|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||

|| ऋग्वेद संहिता (अष्टक: 04) ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
[Last updated on: 13-Jun-2025]

[1] त्वामग्नइति सप्तर्चस्य सूक्तस्यात्रेयोगयोग्निरनुष्टुप्‌ पंचमी सप्तम्यौपङ्क्ती |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:9}{अनुवाक:1, सूक्त:9}
त्वाम॑ग्नेह॒विष्म᳚न्तोदे॒वंमर्ता᳚सईळते |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

मन्ये᳚त्वाजा॒तवे᳚दसं॒सह॒व्याव॑क्ष्यानु॒षक्(स्वाहा᳚) || 1 || वर्ग:1

त्वा‌म्¦अ॒ग्ने॒¦ह॒विष्म᳚न्तः¦दे॒व‌म्¦मर्ता᳚सः¦ई॒ळ॒ते॒ | मन्ये᳚¦त्वा॒¦जा॒तऽवे᳚दस‌म्¦सः¦ह॒व्या¦व॒क्षि॒¦आ॒नु॒षक् ||

अ॒ग्निर्होता॒दास्व॑तः॒,क्षय॑स्यवृ॒क्तब᳚र्हिषः |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

संय॒ज्ञास॒श्चर᳚न्ति॒यंसंवाजा᳚सःश्रव॒स्यवः॒(स्वाहा᳚) || 2 ||

अ॒ग्निः¦होता᳚¦दास्व॑तः¦क्षय॑स्य¦वृ॒क्तऽब॑र्हिषः | स‌म्¦य॒ज्ञासः॑¦चर᳚न्ति¦य‌म्¦स‌म्¦वाजा᳚सः¦श्र॒व॒स्यवः॑ ||

उ॒तस्म॒यंशिशुं᳚यथा॒नवं॒जनि॑ष्टा॒रणी᳚ |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

ध॒र्तारं॒मानु॑षीणांवि॒शाम॒ग्निंस्व॑ध्व॒रम्(स्वाहा᳚) || 3 ||

उ॒त¦स्म॒¦य‌म्¦शिशु᳚‌म्¦य॒था॒¦नव᳚‌म्¦जनि॑ष्ट¦अ॒रणी॒ इति॑ | ध॒र्तार᳚‌म्¦मानु॑षीणा‌म्¦वि॒शा‌म्¦अ॒ग्नि‌म्¦सु॒।आ॒ध्व॒र‌म् ||

उ॒तस्म॑दुर्गृभीयसेपु॒त्रोनह्वा॒र्याणा᳚म् |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

पु॒रूयोदग्धासि॒वनाऽग्ने᳚प॒शुर्नयव॑से॒(स्वाहा᳚) || 4 ||

उ॒त¦स्म॒¦दुः॒ऽगृ॒भी॒य॒से॒¦पु॒त्रः¦न¦ह्वा॒र्याणा᳚‌म् | पु॒रु¦यः¦दग्धा᳚¦असि॑¦वना᳚¦अग्ने᳚¦प॒शुः¦न¦यव॑से ||

अध॑स्म॒यस्या॒र्चयः॑स॒म्यक्‌सं॒यन्ति॑धू॒मिनः॑ |{आत्रेयो गयः | अग्निः | पङ्क्तिः}

यदी॒मह॑त्रि॒तोदि॒व्युप॒ध्माते᳚व॒धम॑ति॒शिशी᳚तेध्मा॒तरी᳚यथा॒(स्वाहा᳚) || 5 ||

अध॑¦स्म॒¦यस्य॑¦अ॒र्चयः॑¦स॒म्यक्¦स॒‌म्ऽयन्ति॑¦धू॒मिनः॑ |
यत्¦ई॒‌म्¦अह॑¦त्रि॒तः¦दि॒वि¦उप॑¦ध्माता᳚ऽ‌इव¦धम॑ति¦शिशी᳚ते¦ध्मा॒तरि॑¦य॒था॒ ||

तवा॒हम॑ग्नऊ॒तिभि᳚र्मि॒त्रस्य॑च॒प्रश॑स्तिभिः |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

द्वे॒षो॒युतो॒नदु॑रि॒तातु॒र्याम॒मर्त्या᳚ना॒‌म्(स्वाहा᳚) || 6 ||

तव॑¦अ॒ह‌म्¦अ॒ग्ने॒¦ऊ॒तिऽभिः॑¦मि॒त्रस्य॑¦च॒¦प्रश॑स्तिऽभिः | द्वे॒षः॒ऽयुतः॑¦न¦दुः॒ऽ‌इ॒ता¦तु॒र्याम॑¦मर्त्या᳚ना‌म् ||

तंनो᳚,अग्ने,अ॒भीनरो᳚र॒यिंस॑हस्व॒आभ॑र |{आत्रेयो गयः | अग्निः | पङ्क्तिः}

सक्षे᳚पय॒त्‌सपो᳚षय॒द्भुव॒द्‌वाज॑स्यसा॒तय॑उ॒तैधि॑पृ॒त्सुनो᳚वृ॒धे(स्वाहा᳚) || 7 ||

त‌म्¦नः॒¦अ॒ग्ने॒¦अ॒भि¦नरः॑¦र॒यि‌म्¦स॒ह॒स्वः॒¦आ¦भ॒र॒ |
सः¦क्षे॒प॒य॒त्¦सः¦पो॒ष॒य॒त्¦भुव॑त्¦वाज॑स्य¦सा॒तये᳚¦उ॒त¦ए॒धि॒¦पृ॒त्सु¦नः॒¦वृ॒धे ||

[2] अग्नओजिष्टमिति सप्तर्चस्य सूक्तस्यात्रेयोगयोग्निरनुष्टुप्‌ चतुर्थीसप्तम्यौपङ्क्ती |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:10}{अनुवाक:1, सूक्त:10}
अग्न॒ओजि॑ष्ठ॒माभ॑रद्यु॒म्नम॒स्मभ्य॑मध्रिगो |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

प्रनो᳚रा॒यापरी᳚णसा॒रत्सि॒वाजा᳚य॒पन्था॒‌म्(स्वाहा᳚) || 1 || वर्ग:2

अग्ने᳚¦ओजि॑ष्ठ‌म्¦आ¦भ॒र॒¦द्यु॒म्न‌म्¦अ॒स्मभ्य᳚‌म्¦अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो | प्र¦नः॒¦रा॒या¦परी᳚णसा¦रत्सि॑¦वाजा᳚य¦पन्था᳚‌म् ||

त्वंनो᳚,अग्ने,अद्भुत॒क्रत्वा॒दक्ष॑स्यमं॒हना᳚ |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

त्वे,अ॑सु॒र्य१॑(अ॒)मारु॑हत्क्रा॒णामि॒त्रोनय॒ज्ञियः॒(स्वाहा᳚) || 2 ||

त्व‌म्¦नः॒¦अ॒ग्ने॒¦अ॒द्भु॒त॒¦क्रत्वा᳚¦दक्ष॑स्य¦मं॒हना᳚ | त्वे इति॑¦अ॒सु॒र्य᳚‌म्¦आ¦अ॒रु॒ह॒त्¦क्रा॒णा¦मि॒त्रः¦न¦य॒ज्ञियः॑ ||

त्वंनो᳚,अग्नएषां॒गयं᳚पु॒ष्टिंच॑वर्धय |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

येस्तोमे᳚भिः॒प्रसू॒रयो॒नरो᳚म॒घान्या᳚न॒शुः(स्वाहा᳚) || 3 ||

त्व‌म्¦नः॒¦अ॒ग्ने॒¦ए॒षा॒‌म्¦गय᳚‌म्¦पु॒ष्टि‌म्¦च॒¦व॒र्ध॒य॒ | ये¦स्तोमे᳚भिः¦प्र¦सू॒रयः॑¦नरः॑¦म॒घानि॑¦आ॒न॒शुः ||

ये,अ॑ग्नेचन्द्रते॒गिरः॑शु॒म्भन्त्यश्व॑राधसः |{आत्रेयो गयः | अग्निः | पङ्क्तिः}

शुष्मे᳚भिःशु॒ष्मिणो॒नरो᳚दि॒वश्चि॒द्‌येषां᳚बृ॒हत्सु॑की॒र्तिर्बोध॑ति॒त्मना॒(स्वाहा᳚) || 4 ||

ये¦अ॒ग्ने॒¦च॒न्द्र॒¦ते॒¦गिरः॑¦शु॒म्भन्ति॑¦अश्व॑ऽराधसः |
शुष्मे᳚भिः¦शु॒ष्मिणः॑¦नरः॑¦दि॒वः¦चि॒त्¦येषा᳚‌म्¦बृ॒हत्¦सु॒ऽकी॒र्तिः¦बोध॑ति¦त्मना᳚ ||

तव॒त्ये,अ॑ग्ने,अ॒र्चयो॒भ्राज᳚न्तोयन्तिधृष्णु॒या |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

परि॑ज्मानो॒नवि॒द्युतः॑स्वा॒नोरथो॒नवा᳚ज॒युः(स्वाहा᳚) || 5 ||

तव॑¦त्ये¦अ॒ग्ने॒¦अ॒र्चयः॑¦भ्राज᳚न्तः¦य॒न्ति॒¦धृ॒ष्णु॒ऽया | परि॑ऽज्मानः¦न¦वि॒ऽद्युतः॑¦स्वा॒नः¦रथः॑¦न¦वा॒ज॒ऽयुः ||

नूनो᳚,अग्नऊ॒तये᳚स॒बाध॑सश्चरा॒तये᳚ |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

अ॒स्माका᳚सश्चसू॒रयो॒विश्वा॒,आशा᳚स्तरी॒षणि॒(स्वाहा᳚) || 6 ||

नु¦नः॒¦अ॒ग्ने॒¦ऊ॒तये᳚¦स॒ऽबाध॑सः¦च॒¦रा॒तये᳚ | अ॒स्माका᳚सः¦च॒¦सू॒रयः॑¦विश्वाः᳚¦आशाः᳚¦त॒री॒षणि॑ ||

त्वंनो᳚,अग्ने,अङ्गिरःस्तु॒तःस्तवा᳚न॒आभ॑र |{आत्रेयो गयः | अग्निः | पङ्क्तिः}

होत᳚र्विभ्वा॒सहं᳚र॒यिंस्तो॒तृभ्यः॒स्तव॑सेचनउ॒तैधि॑पृ॒त्सुनो᳚वृ॒धे(स्वाहा᳚) || 7 ||

त्व‌म्¦नः॒¦अ॒ग्ने॒¦अ॒ङ्गि॒रः॒¦स्तु॒तः¦स्तवा᳚नः¦आ¦भ॒र॒ |
होतः॑¦वि॒भ्व॒ऽसह᳚‌म्¦र॒यि‌म्¦स्तो॒तृऽभ्यः॑¦स्तव॑से¦च॒¦नः॒¦उ॒त¦ए॒धि॒¦पृ॒त्ऽसु¦नः॒¦वृ॒धे ||

[3] जनस्येति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निर्जगती |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:11}{अनुवाक:1, सूक्त:11}
जन॑स्यगो॒पा,अ॑जनिष्ट॒जागृ॑विर॒ग्निःसु॒दक्षः॑सुवि॒ताय॒नव्य॑से |{आत्रेयः सुतम्भरः | अग्निः | जगती}

घृ॒तप्र॑तीकोबृह॒तादि॑वि॒स्पृशा᳚द्यु॒मद्‌विभा᳚तिभर॒तेभ्यः॒शुचिः॒(स्वाहा᳚) || 1 || वर्ग:3

जन॑स्य¦गो॒पाः¦अ॒ज॒नि॒ष्ट॒¦जागृ॑विः¦अ॒ग्निः¦सु॒ऽदक्षः॑¦सु॒वि॒ताय॑¦नव्य॑से |
घृ॒तऽप्र॑तीकः¦बृ॒ह॒ता¦दि॒वि॒ऽस्पृशा᳚¦द्यु॒ऽमत्¦वि¦भा॒ति॒¦भ॒र॒तेभ्यः॑¦शुचिः॑ ||

य॒ज्ञस्य॑के॒तुंप्र॑थ॒मंपु॒रोहि॑तम॒ग्निंनर॑स्त्रिषध॒स्थेसमी᳚धिरे |{आत्रेयः सुतम्भरः | अग्निः | जगती}

इन्द्रे᳚णदे॒वैःस॒रथं॒सब॒र्हिषि॒सीद॒न्निहोता᳚य॒जथा᳚यसु॒क्रतुः॒(स्वाहा᳚) || 2 ||

य॒ज्ञस्य॑¦के॒तु‌म्¦प्र॒थ॒म‌म्¦पु॒रःऽहि॑त‌म्¦अ॒ग्नि‌म्¦नरः॑¦त्रि॒ऽस॒ध॒स्थे¦स‌म्¦ई॒धि॒रे॒ |
इन्द्रे᳚ण¦दे॒वैः¦स॒ऽरथ᳚‌म्¦सः¦ब॒र्हिषि॑¦सीद॑त्¦नि¦होता᳚¦य॒जथा᳚य¦सु॒ऽक्रतुः॑ ||

अस᳚म्मृष्टोजायसेमा॒त्रोःशुचि᳚र्म॒न्द्रःक॒विरुद॑तिष्ठोवि॒वस्व॑तः |{आत्रेयः सुतम्भरः | अग्निः | जगती}

घृ॒तेन॑त्वावर्धयन्नग्नआहुतधू॒मस्ते᳚के॒तुर॑भवद्‌दि॒विश्रि॒तः(स्वाहा᳚) || 3 ||

अस᳚‌म्ऽमृष्टः¦जा॒य॒से॒¦मा॒त्रोः¦शुचिः॑¦म॒न्द्रः¦क॒विः¦उत्¦अ॒ति॒ष्ठः॒¦वि॒वस्व॑तः |
घृ॒तेन॑¦त्वा॒¦अ॒व॒र्ध॒य॒न्¦अ॒ग्ने॒¦आ॒ऽहु॒त॒¦धू॒मः¦ते॒¦के॒तुः¦अ॒भ॒व॒त्¦दि॒वि¦श्रि॒तः ||

अ॒ग्निर्नो᳚य॒ज्ञमुप॑वेतुसाधु॒याऽग्निंनरो॒विभ॑रन्तेगृ॒हेगृ॑हे |{आत्रेयः सुतम्भरः | अग्निः | जगती}

अ॒ग्निर्दू॒तो,अ॑भवद्धव्य॒वाह॑नो॒ऽग्निंवृ॑णा॒नावृ॑णतेक॒विक्र॑तु॒‌म्(स्वाहा᳚) || 4 ||

अ॒ग्निः¦नः॒¦य॒ज्ञ‌म्¦उप॑¦वे॒तु॒¦सा॒धु॒ऽया¦अ॒ग्नि‌म्¦नरः॑¦वि¦भ॒र॒न्ते॒¦गृ॒हेऽगृ॑हे |
अ॒ग्निः¦दू॒तः¦अ॒भ॒व॒त्¦ह॒व्य॒ऽवाह॑नः¦अ॒ग्नि‌म्¦वृ॒णा॒नाः¦वृ॒ण॒ते॒¦क॒विऽक्र॑तु‌म् ||

तुभ्ये॒दम॑ग्ने॒मधु॑मत्तमं॒वच॒स्तुभ्यं᳚मनी॒षा,इ॒यम॑स्तु॒शंहृ॒दे |{आत्रेयः सुतम्भरः | अग्निः | जगती}

त्वांगिरः॒सिन्धु॑मिवा॒वनी᳚र्म॒हीरापृ॑णन्ति॒शव॑साव॒र्धय᳚न्तिच॒(स्वाहा᳚) || 5 ||

तुभ्य॑¦इ॒द‌म्¦अ॒ग्ने॒¦मधु॑मत्ऽतम‌म्¦वचः॑¦तुभ्य᳚‌म्¦म॒नी॒षा¦इ॒य‌म्¦अ॒स्तु॒¦श‌म्¦हृ॒दे |
त्वा‌म्¦गिरः॑¦सिन्धु᳚‌म्ऽ‌इव¦अ॒वनीः᳚¦म॒हीः¦आ¦पृ॒ण॒न्ति॒¦शव॑सा¦व॒र्धय᳚न्ति¦च॒ ||

त्वाम॑ग्ने॒,अङ्गि॑रसो॒गुहा᳚हि॒तमन्व॑विन्दञ्छिश्रिया॒णंवने᳚वने |{आत्रेयः सुतम्भरः | अग्निः | जगती}

सजा᳚यसेम॒थ्यमा᳚नः॒सहो᳚म॒हत्त्वामा᳚हुः॒सह॑सस्पु॒त्रम᳚ङ्गिरः॒(स्वाहा᳚) || 6 ||

त्वा‌म्¦अ॒ग्ने॒¦अङ्गि॑रसः¦गुहा᳚¦हि॒त‌म्¦अनु॑¦अ॒वि॒न्द॒न्¦शि॒श्रि॒या॒ण‌म्¦वने᳚ऽवने |
सः¦जा॒य॒से॒¦म॒थ्यमा᳚नः¦सहः॑¦म॒हत्¦त्वा‌म्¦आ॒हुः॒¦सह॑सः¦पु॒त्र‌म्¦अ॒ङ्गि॒रः॒ ||

[4] प्राग्नयइति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निस्त्रिष्टुप् |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:12}{अनुवाक:1, सूक्त:12}
प्राग्नये᳚बृह॒तेय॒ज्ञिया᳚यऋ॒तस्य॒वृष्णे॒,असु॑राय॒मन्म॑ |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

घृ॒तंनय॒ज्ञआ॒स्ये॒३॑(ए॒)सुपू᳚तं॒गिरं᳚भरेवृष॒भाय॑प्रती॒चीम्(स्वाहा᳚) || 1 || वर्ग:4

प्र¦अ॒ग्नये᳚¦बृ॒ह॒ते¦य॒ज्ञिया᳚य¦ऋ॒तस्य॑¦वृष्णे᳚¦असु॑राय¦मन्म॑ |
घृ॒त‌म्¦न¦य॒ज्ञे¦आ॒स्ये᳚¦सुऽपू᳚त‌म्¦गिर᳚‌म्¦भ॒रे॒¦वृ॒ष॒भाय॑¦प्र॒ती॒ची‌म् ||

ऋ॒तंचि॑कित्वऋ॒तमिच्चि॑किद्ध्यृ॒तस्य॒धारा॒,अनु॑तृन्धिपू॒र्वीः |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

नाहंया॒तुंसह॑सा॒नद्व॒येन॑ऋ॒तंस॑पाम्यरु॒षस्य॒वृष्णः॒(स्वाहा᳚) || 2 ||

ऋ॒त‌म्¦चि॒कि॒त्वः॒¦ऋ॒त‌म्¦इत्¦चि॒कि॒द्धि॒¦ऋ॒तस्य॑¦धाराः᳚¦अनु॑¦तृ॒न्धि॒¦पू॒र्वीः |
न¦अ॒ह‌म्¦या॒तु‌म्¦सह॑सा¦न¦द्व॒येन॑¦ऋ॒त‌म्¦स॒पा॒मि॒¦अ॒रु॒षस्य॑¦वृष्णः॑ ||

कया᳚नो,अग्नऋ॒तय᳚न्नृ॒तेन॒भुवो॒नवे᳚दा,उ॒चथ॑स्य॒नव्यः॑ |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

वेदा᳚मेदे॒वऋ॑तु॒पा,ऋ॑तू॒नांनाहंपतिं᳚सनि॒तुर॒स्यरा॒यः(स्वाहा᳚) || 3 ||

कया᳚¦नः॒¦अ॒ग्ने॒¦ऋ॒तय॑न्¦ऋ॒तेन॑¦भुवः॑¦नवे᳚दाः¦उ॒चथ॑स्य¦नव्यः॑ |
वेद॑¦मे॒¦दे॒वः¦ऋ॒तु॒ऽपाः¦ऋ॒तू॒ना‌म्¦न¦अ॒ह‌म्¦पति᳚‌म्¦स॒नि॒तुः॒¦अ॒स्य¦रा॒यः ||

केते᳚,अग्नेरि॒पवे॒बन्ध॑नासः॒केपा॒यवः॑सनिषन्तद्यु॒मन्तः॑ |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

केधा॒सिम॑ग्ने॒,अनृ॑तस्यपान्ति॒कआस॑तो॒वच॑सःसन्तिगो॒पाः(स्वाहा᳚) || 4 ||

के¦ते॒¦अ॒ग्ने॒¦रि॒पवे᳚¦बन्ध॑नासः¦के¦पा॒यवः॑¦स॒नि॒ष॒न्त॒¦द्यु॒ऽमन्तः॑ |
के¦धा॒सि‌म्¦अ॒ग्ने॒¦अनृ॑तस्य¦पा॒न्ति॒¦के¦अस॑तः¦वच॑सः¦स॒न्ति॒¦गो॒पाः ||

सखा᳚यस्ते॒विषु॑णा,अग्नए॒तेशि॒वासः॒सन्तो॒,अशि॑वा,अभूवन् |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

अधू᳚र्षतस्व॒यमे॒तेवचो᳚भिरृजूय॒तेवृ॑जि॒नानि॑ब्रु॒वन्तः॒(स्वाहा᳚) || 5 ||

सखा᳚यः¦ते॒¦विषु॑णाः¦अ॒ग्ने॒¦ए॒ते¦शि॒वासः॑¦सन्तः॑¦अशि॑वाः¦अ॒भू॒व॒न् |
अधू᳚र्षत¦स्व॒य‌म्¦ए॒ते¦वचः॑ऽभिः¦ऋ॒जु॒ऽय॒ते¦वृ॒जि॒नानि॑¦ब्रु॒वन्तः॑ ||

यस्ते᳚,अग्ने॒नम॑साय॒ज्ञमीट्ट॑ऋ॒तंसपा᳚त्यरु॒षस्य॒वृष्णः॑ |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

तस्य॒क्षयः॑पृ॒थुरासा॒धुरे᳚तुप्र॒सर्स्रा᳚णस्य॒नहु॑षस्य॒शेषः॒(स्वाहा᳚) || 6 ||

यः¦ते॒¦अ॒ग्ने॒¦नम॑सा¦य॒ज्ञ‌म्¦ईट्टे᳚¦ऋ॒त‌म्¦सः¦पा॒ति॒¦अ॒रु॒षस्य॑¦वृष्णः॑ |
तस्य॑¦क्षयः॑¦पृ॒थुः¦आ¦सा॒धुः¦ए॒तु॒¦प्र॒ऽसर्स्रा᳚णस्य¦नहु॑षस्य¦शेषः॑ ||

[5] अर्चतइति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निर्गायत्री |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:13}{अनुवाक:1, सूक्त:13}
अर्च᳚न्तस्त्वाहवाम॒हेऽर्च᳚न्तः॒समि॑धीमहि |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

अग्ने॒,अर्च᳚न्तऊ॒तये॒(स्वाहा᳚) || 1 || वर्ग:5

अर्च᳚न्तः¦त्वा॒¦ह॒वा॒म॒हे॒¦अर्च᳚न्तः¦स‌म्¦इ॒धी॒म॒हि॒ | अग्ने᳚¦अर्च᳚न्तः¦ऊ॒तये᳚ ||

अ॒ग्नेःस्तोमं᳚मनामहेसि॒ध्रम॒द्यदि॑वि॒स्पृशः॑ |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

दे॒वस्य॑द्रविण॒स्यवः॒(स्वाहा᳚) || 2 ||

अ॒ग्नेः¦स्तोम᳚‌म्¦म॒ना॒म॒हे॒¦सि॒ध्र‌म्¦अ॒द्य¦दि॒वि॒ऽस्पृशः॑ | दे॒वस्य॑¦द्र॒वि॒ण॒स्यवः॑ ||

अ॒ग्निर्जु॑षतनो॒गिरो॒होता॒योमानु॑षे॒ष्वा |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

सय॑क्ष॒द्‌दैव्यं॒जन॒‌म्(स्वाहा᳚) || 3 ||

अ॒ग्निः¦जु॒ष॒त॒¦नः॒¦गिरः॑¦होता᳚¦यः¦मानु॑षेषु¦आ | सः¦य॒क्ष॒त्¦दैव्य᳚‌म्¦जन᳚‌म् ||

त्वम॑ग्नेस॒प्रथा᳚,असि॒जुष्टो॒होता॒वरे᳚ण्यः |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

त्वया᳚य॒ज्ञंवित᳚न्वते॒(स्वाहा᳚) || 4 ||

त्व‌म्¦अ॒ग्ने॒¦स॒ऽप्रथाः᳚¦अ॒सि॒¦जुष्टः॑¦होता᳚¦वरे᳚ण्यः | त्वया᳚¦य॒ज्ञ‌म्¦वि¦त॒न्व॒ते॒ ||

त्वाम॑ग्नेवाज॒सात॑मं॒विप्रा᳚वर्धन्ति॒सुष्टु॑तम् |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

सनो᳚रास्वसु॒वीर्य॒‌म्(स्वाहा᳚) || 5 ||

त्वा‌म्¦अ॒ग्ने॒¦वा॒ज॒ऽसात॑म‌म्¦विप्राः᳚¦व॒र्ध॒न्ति॒¦सुऽस्तु॑त‌म् | सः¦नः॒¦रा॒स्व॒¦सु॒ऽवीर्य᳚‌म् ||

अग्ने᳚ने॒मिर॒राँ,इ॑वदे॒वाँस्त्वंप॑रि॒भूर॑सि |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

आराध॑श्चि॒त्रमृ᳚ञ्जसे॒(स्वाहा᳚) || 6 ||

अग्ने᳚¦ने॒मिः¦अ॒रान्ऽ‌इ᳚व¦दे॒वान्¦त्व‌म्¦प॒रि॒ऽभूः¦अ॒सि॒ | आ¦राधः॑¦चि॒त्र‌म्¦ऋं॒ज॒से॒ ||

[6] अग्निंस्तोमेनेति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निर्गायत्री |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:14}{अनुवाक:1, सूक्त:14}
अ॒ग्निंस्तोमे᳚नबोधयसमिधा॒नो,अम॑र्त्यम् |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

ह॒व्यादे॒वेषु॑नोदध॒‌त्(स्वाहा᳚) || 1 || वर्ग:6

अ॒ग्नि‌म्¦स्तोमे᳚न¦बो॒ध॒य॒¦स॒‌म्ऽ‌इ॒धा॒नः¦अम॑र्त्य‌म् | ह॒व्या¦दे॒वेषु॑¦नः॒¦द॒ध॒त् ||

तम॑ध्व॒रेष्वी᳚ळतेदे॒वंमर्ता॒,अम॑र्त्यम् |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

यजि॑ष्ठं॒मानु॑षे॒जने॒(स्वाहा᳚) || 2 ||

त‌म्¦अ॒ध्व॒रेषु॑¦ई॒ळ॒ते॒¦दे॒व‌म्¦मर्ताः᳚¦अम॑र्त्य‌म् | यजि॑ष्ठ‌म्¦मानु॑षे¦जने᳚ ||

तंहिशश्व᳚न्त॒ईळ॑तेस्रु॒चादे॒वंघृ॑त॒श्चुता᳚ |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

अ॒ग्निंह॒व्याय॒वोळ्ह॑वे॒(स्वाहा᳚) || 3 ||

त‌म्¦हि¦शश्व᳚न्तः¦ईळ॑ते¦स्रु॒चा¦दे॒व‌म्¦घृ॒त॒ऽश्चुता᳚ | अ॒ग्नि‌म्¦ह॒व्याय॑¦वोळ्ह॑वे ||

अ॒ग्निर्जा॒तो,अ॑रोचत॒घ्नन्‌दस्यू॒ञ्ज्योति॑षा॒तमः॑ |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

अवि᳚न्द॒द्‌गा,अ॒पःस्वः॒(स्वाहा᳚) || 4 ||

अ॒ग्निः¦जा॒तः¦अ॒रो॒च॒त॒¦घ्नन्¦दस्यू᳚न्¦ज्योति॑षा¦तमः॑ | अवि᳚न्दत्¦गाः¦अ॒पः¦स्व१॒॑रिति॒ स्वः॑ ||

अ॒ग्निमी॒ळेन्यं᳚क॒विंघृ॒तपृ॑ष्ठंसपर्यत |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

वेतु॑मेशृ॒णव॒द्धव॒‌म्(स्वाहा᳚) || 5 ||

अ॒ग्नि‌म्¦ई॒ळेन्य᳚‌म्¦क॒वि‌म्¦घृ॒तऽपृ॑ष्ठ‌म्¦स॒प॒र्य॒त॒ | वेतु॑¦मे॒¦शृ॒णव॑त्¦हव᳚‌म् ||

अ॒ग्निंघृ॒तेन॑वावृधुः॒स्तोमे᳚भिर्वि॒श्वच॑र्षणिम् |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

स्वा॒धीभि᳚र्वच॒स्युभिः॒(स्वाहा᳚) || 6 ||

अ॒ग्नि‌म्¦घृ॒तेन॑¦व॒वृ॒धुः॒¦स्तोमे᳚भिः¦वि॒श्वऽच॑र्षणि‌म् | सु॒ऽआ॒धीभिः॑¦व॒च॒स्युऽभिः॑ ||

[7] प्रवेधसइति पंचर्चस्य सूक्तस्यांगिरसोधरुणोऽग्निस्त्रिष्टुप् |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:15}{अनुवाक:2, सूक्त:1}
प्रवे॒धसे᳚क॒वये॒वेद्या᳚य॒गिरं᳚भरेय॒शसे᳚पू॒र्व्याय॑ |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्}

घृ॒तप्र॑सत्तो॒,असु॑रःसु॒शेवो᳚रा॒योध॒र्ताध॒रुणो॒वस्वो᳚,अ॒ग्निः(स्वाहा᳚) || 1 || वर्ग:7

प्र¦वे॒धसे᳚¦क॒वये᳚¦वेद्या᳚य¦गिर᳚‌म्¦भ॒रे॒¦य॒शसे᳚¦पू॒र्व्याय॑ |
घृ॒तऽप्र॑सत्तः¦असु॑रः¦सु॒ऽशेवः॑¦रा॒यः¦ध॒र्ता¦ध॒रुणः॑¦वस्वः॑¦अ॒ग्निः ||

ऋ॒तेन॑ऋ॒तंध॒रुणं᳚धारयन्तय॒ज्ञस्य॑शा॒केप॑र॒मेव्यो᳚मन् |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्}

दि॒वोधर्म᳚न्‌ध॒रुणे᳚से॒दुषो॒नॄञ्जा॒तैरजा᳚ताँ,अ॒भियेन॑न॒क्षुः(स्वाहा᳚) || 2 ||

ऋ॒तेन॑¦ऋ॒त‌म्¦ध॒रुण᳚‌म्¦धा॒र॒य॒न्त॒¦य॒ज्ञस्य॑¦शो॒के¦प॒र॒मे¦विऽओ᳚मन् |
दि॒वः¦धर्म॑न्¦ध॒रुणे᳚¦से॒दुषः॑¦नॄन्¦जा॒तैः¦अजा᳚तान्¦अ॒भि¦ये¦न॒न॒क्षुः ||

अं॒हो॒युव॑स्त॒न्व॑स्तन्वते॒विवयो᳚म॒हद्‌दु॒ष्टरं᳚पू॒र्व्याय॑ |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्}

ससं॒वतो॒नव॑जातस्तुतुर्यात्सिं॒हंनक्रु॒द्धम॒भितः॒परि॑ष्ठुः॒(स्वाहा᳚) || 3 ||

अं॒हः॒ऽयुवः॑¦त॒न्वः॑¦त॒न्व॒ते॒¦वि¦वयः॑¦म॒हत्¦दु॒स्तर᳚‌म्¦पू॒र्व्याय॑ |
सः¦स॒‌म्ऽवतः॑¦नव॑ऽजातः¦तु॒तु॒र्या॒त्¦सिं॒ह‌म्¦न¦क्रु॒द्ध‌म्¦अ॒भितः॑¦परि॑¦स्थुः॒ ||

मा॒तेव॒यद्‌भर॑सेपप्रथा॒नोजनं᳚जनं॒धाय॑से॒चक्ष॑सेच |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्}

वयो᳚वयोजरसे॒यद्‌दधा᳚नः॒परि॒त्मना॒विषु॑रूपोजिगासि॒(स्वाहा᳚) || 4 ||

मा॒ताऽ‌इ᳚व¦यत्¦भर॑से¦प॒प्र॒था॒नः¦जन᳚‌म्ऽजन‌म्¦धाय॑से¦चक्ष॑से¦च॒ |
वयः॑ऽवयः¦ज॒र॒से॒¦यत्¦दधा᳚नः¦परि॑¦त्मना᳚¦विषु॑ऽरूपः¦जि॒गा॒सि॒ ||

वाजो॒नुते॒शव॑सस्पा॒त्वन्त॑मु॒रुंदोघं᳚ध॒रुणं᳚देवरा॒यः |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्}

प॒दंनता॒युर्गुहा॒दधा᳚नोम॒होरा॒येचि॒तय॒न्नत्रि॑मस्पः॒(स्वाहा᳚) || 5 ||

वाजः॑¦नु¦ते॒¦शव॑सः¦पा॒तु॒¦अन्त᳚‌म्¦उ॒रु‌म्¦दोघ᳚‌म्¦ध॒रुण᳚‌म्¦दे॒व॒¦रा॒यः |
प॒द‌म्¦न¦ता॒युः¦गुहा᳚¦दधा᳚नः¦म॒हः¦रा॒ये¦चि॒तय॑न्¦अत्रि᳚‌म्¦अ॒स्प॒रित्य॑स्पः ||

[8] बृहद्वयइति पंचर्चस्य सूक्तस्यात्रेयः पूरुरग्निरनुष्टुप्‌ अंत्या पङ्क्तिः |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:16}{अनुवाक:2, सूक्त:2}
बृ॒हद्वयो॒हिभा॒नवेऽर्चा᳚दे॒वाया॒ग्नये᳚ |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

यंमि॒त्रंनप्रश॑स्तिभि॒र्मर्ता᳚सोदधि॒रेपु॒रः(स्वाहा᳚) || 1 || वर्ग:8

बृ॒हत्¦वयः॑¦हि¦भा॒नवे᳚¦अर्च॑¦दे॒वाय॑¦अ॒ग्नये᳚ | य‌म्¦मि॒त्र‌म्¦न¦प्रश॑स्तिऽभिः¦मर्ता᳚सः¦द॒धि॒रे¦पु॒रः ||

सहिद्युभि॒र्जना᳚नां॒होता॒दक्ष॑स्यबा॒ह्वोः |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

विह॒व्यम॒ग्निरा᳚नु॒षग्भगो॒नवार॑मृण्वति॒(स्वाहा᳚) || 2 ||

सः¦हि¦द्युऽभिः॑¦जना᳚ना‌म्¦होता᳚¦दक्ष॑स्य¦बा॒ह्वोः | वि¦ह॒व्य‌म्¦अ॒ग्निः¦आ॒नु॒षक्¦भगः॑¦न¦वार᳚‌म्¦ऋ॒ण्व॒ति॒ ||

अ॒स्यस्तोमे᳚म॒घोनः॑स॒ख्येवृ॒द्धशो᳚चिषः |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

विश्वा॒यस्मि᳚न्‌तुवि॒ष्वणि॒सम॒र्येशुष्म॑माद॒धुः(स्वाहा᳚) || 3 ||

अ॒स्य¦स्तोमे᳚¦म॒घोनः॑¦स॒ख्ये¦वृ॒द्धऽशो᳚चिषः | विश्वा᳚¦यस्मि॑न्¦तु॒वि॒ऽस्वणि॑¦स‌म्¦अ॒र्ये¦शुष्म᳚‌म्¦आ॒ऽद॒धुः ||

अधा॒ह्य॑ग्नएषांसु॒वीर्य॑स्यमं॒हना᳚ |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

तमिद्‌य॒ह्वंनरोद॑सी॒परि॒श्रवो᳚बभूवतुः॒(स्वाहा᳚) || 4 ||

अध॑¦हि¦अ॒ग्ने॒¦ए॒षा॒‌म्¦सु॒ऽवीर्य॑स्य¦मं॒हना᳚ | त‌म्¦इत्¦य॒ह्व‌म्¦न¦रोद॑सी॒ इति॑¦परि॑¦श्रवः॑¦ब॒भू॒व॒तुः॒ ||

नून॒एहि॒वार्य॒मग्ने᳚गृणा॒नआभ॑र |{आत्रेयः पूरुः | अग्निः | पङ्क्तिः}

येव॒यंयेच॑सू॒रयः॑स्व॒स्तिधाम॑हे॒सचो॒तैधि॑पृ॒त्सुनो᳚वृ॒धे(स्वाहा᳚) || 5 ||

नु¦नः॒¦आ¦इ॒हि॒¦वार्य᳚‌म्¦अग्ने᳚¦गृ॒णा॒नः¦आ¦भ॒र॒ |
ये¦व॒य‌म्¦ये¦च॒¦सू॒रयः॑¦स्व॒स्ति¦धाम॑हे¦सचा᳚¦उ॒त¦ए॒धि॒¦पृ॒त्ऽसु¦नः॒¦वृ॒धे ||

[9] आयज्ञैरिति पंचर्चस्य सूक्तस्यात्रेयः पूरुरग्निरनुष्टुप्‌ अंत्या पङ्क्तिः |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:17}{अनुवाक:2, सूक्त:3}
आय॒ज्ञैर्दे᳚व॒मर्त्य॑इ॒त्थातव्यां᳚समू॒तये᳚ |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

अ॒ग्निंकृ॒तेस्व॑ध्व॒रेपू॒रुरी᳚ळी॒ताव॑से॒(स्वाहा᳚) || 1 || वर्ग:9

आ¦य॒ज्ञैः¦दे॒व॒¦मर्त्यः॑¦इ॒त्था¦तव्यां᳚स‌म्¦ऊ॒तये᳚ | अ॒ग्नि‌म्¦कृ॒ते¦सु॒।आ॒ध्व॒रे¦पू॒रुः¦ई॒ळी॒त॒¦अव॑से ||

अस्य॒हिस्वय॑शस्तरआ॒सावि॑धर्म॒न्‌मन्य॑से |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

तंनाकं᳚चि॒त्रशो᳚चिषंम॒न्द्रंप॒रोम॑नी॒षया॒(स्वाहा᳚) || 2 ||

अस्य॑¦हि¦स्वय॑शःऽतरः¦आ॒सा¦वि॒ऽध॒र्म॒न्¦मन्य॑से | त‌म्¦नाक᳚‌म्¦चि॒त्रऽशो᳚चिष‌म्¦म॒न्द्र‌म्¦प॒रः¦म॒नी॒षया᳚ ||

अ॒स्यवासा,उ॑अ॒र्चिषा॒यआयु॑क्ततु॒जागि॒रा |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

दि॒वोनयस्य॒रेत॑साबृ॒हच्छोच᳚न्त्य॒र्चयः॒(स्वाहा᳚) || 3 ||

अ॒स्य¦वै¦अ॒सौ¦ऊँ॒ इति॑¦अ॒र्चिषा᳚¦यः¦अयु॑क्त¦तु॒जा¦गि॒रा | दि॒वः¦न¦यस्य॑¦रेत॑सा¦बृ॒हत्¦शोच᳚न्ति¦अ॒र्चयः॑ ||

अ॒स्यक्रत्वा॒विचे᳚तसोद॒स्मस्य॒वसु॒रथ॒आ |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

अधा॒विश्वा᳚सु॒हव्यो॒ऽग्निर्वि॒क्षुप्रश॑स्यते॒(स्वाहा᳚) || 4 ||

अ॒स्य¦क्रत्वा᳚¦विऽचे᳚तसः¦द॒स्मस्य॑¦वसु॑¦रथे᳚¦आ | अध॑¦विश्वा᳚सु¦हव्यः॑¦अ॒ग्निः¦वि॒क्षु¦प्र¦श॒स्य॒ते॒ ||

नून॒इद्धिवार्य॑मा॒सास॑चन्तसू॒रयः॑ |{आत्रेयः पूरुः | अग्निः | पङ्क्तिः}

ऊर्जो᳚नपाद॒भिष्ट॑येपा॒हिश॒ग्धिस्व॒स्तय॑उ॒तैधि॑पृ॒त्सुनो᳚वृ॒धे(स्वाहा᳚) || 5 ||

नु¦नः॒¦इत्¦हि¦वार्य᳚‌म्¦आ॒सा¦स॒च॒न्त॒¦सू॒रयः॑ |
ऊर्जः॑¦न॒पा॒त्¦अ॒भिष्ट॑ये¦पा॒हि¦श॒ग्धि¦स्व॒स्तये᳚¦उ॒त¦ए॒धि॒¦पृ॒त्ऽसु¦नः॒¦वृ॒धे ||

[10] प्रातरग्निरिति पंचर्चस्य सूक्तस्यात्रेयोमृक्तवाहाद्वितोग्निरनुष्टुप् अंत्या पङ्क्तिः |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:18}{अनुवाक:2, सूक्त:4}
प्रा॒तर॒ग्निःपु॑रुप्रि॒योवि॒शःस्त॑वे॒ताति॑थिः |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | अनुष्टुप्}

विश्वा᳚नि॒यो,अम॑र्त्योह॒व्यामर्ते᳚षु॒रण्य॑ति॒(स्वाहा᳚) || 1 || वर्ग:10

प्रा॒तः¦अ॒ग्निः¦पु॒रु॒ऽप्रि॒यः¦वि॒शः¦स्त॒वे॒त॒¦अति॑थिः | विश्वा᳚नि¦यः¦अम॑र्त्यः¦ह॒व्या¦मर्ते᳚षु¦रण्य॑ति ||

द्वि॒ताय॑मृ॒क्तवा᳚हसे॒स्वस्य॒दक्ष॑स्यमं॒हना᳚ |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | अनुष्टुप्}

इन्दुं॒सध॑त्तआनु॒षक्स्तो॒ताचि॑त्ते,अमर्त्य॒(स्वाहा᳚) || 2 ||

द्वि॒ताय॑¦मृ॒क्तऽवा᳚हसे¦स्वस्य॑¦दक्ष॑स्य¦मं॒हना᳚ | इन्दु॒‌म्¦सः¦ध॒त्ते॒¦आ॒नु॒षक्¦स्तो॒ता¦चि॒त्¦ते॒¦अ॒म॒र्त्य॒ ||

तंवो᳚दी॒र्घायु॑शोचिषंगि॒राहु॑वेम॒घोना᳚म् |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | अनुष्टुप्}

अरि॑ष्टो॒येषां॒रथो॒व्य॑श्वदाव॒न्नीय॑ते॒(स्वाहा᳚) || 3 ||

त‌म्¦वः॒¦दी॒र्घायु॑ऽशोचिष‌म्¦गि॒रा¦हु॒वे॒¦म॒घोना᳚‌म् | अरि॑ष्टः¦येषा᳚‌म्¦रथः॑¦वि¦अ॒श्व॒ऽदा॒व॒न्¦ईय॑ते ||

चि॒त्रावा॒येषु॒दीधि॑तिरा॒सन्नु॒क्थापान्ति॒ये |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | अनुष्टुप्}

स्ती॒र्णंब॒र्हिःस्व᳚र्णरे॒श्रवां᳚सिदधिरे॒परि॒(स्वाहा᳚) || 4 ||

चि॒त्रा¦वा॒¦येषु॑¦दीधि॑तिः¦आ॒सन्¦उ॒क्था¦पान्ति॑¦ये | स्ती॒र्ण‌म्¦ब॒र्हिः¦स्वः॑ऽनरे¦श्रवां᳚सि¦द॒धि॒रे॒¦परि॑ ||

येमे᳚पञ्चा॒शतं᳚द॒दुरश्वा᳚नांस॒धस्तु॑ति |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | पङ्क्तिः}

द्यु॒मद॑ग्ने॒महि॒श्रवो᳚बृ॒हत्‌कृ॑धिम॒घोनां᳚नृ॒वद॑मृतनृ॒णाम्(स्वाहा᳚) || 5 ||

ये¦मे॒¦पं॒चा॒शत᳚‌म्¦द॒दुः¦अश्वा᳚ना‌म्¦स॒धऽस्तु॑ति |
द्यु॒ऽमत्¦अ॒ग्ने॒¦महि॑¦श्रवः॑¦बृ॒हत्¦कृ॒धि॒¦म॒घोना᳚‌म्¦नृ॒ऽवत्¦अ॒मृ॒त॒¦नृ॒णा‌म् ||

[11] अभ्यवस्थाइति पंचर्चस्य सूक्तस्यात्रेयोवव्रिरग्निः आद्येद्वेगायत्र्यौ तृतीया चतुर्थ्यां वनुष्टुभौ पंचमीविराड्रूपा |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:19}{अनुवाक:2, सूक्त:5}
अ॒भ्य॑व॒स्थाःप्रजा᳚यन्ते॒प्रव॒व्रेर्व॒व्रिश्चि॑केत |{आत्रेयो वव्रिः | अग्निः | गायत्री}

उ॒पस्थे᳚मा॒तुर्विच॑ष्टे॒(स्वाहा᳚) || 1 || वर्ग:11

अ॒भि¦अ॒व॒ऽस्थाः¦प्र¦जा॒य॒न्ते॒¦प्र¦व॒व्रेः¦व॒व्रिः¦चि॒के॒त॒ | उ॒पऽस्थे᳚¦मा॒तुः¦वि¦च॒ष्टे॒ ||

जु॒हु॒रेविचि॒तय॒न्तोऽनि॑मिषंनृ॒म्णंपा᳚न्ति |{आत्रेयो वव्रिः | अग्निः | गायत्री}

आदृ॒ळ्हांपुरं᳚विविशुः॒(स्वाहा᳚) || 2 ||

जु॒हु॒रे¦वि¦चि॒तय᳚न्तः¦अनि॑ऽमिष‌म्¦नृ॒म्ण‌म्¦पा॒न्ति॒ | आ¦दृ॒ळ्हा‌म्¦पुर᳚‌म्¦वि॒वि॒शुः॒ ||

आश्वै᳚त्रे॒यस्य॑ज॒न्तवो᳚द्यु॒मद्‌व॑र्धन्तकृ॒ष्टयः॑ |{आत्रेयो वव्रिः | अग्निः | अनुष्टुप्}

नि॒ष्कग्री᳚वोबृ॒हदु॑क्थए॒नामध्वा॒नवा᳚ज॒युः(स्वाहा᳚) || 3 ||

आ¦श्वै॒त्रे॒यस्य॑¦ज॒न्तवः॑¦द्यु॒ऽमत्¦व॒र्ध॒न्त॒¦कृ॒ष्टयः॑ | नि॒ष्कऽग्री᳚वः¦बृ॒हत्।औ᳚क्थः¦ए॒ना¦मध्वा᳚¦न¦वा॒ज॒ऽयुः ||

प्रि॒यंदु॒ग्धंनकाम्य॒मजा᳚मिजा॒म्योःसचा᳚ |{आत्रेयो वव्रिः | अग्निः | अनुष्टुप्}

घ॒र्मोनवाज॑जठ॒रोऽद॑ब्धः॒शश्व॑तो॒दभः॒(स्वाहा᳚) || 4 ||

प्रि॒य‌म्¦दु॒ग्ध‌म्¦न¦काम्य᳚‌म्¦अजा᳚मि¦जा॒म्योः¦सचा᳚ | घ॒र्मः¦न¦वाज॑ऽजठरः¦अद॑ब्धः¦शश्व॑तः¦दभः॑ ||

क्रीळ᳚न्नोरश्म॒आभु॑वः॒संभस्म॑नावा॒युना॒वेवि॑दानः |{आत्रेयो वव्रिः | अग्निः | विराड्रूपा}

ता,अ॑स्यसन्‌धृ॒षजो॒नति॒ग्माःसुसं᳚शिताव॒क्ष्यो᳚वक्षणे॒स्थाः(स्वाहा᳚) || 5 ||

क्रीळ॑न्¦नः॒¦र॒श्मे॒¦आ¦भु॒वः॒¦स‌म्¦भस्म॑ना¦वा॒युना᳚¦वेवि॑दानः |
ताः¦अ॒स्य॒¦स॒न्¦धृ॒षजः॑¦न¦ति॒ग्माः¦सुऽसं᳚शिताः¦व॒क्ष्यः॑¦व॒क्ष॒णे॒ऽस्थाः ||

[12] यमग्न इति चतुरृचस्य सूक्तस्यात्रेयः प्रयस्वंतोग्निरनुष्टुप् अंत्या पङ्क्तिः |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:20}{अनुवाक:2, सूक्त:6}
यम॑ग्नेवाजसातम॒त्वंचि॒न्‌मन्य॑सेर॒यिम् |{आत्रेयः प्रयस्वंतः | अग्निः | अनुष्टुप्}

तंनो᳚गी॒र्भिःश्र॒वाय्यं᳚देव॒त्राप॑नया॒युज॒‌म्(स्वाहा᳚) || 1 || वर्ग:12

य‌म्¦अ॒ग्ने॒¦वा॒ज॒ऽसा॒त॒म॒¦त्व‌म्¦चि॒त्¦मन्य॑से¦र॒यि‌म् | त‌म्¦नः॒¦गीः॒ऽभिः¦श्र॒वाय्य᳚‌म्¦दे॒व॒ऽत्रा¦प॒न॒य॒¦युज᳚‌म् ||

ये,अ॑ग्ने॒नेरय᳚न्तितेवृ॒द्धा,उ॒ग्रस्य॒शव॑सः |{आत्रेयः प्रयस्वंतः | अग्निः | अनुष्टुप्}

अप॒द्वेषो॒,अप॒ह्वरो॒ऽन्यव्र॑तस्यसश्चिरे॒(स्वाहा᳚) || 2 ||

ये¦अ॒ग्ने॒¦न¦ई॒रय᳚न्ति¦ते॒¦वृ॒द्धाः¦उ॒ग्रस्य॑¦शव॑सः | अप॑¦द्वेषः॑¦अप॑¦ह्वरः॑¦अ॒न्यऽव्र॑तस्य¦स॒श्चि॒रे॒ ||

होता᳚रंत्वावृणीम॒हेऽग्ने॒दक्ष॑स्य॒साध॑नम् |{आत्रेयः प्रयस्वंतः | अग्निः | अनुष्टुप्}

य॒ज्ञेषु॑पू॒र्व्यंगि॒राप्रय॑स्वन्तोहवामहे॒(स्वाहा᳚) || 3 ||

होता᳚र‌म्¦त्वा॒¦वृ॒णी॒म॒हे॒¦अग्ने᳚¦दक्ष॑स्य¦साध॑न‌म् | य॒ज्ञेषु॑¦पू॒र्व्य‌म्¦गि॒रा¦प्रय॑स्वन्तः¦ह॒वा॒म॒हे॒ ||

इ॒त्थायथा᳚तऊ॒तये॒सह॑सावन्‌दि॒वेदि॑वे |{आत्रेयः प्रयस्वंतः | अग्निः | पङ्क्तिः}

रा॒यऋ॒ताय॑सुक्रतो॒गोभिः॑ष्यामसध॒मादो᳚वी॒रैःस्या᳚मसध॒मादः॒(स्वाहा᳚) || 4 ||

इ॒त्था¦यथा᳚¦ते॒¦ऊ॒तये᳚¦सह॑साऽवन्¦दि॒वेऽदि॑वे |
रा॒ये¦ऋ॒ताय॑¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो¦गोभिः॑¦स्या॒म॒¦स॒ध॒ऽमादः॑¦वी॒रैः¦स्या॒म॒¦स॒ध॒ऽमादः॑ ||

[13] मनुष्वदिति चतुरृचस्य सूक्तस्यात्रेयःससोग्निरनुष्टुप् अंत्या पङ्क्तिः |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:21}{अनुवाक:2, सूक्त:7}
म॒नु॒ष्वत्‌त्वा॒निधी᳚महिमनु॒ष्वत्‌समि॑धीमहि |{आत्रेयः ससः | अग्निः | अनुष्टुप्}

अग्ने᳚मनु॒ष्वद᳚ङ्गिरोदे॒वान्‌दे᳚वय॒तेय॑ज॒(स्वाहा᳚) || 1 || वर्ग:13

म॒नु॒ष्वत्¦त्वा॒¦नि¦धी॒म॒हि॒¦म॒नु॒ष्वत्¦स‌म्¦इ॒धी॒म॒हि॒ | अग्ने᳚¦म॒नु॒ष्वत्¦अ॒ङ्गि॒रः॒¦दे॒वान्¦दे॒व॒ऽय॒ते¦य॒ज॒ ||

त्वंहिमानु॑षे॒जनेऽग्ने॒सुप्री᳚तइ॒ध्यसे᳚ |{आत्रेयः ससः | अग्निः | अनुष्टुप्}

स्रुच॑स्त्वायन्त्यानु॒षक्सुजा᳚त॒सर्पि॑रासुते॒(स्वाहा᳚) || 2 ||

त्व‌म्¦हि¦मानु॑षे¦जने᳚¦अग्ने᳚¦सुऽप्री᳚तः¦इ॒ध्यसे᳚ | स्रुचः॑¦त्वा॒¦य॒न्ति॒¦आ॒नु॒षक्¦सुऽजा᳚त¦सर्पिः॑ऽआसुते ||

त्वांविश्वे᳚स॒जोष॑सोदे॒वासो᳚दू॒तम॑क्रत |{आत्रेयः ससः | अग्निः | अनुष्टुप्}

स॒प॒र्यन्त॑स्त्वाकवेय॒ज्ञेषु॑दे॒वमी᳚ळते॒(स्वाहा᳚) || 3 ||

त्वा‌म्¦विश्वे᳚¦स॒ऽजोष॑सः¦दे॒वासः॑¦दू॒त‌म्¦अ॒क्र॒त॒ | स॒प॒र्यन्तः॑¦त्वा॒¦क॒वे॒¦य॒ज्ञेषु॑¦दे॒व‌म्¦ई॒ळ॒ते॒ ||

दे॒वंवो᳚देवय॒ज्यया॒ऽग्निमी᳚ळीत॒मर्त्यः॑ |{आत्रेयः ससः | अग्निः | पङ्क्तिः}

समि॑द्धःशुक्रदीदिह्यृ॒तस्य॒योनि॒मास॑दःस॒सस्य॒योनि॒मास॑दः॒(स्वाहा᳚) || 4 ||

दे॒व‌म्¦वः॒¦दे॒व॒ऽय॒ज्यया᳚¦अ॒ग्नि‌म्¦ई॒ळी॒त॒¦मर्त्यः॑ |
स‌म्ऽ‌इ᳚द्धः¦शु॒क्र॒¦दी॒दि॒हि॒¦ऋ॒तस्य॑¦योनि᳚‌म्¦आ¦अ॒स॒दः॒¦स॒सस्य॑¦योनि᳚‌म्¦आ¦अ॒स॒दः॒ ||

[14] प्रविश्वसामन्निति चतुरृचस्य सूक्तस्यात्रेयोविश्वसामाग्निरनुष्टुप् अंत्या पङ्क्तिः |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:22}{अनुवाक:2, सूक्त:8}
प्रवि॑श्वसामन्नत्रि॒वदर्चा᳚पाव॒कशो᳚चिषे |{आत्रेयो विश्वसामा | अग्निः | अनुष्टुप्}

यो,अ॑ध्व॒रेष्वीड्यो॒होता᳚म॒न्द्रत॑मोवि॒शि(स्वाहा᳚) || 1 || वर्ग:14

प्र¦वि॒श्व॒ऽसा॒म॒न्¦अ॒त्रि॒ऽवत्¦अर्च॑¦पा॒व॒कऽशो᳚चिषे | यः¦अ॒ध्व॒रेषु॑¦ईड्यः॑¦होता᳚¦म॒न्द्रऽत॑मः¦वि॒शि ||

न्य१॑(अ॒)ग्निंजा॒तवे᳚दसं॒दधा᳚तादे॒वमृ॒त्विज᳚म् |{आत्रेयो विश्वसामा | अग्निः | अनुष्टुप्}

प्रय॒ज्ञए᳚त्वानु॒षग॒द्यादे॒वव्य॑चस्तमः॒(स्वाहा᳚) || 2 ||

नि¦अ॒ग्नि‌म्¦जा॒तऽवे᳚दस‌म्¦दधा᳚त¦दे॒व‌म्¦ऋ॒त्विज᳚‌म् | प्र¦य॒ज्ञः¦ए॒तु॒¦आ॒नु॒षक्¦अ॒द्य¦दे॒वव्य॑चःऽतमः ||

चि॒कि॒त्विन्म॑नसंत्वादे॒वंमर्ता᳚सऊ॒तये᳚ |{आत्रेयो विश्वसामा | अग्निः | अनुष्टुप्}

वरे᳚ण्यस्य॒तेऽव॑सइया॒नासो᳚,अमन्महि॒(स्वाहा᳚) || 3 ||

चि॒कि॒त्वित्ऽम॑नस‌म्¦त्वा॒¦दे॒व‌म्¦मर्ता᳚सः¦ऊ॒तये᳚ | वरे᳚ण्यस्य¦ते॒¦अव॑सः¦इ॒या॒नासः॑¦अ॒म॒न्म॒हि॒ ||

अग्ने᳚चिकि॒द्ध्य१॑(अ॒)स्यन॑इ॒दंवचः॑सहस्य |{आत्रेयो विश्वसामा | अग्निः | पङ्क्तिः}

तंत्वा᳚सुशिप्रदम्पते॒स्तोमै᳚र्वर्ध॒न्त्यत्र॑योगी॒र्भिःशु᳚म्भ॒न्त्यत्र॑यः॒(स्वाहा᳚) || 4 ||

अग्ने᳚¦चि॒कि॒द्धि¦अ॒स्य¦नः॒¦इ॒द‌म्¦वचः॑¦स॒ह॒स्य॒ |
त‌म्¦त्वा॒¦सु॒ऽशि॒प्र॒¦द॒‌म्ऽप॒ते॒¦स्तोमैः᳚¦व॒र्ध॒न्ति॒¦अत्र॑यः¦गीः॒ऽभिः¦शु॒म्भ॒न्ति॒¦अत्र॑यः ||

[15] अग्नेसहंतमिति चतुरृचस्य सूक्तस्यात्रेयोद्युम्नोविश्वचर्षणिरग्निरनुष्टुप् अंत्या पङ्क्तिः |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:23}{अनुवाक:2, सूक्त:9}
अग्ने॒सह᳚न्त॒माभ॑रद्यु॒म्नस्य॑प्रा॒सहा᳚र॒यिम् |{आत्रेयो द्युम्नो विश्वचर्षणिः | अग्निः | अनुष्टुप्}

विश्वा॒यश्च॑र्ष॒णीर॒भ्या॒३॑(आ॒)सावाजे᳚षुसा॒सह॒॑‌त्(स्वाहा᳚) || 1 || वर्ग:15

अग्ने᳚¦सह᳚न्त‌म्¦आ¦भ॒र॒¦द्यु॒म्नस्य॑¦प्र॒ऽसहा᳚¦र॒यि‌म् | विश्वाः᳚¦यः¦च॒र्ष॒णीः¦अ॒भि¦आ॒सा¦वाजे᳚षु¦स॒सह॑त् ||

तम॑ग्नेपृतना॒षहं᳚र॒यिंस॑हस्व॒आभ॑र |{आत्रेयो द्युम्नो विश्वचर्षणिः | अग्निः | अनुष्टुप्}

त्वंहिस॒त्यो,अद्भु॑तोदा॒तावाज॑स्य॒गोम॑तः॒(स्वाहा᳚) || 2 ||

त‌म्¦अ॒ग्ने॒¦पृ॒त॒ना॒ऽसह᳚‌म्¦र॒यि‌म्¦स॒ह॒स्वः॒¦आ¦भ॒र॒ | त्व‌म्¦हि¦स॒त्यः¦अद्भु॑तः¦दा॒ता¦वाज॑स्य¦गोऽम॑तः ||

विश्वे॒हित्वा᳚स॒जोष॑सो॒जना᳚सोवृ॒क्तब᳚र्हिषः |{आत्रेयो द्युम्नो विश्वचर्षणिः | अग्निः | अनुष्टुप्}

होता᳚रं॒सद्म॑सुप्रि॒यंव्यन्ति॒वार्या᳚पु॒रु(स्वाहा᳚) || 3 ||

विश्वे᳚¦हि¦त्वा॒¦स॒ऽजोष॑सः¦जना᳚सः¦वृ॒क्तऽब॑र्हिषः | होता᳚र‌म्¦सद्म॑ऽसु¦प्रि॒य‌म्¦व्यन्ति॑¦वार्या᳚¦पु॒रु ||

सहिष्मा᳚वि॒श्वच॑र्षणिर॒भिमा᳚ति॒सहो᳚द॒धे |{आत्रेयो द्युम्नो विश्वचर्षणिः | अग्निः | पङ्क्तिः}

अग्न॑ए॒षुक्षये॒ष्वारे॒वन्नः॑शुक्रदीदिहिद्यु॒मत्‌पा᳚वकदीदिहि॒(स्वाहा᳚) || 4 ||

सः¦हि¦स्म॒¦वि॒श्वऽच॑र्षणिः¦अ॒भिऽमा᳚ति¦सहः॑¦द॒धे |
अग्ने᳚¦ए॒षु¦क्षये᳚षु¦आ¦रे॒वत्¦नः॒¦शु॒क्र॒¦दी॒दि॒हि॒¦द्यु॒ऽमत्¦पा॒व॒क॒¦दी॒दि॒हि॒ ||

[16] अग्नेत्वंनइति चतुरृचस्य सूक्तस्य गौपायना लौपायनावाबंधुः सुबंधुः श्रुतबंधुर्विप्रबंधुश्चक्रमेणर्षयोऽग्निर्द्विपदा विराट् |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:24}{अनुवाक:2, सूक्त:10}
अग्ने॒त्वंनो॒,अन्त॑मउ॒तत्रा॒ताशि॒वोभ॑वावरू॒थ्य॑१(अः॒)(स्वाहा᳚) || {गौपायना लौपायनावाबंधुः | अग्निः | द्विपदाविराट्}1 || वर्ग:16

अग्ने᳚¦त्व‌म्¦नः॒¦अन्त॑मः¦उ॒त¦त्रा॒ता¦शि॒वः¦भ॒व॒¦व॒रू॒थ्यः॑ ||

वसु॑र॒ग्निर्वसु॑श्रवा॒,अच्छा᳚नक्षिद्यु॒मत्त॑मंर॒यिंदाः᳚(स्वाहा᳚) || {गौपायना लौपायनावा सुबंधुः | अग्निः | द्विपदाविराट्}2 ||

वसुः॑¦अ॒ग्निः¦वसु॑ऽश्रवाः¦अच्छ॑¦न॒क्षि॒¦द्यु॒मत्ऽत॑म‌म्¦र॒यि‌म्¦दाः॒ ||

सनो᳚बोधिश्रु॒धीहव॑मुरु॒ष्याणो᳚,अघाय॒तःस॑मस्मा॒‌त्(स्वाहा᳚) || {गौपायना लौपायनावा श्रुतबंधुः | अग्निः | द्विपदाविराट्}3 ||

सः¦नः॒¦बो॒धि॒¦श्रु॒धि¦हव᳚‌म्¦उ॒रु॒ष्य¦नः॒¦अ॒घ॒ऽय॒तः¦स॒म॒स्मा॒त् ||

तंत्वा᳚शोचिष्ठदीदिवःसु॒म्नाय॑नू॒नमी᳚महे॒सखि॑भ्यः॒(स्वाहा᳚) || {गौपायना लौपायनावा विप्रबंधुः | अग्निः | द्विपदाविराट्}4 ||

त‌म्¦त्वा॒¦शो॒चि॒ष्ठ॒¦दी॒दि॒ऽवः॒¦सु॒म्नाय॑¦नू॒न‌म्¦ई॒म॒हे॒¦सखि॑ऽभ्यः ||

[17] अच्छावइति नवर्चस्य सूक्तस्यात्रेयो वसूयवोग्निरनुष्टुप् |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:25}{अनुवाक:2, सूक्त:11}
अच्छा᳚वो,अ॒ग्निमव॑सेदे॒वंगा᳚सि॒सनो॒वसुः॑ |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

रास॑त्‌पु॒त्रऋ॑षू॒णामृ॒तावा᳚पर्षतिद्वि॒षः(स्वाहा᳚) || 1 || वर्ग:17

अच्छ॑¦वः॒¦अ॒ग्नि‌म्¦अव॑से¦दे॒व‌म्¦गा॒सि॒¦सः¦नः॒¦वसुः॑ | रास॑त्¦पु॒त्रः¦ऋ॒षू॒णा‌म्¦ऋ॒तऽवा᳚¦प॒र्ष॒ति॒¦द्वि॒षः ||

सहिस॒त्योयंपूर्वे᳚चिद्दे॒वास॑श्चि॒द्‌यमी᳚धि॒रे |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

होता᳚रंम॒न्द्रजि॑ह्व॒मित्सु॑दी॒तिभि᳚र्वि॒भाव॑सु॒‌म्(स्वाहा᳚) || 2 ||

सः¦हि¦स॒त्यः¦य‌म्¦पूर्वे᳚¦चि॒त्¦दे॒वासः॑¦चि॒त्¦य‌म्¦ई॒धि॒रे | होता᳚र‌म्¦म॒न्द्रऽजि॑ह्व‌म्¦इत्¦सु॒दी॒तिऽभिः॑¦वि॒भाऽव॑सु‌म् ||

सनो᳚धी॒तीवरि॑ष्ठया॒श्रेष्ठ॑याचसुम॒त्या |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

अग्ने᳚रा॒योदि॑दीहिनःसुवृ॒क्तिभि᳚र्वरेण्य॒(स्वाहा᳚) || 3 ||

सः¦नः॒¦धी॒ती¦वरि॑ष्ठया¦श्रेष्ठ॑या¦च॒¦सु॒ऽम॒त्या | अग्ने᳚¦रा॒यः¦दि॒दी॒हि॒¦नः॒¦सु॒वृ॒क्तिऽभिः॑¦व॒रे॒ण्य॒ ||

अ॒ग्निर्दे॒वेषु॑राजत्य॒ग्निर्मर्ते᳚ष्वावि॒शन् |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

अ॒ग्निर्नो᳚हव्य॒वाह॑नो॒ऽग्निंधी॒भिःस॑पर्यत॒(स्वाहा᳚) || 4 ||

अ॒ग्निः¦दे॒वेषु॑¦रा॒ज॒ति॒¦अ॒ग्निः¦मर्ते᳚षु¦आ॒ऽवि॒शन् | अ॒ग्निः¦नः॒¦ह॒व्य॒ऽवाह॑नः¦अ॒ग्नि‌म्¦धी॒भिः¦स॒प॒र्य॒त॒ ||

अ॒ग्निस्तु॒विश्र॑वस्तमंतु॒विब्र᳚ह्माणमुत्त॒मम् |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

अ॒तूर्तं᳚श्राव॒यत्प॑तिंपु॒त्रंद॑दातिदा॒शुषे॒(स्वाहा᳚) || 5 ||

अ॒ग्निः¦तु॒विश्र॑वःऽतम‌म्¦तु॒विऽब्र᳚ह्माण‌म्¦उ॒त्ऽत॒म‌म् | अ॒तूर्त᳚‌म्¦श्र॒व॒यत्ऽप॑ति‌म्¦पु॒त्र‌म्¦द॒दा॒ति॒¦दा॒शुषे᳚ ||

अ॒ग्निर्द॑दाति॒सत्प॑तिंसा॒साह॒योयु॒धानृभिः॑ |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

अ॒ग्निरत्यं᳚रघु॒ष्यदं॒जेता᳚र॒मप॑राजित॒‌म्(स्वाहा᳚) || 6 || वर्ग:18

अ॒ग्निः¦द॒दा॒ति॒¦सत्ऽप॑ति‌म्¦स॒साह॑¦यः¦यु॒धा¦नृऽभिः॑ | अ॒ग्निः¦अत्य᳚‌म्¦र॒घु॒ऽस्यद᳚‌म्¦जेता᳚र‌म्¦अप॑राऽजित‌म् ||

यद्वाहि॑ष्ठं॒तद॒ग्नये᳚बृ॒हद॑र्चविभावसो |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

महि॑षीव॒त्वद्‌र॒यिस्त्वद्‌वाजा॒,उदी᳚रते॒(स्वाहा᳚) || 7 ||

यत्¦वाहि॑ष्ठ‌म्¦तत्¦अ॒ग्नये᳚¦बृ॒हत्¦अ॒र्च॒¦वि॒भा॒व॒सो॒ इति॑ विभाऽवसो | महि॑षीऽ‌इव¦त्वत्¦र॒यिः¦त्वत्¦वाजाः᳚¦उत्¦ई॒र॒ते॒ ||

तव॑द्यु॒मन्तो᳚,अ॒र्चयो॒ग्रावे᳚वोच्यतेबृ॒हत् |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

उ॒तोते᳚तन्य॒तुर्य॑थास्वा॒नो,अ॑र्त॒त्मना᳚दि॒वः(स्वाहा᳚) || 8 ||

तव॑¦द्यु॒ऽमन्तः॑¦अ॒र्चयः॑¦ग्रावा᳚ऽ‌इव¦उ॒च्य॒ते॒¦बृ॒हत् | उ॒तो इति॑¦ते॒¦त॒न्य॒तुः¦य॒था॒¦स्वा॒नः¦अ॒र्त॒¦त्मना᳚¦दि॒वः ||

ए॒वाँ,अ॒ग्निंव॑सू॒यवः॑सहसा॒नंव॑वन्दिम |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

सनो॒विश्वा॒,अति॒द्विषः॒पर्ष᳚न्ना॒वेव॑सु॒क्रतुः॒(स्वाहा᳚) || 9 ||

ए॒व¦अ॒ग्नि‌म्¦व॒सु॒ऽयवः॑¦स॒ह॒सा॒न‌म्¦व॒व॒न्दि॒म॒ | सः¦नः॒¦विश्वाः᳚¦अति॑¦द्विषः॑¦पर्ष॑त्¦ना॒वाऽ‌इ᳚व¦सु॒ऽक्रतुः॑ ||

[18] अग्नेपावकेति नवर्चस्य सूक्तस्यात्रेयोवसूयवोग्निरंत्यायाविश्वेदेवागायत्री |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:26}{अनुवाक:2, सूक्त:12}
अग्ने᳚पावकरो॒चिषा᳚म॒न्द्रया᳚देवजि॒ह्वया᳚ |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

आदे॒वान्‌व॑क्षि॒यक्षि॑च॒(स्वाहा᳚) || 1 || वर्ग:19

अग्ने᳚¦पा॒व॒क॒¦रो॒चिषा᳚¦म॒न्द्रया᳚¦दे॒व॒¦जि॒ह्वया᳚ | आ¦दे॒वान्¦व॒क्षि॒¦यक्षि॑¦च॒ ||

तंत्वा᳚घृतस्नवीमहे॒चित्र॑भानोस्व॒र्दृश᳚म् |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

दे॒वाँ,आवी॒तये᳚वह॒(स्वाहा᳚) || 2 ||

त‌म्¦त्वा॒¦घृ॒त॒स्नो॒ इति॑ घृतऽस्नो¦ई॒म॒हे॒¦चित्र॑भानो॒ इति॒ चित्र॑ऽभानो¦स्वः॒ऽदृश᳚‌म् | दे॒वान्¦आ¦वी॒तये᳚¦व॒ह॒ ||

वी॒तिहो᳚त्रंत्वाकवेद्यु॒मन्तं॒समि॑धीमहि |{आत्रेयो वसूयवः | अग्निः | गायत्री}

अग्ने᳚बृ॒हन्त॑मध्व॒रे(स्वाहा᳚) || 3 ||

वी॒तिऽहो᳚त्र‌म्¦त्वा॒¦क॒वे॒¦द्यु॒ऽमन्त᳚‌म्¦स‌म्¦इ॒धी॒म॒हि॒ | अग्ने᳚¦बृ॒हन्त᳚‌म्¦अ॒ध्व॒रे ||

अग्ने॒विश्वे᳚भि॒राग॑हिदे॒वेभि᳚र्ह॒व्यदा᳚तये |{आत्रेयो वसूयवः | अग्निः | गायत्री}

होता᳚रंत्वावृणीमहे॒(स्वाहा᳚) || 4 ||

अग्ने᳚¦विश्वे᳚ऽभिः¦आ¦ग॒हि॒¦दे॒वेभिः॑¦ह॒व्यऽदा᳚तये | होता᳚र‌म्¦त्वा॒¦वृ॒णी॒म॒हे॒ ||

यज॑मानायसुन्व॒तआग्ने᳚सु॒वीर्यं᳚वह |{आत्रेयो वसूयवः | अग्निः | गायत्री}

दे॒वैरास॑त्सिब॒र्हिषि॒(स्वाहा᳚) || 5 ||

यज॑मानाय¦सु॒न्व॒ते¦आ¦अ॒ग्ने॒¦सु॒ऽवीर्य᳚‌म्¦व॒ह॒ | दे॒वैः¦आ¦स॒त्सि॒¦ब॒र्हिषि॑ ||

स॒मि॒धा॒नःस॑हस्रजि॒दग्ने॒धर्मा᳚णिपुष्यसि |{आत्रेयो वसूयवः | अग्निः | गायत्री}

दे॒वानां᳚दू॒तउ॒क्थ्य॑१(अः॒)(स्वाहा᳚) || 6 || वर्ग:20

स॒‌म्ऽ‌इ॒धा॒नः¦स॒ह॒स्र॒ऽजि॒त्¦अग्ने᳚¦धर्मा᳚णि¦पु॒ष्य॒सि॒ | दे॒वाना᳚‌म्¦दू॒तः¦उ॒क्थ्यः॑ ||

न्य१॑(अ॒)ग्निंजा॒तवे᳚दसंहोत्र॒वाहं॒यवि॑ष्ठ्यम् |{आत्रेयो वसूयवः | अग्निः | गायत्री}

दधा᳚तादे॒वमृ॒त्विज॒‌म्(स्वाहा᳚) || 7 ||

नि¦अ॒ग्नि‌म्¦जा॒तऽवे᳚दस‌म्¦हो॒त्र॒ऽवाह᳚‌म्¦यवि॑ष्ठ्य‌म् | दधा᳚त¦दे॒व‌म्¦ऋ॒त्विज᳚‌म् ||

प्रय॒ज्ञए᳚त्वानु॒षग॒द्यादे॒वव्य॑चस्तमः |{आत्रेयो वसूयवः | अग्निः | गायत्री}

स्तृ॒णी॒तब॒र्हिरा॒सदे॒(स्वाहा᳚) || 8 ||

प्र¦य॒ज्ञः¦ए॒तु॒¦आ॒नु॒षक्¦अ॒द्य¦दे॒वव्य॑चःऽतमः | स्तृ॒णी॒त¦ब॒र्हिः¦आ॒ऽसदे᳚ ||

एदंम॒रुतो᳚,अ॒श्विना᳚मि॒त्रःसी᳚दन्तु॒वरु॑णः |{आत्रेयो वसूयवः | विश्वेदेवाः | गायत्री}

दे॒वासः॒सर्व॑यावि॒शा(स्वाहा᳚) || 9 ||

आ¦इ॒द‌म्¦म॒रुतः॑¦अ॒श्विना᳚¦मि॒त्रः¦सी॒द॒न्तु॒¦वरु॑णः | दे॒वासः॑¦सर्व॑या¦वि॒शा ||

[19] अनस्वंतेति षडृचस्य सूक्तस्य त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्चैतेऋषयोऽग्निरंत्यायाइंद्राग्नीत्रिष्टुप् अंत्यास्तिस्रोनुष्टुभः | ( अस्मिन्सूक्तेभौमोत्रिरेवदेवतेतिकेचित् अन्यथायोमेशताचविंशतिंचगोनामित्यादिदातृ क्रियायाअनुपपक्तेः | नैतदन्ये मन्यंतेआत्माध्यासपक्षस्वीकारेणतथाप्युपपक्तेः){अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:27}{अनुवाक:2, सूक्त:13}
अन॑स्वन्ता॒सत्प॑तिर्मामहेमे॒गावा॒चेति॑ष्ठो॒,असु॑रोम॒घोनः॑ |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | त्रिष्टुप्}

त्रै॒वृ॒ष्णो,अ॑ग्नेद॒शभिः॑स॒हस्रै॒र्वैश्वा᳚नर॒त्र्य॑रुणश्चिकेत॒(स्वाहा᳚) || 1 || वर्ग:21

अन॑स्वन्ता¦सत्ऽप॑तिः¦म॒म॒हे॒¦मे॒¦गावा᳚¦चेति॑ष्ठः¦असु॑रः¦म॒घोनः॑ |
त्रै॒वृ॒ष्णः¦अ॒ग्ने॒¦द॒शऽभिः॑¦स॒हस्रैः᳚¦वैश्वा᳚नर¦त्रि।आ॑रुणः¦चि॒के॒त॒ ||

योमे᳚श॒ताच॑विंश॒तिंच॒गोनां॒हरी᳚चयु॒क्तासु॒धुरा॒ददा᳚ति |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | त्रिष्टुप्}

वैश्वा᳚नर॒सुष्टु॑तोवावृधा॒नोऽग्ने॒यच्छ॒त्र्य॑रुणाय॒शर्म॒(स्वाहा᳚) || 2 ||

यः¦मे॒¦श॒ता¦च॒¦विं॒श॒ति‌म्¦च॒¦गोना᳚‌म्¦हरी॒ इति॑¦च॒¦यु॒क्ता¦सु॒ऽधुरा᳚¦ददा᳚ति |
वैश्वा᳚नर¦सुऽस्तु॑तः¦व॒वृ॒धा॒नः¦अग्ने᳚¦यच्छ॑¦त्रि।आ॑रुणाय¦शर्म॑ ||

ए॒वाते᳚,अग्नेसुम॒तिंच॑का॒नोनवि॑ष्ठायनव॒मंत्र॒सद॑स्युः |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | त्रिष्टुप्}

योमे॒गिर॑स्तुविजा॒तस्य॑पू॒र्वीर्यु॒क्तेना॒भित्र्य॑रुणोगृ॒णाति॒(स्वाहा᳚) || 3 ||

ए॒व¦ते॒¦अ॒ग्ने॒¦सु॒ऽम॒ति‌म्¦च॒का॒नः¦नवि॑ष्ठाय¦न॒व॒म‌म्¦त्र॒सद॑स्युः |
यः¦मे॒¦गिरः॑¦तु॒वि॒ऽजा॒तस्य॑¦पू॒र्वीः¦यु॒क्तेन॑¦अ॒भि¦त्रि।आ॑रुणः¦गृ॒णाति॑ ||

योम॒इति॑प्र॒वोच॒त्यश्व॑मेधायसू॒रये᳚ |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | अनुष्टुप्}

दद॑दृ॒चास॒निंय॒तेदद᳚न्मे॒धामृ॑ताय॒ते(स्वाहा᳚) || 4 ||

यः¦मे॒¦इति॑¦प्र॒ऽवोच॑ति¦अश्व॑ऽमेधाय¦सू॒रये᳚ | दद॑त्¦ऋ॒चा¦स॒नि‌म्¦य॒ते¦दद॑त्¦मे॒धा‌म्¦ऋ॒त॒ऽय॒ते ||

यस्य॑मापरु॒षाःश॒तमु॑द्ध॒र्षय᳚न्त्यु॒क्षणः॑ |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | अनुष्टुप्}

अश्व॑मेधस्य॒दानाः॒सोमा᳚,इव॒त्र्या᳚शिरः॒(स्वाहा᳚) || 5 ||

यस्य॑¦मा॒¦प॒रु॒षाः¦श॒त‌म्¦उ॒त्ऽह॒र्षय᳚न्ति¦उ॒क्षणः॑ | अश्व॑ऽमेधस्य¦दानाः᳚¦सोमाः᳚ऽ‌इव¦त्रिऽआ᳚शिरः ||

इन्द्रा᳚ग्नीशत॒दाव्न्यश्व॑मेधेसु॒वीर्य᳚म् |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | इन्द्राग्नी | अनुष्टुप्}

क्ष॒त्रंधा᳚रयतंबृ॒हद्दि॒विसूर्य॑मिवा॒जर॒‌म्(स्वाहा᳚) || 6 ||

इन्द्रा᳚ग्नी॒ इति॑¦श॒त॒ऽदाव्नि॑¦अश्व॑ऽमेधे¦सु॒ऽवीर्य᳚‌म् | क्ष॒त्र‌म्¦धा॒र॒य॒त॒‌म्¦बृ॒हत्¦दि॒वि¦सूर्य᳚‌म्ऽ‌इव¦अ॒जर᳚‌म् ||

[20] समिद्धइति षडृचस्य सूक्तस्यात्रेयी विश्ववाराऋषिकाग्निः आद्याःक्रमेणत्रिष्टुब्जगतीत्रिष्टुबनुष्टुभः अंत्येद्वेगायत्र्यौ |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:28}{अनुवाक:2, सूक्त:14}
समि॑द्धो,अ॒ग्निर्दि॒विशो॒चिर॑श्रेत्प्र॒त्यङ्ङु॒षस॑मुर्वि॒याविभा᳚ति |{आत्रेयी विश्ववारा ऋषिका | अग्निः | त्रिष्टुप्}

एति॒प्राची᳚वि॒श्ववा᳚रा॒नमो᳚भिर्दे॒वाँ,ईळा᳚नाह॒विषा᳚घृ॒ताची॒(स्वाहा᳚) || 1 || वर्ग:22

स‌म्ऽ‌इ᳚द्धः¦अ॒ग्निः¦दि॒वि¦शो॒चिः¦अ॒श्रे॒त्¦प्र॒त्यङ्¦उ॒षस᳚‌म्¦उ॒र्वि॒या¦वि¦भा॒ति॒ |
एति॑¦प्राची᳚¦वि॒श्वऽवा᳚रा¦नमः॑ऽभिः¦दे॒वान्¦ईळा᳚ना¦ह॒विषा᳚¦घृ॒ताची᳚ ||

स॒मि॒ध्यमा᳚नो,अ॒मृत॑स्यराजसिह॒विष्कृ॒ण्वन्तं᳚सचसेस्व॒स्तये᳚ |{आत्रेयी विश्ववारा ऋषिका | अग्निः | जगती}

विश्वं॒सध॑त्ते॒द्रवि॑णं॒यमिन्व॑स्याति॒थ्यम॑ग्ने॒निच॑धत्त॒इत्‌पु॒रः(स्वाहा᳚) || 2 ||

स॒‌म्ऽ‌इ॒ध्यमा᳚नः¦अ॒मृत॑स्य¦रा॒ज॒सि॒¦ह॒विः¦कृ॒ण्वन्त᳚‌म्¦स॒च॒से॒¦स्व॒स्तये᳚ |
विश्व᳚‌म्¦सः¦ध॒त्ते॒¦द्रवि॑ण‌म्¦य‌म्¦इन्व॑सि¦आ॒ति॒थ्य‌म्¦अ॒ग्ने॒¦नि¦च॒¦ध॒त्ते॒¦इत्¦पु॒रः ||

अग्ने॒शर्ध॑मह॒तेसौभ॑गाय॒तव॑द्यु॒म्नान्यु॑त्त॒मानि॑सन्तु |{आत्रेयी विश्ववारा ऋषिका | अग्निः | त्रिष्टुप्}

संजा᳚स्प॒त्यंसु॒यम॒माकृ॑णुष्वशत्रूय॒ताम॒भिति॑ष्ठा॒महां᳚सि॒(स्वाहा᳚) || 3 ||

अग्ने᳚¦शर्ध॑¦म॒ह॒ते¦सौभ॑गाय¦तव॑¦द्यु॒म्नानि॑¦उ॒त्ऽत॒मानि॑¦स॒न्तु॒ |
स‌म्¦जाः॒ऽप॒त्य‌म्¦सु॒ऽयम᳚‌म्¦आ¦कृ॒णु॒ष्व॒¦श॒त्रु॒ऽय॒ता‌म्¦अ॒भि¦ति॒ष्ठ॒¦महां᳚सि ||

समि॑द्धस्य॒प्रम॑ह॒सोऽग्ने॒वन्दे॒तव॒श्रिय᳚म् |{आत्रेयी विश्ववारा ऋषिका | अग्निः | अनुष्टुप्}

वृ॒ष॒भोद्यु॒म्नवाँ᳚,असि॒सम॑ध्व॒रेष्वि॑ध्यसे॒(स्वाहा᳚) || 4 ||

स‌म्ऽ‌इ᳚द्धस्य¦प्रऽम॑हसः¦अ॒ग्ने॒¦वन्दे᳚¦तव॑¦श्रिय᳚‌म् | वृ॒ष॒भः¦द्यु॒म्नऽवा᳚न्¦अ॒सि॒¦स‌म्¦अ॒ध्व॒रेषु॑¦इ॒ध्य॒से॒ ||

समि॑द्धो,अग्नआहुतदे॒वान्‌य॑क्षिस्वध्वर |{आत्रेयी विश्ववारा ऋषिका | अग्निः | गायत्री}

त्वंहिह᳚व्य॒वाळसि॒(स्वाहा᳚) || 5 ||

स‌म्ऽ‌इ᳚द्धः¦अ॒ग्ने॒¦आ॒ऽहु॒त॒¦दे॒वान्¦य॒क्षि॒¦सु॒।आ॒ध्व॒र॒ | त्व‌म्¦हि¦ह॒व्य॒ऽवाट्¦असि॑ ||

आजु॑होतादुव॒स्यता॒ऽग्निंप्र॑य॒त्य॑ध्व॒रे |{आत्रेयी विश्ववारा ऋषिका | अग्निः | गायत्री}

वृ॒णी॒ध्वंह᳚व्य॒वाह॑न॒‌म्(स्वाहा᳚) || 6 ||

आ¦जु॒हो॒त॒¦दु॒व॒स्यत॑¦अ॒ग्नि‌म्¦प्र॒ऽय॒ति¦अ॒ध्व॒रे | वृ॒णी॒ध्व‌म्¦ह॒व्य॒ऽवाह॑न‌म् ||

[21] त्र्यर्यमेति पंचदशर्चस्य सूक्तस्य शाक्त्योगौरिवीतिरिंद्रः (उशनायदितिपादस्योशनावा) त्रिष्टुप् |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:29}{अनुवाक:2, सूक्त:15}
त्र्य᳚र्य॒मामनु॑षोदे॒वता᳚ता॒त्रीरो᳚च॒नादि॒व्याधा᳚रयन्त |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अर्च᳚न्तित्वाम॒रुतः॑पू॒तद॑क्षा॒स्त्वमे᳚षा॒मृषि॑रिन्द्रासि॒धीरः॒(स्वाहा᳚) || 1 || वर्ग:23

त्री¦अ॒र्य॒मा¦मनु॑षः¦दे॒वऽता᳚ता¦त्री¦रो॒च॒ना¦दि॒व्या¦धा॒र॒य॒न्त॒ |
अर्च᳚न्ति¦त्वा॒¦म॒रुतः॑¦पू॒तऽद॑क्षाः¦त्व‌म्¦ए॒षा॒‌म्¦ऋषिः॑¦इ॒न्द्र॒¦अ॒सि॒¦धीरः॑ ||

अनु॒यदीं᳚म॒रुतो᳚मन्दसा॒नमार्च॒न्निन्द्रं᳚पपि॒वांसं᳚सु॒तस्य॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

आद॑त्त॒वज्र॑म॒भियदहिं॒हन्न॒पोय॒ह्वीर॑सृज॒त्‌सर्त॒वा,उ॒(स्वाहा᳚) || 2 ||

अनु॑¦यत्¦ई॒‌म्¦म॒रुतः॑¦म॒न्द॒सा॒न‌म्¦आर्च॑न्¦इन्द्र᳚‌म्¦प॒पि॒ऽवांस᳚‌म्¦सु॒तस्य॑ |
आ¦अ॒द॒त्त॒¦वज्र᳚‌म्¦अ॒भि¦यत्¦अहि᳚‌म्¦हन्¦अ॒पः¦य॒ह्वीः¦अ॒सृ॒ज॒त्¦सर्त॒वै¦ऊँ॒ इति॑ ||

उ॒तब्र᳚ह्माणोमरुतोमे,अ॒स्येन्द्रः॒सोम॑स्य॒सुषु॑तस्यपेयाः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

तद्धिह॒व्यंमनु॑षे॒गा,अवि᳚न्द॒दह॒न्नहिं᳚पपि॒वाँ,इन्द्रो᳚,अस्य॒(स्वाहा᳚) || 3 ||

उ॒त¦ब्र॒ह्मा॒णः॒¦म॒रु॒तः॒¦मे॒¦अ॒स्य¦इन्द्रः॑¦सोम॑स्य¦सुऽसु॑तस्य¦पे॒याः॒ |
तत्¦हि¦ह॒व्य‌म्¦मनु॑षे¦गाः¦अवि᳚न्दत्¦अह॑न्¦अहि᳚‌म्¦प॒पि॒ऽवान्¦इन्द्रः॑¦अ॒स्य॒ ||

आद्रोद॑सीवित॒रंविष्क॑भायत्संविव्या॒नश्चि॑द्‌भि॒यसे᳚मृ॒गंकः॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

जिग॑र्ति॒मिन्द्रो᳚,अप॒जर्गु॑राणः॒प्रति॑श्व॒सन्त॒मव॑दान॒वंह॒न्त्(स्वाहा᳚) || 4 ||

आत्¦रोद॑सी॒ इति॑¦वि॒ऽत॒र‌म्¦वि¦स्क॒भा॒य॒त्¦स॒‌म्ऽवि॒व्या॒नः¦चि॒त्¦भि॒यसे᳚¦मृ॒ग‌म्¦क॒रिति॑ कः |
जिग॑र्ति‌म्¦इन्द्रः॑¦अ॒प॒ऽजर्गु॑राणः¦प्रति॑¦श्व॒सन्त᳚‌म्¦अव॑¦दा॒न॒व‌म्¦ह॒न्निति॑ हन् ||

अध॒क्रत्वा᳚मघव॒न्‌तुभ्यं᳚दे॒वा,अनु॒विश्वे᳚,अददुःसोम॒पेय᳚म् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

यत्सूर्य॑स्यह॒रितः॒पत᳚न्तीःपु॒रःस॒तीरुप॑रा॒,एत॑शे॒कः(स्वाहा᳚) || 5 ||

अध॑¦क्रत्वा᳚¦म॒घ॒ऽव॒न्¦तुभ्य᳚‌म्¦दे॒वाः¦अनु॑¦विश्वे᳚¦अ॒द॒दुः॒¦सो॒म॒ऽपेय᳚‌म् |
यत्¦सूर्य॑स्य¦ह॒रितः॑¦पत᳚न्तीः¦पु॒रः¦स॒तीः¦उप॑राः¦एत॑शे¦करिति॒ कः ||

नव॒यद॑स्यनव॒तिंच॑भो॒गान्त्सा॒कंवज्रे᳚णम॒घवा᳚विवृ॒श्चत् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अर्च॒न्तीन्द्रं᳚म॒रुतः॑स॒धस्थे॒त्रैष्टु॑भेन॒वच॑साबाधत॒द्याम्(स्वाहा᳚) || 6 || वर्ग:24

नव॑¦यत्¦अ॒स्य॒¦न॒व॒ति‌म्¦च॒¦भो॒गान्¦सा॒क‌म्¦वज्रे᳚ण¦म॒घऽवा᳚¦वि॒वृ॒श्चत् |
अर्च᳚न्ति¦इन्द्र᳚‌म्¦म॒रुतः॑¦स॒धऽस्थे᳚¦त्रैस्तु॑भेन¦वच॑सा¦बा॒ध॒त॒¦द्या‌म् ||

सखा॒सख्ये᳚,अपच॒त्‌तूय॑म॒ग्निर॒स्यक्रत्वा᳚महि॒षात्रीश॒तानि॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

त्रीसा॒कमिन्द्रो॒मनु॑षः॒सरां᳚सिसु॒तंपि॑बद्‌वृत्र॒हत्या᳚य॒सोम॒‌म्(स्वाहा᳚) || 7 ||

सखा᳚¦सख्ये᳚¦अ॒प॒च॒त्¦तूय᳚‌म्¦अ॒ग्निः¦अ॒स्य¦क्रत्वा᳚¦म॒हि॒षा¦त्री¦श॒तानि॑ |
त्री¦सा॒क‌म्¦इन्द्रः॑¦मनु॑षः¦सरां᳚सि¦सु॒त‌म्¦पि॒ब॒त्¦वृ॒त्र॒ऽहत्या᳚य¦सोम᳚‌म् ||

त्रीयच्छ॒ताम॑हि॒षाणा॒मघो॒मास्त्रीसरां᳚सिम॒घवा᳚सो॒म्यापाः᳚ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

का॒रंनविश्वे᳚,अह्वन्तदे॒वाभर॒मिन्द्रा᳚य॒यदहिं᳚ज॒घान॒(स्वाहा᳚) || 8 ||

त्री¦यत्¦श॒ता¦म॒हि॒षाणा᳚‌म्¦अघः॑¦माः¦त्री¦सरां᳚सि¦म॒घऽवा᳚¦सो॒म्या¦अपाः᳚ |
का॒र‌म्¦न¦विश्वे᳚¦अ॒ह्व॒न्त॒¦दे॒वाः¦भर᳚‌म्¦इन्द्रा᳚य¦यत्¦अहि᳚‌म्¦ज॒घान॑ ||

उ॒शना॒यत्स॑ह॒स्यै॒३॑(ऐ॒)रया᳚तंगृ॒हमि᳚न्द्रजूजुवा॒नेभि॒रश्वैः᳚ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

व॒न्वा॒नो,अत्र॑स॒रथं᳚ययाथ॒कुत्से᳚नदे॒वैरव॑नोर्ह॒शुष्ण॒‌म्(स्वाहा᳚) || 9 ||

उ॒शना᳚¦यत्¦स॒ह॒स्यैः᳚¦अया᳚त‌म्¦गृ॒ह‌म्¦इ॒न्द्र॒¦जू॒जु॒वा॒नेभिः॑¦अश्वैः᳚ |
व॒न्वा॒नः¦अत्र॑¦स॒ऽरथ᳚‌म्¦य॒या॒थ॒¦कुत्से᳚न¦दे॒वैः¦अव॑नोः¦ह॒¦शुष्ण᳚‌म् ||

प्रान्यच्च॒क्रम॑वृहः॒सूर्य॑स्य॒कुत्सा᳚या॒न्यद्वरि॑वो॒यात॑वेऽकः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अ॒नासो॒दस्यूँ᳚रमृणोव॒धेन॒निदु᳚र्यो॒णआ᳚वृणङ्‌मृ॒ध्रवा᳚चः॒(स्वाहा᳚) || 10 ||

प्र¦अ॒न्यत्¦च॒क्र‌म्¦अ॒वृ॒हः॒¦सूर्य॑स्य¦कुत्सा᳚य¦अ॒न्यत्¦वरि॑वः¦यात॑वे¦अ॒क॒रित्य॑कः |
अ॒नासः॑¦दस्यू᳚न्¦अ॒मृ॒णः॒¦व॒धेन॑¦नि¦दु॒र्यो॒णे¦अ॒वृ॒ण॒क्¦मृ॒ध्रऽवा᳚चः ||

स्तोमा᳚सस्त्वा॒गौरि॑वीतेरवर्ध॒न्नर᳚न्धयोवैदथि॒नाय॒पिप्रु᳚म् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

आत्वामृ॒जिश्वा᳚स॒ख्याय॑चक्रे॒पच᳚न्‌प॒क्तीरपि॑बः॒सोम॑मस्य॒(स्वाहा᳚) || 11 || वर्ग:25

स्तोमा᳚सः¦त्वा॒¦गौरि॑ऽवीतेः¦अ॒व॒र्ध॒न्¦अर᳚न्धयः¦वै॒द॒थि॒नाय॑¦पिप्रु᳚‌म् |
आ¦त्वा‌म्¦ऋ॒जिश्वा᳚¦स॒ख्याय॑¦च॒क्रे॒¦पच॑न्¦प॒क्तीः¦अपि॑बः¦सोम᳚‌म्¦अ॒स्य॒ ||

नव॑ग्वासःसु॒तसो᳚मास॒इन्द्रं॒दश॑ग्वासो,अ॒भ्य॑र्चन्त्य॒र्कैः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

गव्यं᳚चिदू॒र्वम॑पि॒धान॑वन्तं॒तंचि॒न्नरः॑शशमा॒ना,अप᳚व्र॒‌न्(स्वाहा᳚) || 12 ||

नव॑ऽग्वासः¦सु॒तऽसो᳚मासः¦इन्द्र᳚‌म्¦दश॑ऽग्वासः¦अ॒भि¦अ॒र्च॒न्ति॒¦अ॒र्कैः |
गव्य᳚‌म्¦चि॒त्¦ऊ॒र्व‌म्¦अ॒पि॒धान॑ऽवन्त‌म्¦त‌म्¦चि॒त्¦नरः॑¦श॒श॒मा॒नाः¦अप॑¦व्र॒न् ||

क॒थोनुते॒परि॑चराणिवि॒द्वान्वी॒र्या᳚मघव॒न्याच॒कर्थ॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

याचो॒नुनव्या᳚कृ॒णवः॑शविष्ठ॒प्रेदु॒ताते᳚वि॒दथे᳚षुब्रवाम॒(स्वाहा᳚) || 13 ||

क॒थो इति॑¦नु¦ते॒¦परि॑¦च॒रा॒णि॒¦वि॒द्वान्¦वी॒र्या᳚¦म॒घ॒ऽव॒न्¦या¦च॒कर्थ॑ |
या¦चो॒ इति॑¦नु¦नव्या᳚¦कृ॒णवः॑¦श॒वि॒ष्ठ॒¦प्र¦इत्¦ऊँ॒ इति॑¦ता¦ते॒¦वि॒दथे᳚षु¦ब्र॒वा॒म॒ ||

ए॒ताविश्वा᳚चकृ॒वाँ,इ᳚न्द्र॒भूर्यप॑रीतोज॒नुषा᳚वी॒र्ये᳚ण |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

याचि॒न्नुव॑ज्रिन्‌कृ॒णवो᳚दधृ॒ष्वान्नते᳚व॒र्तातवि॑ष्या,अस्ति॒तस्याः᳚(स्वाहा᳚) || 14 ||

ए॒ता¦विश्वा᳚¦च॒कृ॒ऽवान्¦इ॒न्द्र॒¦भूरि॑¦अप॑रिऽ‌इतः¦ज॒नुषा᳚¦वी॒र्ये᳚ण |
या¦चि॒त्¦नु¦व॒ज्रि॒न्¦कृ॒णवः॑¦द॒धृ॒ष्वान्¦न¦ते॒¦व॒र्ता¦तवि॑ष्याः¦अ॒स्ति॒¦तस्याः᳚ ||

इन्द्र॒ब्रह्म॑क्रि॒यमा᳚णाजुषस्व॒याते᳚शविष्ठ॒नव्या॒,अक᳚र्म |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

वस्त्रे᳚वभ॒द्रासुकृ॑तावसू॒यूरथं॒नधीरः॒स्वपा᳚,अतक्ष॒‌म्(स्वाहा᳚) || 15 ||

इन्द्र॑¦ब्रह्म॑¦क्रि॒यमा᳚णा¦जु॒ष॒स्व॒¦या¦ते॒¦श॒वि॒ष्ठ॒¦नव्याः᳚¦अक᳚र्म |
वस्त्रा᳚ऽ‌इव¦भ॒द्रा¦सुऽकृ॑ता¦व॒सु॒ऽयुः¦रथ᳚‌म्¦न¦धीरः॑¦सु॒।आपाः᳚¦अ॒त॒क्ष॒‌म् ||

[22] क्वस्येति पंचदशर्चस्य सूक्तस्यात्रेयोबभ्रुरिंद्रोंत्यानांचतसृणामृणंचयेंद्रौदेवतेत्रिष्टुप् |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:30}{अनुवाक:2, सूक्त:16}
क्व१॑(अ॒)स्यवी॒रःको,अ॑पश्य॒दिन्द्रं᳚सु॒खर॑थ॒मीय॑मानं॒हरि॑भ्याम् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

योरा॒याव॒ज्रीसु॒तसो᳚ममि॒च्छन्तदोको॒गन्ता᳚पुरुहू॒तऊ॒ती(स्वाहा᳚) || 1 || वर्ग:26

क्व॑¦स्यः¦वी॒रः¦कः¦अ॒प॒श्य॒त्¦इन्द्र᳚‌म्¦सु॒खऽर॑थ‌म्¦ईय॑मान‌म्¦हरि॑ऽभ्या‌म् |
यः¦रा॒या¦व॒ज्री¦सु॒तऽसो᳚म‌म्¦इ॒च्छन्¦तत्¦ओकः॑¦गन्ता᳚¦पु॒रु॒ऽहू॒तः¦ऊ॒ती ||

अवा᳚चचक्षंप॒दम॑स्यस॒स्वरु॒ग्रंनि॑धा॒तुरन्वा᳚यमि॒च्छन् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अपृ॑च्छम॒न्याँ,उ॒ततेम॑आहु॒रिन्द्रं॒नरो᳚बुबुधा॒ना,अ॑शेम॒(स्वाहा᳚) || 2 ||

अव॑¦अ॒च॒च॒क्ष॒‌म्¦प॒द‌म्¦अ॒स्य॒¦स॒स्वः¦उ॒ग्र‌म्¦नि॒ऽधा॒तुः¦अनु॑¦आ॒य॒‌म्¦इ॒च्छन् |
अपृ॑च्छ‌म्¦अ॒न्यान्¦उ॒त¦ते¦मे॒¦आ॒हुः॒¦इन्द्र᳚‌म्¦नरः॑¦बु॒बु॒धा॒नाः¦अ॒शे॒म॒ ||

प्रनुव॒यंसु॒तेयाते᳚कृ॒तानीन्द्र॒ब्रवा᳚म॒यानि॑नो॒जुजो᳚षः |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

वेद॒दवि॑द्वाञ्छृ॒णव॑च्चवि॒द्वान्वह॑ते॒ऽयंम॒घवा॒सर्व॑सेनः॒(स्वाहा᳚) || 3 ||

प्र¦नु¦व॒य‌म्¦सु॒ते¦या¦ते॒¦कृ॒तानि॑¦इन्द्र॑¦ब्रवा᳚म¦यानि॑¦नः॒¦जुजो᳚षः |
वेद॑त्¦अवि॑द्वान्¦शृ॒णव॑त्¦च॒¦वि॒द्वान्¦वह॑ते¦अ॒य‌म्¦म॒घऽवा᳚¦सर्व॑ऽसेनः ||

स्थि॒रंमन॑श्चकृषेजा॒तइ᳚न्द्र॒वेषीदेको᳚यु॒धये॒भूय॑सश्चित् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अश्मा᳚नंचि॒च्छव॑सादिद्युतो॒विवि॒दोगवा᳚मू॒र्वमु॒स्रिया᳚णा॒‌म्(स्वाहा᳚) || 4 ||

स्थि॒र‌म्¦मनः॑¦च॒कृ॒षे॒¦जा॒तः¦इ॒न्द्र॒¦वेषि॑¦इत्¦एकः॑¦यु॒धये᳚¦भूय॑सः¦चि॒त् |
अश्मा᳚न‌म्¦चि॒त्¦शव॑सा¦दि॒द्यु॒तः॒¦वि¦वि॒दः¦गवा᳚‌म्¦ऊ॒र्व‌म्¦उ॒स्रिया᳚णा‌म् ||

प॒रोयत्‌त्वंप॑र॒मआ॒जनि॑ष्ठाःपरा॒वति॒श्रुत्यं॒नाम॒बिभ्र॑त् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अत॑श्चि॒दिन्द्रा᳚दभयन्तदे॒वाविश्वा᳚,अ॒पो,अ॑जयद्‌दा॒सप॑त्नीः॒(स्वाहा᳚) || 5 ||

प॒रः¦यत्¦त्व‌म्¦प॒र॒मः¦आ॒ऽजनि॑ष्ठाः¦प॒रा॒ऽवति॑¦श्रुत्य᳚‌म्¦नाम॑¦बिभ्र॑त् |
अतः॑¦चि॒त्¦इन्द्रा᳚त्¦अ॒भ॒य॒न्त॒¦दे॒वाः¦विश्वाः᳚¦अ॒पः¦अ॒ज॒य॒त्¦दा॒सऽप॑त्नीः ||

तुभ्येदे॒तेम॒रुतः॑सु॒शेवा॒,अर्च᳚न्त्य॒र्कंसु॒न्वन्त्यन्धः॑ |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अहि॑मोहा॒नम॒पआ॒शया᳚नं॒प्रमा॒याभि᳚र्मा॒यिनं᳚सक्ष॒दिन्द्रः॒(स्वाहा᳚) || 6 || वर्ग:27

तुभ्य॑¦इत्¦ए॒ते¦म॒रुतः॑¦सु॒ऽशेवाः᳚¦अर्च᳚न्ति¦अ॒र्क‌म्¦सु॒न्वन्ति॑¦अन्धः॑ |
अहि᳚‌म्¦ओ॒हा॒न‌म्¦अ॒पः¦आ॒ऽशया᳚न‌म्¦प्र¦मा॒याभिः॑¦मा॒यिन᳚‌म्¦स॒क्ष॒त्¦इन्द्रः॑ ||

विषूमृधो᳚ज॒नुषा॒दान॒मिन्व॒न्नह॒न्‌गवा᳚मघवन्‌त्संचका॒नः |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अत्रा᳚दा॒सस्य॒नमु॑चेः॒शिरो॒यदव॑र्तयो॒मन॑वेगा॒तुमि॒च्छन्(स्वाहा᳚) || 7 ||

वि¦सु¦मृधः॑¦ज॒नुषा᳚¦दान᳚‌म्¦इन्व॑न्¦अह॑न्¦गवा᳚¦म॒घ॒ऽव॒न्¦स॒‌म्ऽच॒का॒नः |
अत्र॑¦दा॒सस्य॑¦नमु॑चेः¦शिरः॑¦यत्¦अव॑र्तयः¦मन॑वे¦गा॒तु‌म्¦इ॒च्छन् ||

युजं॒हिमामकृ॑था॒,आदिदि᳚न्द्र॒शिरो᳚दा॒सस्य॒नमु॑चेर्मथा॒यन् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अश्मा᳚नंचित्‌स्व॒र्य१॑(अं॒)वर्त॑मानं॒प्रच॒क्रिये᳚व॒रोद॑सीम॒रुद्भ्यः॒(स्वाहा᳚) || 8 ||

युज᳚‌म्¦हि¦मा‌म्¦अकृ॑थाः¦आत्¦इत्¦इ॒न्द्र॒¦शिरः॑¦दा॒सस्य॑¦नमु॑चेः¦म॒था॒यन् |
अश्मा᳚न‌म्¦चि॒त्¦स्व॒र्य᳚‌म्¦वर्त॑मान‌म्¦प्र¦च॒क्रिया᳚ऽ‌इव¦रोद॑सी॒ इति॑¦म॒रुत्ऽभ्यः॑ ||

स्त्रियो॒हिदा॒सआयु॑धानिच॒क्रेकिंमा᳚करन्नब॒ला,अ॑स्य॒सेनाः᳚ |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अ॒न्तर्ह्यख्य॑दु॒भे,अ॑स्य॒धेने॒,अथोप॒प्रैद्‌यु॒धये॒दस्यु॒मिन्द्रः॒(स्वाहा᳚) || 9 ||

स्त्रियः॑¦हि¦दा॒सः¦आयु॑धानि¦च॒क्रे¦कि‌म्¦मा॒¦क॒र॒न्¦अ॒ब॒लाः¦अ॒स्य॒¦सेनाः᳚ |
अ॒न्तः¦हि¦अख्य॑त्¦उ॒भे इति॑¦अ॒स्य॒¦धेने॒ इति॑¦अथ॑¦उप॑¦प्र¦ऐ॒त्¦यु॒धये᳚¦दस्यु᳚‌म्¦इन्द्रः॑ ||

समत्र॒गावो॒ऽभितो᳚ऽनवन्ते॒हेह॑व॒त्सैर्वियु॑ता॒यदास॑न् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

संता,इन्द्रो᳚,असृजदस्यशा॒कैर्यदीं॒सोमा᳚सः॒सुषु॑ता॒,अम᳚न्द॒‌न्(स्वाहा᳚) || 10 ||

स‌म्¦अत्र॑¦गावः॑¦अ॒भितः॑¦अ॒न॒व॒न्त॒¦इ॒हऽ‌इ᳚ह¦व॒त्सैः¦विऽयु॑ताः¦यत्¦आस॑न् |
स‌म्¦ताः¦इन्द्रः॑¦अ॒सृ॒ज॒त्¦अ॒स्य॒¦शा॒कैः¦यत्¦ई॒‌म्¦सोमा᳚सः¦सुऽसु॑ताः¦अम᳚न्दन् ||

यदीं॒सोमा᳚ब॒भ्रुधू᳚ता॒,अम᳚न्द॒न्नरो᳚रवीद्‌वृष॒भःसाद॑नेषु |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

पु॒रं॒द॒रःप॑पि॒वाँ,इन्द्रो᳚,अस्य॒पुन॒र्गवा᳚मददादु॒स्रिया᳚णा॒‌म्(स्वाहा᳚) || 11 || वर्ग:28

यत्¦ई॒‌म्¦सोमाः᳚¦ब॒भ्रुऽधू᳚ताः¦अम᳚न्दन्¦अरो᳚रवीत्¦वृ॒ष॒भः¦साद॑नेषु |
पु॒र॒‌म्ऽद॒रः¦प॒पि॒ऽवान्¦इन्द्रः॑¦अ॒स्य॒¦पुनः॑¦गवा᳚‌म्¦अ॒द॒दा॒त्¦उ॒स्रिया᳚णा‌म् ||

भ॒द्रमि॒दंरु॒शमा᳚,अग्ने,अक्र॒न्गवां᳚च॒त्वारि॒दद॑तःस॒हस्रा᳚ |{आत्रेयो बभ्रुः | ऋणामृणंचयेंद्रौ | त्रिष्टुप्}

ऋ॒णं॒च॒यस्य॒प्रय॑ताम॒घानि॒प्रत्य॑ग्रभीष्म॒नृत॑मस्यनृ॒णाम्(स्वाहा᳚) || 12 ||

भ॒द्र‌म्¦इ॒द‌म्¦रु॒शमाः᳚¦अ॒ग्ने॒¦अ॒क्र॒न्¦गवा᳚‌म्¦च॒त्वारि॑¦दद॑तः¦स॒हस्रा᳚ |
ऋ॒ण॒‌म्ऽच॒यस्य॑¦प्रऽय॑ता¦म॒घानि॑¦प्रति॑¦अ॒ग्र॒भी॒ष्म॒¦नृऽत॑मस्य¦नृ॒णा‌म् ||

सु॒पेश॑सं॒माव॑सृज॒न्त्यस्तं॒गवां᳚स॒हस्रै᳚रु॒शमा᳚सो,अग्ने |{आत्रेयो बभ्रुः | ऋणामृणंचयेंद्रौ | त्रिष्टुप्}

ती॒व्रा,इन्द्र॑मममन्दुःसु॒तासो॒ऽक्तोर्व्यु॑ष्टौ॒परि॑तक्म्यायाः॒(स्वाहा᳚) || 13 ||

सु॒ऽपेश॑स‌म्¦मा॒¦अव॑¦सृ॒ज॒न्ति॒¦अस्त᳚‌म्¦गवा᳚‌म्¦स॒हस्रैः᳚¦रु॒शमा᳚सः¦अ॒ग्ने॒ |
ती॒व्राः¦इन्द्र᳚‌म्¦अ॒म॒म॒न्दुः॒¦सु॒तासः॑¦अ॒क्तोः¦वि।औ᳚ष्टौ¦परि॑ऽतक्म्यायाः ||

औच्छ॒त्सारात्री॒परि॑तक्म्या॒याँ,ऋ॑णंच॒येराज॑निरु॒शमा᳚नाम् |{आत्रेयो बभ्रुः | ऋणामृणंचयेंद्रौ | त्रिष्टुप्}

अत्यो॒नवा॒जीर॒घुर॒ज्यमा᳚नोब॒भ्रुश्च॒त्वार्य॑सनत्‌स॒हस्रा॒(स्वाहा᳚) || 14 ||

औच्छ॑त्¦सा¦रात्री᳚¦परि॑ऽतक्म्या¦या¦ऋ॒ण॒‌म्ऽच॒ये¦राज॑नि¦रु॒शमा᳚ना‌म् |
अत्यः॑¦न¦वा॒जी¦र॒घुः¦अ॒ज्यमा᳚नः¦ब॒भ्रुः¦च॒त्वारि॑¦अ॒स॒न॒त्¦स॒हस्रा᳚ ||

चतुः॑सहस्रं॒गव्य॑स्यप॒श्वःप्रत्य॑ग्रभीष्मरु॒शमे᳚ष्वग्ने |{आत्रेयो बभ्रुः | ऋणामृणंचयेंद्रौ | त्रिष्टुप्}

घ॒र्मश्चि॑त्‌त॒प्तःप्र॒वृजे॒यआसी᳚दय॒स्मय॒स्तम्वादा᳚म॒विप्राः᳚(स्वाहा᳚) || 15 ||

चतुः॑ऽसहस्र‌म्¦गव्य॑स्य¦प॒श्वः¦प्रति॑¦अ॒ग्र॒भी॒ष्म॒¦रु॒शमे᳚षु¦अ॒ग्ने॒ |
घ॒र्मः¦चि॒त्¦त॒प्तः¦प्र॒ऽवृजे᳚¦यः¦आसी᳚त्¦अ॒य॒स्मयः॑¦त‌म्¦ऊँ॒ इति॑¦आदा᳚म¦विप्राः᳚ ||

[23] इंद्रोरथायेति त्रयोदशर्चस्य सूक्तस्यात्रेयोवस्युरिंद्रः | ( उग्रमयातमित्यादि पादौ कुत्सदैवत्यौ‌उशनोदैवत्यौवा) नवम्या इंद्रा कुत्सौत्रिष्टुप् |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:31}{अनुवाक:2, सूक्त:17}
इन्द्रो॒रथा᳚यप्र॒वतं᳚कृणोति॒यम॒ध्यस्था᳚न्म॒घवा᳚वाज॒यन्त᳚म् |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

यू॒थेव॑प॒श्वोव्यु॑नोतिगो॒पा,अरि॑ष्टोयातिप्रथ॒मःसिषा᳚स॒‌न्(स्वाहा᳚) || 1 || वर्ग:29

इन्द्रः॑¦रथा᳚य¦प्र॒ऽवत᳚‌म्¦कृ॒णो॒ति॒¦य‌म्¦अ॒धि॒।आस्था᳚त्¦म॒घऽवा᳚¦वा॒ज॒ऽयन्त᳚‌म् |
यू॒थाऽ‌इ᳚व¦प॒श्वः¦वि¦उ॒नो॒ति॒¦गो॒पाः¦अरि॑ष्टः¦या॒ति॒¦प्र॒थ॒मः¦सिसा᳚सन् ||

आप्रद्र॑वहरिवो॒माविवे᳚नः॒पिश᳚ङ्गराते,अ॒भिनः॑सचस्व |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

न॒हित्वदि᳚न्द्र॒वस्यो᳚,अ॒न्यदस्त्य॑मे॒नाँश्चि॒ज्जनि॑वतश्चकर्थ॒(स्वाहा᳚) || 2 ||

आ¦प्र¦द्र॒व॒¦ह॒रि॒ऽवः॒¦मा¦वि¦वे॒नः॒¦पिश᳚ङ्गऽराते¦अ॒भि¦नः॒¦स॒च॒स्व॒ |
न॒हि¦त्वत्¦इ॒न्द्र॒¦वस्यः॑¦अ॒न्यत्¦अस्ति॑¦अ॒मे॒नान्¦चि॒त्¦जनि॑ऽवतः¦च॒क॒र्थ॒ ||

उद्यत्‌सहः॒सह॑स॒आज॑निष्ट॒देदि॑ष्ट॒इन्द्र॑इन्द्रि॒याणि॒विश्वा᳚ |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

प्राचो᳚दयत्‌सु॒दुघा᳚व॒व्रे,अ॒न्तर्विज्योति॑षासंववृ॒त्वत्‌तमो᳚ऽवः॒(स्वाहा᳚) || 3 ||

उत्¦यत्¦सहः॑¦सह॑सः¦आ¦अज॑निष्ट¦देदि॑ष्टे¦इन्द्रः॑¦इ॒न्द्रि॒याणि॑¦विश्वा᳚ |
प्र¦अ॒चो॒द॒य॒त्¦सु॒ऽदुघाः᳚¦व॒व्रे¦अ॒न्तः¦वि¦ज्योति॑षा¦स॒‌म्ऽव॒वृ॒त्वत्¦तमः॑¦अ॒व॒रित्य॑वः ||

अन॑वस्ते॒रथ॒मश्वा᳚यतक्ष॒न्त्वष्टा॒वज्रं᳚पुरुहूतद्यु॒मन्त᳚म् |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

ब्र॒ह्माण॒इन्द्रं᳚म॒हय᳚न्तो,अ॒र्कैरव॑र्धय॒न्नह॑ये॒हन्त॒वा,उ॒(स्वाहा᳚) || 4 ||

अन॑वः¦ते॒¦रथ᳚‌म्¦अश्वा᳚य¦त॒क्ष॒न्¦त्वष्टा᳚¦वज्र᳚‌म्¦पु॒रु॒ऽहू॒त॒¦द्यु॒ऽमन्त᳚‌म् |
ब्र॒ह्माणः॑¦इन्द्र᳚‌म्¦म॒हय᳚न्तः¦अ॒र्कैः¦अव॑र्धयन्¦अह॑ये¦हन्त॒वै¦ऊँ॒ इति॑ ||

वृष्णे॒यत्ते॒वृष॑णो,अ॒र्कमर्चा॒निन्द्र॒ग्रावा᳚णो॒,अदि॑तिःस॒जोषाः᳚ |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

अ॒न॒श्वासो॒येप॒वयो᳚ऽर॒था,इन्द्रे᳚षिता,अ॒भ्यव॑र्तन्त॒दस्यू॒न्त्(स्वाहा᳚) || 5 ||

वृष्णे᳚¦यत्¦ते॒¦वृष॑णः¦अ॒र्क‌म्¦अर्चा᳚न्¦इन्द्र॑¦ग्रावा᳚णः¦अदि॑तिः¦स॒ऽजोषाः᳚ |
अ॒न॒श्वासः॑¦ये¦प॒वयः॑¦अ॒र॒थाः¦इन्द्र॑ऽ‌इषिताः¦अ॒भि¦अव॑र्तन्त¦दस्यू॑न् ||

प्रते॒पूर्वा᳚णि॒कर॑णानिवोचं॒प्रनूत॑नामघव॒न्याच॒कर्थ॑ |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

शक्ती᳚वो॒यद्‌वि॒भरा॒रोद॑सी,उ॒भेजय᳚न्न॒पोमन॑वे॒दानु॑चित्राः॒(स्वाहा᳚) || 6 || वर्ग:30

प्र¦ते॒¦पूर्वा᳚णि¦कर॑णानि¦वो॒च॒‌म्¦प्र¦नूत॑ना¦म॒घ॒ऽव॒न्¦या¦च॒कर्थ॑ |
शक्ति॑ऽवः¦यत्¦वि॒ऽभराः᳚¦रोद॑सी॒ इति॑¦उ॒भे इति॑¦जय॑न्¦अ॒पः¦मन॑वे¦दानु॑ऽचित्राः ||

तदिन्नुते॒कर॑णंदस्मवि॒प्राहिं॒यद्‌घ्नन्नोजो॒,अत्रामि॑मीथाः |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

शुष्ण॑स्यचि॒त्‌परि॑मा॒या,अ॑गृभ्णाःप्रपि॒त्वंयन्नप॒दस्यूँ᳚रसेधः॒(स्वाहा᳚) || 7 ||

तत्¦इत्¦नु¦ते॒¦कर॑ण‌म्¦द॒स्म॒¦वि॒प्र॒¦अहि᳚‌म्¦यत्¦घ्नन्¦ओजः॑¦अत्र॑¦अमि॑मीथाः |
शुष्ण॑स्य¦चि॒त्¦परि॑¦मा॒याः¦अ॒गृ॒भ्णाः॒¦प्र॒ऽपि॒त्व‌म्¦यन्¦अप॑¦दस्यू᳚न्¦अ॒से॒धः॒ ||

त्वम॒पोयद॑वेतु॒र्वशा॒याऽर॑मयःसु॒दुघाः᳚पा॒रइ᳚न्द्र |{आत्रेयो वस्युः | १/२:इन्द्रः, २/२:इन्द्र कुत्सो वा, इन्द्र उशना वा | त्रिष्टुप्}

उ॒ग्रम॑यात॒मव॑होह॒कुत्सं॒संह॒यद्वा᳚मु॒शनार᳚न्तदे॒वाः(स्वाहा᳚) || 8 ||

त्व‌म्¦अ॒पः¦यद॑वे¦तु॒र्वशा॒य¦अर॑मयः¦सु॒ऽदुघाः᳚¦पा॒रः¦इ॒न्द्र॒ |
उ॒ग्र‌म्¦अ॒या॒त॒‌म्¦अव॑हः¦ह॒¦कुत्स᳚‌म्¦स‌म्¦ह॒¦यत्¦वा॒‌म्¦उ॒शना᳚¦अर᳚न्त¦दे॒वाः ||

इन्द्रा᳚कुत्सा॒वह॑माना॒रथे॒नावा॒मत्या॒,अपि॒कर्णे᳚वहन्तु |{आत्रेयो वस्युः | इन्द्र कुत्सो वा | त्रिष्टुप्}

निःषी᳚म॒द्भ्योधम॑थो॒निःष॒धस्था᳚न्म॒घोनो᳚हृ॒दोव॑रथ॒स्तमां᳚सि॒(स्वाहा᳚) || 9 ||

इन्द्रा᳚कुत्सा¦वह॑माना¦रथे᳚न¦आ¦वा॒‌म्¦अत्याः᳚¦अपि॑¦कर्णे᳚¦व॒ह॒न्तु॒ |
निः¦सी॒‌म्¦अ॒त्ऽभ्यः¦धम॑थः¦निः¦स॒धऽस्था᳚त्¦म॒घोनः॑¦हृ॒दः¦व॒र॒थः॒¦तमां᳚सि ||

वात॑स्ययु॒क्तान्‌त्सु॒युज॑श्चि॒दश्वा᳚न्क॒विश्चि॑दे॒षो,अ॑जगन्नव॒स्युः |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

विश्वे᳚ते॒,अत्र॑म॒रुतः॒सखा᳚य॒इन्द्र॒ब्रह्मा᳚णि॒तवि॑षीमवर्ध॒‌न्(स्वाहा᳚) || 10 ||

वात॑स्य¦यु॒क्तान्¦सु॒ऽयुजः॑¦चि॒त्¦अश्वा᳚न्¦क॒विः¦चि॒त्¦ए॒षः¦अ॒ज॒ग॒न्¦अ॒व॒स्युः |
विश्वे᳚¦ते॒¦अत्र॑¦म॒रुतः॑¦सखा᳚यः¦इन्द्र॑¦ब्रह्मा᳚णि¦तवि॑षी‌म्¦अ॒व॒र्ध॒न् ||

सूर॑श्चि॒द्रथं॒परि॑तक्म्यायां॒पूर्वं᳚कर॒दुप॑रंजूजु॒वांस᳚म् |{आत्रेयो वस्युः | इन्द्रः कुत्सश्च | त्रिष्टुप्}

भर॑च्च॒क्रमेत॑शः॒संरि॑णातिपु॒रोदध॑त्‌सनिष्यति॒क्रतुं᳚नः॒(स्वाहा᳚) || 11 || वर्ग:31

सूरः॑¦चि॒त्¦रथ᳚‌म्¦परि॑ऽतक्म्याया‌म्¦पूर्व᳚‌म्¦क॒र॒त्¦उप॑र‌म्¦जू॒जु॒ऽवांस᳚‌म् |
भर॑त्¦च॒क्र‌म्¦एत॑शः¦स‌म्¦रि॒णा॒ति॒¦पु॒रः¦दध॑त्¦स॒नि॒ष्य॒ति॒¦क्रतु᳚‌म्¦नः॒ ||

आयंज॑ना,अभि॒चक्षे᳚जगा॒मेन्द्रः॒सखा᳚यंसु॒तसो᳚ममि॒च्छन् |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

वद॒न्‌ग्रावाव॒वेदिं᳚भ्रियाते॒यस्य॑जी॒रम॑ध्व॒र्यव॒श्चर᳚न्ति॒(स्वाहा᳚) || 12 ||

आ¦अ॒य‌म्¦ज॒नाः॒¦अ॒भि॒ऽचक्षे᳚¦ज॒गा॒म॒¦इन्द्रः॑¦सखा᳚य‌म्¦सु॒तऽसो᳚म‌म्¦इ॒च्छन् |
वद॑न्¦ग्रावा᳚¦अव॑¦वेदि᳚‌म्¦भ्रि॒या॒ते॒¦यस्य॑¦जी॒र‌म्¦अ॒ध्व॒र्यवः॑¦चर᳚न्ति ||

येचा॒कन᳚न्तचा॒कन᳚न्त॒नूतेमर्ता᳚,अमृत॒मोते,अंह॒आर॑न् |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

वा॒व॒न्धियज्यूँ᳚रु॒ततेषु॑धे॒ह्योजो॒जने᳚षु॒येषु॑ते॒स्याम॒(स्वाहा᳚) || 13 ||

ये¦चा॒कन᳚न्त¦चा॒कन᳚न्त¦नु¦ते¦मर्ताः᳚¦अ॒मृ॒त॒¦मो इति॑¦ते¦अंहः॑¦आ¦अ॒र॒न् |
व॒व॒न्धि¦यज्यू᳚न्¦उ॒त¦तेषु॑¦धे॒हि॒¦ओजः॑¦जने᳚षु¦येषु॑¦ते॒¦स्याम॑ ||

[24] अदुर्दरुत्समिति द्वादशर्चस्य सूक्तस्यात्रेयोगातुरिंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:32}{अनुवाक:2, सूक्त:18}
अद॑र्द॒रुत्स॒मसृ॑जो॒विखानि॒त्वम᳚र्ण॒वान्‌ब॑द्बधा॒नाँ,अ॑रम्णाः |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

म॒हान्त॑मिन्द्र॒पर्व॑तं॒वियद्‌वःसृ॒जोविधारा॒,अव॑दान॒वंह॒न्त्(स्वाहा᳚) || 1 || वर्ग:32

अद॑र्दः¦उत्स᳚‌म्¦असृ॑जः¦वि¦खानि॑¦त्व‌म्¦अ॒र्ण॒वान्¦ब॒द्ब॒धा॒नान्¦अर᳚म्णाः |
म॒हान्त᳚‌म्¦इ॒न्द्र॒¦पर्व॑त‌म्¦वि¦यत्¦वरिति॒ वः¦सृ॒जः¦वि¦धाराः᳚¦अव॑¦दा॒न॒व‌म्¦ह॒न्निति॑ हन् ||

त्वमुत्साँ᳚,ऋ॒तुभि॑र्बद्बधा॒नाँ,अरं᳚ह॒ऊधः॒पर्व॑तस्यवज्रिन् |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

अहिं᳚चिदुग्र॒प्रयु॑तं॒शया᳚नंजघ॒न्वाँ,इ᳚न्द्र॒तवि॑षीमधत्थाः॒(स्वाहा᳚) || 2 ||

त्व‌म्¦उत्सा᳚न्¦ऋ॒तुऽभिः॑¦ब॒द्ब॒धा॒नान्¦अरं᳚हः¦ऊधः॑¦पर्व॑तस्य¦व॒ज्रि॒न् |
अहि᳚‌म्¦चि॒त्¦उ॒ग्र॒¦प्रऽयु॑त‌म्¦शया᳚न‌म्¦ज॒घ॒न्वान्¦इ॒न्द्र॒¦तवि॑षी‌म्¦अ॒ध॒त्थाः॒ ||

त्यस्य॑चिन्मह॒तोनिर्मृ॒गस्य॒वध॑र्जघान॒तवि॑षीभि॒रिन्द्रः॑ |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

यएक॒इद॑प्र॒तिर्मन्य॑मान॒आद॑स्माद॒न्यो,अ॑जनिष्ट॒तव्या॒न्त्(स्वाहा᳚) || 3 ||

त्यस्य॑¦चि॒त्¦म॒ह॒तः¦निः¦मृ॒गस्य॑¦वधः॑¦ज॒घा॒न॒¦तवि॑षीभिः¦इन्द्रः॑ |
यः¦एकः॑¦इत्¦अ॒प्र॒तिः¦मन्य॑मानः¦आत्¦अ॒स्मा॒त्¦अ॒न्यः¦अ॒ज॒नि॒ष्ट॒¦तव्या॑न् ||

त्यंचि॑देषांस्व॒धया॒मद᳚न्तंमि॒होनपा᳚तंसु॒वृधं᳚तमो॒गाम् |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

वृष॑प्रभर्मादान॒वस्य॒भामं॒वज्रे᳚णव॒ज्रीनिज॑घान॒शुष्ण॒‌म्(स्वाहा᳚) || 4 ||

त्य‌म्¦चि॒त्¦ए॒षा॒‌म्¦स्व॒धया᳚¦मद᳚न्त‌म्¦मि॒हः¦नपा᳚त‌म्¦सु॒ऽवृध᳚‌म्¦त॒मः॒ऽगा‌म् |
वृष॑ऽप्रभर्मा¦दा॒न॒वस्य॑¦भाम᳚‌म्¦वज्रे᳚ण¦व॒ज्री¦नि¦ज॒घा॒न॒¦शुष्ण᳚‌म् ||

त्यंचि॑दस्य॒क्रतु॑भि॒र्निष॑त्तमम॒र्मणो᳚वि॒ददिद॑स्य॒मर्म॑ |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

यदीं᳚सुक्षत्र॒प्रभृ॑ता॒मद॑स्य॒युयु॑त्सन्तं॒तम॑सिह॒र्म्येधाः(स्वाहा᳚) || 5 ||

त्य‌म्¦चि॒त्¦अ॒स्य॒¦क्रतु॑ऽभिः¦निऽस॑त्त‌म्¦अ॒म॒र्मणः॑¦वि॒दत्¦इत्¦अ॒स्य॒¦मर्म॑ |
यत्¦ई॒‌म्¦सु॒ऽक्ष॒त्र॒¦प्रऽभृ॑ता¦मद॑स्य¦युयु॑त्सन्त‌म्¦तम॑सि¦ह॒र्म्ये¦धाः ||

त्यंचि॑दि॒त्थाक॑त्प॒यंशया᳚नमसू॒र्येतम॑सिवावृधा॒नम् |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

तंचि᳚न्मन्दा॒नोवृ॑ष॒भःसु॒तस्यो॒च्चैरिन्द्रो᳚,अप॒गूर्या᳚जघान॒(स्वाहा᳚) || 6 ||

त्य‌म्¦चि॒त्¦इ॒त्था¦क॒त्प॒य‌म्¦शया᳚न‌म्¦अ॒सू॒र्ये¦तम॑सि¦व॒वृ॒धा॒न‌म् |
त‌म्¦चि॒त्¦म॒न्दा॒नः¦वृ॒ष॒भः¦सु॒तस्य॑¦उ॒च्चैः¦इन्द्रः॑¦अ॒प॒ऽगूर्य॑¦ज॒घा॒न॒ ||

उद्‌यदिन्द्रो᳚मह॒तेदा᳚न॒वाय॒वध॒र्यमि॑ष्ट॒सहो॒,अप्र॑तीतम् |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

यदीं॒वज्र॑स्य॒प्रभृ॑तौद॒दाभ॒विश्व॑स्यज॒न्तोर॑ध॒मंच॑कार॒(स्वाहा᳚) || 7 || वर्ग:33

उत्¦यत्¦इन्द्रः॑¦म॒ह॒ते¦दा॒न॒वाय॑¦वधः॑¦यमि॑ष्ट¦सहः॑¦अप्र॑तिऽ‌इत‌म् |
यत्¦ई॒‌म्¦वज्र॑स्य¦प्रऽभृ॑तौ¦द॒दाभ॑¦विश्व॑स्य¦ज॒न्तोः¦अ॒ध॒म‌म्¦च॒का॒र॒ ||

त्यंचि॒दर्णं᳚मधु॒पंशया᳚नमसि॒न्वंव॒व्रंमह्याद॑दु॒ग्रः |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

अ॒पाद॑म॒त्रंम॑ह॒ताव॒धेन॒निदु᳚र्यो॒णआ᳚वृणङ्‌मृ॒ध्रवा᳚च॒‌म्(स्वाहा᳚) || 8 ||

त्य‌म्¦चि॒त्¦अर्ण᳚‌म्¦म॒धु॒ऽप‌म्¦शया᳚न‌म्¦अ॒सि॒न्व‌म्¦व॒व्र‌म्¦महि॑¦आद॑त्¦उ॒ग्रः |
अ॒पाद᳚‌म्¦अ॒त्र‌म्¦म॒ह॒ता¦व॒धेन॑¦नि¦दु॒र्यो॒णे¦अ॒वृ॒ण॒क्¦मृ॒ध्रऽवा᳚च‌म् ||

को,अ॑स्य॒शुष्मं॒तवि॑षींवरात॒एको॒धना᳚भरते॒,अप्र॑तीतः |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

इ॒मेचि॑दस्य॒ज्रय॑सो॒नुदे॒वी,इन्द्र॒स्यौज॑सोभि॒यसा᳚जिहाते॒(स्वाहा᳚) || 9 ||

कः¦अ॒स्य॒¦शुष्म᳚‌म्¦तवि॑षी‌म्¦व॒रा॒ते॒¦एकः॑¦धना᳚¦भ॒र॒ते॒¦अप्र॑तिऽ‌इतः |
इ॒मे इति॑¦चि॒त्¦अ॒स्य॒¦ज्रय॑सः¦नु¦दे॒वी इति॑¦इन्द्र॑स्य¦ओज॑सः¦भि॒यसा᳚¦जि॒हा॒ते॒ इति॑ ||

न्य॑स्मैदे॒वीस्वधि॑तिर्जिहीत॒इन्द्रा᳚यगा॒तुरु॑श॒तीव॑येमे |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

संयदोजो᳚यु॒वते॒विश्व॑माभि॒रनु॑स्व॒धाव्ने᳚क्षि॒तयो᳚नमन्त॒(स्वाहा᳚) || 10 ||

नि¦अ॒स्मै॒¦दे॒वी¦स्वऽधि॑तिः¦जि॒ही॒ते॒¦इन्द्रा᳚य¦गा॒तुः¦उ॒श॒तीऽ‌इ᳚व¦ये॒मे॒ |
स‌म्¦यत्¦ओजः॑¦यु॒वते᳚¦विश्व᳚‌म्¦आ॒भिः॒¦अनु॑¦स्व॒धाऽव्ने᳚¦क्षि॒तयः॑¦न॒म॒न्त॒ ||

एकं॒नुत्वा॒सत्प॑तिं॒पाञ्च॑जन्यंजा॒तंशृ॑णोमिय॒शसं॒जने᳚षु |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

तंमे᳚जगृभ्रआ॒शसो॒नवि॑ष्ठंदो॒षावस्तो॒र्हव॑मानास॒इन्द्र॒‌म्(स्वाहा᳚) || 11 ||

एक॒‌म्¦नु¦त्वा॒¦सत्ऽप॑ति‌म्¦पांच॑ऽजन्य‌म्¦जा॒त‌म्¦शृ॒णो॒मि॒¦य॒शस᳚‌म्¦जने᳚षु |
त‌म्¦मे॒¦ज॒गृ॒भ्रे॒¦आ॒ऽशसः॑¦नवि॑ष्ठ‌म्¦दो॒षा¦वस्तोः᳚¦हव॑मानासः¦इन्द्र᳚‌म् ||

ए॒वाहित्वामृ॑तु॒थाया॒तय᳚न्तंम॒घाविप्रे᳚भ्यो॒दद॑तंशृ॒णोमि॑ |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

किंते᳚ब्र॒ह्माणो᳚गृहते॒सखा᳚यो॒येत्वा॒यानि॑द॒धुःकाम॑मिन्द्र॒(स्वाहा᳚) || 12 ||

ए॒व¦हि¦त्वा‌म्¦ऋ॒तु॒ऽथा¦या॒तय᳚न्त‌म्¦म॒घा¦विप्रे᳚भ्यः¦दद॑त‌म्¦शृ॒णोमि॑ |
कि‌म्¦ते॒¦ब्र॒ह्माणः॑¦गृ॒ह॒ते॒¦सखा᳚यः¦ये¦त्वा॒ऽया¦नि॒ऽद॒धुः¦काम᳚‌म्¦इ॒न्द्र॒ ||

[25] महिमहइति दशर्चस्य सूक्तस्य प्राजापत्यः संवरणइंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:2}{मंडल:5, सूक्त:33}{अनुवाक:3, सूक्त:1}
महि॑म॒हेत॒वसे᳚दीध्ये॒नॄनिन्द्रा᳚ये॒त्थात॒वसे॒,अत᳚व्यान् |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

यो,अ॑स्मैसुम॒तिंवाज॑सातौस्तु॒तोजने᳚सम॒र्य॑श्चि॒केत॒(स्वाहा᳚) || 1 || वर्ग:1

महि॑¦म॒हे¦त॒वसे᳚¦दी॒ध्ये॒¦नॄन्¦इन्द्रा᳚य¦इ॒त्था¦त॒वसे᳚¦अत᳚व्यान् |
यः¦अ॒स्मै॒¦सु॒ऽम॒ति‌म्¦वाज॑ऽसातौ¦स्तु॒तः¦जने᳚¦स॒ऽम॒र्यः॑¦चि॒केत॑ ||

सत्वंन॑इन्द्रधियसा॒नो,अ॒र्कैर्हरी᳚णांवृष॒न्‌योक्त्र॑मश्रेः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

या,इ॒त्थाम॑घव॒न्ननु॒जोषं॒वक्षो᳚,अ॒भिप्रार्यःस॑क्षि॒जना॒न्त्(स्वाहा᳚) || 2 ||

सः¦त्व‌म्¦नः॒¦इ॒न्द्र॒¦धि॒य॒सा॒नः¦अ॒र्कैः¦हरी᳚णा‌म्¦वृ॒ष॒न्¦योक्त्र᳚‌म्¦अ॒श्रेः॒ |
याः¦इ॒त्था¦म॒घ॒ऽव॒न्¦अनु॑¦जोष᳚‌म्¦वक्षः॑¦अ॒भि¦प्र¦अ॒र्यः¦स॒क्षि॒¦जना॑न् ||

नतेत॑इन्द्रा॒भ्य१॑(अ॒)स्मदृ॒ष्वाऽयु॑क्तासो,अब्र॒ह्मता॒यदस॑न् |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

तिष्ठा॒रथ॒मधि॒तंव॑ज्रह॒स्तार॒श्मिंदे᳚वयमसे॒स्वश्वः॒(स्वाहा᳚) || 3 ||

न¦ते¦ते॒¦इ॒न्द्र॒¦अ॒भि¦अ॒स्मत्¦ऋ॒ष्व॒¦अयु॑क्तासः¦अ॒ब्र॒ह्मता᳚¦यत्¦अस॑न् |
तिष्ठ॑¦रथ᳚‌म्¦अधि॑¦त‌म्¦व॒ज्र॒ऽह॒स्त॒¦आ¦र॒श्मि‌म्¦दे॒व॒¦य॒म॒से॒¦सु॒।आश्वः॑ ||

पु॒रूयत्त॑इन्द्र॒सन्त्यु॒क्थागवे᳚च॒कर्थो॒र्वरा᳚सु॒युध्य॑न् |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

त॒त॒क्षेसूर्या᳚यचि॒दोक॑सि॒स्वेवृषा᳚स॒मत्सु॑दा॒सस्य॒नाम॑चि॒‌त्(स्वाहा᳚) || 4 ||

पु॒रु¦यत्¦ते॒¦इ॒न्द्र॒¦सन्ति॑¦उ॒क्था¦गवे᳚¦च॒कर्थ॑¦उ॒र्वरा᳚सु¦युध्य॑न् |
त॒त॒क्षे¦सूर्या᳚य¦चि॒त्¦ओक॑सि¦स्वे¦वृषा᳚¦स॒मत्ऽसु॑¦दा॒सस्य॑¦नाम॑¦चि॒त् ||

व॒यंतेत॑इन्द्र॒येच॒नरः॒शर्धो᳚जज्ञा॒नाया॒ताश्च॒रथाः᳚ |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

आस्माञ्ज॑गम्यादहिशुष्म॒सत्वा॒भगो॒नहव्यः॑प्रभृ॒थेषु॒चारुः॒(स्वाहा᳚) || 5 ||

व॒य‌म्¦ते¦ते॒¦इ॒न्द्र॒¦ये¦च॒¦नरः॑¦शर्धः॑¦ज॒ज्ञा॒नाः¦या॒ताः¦च॒¦रथाः᳚ |
आ¦अ॒स्मान्¦ज॒ग॒म्या॒त्¦अ॒हि॒ऽशु॒ष्म॒¦सत्वा᳚¦भगः॑¦न¦हव्यः॑¦प्र॒ऽभृ॒थेषु॑¦चारुः॑ ||

प॒पृ॒क्षेण्य॑मिन्द्र॒त्वेह्योजो᳚नृ॒म्णानि॑चनृ॒तमा᳚नो॒,अम॑र्तः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

सन॒एनीं᳚वसवानोर॒यिंदाः॒प्रार्यःस्तु॑षेतुविम॒घस्य॒दान॒‌म्(स्वाहा᳚) || 6 || वर्ग:2

प॒पृ॒क्षेण्य᳚‌म्¦इ॒न्द्र॒¦त्वे इति॑¦हि¦ओजः॑¦नृ॒म्णानि॑¦च॒¦नृ॒तमा᳚नः¦अम॑र्तः |
सः¦नः॒¦एनी᳚‌म्¦व॒स॒वा॒नः॒¦र॒यि‌म्¦दाः॒¦प्र¦अ॒र्यः¦स्तु॒षे॒¦तु॒वि॒ऽम॒घस्य॑¦दान᳚‌म् ||

ए॒वान॑इन्द्रो॒तिभि॑रवपा॒हिगृ॑ण॒तःशू᳚रका॒रून् |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

उ॒तत्वचं॒दद॑तो॒वाज॑सातौपिप्री॒हिमध्वः॒सुषु॑तस्य॒चारोः᳚(स्वाहा᳚) || 7 ||

ए॒व¦नः॒¦इ॒न्द्र॒¦ऊ॒तिऽभिः॑¦अ॒व॒¦पा॒हि¦गृ॒ण॒तः¦शू॒र॒¦का॒रून् |
उ॒त¦त्वच᳚‌म्¦दद॑तः¦वाज॑ऽसातौ¦पि॒प्री॒हि¦मध्वः॑¦सुऽसु॑तस्य¦चारोः᳚ ||

उ॒तत्येमा᳚पौरुकु॒त्स्यस्य॑सू॒रेस्त्र॒सद॑स्योर्हिर॒णिनो॒ररा᳚णाः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

वह᳚न्तुमा॒दश॒श्येता᳚सो,अस्यगैरिक्षि॒तस्य॒क्रतु॑भि॒र्नुस॑श्चे॒(स्वाहा᳚) || 8 ||

उ॒त¦त्ये¦मा॒¦पौ॒रु॒ऽकु॒त्स्यस्य॑¦सू॒रेः¦त्र॒सद॑स्योः¦हि॒र॒णिनः॑¦ररा᳚णाः |
वह᳚न्तु¦मा॒¦दश॑¦श्येता᳚सः¦अ॒स्य॒¦गै॒रि॒ऽक्षि॒तस्य॑¦क्रतु॑ऽभिः¦नु¦स॒श्चे॒ ||

उ॒तत्येमा᳚मारु॒ताश्व॑स्य॒शोणाः॒क्रत्वा᳚मघासोवि॒दथ॑स्यरा॒तौ |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

स॒हस्रा᳚मे॒च्यव॑तानो॒ददा᳚नआनू॒कम॒र्योवपु॑षे॒नार्च॒॑‌त्(स्वाहा᳚) || 9 ||

उ॒त¦त्ये¦मा॒¦मा॒रु॒त।आ॑श्वस्य¦शोणाः᳚¦क्रत्वा᳚ऽमघासः¦वि॒दथ॑स्य¦रा॒तौ |
स॒हस्रा᳚¦मे॒¦च्यव॑तानः¦ददा᳚नः¦आ॒नू॒क‌म्¦अ॒र्यः¦वपु॑षे¦न¦आ॒र्च॒त् ||

उ॒तत्येमा᳚ध्व॒न्य॑स्य॒जुष्टा᳚लक्ष्म॒ण्य॑स्यसु॒रुचो॒यता᳚नाः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

म॒ह्नारा॒यःसं॒वर॑णस्य॒ऋषे᳚र्व्र॒जंनगावः॒प्रय॑ता॒,अपि॑ग्म॒‌न्(स्वाहा᳚) || 10 ||

उ॒त¦त्ये¦मा॒¦ध्व॒न्य॑स्य¦जुष्टाः᳚¦ल॒क्ष्म॒ण्य॑स्य¦सु॒ऽरुचः॑¦यता᳚नाः |
म॒ह्ना¦रा॒यः¦स॒‌म्ऽवर॑णस्य¦ऋषेः᳚¦व्र॒ज‌म्¦न¦गावः॑¦प्रऽय॑ताः¦अपि॑¦ग्म॒न् ||

[26] अजातशत्रुमिति नवर्चस्य सूक्तस्य प्राजापत्यः संवरणइंद्रोजगत्यंत्यात्रिष्टुप् |{अष्टक:4, अध्याय:2}{मंडल:5, सूक्त:34}{अनुवाक:3, सूक्त:2}
अजा᳚तशत्रुम॒जरा॒स्व᳚र्व॒त्यनु॑स्व॒धामि॑ताद॒स्ममी᳚यते |{प्राजापत्यः संवरण | इन्द्रः | जगती}

सु॒नोत॑न॒पच॑त॒ब्रह्म॑वाहसेपुरुष्टु॒ताय॑प्रत॒रंद॑धातन॒(स्वाहा᳚) || 1 || वर्ग:3

अजा᳚तऽशत्रु‌म्¦अ॒जरा᳚¦स्वः॑ऽवती¦अनु॑¦स्व॒धा¦अमि॑ता¦द॒स्म‌म्¦ई॒य॒ते॒ |
सु॒नोत॑न¦पच॑त¦ब्रह्म॑ऽवाहसे¦पु॒रु॒ऽस्तु॒ताय॑¦प्र॒ऽत॒र‌म्¦द॒धा॒त॒न॒ ||

आयःसोमे᳚नज॒ठर॒मपि॑प्र॒ताऽम᳚न्दतम॒घवा॒मध्वो॒,अन्ध॑सः |{प्राजापत्यः संवरण | इन्द्रः | जगती}

यदीं᳚मृ॒गाय॒हन्त॑वेम॒हाव॑धःस॒हस्र॑भृष्टिमु॒शना᳚व॒धंयम॒॑‌त्(स्वाहा᳚) || 2 ||

आ¦यः¦सोमे᳚न¦ज॒ठर᳚‌म्¦अपि॑प्रत¦अम᳚न्दत¦म॒घऽवा᳚¦मध्वः॑¦अन्ध॑सः |
यत्¦ई॒‌म्¦मृ॒गाय॑¦हन्त॑वे¦म॒हाऽव॑धः¦स॒हस्र॑ऽभृष्टि‌म्¦उ॒शना᳚¦व॒ध‌म्¦यम॑त् ||

यो,अ॑स्मैघ्रं॒सउ॒तवा॒यऊध॑नि॒सोमं᳚सु॒नोति॒भव॑तिद्यु॒माँ,अह॑ |{प्राजापत्यः संवरण | इन्द्रः | जगती}

अपा᳚पश॒क्रस्त॑त॒नुष्टि॑मूहतित॒नूशु॑भ्रंम॒घवा॒यःक॑वास॒खः(स्वाहा᳚) || 3 ||

यः¦अ॒स्मै॒¦घ्रं॒से¦उ॒त¦वा॒¦यः¦ऊध॑नि¦सोम᳚‌म्¦सु॒नोति॑¦भव॑ति¦द्यु॒ऽमान्¦अह॑ |
अप॑।आप¦श॒क्रः¦त॒त॒नुष्टि᳚‌म्¦ऊ॒ह॒ति॒¦त॒नूऽशु॑भ्र‌म्¦म॒घऽवा᳚¦यः¦क॒व॒ऽस॒खः ||

यस्याव॑धीत्‌पि॒तरं॒यस्य॑मा॒तरं॒यस्य॑श॒क्रोभ्रात॑रं॒नात॑ईषते |{प्राजापत्यः संवरण | इन्द्रः | जगती}

वेतीद्व॑स्य॒प्रय॑तायतंक॒रोनकिल्बि॑षादीषते॒वस्व॑आक॒रः(स्वाहा᳚) || 4 ||

यस्य॑¦अव॑धीत्¦पि॒तर᳚‌म्¦यस्य॑¦मा॒तर᳚‌म्¦यस्य॑¦श॒क्रः¦भ्रात॑र‌म्¦न¦अतः॑¦ई॒ष॒ते॒ |
वेति॑¦इत्¦ऊँ॒ इति॑¦अ॒स्य॒¦प्रऽय॑ता¦य॒त॒‌म्ऽक॒रः¦न¦किल्बि॑षात्¦ई॒ष॒ते॒¦वस्वः॑¦आ॒ऽक॒रः ||

नप॒ञ्चभि॑र्द॒शभि᳚र्वष्ट्या॒रभं॒नासु᳚न्वतासचते॒पुष्य॑ताच॒न |{प्राजापत्यः संवरण | इन्द्रः | जगती}

जि॒नाति॒वेद॑मु॒याहन्ति॑वा॒धुनि॒रादे᳚व॒युंभ॑जति॒गोम॑तिव्र॒जे(स्वाहा᳚) || 5 ||

न¦पं॒चऽभिः॑¦द॒शऽभिः॑¦व॒ष्टि॒¦आ॒ऽरभ᳚‌म्¦न¦असु᳚न्वता¦स॒च॒ते॒¦पुष्य॑ता¦च॒न |
जि॒नाति॑¦वा॒¦इत्¦अ॒मु॒या¦हन्ति॑¦वा॒¦धुनिः॑¦आ¦दे॒व॒ऽयु‌म्¦भ॒ज॒ति॒¦गोऽम॑ति¦व्र॒जे ||

वि॒त्वक्ष॑णः॒समृ॑तौचक्रमास॒जोऽसु᳚न्वतो॒विषु॑णःसुन्व॒तोवृ॒धः |{प्राजापत्यः संवरण | इन्द्रः | जगती}

इन्द्रो॒विश्व॑स्यदमि॒तावि॒भीष॑णोयथाव॒शंन॑यति॒दास॒मार्यः॒(स्वाहा᳚) || 6 || वर्ग:4

वि॒ऽत्वक्ष॑णः¦स‌म्ऽऋ॑तौ¦च॒क्र॒‌म्ऽआ॒स॒जः¦असु᳚न्वतः¦विषु॑णः¦सु॒न्व॒तः¦वृ॒धः |
इन्द्रः॑¦विश्व॑स्य¦द॒मि॒ता¦वि॒ऽभीष॑णः¦य॒था॒ऽव॒श‌म्¦न॒य॒ति॒¦दास᳚‌म्¦आर्यः॑ ||

समीं᳚प॒णेर॑जति॒भोज॑नंमु॒षेविदा॒शुषे᳚भजतिसू॒नरं॒वसु॑ |{प्राजापत्यः संवरण | इन्द्रः | जगती}

दु॒र्गेच॒नध्रि॑यते॒विश्व॒आपु॒रुजनो॒यो,अ॑स्य॒तवि॑षी॒मचु॑क्रुध॒‌त्(स्वाहा᳚) || 7 ||

स‌म्¦ई॒‌म्¦प॒णेः¦अ॒ज॒ति॒¦भोज॑न‌म्¦मु॒षे¦वि¦दा॒शुषे᳚¦भ॒ज॒ति॒¦सू॒नर᳚‌म्¦वसु॑ |
दुः॒ऽगे¦च॒न¦ध्रि॒य॒ते॒¦विश्वः॑¦आ¦पु॒रु¦जनः॑¦यः¦अ॒स्य॒¦तवि॑षी‌म्¦अचु॑क्रुधत् ||

संयज्जनौ᳚सु॒धनौ᳚वि॒श्वश॑र्धसा॒ववे॒दिन्द्रो᳚म॒घवा॒गोषु॑शु॒भ्रिषु॑ |{प्राजापत्यः संवरण | इन्द्रः | जगती}

युजं॒ह्य१॑(अ॒)न्यमकृ॑तप्रवेप॒न्युदीं॒गव्यं᳚सृजते॒सत्व॑भि॒र्धुनिः॒(स्वाहा᳚) || 8 ||

स‌म्¦यत्¦जनौ᳚¦सु॒ऽधनौ᳚¦वि॒श्वऽश॑र्धसौ¦अवे᳚त्¦इन्द्रः॑¦म॒घऽवा᳚¦गोषु॑¦शु॒भ्रिषु॑ |
युज᳚‌म्¦हि¦अ॒न्य‌म्¦अकृ॑त¦प्र॒ऽवे॒प॒नी¦उत्¦ई॒‌म्¦गव्य᳚‌म्¦सृ॒ज॒ते॒¦सत्व॑ऽभिः¦धुनिः॑ ||

स॒ह॒स्र॒सामाग्नि॑वेशिंगृणीषे॒शत्रि॑मग्नउप॒मांके॒तुम॒र्यः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

तस्मा॒,आपः॑सं॒यतः॑पीपयन्त॒तस्मि᳚न्‌क्ष॒त्रमम॑वत्‌त्वे॒षम॑स्तु॒(स्वाहा᳚) || 9 ||

स॒ह॒स्र॒ऽसा‌म्¦आग्नि॑ऽवेशि‌म्¦गृ॒णी॒षे॒¦शत्रि᳚‌म्¦अ॒ग्ने॒¦उ॒प॒ऽमा‌म्¦के॒तु‌म्¦अ॒र्यः |
तस्मै᳚¦आपः॑¦स॒‌म्ऽयतः॑¦पी॒प॒य॒न्त॒¦तस्मि॑न्¦क्ष॒त्र‌म्¦अम॑ऽवत्¦त्वे॒ष‌म्¦अ॒स्तु॒ ||

[27] यस्तेसाधिष्टइत्यष्टर्चस्य सूक्तस्याङ्गिरसः प्रभूवसुरिंद्रोनुष्टुबंत्यापंक्तिः |{अष्टक:4, अध्याय:2}{मंडल:5, सूक्त:35}{अनुवाक:3, सूक्त:3}
यस्ते॒साधि॒ष्ठोऽव॑स॒इन्द्र॒क्रतु॒ष्टमाभ॑र |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

अ॒स्मभ्यं᳚चर्षणी॒सहं॒सस्निं॒वाजे᳚षुदु॒ष्टर॒‌म्(स्वाहा᳚) || 1 || वर्ग:5

यः¦ते॒¦साधि॑ष्ठः¦अव॑से¦इन्द्र॑¦क्रतुः॑¦त‌म्¦आ¦भ॒र॒ | अ॒स्मभ्य᳚‌म्¦च॒र्ष॒णि॒ऽसह᳚‌म्¦सस्नि᳚‌म्¦वाजे᳚षु¦दु॒स्तर᳚‌म् ||

यदि᳚न्द्रते॒चत॑स्रो॒यच्छू᳚र॒सन्ति॑ति॒स्रः |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

यद्वा॒पञ्च॑क्षिती॒नामव॒स्तत्‌सुन॒आभ॑र॒(स्वाहा᳚) || 2 ||

यत्¦इ॒न्द्र॒¦ते॒¦चत॑स्रः¦यत्¦शू॒र॒¦सन्ति॑¦ति॒स्रः | यत्¦वा॒¦पंच॑¦क्षि॒ती॒ना‌म्¦अवः॑¦तत्¦सु¦नः॒¦आ¦भ॒र॒ ||

आतेऽवो॒वरे᳚ण्यं॒वृष᳚न्तमस्यहूमहे |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

वृष॑जूति॒र्हिज॑ज्ञि॒षआ॒भूभि॑रिन्द्रतु॒र्वणिः॒(स्वाहा᳚) || 3 ||

आ¦ते॒¦अवः॑¦वरे᳚ण्य‌म्¦वृष॑न्ऽतमस्य¦हू॒म॒हे॒ | वृष॑ऽजूतिः¦हि¦ज॒ज्ञि॒षे¦आ॒ऽभूभिः॑¦इ॒न्द्र॒¦तु॒र्वणिः॑ ||

वृषा॒ह्यसि॒राध॑सेजज्ञि॒षेवृष्णि॑ते॒शवः॑ |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

स्वक्ष॑त्रंतेधृ॒षन्मनः॑सत्रा॒हमि᳚न्द्र॒पौंस्य॒‌म्(स्वाहा᳚) || 4 ||

वृषा᳚¦हि¦असि॑¦राध॑से¦ज॒ज्ञि॒षे¦वृष्णि॑¦ते॒¦शवः॑ | स्वऽक्ष॑त्र‌म्¦ते॒¦धृ॒षत्¦मनः॑¦स॒त्रा॒ऽह‌म्¦इ॒न्द्र॒¦पौंस्य᳚‌म् ||

त्वंतमि᳚न्द्र॒मर्त्य॑ममित्र॒यन्त॑मद्रिवः |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

स॒र्व॒र॒थाश॑तक्रतो॒निया᳚हिशवसस्पते॒(स्वाहा᳚) || 5 ||

त्व‌म्¦त‌म्¦इ॒न्द्र॒¦मर्त्य᳚‌म्¦अ॒मि॒त्र॒ऽयन्त᳚‌म्¦अ॒द्रि॒ऽवः॒ | स॒र्व॒ऽर॒था¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो¦नि¦या॒हि॒¦श॒व॒सः॒¦प॒ते॒ ||

त्वामिद्‌वृ॑त्रहन्तम॒जना᳚सोवृ॒क्तब᳚र्हिषः |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

उ॒ग्रंपू॒र्वीषु॑पू॒र्व्यंहव᳚न्ते॒वाज॑सातये॒(स्वाहा᳚) || 6 || वर्ग:6

त्वा‌म्¦इत्¦वृ॒त्र॒ह॒न्ऽत॒म॒¦जना᳚सः¦वृ॒क्तऽब॑र्हिषः | उ॒ग्र‌म्¦पू॒र्वीषु॑¦पू॒र्व्य‌म्¦हव᳚न्ते¦वाज॑ऽसातये ||

अ॒स्माक॑मिन्द्रदु॒ष्टरं᳚पुरो॒यावा᳚नमा॒जिषु॑ |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

स॒यावा᳚नं॒धने᳚धनेवाज॒यन्त॑मवा॒रथ॒‌म्(स्वाहा᳚) || 7 ||

अ॒स्माक᳚‌म्¦इ॒न्द्र॒¦दु॒स्तर᳚‌म्¦पु॒रः॒ऽयावा᳚न‌म्¦आ॒जिषु॑ | स॒ऽयावा᳚न‌म्¦धने᳚ऽधने¦वा॒ज॒ऽयन्त᳚‌म्¦अ॒व॒¦रथ᳚‌म् ||

अ॒स्माक॑मि॒न्द्रेहि॑नो॒रथ॑मवा॒पुरं᳚ध्या |{आंगिरसः प्रभूवसुः | इन्द्रः | पङ्क्तिः}

व॒यंश॑विष्ठ॒वार्यं᳚दि॒विश्रवो᳚दधीमहिदि॒विस्तोमं᳚मनामहे॒(स्वाहा᳚) || 8 ||

अ॒स्माक᳚‌म्¦इ॒न्द्र॒¦आ¦इ॒हि॒¦नः॒¦रथ᳚‌म्¦अ॒व॒¦पुर᳚‌म्ऽध्या |
व॒य‌म्¦श॒वि॒ष्ठ॒¦वार्य᳚‌म्¦दि॒वि¦श्रवः॑¦द॒धी॒म॒हि॒¦दि॒वि¦स्तोम᳚‌म्¦म॒ना॒म॒हे॒ ||

[28] सआगमदिति षडृचस्य सूक्तस्याङ्गिरसःप्रभूवसुरिंद्रस्त्रिष्टुप् तृतीयाजगती |{अष्टक:4, अध्याय:2}{मंडल:5, सूक्त:36}{अनुवाक:3, सूक्त:4}
सआग॑म॒दिन्द्रो॒योवसू᳚नां॒चिके᳚त॒द्‌दातुं॒दाम॑नोरयी॒णाम् |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्}

ध॒न्व॒च॒रोनवंस॑गस्तृषा॒णश्च॑कमा॒नःपि॑बतुदु॒ग्धमं॒शुम्(स्वाहा᳚) || 1 || वर्ग:7

सः¦आ¦ग॒म॒त्¦इन्द्रः॑¦यः¦वसू᳚ना‌म्¦चिके᳚तत्¦दातु᳚‌म्¦दाम॑नः¦र॒यी॒णा‌म् |
ध॒न्व॒ऽच॒रः¦न¦वंस॑गः¦तृ॒षा॒णः¦च॒क॒मा॒नः¦पि॒ब॒तु॒¦दु॒ग्ध‌म्¦अं॒शु‌म् ||

आते॒हनू᳚हरिवःशूर॒शिप्रे॒रुह॒त्‌सोमो॒नपर्व॑तस्यपृ॒ष्ठे |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्}

अनु॑त्वाराज॒न्नर्व॑तो॒नहि॒न्वन्गी॒र्भिर्म॑देमपुरुहूत॒विश्वे॒(स्वाहा᳚) || 2 ||

आ¦ते॒¦हनू॒ इति॑¦ह॒रि॒ऽवः॒¦शू॒र॒¦शिप्रे॒ इति॑¦रुह॑त्¦सोमः॑¦न¦पर्व॑तस्य¦पृ॒ष्ठे |
अनु॑¦त्वा॒¦रा॒ज॒न्¦अर्व॑तः¦न¦हि॒न्वन्¦गीः॒ऽभिः¦म॒दे॒म॒¦पु॒रु॒ऽहू॒त॒¦विश्वे᳚ ||

च॒क्रंनवृ॒त्तंपु॑रुहूतवेपते॒मनो᳚भि॒यामे॒,अम॑ते॒रिद॑द्रिवः |{आंगिरसः प्रभूवसुः | इन्द्रः | जगती}

रथा॒दधि॑त्वाजरि॒तास॑दावृधकु॒विन्नुस्तो᳚षन्मघवन्‌पुरू॒वसुः॒(स्वाहा᳚) || 3 ||

च॒क्र‌म्¦न¦वृ॒त्त‌म्¦पु॒रु॒ऽहू॒त॒¦वे॒प॒ते॒¦मनः॑¦भि॒या¦मे॒¦अम॑तेः¦इत्¦अ॒द्रि॒ऽवः॒ |
रथा᳚त्¦अधि॑¦त्वा॒¦ज॒रि॒ता¦स॒दा॒ऽवृ॒ध॒¦कु॒वित्¦नु¦स्तो॒ष॒त्¦म॒घ॒ऽव॒न्¦पु॒रु॒ऽवसुः॑ ||

ए॒षग्रावे᳚वजरि॒तात॑इ॒न्द्रेय॑र्ति॒वाचं᳚बृ॒हदा᳚शुषा॒णः |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्}

प्रस॒व्येन॑मघव॒न्‌यंसि॑रा॒यःप्रद॑क्षि॒णिद्ध॑रिवो॒माविवे᳚नः॒(स्वाहा᳚) || 4 ||

ए॒षः¦ग्रावा᳚ऽ‌इव¦ज॒रि॒ता¦ते॒¦इ॒न्द्र॒¦इय॑र्ति¦वाच᳚‌म्¦बृ॒हत्¦आ॒शु॒षा॒णः |
प्र¦स॒व्येन॑¦म॒घ॒ऽव॒न्¦यंसि॑¦रा॒यः¦प्र¦द॒क्षि॒णित्¦ह॒रि॒ऽवः॒¦मा¦वि¦वे॒नः॒ ||

वृषा᳚त्वा॒वृष॑णंवर्धतु॒द्यौर्वृषा॒वृष॑भ्यांवहसे॒हरि॑भ्याम् |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्}

सनो॒वृषा॒वृष॑रथःसुशिप्र॒वृष॑क्रतो॒वृषा᳚वज्रि॒न्‌भरे᳚धाः॒(स्वाहा᳚) || 5 ||

वृषा᳚¦त्वा॒¦वृष॑ण‌म्¦व॒र्ध॒तु॒¦द्यौः¦वृषा᳚¦वृष॑ऽभ्या‌म्¦व॒ह॒से॒¦हरि॑ऽभ्या‌म् |
सः¦नः॒¦वृषा᳚¦वृष॑ऽरथः¦सु॒ऽशि॒प्र॒¦वृष॑क्रतो॒ इति॒ वृष॑ऽक्रतो¦वृषा᳚¦वज्रि॒न्¦भरे᳚¦धाः॒ ||

योरोहि॑तौवा॒जिनौ᳚वा॒जिनी᳚वान्त्रि॒भिःश॒तैःसच॑माना॒वदि॑ष्ट |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्}

यूने॒सम॑स्मैक्षि॒तयो᳚नमन्तांश्रु॒तर॑थायमरुतोदुवो॒या(स्वाहा᳚) || 6 ||

यः¦रोहि॑तौ¦वा॒जिनौ᳚¦वा॒जिनी᳚ऽवान्¦त्रि॒ऽभिः¦श॒तैः¦सच॑मानौ¦अदि॑ष्ट |
यूने᳚¦स‌म्¦अ॒स्मै॒¦क्षि॒तयः॑¦न॒म॒न्ता॒‌म्¦श्रु॒तऽर॑थाय¦म॒रु॒तः॒¦दु॒वः॒ऽया ||

[29] संभानुनेति पंचर्चस्य सूक्तस्य भौमोत्रिरिंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:2}{मंडल:5, सूक्त:37}{अनुवाक:3, सूक्त:5}
संभा॒नुना᳚यतते॒सूर्य॑स्या॒ऽऽजुह्वा᳚नोघृ॒तपृ॑ष्ठः॒स्वञ्चाः᳚ |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

तस्मा॒,अमृ॑ध्रा,उ॒षसो॒व्यु॑च्छा॒न्यइन्द्रा᳚यसु॒नवा॒मेत्याह॒(स्वाहा᳚) || 1 || वर्ग:8

स‌म्¦भा॒नुना᳚¦य॒त॒ते॒¦सूर्य॑स्य¦आ॒ऽजुह्वा᳚नः¦घृ॒तऽपृ॑ष्ठः¦सु॒।आंचाः᳚ |
तस्मै᳚¦अमृ॑ध्राः¦उ॒षसः॑¦वि¦उ॒च्छा॒न्¦यः¦इन्द्रा᳚य¦सु॒नवा᳚म¦इति॑¦आह॑ ||

समि॑द्धाग्निर्वनवत्‌स्ती॒र्णब᳚र्हिर्यु॒क्तग्रा᳚वासु॒तसो᳚मोजराते |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

ग्रावा᳚णो॒यस्ये᳚षि॒रंवद॒न्त्यय॑दध्व॒र्युर्ह॒विषाव॒सिन्धु॒‌म्(स्वाहा᳚) || 2 ||

समि॑द्ध।आग्निः¦व॒न॒व॒त्¦स्ती॒र्णऽब॑र्हिः¦यु॒क्तऽग्रा᳚वा¦सु॒तऽसो᳚मः¦ज॒रा॒ते॒ |
ग्रावा᳚णः¦यस्य॑¦इ॒षि॒र‌म्¦वद᳚न्ति¦अय॑त्¦अ॒ध्व॒र्युः¦ह॒विषा᳚¦अव॑¦सिन्धु᳚‌म् ||

व॒धूरि॒यंपति॑मि॒च्छन्त्ये᳚ति॒यईं॒वहा᳚ते॒महि॑षीमिषि॒राम् |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

आस्य॑श्रवस्या॒द्‌रथ॒आच॑घोषात्पु॒रूस॒हस्रा॒परि॑वर्तयाते॒(स्वाहा᳚) || 3 ||

व॒धूः¦इ॒य‌म्¦पति᳚‌म्¦इ॒च्छन्ती᳚¦ए॒ति॒¦यः¦ई॒‌म्¦वहा᳚ते¦महि॑षी‌म्¦इ॒षि॒रा‌म् |
आ¦अ॒स्य॒¦श्र॒व॒स्या॒त्¦रथः॑¦आ¦च॒¦घो॒षा॒त्¦पु॒रु¦स॒हस्रा᳚¦परि॑¦व॒र्त॒या॒ते॒ ||

नसराजा᳚व्यथते॒यस्मि॒न्निन्द्र॑स्ती॒व्रंसोमं॒पिब॑ति॒गोस॑खायम् |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

आस॑त्व॒नैरज॑ति॒हन्ति॑वृ॒त्रंक्षेति॑क्षि॒तीःसु॒भगो॒नाम॒पुष्य॒न्त्(स्वाहा᳚) || 4 ||

न¦सः¦राजा᳚¦व्य॒थ॒ते॒¦यस्मि॑न्¦इन्द्रः॑¦ती॒व्र‌म्¦सोम᳚‌म्¦पिब॑ति¦गोऽस॑खाय‌म् |
आ¦स॒त्व॒नैः¦अज॑ति¦हन्ति॑¦वृ॒त्र‌म्¦क्षेति॑¦क्षि॒तीः¦सु॒ऽभगः॑¦नाम॑¦पुष्य॑न् ||

पुष्या॒त्‌क्षेमे᳚,अ॒भियोगे᳚भवात्यु॒भेवृतौ᳚संय॒तीसंज॑याति |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

प्रि॒यःसूर्ये᳚प्रि॒यो,अ॒ग्नाभ॑वाति॒यइन्द्रा᳚यसु॒तसो᳚मो॒ददा᳚श॒‌त्(स्वाहा᳚) || 5 ||

पुष्या᳚त्¦क्षेमे᳚¦अ॒भि¦योगे᳚¦भ॒वा॒ति॒¦उ॒भे इति॑¦वृतौ᳚¦सं॒य॒ती इति॑ स॒‌म्ऽय॒ती¦स‌म्¦ज॒या॒ति॒ |
प्रि॒यः¦सूर्ये᳚¦प्रि॒यः¦अ॒ग्ना¦भ॒वा॒ति॒¦यः¦इन्द्रा᳚य¦सु॒तऽसो᳚मः¦ददा᳚शत् ||

[30] उरोष्टइति पंचर्चस्य सूक्तस्य भौमोत्रिरिंद्रोनुष्टुप् |{अष्टक:4, अध्याय:2}{मंडल:5, सूक्त:38}{अनुवाक:3, सूक्त:6}
उ॒रोष्ट॑इन्द्र॒राध॑सोवि॒भ्वीरा॒तिःश॑तक्रतो |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

अधा᳚नोविश्वचर्षणेद्यु॒म्नासु॑क्षत्रमंहय॒(स्वाहा᳚) || 1 || वर्ग:9

उ॒रोः¦ते॒¦इ॒न्द्र॒¦राध॑सः¦वि॒ऽभ्वी¦रा॒तिः¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | अध॑¦नः॒¦वि॒श्व॒ऽच॒र्ष॒णे॒¦द्यु॒म्ना¦सु॒ऽक्ष॒त्र॒¦मं॒ह॒य॒ ||

यदी᳚मिन्द्रश्र॒वाय्य॒मिषं᳚शविष्ठदधि॒षे |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

प॒प्र॒थेदी᳚र्घ॒श्रुत्त॑मं॒हिर᳚ण्यवर्णदु॒ष्टर॒‌म्(स्वाहा᳚) || 2 ||

यत्¦ई॒‌म्¦इ॒न्द्र॒¦श्र॒वाय्य᳚‌म्¦इष᳚‌म्¦श॒वि॒ष्ठ॒¦द॒धि॒षे | प॒प्र॒थे¦दी॒र्घ॒श्रुत्ऽत॑म‌म्¦हिर᳚ण्यऽवर्ण¦दु॒स्तर᳚‌म् ||

शुष्मा᳚सो॒येते᳚,अद्रिवोमे॒हना᳚केत॒सापः॑ |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

उ॒भादे॒वाव॒भिष्ट॑येदि॒वश्च॒ग्मश्च॑राजथः॒(स्वाहा᳚) || 3 ||

शुष्मा᳚सः¦ये¦ते॒¦अ॒द्रि॒ऽवः॒¦मे॒हना᳚¦के॒त॒ऽसापः॑ | उ॒भा¦दे॒वौ¦अ॒भिष्ट॑ये¦दि॒वः¦च॒¦ग्मः¦च॒¦रा॒ज॒थः॒ ||

उ॒तोनो᳚,अ॒स्यकस्य॑चि॒द्दक्ष॑स्य॒तव॑वृत्रहन् |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

अ॒स्मभ्यं᳚नृ॒म्णमाभ॑रा॒ऽस्मभ्यं᳚नृमणस्यसे॒(स्वाहा᳚) || 4 ||

उ॒तो इति॑¦नः॒¦अ॒स्य¦कस्य॑¦चि॒त्¦दक्ष॑स्य¦तव॑¦वृ॒त्र॒ऽह॒न् | अ॒स्मभ्य᳚‌म्¦नृ॒म्ण‌म्¦आ¦भ॒र॒¦अ॒स्मभ्य᳚‌म्¦नृ॒ऽम॒न॒स्य॒से॒ ||

नूत॑आ॒भिर॒भिष्टि॑भि॒स्तव॒शर्म᳚ञ्छतक्रतो |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

इन्द्र॒स्याम॑सुगो॒पाःशूर॒स्याम॑सुगो॒पाः(स्वाहा᳚) || 5 ||

नु¦ते॒¦आ॒भिः¦अ॒भिष्टि॑ऽभिः¦तव॑¦शर्म॑न्¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | इन्द्र॑¦स्याम॑¦सु॒ऽगो॒पाः¦शूर॑¦स्याम॑¦सु॒ऽगो॒पाः ||

[31] यदिंद्रेति पंचर्चस्य सूक्तस्य भौमोत्रिरिंद्रोनुष्ठुबंत्यापंक्तिः |{अष्टक:4, अध्याय:2}{मंडल:5, सूक्त:39}{अनुवाक:3, सूक्त:7}
यदि᳚न्द्रचित्रमे॒हनाऽस्ति॒त्वादा᳚तमद्रिवः |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

राध॒स्तन्नो᳚विदद्वसउभयाह॒स्त्याभ॑र॒(स्वाहा᳚) || 1 || वर्ग:10

यत्¦इ॒न्द्र॒¦चि॒त्र॒¦मे॒हना᳚¦अस्ति॑¦त्वाऽदा᳚त‌म्¦अ॒द्रि॒ऽवः॒ | राधः॑¦तत्¦नः॒¦वि॒द॒द्व॒सो॒ इति॑ विदत्ऽवसो¦उ॒भ॒या॒ह॒स्ति¦आ¦भ॒र॒ ||

यन्मन्य॑से॒वरे᳚ण्य॒मिन्द्र॑द्यु॒क्षंतदाभ॑र |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

वि॒द्याम॒तस्य॑तेव॒यमकू᳚पारस्यदा॒वने॒(स्वाहा᳚) || 2 ||

यत्¦मन्य॑से¦वरे᳚ण्य‌म्¦इन्द्र॑¦द्यु॒क्ष‌म्¦तत्¦आ¦भ॒र॒ | वि॒द्याम॑¦तस्य॑¦ते॒¦व॒य‌म्¦अकू᳚पारस्य¦दा॒वने᳚ ||

यत्ते᳚दि॒त्सुप्र॒राध्यं॒मनो॒,अस्ति॑श्रु॒तंबृ॒हत् |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

तेन॑दृ॒ळ्हाचि॑दद्रिव॒आवाजं᳚दर्षिसा॒तये॒(स्वाहा᳚) || 3 ||

यत्¦ते॒¦दि॒त्सु¦प्र॒ऽराध्य᳚‌म्¦मनः॑¦अस्ति॑¦श्रु॒त‌म्¦बृ॒हत् | तेन॑¦दृ॒ळ्हा¦चि॒त्¦अ॒द्रि॒ऽवः॒¦आ¦वाज᳚‌म्¦द॒र्षि॒¦सा॒तये᳚ ||

मंहि॑ष्ठंवोम॒घोनां॒राजा᳚नंचर्षणी॒नाम् |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

इन्द्र॒मुप॒प्रश॑स्तयेपू॒र्वीभि॑र्जुजुषे॒गिरः॒(स्वाहा᳚) || 4 ||

मंहि॑ष्ठ‌म्¦वः॒¦म॒घोना᳚‌म्¦राजा᳚न‌म्¦च॒र्ष॒णी॒ना‌म् | इन्द्र᳚‌म्¦उप॑¦प्रऽश॑स्तये¦पू॒र्वीभिः॑¦जु॒जु॒षे॒¦गिरः॑ ||

अस्मा॒,इत्‌काव्यं॒वच॑उ॒क्थमिन्द्रा᳚य॒शंस्य᳚म् |{भौमोत्रिः | इन्द्रः | पङ्क्तिः}

तस्मा᳚,उ॒ब्रह्म॑वाहसे॒गिरो᳚वर्ध॒न्त्यत्र॑यो॒गिरः॑शुम्भ॒न्त्यत्र॑यः॒(स्वाहा᳚) || 5 ||

अस्मै᳚¦इत्¦काव्य᳚‌म्¦वचः॑¦उ॒क्थ‌म्¦इन्द्रा᳚य¦शंस्य᳚‌म् |
तस्मै᳚¦ऊँ॒ इति॑¦ब्रह्म॑ऽवाहसे¦गिरः॑¦व॒र्ध॒न्ति॒¦अत्र॑यः¦गिरः॑¦शु॒म्भ॒न्ति॒¦अत्र॑यः ||

[32] आयाहीति नवर्चस्य सूक्तस्य भौमोत्रिः आद्यानांचतसृणामिंद्रः पंचम्याःसूर्यः षष्ट्यादिचतसृणामत्रिर्देवता आद्यास्तिस्रउष्णिहः पंचम्यंत्येऽनुष्टुभौ शिष्टास्त्रिष्टुभः |{अष्टक:4, अध्याय:2}{मंडल:5, सूक्त:40}{अनुवाक:3, सूक्त:8}
आया॒ह्यद्रि॑भिःसु॒तंसोमं᳚सोमपतेपिब |{भौमोत्रिः | इन्द्रः | उष्णिक्}

वृष᳚न्निन्द्र॒वृष॑भिर्वृत्रहन्तम॒(स्वाहा᳚) || 1 || वर्ग:11

आ¦या॒हि॒¦अद्रि॑ऽभिः¦सु॒त‌म्¦सोम᳚‌म्¦सो॒म॒ऽप॒ते॒¦पि॒ब॒ | वृष॑न्¦इ॒न्द्र॒¦वृष॑ऽभिः¦वृ॒त्र॒ह॒न्ऽत॒म॒ ||

वृषा॒ग्रावा॒वृषा॒मदो॒वृषा॒सोमो᳚,अ॒यंसु॒तः |{भौमोत्रिः | इन्द्रः | उष्णिक्}

वृष᳚न्निन्द्र॒वृष॑भिर्वृत्रहन्तम॒(स्वाहा᳚) || 2 ||

वृषा᳚¦ग्रावा᳚¦वृषा᳚¦मदः॑¦वृषा᳚¦सोमः॑¦अ॒य‌म्¦सु॒तः | वृष॑न्¦इ॒न्द्र॒¦वृष॑ऽभिः¦वृ॒त्र॒ह॒न्ऽत॒म॒ ||

वृषा᳚त्वा॒वृष॑णंहुवे॒वज्रि᳚ञ्चि॒त्राभि॑रू॒तिभिः॑ |{भौमोत्रिः | इन्द्रः | उष्णिक्}

वृष᳚न्निन्द्र॒वृष॑भिर्वृत्रहन्तम॒(स्वाहा᳚) || 3 ||

वृषा᳚¦त्वा॒¦वृष॑ण‌म्¦हु॒वे॒¦वज्रि॑न्¦चि॒त्राभिः॑¦ऊ॒तिऽभिः॑ | वृष॑न्¦इ॒न्द्र॒¦वृष॑ऽभिः¦वृ॒त्र॒ह॒न्ऽत॒म॒ ||

ऋ॒जी॒षीव॒ज्रीवृ॑ष॒भस्तु॑रा॒षाट्छु॒ष्मीराजा᳚वृत्र॒हासो᳚म॒पावा᳚ |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

यु॒क्त्वाहरि॑भ्या॒मुप॑यासद॒र्वाङ्माध्यं᳚दिने॒सव॑नेमत्स॒दिन्द्रः॒(स्वाहा᳚) || 4 ||

ऋ॒जी॒षी¦व॒ज्री¦वृ॒ष॒भः¦तु॒रा॒षाट्¦शु॒ष्मी¦राजा᳚¦वृ॒त्र॒ऽहा¦सो॒म॒ऽपावा᳚ |
यु॒क्त्वा¦हरि॑ऽभ्या‌म्¦उप॑¦या॒स॒त्¦अ॒र्वाङ्¦माध्य᳚न्दिने¦सव॑ने¦म॒त्स॒त्¦इन्द्रः॑ ||

यत्‌त्वा᳚सूर्य॒स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः |{भौमोत्रिः | सूर्यः | अनुष्टुप्}

अक्षे᳚त्रवि॒द्‌यथा᳚मु॒ग्धोभुव॑नान्यदीधयुः॒(स्वाहा᳚) || 5 ||

यत्¦त्वा॒¦सू॒र्य॒¦स्वः॑ऽभानुः¦तम॑सा¦अवि॑ध्यत्¦आ॒सु॒रः | अक्षे᳚त्रऽवित्¦यथा᳚¦मु॒ग्धः¦भुव॑नानि¦अ॒दी॒ध॒युः॒ ||

स्व॑र्भानो॒रध॒यदि᳚न्द्रमा॒या,अ॒वोदि॒वोवर्त॑माना,अ॒वाह॑न् |{भौमोत्रिः | अत्रिः | त्रिष्टुप्}

गू॒ळ्हंसूर्यं॒तम॒साप᳚व्रतेनतु॒रीये᳚ण॒ब्रह्म॑णाविन्द॒दत्रिः॒(स्वाहा᳚) || 6 || वर्ग:12

स्वः॑ऽभानोः¦अध॑¦यत्¦इ॒न्द्र॒¦मा॒याः¦अ॒वः¦दि॒वः¦वर्त॑मानाः¦अ॒व॒।आह॑न् |
गू॒ळ्ह‌म्¦सूर्य᳚‌म्¦तम॑सा¦अप॑ऽव्रतेन¦तु॒रीये᳚ण¦ब्रह्म॑णा¦अ॒वि॒न्द॒त्¦अत्रिः॑ ||

मामामि॒मंतव॒सन्त॑मत्रइर॒स्याद्रु॒ग्धोभि॒यसा॒निगा᳚रीत् |{भौमोत्रिः | अत्रिः | त्रिष्टुप्}

त्वंमि॒त्रो,अ॑सिस॒त्यरा᳚धा॒स्तौमे॒हाव॑तं॒वरु॑णश्च॒राजा॒(स्वाहा᳚) || 7 ||

मा¦मा‌म्¦इ॒म‌म्¦तव॑¦सन्त᳚‌म्¦अ॒त्रे॒¦इ॒र॒स्या¦द्रु॒ग्धः¦भि॒यसा᳚¦नि¦गा॒री॒त् |
त्व‌म्¦मि॒त्रः¦अ॒सि॒¦स॒त्यऽरा᳚धाः¦तौ¦मा॒¦इ॒ह¦अ॒व॒त॒‌म्¦वरु॑णः¦च॒¦राजा᳚ ||

ग्राव्णो᳚ब्र॒ह्मायु॑युजा॒नःस॑प॒र्यन्की॒रिणा᳚दे॒वान्‌नम॑सोप॒शिक्ष॑न् |{भौमोत्रिः | अत्रिः | त्रिष्टुप्}

अत्रिः॒सूर्य॑स्यदि॒विचक्षु॒राधा॒त्स्व॑र्भानो॒रप॑मा॒या,अ॑घुक्ष॒‌त्(स्वाहा᳚) || 8 ||

ग्राव्णः॑¦ब्र॒ह्मा¦यु॒यु॒जा॒नः¦स॒प॒र्यन्¦की॒रिणा᳚¦दे॒वान्¦नम॑सा¦उ॒प॒ऽशिक्ष॑न् |
अत्रिः॑¦सूर्य॑स्य¦दि॒वि¦चक्षुः॑¦आ¦अ॒धा॒त्¦स्वः॑ऽभानोः¦अप॑¦मा॒याः¦अ॒घु॒क्ष॒त् ||

यंवैसूर्यं॒स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः |{भौमोत्रिः | अत्रिः | अनुष्टुप्}

अत्र॑य॒स्तमन्व॑विन्दन्न॒ह्य१॑(अ॒)न्ये,अश॑क्नुव॒‌न्(स्वाहा᳚) || 9 ||

य‌म्¦वै¦सूर्य᳚‌म्¦स्वः॑ऽभानुः¦तम॑सा¦अवि॑ध्यत्¦आ॒सु॒रः | अत्र॑यः¦त‌म्¦अनु॑¦अ॒वि॒न्द॒न्¦न॒हि¦अ॒न्ये¦अश॑क्नुवन् ||

[33] कोनुवामिति विंशत्यृचस्य सूक्तस्य भौमोत्रिर्विश्वेदेवास्त्रिष्टुप्‌ षोडशीसप्तदश्यावतिजगत्यावन्त्यैकपदा | (भेदपक्षे - मित्रावरुणौ १ विश्वेदेवाः १ अश्विनौ १ विश्वेदेवाः १ मरुतः १ विश्वेदेवाः १ उषासानक्ते १ विश्वेदेवाः २ अग्निः १ | विश्वेदेवाः २ मरुतः १ विश्वेदेवाः १ भूमिः १ विश्वेदेवाः ३ भूमिः १ विश्वेदेवाः १ एवं २०)|{अष्टक:4, अध्याय:2}{मंडल:5, सूक्त:41}{अनुवाक:3, सूक्त:9}
कोनुवां᳚मित्रावरुणावृता॒यन्दि॒वोवा᳚म॒हःपार्थि॑वस्यवा॒दे |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒तस्य॑वा॒सद॑सि॒त्रासी᳚थांनोयज्ञाय॒तेवा᳚पशु॒षोनवाजा॒न्त्(स्वाहा᳚) || 1 || वर्ग:13

कः¦नु¦वा॒‌म्¦मि॒त्रा॒व॒रु॒णौ॒¦ऋ॒त॒ऽयन्¦दि॒वः¦वा॒¦म॒हः¦पार्थि॑वस्य¦वा॒¦दे |
ऋ॒तस्य॑¦वा॒¦सद॑सि¦त्रासी᳚था‌म्¦नः॒¦य॒ज्ञ॒ऽय॒ते¦वा॒¦प॒शु॒ऽसः¦न¦वाजा॑न् ||

तेनो᳚मि॒त्रोवरु॑णो,अर्य॒मायुरिन्द्र॑ऋभु॒क्षाम॒रुतो᳚जुषन्त |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

नमो᳚भिर्वा॒येदध॑तेसुवृ॒क्तिंस्तोमं᳚रु॒द्राय॑मी॒ळ्हुषे᳚स॒जोषाः᳚(स्वाहा᳚) || 2 ||

ते¦नः॒¦मि॒त्रः¦वरु॑णः¦अ॒र्य॒मा¦आ॒युः¦इन्द्रः॑¦ऋ॒भु॒क्षाः¦म॒रुतः॑¦जु॒ष॒न्त॒ |
नमः॑ऽभिः¦वा॒¦ये¦दध॑ते¦सु॒ऽवृ॒क्ति‌म्¦स्तोम᳚‌म्¦रु॒द्राय॑¦मी॒ळ्हुषे᳚¦स॒ऽजोषाः᳚ ||

आवां॒येष्ठा᳚श्विनाहु॒वध्यै॒वात॑स्य॒पत्म॒न्‌रथ्य॑स्यपु॒ष्टौ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

उ॒तवा᳚दि॒वो,असु॑राय॒मन्म॒प्रान्धां᳚सीव॒यज्य॑वेभरध्व॒‌म्(स्वाहा᳚) || 3 ||

आ¦वा॒‌म्¦येष्ठा᳚¦अ॒श्वि॒ना॒¦हु॒वध्यै᳚¦वात॑स्य¦पत्म॑न्¦रथ्य॑स्य¦पु॒ष्टौ |
उ॒त¦वा॒¦दि॒वः¦असु॑राय¦मन्म॑¦प्र¦अन्धां᳚सिऽ‌इव¦यज्य॑वे¦भ॒र॒ध्व॒‌म् ||

प्रस॒क्षणो᳚दि॒व्यःकण्व॑होतात्रि॒तोदि॒वःस॒जोषा॒वातो᳚,अ॒ग्निः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

पू॒षाभगः॑प्रभृ॒थेवि॒श्वभो᳚जा,आ॒जिंनज॑ग्मुरा॒श्व॑श्वतमाः॒(स्वाहा᳚) || 4 ||

प्र¦स॒क्षणः॑¦दि॒व्यः¦कण्व॑ऽहोता¦त्रि॒तः¦दि॒वः¦स॒ऽजोषाः᳚¦वातः॑¦अ॒ग्निः |
पू॒षा¦भगः॑¦प्र॒ऽभृ॒थे¦वि॒श्वऽभो᳚जाः¦आ॒जि‌म्¦न¦ज॒ग्मुः॒¦आ॒श्व॑श्वऽतमाः ||

प्रवो᳚र॒यिंयु॒क्ताश्वं᳚भरध्वंरा॒यएषेऽव॑सेदधीत॒धीः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सु॒शेव॒एवै᳚रौशि॒जस्य॒होता॒येव॒एवा᳚मरुतस्तु॒राणा॒‌म्(स्वाहा᳚) || 5 ||

प्र¦वः॒¦र॒यि‌म्¦यु॒क्त।आ॑श्व‌म्¦भ॒र॒ध्व॒‌म्¦रा॒यः¦एषे᳚¦अव॑से¦द॒धी॒त॒¦धीः |
सु॒ऽशेवः॑¦एवैः᳚¦औ॒शि॒जस्य॑¦होता᳚¦ये¦वः॒¦एवाः᳚¦म॒रु॒तः॒¦तु॒राणा᳚‌म् ||

प्रवो᳚वा॒युंर॑थ॒युजं᳚कृणुध्वं॒प्रदे॒वंविप्रं᳚पनि॒तार॑म॒र्कैः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

इ॒षु॒ध्यव॑ऋत॒सापः॒पुरं᳚धी॒र्वस्वी᳚र्नो॒,अत्र॒पत्नी॒राधि॒येधुः॒(स्वाहा᳚) || 6 || वर्ग:14

प्र¦वः॒¦वा॒यु‌म्¦र॒थ॒ऽयुज᳚‌म्¦कृ॒णु॒ध्व॒‌म्¦प्र¦दे॒व‌म्¦विप्र᳚‌म्¦प॒नि॒तार᳚‌म्¦अ॒र्कैः |
इ॒षु॒ध्यवः॑¦ऋ॒त॒ऽसापः॑¦पुर᳚‌म्ऽधीः¦वस्वीः᳚¦नः॒¦अत्र॑¦पत्नीः᳚¦आ¦धि॒ये¦धु॒रिति॑ धुः ||

उप॑व॒एषे॒वन्द्ये᳚भिःशू॒षैःप्रय॒ह्वीदि॒वश्चि॒तय॑द्भिर॒र्कैः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

उ॒षासा॒नक्ता᳚वि॒दुषी᳚व॒विश्व॒माहा᳚वहतो॒मर्त्या᳚यय॒ज्ञ॒‌म्(स्वाहा᳚) || 7 ||

उप॑¦वः॒¦एषे᳚¦वन्द्ये᳚भिः¦शू॒षैः¦प्र¦य॒ह्वी इति॑¦दि॒वः¦चि॒तय॑त्ऽभिः¦अ॒र्कैः |
उ॒षसा॒नक्ता᳚¦वि॒दुषी᳚ इ॒वेति॑ वि॒दुषी᳚ऽ‌इव¦विश्व᳚‌म्¦आ¦ह॒¦व॒ह॒तः॒¦मर्त्या᳚य¦य॒ज्ञ‌म् ||

अ॒भिवो᳚,अर्चेपो॒ष्याव॑तो॒नॄन्वास्तो॒ष्पतिं॒त्वष्टा᳚रं॒ररा᳚णः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

धन्या᳚स॒जोषा᳚धि॒षणा॒नमो᳚भि॒र्वन॒स्पतीँ॒रोष॑धीरा॒यएषे॒(स्वाहा᳚) || 8 ||

अ॒भि¦वः॒¦अ॒र्चे॒¦पो॒ष्याऽव॑तः¦नॄन्¦वास्तोः᳚¦पति᳚‌म्¦त्वष्टा᳚र‌म्¦ररा᳚णः |
धन्या᳚¦स॒ऽजोषाः᳚¦धि॒षणा᳚¦नमः॑ऽभिः¦वन॒स्पती᳚न्¦ओष॑धीः¦रा॒यः¦एषे᳚ ||

तु॒जेन॒स्तने॒पर्व॑ताःसन्तु॒स्वैत॑वो॒येवस॑वो॒नवी॒राः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

प॒नि॒तआ॒प्त्योय॑ज॒तःसदा᳚नो॒वर्धा᳚न्नः॒शंसं॒नर्यो᳚,अ॒भिष्टौ॒(स्वाहा᳚) || 9 ||

तु॒जे¦नः॒¦तने᳚¦पर्व॑ताः¦स॒न्तु॒¦स्वऽए᳚तवः¦ये¦वस॑वः¦न¦वी॒राः |
प॒नि॒तः¦आ॒प्त्यः¦य॒ज॒तः¦सदा᳚¦नः॒¦वर्धा᳚त्¦नः॒¦शंस᳚‌म्¦नर्यः॑¦अ॒भिष्टौ᳚ ||

वृष्णो᳚,अस्तोषिभू॒म्यस्य॒गर्भं᳚त्रि॒तोनपा᳚तम॒पांसु॑वृ॒क्ति |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

गृ॒णी॒ते,अ॒ग्निरे॒तरी॒नशू॒षैःशो॒चिष्के᳚शो॒निरि॑णाति॒वना॒(स्वाहा᳚) || 10 ||

वृष्णः॑¦अ॒स्तो॒षि॒¦भू॒म्यस्य॑¦गर्भ᳚‌म्¦त्रि॒तः¦नपा᳚त‌म्¦अ॒पा‌म्¦सु॒ऽवृ॒क्ति |
गृ॒णी॒ते¦अ॒ग्निः¦ए॒तरि॑¦न¦शू॒षैः¦शो॒चिःऽके᳚शः¦नि¦रि॒णा॒ति॒¦वना᳚ ||

क॒थाम॒हेरु॒द्रिया᳚यब्रवाम॒कद्रा॒येचि॑कि॒तुषे॒भगा᳚य |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

आप॒ओष॑धीरु॒तनो᳚ऽवन्तु॒द्यौर्वना᳚गि॒रयो᳚वृ॒क्षके᳚शाः॒(स्वाहा᳚) || 11 || वर्ग:15

क॒था¦म॒हे¦रु॒द्रिया᳚य¦ब्र॒वा॒म॒¦कत्¦रा॒ये¦चि॒कि॒तुषे᳚¦भगा᳚य |
आपः॑¦ओष॑धीः¦उ॒त¦नः॒¦अ॒व॒न्तु॒¦द्यौः¦वना᳚¦गि॒रयः॑¦वृ॒क्षऽके᳚शाः ||

शृ॒णोतु॑नऊ॒र्जांपति॒र्गिरः॒सनभ॒स्तरी᳚याँ,इषि॒रःपरि॑ज्मा |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

शृ॒ण्वन्त्वापः॒पुरो॒नशु॒भ्राःपरि॒स्रुचो᳚बबृहा॒णस्याद्रेः᳚(स्वाहा᳚) || 12 ||

शृ॒णोतु॑¦नः॒¦ऊ॒र्जा‌म्¦पतिः॑¦गिरः॑¦सः¦नभः॑¦तरी᳚यान्¦इ॒षि॒रः¦परि॑ऽज्मा |
शृ॒ण्वन्तु॑¦आपः॑¦पुरः॑¦न¦शु॒भ्राः¦परि॑¦स्रुचः॑¦ब॒बृ॒हा॒णस्य॑¦अद्रेः᳚ ||

वि॒दाचि॒न्नुम॑हान्तो॒येव॒एवा॒ब्रवा᳚मदस्मा॒वार्यं॒दधा᳚नाः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

वय॑श्च॒नसु॒भ्व१॑(अ॒)आव॑यन्तिक्षु॒भामर्त॒मनु॑यतंवध॒स्नैः(स्वाहा᳚) || 13 ||

वि॒द¦चि॒त्¦नु¦म॒हा॒न्तः॒¦ये¦वः॒¦एवाः᳚¦ब्रवा᳚म¦द॒स्माः॒¦वार्य᳚‌म्¦दधा᳚नाः |
वयः॑¦च॒न¦सु॒ऽभ्वः॑¦आ¦अव॑¦य॒न्ति॒¦क्षु॒भा¦मर्त᳚‌म्¦अनु॑ऽयत‌म्¦व॒ध॒ऽस्नैः ||

आदैव्या᳚नि॒पार्थि॑वानि॒जन्मा॒ऽपश्चाच्छा॒सुम॑खायवोचम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

वर्ध᳚न्तां॒द्यावो॒गिर॑श्च॒न्द्राग्रा᳚,उ॒दाव॑र्धन्ताम॒भिषा᳚ता॒,अर्णाः᳚(स्वाहा᳚) || 14 ||

आ¦दैव्या᳚नि¦पार्थि॑वानि¦जन्म॑¦अ॒पः¦च॒¦अच्छ॑¦सुऽम॑खाय¦वो॒च॒‌म् |
वर्ध᳚न्ता‌म्¦द्यावः॑¦गिरः॑¦च॒न्द्र।आ॑ग्राः¦उ॒दा¦व॒र्ध॒न्ता॒‌म्¦अ॒भिऽसा᳚ताः¦अर्णाः᳚ ||

प॒देप॑देमेजरि॒मानिधा᳚यि॒वरू᳚त्रीवाश॒क्रायापा॒युभि॑श्च |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सिष॑क्तुमा॒ताम॒हीर॒सानः॒स्मत्‌सू॒रिभि᳚रृजु॒हस्त॑ऋजु॒वनिः॒(स्वाहा᳚) || 15 ||

प॒देऽप॑दे¦मे॒¦ज॒रि॒मा¦नि¦धा॒यि॒¦वरू᳚त्री¦वा॒¦श॒क्रा¦या¦पा॒युऽभिः॑¦च॒ |
सिस॑क्तु¦मा॒ता¦म॒ही¦र॒सा¦नः॒¦स्मत्¦सू॒रिऽभिः॑¦ऋ॒जु॒ऽहस्ता᳚¦ऋ॒जु॒ऽवनिः॑ ||

क॒थादा᳚शेम॒नम॑सासु॒दानू᳚नेव॒याम॒रुतो॒,अच्छो᳚क्तौ॒प्रश्र॑वसोम॒रुतो॒,अच्छो᳚क्तौ |{भौमोत्रिः | विश्वदेवाः | अतिजगती}

मानोऽहि॑र्बु॒ध्न्यो᳚रि॒षेधा᳚द॒स्माकं᳚भूदुपमाति॒वनिः॒(स्वाहा᳚) || 16 || वर्ग:16

क॒था¦दा॒शे॒म॒¦नम॑सा¦सु॒ऽदानू᳚न्¦ए॒व॒ऽया¦म॒रुतः॑¦अच्छ॑।औक्तौ¦प्रऽश्र॑वसः¦म॒रुतः॑¦अच्छ॑।औक्तौ |
मा¦नः॒¦अहिः॑¦बु॒ध्न्यः॑¦रि॒षे¦धा॒त्¦अ॒स्माक᳚‌म्¦भू॒त्¦उ॒प॒मा॒ति॒ऽवनिः॑ ||

इति॑चि॒न्नुप्र॒जायै᳚पशु॒मत्यै॒देवा᳚सो॒वन॑ते॒मर्त्यो᳚व॒आदे᳚वासोवनते॒मर्त्यो᳚वः |{भौमोत्रिः | विश्वदेवाः | अतिजगती}

अत्रा᳚शि॒वांत॒न्वो᳚धा॒सिम॒स्याज॒रांचि᳚न्मे॒निरृ॑तिर्जग्रसीत॒(स्वाहा᳚) || 17 ||

इति॑¦चि॒त्¦नु¦प्र॒ऽजायै᳚¦प॒शु॒ऽमत्यै᳚¦देवा᳚सः¦वन॑ते¦मर्त्यः॑¦वः॒¦आ¦दे॒वा॒सः॒¦व॒न॒ते॒¦मर्त्यः॑¦वः॒ |
अत्र॑¦शि॒वा‌म्¦त॒न्वः॑¦धा॒सि‌म्¦अ॒स्याः¦ज॒रा‌म्¦चि॒त्¦मे॒¦निःऽऋ॑तिः¦ज॒ग्र॒सी॒त॒ ||

तांवो᳚देवाःसुम॒तिमू॒र्जय᳚न्ती॒मिष॑मश्यामवसवः॒शसा॒गोः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सानः॑सु॒दानु᳚र्मृ॒ळय᳚न्तीदे॒वीप्रति॒द्रव᳚न्तीसुवि॒ताय॑गम्याः॒(स्वाहा᳚) || 18 ||

ता‌म्¦वः॒¦दे॒वाः॒¦सु॒ऽम॒ति‌म्¦ऊ॒र्जय᳚न्ती‌म्¦इष᳚‌म्¦अ॒श्या॒म॒¦व॒स॒वः॒¦शसा᳚¦गोः |
सा¦नः॒¦सु॒ऽदानुः॑¦मृ॒ळय᳚न्ती¦दे॒वी¦प्रति॑¦द्रव᳚न्ती¦सु॒वि॒ताय॑¦ग॒म्याः॒ ||

अ॒भिन॒इळा᳚यू॒थस्य॑मा॒तास्मन्न॒दीभि॑रु॒र्वशी᳚वागृणातु |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

उ॒र्वशी᳚वाबृहद्दि॒वागृ॑णा॒नाऽभ्यू᳚र्ण्वा॒नाप्र॑भृ॒थस्या॒योः(स्वाहा᳚) || 19 ||

अ॒भि¦नः॒¦इळा᳚¦यू॒थस्य॑¦मा॒ता¦स्मत्¦न॒दीभिः॑¦उ॒र्वशी᳚¦वा॒¦गृ॒णा॒तु॒ |
उ॒र्वशी᳚¦वा॒¦बृ॒ह॒त्ऽदि॒वा¦गृ॒णा॒ना¦अ॒भि॒ऽऊ॒र्ण्वा॒ना¦प्र॒ऽभृ॒थस्य॑¦आ॒योः ||

सिष॑क्तुनऊर्ज॒व्य॑स्यपु॒ष्टेः(स्वाहा᳚) || {भौमोत्रिः | विश्वदेवाः | एकपदाविराट्}20 ||

सिस॑क्तु¦नः॒¦ऊ॒र्ज॒व्य॑स्य¦पु॒ष्टेः ||

[34] प्रशंतमेत्यष्टादशर्चस्य सूक्तस्य भौमोत्रिर्विश्वेदेवाः एकादश्यारुद्रत्रिष्टुप् सप्तदश्येकपदा | (भेदपक्षे - विश्वेदेवाः २ सविता १ इंद्रः १ विश्वेदेवाः ९ इंद्रः १ बृहस्पतिः ३ मरुतः १ रुद्रः १ विश्वेदेवाः ९ पर्जन्यः २ मरुतः १ विश्वेदेवाः २ अश्विनौ १ एवं १८) |{अष्टक:4, अध्याय:2}{मंडल:5, सूक्त:42}{अनुवाक:3, सूक्त:10}
प्रशंत॑मा॒वरु॑णं॒दीधि॑ती॒गीर्मि॒त्रंभग॒मदि॑तिंनू॒नम॑श्याः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

पृष॑द्योनिः॒पञ्च॑होताशृणो॒त्वतू᳚र्तपन्था॒,असु॑रोमयो॒भुः(स्वाहा᳚) || 1 || वर्ग:17

प्र¦श‌म्ऽत॑मा¦वरु॑ण‌म्¦दीधि॑ती¦गीः¦मि॒त्र‌म्¦भग᳚‌म्¦अदि॑ति‌म्¦नू॒न‌म्¦अ॒श्याः॒ |
पृष॑त्ऽयोनिः¦पंच॑ऽहोता¦शृ॒णो॒तु॒¦अतू᳚र्तऽपन्थाः¦असु॑रः¦म॒यः॒ऽभुः ||

प्रति॑मे॒स्तोम॒मदि॑तिर्जगृभ्यात्सू॒नुंनमा॒ताहृद्यं᳚सु॒शेव᳚म् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुपि}

ब्रह्म॑प्रि॒यंदे॒वहि॑तं॒यदस्त्य॒हंमि॒त्रेवरु॑णे॒यन्म॑यो॒भु(स्वाहा᳚) || 2 ||

प्रति॑¦मे॒¦स्तोम᳚‌म्¦अदि॑तिः¦ज॒गृ॒भ्या॒त्¦सू॒नु‌म्¦न¦मा॒ता¦हृद्य᳚‌म्¦सु॒ऽशेव᳚‌म् |
ब्रह्म॑¦प्रि॒य‌म्¦दे॒वऽहि॑त‌म्¦यत्¦अस्ति॑¦अ॒ह‌म्¦मि॒त्रे¦वरु॑णे¦यत्¦म॒यः॒ऽभुः ||

उदी᳚रयक॒वित॑मंकवी॒नामु॒नत्तै᳚नम॒भिमध्वा᳚घृ॒तेन॑ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सनो॒वसू᳚नि॒प्रय॑ताहि॒तानि॑च॒न्द्राणि॑दे॒वःस॑वि॒तासु॑वाति॒(स्वाहा᳚) || 3 ||

उत्¦ई॒र॒य॒¦क॒विऽत॑म‌म्¦क॒वी॒ना‌म्¦उ॒नत्त॑¦ए॒न॒‌म्¦अ॒भि¦मध्वा᳚¦घृ॒तेन॑ |
सः¦नः॒¦वसू᳚नि¦प्रऽय॑ता¦हि॒तानि॑¦च॒न्द्राणि॑¦दे॒वः¦स॒वि॒ता¦सु॒वा॒ति॒ ||

समि᳚न्द्रणो॒मन॑सानेषि॒गोभिः॒संसू॒रिभि᳚र्हरिवः॒संस्व॒स्ति |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

संब्रह्म॑णादे॒वहि॑तं॒यदस्ति॒संदे॒वानां᳚सुम॒त्याय॒ज्ञिया᳚ना॒‌म्(स्वाहा᳚) || 4 ||

स‌म्¦इ॒न्द्र॒¦नः॒¦मन॑सा¦ने॒षि॒¦गोभिः॑¦स‌म्¦सू॒रिऽभिः॑¦ह॒रि॒ऽवः॒¦स‌म्¦स्व॒स्ति |
स‌म्¦ब्रह्म॑णा¦दे॒वऽहि॑त‌म्¦यत्¦अस्ति॑¦स‌म्¦दे॒वाना᳚‌म्¦सु॒ऽम॒त्या¦य॒ज्ञिया᳚ना‌म् ||

दे॒वोभगः॑सवि॒तारा॒यो,अंश॒इन्द्रो᳚वृ॒त्रस्य॑सं॒जितो॒धना᳚नाम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒भु॒क्षावाज॑उ॒तवा॒पुरं᳚धि॒रव᳚न्तुनो,अ॒मृता᳚सस्तु॒रासः॒(स्वाहा᳚) || 5 ||

दे॒वः¦भगः॑¦स॒वि॒ता¦रा॒यः¦अंशः॑¦इन्द्रः॑¦वृ॒त्रस्य॑¦स॒‌म्ऽजितः॑¦धना᳚ना‌म् |
ऋ॒भु॒क्षाः¦वाजः॑¦उ॒त¦वा॒¦पुर᳚‌म्ऽधिः¦अव᳚न्तु¦नः॒¦अ॒मृता᳚सः¦तु॒रासः॑ ||

म॒रुत्व॑तो॒,अप्र॑तीतस्यजि॒ष्णोरजू᳚र्यतः॒प्रब्र॑वामाकृ॒तानि॑ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

नते॒पूर्वे᳚मघव॒न्‌नाप॑रासो॒नवी॒र्य१॑(अं॒)नूत॑नः॒कश्च॒नाप॒(स्वाहा᳚) || 6 || वर्ग:18

म॒रुत्व॑तः¦अप्र॑तिऽ‌इतस्य¦जि॒ष्णोः¦अजू᳚र्यतः¦प्र¦ब्र॒वा॒म॒¦कृ॒तानि॑ |
न¦ते॒¦पूर्वे᳚¦म॒घ॒ऽव॒न्¦न¦अप॑रासः¦न¦वी॒र्य᳚‌म्¦नूत॑नः¦कः¦च॒न¦आ॒प॒ ||

उप॑स्तुहिप्रथ॒मंर॑त्न॒धेयं॒बृह॒स्पतिं᳚सनि॒तारं॒धना᳚नाम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

यःशंस॑तेस्तुव॒तेशम्भ॑विष्ठःपुरू॒वसु॑रा॒गम॒ज्जोहु॑वान॒‌म्(स्वाहा᳚) || 7 ||

उप॑¦स्तु॒हि॒¦प्र॒थ॒म‌म्¦र॒त्न॒ऽधेय᳚‌म्¦बृह॒स्पति᳚‌म्¦स॒नि॒तार᳚‌म्¦धना᳚ना‌म् |
यः¦शंस॑ते¦स्तु॒व॒ते¦श‌म्ऽभ॑विष्ठः¦पु॒रु॒ऽवसुः॑¦आ॒ऽगम॑त्¦जोहु॑वान‌म् ||

तवो॒तिभिः॒सच॑माना॒,अरि॑ष्टा॒बृह॑स्पतेम॒घवा᳚नःसु॒वीराः᳚ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

ये,अ॑श्व॒दा,उ॒तवा॒सन्ति॑गो॒दायेव॑स्त्र॒दाःसु॒भगा॒स्तेषु॒रायः॒(स्वाहा᳚) || 8 ||

तव॑¦ऊ॒तिऽभिः॑¦सच॑मानाः¦अरि॑ष्टाः¦बृह॑स्पते¦म॒घऽवा᳚नः¦सु॒ऽवीराः᳚ |
ये¦अ॒श्व॒ऽदाः¦उ॒त¦वा॒¦सन्ति॑¦गो॒ऽदाः¦ये¦व॒स्त्र॒ऽदाः¦सु॒ऽभगाः᳚¦तेषु॑¦रायः॑ ||

वि॒स॒र्माणं᳚कृणुहिवि॒त्तमे᳚षां॒येभु॒ञ्जते॒,अपृ॑णन्तोनउ॒क्थैः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

अप᳚व्रतान्‌प्रस॒वेवा᳚वृधा॒नान्ब्र᳚ह्म॒द्विषः॒सूर्या᳚द्‌यावयस्व॒(स्वाहा᳚) || 9 ||

वि॒ऽस॒र्माण᳚‌म्¦कृ॒णु॒हि॒¦वि॒त्त‌म्¦ए॒षा॒‌म्¦ये¦भुं॒जते᳚¦अपृ॑णन्तः¦नः॒¦उ॒क्थैः |
अप॑ऽव्रतान्¦प्र॒ऽस॒वे¦व॒वृ॒धा॒नान्¦ब्र॒ह्म॒ऽद्विषः॑¦सूर्या᳚त्¦य॒व॒य॒स्व॒ ||

यओह॑तेर॒क्षसो᳚दे॒ववी᳚तावच॒क्रेभि॒स्तंम॑रुतो॒निया᳚त |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

योवः॒शमीं᳚शशमा॒नस्य॒निन्दा᳚त्तु॒च्छ्यान्‌कामा᳚न्‌करतेसिष्विदा॒नः(स्वाहा᳚) || 10 ||

यः¦ओह॑ते¦र॒क्षसः॑¦दे॒वऽवी᳚तौ¦अ॒च॒क्रेभिः॑¦त‌म्¦म॒रु॒तः॒¦नि¦या॒त॒ |
यः¦वः॒¦शमी᳚‌म्¦श॒श॒मा॒नस्य॑¦निन्दा᳚त्¦तु॒च्छ्यान्¦कामा᳚न्¦क॒र॒ते॒¦सि॒स्वि॒दा॒नः ||

तमु॑ष्टुहि॒यःस्वि॒षुःसु॒धन्वा॒योविश्व॑स्य॒क्षय॑तिभेष॒जस्य॑ |{भौमोत्रिः | रुद्रः | त्रिष्टुप्}

यक्ष्वा᳚म॒हेसौ᳚मन॒साय॑रु॒द्रंनमो᳚भिर्दे॒वमसु॑रंदुवस्य॒(स्वाहा᳚) || 11 || वर्ग:19

त‌म्¦ऊँ॒ इति॑¦स्तु॒हि॒¦यः¦सु॒ऽ‌इ॒षुः¦सु॒ऽधन्वा᳚¦यः¦विश्व॑स्य¦क्षय॑ति¦भे॒ष॒जस्य॑ |
यक्ष्व॑¦म॒हे¦सौ॒म॒न॒साय॑¦रु॒द्र‌म्¦नमः॑ऽभिः¦दे॒व‌म्¦असु॑र‌म्¦दु॒व॒स्य॒ ||

दमू᳚नसो,अ॒पसो॒येसु॒हस्ता॒वृष्णः॒पत्नी᳚र्न॒द्यो᳚विभ्वत॒ष्टाः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सर॑स्वतीबृहद्दि॒वोतरा॒काद॑श॒स्यन्ती᳚र्वरिवस्यन्तुशु॒भ्राः(स्वाहा᳚) || 12 ||

दमू᳚नसः¦अ॒पसः॑¦ये¦सु॒ऽहस्ताः᳚¦वृष्णः॑¦पत्नीः᳚¦न॒द्यः॑¦वि॒भ्व॒ऽत॒ष्टाः |
सर॑स्वती¦बृ॒ह॒त्ऽदि॒वा¦उ॒त¦रा॒का¦द॒श॒स्यन्तीः᳚¦व॒रि॒व॒स्य॒न्तु॒¦शु॒भ्राः ||

प्रसूम॒हेसु॑शर॒णाय॑मे॒धांगिरं᳚भरे॒नव्य॑सीं॒जाय॑मानाम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

यआ᳚ह॒नादु॑हि॒तुर्व॒क्षणा᳚सुरू॒पामि॑ना॒नो,अकृ॑णोदि॒दंनः॒(स्वाहा᳚) || 13 ||

प्र¦सु¦म॒हे¦सु॒ऽश॒र॒णाय॑¦मे॒धा‌म्¦गिर᳚‌म्¦भ॒रे॒¦नव्य॑सी‌म्¦जाय॑माना‌म् |
यः¦आ॒ह॒नाः¦दु॒हि॒तुः¦व॒क्षणा᳚सु¦रू॒पा¦मि॒ना॒नः¦अकृ॑णोत्¦इ॒द‌म्¦नः॒ ||

प्रसु॑ष्टु॒तिःस्त॒नय᳚न्तंरु॒वन्त॑मि॒ळस्पतिं᳚जरितर्नू॒नम॑श्याः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

यो,अ॑ब्दि॒माँ,उ॑दनि॒माँ,इय॑र्ति॒प्रवि॒द्युता॒रोद॑सी,उ॒क्षमा᳚णः॒(स्वाहा᳚) || 14 ||

प्र¦सु॒ऽस्तु॒तिः¦स्त॒नय᳚न्त‌म्¦रु॒वन्त᳚‌म्¦इ॒ळः¦पति᳚‌म्¦ज॒रि॒तः॒¦नू॒न‌म्¦अ॒श्याः॒ |
यः¦अ॒ब्दि॒ऽमान्¦उ॒द॒नि॒ऽमान्¦इय॑र्ति¦प्र¦वि॒ऽद्युता᳚¦रोद॑सी॒ इति॑¦उ॒क्षमा᳚णः ||

ए॒षस्तोमो॒मारु॑तं॒शर्धो॒,अच्छा᳚रु॒द्रस्य॑सू॒नूँर्यु॑व॒न्यूँरुद॑श्याः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

कामो᳚रा॒येह॑वतेमास्व॒स्त्युप॑स्तुहि॒पृष॑दश्वाँ,अ॒यासः॒(स्वाहा᳚) || 15 ||

ए॒षः¦स्तोमः॑¦मारु॑त‌म्¦शर्धः॑¦अच्छ॑¦रु॒द्रस्य॑¦सू॒नून्¦यु॒व॒न्यून्¦उत्¦अ॒श्याः॒ |
कामः॑¦रा॒ये¦ह॒व॒ते॒¦मा॒¦स्व॒स्ति¦उप॑¦स्तु॒हि॒¦पृष॑त्।आश्वान्¦अ॒यासः॑ ||

प्रैषस्तोमः॑पृथि॒वीम॒न्तरि॑क्षं॒वन॒स्पतीँ॒रोष॑धीरा॒ये,अ॑श्याः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

दे॒वोदे᳚वःसु॒हवो᳚भूतु॒मह्यं॒मानो᳚मा॒तापृ॑थि॒वीदु᳚र्म॒तौधा॒‌त्(स्वाहा᳚) || 16 ||

प्र¦ए॒षः¦स्तोमः॑¦पृ॒थि॒वी‌म्¦अ॒न्तरि॑क्ष‌म्¦वन॒स्पती᳚न्¦ओष॑धीः¦रा॒ये¦अ॒श्याः॒ |
दे॒वःऽदे᳚वः¦सु॒ऽहवः॑¦भू॒तु॒¦मह्य᳚‌म्¦मा¦नः॒¦मा॒ता¦पृ॒थि॒वी¦दुः॒ऽम॒तौ¦धा॒त् ||

उ॒रौदे᳚वा,अनिबा॒धेस्या᳚म॒(स्वाहा᳚) || {भौमोत्रिः | विश्वदेवाः | एकपदाविराट्}17 ||

उ॒रौ¦दे॒वाः॒¦अ॒नि॒ऽबा॒धे¦स्या॒म॒ ||

सम॒श्विनो॒रव॑सा॒नूत॑नेनमयो॒भुवा᳚सु॒प्रणी᳚तीगमेम |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

आनो᳚र॒यिंव॑हत॒मोतवी॒रानाविश्वा᳚न्यमृता॒सौभ॑गानि॒(स्वाहा᳚) || 18 ||

स‌म्¦अ॒श्विनोः᳚¦अव॑सा¦नूत॑नेन¦म॒यः॒ऽभुवा᳚¦सु॒ऽप्रनी᳚ती¦ग॒मे॒म॒ |
आ¦नः॒¦र॒यि‌म्¦व॒ह॒त॒‌म्¦आ¦उ॒त¦वी॒रान्¦आ¦विश्वा᳚नि¦अ॒मृ॒ता॒¦सौभ॑गानि ||

[35] आधेनवइति सप्तदशर्चस्य सूक्तस्य भौमोत्रिर्विश्वेदेवास्त्रिष्टुप् षोडश्येकपदाविराट् (भेदपक्षे - नदी १ द्यावापृथिवी १ वायुः १ सोमः १ इंद्रः १ अग्निः १ धर्मः १ अश्विनौ १ विश्वेदेवाः २ सरस्वती १ बृहस्पतिः १ अग्निः ३ विश्वेदेवाः १ अश्विनौ १ एवं १७) |{अष्टक:4, अध्याय:2}{मंडल:5, सूक्त:43}{अनुवाक:3, सूक्त:11}
आधे॒नवः॒पय॑सा॒तूर्ण्य॑र्था॒,अम॑र्धन्ती॒रुप॑नोयन्तु॒मध्वा᳚ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

म॒होरा॒येबृ॑ह॒तीःस॒प्तविप्रो᳚मयो॒भुवो᳚जरि॒ताजो᳚हवीति॒(स्वाहा᳚) || 1 || वर्ग:20

आ¦धे॒नवः॑¦पय॑सा¦तूर्णि॑।आर्थाः¦अम॑र्धन्तीः¦उप॑¦नः॒¦य॒न्तु॒¦मध्वा᳚ |
म॒हः¦रा॒ये¦बृ॒ह॒तीः¦स॒प्त¦विप्रः॑¦म॒यः॒ऽभुवः॑¦ज॒रि॒ता¦जो॒ह॒वी॒ति॒ ||

आसु॑ष्टु॒तीनम॑सावर्त॒यध्यै॒द्यावा॒वाजा᳚यपृथि॒वी,अमृ॑ध्रे |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

पि॒तामा॒तामधु॑वचाःसु॒हस्ता॒भरे᳚भरेनोय॒शसा᳚वविष्टा॒‌म्(स्वाहा᳚) || 2 ||

आ¦सु॒ऽस्तु॒ती¦नम॑सा¦व॒र्त॒यध्यै᳚¦द्यावा᳚¦वाजा᳚य¦पृ॒थि॒वी इति॑¦अमृ॑ध्रे॒ इति॑ |
पि॒ता¦मा॒ता¦मधु॑ऽवचाः¦सु॒ऽहस्ता᳚¦भरे᳚ऽभरे¦नः॒¦य॒शसौ᳚¦अ॒वि॒ष्टा॒‌म् ||

अध्व᳚र्यवश्चकृ॒वांसो॒मधू᳚नि॒प्रवा॒यवे᳚भरत॒चारु॑शु॒क्रम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

होते᳚वनःप्रथ॒मःपा᳚ह्य॒स्यदेव॒मध्वो᳚ररि॒माते॒मदा᳚य॒(स्वाहा᳚) || 3 ||

अध्व᳚र्यवः¦च॒कृ॒ऽवांसः॑¦मधू᳚नि¦प्र¦वा॒यवे᳚¦भ॒र॒त॒¦चारु॑¦शु॒क्र‌म् |
होता᳚ऽ‌इव¦नः॒¦प्र॒थ॒मः¦पा॒हि॒¦अ॒स्य¦देव॑¦मध्वः॑¦र॒रि॒म¦ते॒¦मदा᳚य ||

दश॒क्षिपो᳚युञ्जतेबा॒हू,अद्रिं॒सोम॑स्य॒याश॑मि॒तारा᳚सु॒हस्ता᳚ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

मध्वो॒रसं᳚सु॒गभ॑स्तिर्गिरि॒ष्ठांचनि॑श्चदद्‌दुदुहेशु॒क्रमं॒शुः(स्वाहा᳚) || 4 ||

दश॑¦क्षिपः॑¦युं॒ज॒ते॒¦बा॒हू इति॑¦अद्रि᳚‌म्¦सोम॑स्य¦या¦श॒मि॒तारा᳚¦सु॒ऽहस्ता᳚ |
मध्वः॑¦रस᳚‌म्¦सु॒ऽगभ॑स्तिः¦गि॒रि॒ऽस्था‌म्¦चनि॑श्चदत्¦दु॒दु॒हे॒¦शु॒क्र‌म्¦अं॒शुः ||

असा᳚वितेजुजुषा॒णाय॒सोमः॒क्रत्वे॒दक्षा᳚यबृह॒तेमदा᳚य |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

हरी॒रथे᳚सु॒धुरा॒योगे᳚,अ॒र्वागिन्द्र॑प्रि॒याकृ॑णुहिहू॒यमा᳚नः॒(स्वाहा᳚) || 5 ||

असा᳚वि¦ते॒¦जु॒जु॒षा॒णाय॑¦सोमः॑¦क्रत्वे᳚¦दक्षा᳚य¦बृ॒ह॒ते¦मदा᳚य |
हरी॒ इति॑¦रथे᳚¦सु॒ऽधुरा᳚¦योगे᳚¦अ॒र्वाक्¦इन्द्र॑¦प्रि॒या¦कृ॒णु॒हि॒¦हू॒यमा᳚नः ||

आनो᳚म॒हीम॒रम॑तिंस॒जोषा॒ग्नांदे॒वींनम॑सारा॒तह᳚व्याम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

मधो॒र्मदा᳚यबृह॒तीमृ॑त॒ज्ञामाग्ने᳚वहप॒थिभि॑र्देव॒यानैः᳚(स्वाहा᳚) || 6 || वर्ग:21

आ¦नः॒¦म॒ही‌म्¦अ॒रम॑ति‌म्¦स॒ऽजोषाः᳚¦ग्ना‌म्¦दे॒वी‌म्¦नम॑सा¦रा॒तऽह᳚व्या‌म् |
मधोः᳚¦मदा᳚य¦बृ॒ह॒ती‌म्¦ऋ॒त॒ऽज्ञा‌म्¦आ¦अ॒ग्ने॒¦व॒ह॒¦प॒थिऽभिः॑¦दे॒व॒ऽयानैः᳚ ||

अ॒ञ्जन्ति॒यंप्र॒थय᳚न्तो॒नविप्रा᳚व॒पाव᳚न्तं॒नाग्निना॒तप᳚न्तः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

पि॒तुर्नपु॒त्रउ॒पसि॒प्रेष्ठ॒आघ॒र्मो,अ॒ग्निमृ॒तय᳚न्नसादि॒(स्वाहा᳚) || 7 ||

अं॒जन्ति॑¦य‌म्¦प्र॒थय᳚न्तः¦न¦विप्राः᳚¦व॒पाऽव᳚न्त‌म्¦न¦अ॒ग्निना᳚¦तप᳚न्तः |
पि॒तुः¦न¦पु॒त्रः¦उ॒पसि॑¦प्रेष्ठः॑¦आ¦घ॒र्मः¦अ॒ग्नि‌म्¦ऋ॒तय॑न्¦अ॒सा॒दि॒ ||

अच्छा᳚म॒हीबृ॑ह॒तीशंत॑मा॒गीर्दू॒तोनग᳚न्त्व॒श्विना᳚हु॒वध्यै᳚ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

म॒यो॒भुवा᳚स॒रथाया᳚तम॒र्वाग्ग॒न्तंनि॒धिंधुर॑मा॒णिर्ननाभि॒‌म्(स्वाहा᳚) || 8 ||

अच्छ॑¦म॒ही¦बृ॒ह॒ती¦श‌म्ऽत॑मा¦गीः¦दू॒तः¦न¦ग॒न्तु॒¦अ॒श्विना᳚¦हु॒वध्यै᳚ |
म॒यः॒ऽभुवा᳚¦स॒ऽरथा᳚¦आ¦या॒त॒‌म्¦अ॒र्वाक्¦ग॒न्त‌म्¦नि॒ऽधि‌म्¦धुर᳚‌म्¦आ॒णिः¦न¦नाभि᳚‌म् ||

प्रतव्य॑सो॒नम॑उक्तिंतु॒रस्या॒ऽहंपू॒ष्णउ॒तवा॒योर॑दिक्षि |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

याराध॑साचोदि॒तारा᳚मती॒नांयावाज॑स्यद्रविणो॒दा,उ॒तत्मन्(स्वाहा᳚) || 9 ||

प्र¦तव्य॑सः¦नमः॑।औक्ति‌म्¦तु॒रस्य॑¦अ॒ह‌म्¦पू॒ष्णः¦उ॒त¦वा॒योः¦अ॒दि॒क्षि॒ |
या¦राध॑सा¦चो॒दि॒तारा᳚¦म॒ती॒ना‌म्¦या¦वाज॑स्य¦द्र॒वि॒णः॒ऽदौ¦उ॒त¦त्मन् ||

आनाम॑भिर्म॒रुतो᳚वक्षि॒विश्वा॒नारू॒पेभि॑र्जातवेदोहुवा॒नः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

य॒ज्ञंगिरो᳚जरि॒तुःसु॑ष्टु॒तिंच॒विश्वे᳚गन्तमरुतो॒विश्व॑ऊ॒ती(स्वाहा᳚) || 10 ||

आ¦नाम॑ऽभिः¦म॒रुतः॑¦व॒क्षि॒¦विश्वा᳚न्¦आ¦रू॒पेभिः॑¦जा॒त॒ऽवे॒दः॒¦हु॒वा॒नः |
य॒ज्ञ‌म्¦गिरः॑¦ज॒रि॒तुः¦सु॒ऽस्तु॒ति‌म्¦च॒¦विश्वे᳚¦ग॒न्त॒¦म॒रु॒तः॒¦विश्वे᳚¦ऊ॒ती ||

आनो᳚दि॒वोबृ॑ह॒तःपर्व॑ता॒दासर॑स्वतीयज॒ताग᳚न्तुय॒ज्ञम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

हवं᳚दे॒वीजु॑जुषा॒णाघृ॒ताची᳚श॒ग्मांनो॒वाच॑मुश॒तीशृ॑णोतु॒(स्वाहा᳚) || 11 || वर्ग:22

आ¦नः॒¦दि॒वः¦बृ॒ह॒तः¦पर्व॑तात्¦आ¦सर॑स्वती¦य॒ज॒ता¦ग॒न्तु॒¦य॒ज्ञ‌म् |
हव᳚‌म्¦दे॒वी¦जु॒जु॒षा॒णा¦घृ॒ताची᳚¦श॒ग्मा‌म्¦नः॒¦वाच᳚‌म्¦उ॒श॒ती¦शृ॒णो॒तु॒ ||

आवे॒धसं॒नील॑पृष्ठंबृ॒हन्तं॒बृह॒स्पतिं॒सद॑नेसादयध्वम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सा॒दद्यो᳚निं॒दम॒आदी᳚दि॒वांसं॒हिर᳚ण्यवर्णमरु॒षंस॑पेम॒(स्वाहा᳚) || 12 ||

आ¦वे॒धस᳚‌म्¦नील॑ऽपृष्ठ‌म्¦बृ॒हन्त᳚‌म्¦बृह॒स्पति᳚‌म्¦सद॑ने¦सा॒द॒य॒ध्व॒‌म् |
सा॒दत्ऽयो᳚नि‌म्¦दमे᳚¦आ¦दी॒दि॒ऽवांस᳚‌म्¦हिर᳚ण्यऽवर्ण‌म्¦अ॒रु॒ष‌म्¦स॒पे॒म॒ ||

आध᳚र्ण॒सिर्बृ॒हद्दि॑वो॒ररा᳚णो॒विश्वे᳚भिर्ग॒न्त्वोम॑भिर्हुवा॒नः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

ग्नावसा᳚न॒ओष॑धी॒रमृ॑ध्रस्त्रि॒धातु॑शृङ्गोवृष॒भोव॑यो॒धाः(स्वाहा᳚) || 13 ||

आ¦ध॒र्ण॒सिः¦बृ॒हत्ऽदि॑वः¦ररा᳚णः¦विश्वे᳚भिः¦ग॒न्तु॒¦ओम॑ऽभिः¦हु॒वा॒नः |
ग्नाः¦वसा᳚नः¦ओष॑धीः¦अमृ॑ध्रः¦त्रि॒धातु॑ऽशृङ्गः¦वृ॒ष॒भः¦व॒यः॒ऽधाः ||

मा॒तुष्प॒देप॑र॒मेशु॒क्रआ॒योर्वि॑प॒न्यवो᳚रास्पि॒रासो᳚,अग्मन् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सु॒शेव्यं॒नम॑सारा॒तह᳚व्याः॒शिशुं᳚मृजन्त्या॒यवो॒नवा॒से(स्वाहा᳚) || 14 ||

मा॒तुः¦प॒दे¦प॒र॒मे¦शु॒क्रे¦आ॒योः¦वि॒प॒न्यवः॑¦रा॒स्पि॒रासः॑¦अ॒ग्म॒न् |
सु॒ऽशेव्य᳚‌म्¦नम॑सा¦रा॒तऽह᳚व्याः¦शिशु᳚‌म्¦मृ॒ज॒न्ति॒¦आ॒यवः॑¦न¦वा॒से ||

बृ॒हद्वयो᳚बृह॒तेतुभ्य॑मग्नेधिया॒जुरो᳚मिथु॒नासः॑सचन्त |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

दे॒वोदे᳚वःसु॒हवो᳚भूतु॒मह्यं॒मानो᳚मा॒तापृ॑थि॒वीदु᳚र्म॒तौधा॒‌त्(स्वाहा᳚) || 15 ||

बृ॒हत्¦वयः॑¦बृ॒ह॒ते¦तुभ्य᳚‌म्¦अ॒ग्ने॒¦धि॒या॒ऽजुरः॑¦मि॒थु॒नासः॑¦स॒च॒न्त॒ |
दे॒वःऽदे᳚वः¦सु॒ऽहवः॑¦भू॒तु॒¦मह्य᳚‌म्¦मा¦नः॒¦मा॒ता¦पृ॒थि॒वी¦दुः॒ऽम॒तौ¦धा॒त् ||

उ॒रौदे᳚वा,अनिबा॒धेस्या᳚म॒(स्वाहा᳚) || {भौमोत्रिः | विश्वदेवाः | एकपदाविराट्}16 ||

उ॒रौ¦दे॒वाः॒¦अ॒नि॒ऽबा॒धे¦स्या॒म॒ ||

सम॒श्विनो॒रव॑सा॒नूत॑नेनमयो॒भुवा᳚सु॒प्रणी᳚तीगमेम |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

आनो᳚र॒यिंव॑हत॒मोतवी॒रानाविश्वा᳚न्यमृता॒सौभ॑गानि॒(स्वाहा᳚) || 17 ||

स‌म्¦अ॒श्विनोः᳚¦अव॑सा¦नूत॑नेन¦म॒यः॒ऽभुवा᳚¦सु॒ऽप्रनी᳚ती¦ग॒मे॒म॒ |
आ¦नः॒¦र॒यि‌म्¦व॒ह॒त॒‌म्¦आ¦उ॒त¦वी॒रान्¦आ¦विश्वा᳚नि¦अ॒मृ॒ता॒¦सौभ॑गानि ||

[36] तंप्रत्नथेति पंचदशर्चस्य सूक्तस्य काश्यपोवत्सारोविश्वेदेवाजगत्यंत्येद्वेत्रिष्टुभौ (भेदपक्षे - इंद्रः २ अग्निः १ सूर्यः १ अग्निः १ विश्वेदेवाः १ सूर्यः १ अग्निः १ सूर्यः २ विश्वेदेवाः २ सुतंभरः १ अग्निः २ एवं १५) |{अष्टक:4, अध्याय:2}{मंडल:5, सूक्त:44}{अनुवाक:3, सूक्त:12}
तंप्र॒त्नथा᳚पू॒र्वथा᳚वि॒श्वथे॒मथा᳚ज्ये॒ष्ठता᳚तिंबर्हि॒षदं᳚स्व॒र्विद᳚म् |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

प्र॒ती॒ची॒नंवृ॒जनं᳚दोहसेगि॒राऽऽशुंजय᳚न्त॒मनु॒यासु॒वर्ध॑से॒(स्वाहा᳚) || 1 || वर्ग:23

त‌म्¦प्र॒त्नऽथा᳚¦पू॒र्वऽथा᳚¦वि॒श्वऽथा᳚¦इ॒‌म्।आथा᳚¦ज्ये॒ष्ठऽता᳚ति‌म्¦ब॒र्हि॒ऽसद᳚‌म्¦स्वः॒ऽविद᳚‌म् |
प्र॒ती॒ची॒न‌म्¦वृ॒जन᳚‌म्¦दो॒ह॒से॒¦गि॒रा¦आ॒शु‌म्¦जय᳚न्त‌म्¦अनु॑¦यासु॑¦वर्ध॑से ||

श्रि॒येसु॒दृशी॒रुप॑रस्य॒याःस्व᳚र्वि॒रोच॑मानःक॒कुभा᳚मचो॒दते᳚ |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

सु॒गो॒पा,अ॑सि॒नदभा᳚यसुक्रतोप॒रोमा॒याभि᳚रृ॒तआ᳚स॒नाम॑ते॒(स्वाहा᳚) || 2 ||

श्रि॒ये¦सु॒ऽदृशीः᳚¦उप॑रस्य¦याः¦स्वः॑¦वि॒ऽरोच॑मानः¦क॒कुभा᳚‌म्¦अ॒चो॒दते᳚ |
सु॒ऽगो॒पाः¦अ॒सि॒¦न¦दभा᳚य¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो¦प॒रः¦मा॒याभिः॑¦ऋ॒ते¦आ॒स॒¦नाम॑¦ते॒ ||

अत्यं᳚ह॒विःस॑चते॒सच्च॒धातु॒चारि॑ष्टगातुः॒सहोता᳚सहो॒भरिः॑ |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

प्र॒सर्स्रा᳚णो॒,अनु॑ब॒र्हिर्वृषा॒शिशु॒र्मध्ये॒युवा॒जरो᳚वि॒स्रुहा᳚हि॒तः(स्वाहा᳚) || 3 ||

अत्य᳚‌म्¦ह॒विः¦स॒च॒ते॒¦सत्¦च॒¦धातु॑¦च॒¦अरि॑ष्टऽगातुः¦सः¦होता᳚¦स॒हः॒ऽभरिः॑ |
प्र॒ऽसर्स्रा᳚णः¦अनु॑¦ब॒र्हिः¦वृषा᳚¦शिशुः॑¦मध्ये᳚¦युवा᳚¦अ॒जरः॑¦वि॒ऽस्रुहा᳚¦हि॒तः ||

प्रव॑ए॒तेसु॒युजो॒याम᳚न्नि॒ष्टये॒नीची᳚र॒मुष्मै᳚य॒म्य॑ऋता॒वृधः॑ |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

सु॒यन्तु॑भिःसर्वशा॒सैर॒भीशु॑भिः॒क्रिवि॒र्नामा᳚निप्रव॒णेमु॑षायति॒(स्वाहा᳚) || 4 ||

प्र¦वः॒¦ए॒ते¦सु॒ऽयुजः॑¦याम॑न्¦इ॒ष्टये᳚¦नीचीः᳚¦अ॒मुष्मै᳚¦य॒म्यः॑¦ऋ॒त॒ऽवृधः॑ |
सु॒यन्तु॑ऽभिः¦स॒र्व॒ऽशा॒सैः¦अ॒भीशु॑ऽभिः¦क्रिविः॑¦नामा᳚नि¦प्र॒व॒णे¦मु॒षा॒य॒ति॒ ||

सं॒जर्भु॑राण॒स्तरु॑भिःसुते॒गृभं᳚वया॒किनं᳚चि॒त्तग॑र्भासुसु॒स्वरुः॑ |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

धा॒र॒वा॒केष्वृ॑जुगाथशोभसे॒वर्ध॑स्व॒पत्नी᳚र॒भिजी॒वो,अ॑ध्व॒रे(स्वाहा᳚) || 5 ||

स॒‌म्ऽजर्भु॑राणः¦तरु॑ऽभिः¦सु॒ते॒ऽगृभ᳚‌म्¦व॒या॒किन᳚‌म्¦चि॒त्तऽग॑र्भासु¦सु॒ऽस्वरुः॑ |
धा॒र॒ऽवा॒केषु॑¦ऋ॒जु॒ऽगा॒थ॒¦शो॒भ॒से॒¦वर्ध॑स्व¦पत्नीः᳚¦अ॒भि¦जी॒वः¦अ॒ध्व॒रे ||

या॒दृगे॒वददृ॑शेता॒दृगु॑च्यते॒संछा॒यया᳚दधिरेसि॒ध्रया॒प्स्वा |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

म॒हीम॒स्मभ्य॑मुरु॒षामु॒रुज्रयो᳚बृ॒हत्‌सु॒वीर॒मन॑पच्युतं॒सहः॒(स्वाहा᳚) || 6 || वर्ग:24

या॒दृक्¦ए॒व¦ददृ॑शे¦ता॒दृक्¦उ॒च्य॒ते॒¦स‌म्¦छा॒यया᳚¦द॒धि॒रे॒¦सि॒ध्रया᳚¦अ॒प्ऽसु¦आ |
म॒ही‌म्¦अ॒स्मभ्य᳚‌म्¦उ॒रु॒ऽसा‌म्¦उ॒रु¦ज्रयः॑¦बृ॒हत्¦सु॒ऽवीर᳚‌म्¦अन॑पऽच्युत‌म्¦सहः॑ ||

वेत्यग्रु॒र्जनि॑वा॒न्‌वा,अति॒स्पृधः॑समर्य॒तामन॑सा॒सूर्यः॑क॒विः |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

घ्रं॒संरक्ष᳚न्तं॒परि॑वि॒श्वतो॒गय॑म॒स्माकं॒शर्म॑वनव॒त्‌स्वाव॑सुः॒(स्वाहा᳚) || 7 ||

वेति॑¦अग्रुः॑¦जनि॑ऽवान्¦वै¦अति॑¦स्पृधः॑¦स॒ऽम॒र्य॒ता¦मन॑सा¦सूर्यः॑¦क॒विः |
घ्रं॒स‌म्¦रक्ष᳚न्त‌म्¦परि॑¦वि॒श्वतः॑¦गय᳚‌म्¦अ॒स्माक᳚‌म्¦शर्म॑¦व॒न॒व॒त्¦स्वऽव॑सुः ||

ज्यायां᳚सम॒स्यय॒तुन॑स्यके॒तुन॑ऋषिस्व॒रंच॑रति॒यासु॒नाम॑ते |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

या॒दृश्मि॒न्‌धायि॒तम॑प॒स्यया᳚विद॒द्‌यउ॑स्व॒यंवह॑ते॒सो,अरं᳚कर॒‌त्(स्वाहा᳚) || 8 ||

ज्यायां᳚स‌म्¦अ॒स्य¦य॒तुन॑स्य¦के॒तुना᳚¦ऋ॒षि॒ऽस्व॒र‌म्¦च॒र॒ति॒¦यासु॑¦नाम॑¦ते॒ |
या॒दृश्मि॑न्¦धा॒यि॒¦त‌म्¦अ॒प॒स्यया᳚¦वि॒द॒त्¦यः¦ऊँ॒ इति॑¦स्व॒य‌म्¦वह॑ते¦सः¦अर᳚‌म्¦क॒र॒त् ||

स॒मु॒द्रमा᳚सा॒मव॑तस्थे,अग्रि॒मानरि॑ष्यति॒सव॑नं॒यस्मि॒न्नाय॑ता |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

अत्रा॒नहार्दि॑क्रव॒णस्य॑रेजते॒यत्रा᳚म॒तिर्वि॒द्यते᳚पूत॒बन्ध॑नी॒(स्वाहा᳚) || 9 ||

स॒मु॒द्र‌म्¦आ॒सा॒‌म्¦अव॑¦त॒स्थे॒¦अ॒ग्रि॒मा¦न¦रि॒ष्य॒ति॒¦सव॑न‌म्¦यस्मि॑न्¦आऽय॑ता |
अत्र॑¦न¦हार्दि॑¦क्र॒व॒णस्य॑¦रे॒ज॒ते॒¦यत्र॑¦म॒तिः¦वि॒द्यते᳚¦पू॒त॒ऽबन्ध॑नी ||

सहिक्ष॒त्रस्य॑मन॒सस्य॒चित्ति॑भिरेवाव॒दस्य॑यज॒तस्य॒सध्रेः᳚ |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

अ॒व॒त्सा॒रस्य॑स्पृणवाम॒रण्व॑भिः॒शवि॑ष्ठं॒वाजं᳚वि॒दुषा᳚चि॒दर्ध्य॒‌म्(स्वाहा᳚) || 10 ||

सः¦हि¦क्ष॒त्रस्य॑¦म॒न॒सस्य॑¦चित्ति॑ऽभिः¦ए॒व॒ऽव॒दस्य॑¦य॒ज॒तस्य॑¦सध्रेः᳚ |
अ॒व॒ऽत्सा॒रस्य॑¦स्पृ॒ण॒वा॒म॒¦रण्व॑ऽभिः¦शवि॑ष्ठ‌म्¦वाज᳚‌म्¦वि॒दुषा᳚¦चि॒त्¦अर्ध्य᳚‌म् ||

श्ये॒नआ᳚सा॒मदि॑तिःक॒क्ष्यो॒३॑(ओ॒)मदो᳚वि॒श्ववा᳚रस्ययज॒तस्य॑मा॒यिनः॑ |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

सम॒न्यम᳚न्यमर्थय॒न्त्येत॑वेवि॒दुर्वि॒षाणं᳚परि॒पान॒मन्ति॒ते(स्वाहा᳚) || 11 || वर्ग:25

श्ये॒नः¦आ॒सा॒‌म्¦अदि॑तिः¦क॒क्ष्यः॑¦मदः॑¦वि॒श्वऽवा᳚रस्य¦य॒ज॒तस्य॑¦मा॒यिनः॑ |
स‌म्¦अ॒न्य‌म्।आ᳚न्य‌म्¦अ॒र्थ॒य॒न्ति॒¦एत॑वे¦वि॒दुः¦वि॒ऽसाण᳚‌म्¦प॒रि॒ऽपान᳚‌म्¦अन्ति॑¦ते॒ ||

स॒दा॒पृ॒णोय॑ज॒तोविद्विषो᳚वधीद्बाहुवृ॒क्तःश्रु॑त॒वित्तर्यो᳚वः॒सचा᳚ |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

उ॒भासवरा॒प्रत्ये᳚ति॒भाति॑च॒यदीं᳚ग॒णंभज॑तेसुप्र॒याव॑भिः॒(स्वाहा᳚) || 12 ||

स॒दा॒ऽपृ॒णः¦य॒ज॒तः¦वि¦द्विषः॑¦व॒धी॒त्¦बा॒हु॒ऽवृ॒क्तः¦श्रु॒त॒ऽवित्¦तर्यः॑¦वः॒¦सचा᳚ |
उ॒भा¦सः¦वरा᳚¦प्रति॑¦ए॒ति॒¦भाति॑¦च॒¦यत्¦ई॒‌म्¦ग॒ण‌म्¦भज॑ते¦सु॒प्र॒याव॑ऽभिः ||

सु॒त॒म्भ॒रोयज॑मानस्य॒सत्प॑ति॒र्विश्वा᳚सा॒मूधः॒सधि॒यामु॒दञ्च॑नः |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

भर॑द्‌धे॒नूरस॑वच्छिश्रिये॒पयो᳚ऽनुब्रुवा॒णो,अध्ये᳚ति॒नस्व॒पन्(स्वाहा᳚) || 13 ||

सु॒त॒‌म्ऽभ॒रः¦यज॑मानस्य¦सत्ऽप॑तिः¦विश्वा᳚सा‌म्¦ऊधः॑¦सः¦धि॒या‌म्¦उ॒त्।आंच॑नः |
भर॑त्¦धे॒नुः¦रस॑ऽवत्¦शि॒श्रि॒ये॒¦पयः॑¦अ॒नु॒ऽब्रु॒वा॒णः¦अधि॑¦ए॒ति॒¦न¦स्व॒पन् ||

योजा॒गार॒तमृचः॑कामयन्ते॒योजा॒गार॒तमु॒सामा᳚नियन्ति |{काश्यपो वत्सारः | विश्वदेवाः | त्रिष्टुप्}

योजा॒गार॒तम॒यंसोम॑आह॒तवा॒हम॑स्मिस॒ख्येन्यो᳚काः॒(स्वाहा᳚) || 14 ||

यः¦जा॒गार॑¦त‌म्¦ऋचः॑¦का॒म॒य॒न्ते॒¦यः¦जा॒गार॑¦त‌म्¦ऊँ॒ इति॑¦सामा᳚नि¦य॒न्ति॒ |
यः¦जा॒गार॑¦त‌म्¦अ॒य‌म्¦सोमः॑¦आ॒ह॒¦तव॑¦अ॒ह‌म्¦अ॒स्मि॒¦स॒ख्ये¦निऽओ᳚काः ||

अ॒ग्निर्जा᳚गार॒तमृचः॑कामयन्ते॒ऽग्निर्जा᳚गार॒तमु॒सामा᳚नियन्ति |{काश्यपो वत्सारः | विश्वदेवाः | त्रिष्टुप्}

अ॒ग्निर्जा᳚गार॒तम॒यंसोम॑आह॒तवा॒हम॑स्मिस॒ख्येन्यो᳚काः॒(स्वाहा᳚) || 15 ||

अ॒ग्निः¦जा॒गा॒र॒¦त‌म्¦ऋचः॑¦का॒म॒य॒न्ते॒¦अ॒ग्निः¦जा॒गा॒र॒¦त‌म्¦ऊँ॒ इति॑¦सामा᳚नि¦य॒न्ति॒ |
अ॒ग्निः¦जा॒गा॒र॒¦त‌म्¦अ॒य‌म्¦सोमः॑¦आ॒ह॒¦तव॑¦अ॒ह‌म्¦अ॒स्मि॒¦स॒ख्ये¦निऽओ᳚काः ||

[37] विदादिवइत्येकादशर्चस्य सूक्तस्यात्रेयः सदापृणो विश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - इंद्रसूर्यौ १ विश्वेदेवाः २ इंद्राग्नी १ विश्वेदेवाः ६ आपः १ एवं ११ (अत्रसूक्ते सदापृणर्षेर्यजतइत्यादि लिंगोक्तऋषिभिः समुच्चयइति केचित्) |{अष्टक:4, अध्याय:2}{मंडल:5, सूक्त:45}{अनुवाक:4, सूक्त:1}
वि॒दादि॒वोवि॒ष्यन्नद्रि॑मु॒क्थैरा᳚य॒त्या,उ॒षसो᳚,अ॒र्चिनो᳚गुः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

अपा᳚वृतव्र॒जिनी॒रुत्‌स्व॑र्गा॒द्विदुरो॒मानु॑षीर्दे॒वआ᳚वः॒(स्वाहा᳚) || 1 || वर्ग:26

वि॒दाः¦दि॒वः¦वि॒ऽस्यन्¦अद्रि᳚‌म्¦उ॒क्थैः¦आ॒ऽय॒त्याः¦उ॒षसः॑¦अ॒र्चिनः॑¦गुः॒ |
अप॑¦अ॒वृ॒त॒¦व्र॒जिनीः᳚¦उत्¦स्वः॑¦गा॒त्¦वि¦दुरः॑¦मानु॑षीः¦दे॒वः¦आ॒व॒रित्या᳚वः ||

विसूर्यो᳚,अ॒मतिं॒नश्रियं᳚सा॒दोर्वाद्‌गवां᳚मा॒ताजा᳚न॒तीगा᳚त् |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

धन्व᳚र्णसोन॒द्य१॑(अः॒)खादो᳚अर्णाः॒स्थूणे᳚व॒सुमि॑तादृंहत॒द्यौः(स्वाहा᳚) || 2 ||

वि¦सूर्यः॑¦अ॒मति᳚‌म्¦न¦श्रिय᳚‌म्¦सा॒त्¦आ¦ऊ॒र्वात्¦गवा᳚‌म्¦मा॒ता¦जा॒न॒ती¦गा॒त् |
धन्व॑।आर्णसः¦न॒द्यः॑¦खादः॑।आर्णाः¦स्थूणा᳚ऽ‌इव¦सुऽमि॑ता¦दृं॒ह॒त॒¦द्यौः ||

अ॒स्मा,उ॒क्थाय॒पर्व॑तस्य॒गर्भो᳚म॒हीनां᳚ज॒नुषे᳚पू॒र्व्याय॑ |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

विपर्व॑तो॒जिही᳚त॒साध॑त॒द्यौरा॒विवा᳚सन्तोदसयन्त॒भूम॒(स्वाहा᳚) || 3 ||

अ॒स्मै¦उ॒क्थाय॑¦पर्व॑तस्य¦गर्भः॑¦म॒हीना᳚‌म्¦ज॒नुषे᳚¦पू॒र्व्याय॑ |
वि¦पर्व॑तः¦जिही᳚त¦साध॑त¦द्यौः¦आ॒ऽविवा᳚सन्तः¦द॒स॒य॒न्त॒¦भूम॑ ||

सू॒क्तेभि᳚र्वो॒वचो᳚भिर्दे॒वजु॑ष्टै॒रिन्द्रा॒न्व१॑(अ॒)ग्नी,अव॑सेहु॒वध्यै᳚ |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

उ॒क्थेभि॒र्हिष्मा᳚क॒वयः॑सुय॒ज्ञा,आ॒विवा᳚सन्तोम॒रुतो॒यज᳚न्ति॒(स्वाहा᳚) || 4 ||

सु॒।औ॒क्तेभिः॑¦वः॒¦वचः॑ऽभिः¦दे॒वऽजु॑ष्टैः¦इन्द्रा᳚¦नु¦अ॒ग्नी इति॑¦अव॑से¦हु॒वध्यै᳚ |
उ॒क्थेभिः॑¦हि¦स्म॒¦क॒वयः॑¦सु॒ऽय॒ज्ञाः¦आ॒ऽविवा᳚सन्तः¦म॒रुतः॑¦यज᳚न्ति ||

एतो॒न्व१॑(अ॒)द्यसु॒ध्यो॒३॑(ओ॒)भवा᳚म॒प्रदु॒च्छुना᳚मिनवामा॒वरी᳚यः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

आ॒रेद्वेषां᳚सिसनु॒तर्द॑धा॒माऽया᳚म॒प्राञ्चो॒यज॑मान॒मच्छ॒(स्वाहा᳚) || 5 ||

एतो॒ इति॑¦नु¦अ॒द्य¦सु॒ऽध्यः॑¦भवा᳚म¦प्र¦दु॒च्छुनाः᳚¦मि॒न॒वा॒म॒¦वरी᳚यः |
आ॒रे¦द्वेषां᳚सि¦स॒नु॒तः¦द॒धा॒म॒¦अया᳚म¦प्रांचः॑¦यज॑मान‌म्¦अच्छ॑ ||

एता॒धियं᳚कृ॒णवा᳚मासखा॒योऽप॒यामा॒ताँ,ऋ॑णु॒तव्र॒जंगोः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

यया॒मनु᳚र्विशिशि॒प्रंजि॒गाय॒यया᳚व॒णिग्व॒ङ्कुरापा॒पुरी᳚ष॒‌म्(स्वाहा᳚) || 6 || वर्ग:27

आ¦इ॒त॒¦धिय᳚‌म्¦कृ॒णवा᳚म¦स॒खा॒यः॒¦अप॑¦या¦मा॒ता¦ऋ॒णु॒त¦व्र॒ज‌म्¦गोः |
यया᳚¦मनुः॑¦वि॒शि॒ऽशि॒प्र‌म्¦जि॒गाय॑¦यया᳚¦व॒णिक्¦व॒ङ्कुः¦आप॑¦पुरी᳚ष‌म् ||

अनू᳚नो॒दत्र॒हस्त॑यतो॒,अद्रि॒रार्च॒न्‌येन॒दश॑मा॒सोनव॑ग्वाः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒तंय॒तीस॒रमा॒गा,अ॑विन्द॒द्विश्वा᳚निस॒त्याङ्गि॑राश्चकार॒(स्वाहा᳚) || 7 ||

अनू᳚नोत्¦अत्र॑¦हस्त॑ऽयतः¦अद्रिः॑¦आर्च॑न्¦येन॑¦दश॑¦मा॒सः¦नव॑ऽग्वाः |
ऋ॒त‌म्¦य॒ती¦स॒रमा᳚¦गाः¦अ॒वि॒न्द॒त्¦विश्वा᳚नि¦स॒त्या¦अङ्गि॑राः¦च॒का॒र॒ ||

विश्वे᳚,अ॒स्याव्युषि॒माहि॑नायाः॒संयद्‌गोभि॒रङ्गि॑रसो॒नव᳚न्त |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

उत्स॑आसांपर॒मेस॒धस्थ॑ऋ॒तस्य॑प॒थास॒रमा᳚विद॒द्‌गाः॒(स्वाहा᳚) || 8 ||

विश्वे᳚¦अ॒स्याः¦वि॒।औषि॑¦माहि॑नायाः¦स‌म्¦यत्¦गोभिः॑¦अङ्गि॑रसः¦नव᳚न्त |
उत्सः॑¦आ॒सा॒‌म्¦प॒र॒मे¦स॒धऽस्थे᳚¦ऋ॒तस्य॑¦प॒था¦स॒रमा᳚¦वि॒द॒त्¦गाः ||

आसूर्यो᳚यातुस॒प्ताश्वः॒,क्षेत्रं॒यद॑स्योर्वि॒यादी᳚र्घया॒थे |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

र॒घुःश्ये॒नःप॑तय॒दन्धो॒,अच्छा॒युवा᳚क॒विर्दी᳚दय॒द्‌गोषु॒गच्छ॒न्त्(स्वाहा᳚) || 9 ||

आ¦सूर्यः॑¦या॒तु॒¦स॒प्त।आ॑श्वः¦क्षेत्र᳚‌म्¦यत्¦अ॒स्य॒¦उ॒र्वि॒या¦दी॒र्घ॒ऽया॒थे |
र॒घुः¦श्ये॒नः¦प॒त॒य॒त्¦अन्धः॑¦अच्छ॑¦युवा᳚¦क॒विः¦दी॒द॒य॒त्¦गोषु॑¦गच्छ॑न् ||

आसूर्यो᳚,अरुहच्छु॒क्रमर्णोऽयु॑क्त॒यद्ध॒रितो᳚वी॒तपृ॑ष्ठाः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

उ॒द्नाननाव॑मनयन्त॒धीरा᳚,आशृण्व॒तीरापो᳚,अ॒र्वाग॑तिष्ठ॒‌न्(स्वाहा᳚) || 10 ||

आ¦सूर्यः॑¦अ॒रु॒ह॒त्¦शु॒क्र‌म्¦अर्णः॑¦अयु॑क्त¦यत्¦ह॒रितः॑¦वी॒तऽपृ॑ष्ठाः |
उ॒द्ना¦न¦नाव᳚‌म्¦अ॒न॒य॒न्त॒¦धीराः᳚¦आ॒ऽशृ॒ण्व॒तीः¦आपः॑¦अ॒र्वाक्¦अ॒ति॒ष्ठ॒न् ||

धियं᳚वो,अ॒प्सुद॑धिषेस्व॒र्षांययात॑र॒न्‌दश॑मा॒सोनव॑ग्वाः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

अ॒याधि॒यास्या᳚मदे॒वगो᳚पा,अ॒याधि॒यातु॑तुर्या॒मात्यंहः॒(स्वाहा᳚) || 11 ||

धिय᳚‌म्¦वः॒¦अ॒प्ऽसु¦द॒धि॒षे॒¦स्वः॒ऽसा‌म्¦यया᳚¦अत॑रन्¦दश॑¦मा॒सः¦नव॑ऽग्वाः |
अ॒या¦धि॒या¦स्या॒म॒¦दे॒वऽगो᳚पाः¦अ॒या¦धि॒या¦तु॒तु॒र्या॒म॒¦अति॑¦अंहः॑ ||

[38] हयोनेत्यष्टर्चस्यसूक्तस्यात्रेयःप्रतिक्षत्रोविश्वेदेवाजगती सप्तम्यष्टम्योर्देवपत्न्यः द्वितीयांत्येत्रिष्टुभौ | (भेदपक्षे-विश्वेदेवाः ६ देवपत्न्यः २ एवं ८) |{अष्टक:4, अध्याय:2}{मंडल:5, सूक्त:46}{अनुवाक:4, सूक्त:2}
हयो॒नवि॒द्वाँ,अ॑युजिस्व॒यंधु॒रितांव॑हामिप्र॒तर॑णीमव॒स्युव᳚म् |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती}

नास्या᳚वश्मिवि॒मुचं॒नावृतं॒पुन᳚र्वि॒द्वान्‌प॒थःपु॑रए॒तऋ॒जुने᳚षति॒(स्वाहा᳚) || 1 || वर्ग:28

हयः॑¦न¦वि॒द्वान्¦अ॒यु॒जि॒¦स्व॒य‌म्¦धु॒रि¦ता‌म्¦व॒हा॒मि॒¦प्र॒ऽतर॑णी‌म्¦अ॒व॒स्युव᳚‌म् |
न¦अ॒स्याः॒¦व॒श्मि॒¦वि॒ऽमुच᳚‌म्¦न¦आ॒ऽवृत᳚‌म्¦पुनः॑¦वि॒द्वान्¦प॒थः¦पु॒रः॒ऽए॒ता¦ऋ॒जु¦ने॒ष॒ति॒ ||

अग्न॒इन्द्र॒वरु॑ण॒मित्र॒देवाः॒शर्धः॒प्रय᳚न्त॒मारु॑तो॒तवि॑ष्णो |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | त्रिष्टुप्}

उ॒भानास॑त्यारु॒द्रो,अध॒ग्नाःपू॒षाभगः॒सर॑स्वतीजुषन्त॒(स्वाहा᳚) || 2 ||

अग्ने᳚¦इन्द्र॑¦वरु॑ण¦मित्र॑¦देवाः᳚¦शर्धः॑¦प्र¦य॒न्त॒¦मारु॑त¦उ॒त¦वि॒ष्णो॒ इति॑ |
उ॒भा¦नास॑त्या¦रु॒द्रः¦अध॑¦ग्नाः¦पू॒षा¦भगः॑¦सर॑स्वती¦जु॒ष॒न्त॒ ||

इ॒न्द्रा॒ग्नीमि॒त्रावरु॒णादि॑तिं॒स्वः॑पृथि॒वींद्यांम॒रुतः॒पर्व॑ताँ,अ॒पः |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती}

हु॒वेविष्णुं᳚पू॒षणं॒ब्रह्म॑ण॒स्पतिं॒भगं॒नुशंसं᳚सवि॒तार॑मू॒तये॒(स्वाहा᳚) || 3 ||

इ॒न्द्रा॒ग्नी इति॑¦मि॒त्रावरु॑णा¦अदि॑ति‌म्¦स्व१॒॑रिति॒ स्वः॑¦पृ॒थि॒वी‌म्¦द्या‌म्¦म॒रुतः॑¦पर्व॑तान्¦अ॒पः |
हु॒वे¦विष्णु᳚‌म्¦पू॒षण᳚‌म्¦ब्रह्म॑णः¦पति᳚‌म्¦भग᳚‌म्¦नु¦शंस᳚‌म्¦स॒वि॒तार᳚‌म्¦ऊ॒तये᳚ ||

उ॒तनो॒विष्णु॑रु॒तवातो᳚,अ॒स्रिधो᳚द्रविणो॒दा,उ॒तसोमो॒मय॑स्करत् |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती}

उ॒तऋ॒भव॑उ॒तरा॒येनो᳚,अ॒श्विनो॒तत्वष्टो॒तविभ्वानु॑मंसते॒(स्वाहा᳚) || 4 ||

उ॒त¦नः॒¦विष्णुः॑¦उ॒त¦वातः॑¦अ॒स्रिधः॑¦द्र॒वि॒णः॒ऽदाः¦उ॒त¦सोमः॑¦मयः॑¦क॒र॒त् |
उ॒त¦ऋ॒भवः॑¦उ॒त¦रा॒ये¦नः॒¦अ॒श्विना᳚¦उ॒त¦त्वष्टा᳚¦उ॒त¦विऽभ्वा᳚¦अनु॑¦मं॒स॒ते॒ ||

उ॒तत्यन्नो॒मारु॑तं॒शर्ध॒आग॑मद्दिविक्ष॒यंय॑ज॒तंब॒र्हिरा॒सदे᳚ |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती}

बृह॒स्पतिः॒शर्म॑पू॒षोतनो᳚यमद्वरू॒थ्य१॑(अं॒)वरु॑णोमि॒त्रो,अ᳚र्य॒मा(स्वाहा᳚) || 5 ||

उ॒त¦त्यत्¦नः॒¦मारु॑त‌म्¦शर्धः॑¦आ¦ग॒म॒त्¦दि॒वि॒ऽक्ष॒य‌म्¦य॒ज॒त‌म्¦ब॒र्हिः¦आ॒ऽसदे᳚ |
बृह॒स्पतिः॑¦शर्म॑¦पू॒षा¦उ॒त¦नः॒¦य॒म॒त्¦व॒रू॒थ्य᳚‌म्¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा ||

उ॒तत्येनः॒पर्व॑तासःसुश॒स्तयः॑सुदी॒तयो᳚न॒द्य१॑(अ॒)स्त्राम॑णेभुवन् |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती}

भगो᳚विभ॒क्ताशव॒साव॒साग॑मदुरु॒व्यचा॒,अदि॑तिःश्रोतुमे॒हव॒‌म्(स्वाहा᳚) || 6 ||

उ॒त¦त्ये¦नः॒¦पर्व॑तासः¦सु॒ऽश॒स्तयः॑¦सु॒ऽदी॒तयः॑¦न॒द्यः॑¦त्राम॑णे¦भु॒व॒न् |
भगः॑¦वि॒ऽभ॒क्ता¦शव॑सा¦अव॑सा¦आ¦ग॒म॒त्¦उ॒रु॒ऽव्यचाः᳚¦अदि॑तिः¦श्रो॒तु॒¦मे॒¦हव᳚‌म् ||

दे॒वानां॒पत्नी᳚रुश॒तीर॑वन्तुनः॒प्राव᳚न्तुनस्तु॒जये॒वाज॑सातये |{आत्रेयः प्रतिक्षत्रः | देवपत्न्यः | जगती}

याःपार्थि॑वासो॒या,अ॒पामपि᳚व्र॒तेतानो᳚देवीःसुहवाः॒शर्म॑यच्छत॒(स्वाहा᳚) || 7 ||

दे॒वाना᳚‌म्¦पत्नीः᳚¦उ॒श॒तीः¦अ॒व॒न्तु॒¦नः॒¦प्र¦अ॒व॒न्तु॒¦नः॒¦तु॒जये᳚¦वाज॑ऽसातये |
याः¦पार्थि॑वासः¦याः¦अ॒पा‌म्¦अपि॑¦व्र॒ते¦ताः¦नः॒¦दे॒वीः॒¦सु॒ऽह॒वाः॒¦शर्म॑¦य॒च्छ॒त॒ ||

उ॒तग्नाव्य᳚न्तुदे॒वप॑त्नीरिन्द्रा॒ण्य१॑(अ॒)ग्नाय्य॒श्विनी॒राट् |{आत्रेयः प्रतिक्षत्रः | देवपत्न्यः | त्रिष्टुप्}

आरोद॑सीवरुणा॒नीशृ॑णोतु॒व्यन्तु॑दे॒वीर्यऋ॒तुर्जनी᳚ना॒‌म्(स्वाहा᳚) || 8 ||

उ॒त¦ग्नाः¦व्य॒न्तु॒¦दे॒वऽप॑त्नीः¦इ॒न्द्रा॒णी¦अ॒ग्नायी᳚¦अ॒श्विनी᳚¦राट् |
आ¦रोद॑सी॒ इति॑¦व॒रु॒णा॒नी¦शृ॒णो॒तु॒¦व्यन्तु॑¦दे॒वीः¦यः¦ऋ॒तुः¦जनी᳚ना‌म् ||

[39] प्रयुंजतीति सप्तर्चस्य सूक्तस्यात्रेयः प्रतिरथोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - उषाः १ सूर्यरश्मयः १ सूर्यः ३ विश्वेदेवाः १ मित्रावरुणाग्नयः १ एवं ७) |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:47}{अनुवाक:4, सूक्त:3}
प्र॒यु॒ञ्ज॒तीदि॒वए᳚तिब्रुवा॒णाम॒हीमा॒तादु॑हि॒तुर्बो॒धय᳚न्ती |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

आ॒विवा᳚सन्तीयुव॒तिर्म॑नी॒षापि॒तृभ्य॒आसद॑ने॒जोहु॑वाना॒(स्वाहा᳚) || 1 || वर्ग:1

प्र॒ऽयुं॒ज॒ती¦दि॒वः¦ए॒ति॒¦ब्रु॒वा॒णा¦म॒ही¦मा॒ता¦दु॒हि॒तुः¦बो॒धय᳚न्ती |
आ॒ऽविवा᳚सन्ती¦यु॒व॒तिः¦म॒नी॒षा¦पि॒तृऽभ्यः॑¦आ¦सद॑ने¦जोहु॑वाना ||

अ॒जि॒रास॒स्तद॑प॒ईय॑माना,आतस्थि॒वांसो᳚,अ॒मृत॑स्य॒नाभि᳚म् |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

अ॒न॒न्तास॑उ॒रवो᳚वि॒श्वतः॑सीं॒परि॒द्यावा᳚पृथि॒वीय᳚न्ति॒पन्थाः᳚(स्वाहा᳚) || 2 ||

अ॒जि॒रासः॑¦तत्।आ॑पः¦ईय॑मानाः¦आ॒त॒स्थि॒ऽवांसः॑¦अ॒मृत॑स्य¦नाभि᳚‌म् |
अ॒न॒न्तासः॑¦उ॒रवः॑¦वि॒श्वतः॑¦सी॒‌म्¦परि॑¦द्यावा᳚पृथि॒वी इति॑¦य॒न्ति॒¦पन्थाः᳚ ||

उ॒क्षास॑मु॒द्रो,अ॑रु॒षःसु॑प॒र्णःपूर्व॑स्य॒योनिं᳚पि॒तुरावि॑वेश |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

मध्ये᳚दि॒वोनिहि॑तः॒पृश्नि॒रश्मा॒विच॑क्रमे॒रज॑सस्पा॒त्यन्तौ॒(स्वाहा᳚) || 3 ||

उ॒क्षा¦स॒मु॒द्रः¦अ॒रु॒षः¦सु॒ऽप॒र्णः¦पूर्व॑स्य¦योनि᳚‌म्¦पि॒तुः¦आ¦वि॒वे॒श॒ |
मध्ये᳚¦दि॒वः¦निऽहि॑तः¦पृश्निः॑¦अश्मा᳚¦वि¦च॒क्र॒मे॒¦रज॑सः¦पा॒ति॒¦अन्तौ᳚ ||

च॒त्वार॑ईंबिभ्रतिक्षेम॒यन्तो॒दश॒गर्भं᳚च॒रसे᳚धापयन्ते |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

त्रि॒धात॑वःपर॒मा,अ॑स्य॒गावो᳚दि॒वश्च॑रन्ति॒परि॑स॒द्यो,अन्ता॒न्त्(स्वाहा᳚) || 4 ||

च॒त्वारः॑¦ई॒‌म्¦बि॒भ्र॒ति॒¦क्षे॒म॒ऽयन्तः॑¦दश॑¦गर्भ᳚‌म्¦च॒रसे᳚¦धा॒प॒य॒न्ते॒ |
त्रि॒ऽधात॑वः¦प॒र॒माः¦अ॒स्य॒¦गावः॑¦दि॒वः¦च॒र॒न्ति॒¦परि॑¦स॒द्यः¦अन्ता॑न् ||

इ॒दंवपु᳚र्नि॒वच॑नंजनास॒श्चर᳚न्ति॒यन्न॒द्य॑स्त॒स्थुरापः॑ |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

द्वेयदीं᳚बिभृ॒तोमा॒तुर॒न्ये,इ॒हेह॑जा॒तेय॒म्या॒३॑(आ॒)सब᳚न्धू॒(स्वाहा᳚) || 5 ||

इ॒द‌म्¦वपुः॑¦नि॒ऽवच॑न‌म्¦ज॒ना॒सः॒¦चर᳚न्ति¦यत्¦न॒द्यः॑¦त॒स्थुः¦आपः॑ |
द्वे इति॑¦यत्¦ई॒‌म्¦बि॒भृ॒तः¦मा॒तुः¦अ॒न्ये इति॑¦इ॒हऽ‌इ᳚ह¦जा॒ते इति॑¦य॒म्या᳚¦सब᳚न्धू॒ इति॒ सऽब᳚न्धू ||

वित᳚न्वते॒धियो᳚,अस्मा॒,अपां᳚सि॒वस्त्रा᳚पु॒त्राय॑मा॒तरो᳚वयन्ति |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

उ॒प॒प्र॒क्षेवृष॑णो॒मोद॑मानादि॒वस्प॒थाव॒ध्वो᳚य॒न्त्यच्छ॒(स्वाहा᳚) || 6 ||

वि¦त॒न्व॒ते॒¦धियः॑¦अ॒स्मै॒¦अपां᳚सि¦वस्त्रा᳚¦पु॒त्राय॑¦मा॒तरः॑¦व॒य॒न्ति॒ |
उ॒प॒ऽप्र॒क्षे¦वृष॑णः¦मोद॑मानाः¦दि॒वः¦प॒था¦व॒ध्वः॑¦य॒न्ति॒¦अच्छ॑ ||

तद॑स्तुमित्रावरुणा॒तद॑ग्ने॒शंयोर॒स्मभ्य॑मि॒दम॑स्तुश॒स्तम् |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

अ॒शी॒महि॑गा॒धमु॒तप्र॑ति॒ष्ठांनमो᳚दि॒वेबृ॑ह॒तेसाद॑नाय॒(स्वाहा᳚) || 7 ||

तत्¦अ॒स्तु॒¦मि॒त्रा॒व॒रु॒णा॒¦तत्¦अ॒ग्ने॒¦श‌म्¦योः¦अ॒स्मभ्य᳚‌म्¦इ॒द‌म्¦अ॒स्तु॒¦श॒स्त‌म् |
अ॒शी॒महि॑¦गा॒ध‌म्¦उ॒त¦प्र॒ति॒ऽस्था‌म्¦नमः॑¦दि॒वे¦बृ॒ह॒ते¦साद॑नाय ||

[40] कदुप्रियायेति पंचर्चस्य सूक्तस्यात्रेयः प्रतिभानुर्विश्वेदेवाजगती | (भेदपक्षे - विद्युतोग्निः १ उषाः १ इंद्रसूर्यौ १ अग्निः २ एवं ५) |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:48}{अनुवाक:4, सूक्त:4}
कदु॑प्रि॒याय॒धाम्ने᳚मनामहे॒स्वक्ष॑त्राय॒स्वय॑शसेम॒हेव॒यम् |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती}

आ॒मे॒न्यस्य॒रज॑सो॒यद॒भ्रआँ,अ॒पोवृ॑णा॒नावि॑त॒नोति॑मा॒यिनी॒(स्वाहा᳚) || 1 || वर्ग:2

कत्¦ऊँ॒ इति॑¦प्रि॒याय॑¦धाम्ने᳚¦म॒ना॒म॒हे॒¦स्वऽक्ष॑त्राय¦स्वऽय॑शसे¦म॒हे¦व॒य‌म् |
आ॒ऽमे॒न्यस्य॑¦रज॑सः¦यत्¦अ॒भ्रे¦आ¦अ॒पः¦वृ॒णा॒ना¦वि॒ऽत॒नोति॑¦मा॒यिनी᳚ ||

ता,अ॑त्नतव॒युनं᳚वी॒रव॑क्षणंसमा॒न्यावृ॒तया॒विश्व॒मारजः॑ |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती}

अपो॒,अपा᳚ची॒रप॑रा॒,अपे᳚जते॒प्रपूर्वा᳚भिस्तिरतेदेव॒युर्जनः॒(स्वाहा᳚) || 2 ||

ताः¦अ॒त्न॒त॒¦व॒युन᳚‌म्¦वी॒रऽव॑क्षण‌म्¦स॒मा॒न्या¦वृ॒तया᳚¦विश्व᳚‌म्¦आ¦रजः॑ |
अपो॒ इति॑¦अपा᳚चीः¦अप॑राः¦अप॑¦ई॒ज॒ते॒¦प्र¦पूर्वा᳚भिः¦ति॒र॒ते॒¦दे॒व॒ऽयुः¦जनः॑ ||

आग्राव॑भिरह॒न्ये᳚भिर॒क्तुभि॒र्वरि॑ष्ठं॒वज्र॒माजि॑घर्तिमा॒यिनि॑ |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती}

श॒तंवा॒यस्य॑प्र॒चर॒न्‌त्स्वेदमे᳚संव॒र्तय᳚न्तो॒विच॑वर्तय॒न्नहा॒(स्वाहा᳚) || 3 ||

आ¦ग्राव॑ऽभिः¦अ॒ह॒न्ये᳚भिः¦अ॒क्तुऽभिः॑¦वरि॑ष्ठ‌म्¦वज्र᳚‌म्¦आ¦जि॒घ॒र्ति॒¦मा॒यिनि॑ |
श॒त‌म्¦वा॒¦यस्य॑¦प्र॒ऽचर॑न्¦स्वे¦दमे᳚¦स॒‌म्ऽव॒र्तय᳚न्तः¦वि¦च॒¦व॒र्त॒य॒न्¦अहा᳚ ||

ताम॑स्यरी॒तिंप॑र॒शोरि॑व॒प्रत्यनी᳚कमख्यंभु॒जे,अ॑स्य॒वर्प॑सः |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती}

सचा॒यदि॑पितु॒मन्त॑मिव॒क्षयं॒रत्नं॒दधा᳚ति॒भर॑हूतयेवि॒शे(स्वाहा᳚) || 4 ||

ता‌म्¦अ॒स्य॒¦री॒ति‌म्¦प॒र॒शोःऽ‌इ᳚व¦प्रति॑¦अनी᳚क‌म्¦अ॒ख्य॒‌म्¦भु॒जे¦अ॒स्य॒¦वर्प॑सः |
सचा᳚¦यदि॑¦पि॒तु॒मन्त᳚‌म्ऽ‌इव¦क्षय᳚‌म्¦रत्न᳚‌म्¦दधा᳚ति¦भर॑ऽहूतये¦वि॒शे ||

सजि॒ह्वया॒चतु॑रनीकऋञ्जते॒चारु॒वसा᳚नो॒वरु॑णो॒यत᳚न्न॒रिम् |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती}

नतस्य॑विद्मपुरुष॒त्वता᳚व॒यंयतो॒भगः॑सवि॒तादाति॒वार्य॒‌म्(स्वाहा᳚) || 5 ||

सः¦जि॒ह्वया᳚¦चतुः॑।आनीकः¦ऋं॒ज॒ते॒¦चारु॑¦वसा᳚नः¦वरु॑णः¦यत॑न्¦अ॒रि‌म् |
न¦तस्य॑¦वि॒द्म॒¦पु॒रु॒ष॒त्वता᳚¦व॒य‌म्¦यतः॑¦भगः॑¦स॒वि॒ता¦दाति॑¦वार्य᳚‌म् ||

[41] देवंवइति पंचर्चस्य सूक्तस्यात्रेयः प्रतिप्रभुर्विश्वेदेवास्त्रिष्टुप् अंत्यातृणपाणिः | (भेदपक्षे - विश्वेदेवाः १ सूर्यः १ विश्वेदेवाः ३ एवं ५) |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:49}{अनुवाक:4, सूक्त:5}
दे॒वंवो᳚,अ॒द्यस॑वि॒तार॒मेषे॒भगं᳚च॒रत्नं᳚वि॒भज᳚न्तमा॒योः |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | त्रिष्टुप्}

आवां᳚नरापुरुभुजाववृत्यांदि॒वेदि॑वेचिदश्विनासखी॒यन्(स्वाहा᳚) || 1 || वर्ग:3

दे॒व‌म्¦वः॒¦अ॒द्य¦स॒वि॒तार᳚‌म्¦आ¦ई॒षे॒¦भग᳚‌म्¦च॒¦रत्न᳚‌म्¦वि॒ऽभज᳚न्त‌म्¦आ॒योः |
आ¦वा॒‌म्¦न॒रा॒¦पु॒रु॒ऽभु॒जा॒¦व॒वृ॒त्या॒‌म्¦दि॒वेऽदि॑वे¦चि॒त्¦अ॒श्वि॒ना॒¦स॒खि॒ऽयन् ||

प्रति॑प्र॒याण॒मसु॑रस्यवि॒द्वान्त्सू॒क्तैर्दे॒वंस॑वि॒तारं᳚दुवस्य |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | त्रिष्टुप्}

उप॑ब्रुवीत॒नम॑साविजा॒नञ्ज्येष्ठं᳚च॒रत्नं᳚वि॒भज᳚न्तमा॒योः(स्वाहा᳚) || 2 ||

प्रति॑¦प्र॒ऽयान᳚‌म्¦असु॑रस्य¦वि॒द्वान्¦सु॒।औ॒क्तैः¦दे॒व‌म्¦स॒वि॒तार᳚‌म्¦दु॒व॒स्य॒ |
उप॑¦ब्रु॒वी॒त॒¦नम॑सा¦वि॒ऽजा॒नन्¦ज्येष्ठ᳚‌म्¦च॒¦रत्न᳚‌म्¦वि॒ऽभज᳚न्त‌म्¦आ॒योः ||

अ॒द॒त्र॒याद॑यते॒वार्या᳚णिपू॒षाभगो॒,अदि॑ति॒र्वस्त॑उ॒स्रः |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | त्रिष्टुप्}

इन्द्रो॒विष्णु॒र्वरु॑णोमि॒त्रो,अ॒ग्निरहा᳚निभ॒द्राज॑नयन्तद॒स्माः(स्वाहा᳚) || 3 ||

अ॒द॒त्र॒ऽया¦द॒य॒ते॒¦वार्या᳚णि¦पू॒षा¦भगः॑¦अदि॑तिः¦वस्ते᳚¦उ॒स्रः |
इन्द्रः॑¦विष्णुः॑¦वरु॑णः¦मि॒त्रः¦अ॒ग्निः¦अहा᳚नि¦भ॒द्रा¦ज॒न॒य॒न्त॒¦द॒स्माः ||

तन्नो᳚,अन॒र्वास॑वि॒तावरू᳚थं॒तत्‌सिन्ध॑वइ॒षय᳚न्तो॒,अनु॑ग्मन् |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | त्रिष्टुप्}

उप॒यद्‌वोचे᳚,अध्व॒रस्य॒होता᳚रा॒यःस्या᳚म॒पत॑यो॒वाज॑रत्नाः॒(स्वाहा᳚) || 4 ||

तत्¦नः॒¦अ॒न॒र्वा¦स॒वि॒ता¦वरू᳚थ‌म्¦तत्¦सिन्ध॑वः¦इ॒षय᳚न्तः¦अनु॑¦ग्म॒न् |
उप॑¦यत्¦वोचे᳚¦अ॒ध्व॒रस्य॑¦होता᳚¦रा॒यः¦स्या॒म॒¦पत॑यः¦वाज॑ऽरत्नाः ||

प्रयेवसु॑भ्य॒ईव॒दानमो॒दुर्येमि॒त्रेवरु॑णेसू॒क्तवा᳚चः |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | तृणपाणिः}

अवै॒त्वभ्वं᳚कृणु॒तावरी᳚योदि॒वस्पृ॑थि॒व्योरव॑सामदेम॒(स्वाहा᳚) || 5 ||

प्र¦ये¦वसु॑ऽभ्यः¦ईव॑त्¦आ¦नमः॑¦दुः¦ये¦मि॒त्रे¦वरु॑णे¦सू॒क्तऽवा᳚चः |
अव॑¦ए॒तु॒¦अभ्व᳚‌म्¦कृ॒णु॒त¦वरी᳚यः¦दि॒वःपृ॑थि॒व्योः¦अव॑सा¦म॒दे॒म॒ ||

[42] विश्वोदेवस्येति पंचर्चस्य सूक्तस्य स्वस्त्यात्रेयोविश्वेदेवाअनुष्टुप्‌अंत्यापङ्क्तिः | (भेदपक्षे - सविता २ विश्वेदेवाः १ सविता २ एवं ५) |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:50}{अनुवाक:4, सूक्त:6}
विश्वो᳚दे॒वस्य॑ने॒तुर्मर्तो᳚वुरीतस॒ख्यम् |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

विश्वो᳚रा॒यइ॑षुध्यतिद्यु॒म्नंवृ॑णीतपु॒ष्यसे॒(स्वाहा᳚) || 1 || वर्ग:4

विश्वः॑¦दे॒वस्य॑¦ने॒तुः¦मर्तः॑¦वु॒री॒त॒¦स॒ख्य‌म् | विश्वः॑¦रा॒ये¦इ॒षु॒ध्य॒ति॒¦द्यु॒म्न‌म्¦वृ॒णी॒त॒¦पु॒ष्यसे᳚ ||

तेते᳚देवनेत॒र्येचे॒माँ,अ॑नु॒शसे᳚ |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

तेरा॒यातेह्या॒३॑(आ॒)पृचे॒सचे᳚महिसच॒थ्यैः᳚(स्वाहा᳚) || 2 ||

ते¦ते॒¦दे॒व॒¦ने॒तः॒¦ये¦च॒¦इ॒मान्¦अ॒नु॒ऽशसे᳚ | ते¦रा॒या¦ते¦हि¦आ॒ऽपृचे᳚¦सचे᳚महि¦स॒च॒थ्यैः᳚ ||

अतो᳚न॒आनॄनति॑थी॒नतः॒पत्नी᳚र्दशस्यत |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

आ॒रेविश्वं᳚पथे॒ष्ठांद्वि॒षोयु॑योतु॒यूयु॑विः॒(स्वाहा᳚) || 3 ||

अतः॑¦नः॒¦आ¦नॄन्¦अति॑थीन्¦अतः॑¦पत्नीः᳚¦द॒श॒स्य॒त॒ | आ॒रे¦विश्व᳚‌म्¦प॒थे॒ऽस्था‌म्¦द्वि॒षः¦यु॒यो॒तु॒¦युयु॑विः ||

यत्र॒वह्नि॑र॒भिहि॑तोदु॒द्रव॒द्‌द्रोण्यः॑प॒शुः |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

नृ॒मणा᳚वी॒रप॒स्त्योऽर्णा॒धीरे᳚व॒सनि॑ता॒(स्वाहा᳚) || 4 ||

यत्र॑¦वह्निः॑¦अ॒भिऽहि॑तः¦दु॒द्रव॑त्¦द्रोण्यः॑¦प॒शुः | नृ॒ऽमनाः᳚¦वी॒रऽप॑स्त्यः¦अर्णा᳚¦धीरा᳚ऽ‌इव¦सनि॑ता ||

ए॒षते᳚देवनेता॒रथ॒स्पतिः॒शंर॒यिः |{स्वस्त्यात्रेयः | विश्वदेवाः | पङ्क्तिः}

शंरा॒येशंस्व॒स्तय॑इषः॒स्तुतो᳚मनामहेदेव॒स्तुतो᳚मनामहे॒(स्वाहा᳚) || 5 ||

ए॒षः¦ते॒¦दे॒व॒¦ने॒त॒रिति॑¦रथः॒पतिः॑¦श‌म्¦र॒यिः |
श‌म्¦रा॒ये¦श‌म्¦स्व॒स्तये᳚¦इ॒षः॒ऽस्तुतः॑¦म॒ना॒म॒हे॒¦दे॒व॒ऽस्तुतः॑¦म॒ना॒म॒हे॒ ||

[43] अग्नेसुतस्येति पंचदशर्चस्य सूक्तस्य स्वस्त्यात्रेयो विश्वेदेवाश्चतुर्थीषष्टीसप्तमीनामिंद्रवायू पंचम्यावायुः आद्याश्चतस्रो गायत्र्यः पंचम्यादिषळुष्णिहः एकादश्यादितिस्रोजगत्यः (त्रिष्टुभोवा) अंत्येद्वेअनुष्टुभौ | (भेदपक्षे - अग्निः २ विश्वेदेवाः १ इंद्रवायू १ वायुः १ इंद्रवायू २ अग्निः ३ विश्वेदेवाः ५ एवं १५) |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:51}{अनुवाक:4, सूक्त:7}
अग्ने᳚सु॒तस्य॑पी॒तये॒विश्वै॒रूमे᳚भि॒राग॑हि |{स्वस्त्यात्रेयः | विश्वदेवाः | गायत्री}

दे॒वेभि᳚र्ह॒व्यदा᳚तये॒(स्वाहा᳚) || 1 || वर्ग:5

अग्ने᳚¦सु॒तस्य॑¦पी॒तये᳚¦विश्वैः᳚¦ऊमे᳚भिः¦आ¦ग॒हि॒ | दे॒वेभिः॑¦ह॒व्यऽदा᳚तये ||

ऋत॑धीतय॒आग॑त॒सत्य॑धर्माणो,अध्व॒रम् |{स्वस्त्यात्रेयः | विश्वदेवाः | गायत्री}

अ॒ग्नेःपि॑बतजि॒ह्वया॒(स्वाहा᳚) || 2 ||

ऋत॑ऽधीतयः¦आ¦ग॒त॒¦सत्य॑ऽधर्माणः¦अ॒ध्व॒र‌म् | अ॒ग्नेः¦पि॒ब॒त॒¦जि॒ह्वया᳚ ||

विप्रे᳚भिर्विप्रसन्त्यप्रात॒र्याव॑भि॒राग॑हि |{स्वस्त्यात्रेयः | विश्वदेवाः | गायत्री}

दे॒वेभिः॒सोम॑पीतये॒(स्वाहा᳚) || 3 ||

विप्रे᳚भिः¦वि॒प्र॒¦स॒न्त्य॒¦प्रा॒त॒र्याव॑ऽभिः¦आ¦ग॒हि॒ | दे॒वेभिः॑¦सोम॑ऽपीतये ||

अ॒यंसोम॑श्च॒मूसु॒तोऽम॑त्रे॒परि॑षिच्यते |{स्वस्त्यात्रेयः | इंद्रवायू | गायत्री}

प्रि॒यइन्द्रा᳚यवा॒यवे॒(स्वाहा᳚) || 4 ||

अ॒य‌म्¦सोमः॑¦च॒मू इति॑¦सु॒तः¦अम॑त्रे¦परि॑¦सि॒च्य॒ते॒ | प्रि॒यः¦इन्द्रा᳚य¦वा॒यवे᳚ ||

वाय॒वाया᳚हिवी॒तये᳚जुषा॒णोह॒व्यदा᳚तये |{स्वस्त्यात्रेयः | वायुः | उष्णिक्}

पिबा᳚सु॒तस्यान्ध॑सो,अ॒भिप्रयः॒(स्वाहा᳚) || 5 ||

वायो॒ इति॑¦आ¦या॒हि॒¦वी॒तये᳚¦जु॒षा॒णः¦ह॒व्यऽदा᳚तये | पिब॑¦सु॒तस्य॑¦अन्ध॑सः¦अ॒भि¦प्रयः॑ ||

इन्द्र॑श्चवायवेषांसु॒तानां᳚पी॒तिम᳚र्हथः |{स्वस्त्यात्रेयः | इंद्रवायू | उष्णिक्}

ताञ्जु॑षेथामरे॒पसा᳚व॒भिप्रयः॒(स्वाहा᳚) || 6 || वर्ग:6

इन्द्रः॑¦च॒¦वा॒यो॒ इति॑¦ए॒षा॒‌म्¦सु॒ताना᳚‌म्¦पी॒ति‌म्¦अ॒र्ह॒थः॒ | तान्¦जु॒षे॒था॒‌म्¦अ॒रे॒पसौ᳚¦अ॒भि¦प्रयः॑ ||

सु॒ता,इन्द्रा᳚यवा॒यवे॒सोमा᳚सो॒दध्या᳚शिरः |{स्वस्त्यात्रेयः | इंद्रवायू | उष्णिक्}

नि॒म्नंनय᳚न्ति॒सिन्ध॑वो॒ऽभिप्रयः॒(स्वाहा᳚) || 7 ||

सु॒ताः¦इन्द्रा᳚य¦वा॒यवे᳚¦सोमा᳚सः¦दधि॑ऽआशिरः | नि॒म्न‌म्¦न¦य॒न्ति॒¦सिन्ध॑वः¦अ॒भि¦प्रयः॑ ||

स॒जूर्विश्वे᳚भिर्दे॒वेभि॑र॒श्विभ्या᳚मु॒षसा᳚स॒जूः |{स्वस्त्यात्रेयः | विश्वदेवाः | उष्णिक्}

आया᳚ह्यग्ने,अत्रि॒वत्सु॒तेर॑ण॒(स्वाहा᳚) || 8 ||

स॒ऽजूः¦विश्वे᳚भिः¦दे॒वेभिः॑¦अ॒श्विऽभ्या᳚‌म्¦उ॒षसा᳚¦स॒ऽजूः | आ¦या॒हि॒¦अ॒ग्ने॒¦अ॒त्रि॒ऽवत्¦सु॒ते¦रण॒ ||

स॒जूर्मि॒त्रावरु॑णाभ्यांस॒जूःसोमे᳚न॒विष्णु॑ना |{स्वस्त्यात्रेयः | विश्वदेवाः | उष्णिक्}

आया᳚ह्यग्ने,अत्रि॒वत्सु॒तेर॑ण॒(स्वाहा᳚) || 9 ||

स॒ऽजूः¦मि॒त्रावरु॑णाभ्या‌म्¦स॒ऽजूः¦सोमे᳚न¦विष्णु॑ना | आ¦या॒हि॒¦अ॒ग्ने॒¦अ॒त्रि॒ऽवत्¦सु॒ते¦रण॒ ||

स॒जूरा᳚दि॒त्यैर्वसु॑भिःस॒जूरिन्द्रे᳚णवा॒युना᳚ |{स्वस्त्यात्रेयः | विश्वदेवाः | उष्णिक्}

आया᳚ह्यग्ने,अत्रि॒वत्सु॒तेर॑ण॒(स्वाहा᳚) || 10 ||

स॒ऽजूः¦आ॒दि॒त्यैः¦वसु॑ऽभिः¦स॒ऽजूः¦इन्द्रे᳚ण¦वा॒युना᳚ | आ¦या॒हि॒¦अ॒ग्ने॒¦अ॒त्रि॒ऽवत्¦सु॒ते¦रण॒ ||

स्व॒स्तिनो᳚मिमीताम॒श्विना॒भगः॑स्व॒स्तिदे॒व्यदि॑तिरन॒र्वणः॑ |{स्वस्त्यात्रेयः | विश्वदेवाः | जगती त्रिष्टुभोवा}

स्व॒स्तिपू॒षा,असु॑रोदधातुनःस्व॒स्तिद्यावा᳚पृथि॒वीसु॑चे॒तुना॒(स्वाहा᳚) || 11 || वर्ग:7

स्व॒स्ति¦नः॒¦मि॒मी॒ता॒‌म्¦अ॒श्विना᳚¦भगः॑¦स्व॒स्ति¦दे॒वी¦अदि॑तिः¦अ॒न॒र्वणः॑ |
स्व॒स्ति¦पू॒षा¦असु॑रः¦द॒धा॒तु॒¦नः॒¦स्व॒स्ति¦द्यावा᳚पृथि॒वी इति॑¦सु॒ऽचे॒तुना᳚ ||

स्व॒स्तये᳚वा॒युमुप॑ब्रवामहै॒सोमं᳚स्व॒स्तिभुव॑नस्य॒यस्पतिः॑ |{स्वस्त्यात्रेयः | विश्वदेवाः | जगती त्रिष्टुभोवा}

बृह॒स्पतिं॒सर्व॑गणंस्व॒स्तये᳚स्व॒स्तय॑आदि॒त्यासो᳚भवन्तुनः॒(स्वाहा᳚) || 12 ||

स्व॒स्तये᳚¦वा॒यु‌म्¦उप॑¦ब्र॒वा॒म॒है॒¦सोम᳚‌म्¦स्व॒स्ति¦भुव॑नस्य¦यः¦पतिः॑ |
बृह॒स्पति᳚‌म्¦सर्व॑ऽगण‌म्¦स्व॒स्तये᳚¦स्व॒स्तये᳚¦आ॒दि॒त्यासः॑¦भ॒व॒न्तु॒¦नः॒ ||

विश्वे᳚दे॒वानो᳚,अ॒द्यास्व॒स्तये᳚वैश्वान॒रोवसु॑र॒ग्निःस्व॒स्तये᳚ |{स्वस्त्यात्रेयः | विश्वदेवाः | जगती त्रिष्टुभोवा}

दे॒वा,अ॑वन्त्वृ॒भवः॑स्व॒स्तये᳚स्व॒स्तिनो᳚रु॒द्रःपा॒त्वंह॑सः॒(स्वाहा᳚) || 13 ||

विश्वे᳚¦दे॒वाः¦नः॒¦अ॒द्य¦स्व॒स्तये᳚¦वै॒श्वा॒न॒रः¦वसुः॑¦अ॒ग्निः¦स्व॒स्तये᳚ |
दे॒वाः¦अ॒व॒न्तु॒¦ऋ॒भवः॑¦स्व॒स्तये᳚¦स्व॒स्ति¦नः॒¦रु॒द्रः¦पा॒तु॒¦अंह॑सः ||

स्व॒स्तिमि॑त्रावरुणास्व॒स्तिप॑थ्येरेवति |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

स्व॒स्तिन॒इन्द्र॑श्चा॒ग्निश्च॑स्व॒स्तिनो᳚,अदितेकृधि॒(स्वाहा᳚) || 14 ||

स्व॒स्ति¦मि॒त्रा॒व॒रु॒णा॒¦स्व॒स्ति¦प॒थ्ये॒¦रे॒व॒ति॒ | स्व॒स्ति¦नः॒¦इन्द्रः॑¦च॒¦अ॒ग्निः¦च॒¦स्व॒स्ति¦नः॒¦अ॒दि॒ते॒¦कृ॒धि॒ ||

स्व॒स्तिपन्था॒मनु॑चरेमसूर्याचन्द्र॒मसा᳚विव |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

पुन॒र्दद॒ताघ्न॑ताजान॒तासंग॑मेमहि॒(स्वाहा᳚) || 15 ||

स्व॒स्ति¦पन्था᳚‌म्¦अनु॑¦च॒रे॒म॒¦सू॒र्या॒च॒न्द्र॒मसौ᳚ऽ‌इव | पुनः॑¦दद॑ता¦अघ्न॑ता¦जा॒न॒ता¦स‌म्¦ग॒मे॒म॒हि॒ ||

[44] प्रश्यावाश्वेति सप्तदशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतोनुष्टुप् षष्ठीषोडशीसप्तदश्यःपंक्त्यः |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:52}{अनुवाक:4, सूक्त:8}
प्रश्या᳚वाश्वधृष्णु॒याऽर्चा᳚म॒रुद्भि॒रृक्व॑भिः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

ये,अ॑द्रो॒घम॑नुष्व॒धंश्रवो॒मद᳚न्तिय॒ज्ञियाः᳚(स्वाहा᳚) || 1 || वर्ग:8

प्र¦श्या॒व॒।आ॒श्व॒¦धृ॒ष्णु॒ऽया¦अर्च॑¦म॒रुत्ऽभिः॑¦ऋक्व॑ऽभिः | ये¦अ॒द्रो॒घ‌म्¦अ॒नु॒ऽस्व॒ध‌म्¦श्रवः॑¦मद᳚न्ति¦य॒ज्ञियाः᳚ ||

तेहिस्थि॒रस्य॒शव॑सः॒सखा᳚यः॒सन्ति॑धृष्णु॒या |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

तेयाम॒न्नाधृ॑ष॒द्विन॒स्त्मना᳚पान्ति॒शश्व॑तः॒(स्वाहा᳚) || 2 ||

ते¦हि¦स्थि॒रस्य॑¦शव॑सः¦सखा᳚यः¦सन्ति॑¦धृ॒ष्णु॒ऽया | ते¦याम॑न्¦आ¦धृ॒ष॒त्ऽविनः॑¦त्मना᳚¦पा॒न्ति॒¦शश्व॑तः ||

तेस्प॒न्द्रासो॒नोक्षणोऽति॑ष्कन्दन्ति॒शर्व॑रीः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

म॒रुता॒मधा॒महो᳚दि॒विक्ष॒माच॑मन्महे॒(स्वाहा᳚) || 3 ||

ते¦स्प॒न्द्रासः॑¦न¦उ॒क्षणः॑¦अति॑¦स्क॒न्द॒न्ति॒¦शर्व॑रीः | म॒रुता᳚‌म्¦अध॑¦महः॑¦दि॒वि¦क्ष॒मा¦च॒¦म॒न्म॒हे॒ ||

म॒रुत्सु॑वोदधीमहि॒स्तोमं᳚य॒ज्ञंच॑धृष्णु॒या |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

विश्वे॒येमानु॑षायु॒गापान्ति॒मर्त्यं᳚रि॒षः(स्वाहा᳚) || 4 ||

म॒रुत्ऽसु॑¦वः॒¦द॒धी॒म॒हि॒¦स्तोम᳚‌म्¦य॒ज्ञ‌म्¦च॒¦धृ॒ष्णु॒ऽया | विश्वे᳚¦ये¦मानु॑षा¦यु॒गा¦पान्ति॑¦मर्त्य᳚‌म्¦रि॒षः ||

अर्ह᳚न्तो॒येसु॒दान॑वो॒नरो॒,असा᳚मिशवसः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

प्रय॒ज्ञंय॒ज्ञिये᳚भ्योदि॒वो,अ॑र्चाम॒रुद्भ्यः॒(स्वाहा᳚) || 5 ||

अर्ह᳚न्तः¦ये¦सु॒ऽदान॑वः¦नरः॑¦असा᳚मिऽशवसः | प्र¦य॒ज्ञ‌म्¦य॒ज्ञिये᳚भ्यः¦दि॒वः¦अ॒र्च॒¦म॒रुत्ऽभ्यः॑ ||

आरु॒क्मैरायु॒धानर॑ऋ॒ष्वा,ऋ॒ष्टीर॑सृक्षत |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

अन्वे᳚नाँ॒,अह॑वि॒द्युतो᳚म॒रुतो॒जज्झ॑तीरिवभा॒नुर॑र्त॒त्मना᳚दि॒वः(स्वाहा᳚) || 6 || वर्ग:9

आ¦रु॒क्मैः¦आ¦यु॒धा¦नरः॑¦ऋ॒ष्वाः¦ऋ॒ष्टीः¦अ॒सृ॒क्ष॒त॒ | अनु॑¦ए॒ना॒न्¦अह॑¦वि॒ऽद्युतः॑¦म॒रुतः॑¦जज्झ॑तीःऽ‌इव¦भा॒नुः¦अ॒र्त॒¦त्मना᳚¦दि॒वः ||

येवा᳚वृ॒धन्त॒पार्थि॑वा॒यउ॒राव॒न्तरि॑क्ष॒आ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

वृ॒जने᳚वान॒दीनां᳚स॒धस्थे᳚वाम॒होदि॒वः(स्वाहा᳚) || 7 ||

ये¦व॒वृ॒धन्त॑¦पार्थि॑वाः¦ये¦उ॒रौ¦अ॒न्तरि॑क्षे¦आ | वृ॒जने᳚¦वा॒¦न॒दीना᳚‌म्¦स॒धऽस्थे᳚¦वा॒¦म॒हः¦दि॒वः ||

शर्धो॒मारु॑त॒मुच्छं᳚सस॒त्यश॑वस॒मृभ्व॑सम् |{आत्रेयः श्यावाश्वः | मरुतः | पङ्क्तिः}

उ॒तस्म॒तेशु॒भेनरः॒प्रस्प॒न्द्रायु॑जत॒त्मना॒(स्वाहा᳚) || 8 ||

शर्धः॑¦मारु॑त‌म्¦उत्¦शं॒स॒¦स॒त्यऽश॑वस‌म्¦ऋभ्व॑स‌म् |
उ॒त¦स्म॒¦ते¦शु॒भे¦नरः॑¦प्र¦स्प॒न्द्राः¦यु॒ज॒त॒¦त्मना᳚ ||

उ॒तस्म॒तेपरु॑ष्ण्या॒मूर्णा᳚वसतशु॒न्ध्यवः॑ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

उ॒तप॒व्यारथा᳚ना॒मद्रिं᳚भिन्द॒न्त्योज॑सा॒(स्वाहा᳚) || 9 ||

उ॒त¦स्म॒¦ते¦परु॑ष्ण्या‌म्¦ऊर्णाः᳚¦व॒स॒त॒¦शु॒न्ध्यवः॑ | उ॒त¦प॒व्या¦रथा᳚ना‌म्¦अद्रि᳚‌म्¦भि॒न्द॒न्ति॒¦ओज॑सा ||

आप॑थयो॒विप॑थ॒योऽन्त॑स्पथा॒,अनु॑पथाः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

ए॒तेभि॒र्मह्यं॒नाम॑भिर्य॒ज्ञंवि॑ष्टा॒रओ᳚हते॒(स्वाहा᳚) || 10 ||

आप॑थयः¦विऽप॑थयः¦अन्तः॑ऽपथाः¦अनु॑ऽपथाः | ए॒तेभिः॑¦मह्य᳚‌म्¦नाम॑ऽभिः¦य॒ज्ञ‌म्¦वि॒ऽस्ता॒रः¦ओ॒ह॒ते॒ ||

अधा॒नरो॒न्यो᳚ह॒तेऽधा᳚नि॒युत॑ओहते |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

अधा॒पारा᳚वता॒,इति॑चि॒त्रारू॒पाणि॒दर्श्या॒(स्वाहा᳚) || 11 || वर्ग:10

अध॑¦नरः॑¦नि¦ओ॒ह॒ते॒¦अध॑¦नि॒ऽयुतः॑¦ओ॒ह॒ते॒ | अध॑¦पारा᳚वताः¦इति॑¦चि॒त्रा¦रू॒पाणि॑¦दर्श्या᳚ ||

छ॒न्दः॒स्तुभः॑कुभ॒न्यव॒उत्स॒माकी॒रिणो᳚नृतुः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

तेमे॒केचि॒न्नता॒यव॒ऊमा᳚,आसन्‌दृ॒शित्वि॒षे(स्वाहा᳚) || 12 ||

छ॒न्दः॒ऽस्तुभः॑¦कु॒भ॒न्यवः॑¦उत्स᳚‌म्¦आ¦की॒रिणः॑¦नृ॒तुः॒ | ते¦मे॒¦के¦चि॒त्¦न¦ता॒यवः॑¦ऊमाः᳚¦आ॒स॒न्¦दृ॒शि¦त्वि॒षे ||

यऋ॒ष्वा,ऋ॒ष्टिवि॑द्युतःक॒वयः॒सन्ति॑वे॒धसः॑ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

तमृ॑षे॒मारु॑तंग॒णंन॑म॒स्यार॒मया᳚गि॒रा(स्वाहा᳚) || 13 ||

ये¦ऋ॒ष्वाः¦ऋ॒ष्टिऽवि॑द्युतः¦क॒वयः॑¦सन्ति॑¦वे॒धसः॑ | त‌म्¦ऋ॒षे॒¦मारु॑त‌म्¦ग॒ण‌म्¦न॒म॒स्य¦र॒मय॑¦गि॒रा ||

अच्छ॑ऋषे॒मारु॑तंग॒णंदा॒नामि॒त्रंनयो॒षणा᳚ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

दि॒वोवा᳚धृष्णव॒ओज॑सास्तु॒ताधी॒भिरि॑षण्यत॒(स्वाहा᳚) || 14 ||

अच्छ॑¦ऋ॒षे॒¦मारु॑त‌म्¦ग॒ण‌म्¦दा॒ना¦मि॒त्र‌म्¦न¦यो॒षणा᳚ | दि॒वः¦वा॒¦धृ॒ष्ण॒वः॒¦ओज॑सा¦स्तु॒ताः¦धी॒भिः¦इ॒ष॒ण्य॒त॒ ||

नूम᳚न्वा॒नए᳚षांदे॒वाँ,अच्छा॒नव॒क्षणा᳚ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

दा॒नास॑चेतसू॒रिभि॒र्याम॑श्रुतेभिर॒ञ्जिभिः॒(स्वाहा᳚) || 15 ||

नु¦म॒न्वा॒नः¦ए॒षा॒‌म्¦दे॒वान्¦अच्छ॑¦न¦व॒क्षणा᳚ | दा॒ना¦स॒चे॒त॒¦सू॒रिऽभिः॑¦याम॑ऽश्रुतेभिः¦अं॒जिऽभिः॑ ||

प्रयेमे᳚बन्ध्वे॒षेगांवोच᳚न्तसू॒रयः॒पृश्निं᳚वोचन्तमा॒तर᳚म् |{आत्रेयः श्यावाश्वः | मरुतः | पङ्क्तिः}

अधा᳚पि॒तर॑मि॒ष्मिणं᳚रु॒द्रंवो᳚चन्त॒शिक्व॑सः॒(स्वाहा᳚) || 16 ||

प्र¦ये¦मे॒¦ब॒न्धु॒ऽए॒षे¦गा‌म्¦वोच᳚न्त¦सू॒रयः॑¦पृश्नि᳚‌म्¦वो॒च॒न्त॒¦मा॒तर᳚‌म् |
अध॑¦पि॒तर᳚‌म्¦इ॒ष्मिण᳚‌म्¦रु॒द्र‌म्¦वो॒च॒न्त॒¦शिक्व॑सः ||

स॒प्तमे᳚स॒प्तशा॒किन॒एक॑मेकाश॒ताद॑दुः |{आत्रेयः श्यावाश्वः | मरुतः | पङ्क्तिः}

य॒मुना᳚या॒मधि॑श्रु॒तमुद्राधो॒गव्यं᳚मृजे॒निराधो॒,अश्व्यं᳚मृजे॒(स्वाहा᳚) || 17 ||

स॒प्त¦मे॒¦स॒प्त¦शा॒किनः॑¦एक᳚‌म्ऽएका¦श॒ता¦द॒दुः॒ |
य॒मुना᳚या‌म्¦अधि॑¦श्रु॒त‌म्¦उत्¦राधः॑¦गव्य᳚‌म्¦मृ॒जे॒¦नि¦राधः॑¦अश्व्य᳚‌म्¦मृ॒जे॒ ||

[45] कोवेदेति षोळशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतः क्रमेणककुप्‌बृहत्यनुष्टुप्पुर‌उष्णिक्ककुप्‌ सतोबृहती सतोबृहती गायत्री सतोबृहती ककुप्‌ककुब्गायत्री सतोबृहती सतोबृहती ककुप्‌ सतोबृहत्यः |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:53}{अनुवाक:4, सूक्त:9}
कोवे᳚द॒जान॑मेषां॒कोवा᳚पु॒रासु॒म्नेष्वा᳚सम॒रुता᳚म् |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्}

यद्‌यु॑यु॒ज्रेकि॑ला॒स्य॑१(अः॒)(स्वाहा᳚) || 1 || वर्ग:11

कः¦वे॒द॒¦जान᳚‌म्¦ए॒षा॒‌म्¦कः¦वा॒¦पु॒रा¦सु॒म्नेषु॑¦आ॒स॒¦म॒रुता᳚‌म् | यत्¦यु॒यु॒ज्रे¦कि॒ला॒स्यः॑ ||

ऐतान्‌रथे᳚षुत॒स्थुषः॒कःशु॑श्रावक॒थाय॑युः |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

कस्मै᳚सस्रुःसु॒दासे॒,अन्वा॒पय॒इळा᳚भिर्वृ॒ष्टयः॑स॒ह(स्वाहा᳚) || 2 ||

आ¦ए॒तान्¦रथे᳚षु¦त॒स्थुषः॑¦कः¦शु॒श्रा॒व॒¦क॒था¦य॒युः॒ |
कस्मै᳚¦स॒स्रुः॒¦सु॒ऽदासे᳚¦अनु॑¦आ॒पयः॑¦इळा᳚भिः¦वृ॒ष्टयः॑¦स॒ह ||

तेम॑आहु॒र्यआ᳚य॒युरुप॒द्युभि॒र्विभि॒र्मदे᳚ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

नरो॒मर्या᳚,अरे॒पस॑इ॒मान्‌पश्य॒न्निति॑ष्टुहि॒(स्वाहा᳚) || 3 ||

ते¦मे॒¦आ॒हुः॒¦ये¦आ॒ऽय॒युः¦उप॑¦द्युऽभिः॑¦विऽभिः॑¦मदे᳚ | नरः॑¦मर्याः᳚¦अ॒रे॒पसः॑¦इ॒मान्¦पश्य॑न्¦इति॑¦स्तु॒हि॒ ||

ये,अ॒ञ्जिषु॒येवाशी᳚षु॒स्वभा᳚नवःस्र॒क्षुरु॒क्मेषु॑खा॒दिषु॑ |{आत्रेयः श्यावाश्वः | मरुतः | पुरउष्णिक्}

श्रा॒यारथे᳚षु॒धन्व॑सु॒(स्वाहा᳚) || 4 ||

ये¦अं॒जिषु॑¦ये¦वाशी᳚षु¦स्वऽभा᳚नवः¦स्र॒क्षु¦रु॒क्मेषु॑¦खा॒दिषु॑ | श्रा॒याः¦रथे᳚षु¦धन्व॑ऽसु ||

यु॒ष्माकं᳚स्मा॒रथाँ॒,अनु॑मु॒देद॑धेमरुतोजीरदानवः |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्}

वृ॒ष्टीद्यावो᳚य॒तीरि॑व॒(स्वाहा᳚) || 5 ||

यु॒ष्माक᳚‌म्¦स्म॒¦रथा᳚न्¦अनु॑¦मु॒दे¦द॒धे॒¦म॒रु॒तः॒¦जी॒र॒ऽदा॒न॒वः॒ | वृ॒ष्टी¦द्यावः॑¦य॒तीःऽ‌इ᳚व ||

आयंनरः॑सु॒दान॑वोददा॒शुषे᳚दि॒वःकोश॒मचु॑च्यवुः |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

विप॒र्जन्यं᳚सृजन्ति॒रोद॑सी॒,अनु॒धन्व॑नायन्तिवृ॒ष्टयः॒(स्वाहा᳚) || 6 || वर्ग:12

आ¦य‌म्¦नरः॑¦सु॒ऽदान॑वः¦द॒दा॒शुषे᳚¦दि॒वः¦कोश᳚‌म्¦अचु॑च्यवुः |
वि¦प॒र्जन्य᳚‌म्¦सृ॒ज॒न्ति॒¦रोद॑सी॒ इति॑¦अनु॑¦धन्व॑ना¦य॒न्ति॒¦वृ॒ष्टयः॑ ||

त॒तृ॒दा॒नाःसिन्ध॑वः॒,क्षोद॑सा॒रजः॒प्रस॑स्रुर्धे॒नवो᳚यथा |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

स्य॒न्ना,अश्वा᳚,इ॒वाध्व॑नोवि॒मोच॑ने॒वियद्‌वर्त᳚न्तए॒न्य॑१(अः॒)(स्वाहा᳚) || 7 ||

त॒तृ॒दा॒नाः¦सिन्ध॑वः¦क्षोद॑सा¦रजः॑¦प्र¦स॒स्रुः॒¦धे॒नवः॑¦य॒था॒ |
स्य॒न्नाः¦अश्वाः᳚ऽ‌इव¦अध्व॑नः¦वि॒ऽमोच॑ने¦वि¦यत्¦वर्त᳚न्ते¦ए॒न्यः॑ ||

आया᳚तमरुतोदि॒वआन्तरि॑क्षाद॒मादु॒त |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

माव॑स्थातपरा॒वतः॒(स्वाहा᳚) || 8 ||

आ¦या॒त॒¦म॒रु॒तः॒¦दि॒वः¦आ¦अ॒न्तरि॑क्षात्¦अ॒मात्¦उ॒त | मा¦अव॑¦स्था॒त॒¦प॒रा॒ऽवतः॑ ||

मावो᳚र॒सानि॑तभा॒कुभा॒क्रुमु॒र्मावः॒सिन्धु॒र्निरी᳚रमत् |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

मावः॒परि॑ष्ठात्‌स॒रयुः॑पुरी॒षिण्य॒स्मे,इत्‌सु॒म्नम॑स्तुवः॒(स्वाहा᳚) || 9 ||

मा¦वः॒¦र॒सा¦अनि॑तभा¦कुभा᳚¦क्रुमुः॑¦मा¦वः॒¦सिन्धुः॑¦नि¦री॒र॒म॒त् |
मा¦वः॒¦परि॑¦स्था॒त्¦स॒रयुः॑¦पु॒री॒षिणी᳚¦अ॒स्मे इति॑¦इत्¦सु॒म्न‌म्¦अ॒स्तु॒¦वः॒ ||

तंवः॒शर्धं॒रथा᳚नांत्वे॒षंग॒णंमारु॑तं॒नव्य॑सीनाम् |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्}

अनु॒प्रय᳚न्तिवृ॒ष्टयः॒(स्वाहा᳚) || 10 ||

त‌म्¦वः॒¦शर्ध᳚‌म्¦रथा᳚ना‌म्¦त्वे॒ष‌म्¦ग॒ण‌म्¦मारु॑त‌म्¦नव्य॑सीना‌म् | अनु॑¦प्र¦य॒न्ति॒¦वृ॒ष्टयः॑ ||

शर्धं᳚शर्धंवएषां॒व्रातं᳚व्रातंग॒णंग॑णंसुश॒स्तिभिः॑ |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्}

अनु॑क्रामेमधी॒तिभिः॒(स्वाहा᳚) || 11 || वर्ग:13

शर्ध᳚‌म्ऽशर्ध‌म्¦वः॒¦ए॒षा॒‌म्¦व्रात᳚‌म्ऽव्रात‌म्¦ग॒ण‌म्ऽग॑ण‌म्¦सु॒श॒स्तिऽभिः॑ | अनु॑¦क्रा॒मे॒म॒¦धी॒तिऽभिः॑ ||

कस्मा᳚,अ॒द्यसुजा᳚तायरा॒तह᳚व्याय॒प्रय॑युः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

ए॒नायामे᳚नम॒रुतः॒(स्वाहा᳚) || 12 ||

कस्मै᳚¦अ॒द्य¦सुऽजा᳚ताय¦रा॒तऽह᳚व्याय¦प्र¦य॒युः॒ | ए॒ना¦यामे᳚न¦म॒रुतः॑ ||

येन॑तो॒काय॒तन॑यायधा॒न्य१॑(अं॒)बीजं॒वह॑ध्वे॒,अक्षि॑तम् |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

अ॒स्मभ्यं॒तद्‌ध॑त्तन॒यद्व॒ईम॑हे॒राधो᳚वि॒श्वायु॒सौभ॑ग॒‌म्(स्वाहा᳚) || 13 ||

येन॑¦तो॒काय॑¦तन॑याय¦धा॒न्य᳚‌म्¦बीज᳚‌म्¦वह॑ध्वे¦अक्षि॑त‌म् |
अ॒स्मभ्य᳚‌म्¦तत्¦ध॒त्त॒न॒¦यत्¦वः॒¦ईम॑हे¦राधः॑¦वि॒श्वऽआ᳚यु¦सौभ॑ग‌म् ||

अती᳚यामनि॒दस्ति॒रःस्व॒स्तिभि᳚र्हि॒त्वाव॒द्यमरा᳚तीः |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

वृ॒ष्ट्वीशंयोराप॑उ॒स्रिभे᳚ष॒जंस्याम॑मरुतःस॒ह(स्वाहा᳚) || 14 ||

अति॑¦इ॒या॒म॒¦नि॒दः¦ति॒रः¦स्व॒स्तिऽभिः॑¦हि॒त्वा¦अ॒व॒द्य‌म्¦अरा᳚तीः |
वृ॒ष्ट्वी¦स‌म्¦योः¦आपः॑¦उ॒स्रि¦भे॒ष॒ज‌म्¦स्याम॑¦म॒रु॒तः॒¦स॒ह ||

सु॒दे॒वःस॑महासतिसु॒वीरो᳚नरोमरुतः॒समर्त्यः॑ |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्}

यंत्राय॑ध्वे॒स्याम॒ते(स्वाहा᳚) || 15 ||

सु॒ऽदे॒वः¦स॒म॒ह॒¦अ॒स॒ति॒¦सु॒ऽवीरः॑¦न॒रः॒¦म॒रु॒तः॒¦सः¦मर्त्यः॑ | य‌म्¦त्राय॑ध्वे¦स्याम॑¦ते ||

स्तु॒हिभो॒जान्‌त्स्तु॑व॒तो,अ॑स्य॒याम॑नि॒रण॒न्‌गावो॒नयव॑से |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

य॒तःपूर्वाँ᳚,इव॒सखीँ॒रनु॑ह्वयगि॒रागृ॑णीहिका॒मिनः॒(स्वाहा᳚) || 16 ||

स्तु॒हि¦भो॒जान्¦स्तु॒व॒तः¦अ॒स्य॒¦याम॑नि¦रण॑न्¦गावः॑¦न¦यव॑से |
य॒तः¦पूर्वा᳚न्ऽ‌इव¦सखी᳚न्¦अनु॑¦ह्व॒य॒¦गि॒रा¦गृ॒णी॒हि॒¦का॒मिनः॑ ||

[46] प्रशर्धायेति पंचदशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतोजगती चतुर्दशीत्रिष्टुप् |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:54}{अनुवाक:4, सूक्त:10}
प्रशर्धा᳚य॒मारु॑ताय॒स्वभा᳚नवइ॒मांवाच॑मनजापर्वत॒च्युते᳚ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

घ॒र्म॒स्तुभे᳚दि॒वआपृ॑ष्ठ॒यज्व॑नेद्यु॒म्नश्र॑वसे॒महि॑नृ॒म्णम॑र्चत॒(स्वाहा᳚) || 1 || वर्ग:14

प्र¦शर्धा᳚य¦मारु॑ताय¦स्वऽभा᳚नवे¦इ॒मा‌म्¦वाच᳚‌म्¦अ॒न॒ज॒¦प॒र्व॒त॒ऽच्युते᳚ |
घ॒र्म॒ऽस्तुभे᳚¦दि॒वः¦आ¦पृ॒ष्ठ॒ऽयज्व॑ने¦द्यु॒म्नऽश्र॑वसे¦महि॑¦नृ॒म्ण‌म्¦अ॒र्च॒त॒ ||

प्रवो᳚मरुतस्तवि॒षा,उ॑द॒न्यवो᳚वयो॒वृधो᳚,अश्व॒युजः॒परि॑ज्रयः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

संवि॒द्युता॒दध॑ति॒वाश॑तित्रि॒तःस्वर॒न्त्यापो॒ऽवना॒परि॑ज्रयः॒(स्वाहा᳚) || 2 ||

प्र¦वः॒¦म॒रु॒तः॒¦त॒वि॒षाः¦उ॒द॒न्यवः॑¦व॒यः॒ऽवृधः॑¦अ॒श्व॒ऽयुजः॑¦परि॑ऽज्रयः |
स‌म्¦वि॒ऽद्युता᳚¦दध॑ति¦वाश॑ति¦त्रि॒तः¦स्वर᳚न्ति¦आपः॑¦अ॒वना᳚¦परि॑ऽज्रयः ||

वि॒द्युन्म॑हसो॒नरो॒,अश्म॑दिद्यवो॒वात॑त्विषोम॒रुतः॑पर्वत॒च्युतः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अ॒ब्द॒याचि॒न्मुहु॒राह्रा᳚दुनी॒वृतः॑स्त॒नय॑दमारभ॒सा,उदो᳚जसः॒(स्वाहा᳚) || 3 ||

वि॒द्युत्ऽम॑हसः¦नरः॑¦अश्म॑ऽदिद्यवः¦वात॑ऽत्विषः¦म॒रुतः॑¦प॒र्व॒त॒ऽच्युतः॑ |
अ॒ब्द॒ऽया¦चि॒त्¦मुहुः॑¦आ¦ह्रा॒दु॒नि॒ऽवृतः॑¦स्त॒नय॑त्।आमाः¦र॒भ॒साः¦उत्ऽओ᳚जसः ||

व्य१॑(अ॒)क्तून्‌रु॑द्रा॒व्यहा᳚निशिक्वसो॒व्य१॑(अ॒)न्तरि॑क्षं॒विरजां᳚सिधूतयः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

वियदज्राँ॒,अज॑थ॒नाव॑ईंयथा॒विदु॒र्गाणि॑मरुतो॒नाह॑रिष्यथ॒(स्वाहा᳚) || 4 ||

वि¦अ॒क्तून्¦रु॒द्राः॒¦वि¦अहा᳚नि¦शि॒क्व॒सः॒¦वि¦अ॒न्तरि॑क्ष‌म्¦वि¦रजां᳚सि¦धू॒त॒यः॒ |
वि¦यत्¦अज्रा᳚न्¦अज॑थ¦नावः॑¦ई॒‌म्¦य॒था॒¦वि¦दुः॒ऽगानि॑¦म॒रु॒तः॒¦न¦अह॑¦रि॒ष्य॒थ॒ ||

तद्‌वी॒र्यं᳚वोमरुतोमहित्व॒नंदी॒र्घंत॑तान॒सूर्यो॒नयोज॑नम् |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

एता॒नयामे॒,अगृ॑भीतशोचि॒षोऽन॑श्वदां॒यन्न्यया᳚तनागि॒रिम्(स्वाहा᳚) || 5 ||

तत्¦वी॒र्य᳚‌म्¦वः॒¦म॒रु॒तः॒¦म॒हि॒ऽत्व॒न‌म्¦दी॒र्घ‌म्¦त॒ता॒न॒¦सूर्यः॑¦न¦योज॑न‌म् |
एताः᳚¦न¦यामे᳚¦अगृ॑भीतऽशोचिषः¦अन॑श्वऽदा‌म्¦यत्¦नि¦अया᳚तन¦गि॒रि‌म् ||

अभ्रा᳚जि॒शर्धो᳚मरुतो॒यद᳚र्ण॒संमोष॑थावृ॒क्षंक॑प॒नेव॑वेधसः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अध॑स्मानो,अ॒रम॑तिंसजोषस॒श्चक्षु॑रिव॒यन्त॒मनु॑नेषथासु॒गम्(स्वाहा᳚) || 6 || वर्ग:15

अभ्रा᳚जि¦शर्धः॑¦म॒रु॒तः॒¦यत्¦अ॒र्ण॒स‌म्¦मोष॑थ¦वृ॒क्ष‌म्¦क॒प॒नाऽ‌इ᳚व¦वे॒ध॒सः॒ |
अध॑¦स्म॒¦नः॒¦अ॒रम॑ति‌म्¦स॒ऽजो॒ष॒सः॒¦चक्षुः॑ऽ‌इव¦यन्त᳚‌म्¦अनु॑¦ने॒ष॒थ॒¦सु॒ऽग‌म् ||

नसजी᳚यतेमरुतो॒नह᳚न्यते॒नस्रे᳚धति॒नव्य॑थते॒नरि॑ष्यति |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

नास्य॒राय॒उप॑दस्यन्ति॒नोतय॒ऋषिं᳚वा॒यंराजा᳚नंवा॒सुषू᳚दथ॒(स्वाहा᳚) || 7 ||

न¦सः¦जी॒य॒ते॒¦म॒रु॒तः॒¦न¦ह॒न्य॒ते॒¦न¦स्रे॒ध॒ति॒¦न¦व्य॒थ॒ते॒¦न¦रि॒ष्य॒ति॒ |
न¦अ॒स्य॒¦रायः॑¦उप॑¦द॒स्य॒न्ति॒¦न¦ऊ॒तयः॑¦ऋषि᳚‌म्¦वा॒¦य‌म्¦राजा᳚न‌म्¦वा॒¦सुसू᳚दथ ||

नि॒युत्व᳚न्तोग्राम॒जितो॒यथा॒नरो᳚ऽर्य॒मणो॒नम॒रुतः॑कब॒न्धिनः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

पिन्व॒न्त्युत्सं॒यदि॒नासो॒,अस्व॑र॒न्व्यु᳚न्दन्तिपृथि॒वींमध्वो॒,अन्ध॑सा॒(स्वाहा᳚) || 8 ||

नि॒युत्व᳚न्तः¦ग्रा॒म॒ऽजितः॑¦यथा᳚¦नरः॑¦अ॒र्य॒मणः॑¦न¦म॒रुतः॑¦क॒व॒न्धिनः॑ |
पिन्व᳚न्ति¦उत्स᳚‌म्¦यत्¦इ॒नासः॑¦अस्व॑रन्¦वि¦उ॒न्द॒न्ति॒¦पृ॒थि॒वी‌म्¦मध्वः॑¦अन्ध॑सा ||

प्र॒वत्व॑ती॒यंपृ॑थि॒वीम॒रुद्भ्यः॑प्र॒वत्व॑ती॒द्यौर्भ॑वतिप्र॒यद्भ्यः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

प्र॒वत्व॑तीःप॒थ्या᳚,अ॒न्तरि॑क्ष्याःप्र॒वत्व᳚न्तः॒पर्व॑ताजी॒रदा᳚नवः॒(स्वाहा᳚) || 9 ||

प्र॒वत्व॑ती¦इ॒य‌म्¦पृ॒थि॒वी¦म॒रुत्ऽभ्यः॑¦प्र॒वत्व॑ती¦द्यौः¦भ॒व॒ति॒¦प्र॒यत्ऽभ्यः॑ |
प्र॒वत्व॑तीः¦प॒थ्याः᳚¦अ॒न्तरि॑क्ष्याः¦प्र॒वत्व᳚न्तः¦पर्व॑ताः¦जी॒रऽदा᳚नवः ||

यन्म॑रुतःसभरसःस्वर्णरः॒सूर्य॒उदि॑ते॒मद॑थादिवोनरः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

नवोऽश्वाः᳚श्रथय॒न्ताह॒सिस्र॑तःस॒द्यो,अ॒स्याध्व॑नःपा॒रम॑श्नुथ॒(स्वाहा᳚) || 10 ||

यत्¦म॒रु॒तः॒¦स॒ऽभ॒र॒सः॒¦स्वः॒ऽन॒रः॒¦सूर्ये᳚¦उत्ऽ‌इ᳚ते¦मद॑थ¦दि॒वः॒¦न॒रः॒ |
न¦वः॒¦अश्वाः᳚¦श्र॒थ॒य॒न्त॒¦अह॑¦सिस्र॑तः¦स॒द्यः¦अ॒स्य¦अध्व॑नः¦पा॒र‌म्¦अ॒श्नु॒थ॒ ||

अंसे᳚षुवऋ॒ष्टयः॑प॒त्सुखा॒दयो॒वक्ष॑स्सुरु॒क्माम॑रुतो॒रथे॒शुभः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अ॒ग्निभ्रा᳚जसोवि॒द्युतो॒गभ॑स्त्योः॒शिप्राः᳚शी॒र्षसु॒वित॑ताहिर॒ण्ययीः᳚(स्वाहा᳚) || 11 || वर्ग:16

अंसे᳚षु¦वः॒¦ऋ॒ष्टयः॑¦प॒त्ऽसु¦खा॒दयः॑¦वक्षः॑ऽसु¦रु॒क्माः¦म॒रु॒तः॒¦रथे᳚¦शुभः॑ |
अ॒ग्निऽभ्रा᳚जसः¦वि॒ऽद्युतः॑¦गभ॑स्त्योः¦शिप्राः᳚¦शी॒र्षऽसु॑¦विऽत॑ताः¦हि॒र॒ण्ययीः᳚ ||

तंनाक॑म॒र्यो,अगृ॑भीतशोचिषं॒रुश॒त्‌पिप्प॑लंमरुतो॒विधू᳚नुथ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

सम॑च्यन्तवृ॒जनाति॑त्विषन्त॒यत्स्वर᳚न्ति॒घोषं॒वित॑तमृता॒यवः॒(स्वाहा᳚) || 12 ||

त‌म्¦नाक᳚‌म्¦अ॒र्यः¦अगृ॑भीतऽशोचिष‌म्¦रुश॑त्¦पिप्प॑ल‌म्¦म॒रु॒तः॒¦वि¦धू॒नु॒थ॒ |
स‌म्¦अ॒च्य॒न्त॒¦वृ॒जना᳚¦अति॑त्विषन्त¦यत्¦स्वर᳚न्ति¦घोष᳚‌म्¦विऽत॑त‌म्¦ऋ॒त॒ऽयवः॑ ||

यु॒ष्माद॑त्तस्यमरुतोविचेतसोरा॒यःस्या᳚मर॒थ्यो॒३॑(ओ॒)वय॑स्वतः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

नयोयुच्छ॑तिति॒ष्यो॒३॑(ओ॒)यथा᳚दि॒वो॒३॑(ओ॒)ऽस्मेरा᳚रन्तमरुतःसह॒स्रिण॒‌म्(स्वाहा᳚) || 13 ||

यु॒ष्माऽद॑त्तस्य¦म॒रु॒तः॒¦वि॒ऽचे॒त॒सः॒¦रा॒यः¦स्या॒म॒¦र॒थ्यः॑¦वय॑स्वतः |
न¦यः¦युच्छ॑ति¦ति॒ष्यः॑¦यथा᳚¦दि॒वः¦अ॒स्मे इति॑¦र॒र॒न्त॒¦म॒रु॒तः॒¦स॒ह॒स्रिण᳚‌म् ||

यू॒यंर॒यिंम॑रुतःस्पा॒र्हवी᳚रंयू॒यमृषि॑मवथ॒साम॑विप्रम् |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

यू॒यमर्व᳚न्तंभर॒ताय॒वाजं᳚यू॒यंध॑त्थ॒राजा᳚नंश्रुष्टि॒मन्त॒‌म्(स्वाहा᳚) || 14 ||

यू॒य‌म्¦र॒यि‌म्¦म॒रु॒तः॒¦स्पा॒र्हऽवी᳚र‌म्¦यू॒य‌म्¦ऋषि᳚‌म्¦अ॒व॒थ॒¦साम॑ऽविप्र‌म् |
यू॒य‌म्¦अर्व᳚न्त‌म्¦भ॒र॒ताय॑¦वाज᳚‌म्¦यू॒य‌म्¦ध॒त्थ॒¦राजा᳚न‌म्¦श्रु॒ष्टि॒ऽमन्त᳚‌म् ||

तद्‌वो᳚यामि॒द्रवि॑णंसद्यऊतयो॒येना॒स्व१॑(अ॒)र्णत॒तना᳚म॒नॄँर॒भि |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

इ॒दंसुमे᳚मरुतोहर्यता॒वचो॒यस्य॒तरे᳚म॒तर॑साश॒तंहिमाः᳚(स्वाहा᳚) || 15 ||

तत्¦वः॒¦या॒मि॒¦द्रवि॑ण‌म्¦स॒द्यः॒ऽऊ॒त॒यः॒¦येन॑¦स्वः॑¦न¦त॒तना᳚म¦नॄन्¦अ॒भि |
इ॒द‌म्¦सु¦मे॒¦म॒रु॒तः॒¦ह॒र्य॒त॒¦वचः॑¦यस्य॑¦तरे᳚म¦तर॑सा¦श॒त‌म्¦हिमाः᳚ ||

[47] प्रयज्यवइति दशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतो जगत्यंत्यात्रिष्टुप् |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:55}{अनुवाक:4, सूक्त:11}
प्रय॑ज्यवोम॒रुतो॒भ्राज॑दृष्टयोबृ॒हद्वयो᳚दधिरेरु॒क्मव॑क्षसः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

ईय᳚न्ते॒,अश्वैः᳚सु॒यमे᳚भिरा॒शुभिः॒शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत॒(स्वाहा᳚) || 1 || वर्ग:17

प्रऽय॑ज्यवः¦म॒रुतः॑¦भ्राज॑त्ऽऋष्टयः¦बृ॒हत्¦वयः॑¦द॒धि॒रे॒¦रु॒क्मऽव॑क्षसः |
ईय᳚न्ते¦अश्वैः᳚¦सु॒ऽयमे᳚भिः¦आ॒शुऽभिः॑¦शुभ᳚‌म्¦या॒ता‌म्¦अनु॑¦रथाः᳚¦अ॒वृ॒त्स॒त॒ ||

स्व॒यंद॑धिध्वे॒तवि॑षीं॒यथा᳚वि॒दबृ॒हन्म॑हान्तउर्वि॒याविरा᳚जथ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

उ॒तान्तरि॑क्षंममिरे॒व्योज॑सा॒शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत॒(स्वाहा᳚) || 2 ||

स्व॒य‌म्¦द॒धि॒ध्वे॒¦तवि॑षी‌म्¦यथा᳚¦वि॒द¦बृ॒हत्¦म॒हा॒न्तः॒¦उ॒र्वि॒या¦वि¦रा॒ज॒थ॒ |
उ॒त¦अ॒न्तरि॑क्ष‌म्¦म॒मि॒रे॒¦वि¦ओज॑सा¦शुभ᳚‌म्¦या॒ता‌म्¦अनु॑¦रथाः᳚¦अ॒वृ॒त्स॒त॒ ||

सा॒कंजा॒ताःसु॒भ्वः॑सा॒कमु॑क्षि॒ताःश्रि॒येचि॒दाप्र॑त॒रंवा᳚वृधु॒र्नरः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

वि॒रो॒किणः॒सूर्य॑स्येवर॒श्मयः॒शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत॒(स्वाहा᳚) || 3 ||

सा॒क‌म्¦जा॒ताः¦सु॒ऽभ्वः॑¦सा॒क‌म्¦उ॒क्षि॒ताः¦श्रि॒ये¦चि॒त्¦आ¦प्र॒ऽत॒र‌म्¦व॒वृ॒धुः॒¦नरः॑ |
वि॒ऽरो॒किणः॑¦सूर्य॑स्यऽ‌इव¦र॒श्मयः॑¦शुभ᳚‌म्¦या॒ता‌म्¦अनु॑¦रथाः᳚¦अ॒वृ॒त्स॒त॒ ||

आ॒भू॒षेण्यं᳚वोमरुतोमहित्व॒नंदि॑दृ॒क्षेण्यं॒सूर्य॑स्येव॒चक्ष॑णम् |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

उ॒तो,अ॒स्माँ,अ॑मृत॒त्वेद॑धातन॒शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत॒(स्वाहा᳚) || 4 ||

आ॒ऽभू॒षेण्य᳚‌म्¦वः॒¦म॒रु॒तः॒¦म॒हि॒ऽत्व॒न‌म्¦दि॒दृ॒क्षेण्य᳚‌म्¦सूर्य॑स्यऽ‌इव¦चक्ष॑ण‌म् |
उ॒तो इति॑¦अ॒स्मान्¦अ॒मृ॒त॒ऽत्वे¦द॒धा॒त॒न॒¦शुभ᳚‌म्¦या॒ता‌म्¦अनु॑¦रथाः᳚¦अ॒वृ॒त्स॒त॒ ||

उदी᳚रयथामरुतःसमुद्र॒तोयू॒यंवृ॒ष्टिंव॑र्षयथापुरीषिणः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

नवो᳚दस्रा॒,उप॑दस्यन्तिधे॒नवः॒शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत॒(स्वाहा᳚) || 5 ||

उत्¦ई॒र॒य॒थ॒¦म॒रु॒तः॒¦स॒मु॒द्र॒तः¦यू॒य‌म्¦वृ॒ष्टि‌म्¦व॒र्ष॒य॒थ॒¦पु॒री॒षि॒णः॒ |
न¦वः॒¦द॒स्रा॒¦उप॑¦द॒स्य॒न्ति॒¦धे॒नवः॑¦शुभ᳚‌म्¦या॒ता‌म्¦अनु॑¦रथाः᳚¦अ॒वृ॒त्स॒त॒ ||

यदश्वा᳚न्‌धू॒र्षुपृष॑ती॒रयु॑ग्ध्वंहिर॒ण्यया॒न्‌प्रत्यत्काँ॒,अमु॑ग्ध्वम् |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

विश्वा॒,इत्‌स्पृधो᳚मरुतो॒व्य॑स्यथ॒शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत॒(स्वाहा᳚) || 6 || वर्ग:18

यत्¦अश्वा᳚न्¦धूः॒ऽसु¦पृष॑तीः¦अयु॑ग्ध्व‌म्¦हि॒र॒ण्यया᳚न्¦प्रति॑¦अत्का᳚न्¦अमु॑ग्ध्व‌म् |
विश्वाः᳚¦इत्¦स्पृधः॑¦म॒रु॒तः॒¦वि¦अ॒स्य॒थ॒¦शुभ᳚‌म्¦या॒ता‌म्¦अनु॑¦रथाः᳚¦अ॒वृ॒त्स॒त॒ ||

नपर्व॑ता॒नन॒द्यो᳚वरन्तवो॒यत्राचि॑ध्वंमरुतो॒गच्छ॒थेदु॒तत् |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

उ॒तद्यावा᳚पृथि॒वीया᳚थना॒परि॒शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत॒(स्वाहा᳚) || 7 ||

न¦पर्व॑ताः¦न¦न॒द्यः॑¦व॒र॒न्त॒¦वः॒¦यत्र॑¦अचि॑ध्व‌म्¦म॒रु॒तः॒¦गच्छ॑थ¦इत्¦ऊँ॒ इति॑¦तत् |
उ॒त¦द्यावा᳚पृथि॒वी इति॑¦या॒थ॒न॒¦परि॑¦शुभ᳚‌म्¦या॒ता‌म्¦अनु॑¦रथाः᳚¦अ॒वृ॒त्स॒त॒ ||

यत्‌पू॒र्व्यंम॑रुतो॒यच्च॒नूत॑नं॒यदु॒द्यते᳚वसवो॒यच्च॑श॒स्यते᳚ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

विश्व॑स्य॒तस्य॑भवथा॒नवे᳚दसः॒शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत॒(स्वाहा᳚) || 8 ||

यत्¦पू॒र्व्य‌म्¦म॒रु॒तः॒¦यत्¦च॒¦नूत॑न‌म्¦यत्¦उ॒द्यते᳚¦व॒स॒वः॒¦यत्¦च॒¦श॒स्यते᳚ |
विश्व॑स्य¦तस्य॑¦भ॒व॒थ॒¦नवे᳚दसः¦शुभ᳚‌म्¦या॒ता‌म्¦अनु॑¦रथाः᳚¦अ॒वृ॒त्स॒त॒ ||

मृ॒ळत॑नोमरुतो॒माव॑धिष्टना॒ऽस्मभ्यं॒शर्म॑बहु॒लंविय᳚न्तन |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अधि॑स्तो॒त्रस्य॑स॒ख्यस्य॑गातन॒शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत॒(स्वाहा᳚) || 9 ||

मृ॒ळत॑¦नः॒¦म॒रु॒तः॒¦मा¦व॒धि॒ष्ट॒न॒¦अ॒स्मभ्य᳚‌म्¦शर्म॑¦ब॒हु॒ल‌म्¦वि¦य॒न्त॒न॒ |
अधि॑¦स्तो॒त्रस्य॑¦स॒ख्यस्य॑¦गा॒त॒न॒¦शुभ᳚‌म्¦या॒ता‌म्¦अनु॑¦रथाः᳚¦अ॒वृ॒त्स॒त॒ ||

यू॒यम॒स्मान्‌न॑यत॒वस्यो॒,अच्छा॒निरं᳚ह॒तिभ्यो᳚मरुतोगृणा॒नाः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

जु॒षध्वं᳚नोह॒व्यदा᳚तिंयजत्राव॒यंस्या᳚म॒पत॑योरयी॒णाम्(स्वाहा᳚) || 10 ||

यू॒य‌म्¦अ॒स्मान्¦न॒य॒त॒¦वस्यः॑¦अच्छ॑¦निः¦अं॒ह॒तिऽभ्यः॑¦म॒रु॒तः॒¦गृ॒णा॒नाः |
जु॒षध्व᳚‌म्¦नः॒¦ह॒व्यऽदा᳚ति‌म्¦य॒ज॒त्राः॒¦व॒य‌म्¦स्या॒म॒¦पत॑यः¦र॒यी॒णा‌म् ||

[48] अग्नेशर्धंतमिति नवर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतोबृहती तृतीया सप्तम्यौसतोबृहत्यौ |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:56}{अनुवाक:4, सूक्त:12}
अग्ने॒शर्ध᳚न्त॒माग॒णंपि॒ष्टंरु॒क्मेभि॑र॒ञ्जिभिः॑ |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

विशो᳚,अ॒द्यम॒रुता॒मव॑ह्वयेदि॒वश्चि॑द्‌रोच॒नादधि॒(स्वाहा᳚) || 1 || वर्ग:19

अग्ने᳚¦शर्ध᳚न्त‌म्¦आ¦ग॒ण‌म्¦पि॒ष्ट‌म्¦रु॒क्मेभिः॑¦अं॒जिऽभिः॑ |
विशः॑¦अ॒द्य¦म॒रुता᳚‌म्¦अव॑¦ह्व॒ये॒¦दि॒वः¦चि॒त्¦रो॒च॒नात्¦अधि॑ ||

यथा᳚चि॒न्मन्य॑सेहृ॒दातदिन्मे᳚जग्मुरा॒शसः॑ |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

येते॒नेदि॑ष्ठं॒हव॑नान्या॒गम॒न्तान्व॑र्धभी॒मसं᳚दृशः॒(स्वाहा᳚) || 2 ||

यथा᳚¦चि॒त्¦मन्य॑से¦हृ॒दा¦तत्¦इत्¦मे॒¦ज॒ग्मुः॒¦आ॒ऽशसः॑ |
ये¦ते॒¦नेदि॑ष्ठ‌म्¦हव॑नानि¦आ॒ऽगम॑न्¦तान्¦व॒र्ध॒¦भी॒मऽसं᳚दृशः ||

मी॒ळ्हुष्म॑तीवपृथि॒वीपरा᳚हता॒मद᳚न्त्येत्य॒स्मदा |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

ऋक्षो॒नवो᳚मरुतः॒शिमी᳚वाँ॒,अमो᳚दु॒ध्रोगौरि॑वभीम॒युः(स्वाहा᳚) || 3 ||

मी॒ळ्हुष्म॑तीऽ‌इव¦पृ॒थि॒वी¦परा᳚ऽहता¦मद᳚न्ती¦ए॒ति॒¦अ॒स्मत्¦आ |
ऋक्षः॑¦न¦वः॒¦म॒रु॒तः॒¦शिमी᳚ऽवान्¦अमः॑¦दु॒ध्रः¦गौःऽ‌इ᳚व¦भी॒म॒ऽयुः ||

नियेरि॒णन्त्योज॑सा॒वृथा॒गावो॒नदु॒र्धुरः॑ |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

अश्मा᳚नंचित्‌स्व॒र्य१॑(अं॒)पर्व॑तंगि॒रिंप्रच्या᳚वयन्ति॒याम॑भिः॒(स्वाहा᳚) || 4 ||

नि¦ये¦रि॒णन्ति॑¦ओज॑सा¦वृथा᳚¦गावः॑¦न¦दुः॒ऽधुरः॑ |
अश्मा᳚न‌म्¦चि॒त्¦स्व॒र्य᳚‌म्¦पर्व॑त‌म्¦गि॒रि‌म्¦प्र¦च्य॒व॒य॒न्ति॒¦याम॑ऽभिः ||

उत्ति॑ष्ठनू॒नमे᳚षां॒स्तोमैः॒समु॑क्षितानाम् |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

म॒रुतां᳚पुरु॒तम॒मपू᳚र्व्यं॒गवां॒सर्ग॑मिवह्वये॒(स्वाहा᳚) || 5 ||

उत्¦ति॒ष्ठ॒¦नू॒न‌म्¦ए॒षा॒‌म्¦स्तोमैः᳚¦स‌म्।औ᳚क्षिताना‌म् |
म॒रुता᳚‌म्¦पु॒रु॒ऽतम᳚‌म्¦अपू᳚र्व्य‌म्¦गवा᳚‌म्¦सर्ग᳚‌म्ऽ‌इव¦ह्व॒ये॒ ||

यु॒ङ्ग्ध्वंह्यरु॑षी॒रथे᳚यु॒ङ्ग्ध्वंरथे᳚षुरो॒हितः॑ |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

यु॒ङ्ग्ध्वंहरी᳚,अजि॒राधु॒रिवोळ्ह॑वे॒वहि॑ष्ठाधु॒रिवोळ्ह॑वे॒(स्वाहा᳚) || 6 || वर्ग:20

यु॒ङ्ग्ध्व‌म्¦हि¦अरु॑षीः¦रथे᳚¦यु॒ङ्ग्ध्व‌म्¦रथे᳚षु¦रो॒हितः॑ |
यु॒ङ्ग्ध्व‌म्¦हरी॒ इति॑¦अ॒जि॒रा¦धु॒रि¦वोळ्ह॑वे¦वहि॑ष्ठा¦धु॒रि¦वोळ्ह॑वे ||

उ॒तस्यवा॒ज्य॑रु॒षस्तु॑वि॒ष्वणि॑रि॒हस्म॑धायिदर्श॒तः |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

मावो॒यामे᳚षुमरुतश्चि॒रंक॑र॒त्प्रतंरथे᳚षुचोदत॒(स्वाहा᳚) || 7 ||

उ॒त¦स्यः¦वा॒जी¦अ॒रु॒षः¦तु॒वि॒ऽस्वणिः॑¦इ॒ह¦स्म॒¦धा॒यि॒¦द॒र्श॒तः |
मा¦वः॒¦यामे᳚षु¦म॒रु॒तः॒¦चि॒र‌म्¦क॒र॒त्¦प्र¦त‌म्¦रथे᳚षु¦चो॒द॒त॒ ||

रथं॒नुमारु॑तंव॒यंश्र॑व॒स्युमाहु॑वामहे |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

आयस्मि᳚न्‌त॒स्थौसु॒रणा᳚नि॒बिभ्र॑ती॒सचा᳚म॒रुत्सु॑रोद॒सी(स्वाहा᳚) || 8 ||

रथ᳚‌म्¦नु¦मारु॑त‌म्¦व॒य‌म्¦श्र॒व॒स्यु‌म्¦आ¦हु॒वा॒म॒हे॒ |
आ¦यस्मि॑न्¦त॒स्थौ¦सु॒ऽरणा᳚नि¦बिभ्र॑ती¦सचा᳚¦म॒रुत्ऽसु॑¦रो॒द॒सी ||

तंवः॒शर्धं᳚रथे॒शुभं᳚त्वे॒षंप॑न॒स्युमाहु॑वे |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

यस्मि॒न्‌त्सुजा᳚तासु॒भगा᳚मही॒यते॒सचा᳚म॒रुत्सु॑मीळ्हु॒षी(स्वाहा᳚) || 9 ||

त‌म्¦वः॒¦शर्ध᳚‌म्¦र॒थे॒ऽशुभ᳚‌म्¦त्वे॒ष‌म्¦प॒न॒स्यु‌म्¦आ¦हु॒वे॒ |
यस्मि॑न्¦सुऽजा᳚ता¦सु॒ऽभगा᳚¦म॒ही॒यते᳚¦सचा᳚¦म॒रुत्ऽसु॑¦मी॒ळ्हु॒षी ||

[49] आरुद्रासइत्यष्टर्चस्यसूक्तस्यात्रेयः श्यावाश्वोमरुतोजगत्यंत्येद्वेत्रिष्टुभौ |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:57}{अनुवाक:5, सूक्त:1}
आरु॑द्रास॒इन्द्र॑वन्तःस॒जोष॑सो॒हिर᳚ण्यरथाःसुवि॒ताय॑गन्तन |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

इ॒यंवो᳚,अ॒स्मत्‌प्रति॑हर्यतेम॒तिस्तृ॒ष्णजे॒नदि॒वउत्सा᳚,उद॒न्यवे॒(स्वाहा᳚) || 1 || वर्ग:21

आ¦रु॒द्रा॒सः॒¦इन्द्र॑ऽवन्तः¦स॒ऽजोष॑सः¦हिर᳚ण्यऽरथाः¦सु॒वि॒ताय॑¦ग॒न्त॒न॒ |
इ॒य‌म्¦वः॒¦अ॒स्मत्¦प्रति॑¦ह॒र्य॒ते॒¦म॒तिः¦तृ॒ष्णऽजे᳚¦न¦दि॒वः¦उत्साः᳚¦उ॒द॒न्यवे᳚ ||

वाशी᳚मन्तऋष्टि॒मन्तो᳚मनी॒षिणः॑सु॒धन्वा᳚न॒इषु॑मन्तोनिष॒ङ्गिणः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

स्वश्वाः᳚स्थसु॒रथाः᳚पृश्निमातरःस्वायु॒धाम॑रुतोयाथना॒शुभ॒‌म्(स्वाहा᳚) || 2 ||

वाशी᳚ऽमन्तः¦ऋ॒ष्टि॒ऽमन्तः॑¦म॒नी॒षिणः॑¦सु॒ऽधन्वा᳚नः¦इषु॑ऽमन्तः¦नि॒ष॒ङ्गिणः॑ |
सु॒।आश्वाः᳚¦स्थ॒¦सु॒ऽरथाः᳚¦पृ॒श्नि॒ऽमा॒त॒रः॒¦सु॒ऽआ॒यु॒धाः¦म॒रु॒तः॒¦या॒थ॒न॒¦शुभ᳚‌म् ||

धू॒नु॒थद्यांपर्व॑तान्दा॒शुषे॒वसु॒निवो॒वना᳚जिहते॒याम॑नोभि॒या |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

को॒पय॑थपृथि॒वींपृ॑श्निमातरःशु॒भेयदु॑ग्राः॒पृष॑ती॒रयु॑ग्ध्व॒‌म्(स्वाहा᳚) || 3 ||

धू॒नु॒थ¦द्या‌म्¦पर्व॑तान्¦दा॒शुषे᳚¦वसु॑¦नि¦वः॒¦वना᳚¦जि॒ह॒ते॒¦याम॑नः¦भि॒या |
को॒पय॑थ¦पृ॒थि॒वी‌म्¦पृ॒श्नि॒ऽमा॒त॒रः॒¦शु॒भे¦यत्¦उ॒ग्राः॒¦पृष॑तीः¦अयु॑ग्ध्व‌म् ||

वात॑त्विषोम॒रुतो᳚व॒र्षनि᳚र्णिजोय॒मा,इ॑व॒सुस॑दृशःसु॒पेश॑सः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

पि॒शङ्गा᳚श्वा,अरु॒णाश्वा᳚,अरे॒पसः॒प्रत्व॑क्षसोमहि॒नाद्यौरि॑वो॒रवः॒(स्वाहा᳚) || 4 ||

वात॑ऽत्विषः¦म॒रुतः॑¦व॒र्षऽनि᳚र्निजः¦य॒माःऽ‌इ᳚व¦सुऽस॑दृशः¦सु॒ऽपेश॑सः |
पि॒शङ्ग॑।आश्वाः¦अ॒रु॒ण।आ॑श्वाः¦अ॒रे॒पसः॑¦प्रऽत्व॑क्षसः¦म॒हि॒ना¦द्यौःऽ‌इ᳚व¦उ॒रवः॑ ||

पु॒रु॒द्र॒प्सा,अ᳚ञ्जि॒मन्तः॑सु॒दान॑वस्त्वे॒षसं᳚दृशो,अनव॒भ्ररा᳚धसः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

सु॒जा॒तासो᳚ज॒नुषा᳚रु॒क्मव॑क्षसोदि॒वो,अ॒र्का,अ॒मृतं॒नाम॑भेजिरे॒(स्वाहा᳚) || 5 ||

पु॒रु॒ऽद्र॒प्साः¦अं॒जि॒ऽमन्तः॑¦सु॒ऽदान॑वः¦त्वे॒षऽसं᳚दृशः¦अ॒न॒व॒भ्रऽरा᳚धसः |
सु॒ऽजा॒तासः॑¦ज॒नुषा᳚¦रु॒क्मऽव॑क्षसः¦दि॒वः¦अ॒र्काः¦अ॒मृत᳚‌म्¦नाम॑¦भे॒जि॒रे॒ ||

ऋ॒ष्टयो᳚वोमरुतो॒,अंस॑यो॒रधि॒सह॒ओजो᳚बा॒ह्वोर्वो॒बलं᳚हि॒तम् |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

नृ॒म्णाशी॒र्षस्वायु॑धा॒रथे᳚षुवो॒विश्वा᳚वः॒श्रीरधि॑त॒नूषु॑पिपिशे॒(स्वाहा᳚) || 6 || वर्ग:22

ऋ॒ष्टयः॑¦वः॒¦म॒रु॒तः॒¦अंस॑योः¦अधि॑¦सहः॑¦ओजः॑¦बा॒ह्वोः¦वः॒¦बल᳚‌म्¦हि॒त‌म् |
नृ॒म्णा¦शी॒र्षऽसु॑¦आयु॑धा¦रथे᳚षु¦वः॒¦विश्वा᳚¦वः॒¦श्रीः¦अधि॑¦त॒नूषु॑¦पि॒पि॒शे॒ ||

गोम॒दश्वा᳚व॒द्‌रथ॑वत्‌सु॒वीरं᳚च॒न्द्रव॒द्‌राधो᳚मरुतोददानः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

प्रश॑स्तिंनःकृणुतरुद्रियासोभक्षी॒यवोऽव॑सो॒दैव्य॑स्य॒(स्वाहा᳚) || 7 ||

गोऽम॑त्¦अश्व॑ऽवत्¦रथ॑ऽवत्¦सु॒ऽवीर᳚‌म्¦च॒न्द्रऽव॑त्¦राधः॑¦म॒रु॒तः॒¦द॒द॒¦नः॒ |
प्रऽश॑स्ति‌म्¦नः॒¦कृ॒णु॒त॒¦रु॒द्रि॒या॒सः॒¦भ॒क्षी॒य¦वः॒¦अव॑सः¦दैव्य॑स्य ||

ह॒येनरो॒मरु॑तोमृ॒ळता᳚न॒स्तुवी᳚मघासो॒,अमृ॑ता॒ऋत॑ज्ञाः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

सत्य॑श्रुतः॒कव॑यो॒युवा᳚नो॒बृह॑द्गिरयोबृ॒हदु॒क्षमा᳚णाः॒(स्वाहा᳚) || 8 ||

ह॒ये¦नरः॑¦मरु॑तः¦मृ॒ळत॑¦नः॒¦तुवि॑ऽमघासः¦अमृ॑ताः¦ऋत॑ऽज्ञाः |
सत्य॑ऽश्रुतः¦कव॑यः¦युवा᳚नः¦बृह॑त्ऽगिरयः¦बृ॒हत्¦उ॒क्षमा᳚णाः ||

[50] तमुनूनमित्यष्टर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतस्त्रिष्टुप् |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:58}{अनुवाक:5, सूक्त:2}
तमु॑नू॒नंतवि॑षीमन्तमेषांस्तु॒षेग॒णंमारु॑तं॒नव्य॑सीनाम् |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

यआ॒श्व॑श्वा॒,अम॑व॒द्‌वह᳚न्तउ॒तेशि॑रे,अ॒मृत॑स्यस्व॒राजः॒(स्वाहा᳚) || 1 || वर्ग:23

त‌म्¦ऊँ॒ इति॑¦नू॒न‌म्¦तवि॑षीऽमन्त‌म्¦ए॒षा॒‌म्¦स्तु॒षे¦ग॒ण‌म्¦मारु॑त‌म्¦नव्य॑सीना‌म् |
ये¦आ॒शु।आ॑श्वाः¦अम॑ऽवत्¦वह᳚न्ते¦उ॒त¦ई॒शि॒रे॒¦अ॒मृत॑स्य¦स्व॒ऽराजः॑ ||

त्वे॒षंग॒णंत॒वसं॒खादि॑हस्तं॒धुनि᳚व्रतंमा॒यिनं॒दाति॑वारम् |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

म॒यो॒भुवो॒ये,अमि॑तामहि॒त्वावन्द॑स्वविप्रतुवि॒राध॑सो॒नॄ॒‌न्(स्वाहा᳚) || 2 ||

त्वे॒ष‌म्¦ग॒ण‌म्¦त॒वस᳚‌म्¦खादि॑ऽहस्त‌म्¦धुनि॑ऽव्रत‌म्¦मा॒यिन᳚‌म्¦दाति॑ऽवार‌म् |
म॒यः॒ऽभुवः॑¦ये¦अमि॑ताः¦म॒हि॒ऽत्वा¦वन्द॑स्व¦वि॒प्र॒¦तु॒वि॒ऽराध॑सः¦नॄन् ||

आवो᳚यन्तूदवा॒हासो᳚,अ॒द्यवृ॒ष्टिंयेविश्वे᳚म॒रुतो᳚जु॒नन्ति॑ |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

अ॒यंयो,अ॒ग्निर्म॑रुतः॒समि॑द्धए॒तंजु॑षध्वंकवयोयुवानः॒(स्वाहा᳚) || 3 ||

आ¦वः॒¦य॒न्तु॒¦उ॒द॒ऽवा॒हासः॑¦अ॒द्य¦वृ॒ष्टि‌म्¦ये¦विश्वे᳚¦म॒रुतः॑¦जु॒नन्ति॑ |
अ॒य‌म्¦यः¦अ॒ग्निः¦म॒रु॒तः॒¦स‌म्ऽ‌इ᳚द्धः¦ए॒त‌म्¦जु॒ष॒ध्व॒‌म्¦क॒व॒यः॒¦यु॒वा॒नः॒ ||

यू॒यंराजा᳚न॒मिर्यं॒जना᳚यविभ्वत॒ष्टंज॑नयथायजत्राः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

यु॒ष्मदे᳚तिमुष्टि॒हाबा॒हुजू᳚तोयु॒ष्मत्‌सद॑श्वोमरुतःसु॒वीरः॒(स्वाहा᳚) || 4 ||

यू॒य‌म्¦राजा᳚न‌म्¦इर्य᳚‌म्¦जना᳚य¦वि॒भ्व॒ऽत॒ष्ट‌म्¦ज॒न॒य॒थ॒¦य॒ज॒त्राः॒ |
यु॒ष्मत्¦ए॒ति॒¦मु॒ष्टि॒ऽहा¦बा॒हुऽजू᳚तः¦यु॒ष्मत्¦सत्।आ॑श्वः¦म॒रु॒तः॒¦सु॒ऽवीरः॑ ||

अ॒रा,इ॒वेदच॑रमा॒,अहे᳚व॒प्रप्र॑जायन्ते॒,अक॑वा॒महो᳚भिः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

पृश्नेः᳚पु॒त्रा,उ॑प॒मासो॒रभि॑ष्ठाः॒स्वया᳚म॒त्याम॒रुतः॒संमि॑मिक्षुः॒(स्वाहा᳚) || 5 ||

अ॒राःऽ‌इ᳚व¦इत्¦अच॑रमाः¦अहा᳚ऽ‌इव¦प्रऽप्र॑¦जा॒य॒न्ते॒¦अक॑वाः¦महः॑ऽभिः |
पृश्नेः᳚¦पु॒त्राः¦उ॒प॒ऽमासः॑¦रभि॑ष्ठाः¦स्वया᳚¦म॒त्या¦म॒रुतः॑¦स‌म्¦मि॒मि॒क्षुः॒ ||

यत्‌प्राया᳚सिष्ट॒पृष॑तीभि॒रश्वै᳚र्वीळुप॒विभि᳚र्मरुतो॒रथे᳚भिः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

क्षोद᳚न्त॒आपो᳚रिण॒तेवना॒न्यवो॒स्रियो᳚वृष॒भःक्र᳚न्दतु॒द्यौः(स्वाहा᳚) || 6 ||

यत्¦प्र¦अया᳚सिष्ट¦पृष॑तीभिः¦अश्वैः᳚¦वी॒ळु॒प॒विऽभिः॑¦म॒रु॒तः॒¦रथे᳚भिः |
क्षोद᳚न्ते¦आपः॑¦रि॒ण॒ते¦वना᳚नि¦अव॑¦उ॒स्रियः॑¦वृ॒ष॒भः¦क्र॒न्द॒तु॒¦द्यौः ||

प्रथि॑ष्ट॒याम᳚न्‌पृथि॒वीचि॑देषां॒भर्ते᳚व॒गर्भं॒स्वमिच्छवो᳚धुः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

वाता॒न्‌ह्यश्वा᳚न्‌धु॒र्या᳚युयु॒ज्रेव॒र्षंस्वेदं᳚चक्रिरेरु॒द्रिया᳚सः॒(स्वाहा᳚) || 7 ||

प्रथि॑ष्ट¦याम॑न्¦पृ॒थि॒वी¦चि॒त्¦ए॒षा॒‌म्¦भर्ता᳚ऽ‌इव¦गर्भ᳚‌म्¦स्व‌म्¦इत्¦शवः॑¦धुः॒ |
वाता᳚न्¦हि¦अश्वा᳚न्¦धु॒रि¦आ॒ऽयु॒यु॒ज्रे¦व॒र्ष‌म्¦स्वेद᳚‌म्¦च॒क्रि॒रे॒¦रु॒द्रिया᳚सः ||

ह॒येनरो॒मरु॑तोमृ॒ळता᳚न॒स्तुवी᳚मघासो॒,अमृ॑ता॒ऋत॑ज्ञाः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

सत्य॑श्रुतः॒कव॑यो॒युवा᳚नो॒बृह॑द्गिरयोबृ॒हदु॒क्षमा᳚णाः॒(स्वाहा᳚) || 8 ||

ह॒ये¦नरः॑¦मरु॑तः¦मृ॒ळत॑¦नः॒¦तुवि॑ऽमघासः¦अमृ॑ताः¦ऋत॑ऽज्ञाः |
सत्य॑ऽश्रुतः¦कव॑यः¦युवा᳚नः¦बृह॑त्ऽगिरयः¦बृ॒हत्¦उ॒क्षमा᳚णाः ||

[51] प्रवःस्पळित्यष्टर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतो जगत्यंत्या त्रिष्टुप् |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:59}{अनुवाक:5, सूक्त:3}
प्रवः॒स्पळ॑क्रन्‌त्सुवि॒ताय॑दा॒वनेऽर्चा᳚दि॒वेप्रपृ॑थि॒व्या,ऋ॒तंभ॑रे |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

उ॒क्षन्ते॒,अश्वा॒न्‌तरु॑षन्त॒आरजोऽनु॒स्वंभा॒नुंश्र॑थयन्ते,अर्ण॒वैः(स्वाहा᳚) || 1 || वर्ग:24

प्र¦वः॒¦स्पट्¦अ॒क्र॒न्¦सु॒वि॒ताय॑¦दा॒वने᳚¦अर्च॑¦दि॒वे¦प्र¦पृ॒थि॒व्यै¦ऋ॒त‌म्¦भ॒रे॒ |
उ॒क्षन्ते᳚¦अश्वा᳚न्¦तरु॑षन्ते¦आ¦रजः॑¦अनु॑¦स्व‌म्¦भा॒नु‌म्¦श्र॒थ॒य॒न्ते॒¦अ॒र्ण॒वैः ||

अमा᳚देषांभि॒यसा॒भूमि॑रेजति॒नौर्नपू॒र्णाक्ष॑रति॒व्यथि᳚र्य॒ती |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

दू॒रे॒दृशो॒येचि॒तय᳚न्त॒एम॑भिर॒न्तर्म॒हेवि॒दथे᳚येतिरे॒नरः॒(स्वाहा᳚) || 2 ||

अमा᳚त्¦ए॒षा॒‌म्¦भि॒यसा᳚¦भूमिः॑¦ए॒ज॒ति॒¦नौः¦न¦पू॒र्णा¦क्ष॒र॒ति॒¦व्यथिः॑¦य॒ती |
दू॒रे॒ऽदृशः॑¦ये¦चि॒तय᳚न्ते¦एम॑ऽभिः¦अ॒न्तः¦म॒हे¦वि॒दथे᳚¦ये॒ति॒रे॒¦नरः॑ ||

गवा᳚मिवश्रि॒यसे॒शृङ्ग॑मुत्त॒मंसूर्यो॒नचक्षू॒रज॑सोवि॒सर्ज॑ने |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अत्या᳚,इवसु॒भ्व१॑(अ॒)श्चार॑वःस्थन॒मर्या᳚,इवश्रि॒यसे᳚चेतथानरः॒(स्वाहा᳚) || 3 ||

गवा᳚‌म्ऽ‌इव¦श्रि॒यसे᳚¦शृङ्ग᳚‌म्¦उ॒त्ऽत॒म‌म्¦सूर्यः॑¦न¦चक्षुः॑¦रज॑सः¦वि॒ऽसर्ज॑ने |
अत्याः᳚ऽ‌इव¦सु॒ऽभ्वः॑¦चार॑वः¦स्थ॒न॒¦मर्याः᳚ऽ‌इव¦श्रि॒यसे᳚¦चे॒त॒थ॒¦न॒रः॒ ||

कोवो᳚म॒हान्ति॑मह॒तामुद॑श्नव॒त्कस्काव्या᳚मरुतः॒कोह॒पौंस्या᳚ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

यू॒यंह॒भूमिं᳚कि॒रणं॒नरे᳚जथ॒प्रयद्‌भर॑ध्वेसुवि॒ताय॑दा॒वने॒(स्वाहा᳚) || 4 ||

कः¦वः॒¦म॒हान्ति॑¦म॒ह॒ता‌म्¦उत्¦अ॒श्न॒व॒त्¦कः¦काव्या᳚¦म॒रु॒तः॒¦कः¦ह॒¦पौंस्या᳚ |
यू॒य‌म्¦ह॒¦भूमि᳚‌म्¦कि॒रण᳚‌म्¦न¦रे॒ज॒थ॒¦प्र¦यत्¦भर॑ध्वे¦सु॒वि॒ताय॑¦दा॒वने᳚ ||

अश्वा᳚,इ॒वेद॑रु॒षासः॒सब᳚न्धवः॒शूरा᳚,इवप्र॒युधः॒प्रोतयु॑युधुः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

मर्या᳚,इवसु॒वृधो᳚वावृधु॒र्नरः॒सूर्य॑स्य॒चक्षुः॒प्रमि॑नन्तिवृ॒ष्टिभिः॒(स्वाहा᳚) || 5 ||

अश्वाः᳚ऽ‌इव¦इत्¦अ॒रु॒षासः॑¦सऽब᳚न्धवः¦शूराः᳚ऽ‌इव¦प्र॒ऽयुधः॑¦प्र¦उ॒त¦यु॒यु॒धुः॒ |
मर्याः᳚ऽ‌इव¦सु॒ऽवृधः॑¦व॒वृ॒धुः॒¦नरः॑¦सूर्य॑स्य¦चक्षुः॑¦प्र¦मि॒न॒न्ति॒¦वृ॒ष्टिऽभिः॑ ||

ते,अ॑ज्ये॒ष्ठा,अक॑निष्ठासउ॒द्भिदोऽम॑ध्यमासो॒मह॑सा॒विवा᳚वृधुः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

सु॒जा॒तासो᳚ज॒नुषा॒पृश्नि॑मातरोदि॒वोमर्या॒,आनो॒,अच्छा᳚जिगातन॒(स्वाहा᳚) || 6 ||

ते¦अ॒ज्ये॒ष्ठाः¦अक॑निष्ठासः¦उ॒त्ऽभिदः॑¦अम॑ध्यमासः¦मह॑सा¦वि¦व॒वृ॒धुः॒ |
सु॒ऽजा॒तासः॑¦ज॒नुषा᳚¦पृश्नि॑ऽमातरः¦दि॒वः¦मर्याः᳚¦आ¦नः॒¦अच्छ॑¦जि॒गा॒त॒न॒ ||

वयो॒नयेश्रेणीः᳚प॒प्तुरोज॒साऽन्ता᳚न्दि॒वोबृ॑ह॒तःसानु॑न॒स्परि॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अश्वा᳚सएषामु॒भये॒यथा᳚वि॒दुःप्रपर्व॑तस्यनभ॒नूँर॑चुच्यवुः॒(स्वाहा᳚) || 7 ||

वयः॑¦न¦ये¦श्रेणीः᳚¦प॒प्तुः¦ओज॑सा¦अन्ता᳚न्¦दि॒वः¦बृ॒ह॒तः¦सानु॑नः¦परि॑ |
अश्वा᳚सः¦ए॒षा॒‌म्¦उ॒भये᳚¦यथा᳚¦वि॒दुः¦प्र¦पर्व॑तस्य¦न॒भ॒नून्¦अ॒चु॒च्य॒वुः॒ ||

मिमा᳚तु॒द्यौरदि॑तिर्वी॒तये᳚नः॒संदानु॑चित्रा,उ॒षसो᳚यतन्ताम् |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

आचु॑च्यवुर्दि॒व्यंकोश॑मे॒तऋषे᳚रु॒द्रस्य॑म॒रुतो᳚गृणा॒नाः(स्वाहा᳚) || 8 ||

मिमा᳚तु¦द्यौः¦अदि॑तिः¦वी॒तये᳚¦नः॒¦स‌म्¦दानु॑ऽचित्राः¦उ॒षसः॑¦य॒त॒न्ता॒‌म् |
आ¦अ॒चु॒च्य॒वुः॒¦दि॒व्य‌म्¦कोश᳚‌म्¦ए॒ते¦ऋषे᳚¦रु॒द्रस्य॑¦म॒रुतः॑¦गृ॒णा॒नाः ||

[52] ईळेअग्निमित्यष्टर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतस्त्रिष्टुबंत्येद्वेजगत्यौ | (आग्नेयं च वेत्यनुक्रमण्युक्तेरग्रामरुतोवा) |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:60}{अनुवाक:5, सूक्त:4}
ईळे᳚,अ॒ग्निंस्वव॑सं॒नमो᳚भिरि॒हप्र॑स॒त्तोविच॑यत्‌कृ॒तंनः॑ |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

रथै᳚रिव॒प्रभ॑रेवाज॒यद्भिः॑प्रदक्षि॒णिन्म॒रुतां॒स्तोम॑मृध्या॒‌म्(स्वाहा᳚) || 1 || वर्ग:25

इळे᳚¦अ॒ग्नि‌म्¦सु॒।आव॑स‌म्¦नमः॑ऽभिः¦इ॒ह¦प्र॒ऽस॒त्तः¦वि¦च॒य॒त्¦कृ॒त‌म्¦नः॒ |
रथैः᳚ऽ‌इव¦प्र¦भ॒रे॒¦वा॒ज॒यत्ऽभिः॑¦प्र॒ऽद॒क्षि॒णित्¦म॒रुता᳚‌म्¦स्तोम᳚‌म्¦ऋ॒ध्या॒‌म् ||

आयेत॒स्थुःपृष॑तीषुश्रु॒तासु॑सु॒खेषु॑रु॒द्राम॒रुतो॒रथे᳚षु |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

वना᳚चिदुग्राजिहते॒निवो᳚भि॒यापृ॑थि॒वीचि॑द्‌रेजते॒पर्व॑तश्चि॒‌त्(स्वाहा᳚) || 2 ||

आ¦ये¦त॒स्थुः¦पृष॑तीषु¦श्रु॒तासु॑¦सु॒ऽखेषु॑¦रु॒द्राः¦म॒रुतः॑¦रथे᳚षु |
वना᳚¦चि॒त्¦उ॒ग्राः॒¦जि॒ह॒ते॒¦नि¦वः॒¦भि॒या¦पृ॒थि॒वी¦चि॒त्¦रे॒ज॒ते॒¦पर्व॑तः¦चि॒त् ||

पर्व॑तश्चि॒न्महि॑वृ॒द्धोबि॑भायदि॒वश्चि॒त्‌सानु॑रेजतस्व॒नेवः॑ |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

यत्‌क्रीळ॑थमरुतऋष्टि॒मन्त॒आप॑इवस॒ध्र्य᳚ञ्चोधवध्वे॒(स्वाहा᳚) || 3 ||

पर्व॑तः¦चि॒त्¦महि॑¦वृ॒द्धः¦बि॒भा॒य॒¦दि॒वः¦चि॒त्¦सानु॑¦रे॒ज॒त॒¦स्व॒ने¦वः॒ |
यत्¦क्रीळ॑थ¦म॒रु॒तः॒¦ऋ॒ष्टि॒ऽमन्तः॑¦आपः॑ऽ‌इव¦स॒ध्र्यं᳚चः¦ध॒व॒ध्वे॒ ||

व॒रा,इ॒वेद्‌रै᳚व॒तासो॒हिर᳚ण्यैर॒भिस्व॒धाभि॑स्त॒न्वः॑पिपिश्रे |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

श्रि॒येश्रेयां᳚सस्त॒वसो॒रथे᳚षुस॒त्रामहां᳚सिचक्रिरेत॒नूषु॒(स्वाहा᳚) || 4 ||

व॒राःऽ‌इ᳚व¦इत्¦रै॒व॒तासः॑¦हिर᳚ण्यैः¦अ॒भि¦स्व॒धाभिः॑¦त॒न्वः॑¦पि॒पि॒श्रे॒ |
श्रि॒ये¦श्रेयां᳚सः¦त॒वसः॑¦रथे᳚षु¦स॒त्रा¦महां᳚सि¦च॒क्रि॒रे॒¦त॒नूषु॑ ||

अ॒ज्ये॒ष्ठासो॒,अक॑निष्ठासए॒तेसंभ्रात॑रोवावृधुः॒सौभ॑गाय |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

युवा᳚पि॒तास्वपा᳚रु॒द्रए᳚षांसु॒दुघा॒पृश्निः॑सु॒दिना᳚म॒रुद्भ्यः॒(स्वाहा᳚) || 5 ||

अ॒ज्ये॒ष्ठासः॑¦अक॑निष्ठासः¦ए॒ते¦स‌म्¦भ्रात॑रः¦व॒वृ॒धुः॒¦सौभ॑गाय |
युवा᳚¦पि॒ता¦सु॒।आपा᳚¦रु॒द्रः¦ए॒षा॒‌म्¦सु॒ऽदुघा᳚¦पृश्निः॑¦सु॒ऽदिना᳚¦म॒रुत्ऽभ्यः॑ ||

यदु॑त्त॒मेम॑रुतोमध्य॒मेवा॒यद्‌वा᳚व॒मेसु॑भगासोदि॒विष्ठ |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

अतो᳚नोरुद्रा,उ॒तवा॒न्व१॑(अ॒)स्याऽग्ने᳚वि॒त्ताद्ध॒विषो॒यद्‌यजा᳚म॒(स्वाहा᳚) || 6 ||

यत्¦उ॒त्ऽत॒मे¦म॒रु॒तः॒¦म॒ध्य॒मे¦वा॒¦यत्¦वा॒¦अ॒व॒मे¦सु॒ऽभ॒गा॒सः॒¦दि॒वि¦स्थ |
अतः॑¦नः॒¦रु॒द्राः॒¦उ॒त¦वा॒¦नु¦अ॒स्य॒¦अग्ने᳚¦वि॒त्तात्¦ह॒विषः॑¦यत्¦यजा᳚म ||

अ॒ग्निश्च॒यन्म॑रुतोविश्ववेदसोदि॒वोवह॑ध्व॒उत्त॑रा॒दधि॒ष्णुभिः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

तेम᳚न्दसा॒नाधुन॑योरिशादसोवा॒मंध॑त्त॒यज॑मानायसुन्व॒ते(स्वाहा᳚) || 7 ||

अ॒ग्निः¦च॒¦यत्¦म॒रु॒तः॒¦वि॒श्व॒ऽवे॒द॒सः॒¦दि॒वः¦वह॑ध्वे¦उत्ऽत॑रात्¦अधि॑¦स्नुऽभिः॑ |
ते¦म॒न्द॒सा॒नाः¦धुन॑यः¦रि॒शा॒द॒सः॒¦वा॒म‌म्¦ध॒त्त॒¦यज॑मानाय¦सु॒न्व॒ते ||

अग्ने᳚म॒रुद्भिः॑शु॒भय॑द्भि॒रृक्व॑भिः॒सोमं᳚पिबमन्दसा॒नोग॑ण॒श्रिभिः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

पा॒व॒केभि᳚र्विश्वमि॒न्वेभि॑रा॒युभि॒र्वैश्वा᳚नरप्र॒दिवा᳚के॒तुना᳚स॒जूः(स्वाहा᳚) || 8 ||

अग्ने᳚¦म॒रुत्ऽभिः॑¦शु॒भय॑त्ऽभिः¦ऋक्व॑ऽभिः¦सोम᳚‌म्¦पि॒ब॒¦म॒न्द॒सा॒नः¦ग॒ण॒श्रिऽभिः॑ |
पा॒व॒केभिः॑¦वि॒श्व॒‌म्ऽ‌इ॒न्वेभिः॑¦आ॒युऽभिः॑¦वैश्वा᳚नर¦प्र॒ऽदिवा᳚¦के॒तुना᳚¦स॒ऽजूः ||

[53] केष्ठानरइत्येकोनविंशत्यृचस्य सूक्तस्यश्यावाश्वः आद्यानांचतसृणां यईम्‌वहन्तइत्यादिषण्णांचमरुतः पंचम्यादिचतसृणांतरंतमहिषीशशीयसी उतमेरपदित्यस्याः पुरुमीळ्होयोमेधेनूनामित्यस्यास्तरंतः एतंमेस्तोममित्यादि तिसृणांरथवीतिर्गायत्री पंचम्यनुष्टुप्‌नवमीसतोबृहती (अवत्यौपुरुमीळ्हतरं तौवैददश्वी रथवीतिर्दार्भ्यः) |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:61}{अनुवाक:5, सूक्त:5}
केष्ठा᳚नरः॒श्रेष्ठ॑तमा॒यएक॑एकआय॒य |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

प॒र॒मस्याः᳚परा॒वतः॒(स्वाहा᳚) || 1 || वर्ग:26

के¦स्थ॒¦न॒रः॒¦श्रेष्ठ॑ऽतमाः¦ये¦एकः॑ऽएकः¦आ॒ऽय॒य | प॒र॒मस्याः᳚¦प॒रा॒ऽवतः॑ ||

क्व१॑(अ॒)वोऽश्वाः॒क्वा॒३॑(आ॒)भीश॑वःक॒थंशे᳚कक॒थाय॑य |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

पृ॒ष्ठेसदो᳚न॒सोर्यमः॒(स्वाहा᳚) || 2 ||

क्व॑¦वः॒¦अश्वाः᳚¦क्व॑¦अ॒भीश॑वः¦क॒थ‌म्¦शे॒क॒¦क॒था¦य॒य॒ | पृ॒ष्ठे¦सदः॑¦न॒सोः¦यमः॑ ||

ज॒घने॒चोद॑एषां॒विस॒क्थानि॒नरो᳚यमुः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

पु॒त्र॒कृ॒थेनजन॑यः॒(स्वाहा᳚) || 3 ||

ज॒घने᳚¦चोदः॑¦ए॒षा॒‌म्¦वि¦स॒क्थानि॑¦नरः॑¦य॒मुः॒ | पु॒त्र॒ऽकृ॒थे¦न¦जन॑यः ||

परा᳚वीरासएतन॒मर्या᳚सो॒भद्र॑जानयः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

अ॒ग्नि॒तपो॒यथास॑थ॒(स्वाहा᳚) || 4 ||

परा᳚¦वी॒रा॒सः॒¦इ॒त॒न॒¦मर्या᳚सः¦भद्र॑ऽजानयः | अ॒ग्नि॒ऽतपः॑¦यथा᳚¦अस॑थ ||

सन॒त्‌साश्व्यं᳚प॒शुमु॒तगव्यं᳚श॒ताव॑यम् |{आत्रेयः श्यावाश्वः | तरन्तमहिषी शशीयसी | अनुष्टुप्}

श्या॒वाश्व॑स्तुताय॒यादोर्वी॒रायो᳚प॒बर्बृ॑ह॒‌त्(स्वाहा᳚) || 5 ||

सन॑त्¦सा¦अश्व्य᳚‌म्¦प॒शु‌म्¦उ॒त¦गव्य᳚‌म्¦श॒त।आ॑वय‌म् | श्या॒वाश्व॑ऽस्तुताय¦या¦दोः¦वी॒राय॑¦उ॒प॒ऽबर्बृ॑हत् ||

उ॒तत्वा॒स्त्रीशशी᳚यसीपुं॒सोभ॑वति॒वस्य॑सी |{आत्रेयः श्यावाश्वः | तरन्तमहिषी शशीयसी | गायत्री}

अदे᳚वत्रादरा॒धसः॒(स्वाहा᳚) || 6 || वर्ग:27

उ॒त¦त्वा॒¦स्त्री¦शशी᳚यसी¦पुं॒सः¦भ॒व॒ति॒¦वस्य॑सी | अदे᳚वऽत्रात्¦अ॒रा॒धसः॑ ||

वियाजा॒नाति॒जसु॑रिं॒वितृष्य᳚न्तं॒विका॒मिन᳚म् |{आत्रेयः श्यावाश्वः | तरन्तमहिषी शशीयसी | गायत्री}

दे॒व॒त्राकृ॑णु॒तेमनः॒(स्वाहा᳚) || 7 ||

वि¦या¦जा॒नाति॑¦जसु॑रि‌म्¦वि¦तृष्य᳚न्त‌म्¦वि¦का॒मिन᳚‌म् | दे॒व॒ऽत्रा¦कृ॒णु॒ते¦मनः॑ ||

उ॒तघा॒नेमो॒,अस्तु॑तः॒पुमाँ॒,इति॑ब्रुवेप॒णिः |{आत्रेयः श्यावाश्वः | तरन्तमहिषी शशीयसी | गायत्री}

सवैर॑देय॒इत्स॒मः(स्वाहा᳚) || 8 ||

उ॒त¦घ॒¦नेमः॑¦अस्तु॑तः¦पुमा᳚न्¦इति॑¦ब्रु॒वे॒¦प॒णिः | सः¦वैर॑ऽदेये¦इत्¦स॒मः ||

उ॒तमे᳚ऽरपद्‌युव॒तिर्म॑म॒न्दुषी॒प्रति॑श्या॒वाय॑वर्त॒निम् |{आत्रेयः श्यावाश्वः | वैददश्विः पुरुमीळ्हः | सतोबृहती}

विरोहि॑तापुरुमी॒ळ्हाय॑येमतु॒र्विप्रा᳚यदी॒र्घय॑शसे॒(स्वाहा᳚) || 9 ||

उ॒त¦मे॒¦अ॒र॒प॒त्¦यु॒व॒तिः¦म॒म॒न्दुषी᳚¦प्रति॑¦श्या॒वाय॑¦व॒र्त॒नि‌म् |
वि¦रोहि॑ता¦पु॒रु॒ऽमी॒ळ्हाय॑¦ये॒म॒तुः॒¦विप्रा᳚य¦दी॒र्घऽय॑शसे ||

योमे᳚धेनू॒नांश॒तंवैद॑दश्वि॒र्यथा॒दद॑त् |{आत्रेयः श्यावाश्वः | वैददश्विस्तरन्तः | गायत्री}

त॒र॒न्तइ॑वमं॒हना॒(स्वाहा᳚) || 10 ||

यः¦मे॒¦धे॒नू॒ना‌म्¦श॒त‌म्¦वैद॑त्।आश्विः¦यथा᳚¦दद॑त् | त॒र॒न्तःऽ‌इ᳚व¦मं॒हना᳚ ||

यईं॒वह᳚न्तआ॒शुभिः॒पिब᳚न्तोमदि॒रंमधु॑ |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

अत्र॒श्रवां᳚सिदधिरे॒(स्वाहा᳚) || 11 || वर्ग:28

ये¦ई॒‌म्¦वह᳚न्ते¦आ॒शुऽभिः॑¦पिब᳚न्तः¦म॒दि॒र‌म्¦मधु॑ | अत्र॑¦श्रवां᳚सि¦द॒धि॒रे॒ ||

येषां᳚श्रि॒याधि॒रोद॑सीवि॒भ्राज᳚न्ते॒रथे॒ष्वा |{आत्रेयः श्यावाश्वः | तरन्तो वैददश्विः | गायत्री}

दि॒विरु॒क्मइ॑वो॒परि॒(स्वाहा᳚) || 12 ||

येषा᳚‌म्¦श्रि॒या¦अधि॑¦रोद॑सी॒ इति॑¦वि॒ऽभ्राज᳚न्ते¦रथे᳚षु¦आ | दि॒वि¦रु॒क्मःऽ‌इ᳚व¦उ॒परि॑ ||

युवा॒समारु॑तोग॒णस्त्वे॒षर॑थो॒,अने᳚द्यः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

शु॒भं॒यावाप्र॑तिष्कुतः॒(स्वाहा᳚) || 13 ||

युवा᳚¦सः¦मारु॑तः¦ग॒णः¦त्वे॒षऽर॑थः¦अने᳚द्यः | शु॒भ॒‌म्ऽयावा᳚¦अप्र॑तिऽस्कुतः ||

कोवे᳚दनू॒नमे᳚षां॒यत्रा॒मद᳚न्ति॒धूत॑यः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

ऋ॒तजा᳚ता,अरे॒पसः॒(स्वाहा᳚) || 14 ||

कः¦वे॒द॒¦नू॒न‌म्¦ए॒षा॒‌म्¦यत्र॑¦मद᳚न्ति¦धूत॑यः | ऋ॒तऽजा᳚ताः¦अ॒रे॒पसः॑ ||

यू॒यंमर्तं᳚विपन्यवःप्रणे॒तार॑इ॒त्थाधि॒या |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

श्रोता᳚रो॒याम॑हूतिषु॒(स्वाहा᳚) || 15 ||

यू॒य‌म्¦मर्त᳚‌म्¦वि॒प॒न्य॒वः॒¦प्र॒ऽने॒तारः॑¦इ॒त्था¦धि॒या | श्रोता᳚रः¦याम॑ऽहूतिषु ||

तेनो॒वसू᳚नि॒काम्या᳚पुरुश्च॒न्द्रारि॑शादसः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

आय॑ज्ञियासोववृत्तन॒(स्वाहा᳚) || 16 || वर्ग:29

ते¦नः॒¦वसू᳚नि¦काम्या᳚¦पु॒रु॒ऽच॒न्द्राः¦रि॒शा॒द॒सः॒ | आ¦य॒ज्ञि॒या॒सः॒¦व॒वृ॒त्त॒न॒ ||

ए॒तंमे॒स्तोम॑मूर्म्येदा॒र्भ्याय॒परा᳚वह |{आत्रेयः श्यावाश्वः | दार्भ्यो रथवीतिः | गायत्री}

गिरो᳚देविर॒थीरि॑व॒(स्वाहा᳚) || 17 ||

ए॒त‌म्¦मे॒¦स्तोम᳚‌म्¦ऊ॒र्म्ये¦दा॒र्भ्याय॑¦परा᳚¦व॒ह॒ | गिरः॑¦दे॒वि॒¦र॒थीःऽ‌इ᳚व ||

उ॒तमे᳚वोचता॒दिति॑सु॒तसो᳚मे॒रथ॑वीतौ |{आत्रेयः श्यावाश्वः | दार्भ्यो रथवीतिः | गायत्री}

नकामो॒,अप॑वेतिमे॒(स्वाहा᳚) || 18 ||

उ॒त¦मे॒¦वो॒च॒ता॒त्¦इति॑¦सु॒तऽसो᳚मे¦रथ॑ऽवीतौ | न¦कामः॑¦अप॑¦वे॒ति॒¦मे॒ ||

ए॒षक्षे᳚ति॒रथ॑वीतिर्म॒घवा॒गोम॑ती॒रनु॑ |{आत्रेयः श्यावाश्वः | दार्भ्यो रथवीतिः | गायत्री}

पर्व॑ते॒ष्वप॑श्रितः॒(स्वाहा᳚) || 19 ||

ए॒षः¦क्षे॒ति॒¦रथ॑ऽवीतिः¦म॒घऽवा᳚¦गोऽम॑तीः¦अनु॑ | पर्व॑तेषु¦अप॑ऽश्रितः ||

[54] ऋतेनऋतमिति नवर्चस्य सूक्तस्यात्रेयः श्रुतविन्मित्रवारुणौत्रिष्टुप् |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:62}{अनुवाक:5, सूक्त:6}
ऋ॒तेन॑ऋ॒तमपि॑हितंध्रु॒वंवां॒सूर्य॑स्य॒यत्र॑विमु॒चन्त्यश्वा॑न् |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

दश॑श॒तास॒हत॑स्थु॒स्तदेकं᳚दे॒वानां॒श्रेष्ठं॒वपु॑षामपश्य॒‌म्(स्वाहा᳚) || 1 || वर्ग:30

ऋ॒तेन॑¦ऋ॒त‌म्¦अपि॑ऽहित‌म्¦ध्रु॒व‌म्¦वा॒‌म्¦सूर्य॑स्य¦यत्र॑¦वि॒ऽमु॒चन्ति॑¦अश्वा॑न् |
दश॑¦श॒ता¦स॒ह¦त॒स्थुः॒¦तत्¦एक᳚‌म्¦दे॒वाना᳚‌म्¦श्रेष्ठ᳚‌म्¦वपु॑षा‌म्¦अ॒प॒श्य॒‌म् ||

तत्सुवां᳚मित्रावरुणामहि॒त्वमी॒र्मात॒स्थुषी॒रह॑भिर्दुदुह्रे |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

विश्वाः᳚पिन्वथः॒स्वस॑रस्य॒धेना॒,अनु॑वा॒मेकः॑प॒विराव॑वर्त॒(स्वाहा᳚) || 2 ||

तत्¦सु¦वा॒‌म्¦मि॒त्रा॒व॒रु॒णा॒¦म॒हि॒ऽत्व‌म्¦ई॒र्मा¦त॒स्थुषीः᳚¦अह॑ऽभिः¦दु॒दु॒ह्रे॒ |
विश्वाः᳚¦पि॒न्व॒थः॒¦स्वस॑रस्य¦धेनाः᳚¦अनु॑¦वा॒‌म्¦एकः॑¦प॒विः¦आ¦व॒व॒र्त॒ ||

अधा᳚रयतंपृथि॒वीमु॒तद्यांमित्र॑राजानावरुणा॒महो᳚भिः |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

व॒र्धय॑त॒मोष॑धीः॒पिन्व॑तं॒गा,अव॑वृ॒ष्टिंसृ॑जतंजीरदानू॒(स्वाहा᳚) || 3 ||

अधा᳚रयत‌म्¦पृ॒थि॒वी‌म्¦उ॒त¦द्या‌म्¦मित्र॑ऽराजाना¦व॒रु॒णा॒¦महः॑ऽभिः |
व॒र्धय॑त‌म्¦ओष॑धीः¦पिन्व॑त‌म्¦गाः¦अव॑¦वृ॒ष्टि‌म्¦सृ॒ज॒त॒‌म्¦जी॒र॒दा॒नू॒ इति॑ जीरऽदानू ||

आवा॒मश्वा᳚सःसु॒युजो᳚वहन्तुय॒तर॑श्मय॒उप॑यन्त्व॒र्वाक् |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

घृ॒तस्य॑नि॒र्णिगनु॑वर्ततेवा॒मुप॒सिन्ध॑वःप्र॒दिवि॑क्षरन्ति॒(स्वाहा᳚) || 4 ||

आ¦वा॒‌म्¦अश्वा᳚सः¦सु॒ऽयुजः॑¦व॒ह॒न्तु॒¦य॒तऽर॑श्मयः¦उप॑¦य॒न्तु॒¦अ॒र्वाक् |
घृ॒तस्य॑¦निः॒ऽनिक्¦अनु॑¦व॒र्त॒ते॒¦वा॒‌म्¦उप॑¦सिन्ध॑वः¦प्र॒ऽदिवि॑¦क्ष॒र॒न्ति॒ ||

अनु॑श्रु॒ताम॒मतिं॒वर्ध॑दु॒र्वींब॒र्हिरि॑व॒यजु॑षा॒रक्ष॑माणा |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

नम॑स्वन्ताधृतद॒क्षाधि॒गर्ते॒मित्रासा᳚थेवरु॒णेळा᳚स्व॒न्तः(स्वाहा᳚) || 5 ||

अनु॑¦श्रु॒ता‌म्¦अ॒मति᳚‌म्¦वर्ध॑त्¦उ॒र्वी‌म्¦ब॒र्हिःऽ‌इ᳚व¦यजु॑षा¦रक्ष॑माणा |
नम॑स्वन्ता¦धृ॒त॒ऽद॒क्षा॒¦अधि॑¦गर्ते᳚¦मित्र॑¦आसा᳚थे॒ इति॑¦व॒रु॒ण॒¦इळा᳚सु¦अ॒न्तरिति॑ ||

अक्र॑विहस्तासु॒कृते᳚पर॒स्पायंत्रासा᳚थेवरु॒णेळा᳚स्व॒न्तः |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

राजा᳚नाक्ष॒त्रमहृ॑णीयमानास॒हस्र॑स्थूणंबिभृथःस॒हद्वौ(स्वाहा᳚) || 6 || वर्ग:31

अक्र॑विऽहस्ता¦सु॒ऽकृते᳚¦प॒रः॒ऽपा¦य‌म्¦त्रासा᳚थे॒ इति॑¦व॒रु॒णा॒¦इळा᳚सु¦अ॒न्तरिति॑ |
राजा᳚ना¦क्ष॒त्र‌म्¦अहृ॑णीयमाना¦स॒हस्र॑ऽस्थूण‌म्¦बि॒भृ॒थः॒¦स॒ह¦द्वौ ||

हिर᳚ण्यनिर्णि॒गयो᳚,अस्य॒स्थूणा॒विभ्रा᳚जतेदि॒व्य१॑(अ॒)श्वाज॑नीव |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

भ॒द्रेक्षेत्रे॒निमि॑ता॒तिल्वि॑लेवास॒नेम॒मध्वो॒,अधि॑गर्त्यस्य॒(स्वाहा᳚) || 7 ||

हिर᳚ण्यऽनिर्निक्¦अयः॑¦अ॒स्य॒¦स्थूणा᳚¦वि¦भ्रा॒ज॒ते॒¦दि॒वि¦अ॒श्वाज॑नीऽ‌इव |
भ॒द्रे¦क्षेत्रे᳚¦निऽमि॑ता¦तल्वि॑ले¦वा॒¦स॒नेम॑¦मध्वः॑¦अधि॑ऽगर्त्यस्य ||

हिर᳚ण्यरूपमु॒षसो॒व्यु॑ष्टा॒वयः॑स्थूण॒मुदि॑ता॒सूर्य॑स्य |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

आरो᳚हथोवरुणमित्र॒गर्त॒मत॑श्चक्षाथे॒,अदि॑तिं॒दितिं᳚च॒(स्वाहा᳚) || 8 ||

हिर᳚ण्यऽरूप‌म्¦उ॒षसः॑¦वि।औ᳚ष्टौ¦अयः॑ऽस्थूण‌म्¦उत्ऽ‌इ᳚ता¦सूर्य॑स्य |
आ¦रो॒ह॒थः॒¦व॒रु॒ण॒¦मि॒त्र॒¦गर्त᳚‌म्¦अतः॑¦च॒क्षा॒थे॒ इति॑¦अदि॑ति‌म्¦दिति᳚‌म्¦च॒ ||

यद्‌बंहि॑ष्ठं॒नाति॒विधे᳚सुदानू॒,अच्छि॑द्रं॒शर्म॑भुवनस्यगोपा |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

तेन॑नोमित्रावरुणावविष्टं॒सिषा᳚सन्तोजिगी॒वांसः॑स्याम॒(स्वाहा᳚) || 9 ||

यत्¦बंहि॑ष्ठ‌म्¦न¦अ॒ति॒ऽविधे᳚¦सु॒दा॒नू॒ इति॑ सुऽदानू¦अच्छि॑द्र‌म्¦शर्म॑¦भु॒व॒न॒स्य॒¦गो॒पा॒ |
तेन॑¦नः॒¦मि॒त्रा॒व॒रु॒णौ॒¦अ॒वि॒ष्ट॒‌म्¦सिसा᳚सन्तः¦जि॒गी॒वांसः॑¦स्या॒म॒ ||

[55] ऋतस्यगोपाविति सप्तर्चस्य सूक्तस्यात्रेयोर्चनानामित्रावरुणौजगती |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:63}{अनुवाक:5, सूक्त:7}
ऋत॑स्यगोपा॒वधि॑तिष्ठथो॒रथं॒सत्य॑धर्माणापर॒मेव्यो᳚मनि |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

यमत्र॑मित्रावरु॒णाव॑थोयु॒वंतस्मै᳚वृ॒ष्टिर्मधु॑मत्‌पिन्वतेदि॒वः(स्वाहा᳚) || 1 || वर्ग:1

ऋत॑स्य¦गो॒पौ॒¦अधि॑¦ति॒ष्ठ॒थः॒¦रथ᳚‌म्¦सत्य॑ऽधर्माणा¦प॒र॒मे¦विऽओ᳚मनि |
य‌म्¦अत्र॑¦मि॒त्रा॒व॒रु॒णा॒¦अव॑थः¦यु॒व‌म्¦तस्मै᳚¦वृ॒ष्टिः¦मधु॑ऽमत्¦पि॒न्व॒ते॒¦दि॒वः ||

स॒म्राजा᳚व॒स्यभुव॑नस्यराजथो॒मित्रा᳚वरुणावि॒दथे᳚स्व॒र्दृशा᳚ |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

वृ॒ष्टिंवां॒राधो᳚,अमृत॒त्वमी᳚महे॒द्यावा᳚पृथि॒वीविच॑रन्तित॒न्यवः॒(स्वाहा᳚) || 2 ||

स॒‌म्ऽराजौ᳚¦अ॒स्य¦भुव॑नस्य¦रा॒ज॒थः॒¦मित्रा᳚वरुणा¦वि॒दथे᳚¦स्वः॒ऽदृशा᳚ |
वृ॒ष्टि‌म्¦वा॒‌म्¦राधः॑¦अ॒मृ॒त॒ऽत्व‌म्¦ई॒म॒हे॒¦द्यावा᳚पृथि॒वी इति॑¦वि¦च॒र॒न्ति॒¦त॒न्यवः॑ ||

स॒म्राजा᳚,उ॒ग्रावृ॑ष॒भादि॒वस्पती᳚पृथि॒व्यामि॒त्रावरु॑णा॒विच॑र्षणी |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

चि॒त्रेभि॑र॒भ्रैरुप॑तिष्ठथो॒रवं॒द्यांव॑र्षयथो॒,असु॑रस्यमा॒यया॒(स्वाहा᳚) || 3 ||

स॒‌म्ऽराजौ᳚¦उ॒ग्रा¦वृ॒ष॒भा¦दि॒वः¦पती॒ इति॑¦पृ॒थि॒व्याः¦मि॒त्रावरु॑णा¦विच॑र्षणी॒ इति॒ विऽच॑र्षणी |
चि॒त्रेभिः॑¦अ॒भ्रैः¦उप॑¦ति॒ष्ठ॒थः॒¦रव᳚‌म्¦द्या‌म्¦व॒र्ष॒य॒थः॒¦असु॑रस्य¦मा॒यया᳚ ||

मा॒यावां᳚मित्रावरुणादि॒विश्रि॒तासूर्यो॒ज्योति॑श्चरतिचि॒त्रमायु॑धम् |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

तम॒भ्रेण॑वृ॒ष्ट्यागू᳚हथोदि॒विपर्ज᳚न्यद्र॒प्सामधु॑मन्तईरते॒(स्वाहा᳚) || 4 ||

मा॒या¦वा॒‌म्¦मि॒त्रा॒व॒रु॒णा॒¦दि॒वि¦श्रि॒ता¦सूर्यः॑¦ज्योतिः॑¦च॒र॒ति॒¦चि॒त्र‌म्¦आयु॑ध‌म् |
त‌म्¦अ॒भ्रेण॑¦वृ॒ष्ट्या¦गू॒ह॒थः॒¦दि॒वि¦पर्ज᳚न्य¦द्र॒प्साः¦मधु॑ऽमन्तः¦ई॒र॒ते॒ ||

रथं᳚युञ्जतेम॒रुतः॑शु॒भेसु॒खंशूरो॒नमि॑त्रावरुणा॒गवि॑ष्टिषु |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

रजां᳚सिचि॒त्राविच॑रन्तित॒न्यवो᳚दि॒वःस᳚म्राजा॒पय॑सानउक्षत॒‌म्(स्वाहा᳚) || 5 ||

रथ᳚‌म्¦युं॒ज॒ते॒¦म॒रुतः॑¦शु॒भे¦सु॒ऽख‌म्¦शूरः॑¦न¦मि॒त्रा॒व॒रु॒णा॒¦गोऽ‌इ᳚ष्टिषु |
रजां᳚सि¦चि॒त्रा¦वि¦च॒र॒न्ति॒¦त॒न्यवः॑¦दि॒वः¦स॒‌म्ऽरा॒जा॒¦पय॑सा¦नः॒¦उ॒क्ष॒त॒‌म् ||

वाचं॒सुमि॑त्रावरुणा॒विरा᳚वतींप॒र्जन्य॑श्चि॒त्रांव॑दति॒त्विषी᳚मतीम् |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

अ॒भ्राव॑सतम॒रुतः॒सुमा॒यया॒द्यांव॑र्षयतमरु॒णाम॑रे॒पस॒‌म्(स्वाहा᳚) || 6 ||

वाच᳚‌म्¦सु¦मि॒त्रा॒व॒रु॒णौ॒¦इरा᳚ऽवती‌म्¦प॒र्जन्यः॑¦चि॒त्रा‌म्¦व॒द॒ति॒¦त्विषि॑ऽमती‌म् |
अ॒भ्रा¦व॒स॒त॒¦म॒रुतः॑¦सु¦मा॒यया᳚¦द्या‌म्¦व॒र्ष॒य॒त॒‌म्¦अ॒रु॒णा‌म्¦अ॒रे॒पस᳚‌म् ||

धर्म॑णामित्रावरुणाविपश्चिताव्र॒तार॑क्षेथे॒,असु॑रस्यमा॒यया᳚ |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

ऋ॒तेन॒विश्वं॒भुव॑नं॒विरा᳚जथः॒सूर्य॒माध॑त्थोदि॒विचित्र्यं॒रथ॒‌म्(स्वाहा᳚) || 7 ||

धर्म॑णा¦मि॒त्रा॒व॒रु॒णा॒¦वि॒पः॒ऽचि॒ता॒¦व्र॒ता¦र॒क्षे॒थे॒ इति॑¦असु॑रस्य¦मा॒यया᳚ |
ऋ॒तेन॑¦विश्व᳚‌म्¦भुव॑न‌म्¦वि¦रा॒ज॒थः॒¦सूर्य᳚‌म्¦आ¦ध॒त्थः॒¦दि॒वि¦चित्र्य᳚‌म्¦रथ᳚‌म् ||

[56] वरुणंवइति सप्तर्चस्य सूक्तस्यार्चनाना मित्रावरुणावनुष्टुबंत्यापंक्तिः |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:64}{अनुवाक:5, सूक्त:8}
वरु॑णंवोरि॒शाद॑समृ॒चामि॒त्रंह॑वामहे |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

परि᳚व्र॒जेव॑बा॒ह्वोर्ज॑ग॒न्वांसा॒स्व᳚र्णर॒‌म्(स्वाहा᳚) || 1 || वर्ग:2

वरु॑ण‌म्¦वः॒¦रि॒शाद॑स‌म्¦ऋ॒चा¦मि॒त्र‌म्¦ह॒वा॒म॒हे॒ | परि॑¦व्र॒जाऽ‌इ᳚व¦बा॒ह्वोः¦ज॒ग॒न्वांसा᳚¦स्वः॑ऽनर‌म् ||

ताबा॒हवा᳚सुचे॒तुना॒प्रय᳚न्तमस्मा॒,अर्च॑ते |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

शेवं॒हिजा॒र्यं᳚वां॒विश्वा᳚सु॒क्षासु॒जोगु॑वे॒(स्वाहा᳚) || 2 ||

ता¦बा॒हवा᳚¦सु॒ऽचे॒तुना᳚¦प्र¦य॒न्त॒‌म्¦अ॒स्मै॒¦अर्च॑ते | शेव᳚‌म्¦हि¦जा॒र्य᳚‌म्¦वा॒‌म्¦विश्वा᳚सु¦क्षासु॑¦जोगु॑वे ||

यन्नू॒नम॒श्यांगतिं᳚मि॒त्रस्य॑यायांप॒था |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

अस्य॑प्रि॒यस्य॒शर्म॒ण्यहिं᳚सानस्यसश्चिरे॒(स्वाहा᳚) || 3 ||

यत्¦नू॒न‌म्¦अ॒श्या‌म्¦गति᳚‌म्¦मि॒त्रस्य॑¦या॒या॒‌म्¦प॒था | अस्य॑¦प्रि॒यस्य॑¦शर्म॑णि¦अहिं᳚सानस्य¦स॒श्चि॒रे॒ ||

यु॒वाभ्यां᳚मित्रावरुणोप॒मंधे᳚यामृ॒चा |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

यद्ध॒क्षये᳚म॒घोनां᳚स्तोतॄ॒णांच॑स्पू॒र्धसे॒(स्वाहा᳚) || 4 ||

यु॒वाभ्या᳚‌म्¦मि॒त्रा॒व॒रु॒णा॒¦उ॒प॒ऽम‌म्¦धे॒या॒‌म्¦ऋ॒चा | यत्¦ह॒¦क्षये᳚¦म॒घोना᳚‌म्¦स्तो॒तॄ॒णा‌म्¦च॒¦स्पू॒र्धसे᳚ ||

आनो᳚मित्रसुदी॒तिभि॒र्वरु॑णश्चस॒धस्थ॒आ |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

स्वेक्षये᳚म॒घोनां॒सखी᳚नांचवृ॒धसे॒(स्वाहा᳚) || 5 ||

आ¦नः॒¦मि॒त्र॒¦सु॒दी॒तिऽभिः॑¦वरु॑णः¦च॒¦स॒धऽस्थे᳚¦आ | स्वे¦क्षये᳚¦म॒घोना᳚‌म्¦सखी᳚ना‌म्¦च॒¦वृ॒धसे᳚ ||

यु॒वंनो॒येषु॑वरुणक्ष॒त्रंबृ॒हच्च॑बिभृ॒थः |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

उ॒रुणो॒वाज॑सातयेकृ॒तंरा॒येस्व॒स्तये॒(स्वाहा᳚) || 6 ||

यु॒व‌म्¦नः॒¦येषु॑¦व॒रु॒णा॒¦क्ष॒त्र‌म्¦बृ॒हत्¦च॒¦बि॒भृ॒थः | उ॒रु¦नः॒¦वाज॑ऽसातये¦कृ॒त‌म्¦रा॒ये¦स्व॒स्तये᳚ ||

उ॒च्छन्त्यां᳚मेयज॒तादे॒वक्ष॑त्रे॒रुश॑द्गवि |{आत्रेयोर्चनाना | मित्रावरुणौ | पङ्क्तिः}

सु॒तंसोमं॒नह॒स्तिभि॒राप॒ड्भिर्धा᳚वतंनरा॒बिभ्र॑तावर्च॒नान॑स॒‌म्(स्वाहा᳚) || 7 ||

उ॒च्छन्त्या᳚‌म्¦मे॒¦य॒ज॒ता¦दे॒वऽक्ष॑त्रे¦रुश॑त्ऽगवि |
सु॒त‌म्¦सोम᳚‌म्¦न¦ह॒स्तिऽभिः॑¦आ¦प॒ट्ऽभिः¦धा॒व॒त॒‌म्¦न॒रा॒¦बिभ्र॑तौ¦अ॒र्च॒नान॑स‌म् ||

[57] यश्चिकेतेति षडृचस्य सूक्तस्यात्रेयोरातहव्योमित्रावरुणावनुष्टुबन्त्यापंक्तिः |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:65}{अनुवाक:5, सूक्त:9}
यश्चि॒केत॒ससु॒क्रतु॑र्देव॒त्रासब्र॑वीतुनः |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

वरु॑णो॒यस्य॑दर्श॒तोमि॒त्रोवा॒वन॑ते॒गिरः॒(स्वाहा᳚) || 1 || वर्ग:3

यः¦चि॒केत॑¦सः¦सु॒ऽक्रतुः॑¦दे॒व॒ऽत्रा¦सः¦ब्र॒वी॒तु॒¦नः॒ | वरु॑णः¦यस्य॑¦द॒र्श॒तः¦मि॒त्रः¦वा॒¦वन॑ते¦गिरः॑ ||

ताहिश्रेष्ठ॑वर्चसा॒राजा᳚नादीर्घ॒श्रुत्त॑मा |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

तासत्प॑ती,ऋता॒वृध॑ऋ॒तावा᳚ना॒जने᳚जने॒(स्वाहा᳚) || 2 ||

ता¦हि¦श्रेष्ठ॑ऽवर्चसा¦राजा᳚ना¦दी॒र्घ॒श्रुत्ऽत॑मा | ता¦सत्प॑ती॒ इति॒ सत्ऽप॑ती¦ऋ॒त॒ऽवृधा᳚¦ऋ॒तऽवा᳚ना¦जने᳚ऽजने ||

तावा᳚मिया॒नोऽव॑से॒पूर्वा॒,उप॑ब्रुवे॒सचा᳚ |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

स्वश्वा᳚सः॒सुचे॒तुना॒वाजाँ᳚,अ॒भिप्रदा॒वने॒(स्वाहा᳚) || 3 ||

ता¦वा॒‌म्¦इ॒या॒नः¦अव॑से¦पूर्वौ᳚¦उप॑¦ब्रु॒वे॒¦सचा᳚ | सु॒।आश्वा᳚सः¦सु¦चे॒तुना᳚¦वाजा᳚न्¦अ॒भि¦प्र¦दा॒वने᳚ ||

मि॒त्रो,अं॒होश्चि॒दादु॒रुक्षया᳚यगा॒तुंव॑नते |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

मि॒त्रस्य॒हिप्र॒तूर्व॑तःसुम॒तिरस्ति॑विध॒तः(स्वाहा᳚) || 4 ||

मि॒त्रः¦अं॒होः¦चि॒त्¦आत्¦उ॒रु¦क्षया᳚य¦गा॒तु‌म्¦व॒न॒ते॒ | मि॒त्रस्य॑¦हि¦प्र॒ऽतूर्व॑तः¦सु॒ऽम॒तिः¦अस्ति॑¦वि॒ध॒तः ||

व॒यंमि॒त्रस्याव॑सि॒स्याम॑स॒प्रथ॑स्तमे |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

अ॒ने॒हस॒स्त्वोत॑यःस॒त्रावरु॑णशेषसः॒(स्वाहा᳚) || 5 ||

व॒य‌म्¦मि॒त्रस्य॑¦अव॑सि¦स्याम॑¦स॒प्रथः॑ऽतमे | अ॒ने॒हसः॑¦त्वाऽऊ᳚तयः¦स॒त्रा¦वरु॑णऽशेषसः ||

यु॒वंमि॑त्रे॒मंजनं॒यत॑थः॒संच॑नयथः |{आत्रेयो रातहव्यः | मित्रावरुणौ | पङ्क्तिः}

माम॒घोनः॒परि॑ख्यतं॒मो,अ॒स्माक॒मृषी᳚णांगोपी॒थेन॑उरुष्यत॒‌म्(स्वाहा᳚) || 6 ||

यु॒व‌म्¦मि॒त्रा॒¦इ॒म‌म्¦जन᳚‌म्¦यत॑थः¦स‌म्¦च॒¦न॒य॒थः॒ |
मा¦म॒घोनः॑¦परि॑¦ख्य॒त॒‌म्¦मो इति॑¦अ॒स्माक᳚‌म्¦ऋषी᳚णा‌म्¦गो॒ऽपी॒थे¦नः॒¦उ॒रु॒ष्य॒त॒‌म् ||

[58] आचिकितानेति षडृचस्य सूक्तस्यात्रेयोरातहव्योमित्रावरुणावनुष्टुप् |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:66}{अनुवाक:5, सूक्त:10}
आचि॑कितानसु॒क्रतू᳚दे॒वौम॑र्तरि॒शाद॑सा |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

वरु॑णायऋ॒तपे᳚शसेदधी॒तप्रय॑सेम॒हे(स्वाहा᳚) || 1 || वर्ग:4

आ¦चि॒कि॒ता॒न॒¦सु॒क्रतू॒ इति॑ सु॒ऽक्रतू᳚¦दे॒वौ¦म॒र्त॒¦रि॒शाद॑सा | वरु॑णाय¦ऋ॒तऽपे᳚शसे¦द॒धी॒त¦प्रय॑से¦म॒हे ||

ताहिक्ष॒त्रमवि॑ह्रुतंस॒म्यग॑सु॒र्य१॑(अ॒)माशा᳚ते |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

अध᳚व्र॒तेव॒मानु॑षं॒स्व१॑(अ॒)र्णधा᳚यिदर्श॒तम्(स्वाहा᳚) || 2 ||

ता¦हि¦क्ष॒त्र‌म्¦अवि॑ऽह्रुत‌म्¦स॒म्यक्¦अ॒सु॒र्य᳚‌म्¦आशा᳚ते॒ इति॑ | अध॑¦व्र॒ताऽ‌इ᳚व¦मानु॑ष‌म्¦स्वः॑¦न¦धा॒यि॒¦द॒र्श॒त‌म् ||

तावा॒मेषे॒रथा᳚नामु॒र्वींगव्यू᳚तिमेषाम् |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

रा॒तह᳚व्यस्यसुष्टु॒तिंद॒धृक्‌स्तोमै᳚र्मनामहे॒(स्वाहा᳚) || 3 ||

ता¦वा॒‌म्¦एषे᳚¦रथा᳚ना‌म्¦उ॒र्वी‌म्¦गव्यू᳚ति‌म्¦ए॒षा॒‌म् | रा॒तऽह᳚व्यस्य¦सु॒ऽस्तु॒ति‌म्¦द॒धृक्¦स्तोमैः᳚¦म॒ना॒म॒हे॒ ||

अधा॒हिकाव्या᳚यु॒वंदक्ष॑स्यपू॒र्भिर॑द्भुता |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

निके॒तुना॒जना᳚नांचि॒केथे᳚पूतदक्षसा॒(स्वाहा᳚) || 4 ||

अध॑¦हि¦काव्या᳚¦यु॒व‌म्¦दक्ष॑स्य¦पूः॒ऽभिः¦अ॒द्भु॒ता॒ | नि¦के॒तुना᳚¦जना᳚ना‌म्¦चि॒केथे॒ इति॑¦पू॒त॒ऽद॒क्ष॒सा॒ ||

तदृ॒तंपृ॑थिविबृ॒हच्छ्र॑वए॒षऋषी᳚णाम् |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

ज्र॒य॒सा॒नावरं᳚पृ॒थ्वति॑क्षरन्ति॒याम॑भिः॒(स्वाहा᳚) || 5 ||

तत्¦ऋ॒त‌म्¦पृ॒थि॒वि॒¦बृ॒हत्¦श्र॒वः॒ऽए॒षे¦ऋषी᳚णा‌म् | ज्र॒य॒सा॒नौ¦अर᳚‌म्¦पृ॒थु¦अति॑¦क्ष॒र॒न्ति॒¦याम॑ऽभिः ||

आयद्‌वा᳚मीयचक्षसा॒मित्र॑व॒यंच॑सू॒रयः॑ |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

व्यचि॑ष्ठेबहु॒पाय्ये॒यते᳚महिस्व॒राज्ये॒(स्वाहा᳚) || 6 ||

आ¦यत्¦वा॒‌म्¦ई॒य॒ऽच॒क्ष॒सा॒¦मित्रा᳚¦व॒य‌म्¦च॒¦सू॒रयः॑ | व्यचि॑ष्ठे¦ब॒हु॒ऽपाय्ये᳚¦यते᳚महि¦स्व॒ऽराज्ये᳚ ||

[59] बळित्थादेवेति पंचर्चस्य सूक्तस्यात्रेयोयजतो मित्रावरुणावनुष्टुप् |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:67}{अनुवाक:5, सूक्त:11}
बळि॒त्थादे᳚वनिष्कृ॒तमादि॑त्यायज॒तंबृ॒हत् |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्}

वरु॑ण॒मित्रार्य॑म॒न्वर्षि॑ष्ठंक्ष॒त्रमा᳚शाथे॒(स्वाहा᳚) || 1 || वर्ग:5

बट्¦इ॒त्था¦दे॒वा॒¦निः॒ऽकृ॒त‌म्¦आदि॑त्या¦य॒ज॒त‌म्¦बृ॒हत् | वरु॑ण¦मित्र॑¦अर्य॑मन्¦वर्षि॑ष्ठ‌म्¦क्ष॒त्र‌म्¦आ॒शा॒थे॒ इति॑ ||

आयद्‌योनिं᳚हिर॒ण्ययं॒वरु॑ण॒मित्र॒सद॑थः |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्}

ध॒र्तारा᳚चर्षणी॒नांय॒न्तंसु॒म्नंरि॑शादसा॒(स्वाहा᳚) || 2 ||

आ¦यत्¦योनि᳚‌म्¦हि॒र॒ण्यय᳚‌म्¦वरु॑ण¦मित्र॑¦सद॑थः | ध॒र्तारा᳚¦च॒र्ष॒णी॒ना‌म्¦य॒न्त‌म्¦सु॒म्न‌म्¦रि॒शा॒द॒सा॒ ||

विश्वे॒हिवि॒श्ववे᳚दसो॒वरु॑णोमि॒त्रो,अ᳚र्य॒मा |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्}

व्र॒ताप॒देव॑सश्चिरे॒पान्ति॒मर्त्यं᳚रि॒षः(स्वाहा᳚) || 3 ||

विश्वे᳚¦हि¦वि॒श्वऽवे᳚दसः¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा | व्र॒ता¦प॒दाऽ‌इ᳚व¦स॒श्चि॒रे॒¦पान्ति॑¦मर्त्य᳚‌म्¦रि॒षः ||

तेहिस॒त्या,ऋ॑त॒स्पृश॑ऋ॒तावा᳚नो॒जने᳚जने |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्}

सु॒नी॒थासः॑सु॒दान॑वों॒ऽहोश्चि॑दुरु॒चक्र॑यः॒(स्वाहा᳚) || 4 ||

ते¦हि¦स॒त्याः¦ऋ॒त॒ऽस्पृशः॑¦ऋ॒तऽवा᳚नः¦जने᳚ऽजने | सु॒ऽनी॒थासः॑¦सु॒ऽदान॑वः¦अं॒होः¦चि॒त्¦उ॒रु॒ऽचक्र॑यः ||

कोनुवां᳚मि॒त्रास्तु॑तो॒वरु॑णोवात॒नूना᳚म् |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्}

तत्सुवा॒मेष॑तेम॒तिरत्रि॑भ्य॒एष॑तेम॒तिः(स्वाहा᳚) || 5 ||

कः¦नु¦वा॒‌म्¦मि॒त्र॒¦अस्तु॑तः¦वरु॑णः¦वा॒¦त॒नूना᳚‌म् | तत्¦सु¦वा॒‌म्¦आ¦ई॒ष॒ते॒¦म॒तिः¦अत्रि॑ऽभ्यः¦आ¦ई॒ष॒ते॒¦म॒तिः ||

[60] प्रवोमित्रायेति पंचर्चस्य सूक्तस्यात्रेयो यजतोमित्रावरुणौगायत्री |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:68}{अनुवाक:5, सूक्त:12}
प्रवो᳚मि॒त्राय॑गायत॒वरु॑णायवि॒पागि॒रा |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री}

महि॑क्षत्रावृ॒तंबृ॒हत्(स्वाहा᳚) || 1 || वर्ग:6

प्र¦वः॒¦मि॒त्राय॑¦गा॒य॒त॒¦वरु॑णाय¦वि॒पा¦गि॒रा | महि॑ऽक्षत्रौ¦ऋ॒त‌म्¦बृ॒हत् ||

स॒म्राजा॒याघृ॒तयो᳚नीमि॒त्रश्चो॒भावरु॑णश्च |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री}

दे॒वादे॒वेषु॑प्रश॒स्ता(स्वाहा᳚) || 2 ||

स॒‌म्ऽराजा᳚¦या¦घृ॒तयो᳚नी॒ इति॑ घृ॒तऽयो᳚नी¦मि॒त्रः¦च॒¦उ॒भा¦वरु॑णः¦च॒ | दे॒वा¦दे॒वेषु॑¦प्र॒ऽश॒स्ता ||

तानः॑शक्तं॒पार्थि॑वस्यम॒होरा॒योदि॒व्यस्य॑ |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री}

महि॑वांक्ष॒त्रंदे॒वेषु॒(स्वाहा᳚) || 3 ||

ता¦नः॒¦श॒क्त॒‌म्¦पार्थि॑वस्य¦म॒हः¦रा॒यः¦दि॒व्यस्य॑ | महि॑¦वा॒‌म्¦क्ष॒त्र‌म्¦दे॒वेषु॑ ||

ऋ॒तमृ॒तेन॒सप᳚न्तेषि॒रंदक्ष॑माशाते |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री}

अ॒द्रुहा᳚दे॒वौव॑र्धेते॒(स्वाहा᳚) || 4 ||

ऋ॒त‌म्¦ऋ॒तेन॑¦सप᳚न्ता¦इ॒षि॒र‌म्¦दक्ष᳚‌म्¦आ॒शा॒ते॒ इति॑ | अ॒द्रुहा᳚¦दे॒वौ¦व॒र्धे॒ते॒ इति॑ ||

वृ॒ष्टिद्या᳚वारी॒त्या᳚पे॒षस्पती॒दानु॑मत्याः |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री}

बृ॒हन्तं॒गर्त॑माशाते॒(स्वाहा᳚) || 5 ||

वृ॒ष्टिऽद्या᳚वा¦री॒तिऽआ᳚पा¦इ॒षः¦पती॒ इति॑¦दानु॑ऽमत्याः | बृ॒हन्त᳚‌म्¦गर्त᳚‌म्¦आ॒शा॒ते॒ इति॑ ||

[61] त्रीरोचनेति चतुरृचस्य सूक्तस्यात्रेय उरुचक्रिर्मित्रावरुणौत्रिष्टुप् |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:69}{अनुवाक:5, सूक्त:13}
त्रीरो᳚च॒नाव॑रुण॒त्रीँरु॒तद्यून्त्रीणि॑मित्रधारयथो॒रजां᳚सि |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्}

वा॒वृ॒धा॒नाव॒मतिं᳚क्ष॒त्रिय॒स्याऽनु᳚व्र॒तंरक्ष॑माणावजु॒र्यम्(स्वाहा᳚) || 1 || वर्ग:7

त्री¦रो॒च॒ना¦व॒रु॒ण॒¦त्रीन्¦उ॒त¦द्यून्¦त्रीणि॑¦मि॒त्र॒¦धा॒र॒य॒थः॒¦रजां᳚सि |
व॒वृ॒धा॒नौ¦अ॒मति᳚‌म्¦क्ष॒त्रिय॑स्य¦अनु॑¦व्र॒त‌म्¦रक्ष॑माणौ¦अ॒जु॒र्य‌म् ||

इरा᳚वतीर्वरुणधे॒नवो᳚वां॒मधु॑मद्वां॒सिन्ध॑वोमित्रदुह्रे |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्}

त्रय॑स्तस्थुर्वृष॒भास॑स्तिसॄ॒णांधि॒षणा᳚नांरेतो॒धाविद्यु॒मन्तः॒(स्वाहा᳚) || 2 ||

इरा᳚ऽवतीः¦व॒रु॒ण॒¦धे॒नवः॑¦वा॒‌म्¦मधु॑ऽमत्¦वा॒‌म्¦सिन्ध॑वः¦मि॒त्र॒¦दु॒ह्रे॒ |
त्रयः॑¦त॒स्थुः॒¦वृ॒ष॒भासः॑¦ति॒सॄ॒णा‌म्¦धि॒षणा᳚ना‌म्¦रे॒तः॒ऽधाः¦वि¦द्यु॒ऽमन्तः॑ ||

प्रा॒तर्दे॒वीमदि॑तिंजोहवीमिम॒ध्यंदि॑न॒उदि॑ता॒सूर्य॑स्य |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्}

रा॒येमि॑त्रावरुणास॒र्वता॒तेळे᳚तो॒काय॒तन॑याय॒शंयोः(स्वाहा᳚) || 3 ||

प्रा॒तः¦दे॒वी‌म्¦अदि॑ति‌म्¦जो॒ह॒वी॒मि॒¦म॒ध्यंदि॑ने¦उत्ऽ‌इ᳚ता¦सूर्य॑स्य |
रा॒ये¦मि॒त्रा॒व॒रु॒णा॒¦स॒र्वऽता᳚ता¦ईळे᳚¦तो॒काय॑¦तन॑याय¦श‌म्¦योः ||

याध॒र्तारा॒रज॑सोरोच॒नस्यो॒तादि॒त्यादि॒व्यापार्थि॑वस्य |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्}

नवां᳚दे॒वा,अ॒मृता॒,आमि॑नन्तिव्र॒तानि॑मित्रावरुणाध्रु॒वाणि॒(स्वाहा᳚) || 4 ||

या¦ध॒र्तारा᳚¦रज॑सः¦रो॒च॒नस्य॑¦उ॒त¦आ॒दि॒त्या¦दि॒व्या¦पार्थि॑वस्य |
न¦वा॒‌म्¦दे॒वाः¦अ॒मृताः᳚¦आ¦मि॒न॒न्ति॒¦व्र॒तानि॑¦मि॒त्रा॒व॒रु॒णा॒¦ध्रु॒वाणि॑ ||

[62] पुरुरुणेति चतुरृचस्य सूक्तस्यात्रेय उरुचक्रिर्मित्रावरुणौगायत्री |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:70}{अनुवाक:5, सूक्त:14}
पु॒रू॒रुणा᳚चि॒द्ध्यस्त्यवो᳚नू॒नंवां᳚वरुण |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | गायत्री}

मित्र॒वंसि॑वांसुम॒तिम्(स्वाहा᳚) || 1 || वर्ग:8

पु॒रु॒।औ॒रुणा᳚¦चि॒त्¦हि¦अस्ति॑¦अवः॑¦नू॒न‌म्¦वा॒‌म्¦व॒रु॒ण॒ | मित्र॑¦वंसि॑¦वा॒‌म्¦सु॒ऽम॒ति‌म् ||

तावां᳚स॒म्यग॑द्रुह्वा॒णेष॑मश्याम॒धाय॑से |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | गायत्री}

व॒यंतेरु॑द्रास्याम॒(स्वाहा᳚) || 2 ||

ता¦वा॒‌म्¦स॒म्यक्¦अ॒द्रु॒ह्वा॒णा॒¦इष᳚‌म्¦अ॒श्या॒म॒¦धाय॑से | व॒य‌म्¦ते¦रु॒द्रा॒¦स्या॒म॒ ||

पा॒तंनो᳚रुद्रापा॒युभि॑रु॒तत्रा᳚येथांसुत्रा॒त्रा |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | गायत्री}

तु॒र्याम॒दस्यू᳚न्‌त॒नूभिः॒(स्वाहा᳚) || 3 ||

पा॒त‌म्¦नः॒¦रु॒द्रा॒¦पा॒युऽभिः॑¦उ॒त¦त्रा॒ये॒था॒‌म्¦सु॒ऽत्रा॒त्रा | तु॒र्याम॑¦दस्यू᳚न्¦त॒नूभिः॑ ||

माकस्या᳚द्भुतक्रतूय॒क्षंभु॑जेमात॒नूभिः॑ |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | गायत्री}

माशेष॑सा॒मातन॑सा॒(स्वाहा᳚) || 4 ||

मा¦कस्य॑¦अ॒द्भु॒त॒क्र॒तू॒ इत्य॑द्भुतऽक्रतू¦य॒क्ष‌म्¦भु॒जे॒म॒¦त॒नूभिः॑ | मा¦शेष॑सा¦मा¦तन॑सा ||

[63] आनोगंतरिति तृचस्य सूक्तस्यात्रेयोबाहुवृक्तोमित्रावरुणौगायत्री |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:71}{अनुवाक:5, सूक्त:15}
आनो᳚गन्तंरिशादसा॒वरु॑ण॒मित्र॑ब॒र्हणा᳚ |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | गायत्री}

उपे॒मंचारु॑मध्व॒रम्(स्वाहा᳚) || 1 || वर्ग:9

आ¦नः॒¦ग॒न्त॒‌म्¦रि॒शा॒द॒सा॒¦वरु॑ण¦मित्र॑¦ब॒र्हणा᳚ | उप॑¦इ॒म‌म्¦चारु᳚‌म्¦अ॒ध्व॒र‌म् ||

विश्व॑स्य॒हिप्र॑चेतसा॒वरु॑ण॒मित्र॒राज॑थः |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | गायत्री}

ई॒शा॒नापि॑प्यतं॒धियः॒(स्वाहा᳚) || 2 ||

विश्व॑स्य¦हि¦प्र॒ऽचे॒त॒सा॒¦वरु॑ण¦मित्र॑¦राज॑थः | ई॒शा॒ना¦पि॒प्य॒त॒‌म्¦धियः॑ ||

उप॑नःसु॒तमाग॑तं॒वरु॑ण॒मित्र॑दा॒शुषः॑ |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | गायत्री}

अ॒स्यसोम॑स्यपी॒तये॒(स्वाहा᳚) || 3 ||

उप॑¦नः॒¦सु॒त‌म्¦आ¦ग॒त॒‌म्¦वरु॑ण¦मित्र॑¦दा॒शुषः॑ | अ॒स्य¦सोम॑स्य¦पी॒तये᳚ ||

[64] आमित्रइति तृचस्य सूक्तस्यात्रेयोबाहुवृक्तोमित्रावरुणावुष्णिक् |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:72}{अनुवाक:5, सूक्त:16}
आमि॒त्रेवरु॑णेव॒यंगी॒र्भिर्जु॑हुमो,अत्रि॒वत् |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | उष्णिक्}

निब॒र्हिषि॑सदतं॒सोम॑पीतये॒(स्वाहा᳚) || 1 || वर्ग:10

आ¦मि॒त्रे¦वरु॑णे¦व॒य‌म्¦गीः॒ऽभिः¦जु॒हु॒मः॒¦अ॒त्रि॒ऽवत् | नि¦ब॒र्हिषि॑¦स॒द॒त॒‌म्¦सोम॑ऽपीतये ||

व्र॒तेन॑स्थोध्रु॒वक्षे᳚मा॒धर्म॑णायात॒यज्ज॑ना |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | उष्णिक्}

निब॒र्हिषि॑सदतं॒सोम॑पीतये॒(स्वाहा᳚) || 2 ||

व्र॒तेन॑¦स्थः॒¦ध्रु॒वऽक्षे᳚मा¦धर्म॑णा¦या॒त॒यत्ऽज॑ना | नि¦ब॒र्हिषि॑¦स॒द॒त॒‌म्¦सोम॑ऽपीतये ||

मि॒त्रश्च॑नो॒वरु॑णश्चजु॒षेतां᳚य॒ज्ञमि॒ष्टये᳚ |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | उष्णिक्}

निब॒र्हिषि॑सदतां॒सोम॑पीतये॒(स्वाहा᳚) || 3 ||

मि॒त्रः¦च॒¦नः॒¦वरु॑णः¦च॒¦जु॒षेता᳚‌म्¦य॒ज्ञ‌म्¦इ॒ष्टये᳚ | नि¦ब॒र्हिषि॑¦स॒द॒त॒‌म्¦सोम॑ऽपीतये ||

[65] यदद्यस्थइति दशर्चस्यसूतस्यात्रेयः पौरोश्विनावनुष्टुप् |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:73}{अनुवाक:6, सूक्त:1}
यद॒द्यस्थःप॑रा॒वति॒यद᳚र्वा॒वत्य॑श्विना |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

यद्‌वा᳚पु॒रूपु॑रुभुजा॒यद॒न्तरि॑क्ष॒आग॑त॒‌म्(स्वाहा᳚) || 1 || वर्ग:11

यत्¦अ॒द्य¦स्थः¦पा॒रा॒ऽवति॑¦यत्¦आ॒र्वा॒ऽवति॑¦अ॒श्वि॒ना॒ | यत्¦वा॒¦पु॒रु¦पु॒रु॒ऽभु॒जा॒¦यत्¦अ॒न्तरि॑क्षे¦आ¦ग॒त॒‌म् ||

इ॒हत्यापु॑रु॒भूत॑मापु॒रूदंसां᳚सि॒बिभ्र॑ता |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

व॒र॒स्याया॒म्यध्रि॑गूहु॒वेतु॒विष्ट॑माभु॒जे(स्वाहा᳚) || 2 ||

इ॒ह¦त्या¦पु॒रु॒ऽभूत॑मा¦पु॒रु¦दंसां᳚सि¦बिभ्र॑ता | व॒र॒स्या¦या॒मि॒¦अध्रि॑गू॒ इत्यध्रि॑ऽगू¦हु॒वे¦तु॒विःऽत॑मा¦भु॒जे ||

ई॒र्मान्यद्‌वपु॑षे॒वपु॑श्च॒क्रंरथ॑स्ययेमथुः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

पर्य॒न्यानाहु॑षायु॒गाम॒ह्नारजां᳚सिदीयथः॒(स्वाहा᳚) || 3 ||

ई॒र्मा¦अ॒न्यत्¦वपु॑षे¦वपुः॑¦च॒क्र‌म्¦रथ॑स्य¦ये॒म॒थुः॒ | परि॑¦अ॒न्या¦नाहु॑षा¦यु॒गा¦म॒ह्ना¦रजां᳚सि¦दी॒य॒थः॒ ||

तदू॒षुवा᳚मे॒नाकृ॒तंविश्वा॒यद्‌वा॒मनु॒ष्टवे᳚ |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

नाना᳚जा॒ताव॑रे॒पसा॒सम॒स्मेबन्धु॒मेय॑थुः॒(स्वाहा᳚) || 4 ||

तत्¦ऊँ॒ इति॑¦सु¦वा॒‌म्¦ए॒ना¦कृ॒त‌म्¦विश्वा᳚¦यत्¦वा॒‌म्¦अनु॑¦स्तवे᳚ | नाना᳚¦जा॒तौ¦अ॒रे॒पसा᳚¦स‌म्¦अ॒स्मे इति॑¦बन्धु᳚‌म्¦आ¦ई॒य॒थुः॒ ||

आयद्‌वां᳚सू॒र्यारथं॒तिष्ठ॑द्‌रघु॒ष्यदं॒सदा᳚ |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

परि॑वामरु॒षावयो᳚घृ॒णाव॑रन्तआ॒तपः॒(स्वाहा᳚) || 5 ||

आ¦यत्¦वा॒‌म्¦सू॒र्या¦रथ᳚‌म्¦तिष्ठ॑त्¦र॒घु॒ऽस्यद᳚‌म्¦सदा᳚ | परि॑¦वा॒‌म्¦अ॒रु॒षाः¦वयः॑¦घृ॒णा¦व॒र॒न्ते॒¦आ॒ऽतपः॑ ||

यु॒वोरत्रि॑श्चिकेतति॒नरा᳚सु॒म्नेन॒चेत॑सा |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

घ॒र्मंयद्‌वा᳚मरे॒पसं॒नास॑त्या॒स्नाभु॑र॒ण्यति॒(स्वाहा᳚) || 6 || वर्ग:12

यु॒वोः¦अत्रिः॑¦चि॒के॒त॒ति॒¦नरा᳚¦सु॒म्नेन॑¦चेत॑सा | घ॒र्म‌म्¦यत्¦वा॒‌म्¦अ॒रे॒पस᳚‌म्¦नास॑त्या¦आ॒स्ना¦भु॒र॒ण्यति॑ ||

उ॒ग्रोवां᳚ककु॒होय॒यिःशृ॒ण्वेयामे᳚षुसंत॒निः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

यद्‌वां॒दंसो᳚भिरश्वि॒नाऽत्रि᳚र्नराव॒वर्त॑ति॒(स्वाहा᳚) || 7 ||

उ॒ग्रः¦वा॒‌म्¦क॒कु॒हः¦य॒यिः¦शृ॒ण्वे¦यामे᳚षु¦स॒‌म्ऽत॒निः | यत्¦वा॒‌म्¦दंसः॑ऽभिः¦अ॒श्वि॒ना॒¦अत्रिः॑¦न॒रा॒¦आ॒ऽव॒वर्त॑ति ||

मध्व॑ऊ॒षुम॑धूयुवा॒रुद्रा॒सिष॑क्तिपि॒प्युषी᳚ |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

यत्‌स॑मु॒द्राति॒पर्ष॑थःप॒क्वाःपृक्षो᳚भरन्तवा॒‌म्(स्वाहा᳚) || 8 ||

मध्वः॑¦ऊँ॒ इति॑¦सु¦म॒धु॒ऽयु॒वा॒¦रुद्रा᳚¦सिस॑क्ति¦पि॒प्युषी᳚ | यत्¦स॒मु॒द्रा¦अति॑¦पर्ष॑थः¦प॒क्वाः¦पृक्षः॑¦भ॒र॒न्त॒¦वा॒‌म् ||

स॒त्यमिद्‌वा,उ॑अश्विनायु॒वामा᳚हुर्मयो॒भुवा᳚ |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

तायाम᳚न्‌याम॒हूत॑मा॒याम॒न्नामृ॑ळ॒यत्त॑मा॒(स्वाहा᳚) || 9 ||

स॒त्य‌म्¦इत्¦वै¦ऊँ॒ इति॑¦अ॒श्वि॒ना॒¦यु॒वा‌म्¦आ॒हुः॒¦म॒यः॒ऽभुवा᳚ | ता¦याम॑न्¦या॒म॒ऽहूत॑मा¦याम॑न्¦आ¦मृ॒ळ॒यत्ऽत॑मा ||

इ॒माब्रह्मा᳚णि॒वर्ध॑ना॒ऽश्विभ्यां᳚सन्तु॒शंत॑मा |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

यातक्षा᳚म॒रथाँ᳚,इ॒वाऽवो᳚चामबृ॒हन्नमः॒(स्वाहा᳚) || 10 ||

इ॒मा¦ब्रह्मा᳚णि¦वर्ध॑ना¦अ॒श्विऽभ्या᳚‌म्¦स॒न्तु॒¦श‌म्ऽत॑मा | या¦तक्षा᳚म¦रथा᳚न्ऽ‌इव¦अवो᳚चाम¦बृ॒हत्¦नमः॑ ||

[66] कूष्ठोदेवाविति दशर्चस्य सूक्तस्यात्रेयः पौरोश्विनावनुष्टुप् |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:74}{अनुवाक:6, सूक्त:2}
कूष्ठो᳚देवावश्विना॒ऽद्यादि॒वोम॑नावसू |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

तच्छ्र॑वथोवृषण्वसू॒,अत्रि᳚र्वा॒मावि॑वासति॒(स्वाहा᳚) || 1 || वर्ग:13

कूऽस्थः॑¦दे॒वौ॒¦अ॒श्वि॒ना॒¦अ॒द्य¦दि॒वः¦म॒ना॒व॒सू॒ इति॑ | तत्¦श्र॒व॒थः॒¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू¦अत्रिः॑¦वा॒‌म्¦आ¦वि॒वा॒स॒ति॒ ||

कुह॒त्याकुह॒नुश्रु॒तादि॒विदे॒वानास॑त्या |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

कस्मि॒न्नाय॑तथो॒जने॒कोवां᳚न॒दीनां॒सचा॒(स्वाहा᳚) || 2 ||

कुह॑¦त्या¦कुह॑¦नु¦श्रु॒ता¦दि॒वि¦दे॒वा¦नास॑त्या | कस्मि॑न्¦आ¦य॒त॒थः॒¦जने᳚¦कः¦वा॒‌म्¦न॒दीना᳚‌म्¦सचा᳚ ||

कंया᳚थः॒कंह॑गच्छथः॒कमच्छा᳚युञ्जाथे॒रथ᳚म् |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

कस्य॒ब्रह्मा᳚णिरण्यथोव॒यंवा᳚मुश्मसी॒ष्टये॒(स्वाहा᳚) || 3 ||

क‌म्¦या॒थः॒¦क‌म्¦ह॒¦ग॒च्छ॒थः॒¦क‌म्¦अच्छ॑¦युं॒जा॒थे॒ इति॑¦रथ᳚‌म् | कस्य॑¦ब्रह्मा᳚णि¦र॒ण्य॒थः॒¦व॒य‌म्¦वा॒‌म्¦उ॒श्म॒सि॒¦इ॒ष्टये᳚ ||

पौ॒रंचि॒द्ध्यु॑द॒प्रुतं॒पौर॑पौ॒राय॒जिन्व॑थः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

यदीं᳚गृभी॒तता᳚तयेसिं॒हमि॑वद्रु॒हस्प॒दे(स्वाहा᳚) || 4 ||

पौ॒र‌म्¦चि॒त्¦हि¦उ॒द॒ऽप्रुत᳚‌म्¦पौर॑¦पौ॒राय॑¦जिन्व॑थः | यत्¦ई॒‌म्¦गृ॒भी॒तऽता᳚तये¦सिं॒ह‌म्ऽ‌इ᳚व¦द्रु॒हः¦प॒दे ||

प्रच्यवा᳚नाज्जुजु॒रुषो᳚व॒व्रिमत्कं॒नमु᳚ञ्चथः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

युवा॒यदी᳚कृ॒थःपुन॒राकाम॑मृण्वेव॒ध्व॑१(अः॒)(स्वाहा᳚) || 5 ||

प्र¦च्यवा᳚नात्¦जु॒जु॒रुषः॑¦व॒व्रि‌म्¦अत्क᳚‌म्¦न¦मुं॒च॒थः॒ | युवा᳚¦यदि॑¦कृ॒थः¦पुनः॑¦आ¦काम᳚‌म्¦ऋ॒ण्वे॒¦व॒ध्वः॑ ||

अस्ति॒हिवा᳚मि॒हस्तो॒तास्मसि॑वांसं॒दृशि॑श्रि॒ये |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

नूश्रु॒तंम॒आग॑त॒मवो᳚भिर्वाजिनीवसू॒(स्वाहा᳚) || 6 || वर्ग:14

अस्ति॑¦हि¦वा॒‌म्¦इ॒ह¦स्तो॒ता¦स्मसि॑¦वा॒‌म्¦स॒‌म्ऽदृशि॑¦श्रि॒ये | नु¦श्रु॒त‌म्¦मे॒¦आ¦ग॒त॒‌म्¦अवः॑ऽभिः¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ||

कोवा᳚म॒द्यपु॑रू॒णामाव᳚व्ने॒मर्त्या᳚नाम् |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

कोविप्रो᳚विप्रवाहसा॒कोय॒ज्ञैर्वा᳚जिनीवसू॒(स्वाहा᳚) || 7 ||

कः¦वा॒‌म्¦अ॒द्य¦पु॒रू॒णा‌म्¦आ¦व॒व्ने॒¦मर्त्या᳚ना‌म् | कः¦विप्रः॑¦वि॒प्र॒ऽवा॒ह॒सा॒¦कः¦य॒ज्ञैः¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ||

आवां॒रथो॒रथा᳚नां॒येष्ठो᳚यात्वश्विना |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

पु॒रूचि॑दस्म॒युस्ति॒रआ᳚ङ्गू॒षोमर्त्ये॒ष्वा(स्वाहा᳚) || 8 ||

आ¦वा॒‌म्¦रथः॑¦रथा᳚ना‌म्¦येष्ठः॑¦या॒तु॒¦अ॒श्वि॒ना॒ | पु॒रु¦चि॒त्¦अ॒स्म॒ऽयुः¦ति॒रः¦आ॒ङ्गू॒षः¦मर्त्ये᳚षु¦आ ||

शमू॒षुवां᳚मधूयुवा॒ऽस्माक॑मस्तुचर्कृ॒तिः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

अ॒र्वा॒ची॒नावि॑चेतसा॒विभिः॑श्ये॒नेव॑दीयत॒‌म्(स्वाहा᳚) || 9 ||

श‌म्¦ऊँ॒ इति॑¦सु¦वा॒‌म्¦म॒धु॒ऽयु॒वा॒¦अ॒स्माक᳚‌म्¦अ॒स्तु॒¦च॒र्कृ॒तिः | अ॒र्वा॒ची॒ना¦वि॒ऽचे॒त॒सा॒¦विऽभिः॑¦श्ये॒नाऽ‌इ᳚व¦दी॒य॒त॒‌म् ||

अश्वि॑ना॒यद्ध॒कर्हि॑चिच्छुश्रू॒यात॑मि॒मंहव᳚म् |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

वस्वी᳚रू॒षुवां॒भुजः॑पृ॒ञ्चन्ति॒सुवां॒पृचः॒(स्वाहा᳚) || 10 ||

अश्वि॑ना¦यत्¦ह॒¦कर्हि॑¦चि॒त्¦शु॒श्रु॒यात᳚‌म्¦इ॒म‌म्¦हव᳚‌म् | वस्वीः᳚¦ऊँ॒ इति॑¦सु¦वा॒‌म्¦भुजः॑¦पृं॒चन्ति॑¦सु¦वा॒‌म्¦पृचः॑ ||

[67] प्रतिप्रियतममिति नवर्चस्य सूक्तस्यात्रेयोवस्युरश्विनौपङ्क्तिः |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:75}{अनुवाक:6, सूक्त:3}
प्रति॑प्रि॒यत॑मं॒रथं॒वृष॑णंवसु॒वाह॑नम् |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

स्तो॒तावा᳚मश्विना॒वृषिः॒स्तोमे᳚न॒प्रति॑भूषति॒माध्वी॒मम॑श्रुतं॒हव॒‌म्(स्वाहा᳚) || 1 || वर्ग:15

प्रति॑¦प्रि॒यऽत॑म‌म्¦रथ᳚‌म्¦वृष॑ण‌म्¦व॒सु॒ऽवाह॑न‌म् |
स्तो॒ता¦वा॒‌म्¦अ॒श्वि॒नौ॒¦ऋषिः॑¦स्तोमे᳚न¦प्रति॑¦भू॒ष॒ति॒¦माध्वी॒ इति॑¦मम॑¦श्रुत᳚‌म्¦हव᳚‌म् ||

अ॒त्याया᳚तमश्विनाति॒रोविश्वा᳚,अ॒हंसना᳚ |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

दस्रा॒हिर᳚ण्यवर्तनी॒सुषु᳚म्ना॒सिन्धु॑वाहसा॒माध्वी॒मम॑श्रुतं॒हव॒‌म्(स्वाहा᳚) || 2 ||

अ॒ति॒ऽआया᳚त‌म्¦अ॒श्वि॒ना॒¦ति॒रः¦विश्वाः᳚¦अ॒ह‌म्¦सना᳚ |
दस्रा᳚¦हिर᳚ण्यवर्तनी॒ इति॒ हिर᳚ण्यऽवर्तनी¦सुऽसु᳚म्ना¦सिन्धु॑ऽवाहसा¦माध्वी॒ इति॑¦मम॑¦श्रुत᳚‌म्¦हव᳚‌म् ||

आनो॒रत्ना᳚नि॒बिभ्र॑ता॒वश्वि॑ना॒गच्छ॑तंयु॒वम् |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

रुद्रा॒हिर᳚ण्यवर्तनीजुषा॒णावा᳚जिनीवसू॒माध्वी॒मम॑श्रुतं॒हव॒‌म्(स्वाहा᳚) || 3 ||

आ¦नः॒¦रत्ना᳚नि¦बिभ्र॑तौ¦अश्वि॑ना¦गच्छ॑त‌म्¦यु॒व‌म् |
रुद्रा᳚¦हिर᳚ण्यवर्तनी॒ इति॒ हिर᳚ण्यऽवर्तनी¦जु॒षा॒णा¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू¦माध्वी॒ इति॑¦मम॑¦श्रुत᳚‌म्¦हव᳚‌म् ||

सु॒ष्टुभो᳚वांवृषण्वसू॒रथे॒वाणी॒च्याहि॑ता |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

उ॒तवां᳚ककु॒होमृ॒गःपृक्षः॑कृणोतिवापु॒षोमाध्वी॒मम॑श्रुतं॒हव॒‌म्(स्वाहा᳚) || 4 ||

सु॒ऽस्तुभः॑¦वा॒‌म्¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू¦रथे᳚¦वाणी᳚ची¦आऽहि॑ता |
उ॒त¦वा॒‌म्¦क॒कु॒हः¦मृ॒गः¦पृक्षः॑¦कृ॒णो॒ति॒¦वा॒पु॒षः¦माध्वी॒ इति॑¦मम॑¦श्रु॒त॒‌म्¦हव᳚‌म् ||

बो॒धिन्म॑नसार॒थ्ये᳚षि॒राह॑वन॒श्रुता᳚ |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

विभि॒श्च्यवा᳚नमश्विना॒निया᳚थो॒,अद्व॑याविनं॒माध्वी॒मम॑श्रुतं॒हव॒‌म्(स्वाहा᳚) || 5 ||

बो॒धित्ऽम॑नसा¦र॒थ्या᳚¦इ॒षि॒रा¦ह॒व॒न॒ऽश्रुता᳚ |
विऽभिः॑¦च्यवा᳚न‌म्¦अ॒श्वि॒ना॒¦नि¦या॒थः॒¦अद्व॑याविन‌म्¦माध्वी॒ इति॑¦मम॑¦श्रु॒त॒‌म्¦हव᳚‌म् ||

आवां᳚नरामनो॒युजोऽश्वा᳚सःप्रुषि॒तप्स॑वः |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

वयो᳚वहन्तुपी॒तये᳚स॒हसु॒म्नेभि॑रश्विना॒माध्वी॒मम॑श्रुतं॒हव॒‌म्(स्वाहा᳚) || 6 || वर्ग:16

आ¦वा॒‌म्¦न॒रा॒¦म॒नः॒ऽयुजः॑¦अश्वा᳚सः¦प्रु॒षि॒तऽप्स॑वः |
वयः॑¦व॒ह॒न्तु॒¦पी॒तये᳚¦स॒ह¦सु॒म्नेभिः॑¦अ॒श्वि॒ना॒¦माध्वी॒ इति॑¦मम॑¦श्रु॒त॒‌म्¦हव᳚‌म् ||

अश्वि॑ना॒वेहग॑च्छतं॒नास॑त्या॒माविवे᳚नतम् |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

ति॒रश्चि॑दर्य॒यापरि॑व॒र्तिर्या᳚तमदाभ्या॒माध्वी॒मम॑श्रुतं॒हव॒‌म्(स्वाहा᳚) || 7 ||

अश्वि॑नौ¦आ¦इ॒ह¦ग॒च्छ॒त॒‌म्¦नास॑त्या¦मा¦वि¦वे॒न॒त॒‌म् |
ति॒रः¦चि॒त्¦अ॒र्य॒ऽया¦परि॑¦व॒र्तिः¦या॒त॒‌म्¦अ॒दा॒भ्या॒¦माध्वी॒ इति॑¦मम॑¦श्रु॒त॒‌म्¦हव᳚‌म् ||

अ॒स्मिन्‌य॒ज्ञे,अ॑दाभ्याजरि॒तारं᳚शुभस्पती |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

अ॒व॒स्युम॑श्विनायु॒वंगृ॒णन्त॒मुप॑भूषथो॒माध्वी॒मम॑श्रुतं॒हव॒‌म्(स्वाहा᳚) || 8 ||

अ॒स्मिन्¦य॒ज्ञे¦अ॒दा॒भ्या॒¦ज॒रि॒तार᳚‌म्¦शु॒भः॒¦प॒ती॒ इति॑ |
अ॒व॒स्यु‌म्¦अ॒श्वि॒ना॒¦यु॒व‌म्¦गृ॒णन्त᳚‌म्¦उप॑¦भू॒ष॒थः॒¦माध्वी॒ इति॑¦मम॑¦श्रु॒त॒‌म्¦हव᳚‌म् ||

अभू᳚दु॒षारुश॑त्पशु॒राग्निर॑धाय्यृ॒त्वियः॑ |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

अयो᳚जिवांवृषण्वसू॒रथो᳚दस्रा॒वम॑र्त्यो॒माध्वी॒मम॑श्रुतं॒हव॒‌म्(स्वाहा᳚) || 9 ||

अभू᳚त्¦उ॒षाः¦रुश॑त्ऽपशुः¦आ¦अ॒ग्निः¦अ॒धा॒यि॒¦ऋ॒त्वियः॑ |
अयो᳚जि¦वा॒‌म्¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू¦रथः॑¦द॒स्रौ॒¦अम॑र्त्यः¦माध्वी॒ इति॑¦मम॑¦श्रु॒त॒‌म्¦हव᳚‌म् ||

[68] आभात्यग्निरिति पंचर्चस्य सूक्तस्य भौमोत्रिरश्विनौत्रिष्टुप् |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:76}{अनुवाक:6, सूक्त:4}
आभा᳚त्य॒ग्निरु॒षसा॒मनी᳚क॒मुद्‌विप्रा᳚णांदेव॒यावाचो᳚,अस्थुः |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

अ॒र्वाञ्चा᳚नू॒नंर॑थ्ये॒हया᳚तंपीपि॒वांस॑मश्विनाघ॒र्ममच्छ॒(स्वाहा᳚) || 1 || वर्ग:17

आ¦भा॒ति॒¦अ॒ग्निः¦उ॒षसा᳚‌म्¦अनी᳚क‌म्¦उत्¦विप्रा᳚णा‌म्¦दे॒व॒ऽयाः¦वाचः॑¦अ॒स्थुः॒ |
अ॒र्वांचा᳚¦नू॒न‌म्¦र॒थ्या॒¦इ॒ह¦या॒त॒‌म्¦पी॒पि॒ऽवांस᳚‌म्¦अ॒श्वि॒ना॒¦घ॒र्म‌म्¦अच्छ॑ ||

नसं᳚स्कृ॒तंप्रमि॑मीतो॒गमि॒ष्ठाऽन्ति॑नू॒नम॒श्विनोप॑स्तुते॒ह |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

दिवा᳚भिपि॒त्वेऽव॒साग॑मिष्ठा॒प्रत्यव॑र्तिंदा॒शुषे॒शम्भ॑विष्ठा॒(स्वाहा᳚) || 2 ||

न¦सं॒स्कृ॒त‌म्¦प्र¦मि॒मी॒तः॒¦गमि॑ष्ठा¦अन्ति॑¦नू॒न‌म्¦अ॒श्विना᳚¦उप॑ऽस्तुता¦इ॒ह |
दि॒वा᳚¦अ॒भि॒ऽपि॒त्वे¦अव॑सा¦आऽग॑मिष्ठा¦प्रति॑¦अव॑र्ति‌म्¦दा॒शुषे᳚¦श‌म्ऽभ॑विष्ठा ||

उ॒ताया᳚तंसंग॒वेप्रा॒तरह्नो᳚म॒ध्यंदि॑न॒उदि॑ता॒सूर्य॑स्य |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

दिवा॒नक्त॒मव॑सा॒शंत॑मेन॒नेदानीं᳚पी॒तिर॒श्विनात॑तान॒(स्वाहा᳚) || 3 ||

उ॒त¦आ¦या॒त॒‌म्¦स॒‌म्ऽग॒वे¦प्रा॒तः¦अह्नः॑¦म॒ध्यंदि॑ने¦उत्ऽ‌इ᳚ता¦सूर्य॑स्य |
दिवा᳚¦नक्त᳚‌म्¦अव॑सा¦श‌म्ऽत॑मेन¦न¦इ॒दानी᳚‌म्¦पी॒तिः¦अ॒श्विना᳚¦आ¦त॒ता॒न॒ ||

इ॒दंहिवां᳚प्र॒दिवि॒स्थान॒मोक॑इ॒मेगृ॒हा,अ॑श्विने॒दंदु॑रो॒णम् |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

आनो᳚दि॒वोबृ॑ह॒तःपर्व॑ता॒दाऽद्भ्योया᳚त॒मिष॒मूर्जं॒वह᳚न्ता॒(स्वाहा᳚) || 4 ||

इ॒द‌म्¦हि¦वा॒‌म्¦प्र॒ऽदिवि॑¦स्थान᳚‌म्¦ओकः॑¦इ॒मे¦गृ॒हाः¦अ॒श्वि॒ना॒¦इ॒द‌म्¦दु॒रो॒ण‌म् |
आ¦नः॒¦दि॒वः¦बृ॒ह॒तः¦पर्व॑तात्¦आ¦अ॒त्ऽभ्यः¦या॒त॒‌म्¦इष᳚‌म्¦ऊर्ज᳚‌म्¦वह᳚न्ता ||

सम॒श्विनो॒रव॑सा॒नूत॑नेनमयो॒भुवा᳚सु॒प्रणी᳚तीगमेम |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

आनो᳚र॒यिंव॑हत॒मोतवी॒रानाविश्वा᳚न्यमृता॒सौभ॑गानि॒(स्वाहा᳚) || 5 ||

स‌म्¦अ॒श्विनोः᳚¦अव॑सा¦नूत॑नेन¦म॒यः॒ऽभुवा᳚¦सु॒ऽप्रनी᳚ती¦ग॒मे॒म॒ |
आ¦नः॒¦र॒यि‌म्¦व॒ह॒त॒‌म्¦आ¦उ॒त¦वी॒रान्¦आ¦विश्वा᳚नि¦अ॒मृ॒ता॒¦सौभ॑गानि ||

[69] प्रातर्यावाणेति पंचर्चस्य सूक्तस्य भौमोत्रिरश्विनौत्रिष्टुप् |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:77}{अनुवाक:6, सूक्त:5}
प्रा॒त॒र्यावा᳚णाप्रथ॒माय॑जध्वंपु॒रागृध्रा॒दर॑रुषःपिबातः |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

प्रा॒तर्हिय॒ज्ञम॒श्विना᳚द॒धाते॒प्रशं᳚सन्तिक॒वयः॑पूर्व॒भाजः॒(स्वाहा᳚) || 1 || वर्ग:18

प्रा॒तः॒ऽयावा᳚ना¦प्र॒थ॒मा¦य॒ज॒ध्व॒‌म्¦पु॒रा¦गृध्रा᳚त्¦अर॑रुषः¦पि॒बा॒तः॒ |
प्रा॒तः¦हि¦य॒ज्ञ‌म्¦अ॒श्विना᳚¦द॒धाते॒ इति॑¦प्र¦शं॒स॒न्ति॒¦क॒वयः॑¦पू॒र्व॒ऽभाजः॑ ||

प्रा॒तर्य॑जध्वम॒श्विना᳚हिनोत॒नसा॒यम॑स्तिदेव॒या,अजु॑ष्टम् |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

उ॒तान्यो,अ॒स्मद्‌य॑जते॒विचावः॒पूर्वः॑पूर्वो॒यज॑मानो॒वनी᳚या॒‌न्(स्वाहा᳚) || 2 ||

प्रा॒तः¦य॒ज॒ध्व॒‌म्¦अ॒श्विना᳚¦हि॒नो॒त॒¦न¦सा॒य‌म्¦अ॒स्ति॒¦दे॒व॒ऽयाः¦अजु॑ष्ट‌म् |
उ॒त¦अ॒न्यः¦अ॒स्मत्¦य॒ज॒ते॒¦वि¦च॒¦आवः॑¦पूर्वः॑ऽपूर्वः¦यज॑मानः¦वनी᳚यान् ||

हिर᳚ण्यत्व॒ङ्मधु॑वर्णोघृ॒तस्नुः॒पृक्षो॒वह॒न्नारथो᳚वर्ततेवाम् |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

मनो᳚जवा,अश्विना॒वात॑रंहा॒येना᳚तिया॒थोदु॑रि॒तानि॒विश्वा॒(स्वाहा᳚) || 3 ||

हिर᳚ण्यऽत्वक्¦मधु॑ऽवर्णः¦घृ॒तऽस्नुः॑¦पृक्षः॑¦वह॑न्¦आ¦रथः॑¦व॒र्त॒ते॒¦वा॒‌म् |
मनः॑ऽजवाः¦अ॒श्वि॒ना॒¦वात॑ऽरंहाः¦येन॑¦अ॒ति॒ऽया॒थः¦दुः॒ऽ‌इ॒तानि॑¦विश्वा᳚ ||

योभूयि॑ष्ठं॒नास॑त्याभ्यांवि॒वेष॒चनि॑ष्ठंपि॒त्वोरर॑तेविभा॒गे |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

सतो॒कम॑स्यपीपर॒च्छमी᳚भि॒रनू᳚र्ध्वभासः॒सद॒मित्‌तु॑तुर्या॒‌त्(स्वाहा᳚) || 4 ||

यः¦भूयि॑ष्ठ‌म्¦नास॑त्याभ्या‌म्¦वि॒वेष॑¦चनि॑ष्ठ‌म्¦पि॒त्वः¦रर॑ते¦वि॒ऽभा॒गे |
सः¦तो॒क‌म्¦अ॒स्य॒¦पी॒प॒र॒त्¦शमी᳚भिः¦अनू᳚र्ध्वऽभासः¦सद᳚‌म्¦इत्¦तु॒तु॒र्या॒त् ||

सम॒श्विनो॒रव॑सा॒नूत॑नेनमयो॒भुवा᳚सु॒प्रणी᳚तीगमेम |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

आनो᳚र॒यिंव॑हत॒मोतवी॒रानाविश्वा᳚न्यमृता॒सौभ॑गानि॒(स्वाहा᳚) || 5 ||

स‌म्¦अ॒श्विनोः᳚¦अव॑सा¦नूत॑नेन¦म॒यः॒ऽभुवा᳚¦सु॒ऽप्रनी᳚ती¦ग॒मे॒म॒ |
आ¦नः॒¦र॒यि‌म्¦व॒ह॒त॒‌म्¦आ¦उ॒त¦वी॒रान्¦आ¦विश्वा᳚नि¦अ॒मृ॒ता॒¦सौभ॑गानि ||

[70] अश्विनाविति नवर्चस्य सूक्तस्यात्रेयःसप्तवध्रिरश्विनावनुष्टुप् आद्यास्तिस्रउष्णिहश्चतुर्थीत्रिष्टुप् ( पंचम्यादिपंचगर्भस्राविण्यउपनिषदः ) |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:78}{अनुवाक:6, सूक्त:6}
अश्वि॑ना॒वेहग॑च्छतं॒नास॑त्या॒माविवे᳚नतम् |{आत्रेयः सप्तवध्रिः | अश्विनौ | उष्णिक्}

हं॒सावि॑वपतत॒मासु॒ताँ,उप॒(स्वाहा᳚) || 1 || वर्ग:19

अश्वि॑नौ¦आ¦इ॒ह¦ग॒च्छ॒त॒‌म्¦नास॑त्या¦मा¦वि¦वे॒न॒त॒‌म् | हं॒सौऽ‌इ᳚व¦प॒त॒त॒‌म्¦आ¦सु॒तान्¦उप॑ ||

अश्वि॑नाहरि॒णावि॑वगौ॒रावि॒वानु॒यव॑सम् |{आत्रेयः सप्तवध्रिः | अश्विनौ | उष्णिक्}

हं॒सावि॑वपतत॒मासु॒ताँ,उप॒(स्वाहा᳚) || 2 ||

अश्वि॑ना¦ह॒रि॒णौऽ‌इ᳚व¦गौ॒रौऽ‌इ᳚व¦अनु॑¦यव॑स‌म् | हं॒सौऽ‌इ᳚व¦प॒त॒त॒‌म्¦आ¦सु॒तान्¦उप॑ ||

अश्वि॑नावाजिनीवसूजु॒षेथां᳚य॒ज्ञमि॒ष्टये᳚ |{आत्रेयः सप्तवध्रिः | अश्विनौ | उष्णिक्}

हं॒सावि॑वपतत॒मासु॒ताँ,उप॒(स्वाहा᳚) || 3 ||

अश्वि॑ना¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू¦जु॒षेथा᳚‌म्¦य॒ज्ञ‌म्¦इ॒ष्टये᳚ | हं॒सौऽ‌इ᳚व¦प॒त॒त॒‌म्¦आ¦सु॒तान्¦उप॑ ||

अत्रि॒र्यद्‌वा᳚मव॒रोह᳚न्नृ॒बीस॒मजो᳚हवी॒न्नाध॑मानेव॒योषा᳚ |{आत्रेयः सप्तवध्रिः | अश्विनौ | त्रिष्टुप्}

श्ये॒नस्य॑चि॒ज्जव॑सा॒नूत॑ने॒नाऽऽग॑च्छतमश्विना॒शंत॑मेन॒(स्वाहा᳚) || 4 ||

अत्रिः॑¦यत्¦वा॒‌म्¦अ॒व॒ऽरोह॑न्¦ऋ॒बीस᳚‌म्¦अजो᳚हवीत्¦नाध॑मानाऽ‌इव¦योषा᳚ |
श्ये॒नस्य॑¦चि॒त्¦जव॑सा¦नूत॑नेन¦आ¦अ॒ग॒च्छ॒त॒‌म्¦अ॒श्वि॒ना॒¦श‌म्ऽत॑मेन ||

विजि॑हीष्ववनस्पते॒योनिः॒सूष्य᳚न्त्या,इव |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्}

श्रु॒तंमे᳚,अश्विना॒हवं᳚स॒प्तव॑ध्रिंचमुञ्चत॒‌म्(स्वाहा᳚) || 5 || वर्ग:20

वि¦जि॒ही॒ष्व॒¦व॒न॒स्प॒ते॒¦योनिः॑¦सूष्य᳚न्त्याःऽ‌इव | श्रु॒त‌म्¦मे॒¦अ॒श्वि॒ना॒¦हव᳚‌म्¦स॒प्तऽव॑ध्रि‌म्¦च॒¦मुं॒च॒त॒‌म् ||

भी॒ताय॒नाध॑मानाय॒ऋष॑येस॒प्तव॑ध्रये |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्}

मा॒याभि॑रश्विनायु॒वंवृ॒क्षंसंच॒विचा᳚चथः॒(स्वाहा᳚) || 6 ||

भी॒ताय॑¦नाध॑मानाय¦ऋष॑ये¦स॒प्तऽव॑ध्रये | मा॒याभिः॑¦अ॒श्वि॒ना॒¦यु॒व‌म्¦वृ॒क्ष‌म्¦स‌म्¦च॒¦वि¦च॒¦अ॒च॒थः॒ ||

यथा॒वातः॑पुष्क॒रिणीं᳚समि॒ङ्गय॑तिस॒र्वतः॑ |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्}

ए॒वाते॒गर्भ॑एजतुनि॒रैतु॒दश॑मास्यः॒(स्वाहा᳚) || 7 ||

यथा᳚¦वातः॑¦पु॒ष्क॒रिणी᳚‌म्¦स॒‌म्ऽ‌इ॒ङ्गय॑ति¦स॒र्वतः॑ | ए॒व¦ते॒¦गर्भः॑¦ए॒ज॒तु॒¦निः॒।आइतु॑¦दश॑ऽमास्यः ||

यथा॒वातो॒यथा॒वनं॒यथा᳚समु॒द्रएज॑ति |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्}

ए॒वात्वंद॑शमास्यस॒हावे᳚हिज॒रायु॑णा॒(स्वाहा᳚) || 8 ||

यथा᳚¦वातः॑¦यथा᳚¦वन᳚‌म्¦यथा᳚¦स॒मु॒द्रः¦एज॑ति | ए॒व¦त्व‌म्¦द॒श॒ऽमा॒स्य॒¦स॒ह¦अव॑¦इ॒हि॒¦ज॒रायु॑णा ||

दश॒मासा᳚ञ्छशया॒नःकु॑मा॒रो,अधि॑मा॒तरि॑ |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्}

नि॒रैतु॑जी॒वो,अक्ष॑तोजी॒वोजीव᳚न्त्या॒,अधि॒(स्वाहा᳚) || 9 ||

दश॑¦मासा᳚न्¦श॒श॒या॒नः¦कु॒मा॒रः¦अधि॑¦मा॒तरि॑ | निः॒।आइतु॑¦जी॒वः¦अक्ष॑तः¦जी॒वः¦जीव᳚न्त्याः¦अधि॑ ||

[71] महेनइति दशर्चस्य सूक्तस्यात्रेयःसत्यश्रवाउषाःपंक्तिः |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:79}{अनुवाक:6, सूक्त:7}
म॒हेनो᳚,अ॒द्यबो᳚ध॒योषो᳚रा॒येदि॒वित्म॑ती |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

यथा᳚चिन्नो॒,अबो᳚धयःस॒त्यश्र॑वसिवा॒य्येसुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 1 || वर्ग:21

म॒हे¦नः॒¦अ॒द्य¦बो॒ध॒य॒¦उषः॑¦रा॒ये¦दि॒वित्म॑ती |
यथा᳚¦चि॒त्¦नः॒¦अबो᳚धयः¦स॒त्यऽश्र॑वसि¦वा॒य्ये¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

यासु॑नी॒थेशौ᳚चद्र॒थेव्यौच्छो᳚दुहितर्दिवः |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

साव्यु॑च्छ॒सही᳚यसिस॒त्यश्र॑वसिवा॒य्येसुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 2 ||

या¦सु॒ऽनी॒थे¦शौ॒च॒त्ऽर॒थे¦वि¦औच्छः॑¦दु॒हि॒तः॒¦दि॒वः॒ |
सा¦वि¦उ॒च्छ॒¦सही᳚यसि¦स॒त्यऽश्र॑वसि¦वा॒य्ये¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

सानो᳚,अ॒द्याभ॒रद्व॑सु॒र्व्यु॑च्छादुहितर्दिवः |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

योव्यौच्छः॒सही᳚यसिस॒त्यश्र॑वसिवा॒य्येसुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 3 ||

सा¦नः॒¦अ॒द्य¦आ॒भ॒रत्ऽव॑सुः¦वि¦उ॒च्छ॒¦दु॒हि॒तः॒¦दि॒वः॒ |
यो इति॑¦वि¦औच्छः॑¦सही᳚यसि¦स॒त्यऽश्र॑वसि¦वा॒य्ये¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

अ॒भियेत्वा᳚विभावरि॒स्तोमै᳚र्गृ॒णन्ति॒वह्न॑यः |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

म॒घैर्म॑घोनिसु॒श्रियो॒दाम᳚न्वन्तःसुरा॒तयः॒सुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 4 ||

अ॒भि¦ये¦त्वा॒¦वि॒भा॒ऽव॒रि॒¦स्तोमैः᳚¦गृ॒णन्ति॑¦वह्न॑यः |
म॒घैः¦म॒घो॒नि॒¦सु॒ऽश्रियः॑¦दाम॑न्ऽवन्तः¦सु॒ऽरा॒तयः॑¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

यच्चि॒द्धिते᳚ग॒णा,इ॒मेछ॒दय᳚न्तिम॒घत्त॑ये |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

परि॑चि॒द्‌वष्ट॑योदधु॒र्दद॑तो॒राधो॒,अह्र॑यं॒सुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 5 ||

यत्¦चि॒त्¦हि¦ते॒¦ग॒णाः¦इ॒मे¦छ॒दय᳚न्ति¦म॒घत्त॑ये |
परि॑¦चि॒त्¦वष्ट॑यः¦द॒धुः॒¦दद॑तः¦राधः॑¦अह्र॑य‌म्¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

ऐषु॑धावी॒रव॒द्‌यश॒उषो᳚मघोनिसू॒रिषु॑ |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

येनो॒राधां॒स्यह्र॑याम॒घवा᳚नो॒,अरा᳚सत॒सुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 6 || वर्ग:22

आ¦ए॒षु॒¦धाः॒¦वी॒रऽव॑त्¦यशः॑¦उषः॑¦म॒घो॒नि॒¦सू॒रिषु॑ |
ये¦नः॒¦राधां᳚सि¦अह्र॑या¦म॒घऽवा᳚नः¦अरा᳚सत¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

तेभ्यो᳚द्यु॒म्नंबृ॒हद्‌यश॒उषो᳚मघो॒न्याव॑ह |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

येनो॒राधां॒स्यश्व्या᳚ग॒व्याभज᳚न्तसू॒रयः॒सुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 7 ||

तेभ्यः॑¦द्यु॒म्न‌म्¦बृ॒हत्¦यशः॑¦उषः॑¦म॒घो॒नि॒¦आ¦व॒ह॒ |
ये¦नः॒¦राधां᳚सि¦अश्व्या᳚¦ग॒व्या¦भज᳚न्त¦सू॒रयः॑¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

उ॒तनो॒गोम॑ती॒रिष॒आव॑हादुहितर्दिवः |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

सा॒कंसूर्य॑स्यर॒श्मिभिः॑शु॒क्रैःशोच॑द्भिर॒र्चिभिः॒सुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 8 ||

उ॒त¦नः॒¦गोऽम॑तीः¦इषः॑¦आ¦व॒ह॒¦दु॒हि॒तः॒¦दि॒वः॒ |
सा॒क‌म्¦सूर्य॑स्य¦र॒श्मिऽभिः॑¦शु॒क्रैः¦शोच॑त्ऽभिः¦अ॒र्चिऽभिः॑¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

व्यु॑च्छादुहितर्दिवो॒माचि॒रंत॑नुथा॒,अपः॑ |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

नेत्‌त्वा᳚स्ते॒नंयथा᳚रि॒पुंतपा᳚ति॒सूरो᳚,अ॒र्चिषा॒सुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 9 ||

वि¦उ॒च्छ॒¦दु॒हि॒तः॒¦दि॒वः॒¦मा¦चि॒र‌म्¦त॒नु॒थाः॒¦अपः॑ |
न¦इत्¦त्वा॒¦स्ते॒न‌म्¦यथा᳚¦रि॒पु‌म्¦तपा᳚ति¦सूरः॑¦अ॒र्चिषा᳚¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

ए॒ताव॒द्‌वेदु॑ष॒स्त्वंभूयो᳚वा॒दातु॑मर्हसि |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

यास्तो॒तृभ्यो᳚विभावर्यु॒च्छन्ती॒नप्र॒मीय॑से॒सुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 10 ||

ए॒ताव॑त्¦वा॒¦इत्¦उ॒षः॒¦त्व‌म्¦भूयः॑¦वा॒¦दातु᳚‌म्¦अ॒र्ह॒सि॒ |
या¦स्तो॒तृऽभ्यः॑¦वि॒भा॒ऽव॒रि॒¦उ॒च्छन्ती᳚¦न¦प्र॒ऽमीय॑से¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

[72] द्युतद्यामानमिति षडृचस्य सूक्तस्यात्रेयःसत्यश्रवाउषास्त्रिष्टुप् |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:80}{अनुवाक:6, सूक्त:8}
द्यु॒तद्या᳚मानंबृह॒तीमृ॒तेन॑ऋ॒ताव॑रीमरु॒णप्सुं᳚विभा॒तीम् |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

दे॒वीमु॒षसं॒स्व॑रा॒वह᳚न्तीं॒प्रति॒विप्रा᳚सोम॒तिभि॑र्जरन्ते॒(स्वाहा᳚) || 1 || वर्ग:23

द्यु॒तत्ऽया᳚मान‌म्¦बृ॒ह॒ती‌म्¦ऋ॒तेन॑¦ऋ॒तऽव॑री‌म्¦अ॒रु॒णऽप्सु᳚‌म्¦वि॒ऽभा॒ती‌म् |
दे॒वी‌म्¦उ॒षस᳚‌म्¦स्वः॑¦आ॒ऽवह᳚न्ती‌म्¦प्रति॑¦विप्रा᳚सः¦म॒तिऽभिः॑¦ज॒र॒न्ते॒ ||

ए॒षाजनं᳚दर्श॒ताबो॒धय᳚न्तीसु॒गान्‌प॒थःकृ᳚ण्व॒तीया॒त्यग्रे᳚ |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

बृ॒ह॒द्र॒थाबृ॑ह॒तीवि॑श्वमि॒न्वोषाज्योति᳚र्यच्छ॒त्यग्रे॒,अह्ना॒‌म्(स्वाहा᳚) || 2 ||

ए॒षा¦जन᳚‌म्¦द॒र्श॒ता¦बो॒धय᳚न्ती¦सु॒ऽमान्¦प॒थः¦कृ॒ण्व॒ती¦या॒ति॒¦अग्रे᳚ |
बृ॒ह॒त्ऽर॒था¦बृ॒ह॒ती¦वि॒श्व॒‌म्ऽ‌इ॒न्वा¦उ॒षाः¦ज्योतिः॑¦य॒च्छ॒ति॒¦अग्रे᳚¦अह्ना᳚‌म् ||

ए॒षागोभि॑ररु॒णेभि᳚र्युजा॒नाऽस्रे᳚धन्तीर॒यिमप्रा᳚युचक्रे |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

प॒थोरद᳚न्तीसुवि॒ताय॑दे॒वीपु॑रुष्टु॒तावि॒श्ववा᳚रा॒विभा᳚ति॒(स्वाहा᳚) || 3 ||

ए॒षा¦गोभिः॑¦अ॒रु॒णेभिः॑¦यु॒जा॒ना¦अस्रे᳚धन्ती¦र॒यि‌म्¦अप्र॑ऽआयु¦च॒क्रे॒ |
प॒थः¦रद᳚न्ती¦सु॒वि॒ताय॑¦दे॒वी¦पु॒रु॒ऽस्तु॒ता¦वि॒श्वऽवा᳚रा¦वि¦भा॒ति॒ ||

ए॒षाव्ये᳚नीभवतिद्वि॒बर्हा᳚,आविष्कृण्वा॒नात॒न्वं᳚पु॒रस्ता᳚त् |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

ऋ॒तस्य॒पन्था॒मन्वे᳚तिसा॒धुप्र॑जान॒तीव॒नदिशो᳚मिनाति॒(स्वाहा᳚) || 4 ||

ए॒षा¦विऽए᳚नी¦भ॒व॒ति॒¦द्वि॒ऽबर्हाः᳚¦आ॒विः॒ऽकृ॒ण्वा॒ना¦त॒न्व᳚‌म्¦पु॒रस्ता᳚त् |
ऋ॒तस्य॑¦पन्था᳚‌म्¦अनु॑¦ए॒ति॒¦सा॒धु¦प्र॒जा॒न॒तीऽ‌इ᳚व¦न¦दिशः॑¦मि॒ना॒ति॒ ||

ए॒षाशु॒भ्रानत॒न्वो᳚विदा॒नोर्ध्वेव॑स्ना॒तीदृ॒शये᳚नो,अस्थात् |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

अप॒द्वेषो॒बाध॑माना॒तमां᳚स्यु॒षादि॒वोदु॑हि॒ताज्योति॒षागा॒‌त्(स्वाहा᳚) || 5 ||

ए॒षा¦शु॒भ्रा¦न¦त॒न्वः॑¦वि॒दा॒ना¦ऊ॒र्ध्वाऽ‌इ᳚व¦स्ना॒ती¦दृ॒शये᳚¦नः॒¦अ॒स्था॒त् |
अप॑¦द्वेषः॑¦बाध॑माना¦तमां᳚सि¦उ॒षाः¦दि॒वः¦दु॒हि॒ता¦ज्योति॑षा¦आ¦अ॒गा॒त् ||

ए॒षाप्र॑ती॒चीदु॑हि॒तादि॒वोनॄन्योषे᳚वभ॒द्रानिरि॑णीते॒,अप्सः॑ |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

व्यू॒र्ण्व॒तीदा॒शुषे॒वार्या᳚णि॒पुन॒र्ज्योति᳚र्युव॒तिःपू॒र्वथा᳚कः॒(स्वाहा᳚) || 6 ||

ए॒षा¦प्र॒ती॒ची¦दु॒हि॒ता¦दि॒वः¦नॄन्¦योषा᳚ऽ‌इव¦भ॒द्रा¦नि¦रि॒णी॒ते॒¦अप्सः॑ |
वि॒ऽऊ॒र्ण्व॒ती¦दा॒शुषे᳚¦वार्या᳚णि¦पुनः॑¦ज्योतिः॑¦यु॒व॒तिः¦पू॒र्वऽथा᳚¦अ॒क॒रित्य॑कः ||

[73] युंजतेमनइति पंचर्चस्य सूक्तस्यात्रेयः श्यावाश्वः सविताजगती |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:81}{अनुवाक:6, सूक्त:9}
यु॒ञ्जते॒मन॑उ॒तयु᳚ञ्जते॒धियो॒विप्रा॒विप्र॑स्यबृह॒तोवि॑प॒श्चितः॑ |{आत्रेयः श्यावाश्वः | सविता | जगती}

विहोत्रा᳚दधेवयुना॒विदेक॒इन्म॒हीदे॒वस्य॑सवि॒तुःपरि॑ष्टुतिः॒(स्वाहा᳚) || 1 || वर्ग:24

युं॒जते᳚¦मनः॑¦उ॒त¦युं॒जते᳚¦धियः॑¦विप्राः᳚¦विप्र॑स्य¦बृ॒ह॒तः¦वि॒पः॒ऽचितः॑ |
वि¦होत्राः᳚¦द॒धे॒¦व॒यु॒न॒ऽवित्¦एकः॑¦इत्¦म॒ही¦दे॒वस्य॑¦स॒वि॒तुः¦परि॑ऽस्तुतिः ||

विश्वा᳚रू॒पाणि॒प्रति॑मुञ्चतेक॒विःप्रासा᳚वीद्‌भ॒द्रंद्वि॒पदे॒चतु॑ष्पदे |{आत्रेयः श्यावाश्वः | सविता | जगती}

विनाक॑मख्यत्‌सवि॒तावरे॒ण्योऽनु॑प्र॒याण॑मु॒षसो॒विरा᳚जति॒(स्वाहा᳚) || 2 ||

विश्वा᳚¦रू॒पाणि॑¦प्रति॑¦मुं॒च॒ते॒¦क॒विः¦प्र¦अ॒सा॒वी॒त्¦भ॒द्र‌म्¦द्वि॒ऽपदे᳚¦चतुः॑ऽपदे |
वि¦नाक᳚‌म्¦अ॒ख्य॒त्¦स॒वि॒ता¦वरे᳚ण्यः¦अनु॑¦प्र॒ऽयान᳚‌म्¦उ॒षसः॑¦वि¦रा॒ज॒ति॒ ||

यस्य॑प्र॒याण॒मन्व॒न्यइद्‌य॒युर्दे॒वादे॒वस्य॑महि॒मान॒मोज॑सा |{आत्रेयः श्यावाश्वः | सविता | जगती}

यःपार्थि॑वानिविम॒मेसएत॑शो॒रजां᳚सिदे॒वःस॑वि॒ताम॑हित्व॒ना(स्वाहा᳚) || 3 ||

यस्य॑¦प्र॒ऽयान᳚‌म्¦अनु॑¦अ॒न्ये¦इत्¦य॒युः¦दे॒वाः¦दे॒वस्य॑¦म॒हि॒मान᳚‌म्¦ओज॑सा |
यः¦पार्थि॑वानि¦वि॒ऽम॒मे¦सः¦एत॑शः¦रजां᳚सि¦दे॒वः¦स॒वि॒ता¦म॒हि॒ऽत्व॒ना ||

उ॒तया᳚सिसवित॒स्त्रीणि॑रोच॒नोतसूर्य॑स्यर॒श्मिभिः॒समु॑च्यसि |{आत्रेयः श्यावाश्वः | सविता | जगती}

उ॒तरात्री᳚मुभ॒यतः॒परी᳚यसउ॒तमि॒त्रोभ॑वसिदेव॒धर्म॑भिः॒(स्वाहा᳚) || 4 ||

उ॒त¦या॒सि॒¦स॒वि॒त॒रिति॑¦त्रीणि॑¦रो॒च॒ना¦उ॒त¦सूर्य॑स्य¦र॒श्मिऽभिः॑¦स‌म्¦उ॒च्य॒सि॒ |
उ॒त¦रात्री᳚‌म्¦उ॒भ॒यतः॑¦परि॑¦ई॒य॒से॒¦उ॒त¦मि॒त्रः¦भ॒व॒सि॒¦दे॒व॒¦धर्म॑ऽभिः ||

उ॒तेशि॑षेप्रस॒वस्य॒त्वमेक॒इदु॒तपू॒षाभ॑वसिदेव॒याम॑भिः |{आत्रेयः श्यावाश्वः | सविता | जगती}

उ॒तेदंविश्वं॒भुव॑नं॒विरा᳚जसिश्या॒वाश्व॑स्तेसवितः॒स्तोम॑मानशे॒(स्वाहा᳚) || 5 ||

उ॒त¦ई॒शि॒षे॒¦प्र॒ऽस॒वस्य॑¦त्व‌म्¦एकः॑¦इत्¦उ॒त¦पू॒षा¦भ॒व॒सि॒¦दे॒व॒¦याम॑ऽभिः |
उ॒त¦इ॒द‌म्¦विश्व᳚‌म्¦भुव॑न‌म्¦वि¦रा॒ज॒सि॒¦श्या॒व।आ॑श्वः¦ते॒¦स॒वि॒त॒रिति॑¦स्तोम᳚‌म्¦आ॒न॒शे॒ ||

[74] तत्सवितुरिति नवर्चस्य सूक्तस्यात्रेयःश्यावाश्वः सवितागायत्री आद्यानुष्टुप् |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:82}{अनुवाक:6, सूक्त:10}
तत्‌स॑वि॒तुर्वृ॑णीमहेव॒यंदे॒वस्य॒भोज॑नम् |{आत्रेयः श्यावाश्वः | सविता | अनुष्टुप्}

श्रेष्ठं᳚सर्व॒धात॑मं॒तुरं॒भग॑स्यधीमहि॒(स्वाहा᳚) || 1 || वर्ग:25

तत्¦स॒वि॒तुः¦वृ॒णी॒म॒हे॒¦व॒य‌म्¦दे॒वस्य॑¦भोज॑न‌म् | श्रेष्ठ᳚‌म्¦स॒र्व॒ऽधात॑म‌म्¦तुर᳚‌म्¦भग॑स्य¦धी॒म॒हि॒ ||

अस्य॒हिस्वय॑शस्तरंसवि॒तुःकच्च॒नप्रि॒यम् |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

नमि॒नन्ति॑स्व॒राज्य॒‌म्(स्वाहा᳚) || 2 ||

अस्य॑¦हि¦स्वय॑शःऽतर‌म्¦स॒वि॒तुः¦कत्¦च॒न¦प्रि॒य‌म् | न¦मि॒नन्ति॑¦स्व॒ऽराज्य᳚‌म् ||

सहिरत्ना᳚निदा॒शुषे᳚सु॒वाति॑सवि॒ताभगः॑ |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

तंभा॒गंचि॒त्रमी᳚महे॒(स्वाहा᳚) || 3 ||

सः¦हि¦रत्ना᳚नि¦दा॒शुषे᳚¦सु॒वाति॑¦स॒वि॒ता¦भगः॑ | त‌म्¦भा॒ग‌म्¦चि॒त्र‌म्¦ई॒म॒हे॒ ||

अ॒द्यानो᳚देवसवितःप्र॒जाव॑त्‌सावीः॒सौभ॑गम् |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

परा᳚दु॒ष्ष्वप्न्यं᳚सुव॒(स्वाहा᳚) || 4 ||

अ॒द्य¦नः॒¦दे॒व॒¦स॒वि॒त॒रिति॑¦प्र॒जाऽव॑त्¦सा॒वीः॒¦सौभ॑ग‌म् | परा᳚¦दुः॒ऽस्वप्न्य᳚‌म्¦सु॒व॒ ||

विश्वा᳚निदेवसवितर्दुरि॒तानि॒परा᳚सुव |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

यद्‌भ॒द्रंतन्न॒आसु॑व॒(स्वाहा᳚) || 5 ||

विश्वा᳚नि¦दे॒व॒¦स॒वि॒तः॒¦दुः॒ऽ‌इ॒तानि॑¦परा᳚¦सु॒व॒ | यत्¦भ॒द्र‌म्¦तत्¦नः॒¦आ¦सु॒व॒ ||

अना᳚गसो॒,अदि॑तयेदे॒वस्य॑सवि॒तुःस॒वे |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

विश्वा᳚वा॒मानि॑धीमहि॒(स्वाहा᳚) || 6 || वर्ग:26

अना᳚गसः¦अदि॑तये¦दे॒वस्य॑¦स॒वि॒तुः¦स॒वे | विश्वा᳚¦वा॒मानि॑¦धी॒म॒हि॒ ||

आवि॒श्वदे᳚वं॒सत्प॑तिंसू॒क्तैर॒द्यावृ॑णीमहे |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

स॒त्यस॑वंसवि॒तार॒‌म्(स्वाहा᳚) || 7 ||

आ¦वि॒श्वऽदे᳚व‌म्¦सत्ऽप॑ति‌म्¦सु॒।औ॒क्तैः¦अ॒द्य¦वृ॒णी॒म॒हे॒ | स॒त्यऽस॑व‌म्¦स॒वि॒तार᳚‌म् ||

यइ॒मे,उ॒भे,अह॑नीपु॒रएत्यप्र॑युच्छन् |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

स्वा॒धीर्दे॒वःस॑वि॒ता(स्वाहा᳚) || 8 ||

यः¦इ॒मे इति॑¦उ॒भे इति॑¦अह॑नी॒ इति॑¦पु॒रः¦एति॑¦अप्र॑ऽयुच्छन् | सु॒ऽआ॒धीः¦दे॒वः¦स॒वि॒ता ||

यइ॒माविश्वा᳚जा॒तान्या᳚श्रा॒वय॑ति॒श्लोके᳚न |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

प्रच॑सु॒वाति॑सवि॒ता(स्वाहा᳚) || 9 ||

यः¦इ॒मा¦विश्वा᳚¦जा॒तानि॑¦आ॒ऽश्र॒वय॑ति¦श्लोके᳚न | प्र¦च॒¦सु॒वाति॑¦स॒वि॒ता ||

[75] अच्छावदेति दशर्चस्य सूक्तस्य भौमोत्रिः पर्जन्यस्त्रिष्टुप्‌ द्वितीयादितिस्रोजगत्यो नवम्यनुष्टुप् |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:83}{अनुवाक:6, सूक्त:11}
अच्छा᳚वदत॒वसं᳚गी॒र्भिरा॒भिःस्तु॒हिप॒र्जन्यं॒नम॒सावि॑वास |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्}

कनि॑क्रदद्‌वृष॒भोजी॒रदा᳚नू॒रेतो᳚दधा॒त्योष॑धीषु॒गर्भ॒‌म्(स्वाहा᳚) || 1 || वर्ग:27

अच्छ॑¦व॒द॒¦त॒वस᳚‌म्¦गीः॒ऽभिः¦आ॒भिः¦स्तु॒हि¦प॒र्जन्य᳚‌म्¦नम॑सा¦आ |वि॒वा॒स॒ |
कनि॑क्रदत्¦वृ॒ष॒भः¦जी॒रऽदा᳚नुः¦रेतः॑¦द॒धा॒ति॒¦ओष॑धीषु¦गर्भ᳚‌म् ||

विवृ॒क्षान्‌ह᳚न्त्यु॒तह᳚न्तिर॒क्षसो॒विश्वं᳚बिभाय॒भुव॑नंम॒हाव॑धात् |{भौमोत्रिः | पर्जन्यः | जगती}

उ॒ताना᳚गा,ईषते॒वृष्ण्या᳚वतो॒यत्‌प॒र्जन्यः॑स्त॒नय॒न्‌हन्ति॑दु॒ष्कृतः॒(स्वाहा᳚) || 2 ||

वि¦वृ॒क्षान्¦ह॒न्ति॒¦उ॒त¦ह॒न्ति॒¦र॒क्षसः॑¦विश्व᳚‌म्¦बि॒भा॒य॒¦भुव॑न‌म्¦म॒हाऽव॑धात् |
उ॒त¦अना᳚गाः¦ई॒ष॒ते॒¦वृष्ण्य॑ऽवतः¦यत्¦प॒र्जन्यः॑¦स्त॒नय॑न्¦हन्ति॑¦दुः॒ऽकृतः॑ ||

र॒थीव॒कश॒याश्वाँ᳚,अभिक्षि॒पन्ना॒विर्दू॒तान्‌कृ॑णुतेव॒र्ष्या॒३॑(आँ॒)अह॑ |{भौमोत्रिः | पर्जन्यः | जगती}

दू॒रात्‌सिं॒हस्य॑स्त॒नथा॒,उदी᳚रते॒यत्‌प॒र्जन्यः॑कृणु॒तेव॒र्ष्य१॑(अं॒)नभः॒(स्वाहा᳚) || 3 ||

र॒थीऽ‌इ᳚व¦कश॑या¦अश्वा᳚न्¦अ॒भि॒ऽक्षि॒पन्¦आ॒विः¦दू॒तान्¦कृ॒णु॒ते॒¦व॒र्ष्या᳚न्¦अह॑ |
दू॒रात्¦सिं॒हस्य॑¦स्त॒नथाः᳚¦उत्¦ई॒र॒ते॒¦यत्¦प॒र्जन्यः॑¦कृ॒णु॒ते¦व॒र्ष्य᳚‌म्¦नभः॑ ||

प्रवाता॒वान्ति॑प॒तय᳚न्तिवि॒द्युत॒उदोष॑धी॒र्जिह॑ते॒पिन्व॑ते॒स्वः॑ |{भौमोत्रिः | पर्जन्यः | जगती}

इरा॒विश्व॑स्मै॒भुव॑नायजायते॒यत्‌प॒र्जन्यः॑पृथि॒वींरेत॒साव॑ति॒(स्वाहा᳚) || 4 ||

प्र¦वाताः᳚¦वान्ति॑¦प॒तय᳚न्ति¦वि॒ऽद्युतः॑¦उत्¦ओष॑धीः¦जिह॑ते¦पिन्व॑ते¦स्व१॒॑रिति॒ स्वः॑ |
इरा᳚¦विश्व॑स्मै¦भुव॑नाय¦जा॒य॒ते॒¦यत्¦प॒र्जन्यः॑¦पृ॒थि॒वी‌म्¦रेत॑सा¦अव॑ति ||

यस्य᳚व्र॒तेपृ॑थि॒वीनन्न॑मीति॒यस्य᳚व्र॒तेश॒फव॒ज्जर्भु॑रीति |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्}

यस्य᳚व्र॒तओष॑धीर्वि॒श्वरू᳚पाः॒सनः॑पर्जन्य॒महि॒शर्म॑यच्छ॒(स्वाहा᳚) || 5 ||

यस्य॑¦व्र॒ते¦पृ॒थि॒वी¦नन्न॑मीति¦यस्य॑¦व्र॒ते¦श॒फऽव॑त्¦जर्भु॑रीति |
यस्य॑¦व्र॒ते¦ओष॑धीः¦वि॒श्वऽरू᳚पाः¦सः¦नः॒¦प॒र्ज॒न्य॒¦महि॑¦शर्म॑¦य॒च्छ॒ ||

दि॒वोनो᳚वृ॒ष्टिंम॑रुतोररीध्वं॒प्रपि᳚न्वत॒वृष्णो॒,अश्व॑स्य॒धाराः᳚ |{भौमोत्रिः | पर्जन्यः | जगती}

अ॒र्वाङे॒तेन॑स्तनयि॒त्नुनेह्य॒पोनि॑षि॒ञ्चन्नसु॑रःपि॒तानः॒(स्वाहा᳚) || 6 || वर्ग:28

दि॒वः¦नः॒¦वृ॒ष्टि‌म्¦म॒रु॒तः॒¦र॒री॒ध्व॒‌म्¦प्र¦पि॒न्व॒त॒¦वृष्णः॑¦अश्व॑स्य¦धाराः᳚ |
अ॒र्वाङ्¦ए॒तेन॑¦स्त॒न॒यि॒त्नुना᳚¦आ¦इ॒हि॒¦अ॒पः¦नि॒ऽसिं॒चन्¦असु॑रः¦पि॒ता¦नाः॒ ||

अ॒भिक्र᳚न्दस्त॒नय॒गर्भ॒माधा᳚,उद॒न्वता॒परि॑दीया॒रथे᳚न |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्}

दृतिं॒सुक॑र्ष॒विषि॑तं॒न्य᳚ञ्चंस॒माभ॑वन्तू॒द्वतो᳚निपा॒दाः(स्वाहा᳚) || 7 ||

अ॒भि¦क्र॒न्द॒¦स्त॒नय॑¦गर्भ᳚‌म्¦आ¦धाः॒¦उ॒द॒न्ऽवता᳚¦परि॑¦दी॒य॒¦रथे᳚न |
दृति᳚‌म्¦सु¦क॒र्ष॒¦विऽसि॑त‌म्¦न्यं᳚च‌म्¦स॒माः¦भ॒व॒न्तु॒¦उ॒त्ऽवतः॑¦नि॒ऽपा॒दाः ||

म॒हान्तं॒कोश॒मुद॑चा॒निषि᳚ञ्च॒स्यन्द᳚न्तांकु॒ल्याविषि॑ताःपु॒रस्ता᳚त् |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्}

घृ॒तेन॒द्यावा᳚पृथि॒वीव्यु᳚न्धिसुप्रपा॒णंभ॑वत्व॒घ्न्याभ्यः॒(स्वाहा᳚) || 8 ||

म॒हान्त᳚‌म्¦कोश᳚‌म्¦उत्¦अ॒च॒¦नि¦सिं॒च॒¦स्यन्द᳚न्ता‌म्¦कु॒ल्याः¦विऽसि॑ताः¦पु॒रस्ता᳚त् |
घृ॒तेन॑¦द्यावा᳚पृथि॒वी इति॑¦वि¦उ॒न्धि॒¦सु॒ऽप्र॒पा॒न‌म्¦भ॒व॒तु॒¦अ॒घ्न्याभ्यः॑ ||

यत्‌प॑र्जन्य॒कनि॑क्रदत्स्त॒नय॒न्‌हंसि॑दु॒ष्कृतः॑ |{भौमोत्रिः | पर्जन्यः | अनुष्टुप्}

प्रती॒दंविश्वं᳚मोदते॒यत्‌किंच॑पृथि॒व्यामधि॒(स्वाहा᳚) || 9 ||

यत्¦प॒र्ज॒न्य॒¦कनि॑क्रदत्¦स्त॒नय॑न्¦हंसि॑¦दुः॒ऽकृतः॑ | प्रति॑¦इ॒द‌म्¦विश्व᳚‌म्¦मो॒द॒ते॒¦यत्¦कि‌म्¦च॒¦पृ॒थि॒व्या‌म्¦अधि॑ ||

अव॑र्षीर्व॒र्षमुदु॒षूगृ॑भा॒याऽक॒र्धन्वा॒न्यत्ये᳚त॒वा,उ॑ |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्}

अजी᳚जन॒ओष॑धी॒र्भोज॑नाय॒कमु॒तप्र॒जाभ्यो᳚ऽविदोमनी॒षाम्(स्वाहा᳚) || 10 ||

अव॑र्षीः¦व॒र्ष‌म्¦उत्¦ऊँ॒ इति॑¦सु¦गृ॒भा॒य॒¦अकः॑¦धन्वा᳚नि¦अति॑ऽए॒त॒वै¦ऊँ॒ इति॑ |
अजी᳚जनः¦ओष॑धीः¦भोज॑नाय¦क‌म्¦उ॒त¦प्र॒ऽजाभ्यः॑¦अ॒वि॒दः॒¦म॒नी॒षा‌म् ||

[76] बळित्थेति तृचस्य सूक्तस्य भौमोत्रिःपृथिव्यनुष्टुप् |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:84}{अनुवाक:6, सूक्त:12}
बळि॒त्थापर्व॑तानांखि॒द्रंबि॑भर्षिपृथिवि |{भौमोत्रिः | पृथिवी | अनुष्टुप्}

प्रयाभूमिं᳚प्रवत्वतिम॒ह्नाजि॒नोषि॑महिनि॒(स्वाहा᳚) || 1 || वर्ग:29

बट्¦इ॒त्था¦पर्व॑ताना‌म्¦खि॒द्र‌म्¦बि॒भ॒र्षि॒¦पृ॒थि॒वि॒ | प्र¦या¦भूमि᳚‌म्¦प्र॒व॒त्व॒ति॒¦म॒ह्ना¦जि॒नोषि॑¦म॒हि॒नि॒ ||

स्तोमा᳚सस्त्वाविचारिणि॒प्रति॑ष्टोभन्त्य॒क्तुभिः॑ |{भौमोत्रिः | पृथिवी | अनुष्टुप्}

प्रयावाजं॒नहेष᳚न्तंपे॒रुमस्य॑स्यर्जुनि॒(स्वाहा᳚) || 2 ||

स्तोमा᳚सः¦त्वा॒¦वि॒ऽचा॒रि॒णि॒¦प्रति॑¦स्तो॒भ॒न्ति॒¦अ॒क्तुऽभिः॑ | प्र¦या¦वाज᳚‌म्¦न¦हेष᳚न्त‌म्¦पे॒रु‌म्¦अस्य॑सि¦अ॒र्जु॒नि॒ ||

दृ॒ळ्हाचि॒द्‌यावन॒स्पती᳚न्क्ष्म॒यादर्ध॒र्ष्योज॑सा |{भौमोत्रिः | पृथिवी | अनुष्टुप्}

यत्ते᳚,अ॒भ्रस्य॑वि॒द्युतो᳚दि॒वोवर्ष᳚न्तिवृ॒ष्टयः॒(स्वाहा᳚) || 3 ||

दृ॒ळ्हा¦चि॒त्¦या¦वन॒स्पती᳚न्¦क्ष्म॒या¦दर्ध॑र्षि¦ओज॑सा | यत्¦ते॒¦अ॒भ्रस्य॑¦वि॒ऽद्युतः॑¦दि॒वः¦वर्ष᳚न्ति¦वृ॒ष्टयः॑ ||

[77] प्रसम्राजइत्यष्टर्चस्य सूक्तस्य भौमोत्रिर्वरुणत्रिष्टुप् |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:85}{अनुवाक:6, सूक्त:13}
प्रस॒म्राजे᳚बृ॒हद॑र्चागभी॒रंब्रह्म॑प्रि॒यंवरु॑णायश्रु॒ताय॑ |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

वियोज॒घान॑शमि॒तेव॒चर्मो᳚प॒स्तिरे᳚पृथि॒वींसूर्या᳚य॒(स्वाहा᳚) || 1 || वर्ग:30

प्र¦स॒‌म्ऽराजे᳚¦बृ॒हत्¦अ॒र्च॒¦ग॒भी॒र‌म्¦ब्रह्म॑¦प्रि॒य‌म्¦वरु॑णाय¦श्रु॒ताय॑ |
वि¦यः¦ज॒घान॑¦श॒मि॒ताऽ‌इ᳚व¦चर्म॑¦उ॒प॒ऽस्तिरे᳚¦पृ॒थि॒वी‌म्¦सूर्या᳚य ||

वने᳚षु॒व्य१॑(अ॒)न्तरि॑क्षंततान॒वाज॒मर्व॑त्सु॒पय॑उ॒स्रिया᳚सु |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

हृ॒त्सुक्रतुं॒वरु॑णो,अ॒प्स्व१॑(अ॒)ग्निंदि॒विसूर्य॑मदधा॒त्‌सोम॒मद्रौ॒(स्वाहा᳚) || 2 ||

वने᳚षु¦वि¦अ॒न्तरि॑क्ष‌म्¦त॒ता॒न॒¦वाज᳚‌म्¦अर्व॑त्ऽसु¦पयः॑¦उ॒स्रिया᳚सु |
हृ॒त्ऽसु¦क्रतु᳚‌म्¦वरु॑णः¦अ॒प्ऽसु¦अ॒ग्नि‌म्¦दि॒वि¦सूर्य᳚‌म्¦अ॒द॒धा॒त्¦सोम᳚‌म्¦अद्रौ᳚ ||

नी॒चीन॑बारं॒वरु॑णः॒कव᳚न्धं॒प्रस॑सर्ज॒रोद॑सी,अ॒न्तरि॑क्षम् |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

तेन॒विश्व॑स्य॒भुव॑नस्य॒राजा॒यवं॒नवृ॒ष्टिर्व्यु॑नत्ति॒भूम॒(स्वाहा᳚) || 3 ||

नी॒चीन॑ऽबार‌म्¦वरु॑णः¦कव᳚न्ध‌म्¦प्र¦स॒स॒र्ज॒¦रोद॑सी॒ इति॑¦अ॒न्तरि॑क्ष‌म् |
तेन॑¦विश्व॑स्य¦भुव॑नस्य¦राजा᳚¦यव᳚‌म्¦न¦वृ॒ष्टिः¦वि¦उ॒न॒त्ति॒¦भूम॑ ||

उ॒नत्ति॒भूमिं᳚पृथि॒वीमु॒तद्यांय॒दादु॒ग्धंवरु॑णो॒वष्ट्यादित् |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

सम॒भ्रेण॑वसत॒पर्व॑तासस्तविषी॒यन्तः॑श्रथयन्तवी॒राः(स्वाहा᳚) || 4 ||

उ॒नत्ति॑¦भूमि᳚‌म्¦पृ॒थि॒वी‌म्¦उ॒त¦द्या‌म्¦य॒दा¦दु॒ग्ध‌म्¦वरु॑णः¦वष्टि॑¦आत्¦इत् |
स‌म्¦अ॒भ्रेण॑¦व॒स॒त॒¦पर्व॑तासः¦त॒वि॒षी॒ऽयन्तः॑¦श्र॒थ॒य॒न्त॒¦वी॒राः ||

इ॒मामू॒ष्वा᳚सु॒रस्य॑श्रु॒तस्य॑म॒हींमा॒यांवरु॑णस्य॒प्रवो᳚चम् |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

माने᳚नेवतस्थि॒वाँ,अ॒न्तरि॑क्षे॒वियोम॒मेपृ॑थि॒वींसूर्ये᳚ण॒(स्वाहा᳚) || 5 ||

इ॒मा‌म्¦ऊँ॒ इति॑¦सु¦आ॒सु॒रस्य॑¦श्रु॒तस्य॑¦म॒ही‌म्¦मा॒या‌म्¦वरु॑णस्य¦प्र¦वो॒च॒‌म् |
माने᳚नऽ‌इव¦त॒स्थि॒ऽवान्¦अ॒न्तरि॑क्षे¦वि¦यः¦म॒मे¦पृ॒थि॒वी‌म्¦सूर्ये᳚ण ||

इ॒मामू॒नुक॒वित॑मस्यमा॒यांम॒हींदे॒वस्य॒नकि॒राद॑धर्ष |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

एकं॒यदु॒द्नानपृ॒णन्त्येनी᳚रासि॒ञ्चन्ती᳚र॒वन॑यःसमु॒द्रम्(स्वाहा᳚) || 6 || वर्ग:31

इ॒मा‌म्¦ऊँ॒ इति॑¦नु¦क॒विऽत॑मस्य¦मा॒या‌म्¦म॒ही‌म्¦दे॒वस्य॑¦नकिः॑¦आ¦द॒ध॒र्ष॒ |
एक᳚‌म्¦यत्¦उ॒द्ना¦न¦पृ॒णन्ति॑¦एनीः᳚¦आ॒ऽसिं॒चन्तीः᳚¦अ॒वन॑यः¦स॒मु॒द्र‌म् ||

अ॒र्य॒म्यं᳚वरुणमि॒त्र्यं᳚वा॒सखा᳚यंवा॒सद॒मिद्‌भ्रात॑रंवा |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

वे॒शंवा॒नित्यं᳚वरु॒णार॑णंवा॒यत्‌सी॒माग॑श्चकृ॒माशि॒श्रथ॒स्तत्(स्वाहा᳚) || 7 ||

अ॒र्य॒म्य᳚‌म्¦व॒रु॒ण॒¦मि॒त्र्य᳚‌म्¦वा॒¦सखा᳚य‌म्¦वा॒¦सद᳚‌म्¦इत्¦भ्रात॑र‌म्¦वा॒ |
वे॒श‌म्¦वा॒¦नित्य᳚‌म्¦व॒रु॒ण॒¦अर॑ण‌म्¦वा॒¦यत्¦सी॒‌म्¦आगः॑¦च॒कृ॒म¦शि॒श्रथः॑¦तत् ||

कि॒त॒वासो॒यद्‌रि॑रि॒पुर्नदी॒वियद्‌वा᳚घास॒त्यमु॒तयन्नवि॒द्म |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

सर्वा॒ताविष्य॑शिथि॒रेव॑दे॒वाऽधा᳚तेस्यामवरुणप्रि॒यासः॒(स्वाहा᳚) || 8 ||

कि॒त॒वासः॑¦यत्¦रि॒रि॒पुः¦न¦दी॒वि¦यत्¦वा॒¦घ॒¦स॒त्य‌म्¦उ॒त¦यत्¦न¦वि॒द्म |
सर्वा᳚¦ता¦वि¦स्य॒¦शि॒थि॒राऽ‌इ᳚व¦दे॒व॒¦अध॑¦ते॒¦स्या॒म॒¦व॒रु॒ण॒¦प्रि॒यासः॑ ||

[78] इंद्राग्नीयमिति षडृचस्य सूक्तस्य भौमोत्रिरिंद्राग्न्यनुष्टुप् अंत्याविराट्‌पूर्वापंक्त्युत्तरावा |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:86}{अनुवाक:6, सूक्त:14}
इन्द्रा᳚ग्नी॒यमव॑थउ॒भावाजे᳚षु॒मर्त्य᳚म् |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्}

दृ॒ळ्हाचि॒त्‌सप्रभे᳚दतिद्यु॒म्नावाणी᳚रिवत्रि॒तः(स्वाहा᳚) || 1 || वर्ग:32

इन्द्रा᳚ग्नी॒ इति॑¦य‌म्¦अव॑थः¦उ॒भा¦वाजे᳚षु¦मर्त्य᳚‌म् | दृ॒ळ्हा¦चि॒त्¦सः¦प्र¦भे॒द॒ति॒¦द्यु॒म्ना¦वाणीः᳚ऽ‌इव¦त्रि॒तः ||

यापृत॑नासुदु॒ष्टरा॒यावाजे᳚षुश्र॒वाय्या᳚ |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्}

यापञ्च॑चर्ष॒णीर॒भी᳚न्द्रा॒ग्नीताह॑वामहे॒(स्वाहा᳚) || 2 ||

या¦पृत॑नासु¦दु॒स्तरा᳚¦या¦वाजे᳚षु¦श्र॒वाय्या᳚ | या¦पंच॑¦च॒र्ष॒णीः¦अ॒भि¦इ॒न्द्रा॒ग्नी इति॑¦ता¦ह॒वा॒म॒हे॒ ||

तयो॒रिदम॑व॒च्छव॑स्ति॒ग्मादि॒द्युन्म॒घोनोः᳚ |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्}

प्रति॒द्रुणा॒गभ॑स्त्यो॒र्गवां᳚वृत्र॒घ्नएष॑ते॒(स्वाहा᳚) || 3 ||

तयोः᳚¦इत्¦अम॑ऽवत्¦शवः॑¦ति॒ग्मा¦दि॒द्युत्¦म॒घोनोः᳚ | प्रति॑¦द्रुणा᳚¦गभ॑स्त्योः¦गवा᳚‌म्¦वृ॒त्र॒ऽघ्ने¦आ¦ई॒ष॒ते॒ ||

तावा॒मेषे॒रथा᳚नामिन्द्रा॒ग्नीह॑वामहे |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्}

पती᳚तु॒रस्य॒राध॑सोवि॒द्वांसा॒गिर्व॑णस्तमा॒(स्वाहा᳚) || 4 ||

ता¦वा॒‌म्¦एषे᳚¦रथा᳚ना‌म्¦इ॒न्द्रा॒ग्नी इति॑¦ह॒वा॒म॒हे॒ | पती॒ इति॑¦तु॒रस्य॑¦राध॑सः¦वि॒द्वांसा᳚¦गिर्व॑णःऽतमा ||

तावृ॒धन्ता॒वनु॒द्यून्मर्ता᳚यदे॒वाव॒दभा᳚ |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्}

अर्ह᳚न्ताचित्‌पु॒रोद॒धेंऽशे᳚वदे॒वावर्व॑ते॒(स्वाहा᳚) || 5 ||

ता¦वृ॒धन्तौ᳚¦अनु॑¦द्यून्¦मर्ता᳚य¦दे॒वौ¦अ॒दभा᳚ | अर्ह᳚न्ता¦चि॒त्¦पु॒रः¦द॒धे॒¦अंशा᳚ऽ‌इव¦दे॒वौ¦अर्व॑ते ||

ए॒वेन्द्रा॒ग्निभ्या॒महा᳚विह॒व्यंशू॒ष्यं᳚घृ॒तंनपू॒तमद्रि॑भिः |{भौमोत्रिः | इन्द्राग्नी | १/२:विराट् २/२:पङ्क्तिः}

तासू॒रिषु॒श्रवो᳚बृ॒हद्र॒यिंगृ॒णत्सु॑दिधृत॒मिषं᳚गृ॒णत्सु॑दिधृत॒‌म्(स्वाहा᳚) || 6 ||

ए॒व¦इ॒न्द्रा॒ग्निऽभ्या᳚‌म्¦अहा᳚वि¦ह॒व्य‌म्¦शू॒ष्य᳚‌म्¦घृ॒त‌म्¦न¦पू॒त‌म्¦अद्रि॑ऽभिः | ता¦सू॒रिषु॑¦श्रवः॑¦बृ॒हत्¦र॒यि‌म्¦गृ॒णत्ऽसु॑¦दि॒धृ॒त॒‌म्¦इष᳚‌म्¦गृ॒णत्ऽसु॑¦दि॒धृ॒त॒‌म् ||

[79] प्रवोमहइति नवर्चस्य सूक्तस्यात्रेय एवयामरुन्मरुतोतिजगती |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:87}{अनुवाक:6, सूक्त:15}
प्रवो᳚म॒हेम॒तयो᳚यन्तु॒विष्ण॑वेम॒रुत्व॑तेगिरि॒जा,ए᳚व॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

प्रशर्धा᳚य॒प्रय॑ज्यवेसुखा॒दये᳚त॒वसे᳚भ॒न्ददि॑ष्टये॒धुनि᳚व्रताय॒शव॑से॒(स्वाहा᳚) || 1 || वर्ग:33

प्र¦वः॒¦म॒हे¦म॒तयः॑¦य॒न्तु॒¦विष्ण॑वे¦म॒रुत्व॑ते¦गि॒रि॒ऽजाः¦ए॒व॒याम॑रुत् |
प्र¦शर्धा᳚य¦प्रऽय॑ज्यवे¦सु॒ऽखा॒दये᳚¦त॒वसे᳚¦भ॒न्दत्ऽ‌इ᳚ष्टये¦धुनि॑ऽव्रताय¦शव॑से ||

प्रयेजा॒ताम॑हि॒नायेच॒नुस्व॒यंप्रवि॒द्मना᳚ब्रु॒वत॑एव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

क्रत्वा॒तद्‌वो᳚मरुतो॒नाधृषे॒शवो᳚दा॒नाम॒ह्नातदे᳚षा॒मधृ॑ष्टासो॒नाद्र॑यः॒(स्वाहा᳚) || 2 ||

प्र¦ये¦जा॒ताः¦म॒हि॒ना¦ये¦च॒¦नु¦स्व॒य‌म्¦प्र¦वि॒द्मना᳚¦ब्रु॒वते᳚¦ए॒व॒याम॑रुत् |
क्रत्वा᳚¦तत्¦वः॒¦म॒रु॒तः॒¦न¦आ॒ऽधृषे᳚¦शवः॑¦दा॒ना¦म॒ह्ना¦तत्¦ए॒षा॒‌म्¦अधृ॑ष्टासः¦न¦अद्र॑यः ||

प्रयेदि॒वोबृ॑ह॒तःशृ᳚ण्वि॒रेगि॒रासु॒शुक्वा᳚नःसु॒भ्व॑एव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

नयेषा॒मिरी᳚स॒धस्थ॒ईष्ट॒आँ,अ॒ग्नयो॒नस्ववि॑द्युतः॒प्रस्प॒न्द्रासो॒धुनी᳚ना॒‌म्(स्वाहा᳚) || 3 ||

प्र¦ये¦दि॒वः¦बृ॒ह॒तः¦शृ॒ण्वि॒रे¦गि॒रा¦सु॒ऽशुक्वा᳚नः¦सु॒ऽभ्वः॑¦ए॒व॒याम॑रुत् |
न¦येषा᳚‌म्¦इरी᳚¦स॒धऽस्थे᳚¦ईष्टे᳚¦आ¦अ॒ग्नयः॑¦न¦स्वऽवि॑द्युतः¦प्र¦स्प॒न्द्रासः॑¦धुनी᳚ना‌म् ||

सच॑क्रमेमह॒तोनिरु॑रुक्र॒मःस॑मा॒नस्मा॒त्‌सद॑सएव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

य॒दायु॑क्त॒त्मना॒स्वादधि॒ष्णुभि॒र्विष्प॑र्धसो॒विम॑हसो॒जिगा᳚ति॒शेवृ॑धो॒नृभिः॒(स्वाहा᳚) || 4 ||

सः¦च॒क्र॒मे॒¦म॒ह॒तः¦निः¦उ॒रु॒ऽक्र॒मः¦स॒मा॒नस्मा᳚त्¦सद॑सः¦ए॒व॒याम॑रुत् |
य॒दा¦अयु॑क्त¦त्मना᳚¦स्वात्¦अधि॑¦स्नुऽभिः॑¦विऽस्प॑र्धसः¦विऽम॑हसः¦जिगा᳚ति¦शेऽवृ॑धः¦नृऽभिः॑ ||

स्व॒नोनवोऽम॑वान्‌रेजय॒द्‌वृषा᳚त्वे॒षोय॒यिस्त॑वि॒षए᳚व॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

येना॒सह᳚न्तऋ॒ञ्जत॒स्वरो᳚चिषः॒स्थार॑श्मानोहिर॒ण्ययाः᳚स्वायु॒धास॑इ॒ष्मिणः॒(स्वाहा᳚) || 5 ||

स्व॒नः¦न¦वः॒¦अम॑ऽवान्¦रे॒ज॒य॒त्¦वृषा᳚¦त्वे॒षः¦य॒यिः¦त॒वि॒षः¦ए॒व॒याम॑रुत् |
येन॑¦सह᳚न्तः¦ऋं॒जत॑¦स्वऽरो᳚चिषः¦स्थाःऽर॑श्मानः¦हि॒र॒ण्ययाः᳚¦सु॒ऽआ॒यु॒धासः॑¦इ॒ष्मिणः॑ ||

अ॒पा॒रोवो᳚महि॒मावृ॑द्धशवसस्त्वे॒षंशवो᳚ऽवत्वेव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

स्थाता᳚रो॒हिप्रसि॑तौसं॒दृशि॒स्थन॒तेन॑उरुष्यतानि॒दःशु॑शु॒क्वांसो॒नाग्नयः॒(स्वाहा᳚) || 6 || वर्ग:34

अ॒पा॒रः¦वः॒¦म॒हि॒मा¦वृ॒द्ध॒ऽश॒व॒सः॒¦त्वे॒ष‌म्¦शवः॑¦अ॒व॒तु॒¦ए॒व॒याम॑रुत् |
स्थाता᳚रः¦हि¦प्रऽसि॑तौ¦स॒‌म्ऽदृशि॑¦स्थन॑¦ते¦नः॒¦उ॒रु॒ष्य॒त॒¦नि॒दः¦शु॒शु॒क्वांसः॑¦न¦अ॒ग्नयः॑ ||

तेरु॒द्रासः॒सुम॑खा,अ॒ग्नयो᳚यथातुविद्यु॒म्ना,अ॑वन्त्वेव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

दी॒र्घंपृ॒थुप॑प्रथे॒सद्म॒पार्थि॑वं॒येषा॒मज्मे॒ष्वाम॒हःशर्धां॒स्यद्भु॑तैनसा॒‌म्(स्वाहा᳚) || 7 ||

ते¦रु॒द्रासः॑¦सुऽम॑खाः¦अ॒ग्नयः॑¦य॒था॒¦तु॒वि॒ऽद्यु॒म्नाः¦अ॒व॒न्तु॒¦ए॒व॒याम॑रुत् |
दी॒र्घ‌म्¦पृ॒थु¦प॒प्र॒थे॒¦सद्म॑¦पार्थि॑व‌म्¦येषा᳚‌म्¦अज्मे᳚षु¦आ¦म॒हः¦शर्धां᳚सि¦अद्भु॑तऽएनसा‌म् ||

अ॒द्वे॒षोनो᳚मरुतोगा॒तुमेत॑न॒श्रोता॒हवं᳚जरि॒तुरे᳚व॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

विष्णो᳚र्म॒हःस॑मन्यवोयुयोतन॒स्मद्‌र॒थ्यो॒३॑(ओ॒)नदं॒सनाऽप॒द्वेषां᳚सिसनु॒तः(स्वाहा᳚) || 8 ||

अ॒द्वे॒षः¦नः॒¦म॒रु॒तः॒¦गा॒तु‌म्¦आ¦इ॒त॒न॒¦श्रोत॑¦हव᳚‌म्¦ज॒रि॒तुः¦ए॒व॒याम॑रुत् |
विष्णोः᳚¦म॒हः¦स॒ऽम॒न्य॒वः॒¦यु॒यो॒त॒न॒¦स्मत्¦र॒थ्यः॑¦न¦दं॒सना᳚¦अप॑¦द्वेषां᳚सि¦स॒नु॒तरिति॑ ||

गन्ता᳚नोय॒ज्ञंय॑ज्ञियाःसु॒शमि॒श्रोता॒हव॑मर॒क्षए᳚व॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

ज्येष्ठा᳚सो॒नपर्व॑तासो॒व्यो᳚मनियू॒यंतस्य॑प्रचेतसः॒स्यात॑दु॒र्धर्त॑वोनि॒दः(स्वाहा᳚) || 9 ||

गन्त॑¦नः॒¦य॒ज्ञ‌म्¦य॒ज्ञि॒याः॒¦सु॒ऽशमि॑¦श्रोत॑¦हव᳚‌म्¦अ॒र॒क्षः¦ए॒व॒याम॑रुत् |
ज्येष्ठा᳚सः¦न¦पर्व॑तासः¦विऽओ᳚मनि¦यू॒य‌म्¦तस्य॑¦प्र॒ऽचे॒त॒सः॒¦स्यात॑¦दुः॒ऽधर्त॑वः¦नि॒दः ||

[80] त्वंह्यग्नइति त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |{अष्टक:4, अध्याय:4}{मंडल:6, सूक्त:1}{अनुवाक:1, सूक्त:1}
त्वंह्य॑ग्नेप्रथ॒मोम॒नोता॒ऽस्याधि॒यो,अभ॑वोदस्म॒होता᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

त्वंसीं᳚वृषन्नकृणोर्दु॒ष्टरी᳚तु॒सहो॒विश्व॑स्मै॒सह॑से॒सह॑ध्यै॒(स्वाहा᳚) || 1 || वर्ग:35

त्व‌म्¦हि¦अ॒ग्ने॒¦प्र॒थ॒मः¦म॒नोता᳚¦अ॒स्याः¦धि॒यः¦अभ॑वः¦दस्म॑¦होता᳚ |
त्व‌म्¦सी॒‌म्¦वृ॒ष॒न्¦अ॒कृत॒णोः॒¦दु॒स्तरी᳚तु¦सहः॑¦विश्व॑स्मै¦सह॑से¦सह॑ध्यै ||

अधा॒होता॒न्य॑सीदो॒यजी᳚यानि॒ळस्प॒दइ॒षय॒न्नीड्यः॒सन् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

तंत्वा॒नरः॑प्रथ॒मंदे᳚व॒यन्तो᳚म॒होरा॒येचि॒तय᳚न्तो॒,अनु॑ग्म॒‌न्(स्वाहा᳚) || 2 ||

अध॑¦होता᳚¦नि¦अ॒सी॒दः॒¦यजी᳚यान्¦इ॒ळः¦प॒दे¦इ॒षय॑न्¦ईड्यः॑¦सन् |
त‌म्¦त्वा॒¦नरः॑¦प्र॒थ॒म‌म्¦दे॒व॒ऽयन्तः॑¦म॒हः¦रा॒ये¦चि॒तय᳚न्तः¦अनु॑¦ग्म॒न् ||

वृ॒तेव॒यन्तं᳚ब॒हुभि᳚र्वस॒व्यै॒३॑(ऐ॒)स्त्वेर॒यिंजा᳚गृ॒वांसो॒,अनु॑ग्मन् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

रुश᳚न्तम॒ग्निंद॑र्श॒तंबृ॒हन्तं᳚व॒पाव᳚न्तंवि॒श्वहा᳚दीदि॒वांस॒‌म्(स्वाहा᳚) || 3 ||

वृ॒ताऽ‌इ᳚व¦यन्त᳚‌म्¦ब॒हुऽभिः॑¦व॒स॒व्यैः᳚¦त्वे इति॑¦र॒यि‌म्¦जा॒गृ॒ऽवांसः॑¦अनु॑¦ग्म॒न् |
रुश᳚न्त‌म्¦अ॒ग्नि‌म्¦द॒र्श॒त‌म्¦बृ॒हन्त᳚‌म्¦व॒पाऽव᳚न्त‌म्¦वि॒श्वहा᳚¦दी॒दि॒ऽवांस᳚‌म् ||

प॒दंदे॒वस्य॒नम॑सा॒व्यन्तः॑श्रव॒स्यवः॒श्रव॑आप॒न्नमृ॑क्तम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

नामा᳚निचिद्‌दधिरेय॒ज्ञिया᳚निभ॒द्रायां᳚तेरणयन्त॒संदृ॑ष्टौ॒(स्वाहा᳚) || 4 ||

प॒द‌म्¦दे॒वस्य॑¦नम॑सा¦व्यन्तः॑¦श्र॒व॒स्यवः॑¦श्रवः॑¦आ॒प॒न्¦अमृ॑क्त‌म् |
नामा᳚नि¦चि॒त्¦द॒धि॒रे॒¦य॒ज्ञिया᳚नि¦भ॒द्राया᳚‌म्¦ते॒¦र॒ण॒य॒न्त॒¦स‌म्ऽदृ॑ष्टौ ||

त्वांव॑र्धन्तिक्षि॒तयः॑पृथि॒व्यांत्वांराय॑उ॒भया᳚सो॒जना᳚नाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

त्वंत्रा॒तात॑रणे॒चेत्यो᳚भूःपि॒तामा॒तासद॒मिन्मानु॑षाणा॒‌म्(स्वाहा᳚) || 5 ||

त्वा‌म्¦व॒र्ध॒न्ति॒¦क्षि॒तयः॑¦पृ॒थि॒व्या‌म्¦त्वा‌म्¦रायः॑¦उ॒भया᳚सः¦जना᳚ना‌म् |
त्व‌म्¦त्रा॒ता¦त॒र॒णे॒¦चेत्यः॑¦भूः॒¦पि॒ता¦मा॒ता¦सद᳚‌म्¦इत्¦मानु॑षाणा‌म् ||

स॒प॒र्येण्यः॒सप्रि॒योवि॒क्ष्व१॑(अ॒)ग्निर्होता᳚म॒न्द्रोनिष॑सादा॒यजी᳚यान् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

तंत्वा᳚व॒यंदम॒आदी᳚दि॒वांस॒मुप॑ज्ञु॒बाधो॒नम॑सासदेम॒(स्वाहा᳚) || 6 || वर्ग:36

स॒प॒र्येण्यः॑¦सः¦प्रि॒यः¦वि॒क्षु¦अ॒ग्निः¦होता᳚¦म॒न्द्रः¦नि¦सि॒सा॒द॒¦यजी᳚यान् |
त‌म्¦त्वा॒¦व॒य‌म्¦दमे᳚¦आ¦दी॒दि॒ऽवांस᳚‌म्¦उप॑¦ज्ञु॒ऽबाधः॑¦नम॑सा¦स॒दे॒म॒ ||

तंत्वा᳚व॒यंसु॒ध्यो॒३॑(ओ॒)नव्य॑मग्नेसुम्ना॒यव॑ईमहेदेव॒यन्तः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

त्वंविशो᳚,अनयो॒दीद्या᳚नोदि॒वो,अ॑ग्नेबृह॒तारो᳚च॒नेन॒(स्वाहा᳚) || 7 ||

त्व‌म्¦त्वा॒¦व॒य‌म्¦सु॒ऽध्यः॑¦नव्य᳚‌म्¦अ॒ग्ने॒¦सु॒म्न॒ऽयवः॑¦ई॒म॒हे॒¦दे॒व॒ऽयन्तः॑ |
त्व‌म्¦विशः॑¦अ॒न॒यः॒¦दीद्या᳚नः¦दि॒वः¦अ॒ग्ने॒¦बृ॒ह॒ता¦रो॒च॒नेन॑ ||

वि॒शांक॒विंवि॒श्पतिं॒शश्व॑तीनांनि॒तोश॑नंवृष॒भंच॑र्षणी॒नाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

प्रेती᳚षणिमि॒षय᳚न्तंपाव॒कंराज᳚न्तम॒ग्निंय॑ज॒तंर॑यी॒णाम्(स्वाहा᳚) || 8 ||

वि॒शा‌म्¦क॒वि‌म्¦वि॒श्पति᳚‌म्¦शश्व॑तीना‌म्¦नि॒ऽतोश॑न‌म्¦वृ॒ष॒भ‌म्¦च॒र्ष॒णी॒ना‌म् |
प्रेति॑ऽ‌इषणि‌म्¦इ॒षय᳚न्त‌म्¦पा॒व॒क‌म्¦राज᳚न्त‌म्¦अ॒ग्नि‌म्¦य॒ज॒त‌म्¦र॒यी॒णा‌म् ||

सो,अ॑ग्नईजेशश॒मेच॒मर्तो॒यस्त॒आन॑ट्‌स॒मिधा᳚ह॒व्यदा᳚तिम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

यआहु॑तिं॒परि॒वेदा॒नमो᳚भि॒र्विश्वेत्‌सवा॒माद॑धते॒त्वोतः॒(स्वाहा᳚) || 9 ||

सः¦अ॒ग्ने॒¦ई॒जे॒¦श॒श॒मे¦च॒¦मर्तः॑¦यः¦ते॒¦आन॑ट्¦स॒‌म्ऽ‌इधा᳚¦ह॒व्यऽदा᳚ति‌म् |
यः¦आऽहु॑ति‌म्¦परि॑¦वेद॑¦नमः॑ऽभिः¦विश्वा᳚¦इत्¦सः¦वा॒मा¦द॒ध॒ते॒¦त्वाऽऊ᳚तः ||

अ॒स्मा,उ॑ते॒महि॑म॒हेवि॑धेम॒नमो᳚भिरग्नेस॒मिधो॒तह॒व्यैः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

वेदी᳚सूनोसहसोगी॒र्भिरु॒क्थैराते᳚भ॒द्रायां᳚सुम॒तौय॑तेम॒(स्वाहा᳚) || 10 ||

अ॒स्मै¦ऊँ॒ इति॑¦ते॒¦महि॑¦म॒हे¦वि॒धे॒म॒¦नमः॑ऽभिः¦अ॒ग्ने॒¦स॒‌म्ऽ‌इधा᳚¦उ॒त¦ह॒व्यैः |
वेदी᳚¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦गीः॒ऽभिः¦उ॒क्थैः¦आ¦ते॒¦भ॒द्राया᳚‌म्¦सु॒ऽम॒तौ¦य॒ते॒म॒ ||

आयस्त॒तन्थ॒रोद॑सी॒विभा॒साश्रवो᳚भिश्चश्रव॒स्य१॑(अ॒)स्तरु॑त्रः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

बृ॒हद्भि॒र्वाजैः॒स्थवि॑रेभिर॒स्मेरे॒वद्भि॑रग्नेवित॒रंविभा᳚हि॒(स्वाहा᳚) || 11 ||

आ¦यः¦त॒तन्थ॑¦रोद॑सी॒ इति॑¦वि¦भा॒सा¦श्रवः॑ऽभिः¦च॒¦श्र॒व॒स्यः॑¦तरु॑त्रः |
बृ॒हत्ऽभिः॑¦वाजैः᳚¦स्थवि॑रेभिः¦अ॒स्मे इति॑¦रे॒वत्ऽभिः॑¦अ॒ग्ने॒¦वि॒ऽत॒र‌म्¦वि¦भा॒हि॒ ||

नृ॒वद्‌व॑सो॒सद॒मिद्धे᳚ह्य॒स्मेभूरि॑तो॒काय॒तन॑यायप॒श्वः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

पू॒र्वीरिषो᳚बृह॒तीरा॒रे,अ॑घा,अ॒स्मेभ॒द्रासौ᳚श्रव॒सानि॑सन्तु॒(स्वाहा᳚) || 12 ||

नृ॒ऽवत्¦व॒सो॒ इति॑¦सद᳚‌म्¦इत्¦धे॒हि॒¦अ॒स्मे इति॑¦भूरि॑¦तो॒काय॑¦तन॑याय¦प॒श्वः |
पू॒र्वीः¦इषः॑¦बृ॒ह॒तीः¦आ॒रे।आ॑घाः¦अ॒स्मे इति॑¦भ॒द्रा¦सौ॒श्र॒व॒सानि॑¦स॒न्तु॒ ||

पु॒रूण्य॑ग्नेपुरु॒धात्वा॒यावसू᳚निराजन्‌व॒सुता᳚ते,अश्याम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

पु॒रूणि॒हित्वेपु॑रुवार॒सन्त्यग्ने॒वसु॑विध॒तेराज॑नि॒त्वे(स्वाहा᳚) || 13 ||

पु॒रूणि॑¦अ॒ग्ने॒¦पु॒रु॒धा¦त्वा॒ऽया¦वसू᳚नि¦रा॒ज॒न्¦व॒सुता᳚¦ते॒¦अ॒श्या॒‌म् |
पु॒रूणि॑¦हि¦त्वे इति॑¦पु॒रु॒ऽवा॒र॒¦सन्ति॑¦अग्ने᳚¦वसु॑¦वि॒ध॒ते¦राज॑नि¦त्वे इति॑ ||

[81] त्वंहिक्षैतवदित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निरनुष्टुबंत्याशक्वरी |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:2}{अनुवाक:1, सूक्त:2}
त्वंहिक्षैत॑व॒द्‌यशोऽग्ने᳚मि॒त्रोनपत्य॑से |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

त्वंवि॑चर्षणे॒श्रवो॒वसो᳚पु॒ष्टिंनपु॑ष्यसि॒(स्वाहा᳚) || 1 || वर्ग:1

त्व‌म्¦हि¦क्षैत॑ऽवत्¦यशः॑¦अग्ने᳚¦मि॒त्रः¦न¦पत्य॑से | त्व‌म्¦वि॒ऽच॒र्ष॒णे॒¦श्रवः॑¦वसो॒ इति॑¦पु॒ष्टि‌म्¦न¦पु॒ष्य॒सि॒ ||

त्वांहिष्मा᳚चर्ष॒णयो᳚य॒ज्ञेभि॑र्गी॒र्भिरीळ॑ते |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

त्वांवा॒जीया᳚त्यवृ॒कोर॑ज॒स्तूर्वि॒श्वच॑र्षणिः॒(स्वाहा᳚) || 2 ||

त्वा‌म्¦हि¦स्म॒¦च॒र्ष॒णयः॑¦य॒ज्ञेभिः॑¦गीः॒ऽभिः¦ईळ॑ते | त्वा‌म्¦वा॒जी¦या॒ति॒¦अ॒वृ॒कः¦र॒जः॒ऽतूः¦वि॒श्वऽच॑र्षणिः ||

स॒जोष॑स्त्वादि॒वोनरो᳚य॒ज्ञस्य॑के॒तुमि᳚न्धते |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

यद्ध॒स्यमानु॑षो॒जनः॑सुम्ना॒युर्जु॒ह्वे,अ॑ध्व॒रे(स्वाहा᳚) || 3 ||

स॒ऽजोषः॑¦त्वा॒¦दि॒वः¦नरः॑¦य॒ज्ञस्य॑¦के॒तु‌म्¦इ॒न्ध॒ते॒ | यत्¦ह॒¦स्यः¦मानु॑षः¦जनः॑¦सु॒म्न॒ऽयुः¦जु॒ह्वे¦अ॒ध्व॒रे ||

ऋध॒द्‌यस्ते᳚सु॒दान॑वेधि॒यामर्तः॑श॒शम॑ते |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

ऊ॒तीषबृ॑ह॒तोदि॒वोद्वि॒षो,अंहो॒नत॑रति॒(स्वाहा᳚) || 4 ||

ऋध॑त्¦यः¦ते॒¦सु॒ऽदान॑वे¦धि॒या¦मर्तः॑¦श॒शम॑ते | ऊ॒ती¦सः¦बृ॒ह॒तः¦दि॒वः¦द्वि॒षः¦अंहः॑¦न¦त॒र॒ति॒ ||

स॒मिधा॒यस्त॒आहु॑तिं॒निशि॑तिं॒मर्त्यो॒नश॑त् |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

व॒याव᳚न्तं॒सपु॑ष्यति॒क्षय॑मग्नेश॒तायु॑ष॒‌म्(स्वाहा᳚) || 5 ||

स॒‌म्ऽ‌इधा᳚¦यः¦ते॒¦आऽहु॑ति‌म्¦निऽशि॑ति‌म्¦मर्त्यः॑¦नश॑त् | व॒याऽव᳚न्त‌म्¦सः¦पु॒ष्य॒ति॒¦क्षय᳚‌म्¦अ॒ग्ने॒¦श॒तऽआ᳚युष‌म् ||

त्वे॒षस्ते᳚धू॒मऋ᳚ण्वतिदि॒विषञ्छु॒क्रआत॑तः |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

सूरो॒नहिद्यु॒तात्वंकृ॒पापा᳚वक॒रोच॑से॒(स्वाहा᳚) || 6 || वर्ग:2

त्वे॒षः¦ते॒¦धू॒मः¦ऋ॒ण्व॒ति॒¦दि॒वि¦सन्¦शु॒क्रः¦आऽत॑तः | सूरः॑¦न¦हि¦द्यु॒ता¦त्व‌म्¦कृ॒पा¦पा॒व॒क॒¦रोच॑से ||

अधा॒हिवि॒क्ष्वीड्योऽसि॑प्रि॒योनो॒,अति॑थिः |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

र॒ण्वःपु॒री᳚व॒जूर्यः॑सू॒नुर्नत्र॑य॒याय्यः॒(स्वाहा᳚) || 7 ||

अध॑¦हि¦वि॒क्षु¦ईड्यः॑¦असि॑¦प्रि॒यः¦नः॒¦अति॑थिः | र॒ण्वः¦पु॒रिऽ‌इ᳚व¦जूर्यः॑¦सू॒नुः¦न¦त्र॒य॒याय्यः॑ ||

क्रत्वा॒हिद्रोणे᳚,अ॒ज्यसेऽग्ने᳚वा॒जीनकृत्व्यः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

परि॑ज्मेवस्व॒धागयोऽत्यो॒नह्वा॒र्यःशिशुः॒(स्वाहा᳚) || 8 ||

क्रत्वा᳚¦हि¦द्रोणे᳚¦अ॒ज्यसे᳚¦अग्ने᳚¦वा॒जी¦न¦कृत्व्यः॑ | परि॑ज्माऽ‌इव¦स्व॒धा¦गयः॑¦अत्यः॑¦न¦ह्वा॒र्यः¦शिशुः॑ ||

त्वंत्याचि॒दच्यु॒ताऽग्ने᳚प॒शुर्नयव॑से |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

धामा᳚ह॒यत्‌ते᳚,अजर॒वना᳚वृ॒श्चन्ति॒शिक्व॑सः॒(स्वाहा᳚) || 9 ||

त्व‌म्¦त्या¦चि॒त्¦अच्यु॑ता¦अग्ने᳚¦प॒शुः¦न¦यव॑से | धाम॑¦ह॒¦यत्¦ते॒¦अ॒ज॒र॒¦वना᳚¦वृ॒श्चन्ति॑¦शिक्व॑सः ||

वेषि॒ह्य॑ध्वरीय॒तामग्ने॒होता॒दमे᳚वि॒शाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

स॒मृधो᳚विश्पतेकृणुजु॒षस्व॑ह॒व्यम᳚ङ्गिरः॒(स्वाहा᳚) || 10 ||

वेषि॑¦हि¦अ॒ध्व॒रि॒ऽय॒ता‌म्¦अग्ने᳚¦होता᳚¦दमे᳚¦वि॒शा‌म् | स॒‌म्ऽऋधः॑¦वि॒श्प॒ते॒¦कृ॒णु॒¦जु॒षस्व॑¦ह॒व्य‌म्¦अ॒ङ्गि॒रः॒ ||

अच्छा᳚नोमित्रमहोदेवदे॒वानग्ने॒वोचः॑सुम॒तिंरोद॑स्योः |{बार्हस्पत्यो भरद्वाजः | अग्निः | शक्वरी}

वी॒हिस्व॒स्तिंसु॑क्षि॒तिंदि॒वोनॄन्द्वि॒षो,अंहां᳚सिदुरि॒तात॑रेम॒तात॑रेम॒तवाव॑सातरेम॒(स्वाहा᳚) || 11 ||

अच्छ॑¦नः॒¦मि॒त्र॒ऽम॒हः॒¦दे॒व॒¦दे॒वान्¦अग्ने᳚¦वोचः॑¦सु॒ऽम॒ति‌म्¦रोद॑स्योः |
वी॒हि¦स्व॒स्ति‌म्¦सु॒ऽक्षि॒ति‌म्¦दि॒वः¦नॄन्¦द्वि॒षः¦अंहां᳚सि¦दुः॒ऽ‌इ॒ता¦त॒रे॒म॒¦ता¦त॒रे॒म॒¦तव॑¦अव॑सा¦त॒रे॒म॒ ||

[82] अग्नेसक्षेषदित्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:3}{अनुवाक:1, सूक्त:3}
अग्ने॒सक्षे᳚षदृत॒पा,ऋ॑ते॒जा,उ॒रुज्योति᳚र्नशतेदेव॒युष्टे᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

यंत्वंमि॒त्रेण॒वरु॑णःस॒जोषा॒देव॒पासि॒त्यज॑सा॒मर्त॒मंहः॒(स्वाहा᳚) || 1 || वर्ग:3

अग्ने᳚¦सः¦क्षे॒ष॒त्¦ऋ॒त॒ऽपाः¦ऋ॒ते॒ऽजाः¦उ॒रु¦ज्योतिः॑¦न॒श॒ते॒¦दे॒व॒ऽयुः¦ते॒ |
य‌म्¦त्व‌म्¦मि॒त्रेण॑¦वरु॑णः¦स॒ऽजोषाः᳚¦देव॑¦पासि॑¦त्यज॑सा¦मर्त᳚‌म्¦अंहः॑ ||

ई॒जेय॒ज्ञेभिः॑शश॒मेशमी᳚भिरृ॒धद्वा᳚राया॒ग्नये᳚ददाश |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

ए॒वाच॒नतंय॒शसा॒मजु॑ष्टि॒र्नांहो॒मर्तं᳚नशते॒नप्रदृ॑प्तिः॒(स्वाहा᳚) || 2 ||

ई॒जे¦य॒ज्ञेभिः॑¦श॒श॒मे¦शमी᳚भिः¦ऋ॒धत्ऽवा᳚राय¦अ॒ग्नये᳚¦द॒दा॒श॒ |
ए॒व¦च॒न¦त‌म्¦य॒शसा᳚‌म्¦अजु॑ष्टिः¦न¦अंहः॑¦मर्त᳚‌म्¦न॒श॒ते॒¦न¦प्रऽदृ॑प्तिः ||

सूरो॒नयस्य॑दृश॒तिर॑रे॒पाभी॒मायदेति॑शुच॒तस्त॒आधीः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

हेष॑स्वतःशु॒रुधो॒नायम॒क्तोःकुत्रा᳚चिद्‌र॒ण्वोव॑स॒तिर्व॑ने॒जाः(स्वाहा᳚) || 3 ||

सूरः॑¦न¦यस्य॑¦दृ॒श॒तिः¦अ॒रे॒पाः¦भी॒मा¦यत्¦एति॑¦शु॒च॒तः¦ते॒¦आ¦धीः |
हेष॑स्वतः¦शु॒रुधः॑¦न¦अ॒य‌म्¦अ॒क्तोः¦कुत्र॑¦चि॒त्¦र॒ण्वः¦व॒स॒तिः¦व॒ने॒ऽजाः ||

ति॒ग्मंचि॒देम॒महि॒वर्पो᳚,अस्य॒भस॒दश्वो॒नय॑मसा॒नआ॒सा |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

वि॒जेह॑मानःपर॒शुर्नजि॒ह्वांद्र॒विर्नद्रा᳚वयति॒दारु॒धक्ष॒॑‌त्(स्वाहा᳚) || 4 ||

ति॒ग्म‌म्¦चि॒त्¦एम॑¦महि॑¦वर्पः॑¦अ॒स्य॒¦भस॑त्¦अश्वः॑¦न¦य॒म॒सा॒न¦आ॒सा |
वि॒ऽजेह॑मानः¦प॒र॒शुः¦न¦जि॒ह्वा‌म्¦द्र॒विः¦न¦द्र॒व॒य॒ति॒¦दारु॑¦धक्ष॑त् ||

सइदस्ते᳚व॒प्रति॑धादसि॒ष्यञ्छिशी᳚त॒तेजोऽय॑सो॒नधारा᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

चि॒त्रध्र॑जतिरर॒तिर्यो,अ॒क्तोर्वेर्नद्रु॒षद्वा᳚रघु॒पत्म॑जंहाः॒(स्वाहा᳚) || 5 ||

सः¦इत्¦अस्ता᳚ऽ‌इव¦प्रति॑¦धा॒त्¦अ॒सि॒ष्यन्¦शिशी᳚त¦तेजः॑¦अय॑सः¦न¦धारा᳚‌म् |
चि॒त्रऽध्र॑जतिः¦अ॒र॒तिः¦यः¦अ॒क्तोः¦वेः¦न¦द्रु॒ऽसद्वा᳚¦र॒घु॒पत्म॑ऽजंहाः ||

सईं᳚रे॒भोनप्रति॑वस्तउ॒स्राःशो॒चिषा᳚रारपीतिमि॒त्रम॑हाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

नक्तं॒यई᳚मरु॒षोयोदिवा॒नॄनम॑र्त्यो,अरु॒षोयोदिवा॒नॄ॒‌न्(स्वाहा᳚) || 6 || वर्ग:4

सः¦ई॒‌म्¦रे॒भः¦न¦प्रति॑¦व॒स्ते॒¦उ॒स्राः¦शो॒चिषा᳚¦र॒र॒पी॒ति॒¦मि॒त्रऽम॑हाः |
नक्त᳚‌म्¦यः¦ई॒‌म्¦अ॒रु॒षः¦यः¦दिवा᳚¦नॄन्¦अम॑र्त्यः¦अ॒रु॒षः¦यः¦दिवा᳚¦नॄन् ||

दि॒वोनयस्य॑विध॒तोनवी᳚नो॒द्वृषा᳚रु॒क्षओष॑धीषुनूनोत् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

घृणा॒नयोध्रज॑सा॒पत्म॑ना॒यन्नारोद॑सी॒वसु॑ना॒दंसु॒पत्नी॒(स्वाहा᳚) || 7 ||

दि॒वः¦न¦यस्य॑¦वि॒ध॒तः¦नवी᳚नोत्¦वृषा᳚¦रु॒क्षः¦ओष॑धीषु¦नू॒नो॒त् |
घृणा᳚¦न¦यः¦ध्रज॑सा¦पत्म॑ना¦यन्¦आ¦रोद॑सी॒ इति॑¦वसु॑ना¦द‌म्¦सु॒पत्नी॒ इति॑ सु॒ऽपत्नी᳚ ||

धायो᳚भिर्वा॒योयुज्ये᳚भिर॒र्कैर्वि॒द्युन्नद॑विद्यो॒त्‌स्वेभिः॒शुष्मैः᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

शर्धो᳚वा॒योम॒रुतां᳚त॒तक्ष॑ऋ॒भुर्नत्वे॒षोर॑भसा॒नो,अ॑द्यौ॒‌त्(स्वाहा᳚) || 8 ||

धायः॑ऽभिः¦वा॒¦यः¦युज्ये᳚भिः¦अ॒र्कैः¦वि॒ऽद्युत्¦न¦द॒वि॒द्यो॒त्¦स्वेभिः॑¦शुष्मैः᳚ |
शर्धः॑¦वा॒¦यः¦म॒रुता᳚‌म्¦त॒तक्ष॑¦ऋ॒भुः¦न¦त्वे॒षः¦र॒भ॒सा॒नः¦अ॒द्यौ॒त् ||

[83] यथाहोतरित्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:4}{अनुवाक:1, सूक्त:4}
यथा᳚होत॒र्मनु॑षोदे॒वता᳚ताय॒ज्ञेभिः॑सूनोसहसो॒यजा᳚सि |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

ए॒वानो᳚,अ॒द्यस॑म॒नास॑मा॒नानु॒शन्न॑ग्नउश॒तोय॑क्षिदे॒वान्(स्वाहा᳚) || 1 || वर्ग:5

यथा᳚¦हो॒तः॒¦मनु॑षः¦दे॒वऽता᳚ता¦य॒ज्ञेभिः॑¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦यजा᳚सि |
ए॒व¦नः॒¦अ॒द्य¦स॒म॒ना¦स॒मा॒नान्¦उ॒शन्¦अ॒ग्ने॒¦उ॒श॒तः¦य॒क्षि॒¦दे॒वान् ||

सनो᳚वि॒भावा᳚च॒क्षणि॒र्नवस्तो᳚र॒ग्निर्व॒न्दारु॒वेद्य॒श्चनो᳚धात् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

वि॒श्वायु॒र्यो,अ॒मृतो॒मर्त्ये᳚षूष॒र्भुद्‌भूदति॑थिर्जा॒तवे᳚दाः॒(स्वाहा᳚) || 2 ||

सः¦नः॒¦वि॒भाऽवा᳚¦च॒क्षणिः॑¦न¦वस्तोः᳚¦अ॒ग्निः¦व॒न्दारु॑¦वेद्यः॑¦चनः॑¦धा॒त् |
वि॒श्वऽआ᳚युः¦यः¦अ॒मृतः॑¦मर्त्ये᳚षु¦उ॒षः॒ऽभुत्¦भूत्¦अति॑थिः¦जा॒तऽवे᳚दाः ||

द्यावो॒नयस्य॑प॒नय॒न्त्यभ्वं॒भासां᳚सिवस्ते॒सूर्यो॒नशु॒क्रः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

वियइ॒नोत्य॒जरः॑पाव॒कोऽश्न॑स्यचिच्छिश्नथत्‌पू॒र्व्याणि॒(स्वाहा᳚) || 3 ||

द्यावः॑¦न¦यस्य॑¦प॒नय᳚न्ति¦अभ्व᳚‌म्¦भासां᳚सि¦व॒स्ते॒¦सूर्यः॑¦न¦शु॒क्रः |
वि¦यः¦इ॒नोति॑¦अ॒जरः॑¦पा॒व॒कः¦अश्न॑स्य¦चि॒त्¦शि॒श्न॒थ॒त्¦पू॒र्व्याणि॑ ||

व॒द्माहिसू᳚नो॒,अस्य॑द्म॒सद्वा᳚च॒क्रे,अ॒ग्निर्ज॒नुषाज्मान्न᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

सत्वंन॑ऊर्जसन॒ऊर्जं᳚धा॒राजे᳚वजेरवृ॒केक्षे᳚ष्य॒न्तः(स्वाहा᳚) || 4 ||

व॒द्मा¦हि¦सू॒नो॒ इति॑¦असि॑¦अ॒द्म॒ऽसद्वा᳚¦च॒क्रे¦अ॒ग्निः¦ज॒नुषा᳚¦अज्म॑¦अन्न᳚‌म् |
सः¦त्व‌म्¦नः॒¦ऊ॒र्ज॒ऽस॒ने॒¦ऊर्ज᳚‌म्¦धाः॒¦राजा᳚ऽ‌इव¦जेः॒¦अ॒वृ॒के¦क्षे॒षि॒¦अ॒न्तरिति॑ ||

निति॑क्ति॒योवा᳚र॒णमन्न॒मत्ति॑वा॒युर्नराष्ट्र्यत्ये᳚त्य॒क्तून् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुपि}

तु॒र्याम॒यस्त॑आ॒दिशा॒मरा᳚ती॒रत्यो॒नह्रुतः॒पत॑तःपरि॒ह्रुत्(स्वाहा᳚) || 5 ||

निऽति॑क्ति¦यः¦वा॒र॒ण‌म्¦अन्न᳚‌म्¦अत्ति॑¦वा॒युः¦न¦राष्ट्री᳚¦अति॑¦ए॒ति॒¦अ॒क्तून् |
तु॒र्यामः॑¦यः¦ते॒¦आ॒ऽदिशा᳚‌म्¦अरा᳚तीः¦अत्यः॑¦न¦ह्रुतः॑¦पत॑तः¦प॒रि॒ऽह्रुत् ||

आसूर्यो॒नभा᳚नु॒मद्भि॑र॒र्कैरग्ने᳚त॒तन्थ॒रोद॑सी॒विभा॒सा |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

चि॒त्रोन॑य॒त्‌परि॒तमां᳚स्य॒क्तःशो॒चिषा॒पत्म᳚न्नौशि॒जोनदीय॒न्त्(स्वाहा᳚) || 6 || वर्ग:6

आ¦सूर्यः॑¦न¦भा॒नु॒मत्ऽभिः॑¦अ॒र्कैः¦अग्ने᳚¦त॒तन्थ॑¦रोद॑सी॒ इति॑¦वि¦भा॒सा |
चि॒त्रः¦न॒य॒त्¦परि॑¦तमां᳚सि¦अ॒क्तः¦शो॒चिषा᳚¦पत्म॑न्¦औ॒शि॒जः¦न¦दीय॑न् ||

त्वांहिम॒न्द्रत॑ममर्कशो॒कैर्व॑वृ॒महे॒महि॑नः॒श्रोष्य॑ग्ने |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

इन्द्रं॒नत्वा॒शव॑सादे॒वता᳚वा॒युंपृ॑णन्ति॒राध॑सा॒नृत॑माः॒(स्वाहा᳚) || 7 ||

त्वा‌म्¦हि¦म॒न्द्रऽत॑म‌म्¦अ॒र्क॒ऽशो॒कैः¦व॒वृ॒महे᳚¦महि॑¦नः॒¦श्रोषि॑¦अ॒ग्ने॒ |
इन्द्र᳚‌म्¦न¦त्वा॒¦शव॑सा¦दे॒वता᳚¦वा॒यु‌म्¦पृ॒ण॒न्ति॒¦राध॑सा¦नृऽत॑माः ||

नूनो᳚,अग्नेऽवृ॒केभिः॑स्व॒स्तिवेषि॑रा॒यःप॒थिभिः॒पर्ष्यंहः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

तासू॒रिभ्यो᳚गृण॒तेरा᳚सिसु॒म्नंमदे᳚मश॒तहि॑माःसु॒वीराः᳚(स्वाहा᳚) || 8 ||

नु¦नः॒¦अ॒ग्ने॒¦अ॒वृ॒केभिः॑¦स्व॒स्ति¦वेषि॑¦रा॒यः¦प॒थिऽभिः॑¦पर्षि॑¦अंहः॑ |
ता¦सू॒रिऽभ्यः॑¦गृ॒ण॒ते¦रा॒सि॒¦सु॒म्न‌म्¦मदे᳚म¦श॒तऽहि॑माः¦सु॒ऽवीराः᳚ ||

[84] हुवेवइति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:5}{अनुवाक:1, सूक्त:5}
हु॒वेवः॑सू॒नुंसह॑सो॒युवा᳚न॒मद्रो᳚घवाचंम॒तिभि॒र्यवि॑ष्ठम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

यइन्व॑ति॒द्रवि॑णानि॒प्रचे᳚तावि॒श्ववा᳚राणिपुरु॒वारो᳚,अ॒ध्रुक्(स्वाहा᳚) || 1 || वर्ग:7

हु॒वे¦वः॒¦सू॒नु‌म्¦सह॑सः¦युवा᳚न‌म्¦अद्रो᳚घऽवाच‌म्¦म॒तिऽभिः॑¦यवि॑ष्ठ‌म् |
यः¦इन्व॑ति¦द्रवि॑णानि¦प्रऽचे᳚ताः¦वि॒श्वऽवा᳚राणि¦पु॒रु॒ऽवारः॑¦अ॒ध्रुक् ||

त्वेवसू᳚निपुर्वणीकहोतर्दो॒षावस्तो॒रेरि॑रेय॒ज्ञिया᳚सः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

क्षामे᳚व॒विश्वा॒भुव॑नानि॒यस्मि॒न्त्संसौभ॑गानिदधि॒रेपा᳚व॒के(स्वाहा᳚) || 2 ||

त्वे इति॑¦वसू᳚नि¦पु॒रु॒।आ॒णी॒क॒¦हो॒तः॒¦दो॒षा¦वस्तोः᳚¦आ¦ई॒रि॒रे॒¦य॒ज्ञिया᳚सः |
क्षाम॑ऽ‌इव¦विश्वा᳚¦भुव॑नानि¦यस्मि॑न्¦स‌म्¦सौभ॑गानि¦द॒धि॒रे¦पा॒व॒के ||

त्वंवि॒क्षुप्र॒दिवः॑सीदआ॒सुक्रत्वा᳚र॒थीर॑भवो॒वार्या᳚णाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अत॑इनोषिविध॒तेचि॑कित्वो॒व्या᳚नु॒षग्जा᳚तवेदो॒वसू᳚नि॒(स्वाहा᳚) || 3 ||

त्व‌म्¦वि॒क्षु¦प्र॒ऽदिवः॑¦सी॒दः॒¦आ॒सु¦क्रत्वा᳚¦र॒थीः¦अ॒भ॒वः॒¦वार्या᳚णा‌म् |
अतः॑¦इ॒नो॒षि॒¦वि॒ध॒ते¦चि॒कि॒त्वः॒¦वि¦आ॒नु॒षक्¦जा॒त॒ऽवे॒दः॒¦वसू᳚नि ||

योनः॒सनु॑त्यो,अभि॒दास॑दग्ने॒यो,अन्त॑रोमित्रमहोवनु॒ष्यात् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

तम॒जरे᳚भि॒र्वृष॑भि॒स्तव॒स्वैस्तपा᳚तपिष्ठ॒तप॑सा॒तप॑स्वा॒‌न्(स्वाहा᳚) || 4 ||

यः¦नः॒¦सनु॑त्यः¦अ॒भि॒ऽदास॑त्¦अ॒ग्ने॒¦यः¦अन्त॑रः¦मि॒त्र॒ऽम॒हः॒¦व॒नु॒ष्यात् |
त‌म्¦अ॒जरे᳚भिः¦वृष॑ऽभिः¦तव॑¦स्वैः¦तप॑¦त॒पि॒ष्ठ॒¦तप॑सा¦तप॑स्वान् ||

यस्ते᳚य॒ज्ञेन॑स॒मिधा॒यउ॒क्थैर॒र्केभिः॑सूनोसहसो॒ददा᳚शत् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

समर्त्ये᳚ष्वमृत॒प्रचे᳚तारा॒याद्यु॒म्नेन॒श्रव॑सा॒विभा᳚ति॒(स्वाहा᳚) || 5 ||

यः¦ते॒¦य॒ज्ञेन॑¦स॒‌म्ऽ‌इधा᳚¦यः¦उ॒क्थैः¦अ॒र्केभिः॑¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦ददा᳚शत् |
सः¦मर्त्ये᳚षु¦अ॒मृ॒त॒¦प्रऽचे᳚ताः¦रा॒या¦द्यु॒म्नेन॑¦श्रव॑सा¦वि¦भा॒ति॒ ||

सतत्‌कृ॑धीषि॒तस्तूय॑मग्ने॒स्पृधो᳚बाधस्व॒सह॑सा॒सह॑स्वान् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

यच्छ॒स्यसे॒द्युभि॑र॒क्तोवचो᳚भि॒स्तज्जु॑षस्वजरि॒तुर्घोषि॒मन्म॒(स्वाहा᳚) || 6 ||

सः¦तत्¦कृ॒धि॒¦इ॒षि॒तः¦तूय᳚‌म्¦अ॒ग्ने॒¦स्पृधः॑¦बा॒ध॒स्व॒¦सह॑सा¦सह॑स्वान् |
यत्¦श॒स्यसे᳚¦द्युऽभिः॑¦अ॒क्तः¦वचः॑ऽभिः¦तत्¦जु॒ष॒स्व॒¦ज॒रि॒तुः¦घोषि॑¦मन्म॑ ||

अ॒श्याम॒तंकाम॑मग्ने॒तवो॒ती,अ॒श्याम॑र॒यिंर॑यिवःसु॒वीर᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अ॒श्याम॒वाज॑म॒भिवा॒जय᳚न्तो॒ऽश्याम॑द्यु॒म्नम॑जरा॒जरं᳚ते॒(स्वाहा᳚) || 7 ||

अ॒श्याम॑¦त‌म्¦काम᳚‌म्¦अ॒ग्ने॒¦तव॑¦ऊ॒ती¦अ॒श्याम॑¦र॒यि‌म्¦र॒यि॒ऽवः॒¦सु॒ऽवीर᳚‌म् |
अ॒श्याम॑¦वाज᳚‌म्¦अ॒भि¦वा॒जय᳚न्तः¦अ॒श्याम॑¦द्यु॒म्न‌म्¦अ॒ज॒र॒¦अ॒जर᳚‌म्¦ते॒ ||

[85] प्रनव्यसेति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:6}{अनुवाक:1, सूक्त:6}
प्रनव्य॑सा॒सह॑सःसू॒नुमच्छा᳚य॒ज्ञेन॑गा॒तुमव॑इ॒च्छमा᳚नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

वृ॒श्चद्व॑नंकृ॒ष्णया᳚मं॒रुश᳚न्तंवी॒तीहोता᳚रंदि॒व्यंजि॑गाति॒(स्वाहा᳚) || 1 || वर्ग:8

प्र¦नव्य॑सा¦सह॑सः¦सू॒नु‌म्¦अच्छ॑¦य॒ज्ञेन॑¦गा॒तु‌म्¦अवः॑¦इ॒च्छमा᳚नः |
वृ॒श्चत्ऽव॑न‌म्¦कृ॒ष्णऽया᳚म‌म्¦रुश᳚न्त‌म्¦वी॒ती¦होता᳚र‌म्¦दि॒व्य‌म्¦जि॒गा॒ति॒ ||

सश्वि॑ता॒नस्त᳚न्य॒तूरो᳚चन॒स्था,अ॒जरे᳚भि॒र्नान॑दद्भि॒र्यवि॑ष्ठः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

यःपा᳚व॒कःपु॑रु॒तमः॑पु॒रूणि॑पृ॒थून्य॒ग्निर॑नु॒याति॒भर्व॒न्त्(स्वाहा᳚) || 2 ||

सः¦श्वि॒ता॒नः¦ता॒न्य॒तुः¦रो॒च॒न॒ऽस्थाः¦अ॒जरे᳚भिः¦नान॑दत्ऽभिः¦यवि॑ष्ठः |
यः¦पा॒व॒कः¦पु॒रु॒ऽतमः॑¦पु॒रूणि॑¦पृ॒थूनि॑¦अ॒ग्निः¦अ॒नु॒ऽयाति॑¦भर्व॑न् ||

विते॒विष्व॒ग्वात॑जूतासो,अग्ने॒भामा᳚सःशुचे॒शुच॑यश्चरन्ति |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

तु॒वि॒म्र॒क्षासो᳚दि॒व्यानव॑ग्वा॒वना᳚वनन्तिधृष॒तारु॒जन्तः॒(स्वाहा᳚) || 3 ||

वि¦ते॒¦विष्व॑क्¦वात॑ऽजूतासः¦अ॒ग्ने॒¦भामा᳚सः¦शु॒चे॒¦शुच॑यः¦च॒र॒न्ति॒ |
तु॒वि॒ऽम्र॒क्षासः॑¦दि॒व्याः¦नव॑ऽग्वाः¦वना᳚¦व॒न॒न्ति॒¦धृ॒ष॒ता¦रु॒जन्तः॑ ||

येते᳚शु॒क्रासः॒शुच॑यःशुचिष्मः॒,क्षांवप᳚न्ति॒विषि॑तासो॒,अश्वाः᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अध॑भ्र॒मस्त॑उर्वि॒याविभा᳚तिया॒तय॑मानो॒,अधि॒सानु॒पृश्नेः᳚(स्वाहा᳚) || 4 ||

ये¦ते॒¦शु॒क्रासः॑¦शुच॑यः¦शु॒चि॒ष्मः॒¦क्षा‌म्¦वप᳚न्ति¦विऽसि॑तासः¦अश्वाः᳚ |
अध॑¦भ्र॒मः¦ते॒¦उ॒र्वि॒या¦वि¦भा॒ति॒¦या॒तय॑मानः¦अधि॑¦सानु॑¦पृश्नेः᳚ ||

अध॑जि॒ह्वापा᳚पतीति॒प्रवृष्णो᳚गोषु॒युधो॒नाशनिः॑सृजा॒ना |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

शूर॑स्येव॒प्रसि॑तिः,क्षा॒तिर॒ग्नेर्दु॒र्वर्तु॑र्भी॒मोद॑यते॒वना᳚नि॒(स्वाहा᳚) || 5 ||

अध॑¦जि॒ह्वा¦पा॒प॒ती॒ति॒¦प्र¦वृष्णः॑¦गो॒षु॒ऽयुधः॑¦न¦अ॒शनिः॑¦सृ॒जा॒ना |
शूर॑स्यऽ‌इव¦प्रऽसि॑तिः¦क्षा॒तिः¦अ॒ग्नेः¦दुः॒ऽवर्तुः॑¦भी॒मः¦द॒य॒ते॒¦वना᳚नि ||

आभा॒नुना॒पार्थि॑वानि॒ज्रयां᳚सिम॒हस्तो॒दस्य॑धृष॒तात॑तन्थ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

सबा᳚ध॒स्वाप॑भ॒यासहो᳚भिः॒स्पृधो᳚वनु॒ष्यन्‌व॒नुषो॒निजू᳚र्व॒(स्वाहा᳚) || 6 ||

आ¦भा॒नुना᳚¦पार्थि॑वानि¦ज्रयां᳚सि¦म॒हः¦तो॒दस्य॑¦धृ॒ष॒ता¦त॒त॒न्थ॒ |
सः¦बा॒ध॒स्व॒¦अप॑¦भ॒या¦सहः॑ऽभिः¦स्पृधः॑¦व॒नु॒ष्यन्¦व॒नुषः॑¦नि¦जू॒र्व॒ ||

सचि॑त्रचि॒त्रंचि॒तय᳚न्तम॒स्मेचित्र॑क्षत्रचि॒त्रत॑मंवयो॒धाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

च॒न्द्रंर॒यिंपु॑रु॒वीरं᳚बृ॒हन्तं॒चन्द्र॑च॒न्द्राभि॑र्गृण॒तेयु॑वस्व॒(स्वाहा᳚) || 7 ||

सः¦चि॒त्र॒¦चि॒त्र‌म्¦चि॒तय᳚न्त‌म्¦अ॒स्मे इति॑¦चित्र॑ऽक्षत्र¦चि॒त्रऽत॑म‌म्¦व॒यः॒ऽधा‌म् |
च॒न्द्र‌म्¦र॒यि‌म्¦पु॒रु॒ऽवीर᳚‌म्¦बृ॒हन्त᳚‌म्¦चन्द्र॑¦च॒न्द्राभिः॑¦गृ॒ण॒ते¦यु॒व॒स्व॒ ||

[86] मूर्धाननिति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोवैश्वानरस्त्रिष्टुबंत्येद्वेजगत्यौ |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:7}{अनुवाक:1, सूक्त:7}
मू॒र्धानं᳚दि॒वो,अ॑र॒तिंपृ॑थि॒व्यावै᳚श्वान॒रमृ॒तआजा॒तम॒ग्निम् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

क॒विंस॒म्राज॒मति॑थिं॒जना᳚नामा॒सन्नापात्रं᳚जनयन्तदे॒वाः(स्वाहा᳚) || 1 || वर्ग:9

मू॒र्धान᳚‌म्¦दि॒वः¦अ॒र॒ति‌म्¦पृ॒थि॒व्याः¦वै॒श्वा॒न॒र‌म्¦ऋ॒ते¦आ¦जा॒त‌म्¦अ॒ग्नि‌म् |
क॒वि‌म्¦स॒‌म्ऽराज᳚‌म्¦अति॑थि‌म्¦जना᳚ना‌म्¦आ॒सन्¦आ¦पात्र᳚‌म्¦ज॒न॒य॒न्त॒¦दे॒वाः ||

नाभिं᳚य॒ज्ञानां॒सद॑नंरयी॒णांम॒हामा᳚हा॒वम॒भिसंन॑वन्त |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

वै॒श्वा॒न॒रंर॒थ्य॑मध्व॒राणां᳚य॒ज्ञस्य॑के॒तुंज॑नयन्तदे॒वाः(स्वाहा᳚) || 2 ||

नाभि᳚‌म्¦य॒ज्ञाना᳚‌म्¦सद॑न‌म्¦र॒यी॒णा‌म्¦म॒हा‌म्¦आ॒ऽहा॒व‌म्¦अ॒भि¦स‌म्¦न॒व॒न्त॒ |
वै॒श्वा॒न॒र‌म्¦र॒थ्य᳚‌म्¦अ॒ध्व॒राणा᳚‌म्¦य॒ज्ञस्य॑¦के॒तु‌म्¦ज॒न॒य॒न्त॒¦दे॒वाः ||

त्वद्‌विप्रो᳚जायतेवा॒ज्य॑ग्ने॒त्वद्‌वी॒रासो᳚,अभिमाति॒षाहः॑ |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

वैश्वा᳚नर॒त्वम॒स्मासु॑धेहि॒वसू᳚निराजन्‌त्स्पृह॒याय्या᳚णि॒(स्वाहा᳚) || 3 ||

त्वत्¦विप्रः॑¦जा॒य॒ते॒¦वा॒जी¦अ॒ग्ने॒¦त्वत्¦वी॒रासः॑¦अ॒भि॒मा॒ति॒ऽसहः॑ |
वैश्वा᳚नर¦त्व‌म्¦अ॒स्मासु॑¦धे॒हि॒¦वसू᳚नि¦रा॒ज॒न्¦स्पृ॒ह॒याय्या᳚णि ||

त्वांविश्वे᳚,अमृत॒जाय॑मानं॒शिशुं॒नदे॒वा,अ॒भिसंन॑वन्ते |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

तव॒क्रतु॑भिरमृत॒त्वमा᳚य॒न्वैश्वा᳚नर॒यत्‌पि॒त्रोरदी᳚देः॒(स्वाहा᳚) || 4 ||

त्वा‌म्¦विश्वे᳚¦अ॒मृ॒त॒¦जाय॑मान‌म्¦शिशु᳚‌म्¦न¦दे॒वाः¦अ॒भि¦स‌म्¦न॒व॒न्ते॒ |
तव॑¦क्रतु॑ऽभिः¦अ॒मृ॒त॒ऽत्व‌म्¦आ॒य॒न्¦वैश्वा᳚नर¦यत्¦पि॒त्रोः¦अदी᳚देः ||

वैश्वा᳚नर॒तव॒तानि᳚व्र॒तानि॑म॒हान्य॑ग्ने॒नकि॒राद॑धर्ष |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

यज्जाय॑मानःपि॒त्रोरु॒पस्थेऽवि᳚न्दःके॒तुंव॒युने॒ष्वह्ना॒‌म्(स्वाहा᳚) || 5 ||

वैश्वा᳚नर¦तव॑¦तानि॑¦व्र॒तानि॑¦म॒हानि॑¦अ॒ग्ने॒¦नकिः॑¦आ¦द॒ध॒र्ष॒ |
यत्¦जाय॑मानः¦पि॒त्रोः¦उ॒पऽस्थे᳚¦अवि᳚न्दः¦के॒तु‌म्¦व॒युने᳚षु¦अह्ना᳚‌म् ||

वै॒श्वा॒न॒रस्य॒विमि॑तानि॒चक्ष॑सा॒सानू᳚निदि॒वो,अ॒मृत॑स्यके॒तुना᳚ |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

तस्येदु॒विश्वा॒भुव॒नाधि॑मू॒र्धनि॑व॒या,इ॑वरुरुहुःस॒प्तवि॒स्रुहः॒(स्वाहा᳚) || 6 ||

वै॒श्वा॒न॒रस्य॑¦विऽमि॑तानि¦चक्ष॑सा¦सानू᳚नि¦दि॒वः¦अ॒मृत॑स्य¦के॒तुना᳚ |
तस्य॑¦इत्¦ऊँ॒ इति॑¦विश्वा᳚¦भुव॑ना¦अधि॑¦मू॒र्धनि॑¦व॒याःऽ‌इ᳚व¦रु॒रु॒हुः॒¦स॒प्त¦वि॒ऽस्रुहः॑ ||

वियोरजां॒स्यमि॑मीतसु॒क्रतु᳚र्वैश्वान॒रोविदि॒वोरो᳚च॒नाक॒विः |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

परि॒योविश्वा॒भुव॑नानिपप्र॒थेऽद॑ब्धोगो॒पा,अ॒मृत॑स्यरक्षि॒ता(स्वाहा᳚) || 7 ||

वि¦यः¦रजां᳚सि¦अमि॑मीत¦सु॒ऽक्रतुः॑¦वै॒श्वा॒न॒रः¦वि¦दि॒वः¦रो॒च॒ना¦क॒विः |
परि॑¦यः¦विश्वा᳚¦भुव॑नानि¦प॒प्र॒थे¦अद॑ब्धः¦गो॒पाः¦अ॒मृत॑स्य¦र॒क्षि॒ता ||

[87] पृक्षस्येति सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजोवैश्वानरोग्निर्जगत्यंत्यात्रिष्टुप् |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:8}{अनुवाक:1, सूक्त:8}
पृ॒क्षस्य॒वृष्णो᳚,अरु॒षस्य॒नूसहः॒प्रनुवो᳚चंवि॒दथा᳚जा॒तवे᳚दसः |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

वै॒श्वा॒न॒राय॑म॒तिर्नव्य॑सी॒शुचिः॒सोम॑इवपवते॒चारु॑र॒ग्नये॒(स्वाहा᳚) || 1 || वर्ग:10

पृ॒क्षस्य॑¦वृष्णः॑¦अ॒रु॒षस्य॑¦नु¦सहः॑¦प्र¦नु¦वो॒च॒‌म्¦वि॒दथा᳚¦जा॒तऽवे᳚दसः |
वै॒श्वा॒न॒राय॑¦म॒तिः¦नव्य॑सी¦शुचिः॑¦सोमः॑ऽ‌इव¦प॒व॒ते॒¦चारुः॑¦अ॒ग्नये᳚ ||

सजाय॑मानःपर॒मेव्यो᳚मनिव्र॒तान्य॒ग्निर्व्र॑त॒पा,अ॑रक्षत |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

व्य१॑(अ॒)न्तरि॑क्षममिमीतसु॒क्रतु᳚र्वैश्वान॒रोम॑हि॒नानाक॑मस्पृश॒‌त्(स्वाहा᳚) || 2 ||

सः¦जाय॑मानः¦प॒र॒मे¦विऽओ᳚मनि¦व्र॒तानि॑¦अ॒ग्निः¦व्र॒त॒ऽपाः¦अ॒र॒क्ष॒त॒ |
वि¦अ॒न्तरि॑क्ष‌म्¦अ॒मि॒मी॒त॒¦सु॒ऽक्रतुः॑¦वै॒श्वा॒न॒रः¦म॒हि॒ना¦नाक᳚‌म्¦अ॒स्पृ॒श॒त् ||

व्य॑स्तभ्ना॒द्‌रोद॑सीमि॒त्रो,अद्भु॑तोऽन्त॒र्वाव॑दकृणो॒ज्ज्योति॑षा॒तमः॑ |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

विचर्म॑णीवधि॒षणे᳚,अवर्तयद्वैश्वान॒रोविश्व॑मधत्त॒वृष्ण्य॒‌म्(स्वाहा᳚) || 3 ||

वि¦अ॒स्त॒भ्ना॒त्¦रोद॑सी॒ इति॑¦मि॒त्रः¦अद्भु॑तः¦अ॒न्तः॒ऽवाव॑त्¦अ॒कृ॒णो॒त्¦ज्योति॑षा¦तमः॑ |
वि¦चर्म॑णी इ॒वेति॒ चर्म॑णीऽ‌इव¦धि॒षणे॒ इति॑¦अ॒व॒र्त॒य॒त्¦वै॒श्वा॒न॒रः¦विश्व᳚‌म्¦अ॒ध॒त्त॒¦वृष्ण्य᳚‌म् ||

अ॒पामु॒पस्थे᳚महि॒षा,अ॑गृभ्णत॒विशो॒राजा᳚न॒मुप॑तस्थुरृ॒ग्मिय᳚म् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

आदू॒तो,अ॒ग्निम॑भरद्‌वि॒वस्व॑तोवैश्वान॒रंमा᳚त॒रिश्वा᳚परा॒वतः॒(स्वाहा᳚) || 4 ||

अ॒पा‌म्¦उ॒पऽस्थे᳚¦म॒हि॒षाः¦अ॒गृ॒भ्ण॒त॒¦विशः॑¦राजा᳚न‌म्¦उप॑¦त॒स्थुः॒¦ऋ॒ग्मिय᳚‌म् |
आ¦दू॒तः¦अ॒ग्नि‌म्¦अ॒भ॒र॒त्¦वि॒वस्व॑तः¦वै॒श्वा॒न॒र‌म्¦मा॒त॒रिश्वा᳚¦प॒रा॒ऽवतः॑ ||

यु॒गेयु॑गेविद॒थ्यं᳚गृ॒णद्भ्योऽग्ने᳚र॒यिंय॒शसं᳚धेहि॒नव्य॑सीम् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

प॒व्येव॑राजन्न॒घशं᳚समजरनी॒चानिवृ॑श्चव॒निनं॒नतेज॑सा॒(स्वाहा᳚) || 5 ||

यु॒गेऽयु॑गे¦वि॒द॒थ्य᳚‌म्¦गृ॒णत्ऽभ्यः॑¦अग्ने᳚¦र॒यि‌म्¦य॒शस᳚‌म्¦धे॒हि॒¦नव्य॑सी‌म् |
प॒व्या᳚ऽ‌इव¦रा॒ज॒न्¦अ॒घऽशं᳚स‌म्¦अ॒ज॒र॒¦नी॒चा¦नि¦वृ॒श्च॒¦व॒निन᳚‌म्¦न¦तेज॑सा ||

अ॒स्माक॑मग्नेम॒घव॑त्सुधार॒याऽना᳚मिक्ष॒त्रम॒जरं᳚सु॒वीर्य᳚म् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

व॒यंज॑येमश॒तिनं᳚सह॒स्रिणं॒वैश्वा᳚नर॒वाज॑मग्ने॒तवो॒तिभिः॒(स्वाहा᳚) || 6 ||

अ॒स्माक᳚‌म्¦अ॒ग्ने॒¦म॒घव॑त्ऽसु¦धा॒र॒य॒¦अना᳚मि¦क्ष॒त्र‌म्¦अ॒जर᳚‌म्¦सु॒ऽवीर्य᳚‌म् |
व॒य‌म्¦ज॒ये॒म॒¦श॒तिन᳚‌म्¦स॒ह॒स्रिण᳚‌म्¦वैश्वा᳚नर¦वाज᳚‌म्¦अ॒ग्ने॒¦तव॑¦ऊ॒तिऽभिः॑ ||

अद॑ब्धेभि॒स्तव॑गो॒पाभि॑रिष्टे॒ऽस्माकं᳚पाहित्रिषधस्थसू॒रीन् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

रक्षा᳚चनोद॒दुषां॒शर्धो᳚,अग्ने॒वैश्वा᳚नर॒प्रच॑तारीः॒स्तवा᳚नः॒(स्वाहा᳚) || 7 ||

अद॑ब्धेभिः¦तव॑¦गो॒पाभिः॑¦इ॒ष्टे॒¦अ॒स्माक᳚‌म्¦पा॒हि॒¦त्रि॒ऽस॒ध॒स्थ॒¦सू॒रीन् |
रक्ष॑¦च॒¦नः॒¦द॒दुषा᳚‌म्¦शर्धः॑¦अ॒ग्ने॒¦वैश्वा᳚नर¦प्र¦च॒¦ता॒रीः॒¦स्तवा᳚नः ||

[88] अहश्चकृष्णमिति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोवैश्वानरोग्निस्त्रिष्टुप् |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:9}{अनुवाक:1, सूक्त:9}
अह॑श्चकृ॒ष्णमह॒रर्जु॑नंच॒विव॑र्तेते॒रज॑सीवे॒द्याभिः॑ |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

वै॒श्वा॒न॒रोजाय॑मानो॒नराजाऽवा᳚तिर॒ज्ज्योति॑षा॒ग्निस्तमां᳚सि॒(स्वाहा᳚) || 1 || वर्ग:11

अहः॑¦च॒¦कृ॒ष्ण‌म्¦अहः॑¦अर्जु॑न‌म्¦च॒¦वि¦व॒र्ते॒ते॒ इति॑¦रज॑सी॒ इति॑¦वे॒द्याभिः॑ |
वै॒श्वा॒न॒रः¦जाय॑मानः¦न¦राजा᳚¦अव॑¦अ॒ति॒र॒त्¦ज्योति॑षा¦अ॒ग्निः¦तमां᳚सि ||

नाहंतन्तुं॒नविजा᳚ना॒म्योतुं॒नयंवय᳚न्तिसम॒रेऽत॑मानाः |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

कस्य॑स्वित्‌पु॒त्रइ॒हवक्त्वा᳚निप॒रोव॑दा॒त्यव॑रेणपि॒त्रा(स्वाहा᳚) || 2 ||

न¦अ॒ह‌म्¦तन्तु᳚‌म्¦न¦वि¦जा॒ना॒मि॒¦ओतु᳚‌म्¦न¦य‌म्¦वय᳚न्ति¦स॒‌म्।आ॒रे¦अत॑मानाः |
कस्य॑¦स्वि॒त्¦पु॒त्रः¦इ॒ह¦वक्त्वा᳚नि¦प॒रः¦व॒दा॒ति॒¦अव॑रेण¦पि॒त्रा ||

सइत्‌तन्तुं॒सविजा᳚ना॒त्योतुं॒सवक्त्वा᳚न्यृतु॒थाव॑दाति |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

यईं॒चिके᳚तद॒मृत॑स्यगो॒पा,अ॒वश्चर᳚न्‌प॒रो,अ॒न्येन॒पश्य॒न्त्(स्वाहा᳚) || 3 ||

सः¦इत्¦तन्तु᳚‌म्¦सः¦वि¦जा॒ना॒ति॒¦ओतु᳚‌म्¦सः¦वक्त्वा᳚नि¦ऋ॒तु॒ऽथा¦व॒दा॒ति॒ |
यः¦ई॒‌म्¦चिके᳚तत्¦अ॒मृत॑स्य¦गो॒पाः¦अ॒वः¦चर॑न्¦प॒रः¦अ॒न्येन॑¦पश्य॑न् ||

अ॒यंहोता᳚प्रथ॒मःपश्य॑ते॒ममि॒दंज्योति॑र॒मृतं॒मर्त्ये᳚षु |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

अ॒यंसज॑ज्ञेध्रु॒वआनिष॒त्तोऽम॑र्त्यस्त॒न्वा॒३॑(आ॒)वर्ध॑मानः॒(स्वाहा᳚) || 4 ||

अ॒य‌म्¦होता᳚¦प्र॒थ॒मः¦पश्य॑त¦इ॒म‌म्¦इ॒द‌म्¦ज्योतिः॑¦अ॒मृत᳚‌म्¦मर्त्ये᳚षु |
अ॒य‌म्¦सः¦ज॒ज्ञे॒¦ध्रु॒वः¦आ¦नि॒ऽस॒त्तः¦अम॑र्त्यः¦त॒न्वा᳚¦वर्ध॑मानः ||

ध्रु॒वंज्योति॒र्निहि॑तंदृ॒शये॒कंमनो॒जवि॑ष्ठंप॒तय॑त्स्व॒न्तः |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

विश्वे᳚दे॒वाःसम॑नसः॒सके᳚ता॒,एकं॒क्रतु॑म॒भिविय᳚न्तिसा॒धु(स्वाहा᳚) || 5 ||

ध्रु॒व‌म्¦ज्योतिः॑¦निऽहि॑त‌म्¦दृ॒शये᳚¦क‌म्¦मनः॑¦जवि॑ष्ठ‌म्¦प॒तय॑त्ऽसु¦अ॒न्तरिति॑ |
विश्वे᳚¦दे॒वाः¦सऽम॑नसः¦सऽके᳚ताः¦एक᳚‌म्¦क्रतु᳚‌म्¦अ॒भि¦वि¦य॒न्ति॒¦सा॒धु ||

विमे॒कर्णा᳚पतयतो॒विचक्षु॒र्वी॒३॑(ई॒)दंज्योति॒र्हृद॑य॒आहि॑तं॒यत् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

विमे॒मन॑श्चरतिदू॒रआ᳚धीः॒किंस्वि॑द्‌व॒क्ष्यामि॒किमु॒नूम॑निष्ये॒(स्वाहा᳚) || 6 ||

वि¦मे॒¦कर्णा᳚¦प॒त॒य॒तः॒¦वि¦चक्षुः॑¦वि¦इ॒द‌म्¦ज्योतिः॑¦हृद॑ये¦आऽहि॑त‌म्¦यत् |
वि¦मे॒¦मनः॑¦च॒र॒ति॒¦दू॒रेऽआ᳚धीः¦कि‌म्¦स्वि॒त्¦व॒क्ष्यामि॑¦कि‌म्¦ऊँ॒ इति॑¦नु¦म॒नि॒ष्ये॒ ||

विश्वे᳚दे॒वा,अ॑नमस्यन्‌भिया॒नास्त्वाम॑ग्ने॒तम॑सितस्थि॒वांस᳚म् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

वै॒श्वा॒न॒रो᳚ऽवतू॒तये॒नोऽम॑र्त्योऽवतू॒तये᳚नः॒(स्वाहा᳚) || 7 ||

विश्वे᳚¦दे॒वाः¦अ॒न॒म॒स्य॒न्¦भि॒या॒नाः¦त्वा‌म्¦अ॒ग्ने॒¦तम॑सि¦त॒स्थि॒ऽवांस᳚‌म् |
वै॒श्वा॒न॒रः¦अ॒व॒तु॒¦ऊ॒तये᳚¦नः॒¦अम॑र्त्यः¦अ॒व॒तु॒¦ऊ॒तये᳚¦नः॒ ||

[89] पुरोवइति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजग्निस्त्रिष्टुबंत्याद्विपदाविराट् |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:10}{अनुवाक:1, सूक्त:10}
पु॒रोवो᳚म॒न्द्रंदि॒व्यंसु॑वृ॒क्तिंप्र॑य॒तिय॒ज्ञे,अ॒ग्निम॑ध्व॒रेद॑धिध्वम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

पु॒रउ॒क्थेभिः॒सहिनो᳚वि॒भावा᳚स्वध्व॒राक॑रतिजा॒तवे᳚दाः॒(स्वाहा᳚) || 1 || वर्ग:12

पु॒रः¦वः॒¦म॒न्द्र‌म्¦दि॒व्य‌म्¦सु॒ऽवृ॒क्ति‌म्¦प्र॒ऽय॒ति¦य॒ज्ञे¦अ॒ग्नि‌म्¦अ॒ध्व॒रे¦द॒धि॒ध्व॒‌म् |
पु॒रः¦उ॒क्थेभिः॑¦सः¦हि¦नः॒¦वि॒भाऽवा᳚¦सु॒।आ॒ध्व॒रा¦क॒र॒ति॒¦जा॒तऽवे᳚दाः ||

तमु॑द्युमःपुर्वणीकहोत॒रग्ने᳚,अ॒ग्निभि॒र्मनु॑षइधा॒नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

स्तोमं॒यम॑स्मैम॒मते᳚वशू॒षंघृ॒तंनशुचि॑म॒तयः॑पवन्ते॒(स्वाहा᳚) || 2 ||

त‌म्¦ऊँ॒ इति॑¦द्यु॒ऽमः॒¦पु॒रु॒।आ॒नी॒क॒¦हो॒तः॒¦अग्ने᳚¦अ॒ग्निऽभिः॑¦मनु॑षः¦इ॒धा॒नः |
स्तोम᳚‌म्¦य‌म्¦अ॒स्मै॒¦म॒मता᳚ऽ‌इव¦शू॒ष‌म्¦घृ॒त‌म्¦न¦शुचि॑¦म॒तयः॑¦प॒व॒न्ते॒ ||

पी॒पाय॒सश्रव॑सा॒मर्त्ये᳚षु॒यो,अ॒ग्नये᳚द॒दाश॒विप्र॑उ॒क्थैः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

चि॒त्राभि॒स्तमू॒तिभि॑श्चि॒त्रशो᳚चिर्व्र॒जस्य॑सा॒तागोम॑तोदधाति॒(स्वाहा᳚) || 3 ||

पी॒पाय॑¦सः¦श्रव॑सा¦मर्त्ये᳚षु¦यः¦अ॒ग्नये᳚¦द॒दाश॑¦विप्रः॑¦उ॒क्थैः |
चि॒त्राभिः॑¦त‌म्¦ऊ॒तिऽभिः॑¦चि॒त्रऽशो᳚चिः¦व्र॒जस्य॑¦सा॒ता¦गोऽम॑तः¦द॒धा॒ति॒ ||

आयःप॒प्रौजाय॑मानउ॒र्वीदू᳚रे॒दृशा᳚भा॒साकृ॒ष्णाध्वा᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अध॑ब॒हुचि॒त्‌तम॒ऊर्म्या᳚यास्ति॒रःशो॒चिषा᳚ददृशेपाव॒कः(स्वाहा᳚) || 4 ||

आ¦यः¦प॒प्रौ¦जाय॑मानः¦उ॒र्वी इति॑¦दू॒रे॒ऽदृशा᳚¦भा॒सा¦कृ॒ष्ण।आ॑ध्वा |
अध॑¦ब॒हु¦चि॒त्¦तमः॑¦ऊर्म्या᳚याः¦ति॒रः¦शो॒चिषा᳚¦द॒दृ॒शे॒¦पा॒व॒कः ||

नून॑श्चि॒त्रंपु॑रु॒वाजा᳚भिरू॒ती,अग्ने᳚र॒यिंम॒घव॑द्भ्यश्चधेहि |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

येराध॑सा॒श्रव॑सा॒चात्य॒न्यान्त्सु॒वीर्ये᳚भिश्चा॒भिसन्ति॒जना॒न्त्(स्वाहा᳚) || 5 ||

नु¦नः॒¦चि॒त्र‌म्¦पु॒रु॒ऽवाजा᳚भिः¦ऊ॒ती¦अग्ने᳚¦र॒यि‌म्¦म॒घव॑त्ऽभ्यः¦च॒¦धे॒हि॒ |
ये¦राध॑सा¦श्रव॑सा¦च॒¦अति॑¦अ॒न्यान्¦सु॒ऽवीर्ये᳚भिः¦च॒¦अ॒भि¦सन्ति॑¦जना॑न् ||

इ॒मंय॒ज्ञंचनो᳚धा,अग्नउ॒शन्यंत॑आसा॒नोजु॑हु॒तेह॒विष्मा॑न् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

भ॒रद्वा᳚जेषुदधिषेसुवृ॒क्तिमवी॒र्वाज॑स्य॒गध्य॑स्यसा॒तौ(स्वाहा᳚) || 6 ||

इ॒म‌म्¦य॒ज्ञ‌म्¦चनः॑¦धाः॒¦अ॒ग्ने॒¦उ॒शन्¦य‌म्¦ते॒¦आ॒सा॒नः¦जु॒हु॒ते¦ह॒विष्मा॑न् |
भ॒रत्ऽवा᳚जेषु¦द॒धि॒षे॒¦सु॒ऽवृ॒क्ति‌म्¦अवीः᳚¦वाज॑स्य¦गध्य॑स्य¦सा॒तौ ||

विद्वेषां᳚सीनु॒हिव॒र्धयेळां॒मदे᳚मश॒तहि॑माःसु॒वीराः᳚(स्वाहा᳚) || {बार्हस्पत्यो भरद्वाजः | अग्निः | द्विपदाविराट्}7 ||

वि¦द्वेषां᳚सि¦इ॒नु॒हि¦व॒र्धय॑¦इळा᳚‌म्¦मदे᳚म¦श॒तऽहि॑माः¦सु॒ऽवीराः᳚ ||

[90] यजस्वहोतरिति षडृचस्य सूक्तस्यबार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:11}{अनुवाक:1, सूक्त:11}
यज॑स्वहोतरिषि॒तोयजी᳚या॒नग्ने॒बाधो᳚म॒रुतां॒नप्रयु॑क्ति |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

आनो᳚मि॒त्रावरु॑णा॒नास॑त्या॒द्यावा᳚हो॒त्राय॑पृथि॒वीव॑वृत्याः॒(स्वाहा᳚) || 1 || वर्ग:13

यज॑स्व¦हो॒तः॒¦इ॒षि॒तः¦यजी᳚यान्¦अग्ने᳚¦बाधः॑¦म॒रुता᳚‌म्¦न¦प्रऽयु॑क्ति |
आ¦नः॒¦मि॒त्रावरु॑णा¦नास॑त्या¦द्यावा᳚¦हो॒त्राय॑¦पृ॒थि॒वी इति॑¦व॒वृ॒त्याः॒ ||

त्वंहोता᳚म॒न्द्रत॑मोनो,अ॒ध्रुग॒न्तर्दे॒वोवि॒दथा॒मर्त्ये᳚षु |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

पा॒व॒कया᳚जु॒ह्वा॒३॑(आ॒)वह्नि॑रा॒साऽग्ने॒यज॑स्वत॒न्व१॑(अं॒)तव॒स्वाम्(स्वाहा᳚) || 2 ||

त्व‌म्¦होता᳚¦म॒न्द्रऽत॑मः¦नः॒¦अ॒ध्रुक्¦अ॒न्तः¦दे॒वः¦वि॒दथा᳚¦मर्त्ये᳚षु |
पा॒व॒कया᳚¦जु॒ह्वा᳚¦वह्निः॑¦आ॒सा¦अग्ने᳚¦यज॑स्व¦त॒न्व᳚‌म्¦तव॑¦स्वा‌म् ||

धन्या᳚चि॒द्धित्वेधि॒षणा॒वष्टि॒प्रदे॒वाञ्जन्म॑गृण॒तेयज॑ध्यै |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

वेपि॑ष्ठो॒,अङ्गि॑रसां॒यद्ध॒विप्रो॒मधु॑च्छ॒न्दोभन॑तिरे॒भइ॒ष्टौ(स्वाहा᳚) || 3 ||

धन्या᳚¦चि॒त्¦हि¦त्वे इति॑¦धि॒षणा᳚¦वष्टि॑¦प्र¦दे॒वान्¦जन्म॑¦गृ॒ण॒ते¦यज॑ध्यै |
वेपि॑ष्ठः¦अङ्गि॑रसा‌म्¦यत्¦ह॒¦विप्रः॑¦मधु॑¦छ॒न्दः¦भन॑ति¦रे॒भः¦इ॒ष्टौ ||

अदि॑द्युत॒त्‌स्वपा᳚कोवि॒भावाऽग्ने॒यज॑स्व॒रोद॑सी,उरू॒ची |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

आ॒युंनयंनम॑सारा॒तह᳚व्या,अ॒ञ्जन्ति॑सुप्र॒यसं॒पञ्च॒जनाः᳚(स्वाहा᳚) || 4 ||

अदि॑द्युतत्¦सु¦अपा᳚कः¦वि॒ऽभावा᳚¦अग्ने᳚¦यज॑स्व¦रोद॑सी॒ इति॑¦उ॒रू॒ची इति॑ |
आ॒यु‌म्¦न¦य‌म्¦नम॑सा¦रा॒तऽह᳚व्याः¦अं॒जन्ति॑¦सु॒ऽप्र॒यस᳚‌म्¦पंच॑¦जनाः᳚ ||

वृ॒ञ्जेह॒यन्नम॑साब॒र्हिर॒ग्नावया᳚मि॒स्रुग्घृ॒तव॑तीसुवृ॒क्तिः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अम्य॑क्षि॒सद्म॒सद॑नेपृथि॒व्या,अश्रा᳚यिय॒ज्ञःसूर्ये॒नचक्षुः॒(स्वाहा᳚) || 5 ||

वृं॒जे¦ह॒¦यत्¦नम॑सा¦ब॒र्हिः¦अ॒ग्नौ¦अया᳚मि¦स्रुक्¦घृ॒तऽव॑ती¦सु॒ऽवृ॒क्तिः |
अम्य॑क्षि¦सद्म॑¦सद॑ने¦पृ॒थि॒व्याः¦अश्रा᳚यि¦य॒ज्ञः¦सूर्ये᳚¦न¦चक्षुः॑ ||

द॒श॒स्यानः॑पुर्वणीकहोतर्दे॒वेभि॑रग्ने,अ॒ग्निभि॑रिधा॒नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

रा॒यःसू᳚नोसहसोवावसा॒ना,अति॑स्रसेमवृ॒जनं॒नांहः॒(स्वाहा᳚) || 6 ||

द॒श॒स्य¦नः॒¦पु॒रु॒।आ॒णी॒क॒¦हो॒तः॒¦दे॒वेभिः॑¦अ॒ग्ने॒¦अ॒ग्निऽभिः॑¦इ॒धा॒नः |
रा॒यः¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦व॒व॒सा॒नाः¦अति॑¦स्र॒से॒म॒¦वृ॒जन᳚‌म्¦न¦अंहः॑ ||

[91] मध्येहोतेति षडृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाजोऽग्निस्त्रिष्टुप् |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:12}{अनुवाक:1, सूक्त:12}
मध्ये॒होता᳚दुरो॒णेब॒र्हिषो॒राळ॒ग्निस्तो॒दस्य॒रोद॑सी॒यज॑ध्यै |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अ॒यंससू॒नुःसह॑सऋ॒तावा᳚दू॒रात्‌सूर्यो॒नशो॒चिषा᳚ततान॒(स्वाहा᳚) || 1 || वर्ग:14

मध्ये᳚¦होता᳚¦दु॒रो॒णे¦ब॒र्हिषः॑¦राट्¦अ॒ग्निः¦तो॒दस्य॑¦रोद॑सी॒ इति॑¦यज॑ध्यै |
अ॒य‌म्¦सः¦सू॒नुः¦सह॑सः¦ऋ॒तऽवा᳚¦दू॒रात्¦सूर्यः॑¦न¦शो॒चिषा᳚¦त॒ता॒न॒ ||

आयस्मि॒न्‌त्वेस्वपा᳚केयजत्र॒यक्ष॑द्‌राजन्‌त्स॒र्वता᳚तेव॒नुद्यौः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

त्रि॒ष॒धस्थ॑स्तत॒रुषो॒नजंहो᳚ह॒व्याम॒घानि॒मानु॑षा॒यज॑ध्यै॒(स्वाहा᳚) || 2 ||

आ¦यस्मि॑न्¦त्वे इति॑¦सु¦अपा᳚के¦य॒ज॒त्र॒¦यक्ष॑त्¦रा॒ज॒न्¦स॒र्वता᳚ताऽ‌इव¦नु¦द्यौः |
त्रि॒ऽस॒धस्थः॑¦त॒त॒रुषः॑¦न¦जंहः॑¦ह॒व्या¦म॒घानि॑¦मानु॑षा¦यज॑ध्यै ||

तेजि॑ष्ठा॒यस्या᳚र॒तिर्व॑ने॒राट्तो॒दो,अध्व॒न्‌नवृ॑धसा॒नो,अ॑द्यौत् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अ॒द्रो॒घोनद्र॑वि॒ताचे᳚तति॒त्मन्नम॑र्त्योऽव॒र्त्रओष॑धीषु॒(स्वाहा᳚) || 3 ||

तेजि॑ष्ठा¦यस्य॑¦अ॒र॒तिः¦व॒ने॒ऽराट्¦तो॒दः¦अध्व॑न्¦न¦वृ॒ध॒सा॒नः¦अ॒द्यौ॒त् |
अ॒द्रो॒घः¦न¦द्र॒वि॒ता¦चे॒त॒ति॒¦त्मन्¦अम॑र्त्यः¦अ॒व॒र्त्रः¦ओष॑धीषु ||

सास्माके᳚भिरे॒तरी॒नशू॒षैर॒ग्निःष्ट॑वे॒दम॒आजा॒तवे᳚दाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

द्र्व᳚न्नोव॒न्वन्‌क्रत्वा॒नार्वो॒स्रःपि॒तेव॑जार॒यायि॑य॒ज्ञैः॒(स्वाहा᳚) || 4 ||

सः¦अ॒स्माके᳚भिः¦ए॒तरि॑¦न¦शू॒षैः¦अ॒ग्निः¦स्त॒वे॒¦दमे᳚¦आ¦जा॒तऽवे᳚दाः |
द्रु।आ᳚न्नः¦व॒न्वन्¦क्रत्वा᳚¦न¦अर्वा᳚¦उ॒स्रः¦पि॒ताऽ‌इ᳚व¦जा॒र॒यायि॑¦य॒ज्ञैः ||

अध॑स्मास्यपनयन्ति॒भासो॒वृथा॒यत्‌तक्ष॑दनु॒याति॑पृ॒थ्वीम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

स॒द्योयःस्प॒न्द्रोविषि॑तो॒धवी᳚यानृ॒णोनता॒युरति॒धन्वा᳚राट्॒(स्वाहा᳚) || 5 ||

अध॑¦स्म॒¦अ॒स्य॒¦प॒न॒य॒न्ति॒¦भासः॑¦वृथा᳚¦यत्¦तक्ष॑त्¦अ॒नु॒ऽयाति॑¦पृ॒थ्वी‌म् |
स॒द्यः¦यः¦स्प॒न्द्रः¦विऽसि॑तः¦धवी᳚यान्¦ऋ॒णः¦न¦ता॒युः¦अति॑¦धन्व॑¦रा॒ट् ||

सत्वंनो᳚,अर्व॒न्‌निदा᳚या॒विश्वे᳚भिरग्ने,अ॒ग्निभि॑रिधा॒नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

वेषि॑रा॒योविया᳚सिदु॒च्छुना॒मदे᳚मश॒तहि॑माःसु॒वीराः᳚(स्वाहा᳚) || 6 ||

सः¦त्व‌म्¦नः॒¦अ॒र्व॒न्¦निदा᳚याः¦विश्वे᳚भिः¦अ॒ग्ने॒¦अ॒ग्निऽभिः॑¦इ॒धा॒नः |
वेषि॑¦रा॒यः¦वि¦या॒सि॒¦दु॒च्छुनाः᳚¦मदे᳚म¦श॒तऽहि॑माः¦सु॒ऽवीराः᳚ ||

[92] त्वद्विश्वेति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:13}{अनुवाक:1, सूक्त:13}
त्वद्‌विश्वा᳚सुभग॒सौभ॑गा॒न्यग्ने॒विय᳚न्तिव॒निनो॒नव॒याः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

श्रु॒ष्टीर॒यिर्वाजो᳚वृत्र॒तूर्ये᳚दि॒वोवृ॒ष्टिरीड्यो᳚री॒तिर॒पाम्(स्वाहा᳚) || 1 || वर्ग:15

त्वत्¦विश्वा᳚¦सु॒ऽभ॒ग॒¦सौभ॑गानि¦अग्ने᳚¦वि¦य॒न्ति॒¦व॒निनः॑¦न¦व॒याः |
श्रु॒ष्टी¦र॒यिः¦वाजः॑¦वृ॒त्र॒ऽतूर्ये᳚¦दि॒वः¦वृ॒ष्टिः¦ईड्यः॑¦री॒तिः¦अ॒पा‌म् ||

त्वंभगो᳚न॒आहिरत्न॑मि॒षेपरि॑ज्मेवक्षयसिद॒स्मव॑र्चाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अग्ने᳚मि॒त्रोनबृ॑ह॒तऋ॒तस्याऽसि॑क्ष॒त्तावा॒मस्य॑देव॒भूरेः᳚(स्वाहा᳚) || 2 ||

त्व‌म्¦भगः॑¦नः॒¦आ¦हि¦रत्न᳚‌म्¦इ॒षे¦परि॑ज्माऽ‌इव¦क्ष॒य॒सि॒¦द॒स्मऽव॑र्चाः |
अग्ने᳚¦मि॒त्रः¦न¦बृ॒ह॒तः¦ऋ॒तस्य॑¦असि॑¦क्ष॒त्ता¦वा॒मस्य॑¦दे॒व॒¦भूरेः᳚ ||

ससत्प॑तिः॒शव॑साहन्तिवृ॒त्रमग्ने॒विप्रो॒विप॒णेर्भ॑र्ति॒वाज᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

यंत्वंप्र॑चेतऋतजातरा॒यास॒जोषा॒नप्त्रा॒पांहि॒नोषि॒(स्वाहा᳚) || 3 ||

सः¦सत्ऽप॑तिः¦शव॑सा¦ह॒न्ति॒¦वृ॒त्र‌म्¦अग्ने᳚¦विप्रः॑¦वि¦प॒णेः¦भ॒र्ति॒¦वाज᳚‌म् |
य‌म्¦त्व‌म्¦प्र॒ऽचे॒तः॒¦ऋ॒त॒ऽजा॒त॒¦रा॒या¦स॒ऽजोषाः᳚¦नप्त्रा᳚¦अ॒पा‌म्¦हि॒नोषि॑ ||

यस्ते᳚सूनोसहसोगी॒र्भिरु॒क्थैर्य॒ज्ञैर्मर्तो॒निशि॑तिंवे॒द्यान॑ट् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

विश्वं॒सदे᳚व॒प्रति॒वार॑मग्नेध॒त्तेधा॒न्य१॑(अं॒)पत्य॑तेवस॒व्यैः᳚(स्वाहा᳚) || 4 ||

यः¦ते॒¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦गीः॒ऽभिः¦उ॒क्थैः¦य॒ज्ञैः¦मर्तः॑¦निऽशि॑ति‌म्¦वे॒द्या¦आन॑ट् |
विश्व᳚‌म्¦सः¦दे॒व॒¦प्रति॑¦वा¦अर᳚‌म्¦अ॒ग्ने॒¦ध॒त्ते¦धा॒न्य‌म्¦पत्य॑ते¦व॒स॒व्यैः᳚ ||

तानृभ्य॒आसौ᳚श्रव॒सासु॒वीराऽग्ने᳚सूनोसहसःपु॒ष्यसे᳚धाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

कृ॒णोषि॒यच्छव॑सा॒भूरि॑प॒श्वोवयो॒वृका᳚या॒रये॒जसु॑रये॒(स्वाहा᳚) || 5 ||

ता¦नृऽभ्यः॑¦आ¦सौ॒श्र॒व॒सा¦सु॒ऽवीरा᳚¦अग्ने᳚¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦पु॒ष्यसे᳚¦धाः॒ |
कृ॒णोषि॑¦यत्¦शव॑सा¦भूरि॑¦प॒श्वः¦वयः॑¦वृका᳚य¦अ॒रये᳚¦जसु॑रये ||

व॒द्मासू᳚नोसहसोनो॒विहा᳚या॒,अग्ने᳚तो॒कंतन॑यंवा॒जिनो᳚दाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

विश्वा᳚भिर्गी॒र्भिर॒भिपू॒र्तिम॑श्यां॒मदे᳚मश॒तहि॑माःसु॒वीराः᳚(स्वाहा᳚) || 6 ||

व॒द्मा¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦नः॒¦विऽहा᳚याः¦अग्ने᳚¦तो॒क‌म्¦तन॑य‌म्¦वा॒जि¦नः॒¦दाः॒ |
विश्वा᳚भिः¦गीः॒ऽभिः¦अ॒भि¦पू॒र्ति‌म्¦अ॒श्या॒‌म्¦मदे᳚म¦श॒तऽहि॑माः¦सु॒ऽवीराः᳚ ||

[93] अग्नायइति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निरनुष्टुबन्त्याशक्वरी |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:14}{अनुवाक:1, सूक्त:14}
अ॒ग्नायोमर्त्यो॒दुवो॒धियं᳚जु॒जोष॑धी॒तिभिः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

भस॒न्नुषप्रपू॒र्व्यइषं᳚वुरी॒ताव॑से॒(स्वाहा᳚) || 1 || वर्ग:16

अ॒ग्ना¦यः¦मर्त्यः॑¦दुवः॑¦धिय᳚‌म्¦जु॒जोष॑¦धी॒तिऽभिः॑ | भस॑त्¦नु¦सः¦प्र¦पू॒र्व्यः¦इष᳚‌म्¦वु॒री॒त॒¦अव॑से ||

अ॒ग्निरिद्धिप्रचे᳚ता,अ॒ग्निर्वे॒धस्त॑म॒ऋषिः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

अ॒ग्निंहोता᳚रमीळतेय॒ज्ञेषु॒मनु॑षो॒विशः॒(स्वाहा᳚) || 2 ||

अ॒ग्निः¦इत्¦हि¦प्रऽचे᳚ताः¦अ॒ग्निः¦वे॒धःऽत॑मः¦ऋषिः॑ | अ॒ग्नि‌म्¦होता᳚र‌म्¦ई॒ळ॒ते॒¦य॒ज्ञेषु॑¦मनु॑षः¦विशः॑ ||

नाना॒ह्य१॑(अ॒)ग्नेऽव॑से॒स्पर्ध᳚न्ते॒रायो᳚,अ॒र्यः |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

तूर्व᳚न्तो॒दस्यु॑मा॒यवो᳚व्र॒तैःसीक्ष᳚न्तो,अव्र॒तम्(स्वाहा᳚) || 3 ||

नाना᳚¦हि¦अ॒ग्ने॒¦अव॑से¦स्पर्ध᳚न्ते¦रायः॑¦अ॒र्यः | तूर्व᳚न्तः¦दस्यु᳚‌म्¦आ॒यवः॑¦व्र॒तैः¦सीक्ष᳚न्तः¦अ॒व्र॒त‌म् ||

अ॒ग्निर॒प्सामृ॑ती॒षहं᳚वी॒रंद॑दाति॒सत्प॑तिम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

यस्य॒त्रस᳚न्ति॒शव॑सःसं॒चक्षि॒शत्र॑वोभि॒या(स्वाहा᳚) || 4 ||

अ॒ग्निः¦अ॒प्सा‌म्¦ऋ॒ति॒ऽसह᳚‌म्¦वी॒र‌म्¦द॒दा॒ति॒¦सत्ऽप॑ति‌म् | यस्य॑¦त्रस᳚न्ति¦शव॑सः¦स॒‌म्ऽचक्षि॑¦शत्र॑वः¦भि॒या ||

अ॒ग्निर्हिवि॒द्मना᳚नि॒दोदे॒वोमर्त॑मुरु॒ष्यति॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

स॒हावा॒यस्यावृ॑तोर॒यिर्वाजे॒ष्ववृ॑तः॒(स्वाहा᳚) || 5 ||

अ॒ग्निः¦हि¦वि॒द्मना᳚¦नि॒दः¦दे॒वः¦मर्त᳚‌म्¦उ॒रु॒ष्यति॑ | स॒हऽवा᳚¦यस्य॑¦अवृ॑तः¦र॒यिः¦वाजे᳚षु¦अवृ॑तः ||

अच्छा᳚नोमित्रमहोदेवदे॒वानग्ने॒वोचः॑सुम॒तिंरोद॑स्योः |{बार्हस्पत्यो भरद्वाजः | अग्निः | शक्वरी}

वी॒हिस्व॒स्तिंसु॑क्षि॒तिंदि॒वोनॄन्द्वि॒षो,अंहां᳚सिदुरि॒तात॑रेम॒तात॑रेम॒तवाव॑सातरेम॒(स्वाहा᳚) || 6 ||

अच्छ॑¦नः॒¦मि॒त्र॒ऽम॒हः॒¦दे॒व॒¦दे॒वान्¦अग्ने᳚¦वोचः॑¦सु॒ऽम॒ति‌म्¦रोद॑स्योः |
वी॒हि¦स्व॒स्ति‌म्¦सु॒ऽक्षि॒ति‌म्¦दि॒वः¦नॄन्¦द्वि॒षः¦अंहां᳚सि¦दुः॒ऽ‌इ॒ता¦त॒रे॒म॒¦ता¦त॒रे॒म॒¦तव॑¦अव॑सा¦त॒रे॒म॒ ||

[94] इममूष्वित्येकोनविंशत्यृचस्य सूक्तस्यांगिरसोवीतहव्यो (भरद्वाजोवा) ग्निर्जगती तृतीयापंचदृश्यौशक्वर्यौ षष्ट्यतिशक्वरी सप्तदश्यनुष्टुप् अष्टादशीबृहती दशम्याद्याः पंचषोडश्येकोनविंशीचत्रिष्टुभः |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:15}{अनुवाक:1, सूक्त:15}
इ॒ममू॒षुवो॒,अति॑थिमुष॒र्बुधं॒विश्वा᳚सांवि॒शांपति॑मृञ्जसेगि॒रा |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती}

वेतीद्‌दि॒वोज॒नुषा॒कच्चि॒दाशुचि॒र्ज्योक्‌चि॑दत्ति॒गर्भो॒यदच्यु॑त॒‌म्(स्वाहा᳚) || 1 || वर्ग:17

इ॒म‌म्¦ऊँ॒ इति॑¦सु¦वः॒¦अति॑थि‌म्¦उ॒षः॒ऽबुध᳚‌म्¦विश्वा᳚सा‌म्¦वि॒शा‌म्¦पति᳚‌म्¦ऋं॒ज॒से॒¦गि॒रा |
वेति॑¦इत्¦दि॒वः¦ज॒नुषा᳚¦कत्¦चि॒त्¦आ¦शुचिः॑¦ज्योक्¦चि॒त्¦अ॒त्ति॒¦गर्भः॑¦यत्¦अच्यु॑त‌म् ||

मि॒त्रंनयंसुधि॑तं॒भृग॑वोद॒धुर्वन॒स्पता॒वीड्य॑मू॒र्ध्वशो᳚चिषम् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती}

सत्वंसुप्री᳚तोवी॒तह᳚व्ये,अद्भुत॒प्रश॑स्तिभिर्महयसेदि॒वेदि॑वे॒(स्वाहा᳚) || 2 ||

मि॒त्र‌म्¦न¦य‌म्¦सुऽधि॑त‌म्¦भृग॑वः¦द॒धुः¦वन॒स्पतौ᳚¦ईड्य᳚‌म्¦ऊ॒र्ध्वऽशो᳚चिष‌म् |
सः¦त्व‌म्¦सुऽप्री᳚तः¦वी॒तऽह᳚व्ये¦अ॒द्भु॒त॒¦प्रश॑स्तिऽभिः¦म॒ह॒य॒से॒¦दि॒वेऽदि॑वे ||

सत्वंदक्ष॑स्यावृ॒कोवृ॒धोभू᳚र॒र्यःपर॒स्यान्त॑रस्य॒तरु॑षः |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | शक्वरी}

रा॒यःसू᳚नोसहसो॒मर्त्ये॒ष्वाछ॒र्दिर्य॑च्छवी॒तह᳚व्यायस॒प्रथो᳚भ॒रद्वा᳚जायस॒प्रथः॒(स्वाहा᳚) || 3 ||

सः¦त्व‌म्¦दक्ष॑स्य¦अ॒वृ॒कः¦वृ॒धः¦भूः॒¦अ॒र्यः¦पर॑स्य¦अन्त॑रस्य¦तरु॑षः |
रा॒यः¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦मर्त्ये᳚षु¦आ¦छ॒र्दिः¦य॒च्छ॒¦वी॒तऽह᳚व्याय¦स॒ऽप्रथः॑¦भ॒रत्ऽवा᳚जाय¦स॒ऽप्रथः॑ ||

द्यु॒ता॒नंवो॒,अति॑थिं॒स्व᳚र्णरम॒ग्निंहोता᳚रं॒मनु॑षःस्वध्व॒रम् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती}

विप्रं॒नद्यु॒क्षव॑चसंसुवृ॒क्तिभि᳚र्हव्य॒वाह॑मर॒तिंदे॒वमृ᳚ञ्जसे॒(स्वाहा᳚) || 4 ||

द्यु॒ता॒न‌म्¦वः॒¦अति॑थि‌म्¦स्वः॑ऽनर‌म्¦अ॒ग्नि‌म्¦होता᳚र‌म्¦मनु॑षः¦सु॒।आ॒ध्व॒र‌म् |
विप्र᳚‌म्¦न¦द्यु॒क्षऽव॑चस‌म्¦सु॒वृ॒क्तिऽभिः॑¦ह॒व्य॒ऽवाह᳚‌म्¦अ॒र॒ति‌म्¦दे॒व‌म्¦ऋं॒ज॒से॒ ||

पा॒व॒कया॒यश्चि॒तय᳚न्त्याकृ॒पाक्षाम᳚न्‌रुरु॒चउ॒षसो॒नभा॒नुना᳚ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती}

तूर्व॒न्‌नयाम॒न्नेत॑शस्य॒नूरण॒आयोघृ॒णेनत॑तृषा॒णो,अ॒जरः॒(स्वाहा᳚) || 5 ||

पा॒व॒कया᳚¦यः¦चि॒तय᳚न्त्या¦कृ॒पा¦क्षाम॑न्¦रु॒रु॒चे¦उ॒षसः॑¦न¦भा॒नुना᳚ |
तूर्व॑न्¦न¦याम॑न्¦एत॑शस्य¦नु¦रणे᳚¦आ¦यः¦घृ॒णे¦न¦त॒तृ॒षा॒णः¦अ॒जरः॑ ||

अ॒ग्निम॑ग्निंवःस॒मिधा᳚दुवस्यतप्रि॒यम्प्रि॑यंवो॒,अति॑थिंगृणी॒षणि॑ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | अतिशक्वरी}

उप॑वोगी॒र्भिर॒मृतं᳚विवासतदे॒वोदे॒वेषु॒वन॑ते॒हिवार्यं᳚दे॒वोदे॒वेषु॒वन॑ते॒हिनो॒दुवः॒(स्वाहा᳚) || 6 || वर्ग:18

अ॒ग्नि‌म्।आ॑ग्नि‌म्¦वः॒¦स॒‌म्ऽ‌इधा᳚¦दु॒व॒स्य॒त॒¦प्रि॒य‌म्ऽप्रि॑य‌म्¦वः॒¦अति॑थि‌म्¦गृ॒णी॒षणि॑ |
उप॑¦वः॒¦गीः॒ऽभिः¦अ॒मृत᳚‌म्¦वि॒वा॒स॒त॒¦दे॒वः¦दे॒वेषु॑¦वन॑ते¦हि¦वार्य᳚‌म्¦दे॒वः¦दे॒वेषु॑¦वन॑ते¦हि¦नः॒¦दुवः॑ ||

समि॑द्धम॒ग्निंस॒मिधा᳚गि॒रागृ॑णे॒शुचिं᳚पाव॒कंपु॒रो,अ॑ध्व॒रेध्रु॒वम् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती}

विप्रं॒होता᳚रंपुरु॒वार॑म॒द्रुहं᳚क॒विंसु॒म्नैरी᳚महेजा॒तवे᳚दस॒‌म्(स्वाहा᳚) || 7 ||

स‌म्ऽ‌इ᳚द्ध‌म्¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इधा᳚¦गि॒रा¦गृ॒णे॒¦शुचि᳚‌म्¦पा॒व॒क‌म्¦पु॒रः¦अ॒ध्व॒रे¦ध्रु॒व‌म् |
विप्र᳚‌म्¦होता᳚र‌म्¦पु॒रु॒ऽवार᳚‌म्¦अ॒द्रुह᳚‌म्¦क॒वि‌म्¦सु॒म्नैः¦ई॒म॒हे॒¦जा॒तऽवे᳚दस‌म् ||

त्वांदू॒तम॑ग्ने,अ॒मृतं᳚यु॒गेयु॑गेहव्य॒वाहं᳚दधिरेपा॒युमीड्य᳚म् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती}

दे॒वास॑श्च॒मर्ता᳚सश्च॒जागृ॑विंवि॒भुंवि॒श्पतिं॒नम॑सा॒निषे᳚दिरे॒(स्वाहा᳚) || 8 ||

त्वा‌म्¦दू॒त‌म्¦अ॒ग्ने॒¦अ॒मृत᳚‌म्¦यु॒गेऽयु॑गे¦ह॒व्य॒ऽवाह᳚‌म्¦द॒धि॒रे॒¦पा॒यु‌म्¦ईड्य᳚‌म् |
दे॒वासः॑¦च॒¦मर्ता᳚सः¦च॒¦जागृ॑वि‌म्¦वि॒ऽभु‌म्¦वि॒श्पति᳚‌म्¦नम॑सा¦नि¦से॒दि॒रे॒ ||

वि॒भूष᳚न्नग्नउ॒भयाँ॒,अनु᳚व्र॒तादू॒तोदे॒वानां॒रज॑सी॒समी᳚यसे |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती}

यत्‌ते᳚धी॒तिंसु॑म॒तिमा᳚वृणी॒महेऽध॑स्मानस्त्रि॒वरू᳚थःशि॒वोभ॑व॒(स्वाहा᳚) || 9 ||

वि॒ऽभूष॑न्¦अ॒ग्ने॒¦उ॒भया॒न्¦अनु॑¦व्र॒ता¦दू॒तः¦दे॒वाना᳚‌म्¦रज॑सी॒ इति॑¦स‌म्¦ई॒य॒से॒ |
यत्¦ते॒¦धी॒ति‌म्¦सु॒ऽम॒ति‌म्¦आ॒ऽवृ॒णी॒महे᳚¦अध॑¦स्म॒¦नः॒¦त्रि॒ऽवरू᳚थः¦शि॒वः¦भ॒व॒ ||

तंसु॒प्रती᳚कंसु॒दृशं॒स्वञ्च॒मवि॑द्वांसोवि॒दुष्ट॑रंसपेम |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्}

सय॑क्ष॒द्‌विश्वा᳚व॒युना᳚निवि॒द्वान्प्रह॒व्यम॒ग्निर॒मृते᳚षुवोच॒‌त्(स्वाहा᳚) || 10 ||

त‌म्¦सु॒ऽप्रती᳚क‌म्¦सु॒ऽदृश᳚‌म्¦सु॒।आंच᳚‌म्¦अवि॑द्वांसः¦वि॒दुःऽत॑र‌म्¦स॒पे॒म॒ |
सः¦य॒क्ष॒त्¦विश्वा᳚¦व॒युना᳚नि¦वि॒द्वान्¦प्र¦ह॒व्य‌म्¦अ॒ग्निः¦अ॒मृते᳚षु¦वो॒च॒त् ||

तम॑ग्नेपास्यु॒ततंपि॑पर्षि॒यस्त॒आन॑ट्‌क॒वये᳚शूरधी॒तिम् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्}

य॒ज्ञस्य॑वा॒निशि॑तिं॒वोदि॑तिंवा॒तमित्‌पृ॑णक्षि॒शव॑सो॒तरा॒या(स्वाहा᳚) || 11 || वर्ग:19

त‌म्¦अ॒ग्ने॒¦पा॒सि॒¦उ॒त¦त‌म्¦पि॒प॒र्षि॒¦यः¦ते॒¦आन॑ट्¦क॒वये᳚¦शू॒र॒¦धी॒ति‌म् |
य॒ज्ञस्य॑¦वा॒¦निऽशि॑ति‌म्¦वा॒¦उत्ऽ‌इ᳚ति‌म्¦वा॒¦त‌म्¦इत्¦पृ॒ण॒क्षि॒¦शव॑सा¦उ॒त¦रा॒या ||

त्वम॑ग्नेवनुष्य॒तोनिपा᳚हि॒त्वमु॑नःसहसावन्नव॒द्यात् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्}

संत्वा᳚ध्वस्म॒न्वद॒भ्ये᳚तु॒पाथः॒संर॒यिःस्पृ॑ह॒याय्यः॑सह॒स्री(स्वाहा᳚) || 12 ||

त्व‌म्¦अ॒ग्ने॒¦व॒नु॒ष्य॒तः¦नि¦पा॒हि॒¦त्व‌म्¦ऊँ॒ इति॑¦नः॒¦स॒ह॒सा॒ऽव॒न्¦अ॒व॒द्यात् |
स‌म्¦त्वा॒¦ध्व॒स्म॒न्ऽवत्¦अ॒भि¦ए॒तु॒¦पाथः॑¦स‌म्¦र॒यिः¦स्पृ॒ह॒याय्यः॑¦स॒ह॒स्री ||

अ॒ग्निर्होता᳚गृ॒हप॑तिः॒सराजा॒विश्वा᳚वेद॒जनि॑माजा॒तवे᳚दाः |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्}

दे॒वाना᳚मु॒तयोमर्त्या᳚नां॒यजि॑ष्ठः॒सप्रय॑जतामृ॒तावा॒(स्वाहा᳚) || 13 ||

अ॒ग्निः¦होता᳚¦गृ॒हऽप॑तिः¦सः¦राजा᳚¦विश्वा᳚¦वे॒द॒¦जनि॑म¦जा॒तऽवे᳚दाः |
दे॒वाना᳚‌म्¦उ॒त¦यः¦मर्त्या᳚ना‌म्¦यजि॑ष्ठः¦सः¦प्र¦य॒ज॒ता॒‌म्¦ऋ॒तऽवा᳚ ||

अग्ने॒यद॒द्यवि॒शो,अ॑ध्वरस्यहोतः॒पाव॑कशोचे॒वेष्ट्वंहियज्वा᳚ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्}

ऋ॒ताय॑जासिमहि॒नावियद्‌भूर्ह॒व्याव॑हयविष्ठ॒याते᳚,अ॒द्य(स्वाहा᳚) || 14 ||

अग्ने᳚¦यत्¦अ॒द्य¦वि॒शः¦अ॒ध्व॒र॒स्य॒¦हो॒त॒रिति॑¦पाव॑कऽशोचे¦वेः¦त्व‌म्¦हि¦यज्वा᳚ |
ऋ॒ता¦य॒जा॒सि॒¦म॒हि॒ना¦वि¦यत्¦भूः¦ह॒व्या¦व॒ह॒¦य॒वि॒ष्ठ॒¦या¦ते॒¦अ॒द्य ||

अ॒भिप्रयां᳚सि॒सुधि॑तानि॒हिख्योनित्वा᳚दधीत॒रोद॑सी॒यज॑ध्यै |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | शक्वरी}

अवा᳚नोमघव॒न्‌वाज॑साता॒वग्ने॒विश्वा᳚निदुरि॒तात॑रेम॒तात॑रेम॒तवाव॑सातरेम॒(स्वाहा᳚) || 15 ||

अ॒भि¦प्रयां᳚सि¦सुऽधि॑तानि¦हि¦ख्यः¦नि¦त्वा॒¦द॒धी॒त॒¦रोद॑सी॒ इति॑¦यज॑ध्यै |
अव॑¦नः॒¦म॒घ॒ऽव॒न्¦वाज॑ऽसातौ¦अग्ने᳚¦विश्वा᳚नि¦दुः॒ऽ‌इ॒ता¦त॒रे॒म॒¦ता¦त॒रे॒म॒¦तव॑¦अव॑सा¦त॒रे॒म॒ ||

अग्ने॒विश्वे᳚भिःस्वनीकदे॒वैरूर्णा᳚वन्तंप्रथ॒मःसी᳚द॒योनि᳚म् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्}

कु॒ला॒यिनं᳚घृ॒तव᳚न्तंसवि॒त्रेय॒ज्ञंन॑य॒यज॑मानायसा॒धु(स्वाहा᳚) || 16 || वर्ग:20

अग्ने᳚¦विश्वे᳚भिः¦सु॒।आ॒नी॒क॒¦दे॒वैः¦ऊर्णा᳚ऽवन्त‌म्¦प्र॒थ॒मः¦सी॒द॒¦योनि᳚‌म् |
कु॒ला॒यिन᳚‌म्¦घृ॒तऽव᳚न्त‌म्¦स॒वि॒त्रे¦य॒ज्ञ‌म्¦न॒य॒¦यज॑मानाय¦सा॒धु ||

इ॒ममु॒त्यम॑थर्व॒वद॒ग्निंम᳚न्थन्तिवे॒धसः॑ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | अनुष्टुप्}

यम᳚ङ्कू॒यन्त॒मान॑य॒न्नमू᳚रंश्या॒व्या᳚भ्यः॒(स्वाहा᳚) || 17 ||

इ॒म‌म्¦ऊँ॒ इति॑¦त्य‌म्¦अ॒थ॒र्व॒ऽवत्¦अ॒ग्नि‌म्¦म॒न्थ॒न्ति॒¦वे॒धसः॑ | य‌म्¦अ॒ङ्कु॒ऽयन्त᳚‌म्¦आ¦अन॑यन्¦अमू᳚र‌म्¦श्या॒व्या᳚भ्यः ||

जनि॑ष्वादे॒ववी᳚तयेस॒र्वता᳚तास्व॒स्तये᳚ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | बृहती}

आदे॒वान्‌व॑क्ष्य॒मृताँ᳚,ऋता॒वृधो᳚य॒ज्ञंदे॒वेषु॑पिस्पृशः॒(स्वाहा᳚) || 18 ||

जनि॑ष्व¦दे॒वऽवी᳚तये¦स॒र्वऽता᳚ता¦स्व॒स्तये᳚ |
आ¦दे॒वान्¦व॒क्षि॒¦अ॒मृता᳚न्¦ऋ॒त॒ऽवृधः॑¦य॒ज्ञ‌म्¦दे॒वेषु॑¦पि॒स्पृ॒शः॒ ||

व॒यमु॑त्वागृहपतेजनाना॒मग्ने॒,अक᳚र्मस॒मिधा᳚बृ॒हन्त᳚म् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्}

अ॒स्थू॒रिनो॒गार्ह॑पत्यानिसन्तुति॒ग्मेन॑न॒स्तेज॑सा॒संशि॑शाधि॒(स्वाहा᳚) || 19 ||

व॒य‌म्¦ऊँ॒ इति॑¦त्वा॒¦गृ॒ह॒ऽप॒ते॒¦ज॒ना॒ना॒‌म्¦अग्ने᳚¦अक᳚र्म¦स॒‌म्ऽ‌इधा᳚¦बृ॒हन्त᳚‌म् |
अ॒स्थू॒रि¦नः॒¦गार्ह॑ऽपत्यानि¦स॒न्तु॒¦ति॒ग्मेन॑¦नः॒¦तेज॑सा¦स‌म्¦शि॒शा॒धि॒ ||

[95] त्वमग्नेयज्ञानामित्यष्टाचत्वारिंशदृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोग्निर्गायत्री आद्याषष्ठ्यौवर्धमाने सप्तविंश्यनुष्टुप् षट्‌चत्वारिंशीत्रिष्टुप् अंत्येद्वेअनुष्टुभौ |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:16}{अनुवाक:2, सूक्त:1}
त्वम॑ग्नेय॒ज्ञानां॒होता॒विश्वे᳚षांहि॒तः |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री}

दे॒वेभि॒र्मानु॑षे॒जने॒(स्वाहा᳚) || 1 || वर्ग:21

त्व‌म्¦अ॒ग्ने॒¦य॒ज्ञाना᳚‌म्¦होता᳚¦विश्वे᳚षा‌म्¦हि॒तः | दे॒वेभिः॑¦मानु॑षे¦जने᳚ ||

सनो᳚म॒न्द्राभि॑रध्व॒रेजि॒ह्वाभि᳚र्यजाम॒हः |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री}

आदे॒वान्‌व॑क्षि॒यक्षि॑च॒(स्वाहा᳚) || 2 ||

सः¦नः॒¦म॒न्द्राभिः॑¦अ॒ध्व॒रे¦जि॒ह्वाभिः॑¦य॒ज॒¦म॒हः | आ¦दे॒वान्¦व॒क्षि॒¦यक्षि॑¦च॒ ||

वेत्था॒हिवे᳚धो॒,अध्व॑नःप॒थश्च॑दे॒वाञ्ज॑सा |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री}

अग्ने᳚य॒ज्ञेषु॑सुक्रतो॒(स्वाहा᳚) || 3 ||

वेत्थ॑¦हि¦वे॒धः॒¦अध्व॑नः¦प॒थः¦चे॒¦दे॒व॒¦अंज॑सा | अग्ने᳚¦य॒ज्ञेषु॑¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो ||

त्वामी᳚ळे॒,अध॑द्वि॒ताभ॑र॒तोवा॒जिभिः॑शु॒नम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री}

ई॒जेय॒ज्ञेषु॑य॒ज्ञिय॒‌म्(स्वाहा᳚) || 4 ||

त्वा‌म्¦ई॒ळे॒¦अध॑¦द्वि॒ता¦भ॒र॒तः¦वा॒जिऽभिः॑¦शु॒न‌म् | ई॒जे¦य॒ज्ञेषु॑¦य॒ज्ञिय᳚‌म् ||

त्वमि॒मावार्या᳚पु॒रुदिवो᳚दासायसुन्व॒ते |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री}

भ॒रद्वा᳚जायदा॒शुषे॒(स्वाहा᳚) || 5 ||

त्व‌म्¦इ॒मा¦वार्या᳚¦पु॒रु¦दिवः॑ऽदासाय¦सु॒न्व॒ते | भ॒रत्ऽवा᳚जाय¦दा॒शुषे᳚ ||

त्वंदू॒तो,अम॑र्त्य॒आव॑हा॒दैव्यं॒जन᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री}

शृ॒ण्वन्‌विप्र॑स्यसुष्टु॒तिम्(स्वाहा᳚) || 6 || वर्ग:22

त्व‌म्¦दू॒तः¦अम॑र्त्यः¦आ¦व॒ह॒¦दैव्य᳚‌म्¦जन᳚‌म् | शृ॒ण्वन्¦विप्र॑स्य¦सु॒ऽस्तु॒ति‌म् ||

त्वाम॑ग्नेस्वा॒ध्यो॒३॑(ओ॒)मर्ता᳚सोदे॒ववी᳚तये |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

य॒ज्ञेषु॑दे॒वमी᳚ळते॒(स्वाहा᳚) || 7 ||

त्वा‌म्¦अ॒ग्ने॒¦सु॒ऽआ॒ध्यः॑¦मर्ता᳚सः¦दे॒वऽवी᳚तये | य॒ज्ञेषु॑¦दे॒व‌म्¦ई॒ळ॒ते॒ ||

तव॒प्रय॑क्षिसं॒दृश॑मु॒तक्रतुं᳚सु॒दान॑वः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

विश्वे᳚जुषन्तका॒मिनः॒(स्वाहा᳚) || 8 ||

तव॑¦प्र¦य॒क्षि॒¦स॒‌म्ऽदृश᳚‌म्¦उ॒त¦क्रतु᳚‌म्¦सु॒ऽदान॑वः | विश्वे᳚¦जु॒ष॒न्त॒¦का॒मिनः॑ ||

त्वंहोता॒मनु᳚र्हितो॒वह्नि॑रा॒सावि॒दुष्ट॑रः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अग्ने॒यक्षि॑दि॒वोविशः॒(स्वाहा᳚) || 9 ||

त्व‌म्¦होता᳚¦मनुः॑ऽहितः¦वह्निः॑¦आ॒सा¦वि॒दुःऽत॑रः | अग्ने᳚¦यक्षि॑¦दि॒वः¦विशः॑ ||

अग्न॒आया᳚हिवी॒तये᳚गृणा॒नोह॒व्यदा᳚तये |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

निहोता᳚सत्सिब॒र्हिषि॒(स्वाहा᳚) || 10 ||

अग्ने᳚¦आ¦या॒हि॒¦वी॒तये᳚¦गृ॒णा॒नः¦ह॒व्यऽदा᳚तये | नि¦होता᳚¦स॒त्सि॒¦ब॒र्हिषि॑ ||

तंत्वा᳚स॒मिद्भि॑रङ्गिरोघृ॒तेन॑वर्धयामसि |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

बृ॒हच्छो᳚चायविष्ठ्य॒(स्वाहा᳚) || 11 || वर्ग:23

त‌म्¦त्वा॒¦स॒मित्ऽभिः॑¦अ॒ङ्गि॒रः॒¦घृ॒तेन॑¦व॒र्ध॒या॒म॒सि॒ | बृ॒हत्¦शो॒च॒¦य॒वि॒ष्ठ्य॒ ||

सनः॑पृ॒थुश्र॒वाय्य॒मच्छा᳚देवविवाससि |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

बृ॒हद॑ग्नेसु॒वीर्य॒‌म्(स्वाहा᳚) || 12 ||

सः¦नः॒¦पृ॒थु¦श्र॒वाय्य᳚‌म्¦अच्छ॑¦दे॒व॒¦वि॒वा॒स॒सि॒ | बृ॒हत्¦अ॒ग्ने॒¦सु॒ऽवीर्य᳚‌म् ||

त्वाम॑ग्ने॒पुष्क॑रा॒दध्यथ᳚र्वा॒निर॑मन्थत |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

मू॒र्ध्नोविश्व॑स्यवा॒घतः॒(स्वाहा᳚) || 13 ||

त्वा‌म्¦अ॒ग्ने॒¦पुष्क॑रात्¦अधि॑¦अथ᳚र्वा¦निः¦अ॒म॒न्थ॒त॒ | मू॒र्ध्नः¦विश्व॑स्य¦वा॒घतः॑ ||

तमु॑त्वाद॒ध्यङ्ङृषिः॑पु॒त्रई᳚धे॒,अथ᳚र्वणः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

वृ॒त्र॒हणं᳚पुरंद॒रम्(स्वाहा᳚) || 14 ||

त‌म्¦ऊँ॒ इति॑¦त्वा॒¦द॒ध्यङ्¦ऋषिः॑¦पु॒त्रः¦ई॒धे॒¦अथ᳚र्वणः | वृ॒त्र॒ऽहन᳚‌म्¦पु॒र॒‌म्ऽद॒र‌म् ||

तमु॑त्वापा॒थ्योवृषा॒समी᳚धेदस्यु॒हन्त॑मम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

ध॒नं॒ज॒यंरणे᳚रणे॒(स्वाहा᳚) || 15 ||

त‌म्¦ऊँ॒ इति॑¦त्वा॒¦पा॒थ्यः¦वृषा᳚¦स‌म्¦ई॒धे॒¦द॒स्यु॒हन्ऽत॑म‌म् | ध॒न॒‌म्ऽज॒य‌म्¦रणे᳚ऽरणे ||

एह्यू॒षुब्रवा᳚णि॒तेऽग्न॑इ॒त्थेत॑रा॒गिरः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

ए॒भिर्व॑र्धास॒इन्दु॑भिः॒(स्वाहा᳚) || 16 || वर्ग:24

आ¦इ॒हि॒¦ऊँ॒ इति॑¦सु¦ब्रवा᳚णि¦ते॒¦अग्ने᳚¦इ॒त्था¦इत॑राः¦गिरः॑ | ए॒भिः¦व॒र्धा॒से॒¦इन्दु॑ऽभिः ||

यत्र॒क्व॑चते॒मनो॒दक्षं᳚दधस॒उत्त॑रम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

तत्रा॒सदः॑कृणवसे॒(स्वाहा᳚) || 17 ||

यत्र॑¦क्व॑¦च॒¦ते॒¦मनः॑¦दक्ष᳚‌म्¦द॒ध॒से॒¦उत्ऽत॑र‌म् | तत्र॑¦सदः॑¦कृ॒ण॒व॒से॒ ||

न॒हिते᳚पू॒र्तम॑क्षि॒पद्भुव᳚न्नेमानांवसो |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अथा॒दुवो᳚वनवसे॒(स्वाहा᳚) || 18 ||

न॒हि¦ते॒¦पू॒र‌म्¦अ॒क्षि॒ऽपत्¦भुव॑त्¦ने॒मा॒ना॒‌म्¦व॒सो॒ इति॑ | अथ॑¦दुवः॑¦व॒न॒व॒से॒ ||

आग्निर॑गामि॒भार॑तोवृत्र॒हापु॑रु॒चेत॑नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

दिवो᳚दासस्य॒सत्प॑तिः॒(स्वाहा᳚) || 19 ||

आ¦अ॒ग्निः¦अ॒गा॒मि॒¦भार॑तः¦वृ॒त्र॒ऽहा¦पु॒रु॒ऽचेत॑नः | दिवः॑ऽदासस्य¦सत्ऽप॑तिः ||

सहिविश्वाति॒पार्थि॑वार॒यिंदाश᳚न्महित्व॒ना |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

व॒न्वन्नवा᳚तो॒,अस्तृ॑तः॒(स्वाहा᳚) || 20 ||

सः¦हि¦विश्वा᳚¦अति॑¦पार्थि॑वा¦र॒यि‌म्¦दाश॑त्¦म॒हि॒ऽत्व॒ना | व॒न्वन्¦अवा᳚तः¦अस्तृ॑तः ||

सप्र॑त्न॒वन्नवी᳚य॒साऽग्ने᳚द्यु॒म्नेन॑सं॒यता᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

बृ॒हत्‌त॑तन्थभा॒नुना॒(स्वाहा᳚) || 21 || वर्ग:25

सः¦प्र॒त्न॒ऽवत्¦नवी᳚यसा¦अग्ने᳚¦द्यु॒म्नेन॑¦स॒‌म्ऽयता᳚ | बृ॒हत्¦त॒त॒न्थ॒¦भा॒नुना᳚ ||

प्रवः॑सखायो,अ॒ग्नये॒स्तोमं᳚य॒ज्ञंच॑धृष्णु॒या |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अर्च॒गाय॑चवे॒धसे॒(स्वाहा᳚) || 22 ||

प्र¦वः॒¦स॒खा॒यः॒¦अ॒ग्नये᳚¦स्तोम᳚‌म्¦य॒ज्ञ‌म्¦च॒¦धृ॒ष्णु॒ऽया | अर्च॑¦गाय॑¦च॒¦वे॒धसे᳚ ||

सहियोमानु॑षायु॒गासीद॒द्धोता᳚क॒विक्र॑तुः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

दू॒तश्च॑हव्य॒वाह॑नः॒(स्वाहा᳚) || 23 ||

सः¦हि¦यः¦मानु॑षा¦यु॒गा¦सीद॑त्¦होता᳚¦क॒विऽक्र॑तुः | दू॒तः¦च॒¦ह॒व्य॒ऽवाह॑नः ||

ताराजा᳚ना॒शुचि᳚व्रताऽऽदि॒त्यान्‌मारु॑तंग॒णम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

वसो॒यक्षी॒हरोद॑सी॒(स्वाहा᳚) || 24 ||

ता¦राजा᳚ना¦शुचि॑ऽव्रता¦आ॒दि॒त्यान्¦मारु॑त‌म्¦ग॒ण‌म् | वसो॒ इति॑¦यक्षि॑¦इ॒ह¦रोद॑सी॒ इति॑ ||

वस्वी᳚ते,अग्ने॒संदृ॑ष्टिरिषय॒तेमर्त्या᳚य |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

ऊर्जो᳚नपाद॒मृत॑स्य॒(स्वाहा᳚) || 25 ||

वस्वी᳚¦ते॒¦अ॒ग्ने॒¦स‌म्ऽदृ॑ष्टिः¦इ॒ष॒ऽय॒ते¦मर्त्या᳚य | ऊर्जः॑¦न॒पा॒त्¦अ॒मृत॑स्य ||

क्रत्वा॒दा,अ॑स्तु॒श्रेष्ठो॒ऽद्यत्वा᳚व॒न्वन्‌त्सु॒रेक्णाः᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

मर्त॑आनाशसुवृ॒क्तिम्(स्वाहा᳚) || 26 || वर्ग:26

क्रत्वा᳚¦दाः¦अ॒स्तु॒¦श्रेष्ठः॑¦अ॒द्य¦त्वा॒¦व॒न्वन्¦सु॒ऽरेक्णाः᳚ | मर्तः॑¦आ॒ना॒श॒¦सु॒ऽवृ॒क्ति‌म् ||

तेते᳚,अग्ने॒त्वोता᳚,इ॒षय᳚न्तो॒विश्व॒मायुः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

तर᳚न्तो,अ॒र्यो,अरा᳚तीर्व॒न्वन्तो᳚,अ॒र्यो,अरा᳚तीः॒(स्वाहा᳚) || 27 ||

ते¦ते॒¦अ॒ग्ने॒¦त्वाऽऊ᳚ताः¦इ॒षय᳚न्तः¦विश्व᳚‌म्¦आयुः॑ | तर᳚न्तः¦अ॒र्यः¦अरा᳚तीः¦व॒न्वन्तः॑¦अ॒र्यः¦अरा᳚तीः ||

अ॒ग्निस्ति॒ग्मेन॑शो॒चिषा॒यास॒द्‌विश्वं॒न्य१॑(अ॒)त्रिण᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अ॒ग्निर्नो᳚वनतेर॒यिम्(स्वाहा᳚) || 28 ||

अ॒ग्निः¦ति॒ग्मेन॑¦शो॒चिषा᳚¦यास॑त्¦विश्व᳚‌म्¦नि¦अ॒त्रिण᳚‌म् | अ॒ग्निः¦नः॒¦व॒न॒ते॒¦र॒यि‌म् ||

सु॒वीरं᳚र॒यिमाभ॑र॒जात॑वेदो॒विच॑र्षणे |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

ज॒हिरक्षां᳚सिसुक्रतो॒(स्वाहा᳚) || 29 ||

सु॒ऽवीर᳚‌म्¦र॒यि‌म्¦आ¦भ॒र॒¦जात॑ऽवेदः¦विऽच॑र्षणे | ज॒हि¦रक्षां᳚सि¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो ||

त्वंनः॑पा॒ह्यंह॑सो॒जात॑वेदो,अघाय॒तः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

रक्षा᳚णोब्रह्मणस्कवे॒(स्वाहा᳚) || 30 ||

त्व‌म्¦नः॒¦पा॒हि॒¦अंह॑सः¦जात॑ऽवेदः¦अ॒घ॒ऽय॒तः | रक्ष॑¦नः॒¦ब्र॒ह्म॒णः॒¦क॒वे॒ ||

योनो᳚,अग्नेदु॒रेव॒आमर्तो᳚व॒धाय॒दाश॑ति |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

तस्मा᳚न्नःपा॒ह्यंह॑सः॒(स्वाहा᳚) || 31 || वर्ग:27

यः¦नः॒¦अ॒ग्ने॒¦दुः॒ऽएवः॑¦आ¦मर्तः॑¦व॒धाय॑¦दाश॑ति | तस्मा᳚त्¦नः॒¦पा॒हि॒¦अंह॑सः ||

त्वंतंदे᳚वजि॒ह्वया॒परि॑बाधस्वदु॒ष्कृत᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

मर्तो॒योनो॒जिघां᳚सति॒(स्वाहा᳚) || 32 ||

त्व‌म्¦त‌म्¦दे॒व॒¦जि॒ह्वया᳚¦परि॑¦बा॒ध॒स्व॒¦दुः॒ऽकृत᳚‌म् | मर्तः॑¦यः¦नः॒¦जिघां᳚सति ||

भ॒रद्वा᳚जायस॒प्रथः॒शर्म॑यच्छसहन्त्य |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अग्ने॒वरे᳚ण्यं॒वसु॒(स्वाहा᳚) || 33 ||

भ॒रत्ऽवा᳚जाय¦स॒ऽप्रथः॑¦शर्म॑¦य॒च्छ॒¦स॒ह॒न्त्य॒ | अग्ने᳚¦वरे᳚ण्य‌म्¦वसु॑ ||

अ॒ग्निर्वृ॒त्राणि॑जङ्घनद्द्रविण॒स्युर्वि॑प॒न्यया᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

समि॑द्धःशु॒क्रआहु॑तः॒(स्वाहा᳚) || 34 ||

अ॒ग्निः¦वृ॒त्राणि॑¦ज॒ङ्घ॒न॒त्¦द्र॒वि॒ण॒स्युः¦वि॒प॒न्यया᳚ | स‌म्ऽ‌इ᳚द्धः¦शु॒क्रः¦आऽहु॑तः ||

गर्भे᳚मा॒तुःपि॒तुष्पि॒तावि॑दिद्युता॒नो,अ॒क्षरे᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

सीद᳚न्नृ॒तस्य॒योनि॒मा(स्वाहा᳚) || 35 ||

गर्भे᳚¦मा॒तुः¦पि॒तुः¦पि॒ता¦वि॒ऽदि॒द्यु॒ता॒नः¦अ॒क्षरे᳚ | सीद॑न्¦ऋ॒तस्य॑¦योनि᳚‌म्¦आ ||

ब्रह्म॑प्र॒जाव॒दाभ॑र॒जात॑वेदो॒विच॑र्षणे |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अग्ने॒यद्‌दी॒दय॑द्‌दि॒वि(स्वाहा᳚) || 36 || वर्ग:28

ब्रह्म॑¦प्र॒जाऽव॑त्¦आ¦भ॒र॒¦जात॑ऽवेदः¦विऽच॑र्षणे | अग्ने᳚¦यत्¦दी॒दय॑त्¦दि॒वि ||

उप॑त्वार॒ण्वसं᳚दृशं॒प्रय॑स्वन्तःसहस्कृत |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अग्ने᳚ससृ॒ज्महे॒गिरः॒(स्वाहा᳚) || 37 ||

उप॑¦त्वा॒¦र॒ण्वऽसं᳚दृश‌म्¦प्रय॑स्वन्तः¦स॒हः॒ऽकृ॒त॒ | अग्ने᳚¦स॒सृ॒ज्महे᳚¦गिरः॑ ||

उप॑च्छा॒यामि॑व॒घृणे॒रग᳚न्म॒शर्म॑तेव॒यम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अग्ने॒हिर᳚ण्यसंदृशः॒(स्वाहा᳚) || 38 ||

उप॑¦छा॒या‌म्ऽ‌इ᳚व¦घृणेः᳚¦अग᳚न्म¦शर्म॑¦ते॒¦व॒य‌म् | अग्ने᳚¦हिर᳚ण्यऽसंदृशः ||

यउ॒ग्रइ॑वशर्य॒हाति॒ग्मशृ᳚ङ्गो॒नवंस॑गः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अग्ने॒पुरो᳚रु॒रोजि॑थ॒(स्वाहा᳚) || 39 ||

यः¦उ॒ग्रःऽ‌इ᳚व¦श॒र्य॒ऽहा¦ति॒ग्मऽशृ᳚ङ्गः¦न¦वंस॑गः | अग्ने᳚¦पुरः॑¦रु॒रोजि॑थ ||

आयंहस्ते॒नखा॒दिनं॒शिशुं᳚जा॒तंनबिभ्र॑ति |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

वि॒शाम॒ग्निंस्व॑ध्व॒रम्(स्वाहा᳚) || 40 ||

आ¦य‌म्¦हस्ते᳚¦न¦खा॒दिन᳚‌म्¦शिशु᳚‌म्¦जा॒त‌म्¦न¦बिभ्र॑ति | वि॒शा‌म्¦अ॒ग्नि‌म्¦सु॒।आ॒ध्व॒र‌म् ||

प्रदे॒वंदे॒ववी᳚तये॒भर॑तावसु॒वित्त॑मम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

आस्वेयोनौ॒निषी᳚दतु॒(स्वाहा᳚) || 41 || वर्ग:29

प्र¦दे॒व‌म्¦दे॒वऽवी᳚तये¦भर॑त¦व॒सु॒वित्ऽत॑म‌म् | आ¦स्वे¦योनौ᳚¦नि¦सी॒द॒तु॒ ||

आजा॒तंजा॒तवे᳚दसिप्रि॒यंशि॑शी॒ताति॑थिम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

स्यो॒नआगृ॒हप॑ति॒‌म्(स्वाहा᳚) || 42 ||

आ¦जा॒त‌म्¦जा॒तऽवे᳚दसि¦प्रि॒य‌म्¦शि॒शी॒त॒¦अति॑थि‌म् | स्यो॒ने¦आ¦गृ॒हऽप॑ति‌म् ||

अग्ने᳚यु॒क्ष्वाहियेतवाऽश्वा᳚सोदेवसा॒धवः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अरं॒वह᳚न्तिम॒न्यवे॒(स्वाहा᳚) || 43 ||

अग्ने᳚¦यु॒क्ष्व¦हि¦ये¦तव॑¦अश्वा᳚सः¦दे॒व॒¦सा॒धवः॑ | अर᳚‌म्¦वह᳚न्ति¦म॒न्यवे᳚ ||

अच्छा᳚नोया॒ह्याव॑हा॒अभिप्रयां᳚सिवी॒तये᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

आदे॒वान्‌त्सोम॑पीतये॒(स्वाहा᳚) || 44 ||

अच्छ॑¦नः॒¦या॒हि॒¦आ¦व॒ह॒¦अ॒भि¦प्रयां᳚सि¦वी॒तये᳚ | आ¦दे॒वान्¦सोम॑ऽपीतये ||

उद॑ग्नेभारतद्यु॒मदज॑स्रेण॒दवि॑द्युतत् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

शोचा॒विभा᳚ह्यजर॒(स्वाहा᳚) || 45 ||

उत्¦अ॒ग्ने॒¦भा॒र॒त॒¦द्यु॒ऽमत्¦अज॑स्रेण¦दवि॑द्युतत् | शोच॑¦वि¦भा॒हि॒¦अ॒ज॒र॒ ||

वी॒तीयोदे॒वंमर्तो᳚दुव॒स्येद॒ग्निमी᳚ळीताध्व॒रेह॒विष्मा॑न् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

होता᳚रंसत्य॒यजं॒रोद॑स्योरुत्ता॒नह॑स्तो॒नम॒सावि॑वासे॒‌त्(स्वाहा᳚) || 46 || वर्ग:30

वी॒ती¦यः¦दे॒व‌म्¦मर्तः॑¦दु॒व॒स्येत्¦अ॒ग्नि‌म्¦ई॒ळी॒त॒¦अ॒ध्व॒रे¦ह॒विष्मा॑न् |
होता᳚र‌म्¦स॒त्य॒ऽयज᳚‌म्¦रोद॑स्योः¦उ॒त्ता॒नऽह॑स्तः¦नम॑सा¦आ¦वि॒वा॒से॒त् ||

आते᳚,अग्नऋ॒चाह॒विर्हृ॒दात॒ष्टंभ॑रामसि |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

तेते᳚भवन्तू॒क्षण॑ऋष॒भासो᳚व॒शा,उ॒त(स्वाहा᳚) || 47 ||

आ¦ते॒¦अ॒ग्ने॒¦ऋ॒चा¦ह॒विः¦हृ॒दा¦त॒ष्ट‌म्¦भ॒रा॒म॒सि॒ | ते¦ते॒¦भ॒व॒न्तु॒¦उ॒क्षणः॑¦ऋ॒ष॒भासः॑¦व॒शाः¦उ॒त ||

अ॒ग्निंदे॒वासो᳚,अग्रि॒यमि॒न्धते᳚वृत्र॒हन्त॑मम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

येना॒वसू॒न्याभृ॑तातृ॒ळ्हारक्षां᳚सिवा॒जिना॒(स्वाहा᳚) || 48 ||

अ॒ग्नि‌म्¦दे॒वासः॑¦अ॒ग्रि॒य‌म्¦इ॒न्धते᳚¦वृ॒त्र॒हन्ऽत॑म‌म् | येन॑¦वसू᳚नि¦आऽभृ॑ता¦तृ॒ळ्हा¦रक्षां᳚सि¦वा॒जिना᳚ ||

[96] पिबासोममिति पंचदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजइंद्रत्रिष्टुंबंत्याद्विपदात्रिष्टुप् |{अष्टक:4, अध्याय:6}{मंडल:6, सूक्त:17}{अनुवाक:2, सूक्त:2}
पिबा॒सोम॑म॒भियमु॑ग्र॒तर्द॑ऊ॒र्वंगव्यं॒महि॑गृणा॒नइ᳚न्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वियोधृ॑ष्णो॒वधि॑षोवज्रहस्त॒विश्वा᳚वृ॒त्रम॑मि॒त्रिया॒शवो᳚भिः॒(स्वाहा᳚) || 1 || वर्ग:1

पिब॑¦सोम᳚‌म्¦अ॒भि¦य‌म्¦उ॒ग्र॒¦तर्दः॑¦ऊ॒र्व‌म्¦गव्य᳚‌म्¦महि॑¦गृ॒णा॒नः¦इ॒न्द्र॒ |
वि¦यः¦धृ॒ष्णो॒ इति॑¦वधि॑षः¦व॒ज्र॒ऽह॒स्त॒¦विश्वा᳚¦वृ॒त्र‌म्¦अ॒मि॒त्रिया᳚¦शवः॑ऽभिः ||

सईं᳚पाहि॒यऋ॑जी॒षीतरु॑त्रो॒यःशिप्र॑वान्‌वृष॒भोयोम॑ती॒नाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

योगो᳚त्र॒भिद्‌व॑ज्र॒भृद्‌योह॑रि॒ष्ठाःसइ᳚न्द्रचि॒त्राँ,अ॒भितृ᳚न्धि॒वाजा॒न्त्(स्वाहा᳚) || 2 ||

सः¦ई॒‌म्¦पा॒हि॒¦यः¦ऋ॒जी॒षी¦तरु॑त्रः¦यः¦शिप्र॑ऽवान्¦वृ॒ष॒भः¦यः¦म॒ती॒ना‌म् |
यः¦गो॒त्र॒ऽभित्¦व॒ज्र॒ऽभृत्¦यः¦ह॒रि॒ऽस्थाः¦सः¦इ॒न्द्र॒¦चि॒त्रान्¦अ॒भि¦तृ॒न्धि॒¦वाजा॑न् ||

ए॒वापा᳚हिप्र॒त्नथा॒मन्द॑तुत्वाश्रु॒धिब्रह्म॑वावृ॒धस्वो॒तगी॒र्भिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

आ॒विःसूर्यं᳚कृणु॒हिपी᳚पि॒हीषो᳚ज॒हिशत्रूँ᳚र॒भिगा,इ᳚न्द्रतृन्धि॒(स्वाहा᳚) || 3 ||

ए॒व¦पा॒हि॒¦प्र॒त्नऽथा᳚¦मन्द॑तु¦त्वा॒¦श्रु॒धि¦ब्रह्म॑¦व॒वृ॒धस्व॑¦उ॒त¦गीः॒ऽभिः |
आ॒विः¦सूर्य᳚‌म्¦कृ॒णु॒हि¦पी॒पि॒हि¦इषः॑¦ज॒हि¦शत्रू᳚न्¦अ॒भि¦गाः¦इ॒न्द्र॒¦तृ॒न्धि॒ ||

तेत्वा॒मदा᳚बृ॒हदि᳚न्द्रस्वधावइ॒मेपी॒ता,उ॑क्षयन्तद्यु॒मन्त᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

म॒हामनू᳚नंत॒वसं॒विभू᳚तिंमत्स॒रासो᳚जर्हृषन्तप्र॒साह॒‌म्(स्वाहा᳚) || 4 ||

ते¦त्वा॒¦मदाः᳚¦बृ॒हत्¦इ॒न्द्र॒¦स्व॒धा॒ऽवः॒¦इ॒मे¦पी॒ताः¦उ॒क्ष॒य॒न्त॒¦द्यु॒ऽमन्त᳚‌म् |
म॒हा‌म्¦अनू᳚न‌म्¦त॒वस᳚‌म्¦विऽभू᳚ति‌म्¦म॒त्स॒रासः॑¦ज॒र्हृ॒ष॒न्त॒¦प्र॒ऽसह᳚‌म् ||

येभिः॒सूर्य॑मु॒षसं᳚मन्दसा॒नोऽवा᳚स॒योऽप॑दृ॒ळ्हानि॒दर्द्र॑त् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

म॒हामद्रिं॒परि॒गा,इ᳚न्द्र॒सन्तं᳚नु॒त्था,अच्यु॑तं॒सद॑स॒स्परि॒स्वात्(स्वाहा᳚) || 5 ||

येभिः॑¦सूर्य᳚‌म्¦उ॒षस᳚‌म्¦म॒न्द॒सा॒नः¦अवा᳚सयः¦अप॑¦दृ॒ळ्हानि॑¦दर्द्र॑त् |
म॒हा‌म्¦अद्रि᳚‌म्¦परि॑¦गाः¦इ॒न्द्र॒¦सन्त᳚‌म्¦नु॒त्थाः¦अच्यु॑त‌म्¦सद॑सः¦परि॑¦स्वात् ||

तव॒क्रत्वा॒तव॒तद्‌दं॒सना᳚भिरा॒मासु॑प॒क्वंशच्या॒निदी᳚धः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

और्णो॒र्दुर॑उ॒स्रिया᳚भ्यो॒विदृ॒ळ्होदू॒र्वाद्‌गा,अ॑सृजो॒,अङ्गि॑रस्वा॒‌न्(स्वाहा᳚) || 6 || वर्ग:2

तव॑¦क्रत्वा᳚¦तव॑¦तत्¦दं॒सना᳚भिः¦आ॒मासु॑¦प॒क्व‌म्¦शच्या᳚¦नि¦दी॒ध॒रिति॑ दीधः |
और्णोः᳚¦दुरः॑¦उ॒स्रिया᳚भ्यः¦वि¦दृ॒ळ्हा¦उत्¦ऊ॒र्वात्¦गाः¦अ॒सृ॒जः॒¦अङ्गि॑रस्वान् ||

प॒प्राथ॒क्षांमहि॒दंसो॒व्यु१॑(उ॒)र्वीमुप॒द्यामृ॒ष्वोबृ॒हदि᳚न्द्रस्तभायः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अधा᳚रयो॒रोद॑सीदे॒वपु॑त्रेप्र॒त्नेमा॒तरा᳚य॒ह्वी,ऋ॒तस्य॒(स्वाहा᳚) || 7 ||

प॒प्राथ॑¦क्षा‌म्¦महि॑¦दंसः॑¦वि¦उ॒र्वी‌म्¦उप॑¦द्या‌म्¦ऋ॒ष्वः¦बृ॒हत्¦इ॒न्द्र॒¦स्त॒भा॒यः॒ |
अधा᳚रयः¦रोद॑सी॒ इति॑¦दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे¦प्र॒त्ने इति॑¦मा॒तरा᳚¦य॒ह्वी इति॑¦ऋ॒तस्य॑ ||

अध॑त्वा॒विश्वे᳚पु॒रइ᳚न्द्रदे॒वा,एकं᳚त॒वसं᳚दधिरे॒भरा᳚य |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अदे᳚वो॒यद॒भ्यौहि॑ष्टदे॒वान्त्स्व॑र्षातावृणत॒इन्द्र॒मत्र॒(स्वाहा᳚) || 8 ||

अध॑¦त्वा॒¦विश्वे᳚¦पु॒रः¦इ॒न्द्र॒¦दे॒वाः¦एक᳚‌म्¦त॒वस᳚‌म्¦द॒धि॒रे॒¦भरा᳚य |
अदे᳚वः¦यत्¦अ॒भि¦औहि॑ष्ट¦दे॒वान्¦स्वः॑ऽसाता¦वृ॒ण॒ते॒¦इन्द्र᳚‌म्¦अत्र॑ ||

अध॒द्यौश्चि॑त्‌ते॒,अप॒सानुवज्रा᳚द्द्वि॒तान॑मद्‌भि॒यसा॒स्वस्य॑म॒न्योः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अहिं॒यदिन्द्रो᳚,अ॒भ्योह॑सानं॒निचि॑द्‌वि॒श्वायुः॑श॒यथे᳚ज॒घान॒(स्वाहा᳚) || 9 ||

अध॑¦द्यौः¦चि॒त्¦ते॒¦अप॑¦सा¦नु¦वज्रा᳚त्¦द्वि॒ता¦अ॒न॒म॒त्¦भि॒यसा᳚¦स्वस्य॑¦म॒न्योः |
अहि᳚‌म्¦यत्¦इन्द्रः॑¦अ॒भि¦ओह॑सान‌म्¦नि¦चि॒त्¦वि॒श्वऽआ᳚युः¦श॒यथे᳚¦ज॒घान॑ ||

अध॒त्वष्टा᳚तेम॒हउ॑ग्र॒वज्रं᳚स॒हस्र॑भृष्टिंववृतच्छ॒ताश्रि᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

निका᳚मम॒रम॑णसं॒येन॒नव᳚न्त॒महिं॒संपि॑णगृजीषि॒‌न्(स्वाहा᳚) || 10 ||

अध॑¦त्वष्टा᳚¦ते॒¦म॒हः¦उ॒ग्र॒¦वज्र᳚‌म्¦स॒हस्र॑ऽभृष्टि‌म्¦व॒वृ॒त॒त्¦श॒त।आ॑श्रि‌म् |
निऽका᳚म‌म्¦अ॒रऽम॑नस‌म्¦येन॑¦नव᳚न्त‌म्¦अहि᳚‌म्¦स‌म्¦पि॒ण॒क्¦ऋ॒जी॒षि॒न् ||

वर्धा॒न्‌यंविश्वे᳚म॒रुतः॑स॒जोषाः॒पच॑च्छ॒तंम॑हि॒षाँ,इ᳚न्द्र॒तुभ्य᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

पू॒षाविष्णु॒स्त्रीणि॒सरां᳚सिधावन्वृत्र॒हणं᳚मदि॒रमं॒शुम॑स्मै॒(स्वाहा᳚) || 11 || वर्ग:3

वर्धा᳚न्¦य‌म्¦विश्वे᳚¦म॒रुतः॑¦स॒ऽजोषाः᳚¦पच॑त्¦श॒त‌म्¦म॒हि॒षान्¦इ॒न्द्र॒¦तुभ्य᳚‌म् |
पू॒षा¦विष्णुः॑¦त्रीणि॑¦सरां᳚सि¦धा॒व॒न्¦वृ॒त्र॒ऽहन᳚‌म्¦म॒दि॒र‌म्¦अं॒शु‌म्¦अ॒स्मै॒ ||

आक्षोदो॒महि॑वृ॒तंन॒दीनां॒परि॑ष्ठितमसृजऊ॒र्मिम॒पाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तासा॒मनु॑प्र॒वत॑इन्द्र॒पन्थां॒प्रार्द॑यो॒नीची᳚र॒पसः॑समु॒द्रम्(स्वाहा᳚) || 12 ||

आ¦क्षोदः॑¦महि॑¦वृ॒त‌म्¦न॒दीना᳚‌म्¦परि॑ऽस्थित‌म्¦अ॒सृ॒जः॒¦ऊ॒र्मि‌म्¦अ॒पा‌म् |
तासा᳚‌म्¦अनु॑¦प्र॒ऽवतः॑¦इ॒न्द्र॒¦पन्था᳚‌म्¦प्र¦आ॒र्द॒यः॒¦नीचीः᳚¦अ॒पसः॑¦स॒मु॒द्र‌म् ||

ए॒वाताविश्वा᳚चकृ॒वांस॒मिन्द्रं᳚म॒हामु॒ग्रम॑जु॒र्यंस॑हो॒दाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

सु॒वीरं᳚त्वास्वायु॒धंसु॒वज्र॒माब्रह्म॒नव्य॒मव॑सेववृत्या॒‌त्(स्वाहा᳚) || 13 ||

ए॒व¦ता¦विश्वा᳚¦च॒कृ॒ऽवांस᳚‌म्¦इन्द्र᳚‌म्¦म॒हा‌म्¦उ॒ग्र‌म्¦अ॒जु॒र्य‌म्¦स॒हः॒ऽदा‌म् |
सु॒ऽवीर᳚‌म्¦त्वा॒¦सु॒ऽआ॒यु॒ध‌म्¦सु॒ऽवज्र᳚‌म्¦आ¦ब्रह्म॑¦नव्य᳚‌म्¦अव॑से¦व॒वृ॒त्या॒त् ||

सनो॒वाजा᳚य॒श्रव॑सइ॒षेच॑रा॒येधे᳚हिद्यु॒मत॑इन्द्र॒विप्रा॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

भ॒रद्वा᳚जेनृ॒वत॑इन्द्रसू॒रीन्दि॒विच॑स्मैधि॒पार्ये᳚नइन्द्र॒(स्वाहा᳚) || 14 ||

सः¦नः॒¦वाजा᳚य¦श्रव॑से¦इ॒षे¦च॒¦रा॒ये¦धे॒हि॒¦द्यु॒ऽमतः॑¦इ॒न्द्र॒¦विप्रा॑न् |
भ॒रत्ऽवा᳚जे¦नृ॒ऽवतः॑¦इ॒न्द्र॒¦सू॒रीन्¦दि॒वि¦च॒¦स्म॒¦ए॒धि॒¦पार्ये᳚¦नः॒¦इ॒न्द्र॒ ||

अ॒यावाजं᳚दे॒वहि॑तंसनेम॒मदे᳚मश॒तहि॑माःसु॒वीराः᳚(स्वाहा᳚) || {बार्हस्पत्यो भरद्वाजः | इन्द्रः | द्विपदात्रिष्टुप्}15 ||
[97] तमुष्नुहीति पंचदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:6}{मंडल:6, सूक्त:18}{अनुवाक:2, सूक्त:3}
तमु॑ष्टुहि॒यो,अ॒भिभू᳚त्योजाव॒न्वन्नवा᳚तःपुरुहू॒तइन्द्रः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अषा᳚ळ्हमु॒ग्रंसह॑मानमा॒भिर्गी॒र्भिर्व॑र्धवृष॒भंच॑र्षणी॒नाम्(स्वाहा᳚) || 1 || वर्ग:4

त‌म्¦ऊँ॒ इति॑¦स्तु॒हि॒¦यः¦अ॒भिभू᳚तिऽओजाः¦व॒न्वन्¦अवा᳚तः¦पु॒रु॒ऽहू॒तः¦इन्द्रः॑ |
अषा᳚ळ्ह‌म्¦उ॒ग्र‌म्¦सह॑मान‌म्¦आ॒भिः¦गीः॒ऽभिः¦व॒र्ध॒¦वृ॒ष॒भ‌म्¦च॒र्ष॒णी॒ना‌म् ||

सयु॒ध्मःसत्वा᳚खज॒कृत्‌स॒मद्वा᳚तुविम्र॒क्षोन॑दनु॒माँ,ऋ॑जी॒षी |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

बृ॒हद्रे᳚णु॒श्च्यव॑नो॒मानु॑षीणा॒मेकः॑कृष्टी॒नाम॑भवत्‌स॒हावा॒(स्वाहा᳚) || 2 ||

सः¦यु॒ध्मः¦सत्वा᳚¦ख॒ज॒ऽकृत्¦स॒मत्ऽवा᳚¦तु॒वि॒ऽम्र॒क्षः¦न॒द॒नु॒ऽमान्¦ऋ॒जी॒षी |
बृ॒हत्ऽरे᳚णुः¦च्यव॑नः¦मानु॑षीणा‌म्¦एकः॑¦कृ॒ष्टी॒ना‌म्¦अ॒भ॒व॒त्¦स॒हऽवा᳚ ||

त्वंह॒नुत्यद॑दमायो॒दस्यूँ॒रेकः॑कृ॒ष्टीर॑वनो॒रार्या᳚य |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अस्ति॑स्वि॒न्नुवी॒र्य१॑(अं॒)तत्‌त॑इन्द्र॒नस्वि॑दस्ति॒तदृ॑तु॒थाविवो᳚चः॒(स्वाहा᳚) || 3 ||

त्व‌म्¦ह॒¦नु¦त्यत्¦अ॒द॒म॒यः॒¦दस्यू᳚न्¦एकः॑¦कृ॒ष्टीः¦अ॒व॒नोः॒¦आर्या᳚य |
अस्ति॑¦स्वि॒त्¦नु¦वी॒र्य᳚‌म्¦तत्¦ते॒¦इ॒न्द्र॒¦न¦स्वि॒त्¦अ॒स्ति॒¦तत्¦ऋ॒तु॒ऽथा¦वि¦वो॒चः॒ ||

सदिद्धिते᳚तुविजा॒तस्य॒मन्ये॒सहः॑सहिष्ठतुर॒तस्तु॒रस्य॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

उ॒ग्रमु॒ग्रस्य॑त॒वस॒स्तवी॒योऽर॑ध्रस्यरध्र॒तुरो᳚बभूव॒(स्वाहा᳚) || 4 ||

सत्¦इत्¦हि¦ते॒¦तु॒वि॒ऽजा॒तस्य॑¦मन्ये᳚¦सहः॑¦स॒हि॒ष्ठ॒¦तु॒र॒तः¦तु॒रस्य॑ |
उ॒ग्र‌म्¦उ॒ग्रस्य॑¦त॒वसः॑¦तवी᳚यः¦अर॑ध्रस्य¦र॒ध्र॒ऽतुरः॑¦ब॒भू॒व॒ ||

तन्नः॑प्र॒त्नंस॒ख्यम॑स्तुयु॒ष्मे,इ॒त्थावद॑द्भिर्व॒लमङ्गि॑रोभिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

हन्न॑च्युतच्युद्‌दस्मे॒षय᳚न्तमृ॒णोःपुरो॒विदुरो᳚,अस्य॒विश्वाः᳚(स्वाहा᳚) || 5 ||

तत्¦नः॒¦प्र॒त्न‌म्¦स॒ख्य‌म्¦अ॒स्तु॒¦यु॒ष्मे इति॑¦इ॒त्था¦वद॑त्ऽभिः¦व॒ल‌म्¦अङ्गि॑रःऽभिः |
हन्¦अ॒च्यु॒त॒ऽच्यु॒त्¦द॒स्म॒¦इ॒षय᳚न्त‌म्¦ऋ॒णोः¦पुरः॑¦वि¦दुरः॑¦अ॒स्य॒¦विश्वाः᳚ ||

सहिधी॒भिर्हव्यो॒,अस्त्यु॒ग्रई᳚शान॒कृन्म॑ह॒तिवृ॑त्र॒तूर्ये᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

सतो॒कसा᳚ता॒तन॑ये॒सव॒ज्रीवि॑तन्त॒साय्यो᳚,अभवत्‌स॒मत्सु॒(स्वाहा᳚) || 6 || वर्ग:5

सः¦हि¦धी॒भिः¦हव्यः॑¦अस्ति॑¦उ॒ग्रः¦ई॒शा॒न॒ऽकृत्¦म॒ह॒ति¦वृ॒त्र॒ऽतूर्ये᳚ |
सः¦तो॒कऽसा᳚ता¦तन॑ये¦सः¦व॒ज्री¦वि॒त॒न्त॒साय्यः॑¦अ॒भ॒व॒त्¦स॒मत्ऽसु॑ ||

सम॒ज्मना॒जनि॑म॒मानु॑षाणा॒मम॑र्त्येन॒नाम्नाति॒प्रस॑र्स्रे |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

सद्यु॒म्नेन॒सशव॑सो॒तरा॒यासवी॒र्ये᳚ण॒नृत॑मः॒समो᳚काः॒(स्वाहा᳚) || 7 ||

सः¦म॒ज्मना᳚¦जनि॑म¦मानु॑षाणा‌म्¦अम॑र्त्येन¦नाम्ना᳚¦अति॑¦प्र¦स॒र्स्रे॒ |
सः¦द्यु॒म्नेन॑¦सः¦शव॑सा¦उ॒त¦रा॒या¦सः¦वी॒र्ये᳚ण¦नृऽत॑मः¦स‌म्ऽओ᳚काः ||

सयोनमु॒हेनमिथू॒जनो॒भूत्सु॒मन्तु॑नामा॒चुमु॑रिं॒धुनिं᳚च |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वृ॒णक्‌पिप्रुं॒शम्ब॑रं॒शुष्ण॒मिन्द्रः॑पु॒रांच्यौ॒त्नाय॑श॒यथा᳚य॒नूचि॒॑‌त्(स्वाहा᳚) || 8 ||

सः¦यः¦न¦मु॒हे¦न¦मिथु॑¦जनः॑¦भूत्¦सु॒मन्तु॑ऽनामा¦चुमु॑रि‌म्¦धुनि᳚‌म्¦च॒ |
वृ॒णक्¦पिप्रु᳚‌म्¦शम्ब॑र‌म्¦शुष्ण᳚‌म्¦इन्द्रः॑¦पु॒रा‌म्¦च्यौ॒त्नाय॑¦श॒यथा᳚य¦नु¦चि॒त् ||

उ॒दाव॑ता॒त्वक्ष॑सा॒पन्य॑साचवृत्र॒हत्या᳚य॒रथ॑मिन्द्रतिष्ठ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

धि॒ष्ववज्रं॒हस्त॒आद॑क्षिण॒त्राऽभिप्रम᳚न्दपुरुदत्रमा॒याः(स्वाहा᳚) || 9 ||

उ॒त्।आव॑ता¦त्वक्ष॑सा¦पन्य॑सा¦च॒¦वृ॒त्र॒ऽहत्या᳚य¦रथ᳚‌म्¦इ॒न्द्र॒¦ति॒ष्ठ॒ |
धि॒ष्व¦वज्र᳚‌म्¦हस्ते᳚¦आ¦द॒क्षि॒ण॒ऽत्रा¦अ॒भि¦प्र¦म॒न्द॒¦पु॒रु॒ऽद॒त्र॒¦मा॒याः ||

अ॒ग्निर्नशुष्कं॒वन॑मिन्द्रहे॒तीरक्षो॒निध॑क्ष्य॒शनि॒र्नभी॒मा |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ग॒म्भी॒रय॑ऋ॒ष्वया॒योरु॒रोजाध्वा᳚नयद्‌दुरि॒ताद॒म्भय॑च्च॒(स्वाहा᳚) || 10 ||

अ॒ग्निः¦न¦शुष्क᳚‌म्¦वन᳚‌म्¦इ॒न्द्र॒¦हे॒ती¦रक्षः॑¦नि¦ध॒क्षि॒¦अ॒शनिः॑¦न¦भी॒मा |
ग॒म्भी॒रया᳚¦ऋ॒ष्वया᳚¦यः¦रु॒रोज॑¦अध्व॑नयत्¦दुः॒ऽ‌इ॒ता¦द॒म्भय॑त्¦च॒ ||

आस॒हस्रं᳚प॒थिभि॑रिन्द्ररा॒यातुवि॑द्युम्नतुवि॒वाजे᳚भिर॒र्वाक् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

या॒हिसू᳚नोसहसो॒यस्य॒नूचि॒ददे᳚व॒ईशे᳚पुरुहूत॒योतोः᳚(स्वाहा᳚) || 11 || वर्ग:6

आ¦स॒हस्र᳚‌म्¦प॒थिऽभिः॑¦इ॒न्द्र॒¦रा॒या¦तुवि॑ऽद्युम्न¦तु॒वि॒ऽवाजे᳚भिः¦अ॒र्वाक् |
या॒हि¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦यस्य॑¦नु¦चि॒त्¦अदे᳚वः¦ईशे᳚¦पु॒रु॒ऽहू॒त॒¦योतोः᳚ ||

प्रतु॑विद्यु॒म्नस्य॒स्थवि॑रस्य॒घृष्वे᳚र्दि॒वोर॑रप्शेमहि॒मापृ॑थि॒व्याः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

नास्य॒शत्रु॒र्नप्र॑ति॒मान॑मस्ति॒नप्र॑ति॒ष्ठिःपु॑रुमा॒यस्य॒सह्योः᳚(स्वाहा᳚) || 12 ||

प्र¦तु॒वि॒ऽद्यु॒म्नस्य॑¦स्थवि॑रस्य¦घृष्वेः᳚¦दि॒वः¦र॒र॒प्शे॒¦म॒हि॒मा¦पृ॒थि॒व्याः |
न¦अ॒स्य॒¦शत्रुः॑¦न¦प्र॒ति॒ऽमान᳚‌म्¦अ॒स्ति॒¦न¦प्र॒ति॒ऽस्थिः¦पु॒रु॒ऽमा॒यस्य॑¦सह्योः᳚ ||

प्रतत्‌ते᳚,अ॒द्याकर॑णंकृ॒तंभू॒त्कुत्सं॒यदा॒युम॑तिथि॒ग्वम॑स्मै |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

पु॒रूस॒हस्रा॒निशि॑शा,अ॒भिक्षामुत्‌तूर्व॑याणंधृष॒तानि॑नेथ॒(स्वाहा᳚) || 13 ||

प्र¦तत्¦ते॒¦अ॒द्य¦कर॑ण‌म्¦कृ॒त‌म्¦भू॒त्¦कुत्स᳚‌म्¦यत्¦आ॒यु‌म्¦अ॒ति॒थि॒ऽग्व‌म्¦अ॒स्मै॒ |
पु॒रु¦स॒हस्रा᳚¦नि¦शि॒शाः॒¦अ॒भि¦क्षा‌म्¦उत्¦तूर्व॑याण‌म्¦धृ॒ष॒ता¦नि॒ने॒थ॒ ||

अनु॒त्वाहि॑घ्ने॒,अध॑देवदे॒वामद॒न्‌विश्वे᳚क॒वित॑मंकवी॒नाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

करो॒यत्र॒वरि॑वोबाधि॒ताय॑दि॒वेजना᳚यत॒न्वे᳚गृणा॒नः(स्वाहा᳚) || 14 ||

अनु॑¦त्वा॒¦अहि॑ऽघ्ने¦अध॑¦दे॒व॒¦दे॒वाः¦मद॑न्¦विश्वे᳚¦क॒विऽत॑म‌म्¦क॒वी॒ना‌म् |
करः॑¦यत्र॑¦वरि॑वः¦बा॒धि॒ताय॑¦दि॒वे¦जना᳚य¦त॒न्वे᳚¦गृ॒णा॒नः ||

अनु॒द्यावा᳚पृथि॒वीतत्‌त॒ओजोऽम॑र्त्याजिहतइन्द्रदे॒वाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

कृ॒ष्वाकृ॑त्नो॒,अकृ॑तं॒यत्‌ते॒,अस्त्यु॒क्थंनवी᳚योजनयस्वय॒ज्ञैः॒(स्वाहा᳚) || 15 ||

अनु॑¦द्यावा᳚पृथि॒वी इति॑¦तत्¦ते॒¦ओजः॑¦अम॑र्त्याः¦जि॒ह॒ते॒¦इ॒न्द्र॒¦दे॒वाः |
कृ॒ष्व¦कृ॒त्नो॒ इति॑¦अकृ॑त‌म्¦यत्¦ते॒¦अस्ति॑¦उ॒क्थ‌म्¦नवी᳚यः¦ज॒न॒य॒स्व॒¦य॒ज्ञैः ||

[98] महाँइंद्रइति त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:6}{मंडल:6, सूक्त:19}{अनुवाक:2, सूक्त:4}
म॒हाँ,इन्द्रो᳚नृ॒वदाच॑र्षणि॒प्रा,उ॒तद्वि॒बर्हा᳚,अमि॒नःसहो᳚भिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अ॒स्म॒द्र्य॑ग्वावृधेवी॒र्या᳚यो॒रुःपृ॒थुःसुकृ॑तःक॒र्तृभि॑र्भू॒‌त्(स्वाहा᳚) || 1 || वर्ग:7

म॒हान्¦इन्द्रः॑¦नृ॒ऽवत्¦आ¦च॒र्ष॒णि॒ऽप्राः¦उ॒त¦द्वि॒ऽबर्हाः᳚¦अ॒मि॒नः¦सहः॑ऽभिः |
अ॒स्म॒द्र्य॑क्¦व॒वृ॒धे॒¦वी॒र्या᳚य¦उ॒रुः¦पृ॒थुः¦सुऽकृ॑तः¦क॒र्तृऽभिः॑¦भू॒त् ||

इन्द्र॑मे॒वधि॒षणा᳚सा॒तये᳚धाद्बृ॒हन्त॑मृ॒ष्वम॒जरं॒युवा᳚नम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अषा᳚ळ्हेन॒शव॑साशूशु॒वांसं᳚स॒द्यश्चि॒द्‌योवा᳚वृ॒धे,असा᳚मि॒(स्वाहा᳚) || 2 ||

इन्द्र᳚‌म्¦ए॒व¦धि॒षणा᳚¦सा॒तये᳚¦धा॒त्¦बृ॒हन्त᳚‌म्¦ऋ॒ष्व‌म्¦अ॒जर᳚‌म्¦युवा᳚न‌म् |
अषा᳚ळ्हेन¦शव॑सा¦शू॒शु॒ऽवांस᳚‌म्¦स॒द्यः¦चि॒त्¦यः¦व॒वृ॒धे¦असा᳚मि ||

पृ॒थूक॒रस्ना᳚बहु॒लागभ॑स्ती,अस्म॒द्र्य१॑(अ॒)क्‌संमि॑मीहि॒श्रवां᳚सि |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यू॒थेव॑प॒श्वःप॑शु॒पादमू᳚ना,अ॒स्माँ,इ᳚न्द्रा॒भ्याव॑वृत्स्वा॒जौ(स्वाहा᳚) || 3 ||

पृ॒थू इति॑¦क॒रस्ना᳚¦ब॒हु॒ला¦गभ॑स्ती॒ इति॑¦अ॒स्म॒द्र्य॑क्¦स‌म्¦मि॒मी॒हि॒¦श्रवां᳚सि |
यू॒थाऽ‌इ᳚व¦प॒श्वः¦प॒शु॒ऽपाः¦दमू᳚नाः¦अ॒स्मान्¦इ॒न्द्र॒¦अ॒भि¦आ¦व॒वृ॒त्स्व॒¦आ॒जौ ||

तंव॒इन्द्रं᳚च॒तिन॑मस्यशा॒कैरि॒हनू॒नंवा᳚ज॒यन्तो᳚हुवेम |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यथा᳚चि॒त्‌पूर्वे᳚जरि॒तार॑आ॒सुरने᳚द्या,अनव॒द्या,अरि॑ष्टाः॒(स्वाहा᳚) || 4 ||

त‌म्¦वः॒¦इन्द्र᳚‌म्¦च॒तिन᳚‌म्¦अ॒स्य॒¦शा॒कैः¦इ॒ह¦नू॒न‌म्¦वा॒ज॒ऽयन्तः॑¦हु॒वे॒म॒ |
यथा᳚¦चि॒त्¦पूर्वे᳚¦ज॒रि॒तारः॑¦आ॒सुः¦अने᳚द्याः¦अ॒न॒व॒द्याः¦अरि॑ष्टाः ||

धृ॒तव्र॑तोधन॒दाःसोम॑वृद्धः॒सहिवा॒मस्य॒वसु॑नःपुरु॒क्षुः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

संज॑ग्मिरेप॒थ्या॒३॑(आ॒)रायो᳚,अस्मिन्त्समु॒द्रेनसिन्ध॑वो॒याद॑मानाः॒(स्वाहा᳚) || 5 ||

धृ॒तऽव्र॑तः¦ध॒न॒ऽदाः¦सोम॑ऽवृद्धः¦सः¦हि¦वा॒मस्य॑¦वसु॑नः¦पु॒रु॒ऽक्षुः |
स‌म्¦ज॒ग्मि॒रे॒¦प॒थ्याः᳚¦रायः॑¦अ॒स्मि॒न्¦स॒मु॒द्रे¦न¦सिन्ध॑वः¦याद॑मानाः ||

शवि॑ष्ठंन॒आभ॑रशूर॒शव॒ओजि॑ष्ठ॒मोजो᳚,अभिभूतउ॒ग्रम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

विश्वा᳚द्यु॒म्नावृष्ण्या॒मानु॑षाणाम॒स्मभ्यं᳚दाहरिवोमाद॒यध्यै॒(स्वाहा᳚) || 6 || वर्ग:8

शवि॑ष्ठ‌म्¦नः॒¦आ¦भ॒र॒¦शू॒र॒¦शवः॑¦ओजि॑ष्ठ‌म्¦ओजः॑¦अ॒भि॒ऽभू॒ते॒¦उ॒ग्र‌म् |
विश्वा᳚¦द्यु॒म्ना¦वृष्ण्या᳚¦मानु॑षाणा‌म्¦अ॒स्मभ्य᳚‌म्¦दाः॒¦ह॒रि॒ऽवः॒¦मा॒द॒यध्यै᳚ ||

यस्ते॒मदः॑पृतना॒षाळमृ॑ध्र॒इन्द्र॒तंन॒आभ॑रशूशु॒वांस᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

येन॑तो॒कस्य॒तन॑यस्यसा॒तौमं᳚सी॒महि॑जिगी॒वांस॒स्त्वोताः᳚(स्वाहा᳚) || 7 ||

यः¦ते॒¦मदः॑¦पृ॒त॒ना॒षाट्¦अमृ॑ध्रः¦इन्द्र॑¦त‌म्¦नः॒¦आ¦भ॒र॒¦शू॒शु॒ऽवांस᳚‌म् |
येन॑¦तो॒कस्य॑¦तन॑यस्य¦सा॒तौ¦मं॒सी॒महि॑¦जि॒गी॒वांसः॑¦त्वाऽऊ᳚ताः ||

आनो᳚भर॒वृष॑णं॒शुष्म॑मिन्द्रधन॒स्पृतं᳚शूशु॒वांसं᳚सु॒दक्ष᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

येन॒वंसा᳚म॒पृत॑नासु॒शत्रू॒न्तवो॒तिभि॑रु॒तजा॒मीँरजा᳚मी॒‌न्(स्वाहा᳚) || 8 ||

आ¦नः॒¦भ॒र॒¦वृष॑ण‌म्¦शुष्म᳚‌म्¦इ॒न्द्र॒¦ध॒न॒ऽस्पृत᳚‌म्¦शू॒शु॒ऽवांस᳚‌म्¦सु॒ऽदक्ष᳚‌म् |
येन॑¦वंसा᳚म¦पृत॑नासु¦शत्रू᳚न्¦तव॑¦ऊ॒तिऽभिः॑¦उ॒त¦जा॒मीन्¦अजा᳚मीन् ||

आते॒शुष्मो᳚वृष॒भए᳚तुप॒श्चादोत्त॒राद॑ध॒रादापु॒रस्ता᳚त् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

आवि॒श्वतो᳚,अ॒भिसमे᳚त्व॒र्वाङिन्द्र॑द्यु॒म्नंस्व᳚र्वद्धेह्य॒स्मे(स्वाहा᳚) || 9 ||

आ¦ते॒¦शुष्मः॑¦वृ॒ष॒भः¦ए॒तु॒¦प॒श्चात्¦आ¦उ॒त्त॒रात्¦अ॒ध॒रात्¦आ¦पु॒रस्ता᳚त् |
आ¦वि॒श्वतः॑¦अ॒भि¦स‌म्¦ए॒तु॒¦अ॒र्वाङ्¦इन्द्र॑¦द्यु॒म्न‌म्¦स्वः॑ऽवत्¦धे॒हि॒¦अ॒स्मे इति॑ ||

नृ॒वत्‌त॑इन्द्र॒नृत॑माभिरू॒तीवं᳚सी॒महि॑वा॒मंश्रोम॑तेभिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ईक्षे॒हिवस्व॑उ॒भय॑स्यराज॒न्धारत्नं॒महि॑स्थू॒रंबृ॒हन्त॒‌म्(स्वाहा᳚) || 10 ||

नृ॒ऽवत्¦ते॒¦इ॒न्द्र॒¦नृऽत॑माभिः¦ऊ॒ती¦वं॒सी॒महि॑¦वा॒म‌म्¦श्रोम॑तेभिः |
ईक्षे᳚¦हि¦वस्वः॑¦उ॒भय॑स्य¦रा॒ज॒न्¦धाः¦रत्न᳚‌म्¦महि॑¦स्थू॒र‌म्¦बृ॒हन्त᳚‌म् ||

म॒रुत्व᳚न्तंवृष॒भंवा᳚वृधा॒नमक॑वारिंदि॒व्यंशा॒समिन्द्र᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वि॒श्वा॒साह॒मव॑से॒नूत॑नायो॒ग्रंस॑हो॒दामि॒हतंहु॑वेम॒(स्वाहा᳚) || 11 ||

म॒रुत्व᳚न्त‌म्¦वृ॒ष॒भ‌म्¦व॒वृ॒धा॒न‌म्¦अक॑व।आरि‌म्¦दि॒व्य‌म्¦शा॒स‌म्¦इन्द्र᳚‌म् |
वि॒श्व॒ऽसह᳚‌म्¦अव॑से¦नूत॑नाय¦उ॒ग्र‌म्¦स॒हः॒ऽदा‌म्¦इ॒ह¦त‌म्¦हु॒वे॒म॒ ||

जनं᳚वज्रि॒न्‌महि॑चि॒न्मन्य॑मानमे॒भ्योनृभ्यो᳚रन्धया॒येष्वस्मि॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अधा॒हित्वा᳚पृथि॒व्यांशूर॑सातौ॒हवा᳚महे॒तन॑ये॒गोष्व॒प्सु(स्वाहा᳚) || 12 ||

जन᳚‌म्¦व॒ज्रि॒न्¦महि॑¦चि॒त्¦मन्य॑मान‌म्¦ए॒भ्यः¦नृऽभ्यः॑¦र॒न्ध॒य॒¦येषु॑¦अस्मि॑ |
अध॑¦हि¦त्वा॒¦पृ॒थि॒व्या‌म्¦शूर॑ऽसातौ¦हवा᳚महे¦तन॑ये¦गोषु॑¦अ॒प्ऽसु ||

व॒यंत॑ए॒भिःपु॑रुहूतस॒ख्यैःशत्रोः᳚शत्रो॒रुत्त॑र॒इत्‌स्या᳚म |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

घ्नन्तो᳚वृ॒त्राण्यु॒भया᳚निशूररा॒याम॑देमबृह॒तात्वोताः᳚(स्वाहा᳚) || 13 ||

व॒य‌म्¦ते॒¦ए॒भिः¦पु॒रु॒ऽहू॒त॒¦स॒ख्यैः¦शत्रोः᳚ऽशत्रोः¦उत्ऽत॑रे¦इत्¦स्या॒म॒ |
घ्नन्तः॑¦वृ॒त्राणि॑¦उ॒भया᳚नि¦शू॒र॒¦रा॒या¦म॒दे॒म॒¦बृ॒ह॒ता¦त्वाऽऊ᳚ताः ||

[99] द्यौर्नयइति त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप्‌सप्तमीविराट्पंक्तिः |{अष्टक:4, अध्याय:6}{मंडल:6, सूक्त:20}{अनुवाक:2, सूक्त:5}
द्यौर्नयइ᳚न्द्रा॒भिभूमा॒र्यस्त॒स्थौर॒यिःशव॑सापृ॒त्सुजना॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तंनः॑स॒हस्र॑भरमुर्वरा॒सांद॒द्धिसू᳚नोसहसोवृत्र॒तुर॒‌म्(स्वाहा᳚) || 1 || वर्ग:9

द्यौः¦न¦यः¦इ॒न्द्र॒¦अ॒भि¦भूम॑¦अ॒र्यः¦त॒स्थौ¦र॒यिः¦शव॑सा¦पृ॒त्ऽसु¦जना॑न् |
त‌म्¦नः॒¦स॒हस्र॑ऽभर‌म्¦उ॒र्व॒रा॒ऽसा‌म्¦द॒द्धि¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦वृ॒त्र॒ऽतुर᳚‌म् ||

दि॒वोनतुभ्य॒मन्‌वि᳚न्द्रस॒त्राऽसु॒र्यं᳚दे॒वेभि॑र्धायि॒विश्व᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अहिं॒यद्‌वृ॒त्रम॒पोव᳚व्रि॒वांसं॒हन्नृ॑जीषि॒न्‌विष्णु॑नासचा॒नः(स्वाहा᳚) || 2 ||

दि॒वः¦न¦तुभ्य᳚‌म्¦अनु॑¦इ॒न्द्र॒¦स॒त्रा¦अ॒सु॒र्य᳚‌म्¦दे॒वेभिः॑¦धा॒यि॒¦विश्व᳚‌म् |
अहि᳚‌म्¦यत्¦वृ॒त्र‌म्¦अ॒पः¦व॒व्रि॒ऽवांस᳚‌म्¦हन्¦ऋ॒जी॒षि॒न्¦विष्णु॑ना¦स॒चा॒नः ||

तूर्व॒न्नोजी᳚यान्‌त॒वस॒स्तवी᳚यान्कृ॒तब्र॒ह्मेन्द्रो᳚वृ॒द्धम॑हाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

राजा᳚भव॒न्मधु॑नःसो॒म्यस्य॒विश्वा᳚सां॒यत्‌पु॒रांद॒र्त्नुमाव॒॑‌त्(स्वाहा᳚) || 3 ||

तूर्व॑न्¦ओजी᳚यान्¦त॒वसः॑¦तवी᳚यान्¦कृ॒तऽब्र᳚ह्मा¦इन्द्रः॑¦वृ॒द्धऽम॑हाः |
राजा᳚¦अ॒भ॒व॒त्¦मधु॑नः¦सो॒म्यस्य॑¦विश्वा᳚सा‌म्¦यत्¦पु॒रा‌म्¦द॒र्त्नु‌म्¦आव॑त् ||

श॒तैर॑पद्रन्‌प॒णय॑इ॒न्द्रात्र॒दशो᳚णयेक॒वये॒ऽर्कसा᳚तौ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

व॒धैःशुष्ण॑स्या॒शुष॑स्यमा॒याःपि॒त्वोनारि॑रेची॒त्‌किंच॒नप्र(स्वाहा᳚) || 4 ||

श॒तैः¦अ॒प॒द्र॒न्¦प॒णयः॑¦इ॒न्द्र॒¦अत्र॑¦दश॑ऽओणये¦क॒वये᳚¦अ॒र्कऽसा᳚तौ |
व॒धैः¦शुष्ण॑स्य¦अ॒शुष॑स्य¦मा॒याः¦पि॒त्वः¦न¦अ॒रि॒रे॒ची॒त्¦कि‌म्¦च॒न¦प्र ||

म॒होद्रु॒हो,अप॑वि॒श्वायु॑धायि॒वज्र॑स्य॒यत्‌पत॑ने॒पादि॒शुष्णः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

उ॒रुषस॒रथं॒सार॑थयेक॒रिन्द्रः॒कुत्सा᳚य॒सूर्य॑स्यसा॒तौ(स्वाहा᳚) || 5 ||

म॒हः¦द्रु॒हः¦अप॑¦वि॒श्वऽआ᳚यु¦धा॒यि॒¦वज्र॑स्य¦यत्¦पत॑ने¦पादि॑¦शुष्णः॑ |
उ॒रु¦सः¦स॒ऽरथ᳚‌म्¦सार॑थये¦कः॒¦इन्द्रः॑¦कुत्सा᳚य¦सूर्य॑स्य¦सा॒तौ ||

प्रश्ये॒नोनम॑दि॒रमं॒शुम॑स्मै॒शिरो᳚दा॒सस्य॒नमु॑चेर्मथा॒यन् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

प्राव॒न्नमीं᳚सा॒प्यंस॒सन्तं᳚पृ॒णग्रा॒यासमि॒षासंस्व॒स्ति(स्वाहा᳚) || 6 || वर्ग:10

प्र¦श्ये॒नः¦न¦म॒दि॒र‌म्¦अं॒शु‌म्¦अ॒स्मै॒¦शिरः॑¦दा॒सस्य॑¦नमु॑चेः¦म॒था॒यन् |
प्र¦आ॒व॒त्¦नमी᳚‌म्¦सा॒प्य‌म्¦स॒सन्त᳚‌म्¦पृ॒णक्¦रा॒या¦स‌म्¦इ॒षा¦स‌म्¦स्व॒स्ति ||

विपिप्रो॒रहि॑मायस्यदृ॒ळ्हाःपुरो᳚वज्रि॒ञ्छव॑सा॒नद॑र्दः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | पङ्क्तिः}

सुदा᳚म॒न्‌तद्‌रेक्णो᳚,अप्रमृ॒ष्यमृ॒जिश्व॑नेदा॒त्रंदा॒शुषे᳚दाः॒(स्वाहा᳚) || 7 ||

वि¦पिप्रोः᳚¦अहि॑ऽमायस्य¦दृ॒ळ्हाः¦पुरः॑¦व॒ज्रि॒न्¦शव॑सा¦न¦द॒र्द॒रिति॑ दर्दः |
सुऽदा᳚मन्¦तत्¦रेक्णः॑¦अ॒प्र॒ऽमृ॒ष्य‌म्¦ऋ॒जिश्व॑ने¦दा॒त्र‌म्¦दा॒शुषे᳚¦दाः॒ ||

सवे᳚त॒सुंदश॑मायं॒दशो᳚णिं॒तूतु॑जि॒मिन्द्रः॑स्वभि॒ष्टिसु᳚म्नः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

आतुग्रं॒शश्व॒दिभं॒द्योत॑नायमा॒तुर्नसी॒मुप॑सृजा,इ॒यध्यै॒(स्वाहा᳚) || 8 ||

सः¦वे॒त॒सु‌म्¦दश॑ऽमाय‌म्¦दश॑ऽओणि‌म्¦तूतु॑जि‌म्¦इन्द्रः॑¦स्व॒भि॒ष्टिऽसु᳚म्नः |
आ¦तुग्र᳚‌म्¦शश्व॑त्¦इभ᳚‌म्¦द्योत॑नाय¦मा॒तुः¦न¦सी॒‌म्¦उप॑¦सृ॒ज॒¦इ॒यध्यै᳚ ||

सईं॒स्पृधो᳚वनते॒,अप्र॑तीतो॒बिभ्र॒द्‌वज्रं᳚वृत्र॒हणं॒गभ॑स्तौ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तिष्ठ॒द्धरी॒,अध्यस्ते᳚व॒गर्ते᳚वचो॒युजा᳚वहत॒इन्द्र॑मृ॒ष्वम्(स्वाहा᳚) || 9 ||

सः¦ई॒‌म्¦स्पृधः॑¦व॒न॒ते॒¦अप्र॑तिऽ‌इतः¦बिभ्र॑त्¦वज्र᳚‌म्¦वृ॒त्र॒ऽहन᳚‌म्¦गभ॑स्तौ |
तिष्ठ॑त्¦हरी॒ इति॑¦अधि॑¦अस्ता᳚ऽ‌इव¦गर्ते᳚¦व॒चः॒ऽयुजा᳚¦व॒ह॒तः॒¦इन्द्र᳚‌म्¦ऋ॒ष्व‌म् ||

स॒नेम॒तेऽव॑सा॒नव्य॑इन्द्र॒प्रपू॒रवः॑स्तवन्तए॒नाय॒ज्ञैः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

स॒प्तयत्‌पुरः॒शर्म॒शार॑दी॒र्दर्द्धन्दासीः᳚पुरु॒कुत्सा᳚य॒शिक्ष॒न्त्(स्वाहा᳚) || 10 ||

स॒नेम॑¦ते॒¦अव॑सा¦नव्यः॑¦इ॒न्द्र॒¦प्र¦पू॒रवः॑¦स्त॒व॒न्ते॒¦ए॒ना¦य॒ज्ञैः |
स॒प्त¦यत्¦पुरः॑¦शर्म॑¦शार॑दीः¦दर्त्¦हन्¦दासीः᳚¦पु॒रु॒ऽकुत्सा᳚य¦शिक्ष॑न् ||

त्वंवृ॒धइ᳚न्द्रपू॒र्व्योभू᳚र्वरिव॒स्यन्नु॒शने᳚का॒व्याय॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

परा॒नव॑वास्त्वमनु॒देयं᳚म॒हेपि॒त्रेद॑दाथ॒स्वंनपा᳚त॒‌म्(स्वाहा᳚) || 11 ||

त्व‌म्¦वृ॒धः¦इ॒न्द्र॒¦पू॒र्व्यः¦भूः॒¦व॒रि॒व॒स्यन्¦उ॒शने᳚¦का॒व्याय॑ |
परा᳚¦नव॑ऽवास्त्व‌म्¦अ॒नु॒ऽदेय᳚‌म्¦म॒हे¦पि॒त्रे¦द॒दा॒थ॒¦स्व‌म्¦नपा᳚त‌म् ||

त्वंधुनि॑रिन्द्र॒धुनि॑मतीरृ॒णोर॒पःसी॒रानस्रव᳚न्तीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

प्रयत्‌स॑मु॒द्रमति॑शूर॒पर्षि॑पा॒रया᳚तु॒र्वशं॒यदुं᳚स्व॒स्ति(स्वाहा᳚) || 12 ||

त्व‌म्¦धुनिः॑¦इ॒न्द्र॒¦धुनि॑ऽमतीः¦ऋ॒णोः¦अ॒पः¦सी॒राः¦न¦स्रव᳚न्तीः |
प्र¦यत्¦स॒मु॒द्र‌म्¦अति॑¦शू॒र॒¦पर्षि॑¦पा॒रय॑¦तु॒र्वश᳚‌म्¦यदु᳚‌म्¦स्व॒स्ति ||

तव॑ह॒त्यदि᳚न्द्र॒विश्व॑मा॒जौस॒स्तोधुनी॒चुमु॑री॒याह॒सिष्व॑प् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

दी॒दय॒दित्‌तुभ्यं॒सोमे᳚भिःसु॒न्वन्द॒भीति॑रि॒ध्मभृ॑तिःप॒क्थ्य१॑(अ॒)र्कैः॒(स्वाहा᳚) || 13 ||

तव॑¦ह॒¦त्यत्¦इ॒न्द्र॒¦विश्व᳚‌म्¦आ॒जौ¦स॒स्तः¦धुनी॒चुमु॑री॒ इति॑¦या¦ह॒¦सिस्व॑प् |
दी॒दय॑त्¦इत्¦तुभ्य᳚‌म्¦सोमे᳚भिः¦सु॒न्वन्¦द॒भीतिः॑¦इ॒ध्मऽभृ॑तिः¦प॒क्थी¦अ॒र्कैः ||

[100] इमाउत्वेति द्वादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रो नवम्येकादश्योर्विश्वेदेवास्त्रिष्टुप् |{अष्टक:4, अध्याय:6}{मंडल:6, सूक्त:21}{अनुवाक:2, सूक्त:6}
इ॒मा,उ॑त्वापुरु॒तम॑स्यका॒रोर्हव्यं᳚वीर॒हव्या᳚हवन्ते |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

धियो᳚रथे॒ष्ठाम॒जरं॒नवी᳚योर॒यिर्विभू᳚तिरीयतेवच॒स्या(स्वाहा᳚) || 1 || वर्ग:11

इ॒माः¦ऊँ॒ इति॑¦त्वा॒¦पु॒रु॒ऽतम॑स्य¦का॒रोः¦हव्य᳚‌म्¦वी॒र॒¦हव्याः᳚¦ह॒व॒न्ते॒ |
धियः॑¦र॒थे॒ऽस्था‌म्¦अ॒जर᳚‌म्¦नवी᳚यः¦र॒यिः¦विऽभू᳚तिः¦ई॒य॒ते॒¦व॒च॒स्या ||

तमु॑स्तुष॒इन्द्रं॒योविदा᳚नो॒गिर्वा᳚हसंगी॒र्भिर्य॒ज्ञवृ॑द्धम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यस्य॒दिव॒मति॑म॒ह्नापृ॑थि॒व्याःपु॑रुमा॒यस्य॑रिरि॒चेम॑हि॒त्वम्(स्वाहा᳚) || 2 ||

त‌म्¦ऊँ॒ इति॑¦स्तु॒षे॒¦इन्द्र᳚‌म्¦यः¦विदा᳚नः¦गिर्वा᳚हस‌म्¦गीः॒ऽभिः¦य॒ज्ञऽवृ॑द्ध‌म् |
यस्य॑¦दिव᳚‌म्¦अति॑¦म॒ह्ना¦पृ॒थि॒व्याः¦पु॒रु॒ऽमा॒यस्य॑¦रि॒रि॒चे¦म॒हि॒ऽत्व‌म् ||

सइत्‌तमो᳚ऽवयु॒नंत॑त॒न्वत्सूर्ये᳚णव॒युन॑वच्चकार |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

क॒दाते॒मर्ता᳚,अ॒मृत॑स्य॒धामेय॑क्षन्तो॒नमि॑नन्तिस्वधावः॒(स्वाहा᳚) || 3 ||

सः¦इत्¦तमः॑¦अ॒व॒यु॒न‌म्¦त॒त॒न्वत्¦सूर्ये᳚ण¦व॒युन॑ऽवत्¦च॒का॒र॒ |
क॒दा¦ते॒¦मर्ताः᳚¦अ॒मृत॑स्य¦धाम॑¦इय॑क्षन्तः¦न¦मि॒न॒न्ति॒¦स्व॒धा॒ऽवः॒ ||

यस्ताच॒कार॒सकुह॑स्वि॒दिन्द्रः॒कमाजनं᳚चरति॒कासु॑वि॒क्षु |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

कस्ते᳚य॒ज्ञोमन॑से॒शंवरा᳚य॒को,अ॒र्कइ᳚न्द्रकत॒मःसहोता॒(स्वाहा᳚) || 4 ||

यः¦ता¦च॒कार॑¦सः¦कुह॑¦स्वि॒त्¦इन्द्रः॑¦क‌म्¦आ¦जन᳚‌म्¦च॒र॒ति॒¦कासु॑¦वि॒क्षु |
कः¦ते॒¦य॒ज्ञः¦मन॑से¦श‌म्¦वरा᳚य¦कः¦अ॒र्कः¦इ॒न्द्र॒¦क॒त॒मः¦सः¦होता᳚ ||

इ॒दाहिते॒वेवि॑षतःपुरा॒जाःप्र॒त्नास॑आ॒सुःपु॑रुकृ॒त्‌सखा᳚यः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

येम॑ध्य॒मास॑उ॒तनूत॑नासउ॒ताव॒मस्य॑पुरुहूतबोधि॒(स्वाहा᳚) || 5 ||

इ॒दा¦हि¦ते॒¦वेवि॑षतः¦पु॒रा॒ऽजाः¦प्र॒त्नासः॑¦आ॒सुः¦पु॒रु॒ऽकृ॒त्¦सखा᳚यः |
ये¦म॒द्य॒मासः॑¦उ॒त¦नूत॑नासः¦उ॒त¦अ॒व॒मस्य॑¦पु॒रु॒ऽहू॒त॒¦बो॒धि॒ ||

तंपृ॒च्छन्तोऽव॑रासः॒परा᳚णिप्र॒त्नात॑इन्द्र॒श्रुत्यानु॑येमुः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अर्चा᳚मसिवीरब्रह्मवाहो॒यादे॒ववि॒द्मतात्‌त्वा᳚म॒हान्त॒‌म्(स्वाहा᳚) || 6 || वर्ग:12

त‌म्¦पृ॒च्छन्तः॑¦अव॑रासः¦परा᳚णि¦प्र॒त्ना¦ते॒¦इ॒न्द्र॒¦श्रुत्या᳚¦अनु॑¦ये॒मुः॒ |
अर्चा᳚मसि¦वी॒र॒¦ब्र॒ह्म॒ऽवाहः॑¦यात्¦ए॒व¦वि॒द्म¦तात्¦त्वा॒¦म॒हान्त᳚‌म् ||

अ॒भित्वा॒पाजो᳚र॒क्षसो॒वित॑स्थे॒महि॑जज्ञा॒नम॒भितत्सुति॑ष्ठ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तव॑प्र॒त्नेन॒युज्ये᳚न॒सख्या॒वज्रे᳚णधृष्णो॒,अप॒तानु॑दस्व॒(स्वाहा᳚) || 7 ||

अ॒भि¦त्वा॒¦पाजः॑¦र॒क्षसः॑¦वि¦त॒स्थे॒¦महि॑¦ज॒ज्ञा॒न‌म्¦अ॒भि¦तत्¦सु¦ति॒ष्ठ॒ |
तव॑¦प्र॒त्नेन॑¦युज्ये᳚न¦सख्या᳚¦वज्रे᳚ण¦धृ॒ष्णो॒ इति॑¦अप॑¦ता¦नु॒द॒स्व॒ ||

सतुश्रु॑धीन्द्र॒नूत॑नस्यब्रह्मण्य॒तोवी᳚रकारुधायः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वंह्या॒३॑(आ॒)पिःप्र॒दिवि॑पितॄ॒णांशश्व॑द्‌ब॒भूथ॑सु॒हव॒एष्टौ॒(स्वाहा᳚) || 8 ||

सः¦तु¦श्रु॒धि॒¦इ॒न्द्र॒¦नूत॑नस्य¦ब्र॒ह्म॒ण्य॒तः¦वी॒र॒¦का॒रु॒ऽधा॒यः॒ |
त्व‌म्¦हि¦आ॒पिः¦प्र॒ऽदिवि॑¦पि॒तॄ॒णा‌म्¦शश्व॑त्¦ब॒भूथ॑¦सु॒ऽहवः॑¦आऽ‌इ᳚ष्टौ ||

प्रोतये॒वरु॑णंमि॒त्रमिन्द्रं᳚म॒रुतः॑कृ॒ष्वाव॑सेनो,अ॒द्य |{बार्हस्पत्यो भरद्वाजः | विश्वेदेवाः | त्रिष्टुप्}

प्रपू॒षणं॒विष्णु॑म॒ग्निंपुरं᳚धिंसवि॒तार॒मोष॑धीः॒पर्व॑ताँश्च॒(स्वाहा᳚) || 9 ||

प्र¦ऊ॒तये᳚¦वरु॑ण‌म्¦मि॒त्र‌म्¦इन्द्र᳚‌म्¦म॒रुतः॑¦कृ॒ष्व॒¦अव॑से¦नः॒¦अ॒द्य |
प्र¦पू॒षण᳚‌म्¦विष्णु᳚‌म्¦अ॒ग्नि‌म्¦पुर᳚‌म्ऽधि᳚‌म्¦स॒वि॒तार᳚‌म्¦ओष॑धीः¦पर्व॑तान्¦च॒ ||

इ॒मउ॑त्वापुरुशाकप्रयज्योजरि॒तारो᳚,अ॒भ्य॑र्चन्त्य॒र्कैः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

श्रु॒धीहव॒माहु॑व॒तोहु॑वा॒नोनत्वावाँ᳚,अ॒न्यो,अ॑मृत॒त्वद॑स्ति॒(स्वाहा᳚) || 10 ||

इ॒मे¦ऊँ॒ इति॑¦त्वा॒¦पु॒रु॒ऽशा॒क॒¦प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो¦ज॒रि॒तारः॑¦अ॒भि¦अ॒र्च॒न्ति॒¦अ॒र्कैः |
श्रु॒धि¦हव᳚‌म्¦आ¦हु॒व॒तः¦हु॒वा॒नः¦न¦त्वाऽवा᳚न्¦अ॒न्यः¦अ॒मृ॒त॒¦त्वत्¦अ॒स्ति॒ ||

नूम॒आवाच॒मुप॑याहिवि॒द्वान्विश्वे᳚भिःसूनोसहसो॒यज॑त्रैः |{बार्हस्पत्यो भरद्वाजः | विश्वेदेवाः | त्रिष्टुप्}

ये,अ॑ग्निजि॒ह्वा,ऋ॑त॒साप॑आ॒सुर्येमनुं᳚च॒क्रुरुप॑रं॒दसा᳚य॒(स्वाहा᳚) || 11 ||

नु¦मे॒¦आ¦वाच᳚‌म्¦उप॑¦या॒हि॒¦वि॒द्वान्¦विश्वे᳚भिः¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦यज॑त्रैः |
ये¦अ॒ग्नि॒ऽजि॒ह्वाः¦ऋ॒त॒ऽसापः॑¦आ॒सुः¦ये¦मनु᳚‌म्¦च॒क्रुः¦उप॑र‌म्¦दसा᳚य ||

सनो᳚बोधिपुरए॒तासु॒गेषू॒तदु॒र्गेषु॑पथि॒कृद्‌विदा᳚नः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ये,अश्र॑मासउ॒रवो॒वहि॑ष्ठा॒स्तेभि᳚र्नइन्द्रा॒भिव॑क्षि॒वाज॒‌म्(स्वाहा᳚) || 12 ||

सः¦नः॒¦बो॒धि॒¦पु॒रः॒ऽए॒ता¦सु॒ऽगेषु॑¦उ॒त¦दुः॒ऽगेषु॑¦प॒थि॒ऽकृत्¦विदा᳚नः |
ये¦अश्र॑मासः¦उ॒रवः॑¦वहि॑ष्ठाः¦तेभिः॑¦नः॒¦इ॒न्द्र॒¦अ॒भि¦व॒क्षि॒¦वाज᳚‌म् ||

[101] यएकइदित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:6}{मंडल:6, सूक्त:22}{अनुवाक:2, सूक्त:7}
यएक॒इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒तंगी॒र्भिर॒भ्य॑र्चआ॒भिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यःपत्य॑तेवृष॒भोवृष्ण्या᳚वान्त्स॒त्यःसत्वा᳚पुरुमा॒यःसह॑स्वा॒‌न्(स्वाहा᳚) || 1 || वर्ग:13

यः¦एकः॑¦इत्¦हव्यः॑¦च॒र्ष॒णी॒ना‌म्¦इन्द्र᳚‌म्¦त‌म्¦गीः॒ऽभिः¦अ॒भि¦अ॒र्चे॒¦आ॒भिः |
यः¦पत्य॑ते¦वृ॒ष॒भः¦वृष्ण्य॑ऽवान्¦स॒त्यः¦सत्वा᳚¦पु॒रु॒ऽमा॒यः¦सह॑स्वान् ||

तमु॑नः॒पूर्वे᳚पि॒तरो॒नव॑ग्वाःस॒प्तविप्रा᳚सो,अ॒भिवा॒जय᳚न्तः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

न॒क्ष॒द्दा॒भंततु॑रिंपर्वते॒ष्ठामद्रो᳚घवाचंम॒तिभिः॒शवि॑ष्ठ॒‌म्(स्वाहा᳚) || 2 ||

त‌म्¦ऊँ॒ इति॑¦नः॒¦पूर्वे᳚¦पि॒तरः॑¦नव॑ऽग्वाः¦स॒प्त¦विप्रा᳚सः¦अ॒भि¦वा॒जय᳚न्तः |
न॒क्ष॒त्ऽदा॒भ‌म्¦ततु॑रि‌म्¦प॒र्व॒ते॒ऽस्था‌म्¦अद्रो᳚घऽवाच‌म्¦म॒तिऽभिः॑¦शवि॑ष्ठ‌म् ||

तमी᳚मह॒इन्द्र॑मस्यरा॒यःपु॑रु॒वीर॑स्यनृ॒वतः॑पुरु॒क्षोः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यो,अस्कृ॑धोयुर॒जरः॒स्व᳚र्वा॒न्तमाभ॑रहरिवोमाद॒यध्यै॒(स्वाहा᳚) || 3 ||

त‌म्¦ई॒म॒हे॒¦इन्द्र᳚‌म्¦अ॒स्य॒¦रा॒यः¦पु॒रु॒ऽवीर॑स्य¦नृ॒ऽवतः॑¦पु॒रु॒ऽक्षोः |
यः¦अस्कृ॑धोयुः¦अ॒जरः॑¦स्वः॑ऽवान्¦त‌म्¦आ¦भ॒र॒¦ह॒रि॒ऽवः॒¦मा॒द॒यध्यै᳚ ||

तन्नो॒विवो᳚चो॒यदि॑तेपु॒राचि॑ज्जरि॒तार॑आन॒शुःसु॒म्नमि᳚न्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

कस्ते᳚भा॒गःकिंवयो᳚दुध्रखिद्वः॒पुरु॑हूतपुरूवसोऽसुर॒घ्नः(स्वाहा᳚) || 4 ||

तत्¦नः॒¦वि¦वो॒चः॒¦यदि॑¦ते॒¦पु॒रा¦चि॒त्¦ज॒रि॒तारः॑¦आ॒न॒शुः¦सु॒म्न‌म्¦इ॒न्द्र॒ |
कः¦ते॒¦भा॒गः¦कि‌म्¦वयः॑¦दु॒ध्र॒¦खि॒द्वः॒¦पुरु॑ऽहूत¦पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो¦अ॒सु॒र॒ऽघ्नः ||

तंपृ॒च्छन्ती॒वज्र॑हस्तंरथे॒ष्ठामिन्द्रं॒वेपी॒वक्व॑री॒यस्य॒नूगीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तु॒वि॒ग्रा॒भंतु॑विकू॒र्मिंर॑भो॒दांगा॒तुमि॑षे॒नक्ष॑ते॒तुम्र॒मच्छ॒(स्वाहा᳚) || 5 ||

त‌म्¦पृ॒च्छन्ती᳚¦वज्र॑ऽहस्त‌म्¦र॒थे॒ऽस्था‌म्¦इन्द्र᳚‌म्¦वेपी᳚¦वक्व॑री¦यस्य॑¦नु¦गीः |
तु॒वि॒ऽग्रा॒भ‌म्¦तु॒वि॒ऽकू॒र्मि‌म्¦र॒भः॒ऽदा‌म्¦गा॒तु‌म्¦इ॒षे॒¦नक्ष॑ते¦तुम्र᳚‌म्¦अच्छ॑ ||

अ॒याह॒त्यंमा॒यया᳚वावृधा॒नंम॑नो॒जुवा᳚स्वतवः॒पर्व॑तेन |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अच्यु॑ताचिद्‌वीळि॒तास्वो᳚जोरु॒जोविदृ॒ळ्हाधृ॑ष॒तावि॑रप्शि॒‌न्(स्वाहा᳚) || 6 || वर्ग:14

अ॒या¦ह॒¦त्य‌म्¦मा॒यया᳚¦व॒वृ॒धा॒न‌म्¦म॒नः॒ऽजुवा᳚¦स्व॒ऽत॒वः॒¦पर्व॑तेन |
अच्यु॑ता¦चि॒त्¦वी॒ळि॒ता¦सु॒ऽओ॒जः॒¦रु॒जः¦वि¦दृ॒ळ्हा¦धृ॒ष॒ता¦वि॒ऽर॒प्शि॒न् ||

तंवो᳚धि॒यानव्य॑स्या॒शवि॑ष्ठंप्र॒त्नंप्र॑त्न॒वत्‌प॑रितंस॒यध्यै᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

सनो᳚वक्षदनिमा॒नःसु॒वह्मेन्द्रो॒विश्वा॒न्यति॑दु॒र्गहा᳚णि॒(स्वाहा᳚) || 7 ||

त‌म्¦वः॒¦धि॒या¦नव्य॑स्या¦शवि॑ष्ठ‌म्¦प्र॒त्न‌म्¦प्र॒त्न॒ऽवत्¦प॒रि॒ऽतं॒स॒यध्यै᳚ |
सः¦नः॒¦व॒क्ष॒त्¦अ॒नि॒ऽमा॒नः¦सु॒ऽवह्मा᳚¦इन्द्रः॑¦विश्वा᳚नि¦अति॑¦दुः॒ऽगहा᳚नि ||

आजना᳚य॒द्रुह्व॑णे॒पार्थि॑वानिदि॒व्यानि॑दीपयो॒ऽन्तरि॑क्षा |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तपा᳚वृषन्‌वि॒श्वतः॑शो॒चिषा॒तान्ब्र᳚ह्म॒द्विषे᳚शोचय॒क्षाम॒पश्च॒(स्वाहा᳚) || 8 ||

आ¦जना᳚य¦द्रुह्व॑णे¦पार्थि॑वानि¦दि॒व्यानि॑¦दी॒प॒यः॒¦अ॒न्तरि॑क्षा |
तप॑¦वृ॒ष॒न्¦वि॒श्वतः॑¦शो॒चिषा᳚¦तान्¦ब्र॒ह्म॒ऽद्विषे᳚¦शो॒च॒य॒¦क्षा‌म्¦अ॒पः¦च॒ ||

भुवो॒जन॑स्यदि॒व्यस्य॒राजा॒पार्थि॑वस्य॒जग॑तस्त्वेषसंदृक् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

धि॒ष्ववज्रं॒दक्षि॑णइन्द्र॒हस्ते॒विश्वा᳚,अजुर्यदयसे॒विमा॒याः(स्वाहा᳚) || 9 ||

भुवः॑¦जन॑स्य¦दि॒व्यस्य॑¦राजा᳚¦पार्थि॑वस्य¦जग॑तः¦त्वे॒ष॒ऽसं॒दृ॒क् |
धि॒ष्व¦वज्र᳚‌म्¦दक्षि॑णे¦इ॒न्द्र॒¦हस्ते᳚¦विश्वाः᳚¦अ॒जु॒र्य॒¦द॒य॒से॒¦वि¦मा॒याः ||

आसं॒यत॑मिन्द्रणःस्व॒स्तिंश॑त्रु॒तूर्या᳚यबृह॒तीममृ॑ध्राम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यया॒दासा॒न्यार्या᳚णिवृ॒त्राकरो᳚वज्रिन्‌त्सु॒तुका॒नाहु॑षाणि॒(स्वाहा᳚) || 10 ||

आ¦स॒‌म्ऽयत᳚‌म्¦इ॒न्द्र॒¦नः॒¦स्व॒स्ति‌म्¦श॒त्रु॒ऽतूर्या᳚य¦बृ॒ह॒ती‌म्¦अमृ॑ध्रा‌म् |
यया᳚¦दासा᳚नि¦आर्या᳚णि¦वृ॒त्रा¦करः॑¦व॒ज्रि॒न्¦सु॒ऽतुका᳚¦नाहु॑षाणि ||

सनो᳚नि॒युद्भिः॑पुरुहूतवेधोवि॒श्ववा᳚राभि॒राग॑हिप्रयज्यो |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

नया,अदे᳚वो॒वर॑ते॒नदे॒वआभि᳚र्याहि॒तूय॒माम॑द्र्य॒द्रिक्(स्वाहा᳚) || 11 ||

सः¦नः॒¦नि॒युत्ऽभिः॑¦पु॒रु॒ऽहू॒त॒¦वे॒धः॒¦वि॒श्वऽवा᳚राभिः¦आ¦ग॒हि॒¦प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो |
न¦याः¦अदे᳚वः¦वर॑ते¦न¦दे॒वः¦आ¦आ॒भिः॒¦या॒हि॒¦तूय᳚‌म्¦आ¦म॒द्र्य॒द्रिक् ||

[102] सुतइदिति दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:6}{मंडल:6, सूक्त:23}{अनुवाक:2, सूक्त:8}
सु॒तइत्‌त्वंनिमि॑श्लइन्द्र॒सोमे॒स्तोमे॒ब्रह्म॑णिश॒स्यमा᳚नउ॒क्थे |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यद्‌वा᳚यु॒क्ताभ्यां᳚मघव॒न्‌हरि॑भ्यां॒बिभ्र॒द्‌वज्रं᳚बा॒ह्वोरि᳚न्द्र॒यासि॒(स्वाहा᳚) || 1 || वर्ग:15

सु॒ते¦इत्¦त्व‌म्¦निऽमि॑श्लः¦इ॒न्द्र॒¦सोमे᳚¦स्तोमे᳚¦ब्रह्म॑णि¦श॒स्यमा᳚ने¦उ॒क्थे |
यत्¦वा॒¦यु॒क्ताभ्या᳚‌म्¦म॒घ॒ऽव॒न्¦हरि॑ऽभ्या‌म्¦बिभ्र॑त्¦वज्र᳚‌म्¦बा॒ह्वोः¦इ॒न्द्र॒¦यासि॑ ||

यद्‌वा᳚दि॒विपार्ये॒सुष्वि॑मिन्द्रवृत्र॒हत्येऽव॑सि॒शूर॑सातौ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यद्‌वा॒दक्ष॑स्यबि॒भ्युषो॒,अबि॑भ्य॒दर᳚न्धयः॒शर्ध॑तइन्द्र॒दस्यू॒न्त्(स्वाहा᳚) || 2 ||

यत्¦वा॒¦दि॒वि¦पार्ये᳚¦सुस्वि᳚‌म्¦इ॒न्द्र॒¦वृ॒त्र॒ऽहत्ये᳚¦अव॑सि¦शूर॑ऽसातौ |
यत्¦वा॒¦दक्ष॑स्य¦बि॒भ्युषः॑¦अबि॑भ्यत्¦अर᳚न्धयः¦शर्ध॑तः¦इ॒न्द्र॒¦दस्यू॑न् ||

पाता᳚सु॒तमिन्द्रो᳚,अस्तु॒सोमं᳚प्रणे॒नीरु॒ग्रोज॑रि॒तार॑मू॒ती |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

कर्ता᳚वी॒राय॒सुष्व॑यउलो॒कंदाता॒वसु॑स्तुव॒तेकी॒रये᳚चि॒‌त्(स्वाहा᳚) || 3 ||

पाता᳚¦सु॒त‌म्¦इन्द्रः॑¦अ॒स्तु॒¦सोम᳚‌म्¦प्र॒ऽने॒नीः¦उ॒ग्रः¦ज॒रि॒तार᳚‌म्¦ऊ॒ती |
कर्ता᳚¦वी॒राय॑¦सुस्व॑ये¦ऊँ॒ इति॑¦लो॒क‌म्¦दाता᳚¦वसु॑¦स्तु॒व॒ते¦की॒रये᳚¦चि॒त् ||

गन्तेया᳚न्ति॒सव॑ना॒हरि॑भ्यांब॒भ्रिर्वज्रं᳚प॒पिःसोमं᳚द॒दिर्गाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

कर्ता᳚वी॒रंनर्यं॒सर्व॑वीरं॒श्रोता॒हवं᳚गृण॒तःस्तोम॑वाहाः॒(स्वाहा᳚) || 4 ||

गन्ता᳚¦इय᳚न्ति¦सव॑ना¦हरि॑ऽभ्या‌म्¦ब॒भ्रिः¦वज्र᳚‌म्¦प॒पिः¦सोम᳚‌म्¦द॒दिः¦गाः |
कर्ता᳚¦वी॒र‌म्¦नर्य᳚‌म्¦सर्व॑ऽवीर‌म्¦श्रोता᳚¦हव᳚‌म्¦गृ॒ण॒तः¦स्तोम॑ऽवाहाः ||

अस्मै᳚व॒यंयद्‌वा॒वान॒तद्‌वि॑विष्म॒इन्द्रा᳚य॒योनः॑प्र॒दिवो॒,अप॒स्कः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

सु॒तेसोमे᳚स्तु॒मसि॒शंस॑दु॒क्थेन्द्रा᳚य॒ब्रह्म॒वर्ध॑नं॒यथास॒॑‌त्(स्वाहा᳚) || 5 ||

अस्मै᳚¦व॒य‌म्¦यत्¦व॒वान॑¦तत्¦वि॒वि॒ष्मः॒¦इन्द्रा᳚य¦यः¦नः॒¦प्र॒ऽदिवः॑¦अपः॑¦करिति॑ कः |
सु॒ते¦सोमे᳚¦स्तु॒मसि॑¦शंस॑त्¦उ॒क्था¦इन्द्रा᳚य¦ब्रह्म॑¦वर्ध॑न‌म्¦यथा᳚¦अस॑त् ||

ब्रह्मा᳚णि॒हिच॑कृ॒षेवर्ध॑नानि॒ताव॑त्‌तइन्द्रम॒तिभि᳚र्विविष्मः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

सु॒तेसोमे᳚सुतपाः॒शंत॑मानि॒रान्द्र्या᳚क्रियास्म॒वक्ष॑णानिय॒ज्ञैः॒(स्वाहा᳚) || 6 || वर्ग:16

ब्रह्मा᳚णि¦हि¦च॒कृ॒षे¦वर्ध॑नानि¦ताव॑त्¦ते॒¦इ॒न्द्र॒¦म॒तिऽभिः॑¦वि॒वि॒ष्मः॒ |
सु॒ते¦सोमे᳚¦सु॒त॒ऽपाः॒¦श‌म्ऽत॑मानि¦रान्द्र्या᳚¦क्रि॒या॒स्म॒¦वक्ष॑णानि¦य॒ज्ञैः ||

सनो᳚बोधिपुरो॒ळाशं॒ररा᳚णः॒पिबा॒तुसोमं॒गो,ऋ॑जीकमिन्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

एदंब॒र्हिर्यज॑मानस्यसीदो॒रुंकृ॑धित्वाय॒तउ॑लो॒कम्(स्वाहा᳚) || 7 ||

सः¦नः॒¦बो॒धि॒¦पु॒रो॒ळाश᳚‌म्¦ररा᳚णः¦पिब॑¦तु¦सोम᳚‌म्¦गोऽऋ॑जीक‌म्¦इ॒न्द्र॒ |
आ¦इ॒द‌म्¦ब॒र्हिः¦यज॑मानस्य¦सी॒द॒¦उ॒रु‌म्¦कृ॒धि॒¦त्वा॒ऽय॒तः¦ऊँ॒ इति॑¦लो॒क‌म् ||

सम᳚न्दस्वा॒ह्यनु॒जोष॑मुग्र॒प्रत्वा᳚य॒ज्ञास॑इ॒मे,अ॑श्नुवन्तु |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

प्रेमेहवा᳚सःपुरुहू॒तम॒स्मे,आत्वे॒यंधीरव॑सइन्द्रयम्याः॒(स्वाहा᳚) || 8 ||

सः¦म॒न्द॒स्व॒¦हि¦अनु॑¦जोष᳚‌म्¦उ॒ग्र॒¦प्र¦त्वा॒¦य॒ज्ञासः॑¦इ॒मे¦अ॒श्नु॒व॒न्तु॒ |
प्र¦इ॒मे¦हवा᳚सः¦पु॒रु॒ऽहू॒त‌म्¦अ॒स्मे इति॑¦आ¦त्वा॒¦इ॒य‌म्¦धीः¦अव॑से¦इ॒न्द्र॒¦य॒म्याः॒ ||

तंवः॑सखायः॒संयथा᳚सु॒तेषु॒सोमे᳚भिरींपृणताभो॒जमिन्द्र᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

कु॒वित्‌तस्मा॒,अस॑तिनो॒भरा᳚य॒नसुष्वि॒मिन्द्रोऽव॑सेमृधाति॒(स्वाहा᳚) || 9 ||

त‌म्¦वः॒¦स॒खा॒यः॒¦स‌म्¦यथा᳚¦सु॒तेषु॑¦सोमे᳚भिः¦ई॒‌म्¦पृ॒ण॒त॒¦भो॒ज‌म्¦इन्द्र᳚‌म् |
कु॒वित्¦तस्मै᳚¦अस॑ति¦नः॒¦भरा᳚य¦न¦सुस्वि᳚‌म्¦इन्द्रः॑¦अव॑से¦मृ॒धा॒ति॒ ||

ए॒वेदिन्द्रः॑सु॒ते,अ॑स्तावि॒सोमे᳚भ॒रद्वा᳚जेषु॒क्षय॒दिन्म॒घोनः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अस॒द्‌यथा᳚जरि॒त्रउ॒तसू॒रिरिन्द्रो᳚रा॒योवि॒श्ववा᳚रस्यदा॒ता(स्वाहा᳚) || 10 ||

ए॒व¦इत्¦इन्द्रः॑¦सु॒ते¦अ॒स्ता॒वि॒¦सोमे᳚¦भ॒रत्ऽवा᳚जेषु¦क्षय॑त्¦इत्¦म॒घोनः॑ |
अस॑त्¦यथा᳚¦ज॒रि॒त्रे¦उ॒त¦सू॒रिः¦इन्द्रः॑¦रा॒यः¦वि॒श्वऽवा᳚रस्य¦दा॒ता ||

[103] वृषामदइति दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रत्रिष्टुप् |{अष्टक:4, अध्याय:6}{मंडल:6, सूक्त:24}{अनुवाक:3, सूक्त:1}
वृषा॒मद॒इन्द्रे॒श्लोक॑उ॒क्थासचा॒सोमे᳚षुसुत॒पा,ऋ॑जी॒षी |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अ॒र्च॒त्र्यो᳚म॒घवा॒नृभ्य॑उ॒क्थैर्द्यु॒क्षोराजा᳚गि॒रामक्षि॑तोतिः॒(स्वाहा᳚) || 1 || वर्ग:17

वृषा᳚¦मदः॑¦इन्द्रे᳚¦श्लोकः॑¦उ॒क्था¦सचा᳚¦सोमे᳚षु¦सु॒त॒ऽपाः¦ऋ॒जी॒षी |
अ॒र्च॒त्र्यः॑¦म॒घऽवा᳚¦नृऽभ्यः॑¦उ॒क्थैः¦द्यु॒क्षः¦राजा᳚¦गि॒रा‌म्¦अक्षि॑तऽऊतिः ||

ततु॑रिर्वी॒रोनर्यो॒विचे᳚ताः॒श्रोता॒हवं᳚गृण॒तउ॒र्व्यू᳚तिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वसुः॒शंसो᳚न॒रांका॒रुधा᳚यावा॒जीस्तु॒तोवि॒दथे᳚दाति॒वाज॒‌म्(स्वाहा᳚) || 2 ||

ततु॑रिः¦वी॒रः¦नर्यः॑¦विऽचे᳚ताः¦श्रोता᳚¦हव᳚‌म्¦गृ॒ण॒तः¦उ॒र्विऽऊ᳚तिः |
वसुः॑¦शंसः॑¦न॒रा‌म्¦का॒रुऽधा᳚याः¦वा॒जी¦स्तु॒तः¦वि॒दथे᳚¦दा॒ति॒¦वाज᳚‌म् ||

अक्षो॒नच॒क्र्योः᳚शूरबृ॒हन्प्रते᳚म॒ह्नारि॑रिचे॒रोद॑स्योः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वृ॒क्षस्य॒नुते᳚पुरुहूतव॒याव्यू॒३॑(ऊ॒)तयो᳚रुरुहुरिन्द्रपू॒र्वीः(स्वाहा᳚) || 3 ||

अक्षः॑¦न¦च॒क्र्योः᳚¦शू॒र॒¦बृ॒हन्¦प्र¦ते॒¦म॒ह्ना¦रि॒रि॒चे॒¦रोद॑स्योः |
वृ॒क्षस्य॑¦नु¦ते॒¦पु॒रु॒ऽहू॒त॒¦व॒याः¦वि¦ऊ॒तयः॑¦रु॒रु॒हुः॒¦इ॒न्द्र॒¦पू॒र्वीः ||

शची᳚वतस्तेपुरुशाक॒शाका॒गवा᳚मिवस्रु॒तयः॑सं॒चर॑णीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

व॒त्सानां॒नत॒न्तय॑स्तइन्द्र॒दाम᳚न्वन्तो,अदा॒मानः॑सुदाम॒‌न्(स्वाहा᳚) || 4 ||

शची᳚ऽवतः¦ते॒¦पु॒रु॒ऽशा॒क॒¦शाकाः᳚¦गवा᳚‌म्ऽ‌इव¦स्रु॒तयः॑¦स॒‌म्ऽचर॑णीः |
व॒त्साना᳚‌म्¦न¦त॒न्तयः॑¦ते॒¦इ॒न्द्र॒¦दाम॑न्ऽवन्तः¦अ॒दा॒मानः॑¦सु॒ऽदा॒म॒न् ||

अ॒न्यद॒द्यकर्व॑रम॒न्यदु॒श्वोऽस॑च्च॒सन्मुहु॑राच॒क्रिरिन्द्रः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

मि॒त्रोनो॒,अत्र॒वरु॑णश्चपू॒षार्योवश॑स्यपर्ये॒तास्ति॒(स्वाहा᳚) || 5 ||

अ॒न्यत्¦अ॒द्य¦कर्व॑र‌म्¦अ॒न्यत्¦ऊँ॒ इति॑¦श्वः¦अस॑त्¦च॒¦सत्¦मुहुः॑¦आ॒ऽच॒क्रिः¦इन्द्रः॑ |
मि॒त्रः¦नः॒¦अत्र॑¦वरु॑णः¦च॒¦पू॒षा¦अ॒र्यः¦वश॑स्य¦प॒रि॒ऽए॒ता¦अ॒स्ति॒ ||

वित्वदापो॒नपर्व॑तस्यपृ॒ष्ठादु॒क्थेभि॑रिन्द्रानयन्तय॒ज्ञैः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तंत्वा॒भिःसु॑ष्टु॒तिभि᳚र्वा॒जय᳚न्तआ॒जिंनज॑ग्मुर्गिर्वाहो॒,अश्वाः᳚(स्वाहा᳚) || 6 || वर्ग:18

वि¦त्वत्¦आपः॑¦न¦पर्व॑तस्य¦पृ॒ष्ठात्¦उ॒क्थेभिः॑¦इ॒न्द्र॒¦अ॒न॒य॒न्त॒¦य॒ज्ञैः |
त‌म्¦त्वा॒¦आ॒भिः¦सु॒स्तु॒तिऽभिः॑¦वा॒जय᳚न्तः¦आ॒जि‌म्¦न¦ज॒ग्मुः॒¦गि॒र्वा॒हः॒¦अश्वाः᳚ ||

नयंजर᳚न्तिश॒रदो॒नमासा॒नद्याव॒इन्द्र॑मवक॒र्शय᳚न्ति |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वृ॒द्धस्य॑चिद्‌वर्धतामस्यत॒नूःस्तोमे᳚भिरु॒क्थैश्च॑श॒स्यमा᳚ना॒(स्वाहा᳚) || 7 ||

न¦य‌म्¦जर᳚न्ति¦श॒रदः॑¦न¦मासाः᳚¦न¦द्यावः॑¦इन्द्र᳚‌म्¦अ॒व॒ऽक॒र्शय᳚न्ति |
वृ॒द्धस्य॑¦चि॒त्¦व॒र्ध॒ता॒‌म्¦अ॒स्य॒¦त॒नूः¦स्तोमे᳚भिः¦उ॒क्थैः¦च॒¦श॒स्यमा᳚ना ||

नवी॒ळवे॒नम॑ते॒नस्थि॒राय॒नशर्ध॑ते॒दस्यु॑जूतायस्त॒वान् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अज्रा॒,इन्द्र॑स्यगि॒रय॑श्चिदृ॒ष्वाग᳚म्भी॒रेचि॑द्‌भवतिगा॒धम॑स्मै॒(स्वाहा᳚) || 8 ||

न¦वी॒ळवे᳚¦नम॑ते¦न¦स्थि॒राय॑¦न¦शर्ध॑ते¦दस्यु॑ऽजूताय¦स्त॒वान् |
अज्राः᳚¦इन्द्र॑स्य¦गि॒रयः॑¦चि॒त्¦ऋ॒ष्वाः¦ग॒म्भी॒रे¦चि॒त्¦भ॒व॒ति॒¦गा॒ध‌म्¦अ॒स्मै॒ ||

ग॒म्भी॒रेण॑नउ॒रुणा᳚मत्रि॒न्प्रेषोय᳚न्धिसुतपाव॒न्‌वाजा॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

स्था,ऊ॒षुऊ॒र्ध्वऊ॒ती,अरि॑षण्यन्न॒क्तोर्व्यु॑ष्टौ॒परि॑तक्म्याया॒‌म्(स्वाहा᳚) || 9 ||

ग॒म्भी॒रेण॑¦नः॒¦उ॒रुणा᳚¦अ॒म॒त्रि॒न्¦प्र¦इ॒षः¦य॒न्धि॒¦सु॒त॒ऽपा॒व॒न्¦वाजा॑न् |
स्थाः¦ऊँ॒ इति॑¦सु¦ऊ॒र्ध्वः¦ऊ॒ती¦अरि॑षण्यन्¦अ॒क्तोः¦वि।औ᳚ष्टौ¦परि॑ऽतक्म्याया‌म् ||

सच॑स्वना॒यमव॑से,अ॒भीक॑इ॒तोवा॒तमि᳚न्द्रपाहिरि॒षः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अ॒माचै᳚न॒मर᳚ण्येपाहिरि॒षोमदे᳚मश॒तहि॑माःसु॒वीराः᳚(स्वाहा᳚) || 10 ||

सच॑स्व¦ना॒य‌म्¦अव॑से¦अ॒भीके᳚¦इ॒तः¦वा॒¦त‌म्¦इ॒न्द्र॒¦पा॒हि॒¦रि॒षः |
अ॒मा¦च॒¦ए॒न॒‌म्¦अर᳚ण्ये¦पा॒हि॒¦रि॒षः¦मदे᳚म¦श॒तऽहि॑माः¦सु॒ऽवीराः᳚ ||

[104] यातऊतिरिति नवर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:6}{मंडल:6, सूक्त:25}{अनुवाक:3, सूक्त:2}
यात॑ऊ॒तिर॑व॒मायाप॑र॒मायाम॑ध्य॒मेन्द्र॑शुष्मि॒न्नस्ति॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ताभि॑रू॒षुवृ॑त्र॒हत्ये᳚ऽवीर्नए॒भिश्च॒वाजै᳚र्म॒हान्न॑उग्र॒(स्वाहा᳚) || 1 || वर्ग:19

या¦ते॒¦ऊ॒तिः¦अ॒व॒मा¦या¦प॒र॒मा¦या¦म॒ध्य॒मा¦इ॒न्द्र॒¦शु॒ष्मि॒न्¦अस्ति॑ |
ताभिः॑¦ऊँ॒ इति॑¦सु¦वृ॒त्र॒ऽहत्ये᳚¦अ॒वीः॒¦नः॒¦ए॒भिः¦च॒¦वाजैः᳚¦म॒हान्¦नः॒¦उ॒ग्र॒ ||

आभिः॒स्पृधो᳚मिथ॒तीररि॑षण्यन्न॒मित्र॑स्यव्यथयाम॒न्युमि᳚न्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

आभि॒र्विश्वा᳚,अभि॒युजो॒विषू᳚ची॒रार्या᳚य॒विशोऽव॑तारी॒र्दासीः᳚(स्वाहा᳚) || 2 ||

आभिः॑¦स्पृधः॑¦मि॒थ॒तीः¦अरि॑षण्यन्¦अ॒मित्र॑स्य¦व्य॒थ॒य॒¦म॒न्यु‌म्¦इ॒न्द्र॒ |
आभिः॑¦विश्वाः᳚¦अ॒भि॒ऽयुजः॑¦विषू᳚चीः¦आर्या᳚य¦विशः॑¦अव॑¦ता॒रीः॒¦दासीः᳚ ||

इन्द्र॑जा॒मय॑उ॒तयेऽजा᳚मयोऽर्वाची॒नासो᳚व॒नुषो᳚युयु॒ज्रे |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वमे᳚षांविथु॒राशवां᳚सिज॒हिवृष्ण्या᳚निकृणु॒हीपरा᳚चः॒(स्वाहा᳚) || 3 ||

इन्द्र॑¦जा॒मयः॑¦उ॒त¦ये¦अजा᳚मयः¦अ॒र्वा॒ची॒नासः॑¦व॒नुषः॑¦यु॒यु॒ज्रे |
त्व‌म्¦ए॒षा॒‌म्¦वि॒थु॒रा¦शवां᳚सि¦ज॒हि¦वृष्ण्या᳚नि¦कृ॒णु॒हि¦परा᳚चः ||

शूरो᳚वा॒शूरं᳚वनते॒शरी᳚रैस्तनू॒रुचा॒तरु॑षि॒यत्कृ॒ण्वैते᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तो॒केवा॒गोषु॒तन॑ये॒यद॒प्सुविक्रन्द॑सी,उ॒र्वरा᳚सु॒ब्रवै᳚ते॒(स्वाहा᳚) || 4 ||

शूरः॑¦वा॒¦शूर᳚‌म्¦व॒न॒ते॒¦शरी᳚रैः¦त॒नू॒ऽरुचा᳚¦तरु॑षि¦यत्¦कृ॒ण्वैते॒ इति॑ |
तो॒के¦वा॒¦गोषु॑¦तन॑ये¦यत्¦अ॒प्ऽसु¦वि¦क्रन्द॑सी॒ इति॑¦उ॒र्वरा᳚सु¦ब्रवै᳚ते॒ इति॑ ||

न॒हित्वा॒शूरो॒नतु॒रोनधृ॒ष्णुर्नत्वा᳚यो॒धोमन्य॑मानोयु॒योध॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒नकि॑ष्ट्वा॒प्रत्य॑स्त्येषां॒विश्वा᳚जा॒तान्य॒भ्य॑सि॒तानि॒(स्वाहा᳚) || 5 ||

न॒हि¦त्वा॒¦शूरः॑¦न¦तु॒रः¦न¦धृ॒ष्णुः¦न¦त्वा॒¦यो॒धः¦मन्य॑मानः¦यु॒योध॑ |
इन्द्र॑¦नकिः॑¦त्वा॒¦प्रति॑¦अ॒स्ति॒¦ए॒षा॒‌म्¦विश्वा᳚¦जा॒तानि॑¦अ॒भि¦अ॒सि॒¦तानि॑ ||

सप॑त्यतउ॒भयो᳚र्नृ॒म्णम॒योर्यदी᳚वे॒धसः॑समि॒थेहव᳚न्ते |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वृ॒त्रेवा᳚म॒होनृ॒वति॒क्षये᳚वा॒व्यच॑स्वन्ता॒यदि॑वितन्त॒सैते॒(स्वाहा᳚) || 6 || वर्ग:20

सः¦प॒त्य॒ते॒¦उ॒भयोः᳚¦नृ॒म्ण‌म्¦अ॒योः¦यदि॑¦वे॒धसः॑¦स॒‌म्ऽ‌इ॒थे¦हव᳚न्ते |
वृ॒त्रे¦वा॒¦म॒हः¦नृ॒ऽवति॑¦क्षये᳚¦वा॒¦व्यच॑स्वन्ता¦यदि॑¦वि॒त॒न्त॒सैते॒ इति॑ ||

अध॑स्मातेचर्ष॒णयो॒यदेजा॒निन्द्र॑त्रा॒तोतभ॑वावरू॒ता |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अ॒स्माका᳚सो॒येनृत॑मासो,अ॒र्यइन्द्र॑सू॒रयो᳚दधि॒रेपु॒रोनः॒(स्वाहा᳚) || 7 ||

अध॑¦स्म॒¦ते॒¦च॒र्ष॒णयः॑¦यत्¦एजा᳚न्¦इन्द्र॑¦त्रा॒ता¦उ॒त¦भ॒व॒¦व॒रू॒ता |
अ॒स्माका᳚सः¦ये¦नृऽत॑मासः¦अ॒र्यः¦इन्द्र॑¦सू॒रयः॑¦द॒धि॒रे¦पु॒रः¦नः॒ ||

अनु॑तेदायिम॒हइ᳚न्द्रि॒याय॑स॒त्राते॒विश्व॒मनु॑वृत्र॒हत्ये᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अनु॑क्ष॒त्रमनु॒सहो᳚यज॒त्रेन्द्र॑दे॒वेभि॒रनु॑तेनृ॒षह्ये॒(स्वाहा᳚) || 8 ||

अनु॑¦ते॒¦दा॒यि॒¦म॒हे¦इ॒न्द्रि॒याय॑¦स॒त्रा¦ते॒¦विश्व᳚‌म्¦अनु॑¦वृ॒त्र॒ऽहत्ये᳚ |
अनु॑¦क्ष॒त्र‌म्¦अनु॑¦सहः॑¦य॒ज॒त्र॒¦इन्द्र॑¦दे॒वेभिः॑¦अनु॑¦ते॒¦नृ॒ऽसह्ये᳚ ||

ए॒वानः॒स्पृधः॒सम॑जास॒मत्स्विन्द्र॑रार॒न्धिमि॑थ॒तीरदे᳚वीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वि॒द्याम॒वस्तो॒रव॑सागृ॒णन्तो᳚भ॒रद्वा᳚जा,उ॒तत॑इन्द्रनू॒नम्(स्वाहा᳚) || 9 ||

ए॒व¦नः॒¦स्पृधः॑¦स‌म्¦अ॒ज॒¦स॒मत्ऽसु॑¦इन्द्र॑¦र॒र॒न्धि¦मि॒थ॒तीः¦अदे᳚वीः |
वि॒द्याम॑¦वस्तोः᳚¦अव॑सा¦गृ॒णन्तः॑¦भ॒रत्ऽवा᳚जाः¦उ॒त¦ते॒¦इ॒न्द्र॒¦नू॒न‌म् ||

[105] श्रुधीनइत्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:6}{मंडल:6, सूक्त:26}{अनुवाक:3, सूक्त:3}
श्रु॒धीन॑इन्द्र॒ह्वया᳚मसित्वाम॒होवाज॑स्यसा॒तौवा᳚वृषा॒णाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

संयद्विशोऽय᳚न्त॒शूर॑साता,उ॒ग्रंनोऽवः॒पार्ये॒,अह᳚न्दाः॒(स्वाहा᳚) || 1 || वर्ग:21

श्रु॒धि¦नः॒¦इ॒न्द्र॒¦ह्वया᳚मसि¦त्वा॒¦म॒हः¦वाज॑स्य¦सा॒तौ¦व॒वृ॒षा॒णाः |
स‌म्¦यत्¦विशः॑¦अय᳚न्त¦शूर॑ऽसातौ¦उ॒ग्र‌म्¦नः॒¦अवः॑¦पार्ये᳚¦अह॑न्¦दाः॒ ||

त्वांवा॒जीह॑वतेवाजिने॒योम॒होवाज॑स्य॒गध्य॑स्यसा॒तौ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वांवृ॒त्रेष्वि᳚न्द्र॒सत्प॑तिं॒तरु॑त्रं॒त्वांच॑ष्टेमुष्टि॒हागोषु॒युध्य॒न्त्(स्वाहा᳚) || 2 ||

त्वा‌म्¦वा॒जी¦ह॒व॒ते॒¦वा॒जि॒ने॒यः¦म॒हः¦वाज॑स्य¦गध्य॑स्य¦सा॒तौ |
त्वा‌म्¦वृ॒त्रेषु॑¦इ॒न्द्र॒¦सत्ऽप॑ति‌म्¦तरु॑त्र‌म्¦त्वा‌म्¦च॒ष्टे॒¦मु॒ष्टि॒ऽहा¦गोषु॑¦युध्य॑न् ||

त्वंक॒विंचो᳚दयो॒ऽर्कसा᳚तौ॒त्वंकुत्सा᳚य॒शुष्णं᳚दा॒शुषे᳚वर्क् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वंशिरो᳚,अम॒र्मणः॒परा᳚हन्नतिथि॒ग्वाय॒शंस्यं᳚करि॒ष्यन्(स्वाहा᳚) || 3 ||

त्व‌म्¦क॒वि‌म्¦चो॒द॒यः॒¦अ॒र्कऽसा᳚तौ¦त्व‌म्¦कुत्सा᳚य¦शुष्ण᳚‌म्¦दा॒शुषे᳚¦व॒र्क् |
त्व‌म्¦शिरः॑¦अ॒म॒र्मणः॑¦परा᳚¦अ॒ह॒न्¦अ॒ति॒थि॒ऽग्वाय॑¦शंस्य᳚‌म्¦क॒रि॒ष्यन् ||

त्वंरथं॒प्रभ॑रोयो॒धमृ॒ष्वमावो॒युध्य᳚न्तंवृष॒भंदश॑द्युम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वंतुग्रं᳚वेत॒सवे॒सचा᳚ह॒न्त्वंतुजिं᳚गृ॒णन्त॑मिन्द्रतूतोः॒(स्वाहा᳚) || 4 ||

त्व‌म्¦रथ᳚‌म्¦प्र¦भ॒रः॒¦यो॒ध‌म्¦ऋ॒ष्व‌म्¦आवः॑¦युध्य᳚न्त‌म्¦वृ॒ष॒भ‌म्¦दश॑ऽद्यु‌म् |
त्व‌म्¦तुग्र᳚‌म्¦वे॒त॒सवे᳚¦सचा᳚¦अ॒ह॒न्¦त्व‌म्¦तुजि᳚‌म्¦गृ॒णन्त᳚‌म्¦इ॒न्द्र॒¦तू॒तो॒रिति॑ तूतोः ||

त्वंतदु॒क्थमि᳚न्द्रब॒र्हणा᳚कः॒प्रयच्छ॒तास॒हस्रा᳚शूर॒दर्षि॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अव॑गि॒रेर्दासं॒शम्ब॑रंह॒न्‌प्रावो॒दिवो᳚दासंचि॒त्राभि॑रू॒ती(स्वाहा᳚) || 5 ||

त्व‌म्¦तत्¦उ॒क्थ‌म्¦इ॒न्द्र॒¦ब॒र्हणा᳚¦क॒रिति॑ कः¦प्र¦य॒त्¦श॒ता¦स॒हस्रा᳚¦शू॒र॒¦दर्षि॑ |
अव॑¦गि॒रेः¦दास᳚‌म्¦शम्ब॑र‌म्¦ह॒न्¦प्र¦आ॒वः॒¦दिवः॑ऽदास‌म्¦चि॒त्राभिः॑¦ऊ॒ती ||

त्वंश्र॒द्धाभि᳚र्मन्दसा॒नःसोमै᳚र्द॒भीत॑ये॒चुमु॑रिमिन्द्रसिष्वप् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वंर॒जिंपिठी᳚नसेदश॒स्यन्ष॒ष्टिंस॒हस्रा॒शच्या॒सचा᳚ह॒‌न्(स्वाहा᳚) || 6 || वर्ग:22

त्व‌म्¦श्र॒द्धाभिः॑¦म॒न्द॒सा॒नः¦सोमैः᳚¦द॒भीत॑ये¦चुमु॑रि‌म्¦इ॒न्द्र॒¦सि॒स्व॒प् |
त्व‌म्¦र॒जि‌म्¦पिठी᳚नसे¦द॒श॒स्यन्¦ष॒ष्टि‌म्¦स॒हस्रा᳚¦शच्या᳚¦सचा᳚¦अ॒ह॒न् ||

अ॒हंच॒नतत्सू॒रिभि॑रानश्यां॒तव॒ज्याय॑इन्द्रसु॒म्नमोजः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वया॒यत्‌स्तव᳚न्तेसधवीरवी॒रास्त्रि॒वरू᳚थेन॒नहु॑षाशविष्ठ॒(स्वाहा᳚) || 7 ||

अ॒ह‌म्¦च॒न¦तत्¦सू॒रिऽभिः॑¦आ॒न॒श्या॒‌म्¦तव॑¦ज्यायः॑¦इ॒न्द्र॒¦सु॒म्न‌म्¦ओजः॑ |
त्वया᳚¦यत्¦स्तव᳚न्ते¦स॒ध॒ऽवी॒र॒¦वी॒राः¦त्रि॒ऽवरू᳚थेन¦नहु॑षा¦श॒वि॒ष्ठ॒ ||

व॒यंते᳚,अ॒स्यामि᳚न्द्रद्यु॒म्नहू᳚तौ॒सखा᳚यःस्याममहिन॒प्रेष्ठाः᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

प्रात॑र्दनिः,क्षत्र॒श्रीर॑स्तु॒श्रेष्ठो᳚घ॒नेवृ॒त्राणां᳚स॒नये॒धना᳚ना॒‌म्(स्वाहा᳚) || 8 ||

व॒य‌म्¦ते॒¦अ॒स्या‌म्¦इ॒न्द्र॒¦द्यु॒म्नऽहू᳚तौ¦सखा᳚यः¦स्या॒म॒¦म॒हि॒न॒¦प्रेष्ठाः᳚ |
प्रात॑र्दनिः¦क्ष॒त्र॒ऽश्रीः¦अ॒स्तु॒¦श्रेष्ठः॑¦घ॒ने¦वृ॒त्राणा᳚‌म्¦स॒नये᳚¦धना᳚ना‌म् ||

[106] किमस्यमदइत्यष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजरंद्र अंत्यायाश्चायमानोराजात्रिष्टुप् (चायमानस्यराज्ञोदानस्तुतिः) |{अष्टक:4, अध्याय:6}{मंडल:6, सूक्त:27}{अनुवाक:3, सूक्त:4}
किम॑स्य॒मदे॒किम्व॑स्यपी॒ताविन्द्रः॒किम॑स्यस॒ख्येच॑कार |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

रणा᳚वा॒येनि॒षदि॒किंते,अ॑स्यपु॒रावि॑विद्रे॒किमु॒नूत॑नासः॒(स्वाहा᳚) || 1 || वर्ग:23

कि‌म्¦अ॒स्य॒¦मदे᳚¦कि‌म्¦ऊँ॒ इति॑¦अ॒स्य॒¦पी॒तौ¦इन्द्रः॑¦कि‌म्¦अ॒स्य॒¦स॒ख्ये¦च॒का॒र॒ |
रणाः᳚¦वा॒¦ये¦नि॒ऽसदि॑¦कि‌म्¦ते¦अ॒स्य॒¦पु॒रा¦वि॒वि॒द्रे॒¦कि‌म्¦ऊँ॒ इति॑¦नूत॑नासः ||

सद॑स्य॒मदे॒सद्व॑स्यपी॒ताविन्द्रः॒सद॑स्यस॒ख्येच॑कार |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

रणा᳚वा॒येनि॒षदि॒सत्ते,अ॑स्यपु॒रावि॑विद्रे॒सदु॒नूत॑नासः॒(स्वाहा᳚) || 2 ||

सत्¦अ॒स्य॒¦मदे᳚¦सत्¦ऊँ॒ इति॑¦अ॒स्य॒¦पी॒तौ¦इन्द्रः॑¦सत्¦अ॒स्य॒¦स॒ख्ये¦च॒का॒र॒ |
रणाः᳚¦वा॒¦ये¦नि॒ऽसदि॑¦सत्¦ते¦अ॒स्य॒¦पु॒रा¦वि॒वि॒द्रे॒¦सत्¦ऊँ॒ इति॑¦नूत॑नासः ||

न॒हिनुते᳚महि॒मनः॑समस्य॒नम॑घवन्मघव॒त्‌त्वस्य॑वि॒द्म |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

नराध॑सोराधसो॒नूत॑न॒स्येन्द्र॒नकि॑र्ददृशइन्द्रि॒यंते॒(स्वाहा᳚) || 3 ||

न॒हि¦नु¦ते॒¦म॒हि॒मनः॑¦स॒म॒स्य॒¦न¦म॒घ॒ऽव॒न्¦म॒घ॒व॒त्ऽत्वस्य॑¦वि॒द्म |
न¦राध॑सःऽराधसः¦नूत॑नस्य¦इन्द्र॑¦नकिः॑¦द॒दृ॒शे॒¦इ॒न्द्रि॒य‌म्¦ते॒ ||

ए॒तत्‌त्यत्त॑इन्द्रि॒यम॑चेति॒येनाव॑धीर्व॒रशि॑खस्य॒शेषः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वज्र॑स्य॒यत्ते॒निह॑तस्य॒शुष्मा᳚त्स्व॒नाच्चि॑दिन्द्रपर॒मोद॒दार॒(स्वाहा᳚) || 4 ||

ए॒तत्¦त्यत्¦ते॒¦इ॒न्द्रि॒य‌म्¦अ॒चे॒ति॒¦येन॑¦अव॑धीः¦व॒रऽशि॑खस्य¦शेषः॑ |
वज्र॑स्य¦यत्¦ते॒¦निऽह॑तस्य¦शुष्मा᳚त्¦स्व॒नात्¦चि॒त्¦इ॒न्द्र॒¦प॒र॒मः¦द॒दार॑ ||

वधी॒दिन्द्रो᳚व॒रशि॑खस्य॒शेषो᳚ऽभ्याव॒र्तिने᳚चायमा॒नाय॒शिक्ष॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वृ॒चीव॑तो॒यद्ध॑रियू॒पीया᳚यां॒हन्‌पूर्वे॒,अर्धे᳚भि॒यसाप॑रो॒दर्त्(स्वाहा᳚) || 5 ||

वधी᳚त्¦इन्द्रः॑¦व॒रऽशि॑खस्य¦शेषः॑¦अ॒भि॒ऽआ॒व॒र्तिने᳚¦चा॒य॒मा॒नाय॑¦शिक्ष॑न् |
वृ॒चीव॑तः¦यत्¦ह॒रि॒ऽयू॒पीया᳚या‌म्¦हन्¦पूर्वे᳚¦अर्धे᳚¦भि॒यसा᳚¦अप॑रः¦दर्त् ||

त्रिं॒शच्छ॑तंव॒र्मिण॑इन्द्रसा॒कंय॒व्याव॑त्यांपुरुहूतश्रव॒स्या |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वृ॒चीव᳚न्तः॒शर॑वे॒पत्य॑मानाः॒पात्रा᳚भिन्दा॒नान्य॒र्थान्या᳚य॒‌न्(स्वाहा᳚) || 6 || वर्ग:24

त्रिं॒शत्ऽश॑त‌म्¦व॒र्मिणः॑¦इ॒न्द्र॒¦सा॒क‌म्¦य॒व्याऽव॑त्या‌म्¦पु॒रु॒ऽहू॒त॒¦श्र॒व॒स्या |
वृ॒चीव᳚न्तः¦शर॑वे¦पत्य॑मानाः¦पात्रा᳚¦भि॒न्दा॒नाः¦नि॒।आ॒र्थानि॑¦आ॒य॒न् ||

यस्य॒गावा᳚वरु॒षासू᳚यव॒स्यू,अ॒न्तरू॒षुचर॑तो॒रेरि॑हाणा |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ससृञ्ज॑यायतु॒र्वशं॒परा᳚दाद्वृ॒चीव॑तोदैववा॒ताय॒शिक्ष॒न्त्(स्वाहा᳚) || 7 ||

यस्य॑¦गावौ᳚¦अ॒रु॒षा¦सु॒य॒व॒स्यू इति॑ सु॒ऽय॒व॒स्यू¦अ॒न्तः¦ऊँ॒ इति॑¦सु¦चर॑तः¦रेरि॑हाणा |
सः¦सृंज॑याय¦तु॒र्वश᳚‌म्¦परा᳚¦अ॒दा॒त्¦वृ॒चीव॑तः¦दै॒व॒ऽवा॒ताय॑¦शिक्ष॑न् ||

द्व॒याँ,अ॑ग्नेर॒थिनो᳚विंश॒तिंगाव॒धूम॑तोम॒घवा॒मह्यं᳚स॒म्राट् |{बार्हस्पत्यो भरद्वाजः | चायमानोराजा | त्रिष्टुप्}

अ॒भ्या॒व॒र्तीचा᳚यमा॒नोद॑दातिदू॒णाशे॒यंदक्षि॑णापार्थ॒वाना॒‌म्(स्वाहा᳚) || 8 ||

द्व॒यान्¦अ॒ग्ने॒¦र॒थिनः॑¦विं॒श॒ति‌म्¦गाः¦व॒धूऽम॑तः¦म॒घऽवा᳚¦मह्य᳚‌म्¦स॒‌म्ऽराट् |
अ॒भि॒ऽआ॒व॒र्ती¦चा॒य॒मा॒नः¦द॒दा॒ति॒¦दुः॒ऽनाशा᳚¦इ॒य‌म्¦दक्षि॑णा¦पा॒र्थ॒वाना᳚‌म् ||

[107] आगावइत्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोगौस्त्रिष्टुप् (द्वितीयाया इंद्रश्चांत्यपादस्यच) द्वितीयाध्यास्तिस्रोजगत्योंत्यानुष्टुप् |{अष्टक:4, अध्याय:6}{मंडल:6, सूक्त:28}{अनुवाक:3, सूक्त:5}
आगावो᳚,अग्मन्नु॒तभ॒द्रम॑क्र॒न्त्सीद᳚न्तुगो॒ष्ठेर॒णय᳚न्त्व॒स्मे |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्}

प्र॒जाव॑तीःपुरु॒रूपा᳚,इ॒हस्यु॒रिन्द्रा᳚यपू॒र्वीरु॒षसो॒दुहा᳚नाः॒(स्वाहा᳚) || 1 || वर्ग:25

आ¦गावः॑¦अ॒ग्म॒न्¦उ॒त¦भ॒द्र‌म्¦अ॒क्र॒न्¦सीद᳚न्तु¦गो॒ऽस्थे¦र॒णय᳚न्तु¦अ॒स्मे इति॑ |
प्र॒जाऽव॑तीः¦पु॒रु॒ऽरूपाः᳚¦इ॒ह¦स्युः॒¦इन्द्रा᳚य¦पू॒र्वीः¦उ॒षसः॑¦दुहा᳚नाः ||

इन्द्रो॒यज्व॑नेपृण॒तेच॑शिक्ष॒त्युपेद्‌द॑दाति॒नस्वंमु॑षायति |{बार्हस्पत्यो भरद्वाजः | गाव इन्द्रो वा | जगती}

भूयो᳚भूयोर॒यिमिद॑स्यव॒र्धय॒न्नभि᳚न्नेखि॒ल्येनिद॑धातिदेव॒युम्(स्वाहा᳚) || 2 ||

इन्द्रः॑¦यज्व॑ने¦पृ॒ण॒ते¦च॒¦शि॒क्ष॒ति॒¦उप॑¦इत्¦द॒दा॒ति॒¦न¦स्व‌म्¦मु॒षा॒य॒ति॒ |
भूयः॑ऽभूयः¦र॒यि‌म्¦इत्¦अ॒स्य॒¦व॒र्धय॑न्¦अभि᳚न्ने¦खि॒ल्ये¦नि¦द॒धा॒ति॒¦दे॒व॒ऽयु‌म् ||

नतान॑शन्ति॒नद॑भाति॒तस्क॑रो॒नासा᳚मामि॒त्रोव्यथि॒राद॑धर्षति |{बार्हस्पत्यो भरद्वाजः | गावः | जगती}

दे॒वाँश्च॒याभि॒र्यज॑ते॒ददा᳚तिच॒ज्योगित्ताभिः॑सचते॒गोप॑तिःस॒ह(स्वाहा᳚) || 3 ||

न¦ताः¦न॒श॒न्ति॒¦न¦द॒भा॒ति॒¦तस्क॑रः¦न¦आ॒सा॒‌म्¦आ॒मि॒त्रः¦व्यथिः॑¦आ¦द॒ध॒र्ष॒ति॒ |
दे॒वान्¦च॒¦याभिः॑¦यज॑ते¦ददा᳚ति¦च॒¦ज्योक्¦इत्¦ताभिः॑¦स॒च॒ते॒¦गोऽप॑तिः¦स॒ह ||

नता,अर्वा᳚रे॒णुक॑काटो,अश्नुते॒नसं᳚स्कृत॒त्रमुप॑यन्ति॒ता,अ॒भि |{बार्हस्पत्यो भरद्वाजः | गावः | जगती}

उ॒रु॒गा॒यमभ॑यं॒तस्य॒ता,अनु॒गावो॒मर्त॑स्य॒विच॑रन्ति॒यज्व॑नः॒(स्वाहा᳚) || 4 ||

न¦ताः¦अर्वा᳚¦रे॒णुऽक॑काटः¦अ॒श्नु॒ते॒¦न¦सं॒स्कृ॒त॒ऽत्र‌म्¦उप॑¦य॒न्ति॒¦ताः¦अ॒भि |
उ॒रु॒ऽगा॒य‌म्¦अभ॑य‌म्¦तस्य॑¦ताः¦अनु॑¦गावः॑¦मर्त॑स्य¦वि¦च॒र॒न्ति॒¦यज्व॑नः ||

गावो॒भगो॒गाव॒इन्द्रो᳚मे,अच्छा॒न्गावः॒सोम॑स्यप्रथ॒मस्य॑भ॒क्षः |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्}

इ॒मायागावः॒सज॑नास॒इन्द्र॑इ॒च्छामीद्धृ॒दामन॑साचि॒दिन्द्र॒‌म्(स्वाहा᳚) || 5 ||

गावः॑¦भगः॑¦गावः॑¦इन्द्रः॑¦मे॒¦अ॒च्छा॒न्¦गावः॑¦सोम॑स्य¦प्र॒थ॒मस्य॑¦भ॒क्षः |
इ॒माः¦याः¦गावः॑¦सः¦ज॒ना॒सः॒¦इन्द्रः॑¦इ॒च्छामि॑¦इत्¦हृ॒दा¦मन॑सा¦चि॒त्¦इन्द्र᳚‌म् ||

यू॒यंगा᳚वोमेदयथाकृ॒शंचि॑दश्री॒रंचि॑त्‌कृणुथासु॒प्रती᳚कम् |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्}

भ॒द्रंगृ॒हंकृ॑णुथभद्रवाचोबृ॒हद्‌वो॒वय॑उच्यतेस॒भासु॒(स्वाहा᳚) || 6 ||

यू॒य‌म्¦गा॒वः॒¦मे॒द॒य॒थ॒¦कृ॒श‌म्¦चि॒त्¦अ॒श्री॒र‌म्¦चि॒त्¦कृ॒णु॒थ॒¦सु॒ऽप्रती᳚क‌म् |
भ॒द्र‌म्¦गृ॒ह‌म्¦कृ॒णु॒थ॒¦भ॒द्र॒ऽवा॒चः॒¦बृ॒हत्¦वः॒¦वयः॑¦उ॒च्य॒ते॒¦स॒भासु॑ ||

प्र॒जाव॑तीःसू॒यव॑संरि॒शन्तीः᳚शु॒द्धा,अ॒पःसु॑प्रपा॒णेपिब᳚न्तीः |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्}

मावः॑स्ते॒नई᳚शत॒माघशं᳚सः॒परि॑वोहे॒तीरु॒द्रस्य॑वृज्याः॒(स्वाहा᳚) || 7 ||

प्र॒जाऽव॑तीः¦सु॒ऽयव॑स‌म्¦रि॒शन्तीः᳚¦शु॒द्धाः¦अ॒पः¦सु॒ऽप्र॒पा॒ने¦पिब᳚न्तीः |
मा¦वः॒¦स्ते॒नः¦ई॒श॒त॒¦मा¦अ॒घऽशं᳚सः¦परि॑¦वः॒¦हे॒तिः¦रु॒द्रस्य॑¦वृ॒ज्याः॒ ||

उपे॒दमु॑प॒पर्च॑नमा॒सुगोषूप॑पृच्यताम् |{बार्हस्पत्यो भरद्वाजः | गाव इन्द्रो वा | अनुष्टुप्}

उप॑ऋष॒भस्य॒रेत॒स्युपे᳚न्द्र॒तव॑वी॒र्ये॒३॑(ए॒)(स्वाहा᳚) || 8 ||

उप॑¦इ॒द‌म्¦उ॒प॒ऽपर्च॑न‌म्¦आ॒सु¦गोषु॑¦उप॑¦पृ॒च्य॒ता॒‌म् | उप॑¦ऋ॒ष॒भस्य॑¦रेत॑सि¦उप॑¦इ॒न्द्र॒¦तव॑¦वी॒र्ये᳚ ||

[108] इंद्रंवइति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:29}{अनुवाक:3, सूक्त:6}
इन्द्रं᳚वो॒नरः॑स॒ख्याय॑सेपुर्म॒होयन्तः॑सुम॒तये᳚चका॒नाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

म॒होहिदा॒तावज्र॑हस्तो॒,अस्ति॑म॒हामु॑र॒ण्वमव॑सेयजध्व॒‌म्(स्वाहा᳚) || 1 || वर्ग:1

इन्द्र᳚‌म्¦वः॒¦नरः॑¦स॒ख्याय॑¦से॒पुः॒¦म॒हः¦यन्तः॑¦सु॒ऽम॒तये᳚¦च॒का॒नाः |
म॒हः¦हि¦दा॒ता¦वज्र॑ऽहस्तः¦अस्ति॑¦म॒हा‌म्¦ऊँ॒ इति॑¦र॒ण्व‌म्¦अव॑से¦य॒ज॒ध्व॒‌म् ||

आयस्मि॒न्हस्ते॒नर्या᳚मिमि॒क्षुरारथे᳚हिर॒ण्यये᳚रथे॒ष्ठाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

आर॒श्मयो॒गभ॑स्त्योःस्थू॒रयो॒राध्व॒न्नश्वा᳚सो॒वृष॑णोयुजा॒नाः(स्वाहा᳚) || 2 ||

आ¦यस्मि॑न्¦हस्ते᳚¦नर्याः᳚¦मि॒मि॒क्षुः¦आ¦रथे᳚¦हि॒र॒ण्यये᳚¦र॒थे॒ऽस्थाः |
आ¦र॒श्मयः॑¦गभ॑स्त्योः¦स्थू॒रयोः᳚¦आ¦अध्व॑न्¦अश्वा᳚सः¦वृष॑णः¦यु॒जा॒नाः ||

श्रि॒येते॒पादा॒दुव॒आमि॑मिक्षुर्धृ॒ष्णुर्व॒ज्रीशव॑सा॒दक्षि॑णावान् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वसा᳚नो॒,अत्कं᳚सुर॒भिंदृ॒शेकंस्व१॑(अ॒)र्णनृ॑तविषि॒रोब॑भूथ॒(स्वाहा᳚) || 3 ||

श्रि॒ये¦ते॒¦पादा᳚¦दुवः॑¦आ¦मि॒मि॒क्षुः॒¦धृ॒ष्णुः¦व॒ज्री¦शव॑सा¦दक्षि॑णऽवान् |
वसा᳚नः¦अत्क᳚‌म्¦सु॒र॒भि‌म्¦दृ॒शे¦क‌म्¦स्वः॑¦न¦नृ॒तो॒ इति॑¦इ॒षि॒रः¦ब॒भू॒थ॒ ||

ससोम॒आमि॑श्लतमःसु॒तोभू॒द्यस्मि᳚न्‌प॒क्तिःप॒च्यते॒सन्ति॑धा॒नाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

इन्द्रं॒नरः॑स्तु॒वन्तो᳚ब्रह्मका॒रा,उ॒क्थाशंस᳚न्तोदे॒ववा᳚ततमाः॒(स्वाहा᳚) || 4 ||

सः¦सोमः॑¦आमि॑श्लऽतमः¦सु॒तः¦भू॒त्¦यस्मि॑न्¦प॒क्तिः¦प॒च्यते᳚¦सन्ति॑¦धा॒नाः |
इन्द्र᳚‌म्¦नरः॑¦स्तु॒वन्तः॑¦ब्र॒ह्म॒ऽका॒राः¦उ॒क्था¦शंस᳚न्तः¦दे॒ववा᳚तऽतमाः ||

नते॒,अन्तः॒शव॑सोधाय्य॒स्यवितुबा᳚बधे॒रोद॑सीमहि॒त्वा |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

आतासू॒रिःपृ॑णति॒तूतु॑जानोयू॒थेवा॒प्सुस॒मीज॑मानऊ॒ती(स्वाहा᳚) || 5 ||

न¦ते॒¦अन्तः॑¦शव॑सः¦धा॒यि॒¦अ॒स्य¦वि¦तु¦बा॒ब॒धे॒¦रोद॑सी॒ इति॑¦म॒हि॒ऽत्वा |
आ¦ता¦सू॒रिः¦पृ॒ण॒ति॒¦तूतु॑जानः¦यू॒थाऽ‌इ᳚व¦अ॒प्ऽसु¦स॒‌म्ऽईज॑मानः¦ऊ॒ती ||

ए॒वेदिन्द्रः॑सु॒हव॑ऋ॒ष्वो,अ॑स्तू॒ती,अनू᳚तीहिरिशि॒प्रःसत्वा᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ए॒वाहिजा॒तो,अस॑मात्योजाःपु॒रूच॑वृ॒त्राह॑नति॒निदस्यू॒न्त्(स्वाहा᳚) || 6 ||

ए॒व¦इत्¦इन्द्रः॑¦सु॒ऽहवः॑¦ऋ॒ष्वः¦अ॒स्तु॒¦ऊ॒ती¦अनू᳚ती¦हि॒रि॒ऽशि॒प्रः¦सत्वा᳚ |
ए॒व¦हि¦जा॒तः¦अस॑मातिऽओजाः¦पु॒रु¦च॒¦वृ॒त्रा¦ह॒न॒ति॒¦नि¦दस्यू॑न् ||

[109] भूयइति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:30}{अनुवाक:3, सूक्त:7}
भूय॒इद्वा᳚वृधेवी॒र्या᳚यँ॒,एको᳚,अजु॒र्योद॑यते॒वसू᳚नि |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

प्ररि॑रिचेदि॒वइन्द्रः॑पृथि॒व्या,अ॒र्धमिद॑स्य॒प्रति॒रोद॑सी,उ॒भे(स्वाहा᳚) || 1 || वर्ग:2

भूयः॑¦इत्¦व॒वृ॒धे॒¦वी॒र्या᳚य¦एकः॑¦अ॒जु॒र्यः¦द॒य॒ते॒¦वसू᳚नि |
प्र¦रि॒रि॒चे॒¦दि॒वः¦इन्द्रः॑¦पृ॒थि॒व्याः¦अ॒र्ध‌म्¦इत्¦अ॒स्य॒¦प्रति॑¦रोद॑सी॒ इति॑¦उ॒भे इति॑ ||

अधा᳚मन्येबृ॒हद॑सु॒र्य॑मस्य॒यानि॑दा॒धार॒नकि॒रामि॑नाति |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

दि॒वेदि॑वे॒सूर्यो᳚दर्श॒तोभू॒द्विसद्मा᳚न्युर्वि॒यासु॒क्रतु॑र्धा॒‌त्(स्वाहा᳚) || 2 ||

अध॑¦म॒न्ये॒¦बृ॒हत्¦अ॒सु॒र्य᳚‌म्¦अ॒स्य॒¦यानि॑¦दा॒धार॑¦नकिः॑¦आ¦मि॒ना॒ति॒ |
दि॒वेऽदि॑वे¦सूर्यः॑¦द॒र्श॒तः¦भू॒त्¦वि¦सद्मा᳚नि¦उ॒र्वि॒या¦सु॒ऽक्रतुः॑¦धा॒त् ||

अ॒द्याचि॒न्नूचि॒त्तदपो᳚न॒दीनां॒यदा᳚भ्यो॒,अर॑दोगा॒तुमि᳚न्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

निपर्व॑ता,अद्म॒सदो॒नसे᳚दु॒स्त्वया᳚दृ॒ळ्हानि॑सुक्रतो॒रजां᳚सि॒(स्वाहा᳚) || 3 ||

अ॒द्य¦चि॒त्¦नु¦चि॒त्¦तत्¦अपः॑¦न॒दीना᳚‌म्¦यत्¦आ॒भ्यः॒¦अर॑दः¦गा॒तु‌म्¦इ॒न्द्र॒ |
नि¦पर्व॑ताः¦अ॒द्म॒ऽसदः॑¦न¦से॒दुः॒¦त्वया᳚¦दृ॒ळ्हानि॑¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो¦रजां᳚सि ||

स॒त्यमित्तन्नत्वावाँ᳚,अ॒न्यो,अ॒स्तीन्द्र॑दे॒वोनमर्त्यो॒ज्याया॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अह॒न्नहिं᳚परि॒शया᳚न॒मर्णोऽवा᳚सृजो,अ॒पो,अच्छा᳚समु॒द्रम्(स्वाहा᳚) || 4 ||

स॒त्य‌म्¦इत्¦तत्¦न¦त्वाऽवा᳚न्¦अ॒न्यः¦अ॒स्ति॒¦इन्द्र॑¦दे॒वः¦न¦मर्त्यः॑¦ज्याया॑न् |
अह॑न्¦अहि᳚‌म्¦प॒रि॒ऽशया᳚न‌म्¦अर्णः॑¦अव॑¦अ॒सृ॒जः॒¦अ॒पः¦अच्छ॑¦स॒मु॒द्र‌म् ||

त्वम॒पोविदुरो॒विषू᳚ची॒रिन्द्र॑दृ॒ळ्हम॑रुजः॒पर्व॑तस्य |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

राजा᳚भवो॒जग॑तश्चर्षणी॒नांसा॒कंसूर्यं᳚ज॒नय॒न्द्यामु॒षास॒‌म्(स्वाहा᳚) || 5 ||

त्व‌म्¦अ॒पः¦वि¦दुरः॑¦विषू᳚चीः¦इन्द्र॑¦दृ॒ळ्ह‌म्¦अ॒रु॒जः॒¦पर्व॑तस्य |
राजा᳚¦अ॒भ॒वः॒¦जग॑तः¦च॒र्ष॒णी॒ना‌म्¦सा॒क‌म्¦सूर्य᳚‌म्¦ज॒नय॑न्¦द्या‌म्¦उ॒षस᳚‌म् ||

[110] अभूरेकइति पंचर्चस्य सूक्तस्य भारद्वाजः सुहोत्रइंद्रस्त्रिष्टुप् चतुर्थीशक्वरी (सुहोत्रः शुनहोत्रोनरो गर्गऋजिश्वाइत्येते ऋषयोबृहस्पतेः पौत्राउतदौष्षंतेर्भरतस्य पौत्रा इति विषयेइतिहासः श्रूयते) |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:31}{अनुवाक:3, सूक्त:8}
अभू॒रेको᳚रयिपतेरयी॒णामाहस्त॑योरधिथा,इन्द्रकृ॒ष्टीः |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

वितो॒के,अ॒प्सुतन॑येच॒सूरेऽवो᳚चन्तचर्ष॒णयो॒विवा᳚चः॒(स्वाहा᳚) || 1 || वर्ग:3

अभूः᳚¦एकः॑¦र॒यि॒ऽप॒ते॒¦र॒यी॒णा‌म्¦आ¦हस्त॑योः¦अ॒धि॒थाः॒¦इ॒न्द्र॒¦कृ॒ष्टीः |
वि¦तो॒के¦अ॒प्ऽसु¦तन॑ये¦च॒¦सूरे᳚¦अवो᳚चन्त¦च॒र्ष॒णयः॑¦विऽवा᳚चः ||

त्वद्भि॒येन्द्र॒पार्थि॑वानि॒विश्वाच्यु॑ताचिच्च्यावयन्ते॒रजां᳚सि |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

द्यावा॒क्षामा॒पर्व॑तासो॒वना᳚नि॒विश्वं᳚दृ॒ळ्हंभ॑यते॒,अज्म॒न्नाते॒(स्वाहा᳚) || 2 ||

त्वत्¦भि॒या¦इ॒न्द्र॒¦पार्थि॑वानि¦विश्वा᳚¦अच्यु॑ता¦चि॒त्¦च्य॒व॒य॒न्ते॒¦रजां᳚सि |
द्यावा॒क्षामा᳚¦पर्व॑तासः¦वना᳚नि¦विश्व᳚‌म्¦दृ॒ळ्ह‌म्¦भ॒य॒ते॒¦अज्म॑न्¦आ¦ते॒ ||

त्वंकुत्से᳚ना॒भिशुष्ण॑मिन्द्रा॒शुषं᳚युध्य॒कुय॑वं॒गवि॑ष्टौ |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

दश॑प्रपि॒त्वे,अध॒सूर्य॑स्यमुषा॒यश्च॒क्रमवि॑वे॒रपां᳚सि॒(स्वाहा᳚) || 3 ||

त्व‌म्¦कुत्से᳚न¦अ॒भि¦शुष्ण᳚‌म्¦इ॒न्द्र॒¦अ॒शुष᳚‌म्¦यु॒ध्य॒¦कुय॑व‌म्¦गोऽ‌इ᳚ष्टौ |
दश॑¦प्र॒ऽपि॒त्वे¦अध॑¦सूर्य॑स्य¦मु॒षा॒यः¦च॒क्र‌म्¦अवि॑वेः¦रपां᳚सि ||

त्वंश॒तान्यव॒शम्ब॑रस्य॒पुरो᳚जघन्थाप्र॒तीनि॒दस्योः᳚ |{भारद्वाजः सुहोत्रः | इन्द्रः | शक्वरी}

अशि॑क्षो॒यत्र॒शच्या᳚शचीवो॒दिवो᳚दासायसुन्व॒तेसु॑तक्रेभ॒रद्वा᳚जायगृण॒तेवसू᳚नि॒(स्वाहा᳚) || 4 ||

त्व‌म्¦श॒तानि॑¦अव॑¦शम्ब॑रस्य¦पुरः॑¦ज॒घ॒न्थ॒¦अ॒प्र॒तीनि॑¦दस्योः᳚ |
अशि॑क्षः¦यत्र॑¦शच्या᳚¦श॒ची॒ऽवः॒¦दिवः॑ऽदासाय¦सु॒न्व॒ते¦सु॒त॒ऽक्रे॒¦भ॒रत्ऽवा᳚जाय¦गृ॒ण॒ते¦वसू᳚नि ||

सस॑त्यसत्वन्मह॒तेरणा᳚य॒रथ॒माति॑ष्ठतुविनृम्णभी॒मम् |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

या॒हिप्र॑पथि॒न्नव॒सोप॑म॒द्रिक्प्रच॑श्रुतश्रावयचर्ष॒णिभ्यः॒(स्वाहा᳚) || 5 ||

सः¦स॒त्य॒ऽस॒त्व॒न्¦म॒ह॒ते¦रणा᳚य¦रथ᳚‌म्¦आ¦ति॒ष्ठ॒¦तु॒वि॒ऽनृ॒म्ण॒¦भी॒म‌म् |
या॒हि¦प्र॒ऽप॒थि॒न्¦अव॑सा¦उप॑¦म॒द्रिक्¦प्र¦च॒¦श्रु॒त॒¦श्र॒व॒य॒¦च॒र्ष॒णिऽभ्यः॑ ||

[111] अपूर्व्येति पंचर्चस्य सूक्तस्य भारद्वाजः सुहोत्रइंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:32}{अनुवाक:3, सूक्त:9}
अपू᳚र्व्यापुरु॒तमा᳚न्यस्मैम॒हेवी॒राय॑त॒वसे᳚तु॒राय॑ |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

वि॒र॒प्शिने᳚व॒ज्रिणे॒शंत॑मानि॒वचां᳚स्या॒सास्थवि॑रायतक्ष॒‌म्(स्वाहा᳚) || 1 || वर्ग:4

अपू᳚र्व्या¦पु॒रु॒ऽतमा᳚नि¦अ॒स्मै॒¦म॒हे¦वी॒राय॑¦त॒वसे᳚¦तु॒राय॑ |
वि॒ऽर॒प्शिने᳚¦व॒ज्रिणे᳚¦श‌म्ऽत॑मानि¦वचां᳚सि¦आ॒सा¦स्थवि॑राय¦त॒क्ष॒‌म् ||

समा॒तरा॒सूर्ये᳚णाकवी॒नामवा᳚सयद्रु॒जदद्रिं᳚गृणा॒नः |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

स्वा॒धीभि॒रृक्व॑भिर्वावशा॒नउदु॒स्रिया᳚णामसृजन्नि॒दान॒‌म्(स्वाहा᳚) || 2 ||

सः¦मा॒तरा᳚¦सूर्ये᳚ण¦क॒वी॒ना‌म्¦अवा᳚सयत्¦रु॒जत्¦अद्रि᳚‌म्¦गृ॒णा॒नः |
सु॒ऽआ॒धीभिः॑¦ऋक्व॑ऽभिः¦वा॒व॒शा॒नः¦उत्¦उ॒स्रिया᳚णा‌म्¦अ॒सृ॒ज॒त्¦नि॒ऽदान᳚‌म् ||

सवह्नि॑भि॒रृक्व॑भि॒र्गोषु॒शश्व᳚न्मि॒तज्ञु॑भिःपुरु॒कृत्वा᳚जिगाय |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

पुरः॑पुरो॒हासखि॑भिःसखी॒यन्दृ॒ळ्हारु॑रोजक॒विभिः॑क॒विःसन्(स्वाहा᳚) || 3 ||

सः¦वह्नि॑ऽभिः¦ऋक्व॑ऽभिः¦गोषु॑¦शश्व॑त्¦मि॒तज्ञु॑ऽभिः¦पु॒रु॒ऽकृत्वा᳚¦जि॒गा॒य॒ |
पुरः॑¦पु॒रः॒ऽहा¦सखि॑ऽभिः¦स॒खि॒ऽयन्¦दृ॒ळ्हाः¦रु॒रो॒ज॒¦क॒विऽभिः॑¦क॒विः¦सन् ||

सनी॒व्या᳚भिर्जरि॒तार॒मच्छा᳚म॒होवाजे᳚भिर्म॒हद्भि॑श्च॒शुष्मैः᳚ |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

पु॒रु॒वीरा᳚भिर्वृषभक्षिती॒नामागि᳚र्वणःसुवि॒ताय॒प्रया᳚हि॒(स्वाहा᳚) || 4 ||

सः¦नी॒व्या᳚भिः¦ज॒रि॒तार᳚‌म्¦अच्छ॑¦म॒हः¦वाजे᳚भिः¦म॒हत्ऽभिः॑¦च॒¦शुष्मैः᳚ |
पु॒रु॒ऽवीरा᳚भिः¦वृ॒ष॒भ॒¦क्षि॒ती॒ना‌म्¦आ¦गि॒र्व॒णः॒¦सु॒वि॒ताय॑¦प्र¦या॒हि॒ ||

ससर्गे᳚ण॒शव॑सात॒क्तो,अत्यै᳚र॒पइन्द्रो᳚दक्षिण॒तस्तु॑रा॒षाट् |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

इ॒त्थासृ॑जा॒ना,अन॑पावृ॒दर्थं᳚दि॒वेदि॑वेविविषुरप्रमृ॒ष्यम्(स्वाहा᳚) || 5 ||

सः¦सर्गे᳚ण¦शव॑सा¦त॒क्तः¦अत्यैः᳚¦अ॒पः¦इन्द्रः॑¦द॒क्षि॒ण॒तः¦तु॒रा॒षाट् |
इ॒त्था¦सृ॒जा॒नाः¦अन॑पऽवृत्¦अर्थ᳚‌म्¦दि॒वेऽदि॑वे¦वि॒वि॒षुः॒¦अ॒प्र॒ऽमृ॒ष्य‌म् ||

[112] यओजिष्ठइति पंचर्चस्य सूक्तस्य भारद्वाजः शुनहोत्र इंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:33}{अनुवाक:3, सूक्त:10}
यओजि॑ष्ठइन्द्र॒तंसुनो᳚दा॒मदो᳚वृषन्‌त्स्वभि॒ष्टिर्दास्वा॑न् |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

सौव॑श्व्यं॒योव॒नव॒त्स्वश्वो᳚वृ॒त्रास॒मत्सु॑सा॒सह॑द॒मित्रा॒न्त्(स्वाहा᳚) || 1 || वर्ग:5

यः¦ओजि॑ष्ठः¦इ॒न्द्र॒¦त‌म्¦सु¦नः॒¦दाः॒¦मदः॑¦वृ॒ष॒न्¦सु॒।आ॒भि॒ष्टिः¦दास्वा॑न् |
सौव॑श्व्य‌म्¦यः¦व॒नव॑त्¦सु॒।आश्वः॑¦वृ॒त्रा¦स॒मत्ऽसु॑¦स॒सह॑त्¦अ॒मित्रा॑न् ||

त्वांही॒३॑(ई॒)न्द्राव॑से॒विवा᳚चो॒हव᳚न्तेचर्ष॒णयः॒शूर॑सातौ |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

त्वंविप्रे᳚भि॒र्विप॒णीँर॑शाय॒स्त्वोत॒इत्सनि॑ता॒वाज॒मर्वा॒(स्वाहा᳚) || 2 ||

त्वा‌म्¦हि¦इ॒न्द्र॒¦अव॑से¦विऽवा᳚चः¦हव᳚न्ते¦च॒र्ष॒णयः॑¦शूर॑ऽसातौ |
त्व‌म्¦विप्रे᳚भिः¦वि¦प॒णीन्¦अ॒शा॒यः॒¦त्वाऽऊ᳚तः¦इत्¦सनि॑ता¦वाज᳚‌म्¦अर्वा᳚ ||

त्वंताँ,इ᳚न्द्रो॒भयाँ᳚,अ॒मित्रा॒न्दासा᳚वृ॒त्राण्यार्या᳚चशूर |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

वधी॒र्वने᳚व॒सुधि॑तेभि॒रत्कै॒रापृ॒त्सुद॑र्षिनृ॒णांनृ॑तम॒(स्वाहा᳚) || 3 ||

त्व‌म्¦तान्¦इ॒न्द्र॒¦उ॒भया᳚न्¦अ॒मित्रा᳚न्¦दासा᳚¦वृ॒त्राणि॑¦आर्या᳚¦च॒¦शू॒र॒ |
वधीः᳚¦वना᳚ऽ‌इव¦सुऽधि॑तेभिः¦अत्कैः᳚¦आ¦पृ॒त्ऽसु¦द॒र्षि॒¦नृ॒णा‌म्¦नृ॒ऽत॒म॒ ||

सत्वंन॑इ॒न्द्राक॑वाभिरू॒तीसखा᳚वि॒श्वायु॑रवि॒तावृ॒धेभूः᳚ |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

स्व॑र्षाता॒यद्ध्वया᳚मसित्वा॒युध्य᳚न्तोने॒मधि॑तापृ॒त्सुशू᳚र॒(स्वाहा᳚) || 4 ||

सः¦त्व‌म्¦नः॒¦इ॒न्द्र॒¦अक॑वाभिः¦ऊ॒ती¦सखा᳚¦वि॒श्वऽआ᳚युः¦अ॒वि॒ता¦वृ॒धे¦भूः॒ |
स्वः॑ऽसाता¦यत्¦ह्वया᳚मसि¦त्वा॒¦युध्य᳚न्तः¦ने॒मऽधि॑ता¦पृ॒त्ऽसु¦शू॒र॒ ||

नू॒नंन॑इन्द्राप॒राय॑चस्या॒भवा᳚मृळी॒कउ॒तनो᳚,अ॒भिष्टौ᳚ |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

इ॒त्थागृ॒णन्तो᳚म॒हिन॑स्य॒शर्म᳚न्दि॒विष्या᳚म॒पार्ये᳚गो॒षत॑माः॒(स्वाहा᳚) || 5 ||

नू॒न‌म्¦नः॒¦इ॒न्द्र॒¦अ॒प॒राय॑¦च॒¦स्याः॒¦भव॑¦मृ॒ळी॒कः¦उ॒त¦नः॒¦अ॒भिष्टौ᳚ |
इ॒त्था¦गृ॒णन्तः॑¦म॒हिन॑स्य¦शर्म॑न्¦दि॒वि¦स्या॒म॒¦पार्ये᳚¦गो॒सऽत॑माः ||

[113] संचत्वइति पंचर्चस्य सूक्तस्य भारद्वाजः शुनहोत्र-इंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:34}{अनुवाक:3, सूक्त:11}
संच॒त्वेज॒ग्मुर्गिर॑इन्द्रपू॒र्वीर्विच॒त्वद्य᳚न्तिवि॒भ्वो᳚मनी॒षाः |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

पु॒रानू॒नंच॑स्तु॒तय॒ऋषी᳚णांपस्पृ॒ध्रइन्द्रे॒,अध्यु॑क्था॒र्का(स्वाहा᳚) || 1 || वर्ग:6

स‌म्¦च॒¦त्वे इति॑¦ज॒ग्मुः¦गिरः॑¦इ॒न्द्र॒¦पू॒र्वीः¦वि¦च॒¦त्वत्¦य॒न्ति॒¦वि॒ऽभ्वः॑¦म॒नी॒षाः |
पु॒रा¦नू॒न‌म्¦च॒¦स्तु॒तयः॑¦ऋषी᳚णा‌म्¦प॒स्पृ॒ध्रे¦इन्द्रे᳚¦अधि॑¦उ॒क्थ॒।आ॒र्का ||

पु॒रु॒हू॒तोयःपु॑रुगू॒र्तऋभ्वाँ॒,एकः॑पुरुप्रश॒स्तो,अस्ति॑य॒ज्ञैः |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

रथो॒नम॒हेशव॑सेयुजा॒नो॒३॑(ओ॒)ऽस्माभि॒रिन्द्रो᳚,अनु॒माद्यो᳚भू॒‌त्(स्वाहा᳚) || 2 ||

पु॒रु॒ऽहू॒तः¦यः¦पु॒रु॒ऽगू॒र्तः¦ऋभ्वा᳚¦एकः॑¦पु॒रु॒ऽप्र॒श॒स्तः¦अस्ति॑¦य॒ज्ञैः |
रथः॑¦न¦म॒हे¦शव॑से¦यु॒जा॒नः¦अ॒स्माभिः॑¦इन्द्रः॑¦अ॒नु॒ऽमाद्यः॑¦भू॒त् ||

नयंहिंस᳚न्तिधी॒तयो॒नवाणी॒रिन्द्रं॒नक्ष॒न्तीद॒भिव॒र्धय᳚न्तीः |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

यदि॑स्तो॒तारः॑श॒तंयत्स॒हस्रं᳚गृ॒णन्ति॒गिर्व॑णसं॒शंतद॑स्मै॒(स्वाहा᳚) || 3 ||

न¦य‌म्¦हिंस᳚न्ति¦धी॒तयः॑¦न¦वाणीः᳚¦इन्द्र᳚‌म्¦नक्ष᳚न्ति¦इत्¦अ॒भि¦व॒र्धय᳚न्तीः |
यदि॑¦स्तो॒तारः॑¦श॒त‌म्¦यत्¦स॒हस्र᳚‌म्¦गृ॒णन्ति॑¦गिर्व॑णस‌म्¦श‌म्¦तत्¦अ॒स्मै॒ ||

अस्मा᳚,ए॒तद्दि॒व्य१॑(अ॒)र्चेव॑मा॒सामि॑मि॒क्षइन्द्रे॒न्य॑यामि॒सोमः॑ |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

जनं॒नधन्व᳚न्न॒भिसंयदापः॑स॒त्रावा᳚वृधु॒र्हव॑नानिय॒ज्ञैः॒(स्वाहा᳚) || 4 ||

अस्मै᳚¦ए॒तत्¦दि॒वि¦अ॒र्चाऽ‌इ᳚व¦मा॒सा¦मि॒मि॒क्षः¦इन्द्रे᳚¦नि¦अ॒या॒मि॒¦सोमः॑ |
जन᳚‌म्¦न¦धन्व॑न्¦अ॒भि¦स‌म्¦यत्¦आपः॑¦स॒त्रा¦व॒वृ॒धुः॒¦हव॑नानि¦य॒ज्ञैः ||

अस्मा᳚,ए॒तन्मह्या᳚ङ्गू॒षम॑स्मा॒,इन्द्रा᳚यस्तो॒त्रंम॒तिभि॑रवाचि |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

अस॒द्यथा᳚मह॒तिवृ॑त्र॒तूर्य॒इन्द्रो᳚वि॒श्वायु॑रवि॒तावृ॒धश्च॒(स्वाहा᳚) || 5 ||

अस्मै᳚¦ए॒तत्¦महि॑¦आ॒ङ्गू॒ष‌म्¦अ॒स्मै॒¦इन्द्रा᳚य¦स्तो॒त्र‌म्¦म॒तिऽभिः॑¦अ॒वा॒चि॒ |
अस॑त्¦यथा᳚¦म॒ह॒ति¦वृ॒त्र॒ऽतूर्ये᳚¦इन्द्रः॑¦वि॒श्वऽआ᳚युः¦अ॒वि॒ता¦वृ॒धः॒¦च॒ ||

[114] कदाभुवन्निति पंचर्चस्य सूक्तस्य भारद्वाजोनर इंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:35}{अनुवाक:3, सूक्त:12}
क॒दाभु॑व॒न्‌रथ॑क्षयाणि॒ब्रह्म॑क॒दास्तो॒त्रेस॑हस्रपो॒ष्यं᳚दाः |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

क॒दास्तोमं᳚वासयोऽस्यरा॒याक॒दाधियः॑करसि॒वाज॑रत्नाः॒(स्वाहा᳚) || 1 || वर्ग:7

क॒दा¦भु॒व॒न्¦रथ॑ऽक्षयाणि¦ब्रह्म॑¦क॒दा¦स्तो॒त्रे¦स॒ह॒स्र॒ऽपो॒ष्य᳚‌म्¦दाः॒ |
क॒दा¦स्तोम᳚‌म्¦वा॒स॒यः॒¦अ॒स्य॒¦रा॒या¦क॒दा¦धियः॑¦क॒र॒सि॒¦वाज॑ऽरत्नाः ||

कर्हि॑स्वि॒त्तदि᳚न्द्र॒यन्नृभि॒र्नॄन्वी॒रैर्वी॒रान्नी॒ळया᳚से॒जया॒जीन् |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

त्रि॒धातु॒गा,अधि॑जयासि॒गोष्विन्द्र॑द्यु॒म्नंस्व᳚र्वद्धेह्य॒स्मे(स्वाहा᳚) || 2 ||

कर्हि॑¦स्वि॒त्¦तत्¦इ॒न्द्र॒¦यत्¦नृऽभिः॑¦नॄन्¦वी॒रैः¦वी॒रान्¦नी॒ळया᳚से¦जय॑¦आ॒जीन् |
त्रि॒ऽधातु॑¦गाः¦अधि॑¦ज॒या॒सि॒¦गोषु॑¦इन्द्र॑¦द्यु॒म्न‌म्¦स्वः॑ऽवत्¦धे॒हि॒¦अ॒स्मे इति॑ ||

कर्हि॑स्वि॒त्तदि᳚न्द्र॒यज्ज॑रि॒त्रेवि॒श्वप्सु॒ब्रह्म॑कृ॒णवः॑शविष्ठ |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

क॒दाधियो॒ननि॒युतो᳚युवासेक॒दागोम॑घा॒हव॑नानिगच्छाः॒(स्वाहा᳚) || 3 ||

कर्हि॑¦स्वि॒त्¦तत्¦इ॒न्द्र॒¦यत्¦ज॒रि॒त्रे¦वि॒श्वऽप्सु॑¦ब्रह्म॑¦कृ॒णवः॑¦श॒वि॒ष्ठ॒ |
क॒दा¦धियः॑¦न¦नि॒ऽयुतः॑¦यु॒वा॒से॒¦क॒दा¦गोऽम॑घा¦हव॑नानि¦ग॒च्छाः॒ ||

सगोम॑घाजरि॒त्रे,अश्व॑श्चन्द्रा॒वाज॑श्रवसो॒,अधि॑धेहि॒पृक्षः॑ |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

पी॒पि॒हीषः॑सु॒दुघा᳚मिन्द्रधे॒नुंभ॒रद्वा᳚जेषुसु॒रुचो᳚रुरुच्याः॒(स्वाहा᳚) || 4 ||

सः¦गोऽम॑घाः¦ज॒रि॒त्रे¦अश्व॑ऽचन्द्राः¦वाज॑ऽश्रवसः¦अधि॑¦धे॒हि॒¦पृक्षः॑ |
पी॒पि॒हि¦इषः॑¦सु॒ऽदुघा᳚‌म्¦इ॒न्द्र॒¦धे॒नु‌म्¦भ॒रत्ऽवा᳚जेषु¦सु॒ऽरुचः॑¦रु॒रु॒च्याः॒ ||

तमानू॒नंवृ॒जन॑म॒न्यथा᳚चि॒च्छूरो॒यच्छ॑क्र॒विदुरो᳚गृणी॒षे |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

मानिर॑रंशुक्र॒दुघ॑स्यधे॒नोरा᳚ङ्गिर॒सान्‌ब्रह्म॑णाविप्रजिन्व॒(स्वाहा᳚) || 5 ||

त‌म्¦आ¦नू॒न‌म्¦वृ॒जन᳚‌म्¦अ॒न्यथा᳚¦चि॒त्¦शूरः॑¦यत्¦श॒क्र॒¦वि¦दुरः॑¦गृ॒णी॒षे |
मा¦निः¦अ॒र॒‌म्¦शु॒क्र॒ऽदुघ॑स्य¦धे॒नोः¦आ॒ङ्गि॒र॒सान्¦ब्रह्म॑णा¦वि॒प्र॒¦जि॒न्व॒ ||

[115] सत्रामदासइति पंचर्चस्य सूक्तस्य भारद्वाजोनरइंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:36}{अनुवाक:3, सूक्त:13}
स॒त्रामदा᳚स॒स्तव॑वि॒श्वज᳚न्याःस॒त्रारायोऽध॒येपार्थि॑वासः |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

स॒त्रावाजा᳚नामभवोविभ॒क्तायद्दे॒वेषु॑धा॒रय॑था,असु॒र्य॑१(अं॒)(स्वाहा᳚) || 1 || वर्ग:8

स॒त्रा¦मदा᳚सः¦तव॑¦वि॒श्वऽज᳚न्याः¦स॒त्रा¦रायः॑¦अध॑¦ये¦पार्थि॑वासः |
स॒त्रा¦वाजा᳚ना‌म्¦अ॒भ॒वः॒¦वि॒ऽभ॒क्ता¦यत्¦दे॒वेषु॑¦धा॒रय॑थाः¦अ॒सु॒र्य᳚‌म् ||

अनु॒प्रये᳚जे॒जन॒ओजो᳚,अस्यस॒त्राद॑धिरे॒,अनु॑वी॒र्या᳚य |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

स्यू॒म॒गृभे॒दुध॒येऽर्व॑तेच॒क्रतुं᳚वृञ्ज॒न्त्यपि॑वृत्र॒हत्ये॒(स्वाहा᳚) || 2 ||

अनु॑¦प्र¦ये॒जे॒¦जनः॑¦ओजः॑¦अ॒स्य॒¦स॒त्रा¦द॒धि॒रे॒¦अनु॑¦वी॒र्या᳚य |
स्यू॒म॒ऽगृभे᳚¦दुध॑ये¦अर्व॑ते¦च॒¦क्रतु᳚‌म्¦वृं॒ज॒न्ति॒¦अपि॑¦वृ॒त्र॒ऽहत्ये᳚ ||

तंस॒ध्रीची᳚रू॒तयो॒वृष्ण्या᳚नि॒पौंस्या᳚निनि॒युतः॑सश्चु॒रिन्द्र᳚म् |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

स॒मु॒द्रंनसिन्ध॑वउ॒क्थशु॑ष्मा,उरु॒व्यच॑सं॒गिर॒आवि॑शन्ति॒(स्वाहा᳚) || 3 ||

त‌म्¦स॒ध्रीचीः᳚¦ऊ॒तयः॑¦वृष्ण्या᳚नि¦पौंस्या᳚नि¦नि॒ऽयुतः॑¦स॒श्चु॒ः॑¦इन्द्र᳚‌म् |
स॒मु॒द्र‌म्¦न¦सिन्ध॑वः¦उ॒क्थऽशु॑ष्माः¦उ॒रु॒ऽव्यच॑स‌म्¦गिरः॑¦आ¦वि॒श॒न्ति॒ ||

सरा॒यस्खामुप॑सृजागृणा॒नःपु॑रुश्च॒न्द्रस्य॒त्वमि᳚न्द्र॒वस्वः॑ |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

पति॑र्बभू॒थास॑मो॒जना᳚ना॒मेको॒विश्व॑स्य॒भुव॑नस्य॒राजा॒(स्वाहा᳚) || 4 ||

सः¦रा॒यः¦खा‌म्¦उप॑¦सृ॒ज॒¦गृ॒णा॒नः¦पु॒रु॒ऽच॒न्द्रस्य॑¦त्व‌म्¦इ॒न्द्र॒¦वस्वः॑ |
पतिः॑¦ब॒भू॒थ॒¦अस॑मः¦जना᳚ना‌म्¦एकः॑¦विश्व॑स्य¦भुव॑नस्य¦राजा᳚ ||

सतुश्रु॑धि॒श्रुत्या॒योदु॑वो॒युर्द्यौर्नभूमा॒भिरायो᳚,अ॒र्यः |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

असो॒यथा᳚नः॒शव॑साचका॒नोयु॒गेयु॑गे॒वय॑सा॒चेकि॑तानः॒(स्वाहा᳚) || 5 ||

सः¦तु¦श्रु॒धि॒¦श्रुत्या᳚¦यः¦दु॒वः॒ऽयुः¦द्यौः¦न¦भूम॑¦अ॒भि¦रायः॑¦अ॒र्यः |
असः॑¦यथा᳚¦नः॒¦शव॑सा¦च॒का॒नः¦यु॒गेऽयु॑गे¦वय॑सा¦चेकि॑तानः ||

[116] अर्वाग्रथमिति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजः इंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:37}{अनुवाक:3, सूक्त:14}
अ॒र्वाग्रथं᳚वि॒श्ववा᳚रंतउ॒ग्रेन्द्र॑यु॒क्तासो॒हर॑योवहन्तु |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

की॒रिश्चि॒द्धित्वा॒हव॑ते॒स्व᳚र्वानृधी॒महि॑सध॒माद॑स्ते,अ॒द्य(स्वाहा᳚) || 1 || वर्ग:9

अ॒र्वाक्¦रथ᳚‌म्¦वि॒श्वऽवा᳚र‌म्¦ते॒¦उ॒ग्र॒¦इन्द्र॑¦यु॒क्तासः॑¦हर॑यः¦व॒ह॒न्तु॒ |
की॒रिः¦चि॒त्¦हि¦त्वा॒¦हव॑ते¦स्वः॑ऽवान्¦ऋ॒धी॒महि॑¦स॒ध॒ऽमादः॑¦ते॒¦अ॒द्य ||

प्रोद्रोणे॒हर॑यः॒कर्मा᳚ग्मन्‌पुना॒नास॒ऋज्य᳚न्तो,अभूवन् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

इन्द्रो᳚नो,अ॒स्यपू॒र्व्यःप॑पीयाद्द्यु॒क्षोमद॑स्यसो॒म्यस्य॒राजा॒(स्वाहा᳚) || 2 ||

प्रो इति॑¦द्रोणे᳚¦हर॑यः¦कर्म॑¦अ॒ग्म॒न्¦पु॒ना॒नासः॑¦ऋज्य᳚न्तः¦अ॒भू॒व॒न् |
इन्द्रः॑¦नः॒¦अ॒स्य¦पू॒र्व्यः¦पा॒पी॒या॒त्¦द्यु॒क्षः¦मद॑स्य¦सो॒म्यस्य॑¦राजा᳚ ||

आ॒स॒स्रा॒णासः॑शवसा॒नमच्छेन्द्रं᳚सुच॒क्रेर॒थ्या᳚सो॒,अश्वाः᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अ॒भिश्रव॒ऋज्य᳚न्तोवहेयु॒र्नूचि॒न्नुवा॒योर॒मृतं॒विद॑स्ये॒‌त्(स्वाहा᳚) || 3 ||

आ॒ऽस॒स्रा॒णासः॑¦श॒व॒सा॒न‌म्¦अच्छ॑¦इन्द्र᳚‌म्¦सु॒ऽच॒क्रे¦र॒थ्या᳚सः¦अश्वाः᳚ |
अ॒भि¦श्रवः॑¦ऋज्य᳚न्तः¦व॒हे॒युः॒¦नु¦चि॒त्¦नु¦वा॒योः¦अ॒मृत᳚‌म्¦वि¦द॒स्ये॒त् ||

वरि॑ष्ठो,अस्य॒दक्षि॑णामिय॒र्तीन्द्रो᳚म॒घोनां᳚तुविकू॒र्मित॑मः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यया᳚वज्रिवःपरि॒यास्यंहो᳚म॒घाच॑धृष्णो॒दय॑से॒विसू॒रीन्(स्वाहा᳚) || 4 ||

वरि॑ष्ठः¦अ॒स्य॒¦दक्षि॑णा‌म्¦इ॒य॒र्ति॒¦इन्द्रः॑¦म॒घोना᳚‌म्¦तु॒वि॒कू॒र्मिऽत॑मः |
यया᳚¦व॒ज्रि॒ऽवः॒¦प॒रि॒ऽयासि॑¦अंहः॑¦म॒घा¦च॒¦धृ॒ष्णो॒ इति॑¦दय॑से¦वि¦सू॒रीन् ||

इन्द्रो॒वाज॑स्य॒स्थवि॑रस्यदा॒तेन्द्रो᳚गी॒र्भिर्व॑र्धतांवृ॒द्धम॑हाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

इन्द्रो᳚वृ॒त्रंहनि॑ष्ठो,अस्तु॒सत्वातासू॒रिःपृ॑णति॒तूतु॑जानः॒(स्वाहा᳚) || 5 ||

इन्द्रः॑¦वाज॑स्य¦स्थवि॑रस्य¦दा॒ता¦इन्द्रः॑¦गीः॒ऽभिः¦व॒र्ध॒ता॒‌म्¦वृ॒द्धऽम॑हाः |
इन्द्रः॑¦वृ॒त्र‌म्¦हनि॑ष्ठः¦अ॒स्तु॒¦सत्वा᳚¦आ¦ता¦सू॒रिः¦पृ॒ण॒ति॒¦तूतु॑जानः ||

[117] अपादितइति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:38}{अनुवाक:3, सूक्त:15}
अपा᳚दि॒तउदु॑नश्चि॒त्रत॑मोम॒हींभ॑र्षद्द्यु॒मती॒मिन्द्र॑हूतिम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

पन्य॑सींधी॒तिंदैव्य॑स्य॒याम॒ञ्जन॑स्यरा॒तिंव॑नतेसु॒दानुः॒(स्वाहा᳚) || 1 || वर्ग:10

अपा᳚त्¦इ॒तः¦उत्¦ऊँ॒ इति॑¦नः॒¦चि॒त्रऽत॑मः¦म॒ही‌म्¦भ॒र्ष॒त्¦द्यु॒ऽमती᳚‌म्¦इन्द्र॑ऽहूति‌म् |
पन्य॑सी‌म्¦धी॒ति‌म्¦दैव्य॑स्य¦याम॑न्¦जन॑स्य¦रा॒ति‌म्¦व॒न॒ते॒¦सु॒ऽदानुः॑ ||

दू॒राच्चि॒दाव॑सतो,अस्य॒कर्णा॒घोषा॒दिन्द्र॑स्यतन्यतिब्रुवा॒णः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

एयमे᳚नंदे॒वहू᳚तिर्ववृत्यान्म॒द्र्य१॑(अ॒)गिन्द्र॑मि॒यमृ॒च्यमा᳚ना॒(स्वाहा᳚) || 2 ||

दू॒रात्¦चि॒त्¦आ¦व॒स॒तः॒¦अ॒स्य॒¦कर्णा᳚¦घोषा᳚त्¦इन्द्र॑स्य¦त॒न्य॒ति॒¦ब्रु॒वा॒णः |
आ¦इ॒य‌म्¦ए॒न॒‌म्¦दे॒वऽहू᳚तिः¦व॒वृ॒त्या॒त्¦म॒द्र्य॑क्¦इन्द्र᳚‌म्¦इ॒य‌म्¦ऋ॒च्यमा᳚ना ||

तंवो᳚धि॒याप॑र॒मया᳚पुरा॒जाम॒जर॒मिन्द्र॑म॒भ्य॑नूष्य॒र्कैः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ब्रह्मा᳚च॒गिरो᳚दधि॒रेसम॑स्मिन्म॒हाँश्च॒स्तोमो॒,अधि॑वर्ध॒दिन्द्रे॒(स्वाहा᳚) || 3 ||

त‌म्¦वः॒¦धि॒या¦प॒र॒मया᳚¦पु॒रा॒ऽजा‌म्¦अ॒जर᳚‌म्¦इन्द्र᳚‌म्¦अ॒भि¦अ॒नू॒षि॒¦अ॒र्कैः |
ब्रह्म॑¦च॒¦गिरः॑¦द॒धि॒रे¦स‌म्¦अ॒स्मि॒न्¦म॒हान्¦च॒¦स्तोमः॑¦अधि॑¦व॒र्ध॒त्¦इन्द्रे᳚ ||

वर्धा॒द्यंय॒ज्ञउ॒तसोम॒इन्द्रं॒वर्धा॒द्ब्रह्म॒गिर॑उ॒क्थाच॒मन्म॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वर्धाहै᳚नमु॒षसो॒याम᳚न्न॒क्तोर्वर्धा॒न्मासाः᳚श॒रदो॒द्याव॒इन्द्र॒‌म्(स्वाहा᳚) || 4 ||

वर्धा᳚त्¦य‌म्¦य॒ज्ञः¦उ॒त¦सोमः॑¦इन्द्र᳚‌म्¦वर्धा᳚त्¦ब्रह्म॑¦गिरः॑¦उ॒क्था¦च॒¦मन्म॑ |
वर्ध॑¦अह॑¦ए॒न॒‌म्¦उ॒षसः॑¦याम॑न्¦अ॒क्तोः¦वर्धा᳚न्¦मासाः᳚¦श॒रदः॑¦द्यावः॑¦इन्द्र᳚‌म् ||

ए॒वाज॑ज्ञा॒नंसह॑से॒,असा᳚मिवावृधा॒नंराध॑सेचश्रु॒ताय॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

म॒हामु॒ग्रमव॑सेविप्रनू॒नमावि॑वासेमवृत्र॒तूर्ये᳚षु॒(स्वाहा᳚) || 5 ||

ए॒व¦ज॒ज्ञा॒न‌म्¦सह॑से¦असा᳚मि¦व॒वृ॒धा॒न‌म्¦राध॑से¦च॒¦श्रु॒ताय॑ |
म॒हा‌म्¦उ॒ग्र‌म्¦अव॑से¦वि॒प्र॒¦नू॒न‌म्¦आ¦वि॒वा॒से॒म॒¦वृ॒त्र॒ऽतूर्ये᳚षु ||

[118] मंद्रस्य कवेरितिपंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:39}{अनुवाक:3, सूक्त:16}
म॒न्द्रस्य॑क॒वेर्दि॒व्यस्य॒वह्ने॒र्विप्र॑मन्मनोवच॒नस्य॒मध्वः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अपा᳚न॒स्तस्य॑सच॒नस्य॑दे॒वेषो᳚युवस्वगृण॒तेगो,अ॑ग्राः॒(स्वाहा᳚) || 1 || वर्ग:11

म॒न्द्रस्य॑¦क॒वेः¦दि॒व्यस्य॑¦वह्नेः᳚¦विप्र॑ऽमन्मनः¦व॒च॒नस्य॑¦मध्वः॑ |
अपाः᳚¦नः॒¦तस्य॑¦स॒च॒नस्य॑¦दे॒व॒¦इषः॑¦यु॒व॒स्व॒¦गृ॒ण॒ते¦गो।आ॑ग्राः ||

अ॒यमु॑शा॒नःपर्यद्रि॑मु॒स्रा,ऋ॒तधी᳚तिभिरृत॒युग्यु॑जा॒नः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

रु॒जदरु॑ग्णं॒विव॒लस्य॒सानुं᳚प॒णीँर्वचो᳚भिर॒भियो᳚ध॒दिन्द्रः॒(स्वाहा᳚) || 2 ||

अ॒य‌म्¦उ॒शा॒नः¦परि॑¦अद्रि᳚‌म्¦उ॒स्राः¦ऋ॒तधी᳚तिऽभिः¦ऋ॒त॒ऽयुक्¦यु॒जा॒नः |
रु॒जत्¦अरु॑ग्ण‌म्¦वि¦व॒लस्य॑¦सानु᳚‌म्¦प॒णीन्¦वचः॑ऽभिः¦अ॒भि¦यो॒ध॒त्¦इन्द्रः॑ ||

अ॒यंद्यो᳚तयद॒द्युतो॒व्य१॑(अ॒)क्तून्दो॒षावस्तोः᳚श॒रद॒इन्दु॑रिन्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

इ॒मंके॒तुम॑दधु॒र्नूचि॒दह्नां॒शुचि॑जन्मनउ॒षस॑श्चकार॒(स्वाहा᳚) || 3 ||

अ॒य‌म्¦द्यो॒त॒य॒त्¦अ॒द्युतः॑¦वि¦अ॒क्तून्¦दो॒षा¦वस्तोः᳚¦श॒रदः॑¦इन्दुः॑¦इ॒न्द्र॒ |
इ॒म‌म्¦के॒तु‌म्¦अ॒द॒धुः॒¦नु¦चि॒त्¦अह्ना᳚‌म्¦शुचि॑ऽजन्मनः¦उ॒षसः॑¦च॒का॒र॒ ||

अ॒यंरो᳚चयद॒रुचो᳚रुचा॒नो॒३॑(ओ॒)ऽयंवा᳚सय॒द्व्यृ१॑(ऋ॒)तेन॑पू॒र्वीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अ॒यमी᳚यतऋत॒युग्भि॒रश्वैः᳚स्व॒र्विदा॒नाभि॑नाचर्षणि॒प्राः(स्वाहा᳚) || 4 ||

अ॒य‌म्¦रो॒च॒य॒त्¦अ॒रुचः॑¦रु॒चा॒नः¦अ॒य‌म्¦वा॒स॒य॒त्¦वि¦ऋ॒तेन॑¦पू॒र्वीः |
अ॒य‌म्¦ई॒य॒ते॒¦ऋ॒त॒युक्ऽभिः॑¦अश्वैः᳚¦स्वः॒ऽविदा᳚¦नाभि॑ना¦च॒र्ष॒णि॒ऽप्राः ||

नूगृ॑णा॒नोगृ॑ण॒तेप्र॑त्नराज॒न्निषः॑पिन्ववसु॒देया᳚यपू॒र्वीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अ॒पओष॑धीरवि॒षावना᳚नि॒गा,अर्व॑तो॒नॄनृ॒चसे᳚रिरीहि॒(स्वाहा᳚) || 5 ||

नु¦गृ॒णा॒नः¦गृ॒ण॒ते¦प्र॒त्न॒¦रा॒ज॒न्¦इषः॑¦पि॒न्व॒¦व॒सु॒ऽदेया᳚य¦पू॒र्वीः |
अ॒पः¦ओष॑धीः¦अ॒वि॒षा¦वना᳚नि¦गाः¦अर्व॑तः¦नॄन्¦ऋ॒चसे᳚¦रि॒री॒हि॒ ||

[119] इंद्रपिबेति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:40}{अनुवाक:3, सूक्त:17}
इन्द्र॒पिब॒तुभ्यं᳚सु॒तोमदा॒याव॑स्य॒हरी॒विमु॑चा॒सखा᳚या |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

उ॒तप्रगा᳚यग॒णआनि॒षद्याथा᳚य॒ज्ञाय॑गृण॒तेवयो᳚धाः॒(स्वाहा᳚) || 1 || वर्ग:12

इन्द्र॑¦पिब॑¦तुभ्य᳚‌म्¦सु॒तः¦मदा᳚य¦अव॑¦स्य॒¦हरी॒ इति॑¦वि¦मु॒च॒¦सखा᳚या |
उ॒त¦प्र¦गा॒य॒¦ग॒णे¦आ¦नि॒ऽसद्य॑¦अथ॑¦य॒ज्ञाय॑¦गृ॒ण॒ते¦वयः॑¦धाः॒ ||

अस्य॑पिब॒यस्य॑जज्ञा॒नइ᳚न्द्र॒मदा᳚य॒क्रत्वे॒,अपि॑बोविरप्शिन् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तमु॑ते॒गावो॒नर॒आपो॒,अद्रि॒रिन्दुं॒सम॑ह्यन्‌पी॒तये॒सम॑स्मै॒(स्वाहा᳚) || 2 ||

अस्य॑¦पि॒ब॒¦यस्य॑¦ज॒ज्ञा॒नः¦इ॒न्द्र॒¦मदा᳚य¦क्रत्वे᳚¦अपि॑बः¦वि॒ऽर॒प्शि॒न् |
त‌म्¦ऊँ॒ इति॑¦ते॒¦गावः॑¦नरः॑¦आपः॑¦अद्रिः॑¦इन्दु᳚‌म्¦स‌म्¦अ॒ह्य॒न्¦पी॒तये᳚¦स‌म्¦अ॒स्मै॒ ||

समि॑द्धे,अ॒ग्नौसु॒तइ᳚न्द्र॒सोम॒आत्वा᳚वहन्तु॒हर॑यो॒वहि॑ष्ठाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वा॒य॒तामन॑साजोहवी॒मीन्द्राया᳚हिसुवि॒ताय॑म॒हेनः॒(स्वाहा᳚) || 3 ||

स‌म्ऽ‌इ᳚द्धे¦अ॒ग्नौ¦सु॒ते¦इ॒न्द्र॒¦सोमे᳚¦आ¦त्वा॒¦व॒ह॒न्तु॒¦हर॑यः¦वहि॑ष्ठाः |
त्वा॒ऽय॒ता¦मन॑सा¦जो॒ह॒वी॒मि॒¦इन्द्र॑¦आ¦या॒हि॒¦सु॒वि॒ताय॑¦म॒हे¦नः॒ ||

आया᳚हि॒शश्व॑दुश॒ताय॑या॒थेन्द्र॑म॒हामन॑सासोम॒पेय᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

उप॒ब्रह्मा᳚णिशृणवइ॒मानोऽथा᳚तेय॒ज्ञस्त॒न्वे॒३॑(ए॒)वयो᳚धा॒‌त्(स्वाहा᳚) || 4 ||

आ¦या॒हि॒¦शश्व॑त्¦उ॒श॒ता¦य॒या॒थ॒¦इन्द्र॑¦म॒हा¦मन॑सा¦सो॒म॒ऽपेय᳚‌म् |
उप॑¦ब्रह्मा᳚णि¦शृ॒ण॒वः॒¦इ॒मा¦नः॒¦अथ॑¦ते॒¦य॒ज्ञः¦त॒न्वे᳚¦वयः॑¦धा॒त् ||

यदि᳚न्द्रदि॒विपार्ये॒यदृध॒ग्यद्वा॒स्वेसद॑ने॒यत्र॒वासि॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अतो᳚नोय॒ज्ञमव॑सेनि॒युत्वा᳚न्‌त्स॒जोषाः᳚पाहिगिर्वणोम॒रुद्भिः॒(स्वाहा᳚) || 5 ||

यत्¦इ॒न्द्र॒¦दि॒वि¦पार्ये᳚¦यत्¦ऋध॑क्¦यत्¦वा॒¦स्वे¦सद॑ने¦यत्र॑¦वा॒¦असि॑ |
अतः॑¦नः॒¦य॒ज्ञ‌म्¦अव॑से¦नि॒युत्वा᳚न्¦स॒ऽजोषाः᳚¦पा॒हि॒¦गि॒र्व॒णः॒¦म॒रुत्ऽभिः॑ ||

[120] अहेळमानइति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:41}{अनुवाक:3, सूक्त:18}
अहे᳚ळमान॒उप॑याहिय॒ज्ञंतुभ्यं᳚पवन्त॒इन्द॑वःसु॒तासः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

गावो॒नव॑ज्रि॒न्‌त्स्वमोको॒,अच्छेन्द्राग॑हिप्रथ॒मोय॒ज्ञिया᳚ना॒‌म्(स्वाहा᳚) || 1 || वर्ग:13

अहे᳚ळमानः¦उप॑¦या॒हि॒¦य॒ज्ञ‌म्¦तुभ्य᳚‌म्¦प॒व॒न्ते॒¦इन्द॑वः¦सु॒तासः॑ |
गावः॑¦न¦वा॒ज्रि॒न्¦स्व‌म्¦ओकः॑¦अच्छ॑¦इन्द्र॑¦आ¦ग॒हि॒¦प्र॒थ॒मः¦य॒ज्ञिया᳚ना‌म् ||

याते᳚का॒कुत्सुकृ॑ता॒यावरि॑ष्ठा॒यया॒शश्व॒त्पिब॑सि॒मध्व॑ऊ॒र्मिम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तया᳚पाहि॒प्रते᳚,अध्व॒र्युर॑स्था॒त्संते॒वज्रो᳚वर्ततामिन्द्रग॒व्युः(स्वाहा᳚) || 2 ||

या¦ते॒¦का॒कुत्¦सुऽकृ॑ता¦या¦वरि॑ष्ठा¦यया᳚¦शश्व॑त्¦पिब॑सि¦मध्वः॑¦ऊ॒र्मि‌म् |
तया᳚¦पा॒हि॒¦प्र¦ते॒¦अ॒ध्व॒र्युः¦अ॒स्था॒त्¦स‌म्¦ते॒¦वज्रः॑¦व॒र्त॒ता॒‌म्¦इ॒न्द्र॒¦ग॒व्युः ||

ए॒षद्र॒प्सोवृ॑ष॒भोवि॒श्वरू᳚प॒इन्द्रा᳚य॒वृष्णे॒सम॑कारि॒सोमः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ए॒तंपि॑बहरिवःस्थातरुग्र॒यस्येशि॑षेप्र॒दिवि॒यस्ते॒,अन्न॒‌म्(स्वाहा᳚) || 3 ||

ए॒षः¦द्र॒प्सः¦वृ॒ष॒भः¦वि॒श्वऽरू᳚पः¦इन्द्रा᳚य¦वृष्णे᳚¦स‌म्¦अ॒का॒रि॒¦सोमः॑ |
ए॒त‌म्¦पि॒ब॒¦ह॒रि॒ऽवः॒¦स्था॒तः॒¦उ॒ग्र॒¦यस्य॑¦ईशि॑षे¦प्र॒ऽदिवि॑¦यः¦ते॒¦अन्न᳚‌म् ||

सु॒तःसोमो॒,असु॑तादिन्द्र॒वस्या᳚न॒यंश्रेया᳚ञ्चिकि॒तुषे॒रणा᳚य |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ए॒तंति॑तिर्व॒उप॑याहिय॒ज्ञंतेन॒विश्वा॒स्तवि॑षी॒रापृ॑णस्व॒(स्वाहा᳚) || 4 ||

सु॒तः¦सोमः॑¦असु॑तात्¦इ॒न्द्र॒¦वस्या᳚न्¦अ॒य‌म्¦श्रेया᳚न्¦चि॒कि॒तुषे᳚¦रणा᳚य |
ए॒त‌म्¦ति॒ति॒र्वः॒¦उप॑¦या॒हि॒¦य॒ज्ञ‌म्¦तेन॑¦विश्वाः᳚¦तवि॑षीः¦आ¦पृ॒ण॒स्व॒ ||

ह्वया᳚मसि॒त्वेन्द्र॑याह्य॒र्वाङरं᳚ते॒सोम॑स्त॒न्वे᳚भवाति |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

शत॑क्रतोमा॒दय॑स्वासु॒तेषु॒प्रास्माँ,अ॑व॒पृत॑नासु॒प्रवि॒क्षु(स्वाहा᳚) || 5 ||

ह्वया᳚मसि¦त्वा॒¦आ¦इ॒न्द्र॒¦या॒हि॒¦अ॒र्वाङ्¦अर᳚‌म्¦ते॒¦सोमः॑¦त॒न्वे᳚¦भ॒वा॒ति॒ |
शत॑क्रतो॒ इति॒ शत॑ऽक्रतो¦मा॒दय॑स्व¦सु॒तेषु॑¦प्र¦अ॒स्मान्¦अ॒व॒¦पृत॑नासु¦प्र¦वि॒क्षु ||

[121] प्रत्यस्मा इति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रोनुष्टुबंत्याबृहती |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:42}{अनुवाक:3, सूक्त:19}
प्रत्य॑स्मै॒पिपी᳚षते॒विश्वा᳚निवि॒दुषे᳚भर |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | अनुष्टुप्}

अ॒रं॒ग॒माय॒जग्म॒येऽप॑श्चाद्दघ्वने॒नरे॒(स्वाहा᳚) || 1 || वर्ग:14

प्रति॑¦अ॒स्मै॒¦पिपी᳚षते¦विश्वा᳚नि¦वि॒दुषे᳚¦भ॒र॒ | अ॒र॒‌म्ऽग॒माय॑¦जग्म॑ये¦अप॑श्चात्ऽदघ्वने¦नरे᳚ ||

एमे᳚नंप्र॒त्येत॑न॒सोमे᳚भिःसोम॒पात॑मम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | अनुष्टुप्}

अम॑त्रेभिरृजी॒षिण॒मिन्द्रं᳚सु॒तेभि॒रिन्दु॑भिः॒(स्वाहा᳚) || 2 ||

आ¦ई॒‌म्¦ए॒न॒‌म्¦प्र॒ति॒ऽएत॑न¦सोमे᳚भिः¦सो॒म॒ऽपात॑म‌म् | अम॑त्रेभिः¦ऋ॒जी॒षिण᳚‌म्¦इन्द्र᳚‌म्¦सु॒तेभिः॑¦इन्दु॑ऽभिः ||

यदी᳚सु॒तेभि॒रिन्दु॑भिः॒सोमे᳚भिःप्रति॒भूष॑थ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | अनुष्टुप्}

वेदा॒विश्व॑स्य॒मेधि॑रोधृ॒षत्तंत॒मिदेष॑ते॒(स्वाहा᳚) || 3 ||

यदि॑¦सु॒तेभिः॑¦इन्दु॑ऽभिः¦सोमे᳚भिः¦प्र॒ति॒ऽभूष॑थ | वेद॑¦विश्व॑स्य¦मेधि॑रः¦धृ॒षत्¦त‌म्ऽत᳚‌म्¦इत्¦आ¦ई॒ष॒ते॒ ||

अ॒स्मा,अ॑स्मा॒,इदन्ध॒सोऽध्व᳚र्यो॒प्रभ॑रासु॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | बृहती}

कु॒वित्स॑मस्य॒जेन्य॑स्य॒शर्ध॑तो॒ऽभिश॑स्तेरव॒स्पर॒॑‌त्(स्वाहा᳚) || 4 ||

अ॒स्मै।आ॑स्मै¦इत्¦अन्ध॑सः¦अध्व᳚र्यो॒ इति॑¦प्र¦भ॒र॒¦सु॒त‌म् |
कु॒वित्¦स॒म॒स्य॒¦जेन्य॑स्य¦शर्ध॑तः¦अ॒भिऽश॑स्तेः¦अ॒व॒ऽस्पर॑त् ||

[122] यस्यत्यदिति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रउष्णिक् |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:43}{अनुवाक:3, सूक्त:20}
यस्य॒त्यच्छम्ब॑रं॒मदे॒दिवो᳚दासायर॒न्धयः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | उष्णिक्}

अ॒यंससोम॑इन्द्रतेसु॒तःपिब॒(स्वाहा᳚) || 1 || वर्ग:15

यस्य॑¦त्यत्¦शम्ब॑र‌म्¦मदे᳚¦दिवः॑ऽदासाय¦र॒न्धयः॑ | अ॒य‌म्¦सः¦सोमः॑¦इ॒न्द्र॒¦ते॒¦सु॒तः¦पिब॑ ||

यस्य॑तीव्र॒सुतं॒मदं॒मध्य॒मन्तं᳚च॒रक्ष॑से |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | उष्णिक्}

अ॒यंससोम॑इन्द्रतेसु॒तःपिब॒(स्वाहा᳚) || 2 ||

यस्य॑¦ती॒व्र॒ऽसुत᳚‌म्¦मद᳚‌म्¦मध्य᳚‌म्¦अन्त᳚‌म्¦च॒¦रक्ष॑से | अ॒य‌म्¦सः¦सोमः॑¦इ॒न्द्र॒¦ते॒¦सु॒तः¦पिब॑ ||

यस्य॒गा,अ॒न्तरश्म॑नो॒मदे᳚दृ॒ळ्हा,अ॒वासृ॑जः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | उष्णिक्}

अ॒यंससोम॑इन्द्रतेसु॒तःपिब॒(स्वाहा᳚) || 3 ||

यस्य॑¦गाः¦अ॒न्तः¦अश्म॑नः¦मदे᳚¦दृ॒ळ्हाः¦अ॒व॒।आसृ॑जः | अ॒य‌म्¦सः¦सोमः॑¦इ॒न्द्र॒¦ते॒¦सु॒तः¦पिब॑ ||

यस्य॑मन्दा॒नो,अन्ध॑सो॒माघो᳚नंदधि॒षेशवः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | उष्णिक्}

अ॒यंससोम॑इन्द्रतेसु॒तःपिब॒(स्वाहा᳚) || 4 ||

यस्य॑¦म॒न्दा॒नः¦अन्ध॑सः¦माघो᳚न‌म्¦द॒धि॒षे¦शवः॑ | अ॒य‌म्¦सः¦सोमः॑¦इ॒न्द्र॒¦ते॒¦सु॒तः¦पिब॑ ||

[123] योरयिवइति चतुर्विंशत्यृचस्य सूक्तस्य बार्हस्पत्यः शंयुरिंद्रस्त्रिष्टुबाद्याः षढनुष्टुभः सप्तम्यादितिस्रो विराट्‌पंक्त्यः | (तिसृष्वष्टम्येवविराट्‌ सप्तमीनवम्यौतु त्रिष्टुभाविति केचित्) |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:44}{अनुवाक:4, सूक्त:1}
योर॑यिवोर॒यिंत॑मो॒योद्यु॒म्नैर्द्यु॒म्नव॑त्तमः |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्}

सोमः॑सु॒तःसइ᳚न्द्र॒तेऽस्ति॑स्वधापते॒मदः॒(स्वाहा᳚) || 1 || वर्ग:16

यः¦र॒यि॒ऽवः॒¦र॒यि‌म्ऽत॑मः¦यः¦द्यु॒म्नैः¦द्यु॒म्नव॑त्ऽतमः | सोमः॑¦सु॒तः¦सः¦इ॒न्द्र॒¦ते॒¦अस्ति॑¦स्व॒धा॒ऽप॒ते॒¦मदः॑ ||

यःश॒ग्मस्तु॑विशग्मतेरा॒योदा॒माम॑ती॒नाम् |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्}

सोमः॑सु॒तःसइ᳚न्द्र॒तेऽस्ति॑स्वधापते॒मदः॒(स्वाहा᳚) || 2 ||

यः¦श॒ग्मः¦तु॒वि॒ऽश॒ग्म॒¦ते॒¦रा॒यः¦दा॒मा¦म॒ती॒ना‌म् | सोमः॑¦सु॒तः¦सः¦इ॒न्द्र॒¦ते॒¦अस्ति॑¦स्व॒धा॒ऽप॒ते॒¦मदः॑ ||

येन॑वृ॒द्धोनशव॑सातु॒रोनस्वाभि॑रू॒तिभिः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्}

सोमः॑सु॒तःसइ᳚न्द्र॒तेऽस्ति॑स्वधापते॒मदः॒(स्वाहा᳚) || 3 ||

येन॑¦वृ॒द्धः¦न¦शव॑सा¦तु॒रः¦न¦स्वाभिः॑¦ऊ॒तिऽभिः॑ | सोमः॑¦सु॒तः¦सः¦इ॒न्द्र॒¦ते॒¦अस्ति॑¦स्व॒धा॒ऽप॒ते॒¦मदः॑ ||

त्यमु॑वो॒,अप्र॑हणंगृणी॒षेशव॑स॒स्पति᳚म् |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्}

इन्द्रं᳚विश्वा॒साहं॒नरं॒मंहि॑ष्ठंवि॒श्वच॑र्षणि॒‌म्(स्वाहा᳚) || 4 ||

त्य‌म्¦ऊँ॒ इति॑¦वः॒¦अप्र॑ऽहन‌म्¦गृ॒णी॒षे¦शव॑सः¦पति᳚‌म् | इन्द्र᳚‌म्¦वि॒श्व॒ऽसह᳚‌म्¦नर᳚‌म्¦मंहि॑ष्ठ‌म्¦वि॒श्वऽच॑र्षणि‌म् ||

यंव॒र्धय॒न्तीद्गिरः॒पतिं᳚तु॒रस्य॒राध॑सः |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्}

तमिन्न्व॑स्य॒रोद॑सीदे॒वीशुष्मं᳚सपर्यतः॒(स्वाहा᳚) || 5 ||

य‌म्¦व॒र्धय᳚न्ति¦इत्¦गिरः॑¦पति᳚‌म्¦तु॒रस्य॑¦राध॑सः | त‌म्¦इत्¦नु¦अ॒स्य॒¦रोद॑सी॒ इति॑¦दे॒वी इति॑¦शुष्म᳚‌म्¦स॒प॒र्य॒तः॒ ||

तद्व॑उ॒क्थस्य॑ब॒र्हणेन्द्रा᳚योपस्तृणी॒षणि॑ |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्}

विपो॒नयस्यो॒तयो॒वियद्रोह᳚न्तिस॒क्षितः॒(स्वाहा᳚) || 6 || वर्ग:17

तत्¦वः॒¦उ॒क्थस्य॑¦ब॒र्हणा᳚¦इन्द्रा᳚य¦उ॒प॒ऽस्तृ॒णी॒षणि॑ | विपः॑¦न¦यस्य॑¦ऊ॒तयः॑¦वि¦यत्¦रोह᳚न्ति¦स॒ऽक्षितः॑ ||

अवि॑द॒द्दक्षं᳚मि॒त्रोनवी᳚यान्‌पपा॒नोदे॒वेभ्यो॒वस्यो᳚,अचैत् |{बार्हस्पत्यः शंयः | इन्द्रः | पङ्क्तिः}

स॒स॒वान्‌त्स्तौ॒लाभि॑र्धौ॒तरी᳚भिरुरु॒ष्यापा॒युर॑भव॒त्सखि॑भ्यः॒(स्वाहा᳚) || 7 ||

अवि॑दत्¦दक्ष᳚‌म्¦मि॒त्रः¦नवी᳚यान्¦प॒पा॒नः¦दे॒वेभ्यः॑¦वस्यः॑¦अ॒चै॒त् |
स॒स॒ऽवान्¦स्तौ॒लाभिः॑¦धौ॒तरी᳚भिः¦उ॒रु॒ष्या¦पा॒युः¦अ॒भ॒व॒त्¦सखि॑ऽभ्यः ||

ऋ॒तस्य॑प॒थिवे॒धा,अ॑पायिश्रि॒येमनां᳚सिदे॒वासो᳚,अक्रन् |{बार्हस्पत्यः शंयः | इन्द्रः | पङ्क्तिः}

दधा᳚नो॒नाम॑म॒होवचो᳚भि॒र्वपु॑र्दृ॒शये᳚वे॒न्योव्या᳚वः॒(स्वाहा᳚) || 8 ||

ऋ॒तस्य॑¦प॒थि¦वे॒धाः¦अ॒पा॒यि॒¦श्रि॒ये¦मनां᳚सि¦दे॒वासः॑¦अ॒क्र॒न् |
दधा᳚नः¦नाम॑¦म॒हः¦वचः॑ऽभिः¦वपुः॑¦दृ॒शये᳚¦वे॒न्यः¦वि¦आ॒व॒रित्या᳚वः ||

द्यु॒मत्त॑मं॒दक्षं᳚धेह्य॒स्मेसेधा॒जना᳚नांपू॒र्वीररा᳚तीः |{बार्हस्पत्यः शंयः | इन्द्रः | पङ्क्तिः}

वर्षी᳚यो॒वयः॑कृणुहि॒शची᳚भि॒र्धन॑स्यसा॒ताव॒स्माँ,अ॑विड्ढि॒(स्वाहा᳚) || 9 ||

द्यु॒मत्ऽत॑म‌म्¦दक्ष᳚‌म्¦धे॒हि॒¦अ॒स्मे इति॑¦सेध॑¦जना᳚ना‌म्¦पू॒र्वीः¦अरा᳚तीः |
वर्षी᳚यः¦वयः॑¦कृ॒णु॒हि॒¦शची᳚भिः¦धन॑स्य¦सा॒तौ¦अ॒स्मान्¦अ॒वि॒ड्ढि॒ ||

इन्द्र॒तुभ्य॒मिन्म॑घवन्नभूमव॒यंदा॒त्रेह॑रिवो॒माविवे᳚नः |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

नकि॑रा॒पिर्द॑दृशेमर्त्य॒त्राकिम॒ङ्गर॑ध्र॒चोद॑नंत्वाहुः॒(स्वाहा᳚) || 10 ||

इन्द्र॑¦तुभ्य᳚‌म्¦इत्¦म॒घ॒ऽव॒न्¦अ॒भू॒म॒¦व॒य‌म्¦दा॒त्रे¦ह॒रि॒ऽवः॒¦मा¦वि¦वे॒नः॒ |
नकिः॑¦आ॒पिः¦द॒दृ॒शे॒¦म॒र्त्य॒ऽत्रा¦कि‌म्¦अ॒ङ्ग¦र॒ध्र॒ऽचोद॑न‌म्¦त्वा॒¦आ॒हुः॒ ||

माजस्व॑नेवृषभनोररीथा॒माते᳚रे॒वतः॑स॒ख्येरि॑षाम |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

पू॒र्वीष्ट॑इन्द्रनि॒ष्षिधो॒जने᳚षुज॒ह्यसु॑ष्वी॒न्‌प्रवृ॒हापृ॑णतः॒(स्वाहा᳚) || 11 || वर्ग:18

मा¦जस्व॑ने¦वृ॒ष॒भ॒¦नः॒¦र॒री॒थाः॒¦मा¦ते॒¦रे॒वतः॑¦स॒ख्ये¦रि॒षा॒म॒ |
पू॒र्वीः¦ते॒¦इ॒न्द्र॒¦निः॒ऽसिधः॑¦जने᳚षु¦ज॒हि¦असु॑स्वीन्¦प्र¦वृ॒ह॒¦अपृ॑णतः ||

उद॒भ्राणी᳚वस्त॒नय᳚न्निय॒र्तीन्द्रो॒राधां॒स्यश्व्या᳚नि॒गव्या᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

त्वम॑सिप्र॒दिवः॑का॒रुधा᳚या॒मात्वा᳚दा॒मान॒आद॑भन्म॒घोनः॒(स्वाहा᳚) || 12 ||

उत्¦अ॒भ्राणि॑ऽ‌इव¦स्त॒नय॑न्¦इ॒य॒र्ति॒¦इन्द्रः॑¦राधां᳚सि¦अश्व्या᳚नि¦गव्या᳚ |
त्व‌म्¦अ॒सि॒¦प्र॒ऽदिवः॑¦का॒रुऽधा᳚याः¦मा¦त्वा॒¦अ॒दा॒मानः॑¦आ¦द॒भ॒न्¦म॒घोनः॑ ||

अध्व᳚र्योवीर॒प्रम॒हेसु॒ताना॒मिन्द्रा᳚यभर॒सह्य॑स्य॒राजा᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

यःपू॒र्व्याभि॑रु॒तनूत॑नाभिर्गी॒र्भिर्वा᳚वृ॒धेगृ॑ण॒तामृषी᳚णा॒‌म्(स्वाहा᳚) || 13 ||

अध्व᳚र्यो॒ इति॑¦वी॒र॒¦प्र¦म॒हे¦सु॒ताना᳚‌म्¦इन्द्रा᳚य¦भ॒र॒¦सः¦हि¦अ॒स्य॒¦राजा᳚ |
यः¦पू॒र्व्याभिः॑¦उ॒त¦नूत॑नाभिः¦गीः॒ऽभिः¦व॒वृ॒धे¦गृ॒ण॒ता‌म्¦ऋषी᳚णा‌म् ||

अ॒स्यमदे᳚पु॒रुवर्पां᳚सिवि॒द्वानिन्द्रो᳚वृ॒त्राण्य॑प्र॒तीज॑घान |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

तमु॒प्रहो᳚षि॒मधु॑मन्तमस्मै॒सोमं᳚वी॒राय॑शि॒प्रिणे॒पिब॑ध्यै॒(स्वाहा᳚) || 14 ||

अ॒स्य¦मदे᳚¦पु॒रु¦वर्पां᳚सि¦वि॒द्वान्¦इन्द्रः॑¦वृ॒त्राणि॑¦अ॒प्र॒ति¦ज॒घा॒न॒ |
त‌म्¦ऊँ॒ इति॑¦प्र¦हो॒षि॒¦मधु॑ऽमन्त‌म्¦अ॒स्मै॒¦सोम᳚‌म्¦वी॒राय॑¦शि॒प्रिणे᳚¦पिब॑ध्यै ||

पाता᳚सु॒तमिन्द्रो᳚,अस्तु॒सोमं॒हन्ता᳚वृ॒त्रंवज्रे᳚णमन्दसा॒नः |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

गन्ता᳚य॒ज्ञंप॑रा॒वत॑श्चि॒दच्छा॒वसु॑र्धी॒नाम॑वि॒ताका॒रुधा᳚याः॒(स्वाहा᳚) || 15 ||

पाता᳚¦सु॒त‌म्¦इन्द्रः॑¦अ॒स्तु॒¦सोम᳚‌म्¦हन्ता᳚¦वृ॒त्र‌म्¦वज्रे᳚ण¦म॒न्द॒सा॒नः |
गन्ता᳚¦य॒ज्ञ‌म्¦प॒रा॒ऽवतः॑¦चि॒त्¦अच्छ॑¦वसुः॑¦धी॒ना‌म्¦अ॒वि॒ता¦का॒रुऽधा᳚याः ||

इ॒दंत्यत्पात्र॑मिन्द्र॒पान॒मिन्द्र॑स्यप्रि॒यम॒मृत॑मपायि |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

मत्स॒द्यथा᳚सौमन॒साय॑दे॒वंव्य१॑(अ॒)स्मद्द्वेषो᳚यु॒यव॒द्‌व्यंहः॒(स्वाहा᳚) || 16 || वर्ग:19

इ॒द‌म्¦त्यत्¦पात्र᳚‌म्¦इ॒न्द्र॒ऽपान᳚‌म्¦इन्द्र॑स्य¦प्रि॒य‌म्¦अ॒मृत᳚‌म्¦अ॒पा॒यि॒ |
मत्स॑त्¦यथा᳚¦सौ॒म॒न॒साय॑¦दे॒व‌म्¦वि¦अ॒स्मत्¦द्वेषः॑¦यु॒यव॑त्¦वि¦अंहः॑ ||

ए॒नाम᳚न्दा॒नोज॒हिशू᳚र॒शत्रू᳚ञ्जा॒मिमजा᳚मिंमघवन्न॒मित्रा॑न् |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

अ॒भि॒षे॒णाँ,अ॒भ्या॒३॑(आ॒)देदि॑शाना॒न्‌परा᳚चइन्द्र॒प्रमृ॑णाज॒हीच॒(स्वाहा᳚) || 17 ||

ए॒ना¦म॒न्दा॒नः¦ज॒हि¦शू॒र॒¦शत्रू᳚न्¦जा॒मि‌म्¦अजा᳚मि‌म्¦म॒घ॒ऽव॒न्¦अ॒मित्रा॑न् |
अ॒भि॒ऽसे॒नान्¦अ॒भि¦आ॒ऽदेदि॑शानान्¦परा᳚चः¦इ॒न्द्र॒¦प्र¦मृ॒ण॒¦ज॒हि¦च॒ ||

आ॒सुष्मा᳚णोमघवन्निन्द्रपृ॒त्स्व१॑(अ॒)स्मभ्यं॒महि॒वरि॑वःसु॒गंकः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

अ॒पांतो॒कस्य॒तन॑यस्यजे॒षइन्द्र॑सू॒रीन्‌कृ॑णु॒हिस्मा᳚नो,अ॒र्धम्(स्वाहा᳚) || 18 ||

आ॒सु¦स्म॒¦नः॒¦म॒घ॒ऽव॒न्¦इ॒न्द्र॒¦पृ॒त्ऽसु¦अ॒स्मभ्य᳚‌म्¦महि॑¦वरि॑वः¦सु॒ऽग‌म्¦क॒रिति॑ कः |
अ॒पा‌म्¦तो॒कस्य॑¦तन॑यस्य¦जे॒षे¦इन्द्र॑¦सू॒रीन्¦कृ॒णु॒हि¦स्म॒¦नः॒¦अ॒र्ध‌म् ||

आत्वा॒हर॑यो॒वृष॑णोयुजा॒नावृष॑रथासो॒वृष॑रश्म॒योऽत्याः᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

अ॒स्म॒त्राञ्चो॒वृष॑णोवज्र॒वाहो॒वृष्णे॒मदा᳚यसु॒युजो᳚वहन्तु॒(स्वाहा᳚) || 19 ||

आ¦त्वा॒¦हर॑यः¦वृष॑णः¦यु॒जा॒नाः¦वृष॑ऽरथासः¦वृष॑ऽरश्मयः¦अत्याः᳚ |
अ॒स्म॒त्रांचः॑¦वृष॑णः¦व॒ज्र॒ऽवाहः॑¦वृष्णे᳚¦मदा᳚य¦सु॒ऽयुजः॑¦व॒ह॒न्तु॒ ||

आते᳚वृष॒न्‌वृष॑णो॒द्रोण॑मस्थुर्घृत॒प्रुषो॒नोर्मयो॒मद᳚न्तः |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒प्रतुभ्यं॒वृष॑भिःसु॒तानां॒वृष्णे᳚भरन्तिवृष॒भाय॒सोम॒‌म्(स्वाहा᳚) || 20 ||

आ¦ते॒¦वृ॒ष॒न्¦वृष॑णः¦द्रोण᳚‌म्¦अ॒स्थुः॒¦घृ॒त॒ऽप्रुषः॑¦न¦ऊ॒र्मयः॑¦मद᳚न्तः |
इन्द्र॑¦प्र¦तुभ्य᳚‌म्¦वृष॑ऽभिः¦सु॒ताना᳚‌म्¦वृष्णे᳚¦भ॒र॒न्ति॒¦वृ॒ष॒भाय॑¦सोम᳚‌म् ||

वृषा᳚सिदि॒वोवृ॑ष॒भःपृ॑थि॒व्यावृषा॒सिन्धू᳚नांवृष॒भःस्तिया᳚नाम् |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

वृष्णे᳚त॒इन्दु᳚र्वृषभपीपायस्वा॒दूरसो᳚मधु॒पेयो॒वरा᳚य॒(स्वाहा᳚) || 21 || वर्ग:20

वृषा᳚¦अ॒सि॒¦दि॒वः¦वृ॒ष॒भः¦पृ॒थि॒व्याः¦वृषा᳚¦सिन्धू᳚ना‌म्¦वृ॒ष॒भः¦स्तिया᳚ना‌म् |
वृष्णे᳚¦ते॒¦इन्दुः॑¦वृ॒ष॒भ॒¦पी॒पा॒य॒¦स्वा॒दुः¦रसः॑¦म॒धु॒ऽपेयः॑¦वरा᳚य ||

अ॒यंदे॒वःसह॑सा॒जाय॑मान॒इन्द्रे᳚णयु॒जाप॒णिम॑स्तभायत् |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

अ॒यंस्वस्य॑पि॒तुरायु॑धा॒नीन्दु॑रमुष्णा॒दशि॑वस्यमा॒याः(स्वाहा᳚) || 22 ||

अ॒य‌म्¦दे॒वः¦सह॑सा¦जाय॑मानः¦इन्द्रे᳚ण¦यु॒जा¦प॒णि‌म्¦अ॒स्त॒भा॒य॒त् |
अ॒य‌म्¦स्वस्य॑¦पि॒तुः¦आयु॑धानि¦इन्दुः॑¦अ॒मु॒ष्णा॒त्¦अशि॑वस्य¦मा॒याः ||

अ॒यम॑कृणोदु॒षसः॑सु॒पत्नी᳚र॒यंसूर्ये᳚,अदधा॒ज्ज्योति॑र॒न्तः |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

अ॒यंत्रि॒धातु॑दि॒विरो᳚च॒नेषु॑त्रि॒तेषु॑विन्दद॒मृतं॒निगू᳚ळ्ह॒‌म्(स्वाहा᳚) || 23 ||

अ॒य‌म्¦अ॒कृ॒णो॒त्¦उ॒षसः॑¦सु॒ऽपत्नीः᳚¦अ॒य‌म्¦सूर्ये᳚¦अ॒द॒धा॒त्¦ज्योतिः॑¦अ॒न्तरिति॑ |
अ॒य‌म्¦त्रि॒ऽधातु॑¦दि॒वि¦रो॒च॒नेषु॑¦त्रि॒तेषु॑¦वि॒न्द॒त्¦अ॒मृत᳚‌म्¦निऽगू᳚ळ्ह‌म् ||

अ॒यंद्यावा᳚पृथि॒वीविष्क॑भायद॒यंरथ॑मयुनक्स॒प्तर॑श्मिम् |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

अ॒यंगोषु॒शच्या᳚प॒क्वम॒न्तःसोमो᳚दाधार॒दश॑यन्त्र॒मुत्स॒‌म्(स्वाहा᳚) || 24 ||

अ॒य‌म्¦द्यावा᳚पृथि॒वी इति॑¦वि¦स्क॒भा॒य॒त्¦अ॒य‌म्¦रथ᳚‌म्¦अ॒यु॒न॒क्¦स॒प्तऽर॑श्मि‌म् |
अ॒य‌म्¦गोषु॑¦शच्या᳚¦प॒क्व‌म्¦अ॒न्तरिति॑¦सोमः॑¦दा॒धा॒र॒¦दश॑ऽयन्त्र‌म्¦उत्स᳚‌म् ||

[124] यआनयदिति त्रयस्त्रिंशदृचस्य सूक्तस्य बार्हस्पत्यः शंयुरिंद्रोंत्यतृचस्यबृबुस्तक्षा गायत्री एकोनत्रिंश्यतिनिचृद् एकत्रिंशीपादनिचृदंत्यानुष्टुप् |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:45}{अनुवाक:4, सूक्त:2}
यआन॑यत्परा॒वतः॒सुनी᳚तीतु॒र्वशं॒यदु᳚म् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

इन्द्रः॒सनो॒युवा॒सखा॒(स्वाहा᳚) || 1 || वर्ग:21

यः¦आ¦अन॑यत्¦प॒रा॒ऽवतः॑¦सुऽनी᳚ती¦तु॒र्वश᳚‌म्¦यदु᳚‌म् | इन्द्रः॑¦सः¦नः॒¦युवा᳚¦सखा᳚ ||

अ॒वि॒प्रेचि॒द्वयो॒दध॑दना॒शुना᳚चि॒दर्व॑ता |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

इन्द्रो॒जेता᳚हि॒तंधन॒‌म्(स्वाहा᳚) || 2 ||

अ॒वि॒प्रे¦चि॒त्¦वयः॑¦दध॑त्¦अ॒ना॒शुना᳚¦चि॒त्¦अर्व॑ता | इन्द्रः॑¦जेता᳚¦हि॒त‌म्¦धन᳚‌म् ||

म॒हीर॑स्य॒प्रणी᳚तयःपू॒र्वीरु॒तप्रश॑स्तयः |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

नास्य॑क्षीयन्तऊ॒तयः॒(स्वाहा᳚) || 3 ||

म॒हीः¦अ॒स्य॒¦प्रऽनी᳚तयः¦पू॒र्वीः¦उ॒त¦प्रऽश॑स्तयः | न¦अ॒स्य॒¦क्षी॒य॒न्ते॒¦ऊ॒तयः॑ ||

सखा᳚यो॒ब्रह्म॑वाह॒सेऽर्च॑त॒प्रच॑गायत |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

सहिनः॒प्रम॑तिर्म॒ही(स्वाहा᳚) || 4 ||

सखा᳚यः¦ब्रह्म॑ऽवाहसे¦अर्च॑त¦प्र¦च॒¦गा॒य॒त॒ | सः¦हि¦नः॒¦प्रऽम॑तिः¦म॒ही ||

त्वमेक॑स्यवृत्रहन्नवि॒ताद्वयो᳚रसि |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

उ॒तेदृशे॒यथा᳚व॒यम्(स्वाहा᳚) || 5 ||

त्व‌म्¦एक॑स्य¦वृ॒त्र॒ऽह॒न्¦अ॒वि॒ता¦द्वयोः᳚¦अ॒सि॒ | उ॒त¦ई॒दृशे᳚¦यथा᳚¦व॒य‌म् ||

नय॒सीद्वति॒द्विषः॑कृ॒णोष्यु॑क्थशं॒सिनः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

नृभिः॑सु॒वीर॑उच्यसे॒(स्वाहा᳚) || 6 || वर्ग:22

नय॑सि¦इत्¦ऊँ॒ इति॑¦अति॑¦द्विषः॑¦कृ॒णोषि॑¦उ॒क्थ॒ऽशं॒सिनः॑ | नृऽभिः॑¦सु॒ऽवीरः॑¦उ॒च्य॒से॒ ||

ब्र॒ह्माणं॒ब्रह्म॑वाहसंगी॒र्भिःसखा᳚यमृ॒ग्मिय᳚म् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

गांनदो॒हसे᳚हुवे॒(स्वाहा᳚) || 7 ||

ब्र॒ह्माण᳚‌म्¦ब्रह्म॑ऽवाहस‌म्¦गीः॒ऽभिः¦सखा᳚य‌म्¦ऋ॒ग्मिय᳚‌म् | गा‌म्¦न¦दो॒हसे᳚¦हु॒वे॒ ||

यस्य॒विश्वा᳚नि॒हस्त॑योरू॒चुर्वसू᳚नि॒निद्वि॒ता |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

वी॒रस्य॑पृतना॒षहः॒(स्वाहा᳚) || 8 ||

यस्य॑¦विश्वा᳚नि¦हस्त॑योः¦ऊ॒चुः¦वसू᳚नि¦नि¦द्वि॒ता | वी॒रस्य॑¦पृ॒त॒ना॒ऽसहः॑ ||

विदृ॒ळ्हानि॑चिदद्रिवो॒जना᳚नांशचीपते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

वृ॒हमा॒या,अ॑नानत॒(स्वाहा᳚) || 9 ||

वि¦दृ॒ळ्हानि॑¦चि॒त्¦अ॒द्रि॒ऽवः॒¦जना᳚ना‌म्¦श॒ची॒ऽप॒ते॒ | वृ॒ह¦मा॒याः¦अ॒ना॒न॒त॒ ||

तमु॑त्वासत्यसोमपा॒,इन्द्र॑वाजानांपते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

अहू᳚महिश्रव॒स्यवः॒(स्वाहा᳚) || 10 ||

त‌म्¦ऊँ॒ इति॑¦त्वा॒¦स॒त्य॒¦सो॒म॒ऽपाः॒¦इन्द्र॑¦वा॒जा॒ना॒‌म्¦प॒ते॒ | अहू᳚महि¦श्र॒व॒स्यवः॑ ||

तमु॑त्वा॒यःपु॒रासि॑थ॒योवा᳚नू॒नंहि॒तेधने᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

हव्यः॒सश्रु॑धी॒हव॒‌म्(स्वाहा᳚) || 11 || वर्ग:23

त‌म्¦ऊँ॒ इति॑¦त्वा॒¦यः¦पु॒रा¦आसि॑थ¦यः¦वा॒¦नू॒न‌म्¦हि॒ते¦धने᳚ | हव्यः॑¦सः¦श्रु॒धि॒¦हव᳚‌म् ||

धी॒भिरर्व॑द्भि॒रर्व॑तो॒वाजाँ᳚,इन्द्रश्र॒वाय्या॑न् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

त्वया᳚जेष्महि॒तंधन॒‌म्(स्वाहा᳚) || 12 ||

धी॒भिः¦अर्व॑त्ऽभिः¦अर्व॑तः¦वाजा᳚न्¦इ॒न्द्र॒¦श्र॒वाय्या॑न् | त्वया᳚¦जे॒ष्म॒¦हि॒त‌म्¦धन᳚‌म् ||

अभू᳚रुवीरगिर्वणोम॒हाँ,इ᳚न्द्र॒धने᳚हि॒ते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

भरे᳚वितन्त॒साय्यः॒(स्वाहा᳚) || 13 ||

अभूः᳚¦ऊँ॒ इति॑¦वी॒र॒¦गि॒र्व॒णः॒¦म॒हान्¦इ॒न्द्र॒¦धने᳚¦हि॒ते | भरे᳚¦वि॒त॒न्त॒साय्यः॑ ||

यात॑ऊ॒तिर॑मित्रहन्म॒क्षूज॑वस्त॒मास॑ति |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

तया᳚नोहिनुही॒रथ॒‌म्(स्वाहा᳚) || 14 ||

या¦ते॒¦ऊ॒तिः¦अ॒मि॒त्र॒ऽह॒न्¦म॒क्षुज॑वःऽतमा¦अस॑ति | तया᳚¦नः॒¦हि॒नु॒हि॒¦रथ᳚‌म् ||

सरथे᳚नर॒थीत॑मो॒ऽस्माके᳚नाभि॒युग्व॑ना |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

जेषि॑जिष्णोहि॒तंधन॒‌म्(स्वाहा᳚) || 15 ||

सः¦रथे᳚न¦र॒थिऽत॑मः¦अ॒स्माके᳚न¦अ॒भि॒ऽयुग्व॑ना | जेषि॑¦जि॒ष्णो॒ इति॑¦हि॒त‌म्¦धन᳚‌म् ||

यएक॒इत्तमु॑ष्टुहिकृष्टी॒नांविच॑र्षणिः |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

पति॑र्ज॒ज्ञेवृष॑क्रतुः॒(स्वाहा᳚) || 16 || वर्ग:24

यः¦एकः॑¦इत्¦त‌म्¦ऊँ॒ इति॑¦स्तु॒हि॒¦कृ॒ष्टी॒ना‌म्¦विऽच॑र्षणिः | पतिः॑¦ज॒ज्ञे¦वृष॑ऽक्रतुः ||

योगृ॑ण॒तामिदासि॑था॒पिरू॒तीशि॒वःसखा᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

सत्वंन॑इन्द्रमृळय॒(स्वाहा᳚) || 17 ||

यः¦गृ॒ण॒ता‌म्¦इत्¦आसि॑थ¦आ॒पिः¦ऊ॒ती¦शि॒वः¦सखा᳚ | सः¦त्व‌म्¦नः॒¦इ॒न्द्र॒¦मृ॒ळ॒य॒ ||

धि॒ष्ववज्रं॒गभ॑स्त्योरक्षो॒हत्या᳚यवज्रिवः |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

सा॒स॒ही॒ष्ठा,अ॒भिस्पृधः॒(स्वाहा᳚) || 18 ||

धि॒ष्व¦वज्र᳚‌म्¦गभ॑स्त्योः¦र॒क्षः॒ऽहत्या᳚य¦व॒ज्रि॒ऽवः॒ | स॒स॒ही॒ष्ठाः¦अ॒भि¦स्पृधः॑ ||

प्र॒त्नंर॑यी॒णांयुजं॒सखा᳚यंकीरि॒चोद॑नम् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

ब्रह्म॑वाहस्तमंहुवे॒(स्वाहा᳚) || 19 ||

प्र॒त्न‌म्¦र॒यी॒णा‌म्¦युज᳚‌म्¦सखा᳚य‌म्¦की॒रि॒ऽचोद॑न‌म् | ब्रह्म॑वाहःऽतम‌म्¦हु॒वे॒ ||

सहिविश्वा᳚नि॒पार्थि॑वाँ॒,एको॒वसू᳚नि॒पत्य॑ते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

गिर्व॑णस्तमो॒,अध्रि॑गुः॒(स्वाहा᳚) || 20 ||

सः¦हि¦विश्वा᳚नि¦पार्थि॑वा¦एकः॑¦वसू᳚नि¦पत्य॑ते | गिर्व॑णःऽतमः¦अध्रि॑ऽगुः ||

सनो᳚नि॒युद्भि॒रापृ॑ण॒कामं॒वाजे᳚भिर॒श्विभिः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

गोम॑द्भिर्गोपतेधृ॒षत्(स्वाहा᳚) || 21 || वर्ग:25

सः¦नः॒¦नि॒युत्ऽभिः॑¦आ¦पृ॒ण॒¦काम᳚‌म्¦वाजे᳚भिः¦अ॒श्विऽभिः॑ | गोम॑त्ऽभिः¦गो॒ऽप॒ते॒¦धृ॒षत् ||

तद्वो᳚गायसु॒तेसचा᳚पुरुहू॒ताय॒सत्व॑ने |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

शंयद्गवे॒नशा॒किने॒(स्वाहा᳚) || 22 ||

तत्¦वः॒¦गा॒य॒¦सु॒ते¦सचा᳚¦पु॒रु॒ऽहू॒ताय॑¦सत्व॑ने | श‌म्¦यत्¦गवे᳚¦न¦शा॒किने᳚ ||

नघा॒वसु॒र्निय॑मतेदा॒नंवाज॑स्य॒गोम॑तः |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

यत्सी॒मुप॒श्रव॒द्गिरः॒(स्वाहा᳚) || 23 ||

न¦घ॒¦वसुः॑¦नि¦य॒म॒ते॒¦दा॒न‌म्¦वाज॑स्य¦गोऽम॑तः | यत्¦सी॒‌म्¦उप॑¦श्र॒व॒त्¦गिरः॑ ||

कु॒वित्स॑स्य॒प्रहिव्र॒जंगोम᳚न्तंदस्यु॒हागम॑त् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

शची᳚भि॒रप॑नोवर॒‌त्(स्वाहा᳚) || 24 ||

कु॒वित्ऽस॑स्य¦प्र¦हि¦व्र॒ज‌म्¦गोऽम᳚न्त‌म्¦द॒स्यु॒ऽहा¦गम॑त् | शची᳚भिः¦अप॑¦नः॒¦व॒र॒त् ||

इ॒मा,उ॑त्वाशतक्रतो॒ऽभिप्रणो᳚नुवु॒र्गिरः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

इन्द्र॑व॒त्संनमा॒तरः॒(स्वाहा᳚) || 25 ||

इ॒माः¦ऊँ॒ इति॑¦त्वा॒¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो¦अ॒भि¦प्र¦नो॒नु॒वुः॒¦गिरः॑ | इन्द्र॑¦व॒त्स‌म्¦न¦मा॒तरः॑ ||

दू॒णाशं᳚स॒ख्यंतव॒गौर॑सिवीरगव्य॒ते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

अश्वो᳚,अश्वाय॒तेभ॑व॒(स्वाहा᳚) || 26 || वर्ग:26

दुः॒ऽनश᳚‌म्¦स॒ख्य‌म्¦तव॑¦गौः¦अ॒सि॒¦वी॒र॒¦ग॒व्य॒ते | अश्वः॑¦अ॒श्व॒ऽय॒ते¦भ॒व॒ ||

सम᳚न्दस्वा॒ह्यन्ध॑सो॒राध॑सेत॒न्वा᳚म॒हे |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

नस्तो॒तारं᳚नि॒देक॑रः॒(स्वाहा᳚) || 27 ||

सः¦म॒न्द॒स्व॒¦हि¦अन्ध॑सः¦राध॑से¦त॒न्वा᳚¦म॒हे | न¦स्तो॒तार᳚‌म्¦नि॒दे¦क॒रः॒ ||

इ॒मा,उ॑त्वासु॒तेसु॑ते॒नक्ष᳚न्तेगिर्वणो॒गिरः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

व॒त्संगावो॒नधे॒नवः॒(स्वाहा᳚) || 28 ||

इ॒माः¦ऊँ॒ इति॑¦त्वा॒¦सु॒तेऽसु॑ते¦नक्ष᳚न्ते¦गि॒र्व॒णः॒¦गिरः॑ | व॒त्स‌म्¦गावः॑¦न¦धे॒नवः॑ ||

पु॒रू॒तमं᳚पुरू॒णांस्तो᳚तॄ॒णांविवा᳚चि |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

वाजे᳚भिर्वाजय॒ताम्(स्वाहा᳚) || 29 ||

पु॒रु॒ऽतम᳚‌म्¦पु॒रू॒णा‌म्¦स्तो॒तॄ॒णा‌म्¦विऽवा᳚चि | वाजे᳚भिः¦वा॒ज॒ऽय॒ता‌म् ||

अ॒स्माक॑मिन्द्रभूतुते॒स्तोमो॒वाहि॑ष्ठो॒,अन्त॑मः |{बार्हस्पत्यः शंयः | बृबुस्तक्षा | गायत्री}

अ॒स्मान्‌रा॒येम॒हेहि॑नु॒(स्वाहा᳚) || 30 ||

अ॒स्माक᳚‌म्¦इ॒न्द्र॒¦भू॒तु॒¦ते॒¦स्तोमः॑¦वाहि॑ष्ठः¦अन्त॑मः | अ॒स्मान्¦रा॒ये¦म॒हे¦हि॒नु॒ ||

अधि॑बृ॒बुःप॑णी॒नांवर्षि॑ष्ठेमू॒र्धन्न॑स्थात् |{बार्हस्पत्यः शंयः | बृबुस्तक्षा | गायत्री}

उ॒रुःकक्षो॒नगा॒ङ्ग्यः॒(स्वाहा᳚) || 31 ||

अधि॑¦बृ॒बुः¦प॒णी॒ना‌म्¦वर्षि॑ष्ठे¦मू॒र्धन्¦अ॒स्था॒त् | उ॒रुः¦कक्षः॑¦न¦गा॒ङ्ग्यः ||

यस्य॑वा॒योरि॑वद्र॒वद्भ॒द्रारा॒तिःस॑ह॒स्रिणी᳚ |{बार्हस्पत्यः शंयः | बृबुस्तक्षा | गायत्री}

स॒द्योदा॒नाय॒मंह॑ते॒(स्वाहा᳚) || 32 ||

यस्य॑¦वा॒योःऽ‌इ᳚व¦द्र॒वत्¦भ॒द्रा¦रा॒तिः¦स॒ह॒स्रिणी᳚ | स॒द्यः¦दा॒नाय॑¦मंह॑ते ||

तत्सुनो॒विश्वे᳚,अ॒र्यआसदा᳚गृणन्तिका॒रवः॑ |{बार्हस्पत्यः शंयः | बृबुस्तक्षा | अनुष्टुप्}

बृ॒बुंस॑हस्र॒दात॑मंसू॒रिंस॑हस्र॒सात॑म॒‌म्(स्वाहा᳚) || 33 ||

तत्¦सु¦नः॒¦विश्वे᳚¦अ॒र्यः¦आ¦सदा᳚¦गृ॒ण॒न्ति॒¦का॒रवः॑ | बृ॒बु‌म्¦स॒ह॒स्र॒ऽदात॑म‌म्¦सू॒रि‌म्¦स॒ह॒स्र॒ऽसात॑म‌म् ||

[125] त्वामिद्धीति चतुर्दशर्चस्य सूक्तस्य बार्हस्पत्यः शंयुरिंद्रः अयुजोबृहत्यः युजःसतोबृहत्यः |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:46}{अनुवाक:4, सूक्त:3}
त्वामिद्धिहवा᳚महेसा॒तावाज॑स्यका॒रवः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती}

त्वांवृ॒त्रेष्वि᳚न्द्र॒सत्प॑तिं॒नर॒स्त्वांकाष्ठा॒स्वर्व॑तः॒(स्वाहा᳚) || 1 || वर्ग:27

त्वा‌म्¦इत्¦हि¦हवा᳚महे¦सा॒ता¦वाज॑स्य¦का॒रवः॑ |
त्वा‌म्¦वृ॒त्रेषु॑¦इ॒न्द्र॒¦सत्ऽप॑ति‌म्¦नरः॑¦त्वा‌म्¦काष्ठा᳚सु¦अर्व॑तः ||

सत्वंन॑श्चित्रवज्रहस्तधृष्णु॒याम॒हःस्त॑वा॒नो,अ॑द्रिवः |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती}

गामश्वं᳚र॒थ्य॑मिन्द्र॒संकि॑रस॒त्रावाजं॒नजि॒ग्युषे॒(स्वाहा᳚) || 2 ||

सः¦त्व‌म्¦नः॒¦चि॒त्र॒¦व॒ज्र॒ऽह॒स्त॒¦धृ॒ष्णु॒ऽया¦म॒हः¦स्त॒वा॒नः¦अ॒द्रि॒ऽवः॒ |
गा‌म्¦अश्व᳚‌म्¦र॒थ्य᳚‌म्¦इ॒न्द्र॒¦स‌म्¦कि॒र॒¦स॒त्रा¦वाज᳚‌म्¦न¦जि॒ग्युषे᳚ ||

यःस॑त्रा॒हाविच॑र्षणि॒रिन्द्रं॒तंहू᳚महेव॒यम् |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती}

सह॑स्रमुष्क॒तुवि॑नृम्ण॒सत्प॑ते॒भवा᳚स॒मत्सु॑नोवृ॒धे(स्वाहा᳚) || 3 ||

यः¦स॒त्रा॒ऽहा¦विऽच॑र्षणिः¦इन्द्र᳚‌म्¦त‌म्¦हू॒म॒हे॒¦व॒य‌म् |
सह॑स्रऽमुष्क¦तुवि॑ऽनृम्ण¦सत्ऽप॑ते¦भव॑¦स॒मत्ऽसु॑¦नः॒¦वृ॒धे ||

बाध॑से॒जना᳚न्‌वृष॒भेव॑म॒न्युना॒घृषौ᳚मी॒ळ्हऋ॑चीषम |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती}

अ॒स्माकं᳚बोध्यवि॒ताम॑हाध॒नेत॒नूष्व॒प्सुसूर्ये॒(स्वाहा᳚) || 4 ||

बाध॑से¦जना᳚न्¦वृ॒ष॒भाऽ‌इ᳚व¦म॒न्युना᳚¦घृषौ᳚¦मी॒ळ्हे¦ऋ॒ची॒ष॒म॒ |
अ॒स्माक᳚‌म्¦बो॒धि॒¦अ॒वि॒ता¦म॒हा॒ऽध॒ने¦त॒नूषु॑¦अ॒प्ऽसु¦सूर्ये᳚ ||

इन्द्र॒ज्येष्ठं᳚न॒आभ॑रँ॒,ओजि॑ष्ठं॒पपु॑रि॒श्रवः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती}

येने॒मेचि॑त्रवज्रहस्त॒रोद॑सी॒,ओभेसु॑शिप्र॒प्राः(स्वाहा᳚) || 5 ||

इन्द्र॑¦ज्येष्ठ᳚‌म्¦नः॒¦आ¦भ॒र॒¦ओजि॑ष्ठ‌म्¦पपु॑रि¦श्रवः॑ |
येन॑¦इ॒मे इति॑¦चि॒त्र॒¦व॒ज्र॒ऽह॒स्त॒¦रोद॑सी॒ इति॑¦आ¦उ॒भे इति॑¦सु॒ऽशि॒प्र॒¦प्राः ||

त्वामु॒ग्रमव॑सेचर्षणी॒सहं॒राज᳚न्दे॒वेषु॑हूमहे |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती}

विश्वा॒सुनो᳚विथु॒रापि॑ब्द॒नाव॑सो॒ऽमित्रा᳚न्‌त्सु॒षहा᳚न्‌कृधि॒(स्वाहा᳚) || 6 || वर्ग:28

त्वा‌म्¦उ॒ग्र‌म्¦अव॑से¦च॒र्ष॒णि॒ऽसह᳚‌म्¦राज॑न्¦दे॒वेषु॑¦हू॒म॒हे॒ |
विश्वा᳚¦सु¦नः॒¦वि॒थु॒रा¦पि॒ब्द॒ना¦व॒सो॒ इति॑¦अ॒मित्रा᳚न्¦सु॒ऽसहा᳚न्¦कृ॒धि॒ ||

यदि᳚न्द्र॒नाहु॑षी॒ष्वाँ,ओजो᳚नृ॒म्णंच॑कृ॒ष्टिषु॑ |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती}

यद्वा॒पञ्च॑क्षिती॒नांद्यु॒म्नमाभ॑रस॒त्राविश्वा᳚नि॒पौंस्या॒(स्वाहा᳚) || 7 ||

यत्¦इ॒न्द्र॒¦नाहु॑षीषु¦आ¦ओजः॑¦नृ॒म्ण‌म्¦च॒¦कृ॒ष्टिषु॑ |
यत्¦वा॒¦पंच॑¦क्षि॒ती॒ना‌म्¦द्यु॒म्न‌म्¦आ¦भ॒र॒¦स॒त्रा¦विश्वा᳚नि¦पौंस्या᳚ ||

यद्वा᳚तृ॒क्षौम॑घवन्द्रु॒ह्यावाजने॒यत्पू॒रौकच्च॒वृष्ण्य᳚म् |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती}

अ॒स्मभ्यं॒तद्रि॑रीहि॒संनृ॒षाह्ये॒ऽमित्रा᳚न्‌पृ॒त्सुतु॒र्वणे॒(स्वाहा᳚) || 8 ||

यत्¦वा॒¦तृ॒क्षौ¦म॒घ॒ऽव॒न्¦द्रु॒ह्यौ¦आ¦जने᳚¦यत्¦पू॒रौ¦कत्¦च॒¦वृष्ण्य᳚‌म् |
अ॒स्मभ्य᳚‌म्¦तत्¦रि॒री॒हि॒¦स‌म्¦नृ॒ऽसह्ये᳚¦अ॒मित्रा᳚न्¦पृ॒त्ऽसु¦तु॒र्वणे᳚ ||

इन्द्र॑त्रि॒धातु॑शर॒णंत्रि॒वरू᳚थंस्वस्ति॒मत् |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती}

छ॒र्दिर्य॑च्छम॒घव॑द्भ्यश्च॒मह्यं᳚चया॒वया᳚दि॒द्युमे᳚भ्यः॒(स्वाहा᳚) || 9 ||

इन्द्र॑¦त्रि॒ऽधातु॑¦श॒र॒ण‌म्¦त्रि॒ऽवरू᳚थ‌म्¦स्व॒स्ति॒ऽमत् |
छ॒र्दिः¦य॒च्छ॒¦म॒घव॑त्ऽभ्यः¦च॒¦मह्य᳚‌म्¦च॒¦य॒वय॑¦दि॒द्यु‌म्¦ए॒भ्यः॒ ||

येग᳚व्य॒तामन॑सा॒शत्रु॑माद॒भुर॑भिप्र॒घ्नन्ति॑धृष्णु॒या |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती}

अध॑स्मानोमघवन्निन्द्रगिर्वणस्तनू॒पा,अन्त॑मोभव॒(स्वाहा᳚) || 10 ||

ये¦ग॒व्य॒ता¦मन॑सा¦शत्रु᳚‌म्¦आ॒ऽद॒भुः¦अ॒भि॒ऽप्र॒घ्नन्ति॑¦धृ॒ष्णु॒ऽया |
अध॑¦स्म॒¦नः॒¦म॒घ॒ऽव॒न्¦इ॒न्द्र॒¦गि॒र्व॒णः॒¦त॒नू॒ऽपाः¦अन्त॑मः¦भ॒व॒ ||

अध॑स्मानोवृ॒धेभ॒वेन्द्र॑ना॒यम॑वायु॒धि |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती}

यद॒न्तरि॑क्षेप॒तय᳚न्तिप॒र्णिनो᳚दि॒द्यव॑स्ति॒ग्ममू᳚र्धानः॒(स्वाहा᳚) || 11 || वर्ग:29

अध॑¦स्म॒¦नः॒¦वृ॒धे¦भ॒व॒¦इन्द्र॑¦ना॒य‌म्¦अ॒व॒¦यु॒धि |
यत्¦अ॒न्तरि॑क्षे¦प॒तय᳚न्ति¦प॒र्णिनः॑¦दि॒द्यवः॑¦ति॒ग्मऽमू᳚र्धानः ||

यत्र॒शूरा᳚सस्त॒न्वो᳚वितन्व॒तेप्रि॒याशर्म॑पितॄ॒णाम् |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती}

अध॑स्मायच्छत॒न्वे॒३॑(ए॒)तने᳚चछ॒र्दिर॒चित्तं᳚या॒वय॒द्वेषः॒(स्वाहा᳚) || 12 ||

यत्र॑¦शूरा᳚सः¦त॒न्वः॑¦वि॒ऽत॒न्व॒ते¦प्रि॒या¦शर्म॑¦पि॒तॄ॒णा‌म् |
अध॑¦स्म॒¦य॒च्छ॒¦त॒न्वे᳚¦तने᳚¦च॒¦छ॒र्धिः¦अ॒चित्त᳚‌म्¦य॒वय॑¦द्वेषः॑ ||

यदि᳚न्द्र॒सर्गे॒,अर्व॑तश्चो॒दया᳚सेमहाध॒ने |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती}

अ॒स॒म॒ने,अध्व॑निवृजि॒नेप॒थिश्ये॒नाँ,इ॑वश्रवस्य॒तः(स्वाहा᳚) || 13 ||

यत्¦इ॒न्द्र॒¦सर्गे᳚¦अर्व॑तः¦चो॒दया᳚से¦म॒हा॒ऽध॒ने |
अ॒स॒म॒ने¦अध्व॑नि¦वृ॒जि॒ने¦प॒थि¦श्ये॒नान्ऽ‌इ᳚व¦श्र॒व॒स्य॒तः ||

सिन्धूँ᳚रिवप्रव॒णआ᳚शु॒याय॒तोयदि॒क्लोश॒मनु॒ष्वणि॑ |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती}

आयेवयो॒नवर्वृ॑त॒त्यामि॑षिगृभी॒ताबा॒ह्वोर्गवि॒(स्वाहा᳚) || 14 ||

सिन्धू᳚न्ऽ‌इव¦प्र॒व॒णे¦आ॒शु॒ऽया¦य॒तः¦यदि॑¦क्लोश᳚‌म्¦अनु॑¦स्वनि॑ |
आ¦ये¦वयः॑¦न¦वर्वृ॑तति¦आमि॑षि¦गृ॒भी॒ताः¦बा॒ह्वोः¦गवि॑ ||

[126] स्वादुष्किलायमित्येक त्रिंशदृचस्य सूक्तस्य भारद्वाजोगर्गइंद्रः आद्यानांपंचानां सोमोऽगव्यूतीत्यस्यादेवभूमींद्राः प्रस्तोकइत्यादिचतसृणां प्रस्तोकोवनस्पतइत्यादितिसृणां रथउपश्वासयेतिद्वयोर्दुंदुभिः आमूरजइत्यस्यादुंदुभींद्रौत्रिष्टुप् एकोनविंशीबृहती त्रयोविंश्यनुष्टुप् चतुर्विंशीगायत्री पंचविंशीद्विपदा सप्तविंशीजगती |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:47}{अनुवाक:4, सूक्त:4}
स्वा॒दुष्किला॒यंमधु॑माँ,उ॒तायंती॒व्रःकिला॒यंरस॑वाँ,उ॒तायम् |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्}

उ॒तोन्व१॑(अ॒)स्यप॑पि॒वांस॒मिन्द्रं॒नकश्च॒नस॑हतआह॒वेषु॒(स्वाहा᳚) || 1 || वर्ग:30

स्वा॒दुः¦किल॑¦अ॒य‌म्¦मधु॑ऽमान्¦उ॒त¦अ॒य‌म्¦ती॒व्रः¦किल॑¦अ॒य‌म्¦रस॑ऽवान्¦उ॒त¦अ॒य‌म् |
उ॒तो इति॑¦नु¦अ॒स्य¦प॒पि॒ऽवांस᳚‌म्¦इन्द्र᳚‌म्¦न¦कः¦च॒न¦स॒ह॒ते॒¦आ॒ऽह॒वेषु॑ ||

अ॒यंस्वा॒दुरि॒हमदि॑ष्ठआस॒यस्येन्द्रो᳚वृत्र॒हत्ये᳚म॒माद॑ |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्}

पु॒रूणि॒यश्च्यौ॒त्नाशम्ब॑रस्य॒विन॑व॒तिंनव॑चदे॒ह्यो॒३॑(ओ॒)ह॒‌न्(स्वाहा᳚) || 2 ||

अ॒य‌म्¦स्वा॒दुः¦इ॒ह¦मदि॑ष्ठः¦आ॒स॒¦यस्य॑¦इन्द्रः॑¦वृ॒त्र॒ऽहत्ये᳚¦म॒माद॑ |
पु॒रूणि॑¦यः¦च्यौ॒त्ना¦शम्ब॑रस्य¦वि¦न॒व॒ति‌म्¦नव॑¦च॒¦दे॒ह्यः॑¦हन् ||

अ॒यंमे᳚पी॒तउदि॑यर्ति॒वाच॑म॒यंम॑नी॒षामु॑श॒तीम॑जीगः |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्}

अ॒यंषळु॒र्वीर॑मिमीत॒धीरो॒नयाभ्यो॒भुव॑नं॒कच्च॒नारे(स्वाहा᳚) || 3 ||

अ॒य‌म्¦मे॒¦पी॒तः¦उत्¦इ॒य॒र्ति॒¦वाच᳚‌म्¦अ॒य‌म्¦म॒नी॒षा‌म्¦उ॒श॒ती‌म्¦अ॒जी॒ग॒रिति॑ |
अ॒य‌म्¦षट्¦उ॒र्वीः¦अ॒मि॒मी॒त॒¦धीरः॑¦न¦याभ्यः॑¦भुव॑न‌म्¦कत्¦च॒न¦आ॒रे ||

अ॒यंसयोव॑रि॒माणं᳚पृथि॒व्याव॒र्ष्माणं᳚दि॒वो,अकृ॑णोद॒यंसः |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्}

अ॒यंपी॒यूषं᳚ति॒सृषु॑प्र॒वत्सु॒सोमो᳚दाधारो॒र्व१॑(अ॒)न्तरि॑क्ष॒‌म्(स्वाहा᳚) || 4 ||

अ॒य‌म्¦सः¦यः¦व॒रि॒माण᳚‌म्¦पृ॒थि॒व्याः¦व॒र्ष्माण᳚‌म्¦दि॒वः¦अकृ॑णोत्¦अ॒य‌म्¦सः |
अ॒य‌म्¦पी॒यूष᳚‌म्¦ति॒सृषु॑¦प्र॒वत्ऽसु॑¦सोमः॑¦दा॒धा॒र॒¦उ॒रु¦अ॒न्तरि॑क्ष‌म् ||

अ॒यंवि॑दच्चित्र॒दृशी᳚क॒मर्णः॑शु॒क्रस॑द्मनामु॒षसा॒मनी᳚के |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्}

अ॒यंम॒हान्म॑ह॒तास्कम्भ॑ने॒नोद्द्याम॑स्तभ्नाद्वृष॒भोम॒रुत्वा॒न्त्(स्वाहा᳚) || 5 ||

अ॒य‌म्¦वि॒द॒त्¦चि॒त्र॒ऽदृशी᳚क‌म्¦अर्णः॑¦शु॒क्रऽस॑द्मना‌म्¦उ॒षसा᳚‌म्¦अनी᳚के |
अ॒य‌म्¦म॒हान्¦म॒ह॒ता¦स्कम्भ॑नेन¦उत्¦द्या‌म्¦अ॒स्त॒भ्ना॒त्¦वृ॒ष॒भः¦म॒रुत्वा॑न् ||

धृ॒षत्पि॑बक॒लशे॒सोम॑मिन्द्रवृत्र॒हाशू᳚रसम॒रेवसू᳚नाम् |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

माध्यं᳚दिने॒सव॑न॒आवृ॑षस्वरयि॒स्थानो᳚र॒यिम॒स्मासु॑धेहि॒(स्वाहा᳚) || 6 || वर्ग:31

धृ॒षत्¦पि॒ब॒¦क॒लशे᳚¦सोम᳚‌म्¦इ॒न्द्र॒¦वृ॒त्र॒ऽहा¦शू॒र॒¦स॒‌म्।आ॒रे¦वसू᳚ना‌म् |
माध्यं᳚दिने¦सव॑ने¦आ¦वृ॒ष॒स्व॒¦र॒यि॒ऽस्थानः॑¦र॒यि‌म्¦अ॒स्मासु॑¦धे॒हि॒ ||

इन्द्र॒प्रणः॑पुरए॒तेव॑पश्य॒प्रनो᳚नयप्रत॒रंवस्यो॒,अच्छ॑ |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

भवा᳚सुपा॒रो,अ॑तिपार॒योनो॒भवा॒सुनी᳚तिरु॒तवा॒मनी᳚तिः॒(स्वाहा᳚) || 7 ||

इन्द्र॑¦प्र¦नः॒¦पु॒र॒ए॒ताऽ‌इ᳚व¦प॒श्य॒¦प्र¦नः॒¦न॒य॒¦प्र॒ऽत॒र‌म्¦वस्यः॑¦अच्छ॑ |
भव॑¦सु॒ऽपा॒रः¦अ॒ति॒ऽपा॒र॒यः¦नः॒¦भव॑¦सुऽनी᳚तिः¦उ॒त¦वा॒मऽनी᳚तिः ||

उ॒रुंनो᳚लो॒कमनु॑नेषिवि॒द्वान्‌त्स्व᳚र्व॒ज्ज्योति॒रभ॑यंस्व॒स्ति |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

ऋ॒ष्वात॑इन्द्र॒स्थवि॑रस्यबा॒हू,उप॑स्थेयामशर॒णाबृ॒हन्ता॒(स्वाहा᳚) || 8 ||

उ॒रु‌म्¦नः॒¦लो॒क‌म्¦अनु॑¦ने॒षि॒¦वि॒द्वान्¦स्वः॑ऽवत्¦ज्योतिः॑¦अभ॑य‌म्¦स्व॒स्ति |
ऋ॒ष्वा¦ते॒¦इ॒न्द्र॒¦स्थवि॑रस्य¦बा॒हू इति॑¦उप॑¦स्थे॒या॒म॒¦श॒र॒णा¦बृ॒हन्ता᳚ ||

वरि॑ष्ठेनइन्द्रव॒न्धुरे᳚धा॒वहि॑ष्ठयोःशताव॒न्नश्व॑यो॒रा |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

इष॒माव॑क्षी॒षांवर्षि॑ष्ठां॒मान॑स्तारीन्मघव॒न्‌रायो᳚,अ॒र्यः(स्वाहा᳚) || 9 ||

वरि॑ष्ठे¦नः॒¦इ॒न्द्र॒¦व॒न्धुरे᳚¦धाः॒¦वहि॑ष्ठयोः¦श॒त॒ऽव॒न्¦अश्व॑योः¦आ |
इष᳚‌म्¦आ¦व॒क्षि॒¦इ॒षा‌म्¦वर्षि॑ष्ठा‌म्¦मा¦नः॒¦ता॒री॒त्¦म॒घ॒ऽव॒न्¦रायः॑¦अ॒र्यः ||

इन्द्र॑मृ॒ळमह्यं᳚जी॒वातु॑मिच्छचो॒दय॒धिय॒मय॑सो॒नधारा᳚म् |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

यत्किंचा॒हंत्वा॒युरि॒दंवदा᳚मि॒तज्जु॑षस्वकृ॒धिमा᳚दे॒वव᳚न्त॒‌म्(स्वाहा᳚) || 10 ||

इन्द्र॑¦मृ॒ळ¦मह्य᳚‌म्¦जी॒वातु᳚‌म्¦इ॒च्छ॒¦चो॒दय॑¦धिय᳚‌म्¦अय॑सः¦न¦धारा᳚‌म् |
यत्¦कि‌म्¦च॒¦अ॒ह‌म्¦त्वा॒ऽयुः¦इ॒द‌म्¦वदा᳚मि¦तत्¦जु॒ष॒स्व॒¦कृ॒धि¦मा॒¦दे॒वऽव᳚न्त‌म् ||

त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒हवे᳚हवेसु॒हवं॒शूर॒मिन्द्र᳚म् |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

ह्वया᳚मिश॒क्रंपु॑रुहू॒तमिन्द्रं᳚स्व॒स्तिनो᳚म॒घवा᳚धा॒त्विन्द्रः॒(स्वाहा᳚) || 11 || वर्ग:32

त्रा॒तार᳚‌म्¦इन्द्र᳚‌म्¦अ॒वि॒तार᳚‌म्¦इन्द्र᳚‌म्¦हवे᳚ऽहवे¦सु॒ऽहव᳚‌म्¦शूर᳚‌म्¦इन्द्र᳚‌म् |
ह्वया᳚मि¦श॒क्र‌म्¦पु॒रु॒ऽहू॒त‌म्¦इन्द्र᳚‌म्¦स्व॒स्ति¦नः॒¦म॒घऽवा᳚¦धा॒तु॒¦इन्द्रः॑ ||

इन्द्रः॑सु॒त्रामा॒स्ववाँ॒,अवो᳚भिःसुमृळी॒कोभ॑वतुवि॒श्ववे᳚दाः |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

बाध॑तां॒द्वेषो॒,अभ॑यंकृणोतुसु॒वीर्य॑स्य॒पत॑यःस्याम॒(स्वाहा᳚) || 12 ||

इन्द्रः॑¦सु॒ऽत्रामा᳚¦स्वऽवा᳚न्¦अवः॑ऽभिः¦सु॒ऽमृ॒ळी॒कः¦भ॒व॒तु॒¦वि॒श्वऽवे᳚दाः |
बाध॑ता‌म्¦द्वेषः॑¦अभ॑य‌म्¦कृ॒णो॒तु॒¦सु॒ऽवीर्य॑स्य¦पत॑यः¦स्या॒म॒ ||

तस्य॑व॒यंसु॑म॒तौय॒ज्ञिय॒स्यापि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

ससु॒त्रामा॒स्ववाँ॒,इन्द्रो᳚,अ॒स्मे,आ॒राच्चि॒द्द्वेषः॑सनु॒तर्यु॑योतु॒(स्वाहा᳚) || 13 ||

तस्य॑¦व॒य‌म्¦सु॒ऽम॒तौ¦य॒ज्ञिय॑स्य¦अपि॑¦भ॒द्रे¦सौ॒म॒न॒से¦स्या॒म॒ |
सः¦सु॒ऽत्रामा᳚¦स्वऽवा᳚न्¦इन्द्रः॑¦अ॒स्मे इति॑¦आ॒रात्¦चि॒त्¦द्वेषः॑¦स॒नु॒तः¦यु॒यो॒तु॒ ||

अव॒त्वे,इ᳚न्द्रप्र॒वतो॒नोर्मिर्गिरो॒ब्रह्मा᳚णिनि॒युतो᳚धवन्ते |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

उ॒रूनराधः॒सव॑नापु॒रूण्य॒पोगाव॑ज्रिन्युवसे॒समिन्दू॒न्त्(स्वाहा᳚) || 14 ||

अव॑¦त्वे इति॑¦इ॒न्द्र॒¦प्र॒ऽवतः॑¦न¦ऊ॒र्मिः¦गिरः॑¦ब्रह्मा᳚णि¦नि॒ऽयुतः॑¦ध॒व॒न्ते॒ |
उ॒रु¦न¦राधः॑¦सव॑ना¦पु॒रूणि॑¦अ॒पः¦गाः¦व॒ज्रि॒न्¦यु॒व॒से॒¦स‌म्¦इन्दू॑न् ||

कईं᳚स्तव॒त्कःपृ॑णा॒त्कोय॑जाते॒यदु॒ग्रमिन्म॒घवा᳚वि॒श्वहावे᳚त् |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

पादा᳚विवप्र॒हर᳚न्न॒न्यम᳚न्यंकृ॒णोति॒पूर्व॒मप॑रं॒शची᳚भिः॒(स्वाहा᳚) || 15 ||

कः¦ई॒‌म्¦स्त॒व॒त्¦कः¦पृ॒णा॒त्¦कः¦य॒जा॒ते॒¦यत्¦उ॒ग्र‌म्¦इत्¦म॒घऽवा᳚¦वि॒श्वहा᳚¦अवे᳚त् |
पादौ᳚ऽ‌इव¦प्र॒ऽहर॑न्¦अ॒न्य‌म्।आ᳚न्य‌म्¦कृ॒णोति॑¦पूर्व᳚‌म्¦अप॑र‌म्¦शची᳚भिः ||

शृ॒ण्वेवी॒रउ॒ग्रमु॑ग्रंदमा॒यन्न॒न्यम᳚न्यमतिनेनी॒यमा᳚नः |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

ए॒ध॒मा॒न॒द्विळु॒भय॑स्य॒राजा᳚चोष्कू॒यते॒विश॒इन्द्रो᳚मनु॒ष्या॒न्त्(स्वाहा᳚) || 16 || वर्ग:33

शृ॒ण्वे¦वी॒रः¦उ॒ग्र‌म्।औ᳚ग्र‌म्¦द॒म॒ऽयन्¦अ॒न्य‌म्।आ᳚न्य‌म्¦अ॒ति॒ऽने॒नी॒यमा᳚नः |
ए॒ध॒मा॒न॒ऽद्विट्¦उ॒भय॑स्य¦राजा᳚¦चो॒ष्कू॒यते᳚¦विशः॑¦इन्द्रः॑¦म॒नु॒ष्या॑न् ||

परा॒पूर्वे᳚षांस॒ख्यावृ॑णक्तिवि॒तर्तु॑राणो॒,अप॑रेभिरेति |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

अना᳚नुभूतीरवधून्वा॒नःपू॒र्वीरिन्द्रः॑श॒रद॑स्तर्तरीति॒(स्वाहा᳚) || 17 ||

परा᳚¦पूर्वे᳚षा‌म्¦स॒ख्या¦वृ॒ण॒क्ति॒¦वि॒ऽतर्तु॑राणः¦अप॑रेभिः¦ए॒ति॒ |
अन॑नुऽभूतीः¦अ॒व॒ऽधू॒न्वा॒नः¦पू॒र्वीः¦इन्द्रः॑¦श॒रदः॑¦त॒र्त॒री॒ति॒ ||

रू॒पंरू᳚पं॒प्रति॑रूपोबभूव॒तद॑स्यरू॒पंप्र॑ति॒चक्ष॑णाय |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

इन्द्रो᳚मा॒याभिः॑पुरु॒रूप॑ईयतेयु॒क्ताह्य॑स्य॒हर॑यःश॒तादश॒(स्वाहा᳚) || 18 ||

रू॒प‌म्ऽरू᳚प‌म्¦प्रति॑ऽरूपः¦ब॒भू॒व॒¦तत्¦अ॒स्य॒¦रू॒प‌म्¦प्र॒ति॒ऽचक्ष॑णाय |
इन्द्रः॑¦मा॒याभिः॑¦पु॒रु॒ऽरूपः॑¦ई॒य॒ते॒¦यु॒क्ताः¦हि¦अ॒स्य॒¦हर॑यः¦श॒ता¦दश॑ ||

यु॒जा॒नोह॒रिता॒रथे॒भूरि॒त्वष्टे॒हरा᳚जति |{भारद्वाजो गर्गः | इन्द्रः | बृहती}

कोवि॒श्वाहा᳚द्विष॒तःपक्ष॑आसतउ॒तासी᳚नेषुसू॒रिषु॒(स्वाहा᳚) || 19 ||

यु॒जा॒नः¦ह॒रिता᳚¦रथे᳚¦भूरि॑¦त्वष्टा᳚¦इ॒ह¦रा॒ज॒ति॒ |
कः¦वि॒श्वाहा᳚¦द्वि॒ष॒तः¦पक्षः॑¦आ॒स॒ते॒¦उ॒त¦आसी᳚नेषु¦सू॒रिषु॑ ||

अ॒ग॒व्यू॒तिक्षेत्र॒माग᳚न्मदेवा,उ॒र्वीस॒तीभूमि॑रंहूर॒णाभू᳚त् |{भारद्वाजो गर्गः | १/४:देवाः २/४:भूमिः २/४:बृहस्पतिः ४/४:इन्द्रः | त्रिष्टुप्}

बृह॑स्पते॒प्रचि॑कित्सा॒गवि॑ष्टावि॒त्थास॒तेज॑रि॒त्रइ᳚न्द्र॒पन्था॒‌म्(स्वाहा᳚) || 20 ||

अ॒ग॒व्यू॒ति¦क्षेत्र᳚‌म्¦आ¦अ॒ग॒न्म॒¦दे॒वाः॒¦उ॒र्वी¦स॒ती¦भूमिः॑¦अं॒हू॒र॒णा¦अ॒भू॒त् |
बृह॑स्पते¦प्र¦चि॒कि॒त्स॒¦गोऽ‌इ᳚ष्टौ¦इ॒त्था¦स॒ते¦ज॒रि॒त्रे¦इ॒न्द्र॒¦पन्था᳚‌म् ||

दि॒वेदि॑वेस॒दृशी᳚र॒न्यमर्धं᳚कृ॒ष्णा,अ॑सेध॒दप॒सद्म॑नो॒जाः |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

अह᳚न्दा॒सावृ॑ष॒भोव॑स्न॒यन्तो॒दव्र॑जेव॒र्चिनं॒शम्ब॑रंच॒(स्वाहा᳚) || 21 || वर्ग:34

दि॒वेऽदि॑वे¦स॒ऽदृशीः᳚¦अ॒न्य‌म्¦अर्ध᳚‌म्¦कृ॒ष्णाः¦अ॒से॒ध॒त्¦अप॑¦सद्म॑नः¦जाः |
अह॑न्¦दा॒सा¦वृ॒ष॒भः¦व॒स्न॒ऽयन्ता᳚¦उ॒दऽव्र॑जे¦व॒र्चिन᳚‌म्¦शम्ब॑र‌म्¦च॒ ||

प्र॒स्तो॒कइन्नुराध॑सस्तइन्द्र॒दश॒कोश॑यी॒र्दश॑वा॒जिनो᳚ऽदात् |{भारद्वाजो गर्गः | प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः | त्रिष्टुप्}

दिवो᳚दासादतिथि॒ग्वस्य॒राधः॑शाम्ब॒रंवसु॒प्रत्य॑ग्रभीष्म॒(स्वाहा᳚) || 22 ||

प्र॒ऽस्तो॒कः¦इत्¦नु¦राध॑सः¦ते॒¦इ॒न्द्र॒¦दश॑¦कोश॑यीः¦दश॑¦वा॒जिनः॑¦अ॒दा॒त् |
दिवः॑ऽदासात्¦अ॒ति॒थि॒ऽग्वस्य॑¦राधः॑¦शा॒म्ब॒र‌म्¦वसु॑¦प्रति॑¦अ॒ग्र॒भी॒ष्म॒ ||

दशाश्वा॒न्दश॒कोशा॒न्दश॒वस्त्राधि॑भोजना |{भारद्वाजो गर्गः | प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः | अनुष्टुप्}

दशो᳚हिरण्यपि॒ण्डान्दिवो᳚दासादसानिष॒‌म्(स्वाहा᳚) || 23 ||

दश॑¦अश्वा᳚न्¦दश॑¦कोशा᳚न्¦दश॑¦वस्त्रा᳚¦अधि॑ऽभोजना | दशो॒ इति॑¦हि॒र॒ण्य॒ऽपि॒ण्डान्¦दिवः॑ऽदासात्¦अ॒सा॒नि॒ष॒‌म् ||

दश॒रथा॒न्‌प्रष्टि॑मतःश॒तंगा,अथ᳚र्वभ्यः |{भारद्वाजो गर्गः | प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः | गायत्री}

अ॒श्व॒थःपा॒यवे᳚ऽदा॒‌त्(स्वाहा᳚) || 24 ||

दश॑¦रथा᳚न्¦प्रष्टि॑ऽमतः¦श॒त‌म्¦गाः¦अथ᳚र्वऽभ्यः | अ॒श्व॒थः¦पा॒यवे᳚¦अ॒दा॒त् ||

महि॒राधो᳚वि॒श्वज᳚न्यं॒दधा᳚नान्‌भ॒रद्वा᳚जान्‌त्सार्ञ्ज॒यो,अ॒भ्य॑यष्ट॒(स्वाहा᳚) || {भारद्वाजो गर्गः | प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः | द्विपदा त्रिष्टुप्}25 ||
वन॑स्पतेवी॒ड्व᳚ङ्गो॒हिभू॒या,अ॒स्मत्स॑खाप्र॒तर॑णःसु॒वीरः॑ |{भारद्वाजो गर्गः | रथः | त्रिष्टुप्}

गोभिः॒संन॑द्धो,असिवी॒ळय॑स्वास्था॒ताते᳚जयतु॒जेत्वा᳚नि॒(स्वाहा᳚) || 26 || वर्ग:35

वन॑स्पते¦वी॒ळु।आ᳚ङ्गः¦हि¦भू॒याः¦अ॒स्मत्ऽस॑खा¦प्र॒ऽतर॑णः¦सु॒ऽवीरः॑ |
गोभिः॑¦स‌म्ऽन॑द्धः¦अ॒सि॒¦वी॒ळय॑स्व¦आ॒ऽस्था॒ता¦ते॒¦ज॒य॒तु॒¦जेत्वा᳚नि ||

दि॒वस्पृ॑थि॒व्याःपर्योज॒उद्भृ॑तं॒वन॒स्पति॑भ्यः॒पर्याभृ॑तं॒सहः॑ |{भारद्वाजो गर्गः | रथः | जगती}

अ॒पामो॒ज्मानं॒परि॒गोभि॒रावृ॑त॒मिन्द्र॑स्य॒वज्रं᳚ह॒विषा॒रथं᳚यज॒(स्वाहा᳚) || 27 ||

दि॒वः¦पृ॒थि॒व्याः¦परि॑¦ओजः॑¦उत्ऽभृ॑त‌म्¦वन॒स्पति॑ऽभ्यः¦परि॑¦आऽभृ॑त‌म्¦सहः॑ |
अ॒पा‌म्¦ओ॒ज्मान᳚‌म्¦परि॑¦गोभिः॑¦आऽवृ॑त‌म्¦इन्द्र॑स्य¦वज्र᳚‌म्¦ह॒विषा᳚¦रथ᳚‌म्¦य॒ज॒ ||

इन्द्र॑स्य॒वज्रो᳚म॒रुता॒मनी᳚कंमि॒त्रस्य॒गर्भो॒वरु॑णस्य॒नाभिः॑ |{भारद्वाजो गर्गः | रथः | त्रिष्टुप्}

सेमांनो᳚ह॒व्यदा᳚तिंजुषा॒णोदेव॑रथ॒प्रति॑ह॒व्यागृ॑भाय॒(स्वाहा᳚) || 28 ||

इन्द्र॑स्य¦वज्रः॑¦म॒रुता᳚‌म्¦अनी᳚क‌म्¦मि॒त्रस्य॑¦गर्भः॑¦वरु॑णस्य¦नाभिः॑ |
सः¦इ॒मा‌म्¦नः॒¦ह॒व्यऽदा᳚ति‌म्¦जु॒षा॒णः¦देव॑¦र॒थ॒¦प्रति॑¦ह॒व्या¦गृ॒भा॒य॒ ||

उप॑श्वासयपृथि॒वीमु॒तद्यांपु॑रु॒त्राते᳚मनुतां॒विष्ठि॑तं॒जग॑त् |{भारद्वाजो गर्गः | दुन्दुभिः | त्रिष्टुप्}

सदु᳚न्दुभेस॒जूरिन्द्रे᳚णदे॒वैर्दू॒राद्दवी᳚यो॒,अप॑सेध॒शत्रू॒न्त्(स्वाहा᳚) || 29 ||

उप॑¦श्वा॒स॒य॒¦पृ॒थि॒वी‌म्¦उ॒त¦द्या‌म्¦पु॒रु॒ऽत्रा¦ते॒¦म॒नु॒ता॒‌म्¦विऽस्थि॑त‌म्¦जग॑त् |
सः¦दु॒न्दु॒भे॒¦स॒ऽजूः¦इन्द्रे᳚ण¦दे॒वैः¦दू॒रात्¦दवी᳚यः¦अप॑¦से॒ध॒¦शत्रू॑न् ||

आक्र᳚न्दय॒बल॒मोजो᳚न॒आधा॒निःष्ट॑निहिदुरि॒ताबाध॑मानः |{भारद्वाजो गर्गः | दुन्दुभिः | त्रिष्टुप्}

अप॑प्रोथदुन्दुभेदु॒च्छुना᳚,इ॒तइन्द्र॑स्यमु॒ष्टिर॑सिवी॒ळय॑स्व॒(स्वाहा᳚) || 30 ||

आ¦क्र॒न्द॒य॒¦बल᳚‌म्¦ओजः॑¦नः॒¦आ¦धाः॒¦निः¦स्त॒नि॒हि॒¦दुः॒ऽ‌इ॒ता¦बाध॑मानः |
अप॑¦प्रो॒थ॒¦दु॒न्दु॒भे॒¦दु॒च्छुनाः᳚¦इ॒तः¦इन्द्र॑स्य¦मु॒ष्टिः¦अ॒सि॒¦वी॒ळय॑स्व ||

आमूर॑जप्र॒त्याव॑र्तये॒माःके᳚तु॒मद्दु᳚न्दु॒भिर्वा᳚वदीति |{भारद्वाजो गर्गः | १/२:दुन्दुभिः २/२:इन्द्रः | त्रिष्टुप्}

समश्व॑पर्णा॒श्चर᳚न्तिनो॒नरो॒ऽस्माक॑मिन्द्रर॒थिनो᳚जयन्तु॒(स्वाहा᳚) || 31 ||

आ¦अ॒मूः¦अ॒ज॒¦प्र॒ति॒ऽआव॑र्तय¦इ॒माः¦के॒तु॒ऽमत्¦दु॒न्दु॒भिः¦वा॒व॒दी॒ति॒ |
स‌म्¦अश्व॑ऽपर्णाः¦चर᳚न्ति¦नः॒¦नरः॑¦अ॒स्माक᳚‌म्¦इ॒न्द्र॒¦र॒थिनः॑¦ज॒य॒न्तु॒ ||

[127] यज्ञायज्ञावइति द्वाविंशत्यृचस्य सूक्तस्य बार्हस्पत्यःशंयुस्तृणपाणिः आद्यानांदशानामग्निरेकादश्यादिपंचानांमरुतस्ततश्चतुर्णां पूषाततस्तृचस्यमरुतः (त्रयोदश्यादितिसृणाम् इंद्रार्यमपूषविष्ण्वाद्यालिंगोक्तदेवतावा अंत्ययोर्द्यावाभूमीवापृश्निर्वा) आद्याबृहती द्वितीयासतोबृहती तृतीयाबृहती चतुर्थीसतोबृहती पंचमी बृहती षष्ठीमहासतोबृहती सप्तमीमहाबृहती अष्टमीमहासतोबृहती नवमीबृहती दशमीसतोबृहती एकादशीककुप् द्वादशीसतोबृहती त्रयोदशीपुर उष्णिक् चतुर्दशीबृहती पंचदश्यतिजगती षोडशीककुप् सप्तदशीसतोबृहती अष्टादशीपुरउष्णिक् एकोनविंशीविंशीबृहती एकविंशीमहाबृहती यवमध्याद्वाविंश्यनुष्टुप् | (पृष्निसूक्तमिदं) |{अष्टक:4, अध्याय:8}{मंडल:6, सूक्त:48}{अनुवाक:4, सूक्त:5}
य॒ज्ञाय॑ज्ञावो,अ॒ग्नये᳚गि॒रागि॑राच॒दक्ष॑से |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | बृहती}

प्रप्र॑व॒यम॒मृतं᳚जा॒तवे᳚दसंप्रि॒यंमि॒त्रंनशं᳚सिष॒‌म्(स्वाहा᳚) || 1 || वर्ग:1

य॒ज्ञाऽय॑ज्ञा¦वः॒¦अ॒ग्नये᳚¦गि॒राऽगि॑रा¦च॒¦दक्ष॑से |
प्रऽप्र॑¦व॒य‌म्¦अ॒मृत᳚‌म्¦जा॒तऽवे᳚दस‌म्¦प्रि॒य‌म्¦मि॒त्र‌म्¦न¦शं॒सि॒ष॒‌म् ||

ऊ॒र्जोनपा᳚तं॒सहि॒नायम॑स्म॒युर्दाशे᳚मह॒व्यदा᳚तये |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | सतोबृहती}

भुव॒द्वाजे᳚ष्ववि॒ताभुव॑द्वृ॒धउ॒तत्रा॒तात॒नूना॒‌म्(स्वाहा᳚) || 2 ||

ऊ॒र्जः¦नपा᳚त‌म्¦सः¦हि॒न¦अ॒य‌म्¦अ॒स्म॒ऽयुः¦दाशे᳚म¦ह॒व्यऽदा᳚तये |
भुव॑त्¦वाजे᳚षु¦अ॒वि॒ता¦भुव॑त्¦वृ॒धः¦उ॒त¦त्रा॒ता¦त॒नूना᳚‌म् ||

वृषा॒ह्य॑ग्ने,अ॒जरो᳚म॒हान्‌वि॒भास्य॒र्चिषा᳚ |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | बृहती}

अज॑स्रेणशो॒चिषा॒शोशु॑चच्छुचेसुदी॒तिभिः॒सुदी᳚दिहि॒(स्वाहा᳚) || 3 ||

वृषा᳚¦हि¦अ॒ग्ने॒¦अ॒जरः॑¦म॒हान्¦वि॒ऽभासि॑¦अ॒र्चिषा᳚ |
अज॑स्रेण¦शो॒चिषा᳚¦शोशु॑चत्¦शु॒चे॒¦सु॒दी॒तिऽभिः॑¦सु¦दी॒दि॒हि॒ ||

म॒होदे॒वान्‌यज॑सि॒यक्ष्या᳚नु॒षक्तव॒क्रत्वो॒तदं॒सना᳚ |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | सतोबृहती}

अ॒र्वाचः॑सींकृणुह्य॒ग्नेऽव॑से॒रास्व॒वाजो॒तवं᳚स्व॒(स्वाहा᳚) || 4 ||

म॒हः¦दे॒वान्¦यज॑सि¦यक्षि॑¦आ॒नु॒षक्¦तव॑¦क्रत्वा᳚¦उ॒त¦दं॒सना᳚ |
अ॒र्वाचः॑¦सी॒‌म्¦कृ॒णु॒हि॒¦अ॒ग्ने॒¦अव॑से¦रास्व॑¦वाजा᳚¦उ॒त¦वं॒स्व॒ ||

यमापो॒,अद्र॑यो॒वना॒गर्भ॑मृ॒तस्य॒पिप्र॑ति |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | बृहती}

सह॑सा॒योम॑थि॒तोजाय॑ते॒नृभिः॑पृथि॒व्या,अधि॒सान॑वि॒(स्वाहा᳚) || 5 ||

य‌म्¦आपः॑¦अद्र॑यः¦वना᳚¦गर्भ᳚‌म्¦ऋ॒तस्य॑¦पिप्र॑ति |
सह॑सा¦यः¦म॒थि॒तः¦जाय॑ते¦नृऽभिः॑¦पृ॒थि॒व्याः¦अधि॑¦सान॑वि ||

आयःप॒प्रौभा॒नुना॒रोद॑सी,उ॒भेधू॒मेन॑धावतेदि॒वि |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | महा सतोबृहती}

ति॒रस्तमो᳚ददृश॒ऊर्म्या॒स्वाश्या॒वास्व॑रु॒षोवृषाश्या॒वा,अ॑रु॒षोवृषा॒(स्वाहा᳚) || 6 || वर्ग:2

आ¦यः¦प॒प्रौ¦भा॒नुना᳚¦रोद॑सी॒ इति॑¦उ॒भे इति॑¦धू॒मेन॑¦धा॒व॒ते॒¦दि॒वि |
ति॒रः¦तमः॑¦द॒दृ॒शे॒¦ऊर्म्या᳚सु¦आ¦श्या॒वासु॑¦अ॒रु॒षः¦वृषा᳚¦आ¦श्या॒वाः¦अ॒रु॒षः¦वृषा᳚ ||

बृ॒हद्भि॑रग्ने,अ॒र्चिभिः॑शु॒क्रेण॑देवशो॒चिषा᳚ |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | महा बृहती}

भ॒रद्वा᳚जेसमिधा॒नोय॑विष्ठ्यरे॒वन्नः॑शुक्रदीदिहिद्यु॒मत्पा᳚वकदीदिहि॒(स्वाहा᳚) || 7 ||

बृ॒हत्ऽभिः॑¦अ॒ग्ने॒¦अ॒र्चिऽभिः॑¦शु॒क्रेण॑¦दे॒व॒¦शो॒चिषा᳚ |
भ॒रत्ऽवा᳚जे¦स॒‌म्ऽ‌इ॒धा॒नः¦य॒वि॒ष्ठ्य॒¦रे॒वत्¦नः॒¦शु॒क्र॒¦दी॒दि॒हि॒¦द्यु॒ऽमत्¦पा॒व॒क॒¦दी॒दि॒हि॒ ||

विश्वा᳚सांगृ॒हप॑तिर्वि॒शाम॑सि॒त्वम॑ग्ने॒मानु॑षीणाम् |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | महा सतोबृहती}

श॒तंपू॒र्भिर्य॑विष्ठपा॒ह्यंह॑सःसमे॒द्धारं᳚श॒तंहिमाः᳚स्तो॒तृभ्यो॒येच॒दद॑ति॒(स्वाहा᳚) || 8 ||

विश्वा᳚सा‌म्¦गृ॒हऽप॑तिः¦वि॒शा‌म्¦अ॒सि॒¦त्व‌म्¦अ॒ग्ने॒¦मानु॑षीणा‌म् |
श॒त‌म्¦पूः॒ऽभिः¦य॒वि॒ष्ठ॒¦पा॒हि॒¦अंह॑सः¦स॒‌म्ऽए॒द्धार᳚‌म्¦श॒त‌म्¦हिमाः᳚¦स्तो॒तृऽभ्यः॑¦ये¦च॒¦दद॑ति ||

त्वंन॑श्चि॒त्रऊ॒त्यावसो॒राधां᳚सिचोदय |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | बृहती}

अ॒स्यरा॒यस्त्वम॑ग्नेर॒थीर॑सिवि॒दागा॒धंतु॒चेतुनः॒(स्वाहा᳚) || 9 ||

त्व‌म्¦नः॒¦चि॒त्रः¦ऊ॒त्या¦वसो॒ इति॑¦राधां᳚सि¦चो॒द॒य॒ |
अ॒स्य¦रा॒यः¦त्व‌म्¦अ॒ग्ने॒¦र॒थीः¦अ॒सि॒¦वि॒दाः¦गा॒ध‌म्¦तु॒चे¦तु¦नः॒ ||

पर्षि॑तो॒कंतन॑यंप॒र्तृभि॒ष्ट्वमद॑ब्धै॒रप्र॑युत्वभिः |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | सतोबृहती}

अग्ने॒हेळां᳚सि॒दैव्या᳚युयोधि॒नोऽदे᳚वानि॒ह्वरां᳚सिच॒(स्वाहा᳚) || 10 ||

पर्षि॑¦तो॒क‌म्¦तन॑य‌म्¦प॒र्तृऽभिः॑¦त्व‌म्¦अद॑ब्धैः¦अप्र॑युत्वऽभिः |
अग्ने᳚¦हेळां᳚सि¦दैव्या᳚¦यु॒यो॒धि॒¦नः॒¦अदे᳚वानि¦ह्वरां᳚सि¦च॒ ||

आस॑खायःसब॒र्दुघां᳚धे॒नुम॑जध्व॒मुप॒नव्य॑सा॒वचः॑ |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | ककुप्}

सृ॒जध्व॒मन॑पस्फुरा॒‌म्(स्वाहा᳚) || 11 || वर्ग:3

आ¦स॒खा॒यः॒¦स॒बः॒ऽदुघा᳚‌म्¦धे॒नु‌म्¦अ॒ज॒ध्व॒‌म्¦उप॑¦नव्य॑सा¦वचः॑ | सृ॒जध्व᳚‌म्¦अन॑पऽस्फुरा‌म् ||

याशर्धा᳚य॒मारु॑ताय॒स्वभा᳚नवे॒श्रवोऽमृ॑त्यु॒धुक्ष॑त |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | सतोबृहती}

यामृ॑ळी॒केम॒रुतां᳚तु॒राणां॒यासु॒म्नैरे᳚व॒याव॑री॒(स्वाहा᳚) || 12 ||

या¦शर्धा᳚य¦मारु॑ताय¦स्वऽभा᳚नवे¦श्रवः॑¦अमृ॑त्यु¦धुक्ष॑त |
या¦मृ॒ळी॒के¦म॒रुता᳚‌म्¦तु॒राणा᳚‌म्¦या¦सु॒म्नैः¦ए॒व॒ऽयाव॑री ||

भ॒रद्वा᳚जा॒याव॑धुक्षतद्वि॒ता |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | पुर उष्णिक्}

धे॒नुंच॑वि॒श्वदो᳚हस॒मिषं᳚चवि॒श्वभो᳚जस॒‌म्(स्वाहा᳚) || 13 ||

भ॒रत्ऽवा᳚जाय¦अव॑¦धु॒क्ष॒त॒¦द्वि॒ता | धे॒नु‌म्¦च॒¦वि॒श्वऽदो᳚हस‌म्¦इष᳚‌म्¦च॒¦वि॒श्वऽभो᳚जस‌म् ||

तंव॒इन्द्रं॒नसु॒क्रतुं॒वरु॑णमिवमा॒यिन᳚म् |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | बृहती}

अ॒र्य॒मणं॒नम॒न्द्रंसृ॒प्रभो᳚जसं॒विष्णुं॒नस्तु॑षआ॒दिशे॒(स्वाहा᳚) || 14 ||

त‌म्¦वः॒¦इन्द्र᳚‌म्¦न¦सु॒ऽक्रतु᳚‌म्¦वरु॑ण‌म्ऽ‌इव¦मा॒यिन᳚‌म् |
अ॒र्य॒मण᳚‌म्¦न¦म॒न्द्र‌म्¦सृ॒प्रऽभो᳚जस‌म्¦विष्णु᳚‌म्¦न¦स्तु॒षे॒¦आ॒ऽदिशे᳚ ||

त्वे॒षंशर्धो॒नमारु॑तंतुवि॒ष्वण्य॑न॒र्वाणं᳚पू॒षणं॒संयथा᳚श॒ता |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | अतिजगती}

संस॒हस्रा॒कारि॑षच्चर्ष॒णिभ्य॒आँ,आ॒विर्गू॒ळ्हावसू᳚करत्सु॒वेदा᳚नो॒वसू᳚कर॒‌त्(स्वाहा᳚) || 15 ||

त्वे॒ष‌म्¦शर्धः॑¦न¦मारु॑त‌म्¦तु॒वि॒ऽस्वणि॑¦अ॒न॒र्वाण᳚‌म्¦पू॒षण᳚‌म्¦स‌म्¦यथा᳚¦श॒ता |
स‌म्¦स॒हस्रा᳚¦कारि॑षत्¦च॒र्ष॒णिऽभ्यः॑¦आ¦आ॒विः¦गू॒ळ्हा¦वसु॑¦क॒र॒त्¦सु॒ऽवेदा᳚¦नः॒¦वसु॑¦क॒र॒त् ||

आमा᳚पूष॒न्नुप॑द्रव॒शंसि॑षं॒नुते᳚,अपिक॒र्णआ᳚घृणे |{बार्हस्पत्यः शंयुस्तृणपाणिः | पूषा | ककुप्}

अ॒घा,अ॒र्यो,अरा᳚तयः॒(स्वाहा᳚) || 16 ||

आ¦मा॒¦पू॒ष॒न्¦उप॑¦द्र॒व॒¦शंसि॑ष‌म्¦नु¦ते॒¦अ॒पि॒ऽक॒र्णे¦आ॒घृ॒णे॒ | अ॒घाः¦अ॒र्यः¦अरा᳚तयः ||

माका᳚क॒म्बीर॒मुद्वृ॑हो॒वन॒स्पति॒मश॑स्ती॒र्विहिनीन॑शः |{बार्हस्पत्यः शंयुस्तृणपाणिः | पूषा | सतोबृहती}

मोतसूरो॒,अह॑ए॒वाच॒नग्री॒वा,आ॒दध॑ते॒वेः(स्वाहा᳚) || 17 || वर्ग:4

मा¦का॒क॒म्बीर᳚‌म्¦उत्¦वृ॒हः॒¦वन॒स्पति᳚‌म्¦अश॑स्तीः¦वि¦हि¦नीन॑शः |
मा¦उ॒त¦सूरः॑¦अह॒रिति॑¦ए॒व¦च॒न¦ग्री॒वाः¦आ॒ऽदध॑ते¦वेरिति॒ वेः ||

दृते᳚रिवतेऽवृ॒कम॑स्तुस॒ख्यम् |{बार्हस्पत्यः शंयुस्तृणपाणिः | पूषा | पुर उष्णिक्}

अच्छि॑द्रस्यदध॒न्वतः॒सुपू᳚र्णस्यदध॒न्वतः॒(स्वाहा᳚) || 18 ||

दृतेः᳚ऽ‌इव¦ते॒¦अ॒वृ॒क‌म्¦अ॒स्तु॒¦स॒ख्य‌म् | अच्छि॑द्रस्य¦द॒ध॒न्ऽवतः॑¦सुऽपू᳚र्णस्य¦द॒ध॒न्ऽवतः॑ ||

प॒रोहिमर्त्यै॒रसि॑स॒मोदे॒वैरु॒तश्रि॒या |{बार्हस्पत्यः शंयुस्तृणपाणिः | पूषा | बृहती}

अ॒भिख्यः॑पूष॒न्‌पृत॑नासुन॒स्त्वमवा᳚नू॒नंयथा᳚पु॒रा(स्वाहा᳚) || 19 ||

प॒रः¦हि¦मर्त्यैः᳚¦असि॑¦स॒मः¦दे॒वैः¦उ॒त¦श्रि॒या |
अ॒भि¦ख्यः॒¦पू॒ष॒न्¦पृत॑नासु¦नः॒¦त्व‌म्¦अव॑¦नू॒न‌म्¦यथा᳚¦पु॒रा ||

वा॒मीवा॒मस्य॑धूतयः॒प्रणी᳚तिरस्तुसू॒नृता᳚ |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | बृहती}

दे॒वस्य॑वामरुतो॒मर्त्य॑स्यवेजा॒नस्य॑प्रयज्यवः॒(स्वाहा᳚) || 20 ||

वा॒मी¦वा॒मस्य॑¦धू॒त॒यः॒¦प्रऽनी᳚तिः¦अ॒स्तु॒¦सू॒नृता᳚ |
दे॒वस्य॑¦वा॒¦म॒रु॒तः॒¦मर्त्य॑स्य¦वा॒¦ई॒जा॒नस्य॑¦प्र॒ऽय॒ज्य॒वः॒ ||

स॒द्यश्चि॒द्यस्य॑चर्कृ॒तिःपरि॒द्यांदे॒वोनैति॒सूर्यः॑ |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | महा बृहती यवमध्या}

त्वे॒षंशवो᳚दधिरे॒नाम॑य॒ज्ञियं᳚म॒रुतो᳚वृत्र॒हंशवो॒ज्येष्ठं᳚वृत्र॒हंशवः॒(स्वाहा᳚) || 21 ||

स॒द्यः¦चि॒त्¦यस्य॑¦च॒र्कृ॒तिः¦परि॑¦द्या‌म्¦दे॒वः¦न¦एति॑¦सूर्यः॑ |
त्वे॒ष‌म्¦शवः॑¦द॒धि॒रे॒¦नाम॑¦य॒ज्ञिय᳚‌म्¦म॒रुतः॑¦वृ॒त्र॒ऽह‌म्¦शवः॑¦ज्येष्ठ᳚‌म्¦वृ॒त्र॒ऽह‌म्¦शवः॑ ||

स॒कृद्ध॒द्यौर॑जायतस॒कृद्भूमि॑रजायत |{बार्हस्पत्यः शंयुस्तृणपाणिः | द्यावाभूमीवापृश्निर्वा | अनुष्टुप्}

पृश्न्या᳚दु॒ग्धंस॒कृत्पय॒स्तद॒न्योनानु॑जायते॒(स्वाहा᳚) || 22 ||

स॒कृत्¦ह॒¦द्यौः¦अ॒जा॒य॒त॒¦स॒कृत्¦भूमिः॑¦अ॒जा॒य॒त॒ | पृश्न्याः᳚¦दु॒ग्ध‌म्¦स॒कृत्¦पयः॑¦तत्¦अ॒न्यः¦न¦अनु॑¦जा॒य॒ते॒ ||

[128] स्तुषेजनमिति पंचदशर्चस्य सूक्तस्य भारद्वाजऋजिश्वा विश्वेदेवास्त्रिष्टुबंत्याशक्वरी | (इतश्चत्वारिवैश्व | भेदपक्षे - विश्वेदेवाः १ | अग्निः १ अहोरात्रे १ वायुः १ अश्विनौ १ विश्वेदेवाः १ सरस्वती १ पूषा १ अग्नित्वष्टारौ १ रुद्रः १ मरुतः २ विष्णुः १ विश्वेदेवाः २ एवं १५) |{अष्टक:4, अध्याय:8}{मंडल:6, सूक्त:49}{अनुवाक:4, सूक्त:6}
स्तु॒षेजनं᳚सुव्र॒तंनव्य॑सीभिर्गी॒र्भिर्मि॒त्रावरु॑णासुम्न॒यन्ता᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

तआग॑मन्तु॒तइ॒हश्रु॑वन्तुसुक्ष॒त्रासो॒वरु॑णोमि॒त्रो,अ॒ग्निः(स्वाहा᳚) || 1 || वर्ग:5

स्तु॒षे¦जन᳚‌म्¦सु॒ऽव्र॒त‌म्¦नव्य॑सीभिः¦गीः॒ऽभिः¦मि॒त्रावरु॑णा¦सु॒म्न॒ऽयन्ता᳚ |
ते¦आ¦ग॒म॒न्तु॒¦ते¦इ॒ह¦श्रु॒व॒न्तु॒¦सु॒ऽक्ष॒त्रासः॑¦वरु॑णः¦मि॒त्रः¦अ॒ग्निः ||

वि॒शोवि॑श॒ईड्य॑मध्व॒रेष्वदृ॑प्तक्रतुमर॒तिंयु॑व॒त्योः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

दि॒वःशिशुं॒सह॑सःसू॒नुम॒ग्निंय॒ज्ञस्य॑के॒तुम॑रु॒षंयज॑ध्यै॒(स्वाहा᳚) || 2 ||

वि॒शःऽवि॑शः¦ईड्य᳚‌म्¦अ॒ध्व॒रेषु॑¦अदृ॑प्तऽक्रतु‌म्¦अ॒र॒ति‌म्¦यु॒व॒त्योः |
दि॒वः¦शिशु᳚‌म्¦सह॑सः¦सू॒नु‌म्¦अ॒ग्नि‌म्¦य॒ज्ञस्य॑¦के॒तु‌म्¦अ॒रु॒ष‌म्¦यज॑ध्यै ||

अ॒रु॒षस्य॑दुहि॒तरा॒विरू᳚पे॒स्तृभि॑र॒न्यापि॑पि॒शेसूरो᳚,अ॒न्या |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

मि॒थ॒स्तुरा᳚वि॒चर᳚न्तीपाव॒केमन्म॑श्रु॒तंन॑क्षतऋ॒च्यमा᳚ने॒(स्वाहा᳚) || 3 ||

अ॒रु॒षस्य॑¦दु॒हि॒तरा᳚¦विरू᳚पे॒ इति॒ विऽरू᳚पे¦स्तृऽभिः॑¦अ॒न्या¦पि॒पि॒शे¦सूरः॑¦अ॒न्या |
मि॒थः॒ऽतुरा᳚¦वि॒चर᳚न्ती॒ इति॑ वि॒ऽचर᳚न्ती¦पा॒व॒के इति॑¦मन्म॑¦श्रु॒त‌म्¦न॒क्ष॒तः॒¦ऋ॒च्यमा᳚ने॒ इति॑ ||

प्रवा॒युमच्छा᳚बृह॒तीम॑नी॒षाबृ॒हद्र॑यिंवि॒श्ववा᳚रंरथ॒प्राम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

द्यु॒तद्या᳚मानि॒युतः॒पत्य॑मानःक॒विःक॒विमि॑यक्षसिप्रयज्यो॒(स्वाहा᳚) || 4 ||

प्र¦वा॒यु‌म्¦अच्छ॑¦बृ॒ह॒ती¦म॒नी॒षा¦बृ॒हत्ऽर॑यि‌म्¦वि॒श्वऽवा᳚र‌म्¦र॒थ॒ऽप्रा‌म् |
द्यु॒तत्ऽया᳚मा¦नि॒ऽयुतः॑¦पत्य॑मानः¦क॒विः¦क॒वि‌म्¦इ॒य॒क्ष॒सि॒¦प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो ||

समे॒वपु॑श्छदयद॒श्विनो॒र्योरथो᳚वि॒रुक्मा॒न्मन॑सायुजा॒नः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

येन॑नरानासत्येष॒यध्यै᳚व॒र्तिर्या॒थस्तन॑याय॒त्मने᳚च॒(स्वाहा᳚) || 5 ||

सः¦मे॒¦वपुः॑¦छ॒द॒य॒त्¦अ॒श्विनोः᳚¦यः¦रथः॑¦वि॒रुक्मा᳚न्¦मन॑सा¦यु॒जा॒नः |
येन॑¦न॒रा॒¦ना॒स॒त्या॒¦इ॒ष॒यध्यै᳚¦व॒र्तिः¦या॒थः¦तन॑याय¦त्मने᳚¦च॒ ||

पर्ज᳚न्यवातावृषभापृथि॒व्याःपुरी᳚षाणिजिन्वत॒मप्या᳚नि |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

सत्य॑श्रुतःकवयो॒यस्य॑गी॒र्भिर्जग॑तःस्थात॒र्जग॒दाकृ॑णुध्व॒‌म्(स्वाहा᳚) || 6 || वर्ग:6

पर्ज᳚न्यवाता¦वृ॒ष॒भा॒¦पृ॒थि॒व्याः¦पुरी᳚षाणि¦जि॒न्व॒त॒‌म्¦अप्या᳚नि |
सत्य॑ऽश्रुतः¦क॒व॒यः॒¦यस्य॑¦गीः॒ऽभिः¦जग॑तः¦स्था॒तः॒¦जग॑त्¦आ¦कृ॒णु॒ध्व॒‌म् ||

पावी᳚रवीक॒न्या᳚चि॒त्रायुः॒सर॑स्वतीवी॒रप॑त्नी॒धियं᳚धात् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ग्नाभि॒रच्छि॑द्रंशर॒णंस॒जोषा᳚दुरा॒धर्षं᳚गृण॒तेशर्म॑यंस॒‌त्(स्वाहा᳚) || 7 ||

पावी᳚रवी¦क॒न्या᳚¦चि॒त्रऽआ᳚युः¦सर॑स्वती¦वी॒रऽप॑त्नी¦धिय᳚‌म्¦धा॒त् |
ग्नाभिः॑¦अच्छि॑द्र‌म्¦श॒र॒ण‌म्¦स॒ऽजोषाः᳚¦दुः॒ऽआ॒धर्ष᳚‌म्¦गृ॒ण॒ते¦शर्म॑¦यं॒स॒त् ||

प॒थस्प॑थः॒परि॑पतिंवच॒स्याकामे᳚नकृ॒तो,अ॒भ्या᳚नळ॒र्कम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

सनो᳚रासच्छु॒रुध॑श्च॒न्द्राग्रा॒धियं᳚धियंसीषधाति॒प्रपू॒षा(स्वाहा᳚) || 8 ||

प॒थःऽप॑थः¦परि॑ऽपति‌म्¦व॒च॒स्या¦कामे᳚न¦कृ॒तः¦अ॒भि¦आ॒न॒ट्¦अ॒र्क‌म् |
सः¦नः॒¦रा॒स॒त्¦शु॒रुधः॑¦च॒न्द्र।आ॑ग्राः¦धिय᳚‌म्ऽधिय‌म्¦सी॒स॒धा॒ति॒¦प्र¦पू॒षा ||

प्र॒थ॒म॒भाजं᳚य॒शसं᳚वयो॒धांसु॑पा॒णिंदे॒वंसु॒गभ॑स्ति॒मृभ्व᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

होता᳚यक्षद्यज॒तंप॒स्त्या᳚नाम॒ग्निस्त्वष्टा᳚रंसु॒हवं᳚वि॒भावा॒(स्वाहा᳚) || 9 ||

प्र॒थ॒म॒ऽभाज᳚‌म्¦य॒शस᳚‌म्¦व॒यः॒ऽधा‌म्¦सु॒ऽपा॒णि‌म्¦दे॒व‌म्¦सु॒ऽगभ॑स्ति‌म्¦ऋभ्व᳚‌म् |
होता᳚¦य॒क्ष॒त्¦य॒ज॒त‌म्¦प॒स्त्या᳚ना‌म्¦अ॒ग्निः¦त्वष्टा᳚र‌म्¦सु॒ऽहव᳚‌म्¦वि॒भाऽवा᳚ ||

भुव॑नस्यपि॒तरं᳚गी॒र्भिरा॒भीरु॒द्रंदिवा᳚व॒र्धया᳚रु॒द्रम॒क्तौ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

बृ॒हन्त॑मृ॒ष्वम॒जरं᳚सुषु॒म्नमृध॑ग्घुवेमक॒विने᳚षि॒तासः॒(स्वाहा᳚) || 10 ||

भुव॑नस्य¦पि॒तर᳚‌म्¦गीः॒ऽभिः¦आ॒भिः¦रु॒द्र‌म्¦दिवा᳚¦व॒र्धय॑¦रु॒द्र‌म्¦अ॒क्तौ |
बृ॒हन्त᳚‌म्¦ऋ॒ष्व‌म्¦अ॒जर᳚‌म्¦सु॒ऽसु॒म्न‌म्¦ऋध॑क्¦हु॒वे॒म॒¦क॒विना᳚¦इ॒षि॒तासः॑ ||

आयु॑वानःकवयोयज्ञियासो॒मरु॑तोग॒न्तगृ॑ण॒तोव॑र॒स्याम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

अ॒चि॒त्रंचि॒द्धिजिन्व॑थावृ॒धन्त॑इ॒त्थानक्ष᳚न्तोनरो,अङ्गिर॒स्वत्(स्वाहा᳚) || 11 || वर्ग:7

आ¦यु॒वा॒नः॒¦क॒व॒यः॒¦य॒ज्ञि॒या॒सः॒¦मरु॑तः¦ग॒न्त¦गृ॒ण॒तः¦व॒र॒स्या‌म् |
अ॒चि॒त्र‌म्¦चि॒त्¦हि¦जिन्व॑थ¦वृ॒धन्तः॑¦इ॒त्था¦नक्ष᳚न्तः¦न॒रः॒¦अ॒ङ्गि॒र॒स्वत् ||

प्रवी॒राय॒प्रत॒वसे᳚तु॒रायाजा᳚यू॒थेव॑पशु॒रक्षि॒रस्त᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

सपि॑स्पृशतित॒न्‌वि॑श्रु॒तस्य॒स्तृभि॒र्ननाकं᳚वच॒नस्य॒विपः॒(स्वाहा᳚) || 12 ||

प्र¦वी॒राय॑¦प्र¦त॒वसे᳚¦तु॒राय॑¦अज॑¦यू॒थाऽ‌इ᳚व¦प॒शु॒ऽरक्षिः॑¦अस्त᳚‌म् |
सः¦पि॒स्पृ॒श॒ति॒¦त॒न्वि॑¦श्रु॒तस्य॑¦स्तृऽभिः॑¦न¦नाक᳚‌म्¦व॒च॒नस्य॑¦विपः॑ ||

योरजां᳚सिविम॒मेपार्थि॑वानि॒त्रिश्चि॒द्विष्णु॒र्मन॑वेबाधि॒ताय॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

तस्य॑ते॒शर्म᳚न्नुपद॒द्यमा᳚नेरा॒याम॑देमत॒न्वा॒३॑(आ॒)तना᳚च॒(स्वाहा᳚) || 13 ||

यः¦रजां᳚सि¦वि॒ऽम॒मे¦पार्थि॑वानि¦त्रिः¦चि॒त्¦विष्णुः॑¦मन॑वे¦बा॒धि॒ताय॑ |
तस्य॑¦ते॒¦शर्म॑न्¦उ॒प॒ऽद॒द्यमा᳚ने¦रा॒या¦म॒दे॒म॒¦त॒न्वा᳚¦तना᳚¦च॒ ||

तन्नोऽहि॑र्बु॒ध्न्यो᳚,अ॒द्भिर॒र्कैस्तत्‌पर्व॑त॒स्तत्स॑वि॒ताचनो᳚धात् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

तदोष॑धीभिर॒भिरा᳚ति॒षाचो॒भगः॒पुरं᳚धिर्जिन्वतु॒प्ररा॒ये(स्वाहा᳚) || 14 ||

तत्¦नः॒¦अहिः॑¦बु॒ध्न्यः॑¦अ॒त्ऽभिः¦अ॒र्कैः¦तत्¦पर्व॑तः¦तत्¦स॒वि॒ता¦चनः॑¦धा॒त् |
तत्¦ओष॑धीभिः¦अ॒भि¦रा॒ति॒ऽसाचः॑¦भगः॑¦पुर᳚‌म्ऽधिः¦जि॒न्व॒तु॒¦प्र¦रा॒ये ||

नुनो᳚र॒यिंर॒थ्यं᳚चर्षणि॒प्रांपु॑रु॒वीरं᳚म॒हऋ॒तस्य॑गो॒पाम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | शक्वरी}

क्षयं᳚दाता॒जरं॒येन॒जना॒न्‌त्स्पृधो॒,अदे᳚वीर॒भिच॒क्रमा᳚म॒विश॒आदे᳚वीर॒भ्य१॑(अ॒)श्नवा᳚म॒(स्वाहा᳚) || 15 ||

नु¦नः॒¦र॒यि‌म्¦र॒थ्य᳚‌म्¦च॒र्ष॒णि॒ऽप्रा‌म्¦पु॒रु॒ऽवीर᳚‌म्¦म॒हः¦ऋ॒तस्य॑¦गो॒पा‌म् |
क्षय᳚‌म्¦दा॒त॒¦अ॒जर᳚‌म्¦येन॑¦जना᳚न्¦स्पृधः॑¦अदे᳚वीः¦अ॒भि¦च॒¦क्रमा᳚म¦विशः॑¦आऽदे᳚वीः¦अ॒भि¦अ॒श्नवा᳚म ||

[129] हुवेवइति पंचदशर्चस्य सूक्तस्य भारद्वाजऋजिश्वाविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे –विश्वे। १ सूर्यः १ द्यावापृथिवी १ मरुतः २ इंद्रः १ अपः १ सविता १ अग्निः १ अश्विनौ १ विश्वे० ५ एवं १५) |{अष्टक:4, अध्याय:8}{मंडल:6, सूक्त:50}{अनुवाक:5, सूक्त:1}
हु॒वेवो᳚दे॒वीमदि॑तिं॒नमो᳚भिर्मृळी॒काय॒वरु॑णंमि॒त्रम॒ग्निम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

अ॒भि॒क्ष॒दाम᳚र्य॒मणं᳚सु॒शेवं᳚त्रा॒तॄन्दे॒वान्‌त्स॑वि॒तारं॒भगं᳚च॒(स्वाहा᳚) || 1 || वर्ग:8

हु॒वे¦वः॒¦दे॒वी‌म्¦अदि॑ति‌म्¦नमः॑ऽभिः¦मृ॒ळी॒काय॑¦वरु॑ण‌म्¦मि॒त्र‌म्¦अ॒ग्नि‌म् |
अ॒भि॒ऽक्ष॒दा‌म्¦अ॒र्य॒मण᳚‌म्¦सु॒ऽशेव᳚‌म्¦त्रा॒तॄन्¦दे॒वान्¦स॒वि॒तार᳚‌म्¦भग᳚‌म्¦च॒ ||

सु॒ज्योति॑षःसूर्य॒दक्ष॑पितॄननागा॒स्त्वेसु॑महोवीहिदे॒वान् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

द्वि॒जन्मा᳚नो॒यऋ॑त॒सापः॑स॒त्याःस्व᳚र्वन्तोयज॒ता,अ॑ग्निजि॒ह्वाः(स्वाहा᳚) || 2 ||

सु॒ऽज्योति॑षः¦सू॒र्य॒¦दक्ष॑ऽपितॄन्¦अ॒ना॒गाः॒ऽत्वे¦सु॒ऽम॒हः॒¦वी॒हि॒¦दे॒वान् |
द्वि॒ऽजन्मा᳚नः¦ये¦ऋ॒त॒ऽसापः॑¦स॒त्याः¦स्वः॑ऽवन्तः¦य॒ज॒ताः¦अ॒ग्नि॒ऽजि॒ह्वाः ||

उ॒तद्या᳚वापृथिवीक्ष॒त्रमु॒रुबृ॒हद्रो᳚दसीशर॒णंसु॑षुम्ने |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

म॒हस्क॑रथो॒वरि॑वो॒यथा᳚नो॒ऽस्मेक्षया᳚यधिषणे,अने॒हः(स्वाहा᳚) || 3 ||

उ॒त¦द्या॒वा॒पृ॒थि॒वी॒ इति॑¦क्ष॒त्र‌म्¦उ॒रु¦बृ॒हत्¦रो॒द॒सी॒ इति॑¦श॒र॒ण‌म्¦सु॒सु॒म्ने॒ इति॑ सुऽसुम्ने |
म॒हः¦क॒र॒थः॒¦वरि॑वः¦यथा᳚¦नः॒¦अ॒स्मे इति॑¦क्षया᳚य¦धि॒ष॒णे॒ इति॑¦अ॒ने॒हः ||

आनो᳚रु॒द्रस्य॑सू॒नवो᳚नमन्ताम॒द्याहू॒तासो॒वस॒वोऽधृ॑ष्टाः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

यदी॒मर्भे᳚मह॒तिवा᳚हि॒तासो᳚बा॒धेम॒रुतो॒,अह्वा᳚मदे॒वान्(स्वाहा᳚) || 4 ||

आ¦नः॒¦रु॒द्रस्य॑¦सू॒नवः॑¦न॒म॒न्ता॒‌म्¦अ॒द्य¦हू॒तासः॑¦वस॑वः¦अधृ॑ष्टाः |
यत्¦ई॒‌म्¦अर्भे᳚¦म॒ह॒ति¦वा॒¦हि॒तासः॑¦बा॒धे¦म॒रुतः॑¦अह्वा᳚म¦दे॒वान् ||

मि॒म्यक्ष॒येषु॑रोद॒सीनुदे॒वीसिष॑क्तिपू॒षा,अ॑भ्यर्ध॒यज्वा᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

श्रु॒त्वाहवं᳚मरुतो॒यद्ध॑या॒थभूमा᳚रेजन्ते॒,अध्व॑नि॒प्रवि॑क्ते॒(स्वाहा᳚) || 5 ||

मि॒म्यक्ष॑¦येषु॑¦रो॒द॒सी¦नु¦दे॒वी¦सिस॑क्ति¦पू॒षा¦अ॒भ्य॒र्ध॒ऽयज्वा᳚ |
श्रु॒त्वा¦हव᳚‌म्¦म॒रु॒तः॒¦यत्¦ह॒¦या॒थ¦भूम॑¦रे॒ज॒न्ते॒¦अध्व॑नि¦प्रऽवि॑क्ते ||

अ॒भित्यंवी॒रंगिर्व॑णसम॒र्चेन्द्रं॒ब्रह्म॑णाजरित॒र्नवे᳚न |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

श्रव॒दिद्धव॒मुप॑च॒स्तवा᳚नो॒रास॒द्वाजाँ॒,उप॑म॒होगृ॑णा॒नः(स्वाहा᳚) || 6 || वर्ग:9

अ॒भि¦त्य‌म्¦वी॒र‌म्¦गिर्व॑णस‌म्¦अ॒र्च॒¦इन्द्र᳚‌म्¦ब्रह्म॑णा¦ज॒रि॒तः॒¦नवे᳚न |
श्रव॑त्¦इत्¦हव᳚‌म्¦उप॑¦च॒¦स्तवा᳚नः¦रास॑त्¦वाजा᳚न्¦उप॑¦म॒हः¦गृ॒णा॒नः ||

ओ॒मान॑मापोमानुषी॒रमृ॑क्तं॒धात॑तो॒काय॒तन॑याय॒शंयोः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

यू॒यंहिष्ठाभि॒षजो᳚मा॒तृत॑मा॒विश्व॑स्यस्था॒तुर्जग॑तो॒जनि॑त्रीः॒(स्वाहा᳚) || 7 ||

ओ॒मान᳚‌म्¦आ॒पः॒¦मा॒नु॒षीः॒¦अमृ॑क्त‌म्¦धात॑¦तो॒काय॑¦तन॑याय¦श‌म्¦योः |
यू॒य‌म्¦हि¦स्थ¦भि॒षजः॑¦मा॒तृऽत॑माः¦विश्व॑स्य¦स्था॒तुः¦जग॑तः¦जनि॑त्रीः ||

आनो᳚दे॒वःस॑वि॒तात्राय॑माणो॒हिर᳚ण्यपाणिर्यज॒तोज॑गम्यात् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

योदत्र॑वाँ,उ॒षसो॒नप्रती᳚कंव्यूर्णु॒तेदा॒शुषे॒वार्या᳚णि॒(स्वाहा᳚) || 8 ||

आ¦नः॒¦दे॒वः¦स॒वि॒ता¦त्राय॑माणः¦हिर᳚ण्यऽपाणिः¦य॒ज॒तः¦ज॒ग॒म्या॒त् |
यः¦दत्र॑ऽवान्¦उ॒षसः॑¦न¦प्रती᳚क‌म्¦वि॒ऽऊ॒र्णु॒ते¦दा॒शुषे᳚¦वार्या᳚णि ||

उ॒तत्वंसू᳚नोसहसोनो,अ॒द्यादे॒वाँ,अ॒स्मिन्न॑ध्व॒रेव॑वृत्याः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

स्याम॒हंते॒सद॒मिद्रा॒तौतव॑स्याम॒ग्नेऽव॑सासु॒वीरः॒(स्वाहा᳚) || 9 ||

उ॒त¦त्व‌म्¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦नः॒¦अ॒द्य¦आ¦दे॒वान्¦अ॒स्मिन्¦अ॒ध्व॒रे¦व॒वृ॒त्याः॒ |
स्या‌म्¦अ॒ह‌म्¦ते॒¦सद᳚‌म्¦इ॒त्¦रा॒तौ¦तव॑¦स्या॒‌म्¦अ॒ग्ने॒¦अव॑सा¦सु॒ऽवीरः॑ ||

उ॒तत्यामे॒हव॒माज॑ग्म्यातं॒नास॑त्याधी॒भिर्यु॒वम॒ङ्गवि॑प्रा |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

अत्रिं॒नम॒हस्तम॑सोऽमुमुक्तं॒तूर्व॑तंनरादुरि॒ताद॒भीके॒(स्वाहा᳚) || 10 ||

उ॒त¦त्या¦मे॒¦हव᳚‌म्¦आ¦ज॒ग्म्या॒त॒‌म्¦नास॑त्या¦धी॒भिः¦यु॒व‌म्¦अ॒ङ्ग¦वि॒प्रा॒ |
अत्रि᳚‌म्¦न¦म॒हः¦तम॑सः¦अ॒मु॒मु॒क्त॒‌म्¦तूर्व॑त‌म्¦न॒रा॒¦दुः॒ऽ‌इ॒तात्¦अ॒भीके᳚ ||

तेनो᳚रा॒योद्यु॒मतो॒वाज॑वतोदा॒तारो᳚भूतनृ॒वतः॑पुरु॒क्षोः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

द॒श॒स्यन्तो᳚दि॒व्याःपार्थि॑वासो॒गोजा᳚ता॒,अप्या᳚मृ॒ळता᳚चदेवाः॒(स्वाहा᳚) || 11 || वर्ग:10

ते¦नः॒¦रा॒यः¦द्यु॒ऽमतः॑¦वाज॑ऽवतः¦दा॒तारः॑¦भू॒त॒¦नृ॒ऽवतः॑¦पु॒रु॒ऽक्षोः |
द॒श॒स्यन्तः॑¦दि॒व्याः¦पार्थि॑वासः¦गोऽजा᳚ताः¦अप्याः᳚¦मृ॒ळत॑¦च॒¦दे॒वाः॒ ||

तेनो᳚रु॒द्रःसर॑स्वतीस॒जोषा᳚मी॒ळ्हुष्म᳚न्तो॒विष्णु᳚र्मृळन्तुवा॒युः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ऋ॒भु॒क्षावाजो॒दैव्यो᳚विधा॒ताप॒र्जन्या॒वाता᳚पिप्यता॒मिषं᳚नः॒(स्वाहा᳚) || 12 ||

ते¦नः॒¦रु॒द्रः¦सर॑स्वती¦स॒ऽजोषाः᳚¦मी॒ळ्हुष्म᳚न्तः¦विष्णुः॑¦मृ॒ळ॒न्तु॒¦वा॒युः |
ऋ॒भु॒क्षाः¦वाजः॑¦दैव्यः॑¦वि॒ऽधा॒ता¦प॒र्जन्या॒वाता᳚¦पि॒प्य॒ता॒‌म्¦इष᳚‌म्¦नः॒ ||

उ॒तस्यदे॒वःस॑वि॒ताभगो᳚नो॒ऽपांनपा᳚दवतु॒दानु॒पप्रिः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

त्वष्टा᳚दे॒वेभि॒र्जनि॑भिःस॒जोषा॒द्यौर्दे॒वेभिः॑पृथि॒वीस॑मु॒द्रैः(स्वाहा᳚) || 13 ||

उ॒त¦स्यः¦दे॒वः¦स॒वि॒ता¦भगः॑¦नः॒¦अ॒पा‌म्¦नपा᳚त्¦अ॒व॒तु॒¦दानु॑¦पप्रिः॑ |
त्वष्टा᳚¦दे॒वेभिः॑¦जनि॑ऽभिः¦स॒ऽजोषाः᳚¦द्यौः¦दे॒वेभिः॑¦पृ॒थि॒वी¦स॒मु॒द्रैः ||

उ॒तनोऽहि॑र्बु॒ध्न्यः॑शृणोत्व॒जएक॑पात्‌पृथि॒वीस॑मु॒द्रः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

विश्वे᳚दे॒वा,ऋ॑ता॒वृधो᳚हुवा॒नाःस्तु॒तामन्त्राः᳚कविश॒स्ता,अ॑वन्तु॒(स्वाहा᳚) || 14 ||

उ॒त¦नः॒¦अहिः॑¦बु॒ध्न्यः॑¦शृ॒णो॒तु॒¦अ॒जः¦एक॑ऽपात्¦पृ॒थि॒वी¦स॒मु॒द्रः |
विश्वे᳚¦दे॒वाः¦ऋ॒त॒ऽवृधः॑¦हु॒वा॒नाः¦स्तु॒ताः¦मन्त्राः᳚¦क॒वि॒ऽश॒स्ताः¦अ॒व॒न्तु॒ ||

ए॒वानपा᳚तो॒मम॒तस्य॑धी॒भिर्भ॒रद्वा᳚जा,अ॒भ्य॑र्चन्त्य॒र्कैः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ग्नाहु॒तासो॒वस॒वोऽधृ॑ष्टा॒विश्वे᳚स्तु॒तासो᳚भूतायजत्राः॒(स्वाहा᳚) || 15 ||

ए॒व¦नपा᳚तः¦मम॑¦तस्य॑¦धी॒भिः¦भ॒रत्ऽवा᳚जाः¦अ॒भि¦अ॒र्च॒न्ति॒¦अ॒र्कैः |
ग्नाः¦हु॒तासः॑¦वस॑वः¦अधृ॑ष्टाः¦विश्वे᳚¦स्तु॒तासः॑¦भू॒त॒¦य॒ज॒त्राः॒ ||

[130] उदुत्यदिति षोळशर्चस्य सूक्तस्य भारद्वाजऋजिश्वा विश्वेदेवातिष्टुप्‌ त्रयोदश्याद्यास्तिस्राउष्णिहोन्त्यानुष्टुप् | (भेदपक्षे- सूर्य : २ विश्वेदेवाः १० अग्निः १ सोमः १ विश्वेदेवाः २ एवं १६) |{अष्टक:4, अध्याय:8}{मंडल:6, सूक्त:51}{अनुवाक:5, सूक्त:2}
उदु॒त्यच्चक्षु॒र्महि॑मि॒त्रयो॒राँ,एति॑प्रि॒यंवरु॑णयो॒रद॑ब्धम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ऋ॒तस्य॒शुचि॑दर्श॒तमनी᳚कंरु॒क्मोनदि॒वउदि॑ता॒व्य॑द्यौ॒‌त्(स्वाहा᳚) || 1 || वर्ग:11

उत्¦ऊँ॒ इति॑¦त्यत्¦चक्षुः॑¦महि॑¦मि॒त्रयोः᳚¦आ¦एति॑¦प्रि॒य‌म्¦वरु॑णयोः¦अद॑ब्ध‌म् |
ऋ॒तस्य॑¦शुचि॑¦द॒र्श॒त‌म्¦अनी᳚क‌म्¦रु॒क्मः¦न¦दि॒वः¦उत्ऽ‌इ᳚ता¦वि¦अ॒द्यौ॒त् ||

वेद॒यस्त्रीणि॑वि॒दथा᳚न्येषांदे॒वानां॒जन्म॑सनु॒तराच॒विप्रः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ऋ॒जुमर्ते᳚षुवृजि॒नाच॒पश्य᳚न्न॒भिच॑ष्टे॒सूरो᳚,अ॒र्यएवा॒न्त्(स्वाहा᳚) || 2 ||

वेद॑¦यः¦त्रीणि॑¦वि॒दथा᳚नि¦ए॒षा॒‌म्¦दे॒वाना᳚‌म्¦जन्म॑¦स॒नु॒तः¦आ¦च॒¦विप्रः॑ |
ऋ॒जु¦मर्ते᳚षु¦वृ॒जि॒ना¦च॒¦पश्य॑न्¦अ॒भि¦च॒ष्टे॒¦सूरः॑¦अ॒र्यः¦एवा॑न् ||

स्तु॒षउ॑वोम॒हऋ॒तस्य॑गो॒पानदि॑तिंमि॒त्रंवरु॑णंसुजा॒तान् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

अ॒र्य॒मणं॒भग॒मद॑ब्धधीती॒नच्छा᳚वोचेसध॒न्यः॑पाव॒कान्(स्वाहा᳚) || 3 ||

स्तु॒षे¦ऊँ॒ इति॑¦वः॒¦म॒हः¦ऋ॒तस्य॑¦गो॒पान्¦अदि॑ति‌म्¦मि॒त्र‌म्¦वरु॑ण‌म्¦सु॒ऽजा॒तान् |
अ॒र्य॒मण᳚‌म्¦भग᳚‌म्¦अद॑ब्धऽधीतीन्¦अच्छ॑¦वो॒चे॒¦स॒ऽध॒न्यः॑¦पा॒व॒कान् ||

रि॒शाद॑सः॒सत्प॑तीँ॒रद॑ब्धान्म॒होराज्ञः॑सुवस॒नस्य॑दा॒तॄन् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

यूनः॑सुक्ष॒त्रान्‌क्षय॑तोदि॒वोनॄना᳚दि॒त्यान्या॒म्यदि॑तिंदुवो॒यु(स्वाहा᳚) || 4 ||

रि॒शाद॑सः¦सत्ऽप॑तीन्¦अद॑ब्धान्¦म॒हः¦राज्ञः॑¦सु॒ऽव॒स॒नस्य॑¦दा॒तॄन् |
यूनः॑¦सु॒ऽक्ष॒त्रान्¦क्षय॑तः¦दि॒वः¦नॄन्¦आ॒दि॒त्यान्¦या॒मि॒¦अदि॑ति‌म्¦दु॒वः॒ऽयु ||

द्यौ॒३॑(औ॒)ष्पितः॒पृथि॑वि॒मात॒रध्रु॒गग्ने᳚भ्रातर्वसवोमृ॒ळता᳚नः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

विश्व॑आदित्या,अदितेस॒जोषा᳚,अ॒स्मभ्यं॒शर्म॑बहु॒लंविय᳚न्त॒(स्वाहा᳚) || 5 ||

द्यौः᳚¦पित॒रिति॑¦पृ॒थि॑वि¦मातः॑¦अध्रु॑क्¦अग्ने᳚¦भ्रा॒तः॒¦व॒स॒वः॒¦मृ॒ळत॑¦नः॒ |
विश्वे᳚¦आ॒दि॒त्याः॒¦अ॒दि॒ते॒¦स॒ऽजोषाः᳚¦अ॒स्मभ्य᳚‌म्¦शर्म॑¦ब॒हु॒ल‌म्¦वि¦य॒न्त॒ ||

मानो॒वृका᳚यवृ॒क्ये᳚समस्मा,अघाय॒तेरी᳚रधतायजत्राः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

यू॒यंहिष्ठार॒थ्यो᳚नस्त॒नूनां᳚यू॒यंदक्ष॑स्य॒वच॑सोबभू॒व(स्वाहा᳚) || 6 || वर्ग:12

मा¦नः॒¦वृका᳚य¦वृ॒क्ये᳚¦स॒म॒स्मै॒¦अ॒घ॒ऽय॒ते¦री॒र॒ध॒त॒¦य॒ज॒त्राः॒ |
यू॒य‌म्¦हि¦स्थ¦र॒थ्यः॑¦नः॒¦त॒नूना᳚‌म्¦यू॒य‌म्¦दक्ष॑स्य¦वच॑सः¦ब॒भू॒व ||

माव॒एनो᳚,अ॒न्यकृ॑तंभुजेम॒मातत्क᳚र्मवसवो॒यच्चय॑ध्वे |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

विश्व॑स्य॒हिक्षय॑थविश्वदेवाःस्व॒यंरि॒पुस्त॒न्वं᳚रीरिषीष्ट॒(स्वाहा᳚) || 7 ||

मा¦वः॒¦एनः॑¦अ॒न्यऽकृ॑त‌म्¦भु॒जे॒म॒¦मा¦तत्¦क॒र्म॒¦व॒स॒वः॒¦यत्¦चय॑ध्वे |
विश्व॑स्य¦हि¦क्षय॑थ¦वि॒श्व॒ऽदे॒वाः॒¦स्व॒य‌म्¦रि॒पुः¦त॒न्व᳚‌म्¦रि॒रि॒षी॒ष्ट॒ ||

नम॒इदु॒ग्रंनम॒आवि॑वासे॒नमो᳚दाधारपृथि॒वीमु॒तद्याम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

नमो᳚दे॒वेभ्यो॒नम॑ईशएषांकृ॒तंचि॒देनो॒नम॒सावि॑वासे॒(स्वाहा᳚) || 8 ||

नमः॑¦इत्¦उ॒ग्र‌म्¦नमः॑¦आ¦वि॒वा॒से॒¦नमः॑¦दा॒धा॒र॒¦पृ॒थि॒वी‌म्¦उ॒त¦द्या‌म् |
नमः॑¦दे॒वेभ्यः॑¦नमः॑¦ई॒शे॒¦ए॒षा॒‌म्¦कृ॒त‌म्¦चि॒त्¦एनः॑¦नम॑सा¦आ¦वि॒वा॒से॒ ||

ऋ॒तस्य॑वोर॒थ्यः॑पू॒तद॑क्षानृ॒तस्य॑पस्त्य॒सदो॒,अद॑ब्धान् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ताँ,आनमो᳚भिरुरु॒चक्ष॑सो॒नॄन्‌विश्वा᳚न्व॒आन॑मेम॒होय॑जत्राः॒(स्वाहा᳚) || 9 ||

ऋ॒तस्य॑¦वः॒¦र॒थ्यः॑¦पू॒तऽद॑क्षान्¦ऋ॒तस्य॑¦प॒स्त्य॒ऽसदः॑¦अद॑ब्धान् |
तान्¦आ¦नमः॑ऽभिः¦उ॒रु॒ऽचक्ष॑सः¦नॄन्¦विश्वा᳚न्¦वः॒¦आ¦न॒मे॒¦म॒हः¦य॒ज॒त्राः॒ ||

तेहिश्रेष्ठ॑वर्चस॒स्तउ॑नस्ति॒रोविश्वा᳚निदुरि॒तानय᳚न्ति |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

सु॒क्ष॒त्रासो॒वरु॑णोमि॒त्रो,अ॒ग्निरृ॒तधी᳚तयोवक्म॒राज॑सत्याः॒(स्वाहा᳚) || 10 ||

ते¦हि¦श्रेष्ठ॑ऽवर्चसः¦ते¦ऊँ॒ इति॑¦नः॒¦ति॒रः¦विश्वा᳚नि¦दुः॒ऽ‌इ॒ता¦नय᳚न्ति |
सु॒ऽक्ष॒त्रासः॑¦वरु॑णः¦मि॒त्रः¦अ॒ग्निः¦ऋ॒तऽधी᳚तयः¦व॒क्म॒राज॑ऽसत्याः ||

तेन॒इन्द्रः॑पृथि॒वीक्षाम॑वर्धन्‌पू॒षाभगो॒,अदि॑तिः॒पञ्च॒जनाः᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

सु॒शर्मा᳚णः॒स्वव॑सःसुनी॒थाभव᳚न्तुनःसुत्रा॒त्रासः॑सुगो॒पाः(स्वाहा᳚) || 11 || वर्ग:13

ते¦नः॒¦इन्द्रः॑¦पृ॒थि॒वी¦क्षाम॑¦व॒र्ध॒न्¦पू॒षा¦भगः॑¦अदि॑तिः¦पंच॑¦जनाः᳚ |
सु॒ऽशर्मा᳚णः¦सु॒।आव॑सः¦सु॒ऽनी॒थाः¦भव᳚न्तु¦नः॒¦सु॒ऽत्रा॒त्रासः॑¦सु॒ऽगो॒पाः ||

नूस॒द्मानं᳚दि॒व्यंनंशि॑देवा॒भार॑द्वाजःसुम॒तिंया᳚ति॒होता᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

आ॒सा॒नेभि॒र्यज॑मानोमि॒येधै᳚र्दे॒वानां॒जन्म॑वसू॒युर्व॑वन्द॒(स्वाहा᳚) || 12 ||

नु¦स॒द्मान᳚‌म्¦दि॒व्य‌म्¦नंशि॑¦दे॒वाः॒¦भार॑त्ऽवाजः¦सु॒ऽम॒ति‌म्¦या॒ति॒¦होता᳚ |
आ॒सा॒नेभिः॑¦यज॑मानः¦मि॒येधैः᳚¦दे॒वाना᳚‌म्¦जन्म॑¦व॒सु॒ऽयुः¦व॒व॒न्द॒ ||

अप॒त्यंवृ॑जि॒नंरि॒पुंस्ते॒नम॑ग्नेदुरा॒ध्य᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | उष्णिक्}

द॒वि॒ष्ठम॑स्यसत्पतेकृ॒धीसु॒गम्(स्वाहा᳚) || 13 ||

अप॑¦त्य‌म्¦वृ॒जि॒न‌म्¦रि॒पु‌म्¦स्ते॒न‌म्¦अ॒ग्ने॒¦दुः॒ऽआ॒ध्य᳚‌म् | द॒वि॒ष्ठ‌म्¦अ॒स्य॒¦स॒त्ऽप॒ते॒¦कृ॒धि¦सु॒ऽग‌म् ||

ग्रावा᳚णःसोमनो॒हिकं᳚सखित्व॒नाय॑वाव॒शुः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | उष्णिक्}

ज॒हीन्य१॑(अ॒)त्रिणं᳚प॒णिंवृको॒हिषः(स्वाहा᳚) || 14 ||

ग्रावा᳚णः¦सो॒म॒¦नः॒¦हि¦क॒‌म्¦स॒खि॒ऽत्व॒नाय॑¦वा॒व॒शुः | ज॒हि¦नि¦अ॒त्रिण᳚‌म्¦प॒णि‌म्¦वृकः॑¦हि¦सः ||

यू॒यंहिष्ठासु॑दानव॒इन्द्र॑ज्येष्ठा,अ॒भिद्य॑वः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | उष्णिक्}

कर्ता᳚नो॒,अध्व॒न्नासु॒गंगो॒पा,अ॒मा(स्वाहा᳚) || 15 ||

यू॒य‌म्¦हि¦स्थ¦सु॒ऽदा॒न॒वः॒¦इन्द्र॑ऽज्येष्ठाः¦अ॒भिऽद्य॑वः | कर्त॑¦नः॒¦अध्व॑न्¦आ¦सु॒ऽग‌म्¦गो॒पाः¦अ॒मा ||

अपि॒पन्था᳚मगन्महिस्वस्ति॒गाम॑ने॒हस᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | अनुष्टुप्}

येन॒विश्वाः॒परि॒द्विषो᳚वृ॒णक्ति॑वि॒न्दते॒वसु॒(स्वाहा᳚) || 16 ||

अपि॑¦पन्था᳚‌म्¦अ॒ग॒न्म॒हि॒¦स्व॒स्ति॒ऽगा‌म्¦अ॒ने॒हस᳚‌म् | येन॑¦विश्वाः᳚¦परि॑¦द्विषः॑¦वृ॒णक्ति॑¦वि॒न्दते᳚¦वसु॑ ||

[131] नतद्दिवेति सप्तदशर्चस्य सूक्तस्य भारद्वाजऋजिश्व विश्वेदेवास्त्रिष्टुप्‌सप्तम्याद्याःषट्‌गायत्र्यश्चतुर्दशी जगती | (भेदपक्षे-विश्वेदेवाः २ सोमः १ विश्वे ८ अग्निः १ विश्वे ३ अग्निपर्जन्यौ १ विश्वे १ एवं १७) |{अष्टक:4, अध्याय:8}{मंडल:6, सूक्त:52}{अनुवाक:5, सूक्त:3}
नतद्दि॒वानपृ॑थि॒व्यानु॑मन्ये॒नय॒ज्ञेन॒नोतशमी᳚भिरा॒भिः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

उ॒ब्जन्तु॒तंसु॒भ्व१॑(अः॒)पर्व॑तासो॒निही᳚यतामतिया॒जस्य॑य॒ष्टा(स्वाहा᳚) || 1 || वर्ग:14

न¦तत्¦दि॒वा¦न¦पृ॒थि॒व्या¦अनु॑¦म॒न्ये॒¦न¦य॒ज्ञेन॑¦न¦उ॒त¦शमी᳚भिः¦आ॒भिः |
उ॒ब्जन्तु॑¦त‌म्¦सु॒ऽभ्वः॑¦पर्व॑तासः¦नि¦ही॒य॒ता॒‌म्¦अ॒ति॒ऽया॒जस्य॑¦य॒ष्टा ||

अति॑वा॒योम॑रुतो॒मन्य॑तेनो॒ब्रह्म॑वा॒यःक्रि॒यमा᳚णं॒निनि॑त्सात् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

तपूं᳚षि॒तस्मै᳚वृजि॒नानि॑सन्तुब्रह्म॒द्विष॑म॒भितंशो᳚चतु॒द्यौः(स्वाहा᳚) || 2 ||

अति॑¦वा॒¦यः¦म॒रु॒तः॒¦मन्य॑ते¦नः॒¦ब्रह्म॑¦वा॒¦यः¦क्रि॒यमा᳚ण‌म्¦निनि॑त्सात् |
तपूं᳚षि¦तस्मै᳚¦वृ॒जि॒नानि॑¦स॒न्तु॒¦ब्र॒ह्म॒ऽद्विष᳚‌म्¦अ॒भि¦त‌म्¦शो॒च॒तु॒¦द्यौः ||

किम॒ङ्गत्वा॒ब्रह्म॑णःसोमगो॒पांकिम॒ङ्गत्वा᳚हुरभिशस्ति॒पांनः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

किम॒ङ्गनः॑पश्यसिनि॒द्यमा᳚नान्‌ब्रह्म॒द्विषे॒तपु॑षिंहे॒तिम॑स्य॒(स्वाहा᳚) || 3 ||

कि‌म्¦अ॒ङ्ग¦त्वा॒¦ब्रह्म॑णः¦सो॒म॒¦गो॒पा‌म्¦कि‌म्¦अ॒ङ्ग¦त्वा॒¦आ॒हुः॒¦अ॒भि॒श॒स्ति॒ऽपा‌म्¦नः॒ |
कि‌म्¦अ॒ङ्ग¦नः॒¦प॒श्य॒सि॒¦नि॒द्यमा᳚नान्¦ब्र॒ह्म॒ऽद्विषे᳚¦तपु॑षि‌म्¦हे॒ति‌म्¦अ॒स्य॒ ||

अव᳚न्तु॒मामु॒षसो॒जाय॑माना॒,अव᳚न्तुमा॒सिन्ध॑वः॒पिन्व॑मानाः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

अव᳚न्तुमा॒पर्व॑तासोध्रु॒वासोऽव᳚न्तुमापि॒तरो᳚दे॒वहू᳚तौ॒(स्वाहा᳚) || 4 ||

अव᳚न्तु¦मा‌म्¦उ॒षसः॑¦जाय॑मानाः¦अव᳚न्तु¦मा॒¦सिन्ध॑वः¦पिन्व॑मानाः |
अव᳚न्तु¦मा॒¦पर्व॑तासः¦ध्रु॒वासः॑¦अव᳚न्तु¦मा॒¦पि॒तरः॑¦दे॒वऽहू᳚तौ ||

वि॒श्व॒दानीं᳚सु॒मन॑सःस्याम॒पश्ये᳚म॒नुसूर्य॑मु॒च्चर᳚न्तम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

तथा᳚कर॒द्वसु॑पति॒र्वसू᳚नांदे॒वाँ,ओहा॒नोऽव॒साग॑मिष्ठः॒(स्वाहा᳚) || 5 ||

वि॒श्व॒ऽदानी᳚‌म्¦सु॒ऽमन॑सः¦स्या॒म॒¦पश्ये᳚म¦नु¦सूर्य᳚‌म्¦उ॒त्ऽचर᳚न्त‌म् |
तथा᳚¦क॒र॒त्¦वसु॑ऽपतिः¦वसू᳚ना‌म्¦दे॒वान्¦ओहा᳚नः¦अव॑सा¦आऽग॑मिष्ठः ||

इन्द्रो॒नेदि॑ष्ठ॒मव॒साग॑मिष्ठः॒सर॑स्वती॒सिन्धु॑भिः॒पिन्व॑माना |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

प॒र्जन्यो᳚न॒ओष॑धीभिर्मयो॒भुर॒ग्निःसु॒शंसः॑सु॒हवः॑पि॒तेव॒(स्वाहा᳚) || 6 || वर्ग:15

इन्द्रः॑¦नेदि॑ष्ठ‌म्¦अव॑सा¦आऽग॑मिष्ठः¦सर॑स्वती¦सिन्धु॑ऽभिः¦पिन्व॑माना |
प॒र्जन्यः॑¦नः॒¦ओष॑धीभिः¦म॒यः॒ऽभुः¦अ॒ग्निः¦सु॒ऽशंसः॑¦सु॒ऽहवः॑¦पि॒ताऽ‌इ᳚व ||

विश्वे᳚देवास॒आग॑तशृणु॒ताम॑इ॒मंहव᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री}

एदंब॒र्हिर्निषी᳚दत॒(स्वाहा᳚) || 7 ||

विश्वे᳚¦दे॒वा॒सः॒¦आ¦ग॒त॒¦शृ॒णु॒त¦मे॒¦इ॒म‌म्¦हव᳚‌म् | आ¦इ॒द‌म्¦ब॒र्हिः¦नि¦सी॒द॒त॒ ||

योवो᳚देवाघृ॒तस्नु॑नाह॒व्येन॑प्रति॒भूष॑ति |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री}

तंविश्व॒उप॑गच्छथ॒(स्वाहा᳚) || 8 ||

यः¦वः॒¦दे॒वाः॒¦घृ॒तऽस्नु॑ना¦ह॒व्येन॑¦प्र॒ति॒ऽभूष॑ति | त‌म्¦विश्वे᳚¦उप॑¦ग॒च्छ॒थ॒ ||

उप॑नःसू॒नवो॒गिरः॑शृ॒ण्वन्त्व॒मृत॑स्य॒ये |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री}

सु॒मृ॒ळी॒काभ॑वन्तुनः॒(स्वाहा᳚) || 9 ||

उप॑¦नः॒¦सू॒नवः॑¦गिरः॑¦शृ॒ण्वन्तु॑¦अ॒मृत॑स्य¦ये | सु॒ऽमृ॒ळी॒काः¦भ॒व॒न्तु॒¦नः॒ ||

विश्वे᳚दे॒वा,ऋ॑ता॒वृध॑ऋ॒तुभि᳚र्हवन॒श्रुतः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री}

जु॒षन्तां॒युज्यं॒पयः॒(स्वाहा᳚) || 10 ||

विश्वे᳚¦दे॒वाः¦ऋ॒त॒ऽवृधः॑¦ऋ॒तुऽभिः॑¦ह॒व॒न॒ऽश्रुतः॑ | जु॒षन्ता᳚‌म्¦युज्य᳚‌म्¦पयः॑ ||

स्तो॒त्रमिन्द्रो᳚म॒रुद्ग॑ण॒स्त्वष्टृ॑मान्मि॒त्रो,अ᳚र्य॒मा |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री}

इ॒माह॒व्याजु॑षन्तनः॒(स्वाहा᳚) || 11 || वर्ग:16

स्तो॒त्र‌म्¦इन्द्रः॑¦म॒रुत्ऽग॑णः¦त्वष्टृ॑ऽमान्¦मि॒त्रः¦अ॒र्य॒मा | इ॒मा¦ह॒व्या¦जु॒ष॒न्त॒¦नः॒ ||

इ॒मंनो᳚,अग्ने,अध्व॒रंहोत᳚र्वयुन॒शोय॑ज |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री}

चि॒कि॒त्वान्‌दैव्यं॒जन॒‌म्(स्वाहा᳚) || 12 ||

इ॒म‌म्¦नः॒¦अ॒ग्ने॒¦अ॒ध्व॒र‌म्¦होतः॑¦व॒यु॒न॒ऽशः¦य॒ज॒ | चि॒कि॒त्वान्¦दैव्य᳚‌म्¦जन᳚‌म् ||

विश्वे᳚देवाःशृणु॒तेमंहवं᳚मे॒ये,अ॒न्तरि॑क्षे॒यउप॒द्यवि॒ष्ठ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ये,अ॑ग्निजि॒ह्वा,उ॒तवा॒यज॑त्रा,आ॒सद्या॒स्मिन्‌ब॒र्हिषि॑मादयध्व॒‌म्(स्वाहा᳚) || 13 ||

विश्वे᳚¦दे॒वाः॒¦शृ॒णु॒त¦इ॒म‌म्¦हव᳚‌म्¦मे॒¦ये¦अ॒न्तरि॑क्षे¦ये¦उप॑¦द्यवि॑¦स्थ |
ये¦अ॒ग्नि॒ऽजि॒ह्वाः¦उ॒त¦वा॒¦यज॑त्राः¦आ॒ऽसद्य॑¦अ॒स्मिन्¦ब॒र्हिषि॑¦मा॒द॒य॒ध्व॒‌म् ||

विश्वे᳚दे॒वामम॑शृण्वन्तुय॒ज्ञिया᳚,उ॒भेरोद॑सी,अ॒पांनपा᳚च्च॒मन्म॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | जगती}

मावो॒वचां᳚सिपरि॒चक्ष्या᳚णिवोचंसु॒म्नेष्विद्वो॒,अन्त॑मामदेम॒(स्वाहा᳚) || 14 ||

विश्वे᳚¦दे॒वाः¦मम॑¦शृ॒ण्व॒न्तु॒¦य॒ज्ञियाः᳚¦उ॒भे इति॑¦रोद॑सी॒ इति॑¦अ॒पा‌म्¦नपा᳚त्¦च॒¦मन्म॑ |
मा¦वः॒¦वचां᳚सि¦प॒रि॒ऽचक्ष्या᳚णि¦वो॒च॒‌म्¦सु॒म्नेषु॑¦इत्¦वः॒¦अन्त॑माः¦म॒दे॒म॒ ||

येकेच॒ज्माम॒हिनो॒,अहि॑मायादि॒वोज॑ज्ञि॒रे,अ॒पांस॒धस्थे᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ते,अ॒स्मभ्य॑मि॒षये॒विश्व॒मायुः॒,क्षप॑उ॒स्राव॑रिवस्यन्तुदे॒वाः(स्वाहा᳚) || 15 ||

ये¦के¦च॒¦ज्मा¦म॒हिनः॑¦अहि॑ऽमायाः¦दि॒वः¦ज॒ज्ञि॒रे¦अ॒पा‌म्¦स॒धऽस्थे᳚ |
ते¦अ॒स्मभ्य᳚‌म्¦इ॒षये᳚¦विश्व᳚‌म्¦आयुः॑¦क्षपः॑¦उ॒स्राः¦व॒रि॒व॒स्य॒न्तु॒¦दे॒वाः ||

अग्नी᳚पर्जन्या॒वव॑तं॒धियं᳚मे॒ऽस्मिन्हवे᳚सुहवासुष्टु॒तिंनः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

इळा᳚म॒न्योज॒नय॒द्गर्भ॑म॒न्यःप्र॒जाव॑ती॒रिष॒आध॑त्तम॒स्मे(स्वाहा᳚) || 16 ||

अग्नी᳚पर्जन्यौ¦अव॑त‌म्¦धिय᳚‌म्¦मे॒¦अ॒स्मिन्¦हवे᳚¦सु॒ऽह॒वा॒¦सु॒ऽस्तु॒ति‌म्¦नः॒ |
इळा᳚‌म्¦अ॒न्यः¦ज॒नय॑त्¦गर्भ᳚‌म्¦अ॒न्यः¦प्र॒जाऽव॑तीः¦इषः॑¦आ¦ध॒त्त॒‌म्¦अ॒स्मे इति॑ ||

स्ती॒र्णेब॒र्हिषि॑समिधा॒ने,अ॒ग्नौसू॒क्तेन॑म॒हानम॒सावि॑वासे |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

अ॒स्मिन्नो᳚,अ॒द्यवि॒दथे᳚यजत्रा॒विश्वे᳚देवाह॒विषि॑मादयध्व॒‌म्(स्वाहा᳚) || 17 ||

स्ती॒र्णे¦ब॒र्हिषि॑¦स॒‌म्ऽ‌इ॒धा॒ने¦अ॒ग्नौ¦सु॒।औ॒क्तेन॑¦म॒हा¦नम॑सा¦आ¦वि॒वा॒से॒ |
अ॒स्मिन्¦नः॒¦अ॒द्य¦वि॒दथे᳚¦य॒ज॒त्राः॒¦विश्वे᳚¦दे॒वाः॒¦ह॒विषि॑¦मा॒द॒य॒ध्व॒‌म् ||

[132] वयमुत्वेति दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजः पूषा गायत्री अष्टम्यनुष्टुप् |{अष्टक:4, अध्याय:8}{मंडल:6, सूक्त:53}{अनुवाक:5, सूक्त:4}
व॒यमु॑त्वापथस्पते॒रथं॒नवाज॑सातये |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

धि॒येपू᳚षन्नयुज्महि॒(स्वाहा᳚) || 1 || वर्ग:17

व॒य‌म्¦ऊँ॒ इति॑¦त्वा॒¦प॒थः॒¦प॒ते॒¦रथ᳚‌म्¦न¦वाज॑ऽसातये | धि॒ये¦पू॒ष॒न्¦अ॒यु॒ज्म॒हि॒ ||

अ॒भिनो॒नर्यं॒वसु॑वी॒रंप्रय॑तदक्षिणम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

वा॒मंगृ॒हप॑तिंनय॒(स्वाहा᳚) || 2 ||

अ॒भि¦नः॒¦नर्य᳚‌म्¦वसु॑¦वी॒र‌म्¦प्रय॑तऽदक्षिण‌म् | वा॒म‌म्¦गृ॒हऽप॑ति‌म्¦न॒य॒ ||

अदि॑त्सन्तंचिदाघृणे॒पूष॒न्दाना᳚यचोदय |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

प॒णेश्चि॒द्विम्र॑दा॒मनः॒(स्वाहा᳚) || 3 ||

अदि॑त्सन्त‌म्¦चि॒त्¦आ॒घृ॒णे॒¦पूष॑न्¦दाना᳚य¦चो॒द॒य॒ | प॒णेः¦चि॒त्¦वि¦म्र॒द॒¦मनः॑ ||

विप॒थोवाज॑सातयेचिनु॒हिविमृधो᳚जहि |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

साध᳚न्तामुग्रनो॒धियः॒(स्वाहा᳚) || 4 ||

वि¦प॒थः¦वाज॑ऽसातये¦चि॒नु॒हि¦वि¦मृधः॑¦ज॒हि॒ | साध᳚न्ता‌म्¦उ॒ग्र॒¦नः॒¦धियः॑ ||

परि॑तृन्धिपणी॒नामार॑या॒हृद॑याकवे |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

अथे᳚म॒स्मभ्यं᳚रन्धय॒(स्वाहा᳚) || 5 ||

परि॑¦तृ॒न्धि॒¦प॒णी॒ना‌म्¦आर॑या¦हृद॑या¦क॒वे॒ | अथ॑¦ई॒‌म्¦अ॒स्मभ्य᳚‌म्¦र॒न्ध॒य॒ ||

विपू᳚ष॒न्नार॑यातुदप॒णेरि॑च्छहृ॒दिप्रि॒यम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

अथे᳚म॒स्मभ्यं᳚रन्धय॒(स्वाहा᳚) || 6 || वर्ग:18

वि¦पू॒ष॒न्¦आर॑या¦तु॒द॒¦प॒णेः¦इ॒च्छ॒¦हृ॒दि¦प्रि॒य‌म् | अथ॑¦ई॒‌म्¦अ॒स्मभ्य᳚‌म्¦र॒न्ध॒य॒ ||

आरि॑खकिकि॒राकृ॑णुपणी॒नांहृद॑याकवे |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

अथे᳚म॒स्मभ्यं᳚रन्धय॒(स्वाहा᳚) || 7 ||

आ¦रि॒ख॒¦कि॒कि॒रा¦कृ॒णु॒¦प॒णी॒ना‌म्¦हृद॑या¦क॒वे॒ | अथ॑¦ई॒‌म्¦अ॒स्मभ्य᳚‌म्¦र॒न्ध॒य॒ ||

यांपू᳚षन्‌ब्रह्म॒चोद॑नी॒मारां॒बिभ॑र्ष्याघृणे |{बार्हस्पत्यो भरद्वाजः | पूषा | अनुष्टुप्}

तया᳚समस्य॒हृद॑य॒मारि॑खकिकि॒राकृ॑णु॒(स्वाहा᳚) || 8 ||

या‌म्¦पू॒ष॒न्¦ब्र॒ह्म॒ऽचोद॑नी‌म्¦आरा᳚‌म्¦बिभ॑र्षि¦आ॒घृ॒णे॒ | तया᳚¦स॒म॒स्य॒¦हृद॑य‌म्¦आ¦रि॒ख॒¦कि॒कि॒रा¦कृ॒णु॒ ||

याते॒,अष्ट्रा॒गो,ओ᳚प॒शाघृ॑णेपशु॒साध॑नी |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

तस्या᳚स्तेसु॒म्नमी᳚महे॒(स्वाहा᳚) || 9 ||

या¦ते॒¦अष्ट्रा᳚¦गोऽओ᳚पशा¦आघृ॑णे¦प॒शु॒ऽसाध॑नी | तस्याः᳚¦ते॒¦सु॒म्न‌म्¦ई॒म॒हे॒ ||

उ॒तनो᳚गो॒षणिं॒धिय॑मश्व॒सांवा᳚ज॒सामु॒त |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

नृ॒वत्कृ॑णुहिवी॒तये॒(स्वाहा᳚) || 10 ||

उ॒त¦नः॒¦गो॒ऽसनि᳚‌म्¦धिय᳚‌म्¦अ॒श्व॒सा‌म्¦वा॒ज॒ऽसा‌म्¦उ॒त | नृ॒ऽवत्¦कृ॒णु॒हि॒¦वी॒तये᳚ ||

[133] संपूषन्निति दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजः पूषागायत्री |{अष्टक:4, अध्याय:8}{मंडल:6, सूक्त:54}{अनुवाक:5, सूक्त:5}
संपू᳚षन्‌वि॒दुषा᳚नय॒यो,अञ्ज॑सानु॒शास॑ति |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

यए॒वेदमिति॒ब्रव॒॑‌त्(स्वाहा᳚) || 1 || वर्ग:19

स‌म्¦पू॒ष॒न्¦वि॒दुषा᳚¦न॒य॒¦यः¦अंज॑सा¦अ॒नु॒ऽशास॑ति | यः¦ए॒व¦इ॒द‌म्¦इति॑¦ब्रव॑त् ||

समु॑पू॒ष्णाग॑मेमहि॒योगृ॒हाँ,अ॑भि॒शास॑ति |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

इ॒मए॒वेति॑च॒ब्रव॒॑‌त्(स्वाहा᳚) || 2 ||

स‌म्¦ऊँ॒ इति॑¦पू॒ष्णा¦ग॒मे॒म॒हि॒¦यः¦गृ॒हान्¦अ॒भि॒ऽशास॑ति | इ॒मे¦ए॒व¦इति॑¦च॒¦ब्रव॑त् ||

पू॒ष्णश्च॒क्रंनरि॑ष्यति॒नकोशोऽव॑पद्यते |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

नो,अ॑स्यव्यथतेप॒विः(स्वाहा᳚) || 3 ||

पू॒ष्णः¦च॒क्र‌म्¦न¦रि॒ष्य॒ति॒¦न¦कोशः॑¦अव॑¦प॒द्य॒ते॒ | नो इति॑¦अ॒स्य॒¦व्य॒थ॒ते॒¦प॒विः ||

यो,अ॑स्मैह॒विषावि॑ध॒न्नतंपू॒षापि॑मृष्यते |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

प्र॒थ॒मोवि᳚न्दते॒वसु॒(स्वाहा᳚) || 4 ||

यः¦अ॒स्मै॒¦ह॒विषा᳚¦अवि॑धत्¦न¦त‌म्¦पू॒षा¦अपि॑¦मृ॒ष्य॒ते॒ | प्र॒थ॒मः¦वि॒न्द॒ते॒¦वसु॑ ||

पू॒षागा,अन्वे᳚तुनःपू॒षार॑क्ष॒त्वर्व॑तः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

पू॒षावाजं᳚सनोतुनः॒(स्वाहा᳚) || 5 ||

पू॒षा¦गाः¦अनु॑¦ए॒तु॒¦नः॒¦पू॒षा¦र॒क्ष॒तु॒¦अर्व॑तः | पू॒षा¦वाज᳚‌म्¦स॒नो॒तु॒¦नः॒ ||

पूष॒न्ननु॒प्रगा,इ॑हि॒यज॑मानस्यसुन्व॒तः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

अ॒स्माकं᳚स्तुव॒तामु॒त(स्वाहा᳚) || 6 || वर्ग:20

पूष॑न्¦अनु॑¦प्र¦गाः¦इ॒हि॒¦यज॑मानस्य¦सु॒न्व॒तः | अ॒स्माक᳚‌म्¦स्तु॒व॒ता‌म्¦उ॒त ||

माकि᳚र्नेश॒न्माकीं᳚रिष॒न्माकीं॒संशा᳚रि॒केव॑टे |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

अथारि॑ष्टाभि॒राग॑हि॒(स्वाहा᳚) || 7 ||

माकिः॑¦नेश॑त्¦माकी᳚‌म्¦रिष॑त्¦माकी᳚‌म्¦स‌म्¦शा॒रि॒¦केव॑टे | अथ॑¦अरि॑ष्टाभिः¦आ¦गा॒हि॒ ||

शृ॒ण्वन्तं᳚पू॒षणं᳚व॒यमिर्य॒मन॑ष्टवेदसम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

ईशा᳚नंरा॒यई᳚महे॒(स्वाहा᳚) || 8 ||

शृ॒ण्वन्त᳚‌म्¦पू॒षण᳚‌म्¦व॒य‌म्¦इर्य᳚‌म्¦अन॑ष्टऽवेदस‌म् | ईशा᳚न‌म्¦रा॒यः¦ई॒म॒हे॒ ||

पूष॒न्तव᳚व्र॒तेव॒यंनरि॑ष्येम॒कदा᳚च॒न |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

स्तो॒तार॑स्तइ॒हस्म॑सि॒(स्वाहा᳚) || 9 ||

पूष॑न्¦तव॑¦व्र॒ते¦व॒य‌म्¦न¦रि॒ष्ये॒म॒¦कदा᳚¦च॒न | स्तो॒तारः॑¦ते॒¦इ॒ह¦स्म॒सि॒ ||

परि॑पू॒षाप॒रस्ता॒द्धस्तं᳚दधातु॒दक्षि॑णम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

पुन᳚र्नोन॒ष्टमाज॑तु॒(स्वाहा᳚) || 10 ||

परि॑¦पू॒षा¦प॒रस्ता᳚त्¦हस्त᳚‌म्¦द॒धा॒तु॒¦दक्षि॑ण‌म् | पुनः॑¦नः॒¦न॒ष्ट‌म्¦आ¦अ॒ज॒तु॒ ||

[134] एहिवामिति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजः पूषागायत्री |{अष्टक:4, अध्याय:8}{मंडल:6, सूक्त:55}{अनुवाक:5, सूक्त:6}
एहि॒वांवि॑मुचोनपा॒दाघृ॑णे॒संस॑चावहै |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

र॒थीरृ॒तस्य॑नोभव॒(स्वाहा᳚) || 1 || वर्ग:21

आ¦इ॒हि॒¦वा‌म्¦वि॒ऽमु॒चः॒¦न॒पा॒त्¦आघृ॑णे¦स‌म्¦स॒चा॒व॒है॒ | र॒थीः¦ऋ॒तस्य॑¦नः॒¦भ॒व॒ ||

र॒थीत॑मंकप॒र्दिन॒मीशा᳚नं॒राध॑सोम॒हः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

रा॒यःसखा᳚यमीमहे॒(स्वाहा᳚) || 2 ||

र॒थिऽत॑म‌म्¦क॒प॒र्दिन᳚‌म्¦ईशा᳚न‌म्¦राध॑सः¦म॒हः | रा॒यः¦सखा᳚य‌म्¦ई॒म॒हे॒ ||

रा॒योधारा᳚स्याघृणे॒वसो᳚रा॒शिर॑जाश्व |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

धीव॑तोधीवतः॒सखा॒(स्वाहा᳚) || 3 ||

रा॒यः¦धारा᳚¦अ॒सि॒¦आ॒घृ॒णे॒¦वसोः᳚¦रा॒शिः¦अ॒ज॒।आ॒श्व॒ | धीव॑तःऽधीवतः¦सखा᳚ ||

पू॒षणं॒न्व१॑(अ॒)जाश्व॒मुप॑स्तोषामवा॒जिन᳚म् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

स्वसु॒र्योजा॒रउ॒च्यते॒(स्वाहा᳚) || 4 ||

पू॒षण᳚‌म्¦नु¦अ॒ज।आ॑श्व‌म्¦उप॑¦स्तो॒षा॒म॒¦वा॒जिन᳚‌म् | स्वसुः॑¦यः¦जा॒रः¦उ॒च्यते᳚ ||

मा॒तुर्दि॑धि॒षुम॑ब्रवं॒स्वसु॑र्जा॒रःशृ॑णोतुनः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

भ्रातेन्द्र॑स्य॒सखा॒मम॒(स्वाहा᳚) || 5 ||

मा॒तुः¦दि॒धि॒षु‌म्¦अ॒ब्र॒व॒‌म्¦स्वसुः॑¦जा॒रः¦शृ॒णो॒तु॒¦नः॒ | भ्राता᳚¦इन्द्र॑स्य¦सखा᳚¦मम॑ ||

आजासः॑पू॒षणं॒रथे᳚निशृ॒म्भास्तेज॑न॒श्रिय᳚म् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

दे॒वंव॑हन्तु॒बिभ्र॑तः॒(स्वाहा᳚) || 6 ||

आ¦अ॒जासः॑¦पू॒षण᳚‌म्¦रथे᳚¦नि॒ऽशृ॒म्भाः¦ते¦ज॒न॒ऽश्रिय᳚‌म् | दे॒व‌म्¦व॒ह॒न्तु॒¦बिभ्र॑तः ||

[135] यएनमिति षडृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाजः पूषागायत्री अंत्यानुष्टुप् |{अष्टक:4, अध्याय:8}{मंडल:6, सूक्त:56}{अनुवाक:5, सूक्त:7}
यए᳚नमा॒दिदे᳚शतिकर॒म्भादिति॑पू॒षण᳚म् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

नतेन॑दे॒वआ॒दिशे॒(स्वाहा᳚) || 1 || वर्ग:22

यः¦ए॒न॒‌म्¦आ॒ऽदिदे᳚शति¦क॒र॒म्भ॒।आत्¦इति॑¦पू॒षण᳚‌म् | न¦तेन॑¦दे॒वः¦आ॒ऽदिशे᳚ ||

उ॒तघा॒सर॒थीत॑मः॒सख्या॒सत्प॑तिर्यु॒जा |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

इन्द्रो᳚वृ॒त्राणि॑जिघ्नते॒(स्वाहा᳚) || 2 ||

उ॒त¦घ॒¦सः¦र॒थिऽत॑मः¦सख्या᳚¦सत्ऽप॑तिः¦यु॒जा | इन्द्रः॑¦वृ॒त्राणि॑¦जि॒घ्न॒ते॒ ||

उ॒तादःप॑रु॒षेगवि॒सूर॑श्च॒क्रंहि॑र॒ण्यय᳚म् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

न्यै᳚रयद्र॒थीत॑मः॒(स्वाहा᳚) || 3 ||

उ॒त¦अ॒दः¦प॒रु॒षे¦गवि॑¦सूरः॑¦च॒क्र‌म्¦हि॒र॒ण्यय᳚‌म् | नि¦ऐ॒र॒य॒त्¦र॒थिऽत॑मः ||

यद॒द्यत्वा᳚पुरुष्टुत॒ब्रवा᳚मदस्रमन्तुमः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

तत्सुनो॒मन्म॑साधय॒(स्वाहा᳚) || 4 ||

यत्¦अ॒द्य¦त्वा॒¦पु॒रु॒ऽस्तु॒त॒¦ब्रवा᳚म¦द॒स्र॒¦म॒न्तु॒ऽमः॒ | तत्¦सु¦नः॒¦मन्म॑¦सा॒ध॒य॒ ||

इ॒मंच॑नोग॒वेष॑णंसा॒तये᳚सीषधोग॒णम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

आ॒रात्पू᳚षन्नसिश्रु॒तः(स्वाहा᳚) || 5 ||

इ॒म‌म्¦च॒¦नः॒¦गो॒ऽएष॑ण‌म्¦सा॒तये᳚¦सी॒स॒धः॒¦ग॒ण‌म् | आ॒रात्¦पू॒ष॒न्¦अ॒सि॒¦श्रु॒तः ||

आते᳚स्व॒स्तिमी᳚महआ॒रे,अ॑घा॒मुपा᳚वसुम् |{बार्हस्पत्यो भरद्वाजः | पूषा | अनुष्टुप्}

अ॒द्याच॑स॒र्वता᳚तये॒श्वश्च॑स॒र्वता᳚तये॒(स्वाहा᳚) || 6 ||

आ¦ते॒¦स्व॒स्ति‌म्¦ई॒म॒हे॒¦आ॒रे।आ॑घा‌म्¦उप॑ऽवसु‌म् | अ॒द्य¦च॒¦स॒र्वऽता᳚तये¦श्वः¦च॒¦स॒र्वऽता᳚तये ||

[136] इंद्रान्विति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रापूषणौगायत्री |{अष्टक:4, अध्याय:8}{मंडल:6, सूक्त:57}{अनुवाक:5, सूक्त:8}
इन्द्रा॒नुपू॒षणा᳚व॒यंस॒ख्याय॑स्व॒स्तये᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री}

हु॒वेम॒वाज॑सातये॒(स्वाहा᳚) || 1 || वर्ग:23

इन्द्रा᳚¦नु¦पू॒षणा᳚¦व॒य‌म्¦स॒ख्याय॑¦स्व॒स्तये᳚ | हु॒वेम॑¦वाज॑ऽसातये ||

सोम॑म॒न्यउपा᳚सद॒त्पात॑वेच॒म्वोः᳚सु॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री}

क॒र॒म्भम॒न्यइ॑च्छति॒(स्वाहा᳚) || 2 ||

सोम᳚‌म्¦अ॒न्यः¦उप॑¦अ॒स॒द॒त्¦पात॑वे¦च॒म्वोः᳚¦सु॒त‌म् | क॒र॒म्भ‌म्¦अ॒न्यः¦इ॒च्छ॒ति॒ ||

अ॒जा,अ॒न्यस्य॒वह्न॑यो॒हरी᳚,अ॒न्यस्य॒सम्भृ॑ता |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री}

ताभ्यां᳚वृ॒त्राणि॑जिघ्नते॒(स्वाहा᳚) || 3 ||

अ॒जाः¦अ॒न्यस्य॑¦वह्न॑यः¦हरी॒ इति॑¦अ॒न्यस्य॑¦स‌म्ऽभृ॑ता | ताभ्या᳚‌म्¦वृ॒त्राणि॑¦जि॒घ्न॒ते॒ ||

यदिन्द्रो॒,अन॑य॒द्रितो᳚म॒हीर॒पोवृष᳚न्तमः |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री}

तत्र॑पू॒षाभ॑व॒त्सचा॒(स्वाहा᳚) || 4 ||

यत्¦इन्द्रः॑¦अन॑यत्¦रितः॑¦म॒हीः¦अ॒पः¦वृष॑न्ऽतमः | तत्र॑¦पू॒षा¦अ॒भ॒व॒त्¦सचा᳚ ||

तांपू॒ष्णःसु॑म॒तिंव॒यंवृ॒क्षस्य॒प्रव॒यामि॑व |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री}

इन्द्र॑स्य॒चार॑भामहे॒(स्वाहा᳚) || 5 ||

ता‌म्¦पू॒ष्णः¦सु॒ऽम॒ति‌म्¦व॒य‌म्¦वृ॒क्षस्य॑¦प्र¦व॒या‌म्ऽ‌इ᳚व | इन्द्र॑स्य¦च॒¦आ¦र॒भा॒म॒हे॒ ||

उत्पू॒षणं᳚युवामहे॒ऽभीशूँ᳚रिव॒सार॑थिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री}

म॒ह्या,इन्द्रं᳚स्व॒स्तये॒(स्वाहा᳚) || 6 ||

उत्¦पू॒षण᳚‌म्¦यु॒वा॒म॒हे॒¦अ॒भीशू᳚न्ऽ‌इव¦सार॑थिः | म॒ह्यै¦इन्द्र᳚‌म्¦स्व॒स्तये᳚ ||

[137] शुक्रंतइति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजः पूषात्रिष्टुप् द्वितीयाजगती |{अष्टक:4, अध्याय:8}{मंडल:6, सूक्त:58}{अनुवाक:5, सूक्त:9}
शु॒क्रंते᳚,अ॒न्यद्‌य॑ज॒तंते᳚,अ॒न्यद्विषु॑रूपे॒,अह॑नी॒द्यौरि॑वासि |{बार्हस्पत्यो भरद्वाजः | पूषा | त्रिष्टुप्}

विश्वा॒हिमा॒या,अव॑सिस्वधावोभ॒द्राते᳚पूषन्नि॒हरा॒तिर॑स्तु॒(स्वाहा᳚) || 1 || वर्ग:24

शु॒क्र‌म्¦ते॒¦अ॒न्यत्¦य॒ज॒त‌म्¦ते॒¦अ॒न्यत्¦विषु॑रूपे॒ इति॒ विषु॑ऽरूपे¦अह॑नी॒ इति॑¦द्यौःऽ‌इ᳚व¦अ॒सि॒ |
विश्वाः᳚¦हि¦मा॒याः¦अव॑सि¦स्व॒धा॒ऽवः॒¦भ॒द्रा¦ते॒¦पू॒ष॒न्¦इ॒ह¦रा॒तिः¦अ॒स्तु॒ ||

अ॒जाश्वः॑पशु॒पावाज॑पस्त्योधियंजि॒न्वोभुव॑ने॒विश्वे॒,अर्पि॑तः |{बार्हस्पत्यो भरद्वाजः | पूषा | जगती}

अष्ट्रां᳚पू॒षाशि॑थि॒रामु॒द्वरी᳚वृजत्सं॒चक्षा᳚णो॒भुव॑नादे॒वई᳚यते॒(स्वाहा᳚) || 2 ||

अ॒ज।आ॑श्वः¦प॒शु॒ऽपाः¦वाज॑ऽपस्त्यः¦धि॒य॒‌म्ऽजि॒न्वः¦भुव॑ने¦विश्वे᳚¦अर्पि॑तः |
अष्ट्रा᳚‌म्¦पू॒षा¦शि॒थि॒रा‌म्¦उ॒त्ऽवरी᳚वृजत्¦स॒‌म्ऽचक्षा᳚णः¦भुव॑ना¦दे॒वः¦ई॒य॒ते॒ ||

यास्ते᳚पूष॒न्नावो᳚,अ॒न्तःस॑मु॒द्रेहि॑र॒ण्ययी᳚र॒न्तरि॑क्षे॒चर᳚न्ति |{बार्हस्पत्यो भरद्वाजः | पूषा | त्रिष्टुप्}

ताभि᳚र्यासिदू॒त्यांसूर्य॑स्य॒कामे᳚नकृत॒श्रव॑इ॒च्छमा᳚नः॒(स्वाहा᳚) || 3 ||

याः¦ते॒¦पू॒ष॒न्¦नावः॑¦अ॒न्तरिति॑¦स॒मु॒द्रे¦हि॒र॒ण्ययीः᳚¦अ॒न्तरि॑क्षे¦चर᳚न्ति |
ताभिः॑¦या॒सि॒¦दू॒त्या‌म्¦सूर्य॑स्य¦कामे᳚न¦कृ॒त॒¦श्रवः॑¦इ॒च्छमा᳚नः ||

पू॒षासु॒बन्धु॑र्दि॒वआपृ॑थि॒व्या,इ॒ळस्पति᳚र्म॒घवा᳚द॒स्मव॑र्चाः |{बार्हस्पत्यो भरद्वाजः | पूषा | त्रिष्टुप्}

यंदे॒वासो॒,अद॑दुःसू॒र्यायै॒कामे᳚नकृ॒तंत॒वसं॒स्वञ्च॒‌म्(स्वाहा᳚) || 4 ||

पू॒षा¦सु॒ऽबन्धुः॑¦दि॒वः¦आ¦पृ॒थि॒व्याः¦इ॒ळः¦पतिः॑¦म॒घऽवा᳚¦द॒स्मऽव॑र्चाः |
य‌म्¦दे॒वासः॑¦अद॑दुः¦सू॒र्यायै᳚¦कामे᳚न¦कृ॒त‌म्¦त॒वस᳚‌म्¦सु॒।आंच᳚‌म् ||

[138] प्रनुवोचेति दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज इंद्राग्नी बृहती अंत्याश्चतस्रोनुष्टुभः |{अष्टक:4, अध्याय:8}{मंडल:6, सूक्त:59}{अनुवाक:5, सूक्त:10}
प्रनुवो᳚चासु॒तेषु॑वांवी॒र्या॒३॑(आ॒)यानि॑च॒क्रथुः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती}

ह॒तासो᳚वांपि॒तरो᳚दे॒वश॑त्रव॒इन्द्रा᳚ग्नी॒जीव॑थोयु॒वम्(स्वाहा᳚) || 1 || वर्ग:25

प्र¦नु¦वो॒च॒¦सु॒तेषु॑¦वा॒‌म्¦वी॒र्या᳚¦यानि॑¦च॒क्रथुः॑ |
ह॒तासः॑¦वा॒‌म्¦पि॒तरः॑¦दे॒वऽश॑त्रवः¦इन्द्रा᳚ग्नी॒ इति॑¦जीव॑थः¦यु॒व‌म् ||

बळि॒त्थाम॑हि॒मावा॒मिन्द्रा᳚ग्नी॒पनि॑ष्ठ॒आ |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती}

स॒मा॒नोवां᳚जनि॒ताभ्रात॑रायु॒वंय॒मावि॒हेह॑मातरा॒(स्वाहा᳚) || 2 ||

बट्¦इ॒त्था¦म॒हि॒मा¦वा॒‌म्¦इन्द्रा᳚ग्नी॒ इति॑¦पनि॑ष्ठः¦आ |
स॒मा॒नः¦वा॒‌म्¦ज॒नि॒ता¦भ्रात॑रा¦यु॒व‌म्¦य॒मौ¦इ॒हेह॑ऽमातरा ||

ओ॒कि॒वांसा᳚सु॒तेसचाँ॒,अश्वा॒सप्ती᳚,इ॒वाद॑ने |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती}

इन्द्रा॒न्व१॑(अ॒)ग्नी,अव॑से॒हव॒ज्रिणा᳚व॒यंदे॒वाह॑वामहे॒(स्वाहा᳚) || 3 ||

ओ॒कि॒ऽवांसा᳚¦सु॒ते¦सचा᳚¦अश्वा᳚¦सप्ती᳚ इ॒वेति॒ सप्ती᳚ऽ‌इव¦आद॑ने |
इन्द्रा᳚¦नु¦अ॒ग्नी इति॑¦अव॑सा¦इ॒ह¦व॒ज्रिणा᳚¦व॒य‌म्¦दे॒वा¦ह॒वा॒म॒हे॒ ||

यइ᳚न्द्राग्नीसु॒तेषु॑वां॒स्तव॒त्तेष्वृ॑तावृधा |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती}

जो॒ष॒वा॒कंवद॑तःपज्रहोषिणा॒नदे᳚वाभ॒सथ॑श्च॒न(स्वाहा᳚) || 4 ||

यः¦इ॒न्द्रा॒ग्नी॒ इति॑¦सु॒तेषु॑¦वा॒‌म्¦स्तव॑त्¦तेषु॑¦ऋ॒त॒ऽवृ॒धा॒ |
जो॒ष॒ऽवा॒क‌म्¦वद॑तः¦प॒ज्र॒ऽहो॒षि॒णा॒¦न¦दे॒वा॒¦भ॒सथः॑¦च॒न ||

इन्द्रा᳚ग्नी॒को,अ॒स्यवां॒देवौ॒मर्त॑श्चिकेतति |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती}

विषू᳚चो॒,अश्वा᳚न्युयुजा॒नई᳚यत॒एकः॑समा॒नआरथे॒(स्वाहा᳚) || 5 ||

इन्द्रा᳚ग्नी॒ इति॑¦कः¦अ॒स्य¦वा॒‌म्¦देवौ᳚¦मर्तः॑¦चि॒के॒त॒ति॒ |
विषू᳚चः¦अश्वा᳚न्¦यु॒यु॒जा॒नः¦ई॒य॒ते॒¦एकः॑¦स॒मा॒ने¦आ¦रथे᳚ ||

इन्द्रा᳚ग्नी,अ॒पादि॒यंपूर्वागा᳚त्प॒द्वती᳚भ्यः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती}

हि॒त्वीशिरो᳚जि॒ह्वया॒वाव॑द॒च्चर॑त्त्रिं॒शत्प॒दान्य॑क्रमी॒‌त्(स्वाहा᳚) || 6 || वर्ग:26

इन्द्रा᳚ग्नी॒ इति॑¦अ॒पात्¦इ॒य‌म्¦पूर्वा᳚¦आ¦अ॒गा॒त्¦प॒त्ऽवती᳚भ्यः |
हि॒त्वी¦शिरः॑¦जि॒ह्वया᳚¦वाव॑दत्¦चर॑त्¦त्रिं॒शत्¦प॒दा¦नि¦अ॒क्र॒मी॒त् ||

इन्द्रा᳚ग्नी॒,आहित᳚न्व॒तेनरो॒धन्वा᳚निबा॒ह्वोः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्}

मानो᳚,अ॒स्मिन्म॑हाध॒नेपरा᳚वर्क्तं॒गवि॑ष्टिषु॒(स्वाहा᳚) || 7 ||

इन्द्रा᳚ग्नी॒ इति॑¦आ¦हि¦त॒न्व॒ते¦नरः॑¦धन्वा᳚नि¦बा॒ह्वोः | मा¦नः॒¦अ॒स्मिन्¦म॒हा॒ऽध॒ने¦परा᳚¦व॒र्क्त॒‌म्¦गोऽ‌इ᳚ष्टिषु ||

इन्द्रा᳚ग्नी॒तप᳚न्तिमा॒घा,अ॒र्यो,अरा᳚तयः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्}

अप॒द्वेषां॒स्याकृ॑तंयुयु॒तंसूर्या॒दधि॒(स्वाहा᳚) || 8 ||

इन्द्रा᳚ग्नी॒ इति॑¦तप᳚न्ति¦मा॒¦अ॒घाः¦अ॒र्यः¦अरा᳚तयः | अप॑¦द्वेषां᳚सि¦आ¦कृ॒त॒‌म्¦यु॒यु॒त‌म्¦सूर्या᳚त्¦अधि॑ ||

इन्द्रा᳚ग्नीयु॒वोरपि॒वसु॑दि॒व्यानि॒पार्थि॑वा |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्}

आन॑इ॒हप्रय॑च्छतंर॒यिंवि॒श्वायु॑पोषस॒‌म्(स्वाहा᳚) || 9 ||

इन्द्रा᳚ग्नी॒ इति॑¦यु॒वोः¦अपि॑¦वसु॑¦दि॒व्यानि॑¦पार्थि॑वा | आ¦नः॒¦इ॒ह¦प्र¦य॒च्छ॒त॒‌म्¦र॒यि‌म्¦वि॒श्वायु॑ऽपोषस‌म् ||

इन्द्रा᳚ग्नी,उक्थवाहसा॒स्तोमे᳚भिर्हवनश्रुता |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्}

विश्वा᳚भिर्गी॒र्भिराग॑तम॒स्यसोम॑स्यपी॒तये॒(स्वाहा᳚) || 10 ||

इन्द्रा᳚ग्नी॒ इति॑¦उ॒क्थ॒ऽवा॒ह॒सा॒¦स्तोमे᳚भिः¦ह॒व॒न॒ऽश्रु॒ता॒ | विश्वा᳚भिः¦गीः॒ऽभिः¦आ¦ग॒त॒‌म्¦अ॒स्य¦सोम॑स्य¦पी॒तये᳚ ||

[139] श्नथद्वृत्रमिति पंचदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्राग्नीगायत्री आद्यास्तिस्रस्त्रयोदशीचत्रिष्टुभः चतुर्दशीबृहत्यंत्यानुष्टुप् |{अष्टक:4, अध्याय:8}{मंडल:6, सूक्त:60}{अनुवाक:5, सूक्त:11}
श्नथ॑द्वृ॒त्रमु॒तस॑नोति॒वाज॒मिन्द्रा॒यो,अ॒ग्नीसहु॑रीसप॒र्यात् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | त्रिष्टुप्}

इ॒र॒ज्यन्ता᳚वस॒व्य॑स्य॒भूरेः॒सह॑स्तमा॒सह॑सावाज॒यन्ता॒(स्वाहा᳚) || 1 || वर्ग:27

श्नथ॑त्¦वृ॒त्र‌म्¦उ॒त¦स॒नो॒ति॒¦वाज᳚‌म्¦इन्द्रा᳚¦यः¦अ॒ग्नी इति॑¦सहु॑री॒ इति॑¦स॒प॒र्यात् |
इ॒र॒ज्यन्ता᳚¦व॒स॒व्य॑स्य¦भूरेः᳚¦सहः॑ऽतमा᳚¦सह॑सा¦वा॒ज॒ऽयन्ता᳚ ||

तायो᳚धिष्टम॒भिगा,इ᳚न्द्रनू॒नम॒पःस्व॑रु॒षसो᳚,अग्नऊ॒ळ्हाः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | त्रिष्टुप्}

दिशः॒स्व॑रु॒षस॑इन्द्रचि॒त्रा,अ॒पोगा,अ॑ग्नेयुवसेनि॒युत्वा॒न्त्(स्वाहा᳚) || 2 ||

ता¦यो॒धि॒ष्ट॒‌म्¦अ॒भि¦गाः¦इ॒न्द्र॒¦नू॒न‌म्¦अ॒पः¦स्वः॑¦उ॒षसः॑¦अ॒ग्ने॒¦ऊ॒ळ्हाः |
दिशः॑¦स्वः॑¦उ॒षसः॑¦इ॒न्द्र॒¦चि॒त्राः¦अ॒पः¦गाः¦अ॒ग्ने॒¦यु॒व॒से॒¦नि॒युत्वा॑न् ||

आवृ॑त्रहणावृत्र॒हभिः॒शुष्मै॒रिन्द्र॑या॒तंनमो᳚भिरग्ने,अ॒र्वाक् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | त्रिष्टुप्}

यु॒वंराधो᳚भि॒रक॑वेभिरि॒न्द्राग्ने᳚,अ॒स्मेभ॑वतमुत्त॒मेभिः॒(स्वाहा᳚) || 3 ||

आ¦वृ॒त्र॒ऽह॒ना॒¦वृ॒त्र॒हऽभिः॑¦शुष्मैः᳚¦इन्द्र॑¦या॒त‌म्¦नमः॑ऽभिः¦अ॒ग्ने॒¦अ॒र्वाक् |
यु॒व‌म्¦राधः॑ऽभिः¦अक॑वेभिः¦इ॒न्द्र॒¦अग्ने᳚¦अ॒स्मे इति॑¦भ॒व॒त॒‌म्¦उ॒त्ऽत॒मेभिः॑ ||

ताहु॑वे॒ययो᳚रि॒दंप॒प्नेविश्वं᳚पु॒राकृ॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

इ॒न्द्रा॒ग्नीनम॑र्धतः॒(स्वाहा᳚) || 4 ||

ता¦हु॒वे॒¦ययोः᳚¦इ॒द‌म्¦प॒प्ने¦विश्व᳚‌म्¦पु॒रा¦कृ॒त‌म् | इ॒न्द्रा॒ग्नी इति॑¦न¦म॒र्ध॒तः॒ ||

उ॒ग्रावि॑घ॒निना॒मृध॑इन्द्रा॒ग्नीह॑वामहे |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

तानो᳚मृळातई॒दृशे॒(स्वाहा᳚) || 5 ||

उ॒ग्रा¦वि॒ऽघ॒निना᳚¦मृधः॑¦इ॒न्द्रा॒ग्नी इति॑¦ह॒वा॒म॒हे॒ | ता¦नः॒¦मृ॒ळा॒तः॒¦ई॒दृशे᳚ ||

ह॒तोवृ॒त्राण्यार्या᳚ह॒तोदासा᳚नि॒सत्प॑ती |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

ह॒तोविश्वा॒,अप॒द्विषः॒(स्वाहा᳚) || 6 || वर्ग:28

ह॒तः¦वृ॒त्राणि॑¦आर्या᳚¦ह॒तः¦दासा᳚नि¦सत्प॑ती॒ इति॒ सत्ऽप॑ती | ह॒तः¦विश्वाः᳚¦अप॑¦द्विषः॑ ||

इन्द्रा᳚ग्नीयु॒वामि॒मे॒३॑(ए॒)ऽभिस्तोमा᳚,अनूषत |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

पिब॑तंशम्भुवासु॒तम्(स्वाहा᳚) || 7 ||

इन्द्रा᳚ग्नी॒ इति॑¦यु॒वा‌म्¦इ॒मे¦अ॒भि¦स्तोमाः᳚¦अ॒नू॒ष॒त॒ | पिब॑त‌म्¦श॒‌म्ऽभु॒वा॒¦सु॒त‌म् ||

यावां॒सन्ति॑पुरु॒स्पृहो᳚नि॒युतो᳚दा॒शुषे᳚नरा |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

इन्द्रा᳚ग्नी॒ताभि॒राग॑त॒‌म्(स्वाहा᳚) || 8 ||

याः¦वा॒‌म्¦सन्ति॑¦पु॒रु॒ऽस्पृहः॑¦नि॒ऽयुतः॑¦दा॒शुषे᳚¦न॒रा॒ | इन्द्रा᳚ग्नी॒ इति॑¦ताभिः॑¦आ¦ग॒त॒‌म् ||

ताभि॒राग॑च्छतंन॒रोपे॒दंसव॑नंसु॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

इन्द्रा᳚ग्नी॒सोम॑पीतये॒(स्वाहा᳚) || 9 ||

ताभिः॑¦आ¦ग॒च्छ॒त॒‌म्¦न॒रा॒¦उप॑¦इ॒द‌म्¦सव॑न‌म्¦सु॒त‌म् | इन्द्रा᳚ग्नी॒ इति॑¦सोम॑ऽपीतये ||

तमी᳚ळिष्व॒यो,अ॒र्चिषा॒वना॒विश्वा᳚परि॒ष्वज॑त् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

कृ॒ष्णाकृ॒णोति॑जि॒ह्वया॒(स्वाहा᳚) || 10 ||

त‌म्¦ई॒ळि॒ष्व॒¦यः¦अ॒र्चिषा᳚¦वना᳚¦विश्वा᳚¦प॒रि॒ऽस्वज॑त् | कृ॒ष्णा¦कृ॒णोति॑¦जि॒ह्वया᳚ ||

यइ॒द्धआ॒विवा᳚सतिसु॒म्नमिन्द्र॑स्य॒मर्त्यः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

द्यु॒म्नाय॑सु॒तरा᳚,अ॒पः(स्वाहा᳚) || 11 || वर्ग:29

यः¦इ॒द्धे¦आ॒ऽविवा᳚सति¦सु॒म्न‌म्¦इन्द्र॑स्य¦मर्त्यः॑ | द्यु॒म्नाय॑¦सु॒ऽतराः᳚¦अ॒पः ||

तानो॒वाज॑वती॒रिष॑आ॒शून्‌पि॑पृत॒मर्व॑तः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

इन्द्र॑म॒ग्निंच॒वोळ्ह॑वे॒(स्वाहा᳚) || 12 ||

ता¦नः॒¦वाज॑ऽवतीः¦इषः॑¦आ॒शून्¦पि॒पृ॒त॒‌म्¦अर्व॑तः | इन्द्र᳚‌म्¦अ॒ग्नि‌म्¦च॒¦वोळ्ह॑वे ||

उ॒भावा᳚मिन्द्राग्नी,आहु॒वध्या᳚,उ॒भाराध॑सःस॒हमा᳚द॒यध्यै᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | त्रिष्टुप्}

उ॒भादा॒तारा᳚वि॒षांर॑यी॒णामु॒भावाज॑स्यसा॒तये᳚हुवेवा॒‌म्(स्वाहा᳚) || 13 ||

उ॒भा¦वा॒‌म्¦इ॒न्द्रा॒ग्नी॒ इति॑¦आ॒ऽहु॒वध्यै᳚¦उ॒भा¦राध॑सः¦स॒ह¦मा॒द॒यध्यै᳚ |
उ॒भा¦दा॒तारौ᳚¦इ॒षा‌म्¦र॒यी॒णा‌म्¦उ॒भा¦वाज॑स्य¦सा॒तये᳚¦हु॒वे॒¦वा॒‌म् ||

आनो॒गव्ये᳚भि॒रश्व्यै᳚र्वस॒व्यै॒३॑(ऐ॒)रुप॑गच्छतम् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती}

सखा᳚यौदे॒वौस॒ख्याय॑श॒म्भुवे᳚न्द्रा॒ग्नीताह॑वामहे॒(स्वाहा᳚) || 14 ||

आ¦नः॒¦गव्ये᳚भिः¦अश्व्यैः᳚¦व॒स॒व्यैः᳚¦उप॑¦ग॒च्छ॒त॒‌म् |
सखा᳚यौ¦दे॒वौ¦स॒ख्याय॑¦श॒‌म्ऽभुवा᳚¦इ॒न्द्रा॒ग्नी इति॑¦ता¦ह॒वा॒म॒हे॒ ||

इन्द्रा᳚ग्नीशृणु॒तंहवं॒यज॑मानस्यसुन्व॒तः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्}

वी॒तंह॒व्यान्याग॑तं॒पिब॑तंसो॒म्यंमधु॒(स्वाहा᳚) || 15 ||

इन्द्रा᳚ग्नी॒ इति॑¦शृ॒णु॒त‌म्¦हव᳚‌म्¦यज॑मानस्य¦सु॒न्व॒तः | वी॒त‌म्¦ह॒व्यानि॑¦आ¦ग॒त॒‌म्¦पिब॑त‌म्¦सो॒म्य‌म्¦मधु॑ ||

[140] इयमददादिति चतुर्दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजः सरस्वतीगायत्री आद्यास्तिस्रत्रयोदशीचजगत्योंत्यात्रिष्टुप् |{अष्टक:4, अध्याय:8}{मंडल:6, सूक्त:61}{अनुवाक:5, सूक्त:12}
इ॒यम॑ददाद्‌रभ॒समृ॑ण॒च्युतं॒दिवो᳚दासंवध्र्य॒श्वाय॑दा॒शुषे᳚ |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती}

याशश्व᳚न्तमाच॒खादा᳚व॒संप॒णिंताते᳚दा॒त्राणि॑तवि॒षास॑रस्वति॒(स्वाहा᳚) || 1 || वर्ग:30

इ॒य‌म्¦अ॒द॒दा॒त्¦र॒भ॒स‌म्¦ऋ॒ण॒ऽच्युत᳚‌म्¦दिवः॑ऽदास‌म्¦व॒ध्रि॒।आ॒श्वाय॑¦दा॒शुषे᳚ |
या¦शश्व᳚न्त‌म्¦आ॒ऽच॒खाद॑¦अ॒व॒स‌म्¦प॒णि‌म्¦ता¦ते॒¦दा॒त्राणि॑¦त॒वि॒षा¦स॒र॒स्व॒ति॒ ||

इ॒यंशुष्मे᳚भिर्बिस॒खा,इ॑वारुज॒त्सानु॑गिरी॒णांत॑वि॒षेभि॑रू॒र्मिभिः॑ |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती}

पा॒रा॒व॒त॒घ्नीमव॑सेसुवृ॒क्तिभिः॒सर॑स्वती॒मावि॑वासेमधी॒तिभिः॒(स्वाहा᳚) || 2 ||

इ॒य‌म्¦शुष्मे᳚भिः¦बि॒स॒खाःऽ‌इ᳚व¦अ॒रु॒ज॒त्¦सानु॑¦गि॒री॒णा‌म्¦त॒वि॒षेभिः॑¦ऊ॒र्मिऽभिः॑ |
पा॒रा॒व॒त॒ऽघ्नी‌म्¦अव॑से¦सु॒वृ॒क्तिऽभिः॑¦सर॑स्वती‌म्¦आ¦वि॒वा॒से॒म॒¦धी॒तिऽभिः॑ ||

सर॑स्वतिदेव॒निदो॒निब᳚र्हयप्र॒जांविश्व॑स्य॒बृस॑यस्यमा॒यिनः॑ |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती}

उ॒तक्षि॒तिभ्यो॒ऽवनी᳚रविन्दोवि॒षमे᳚भ्यो,अस्रवोवाजिनीवति॒(स्वाहा᳚) || 3 ||

सर॑स्वति¦दे॒व॒ऽनिदः॑¦नि¦ब॒र्ह॒य॒¦प्र॒ऽजा‌म्¦विश्व॑स्य¦बृस॑यस्य¦मा॒यिनः॑ |
उ॒त¦क्षि॒तिऽभ्यः॑¦अ॒वनीः᳚¦अ॒वि॒न्दः॒¦वि॒ष‌म्¦ए॒भ्यः॒¦अ॒स्र॒वः॒¦वा॒जि॒नी॒ऽव॒ति॒ ||

प्रणो᳚दे॒वीसर॑स्वती॒वाजे᳚भिर्वा॒जिनी᳚वती |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

धी॒नाम॑वि॒त्र्य॑वतु॒(स्वाहा᳚) || 4 ||

प्र¦नः॒¦दे॒वी¦सर॑स्वती¦वाजे᳚भिः¦वा॒जिनी᳚ऽवती | धी॒ना‌म्¦अ॒वि॒त्री¦अ॒व॒तु॒ ||

यस्त्वा᳚देविसरस्वत्युपब्रू॒तेधने᳚हि॒ते |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

इन्द्रं॒नवृ॑त्र॒तूर्ये॒(स्वाहा᳚) || 5 ||

यः¦त्वा॒¦दे॒वि॒¦स॒र॒स्व॒ति॒¦उ॒प॒ऽब्रू॒ते¦धने᳚¦हि॒ते | इन्द्र᳚‌म्¦न¦वृ॒त्र॒ऽतूर्ये᳚ ||

त्वंदे᳚विसरस्व॒त्यवा॒वाजे᳚षुवाजिनि |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

रदा᳚पू॒षेव॑नःस॒निम्(स्वाहा᳚) || 6 || वर्ग:31

त्व‌म्¦दे॒वि॒¦स॒र॒स्व॒ति॒¦अव॑¦वाजे᳚षु¦वा॒जि॒नि॒ | रद॑¦पू॒षाऽ‌इ᳚व¦नः॒¦स॒नि‌म् ||

उ॒तस्यानः॒सर॑स्वतीघो॒राहिर᳚ण्यवर्तनिः |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

वृ॒त्र॒घ्नीव॑ष्टिसुष्टु॒तिम्(स्वाहा᳚) || 7 ||

उ॒त¦स्या¦नः॒¦सर॑स्वती¦घो॒रा¦हिर᳚ण्यऽवर्तनिः | वृ॒त्र॒ऽघ्नी¦व॒ष्टि॒¦सु॒ऽस्तु॒ति‌म् ||

यस्या᳚,अन॒न्तो,अह्रु॑तस्त्वे॒षश्च॑रि॒ष्णुर᳚र्ण॒वः |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

अम॒श्चर॑ति॒रोरु॑व॒‌त्(स्वाहा᳚) || 8 ||

यस्याः᳚¦अ॒न॒न्तः¦अह्रु॑तः¦त्वे॒षः¦च॒रि॒ष्णुः¦अ॒र्ण॒वः | अमः॑¦चर॑ति¦रोरु॑वत् ||

सानो॒विश्वा॒,अति॒द्विषः॒स्वसॄ᳚र॒न्या,ऋ॒ताव॑री |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

अत॒न्नहे᳚व॒सूर्यः॒(स्वाहा᳚) || 9 ||

सा¦नः॒¦विश्वाः᳚¦अति॑¦द्विषः॑¦स्वसॄः᳚¦अ॒न्याः¦ऋ॒तऽव॑री | अत॑न्¦अहा᳚ऽ‌इव¦सूर्यः॑ ||

उ॒तनः॑प्रि॒याप्रि॒यासु॑स॒प्तस्व॑सा॒सुजु॑ष्टा |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

सर॑स्वती॒स्तोम्या᳚भू॒‌त्(स्वाहा᳚) || 10 ||

उ॒त¦नः॒¦प्रि॒या¦प्रि॒यासु॑¦स॒प्तऽस्व॑सा¦सुऽजु॑ष्टा | सर॑स्वती¦स्तोम्या᳚¦भू॒त् ||

आ॒प॒प्रुषी॒पार्थि॑वान्यु॒रुरजो᳚,अ॒न्तरि॑क्षम् |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

सर॑स्वतीनि॒दस्पा᳚तु॒(स्वाहा᳚) || 11 || वर्ग:32

आ॒ऽप॒प्रुषी᳚¦पार्थि॑वानि¦उ॒रु¦रजः॑¦अ॒न्तरि॑क्ष‌म् | सर॑स्वती¦नि॒दः¦पा॒तु॒ ||

त्रि॒ष॒धस्था᳚स॒प्तधा᳚तुः॒पञ्च॑जा॒ताव॒र्धय᳚न्ती |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

वाजे᳚वाजे॒हव्या᳚भू॒‌त्(स्वाहा᳚) || 12 ||

त्रि॒ऽस॒धस्था᳚¦स॒प्तऽधा᳚तुः¦पंच॑¦जा॒ता¦व॒र्धय᳚न्ती | वाजे᳚ऽवाजे¦हव्या᳚¦भू॒त् ||

प्रयाम॑हि॒म्नाम॒हिना᳚सु॒चेकि॑तेद्यु॒म्नेभि॑र॒न्या,अ॒पसा᳚म॒पस्त॑मा |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती}

रथ॑इवबृह॒तीवि॒भ्वने᳚कृ॒तोप॒स्तुत्या᳚चिकि॒तुषा॒सर॑स्वती॒(स्वाहा᳚) || 13 ||

प्र¦या¦म॒हि॒म्ना¦म॒हिना᳚¦आ॒सु॒¦चेकि॑ते¦द्यु॒म्नेभिः॑¦अ॒न्याः¦अ॒पसा᳚‌म्¦अ॒पःऽत॑मा |
रथः॑ऽ‌इव¦बृ॒ह॒ती¦वि॒ऽभ्वने᳚¦कृ॒ता¦उ॒प॒ऽस्तुत्या᳚¦चि॒कि॒तुषा᳚¦सर॑स्वती ||

सर॑स्वत्य॒भिनो᳚नेषि॒वस्यो॒माप॑स्फरीः॒पय॑सा॒मान॒आध॑क् |{बार्हस्पत्यो भरद्वाजः | सरस्वती | त्रिष्टुप्}

जु॒षस्व॑नःस॒ख्यावे॒श्या᳚च॒मात्वत्‌क्षेत्रा॒ण्यर॑णानिगन्म॒(स्वाहा᳚) || 14 ||

सर॑स्वति¦अ॒भि¦नः॒¦ने॒षि॒¦वस्यः॑¦मा¦अप॑¦स्फ॒रीः॒¦पय॑सा¦मा¦नः॒¦आ¦ध॒क् |
जु॒षस्व॑¦नः॒¦स॒ख्या¦वे॒श्या᳚¦च॒¦मा¦त्वत्¦क्षेत्रा᳚णि¦अर॑णानि¦ग॒न्म॒ ||