन्ने᳚षुजागृ॒धुः|{शौनको गृत्समदः | बृहस्पतिः | जगती}

आदे॒वाना॒मोह॑ते॒विव्रयो᳚हृ॒दि¦बृह॑स्पते॒नप॒रःसाम्नो᳚विदुः|| {16/19}{2.6.32.1}{2.23.16}{2.3.1.16}{867, 214, 2237}

विश्वे᳚भ्यो॒हित्वा॒भुव॑नेभ्य॒स्परि॒¦त्वष्टाज॑न॒त्‌साम्नः॑साम्नःक॒विः|{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

सऋ॑ण॒चिदृ॑ण॒याब्रह्म॑ण॒स्पति॑¦र्द्रु॒होह॒न्ताम॒हऋ॒तस्य॑ध॒र्तरि॑|| {17/19}{2.6.32.2}{2.23.17}{2.3.1.17}{868, 214, 2238}

तव॑श्रि॒येव्य॑जिहीत॒पर्व॑तो॒¦गवां᳚गो॒त्रमु॒दसृ॑जो॒यद᳚ङ्गिरः|{शौनको गृत्समदः | बृहस्पतिः | जगती}

इन्द्रे᳚णयु॒जातम॑सा॒परी᳚वृतं॒¦बृह॑स्पते॒निर॒पामौ᳚ब्जो,अर्ण॒वम्|| {18/19}{2.6.32.3}{2.23.18}{2.3.1.18}{869, 214, 2239}

ब्रह्म॑णस्पते॒त्वम॒स्यय॒न्ता¦सू॒क्तस्य॑बोधि॒तन॑यंचजिन्व|{शौनको गृत्समदः | ब्रह्मणस्पतिः | त्रिष्टुप्}

विश्वं॒तद्‌भ॒द्रंयदव᳚न्तिदे॒वा¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚|| {19/19}{2.6.32.4}{2.23.19}{2.3.1.19}{870, 214, 2240}

[94] सेमामिति षोळशर्चस्य सूक्तस्य शौनकोगृत्समदोब्रह्मणस्पतिः प्रथमादशम्योबृहस्पतिर्द्वादश्यैंद्राब्रह्मणस्पती जगतीद्वादश्यंत्येत्रिष्टुभौ |
सेमाम॑विड्ढि॒प्रभृ॑तिं॒यईशि॑षे॒¦ऽयावि॑धेम॒नव॑याम॒हागि॒रा|{शौनको गृत्समदः | बृहस्पतिः | जगती}

यथा᳚नोमी॒ढ्वान्‌त्स्तव॑ते॒सखा॒तव॒¦बृह॑स्पते॒सीष॑धः॒सोतनो᳚म॒तिम्|| {1/16}{2.7.1.1}{2.24.1}{2.3.2.1}{871, 215, 2241}

योनन्त्वा॒न्यन॑म॒न्न्योज॑सो॒ता¦द॑र्दर्म॒न्युना॒शम्ब॑राणि॒वि|{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

प्राच्या᳚वय॒दच्यु॑ता॒ब्रह्म॑ण॒स्पति॒¦राचावि॑श॒द्‌वसु॑मन्तं॒विपर्व॑तम्|| {2/16}{2.7.1.2}{2.24.2}{2.3.2.2}{872, 215, 2242}

तद्दे॒वानां᳚दे॒वत॑माय॒कर्त्व॒¦मश्र॑थ्नन्‌दृ॒ळ्हाव्र॑दन्तवीळि॒ता|{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

उद्गा,आ᳚ज॒दभि॑न॒द्‌ब्रह्म॑णाव॒ल¦मगू᳚ह॒त्तमो॒व्य॑चक्षय॒त्स्वः॑|| {3/16}{2.7.1.3}{2.24.3}{2.3.2.3}{873, 215, 2243}

अश्मा᳚स्यमव॒तंब्रह्म॑ण॒स्पति॒¦र्मधु॑धारम॒भियमोज॒सातृ॑णत्|{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

तमे॒वविश्वे᳚पपिरेस्व॒र्दृशो᳚¦ब॒हुसा॒कंसि॑सिचु॒रुत्स॑मु॒द्रिण᳚म्|| {4/16}{2.7.1.4}{2.24.4}{2.3.2.4}{874, 215, 2244}

सना॒ताकाचि॒द्भुव॑ना॒भवी᳚त्वा¦मा॒द्भिःश॒रद्भि॒र्दुरो᳚वरन्तवः|{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

अय॑तन्ताचरतो,अ॒न्यद᳚न्य॒दिद्¦याच॒कार॑व॒युना॒ब्रह्म॑ण॒स्पतिः॑|| {5/16}{2.7.1.5}{2.24.5}{2.3.2.5}{875, 215, 2245}

अ॒भि॒नक्ष᳚न्तो,अ॒भियेतमा᳚न॒शु¦र्नि॒धिंप॑णी॒नांप॑र॒मंगुहा᳚हि॒तम्|{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

तेवि॒द्वांसः॑प्रति॒चक्ष्यानृ॑ता॒पुन॒¦र्यत॑उ॒आय॒न्‌तदुदी᳚युरा॒विश᳚म्|| {6/16}{2.7.2.1}{2.24.6}{2.3.2.6}{876, 215, 2246}

ऋ॒तावा᳚नःप्रति॒चक्ष्यानृ॑ता॒पुन॒¦रात॒आत॑स्थुःक॒वयो᳚म॒हस्प॒थः|{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

तेबा॒हुभ्यां᳚धमि॒तम॒ग्निमश्म॑नि॒¦नकिः॒षो,अ॒स्त्यर॑णोज॒हुर्हितम्|| {7/16}{2.7.2.2}{2.24.7}{2.3.2.7}{877, 215, 2247}

ऋ॒तज्ये᳚नक्षि॒प्रेण॒ब्रह्म॑ण॒स्पति॒¦र्यत्र॒वष्टि॒प्रतद॑श्नोति॒धन्व॑ना|{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

तस्य॑सा॒ध्वीरिष॑वो॒याभि॒रस्य॑ति¦नृ॒चक्ष॑सोदृ॒शये॒कर्ण॑योनयः|| {8/16}{2.7.2.3}{2.24.8}{2.3.2.8}{878, 215, 2248}

ससं᳚न॒यःसवि॑न॒यःपु॒रोहि॑तः॒¦ससुष्टु॑तः॒सयु॒धिब्रह्म॑ण॒स्पतिः॑|{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

चा॒क्ष्मोयद्वाजं॒भर॑तेम॒तीधना¦ऽऽदित्‌सूर्य॑स्तपतितप्य॒तुर्वृथा᳚|| {9/16}{2.7.2.4}{2.24.9}{2.3.2.9}{879, 215, 2249}

वि॒भुप्र॒भुप्र॑थ॒मंमे॒हना᳚वतो॒¦बृह॒स्पतेः᳚सुवि॒दत्रा᳚णि॒राध्या᳚|{शौनको गृत्समदः | बृहस्पतिः | जगती}

इ॒मासा॒तानि॑वे॒न्यस्य॑वा॒जिनो॒¦येन॒जना᳚उ॒भये᳚भुञ्ज॒तेविशः॑|| {10/16}{2.7.2.5}{2.24.10}{2.3.2.10}{880, 215, 2250}

योऽव॑रेवृ॒जने᳚वि॒श्वथा᳚वि॒भु¦र्म॒हामु॑र॒ण्वःशव॑साव॒वक्षि॑थ|{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

सदे॒वोदे॒वान्‌प्रति॑पप्रथेपृ॒थु¦विश्वेदु॒ताप॑रि॒भूर्ब्रह्म॑ण॒स्पतिः॑|| {11/16}{2.7.3.1}{2.24.11}{2.3.2.11}{881, 215, 2251}

विश्वं᳚स॒त्यंम॑घवानायु॒वोरिदा¦प॑श्च॒नप्रमि॑नन्तिव्र॒तंवा᳚म्|{शौनको गृत्समदः | इंद्राब्रह्मणस्पतीः | त्रिष्टुप्}

अच्छे᳚न्द्राब्रह्मणस्पतीह॒विर्नो¦ऽन्नं॒युजे᳚ववा॒जिना᳚जिगातम्|| {12/16}{2.7.3.2}{2.24.12}{2.3.2.12}{882, 215, 2252}

उ॒ताशि॑ष्ठा॒,अनु॑शृण्वन्ति॒वह्न॑यः¦स॒भेयो॒विप्रो᳚भरतेम॒तीधना᳚|{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

वी॒ळु॒द्वेषा॒,अनु॒वश॑ऋ॒णमा᳚द॒दिः¦सह॑वा॒जीस॑मि॒थेब्रह्म॑ण॒स्पतिः॑|| {13/16}{2.7.3.3}{2.24.13}{2.3.2.13}{883, 215, 2253}

ब्रह्म॑ण॒स्पते᳚रभवद्‌यथाव॒शं¦स॒त्योम॒न्युर्महि॒कर्मा᳚करिष्य॒तः|{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

योगा,उ॒दाज॒त्सदि॒वेविचा᳚भजन्¦म॒हीव॑री॒तिःशव॑सासर॒त्‌पृथ॑क्|| {14/16}{2.7.3.4}{2.24.14}{2.3.2.14}{884, 215, 2254}

ब्रह्म॑णस्पतेसु॒यम॑स्यवि॒श्वहा᳚¦रा॒यःस्या᳚मर॒थ्यो॒३॑(ओ॒)वय॑स्वतः|{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

वी॒रेषु॑वी॒राँ,उप॑पृङ्धिन॒स्त्वं¦यदीशा᳚नो॒ब्रह्म॑णा॒वेषि॑मे॒हव᳚म्|| {15/16}{2.7.3.5}{2.24.15}{2.3.2.15}{885, 215, 2255}

ब्रह्म॑णस्पते॒त्वम॒स्यय॒न्ता¦सू॒क्तस्य॑बोधि॒तन॑यंचजिन्व|{शौनको गृत्समदः | ब्रह्मणस्पतिः | त्रिष्टुप्}

विश्वं॒तद्‌भ॒द्रंयदव᳚न्तिदे॒वा¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚|| {16/16}{2.7.3.6}{2.24.16}{2.3.2.16}{886, 215, 2256}

[95] इंधानइति पंचर्चस्य सूक्तस्य शौनकोगृत्समदोब्रह्मणस्पतिर्जगती |
इन्धा᳚नो,अ॒ग्निंव॑नवद्‌वनुष्य॒तः¦कृ॒तब्र᳚ह्माशूशुवद्‌रा॒तह᳚व्य॒इत्|{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

जा॒तेन॑जा॒तमति॒सप्रस॑र्सृते॒¦यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑|| {1/5}{2.7.4.1}{2.25.1}{2.3.3.1}{887, 216, 2257}

वी॒रेभि᳚र्वी॒रान्‌व॑नवद्‌वनुष्य॒तो¦गोभी᳚र॒यिंप॑प्रथ॒द्‌बोध॑ति॒त्मना᳚|{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

तो॒कंच॒तस्य॒तन॑यंचवर्धते॒¦यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑|| {2/5}{2.7.4.2}{2.25.2}{2.3.3.2}{888, 216, 2258}

सिन्धु॒र्नक्षोदः॒शिमी᳚वाँऋघाय॒तो¦वृषे᳚व॒वध्रीँ᳚र॒भिव॒ष्ट्योज॑सा|{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

अ॒ग्नेरि॑व॒प्रसि॑ति॒र्नाह॒वर्त॑वे॒¦यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑|| {3/5}{2.7.4.3}{2.25.3}{2.3.3.3}{889, 216, 2259}

तस्मा᳚अर्षन्तिदि॒व्या,अ॑स॒श्चतः॒¦ससत्व॑भिःप्रथ॒मोगोषु॑गच्छति|{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

अनि॑भृष्टतविषिर्ह॒न्त्योज॑सा॒¦यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑|| {4/5}{2.7.4.4}{2.25.4}{2.3.3.4}{890, 216, 2260}

तस्मा॒,इद्विश्वे᳚धुनयन्त॒सिन्ध॒वो¦ऽच्छि॑द्रा॒शर्म॑दधिरेपु॒रूणि॑|{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

दे॒वानां᳚सु॒म्नेसु॒भगः॒सए᳚धते॒¦यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑|| {5/5}{2.7.4.5}{2.25.5}{2.3.3.5}{891, 216, 2261}

[96] ऋजुरिदिति चतुरृचस्य सूक्तस्य शौनकोगृत्समदोब्रह्मणस्पतिर्जगती |
ऋ॒जुरिच्छंसो᳚वनवद्‌वनुष्य॒तो¦दे᳚व॒यन्निददे᳚वयन्तम॒भ्य॑सत्|{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

सु॒प्रा॒वीरिद्‌व॑नवत्‌पृ॒त्सुदु॒ष्टरं॒¦यज्वेदय॑ज्यो॒र्विभ॑जाति॒भोज॑नम्|| {1/4}{2.7.5.1}{2.26.1}{2.3.4.1}{892, 217, 2262}

यज॑स्ववीर॒प्रवि॑हिमनाय॒तो¦भ॒द्रंमनः॑कृणुष्ववृत्र॒तूर्ये᳚|{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

ह॒विष्कृ॑णुष्वसु॒भगो॒यथास॑सि॒¦ब्रह्म॑ण॒स्पते॒रव॒आवृ॑णीमहे|| {2/4}{2.7.5.2}{2.26.2}{2.3.4.2}{893, 217, 2263}

सइज्जने᳚न॒सवि॒शासजन्म॑ना॒¦सपु॒त्रैर्वाजं᳚भरते॒धना॒नृभिः॑|{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

दे॒वानां॒यःपि॒तर॑मा॒विवा᳚सति¦श्र॒द्धाम॑नाह॒विषा॒ब्रह्म॑ण॒स्पति᳚म्|| {3/4}{2.7.5.3}{2.26.3}{2.3.4.3}{894, 217, 2264}

यो,अ॑स्मैह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त्¦प्रतंप्रा॒चान॑यति॒ब्रह्म॑ण॒स्पतिः॑|{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

उ॒रु॒ष्यती॒मंह॑सो॒रक्ष॑तीरि॒षो॒३॑(ओं॒)¦ऽहोश्चि॑दस्मा,उरु॒चक्रि॒रद्भु॑तः|| {4/4}{2.7.5.4}{2.26.4}{2.3.4.4}{895, 217, 2265}

[97] इमागिरइति सप्तदशर्चस्य सूक्तस्य गार्त्समदः कूर्म आदित्यात्रिष्टुप् |
इ॒मागिर॑आदि॒त्येभ्यो᳚घृ॒तस्नूः᳚¦स॒नाद्‌राज॑भ्योजु॒ह्वा᳚जुहोमि|{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

शृ॒णोतु॑मि॒त्रो,अ᳚र्य॒माभगो᳚न¦स्तुविजा॒तोवरु॑णो॒दक्षो॒,अंशः॑|| {1/17}{2.7.6.1}{2.27.1}{2.3.5.1}{896, 218, 2266}

इ॒मंस्तोमं॒सक्र॑तवोमे,अ॒द्य¦मि॒त्रो,अ᳚र्य॒मावरु॑णोजुषन्त|{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

आ॒दि॒त्यासः॒शुच॑यो॒धार॑पूता॒,¦अवृ॑जिना,अनव॒द्या,अरि॑ष्टाः|| {2/17}{2.7.6.2}{2.27.2}{2.3.5.2}{897, 218, 2267}

तआ᳚दि॒त्यास॑उ॒रवो᳚गभी॒रा,¦अद॑ब्धासो॒दिप्स᳚न्तोभूर्य॒क्षाः|{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

अ॒न्तःप॑श्यन्तिवृजि॒नोतसा॒धु¦सर्वं॒राज॑भ्यःपर॒माचि॒दन्ति॑|| {3/17}{2.7.6.3}{2.27.3}{2.3.5.3}{898, 218, 2268}

धा॒रय᳚न्तआदि॒त्यासो॒जग॒त्‌स्था¦दे॒वाविश्व॑स्य॒भुव॑नस्यगो॒पाः|{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

दी॒र्घाधि॑यो॒रक्ष॑माणा,असु॒र्य॑¦मृ॒तावा᳚न॒श्चय॑माना,ऋ॒णानि॑|| {4/17}{2.7.6.4}{2.27.4}{2.3.5.4}{899, 218, 2269}

वि॒द्यामा᳚दित्या॒,अव॑सोवो,अ॒स्य¦यद᳚र्यमन्‌भ॒यआचि᳚न्मयो॒भु|{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

यु॒ष्माकं᳚मित्रावरुणा॒प्रणी᳚तौ॒¦परि॒श्वभ्रे᳚वदुरि॒तानि॑वृज्याम्|| {5/17}{2.7.6.5}{2.27.5}{2.3.5.5}{900, 218, 2270}

सु॒गोहिवो᳚अर्यमन्‌मित्र॒पन्था᳚¦अनृक्ष॒रोव॑रुणसा॒धुरस्ति॑|{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

तेना᳚दित्या॒,अधि॑वोचतानो॒¦यच्छ॑तानोदुष्परि॒हन्तु॒शर्म॑|| {6/17}{2.7.7.1}{2.27.6}{2.3.5.6}{901, 218, 2271}

पिप॑र्तुनो॒,अदि॑ती॒राज॑पु॒त्रा¦ति॒द्वेषां᳚स्यर्य॒मासु॒गेभिः॑|{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

बृ॒हन्मि॒त्रस्य॒वरु॑णस्य॒शर्मो¦प॑स्यामपुरु॒वीरा॒,अरि॑ष्टाः|| {7/17}{2.7.7.2}{2.27.7}{2.3.5.7}{902, 218, 2272}

ति॒स्रोभूमी᳚र्धारय॒न्‌त्रीँरु॒तद्यून्¦त्रीणि᳚व्र॒तावि॒दथे᳚अ॒न्तरे᳚षाम्|{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

ऋ॒तेना᳚दित्या॒महि॑वोमहि॒त्वं¦तद᳚र्यमन्‌वरुणमित्र॒चारु॑|| {8/17}{2.7.7.3}{2.27.8}{2.3.5.8}{903, 218, 2273}

त्रीरो᳚च॒नादि॒व्याधा᳚रयन्त¦हिर॒ण्ययाः॒शुच॑यो॒धार॑पूताः|{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

अस्व॑प्नजो,अनिमि॒षा,अद॑ब्धा,¦उरु॒शंसा᳚ऋ॒जवे॒मर्त्या᳚य|| {9/17}{2.7.7.4}{2.27.9}{2.3.5.9}{904, 218, 2274}

त्वंविश्वे᳚षांवरुणासि॒राजा॒¦येच॑दे॒वा,अ॑सुर॒येच॒मर्ताः᳚|{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

श॒तंनो᳚रास्वश॒रदो᳚वि॒चक्षे॒¦ऽश्यामायूं᳚षि॒सुधि॑तानि॒पूर्वा᳚|| {10/17}{2.7.7.5}{2.27.10}{2.3.5.10}{905, 218, 2275}

नद॑क्षि॒णाविचि॑किते॒नस॒व्या¦नप्रा॒चीन॑मादित्या॒नोतप॒श्चा|{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

पा॒क्या᳚चिद्‌वसवोधी॒र्या᳚चिद्¦यु॒ष्मानी᳚तो॒,अभ॑यं॒ज्योति॑रश्याम्|| {11/17}{2.7.8.1}{2.27.11}{2.3.5.11}{906, 218, 2276}

योराज॑भ्यऋत॒निभ्यो᳚द॒दाश॒¦यंव॒र्धय᳚न्तिपु॒ष्टय॑श्च॒नित्याः᳚|{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

सरे॒वान्‌या᳚तिप्रथ॒मोरथे᳚न¦वसु॒दावा᳚वि॒दथे᳚षुप्रश॒स्तः|| {12/17}{2.7.8.2}{2.27.12}{2.3.5.12}{907, 218, 2277}

शुचि॑र॒पःसू॒यव॑सा॒,अद॑ब्ध॒¦उप॑क्षेतिवृ॒द्धव॑याःसु॒वीरः॑|{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

नकि॒ष्टंघ्न॒न्त्यन्ति॑तो॒नदू॒राद्¦यआ᳚दि॒त्यानां॒भव॑ति॒प्रणी᳚तौ|| {13/17}{2.7.8.3}{2.27.13}{2.3.5.13}{908, 218, 2278}

अदि॑ते॒मित्र॒वरु॑णो॒तमृ॑ळ॒¦यद्‌वो᳚व॒यंच॑कृ॒माकच्चि॒दागः॑|{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

उ॒र्व॑श्या॒मभ॑यं॒ज्योति॑रिन्द्र॒¦मानो᳚दी॒र्घा,अ॒भिन॑श॒न्तमि॑स्राः|| {14/17}{2.7.8.4}{2.27.14}{2.3.5.14}{909, 218, 2279}

उ॒भे,अ॑स्मैपीपयतःसमी॒ची¦दि॒वोवृ॒ष्टिंसु॒भगो॒नाम॒पुष्य॑न्|{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

उ॒भाक्षया᳚वा॒जय᳚न्‌यातिपृ॒त्सू¦भावर्धौ᳚भवतःसा॒धू,अ॑स्मै|| {15/17}{2.7.8.5}{2.27.15}{2.3.5.15}{910, 218, 2280}

यावो᳚मा॒या,अ॑भि॒द्रुहे᳚यजत्राः॒¦पाशा᳚आदित्यारि॒पवे॒विचृ॑त्ताः|{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

अ॒श्वीव॒ताँ,अति॑येषं॒रथे॒ना¦रि॑ष्टा,उ॒रावाशर्म᳚न्‌त्स्याम|| {16/17}{2.7.8.6}{2.27.16}{2.3.5.16}{911, 218, 2281}

माहंम॒घोनो᳚वरुणप्रि॒यस्य॑¦भूरि॒दाव्न॒आवि॑दं॒शून॑मा॒पेः|{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

मारा॒योरा᳚जन्‌त्सु॒यमा॒दव॑स्थां¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚|| {17/17}{2.7.8.7}{2.27.17}{2.3.5.17}{912, 218, 2282}

[98] इदंकवेरित्येकादशर्चस्य सूक्तस्य गार्त्समदःकूर्मोवरुणस्त्रिष्टुप् |(दशमी दुःस्वप्ननाशिनीत्रिष्वपिसूक्तेषु पाक्षिको गृत्समदोस्त्येव)|
इ॒दंक॒वेरा᳚दि॒त्यस्य॑स्व॒राजो॒¦विश्वा᳚नि॒सान्त्य॒भ्य॑स्तुम॒ह्ना|{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

अति॒योम॒न्द्रोय॒जथा᳚यदे॒वः¦सु॑की॒र्तिंभि॑क्षे॒वरु॑णस्य॒भूरेः᳚|| {1/11}{2.7.9.1}{2.28.1}{2.3.6.1}{913, 219, 2283}

तव᳚व्र॒तेसु॒भगा᳚सःस्याम¦स्वा॒ध्यो᳚वरुणतुष्टु॒वांसः॑|{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

उ॒पाय॑नउ॒षसां॒गोम॑तीनाम॒¦ग्नयो॒नजर॑माणा॒,अनु॒द्यून्|| {2/11}{2.7.9.2}{2.28.2}{2.3.6.2}{914, 219, 2284}

तव॑स्यामपुरु॒वीर॑स्य॒शर्म᳚¦न्नुरु॒शंस॑स्यवरुणप्रणेतः|{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

यू॒यंनः॑पुत्रा,अदितेरदब्धा,¦अ॒भिक्ष॑मध्वं॒युज्या᳚यदेवाः|| {3/11}{2.7.9.3}{2.28.3}{2.3.6.3}{915, 219, 2285}

प्रसी᳚मादि॒त्यो,अ॑सृजद्‌विध॒र्ताँ¦ऋ॒तंसिन्ध॑वो॒वरु॑णस्ययन्ति|{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

नश्रा᳚म्यन्ति॒नविमु॑चन्त्ये॒ते¦वयो॒नप॑प्तूरघु॒यापरि॑ज्मन्|| {4/11}{2.7.9.4}{2.28.4}{2.3.6.4}{916, 219, 2286}

विमच्छ्र॑थायरश॒नामि॒वाग॑¦ऋ॒ध्याम॑तेवरुण॒खामृ॒तस्य॑|{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

मातन्तु॑श्छेदि॒वय॑तो॒धियं᳚मे॒¦मामात्रा᳚शार्य॒पसः॑पु॒रऋ॒तोः|| {5/11}{2.7.9.5}{2.28.5}{2.3.6.5}{917, 219, 2287}

अपो॒सुम्य॑क्षवरुणभि॒यसं॒¦मत्‌सम्रा॒ळृता॒वोऽनु॑मागृभाय|{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

दामे᳚वव॒त्साद्‌विमु॑मु॒ग्ध्यंहो᳚¦न॒हित्वदा॒रेनि॒मिष॑श्च॒नेशे᳚|| {6/11}{2.7.10.1}{2.28.6}{2.3.6.6}{918, 219, 2288}

मानो᳚व॒धैर्व॑रुण॒येत॑इ॒ष्टा¦वेनः॑कृ॒ण्वन्त॑मसुरभ्री॒णन्ति॑|{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

माज्योति॑षःप्रवस॒थानि॑गन्म॒¦विषूमृधः॑शिश्रथोजी॒वसे᳚नः|| {7/11}{2.7.10.2}{2.28.7}{2.3.6.7}{919, 219, 2289}

नमः॑पु॒राते᳚वरुणो॒तनू॒न¦मु॒ताप॒रंतु॑विजातब्रवाम|{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

त्वेहिकं॒पर्व॑ते॒नश्रि॒ता¦न्यप्र॑च्युतानिदूळभव्र॒तानि॑|| {8/11}{2.7.10.3}{2.28.8}{2.3.6.8}{920, 219, 2290}

पर॑ऋ॒णासा᳚वी॒रध॒मत्कृ॑तानि॒¦माहंरा᳚जन्न॒न्यकृ॑तेनभोजम्|{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

अव्यु॑ष्टा॒,इन्नुभूय॑सीरु॒षास॒¦आनो᳚जी॒वान्‌व॑रुण॒तासु॑शाधि|| {9/11}{2.7.10.4}{2.28.9}{2.3.6.9}{921, 219, 2291}

योमे᳚राज॒न्‌युज्यो᳚वा॒सखा᳚वा॒¦स्वप्ने᳚भ॒यंभी॒रवे॒मह्य॒माह॑|{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

स्ते॒नोवा॒योदिप्स॑तिनो॒वृको᳚वा॒¦त्वंतस्मा᳚द्‌वरुणपाह्य॒स्मान्|| {10/11}{2.7.10.5}{2.28.10}{2.3.6.10}{922, 219, 2292}

माहंम॒घोनो᳚वरुणप्रि॒यस्य॑¦भूरि॒दाव्न॒आवि॑दं॒शून॑मा॒पेः|{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

मारा॒योरा᳚जन्‌त्सु॒यमा॒दव॑स्थां¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚|| {11/11}{2.7.10.6}{2.28.11}{2.3.6.11}{923, 219, 2293}

[99] धृतव्रता इति सप्तर्चस्य सूक्तस्य गार्त्समदःकूर्मोविश्वेदेवास्त्रिष्टुप् | (भेदप्रयोगे - आद्यानांषण्णां विश्वेदेवाः अंत्यायावरुणः) |
धृत᳚व्रता॒,आदि॑त्या॒,इषि॑रा,¦आ॒रेमत्‌क॑र्तरह॒सूरि॒वागः॑|{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्}

शृ॒ण्व॒तोवो॒वरु॑ण॒मित्र॒देवा᳚¦भ॒द्रस्य॑वि॒द्वाँ,अव॑सेहुवेवः|| {1/7}{2.7.11.1}{2.29.1}{2.3.7.1}{924, 220, 2294}

यू॒यंदे᳚वाः॒प्रम॑तिर्यू॒यमोजो᳚¦यू॒यंद्वेषां᳚सिसनु॒तर्यु॑योत|{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्}

अ॒भि॒क्ष॒त्तारो᳚अ॒भिच॒क्षम॑ध्व¦म॒द्याच॑नोमृ॒ळय॑ताप॒रंच॑|| {2/7}{2.7.11.2}{2.29.2}{2.3.7.2}{925, 220, 2295}

किमू॒नुवः॑कृणवा॒माप॑रेण॒¦किंसने᳚नवसव॒आप्ये᳚न|{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्}

यू॒यंनो᳚मित्रावरुणादितेच¦स्व॒स्तिमि᳚न्द्रामरुतोदधात|| {3/7}{2.7.11.3}{2.29.3}{2.3.7.3}{926, 220, 2296}

ह॒येदे᳚वायू॒यमिदा॒पयः॑स्थ॒¦तेमृ॑ळत॒नाध॑मानाय॒मह्य᳚म्|{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्}

मावो॒रथो᳚मध्यम॒वाळृ॒तेभू॒¦न्मायु॒ष्माव॑त्स्वा॒पिषु॑श्रमिष्म|| {4/7}{2.7.11.4}{2.29.4}{2.3.7.4}{927, 220, 2297}

प्रव॒एको᳚मिमय॒भूर्यागो॒¦यन्मा᳚पि॒तेव॑कित॒वंश॑शा॒स|{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्}

आ॒रेपाशा᳚आ॒रे,अ॒घानि॑देवा॒¦मामाधि॑पु॒त्रेविमि॑वग्रभीष्ट|| {5/7}{2.7.11.5}{2.29.5}{2.3.7.5}{928, 220, 2298}

अ॒र्वाञ्चो᳚अ॒द्याभ॑वतायजत्रा॒,¦आवो॒हार्दि॒भय॑मानोव्ययेयम्|{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्}

त्राध्वं᳚नोदेवानि॒जुरो॒वृक॑स्य॒¦त्राध्वं᳚क॒र्ताद॑व॒पदो᳚यजत्राः|| {6/7}{2.7.11.6}{2.29.6}{2.3.7.6}{929, 220, 2299}

माहंम॒घोनो᳚वरुणप्रि॒यस्य॑¦भूरि॒दाव्न॒आवि॑दं॒शून॑मा॒पेः|{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्}

मारा॒योरा᳚जन्‌त्सु॒यमा॒दव॑स्थां¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚|| {7/7}{2.7.11.7}{2.29.7}{2.3.7.7}{930, 220, 2300}

[100] ऋतंदेवायेत्येकादशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रः षष्ठ्याइंद्रासोमौ अष्टम्याः सरस्वती नवम्याबृहस्पतिरेकादश्यामरुतस्त्रिष्टुबन्त्याजगती |
ऋ॒तंदे॒वाय॑कृण्व॒तेस॑वि॒त्र¦इन्द्रा᳚याहि॒घ्नेनर॑मन्त॒आपः॑|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

अह॑रहर्यात्य॒क्तुर॒पां¦किया॒त्याप्र॑थ॒मःसर्ग॑आसाम्|| {1/11}{2.7.12.1}{2.30.1}{2.3.8.1}{931, 221, 2301}

योवृ॒त्राय॒सिन॒मत्राभ॑रिष्य॒त्¦प्रतंजनि॑त्रीवि॒दुष॑उवाच|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

प॒थोरद᳚न्ती॒रनु॒जोष॑मस्मै¦दि॒वेदि॑वे॒धुन॑योय॒न्त्यर्थ᳚म्|| {2/11}{2.7.12.2}{2.30.2}{2.3.8.2}{932, 221, 2302}

ऊ॒र्ध्वोह्यस्था॒दध्य॒न्तरि॒क्षे¦ऽधा᳚वृ॒त्राय॒प्रव॒धंज॑भार|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

मिहं॒वसा᳚न॒उप॒हीमदु॑द्रोत्¦ति॒ग्मायु॑धो,अजय॒च्छत्रु॒मिन्द्रः॑|| {3/11}{2.7.12.3}{2.30.3}{2.3.8.3}{933, 221, 2303}

बृह॑स्पते॒तपु॒षाश्ने᳚वविध्य॒¦वृक॑द्वरसो॒,असु॑रस्यवी॒रान्|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यथा᳚ज॒घन्थ॑धृष॒तापु॒राचि॑¦दे॒वाज॑हि॒शत्रु॑म॒स्माक॑मिन्द्र|| {4/11}{2.7.12.4}{2.30.4}{2.3.8.4}{934, 221, 2304}

अव॑क्षिपदि॒वो,अश्मा᳚नमु॒च्चा¦येन॒शत्रुं᳚मन्दसा॒नोनि॒जूर्वाः᳚|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

तो॒कस्य॑सा॒तौतन॑यस्य॒भूरे᳚¦र॒स्माँ,अ॒र्धंकृ॑णुतादिन्द्र॒गोना᳚म्|| {5/11}{2.7.12.5}{2.30.5}{2.3.8.5}{935, 221, 2305}

प्रहिक्रतुं᳚वृ॒हथो॒यंव॑नु॒थो¦र॒ध्रस्य॑स्थो॒यज॑मानस्यचो॒दौ|{शौनको गृत्समदः | इन्द्रासोमौ | त्रिष्टुप्}

इन्द्रा᳚सोमायु॒वम॒स्माँ,अ॑विष्ट¦म॒स्मिन्‌भ॒यस्थे᳚कृणुतमुलो॒कम्|| {6/11}{2.7.13.1}{2.30.6}{2.3.8.6}{936, 221, 2306}

नमा᳚तम॒न्नश्र॑म॒न्नोतत᳚न्द्र॒¦न्नवो᳚चाम॒मासु॑नो॒तेति॒सोम᳚म्|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

योमे᳚पृ॒णाद्‌योदद॒द्‌योनि॒बोधा॒द्¦योमा᳚सु॒न्वन्त॒मुप॒गोभि॒राय॑त्|| {7/11}{2.7.13.2}{2.30.7}{2.3.8.7}{937, 221, 2307}

सर॑स्वति॒त्वम॒स्माँ,अ॑विड्ढि¦म॒रुत्व॑तीधृष॒तीजे᳚षि॒शत्रू॑न्|{शौनको गृत्समदः | १/२: सरस्वती २/२:इन्द्रः | त्रिष्टुप्}

त्यंचि॒च्छर्ध᳚न्तंतविषी॒यमा᳚ण॒¦मिन्द्रो᳚हन्तिवृष॒भंशण्डि॑कानाम्|| {8/11}{2.7.13.3}{2.30.8}{2.3.8.8}{938, 221, 2308}

योनः॒सनु॑त्यउ॒तवा᳚जिघ॒त्नु¦र॑भि॒ख्याय॒तंति॑गि॒तेन॑विध्य|{शौनको गृत्समदः | बृहस्पतिः | त्रिष्टुप्}

बृह॑स्पत॒आयु॑धैर्जेषि॒शत्रू᳚न्¦द्रु॒हेरीष᳚न्तं॒परि॑धेहिराजन्|| {9/11}{2.7.13.4}{2.30.9}{2.3.8.9}{939, 221, 2309}

अ॒स्माके᳚भिः॒सत्व॑भिःशूर॒शूरै᳚¦र्वी॒र्या᳚कृधि॒यानि॑ते॒कर्त्वा᳚नि|{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

ज्योग॑भूव॒न्ननु॑धूपितासो¦ह॒त्वीतेषा॒माभ॑रानो॒वसू᳚नि|| {10/11}{2.7.13.5}{2.30.10}{2.3.8.10}{940, 221, 2310}

तंवः॒शर्धं॒मारु॑तंसुम्न॒युर्गि॒रो¦प॑ब्रुवे॒नम॑सा॒दैव्यं॒जन᳚म्|{शौनको गृत्समदः | मरुतः | जगती}

यथा᳚र॒यिंसर्व॑वीरं॒नशा᳚महा,¦अपत्य॒साचं॒श्रुत्यं᳚दि॒वेदि॑वे|| {11/11}{2.7.13.6}{2.30.11}{2.3.8.11}{941, 221, 2311}

[101] अस्माकमिति सप्तर्चस्य सूक्तस्य शौनकोगृत्समदो विश्वेदेवाजगत्यंत्यात्रिष्टुप् | ( भेदपक्षे - आद्यायामित्रावरुणौ द्वितीयाचतुर्थीपंचमीनांविश्वेदेवाः तृतीयाया उषासानक्ता षष्ट्याद्यावापृथिवी सप्तम्याइंद्रः) |
अ॒स्माकं᳚मित्रावरुणावतं॒रथ॑¦मादि॒त्यैरु॒द्रैर्वसु॑भिःसचा॒भुवा᳚|{शौनको गृत्समदः | विश्वदेवाः | जगती}

प्रयद्‌वयो॒नपप्त॒न्वस्म॑न॒स्परि॑¦श्रव॒स्यवो॒हृषी᳚वन्तोवन॒र्षदः॑|| {1/7}{2.7.14.1}{2.31.1}{2.3.9.1}{942, 222, 2312}

अध॑स्मान॒उद॑वतासजोषसो॒¦रथं᳚देवासो,अ॒भिवि॒क्षुवा᳚ज॒युम्|{शौनको गृत्समदः | विश्वदेवाः | जगती}

यदा॒शवः॒पद्या᳚भि॒स्तित्र॑तो॒रजः॑¦पृथि॒व्याःसानौ॒जङ्घ॑नन्तपा॒णिभिः॑|| {2/7}{2.7.14.2}{2.31.2}{2.3.9.2}{943, 222, 2313}

उ॒तस्यन॒इन्द्रो᳚वि॒श्वच॑र्षणि¦र्दि॒वःशर्धे᳚न॒मारु॑तेनसु॒क्रतुः॑|{शौनको गृत्समदः | विश्वदेवाः | जगती}

अनु॒नुस्था᳚त्यवृ॒काभि॑रू॒तिभी॒¦रथं᳚म॒हेस॒नये॒वाज॑सातये|| {3/7}{2.7.14.3}{2.31.3}{2.3.9.3}{944, 222, 2314}

उ॒तस्यदे॒वोभुव॑नस्यस॒क्षणि॒¦स्त्वष्टा॒ग्नाभिः॑स॒जोषा᳚जूजुव॒द्‌रथ᳚म्|{शौनको गृत्समदः | विश्वदेवाः | जगती}

इळा॒भगो᳚बृहद्दि॒वोतरोद॑सी¦पू॒षापुरं᳚धिर॒श्विना॒वधा॒पती᳚|| {4/7}{2.7.14.4}{2.31.4}{2.3.9.4}{945, 222, 2315}

उ॒तत्येदे॒वीसु॒भगे᳚मिथू॒दृशो॒¦षासा॒नक्ता॒जग॑तामपी॒जुवा᳚|{शौनको गृत्समदः | विश्वदेवाः | जगती}

स्तु॒षेयद्‌वां᳚पृथिवि॒नव्य॑सा॒वचः॑¦स्था॒तुश्च॒वय॒स्त्रिव॑या,उप॒स्तिरे᳚|| {5/7}{2.7.14.5}{2.31.5}{2.3.9.5}{946, 222, 2316}

उ॒तवः॒शंस॑मु॒शिजा᳚मिवश्म॒¦स्यहि॑र्बु॒ध्न्यो॒३॑(ओ॒)ऽजएक॑पादु॒त|{शौनको गृत्समदः | विश्वदेवाः | जगती}

त्रि॒तऋ॑भु॒क्षाःस॑वि॒ताचनो᳚दधे॒¦ऽपांनपा᳚दाशु॒हेमा᳚धि॒याशमि॑|| {6/7}{2.7.14.6}{2.31.6}{2.3.9.6}{947, 222, 2317}

ए॒तावो᳚व॒श्म्युद्य॑तायजत्रा॒,¦अत॑क्षन्ना॒यवो॒नव्य॑से॒सम्|{शौनको गृत्समदः | विश्वदेवाः | त्रिष्टुप्}

श्र॒व॒स्यवो॒वाजं᳚चका॒नाः¦सप्ति॒र्नरथ्यो॒,अह॑धी॒तिम॑श्याः|| {7/7}{2.7.14.7}{2.31.7}{2.3.9.7}{948, 222, 2318}

[102] अस्यमइत्यष्टर्चस्य सूक्तस्य शौनकोगृत्समदाद्याया द्यावापृथिवी द्वितीयातृतीययोरिंद्रः (त्वष्टावा) चतुर्थीपंचम्योराका षष्ठीसप्तम्योःसिनीवाली अंत्यायागुंगूसिनीवाली राकासरस्वतींद्राणीवरुणान्योजगती अंत्यास्तिस्रोनुष्टुभः |
अ॒स्यमे᳚द्यावापृथिवी,ऋताय॒तो¦भू॒तम॑वि॒त्रीवच॑सः॒सिषा᳚सतः|{शौनको गृत्समदः | द्यावापृथिव्यौ | जगती}

ययो॒रायुः॑प्रत॒रंते,इ॒दंपु॒र¦उप॑स्तुतेवसू॒युर्वां᳚म॒होद॑धे|| {1/8}{2.7.15.1}{2.32.1}{2.3.10.1}{949, 223, 2319}

मानो॒गुह्या॒रिप॑आ॒योरह᳚न्‌दभ॒न्¦मान॑आ॒भ्योरी᳚रधोदु॒च्छुना᳚भ्यः|{शौनको गृत्समदः | इन्द्रस्त्वष्टा वा | जगती}

मानो॒वियौः᳚स॒ख्यावि॒द्धितस्य॑नः¦सुम्नाय॒तामन॑सा॒तत्त्वे᳚महे|| {2/8}{2.7.15.2}{2.32.2}{2.3.10.2}{950, 223, 2320}

अहे᳚ळता॒मन॑साश्रु॒ष्टिमाव॑ह॒¦दुहा᳚नांधे॒नुंपि॒प्युषी᳚मस॒श्चत᳚म्|{शौनको गृत्समदः | इन्द्रस्त्वष्टा वा | जगती}

पद्या᳚भिरा॒शुंवच॑साचवा॒जिनं॒¦त्वांहि॑नोमिपुरुहूतवि॒श्वहा᳚|| {3/8}{2.7.15.3}{2.32.3}{2.3.10.3}{951, 223, 2321}

रा॒काम॒हंसु॒हवां᳚सुष्टु॒तीहु॑वे¦शृ॒णोतु॑नःसु॒भगा॒बोध॑तु॒त्मना᳚|{शौनको गृत्समदः | राका | जगती}

सीव्य॒त्वपः॑सू॒च्याच्छि॑द्यमानया॒¦ददा᳚तुवी॒रंश॒तदा᳚यमु॒क्थ्य᳚म्|| {4/8}{2.7.15.4}{2.32.4}{2.3.10.4}{952, 223, 2322}

यास्ते᳚राकेसुम॒तयः॑सु॒पेश॑सो॒¦याभि॒र्ददा᳚सिदा॒शुषे॒वसू᳚नि|{शौनको गृत्समदः | राका | जगती}

ताभि᳚र्नो,अ॒द्यसु॒मना᳚उ॒पाग॑हि¦सहस्रपो॒षंसु॑भगे॒ररा᳚णा|| {5/8}{2.7.15.5}{2.32.5}{2.3.10.5}{953, 223, 2323}

सिनी᳚वालि॒पृथु॑ष्टुके॒¦यादे॒वाना॒मसि॒स्वसा᳚|{शौनको गृत्समदः | सिनीवाली | अनुष्टुप्}

जु॒षस्व॑ह॒व्यमाहु॑तं¦प्र॒जांदे᳚विदिदिड्ढिनः|| {6/8}{2.7.15.6}{2.32.6}{2.3.10.6}{954, 223, 2324}

यासु॑बा॒हुःस्व᳚ङ्गु॒रिः¦सु॒षूमा᳚बहु॒सूव॑री|{शौनको गृत्समदः | सिनीवाली | अनुष्टुप्}

तस्यै᳚वि॒श्पत्न्यै᳚ह॒विः¦सि॑नीवा॒ल्यैजु॑होतन|| {7/8}{2.7.15.7}{2.32.7}{2.3.10.7}{955, 223, 2325}

यागु॒ङ्गूर्यासि॑नीवा॒ली¦यारा॒कायासर॑स्वती|{शौनको गृत्समदः | लिङ्गोक्ताः | अनुष्टुप्}

इ॒न्द्रा॒णीम॑ह्वऊ॒तये᳚¦वरुणा॒नींस्व॒स्तये᳚|| {8/8}{2.7.15.8}{2.32.8}{2.3.10.8}{956, 223, 2326}

[103] आतेपितरिति पंचदशर्चस्य सूक्तस्य शौनको गृत्समदोरुद्रोजगत्यंत्यात्रिष्टुप् |
आते᳚पितर्मरुतांसु॒म्नमे᳚तु॒¦मानः॒सूर्य॑स्यसं॒दृशो᳚युयोथाः|{शौनको गृत्समदः | रुद्रः | जगती}

अ॒भिनो᳚वी॒रो,अर्व॑तिक्षमेत॒¦प्रजा᳚येमहिरुद्रप्र॒जाभिः॑|| {1/15}{2.7.16.1}{2.33.1}{2.4.1.1}{957, 224, 2327}

त्वाद॑त्तेभीरुद्र॒शंत॑मेभिः¦श॒तंहिमा᳚अशीयभेष॒जेभिः॑|{शौनको गृत्समदः | रुद्रः | जगती}

व्य१॑(अ॒)स्मद्द्वेषो᳚वित॒रंव्यंहो॒¦व्यमी᳚वाश्चातयस्वा॒विषू᳚चीः|| {2/15}{2.7.16.2}{2.33.2}{2.4.1.2}{958, 224, 2328}

श्रेष्ठो᳚जा॒तस्य॑रुद्रश्रि॒यासि॑¦त॒वस्त॑मस्त॒वसां᳚वज्रबाहो|{शौनको गृत्समदः | रुद्रः | जगती}

पर्षि॑णःपा॒रमंह॑सःस्व॒स्ति¦विश्वा᳚अ॒भी᳚ती॒रप॑सोयुयोधि|| {3/15}{2.7.16.3}{2.33.3}{2.4.1.3}{959, 224, 2329}

मात्वा᳚रुद्रचुक्रुधामा॒नमो᳚भि॒¦र्मादुष्टु॑तीवृषभ॒मासहू᳚ती|{शौनको गृत्समदः | रुद्रः | जगती}

उन्नो᳚वी॒राँ,अ॑र्पयभेष॒जेभि॑¦र्भि॒षक्त॑मंत्वाभि॒षजां᳚शृणोमि|| {4/15}{2.7.16.4}{2.33.4}{2.4.1.4}{960, 224, 2330}

हवी᳚मभि॒र्हव॑ते॒योह॒विर्भि॒¦रव॒स्तोमे᳚भीरु॒द्रंदि॑षीय|{शौनको गृत्समदः | रुद्रः | जगती}

ऋ॒दू॒दरः॑सु॒हवो॒मानो᳚अ॒स्यै¦ब॒भ्रुःसु॒शिप्रो᳚रीरधन्म॒नायै᳚|| {5/15}{2.7.16.5}{2.33.5}{2.4.1.5}{961, 224, 2331}

उन्मा᳚ममन्दवृष॒भोम॒रुत्वा॒न्¦त्वक्षी᳚यसा॒वय॑सा॒नाध॑मानम्|{शौनको गृत्समदः | रुद्रः | जगती}

घृणी᳚वच्छा॒याम॑र॒पा,अ॑शी॒या¦ऽऽवि॑वासेयंरु॒द्रस्य॑सु॒म्नम्|| {6/15}{2.7.17.1}{2.33.6}{2.4.1.6}{962, 224, 2332}

क्व१॑(अ॒)स्यते᳚रुद्रमृळ॒याकु॒¦र्हस्तो॒यो,अस्ति॑भेष॒जोजला᳚षः|{शौनको गृत्समदः | रुद्रः | जगती}

अ॒प॒भ॒र्तारप॑सो॒दैव्य॑स्या॒¦भीनुमा᳚वृषभचक्षमीथाः|| {7/15}{2.7.17.2}{2.33.7}{2.4.1.7}{963, 224, 2333}

प्रब॒भ्रवे᳚वृष॒भाय॑श्विती॒चे¦म॒होम॒हींसु॑ष्टु॒तिमी᳚रयामि|{शौनको गृत्समदः | रुद्रः | जगती}

न॒म॒स्याक᳚ल्मली॒किनं॒नमो᳚भि¦र्गृणी॒मसि॑त्वे॒षंरु॒द्रस्य॒नाम॑|| {8/15}{2.7.17.3}{2.33.8}{2.4.1.8}{964, 224, 2334}

स्थि॒रेभि॒रङ्गैः᳚पुरु॒रूप॑उ॒ग्रो¦ब॒भ्रुःशु॒क्रेभिः॑पिपिशे॒हिर᳚ण्यैः|{शौनको गृत्समदः | रुद्रः | जगती}

ईशा᳚नाद॒स्यभुव॑नस्य॒भूरे॒¦र्नवा,उ॑योषद्रु॒द्राद॑सु॒र्य᳚म्|| {9/15}{2.7.17.4}{2.33.9}{2.4.1.9}{965, 224, 2335}

अर्ह᳚न्‌बिभर्षि॒साय॑कानि॒धन्वा¦र्ह᳚न्‌नि॒ष्कंय॑ज॒तंवि॒श्वरू᳚पम्|{शौनको गृत्समदः | रुद्रः | जगती}

अर्ह᳚न्नि॒दंद॑यसे॒विश्व॒मभ्वं॒¦नवा,ओजी᳚योरुद्र॒त्वद॑स्ति|| {10/15}{2.7.17.5}{2.33.10}{2.4.1.10}{966, 224, 2336}

स्तु॒हिश्रु॒तंग॑र्त॒सदं॒युवा᳚नं¦मृ॒गंनभी॒ममु॑पह॒त्नुमु॒ग्रम्|{शौनको गृत्समदः | रुद्रः | जगती}

मृ॒ळाज॑रि॒त्रेरु॑द्र॒स्तवा᳚नो॒¦ऽन्यंते᳚अ॒स्मन्निव॑पन्तु॒सेनाः᳚|| {11/15}{2.7.18.1}{2.33.11}{2.4.1.11}{967, 224, 2337}

कु॒मा॒रश्चि॑त्‌पि॒तरं॒वन्द॑मानं॒¦प्रति॑नानामरुद्रोप॒यन्त᳚म्|{शौनको गृत्समदः | रुद्रः | जगती}

भूरे᳚र्दा॒तारं॒सत्प॑तिंगृणीषे¦स्तु॒तस्त्वंभे᳚ष॒जारा᳚स्य॒स्मे|| {12/15}{2.7.18.2}{2.33.12}{2.4.1.12}{968, 224, 2338}

यावो᳚भेष॒जाम॑रुतः॒शुची᳚नि॒¦याशंत॑मावृषणो॒याम॑यो॒भु|{शौनको गृत्समदः | रुद्रः | जगती}

यानि॒मनु॒रवृ॑णीतापि॒तान॒¦स्ताशंच॒योश्च॑रु॒द्रस्य॑वश्मि|| {13/15}{2.7.18.3}{2.33.13}{2.4.1.13}{969, 224, 2339}

परि॑णोहे॒तीरु॒द्रस्य॑वृज्याः॒¦परि॑त्वे॒षस्य॑दुर्म॒तिर्म॒हीगा᳚त्|{शौनको गृत्समदः | रुद्रः | जगती}

अव॑स्थि॒राम॒घव॑द्भ्यस्तनुष्व॒¦मीढ्व॑स्तो॒काय॒तन॑यायमृळ|| {14/15}{2.7.18.4}{2.33.14}{2.4.1.14}{970, 224, 2340}

ए॒वाब॑भ्रोवृषभचेकितान॒¦यथा᳚देव॒नहृ॑णी॒षेनहंसि॑|{शौनको गृत्समदः | रुद्रः | त्रिष्टुप्}

ह॒व॒न॒श्रुन्नो᳚रुद्रे॒हबो᳚धि¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚|| {15/15}{2.7.18.5}{2.33.15}{2.4.1.15}{971, 224, 2341}

[104] धारावराइति पंचदशर्चस्य सूक्तस्यशौनको गृत्समदोमरुतोजगत्यंत्यात्रिष्टुप् |
धा॒रा॒व॒राम॒रुतो᳚धृ॒ष्ण्वो᳚जसो¦मृ॒गानभी॒मास्तवि॑षीभिर॒र्चिनः॑|{शौनको गृत्समदः | मरुतः | जगती}

अ॒ग्नयो॒नशु॑शुचा॒ना,ऋ॑जी॒षिणो॒¦भृमिं॒धम᳚न्तो॒,अप॒गा,अ॑वृण्वत|| {1/15}{2.7.19.1}{2.34.1}{2.4.2.1}{972, 225, 2342}

द्यावो॒नस्तृभि॑श्चितयन्तखा॒दिनो॒¦व्य१॑(अ॒)भ्रिया॒नद्यु॑तयन्तवृ॒ष्टयः॑|{शौनको गृत्समदः | मरुतः | जगती}

रु॒द्रोयद्‌वो᳚मरुतोरुक्मवक्षसो॒¦वृषाज॑नि॒पृश्न्याः᳚शु॒क्रऊध॑नि|| {2/15}{2.7.19.2}{2.34.2}{2.4.2.2}{973, 225, 2343}

उ॒क्षन्ते॒,अश्वाँ॒,अत्याँ᳚,इवा॒जिषु॑¦न॒दस्य॒कर्णै᳚स्तुरयन्तआ॒शुभिः॑|{शौनको गृत्समदः | मरुतः | जगती}

हिर᳚ण्यशिप्रामरुतो॒दवि॑ध्वतः¦पृ॒क्षंया᳚थ॒पृष॑तीभिःसमन्यवः|| {3/15}{2.7.19.3}{2.34.3}{2.4.2.3}{974, 225, 2344}

पृ॒क्षेताविश्वा॒भुव॑नाववक्षिरे¦मि॒त्राय॑वा॒सद॒माजी॒रदा᳚नवः|{शौनको गृत्समदः | मरुतः | जगती}

पृष॑दश्वासो,अनव॒भ्ररा᳚धस¦ऋजि॒प्यासो॒नव॒युने᳚षुधू॒र्षदः॑|| {4/15}{2.7.19.4}{2.34.4}{2.4.2.4}{975, 225, 2345}

इन्ध᳚न्वभिर्धे॒नुभी᳚र॒प्शदू᳚धभि¦रध्व॒स्मभिः॑प॒थिभि॑र्भ्राजदृष्टयः|{शौनको गृत्समदः | मरुतः | जगती}

आहं॒सासो॒नस्वस॑राणिगन्तन॒¦मधो॒र्मदा᳚यमरुतःसमन्यवः|| {5/15}{2.7.19.5}{2.34.5}{2.4.2.5}{976, 225, 2346}

आनो॒ब्रह्मा᳚णिमरुतःसमन्यवो¦न॒रांनशंसः॒सव॑नानिगन्तन|{शौनको गृत्समदः | मरुतः | जगती}

अश्वा᳚मिवपिप्यतधे॒नुमूध॑नि॒¦कर्ता॒धियं᳚जरि॒त्रेवाज॑पेशसम्|| {6/15}{2.7.20.1}{2.34.6}{2.4.2.6}{977, 225, 2347}

तंनो᳚दातमरुतोवा॒जिनं॒रथ॑¦आपा॒नंब्रह्म॑चि॒तय॑द्‌दि॒वेदि॑वे|{शौनको गृत्समदः | मरुतः | जगती}

इषं᳚स्तो॒तृभ्यो᳚वृ॒जने᳚षुका॒रवे᳚¦स॒निंमे॒धामरि॑ष्टंदु॒ष्टरं॒सहः॑|| {7/15}{2.7.20.2}{2.34.7}{2.4.2.7}{978, 225, 2348}

यद्‌यु॒ञ्जते᳚म॒रुतो᳚रु॒क्मव॑क्ष॒सो¦ऽश्वा॒न्रथे᳚षु॒भग॒आसु॒दान॑वः|{शौनको गृत्समदः | मरुतः | जगती}

धे॒नुर्नशिश्वे॒स्वस॑रेषुपिन्वते॒¦जना᳚यरा॒तह॑विषेम॒हीमिष᳚म्|| {8/15}{2.7.20.3}{2.34.8}{2.4.2.8}{979, 225, 2349}

योनो᳚मरुतोवृ॒कता᳚ति॒मर्त्यो᳚¦रि॒पुर्द॒धेव॑सवो॒रक्ष॑तारि॒षः|{शौनको गृत्समदः | मरुतः | जगती}

व॒र्तय॑त॒तपु॑षाच॒क्रिया॒भित¦मव॑रुद्रा,अ॒शसो᳚हन्तना॒वधः॑|| {9/15}{2.7.20.4}{2.34.9}{2.4.2.9}{980, 225, 2350}

चि॒त्रंतद्‌वो᳚मरुतो॒याम॑चेकिते॒¦पृश्न्या॒यदूध॒रप्या॒पयो᳚दु॒हुः|{शौनको गृत्समदः | मरुतः | जगती}

यद्‌वा᳚नि॒देनव॑मानस्यरुद्रिया¦स्त्रि॒तंजरा᳚यजुर॒ताम॑दाभ्याः|| {10/15}{2.7.20.5}{2.34.10}{2.4.2.10}{981, 225, 2351}

तान्‌वो᳚म॒होम॒रुत॑एव॒याव्नो॒¦विष्णो᳚रे॒षस्य॑प्रभृ॒थेह॑वामहे|{शौनको गृत्समदः | मरुतः | जगती}

हिर᳚ण्यवर्णान्‌ककु॒हान्‌य॒तस्रु॑चो¦ब्रह्म॒ण्यन्तः॒शंस्यं॒राध॑ईमहे|| {11/15}{2.7.21.1}{2.34.11}{2.4.2.11}{982, 225, 2352}

तेदश॑ग्वाःप्रथ॒माय॒ज्ञमू᳚हिरे॒¦तेनो᳚हिन्वन्तू॒षसो॒व्यु॑ष्टिषु|{शौनको गृत्समदः | मरुतः | जगती}

उ॒षानरा॒मीर॑रु॒णैरपो᳚र्णुते¦म॒होज्योति॑षाशुच॒तागो,अ᳚र्णसा|| {12/15}{2.7.21.2}{2.34.12}{2.4.2.12}{983, 225, 2353}

तेक्षो॒णीभि॑ररु॒णेभि॒र्नाञ्जिभी᳚¦रु॒द्रा,ऋ॒तस्य॒सद॑नेषुवावृधुः|{शौनको गृत्समदः | मरुतः | जगती}

नि॒मेघ॑माना॒,अत्ये᳚न॒पाज॑सा¦सुश्च॒न्द्रंवर्णं᳚दधिरेसु॒पेश॑सम्|| {13/15}{2.7.21.3}{2.34.13}{2.4.2.13}{984, 225, 2354}

ताँ,इ॑या॒नोमहि॒वरू᳚थमू॒तय॒¦उप॒घेदे॒नानम॑सागृणीमसि|{शौनको गृत्समदः | मरुतः | जगती}

त्रि॒तोनयान्‌पञ्च॒होतॄ᳚न॒भिष्ट॑य¦आव॒वर्त॒दव॑राञ्च॒क्रियाव॑से|| {14/15}{2.7.21.4}{2.34.14}{2.4.2.14}{985, 225, 2355}

यया᳚र॒ध्रंपा॒रय॒थात्यंहो॒¦यया᳚नि॒दोमु॒ञ्चथ॑वन्दि॒तार᳚म्|{शौनको गृत्समदः | मरुतः | त्रिष्टुप्}

अ॒र्वाची॒साम॑रुतो॒याव॑ऊ॒ति¦रोषुवा॒श्रेव॑सुम॒तिर्जि॑गातु|| {15/15}{2.7.21.5}{2.34.15}{2.4.2.15}{986, 225, 2356}

[105] उपेमिति पंचदशर्चस्य सूक्तस्य शौनको गृत्समदोपांनपात्त्रिष्टुप् |
उपे᳚मसृक्षिवाज॒युर्व॑च॒स्यां¦चनो᳚दधीतना॒द्योगिरो᳚मे|{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

अ॒पांनपा᳚दाशु॒हेमा᳚कु॒वित्‌स¦सु॒पेश॑सस्करति॒जोषि॑ष॒द्धि|| {1/15}{2.7.22.1}{2.35.1}{2.4.3.1}{987, 226, 2357}

इ॒मंस्व॑स्मैहृ॒दआसुत॑ष्टं॒¦मन्त्रं᳚वोचेमकु॒विद॑स्य॒वेद॑त्|{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

अ॒पांनपा᳚दसु॒र्य॑स्यम॒ह्ना¦विश्वा᳚न्य॒र्योभुव॑नाजजान|| {2/15}{2.7.22.2}{2.35.2}{2.4.3.2}{988, 226, 2358}

सम॒न्यायन्त्युप॑यन्त्य॒न्याः¦स॑मा॒नमू॒र्वंन॒द्यः॑पृणन्ति|{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

तमू॒शुचिं॒शुच॑योदीदि॒वांस॑¦म॒पांनपा᳚तं॒परि॑तस्थु॒रापः॑|| {3/15}{2.7.22.3}{2.35.3}{2.4.3.3}{989, 226, 2359}

तमस्मे᳚रायुव॒तयो॒युवा᳚नं¦मर्मृ॒ज्यमा᳚नाः॒परि॑य॒न्त्यापः॑|{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

सशु॒क्रेभिः॒शिक्व॑भीरे॒वद॒स्मे¦दी॒दाया᳚नि॒ध्मोघृ॒तनि᳚र्णिग॒प्सु|| {4/15}{2.7.22.4}{2.35.4}{2.4.3.4}{990, 226, 2360}

अ॒स्मैति॒स्रो,अ᳚व्य॒थ्याय॒नारी᳚¦र्दे॒वाय॑दे॒वीर्दि॑धिष॒न्त्यन्न᳚म्|{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

कृता᳚इ॒वोप॒हिप्र॑स॒र्स्रे,अ॒प्सु¦सपी॒यूषं᳚धयतिपूर्व॒सूना᳚म्|| {5/15}{2.7.22.5}{2.35.5}{2.4.3.5}{991, 226, 2361}

अश्व॒स्यात्र॒जनि॑मा॒स्यच॒स्व॑¦र्द्रु॒होरि॒षःस॒म्पृचः॑पाहिसू॒रीन्|{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

आ॒मासु॑पू॒र्षुप॒रो,अ॑प्रमृ॒ष्यं¦नारा᳚तयो॒विन॑श॒न्नानृ॑तानि|| {6/15}{2.7.23.1}{2.35.6}{2.4.3.6}{992, 226, 2362}

स्वआदमे᳚सु॒दुघा॒यस्य॑धे॒नुः¦स्व॒धांपी᳚पायसु॒भ्वन्न॑मत्ति|{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

सो,अ॒पांनपा᳚दू॒र्जय᳚न्न॒प्स्व१॑(अ॒)न्त¦र्व॑सु॒देया᳚यविध॒तेविभा᳚ति|| {7/15}{2.7.23.2}{2.35.7}{2.4.3.7}{993, 226, 2363}

यो,अ॒प्स्वाशुचि॑ना॒दैव्ये᳚न¦ऋ॒तावाज॑स्रउर्वि॒यावि॒भाति॑|{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

व॒या,इद॒न्याभुव॑नान्यस्य॒¦प्रजा᳚यन्तेवी॒रुध॑श्चप्र॒जाभिः॑|| {8/15}{2.7.23.3}{2.35.8}{2.4.3.8}{994, 226, 2364}

अ॒पांनपा॒दाह्यस्था᳚दु॒पस्थं᳚¦जि॒ह्माना᳚मू॒र्ध्वोवि॒द्युतं॒वसा᳚नः|{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

तस्य॒ज्येष्ठं᳚महि॒मानं॒वह᳚न्ती॒¦र्हिर᳚ण्यवर्णाः॒परि॑यन्तिय॒ह्वीः|| {9/15}{2.7.23.4}{2.35.9}{2.4.3.9}{995, 226, 2365}

हिर᳚ण्यरूपः॒सहिर᳚ण्यसंदृग॒पां¦नपा॒त्‌सेदु॒हिर᳚ण्यवर्णः|{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

हि॒र॒ण्यया॒त्‌परि॒योने᳚र्नि॒षद्या᳚¦हिरण्य॒दाद॑द॒त्यन्न॑मस्मै|| {10/15}{2.7.23.5}{2.35.10}{2.4.3.10}{996, 226, 2366}

तद॒स्यानी᳚कमु॒तचारु॒नामा᳚¦पी॒च्यं᳚वर्धते॒नप्तु॑र॒पाम्|{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

यमि॒न्धते᳚युव॒तयः॒समि॒त्था¦हिर᳚ण्यवर्णंघृ॒तमन्न॑मस्य|| {11/15}{2.7.24.1}{2.35.11}{2.4.3.11}{997, 226, 2367}

अ॒स्मैब॑हू॒नाम॑व॒माय॒सख्ये᳚¦य॒ज्ञैर्वि॑धेम॒नम॑साह॒विर्भिः॑|{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

संसानु॒मार्ज्मि॒दिधि॑षामि॒बिल्मै॒¦र्दधा॒म्यन्नैः॒परि॑वन्दऋ॒ग्भिः|| {12/15}{2.7.24.2}{2.35.12}{2.4.3.12}{998, 226, 2368}

सईं॒वृषा᳚जनय॒त्तासु॒गर्भं॒¦सईं॒शिशु॑र्धयति॒तंरि॑हन्ति|{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

सो,अ॒पांनपा॒दन॑भिम्लातवर्णो॒¦ऽन्यस्ये᳚वे॒हत॒न्वा᳚विवेष|| {13/15}{2.7.24.3}{2.35.13}{2.4.3.13}{999, 226, 2369}

अ॒स्मिन्‌प॒देप॑र॒मेत॑स्थि॒वांस॑¦मध्व॒स्मभि᳚र्वि॒श्वहा᳚दीदि॒वांस᳚म्|{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

आपो॒नप्त्रे᳚घृ॒तमन्नं॒वह᳚न्तीः¦स्व॒यमत्कैः॒परि॑दीयन्तिय॒ह्वीः|| {14/15}{2.7.24.4}{2.35.14}{2.4.3.14}{1000, 226, 2370}

अयां᳚समग्नेसुक्षि॒तिंजना॒या¦यां᳚समुम॒घव॑द्भ्यःसुवृ॒क्तिम्|{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

विश्वं॒तद्‌भ॒द्रंयदव᳚न्तिदे॒वा¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚|| {15/15}{2.7.24.5}{2.35.15}{2.4.3.15}{1001, 226, 2371}

[106] तुभ्यमिति षडृचस्य सूक्तस्य शौनकोगृत्समदः इंद्रोमरुतस्त्वष्टाग्निरिंद्रोमित्रावरुणाविति क्रमेणदेवताजगती | (एताऋतुदेवताः) | १ इतः षटृतुदेवताः
तुभ्यं᳚हिन्वा॒नोव॑सिष्ट॒गा,अ॒पो¦ऽधु॑क्षन्‌त्सी॒मवि॑भि॒रद्रि॑भि॒र्नरः॑|{शौनको गृत्समदः | इन्द्र्रः | जगती}

पिबे᳚न्द्र॒स्वाहा॒प्रहु॑तं॒वष॑ट्कृतं¦हो॒त्रादासोमं᳚प्रथ॒मोयईशि॑षे|| {1/6}{2.7.25.1}{2.36.1}{2.4.4.1}{1002, 227, 2372}

य॒ज्ञैःसम्मि॑श्लाः॒पृष॑तीभिरृ॒ष्टिभि॒¦र्याम᳚ञ्छु॒भ्रासो᳚अ॒ञ्जिषु॑प्रि॒या,उ॒त|{शौनको गृत्समदः | मरुतः | जगती}

आ॒सद्या᳚ब॒र्हिर्भ॑रतस्यसूनवः¦पो॒त्रादासोमं᳚पिबतादिवोनरः|| {2/6}{2.7.25.2}{2.36.2}{2.4.4.2}{1003, 227, 2373}

अ॒मेव॑नःसुहवा॒,आहिगन्त॑न॒¦निब॒र्हिषि॑सदतना॒रणि॑ष्टन|{शौनको गृत्समदः | त्वष्टाः | जगती}

अथा᳚मन्दस्वजुजुषा॒णो,अन्ध॑स॒¦स्त्वष्ट॑र्दे॒वेभि॒र्जनि॑भिःसु॒मद्ग॑णः|| {3/6}{2.7.25.3}{2.36.3}{2.4.4.3}{1004, 227, 2374}

आव॑क्षिदे॒वाँ,इ॒हवि॑प्र॒यक्षि॑चो॒¦शन्‌हो᳚त॒र्निष॑दा॒योनि॑षुत्रि॒षु|{शौनको गृत्समदः | अग्निः | जगती}

प्रति॑वीहि॒प्रस्थि॑तंसो॒म्यंमधु॒¦पिबाग्नी᳚ध्रा॒त्तव॑भा॒गस्य॑तृप्णुहि|| {4/6}{2.7.25.4}{2.36.4}{2.4.4.4}{1005, 227, 2375}

ए॒षस्यते᳚त॒न्वो᳚नृम्ण॒वर्ध॑नः॒¦सह॒ओजः॑प्र॒दिवि॑बा॒ह्वोर्हि॒तः|{शौनको गृत्समदः | इन्द्रः | जगती}

तुभ्यं᳚सु॒तोम॑घव॒न्‌तुभ्य॒माभृ॑त॒¦स्त्वम॑स्य॒ब्राह्म॑णा॒दातृ॒पत्‌पि॑ब|| {5/6}{2.7.25.5}{2.36.5}{2.4.4.5}{1006, 227, 2376}

जु॒षेथां᳚य॒ज्ञंबोध॑तं॒हव॑स्यमे¦स॒त्तोहोता᳚नि॒विदः॑पू॒र्व्या,अनु॑|{शौनको गृत्समदः | मित्रावरुणौ | जगती}

अच्छा॒राजा᳚ना॒नम॑एत्या॒वृतं᳚¦प्रशा॒स्त्रादापि॑बतंसो॒म्यंमधु॑|| {6/6}{2.7.25.6}{2.36.6}{2.4.4.6}{1007, 227, 2377}

[107] मन्दस्वेतिषडृचस्य सूक्तस्य शौनकोगृत्समदः आद्यानांचतसृणां द्रविणोदाः पंचम्याआश्विनौ षष्ठ्या अग्निर्जगती |
मन्द॑स्वहो॒त्रादनु॒जोष॒मन्ध॒सो¦ऽध्व᳚र्यवः॒सपू॒र्णांव॑ष्ट्या॒सिच᳚म्|{शौनको गृत्समदः | द्रविणोदाः | जगती}

तस्मा᳚ए॒तंभ॑रततद्व॒शोद॒दि¦र्हो॒त्रात्‌सोमं᳚द्रविणोदः॒पिब॑ऋ॒तुभिः॑|| {1/6}{2.8.1.1}{2.37.1}{2.4.5.1}{1008, 228, 2378}

यमु॒पूर्व॒महु॑वे॒तमि॒दंहु॑वे॒¦सेदु॒हव्यो᳚द॒दिर्योनाम॒पत्य॑ते|{शौनको गृत्समदः | द्रविणोदाः | जगती}

अ॒ध्व॒र्युभिः॒प्रस्थि॑तंसो॒म्यंमधु॑¦पो॒त्रात्‌सोमं᳚द्रविणोदः॒पिब॑ऋ॒तुभिः॑|| {2/6}{2.8.1.2}{2.37.2}{2.4.5.2}{1009, 228, 2379}

मेद्य᳚न्तुते॒वह्न॑यो॒येभि॒रीय॒से¦ऽरि॑षण्यन्‌वीळयस्वावनस्पते|{शौनको गृत्समदः | द्रविणोदाः | जगती}

आ॒यूया᳚धृष्णो,अभि॒गूर्या॒त्वं¦ने॒ष्ट्रात्‌सोमं᳚द्रविणोदः॒पिब॑ऋ॒तुभिः॑|| {3/6}{2.8.1.3}{2.37.3}{2.4.5.3}{1010, 228, 2380}

अपा᳚द्धो॒त्रादु॒तपो॒त्राद॑मत्तो॒¦तने॒ष्ट्राद॑जुषत॒प्रयो᳚हि॒तम्|{शौनको गृत्समदः | द्रविणोदाः | जगती}

तु॒रीयं॒पात्र॒ममृ॑क्त॒मम॑र्त्यं¦द्रविणो॒दाःपि॑बतुद्राविणोद॒सः|| {4/6}{2.8.1.4}{2.37.4}{2.4.5.4}{1011, 228, 2381}

अ॒र्वाञ्च॑म॒द्यय॒य्यं᳚नृ॒वाह॑णं॒¦रथं᳚युञ्जाथामि॒हवां᳚वि॒मोच॑नम्|{शौनको गृत्समदः | अश्विनौ | जगती}

पृ॒ङ्क्तंह॒वींषि॒मधु॒नाहिकं᳚ग॒त¦मथा॒सोमं᳚पिबतंवाजिनीवसू|| {5/6}{2.8.1.5}{2.37.5}{2.4.5.5}{1012, 228, 2382}

जोष्य॑ग्नेस॒मिधं॒जोष्याहु॑तिं॒¦जोषि॒ब्रह्म॒जन्यं॒जोषि॑सुष्टु॒तिम्|{शौनको गृत्समदः | अग्निः | जगती}

विश्वे᳚भि॒र्विश्वाँ᳚ऋ॒तुना᳚वसोम॒ह¦उ॒शन्‌दे॒वाँ,उ॑श॒तःपा᳚ययाह॒विः|| {6/6}{2.8.1.6}{2.37.6}{2.4.5.6}{1013, 228, 2383}

[108] उदुष्यइत्येकादशर्चस्य सूक्तस्य शौनकोगृत्समदः सवितात्रिष्टुप् |
उदु॒ष्यदे॒वःस॑वि॒तास॒वाय॑¦शश्वत्त॒मंतद॑पा॒वह्नि॑रस्थात्|{शौनको गृत्समदः | सविता | त्रिष्टुप्}

नू॒नंदे॒वेभ्यो॒विहिधाति॒रत्न॒¦मथाभ॑जद्‌वी॒तिहो᳚त्रंस्व॒स्तौ|| {1/11}{2.8.2.1}{2.38.1}{2.4.6.1}{1014, 229, 2384}

विश्व॑स्य॒हिश्रु॒ष्टये᳚दे॒वऊ॒र्ध्वः¦प्रबा॒हवा᳚पृ॒थुपा᳚णिः॒सिस॑र्ति|{शौनको गृत्समदः | सविता | त्रिष्टुप्}

आप॑श्चिदस्यव्र॒तआनिमृ॑ग्रा,¦अ॒यंचि॒द्‌वातो᳚रमते॒परि॑ज्मन्|| {2/11}{2.8.2.2}{2.38.2}{2.4.6.2}{1015, 229, 2385}

आ॒शुभि॑श्चि॒द्यान्‌विमु॑चातिनू॒न¦मरी᳚रम॒दत॑मानंचि॒देतोः᳚|{शौनको गृत्समदः | सविता | त्रिष्टुप्}

अ॒ह्यर्षू᳚णांचि॒न्न्य॑याँ,अवि॒ष्या¦मनु᳚व्र॒तंस॑वि॒तुर्मोक्यागा᳚त्|| {3/11}{2.8.2.3}{2.38.3}{2.4.6.3}{1016, 229, 2386}

पुनः॒सम᳚व्य॒द्‌वित॑तं॒वय᳚न्ती¦म॒ध्याकर्तो॒र्न्य॑धा॒च्छक्म॒धीरः॑|{शौनको गृत्समदः | सविता | त्रिष्टुप्}

उत्‌सं॒हाया᳚स्था॒द्‌व्यृ१॑(ऋ॒)तूँर॑दर्धर॒¦रम॑तिःसवि॒तादे॒वआगा᳚त्|| {4/11}{2.8.2.4}{2.38.4}{2.4.6.4}{1017, 229, 2387}

नानौकां᳚सि॒दुर्यो॒विश्व॒मायु॒¦र्विति॑ष्ठतेप्रभ॒वःशोको᳚अ॒ग्नेः|{शौनको गृत्समदः | सविता | त्रिष्टुप्}

ज्येष्ठं᳚मा॒तासू॒नवे᳚भा॒गमाधा॒¦दन्व॑स्य॒केत॑मिषि॒तंस॑वि॒त्रा|| {5/11}{2.8.2.5}{2.38.5}{2.4.6.5}{1018, 229, 2388}

स॒माव॑वर्ति॒विष्ठि॑तोजिगी॒षु¦र्विश्वे᳚षां॒काम॒श्चर॑ताम॒माभू᳚त्|{शौनको गृत्समदः | सविता | त्रिष्टुप्}

शश्वाँ॒,अपो॒विकृ॑तंहि॒त्व्यागा॒¦दनु᳚व्र॒तंस॑वि॒तुर्दैव्य॑स्य|| {6/11}{2.8.3.1}{2.38.6}{2.4.6.6}{1019, 229, 2389}

त्वया᳚हि॒तमप्य॑म॒प्सुभा॒गं¦धन्वान्‌वामृ॑ग॒यसो॒वित॑स्थुः|{शौनको गृत्समदः | सविता | त्रिष्टुप्}

वना᳚नि॒विभ्यो॒नकि॑रस्य॒तानि᳚¦व्र॒तादे॒वस्य॑सवि॒तुर्मि॑नन्ति|| {7/11}{2.8.3.2}{2.38.7}{2.4.6.7}{1020, 229, 2390}

या॒द्रा॒ध्य१॑(अं॒)वरु॑णो॒योनि॒मप्य॒¦मनि॑शितंनि॒मिषि॒जर्भु॑राणः|{शौनको गृत्समदः | सविता | त्रिष्टुप्}

विश्वो᳚मार्ता॒ण्डोव्र॒जमाप॒शुर्गा᳚त्¦स्थ॒शोजन्मा᳚निसवि॒ताव्याकः॑|| {8/11}{2.8.3.3}{2.38.8}{2.4.6.8}{1021, 229, 2391}

नयस्येन्द्रो॒वरु॑णो॒नमि॒त्रो¦व्र॒तम᳚र्य॒मानमि॒नन्ति॑रु॒द्रः|{शौनको गृत्समदः | सविता | त्रिष्टुप्}

नारा᳚तय॒स्तमि॒दंस्व॒स्ति¦हु॒वेदे॒वंस॑वि॒तारं॒नमो᳚भिः|| {9/11}{2.8.3.4}{2.38.9}{2.4.6.9}{1022, 229, 2392}

भगं॒धियं᳚वा॒जय᳚न्तः॒पुरं᳚धिं॒¦नरा॒शंसो॒ग्नास्पति᳚र्नो,अव्याः|{शौनको गृत्समदः | सविता | त्रिष्टुप्}

आ॒येवा॒मस्य॑संग॒थेर॑यी॒णां¦प्रि॒यादे॒वस्य॑सवि॒तुःस्या᳚म|| {10/11}{2.8.3.5}{2.38.10}{2.4.6.10}{1023, 229, 2393}

अ॒स्मभ्यं॒तद्दि॒वो,अ॒द्भ्यःपृ॑थि॒व्या¦स्त्वया᳚द॒त्तंकाम्यं॒राध॒आगा᳚त्|{शौनको गृत्समदः | सविता | त्रिष्टुप्}

शंयत्‌स्तो॒तृभ्य॑आ॒पये॒भवा᳚¦त्युरु॒शंसा᳚यसवितर्जरि॒त्रे|| {11/11}{2.8.3.6}{2.38.11}{2.4.6.11}{1024, 229, 2394}

[109] ग्रावाणेवेत्यष्टर्चस्य सूक्तस्य शौनको गृत्समदोश्विनौत्रिष्टुप्
ग्रावा᳚णेव॒तदिदर्थं᳚जरेथे॒¦गृध्रे᳚ववृ॒क्षंनि॑धि॒मन्त॒मच्छ॑|{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्}

ब्र॒ह्माणे᳚ववि॒दथ॑उक्थ॒शासा᳚¦दू॒तेव॒हव्या॒जन्या᳚पुरु॒त्रा|| {1/8}{2.8.4.1}{2.39.1}{2.4.7.1}{1025, 230, 2395}

प्रा॒त॒र्यावा᳚णार॒थ्ये᳚ववी॒रा¦जेव॑य॒मावर॒मास॑चेथे|{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्}

मेने᳚इवत॒न्वा॒३॑(आ॒)शुम्भ॑माने॒¦दम्प॑तीवक्रतु॒विदा॒जने᳚षु|| {2/8}{2.8.4.2}{2.39.2}{2.4.7.2}{1026, 230, 2396}

शृङ्गे᳚वनःप्रथ॒माग᳚न्तम॒र्वाक्¦छ॒फावि॑व॒जर्भु॑राणा॒तरो᳚भिः|{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्}

च॒क्र॒वा॒केव॒प्रति॒वस्तो᳚रुस्रा॒¦र्वाञ्चा᳚यातंर॒थ्ये᳚वशक्रा|| {3/8}{2.8.4.3}{2.39.3}{2.4.7.3}{1027, 230, 2397}

ना॒वेव॑नःपारयतंयु॒गेव॒¦नभ्ये᳚वनउप॒धीव॑प्र॒धीव॑|{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्}

श्वाने᳚वनो॒,अरि॑षण्यात॒नूनां॒¦खृग॑लेववि॒स्रसः॑पातम॒स्मान्|| {4/8}{2.8.4.4}{2.39.4}{2.4.7.4}{1028, 230, 2398}

वाते᳚वाजु॒र्यान॒द्ये᳚वरी॒ति¦र॒क्षी,इ॑व॒चक्षु॒षाया᳚तम॒र्वाक्|{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्}

हस्ता᳚विवत॒न्वे॒३॑(ए॒)शम्भ॑विष्ठा॒¦पादे᳚वनोनयतं॒वस्यो॒,अच्छ॑|| {5/8}{2.8.4.5}{2.39.5}{2.4.7.5}{1029, 230, 2399}

ओष्ठा᳚विव॒मध्वा॒स्नेवद᳚न्ता॒¦स्तना᳚विवपिप्यतंजी॒वसे᳚नः|{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्}

नासे᳚वनस्त॒न्वो᳚रक्षि॒तारा॒¦कर्णा᳚विवसु॒श्रुता᳚भूतम॒स्मे|| {6/8}{2.8.5.1}{2.39.6}{2.4.7.6}{1030, 230, 2400}

हस्ते᳚वश॒क्तिम॒भिसं᳚द॒दीनः॒,¦क्षामे᳚वनः॒सम॑जतं॒रजां᳚सि|{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्}

इ॒मागिरो᳚अश्विनायुष्म॒यन्तीः॒,¦क्ष्णोत्रे᳚णेव॒स्वधि॑तिं॒संशि॑शीतम्|| {7/8}{2.8.5.2}{2.39.7}{2.4.7.7}{1031, 230, 2401}

ए॒तानि॑वामश्विना॒वर्ध॑नानि॒¦ब्रह्म॒स्तोमं᳚गृत्सम॒दासो᳚अक्रन्|{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्}

तानि॑नराजुजुषा॒णोप॑यातं¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚|| {8/8}{2.8.5.3}{2.39.8}{2.4.7.8}{1032, 230, 2402}

[110] सोमापूषणेतिपडृचस्य सूक्तस्य शौनकोगृत्समदःसोमापूषणौ अंत्यायाःसोमपूषादित्यास्त्रिष्टुप् |
सोमा᳚पूषणा॒जन॑नारयी॒णां¦जन॑नादि॒वोजन॑नापृथि॒व्याः|{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्}

जा॒तौविश्व॑स्य॒भुव॑नस्यगो॒पौ¦दे॒वा,अ॑कृण्वन्न॒मृत॑स्य॒नाभि᳚म्|| {1/6}{2.8.6.1}{2.40.1}{2.4.8.1}{1033, 231, 2403}

इ॒मौदे॒वौजाय॑मानौजुषन्ते॒¦मौतमां᳚सिगूहता॒मजु॑ष्टा|{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्}

आ॒भ्यामिन्द्रः॑प॒क्वमा॒मास्व॒न्तः¦सो᳚मापू॒षभ्यां᳚जनदु॒स्रिया᳚सु|| {2/6}{2.8.6.2}{2.40.2}{2.4.8.2}{1034, 231, 2404}

सोमा᳚पूषणा॒रज॑सोवि॒मानं᳚¦स॒प्तच॑क्रं॒रथ॒मवि॑श्वमिन्वम्|{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्}

वि॒षू॒वृतं॒मन॑सायु॒ज्यमा᳚नं॒¦तंजि᳚न्वथोवृषणा॒पञ्च॑रश्मिम्|| {3/6}{2.8.6.3}{2.40.3}{2.4.8.3}{1035, 231, 2405}

दि॒व्य१॑(अ॒)न्यःसद॑नंच॒क्रउ॒च्चा¦पृ॑थि॒व्याम॒न्यो,अध्य॒न्तरि॑क्षे|{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्}

ताव॒स्मभ्यं᳚पुरु॒वारं᳚पुरु॒क्षुं¦रा॒यस्पोषं॒विष्य॑तां॒नाभि॑म॒स्मे|| {4/6}{2.8.6.4}{2.40.4}{2.4.8.4}{1036, 231, 2406}

विश्वा᳚न्य॒न्योभुव॑नाज॒जान॒¦विश्व॑म॒न्यो,अ॑भि॒चक्षा᳚णएति|{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्}

सोमा᳚पूषणा॒वव॑तं॒धियं᳚मे¦यु॒वाभ्यां॒विश्वाः॒पृत॑नाजयेम|| {5/6}{2.8.6.5}{2.40.5}{2.4.8.5}{1037, 231, 2407}

धियं᳚पू॒षाजि᳚न्वतुविश्वमि॒न्वो¦र॒यिंसोमो᳚रयि॒पति॑र्दधातु|{शौनको गृत्समदः | १/२: सोमापूषणौ, २/२: अदितिदेर्वताः | त्रिष्टुप्}

अव॑तुदे॒व्यदि॑तिरन॒र्वा¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚|| {6/6}{2.8.6.6}{2.40.6}{2.4.8.6}{1038, 231, 2408}

[111] वायोइत्येकविंशत्यृचस्य सूक्तस्य शौनकोगृत्समदः आद्ययोर्द्वयोर्वायुस्तृतीयाया इंद्रवायू चतुर्थ्यादितिसृणांमित्रावरुणौ सप्तम्यादितिसृणामश्विनौ दशम्यादितिसृणाइंद्रः त्रयोदश्यादितिसृणांविश्वेदेवाः षोडश्यादितिसृणांसरस्वती अंत्यानांतिसृणांद्यावापृथिवी (हविर्धानावा) गायत्री अंबितमइतिद्वेअनुष्टुभौ इमाब्रह्मेतिबृहती |
वायो॒येते᳚सह॒स्रिणो॒¦रथा᳚स॒स्तेभि॒राग॑हि|{शौनको गृत्समदः | वायुः | गायत्री}

नि॒युत्वा॒न्‌त्सोम॑पीतये|| {1/21}{2.8.7.1}{2.41.1}{2.4.9.1}{1039, 232, 2409}

नि॒युत्वा᳚न्‌वाय॒वाग॑ह्य॒¦यंशु॒क्रो,अ॑यामिते|{शौनको गृत्समदः | वायुः | गायत्री}

गन्ता᳚सिसुन्व॒तोगृ॒हम्|| {2/21}{2.8.7.2}{2.41.2}{2.4.9.2}{1040, 232, 2410}

शु॒क्रस्या॒द्यगवा᳚शिर॒¦इन्द्र॑वायूनि॒युत्व॑तः|{शौनको गृत्समदः | इंद्रवायू | गायत्री}

आया᳚तं॒पिब॑तंनरा|| {3/21}{2.8.7.3}{2.41.3}{2.4.9.3}{1041, 232, 2411}

अ॒यंवां᳚मित्रावरुणा¦सु॒तःसोम॑ऋतावृधा|{शौनको गृत्समदः | मित्रावरुणौ | गायत्री}

ममेदि॒हश्रु॑तं॒हव᳚म्|| {4/21}{2.8.7.4}{2.41.4}{2.4.9.4}{1042, 232, 2412}

राजा᳚ना॒वन॑भिद्रुहा¦ध्रु॒वेसद॑स्युत्त॒मे|{शौनको गृत्समदः | मित्रावरुणौ | गायत्री}

स॒हस्र॑स्थूणआसाते|| {5/21}{2.8.7.5}{2.41.5}{2.4.9.5}{1043, 232, 2413}

तास॒म्राजा᳚घृ॒तासु॑ती,¦आदि॒त्यादानु॑न॒स्पती᳚|{शौनको गृत्समदः | मित्रावरुणौ | गायत्री}

सचे᳚ते॒,अन॑वह्वरम्|| {6/21}{2.8.8.1}{2.41.6}{2.4.9.6}{1044, 232, 2414}

गोम॑दू॒षुना᳚स॒त्या¦श्वा᳚वद्‌यातमश्विना|{शौनको गृत्समदः | अश्विनौ | गायत्री}

व॒र्तीरु॑द्रानृ॒पाय्य᳚म्|| {7/21}{2.8.8.2}{2.41.7}{2.4.9.7}{1045, 232, 2415}

नयत्‌परो॒नान्त॑र¦आद॒धर्ष॑द्‌वृषण्वसू|{शौनको गृत्समदः | अश्विनौ | गायत्री}

दुः॒शंसो॒मर्त्यो᳚रि॒पुः|| {8/21}{2.8.8.3}{2.41.8}{2.4.9.8}{1046, 232, 2416}

तान॒आवो᳚ळ्हमश्विना¦र॒यिंपि॒शङ्ग॑संदृशम्|{शौनको गृत्समदः | अश्विनौ | गायत्री}

धिष्ण्या᳚वरिवो॒विद᳚म्|| {9/21}{2.8.8.4}{2.41.9}{2.4.9.9}{1047, 232, 2417}

इन्द्रो᳚अ॒ङ्गम॒हद्‌भ॒य¦म॒भीषदप॑चुच्यवत्|{शौनको गृत्समदः | इन्द्रः | गायत्री}

सहिस्थि॒रोविच॑र्षणिः|| {10/21}{2.8.8.5}{2.41.10}{2.4.9.10}{1048, 232, 2418}

इन्द्र॑श्चमृ॒ळया᳚तिनो॒¦ननः॑प॒श्चाद॒घंन॑शत्|{शौनको गृत्समदः | इन्द्रः | गायत्री}

भ॒द्रंभ॑वातिनःपु॒रः|| {11/21}{2.8.9.1}{2.41.11}{2.4.9.11}{1049, 232, 2419}

इन्द्र॒आशा᳚भ्य॒स्परि॒¦सर्वा᳚भ्यो॒,अभ॑यंकरत्|{शौनको गृत्समदः | इन्द्रः | गायत्री}

जेता॒शत्रू॒न्‌विच॑र्षणिः|| {12/21}{2.8.9.2}{2.41.12}{2.4.9.12}{1050, 232, 2420}

विश्वे᳚देवास॒आग॑त¦शृणु॒ताम॑इ॒मंहव᳚म्|{शौनको गृत्समदः | विश्वदेवाः | गायत्री}

एदंब॒र्हिर्निषी᳚दत|| {13/21}{2.8.9.3}{2.41.13}{2.4.9.13}{1051, 232, 2421}

ती॒व्रोवो॒मधु॑माँ,अ॒यं¦शु॒नहो᳚त्रेषुमत्स॒रः|{शौनको गृत्समदः | विश्वदेवाः | गायत्री}

ए॒तंपि॑बत॒काम्य᳚म्|| {14/21}{2.8.9.4}{2.41.14}{2.4.9.14}{1052, 232, 2422}

इन्द्र॑ज्येष्ठा॒मरु॑द्गणा॒¦देवा᳚सः॒पूष॑रातयः|{शौनको गृत्समदः | विश्वदेवाः | गायत्री}

विश्वे॒मम॑श्रुता॒हव᳚म्|| {15/21}{2.8.9.5}{2.41.15}{2.4.9.15}{1053, 232, 2423}

अम्बि॑तमे॒नदी᳚तमे॒¦देवि॑तमे॒सर॑स्वति|{शौनको गृत्समदः | सरस्वती | अनुष्टुप्}

अ॒प्र॒श॒स्ता,इ॑वस्मसि॒¦प्रश॑स्तिमम्बनस्कृधि|| {16/21}{2.8.10.1}{2.41.16}{2.4.9.16}{1054, 232, 2424}

त्वेविश्वा᳚सरस्वति¦श्रि॒तायूं᳚षिदे॒व्याम्|{शौनको गृत्समदः | सरस्वती | अनुष्टुप्}

शु॒नहो᳚त्रेषुमत्स्व¦प्र॒जांदे᳚विदिदिड्ढिनः|| {17/21}{2.8.10.2}{2.41.17}{2.4.9.17}{1055, 232, 2425}

इ॒माब्रह्म॑सरस्वति¦जु॒षस्व॑वाजिनीवति|{शौनको गृत्समदः | सरस्वती | बृहती}

याते॒मन्म॑गृत्सम॒दा,ऋ॑तावरि¦प्रि॒यादे॒वेषु॒जुह्व॑ति|| {18/21}{2.8.10.3}{2.41.18}{2.4.9.18}{1056, 232, 2426}

प्रेतां᳚य॒ज्ञस्य॑श॒म्भुवा᳚¦यु॒वामिदावृ॑णीमहे|{शौनको गृत्समदः | द्यावापृथिव्यौ हविर्धाने वा | गायत्री}

अ॒ग्निंच॑हव्य॒वाह॑नम्|| {19/21}{2.8.10.4}{2.41.19}{2.4.9.19}{1057, 232, 2427}

द्यावा᳚नःपृथि॒वी,इ॒मं¦सि॒ध्रम॒द्यदि॑वि॒स्पृश᳚म्|{शौनको गृत्समदः | द्यावापृथिव्यौ हविर्धाने वा | गायत्री}

य॒ज्ञंदे॒वेषु॑यच्छताम्|| {20/21}{2.8.10.5}{2.41.20}{2.4.9.20}{1058, 232, 2428}

आवा᳚मु॒पस्थ॑मद्रुहा¦दे॒वाःसी᳚दन्तुय॒ज्ञियाः᳚|{शौनको गृत्समदः | द्यावापृथिव्यौ हविर्धाने वा | गायत्री}

इ॒हाद्यसोम॑पीतये|| {21/21}{2.8.10.6}{2.41.21}{2.4.9.21}{1059, 232, 2429}

[112] कनिक्रददिति तृचस्य सूक्तस्य शौनकोगृत्समदःशकुंतस्त्रिष्टुप् |
कनि॑क्रदज्ज॒नुषं᳚प्रब्रुवा॒ण¦इय॑र्ति॒वाच॑मरि॒तेव॒नाव᳚म्|{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | त्रिष्टुप्}

सु॒म॒ङ्गल॑श्चशकुने॒भवा᳚सि॒¦मात्वा॒काचि॑दभि॒भाविश्व्या᳚विदत्|| {1/3}{2.8.11.1}{2.42.1}{2.4.10.1}{1060, 233, 2430}

मात्वा᳚श्ये॒नउद्‌व॑धी॒न्मासु॑प॒र्णो¦मात्वा᳚विद॒दिषु॑मान्‌वी॒रो,अस्ता᳚|{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | त्रिष्टुप्}

पित्र्या॒मनु॑प्र॒दिशं॒कनि॑क्रदत्¦सुम॒ङ्गलो᳚भद्रवा॒दीव॑दे॒ह|| {2/3}{2.8.11.2}{2.42.2}{2.4.10.2}{1061, 233, 2431}

अव॑क्रन्ददक्षिण॒तोगृ॒हाणां᳚¦सुम॒ङ्गलो᳚भद्रवा॒दीश॑कुन्ते|{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | त्रिष्टुप्}

मानः॑स्ते॒नई᳚शत॒माघशं᳚सो¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚|| {3/3}{2.8.11.3}{2.42.3}{2.4.10.3}{1062, 233, 2432}

[113] प्रदक्षिणिदिति तृचस्य सूक्तस्य शौनकोगृत्समदः शकुंतोजगती द्वितीयातिशक्वरी अष्टिर्वा |
प्र॒द॒क्षि॒णिद॒भिगृ॑णन्तिका॒रवो॒¦वयो॒वद᳚न्तऋतु॒थाश॒कुन्त॑यः|{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | जगती}

उ॒भेवाचौ᳚वदतिसाम॒गा,इ॑व¦गाय॒त्रंच॒त्रैष्टु॑भं॒चानु॑राजति|| {1/3}{2.8.12.1}{2.43.1}{2.4.11.1}{1063, 234, 2433}

उ॒द्गा॒तेव॑शकुने॒साम॑गायसि¦ब्रह्मपु॒त्रइ॑व॒सव॑नेषुशंससि|{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | अतिशक्वरी अष्टिर्वा}

वृषे᳚ववा॒जीशिशु॑मतीर॒पीत्या᳚¦स॒र्वतो᳚नःशकुनेभ॒द्रमाव॑द¦वि॒श्वतो᳚नःशकुने॒पुण्य॒माव॑द|| {2/3}{2.8.12.2}{2.43.2}{2.4.11.2}{1064, 234, 2434}

आ॒वदँ॒स्त्वंश॑कुनेभ॒द्रमाव॑द¦तू॒ष्णीमासी᳚नःसुम॒तिंचि॑किद्धिनः|{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | जगती}

यदु॒त्पत॒न्‌वद॑सिकर्क॒रिर्य॑था¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚|| {3/3}{2.8.12.3}{2.43.3}{2.4.11.3}{1065, 234, 2435}

[114] सोमस्यमेति त्रयोविंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् |
सोम॑स्यमात॒वसं॒वक्ष्य॑ग्ने॒¦वह्निं᳚चकर्थवि॒दथे॒यज॑ध्यै|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दे॒वाँ,अच्छा॒दीद्य॑द्‌यु॒ञ्जे,अद्रिं᳚¦शमा॒ये,अ॑ग्नेत॒न्वं᳚जुषस्व|| {1/23}{2.8.13.1}{3.1.1}{3.1.1.1}{1066, 235, 2436}

प्राञ्चं᳚य॒ज्ञंच॑कृम॒वर्ध॑तां॒गीः¦स॒मिद्भि॑र॒ग्निंनम॑सादुवस्यन्|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दि॒वःश॑शासुर्वि॒दथा᳚कवी॒नां¦गृत्सा᳚यचित्त॒वसे᳚गा॒तुमी᳚षुः|| {2/23}{2.8.13.2}{3.1.2}{3.1.1.2}{1067, 235, 2437}

मयो᳚दधे॒मेधि॑रःपू॒तद॑क्षो¦दि॒वःसु॒बन्धु॑र्ज॒नुषा᳚पृथि॒व्याः|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अवि᳚न्दन्नुदर्श॒तम॒प्स्व१॑(अ॒)न्त¦र्दे॒वासो᳚अ॒ग्निम॒पसि॒स्वसॄ᳚णाम्|| {3/23}{2.8.13.3}{3.1.3}{3.1.1.3}{1068, 235, 2438}

अव॑र्धयन्‌त्सु॒भगं᳚स॒प्तय॒ह्वीः¦श्वे॒तंज॑ज्ञा॒नम॑रु॒षंम॑हि॒त्वा|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

शिशुं॒नजा॒तम॒भ्या᳚रु॒रश्वा᳚¦दे॒वासो᳚अ॒ग्निंजनि॑मन्‌वपुष्यन्|| {4/23}{2.8.13.4}{3.1.4}{3.1.1.4}{1069, 235, 2439}

शु॒क्रेभि॒रङ्गै॒रज॑आतत॒न्वान्¦क्रतुं᳚पुना॒नःक॒विभिः॑प॒वित्रैः᳚|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

शो॒चिर्वसा᳚नः॒पर्यायु॑र॒पां¦श्रियो᳚मिमीतेबृह॒तीरनू᳚नाः|| {5/23}{2.8.13.5}{3.1.5}{3.1.1.5}{1070, 235, 2440}

व॒व्राजा᳚सी॒मन॑दती॒रद॑ब्धा¦दि॒वोय॒ह्वीरव॑साना॒,अन॑ग्नाः|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

सना॒,अत्र॑युव॒तयः॒सयो᳚नी॒¦रेकं॒गर्भं᳚दधिरेस॒प्तवाणीः᳚|| {6/23}{2.8.14.1}{3.1.6}{3.1.1.6}{1071, 235, 2441}

स्ती॒र्णा,अ॑स्यसं॒हतो᳚वि॒श्वरू᳚पा¦घृ॒तस्य॒योनौ᳚स्र॒वथे॒मधू᳚नाम्|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अस्थु॒रत्र॑धे॒नवः॒पिन्व॑माना¦म॒हीद॒स्मस्य॑मा॒तरा᳚समी॒ची|| {7/23}{2.8.14.2}{3.1.7}{3.1.1.7}{1072, 235, 2442}

ब॒भ्रा॒णःसू᳚नोसहसो॒व्य॑द्यौ॒द्¦दधा᳚नःशु॒क्रार॑भ॒सावपूं᳚षि|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

श्चोत᳚न्ति॒धारा॒मधु॑नोघृ॒तस्य॒¦वृषा॒यत्र॑वावृ॒धेकाव्ये᳚न|| {8/23}{2.8.14.3}{3.1.8}{3.1.1.8}{1073, 235, 2443}

पि॒तुश्चि॒दूध॑र्ज॒नुषा᳚विवेद॒¦व्य॑स्य॒धारा᳚असृज॒द्‌विधेनाः᳚|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

गुहा॒चर᳚न्तं॒सखि॑भिःशि॒वेभि॑¦र्दि॒वोय॒ह्वीभि॒र्नगुहा᳚बभूव|| {9/23}{2.8.14.4}{3.1.9}{3.1.1.9}{1074, 235, 2444}

पि॒तुश्च॒गर्भं᳚जनि॒तुश्च॑बभ्रे¦पू॒र्वीरेको᳚अधय॒त्‌पीप्या᳚नाः|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

वृष्णे᳚स॒पत्नी॒शुच॑ये॒सब᳚न्धू,¦उ॒भे,अ॑स्मैमनु॒ष्ये॒३॑(ए॒)निपा᳚हि|| {10/23}{2.8.14.5}{3.1.10}{3.1.1.10}{1075, 235, 2445}

उ॒रौम॒हाँ,अ॑निबा॒धेव॑व॒र्धा¦ऽऽपो᳚अ॒ग्निंय॒शसः॒संहिपू॒र्वीः|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

ऋ॒तस्य॒योना᳚वशय॒द्दमू᳚ना¦जामी॒नाम॒ग्निर॒पसि॒स्वसॄ᳚णाम्|| {11/23}{2.8.15.1}{3.1.11}{3.1.1.11}{1076, 235, 2446}

अ॒क्रोनब॒भ्रिःस॑मि॒थेम॒हीनां᳚¦दिदृ॒क्षेयः॑सू॒नवे॒भाऋ॑जीकः|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

उदु॒स्रिया॒जनि॑ता॒योज॒जाना॒¦पांगर्भो॒नृत॑मोय॒ह्वो,अ॒ग्निः|| {12/23}{2.8.15.2}{3.1.12}{3.1.1.12}{1077, 235, 2447}

अ॒पांगर्भं᳚दर्श॒तमोष॑धीनां॒¦वना᳚जजानसु॒भगा॒विरू᳚पम्|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दे॒वास॑श्चि॒न्मन॑सा॒संहिज॒ग्मुः¦पनि॑ष्ठंजा॒तंत॒वसं᳚दुवस्यन्|| {13/23}{2.8.15.3}{3.1.13}{3.1.1.13}{1078, 235, 2448}

बृ॒हन्त॒इद्‌भा॒नवो॒भाऋ॑जीक¦म॒ग्निंस॑चन्तवि॒द्युतो॒नशु॒क्राः|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

गुहे᳚ववृ॒द्धंसद॑सि॒स्वे,अ॒न्त¦र॑पा॒रऊ॒र्वे,अ॒मृतं॒दुहा᳚नाः|| {14/23}{2.8.15.4}{3.1.14}{3.1.1.14}{1079, 235, 2449}

ईळे᳚चत्वा॒यज॑मानोह॒विर्भि॒¦रीळे᳚सखि॒त्वंसु॑म॒तिंनिका᳚मः|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दे॒वैरवो᳚मिमीहि॒संज॑रि॒त्रे¦रक्षा᳚चनो॒दम्ये᳚भि॒रनी᳚कैः|| {15/23}{2.8.15.5}{3.1.15}{3.1.1.15}{1080, 235, 2450}

उ॒प॒क्षे॒तार॒स्तव॑सुप्रणी॒ते¦ऽग्ने॒विश्वा᳚नि॒धन्या॒दधा᳚नाः|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

सु॒रेत॑सा॒श्रव॑सा॒तुञ्ज॑माना,¦अ॒भिष्या᳚मपृतना॒यूँरदे᳚वान्|| {16/23}{2.8.16.1}{3.1.16}{3.1.1.16}{1081, 235, 2451}

आदे॒वाना᳚मभवःके॒तुर॑ग्ने¦म॒न्द्रोविश्वा᳚नि॒काव्या᳚निवि॒द्वान्|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

प्रति॒मर्ताँ᳚,अवासयो॒दमू᳚ना॒,¦अनु॑दे॒वान्र॑थि॒रोया᳚सि॒साध॑न्|| {17/23}{2.8.16.2}{3.1.17}{3.1.1.17}{1082, 235, 2452}

निदु॑रो॒णे,अ॒मृतो॒मर्त्या᳚नां॒¦राजा᳚ससादवि॒दथा᳚नि॒साध॑न्|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

घृ॒तप्र॑तीकउर्वि॒याव्य॑द्यौ¦द॒ग्निर्विश्वा᳚नि॒काव्या᳚निवि॒द्वान्|| {18/23}{2.8.16.3}{3.1.18}{3.1.1.18}{1083, 235, 2453}

आनो᳚गहिस॒ख्येभिः॑शि॒वेभि᳚¦र्म॒हान्‌म॒हीभि॑रू॒तिभिः॑सर॒ण्यन्|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अ॒स्मेर॒यिंब॑हु॒लंसंत॑रुत्रं¦सु॒वाचं᳚भा॒गंय॒शसं᳚कृधीनः|| {19/23}{2.8.16.4}{3.1.19}{3.1.1.19}{1084, 235, 2454}

ए॒ताते᳚अग्ने॒जनि॑मा॒सना᳚नि॒¦प्रपू॒र्व्याय॒नूत॑नानिवोचम्|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

म॒हान्ति॒वृष्णे॒सव॑नाकृ॒तेमा¦जन्म᳚ञ्जन्म॒न्‌निहि॑तोजा॒तवे᳚दाः|| {20/23}{2.8.16.5}{3.1.20}{3.1.1.20}{1085, 235, 2455}

जन्म᳚ञ्जन्म॒न्‌निहि॑तोजा॒तवे᳚दा¦वि॒श्वामि॑त्रेभिरिध्यते॒,अज॑स्रः|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

तस्य॑व॒यंसु॑म॒तौय॒ज्ञिय॒स्या¦पि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म|| {21/23}{2.8.16.6}{3.1.21}{3.1.1.21}{1086, 235, 2456}

इ॒मंय॒ज्ञंस॑हसाव॒न्त्वंनो᳚¦देव॒त्राधे᳚हिसुक्रतो॒ररा᳚णः|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

प्रयं᳚सिहोतर्बृह॒तीरिषो॒नो¦ऽग्ने॒महि॒द्रवि॑ण॒माय॑जस्व|| {22/23}{2.8.16.7}{3.1.22}{3.1.1.22}{1087, 235, 2457}

इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे|| {23/23}{2.8.16.8}{3.1.23}{3.1.1.23}{1088, 235, 2458}

[115] वैश्वानरायेति पंचदशर्चस्य सूक्तस्य गाथिनो विश्वामित्रो वैश्वानरोग्निर्जगती |
वै॒श्वा॒न॒राय॑धि॒षणा᳚मृता॒वृधे᳚¦घृ॒तंनपू॒तम॒ग्नये᳚जनामसि|{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

द्वि॒ताहोता᳚रं॒मनु॑षश्चवा॒घतो᳚¦धि॒यारथं॒नकुलि॑शः॒समृ᳚ण्वति|| {1/15}{2.8.17.1}{3.2.1}{3.1.2.1}{1089, 236, 2459}

सरो᳚चयज्ज॒नुषा॒रोद॑सी,उ॒भे¦समा॒त्रोर॑भवत्‌पु॒त्रईड्यः॑|{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

ह॒व्य॒वाळ॒ग्निर॒जर॒श्चनो᳚हितो¦दू॒ळभो᳚वि॒शामति॑थिर्वि॒भाव॑सुः|| {2/15}{2.8.17.2}{3.2.2}{3.1.2.2}{1090, 236, 2460}

क्रत्वा॒दक्ष॑स्य॒तरु॑षो॒विध᳚र्मणि¦दे॒वासो᳚अ॒ग्निंज॑नयन्त॒चित्ति॑भिः|{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

रु॒रु॒चा॒नंभा॒नुना॒ज्योति॑षाम॒हा¦मत्यं॒नवाजं᳚सनि॒ष्यन्नुप॑ब्रुवे|| {3/15}{2.8.17.3}{3.2.3}{3.1.2.3}{1091, 236, 2461}

आम॒न्द्रस्य॑सनि॒ष्यन्तो॒वरे᳚ण्यं¦वृणी॒महे॒,अह्र॑यं॒वाज॑मृ॒ग्मिय᳚म्|{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

रा॒तिंभृगू᳚णामु॒शिजं᳚क॒विक्र॑तु¦म॒ग्निंराज᳚न्तंदि॒व्येन॑शो॒चिषा᳚|| {4/15}{2.8.17.4}{3.2.4}{3.1.2.4}{1092, 236, 2462}

अ॒ग्निंसु॒म्नाय॑दधिरेपु॒रोजना॒¦वाज॑श्रवसमि॒हवृ॒क्तब᳚र्हिषः|{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

य॒तस्रु॑चःसु॒रुचं᳚वि॒श्वदे᳚व्यं¦रु॒द्रंय॒ज्ञानां॒साध॑दिष्टिम॒पसा᳚म्|| {5/15}{2.8.17.5}{3.2.5}{3.1.2.5}{1093, 236, 2463}

पाव॑कशोचे॒तव॒हिक्षयं॒परि॒¦होत᳚र्य॒ज्ञेषु॑वृ॒क्तब᳚र्हिषो॒नरः॑|{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

अग्ने॒दुव॑इ॒च्छमा᳚नास॒आप्य॒¦मुपा᳚सते॒द्रवि॑णंधेहि॒तेभ्यः॑|| {6/15}{2.8.18.1}{3.2.6}{3.1.2.6}{1094, 236, 2464}

आरोद॑सी,अपृण॒दास्व᳚र्म॒ह¦ज्जा॒तंयदे᳚नम॒पसो॒,अधा᳚रयन्|{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

सो,अ॑ध्व॒राय॒परि॑णीयतेक॒वि¦रत्यो॒नवाज॑सातये॒चनो᳚हितः|| {7/15}{2.8.18.2}{3.2.7}{3.1.2.7}{1095, 236, 2465}

न॒म॒स्यत॑ह॒व्यदा᳚तिंस्वध्व॒रं¦दु॑व॒स्यत॒दम्यं᳚जा॒तवे᳚दसम्|{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

र॒थीरृ॒तस्य॑बृह॒तोविच॑र्षणि¦र॒ग्निर्दे॒वाना᳚मभवत्‌पु॒रोहि॑तः|| {8/15}{2.8.18.3}{3.2.8}{3.1.2.8}{1096, 236, 2466}

ति॒स्रोय॒ह्वस्य॑स॒मिधः॒परि॑ज्मनो॒¦ऽग्नेर॑पुनन्नु॒शिजो॒,अमृ॑त्यवः|{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

तासा॒मेका॒मद॑धु॒र्मर्त्ये॒भुज॑¦मुलो॒कमु॒द्वे,उप॑जा॒मिमी᳚यतुः|| {9/15}{2.8.18.4}{3.2.9}{3.1.2.9}{1097, 236, 2467}

वि॒शांक॒विंवि॒श्पतिं॒मानु॑षी॒रिषः॒¦संसी᳚मकृण्व॒न्‌त्स्वधि॑तिं॒नतेज॑से|{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

सउ॒द्वतो᳚नि॒वतो᳚याति॒वेवि॑ष॒त्¦सगर्भ॑मे॒षुभुव॑नेषुदीधरत्|| {10/15}{2.8.18.5}{3.2.10}{3.1.2.10}{1098, 236, 2468}

सजि᳚न्वतेज॒ठरे᳚षुप्रजज्ञि॒वान्¦वृषा᳚चि॒त्रेषु॒नान॑द॒न्नसिं॒हः|{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

वै॒श्वा॒न॒रःपृ॑थु॒पाजा॒,अम॑र्त्यो॒¦वसु॒रत्ना॒दय॑मानो॒विदा॒शुषे᳚|| {11/15}{2.8.19.1}{3.2.11}{3.1.2.11}{1099, 236, 2469}

वै॒श्वा॒न॒रःप्र॒त्नथा॒नाक॒मारु॑हद्¦दि॒वस्पृ॒ष्ठंभन्द॑मानःसु॒मन्म॑भिः|{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

सपू᳚र्व॒वज्ज॒नय᳚ञ्ज॒न्तवे॒धनं᳚¦समा॒नमज्मं॒पर्ये᳚ति॒जागृ॑विः|| {12/15}{2.8.19.2}{3.2.12}{3.1.2.12}{1100, 236, 2470}

ऋ॒तावा᳚नंय॒ज्ञियं॒विप्र॑मु॒क्थ्य१॑(अ॒)¦मायंद॒धेमा᳚त॒रिश्वा᳚दि॒विक्षय᳚म्|{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

तंचि॒त्रया᳚मं॒हरि॑केशमीमहे¦सुदी॒तिम॒ग्निंसु॑वि॒ताय॒नव्य॑से|| {13/15}{2.8.19.3}{3.2.13}{3.1.2.13}{1101, 236, 2471}

शुचिं॒नयाम᳚न्निषि॒रंस्व॒र्दृशं᳚¦के॒तुंदि॒वोरो᳚चन॒स्थामु॑ष॒र्बुध᳚म्|{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

अ॒ग्निंमू॒र्धानं᳚दि॒वो,अप्र॑तिष्कुतं॒¦तमी᳚महे॒नम॑सावा॒जिनं᳚बृ॒हत्|| {14/15}{2.8.19.4}{3.2.14}{3.1.2.14}{1102, 236, 2472}

म॒न्द्रंहोता᳚रं॒शुचि॒मद्व॑याविनं॒¦दमू᳚नसमु॒क्थ्यं᳚वि॒श्वच॑र्षणिम्|{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

रथं॒नचि॒त्रंवपु॑षायदर्श॒तं¦मनु᳚र्हितं॒सद॒मिद्रा॒यई᳚महे|| {15/15}{2.8.19.5}{3.2.15}{3.1.2.15}{1103, 236, 2473}

[116] वैश्वानरायेत्येकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्रो वैश्वानरोग्निर्जगती |
वै॒श्वा॒न॒राय॑पृथु॒पाज॑से॒विपो॒¦रत्ना᳚विधन्तध॒रुणे᳚षु॒गात॑वे|{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

अ॒ग्निर्हिदे॒वाँ,अ॒मृतो᳚दुव॒स्य¦त्यथा॒धर्मा᳚णिस॒नता॒नदू᳚दुषत्|| {1/11}{2.8.20.1}{3.3.1}{3.1.3.1}{1104, 237, 2474}

अ॒न्तर्दू॒तोरोद॑सीद॒स्मई᳚यते॒¦होता॒निष॑त्तो॒मनु॑षःपु॒रोहि॑तः|{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

क्षयं᳚बृ॒हन्तं॒परि॑भूषति॒द्युभि॑¦र्दे॒वेभि॑र॒ग्निरि॑षि॒तोधि॒याव॑सुः|| {2/11}{2.8.20.2}{3.3.2}{3.1.3.2}{1105, 237, 2475}

के॒तुंय॒ज्ञानां᳚वि॒दथ॑स्य॒साध॑नं॒¦विप्रा᳚सो,अ॒ग्निंम॑हयन्त॒चित्ति॑भिः|{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

अपां᳚सि॒यस्मि॒न्नधि॑संद॒धुर्गिर॒¦स्तस्मि᳚न्‌त्सु॒म्नानि॒यज॑मान॒आच॑के|| {3/11}{2.8.20.3}{3.3.3}{3.1.3.3}{1106, 237, 2476}

पि॒ताय॒ज्ञाना॒मसु॑रोविप॒श्चितां᳚¦वि॒मान॑म॒ग्निर्व॒युनं᳚चवा॒घता᳚म्|{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

आवि॑वेश॒रोद॑सी॒भूरि॑वर्पसा¦पुरुप्रि॒योभ᳚न्दते॒धाम॑भिःक॒विः|| {4/11}{2.8.20.4}{3.3.4}{3.1.3.4}{1107, 237, 2477}

च॒न्द्रम॒ग्निंच॒न्द्रर॑थं॒हरि᳚व्रतं¦वैश्वान॒रम॑प्सु॒षदं᳚स्व॒र्विद᳚म्|{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

वि॒गा॒हंतूर्णिं॒तवि॑षीभि॒रावृ॑तं॒¦भूर्णिं᳚दे॒वास॑इ॒हसु॒श्रियं᳚दधुः|| {5/11}{2.8.20.5}{3.3.5}{3.1.3.5}{1108, 237, 2478}

अ॒ग्निर्दे॒वेभि॒र्मनु॑षश्चज॒न्तुभि॑¦स्तन्वा॒नोय॒ज्ञंपु॑रु॒पेश॑संधि॒या|{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

र॒थीर॒न्तरी᳚यते॒साध॑दिष्टिभि¦र्जी॒रोदमू᳚ना,अभिशस्ति॒चात॑नः|| {6/11}{2.8.21.1}{3.3.6}{3.1.3.6}{1109, 237, 2479}

अग्ने॒जर॑स्वस्वप॒त्यआयु᳚¦न्यू॒र्जापि᳚न्वस्व॒समिषो᳚दिदीहिनः|{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

वयां᳚सिजिन्वबृह॒तश्च॑जागृव¦उ॒शिग्दे॒वाना॒मसि॑सु॒क्रतु᳚र्वि॒पाम्|| {7/11}{2.8.21.2}{3.3.7}{3.1.3.7}{1110, 237, 2480}

वि॒श्पतिं᳚य॒ह्वमति॑थिं॒नरः॒सदा᳚¦य॒न्तारं᳚धी॒नामु॒शिजं᳚चवा॒घता᳚म्|{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

अ॒ध्व॒राणां॒चेत॑नंजा॒तवे᳚दसं॒¦प्रशं᳚सन्ति॒नम॑साजू॒तिभि᳚र्वृ॒धे|| {8/11}{2.8.21.3}{3.3.8}{3.1.3.8}{1111, 237, 2481}

वि॒भावा᳚दे॒वःसु॒रणः॒परि॑क्षि॒ती¦र॒ग्निर्ब॑भूव॒शव॑सासु॒मद्र॑थः|{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

तस्य᳚व्र॒तानि॑भूरिपो॒षिणो᳚व॒य¦मुप॑भूषेम॒दम॒आसु॑वृ॒क्तिभिः॑|| {9/11}{2.8.21.4}{3.3.9}{3.1.3.9}{1112, 237, 2482}

वैश्वा᳚नर॒तव॒धामा॒न्याच॑के॒¦येभिः॑स्व॒र्विदभ॑वोविचक्षण|{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

जा॒तआपृ॑णो॒भुव॑नानि॒रोद॑सी॒,¦अग्ने॒ताविश्वा᳚परि॒भूर॑सि॒त्मना᳚|| {10/11}{2.8.21.5}{3.3.10}{3.1.3.10}{1113, 237, 2483}

वै॒श्वा॒न॒रस्य॑दं॒सना᳚भ्योबृ॒ह¦दरि॑णा॒देकः॑स्वप॒स्यया᳚क॒विः|{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

उ॒भापि॒तरा᳚म॒हय᳚न्नजायता॒¦ग्निर्द्यावा᳚पृथि॒वीभूरि॑रेतसा|| {11/11}{2.8.21.6}{3.3.11}{3.1.3.11}{1114, 237, 2484}

[117] समित्समिदित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रइध्मस्तनूनपादिळोबर्हिर्देवीर्द्वारउषासानक्तादैव्यौ होतारौ सरस्वतीळाभारत्यस्त्वष्टावनस्पतिस्वाहाकृतयइतिक्रमेणदेवतास्त्रिष्टुप् |
स॒मित्स॑मित्‌सु॒मना᳚बोध्य॒स्मे¦शु॒चाशु॑चासुम॒तिंरा᳚सि॒वस्वः॑|{गाथिनो विश्वामित्रः | इध्मः समिद्धोऽग्निर्वा | त्रिष्टुप्}

आदे᳚वदे॒वान्‌य॒जथा᳚यवक्षि॒¦सखा॒सखी᳚न्‌त्सु॒मना᳚यक्ष्यग्ने|| {1/11}{2.8.22.1}{3.4.1}{3.1.4.1}{1115, 238, 2485}

यंदे॒वास॒स्त्रिरह᳚न्ना॒यज᳚न्ते¦दि॒वेदि॑वे॒वरु॑णोमि॒त्रो,अ॒ग्निः|{गाथिनो विश्वामित्रः | तनूनपात् | त्रिष्टुप्}

सेमंय॒ज्ञंमधु॑मन्तंकृधीन॒¦स्तनू᳚नपाद्‌घृ॒तयो᳚निंवि॒धन्त᳚म्|| {2/11}{2.8.22.2}{3.4.2}{3.1.4.2}{1116, 238, 2486}

प्रदीधि॑तिर्वि॒श्ववा᳚राजिगाति॒¦होता᳚रमि॒ळःप्र॑थ॒मंयज॑ध्यै|{गाथिनो विश्वामित्रः | इळः | त्रिष्टुप्}

अच्छा॒नमो᳚भिर्वृष॒भंव॒न्दध्यै॒¦सदे॒वान्‌य॑क्षदिषि॒तोयजी᳚यान्|| {3/11}{2.8.22.3}{3.4.3}{3.1.4.3}{1117, 238, 2487}

ऊ॒र्ध्वोवां᳚गा॒तुर॑ध्व॒रे,अ॑का¦र्यू॒र्ध्वाशो॒चींषि॒प्रस्थि॑ता॒रजां᳚सि|{गाथिनो विश्वामित्रः | बर्हिः | त्रिष्टुप्}

दि॒वोवा॒नाभा॒न्य॑सादि॒होता᳚¦स्तृणी॒महि॑दे॒वव्य॑चा॒विब॒र्हिः|| {4/11}{2.8.22.4}{3.4.4}{3.1.4.4}{1118, 238, 2488}

स॒प्तहो॒त्राणि॒मन॑सावृणा॒ना,¦इन्व᳚न्तो॒विश्वं॒प्रति॑यन्नृ॒तेन॑|{गाथिनो विश्वामित्रः | देवीर्द्वारः | त्रिष्टुप्}

नृ॒पेश॑सोवि॒दथे᳚षु॒प्रजा॒ता,¦अ॒भी॒३॑(ई॒)मंय॒ज्ञंविच॑रन्तपू॒र्वीः|| {5/11}{2.8.22.5}{3.4.5}{3.1.4.5}{1119, 238, 2489}

आभन्द॑माने,उ॒षसा॒,उपा᳚के,¦उ॒तस्म॑येतेत॒न्वा॒३॑(आ॒)विरू᳚पे|{गाथिनो विश्वामित्रः | उषासानक्ता | त्रिष्टुप्}

यथा᳚नोमि॒त्रोवरु॑णो॒जुजो᳚ष॒¦दिन्द्रो᳚म॒रुत्वाँ᳚,उ॒तवा॒महो᳚भिः|| {6/11}{2.8.23.1}{3.4.6}{3.1.4.6}{1120, 238, 2490}

दैव्या॒होता᳚राप्रथ॒मान्यृ᳚ञ्जे¦स॒प्तपृ॒क्षासः॑स्व॒धया᳚मदन्ति|{गाथिनो विश्वामित्रः | दैव्यौ होतारौ प्रचेतसौ | त्रिष्टुप्}

ऋ॒तंशंस᳚न्तऋ॒तमित्तआ᳚हु॒¦रनु᳚व्र॒तंव्र॑त॒पादीध्या᳚नाः|| {7/11}{2.8.23.2}{3.4.7}{3.1.4.7}{1121, 238, 2491}

आभार॑ती॒भार॑तीभिःस॒जोषा॒,¦इळा᳚दे॒वैर्म॑नु॒ष्ये᳚भिर॒ग्निः|{गाथिनो विश्वामित्रः | तिस्रो देव्यः सरस्वतीळाभारत्यः | त्रिष्टुप्}

सर॑स्वतीसारस्व॒तेभि॑र॒र्वाक्¦ति॒स्रोदे॒वीर्ब॒र्हिरेदंस॑दन्तु|| {8/11}{2.8.23.3}{3.4.8}{3.1.4.8}{1122, 238, 2492}

तन्न॑स्तु॒रीप॒मध॑पोषयि॒त्नु¦देव॑त्वष्ट॒र्विर॑रा॒णःस्य॑स्व|{गाथिनो विश्वामित्रः | त्वष्टाः | त्रिष्टुप्}

यतो᳚वी॒रःक᳚र्म॒ण्यः॑सु॒दक्षो᳚¦यु॒क्तग्रा᳚वा॒जाय॑तेदे॒वका᳚मः|| {9/11}{2.8.23.4}{3.4.9}{3.1.4.9}{1123, 238, 2493}

वन॑स्प॒तेऽव॑सृ॒जोप॑दे॒वा¦न॒ग्निर्ह॒विःश॑मि॒तासू᳚दयाति|{गाथिनो विश्वामित्रः | वनस्पतिः | त्रिष्टुप्}

सेदु॒होता᳚स॒त्यत॑रोयजाति॒¦यथा᳚दे॒वानां॒जनि॑मानि॒वेद॑|| {10/11}{2.8.23.5}{3.4.10}{3.1.4.10}{1124, 238, 2494}

आया᳚ह्यग्नेसमिधा॒नो,अ॒र्वाङ्¦इन्द्रे᳚णदे॒वैःस॒रथं᳚तु॒रेभिः॑|{गाथिनो विश्वामित्रः | स्वाहाकृतयः | त्रिष्टुप्}

ब॒र्हिर्न॒आस्ता॒मदि॑तिःसुपु॒त्रा¦स्वाहा᳚दे॒वा,अ॒मृता᳚मादयन्ताम्|| {11/11}{2.8.23.6}{3.4.11}{3.1.4.11}{1125, 238, 2495}

[118] प्रत्यग्निरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् (प्रत्यग्निःप्रकारवः सूक्तयोरन्त्यासांद्यावापृथिव्यादीनांनिपातादृश्यन्तेअतस्तयोर्लिंगोक्तादेवताः पाक्षिकाः) |
प्रत्य॒ग्निरु॒षस॒श्चेकि॑ता॒नो¦ऽबो᳚धि॒विप्रः॑पद॒वीःक॑वी॒नाम्|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

पृ॒थु॒पाजा᳚देव॒यद्भिः॒समि॒द्धो¦ऽप॒द्वारा॒तम॑सो॒वह्नि॑रावः|| {1/11}{2.8.24.1}{3.5.1}{3.1.5.1}{1126, 239, 2496}

प्रेद्व॒ग्निर्वा᳚वृधे॒स्तोमे᳚भि¦र्गी॒र्भिःस्तो᳚तॄ॒णांन॑म॒स्य॑उ॒क्थैः|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

पू॒र्वीरृ॒तस्य॑सं॒दृश॑श्चका॒नः¦संदू॒तो,अ॑द्यौदु॒षसो᳚विरो॒के|| {2/11}{2.8.24.2}{3.5.2}{3.1.5.2}{1127, 239, 2497}

अधा᳚य्य॒ग्निर्मानु॑षीषुवि॒क्ष्व१॑(अ॒)¦पांगर्भो᳚मि॒त्रऋ॒तेन॒साध॑न्|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

आह᳚र्य॒तोय॑ज॒तःसान्व॑स्था॒¦दभू᳚दु॒विप्रो॒हव्यो᳚मती॒नाम्|| {3/11}{2.8.24.3}{3.5.3}{3.1.5.3}{1128, 239, 2498}

मि॒त्रो,अ॒ग्निर्भ॑वति॒यत्‌समि॑द्धो¦मि॒त्रोहोता॒वरु॑णोजा॒तवे᳚दाः|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

मि॒त्रो,अ॑ध्व॒र्युरि॑षि॒रोदमू᳚ना¦मि॒त्रःसिन्धू᳚नामु॒तपर्व॑तानाम्|| {4/11}{2.8.24.4}{3.5.4}{3.1.5.4}{1129, 239, 2499}

पाति॑प्रि॒यंरि॒पो,अग्रं᳚प॒दंवेः¦पाति॑य॒ह्वश्चर॑णं॒सूर्य॑स्य|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

पाति॒नाभा᳚स॒प्तशी᳚र्षाणम॒ग्निः¦पाति॑दे॒वाना᳚मुप॒माद॑मृ॒ष्वः|| {5/11}{2.8.24.5}{3.5.5}{3.1.5.5}{1130, 239, 2500}

ऋ॒भुश्च॑क्र॒ईड्यं॒चारु॒नाम॒¦विश्वा᳚निदे॒वोव॒युना᳚निवि॒द्वान्|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

स॒सस्य॒चर्म॑घृ॒तव॑त्‌प॒दंवे¦स्तदिद॒ग्नीर॑क्ष॒त्यप्र॑युच्छन्|| {6/11}{2.8.25.1}{3.5.6}{3.1.5.6}{1131, 239, 2501}

आयोनि॑म॒ग्निर्घृ॒तव᳚न्तमस्थात्¦पृ॒थुप्र॑गाणमु॒शन्त॑मुशा॒नः|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दीद्या᳚नः॒शुचि᳚रृ॒ष्वःपा᳚व॒कः¦पुनः॑पुनर्मा॒तरा॒नव्य॑सीकः|| {7/11}{2.8.25.2}{3.5.7}{3.1.5.7}{1132, 239, 2502}

स॒द्योजा॒तओष॑धीभिर्ववक्षे॒¦यदी॒वर्ध᳚न्तिप्र॒स्वो᳚घृ॒तेन॑|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

आप॑इवप्र॒वता॒शुम्भ॑माना,¦उरु॒ष्यद॒ग्निःपि॒त्रोरु॒पस्थे᳚|| {8/11}{2.8.25.3}{3.5.8}{3.1.5.8}{1133, 239, 2503}

उदु॑ष्टु॒तःस॒मिधा᳚य॒ह्वो,अ॑द्यौ॒द्¦वर्ष्म᳚न्‌दि॒वो,अधि॒नाभा᳚पृथि॒व्याः|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

मि॒त्रो,अ॒ग्निरीड्यो᳚मात॒रिश्वा¦ऽऽदू॒तोव॑क्षद्‌य॒जथा᳚यदे॒वान्|| {9/11}{2.8.25.4}{3.5.9}{3.1.5.9}{1134, 239, 2504}

उद॑स्तम्भीत्‌स॒मिधा॒नाक॑मृ॒ष्वो॒३॑(ओ॒)¦ऽग्निर्भव᳚न्नुत्त॒मोरो᳚च॒नाना᳚म्|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

यदी॒भृगु॑भ्यः॒परि॑मात॒रिश्वा॒¦गुहा॒सन्तं᳚हव्य॒वाहं᳚समी॒धे|| {10/11}{2.8.25.5}{3.5.10}{3.1.5.10}{1135, 239, 2505}

इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे|| {11/11}{2.8.25.6}{3.5.11}{3.1.5.11}{1136, 239, 2506}

[119] प्रकारवइत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् |
प्रका᳚रवोमन॒नाव॒च्यमा᳚ना¦देव॒द्रीचीं᳚नयतदेव॒यन्तः॑|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

द॒क्षि॒णा॒वाड्‌वा॒जिनी॒प्राच्ये᳚ति¦ह॒विर्भर᳚न्‌त्य॒ग्नये᳚घृ॒ताची᳚|| {1/11}{2.8.26.1}{3.6.1}{3.1.6.1}{1137, 240, 2507}

आरोद॑सी,अपृणा॒जाय॑मान¦उ॒तप्ररि॑क्था॒,अध॒नुप्र॑यज्यो|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दि॒वश्चि॑दग्नेमहि॒नापृ॑थि॒व्या¦व॒च्यन्तां᳚ते॒वह्न॑यःस॒प्तजि॑ह्वाः|| {2/11}{2.8.26.2}{3.6.2}{3.1.6.2}{1138, 240, 2508}

द्यौश्च॑त्वापृथि॒वीय॒ज्ञिया᳚सो॒¦निहोता᳚रंसादयन्ते॒दमा᳚य|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

यदी॒विशो॒मानु॑षीर्देव॒यन्तीः॒¦प्रय॑स्वती॒रीळ॑तेशु॒क्रम॒र्चिः|| {3/11}{2.8.26.3}{3.6.3}{3.1.6.3}{1139, 240, 2509}

म॒हान्‌त्स॒धस्थे᳚ध्रु॒वआनिष॑त्तो॒¦ऽन्तर्द्यावा॒माहि॑ने॒हर्य॑माणः|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

आस्क्रे᳚स॒पत्नी᳚अ॒जरे॒,अमृ॑क्ते¦सब॒र्दुघे᳚उरुगा॒यस्य॑धे॒नू|| {4/11}{2.8.26.4}{3.6.4}{3.1.6.4}{1140, 240, 2510}

व्र॒ताते᳚अग्नेमह॒तोम॒हानि॒¦तव॒क्रत्वा॒रोद॑सी॒,आत॑तन्थ|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

त्वंदू॒तो,अ॑भवो॒जाय॑मान॒¦स्त्वंने॒तावृ॑षभचर्षणी॒नाम्|| {5/11}{2.8.26.5}{3.6.5}{3.1.6.5}{1141, 240, 2511}

ऋ॒तस्य॑वाके॒शिना᳚यो॒ग्याभि॑¦र्घृत॒स्नुवा॒रोहि॑ताधु॒रिधि॑ष्व|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अथाव॑हदे॒वान्‌दे᳚व॒विश्वा᳚न्¦त्स्वध्व॒राकृ॑णुहिजातवेदः|| {6/11}{2.8.27.1}{3.6.6}{3.1.6.6}{1142, 240, 2512}

दि॒वश्चि॒दाते᳚रुचयन्तरो॒का,¦उ॒षोवि॑भा॒तीरनु॑भासिपू॒र्वीः|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अ॒पोयद॑ग्नउ॒शध॒ग्वने᳚षु॒¦होतु᳚र्म॒न्द्रस्य॑प॒नय᳚न्तदे॒वाः|| {7/11}{2.8.27.2}{3.6.7}{3.1.6.7}{1143, 240, 2513}

उ॒रौवा॒ये,अ॒न्तरि॑क्षे॒मद᳚न्ति¦दि॒वोवा॒येरो᳚च॒नेसन्ति॑दे॒वाः|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

ऊमा᳚वा॒येसु॒हवा᳚सो॒यज॑त्रा,¦आयेमि॒रेर॒थ्यो᳚अग्ने॒,अश्वाः᳚|| {8/11}{2.8.27.3}{3.6.8}{3.1.6.8}{1144, 240, 2514}

ऐभि॑रग्नेस॒रथं᳚याह्य॒र्वाङ्¦ना᳚नार॒थंवा᳚वि॒भवो॒ह्यश्वाः᳚|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

पत्नी᳚वतस्त्रिं॒शतं॒त्रींश्च॑दे॒वा¦न॑नुष्व॒धमाव॑हमा॒दय॑स्व|| {9/11}{2.8.27.4}{3.6.9}{3.1.6.9}{1145, 240, 2515}

सहोता॒यस्य॒रोद॑सीचिदु॒र्वी¦य॒ज्ञंय॑ज्ञम॒भिवृ॒धेगृ॑णी॒तः|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

प्राची᳚अध्व॒रेव॑तस्थतुःसु॒मेके᳚¦ऋ॒ताव॑री,ऋ॒तजा᳚तस्यस॒त्ये|| {10/11}{2.8.27.5}{3.6.10}{3.1.6.10}{1146, 240, 2516}

इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध|{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे|| {11/11}{2.8.27.6}{3.6.11}{3.1.6.11}{1147, 240, 2517}