[1] अग्निमीळ इति नवर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाअग्निर्गायत्री | |
अ॒ग्निमी᳚ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज᳚म् |{वैश्वामित्रो मधुच्छन्दाः | अग्निः | गायत्री} होता᳚रं रत्न॒धात॑मम् ||{1/9}{1.1.1}{1.1.1.1}{1.1.1.1}{1, 1, 1} अ॒ग्निम्¦ई॒ळे॒¦पु॒रःऽहि॑तम्¦य॒ज्ञस्य॑¦दे॒वम्¦ऋ॒त्विज᳚म् | होता᳚रम्¦र॒त्न॒ऽधात॑मम् || |
अ॒ग्निः पूर्वे᳚भि॒रृषि॑भि॒रीड्यो॒ नूत॑नैरु॒त |{वैश्वामित्रो मधुच्छन्दाः | अग्निः | गायत्री} स दे॒वाँ, एह व॑क्षति ||{2/9}{1.1.2}{1.1.1.2}{1.1.1.2}{2, 1, 2} अ॒ग्निः¦पूर्वे᳚भिः¦ऋषि॑ऽभिः¦ईड्यः॑¦नूत॑नैः¦उ॒त | सः¦दे॒वान्¦आ¦इ॒ह¦व॒क्ष॒ति॒ || |
अ॒ग्निना᳚ र॒यिम॑श्नव॒त् पोष॑मे॒व दि॒वेदि॑वे |{वैश्वामित्रो मधुच्छन्दाः | अग्निः | गायत्री} य॒शसं᳚ वी॒रव॑त्तमम् ||{3/9}{1.1.3}{1.1.1.3}{1.1.1.3}{3, 1, 3} अ॒ग्निना᳚¦र॒यिम्¦अ॒श्न॒व॒त्¦पोष᳚म्¦ए॒व¦दि॒वेऽदि॑वे | य॒शस᳚म्¦वी॒रव॑त्ऽतमम् || |
अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वतः॑ परि॒भूरसि॑ |{वैश्वामित्रो मधुच्छन्दाः | अग्निः | गायत्री} स इद् दे॒वेषु॑ गच्छति ||{4/9}{1.1.4}{1.1.1.4}{1.1.1.4}{4, 1, 4} अग्ने᳚¦यम्¦य॒ज्ञम्¦अ॒ध्व॒रम्¦वि॒श्वतः॑¦प॒रि॒ऽभूः¦असि॑ | सः¦इत्¦दे॒वेषु॑¦ग॒च्छ॒ति॒ || |
अ॒ग्निर्होता᳚ क॒विक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः |{वैश्वामित्रो मधुच्छन्दाः | अग्निः | गायत्री} दे॒वो दे॒वेभि॒रा ग॑मत् ||{5/9}{1.1.5}{1.1.1.5}{1.1.1.5}{5, 1, 5} अ॒ग्निः¦होता᳚¦क॒विऽक्र॑तुः¦स॒त्यः¦चि॒त्रश्र॑वःऽतमः | दे॒वः¦दे॒वेभिः॑¦आ¦ग॒म॒त् || |
यद॒ङ्ग दा॒शुषे॒ त्वमग्ने᳚ भ॒द्रं क॑रि॒ष्यसि॑ |{वैश्वामित्रो मधुच्छन्दाः | अग्निः | गायत्री} तवेत्तत् स॒त्यम᳚ङ्गिरः ||{6/9}{1.1.6}{1.1.1.6}{1.1.2.1}{6, 1, 6} यत्¦अ॒ङ्ग¦दा॒शुषे᳚¦त्वम्¦अग्ने᳚¦भ॒द्रम्¦क॒रि॒ष्यसि॑ | तव॑¦इत्¦तत्¦स॒त्यम्¦अ॒ङ्गि॒रः॒ || |
उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा᳚वस्तर्धि॒या व॒यम् |{वैश्वामित्रो मधुच्छन्दाः | अग्निः | गायत्री} नमो॒ भर᳚न्त॒ एम॑सि ||{7/9}{1.1.7}{1.1.1.7}{1.1.2.2}{7, 1, 7} उप॑¦त्वा॒¦अ॒ग्ने॒¦दि॒वेऽदि॑वे¦दोषा᳚ऽवस्तः¦धि॒या¦व॒यम् | नमः॑¦भर᳚न्तः¦आ¦इ॒म॒सि॒ || |
राज᳚न्तमध्व॒राणां᳚ गो॒पामृ॒तस्य॒ दीदि॑विम् |{वैश्वामित्रो मधुच्छन्दाः | अग्निः | गायत्री} वर्ध॑मानं॒ स्वे दमे᳚ ||{8/9}{1.1.8}{1.1.1.8}{1.1.2.3}{8, 1, 8} राज᳚न्तम्¦अ॒ध्व॒राणा᳚म्¦गो॒पाम्¦ऋ॒तस्य॑¦दीदि॑विम् | वर्ध॑मानम्¦स्वे¦दमे᳚ || |
स नः॑ पि॒तेव॑ सू॒नवेऽग्ने᳚ सूपाय॒नो भ॑व |{वैश्वामित्रो मधुच्छन्दाः | अग्निः | गायत्री} सच॑स्वा नः स्व॒स्तये᳚ ||{9/9}{1.1.9}{1.1.1.9}{1.1.2.4}{9, 1, 9} सः¦नः॒¦पि॒ताऽइ᳚व¦सू॒नवे᳚¦अग्ने᳚¦सु॒।औ॒पा॒य॒नः¦भ॒व॒ | सच॑स्व¦नः॒¦स्व॒स्तये᳚ || |
[2] वायवायाहीति नवर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाः आद्यतृचस्यवायुः द्वितीयतृचस्येंद्रवायू तृतीयतृचस्यमित्रावरुणौगायत्री | |
वाय॒वा या᳚हि दर्शते॒मे सोमा॒, अरं᳚कृताः |{वैश्वामित्रो मधुच्छन्दाः | वायुः | गायत्री} तेषां᳚ पाहि श्रु॒धी हव᳚म् ||{1/9}{1.2.1}{1.1.2.1}{1.1.3.1}{10, 2, 10} वायो॒ इति॑¦आ¦या॒हि॒¦द॒र्श॒त॒¦इ॒मे¦सोमाः᳚¦अर᳚म्ऽकृताः | तेषा᳚म्¦पा॒हि॒¦श्रु॒धि¦हव᳚म् || |
वाय॑ उ॒क्थेभि॑र्जरन्ते॒ त्वामच्छा᳚ जरि॒तारः॑ |{वैश्वामित्रो मधुच्छन्दाः | वायुः | गायत्री} सु॒तसो᳚मा, अह॒र्विदः॑ ||{2/9}{1.2.2}{1.1.2.2}{1.1.3.2}{11, 2, 11} वायो॒ इति॑¦उ॒क्थेभिः॑¦ज॒र॒न्ते॒¦त्वाम्¦अच्छ॑¦ज॒रि॒तारः॑ | सु॒तऽसो᳚माः¦अ॒हः॒ऽविदः॑ || |
वायो॒ तव॑ प्रपृञ्च॒ती धेना᳚ जिगाति दा॒शुषे᳚ |{वैश्वामित्रो मधुच्छन्दाः | वायुः | गायत्री} उ॒रू॒ची सोम॑पीतये ||{3/9}{1.2.3}{1.1.2.3}{1.1.3.3}{12, 2, 12} वायो॒ इति॑¦तव॑¦प्र॒ऽपृं॒च॒ती¦धेना᳚¦जि॒गा॒ति॒¦दा॒शुषे᳚ | उ॒रू॒ची¦सोम॑ऽपीतये || |
इन्द्र॑वायू, इ॒मे सु॒ता, उप॒ प्रयो᳚भि॒रा ग॑तम् |{वैश्वामित्रो मधुच्छन्दाः | इंद्रवायू | गायत्री} इन्द॑वो वामु॒शन्ति॒ हि ||{4/9}{1.2.4}{1.1.2.4}{1.1.3.4}{13, 2, 13} इन्द्र॑वायू॒ इति॑¦इ॒मे¦सु॒ताः¦उप॑¦प्रयः॑ऽभिः॒¦आ¦ग॒त॒म् | इन्द॑वः¦वा॒म्¦उ॒शन्ति॑¦हि || |
वाय॒विन्द्र॑श्च चेतथः सु॒तानां᳚ वाजिनीवसू |{वैश्वामित्रो मधुच्छन्दाः | इंद्रवायू | गायत्री} तावा या᳚त॒मुप॑ द्र॒वत् ||{5/9}{1.2.5}{1.1.2.5}{1.1.3.5}{14, 2, 14} वायो॒ इति॑¦इन्द्रः॑¦च॒¦चे॒त॒थः॒¦सु॒ताना᳚म्¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू | तौ¦आ¦या॒त॒म्¦उप॑¦द्र॒वत् || |
वाय॒विन्द्र॑श्च सुन्व॒त आ या᳚त॒मुप॑ निष्कृ॒तम् |{वैश्वामित्रो मधुच्छन्दाः | इंद्रवायू | गायत्री} म॒क्ष्वि१॑(इ॒)त्था धि॒या न॑रा ||{6/9}{1.2.6}{1.1.2.6}{1.1.4.1}{15, 2, 15} वायो॒ इति॑¦इन्द्रः॑¦च॒¦सु॒न्व॒तः¦आ¦या॒त॒म्¦उप॑¦निः॒ऽकृ॒तम् | म॒क्षु¦इ॒त्था¦धि॒या¦न॒रा॒ || |
मि॒त्रं हु॑वे पू॒तद॑क्षं॒ वरु॑णं च रि॒शाद॑सम् |{वैश्वामित्रो मधुच्छन्दाः | मित्रावरुणौ | गायत्री} धियं᳚ घृ॒ताचीं॒ साध᳚न्ता ||{7/9}{1.2.7}{1.1.2.7}{1.1.4.2}{16, 2, 16} मि॒त्रम्¦हु॒वे॒¦पू॒तऽद॑क्षम्¦वरु॑णम्¦च॒¦रि॒शाद॑सम् | धिय᳚म्¦घृ॒ताची᳚म्¦साध᳚न्ता || |
ऋ॒तेन॑ मित्रावरुणावृतावृधावृतस्पृशा |{वैश्वामित्रो मधुच्छन्दाः | मित्रावरुणौ | गायत्री} क्रतुं᳚ बृ॒हन्त॑माशाथे ||{8/9}{1.2.8}{1.1.2.8}{1.1.4.3}{17, 2, 17} ऋ॒तेन॑¦मि॒त्रा॒व॒रु॒णौ॒¦ऋ॒त॒ऽवृ॒धौ॒¦ऋ॒त॒ऽस्पृ॒शा॒ | क्रतु᳚म्¦बृ॒हन्त᳚म्¦आ॒शा॒थे॒ इति॑ || |
क॒वी नो᳚ मि॒त्रावरु॑णा तुविजा॒ता, उ॑रु॒क्षया᳚ |{वैश्वामित्रो मधुच्छन्दाः | मित्रावरुणौ | गायत्री} दक्षं᳚ दधाते, अ॒पस᳚म् ||{9/9}{1.2.9}{1.1.2.9}{1.1.4.4}{18, 2, 18} क॒वी इति॑¦नः॒¦मि॒त्रावरु॑णा¦तु॒वि॒ऽजा॒तौ¦उ॒रु॒ऽक्षया᳚ | दक्ष᳚म्¦द॒धा॒ते॒ इति॑¦अ॒पस᳚म् || |
[3] अश्विनायज्वरीरिति द्वादशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाः आद्यतृचस्याश्विनौ द्वितीयतृचस्येंद्रः तृतीयतृचस्यविश्वेदेवाः चतुर्थतृचस्यसरस्वतीगायत्री | |
अश्वि॑ना॒ यज्व॑री॒रिषो॒ द्रव॑त्पाणी॒ शुभ॑स्पती |{वैश्वामित्रो मधुच्छन्दाः | अश्विनौ | गायत्री} पुरु॑भुजा चन॒स्यत᳚म् ||{1/12}{1.3.1}{1.1.3.1}{1.1.5.1}{19, 3, 19} अश्वि॑ना¦यज्व॑रीः¦इषः॑¦द्रव॑त्पाणी॒ इति॒ द्रव॑त्ऽपाणी¦शुभः॑¦प॒ती॒ इति॑ | पुरु॑ऽभुजा¦च॒न॒स्यत᳚म् || |
अश्वि॑ना॒ पुरु॑दंससा॒ नरा॒ शवी᳚रया धि॒या |{वैश्वामित्रो मधुच्छन्दाः | अश्विनौ | गायत्री} धिष्ण्या॒ वन॑तं॒ गिरः॑ ||{2/12}{1.3.2}{1.1.3.2}{1.1.5.2}{20, 3, 20} अश्वि॑ना¦पुरु॑ऽदंससा¦नरा᳚¦शवी᳚रया¦धि॒या | धिष्ण्या᳚¦वन॑तम्¦गिरः॑ || |
दस्रा᳚ यु॒वाक॑वः सु॒ता नास॑त्या वृ॒क्तब᳚र्हिषः |{वैश्वामित्रो मधुच्छन्दाः | अश्विनौ | गायत्री} आ या᳚तं रुद्रवर्तनी ||{3/12}{1.3.3}{1.1.3.3}{1.1.5.3}{21, 3, 21} दस्रा᳚¦यु॒वाक॑वः¦सु॒ताः¦नास॑त्या¦वृ॒क्तऽब॑र्हिषः | आ¦या॒त॒म्¦रु॒द्र॒व॒र्त॒नी॒ इति॑ रुद्रऽवर्तनी || |
इन्द्रा या᳚हि चित्रभानो सु॒ता, इ॒मे त्वा॒यवः॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} अण्वी᳚भि॒स्तना᳚ पू॒तासः॑ ||{4/12}{1.3.4}{1.1.3.4}{1.1.5.4}{22, 3, 22} इन्द्र॑¦आ¦या॒हि॒¦चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो¦सु॒ताः¦इ॒मे¦त्वा॒ऽयवः॑ | अण्वी᳚भिः¦तना᳚¦पू॒तासः॑ || |
इन्द्रा या᳚हि धि॒येषि॒तो विप्र॑जूतः सु॒ताव॑तः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} उप॒ ब्रह्मा᳚णि वा॒घतः॑ ||{5/12}{1.3.5}{1.1.3.5}{1.1.5.5}{23, 3, 23} इन्द्र॑¦आ¦या॒हि॒¦धि॒या¦इ॒षि॒तः¦विप्र॑ऽजूतः¦सु॒तऽव॑तः | उप॑¦ब्रह्मा᳚णि¦वा॒घतः॑ || |
इन्द्रा या᳚हि॒ तूतु॑जान॒ उप॒ ब्रह्मा᳚णि हरिवः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} सु॒ते द॑धिष्व न॒श्चनः॑ ||{6/12}{1.3.6}{1.1.3.6}{1.1.5.6}{24, 3, 24} इन्द्र॑¦आ¦या॒हि॒¦तूतु॑जानः¦उप॑¦ब्रह्मा᳚णि¦ह॒रि॒ऽवः॒ | सु॒ते¦द॒धि॒ष्व॒¦नः॒¦चनः॑ || |
ओमा᳚सश्चर्षणीधृतो॒ विश्वे᳚ देवास॒ आ ग॑त |{वैश्वामित्रो मधुच्छन्दाः | विश्वदेवाः | गायत्री} दा॒श्वांसो᳚ दा॒शुषः॑ सु॒तम् ||{7/12}{1.3.7}{1.1.3.7}{1.1.6.1}{25, 3, 25} ओमा᳚सः¦च॒र्ष॒णि॒ऽधृ॒तः॒¦विश्वे᳚¦दे॒वा॒सः॒¦आ¦ग॒त॒ | दा॒श्वांसः॑¦दा॒शुषः॑¦सु॒तम् || |
विश्वे᳚ दे॒वासो᳚, अ॒प्तुरः॑ सु॒तमा ग᳚न्त॒ तूर्ण॑यः |{वैश्वामित्रो मधुच्छन्दाः | विश्वदेवाः | गायत्री} उ॒स्रा, इ॑व॒ स्वस॑राणि ||{8/12}{1.3.8}{1.1.3.8}{1.1.6.2}{26, 3, 26} विश्वे᳚¦दे॒वासः॑¦अ॒प्ऽतुरः॑¦सु॒तम्¦आ¦ग॒न्त॒¦तूर्ण॑यः | उ॒स्राःऽइ᳚व¦स्वस॑राणि || |
विश्वे᳚ दे॒वासो᳚, अ॒स्रिध॒ एहि॑मायासो, अ॒द्रुहः॑ |{वैश्वामित्रो मधुच्छन्दाः | विश्वदेवाः | गायत्री} मेधं᳚ जुषन्त॒ वह्न॑यः ||{9/12}{1.3.9}{1.1.3.9}{1.1.6.3}{27, 3, 27} विश्वे᳚¦दे॒वासः॑¦अ॒स्रिधः॑¦एहि॑ऽमायासः¦अ॒द्रुहः॑ | मेध᳚म्¦जु॒ष॒न्त॒¦वह्न॑यः || |
पा॒व॒का नः॒ सर॑स्वती॒ वाजे᳚भिर्वा॒जिनी᳚वती |{वैश्वामित्रो मधुच्छन्दाः | सरस्वती | गायत्री} य॒ज्ञं व॑ष्टु धि॒याव॑सुः ||{10/12}{1.3.10}{1.1.3.10}{1.1.6.4}{28, 3, 28} पा॒व॒का¦नः॒¦सर॑स्वती¦वाजे᳚भिः¦वा॒जिनी᳚ऽवती | य॒ज्ञम्¦व॒ष्टु॒¦धि॒याऽव॑सुः || |
चो॒द॒यि॒त्री सू॒नृता᳚नां॒ चेत᳚न्ती सुमती॒नाम् |{वैश्वामित्रो मधुच्छन्दाः | सरस्वती | गायत्री} य॒ज्ञं द॑धे॒ सर॑स्वती ||{11/12}{1.3.11}{1.1.3.11}{1.1.6.5}{29, 3, 29} चो॒द॒यि॒त्री¦सू॒नृता᳚नाम्¦चेत᳚न्ती¦सु॒ऽम॒ती॒नाम् | य॒ज्ञम्¦द॒धे॒¦सर॑स्वती || |
म॒हो, अर्णः॒ सर॑स्वती॒ प्र चे᳚तयति के॒तुना᳚ |{वैश्वामित्रो मधुच्छन्दाः | सरस्वती | गायत्री} धियो॒ विश्वा॒ वि रा᳚जति ||{12/12}{1.3.12}{1.1.3.12}{1.1.6.6}{30, 3, 30} म॒हः¦अर्णः॑¦सर॑स्वती¦प्र¦चे॒त॒य॒ति॒¦के॒तुना᳚ | धियः॑¦विश्वाः᳚¦वि¦रा॒ज॒ति॒ || |
[4] सुरूपकृत्नुमिति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाइंद्रोगायत्री | |
सु॒रू॒प॒कृ॒त्नुमू॒तये᳚ सु॒दुघा᳚मिव गो॒दुहे᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} जु॒हू॒मसि॒ द्यवि॑द्यवि ||{1/10}{1.4.1}{1.2.1.1}{1.1.7.1}{31, 4, 31} सु॒रू॒प॒ऽकृ॒त्नुम्¦ऊ॒तये᳚¦सु॒दुघा᳚म्ऽइव¦गो॒ऽदुहे᳚ | जु॒हू॒मसि॑¦द्यवि॑ऽद्यवि || |
उप॑ नः॒ सव॒ना ग॑हि॒ सोम॑स्य सोमपाः पिब |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} गो॒दा, इद्रे॒वतो॒ मदः॑ ||{2/10}{1.4.2}{1.2.1.2}{1.1.7.2}{32, 4, 32} उप॑¦नः॒¦सव॑ना¦आ¦ग॒हि॒¦सोम॑स्य¦सो॒म॒ऽपाः॒¦पि॒ब॒ | गो॒ऽदाः¦इत्¦रे॒वतः॑¦मदः॑ || |
अथा᳚ ते॒, अन्त॑मानां वि॒द्याम॑ सुमती॒नाम् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} मा नो॒, अति॑ ख्य॒ आ ग॑हि ||{3/10}{1.4.3}{1.2.1.3}{1.1.7.3}{33, 4, 33} अथ॑¦ते॒¦अन्त॑मानाम्¦वि॒द्याम॑¦सु॒ऽम॒ती॒नाम् | मा¦नः॒¦अति॑¦ख्यः॒¦आ¦ग॒हि॒ || |
परे᳚हि॒ विग्र॒मस्तृ॑त॒मिन्द्रं᳚ पृच्छा विप॒श्चित᳚म् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} यस्ते॒ सखि॑भ्य॒ आ वर᳚म् ||{4/10}{1.4.4}{1.2.1.4}{1.1.7.4}{34, 4, 34} परा᳚¦इ॒हि॒¦विग्र᳚म्¦अस्तृ॑तम्¦इन्द्र᳚म्¦पृ॒च्छ॒¦वि॒पः॒ऽचित᳚म् | यः¦ते॒¦सखि॑ऽभ्यः¦आ¦वर᳚म् || |
उ॒त ब्रु॑वन्तु नो॒ निदो॒ निर॒न्यत॑श्चिदारत |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} दधा᳚ना॒, इन्द्र॒ इद्दुवः॑ ||{5/10}{1.4.5}{1.2.1.5}{1.1.7.5}{35, 4, 35} उ॒त¦ब्रु॒व॒न्तु॒¦नः॒¦निदः॑¦निः¦अ॒न्यतः॑¦चि॒त्¦आ॒र॒त॒ | दधा᳚नाः¦इन्द्रे᳚¦इत्¦दुवः॑ || |
उ॒त नः॑ सु॒भगाँ᳚, अ॒रिर्वो॒चेयु॑र्दस्म कृ॒ष्टयः॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} स्यामेदिन्द्र॑स्य॒ शर्म॑णि ||{6/10}{1.4.6}{1.2.1.6}{1.1.8.1}{36, 4, 36} उ॒त¦नः॒¦सु॒ऽभगा᳚न्¦अ॒रिः¦वो॒चेयुः॑¦द॒स्म॒¦कृ॒ष्टयः॑ | स्याम॑¦इत्¦इन्द्र॑स्य¦शर्म॑णि || |
एमा॒शुमा॒शवे᳚ भर यज्ञ॒श्रियं᳚ नृ॒माद॑नम् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} प॒त॒यन् म᳚न्द॒यत्स॑खम् ||{7/10}{1.4.7}{1.2.1.7}{1.1.8.2}{37, 4, 37} आ¦ई॒म्¦आ॒शुम्¦आ॒शवे᳚¦भ॒र॒¦य॒ज्ञ॒ऽश्रिय᳚म्¦नृ॒ऽमाद॑नम् | प॒त॒यत्¦म॒न्द॒यत्ऽस॑खम् || |
अ॒स्य पी॒त्वा श॑तक्रतो घ॒नो वृ॒त्राणा᳚मभवः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} प्रावो॒ वाजे᳚षु वा॒जिन᳚म् ||{8/10}{1.4.8}{1.2.1.8}{1.1.8.3}{38, 4, 38} अ॒स्य¦पी॒त्वा¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो¦घ॒नः¦वृ॒त्राणा᳚म्¦अ॒भ॒वः॒ | प्र¦आ॒वः॒¦वाजे᳚षु¦वा॒जिन᳚म् || |
तं त्वा॒ वाजे᳚षु वा॒जिनं᳚ वा॒जया᳚मः शतक्रतो |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} धना᳚नामिन्द्र सा॒तये᳚ ||{9/10}{1.4.9}{1.2.1.9}{1.1.8.4}{39, 4, 39} तम्¦त्वा॒¦वाजे᳚षु¦वा॒जिन᳚म्¦वा॒जया᳚मः¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | धना᳚नाम्¦इ॒न्द्र॒¦सा॒तये᳚ || |
यो रा॒यो॒३॑(ओ॒)वनि᳚र्म॒हान्त्सु॑पा॒रः सु᳚न्व॒तः सखा᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} तस्मा॒, इन्द्रा᳚य गायत ||{10/10}{1.4.10}{1.2.1.10}{1.1.8.5}{40, 4, 40} यः¦रा॒यः¦अ॒वनिः॑¦म॒हान्¦सु॒ऽपा॒रः¦सु॒न्व॒तः¦सखा᳚ | तस्मै᳚¦इन्द्रा᳚य¦गा॒य॒त॒ || |
[5] आत्वेतेति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाइंद्रोगायत्री | |
आ त्वेता॒ नि षी᳚द॒तेन्द्र॑म॒भि प्र गा᳚यत |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} सखा᳚यः॒ स्तोम॑वाहसः ||{1/10}{1.5.1}{1.2.2.1}{1.1.9.1}{41, 5, 41} आ¦तु¦आ¦इ॒त॒¦नि¦सी॒द॒त॒¦इन्द्र᳚म्¦अ॒भि¦प्र¦गा॒य॒त॒ | सखा᳚यः¦स्तोम॑ऽवाहसः || |
पु॒रू॒तमं᳚ पुरू॒णामीशा᳚नं॒ वार्या᳚णाम् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} इन्द्रं॒ सोमे॒ सचा᳚ सु॒ते ||{2/10}{1.5.2}{1.2.2.2}{1.1.9.2}{42, 5, 42} पु॒रु॒ऽतम᳚म्¦पु॒रू॒णाम्¦ईशा᳚नम्¦वार्या᳚णाम् | इन्द्र᳚म्¦सोमे᳚¦सचा᳚¦सु॒ते || |
स घा᳚ नो॒ योग॒ आ भु॑व॒त्स रा॒ये स पुरं᳚ध्याम् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} गम॒द्वाजे᳚भि॒रा स नः॑ ||{3/10}{1.5.3}{1.2.2.3}{1.1.9.3}{43, 5, 43} सः¦घ॒¦नः॒¦योगे᳚¦आ¦भु॒व॒त्¦सः¦रा॒ये¦सः¦पुर᳚म्ऽध्याम् | गम॑त्¦वाजे᳚भिः¦आ¦सः¦नः॒ || |
यस्य॑ सं॒स्थे न वृ॒ण्वते॒ हरी᳚ स॒मत्सु॒ शत्र॑वः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} तस्मा॒, इन्द्रा᳚य गायत ||{4/10}{1.5.4}{1.2.2.4}{1.1.9.4}{44, 5, 44} यस्य॑¦स॒म्ऽस्थे¦न¦वृ॒ण्वते᳚¦हरी॒ इति॑¦स॒मत्ऽसु॑¦शत्र॑वः | तस्मै᳚¦इन्द्रा᳚य¦गा॒य॒त॒ || |
सु॒त॒पाव्ने᳚ सु॒ता, इ॒मे शुच॑यो यन्ति वी॒तये᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} सोमा᳚सो॒ दध्या᳚शिरः ||{5/10}{1.5.5}{1.2.2.5}{1.1.9.5}{45, 5, 45} सु॒त॒ऽपाव्ने᳚¦सु॒ताः¦इ॒मे¦शुच॑यः¦य॒न्ति॒¦वी॒तये᳚ | सोमा᳚सः¦दधि॑ऽआशिरः || |
त्वं सु॒तस्य॑ पी॒तये᳚ स॒द्यो वृ॒द्धो, अ॑जायथाः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} इन्द्र॒ ज्यैष्ठ्या᳚य सुक्रतो ||{6/10}{1.5.6}{1.2.2.6}{1.1.10.1}{46, 5, 46} त्वम्¦सु॒तस्य॑¦पी॒तये᳚¦स॒द्यः¦वृ॒द्धः¦अ॒जा॒य॒थाः॒ | इन्द्र॑¦ज्यैष्ठ्या᳚य¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो || |
आ त्वा᳚ विशन्त्वा॒शवः॒ सोमा᳚स इन्द्र गिर्वणः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} शं ते᳚ सन्तु॒ प्रचे᳚तसे ||{7/10}{1.5.7}{1.2.2.7}{1.1.10.2}{47, 5, 47} आ¦त्वा॒¦वि॒श॒न्तु॒¦आ॒शवः॑¦सोमा᳚सः¦इ॒न्द्र॒¦गि॒र्व॒णः॒ | शम्¦ते॒¦स॒न्तु॒¦प्रऽचे᳚तसे || |
त्वां स्तोमा᳚, अवीवृध॒न् त्वामु॒क्था श॑तक्रतो |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} त्वां व॑र्धन्तु नो॒ गिरः॑ ||{8/10}{1.5.8}{1.2.2.8}{1.1.10.3}{48, 5, 48} त्वाम्¦स्तोमाः᳚¦अ॒वी॒वृ॒ध॒न्¦त्वाम्¦उ॒क्था¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | त्वाम्¦व॒र्ध॒न्तु॒¦नः॒¦गिरः॑ || |
अक्षि॑तोतिः सनेदि॒मं वाज॒मिन्द्रः॑ सह॒स्रिण᳚म् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} यस्मि॒न् विश्वा᳚नि॒ पौंस्या᳚ ||{9/10}{1.5.9}{1.2.2.9}{1.1.10.4}{49, 5, 49} अक्षि॑तऽऊतिः¦स॒ने॒त्¦इ॒मम्¦वाज᳚म्¦इन्द्रः॑¦स॒ह॒स्रिण᳚म् | यस्मि॑न्¦विश्वा᳚नि¦पौंस्या᳚ || |
मा नो॒ मर्ता᳚, अ॒भि द्रु॑हन् त॒नूना᳚मिन्द्र गिर्वणः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} ईशा᳚नो यवया व॒धम् ||{10/10}{1.5.10}{1.2.2.10}{1.1.10.5}{50, 5, 50} मा¦नः॒¦मर्ताः᳚¦अ॒भि¦द्रु॒ह॒न्¦त॒नूना᳚म्¦इ॒न्द्र॒¦गि॒र्व॒णः॒ | ईशा᳚नः¦य॒व॒य॒¦व॒धम् || |
[6] युंजतीति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाः आद्यानांतिसृणामिंद्रः ततःषण्णांमरुतः (वीळुचिदिंद्रेणेतिद्वयोरिंद्रश्चवा) दशम्याइंद्रोगायत्री | |
यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर᳚न्तं॒ परि॑ त॒स्थुषः॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} रोच᳚न्ते रोच॒ना दि॒वि ||{1/10}{1.6.1}{1.2.3.1}{1.1.11.1}{51, 6, 51} युं॒जन्ति॑¦ब्र॒ध्नम्¦अ॒रु॒षम्¦चर᳚न्तम्¦परि॑¦त॒स्थुषः॑ | रोच᳚न्ते¦रो॒च॒ना¦दि॒वि || |
यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} शोणा᳚ धृ॒ष्णू नृ॒वाह॑सा ||{2/10}{1.6.2}{1.2.3.2}{1.1.11.2}{52, 6, 52} युं॒जन्ति॑¦अ॒स्य॒¦काम्या᳚¦हरी॒ इति॑¦विऽप॑क्षसा¦रथे᳚ | शोणा᳚¦धृ॒ष्णू इति॑¦नृ॒ऽवाह॑सा || |
के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो᳚ मर्या, अपे॒शसे᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} समु॒षद्भि॑रजायथाः ||{3/10}{1.6.3}{1.2.3.3}{1.1.11.3}{53, 6, 53} के॒तुम्¦कृ॒ण्वन्¦अ॒के॒तवे᳚¦पेशः॑¦म॒र्याः॒¦अ॒पे॒शसे᳚ | सम्¦उ॒षत्ऽभिः॑¦अ॒जा॒य॒थाः॒ || |
आदह॑ स्व॒धामनु॒ पुन॑र्गर्भ॒त्वमे᳚रि॒रे |{वैश्वामित्रो मधुच्छन्दाः | मरुतः | गायत्री} दधा᳚ना॒ नाम॑ य॒ज्ञिय᳚म् ||{4/10}{1.6.4}{1.2.3.4}{1.1.11.4}{54, 6, 54} आत्¦अह॑¦स्व॒धाम्¦अनु॑¦पुनः॑¦ग॒र्भ॒ऽत्वम्¦आ॒ऽई॒रि॒रे | दधा᳚नाः¦नाम॑¦य॒ज्ञिय᳚म् || |
वी॒ळु चि॑दारुज॒त्नुभि॒र्गुहा᳚ चिदिन्द्र॒ वह्नि॑भिः |{वैश्वामित्रो मधुच्छन्दाः | मरुत इन्द्रश्च | गायत्री} अवि᳚न्द उ॒स्रिया॒, अनु॑ ||{5/10}{1.6.5}{1.2.3.5}{1.1.11.5}{55, 6, 55} वी॒ळु¦चि॒त्¦आ॒रु॒ज॒त्नुऽभिः॑¦गुहा᳚¦चि॒त्¦इ॒न्द्र॒¦वह्नि॑ऽभिः | अवि᳚न्दः¦उ॒स्रियाः᳚¦अनु॑ || |
दे॒व॒यन्तो॒ यथा᳚ म॒तिमच्छा᳚ वि॒दद्व॑सुं॒ गिरः॑ |{वैश्वामित्रो मधुच्छन्दाः | मरुतः | गायत्री} म॒हाम॑नूषत श्रु॒तम् ||{6/10}{1.6.6}{1.2.3.6}{1.1.12.1}{56, 6, 56} दे॒व॒ऽयन्तः॑¦यथा᳚¦म॒तिम्¦अच्छ॑¦वि॒दत्ऽव॑सुम्¦गिरः॑ | म॒हाम्¦अ॒नू॒ष॒त॒¦श्रु॒तम् || |
इन्द्रे᳚ण॒ सं हि दृक्ष॑से संजग्मा॒नो, अबि॑भ्युषा |{वैश्वामित्रो मधुच्छन्दाः | मरुत इन्द्रश्च | गायत्री} म॒न्दू स॑मा॒नव॑र्चसा ||{7/10}{1.6.7}{1.2.3.7}{1.1.12.2}{57, 6, 57} इन्द्रे᳚ण¦सम्¦हि¦दृक्ष॑से¦स॒म्ऽज॒ग्मा॒नः¦अबि॑भ्युषा | म॒न्दू इति॑¦स॒मा॒नऽव॑र्चसा || |
अ॒न॒व॒द्यैर॒भिद्यु॑भिर्म॒खः सह॑स्वदर्चति |{वैश्वामित्रो मधुच्छन्दाः | मरुतः | गायत्री} ग॒णैरिन्द्र॑स्य॒ काम्यैः᳚ ||{8/10}{1.6.8}{1.2.3.8}{1.1.12.3}{58, 6, 58} अ॒न॒व॒द्यैः¦अ॒भिद्यु॑ऽभिः¦म॒खः¦सह॑स्वत्¦अ॒र्च॒ति॒ | ग॒णैः¦इन्द्र॑स्य¦काम्यैः᳚ || |
अतः॑ परिज्म॒न्ना ग॑हिदि॒वो वा᳚ रोच॒नादधि॑ |{वैश्वामित्रो मधुच्छन्दाः | मरुतः | गायत्री} सम॑स्मिन्नृञ्जते॒ गिरः॑ ||{9/10}{1.6.9}{1.2.3.9}{1.1.12.4}{59, 6, 59} अतः॑¦प॒रि॒ज्म॒न्¦आ¦ग॒हि॒¦दि॒वः¦वा॒¦रो॒च॒नात्¦अधि॑ | सम्¦अ॒स्मि॒न्¦ऋं॒ज॒ते॒¦गिरः॑ || |
इ॒तो वा᳚ सा॒तिमीम॑हे दि॒वो वा॒ पार्थि॑वा॒दधि॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} इन्द्रं᳚ म॒हो वा॒ रज॑सः ||{10/10}{1.6.10}{1.2.3.10}{1.1.12.5}{60, 6, 60} इ॒तः¦वा॒¦सा॒तिम्¦ईम॑हे¦दि॒वः¦वा॒¦पार्थि॑वात्¦अधि॑ | इन्द्र᳚म्¦म॒हः¦वा॒¦रज॑सः || |
[7] इंद्रमिदिति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाइंद्रोगायत्री | |
इन्द्र॒मिद्गा॒थिनो᳚ बृ॒हदिन्द्र॑म॒र्केभि॑र॒र्किणः॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} इन्द्रं॒ वाणी᳚रनूषत ||{1/10}{1.7.1}{1.2.4.1}{1.1.13.1}{61, 7, 61} इन्द्र᳚म्¦इत्¦गा॒थिनः॑¦बृ॒हत्¦इन्द्र᳚म्¦अ॒र्केभिः॑¦अ॒र्किणः॑ | इन्द्र᳚म्¦वाणीः᳚¦अ॒नू॒ष॒त॒ || |
इन्द्र॒ इद्धर्योः॒ सचा॒ सम्मि॑श्ल॒ आ व॑चो॒युजा᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} इन्द्रो᳚ व॒ज्री हि॑र॒ण्ययः॑ ||{2/10}{1.7.2}{1.2.4.2}{1.1.13.2}{62, 7, 62} इन्द्रः॑¦इत्¦हर्योः᳚¦सचा᳚¦सम्ऽमि॑श्लः¦आ¦व॒चः॒ऽयुजा᳚ | इन्द्रः॑¦व॒ज्री¦हि॒र॒ण्ययः॑ || |
इन्द्रो᳚ दी॒र्घाय॒ चक्ष॑स॒ आ सूर्यं᳚ रोहयद्दि॒वि |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} वि गोभि॒रद्रि॑मैरयत् ||{3/10}{1.7.3}{1.2.4.3}{1.1.13.3}{63, 7, 63} इन्द्रः॑¦दी॒र्घाय॑¦चक्ष॑से¦आ¦सूर्य᳚म्¦रो॒ह॒य॒त्¦दि॒वि | वि¦गोभिः॑¦अद्रि᳚म्¦ऐ॒र॒य॒त् || |
इन्द्र॒ वाजे᳚षु नोव स॒हस्र॑प्रधनेषु च |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} उ॒ग्र उ॒ग्राभि॑रू॒तिभिः॑ ||{4/10}{1.7.4}{1.2.4.4}{1.1.13.4}{64, 7, 64} इन्द्रः॑¦वाजे᳚षु¦नः॒¦अ॒व॒¦स॒हस्र॑ऽप्रधनेषु¦च॒ | उ॒ग्रः¦उ॒ग्राभिः॑¦ऊ॒तिऽभिः॑ || |
इन्द्रं᳚ व॒यं म॑हाध॒न इन्द्र॒मर्भे᳚ हवामहे |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} युजं᳚ वृ॒त्रेषु॑ व॒ज्रिण᳚म् ||{5/10}{1.7.5}{1.2.4.5}{1.1.13.5}{65, 7, 65} इन्द्र᳚म्¦व॒यम्¦म॒हा॒ऽध॒ने¦इन्द्र᳚म्¦अर्भे᳚¦ह॒वा॒म॒हे॒ | युज᳚म्¦वृ॒त्रेषु॑¦व॒ज्रिण᳚म् || |
स नो᳚ वृषन्न॒मुं च॒रुं सत्रा᳚दाव॒न्नपा᳚ वृधि |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} अ॒स्मभ्य॒मप्र॑तिष्कुतः ||{6/10}{1.7.6}{1.2.4.6}{1.1.14.1}{66, 7, 66} सः¦नः॒¦वृ॒ष॒न्¦अ॒मुम्¦च॒रुम्¦सत्रा᳚ऽदावन्¦अप॑¦वृ॒धि॒ | अ॒स्मभ्य᳚म्¦अप्र॑तिऽस्कुतः || |
तु॒ञ्जेतु᳚ञ्जे॒ य उत्त॑रे॒ स्तोमा॒, इन्द्र॑स्य व॒ज्रिणः॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} न वि᳚न्धे, अस्य सुष्टु॒तिम् ||{7/10}{1.7.7}{1.2.4.7}{1.1.14.2}{67, 7, 67} तुं॒जेऽतुं᳚जे¦ये¦उत्ऽत॑रे¦स्तोमाः᳚¦इन्द्र॑स्य¦व॒ज्रिणः॑ | न¦वि॒न्धे॒¦अ॒स्य॒¦सु॒ऽस्तु॒तिम् || |
वृषा᳚ यू॒थेव॒ वंस॑गः कृ॒ष्टीरि॑य॒र्त्योज॑सा |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} ईशा᳚नो॒, अप्र॑तिष्कुतः ||{8/10}{1.7.8}{1.2.4.8}{1.1.14.3}{68, 7, 68} वृषा᳚¦यू॒थाऽइ᳚व¦वंस॑गः¦कृ॒ष्टीः¦इ॒य॒र्ति॒¦ओज॑सा | ईशा᳚नः¦अप्र॑तिऽस्कुतः || |
य एक॑श्चर्षणी॒नां वसू᳚नामिर॒ज्यति॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} इन्द्रः॒ पञ्च॑ क्षिती॒नाम् ||{9/10}{1.7.9}{1.2.4.9}{1.1.14.4}{69, 7, 69} यः¦एकः॑¦च॒र्ष॒णी॒नाम्¦वसू᳚नाम्¦इ॒र॒ज्यति॑ | इन्द्रः॑¦पंच॑¦क्षि॒ती॒नाम् || |
इन्द्रं᳚ वो वि॒श्वत॒स्परि॒ हवा᳚महे॒ जने᳚भ्यः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} अ॒स्माक॑मस्तु॒ केव॑लः ||{10/10}{1.7.10}{1.2.4.10}{1.1.14.5}{70, 7, 70} इन्द्र᳚म्¦वः॒¦वि॒श्वतः॑¦परि॑¦हवा᳚महे¦जने᳚भ्यः | अ॒स्माक᳚म्¦अ॒स्तु॒¦केव॑लः || |
[8] एंद्रेति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाइंद्रोगायत्री | |
एन्द्र॑ सान॒सिं र॒यिं स॒जित्वा᳚नं सदा॒सह᳚म् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} वर्षि॑ष्ठमू॒तये᳚ भर ||{1/10}{1.8.1}{1.3.1.1}{1.1.15.1}{71, 8, 71} आ¦इ॒न्द्र॒¦सा॒न॒सिम्¦र॒यिम्¦स॒ऽजित्वा᳚नम्¦स॒दा॒ऽसह᳚म् | वर्षि॑ष्ठम्¦ऊ॒तये᳚¦भ॒र॒ || |
नि येन॑ मुष्टिह॒त्यया॒ नि वृ॒त्रा रु॒णधा᳚महै |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} त्वोता᳚सो॒ न्यर्व॑ता ||{2/10}{1.8.2}{1.3.1.2}{1.1.15.2}{72, 8, 72} नि¦येन॑¦मु॒ष्टि॒ऽह॒त्यया᳚¦नि¦वृ॒त्रा¦रु॒णधा᳚महै | त्वाऽऊ᳚तासः¦नि¦अर्व॑ता || |
इन्द्र॒ त्वोता᳚स॒ आ व॒यं वज्रं᳚ घ॒ना द॑दीमहि |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} जये᳚म॒ सं यु॒धि स्पृधः॑ ||{3/10}{1.8.3}{1.3.1.3}{1.1.15.3}{73, 8, 73} इन्द्र॑¦त्वाऽऊ᳚तासः¦आ¦व॒यम्¦वज्र᳚म्¦घ॒ना¦द॒दी॒म॒हि॒ | जये᳚म¦सम्¦यु॒धि¦स्पृधः॑ || |
व॒यं शूरे᳚भि॒रस्तृ॑भि॒रिन्द्र॒ त्वया᳚ यु॒जा व॒यम् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} सा॒स॒ह्याम॑ पृतन्य॒तः ||{4/10}{1.8.4}{1.3.1.4}{1.1.15.4}{74, 8, 74} व॒यम्¦शूरे᳚भिः¦अस्तृ॑ऽभिः¦इन्द्र॑¦त्वया᳚¦यु॒जा¦व॒यम् | सा॒स॒ह्याम॑¦पृ॒त॒न्य॒तः || |
म॒हाँ, इन्द्रः॑ प॒रश्च॒ नु म॑हि॒त्वम॑स्तु व॒ज्रिणे᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} द्यौर्न प्र॑थि॒ना शवः॑ ||{5/10}{1.8.5}{1.3.1.5}{1.1.15.5}{75, 8, 75} म॒हान्¦इन्द्रः॑¦प॒रः¦च॒¦नु¦म॒हि॒ऽत्वम्¦अ॒स्तु॒¦व॒ज्रिणे᳚ | द्यौः¦न¦प्र॒थि॒ना¦शवः॑ || |
स॒मो॒हे वा॒ य आश॑त॒ नर॑स्तो॒कस्य॒ सनि॑तौ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} विप्रा᳚सो वा धिया॒यवः॑ ||{6/10}{1.8.6}{1.3.1.6}{1.1.16.1}{76, 8, 76} स॒म्ऽओ॒हे¦वा॒¦ये¦आश॑त¦नरः॑¦तो॒कस्य॑¦सनि॑तौ | विप्रा᳚सः¦वा॒¦धि॒या॒ऽयवः॑ || |
यः कु॒क्षिः सो᳚म॒पात॑मः समु॒द्र इ॑व॒ पिन्व॑ते |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} उ॒र्वीरापो॒ न का॒कुदः॑ ||{7/10}{1.8.7}{1.3.1.7}{1.1.16.2}{77, 8, 77} यः¦कु॒क्षिः¦सो॒म॒ऽपात॑मः¦स॒मु॒द्रःऽइ᳚व¦पिन्व॑ते | उ॒र्वीः¦आपः॑¦न¦का॒कुदः॑ || |
ए॒वा ह्य॑स्य सू॒नृता᳚ विर॒प्शी गोम॑ती म॒ही |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} प॒क्वा शाखा॒ न दा॒शुषे᳚ ||{8/10}{1.8.8}{1.3.1.8}{1.1.16.3}{78, 8, 78} ए॒व¦हि¦अ॒स्य॒¦सू॒नृता᳚¦वि॒ऽर॒प्शी¦गोऽम॑ती¦म॒ही | प॒क्वा¦शाखा᳚¦न¦दा॒शुषे᳚ || |
ए॒वा हि ते॒ विभू᳚तय ऊ॒तय॑ इन्द्र॒ माव॑ते |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} स॒द्यश्चि॒त् सन्ति॑ दा॒शुषे᳚ ||{9/10}{1.8.9}{1.3.1.9}{1.1.16.4}{79, 8, 79} ए॒व¦हि¦ते॒¦विऽभू᳚तयः¦ऊ॒तयः॑¦इ॒न्द्र॒¦माऽव॑ते | स॒द्यः¦चि॒त्¦सन्ति॑¦दा॒शुषे᳚ || |
ए॒वा ह्य॑स्य॒ काम्या॒ स्तोम॑ उ॒क्थं च॒ शंस्या᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | वर्धमाना गायत्री} इन्द्रा᳚य॒ सोम॑पीतये ||{10/10}{1.8.10}{1.3.1.10}{1.1.16.5}{80, 8, 80} ए॒व¦हि¦अ॒स्य॒¦काम्या᳚¦स्तोमः॑¦उ॒क्थम्¦च॒¦शंस्या᳚ | इन्द्रा᳚य¦सोम॑ऽपीतये || |
[9] इंद्रेहीति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाइंद्रोगायत्री | |
इन्द्रेहि॒ मत्स्यन्ध॑सो॒ विश्वे᳚भिः सोम॒पर्व॑भिः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} म॒हाँ, अ॑भि॒ष्टिरोज॑सा ||{1/10}{1.9.1}{1.3.2.1}{1.1.17.1}{81, 9, 81} इन्द्र॑¦आ¦इ॒हि॒¦मत्सि॑¦अन्ध॑सः¦विश्वे᳚भिः¦सो॒म॒पर्व॑ऽभिः | म॒हान्¦अ॒भि॒ष्टिः¦ओज॑सा || |
एमे᳚नं सृजता सु॒ते म॒न्दिमिन्द्रा᳚य म॒न्दिने᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} चक्रिं॒ विश्वा᳚नि॒ चक्र॑ये ||{2/10}{1.9.2}{1.3.2.2}{1.1.17.2}{82, 9, 82} आ¦ई॒म्¦ए॒न॒म्¦सृ॒ज॒त॒¦सु॒ते¦म॒न्दिम्¦इन्द्रा᳚य¦म॒न्दिने᳚ | चक्रि᳚म्¦विश्वा᳚नि¦चक्र॑ये || |
मत्स्वा᳚ सुशिप्र म॒न्दिभिः॒ स्तोमे᳚भिर्विश्वचर्षणे |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} सचै॒षु सव॑ने॒ष्वा ||{3/10}{1.9.3}{1.3.2.3}{1.1.17.3}{83, 9, 83} मत्स्व॑¦सु॒ऽशि॒प्र॒¦म॒न्दिऽभिः॑¦स्तोमे᳚भिः¦वि॒श्व॒ऽच॒र्ष॒णे॒ | सचा᳚¦ए॒षु¦सव॑नेषु¦आ || |
असृ॑ग्रमिन्द्र ते॒ गिरः॒ प्रति॒ त्वामुद॑हासत |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} अजो᳚षा वृष॒भं पति᳚म् ||{4/10}{1.9.4}{1.3.2.4}{1.1.17.4}{84, 9, 84} असृ॑ग्रम्¦इ॒न्द्र॒¦ते॒¦गिरः॑¦प्रति॑¦त्वाम्¦उद्¦अ॒हा॒स॒त॒ | अजो᳚षाः¦वृ॒ष॒भम्¦पति᳚म् || |
सं चो᳚दय चि॒त्रम॒र्वाग्राध॑ इन्द्र॒ वरे᳚ण्यम् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} अस॒दित्ते᳚ वि॒भु प्र॒भु ||{5/10}{1.9.5}{1.3.2.5}{1.1.17.5}{85, 9, 85} सम्¦चो॒द॒य॒¦चि॒त्रम्¦अ॒र्वाक्¦राधः॑¦इ॒न्द्र॒¦वरे᳚ण्यम् | अस॑त्¦इत्¦ते॒¦वि॒ऽभु¦प्र॒ऽभु || |
अ॒स्मान् त्सु तत्र॑ चोद॒येन्द्र॑ रा॒ये रभ॑स्वतः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} तुवि॑द्युम्न॒ यश॑स्वतः ||{6/10}{1.9.6}{1.3.2.6}{1.1.18.1}{86, 9, 86} अ॒स्मान्¦सु¦तत्र॑¦चो॒द॒य॒¦इन्द्र॑¦रा॒ये¦रभ॑स्वतः | तुवि॑ऽद्युम्न¦यश॑स्वतः || |
सं गोम॑दिन्द्र॒ वाज॑वद॒स्मे पृ॒थु श्रवो᳚ बृ॒हत् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} वि॒श्वायु॑र्धे॒ह्यक्षि॑तम् ||{7/10}{1.9.7}{1.3.2.7}{1.1.18.2}{87, 9, 87} सम्¦गोऽम॑त्¦इ॒न्द्र॒¦वाज॑ऽवत्¦अ॒स्मे इति॑¦पृ॒थु¦श्रवः॑¦बृ॒हत् | वि॒श्वऽआ᳚युः¦धे॒हि॒¦अक्षि॑तम् || |
अ॒स्मे धे᳚हि॒ श्रवो᳚ बृ॒हद्द्यु॒म्नं स॑हस्र॒सात॑मम् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} इन्द्र॒ ता र॒थिनी॒रिषः॑ ||{8/10}{1.9.8}{1.3.2.8}{1.1.18.3}{88, 9, 88} अ॒स्मे इति॑¦धे॒हि॒¦श्रवः॑¦बृ॒हत्¦द्यु॒म्नम्¦स॒ह॒स्र॒ऽसात॑मम् | इन्द्र॑¦ताः¦र॒थिनीः᳚¦इषः॑ || |
वसो॒रिन्द्रं॒ वसु॑पतिं गी॒र्भिर्गृ॒णन्त॑ ऋ॒ग्मिय᳚म् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} होम॒ गन्ता᳚रमू॒तये᳚ ||{9/10}{1.9.9}{1.3.2.9}{1.1.18.4}{89, 9, 89} वसोः᳚¦इन्द्र᳚म्¦वसु॑ऽपतिम्¦गीः॒ऽभिः¦गृ॒णन्तः॑¦ऋ॒ग्मिय᳚म् | होम॑¦गन्ता᳚रम्¦ऊ॒तये᳚ || |
सु॒तेसु॑ते॒ न्यो᳚कसे बृ॒हद् बृ॑ह॒त एद॒रिः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} इन्द्रा᳚य शू॒षम॑र्चति ||{10/10}{1.9.10}{1.3.2.10}{1.1.18.5}{90, 9, 90} सु॒तेऽसु॑ते¦निऽओ᳚कसे¦बृ॒हत्¦बृ॒ह॒ते¦आ¦इत्¦अ॒रिः | इन्द्रा᳚य¦शू॒षम्¦अ॒र्च॒ति॒ || |
[10] गायंतीति द्वादशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाइंद्रोनुष्टुप् | |
गाय᳚न्ति त्वा गाय॒त्रिणोऽर्च᳚न्त्य॒र्कम॒र्किणः॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्} ब्र॒ह्माण॑स्त्वा शतक्रत॒ उद् वं॒शमि॑व येमिरे ||{1/12}{1.10.1}{1.3.3.1}{1.1.19.1}{91, 10, 91} गाय᳚न्ति¦त्वा॒¦गा॒य॒त्रिणः॑¦अर्च᳚न्ति¦अ॒र्कम्¦अ॒र्किणः॑ | ब्र॒ह्माणः॑¦त्वा॒¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो¦उत्¦वं॒शम्ऽइ᳚व¦ये॒मि॒रे॒ || |
यत्सानोः॒ सानु॒मारु॑ह॒द्भूर्यस्प॑ष्ट॒ कर्त्व᳚म् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्} तदिन्द्रो॒, अर्थं᳚ चेतति यू॒थेन॑ वृ॒ष्णिरे᳚जति ||{2/12}{1.10.2}{1.3.3.2}{1.1.19.2}{92, 10, 92} यत्¦सानोः᳚¦सानु᳚म्¦आ¦अरु॑हत्¦भूरि॑¦अस्प॑ष्ट¦कर्त्व᳚म् | तत्¦इन्द्रः॑¦अर्थ᳚म्¦चे॒त॒ति॒¦यू॒थेन॑¦वृ॒ष्णिः¦ए॒ज॒ति॒ || |
यु॒क्ष्वा हि के॒शिना॒ हरी॒ वृष॑णा कक्ष्य॒प्रा |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्} अथा᳚ न इन्द्र सोमपा गि॒रामुप॑श्रुतिं चर ||{3/12}{1.10.3}{1.3.3.3}{1.1.19.3}{93, 10, 93} यु॒क्ष्व¦हि¦के॒शिना᳚¦हरी॒ इति॑¦वृष॑णा¦क॒क्ष्य॒ऽप्रा | अथ॑¦नः॒¦इ॒न्द्र॒¦सो॒म॒ऽपाः॒¦गि॒राम्¦उप॑ऽश्रुतिम्¦च॒र॒ || |
एहि॒ स्तोमाँ᳚, अ॒भि स्व॑रा॒भि गृ॑णी॒ह्या रु॑व |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्} ब्रह्म॑ च नो वसो॒ सचेन्द्र॑ य॒ज्ञं च॑ वर्धय ||{4/12}{1.10.4}{1.3.3.4}{1.1.19.4}{94, 10, 94} आ¦इ॒हि॒¦स्तोमा᳚न्¦अ॒भि¦स्व॒र॒¦अ॒भि¦गृ॒णी॒हि॒¦आ¦रु॒व॒ | ब्रह्म॑¦च॒¦नः॒¦व॒सो॒ इति॑¦सचा᳚¦इन्द्र॑¦य॒ज्ञम्¦च॒¦व॒र्ध॒य॒ || |
उ॒क्थमिन्द्रा᳚य॒ शंस्यं॒ वर्ध॑नं पुरुनि॒ष्षिधे᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्} श॒क्रो यथा᳚ सु॒तेषु॑ णो रा॒रण॑त् स॒ख्येषु॑ च ||{5/12}{1.10.5}{1.3.3.5}{1.1.19.5}{95, 10, 95} उ॒क्थम्¦इन्द्रा᳚य¦शंस्य᳚म्¦वर्ध॑नम्¦पु॒रु॒निः॒ऽसिधे᳚ | श॒क्रः¦यथा᳚¦सु॒तेषु॑¦नः॒¦र॒रण॑त्¦स॒ख्येषु॑¦च॒ || |
तमित् स॑खि॒त्व ई᳚महे॒ तं रा॒ये तं सु॒वीर्ये᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्} स श॒क्र उ॒त नः॑ शक॒दिन्द्रो॒ वसु॒ दय॑मानः ||{6/12}{1.10.6}{1.3.3.6}{1.1.19.6}{96, 10, 96} तम्¦इत्¦स॒खि॒ऽत्वे¦ई॒म॒हे॒¦तम्¦रा॒ये¦तम्¦सु॒ऽवीर्ये᳚ | सः¦श॒क्रः¦उ॒त¦नः॒¦श॒क॒त्¦इन्द्रः॑¦वसु॑¦दय॑मानः || |
सु॒वि॒वृतं᳚ सुनि॒रज॒मिन्द्र॒ त्वादा᳚त॒मिद्यशः॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्} गवा॒मप᳚ व्र॒जं वृ॑धि कृणु॒ष्व राधो᳚, अद्रिवः ||{7/12}{1.10.7}{1.3.3.7}{1.1.20.1}{97, 10, 97} सु॒ऽवि॒वृत᳚म्¦सु॒निः॒।आज᳚म्¦इन्द्र॑¦त्वाऽदा᳚तम्¦इत्¦यशः॑ | गवा᳚म्¦अप॑¦व्र॒जम्¦वृ॒धि॒¦कृ॒णु॒ष्व¦राधः॑¦अ॒द्रि॒ऽवः॒ || |
न॒हि त्वा॒ रोद॑सी, उ॒भे, ऋ॑घा॒यमा᳚ण॒मिन्व॑तः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्} जेषः॒ स्व᳚र्वतीर॒पः सं गा, अ॒स्मभ्यं᳚ धूनुहि ||{8/12}{1.10.8}{1.3.3.8}{1.1.20.2}{98, 10, 98} न॒हि¦त्वा॒¦रोद॑सी॒ इति॑¦उ॒भे इति॑¦ऋ॒घा॒यमा᳚णम्¦इन्व॑तः | जेषः॑¦स्वः॑ऽवतीः¦अ॒पः¦सम्¦गाः¦अ॒स्मभ्य᳚म्¦धू॒नु॒हि॒ || |
आश्रु॑त्कर्ण श्रु॒धी हवं॒ नू चि॑द्दधिष्व मे॒ गिरः॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्} इन्द्र॒ स्तोम॑मि॒मं मम॑कृ॒ष्वा यु॒जश्चि॒दन्त॑रम् ||{9/12}{1.10.9}{1.3.3.9}{1.1.20.3}{99, 10, 99} आश्रु॑त्ऽकर्ण¦श्रु॒धि¦हव᳚म्¦नू¦चि॒त्¦द॒धि॒ष्व॒¦मे॒¦गिरः॑ | इन्द्र॑¦स्तोम᳚म्¦इ॒मम्¦मम॑¦कृ॒ष्व¦यु॒जः¦चि॒त्¦अन्त॑रम् || |
वि॒द्मा हि त्वा॒ वृष᳚न्तमं॒ वाजे᳚षु हवन॒श्रुत᳚म् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्} वृष᳚न्तमस्य हूमह ऊ॒तिं स॑हस्र॒सात॑माम् ||{10/12}{1.10.10}{1.3.3.10}{1.1.20.4}{100, 10, 100} वि॒द्म¦हि¦त्वा॒¦वृष॑न्ऽतमम्¦वाजे᳚षु¦ह॒व॒न॒ऽश्रुत᳚म् | वृष॑न्ऽतमस्य¦हू॒म॒हे॒¦ऊ॒तिम्¦स॒ह॒स्र॒ऽसात॑माम् || |
आ तू न॑ इन्द्र कौशिक मन्दसा॒नः सु॒तं पि॑ब |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्} नव्य॒मायुः॒ प्र सू ति॑रकृ॒धी स॑हस्र॒सामृषि᳚म् ||{11/12}{1.10.11}{1.3.3.11}{1.1.20.5}{101, 10, 101} आ¦तु¦नः॒¦इ॒न्द्र॒¦कौ॒शि॒क॒¦म॒न्द॒सा॒नः¦सु॒तम्¦पि॒ब॒ | नव्य᳚म्¦आयुः॑¦प्र¦सु¦ति॒र॒¦कृ॒धि¦स॒ह॒स्र॒ऽसाम्¦ऋषि᳚म् || |
परि॑ त्वा गिर्वणो॒ गिर॑इ॒मा भ॑वन्तु वि॒श्वतः॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्} वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा᳚ भवन्तु॒ जुष्ट॑यः ||{12/12}{1.10.12}{1.3.3.12}{1.1.20.6}{102, 10, 102} परि॑¦त्वा॒¦गि॒र्व॒णः॒¦गिरः॑¦इ॒माः¦भ॒व॒न्तु॒¦वि॒श्वतः॑ | वृ॒द्धऽआ᳚युम्¦अनु॑¦वृद्ध॑यः¦जुष्टाः᳚¦भ॒व॒न्तु॒¦जुष्ट॑यः || |
[11] इंद्रंविश्वाइत्यष्टर्चस्य सूक्तस्य जेतामाधुच्छंदसइंद्रोनुष्टुप् | |
इन्द्रं॒ विश्वा᳚, अवीवृधन्त् समु॒द्रव्य॑चसं॒ गिरः॑ |{जेता माधुच्छन्दसः | इन्द्रः | अनुष्टुप्} र॒थीत॑मं र॒थीनां॒ वाजा᳚नां॒ सत्प॑तिं॒ पति᳚म् ||{1/8}{1.11.1}{1.3.4.1}{1.1.21.1}{103, 11, 103} इन्द्र᳚म्¦विश्वाः᳚¦अ॒वी॒वृ॒ध॒न्¦स॒मु॒द्रऽव्य॑चसम्¦गिरः॑ | र॒थिऽत॑मम्¦र॒थीना᳚म्¦वाजा᳚नाम्¦सत्ऽप॑तिम्¦पति᳚म् || |
स॒ख्ये त॑ इन्द्र वा॒जिनो॒ मा भे᳚म शवसस्पते |{जेता माधुच्छन्दसः | इन्द्रः | अनुष्टुप्} त्वाम॒भि प्र णो᳚नुमो॒ जेता᳚र॒मप॑राजितम् ||{2/8}{1.11.2}{1.3.4.2}{1.1.21.2}{104, 11, 104} स॒ख्ये¦ते॒¦इ॒न्द्र॒¦वा॒जिनः॑¦मा¦भे॒म॒¦श॒व॒सः॒¦प॒ते॒ | त्वाम्¦अ॒भि¦प्र¦नो॒नु॒मः॒¦जेता᳚रम्¦अप॑राऽजितम् || |
पू॒र्वीरिन्द्र॑स्य रा॒तयो॒ न वि द॑स्यन् त्यू॒तयः॑ |{जेता माधुच्छन्दसः | इन्द्रः | अनुष्टुप्} यदी॒ वाज॑स्य॒ गोम॑तः स्तो॒तृभ्यो॒ मंह॑ते म॒घम् ||{3/8}{1.11.3}{1.3.4.3}{1.1.21.3}{105, 11, 105} पू॒र्वीः¦इन्द्र॑स्य¦रा॒तयः॑¦न¦वि¦द॒स्य॒न्ति॒¦ऊ॒तयः॑ | यदि॑¦वाज॑स्य¦गोऽम॑तः¦स्तो॒तृऽभ्यः॑¦मंह॑ते¦म॒घम् || |
पु॒रां भि॒न्दुर्युवा᳚ क॒विरमि॑तौजा, अजायत |{जेता माधुच्छन्दसः | इन्द्रः | अनुष्टुप्} इन्द्रो॒ विश्व॑स्य॒ कर्म॑णो ध॒र्ता व॒ज्री पु॑रुष्टु॒तः ||{4/8}{1.11.4}{1.3.4.4}{1.1.21.4}{106, 11, 106} पु॒राम्¦भि॒न्दुः¦युवा᳚¦क॒विः¦अमि॑तऽओजाः¦अ॒जा॒य॒त॒ | इन्द्रः॑¦विश्व॑स्य¦कर्म॑णः¦ध॒र्ता¦व॒ज्री¦पु॒रु॒ऽस्तु॒तः || |
त्वं व॒लस्य॒ गोम॒तो ऽपा᳚वरद्रिवो॒ बिल᳚म् |{जेता माधुच्छन्दसः | इन्द्रः | अनुष्टुप्} त्वां दे॒वा, अबि॑भ्युषस् तु॒ज्यमा᳚नास आविषुः ||{5/8}{1.11.5}{1.3.4.5}{1.1.21.5}{107, 11, 107} त्वम्¦व॒लस्य॑¦गोऽम॑तः¦अप॑¦अ॒वः॒¦अ॒द्रि॒ऽवः॒¦बिल᳚म् | त्वाम्¦दे॒वाः¦अबि॑भ्युषः¦तु॒ज्यमा᳚नासः¦आ॒वि॒षुः॒ || |
तवा॒हं शू᳚र रा॒तिभिः॒ प्रत्या᳚यं॒ सिन्धु॑मा॒वद॑न् |{जेता माधुच्छन्दसः | इन्द्रः | अनुष्टुप्} उपा᳚तिष्ठन्त गिर्वणो वि॒दुष्टे॒ तस्य॑ का॒रवः॑ ||{6/8}{1.11.6}{1.3.4.6}{1.1.21.6}{108, 11, 108} तव॑¦अ॒हम्¦शू॒र॒¦रा॒तिऽभिः॑¦प्रति॑¦आ॒य॒म्¦सिन्धु᳚म्¦आ॒ऽवद॑न् | उप॑¦अ॒ति॒ष्ठ॒न्त॒¦गि॒र्व॒णः॒¦वि॒दुः¦ते॒¦तस्य॑¦का॒रवः॑ || |
मा॒याभि॑रिन्द्र मा॒यिनं॒ त्वं शुष्ण॒मवा᳚तिरः |{जेता माधुच्छन्दसः | इन्द्रः | अनुष्टुप्} वि॒दुष्टे॒ तस्य॒ मेधि॑रा॒स् तेषां॒ श्रवां॒स्युत्ति॑र ||{7/8}{1.11.7}{1.3.4.7}{1.1.21.7}{109, 11, 109} मा॒याभिः॑¦इ॒न्द्र॒¦मा॒यिन᳚म्¦त्वम्¦शुष्ण᳚म्¦अव॑¦अ॒ति॒रः॒ | वि॒दुः¦ते॒¦तस्य॑¦मेधि॑राः¦तेषा᳚म्¦श्रवां᳚सि¦उत्¦ति॒र॒ || |
इन्द्र॒मीशा᳚न॒मोज॑सा॒भि स्तोमा᳚, अनूषत |{जेता माधुच्छन्दसः | इन्द्रः | अनुष्टुप्} स॒हस्रं॒ यस्य॑ रा॒तय॑ उ॒त वा॒ सन्ति॒ भूय॑सीः ||{8/8}{1.11.8}{1.3.4.8}{1.1.21.8}{110, 11, 110} इन्द्र᳚म्¦ईशा᳚नम्¦ओज॑सा¦अ॒भि¦स्तोमाः᳚¦अ॒नू॒ष॒त॒ | स॒हस्र᳚म्¦यस्य॑¦रा॒तयः॑¦उ॒त¦वा॒¦सन्ति॑¦भूय॑सीः || |
[12] अग्निंदूतमिति द्वादशर्चस्य सूक्तस्य काण्वोमेधातिथिरग्निर्गायत्री अग्निनाग्निरित्यस्य निर्मथ्याहवनीयावनीदेवते | |
अ॒ग्निं दू॒तं वृ॑णीमहे॒ होता᳚रं वि॒श्ववे᳚दसम् |{काण्वो मेधातिथि | अग्निः | गायत्री} अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु᳚म् ||{1/12}{1.12.1}{1.4.1.1}{1.1.22.1}{111, 12, 111} अ॒ग्निम्¦दू॒तम्¦वृ॒णी॒म॒हे॒¦होता᳚रम्¦वि॒श्वऽवे᳚दसम् | अ॒स्य¦य॒ज्ञस्य॑¦सु॒ऽक्रतु᳚म् || |
अ॒ग्निम॑ग्निं॒ हवी᳚मभिः॒ सदा᳚ हवन्त वि॒श्पति᳚म् |{काण्वो मेधातिथि | अग्निः | गायत्री} ह॒व्य॒वाहं᳚ पुरुप्रि॒यम् ||{2/12}{1.12.2}{1.4.1.2}{1.1.22.2}{112, 12, 112} अ॒ग्निम्।आ॑ग्निम्¦हवी᳚मऽभिः¦सदा᳚¦ह॒व॒न्त॒¦वि॒श्पति᳚म् | ह॒व्य॒ऽवाह᳚म्¦पु॒रु॒ऽप्रि॒यम् || |
अग्ने᳚ दे॒वाँ, इ॒हा व॑ह जज्ञा॒नो वृ॒क्तब᳚र्हिषे |{काण्वो मेधातिथि | अग्निः | गायत्री} असि॒ होता᳚ न॒ ईड्यः॑ ||{3/12}{1.12.3}{1.4.1.3}{1.1.22.3}{113, 12, 113} अग्ने᳚¦दे॒वान्¦इ॒ह¦आ¦व॒ह॒¦ज॒ज्ञा॒नः¦वृ॒क्तऽब॑र्हिषे | असि॑¦होता᳚¦नः॒¦ईड्यः॑ || |
ताँ, उ॑श॒तो वि बो᳚धय॒ यद॑ग्ने॒ यासि॑ दू॒त्य᳚म् |{काण्वो मेधातिथि | अग्निः | गायत्री} दे॒वैरा स॑त्सि ब॒र्हिषि॑ ||{4/12}{1.12.4}{1.4.1.4}{1.1.22.4}{114, 12, 114} तान्¦उ॒श॒तः¦वि¦बो॒ध॒य॒¦यत्¦अ॒ग्ने॒¦यासि॑¦दू॒त्य᳚म् | दे॒वैः¦आ¦स॒त्सि॒¦ब॒र्हिषि॑ || |
घृता᳚हवन दीदिवः॒ प्रति॑ ष्म॒ रिष॑तो दह |{काण्वो मेधातिथि | अग्निः | गायत्री} अग्ने॒ त्वं र॑क्ष॒स्विनः॑ ||{5/12}{1.12.5}{1.4.1.5}{1.1.22.5}{115, 12, 115} घृत॑ऽआहवन¦दी॒दि॒ऽवः॒¦प्रति॑¦स्म॒¦रिष॑तः¦द॒ह॒ | अग्ने᳚¦त्वम्¦र॒क्ष॒स्विनः॑ || |
अ॒ग्निना॒ग्निः समि॑ध्यते क॒विर्गृ॒हप॑ति॒र्युवा᳚ |{काण्वो मेधातिथि | १/२: निर्मथ्याहवनीयावग्नी २/२: अग्निः | गायत्री} ह॒व्य॒वाड् जु॒ह्वा᳚स्यः ||{6/12}{1.12.6}{1.4.1.6}{1.1.22.6}{116, 12, 116} अ॒ग्निना᳚¦अ॒ग्निः¦सम्¦इ॒ध्य॒ते॒¦क॒विः¦गृ॒हऽप॑तिः¦युवा᳚ | ह॒व्य॒ऽवाट्¦जु॒हुऽआ᳚स्यः || |
क॒विम॒ग्निमुप॑ स्तुहि स॒त्यध᳚र्माणमध्व॒रे |{काण्वो मेधातिथि | अग्निः | गायत्री} दे॒वम॑मीव॒चात॑नम् ||{7/12}{1.12.7}{1.4.1.7}{1.1.23.1}{117, 12, 117} क॒विम्¦अ॒ग्निम्¦उप॑¦स्तु॒हि॒¦स॒त्यऽध᳚र्माणम्¦अ॒ध्व॒रे | दे॒वम्¦अ॒मी॒व॒ऽचात॑नम् || |
यस्त्वाम॑ग्ने ह॒विष्प॑तिर्दू॒तं दे᳚व सप॒र्यति॑ |{काण्वो मेधातिथि | अग्निः | गायत्री} तस्य॑ स्म प्रावि॒ता भ॑व ||{8/12}{1.12.8}{1.4.1.8}{1.1.23.2}{118, 12, 118} यः¦त्वाम्¦अ॒ग्ने॒¦ह॒विःऽप॑तिः¦दू॒तम्¦दे॒व॒¦स॒प॒र्यति॑ | तस्य॑¦स्म॒¦प्र॒।आ॒वि॒ता¦भ॒व॒ || |
यो, अ॒ग्निं दे॒ववी᳚तये ह॒विष्माँ᳚, आ॒विवा᳚सति |{काण्वो मेधातिथि | अग्निः | गायत्री} तस्मै᳚ पावक मृळय ||{9/12}{1.12.9}{1.4.1.9}{1.1.23.3}{119, 12, 119} यः¦अ॒ग्निम्¦दे॒वऽवी᳚तये¦ह॒विष्मा᳚न्¦आ॒ऽविवा᳚सति | तस्मै᳚¦पा॒व॒क॒¦मृ॒ळ॒य॒ || |
स नः॑ पावक दीदि॒वोऽग्ने᳚ दे॒वाँ, इ॒हा व॑ह |{काण्वो मेधातिथि | अग्निः | गायत्री} उप॑ य॒ज्ञं ह॒विश्च॑ नः ||{10/12}{1.12.10}{1.4.1.10}{1.1.23.4}{120, 12, 120} सः¦नः॒¦पा॒व॒क॒¦दी॒दि॒ऽवः॒¦अग्ने᳚¦दे॒वान्¦इ॒ह¦आ¦व॒ह॒ | उप॑¦य॒ज्ञम्¦ह॒विः¦च॒¦नः॒ || |
स नः॒ स्तवा᳚न॒ आ भ॑र गाय॒त्रेण॒ नवी᳚यसा |{काण्वो मेधातिथि | अग्निः | गायत्री} र॒यिं वी॒रव॑ती॒मिष᳚म् ||{11/12}{1.12.11}{1.4.1.11}{1.1.23.5}{121, 12, 121} सः¦नः॒¦स्तवा᳚नः¦आ¦भ॒र॒¦गा॒य॒त्रेण॑¦नवी᳚यसा | र॒यिम्¦वी॒रऽव॑तीम्¦इष᳚म् || |
अग्ने᳚ शु॒क्रेण॑ शो॒चिषा॒ विश्वा᳚भिर्दे॒वहू᳚तिभिः |{काण्वो मेधातिथि | अग्निः | गायत्री} इ॒मं स्तोमं᳚ जुषस्व नः ||{12/12}{1.12.12}{1.4.1.12}{1.1.23.6}{122, 12, 122} अग्ने᳚¦शु॒क्रेण॑¦शो॒चिषा᳚¦विश्वा᳚भिः¦दे॒वहू᳚तिऽभिः | इ॒मम्¦स्तोम᳚म्¦जु॒ष॒स्व॒¦नः॒ || |
[13] सुसमिद्धइति द्वादशर्चस्य सूक्तस्य काण्वोमेधातिथिः प्रथमायाइध्मः (समिद्धोग्निर्वा) द्वितीयायास्तनूनपात् तृतीयायानराशंसः चतुर्थ्याइळः पंचम्याबर्हिः षष्ट्यादेव्योद्वारः सप्तम्याउषासानक्ता अष्टम्यादैव्यौहोतारौ (प्रचेतसावितिगुणः) नवम्याःसरस्वतीळाभारत्यः दशम्यास्त्वष्टा एकादश्यावनस्पतिः द्वादश्याःस्वाहाकृतयोदेवताः गायत्री छंदः (एतदाप्रीसूक्तं) | |
सुस॑मिद्धो न॒ आ व॑ह दे॒वाँ, अ॑ग्ने ह॒विष्म॑ते |{काण्वो मेधातिथि | इध्मः समिद्धोऽग्निर्वा | गायत्री} होतः॑ पावक॒ यक्षि॑ च ||{1/12}{1.13.1}{1.4.2.1}{1.1.24.1}{123, 13, 123} सुऽस॑मिद्धः¦नः॒¦आ¦व॒ह॒¦दे॒वान्¦अ॒ग्ने॒¦ह॒विष्म॑ते | होत॒रिति॑¦पा॒व॒क॒¦यक्षि॑¦च॒ || |
मधु॑मन्तं तनूनपाद् य॒ज्ञं दे॒वेषु॑ नः कवे |{काण्वो मेधातिथि | तनूनपात् | गायत्री} अ॒द्या कृ॑णुहि वी॒तये᳚ ||{2/12}{1.13.2}{1.4.2.2}{1.1.24.2}{124, 13, 124} मधु॑ऽमन्तम्¦त॒नू॒ऽन॒पा॒त्¦य॒ज्ञम्¦दे॒वेषु॑¦नः॒¦क॒वे॒ | अ॒द्य¦कृ॒णु॒हि॒¦वी॒तये᳚ || |
नरा॒शंस॑मि॒ह प्रि॒यम॒स्मिन् य॒ज्ञ उप॑ ह्वये |{काण्वो मेधातिथि | नराशंसः | गायत्री} मधु॑जिह्वं हवि॒ष्कृत᳚म् ||{3/12}{1.13.3}{1.4.2.3}{1.1.24.3}{125, 13, 125} नरा॒शंस᳚म्¦इ॒ह¦प्रि॒यम्¦अ॒स्मिन्¦य॒ज्ञे¦उप॑¦ह्व॒ये॒ | मधु॑ऽजिह्वम्¦ह॒विः॒ऽकृत᳚म् || |
अग्ने᳚ सु॒खत॑मे॒ रथे᳚ दे॒वाँ, ई᳚ळि॒त आ व॑ह |{काण्वो मेधातिथि | इळः | गायत्री} असि॒ होता॒ मनु᳚र्हितः ||{4/12}{1.13.4}{1.4.2.4}{1.1.24.4}{126, 13, 126} अग्ने᳚¦सु॒खऽत॑मे¦रथे᳚¦दे॒वान्¦इ॒ळि॒तः¦आ¦व॒ह॒ | असि॑¦होता᳚¦मनुः॑ऽहितः || |
स्तृ॒णी॒त ब॒र्हिरा᳚नु॒षग् घृ॒तपृ॑ष्ठं मनीषिणः |{काण्वो मेधातिथि | बर्हिः | गायत्री} यत्रा॒मृत॑स्य॒ चक्ष॑णम् ||{5/12}{1.13.5}{1.4.2.5}{1.1.24.5}{127, 13, 127} स्तृ॒णी॒त¦ब॒र्हिः¦आ॒नु॒षक्¦घृ॒तऽपृ॑ष्ठम्¦म॒नी॒षि॒णः॒ | यत्र॑¦अ॒मृत॑स्य¦चक्ष॑णम् || |
वि श्र॑यन्तामृता॒वृधो॒ द्वारो᳚ दे॒वीर॑स॒श्चतः॑ |{काण्वो मेधातिथि | देवीर्द्वारः (प्रचेतसावितिगुणः) | गायत्री} अ॒द्या नू॒नं च॒ यष्ट॑वे ||{6/12}{1.13.6}{1.4.2.6}{1.1.24.6}{128, 13, 128} वि¦श्र॒य॒न्ता॒म्¦ऋ॒त॒ऽवृधः॑¦द्वारः॑¦दे॒वीः¦अ॒स॒श्चतः॑ | अ॒द्य¦नू॒नम्¦च॒¦यष्ट॑वे || |
नक्तो॒षासा᳚ सु॒पेश॑सा॒ऽस्मिन् य॒ज्ञ उप॑ ह्वये |{काण्वो मेधातिथि | उषासानक्ता | गायत्री} इ॒दं नो᳚ ब॒र्हिरा॒सदे᳚ ||{7/12}{1.13.7}{1.4.2.7}{1.1.25.1}{129, 13, 129} नक्तो॒षासा᳚¦सु॒ऽपेश॑सा¦अ॒स्मिन्¦य॒ज्ञे¦उप॑¦ह्व॒ये॒ | इ॒दम्¦नः॒¦ब॒र्हिः¦आ॒ऽसदे᳚ || |
ता सु॑जि॒ह्वा, उप॑ ह्वये॒ होता᳚रा॒ दैव्या᳚ क॒वी |{काण्वो मेधातिथि | दैव्यौ होतारौ प्रचेतसौ | गायत्री} य॒ज्ञं नो᳚ यक्षतामि॒मम् ||{8/12}{1.13.8}{1.4.2.8}{1.1.25.2}{130, 13, 130} ता¦सु॒ऽजि॒ह्वौ¦उप॑¦ह्व॒ये॒¦होता᳚रा¦दैव्या᳚¦क॒वी इति॑ | य॒ज्ञम्¦नः॒¦य॒क्ष॒ता॒म्¦इ॒मम् || |
इळा॒ सर॑स्वती म॒ही ति॒स्रो दे॒वीर्म॑यो॒भुवः॑ |{काण्वो मेधातिथि | सरस्वतीळाभारत्यः | गायत्री} ब॒र्हिः सी᳚दन्त्व॒स्रिधः॑ ||{9/12}{1.13.9}{1.4.2.9}{1.1.25.3}{131, 13, 131} इळा᳚¦सर॑स्वती¦म॒ही¦ति॒स्रः¦दे॒वीः¦म॒यः॒ऽभुवः॑ | ब॒र्हिः¦सी॒द॒न्तु॒¦अ॒स्रिधः॑ || |
इ॒ह त्वष्टा᳚रमग्रि॒यं वि॒श्वरू᳚प॒मुप॑ ह्वये |{काण्वो मेधातिथि | त्वष्टा | गायत्री} अ॒स्माक॑मस्तु॒ केव॑लः ||{10/12}{1.13.10}{1.4.2.10}{1.1.25.4}{132, 13, 132} इ॒ह¦त्वष्टा᳚रम्¦अ॒ग्रि॒यम्¦वि॒श्वऽरू᳚पम्¦उप॑¦ह्व॒ये॒ | अ॒स्माक᳚म्¦अ॒स्तु॒¦केव॑लः || |
अव॑ सृजा वनस्पते॒ देव॑ दे॒वेभ्यो᳚ ह॒विः |{काण्वो मेधातिथि | वनस्पतिः | गायत्री} प्र दा॒तुर॑स्तु॒ चेत॑नम् ||{11/12}{1.13.11}{1.4.2.11}{1.1.25.5}{133, 13, 133} अव॑¦सृ॒ज॒¦व॒न॒स्प॒ते॒¦देव॑¦दे॒वेभ्यः॑¦ह॒विः | प्र¦दा॒तुः¦अ॒स्तु॒¦चेत॑नम् || |
स्वाहा᳚ य॒ज्ञं कृ॑णोत॒नेन्द्रा᳚य॒ यज्व॑नो गृ॒हे |{काण्वो मेधातिथि | स्वाहाकृतयः | गायत्री} तत्र॑ दे॒वाँ, उप॑ ह्वये ||{12/12}{1.13.12}{1.4.2.12}{1.1.25.6}{134, 13, 134} स्वाहा᳚¦य॒ज्ञम्¦कृ॒णो॒त॒न॒¦इन्द्रा᳚य¦यज्व॑नः¦गृ॒हे | तत्र॑¦दे॒वान्¦उप॑¦ह्व॒ये॒ || |
[14] ऐभिरग्नइति द्वादशर्चस्य सूक्तस्य काण्वोमेधातिथिर्विश्वेदेवागायत्री | (वैश्वदेवत्वंसूक्तभेदप्रयोगेयल्लिंगंसादेवतेतिपक्षेआद्ययोर्द्वयोरग्निः तृतीयायाविश्वेदेवाः ततोनवानामग्निः एवंद्वादशर्च) | |
ऐभि॑रग्ने॒ दुवो॒ गिरो॒ विश्वे᳚भिः॒ सोम॑पीतये |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} दे॒वेभि᳚र्याहि॒ यक्षि॑ च ||{1/12}{1.14.1}{1.4.3.1}{1.1.26.1}{135, 14, 135} आ¦ए॒भिः॒¦अ॒ग्ने॒¦दुवः॑¦गिरः॑¦विश्वे᳚भिः¦सोम॑ऽपीतये | दे॒वेभिः॑¦या॒हि॒¦यक्षि॑¦च॒ || |
आ त्वा॒ कण्वा᳚, अहूषत गृ॒णन्ति॑ विप्र ते॒ धियः॑ |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} दे॒वेभि॑रग्न॒ आ ग॑हि ||{2/12}{1.14.2}{1.4.3.2}{1.1.26.2}{136, 14, 136} आ¦त्वा॒¦कण्वाः᳚¦अ॒हू॒ष॒त॒¦गृ॒णन्ति॑¦वि॒प्र॒¦ते॒¦धियः॑ | दे॒वेभिः॑¦अ॒ग्ने॒¦आ¦ग॒हि॒ || |
इ॒न्द्र॒वा॒यू बृह॒स्पतिं᳚ मि॒त्राग्निं पू॒षणं॒ भग᳚म् |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} आ॒दि॒त्यान् मारु॑तं ग॒णम् ||{3/12}{1.14.3}{1.4.3.3}{1.1.26.3}{137, 14, 137} इ॒न्द्र॒वा॒यू इति॑¦बृह॒स्पति᳚म्¦मि॒त्रा¦अ॒ग्निम्¦पू॒षण᳚म्¦भग᳚म् | आ॒दि॒त्यान्¦मारु॑तम्¦ग॒णम् || |
प्र वो᳚ भ्रियन्त॒ इन्द॑वो मत्स॒रा मा᳚दयि॒ष्णवः॑ |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} द्र॒प्सा मध्व॑श्चमू॒षदः॑ ||{4/12}{1.14.4}{1.4.3.4}{1.1.26.4}{138, 14, 138} प्र¦वः॒¦भ्रि॒य॒न्ते॒¦इन्द॑वः¦म॒त्स॒राः¦मा॒द॒यि॒ष्णवः॑ | द्र॒प्साः¦मध्वः॑¦च॒मू॒ऽसदः॑ || |
ईळ॑ते॒ त्वाम॑व॒स्यवः॒ कण्वा᳚सो वृ॒क्तब᳚र्हिषः |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} ह॒विष्म᳚न्तो, अरं॒कृतः॑ ||{5/12}{1.14.5}{1.4.3.5}{1.1.26.5}{139, 14, 139} ईळ॑ते¦त्वाम्¦अ॒व॒स्यवः॑¦कण्वा᳚सः¦वृ॒क्तऽब॑र्हिषः | ह॒विष्म᳚न्तः¦अ॒र॒म्ऽकृतः॑ || |
घृ॒तपृ॑ष्ठा मनो॒युजो॒ ये त्वा॒ वह᳚न्ति॒ वह्न॑यः |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} आ दे॒वान् त्सोम॑पीतये ||{6/12}{1.14.6}{1.4.3.6}{1.1.26.6}{140, 14, 140} घृ॒तऽपृ॑ष्ठाः¦म॒नः॒ऽयुजः॑¦ये¦त्वा॒¦वह᳚न्ति¦वह्न॑यः | आ¦दे॒वान्¦सोम॑ऽपीतये || |
तान् यज॑त्राँ, ऋता॒वृधो ऽग्ने॒ पत्नी᳚वतस्कृधि |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} मध्वः॑ सुजिह्व पायय ||{7/12}{1.14.7}{1.4.3.7}{1.1.27.1}{141, 14, 141} तान्¦यज॑त्रान्¦ऋ॒त॒ऽवृधः॑¦अग्ने᳚¦पत्नी᳚ऽवतः¦कृ॒धि॒ | मध्वः॑¦सु॒ऽजि॒ह्व॒¦पा॒य॒य॒ || |
ये यज॑त्रा॒ य ईड्या॒स् ते ते᳚ पिबन्तु जि॒ह्वया᳚ |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} मधो᳚रग्ने॒ वष॑ट्कृति ||{8/12}{1.14.8}{1.4.3.8}{1.1.27.2}{142, 14, 142} ये¦यज॑त्राः¦ये¦ईड्याः᳚¦ते¦ते॒¦पि॒ब॒न्तु॒¦जि॒ह्वया᳚ | मधोः᳚¦अ॒ग्ने॒¦वष॑ट्ऽकृति || |
आकीं॒ सूर्य॑स्य रोच॒नाद् विश्वा᳚न्दे॒वाँ, उ॑ष॒र्बुधः॑ |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} विप्रो॒ होते॒ह व॑क्षति ||{9/12}{1.14.9}{1.4.3.9}{1.1.27.3}{143, 14, 143} आकी᳚म्¦सूर्य॑स्य¦रो॒च॒नात्¦विश्वा᳚न्¦दे॒वान्¦उ॒षः॒ऽबुधः॑ | विप्रः॑¦होता᳚¦इ॒ह¦व॒क्ष॒ति॒ || |
विश्वे᳚भिः सो॒म्यं मध्वग्न॒ इन्द्रे᳚ण वा॒युना᳚ |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} पिबा᳚ मि॒त्रस्य॒ धाम॑भिः ||{10/12}{1.14.10}{1.4.3.10}{1.1.27.4}{144, 14, 144} विश्वे᳚भिः¦सो॒म्यम्¦मधु॑¦अग्ने᳚¦इन्द्रे᳚ण¦वा॒युना᳚ | पिब॑¦मि॒त्रस्य॑¦धाम॑ऽभिः || |
त्वं होता॒ मनु᳚र्हि॒तोऽग्ने᳚ य॒ज्ञेषु॑ सीदसि |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} सेमं नो᳚, अध्व॒रं य॑ज ||{11/12}{1.14.11}{1.4.3.11}{1.1.27.5}{145, 14, 145} त्वम्¦होता᳚¦मनुः॑ऽहितः¦अग्ने᳚¦य॒ज्ञेषु॑¦सी॒द॒सि॒ | सः¦इ॒मम्¦नः॒¦अ॒ध्व॒रम्¦य॒ज॒ || |
यु॒क्ष्वा ह्यरु॑षी॒ रथे᳚ ह॒रितो᳚ देव रो॒हितः॑ |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} ताभि॑र्दे॒वाँ, इ॒हा व॑ह ||{12/12}{1.14.12}{1.4.3.12}{1.1.27.6}{146, 14, 146} यु॒क्ष्व¦हि¦अरु॑षीः¦रथे᳚¦ह॒रितः॑¦दे॒व॒¦रो॒हितः॑ | ताभिः॑¦दे॒वान्¦इ॒ह¦आ¦व॒ह॒ || |
[15] इंद्रसोममिति द्वादशर्चस्य सूक्तस्य काण्वोमेधातिथिः आद्यानांषण्णांइंद्रोमरुतस्त्वष्टाग्निरिंद्रोमित्रावरुणौ ततश्चतसृणां द्रविणोदा अग्निः एकादश्याअश्विनौद्वादश्याअग्निर्गायत्री (ऋतुदेवताएताः) | |
इन्द्र॒ सोमं॒ पिब॑ ऋ॒तुना ऽऽ त्वा᳚ विश॒न्त्विन्द॑वः |{काण्वो मेधातिथि | इन्द्रः | गायत्री} म॒त्स॒रास॒स्तदो᳚कसः ||{1/12}{1.15.1}{1.4.4.1}{1.1.28.1}{147, 15, 147} इन्द्र॑¦सोम᳚म्¦पिब॑¦ऋ॒तुना᳚¦आ¦त्वा॒¦वि॒श॒न्तु॒¦इन्द॑वः | म॒त्स॒रासः॑¦तत्ऽओ᳚कसः || |
मरु॑तः॒ पिब॑त ऋ॒तुना᳚ पो॒त्राद् य॒ज्ञं पु॑नीतन |{काण्वो मेधातिथि | मरुतः | गायत्री} यू॒यं हि ष्ठा सु॑दानवः ||{2/12}{1.15.2}{1.4.4.2}{1.1.28.2}{148, 15, 148} मरु॑तः¦पिब॑त¦ऋ॒तुना᳚¦पो॒त्रात्¦य॒ज्ञम्¦पु॒नी॒त॒न॒ | यू॒यम्¦हि¦स्थ¦सु॒ऽदा॒न॒वः॒ || |
अ॒भि य॒ज्ञं गृ॑णीहिनो॒ ग्नावो॒ नेष्टः॒ पिब॑ ऋ॒तुना᳚ |{काण्वो मेधातिथि | त्वष्टा | गायत्री} त्वं हि र॑त्न॒धा, असि॑ ||{3/12}{1.15.3}{1.4.4.3}{1.1.28.3}{149, 15, 149} अ॒भि¦य॒ज्ञम्¦गृ॒णी॒हि॒¦नः॒¦ग्रावः॑¦नेष्ट॒रिति॑¦पिब॑¦ऋ॒तुना᳚ | त्वम्¦हि¦र॒त्न॒ऽधाः¦असि॑ || |
अग्ने᳚ दे॒वाँ, इ॒हा व॑ह सा॒दया॒ योनि॑षु त्रि॒षु |{काण्वो मेधातिथि | अग्निः | गायत्री} परि॑ भूष॒ पिब॑ ऋ॒तुना᳚ ||{4/12}{1.15.4}{1.4.4.4}{1.1.28.4}{150, 15, 150} अग्ने᳚¦दे॒वान्¦इ॒ह¦आ¦व॒ह॒¦सा॒दय॑¦योनि॑षु¦त्रि॒षु | परि॑¦भू॒ष॒¦पिब॑¦ऋ॒तुना᳚ || |
ब्राह्म॑णादिन्द्र॒ राध॑सः॒ पिबा॒ सोम॑मृ॒तूँरनु॑ |{काण्वो मेधातिथि | इन्द्रः | गायत्री} तवेद्धि स॒ख्यमस्तृ॑तम् ||{5/12}{1.15.5}{1.4.4.5}{1.1.28.5}{151, 15, 151} ब्राह्म॑णात्¦इ॒न्द्र॒¦राध॑सः¦पिब॑¦सोम᳚म्¦ऋ॒तून्¦अनु॑ | तव॑¦इत्¦हि¦स॒ख्यम्¦अस्तृ॑तम् || |
यु॒वं दक्षं᳚ धृतव्रत॒ मित्रा᳚वरुण दू॒ळभ᳚म् |{काण्वो मेधातिथि | मित्रावरुणौ | गायत्री} ऋ॒तुना᳚ य॒ज्ञमा᳚शाथे ||{6/12}{1.15.6}{1.4.4.6}{1.1.28.6}{152, 15, 152} यु॒वम्¦दक्ष᳚म्¦धृ॒त॒ऽव्र॒ता॒¦मित्रा᳚वरुणा¦दुः॒ऽदभ᳚म् | ऋ॒तुना᳚¦य॒ज्ञम्¦आ॒शा॒थे॒ इति॑ || |
द्र॒वि॒णो॒दा द्रवि॑णसो॒ ग्राव॑हस्तासो, अध्व॒रे |{काण्वो मेधातिथि | द्रविणोदाः | गायत्री} य॒ज्ञेषु॑ दे॒वमी᳚ळते ||{7/12}{1.15.7}{1.4.4.7}{1.1.29.1}{153, 15, 153} द्र॒वि॒णः॒ऽदाः¦द्रवि॑णसः¦ग्राव॑ऽहस्तासः¦अ॒ध्व॒रे | य॒ज्ञेषु॑¦दे॒वम्¦ई॒ळ॒ते॒ || |
द्र॒वि॒णो॒दा द॑दातु नो॒ वसू᳚नि॒ यानि॑ शृण्वि॒रे |{काण्वो मेधातिथि | द्रविणोदाः | गायत्री} दे॒वेषु॒ ता व॑नामहे ||{8/12}{1.15.8}{1.4.4.8}{1.1.29.2}{154, 15, 154} द्र॒वि॒णः॒ऽदाः¦द॒दा॒तु॒¦नः॒¦वसू᳚नि¦यानि॑¦शृ॒ण्वि॒रे | दे॒वेषु॑¦ता¦व॒ना॒म॒हे॒ || |
द्र॒वि॒णो॒दाः पि॑पीषति जु॒होत॒ प्र च॑ तिष्ठत |{काण्वो मेधातिथि | द्रविणोदाः | गायत्री} ने॒ष्ट्रादृ॒तुभि॑रिष्यत ||{9/12}{1.15.9}{1.4.4.9}{1.1.29.3}{155, 15, 155} द्र॒वि॒णः॒ऽदाः¦पि॒पी॒ष॒ति॒¦जु॒होत॑¦प्र¦च॒¦ति॒ष्ठ॒त॒ | ने॒ष्ट्रात्¦ऋ॒तुऽभिः॑¦इ॒ष्य॒त॒ || |
यत् त्वा᳚ तु॒रीय॑मृ॒तुभि॒र्द्रवि॑णोदो॒ यजा᳚महे |{काण्वो मेधातिथि | द्रविणोदाः | गायत्री} अध॑ स्मा नो द॒दिर्भ॑व ||{10/12}{1.15.10}{1.4.4.10}{1.1.29.4}{156, 15, 156} यत्¦त्वा॒¦तु॒रीय᳚म्¦ऋ॒तुऽभिः॑¦द्रवि॑णःऽदः¦यजा᳚महे | अध॑¦स्म॒¦नः॒¦द॒दिः¦भ॒व॒ || |
अश्वि॑ना॒ पिब॑तं॒ मधु॒ दीद्य॑ग्नी शुचिव्रता |{काण्वो मेधातिथि | अश्विनौ | गायत्री} ऋ॒तुना᳚ यज्ञवाहसा ||{11/12}{1.15.11}{1.4.4.11}{1.1.29.5}{157, 15, 157} अश्वि॑ना¦पिब॑तम्¦मधु॑¦दीद्य॑ग्नी॒ इति॒ दीदि॑।आग्नी¦शु॒चि॒ऽव्र॒ता॒ | ऋ॒तुना᳚¦य॒ज्ञ॒ऽवा॒ह॒सा॒ || |
गार्ह॑पत्येन सन्त्य ऋ॒तुना᳚ यज्ञ॒नीर॑सि |{काण्वो मेधातिथि | अग्निः | गायत्री} दे॒वान् दे᳚वय॒ते य॑ज ||{12/12}{1.15.12}{1.4.4.12}{1.1.29.6}{158, 15, 158} गार्ह॑ऽपत्येन¦स॒न्त्य॒¦ऋ॒तुना᳚¦य॒ज्ञ॒ऽनीः¦अ॒सि॒ | दे॒वान्¦दे॒व॒ऽय॒ते¦य॒ज॒ || |
[16] आत्वावहन्त्विति नवर्चस्य सूक्तस्य काण्वोमेधातिथिरिंद्रोगायत्री | |
आ त्वा᳚ वहन्तु॒ हर॑यो॒ वृष॑णं॒ सोम॑पीतये |{काण्वो मेधातिथि | इन्द्रः | गायत्री} इन्द्र॑ त्वा॒ सूर॑चक्षसः ||{1/9}{1.16.1}{1.4.5.1}{1.1.30.1}{159, 16, 159} आ¦त्वा॒¦व॒ह॒न्तु॒¦हर॑यः¦वृष॑णम्¦सोम॑ऽपीतये | इन्द्र॑¦त्वा॒¦सूर॑ऽचक्षसः || |
इ॒मा धा॒ना घृ॑त॒स्नुवो॒ हरी᳚, इ॒होप॑ वक्षतः |{काण्वो मेधातिथि | इन्द्रः | गायत्री} इन्द्रं᳚ सु॒खत॑मे॒ रथे᳚ ||{2/9}{1.16.2}{1.4.5.2}{1.1.30.2}{160, 16, 160} इ॒माः¦धा॒नाः¦घृ॒त॒ऽस्नुवः॑¦हरी॒ इति॑¦इ॒ह¦उप॑¦व॒क्ष॒तः॒ | इन्द्र᳚म्¦सु॒खऽत॑मे¦रथे᳚ || |
इन्द्रं᳚ प्रा॒तर्ह॑वामह॒ इन्द्रं᳚ प्रय॒त्य॑ध्व॒रे |{काण्वो मेधातिथि | इन्द्रः | गायत्री} इन्द्रं॒ सोम॑स्य पी॒तये᳚ ||{3/9}{1.16.3}{1.4.5.3}{1.1.30.3}{161, 16, 161} इन्द्र᳚म्¦प्रा॒तः¦ह॒वा॒म॒हे॒¦इन्द्र᳚म्¦प्र॒ऽय॒ति¦अ॒ध्व॒रे | इन्द्र᳚म्¦सोम॑स्य¦पी॒तये᳚ || |
उप॑ नः सु॒तमा ग॑हि॒ हरि॑भिरिन्द्र के॒शिभिः॑ |{काण्वो मेधातिथि | इन्द्रः | गायत्री} सु॒ते हि त्वा॒ हवा᳚महे ||{4/9}{1.16.4}{1.4.5.4}{1.1.30.4}{162, 16, 162} उप॑¦नः॒¦सु॒तम्¦आ¦ग॒हि॒¦हरि॑ऽभिः¦इ॒न्द्र॒¦के॒शिऽभिः॑ | सु॒ते¦हि¦त्वा॒¦हवा᳚महे || |
सेमं नः॒ स्तोम॒मा ग॒ह्युपे॒दं सव॑नं सु॒तम् |{काण्वो मेधातिथि | इन्द्रः | गायत्री} गौ॒रो न तृ॑षि॒तः पि॑ब ||{5/9}{1.16.5}{1.4.5.5}{1.1.30.5}{163, 16, 163} सः¦इ॒मम्¦नः॒¦स्तोम᳚म्¦आ¦ग॒हि॒¦उप॑¦इ॒दम्¦सव॑नम्¦सु॒तम् | गौ॒रः¦न¦तृ॒षि॒तः¦पि॒ब॒ || |
इ॒मे सोमा᳚स॒ इन्द॑वः सु॒तासो॒, अधि॑ ब॒र्हिषि॑ |{काण्वो मेधातिथि | इन्द्रः | गायत्री} ताँ, इ᳚न्द्र॒ सह॑से पिब ||{6/9}{1.16.6}{1.4.5.6}{1.1.31.1}{164, 16, 164} इ॒मे¦सोमा᳚सः¦इन्द॑वः¦सु॒तासः॑¦अधि॑¦ब॒र्हिषि॑ | तान्¦इ॒न्द्र॒¦सह॑से¦पि॒ब॒ || |
अ॒यं ते॒ स्तोमो᳚, अग्रि॒यो हृ॑दि॒स्पृग॑स्तु॒ शंत॑मः |{काण्वो मेधातिथि | इन्द्रः | गायत्री} अथा॒ सोमं᳚ सु॒तं पि॑ब ||{7/9}{1.16.7}{1.4.5.7}{1.1.31.2}{165, 16, 165} अ॒यम्¦ते॒¦स्तोमः॑¦अ॒ग्रि॒यः¦हृ॒दि॒ऽस्पृक्¦अ॒स्तु॒¦शम्ऽत॑मः | अथ॑¦सोम᳚म्¦सु॒तम्¦पि॒ब॒ || |
विश्व॒मित्सव॑नं सु॒तमिन्द्रो॒ मदा᳚य गच्छति |{काण्वो मेधातिथि | इन्द्रः | गायत्री} वृ॒त्र॒हा सोम॑पीतये ||{8/9}{1.16.8}{1.4.5.8}{1.1.31.3}{166, 16, 166} विश्व᳚म्¦इत्¦सव॑नम्¦सु॒तम्¦इन्द्रः॑¦मदा᳚य¦ग॒च्छ॒ति॒ | वृ॒त्र॒ऽहा¦सोम॑ऽपीतये || |
सेमं नः॒ काम॒मा पृ॑ण॒ गोभि॒रश्वैः᳚ शतक्रतो |{काण्वो मेधातिथि | इन्द्रः | गायत्री} स्तवा᳚म त्वा स्वा॒ध्यः॑ ||{9/9}{1.16.9}{1.4.5.9}{1.1.31.4}{167, 16, 167} सः¦इ॒मम्¦नः॒¦काम᳚म्¦आ¦पृ॒ण॒¦गोभिः॑¦अश्वैः᳚¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | स्तवा᳚म¦त्वा॒¦सु॒ऽआ॒ध्यः॑ || |
[17] इंद्रावरुणयोरिति नवर्चस्य सूक्तस्य काण्वोमेधातिथिरिंद्रावरुणौगायत्री | युवाकुहिद्वृचौपादनिचूतौ (इंद्रः सहस्रेतिह्रसीयसी वा} |
इन्द्रा॒वरु॑णयोर॒हं स॒म्राजो॒रव॒ आ वृ॑णे |{काण्वो मेधातिथि | इन्द्रावरुणौ | गायत्री} ता नो᳚ मृळात ई॒दृशे᳚ ||{1/9}{1.17.1}{1.4.6.1}{1.1.32.1}{168, 17, 168} इन्द्रा॒वरु॑णयोः¦अ॒हम्¦स॒म्ऽराजोः᳚¦अवः॑¦आ¦वृ॒णे॒ | ता¦नः॒¦मृ॒ळा॒तः॒¦ई॒दृशे᳚ || |
गन्ता᳚रा॒ हि स्थोव॑से॒ हवं॒ विप्र॑स्य॒ माव॑तः |{काण्वो मेधातिथि | इन्द्रावरुणौ | गायत्री} ध॒र्तारा᳚ चर्षणी॒नाम् ||{2/9}{1.17.2}{1.4.6.2}{1.1.32.2}{169, 17, 169} गन्ता᳚रा¦हि¦स्थः¦अव॑से¦हव᳚म्¦विप्र॑स्य¦माव॑तः | ध॒र्तारा᳚¦च॒र्ष॒णी॒नाम् || |
अ॒नु॒का॒मं त॑र्पयेथा॒मिन्द्रा᳚वरुण रा॒य आ |{काण्वो मेधातिथि | इन्द्रावरुणौ | गायत्री} ता वां॒ नेदि॑ष्ठमीमहे ||{3/9}{1.17.3}{1.4.6.3}{1.1.32.3}{170, 17, 170} अ॒नु॒ऽका॒मम्¦त॒र्प॒ये॒था॒म्¦इन्द्रा᳚वरुणा¦रा॒यः¦आ | ता¦वा॒म्¦नेदि॑ष्ठम्¦ई॒म॒हे॒ || |
यु॒वाकु॒ हि शची᳚नां यु॒वाकु॑ सुमती॒नाम् |{काण्वो मेधातिथि | इन्द्रावरुणौ | पादानिचृत्गायत्री} भू॒याम॑ वाज॒दाव्ना᳚म् ||{4/9}{1.17.4}{1.4.6.4}{1.1.32.4}{171, 17, 171} यु॒वाकु॑¦हि¦शची᳚नाम्¦यु॒वाकु॑¦सु॒ऽम॒ती॒नाम् | भू॒याम॑¦वा॒ज॒ऽदाव्ना᳚म् || |
इन्द्रः॑ सहस्र॒दाव्नां॒ वरु॑णः॒ शंस्या᳚नाम् |{काण्वो मेधातिथि | इन्द्रावरुणौ | पादानिचृत्गायत्री} क्रतु॑र्भवत्यु॒क्थ्यः॑ ||{5/9}{1.17.5}{1.4.6.5}{1.1.32.5}{172, 17, 172} इन्द्रः॑¦स॒ह॒स्र॒ऽदाव्ना᳚म्¦वरु॑णः¦शंस्या᳚नाम् | क्रतुः॑¦भ॒व॒ति॒¦उ॒क्थ्यः॑ || |
तयो॒रिदव॑सा व॒यं स॒नेम॒ नि च॑ धीमहि |{काण्वो मेधातिथि | इन्द्रावरुणौ | गायत्री} स्यादु॒त प्र॒रेच॑नम् ||{6/9}{1.17.6}{1.4.6.6}{1.1.33.1}{173, 17, 173} तयोः᳚¦इत्¦अव॑सा¦व॒यम्¦स॒नेम॑¦नि¦च॒¦धी॒म॒हि॒ | स्यात्¦उ॒त¦प्र॒ऽरेच॑नम् || |
इन्द्रा᳚वरुण वाम॒हं हु॒वे चि॒त्राय॒ राध॑से |{काण्वो मेधातिथि | इन्द्रावरुणौ | गायत्री} अ॒स्मान् त्सु जि॒ग्युष॑स्कृतम् ||{7/9}{1.17.7}{1.4.6.7}{1.1.33.2}{174, 17, 174} इन्द्रा᳚वरुणा¦वा॒म्¦अ॒हम्¦हु॒वे¦चि॒त्राय॑¦राध॑से | अ॒स्मान्¦सु¦जि॒ग्युषः॑¦कृ॒त॒म् || |
इन्द्रा᳚वरुण॒ नू नु वां॒ सिषा᳚सन्तीषु धी॒ष्वा |{काण्वो मेधातिथि | इन्द्रावरुणौ | गायत्री} अ॒स्मभ्यं॒ शर्म॑ यच्छतम् ||{8/9}{1.17.8}{1.4.6.8}{1.1.33.3}{175, 17, 175} इन्द्रा᳚वरुणा¦नु¦नु¦वा॒म्¦सिसा᳚सन्तीषु¦धी॒षु¦आ | अ॒स्मभ्य᳚म्¦शर्म॑¦य॒च्छ॒त॒म् || |
प्र वा᳚मश्नोतु सुष्टु॒तिरिन्द्रा᳚वरुण॒ यां हु॒वे |{काण्वो मेधातिथि | इन्द्रावरुणौ | गायत्री} यामृ॒धाथे᳚ स॒धस्तु॑तिम् ||{9/9}{1.17.9}{1.4.6.9}{1.1.33.4}{176, 17, 176} प्र¦वा॒म्¦अ॒श्नो॒तु॒¦सु॒ऽस्तु॒तिः¦इन्द्रा᳚वरुणा¦याम्¦हु॒वे | याम्¦ऋ॒धाथे॒ इति॑¦स॒धऽस्तु॑तिम् || |
[18] सोमानमिति नवर्चस्य सूक्तस्य काण्वो मेधातिथिः आद्यानांतिसृणाम्ब्रह्मणस्पतिः चतुर्थ्याइंद्रसोमब्रह्मणस्पतयः पंचम्याइंद्र सोम ब्रह्मणस्पतयोदक्षिणाच ततश्चतसृणांसदसस्पतिः (अंत्यायानराशंसोवा) गायत्री | |
सो॒मानं॒ स्वर॑णं कृणु॒हि ब्र᳚ह्मणस्पते |{काण्वो मेधातिथि | ब्रह्मणस्पतिः | गायत्री} क॒क्षीव᳚न्तं॒ य औ᳚शि॒जः ||{1/9}{1.18.1}{1.5.1.1}{1.1.34.1}{177, 18, 177} सो॒मान᳚म्¦स्वर॑णम्¦कृ॒णु॒हि¦ब्र॒ह्म॒णः॒¦प॒ते॒ | क॒क्षीव᳚न्तम्¦यः¦औ॒शि॒जः || |
यो रे॒वान्यो, अ॑मीव॒हा व॑सु॒वित् पु॑ष्टि॒वर्ध॑नः |{काण्वो मेधातिथि | ब्रह्मणस्पतिः | गायत्री} स नः॑ सिषक्तु॒ यस्तु॒रः ||{2/9}{1.18.2}{1.5.1.2}{1.1.34.2}{178, 18, 178} यः¦रे॒वान्¦यः¦अ॒मी॒व॒ऽहा¦व॒सु॒ऽवित्¦पु॒ष्टि॒ऽवर्ध॑नः | सः¦नः॒¦सि॒स॒क्तु॒¦यः¦तु॒रः || |
मा नः॒ शंसो॒, अर॑रुषो धू॒र्तिः प्रण॒ङ् मर्त्य॑स्य |{काण्वो मेधातिथि | ब्रह्मणस्पतिः | गायत्री} रक्षा᳚ णो ब्रह्मणस्पते ||{3/9}{1.18.3}{1.5.1.3}{1.1.34.3}{179, 18, 179} मा¦नः॒¦शंसः॑¦अर॑रुषः¦धू॒र्तिः¦प्रण॑क्¦मर्त्य॑स्य | रक्ष॑¦नः॒¦ब्र॒ह्म॒णः॒¦प॒ते॒ || |
स घा᳚ वी॒रो न रि॑ष्यति॒ यमिन्द्रो॒ ब्रह्म॑ण॒स्पतिः॑ |{काण्वो मेधातिथि | इन्द्र सोम ब्रह्मणस्पतिः | गायत्री} सोमो᳚ हि॒नोति॒ मर्त्य᳚म् ||{4/9}{1.18.4}{1.5.1.4}{1.1.34.4}{180, 18, 180} सः¦घ॒¦वी॒रः¦न¦रि॒ष्य॒ति॒¦यम्¦इन्द्रः॑¦ब्रह्म॑णः¦पतिः॑ | सोमः॑¦हि॒नोति॑¦मर्त्य᳚म् || |
त्वं तं ब्र᳚ह्मणस्पते॒ सोम॒ इन्द्र॑श्च॒ मर्त्य᳚म् |{काण्वो मेधातिथि | इन्द्र सोम ब्रह्मणस्पतयो दक्षिणा | गायत्री} दक्षि॑णा पा॒त्वंह॑सः ||{5/9}{1.18.5}{1.5.1.5}{1.1.34.5}{181, 18, 181} त्वम्¦तम्¦ब्र॒ह्म॒णः॒¦प॒ते॒¦सोमः॑¦इन्द्रः॑¦च॒¦मर्त्य᳚म् | दक्षि॑णा¦पा॒तु॒¦अंह॑सः || |
सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य᳚म् |{काण्वो मेधातिथि | सदसस्पतिः | गायत्री} स॒निं मे॒धाम॑यासिषम् ||{6/9}{1.18.6}{1.5.1.6}{1.1.35.1}{182, 18, 182} सद॑सः¦पति᳚म्¦अद्भु॑तम्¦प्रि॒यम्¦इन्द्र॑स्य¦काम्य᳚म् | स॒निम्¦मे॒धाम्¦अ॒या॒सि॒ष॒म् || |
यस्मा᳚दृ॒ते न सिध्य॑ति य॒ज्ञो वि॑प॒श्चित॑श्च॒न |{काण्वो मेधातिथि | सदसस्पतिः | गायत्री} स धी॒नां योग॑मिन्वति ||{7/9}{1.18.7}{1.5.1.7}{1.1.35.2}{183, 18, 183} यस्मा᳚त्¦ऋ॒ते¦न¦सिध्य॑ति¦य॒ज्ञः¦वि॒पः॒ऽचितः॑¦च॒न | सः¦धी॒नाम्¦योग᳚म्¦इ॒न्व॒ति॒ || |
आदृ॑ध्नोति ह॒विष्कृ॑तिं॒ प्राञ्चं᳚ कृणोत्यध्व॒रम् |{काण्वो मेधातिथि | सदसस्पतिः | गायत्री} होत्रा᳚ दे॒वेषु॑ गच्छति ||{8/9}{1.18.8}{1.5.1.8}{1.1.35.3}{184, 18, 184} आत्¦ऋ॒ध्नो॒ति॒¦ह॒विःऽकृ॑तिम्¦प्रांच᳚म्¦कृ॒णो॒ति॒¦अ॒ध्व॒रम् | होत्रा᳚¦दे॒वेषु॑¦ग॒च्छ॒ति॒ || |
नरा॒शंसं᳚ सु॒धृष्ट॑म॒मप॑श्यं स॒प्रथ॑स्तमम् |{काण्वो मेधातिथि | नराशंसः | गायत्री} दि॒वो न सद्म॑मखसम् ||{9/9}{1.18.9}{1.5.1.9}{1.1.35.4}{185, 18, 185} नरा॒शंस᳚म्¦सु॒ऽधृष्ट॑मम्¦अप॑श्यम्¦स॒प्रथः॑ऽतमम् | दि॒वः¦न¦सद्म॑ऽमखसम् || |
[19] प्रतित्यमिति नवर्चस्य सूक्तस्य काण्वोमेधातिथिरग्नामरुतोगायत्री | |
प्रति॒ त्यं चारु॑मध्व॒रं गो᳚पी॒थाय॒ प्र हू᳚यसे |{काण्वो मेधातिथि | अग्निर्मरुतश्च | गायत्री} म॒रुद्भि॑रग्न॒ आ ग॑हि ||{1/9}{1.19.1}{1.5.2.1}{1.1.36.1}{186, 19, 186} प्रति॑¦त्यम्¦चारु᳚म्¦अ॒ध्व॒रम्¦गो॒ऽपी॒थाय॑¦प्र¦हू॒य॒से॒ | म॒रुत्ऽभिः॑¦अ॒ग्ने॒¦आ¦ग॒हि॒ || |
न॒हि दे॒वो न मर्त्यो᳚ म॒हस्तव॒ क्रतुं᳚ प॒रः |{काण्वो मेधातिथि | अग्निर्मरुतश्च | गायत्री} म॒रुद्भि॑रग्न॒ आ ग॑हि ||{2/9}{1.19.2}{1.5.2.2}{1.1.36.2}{187, 19, 187} न॒हि¦दे॒वः¦न¦मर्त्यः॑¦म॒हः¦तव॑¦क्रतु᳚म्¦प॒रः | म॒रुत्ऽभिः॑¦अ॒ग्ने॒¦आ¦ग॒हि॒ || |
ये म॒हो रज॑सो वि॒दुर्विश्वे᳚ दे॒वासो᳚, अ॒द्रुहः॑ |{काण्वो मेधातिथि | अग्निर्मरुतश्च | गायत्री} म॒रुद्भि॑रग्न॒ आ ग॑हि ||{3/9}{1.19.3}{1.5.2.3}{1.1.36.3}{188, 19, 188} ये¦म॒हः¦रज॑सः¦वि॒दुः¦विश्वे᳚¦दे॒वासः॑¦अ॒द्रुहः॑ | म॒रुत्ऽभिः॑¦अ॒ग्ने॒¦आ¦ग॒हि॒ || |
य उ॒ग्रा, अ॒र्कमा᳚नृ॒चुरना᳚धृष्टास॒ ओज॑सा |{काण्वो मेधातिथि | अग्निर्मरुतश्च | गायत्री} म॒रुद्भि॑रग्न॒ आ ग॑हि ||{4/9}{1.19.4}{1.5.2.4}{1.1.36.4}{189, 19, 189} ये¦उ॒ग्राः¦अ॒र्कम्¦आ॒नृ॒चुः¦अना᳚धृष्टासः¦ओज॑सा | म॒रुत्ऽभिः॑¦अ॒ग्ने॒¦आ¦ग॒हि॒ || |
ये शु॒भ्रा घो॒रव॑र्पसः सुक्ष॒त्रासो᳚ रि॒शाद॑सः |{काण्वो मेधातिथि | अग्निर्मरुतश्च | गायत्री} म॒रुद्भि॑रग्न॒ आ ग॑हि ||{5/9}{1.19.5}{1.5.2.5}{1.1.36.5}{190, 19, 190} ये¦शु॒भ्राः¦घो॒रऽव॑र्पसः¦सु॒ऽक्ष॒त्रासः॑¦रि॒शाद॑सः | म॒रुत्ऽभिः॑¦अ॒ग्ने॒¦आ¦ग॒हि॒ || |
ये नाक॒स्याधि॑ रोच॒ने दि॒वि दे॒वास॒ आस॑ते |{काण्वो मेधातिथि | अग्निर्मरुतश्च | गायत्री} म॒रुद्भि॑रग्न॒ आ ग॑हि ||{6/9}{1.19.6}{1.5.2.6}{1.1.37.1}{191, 19, 191} ये¦नाक॑स्य¦अधि॑¦रो॒च॒ने¦दि॒वि¦दे॒वासः॑¦आस॑ते | म॒रुत्ऽभिः॑¦अ॒ग्ने॒¦आ¦ग॒हि॒ || |
य ई॒ङ्खय᳚न्ति॒ पर्व॑तान् ति॒रः स॑मु॒द्रम᳚र्ण॒वम् |{काण्वो मेधातिथि | अग्निर्मरुतश्च | गायत्री} म॒रुद्भि॑रग्न॒ आ ग॑हि ||{7/9}{1.19.7}{1.5.2.7}{1.1.37.2}{192, 19, 192} ये¦ई॒ङ्खय᳚न्ति¦पर्व॑तान्¦ति॒रः¦स॒मु॒द्रम्¦अ॒र्ण॒वम् | म॒रुत्ऽभिः॑¦अ॒ग्ने॒¦आ¦ग॒हि॒ || |
आ ये त॒न्वन्ति॑ र॒श्मिभि॑स् ति॒रः स॑मु॒द्रमोज॑सा |{काण्वो मेधातिथि | अग्निर्मरुतश्च | गायत्री} म॒रुद्भि॑रग्न॒ आ ग॑हि ||{8/9}{1.19.8}{1.5.2.8}{1.1.37.3}{193, 19, 193} आ¦ये¦त॒न्वन्ति॑¦र॒श्मिऽभिः॑¦ति॒रः¦स॒मु॒द्रम्¦ओज॑सा | म॒रुत्ऽभिः॑¦अ॒ग्ने॒¦आ¦ग॒हि॒ || |
अ॒भि त्वा᳚ पू॒र्वपी᳚तये सृ॒जामि॑ सो॒म्यं मधु॑ |{काण्वो मेधातिथि | अग्निर्मरुतश्च | गायत्री} म॒रुद्भि॑रग्न॒ आ ग॑हि ||{9/9}{1.19.9}{1.5.2.9}{1.1.37.4}{194, 19, 194} अ॒भि¦त्वा॒¦पू॒र्वऽपी᳚तये¦सृ॒जामि॑¦सो॒म्यम्¦मधु॑ | म॒रुत्ऽभिः॑¦अ॒ग्ने॒¦आ¦ग॒हि॒ || |
[20] अयंदेवायेत्यष्टर्चस्य सूक्तस्य काण्वो मेधातिथिरृभवो गायत्री | |
अ॒यं दे॒वाय॒ जन्म॑ने॒ स्तोमो॒ विप्रे᳚भिरास॒या |{काण्वो मेधातिथि | ऋभवः | गायत्री} अका᳚रि रत्न॒धात॑मः ||{1/8}{1.20.1}{1.5.3.1}{1.2.1.1}{195, 20, 195} अ॒यम्¦दे॒वाय॑¦जन्म॑ने¦स्तोमः॑¦विप्रे᳚भिः¦आ॒स॒या | अका᳚रि¦र॒त्न॒ऽधात॑मः || |
य इन्द्रा᳚य वचो॒युजा᳚ तत॒क्षुर्मन॑सा॒ हरी᳚ |{काण्वो मेधातिथि | ऋभवः | गायत्री} शमी᳚भिर्य॒ज्ञमा᳚शत ||{2/8}{1.20.2}{1.5.3.2}{1.2.1.2}{196, 20, 196} ये¦इन्द्रा᳚य¦व॒चः॒ऽयुजा᳚¦त॒त॒क्षुः¦मन॑सा¦हरी॒ इति॑ | शमी᳚भिः¦य॒ज्ञम्¦आ॒श॒त॒ || |
तक्ष॒न्नास॑त्याभ्यां॒ परि॑ज्मानं सु॒खं रथ᳚म् |{काण्वो मेधातिथि | ऋभवः | गायत्री} तक्ष᳚न् धे॒नुं स॑ब॒र्दुघा᳚म् ||{3/8}{1.20.3}{1.5.3.3}{1.2.1.3}{197, 20, 197} तक्ष॑न्¦नास॑त्याभ्याम्¦परि॑ऽज्मानम्¦सु॒ऽखम्¦रथ᳚म् | तक्ष॑न्¦धे॒नुम्¦स॒बः॒ऽदुघा᳚म् || |
युवा᳚ना पि॒तरा॒ पुनः॑ स॒त्यम᳚न्त्रा, ऋजू॒यवः॑ |{काण्वो मेधातिथि | ऋभवः | गायत्री} ऋ॒भवो᳚ वि॒ष्ट्य॑क्रत ||{4/8}{1.20.4}{1.5.3.4}{1.2.1.4}{198, 20, 198} युवा᳚ना¦पि॒तरा᳚¦पुन॒रिति॑¦स॒त्यऽम᳚न्त्राः¦ऋ॒जु॒ऽयवः॑ | ऋ॒भवः॑¦वि॒ष्टी¦अ॒क्र॒त॒ || |
सं वो॒ मदा᳚सो, अग्म॒तेन्द्रे᳚ण च म॒रुत्व॑ता |{काण्वो मेधातिथि | ऋभवः | गायत्री} आ॒दि॒त्येभि॑श्च॒ राज॑भिः ||{5/8}{1.20.5}{1.5.3.5}{1.2.1.5}{199, 20, 199} सम्¦वः॒¦मदा᳚सः¦अ॒ग्म॒त॒¦इन्द्रे᳚ण¦च॒¦म॒रुत्व॑ता | आ॒दि॒त्येभिः॑¦च॒¦राज॑ऽभिः || |
उ॒त त्यं च॑म॒सं नवं॒ त्वष्टु॑र्दे॒वस्य॒ निष्कृ॑तम् |{काण्वो मेधातिथि | ऋभवः | गायत्री} अक॑र्त च॒तुरः॒ पुनः॑ ||{6/8}{1.20.6}{1.5.3.6}{1.2.2.1}{200, 20, 200} उ॒त¦त्यम्¦च॒म॒सम्¦नव᳚म्¦त्वष्टुः॑¦दे॒वस्य॑¦निःऽकृ॑तम् | अक॑र्त¦च॒तुरः॑¦पुन॒रिति॑ || |
ते नो॒ रत्ना᳚नि धत्तन॒ त्रिरा साप्ता᳚नि सुन्व॒ते |{काण्वो मेधातिथि | ऋभवः | गायत्री} एक॑मेकं सुश॒स्तिभिः॑ ||{7/8}{1.20.7}{1.5.3.7}{1.2.2.2}{201, 20, 201} ते¦नः॒¦रत्ना᳚नि¦ध॒त्त॒न॒¦त्रिः¦आ¦साप्ता᳚नि¦सु॒न्व॒ते | एक᳚म्ऽएकम्¦सु॒श॒स्तिऽभिः॑ || |
अधा᳚रयन्त॒ वह्न॒यो ऽभ॑जन्त सुकृ॒त्यया᳚ |{काण्वो मेधातिथि | ऋभवः | गायत्री} भा॒गं दे॒वेषु॑ य॒ज्ञिय᳚म् ||{8/8}{1.20.8}{1.5.3.8}{1.2.2.3}{202, 20, 202} अधा᳚रयन्त¦वह्न॑यः¦अभ॑जन्त¦सु॒ऽकृ॒त्यया᳚ | भा॒गम्¦दे॒वेषु॑¦य॒ज्ञिय᳚म् || |
[21] इहेंद्राग्नीइति षळर्चस्य सूक्तस्य काण्वोमेधातिथिरिंद्राग्नीगायत्री | |
इ॒हेन्द्रा॒ग्नी, उप॑ ह्वये॒ तयो॒रित् स्तोम॑मुश्मसि |{काण्वो मेधातिथि | इन्द्राग्नी | गायत्री} ता सोमं᳚ सोम॒पात॑मा ||{1/6}{1.21.1}{1.5.4.1}{1.2.3.1}{203, 21, 203} इ॒ह¦इ॒न्द्रा॒ग्नी इति॑¦उप॑¦ह्व॒ये॒¦तयोः᳚¦इत्¦स्तोम᳚म्¦उ॒श्म॒सि॒ | ता¦सोम᳚म्¦सो॒म॒ऽपात॑मा || |
ता य॒ज्ञेषु॒ प्र शं᳚सतेन्द्रा॒ग्नी शु᳚म्भता नरः |{काण्वो मेधातिथि | इन्द्राग्नी | गायत्री} ता गा᳚य॒त्रेषु॑ गायत ||{2/6}{1.21.2}{1.5.4.2}{1.2.3.2}{204, 21, 204} ता¦य॒ज्ञेषु॑¦प्र¦शं॒स॒त॒¦इ॒न्द्रा॒ग्नी इति॑¦शु॒म्भ॒त॒¦न॒रः॒ | ता¦गा॒य॒त्रेषु॑¦गा॒य॒त॒ || |
ता मि॒त्रस्य॒ प्रश॑स्तय इन्द्रा॒ग्नी ता ह॑वामहे |{काण्वो मेधातिथि | इन्द्राग्नी | गायत्री} सो॒म॒पा सोम॑पीतये ||{3/6}{1.21.3}{1.5.4.3}{1.2.3.3}{205, 21, 205} ता¦मि॒त्रस्य॑¦प्रऽश॑स्तये¦इ॒न्द्रा॒ग्नी इति॑¦ता¦ह॒वा॒म॒हे॒ | सो॒म॒ऽपा¦सोम॑ऽपीतये || |
उ॒ग्रा सन्ता᳚ हवामह॒ उपे॒दं सव॑नं सु॒तम् |{काण्वो मेधातिथि | इन्द्राग्नी | गायत्री} इ॒न्द्रा॒ग्नी, एह ग॑च्छताम् ||{4/6}{1.21.4}{1.5.4.4}{1.2.3.4}{206, 21, 206} उ॒ग्रा¦सन्ता᳚¦ह॒वा॒म॒हे॒¦उप॑¦इ॒दम्¦सव॑नम्¦सु॒तम् | इ॒न्द्रा॒ग्नी इति॑¦आ¦इ॒ह¦ग॒च्छ॒ता॒म् || |
ता म॒हान्ता॒ सद॒स्पती॒, इन्द्रा᳚ग्नी॒ रक्ष॑ उब्जतम् |{काण्वो मेधातिथि | इन्द्राग्नी | गायत्री} अप्र॑जाः सन्त्व॒त्रिणः॑ ||{5/6}{1.21.5}{1.5.4.5}{1.2.3.5}{207, 21, 207} ता¦म॒हान्ता᳚¦सद॒स्पती॒ इति॑¦इन्द्रा᳚ग्नी॒ इति॑¦रक्षः॑¦उ॒ब्ज॒त॒म् | अप्र॑जाः¦स॒न्तु॒¦अ॒त्रिणः॑ || |
तेन॑ स॒त्येन॑ जागृत॒मधि॑ प्रचे॒तुने᳚ प॒दे |{काण्वो मेधातिथि | इन्द्राग्नी | गायत्री} इन्द्रा᳚ग्नी॒ शर्म॑ यच्छतम् ||{6/6}{1.21.6}{1.5.4.6}{1.2.3.6}{208, 21, 208} तेन॑¦स॒त्येन॑¦जा॒गृ॒त॒म्¦अधि॑¦प्र॒ऽचे॒तुने᳚¦प॒दे | इन्द्रा᳚ग्नी॒ इति॑¦शर्म॑¦य॒च्छ॒त॒म् || |
[22] प्रातर्युजेत्येकविंशत्यृचस्य सूक्तस्य काण्वोमेधातिथिः आद्यानां चतसृणामश्विनौ ततश्चतसृणांसविता ततोद्वयोरग्निः ततएकस्यादेव्यः ततएकस्याइंद्राणी वरुणान्यग्नाय्यः ततोद्वयोर्द्यावापृथिव्यौ ततएकस्याःपृथिवी ततःषण्णां विष्णुः (अतोदेवाइत्यस्यादेवावा ) गायत्री | |
प्रा॒त॒र्युजा॒ वि बो᳚धया॒श्विना॒वेह ग॑च्छताम् |{काण्वो मेधातिथि | अश्विनौ | गायत्री} अ॒स्य सोम॑स्य पी॒तये᳚ ||{1/21}{1.22.1}{1.5.5.1}{1.2.4.1}{209, 22, 209} प्रा॒तः॒ऽयुजा᳚¦वि¦बो॒ध॒य॒¦अ॒श्विनौ᳚¦आ¦इ॒ह¦ग॒च्छ॒ता॒म् | अ॒स्य¦सोम॑स्य¦पी॒तये᳚ || |
या सु॒रथा᳚ र॒थीत॑मो॒भा दे॒वा दि॑वि॒स्पृशा᳚ |{काण्वो मेधातिथि | अश्विनौ | गायत्री} अ॒श्विना॒ ता ह॑वामहे ||{2/21}{1.22.2}{1.5.5.2}{1.2.4.2}{210, 22, 210} या¦सु॒ऽरथा᳚¦र॒थिऽत॑मा¦उ॒भा¦दे॒वा¦दि॒वि॒ऽस्पृशा᳚ | अ॒श्विना᳚¦ता¦ह॒वा॒म॒हे॒ || |
या वां॒ कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता᳚वती |{काण्वो मेधातिथि | अश्विनौ | गायत्री} तया᳚ य॒ज्ञं मि॑मिक्षतम् ||{3/21}{1.22.3}{1.5.5.3}{1.2.4.3}{211, 22, 211} या¦वा॒म्¦कशा᳚¦मधु॑ऽमती¦अश्वि॑ना¦सू॒नृता᳚ऽवती | तया᳚¦य॒ज्ञम्¦मि॒मि॒क्ष॒त॒म् || |
न॒हि वा॒मस्ति॑ दूर॒के यत्रा॒ रथे᳚न॒ गच्छ॑थः |{काण्वो मेधातिथि | अश्विनौ | गायत्री} अश्वि॑ना सो॒मिनो᳚ गृ॒हम् ||{4/21}{1.22.4}{1.5.5.4}{1.2.4.4}{212, 22, 212} न॒हि¦वा॒म्¦अस्ति॑¦दू॒र॒के¦यत्र॑¦रथे᳚न¦गच्छ॑थः | अश्वि॑ना¦सो॒मिनः॑¦गृ॒हम् || |
हिर᳚ण्यपाणिमू॒तये᳚ सवि॒तार॒मुप॑ ह्वये |{काण्वो मेधातिथि | सविता | गायत्री} स चेत्ता᳚ दे॒वता᳚ प॒दम् ||{5/21}{1.22.5}{1.5.5.5}{1.2.4.5}{213, 22, 213} हिर᳚ण्यऽपाणिम्¦ऊ॒तये᳚¦स॒वि॒तार᳚म्¦उप॑¦ह्व॒ये॒ | सः¦चेत्ता᳚¦दे॒वता᳚¦प॒दम् || |
अ॒पां नपा᳚त॒मव॑से सवि॒तार॒मुप॑ स्तुहि |{काण्वो मेधातिथि | सविता | गायत्री} तस्य᳚ व्र॒तान्यु॑श्मसि ||{6/21}{1.22.6}{1.5.5.6}{1.2.5.1}{214, 22, 214} अ॒पाम्¦नपा᳚तम्¦अव॑से¦स॒वि॒तार᳚म्¦उप॑¦स्तु॒हि॒ | तस्य॑¦व्र॒तानि॑¦उ॒श्म॒सि॒ || |
वि॒भ॒क्तारं᳚ हवामहे॒ वसो᳚श्चि॒त्रस्य॒ राध॑सः |{काण्वो मेधातिथि | सविता | गायत्री} स॒वि॒तारं᳚ नृ॒चक्ष॑सम् ||{7/21}{1.22.7}{1.5.5.7}{1.2.5.2}{215, 22, 215} वि॒ऽभ॒क्तार᳚म्¦ह॒वा॒म॒हे॒¦वसोः᳚¦चि॒त्रस्य॑¦राध॑सः | स॒वि॒तार᳚म्¦नृ॒ऽचक्ष॑सम् || |
सखा᳚य॒ आ नि षी᳚दत सवि॒ता स्तोम्यो॒ नु नः॑ |{काण्वो मेधातिथि | सविता | गायत्री} दाता॒ राधां᳚सि शुम्भति ||{8/21}{1.22.8}{1.5.5.8}{1.2.5.3}{216, 22, 216} सखा᳚यः¦आ¦नि¦सी॒द॒त॒¦स॒वि॒ता¦स्तोम्यः॑¦नु¦नः॒ | दाता᳚¦राधां᳚सि¦शु॒म्भ॒ति॒ || |
अग्ने॒ पत्नी᳚रि॒हा व॑ह दे॒वाना᳚मुश॒तीरुप॑ |{काण्वो मेधातिथि | अग्निः | गायत्री} त्वष्टा᳚रं॒ सोम॑पीतये ||{9/21}{1.22.9}{1.5.5.9}{1.2.5.4}{217, 22, 217} अग्ने᳚¦पत्नीः᳚¦इ॒ह¦आ¦व॒ह॒¦दे॒वाना᳚म्¦उ॒श॒तीः¦उप॑ | त्वष्टा᳚रम्¦सोम॑ऽपीतये || |
आ ग्ना, अ॑ग्न इ॒हाव॑से॒ होत्रां᳚ यविष्ठ॒ भार॑तीम् |{काण्वो मेधातिथि | अग्निः | गायत्री} वरू᳚त्रीं धि॒षणां᳚ वह ||{10/21}{1.22.10}{1.5.5.10}{1.2.5.5}{218, 22, 218} आ¦ग्नाः¦अ॒ग्ने॒¦इ॒ह¦अव॑से¦होत्रा᳚म्¦य॒वि॒ष्ठ॒¦भार॑तीम् | वरू᳚त्रीम्¦धि॒षणा᳚म्¦व॒ह॒ || |
अ॒भि नो᳚ दे॒वीरव॑सा म॒हः शर्म॑णा नृ॒पत्नीः᳚ |{काण्वो मेधातिथि | देव्यः | गायत्री} अच्छि᳚न्नपत्राः सचन्ताम् ||{11/21}{1.22.11}{1.5.5.11}{1.2.6.1}{219, 22, 219} अ॒भि¦नः॒¦दे॒वीः¦अव॑सा¦म॒हः¦शर्म॑णा¦नृ॒ऽपत्नीः᳚ | अच्छि᳚न्नऽपत्राः¦स॒च॒न्ता॒म् || |
इ॒हेन्द्रा॒णीमुप॑ ह्वये वरुणा॒नीं स्व॒स्तये᳚ |{काण्वो मेधातिथि | इन्द्राणीवरुणान्यग्नाय्यः | गायत्री} अ॒ग्नायीं॒ सोम॑पीतये ||{12/21}{1.22.12}{1.5.5.12}{1.2.6.2}{220, 22, 220} इ॒ह¦इ॒न्द्रा॒णीम्¦उप॑¦ह्व॒ये॒¦व॒रु॒णा॒नीम्¦स्व॒स्तये᳚ | अ॒ग्नायी᳚म्¦सोम॑ऽपीतये || |
म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् |{काण्वो मेधातिथि | द्यावापृथिव्यौ | गायत्री} पि॒पृ॒तां नो॒ भरी᳚मभिः ||{13/21}{1.22.13}{1.5.5.13}{1.2.6.3}{221, 22, 221} म॒ही¦द्यौः¦पृ॒थि॒वी¦च॒¦नः॒¦इ॒मम्¦य॒ज्ञम्¦मि॒मि॒क्ष॒ता॒म् | पि॒पृ॒ताम्¦नः॒¦भरी᳚मऽभिः || |
तयो॒रिद् घृ॒तव॒त् पयो॒ विप्रा᳚ रिहन्ति धी॒तिभिः॑ |{काण्वो मेधातिथि | द्यावापृथिव्यौ | गायत्री} ग॒न्ध॒र्वस्य॑ ध्रु॒वे प॒दे ||{14/21}{1.22.14}{1.5.5.14}{1.2.6.4}{222, 22, 222} तयोः᳚¦इत्¦घृ॒तऽव॑त्¦पयः॑¦विप्राः᳚¦रि॒ह॒न्ति॒¦धी॒तिऽभिः॑ | ग॒न्ध॒र्वस्य॑¦ध्रु॒वे¦प॒दे || |
स्यो॒ना पृ॑थिवि भवानृक्ष॒रा नि॒वेश॑नी |{काण्वो मेधातिथि | पृथिवी | गायत्री} यच्छा᳚ नः॒ शर्म॑ स॒प्रथः॑ ||{15/21}{1.22.15}{1.5.5.15}{1.2.6.5}{223, 22, 223} स्यो॒ना¦पृ॒थि॒वि॒¦भ॒व॒¦अ॒नृ॒क्ष॒रा¦नि॒ऽवेश॑नी | यच्छ॑¦नः॒¦शर्म॑¦स॒ऽप्रथः॑ || |
अतो᳚ दे॒वा, अ॑वन्तु नो॒ यतो॒ विष्णु᳚र्विचक्र॒मे |{काण्वो मेधातिथि | विष्णुर्देवो वा | गायत्री} पृ॒थि॒व्याः स॒प्त धाम॑भिः ||{16/21}{1.22.16}{1.5.5.16}{1.2.7.1}{224, 22, 224} अतः॑¦दे॒वाः¦अ॒व॒न्तु॒¦नः॒¦यतः॑¦विष्णुः॑¦वि॒ऽच॒क्र॒मे | पृ॒थि॒व्याः¦स॒प्त¦धाम॑ऽभिः || |
इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् |{काण्वो मेधातिथि | विष्णुः | गायत्री} समू᳚ळ्हमस्य पांसु॒रे ||{17/21}{1.22.17}{1.5.5.17}{1.2.7.2}{225, 22, 225} इ॒दम्¦विष्णुः॑¦वि¦च॒क्र॒मे॒¦त्रे॒धा¦नि¦द॒धे॒¦प॒दम् | सम्ऽऊ᳚ळ्हम्¦अ॒स्य॒¦पां॒सु॒रे || |
त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा, अदा᳚भ्यः |{काण्वो मेधातिथि | विष्णुः | गायत्री} अतो॒ धर्मा᳚णि धा॒रय॑न् ||{18/21}{1.22.18}{1.5.5.18}{1.2.7.3}{226, 22, 226} त्रीणि॑¦प॒दा¦वि¦च॒क्र॒मे॒¦विष्णुः॑¦गो॒पाः¦अदा᳚भ्यः | अतः॑¦धर्मा᳚णि¦धा॒रय॑न् || |
विष्णोः॒ कर्मा᳚णि पश्यत॒ यतो᳚ व्र॒तानि॑ पस्प॒शे |{काण्वो मेधातिथि | विष्णुः | गायत्री} इन्द्र॑स्य॒ युज्यः॒ सखा᳚ ||{19/21}{1.22.19}{1.5.5.19}{1.2.7.4}{227, 22, 227} विष्णोः᳚¦कर्मा᳚णि¦प॒श्य॒त॒¦यतः॑¦व्र॒तानि॑¦प॒स्प॒शे | इन्द्र॑स्य¦युज्यः॑¦सखा᳚ || |
तद्विष्णोः᳚ पर॒मं प॒दं सदा᳚ पश्यन्ति सू॒रयः॑ |{काण्वो मेधातिथि | विष्णुः | गायत्री} दि॒वी᳚व॒ चक्षु॒रात॑तम् ||{20/21}{1.22.20}{1.5.5.20}{1.2.7.5}{228, 22, 228} तत्¦विष्णोः᳚¦प॒र॒मम्¦प॒दम्¦सदा᳚¦प॒श्य॒न्ति॒¦सू॒रयः॑ | दि॒विऽइ᳚व¦चक्षुः॑¦आऽत॑तम् || |
तद्विप्रा᳚सो विप॒न्यवो᳚ जागृ॒वांसः॒ समि᳚न्धते |{काण्वो मेधातिथि | विष्णुः | गायत्री} विष्णो॒र्यत् प॑र॒मं प॒दम् ||{21/21}{1.22.21}{1.5.5.21}{1.2.7.6}{229, 22, 229} तत्¦विप्रा᳚सः¦वि॒प॒न्यवः॑¦जा॒गृ॒ऽवांसः॑¦सम्¦इ॒न्ध॒ते॒ | विष्णोः᳚¦यत्¦प॒र॒मम्¦प॒दम् || |
[23] तीव्राःसोमासैति चतुर्विंशत्यृचस्य सूक्तस्य काण्वोमेधातिथिः आद्यायावायुः ततोद्वयोरिंद्रवायू ततस्तिसृणां मित्रावरुणौ ततस्तिसृणां मरुतः (मरुत्वानिंद्रइति केचित्) ततस्तिसृणां विश्वेदेवाः ततस्तिसृणां पूषाततः सप्तानामापः ततएकस्याअग्न्यापः ततएकस्या अग्निः अप्स्वंतरितिपुरउष्णिक् अप्सुमइत्यनुष्टुप्इदमापइत्याद्यास्तिस्रोनुष्टुभः आपःपृणीतेतिप्रतिष्ठा शेषागायत्र्यः। (अग्न्यापइत्यत्राप्शब्दस्यपूर्वनिपातेप्राप्तेद्वंद्वेधिइति सूत्रादग्निशब्दस्यपूर्वनिपातः कृतः ) | |
ती॒व्राः सोमा᳚स॒ आ ग॑ह्या॒शीर्व᳚न्तः सु॒ता, इ॒मे |{काण्वो मेधातिथि | वायुः | गायत्री} वायो॒ तान् प्रस्थि॑तान् पिब ||{1/24}{1.23.1}{1.5.6.1}{1.2.8.1}{230, 23, 230} ती॒व्राः¦सोमा᳚सः¦आ¦ग॒हि॒¦आ॒शीःऽव᳚न्तः¦सु॒ताः¦इ॒मे | वायो॒ इति॑¦तान्¦प्रऽस्थि॑तान्¦पि॒ब॒ || |
उ॒भा दे॒वा दि॑वि॒स्पृशे᳚न्द्रवा॒यू ह॑वामहे |{काण्वो मेधातिथि | इंद्रवायू | गायत्री} अ॒स्य सोम॑स्य पी॒तये᳚ ||{2/24}{1.23.2}{1.5.6.2}{1.2.8.2}{231, 23, 231} उ॒भा¦दे॒वा¦दि॒वि॒ऽस्पृशा᳚¦इ॒न्द्र॒वा॒यू इति॑¦ह॒वा॒म॒हे॒ | अ॒स्य¦सोम॑स्य¦पी॒तये᳚ || |
इ॒न्द्र॒वा॒यू म॑नो॒जुवा॒ विप्रा᳚ हवन्त ऊ॒तये᳚ |{काण्वो मेधातिथि | इंद्रवायू | गायत्री} स॒ह॒स्रा॒क्षा धि॒यस्पती᳚ ||{3/24}{1.23.3}{1.5.6.3}{1.2.8.3}{232, 23, 232} इ॒न्द्र॒वा॒यू इति॑¦म॒नः॒ऽजुवा᳚¦विप्राः᳚¦ह॒व॒न्ते॒¦ऊ॒तये᳚ | स॒ह॒स्र॒।आ॒क्षा¦धि॒यः¦पती॒ इति॑ || |
मि॒त्रं व॒यं ह॑वामहे॒ वरु॑णं॒ सोम॑पीतये |{काण्वो मेधातिथि | मित्रावरुणौ | गायत्री} ज॒ज्ञा॒ना पू॒तद॑क्षसा ||{4/24}{1.23.4}{1.5.6.4}{1.2.8.4}{233, 23, 233} मि॒त्रम्¦व॒यम्¦ह॒वा॒म॒हे॒¦वरु॑णम्¦सोम॑ऽपीतये | ज॒ज्ञा॒ना¦पू॒तऽद॑क्षसा || |
ऋ॒तेन॒ यावृ॑ता॒वृधा᳚वृ॒तस्य॒ ज्योति॑ष॒स्पती᳚ |{काण्वो मेधातिथि | मित्रावरुणौ | गायत्री} ता मि॒त्रावरु॑णा हुवे ||{5/24}{1.23.5}{1.5.6.5}{1.2.8.5}{234, 23, 234} ऋ॒तेन॑¦यौ¦ऋ॒त॒ऽवृधौ᳚¦ऋ॒तस्य॑¦ज्योति॑षः¦पती॒ इति॑ | ता¦मि॒त्रावरु॑णा¦हु॒वे॒ || |
वरु॑णः प्रावि॒ता भु॑वन् मि॒त्रो विश्वा᳚भिरू॒तिभिः॑ |{काण्वो मेधातिथि | मित्रावरुणौ | गायत्री} कर॑तां नः सु॒राध॑सः ||{6/24}{1.23.6}{1.5.6.6}{1.2.9.1}{235, 23, 235} वरु॑णः¦प्र॒।आ॒वि॒ता¦भु॒व॒त्¦मि॒त्रः¦विश्वा᳚भिः¦ऊ॒तिऽभिः॑ | कर॑ताम्¦नः॒¦सु॒ऽराध॑सः || |
म॒रुत्व᳚न्तं हवामह॒ इन्द्र॒मा सोम॑पीतये |{काण्वो मेधातिथि | इन्द्रोमरुत्वान् | गायत्री} स॒जूर्ग॒णेन॑ तृम्पतु ||{7/24}{1.23.7}{1.5.6.7}{1.2.9.2}{236, 23, 236} म॒रुत्व᳚न्तम्¦ह॒वा॒म॒हे॒¦इन्द्र᳚म्¦आ¦सोम॑ऽपीतये | स॒ऽजूः¦ग॒णेन॑¦तृ॒म्प॒तु॒ || |
इन्द्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा᳚सः॒ पूष॑रातयः |{काण्वो मेधातिथि | इन्द्रोमरुत्वान् | गायत्री} विश्वे॒ मम॑ श्रुता॒ हव᳚म् ||{8/24}{1.23.8}{1.5.6.8}{1.2.9.3}{237, 23, 237} इन्द्र॑ऽज्येष्ठाः¦मरु॑त्ऽगणाः¦देवा᳚सः¦पूष॑ऽरातयः | विश्वे᳚¦मम॑¦श्रु॒त॒¦हव᳚म् || |
ह॒त वृ॒त्रं सु॑दानव॒ इन्द्रे᳚ण॒ सह॑सा यु॒जा |{काण्वो मेधातिथि | इन्द्रोमरुत्वान् | गायत्री} मा नो᳚ दुः॒शंस॑ ईशत ||{9/24}{1.23.9}{1.5.6.9}{1.2.9.4}{238, 23, 238} ह॒त¦वृ॒त्रम्¦सु॒ऽदा॒न॒वः॒¦इन्द्रे᳚ण¦सह॑सा¦यु॒जा | मा¦नः॒¦दुः॒ऽशंसः॑¦ई॒श॒त॒ || |
विश्वा᳚न् दे॒वान् ह॑वामहे म॒रुतः॒ सोम॑पीतये |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} उ॒ग्रा हि पृश्नि॑मातरः ||{10/24}{1.23.10}{1.5.6.10}{1.2.9.5}{239, 23, 239} विश्वा᳚न्¦दे॒वान्¦ह॒वा॒म॒हे॒¦म॒रुतः॑¦सोम॑ऽपीतये | उ॒ग्राः¦हि¦पृश्नि॑ऽमातरः || |
जय॑तामिव तन्य॒तुर्म॒रुता᳚मेति धृष्णु॒या |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} यच्छुभं᳚ या॒थना᳚ नरः ||{11/24}{1.23.11}{1.5.6.11}{1.2.10.1}{240, 23, 240} जय॑ताम्ऽइव¦त॒न्य॒तुः¦म॒रुता᳚म्¦ए॒ति॒¦धृ॒ष्णु॒ऽया | यत्¦शुभ᳚म्¦या॒थन॑¦न॒रः॒ || |
ह॒स्का॒राद् वि॒द्युत॒स्पर्यतो᳚ जा॒ता, अ॑वन्तु नः |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} म॒रुतो᳚ मृळयन्तु नः ||{12/24}{1.23.12}{1.5.6.12}{1.2.10.2}{241, 23, 241} ह॒स्का॒रात्¦वि॒ऽद्युतः॑¦परि॑¦अतः॑¦जा॒ताः¦अ॒व॒न्तु॒¦नः॒ | म॒रुतः॑¦मृ॒ळ॒य॒न्तु॒¦नः॒ || |
आ पू᳚षञ्चि॒त्रब᳚र्हिष॒माघृ॑णे ध॒रुणं᳚ दि॒वः |{काण्वो मेधातिथि | पूषा | गायत्री} आजा᳚ न॒ष्टं यथा᳚ प॒शुम् ||{13/24}{1.23.13}{1.5.6.13}{1.2.10.3}{242, 23, 242} आ¦पू॒ष॒न्¦चि॒त्रऽब॑र्हिषम्¦आघृ॑णे¦ध॒रुण᳚म्¦दि॒वः | आ¦अ॒ज॒¦न॒ष्टम्¦यथा᳚¦प॒शुम् || |
पू॒षा राजा᳚न॒माघृ॑णि॒रप॑गूळ्हं॒ गुहा᳚ हि॒तम् |{काण्वो मेधातिथि | पूषा | गायत्री} अवि᳚न्दच्चि॒त्रब᳚र्हिषम् ||{14/24}{1.23.14}{1.5.6.14}{1.2.10.4}{243, 23, 243} पू॒षा¦राजा᳚नम्¦आघृ॑णिः¦अप॑ऽगूळ्हम्¦गुहा᳚¦हि॒तम् | अवि᳚न्दत्¦चि॒त्रऽब॑र्हिषम् || |
उ॒तो स मह्य॒मिन्दु॑भिः॒ षड्यु॒क्ताँ, अ॑नु॒सेषि॑धत् |{काण्वो मेधातिथि | पूषा | गायत्री} गोभि॒र्यवं॒ न च॑र्कृषत् ||{15/24}{1.23.15}{1.5.6.15}{1.2.10.5}{244, 23, 244} उ॒तो इति॑¦सः¦मह्य᳚म्¦इन्दु॑ऽभिः¦षट्¦यु॒क्तान्¦अ॒नु॒ऽसेसि॑धत् | गोभिः॑¦यव᳚म्¦न¦च॒र्कृ॒ष॒त् || |
अ॒म्बयो᳚ य॒न्त्यध्व॑भिर्जा॒मयो᳚, अध्वरीय॒ताम् |{काण्वो मेधातिथि | आपः | गायत्री} पृ॒ञ्च॒तीर्मधु॑ना॒ पयः॑ ||{16/24}{1.23.16}{1.5.6.16}{1.2.11.1}{245, 23, 245} अ॒म्बयः॑¦य॒न्ति॒¦अध्व॑ऽभिः¦जा॒मयः॑¦अ॒ध्व॒रि॒ऽय॒ताम् | पृं॒च॒तीः¦मधु॑ना¦पयः॑ || |
अ॒मूर्या, उप॒ सूर्ये॒ याभि᳚र्वा॒ सूर्यः॑ स॒ह |{काण्वो मेधातिथि | आपः | गायत्री} ता नो᳚ हिन्वन्त्वध्व॒रम् ||{17/24}{1.23.17}{1.5.6.17}{1.2.11.2}{246, 23, 246} अ॒मूः¦याः¦उप॑¦सूर्ये᳚¦याभिः॑¦वा॒¦सूर्यः॑¦स॒ह | ताः¦नः॒¦हि॒न्व॒न्तु॒¦अ॒ध्व॒रम् || |
अ॒पो दे॒वीरुप॑ ह्वये॒ यत्र॒ गावः॒ पिब᳚न्ति नः |{काण्वो मेधातिथि | आपः | गायत्री} सिन्धु॑भ्यः॒ कर्त्वं᳚ ह॒विः ||{18/24}{1.23.18}{1.5.6.18}{1.2.11.3}{247, 23, 247} अ॒पः¦दे॒वीः¦उप॑¦ह्व॒ये॒¦यत्र॑¦गावः॑¦पिब᳚न्ति¦नः॒ | सिन्धु॑ऽभ्यः¦कर्त्व᳚म्¦ह॒विः || |
अ॒प्स्व१॑(अ॒)न्तर॒मृत॑म॒प्सु भे᳚ष॒जम॒पामु॒त प्रश॑स्तये |{काण्वो मेधातिथि | आपः | पुर उष्णिक्} देवा॒ भव॑त वा॒जिनः॑ ||{19/24}{1.23.19}{1.5.6.19}{1.2.11.4}{248, 23, 248} अ॒प्ऽसु¦अ॒न्तः¦अ॒मृत᳚म्¦अ॒प्ऽसु¦भे॒ष॒जम्¦अ॒पाम्¦उ॒त¦प्रऽश॑स्तये | देवाः᳚¦भव॑त¦वा॒जिनः॑ || |
अ॒प्सु मे॒ सोमो᳚, अब्रवीद॒न्तर्विश्वा᳚नि भेष॒जा |{काण्वो मेधातिथि | आपः | अनुष्टुप्} अ॒ग्निं च॑ वि॒श्वश᳚म्भुव॒माप॑श्च वि॒श्वभे᳚षजीः ||{20/24}{1.23.20}{1.5.6.20}{1.2.11.5}{249, 23, 249} अ॒प्ऽसु¦मे॒¦सोमः॑¦अ॒ब्र॒वी॒त्¦अ॒न्तः¦विश्वा᳚नि¦भे॒ष॒जा | अ॒ग्निम्¦च॒¦वि॒श्वऽश᳚म्भुवम्¦आपः॑¦च॒¦वि॒श्वऽभे᳚षजीः || |
आपः॑ पृणी॒त भे᳚ष॒जं वरू᳚थं त॒न्वे॒३॑(ए॒) मम॑ |{काण्वो मेधातिथि | आपः | प्रतिष्ठागायत्री} ज्योक् च॒ सूर्यं᳚ दृ॒शे ||{21/24}{1.23.21}{1.5.6.21}{1.2.12.1}{250, 23, 250} आपः॑¦पृ॒णी॒त¦भे॒ष॒जम्¦वरू᳚थम्¦त॒न्वे᳚¦मम॑ | ज्योक्¦च॒¦सूर्य᳚म्¦दृ॒शे || |
इ॒दमा᳚पः॒ प्र व॑हत॒ यत् किं च॑ दुरि॒तं मयि॑ |{काण्वो मेधातिथि | आपः | अनुष्टुप्} यद् वा॒हम॑भिदु॒द्रोह॒ यद् वा᳚ शे॒प उ॒तानृ॑तम् ||{22/24}{1.23.22}{1.5.6.22}{1.2.12.2}{251, 23, 251} इ॒दम्¦आ॒पः॒¦प्र¦व॒ह॒त॒¦यत्¦किम्¦च॒¦दुः॒ऽइ॒तम्¦मयि॑ | यत्¦वा॒¦अ॒हम्¦अ॒भि॒ऽदु॒द्रोह॑¦यत्¦वा॒¦शे॒पे¦उ॒त¦अनृ॑तम् || |
आपो᳚, अ॒द्यान्व॑चारिषं॒ रसे᳚न॒ सम॑गस्महि |{काण्वो मेधातिथि | १/२: आपः २/२: अग्निः | अनुष्टुप्} पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ||{23/24}{1.23.23}{1.5.6.23}{1.2.12.3}{252, 23, 252} आपः॑¦अ॒द्य¦अनु॑¦अ॒चा॒रि॒ष॒म्¦रसे᳚न¦सम्¦अ॒ग॒स्म॒हि॒ | पय॑स्वान्¦अ॒ग्ने॒¦आ¦ग॒हि॒¦तम्¦मा॒¦सम्¦सृ॒ज॒¦वर्च॑सा || |
सं मा᳚ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा |{काण्वो मेधातिथि | अग्निः | अनुष्टुप्} वि॒द्युर्मे᳚, अस्य दे॒वा, इन्द्रो᳚ विद्यात् स॒ह ऋषि॑भिः ||{24/24}{1.23.24}{1.5.6.24}{1.2.12.4}{253, 23, 253} सम्¦मा॒¦अ॒ग्ने॒¦वर्च॑सा¦सृ॒ज॒¦सम्¦प्र॒ऽजया᳚¦सम्¦आयु॑षा | वि॒द्युः¦मे॒¦अ॒स्य॒¦दे॒वाः¦इन्द्रः॑¦वि॒द्या॒त्¦स॒ह¦ऋषि॑ऽभिः || |
[24] कस्यनूनमितिपंचदशर्चस्य सूक्तस्याजीर्गर्तिःशुनःशेपः सकृत्रिमोवैश्वामित्रोदेवरातः आद्यायाः कः द्वितीयायाअग्निस्ततस्तिसृणांसविता ( भगभक्तस्येत्यस्याभगोवा ) नहितेक्षत्रमित्याद्यानांवरुणस्त्रिष्टुप् अभित्वेत्यादितिस्रोगायत्र्यः | |
कस्य॑ नू॒नं क॑त॒मस्या॒मृता᳚नां॒ मना᳚महे॒ चारु॑ दे॒वस्य॒ नाम॑ |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | कः (प्रजापतिः) | त्रिष्टुप्} को नो᳚ म॒ह्या, अदि॑तये॒ पुन॑र्दात् पि॒तरं᳚ च दृ॒शेयं᳚ मा॒तरं᳚ च ||{1/15}{1.24.1}{1.6.1.1}{1.2.13.1}{254, 24, 254} कस्य॑¦नू॒नम्¦क॒त॒मस्य॑¦अ॒मृता᳚नाम्¦मना᳚महे¦चारु॑¦दे॒वस्य॑¦नाम॑ | |
अ॒ग्नेर्व॒यं प्र॑थ॒मस्या॒मृता᳚नां॒ मना᳚महे॒ चारु॑ दे॒वस्य॒ नाम॑ |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | अग्निः | त्रिष्टुप्} स नो᳚ म॒ह्या, अदि॑तये॒ पुन॑र्दात् पि॒तरं᳚ च दृ॒शेयं᳚ मा॒तरं᳚ च ||{2/15}{1.24.2}{1.6.1.2}{1.2.13.2}{255, 24, 255} अ॒ग्नेः¦व॒यम्¦प्र॒थ॒मस्य॑¦अ॒मृता᳚नाम्¦मना᳚महे¦चारु॑¦दे॒वस्य॑¦नाम॑ | |
अ॒भि त्वा᳚ देव सवित॒रीशा᳚नं॒ वार्या᳚णाम् |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | सविता | गायत्री} सदा᳚वन् भा॒गमी᳚महे ||{3/15}{1.24.3}{1.6.1.3}{1.2.13.3}{256, 24, 256} अ॒भि¦त्वा॒¦दे॒व॒¦स॒वि॒तः॒¦ईशा᳚नम्¦वार्या᳚णाम् | सदा᳚¦अ॒व॒न्¦भा॒गम्¦ई॒म॒हे॒ || |
यश्चि॒द्धि त॑ इ॒त्था भगः॑ शशमा॒नः पु॒रा नि॒दः |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | सविता | गायत्री} अ॒द्वे॒षो हस्त॑योर्द॒धे ||{4/15}{1.24.4}{1.6.1.4}{1.2.13.4}{257, 24, 257} यः¦चि॒त्¦हि¦ते॒¦इ॒त्था¦भगः॑¦श॒श॒मा॒नः¦पु॒रा¦नि॒दः | अ॒द्वे॒षः¦हस्त॑योः¦द॒धे || |
भग॑भक्तस्य ते व॒यमुद॑शेम॒ तवाव॑सा |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | सविता भगो वा | गायत्री} मू॒र्धानं᳚ रा॒य आ॒रभे᳚ ||{5/15}{1.24.5}{1.6.1.5}{1.2.13.5}{258, 24, 258} भग॑ऽभक्तस्य¦ते॒¦व॒यम्¦उत्¦अ॒शे॒म॒¦तव॑¦अव॑सा | मू॒र्धान᳚म्¦रा॒यः¦आ॒ऽरभे᳚ || |
न॒हि ते᳚ क्ष॒त्रं न सहो॒ न म॒न्युं वय॑श्च॒नामी प॒तय᳚न्त आ॒पुः |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्} नेमा, आपो᳚, अनिमि॒षं चर᳚न्ती॒र्न ये वात॑स्य प्रमि॒नन्त्यभ्व᳚म् ||{6/15}{1.24.6}{1.6.1.6}{1.2.14.1}{259, 24, 259} न॒हि¦ते॒¦क्ष॒त्रम्¦न¦सहः॑¦न¦म॒न्युम्¦वयः॑¦च॒न¦अ॒मी इति॑¦प॒तय᳚न्तः¦आ॒पुः | |
अ॒बु॒ध्ने राजा॒ वरु॑णो॒ वन॑स्यो॒र्ध्वं स्तूपं᳚ ददते पू॒तद॑क्षः |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्} नी॒चीनाः᳚ स्थुरु॒परि॑ बु॒ध्न ए᳚षाम॒स्मे, अ॒न्तर्निहि॑ताः के॒तवः॑ स्युः ||{7/15}{1.24.7}{1.6.1.7}{1.2.14.2}{260, 24, 260} अ॒बु॒ध्ने¦राजा᳚¦वरु॑णः¦वन॑स्य¦ऊ॒र्ध्वम्¦स्तूप᳚म्¦द॒द॒ते॒¦पू॒तऽद॑क्षः | |
उ॒रुं हि राजा॒ वरु॑णश्च॒कार॒ सूर्या᳚य॒ पन्था॒मन्वे᳚त॒वा, उ॑ |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्} अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित् ||{8/15}{1.24.8}{1.6.1.8}{1.2.14.3}{261, 24, 261} उ॒रुम्¦हि¦राजा᳚¦वरु॑णः¦च॒कार॑¦सूर्या᳚य¦पन्था᳚म्¦अनु॑ऽए॒त॒वै¦ऊँ॒ इति॑ | |
श॒तं ते᳚ राजन् भि॒षजः॑ स॒हस्र॑मु॒र्वी ग॑भी॒रा सु॑म॒तिष्टे᳚, अस्तु |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्} बाध॑स्व दू॒रे निरृ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुग्ध्य॒स्मत् ||{9/15}{1.24.9}{1.6.1.9}{1.2.14.4}{262, 24, 262} श॒तम्¦ते॒¦रा॒ज॒न्¦भि॒षजः॑¦स॒हस्र᳚म्¦उ॒र्वी¦ग॒भी॒रा¦सु॒ऽम॒तिः¦ते॒¦अ॒स्तु॒ | |
अ॒मी य ऋक्षा॒ निहि॑तास उ॒च्चा नक्तं॒ ददृ॑श्रे॒ कुह॑ चि॒द्दिवे᳚युः |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्} अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ वि॒चाक॑शच्च॒न्द्रमा॒ नक्त॑मेति ||{10/15}{1.24.10}{1.6.1.10}{1.2.14.5}{263, 24, 263} अ॒मी इति॑¦ये¦ऋक्षाः᳚¦निऽहि॑तासः¦उ॒च्चा¦नक्त᳚म्¦ददृ॑श्रे¦कुह॑¦चि॒त्¦दिवा᳚¦ई॒युः॒ | |
तत् त्वा᳚ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स् तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्} अहे᳚ळमानो वरुणे॒ह बो॒ध्युरु॑शंस॒ मा न॒ आयुः॒ प्र मो᳚षीः ||{11/15}{1.24.11}{1.6.1.11}{1.2.15.1}{264, 24, 264} तत्¦त्वा॒¦या॒मि॒¦ब्रह्म॑णा¦वन्द॑मानः¦तत्¦आ¦शा॒स्ते॒¦यज॑मानः¦ह॒विःऽभिः॑ | |
तदिन्नक्तं॒ तद्दिवा॒ मह्य॑माहु॒स् तद॒यं केतो᳚ हृ॒द आ वि च॑ष्टे |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्} शुनः॒शेपो॒ यमह्व॑द् गृभी॒तः सो, अ॒स्मान् राजा॒ वरु॑णो मुमोक्तु ||{12/15}{1.24.12}{1.6.1.12}{1.2.15.2}{265, 24, 265} तत्¦इत्¦नक्त᳚म्¦तत्¦दिवा᳚¦मह्य᳚म्¦आ॒हुः॒¦तत्¦अ॒यम्¦केतः॑¦हृ॒दः¦आ¦वि¦च॒ष्टे॒ | |
शुनः॒शेपो॒ ह्यह्व॑द् गृभी॒तस् त्रि॒ष्वा᳚दि॒त्यं द्रु॑प॒देषु॑ ब॒द्धः |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्} अवै᳚नं॒ राजा॒ वरु॑णः ससृज्याद् वि॒द्वाँ, अद॑ब्धो॒ वि मु॑मोक्तु॒ पाशा॑न् ||{13/15}{1.24.13}{1.6.1.13}{1.2.15.3}{266, 24, 266} शुनः॒शेपः॑¦हि¦अह्व॑त्¦गृ॒भी॒तः¦त्रि॒षु¦आ॒दि॒त्यम्¦द्रु॒ऽप॒देषु॑¦ब॒द्धः | |
अव॑ ते॒ हेळो᳚ वरुण॒ नमो᳚भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑ |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्} क्षय᳚न्न॒स्मभ्य॑मसुर प्रचेता॒ राज॒न्नेनां᳚सि शिश्रथः कृ॒तानि॑ ||{14/15}{1.24.14}{1.6.1.14}{1.2.15.4}{267, 24, 267} अव॑¦ते॒¦हेळः॑¦व॒रु॒ण॒¦नमः॑ऽभिः¦अव॑¦य॒ज्ञेभिः॑¦ई॒म॒हे॒¦ह॒विःऽभिः॑ | |
उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा᳚ध॒मं वि म॑ध्य॒मं श्र॑थाय |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्} अथा᳚ व॒यमा᳚दित्य व्र॒ते तवाना᳚गसो॒, अदि॑तये स्याम ||{15/15}{1.24.15}{1.6.1.15}{1.2.15.5}{268, 24, 268} उत्¦उ॒त्ऽत॒मम्¦व॒रु॒ण॒¦पाश᳚म्¦अ॒स्मत्¦अव॑¦अ॒ध॒मम्¦वि¦म॒ध्य॒मम्¦श्र॒थ॒य॒ | |
[25] यच्चिद्धितइत्येकविंशत्यृचस्य सूक्तस्याजीर्गर्तिःशुनःशेपोवरुणोगायत्री | |
यच्चि॒द्धि ते॒ विशो᳚ यथा॒ प्र दे᳚व वरुण व्र॒तम् |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} मि॒नी॒मसि॒ द्यवि॑द्यवि ||{1/21}{1.25.1}{1.6.2.1}{1.2.16.1}{269, 25, 269} यत्¦चि॒त्¦हि¦ते॒¦विशः॑¦य॒था॒¦प्र¦दे॒व॒¦व॒रु॒ण॒¦व्र॒तम् | मि॒नी॒मसि॑¦द्यवि॑ऽद्यवि || |
मा नो᳚ व॒धाय॑ ह॒त्नवे᳚ जिहीळा॒नस्य॑ रीरधः |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} मा हृ॑णा॒नस्य॑ म॒न्यवे᳚ ||{2/21}{1.25.2}{1.6.2.2}{1.2.16.2}{270, 25, 270} मा¦नः॒¦व॒धाय॑¦ह॒त्नवे᳚¦जि॒ही॒ळा॒नस्य॑¦री॒र॒धः॒ | मा¦हृ॒णा॒नस्य॑¦म॒न्यवे᳚ || |
वि मृ॑ळी॒काय॑ ते॒ मनो᳚ र॒थीरश्वं॒ न संदि॑तम् |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} गी॒र्भिर्व॑रुण सीमहि ||{3/21}{1.25.3}{1.6.2.3}{1.2.16.3}{271, 25, 271} वि¦मृ॒ळी॒काय॑¦ते॒¦मनः॑¦र॒थीः¦अश्व᳚म्¦न¦सम्ऽदि॑तम् | गीः॒ऽभिः¦व॒रु॒ण॒¦सी॒म॒हि॒ || |
परा॒ हि मे॒ विम᳚न्यवः॒ पत᳚न्ति॒ वस्य॑इष्टये |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} वयो॒ न व॑स॒तीरुप॑ ||{4/21}{1.25.4}{1.6.2.4}{1.2.16.4}{272, 25, 272} परा᳚¦हि¦मे॒¦विऽम᳚न्यवः¦पत᳚न्ति¦वस्यः॑ऽइष्टये | वयः॑¦न¦व॒स॒तीः¦उप॑ || |
क॒दा क्ष॑त्र॒श्रियं॒ नर॒मा वरु॑णं करामहे |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} मृ॒ळी॒कायो᳚रु॒चक्ष॑सम् ||{5/21}{1.25.5}{1.6.2.5}{1.2.16.5}{273, 25, 273} क॒दा¦क्ष॒त्र॒ऽश्रिय᳚म्¦नर᳚म्¦आ¦वरु॑णम्¦क॒रा॒म॒हे॒ | मृ॒ळी॒काय॑¦उ॒रु॒ऽचक्ष॑सम् || |
तदित् स॑मा॒नमा᳚शाते॒ वेन᳚न्ता॒ न प्र यु॑च्छतः |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} धृ॒तव्र॑ताय दा॒शुषे᳚ ||{6/21}{1.25.6}{1.6.2.6}{1.2.17.1}{274, 25, 274} तत्¦इत्¦स॒मा॒नम्¦आ॒शा॒ते॒ इति॑¦वेन᳚न्ता¦न¦प्र¦यु॒च्छ॒तः॒ | धृ॒तऽव्र॑ताय¦दा॒शुषे᳚ || |
वेदा॒ यो वी॒नां प॒दम॒न्तरि॑क्षेण॒ पत॑ताम् |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} वेद॑ ना॒वः स॑मु॒द्रियः॑ ||{7/21}{1.25.7}{1.6.2.7}{1.2.17.2}{275, 25, 275} वेद॑¦यः¦वी॒नाम्¦प॒दम्¦अ॒न्तरि॑क्षेण¦पत॑ताम् | वेद॑¦ना॒वः¦स॒मु॒द्रियः॑ || |
वेद॑ मा॒सो धृ॒तव्र॑तो॒ द्वाद॑श प्र॒जाव॑तः |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} वेदा॒ य उ॑प॒जाय॑ते ||{8/21}{1.25.8}{1.6.2.8}{1.2.17.3}{276, 25, 276} वेद॑¦मा॒सः¦धृ॒तऽव्र॑तः¦द्वाद॑श¦प्र॒जाऽव॑तः | वेद॑¦यः¦उ॒प॒ऽजाय॑ते || |
वेद॒ वात॑स्य वर्त॒निमु॒रोरृ॒ष्वस्य॑ बृह॒तः |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} वेदा॒ ये, अ॒ध्यास॑ते ||{9/21}{1.25.9}{1.6.2.9}{1.2.17.4}{277, 25, 277} वेद॑¦वात॑स्य¦व॒र्त॒निम्¦उ॒रोः¦ऋ॒ष्वस्य॑¦बृ॒ह॒तः | वेद॑¦ये¦अ॒धि॒ऽआस॑ते || |
नि ष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या॒३॑(आ॒)स्वा |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} साम्रा᳚ज्याय सु॒क्रतुः॑ ||{10/21}{1.25.10}{1.6.2.10}{1.2.17.5}{278, 25, 278} नि¦स॒सा॒द॒¦धृ॒तऽव्र॑तः¦वरु॑णः¦प॒स्त्या᳚सु¦आ | साम्ऽरा᳚ज्याय¦सु॒ऽक्रतुः॑ || |
अतो॒ विश्वा॒न्यद्भु॑ता चिकि॒त्वाँ, अ॒भि प॑श्यति |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} कृ॒तानि॒ या च॒ कर्त्वा᳚ ||{11/21}{1.25.11}{1.6.2.11}{1.2.18.1}{279, 25, 279} अतः॑¦विश्वा᳚नि¦अद्भु॑ता¦चि॒कि॒त्वान्¦अ॒भि¦प॒श्य॒ति॒ | कृ॒तानि॑¦या¦च॒¦कर्त्वा᳚ || |
स नो᳚ वि॒श्वाहा᳚ सु॒क्रतु॑रादि॒त्यः सु॒पथा᳚ करत् |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} प्र ण॒ आयूं᳚षि तारिषत् ||{12/21}{1.25.12}{1.6.2.12}{1.2.18.2}{280, 25, 280} सः¦नः॒¦वि॒श्वाहा᳚¦सु॒ऽक्रतुः॑¦आ॒दि॒त्यः¦सु॒ऽपथा᳚¦क॒र॒त् | प्र¦नः॒¦आयूं᳚षि¦ता॒रि॒ष॒त् || |
बिभ्र॑द्द्रा॒पिं हि॑र॒ण्ययं॒ वरु॑णो वस्त नि॒र्णिज᳚म् |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} परि॒ स्पशो॒ नि षे᳚दिरे ||{13/21}{1.25.13}{1.6.2.13}{1.2.18.3}{281, 25, 281} बिभ्र॑त्¦द्रा॒पिम्¦हि॒र॒ण्यय᳚म्¦वरु॑णः¦व॒स्त॒¦निः॒ऽनिज᳚म् | परि॑¦स्पशः॑¦नि¦से॒दि॒रे॒ || |
न यं दिप्स᳚न्ति दि॒प्सवो॒ न द्रुह्वा᳚णो॒ जना᳚नाम् |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} न दे॒वम॒भिमा᳚तयः ||{14/21}{1.25.14}{1.6.2.14}{1.2.18.4}{282, 25, 282} न¦यम्¦दिप्स᳚न्ति¦दि॒प्सवः॑¦न¦द्रुह्वा᳚णः¦जना᳚नाम् | न¦दे॒वम्¦अ॒भिऽमा᳚तयः || |
उ॒त यो मानु॑षे॒ष्वा यश॑श्च॒क्रे, असा॒म्या |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} अ॒स्माक॑मु॒दरे॒ष्वा ||{15/21}{1.25.15}{1.6.2.15}{1.2.18.5}{283, 25, 283} उ॒त¦यः¦मानु॑षेषु¦आ¦यशः॑¦च॒क्रे¦असा᳚मि¦आ | अ॒स्माक᳚म्¦उ॒दरे᳚षु¦आ || |
परा᳚ मे यन्ति धी॒तयो॒ गावो॒ न गव्यू᳚ती॒रनु॑ |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} इ॒च्छन्ती᳚रुरु॒चक्ष॑सम् ||{16/21}{1.25.16}{1.6.2.16}{1.2.19.1}{284, 25, 284} पराः᳚¦मे॒¦य॒न्ति॒¦धी॒तयः॑¦गावः॑¦न¦गव्यू᳚तीः¦अनु॑ | इ॒च्छन्तीः᳚¦उ॒रु॒ऽचक्ष॑सम् || |
सं नु वो᳚चावहै॒ पुन॒र्यतो᳚ मे॒ मध्वाभृ॑तम् |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} होते᳚व॒ क्षद॑से प्रि॒यम् ||{17/21}{1.25.17}{1.6.2.17}{1.2.19.2}{285, 25, 285} सम्¦नु¦वो॒चा॒व॒है॒¦पुनः॑¦यतः॑¦मे॒¦मधु॑¦आऽभृ॑तम् | होता᳚ऽइव¦क्षद॑से¦प्रि॒यम् || |
दर्शं॒ नु वि॒श्वद॑र्शतं॒ दर्शं॒ रथ॒मधि॒ क्षमि॑ |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} ए॒ता जु॑षत मे॒ गिरः॑ ||{18/21}{1.25.18}{1.6.2.18}{1.2.19.3}{286, 25, 286} दर्श᳚म्¦नु¦वि॒श्वऽद॑र्शतम्¦दर्श᳚म्¦रथ᳚म्¦अधि॑¦क्षमि॑ | ए॒ताः¦जु॒ष॒त॒¦मे॒¦गिरः॑ || |
इ॒मं मे᳚ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृळय |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} त्वाम॑व॒स्युरा च॑के ||{19/21}{1.25.19}{1.6.2.19}{1.2.19.4}{287, 25, 287} इ॒मम्¦मे॒¦व॒रु॒ण॒¦श्रुधि॑¦हव᳚म्¦अ॒द्य¦च॒¦मृ॒ळ॒य॒ | त्वाम्¦अ॒व॒स्युः¦आ¦च॒क्रे॒ || |
त्वं विश्व॑स्य मेधिर दि॒वश्च॒ ग्मश्च॑ राजसि |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} स याम॑नि॒ प्रति॑ श्रुधि ||{20/21}{1.25.20}{1.6.2.20}{1.2.19.5}{288, 25, 288} त्वम्¦विश्व॑स्य¦मे॒धि॒र॒¦दि॒वः¦च॒¦ग्मः¦च॒¦रा॒ज॒सि॒ | सः¦याम॑नि॒¦प्रति॑¦श्रु॒धि॒ || |
उदु॑त्त॒मं मु॑मुग्धि नो॒ वि पाशं᳚ मध्य॒मं चृ॑त |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} अवा᳚ध॒मानि॑ जी॒वसे᳚ ||{21/21}{1.25.21}{1.6.2.21}{1.2.19.6}{289, 25, 289} उत्¦उ॒त्ऽत॒मम्¦मु॒मु॒ग्धि॒¦नः॒¦वि¦पाश᳚म्¦म॒ध्य॒मम्¦चृ॒त॒ | अव॑¦अ॒ध॒मानि॑¦जी॒वसे᳚ || |
[26] वसिष्वेतिदशर्चस्य सूक्तस्याजीगर्तिःशुनःशेपोग्निर्गायत्री | |
वसि॑ष्वा॒ हि मि॑येध्य॒ वस्त्रा᳚ण्यूर्जां पते |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} सेमं नो᳚, अध्व॒रं य॑ज ||{1/10}{1.26.1}{1.6.3.1}{1.2.20.1}{290, 26, 290} वसि॑ष्व¦हि¦मि॒ये॒ध्य॒¦वस्त्रा᳚णि¦ऊ॒र्जा॒म्¦प॒ते॒ | सः¦इ॒मम्¦नः॒¦अ॒ध्व॒रम्¦य॒ज॒ || |
नि नो॒ होता॒ वरे᳚ण्यः॒ सदा᳚ यविष्ठ॒ मन्म॑भिः |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} अग्ने᳚ दि॒वित्म॑ता॒ वचः॑ ||{2/10}{1.26.2}{1.6.3.2}{1.2.20.2}{291, 26, 291} नि¦नः॒¦होता᳚¦वरे᳚ण्यः¦सदा᳚¦य॒वि॒ष्ठ॒¦मन्म॑ऽभिः | अग्ने᳚¦दि॒वित्म॑ता¦वचः॑ || |
आ हि ष्मा᳚ सू॒नवे᳚ पि॒तापिर्यज॑त्या॒पये᳚ |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} सखा॒ सख्ये॒ वरे᳚ण्यः ||{3/10}{1.26.3}{1.6.3.3}{1.2.20.3}{292, 26, 292} आ¦हि¦स्म॒¦सू॒नवे᳚¦पि॒ता¦आ॒पिः¦यज॑ति¦आ॒पये᳚ | सखा᳚¦सख्ये᳚¦वरे᳚ण्यः || |
आ नो᳚ ब॒र्ही रि॒शाद॑सो॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} सीद᳚न्तु॒ मनु॑षो यथा ||{4/10}{1.26.4}{1.6.3.4}{1.2.20.4}{293, 26, 293} आ¦नः॒¦ब॒र्हिः¦रि॒शाद॑सः¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा | सीद᳚न्तु¦मनु॑षः¦य॒था॒ || |
पूर्व्य॑ होतर॒स्य नो॒ मन्द॑स्व स॒ख्यस्य॑ च |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} इ॒मा, उ॒ षु श्रु॑धी॒ गिरः॑ ||{5/10}{1.26.5}{1.6.3.5}{1.2.20.5}{294, 26, 294} पूर्व्य॑¦हो॒तः॒¦अ॒स्य¦नः॒¦मन्द॑स्व¦स॒ख्यस्य॑¦च॒ | इ॒माः¦ऊँ॒ इति॑¦सु¦श्रु॒धी॒¦गिरः॑ || |
यच्चि॒द्धि शश्व॑ता॒ तना᳚ दे॒वंदे᳚वं॒ यजा᳚महे |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} त्वे, इद्धू᳚यते ह॒विः ||{6/10}{1.26.6}{1.6.3.6}{1.2.21.1}{295, 26, 295} यत्¦चि॒त्¦हि¦शश्व॑ता¦तना᳚¦दे॒वम्ऽदे᳚वम्¦यजा᳚महे | त्वे इति॑¦इत्¦हू॒य॒ते॒¦ह॒विः || |
प्रि॒यो नो᳚, अस्तु वि॒श्पति॒र्होता᳚ म॒न्द्रो वरे᳚ण्यः |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} प्रि॒याः स्व॒ग्नयो᳚ व॒यम् ||{7/10}{1.26.7}{1.6.3.7}{1.2.21.2}{296, 26, 296} प्रि॒यः¦नः॒¦अ॒स्तु॒¦वि॒श्पतिः॑¦होता᳚¦म॒न्द्रः¦वरे᳚ण्यः | प्रि॒याः¦सु॒।आ॒ग्नयः॑¦व॒यम् || |
स्व॒ग्नयो॒ हि वार्यं᳚ दे॒वासो᳚ दधि॒रे च॑ नः |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} स्व॒ग्नयो᳚ मनामहे ||{8/10}{1.26.8}{1.6.3.8}{1.2.21.3}{297, 26, 297} सु॒।आ॒ग्नयः॑¦हि¦वार्य᳚म्¦दे॒वासः॑¦द॒धि॒रे¦च॒¦नः॒ | सु॒।आ॒ग्नयः॑¦म॒ना॒म॒हे॒ || |
अथा᳚ न उ॒भये᳚षा॒ममृ॑त॒ मर्त्या᳚नाम् |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} मि॒थः स᳚न्तु॒ प्रश॑स्तयः ||{9/10}{1.26.9}{1.6.3.9}{1.2.21.4}{298, 26, 298} अथ॑¦नः॒¦उ॒भये᳚षाम्¦अमृ॑त¦मर्त्या᳚नाम् | मि॒थः¦स॒न्तु॒¦प्रऽश॑स्तयः || |
विश्वे᳚भिरग्ने, अ॒ग्निभि॑रि॒मं य॒ज्ञमि॒दं वचः॑ |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} चनो᳚ धाः सहसो यहो ||{10/10}{1.26.10}{1.6.3.10}{1.2.21.5}{299, 26, 299} विश्वे᳚भिः¦अ॒ग्ने॒¦अ॒ग्निऽभिः॑¦इ॒मम्¦य॒ज्ञम्¦इ॒दम्¦वचः॑ | चनः॑¦धाः॒¦स॒ह॒सः॒¦य॒हो॒ इति॑ || |
[27] अश्वंनत्वेतित्रयोदशर्चस्यसूक्तस्याजीगर्तिःशुनःशेपोऽग्निर्गायत्री | नमोमहद्भ्यइत्यस्यादेवास्त्रिष्टुप् | |
अश्वं॒ न त्वा॒ वार॑वन्तं व॒न्दध्या᳚, अ॒ग्निं नमो᳚भिः |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} स॒म्राज᳚न्तमध्व॒राणा᳚म् ||{1/13}{1.27.1}{1.6.4.1}{1.2.22.1}{300, 27, 300} अश्व᳚म्¦न¦त्वा॒¦वार॑ऽवन्तम्¦व॒न्दध्यै᳚¦अ॒ग्निम्¦नमः॑ऽभिः | स॒म्ऽराज᳚न्तम्¦अ॒ध्व॒राणा᳚म् || |
स घा᳚ नः सू॒नुः शव॑सा पृ॒थुप्र॑गामा सु॒शेवः॑ |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} मी॒ढ्वाँ, अ॒स्माकं᳚ बभूयात् ||{2/13}{1.27.2}{1.6.4.2}{1.2.22.2}{301, 27, 301} सः¦घ॒¦नः॒¦सू॒नुः¦शव॑सा¦पृ॒थुऽप्र॑गामा¦सु॒ऽशेवः॑ | मी॒ढ्वान्¦अ॒स्माक᳚म्¦ब॒भू॒या॒त् || |
स नो᳚ दू॒राच्चा॒साच्च॒ नि मर्त्या᳚दघा॒योः |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} पा॒हि सद॒मिद् वि॒श्वायुः॑ ||{3/13}{1.27.3}{1.6.4.3}{1.2.22.3}{302, 27, 302} सः¦नः॒¦दू॒रात्¦च॒¦आ॒सात्¦च॒¦नि¦मर्त्या᳚त्¦अ॒घ॒ऽयोः | पा॒हि¦सद᳚म्¦इत्¦वि॒श्वऽआ᳚युः || |
इ॒ममू॒ षु त्वम॒स्माकं᳚ स॒निं गा᳚य॒त्रं नव्यां᳚सम् |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} अग्ने᳚ दे॒वेषु॒ प्र वो᳚चः ||{4/13}{1.27.4}{1.6.4.4}{1.2.22.4}{303, 27, 303} इ॒मम्¦ऊँ॒ इति॑¦सु¦त्वम्¦अ॒स्माक᳚म्¦स॒निम्¦गा॒य॒त्रम्¦नव्यां᳚सम् | अग्ने᳚¦दे॒वेषु॑¦प्र¦वो॒चः॒ || |
आ नो᳚ भज पर॒मेष्वा वाजे᳚षु मध्य॒मेषु॑ |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} शिक्षा॒ वस्वो॒, अन्त॑मस्य ||{5/13}{1.27.5}{1.6.4.5}{1.2.22.5}{304, 27, 304} आ¦नः॒¦भ॒ज॒¦प॒र॒मेषु॑¦आ¦वाजे᳚षु¦म॒ध्य॒मेषु॑ | शिक्ष॑¦वस्वः॑¦अन्त॑मस्य || |
वि॒भ॒क्तासि॑ चित्रभानो॒ सिन्धो᳚रू॒र्मा, उ॑पा॒क आ |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} स॒द्यो दा॒शुषे᳚ क्षरसि ||{6/13}{1.27.6}{1.6.4.6}{1.2.23.1}{305, 27, 305} वि॒ऽभ॒क्ता¦अ॒सि॒¦चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो¦सिन्धोः᳚¦ऊ॒र्मौ¦उ॒पा॒के¦आ | स॒द्यः¦दा॒शुषे᳚¦क्ष॒र॒सि॒ || |
यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे᳚षु॒ यं जु॒नाः |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} स यन्ता॒ शश्व॑ती॒रिषः॑ ||{7/13}{1.27.7}{1.6.4.7}{1.2.23.2}{306, 27, 306} यम्¦अ॒ग्ने॒¦पृ॒त्ऽसु¦मर्त्य᳚म्¦अवाः᳚¦वाजे᳚षु¦यम्¦जु॒नाः | सः¦यन्ता᳚¦शश्व॑तीः¦इषः॑ || |
नकि॑रस्य सहन्त्य पर्ये॒ता कय॑स्य चित् |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} वाजो᳚, अस्ति श्र॒वाय्यः॑ ||{8/13}{1.27.8}{1.6.4.8}{1.2.23.3}{307, 27, 307} नकिः॑¦अ॒स्य॒¦स॒ह॒न्त्य॒¦प॒रि॒ऽए॒ता¦कय॑स्य¦चि॒त् | वाजः॑¦अ॒स्ति॒¦श्र॒वाय्यः॑ || |
स वाजं᳚ वि॒श्वच॑र्षणि॒रर्व॑द्भिरस्तु॒ तरु॑ता |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} विप्रे᳚भिरस्तु॒ सनि॑ता ||{9/13}{1.27.9}{1.6.4.9}{1.2.23.4}{308, 27, 308} सः¦वाज᳚म्¦वि॒श्वऽच॑र्षणिः¦अर्व॑त्ऽभिः¦अ॒स्तु॒¦तरु॑ता | विप्रे᳚भिः¦अ॒स्तु॒¦सनि॑ता || |
जरा᳚बोध॒ तद् वि॑विड्ढि वि॒शेवि॑शे य॒ज्ञिया᳚य |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} स्तोमं᳚ रु॒द्राय॒ दृशी᳚कम् ||{10/13}{1.27.10}{1.6.4.10}{1.2.23.5}{309, 27, 309} जरा᳚ऽबोध¦तत्¦वि॒वि॒ड्ढि॒¦वि॒शेऽवि॑शे¦य॒ज्ञिया᳚य | स्तोम᳚म्¦रु॒द्राय॑¦दृशी᳚कम् || |
स नो᳚ म॒हाँ, अ॑निमा॒नो धू॒मके᳚तुः पुरुश्च॒न्द्रः |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} धि॒ये वाजा᳚य हिन्वतु ||{11/13}{1.27.11}{1.6.4.11}{1.2.24.1}{310, 27, 310} सः¦नः॒¦म॒हान्¦अ॒नि॒ऽमा॒नः¦धू॒मऽके᳚तुः¦पु॒रु॒ऽच॒न्द्रः | धि॒ये¦वाजा᳚य¦हि॒न्व॒तु॒ || |
स रे॒वाँ, इ॑व वि॒श्पति॒र्दैव्यः॑ के॒तुः शृ॑णोतु नः |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} उ॒क्थैर॒ग्निर्बृ॒हद्भा᳚नुः ||{12/13}{1.27.12}{1.6.4.12}{1.2.24.2}{311, 27, 311} सः¦रे॒वान्ऽइ᳚व¦वि॒श्पतिः॑¦दैव्यः॑¦के॒तुः¦शृ॒णो॒तु॒¦नः॒ | उ॒क्थैः¦अ॒ग्निः¦बृ॒हत्ऽभा᳚नुः || |
नमो᳚ म॒हद्भ्यो॒ नमो᳚, अर्भ॒केभ्यो॒ नमो॒ युव॑भ्यो॒ नम॑ आशि॒नेभ्यः॑ |{आजीगर्तिः शुनःशेपः | विश्वदेवाः | त्रिष्टुप्} यजा᳚म दे॒वान् यदि॑ श॒क्नवा᳚म॒ मा ज्याय॑सः॒ शंस॒मा वृ॑क्षि देवाः ||{13/13}{1.27.13}{1.6.4.13}{1.2.24.3}{312, 27, 312} नमः॑¦म॒हत्ऽभ्यः॑¦नमः॑¦अ॒र्भ॒केभ्यः॑¦नमः॑¦युव॑ऽभ्यः¦नमः॑¦आ॒शि॒नेभ्यः॑ | |
[28] यत्रग्रावेतिनवर्चस्यसूक्तस्याजीगर्तिःशुनःशेपःआद्यानांचतसृणामिंद्रः ततो द्वयोरुलूखलं ततोद्वयोरुलूखलमुसले अंत्यायाः प्रजापतिर्हरिश्चंद्रः ( अधिषवणचर्मदेवतावा ) आद्याः षळनुष्टुभः अंत्यास्तिस्रोगायत्र्यः | |
यत्र॒ ग्रावा᳚ पृ॒थुबु॑ध्न ऊ॒र्ध्वो भव॑ति॒ सोत॑वे |{आजीगर्तिः शुनःशेपः | इन्द्रः | अनुष्टुप्} उ॒लूख॑लसुताना॒मवेद्वि᳚न्द्र जल्गुलः ||{1/9}{1.28.1}{1.6.5.1}{1.2.25.1}{313, 28, 313} यत्र॑¦ग्रावा᳚¦पृ॒थुऽबु॑ध्नः¦ऊ॒र्ध्वः¦भव॑ति¦सोत॑वे | उ॒लूख॑लऽसुतानाम्¦अव॑¦इत्¦ऊँ॒ इति॑¦इ॒न्द्र॒¦ज॒ल्गु॒लः॒ || |
यत्र॒ द्वावि॑व ज॒घना᳚धिषव॒ण्या᳚ कृ॒ता |{आजीगर्तिः शुनःशेपः | इन्द्रः | अनुष्टुप्} उ॒लूख॑लसुताना॒मवेद्वि᳚न्द्र जल्गुलः ||{2/9}{1.28.2}{1.6.5.2}{1.2.25.2}{314, 28, 314} यत्र॑¦द्वौऽइ᳚व¦ज॒घना᳚¦अ॒धि॒ऽस॒व॒न्या᳚¦कृ॒ता | उ॒लूख॑लऽसुतानाम्¦अव॑¦इत्¦ऊँ॒ इति॑¦इ॒न्द्र॒¦ज॒ल्गु॒लः॒ || |
यत्र॒ नार्य॑पच्य॒वमु॑पच्य॒वं च॒ शिक्ष॑ते |{आजीगर्तिः शुनःशेपः | इन्द्रः | अनुष्टुप्} उ॒लूख॑लसुताना॒मवेद्वि᳚न्द्र जल्गुलः ||{3/9}{1.28.3}{1.6.5.3}{1.2.25.3}{315, 28, 315} यत्र॑¦नारी᳚¦अ॒प॒ऽच्य॒वम्¦उ॒प॒ऽच्य॒वम्¦च॒¦शिक्ष॑ते | उ॒लूख॑लऽसुतानाम्¦अव॑¦इत्¦ऊँ॒ इति॑¦इ॒न्द्र॒¦ज॒ल्गु॒लः॒ || |
यत्र॒ मन्थां᳚ विब॒ध्नते᳚ र॒श्मीन् यमि॑त॒वा, इ॑व |{आजीगर्तिः शुनःशेपः | इन्द्रः | अनुष्टुप्} उ॒लूख॑लसुताना॒मवेद्वि᳚न्द्र जल्गुलः ||{4/9}{1.28.4}{1.6.5.4}{1.2.25.4}{316, 28, 316} यत्र॑¦मन्था᳚म्¦वि॒ऽब॒ध्नते᳚¦र॒श्मीन्¦यमि॑त॒वैऽइ᳚व | उ॒लूख॑लऽसुतानाम्¦अव॑¦इत्¦ऊँ॒ इति॑¦इ॒न्द्र॒¦ज॒ल्गु॒लः॒ || |
यच्चि॒द्धि त्वं गृ॒हेगृ॑ह॒ उलू᳚खलक यु॒ज्यसे᳚ |{आजीगर्तिः शुनःशेपः | उलूखलः | अनुष्टुप्} इ॒ह द्यु॒मत्त॑मं वद॒ जय॑तामिव दुन्दु॒भिः ||{5/9}{1.28.5}{1.6.5.5}{1.2.25.5}{317, 28, 317} यत्¦चि॒त्¦हि¦त्वम्¦गृ॒हेऽगृ॑हे¦उलू᳚खलक¦यु॒ज्यसे᳚ | इ॒ह¦द्यु॒मत्ऽत॑मम्¦व॒द॒¦जय॑ताम्ऽइव¦दु॒न्दु॒भिः || |
उ॒त स्म॑ ते वनस्पते॒ वातो॒ वि वा॒त्यग्र॒मित् |{आजीगर्तिः शुनःशेपः | उलूखलः | अनुष्टुप्} अथो॒, इन्द्रा᳚य॒ पात॑वे सु॒नु सोम॑मुलूखल ||{6/9}{1.28.6}{1.6.5.6}{1.2.26.1}{318, 28, 318} उ॒त¦स्म॒¦ते॒¦व॒न॒स्प॒ते॒¦वातः॑¦वि¦वा॒ति॒¦अग्र᳚म्¦इत् | अथो॒ इति॑¦इन्द्रा᳚य¦पात॑वे¦सु॒नु¦सोम᳚म्¦उ॒लू॒ख॒ल॒ || |
आ॒य॒जी वा᳚ज॒सात॑मा॒ ता ह्यु१॑(उ॒)च्चा वि॑जर्भृ॒तः |{आजीगर्तिः शुनःशेपः | उलूखल मुसले | गायत्री} हरी᳚, इ॒वान्धां᳚सि॒ बप्स॑ता ||{7/9}{1.28.7}{1.6.5.7}{1.2.26.2}{319, 28, 319} आ॒य॒जी इत्या᳚ऽय॒जी¦वा॒ज॒ऽसात॑मा¦ता¦हि¦उ॒च्चा¦वि॒ऽज॒र्भृ॒तः | हरी᳚ इ॒वेति॒ हरी᳚ऽइव¦अन्धां᳚सि¦बप्स॑ता || |
ता नो᳚, अ॒द्य व॑नस्पती, ऋ॒ष्वावृ॒ष्वेभिः॑ सो॒तृभिः॑ |{आजीगर्तिः शुनःशेपः | उलूखल मुसले | गायत्री} इन्द्रा᳚य॒ मधु॑मत् सुतम् ||{8/9}{1.28.8}{1.6.5.8}{1.2.26.3}{320, 28, 320} ता¦नः॒¦अ॒द्य¦व॒न॒स्पती॒ इति॑¦ऋ॒ष्वौ¦ऋ॒ष्वेभिः॑¦सो॒तृऽभिः॑ | इन्द्रा᳚य¦मधु॑ऽमत्¦सु॒त॒म् || |
उच्छि॒ष्टं च॒म्वो᳚र्भर॒ सोमं᳚ प॒वित्र॒ आ सृ॑ज |{आजीगर्तिः शुनःशेपः | प्रजापतिर्हरिश्चन्द्रः (अधिषवणचर्म देवतावा) | गायत्री} नि धे᳚हि॒ गोरधि॑ त्व॒चि ||{9/9}{1.28.9}{1.6.5.9}{1.2.26.4}{321, 28, 321} उत्¦शि॒ष्टम्¦च॒म्वोः᳚¦भ॒र॒¦सोम᳚म्¦प॒वित्रे᳚¦आ¦सृ॒ज॒ | नि¦धे॒हि॒¦गोः¦अधि॑¦त्व॒चि || |
[29] यच्चिद्धिसत्येतिसप्तर्चस्यसूक्तस्याजीगर्तिःशुनःशेपइंद्रःपंक्तिः | |
यच्चि॒द्धि स॑त्य सोमपा, अनाश॒स्ता, इ॑व॒ स्मसि॑ |{आजीगर्तिः शुनःशेपः | इन्द्रः | पङ्क्तिः} आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु॑ स॒हस्रे᳚षु तुवीमघ ||{1/7}{1.29.1}{1.6.6.1}{1.2.27.1}{322, 29, 322} यत्¦चि॒त्¦हि¦स॒त्य॒¦सो॒म॒ऽपाः॒¦अ॒ना॒श॒स्ताःऽइ᳚व¦स्मसि॑ | |
शिप्रि᳚न् वाजानां पते॒ शची᳚व॒स्तव॑ दं॒सना᳚ |{आजीगर्तिः शुनःशेपः | इन्द्रः | पङ्क्तिः} आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु॑ स॒हस्रे᳚षु तुवीमघ ||{2/7}{1.29.2}{1.6.6.2}{1.2.27.2}{323, 29, 323} शिप्रि॑न्¦वा॒जा॒ना॒म्¦प॒ते॒¦शची᳚ऽवः¦तव॑¦दं॒सना᳚ | |
नि ष्वा᳚पया मिथू॒दृशा᳚ स॒स्तामबु॑ध्यमाने |{आजीगर्तिः शुनःशेपः | इन्द्रः | पङ्क्तिः} आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु॑ स॒हस्रे᳚षु तुवीमघ ||{3/7}{1.29.3}{1.6.6.3}{1.2.27.3}{324, 29, 324} नि¦स्वा॒प॒य॒¦मि॒थु॒ऽदृशा᳚¦स॒स्ताम्¦अबु॑ध्यमाने॒ इति॑ | |
स॒सन्तु॒ त्या, अरा᳚तयो॒ बोध᳚न्तु शूर रा॒तयः॑ |{आजीगर्तिः शुनःशेपः | इन्द्रः | पङ्क्तिः} आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु॑ स॒हस्रे᳚षु तुवीमघ ||{4/7}{1.29.4}{1.6.6.4}{1.2.27.4}{325, 29, 325} स॒सन्तु॑¦त्याः¦अरा᳚तयः¦बोध᳚न्तु¦शू॒र॒¦रा॒तयः॑ | |
समि᳚न्द्र गर्द॒भं मृ॑ण नु॒वन्तं᳚ पा॒पया᳚मु॒या |{आजीगर्तिः शुनःशेपः | इन्द्रः | पङ्क्तिः} आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु॑ स॒हस्रे᳚षु तुवीमघ ||{5/7}{1.29.5}{1.6.6.5}{1.2.27.5}{326, 29, 326} सम्¦इ॒न्द्र॒¦ग॒र्द॒भम्¦मृ॒ण॒¦नु॒वन्त᳚म्¦पा॒पया᳚¦अ॒मु॒या | |
पता᳚ति कुण्डृ॒णाच्या᳚ दू॒रं वातो॒ वना॒दधि॑ |{आजीगर्तिः शुनःशेपः | इन्द्रः | पङ्क्तिः} आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु॑ स॒हस्रे᳚षु तुवीमघ ||{6/7}{1.29.6}{1.6.6.6}{1.2.27.6}{327, 29, 327} पता᳚ति¦कु॒ण्डृ॒णाच्या᳚¦दू॒रम्¦वातः॑¦वना᳚त्¦अधि॑ | |
सर्वं᳚ परिक्रो॒शं ज॑हि ज॒म्भया᳚ कृकदा॒श्व᳚म् |{आजीगर्तिः शुनःशेपः | इन्द्रः | पङ्क्तिः} आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु॑ स॒हस्रे᳚षु तुवीमघ ||{7/7}{1.29.7}{1.6.6.7}{1.2.27.7}{328, 29, 328} सर्व᳚म्¦प॒रि॒ऽक्रो॒शम्¦ज॒हि॒¦ज॒म्भय॑¦कृ॒क॒दा॒श्व᳚म् | |
[30] आवइंद्रमिति द्वाविंशत्यृचस्यसूक्तस्याजीगर्तिःशुनःशेपइंद्रः सप्तदश्यादितिसृणामश्विनौ ततस्तिसृणामुषागायत्री अस्माकमितिपादनिचृत् शश्वदिंद्रइतित्रिष्टुप् | |
आ व॒ इन्द्रं॒ क्रिविं᳚ यथा वाज॒यन्तः॑ श॒तक्र॑तुम् |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} मंहि॑ष्ठं सिञ्च॒ इन्दु॑भिः ||{1/22}{1.30.1}{1.6.7.1}{1.2.28.1}{329, 30, 329} आ¦वः॒¦इन्द्र᳚म्¦क्रिवि᳚म्¦य॒था॒¦वा॒ज॒ऽयन्तः॑¦श॒तऽक्र॑तुम् | मंहि॑ष्ठं¦सिं॒चे॒¦इन्दु॑ऽभिः || |
श॒तं वा॒ यः शुची᳚नां स॒हस्रं᳚ वा॒ समा᳚शिराम् |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} एदु॑ नि॒म्नं न री᳚यते ||{2/22}{1.30.2}{1.6.7.2}{1.2.28.2}{330, 30, 330} श॒तम्¦वा॒¦यः¦शुची᳚नाम्¦स॒हस्र᳚म्¦वा॒¦सम्ऽआ᳚शिराम् | आ¦इत्¦ऊँ॒ इति॑¦नि॒म्नम्¦न¦री॒य॒ते॒ || |
सं यन्मदा᳚य शु॒ष्मिण॑ ए॒ना ह्य॑स्यो॒दरे᳚ |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} स॒मु॒द्रो न व्यचो᳚ द॒धे ||{3/22}{1.30.3}{1.6.7.3}{1.2.28.3}{331, 30, 331} सम्¦यत्¦मदा᳚य¦शु॒ष्मिणे᳚¦ए॒ना¦हि¦अ॒स्य॒¦उ॒दरे᳚ | स॒मु॒द्रः¦न¦व्यचः॑¦द॒धे || |
अ॒यमु॑ ते॒ सम॑तसि क॒पोत॑ इव गर्भ॒धिम् |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} वच॒स्तच्चि᳚न्न ओहसे ||{4/22}{1.30.4}{1.6.7.4}{1.2.28.4}{332, 30, 332} अ॒यम्¦ऊँ इति॑¦ते॒¦सम्¦अ॒त॒सि॒¦क॒पोतः॑ऽइव¦ग॒र्भ॒ऽधिम् | वचः॑¦तत्¦चि॒त्¦नः॒¦ओ॒ह॒से॒ || |
स्तो॒त्रं रा᳚धानां पते॒ गिर्वा᳚हो वीर॒ यस्य॑ ते |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} विभू᳚तिरस्तु सू॒नृता᳚ ||{5/22}{1.30.5}{1.6.7.5}{1.2.28.5}{333, 30, 333} स्तो॒त्रम्¦रा॒धा॒ना॒म्¦प॒ते॒¦गिर्वा᳚हः¦वी॒र॒¦यस्य॑¦ते॒ | विऽभू᳚तिः¦अ॒स्तु॒¦सु॒नृता᳚ || |
ऊ॒र्ध्वस्ति॑ष्ठा न ऊ॒तये॒ऽस्मिन् वाजे᳚ शतक्रतो |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} सम॒न्येषु॑ ब्रवावहै ||{6/22}{1.30.6}{1.6.7.6}{1.2.29.1}{334, 30, 334} ऊ॒र्ध्वः¦ति॒ष्ठ॒¦नः॒¦ऊ॒तये᳚¦अ॒स्मिन्¦वाजे᳚¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | सम्¦अ॒न्येषु॑¦ब्र॒वा॒व॒है॒ || |
योगे᳚योगे त॒वस्त॑रं॒ वाजे᳚वाजे हवामहे |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} सखा᳚य॒ इन्द्र॑मू॒तये᳚ ||{7/22}{1.30.7}{1.6.7.7}{1.2.29.2}{335, 30, 335} योगे᳚ऽयोगे¦त॒वःऽत॑रम्¦वाजे᳚ऽवाजे¦ह॒वा॒म॒हे॒ | सखा᳚यः¦इन्द्र᳚म्¦ऊ॒तये᳚ || |
आ घा᳚ गम॒द्यदि॒ श्रव॑त्सह॒स्रिणी᳚भिरू॒तिभिः॑ |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} वाजे᳚भि॒रुप॑ नो॒ हव᳚म् ||{8/22}{1.30.8}{1.6.7.8}{1.2.29.3}{336, 30, 336} आ¦घ॒¦ग॒म॒त्¦यदि॑¦श्रव॑त्¦स॒ह॒स्रिणी᳚भिः¦ऊ॒तिऽभिः॑ | वाजे᳚भिः¦उप॑¦नः॒¦हव᳚म् || |
अनु॑ प्र॒त्नस्यौक॑सो हु॒वे तु॑विप्र॒तिं नर᳚म् |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} यं ते॒ पूर्वं᳚ पि॒ता हु॒वे ||{9/22}{1.30.9}{1.6.7.9}{1.2.29.4}{337, 30, 337} अनु॑¦प्र॒त्नस्य॑¦ओक॑सः¦हु॒वे¦तु॒वि॒ऽप्र॒तिम्¦नर᳚म् | यम्¦ते॒¦पूर्व᳚म्¦पि॒ता¦हु॒वे || |
तं त्वा᳚ व॒यं वि॑श्ववा॒रा शा᳚स्महे पुरुहूत |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} सखे᳚ वसो जरि॒तृभ्यः॑ ||{10/22}{1.30.10}{1.6.7.10}{1.2.29.5}{338, 30, 338} तम्¦त्वा॒¦व॒यम्¦वि॒श्व॒ऽवा॒र॒¦आ¦शा॒स्म॒हे॒¦पु॒रु॒ऽहू॒त॒ | सखे᳚¦व॒सो॒ इति॑¦ज॒रि॒तृऽभ्यः॑ || |
अ॒स्माकं᳚ शि॒प्रिणी᳚नां॒ सोम॑पाः सोम॒पाव्ना᳚म् |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} सखे᳚ वज्रि॒न् त्सखी᳚नाम् ||{11/22}{1.30.11}{1.6.7.11}{1.2.30.1}{339, 30, 339} अ॒स्माक᳚म्¦शि॒प्रिणी᳚नाम्¦सोम॑ऽपाः¦सो॒म॒ऽपाव्ना᳚म् | सखे᳚¦व॒ज्रि॒न्¦सखी᳚नाम् || |
तथा॒ तद॑स्तु सोमपाः॒ सखे᳚ वज्रि॒न् तथा᳚ कृणु |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} यथा᳚ त उ॒श्मसी॒ष्टये᳚ ||{12/22}{1.30.12}{1.6.7.12}{1.2.30.2}{340, 30, 340} तथा᳚¦तत्¦अ॒स्तु॒¦सो॒म॒ऽपाः॒¦सखे᳚¦व॒ज्रि॒न्¦तथा᳚¦कृ॒णु॒ | यथा᳚¦ते॒¦उ॒श्मसि॑¦इ॒ष्टये᳚ || |
रे॒वती᳚र्नः सध॒माद॒ इन्द्रे᳚ सन्तु तु॒विवा᳚जाः |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} क्षु॒मन्तो॒ याभि॒र्मदे᳚म ||{13/22}{1.30.13}{1.6.7.13}{1.2.30.3}{341, 30, 341} रे॒वतीः᳚¦नः॒¦स॒ध॒ऽमादे᳚¦इन्द्रे᳚¦स॒न्तु॒¦तु॒विऽवा᳚जाः | क्षु॒ऽमन्तः॑¦याभिः॑¦मदे᳚म || |
आ घ॒ त्वावा॒न् त्मना॒प्तः स्तो॒तृभ्यो᳚ धृष्णविया॒नः |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} ऋ॒णोरक्षं॒ न च॒क्र्योः᳚ ||{14/22}{1.30.14}{1.6.7.14}{1.2.30.4}{342, 30, 342} आ¦घ॒¦त्वाऽवा᳚न्¦त्मना᳚¦आ॒प्तः¦स्तो॒तृऽभ्यः॑¦धृ॒ष्णो॒ इति॑¦इ॒या॒नः | ऋ॒णोः¦अक्ष᳚म्¦न¦च॒क्र्योः᳚ || |
आ यद्दुवः॑ शतक्रत॒वा कामं᳚ जरितॄ॒णाम् |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} ऋ॒णोरक्षं॒ न शची᳚भिः ||{15/22}{1.30.15}{1.6.7.15}{1.2.30.5}{343, 30, 343} आ¦यत्¦दुवः॑¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो¦आ¦काम᳚म्¦ज॒रि॒तॄ॒णाम् | ऋ॒णोः¦अक्ष᳚म्¦न¦शची᳚भिः || |
शश्व॒दिन्द्रः॒ पोप्रु॑थद्भिर्जिगाय॒ नान॑दद्भिः॒ शाश्व॑सद्भि॒र्धना᳚नि |{आजीगर्तिः शुनःशेपः | इन्द्रः | त्रिष्टुप्} स नो᳚ हिरण्यर॒थं दं॒सना᳚वा॒न् त्सनः॑ सनि॒ता स॒नये॒ स नो᳚ऽदात् ||{16/22}{1.30.16}{1.6.7.16}{1.2.31.1}{344, 30, 344} शश्व॑त्¦इन्द्रः॑¦पोप्रु॑थत्ऽभिः¦जि॒गा॒य॒¦नान॑दत्ऽभिः¦शाश्व॑सत्ऽभिः¦धना᳚नि | |
आश्वि॑ना॒वश्वा᳚वत्ये॒षा या᳚तं॒ शवी᳚रया |{आजीगर्तिः शुनःशेपः | अश्विनौ | गायत्री} गोम॑द्दस्रा॒ हिर᳚ण्यवत् ||{17/22}{1.30.17}{1.6.7.17}{1.2.31.2}{345, 30, 345} आ¦अ॒श्वि॒नौ॒¦अश्व॑ऽवत्या¦इ॒षा¦या॒त॒म्¦शवी᳚रया | गोऽम॑त्¦द॒स्रा॒¦हिर᳚ण्यऽवत् || |
स॒मा॒नयो᳚जनो॒ हि वां॒ रथो᳚ दस्रा॒वम॑र्त्यः |{आजीगर्तिः शुनःशेपः | अश्विनौ | गायत्री} स॒मु॒द्रे, अ॑श्वि॒नेय॑ते ||{18/22}{1.30.18}{1.6.7.18}{1.2.31.3}{346, 30, 346} स॒मा॒नऽयो᳚जनः¦हि¦वा॒म्¦रथः॑¦द॒स्रौ॒¦अम॑र्त्यः | स॒मु॒द्रे¦अ॒श्वि॒ना॒¦ईय॑ते || |
न्य१॑(अ॒)घ्न्यस्य॑ मू॒र्धनि॑ च॒क्रं रथ॑स्य येमथुः |{आजीगर्तिः शुनःशेपः | अश्विनौ | गायत्री} परि॒ द्याम॒न्यदी᳚यते ||{19/22}{1.30.19}{1.6.7.19}{1.2.31.4}{347, 30, 347} नि¦अ॒घ्न्यस्य॑¦मू॒र्धनि॑¦च॒क्रम्¦रथ॑स्य¦ये॒म॒थुः॒ | परि॑¦द्याम्¦अ॒न्यत्¦ई॒य॒ते॒ || |
कस्त॑ उषः कधप्रिये भु॒जे मर्तो᳚, अमर्त्ये |{आजीगर्तिः शुनःशेपः | उषाः | गायत्री} कं न॑क्षसे विभावरि ||{20/22}{1.30.20}{1.6.7.20}{1.2.31.5}{348, 30, 348} कः¦ते॒¦उ॒षः॒¦क॒ध॒ऽप्रि॒ये॒¦भु॒जे¦मर्तः॑¦अ॒म॒र्त्ये॒ | कम्¦न॒क्ष॒से॒¦वि॒भा॒ऽव॒रि॒ || |
व॒यं हि ते॒, अम᳚न्म॒ह्याऽऽन्ता॒दा प॑रा॒कात् |{आजीगर्तिः शुनःशेपः | उषाः | गायत्री} अश्वे॒ न चि॑त्रे, अरुषि ||{21/22}{1.30.21}{1.6.7.21}{1.2.31.6}{349, 30, 349} व॒यम्¦हि¦ते॒¦अम᳚न्महि¦आ¦अन्ता᳚त्¦आ¦प॒रा॒कात् | अश्वे᳚¦न¦चि॒त्रे॒¦अ॒रु॒षि॒ || |
त्वं त्येभि॒रा ग॑हि॒ वाजे᳚भिर्दुहितर्दिवः |{आजीगर्तिः शुनःशेपः | उषाः | गायत्री} अ॒स्मे र॒यिं नि धा᳚रय ||{22/22}{1.30.22}{1.6.7.22}{1.2.31.7}{350, 30, 350} त्वम्¦त्येभिः॑¦आ¦ग॒हि॒¦वाजे᳚भिः¦दु॒हि॒तः॒¦दि॒वः॒ | अ॒स्मे इति॑¦र॒यिम्¦नि¦धा॒र॒य॒ || |
[31] त्वमग्नइत्यष्टादशर्चस्य सूक्तस्यांगिरसोहिरण्यस्तूपोग्निर्जगती अष्टमी षोळश्यंत्यास्त्रिष्टुभः | |
त्वम॑ग्ने प्रथ॒मो, अङ्गि॑रा॒ ऋषि॑र्दे॒वो दे॒वाना᳚मभवः शि॒वः सखा᳚ |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} तव᳚ व्र॒ते क॒वयो᳚ विद्म॒नाप॒सोऽजा᳚यन्त म॒रुतो॒ भ्राज॑दृष्टयः ||{1/18}{1.31.1}{1.7.1.1}{1.2.32.1}{351, 31, 351} त्वम्¦अ॒ग्ने॒¦प्र॒थ॒मः¦अङ्गि॑राः¦ऋषिः॑¦दे॒वः¦दे॒वाना᳚म्¦अ॒भ॒वः॒¦शि॒वः¦सखा᳚ | |
त्वम॑ग्ने प्रथ॒मो, अङ्गि॑रस्तमः क॒विर्दे॒वानां॒ परि॑ भूषसि व्र॒तम् |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} वि॒भुर्विश्व॑स्मै॒ भुव॑नाय॒ मेधि॑रो द्विमा॒ता श॒युः क॑ति॒धा चि॑दा॒यवे᳚ ||{2/18}{1.31.2}{1.7.1.2}{1.2.32.2}{352, 31, 352} त्वम्¦अ॒ग्ने॒¦प्र॒थ॒मः¦अङ्गि॑रःऽतमः¦क॒विः¦दे॒वाना᳚म्¦परि॑¦भू॒ष॒सि॒¦व्र॒तम् | |
त्वम॑ग्ने प्रथ॒मो मा᳚त॒रिश्व॑न आ॒विर्भ॑व सुक्रतू॒या वि॒वस्व॑ते |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} अरे᳚जेतां॒ रोद॑सी होतृ॒वूर्येऽस॑घ्नोर्भा॒रमय॑जो म॒हो व॑सो ||{3/18}{1.31.3}{1.7.1.3}{1.2.32.3}{353, 31, 353} त्वम्¦अ॒ग्ने॒¦प्र॒थ॒मः¦मा॒त॒रिश्व॑ने¦आ॒विः¦भ॒व॒¦सु॒क्र॒तु॒ऽया¦वि॒वस्व॑ते | |
त्वम॑ग्ने॒ मन॑वे॒ द्याम॑वाशयः पुरू॒रव॑से सु॒कृते᳚ सु॒कृत्त॑रः |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} श्वा॒त्रेण॒ यत् पि॒त्रोर्मुच्य॑से॒ पर्या त्वा॒ पूर्व॑मनय॒न्नाप॑रं॒ पुनः॑ ||{4/18}{1.31.4}{1.7.1.4}{1.2.32.4}{354, 31, 354} त्वम्¦अ॒ग्ने॒¦मन॑वे¦द्याम्¦अ॒वा॒श॒यः॒¦पु॒रू॒रव॑से¦सु॒ऽकृते᳚¦सु॒कृत्ऽत॑रः | |
त्वम॑ग्ने वृष॒भः पु॑ष्टि॒वर्ध॑न॒ उद्य॑तस्रुचे भवसि श्र॒वाय्यः॑ |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} य आहु॑तिं॒ परि॒ वेदा॒ वष॑ट्कृति॒मेका᳚यु॒रग्रे॒ विश॑ आ॒विवा᳚ससि ||{5/18}{1.31.5}{1.7.1.5}{1.2.32.5}{355, 31, 355} त्वम्¦अ॒ग्ने॒¦वृ॒ष॒भः¦पु॒ष्टि॒ऽवर्ध॑नः¦उद्य॑तऽस्रुचे¦भ॒व॒सि॒¦श्र॒वाय्यः॑ | |
त्वम॑ग्ने वृजि॒नव॑र्तनिं॒ नरं॒ सक्म᳚न् पिपर्षि वि॒दथे᳚ विचर्षणे |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} यः शूर॑साता॒ परि॑तक्म्ये॒ धने᳚ द॒भ्रेभि॑श्चि॒त् समृ॑ता॒ हंसि॒ भूय॑सः ||{6/18}{1.31.6}{1.7.1.6}{1.2.33.1}{356, 31, 356} त्वम्¦अ॒ग्ने॒¦वृ॒जि॒नऽव॑र्तनिम्¦नर᳚म्¦सक्म॑न्¦पि॒प॒र्षि॒¦वि॒दथे᳚¦वि॒ऽच॒र्ष॒णे॒ | |
त्वं तम॑ग्ने, अमृत॒त्व उ॑त्त॒मे मर्तं᳚ दधासि॒ श्रव॑से दि॒वेदि॑वे |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} यस्ता᳚तृषा॒ण उ॒भया᳚य॒ जन्म॑ने॒ मयः॑ कृ॒णोषि॒ प्रय॒ आ च॑ सू॒रये᳚ ||{7/18}{1.31.7}{1.7.1.7}{1.2.33.2}{357, 31, 357} त्वम्¦तम्¦अ॒ग्ने॒¦अ॒मृ॒त॒ऽत्वे¦उ॒त्ऽत॒मे¦मर्त᳚म्¦द॒धा॒सि॒¦श्रव॑से¦दि॒वेऽदि॑वे | |
त्वं नो᳚, अग्ने स॒नये॒ धना᳚नां य॒शसं᳚ का॒रुं कृ॑णुहि॒ स्तवा᳚नः |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | त्रिष्टुप्} ऋ॒ध्याम॒ कर्मा॒पसा॒ नवे᳚न दे॒वैर्द्या᳚वापृथिवी॒ प्राव॑तं नः ||{8/18}{1.31.8}{1.7.1.8}{1.2.33.3}{358, 31, 358} त्वम्¦नः॒¦अ॒ग्ने॒¦स॒नये᳚¦धना᳚नाम्¦य॒शस᳚म्¦का॒रुम्¦कृ॒णु॒हि॒¦स्तवा᳚नः | |
त्वं नो᳚, अग्ने पि॒त्रोरु॒पस्थ॒ आ दे॒वो दे॒वेष्व॑नवद्य॒ जागृ॑विः |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} त॒नू॒कृद् बो᳚धि॒ प्रम॑तिश्च का॒रवे॒ त्वं क᳚ल्याण॒ वसु॒ विश्व॒मोपि॑षे ||{9/18}{1.31.9}{1.7.1.9}{1.2.33.4}{359, 31, 359} त्वम्¦नः॒¦अ॒ग्ने॒¦पि॒त्रोः¦उ॒पऽस्थे᳚¦आ¦दे॒वः¦दे॒वेषु॑¦अ॒न॒व॒द्य॒¦जागृ॑विः | |
त्वम॑ग्ने॒ प्रम॑ति॒स्त्वं पि॒तासि॑ न॒स् त्वं व॑य॒स्कृत्तव॑ जा॒मयो᳚ व॒यम् |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} सं त्वा॒ रायः॑ श॒तिनः॒ सं स॑ह॒स्रिणः॑ सु॒वीरं᳚ यन्ति व्रत॒पाम॑दाभ्य ||{10/18}{1.31.10}{1.7.1.10}{1.2.33.5}{360, 31, 360} त्वम्¦अ॒ग्ने॒¦प्रऽम॑तिः¦त्वम्¦पि॒ता¦अ॒सि॒¦नः॒¦त्वम्¦व॒यः॒ऽकृत्¦तव॑¦जा॒मयः॑¦व॒यम् | |
त्वाम॑ग्ने प्रथ॒ममा॒युमा॒यवे᳚ दे॒वा, अ॑कृण्व॒न् नहु॑षस्य वि॒श्पति᳚म् |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} इळा᳚मकृण्व॒न् मनु॑षस्य॒ शास॑नीं पि॒तुर्यत् पु॒त्रो मम॑कस्य॒ जाय॑ते ||{11/18}{1.31.11}{1.7.1.11}{1.2.34.1}{361, 31, 361} त्वाम्¦अ॒ग्ने॒¦प्र॒थ॒मम्¦आ॒युम्¦आ॒यवे᳚¦दे॒वाः¦अ॒कृ॒ण्व॒न्¦नहु॑षस्य¦वि॒श्पति᳚म् | |
त्वं नो᳚, अग्ने॒ तव॑ देव पा॒युभि᳚र्म॒घोनो᳚ रक्ष त॒न्व॑श्च वन्द्य |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} त्रा॒ता तो॒कस्य॒ तन॑ये॒ गवा᳚म॒स्यनि॑मेषं॒ रक्ष॑माण॒स्तव᳚ व्र॒ते ||{12/18}{1.31.12}{1.7.1.12}{1.2.34.2}{362, 31, 362} त्वम्¦नः॒¦अ॒ग्ने॒¦तव॑¦दे॒व॒¦पा॒युऽभिः॑¦म॒घोनः॑¦र॒क्ष॒¦त॒न्वः॑¦च॒¦व॒न्द्य॒ | |
त्वम॑ग्ने॒ यज्य॑वे पा॒युरन्त॑रोऽनिष॒ङ्गाय॑ चतुर॒क्ष इ॑ध्यसे |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} यो रा॒तह᳚व्योऽवृ॒काय॒ धाय॑से की॒रेश्चि॒न् मन्त्रं॒ मन॑सा व॒नोषि॒ तम् ||{13/18}{1.31.13}{1.7.1.13}{1.2.34.3}{363, 31, 363} त्वम्¦अ॒ग्ने॒¦यज्य॑वे¦पा॒युः¦अन्त॑रः¦अ॒नि॒ष॒ङ्गाय॑¦च॒तुः॒।आ॒क्षः¦इ॒ध्य॒से॒ | |
त्वम॑ग्न उरु॒शंसा᳚य वा॒घते᳚ स्पा॒र्हं यद्रेक्णः॑ पर॒मं व॒नोषि॒ तत् |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} आ॒ध्रस्य॑ चि॒त् प्रम॑तिरुच्यसे पि॒ता प्र पाकं॒ शास्सि॒ प्र दिशो᳚ वि॒दुष्ट॑रः ||{14/18}{1.31.14}{1.7.1.14}{1.2.34.4}{364, 31, 364} त्वम्¦अ॒ग्ने॒¦उ॒रु॒ऽशंसा᳚य¦वा॒घते᳚¦स्पा॒र्हम्¦यत्¦रेक्णः॑¦प॒र॒मम्¦व॒नोषि॑¦तत् | |
त्वम॑ग्ने॒ प्रय॑तदक्षिणं॒ नरं॒ वर्मे᳚व स्यू॒तं परि॑ पासि वि॒श्वतः॑ |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} स्वा॒दु॒क्षद्मा॒ यो व॑स॒तौ स्यो᳚न॒कृज् जी᳚वया॒जं यज॑ते॒ सोप॒मा दि॒वः ||{15/18}{1.31.15}{1.7.1.15}{1.2.34.5}{365, 31, 365} त्वम्¦अ॒ग्ने॒¦प्रय॑तऽदक्षिणम्¦नर᳚म्¦वर्म॑ऽइव¦स्यू॒तम्¦परि॑¦पा॒सि॒¦वि॒श्वतः॑ | |
इ॒माम॑ग्ने श॒रणिं᳚ मीमृषो न इ॒ममध्वा᳚नं॒ यमगा᳚म दू॒रात् |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | त्रिष्टुप्} आ॒पिः पि॒ता प्रम॑तिः सो॒म्यानां॒ भृमि॑रस्यृषि॒कृन् मर्त्या᳚नाम् ||{16/18}{1.31.16}{1.7.1.16}{1.2.35.1}{366, 31, 366} इ॒माम्¦अ॒ग्ने॒¦श॒रणि᳚म्¦मी॒मृ॒षः॒¦नः॒¦इ॒मम्¦अध्वा᳚नम्¦यम्¦अगा᳚म¦दू॒रात् | |
म॒नु॒ष्वद॑ग्ने, अङ्गिर॒स्वद᳚ङ्गिरो ययाति॒वत् सद॑ने पूर्व॒वच्छु॑चे |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} अच्छ॑ या॒ह्या व॑हा॒ दैव्यं॒ जन॒मा सा᳚दय ब॒र्हिषि॒ यक्षि॑ च प्रि॒यम् ||{17/18}{1.31.17}{1.7.1.17}{1.2.35.2}{367, 31, 367} म॒नु॒ष्वत्¦अ॒ग्ने॒¦अ॒ङ्गि॒र॒स्वत्¦अ॒ङ्गि॒रः॒¦य॒या॒ति॒ऽवत्¦सद॑ने¦पू॒र्व॒ऽवत्¦शु॒चे॒ | |
ए॒तेना᳚ग्ने॒ ब्रह्म॑णा वावृधस्व॒ शक्ती᳚ वा॒ यत्ते᳚ चकृ॒मा वि॒दा वा᳚ |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | त्रिष्टुप्} उ॒त प्र णे᳚ष्य॒भि वस्यो᳚, अ॒स्मान् त्सं नः॑ सृज सुम॒त्या वाज॑वत्या ||{18/18}{1.31.18}{1.7.1.18}{1.2.35.3}{368, 31, 368} ए॒तेन॑¦अ॒ग्ने॒¦ब्रह्म॑णा¦व॒वृ॒ध॒स्व॒¦शक्ती᳚¦वा॒¦यत्¦ते॒¦च॒कृ॒म¦वि॒दा¦वा॒ | |
[32] इंद्रस्यन्विति पंचदशर्चस्यसूक्तस्यांगिरसोहिरण्यस्तूपइंद्रस्त्रिष्टुप् | |
इन्द्र॑स्य॒ नु वी॒र्या᳚णि॒ प्र वो᳚चं॒ यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} अह॒न्नहि॒मन्व॒पस्त॑तर्द॒ प्र व॒क्षणा᳚, अभिन॒त् पर्व॑तानाम् ||{1/15}{1.32.1}{1.7.2.1}{1.2.36.1}{369, 32, 369} इन्द्र॑स्य¦नु¦वी॒र्या᳚णि¦प्र¦वो॒च॒म्¦यानि॑¦च॒कार॑¦प्र॒थ॒मानि॑¦व॒ज्री | |
अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णं त्वष्टा᳚स्मै॒ वज्रं᳚ स्व॒र्यं᳚ ततक्ष |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} वा॒श्रा, इ॑व धे॒नवः॒ स्यन्द॑माना॒, अञ्जः॑ समु॒द्रमव॑ जग्मु॒रापः॑ ||{2/15}{1.32.2}{1.7.2.2}{1.2.36.2}{370, 32, 370} अह॑न्¦अहि᳚म्¦पर्व॑ते¦शि॒श्रि॒या॒णम्¦त्वष्टा᳚¦अ॒स्मै॒¦वज्र᳚म्¦स्व॒र्य᳚म्¦त॒त॒क्ष॒ | |
वृ॒षा॒यमा᳚णोऽवृणीत॒ सोमं॒ त्रिक॑द्रुकेष्वपिबत् सु॒तस्य॑ |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} आ साय॑कं म॒घवा᳚दत्त॒ वज्र॒मह᳚न्नेनं प्रथम॒जामही᳚नाम् ||{3/15}{1.32.3}{1.7.2.3}{1.2.36.3}{371, 32, 371} वृ॒ष॒ऽयमा᳚णः¦अ॒वृ॒णी॒त॒¦सोम᳚म्¦त्रिऽक॑द्रुकेषु¦अ॒पि॒ब॒त्¦सु॒तस्य॑ | |
यदि॒न्द्राह᳚न् प्रथम॒जामही᳚ना॒मान्मा॒यिना॒ममि॑नाः॒ प्रोत मा॒याः |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} आत् सूर्यं᳚ ज॒नय॒न् द्यामु॒षासं᳚ ता॒दीत्ना॒ शत्रुं॒ न किला᳚ विवित्से ||{4/15}{1.32.4}{1.7.2.4}{1.2.36.4}{372, 32, 372} यत्¦इ॒न्द्र॒¦अह॑न्¦प्र॒थ॒म॒ऽजाम्¦अही᳚नाम्¦आत्¦मा॒यिना᳚म्¦अमि॑नाः¦प्र¦उ॒त¦मा॒याः | |
अह᳚न् वृ॒त्रं वृ॑त्र॒तरं॒ व्यं᳚स॒मिन्द्रो॒ वज्रे᳚ण मह॒ता व॒धेन॑ |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} स्कन्धां᳚सीव॒ कुलि॑शेना॒ विवृ॒क्णाहिः॑ शयत उप॒पृक् पृ॑थि॒व्याः ||{5/15}{1.32.5}{1.7.2.5}{1.2.36.5}{373, 32, 373} अह॑न्¦वृ॒त्रम्¦वृ॒त्र॒ऽतर᳚म्¦वि।आं᳚सम्¦इन्द्रः॑¦वज्रे᳚ण¦म॒ह॒ता¦व॒धेन॑ | |
अ॒यो॒द्धेव॑ दु॒र्मद॒ आ हि जु॒ह्वे म॑हावी॒रं तु॑विबा॒धमृ॑जी॒षम् |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} नाता᳚रीदस्य॒ समृ॑तिं व॒धानां॒ सं रु॒जानाः᳚ पिपिष॒ इन्द्र॑शत्रुः ||{6/15}{1.32.6}{1.7.2.6}{1.2.37.1}{374, 32, 374} अ॒यो॒द्धाऽइ᳚व¦दुः॒ऽमदः॑¦आ¦हि¦जु॒ह्वे¦म॒हा॒ऽवी॒रम्¦तु॒वि॒ऽबा॒धम्¦ऋ॒जी॒षम् | |
अ॒पाद॑ह॒स्तो, अ॑पृतन्य॒दिन्द्र॒मास्य॒ वज्र॒मधि॒ सानौ᳚ जघान |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} वृष्णो॒ वध्रिः॑ प्रति॒मानं॒ बुभू᳚षन् पुरु॒त्रा वृ॒त्रो, अ॑शय॒द् व्य॑स्तः ||{7/15}{1.32.7}{1.7.2.7}{1.2.37.2}{375, 32, 375} अ॒पात्¦अ॒ह॒स्तः¦अ॒पृ॒त॒न्य॒त्¦इन्द्र᳚म्¦आ¦अ॒स्य॒¦वज्र᳚म्¦अधि॑¦सानौ᳚¦ज॒घा॒न॒ | |
न॒दं न भि॒न्नम॑मु॒या शया᳚नं॒ मनो॒ रुहा᳚णा॒, अति॑ य॒न्त्यापः॑ |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} याश्चि॑द् वृ॒त्रो म॑हि॒ना प॒र्यति॑ष्ठ॒त् तासा॒महिः॑ पत्सुतः॒शीर्ब॑भूव ||{8/15}{1.32.8}{1.7.2.8}{1.2.37.3}{376, 32, 376} न॒दम्¦न¦भि॒न्नम्¦अ॒मु॒या¦शया᳚नम्¦मनः॑¦रुहा᳚णाः¦अति॑¦य॒न्ति॒¦आपः॑ | |
नी॒चाव॑या, अभवद् वृ॒त्रपु॒त्रेन्द्रो᳚, अस्या॒, अव॒ वध॑र्जभार |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} उत्त॑रा॒ सूरध॑रः पु॒त्र आ᳚सी॒द् दानुः॑ शये स॒हव॑त्सा॒ न धे॒नुः ||{9/15}{1.32.9}{1.7.2.9}{1.2.37.4}{377, 32, 377} नी॒चाऽव॑याः¦अ॒भ॒व॒त्¦वृ॒त्रऽपु॑त्रा¦इन्द्रः॑¦अ॒स्याः॒¦अव॑¦वधः॑¦ज॒भा॒र॒ | |
अति॑ष्ठन्तीनामनिवेश॒नानां॒ काष्ठा᳚नां॒ मध्ये॒ निहि॑तं॒ शरी᳚रम् |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} वृ॒त्रस्य॑ नि॒ण्यं वि च॑र॒न्त्यापो᳚ दी॒र्घं तम॒ आश॑य॒दिन्द्र॑शत्रुः ||{10/15}{1.32.10}{1.7.2.10}{1.2.37.5}{378, 32, 378} अति॑ष्ठन्तीनाम्¦अ॒नि॒ऽवे॒श॒नाना᳚म्¦काष्ठा᳚नाम्¦मध्ये᳚¦निऽहि॑तम्¦शरी᳚रम् | |
दा॒सप॑त्नी॒रहि॑गोपा, अतिष्ठ॒न् निरु॑द्धा॒, आपः॑ प॒णिने᳚व॒ गावः॑ |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} अ॒पां बिल॒मपि॑हितं॒ यदासी᳚द् वृ॒त्रं ज॑घ॒न्वाँ, अप॒ तद् व॑वार ||{11/15}{1.32.11}{1.7.2.11}{1.2.38.1}{379, 32, 379} दा॒सऽप॑त्नीः¦अहि॑ऽगोपाः¦अ॒ति॒ष्ठ॒न्¦निऽरु॑द्धाः¦आपः॑¦प॒णिना᳚ऽइव¦गावः॑ | |
अश्व्यो॒ वारो᳚, अभव॒स्तदि᳚न्द्र सृ॒के यत् त्वा᳚ प्र॒त्यह᳚न् दे॒व एकः॑ |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} अज॑यो॒ गा, अज॑यः शूर॒ सोम॒मवा᳚सृजः॒ सर्त॑वे स॒प्त सिन्धू॑न् ||{12/15}{1.32.12}{1.7.2.12}{1.2.38.2}{380, 32, 380} अश्व्यः॑¦वारः॑¦अ॒भ॒वः॒¦तत्¦इ॒न्द्र॒¦सृ॒के¦यत्¦त्वा॒¦प्र॒ति॒।आह॑न्¦दे॒वः¦एकः॑ | |
नास्मै᳚ वि॒द्युन्न त᳚न्य॒तुः सि॑षेध॒ न यां मिह॒मकि॑रद् ध्रा॒दुनिं᳚ च |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} इन्द्र॑श्च॒ यद् यु॑यु॒धाते॒, अहि॑श्चो॒ताप॒रीभ्यो᳚ म॒घवा॒ वि जि॑ग्ये ||{13/15}{1.32.13}{1.7.2.13}{1.2.38.3}{381, 32, 381} न¦अ॒स्मै॒¦वि॒ऽद्युत्¦न¦त॒न्य॒तुः¦सि॒से॒ध॒¦न¦याम्¦मिह᳚म्¦अकि॑रत्¦ह्रा॒दुनि᳚म्¦च॒ | |
अहे᳚र्या॒तारं॒ कम॑पश्य इन्द्र हृ॒दि यत्ते᳚ ज॒घ्नुषो॒ भीरग॑च्छत् |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} नव॑ च॒ यन् न॑व॒तिं च॒ स्रव᳚न्तीः श्ये॒नो न भी॒तो, अत॑रो॒ रजां᳚सि ||{14/15}{1.32.14}{1.7.2.14}{1.2.38.4}{382, 32, 382} अहेः᳚¦या॒तार᳚म्¦कम्¦अ॒प॒श्यः॒¦इ॒न्द्र॒¦हृ॒दि¦यत्¦ते॒¦ज॒घ्नुषः॑¦भीः¦अग॑च्छत् | |
इन्द्रो᳚ या॒तोऽव॑सितस्य॒ राजा॒ शम॑स्य च शृ॒ङ्गिणो॒ वज्र॑बाहुः |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} सेदु॒ राजा᳚ क्षयति चर्षणी॒नाम॒रान् न ने॒मिः परि॒ ता ब॑भूव ||{15/15}{1.32.15}{1.7.2.15}{1.2.38.5}{383, 32, 383} इन्द्रः॑¦या॒तः¦अव॑ऽसितस्य¦राजा᳚¦शम॑स्य¦च॒¦शृ॒ङ्गिणः॑¦वज्र॑ऽबाहुः | |
[33] एतायामेतिपंचदशर्चस्यसूक्तस्यांगिरसोहिरण्यस्तूपइंद्रस्त्रिष्टुप् | |
एताया॒मोप॑ ग॒व्यन्त॒ इन्द्र॑म॒स्माकं॒ सु प्रम॑तिं वावृधाति |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} अ॒ना॒मृ॒णः कु॒विदाद॒स्य रा॒यो गवां॒ केतं॒ पर॑मा॒वर्ज॑ते नः ||{1/15}{1.33.1}{1.7.3.1}{1.3.1.1}{384, 33, 384} आ¦इ॒त॒¦अया᳚म¦उप॑¦ग॒व्यन्तः॑¦इन्द्र᳚म्¦अ॒स्माक᳚म्¦सु¦प्रऽम॑तिम्¦व॒वृ॒धा॒ति॒ | |
उपेद॒हं ध॑न॒दामप्र॑तीतं॒ जुष्टां॒ न श्ये॒नो व॑स॒तिं प॑तामि |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} इन्द्रं᳚ नम॒स्यन्नु॑प॒मेभि॑र॒र्कैर्यः स्तो॒तृभ्यो॒ हव्यो॒, अस्ति॒ याम॑न् ||{2/15}{1.33.2}{1.7.3.2}{1.3.1.2}{385, 33, 385} उप॑¦इत्¦अ॒हम्¦ध॒न॒ऽदाम्¦अप्र॑तिऽइतम्¦जुष्टा᳚म्¦न¦श्ये॒नः¦व॒स॒तिम्¦प॒ता॒मि॒ | |
नि सर्व॑सेन इषु॒धीँर॑सक्त॒ सम॒र्यो गा, अ॑जति॒ यस्य॒ वष्टि॑ |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} चो॒ष्कू॒यमा᳚ण इन्द्र॒ भूरि॑ वा॒मं मा प॒णिर्भू᳚र॒स्मदधि॑ प्रवृद्ध ||{3/15}{1.33.3}{1.7.3.3}{1.3.1.3}{386, 33, 386} नि¦सर्व॑ऽसेनः¦इ॒षु॒ऽधीन्¦अ॒स॒क्त॒¦सम्¦अ॒र्यः¦गाः¦अ॒ज॒ति॒¦यस्य॑¦वष्टि॑ | |
वधी॒र्हि दस्युं᳚ ध॒निनं᳚ घ॒नेनँ॒, एक॒श्चर᳚न्नुपशा॒केभि॑रिन्द्र |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} धनो॒रधि॑ विषु॒णक् ते व्या᳚य॒न्नय॑ज्वानः सन॒काः प्रेति॑मीयुः ||{4/15}{1.33.4}{1.7.3.4}{1.3.1.4}{387, 33, 387} वधीः᳚¦हि¦दस्यु᳚म्¦ध॒निन᳚म्¦घ॒नेन॑¦एकः॑¦चर॑न्¦उ॒प॒ऽशा॒केभिः॑¦इ॒न्द्र॒ | |
परा᳚ चिच्छी॒र्षा व॑वृजु॒स्त इ॒न्द्राय॑ज्वानो॒ यज्व॑भिः॒ स्पर्ध॑मानाः |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} प्र यद्दि॒वो ह॑रिवः स्थातरुग्र॒ निर᳚व्र॒ताँ, अ॑धमो॒ रोद॑स्योः ||{5/15}{1.33.5}{1.7.3.5}{1.3.1.5}{388, 33, 388} परा᳚¦चि॒त्¦शी॒र्षा¦व॒वृ॒जुः॒¦ते॒¦इ॒न्द्र॒¦अय॑ज्वानः¦यज्व॑ऽभिः¦स्पर्ध॑मानाः | |
अयु॑युत्सन्ननव॒द्यस्य॒ सेना॒मया᳚तयन्त क्षि॒तयो॒ नव॑ग्वाः |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} वृ॒षा॒युधो॒ न वध्र॑यो॒ निर॑ष्टाः प्र॒वद्भि॒रिन्द्रा᳚च्चि॒तय᳚न्त आयन् ||{6/15}{1.33.6}{1.7.3.6}{1.3.2.1}{389, 33, 389} अयु॑युत्सन्¦अ॒न॒व॒द्यस्य॑¦सेना᳚म्¦अया᳚तयन्त¦क्षि॒तयः॑¦नव॑ऽग्वाः | |
त्वमे॒तान् रु॑द॒तो जक्ष॑त॒श्चायो᳚धयो॒ रज॑स इन्द्र पा॒रे |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} अवा᳚दहो दि॒व आ दस्यु॑मु॒च्चा प्र सु᳚न्व॒तः स्तु॑व॒तः शंस॑मावः ||{7/15}{1.33.7}{1.7.3.7}{1.3.2.2}{390, 33, 390} त्वम्¦ए॒तान्¦रु॒द॒तः¦जक्ष॑तः¦च॒¦अयो᳚धयः¦रज॑सः¦इ॒न्द्र॒¦पा॒रे | |
च॒क्रा॒णासः॑ परी॒णहं᳚ पृथि॒व्या हिर᳚ण्येन म॒णिना॒ शुम्भ॑मानाः |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} न हि᳚न्वा॒नास॑स्तितिरु॒स्त इन्द्रं॒ परि॒ स्पशो᳚, अदधा॒त् सूर्ये᳚ण ||{8/15}{1.33.8}{1.7.3.8}{1.3.2.3}{391, 33, 391} च॒का॒णासः॑¦प॒रि॒ऽनह᳚म्¦पृ॒थि॒व्याः¦हिर᳚ण्येन¦म॒णिना᳚¦शुम्भ॑मानाः | |
परि॒ यदि᳚न्द्र॒ रोद॑सी, उ॒भे, अबु॑भोजीर्महि॒ना वि॒श्वतः॑ सीम् |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} अम᳚न्यमानाँ, अ॒भि मन्य॑मानै॒र्निर्ब्र॒ह्मभि॑रधमो॒ दस्यु॑मिन्द्र ||{9/15}{1.33.9}{1.7.3.9}{1.3.2.4}{392, 33, 392} परि॑¦यत्¦इ॒न्द्र॒¦रोद॑सी॒ इति॑¦उ॒भे इति॑¦अबु॑भोजीः¦म॒हि॒ना¦वि॒श्वतः॑¦सी॒म् | |
न ये दि॒वः पृ॑थि॒व्या, अन्त॑मा॒पुर्न मा॒याभि॑र्धन॒दां प॒र्यभू᳚वन् |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} युजं॒ वज्रं᳚ वृष॒भश्च॑क्र॒ इन्द्रो॒ निर्ज्योति॑षा॒ तम॑सो॒ गा, अ॑दुक्षत् ||{10/15}{1.33.10}{1.7.3.10}{1.3.2.5}{393, 33, 393} न¦ये¦दि॒वः¦पृ॒थि॒व्याः¦अन्त᳚म्¦आ॒पुः¦न¦मा॒याभिः॑¦ध॒न॒ऽदाम्¦प॒रि॒।आभू᳚वन् | |
अनु॑ स्व॒धाम॑क्षर॒न्नापो᳚, अ॒स्याव॑र्धत॒ मध्य॒ आ ना॒व्या᳚नाम् |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} स॒ध्री॒चीने᳚न॒ मन॑सा॒ तमिन्द्र॒ ओजि॑ष्ठेन॒ हन्म॑नाहन्न॒भि द्यून् ||{11/15}{1.33.11}{1.7.3.11}{1.3.3.1}{394, 33, 394} अनु॑¦स्व॒धाम्¦अ॒क्ष॒र॒न्¦आपः॑¦अ॒स्य॒¦अव॑र्धत¦मध्ये᳚¦आ¦ना॒व्या᳚नाम् | |
न्या᳚विध्यदिली॒बिश॑स्य दृ॒ळ्हा वि शृ॒ङ्गिण॑मभिन॒च्छुष्ण॒मिन्द्रः॑ |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} याव॒त्तरो᳚ मघव॒न् याव॒दोजो॒ वज्रे᳚ण॒ शत्रु॑मवधीः पृत॒न्युम् ||{12/15}{1.33.12}{1.7.3.12}{1.3.3.2}{395, 33, 395} नि¦अ॒वि॒ध्य॒त्¦इ॒ली॒बिश॑स्य¦दृ॒ळ्हा¦वि¦शृ॒ङ्गिण᳚म्¦अ॒भि॒न॒त्¦शुष्ण᳚म्¦इन्द्रः॑ | |
अ॒भि सि॒ध्मो, अ॑जिगादस्य॒ शत्रू॒न् वि ति॒ग्मेन॑ वृष॒भेणा॒ पुरो᳚ऽभेत् |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} सं वज्रे᳚णासृजद् वृ॒त्रमिन्द्रः॒ प्र स्वां म॒तिम॑तिर॒च्छाश॑दानः ||{13/15}{1.33.13}{1.7.3.13}{1.3.3.3}{396, 33, 396} अ॒भि¦सि॒ध्मः¦अ॒जि॒गा॒त्¦अ॒स्य॒¦शत्रू᳚न्¦वि¦ति॒ग्मेन॑¦वृ॒ष॒भेण॑¦पुरः॑¦अ॒भे॒त् | |
आवः॒ कुत्स॑मिन्द्र॒ यस्मि᳚ञ्चा॒कन् प्रावो॒ युध्य᳚न्तं वृष॒भं दश॑द्युम् |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} श॒फच्यु॑तो रे॒णुर्न॑क्षत॒ द्यामुच्छ्वै᳚त्रे॒यो नृ॒षाह्या᳚य तस्थौ ||{14/15}{1.33.14}{1.7.3.14}{1.3.3.4}{397, 33, 397} आवः॑¦कुत्स᳚म्¦इ॒न्द्र॒¦यस्मि॑न्¦चा॒कन्¦प्र¦आ॒वः॒¦युध्य᳚न्तम्¦वृ॒ष॒भम्¦दश॑ऽद्युम् | |
आवः॒ शमं᳚ वृष॒भं तुग्र्या᳚सु क्षेत्रजे॒षे म॑घव॒ञ्छ्वित्र्यं॒ गाम् |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} ज्योक् चि॒दत्र॑ तस्थि॒वांसो᳚, अक्रञ्छत्रूय॒तामध॑रा॒ वेद॑नाकः ||{15/15}{1.33.15}{1.7.3.15}{1.3.3.5}{398, 33, 398} आवः॑¦शम᳚म्¦वृ॒ष॒भम्¦तुग्र्या᳚सु¦क्षे॒त्र॒ऽजे॒षे¦म॒घ॒ऽव॒न्¦श्वित्र्य᳚म्¦गाम् | |
[34] त्रिश्चिदितिद्वादशर्चस्यसूक्तस्यांगिरसोहिरण्यस्तूपोश्विनौजगती नवम्यंत्येत्रिष्टुभौ | |
त्रिश्चि᳚न्नो, अ॒द्या भ॑वतं नवेदसा वि॒भुर्वां॒ याम॑ उ॒त रा॒तिर॑श्विना |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती} यु॒वोर्हि य॒न्त्रं हि॒म्येव॒ वास॑सो ऽभ्यायं॒सेन्या᳚ भवतं मनी॒षिभिः॑ ||{1/12}{1.34.1}{1.7.4.1}{1.3.4.1}{399, 34, 399} त्रिः¦चि॒त्¦नः॒¦अ॒द्य¦भ॒व॒त॒म्¦न॒वे॒द॒सा॒¦वि॒ऽभुः¦वा॒म्¦यामः॑¦उ॒त¦रा॒तिः¦अ॒श्वि॒ना॒ | |
त्रयः॑ प॒वयो᳚ मधु॒वाह॑ने॒ रथे॒ सोम॑स्य वे॒नामनु॒ विश्व॒ इद् वि॑दुः |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती} त्रयः॑ स्क॒म्भासः॑ स्कभि॒तास॑ आ॒रभे॒ त्रिर्नक्तं᳚ या॒थस्त्रिर्व॑श्विना॒ दिवा᳚ ||{2/12}{1.34.2}{1.7.4.2}{1.3.4.2}{400, 34, 400} त्रयः॑¦प॒वयः॑¦म॒धु॒ऽवाहे᳚न¦रथे᳚¦सोम॑स्य¦वे॒नाम्¦अनु॑¦विश्वे᳚¦इत्¦वि॒दुः॒ | |
स॒मा॒ने, अह॒न् त्रिर॑वद्यगोहना॒ त्रिर॒द्य य॒ज्ञं मधु॑ना मिमिक्षतम् |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती} त्रिर्वाज॑वती॒रिषो᳚, अश्विना यु॒वं दो॒षा, अ॒स्मभ्य॑मु॒षस॑श्च पिन्वतम् ||{3/12}{1.34.3}{1.7.4.3}{1.3.4.3}{401, 34, 401} स॒मा॒ने¦अह॑न्¦त्रिः¦अ॒व॒द्य॒ऽगो॒ह॒ना॒¦त्रिः¦अ॒द्य¦य॒ज्ञम्¦मधु॑ना¦मि॒मि॒क्ष॒त॒म् | |
त्रिर्व॒र्तिर्या᳚तं॒ त्रिरनु᳚व्रते ज॒ने त्रिः सु॑प्रा॒व्ये᳚ त्रे॒धेव॑ शिक्षतम् |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती} त्रिर्ना॒न्द्यं᳚ वहतमश्विना यु॒वं त्रिः पृक्षो᳚, अ॒स्मे, अ॒क्षरे᳚व पिन्वतम् ||{4/12}{1.34.4}{1.7.4.4}{1.3.4.4}{402, 34, 402} त्रिः¦व॒र्तिः¦या॒त॒म्¦त्रिः¦अनु॑ऽव्रते¦जने᳚¦त्रिः¦सु॒प्र॒।आ॒व्ये᳚¦त्रे॒धाऽइ᳚व¦शि॒क्ष॒त॒म् | |
त्रिर्नो᳚ र॒यिं व॑हतमश्विना यु॒वं त्रिर्दे॒वता᳚ता॒ त्रिरु॒ताव॑तं॒ धियः॑ |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती} त्रिः सौ᳚भग॒त्वं त्रिरु॒त श्रवां᳚सि नस् त्रि॒ष्ठं वां॒ सूरे᳚ दुहि॒ता रु॑ह॒द् रथ᳚म् ||{5/12}{1.34.5}{1.7.4.5}{1.3.4.5}{403, 34, 403} त्रिः¦नः॒¦र॒यिम्¦व॒ह॒त॒म्¦अ॒श्वि॒ना॒¦यु॒वम्¦त्रिः¦दे॒वऽता᳚ता¦त्रिः¦उ॒त¦अ॒व॒त॒म्¦धियः॑ | |
त्रिर्नो᳚, अश्विना दि॒व्यानि॑ भेष॒जा त्रिः पार्थि॑वानि॒ त्रिरु॑ दत्तम॒द्भ्यः |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती} ओ॒मानं᳚ शं॒योर्मम॑काय सू॒नवे᳚ त्रि॒धातु॒ शर्म॑ वहतं शुभस्पती ||{6/12}{1.34.6}{1.7.4.6}{1.3.4.6}{404, 34, 404} त्रिः¦नः॒¦अ॒श्वि॒ना॒¦दि॒व्यानि॑¦भे॒ष॒जा¦त्रिः¦पार्थि॑वान्¦त्रिः¦ऊँ॒ इति॑¦द॒त्त॒म्¦अ॒त्ऽभ्यः | |
त्रिर्नो᳚, अश्विना यज॒ता दि॒वेदि॑वे॒ परि॑ त्रि॒धातु॑ पृथि॒वीम॑शायतम् |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती} ति॒स्रो ना᳚सत्या रथ्या परा॒वत॑ आ॒त्मेव॒ वातः॒ स्वस॑राणि गच्छतम् ||{7/12}{1.34.7}{1.7.4.7}{1.3.5.1}{405, 34, 405} त्रिः¦नः॒¦अ॒श्वि॒ना॒¦य॒ज॒ता¦दि॒वेऽदि॑वे¦परि॑¦त्रि॒ऽधातु॑¦पृ॒थि॒वीम्¦अ॒शा॒य॒त॒म् | |
त्रिर॑श्विना॒ सिन्धु॑भिः स॒प्तमा᳚तृभि॒स्त्रय॑ आहा॒वास्त्रे॒धा ह॒विष्कृ॒तम् |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती} ति॒स्रः पृ॑थि॒वीरु॒परि॑ प्र॒वा दि॒वो नाकं᳚ रक्षेथे॒ द्युभि॑र॒क्तुभि᳚र्हि॒तम् ||{8/12}{1.34.8}{1.7.4.8}{1.3.5.2}{406, 34, 406} त्रिः¦आ॒श्वि॒ना॒¦सिन्धु॑ऽभिः¦स॒प्तमा᳚तृऽभिः¦त्रयः॑¦आ॒ऽहा॒वाः¦त्रे॒धा¦ह॒विः¦कृ॒तम् | |
क्व१॑(अ॒) त्री च॒क्रा त्रि॒वृतो॒ रथ॑स्य॒ क्व१॑(अ॒) त्रयो᳚ व॒न्धुरो॒ ये सनी᳚ळाः |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | त्रिष्टुप्} क॒दा योगो᳚ वा॒जिनो॒ रास॑भस्य॒ येन॑ य॒ज्ञं ना᳚सत्योपया॒थः ||{9/12}{1.34.9}{1.7.4.9}{1.3.5.3}{407, 34, 407} क्व॑¦त्री¦च॒क्रा¦त्रि॒ऽवृतः॑¦रथ॑स्य¦क्व॑¦त्रयः॑¦व॒न्धुरः॑¦ये¦सऽनी᳚ळाः | |
आ ना᳚सत्या॒ गच्छ॑तं हू॒यते᳚ ह॒विर्मध्वः॑ पिबतं मधु॒पेभि॑रा॒सभिः॑ |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती} यु॒वोर्हि पूर्वं᳚ सवि॒तोषसो॒ रथ॑मृ॒ताय॑ चि॒त्रं घृ॒तव᳚न्त॒मिष्य॑ति ||{10/12}{1.34.10}{1.7.4.10}{1.3.5.4}{408, 34, 408} आ¦ना॒स॒त्या॒¦गच्छ॑तम्¦हू॒यते᳚¦ह॒विः¦मध्वः॑¦पि॒ब॒त॒म्¦म॒धु॒ऽपेभिः॑¦आ॒सऽभिः॑ | |
आ ना᳚सत्या त्रि॒भिरे᳚काद॒शैरि॒ह दे॒वेभि᳚र्यातं मधु॒पेय॑मश्विना |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती} प्रायु॒स्तारि॑ष्टं॒ नी रपां᳚सि मृक्षतं॒ सेध॑तं॒ द्वेषो॒ भव॑तं सचा॒भुवा᳚ ||{11/12}{1.34.11}{1.7.4.11}{1.3.5.5}{409, 34, 409} आ¦ना॒स॒त्या॒¦त्रि॒ऽभिः¦ए॒का॒द॒शैः¦इ॒ह¦दे॒वेभिः॑¦या॒त॒म्¦म॒धु॒ऽपेय᳚म्¦अ॒श्वि॒ना॒ | |
आ नो᳚, अश्विना त्रि॒वृता॒ रथे᳚ना॒र्वाञ्चं᳚ र॒यिं व॑हतं सु॒वीर᳚म् |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | त्रिष्टुप्} शृ॒ण्वन्ता᳚ वा॒मव॑से जोहवीमि वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ||{12/12}{1.34.12}{1.7.4.12}{1.3.5.6}{410, 34, 410} आ¦नः॒¦अ॒श्वि॒ना॒¦त्रि॒ऽवृता᳚¦रथे᳚न¦अ॒र्वांच᳚म्¦र॒यिम्¦व॒ह॒त॒म्¦सु॒ऽवीर᳚म् | |
[35] ह्वयामीत्येकादशर्चस्यसूक्तस्यांगिरसोहिरण्यस्तूपः सवितात्रिष्टुप् आद्यायाश्चतुर्षुपादेषुक्रमेणाग्निमित्रावरुणरात्रिसवितारोदेवताः आद्यानवम्यौ जगत्यौ | |
ह्वया᳚म्य॒ग्निं प्र॑थ॒मं स्व॒स्तये॒ ह्वया᳚मि मि॒त्रावरु॑णावि॒हाव॑से |{आङ्गिरसो हिरण्यस्तूपः | अग्निर्मित्रावरुणौ रात्रिः सविता च | जगती} ह्वया᳚मि॒ रात्रीं॒ जग॑तो नि॒वेश॑नीं॒ ह्वया᳚मि दे॒वं स॑वि॒तार॑मू॒तये᳚ ||{1/11}{1.35.1}{1.7.5.1}{1.3.6.1}{411, 35, 411} ह्वया᳚मि¦अ॒ग्निम्¦प्र॒थ॒मम्¦स्व॒स्तये᳚¦ह्वया᳚मि¦मि॒त्रावरु॑णौ¦इ॒ह¦अव॑से | |
आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय᳚न्न॒मृतं॒ मर्त्यं᳚ च |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्} हि॒र॒ण्यये᳚न सवि॒ता रथे॒ना दे॒वो या᳚ति॒ भुव॑नानि॒ पश्य॑न् ||{2/11}{1.35.2}{1.7.5.2}{1.3.6.2}{412, 35, 412} आ¦कृ॒ष्णेन॑¦रज॑सा¦वर्त॑मानः¦नि॒ऽवे॒शय॑न्¦अ॒मृत᳚म्¦मर्त्य᳚म्¦च॒ | |
याति॑ दे॒वः प्र॒वता॒ यात्यु॒द्वता॒ याति॑ शु॒भ्राभ्यां᳚ यज॒तो हरि॑भ्याम् |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्} आ दे॒वो या᳚ति सवि॒ता प॑रा॒वतोऽप॒ विश्वा᳚ दुरि॒ता बाध॑मानः ||{3/11}{1.35.3}{1.7.5.3}{1.3.6.3}{413, 35, 413} याति॑¦दे॒वः¦प्र॒ऽवता᳚¦याति॑¦उ॒त्ऽवता᳚¦याति॑¦शु॒भ्राभ्या᳚म्¦य॒ज॒तः¦हरि॑ऽभ्याम् | |
अ॒भीवृ॑तं॒ कृश॑नैर्वि॒श्वरू᳚पं॒ हिर᳚ण्यशम्यं यज॒तो बृ॒हन्त᳚म् |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्} आस्था॒द् रथं᳚ सवि॒ता चि॒त्रभा᳚नुः कृ॒ष्णा रजां᳚सि॒ तवि॑षीं॒ दधा᳚नः ||{4/11}{1.35.4}{1.7.5.4}{1.3.6.4}{414, 35, 414} अ॒भिऽवृ॑तम्¦कृश॑नैः¦वि॒श्वऽरू᳚प॒म्¦हिर᳚ण्यऽशम्यम्¦य॒ज॒तः¦बृ॒हन्त᳚म् | |
वि जना᳚ञ्छ्या॒वाः शि॑ति॒पादो᳚, अख्य॒न् रथं॒ हिर᳚ण्यप्रौगं॒ वह᳚न्तः |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्} शश्व॒द् विशः॑ सवि॒तुर्दैव्य॑स्यो॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः ||{5/11}{1.35.5}{1.7.5.5}{1.3.6.5}{415, 35, 415} वि¦जना᳚न्¦श्या॒वाः¦शि॒ति॒ऽपादः॑¦अ॒ख्य॒न्¦रथ᳚म्¦हिर᳚ण्यऽप्रउगम्¦वह᳚न्तः | |
ति॒स्रो द्यावः॑ सवि॒तुर्द्वा, उ॒पस्थाँ॒, एका᳚ य॒मस्य॒ भुव॑ने विरा॒षाट् |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्} आ॒णिं न रथ्य॑म॒मृताधि॑ तस्थुरि॒ह ब्र॑वीतु॒ य उ॒ तच्चिके᳚तत् ||{6/11}{1.35.6}{1.7.5.6}{1.3.6.6}{416, 35, 416} ति॒स्रः¦द्यावः॑¦स॒वि॒तुः¦द्वौ¦उ॒पऽस्था᳚¦एका᳚¦य॒मस्य॑¦भुव॑ने¦वि॒रा॒षाट् | |
वि सु॑प॒र्णो, अ॒न्तरि॑क्षाण्यख्यद् गभी॒रवे᳚पा॒, असु॑रः सुनी॒थः |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्} क्वे॒३॑(ए॒)दानीं॒ सूर्यः॒ कश्चि॑केत कत॒मां द्यां र॒श्मिर॒स्या त॑तान ||{7/11}{1.35.7}{1.7.5.7}{1.3.7.1}{417, 35, 417} वि¦सु॒ऽप॒र्णः¦अ॒न्तरि॑क्षाणि¦अ॒ख्य॒त्¦ग॒भी॒रऽवे᳚पाः¦असु॑रः¦सु॒ऽनी॒थः | |
अ॒ष्टौ व्य॑ख्यत् क॒कुभः॑ पृथि॒व्यास् त्री धन्व॒ योज॑ना स॒प्त सिन्धू॑न् |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्} हि॒र॒ण्या॒क्षः स॑वि॒ता दे॒व आगा॒द् दध॒द्रत्ना᳚ दा॒शुषे॒ वार्या᳚णि ||{8/11}{1.35.8}{1.7.5.8}{1.3.7.2}{418, 35, 418} अ॒ष्टौ¦वि¦अ॒ख्य॒त्¦क॒कुभः॑¦पृ॒थि॒व्याः¦त्री¦धन्व॑¦योज॑ना¦स॒प्त¦सिन्धू॑न् | |
हिर᳚ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा᳚पृथि॒वी, अ॒न्तरी᳚यते |{आङ्गिरसो हिरण्यस्तूपः | सविता | जगती} अपामी᳚वां॒ बाध॑ते॒ वेति॒ सूर्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति ||{9/11}{1.35.9}{1.7.5.9}{1.3.7.3}{419, 35, 419} हिर᳚ण्यऽपाणिः¦स॒वि॒ता¦विऽच॑र्षणिः¦उ॒भे इति॑¦द्यावा᳚पृथि॒वी इति॑¦अ॒न्तः¦ई॒य॒ते॒ | |
हिर᳚ण्यहस्तो॒, असु॑रः सुनी॒थः सु॑मृळी॒कः स्ववाँ᳚ यात्व॒र्वाङ् |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्} अ॒प॒सेध᳚न् र॒क्षसो᳚ यातु॒धाना॒नस्था᳚द्दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः ||{10/11}{1.35.10}{1.7.5.10}{1.3.7.4}{420, 35, 420} हिर᳚ण्यऽहस्तः¦असु॑रः¦सु॒ऽनी॒थः¦सु॒ऽमृ॒ळी॒कः¦स्वऽवा᳚न्¦या॒तु॒¦अ॒र्वाङ् | |
ये ते॒ पन्थाः᳚ सवितः पू॒र्व्यासो᳚ ऽरे॒णवः॒ सुकृ॑ता, अ॒न्तरि॑क्षे |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्} तेभि᳚र्नो, अ॒द्य प॒थिभिः॑ सु॒गेभी॒ रक्षा᳚ च नो॒, अधि॑ च ब्रूहि देव ||{11/11}{1.35.11}{1.7.5.11}{1.3.7.5}{421, 35, 421} ये¦ते॒¦पन्थाः᳚¦स॒वि॒त॒रिति॑¦पू॒र्व्यासः॑¦अ॒रे॒णवः॑¦सुऽकृ॑ताः¦अ॒न्तरि॑क्षे | |
[36] प्रवोयह्वमितिविंशत्यचस्य सूक्तस्य घौरः कण्वोग्निः ऊर्ध्वऊषुणइतिद्वयोर्यूपः प्रगाथः (अयुजोबृहत्यः युजः सतोबृहत्यइत्यर्थः) | |
प्र वो᳚ य॒ह्वं पु॑रू॒णां वि॒शां दे᳚वय॒तीना᳚म् |{घौरः कण्वः | अग्निः | बृहती} अ॒ग्निं सू॒क्तेभि॒र्वचो᳚भिरीमहे॒ यं सी॒मिद॒न्य ईळ॑ते ||{1/20}{1.36.1}{1.8.1.1}{1.3.8.1}{422, 36, 422} प्र¦वः॒¦य॒ह्वम्¦पु॒रू॒णाम्¦वि॒शाम्¦दे॒व॒ऽय॒तीना᳚म् | |
जना᳚सो, अ॒ग्निं द॑धिरे सहो॒वृधं᳚ ह॒विष्म᳚न्तो विधेम ते |{घौरः कण्वः | अग्निः | सतोबृहती} स त्वं नो᳚, अ॒द्य सु॒मना᳚, इ॒हावि॒ता भवा॒ वाजे᳚षु सन्त्य ||{2/20}{1.36.2}{1.8.1.2}{1.3.8.2}{423, 36, 423} जना᳚सः¦अ॒ग्निम्¦द॒धि॒रे॒¦स॒हः॒ऽवृध᳚म्¦ह॒विष्म᳚न्तः¦वि॒धे॒म॒¦ते॒ | |
प्र त्वा᳚ दू॒तं वृ॑णीमहे॒ होता᳚रं वि॒श्ववे᳚दसम् |{घौरः कण्वः | अग्निः | बृहती} म॒हस्ते᳚ स॒तो वि च॑रन् त्य॒र्चयो᳚ दि॒वि स्पृ॑शन्ति भा॒नवः॑ ||{3/20}{1.36.3}{1.8.1.3}{1.3.8.3}{424, 36, 424} प्र¦त्वा॒¦दू॒तम्¦वृ॒णी॒म॒हे॒¦होता᳚रम्¦वि॒श्वऽवे᳚दसम् | |
दे॒वास॑स्त्वा॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा सं दू॒तं प्र॒त्नमि᳚न्धते |{घौरः कण्वः | अग्निः | सतोबृहती} विश्वं॒ सो, अ॑ग्ने जयति॒ त्वया॒ धनं॒ यस्ते᳚ द॒दाश॒ मर्त्यः॑ ||{4/20}{1.36.4}{1.8.1.4}{1.3.8.4}{425, 36, 425} दे॒वासः॑¦त्वा॒¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा¦सम्¦दू॒तम्¦प्र॒त्नम्¦इ॒न्ध॒ते॒ | |
म॒न्द्रो होता᳚ गृ॒हप॑ति॒रग्ने᳚ दू॒तो वि॒शाम॑सि |{घौरः कण्वः | अग्निः | बृहती} त्वे विश्वा॒ संग॑तानि व्र॒ता ध्रु॒वा यानि॑ दे॒वा, अकृ᳚ण्वत ||{5/20}{1.36.5}{1.8.1.5}{1.3.8.5}{426, 36, 426} म॒न्द्रः¦होता᳚¦गृ॒हऽप॑तिः¦अग्ने᳚¦दू॒तः¦वि॒शाम्¦अ॒सि॒ | |
त्वे, इद॑ग्ने सु॒भगे᳚ यविष्ठ्य॒ विश्व॒मा हू᳚यते ह॒विः |{घौरः कण्वः | अग्निः | सतोबृहती} स त्वं नो᳚, अ॒द्य सु॒मना᳚, उ॒ताप॒रं यक्षि॑ दे॒वान् त्सु॒वीर्या᳚ ||{6/20}{1.36.6}{1.8.1.6}{1.3.9.1}{427, 36, 427} त्वे इति॑¦इत्¦अ॒ग्ने॒¦सु॒ऽभगे᳚¦य॒वि॒ष्ठ्य॒¦विश्व᳚म्¦आ¦हू॒य॒ते॒¦ह॒विः | |
तं घे᳚मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते |{घौरः कण्वः | अग्निः | बृहती} होत्रा᳚भिर॒ग्निं मनु॑षः॒ समि᳚न्धते तिति॒र्वांसो॒, अति॒ स्रिधः॑ ||{7/20}{1.36.7}{1.8.1.7}{1.3.9.2}{428, 36, 428} तम्¦घ॒¦ई॒म्¦इ॒त्था¦न॒म॒स्विनः॑¦उप॑¦स्व॒ऽराज᳚म्¦आ॒स॒ते॒ | |
घ्नन्तो᳚ वृ॒त्रम॑तर॒न् रोद॑सी, अ॒प उ॒रु क्षया᳚य चक्रिरे |{घौरः कण्वः | अग्निः | सतोबृहती} भुव॒त् कण्वे॒ वृषा᳚ द्यु॒म्न्याहु॑तः॒ क्रन्द॒दश्वो॒ गवि॑ष्टिषु ||{8/20}{1.36.8}{1.8.1.8}{1.3.9.3}{429, 36, 429} घ्नन्तः॑¦वृ॒त्रम्¦अ॒त॒र॒न्¦रोद॑सी॒ इति॑¦अ॒पः¦उ॒रु¦क्षया᳚य¦च॒क्रि॒रे॒ | |
सं सी᳚दस्व म॒हाँ, अ॑सि॒ शोच॑स्व देव॒वीत॑मः |{घौरः कण्वः | अग्निः | बृहती} वि धू॒मम॑ग्ने, अरु॒षं मि॑येध्य सृ॒ज प्र॑शस्त दर्श॒तम् ||{9/20}{1.36.9}{1.8.1.9}{1.3.9.4}{430, 36, 430} सम्¦सी॒द॒स्व॒¦म॒हान्¦अ॒सि॒¦शोच॑स्व¦दे॒व॒ऽवीत॑मः | |
यं त्वा᳚ दे॒वासो॒ मन॑वे द॒धुरि॒ह यजि॑ष्ठं हव्यवाहन |{घौरः कण्वः | अग्निः | सतोबृहती} यं कण्वो॒ मेध्या᳚तिथिर्धन॒स्पृतं॒ यं वृषा॒ यमु॑पस्तु॒तः ||{10/20}{1.36.10}{1.8.1.10}{1.3.9.5}{431, 36, 431} यम्¦त्वा॒¦दे॒वासः॑¦मन॑वे¦द॒धुः¦इ॒ह¦यजि॑ष्ठम्¦ह॒व्य॒ऽवा॒ह॒न॒ | |
यम॒ग्निं मेध्या᳚तिथिः॒ कण्व॑ ई॒ध ऋ॒तादधि॑ |{घौरः कण्वः | अग्निः | बृहती} तस्य॒ प्रेषो᳚ दीदियु॒स्तमि॒मा, ऋच॒स् तम॒ग्निं व॑र्धयामसि ||{11/20}{1.36.11}{1.8.1.11}{1.3.10.1}{432, 36, 432} यम्¦अ॒ग्निम्¦मेध्य॑।आतिथिः¦कण्वः॑¦ई॒धे¦ऋ॒तात्¦अधि॑ | |
रा॒यस्पू᳚र्धि स्वधा॒वोऽस्ति॒ हि तेग्ने᳚ दे॒वेष्वाप्य᳚म् |{घौरः कण्वः | अग्निः | सतोबृहती} त्वं वाज॑स्य॒ श्रुत्य॑स्य राजसि॒ स नो᳚ मृळ म॒हाँ, अ॑सि ||{12/20}{1.36.12}{1.8.1.12}{1.3.10.2}{433, 36, 433} रा॒यः¦पू॒र्धि॒¦स्व॒धा॒ऽवः॒¦अस्ति॑¦हि¦ते॒¦अग्ने᳚¦दे॒वेषु॑¦आप्य᳚म् | |
ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ तिष्ठा᳚ दे॒वो न स॑वि॒ता |{घौरः कण्वः | यूपो वा | बृहती} ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि᳚र्वा॒घद्भि᳚र्वि॒ह्वया᳚महे ||{13/20}{1.36.13}{1.8.1.13}{1.3.10.3}{434, 36, 434} ऊ॒र्ध्वः¦ऊँ॒ इति॑¦सु¦नः॒¦ऊ॒तये᳚¦तिष्ठ॑¦दे॒वः¦न¦स॒वि॒ता | |
ऊ॒र्ध्वो नः॑ पा॒ह्यंह॑सो॒ नि के॒तुना॒ विश्वं॒ सम॒त्रिणं᳚ दह |{घौरः कण्वः | यूपो वा | सतोबृहती} कृ॒धी न॑ ऊ॒र्ध्वाञ्च॒रथा᳚य जी॒वसे᳚ वि॒दा दे॒वेषु॑ नो॒ दुवः॑ ||{14/20}{1.36.14}{1.8.1.14}{1.3.10.4}{435, 36, 435} ऊ॒र्ध्वः¦नः॒¦पा॒हि॒¦अंह॑सः¦नि¦के॒तुना᳚¦विश्व᳚म्¦सम्¦अ॒त्रिण᳚म्¦द॒ह॒ | |
पा॒हि नो᳚, अग्ने र॒क्षसः॑ पा॒हि धू॒र्तेररा᳚व्णः |{घौरः कण्वः | अग्निः | बृहती} पा॒हि रीष॑त उ॒त वा॒ जिघां᳚सतो॒ बृह॑द्भानो॒ यवि॑ष्ठ्य ||{15/20}{1.36.15}{1.8.1.15}{1.3.10.5}{436, 36, 436} पा॒हि¦नः॒¦अ॒ग्ने॒¦र॒क्षसः॑¦पा॒हि¦धू॒र्तेः¦अरा᳚व्णः | |
घ॒नेव॒ विष्व॒ग्वि ज॒ह्यरा᳚व्ण॒स् तपु॑र्जम्भ॒ यो, अ॑स्म॒ध्रुक् |{घौरः कण्वः | अग्निः | सतोबृहती} यो मर्त्यः॒ शिशी᳚ते॒, अत्य॒क्तुभि॒र्मा नः॒ स रि॒पुरी᳚शत ||{16/20}{1.36.16}{1.8.1.16}{1.3.11.1}{437, 36, 437} घ॒नाऽइ᳚व¦विष्व॑क्¦वि¦ज॒हि॒¦अरा᳚व्णः¦तपुः॑ऽजम्भ¦यः¦अ॒स्म॒ऽध्रुक् | |
अ॒ग्निर्व᳚व्ने सु॒वीर्य॑म॒ग्निः कण्वा᳚य॒ सौभ॑गम् |{घौरः कण्वः | अग्निः | बृहती} अ॒ग्निः प्राव᳚न्मि॒त्रोत मेध्या᳚तिथिम॒ग्निः सा॒ता, उ॑पस्तु॒तम् ||{17/20}{1.36.17}{1.8.1.17}{1.3.11.2}{438, 36, 438} अ॒ग्निः¦व॒व्ने॒¦सु॒ऽवीर्य᳚म्¦अ॒ग्निः¦कण्वा᳚य¦सौभ॑गम् | |
अ॒ग्निना᳚ तु॒र्वशं॒ यदुं᳚ परा॒वत॑ उ॒ग्रादे᳚वं हवामहे |{घौरः कण्वः | अग्निः | सतोबृहती} अ॒ग्निर्न॑य॒न्नव॑वास्त्वं बृ॒हद्र॑थं तु॒र्वीतिं॒ दस्य॑वे॒ सहः॑ ||{18/20}{1.36.18}{1.8.1.18}{1.3.11.3}{439, 36, 439} अ॒ग्निना᳚¦तु॒र्वश᳚म्¦यदु᳚म्¦प॒रा॒ऽवतः॑¦उ॒ग्रऽदे᳚वम्¦ह॒वा॒म॒हे॒ | |
नि त्वाम॑ग्ने॒ मनु॑र्दधे॒ ज्योति॒र्जना᳚य॒ शश्व॑ते |{घौरः कण्वः | अग्निः | बृहती} दी॒देथ॒ कण्व॑ ऋ॒तजा᳚त उक्षि॒तो यं न॑म॒स्यन्ति॑ कृ॒ष्टयः॑ ||{19/20}{1.36.19}{1.8.1.19}{1.3.11.4}{440, 36, 440} नि¦त्वाम्¦अ॒ग्ने॒¦मनुः॑¦द॒धे॒¦ज्योतिः॑¦जना᳚य¦शश्व॑ते | |
त्वे॒षासो᳚, अ॒ग्नेरम॑वन्तो, अ॒र्चयो᳚ भी॒मासो॒ न प्रती᳚तये |{घौरः कण्वः | अग्निः | सतोबृहती} र॒क्ष॒स्विनः॒ सद॒मिद् या᳚तु॒माव॑तो॒ विश्वं॒ सम॒त्रिणं᳚ दह ||{20/20}{1.36.20}{1.8.1.20}{1.3.11.5}{441, 36, 441} त्वे॒षासः॑¦अ॒ग्नेः¦अम॑ऽवन्तः¦अ॒र्चयः॑¦भी॒मासः॑¦न¦प्रति॑ऽइतये | |
[37] क्रीळंवइतिपंचदशर्चस्य सूक्तस्य घौरःकण्वोमरुतो गायत्री | |
क्री॒ळं वः॒ शर्धो॒ मारु॑तमन॒र्वाणं᳚ रथे॒शुभ᳚म् |{घौरः कण्वः | मरुतः | गायत्री} कण्वा᳚, अ॒भि प्र गा᳚यत ||{1/15}{1.37.1}{1.8.2.1}{1.3.12.1}{442, 37, 442} क्री॒ळम्¦वः॒¦शर्धः॑¦मारु॑तम्¦अ॒न॒र्वाण᳚म्¦र॒थे॒ऽशुभ᳚म् | कण्वाः᳚¦अ॒भि¦प्र¦गा॒य॒त॒ || |
ये पृष॑तीभिरृ॒ष्टिभिः॑ सा॒कं वाशी᳚भिर॒ञ्जिभिः॑ |{घौरः कण्वः | मरुतः | गायत्री} अजा᳚यन्त॒ स्वभा᳚नवः ||{2/15}{1.37.2}{1.8.2.2}{1.3.12.2}{443, 37, 443} ये¦पृष॑तीभिः¦ऋ॒ष्टिऽभिः॑¦सा॒कम्¦वाशी᳚भिः¦अं॒जिऽभिः॑ | अजा᳚यन्त¦स्वऽभा᳚नवः || |
इ॒हेव॑ शृण्व एषां॒ कशा॒ हस्ते᳚षु॒ यद्वदा॑न् |{घौरः कण्वः | मरुतः | गायत्री} नि याम᳚ञ्चि॒त्रमृ᳚ञ्जते ||{3/15}{1.37.3}{1.8.2.3}{1.3.12.3}{444, 37, 444} इ॒हऽइ᳚व¦शृ॒ण्वे॒¦ए॒षा॒म्¦कशाः᳚¦हस्ते᳚षु¦यत्¦वदा॑न् | नि¦याम॑न्¦चि॒त्रम्¦ऋं॒ज॒ते॒ || |
प्र वः॒ शर्धा᳚य॒ घृष्व॑ये त्वे॒षद्यु᳚म्नाय शु॒ष्मिणे᳚ |{घौरः कण्वः | मरुतः | गायत्री} दे॒वत्तं॒ ब्रह्म॑ गायत ||{4/15}{1.37.4}{1.8.2.4}{1.3.12.4}{445, 37, 445} प्र¦वः॒¦शर्धा᳚य¦घृष्व॑ये¦त्वे॒षऽद्यु᳚म्नाय¦शु॒ष्मिणे᳚ | दे॒वत्त᳚म्¦ब्रह्म॑¦गा॒य॒त॒ || |
प्र शं᳚सा॒ गोष्वघ्न्यं᳚ क्री॒ळं यच्छर्धो॒ मारु॑तम् |{घौरः कण्वः | मरुतः | गायत्री} जम्भे॒ रस॑स्य वावृधे ||{5/15}{1.37.5}{1.8.2.5}{1.3.12.5}{446, 37, 446} प्र¦शं॒स॒¦गोषु॑¦अघ्न्य᳚म्¦क्री॒ळम्¦यत्¦शर्धः॑¦मारु॑तम् | जम्भे᳚¦रस॑स्य¦व॒वृ॒धे॒ || |
को वो॒ वर्षि॑ष्ठ॒ आ न॑रो दि॒वश्च॒ ग्मश्च॑ धूतयः |{घौरः कण्वः | मरुतः | गायत्री} यत् सी॒मन्तं॒ न धू᳚नु॒थ ||{6/15}{1.37.6}{1.8.2.6}{1.3.13.1}{447, 37, 447} कः¦वः॒¦वर्षि॑ष्ठः¦आ¦न॒रः॒¦दि॒वः¦च॒¦ग्मः¦च॒¦धू॒त॒यः॒ | यत्¦सी॒म्¦अन्त᳚म्¦न¦धू॒नु॒थ || |
नि वो॒ यामा᳚य॒ मानु॑षो द॒ध्र उ॒ग्राय॑ म॒न्यवे᳚ |{घौरः कण्वः | मरुतः | गायत्री} जिही᳚त॒ पर्व॑तो गि॒रिः ||{7/15}{1.37.7}{1.8.2.7}{1.3.13.2}{448, 37, 448} नि¦वः॒¦यामा᳚य¦मानु॑षः¦द॒ध्रे¦उ॒ग्राय॑¦म॒न्यवे᳚ | जिही᳚त¦पर्व॑तः¦गि॒रिः || |
येषा॒मज्मे᳚षु पृथि॒वी जु॑जु॒र्वाँ, इ॑व वि॒श्पतिः॑ |{घौरः कण्वः | मरुतः | गायत्री} भि॒या यामे᳚षु॒ रेज॑ते ||{8/15}{1.37.8}{1.8.2.8}{1.3.13.3}{449, 37, 449} येषा᳚म्¦अज्मे᳚षु¦पृ॒थि॒वी¦जु॒जु॒र्वान्ऽइ᳚व¦वि॒श्पतिः॑ | भि॒या¦यामे᳚षु¦रेज॑ते || |
स्थि॒रं हि जान॑मेषां॒ वयो᳚ मा॒तुर्निरे᳚तवे |{घौरः कण्वः | मरुतः | गायत्री} यत् सी॒मनु॑ द्वि॒ता शवः॑ ||{9/15}{1.37.9}{1.8.2.9}{1.3.13.4}{450, 37, 450} स्थि॒रम्¦हि¦जान᳚म्¦ए॒षा॒म्¦वयः॑¦मा॒तुः¦निःऽए᳚तवे | यत्¦सी॒म्¦अनु॑¦द्वि॒ता¦शवः॑ || |
उदु॒ त्ये सू॒नवो॒ गिरः॒ काष्ठा॒, अज्मे᳚ष्वत्नत |{घौरः कण्वः | मरुतः | गायत्री} वा॒श्रा, अ॑भि॒ज्ञु यात॑वे ||{10/15}{1.37.10}{1.8.2.10}{1.3.13.5}{451, 37, 451} उत्¦ऊँ॒ इति॑¦त्ये¦सू॒नवः॑¦गिरः॑¦काष्ठाः᳚¦अज्मे᳚षु¦अ॒त्न॒त॒ | वा॒श्राः¦अ॒भि॒ऽज्ञु¦यात॑वे || |
त्यं चि॑द्घा दी॒र्घं पृ॒थुं मि॒हो नपा᳚त॒ममृ॑ध्रम् |{घौरः कण्वः | मरुतः | गायत्री} प्र च्या᳚वयन्ति॒ याम॑भिः ||{11/15}{1.37.11}{1.8.2.11}{1.3.14.1}{452, 37, 452} त्यम्¦चि॒त्¦घ॒¦दी॒र्घम्¦पृ॒थुम्¦मि॒हः¦नपा᳚तम्¦अमृ॑ध्रम् | प्र¦च्य॒व॒य॒न्ति॒¦याम॑ऽभिः || |
मरु॑तो॒ यद्ध॑ वो॒ बलं॒ जनाँ᳚, अचुच्यवीतन |{घौरः कण्वः | मरुतः | गायत्री} गि॒रीँर॑चुच्यवीतन ||{12/15}{1.37.12}{1.8.2.12}{1.3.14.2}{453, 37, 453} मरु॑तः¦यत्¦ह॒¦वः॒¦बल᳚म्¦जना᳚न्¦अ॒चु॒च्य॒वी॒त॒न॒ | गि॒रीन्¦अ॒चु॒च्य॒वी॒त॒न॒ || |
यद्ध॒ यान्ति॑ म॒रुतः॒ सं ह॑ ब्रुव॒तेऽध्व॒न्ना |{घौरः कण्वः | मरुतः | गायत्री} शृ॒णोति॒ कश्चि॑देषाम् ||{13/15}{1.37.13}{1.8.2.13}{1.3.14.3}{454, 37, 454} यत्¦ह॒¦यान्ति॑¦म॒रुतः॑¦सम्¦ह॒¦ब्रु॒व॒ते॒¦अध्व॑न्¦आ | शृ॒णोति॑¦कः¦चि॒त्¦ए॒षा॒म् || |
प्र या᳚त॒ शीभ॑मा॒शुभिः॒ सन्ति॒ कण्वे᳚षु वो॒ दुवः॑ |{घौरः कण्वः | मरुतः | गायत्री} तत्रो॒ षु मा᳚दयाध्वै ||{14/15}{1.37.14}{1.8.2.14}{1.3.14.4}{455, 37, 455} प्र¦या॒त॒¦शीभ᳚म्¦आ॒शुऽभिः॑¦सन्ति॑¦कण्वे᳚षु¦वः॒¦दुवः॑ | तत्रो॒ इति॑¦सु¦मा॒द॒या॒ध्वै॒ || |
अस्ति॒ हि ष्मा॒ मदा᳚य वः॒ स्मसि॑ ष्मा व॒यमे᳚षाम् |{घौरः कण्वः | मरुतः | गायत्री} विश्वं᳚ चि॒दायु॑र्जी॒वसे᳚ ||{15/15}{1.37.15}{1.8.2.15}{1.3.14.5}{456, 37, 456} अस्ति॑¦हि¦स्म॒¦मदा᳚य¦वः॒¦स्मसि॑¦स्म॒¦व॒यम्¦ए॒षा॒म् | विश्व᳚म्¦चि॒त्¦आयुः॑¦जी॒वसे᳚ || |
[38] कद्धनूनमिति पंचदशर्चस्य सूक्तस्य घौरः कण्वो मरुतो गायत्री | |
कद्ध॑ नू॒नं क॑धप्रियः पि॒ता पु॒त्रं न हस्त॑योः |{घौरः कण्वः | मरुतः | गायत्री} द॒धि॒ध्वे वृ॑क्तबर्हिषः ||{1/15}{1.38.1}{1.8.3.1}{1.3.15.1}{457, 38, 457} कत्¦ह॒¦नू॒नम्¦क॒ध॒ऽप्रि॒यः॒¦पि॒ता¦पु॒त्रम्¦न¦हस्त॑योः | द॒धि॒ध्वे¦वृ॒क्त॒ऽब॒र्हि॒षः॒ || |
क्व॑ नू॒नं कद् वो॒, अर्थं॒ गन्ता᳚ दि॒वो न पृ॑थि॒व्याः |{घौरः कण्वः | मरुतः | गायत्री} क्व॑ वो॒ गावो॒ न र᳚ण्यन्ति ||{2/15}{1.38.2}{1.8.3.2}{1.3.15.2}{458, 38, 458} क्व॑¦नू॒नम्¦कत्¦वः॒¦अर्थ᳚म्¦गन्त॑¦दि॒वः¦न¦पृ॒थि॒व्याः | क्व॑¦वः॒¦गावः॑¦न¦र॒ण्य॒न्ति॒ || |
क्व॑ वः सु॒म्ना नव्यां᳚सि॒ मरु॑तः॒ क्व॑ सुवि॒ता |{घौरः कण्वः | मरुतः | गायत्री} क्वो॒३॑(ओ॒) विश्वा᳚नि॒ सौभ॑गा ||{3/15}{1.38.3}{1.8.3.3}{1.3.15.3}{459, 38, 459} क्व॑¦वः॒¦सु॒म्ना¦नव्यां᳚सि¦मरु॑तः¦क्व॑¦सु॒वि॒ता | क्वो॒३॒॑ इति॑¦विश्वा᳚नि¦सौभ॑गा || |
यद्यू॒यं पृ॑श्निमातरो॒ मर्ता᳚सः॒ स्यात॑न |{घौरः कण्वः | मरुतः | गायत्री} स्तो॒ता वो᳚, अ॒मृतः॑ स्यात् ||{4/15}{1.38.4}{1.8.3.4}{1.3.15.4}{460, 38, 460} यत्¦यू॒यम्¦पृ॒श्नि॒ऽमा॒त॒रः॒¦मर्ता᳚सः¦स्यात॑न | स्तो॒ता¦वः॒¦अ॒मृतः॑¦स्या॒त् || |
मा वो᳚ मृ॒गो न यव॑से जरि॒ता भू॒दजो᳚ष्यः |{घौरः कण्वः | मरुतः | गायत्री} प॒था य॒मस्य॑ गा॒दुप॑ ||{5/15}{1.38.5}{1.8.3.5}{1.3.15.5}{461, 38, 461} मा¦वः॒¦मृ॒गः¦न¦यव॑से¦ज॒रि॒ता¦भू॒त्¦अजो᳚ष्यः | प॒था¦य॒मस्य॑¦गा॒त्¦उप॑ || |
मो षु णः॒ परा᳚परा॒ निरृ॑तिर्दु॒र्हणा᳚ वधीत् |{घौरः कण्वः | मरुतः | गायत्री} प॒दी॒ष्ट तृष्ण॑या स॒ह ||{6/15}{1.38.6}{1.8.3.6}{1.3.16.1}{462, 38, 462} मो इति॑¦सु¦नः॒¦परा᳚ऽपरा¦निःऽऋ॑तिः¦दुः॒ऽहना᳚¦व॒धी॒त् | प॒दी॒ष्ट¦तृष्ण॑या¦स॒ह || |
स॒त्यं त्वे॒षा, अम॑वन्तो॒ धन्व᳚ञ्चि॒दा रु॒द्रिया᳚सः |{घौरः कण्वः | मरुतः | गायत्री} मिहं᳚ कृण्वन्त्यवा॒ताम् ||{7/15}{1.38.7}{1.8.3.7}{1.3.16.2}{463, 38, 463} स॒त्यम्¦त्वे॒षाः¦अम॑ऽवन्तः¦धन्व॑न्¦चि॒त्¦आ¦रु॒द्रिया᳚सः | मिह᳚म्¦कृ॒ण्व॒न्ति॒¦अ॒वा॒ताम् || |
वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒त्सं न मा॒ता सि॑षक्ति |{घौरः कण्वः | मरुतः | गायत्री} यदे᳚षां वृ॒ष्टिरस॑र्जि ||{8/15}{1.38.8}{1.8.3.8}{1.3.16.3}{464, 38, 464} वा॒श्राऽइ᳚व¦वि॒ऽद्युत्¦मि॒मा॒ति॒¦व॒त्सम्¦न¦मा॒ता¦सि॒स॒क्ति॒ | यत्¦ए॒षा॒म्¦वृ॒ष्टिः¦अस॑र्जि || |
दिवा᳚ चि॒त्तमः॑ कृण्वन्ति प॒र्जन्ये᳚नोदवा॒हेन॑ |{घौरः कण्वः | मरुतः | गायत्री} यत् पृ॑थि॒वीं व्यु॒न्दन्ति॑ ||{9/15}{1.38.9}{1.8.3.9}{1.3.16.4}{465, 38, 465} दिवा᳚¦चि॒त्¦तमः॑¦कृ॒ण्व॒न्ति॒¦प॒र्जन्ये᳚न¦उ॒द॒ऽवा॒हेन॑ | यत्¦पृ॒थि॒वीम्¦वि॒।औ॒न्दन्ति॑ || |
अध॑ स्व॒नान्म॒रुतां॒ विश्व॒मा सद्म॒ पार्थि॑वम् |{घौरः कण्वः | मरुतः | गायत्री} अरे᳚जन्त॒ प्र मानु॑षाः ||{10/15}{1.38.10}{1.8.3.10}{1.3.16.5}{466, 38, 466} अध॑¦स्व॒नात्¦म॒रुता᳚म्¦विश्व᳚म्¦आ¦सद्म॑¦पार्थि॑वम् | अरे᳚जन्त¦प्र¦मानु॑षाः || |
मरु॑तो वीळुपा॒णिभि॑श् चि॒त्रा रोध॑स्वती॒रनु॑ |{घौरः कण्वः | मरुतः | गायत्री} या॒तेमखि॑द्रयामभिः ||{11/15}{1.38.11}{1.8.3.11}{1.3.17.1}{467, 38, 467} मरु॑तः¦वी॒ळु॒पा॒णिऽभिः॑¦चि॒त्राः¦रोध॑स्वतीः¦अनु॑ | या॒त¦ई॒म्¦अखि॑द्रयामऽभिः || |
स्थि॒रा वः॑ सन्तु ने॒मयो॒ रथा॒, अश्वा᳚स एषाम् |{घौरः कण्वः | मरुतः | गायत्री} सुसं᳚स्कृता, अ॒भीश॑वः ||{12/15}{1.38.12}{1.8.3.12}{1.3.17.2}{468, 38, 468} स्थि॒राः¦वः॒¦स॒न्तु॒¦ने॒मयः॑¦रथाः᳚¦अश्वा᳚सः¦ए॒षा॒म् | सुऽसं᳚स्कृताः¦अ॒भीश॑वः || |
अच्छा᳚ वदा॒ तना᳚ गि॒रा ज॒रायै॒ ब्रह्म॑ण॒स्पति᳚म् |{घौरः कण्वः | मरुतः | गायत्री} अ॒ग्निं मि॒त्रं न द॑र्श॒तम् ||{13/15}{1.38.13}{1.8.3.13}{1.3.17.3}{469, 38, 469} अच्छ॑¦व॒द॒¦तना᳚¦गि॒रा¦ज॒रायै᳚¦ब्रह्म॑णः¦पति᳚म् | अ॒ग्निम्¦मि॒त्रम्¦न¦द॒र्श॒तम् || |
मि॒मी॒हि श्लोक॑मा॒स्ये᳚ प॒र्जन्य॑ इव ततनः |{घौरः कण्वः | मरुतः | गायत्री} गाय॑ गाय॒त्रमु॒क्थ्य᳚म् ||{14/15}{1.38.14}{1.8.3.14}{1.3.17.4}{470, 38, 470} मि॒मी॒हि¦श्लोक᳚म्¦आ॒स्ये᳚¦प॒र्जन्यः॑ऽइव¦त॒त॒नः॒ | गाय॑¦गा॒य॒त्रम्¦उ॒क्थ्य᳚म् || |
वन्द॑स्व॒ मारु॑तं ग॒णं त्वे॒षं प॑न॒स्युम॒र्किण᳚म् |{घौरः कण्वः | मरुतः | गायत्री} अ॒स्मे वृ॒द्धा, अ॑सन्नि॒ह ||{15/15}{1.38.15}{1.8.3.15}{1.3.17.5}{471, 38, 471} वन्द॑स्व¦मारु॑तम्¦ग॒णम्¦त्वे॒षम्¦प॒न॒स्युम्¦अ॒र्किण᳚म् | अ॒स्मे इति॑¦वृ॒द्धाः¦अ॒स॒न्¦इ॒ह || |
[39] प्रयदित्थेतिदशर्चस्य सूक्तस्य घौरः कण्वोमरुतो बार्हतप्रगाथः (अयुजो बृहत्यः युजः सतोबृहत्यः) | |
प्र यदि॒त्था प॑रा॒वतः॑ शो॒चिर्न मान॒मस्य॑थ |{घौरः कण्वः | मरुतः | बृहती} कस्य॒ क्रत्वा᳚ मरुतः॒ कस्य॒ वर्प॑सा॒ कं या᳚थ॒ कं ह॑ धूतयः ||{1/10}{1.39.1}{1.8.4.1}{1.3.18.1}{472, 39, 472} प्र¦यत्¦इ॒त्था¦प॒रा॒ऽवतः॑¦शो॒चिः¦न¦मान᳚म्¦अस्य॑थ | |
स्थि॒रा वः॑ स॒न्त्वायु॑धा परा॒णुदे᳚ वी॒ळू, उ॒त प्र॑ति॒ष्कभे᳚ |{घौरः कण्वः | मरुतः | सतोबृहती} यु॒ष्माक॑मस्तु॒ तवि॑षी॒ पनी᳚यसी॒ मा मर्त्य॑स्य मा॒यिनः॑ ||{2/10}{1.39.2}{1.8.4.2}{1.3.18.2}{473, 39, 473} स्थि॒रा¦वः॒¦स॒न्तु॒¦आयु॑धा¦प॒रा॒ऽनुदे᳚¦वी॒ळु¦उ॒त¦प्र॒ति॒ऽस्कभे᳚ | |
परा᳚ ह॒ यत् स्थि॒रं ह॒थ नरो᳚ व॒र्तय॑था गु॒रु |{घौरः कण्वः | मरुतः | बृहती} वि या᳚थन व॒निनः॑ पृथि॒व्या व्याशाः॒ पर्व॑तानाम् ||{3/10}{1.39.3}{1.8.4.3}{1.3.18.3}{474, 39, 474} परा᳚¦ह॒¦यत्¦स्थि॒रम्¦ह॒थ¦नरः॑¦व॒र्तय॑थ¦गु॒रु | |
न॒हि वः॒ शत्रु᳚र्विवि॒दे, अधि॒ द्यवि॒ न भूम्यां᳚ रिशादसः |{घौरः कण्वः | मरुतः | सतोबृहती} यु॒ष्माक॑मस्तु॒ तवि॑षी॒ तना᳚ यु॒जा रुद्रा᳚सो॒ नू चि॑दा॒धृषे᳚ ||{4/10}{1.39.4}{1.8.4.4}{1.3.18.4}{475, 39, 475} न॒हि¦वः॒¦शत्रुः॑¦वि॒वि॒दे¦अधि॑¦द्यवि॑¦न¦भूम्या᳚म्¦रि॒शा॒द॒सः॒ | |
प्र वे᳚पयन्ति॒ पर्व॑ता॒न् वि वि᳚ञ्चन्ति॒ वन॒स्पती॑न् |{घौरः कण्वः | मरुतः | बृहती} प्रो, आ᳚रत मरुतो दु॒र्मदा᳚, इव॒ देवा᳚सः॒ सर्व॑या वि॒शा ||{5/10}{1.39.5}{1.8.4.5}{1.3.18.5}{476, 39, 476} प्र¦वे॒प॒य॒न्ति॒¦पर्व॑तान्¦वि¦विं॒च॒न्ति॒¦वन॒स्पती॑न् | |
उपो॒ रथे᳚षु॒ पृष॑तीरयुग्ध्वं॒ प्रष्टि᳚र्वहति॒ रोहि॑तः |{घौरः कण्वः | मरुतः | सतोबृहती} आ वो॒ यामा᳚य पृथि॒वी चि॑दश्रो॒दबी᳚भयन्त॒ मानु॑षाः ||{6/10}{1.39.6}{1.8.4.6}{1.3.19.1}{477, 39, 477} उपो॒ इति॑¦रथे᳚षु¦पृष॑तीः¦अ॒यु॒ग्ध्व॒म्¦प्रष्टिः॑¦व॒ह॒ति॒¦रोहि॑तः | |
आ वो᳚ म॒क्षू तना᳚य॒ कं रुद्रा॒, अवो᳚ वृणीमहे |{घौरः कण्वः | मरुतः | बृहती} गन्ता᳚ नू॒नं नोव॑सा॒ यथा᳚ पु॒रेत्था कण्वा᳚य बि॒भ्युषे᳚ ||{7/10}{1.39.7}{1.8.4.7}{1.3.19.2}{478, 39, 478} आ¦वः॒¦म॒क्षु¦तना᳚य¦कम्¦रुद्राः᳚¦अवः॑¦वृ॒णी॒म॒हे॒ | |
यु॒ष्मेषि॑तो मरुतो॒ मर्त्ये᳚षित॒ आ यो नो॒, अभ्व॒ ईष॑ते |{घौरः कण्वः | मरुतः | सतोबृहती} वि तं यु॑योत॒ शव॑सा॒ व्योज॑सा॒ वि यु॒ष्माका᳚भिरू॒तिभिः॑ ||{8/10}{1.39.8}{1.8.4.8}{1.3.19.3}{479, 39, 479} यु॒ष्माऽइ᳚षितः¦म॒रु॒तः॒¦मर्त्य॑ऽइषितः¦आ¦यः¦नः॒¦अभ्वः॑¦ईष॑ते | |
असा᳚मि॒ हि प्र॑यज्यवः॒ कण्वं᳚ द॒द प्र॑चेतसः |{घौरः कण्वः | मरुतः | बृहती} असा᳚मिभिर्मरुत॒ आ न॑ ऊ॒तिभि॒र्गन्ता᳚ वृ॒ष्टिं न वि॒द्युतः॑ ||{9/10}{1.39.9}{1.8.4.9}{1.3.19.4}{480, 39, 480} असा᳚मि¦हि¦प्र॒ऽय॒ज्य॒वः॒¦कण्व᳚म्¦द॒द¦प्र॒ऽचे॒त॒सः॒ | |
असा॒म्योजो᳚ बिभृथा सुदान॒वो ऽसा᳚मि धूतयः॒ शवः॑ |{घौरः कण्वः | मरुतः | सतोबृहती} ऋ॒षि॒द्विषे᳚ मरुतः परिम॒न्यव॒ इषुं॒ न सृ॑जत॒ द्विष᳚म् ||{10/10}{1.39.10}{1.8.4.10}{1.3.19.5}{481, 39, 481} असा᳚मि¦ओजः॑¦बि॒भृ॒थ॒¦सु॒ऽदा॒न॒वः॒¦असा᳚मि¦धू॒त॒यः॒¦शवः॑ | |
[40] उत्तिष्ठेत्यष्टर्चस्य सूक्तस्य घौरः कण्वोब्रह्मणस्पतिः प्रगाथः (अयुजोबृहत्यः युजः सतोबृहत्यः) | |
उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे |{घौरः कण्वः | ब्रह्मणस्पतिः | बृहती} उप॒ प्र य᳚न्तु म॒रुतः॑ सु॒दान॑व॒ इन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा᳚ ||{1/8}{1.40.1}{1.8.5.1}{1.3.20.1}{482, 40, 482} उत्¦ति॒ष्ठ॒¦ब्र॒ह्म॒णः॒¦प॒ते॒¦दे॒व॒ऽयन्तः॑¦त्वा॒¦ई॒म॒हे॒ | |
त्वामिद्धि स॑हसस्पुत्र॒ मर्त्य॑ उपब्रू॒ते धने᳚ हि॒ते |{घौरः कण्वः | ब्रह्मणस्पतिः | सतोबृहती} सु॒वीर्यं᳚ मरुत॒ आ स्वश्व्यं॒ दधी᳚त॒ यो व॑ आच॒के ||{2/8}{1.40.2}{1.8.5.2}{1.3.20.2}{483, 40, 483} त्वाम्¦इत्¦हि¦स॒ह॒सः॒¦पु॒त्र॒¦मर्त्यः॑¦उ॒प॒ऽब्रू॒ते¦धने᳚¦हि॒ते | |
प्रैतु॒ ब्रह्म॑ण॒स्पतिः॒ प्र दे॒व्ये᳚तु सू॒नृता᳚ |{घौरः कण्वः | ब्रह्मणस्पतिः | बृहती} अच्छा᳚ वी॒रं नर्यं᳚ प॒ङ्क्तिरा᳚धसं दे॒वा य॒ज्ञं न॑यन्तु नः ||{3/8}{1.40.3}{1.8.5.3}{1.3.20.3}{484, 40, 484} प्र¦ए॒तु॒¦ब्रह्म॑णः¦पतिः॑¦प्र¦दे॒वी¦ए॒तु॒¦सू॒नृता᳚ | |
यो वा॒घते॒ ददा᳚ति सू॒नरं॒ वसु॒ स ध॑त्ते॒, अक्षि॑ति॒ श्रवः॑ |{घौरः कण्वः | ब्रह्मणस्पतिः | सतोबृहती} तस्मा॒, इळां᳚ सु॒वीरा॒मा य॑जामहे सु॒प्रतू᳚र्तिमने॒हस᳚म् ||{4/8}{1.40.4}{1.8.5.4}{1.3.20.4}{485, 40, 485} यः¦वा॒घते᳚¦ददा᳚ति¦सू॒नर᳚म्¦वसु॑¦सः¦ध॒त्ते॒¦अक्षि॑ति¦श्रवः॑ | |
प्र नू॒नं ब्रह्म॑ण॒स्पति॒र्मन्त्रं᳚ वदत्यु॒क्थ्य᳚म् |{घौरः कण्वः | ब्रह्मणस्पतिः | बृहती} यस्मि॒न्निन्द्रो॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा दे॒वा, ओकां᳚सि चक्रि॒रे ||{5/8}{1.40.5}{1.8.5.5}{1.3.20.5}{486, 40, 486} प्र¦नू॒नम्¦ब्रह्म॑णः¦पतिः॑¦मन्त्र᳚म्¦व॒द॒ति॒¦उ॒क्थ्य᳚म् | |
तमिद् वो᳚चेमा वि॒दथे᳚षु श॒म्भुवं॒ मन्त्रं᳚ देवा, अने॒हस᳚म् |{घौरः कण्वः | ब्रह्मणस्पतिः | सतोबृहती} इ॒मां च॒ वाचं᳚ प्रति॒हर्य॑था नरो॒ विश्वेद् वा॒मा वो᳚, अश्नवत् ||{6/8}{1.40.6}{1.8.5.6}{1.3.21.1}{487, 40, 487} तम्¦इत्¦वो॒चे॒म॒¦वि॒दथे᳚षु¦श॒म्ऽभुव᳚म्¦मन्त्र᳚म्¦दे॒वाः॒¦अ॒ने॒हस᳚म् | |
को दे᳚व॒यन्त॑मश्नव॒ज्जनं॒ को वृ॒क्तब᳚र्हिषम् |{घौरः कण्वः | ब्रह्मणस्पतिः | बृहती} प्रप्र॑ दा॒श्वान् प॒स्त्या᳚भिरस्थिताऽन्त॒र्वाव॒त् क्षयं᳚ दधे ||{7/8}{1.40.7}{1.8.5.7}{1.3.21.2}{488, 40, 488} कः¦दे॒व॒ऽयन्त᳚म्¦अ॒श्न॒व॒त्¦जन᳚म्¦कः¦वृ॒क्तऽब॑र्हिषम् | |
उप॑ क्ष॒त्रं पृ᳚ञ्ची॒त हन्ति॒ राज॑भिर्भ॒ये चि॑त् सुक्षि॒तिं द॑धे |{घौरः कण्वः | ब्रह्मणस्पतिः | सतोबृहती} नास्य॑ व॒र्ता न त॑रु॒ता म॑हाध॒ने नार्भे᳚, अस्ति व॒ज्रिणः॑ ||{8/8}{1.40.8}{1.8.5.8}{1.3.21.3}{489, 40, 489} उप॑¦क्ष॒त्रम्¦पृं॒ची॒त¦हन्ति॑¦राज॑ऽभिः¦भ॒ये¦चि॒त्¦सु॒ऽक्षि॒तिम्¦द॒धे॒ | |
[41] यंरक्षन्तीति नवर्चस्य सूक्तस्य घौरःकण्वः आद्यानांतिसृणामंत्यानांतिसृणांचवरुणमित्रार्यमणस्तृतीयादितिसृणामादित्यागायत्री | |
यं रक्ष᳚न्ति॒ प्रचे᳚तसो॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{घौरः कण्वः | वरुणमित्रार्यमणः | गायत्री} नू चि॒त् स द॑भ्यते॒ जनः॑ ||{1/9}{1.41.1}{1.8.6.1}{1.3.22.1}{490, 41, 490} यम्¦रक्ष᳚न्ति¦प्रऽचे᳚तसः¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा | नु¦चि॒त्¦सः¦द॒भ्य॒ते॒¦जनः॑ || |
यं बा॒हुते᳚व॒ पिप्र॑ति॒ पान्ति॒ मर्त्यं᳚ रि॒षः |{घौरः कण्वः | वरुणमित्रार्यमणः | गायत्री} अरि॑ष्टः॒ सर्व॑ एधते ||{2/9}{1.41.2}{1.8.6.2}{1.3.22.2}{491, 41, 491} यम्¦बा॒हुता᳚ऽइव¦पिप्र॑ति¦पान्ति॑¦मर्त्य᳚म्¦रि॒षः | अरि॑ष्टः¦सर्वः॑¦ए॒ध॒ते॒ || |
वि दु॒र्गा वि द्विषः॑ पु॒रो घ्नन्ति॒ राजा᳚न एषाम् |{घौरः कण्वः | वरुणमित्रार्यमणः | गायत्री} नय᳚न्ति दुरि॒ता ति॒रः ||{3/9}{1.41.3}{1.8.6.3}{1.3.22.3}{492, 41, 492} वि¦दुः॒ऽगा¦वि¦द्विषः॑¦पु॒रः¦घ्नन्ति॑¦राजा᳚नः¦ए॒षा॒म् | नय᳚न्ति¦दुः॒ऽइ॒ता¦ति॒रः || |
सु॒गः पन्था᳚, अनृक्ष॒र आदि॑त्यास ऋ॒तं य॒ते |{घौरः कण्वः | आदित्याः | गायत्री} नात्रा᳚वखा॒दो, अ॑स्ति वः ||{4/9}{1.41.4}{1.8.6.4}{1.3.22.4}{493, 41, 493} सु॒ऽगः¦पन्था᳚¦अ॒नृ॒क्ष॒रः¦आदि॑त्यासः¦ऋ॒तम्¦य॒ते | न¦अत्र॑¦अ॒व॒ऽखा॒दः¦अ॒स्ति॒¦वः॒ || |
यं य॒ज्ञं नय॑था नर॒ आदि॑त्या, ऋ॒जुना᳚ प॒था |{घौरः कण्वः | आदित्याः | गायत्री} प्र वः॒ स धी॒तये᳚ नशत् ||{5/9}{1.41.5}{1.8.6.5}{1.3.22.5}{494, 41, 494} यम्¦य॒ज्ञम्¦नय॑थ¦न॒रः॒¦आदि॑त्याः¦ऋ॒जुना᳚¦प॒था | प्र¦वः॒¦सः¦धी॒तये᳚¦न॒श॒त् || |
स रत्नं॒ मर्त्यो॒ वसु॒ विश्वं᳚ तो॒कमु॒त त्मना᳚ |{घौरः कण्वः | आदित्याः | गायत्री} अच्छा᳚ गच्छ॒त्यस्तृ॑तः ||{6/9}{1.41.6}{1.8.6.6}{1.3.23.1}{495, 41, 495} सः¦रत्न᳚म्¦मर्त्यः॑¦वसु॑¦विश्व᳚म्¦तो॒कम्¦उ॒त¦त्मना᳚ | अच्छ॑¦ग॒च्छ॒ति॒¦अस्तृ॑तः || |
क॒था रा᳚धाम सखायः॒ स्तोमं᳚ मि॒त्रस्या᳚र्य॒म्णः |{घौरः कण्वः | वरुणमित्रार्यमणः | गायत्री} महि॒ प्सरो॒ वरु॑णस्य ||{7/9}{1.41.7}{1.8.6.7}{1.3.23.2}{496, 41, 496} क॒था¦रा॒धा॒म॒¦स॒खा॒यः॒¦स्तोम᳚म्¦मि॒त्रस्य॑¦अ॒र्य॒म्णः | महि॑¦प्सरः॑¦वरु॑णस्य || |
मा वो॒ घ्नन्तं॒ मा शप᳚न्तं॒ प्रति॑ वोचे देव॒यन्त᳚म् |{घौरः कण्वः | वरुणमित्रार्यमणः | गायत्री} सु॒म्नैरिद्व॒ आ वि॑वासे ||{8/9}{1.41.8}{1.8.6.8}{1.3.23.3}{497, 41, 497} मा¦वः॒¦घ्नन्त᳚म्¦मा¦शप᳚न्तम्¦प्रति॑¦वो॒चे॒¦दे॒व॒ऽयन्त᳚म् | सु॒म्नैः¦इत्¦वः॒¦आ¦वि॒वा॒से॒ || |
च॒तुर॑श्चि॒द् दद॑मानाद् बिभी॒यादा निधा᳚तोः |{घौरः कण्वः | वरुणमित्रार्यमणः | गायत्री} न दु॑रु॒क्ताय॑ स्पृहयेत् ||{9/9}{1.41.9}{1.8.6.9}{1.3.23.4}{498, 41, 498} च॒तुरः॑¦चि॒त्¦दद॑मानात्¦बि॒भी॒यात्¦आ¦निऽधा᳚तोः | न¦दुः॒।औ॒क्ताय॑¦स्पृ॒ह॒ये॒त् || |
[42] संपूषन्निति दशर्चस्य सूक्तस्य घौरः कण्वः पूषागायत्री | |
सं पू᳚ष॒न्नध्व॑नस्तिर॒ व्यंहो᳚ विमुचो नपात् |{घौरः कण्वः | पूषा | गायत्री} सक्ष्वा᳚ देव॒ प्र ण॑स्पु॒रः ||{1/10}{1.42.1}{1.8.7.1}{1.3.24.1}{499, 42, 499} सम्¦पू॒ष॒न्¦अध्व॑नः¦ति॒र॒¦वि¦अंहः॑¦वि॒ऽमु॒चः॒¦न॒पा॒त् | सक्ष्व॑¦दे॒व॒¦प्र¦नः॒¦पु॒रः || |
यो नः॑ पूषन्न॒घो वृको᳚ दुः॒शेव॑ आ॒दिदे᳚शति |{घौरः कण्वः | पूषा | गायत्री} अप॑ स्म॒ तं प॒थो ज॑हि ||{2/10}{1.42.2}{1.8.7.2}{1.3.24.2}{500, 42, 500} यः¦नः॒¦पू॒ष॒न्¦अ॒घः¦वृकः॑¦दुः॒शेव॑¦आ॒ऽदिदे᳚शति | अप॑¦स्म॒¦तम्¦प॒थः¦ज॒हि॒ || |
अप॒ त्यं प॑रिप॒न्थिनं᳚ मुषी॒वाणं᳚ हुर॒श्चित᳚म् |{घौरः कण्वः | पूषा | गायत्री} दू॒रमधि॑ स्रु॒तेर॑ज ||{3/10}{1.42.3}{1.8.7.3}{1.3.24.3}{501, 42, 501} अप॑¦त्यम्¦प॒रि॒ऽप॒न्थिन᳚म्¦मु॒षी॒वाण᳚म्¦हु॒रः॒ऽचित᳚म् | दू॒रम्¦अधि॑¦स्रु॒तेः¦अ॒ज॒ || |
त्वं तस्य॑ द्वया॒विनो॒ ऽघशं᳚सस्य॒ कस्य॑ चित् |{घौरः कण्वः | पूषा | गायत्री} प॒दाभि ति॑ष्ठ॒ तपु॑षिम् ||{4/10}{1.42.4}{1.8.7.4}{1.3.24.4}{502, 42, 502} त्वम्¦तस्य॑¦द्व॒या॒विनः॑¦अ॒घऽशं᳚सस्य¦कस्य॑¦चि॒त् | प॒दा¦अ॒भि¦ति॒ष्ठ॒¦तपु॑षिम् || |
आ तत्ते᳚ दस्र मन्तुमः॒ पूष॒न्नवो᳚ वृणीमहे |{घौरः कण्वः | पूषा | गायत्री} येन॑ पि॒तॄनचो᳚दयः ||{5/10}{1.42.5}{1.8.7.5}{1.3.24.5}{503, 42, 503} आ¦तत्¦ते॒¦द॒स्र॒¦म॒न्तु॒ऽमः॒¦पू॒ष॒न्¦अवः॑¦वृ॒णी॒म॒हे॒ | येन॑¦पि॒तॄन्¦अचो᳚दयः || |
अधा᳚ नो विश्वसौभग॒ हिर᳚ण्यवाशीमत्तम |{घौरः कण्वः | पूषा | गायत्री} धना᳚नि सु॒षणा᳚ कृधि ||{6/10}{1.42.6}{1.8.7.6}{1.3.25.1}{504, 42, 504} अध॑¦नः॒¦वि॒श्व॒ऽसौ॒भ॒ग॒¦हिर᳚ण्यवाशीमत्ऽतम | धना᳚नि¦सु॒ऽसना᳚¦कृ॒धि॒ || |
अति॑ नः स॒श्चतो᳚ नय सु॒गा नः॑ सु॒पथा᳚ कृणु |{घौरः कण्वः | पूषा | गायत्री} पूष᳚न्नि॒ह क्रतुं᳚ विदः ||{7/10}{1.42.7}{1.8.7.7}{1.3.25.2}{505, 42, 505} अति॑¦नः¦स॒श्चतः॑¦न॒य॒¦सु॒ऽगा¦नः॒¦सु॒ऽपथा᳚¦कृ॒णु॒ | पूष॑न्¦इ॒ह¦क्रतु᳚म्¦वि॒दः॒ || |
अ॒भि सू॒यव॑सं नय॒ न न॑वज्वा॒रो, अध्व॑ने |{घौरः कण्वः | पूषा | गायत्री} पूष᳚न्नि॒ह क्रतुं᳚ विदः ||{8/10}{1.42.8}{1.8.7.8}{1.3.25.3}{506, 42, 506} अ॒भि¦सु॒ऽयव॑सम्¦न॒य॒¦न¦न॒व॒ऽज्वा॒रः¦अध्व॑ने | पूष॑न्¦इ॒ह¦क्रतु᳚म्¦वि॒दः॒ || |
श॒ग्धि पू॒र्धि प्र यं᳚सि च शिशी॒हि प्रास्यु॒दर᳚म् |{घौरः कण्वः | पूषा | गायत्री} पूष᳚न्नि॒ह क्रतुं᳚ विदः ||{9/10}{1.42.9}{1.8.7.9}{1.3.25.4}{507, 42, 507} श॒ग्धि¦पू॒र्धि¦प्र¦यं॒सि॒¦च॒¦शि॒शी॒हि¦प्रासि॑¦उ॒दर᳚म् | पूष॑न्¦इ॒ह¦क्रतु᳚म्¦वि॒दः॒ || |
न पू॒षणं᳚ मेथामसि सू॒क्तैर॒भि गृ॑णीमसि |{घौरः कण्वः | पूषा | गायत्री} वसू᳚नि द॒स्ममी᳚महे ||{10/10}{1.42.10}{1.8.7.10}{1.3.25.5}{508, 42, 508} न¦पू॒षण᳚म्¦मे॒था॒म॒सि॒¦सु॒।औ॒क्तैः¦अ॒भि¦गृ॒णी॒म॒सि॒ | वसू᳚नि¦द॒स्मम्¦ई॒म॒हे॒ || |
[43] कद्रुद्रायेतिनवर्चस्य सूक्तस्य घौरः कण्वोरुद्रस्तृतीयायामित्रावरुणौचसप्तम्यादितृचस्य सोमो गायत्र्यन्त्यानुष्टुप् | |
कद्रु॒द्राय॒ प्रचे᳚तसे मी॒ळ्हुष्ट॑माय॒ तव्य॑से |{घौरः कण्वः | रुद्रः | गायत्री} वो॒चेम॒ शंत॑मं हृ॒दे ||{1/9}{1.43.1}{1.8.8.1}{1.3.26.1}{509, 43, 509} कत्¦रु॒द्राय॑¦प्रऽचे᳚तसे¦मी॒ळ्हुःऽत॑माय¦तव्य॑से | वो॒चेम॑¦शम्ऽत॑मम्¦हृ॒दे || |
यथा᳚ नो॒, अदि॑तिः॒ कर॒त् पश्वे॒ नृभ्यो॒ यथा॒ गवे᳚ |{घौरः कण्वः | रुद्रः | गायत्री} यथा᳚ तो॒काय॑ रु॒द्रिय᳚म् ||{2/9}{1.43.2}{1.8.8.2}{1.3.26.2}{510, 43, 510} यथा᳚¦नः॒¦अदि॑तिः¦कर॑त्¦पश्वे᳚¦नृऽभ्यः॑¦यथा᳚¦गवे᳚ | यथा᳚¦तो॒काय॑¦रु॒द्रिय᳚म् || |
यथा᳚ नो मि॒त्रो वरु॑णो॒ यथा᳚ रु॒द्रश्चिके᳚तति |{घौरः कण्वः | रुद्रो मित्रावरुणौ | गायत्री} यथा॒ विश्वे᳚ स॒जोष॑सः ||{3/9}{1.43.3}{1.8.8.3}{1.3.26.3}{511, 43, 511} यथा᳚¦नः॒¦मि॒त्रः¦वरु॑णः¦यथा᳚¦रु॒द्रः¦चिके᳚तति | यथा᳚¦विश्वे᳚¦स॒ऽजोष॑सः || |
गा॒थप॑तिं मे॒धप॑तिं रु॒द्रं जला᳚षभेषजम् |{घौरः कण्वः | रुद्रः | गायत्री} तच्छं॒योः सु॒म्नमी᳚महे ||{4/9}{1.43.4}{1.8.8.4}{1.3.26.4}{512, 43, 512} गा॒थऽप॑तिम्¦मे॒धऽप॑तिम्¦रु॒द्रम्¦जला᳚षऽभेषजम् | तत्¦श॒म्ऽयोः¦सु॒म्नम्¦ई॒म॒हे॒ || |
यः शु॒क्र इ॑व॒ सूर्यो॒ हिर᳚ण्यमिव॒ रोच॑ते |{घौरः कण्वः | रुद्रः | गायत्री} श्रेष्ठो᳚ दे॒वानां॒ वसुः॑ ||{5/9}{1.43.5}{1.8.8.5}{1.3.26.5}{513, 43, 513} यः¦शु॒क्रःऽइ᳚व¦सूर्यः॑¦हिर᳚ण्यम्ऽइव¦रोच॑ते | श्रेष्ठः॑¦दे॒वाना᳚म्¦वसुः॑ || |
शं नः॑ कर॒त्यर्व॑ते सु॒गं मे॒षाय॑ मे॒ष्ये᳚ |{घौरः कण्वः | रुद्रः | गायत्री} नृभ्यो॒ नारि॑भ्यो॒ गवे᳚ ||{6/9}{1.43.6}{1.8.8.6}{1.3.27.1}{514, 43, 514} शम्¦नः॒¦क॒र॒ति॒¦अर्व॑ते¦सु॒ऽगम्¦मे॒षाय॑¦मे॒ष्ये᳚ | नृऽभ्यः॑¦नारि॑ऽभ्यः¦गवे᳚ || |
अ॒स्मे सो᳚म॒ श्रिय॒मधि॒ नि धे᳚हि श॒तस्य॑ नृ॒णाम् |{घौरः कण्वः | सोमः | गायत्री} महि॒ श्रव॑स्तुविनृ॒म्णम् ||{7/9}{1.43.7}{1.8.8.7}{1.3.27.2}{515, 43, 515} अ॒स्मे इति॑¦सो॒म॒¦श्रिय᳚म्¦अधि॑¦नि¦धे॒हि॒¦श॒तस्य॑¦नृ॒णाम् | महि॑¦श्रवः॑¦तु॒वि॒ऽनृ॒म्णम् || |
मा नः॑ सोमपरि॒बाधो॒ मारा᳚तयो जुहुरन्त |{घौरः कण्वः | सोमः | गायत्री} आ न॑ इन्दो॒ वाजे᳚ भज ||{8/9}{1.43.8}{1.8.8.8}{1.3.27.3}{516, 43, 516} मा¦नः॒¦सो॒म॒ऽप॒रि॒बाधः॑¦मा¦अरा᳚तयः¦जु॒हु॒र॒न्त॒ | आ¦नः॒¦इ॒न्दो॒ इति॑¦वाजे᳚¦भ॒ज॒ || |
यास्ते᳚ प्र॒जा, अ॒मृत॑स्य॒ पर॑स्मि॒न् धाम᳚न्नृ॒तस्य॑ |{घौरः कण्वः | सोमः | अनुष्टुप्} मू॒र्धा नाभा᳚ सोम वेन आ॒भूष᳚न्तीः सोम वेदः ||{9/9}{1.43.9}{1.8.8.9}{1.3.27.4}{517, 43, 517} याः¦ते॒¦प्र॒ऽजाः¦अ॒मृत॑स्य¦पर॑स्मिन्¦धाम॑न्¦ऋ॒तस्य॑ | मू॒र्धा¦नाभा᳚¦सो॒म॒¦वे॒नः॒¦आ॒ऽभूष᳚न्तीः¦सो॒म॒¦वे॒दः॒ || |
[44] अग्नेविवस्वदितिचतुर्दशर्चस्य सूक्तस्य काण्वः प्रस्कण्वोग्निराद्येअश्व्युषश्चप्रगाथः (अयुजोबृहत्यः युजःसतोबृहत्यः) | |
अग्ने॒ विव॑स्वदु॒षस॑श् चि॒त्रं राधो᳚, अमर्त्य |{काण्वः प्रस्कण्वः | अग्न्यश्व्युषसः | बृहती} आ दा॒शुषे᳚ जातवेदो वहा॒ त्वम॒द्या दे॒वाँ, उ॑ष॒र्बुधः॑ ||{1/14}{1.44.1}{1.9.1.1}{1.3.28.1}{518, 44, 518} अग्ने᳚¦विव॑स्वत्¦उ॒षसः॑¦चि॒त्रम्¦राधः॑¦अ॒म॒र्त्य॒ | |
जुष्टो॒ हि दू॒तो, असि॑ हव्य॒वाह॒नोऽग्ने᳚ र॒थीर॑ध्व॒राणा᳚म् |{काण्वः प्रस्कण्वः | अग्निः | सतोबृहती} स॒जूर॒श्विभ्या᳚मु॒षसा᳚ सु॒वीर्य॑म॒स्मे धे᳚हि॒ श्रवो᳚ बृ॒हत् ||{2/14}{1.44.2}{1.9.1.2}{1.3.28.2}{519, 44, 519} जुष्टः॑¦हि¦दू॒तः¦असि॑¦ह॒व्य॒ऽवाह॑नः¦अग्ने᳚¦र॒थीः¦अ॒ध्व॒राणा᳚म् | |
अ॒द्या दू॒तं वृ॑णीमहे॒ वसु॑म॒ग्निं पु॑रुप्रि॒यम् |{काण्वः प्रस्कण्वः | अग्निः | बृहती} धू॒मके᳚तुं॒ भा,ऋ॑जीकं॒ व्यु॑ष्टिषु य॒ज्ञाना᳚मध्वर॒श्रिय᳚म् ||{3/14}{1.44.3}{1.9.1.3}{1.3.28.3}{520, 44, 520} अ॒द्य¦दू॒तम्¦वृ॒णी॒म॒हे॒¦वसु᳚म्¦अ॒ग्निम्¦पु॒रु॒ऽप्रि॒यम् | |
श्रेष्ठं॒ यवि॑ष्ठ॒मति॑थिं॒ स्वा᳚हुतं॒ जुष्टं॒ जना᳚य दा॒शुषे᳚ |{काण्वः प्रस्कण्वः | अग्निः | सतोबृहती} दे॒वाँ, अच्छा॒ यात॑वे जा॒तवे᳚दसम॒ग्निमी᳚ळे॒ व्यु॑ष्टिषु ||{4/14}{1.44.4}{1.9.1.4}{1.3.28.4}{521, 44, 521} श्रेष्ठ᳚म्¦यवि॑ष्ठम्¦अति॑थिम्¦सुऽआ᳚हुतम्¦जुष्ट᳚म्¦जना᳚य¦दा॒शुषे᳚ | |
स्त॒वि॒ष्यामि॒ त्वाम॒हं विश्व॑स्यामृत भोजन |{काण्वः प्रस्कण्वः | अग्निः | बृहती} अग्ने᳚ त्रा॒तार॑म॒मृतं᳚ मियेध्य॒ यजि॑ष्ठं हव्यवाहन ||{5/14}{1.44.5}{1.9.1.5}{1.3.28.5}{522, 44, 522} स्त॒वि॒ष्यामि॑¦त्वाम्¦अ॒हम्¦विश्व॑स्य¦अ॒मृ॒त॒¦भो॒ज॒न॒ | |
सु॒शंसो᳚ बोधि गृण॒ते य॑विष्ठ्य॒ मधु॑जिह्वः॒ स्वा᳚हुतः |{काण्वः प्रस्कण्वः | अग्निः | सतोबृहती} प्रस्क᳚ण्वस्य प्रति॒रन्नायु॑र्जी॒वसे᳚ नम॒स्या दैव्यं॒ जन᳚म् ||{6/14}{1.44.6}{1.9.1.6}{1.3.29.1}{523, 44, 523} सु॒ऽशंसः॑¦बो॒धि॒¦गृ॒ण॒ते¦य॒वि॒ष्ठ्य॒¦मधु॑ऽजिह्वः¦सुऽआ᳚हुतः | |
होता᳚रं वि॒श्ववे᳚दसं॒ सं हि त्वा॒ विश॑ इ॒न्धते᳚ |{काण्वः प्रस्कण्वः | अग्निः | बृहती} स आ व॑ह पुरुहूत॒ प्रचे᳚त॒सोऽग्ने᳚ दे॒वाँ, इ॒ह द्र॒वत् ||{7/14}{1.44.7}{1.9.1.7}{1.3.29.2}{524, 44, 524} होता᳚रम्¦वि॒श्वऽवे᳚दसम्¦सम्¦हि¦त्वा॒¦विशः॑¦इ॒न्धते᳚ | |
स॒वि॒तार॑मु॒षस॑म॒श्विना॒ भग॑म॒ग्निं व्यु॑ष्टिषु॒ क्षपः॑ |{काण्वः प्रस्कण्वः | अग्निः | सतोबृहती} कण्वा᳚सस्त्वा सु॒तसो᳚मास इन्धते हव्य॒वाहं᳚ स्वध्वर ||{8/14}{1.44.8}{1.9.1.8}{1.3.29.3}{525, 44, 525} स॒वि॒तार᳚म्¦उ॒षस᳚म्¦अ॒श्विना᳚¦भग᳚म्¦अ॒ग्निम्¦वि।औ᳚ष्टिषु¦क्षपः॑ | |
पति॒र्ह्य॑ध्व॒राणा॒मग्ने᳚ दू॒तो वि॒शामसि॑ |{काण्वः प्रस्कण्वः | अग्निः | बृहती} उ॒ष॒र्बुध॒ आ व॑ह॒ सोम॑पीतये दे॒वाँ, अ॒द्य स्व॒र्दृशः॑ ||{9/14}{1.44.9}{1.9.1.9}{1.3.29.4}{526, 44, 526} पतिः॑¦हि¦अ॒ध्व॒राणा᳚म्¦अग्ने᳚¦दू॒तः¦वि॒शाम्¦असि॑ | |
अग्ने॒ पूर्वा॒, अनू॒षसो᳚ विभावसो दी॒देथ॑ वि॒श्वद॑र्शतः |{काण्वः प्रस्कण्वः | अग्निः | सतोबृहती} असि॒ ग्रामे᳚ष्ववि॒ता पु॒रोहि॒तोऽसि॑ य॒ज्ञेषु॒ मानु॑षः ||{10/14}{1.44.10}{1.9.1.10}{1.3.29.5}{527, 44, 527} अग्ने᳚¦पूर्वाः᳚¦अनु॑¦उ॒षसः॑¦वि॒भा॒व॒सो॒ इति॑ विभाऽवसो¦दी॒देथ॑¦वि॒श्वऽद॑र्शतः | |
नि त्वा᳚ य॒ज्ञस्य॒ साध॑न॒मग्ने॒ होता᳚रमृ॒त्विज᳚म् |{काण्वः प्रस्कण्वः | अग्निः | बृहती} म॒नु॒ष्वद्दे᳚व धीमहि॒ प्रचे᳚तसं जी॒रं दू॒तमम॑र्त्यम् ||{11/14}{1.44.11}{1.9.1.11}{1.3.30.1}{528, 44, 528} नि¦त्वा॒¦य॒ज्ञस्य॑¦साध॑नम्¦अग्ने᳚¦होता᳚रम्¦ऋ॒त्विज᳚म् | |
यद्दे॒वानां᳚ मित्रमहः पु॒रोहि॒तोऽन्त॑रो॒ यासि॑ दू॒त्य᳚म् |{काण्वः प्रस्कण्वः | अग्निः | सतोबृहती} सिन्धो᳚रिव॒ प्रस्व॑नितास ऊ॒र्मयो॒ऽग्नेर्भ्रा᳚जन्ते, अ॒र्चयः॑ ||{12/14}{1.44.12}{1.9.1.12}{1.3.30.2}{529, 44, 529} यत्¦दे॒वाना᳚म्¦मि॒त्र॒ऽम॒हः॒¦पु॒रःऽहि॑तः¦अन्त॑रः¦यासि॑¦दू॒त्य᳚म् | |
श्रु॒धि श्रु॑त्कर्ण॒ वह्नि॑भिर्दे॒वैर॑ग्ने स॒याव॑भिः |{काण्वः प्रस्कण्वः | अग्निः | बृहती} आ सी᳚दन्तु ब॒र्हिषि॑ मि॒त्रो, अ᳚र्य॒मा प्रा᳚त॒र्यावा᳚णो, अध्व॒रम् ||{13/14}{1.44.13}{1.9.1.13}{1.3.30.3}{530, 44, 530} श्रु॒धि¦श्रु॒त्ऽक॒र्ण॒¦वह्नि॑ऽभिः¦दे॒वैः¦अ॒ग्ने॒¦स॒याव॑ऽभिः | |
शृ॒ण्वन्तु॒ स्तोमं᳚ म॒रुतः॑ सु॒दान॑वोऽग्निजि॒ह्वा, ऋ॑ता॒वृधः॑ |{काण्वः प्रस्कण्वः | अग्निः | सतोबृहती} पिब॑तु॒ सोमं॒ वरु॑णो धृ॒तव्र॑तो॒ऽश्विभ्या᳚मु॒षसा᳚ स॒जूः ||{14/14}{1.44.14}{1.9.1.14}{1.3.30.4}{531, 44, 531} शृ॒ण्वन्तु॑¦स्तोम᳚म्¦म॒रुतः॑¦सु॒ऽदान॑वः¦अ॒ग्नि॒ऽजि॒ह्वाः¦ऋ॒त॒ऽवृधः॑ | |
[45] त्वमग्नेवसूनितिदशर्चस्य सूक्तस्य काण्वः प्रस्कण्वोग्निरन्त्यायादेवाश्चानुष्टुप् | |
त्वम॑ग्ने॒ वसूँ᳚रि॒ह रु॒द्राँ, आ᳚दि॒त्याँ, उ॒त |{काण्वः प्रस्कण्वः | अग्निः | अनुष्टुप्} यजा᳚ स्वध्व॒रं जनं॒ मनु॑जातं घृत॒प्रुष᳚म् ||{1/10}{1.45.1}{1.9.2.1}{1.3.31.1}{532, 45, 532} त्वम्¦अ॒ग्ने॒¦वसू᳚न्¦इ॒ह¦रु॒द्रान्¦आ॒दि॒त्यान्¦उ॒त | यज॑¦सु॒।आ॒ध्व॒रम्¦जन᳚म्¦मनु॑ऽजातम्¦घृ॒त॒ऽप्रुष᳚म् || |
श्रु॒ष्टी॒वानो॒ हि दा॒शुषे᳚ दे॒वा, अ॑ग्ने॒ विचे᳚तसः |{काण्वः प्रस्कण्वः | अग्निः | अनुष्टुप्} तान् रो᳚हिदश्व गिर्वण॒स् त्रय॑स्त्रिंशत॒मा व॑ह ||{2/10}{1.45.2}{1.9.2.2}{1.3.31.2}{533, 45, 533} श्रु॒ष्टी॒ऽवानः॑¦हि¦दा॒शुषे᳚¦दे॒वाः¦अ॒ग्ने॒¦विचे᳚तसः | तान्¦रो॒हि॒त्।आ॒श्व॒¦गि॒र्व॒णः॒¦त्रयः॑ऽत्रिंशतम्¦आ¦व॒ह॒ || |
प्रि॒य॒मे॒ध॒वद॑त्रि॒वज् जात॑वेदो विरूप॒वत् |{काण्वः प्रस्कण्वः | अग्निः | अनुष्टुप्} अ॒ङ्गि॒र॒स्वन्म॑हिव्रत॒ प्रस्क᳚ण्वस्य श्रुधी॒ हव᳚म् ||{3/10}{1.45.3}{1.9.2.3}{1.3.31.3}{534, 45, 534} प्रि॒य॒मे॒ध॒ऽवत्¦अ॒त्रि॒ऽवत्¦जात॑ऽवेदः¦वि॒रू॒प॒ऽवत् | अ॒ङ्गि॒र॒स्वत्¦म॒हि॒ऽव्र॒त॒¦प्रस्क᳚ण्वस्य¦श्रु॒धि॒¦हव᳚म् || |
महि॑केरव ऊ॒तये᳚ प्रि॒यमे᳚धा, अहूषत |{काण्वः प्रस्कण्वः | अग्निः | अनुष्टुप्} राज᳚न्तमध्व॒राणा᳚म॒ग्निं शु॒क्रेण॑ शो॒चिषा᳚ ||{4/10}{1.45.4}{1.9.2.4}{1.3.31.4}{535, 45, 535} महि॑ऽकेरवः¦ऊ॒तये᳚¦प्रि॒यऽमे᳚धाः¦अ॒हू॒ष॒त॒ | राज᳚न्तम्¦अ॒ध्व॒राणा᳚म्¦अ॒ग्निम्¦शु॒क्रेण॑¦शो॒चिषा᳚ || |
घृता᳚हवन सन्त्ये॒मा, उ॒ षु श्रु॑धी॒ गिरः॑ |{काण्वः प्रस्कण्वः | अग्निः | अनुष्टुप्} याभिः॒ कण्व॑स्य सू॒नवो॒ हव॒न्तेऽव॑से त्वा ||{5/10}{1.45.5}{1.9.2.5}{1.3.31.5}{536, 45, 536} घृत॑ऽआहवन¦स॒न्त्य॒¦इ॒माः¦ऊँ॒ इति॑¦सु¦श्रु॒धि॒¦गिरः॑ | याभिः॑¦कण्व॑स्य¦सू॒नवः॑¦हव᳚न्ते¦अव॑से¦त्वा॒ || |
त्वां चि॑त्रश्रवस्तम॒ हव᳚न्ते वि॒क्षु ज॒न्तवः॑ |{काण्वः प्रस्कण्वः | अग्निः | अनुष्टुप्} शो॒चिष्के᳚शं पुरुप्रि॒याग्ने᳚ ह॒व्याय॒ वोळ्ह॑वे ||{6/10}{1.45.6}{1.9.2.6}{1.3.32.1}{537, 45, 537} त्वाम्¦चि॒त्र॒श्र॒वः॒ऽत॒म॒¦हव᳚न्ते¦वि॒क्षु¦ज॒न्तवः॑ | शो॒चिःऽके᳚शम्¦पु॒रु॒ऽप्रि॒य॒¦अग्ने᳚¦ह॒व्याय॑¦वोळ्ह॑वे || |
नि त्वा॒ होता᳚रमृ॒त्विजं᳚ दधि॒रे व॑सु॒वित्त॑मम् |{काण्वः प्रस्कण्वः | अग्निः | अनुष्टुप्} श्रुत्क᳚र्णं स॒प्रथ॑स्तमं॒ विप्रा᳚, अग्ने॒ दिवि॑ष्टिषु ||{7/10}{1.45.7}{1.9.2.7}{1.3.32.2}{538, 45, 538} नि¦त्वा॒¦होता᳚रम्¦ऋ॒त्विज᳚म्¦द॒धि॒रे¦व॒सु॒वित्ऽत॑मम् | श्रुत्ऽक᳚र्णम्¦स॒प्रथः॑ऽतमम्¦विप्राः᳚¦अ॒ग्ने॒¦दिवि॑ष्टिषु || |
आ त्वा॒ विप्रा᳚, अचुच्यवुः सु॒तसो᳚मा, अ॒भि प्रयः॑ |{काण्वः प्रस्कण्वः | अग्निः | अनुष्टुप्} बृ॒हद् भा बिभ्र॑तो ह॒विरग्ने॒ मर्ता᳚य दा॒शुषे᳚ ||{8/10}{1.45.8}{1.9.2.8}{1.3.32.3}{539, 45, 539} आ¦त्वा॒¦विप्राः᳚¦अ॒चु॒च्य॒वुः॒¦सु॒तऽसो᳚माः¦अ॒भि¦प्रयः॑ | बृ॒हत्¦भाः¦बिभ्र॑तः¦ह॒विः¦अग्ने᳚¦मर्ता᳚य¦दा॒शुषे᳚ || |
प्रा॒त॒र्याव्णः॑ सहस्कृत सोम॒पेया᳚य सन्त्य |{काण्वः प्रस्कण्वः | अग्निः | अनुष्टुप्} इ॒हाद्य दैव्यं॒ जनं᳚ ब॒र्हिरा सा᳚दया वसो ||{9/10}{1.45.9}{1.9.2.9}{1.3.32.4}{540, 45, 540} प्रा॒तः॒ऽयाव्नः॑¦स॒हः॒ऽकृ॒त॒¦सो॒म॒ऽपेया᳚य¦स॒न्त्य॒ | इ॒ह¦अ॒द्य¦दैव्य᳚म्¦जन᳚म्¦ब॒र्हिः¦आ¦सा॒द॒य॒¦व॒सो॒ इति॑ || |
अ॒र्वाञ्चं॒ दैव्यं॒ जन॒मग्ने॒ यक्ष्व॒ सहू᳚तिभिः |{काण्वः प्रस्कण्वः | १/२:अग्निः २/२:देवाः | अनुष्टुप्} अ॒यं सोमः॑ सुदानव॒स् तं पा᳚त ति॒रो, अ᳚ह्न्यम् ||{10/10}{1.45.10}{1.9.2.10}{1.3.32.5}{541, 45, 541} अ॒र्वांच᳚म्¦दैव्य᳚म्¦जन᳚म्¦अग्ने᳚¦यक्ष्व॑¦सहू᳚तिऽभिः | अ॒यम्¦सोमः॑¦सु॒ऽदा॒न॒वः॒¦तम्¦पा॒त॒¦ति॒रः।आ᳚ह्न्यम् || |
[46] एषोउषाइति पंचदशर्चस्य सूक्तस्य काण्वः प्रस्कण्वोश्विनौगायत्री | |
ए॒षो, उ॒षा, अपू᳚र्व्या॒ व्यु॑च्छति प्रि॒या दि॒वः |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} स्तु॒षे वा᳚मश्विना बृ॒हत् ||{1/15}{1.46.1}{1.9.3.1}{1.3.33.1}{542, 46, 542} ए॒षो इति॑¦उ॒षाः¦अपू᳚र्व्या¦वि¦उ॒च्छ॒ति॒¦प्रि॒या¦दि॒वः | स्तु॒षे¦वा॒म्¦अ॒श्वि॒ना॒¦बृ॒हत् || |
या द॒स्रा सिन्धु॑मातरा मनो॒तरा᳚ रयी॒णाम् |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} धि॒या दे॒वा व॑सु॒विदा᳚ ||{2/15}{1.46.2}{1.9.3.2}{1.3.33.2}{543, 46, 543} या¦द॒स्रा¦सिन्धु॑ऽमातरा¦म॒नो॒तरा᳚¦र॒यी॒णाम् | धि॒या¦दे॒वा¦व॒सु॒ऽविदा᳚ || |
व॒च्यन्ते᳚ वां ककु॒हासो᳚ जू॒र्णाया॒मधि॑ वि॒ष्टपि॑ |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} यद्वां॒ रथो॒ विभि॒ष्पता᳚त् ||{3/15}{1.46.3}{1.9.3.3}{1.3.33.3}{544, 46, 544} व॒च्यन्ते᳚¦वा॒म्¦क॒कु॒हासः॑¦जू॒र्णाया᳚म्¦अधि॑¦वि॒ष्टपि॑ | यत्¦वा॒म्¦रथः॑¦विऽभिः॑¦पता᳚त् || |
ह॒विषा᳚ जा॒रो, अ॒पां पिप॑र्ति॒ पपु॑रिर्नरा |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} पि॒ता कुट॑स्य चर्ष॒णिः ||{4/15}{1.46.4}{1.9.3.4}{1.3.33.4}{545, 46, 545} ह॒विषा᳚¦जा॒रः¦अ॒पाम्¦पिप॑र्ति¦पपु॑रिः¦न॒रा॒ | पि॒ता¦कुट॑स्य¦च॒र्ष॒णिः || |
आ॒दा॒रो वां᳚ मती॒नां नास॑त्या मतवचसा |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} पा॒तं सोम॑स्य धृष्णु॒या ||{5/15}{1.46.5}{1.9.3.5}{1.3.33.5}{546, 46, 546} आ॒ऽदा॒रः¦वा॒म्¦म॒ती॒नाम्¦नास॑त्या¦म॒त॒ऽव॒च॒सा॒ | पा॒तम्¦सोम॑स्य¦धृ॒ष्णु॒ऽया || |
या नः॒ पीप॑रदश्विना॒ ज्योति॑ष्मती॒ तम॑स्ति॒रः |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} ताम॒स्मे रा᳚साथा॒मिष᳚म् ||{6/15}{1.46.6}{1.9.3.6}{1.3.34.1}{547, 46, 547} या¦नः॒¦पीप॑रत्¦अ॒श्वि॒ना॒¦ज्योति॑ष्मती¦तमः॑¦ति॒रः | ताम्¦अ॒स्मे इति॑¦रा॒सा॒था॒म्¦इष᳚म् || |
आ नो᳚ ना॒वा म॑ती॒नां या॒तं पा॒राय॒ गन्त॑वे |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} यु॒ञ्जाथा᳚मश्विना॒ रथ᳚म् ||{7/15}{1.46.7}{1.9.3.7}{1.3.34.2}{548, 46, 548} आ¦नः॒¦ना॒वा¦म॒ती॒नाम्¦या॒तम्¦पा॒राय॑¦गन्त॑वे | युं॒जाथा᳚म्¦अ॒श्वि॒ना॒¦रथ᳚म् || |
अ॒रित्रं᳚ वां दि॒वस्पृ॒थु ती॒र्थे सिन्धू᳚नां॒ रथः॑ |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} धि॒या यु॑युज्र॒ इन्द॑वः ||{8/15}{1.46.8}{1.9.3.8}{1.3.34.3}{549, 46, 549} अ॒रित्र᳚म्¦वा॒म्¦दि॒वः¦पृ॒थु¦ती॒र्थे¦सिन्धू᳚नाम्¦रथः॑ | धि॒या¦यु॒यु॒ज्रे॒¦इन्द॑वः || |
दि॒वस्क᳚ण्वास॒ इन्द॑वो॒ वसु॒ सिन्धू᳚नां प॒दे |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} स्वं व॒व्रिं कुह॑ धित्सथः ||{9/15}{1.46.9}{1.9.3.9}{1.3.34.4}{550, 46, 550} दि॒वः¦क॒ण्वा॒सः॒¦इन्द॑वः¦वसु॑¦सिन्धू᳚नाम्¦प॒दे | स्वम्¦व॒व्रिम्¦कुह॑¦धि॒त्स॒थः॒ || |
अभू᳚दु॒ भा, उ॑ अं॒शवे॒ हिर᳚ण्यं॒ प्रति॒ सूर्यः॑ |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} व्य॑ख्यज्जि॒ह्वयासि॑तः ||{10/15}{1.46.10}{1.9.3.10}{1.3.34.5}{551, 46, 551} अभू᳚त्¦ऊँ॒ इति॑¦भाः¦ऊँ॒ इति॑¦अं॒शवे᳚¦हिर᳚ण्यम्¦प्रति॑¦सूर्यः॑ | वि¦अ॒ख्य॒त्¦जि॒ह्वया᳚¦असि॑तः || |
अभू᳚दु पा॒रमेत॑वे॒ पन्था᳚ ऋ॒तस्य॑ साधु॒या |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} अद॑र्शि॒ वि स्रु॒तिर्दि॒वः ||{11/15}{1.46.11}{1.9.3.11}{1.3.35.1}{552, 46, 552} अभू᳚त्¦ऊँ॒ इति॑¦पा॒रम्¦एत॑वे¦पन्थाः᳚¦ऋ॒तस्य॑¦सा॒धु॒ऽया | अद॑र्शि¦वि¦स्रु॒तिः¦दि॒वः || |
तत्त॒दिद॒श्विनो॒रवो᳚ जरि॒ता प्रति॑ भूषति |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} मदे॒ सोम॑स्य॒ पिप्र॑तोः ||{12/15}{1.46.12}{1.9.3.12}{1.3.35.2}{553, 46, 553} तत्ऽत॑त्¦इत्¦अ॒श्विनोः᳚¦अवः॑¦ज॒रि॒ता¦प्रति॑¦भू॒ष॒ति॒ | मदे᳚¦सोम॑स्य¦पिप्र॑तोः || |
वा॒व॒सा॒ना वि॒वस्व॑ति॒ सोम॑स्य पी॒त्या गि॒रा |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} म॒नु॒ष्वच्छ᳚म्भू॒, आ ग॑तम् ||{13/15}{1.46.13}{1.9.3.13}{1.3.35.3}{554, 46, 554} वा॒व॒सा॒ना¦वि॒वस्व॑ति¦सोम॑स्य¦पी॒त्या¦गि॒रा | म॒नु॒ष्वत्¦श॒म्भू॒ इति॑ शम्ऽभू¦आ¦ग॒त॒म् || |
यु॒वोरु॒षा, अनु॒ श्रियं॒ परि॑ज्मनोरु॒पाच॑रत् |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} ऋ॒ता व॑नथो, अ॒क्तुभिः॑ ||{14/15}{1.46.14}{1.9.3.14}{1.3.35.4}{555, 46, 555} यु॒वोः¦उ॒षाः¦अनु॑¦श्रिय᳚म्¦परि॑ऽज्मनोः¦उ॒प॒ऽआच॑रत् | ऋ॒ता¦व॒न॒थः॒¦अ॒क्तुऽभिः॑ || |
उ॒भा पि॑बतमश्विनो॒भा नः॒ शर्म॑ यच्छतम् |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} अ॒वि॒द्रि॒याभि॑रू॒तिभिः॑ ||{15/15}{1.46.15}{1.9.3.15}{1.3.35.5}{556, 46, 556} उ॒भा¦पि॒ब॒त॒म्¦अ॒श्वि॒ना॒¦उ॒भा¦नः॒¦शर्म॑¦य॒च्छ॒त॒म् | अ॒वि॒द्रि॒याभिः॑¦ऊ॒तिभिः॑ || |
[47] अयंवामिति दशर्चस्यसूक्तस्य काण्वः प्रस्कण्वोश्विनौ प्रगाथः (अयुजोबृहत्यो युजःसतोबृहत्यः ) | |
अ॒यं वां॒ मधु॑मत्तमः सु॒तः सोम॑ ऋतावृधा |{काण्वः प्रस्कण्वः | अश्विनौ | बृहती} तम॑श्विना पिबतं ति॒रो,अ᳚ह्न्यं ध॒त्तं रत्ना᳚नि दा॒शुषे᳚ ||{1/10}{1.47.1}{1.9.4.1}{1.4.1.1}{557, 47, 557} अ॒यम्¦वा॒म्¦मधु॑मत्ऽतमः¦सु॒तः¦सोमः॑¦ऋ॒त॒ऽवृ॒धा॒ | |
त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता᳚ सु॒पेश॑सा॒ रथे॒ना या᳚तमश्विना |{काण्वः प्रस्कण्वः | अश्विनौ | सतोबृहती} कण्वा᳚सो वां॒ ब्रह्म॑ कृण्वन्त्यध्व॒रे तेषां॒ सु शृ॑णुतं॒ हव᳚म् ||{2/10}{1.47.2}{1.9.4.2}{1.4.1.2}{558, 47, 558} त्रि॒ऽव॒न्धु॒रेण॑¦त्रि॒ऽवृता᳚¦सु॒ऽपेश॑सा¦रथे᳚न¦आ¦या॒त॒म्¦अ॒श्वि॒ना॒ | |
अश्वि॑ना॒ मधु॑मत्तमं पा॒तं सोम॑मृतावृधा |{काण्वः प्रस्कण्वः | अश्विनौ | बृहती} अथा॒द्य द॑स्रा॒ वसु॒ बिभ्र॑ता॒ रथे᳚ दा॒श्वांस॒मुप॑ गच्छतम् ||{3/10}{1.47.3}{1.9.4.3}{1.4.1.3}{559, 47, 559} अश्वि॑ना¦मधु॑मत्ऽतमम्¦पा॒तम्¦सोम᳚म्¦ऋ॒त॒ऽवृ॒धा॒ | |
त्रि॒ष॒ध॒स्थे ब॒र्हिषि॑ विश्ववेदसा॒ मध्वा᳚ य॒ज्ञं मि॑मिक्षतम् |{काण्वः प्रस्कण्वः | अश्विनौ | सतोबृहती} कण्वा᳚सो वां सु॒तसो᳚मा, अ॒भिद्य॑वो यु॒वां ह॑वन्ते, अश्विना ||{4/10}{1.47.4}{1.9.4.4}{1.4.1.4}{560, 47, 560} त्रि॒ऽस॒ध॒स्थे¦ब॒र्हिषि॑¦वि॒श्व॒ऽवे॒द॒सा॒¦मध्वा᳚¦य॒ज्ञम्¦मि॒मि॒क्ष॒त॒म् | |
याभिः॒ कण्व॑म॒भिष्टि॑भिः॒ प्राव॑तं यु॒वम॑श्विना |{काण्वः प्रस्कण्वः | अश्विनौ | बृहती} ताभिः॒ ष्व१॑(अ॒)स्माँ, अ॑वतं शुभस्पती पा॒तं सोम॑मृतावृधा ||{5/10}{1.47.5}{1.9.4.5}{1.4.1.5}{561, 47, 561} याभिः॑¦कण्व᳚म्¦अ॒भिष्टि॑ऽभिः¦प्र¦आव॑तम्¦यु॒वम्¦अ॒श्वि॒ना॒ | |
सु॒दासे᳚ दस्रा॒ वसु॒ बिभ्र॑ता॒ रथे॒ पृक्षो᳚ वहतमश्विना |{काण्वः प्रस्कण्वः | अश्विनौ | सतोबृहती} र॒यिं स॑मु॒द्रादु॒त वा᳚ दि॒वस्पर्य॒स्मे ध॑त्तं पुरु॒स्पृह᳚म् ||{6/10}{1.47.6}{1.9.4.6}{1.4.2.1}{562, 47, 562} सु॒ऽदासे᳚¦द॒स्रा॒¦वसु॑¦बिभ्र॑ता¦रथे᳚¦पृक्षः॑¦व॒ह॒त॒म्¦अ॒श्वि॒ना॒ | |
यन्ना᳚सत्या परा॒वति॒ यद् वा॒ स्थो, अधि॑ तु॒र्वशे᳚ |{काण्वः प्रस्कण्वः | अश्विनौ | बृहती} अतो॒ रथे᳚न सु॒वृता᳚ न॒ आ ग॑तं सा॒कं सूर्य॑स्य र॒श्मिभिः॑ ||{7/10}{1.47.7}{1.9.4.7}{1.4.2.2}{563, 47, 563} यत्¦ना॒स॒त्या॒¦प॒रा॒ऽवति॑¦यत्¦वा॒¦स्थः¦अधि॑¦तु॒र्वशे᳚ | |
अ॒र्वाञ्चा᳚ वां॒ सप्त॑योऽध्वर॒श्रियो॒ वह᳚न्तु॒ सव॒नेदुप॑ |{काण्वः प्रस्कण्वः | अश्विनौ | सतोबृहती} इषं᳚ पृ॒ञ्चन्ता᳚ सु॒कृते᳚ सु॒दान॑व॒ आ ब॒र्हिः सी᳚दतं नरा ||{8/10}{1.47.8}{1.9.4.8}{1.4.2.3}{564, 47, 564} अ॒र्वांचा᳚¦वा॒म्¦सप्त॑यः¦अ॒ध्व॒र॒ऽश्रियः॑¦वह᳚न्तु¦सव॑ना¦इत्¦उप॑ | |
तेन॑ नास॒त्या ग॑तं॒ रथे᳚न॒ सूर्य॑त्वचा |{काण्वः प्रस्कण्वः | अश्विनौ | बृहती} येन॒ शश्व॑दू॒हथु॑र्दा॒शुषे॒ वसु॒ मध्वः॒ सोम॑स्य पी॒तये᳚ ||{9/10}{1.47.9}{1.9.4.9}{1.4.2.4}{565, 47, 565} तेन॑¦ना॒स॒त्या॒¦आ¦ग॒त॒म्¦रथे᳚न¦सूर्य॑ऽत्वचा | |
उ॒क्थेभि॑र॒र्वागव॑से पुरू॒वसू᳚, अ॒र्कैश्च॒ नि ह्व॑यामहे |{काण्वः प्रस्कण्वः | अश्विनौ | सतोबृहती} शश्व॒त् कण्वा᳚नां॒ सद॑सि प्रि॒ये हि कं॒ सोमं᳚ प॒पथु॑रश्विना ||{10/10}{1.47.10}{1.9.4.10}{1.4.2.5}{566, 47, 566} उ॒क्थेभिः॑¦अ॒र्वाक्¦अव॑से¦पु॒रु॒वसू॒ इति॑ पु॒रु॒ऽवसू᳚¦अ॒र्कैः¦च॒¦नि¦ह्व॒या॒म॒हे॒ | |
[48] सहवामेनेति षोळशर्चस्य सूक्तस्य काण्वः प्रस्कण्व उषाः प्रगाथः (अयुजोबृहत्यो युजःसतोबृहत्यः ) | |
स॒ह वा॒मेन॑ न उषो॒ व्यु॑च्छा दुहितर्दिवः |{काण्वः प्रस्कण्वः | उषाः | बृहती} स॒ह द्यु॒म्नेन॑ बृह॒ता वि॑भावरि रा॒या दे᳚वि॒ दास्व॑ती ||{1/16}{1.48.1}{1.9.5.1}{1.4.3.1}{567, 48, 567} स॒ह¦वा॒मेन॑¦नः॒¦उ॒षः॒¦वि¦उ॒च्छ॒¦दु॒हि॒तः॒¦दि॒वः॒ | |
अश्वा᳚वती॒र्गोम॑तीर्विश्वसु॒विदो॒ भूरि॑ च्यवन्त॒ वस्त॑वे |{काण्वः प्रस्कण्वः | उषाः | सतोबृहती} उदी᳚रय॒ प्रति॑ मा सू॒नृता᳚, उष॒श्चोद॒ राधो᳚ म॒घोना᳚म् ||{2/16}{1.48.2}{1.9.5.2}{1.4.3.2}{568, 48, 568} अश्व॑ऽवतीः¦गोऽम॑तीः¦वि॒श्व॒ऽसु॒विदः॑¦भूरि॑¦च्य॒व॒न्त॒¦वस्त॑वे | |
उ॒वासो॒षा, उ॒च्छाच्च॒ नु दे॒वी जी॒रा रथा᳚नाम् |{काण्वः प्रस्कण्वः | उषाः | बृहती} ये, अ॑स्या, आ॒चर॑णेषु दध्रि॒रे स॑मु॒द्रे न श्र॑व॒स्यवः॑ ||{3/16}{1.48.3}{1.9.5.3}{1.4.3.3}{569, 48, 569} उ॒वास॑¦उ॒षाः¦उ॒च्छात्¦च॒¦नु¦दे॒वी¦जी॒रा¦रथा᳚नाम् | |
उषो॒ ये ते॒ प्र यामे᳚षु यु॒ञ्जते॒ मनो᳚ दा॒नाय॑ सू॒रयः॑ |{काण्वः प्रस्कण्वः | उषाः | सतोबृहती} अत्राह॒ तत् कण्व॑ एषां॒ कण्व॑तमो॒ नाम॑ गृणाति नृ॒णाम् ||{4/16}{1.48.4}{1.9.5.4}{1.4.3.4}{570, 48, 570} उषः॑¦ये¦ते॒¦प्र¦यामे᳚षु¦युं॒जते᳚¦मनः॑¦दा॒नाय॑¦सू॒रयः॑ | |
आ घा॒ योषे᳚व सू॒नर्यु॒षा या᳚ति प्रभुञ्ज॒ती |{काण्वः प्रस्कण्वः | उषाः | बृहती} ज॒रय᳚न्ती॒ वृज॑नं प॒द्वदी᳚यत॒ उत्पा᳚तयति प॒क्षिणः॑ ||{5/16}{1.48.5}{1.9.5.5}{1.4.3.5}{571, 48, 571} आ¦घ॒¦योषा᳚ऽइव¦सू॒नरी᳚¦उ॒षाः¦या॒ति॒¦प्र॒ऽभुं॒ज॒ती | |
वि या सृ॒जति॒ सम॑नं॒ व्य१॑(अ॒)र्थिनः॑ प॒दं न वे॒त्योद॑ती |{काण्वः प्रस्कण्वः | उषाः | सतोबृहती} वयो॒ नकि॑ष्टे पप्ति॒वांस॑ आसते॒ व्यु॑ष्टौ वाजिनीवति ||{6/16}{1.48.6}{1.9.5.6}{1.4.4.1}{572, 48, 572} वि¦या¦सृ॒जति॑¦सम॑नम्¦वि¦अ॒र्थिनः॑¦प॒दम्¦न¦वे॒ति॒¦ओद॑ती | |
ए॒षायु॑क्त परा॒वतः॒ सूर्य॑स्यो॒दय॑ना॒दधि॑ |{काण्वः प्रस्कण्वः | उषाः | बृहती} श॒तं रथे᳚भिः सु॒भगो॒षा, इ॒यं वि या᳚त्य॒भि मानु॑षान् ||{7/16}{1.48.7}{1.9.5.7}{1.4.4.2}{573, 48, 573} ए॒षा¦अ॒यु॒क्त॒¦प॒रा॒ऽवतः॑¦सूर्य॑स्य¦उ॒त्।आय॑नात्¦अधि॑ | |
विश्व॑मस्या नानाम॒ चक्ष॑से॒ जग॒ज् ज्योति॑ष्कृणोति सू॒नरी᳚ |{काण्वः प्रस्कण्वः | उषाः | सतोबृहती} अप॒ द्वेषो᳚ म॒घोनी᳚ दुहि॒ता दि॒व उ॒षा, उ॑च्छ॒दप॒ स्रिधः॑ ||{8/16}{1.48.8}{1.9.5.8}{1.4.4.3}{574, 48, 574} विश्व᳚म्¦अ॒स्याः॒¦न॒ना॒म॒¦चक्ष॑से¦जग॑त्¦ज्योतिः॑¦कृ॒णो॒ति॒¦सू॒नरी᳚ | |
उष॒ आ भा᳚हि भा॒नुना᳚ च॒न्द्रेण॑ दुहितर्दिवः |{काण्वः प्रस्कण्वः | उषाः | बृहती} आ॒वह᳚न्ती॒ भूर्य॒स्मभ्यं॒ सौभ॑गं व्यु॒च्छन्ती॒ दिवि॑ष्टिषु ||{9/16}{1.48.9}{1.9.5.9}{1.4.4.4}{575, 48, 575} उषः॑¦आ¦भा॒हि॒¦भा॒नुना᳚¦च॒न्द्रेण॑¦दु॒हि॒तः॒¦दि॒वः॒ | |
विश्व॑स्य॒ हि प्राण॑नं॒ जीव॑नं॒ त्वे वि यदु॒च्छसि॑ सूनरि |{काण्वः प्रस्कण्वः | उषाः | सतोबृहती} सा नो॒ रथे᳚न बृह॒ता वि॑भावरि श्रु॒धि चि॑त्रामघे॒ हव᳚म् ||{10/16}{1.48.10}{1.9.5.10}{1.4.4.5}{576, 48, 576} विश्व॑स्य¦हि¦प्राण॑नम्¦जीव॑नम्¦त्वे इति॑¦वि¦यत्¦उ॒च्छसि॑¦सू॒न॒रि॒ | |
उषो॒ वाजं॒ हि वंस्व॒ यश्चि॒त्रो मानु॑षे॒ जने᳚ |{काण्वः प्रस्कण्वः | उषाः | बृहती} तेना व॑ह सु॒कृतो᳚, अध्व॒राँ, उप॒ ये त्वा᳚ गृ॒णन्ति॒ वह्न॑यः ||{11/16}{1.48.11}{1.9.5.11}{1.4.5.1}{577, 48, 577} उषः॑¦वाज᳚म्¦हि¦वंस्व॑¦यः¦चि॒त्रः¦मानु॑षे¦जने᳚ | |
विश्वा᳚न् दे॒वाँ, आ व॑ह॒ सोम॑पीतये॒ऽन्तरि॑क्षादुष॒स्त्वम् |{काण्वः प्रस्कण्वः | उषाः | सतोबृहती} सास्मासु॑ धा॒ गोम॒दश्वा᳚वदु॒क्थ्य१॑(अ॒)मुषो॒ वाजं᳚ सु॒वीर्य᳚म् ||{12/16}{1.48.12}{1.9.5.12}{1.4.5.2}{578, 48, 578} विश्वा᳚न्¦दे॒वान्¦आ¦व॒ह॒¦सोम॑ऽपीतये¦अ॒न्तरि॑क्षात्¦उ॒षः॒¦त्वम् | |
यस्या॒ रुश᳚न्तो, अ॒र्चयः॒ प्रति॑ भ॒द्रा, अदृ॑क्षत |{काण्वः प्रस्कण्वः | उषाः | बृहती} सा नो᳚ र॒यिं वि॒श्ववा᳚रं सु॒पेश॑समु॒षा द॑दातु॒ सुग्म्य᳚म् ||{13/16}{1.48.13}{1.9.5.13}{1.4.5.3}{579, 48, 579} यस्याः᳚¦रुश᳚न्तः¦अ॒र्चयः॑¦प्रति॑¦भ॒द्राः¦अदृ॑क्षत | |
ये चि॒द्धि त्वामृष॑यः॒ पूर्व॑ ऊ॒तये᳚ जुहू॒रेव॑से महि |{काण्वः प्रस्कण्वः | उषाः | सतोबृहती} सा नः॒ स्तोमाँ᳚, अ॒भि गृ॑णीहि॒ राध॒सोषः॑ शु॒क्रेण॑ शो॒चिषा᳚ ||{14/16}{1.48.14}{1.9.5.14}{1.4.5.4}{580, 48, 580} ये¦चि॒त्¦हि¦त्वाम्¦ऋष॑यः¦पूर्वे᳚¦ऊ॒तये᳚¦जु॒हू॒रे¦अव॑से¦म॒हि॒ | |
उषो॒ यद॒द्य भा॒नुना॒ वि द्वारा᳚वृ॒णवो᳚ दि॒वः |{काण्वः प्रस्कण्वः | उषाः | बृहती} प्र नो᳚ यच्छतादवृ॒कं पृ॒थु च्छ॒र्दिः प्र दे᳚वि॒ गोम॑ती॒रिषः॑ ||{15/16}{1.48.15}{1.9.5.15}{1.4.5.5}{581, 48, 581} उषः॑¦यत्¦अ॒द्य¦भा॒नुना᳚¦वि¦द्वारौ᳚¦ऋ॒णवः॑¦दि॒वः | |
सं नो᳚ रा॒या बृ॑ह॒ता वि॒श्वपे᳚शसा मिमि॒क्ष्वा समिळा᳚भि॒रा |{काण्वः प्रस्कण्वः | उषाः | सतोबृहती} सं द्यु॒म्नेन॑ विश्व॒तुरो᳚षो महि॒ सं वाजै᳚र्वाजिनीवति ||{16/16}{1.48.16}{1.9.5.16}{1.4.5.6}{582, 48, 582} सम्¦नः॒¦रा॒या¦बृ॒ह॒ता¦वि॒श्वऽपे᳚शसा¦मि॒मि॒क्ष्व¦सम्¦इळा᳚भिः¦आ | |
[49] उषोभत्रेभिरिति चतुरृचस्व सूक्तस्य काण्वः प्रस्कण्वउषाअनुष्टुप् | |
उषो᳚ भ॒द्रेभि॒रा ग॑हि दि॒वश्चि॑द् रोच॒नादधि॑ |{काण्वः प्रस्कण्वः | उषाः | अनुष्टुप्} वह᳚न्त्वरु॒णप्स॑व॒ उप॑ त्वा सो॒मिनो᳚ गृ॒हम् ||{1/4}{1.49.1}{1.9.6.1}{1.4.6.1}{583, 49, 583} उषः॑¦भ॒द्रेभिः॑¦आ¦ग॒हि॒¦दि॒वः¦चि॒त्¦रो॒च॒नात्¦अधि॑ | वह᳚न्तु¦अ॒रु॒णऽप्स॑वः¦उप॑¦त्वा॒¦सो॒मिनः॑¦गृ॒हम् || |
सु॒पेश॑सं सु॒खं रथं॒ यम॒ध्यस्था᳚, उष॒स्त्वम् |{काण्वः प्रस्कण्वः | उषाः | अनुष्टुप्} तेना᳚ सु॒श्रव॑सं॒ जनं॒ प्रावा॒द्य दु॑हितर्दिवः ||{2/4}{1.49.2}{1.9.6.2}{1.4.6.2}{584, 49, 584} सु॒ऽपेश॑सम्¦सु॒ऽखम्¦रथ᳚म्¦यम्¦अ॒धि॒।आस्थाः᳚¦उ॒षः॒¦त्वम् | तेन॑¦सु॒ऽश्रव॑सम्¦जन᳚म्¦प्र¦अ॒व॒¦अ॒द्य¦दु॒हि॒तः॒¦दि॒वः॒ || |
वय॑श्चित्ते पत॒त्रिणो᳚ द्वि॒पच्चतु॑ष्पदर्जुनि |{काण्वः प्रस्कण्वः | उषाः | अनुष्टुप्} उषः॒ प्रार᳚न्नृ॒तूँरनु॑ दि॒वो, अन्ते᳚भ्य॒स्परि॑ ||{3/4}{1.49.3}{1.9.6.3}{1.4.6.3}{585, 49, 585} वयः॑¦चि॒त्¦ते॒¦प॒त॒त्रिणः॑¦द्वि॒ऽपत्¦चतुः॑ऽपत्¦अ॒र्जु॒नि॒ | उषः॑¦प्र¦आ॒र॒न्¦ऋ॒तून्¦अनु॑¦दि॒वः¦अन्ते᳚भ्यः¦परि॑ || |
व्यु॒च्छन्ती॒ हि र॒श्मिभि॒र्विश्व॑मा॒भासि॑ रोच॒नम् |{काण्वः प्रस्कण्वः | उषाः | अनुष्टुप्} तां त्वामु॑षर्वसू॒यवो᳚ गी॒र्भिः कण्वा᳚, अहूषत ||{4/4}{1.49.4}{1.9.6.4}{1.4.6.4}{586, 49, 586} वि॒।औ॒च्छन्ती᳚¦हि¦र॒श्मिऽभिः॑¦विश्व᳚म्¦आ॒ऽभासि॑¦रो॒च॒नम् | ताम्¦त्वाम्¦उ॒षः॒¦व॒सु॒ऽयवः॑¦गीः॒ऽभिः¦कण्वाः᳚¦अ॒हू॒ष॒त॒ || |
[50] उदुत्यमिति त्रयोदशर्चस्य सूक्तस्य काण्वःप्रस्कण्वः सूर्यो गायत्री अंत्याश्चतस्रोनुष्टुभः (अंत्यस्तृचोरोगघ्नउपनिषदंत्योर्थर्चोद्विषन्न इतिगुणः) | |
उदु॒ त्यं जा॒तवे᳚दसं दे॒वं व॑हन्ति के॒तवः॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} दृ॒शे विश्वा᳚य॒ सूर्य᳚म् ||{1/13}{1.50.1}{1.9.7.1}{1.4.7.1}{587, 50, 587} उत्¦ऊँ॒ इति॑¦त्यम्¦जा॒तऽवे᳚दसम्¦दे॒वम्¦व॒ह॒न्ति॒¦के॒तवः॑ | दृ॒शे¦विश्वा᳚य¦सूर्य᳚म् || |
अप॒ त्ये ता॒यवो᳚ यथा॒ नक्ष॑त्रा यन्त्य॒क्तुभिः॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} सूरा᳚य वि॒श्वच॑क्षसे ||{2/13}{1.50.2}{1.9.7.2}{1.4.7.2}{588, 50, 588} अप॑¦त्ये¦ता॒यवः॑¦य॒था॒¦नक्ष॑त्रा¦य॒न्ति॒¦अ॒क्तुऽभिः॑ | सूरा᳚य¦वि॒श्वऽच॑क्षसे || |
अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒, अनु॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} भ्राज᳚न्तो, अ॒ग्नयो᳚ यथा ||{3/13}{1.50.3}{1.9.7.3}{1.4.7.3}{589, 50, 589} अदृ॑श्रम्¦अ॒स्य॒¦के॒तवः॑¦वि¦र॒श्मयः॑¦जना᳚न्¦अनु॑ | भ्राज᳚न्तः¦अ॒ग्नयः॑¦य॒था॒ || |
त॒रणि᳚र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} विश्व॒मा भा᳚सि रोच॒नम् ||{4/13}{1.50.4}{1.9.7.4}{1.4.7.4}{590, 50, 590} त॒रणिः॑¦वि॒श्वऽद॑र्शतः¦ज्यो॒तिः॒ऽकृत्¦अ॒सि॒¦सू॒र्य॒ | विश्व᳚म्¦आ¦भा॒सि॒¦रो॒च॒नम् || |
प्र॒त्यङ् दे॒वानां॒ विशः॑ प्र॒त्यङ्ङुदे᳚षि॒ मानु॑षान् |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} प्र॒त्यङ् विश्वं॒ स्व॑र्दृ॒शे ||{5/13}{1.50.5}{1.9.7.5}{1.4.7.5}{591, 50, 591} प्र॒त्यङ्¦दे॒वाना᳚म्¦विशः॑¦प्र॒त्यङ्¦उत्¦ए॒षि॒¦मानु॑षान् | प्र॒त्यङ्¦विश्व᳚म्¦स्वः॑¦दृ॒शे || |
येना᳚ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒, अनु॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} त्वं व॑रुण॒ पश्य॑सि ||{6/13}{1.50.6}{1.9.7.6}{1.4.8.1}{592, 50, 592} येन॑¦पा॒व॒क॒¦चक्ष॑सा¦भु॒र॒ण्यन्त᳚म्¦जना᳚न्¦अनु॑ | त्वम्¦व॒रु॒ण॒¦पश्य॑सि || |
वि द्यामे᳚षि॒ रज॑स्पृ॒थ्वहा॒ मिमा᳚नो, अ॒क्तुभिः॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} पश्य॒ञ्जन्मा᳚नि सूर्य ||{7/13}{1.50.7}{1.9.7.7}{1.4.8.2}{593, 50, 593} वि¦द्याम्¦ए॒षि॒¦रजः॑¦पृ॒थु¦अहा᳚¦मिमा᳚नः¦अ॒क्तुऽभिः॑ | पश्य॑न्¦जन्मा᳚नि¦सू॒र्य॒ || |
स॒प्त त्वा᳚ ह॒रितो॒ रथे॒ वह᳚न्ति देव सूर्य |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} शो॒चिष्के᳚शं विचक्षण ||{8/13}{1.50.8}{1.9.7.8}{1.4.8.3}{594, 50, 594} स॒प्त¦त्वा॒¦ह॒रितः॑¦रथे᳚¦वह᳚न्ति¦दे॒व॒¦सू॒र्य॒ | शो॒चिःऽके᳚शम्¦वि॒ऽच॒क्ष॒ण॒ || |
अयु॑क्त स॒प्त शु॒न्ध्युवः॒ सूरो॒ रथ॑स्य न॒प्त्यः॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} ताभि᳚र्याति॒ स्वयु॑क्तिभिः ||{9/13}{1.50.9}{1.9.7.9}{1.4.8.4}{595, 50, 595} अयु॑क्त¦स॒प्त¦शु॒न्ध्युवः॑¦सूरः॑¦रथ॑स्य¦न॒प्त्यः॑ | ताभिः॑¦या॒ति॒¦स्वयु॑क्तिऽभिः || |
उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्य᳚न्त॒ उत्त॑रम् |{काण्वः प्रस्कण्वः | सूर्यः | अनुष्टुप्} दे॒वं दे᳚व॒त्रा सूर्य॒मग᳚न्म॒ ज्योति॑रुत्त॒मम् ||{10/13}{1.50.10}{1.9.7.10}{1.4.8.5}{596, 50, 596} उत्¦व॒यम्¦तम॑सः¦परि॑¦ज्योतिः॑¦पश्य᳚न्तः¦उत्ऽत॑रम् | दे॒वम्¦दे॒व॒ऽत्रा¦सूर्य᳚म्¦अग᳚न्म¦ज्योतिः॑¦उ॒त्ऽत॒मम् || |
उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव᳚म् |{काण्वः प्रस्कण्वः | सूर्यः | अनुष्टुप्} हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं᳚ च नाशय ||{11/13}{1.50.11}{1.9.7.11}{1.4.8.6}{597, 50, 597} उ॒त्ऽयन्¦अ॒द्य¦मि॒त्र॒ऽम॒हः॒¦आ॒ऽरोह॑न्¦उत्ऽत॑राम्¦दिव᳚म् | हृ॒त्ऽरो॒गम्¦मम॑¦सू॒र्य॒¦ह॒रि॒माण᳚म्¦च॒¦ना॒श॒य॒ || |
शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि |{काण्वः प्रस्कण्वः | सूर्यः | अनुष्टुप्} अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि ||{12/13}{1.50.12}{1.9.7.12}{1.4.8.7}{598, 50, 598} शुके᳚षु¦मे॒¦ह॒रि॒माण᳚म्¦रो॒प॒णाका᳚सु¦द॒ध्म॒सि॒ | अथो॒ इति॑¦हा॒रि॒द्र॒वेषु॑¦मे॒¦ह॒रि॒माण॒म्¦नि¦द॒ध्म॒सि॒ || |
उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह |{काण्वः प्रस्कण्वः | सूर्यः | अनुष्टुप्} द्वि॒षन्तं॒ मह्यं᳚ र॒न्धय॒न् मो, अ॒हं द्वि॑ष॒ते र॑धम् ||{13/13}{1.50.13}{1.9.7.13}{1.4.8.8}{599, 50, 599} उत्¦अ॒गा॒त्¦अ॒यम्¦आ॒दि॒त्यः¦विश्वे᳚न¦सह॑सा¦स॒ह | द्वि॒षन्त᳚म्¦मह्य᳚म्¦र॒न्धय॑न्¦मो इति॑¦अ॒हम्¦द्वि॒ष॒ते¦र॒ध॒म् || |
[51] अभित्यमिति पंचदशर्चस्य सूक्तस्य आंगिरसः सव्यइंद्रोजगतीअंत्येद्वेत्रिष्टुभौ | |
अ॒भि त्यं मे॒षं पु॑रुहू॒तमृ॒ग्मिय॒मिन्द्रं᳚ गी॒र्भिर्म॑दता॒ वस्वो᳚, अर्ण॒वम् |{आङ्गिरस सव्यः | इन्द्रः | जगती} यस्य॒ द्यावो॒ न वि॒चर᳚न्ति॒ मानु॑षा भु॒जे मंहि॑ष्ठम॒भि विप्र॑मर्चत ||{1/15}{1.51.1}{1.10.1.1}{1.4.9.1}{600, 51, 600} अ॒भि¦त्यम्¦मे॒षम्¦पु॒रु॒ऽहू॒तम्¦ऋ॒ग्मिय᳚म्¦इन्द्र᳚म्¦गीः॒ऽभिः¦म॒द॒त॒¦वस्वः॑¦अ॒र्ण॒वम् | |
अ॒भीम॑वन्वन् त्स्वभि॒ष्टिमू॒तयो᳚ऽन्तरिक्ष॒प्रां तवि॑षीभि॒रावृ॑तम् |{आङ्गिरस सव्यः | इन्द्रः | जगती} इन्द्रं॒ दक्षा᳚स ऋ॒भवो᳚ मद॒च्युतं᳚ श॒तक्र॑तुं॒ जव॑नी सू॒नृतारु॑हत् ||{2/15}{1.51.2}{1.10.1.2}{1.4.9.2}{601, 51, 601} अ॒भि¦ई॒म्¦अ॒व॒न्व॒न्¦सु॒।आ॒भि॒ष्टिम्¦ऊ॒तयः॑¦अ॒न्त॒रि॒क्ष॒ऽप्राम्¦तवि॑षीभिः¦आऽवृ॑तम् | |
त्वं गो॒त्रमङ्गि॑रोभ्योऽवृणो॒रपो॒तात्र॑ये श॒तदु॑रेषु गातु॒वित् |{आङ्गिरस सव्यः | इन्द्रः | जगती} स॒सेन॑ चिद् विम॒दाया᳚वहो॒ वस्वा॒जावद्रिं᳚ वावसा॒नस्य॑ न॒र्तय॑न् ||{3/15}{1.51.3}{1.10.1.3}{1.4.9.3}{602, 51, 602} त्वम्¦गो॒त्रम्¦अङ्गि॑रःऽभ्यः¦अ॒वृ॒णोः॒¦अप॑¦उ॒त¦अत्र॑ये¦श॒तऽदु॑रेषु¦गा॒तु॒ऽवित् | |
त्वम॒पाम॑पि॒धाना᳚वृणो॒रपाधा᳚रयः॒ पर्व॑ते॒ दानु॑म॒द् वसु॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती} वृ॒त्रं यदि᳚न्द्र॒ शव॒साव॑धी॒रहि॒मादित् सूर्यं᳚ दि॒व्यारो᳚हयो दृ॒शे ||{4/15}{1.51.4}{1.10.1.4}{1.4.9.4}{603, 51, 603} त्वम्¦अ॒पाम्¦अ॒पि॒ऽधाना᳚¦अ॒वृ॒णोः॒¦अप॑¦अधा᳚रयः¦पर्व॑ते¦दानु॑ऽमत्¦वसु॑ | |
त्वं मा॒याभि॒रप॑ मा॒यिनो᳚ऽधमः स्व॒धाभि॒र्ये, अधि॒ शुप्ता॒वजु॑ह्वत |{आङ्गिरस सव्यः | इन्द्रः | जगती} त्वं पिप्रो᳚र्नृमणः॒ प्रारु॑जः॒ पुरः॒ प्र ऋ॒जिश्वा᳚नं दस्यु॒हत्ये᳚ष्वाविथ ||{5/15}{1.51.5}{1.10.1.5}{1.4.9.5}{604, 51, 604} त्वम्¦मा॒याभिः॑¦अप॑¦मा॒यिनः॑¦अ॒ध॒मः॒¦स्व॒धाभिः॑¦ये¦अधि॑¦शुप्तौ᳚¦अजु॑ह्वत | |
त्वं कुत्सं᳚ शुष्ण॒हत्ये᳚ष्वावि॒थार᳚न्धयोऽतिथि॒ग्वाय॒ शम्ब॑रम् |{आङ्गिरस सव्यः | इन्द्रः | जगती} म॒हान्तं᳚ चिदर्बु॒दं नि क्र॑मीः प॒दा स॒नादे॒व द॑स्यु॒हत्या᳚य जज्ञिषे ||{6/15}{1.51.6}{1.10.1.6}{1.4.10.1}{605, 51, 605} त्वम्¦कुत्स᳚म्¦शु॒ष्ण॒ऽहत्ये᳚षु¦आ॒वि॒थ॒¦अर᳚न्धयः¦अ॒ति॒थि॒ऽग्वाय॑¦शम्ब॑रम् | |
त्वे विश्वा॒ तवि॑षी स॒ध्र्य॑ग्घि॒ता तव॒ राधः॑ सोमपी॒थाय॑ हर्षते |{आङ्गिरस सव्यः | इन्द्रः | जगती} तव॒ वज्र॑श्चिकिते बा॒ह्वोर्हि॒तो वृ॒श्चा शत्रो॒रव॒ विश्वा᳚नि॒ वृष्ण्या᳚ ||{7/15}{1.51.7}{1.10.1.7}{1.4.10.2}{606, 51, 606} त्वे इति॑¦विश्वा᳚¦तवि॑षी¦स॒ध्र्य॑क्¦हि॒ता¦तव॑¦राधः॑¦सो॒म॒ऽपी॒थाय॑¦ह॒र्ष॒ते॒ | |
वि जा᳚नी॒ह्यार्या॒न्ये च॒ दस्य॑वो ब॒र्हिष्म॑ते रन्धया॒ शास॑दव्र॒तान् |{आङ्गिरस सव्यः | इन्द्रः | जगती} शाकी᳚ भव॒ यज॑मानस्य चोदि॒ता विश्वेत्ता ते᳚ सध॒मादे᳚षु चाकन ||{8/15}{1.51.8}{1.10.1.8}{1.4.10.3}{607, 51, 607} वि¦जा॒नी॒हि॒¦आर्या᳚न्¦ये¦च॒¦दस्य॑वः¦ब॒र्हिष्म॑ते¦र॒न्ध॒य॒¦शास॑त्¦अ॒व्र॒तान् | |
अनु᳚व्रताय र॒न्धय॒न्नप᳚व्रताना॒भूभि॒रिन्द्रः॑ श्न॒थय॒न्नना᳚भुवः |{आङ्गिरस सव्यः | इन्द्रः | जगती} वृ॒द्धस्य॑ चि॒द् वर्ध॑तो॒ द्यामिन॑क्षतः॒ स्तवा᳚नो व॒म्रो वि ज॑घान सं॒दिहः॑ ||{9/15}{1.51.9}{1.10.1.9}{1.4.10.4}{608, 51, 608} अनु॑ऽव्रताय¦र॒न्धय॑न्¦अप॑ऽव्रतान्¦आ॒ऽभूभिः॑¦इन्द्रः॑¦श्न॒थय॑न्¦अना᳚भुवः | |
तक्ष॒द् यत्त॑ उ॒शना॒ सह॑सा॒ सहो॒ वि रोद॑सी म॒ज्मना᳚ बाधते॒ शवः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती} आ त्वा॒ वात॑स्य नृमणो मनो॒युज॒ आ पूर्य॑माणमवहन्न॒भि श्रवः॑ ||{10/15}{1.51.10}{1.10.1.10}{1.4.10.5}{609, 51, 609} तक्ष॑त्¦यत्¦ते॒¦उ॒शना᳚¦सह॑सा¦सहः॑¦वि¦रोद॑सी॒ इति॑¦म॒ज्मना᳚¦बा॒ध॒ते॒¦शवः॑ | |
मन्दि॑ष्ट॒ यदु॒शने᳚ का॒व्ये सचाँ॒, इन्द्रो᳚ व॒ङ्कू व᳚ङ्कु॒तराधि॑ तिष्ठति |{आङ्गिरस सव्यः | इन्द्रः | जगती} उ॒ग्रो य॒यिं निर॒पः स्रोत॑सासृज॒द् वि शुष्ण॑स्य दृंहि॒ता, ऐ᳚रय॒त् पुरः॑ ||{11/15}{1.51.11}{1.10.1.11}{1.4.11.1}{610, 51, 610} मन्दि॑ष्ट¦यत्¦उ॒शने᳚¦का॒व्ये¦सचा᳚¦इन्द्रः॑¦व॒ङ्कू इति॑¦व॒ङ्कु॒ऽतरा᳚¦अधि॑¦ति॒ष्ठ॒ति॒ | |
आ स्मा॒ रथं᳚ वृष॒पाणे᳚षु तिष्ठसि शार्या॒तस्य॒ प्रभृ॑ता॒ येषु॒ मन्द॑से |{आङ्गिरस सव्यः | इन्द्रः | जगती} इन्द्र॒ यथा᳚ सु॒तसो᳚मेषु चा॒कनो᳚ऽन॒र्वाणं॒ श्लोक॒मा रो᳚हसे दि॒वि ||{12/15}{1.51.12}{1.10.1.12}{1.4.11.2}{611, 51, 611} आ¦स्म॒¦रथ᳚म्¦वृ॒ष॒ऽपाने᳚षु¦ति॒ष्ठ॒सि॒¦शा॒र्या॒तस्य॑¦प्रऽभृ॑ताः¦येषु॑¦मन्द॑से | |
अद॑दा॒, अर्भां᳚ मह॒ते व॑च॒स्यवे᳚ क॒क्षीव॑ते वृच॒यामि᳚न्द्र सुन्व॒ते |{आङ्गिरस सव्यः | इन्द्रः | जगती} मेना᳚भवो वृषण॒श्वस्य॑ सुक्रतो॒ विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या᳚ ||{13/15}{1.51.13}{1.10.1.13}{1.4.11.3}{612, 51, 612} अद॑दाः¦अर्भा᳚म्¦म॒ह॒ते¦व॒च॒स्यवे᳚¦क॒क्षीव॑ते¦वृ॒च॒याम्¦इ॒न्द्र॒¦सु॒न्व॒ते | |
इन्द्रो᳚, अश्रायि सु॒ध्यो᳚ निरे॒के प॒ज्रेषु॒ स्तोमो॒ दुर्यो॒ न यूपः॑ |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्} अ॒श्व॒युर्ग॒व्यू र॑थ॒युर्व॑सू॒युरिन्द्र॒ इद्रा॒यः, क्ष॑यति प्रय॒न्ता ||{14/15}{1.51.14}{1.10.1.14}{1.4.11.4}{613, 51, 613} इन्द्रः॑¦अ॒श्रा॒यि॒¦सु॒ऽध्यः॑¦नि॒रे॒के¦प॒ज्रेषु॑¦स्तोमः॑¦दुर्यः॑¦न¦यूपः॑ | |
इ॒दं नमो᳚ वृष॒भाय॑ स्व॒राजे᳚ स॒त्यशु॑ष्माय त॒वसे᳚ऽवाचि |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्} अ॒स्मिन्नि᳚न्द्र वृ॒जने॒ सर्व॑वीराः॒ स्मत् सू॒रिभि॒स्तव॒ शर्म᳚न् त्स्याम ||{15/15}{1.51.15}{1.10.1.15}{1.4.11.5}{614, 51, 614} इ॒दम्¦नमः॑¦वृ॒ष॒भाय॑¦स्व॒ऽराजे᳚¦स॒त्यऽशु॑ष्माय¦त॒वसे᳚¦अ॒वा॒चि॒ | |
[52] त्यंसुमेषमिति पंचदशर्चस्य सूक्तस्यांगिरसःसव्यइंद्रोजगती त्रयोदश्यंत्येत्रिष्टुभौ | |
त्यं सु मे॒षं म॑हया स्व॒र्विदं᳚ श॒तं यस्य॑ सु॒भ्वः॑ सा॒कमीर॑ते |{आङ्गिरस सव्यः | इन्द्रः | जगती} अत्यं॒ न वाजं᳚ हवन॒स्यदं॒ रथ॒मेन्द्रं᳚ ववृत्या॒मव॑से सुवृ॒क्तिभिः॑ ||{1/15}{1.52.1}{1.10.2.1}{1.4.12.1}{615, 52, 615} त्यम्¦सु¦मे॒षम्¦म॒ह॒य॒¦स्वः॒ऽविद᳚म्¦श॒तम्¦यस्य॑¦सु॒ऽभ्वः॑¦सा॒कम्¦ईर॑ते | |
स पर्व॑तो॒ न ध॒रुणे॒ष्वच्यु॑तः स॒हस्र॑मूति॒स्तवि॑षीषु वावृधे |{आङ्गिरस सव्यः | इन्द्रः | जगती} इन्द्रो॒ यद् वृ॒त्रमव॑धीन्नदी॒वृत॑मु॒ब्जन्नर्णां᳚सि॒ जर्हृ॑षाणो॒, अन्ध॑सा ||{2/15}{1.52.2}{1.10.2.2}{1.4.12.2}{616, 52, 616} सः¦पर्व॑तः¦न¦ध॒रुणे᳚षु¦अच्यु॑तः¦स॒हस्र᳚म्ऽऊतिः¦तवि॑षीषु¦व॒वृ॒धे॒ | |
स हि द्व॒रो द्व॒रिषु॑ व॒व्र ऊध॑नि च॒न्द्रबु॑ध्नो॒ मद॑वृद्धो मनी॒षिभिः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती} इन्द्रं॒ तम॑ह्वे स्वप॒स्यया᳚ धि॒या मंहि॑ष्ठरातिं॒ स हि पप्रि॒रन्ध॑सः ||{3/15}{1.52.3}{1.10.2.3}{1.4.12.3}{617, 52, 617} सः¦हि¦द्व॒रः¦द्व॒रिषु॑¦व॒व्रः¦ऊध॑नि¦च॒न्द्रऽबु॑ध्नः¦मद॑ऽवृद्धः¦म॒नी॒षिऽभिः॑ | |
आ यं पृ॒णन्ति॑ दि॒वि सद्म॑बर्हिषः समु॒द्रं न सु॒भ्व१॑(अः॒) स्वा, अ॒भिष्ट॑यः |{आङ्गिरस सव्यः | इन्द्रः | जगती} तं वृ॑त्र॒हत्ये॒, अनु॑ तस्थुरू॒तयः॒ शुष्मा॒, इन्द्र॑मवा॒ता, अह्रु॑तप्सवः ||{4/15}{1.52.4}{1.10.2.4}{1.4.12.4}{618, 52, 618} आ¦यम्¦पृ॒णन्ति॑¦दि॒वि¦सद्म॑ऽबर्हिषः¦स॒मु॒द्रम्¦न¦सु॒ऽभ्वः॑¦स्वाः¦अ॒भिष्ट॑यः | |
अ॒भि स्ववृ॑ष्टिं॒ मदे᳚, अस्य॒ युध्य॑तो र॒घ्वीरि॑व प्रव॒णे स॑स्रुरू॒तयः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती} इन्द्रो॒ यद् व॒ज्री धृ॒षमा᳚णो॒, अन्ध॑सा भि॒नद् व॒लस्य॑ परि॒धीँरि॑व त्रि॒तः ||{5/15}{1.52.5}{1.10.2.5}{1.4.12.5}{619, 52, 619} अ॒भि¦स्वऽवृ॑ष्टिम्¦मदे᳚¦अ॒स्य॒¦युध्य॑तः¦र॒घ्वीःऽइ᳚व¦प्र॒व॒णे¦स॒स्रुः॒¦ऊ॒तयः॑ | |
परीं᳚ घृ॒णा च॑रति तित्वि॒षे शवो॒ऽपो वृ॒त्वी रज॑सो बु॒ध्नमाश॑यत् |{आङ्गिरस सव्यः | इन्द्रः | जगती} वृ॒त्रस्य॒ यत् प्र॑व॒णे दु॒र्गृभि॑श्वनो निज॒घन्थ॒ हन्वो᳚रिन्द्र तन्य॒तुम् ||{6/15}{1.52.6}{1.10.2.6}{1.4.13.1}{620, 52, 620} परि॑¦ई॒म्¦घृ॒णा¦च॒र॒ति॒¦ति॒त्वि॒षे¦शवः॑¦अ॒पः¦वृ॒त्वी¦रज॑सः¦बु॒ध्नम्¦आ¦अ॒श॒य॒त् | |
ह्र॒दं न हि त्वा᳚ न्यृ॒षन्त्यू॒र्मयो॒ ब्रह्मा᳚णीन्द्र॒ तव॒ यानि॒ वर्ध॑ना |{आङ्गिरस सव्यः | इन्द्रः | जगती} त्वष्टा᳚ चित्ते॒ युज्यं᳚ वावृधे॒ शव॑स्त॒तक्ष॒ वज्र॑म॒भिभू᳚त्योजसम् ||{7/15}{1.52.7}{1.10.2.7}{1.4.13.2}{621, 52, 621} ह्र॒दम्¦न¦हि¦त्वा॒¦नि॒ऽऋ॒षन्ति॑¦ऊ॒र्मयः॑¦ब्रह्मा᳚णि¦इ॒न्द्र॒¦तव॑¦यानि॑¦वर्ध॑ना | |
ज॒घ॒न्वाँ, उ॒ हरि॑भिः सम्भृतक्रत॒विन्द्र॑ वृ॒त्रं मनु॑षे गातु॒यन्न॒पः |{आङ्गिरस सव्यः | इन्द्रः | जगती} अय॑च्छथा बा॒ह्वोर्वज्र॑माय॒समधा᳚रयो दि॒व्या सूर्यं᳚ दृ॒शे ||{8/15}{1.52.8}{1.10.2.8}{1.4.13.3}{622, 52, 622} ज॒घ॒न्वान्¦ऊँ॒ इति॑¦हरि॑ऽभिः¦सं॒भृ॒त॒क्र॒तो॒ इति॑ संभृतऽक्रतो¦इन्द्र॑¦वृ॒त्रम्¦मनु॑षे¦गा॒तु॒ऽयन्¦अ॒पः | |
बृ॒हत् स्वश्च᳚न्द्र॒मम॑व॒द् यदु॒क्थ्य१॑(अ॒)मकृ᳚ण्वत भि॒यसा॒ रोह॑णं दि॒वः |{आङ्गिरस सव्यः | इन्द्रः | जगती} यन्मानु॑षप्रधना॒, इन्द्र॑मू॒तयः॒ स्व᳚र्नृ॒षाचो᳚ म॒रुतोम॑द॒न्ननु॑ ||{9/15}{1.52.9}{1.10.2.9}{1.4.13.4}{623, 52, 623} बृ॒हत्¦स्वऽच᳚न्द्रम्¦अम॑ऽवत्¦यत्¦उ॒क्थ्य᳚म्¦अकृ᳚ण्वत¦भि॒यसा᳚¦रोह॑णम्¦दि॒वः | |
द्यौश्चि॑द॒स्याम॑वाँ॒, अहेः᳚ स्व॒नादयो᳚यवीद् भि॒यसा॒ वज्र॑ इन्द्र ते |{आङ्गिरस सव्यः | इन्द्रः | जगती} वृ॒त्रस्य॒ यद् ब॑द्बधा॒नस्य॑ रोदसी॒ मदे᳚ सु॒तस्य॒ शव॒साभि॑न॒च्छिरः॑ ||{10/15}{1.52.10}{1.10.2.10}{1.4.13.5}{624, 52, 624} द्यौः¦चि॒त्¦अ॒स्य॒¦अम॑ऽवान्¦अहेः᳚¦स्व॒नात्¦अयो᳚यवीत्¦भि॒यसा᳚¦वज्रः॑¦इ॒न्द्र॒¦ते॒ | |
यदिन्न्वि᳚न्द्र पृथि॒वी दश॑भुजि॒रहा᳚नि॒ विश्वा᳚ त॒तन᳚न्त कृ॒ष्टयः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती} अत्राह॑ ते मघव॒न् विश्रु॑तं॒ सहो॒ द्यामनु॒ शव॑सा ब॒र्हणा᳚ भुवत् ||{11/15}{1.52.11}{1.10.2.11}{1.4.14.1}{625, 52, 625} यत्¦इत्¦नु¦इ॒न्द्र॒¦पृ॒थि॒वी¦दश॑ऽभुजिः¦अहा᳚नि¦विश्वा᳚¦त॒तन᳚न्त¦कृ॒ष्टयः॑ | |
त्वम॒स्य पा॒रे रज॑सो॒ व्यो᳚मनः॒ स्वभू᳚त्योजा॒, अव॑से धृषन्मनः |{आङ्गिरस सव्यः | इन्द्रः | जगती} च॒कृ॒षे भूमिं᳚ प्रति॒मान॒मोज॑सो॒पः स्वः॑ परि॒भूरे॒ष्या दिव᳚म् ||{12/15}{1.52.12}{1.10.2.12}{1.4.14.2}{626, 52, 626} त्वम्¦अ॒स्य¦पा॒रे¦रज॑सः¦विऽओ᳚मनः¦स्वभू᳚तिऽओजाः¦अव॑से¦धृ॒ष॒त्ऽम॒नः॒ | |
त्वं भु॑वः प्रति॒मानं᳚ पृथि॒व्या, ऋ॒ष्ववी᳚रस्य बृह॒तः पति॑र्भूः |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्} विश्व॒माप्रा᳚, अ॒न्तरि॑क्षं महि॒त्वा स॒त्यम॒द्धा नकि॑र॒न्यस्त्वावा॑न् ||{13/15}{1.52.13}{1.10.2.13}{1.4.14.3}{627, 52, 627} त्वम्¦भु॒वः॒¦प्र॒ति॒ऽमान᳚म्¦पृ॒थि॒व्याः¦ऋ॒ष्वऽवी᳚रस्य¦बृ॒ह॒तः¦पतिः॑¦भूः॒ | |
न यस्य॒ द्यावा᳚पृथि॒वी, अनु॒ व्यचो॒ न सिन्ध॑वो॒ रज॑सो॒, अन्त॑मान॒शुः |{आङ्गिरस सव्यः | इन्द्रः | जगती} नोत स्ववृ॑ष्टिं॒ मदे᳚, अस्य॒ युध्य॑त॒ एको᳚, अ॒न्यच्च॑कृषे॒ विश्व॑मानु॒षक् ||{14/15}{1.52.14}{1.10.2.14}{1.4.14.4}{628, 52, 628} न¦यस्य॑¦द्यावा᳚पृथि॒वी इति॑¦अनु॑¦व्यचः॑¦न¦सिन्ध॑वः¦रज॑सः¦अन्त᳚म्¦आ॒न॒शुः | |
आर्च॒न्नत्र॑ म॒रुतः॒ सस्मि᳚न्ना॒जौ विश्वे᳚ दे॒वासो᳚, अमद॒न्ननु॑ त्वा |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्} वृ॒त्रस्य॒ यद् भृ॑ष्टि॒मता᳚ व॒धेन॒ नि त्वमि᳚न्द्र॒ प्रत्या॒नं ज॒घन्थ॑ ||{15/15}{1.52.15}{1.10.2.15}{1.4.14.5}{629, 52, 629} आर्च॑न्¦अत्र॑¦म॒रुतः॑¦सस्मि॑न्¦आ॒जौ¦विश्वे᳚¦दे॒वासः॑¦अ॒म॒द॒न्¦अनु॑¦त्वा॒ | |
[53] न्यूषुवाचमित्येकादशर्चस्य सूक्तस्यांगिरसःसव्यइंद्रोजगतीअंत्येद्वेत्रिष्टुभौ | |
न्यू॒३॑(ऊ॒) षु वाचं॒ प्र म॒हे भ॑रामहे॒ गिर॒ इन्द्रा᳚य॒ सद॑ने वि॒वस्व॑तः |{आङ्गिरस सव्यः | इन्द्रः | जगती} नू चि॒द्धि रत्नं᳚ सस॒तामि॒वावि॑द॒न्न दु॑ष्टु॒तिर्द्र॑विणो॒देषु॑ शस्यते ||{1/11}{1.53.1}{1.10.3.1}{1.4.15.1}{630, 53, 630} नि¦ऊँ॒ इति॑¦सु¦वाच᳚म्¦प्र¦म॒हे¦भ॒रा॒म॒हे॒¦गिरः॑¦इन्द्रा᳚य¦सद॑ने¦वि॒वस्व॑तः | |
दु॒रो, अश्व॑स्य दु॒र इ᳚न्द्र॒ गोर॑सि दु॒रो यव॑स्य॒ वसु॑न इ॒नस्पतिः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती} शि॒क्षा॒न॒रः प्र॒दिवो॒, अका᳚मकर्शनः॒ सखा॒ सखि॑भ्य॒स्तमि॒दं गृ॑णीमसि ||{2/11}{1.53.2}{1.10.3.2}{1.4.15.2}{631, 53, 631} दु॒रः¦अश्व॑स्य¦दु॒रः¦इ॒न्द्र॒¦गोः¦अ॒सि॒¦दु॒रः¦यव॑स्य¦वसु॑नः¦इ॒नः¦पतिः॑ | |
शची᳚व इन्द्र पुरुकृद्द्युमत्तम॒ तवेदि॒दम॒भित॑श्चेकिते॒ वसु॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती} अतः॑ सं॒गृभ्या᳚भिभूत॒ आ भ॑र॒ मा त्वा᳚य॒तो ज॑रि॒तुः काम॑मूनयीः ||{3/11}{1.53.3}{1.10.3.3}{1.4.15.3}{632, 53, 632} शची᳚ऽवः¦इ॒न्द्र॒¦पु॒रु॒ऽकृ॒त्¦द्यु॒म॒त्ऽत॒म॒¦तव॑¦इत्¦इ॒दम्¦अ॒भितः॑¦चे॒कि॒ते॒¦वसु॑ | |
ए॒भिर्द्युभिः॑ सु॒मना᳚, ए॒भिरिन्दु॑भिर्निरुन्धा॒नो, अम॑तिं॒ गोभि॑र॒श्विना᳚ |{आङ्गिरस सव्यः | इन्द्रः | जगती} इन्द्रे᳚ण॒ दस्युं᳚ द॒रय᳚न्त॒ इन्दु॑भिर्यु॒तद्वे᳚षसः॒ समि॒षा र॑भेमहि ||{4/11}{1.53.4}{1.10.3.4}{1.4.15.4}{633, 53, 633} ए॒भिः¦द्युऽभिः॑¦सु॒ऽमनाः᳚¦ए॒भिः¦इन्दु॑ऽभिः¦निः॒।औ॒न्धा॒नः¦अम॑तिम्¦गोभिः॑¦अ॒श्विना᳚ | |
समि᳚न्द्र रा॒या समि॒षा र॑भेमहि॒ सं वाजे᳚भिः पुरुश्च॒न्द्रैर॒भिद्यु॑भिः |{आङ्गिरस सव्यः | इन्द्रः | जगती} सं दे॒व्या प्रम॑त्या वी॒रशु॑ष्मया॒ गो,अ॑ग्र॒याश्वा᳚वत्या रभेमहि ||{5/11}{1.53.5}{1.10.3.5}{1.4.15.5}{634, 53, 634} सम्¦इ॒न्द्र॒¦रा॒या¦सम्¦इ॒षा¦र॒भे॒म॒हि॒¦सम्¦वाजे᳚भिः¦पु॒रु॒ऽच॒न्द्रैः¦अ॒भिद्यु॑ऽभिः | |
ते त्वा॒ मदा᳚, अमद॒न् तानि॒ वृष्ण्या॒ ते सोमा᳚सो वृत्र॒हत्ये᳚षु सत्पते |{आङ्गिरस सव्यः | इन्द्रः | जगती} यत् का॒रवे॒ दश॑ वृ॒त्राण्य॑प्र॒ति ब॒र्हिष्म॑ते॒ नि स॒हस्रा᳚णि ब॒र्हयः॑ ||{6/11}{1.53.6}{1.10.3.6}{1.4.16.1}{635, 53, 635} ते¦त्वा॒¦मदाः᳚¦अ॒म॒द॒न्¦तानि॑¦वृष्ण्या᳚¦ते¦सोमा᳚सः¦वृ॒त्र॒ऽहत्ये᳚षु¦स॒त्ऽप॒ते॒ | |
यु॒धा युध॒मुप॒ घेदे᳚षि धृष्णु॒या पु॒रा पुरं॒ समि॒दं हं॒स्योज॑सा |{आङ्गिरस सव्यः | इन्द्रः | जगती} नम्या॒ यदि᳚न्द्र॒ सख्या᳚ परा॒वति॑ निब॒र्हयो॒ नमु॑चिं॒ नाम॑ मा॒यिन᳚म् ||{7/11}{1.53.7}{1.10.3.7}{1.4.16.2}{636, 53, 636} यु॒धा¦युध᳚म्¦उप॑¦घ॒¦इत्¦ए॒षि॒¦धृ॒श्णु॒ऽया¦पु॒रा¦पुर᳚म्¦सम्¦इ॒दम्¦हं॒सि॒¦ओज॑सा | |
त्वं कर᳚ञ्जमु॒त प॒र्णयं᳚ वधी॒स्तेजि॑ष्ठयातिथि॒ग्वस्य॑ वर्त॒नी |{आङ्गिरस सव्यः | इन्द्रः | जगती} त्वं श॒ता वङ्गृ॑दस्याभिन॒त् पुरो᳚ऽनानु॒दः परि॑षूता, ऋ॒जिश्व॑ना ||{8/11}{1.53.8}{1.10.3.8}{1.4.16.3}{637, 53, 637} त्वम्¦करं᳚जम्¦उ॒त¦प॒र्णय᳚म्¦व॒धीः॒¦तेजि॑ष्ठया¦अ॒ति॒थि॒ऽग्वस्य॑¦व॒र्त॒नी | |
त्वमे॒ताञ्ज॑न॒राज्ञो॒ द्विर्दशा᳚ब॒न्धुना᳚ सु॒श्रव॑सोपज॒ग्मुषः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती} ष॒ष्टिं स॒हस्रा᳚ नव॒तिं नव॑ श्रु॒तो नि च॒क्रेण॒ रथ्या᳚ दु॒ष्पदा᳚वृणक् ||{9/11}{1.53.9}{1.10.3.9}{1.4.16.4}{638, 53, 638} त्वम्¦ए॒तान्¦ज॒न॒ऽराज्ञः॑¦द्विः¦दश॑¦अ॒ब॒न्धुना᳚¦सु॒ऽश्रव॑सा¦उ॒प॒ऽज॒ग्मुषः॑ | |
त्वमा᳚विथ सु॒श्रव॑सं॒ तवो॒तिभि॒स्तव॒ त्राम॑भिरिन्द्र॒ तूर्व॑याणम् |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्} त्वम॑स्मै॒ कुत्स॑मतिथि॒ग्वमा॒युं म॒हे राज्ञे॒ यूने᳚, अरन्धनायः ||{10/11}{1.53.10}{1.10.3.10}{1.4.16.5}{639, 53, 639} त्वम्¦आ॒वि॒थ॒¦सु॒ऽश्रव॑सम्¦तव॑¦ऊ॒तिऽभिः॑¦तव॑¦त्राम॑ऽभिः¦इ॒न्द्र॒¦तूर्व॑याणम् | |
य उ॒दृची᳚न्द्र दे॒वगो᳚पाः॒ सखा᳚यस्ते शि॒वत॑मा॒, असा᳚म |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्} त्वां स्तो᳚षाम॒ त्वया᳚ सु॒वीरा॒ द्राघी᳚य॒ आयुः॑ प्रत॒रं दधा᳚नाः ||{11/11}{1.53.11}{1.10.3.11}{1.4.16.6}{640, 53, 640} ये¦उ॒त्ऽऋचि॑¦इ॒न्द्र॒¦दे॒वऽगो᳚पाः¦सखा᳚यः¦ते॒¦शि॒वऽत॑माः¦असा᳚म | |
[54] मानोअस्मिन्नित्येकादशर्चस्यसूक्तस्यांगिरसः सव्यइंद्रोजगती षष्ट्यष्टमीनवम्येकादश्यस्त्रिष्टुभः | |
मा नो᳚, अ॒स्मिन् म॑घवन् पृ॒त्स्वंह॑सि न॒हि ते॒, अन्तः॒ शव॑सः परी॒णशे᳚ |{आङ्गिरस सव्यः | इन्द्रः | जगती} अक्र᳚न्दयो न॒द्यो॒३॑(ओ॒) रोरु॑व॒द् वना᳚ क॒था न क्षो॒णीर्भि॒यसा॒ समा᳚रत ||{1/11}{1.54.1}{1.10.4.1}{1.4.17.1}{641, 54, 641} मा¦नः॒¦अ॒स्मिन्¦म॒घ॒ऽव॒न्¦पृ॒त्ऽसु¦अंह॑सि¦न॒हि¦ते॒¦अन्तः॑¦शव॑सः¦प॒रि॒ऽनशे᳚ | |
अर्चा᳚ श॒क्राय॑ शा॒किने॒ शची᳚वते शृ॒ण्वन्त॒मिन्द्रं᳚ म॒हय᳚न्न॒भि ष्टु॑हि |{आङ्गिरस सव्यः | इन्द्रः | जगती} यो धृ॒ष्णुना॒ शव॑सा॒ रोद॑सी, उ॒भे वृषा᳚ वृष॒त्वा वृ॑ष॒भो न्यृ॒ञ्जते᳚ ||{2/11}{1.54.2}{1.10.4.2}{1.4.17.2}{642, 54, 642} अर्च॑¦श॒क्राय॑¦शा॒किने᳚¦शची᳚ऽवते¦शृ॒ण्वन्त᳚म्¦इन्द्र᳚म्¦म॒हय॑न्¦अ॒भि¦स्तु॒हि॒ | |
अर्चा᳚ दि॒वे बृ॑ह॒ते शू॒ष्य१॑(अं॒) वचः॒ स्वक्ष॑त्रं॒ यस्य॑ धृष॒तो धृ॒षन्मनः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती} बृ॒हच्छ्र॑वा॒, असु॑रो ब॒र्हणा᳚ कृ॒तः पु॒रो हरि॑भ्यां वृष॒भो रथो॒ हि षः ||{3/11}{1.54.3}{1.10.4.3}{1.4.17.3}{643, 54, 643} अर्च॑¦दि॒वे¦बृ॒ह॒ते¦शू॒ष्य᳚म्¦वचः॑¦स्वऽक्ष॑त्रम्¦यस्य॑¦धृ॒ष॒तः¦धृ॒षत्¦मनः॑ | |
त्वं दि॒वो बृ॑ह॒तः सानु॑ कोप॒योऽव॒ त्मना᳚ धृष॒ता शम्ब॑रं भिनत् |{आङ्गिरस सव्यः | इन्द्रः | जगती} यन्मा॒यिनो᳚ व्र॒न्दिनो᳚ म॒न्दिना᳚ धृ॒षच्छि॒तां गभ॑स्तिम॒शनिं᳚ पृत॒न्यसि॑ ||{4/11}{1.54.4}{1.10.4.4}{1.4.17.4}{644, 54, 644} त्वम्¦दि॒वः¦बृ॒ह॒तः¦सानु॑¦को॒प॒यः॒¦अव॑¦त्मना᳚¦धृ॒ष॒ता¦शम्ब॑रम्¦भि॒न॒त् | |
नि यद् वृ॒णक्षि॑ श्वस॒नस्य॑ मू॒र्धनि॒ शुष्ण॑स्य चिद् व्र॒न्दिनो॒ रोरु॑व॒द् वना᳚ |{आङ्गिरस सव्यः | इन्द्रः | जगती} प्रा॒चीने᳚न॒ मन॑सा ब॒र्हणा᳚वता॒ यद॒द्या चि॑त् कृ॒णवः॒ कस्त्वा॒ परि॑ ||{5/11}{1.54.5}{1.10.4.5}{1.4.17.5}{645, 54, 645} नि¦यत्¦वृ॒णक्षि॑¦श्व॒स॒नस्य॑¦मू॒र्धनि॑¦शुष्ण॑स्य¦चि॒त्¦व्र॒न्दिनः॑¦रोरु॑वत्¦वना᳚ | |
त्वमा᳚विथ॒ नर्यं᳚ तु॒र्वशं॒ यदुं॒ त्वं तु॒र्वीतिं᳚ व॒य्यं᳚ शतक्रतो |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्} त्वं रथ॒मेत॑शं॒ कृत्व्ये॒ धने॒ त्वं पुरो᳚ नव॒तिं द᳚म्भयो॒ नव॑ ||{6/11}{1.54.6}{1.10.4.6}{1.4.18.1}{646, 54, 646} त्वम्¦आ॒वि॒थ॒¦नर्य᳚म्¦तु॒र्वश᳚म्¦यदु᳚म्¦त्वम्¦तु॒र्वीति᳚म्¦व॒य्य᳚म्¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | |
स घा॒ राजा॒ सत्प॑तिः शूशुव॒ज्जनो᳚ रा॒तह᳚व्यः॒ प्रति॒ यः शास॒मिन्व॑ति |{आङ्गिरस सव्यः | इन्द्रः | जगती} उ॒क्था वा॒ यो, अ॑भिगृ॒णाति॒ राध॑सा॒ दानु॑रस्मा॒, उप॑रा पिन्वते दि॒वः ||{7/11}{1.54.7}{1.10.4.7}{1.4.18.2}{647, 54, 647} सः¦घ॒¦राजा᳚¦सत्ऽप॑तिः¦शू॒शु॒व॒त्¦जनः॑¦रा॒तऽह᳚व्यः¦प्रति॑¦यः¦शास᳚म्¦इन्व॑ति | |
अस॑मं क्ष॒त्रमस॑मा मनी॒षा प्र सो᳚म॒पा, अप॑सा सन्तु॒ नेमे᳚ |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्} ये त॑ इन्द्र द॒दुषो᳚ व॒र्धय᳚न्ति॒ महि॑ क्ष॒त्रं स्थवि॑रं॒ वृष्ण्यं᳚ च ||{8/11}{1.54.8}{1.10.4.8}{1.4.18.3}{648, 54, 648} अस॑मम्¦क्ष॒त्रम्¦अस॑मा¦म॒नी॒षा¦प्र¦सो॒म॒ऽपाः¦अप॑सा¦स॒न्तु॒¦नेमे᳚ | |
तुभ्येदे॒ते ब॑हु॒ला, अद्रि॑दुग्धाश्चमू॒षद॑श्चम॒सा, इ᳚न्द्र॒पानाः᳚ |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्} व्य॑श्नुहि त॒र्पया॒ काम॑मेषा॒मथा॒ मनो᳚ वसु॒देया᳚य कृष्व ||{9/11}{1.54.9}{1.10.4.9}{1.4.18.4}{649, 54, 649} तुभ्य॑¦इत्¦ए॒ते¦ब॒हु॒लाः¦अद्रि॑ऽदुग्धाः¦च॒मू॒ऽसदः॑¦च॒म॒साः¦इ॒न्द्र॒ऽपानाः᳚ | |
अ॒पाम॑तिष्ठद् ध॒रुण॑ह्वरं॒ तमो॒ऽन्तर्वृ॒त्रस्य॑ ज॒ठरे᳚षु॒ पर्व॑तः |{आङ्गिरस सव्यः | इन्द्रः | जगती} अ॒भीमिन्द्रो᳚ न॒द्यो᳚ व॒व्रिणा᳚ हि॒ता विश्वा᳚, अनु॒ष्ठाः प्र॑व॒णेषु॑ जिघ्नते ||{10/11}{1.54.10}{1.10.4.10}{1.4.18.5}{650, 54, 650} अ॒पाम्¦अ॒ति॒ष्ठ॒त्¦ध॒रुण॑ऽह्वरम्¦तमः॑¦अ॒न्तः¦वृ॒त्रस्य॑¦ज॒ठरे᳚षु¦पर्व॑तः | |
स शेवृ॑ध॒मधि॑ धा द्यु॒म्नम॒स्मे महि॑ क्ष॒त्रं ज॑ना॒षाळि᳚न्द्र॒ तव्य᳚म् |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्} रक्षा᳚ च नो म॒घोनः॑ पा॒हि सू॒रीन् रा॒ये च॑ नः स्वप॒त्या, इ॒षे धाः᳚ ||{11/11}{1.54.11}{1.10.4.11}{1.4.18.6}{651, 54, 651} सः¦शेऽवृ॑धम्¦अधि॑¦धाः॒¦द्यु॒म्नम्¦अ॒स्मे इति॑¦महि॑¦क्ष॒त्रम्¦ज॒ना॒षाट्¦इ॒न्द्र॒¦तव्य᳚म् | |
[55] दिवश्चिदित्यष्टर्चस्य सूक्तस्यांगिरसः सव्य इंद्रोजगती | |
दि॒वश्चि॑दस्य वरि॒मा वि प॑प्रथ॒ इन्द्रं॒ न म॒ह्ना पृ॑थि॒वी च॒न प्रति॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती} भी॒मस्तुवि॑ष्माञ्चर्ष॒णिभ्य॑ आत॒पः शिशी᳚ते॒ वज्रं॒ तेज॑से॒ न वंस॑गः ||{1/8}{1.55.1}{1.10.5.1}{1.4.19.1}{652, 55, 652} दि॒वः¦चि॒त्¦अ॒स्य॒¦व॒रि॒मा¦वि¦प॒प्र॒थे॒¦इन्द्र᳚म्¦न¦म॒ह्ना¦पृ॒थि॒वी¦च॒न¦प्रति॑ | |
सो, अ᳚र्ण॒वो न न॒द्यः॑ समु॒द्रियः॒ प्रति॑ गृभ्णाति॒ विश्रि॑ता॒ वरी᳚मभिः |{आङ्गिरस सव्यः | इन्द्रः | जगती} इन्द्रः॒ सोम॑स्य पी॒तये᳚ वृषायते स॒नात् स यु॒ध्म ओज॑सा पनस्यते ||{2/8}{1.55.2}{1.10.5.2}{1.4.19.2}{653, 55, 653} सः¦अ॒र्ण॒वः¦न¦न॒द्यः॑¦स॒मु॒द्रियः॑¦प्रति॑¦गृ॒भ्णा॒ति॒¦विऽश्रि॑ताः¦वरी᳚मऽभिः | |
त्वं तमि᳚न्द्र॒ पर्व॑तं॒ न भोज॑से म॒हो नृ॒म्णस्य॒ धर्म॑णामिरज्यसि |{आङ्गिरस सव्यः | इन्द्रः | जगती} प्र वी॒र्ये᳚ण दे॒वताति॑ चेकिते॒ विश्व॑स्मा, उ॒ग्रः कर्म॑णे पु॒रोहि॑तः ||{3/8}{1.55.3}{1.10.5.3}{1.4.19.3}{654, 55, 654} त्वम्¦तम्¦इ॒न्द्र॒¦पर्व॑तम्¦न¦भोज॑से¦म॒हः¦नृ॒म्णस्य॑¦धर्म॑णाम्¦इ॒र॒ज्य॒सि॒ | |
स इद् वने᳚ नम॒स्युभि᳚र्वचस्यते॒ चारु॒ जने᳚षु प्रब्रुवा॒ण इ᳚न्द्रि॒यम् |{आङ्गिरस सव्यः | इन्द्रः | जगती} वृषा॒ छन्दु॑र्भवति हर्य॒तो वृषा॒ क्षेमे᳚ण॒ धेनां᳚ म॒घवा॒ यदिन्व॑ति ||{4/8}{1.55.4}{1.10.5.4}{1.4.19.4}{655, 55, 655} सः¦इत्¦वने᳚¦न॒म॒स्युऽभिः॑¦व॒च॒स्य॒ते॒¦चारु॑¦जने᳚षु¦प्र॒ऽब्रु॒वा॒णः¦इ॒न्द्रि॒यम् | |
स इन्म॒हानि॑ समि॒थानि॑ म॒ज्मना᳚ कृ॒णोति॑ यु॒ध्म ओज॑सा॒ जने᳚भ्यः |{आङ्गिरस सव्यः | इन्द्रः | जगती} अधा᳚ च॒न श्रद्द॑धति॒ त्विषी᳚मत॒ इन्द्रा᳚य॒ वज्रं᳚ नि॒घनि॑घ्नते व॒धम् ||{5/8}{1.55.5}{1.10.5.5}{1.4.19.5}{656, 55, 656} सः¦इत्¦म॒हानि॑¦स॒म्ऽइ॒थानि॑¦म॒ज्मना᳚¦कृ॒णोति॑¦यु॒ध्मः¦ओज॑सा¦जने᳚भ्यः | |
स हि श्र॑व॒स्युः सद॑नानि कृ॒त्रिमा᳚ क्ष्म॒या वृ॑धा॒न ओज॑सा विना॒शय॑न् |{आङ्गिरस सव्यः | इन्द्रः | जगती} ज्योतीं᳚षि कृ॒ण्वन्न॑वृ॒काणि॒ यज्य॒वेऽव॑ सु॒क्रतुः॒ सर्त॒वा, अ॒पः सृ॑जत् ||{6/8}{1.55.6}{1.10.5.6}{1.4.20.1}{657, 55, 657} सः¦हि¦श्र॒व॒स्युः¦सद॑नानि¦कृ॒त्रिमा᳚¦क्ष्म॒या¦वृ॒धा॒नः¦ओज॑सा¦वि॒ऽना॒शय॑न् | |
दा॒नाय॒ मनः॑ सोमपावन्नस्तु ते॒ऽर्वाञ्चा॒ हरी᳚ वन्दनश्रु॒दा कृ॑धि |{आङ्गिरस सव्यः | इन्द्रः | जगती} यमि॑ष्ठासः॒ सार॑थयो॒ य इ᳚न्द्र ते॒ न त्वा॒ केता॒, आ द॑भ्नुवन्ति॒ भूर्ण॑यः ||{7/8}{1.55.7}{1.10.5.7}{1.4.20.2}{658, 55, 658} दा॒नाय॑¦मनः॑¦सो॒म॒ऽपा॒व॒न्¦अ॒स्तु॒¦ते॒¦अ॒र्वांचा᳚¦हरी॒ इति॑¦व॒न्द॒न॒ऽश्रु॒त्¦आ¦कृ॒धि॒ | |
अप्र॑क्षितं॒ वसु॑ बिभर्षि॒ हस्त॑यो॒रषा᳚ळ्हं॒ सह॑स्त॒न्वि॑ श्रु॒तो द॑धे |{आङ्गिरस सव्यः | इन्द्रः | जगती} आवृ॑तासोऽव॒तासो॒ न क॒र्तृभि॑स्त॒नूषु॑ ते॒ क्रत॑व इन्द्र॒ भूर॑यः ||{8/8}{1.55.8}{1.10.5.8}{1.4.20.3}{659, 55, 659} अप्र॑ऽक्षितम्¦वसु॑¦बि॒भ॒र्षि॒¦हस्त॑योः¦अषा᳚ळ्हम्¦सहः॑¦त॒न्वि॑¦श्रु॒तः¦द॒धे॒ | |
[56] एषप्रपूर्वीरिति षळर्चस्य सूक्तस्यांगिरसःसव्यइंद्रोजगती | |
ए॒ष प्र पू॒र्वीरव॒ तस्य॑ च॒म्रिषोऽत्यो॒ न योषा॒मुद॑यंस्त भु॒र्वणिः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती} दक्षं᳚ म॒हे पा᳚ययते हिर॒ण्ययं॒ रथ॑मा॒वृत्या॒ हरि॑योग॒मृभ्व॑सम् ||{1/6}{1.56.1}{1.10.6.1}{1.4.21.1}{660, 56, 660} ए॒षः¦प्र¦पू॒र्वीः¦अव॑¦तस्य॑¦च॒म्रिषः॑¦अत्यः॑¦न¦योषा᳚म्¦उत्¦अ॒यं॒स्त॒¦भु॒र्वणिः॑ | |
तं गू॒र्तयो᳚ नेम॒न्निषः॒ परी᳚णसः समु॒द्रं न सं॒चर॑णे सनि॒ष्यवः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती} पतिं॒ दक्ष॑स्य वि॒दथ॑स्य॒ नू सहो᳚ गि॒रिं न वे॒ना, अधि॑ रोह॒ तेज॑सा ||{2/6}{1.56.2}{1.10.6.2}{1.4.21.2}{661, 56, 661} तम्¦गू॒र्तयः॑¦ने॒म॒न्ऽइषः॑¦परी᳚णसः¦स॒मु॒द्रम्¦न¦स॒म्ऽचर॑णे¦स॒नि॒ष्यवः॑ | |
स तु॒र्वणि᳚र्म॒हाँ, अ॑रे॒णु पौंस्ये᳚ गि॒रेर्भृ॒ष्टिर्न भ्रा᳚जते तु॒जा शवः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती} येन॒ शुष्णं᳚ मा॒यिन॑माय॒सो मदे᳚ दु॒ध्र आ॒भूषु॑ रा॒मय॒न्नि दाम॑नि ||{3/6}{1.56.3}{1.10.6.3}{1.4.21.3}{662, 56, 662} सः¦तु॒र्वणिः॑¦म॒हान्¦अ॒रे॒णु¦पौंस्ये᳚¦गि॒रेः¦भृ॒ष्टिः¦न¦भ्रा॒ज॒ते॒¦तु॒जा¦शवः॑ | |
दे॒वी यदि॒ तवि॑षी॒ त्वावृ॑धो॒तय॒ इन्द्रं॒ सिष॑क्त्यु॒षसं॒ न सूर्यः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती} यो धृ॒ष्णुना॒ शव॑सा॒ बाध॑ते॒ तम॒ इय॑र्ति रे॒णुं बृ॒हद᳚र्हरि॒ष्वणिः॑ ||{4/6}{1.56.4}{1.10.6.4}{1.4.21.4}{663, 56, 663} दे॒वी¦यदि॑¦तवि॑षी¦त्वाऽवृ॑धा¦ऊ॒तये᳚¦इन्द्र᳚म्¦सिस॑क्ति¦उ॒षस᳚म्¦न¦सूर्यः॑ | |
वि यत्ति॒रो ध॒रुण॒मच्यु॑तं॒ रजोऽति॑ष्ठिपो दि॒व आता᳚सु ब॒र्हणा᳚ |{आङ्गिरस सव्यः | इन्द्रः | जगती} स्व᳚र्मीळ्हे॒ यन्मद॑ इन्द्र॒ हर्ष्याह᳚न् वृ॒त्रं निर॒पामौ᳚ब्जो, अर्ण॒वम् ||{5/6}{1.56.5}{1.10.6.5}{1.4.21.5}{664, 56, 664} वि¦यत्¦ति॒रः¦ध॒रुण᳚म्¦अच्यु॑तम्¦रजः॑¦अति॑स्थिपः¦दि॒वः¦आता᳚सु¦ब॒र्हणा᳚ | |
त्वं दि॒वो ध॒रुणं᳚ धिष॒ ओज॑सा पृथि॒व्या, इ᳚न्द्र॒ सद॑नेषु॒ माहि॑नः |{आङ्गिरस सव्यः | इन्द्रः | जगती} त्वं सु॒तस्य॒ मदे᳚, अरिणा, अ॒पो वि वृ॒त्रस्य॑ स॒मया᳚ पा॒ष्या᳚रुजः ||{6/6}{1.56.6}{1.10.6.6}{1.4.21.6}{665, 56, 665} त्वम्¦दि॒वः¦ध॒रुण᳚म्¦धि॒षे॒¦ओज॑सा¦पृ॒थि॒व्याः¦इ॒न्द्र॒¦सद॑नेषु¦माहि॑नः | |
[57] प्रमंहिष्ठायेति षळर्चस्यसूक्तस्यांगिरसः सव्यइंद्रोजगती | |
प्र मंहि॑ष्ठाय बृह॒ते बृ॒हद्र॑ये स॒त्यशु॑ष्माय त॒वसे᳚ म॒तिं भ॑रे |{आङ्गिरस सव्यः | इन्द्रः | जगती} अ॒पामि॑व प्रव॒णे यस्य॑ दु॒र्धरं॒ राधो᳚ वि॒श्वायु॒ शव॑से॒, अपा᳚वृतम् ||{1/6}{1.57.1}{1.10.7.1}{1.4.22.1}{666, 57, 666} प्र¦मंहि॑ष्ठाय¦बृ॒ह॒ते¦बृ॒हत्ऽर॑ये¦स॒त्यऽशु॑ष्माय¦त॒वसे᳚¦म॒तिम्¦भ॒रे॒ | |
अध॑ ते॒ विश्व॒मनु॑ हासदि॒ष्टय॒ आपो᳚ नि॒म्नेव॒ सव॑ना ह॒विष्म॑तः |{आङ्गिरस सव्यः | इन्द्रः | जगती} यत् पर्व॑ते॒ न स॒मशी᳚त हर्य॒त इन्द्र॑स्य॒ वज्रः॒ श्नथि॑ता हिर॒ण्ययः॑ ||{2/6}{1.57.2}{1.10.7.2}{1.4.22.2}{667, 57, 667} अध॑¦ते॒¦विश्व᳚म्¦अनु॑¦ह॒¦अ॒स॒त्¦इ॒ष्टये᳚¦आपः॑¦नि॒म्नाऽइ᳚व¦सव॑ना¦ह॒विष्म॑तः | |
अ॒स्मै भी॒माय॒ नम॑सा॒ सम॑ध्व॒र उषो॒ न शु॑भ्र॒ आ भ॑रा॒ पनी᳚यसे |{आङ्गिरस सव्यः | इन्द्रः | जगती} यस्य॒ धाम॒ श्रव॑से॒ नामे᳚न्द्रि॒यं ज्योति॒रका᳚रि ह॒रितो॒ नाय॑से ||{3/6}{1.57.3}{1.10.7.3}{1.4.22.3}{668, 57, 668} अ॒स्मै¦भी॒माय॑¦नम॑सा¦सम्¦अ॒ध्व॒रे¦उषः॑¦न¦शु॒भ्रे॒¦आ¦भ॒र॒¦पनी᳚यसे | |
इ॒मे त॑ इन्द्र॒ ते व॒यं पु॑रुष्टुत॒ ये त्वा॒रभ्य॒ चरा᳚मसि प्रभूवसो |{आङ्गिरस सव्यः | इन्द्रः | जगती} न॒हि त्वद॒न्यो गि᳚र्वणो॒ गिरः॒ सघ॑त् क्षो॒णीरि॑व॒ प्रति॑ नो हर्य॒ तद् वचः॑ ||{4/6}{1.57.4}{1.10.7.4}{1.4.22.4}{669, 57, 669} इ॒मे¦ते॒¦इ॒न्द्र॒¦ते¦व॒यम्¦पु॒रु॒ऽस्तु॒त॒¦ये¦त्वा॒¦आ॒ऽरभ्य॑¦चरा᳚मसि¦प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो | |
भूरि॑ त इन्द्र वी॒र्य१॑(अं॒) तव॑ स्मस्य॒स्य स्तो॒तुर्म॑घव॒न् काम॒मा पृ॑ण |{आङ्गिरस सव्यः | इन्द्रः | जगती} अनु॑ ते॒ द्यौर्बृ॑ह॒ती वी॒र्यं᳚ मम इ॒यं च॑ ते पृथि॒वी ने᳚म॒ ओज॑से ||{5/6}{1.57.5}{1.10.7.5}{1.4.22.5}{670, 57, 670} भूरि॑¦ते॒¦इ॒न्द्र॒¦वी॒र्य᳚म्¦तव॑¦स्म॒सि॒¦अ॒स्य¦स्तो॒तुः¦म॒घऽव॒न्¦काम᳚म्¦आ¦पृ॒ण॒ | |
त्वं तमि᳚न्द्र॒ पर्व॑तं म॒हामु॒रुं वज्रे᳚ण वज्रिन् पर्व॒शश्च॑कर्तिथ |{आङ्गिरस सव्यः | इन्द्रः | जगती} अवा᳚सृजो॒ निवृ॑ताः॒ सर्त॒वा, अ॒पः स॒त्रा विश्वं᳚ दधिषे॒ केव॑लं॒ सहः॑ ||{6/6}{1.57.6}{1.10.7.6}{1.4.22.6}{671, 57, 671} त्वम्¦तम्¦इ॒न्द्र॒¦पर्व॑तम्¦म॒हाम्¦उ॒रुम्¦वज्रे᳚ण¦व॒ज्रि॒न्¦प॒र्व॒ऽशः¦च॒क॒र्ति॒थ॒ | |
[58] नूचिदितिनवर्चस्य सूक्तस्य गौतमोनोधाअग्निर्जगती अंत्याश्चतस्रस्त्रिष्टुभः | |
नू चि॑त् सहो॒जा, अ॒मृतो॒ नि तु᳚न्दते॒ होता॒ यद्दू॒तो, अभ॑वद् वि॒वस्व॑तः |{गौतमो नोधाः | अग्निः | जगती} वि साधि॑ष्ठेभिः प॒थिभी॒ रजो᳚ मम॒ आ दे॒वता᳚ता ह॒विषा᳚ विवासति ||{1/9}{1.58.1}{1.11.1.1}{1.4.23.1}{672, 58, 672} नु¦चि॒त्¦स॒हः॒ऽजाः¦अ॒मृतः॑¦नि¦तु॒न्द॒ते॒¦होता᳚¦यत्¦दू॒तः¦अभ॑वत्¦वि॒वस्व॑तः | |
आ स्वमद्म॑ यु॒वमा᳚नो, अ॒जर॑स्तृ॒ष्व॑वि॒ष्यन्न॑त॒सेषु॑ तिष्ठति |{गौतमो नोधाः | अग्निः | जगती} अत्यो॒ न पृ॒ष्ठं प्रु॑षि॒तस्य॑ रोचते दि॒वो न सानु॑ स्त॒नय᳚न्नचिक्रदत् ||{2/9}{1.58.2}{1.11.1.2}{1.4.23.2}{673, 58, 673} आ¦स्वम्¦अद्म॑¦यु॒वमा᳚नः¦अ॒जरः॑¦तृ॒षु¦अ॒वि॒ष्यन्¦अ॒त॒सेषु॑¦ति॒ष्ठ॒ति॒ | |
क्रा॒णा रु॒द्रेभि॒र्वसु॑भिः पु॒रोहि॑तो॒ होता॒ निष॑त्तो रयि॒षाळम॑र्त्यः |{गौतमो नोधाः | अग्निः | जगती} रथो॒ न वि॒क्ष्वृ᳚ञ्जसा॒न आ॒युषु॒ व्या᳚नु॒षग्वार्या᳚ दे॒व ऋ᳚ण्वति ||{3/9}{1.58.3}{1.11.1.3}{1.4.23.3}{674, 58, 674} क्रा॒णा¦रु॒द्रेभिः॑¦वसु॑ऽभिः¦पु॒रःऽहि॑तः¦होता᳚¦निऽस॑त्तः¦र॒यि॒षाट्¦अम॑र्त्यः | |
वि वात॑जूतो, अत॒सेषु॑ तिष्ठते॒ वृथा᳚ जु॒हूभिः॒ सृण्या᳚ तुवि॒ष्वणिः॑ |{गौतमो नोधाः | अग्निः | जगती} तृ॒षु यद॑ग्ने व॒निनो᳚ वृषा॒यसे᳚ कृ॒ष्णं त॒ एम॒ रुश॑दूर्मे, अजर ||{4/9}{1.58.4}{1.11.1.4}{1.4.23.4}{675, 58, 675} वि¦वात॑ऽजूतः¦अ॒त॒सेषु॑¦ति॒ष्ठ॒ते॒¦वृथा᳚¦जु॒हूभिः॑¦सृण्या᳚¦तु॒वि॒ऽस्वणिः॑ | |
तपु॑र्जम्भो॒ वन॒ आ वात॑चोदितो यू॒थे न सा॒ह्वाँ, अव॑ वाति॒ वंस॑गः |{गौतमो नोधाः | अग्निः | जगती} अ॒भि॒व्रज॒न्नक्षि॑तं॒ पाज॑सा॒ रजः॑ स्था॒तुश्च॒रथं᳚ भयते पत॒त्रिणः॑ ||{5/9}{1.58.5}{1.11.1.5}{1.4.23.5}{676, 58, 676} तपुः॑ऽजम्भः¦वने᳚¦आ¦वात॑ऽचोदितः¦यू॒थे¦न¦सा॒ह्वान्¦अव॑¦वा॒ति॒¦वंस॑गः | |
द॒धुष्ट्वा॒ भृग॑वो॒ मानु॑षे॒ष्वा र॒यिं न चारुं᳚ सु॒हवं॒ जने᳚भ्यः |{गौतमो नोधाः | अग्निः | त्रिष्टुप्} होता᳚रमग्ने॒, अति॑थिं॒ वरे᳚ण्यं मि॒त्रं न शेवं᳚ दि॒व्याय॒ जन्म॑ने ||{6/9}{1.58.6}{1.11.1.6}{1.4.24.1}{677, 58, 677} द॒धुः¦त्वा॒¦भृग॑वः¦मानु॑षेषु¦आ¦र॒यिम्¦न¦चारु᳚म्¦सु॒ऽहव᳚म्¦जने᳚भ्यः | |
होता᳚रं स॒प्त जु॒ह्वो॒३॑(ओ॒) यजि॑ष्ठं॒ यं वा॒घतो᳚ वृ॒णते᳚, अध्व॒रेषु॑ |{गौतमो नोधाः | अग्निः | त्रिष्टुप्} अ॒ग्निं विश्वे᳚षामर॒तिं वसू᳚नां सप॒र्यामि॒ प्रय॑सा॒ यामि॒ रत्न᳚म् ||{7/9}{1.58.7}{1.11.1.7}{1.4.24.2}{678, 58, 678} होता᳚रम्¦स॒प्त¦जु॒ह्वः॑¦यजि॑ष्ठम्¦यम्¦वा॒घतः॑¦वृ॒णते᳚¦अ॒ध्व॒रेषु॑ | |
अच्छि॑द्रा सूनो सहसो नो, अ॒द्य स्तो॒तृभ्यो᳚ मित्रमहः॒ शर्म॑ यच्छ |{गौतमो नोधाः | अग्निः | त्रिष्टुप्} अग्ने᳚ गृ॒णन्त॒मंह॑स उरु॒ष्योर्जो᳚ नपात् पू॒र्भिराय॑सीभिः ||{8/9}{1.58.8}{1.11.1.8}{1.4.24.3}{679, 58, 679} अच्छि॑द्रा¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦नः॒¦अ॒द्य¦स्तो॒तृऽभ्यः॑¦मि॒त्र॒ऽम॒हः॒¦शर्म॑¦य॒च्छ॒ | |
भवा॒ वरू᳚थं गृण॒ते वि॑भावो॒ भवा᳚ मघवन् म॒घव॑द्भ्यः॒ शर्म॑ |{गौतमो नोधाः | अग्निः | त्रिष्टुप्} उ॒रु॒ष्याग्ने॒, अंह॑सो गृ॒णन्तं᳚ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ||{9/9}{1.58.9}{1.11.1.9}{1.4.24.4}{680, 58, 680} भव॑¦वरू᳚थम्¦गृ॒ण॒ते¦वि॒भा॒ऽवः॒¦भव॑¦म॒घ॒ऽव॒न्¦म॒घव॑त्ऽभ्यः¦शर्म॑ | |
[59] वयाइदितिसप्तर्चस्य सूक्तस्य गौतमोनोधावैश्वानरोग्निस्त्रिष्टुप् | |
व॒या, इद॑ग्ने, अ॒ग्नय॑स्ते, अ॒न्ये त्वे विश्वे᳚, अ॒मृता᳚ मादयन्ते |{गौतमो नोधाः | अग्निर्वैश्वानरः | त्रिष्टुप्} वैश्वा᳚नर॒ नाभि॑रसि क्षिती॒नां स्थूणे᳚व॒ जनाँ᳚, उप॒मिद् य॑यन्थ ||{1/7}{1.59.1}{1.11.2.1}{1.4.25.1}{681, 59, 681} व॒याः¦इत्¦अ॒ग्ने॒¦अ॒ग्नयः॑¦ते॒¦अ॒न्ये¦त्वे इति॑¦विश्वे᳚¦अ॒मृताः᳚¦मा॒द॒य॒न्ते॒ | |
मू॒र्धा दि॒वो नाभि॑र॒ग्निः पृ॑थि॒व्या, अथा᳚भवदर॒ती रोद॑स्योः |{गौतमो नोधाः | अग्निर्वैश्वानरः | त्रिष्टुप्} तं त्वा᳚ दे॒वासो᳚ऽजनयन्त दे॒वं वैश्वा᳚नर॒ ज्योति॒रिदार्या᳚य ||{2/7}{1.59.2}{1.11.2.2}{1.4.25.2}{682, 59, 682} मू॒र्धा¦दि॒वः¦नाभिः॑¦अ॒ग्निः¦पृ॒थि॒व्याः¦अथ॑¦अ॒भ॒व॒त्¦अ॒र॒तिः¦रोद॑स्योः | |
आ सूर्ये॒ न र॒श्मयो᳚ ध्रु॒वासो᳚ वैश्वान॒रे द॑धिरे॒ऽग्ना वसू᳚नि |{गौतमो नोधाः | अग्निर्वैश्वानरः | त्रिष्टुप्} या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु या मानु॑षे॒ष्वसि॒ तस्य॒ राजा᳚ ||{3/7}{1.59.3}{1.11.2.3}{1.4.25.3}{683, 59, 683} आ¦सूर्ये᳚¦न¦र॒श्मयः॑¦ध्रु॒वासः॑¦वै॒श्वा॒न॒रे¦द॒धि॒रे॒¦अ॒ग्ना¦वसू᳚नि | |
बृ॒ह॒ती, इ॑व सू॒नवे॒ रोद॑सी॒ गिरो॒ होता᳚ मनु॒ष्यो॒३॑(ओ॒) न दक्षः॑ |{गौतमो नोधाः | अग्निर्वैश्वानरः | त्रिष्टुप्} स्व᳚र्वते स॒त्यशु॑ष्माय पू॒र्वीर्वै᳚श्वान॒राय॒ नृत॑माय य॒ह्वीः ||{4/7}{1.59.4}{1.11.2.4}{1.4.25.4}{684, 59, 684} बृ॒ह॒ती इ॒वेति॑ बृह॒तीऽइ᳚व¦सू॒नवे᳚¦रोद॑सी॒ इति॑¦गिरः॑¦होता᳚¦म॒नु॒ष्यः॑¦न¦दक्षः॑ | |
दि॒वश्चि॑त्ते बृह॒तो जा᳚तवेदो॒ वैश्वा᳚नर॒ प्र रि॑रिचे महि॒त्वम् |{गौतमो नोधाः | अग्निर्वैश्वानरः | त्रिष्टुप्} राजा᳚ कृष्टी॒नाम॑सि॒ मानु॑षीणां यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ||{5/7}{1.59.5}{1.11.2.5}{1.4.25.5}{685, 59, 685} दि॒वः¦चि॒त्¦ते॒¦बृ॒ह॒तः¦जा॒त॒ऽवे॒दः॒¦वैश्वा᳚नर¦प्र¦रि॒रि॒चे॒¦म॒हि॒ऽत्वम् | |
प्र नू म॑हि॒त्वं वृ॑ष॒भस्य॑ वोचं॒ यं पू॒रवो᳚ वृत्र॒हणं॒ सच᳚न्ते |{गौतमो नोधाः | अग्निर्वैश्वानरः | त्रिष्टुप्} वै॒श्वा॒न॒रो दस्यु॑म॒ग्निर्ज॑घ॒न्वाँ, अधू᳚नो॒त् काष्ठा॒, अव॒ शम्ब॑रं भेत् ||{6/7}{1.59.6}{1.11.2.6}{1.4.25.6}{686, 59, 686} प्र¦नु¦म॒हि॒ऽत्वम्¦वृ॒ष॒भस्य॑¦वो॒च॒म्¦यम्¦पू॒रवः॑¦वृ॒त्र॒ऽहन᳚म्¦सच᳚न्ते | |
वै॒श्वा॒न॒रो म॑हि॒म्ना वि॒श्वकृ॑ष्टिर्भ॒रद्वा᳚जेषु यज॒तो वि॒भावा᳚ |{गौतमो नोधाः | अग्निर्वैश्वानरः | त्रिष्टुप्} शा॒त॒व॒ने॒ये श॒तिनी᳚भिर॒ग्निः पु॑रुणी॒थे ज॑रते सू॒नृता᳚वान् ||{7/7}{1.59.7}{1.11.2.7}{1.4.25.7}{687, 59, 687} वै॒श्वा॒न॒रः¦म॒हि॒म्ना¦वि॒श्वऽकृ॑ष्टिः¦भ॒रत्ऽवा᳚जेषु¦य॒ज॒तः¦वि॒भाऽवा᳚ | |
[60] वह्निंयशसमिति पंचर्चस्य सूक्तस्य गौतमोनोधाअग्नित्रिष्टुप् | |
वह्निं᳚ य॒शसं᳚ वि॒दथ॑स्य के॒तुं सु॑प्रा॒व्यं᳚ दू॒तं स॒द्यो,अ॑र्थम् |{गौतमो नोधाः | अग्निः | त्रिष्टुप्} द्वि॒जन्मा᳚नं र॒यिमि॑व प्रश॒स्तं रा॒तिं भ॑र॒द् भृग॑वे मात॒रिश्वा᳚ ||{1/5}{1.60.1}{1.11.3.1}{1.4.26.1}{688, 60, 688} वह्नि᳚म्¦य॒शस᳚म्¦वि॒दथ॑स्य¦के॒तुम्¦सु॒प्र॒।आ॒व्य᳚म्¦दू॒तम्¦स॒द्यः।आ॑र्थम् | |
अ॒स्य शासु॑रु॒भया᳚सः सचन्ते ह॒विष्म᳚न्त उ॒शिजो॒ ये च॒ मर्ताः᳚ |{गौतमो नोधाः | अग्निः | त्रिष्टुप्} दि॒वश्चि॒त् पूर्वो॒ न्य॑सादि॒ होता॒पृच्छ्यो᳚ वि॒श्पति᳚र्वि॒क्षु वे॒धाः ||{2/5}{1.60.2}{1.11.3.2}{1.4.26.2}{689, 60, 689} अ॒स्य¦शासुः॑¦उ॒भया᳚सः¦स॒च॒न्ते॒¦ह॒विष्म᳚न्तः¦उ॒शिजः॑¦ये¦च॒¦मर्ताः᳚ | |
तं नव्य॑सी हृ॒द आ जाय॑मानम॒स्मत् सु॑की॒र्तिर्मधु॑जिह्वमश्याः |{गौतमो नोधाः | अग्निः | त्रिष्टुप्} यमृ॒त्विजो᳚ वृ॒जने॒ मानु॑षासः॒ प्रय॑स्वन्त आ॒यवो॒ जीज॑नन्त ||{3/5}{1.60.3}{1.11.3.3}{1.4.26.3}{690, 60, 690} तम्¦नव्य॑सी¦हृ॒दः¦आ¦जाय॑मानम्¦अ॒स्मत्¦सु॒ऽकी॒र्तिः¦मधु॑ऽजिह्वम्¦अ॒श्याः॒ | |
उ॒शिक् पा᳚व॒को वसु॒र्मानु॑षेषु॒ वरे᳚ण्यो॒ होता᳚धायि वि॒क्षु |{गौतमो नोधाः | अग्निः | त्रिष्टुप्} दमू᳚ना गृ॒हप॑ति॒र्दम॒ आँ, अ॒ग्निर्भु॑वद् रयि॒पती᳚ रयी॒णाम् ||{4/5}{1.60.4}{1.11.3.4}{1.4.26.4}{691, 60, 691} उ॒शिक्¦पा॒व॒कः¦वसुः॑¦मानु॑षेषु¦वरे᳚ण्यः¦होता᳚¦अ॒धा॒यि॒¦वि॒क्षु | |
तं त्वा᳚ व॒यं पति॑मग्ने रयी॒णां प्र शं᳚सामो म॒तिभि॒र्गोत॑मासः |{गौतमो नोधाः | अग्निः | त्रिष्टुप्} आ॒शुं न वा᳚जम्भ॒रं म॒र्जय᳚न्तः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ||{5/5}{1.60.5}{1.11.3.5}{1.4.26.5}{692, 60, 692} तम्¦त्वा॒¦व॒यम्¦पति᳚म्¦अ॒ग्ने॒¦र॒यी॒णाम्¦प्र¦शं॒सा॒मः॒¦म॒तिऽभिः॑¦गोत॑मासः | |
[61] अस्माइद्विति षोळशर्चस्य सूक्तस्य गौतमोनोधाइंद्रस्त्रिष्टुप् | |
अ॒स्मा, इदु॒ प्र त॒वसे᳚ तु॒राय॒ प्रयो॒ न ह᳚र्मि॒ स्तोमं॒ माहि॑नाय |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} ऋची᳚षमा॒याध्रि॑गव॒ ओह॒मिन्द्रा᳚य॒ ब्रह्मा᳚णि रा॒तत॑मा ||{1/16}{1.61.1}{1.11.4.1}{1.4.27.1}{693, 61, 693} अ॒स्मै¦इत्¦ऊँ॒ इति॑¦प्र¦त॒वसे᳚¦तु॒राय॑¦प्रयः॑¦न¦ह॒र्मि॒¦स्तोम᳚म्¦माहि॑नाय | |
अ॒स्मा, इदु॒ प्रय॑ इव॒ प्र यं᳚सि॒ भरा᳚म्याङ्गू॒षं बाधे᳚ सुवृ॒क्ति |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} इन्द्रा᳚य हृ॒दा मन॑सा मनी॒षा प्र॒त्नाय॒ पत्ये॒ धियो᳚ मर्जयन्त ||{2/16}{1.61.2}{1.11.4.2}{1.4.27.2}{694, 61, 694} अ॒स्मै¦इत्¦ऊँ॒ इति॑¦प्रयः॑ऽइव¦प्र¦यं॒सि॒¦भरा᳚मि¦आ॒ङ्गू॒षम्¦बाधे᳚¦सु॒ऽवृ॒क्ति | |
अ॒स्मा, इदु॒ त्यमु॑प॒मं स्व॒र्षां भरा᳚म्याङ्गू॒षमा॒स्ये᳚न |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} मंहि॑ष्ठ॒मच्छो᳚क्तिभिर्मती॒नां सु॑वृ॒क्तिभिः॑ सू॒रिं वा᳚वृ॒धध्यै᳚ ||{3/16}{1.61.3}{1.11.4.3}{1.4.27.3}{695, 61, 695} अ॒स्मै¦इत्¦ऊँ॒ इति॑¦त्यम्¦उ॒प॒ऽमम्¦स्वः॒ऽसाम्¦भरा᳚मि¦आ॒ङ्गू॒षम्¦आ॒स्ये᳚न | |
अ॒स्मा, इदु॒ स्तोमं॒ सं हि॑नोमि॒ रथं॒ न तष्टे᳚व॒ तत्सि॑नाय |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} गिर॑श्च॒ गिर्वा᳚हसे सुवृ॒क्तीन्द्रा᳚य विश्वमि॒न्वं मेधि॑राय ||{4/16}{1.61.4}{1.11.4.4}{1.4.27.4}{696, 61, 696} अ॒स्मै¦इत्¦ऊँ॒ इति॑¦स्तोम᳚म्¦सम्¦हि॒नो॒मि॒¦रथ᳚म्¦न¦तष्टा᳚ऽइव¦तत्ऽसि॑नाय | |
अ॒स्मा, इदु॒ सप्ति॑मिव श्रव॒स्येन्द्रा᳚या॒र्कं जु॒ह्वा॒३॑(आ॒) सम᳚ञ्जे |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} वी॒रं दा॒नौक॑सं व॒न्दध्यै᳚ पु॒रां गू॒र्तश्र॑वसं द॒र्माण᳚म् ||{5/16}{1.61.5}{1.11.4.5}{1.4.27.5}{697, 61, 697} अ॒स्मै¦इत्¦ऊँ॒ इति॑¦सप्ति᳚म्ऽइव¦श्र॒व॒स्या¦इन्द्रा᳚य¦अ॒र्कम्¦जु॒ह्वा᳚¦सम्¦अं॒जे॒ | |
अ॒स्मा, इदु॒ त्वष्टा᳚ तक्ष॒द्वज्रं॒ स्वप॑स्तमं स्व॒र्य१॑(अं॒) रणा᳚य |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} वृ॒त्रस्य॑ चिद्वि॒दद् येन॒ मर्म॑ तु॒जन्नीशा᳚नस्तुज॒ता कि॑ये॒धाः ||{6/16}{1.61.6}{1.11.4.6}{1.4.28.1}{698, 61, 698} अ॒स्मै¦इत्¦ऊँ॒ इति॑¦त्वष्टा᳚¦त॒क्ष॒त्¦वज्र᳚म्¦स्वपः॑ऽतमम्¦स्व॒र्य᳚म्¦रणा᳚य | |
अ॒स्येदु॑ मा॒तुः सव॑नेषु स॒द्यो म॒हः पि॒तुं प॑पि॒वाञ्चार्वन्ना᳚ |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} मु॒षा॒यद् विष्णुः॑ पच॒तं सही᳚या॒न् विध्य॑द्वरा॒हं ति॒रो, अद्रि॒मस्ता᳚ ||{7/16}{1.61.7}{1.11.4.7}{1.4.28.2}{699, 61, 699} अ॒स्य¦इत्¦ऊँ॒ इति॑¦मा॒तुः¦सव॑नेषु¦स॒द्यः¦म॒हः¦पि॒तुम्¦प॒पि॒ऽवान्¦चारु॑¦अन्ना᳚ | |
अ॒स्मा, इदु॒ ग्नाश्चि॑द्दे॒वप॑त्नी॒रिन्द्रा᳚या॒र्कम॑हि॒हत्य॑ ऊवुः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} परि॒ द्यावा᳚पृथि॒वी ज॑भ्र उ॒र्वी नास्य॒ ते म॑हि॒मानं॒ परि॑ ष्टः ||{8/16}{1.61.8}{1.11.4.8}{1.4.28.3}{700, 61, 700} अ॒स्मै¦इत्¦ऊँ॒ इति॑¦ग्नाः¦चि॒त्¦दे॒वऽप॑त्नीः¦इन्द्रा᳚य¦अ॒र्कम्¦अ॒हि॒ऽहत्ये᳚¦ऊ॒वु॒रित्यू᳚वुः | |
अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वं दि॒वस्पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात् |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} स्व॒राळिन्द्रो॒ दम॒ आ वि॒श्वगू᳚र्तः स्व॒रिरम॑त्रो ववक्षे॒ रणा᳚य ||{9/16}{1.61.9}{1.11.4.9}{1.4.28.4}{701, 61, 701} अ॒स्य¦इत्¦ए॒व¦प्र¦रि॒रि॒चे॒¦म॒हि॒ऽत्वम्¦दि॒वः¦पृ॒थि॒व्याः¦परि॑¦अ॒न्तरि॑क्षात् | |
अ॒स्येदे॒व शव॑सा शु॒षन्तं॒ वि वृ॑श्च॒द् वज्रे᳚ण वृ॒त्रमिन्द्रः॑ |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} गा न व्रा॒णा, अ॒वनी᳚रमुञ्चद॒भि श्रवो᳚ दा॒वने॒ सचे᳚ताः ||{10/16}{1.61.10}{1.11.4.10}{1.4.28.5}{702, 61, 702} अ॒स्य¦इत्¦ए॒व¦शव॑सा¦शु॒षन्त᳚म्¦वि¦वृ॒श्च॒त्¦वज्रे᳚ण¦वृ॒त्रम्¦इन्द्रः॑ | |
अ॒स्येदु॑ त्वे॒षसा᳚ रन्त॒ सिन्ध॑वः॒ परि॒ यद् वज्रे᳚ण सी॒मय॑च्छत् |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} ई॒शा॒न॒कृद्दा॒शुषे᳚ दश॒स्यन् तु॒र्वीत॑ये गा॒धं तु॒र्वणिः॑ कः ||{11/16}{1.61.11}{1.11.4.11}{1.4.29.1}{703, 61, 703} अ॒स्य¦इत्¦ऊँ॒ इति॑¦त्वे॒षसा᳚¦र॒न्त॒¦सिन्ध॑वः¦परि॑¦यत्¦वज्रे᳚ण¦सी॒म्¦अय॑च्छत् | |
अ॒स्मा, इदु॒ प्र भ॑रा॒ तूतु॑जानो वृ॒त्राय॒ वज्र॒मीशा᳚नः किये॒धाः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} गोर्न पर्व॒ वि र॑दा तिर॒श्चेष्य॒न्नर्णां᳚स्य॒पां च॒रध्यै᳚ ||{12/16}{1.61.12}{1.11.4.12}{1.4.29.2}{704, 61, 704} अ॒स्मै¦इत्¦ऊँ॒ इति॑¦प्र¦भ॒र॒¦तूतु॑जानः¦वृ॒त्राय॑¦वज्र᳚म्¦ईशा᳚नः¦कि॒ये॒धाः | |
अ॒स्येदु॒ प्र ब्रू᳚हि पू॒र्व्याणि॑ तु॒रस्य॒ कर्मा᳚णि॒ नव्य॑ उ॒क्थैः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} यु॒धे यदि॑ष्णा॒न आयु॑धान्यृघा॒यमा᳚णो निरि॒णाति॒ शत्रू॑न् ||{13/16}{1.61.13}{1.11.4.13}{1.4.29.3}{705, 61, 705} अ॒स्य¦इत्¦ऊँ॒ इति॑¦प्र¦ब्रू॒हि॒¦पू॒र्व्याणि॑¦तु॒रस्य॑¦कर्मा᳚णि¦नव्यः॑¦उ॒क्थैः | |
अ॒स्येदु॑ भि॒या गि॒रय॑श्च दृ॒ळ्हा द्यावा᳚ च॒ भूमा᳚ ज॒नुष॑स्तुजेते |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} उपो᳚ वे॒नस्य॒ जोगु॑वान ओ॒णिं स॒द्यो भु॑वद् वी॒र्या᳚य नो॒धाः ||{14/16}{1.61.14}{1.11.4.14}{1.4.29.4}{706, 61, 706} अ॒स्य¦इत्¦ऊँ॒ इति॑¦भि॒या¦गि॒रयः॑¦च॒¦दृ॒ळ्हाः¦द्यावा᳚¦च॒¦भूम॑¦ज॒नुषः॑¦तु॒जे॒ते॒ इति॑ | |
अ॒स्मा, इदु॒ त्यदनु॑ दाय्येषा॒मेको॒ यद् व॒व्ने भूरे॒रीशा᳚नः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} प्रैत॑शं॒ सूर्ये᳚ पस्पृधा॒नं सौव॑श्व्ये॒ सुष्वि॑माव॒दिन्द्रः॑ ||{15/16}{1.61.15}{1.11.4.15}{1.4.29.5}{707, 61, 707} अ॒स्मै¦इत्¦ऊँ॒ इति॑¦त्यत्¦अनु॑¦दा॒यि॒¦ए॒षा॒म्¦एकः॑¦यत्¦व॒व्ने¦भूरेः᳚¦ईशा᳚नः | |
ए॒वा ते᳚ हारियोजना सुवृ॒क्तीन्द्र॒ ब्रह्मा᳚णि॒ गोत॑मासो, अक्रन् |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} ऐषु॑ वि॒श्वपे᳚शसं॒ धियं᳚ धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ||{16/16}{1.61.16}{1.11.4.16}{1.4.29.6}{708, 61, 708} ए॒व¦ते॒¦हा॒रि॒ऽयो॒ज॒न॒¦सु॒ऽवृ॒क्ति¦इन्द्र॑¦ब्रह्मा᳚णि¦गोत॑मासः¦अ॒क्र॒न् | |
[62] प्रमन्मह इतित्रयोदशर्चस्य सूक्तस्य गौतमोनोधाइंद्रस्त्रिष्टुप् | |
प्र म᳚न्महे शवसा॒नाय॑ शू॒षमा᳚ङ्गू॒षं गिर्व॑णसे, अङ्गिर॒स्वत् |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} सु॒वृ॒क्तिभिः॑ स्तुव॒त ऋ॑ग्मि॒यायाऽर्चा᳚मा॒र्कं नरे॒ विश्रु॑ताय ||{1/13}{1.62.1}{1.11.5.1}{1.5.1.1}{709, 62, 709} प्र¦म॒न्म॒हे॒¦श॒व॒सा॒नाय॑¦शू॒षम्¦आ॒ङ्गू॒षम्¦गिर्व॑णसे¦अ॒ङ्गि॒र॒स्वत् | |
प्र वो᳚ म॒हे महि॒ नमो᳚ भरध्वमाङ्गू॒ष्यं᳚ शवसा॒नाय॒ साम॑ |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} येना᳚ नः॒ पूर्वे᳚ पि॒तरः॑ पद॒ज्ञा, अर्च᳚न्तो॒, अङ्गि॑रसो॒ गा, अवि᳚न्दन् ||{2/13}{1.62.2}{1.11.5.2}{1.5.1.2}{710, 62, 710} प्र¦वः॒¦म॒हे¦महि॑¦नमः॑¦भ॒र॒ध्व॒म्¦आ॒ङ्गू॒ष्य᳚म्¦श॒व॒सा॒नाय॑¦साम॑ | |
इन्द्र॒स्याङ्गि॑रसां चे॒ष्टौ वि॒दत् स॒रमा॒ तन॑याय धा॒सिम् |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} बृह॒स्पति॑र्भि॒नदद्रिं᳚ वि॒दद् गाः समु॒स्रिया᳚भिर्वावशन्त॒ नरः॑ ||{3/13}{1.62.3}{1.11.5.3}{1.5.1.3}{711, 62, 711} इन्द्र॑स्य¦अङ्गि॑रसाम्¦च॒¦इ॒ष्टौ¦वि॒दत्¦स॒रमा᳚¦तन॑याय¦धा॒सिम् | |
स सु॒ष्टुभा॒ स स्तु॒भा स॒प्त विप्रैः᳚ स्व॒रेणाद्रिं᳚ स्व॒र्यो॒३॑(ओ॒) नव॑ग्वैः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} स॒र॒ण्युभिः॑ फलि॒गमि᳚न्द्र शक्र व॒लं रवे᳚ण दरयो॒ दश॑ग्वैः ||{4/13}{1.62.4}{1.11.5.4}{1.5.1.4}{712, 62, 712} सः¦सु॒ऽस्तुभा᳚¦सः¦स्तु॒भा¦स॒प्त¦विप्रैः᳚¦स्व॒रेण॑¦अद्रि᳚म्¦स्व॒र्यः॑¦नव॑ऽग्वैः | |
गृ॒णा॒नो, अङ्गि॑रोभिर्दस्म॒ वि व॑रु॒षसा॒ सूर्ये᳚ण॒ गोभि॒रन्धः॑ |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} वि भूम्या᳚, अप्रथय इन्द्र॒ सानु॑ दि॒वो रज॒ उप॑रमस्तभायः ||{5/13}{1.62.5}{1.11.5.5}{1.5.1.5}{713, 62, 713} गृ॒णा॒नः¦अङ्गि॑रःऽभिः¦द॒स्म॒¦वि¦वः॒¦उ॒षसा᳚¦सूर्ये᳚ण¦गोभिः॑¦अन्धः॑ | |
तदु॒ प्रय॑क्षतममस्य॒ कर्म॑ द॒स्मस्य॒ चारु॑तममस्ति॒ दंसः॑ |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} उ॒प॒ह्व॒रे यदुप॑रा॒, अपि᳚न्व॒न् मध्व᳚र्णसो न॒द्य१॑(अ॒)श्चत॑स्रः ||{6/13}{1.62.6}{1.11.5.6}{1.5.2.1}{714, 62, 714} तत्¦ऊँ॒ इति॑¦प्रय॑क्षऽतमम्¦अ॒स्य॒¦कर्म॑¦द॒स्मस्य॑¦चारु॑ऽतमम्¦अ॒स्ति॒¦दंसः॑ | |
द्वि॒ता वि व᳚व्रे स॒नजा॒ सनी᳚ळे, अ॒यास्यः॒ स्तव॑मानेभिर॒र्कैः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} भगो॒ न मेने᳚ पर॒मे व्यो᳚म॒न्नधा᳚रय॒द् रोद॑सी सु॒दंसाः᳚ ||{7/13}{1.62.7}{1.11.5.7}{1.5.2.2}{715, 62, 715} द्वि॒ता¦वि¦व॒व्रे॒¦स॒ऽनजा᳚¦सनी᳚ळे॒ इति॒ सऽनी᳚ळे¦अ॒यास्यः॑¦स्तव॑मानेभिः¦अ॒र्कैः | |
स॒नाद्दिवं॒ परि॒ भूमा॒ विरू᳚पे पुन॒र्भुवा᳚ युव॒ती स्वेभि॒रेवैः᳚ |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} कृ॒ष्णेभि॑र॒क्तोषा रुश॑द्भि॒र्वपु॑र्भि॒रा च॑रतो, अ॒न्यान्या᳚ ||{8/13}{1.62.8}{1.11.5.8}{1.5.2.3}{716, 62, 716} स॒नात्¦दिव᳚म्¦परि॑¦भूम॑¦विरू᳚पे॒ इति॒ विऽरू᳚पे¦पु॒नः॒ऽभुवा᳚¦यु॒व॒ती इति॑¦स्वेभिः॑¦एवैः᳚ | |
सने᳚मि स॒ख्यं स्व॑प॒स्यमा᳚नः सू॒नुर्दा᳚धार॒ शव॑सा सु॒दंसाः᳚ |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} आ॒मासु॑ चिद्दधिषे प॒क्वम॒न्तः पयः॑ कृ॒ष्णासु॒ रुश॒द् रोहि॑णीषु ||{9/13}{1.62.9}{1.11.5.9}{1.5.2.4}{717, 62, 717} सने᳚मि¦स॒ख्यम्¦सु॒।आ॒प॒स्यमा᳚नः¦सू॒नुः¦दा॒धा॒र॒¦शव॑सा¦सु॒ऽदंसाः᳚ | |
स॒नात् सनी᳚ळा, अ॒वनी᳚रवा॒ता व्र॒ता र॑क्षन्ते, अ॒मृताः॒ सहो᳚भिः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} पु॒रू स॒हस्रा॒ जन॑यो॒ न पत्नी᳚र्दुव॒स्यन्ति॒ स्वसा᳚रो॒, अह्र॑याणम् ||{10/13}{1.62.10}{1.11.5.10}{1.5.2.5}{718, 62, 718} स॒नात्¦सऽनी᳚ळाः¦अ॒वनीः᳚¦अ॒वा॒ताः¦व्र॒ता¦र॒क्ष॒न्ते॒¦अ॒मृताः᳚¦सहः॑ऽभिः | |
स॒ना॒युवो॒ नम॑सा॒ नव्यो᳚, अ॒र्कैर्व॑सू॒यवो᳚ म॒तयो᳚ दस्म दद्रुः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} पतिं॒ न पत्नी᳚रुश॒तीरु॒शन्तं᳚ स्पृ॒शन्ति॑ त्वा शवसावन् मनी॒षाः ||{11/13}{1.62.11}{1.11.5.11}{1.5.2.6}{719, 62, 719} स॒ना॒ऽयुवः॑¦नम॑सा¦नव्यः॑¦अ॒र्कैः¦व॒सु॒ऽयवः॑¦म॒तयः॑¦द॒स्म॒¦द॒द्रुः॒ | |
स॒नादे॒व तव॒ रायो॒ गभ॑स्तौ॒ न क्षीय᳚न्ते॒ नोप॑ दस्यन्ति दस्म |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} द्यु॒माँ, अ॑सि॒ क्रतु॑माँ, इन्द्र॒ धीरः॒ शिक्षा᳚ शचीव॒स्तव॑ नः॒ शची᳚भिः ||{12/13}{1.62.12}{1.11.5.12}{1.5.3.1}{720, 62, 720} स॒नात्¦ए॒व¦तव॑¦रायः॑¦गभ॑स्तौ¦न¦क्षीय᳚न्ते¦न¦उप॑¦द॒स्य॒न्ति॒¦द॒स्म॒ | |
स॒ना॒य॒ते गोत॑म इन्द्र॒ नव्य॒मत॑क्ष॒द् ब्रह्म॑ हरि॒योज॑नाय |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} सु॒नी॒थाय॑ नः शवसान नो॒धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ||{13/13}{1.62.13}{1.11.5.13}{1.5.3.2}{721, 62, 721} स॒ना॒ऽय॒ते¦गोत॑मः¦इ॒न्द्र॒¦नव्य᳚म्¦अत॑क्षत्¦ब्रह्म॑¦ह॒रि॒ऽयोज॑नाय | |
[63] त्वंमहानिति नवर्चस्य सूक्तस्य गौतमोनोधाइंद्रस्त्रिष्टुप् | |
त्वं म॒हाँ, इ᳚न्द्र॒ यो ह॒ शुष्मै॒र्द्यावा᳚ जज्ञा॒नः पृ॑थि॒वी, अमे᳚ धाः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} यद्ध॑ ते॒ विश्वा᳚ गि॒रय॑श्चि॒दभ्वा᳚ भि॒या दृ॒ळ्हासः॑ कि॒रणा॒ नैज॑न् ||{1/9}{1.63.1}{1.11.6.1}{1.5.4.1}{722, 63, 722} त्वम्¦म॒हान्¦इ॒न्द्र॒¦यः¦ह॒¦शुष्मैः᳚¦द्यावा᳚¦ज॒ज्ञा॒नः¦पृ॒थि॒वी इति॑¦अमे᳚¦घाः॒ | |
आ यद्धरी᳚, इन्द्र॒ विव्र॑ता॒ वेरा ते॒ वज्रं᳚ जरि॒ता बा॒ह्वोर्धा᳚त् |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} येना᳚विहर्यतक्रतो, अ॒मित्रा॒न् पुर॑ इ॒ष्णासि॑ पुरुहूत पू॒र्वीः ||{2/9}{1.63.2}{1.11.6.2}{1.5.4.2}{723, 63, 723} आ¦यत्¦हरी॒ इति॑¦इ॒न्द्र॒¦विऽव्र॑ता¦वेः¦आ¦ते॒¦वज्र᳚म्¦ज॒रि॒ता¦बा॒ह्वोः¦धा॒त् | |
त्वं स॒त्य इ᳚न्द्र धृ॒ष्णुरे॒तान् त्वमृ॑भु॒क्षा नर्य॒स्त्वं षाट् |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} त्वं शुष्णं᳚ वृ॒जने᳚ पृ॒क्ष आ॒णौ यूने॒ कुत्सा᳚य द्यु॒मते॒ सचा᳚हन् ||{3/9}{1.63.3}{1.11.6.3}{1.5.4.3}{724, 63, 724} त्वम्¦स॒त्यः¦इ॒न्द्र॒¦धृ॒ष्णुः¦ए॒तान्¦त्वम्¦ऋ॒भु॒क्षाः¦नर्यः॑¦त्वम्¦षाट् | |
त्वं ह॒ त्यदि᳚न्द्र चोदीः॒ सखा᳚ वृ॒त्रं यद् व॑ज्रिन् वृषकर्मन्नु॒भ्नाः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} यद्ध॑ शूर वृषमणः परा॒चैर्वि दस्यूँ॒र्योना॒वकृ॑तो वृथा॒षाट् ||{4/9}{1.63.4}{1.11.6.4}{1.5.4.4}{725, 63, 725} त्वम्¦ह॒¦त्यत्¦इ॒न्द्र॒¦चो॒दीः॒¦सखा᳚¦वृ॒त्रम्¦यत्¦व॒ज्रि॒न्¦वृ॒ष॒ऽक॒र्म॒न्¦उ॒भ्नाः | |
त्वं ह॒ त्यदि॒न्द्रारि॑षण्यन् दृ॒ळ्हस्य॑ चि॒न्मर्ता᳚ना॒मजु॑ष्टौ |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} व्य१॑(अ॒)स्मदा काष्ठा॒, अर्व॑ते वर्घ॒नेव॑ वज्रिञ्छ्नथिह्य॒मित्रा॑न् ||{5/9}{1.63.5}{1.11.6.5}{1.5.4.5}{726, 63, 726} त्वम्¦ह॒¦त्यत्¦इ॒न्द्र॒¦अरि॑षण्यन्¦दृ॒ळ्हस्य॑¦चि॒त्¦मर्ता᳚नाम्¦अजु॑ष्टौ | |
त्वां ह॒ त्यदि॒न्द्रार्ण॑सातौ॒ स्व᳚र्मीळ्हे॒ नर॑ आ॒जा ह॑वन्ते |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} तव॑ स्वधाव इ॒यमा स॑म॒र्य ऊ॒तिर्वाजे᳚ष्वत॒साय्या᳚ भूत् ||{6/9}{1.63.6}{1.11.6.6}{1.5.5.1}{727, 63, 727} त्वाम्¦ह॒¦त्यत्¦इ॒न्द्र॒¦अर्ण॑ऽसातौ¦स्वः॑ऽमीळ्हे¦नरः॑¦आ॒जा¦ह॒व॒न्ते॒ | |
त्वं ह॒ त्यदि᳚न्द्र स॒प्त युध्य॒न् पुरो᳚ वज्रिन् पुरु॒कुत्सा᳚य दर्दः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} ब॒र्हिर्न यत् सु॒दासे॒ वृथा॒ वर्गं॒हो रा᳚ज॒न् वरि॑वः पू॒रवे᳚ कः ||{7/9}{1.63.7}{1.11.6.7}{1.5.5.2}{728, 63, 728} त्वम्¦ह॒¦त्यत्¦इ॒न्द्र॒¦स॒प्त¦युध्य॑न्¦पुरः॑¦व॒ज्रि॒न्¦पु॒रु॒ऽकुत्सा᳚य¦द॒र्द॒रिति॑ दर्दः | |
त्वं त्यां न॑ इन्द्र देव चि॒त्रामिष॒मापो॒ न पी᳚पयः॒ परि॑ज्मन् |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} यया᳚ शूर॒ प्रत्य॒स्मभ्यं॒ यंसि॒ त्मन॒मूर्जं॒ न वि॒श्वध॒ क्षर॑ध्यै ||{8/9}{1.63.8}{1.11.6.8}{1.5.5.3}{729, 63, 729} त्वम्¦त्याम्¦नः॒¦इ॒न्द्र॒¦दे॒व॒¦चि॒त्राम्¦इष᳚म्¦आपः॑¦न¦पी॒प॒यः॒¦परि॑ऽज्मन् | |
अका᳚रि त इन्द्र॒ गोत॑मेभि॒र्ब्रह्मा॒ण्योक्ता॒ नम॑सा॒ हरि॑भ्याम् |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} सु॒पेश॑सं॒ वाज॒मा भ॑रा नः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ||{9/9}{1.63.9}{1.11.6.9}{1.5.5.4}{730, 63, 730} अका᳚रि¦ते॒¦इ॒न्द्र॒¦गोत॑मेभिः¦ब्रह्मा᳚णि¦आ।औ᳚क्ता¦नम॑सा¦हरि॑ऽभ्याम् | |
[64] वृष्णेशर्धायेति पंचदशर्चस्य सूक्तस्य गौतमोनोधामरुतोजगती अंत्यात्रिष्टुप् | |
वृष्णे॒ शर्धा᳚य॒ सुम॑खाय वे॒धसे॒ नोधः॑ सुवृ॒क्तिं प्र भ॑रा म॒रुद्भ्यः॑ |{गौतमो नोधाः | मरुतः | जगती} अ॒पो न धीरो॒ मन॑सा सु॒हस्त्यो॒ गिरः॒ सम᳚ञ्जे वि॒दथे᳚ष्वा॒भुवः॑ ||{1/15}{1.64.1}{1.11.7.1}{1.5.6.1}{731, 64, 731} वृष्णे᳚¦शर्धा᳚य¦सुऽम॑खाय¦वे॒धसे᳚¦नोधः॑¦सु॒ऽवृ॒क्तिम्¦प्र¦भ॒र॒¦म॒रुत्ऽभ्यः॑ | |
ते ज॑ज्ञिरे दि॒व ऋ॒ष्वास॑ उ॒क्षणो᳚ रु॒द्रस्य॒ मर्या॒, असु॑रा, अरे॒पसः॑ |{गौतमो नोधाः | मरुतः | जगती} पा॒व॒कासः॒ शुच॑यः॒ सूर्या᳚, इव॒ सत्वा᳚नो॒ न द्र॒प्सिनो᳚ घो॒रव॑र्पसः ||{2/15}{1.64.2}{1.11.7.2}{1.5.6.2}{732, 64, 732} ते¦ज॒ज्ञि॒रे॒¦दि॒वः¦ऋ॒ष्वासः॑¦उ॒क्षणः॑¦रु॒द्रस्य॑¦मर्याः᳚¦असु॑राः¦अ॒रे॒पसः॑ | |
युवा᳚नो रु॒द्रा, अ॒जरा᳚, अभो॒ग्घनो᳚ वव॒क्षुरध्रि॑गावः॒ पर्व॑ता, इव |{गौतमो नोधाः | मरुतः | जगती} दृ॒ळ्हा चि॒द् विश्वा॒ भुव॑नानि॒ पार्थि॑वा॒ प्र च्या᳚वयन्ति दि॒व्यानि॑ म॒ज्मना᳚ ||{3/15}{1.64.3}{1.11.7.3}{1.5.6.3}{733, 64, 733} युवा᳚नः¦रु॒द्राः¦अ॒जराः᳚¦अ॒भो॒क्ऽहनः॑¦व॒व॒क्षुः¦अध्रि॑ऽगावः¦पर्व॑ताःऽइव | |
चि॒त्रैर॒ञ्जिभि॒र्वपु॑षे॒ व्य᳚ञ्जते॒ वक्ष॑स्सु रु॒क्माँ, अधि॑ येतिरे शु॒भे |{गौतमो नोधाः | मरुतः | जगती} अंसे᳚ष्वेषां॒ नि मि॑मृक्षुरृ॒ष्टयः॑ सा॒कं ज॑ज्ञिरे स्व॒धया᳚ दि॒वो नरः॑ ||{4/15}{1.64.4}{1.11.7.4}{1.5.6.4}{734, 64, 734} चि॒त्रैः¦अं॒जिऽभिः॑¦वपु॑षे¦वि¦अं॒ज॒ते॒¦वक्षः॑ऽसु¦रु॒क्मान्¦अधि॑¦ये॒ति॒रे॒¦शु॒भे | |
ई॒शा॒न॒कृतो॒ धुन॑यो रि॒शाद॑सो॒ वाता᳚न् वि॒द्युत॒स्तवि॑षीभिरक्रत |{गौतमो नोधाः | मरुतः | जगती} दु॒हन्त्यूध॑र्दि॒व्यानि॒ धूत॑यो॒ भूमिं᳚ पिन्वन्ति॒ पय॑सा॒ परि॑ज्रयः ||{5/15}{1.64.5}{1.11.7.5}{1.5.6.5}{735, 64, 735} ई॒शा॒न॒ऽकृतः॑¦धुन॑यः¦रि॒शाद॑सः¦वाता᳚न्¦वि॒ऽद्युतः॑¦तवि॑षीभिः¦अ॒क्र॒त॒ | |
पिन्व᳚न्त्य॒पो म॒रुतः॑ सु॒दान॑वः॒ पयो᳚ घृ॒तव॑द् वि॒दथे᳚ष्वा॒भुवः॑ |{गौतमो नोधाः | मरुतः | जगती} अत्यं॒ न मि॒हे वि न॑यन्ति वा॒जिन॒मुत्सं᳚ दुहन्ति स्त॒नय᳚न्त॒मक्षि॑तम् ||{6/15}{1.64.6}{1.11.7.6}{1.5.7.1}{736, 64, 736} पिन्व᳚न्ति¦अ॒पः¦म॒रुतः॑¦सु॒ऽदान॑वः¦पयः॑¦घृ॒तऽव॑त्¦वि॒दथे᳚षु¦आ॒ऽभुवः॑ | |
म॒हि॒षासो᳚ मा॒यिन॑श्चि॒त्रभा᳚नवो गि॒रयो॒ न स्वत॑वसो रघु॒ष्यदः॑ |{गौतमो नोधाः | मरुतः | जगती} मृ॒गा, इ॑व ह॒स्तिनः॑ खादथा॒ वना॒ यदारु॑णीषु॒ तवि॑षी॒रयु॑ग्ध्वम् ||{7/15}{1.64.7}{1.11.7.7}{1.5.7.2}{737, 64, 737} म॒हि॒षासः॑¦मा॒यिनः॑¦चि॒त्रऽभा᳚नवः¦गि॒रयः॑¦न¦स्वऽत॑वसः¦र॒घु॒ऽस्यदः॑ | |
सिं॒हा, इ॑व नानदति॒ प्रचे᳚तसः पि॒शा, इ॑व सु॒पिशो᳚ वि॒श्ववे᳚दसः |{गौतमो नोधाः | मरुतः | जगती} क्षपो॒ जिन्व᳚न्तः॒ पृष॑तीभिरृ॒ष्टिभिः॒ समित् स॒बाधः॒ शव॒साहि॑मन्यवः ||{8/15}{1.64.8}{1.11.7.8}{1.5.7.3}{738, 64, 738} सिं॒हाःऽइ᳚व¦ना॒न॒द॒ति॒¦प्रऽचे᳚तसः¦पि॒शाःऽइ᳚व¦सु॒ऽपिशः॑¦वि॒श्वऽवे᳚दसः | |
रोद॑सी॒, आ व॑दता गणश्रियो॒ नृषा᳚चः शूराः॒ शव॒साहि॑मन्यवः |{गौतमो नोधाः | मरुतः | जगती} आ व॒न्धुरे᳚ष्व॒मति॒र्न द॑र्श॒ता वि॒द्युन्न त॑स्थौ मरुतो॒ रथे᳚षु वः ||{9/15}{1.64.9}{1.11.7.9}{1.5.7.4}{739, 64, 739} रोद॑सी॒ इति॑¦आ¦व॒द॒त॒¦ग॒ण॒ऽश्रि॒यः॒¦नृऽसा᳚चः¦शूराः᳚¦शव॑सा¦अहि॑ऽमन्यवः | |
वि॒श्ववे᳚दसो र॒यिभिः॒ समो᳚कसः॒ सम्मि॑श्लास॒स्तवि॑षीभिर्विर॒प्शिनः॑ |{गौतमो नोधाः | मरुतः | जगती} अस्ता᳚र॒ इषुं᳚ दधिरे॒ गभ॑स्त्योरन॒न्तशु॑ष्मा॒ वृष॑खादयो॒ नरः॑ ||{10/15}{1.64.10}{1.11.7.10}{1.5.7.5}{740, 64, 740} वि॒श्वऽवे᳚दसः¦र॒यिऽभिः॑¦सम्ऽओ᳚कसः¦सम्ऽमि॑श्लासः¦तवि॑षीभिः¦वि॒ऽर॒प्शिनः॑ | |
हि॒र॒ण्यये᳚भिः प॒विभिः॑ पयो॒वृध॒ उज्जि॑घ्नन्त आप॒थ्यो॒३॑(ओ॒) न पर्व॑तान् |{गौतमो नोधाः | मरुतः | जगती} म॒खा, अ॒यासः॑ स्व॒सृतो᳚ ध्रुव॒च्युतो᳚ दुध्र॒कृतो᳚ म॒रुतो॒ भ्राज॑दृष्टयः ||{11/15}{1.64.11}{1.11.7.11}{1.5.8.1}{741, 64, 741} हि॒र॒ण्यये᳚भिः¦प॒विऽभिः॑¦प॒यः॒ऽवृधः॑¦उत्¦जि॒घ्न॒न्ते॒¦आ॒ऽप॒थ्यः॑¦न¦पर्व॑तान् | |
घृषुं᳚ पाव॒कं व॒निनं॒ विच॑र्षणिं रु॒द्रस्य॑ सू॒नुं ह॒वसा᳚ गृणीमसि |{गौतमो नोधाः | मरुतः | जगती} र॒ज॒स्तुरं᳚ त॒वसं॒ मारु॑तं ग॒णमृ॑जी॒षिणं॒ वृष॑णं सश्चत श्रि॒ये ||{12/15}{1.64.12}{1.11.7.12}{1.5.8.2}{742, 64, 742} घृषु᳚म्¦पा॒व॒कम्¦व॒निन᳚म्¦विऽच॑र्षणिम्¦रु॒द्रस्य॑¦सू॒नुम्¦ह॒वसा᳚¦गृ॒णी॒म॒सि॒ | |
प्र नू स मर्तः॒ शव॑सा॒ जनाँ॒, अति॑ त॒स्थौ व॑ ऊ॒ती म॑रुतो॒ यमाव॑त |{गौतमो नोधाः | मरुतः | जगती} अर्व॑द्भि॒र्वाजं᳚ भरते॒ धना॒ नृभि॑रा॒पृच्छ्यं॒ क्रतु॒मा क्षे᳚ति॒ पुष्य॑ति ||{13/15}{1.64.13}{1.11.7.13}{1.5.8.3}{743, 64, 743} प्र¦नु¦सः¦मर्तः॑¦शव॑सा¦जना᳚न्¦अति॑¦त॒स्थौ¦वः॒¦ऊ॒ती¦म॒रुतः॑¦यम्¦आव॑त | |
च॒र्कृत्यं᳚ मरुतः पृ॒त्सु दु॒ष्टरं᳚ द्यु॒मन्तं॒ शुष्मं᳚ म॒घव॑त्सु धत्तन |{गौतमो नोधाः | मरुतः | जगती} ध॒न॒स्पृत॑मु॒क्थ्यं᳚ वि॒श्वच॑र्षणिं तो॒कं पु॑ष्येम॒ तन॑यं श॒तं हिमाः᳚ ||{14/15}{1.64.14}{1.11.7.14}{1.5.8.4}{744, 64, 744} च॒र्कृत्य᳚म्¦म॒रु॒तः॒¦पृ॒त्ऽसु¦दु॒स्तर᳚म्¦द्यु॒ऽमन्त᳚म्¦शुष्म᳚म्¦म॒घव॑त्ऽसु¦ध॒त्त॒न॒ | |
नू ष्ठि॒रं म॑रुतो वी॒रव᳚न्तमृती॒षाहं᳚ र॒यिम॒स्मासु॑ धत्त |{गौतमो नोधाः | मरुतः | त्रिष्टुप्} स॒ह॒स्रिणं᳚ श॒तिनं᳚ शूशु॒वांसं᳚ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ||{15/15}{1.64.15}{1.11.7.15}{1.5.8.5}{745, 64, 745} नु¦स्थि॒रम्¦म॒रु॒तः॒¦वी॒रऽव᳚न्तम्¦ऋ॒ति॒ऽसह᳚म्¦र॒यिम्¦अ॒स्मासु॑¦ध॒त्त॒ | |
[65] पश्वानेति दशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निर्द्विपदाविराट् | |
प॒श्वा न ता॒युं गुहा॒ चत᳚न्तं॒ नमो᳚ युजा॒नं नमो॒ वह᳚न्तम् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{1/10}{1.65.1}{1.12.1.1}{1.5.9.1}{746, 65, 746} प॒श्वा¦न¦ता॒युम्¦गुहा᳚¦चत᳚न्तम्¦नमः॑¦यु॒जा॒नम्¦नमः॑¦वह᳚न्तम् || |
स॒जोषा॒ धीराः᳚ प॒दैरनु॑ ग्म॒न्नुप॑ त्वा सीद॒न् विश्वे॒ यज॑त्राः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{2/10}{1.65.2}{1.12.1.2}{1.5.9.2}{747, 65, 747} स॒ऽजोषाः᳚¦धीराः᳚¦प॒दैः¦अनु॑¦ग्म॒न्¦उप॑¦त्वा॒¦सी॒द॒न्¦विश्वे᳚¦यज॑त्राः || |
ऋ॒तस्य॑ दे॒वा, अनु᳚ व्र॒ता गु॒र्भुव॒त् परि॑ष्टि॒र्द्यौर्न भूम॑ ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{3/10}{1.65.3}{1.12.1.3}{1.5.9.3}{748, 65, 748} ऋ॒तस्य॑¦दे॒वाः¦अनु॑¦व्र॒ता¦गुः॒¦भुव॑त्¦परि॑ष्टिः¦द्यौः¦न¦भूम॑ || |
वर्ध᳚न्ती॒मापः॑ प॒न्वा सुशि॑श्विमृ॒तस्य॒ योना॒ गर्भे॒ सुजा᳚तम् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{4/10}{1.65.4}{1.12.1.4}{1.5.9.4}{749, 65, 749} वर्ध᳚न्ति¦ई॒म्¦आपः॑¦प॒न्वा¦सुऽशि॑श्विम्¦ऋ॒तस्य॑¦योना᳚¦गर्भे᳚¦सुऽजा᳚तम् || |
पु॒ष्टिर्न र॒ण्वा क्षि॒तिर्न पृ॒थ्वी गि॒रिर्न भुज्म॒ क्षोदो॒ न श॒म्भु ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{5/10}{1.65.5}{1.12.1.5}{1.5.9.5}{750, 65, 750} पु॒ष्टिः¦न¦र॒ण्वा¦क्षि॒तिः¦न¦पृ॒थ्वी¦गि॒रिः¦न¦भुज्म॑¦क्षोदः॑¦न¦श॒म्ऽभु || |
अत्यो॒ नाज्म॒न् त्सर्ग॑प्रतक्तः॒ सिन्धु॒र्न क्षोदः॒ क ईं᳚ वराते ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{6/10}{1.65.6}{1.12.1.6}{1.5.9.6}{751, 65, 751} अत्यः॑¦न¦अज्म॑न्¦सर्ग॑ऽप्रतक्तः¦सिन्धुः॑¦न¦क्षोदः॑¦कः¦इ॒म्¦व॒रा॒ते॒ || |
जा॒मिः सिन्धू᳚नां॒ भ्राते᳚व॒ स्वस्रा॒मिभ्या॒न्न राजा॒ वना᳚न्यत्ति ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{7/10}{1.65.7}{1.12.1.7}{1.5.9.7}{752, 65, 752} जा॒मिः¦सिन्धू᳚नाम्¦भ्राता᳚ऽइव¦स्वस्रा᳚म्¦इभ्या᳚न्¦न¦राजा᳚¦वना᳚नि¦अ॒त्ति॒ || |
यद् वात॑जूतो॒ वना॒ व्यस्था᳚द॒ग्निर्ह॑ दाति॒ रोमा᳚ पृथि॒व्याः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{8/10}{1.65.8}{1.12.1.8}{1.5.9.8}{753, 65, 753} यत्¦वात॑ऽजूतः¦वना᳚¦वि¦अस्था᳚त्¦अ॒ग्निः¦ह॒¦दा॒ति॒¦रोम॑¦पृ॒थि॒व्याः || |
श्वसि॑त्य॒प्सु हं॒सो न सीद॒न् क्रत्वा॒ चेति॑ष्ठो वि॒शामु॑ष॒र्भुत् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{9/10}{1.65.9}{1.12.1.9}{1.5.9.9}{754, 65, 754} श्वसि॑ति¦अ॒प्ऽसु¦हं॒सः¦न¦सीद॑न्¦क्रत्वा᳚¦चेति॑ष्ठः¦वि॒शाम्¦उ॒षः॒ऽभुत् || |
सोमो॒ न वे॒धा, ऋ॒तप्र॑जातः प॒शुर्न शिश्वा᳚ वि॒भुर्दू॒रेभाः᳚ ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{10/10}{1.65.10}{1.12.1.10}{1.5.9.10}{755, 65, 755} सोमः॑¦न¦वे॒धाः¦ऋ॒तऽप्र॑जातः¦प॒शुः¦न¦शिश्वा᳚¦वि॒ऽभुः¦दू॒रेऽभाः᳚ || |
[66] रयिर्नेति दशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निर्द्विपदाविराट् | |
र॒यिर्न चि॒त्रा सूरो॒ न सं॒दृगायु॒र्न प्रा॒णो नित्यो॒ न सू॒नुः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{1/10}{1.66.1}{1.12.2.1}{1.5.10.1}{756, 66, 756} र॒यिः¦न¦चि॒त्रा¦सूरः॑¦न¦स॒म्ऽदृक्¦आयुः॑¦न¦प्रा॒णः¦नित्यः॑¦न¦सू॒नुः || |
तक्वा॒ न भूर्णि॒र्वना᳚ सिषक्ति॒ पयो॒ न धे॒नुः शुचि᳚र्वि॒भावा᳚ ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{2/10}{1.66.2}{1.12.2.2}{1.5.10.2}{757, 66, 757} तक्वा᳚¦न¦भूर्णिः॑¦वना᳚¦सि॒स॒क्ति॒¦पयः॑¦न¦धे॒नुः¦शुचिः॑¦वि॒भाऽवा᳚ || |
दा॒धार॒ क्षेम॒मोको॒ न र॒ण्वो यवो॒ न प॒क्वो जेता॒ जना᳚नाम् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{3/10}{1.66.3}{1.12.2.3}{1.5.10.3}{758, 66, 758} दा॒धार॑¦क्षेम᳚म्¦ओकः॑¦न¦र॒ण्वः¦यवः॑¦न¦प॒क्वः¦जेता᳚¦जना᳚नाम् || |
ऋषि॒र्न स्तुभ्वा᳚ वि॒क्षु प्र॑श॒स्तो वा॒जी न प्री॒तो वयो᳚ दधाति ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{4/10}{1.66.4}{1.12.2.4}{1.5.10.4}{759, 66, 759} ऋषिः॑¦न¦स्तुभ्वा᳚¦वि॒क्षु¦प्र॒ऽश॒स्तः¦वा॒जी¦न¦प्री॒तः¦वयः॑¦द॒धा॒ति॒ || |
दु॒रोक॑शोचिः॒ क्रतु॒र्न नित्यो᳚ जा॒येव॒ योना॒वरं॒ विश्व॑स्मै ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{5/10}{1.66.5}{1.12.2.5}{1.5.10.5}{760, 66, 760} दु॒रोक॑ऽशोचिः¦क्रतुः॑¦न¦नित्यः॑¦जा॒याऽइ᳚व¦योनौ᳚¦अर᳚म्¦विश्व॑स्मै || |
चि॒त्रो यदभ्रा᳚ट् छ्वे॒तो न वि॒क्षु रथो॒ न रु॒क्मी त्वे॒षः स॒मत्सु॑ ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{6/10}{1.66.6}{1.12.2.6}{1.5.10.6}{761, 66, 761} चि॒त्रः¦यत्¦अभ्रा᳚ट्¦श्वे॒तः¦न¦वि॒क्षु¦रथः॑¦न¦रु॒क्मी¦त्वे॒षः¦स॒मत्ऽसु॑ || |
सेने᳚व सृ॒ष्टामं᳚ दधा॒त्यस्तु॒र्न दि॒द्युत् त्वे॒षप्र॑तीका ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{7/10}{1.66.7}{1.12.2.7}{1.5.10.7}{762, 66, 762} सेना᳚ऽइव¦सृ॒ष्टा¦अम᳚म्¦द॒धा॒ति॒¦अस्तुः॑¦न¦दि॒द्युत्¦त्वे॒षऽप्र॑तीका || |
य॒मो ह॑ जा॒तो य॒मो जनि॑त्वं जा॒रः क॒नीनां॒ पति॒र्जनी᳚नाम् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{8/10}{1.66.8}{1.12.2.8}{1.5.10.8}{763, 66, 763} य॒मः¦ह॒¦जा॒तः¦य॒मः¦जनि॑ऽत्वम्¦जा॒रः¦क॒नीना᳚म्¦पतिः॑¦जनी᳚नाम् || |
तं व॑श्च॒राथा᳚ व॒यं व॑स॒त्याऽस्तं॒ न गावो॒ नक्ष᳚न्त इ॒द्धम् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{9/10}{1.66.9}{1.12.2.9}{1.5.10.9}{764, 66, 764} तम्¦वः॒¦च॒राथा᳚¦व॒यम्¦व॒स॒त्या¦अस्त᳚म्¦न¦गावः॑¦नक्ष᳚न्ते¦इ॒द्धम् || |
सिन्धु॒र्न क्षोदः॒ प्र नीची᳚रैनो॒न्नव᳚न्त॒ गावः॒ स्व१॑(अ॒)र्दृशी᳚के ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{10/10}{1.66.10}{1.12.2.10}{1.5.10.10}{765, 66, 765} सिन्धुः॑¦न¦क्षोदः॑¦प्र¦नीचीः᳚¦ऐ॒नो॒त्¦नव᳚न्त¦गावः॑¦स्वः॑¦दृशी᳚के || |
[67] वनेष्वितिदशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निर्द्विपदाविराट् | |
वने᳚षु जा॒युर्मर्ते᳚षु मि॒त्रो वृ॑णी॒ते श्रु॒ष्टिं राजे᳚वाजु॒र्यम् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{1/10}{1.67.1}{1.12.3.1}{1.5.11.1}{766, 67, 766} वने᳚षु¦जा॒युः¦मर्ते᳚षु¦मि॒त्रः¦वृ॒णी॒ते॒¦श्रु॒ष्टिम्¦राजा᳚ऽइव¦अ॒जु॒र्यम् || |
क्षेमो॒ न सा॒धुः क्रतु॒र्न भ॒द्रो भुव॑त् स्वा॒धी र्होता᳚ हव्य॒वाट् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{2/10}{1.67.2}{1.12.3.2}{1.5.11.2}{767, 67, 767} क्षेमः॑¦न¦सा॒धुः¦क्रतुः॑¦न¦भ॒द्रः¦भुव॑त्¦सु॒ऽआ॒धीः¦होता᳚¦ह॒व्य॒ऽवाट् || |
हस्ते॒ दधा᳚नो नृ॒म्णा विश्वा॒न्यमे᳚ दे॒वान् धा॒द् गुहा᳚ नि॒षीद॑न् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{3/10}{1.67.3}{1.12.3.3}{1.5.11.3}{768, 67, 768} हस्ते᳚¦दधा᳚नः¦नृ॒म्णा¦विश्वा᳚नि¦अमे᳚¦दे॒वान्¦धा॒त्¦गुहा᳚¦नि॒ऽसीद॑न् || |
वि॒दन्ती॒मत्र॒ नरो᳚ धियं॒धा हृ॒दा यत्त॒ष्टान् मन्त्राँ॒, अशं᳚सन् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{4/10}{1.67.4}{1.12.3.4}{1.5.11.4}{769, 67, 769} वि॒दन्ति॑¦ई॒म्¦अत्र॑¦नरः॑¦धि॒य॒म्ऽधाः¦हृ॒दा¦यत्¦त॒ष्टान्¦मन्त्रा᳚न्¦अशं᳚सन् || |
अ॒जो न क्षां दा॒धार॑ पृथि॒वीं त॒स्तम्भ॒ द्यां मन्त्रे᳚भिः स॒त्यैः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{5/10}{1.67.5}{1.12.3.5}{1.5.11.5}{770, 67, 770} अ॒जः¦न¦क्षाम्¦दा॒धार॑¦पृ॒थि॒वीम्¦त॒स्तम्भ॑¦द्याम्¦मन्त्रे᳚भिः¦स॒त्यैः || |
प्रि॒या प॒दानि॑ प॒श्वो नि पा᳚हि वि॒श्वायु॑रग्ने गु॒हा गुहं᳚ गाः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{6/10}{1.67.6}{1.12.3.6}{1.5.11.6}{771, 67, 771} प्रि॒या¦प॒दानि॑¦प॒श्वः¦नि¦पा॒हि॒¦वि॒श्वऽआ᳚युः¦अ॒ग्ने॒¦गु॒हा¦गुह᳚म्¦गाः॒ || |
य ईं᳚ चि॒केत॒ गुहा॒ भव᳚न्त॒मा यः स॒साद॒ धारा᳚मृ॒तस्य॑ ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{7/10}{1.67.7}{1.12.3.7}{1.5.11.7}{772, 67, 772} यः¦ई॒म्¦चि॒केत॑¦गुहा᳚¦भव᳚न्तम्¦आ¦यः¦स॒साद॑¦धारा᳚म्¦ऋ॒तस्य॑ || |
वि ये चृ॒तन्त्यृ॒ता सप᳚न्त॒ आदिद् वसू᳚नि॒ प्र व॑वाचास्मै ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{8/10}{1.67.8}{1.12.3.8}{1.5.11.8}{773, 67, 773} वि¦ये¦चृ॒तन्ति॑¦ऋ॒ता¦सप᳚न्तः¦आत्¦इत्¦वसू᳚नि¦प्र¦व॒वा॒च॒¦अ॒स्मै॒ || |
वि यो वी॒रुत्सु॒ रोध᳚न्महि॒त्वोत प्र॒जा, उ॒त प्र॒सूष्व॒न्तः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{9/10}{1.67.9}{1.12.3.9}{1.5.11.9}{774, 67, 774} वि¦यः¦वी॒रुत्ऽसु॑¦रोध॑त्¦म॒हि॒ऽत्वा¦उ॒त¦प्र॒ऽजाः¦उ॒त¦प्र॒ऽसूषु॑¦अ॒न्तरिति॑ || |
चित्ति॑र॒पां दमे᳚ वि॒श्वायुः॒ सद्मे᳚व॒ धीराः᳚ स॒म्माय॑ चक्रुः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{10/10}{1.67.10}{1.12.3.10}{1.5.11.10}{775, 67, 775} चित्तिः॑¦अ॒पाम्¦दमे᳚¦वि॒श्वऽआ᳚युः¦सद्म॑ऽइव¦धीराः᳚¦स॒म्ऽमाय॑¦च॒क्रुः॒ || |
[68] श्रीणन्निति दशर्चस्य सुक्तस्य शाक्त्यः पराशरोग्निर्द्विपदाविराट् | |
श्री॒णन्नुप॑ स्था॒द् दिवं᳚ भुर॒ण्युः स्था॒तुश्च॒रथ॑म॒क्तून् व्यू᳚र्णोत् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{1/10}{1.68.1}{1.12.4.1}{1.5.12.1}{776, 68, 776} श्री॒णन्¦उप॑¦स्था॒त्¦दिव᳚म्¦भु॒र॒ण्युः¦स्था॒तुः¦च॒रथ᳚म्¦अ॒क्तून्¦वि¦ऊ॒र्णो॒त् || |
परि॒ यदे᳚षा॒मेको॒ विश्वे᳚षां॒ भुव॑द्दे॒वो दे॒वानां᳚ महि॒त्वा ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{2/10}{1.68.2}{1.12.4.2}{1.5.12.2}{777, 68, 777} परि॑¦यत्¦ए॒षा॒म्¦एकः॑¦विश्वे᳚षाम्¦भुव॑त्¦दे॒वः¦दे॒वाना᳚म्¦म॒हि॒ऽत्वा || |
आदित्ते॒ विश्वे॒ क्रतुं᳚ जुषन्त॒ शुष्का॒द् यद्दे᳚व जी॒वो जनि॑ष्ठाः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{3/10}{1.68.3}{1.12.4.3}{1.5.12.3}{778, 68, 778} आत्¦इत्¦ते॒¦विश्वे᳚¦क्रतु᳚म्¦जु॒ष॒न्त॒¦शुष्का᳚त्¦यत्¦दे॒व॒¦जी॒वः¦जनि॑ष्ठाः || |
भज᳚न्त॒ विश्वे᳚ देव॒त्वं नाम॑ ऋ॒तं सप᳚न्तो, अ॒मृत॒मेवैः᳚ ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{4/10}{1.68.4}{1.12.4.4}{1.5.12.4}{779, 68, 779} भज᳚न्त¦विश्वे᳚¦दे॒व॒ऽत्वम्¦नाम॑¦ऋ॒तम्¦सप᳚न्तः¦अ॒मृत᳚म्¦एवैः᳚ || |
ऋ॒तस्य॒ प्रेषा᳚ ऋ॒तस्य॑ धी॒तिर्वि॒श्वायु॒र्विश्वे॒, अपां᳚सि चक्रुः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{5/10}{1.68.5}{1.12.4.5}{1.5.12.5}{780, 68, 780} ऋ॒तस्य॑¦प्रेषाः᳚¦ऋ॒तस्य॑¦धी॒तिः¦वि॒श्वऽआ᳚युः¦विश्वे᳚¦अपां᳚सि¦च॒क्रुः॒ || |
यस्तुभ्यं॒ दाशा॒द् यो वा᳚ ते॒ शिक्षा॒त् तस्मै᳚ चिकि॒त्वान् र॒यिं द॑यस्व ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{6/10}{1.68.6}{1.12.4.6}{1.5.12.6}{781, 68, 781} यः¦तुभ्य᳚म्¦दाशा᳚त्¦यः¦वा॒¦ते॒¦शिक्षा᳚त्¦तस्मै᳚¦चि॒कि॒त्वान्¦र॒यिम्¦द॒य॒स्व॒ || |
होता॒ निष॑त्तो॒ मनो॒रप॑त्ये॒ स चि॒न्न्वा᳚सां॒ पती᳚ रयी॒णाम् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{7/10}{1.68.7}{1.12.4.7}{1.5.12.7}{782, 68, 782} होता᳚¦निऽस॑त्तः¦मनोः᳚¦अप॑त्ये¦सः¦चि॒त्¦नु¦आ॒सा॒म्¦पतिः॑¦र॒यी॒णाम् || |
इ॒च्छन्त॒ रेतो᳚ मि॒थस्त॒नूषु॒ सं जा᳚नत॒ स्वैर्दक्षै॒रमू᳚राः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{8/10}{1.68.8}{1.12.4.8}{1.5.12.8}{783, 68, 783} इ॒च्छन्त॑¦रेतः॑¦मि॒थः¦त॒नूषु॑¦सम्¦जा॒न॒त॒¦स्वैः¦दक्षैः᳚¦अमू᳚राः || |
पि॒तुर्न पु॒त्राः क्रतुं᳚ जुषन्त॒ श्रोष॒न् ये, अ॑स्य॒ शासं᳚ तु॒रासः॑ ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{9/10}{1.68.9}{1.12.4.9}{1.5.12.9}{784, 68, 784} पि॒तुः¦न¦पु॒त्राः¦क्रतु᳚म्¦जु॒ष॒न्त॒¦श्रोष॑न्¦ये¦अ॒स्य॒¦शास᳚म्¦तु॒रासः॑ || |
वि राय॑ और्णो॒द् दुरः॑ पुरु॒क्षुः पि॒पेश॒ नाकं॒ स्तृभि॒र्दमू᳚नाः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{10/10}{1.68.10}{1.12.4.10}{1.5.12.10}{785, 68, 785} वि¦रायः॑¦औ॒र्णो॒त्¦दुरः॑¦पु॒रु॒ऽक्षुः¦पि॒पेश॑¦नाक᳚म्¦स्तृऽभिः॑¦दमू᳚नाः || |
[69] शुक्रइति दशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निर्द्विपदाविराट् | |
शु॒क्रः शु॑शु॒क्वाँ, उ॒षो न जा॒रः प॒प्रा स॑मी॒ची दि॒वो न ज्योतिः॑ ||{पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{1/10}{1.69.1}{1.12.5.1}{1.5.13.1}{786, 69, 786} शु॒क्रः¦शु॒शु॒क्वान्¦उ॒षः¦न¦जा॒रः¦प॒प्रा¦स॒मी॒ची इति॑ स॒म्ऽई॒ची¦दि॒वः¦न¦ज्योतिः॑ || |
परि॒ प्रजा᳚तः॒ क्रत्वा᳚ बभूथ॒ भुवो᳚ दे॒वानां᳚ पि॒ता पु॒त्रः सन् ||{पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{2/10}{1.69.2}{1.12.5.2}{1.5.13.2}{787, 69, 787} परि॑¦प्रऽजा᳚तः¦क्रत्वा᳚¦ब॒भू॒थ॒¦भुवः॑¦दे॒वाना᳚म्¦पि॒ता¦पु॒त्रः¦सन् || |
वे॒धा, अदृ॑प्तो, अ॒ग्निर्वि॑जा॒नन्नूध॒र्न गोनां॒ स्वाद्मा᳚ पितू॒नाम् ||{पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{3/10}{1.69.3}{1.12.5.3}{1.5.13.3}{788, 69, 788} वे॒धाः¦अदृ॑प्तः¦अ॒ग्निः¦वि॒ऽजा॒नन्¦ऊधः॑¦न¦गोना᳚म्¦स्वाद्म॑¦पि॒तू॒नाम् || |
जने॒ न शेव॑ आ॒हूर्यः॒ सन् मध्ये॒ निष॑त्तो र॒ण्वो दु॑रो॒णे ||{पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{4/10}{1.69.4}{1.12.5.4}{1.5.13.4}{789, 69, 789} जने᳚¦न¦शेवः॑¦आ॒ऽहूर्यः॑¦सन्¦मध्ये᳚¦निऽस॑त्तः¦र॒ण्वः¦दु॒रो॒णे || |
पु॒त्रो न जा॒तो र॒ण्वो दु॑रो॒णे वा॒जी न प्री॒तो विशो॒ वि ता᳚रीत् ||{पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{5/10}{1.69.5}{1.12.5.5}{1.5.13.5}{790, 69, 790} पु॒त्रः¦न¦जा॒तः¦र॒ण्वः¦दु॒रो॒णे¦वा॒जी¦न¦प्री॒तः¦विशः॑¦वि¦ता॒री॒त् || |
विशो॒ यदह्वे॒ नृभिः॒ सनी᳚ळा, अ॒ग्निर्दे᳚व॒त्वा विश्वा᳚न्यश्याः ||{पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{6/10}{1.69.6}{1.12.5.6}{1.5.13.6}{791, 69, 791} विशः॑¦यत्¦अह्वे᳚¦नृऽभिः॑¦सऽनी᳚ळाः¦अ॒ग्निः¦दे॒व॒ऽत्वा¦विश्वा᳚नि¦अ॒श्याः॒ || |
नकि॑ष्ट ए॒ता व्र॒ता मि॑नन्ति॒ नृभ्यो॒ यदे॒भ्यः श्रु॒ष्टिं च॒कर्थ॑ ||{पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{7/10}{1.69.7}{1.12.5.7}{1.5.13.7}{792, 69, 792} नकिः॑¦ते॒¦ए॒ता¦व्र॒ता¦मि॒न॒न्ति॒¦नृऽभ्यः॑¦यत्¦ए॒भ्यः¦श्रु॒ष्टिम्¦च॒कर्थ॑ || |
तत्तु ते॒ दंसो॒ यदह᳚न् त्समा॒नैर्नृभि॒र्यद् यु॒क्तो वि॒वे रपां᳚सि ||{पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{8/10}{1.69.8}{1.12.5.8}{1.5.13.8}{793, 69, 793} तत्¦तु¦ते॒¦दंसः॑¦यत्¦अह॑न्¦स॒मा॒नैः¦नृऽभिः॑¦यत्¦यु॒क्तः¦वि॒वेः¦रपां᳚सि || |
उ॒षो न जा॒रो वि॒भावो॒स्रः संज्ञा᳚तरूप॒श्चिके᳚तदस्मै ||{पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{9/10}{1.69.9}{1.12.5.9}{1.5.13.9}{794, 69, 794} उ॒षः¦न¦जा॒रः¦वि॒भाऽवा᳚¦उ॒स्रः¦संज्ञा᳚तऽरूपः¦चिके᳚तत्¦अ॒स्मै॒ || |
त्मना॒ वह᳚न्तो॒ दुरो॒ व्यृ᳚ण्व॒न् नव᳚न्त॒ विश्वे॒ स्व१॑(अ॒)र्दृशी᳚के ||{पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{10/10}{1.69.10}{1.12.5.10}{1.5.13.10}{795, 69, 795} त्मना᳚¦वह᳚न्तः¦दुरः॑¦वि¦ऋ॒ण्व॒न्¦नव᳚न्त¦विश्वे᳚¦स्वः॑¦दृशी᳚के || |
[70] वनेमेत्येकादशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निर्द्विपदाविराट् | |
व॒नेम॑ पू॒र्वीर॒र्यो म॑नी॒षा, अ॒ग्निः सु॒शोको॒ विश्वा᳚न्यश्याः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{1/11}{1.70.1}{1.12.6.1}{1.5.14.1}{796, 70, 796} व॒नेम॑¦पू॒र्वीः¦अ॒र्यः¦म॒नी॒षा¦अ॒ग्निः¦सु॒ऽशोकः॑¦विश्वा᳚नि¦अ॒श्याः॒ || |
आ दैव्या᳚नि व्र॒ता चि॑कि॒त्वाना मानु॑षस्य॒ जन॑स्य॒ जन्म॑ ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{2/11}{1.70.2}{1.12.6.2}{1.5.14.2}{797, 70, 797} आ¦दैव्या᳚नि¦व्र॒ता¦चि॒कि॒त्वान्¦आ¦मानु॑षस्य¦जन॑स्य¦जन्म॑ || |
गर्भो॒ यो, अ॒पां गर्भो॒ वना᳚नां॒ गर्भ॑श्च स्था॒तां गर्भ॑श्च॒रथा᳚म् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{3/11}{1.70.3}{1.12.6.3}{1.5.14.3}{798, 70, 798} गर्भः॑¦यः¦अ॒पाम्¦गर्भः॑¦वना᳚नाम्¦गर्भः॑¦च॒¦स्था॒ताम्¦गर्भः॑¦च॒रथा᳚म् || |
अद्रौ᳚ चिदस्मा, अ॒न्तर्दु॑रो॒णे वि॒शां न विश्वो᳚, अ॒मृतः॑ स्वा॒धीः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{4/11}{1.70.4}{1.12.6.4}{1.5.14.4}{799, 70, 799} अद्रौ᳚¦चि॒त्¦अ॒स्मै॒¦अ॒न्तः¦दु॒रो॒णे¦वि॒शाम्¦न¦विश्वः॑¦अ॒मृतः॑¦सु॒ऽआ॒धीः || |
स हि क्ष॒पावाँ᳚, अ॒ग्नी र॑यी॒णां दाश॒द् यो, अ॑स्मा॒, अरं᳚ सू॒क्तैः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{5/11}{1.70.5}{1.12.6.5}{1.5.14.5}{800, 70, 800} सः¦हि¦क्ष॒पाऽवा᳚न्¦अ॒ग्निः¦र॒यी॒णाम्¦दाश॑त्¦यः¦अ॒स्मै॒¦अर᳚म्¦सु॒।औ॒क्तैः || |
ए॒ता चि॑कित्वो॒ भूमा॒ नि पा᳚हि दे॒वानां॒ जन्म॒ मर्ताँ᳚श्च वि॒द्वान् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{6/11}{1.70.6}{1.12.6.6}{1.5.14.6}{801, 70, 801} ए॒ता¦चि॒कि॒त्वः॒¦भूम॒¦नि¦पा॒हि॒¦दे॒वाना᳚म्¦जन्म॑¦मर्ता᳚न्¦च॒¦वि॒द्वान् || |
वर्धा॒न्यं पू॒र्वीः, क्ष॒पो विरू᳚पाः स्था॒तुश्च॒ रथ॑मृ॒तप्र॑वीतम् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{7/11}{1.70.7}{1.12.6.7}{1.5.14.7}{802, 70, 802} वर्धा᳚न्¦यम्¦पू॒र्वीः¦क्ष॒पः¦विऽरू᳚पाः¦स्था॒तुः¦च॒¦रथ᳚म्¦ऋ॒तऽप्र॑वीतम् || |
अरा᳚धि॒ होता॒ स्व१॑(अ॒)र्निष॑त्तः कृ॒ण्वन् विश्वा॒न्यपां᳚सि स॒त्या ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{8/11}{1.70.8}{1.12.6.8}{1.5.14.8}{803, 70, 803} अरा᳚धि¦होता᳚¦स्वः॑¦निऽस॑त्तः¦कृ॒ण्वन्¦विश्वा᳚नि¦अपां᳚सि¦स॒त्या || |
गोषु॒ प्रश॑स्तिं॒ वने᳚षु धिषे॒ भर᳚न्त॒ विश्वे᳚ ब॒लिं स्व᳚र्णः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{9/11}{1.70.9}{1.12.6.9}{1.5.14.9}{804, 70, 804} गोषु॑¦प्रऽश॑स्तिम्¦वने᳚षु¦धि॒षे॒¦भर᳚न्त¦विश्वे᳚¦ब॒लिम्¦स्वः॑¦नः॒ || |
वि त्वा॒ नरः॑ पुरु॒त्रा स॑पर्यन् पि॒तुर्न जिव्रे॒र्वि वेदो᳚ भरन्त ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{10/11}{1.70.10}{1.12.6.10}{1.5.14.10}{805, 70, 805} वि¦त्वा॒¦नरः॑¦पु॒रु॒ऽत्रा¦स॒प॒र्य॒न्¦पि॒तुः¦न¦जिव्रेः᳚¦वि¦वेदः॑¦भ॒र॒न्त॒ || |
सा॒धुर्न गृ॒ध्नुरस्ते᳚व॒ शूरो॒ याते᳚व भी॒मस्त्वे॒षः स॒मत्सु॑ ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{11/11}{1.70.11}{1.12.6.11}{1.5.14.11}{806, 70, 806} सा॒धुः¦न¦गृ॒ध्नुः¦अस्ता᳚ऽइव¦शूरः॑¦याता᳚ऽइव¦भी॒मः¦त्वे॒षः¦स॒मत्ऽसु॑ || |
[71] उपप्रजिन्वन्निति दशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निस्त्रिष्टुप् |
उप॒ प्र जि᳚न्वन्नुश॒तीरु॒शन्तं॒ पतिं॒ न नित्यं॒ जन॑यः॒ सनी᳚ळाः |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} स्वसा᳚रः॒ श्यावी॒मरु॑षीमजुष्रञ्चि॒त्रमु॒च्छन्ती᳚मु॒षसं॒ न गावः॑ ||{1/10}{1.71.1}{1.12.7.1}{1.5.15.1}{807, 71, 807} उप॑¦प्र¦जि॒न्व॒न्¦उ॒श॒तीः¦उ॒शन्त᳚म्¦पति᳚म्¦न¦नित्य᳚म्¦जन॑यः¦सऽनी᳚ळाः | |
वी॒ळु चि॑द्दृ॒ळ्हा पि॒तरो᳚ न उ॒क्थैरद्रिं᳚ रुज॒न्नङ्गि॑रसो॒ रवे᳚ण |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} च॒क्रुर्दि॒वो बृ॑ह॒तो गा॒तुम॒स्मे, अहः॒ स्व᳚र्विविदुः के॒तुमु॒स्राः ||{2/10}{1.71.2}{1.12.7.2}{1.5.15.2}{808, 71, 808} वी॒ळु¦चि॒त्¦दृ॒ळ्हा¦पि॒तरः॑¦नः॒¦उ॒क्थैः¦अद्रि᳚म्¦रु॒ज॒न्¦अङ्गि॑रसः¦रवे᳚ण | |
दध᳚न्नृ॒तं ध॒नय᳚न्नस्य धी॒तिमादिद॒र्यो दि॑धि॒ष्वो॒३॑(ओ॒) विभृ॑त्राः |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} अतृ॑ष्यन्तीर॒पसो᳚ य॒न्त्यच्छा᳚ दे॒वाञ्जन्म॒ प्रय॑सा व॒र्धय᳚न्तीः ||{3/10}{1.71.3}{1.12.7.3}{1.5.15.3}{809, 71, 809} दध॑न्¦ऋ॒तम्¦ध॒नय॑न्¦अ॒स्य॒¦धी॒तिम्¦आत्¦इत्¦अ॒र्यः¦द॒धि॒ष्वः॑¦विऽभृ॑त्राः | |
मथी॒द् यदीं॒ विभृ॑तो मात॒रिश्वा᳚ गृ॒हेगृ॑हे श्ये॒तो जेन्यो॒ भूत् |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} आदीं॒ राज्ञे॒ न सही᳚यसे॒ सचा॒ सन्ना दू॒त्य१॑(अं॒) भृग॑वाणो विवाय ||{4/10}{1.71.4}{1.12.7.4}{1.5.15.4}{810, 71, 810} मथी᳚त्¦यत्¦ई॒म्¦विऽभृ॑तः¦मा॒त॒रिश्वा᳚¦गृ॒हेऽगृ॑हे¦श्ये॒तः¦जेन्यः॑¦भूत् | |
म॒हे यत् पि॒त्र ईं॒ रसं᳚ दि॒वे करव॑ त्सरत् पृश॒न्य॑श्चिकि॒त्वान् |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} सृ॒जदस्ता᳚ धृष॒ता दि॒द्युम॑स्मै॒ स्वायां᳚ दे॒वो दु॑हि॒तरि॒ त्विषिं᳚ धात् ||{5/10}{1.71.5}{1.12.7.5}{1.5.15.5}{811, 71, 811} म॒हे¦यत्¦पि॒त्रे¦ई॒म्¦रस᳚म्¦दि॒वे¦कः¦अव॑¦त्स॒र॒त्¦पृ॒श॒न्यः॑¦चि॒कि॒त्वान् | |
स्व आ यस्तुभ्यं॒ दम॒ आ वि॒भाति॒ नमो᳚ वा॒दाशा᳚दुश॒तो, अनु॒ द्यून् |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} वर्धो᳚, अग्ने॒ वयो᳚, अस्य द्वि॒बर्हा॒ यास॑द् रा॒या स॒रथं॒ यं जु॒नासि॑ ||{6/10}{1.71.6}{1.12.7.6}{1.5.16.1}{812, 71, 812} स्वे¦आ¦यः¦तुभ्य᳚म्¦दमे᳚¦आ¦वि॒ऽभाति॑¦नमः॑¦वा॒¦दाशा᳚त्¦उ॒श॒तः¦अनु॑¦द्यून् | |
अ॒ग्निं विश्वा᳚, अ॒भि पृक्षः॑ सचन्ते समु॒द्रं न स्र॒वतः॑ स॒प्त य॒ह्वीः |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} न जा॒मिभि॒र्वि चि॑किते॒ वयो᳚ नो वि॒दा दे॒वेषु॒ प्रम॑तिं चिकि॒त्वान् ||{7/10}{1.71.7}{1.12.7.7}{1.5.16.2}{813, 71, 813} अ॒ग्निम्¦विश्वाः᳚¦अ॒भि¦पृक्षः॑¦स॒च॒न्ते॒¦स॒मु॒द्रम्¦न¦स्र॒वतः॑¦स॒प्त¦य॒ह्वीः | |
आ यदि॒षे नृ॒पतिं॒ तेज॒ आन॒ट् छुचि॒ रेतो॒ निषि॑क्तं॒ द्यौर॒भीके᳚ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} अ॒ग्निः शर्ध॑मनव॒द्यं युवा᳚नं स्वा॒ध्यं᳚ जनयत् सू॒दय॑च्च ||{8/10}{1.71.8}{1.12.7.8}{1.5.16.3}{814, 71, 814} आ¦यत्¦इ॒षे¦नृ॒ऽपति᳚म्¦तेजः॑¦आन॑ट्¦शुचि॑¦रेतः॑¦निऽसि॑क्तम्¦द्यौः¦अ॒भीके᳚ | |
मनो॒ न योऽध्व॑नः स॒द्य एत्येकः॑ स॒त्रा सूरो॒ वस्व॑ ईशे |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} राजा᳚ना मि॒त्रावरु॑णा सुपा॒णी गोषु॑ प्रि॒यम॒मृतं॒ रक्ष॑माणा ||{9/10}{1.71.9}{1.12.7.9}{1.5.16.4}{815, 71, 815} मनः॑¦न¦यः¦अध्व॑नः¦स॒द्यः¦एति॑¦एकः॑¦स॒त्रा¦सूरः॑¦वस्वः॑¦ई॒शे॒ | |
मा नो᳚, अग्ने स॒ख्या पित्र्या᳚णि॒ प्र म॑र्षिष्ठा, अ॒भि वि॒दुष्क॒विः सन् |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} नभो॒ न रू॒पं ज॑रि॒मा मि॑नाति पु॒रा तस्या᳚, अ॒भिश॑स्ते॒रधी᳚हि ||{10/10}{1.71.10}{1.12.7.10}{1.5.16.5}{816, 71, 816} मा¦नः॒¦अ॒ग्ने॒¦स॒ख्या¦पित्र्या᳚णि¦प्र¦म॒र्षि॒ष्ठाः॒¦अ॒भि¦वि॒दुः¦क॒विः¦सन् | |
[72] निकाव्येति दशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निस्त्रिष्टुप् | |
नि काव्या᳚ वे॒धसः॒ शश्व॑तस्क॒र्हस्ते॒ दधा᳚नो॒ नर्या᳚ पु॒रूणि॑ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} अ॒ग्निर्भु॑वद् रयि॒पती᳚ रयी॒णां स॒त्रा च॑क्रा॒णो, अ॒मृता᳚नि॒ विश्वा᳚ ||{1/10}{1.72.1}{1.12.8.1}{1.5.17.1}{817, 72, 817} नि¦काव्या᳚¦वे॒धसः॑¦शश्व॑तः¦कः॒¦हस्ते᳚¦दधा᳚नः¦नर्या᳚¦पु॒रूणि॑ | |
अ॒स्मे व॒त्सं परि॒ षन्तं॒ न वि᳚न्दन्नि॒च्छन्तो॒ विश्वे᳚, अ॒मृता॒, अमू᳚राः |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} श्र॒म॒युवः॑ पद॒व्यो᳚ धियं॒धास्त॒स्थुः प॒दे प॑र॒मे चार्व॒ग्नेः ||{2/10}{1.72.2}{1.12.8.2}{1.5.17.2}{818, 72, 818} अ॒स्मे इति॑¦व॒त्सम्¦परि॑¦सन्त᳚म्¦न¦वि॒न्द॒न्¦इ॒च्छन्तः॑¦विश्वे᳚¦अ॒मृताः᳚¦अमू᳚राः | |
ति॒स्रो यद॑ग्ने श॒रद॒स्त्वामिच्छुचिं᳚ घृ॒तेन॒ शुच॑यः सप॒र्यान् |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} नामा᳚नि चिद्दधिरे य॒ज्ञिया॒न्यसू᳚दयन्त त॒न्व१॑(अः॒) सुजा᳚ताः ||{3/10}{1.72.3}{1.12.8.3}{1.5.17.3}{819, 72, 819} ति॒स्रः¦यत्¦अ॒ग्ने॒¦श॒रदः॑¦त्वाम्¦इत्¦शुचि᳚म्¦घृ॒तेन॑¦शुच॑यः¦स॒प॒र्यान् | |
आ रोद॑सी बृह॒ती वेवि॑दानाः॒ प्र रु॒द्रिया᳚ जभ्रिरे य॒ज्ञिया᳚सः |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} वि॒दन्मर्तो᳚ ने॒मधि॑ता चिकि॒त्वान॒ग्निं प॒दे प॑र॒मे त॑स्थि॒वांस᳚म् ||{4/10}{1.72.4}{1.12.8.4}{1.5.17.4}{820, 72, 820} आ¦रोद॑सी॒ इति॑¦बृ॒ह॒ती इति॑¦वेवि॑दानाः᳚¦प्र¦रु॒द्रिया᳚¦ज॒भ्रि॒रे॒¦य॒ज्ञिया᳚सः | |
सं॒जा॒ना॒ना, उप॑ सीदन्नभि॒ज्ञु पत्नी᳚वन्तो नम॒स्यं᳚ नमस्यन् |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} रि॒रि॒क्वांस॑स्त॒न्वः॑ कृण्वत॒ स्वाः सखा॒ सख्यु᳚र्नि॒मिषि॒ रक्ष॑माणाः ||{5/10}{1.72.5}{1.12.8.5}{1.5.17.5}{821, 72, 821} स॒म्ऽजा॒ना॒नाः¦उप॑¦सी॒द॒न्¦अ॒भि॒ऽज्ञु¦पत्नी᳚ऽवन्तः¦न॒म॒स्य᳚म्¦न॒म॒स्य॒न्निति॑ नमस्यन् | |
त्रिः स॒प्त यद् गुह्या᳚नि॒ त्वे, इत् प॒दावि॑द॒न्निहि॑ता य॒ज्ञिया᳚सः |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} तेभी᳚ रक्षन्ते, अ॒मृतं᳚ स॒जोषाः᳚ प॒शूञ्च॑ स्था॒तॄञ्च॒रथं᳚ च पाहि ||{6/10}{1.72.6}{1.12.8.6}{1.5.18.1}{822, 72, 822} त्रिः¦स॒प्त¦यत्¦गुह्या᳚नि¦त्वे इति॑¦इत्¦प॒दा¦अ॒वि॒द॒न्¦निऽहि॑ता¦य॒ज्ञिया᳚सः | |
वि॒द्वाँ, अ॑ग्ने व॒युना᳚नि क्षिती॒नां व्या᳚नु॒षक् छु॒रुधो᳚ जी॒वसे᳚ धाः |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} अ॒न्त॒र्वि॒द्वाँ, अध्व॑नो देव॒याना॒नत᳚न्द्रो दू॒तो, अ॑भवो हवि॒र्वाट् ||{7/10}{1.72.7}{1.12.8.7}{1.5.18.2}{823, 72, 823} वि॒द्वान्¦अ॒ग्ने॒¦व॒युना᳚नि¦क्षि॒ती॒नाम्¦वि¦आ॒नु॒षक्¦शु॒रुधः॑¦जी॒वसे᳚¦धाः॒ | |
स्वा॒ध्यो᳚ दि॒व आ स॒प्त य॒ह्वी रा॒यो दुरो॒ व्यृ॑त॒ज्ञा, अ॑जानन् |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} वि॒दद् गव्यं᳚ स॒रमा᳚ दृ॒ळ्हमू॒र्वं येना॒ नु कं॒ मानु॑षी॒ भोज॑ते॒ विट् ||{8/10}{1.72.8}{1.12.8.8}{1.5.18.3}{824, 72, 824} सु॒ऽआध्यः॑¦दि॒वः¦आ¦स॒प्त¦य॒ह्वीः¦रा॒यः¦दुरः॑¦वि¦ऋ॒त॒ऽज्ञाः¦अ॒जा॒न॒न् | |
आ ये विश्वा᳚ स्वप॒त्यानि॑ त॒स्थुः कृ᳚ण्वा॒नासो᳚, अमृत॒त्वाय॑ गा॒तुम् |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} म॒ह्ना म॒हद्भिः॑ पृथि॒वी वि त॑स्थे मा॒ता पु॒त्रैरदि॑ति॒र्धाय॑से॒ वेः ||{9/10}{1.72.9}{1.12.8.9}{1.5.18.4}{825, 72, 825} आ¦ये¦विश्वा᳚¦सु॒।आ॒प॒त्यानि॑¦त॒स्थुः¦कृ॒ण्वा॒नासः॑¦अ॒मृ॒त॒ऽत्वाय॑¦गा॒तुम् | |
अधि॒ श्रियं॒ नि द॑धु॒श्चारु॑मस्मिन् दि॒वो यद॒क्षी, अ॒मृता॒, अकृ᳚ण्वन् |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} अध॑ क्षरन्ति॒ सिन्ध॑वो॒ न सृ॒ष्टाः प्र नीची᳚रग्ने॒, अरु॑षीरजानन् ||{10/10}{1.72.10}{1.12.8.10}{1.5.18.5}{826, 72, 826} अधि॑¦श्रिय᳚म्¦नि¦द॒धुः॒¦चारु᳚म्¦अ॒स्मि॒न्¦दि॒वः¦यत्¦अ॒क्षी इति॑¦अ॒मृताः᳚¦अकृ᳚ण्वन् | |
[73] रयिर्नेति दशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निस्त्रिष्टुप् | |
र॒यिर्न यः पि॑तृवि॒त्तो व॑यो॒धाः सु॒प्रणी᳚तिश्चिकि॒तुषो॒ न शासुः॑ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} स्यो॒न॒शीरति॑थि॒र्न प्री᳚णा॒नो होते᳚व॒ सद्म॑ विध॒तो वि ता᳚रीत् ||{1/10}{1.73.1}{1.12.9.1}{1.5.19.1}{827, 73, 827} र॒यिः¦न¦यः¦पि॒तृ॒ऽवि॒त्तः¦व॒यः॒ऽधाः¦सु॒ऽप्रनी᳚तिः¦चि॒कि॒तुषः॑¦न¦शासुः॑ | |
दे॒वो न यः स॑वि॒ता स॒त्यम᳚न्मा॒ क्रत्वा᳚ नि॒पाति॑ वृ॒जना᳚नि॒ विश्वा᳚ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} पु॒रु॒प्र॒श॒स्तो, अ॒मति॒र्न स॒त्य आ॒त्मेव॒ शेवो᳚ दिधि॒षाय्यो᳚ भूत् ||{2/10}{1.73.2}{1.12.9.2}{1.5.19.2}{828, 73, 828} दे॒वः¦न¦यः¦स॒वि॒ता¦स॒त्यऽम᳚न्मा¦क्रत्वा᳚¦नि॒ऽपाति॑¦वृ॒जना᳚नि¦विश्वा᳚ | |
दे॒वो न यः पृ॑थि॒वीं वि॒श्वधा᳚या, उप॒क्षेति॑ हि॒तमि॑त्रो॒ न राजा᳚ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} पु॒रः॒सदः॑ शर्म॒सदो॒ न वी॒रा, अ॑नव॒द्या पति॑जुष्टेव॒ नारी᳚ ||{3/10}{1.73.3}{1.12.9.3}{1.5.19.3}{829, 73, 829} दे॒वः¦न¦यः¦पृ॒थि॒वीम्¦वि॒श्वऽधा᳚याः¦उ॒प॒ऽक्षेति॑¦हि॒तऽमि॑त्रः¦न¦राजा᳚ | |
तं त्वा॒ नरो॒ दम॒ आ नित्य॑मि॒द्धमग्ने॒ सच᳚न्त क्षि॒तिषु॑ ध्रु॒वासु॑ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} अधि॑ द्यु॒म्नं नि द॑धु॒र्भूर्य॑स्मि॒न् भवा᳚ वि॒श्वायु॑र्ध॒रुणो᳚ रयी॒णाम् ||{4/10}{1.73.4}{1.12.9.4}{1.5.19.4}{830, 73, 830} तम्¦त्वा॒¦नरः॑¦दमे᳚¦आ¦नित्य᳚म्¦इ॒द्धम्¦अग्ने᳚¦सच᳚न्त¦क्षि॒तिषु॑¦ध्रु॒वासु॑ | |
वि पृक्षो᳚, अग्ने म॒घवा᳚नो, अश्यु॒र्वि सू॒रयो॒ दद॑तो॒ विश्व॒मायुः॑ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} स॒नेम॒ वाजं᳚ समि॒थेष्व॒र्यो भा॒गं दे॒वेषु॒ श्रव॑से॒ दधा᳚नाः ||{5/10}{1.73.5}{1.12.9.5}{1.5.19.5}{831, 73, 831} वि¦पृक्षः॑¦अ॒ग्ने॒¦म॒घऽवा᳚नः¦अ॒श्युः॒¦वि¦सू॒रयः॑¦दद॑तः¦विश्व᳚म्¦आयुः॑ | |
ऋ॒तस्य॒ हि धे॒नवो᳚ वावशा॒नाः स्मदू᳚ध्नीः पी॒पय᳚न्त॒ द्युभ॑क्ताः |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} प॒रा॒वतः॑ सुम॒तिं भिक्ष॑माणा॒ वि सिन्ध॑वः स॒मया᳚ सस्रु॒रद्रि᳚म् ||{6/10}{1.73.6}{1.12.9.6}{1.5.20.1}{832, 73, 832} ऋ॒तस्य॑¦हि¦धे॒नवः॑¦वा॒व॒शा॒नाः¦स्मत्ऽऊ᳚ध्नीः¦पी॒पय᳚न्त¦द्युऽभ॑क्ताः | |
त्वे, अ॑ग्ने सुम॒तिं भिक्ष॑माणा दि॒वि श्रवो᳚ दधिरे य॒ज्ञिया᳚सः |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} नक्ता᳚ च च॒क्रुरु॒षसा॒ विरू᳚पे कृ॒ष्णं च॒ वर्ण॑मरु॒णं च॒ सं धुः॑ ||{7/10}{1.73.7}{1.12.9.7}{1.5.20.2}{833, 73, 833} त्वे¦अ॒ग्ने॒¦सु॒ऽम॒तिम्¦भिक्ष॑माणाः¦दि॒वि¦श्रवः॑¦द॒धि॒रे॒¦य॒ज्ञिया᳚सः | |
यान् रा॒ये मर्ता॒न् त्सुषू᳚दो, अग्ने॒ ते स्या᳚म म॒घवा᳚नो व॒यं च॑ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} छा॒येव॒ विश्वं॒ भुव॑नं सिसक्ष्यापप्रि॒वान् रोद॑सी, अ॒न्तरि॑क्षम् ||{8/10}{1.73.8}{1.12.9.8}{1.5.20.3}{834, 73, 834} यान्¦रा॒ये¦मर्ता᳚न्¦सुसू᳚दः¦अ॒ग्ने॒¦ते¦स्या॒म॒¦म॒घऽवा᳚नः¦व॒यम्¦च॒ | |
अर्व॑द्भिरग्ने॒, अर्व॑तो॒ नृभि॒र्नॄन् वी॒रैर्वी॒रान् व॑नुयामा॒ त्वोताः᳚ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} ई॒शा॒नासः॑ पितृवि॒त्तस्य॑ रा॒यो वि सू॒रयः॑ श॒तहि॑मा नो, अश्युः ||{9/10}{1.73.9}{1.12.9.9}{1.5.20.4}{835, 73, 835} अर्व॑त्ऽभिः¦अ॒ग्ने॒¦अर्व॑तः¦नृऽभिः॑¦नॄन्¦वी॒रैः¦वी॒रान्¦व॒नु॒या॒म॒¦त्वाऽऊ᳚ताः | |
ए॒ता ते᳚, अग्न उ॒चथा᳚नि वेधो॒ जुष्टा᳚नि सन्तु॒ मन॑से हृ॒दे च॑ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} श॒केम॑ रा॒यः सु॒धुरो॒ यमं॒ तेऽधि॒ श्रवो᳚ दे॒वभ॑क्तं॒ दधा᳚नाः ||{10/10}{1.73.10}{1.12.9.10}{1.5.20.5}{836, 73, 836} ए॒ता¦ते॒¦अ॒ग्ने॒¦उ॒चथा᳚नि¦वे॒धः॒¦जुष्टा᳚नि¦स॒न्तु॒¦मन॑से¦हृ॒दे¦च॒ | |
[74] उपप्रयंतइति नवर्चस्य सूक्तस्य राहूगणोगोतमोग्निर्गायत्री | |
उ॒प॒प्र॒यन्तो᳚, अध्व॒रं मन्त्रं᳚ वोचेमा॒ग्नये᳚ |{रहूगणो गोतमः | अग्निः | गायत्री} आ॒रे, अ॒स्मे च॑ शृण्व॒ते ||{1/9}{1.74.1}{1.13.1.1}{1.5.21.1}{837, 74, 837} उ॒प॒ऽप्र॒यन्तः॑¦अ॒ध्व॒रम्¦मन्त्र᳚म्¦वो॒चे॒म॒¦अ॒ग्नये᳚ | आ॒रे¦अ॒स्मे इति॑¦च॒¦शृ॒ण्व॒ते || |
यः स्नीहि॑तीषु पू॒र्व्यः सं᳚जग्मा॒नासु॑ कृ॒ष्टिषु॑ |{रहूगणो गोतमः | अग्निः | गायत्री} अर॑क्षद्दा॒शुषे॒ गय᳚म् ||{2/9}{1.74.2}{1.13.1.2}{1.5.21.2}{838, 74, 838} यः¦स्नीहि॑तीषु¦पू॒र्व्यः¦स॒म्ऽज॒ग्मा॒नासु॑¦कृ॒ष्टिषु॑ | अर॑क्षत्¦दा॒शुषे᳚¦गय᳚म् || |
उ॒त ब्रु॑वन्तु ज॒न्तव॒ उद॒ग्निर्वृ॑त्र॒हाज॑नि |{रहूगणो गोतमः | अग्निः | गायत्री} ध॒नं॒ज॒यो रणे᳚रणे ||{3/9}{1.74.3}{1.13.1.3}{1.5.21.3}{839, 74, 839} उ॒त¦ब्रु॒व॒न्तु॒¦ज॒न्तवः॑¦उत्¦अ॒ग्निः¦वृ॒त्र॒ऽहा¦अ॒ज॒नि॒ | ध॒न॒म्ऽज॒यः¦रणे᳚ऽरणे || |
यस्य॑ दू॒तो, असि॒ क्षये॒ वेषि॑ ह॒व्यानि॑ वी॒तये᳚ |{रहूगणो गोतमः | अग्निः | गायत्री} द॒स्मत् कृ॒णोष्य॑ध्व॒रम् ||{4/9}{1.74.4}{1.13.1.4}{1.5.21.4}{840, 74, 840} यस्य॑¦दू॒तः¦असि॑¦क्षये᳚¦वेषि॑¦ह॒व्यानि॑¦वी॒तये᳚ | द॒स्मत्¦कृ॒णोषि॑¦अ॒ध्व॒रम् || |
तमित् सु॑ह॒व्यम᳚ङ्गिरः सुदे॒वं स॑हसो यहो |{रहूगणो गोतमः | अग्निः | गायत्री} जना᳚, आहुः सुब॒र्हिष᳚म् ||{5/9}{1.74.5}{1.13.1.5}{1.5.21.5}{841, 74, 841} तम्¦इत्¦सु॒ऽह॒व्यम्¦अ॒ङ्गि॒रः॒¦सु॒ऽदे॒वम्¦स॒ह॒सः॒¦य॒हो॒ इति॑ | जनाः᳚¦आ॒हुः॒¦सु॒ऽब॒र्हिष᳚म् || |
आ च॒ वहा᳚सि॒ ताँ, इ॒ह दे॒वाँ, उप॒ प्रश॑स्तये |{रहूगणो गोतमः | अग्निः | गायत्री} ह॒व्या सु॑श्चन्द्र वी॒तये᳚ ||{6/9}{1.74.6}{1.13.1.6}{1.5.22.1}{842, 74, 842} आ¦च॒¦वहा᳚सि¦तान्¦इ॒ह¦दे॒वान्¦उप॑¦प्रऽश॑स्तये | ह॒व्या¦सु॒ऽच॒न्द्र॒¦वी॒तये᳚ || |
न योरु॑प॒ब्दिरश्व्यः॑ शृ॒ण्वे रथ॑स्य॒ कच्च॒न |{रहूगणो गोतमः | अग्निः | गायत्री} यद॑ग्ने॒ यासि॑ दू॒त्य᳚म् ||{7/9}{1.74.7}{1.13.1.7}{1.5.22.2}{843, 74, 843} न¦योः¦उ॒प॒ब्दिः¦अश्व्यः॑¦शृ॒ण्वे¦रथ॑स्य¦कत्¦च॒न | यत्¦अ॒ग्ने॒¦यासि॑¦दू॒त्य᳚म् || |
त्वोतो᳚ वा॒ज्यह्र॑यो॒ऽभि पूर्व॑स्मा॒दप॑रः |{रहूगणो गोतमः | अग्निः | गायत्री} प्र दा॒श्वाँ, अ॑ग्ने, अस्थात् ||{8/9}{1.74.8}{1.13.1.8}{1.5.22.3}{844, 74, 844} त्वाऽऊ᳚तः¦वा॒जी¦अह्र॑यः¦अ॒भि¦पूर्व॑स्मात्¦अप॑रः | प्र¦दा॒श्वान्¦अ॒ग्ने॒¦अ॒स्था॒त् || |
उ॒त द्यु॒मत् सु॒वीर्यं᳚ बृ॒हद॑ग्ने विवाससि |{रहूगणो गोतमः | अग्निः | गायत्री} दे॒वेभ्यो᳚ देव दा॒शुषे᳚ ||{9/9}{1.74.9}{1.13.1.9}{1.5.22.4}{845, 74, 845} उ॒त¦द्यु॒ऽमत्¦सु॒ऽवीर्य᳚म्¦बृ॒हत्¦अ॒ग्ने॒¦वि॒वा॒स॒सि॒ | दे॒वेभ्यः॑¦दे॒व॒¦दा॒शुषे᳚ || |
[75] जुषस्वेति पंचर्चस्य सूक्तस्य राहूगणोगोतमोग्निर्गायत्री | |
जु॒षस्व॑ स॒प्रथ॑स्तमं॒ वचो᳚ दे॒वप्स॑रस्तमम् |{रहूगणो गोतमः | अग्निः | गायत्री} ह॒व्या जुह्वा᳚न आ॒सनि॑ ||{1/5}{1.75.1}{1.13.2.1}{1.5.23.1}{846, 75, 846} जु॒षस्व॑¦स॒प्रथः॑ऽतमम्¦वचः॑¦दे॒वप्स॑रःऽतमम् | ह॒व्या¦जुह्वा᳚नः¦आ॒सनि॑ || |
अथा᳚ ते, अङ्गिरस्त॒माग्ने᳚ वेधस्तम प्रि॒यम् |{रहूगणो गोतमः | अग्निः | गायत्री} वो॒चेम॒ ब्रह्म॑ सान॒सि ||{2/5}{1.75.2}{1.13.2.2}{1.5.23.2}{847, 75, 847} अथ॑¦ते॒¦अ॒ङ्गि॒रः॒ऽत॒म॒¦अग्ने᳚¦वे॒धः॒ऽत॒म॒¦प्रि॒यम् | वो॒चेम॑¦ब्रह्म॑¦सा॒न॒सि || |
कस्ते᳚ जा॒मिर्जना᳚ना॒मग्ने॒ को दा॒श्व॑ध्वरः |{रहूगणो गोतमः | अग्निः | गायत्री} को ह॒ कस्मि᳚न्नसि श्रि॒तः ||{3/5}{1.75.3}{1.13.2.3}{1.5.23.3}{848, 75, 848} कः¦ते॒¦जा॒मिः¦जना᳚नाम्¦अग्ने᳚¦कः¦दा॒शु।आ॑ध्वरः | कः¦ह॒¦कस्मि॑न्¦अ॒सि॒¦श्रि॒तः || |
त्वं जा॒मिर्जना᳚ना॒मग्ने᳚ मि॒त्रो, अ॑सि प्रि॒यः |{रहूगणो गोतमः | अग्निः | गायत्री} सखा॒ सखि॑भ्य॒ ईड्यः॑ ||{4/5}{1.75.4}{1.13.2.4}{1.5.23.4}{849, 75, 849} त्वम्¦जा॒मिः¦जना᳚नाम्¦अग्ने᳚¦मि॒त्रः¦अ॒सि॒¦प्रि॒यः | सखा᳚¦सखि॑ऽभ्यः¦ईड्यः॑ || |
यजा᳚ नो मि॒त्रावरु॑णा॒ यजा᳚ दे॒वाँ, ऋ॒तं बृ॒हत् |{रहूगणो गोतमः | अग्निः | गायत्री} अग्ने॒ यक्षि॒ स्वं दम᳚म् ||{5/5}{1.75.5}{1.13.2.5}{1.5.23.5}{850, 75, 850} यज॑¦नः॒¦मि॒त्रावरु॑णा¦यज॑¦दे॒वान्¦ऋ॒तम्¦बृ॒हत् | अग्ने᳚¦यक्षि॑¦स्वम्¦दम᳚म् || |
[76] कातइति पंचचस्य सूक्तस्य राहूगणोगोतमोग्निस्त्रिष्टुप् | |
का त॒ उपे᳚ति॒र्मन॑सो॒ वरा᳚य॒ भुव॑दग्ने॒ शंत॑मा॒ का म॑नी॒षा |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्} को वा᳚ य॒ज्ञैः परि॒ दक्षं᳚ त आप॒ केन॑ वा ते॒ मन॑सा दाशेम ||{1/5}{1.76.1}{1.13.3.1}{1.5.24.1}{851, 76, 851} का¦ते॒¦उप॑ऽइतिः¦मन॑सः¦वरा᳚य¦भुव॑त्¦अ॒ग्ने॒¦शम्ऽत॑मा¦का¦म॒नी॒षा | |
एह्य॑ग्न इ॒ह होता॒ नि षी॒दाद॑ब्धः॒ सु पु॑रए॒ता भ॑वा नः |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्} अव॑तां त्वा॒ रोद॑सी विश्वमि॒न्वे यजा᳚ म॒हे सौ᳚मन॒साय॑ दे॒वान् ||{2/5}{1.76.2}{1.13.3.2}{1.5.24.2}{852, 76, 852} आ¦इ॒हि॒¦अ॒ग्ने॒¦इ॒ह¦होता᳚¦नि¦सी॒द॒¦अद॑ब्धः¦सु¦पु॒रः॒ऽए॒ता¦भ॒व॒¦नः॒ | |
प्र सु विश्वा᳚न् र॒क्षसो॒ धक्ष्य॑ग्ने॒ भवा᳚ य॒ज्ञाना᳚मभिशस्ति॒पावा᳚ |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्} अथा व॑ह॒ सोम॑पतिं॒ हरि॑भ्यामाति॒थ्यम॑स्मै चकृमा सु॒दाव्ने᳚ ||{3/5}{1.76.3}{1.13.3.3}{1.5.24.3}{853, 76, 853} प्र¦सु¦विश्वा᳚न्¦र॒क्षसः॑¦धक्षि॑¦अ॒ग्ने॒¦भव॑¦य॒ज्ञाना᳚म्¦अ॒भि॒श॒स्ति॒ऽपावा᳚ | |
प्र॒जाव॑ता॒ वच॑सा॒ वह्नि॑रा॒सा च॑ हु॒वे नि च॑ सत्सी॒ह दे॒वैः |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्} वेषि॑ हो॒त्रमु॒त पो॒त्रं य॑जत्र बो॒धि प्र॑यन्तर्जनित॒र्वसू᳚नाम् ||{4/5}{1.76.4}{1.13.3.4}{1.5.24.4}{854, 76, 854} प्र॒जाऽव॑ता¦वच॑सा¦वह्निः॑¦आ॒सा¦आ¦च॒¦हु॒वे¦नि¦च॒¦स॒त्सि॒¦इ॒ह¦दे॒वैः | |
यथा॒ विप्र॑स्य॒ मनु॑षो ह॒विर्भि॑र्दे॒वाँ, अय॑जः क॒विभिः॑ क॒विः सन् |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्} ए॒वा हो᳚तः सत्यतर॒ त्वम॒द्याग्ने᳚ म॒न्द्रया᳚ जु॒ह्वा᳚ यजस्व ||{5/5}{1.76.5}{1.13.3.5}{1.5.24.5}{855, 76, 855} यथा᳚¦विप्र॑स्य¦मनु॑षः¦ह॒विःऽभिः॑¦दे॒वान्¦अय॑जः¦क॒विऽभिः॑¦क॒विः¦सन् | |
[77] कथादाशेमेति पंचर्चस्य सूक्तस्य राहूगणोगोतमोग्निस्त्रिष्टुप् |
क॒था दा᳚शेमा॒ग्नये॒ कास्मै᳚ दे॒वजु॑ष्टोच्यते भा॒मिने॒ गीः |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्} यो मर्त्ये᳚ष्व॒मृत॑ ऋ॒तावा॒ होता॒ यजि॑ष्ठ॒ इत् कृ॒णोति॑ दे॒वान् ||{1/5}{1.77.1}{1.13.4.1}{1.5.25.1}{856, 77, 856} क॒था¦दा॒शे॒म॒¦अ॒ग्नये᳚¦का¦अ॒स्मै॒¦दे॒वऽजु॑ष्टा¦उ॒च्य॒ते॒¦भा॒मिने᳚¦गीः | |
यो, अ॑ध्व॒रेषु॒ शंत॑म ऋ॒तावा॒ होता॒ तमू॒ नमो᳚भि॒रा कृ॑णुध्वम् |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्} अ॒ग्निर्यद् वेर्मर्ता᳚य दे॒वान् त्स चा॒ बोधा᳚ति॒ मन॑सा यजाति ||{2/5}{1.77.2}{1.13.4.2}{1.5.25.2}{857, 77, 857} यः¦अ॒ध्व॒रेषु॑¦शम्ऽत॑मः¦ऋ॒तऽवा᳚¦होता᳚¦तम्¦ऊँ॒ इति॑¦नमः॑ऽभिः¦आ¦कृ॒णु॒ध्व॒म् | |
स हि क्रतुः॒ स मर्यः॒ स सा॒धुर्मि॒त्रो न भू॒दद्भु॑तस्य र॒थीः |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्} तं मेधे᳚षु प्रथ॒मं दे᳚व॒यन्ती॒र्विश॒ उप॑ ब्रुवते द॒स्ममारीः᳚ ||{3/5}{1.77.3}{1.13.4.3}{1.5.25.3}{858, 77, 858} सः¦हि¦क्रतुः॑¦सः¦मर्यः॑¦सः¦सा॒धुः¦मि॒त्रः¦न¦भू॒त्¦अद्भु॑तस्य¦र॒थीः | |
स नो᳚ नृ॒णां नृत॑मो रि॒शादा᳚, अ॒ग्निर्गिरोऽव॑सा वेतु धी॒तिम् |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्} तना᳚ च॒ ये म॒घवा᳚नः॒ शवि॑ष्ठा॒ वाज॑प्रसूता, इ॒षय᳚न्त॒ मन्म॑ ||{4/5}{1.77.4}{1.13.4.4}{1.5.25.4}{859, 77, 859} सः¦नः॒¦नृ॒णाम्¦नृऽत॑मः¦रि॒शादाः᳚¦अ॒ग्निः¦गिरः॑¦अव॑सा¦वे॒तु॒¦धी॒तिम् | |
ए॒वाग्निर्गोत॑मेभिरृ॒तावा॒ विप्रे᳚भिरस्तोष्ट जा॒तवे᳚दाः |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्} स ए᳚षु द्यु॒म्नं पी᳚पय॒त् स वाजं॒ स पु॒ष्टिं या᳚ति॒ जोष॒मा चि॑कि॒त्वान् ||{5/5}{1.77.5}{1.13.4.5}{1.5.25.5}{860, 77, 860} ए॒व¦अ॒ग्निः¦गोत॑मेभिः¦ऋ॒तऽवा᳚¦विप्रे᳚भिः¦अ॒स्तो॒ष्ट॒¦जा॒तऽवे᳚दाः | |
[78] अभित्वेति पंचर्चस्य सूक्तस्य राहूगणोगोतमोग्निर्गायत्री | |
अ॒भि त्वा॒ गोत॑मा गि॒रा जात॑वेदो॒ विच॑र्षणे |{रहूगणो गोतमः | अग्निः | गायत्री} द्यु॒म्नैर॒भि प्र णो᳚नुमः ||{1/5}{1.78.1}{1.13.5.1}{1.5.26.1}{861, 78, 861} अ॒भि¦त्वा॒¦गोत॑माः¦गि॒रा¦जात॑ऽवेदः¦विऽच॑र्षणे | द्यु॒म्नैः¦अ॒भि¦प्र¦नो॒नु॒मः॒ || |
तमु॑ त्वा॒ गोत॑मो गि॒रा रा॒यस्का᳚मो दुवस्यति |{रहूगणो गोतमः | अग्निः | गायत्री} द्यु॒म्नैर॒भि प्र णो᳚नुमः ||{2/5}{1.78.2}{1.13.5.2}{1.5.26.2}{862, 78, 862} तम्¦ऊँ॒ इति॑¦त्वा॒¦गोत॑मः¦गि॒रा¦रा॒यःऽका᳚मः¦दु॒व॒स्य॒ति॒ | द्यु॒म्नैः¦अ॒भि¦प्र¦नो॒नु॒मः॒ || |
तमु॑ त्वा वाज॒सात॑ममङ्गिर॒स्वद्ध॑वामहे |{रहूगणो गोतमः | अग्निः | गायत्री} द्यु॒म्नैर॒भि प्र णो᳚नुमः ||{3/5}{1.78.3}{1.13.5.3}{1.5.26.3}{863, 78, 863} तम्¦ऊँ॒ इति॑¦त्वा॒¦वा॒ज॒ऽसात॑मम्¦अ॒ङ्गि॒र॒स्वत्¦ह॒वा॒म॒हे॒ | द्यु॒म्नैः¦अ॒भि¦प्र¦नो॒नु॒मः॒ || |
तमु॑ त्वा वृत्र॒हन्त॑मं॒ यो दस्यूँ᳚रवधूनु॒षे |{रहूगणो गोतमः | अग्निः | गायत्री} द्यु॒म्नैर॒भि प्र णो᳚नुमः ||{4/5}{1.78.4}{1.13.5.4}{1.5.26.4}{864, 78, 864} तम्¦ऊँ॒ इति॑¦त्वा॒¦वृ॒त्र॒हन्ऽत॑मम्¦यः¦दस्यू᳚न्¦अ॒व॒ऽधू॒नु॒षे | द्यु॒म्नैः¦अ॒भि¦प्र¦नो॒नु॒मः॒ || |
अवो᳚चाम॒ रहू᳚गणा, अ॒ग्नये॒ मधु॑म॒द् वचः॑ |{रहूगणो गोतमः | अग्निः | गायत्री} द्यु॒म्नैर॒भि प्र णो᳚नुमः ||{5/5}{1.78.5}{1.13.5.5}{1.5.26.5}{865, 78, 865} अवो᳚चाम¦रहू᳚गणाः¦अ॒ग्नये᳚¦मधु॑ऽमत्¦वचः॑ | द्यु॒म्नैः¦अ॒भि¦प्र¦नो॒नु॒मः॒ || |
[79] हिरण्यकेशइति द्वादशर्चस्य सूक्तस्य राहूगणो गोतमोग्निर्गायत्री आद्यास्तिस्रोस्त्रिष्टुभः ततस्तिस्रउष्णिह: (आद्यानांतिसृणांमध्यमोग्निः पार्थिवोवा) | |
हिर᳚ण्यकेशो॒ रज॑सो विसा॒रेऽहि॒र्धुनि॒र्वात॑ इव॒ ध्रजी᳚मान् |{रहूगणो गोतमः | अग्निरग्निमध्यमो वा | त्रिष्टुप्} शुचि॑भ्राजा, उ॒षसो॒ नवे᳚दा॒ यश॑स्वतीरप॒स्युवो॒ न स॒त्याः ||{1/12}{1.79.1}{1.13.6.1}{1.5.27.1}{866, 79, 866} हिर᳚ण्यऽकेशः¦रज॑सः¦वि॒ऽसा॒रे¦अहिः॑¦धुनिः॑¦वातः॑ऽइव¦ध्रजी᳚मान् | |
आ ते᳚ सुप॒र्णा, अ॑मिनन्तँ॒, एवैः᳚ कृ॒ष्णो नो᳚नाव वृष॒भो यदी॒दम् |{रहूगणो गोतमः | अग्निरग्निमध्यमो वा | त्रिष्टुप्} शि॒वाभि॒र्न स्मय॑मानाभि॒रागा॒त् पत᳚न्ति॒ मिहः॑ स्त॒नय᳚न्त्य॒भ्रा ||{2/12}{1.79.2}{1.13.6.2}{1.5.27.2}{867, 79, 867} आ¦ते॒¦सु॒ऽप॒र्णाः¦अ॒मि॒न॒न्त॒¦एवैः᳚¦कृ॒ष्णः¦नो॒ना॒व॒¦वृ॒ष॒भः¦यदि॑¦इ॒दम् | |
यदी᳚मृ॒तस्य॒ पय॑सा॒ पिया᳚नो॒ नय᳚न्नृ॒तस्य॑ प॒थिभी॒ रजि॑ष्ठैः |{रहूगणो गोतमः | अग्निरग्निमध्यमो वा | त्रिष्टुप्} अ॒र्य॒मा मि॒त्रो वरु॑णः॒ परि॑ज्मा॒ त्वचं᳚ पृञ्च॒न्त्युप॑रस्य॒ योनौ᳚ ||{3/12}{1.79.3}{1.13.6.3}{1.5.27.3}{868, 79, 868} यत्¦ई॒म्¦ऋ॒तस्य॑¦पय॑सा¦पिया᳚नः¦नय॑न्¦ऋ॒तस्य॑¦प॒थिऽभिः॑¦रजि॑ष्ठैः | |
अग्ने॒ वाज॑स्य॒ गोम॑त॒ ईशा᳚नः सहसो यहो |{रहूगणो गोतमः | अग्निः | उष्णिक्} अ॒स्मे धे᳚हि जातवेदो॒ महि॒ श्रवः॑ ||{4/12}{1.79.4}{1.13.6.4}{1.5.27.4}{869, 79, 869} अग्ने᳚¦वाज॑स्य¦गोऽम॑तः¦ईशा᳚नः¦स॒ह॒सः॒¦य॒हो॒ इति॑ | अ॒स्मे इति॑¦धे॒हि॒¦जा॒त॒ऽवे॒दः॒¦महि॑¦श्रवः॑ || |
स इ॑धा॒नो वसु॑ष्क॒विर॒ग्निरी॒ळेन्यो᳚ गि॒रा |{रहूगणो गोतमः | अग्निः | उष्णिक्} रे॒वद॒स्मभ्यं᳚ पुर्वणीक दीदिहि ||{5/12}{1.79.5}{1.13.6.5}{1.5.27.5}{870, 79, 870} सः¦इ॒धा॒नः¦वसुः॑¦क॒विः¦अ॒ग्निः¦ई॒ळेन्यः॑¦गि॒रा | रे॒वत्¦अ॒स्मभ्य᳚म्¦पु॒रु॒।आ॒णी॒क॒¦दी॒दि॒हि॒ || |
क्ष॒पो रा᳚जन्नु॒त त्मनाग्ने॒ वस्तो᳚रु॒तोषसः॑ |{रहूगणो गोतमः | अग्निः | उष्णिक्} स ति॑ग्मजम्भ र॒क्षसो᳚ दह॒ प्रति॑ ||{6/12}{1.79.6}{1.13.6.6}{1.5.27.6}{871, 79, 871} क्ष॒पः¦रा॒ज॒न्¦उ॒त¦त्मना᳚¦अग्ने᳚¦वस्तोः᳚¦उ॒त¦उ॒षसः॑ | सः¦ति॒ग्म॒ऽज॒म्भ॒¦र॒क्षसः॑¦द॒ह॒¦प्रति॑ || |
अवा᳚ नो, अग्न ऊ॒तिभि॑र्गाय॒त्रस्य॒ प्रभ᳚र्मणि |{रहूगणो गोतमः | अग्निः | गायत्री} विश्वा᳚सु धी॒षु व᳚न्द्य ||{7/12}{1.79.7}{1.13.6.7}{1.5.28.1}{872, 79, 872} अव॑¦नः॒¦अ॒ग्ने॒¦ऊ॒तिऽभिः॑¦गा॒य॒त्रस्य॑¦प्रऽभ᳚र्मणि | विश्वा᳚सु¦धी॒षु¦व॒न्द्य॒ || |
आ नो᳚, अग्ने र॒यिं भ॑र सत्रा॒साहं॒ वरे᳚ण्यम् |{रहूगणो गोतमः | अग्निः | गायत्री} विश्वा᳚सु पृ॒त्सु दु॒ष्टर᳚म् ||{8/12}{1.79.8}{1.13.6.8}{1.5.28.2}{873, 79, 873} आ¦नः॒¦अ॒ग्ने॒¦र॒यिम्¦भ॒र॒¦स॒त्रा॒ऽसह᳚म्¦वरे᳚ण्यम् | विश्वा᳚सु¦पृ॒त्ऽसु¦दु॒स्तर᳚म् || |
आ नो᳚, अग्ने सुचे॒तुना᳚ र॒यिं वि॒श्वायु॑पोषसम् |{रहूगणो गोतमः | अग्निः | गायत्री} मा॒र्डी॒कं धे᳚हि जी॒वसे᳚ ||{9/12}{1.79.9}{1.13.6.9}{1.5.28.3}{874, 79, 874} आ¦नः॒¦अ॒ग्ने॒¦सु॒ऽचे॒तुना᳚¦र॒यिम्¦वि॒श्वायु॑ऽपोषसम् | मा॒र्डी॒कम्¦धे॒हि॒¦जी॒वसे᳚ || |
प्र पू॒तास्ति॒ग्मशो᳚चिषे॒ वाचो᳚ गोतमा॒ग्नये᳚ |{रहूगणो गोतमः | अग्निः | गायत्री} भर॑स्व सुम्न॒युर्गिरः॑ ||{10/12}{1.79.10}{1.13.6.10}{1.5.28.4}{875, 79, 875} प्र¦पू॒ताः¦ति॒ग्मऽशो᳚चिषे¦वाचः॑¦गो॒त॒म॒¦अ॒ग्नये᳚ | भर॑स्व¦सु॒म्न॒ऽयुः¦गिरः॑ || |
यो नो᳚, अग्नेऽभि॒दास॒त्यन्ति॑ दू॒रे प॑दी॒ष्ट सः |{रहूगणो गोतमः | अग्निः | गायत्री} अ॒स्माक॒मिद् वृ॒धे भ॑व ||{11/12}{1.79.11}{1.13.6.11}{1.5.28.5}{876, 79, 876} यः¦नः॒¦अ॒ग्ने॒¦अ॒भि॒ऽदास॑ति¦अन्ति॑¦दू॒रे¦प॒दी॒ष्ट¦सः | अ॒स्माक᳚म्¦इत्¦वृ॒धे¦भ॒व॒ || |
स॒ह॒स्रा॒क्षो विच॑र्षणिर॒ग्नी रक्षां᳚सि सेधति |{रहूगणो गोतमः | अग्निः | गायत्री} होता᳚ गृणीत उ॒क्थ्यः॑ ||{12/12}{1.79.12}{1.13.6.12}{1.5.28.6}{877, 79, 877} स॒ह॒स्र॒।आ॒क्षः¦विऽच॑र्षणिः¦अ॒ग्निः¦रक्षां᳚सि¦से॒ध॒ति॒ | होता᳚¦गृ॒णी॒ते॒¦उ॒क्थ्यः॑ || |
[80] इत्थाहीति षोडशर्चस्य सूक्तस्य राहूगणोगोतमइंद्रोंत्यायादद्ध्यङ्मनुरथर्वाचपंक्तिः | |
इ॒त्था हि सोम॒ इन्मदे᳚ ब्र॒ह्मा च॒कार॒ वर्ध॑नम् |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} शवि॑ष्ठ वज्रि॒न्नोज॑सा पृथि॒व्यानिः श॑शा॒, अहि॒मर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{1/16}{1.80.1}{1.13.7.1}{1.5.29.1}{878, 80, 878} इ॒त्था¦हि¦सोमे᳚¦इत्¦मदे᳚¦ब्र॒ह्मा¦च॒कार॑¦वर्ध॑नम् | |
स त्वा᳚मद॒द् वृषा॒ मदः॒ सोमः॑ श्ये॒नाभृ॑तः सु॒तः |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} येना᳚ वृ॒त्रं निर॒द्भ्यो ज॒घन्थ॑ वज्रि॒न्नोज॒सार्च॒न्ननु॑ स्व॒राज्य᳚म् ||{2/16}{1.80.2}{1.13.7.2}{1.5.29.2}{879, 80, 879} सः¦त्वा॒¦अ॒म॒द॒त्¦वृषा᳚¦मदः॑¦सोमः॑¦श्ये॒नऽआ᳚भृतः¦सु॒तः | |
प्रेह्य॒भी᳚हि धृष्णु॒हि न ते॒ वज्रो॒ नि यं᳚सते |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} इन्द्र॑ नृ॒म्णं हि ते॒ शवो॒ हनो᳚ वृ॒त्रं जया᳚, अ॒पोऽर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{3/16}{1.80.3}{1.13.7.3}{1.5.29.3}{880, 80, 880} प्र¦इ॒हि॒¦अ॒भि¦इ॒हि॒¦धृ॒ष्णु॒हि¦न¦ते॒¦वज्रः॑¦नि¦यं॒स॒ते॒ | |
निरि᳚न्द्र॒ भूम्या॒, अधि॑ वृ॒त्रं ज॑घन्थ॒ निर्दि॒वः |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} सृ॒जा म॒रुत्व॑ती॒रव॑ जी॒वध᳚न्या, इ॒मा, अ॒पोऽर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{4/16}{1.80.4}{1.13.7.4}{1.5.29.4}{881, 80, 881} निः¦इ॒न्द्र॒¦भूम्याः᳚¦अधि॑¦वृ॒त्रम्¦ज॒घ॒न्थ॒¦निः¦दि॒वः | |
इन्द्रो᳚ वृ॒त्रस्य॒ दोध॑तः॒ सानुं॒ वज्रे᳚ण हीळि॒तः |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} अ॒भि॒क्रम्याव॑ जिघ्नते॒ऽपः सर्मा᳚य चो॒दय॒न्नर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{5/16}{1.80.5}{1.13.7.5}{1.5.29.5}{882, 80, 882} इन्द्रः॑¦वृ॒त्रस्य॑¦दोध॑तः¦सानु᳚म्¦वज्रे᳚ण¦ही॒ळि॒तः | |
अधि॒ सानौ॒ नि जि॑घ्नते॒ वज्रे᳚ण श॒तप᳚र्वणा |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} म॒न्दा॒न इन्द्रो॒, अन्ध॑सः॒ सखि॑भ्यो गा॒तुमि॑च्छ॒त्यर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{6/16}{1.80.6}{1.13.7.6}{1.5.30.1}{883, 80, 883} अधि॑¦सानौ᳚¦नि¦जि॒घ्न॒ते॒¦वज्रे᳚ण¦श॒तऽप᳚र्वणा | |
इन्द्र॒ तुभ्य॒मिद॑द्रि॒वोऽनु॑त्तं वज्रिन् वी॒र्य᳚म् |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} यद्ध॒ त्यं मा॒यिनं᳚ मृ॒गं तमु॒ त्वं मा॒यया᳚वधी॒रर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{7/16}{1.80.7}{1.13.7.7}{1.5.30.2}{884, 80, 884} इन्द्र॑¦तुभ्य᳚म्¦इत्¦अ॒द्रि॒ऽवः॒¦अनु॑त्तम्¦व॒ज्रि॒न्¦वी॒र्य᳚म् | |
वि ते॒ वज्रा᳚सो, अस्थिरन्नव॒तिं ना॒व्या॒३॑(आ॒) अनु॑ |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} म॒हत्त॑ इन्द्र वी॒र्यं᳚ बा॒ह्वोस्ते॒ बलं᳚ हि॒तमर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{8/16}{1.80.8}{1.13.7.8}{1.5.30.3}{885, 80, 885} वि¦ते॒¦वज्रा᳚सः¦अ॒स्थि॒र॒न्¦न॒व॒तिम्¦ना॒व्याः᳚¦अनु॑ | |
स॒हस्रं᳚ सा॒कम॑र्चत॒ परि॑ ष्टोभत विंश॒तिः |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} श॒तैन॒मन्व॑नोनवु॒रिन्द्रा᳚य॒ ब्रह्मोद्य॑त॒मर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{9/16}{1.80.9}{1.13.7.9}{1.5.30.4}{886, 80, 886} स॒हस्र᳚म्¦सा॒कम्¦अ॒र्च॒त॒¦परि॑¦स्तो॒भ॒त॒¦विं॒श॒तिः | |
इन्द्रो᳚ वृ॒त्रस्य॒ तवि॑षीं॒ निर॑ह॒न् त्सह॑सा॒ सहः॑ |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} म॒हत्तद॑स्य॒ पौंस्यं᳚ वृ॒त्रं ज॑घ॒न्वाँ, अ॑सृज॒दर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{10/16}{1.80.10}{1.13.7.10}{1.5.30.5}{887, 80, 887} इन्द्रः॑¦वृ॒त्रस्य॑¦तवि॑षीम्¦निः¦अ॒ह॒न्¦सह॑सा¦सहः॑ | |
इ॒मे चि॒त्तव॑ म॒न्यवे॒ वेपे᳚ते भि॒यसा᳚ म॒ही |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिःङ्क्ति} यदि᳚न्द्र वज्रि॒न्नोज॑सा वृ॒त्रं म॒रुत्वाँ॒, अव॑धी॒रर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{11/16}{1.80.11}{1.13.7.11}{1.5.31.1}{888, 80, 888} इ॒मे इति॑¦चि॒त्¦तव॑¦म॒न्यवे᳚¦वेपे᳚ते॒ इति॑¦भि॒यसा᳚¦म॒ही इति॑ | |
न वेप॑सा॒ न त᳚न्य॒तेन्द्रं᳚ वृ॒त्रो वि बी᳚भयत् |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} अ॒भ्ये᳚नं॒ वज्र॑ आय॒सः स॒हस्र॑भृष्टिराय॒तार्च॒न्ननु॑ स्व॒राज्य᳚म् ||{12/16}{1.80.12}{1.13.7.12}{1.5.31.2}{889, 80, 889} न¦वेप॑सा¦न¦त॒न्य॒ता¦इन्द्र᳚म्¦वृ॒त्रः¦वि¦बी॒भ॒य॒त् | |
यद् वृ॒त्रं तव॑ चा॒शनिं॒ वज्रे᳚ण स॒मयो᳚धयः |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} अहि॑मिन्द्र॒ जिघां᳚सतो दि॒वि ते᳚ बद्बधे॒ शवोऽर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{13/16}{1.80.13}{1.13.7.13}{1.5.31.3}{890, 80, 890} यत्¦वृ॒त्रम्¦तव॑¦च॒¦अ॒शनि᳚म्¦वज्रे᳚ण¦स॒म्।आयो᳚धयः | |
अ॒भि॒ष्ट॒ने ते᳚, अद्रिवो॒ यत् स्था जग॑च्च रेजते |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} त्वष्टा᳚ चि॒त्तव॑ म॒न्यव॒ इन्द्र॑ वेवि॒ज्यते᳚ भि॒यार्च॒न्ननु॑ स्व॒राज्य᳚म् ||{14/16}{1.80.14}{1.13.7.14}{1.5.31.4}{891, 80, 891} अ॒भि॒ऽस्त॒ने¦ते॒¦अ॒द्रि॒ऽवः॒¦यत्¦स्थाः¦जग॑त्¦च॒¦रे॒ज॒ते॒ | |
न॒हि नु याद॑धी॒मसीन्द्रं॒ को वी॒र्या᳚ प॒रः |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} तस्मि᳚न् नृ॒म्णमु॒त क्रतुं᳚ दे॒वा, ओजां᳚सि॒ सं द॑धु॒रर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{15/16}{1.80.15}{1.13.7.15}{1.5.31.5}{892, 80, 892} न॒हि¦नु¦यात्¦अ॒धि॒ऽइ॒मसि॑¦इन्द्र᳚म्¦कः¦वी॒र्या᳚¦प॒रः | |
यामथ᳚र्वा॒ मनु॑ष्पि॒ता द॒ध्यङ् धिय॒मत्न॑त |{रहूगणो गोतमः | इन्द्रः, दद्ध्यङ्मनुरथर्वा च | पङ्क्तिः} तस्मि॒न् ब्रह्मा᳚णि पू॒र्वथेन्द्र॑ उ॒क्था सम॑ग्म॒तार्च॒न्ननु॑ स्व॒राज्य᳚म् ||{16/16}{1.80.16}{1.13.7.16}{1.5.31.6}{893, 80, 893} याम्¦अथ᳚र्वा¦मनुः॑¦पि॒ता¦द॒ध्यङ्¦धिय᳚म्¦अत्न॑त | |
[81] इंद्रोमदायेति नवर्चस्य सूक्तस्य राहूगणोगोतमइंद्रःपंक्तिः |
इन्द्रो॒ मदा᳚य वावृधे॒ शव॑से वृत्र॒हा नृभिः॑ |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} तमिन्म॒हत्स्वा॒जिषू॒तेमर्भे᳚ हवामहे॒ स वाजे᳚षु॒ प्र नो᳚ऽविषत् ||{1/9}{1.81.1}{1.13.8.1}{1.6.1.1}{894, 81, 894} इन्द्रः॑¦मदा᳚य¦व॒वृ॒धे॒¦शव॑से¦वृ॒त्र॒ऽहा¦नृऽभिः॑ | |
असि॒ हि वी᳚र॒ सेन्योऽसि॒ भूरि॑ पराद॒दिः |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} असि॑ द॒भ्रस्य॑ चिद् वृ॒धो यज॑मानाय शिक्षसि सुन्व॒ते भूरि॑ ते॒ वसु॑ ||{2/9}{1.81.2}{1.13.8.2}{1.6.1.2}{895, 81, 895} असि॑¦हि¦वी॒र॒¦सेन्यः॑¦असि॑¦भूरि॑¦प॒रा॒ऽद॒दिः | |
यदु॒दीर॑त आ॒जयो᳚ धृ॒ष्णवे᳚ धीयते॒ धना᳚ |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} यु॒क्ष्वा म॑द॒च्युता॒ हरी॒ कं हनः॒ कं वसौ᳚ दधो॒ऽस्माँ, इ᳚न्द्र॒ वसौ᳚ दधः ||{3/9}{1.81.3}{1.13.8.3}{1.6.1.3}{896, 81, 896} यत्¦उ॒त्ऽईर॑ते¦आ॒जयः॑¦धृ॒ष्णवे᳚¦धी॒य॒ते॒¦धना᳚ | |
क्रत्वा᳚ म॒हाँ, अ॑नुष्व॒धं भी॒म आ वा᳚वृधे॒ शवः॑ |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} श्रि॒य ऋ॒ष्व उ॑पा॒कयो॒र्नि शि॒प्री हरि॑वान् दधे॒ हस्त॑यो॒र्वज्र॑माय॒सम् ||{4/9}{1.81.4}{1.13.8.4}{1.6.1.4}{897, 81, 897} क्रत्वा᳚¦म॒हान्¦अ॒नु॒ऽस्व॒धम्¦भी॒मः¦आ¦व॒वृ॒धे॒¦शवः॑ | |
आ प॑प्रौ॒ पार्थि॑वं॒ रजो᳚ बद्ब॒धे रो᳚च॒ना दि॒वि |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} न त्वावाँ᳚, इन्द्र॒ कश्च॒न न जा॒तो न ज॑निष्य॒तेऽति॒ विश्वं᳚ ववक्षिथ ||{5/9}{1.81.5}{1.13.8.5}{1.6.1.5}{898, 81, 898} आ¦प॒प्रौ॒¦पार्थि॑वम्¦रजः॑¦ब॒द्ब॒धे¦रो॒च॒ना¦दि॒वि | |
यो, अ॒र्यो म॑र्त॒भोज॑नं परा॒ददा᳚ति दा॒शुषे᳚ |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} इन्द्रो᳚, अ॒स्मभ्यं᳚ शिक्षतु॒ वि भ॑जा॒ भूरि॑ ते॒ वसु॑ भक्षी॒य तव॒ राध॑सः ||{6/9}{1.81.6}{1.13.8.6}{1.6.2.1}{899, 81, 899} यः¦अ॒र्यः¦म॒र्त॒ऽभोज॑नम्¦प॒रा॒ऽददा᳚ति¦दा॒शुषे᳚ | |
मदे᳚मदे॒ हि नो᳚ द॒दिर्यू॒था गवा᳚मृजु॒क्रतुः॑ |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} सं गृ॑भाय पु॒रू श॒तोभ॑याह॒स्त्या वसु॑ शिशी॒हि रा॒य आ भ॑र ||{7/9}{1.81.7}{1.13.8.7}{1.6.2.2}{900, 81, 900} मदे᳚ऽमदे¦हि¦नः॒¦द॒दिः¦यू॒था¦गवा᳚म्¦ऋ॒जु॒ऽक्रतुः॑ | |
मा॒दय॑स्व सु॒ते सचा॒ शव॑से शूर॒ राध॑से |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} वि॒द्मा हि त्वा᳚ पुरू॒वसु॒मुप॒ कामा᳚न् त्ससृ॒ज्महेथा᳚ नोऽवि॒ता भ॑व ||{8/9}{1.81.8}{1.13.8.8}{1.6.2.3}{901, 81, 901} मा॒दय॑स्व¦सु॒ते¦सचा᳚¦शव॑से¦शू॒र॒¦राध॑से | |
ए॒ते त॑ इन्द्र ज॒न्तवो॒ विश्वं᳚ पुष्यन्ति॒ वार्य᳚म् |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} अ॒न्तर्हि ख्यो जना᳚नाम॒र्यो वेदो॒, अदा᳚शुषां॒ तेषां᳚ नो॒ वेद॒ आ भ॑र ||{9/9}{1.81.9}{1.13.8.9}{1.6.2.4}{902, 81, 902} ए॒ते¦ते॒¦इ॒न्द्र॒¦ज॒न्तवः॑¦विश्व᳚म्¦पु॒ष्य॒न्ति॒¦वार्य᳚म् | |
[82] उपोष्विति षळर्चस्य सूक्तस्य राहूगणोगोतमइंद्रःपंक्तिरंत्याजगती |
उपो॒ षु शृ॑णु॒ही गिरो॒ मघ॑व॒न् मात॑था, इव |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} य॒दा नः॑ सू॒नृता᳚वतः॒ कर॒ आद॒र्थया᳚स॒ इद् योजा॒ न्वि᳚न्द्र ते॒ हरी᳚ ||{1/6}{1.82.1}{1.13.9.1}{1.6.3.1}{903, 82, 903} उपो॒ इति॑¦सु¦शृ॒णु॒हि¦गिरः॑¦मघ॑ऽवन्¦मा¦अत॑थाःऽइव | |
अक्ष॒न्नमी᳚मदन्त॒ ह्यव॑ प्रि॒या, अ॑धूषत |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} अस्तो᳚षत॒ स्वभा᳚नवो॒ विप्रा॒ नवि॑ष्ठया म॒ती योजा॒ न्वि᳚न्द्र ते॒ हरी᳚ ||{2/6}{1.82.2}{1.13.9.2}{1.6.3.2}{904, 82, 904} अक्ष॑न्¦अमी᳚मदन्त¦हि¦अव॑¦प्रि॒याः¦अ॒धू॒ष॒त॒ | |
सु॒सं॒दृशं᳚ त्वा व॒यं मघ॑वन् वन्दिषी॒महि॑ |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} प्र नू॒नं पू॒र्णव᳚न्धुरः स्तु॒तो या᳚हि॒ वशाँ॒, अनु॒ योजा॒ न्वि᳚न्द्र ते॒ हरी᳚ ||{3/6}{1.82.3}{1.13.9.3}{1.6.3.3}{905, 82, 905} सु॒ऽस॒न्दृश᳚म्¦त्वा॒¦व॒यम्¦मघ॑ऽवन्¦व॒न्दि॒षी॒महि॑ | |
स घा॒ तं वृष॑णं॒ रथ॒मधि॑ तिष्ठाति गो॒विद᳚म् |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} यः पात्रं᳚ हारियोज॒नं पू॒र्णमि᳚न्द्र॒ चिके᳚तति॒ योजा॒ न्वि᳚न्द्र ते॒ हरी᳚ ||{4/6}{1.82.4}{1.13.9.4}{1.6.3.4}{906, 82, 906} सः¦घ॒¦तम्¦वृष॑णम्¦रथ᳚म्¦अधि॑¦ति॒ष्ठा॒ति॒¦गो॒ऽविद᳚म् | |
यु॒क्तस्ते᳚, अस्तु॒ दक्षि॑ण उ॒त स॒व्यः श॑तक्रतो |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} तेन॑ जा॒यामुप॑ प्रि॒यां म᳚न्दा॒नो या॒ह्यन्ध॑सो॒ योजा॒ न्वि᳚न्द्र ते॒ हरी᳚ ||{5/6}{1.82.5}{1.13.9.5}{1.6.3.5}{907, 82, 907} यु॒क्तः¦ते॒¦अ॒स्तु॒¦दक्षि॑णः¦उ॒त¦स॒व्यः¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | |
यु॒नज्मि॑ ते॒ ब्रह्म॑णा के॒शिना॒ हरी॒, उप॒ प्र या᳚हि दधि॒षे गभ॑स्त्योः |{रहूगणो गोतमः | इन्द्रः | जगती} उत् त्वा᳚ सु॒तासो᳚ रभ॒सा, अ॑मन्दिषुः पूष॒ण्वान् व॑ज्रि॒न् त्समु॒ पत्न्या᳚मदः ||{6/6}{1.82.6}{1.13.9.6}{1.6.3.6}{908, 82, 908} यु॒नज्मि॑¦ते॒¦ब्रह्म॑णा¦के॒शिना᳚¦हरी॒ इति॑¦उप॑¦प्र¦या॒हि॒¦द॒धि॒षे¦गभ॑स्त्योः | |
[83] अश्वावतीतिषडृचस्य सूक्तस्य राहूगणोगोतमइंद्रोजगती |
अश्वा᳚वति प्रथ॒मो गोषु॑ गच्छति सुप्रा॒वीरि᳚न्द्र॒ मर्त्य॒स्तवो॒तिभिः॑ |{रहूगणो गोतमः | इन्द्रः | जगती} तमित् पृ॑णक्षि॒ वसु॑ना॒ भवी᳚यसा॒ सिन्धु॒मापो॒ यथा॒भितो॒ विचे᳚तसः ||{1/6}{1.83.1}{1.13.10.1}{1.6.4.1}{909, 83, 909} अश्व॑ऽवति¦प्र॒थ॒मः¦गोषु॑¦ग॒च्च॒ति॒¦सु॒प्र॒ऽआ॒वीः¦इ॒न्द्र॒¦मर्त्यः॑¦तव॑¦ऊ॒तिऽभिः॑ | |
आपो॒ न दे॒वीरुप॑ यन्ति हो॒त्रिय॑म॒वः प॑श्यन्ति॒ वित॑तं॒ यथा॒ रजः॑ |{रहूगणो गोतमः | इन्द्रः | जगती} प्रा॒चैर्दे॒वासः॒ प्र ण॑यन्ति देव॒युं ब्र᳚ह्म॒प्रियं᳚ जोषयन्ते व॒रा, इ॑व ||{2/6}{1.83.2}{1.13.10.2}{1.6.4.2}{910, 83, 910} आपः॑¦न¦दे॒वीः¦उप॑¦य॒न्ति॒¦हो॒त्रिय᳚म्¦अ॒वः¦प॒श्य॒न्ति॒¦विऽत॑तम्¦यथा᳚¦रजः॑ | |
अधि॒द्वयो᳚रदधा, उ॒क्थ्य१॑(अं॒) वचो᳚ य॒तस्रु॑चा मिथु॒ना या स॑प॒र्यतः॑ |{रहूगणो गोतमः | इन्द्रः | जगती} असं᳚यत्तो व्र॒ते ते᳚ क्षेति॒ पुष्य॑ति भ॒द्रा श॒क्तिर्यज॑मानाय सुन्व॒ते ||{3/6}{1.83.3}{1.13.10.3}{1.6.4.3}{911, 83, 911} अधि॑¦द्वयोः᳚¦अ॒द॒धाः॒¦उ॒क्थ्य᳚म्¦वचः॑¦य॒तऽस्रु॑चा¦मि॒थु॒ना¦या¦स॒प॒र्यतः॑ | |
आदङ्गि॑राः प्रथ॒मं द॑धिरे॒ वय॑ इ॒द्धाग्न॑यः॒ शम्या॒ ये सु॑कृ॒त्यया᳚ |{रहूगणो गोतमः | इन्द्रः | जगती} सर्वं᳚ प॒णेः सम॑विन्दन्त॒ भोज॑न॒मश्वा᳚वन्तं॒ गोम᳚न्त॒मा प॒शुं नरः॑ ||{4/6}{1.83.4}{1.13.10.4}{1.6.4.4}{912, 83, 912} आत्¦अङ्गि॑राः¦प्र॒थ॒मम्¦द॒धि॒रे॒¦वयः॑¦इ॒द्ध।आ॑ग्नयः¦शम्या᳚¦ये¦सु॒ऽकृ॒त्यया᳚ | |
य॒ज्ञैरथ᳚र्वा प्रथ॒मः प॒थस्त॑ते॒ ततः॒ सूर्यो᳚ व्रत॒पा वे॒न आज॑नि |{रहूगणो गोतमः | इन्द्रः | जगती} आ गा, आ᳚जदु॒शना᳚ का॒व्यः सचा᳚ य॒मस्य॑ जा॒तम॒मृतं᳚ यजामहे ||{5/6}{1.83.5}{1.13.10.5}{1.6.4.5}{913, 83, 913} य॒ज्ञैः¦अथ᳚र्वा¦प्र॒थ॒मः¦प॒थः¦त॒ते॒¦ततः॑¦सूर्यः॑¦व्र॒त॒ऽपाः¦वे॒नः¦आ¦अ॒ज॒नि॒ | |
ब॒र्हिर्वा॒ यत् स्व॑प॒त्याय॑ वृ॒ज्यते॒र्को वा॒ श्लोक॑मा॒घोष॑ते दि॒वि |{रहूगणो गोतमः | इन्द्रः | जगती} ग्रावा॒ यत्र॒ वद॑ति का॒रुरु॒क्थ्य१॑(अ॒)स्तस्येदिन्द्रो᳚, अभिपि॒त्वेषु॑ रण्यति ||{6/6}{1.83.6}{1.13.10.6}{1.6.4.6}{914, 83, 914} ब॒र्हिः¦वा॒¦यत्¦सु॒।आ॒प॒त्याय॑¦वृ॒ज्यते᳚¦अ॒र्कः¦वा॒¦श्लोक᳚म्¦आ॒ऽघोष॑ते¦दि॒वि | |
[84] असावीति विंशत्यृचस्य सूक्तस्य राहूगणोगोतमइंद्रआद्याः षळनुष्टुभः सप्तम्याद्यास्तिस्रउष्णिहः दशम्याद्यास्तिस्रःपंक्त्यः त्रयोदशाद्यास्तिस्रो गायत्र्यः षोळश्याद्यास्तिस्रस्त्रिष्टुभः अंत्येद्वेबृहतीसतोबृहत्यौ |
असा᳚वि॒ सोम॑ इन्द्र ते॒ शवि॑ष्ठ धृष्ण॒वा ग॑हि |{रहूगणो गोतमः | इन्द्रः | अनुष्टुप्} आ त्वा᳚ पृणक्त्विन्द्रि॒यं रजः॒ सूर्यो॒ न र॒श्मिभिः॑ ||{1/20}{1.84.1}{1.13.11.1}{1.6.5.1}{915, 84, 915} असा᳚वि¦सोमः॑¦इ॒न्द्र॒¦ते॒¦शवि॑ष्ठ¦धृ॒ष्णो॒ इति॑¦आ¦ग॒हि॒ | आ¦त्वा॒¦पृ॒ण॒क्तु॒¦इ॒न्द्रि॒यम्¦रजः॑¦सूर्यः॑¦न¦र॒श्मिऽभिः॑ || |
इन्द्र॒मिद्धरी᳚ वह॒तोऽप्र॑तिधृष्टशवसम् |{रहूगणो गोतमः | इन्द्रः | अनुष्टुप्} ऋषी᳚णां च स्तु॒तीरुप॑ य॒ज्ञं च॒ मानु॑षाणाम् ||{2/20}{1.84.2}{1.13.11.2}{1.6.5.2}{916, 84, 916} इन्द्र᳚म्¦इत्¦हरी॒ इति॑¦व॒ह॒तः॒¦अप्र॑तिधृष्टऽशवसम् | ऋषी᳚णाम्¦च॒¦स्तु॒तीः¦उप॑¦य॒ज्ञम्¦च॒¦मानु॑षाणाम् || |
आ ति॑ष्ठ वृत्रह॒न् रथं᳚ यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी᳚ |{रहूगणो गोतमः | इन्द्रः | अनुष्टुप्} अ॒र्वा॒चीनं॒ सु ते॒ मनो॒ ग्रावा᳚ कृणोतु व॒ग्नुना᳚ ||{3/20}{1.84.3}{1.13.11.3}{1.6.5.3}{917, 84, 917} आ¦ति॒ष्ठ॒¦वृ॒त्र॒ऽह॒न्¦रथ᳚म्¦यु॒क्ता¦ते॒¦ब्रह्म॑णा¦हरी॒ इति॑ | अ॒र्वा॒चीन᳚म्¦सु¦ते॒¦मनः॑¦ग्रावा᳚¦कृ॒णो॒तु॒¦व॒ग्नुना᳚ || |
इ॒ममि᳚न्द्र सु॒तं पि॑ब॒ ज्येष्ठ॒मम॑र्त्यं॒ मद᳚म् |{रहूगणो गोतमः | इन्द्रः | अनुष्टुप्} शु॒क्रस्य॑ त्वा॒भ्य॑क्षर॒न् धारा᳚ ऋ॒तस्य॒ साद॑ने ||{4/20}{1.84.4}{1.13.11.4}{1.6.5.4}{918, 84, 918} इ॒मम्¦इ॒न्द्र॒¦सु॒तम्¦पि॒ब॒¦ज्येष्ठ᳚म्¦अम॑र्त्यम्¦मद᳚म् | शु॒क्रस्य॑¦त्वा॒¦अ॒भि¦अ॒क्ष॒र॒न्¦धाराः᳚¦ऋ॒तस्य॑¦साद॑ने || |
इन्द्रा᳚य नू॒नम॑र्चतो॒क्थानि॑ च ब्रवीतन |{रहूगणो गोतमः | इन्द्रः | अनुष्टुप्} सु॒ता, अ॑मत्सु॒रिन्द॑वो॒ ज्येष्ठं᳚ नमस्यता॒ सहः॑ ||{5/20}{1.84.5}{1.13.11.5}{1.6.5.5}{919, 84, 919} इन्द्रा᳚य¦नू॒नम्¦अ॒र्च॒त॒¦उ॒क्थानि॑¦च॒¦ब्र॒वी॒त॒न॒ | सु॒ताः¦अ॒म॒त्सुः॒¦इन्द॑वः¦ज्येष्ठ᳚म्¦न॒म॒स्य॒त॒¦सहः॑ || |
नकि॒ष्ट्वद् र॒थीत॑रो॒ हरी॒ यदि᳚न्द्र॒ यच्छ॑से |{रहूगणो गोतमः | इन्द्रः | अनुष्टुप्} नकि॒ष्ट्वानु॑ म॒ज्मना॒ नकिः॒ स्वश्व॑ आनशे ||{6/20}{1.84.6}{1.13.11.6}{1.6.6.1}{920, 84, 920} नकिः॑¦त्वत्¦र॒थिऽत॑रः¦हरी॒ इति॑¦यत्¦इ॒न्द्र॒¦यच्छ॑से | नकिः॑¦त्वा॒¦अनु॑¦म॒ज्मना᳚¦नकिः॑¦सु॒।आश्वः॑¦आ॒न॒शे॒ || |
य एक॒ इद् वि॒दय॑ते॒ वसु॒ मर्ता᳚य दा॒शुषे᳚ |{रहूगणो गोतमः | इन्द्रः | उष्णिक्} ईशा᳚नो॒, अप्र॑तिष्कुत॒ इन्द्रो᳚, अ॒ङ्ग ||{7/20}{1.84.7}{1.13.11.7}{1.6.6.2}{921, 84, 921} यः¦एकः॑¦इत्¦वि॒ऽदय॑ते¦वसु॑¦मर्ता᳚य¦दा॒शुषे᳚ | ईशा᳚नः¦अप्र॑तिऽस्कुतः¦इन्द्रः॑¦अ॒ङ्ग || |
क॒दा मर्त॑मरा॒धसं᳚ प॒दा क्षुम्प॑मिव स्फुरत् |{रहूगणो गोतमः | इन्द्रः | उष्णिक्} क॒दा नः॑ शुश्रव॒द् गिर॒ इन्द्रो᳚, अ॒ङ्ग ||{8/20}{1.84.8}{1.13.11.8}{1.6.6.3}{922, 84, 922} क॒दा¦मर्त᳚म्¦अ॒रा॒धस᳚म्¦प॒दा¦क्षुम्प᳚म्ऽइव¦स्फु॒र॒त् | क॒दा¦नः॒¦शु॒श्र॒व॒त्¦गिरः॑¦इन्द्रः॑¦अ॒ङ्ग || |
यश्चि॒द्धि त्वा᳚ ब॒हुभ्य॒ आ सु॒तावाँ᳚, आ॒विवा᳚सति |{रहूगणो गोतमः | इन्द्रः | उष्णिक्} उ॒ग्रं तत् प॑त्यते॒ शव॒ इन्द्रो᳚, अ॒ङ्ग ||{9/20}{1.84.9}{1.13.11.9}{1.6.6.4}{923, 84, 923} यः¦चि॒त्¦हि¦त्वा॒¦ब॒हुऽभ्यः॑¦आ¦सु॒तऽवा᳚न्¦आ॒ऽविवा᳚सति | उ॒ग्रम्¦तत्¦प॒त्य॒ते॒¦शवः॑¦इन्द्रः॑¦अ॒ङ्ग || |
स्वा॒दोरि॒त्था वि॑षू॒वतो॒ मध्वः॑ पिबन्ति गौ॒र्यः॑ |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} या, इन्द्रे᳚ण स॒याव॑री॒र्वृष्णा॒ मद᳚न्ति शो॒भसे॒ वस्वी॒रनु॑ स्व॒राज्य᳚म् ||{10/20}{1.84.10}{1.13.11.10}{1.6.6.5}{924, 84, 924} स्वा॒दोः¦इ॒त्था¦वि॒षु॒ऽवतः॑¦मध्वः॑¦पि॒ब॒न्ति॒¦गौ॒र्यः॑ | |
ता, अ॑स्य पृशना॒युवः॒ सोमं᳚ श्रीणन्ति॒ पृश्न॑यः |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} प्रि॒या, इन्द्र॑स्य धे॒नवो॒ वज्रं᳚ हिन्वन्ति॒ साय॑कं॒ वस्वी॒रनु॑ स्व॒राज्य᳚म् ||{11/20}{1.84.11}{1.13.11.11}{1.6.7.1}{925, 84, 925} ताः¦अ॒स्य॒¦पृ॒श॒न॒ऽयुवः॑¦सोम᳚म्¦श्री॒ण॒न्ति॒¦पृश्न॑यः | |
ता, अ॑स्य॒ नम॑सा॒ सहः॑ सप॒र्यन्ति॒ प्रचे᳚तसः |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} व्र॒तान्य॑स्य सश्चिरे पु॒रूणि॑ पू॒र्वचि॑त्तये॒ वस्वी॒रनु॑ स्व॒राज्य᳚म् ||{12/20}{1.84.12}{1.13.11.12}{1.6.7.2}{926, 84, 926} ताः¦अ॒स्य॒¦नम॑सा¦सहः॑¦स॒प॒र्यन्ति॑¦प्रऽचे᳚तसः | |
इन्द्रो᳚ दधी॒चो, अ॒स्थभि᳚र्वृ॒त्राण्यप्र॑तिष्कुतः |{रहूगणो गोतमः | इन्द्रः | गायत्री} ज॒घान॑ नव॒तीर्नव॑ ||{13/20}{1.84.13}{1.13.11.13}{1.6.7.3}{927, 84, 927} इन्द्रः॑¦द॒धी॒चः¦अ॒स्थऽभिः॑¦वृ॒त्राणि॑¦अप्र॑तिऽस्कुतः | ज॒घान॑¦न॒व॒तीः¦नव॑ || |
इ॒च्छन्नश्व॑स्य॒ यच्छिरः॒ पर्व॑ते॒ष्वप॑श्रितम् |{रहूगणो गोतमः | इन्द्रः | गायत्री} तद् वि॑दच्छर्य॒णाव॑ति ||{14/20}{1.84.14}{1.13.11.14}{1.6.7.4}{928, 84, 928} इ॒च्छन्¦अश्व॑स्य¦यत्¦शिरः॑¦पर्व॑तेषु¦अप॑ऽश्रितम् | तत्¦वि॒द॒त्¦श॒र्य॒णाऽव॑ति || |
अत्राह॒ गोर॑मन्वत॒ नाम॒ त्वष्टु॑रपी॒च्य᳚म् |{रहूगणो गोतमः | इन्द्रः | गायत्री} इ॒त्था च॒न्द्रम॑सो गृ॒हे ||{15/20}{1.84.15}{1.13.11.15}{1.6.7.5}{929, 84, 929} अत्र॑¦अह॑¦गोः¦अ॒म॒न्व॒त॒¦नाम॑¦त्वष्टुः॑¦अ॒पी॒च्य᳚म् | इ॒त्था¦च॒न्द्रम॑सः¦गृ॒हे || |
को, अ॒द्य यु᳚ङ्क्ते धु॒रि गा, ऋ॒तस्य॒ शिमी᳚वतो भा॒मिनो᳚ दुर्हृणा॒यून् |{रहूगणो गोतमः | इन्द्रः | त्रिष्टुप्} आ॒सन्नि॑षून् हृ॒त्स्वसो᳚ मयो॒भून् य ए᳚षां भृ॒त्यामृ॒णध॒त् स जी᳚वात् ||{16/20}{1.84.16}{1.13.11.16}{1.6.8.1}{930, 84, 930} कः¦अ॒द्य¦यु॒ङ्क्ते॒¦धु॒रि¦गाः¦ऋ॒तस्य॑¦शिमी᳚ऽवतः¦भा॒मिनः॑¦दुः॒ऽहृ॒णा॒यून् | |
क ई᳚षते तु॒ज्यते॒ को बि॑भाय॒ को मं᳚सते॒ सन्त॒मिन्द्रं॒ को, अन्ति॑ |{रहूगणो गोतमः | इन्द्रः | त्रिष्टुप्} कस्तो॒काय॒ क इभा᳚यो॒त रा॒येऽधि॑ ब्रवत्त॒न्वे॒३॑(ए॒) को जना᳚य ||{17/20}{1.84.17}{1.13.11.17}{1.6.8.2}{931, 84, 931} कः¦ई॒ष॒ते॒¦तु॒ज्यते᳚¦कः¦बि॒भा॒य॒¦कः¦मं॒स॒ते॒¦सन्त᳚म्¦इन्द्र᳚म्¦कः¦अन्ति॑ | |
को, अ॒ग्निमी᳚ट्टे ह॒विषा᳚ घृ॒तेन॑ स्रु॒चा य॑जाता, ऋ॒तुभि॑र्ध्रु॒वेभिः॑ |{रहूगणो गोतमः | इन्द्रः | त्रिष्टुप्} कस्मै᳚ दे॒वा, आ व॑हाना॒शु होम॒ को मं᳚सते वी॒तिहो᳚त्रः सुदे॒वः ||{18/20}{1.84.18}{1.13.11.18}{1.6.8.3}{932, 84, 932} कः¦अ॒ग्निम्¦ई॒ट्टे॒¦ह॒विषा᳚¦घृ॒तेन॑¦स्रु॒चा¦य॒जा॒तै॒¦ऋ॒तुऽभिः॑¦ध्रु॒वेभिः॑ | |
त्वम॒ङ्ग प्र शं᳚सिषो दे॒वः श॑विष्ठ॒ मर्त्य᳚म् |{रहूगणो गोतमः | इन्द्रः | बृहती} न त्वद॒न्यो म॑घवन्नस्ति मर्डि॒तेन्द्र॒ ब्रवी᳚मि ते॒ वचः॑ ||{19/20}{1.84.19}{1.13.11.19}{1.6.8.4}{933, 84, 933} त्वम्¦अ॒ङ्ग¦प्र¦शं॒सि॒षः॒¦दे॒वः¦श॒वि॒ष्ठ॒¦मर्त्य᳚म् | |
मा ते॒ राधां᳚सि॒ मा त॑ ऊ॒तयो᳚ वसो॒ऽस्मान् कदा᳚ च॒ना द॑भन् |{रहूगणो गोतमः | इन्द्रः | सतोबृहती} विश्वा᳚ च न उपमिमी॒हि मा᳚नुष॒ वसू᳚नि चर्ष॒णिभ्य॒ आ ||{20/20}{1.84.20}{1.13.11.20}{1.6.8.5}{934, 84, 934} मा¦ते॒¦राधां᳚सि¦मा¦ते॒¦ऊ॒तयः॑¦व॒सो॒ इति॑¦अ॒स्मान्¦कदा᳚¦च॒न¦द॒भ॒न् | |
[85] प्रयेशुंभंतइति द्वादशर्चस्य सूक्तस्य राहूगणोगोतमो मरुतो जगतीपंचम्यंत्येत्रिष्टुभौ | |
प्र ये शुम्भ᳚न्ते॒ जन॑यो॒ न सप्त॑यो॒ याम᳚न् रु॒द्रस्य॑ सू॒नवः॑ सु॒दंस॑सः |{रहूगणो गोतमः | मरुतः | जगती} रोद॑सी॒ हि म॒रुत॑श्चक्रि॒रे वृ॒धे मद᳚न्ति वी॒रा वि॒दथे᳚षु॒ घृष्व॑यः ||{1/12}{1.85.1}{1.14.1.1}{1.6.9.1}{935, 85, 935} प्र¦ये¦शुम्भ᳚न्ते¦जन॑यः¦न¦सप्त॑यः¦याम॑न्¦रु॒द्रस्य॑¦सू॒नवः॑¦सु॒ऽदंस॑सः | |
त उ॑क्षि॒तासो᳚ महि॒मान॑माशत दि॒वि रु॒द्रासो॒, अधि॑ चक्रिरे॒ सदः॑ |{रहूगणो गोतमः | मरुतः | जगती} अर्च᳚न्तो, अ॒र्कं ज॒नय᳚न्त इन्द्रि॒यमधि॒ श्रियो᳚ दधिरे॒ पृश्नि॑मातरः ||{2/12}{1.85.2}{1.14.1.2}{1.6.9.2}{936, 85, 936} ते¦उ॒क्षि॒तासः॑¦म॒हि॒मान᳚म्¦आ॒श॒त॒¦दि॒वि¦रु॒द्रासः॑¦अधि॑¦च॒क्रि॒रे॒¦सदः॑ | |
गोमा᳚तरो॒ यच्छु॒भय᳚न्ते, अ॒ञ्जिभि॑स्त॒नूषु॑ शु॒भ्रा द॑धिरे वि॒रुक्म॑तः |{रहूगणो गोतमः | मरुतः | जगती} बाध᳚न्ते॒ विश्व॑मभिमा॒तिन॒मप॒ वर्त्मा᳚न्येषा॒मनु॑ रीयते घृ॒तम् ||{3/12}{1.85.3}{1.14.1.3}{1.6.9.3}{937, 85, 937} गोऽमा᳚तरः¦यत्¦शु॒भय᳚न्ते¦अं॒जिऽभिः॑¦त॒नूषु॑¦शु॒भ्राः¦द॒धि॒रे॒¦वि॒रुक्म॑तः | |
वि ये भ्राज᳚न्ते॒ सुम॑खास ऋ॒ष्टिभिः॑ प्रच्या॒वय᳚न्तो॒, अच्यु॑ता चि॒दोज॑सा |{रहूगणो गोतमः | मरुतः | जगती} म॒नो॒जुवो॒ यन्म॑रुतो॒ रथे॒ष्वा वृष᳚ व्रातासः॒ पृष॑ती॒रयु॑ग्ध्वम् ||{4/12}{1.85.4}{1.14.1.4}{1.6.9.4}{938, 85, 938} वि¦ये¦भ्राज᳚न्ते¦सुऽम॑खासः¦ऋ॒ष्टिऽभिः॑¦प्र॒ऽच्य॒वय᳚न्तः¦अच्यु॑ता¦चि॒त्¦ओज॑सा | |
प्र यद् रथे᳚षु॒ पृष॑ती॒रयु॑ग्ध्वं॒ वाजे॒, अद्रिं᳚ मरुतो रं॒हय᳚न्तः |{रहूगणो गोतमः | मरुतः | त्रिष्टुप्} उ॒तारु॒षस्य॒ वि ष्य᳚न्ति॒ धारा॒श्चर्मे᳚वो॒दभि॒र्व्यु᳚न्दन्ति॒ भूम॑ ||{5/12}{1.85.5}{1.14.1.5}{1.6.9.5}{939, 85, 939} प्र¦यत्¦रथे᳚षु¦पृष॑तीः¦अयु॑ग्ध्वम्¦वाजे᳚¦अद्रि᳚म्¦म॒रु॒तः॒¦रं॒हय᳚न्तः | |
आ वो᳚ वहन्तु॒ सप्त॑यो रघु॒ष्यदो᳚ रघु॒पत्वा᳚नः॒ प्र जि॑गात बा॒हुभिः॑ |{रहूगणो गोतमः | मरुतः | जगती} सीद॒ता ब॒र्हिरु॒रु वः॒ सद॑स्कृ॒तं मा॒दय॑ध्वं मरुतो॒ मध्वो॒, अन्ध॑सः ||{6/12}{1.85.6}{1.14.1.6}{1.6.9.6}{940, 85, 940} आ¦वः॒¦व॒ह॒न्तु॒¦सप्त॑यः¦र॒घु॒ऽस्यदः॑¦र॒घु॒ऽपत्वा᳚नः¦प्र¦जि॒गा॒त॒¦बा॒हुऽभिः॑ | |
ते᳚ऽवर्धन्त॒ स्वत॑वसो महित्व॒ना नाकं᳚ त॒स्थुरु॒रु च॑क्रिरे॒ सदः॑ |{रहूगणो गोतमः | मरुतः | जगती} विष्णु॒र्यद्धाव॒द् वृष॑णं मद॒च्युतं॒ वयो॒ न सी᳚द॒न्नधि॑ ब॒र्हिषि॑ प्रि॒ये ||{7/12}{1.85.7}{1.14.1.7}{1.6.10.1}{941, 85, 941} ते¦अ॒व॒र्ध॒न्त॒¦स्वऽत॑वसः¦म॒हि॒ऽत्व॒ना¦आ¦नाक᳚म्¦त॒स्थुः¦उ॒रु¦च॒क्रि॒रे॒¦सदः॑ | |
शूरा᳚, इ॒वेद् युयु॑धयो॒ न जग्म॑यः श्रव॒स्यवो॒ न पृत॑नासु येतिरे |{रहूगणो गोतमः | मरुतः | जगती} भय᳚न्ते॒ विश्वा॒ भुव॑ना म॒रुद्भ्यो॒ राजा᳚न इव त्वे॒षसं᳚दृशो॒ नरः॑ ||{8/12}{1.85.8}{1.14.1.8}{1.6.10.2}{942, 85, 942} शूराः᳚ऽइव¦इत्¦युयु॑धयः¦न¦जग्म॑यः¦श्र॒व॒स्यवः॑¦न¦पृत॑नासु¦ये॒ति॒रे॒ | |
त्वष्टा॒ यद् वज्रं॒ सुकृ॑तं हिर॒ण्ययं᳚ स॒हस्र॑भृष्टिं॒ स्वपा॒, अव॑र्तयत् |{रहूगणो गोतमः | मरुतः | जगती} ध॒त्त इन्द्रो॒ नर्यपां᳚सि॒ कर्त॒वेऽह᳚न् वृ॒त्रं निर॒पामौ᳚ब्जदर्ण॒वम् ||{9/12}{1.85.9}{1.14.1.9}{1.6.10.3}{943, 85, 943} त्वष्टा᳚¦यत्¦वज्र᳚म्¦सुऽकृ॑तम्¦हि॒र॒ण्यय᳚म्¦स॒हस्र॑ऽभृष्टिम्¦सु॒।आपाः᳚¦अव॑र्तयत् | |
ऊ॒र्ध्वं नु॑नुद्रेऽव॒तं त ओज॑सा दादृहा॒णं चि॑द् बिभिदु॒र्वि पर्व॑तम् |{रहूगणो गोतमः | मरुतः | जगती} धम᳚न्तो वा॒णं म॒रुतः॑ सु॒दान॑वो॒ मदे॒ सोम॑स्य॒ रण्या᳚नि चक्रिरे ||{10/12}{1.85.10}{1.14.1.10}{1.6.10.4}{944, 85, 944} ऊ॒र्ध्वम्¦नु॒नु॒द्रे॒¦अ॒व॒तम्¦ते¦ओज॑सा¦द॒दृ॒हा॒णम्¦चि॒त्¦बि॒भि॒दुः॒¦वि¦पर्व॑तम् | |
जि॒ह्मं नु॑नुद्रेऽव॒तं तया᳚ दि॒शासि᳚ञ्च॒न्नुत्सं॒ गोत॑माय तृ॒ष्णजे᳚ |{रहूगणो गोतमः | मरुतः | जगती} आ ग॑च्छन्ती॒मव॑सा चि॒त्रभा᳚नवः॒ कामं॒ विप्र॑स्य तर्पयन्त॒ धाम॑भिः ||{11/12}{1.85.11}{1.14.1.11}{1.6.10.5}{945, 85, 945} जि॒ह्मम्¦नु॒नु॒द्रे॒¦अ॒व॒तम्¦तया᳚¦दि॒शा¦असिं᳚चन्¦उत्स᳚म्¦गोत॑माय¦तृ॒ष्णऽजे᳚ | |
या वः॒ शर्म॑ शशमा॒नाय॒ सन्ति॑ त्रि॒धातू᳚नि दा॒शुषे᳚ यच्छ॒ताधि॑ |{रहूगणो गोतमः | मरुतः | त्रिष्टुप्} अ॒स्मभ्यं॒ तानि॑ मरुतो॒ वि य᳚न्त र॒यिं नो᳚ धत्त वृषणः सु॒वीर᳚म् ||{12/12}{1.85.12}{1.14.1.12}{1.6.10.6}{946, 85, 946} या¦वः॒¦शर्म॑¦श॒श॒मा॒नाय॑¦सन्ति॑¦त्रि॒ऽधातू᳚नि¦दा॒शुषे᳚¦य॒च्छ॒त॒¦अधि॑ | |
[86] मरुतोयस्येति दशर्चस्य सूक्तस्य राहूगणोगोतमो मरुतो गायत्री |
मरु॑तो॒ यस्य॒ हि क्षये᳚ पा॒था दि॒वो वि॑महसः |{रहूगणो गोतमः | मरुतः | गायत्री} स सु॑गो॒पात॑मो॒ जनः॑ ||{1/10}{1.86.1}{1.14.2.1}{1.6.11.1}{947, 86, 947} मरु॑तः¦यस्य॑¦हि¦क्षये᳚¦पा॒थ¦दि॒वः¦वि॒ऽम॒ह॒सः॒ | सः¦सु॒ऽगो॒पात॑मः¦जनः॑ || |
य॒ज्ञैर्वा᳚ यज्ञवाहसो॒ विप्र॑स्य वा मती॒नाम् |{रहूगणो गोतमः | मरुतः | गायत्री} मरु॑तः शृणु॒ता हव᳚म् ||{2/10}{1.86.2}{1.14.2.2}{1.6.11.2}{948, 86, 948} य॒ज्ञैः¦वा॒¦य॒ज्ञ॒ऽवा॒ह॒सः॒¦विप्र॑स्य¦वा॒¦म॒ती॒नाम् | मरु॑तः¦शृ॒णु॒त¦हव᳚म् || |
उ॒त वा॒ यस्य॑ वा॒जिनो ऽनु॒ विप्र॒मत॑क्षत |{रहूगणो गोतमः | मरुतः | गायत्री} स गन्ता॒ गोम॑ति व्र॒जे ||{3/10}{1.86.3}{1.14.2.3}{1.6.11.3}{949, 86, 949} उ॒त¦वा॒¦यस्य॑¦वा॒जिनः॑¦अनु॑¦विप्र᳚म्¦अत॑क्षत | सः¦गन्ता᳚¦गोऽम॑ति¦व्र॒जे || |
अ॒स्य वी॒रस्य॑ ब॒र्हिषि॑ सु॒तः सोमो॒ दिवि॑ष्टिषु |{रहूगणो गोतमः | मरुतः | गायत्री} उ॒क्थं मद॑श्च शस्यते ||{4/10}{1.86.4}{1.14.2.4}{1.6.11.4}{950, 86, 950} अ॒स्य¦वी॒रस्य॑¦ब॒र्हिषि॑¦सु॒तः¦सोमः॑¦दिवि॑ष्टिषु | उ॒क्थम्¦मदः॑¦च॒¦श॒स्य॒ते॒ || |
अ॒स्य श्रो᳚ष॒न्त्वा भुवो॒ विश्वा॒ यश्च॑र्ष॒णीर॒भि |{रहूगणो गोतमः | मरुतः | गायत्री} सूरं᳚ चित् स॒स्रुषी॒रिषः॑ ||{5/10}{1.86.5}{1.14.2.5}{1.6.11.5}{951, 86, 951} अ॒स्य¦श्रो॒ष॒न्तु॒¦आ¦भुवः॑¦विश्वाः᳚¦यः¦च॒र्ष॒णीः¦अ॒भि | सूर᳚म्¦चि॒त्¦स॒स्रुषीः᳚¦इषः॑ || |
पू॒र्वीभि॒र्हि द॑दाशि॒म श॒रद्भि᳚र्मरुतो व॒यम् |{रहूगणो गोतमः | मरुतः | गायत्री} अवो᳚भिश्चर्षणी॒नाम् ||{6/10}{1.86.6}{1.14.2.6}{1.6.12.1}{952, 86, 952} पू॒र्वीभिः॑¦हि¦द॒दा॒शि॒म¦श॒रत्ऽभिः॑¦म॒रु॒तः॒¦व॒यम् | अवः॑ऽभिः¦च॒र्ष॒णी॒नाम् || |
सु॒भगः॒ स प्र॑यज्यवो॒ मरु॑तो, अस्तु॒ मर्त्यः॑ |{रहूगणो गोतमः | मरुतः | गायत्री} यस्य॒ प्रयां᳚सि॒ पर्ष॑थ ||{7/10}{1.86.7}{1.14.2.7}{1.6.12.2}{953, 86, 953} सु॒ऽभगः॑¦सः¦प्र॒ऽय॒ज्य॒वः॒¦मरु॑तः¦अ॒स्तु॒¦मर्त्यः॑ | यस्य॑¦प्रयां᳚सि¦पर्ष॑थ || |
श॒श॒मा॒नस्य॑ वा नरः॒ स्वेद॑स्य सत्यशवसः |{रहूगणो गोतमः | मरुतः | गायत्री} वि॒दा काम॑स्य॒ वेन॑तः ||{8/10}{1.86.8}{1.14.2.8}{1.6.12.3}{954, 86, 954} श॒श॒मा॒नस्य॑¦वा॒¦न॒रः॒¦स्वेद॑स्य¦स॒त्य॒ऽश॒व॒सः॒ | वि॒द¦काम॑स्य¦वेन॑तः || |
यू॒यं तत् स॑त्यशवस आ॒विष्क॑र्त महित्व॒ना |{रहूगणो गोतमः | मरुतः | गायत्री} विध्य॑ता वि॒द्युता॒ रक्षः॑ ||{9/10}{1.86.9}{1.14.2.9}{1.6.12.4}{955, 86, 955} यू॒यम्¦तत्¦स॒त्य॒ऽश॒व॒सः॒¦आ॒विः¦क॒र्त॒¦म॒हि॒ऽत्व॒ना | विध्य॑त¦वि॒ऽद्युता᳚¦रक्षः॑ || |
गूह॑ता॒ गुह्यं॒ तमो॒ वि या᳚त॒ विश्व॑म॒त्रिण᳚म् |{रहूगणो गोतमः | मरुतः | गायत्री} ज्योति॑ष्कर्ता॒ यदु॒श्मसि॑ ||{10/10}{1.86.10}{1.14.2.10}{1.6.12.5}{956, 86, 956} गूह॑त¦गुह्य᳚म्¦तमः॑¦वि¦या॒त॒¦विश्व᳚म्¦अ॒त्रिण᳚म् | ज्योतिः॑¦क॒र्त॒¦यत्¦उ॒श्मसि॑ || |
[87] प्रत्वक्षसइति षडृचस्य सूक्तस्य राहूगणोगोतमो मरुतोजगती |
प्रत्व॑क्षसः॒ प्रत॑वसो विर॒प्शिनोऽना᳚नता॒, अवि॑थुरा, ऋजी॒षिणः॑ |{रहूगणो गोतमः | मरुतः | जगती} जुष्ट॑तमासो॒ नृत॑मासो, अ॒ञ्जिभि॒र्व्या᳚नज्रे॒ के चि॑दु॒स्रा, इ॑व॒ स्तृभिः॑ ||{1/6}{1.87.1}{1.14.3.1}{1.6.13.1}{957, 87, 957} प्रऽत्व॑क्षसः¦प्रऽत॑वसः¦वि॒ऽर॒प्शिनः॑¦अना᳚नताः¦अवि॑थुराः¦ऋ॒जी॒षिणः॑ | |
उ॒प॒ह्व॒रेषु॒ यदचि॑ध्वं य॒यिं वय॑ इव मरुतः॒ केन॑ चित् प॒था |{रहूगणो गोतमः | मरुतः | जगती} श्चोत᳚न्ति॒ कोशा॒, उप॑ वो॒ रथे॒ष्वा घृ॒तमु॑क्षता॒ मधु॑वर्ण॒मर्च॑ते ||{2/6}{1.87.2}{1.14.3.2}{1.6.13.2}{958, 87, 958} उ॒प॒ऽह्व॒रेषु॑¦यत्¦अचि॑ध्वम्¦य॒यिम्¦वयः॑ऽइव¦म॒रु॒तः॒¦केन॑¦चि॒त्¦प॒था | |
प्रैषा॒मज्मे᳚षु विथु॒रेव॑ रेजते॒ भूमि॒र्यामे᳚षु॒ यद्ध॑ यु॒ञ्जते᳚ शु॒भे |{रहूगणो गोतमः | मरुतः | जगती} ते क्री॒ळयो॒ धुन॑यो॒ भ्राज॑दृष्टयः स्व॒यं म॑हि॒त्वं प॑नयन्त॒ धूत॑यः ||{3/6}{1.87.3}{1.14.3.3}{1.6.13.3}{959, 87, 959} प्र¦ए॒षा॒म्¦अज्मे᳚षु¦वि॒थु॒राऽइ᳚व¦रे॒ज॒ते॒¦भूमिः॑¦यामे᳚षु¦यत्¦ह॒¦युं॒जते᳚¦शु॒भे | |
स हि स्व॒सृत् पृष॑दश्वो॒ युवा᳚ ग॒णो॒३॑(ओ॒)ऽया, ई᳚शा॒नस्तवि॑षीभि॒रावृ॑तः |{रहूगणो गोतमः | मरुतः | जगती} असि॑ स॒त्य ऋ॑ण॒यावाने᳚द्यो॒ऽस्या धि॒यः प्रा᳚वि॒ताथा॒ वृषा᳚ ग॒णः ||{4/6}{1.87.4}{1.14.3.4}{1.6.13.4}{960, 87, 960} सः¦हि¦स्व॒ऽसृत्¦पृष॑त्।आश्वः¦युवा᳚¦ग॒णः¦अ॒या¦ई॒शा॒नः¦तवि॑षीभिः¦आऽवृ॑तः | |
पि॒तुः प्र॒त्नस्य॒ जन्म॑ना वदामसि॒ सोम॑स्य जि॒ह्वा प्र जि॑गाति॒ चक्ष॑सा |{रहूगणो गोतमः | मरुतः | जगती} यदी॒मिन्द्रं॒ शम्यृक्वा᳚ण॒ आश॒ताऽदिन्नामा᳚नि य॒ज्ञिया᳚नि दधिरे ||{5/6}{1.87.5}{1.14.3.5}{1.6.13.5}{961, 87, 961} पि॒तुः¦प्र॒त्नस्य॑¦जन्म॑ना¦व॒दा॒म॒सि॒¦सोम॑स्य¦जि॒ह्वा¦प्र¦जि॒गा॒ति॒¦चक्ष॑सा | |
श्रि॒यसे॒ कं भा॒नुभिः॒ सं मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिः सुखा॒दयः॑ |{रहूगणो गोतमः | मरुतः | जगती} ते वाशी᳚मन्त इ॒ष्मिणो॒, अभी᳚रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑ ||{6/6}{1.87.6}{1.14.3.6}{1.6.13.6}{962, 87, 962} श्रि॒यसे᳚¦कम्¦भा॒नुऽभिः॑¦सम्¦मि॒मि॒क्षि॒रे॒¦ते¦र॒श्मिऽभिः॑¦ते¦ऋक्व॑ऽभिः¦सु॒ऽखा॒दयः॑ | |
[88] आविद्युन्मद्भिरिति षडृचस्य सूक्तस्य राहूगणोगोतमोमरुतस्त्रिष्टुप् आद्यांत्ये प्रस्तारपंक्तीपंचमीविराड्रूपा |
आ वि॒द्युन्म॑द्भिर्मरुतः स्व॒र्कै रथे᳚भिर्यात ऋष्टि॒मद्भि॒रश्व॑पर्णैः |{रहूगणो गोतमः | मरुतः | प्रस्तारपङ्क्तिः} आ वर्षि॑ष्ठया न इ॒षा वयो॒ न प॑प्तता सुमायाः ||{1/6}{1.88.1}{1.14.4.1}{1.6.14.1}{963, 88, 963} आ¦वि॒द्युन्म॑त्ऽभिः¦म॒रु॒तः॒¦सु॒।आ॒र्कैः¦रथे᳚भिः¦या॒त॒¦ऋ॒ष्टि॒मत्ऽभिः॑¦अश्व॑ऽपर्णैः | |
ते᳚ऽरु॒णेभि॒र्वर॒मा पि॒शङ्गैः᳚ शु॒भे कं या᳚न्ति रथ॒तूर्भि॒रश्वैः᳚ |{रहूगणो गोतमः | मरुतः | त्रिष्टुप्} रु॒क्मो न चि॒त्रः स्वधि॑तीवान् प॒व्या रथ॑स्य जङ्घनन्त॒ भूम॑ ||{2/6}{1.88.2}{1.14.4.2}{1.6.14.2}{964, 88, 964} ते¦अ॒रु॒णेभिः॑¦वर᳚म्¦आ¦पि॒शङ्गैः᳚¦शु॒भे¦कम्¦या॒न्ति॒¦र॒थ॒तूःऽभिः॑¦अश्वैः᳚ | |
श्रि॒ये कं वो॒, अधि॑ त॒नूषु॒ वाशी᳚र्मे॒धा वना॒ न कृ॑णवन्त ऊ॒र्ध्वा |{रहूगणो गोतमः | मरुतः | त्रिष्टुप्} यु॒ष्मभ्यं॒ कं म॑रुतः सुजातास्तुविद्यु॒म्नासो᳚ धनयन्ते॒, अद्रि᳚म् ||{3/6}{1.88.3}{1.14.4.3}{1.6.14.3}{965, 88, 965} श्रि॒ये¦कम्¦वः॒¦अधि॑¦त॒नूषु॑¦वाशीः᳚¦मे॒धा¦वना᳚¦न¦कृ॒ण॒व॒न्ते॒¦ऊ॒र्ध्वा | |
अहा᳚नि॒ गृध्राः॒ पर्या व॒ आगु॑रि॒मां धियं᳚ वार्का॒र्यां च॑ दे॒वीम् |{रहूगणो गोतमः | मरुतः | त्रिष्टुप्} ब्रह्म॑ कृ॒ण्वन्तो॒ गोत॑मासो, अ॒र्कैरू॒र्ध्वं नु॑नुद्र उत्स॒धिं पिब॑ध्यै ||{4/6}{1.88.4}{1.14.4.4}{1.6.14.4}{966, 88, 966} अहा᳚नि¦गृध्राः᳚¦परि॑¦आ¦वः॒¦आ¦अ॒गुः॒¦इ॒माम्¦धिय᳚म्¦वा॒र्का॒र्याम्¦च॒¦दे॒वीम् | |
ए॒तत् त्यन्न योज॑नमचेति स॒स्वर्ह॒ यन्म॑रुतो॒ गोत॑मो वः |{रहूगणो गोतमः | मरुतः | विराड्रूप} पश्य॒न् हिर᳚ण्यचक्रा॒नयो᳚दंष्ट्रान् वि॒धाव॑तो व॒राहू॑न् ||{5/6}{1.88.5}{1.14.4.5}{1.6.14.5}{967, 88, 967} ए॒तत्¦त्यत्¦न¦योज॑नम्¦अ॒चे॒ति॒¦स॒स्वः¦ह॒¦यत्¦म॒रु॒तः॒¦गोत॑मः¦वः॒ | |
ए॒षा स्या वो᳚ मरुतोऽनुभ॒र्त्री प्रति॑ ष्टोभति वा॒घतो॒ न वाणी᳚ |{रहूगणो गोतमः | मरुतः | प्रस्तारपङ्क्तिः} अस्तो᳚भय॒द् वृथा᳚सा॒मनु॑ स्व॒धां गभ॑स्त्योः ||{6/6}{1.88.6}{1.14.4.6}{1.6.14.6}{968, 88, 968} ए॒षा¦स्या¦वः॒¦म॒रु॒तः॒¦अ॒नु॒ऽभ॒र्त्री¦प्रति॑¦स्तो॒भ॒ति॒¦वा॒घतः॑¦न¦वाणी᳚ | |
[89] आनोभद्राइति दशर्चस्य सूक्तस्य राहूगणोगोतमो विश्वेदेवास्त्रिष्टुप् आद्याः पंचसप्तमीच जगत्यः षष्ठीविराट्स्थाना (सूक्तभेदप्रयोगपक्षेतुआद्यानांचतसृणां विश्वेदेवाः ततएकस्याइंद्रापूषणौततश्चतसृणां विश्वेदेवाःततएकस्याअदितिः एवंदश) | |
आ नो᳚ भ॒द्राः क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒, अप॑रीतास उ॒द्भिदः॑ |{रहूगणो गोतमः | विश्वदेवाः | जगती} दे॒वा नो॒ यथा॒ सद॒मिद् वृ॒धे, अस॒न्नप्रा᳚युवो रक्षि॒तारो᳚ दि॒वेदि॑वे ||{1/10}{1.89.1}{1.14.5.1}{1.6.15.1}{969, 89, 969} आ¦नः॒¦भ॒द्राः¦क्रत॑वः¦य॒न्तु॒¦वि॒श्वतः॑¦अद॑ब्धासः¦अप॑रिऽइतासः¦उ॒त्ऽभिदः॑ | |
दे॒वानां᳚ भ॒द्रा सु॑म॒तिरृ॑जूय॒तां दे॒वानां᳚ रा॒तिर॒भि नो॒ नि व॑र्तताम् |{रहूगणो गोतमः | विश्वदेवाः | जगती} दे॒वानां᳚ स॒ख्यमुप॑ सेदिमा व॒यं दे॒वा न॒ आयुः॒ प्र ति॑रन्तु जी॒वसे᳚ ||{2/10}{1.89.2}{1.14.5.2}{1.6.15.2}{970, 89, 970} दे॒वाना᳚म्¦भ॒द्रा¦सु॒ऽम॒तिः¦ऋ॒जु॒ऽय॒ताम्¦दे॒वाना᳚म्¦रा॒तिः¦अ॒भि¦नः॒¦नि¦व॒र्त॒ता॒म् | |
तान् पूर्व॑या नि॒विदा᳚ हूमहे व॒यं भगं᳚ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिध᳚म् |{रहूगणो गोतमः | विश्वदेवाः | जगती} अ॒र्य॒मणं॒ वरु॑णं॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत् ||{3/10}{1.89.3}{1.14.5.3}{1.6.15.3}{971, 89, 971} तान्¦पूर्व॑या¦नि॒ऽविदा᳚¦हू॒म॒हे॒¦व॒यम्¦भग᳚म्¦मि॒त्रम्¦अदि॑तिम्¦दक्ष᳚म्¦अ॒स्रिध᳚म् | |
तन्नो॒ वातो᳚ मयो॒भु वा᳚तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत् पि॒ता द्यौः |{रहूगणो गोतमः | विश्वदेवाः | जगती} तद् ग्रावा᳚णः सोम॒सुतो᳚ मयो॒भुव॒स्तद॑श्विना शृणुतं धिष्ण्या यु॒वम् ||{4/10}{1.89.4}{1.14.5.4}{1.6.15.4}{972, 89, 972} तत्¦नः॒¦वातः॑¦म॒यः॒ऽभु¦वा॒तु॒¦भे॒ष॒जम्¦तत्¦मा॒ता¦पृ॒थि॒वी¦तत्¦पि॒ता¦द्यौः | |
तमीशा᳚नं॒ जग॑तस्त॒स्थुष॒स्पतिं᳚ धियंजि॒न्वमव॑से हूमहे व॒यम् |{रहूगणो गोतमः | विश्वदेवाः | जगती} पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द् वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये᳚ ||{5/10}{1.89.5}{1.14.5.5}{1.6.15.5}{973, 89, 973} तम्¦ईशा᳚नम्¦जग॑तः¦त॒स्थुषः॑¦पति᳚म्¦धि॒य॒म्ऽजि॒न्वम्¦अव॑से¦हू॒म॒हे॒¦व॒यम् | |
स्व॒स्ति न॒ इन्द्रो᳚ वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववे᳚दाः |{रहूगणो गोतमः | विश्वदेवाः | विराट्स्थाना} स्व॒स्ति न॒स्तार्क्ष्यो॒, अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ||{6/10}{1.89.6}{1.14.5.6}{1.6.16.1}{974, 89, 974} स्व॒स्ति¦नः॒¦इन्द्रः॑¦वृ॒द्धऽश्र॑वाः¦स्व॒स्ति¦नः॒¦पू॒षा¦वि॒श्वऽवे᳚दाः | स्व॒स्ति¦नः॒¦तार्क्ष्यः॑¦अरि॑ष्टऽनेमिः¦स्व॒स्ति¦नः॒¦बृह॒स्पतिः॑¦द॒धा॒तु॒ || |
पृष॑दश्वा म॒रुतः॒ पृश्नि॑मातरः शुभं॒यावा᳚नो वि॒दथे᳚षु॒ जग्म॑यः |{रहूगणो गोतमः | विश्वदेवाः | जगती} अ॒ग्नि॒जि॒ह्वा मन॑वः॒ सूर॑चक्षसो॒ विश्वे᳚ नो दे॒वा, अव॒सा ग॑मन्नि॒ह ||{7/10}{1.89.7}{1.14.5.7}{1.6.16.2}{975, 89, 975} पृष॑त्।आश्वाः¦म॒रुतः॑¦पृश्नि॑ऽमातरः¦शु॒भ॒म्ऽयावा᳚नः¦वि॒दथे᳚षु¦जग्म॑यः | |
भ॒द्रं कर्णे᳚भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि᳚र्यजत्राः |{रहूगणो गोतमः | विश्वदेवाः | त्रिष्टुप्} स्थि॒रैरङ्गै᳚स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायुः॑ ||{8/10}{1.89.8}{1.14.5.8}{1.6.16.3}{976, 89, 976} भ॒द्रम्¦कर्णे᳚भिः¦शृ॒णु॒या॒म॒¦दे॒वाः॒¦भ॒द्रम्¦प॒श्ये॒म॒¦अ॒क्षऽभिः॑¦य॒ज॒त्राः॒ | |
श॒तमिन्नु श॒रदो॒, अन्ति॑ देवा॒ यत्रा᳚ नश्च॒क्रा ज॒रसं᳚ त॒नूना᳚म् |{रहूगणो गोतमः | विश्वदेवाः | त्रिष्टुप्} पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव᳚न्ति॒ मा नो᳚ म॒ध्या री᳚रिष॒तायु॒र्गन्तोः᳚ ||{9/10}{1.89.9}{1.14.5.9}{1.6.16.4}{977, 89, 977} श॒तम्¦इत्¦नु¦श॒रदः॑¦अन्ति॑¦दे॒वाः॒¦यत्र॑¦नः॒¦च॒क्र¦ज॒रस᳚म्¦त॒नूना᳚म् | |
अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः |{रहूगणो गोतमः | विश्वदेवाः | त्रिष्टुप्} विश्वे᳚ दे॒वा, अदि॑तिः॒ पञ्च॒ जना॒, अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ||{10/10}{1.89.10}{1.14.5.10}{1.6.16.5}{978, 89, 978} अदि॑तिः¦द्यौः¦अदि॑तिः¦अ॒न्तरि॑क्षम्¦अदि॑तिः¦मा॒ता¦सः¦पि॒ता¦सः¦पु॒त्रः | |
[90] ऋजुनीतीनइतिनवर्चस्य सूक्तस्य राहूगणोगोतमो विश्वेदेवागायत्री अंत्यानुष्टुप् (वैश्वदेवसूक्तेप्यस्मिन्भेदप्रयोगकरणाशक्यत्वान्नवानामपिविश्वेदेवाएव) | |
ऋ॒जु॒नी॒ती नो॒ वरु॑णो मि॒त्रो न॑यतु वि॒द्वान् |{रहूगणो गोतमः | विश्वदेवाः | गायत्री} अ॒र्य॒मा दे॒वैः स॒जोषाः᳚ ||{1/9}{1.90.1}{1.14.6.1}{1.6.17.1}{979, 90, 979} ऋ॒जु॒ऽनी॒ती¦नः॒¦वरु॑णः¦मि॒त्रः¦न॒य॒तु॒¦वि॒द्वान् | अ॒र्य॒मा¦दे॒वैः¦स॒ऽजोषाः᳚ || |
ते हि वस्वो॒ वस॑वाना॒स्ते, अप्र॑मूरा॒ महो᳚भिः |{रहूगणो गोतमः | विश्वदेवाः | गायत्री} व्र॒ता र॑क्षन्ते वि॒श्वाहा᳚ ||{2/9}{1.90.2}{1.14.6.2}{1.6.17.2}{980, 90, 980} ते¦हि¦वस्वः॑¦वस॑वानाः¦ते¦अप्र॑ऽमूराः¦महः॑ऽभिः | व्र॒ता¦र॒क्ष॒न्ते॒¦वि॒श्वाहा᳚ || |
ते, अ॒स्मभ्यं॒ शर्म॑ यंसन्न॒मृता॒ मर्त्ये᳚भ्यः |{रहूगणो गोतमः | विश्वदेवाः | गायत्री} बाध॑माना॒, अप॒ द्विषः॑ ||{3/9}{1.90.3}{1.14.6.3}{1.6.17.3}{981, 90, 981} ते¦अ॒स्मभ्य᳚म्¦शर्म॑¦यं॒स॒न्¦अ॒मृताः᳚¦मर्त्ये᳚भ्यः | बाध॑मानाः¦अप॑¦द्विषः॑ || |
वि नः॑ प॒थः सु॑वि॒ताय॑ चि॒यन्त्विन्द्रो᳚ म॒रुतः॑ |{रहूगणो गोतमः | विश्वदेवाः | गायत्री} पू॒षा भगो॒ वन्द्या᳚सः ||{4/9}{1.90.4}{1.14.6.4}{1.6.17.4}{982, 90, 982} वि¦नः॒¦प॒थः¦सु॒वि॒ताय॑¦चि॒यन्तु॑¦इन्द्रः॑¦म॒रुतः॑ | पू॒षा¦भगः॑¦वन्द्या᳚सः || |
उ॒त नो॒ धियो॒ गो,अ॑ग्राः॒ पूष॒न् विष्ण॒वेव॑यावः |{रहूगणो गोतमः | विश्वदेवाः | गायत्री} कर्ता᳚ नः स्वस्ति॒मतः॑ ||{5/9}{1.90.5}{1.14.6.5}{1.6.17.5}{983, 90, 983} उ॒त¦नः॒¦धियः॑¦गो।आ॑ग्राः¦पूष॑न्¦विष्णो॒ इति॑¦एव॑ऽयावः | कर्त॑¦नः॒¦स्व॒स्ति॒ऽमतः॑ || |
मधु॒ वाता᳚ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः |{रहूगणो गोतमः | विश्वदेवाः | गायत्री} माध्वी᳚र्नः स॒न्त्वोष॑धीः ||{6/9}{1.90.6}{1.14.6.6}{1.6.18.1}{984, 90, 984} मधु॑¦वाताः᳚¦ऋ॒त॒ऽय॒ते¦मधु॑¦क्ष॒र॒न्ति॒¦सिन्ध॑वः | माध्वीः᳚¦नः॒¦स॒न्तु॒¦ओष॑धीः || |
मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त् पार्थि॑वं॒ रजः॑ |{रहूगणो गोतमः | विश्वदेवाः | गायत्री} मधु॒ द्यौर॑स्तु नः पि॒ता ||{7/9}{1.90.7}{1.14.6.7}{1.6.18.2}{985, 90, 985} मधु॑¦नक्त᳚म्¦उ॒त¦उ॒षसः॑¦मधु॑ऽमत्¦पार्थि॑वम्¦रजः॑ | मधु॑¦द्यौः¦अ॒स्तु॒¦नः॒¦पि॒ता || |
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ, अस्तु॒ सूर्यः॑ |{रहूगणो गोतमः | विश्वदेवाः | गायत्री} माध्वी॒र्गावो᳚ भवन्तु नः ||{8/9}{1.90.8}{1.14.6.8}{1.6.18.3}{986, 90, 986} मधु॑ऽमान्¦नः॒¦वन॒स्पतिः॑¦मधु॑ऽमान्¦अ॒स्तु॒¦सूर्यः॑ | माध्वीः᳚¦गावः॑¦भ॒व॒न्तु॒¦नः॒ || |
शं नो᳚ मि॒त्रः शं वरु॑णः॒ शं नो᳚ भवत्वर्य॒मा |{रहूगणो गोतमः | विश्वदेवाः | अनुष्टुप्} शं न॒ इन्द्रो॒ बृह॒स्पतिः॒ शं नो॒ विष्णु॑रुरुक्र॒मः ||{9/9}{1.90.9}{1.14.6.9}{1.6.18.4}{987, 90, 987} शम्¦नः॒¦मि॒त्रः¦शम्¦वरु॑णः॒¦शम्¦नः॒¦भ॒व॒तु॒¦अ॒र्य॒मा | शम्¦नः॒¦इन्द्रः॑¦बृह॒स्पतिः॑¦शम्¦नः॒¦विष्णुः॑¦उ॒रु॒ऽक्र॒मः || |
[91] त्वंसोमइति त्रयोविंशत्यृचस्य सूक्तस्य राहूगणोगोतमःसोमस्त्रिष्टुप् पंचम्यादिद्वादशगायत्र्यः सप्तदश्युष्णिक् | |
त्वं सो᳚म॒ प्र चि॑कितो मनी॒षा त्वं रजि॑ष्ठ॒मनु॑ नेषि॒ पन्था᳚म् |{रहूगणो गोतमः | सोमः | त्रिष्टुप्} तव॒ प्रणी᳚ती पि॒तरो᳚ न इन्दो दे॒वेषु॒ रत्न॑मभजन्त॒ धीराः᳚ ||{1/23}{1.91.1}{1.14.7.1}{1.6.19.1}{988, 91, 988} त्वम्¦सो॒म॒¦प्र¦चि॒कि॒तः॒¦म॒नी॒षा¦त्वम्¦रजि॑ष्ठम्¦अनु॑¦ने॒षि॒¦पन्था᳚म् | |
त्वं सो᳚म॒ क्रतु॑भिः सु॒क्रतु॑र्भू॒स्त्वं दक्षैः᳚ सु॒दक्षो᳚ वि॒श्ववे᳚दाः |{रहूगणो गोतमः | सोमः | त्रिष्टुप्} त्वं वृषा᳚ वृष॒त्वेभि᳚र्महि॒त्वा द्यु॒म्नेभि॑र्द्यु॒म् न्य॑भवो नृ॒चक्षाः᳚ ||{2/23}{1.91.2}{1.14.7.2}{1.6.19.2}{989, 91, 989} त्वम्¦सो॒म॒¦क्रतु॑ऽभिः¦सु॒ऽक्रतुः॑¦भूः॒¦त्वम्¦दक्षैः᳚¦सु॒ऽदक्षः॑¦वि॒श्वऽवे᳚दाः | |
राज्ञो॒ नु ते॒ वरु॑णस्य व्र॒तानि॑ बृ॒हद् ग॑भी॒रं तव॑ सोम॒ धाम॑ |{रहूगणो गोतमः | सोमः | त्रिष्टुप्} शुचि॒ष्ट्वम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो᳚, अर्य॒मेवा᳚सि सोम ||{3/23}{1.91.3}{1.14.7.3}{1.6.19.3}{990, 91, 990} राज्ञः॑¦नु¦ते॒¦वरु॑णस्य¦व्र॒तानि॑¦बृ॒हत्¦ग॒भी॒रम्¦तव॑¦सो॒म॒¦धाम॑ | |
या ते॒ धामा᳚नि दि॒वि या पृ॑थि॒व्यां या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु |{रहूगणो गोतमः | सोमः | त्रिष्टुप्} तेभि᳚र्नो॒ विश्वैः᳚ सु॒मना॒, अहे᳚ळ॒न् राज᳚न्त्सोम॒ प्रति॑ ह॒व्या गृ॑भाय ||{4/23}{1.91.4}{1.14.7.4}{1.6.19.4}{991, 91, 991} या¦ते॒¦धामा᳚नि¦दि॒वि¦या¦पृ॒थि॒व्याम्¦या¦पर्व॑तेषु¦ओष॑धीषु¦अ॒प्ऽसु | |
त्वं सो᳚मासि॒ सत्प॑ति॒स्त्वं राजो॒त वृ॑त्र॒हा |{रहूगणो गोतमः | सोमः | गायत्री} त्वं भ॒द्रो, अ॑सि॒ क्रतुः॑ ||{5/23}{1.91.5}{1.14.7.5}{1.6.19.5}{992, 91, 992} त्वम्¦सो॒म॒¦अ॒सि॒¦सत्ऽप॑तिः¦त्वम्¦राजा᳚¦उ॒त¦वृ॒त्र॒ऽहा | त्वम्¦भ॒द्रः¦अ॒सि॒¦क्रतुः॑ || |
त्वं च॑ सोम नो॒ वशो᳚ जी॒वातुं॒ न म॑रामहे |{रहूगणो गोतमः | सोमः | गायत्री} प्रि॒यस्तो᳚त्रो॒ वन॒स्पतिः॑ ||{6/23}{1.91.6}{1.14.7.6}{1.6.20.1}{993, 91, 993} त्वम्¦च॒¦सो॒म॒¦नः॒¦वशः॑¦जी॒वातु᳚म्¦न¦म॒रा॒म॒हे॒ | प्रि॒यऽस्तो᳚त्रः¦वन॒स्पतिः॑ || |
त्वं सो᳚म म॒हे भगं॒ त्वं यून॑ ऋताय॒ते |{रहूगणो गोतमः | सोमः | गायत्री} दक्षं᳚ दधासि जी॒वसे᳚ ||{7/23}{1.91.7}{1.14.7.7}{1.6.20.2}{994, 91, 994} त्वम्¦सो॒म॒¦म॒हे¦भग᳚म्¦त्वम्¦यूने᳚¦ऋ॒त॒ऽय॒ते | दक्ष᳚म्¦द॒धा॒सि॒¦जी॒वसे᳚ || |
त्वं नः॑ सोम वि॒श्वतो॒ रक्षा᳚ राजन्नघाय॒तः |{रहूगणो गोतमः | सोमः | गायत्री} न रि॑ष्ये॒त् त्वाव॑तः॒ सखा᳚ ||{8/23}{1.91.8}{1.14.7.8}{1.6.20.3}{995, 91, 995} त्वम्¦नः॒¦सो॒म॒¦वि॒श्वतः॑¦रक्ष॑¦रा॒ज॒न्¦अ॒घ॒ऽय॒तः | न¦रि॒ष्ये॒त्¦त्वाऽव॑तः¦सखा᳚ || |
सोम॒ यास्ते᳚ मयो॒भुव॑ ऊ॒तयः॒ सन्ति॑ दा॒शुषे᳚ |{रहूगणो गोतमः | सोमः | गायत्री} ताभि᳚र्नोऽवि॒ता भ॑व ||{9/23}{1.91.9}{1.14.7.9}{1.6.20.4}{996, 91, 996} सोम॑¦याः¦ते॒¦म॒यः॒ऽभुवः॑¦ऊ॒तयः॑¦सन्ति॑¦दा॒शुषे᳚ | ताभिः॑¦नः॒¦अ॒वि॒ता¦भ॒व॒ || |
इ॒मं य॒ज्ञमि॒दं वचो᳚ जुजुषा॒ण उ॒पाग॑हि |{रहूगणो गोतमः | सोमः | गायत्री} सोम॒ त्वं नो᳚ वृ॒धे भ॑व ||{10/23}{1.91.10}{1.14.7.10}{1.6.20.5}{997, 91, 997} इ॒मम्¦य॒ज्ञम्¦इ॒दम्¦वचः॑¦जु॒जु॒षा॒णः¦उ॒प॒ऽआग॑हि | सोम॑¦त्वम्¦नः॒¦वृ॒धे¦भ॒व॒ || |
सोम॑ गी॒र्भिष्ट्वा᳚ व॒यं व॒र्धया᳚मो वचो॒विदः॑ |{रहूगणो गोतमः | सोमः | गायत्री} सु॒मृ॒ळी॒को न॒ आ वि॑श ||{11/23}{1.91.11}{1.14.7.11}{1.6.21.1}{998, 91, 998} सोम॑¦गीः॒ऽभिः¦त्वा॒¦व॒यम्¦व॒र्धया᳚मः¦व॒चः॒ऽविदः॑ | सु॒ऽमृ॒ळी॒कः¦नः॒¦आ¦वि॒श॒ || |
ग॒य॒स्फानो᳚, अमीव॒हा व॑सु॒वित् पु॑ष्टि॒वर्ध॑नः |{रहूगणो गोतमः | सोमः | गायत्री} सु॒मि॒त्रः सो᳚म नो भव ||{12/23}{1.91.12}{1.14.7.12}{1.6.21.2}{999, 91, 999} ग॒य॒ऽस्फानः॑¦अ॒मी॒व॒ऽहा¦व॒सु॒ऽवित्¦पु॒ष्टि॒ऽवर्ध॑नः | सु॒ऽमि॒त्रः¦सो॒म॒¦नः॒¦भ॒व॒ || |
सोम॑ रार॒न्धि नो᳚ हृ॒दि गावो॒ न यव॑से॒ष्वा |{रहूगणो गोतमः | सोमः | गायत्री} मर्य॑ इव॒ स्व ओ॒क्ये᳚ ||{13/23}{1.91.13}{1.14.7.13}{1.6.21.3}{1000, 91, 1000} सोम॑¦र॒र॒न्धि¦नः॒¦हृ॒दि¦गावः॑¦न¦यव॑सेषु¦आ | मर्यः॑ऽइव¦स्वे¦ओ॒क्ये᳚ || |
यः सो᳚म स॒ख्ये तव॑ रा॒रण॑द्देव॒ मर्त्यः॑ |{रहूगणो गोतमः | सोमः | गायत्री} तं दक्षः॑ सचते क॒विः ||{14/23}{1.91.14}{1.14.7.14}{1.6.21.4}{1001, 91, 1001} यः¦सो॒म॒¦स॒ख्ये¦तव॑¦र॒रण॑त्¦दे॒व॒¦मर्त्यः॑ | तम्¦दक्षः॑¦स॒च॒ते॒¦क॒विः || |
उ॒रु॒ष्या णो᳚, अ॒भिश॑स्तेः॒ सोम॒ नि पा॒ह्यंह॑सः |{रहूगणो गोतमः | सोमः | गायत्री} सखा᳚ सु॒शेव॑ एधि नः ||{15/23}{1.91.15}{1.14.7.15}{1.6.21.5}{1002, 91, 1002} उ॒रु॒ष्य¦नः॒¦अ॒भिऽश॑स्तेः¦सोम॑¦नि¦पा॒हि॒¦अंह॑सः | सखा᳚¦सु॒ऽशेवः॑¦ए॒धि॒¦नः॒ || |
आ प्या᳚यस्व॒ समे᳚तु ते वि॒श्वतः॑ सोम॒ वृष्ण्य᳚म् |{रहूगणो गोतमः | सोमः | गायत्री} भवा॒ वाज॑स्य संग॒थे ||{16/23}{1.91.16}{1.14.7.16}{1.6.22.1}{1003, 91, 1003} आ¦प्या॒य॒स्व॒¦सम्¦ए॒तु॒¦ते॒¦वि॒श्वतः॑¦सो॒म॒¦वृष्ण्य᳚म् | भव॑¦वाज॑स्य¦स॒म्ऽग॒थे || |
आ प्या᳚यस्व मदिन्तम॒ सोम॒ विश्वे᳚भिरं॒शुभिः॑ |{रहूगणो गोतमः | सोमः | उष्णिक्} भवा᳚ नः सु॒श्रव॑स्तमः॒ सखा᳚ वृ॒धे ||{17/23}{1.91.17}{1.14.7.17}{1.6.22.2}{1004, 91, 1004} आ¦प्या॒य॒स्व॒¦म॒दि॒न्ऽत॒म॒¦सोम॑¦विश्वे᳚भिः¦अं॒शुऽभिः॑ | भव॑¦नः॒¦सु॒श्रवः॑ऽतमः¦सखा᳚¦वृ॒धे || |
सं ते॒ पयां᳚सि॒ समु॑ यन्तु॒ वाजाः॒ सं वृष्ण्या᳚न्यभिमाति॒षाहः॑ |{रहूगणो गोतमः | सोमः | त्रिष्टुप्} आ॒प्याय॑मानो, अ॒मृता᳚य सोम दि॒वि श्रवां᳚स्युत्त॒मानि॑ धिष्व ||{18/23}{1.91.18}{1.14.7.18}{1.6.22.3}{1005, 91, 1005} सम्¦ते॒¦पयां᳚सि¦सम्¦ऊँ॒ इति॑¦य॒न्तु॒¦वाजाः᳚¦सम्¦वृष्ण्या᳚नि¦अ॒भि॒मा॒ति॒ऽसहः॑ | |
या ते॒ धामा᳚नि ह॒विषा॒ यज᳚न्ति॒ ता ते॒ विश्वा᳚ परि॒भूर॑स्तु य॒ज्ञम् |{रहूगणो गोतमः | सोमः | त्रिष्टुप्} ग॒य॒स्फानः॑ प्र॒तर॑णः सु॒वीरोऽवी᳚रहा॒ प्र च॑रा सोम॒ दुर्या॑न् ||{19/23}{1.91.19}{1.14.7.19}{1.6.22.4}{1006, 91, 1006} या¦ते॒¦धामा᳚नि¦ह॒विषा᳚¦यज᳚न्ति¦ता¦ते॒¦विश्वा᳚¦प॒रि॒ऽभूः¦अ॒स्तु॒¦य॒ज्ञम् | |
सोमो᳚ धे॒नुं सोमो॒, अर्व᳚न्तमा॒शुं सोमो᳚ वी॒रं क᳚र्म॒ण्यं᳚ ददाति |{रहूगणो गोतमः | सोमः | त्रिष्टुप्} सा॒द॒न्यं᳚ विद॒थ्यं᳚ स॒भेयं᳚ पितृ॒श्रव॑णं॒ यो ददा᳚शदस्मै ||{20/23}{1.91.20}{1.14.7.20}{1.6.22.5}{1007, 91, 1007} सोमः॑¦धे॒नुम्¦सोमः॑¦अर्व᳚न्तम्¦आ॒शुम्¦सोमः॑¦वी॒रम्¦क॒र्म॒ण्य᳚म्¦द॒दा॒ति॒ | |
अषा᳚ळ्हं यु॒त्सु पृत॑नासु॒ पप्रिं᳚ स्व॒र्षाम॒प्सां वृ॒जन॑स्य गो॒पाम् |{रहूगणो गोतमः | सोमः | त्रिष्टुप्} भ॒रे॒षु॒जां सु॑क्षि॒तिं सु॒श्रव॑सं॒ जय᳚न्तं॒ त्वामनु॑ मदेम सोम ||{21/23}{1.91.21}{1.14.7.21}{1.6.23.1}{1008, 91, 1008} अषा᳚ळ्हम्¦यु॒त्ऽसु¦पृत॑नासु¦पप्रि᳚म्¦स्वः॒ऽसाम्¦अ॒प्साम्¦वृ॒जन॑स्य¦गो॒पाम् | |
त्वमि॒मा, ओष॑धीः सोम॒ विश्वा॒स्त्वम॒पो, अ॑जनय॒स्त्वं गाः |{रहूगणो गोतमः | सोमः | त्रिष्टुप्} त्वमा त॑तन्थो॒र्व१॑(अ॒)न्तरि॑क्षं॒ त्वं ज्योति॑षा॒ वि तमो᳚ ववर्थ ||{22/23}{1.91.22}{1.14.7.22}{1.6.23.2}{1009, 91, 1009} त्वम्¦इ॒माः¦ओष॑धीः¦सो॒म॒¦विश्वाः᳚¦त्वम्¦अ॒पः¦अ॒ज॒न॒यः॒¦त्वम्¦गाः | |
दे॒वेन॑ नो॒ मन॑सा देव सोम रा॒यो भा॒गं स॑हसावन्न॒भि यु॑ध्य |{रहूगणो गोतमः | सोमः | त्रिष्टुप्} मा त्वा त॑न॒दीशि॑षे वी॒र्य॑स्यो॒भये᳚भ्यः॒ प्र चि॑कित्सा॒ गवि॑ष्टौ ||{23/23}{1.91.23}{1.14.7.23}{1.6.23.3}{1010, 91, 1010} दे॒वेन॑¦नः॒¦मन॑सा¦दे॒व॒¦सो॒म॒¦रा॒यः¦भा॒गम्¦स॒ह॒सा॒ऽव॒न्¦अ॒भि¦यु॒ध्य॒ | |
[92] एताउत्याइत्यष्टादशर्चस्य सूक्तस्य राहूगणोगोतम उषाः अंत्यानां तिसृणामश्विनौ आद्याश्चतस्रोजगत्यः ततोष्टौत्रिष्टुभः अंत्याः षळुष्णिहः | |
ए॒ता, उ॒ त्या, उ॒षसः॑ के॒तुम॑क्रत॒ पूर्वे॒, अर्धे॒ रज॑सो भा॒नुम᳚ञ्जते |{रहूगणो गोतमः | उषाः | जगती} नि॒ष्कृ॒ण्वा॒ना, आयु॑धानीव धृ॒ष्णवः॒ प्रति॒ गावोऽरु॑षीर्यन्ति मा॒तरः॑ ||{1/18}{1.92.1}{1.14.8.1}{1.6.24.1}{1011, 92, 1011} ए॒ताः¦ऊँ॒ इति॑¦त्याः¦उ॒षसः॑¦के॒तुम्¦अ॒क्र॒त॒¦पूर्वे᳚¦अर्धे᳚¦रज॑सः¦भा॒नुम्¦अं॒ज॒ते॒ | |
उद॑पप्तन्नरु॒णा भा॒नवो॒ वृथा᳚ स्वा॒युजो॒, अरु॑षी॒र्गा, अ॑युक्षत |{रहूगणो गोतमः | उषाः | जगती} अक्र᳚न्नु॒षासो᳚ व॒युना᳚नि पू॒र्वथा॒ रुश᳚न्तं भा॒नुमरु॑षीरशिश्रयुः ||{2/18}{1.92.2}{1.14.8.2}{1.6.24.2}{1012, 92, 1012} उत्¦अ॒प॒प्त॒न्¦अ॒रु॒णाः¦भा॒नवः॑¦वृथा᳚¦सु॒ऽआ॒युजः॑¦अरु॑षीः¦गाः¦अ॒यु॒क्ष॒त॒ | |
अर्च᳚न्ति॒ नारी᳚र॒पसो॒ न वि॒ष्टिभिः॑ समा॒नेन॒ योज॑ने॒ना प॑रा॒वतः॑ |{रहूगणो गोतमः | उषाः | जगती} इषं॒ वह᳚न्तीः सु॒कृते᳚ सु॒दान॑वे॒ विश्वेदह॒ यज॑मानाय सुन्व॒ते ||{3/18}{1.92.3}{1.14.8.3}{1.6.24.3}{1013, 92, 1013} अर्च᳚न्ति¦नारीः᳚¦अ॒पसः॑¦न¦वि॒ष्टिऽभिः॑¦स॒मा॒नेन॑¦योज॑नेन¦आ¦प॒रा॒ऽवतः॑ | |
अधि॒ पेशां᳚सि वपते नृ॒तूरि॒वापो᳚र्णुते॒ वक्ष॑ उ॒स्रेव॒ बर्ज॑हम् |{रहूगणो गोतमः | उषाः | जगती} ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृण्व॒ती गावो॒ न व्र॒जं व्यु१॑(उ॒)षा, आ᳚व॒र्तमः॑ ||{4/18}{1.92.4}{1.14.8.4}{1.6.24.4}{1014, 92, 1014} अधि॑¦पेशां᳚सि¦व॒प॒ते॒¦नृ॒तूःऽइ᳚व¦अप॑¦ऊ॒र्णु॒ते॒¦वक्षः॑¦उ॒स्राऽइ᳚व¦बर्ज॑हम् | |
प्रत्य॒र्ची रुश॑दस्या, अदर्शि॒ वि ति॑ष्ठते॒ बाध॑ते कृ॒ष्णमभ्व᳚म् |{रहूगणो गोतमः | उषाः | त्रिष्टुप्} स्वरुं॒ न पेशो᳚ वि॒दथे᳚ष्व॒ञ्जञ्चि॒त्रं दि॒वो दु॑हि॒ता भा॒नुम॑श्रेत् ||{5/18}{1.92.5}{1.14.8.5}{1.6.24.5}{1015, 92, 1015} प्रति॑¦अ॒र्चिः¦रुश॑त्¦अ॒स्याः॒¦अ॒द॒र्शि॒¦वि¦ति॒ष्ठ॒ते॒¦बाध॑ते¦कृ॒ष्णम्¦अभ्व᳚म् | |
अता᳚रिष्म॒ तम॑सस्पा॒रम॒स्योषा, उ॒च्छन्ती᳚ व॒युना᳚ कृणोति |{रहूगणो गोतमः | उषाः | त्रिष्टुप्} श्रि॒ये छन्दो॒ न स्म॑यते विभा॒ती सु॒प्रती᳚का सौमन॒साया᳚जीगः ||{6/18}{1.92.6}{1.14.8.6}{1.6.25.1}{1016, 92, 1016} अता᳚रिष्म¦तम॑सः¦पा॒रम्¦अ॒स्य¦उ॒षाः¦उ॒च्छन्ती᳚¦व॒युना᳚¦कृ॒णो॒ति॒ | |
भास्व॑ती ने॒त्री सू॒नृता᳚नां दि॒वः स्त॑वे दुहि॒ता गोत॑मेभिः |{रहूगणो गोतमः | उषाः | त्रिष्टुप्} प्र॒जाव॑तो नृ॒वतो॒, अश्व॑बुध्या॒नुषो॒ गो,अ॑ग्राँ॒, उप॑ मासि॒ वाजा॑न् ||{7/18}{1.92.7}{1.14.8.7}{1.6.25.2}{1017, 92, 1017} भास्व॑ती¦ने॒त्री¦सू॒नृता᳚नाम्¦दि॒वः¦स्त॒वे॒¦दु॒हि॒ता¦गोत॑मेभिः | |
उष॒स्तम॑श्यां य॒शसं᳚ सु॒वीरं᳚ दा॒सप्र॑वर्गं र॒यिमश्व॑बुध्यम् |{रहूगणो गोतमः | उषाः | त्रिष्टुप्} सु॒दंस॑सा॒ श्रव॑सा॒ या वि॒भासि॒ वाज॑प्रसूता सुभगे बृ॒हन्त᳚म् ||{8/18}{1.92.8}{1.14.8.8}{1.6.25.3}{1018, 92, 1018} उषः॑¦तम्¦अ॒श्याम्¦य॒शस᳚म्¦सु॒ऽवीर᳚म्¦दा॒सऽप्र॑वर्गम्¦र॒यिम्¦अश्व॑ऽबुध्यम् | |
विश्वा᳚नि दे॒वी भुव॑नाभि॒चक्ष्या᳚ प्रती॒ची चक्षु॑रुर्वि॒या वि भा᳚ति |{रहूगणो गोतमः | उषाः | त्रिष्टुप्} विश्वं᳚ जी॒वं च॒रसे᳚ बो॒धय᳚न्ती॒ विश्व॑स्य॒ वाच॑मविदन्मना॒योः ||{9/18}{1.92.9}{1.14.8.9}{1.6.25.4}{1019, 92, 1019} विश्वा᳚नि¦दे॒वी¦भुव॑ना¦अ॒भि॒ऽचक्ष्य॑¦प्र॒ती॒ची¦चक्षुः॑¦उ॒र्वि॒या¦वि¦भा॒ति॒ | |
पुनः॑पुन॒र्जाय॑माना पुरा॒णी स॑मा॒नं वर्ण॑म॒भि शुम्भ॑माना |{रहूगणो गोतमः | उषाः | त्रिष्टुप्} श्व॒घ्नीव॑ कृ॒त्नुर्विज॑ आमिना॒ना मर्त॑स्य दे॒वी ज॒रय॒न्त्यायुः॑ ||{10/18}{1.92.10}{1.14.8.10}{1.6.25.5}{1020, 92, 1020} पुनः॑ऽपुनः¦जाय॑माना¦पु॒रा॒णी¦स॒मा॒नम्¦वर्ण᳚म्¦अ॒भि¦शुम्भ॑माना | |
व्यू॒र्ण्व॒ती दि॒वो, अन्ताँ᳚, अबो॒ध्यप॒ स्वसा᳚रं सनु॒तर्यु॑योति |{रहूगणो गोतमः | उषाः | त्रिष्टुप्} प्र॒मि॒न॒ती म॑नु॒ष्या᳚ यु॒गानि॒ योषा᳚ जा॒रस्य॒ चक्ष॑सा॒ वि भा᳚ति ||{11/18}{1.92.11}{1.14.8.11}{1.6.26.1}{1021, 92, 1021} वि॒ऽऊ॒र्ण्व॒ती¦दि॒वः¦अन्ता᳚न्¦अ॒बो॒धि॒¦अप॑¦स्वसा᳚रम्¦स॒नु॒तः¦यु॒यो॒ति॒ | |
प॒शून्न चि॒त्रा सु॒भगा᳚ प्रथा॒ना सिन्धु॒र्न क्षोद॑ उर्वि॒या व्य॑श्वैत् |{रहूगणो गोतमः | उषाः | त्रिष्टुप्} अमि॑नती॒ दैव्या᳚नि व्र॒तानि॒ सूर्य॑स्य चेति र॒श्मिभि॑र्दृशा॒ना ||{12/18}{1.92.12}{1.14.8.12}{1.6.26.2}{1022, 92, 1022} प॒शून्¦न¦चि॒त्रा¦सु॒ऽभगा᳚¦प्र॒था॒ना¦सिन्धुः॑¦न¦क्षोदः॑¦उ॒र्वि॒या¦वि¦अ॒श्वै॒त् | |
उष॒स्तच्चि॒त्रमा भ॑रा॒स्मभ्यं᳚ वाजिनीवति |{रहूगणो गोतमः | उषाः | उष्णिक्} येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ||{13/18}{1.92.13}{1.14.8.13}{1.6.26.3}{1023, 92, 1023} उषः॑¦तत्¦चि॒त्रम्¦आ¦भ॒र॒¦अ॒स्मभ्य᳚म्¦वा॒जि॒नी॒ऽव॒ति॒ | येन॑¦तो॒कम्¦च॒¦तन॑यम्¦च॒¦धाम॑हे || |
उषो᳚, अ॒द्येह गो᳚म॒त्यश्वा᳚वति विभावरि |{रहूगणो गोतमः | उषाः | उष्णिक्} रे॒वद॒स्मे व्यु॑च्छ सूनृतावति ||{14/18}{1.92.14}{1.14.8.14}{1.6.26.4}{1024, 92, 1024} उषः॑¦अ॒द्य¦इ॒ह¦गो॒ऽम॒ति॒¦अश्व॑ऽवति¦वि॒भा॒ऽव॒रि॒ | रे॒वत्¦अ॒स्मे इति॑¦वि¦उ॒च्छ॒¦सू॒नृ॒ता॒ऽव॒ति॒ || |
यु॒क्ष्वा हि वा᳚जिनीव॒त्यश्वाँ᳚, अ॒द्यारु॒णाँ, उ॑षः |{रहूगणो गोतमः | उषाः | उष्णिक्} अथा᳚ नो॒ विश्वा॒ सौभ॑गा॒न्या व॑ह ||{15/18}{1.92.15}{1.14.8.15}{1.6.26.5}{1025, 92, 1025} यु॒क्ष्व¦हि¦वा॒जि॒नी॒ऽव॒ति॒¦अश्वा᳚न्¦अ॒द्य¦अ॒रु॒णान्¦उ॒षः॒ | अथ॑¦नः॒¦विश्वा᳚¦सौभ॑गानि¦आ¦व॒ह॒ || |
अश्वि॑ना व॒र्तिर॒स्मदा गोम॑द्दस्रा॒ हिर᳚ण्यवत् |{रहूगणो गोतमः | अश्विनौ | उष्णिक्} अ॒र्वाग्रथं॒ सम॑नसा॒ नि य॑च्छतम् ||{16/18}{1.92.16}{1.14.8.16}{1.6.27.1}{1026, 92, 1026} अश्वि॑ना¦व॒र्तिः¦अ॒स्मत्¦आ¦गोऽम॑त्¦द॒स्रा॒¦हिर᳚ण्यऽवत् | अ॒र्वाक्¦रथ᳚म्¦सऽम॑नसा¦नि¦य॒च्छ॒त॒म् || |
यावि॒त्था श्लोक॒मा दि॒वो ज्योति॒र्जना᳚य च॒क्रथुः॑ |{रहूगणो गोतमः | अश्विनौ | उष्णिक्} आ न॒ ऊर्जं᳚ वहतमश्विना यु॒वम् ||{17/18}{1.92.17}{1.14.8.17}{1.6.27.2}{1027, 92, 1027} यौ¦इ॒त्था¦श्लोक᳚म्¦आ¦दि॒वः¦ज्योतिः॑¦जना᳚य¦च॒क्रथुः॑ | आ¦नः॒¦ऊर्ज᳚म्¦व॒ह॒त॒म्¦अ॒श्वि॒ना॒¦यु॒वम् || |
एह दे॒वा म॑यो॒भुवा᳚ द॒स्रा हिर᳚ण्यवर्तनी |{रहूगणो गोतमः | अश्विनौ | उष्णिक्} उ॒ष॒र्बुधो᳚ वहन्तु॒ सोम॑पीतये ||{18/18}{1.92.18}{1.14.8.18}{1.6.27.3}{1028, 92, 1028} आ¦इ॒ह¦दे॒वा¦म॒यः॒ऽभुवा᳚¦द॒स्रा¦हिर᳚ण्यवर्तनी॒ इति॒ हिर᳚ण्यऽवर्तनी | उ॒षः॒ऽबुधः॑¦व॒ह॒न्तु॒¦सोम॑ऽपीतये || |
[93] अग्नीषोमाविति द्वादशर्चस्य सूक्तस्य राहूगणोगोतमोग्नीषोमौत्रिष्टुप् आद्यास्तिस्रोनुष्टुभोष्टमीजगतीवा नवम्यादितिस्रोगायत्र्यः | |
अग्नी᳚षोमावि॒मं सु मे᳚ शृणु॒तं वृ॑षणा॒ हव᳚म् |{रहूगणो गोतमः | अग्नीषोमौ | अनुष्टुप्} प्रति॑ सू॒क्तानि॑ हर्यतं॒ भव॑तं दा॒शुषे॒ मयः॑ ||{1/12}{1.93.1}{1.14.9.1}{1.6.28.1}{1029, 93, 1029} अग्नी᳚षोमौ¦इ॒मम्¦सु¦मे॒¦शृ॒णु॒तम्¦वृ॒ष॒णा॒¦हव᳚म् | प्रति॑¦सु॒।औ॒क्तानि॑¦ह॒र्य॒त॒म्¦भव॑तम्¦दा॒शुषे᳚¦मयः॑ || |
अग्नी᳚षोमा॒ यो, अ॒द्य वा᳚मि॒दं वचः॑ सप॒र्यति॑ |{रहूगणो गोतमः | अग्नीषोमौ | अनुष्टुप्} तस्मै᳚ धत्तं सु॒वीर्यं॒ गवां॒ पोषं॒ स्वश्व्य᳚म् ||{2/12}{1.93.2}{1.14.9.2}{1.6.28.2}{1030, 93, 1030} अग्नी᳚षोमा¦यः¦अ॒द्य¦वा॒म्¦इ॒दम्¦वचः॑¦स॒प॒र्यति॑ | तस्मै᳚¦ध॒त्त॒म्¦सु॒ऽवीर्य᳚म्¦गवा᳚म्¦पोष᳚म्¦सु॒।आश्व्य᳚म् || |
अग्नी᳚षोमा॒ य आहु॑तिं॒ यो वां॒ दाशा᳚द्ध॒विष्कृ॑तिम् |{रहूगणो गोतमः | अग्नीषोमौ | अनुष्टुप्} स प्र॒जया᳚ सु॒वीर्यं॒ विश्व॒मायु॒र्व्य॑श्नवत् ||{3/12}{1.93.3}{1.14.9.3}{1.6.28.3}{1031, 93, 1031} अग्नी᳚षोमा¦यः¦आऽहु॑तिम्¦यः¦वा॒म्¦दाशा᳚त्¦ह॒विःऽकृ॑तिम् | सः¦प्र॒ऽजया᳚¦सु॒ऽवीर्य᳚म्¦विश्व᳚म्¦आयुः॑¦वि¦अ॒श्न॒व॒त् || |
अग्नी᳚षोमा॒ चेति॒ तद् वी॒र्यं᳚ वां॒ यदमु॑ष्णीतमव॒सं प॒णिं गाः |{रहूगणो गोतमः | अग्नीषोमौ | त्रिष्टुप्} अवा᳚तिरतं॒ बृस॑यस्य॒ शेषोऽवि᳚न्दतं॒ ज्योति॒रेकं᳚ ब॒हुभ्यः॑ ||{4/12}{1.93.4}{1.14.9.4}{1.6.28.4}{1032, 93, 1032} अग्नी᳚षोमा¦चेति॑¦तत्¦वी॒र्य᳚म्¦वा॒म्¦यत्¦अमु॑ष्णीतम्¦अ॒व॒सम्¦प॒णिम्¦गाः | |
यु॒वमे॒तानि॑ दि॒वि रो᳚च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू, अधत्तम् |{रहूगणो गोतमः | अग्नीषोमौ | त्रिष्टुप्} यु॒वं सिन्धूँ᳚र॒भिश॑स्तेरव॒द्यादग्नी᳚षोमा॒वमु᳚ञ्चतं गृभी॒तान् ||{5/12}{1.93.5}{1.14.9.5}{1.6.28.5}{1033, 93, 1033} यु॒वम्¦ए॒तानि॑¦दि॒वि¦रो॒च॒नानि॑¦अ॒ग्निः¦च॒¦सो॒म॒¦सक्र॑तू॒ इति॒ सऽक्र॑तू¦अ॒ध॒त्त॒म् | |
आन्यं दि॒वो मा᳚त॒रिश्वा᳚ जभा॒राम॑थ्नाद॒न्यं परि॑ श्ये॒नो, अद्रेः᳚ |{रहूगणो गोतमः | अग्नीषोमौ | त्रिष्टुप्} अग्नी᳚षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं य॒ज्ञाय॑ चक्रथुरु लो॒कम् ||{6/12}{1.93.6}{1.14.9.6}{1.6.28.6}{1034, 93, 1034} आ¦अ॒न्यम्¦दि॒वः¦मा॒त॒रिश्वा᳚¦ज॒भा॒र॒¦अम॑थ्नात्¦अ॒न्यम्¦परि॑¦श्ये॒नः¦अद्रेः᳚ | |
अग्नी᳚षोमा ह॒विषः॒ प्रस्थि॑तस्य वी॒तं हर्य॑तं वृषणा जु॒षेथा᳚म् |{रहूगणो गोतमः | अग्नीषोमौ | त्रिष्टुप्} सु॒शर्मा᳚णा॒ स्वव॑सा॒ हि भू॒तमथा᳚ धत्तं॒ यज॑मानाय॒ शं योः ||{7/12}{1.93.7}{1.14.9.7}{1.6.29.1}{1035, 93, 1035} अग्नी᳚षोमा¦ह॒विषः॑¦प्रऽस्थि॑तस्य¦वी॒तम्¦हर्य॑तम्¦वृ॒ष॒णा॒¦जु॒षेथा᳚म् | |
यो, अ॒ग्नीषोमा᳚ ह॒विषा᳚ सप॒र्याद् दे᳚व॒द्रीचा॒ मन॑सा॒ यो घृ॒तेन॑ |{रहूगणो गोतमः | अग्नीषोमौ | जगती} तस्य᳚ व्र॒तं र॑क्षतं पा॒तमंह॑सो वि॒शे जना᳚य॒ महि॒ शर्म॑ यच्छतम् ||{8/12}{1.93.8}{1.14.9.8}{1.6.29.2}{1036, 93, 1036} यः¦अ॒ग्नीषोमा᳚¦ह॒विषा᳚¦स॒प॒र्यात्¦दे॒व॒द्रीचा᳚¦मन॑सा¦यः¦घृ॒तेन॑ | |
अग्नी᳚षोमा॒ सवे᳚दसा॒ सहू᳚ती वनतं॒ गिरः॑ |{रहूगणो गोतमः | अग्नीषोमौ | गायत्री} सं दे᳚व॒त्रा ब॑भूवथुः ||{9/12}{1.93.9}{1.14.9.9}{1.6.29.3}{1037, 93, 1037} अग्नी᳚षोमा¦सऽवे᳚दसा¦सहू᳚ती॒ इति॒ सऽहू᳚ती¦व॒न॒त॒म्¦गिरः॑ | सम्¦दे॒व॒ऽत्रा¦ब॒भू॒व॒थुः॒ || |
अग्नी᳚षोमाव॒नेन॑ वां॒ यो वां᳚ घृ॒तेन॒ दाश॑ति |{रहूगणो गोतमः | अग्नीषोमौ | गायत्री} तस्मै᳚ दीदयतं बृ॒हत् ||{10/12}{1.93.10}{1.14.9.10}{1.6.29.4}{1038, 93, 1038} अग्नी᳚षोमौ¦अ॒नेन॑¦वा॒म्¦यः¦वा॒म्¦घृ॒तेन॑¦दाश॑ति | तस्मै᳚¦दी॒द॒य॒त॒म्¦बृ॒हत् || |
अग्नी᳚षोमावि॒मानि॑ नो यु॒वं ह॒व्या जु॑जोषतम् |{रहूगणो गोतमः | अग्नीषोमौ | गायत्री} आ या᳚त॒मुप॑ नः॒ सचा᳚ ||{11/12}{1.93.11}{1.14.9.11}{1.6.29.5}{1039, 93, 1039} अग्नी᳚षोमौ¦इ॒मानि॑¦नः॒¦यु॒वम्¦ह॒व्या¦जु॒जो॒ष॒त॒म् | आ¦या॒त॒म्¦उप॑¦नः॒¦सचा᳚ || |
अग्नी᳚षोमा पिपृ॒तमर्व॑तो न॒ आ प्या᳚ यन्तामु॒स्रिया᳚ हव्य॒सूदः॑ |{रहूगणो गोतमः | अग्नीषोमौ | त्रिष्टुप्} अ॒स्मे बला᳚नि म॒घव॑त्सु धत्तं कृणु॒तं नो᳚, अध्व॒रं श्रु॑ष्टि॒मन्त᳚म् ||{12/12}{1.93.12}{1.14.9.12}{1.6.29.6}{1040, 93, 1040} अग्नी᳚षोमा¦पि॒पृ॒तम्¦अर्व॑तः¦नः॒¦आ¦प्या॒य॒न्ता॒म्¦उ॒स्रियाः᳚¦ह॒व्य॒ऽसूदः॑ | |
[94] इमंस्तोममिति षोडशर्चस्य सूक्तस्य कुत्सोग्निः पूर्वोदेवाइत्यस्यादेवाअग्निश्च तन्नोमित्र इत्यंत्यार्धर्चस्यमित्रवरुणादिति सिंधुपृथिवीद्यावोजगती अंत्येत्रिष्टुभौ | (यद्दैवत्यंवा सूक्तमितिपक्षेऽग्निरेवदेवता) | |
इ॒मं स्तोम॒मर्ह॑ते जा॒तवे᳚दसे॒ रथ॑मिव॒ सं म॑हेमा मनी॒षया᳚ |{कुत्सः | अग्निः | जगती} भ॒द्रा हि नः॒ प्रम॑तिरस्य सं॒सद्यग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{1/16}{1.94.1}{1.15.1.1}{1.6.30.1}{1041, 94, 1041} इ॒मम्¦स्तोम᳚म्¦अर्ह॑ते¦जा॒तऽवे᳚दसे¦रथ᳚म्ऽइव¦सम्¦म॒हे॒म॒¦म॒नी॒षया᳚ | |
यस्मै॒ त्वमा॒यज॑से॒ स सा᳚धत्यन॒र्वा क्षे᳚ति॒ दध॑ते सु॒वीर्य᳚म् |{कुत्सः | अग्निः | जगती} स तू᳚ताव॒ नैन॑मश्नोत्यंह॒तिरग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{2/16}{1.94.2}{1.15.1.2}{1.6.30.2}{1042, 94, 1042} यस्मै᳚¦त्वम्¦आ॒ऽयज॑से¦सः¦सा॒ध॒ति॒¦अ॒न॒र्वा¦क्षे॒ति॒¦दध॑ते¦सु॒ऽवीर्य᳚म् | |
श॒केम॑ त्वा स॒मिधं᳚ सा॒धया॒ धिय॒स्त्वे दे॒वा ह॒विर॑द॒न् त्याहु॑तम् |{कुत्सः | अग्निः | जगती} त्वमा᳚दि॒त्याँ, आ व॑ह॒ तान् ह्यु१॑(उ॒)श्मस्यग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{3/16}{1.94.3}{1.15.1.3}{1.6.30.3}{1043, 94, 1043} श॒केम॑¦त्वा॒¦स॒म्ऽइध᳚म्¦सा॒धय॑¦धियः॑¦त्वे॒ इति॑¦दे॒वाः¦ह॒विः¦अ॒द॒न्ति॒¦आऽहु॑तम् | |
भरा᳚मे॒ध्मं कृ॒णवा᳚मा ह॒वींषि॑ ते चि॒तय᳚न्तः॒ पर्व॑णापर्वणा व॒यम् |{कुत्सः | अग्निः | जगती} जी॒वात॑वे प्रत॒रं सा᳚धया॒ धियोऽग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{4/16}{1.94.4}{1.15.1.4}{1.6.30.4}{1044, 94, 1044} भरा᳚म¦इ॒ध्मम्¦कृ॒णवा᳚म¦ह॒वींषि॑¦ते॒¦चि॒तय᳚न्तः¦पर्व॑णाऽपर्वणा¦व॒यम् | |
वि॒शां गो॒पा, अ॑स्य चरन्ति ज॒न्तवो᳚ द्वि॒पच्च॒ यदु॒त चतु॑ष्पद॒क्तुभिः॑ |{कुत्सः | अग्निः | जगती} चि॒त्रः प्र॑के॒त उ॒षसो᳚ म॒हाँ, अ॒स्यग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{5/16}{1.94.5}{1.15.1.5}{1.6.30.5}{1045, 94, 1045} वि॒शाम्¦गो॒पाः¦अ॒स्य॒¦च॒र॒न्ति॒¦ज॒न्तवः॑¦द्वि॒ऽपत्¦च॒¦यत्¦उ॒त¦चतुः॑ऽपत्¦अ॒क्तुऽभिः॑ | |
त्वम॑ध्व॒र्युरु॒त होता᳚सि पू॒र्व्यः प्र॑शा॒स्ता पोता᳚ ज॒नुषा᳚ पु॒रोहि॑तः |{कुत्सः | अग्निः | जगती} विश्वा᳚ वि॒द्वाँ, आर्त्वि॑ज्या धीर पुष्य॒स्यग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{6/16}{1.94.6}{1.15.1.6}{1.6.31.1}{1046, 94, 1046} त्वम्¦अ॒ध्व॒र्युः¦उ॒त¦होता᳚¦अ॒सि॒¦पू॒र्व्यः¦प्र॒ऽशा॒स्ता¦पोता᳚¦ज॒नुषा᳚¦पु॒रःऽहि॑तः | |
यो वि॒श्वतः॑ सु॒प्रती᳚कः स॒दृङ्ङसि॑ दू॒रे चि॒त्सन्त॒ळिदि॒वाति॑ रोचसे |{कुत्सः | अग्निः | जगती} रात्र्या᳚श्चि॒दन्धो॒, अति॑ देव पश्य॒स्यग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{7/16}{1.94.7}{1.15.1.7}{1.6.31.2}{1047, 94, 1047} यः¦वि॒श्वतः॑¦सु॒ऽप्रती᳚कः¦स॒ऽदृङ्¦असि॑¦दू॒रे¦चि॒त्¦सन्¦त॒ळित्ऽइ᳚व¦अति॑¦रो॒च॒से॒ | |
पूर्वो᳚ देवा भवतु सुन्व॒तो रथो॒ऽस्माकं॒ शंसो᳚, अ॒भ्य॑स्तु दू॒ढ्यः॑ |{कुत्सः | १/४/, २/४, ३/४:देवाः ४/४: अग्निः | जगती} तदा जा᳚नीतो॒त पु॑ष्यता॒ वचोऽग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{8/16}{1.94.8}{1.15.1.8}{1.6.31.3}{1048, 94, 1048} पूर्वः॑¦दे॒वाः॒¦भ॒व॒तु॒¦सु॒न्व॒तः¦रथः॑¦अ॒स्माक᳚म्¦शंसः॑¦अ॒भि¦अ॒स्तु॒¦दुः॒ऽध्यः॑ | |
व॒धैर्दुः॒शंसाँ॒, अप॑ दू॒ढ्यो᳚ जहि दू॒रे वा॒ ये, अन्ति॑ वा॒ के चि॑द॒त्रिणः॑ |{कुत्सः | अग्निः | जगती} अथा᳚ य॒ज्ञाय॑ गृण॒ते सु॒गं कृ॒ध्यग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{9/16}{1.94.9}{1.15.1.9}{1.6.31.4}{1049, 94, 1049} व॒धैः¦दुः॒ऽशंसा᳚न्¦अप॑¦दुः॒ऽध्यः॑¦ज॒हि॒¦दू॒रे¦वा॒¦ये¦अन्ति॑¦वा॒¦के¦चि॒त्¦अ॒त्रिणः॑ | |
यदयु॑क्था, अरु॒षा रोहि॑ता॒ रथे॒ वात॑जूता वृष॒भस्ये᳚व ते॒ रवः॑ |{कुत्सः | अग्निः | जगती} आदि᳚न्वसि व॒निनो᳚ धू॒मके᳚तु॒नाऽग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{10/16}{1.94.10}{1.15.1.10}{1.6.31.5}{1050, 94, 1050} यत्¦अयु॑क्थाः¦अ॒रु॒षा¦रोहि॑ता¦रथे᳚¦वात॑ऽजूता¦वृ॒ष॒भस्य॑ऽइव¦ते॒¦रवः॑ | |
अध॑ स्व॒नादु॒त बि॑भ्युः पत॒त्रिणो᳚ द्र॒प्सा यत्ते᳚ यव॒सादो॒ व्यस्थि॑रन् |{कुत्सः | अग्निः | जगती} सु॒गं तत्ते᳚ ताव॒केभ्यो॒ रथे॒भ्योऽग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{11/16}{1.94.11}{1.15.1.11}{1.6.32.1}{1051, 94, 1051} अध॑¦स्व॒नात्¦उ॒त¦बि॒भ्युः॒¦प॒त॒त्रिणः॑¦द्र॒प्साः¦यत्¦ते॒¦य॒व॒स॒।आदः॑¦वि¦अस्थि॑रन् | |
अ॒यं मि॒त्रस्य॒ वरु॑णस्य॒ धाय॑से वया॒तां म॒रुतां॒ हेळो॒, अद्भु॑तः |{कुत्सः | अग्निः | जगती} मृ॒ळा सु नो॒ भूत्वे᳚षां॒ मनः॒ पुन॒रग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{12/16}{1.94.12}{1.15.1.12}{1.6.32.2}{1052, 94, 1052} अ॒यम्¦मि॒त्रस्य॑¦वरु॑णस्य¦धाय॑से¦अ॒व॒ऽया॒ताम्¦म॒रुता᳚म्¦हेळः॑¦अद्भु॑तः | |
दे॒वो दे॒वाना᳚मसि मि॒त्रो, अद्भु॑तो॒ वसु॒र्वसू᳚नामसि॒ चारु॑रध्व॒रे |{कुत्सः | अग्निः | जगती} शर्म᳚न् त्स्याम॒ तव॑ स॒प्रथ॑स्त॒मेऽग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{13/16}{1.94.13}{1.15.1.13}{1.6.32.3}{1053, 94, 1053} दे॒वः¦दे॒वाना᳚म्¦अ॒सि॒¦मि॒त्रः¦अद्भु॑तः¦वसुः॑¦वसू᳚नाम्¦अ॒सि॒¦चारुः॑¦अ॒ध्व॒रे | |
तत्ते᳚ भ॒द्रं यत्समि॑द्धः॒ स्वे दमे॒ सोमा᳚हुतो॒ जर॑से मृळ॒यत्त॑मः |{कुत्सः | अग्निः | जगती} दधा᳚सि॒ रत्नं॒ द्रवि॑णं च दा॒शुषेऽग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{14/16}{1.94.14}{1.15.1.14}{1.6.32.4}{1054, 94, 1054} तत्¦ते॒¦भ॒द्रम्¦यत्¦सम्ऽइ᳚द्धः¦स्वे¦दमे᳚¦सोम॑ऽआहुतः¦जर॑से¦मृ॒ळ॒यत्ऽत॑मः | |
यस्मै॒ त्वं सु॑द्रविणो॒ ददा᳚शोऽनागा॒स्त्वम॑दिते स॒र्वता᳚ता |{कुत्सः | अग्निः | त्रिष्टुप्} यं भ॒द्रेण॒ शव॑सा चो॒दया᳚सि प्र॒जाव॑ता॒ राध॑सा॒ ते स्या᳚म ||{15/16}{1.94.15}{1.15.1.15}{1.6.32.5}{1055, 94, 1055} यस्मै᳚¦त्वम्¦सु॒ऽद्र॒वि॒णः॒¦ददा᳚शः¦अ॒ना॒गाः॒ऽत्वम्¦अ॒दि॒ते॒¦स॒र्वऽता᳚ता | |
स त्वम॑ग्ने सौभग॒त्वस्य॑ वि॒द्वान॒स्माक॒मायुः॒ प्र ति॑रे॒ह दे᳚व |{कुत्सः | १/२: अग्निः, २/२: मित्रवरुणादितिसिन्धुप्रथवीद्यावो | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{16/16}{1.94.16}{1.15.1.16}{1.6.32.6}{1056, 94, 1056} सः¦त्वम्¦अ॒ग्ने॒¦सौ॒भ॒ग॒ऽत्वस्य॑¦वि॒द्वान्¦अ॒स्माक᳚म्¦आयुः॑¦प्र¦ति॒र॒¦इ॒ह¦दे॒व॒ | |
[95] द्वेविरूपेइत्येकादशर्चस्य सूक्तस्य कुत्स उषोग्निस्त्रिष्टुप् | (इतआरभ्यजातवेदसइत्यंतं शुद्धोग्निर्वा) | |
द्वे विरू᳚पे चरतः॒ स्वर्थे᳚, अ॒न्यान्या᳚ व॒त्समुप॑ धापयेते |{कुत्सः | उषोग्नि | त्रिष्टुप्} हरि॑र॒न्यस्यां॒ भव॑ति स्व॒धावा᳚ञ् छु॒क्रो, अ॒न्यस्यां᳚ ददृशे सु॒वर्चाः᳚ ||{1/11}{1.95.1}{1.15.2.1}{1.7.1.1}{1057, 95, 1057} द्वे इति॑¦विरू᳚पे॒ इति॒ विऽरू᳚पे¦च॒र॒तः॒¦स्वर्थे॒ इति॑ सु॒।आर्थे᳚¦अ॒न्या।आ᳚न्या¦व॒त्सम्¦उप॑¦धा॒प॒ये॒ते॒ इति॑ | |
दशे॒मं त्वष्टु॑र्जनयन्त॒ गर्भ॒मत᳚न्द्रासो युव॒तयो॒ विभृ॑त्रम् |{कुत्सः | उषोग्नि | त्रिष्टुप्} ति॒ग्मानी᳚कं॒ स्वय॑शसं॒ जने᳚षु वि॒रोच॑मानं॒ परि॑ षीं नयन्ति ||{2/11}{1.95.2}{1.15.2.2}{1.7.1.2}{1058, 95, 1058} दश॑¦इ॒मम्¦त्वष्टुः॑¦ज॒न॒य॒न्त॒¦गर्भ᳚म्¦अत᳚न्द्रासः¦यु॒व॒तयः॑¦विऽभृ॑त्रम् | |
त्रीणि॒ जाना॒ परि॑ भूषन्त्यस्य समु॒द्र एकं᳚ दि॒व्येक॑म॒प्सु |{कुत्सः | उषोग्नि | त्रिष्टुप्} पूर्वा॒मनु॒ प्र दिशं॒ पार्थि॑वानामृ॒तून् प्र॒शास॒द् वि द॑धावनु॒ष्ठु ||{3/11}{1.95.3}{1.15.2.3}{1.7.1.3}{1059, 95, 1059} त्रीणि॑¦जाना᳚¦परि॑¦भू॒ष॒न्ति॒¦अ॒स्य॒¦स॒मु॒द्रे¦एक᳚म्¦दि॒वि¦एक᳚म्¦अ॒प्ऽसु | |
क इ॒मं वो᳚ नि॒ण्यमा चि॑केत व॒त्सो मा॒तॄर्ज॑नयत स्व॒धाभिः॑ |{कुत्सः | उषोग्नि | त्रिष्टुप्} ब॒ह्वी॒नां गर्भो᳚, अ॒पसा᳚मु॒पस्था᳚न्म॒हान् क॒विर्निश्च॑रति स्व॒धावा॑न् ||{4/11}{1.95.4}{1.15.2.4}{1.7.1.4}{1060, 95, 1060} कः¦इ॒मम्¦वः॒¦नि॒ण्यम्¦आ¦चि॒के॒त॒¦व॒त्सः¦मा॒तॄः¦ज॒न॒य॒त॒¦स्व॒धाभिः॑ | |
आ॒विष्ट्यो᳚ वर्धते॒ चारु॑रासु जि॒ह्माना᳚मू॒र्ध्वः स्वय॑शा, उ॒पस्थे᳚ |{कुत्सः | उषोग्नि | त्रिष्टुप्} उ॒भे त्वष्टु॑र्बिभ्यतु॒र्जाय॑मानात् प्रती॒ची सिं॒हं प्रति॑ जोषयेते ||{5/11}{1.95.5}{1.15.2.5}{1.7.1.5}{1061, 95, 1061} आ॒विःऽत्यः॑¦व॒र्ध॒ते॒¦चारुः॑¦आ॒सु॒¦जि॒ह्माना᳚म्¦ऊ॒र्ध्वः¦स्वऽय॑शाः¦उ॒पऽस्थे᳚ | |
उ॒भे भ॒द्रे जो᳚षयेते॒ न मेने॒ गावो॒ न वा॒श्रा, उप॑ तस्थु॒रेवैः᳚ |{कुत्सः | उषोग्नि | त्रिष्टुप्} स दक्षा᳚णां॒ दक्ष॑पतिर्बभूवा॒ञ्जन्ति॒ यं द॑क्षिण॒तो ह॒विर्भिः॑ ||{6/11}{1.95.6}{1.15.2.6}{1.7.2.1}{1062, 95, 1062} उ॒भे इति॑¦भ॒द्रे इति॑¦जो॒ष॒ये॒ते॒ इति॑¦न¦मेने॒ इति॑¦गावः॑¦न¦वा॒श्राः¦उप॑¦त॒स्थुः॒¦एवैः᳚ | |
उद् यं᳚यमीति सवि॒तेव॑ बा॒हू, उ॒भे सिचौ᳚ यतते भी॒म ऋ॒ञ्जन् |{कुत्सः | उषोग्नि | त्रिष्टुप्} उच्छु॒क्रमत्क॑मजते सि॒मस्मा॒न्नवा᳚ मा॒तृभ्यो॒ वस॑ना जहाति ||{7/11}{1.95.7}{1.15.2.7}{1.7.2.2}{1063, 95, 1063} उत्¦यं॒य॒मी॒ति॒¦स॒वि॒ताऽइ᳚व¦बा॒हू इति॑¦उ॒भे इति॑¦सिचौ᳚¦य॒त॒ते॒¦भी॒मः¦ऋं॒जन् | |
त्वे॒षं रू॒पं कृ॑णुत॒ उत्त॑रं॒ यत् स᳚म्पृञ्चा॒नः सद॑ने॒ गोभि॑र॒द्भिः |{कुत्सः | उषोग्नि | त्रिष्टुप्} क॒विर्बु॒ध्नं परि॑ मर्मृज्यते॒ धीः सा दे॒वता᳚ता॒ समि॑तिर्बभूव ||{8/11}{1.95.8}{1.15.2.8}{1.7.2.3}{1064, 95, 1064} त्वे॒षम्¦रू॒पम्¦कृ॒णु॒ते॒¦उत्ऽत॑रम्¦यत्¦स॒म्ऽपृं॒चा॒नः¦सद॑ने॒¦गोभिः॑¦अ॒त्ऽभिः | |
उ॒रु ते॒ ज्रयः॒ पर्ये᳚ति बु॒ध्नं वि॒रोच॑मानं महि॒षस्य॒ धाम॑ |{कुत्सः | उषोग्नि | त्रिष्टुप्} विश्वे᳚भिरग्ने॒ स्वय॑शोभिरि॒द्धो ऽद॑ब्धेभिः पा॒युभिः॑ पाह्य॒स्मान् ||{9/11}{1.95.9}{1.15.2.9}{1.7.2.4}{1065, 95, 1065} उ॒रु¦ते॒¦ज्रयः॑¦परि॑¦ए॒ति॒¦बु॒ध्नम्¦वि॒ऽरोच॑मानम्¦म॒हि॒षस्य॑¦धाम॑ | |
धन्व॒न् त्स्रोतः॑ कृणुते गा॒तुमू॒र्मिं शु॒क्रैरू॒र्मिभि॑र॒भि न॑क्षति॒ क्षाम् |{कुत्सः | उषोग्नि | त्रिष्टुप्} विश्वा॒ सना᳚नि ज॒ठरे᳚षु धत्ते॒ऽन्तर्नवा᳚सु चरति प्र॒सूषु॑ ||{10/11}{1.95.10}{1.15.2.10}{1.7.2.5}{1066, 95, 1066} धन्व॑न्¦स्रोतः॑¦कृ॒णु॒ते॒¦ग॒तुम्¦ऊ॒र्मिम्¦शु॒क्रैः¦ऊ॒र्मिऽभिः॑¦अ॒भि¦न॒क्ष॒ति॒¦क्षाम् | |
ए॒वा नो᳚, अग्ने स॒मिधा᳚ वृधा॒नो रे॒वत् पा᳚वक॒ श्रव॑से॒ वि भा᳚हि |{कुत्सः | उषोग्नि | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{11/11}{1.95.11}{1.15.2.11}{1.7.2.6}{1067, 95, 1067} ए॒व¦नः॒¦अ॒ग्ने॒¦स॒म्ऽइधा᳚¦वृ॒धा॒नः¦रे॒वत्¦पा॒व॒क॒¦श्रव॑से¦वि¦भा॒हि॒ | |
[96] सप्रत्नथेति नवर्चस्य सूक्तस्य कुत्सोद्रविणोदाअग्निस्त्रिष्टुप् | |
स प्र॒त्नथा॒ सह॑सा॒ जाय॑मानः स॒द्यः काव्या᳚नि॒ बळ॑धत्त॒ विश्वा᳚ |{कुत्सः | द्रविणोदा अग्निर्वा | त्रिष्टुप्} आप॑श्च मि॒त्रं धि॒षणा᳚ च साधन् दे॒वा, अ॒ग्निं धा᳚रयन् द्रविणो॒दाम् ||{1/9}{1.96.1}{1.15.3.1}{1.7.3.1}{1068, 96, 1068} सः¦प्र॒त्नऽथा᳚¦सह॑सा¦जाय॑मानः¦स॒द्यः¦काव्या᳚नि¦बट्¦अ॒ध॒त्त॒¦विश्वा᳚ | |
स पूर्व॑या नि॒विदा᳚ क॒व्यता॒योरि॒माः प्र॒जा, अ॑जनय॒न्मनू᳚नाम् |{कुत्सः | द्रविणोदा अग्निर्वा | त्रिष्टुप्} वि॒वस्व॑ता॒ चक्ष॑सा॒ द्याम॒पश्च॑ दे॒वा, अ॒ग्निं धा᳚रयन् द्रविणो॒दाम् ||{2/9}{1.96.2}{1.15.3.2}{1.7.3.2}{1069, 96, 1069} सः¦पूर्व॑या¦नि॒ऽविदा᳚¦क॒व्यता᳚¦आ॒योः¦इ॒माः¦प्र॒ऽजाः¦अ॒ज॒न॒य॒त्¦मनू᳚नाम् | |
तमी᳚ळत प्रथ॒मं य॑ज्ञ॒साधं॒ विश॒ आरी॒राहु॑तमृञ्जसा॒नम् |{कुत्सः | द्रविणोदा अग्निर्वा | त्रिष्टुप्} ऊ॒र्जः पु॒त्रं भ॑र॒तं सृ॒प्रदा᳚नुं दे॒वा, अ॒ग्निं धा᳚रयन् द्रविणो॒दाम् ||{3/9}{1.96.3}{1.15.3.3}{1.7.3.3}{1070, 96, 1070} तम्¦इ॒ळ॒त॒¦प्र॒थ॒मम्¦य॒ज्ञ॒ऽसाध᳚म्¦विशः॑¦आरीः᳚¦आऽहु॑तम्¦ऋं॒ज॒सा॒नम् | |
स मा᳚त॒रिश्वा᳚ पुरु॒वार॑पुष्टिर्वि॒दद् गा॒तुं तन॑याय स्व॒र्वित् |{कुत्सः | द्रविणोदा अग्निर्वा | त्रिष्टुप्} वि॒शां गो॒पा ज॑नि॒ता रोद॑स्योर्दे॒वा, अ॒ग्निं धा᳚रयन् द्रविणो॒दाम् ||{4/9}{1.96.4}{1.15.3.4}{1.7.3.4}{1071, 96, 1071} सः¦मा॒त॒रिश्वा᳚¦पु॒रु॒वार॑ऽपुष्टिः¦वि॒दत्¦गा॒तुम्¦तन॑याय¦स्वः॒ऽवित् | |
नक्तो॒षासा॒ वर्ण॑मा॒मेम्या᳚ने धा॒पये᳚ते॒ शिशु॒मेकं᳚ समी॒ची |{कुत्सः | द्रविणोदा अग्निर्वा | त्रिष्टुप्} द्यावा॒क्षामा᳚ रु॒क्मो, अ॒न्तर्वि भा᳚ति दे॒वा, अ॒ग्निं धा᳚रयन् द्रविणो॒दाम् ||{5/9}{1.96.5}{1.15.3.5}{1.7.3.5}{1072, 96, 1072} नक्तो॒षसा᳚¦वर्ण᳚म्¦आ॒मेम्या᳚ने॒ इत्या॒ऽमेम्या᳚ने¦धा॒पये᳚ते॒ इति॑¦शिशु᳚म्¦एक᳚म्¦स॒मी॒ची इति॑ स॒म्ऽई॒ची | |
रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू᳚नां य॒ज्ञस्य॑ के॒तुर्म᳚न्म॒साध॑नो॒ वेः |{कुत्सः | द्रविणोदा अग्निर्वा | त्रिष्टुप्} अ॒मृ॒त॒त्वं रक्ष॑माणास एनं दे॒वा, अ॒ग्निं धा᳚रयन् द्रविणो॒दाम् ||{6/9}{1.96.6}{1.15.3.6}{1.7.4.1}{1073, 96, 1073} रा॒यः¦बु॒ध्नः¦स॒म्ऽगम॑नः¦वसू᳚नाम्¦य॒ज्ञस्य॑¦के॒तुः¦म॒न्म॒ऽसाध॑नः¦वेरिति॒ वेः | |
नू च॑ पु॒रा च॒ सद॑नं रयी॒णां जा॒तस्य॑ च॒ जाय॑मानस्य च॒ क्षाम् |{कुत्सः | द्रविणोदा अग्निर्वा | त्रिष्टुप्} स॒तश्च॑ गो॒पां भव॑तश्च॒ भूरे᳚र्दे॒वा, अ॒ग्निं धा᳚रयन् द्रविणो॒दाम् ||{7/9}{1.96.7}{1.15.3.7}{1.7.4.2}{1074, 96, 1074} नु¦च॒¦पु॒रा¦च॒¦सद॑नम्¦र॒यी॒णाम्¦जा॒तस्य॑¦च॒¦जाय॑मानस्य¦च॒¦क्षाम् | |
द्र॒वि॒णो॒दा द्रवि॑णसस्तु॒रस्य॑ द्रविणो॒दाः सन॑रस्य॒ प्र यं᳚सत् |{कुत्सः | द्रविणोदा अग्निर्वा | त्रिष्टुप्} द्र॒वि॒णो॒दा वी॒रव॑ती॒मिषं᳚ नो द्रविणो॒दा रा᳚सते दी॒र्घमायुः॑ ||{8/9}{1.96.8}{1.15.3.8}{1.7.4.3}{1075, 96, 1075} द्र॒वि॒णः॒ऽदाः¦द्रवि॑णसः¦तु॒रस्य॑¦द्र॒वि॒णः॒ऽदाः¦सन॑रस्य¦प्र¦यं॒स॒त् | |
ए॒वा नो᳚, अग्ने स॒मिधा᳚ वृधा॒नो रे॒वत् पा᳚वक॒ श्रव॑से॒ वि भा᳚हि |{कुत्सः | द्रविणोदा अग्निर्वा | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{9/9}{1.96.9}{1.15.3.9}{1.7.4.4}{1076, 96, 1076} ए॒व¦नः॒¦अ॒ग्ने॒¦स॒म्ऽइधा᳚¦वृ॒धा॒नः¦रे॒वत्¦पा॒व॒क॒¦श्रव॑से¦वि¦भा॒हि॒ | |
[97] अपनइत्यष्टर्चस्य सूक्तस्यकुत्सःशुचिरग्निर्गायत्री | |
अप॑ नः॒ शोशु॑चद॒घमग्ने᳚ शुशु॒ग्ध्या र॒यिम् |{कुत्सः | शुचिरग्निर्वा | गायत्री} अप॑ नः॒ शोशु॑चद॒घम् ||{1/8}{1.97.1}{1.15.4.1}{1.7.5.1}{1077, 97, 1077} अप॑¦नः॒¦शोशु॑चत्¦अ॒घम्¦अग्ने᳚¦शु॒शु॒ग्धि¦आ¦र॒यिम् | अप॑¦नः॒¦शोशु॑चत्¦अ॒घम् || |
सु॒क्षे॒त्रि॒या सु॑गातु॒या व॑सू॒या च॑ यजामहे |{कुत्सः | शुचिरग्निर्वा | गायत्री} अप॑ नः॒ शोशु॑चद॒घम् ||{2/8}{1.97.2}{1.15.4.2}{1.7.5.2}{1078, 97, 1078} सु॒ऽक्षे॒त्रि॒या¦सु॒गा॒तु॒ऽया¦व॒सु॒ऽया¦च॒¦य॒जा॒म॒हे॒ | अप॑¦नः॒¦शोशु॑चत्¦अ॒घम् || |
प्र यद् भन्दि॑ष्ठ एषां॒ प्रास्माका᳚सश्च सू॒रयः॑ |{कुत्सः | शुचिरग्निर्वा | गायत्री} अप॑ नः॒ शोशु॑चद॒घम् ||{3/8}{1.97.3}{1.15.4.3}{1.7.5.3}{1079, 97, 1079} प्र¦यत्¦भन्दि॑ष्ठः¦ए॒षा॒म्¦प्र¦अ॒स्माका᳚सः¦च॒¦सू॒रयः॑ | अप॑¦नः॒¦शोशु॑चत्¦अ॒घम् || |
प्र यत्ते᳚, अग्ने सू॒रयो॒ जाये᳚महि॒ प्र ते᳚ व॒यम् |{कुत्सः | शुचिरग्निर्वा | गायत्री} अप॑ नः॒ शोशु॑चद॒घम् ||{4/8}{1.97.4}{1.15.4.4}{1.7.5.4}{1080, 97, 1080} प्र¦यत्¦ते॒¦अ॒ग्ने॒¦सू॒रयः॑¦जाये᳚महि¦प्र¦ते॒¦व॒यम् | अप॑¦नः॒¦शोशु॑चत्¦अ॒घम् || |
प्र यद॒ग्नेः सह॑स्वतो वि॒श्वतो॒ यन्ति॑ भा॒नवः॑ |{कुत्सः | शुचिरग्निर्वा | गायत्री} अप॑ नः॒ शोशु॑चद॒घम् ||{5/8}{1.97.5}{1.15.4.5}{1.7.5.5}{1081, 97, 1081} प्र¦यत्¦अ॒ग्नेः¦सह॑स्वतः¦वि॒श्वतः॑¦यन्ति॑¦भा॒नवः॑ | अप॑¦नः॒¦शोशु॑चत्¦अ॒घम् || |
त्वं हि वि॑श्वतोमुख वि॒श्वतः॑ परि॒भूरसि॑ |{कुत्सः | शुचिरग्निर्वा | गायत्री} अप॑ नः॒ शोशु॑चद॒घम् ||{6/8}{1.97.6}{1.15.4.6}{1.7.5.6}{1082, 97, 1082} त्वम्¦हि¦वि॒श्व॒तः॒ऽमु॒ख॒¦वि॒श्वतः॑¦प॒रि॒ऽभूः¦असि॑ | अप॑¦नः॒¦शोशु॑चत्¦अ॒घम् || |
द्विषो᳚ नो विश्वतोमु॒खाति॑ ना॒वेव॑ पारय |{कुत्सः | शुचिरग्निर्वा | गायत्री} अप॑ नः॒ शोशु॑चद॒घम् ||{7/8}{1.97.7}{1.15.4.7}{1.7.5.7}{1083, 97, 1083} द्विषः॑¦नः॒¦वि॒श्व॒तः॒ऽमु॒ख॒¦अति॑¦ना॒वाऽइ᳚व¦पा॒र॒य॒ | अप॑¦नः॒¦शोशु॑चत्¦अ॒घम् || |
स नः॒ सिन्धु॑मिव ना॒वयाति॑ पर्षा स्व॒स्तये᳚ |{कुत्सः | शुचिरग्निर्वा | गायत्री} अप॑ नः॒ शोशु॑चद॒घम् ||{8/8}{1.97.8}{1.15.4.8}{1.7.5.8}{1084, 97, 1084} सः¦नः॒¦सिन्धु᳚म्ऽइव¦ना॒वया᳚¦अति॑¦प॒र्ष॒¦स्व॒स्तये᳚ | अप॑¦नः॒¦शोशु॑चत्¦अ॒घम् || |
[98] वैश्वानरस्येतितृचस्य सूक्तस्य कुत्सोवैश्वानरोग्निस्त्रिष्टुप् | |
वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या᳚म॒ राजा॒ हि कं॒ भुव॑नानामभि॒श्रीः |{कुत्सः | वैश्वानरोऽग्निर्वा | त्रिष्टुप्} इ॒तो जा॒तो विश्व॑मि॒दं वि च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये᳚ण ||{1/3}{1.98.1}{1.15.5.1}{1.7.6.1}{1085, 98, 1085} वै॒श्वा॒न॒रस्य॑¦सु॒ऽम॒तौ¦स्या॒म॒¦राजा᳚¦हि¦क॒म्¦भुव॑नानाम्¦अ॒भि॒ऽश्रीः | |
पृ॒ष्टो दि॒वि पृ॒ष्टो, अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒, ओष॑धी॒रा वि॑वेश |{कुत्सः | वैश्वानरोऽग्निर्वा | त्रिष्टुप्} वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो, अ॒ग्निः स नो॒ दिवा॒ स रि॒षः पा᳚तु॒ नक्त᳚म् ||{2/3}{1.98.2}{1.15.5.2}{1.7.6.2}{1086, 98, 1086} पृ॒ष्टः¦दि॒वि¦पृ॒ष्टः¦अ॒ग्निः¦पृ॒थि॒व्याम्¦पृ॒ष्टः¦विश्वाः᳚¦ओष॑धीः¦आ¦वि॒वे॒श॒ | |
वैश्वा᳚नर॒ तव॒ तत् स॒त्यम॑स्त्व॒स्मान् रायो᳚ म॒घवा᳚नः सचन्ताम् |{कुत्सः | वैश्वानरोऽग्निर्वा | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{3/3}{1.98.3}{1.15.5.3}{1.7.6.3}{1087, 98, 1087} वैश्वा᳚नर¦तव॑¦तत्¦स॒त्यम्¦अ॒स्तु॒¦अ॒स्मान्¦रायः॑¦म॒घऽवा᳚नः¦स॒च॒न्ता॒म् | |
[99] जातवेदसइत्येकर्चस्य सूक्तस्य मारीचः कश्यपोजातवेदा अग्निस्त्रिष्टुप् | |
जा॒तवे᳚दसे सुनवाम॒ सोम॑मरातीय॒तो नि द॑हाति॒ वेदः॑ |{मारीचः कश्यपः | जातवेदाग्निर्वा | त्रिष्टुप्} स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा᳚ ना॒वेव॒ सिन्धुं᳚ दुरि॒तात्य॒ग्निः ||{1/1}{1.99.1}{1.15.6.1}{1.7.7.1}{1088, 99, 1088} जा॒तऽवे᳚दसे¦सु॒न॒वा॒म॒¦सोम᳚म्¦अ॒रा॒ति॒ऽय॒तः¦नि¦द॒हा॒ति॒¦वेदः॑ | |
[100] सयोवृषेत्येकोनविंशतृचस्य सूक्तस्य वार्षागिराऋज्राश्वांबरीष सहदेव भयमानसुराधसइंद्रस्त्रिष्टुप् (इतआरभ्य मरुत्वानिंद्रैतिकश्चित् | तन्न | सर्वानुक्रमादिभिरनादृतत्वात्) |
स यो वृषा॒ वृष्ण्ये᳚भिः॒ समो᳚का म॒हो दि॒वः पृ॑थि॒व्याश्च॑ स॒म्राट् |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} स॒ती॒नस॑त्वा॒ हव्यो॒ भरे᳚षु म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{1/19}{1.100.1}{1.15.7.1}{1.7.8.1}{1089, 100, 1089} सः¦यः¦वृषा᳚¦वृष्ण्ये᳚भिः¦सम्ऽओ᳚काः¦म॒हः¦दि॒वः¦पृ॒थि॒व्याः¦च॒¦स॒म्ऽराट् | |
यस्याना᳚प्तः॒ सूर्य॑स्येव॒ यामो॒ भरे᳚भरे वृत्र॒हा शुष्मो॒, अस्ति॑ |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} वृष᳚न्तमः॒ सखि॑भिः॒ स्वेभि॒रेवै᳚र्म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{2/19}{1.100.2}{1.15.7.2}{1.7.8.2}{1090, 100, 1090} यस्य॑¦अना᳚प्तः¦सूर्य॑स्यऽइव¦यामः॑¦भरे᳚ऽभरे¦वृ॒त्र॒ऽहा¦शुष्मः॑¦अस्ति॑ | |
दि॒वो न यस्य॒ रेत॑सो॒ दुघा᳚नाः॒ पन्था᳚सो॒ यन्ति॒ शव॒साप॑रीताः |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} त॒रद्द्वे᳚षाः सास॒हिः पौंस्ये᳚भिर्म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{3/19}{1.100.3}{1.15.7.3}{1.7.8.3}{1091, 100, 1091} दि॒वः¦न¦यस्य॑¦रेत॑सः¦दुघा᳚नाः¦पन्था᳚सः¦यन्ति॑¦शव॑सा¦अप॑रिऽइताः | |
सो, अङ्गि॑रोभि॒रङ्गि॑रस्तमो भू॒द् वृषा॒ वृष॑भिः॒ सखि॑भिः॒ सखा॒ सन् |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} ऋ॒ग्मिभि᳚रृ॒ग्मी गा॒तुभि॒र्ज्येष्ठो᳚ म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{4/19}{1.100.4}{1.15.7.4}{1.7.8.4}{1092, 100, 1092} सः¦अङ्गि॑रःऽभिः¦अङ्गि॑रःऽतमः¦भू॒त्¦वृषा᳚¦वृष॑ऽभिः¦सखि॑ऽभिः¦सखा᳚¦सन् | |
स सू॒नुभि॒र्न रु॒द्रेभि॒रृभ्वा᳚ नृ॒षाह्ये᳚ सास॒ह्वाँ, अ॒मित्रा॑न् |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} सनी᳚ळेभिः श्रव॒स्या᳚नि॒ तूर्व᳚न् म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{5/19}{1.100.5}{1.15.7.5}{1.7.8.5}{1093, 100, 1093} सः¦सू॒नुऽभिः॑¦न¦रु॒द्रेभिः॑¦ऋभ्वा᳚¦नृ॒ऽसह्ये᳚¦स॒स॒ह्वान्¦अ॒मित्रा॑न् | |
स म᳚न्यु॒मीः स॒मद॑नस्य क॒र्तास्माके᳚भि॒र्नृभिः॒ सूर्यं᳚ सनत् |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} अ॒स्मिन्नह॒न् त्सत्प॑तिः पुरुहू॒तो म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{6/19}{1.100.6}{1.15.7.6}{1.7.9.1}{1094, 100, 1094} सः¦म॒न्यु॒ऽमीः¦स॒ऽमद॑नस्य¦क॒र्ता¦अ॒स्माके᳚भिः¦नृऽभिः॑¦सूर्य᳚म्¦स॒न॒त् | |
तमू॒तयो᳚ रणय॒ञ्छूर॑सातौ॒ तं क्षेम॑स्य क्षि॒तयः॑ कृण्वत॒ त्राम् |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} स विश्व॑स्य क॒रुण॑स्येश॒ एको᳚ म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{7/19}{1.100.7}{1.15.7.7}{1.7.9.2}{1095, 100, 1095} तम्¦ऊ॒तयः॑¦र॒ण॒य॒न्¦शूर॑ऽसातौ¦तम्¦क्षेम॑स्य¦क्षि॒तयः॑¦कृ॒ण्व॒त॒¦त्राम् | |
तम॑प्सन्त॒ शव॑स उत्स॒वेषु॒ नरो॒ नर॒मव॑से॒ तं धना᳚य |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} सो, अ॒न्धे चि॒त्तम॑सि॒ ज्योति᳚र्विदन् म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{8/19}{1.100.8}{1.15.7.8}{1.7.9.3}{1096, 100, 1096} तम्¦अ॒प्स॒न्त॒¦शव॑सः¦उ॒त्ऽस॒वेषु॑¦नरः॑¦नर᳚म्¦अव॑से¦तम्¦धना᳚य | |
स स॒व्येन॑ यमति॒ व्राध॑तश्चि॒त् स द॑क्षि॒णे संगृ॑भीता कृ॒तानि॑ |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} स की॒रिणा᳚ चि॒त् सनि॑ता॒ धना᳚नि म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{9/19}{1.100.9}{1.15.7.9}{1.7.9.4}{1097, 100, 1097} सः¦स॒व्येन॑¦य॒म॒ति॒¦व्राध॑तः¦चि॒त्¦सः¦द॒क्षि॒णे¦सम्ऽगृ॑भीता¦कृ॒तानि॑ | |
स ग्रामे᳚भिः॒ सनि॑ता॒ स रथे᳚भिर्वि॒दे विश्वा᳚भिः कृ॒ष्टिभि॒र्न्व१॑(अ॒)द्य |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} स पौंस्ये᳚भिरभि॒भूरश॑स्तीर्म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{10/19}{1.100.10}{1.15.7.10}{1.7.9.5}{1098, 100, 1098} सः¦ग्रामे᳚भिः¦सनि॑ता¦सः¦रथे᳚भिः¦वि॒दे¦विश्वा᳚भिः¦कृ॒ष्टिऽभिः॑¦नु¦अ॒द्य | |
स जा॒मिभि॒र्यत् स॒मजा᳚ति मी॒ळ्हे ऽजा᳚मिभिर्वा पुरुहू॒त एवैः᳚ |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} अ॒पां तो॒कस्य॒ तन॑यस्य जे॒षे म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{11/19}{1.100.11}{1.15.7.11}{1.7.10.1}{1099, 100, 1099} सः¦जा॒मिऽभिः॑¦यत्¦स॒म्।आजा᳚ति¦मी॒ळ्हे¦अजा᳚मिऽभिः¦वा॒¦पु॒रु॒ऽहू॒तः¦एवैः᳚ | |
स व॑ज्र॒भृद् द॑स्यु॒हा भी॒म उ॒ग्रः स॒हस्र॑चेताः श॒तनी᳚थ॒ ऋभ्वा᳚ |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} च॒म्री॒षो न शव॑सा॒ पाञ्च॑जन्यो म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{12/19}{1.100.12}{1.15.7.12}{1.7.10.2}{1100, 100, 1100} सः¦व॒ज्र॒ऽभृत्¦द॒स्यु॒ऽहा¦भी॒मः¦उ॒ग्रः¦स॒हस्र॑ऽचेताः¦श॒तऽनी᳚थः¦ऋभ्वा᳚ | |
तस्य॒ वज्रः॑ क्रन्दति॒ स्मत् स्व॒र्षा दि॒वो न त्वे॒षो र॒वथः॒ शिमी᳚वान् |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} तं स॑चन्ते स॒नय॒स्तं धना᳚नि म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{13/19}{1.100.13}{1.15.7.13}{1.7.10.3}{1101, 100, 1101} तस्य॑¦वज्रः॑¦क्र॒न्द॒ति॒¦स्मत्¦स्वः॒ऽसाः¦दि॒वः¦न¦त्वे॒षः¦र॒वथः॑¦शिमी᳚ऽवान् | |
यस्याज॑स्रं॒ शव॑सा॒ मान॑मु॒क्थं प॑रिभु॒जद् रोद॑सी वि॒श्वतः॑ सीम् |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} स पा᳚रिष॒त् क्रतु॑भिर्मन्दसा॒नो म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{14/19}{1.100.14}{1.15.7.14}{1.7.10.4}{1102, 100, 1102} यस्य॑¦अज॑स्रम्¦शव॑सा¦मान᳚म्¦उ॒क्थम्¦प॒रि॒ऽभु॒जत्¦रोद॑सी॒ इति॑¦वि॒श्वतः॑¦सी॒म् | |
न यस्य॑ दे॒वा दे॒वता॒ न मर्ता॒, आप॑श्च॒न शव॑सो॒, अन्त॑मा॒पुः |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} स प्र॒रिक्वा॒ त्वक्ष॑सा॒ क्ष्मो दि॒वश्च॑ म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{15/19}{1.100.15}{1.15.7.15}{1.7.10.5}{1103, 100, 1103} न¦यस्य॑¦दे॒वाः¦दे॒वता᳚¦न¦मर्ताः᳚¦आपः॑¦च॒न¦शव॑सः¦अन्त᳚म्¦आ॒पुः | |
रो॒हिच्छ्या॒वा सु॒मदं᳚शुर्लला॒मीर्द्यु॒क्षा रा॒य ऋ॒ज्राश्व॑स्य |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} वृष᳚ण्वन्तं॒ बिभ्र॑ती धू॒र्षु रथं᳚ म॒न्द्रा चि॑केत॒ नाहु॑षीषु वि॒क्षु ||{16/19}{1.100.16}{1.15.7.16}{1.7.11.1}{1104, 100, 1104} रो॒हित्¦श्या॒वा¦सु॒मत्।आं᳚शुः¦ल॒ला॒मीः¦द्यु॒क्षा¦रा॒ये¦ऋ॒ज्र।आ॑श्वस्य | |
ए॒तत् त्यत्त॑ इन्द्र॒ वृष्ण॑ उ॒क्थं वा᳚र्षागि॒रा, अ॒भि गृ॑णन्ति॒ राधः॑ |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} ऋ॒ज्राश्वः॒ प्रष्टि॑भिरम्ब॒रीषः॑ स॒हदे᳚वो॒ भय॑मानः सु॒राधाः᳚ ||{17/19}{1.100.17}{1.15.7.17}{1.7.11.2}{1105, 100, 1105} ए॒तत्¦त्यत्¦ते॒¦इ॒न्द्र॒¦वृष्णे᳚¦उ॒क्थम्¦वा॒र्षा॒गि॒राः¦अ॒भि¦गृ॒ण॒न्ति॒¦राधः॑ | |
दस्यू॒ञ्छिम्यूँ᳚श्च पुरुहू॒त एवै᳚र्ह॒त्वा पृ॑थि॒व्यां शर्वा॒ नि ब᳚र्हीत् |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} सन॒त् क्षेत्रं॒ सखि॑भिः श्वि॒त्न्येभिः॒ सन॒त् सूर्यं॒ सन॑द॒पः सु॒वज्रः॑ ||{18/19}{1.100.18}{1.15.7.18}{1.7.11.3}{1106, 100, 1106} दस्यू᳚न्¦शिम्यू᳚न्¦च॒¦पु॒रु॒ऽहू॒तः¦एवैः᳚¦ह॒त्वा¦पृ॒थि॒व्याम्¦शर्वा᳚¦नि¦ब॒र्ही॒त् | |
वि॒श्वाहेन्द्रो᳚, अधिव॒क्ता नो᳚, अ॒स्त्वप॑रिह्वृताः सनुयाम॒ वाज᳚म् |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{19/19}{1.100.19}{1.15.7.19}{1.7.11.4}{1107, 100, 1107} वि॒श्वाहा᳚¦इन्द्रः॑¦अ॒धि॒ऽव॒क्ता¦नः॒¦अ॒स्तु॒¦अप॑रिऽह्वृताः¦स॒नु॒या॒म॒¦वाज᳚म् | |
[101] प्रमंदिनइत्येकादशर्चस्य सूक्तस्य कुत्स इंद्रोजगतीअंत्याश्चतस्रत्रिष्टुभः | (आद्यागर्भस्राविणीतिगुणः) | |
प्र म॒न्दिने᳚ पितु॒मद॑र्चता॒ वचो॒ यः कृ॒ष्णग॑र्भा नि॒रह᳚न्नृ॒जिश्व॑ना |{कुत्सः | इन्द्रः | जगती} अ॒व॒स्यवो॒ वृष॑णं॒ वज्र॑दक्षिणं म॒रुत्व᳚न्तं स॒ख्याय॑ हवामहे ||{1/11}{1.101.1}{1.15.8.1}{1.7.12.1}{1108, 101, 1108} प्र¦म॒न्दिने᳚¦पि॒तु॒ऽमत्¦अ॒र्च॒त॒¦वचः॑¦यः¦कृ॒ष्णऽग॑र्भाः¦निः॒।आह॑न्¦ऋ॒जिश्व॑ना | |
यो व्यं᳚सं जाहृषा॒णेन॑ म॒न्युना॒ यः शम्ब॑रं॒ यो, अह॒न् पिप्रु॑मव्र॒तम् |{कुत्सः | इन्द्रः | जगती} इन्द्रो॒ यः शुष्ण॑म॒शुषं॒ न्यावृ॑णङ् म॒रुत्व᳚न्तं स॒ख्याय॑ हवामहे ||{2/11}{1.101.2}{1.15.8.2}{1.7.12.2}{1109, 101, 1109} यः¦वि।आं᳚सम्¦ज॒हृ॒षा॒णेन॑¦म॒न्युना᳚¦यः¦शम्ब॑रम्¦यः¦अह॑न्¦पिप्रु᳚म्¦अ॒व्र॒तम् | |
यस्य॒ द्यावा᳚पृथि॒वी पौंस्यं᳚ म॒हद् यस्य᳚ व्र॒ते वरु॑णो॒ यस्य॒ सूर्यः॑ |{कुत्सः | इन्द्रः | जगती} यस्येन्द्र॑स्य॒ सिन्ध॑वः॒ सश्च॑ति व्र॒तं म॒रुत्व᳚न्तं स॒ख्याय॑ हवामहे ||{3/11}{1.101.3}{1.15.8.3}{1.7.12.3}{1110, 101, 1110} यस्य॑¦द्यावा᳚पृथि॒वी इति॑¦पौंस्य᳚म्¦म॒हत्¦यस्य॑¦व्र॒ते¦वरु॑णः¦यस्य॑¦सूर्यः॑ | |
यो, अश्वा᳚नां॒ यो गवां॒ गोप॑तिर्व॒शी य आ᳚रि॒तः कर्म॑णिकर्मणि स्थि॒रः |{कुत्सः | इन्द्रः | जगती} वी॒ळोश्चि॒दिन्द्रो॒ यो, असु᳚न्वतो व॒धो म॒रुत्व᳚न्तं स॒ख्याय॑ हवामहे ||{4/11}{1.101.4}{1.15.8.4}{1.7.12.4}{1111, 101, 1111} यः¦अश्वा᳚नाम्¦यः¦गवा᳚म्¦गोऽप॑तिः¦व॒शी¦यः¦आ॒रि॒तः¦कर्म॑णिऽकर्मणि¦स्थि॒रः | |
यो विश्व॑स्य॒ जग॑तः प्राण॒तस्पति॒र्यो ब्र॒ह्मणे᳚ प्रथ॒मो गा, अवि᳚न्दत् |{कुत्सः | इन्द्रः | जगती} इन्द्रो॒ यो दस्यूँ॒ रध॑राँ, अ॒वाति॑रन् म॒रुत्व᳚न्तं स॒ख्याय॑ हवामहे ||{5/11}{1.101.5}{1.15.8.5}{1.7.12.5}{1112, 101, 1112} यः¦विश्व॑स्य¦जग॑तः¦प्रा॒ण॒तः¦पतिः॑¦यः¦ब्र॒ह्मणे᳚¦प्र॒थ॒मः¦गाः¦अवि᳚न्दत् | |
यः शूरे᳚भि॒र्हव्यो॒ यश्च॑ भी॒रुभि॒र्यो धाव॑द्भिर्हू॒यते॒ यश्च॑ जि॒ग्युभिः॑ |{कुत्सः | इन्द्रः | जगती} इन्द्रं॒ यं विश्वा॒ भुव॑ना॒भि सं᳚द॒धुर्म॒रुत्व᳚न्तं स॒ख्याय॑ हवामहे ||{6/11}{1.101.6}{1.15.8.6}{1.7.12.6}{1113, 101, 1113} यः¦शूरे᳚भिः¦हव्यः॑¦यः¦च॒¦भी॒रुऽभिः॑¦यः¦धाव॑त्ऽभिः¦हू॒यते᳚¦यः¦च॒¦जि॒ग्युभिः॑ | |
रु॒द्राणा᳚मेति प्र॒दिशा᳚ विचक्ष॒णो रु॒द्रेभि॒र्योषा᳚ तनुते पृ॒थु ज्रयः॑ |{कुत्सः | इन्द्रः | जगती} इन्द्रं᳚ मनी॒षा, अ॒भ्य॑र्चति श्रु॒तं म॒रुत्व᳚न्तं स॒ख्याय॑ हवामहे ||{7/11}{1.101.7}{1.15.8.7}{1.7.13.1}{1114, 101, 1114} रु॒द्राणा᳚म्¦ए॒ति॒¦प्र॒ऽदिशा᳚¦वि॒ऽच॒क्ष॒णः¦रु॒द्रेभिः॑¦योषा᳚¦त॒नु॒ते॒¦पृ॒थु¦ज्रयः॑ | |
यद्वा᳚ मरुत्वः पर॒मे स॒धस्थे॒ यद्वा᳚व॒मे वृ॒जने᳚ मा॒दया᳚से |{कुत्सः | इन्द्रः | त्रिष्टुप्} अत॒ आ या᳚ह्यध्व॒रं नो॒, अच्छा᳚ त्वा॒या ह॒विश्च॑कृमा सत्यराधः ||{8/11}{1.101.8}{1.15.8.8}{1.7.13.2}{1115, 101, 1115} यत्¦वा॒¦म॒रु॒त्वः॒¦प॒र॒मे¦स॒धऽस्थे᳚¦यत्¦वा॒¦अ॒व॒मे¦वृ॒जने᳚¦मा॒दया᳚से | |
त्वा॒येन्द्र॒ सोमं᳚ सुषुमा सुदक्ष त्वा॒या ह॒विश्च॑कृमा ब्रह्मवाहः |{कुत्सः | इन्द्रः | त्रिष्टुप्} अधा᳚ नियुत्वः॒ सग॑णो म॒रुद्भि॑ र॒स्मिन् य॒ज्ञे ब॒र्हिषि॑ मादयस्व ||{9/11}{1.101.9}{1.15.8.9}{1.7.13.3}{1116, 101, 1116} त्वा॒ऽया¦इ॒न्द्र॒¦सोम᳚म्¦सु॒सु॒म॒¦सु॒ऽद॒क्ष॒¦त्वा॒ऽया¦ह॒विः¦च॒कृ॒म॒¦ब्र॒ह्म॒ऽवा॒हः॒ | |
मा॒दय॑स्व॒ हरि॑भि॒र्ये त॑ इन्द्र॒ वि ष्य॑स्व॒ शिप्रे॒ वि सृ॑जस्व॒ धेने᳚ |{कुत्सः | इन्द्रः | त्रिष्टुप्} आ त्वा᳚सुशिप्र॒ हर॑यो वहन्तू॒शन् ह॒व्यानि॒ प्रति॑ नो जुषस्व ||{10/11}{1.101.10}{1.15.8.10}{1.7.13.4}{1117, 101, 1117} मा॒दय॑स्व¦हरि॑ऽभिः¦ये¦ते॒¦इ॒न्द्र॒¦वि¦स्य॒स्व॒¦शिप्रे॒ इति॑¦वि¦सृ॒ज॒स्व॒¦धेने॒ इति॑ | |
म॒रुत् स्तो᳚त्रस्य वृ॒जन॑स्य गो॒पा व॒यमिन्द्रे᳚ण सनुयाम॒ वाज᳚म् |{कुत्सः | इन्द्रः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{11/11}{1.101.11}{1.15.8.11}{1.7.13.5}{1118, 101, 1118} म॒रुत्ऽस्तो᳚त्रस्य¦वृ॒जन॑स्य¦गो॒पाः¦व॒यम्¦इन्द्रे᳚ण¦स॒नु॒या॒म॒¦वाज᳚म् | |
[102] इमांतइत्येकादशर्चस्य सूक्तस्य कुत्स इंद्रोजगतीअंत्यात्रिष्टुप् | |
इ॒मां ते॒ धियं॒ प्र भ॑रे म॒हो म॒हीम॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ आन॒जे |{कुत्सः | इन्द्रः | जगती} तमु॑त्स॒वे च॑ प्रस॒वे च॑ सास॒हिमिन्द्रं᳚ दे॒वासः॒ शव॑सामद॒न्ननु॑ ||{1/11}{1.102.1}{1.15.9.1}{1.7.14.1}{1119, 102, 1119} इ॒माम्¦ते॒¦धिय᳚म्¦प्र¦भ॒रे॒¦म॒हः¦म॒हीम्¦अ॒स्य¦स्तो॒त्रे¦धि॒षणा᳚¦यत्¦ते॒¦आ॒न॒जे | |
अ॒स्य श्रवो᳚ न॒द्यः॑ स॒प्त बि॑भ्रति॒ द्यावा॒क्षामा᳚ पृथि॒वी द॑र्श॒तं वपुः॑ |{कुत्सः | इन्द्रः | जगती} अ॒स्मे सू᳚र्याचन्द्र॒मसा᳚भि॒चक्षे᳚ श्र॒द्धे कमि᳚न्द्र चरतो वितर्तु॒रम् ||{2/11}{1.102.2}{1.15.9.2}{1.7.14.2}{1120, 102, 1120} अ॒स्य¦श्रवः॑¦न॒द्यः॑¦स॒प्त¦बि॒भ्र॒ति॒¦द्यावा॒क्षामा᳚¦पृ॒थि॒वी¦द॒र्श॒तम्¦वपुः॑ | |
तं स्मा॒ रथं᳚ मघव॒न् प्राव॑ सा॒तये॒ जैत्रं॒ यं ते᳚, अनु॒मदा᳚ म संग॒मे |{कुत्सः | इन्द्रः | जगती} आ॒जा न॑ इन्द्र॒ मन॑सा पुरुष्टुत त्वा॒यद्भ्यो᳚ मघव॒ञ् छर्म॑ यच्छ नः ||{3/11}{1.102.3}{1.15.9.3}{1.7.14.3}{1121, 102, 1121} तम्¦स्म॒¦रथ᳚म्¦म॒घ॒ऽव॒न्¦प्र¦अ॒व॒¦सा॒तये᳚¦जैत्र᳚म्¦यम्¦ते॒¦अ॒नु॒ऽमदा᳚म¦स॒म्ऽग॒मे | |
व॒यं ज॑येम॒ त्वया᳚ यु॒जा वृत॑म॒स्माक॒मंश॒मुद॑वा॒ भरे᳚भरे |{कुत्सः | इन्द्रः | जगती} अ॒स्मभ्य॑मिन्द्र॒ वरि॑वः सु॒गं कृ॑धि॒ प्र शत्रू᳚णां मघव॒न् वृष्ण्या᳚ रुज ||{4/11}{1.102.4}{1.15.9.4}{1.7.14.4}{1122, 102, 1122} व॒यम्¦ज॒ये॒म॒¦त्वया᳚¦यु॒जा¦वृत᳚म्¦अ॒स्माक᳚म्¦अंश᳚म्¦उत्¦अ॒व॒¦भरे᳚ऽभरे | |
नाना॒ हि त्वा॒ हव॑माना॒ जना᳚, इ॒मे धना᳚नां धर्त॒रव॑सा विप॒न्यवः॑ |{कुत्सः | इन्द्रः | जगती} अ॒स्माकं᳚ स्मा॒ रथ॒मा ति॑ष्ठ सा॒तये॒ जैत्रं॒ ही᳚न्द्र॒ निभृ॑तं॒ मन॒स्तव॑ ||{5/11}{1.102.5}{1.15.9.5}{1.7.14.5}{1123, 102, 1123} नाना᳚¦हि¦त्वा॒¦हव॑मानाः¦जनाः᳚¦इ॒मे¦धना᳚नाम्¦ध॒र्तः॒¦अव॑सा¦वि॒प॒न्यवः॑ | |
गो॒जिता᳚ बा॒हू, अमि॑तक्रतुः सि॒मः कर्म᳚न् कर्मञ्छ॒तमू᳚तिः खजंक॒रः |{कुत्सः | इन्द्रः | जगती} अ॒क॒ल्प इन्द्रः॑ प्रति॒मान॒मोज॒साथा॒ जना॒ वि ह्व॑यन्ते सिषा॒सवः॑ ||{6/11}{1.102.6}{1.15.9.6}{1.7.15.1}{1124, 102, 1124} गो॒ऽजिता᳚¦बा॒हू इति॑¦अमि॑तऽक्रतुः¦सि॒मः¦कर्म॑न्ऽकर्मन्¦श॒तम्ऽऊ᳚तिः¦ख॒ज॒म्ऽक॒रः | |
उत्ते᳚ श॒तान्म॑घव॒न्नुच्च॒ भूय॑स॒ उत्स॒हस्रा᳚द् रिरिचे कृ॒ष्टिषु॒ श्रवः॑ |{कुत्सः | इन्द्रः | जगती} अ॒मा॒त्रं त्वा᳚ धि॒षणा᳚ तित्विषे म॒ह्यधा᳚ वृ॒त्राणि॑ जिघ्नसे पुरंदर ||{7/11}{1.102.7}{1.15.9.7}{1.7.15.2}{1125, 102, 1125} उत्¦ते॒¦श॒तात्¦म॒घ॒ऽव॒न्¦उत्¦च॒¦भूय॑सः¦उत्¦स॒हस्रा᳚त्¦रि॒रि॒चे॒¦कृ॒ष्टिषु॑¦श्रवः॑ | |
त्रि॒वि॒ष्टि॒धातु॑ प्रति॒मान॒मोज॑सस्ति॒स्रो भूमी᳚र्नृपते॒ त्रीणि॑ रोच॒ना |{कुत्सः | इन्द्रः | जगती} अती॒दं विश्वं॒ भुव॑नं ववक्षिथाश॒त्रुरि᳚न्द्र ज॒नुषा᳚ स॒नाद॑सि ||{8/11}{1.102.8}{1.15.9.8}{1.7.15.3}{1126, 102, 1126} त्रि॒वि॒ष्टि॒ऽधातु॑¦प्र॒ति॒ऽमान᳚म्¦ओज॑सः¦ति॒स्रः¦भूमीः᳚¦नृ॒ऽप॒ते॒¦त्रीणि॑¦रो॒च॒ना | |
त्वां दे॒वेषु॑ प्रथ॒मं ह॑वामहे॒ त्वं ब॑भूथ॒ पृत॑नासु सास॒हिः |{कुत्सः | इन्द्रः | जगती} सेमं नः॑ का॒रुमु॑पम॒न्युमु॒द्भिद॒मिन्द्रः॑ कृणोतु प्रस॒वे रथं᳚ पु॒रः ||{9/11}{1.102.9}{1.15.9.9}{1.7.15.4}{1127, 102, 1127} त्वाम्¦दे॒वेषु॑¦प्र॒थ॒मम्¦ह॒वा॒म॒हे॒¦त्वम्¦ब॒भू॒थ॒¦पृत॑नासु¦स॒स॒हिः | |
त्वं जि॑गेथ॒ न धना᳚ रुरोधि॒थार्भे᳚ष्वा॒जा म॑घवन् म॒हत्सु॑ च |{कुत्सः | इन्द्रः | जगती} त्वामु॒ग्रमव॑से॒ सं शि॑शीम॒स्यथा᳚ न इन्द्र॒ हव॑नेषु चोदय ||{10/11}{1.102.10}{1.15.9.10}{1.7.15.5}{1128, 102, 1128} त्वम्¦जि॒गे॒थ॒¦न¦धना᳚¦रु॒रो॒धि॒थ॒¦अर्भे᳚षु¦आ॒जा¦म॒घ॒ऽव॒न्¦म॒हत्ऽसु॑¦च॒ | |
वि॒श्वाहेन्द्रो᳚, अधिव॒क्ता नो᳚, अ॒स्त्वप॑रिह्वृताः सनुयाम॒ वाज᳚म् |{कुत्सः | इन्द्रः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{11/11}{1.102.11}{1.15.9.11}{1.7.15.6}{1129, 102, 1129} वि॒श्वाहा᳚¦इन्द्रः॒¦अ॒धि॒ऽव॒क्ता¦नः॒¦अ॒स्तु॒¦अप॑रिऽह्वृताः¦स॒नु॒या॒म॒¦वाज᳚म् | |
[103] तत्तइत्यष्टर्चस्य सूक्तस्य कुत्स इंद्रस्त्रिष्टुप् | |
तत्त॑ इन्द्रि॒यं प॑र॒मं प॑रा॒चैरधा᳚रयन्त क॒वयः॑ पु॒रेदम् |{कुत्सः | इन्द्रः | त्रिष्टुप्} क्ष॒मेदम॒न्यद्दि॒व्य१॑(अ॒)न्यद॑स्य॒ समी᳚ पृच्यते सम॒नेव॑ के॒तुः ||{1/8}{1.103.1}{1.15.10.1}{1.7.16.1}{1130, 103, 1130} तत्¦ते॒¦इ॒न्द्रि॒यम्¦प॒र॒मम्¦प॒रा॒चैः¦अधा᳚रयन्त¦क॒वयः॑¦पु॒रा¦इ॒दम् | |
स धा᳚रयत् पृथि॒वीं प॒प्रथ॑च्च॒ वज्रे᳚ण ह॒त्वा निर॒पः स॑सर्ज |{कुत्सः | इन्द्रः | त्रिष्टुप्} अह॒न्नहि॒मभि॑नद्रौहि॒णं व्यह॒न् व्यं᳚सं म॒घवा॒ शची᳚भिः ||{2/8}{1.103.2}{1.15.10.2}{1.7.16.2}{1131, 103, 1131} सः¦धा॒र॒य॒त्¦पृ॒थि॒वीम्¦प॒प्रथ॑त्¦च॒¦वज्रे᳚ण¦ह॒त्वा¦निः¦अ॒पः¦स॒स॒र्ज॒ | |
स जा॒तूभ᳚र्मा श्र॒द्दधा᳚न॒ ओजः॒ पुरो᳚ विभि॒न्दन्न॑चर॒द् वि दासीः᳚ |{कुत्सः | इन्द्रः | त्रिष्टुप्} वि॒द्वान् व॑ज्रि॒न् दस्य॑वे हे॒तिम॒स्यार्यं॒ सहो᳚ वर्धया द्यु॒म्नमि᳚न्द्र ||{3/8}{1.103.3}{1.15.10.3}{1.7.16.3}{1132, 103, 1132} सः¦जा॒तूऽभ᳚र्मा¦श्र॒त्ऽदधा᳚नः¦ओजः॑¦पुरः॒¦वि॒ऽभि॒न्दन्¦अ॒च॒र॒त्¦वि¦दासीः᳚ | |
तदू॒चुषे॒ मानु॑षे॒मा यु॒गानि॑ की॒र्तेन्यं᳚ म॒घवा॒ नाम॒ बिभ्र॑त् |{कुत्सः | इन्द्रः | त्रिष्टुप्} उ॒प॒प्र॒यन् द॑स्यु॒हत्या᳚य व॒ज्री यद्ध॑ सू॒नुः श्रव॑से॒ नाम॑ द॒धे ||{4/8}{1.103.4}{1.15.10.4}{1.7.16.4}{1133, 103, 1133} तत्¦ऊ॒चुषे᳚¦मानु॑षा¦इ॒मा¦यु॒गानि॑¦की॒र्तेन्य᳚म्¦म॒घऽवा᳚¦नाम॑¦बिभ्र॑त् | |
तद॑स्ये॒दं प॑श्यता॒ भूरि॑ पु॒ष्टं श्रदिन्द्र॑स्य धत्तन वी॒र्या᳚य |{कुत्सः | इन्द्रः | त्रिष्टुप्} स गा, अ॑विन्द॒त्सो, अ॑विन्द॒दश्वा॒न् त्स ओष॑धीः॒ सो, अ॒पः स वना᳚नि ||{5/8}{1.103.5}{1.15.10.5}{1.7.16.5}{1134, 103, 1134} तत्¦अ॒स्य॒¦इ॒दम्¦प॒श्य॒त॒¦भूरि॑¦पु॒ष्टम्¦श्रत्¦इन्द्र॑स्य¦ध॒त्त॒न॒¦वी॒र्या᳚य | |
भूरि॑कर्मणे वृष॒भाय॒ वृष्णे᳚ स॒त्यशु॑ष्माय सुनवाम॒ सोम᳚म् |{कुत्सः | इन्द्रः | त्रिष्टुप्} य आ॒दृत्या᳚ परिप॒न्थीव॒ शूरोऽय॑ज्वनो वि॒भज॒न्नेति॒ वेदः॑ ||{6/8}{1.103.6}{1.15.10.6}{1.7.17.1}{1135, 103, 1135} भूरि॑ऽकर्मणे¦वृ॒ष॒भाय॑¦वृश्णे᳚¦स॒त्यऽशु॑ष्माय¦सु॒न॒वा॒म॒¦सोम᳚म् | |
तदि᳚न्द्र॒ प्रेव॑ वी॒र्यं᳚ चकर्थ॒ यत्स॒सन्तं॒ वज्रे॒णाबो᳚ध॒यो हि᳚म् |{कुत्सः | इन्द्रः | त्रिष्टुप्} अनु॑ त्वा॒ पत्नी᳚र्हृषि॒तं वय॑श्च॒ विश्वे᳚ दे॒वासो᳚, अमद॒न्ननु॑ त्वा ||{7/8}{1.103.7}{1.15.10.7}{1.7.17.2}{1136, 103, 1136} तत्¦इ॒न्द्र॒¦प्रऽइ᳚व¦वी॒र्य᳚म्¦च॒क॒र्थ॒¦यत्¦स॒सन्त᳚म्¦वज्रे᳚ण¦अबो᳚धयः¦अहि᳚म् | |
शुष्णं॒ पिप्रुं॒ कुय॑वं वृ॒त्रमि᳚न्द्र य॒दाव॑धी॒र्वि पुरः॒ शम्ब॑रस्य |{कुत्सः | इन्द्रः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{8/8}{1.103.8}{1.15.10.8}{1.7.17.3}{1137, 103, 1137} शुष्ण᳚म्¦पिप्रु᳚म्¦कुय॑वम्¦वृ॒त्रम्¦इ॒न्द्र॒¦य॒दा¦अव॑धीः¦वि¦पुरः॑¦शम्ब॑रस्य | |
[104] योनिष्टइति नवर्चस्य सूक्तस्य कुत्स इंद्रस्त्रिष्टुप् | |
योनि॑ष्ट इन्द्र नि॒षदे᳚, अकारि॒ तमा नि षी᳚द स्वा॒नो नार्वा᳚ |{कुत्सः | इन्द्रः | त्रिष्टुप्} वि॒मुच्या॒ वयो᳚ऽव॒सायाश्वा᳚न् दो॒षा वस्तो॒र्वही᳚यसः प्रपि॒त्वे ||{1/9}{1.104.1}{1.15.11.1}{1.7.18.1}{1138, 104, 1138} योनिः॑¦ते॒¦इ॒न्द्र॒¦नि॒ऽसदे᳚¦अ॒का॒रि॒¦तम्¦आ¦नि¦सी॒द॒¦स्वा॒नः¦न¦अर्वा᳚ | |
ओ त्ये नर॒ इन्द्र॑मू॒तये᳚ गु॒र्नू चि॒त्तान् त्स॒द्यो, अध्व॑नो जगम्यात् |{कुत्सः | इन्द्रः | त्रिष्टुप्} दे॒वासो᳚ म॒न्युं दास॑स्य श्चम्न॒न् ते न॒ आ व॑क्षन् त्सुवि॒ताय॒ वर्ण᳚म् ||{2/9}{1.104.2}{1.15.11.2}{1.7.18.2}{1139, 104, 1139} ओ इति॑¦त्ये¦नरः॑¦इन्द्र᳚म्¦ऊ॒तये᳚¦गुः॒¦नु¦चि॒त्¦तान्¦स॒द्यः¦अध्व॑नः¦ज॒ग॒म्या॒त् | |
अव॒ त्मना᳚ भरते॒ केत॑वेदा॒, अव॒ त्मना᳚ भरते॒ फेन॑मु॒दन् |{कुत्सः | इन्द्रः | त्रिष्टुप्} क्षी॒रेण॑ स्नातः॒ कुय॑वस्य॒ योषे᳚ ह॒ते ते स्या᳚तां प्रव॒णे शिफा᳚याः ||{3/9}{1.104.3}{1.15.11.3}{1.7.18.3}{1140, 104, 1140} अव॑¦त्मना᳚¦भ॒र॒ते॒¦केत॑ऽवेदाः¦अव॑¦त्मना᳚¦भ॒र॒ते॒¦फेन᳚म्¦उ॒दन् | |
यु॒योप॒ नाभि॒रुप॑रस्या॒योः प्र पूर्वा᳚भिस्तिरते॒ राष्टि॒ शूरः॑ |{कुत्सः | इन्द्रः | त्रिष्टुप्} अ॒ञ्ज॒सी कु॑लि॒शी वी॒रप॑त्नी॒ पयो᳚ हिन्वा॒ना, उ॒दभि॑र्भरन्ते ||{4/9}{1.104.4}{1.15.11.4}{1.7.18.4}{1141, 104, 1141} यु॒योप॑¦नाभिः॑¦उप॑रस्य¦आ॒योः¦प्र¦पूर्वा᳚भिः¦ति॒र॒ते॒¦राष्टि॑¦शूरः॑ | |
प्रति॒ यत्स्या नीथाद॑र्शि॒ दस्यो॒रोको॒ नाच्छा॒ सद॑नं जान॒ती गा᳚त् |{कुत्सः | इन्द्रः | त्रिष्टुप्} अध॑ स्मा नो मघवञ्चर्कृ॒तादिन्मा नो᳚ म॒घेव॑ निष्ष॒पी परा᳚ दाः ||{5/9}{1.104.5}{1.15.11.5}{1.7.18.5}{1142, 104, 1142} प्रति॑¦यत्¦स्या¦नीथा᳚¦अद॑र्शि¦दस्योः᳚¦ओकः॑¦न¦अच्छ॑¦सद॑नम्¦जा॒न॒ती¦गा॒त् | |
स त्वं न॑ इन्द्र॒ सूर्ये॒ सो, अ॒प्स्व॑नागा॒स्त्व आ भ॑ज जीवशं॒से |{कुत्सः | इन्द्रः | त्रिष्टुप्} मान्त॑रां॒ भुज॒मा री᳚रिषो नः॒ श्रद्धि॑तं ते मह॒त इ᳚न्द्रि॒याय॑ ||{6/9}{1.104.6}{1.15.11.6}{1.7.19.1}{1143, 104, 1143} सः¦त्वम्¦नः॒¦इ॒न्द्र॒¦सूर्ये᳚¦सः¦अ॒प्ऽसु¦अ॒ना॒गाः॒ऽत्वे¦आ¦भ॒ज॒¦जी॒व॒ऽशं॒से | |
अधा᳚ मन्ये॒ श्रत्ते᳚, अस्मा, अधायि॒ वृषा᳚ चोदस्व मह॒ते धना᳚य |{कुत्सः | इन्द्रः | त्रिष्टुप्} मा नो॒, अकृ॑ते पुरुहूत॒ योना॒विन्द्र॒ क्षुध्य॑द्भ्यो॒ वय॑ आसु॒तिं दाः᳚ ||{7/9}{1.104.7}{1.15.11.7}{1.7.19.2}{1144, 104, 1144} अध॑¦म॒न्ये॒¦श्रत्¦ते॒¦अ॒स्मै॒¦अ॒धा॒यि॒¦वृषा᳚¦चो॒द॒स्व॒¦म॒ह॒ते¦धना᳚य | |
मा नो᳚ वधीरिन्द्र॒ मा परा᳚ दा॒ मा नः॑ प्रि॒या भोज॑नानि॒ प्र मो᳚षीः |{कुत्सः | इन्द्रः | त्रिष्टुप्} आ॒ण्डा मा नो᳚ मघवञ्छक्र॒ निर्भे॒न्मा नः॒ पात्रा᳚ भेत् स॒हजा᳚नुषाणि ||{8/9}{1.104.8}{1.15.11.8}{1.7.19.3}{1145, 104, 1145} मा¦नः॒¦व॒धीः॒¦इ॒न्द्र॒¦मा¦परा᳚¦दाः॒¦मा¦नः॒¦प्रि॒या¦भोज॑नानि¦प्र¦मो॒षीः॒ | |
अ॒र्वाङेहि॒ सोम॑कामं त्वाहुर॒यं सु॒तस्तस्य॑ पिबा॒ मदा᳚य |{कुत्सः | इन्द्रः | त्रिष्टुप्} उ॒रु॒व्यचा᳚ ज॒ठर॒ आ वृ॑षस्व पि॒तेव॑ नः शृणुहि हू॒यमा᳚नः ||{9/9}{1.104.9}{1.15.11.9}{1.7.19.4}{1146, 104, 1146} अ॒र्वाङ्¦आ¦इ॒हि॒¦सोम॑ऽकामम्¦त्वा॒¦आ॒हुः॒¦अ॒यम्¦सु॒तः¦तस्य॑¦पि॒ब॒¦मदा᳚य | |
[105] चंद्रमाइत्येकोनविंशत्यृचस्य सूक्तस्याप्त्यस्त्रितो विश्वेदेवाः पंक्तिः अंत्यात्रिष्टुप् अष्टमी महाबृहतीयवमध्या | (सूक्तभेदप्रयोगपक्षेतु आद्याया विश्वेदेवाः द्वितीयायारोदसी तृतीयाया विश्वेदेवाः चतुर्थ्याअग्निरोदस्यः ततस्तिसृणां विश्वेदेवाः अष्टम्याइंद्ररोदस्यः नवम्याः सूर्यरश्मिरोदस्यः दशम्या विश्वेदेवाः एकादश्याः सूर्यरश्मिरोदस्यः द्वादश्या विश्वेदेवाः ततोद्वयोरग्निरोदसी ततएकस्यावरुणरोदस्यः ततोद्वयोर्विश्वेदेवाः तत एकस्यारोदसी अंत्यायाविश्वेदेवाः, उत्तरसूक्तद्वयेविश्वेदेवाएव)| |
च॒न्द्रमा᳚, अ॒प्स्व१॑(अ॒)न्तरा सु॑प॒र्णो धा᳚वते दि॒वि |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} न वो᳚ हिरण्यनेमयः प॒दं वि᳚न्दन्ति विद्युतो वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{1/19}{1.105.1}{1.15.12.1}{1.7.20.1}{1147, 105, 1147} च॒न्द्रमाः᳚¦अ॒प्ऽसु¦अ॒न्तः¦आ¦सु॒ऽप॒र्णः¦धा॒व॒ते॒¦दि॒वि | |
अर्थ॒मिद्वा, उ॑ अ॒र्थिन॒ आ जा॒या यु॑वते॒ पति᳚म् |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} तु॒ञ्जाते॒ वृष्ण्यं॒ पयः॑ परि॒दाय॒ रसं᳚ दुहे वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{2/19}{1.105.2}{1.15.12.2}{1.7.20.2}{1148, 105, 1148} अर्थ᳚म्¦इत्¦वै¦ऊँ॒ इति॑¦अ॒र्थिनः॑¦आ¦जा॒या¦यु॒व॒ते॒¦पति᳚म् | |
मो षु दे᳚वा, अ॒दः स्व१॑(अ॒)रव॑ पादि दि॒वस्परि॑ |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} मा सो॒म्यस्य॑ श॒म्भुवः॒ शूने᳚ भूम॒ कदा᳚ च॒न वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{3/19}{1.105.3}{1.15.12.3}{1.7.20.3}{1149, 105, 1149} मो इति॑¦सु¦दे॒वाः॒¦अ॒दः¦स्वः॑¦अव॑¦पा॒दि॒¦दि॒वः¦परि॑ | |
य॒ज्ञं पृ॑च्छाम्यव॒मं स तद्दू॒तो वि वो᳚चति |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} क्व॑ ऋ॒तं पू॒र्व्यं ग॒तं कस्तद् बि॑भर्ति॒ नूत॑नो वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{4/19}{1.105.4}{1.15.12.4}{1.7.20.4}{1150, 105, 1150} य॒ज्ञम्¦पृ॒च्छा॒मि॒¦अ॒व॒मम्¦सः¦तत्¦दू॒तः¦वि¦वो॒च॒ति॒ | |
अ॒मी ये दे᳚वाः॒ स्थन॑ त्रि॒ष्वा रो᳚च॒ने दि॒वः |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} कद्व॑ ऋ॒तं कदनृ॑तं॒ क्व॑ प्र॒त्ना व॒ आहु॑तिर्वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{5/19}{1.105.5}{1.15.12.5}{1.7.20.5}{1151, 105, 1151} अ॒मी इति॑¦ये¦दे॒वाः॒¦स्थन॑¦त्रि॒षु¦आ¦रो॒च॒ने¦दि॒वः | |
कद्व॑ ऋ॒तस्य॑ धर्ण॒सि कद्वरु॑णस्य॒ चक्ष॑णम् |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} कद᳚र्य॒म्णो म॒हस्प॒थाति॑ क्रामेम दू॒ढ्यो᳚ वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{6/19}{1.105.6}{1.15.12.6}{1.7.21.1}{1152, 105, 1152} कत्¦वः॒¦ऋ॒तस्य॑¦ध॒र्ण॒सि¦कत्¦वरु॑णस्य¦चक्ष॑णम् | |
अ॒हं सो, अ॑स्मि॒ यः पु॒रा सु॒ते वदा᳚मि॒ कानि॑ चित् |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} तं मा᳚ व्यन्त्या॒ध्यो॒३॑(ओ॒) वृको॒ न तृ॒ष्णजं᳚ मृ॒गं वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{7/19}{1.105.7}{1.15.12.7}{1.7.21.2}{1153, 105, 1153} अ॒हम्¦सः¦अ॒स्मि॒¦यः¦पु॒रा¦सु॒ते¦वदा᳚मि¦कानि॑¦चि॒त् | |
सं मा᳚ तपन्त्य॒भितः॑ स॒पत्नी᳚रिव॒ पर्श॑वः |{आप्त्यस्त्रित | विश्वदेवाः | महाबृहती यवमध्या} मूषो॒ न शि॒श्ना व्य॑दन्ति मा॒ध्यः॑ स्तो॒तारं᳚ ते शतक्रतो वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{8/19}{1.105.8}{1.15.12.8}{1.7.21.3}{1154, 105, 1154} सम्¦मा॒¦त॒प॒न्ति॒¦अ॒भितः॑¦स॒पत्नीः᳚ऽइव¦पर्श॑वः | |
अ॒मी ये स॒प्त र॒श्मय॒स्तत्रा᳚ मे॒ नाभि॒रात॑ता |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} त्रि॒तस्तद् वे᳚दा॒प्त्यः स जा᳚मि॒त्वाय॑ रेभति वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{9/19}{1.105.9}{1.15.12.9}{1.7.21.4}{1155, 105, 1155} अ॒मी इति॑¦ये¦स॒प्त¦र॒श्मयः॑¦तत्र॑¦मे॒¦नाभिः॑¦आऽत॑ता | |
अ॒मी ये पञ्चो॒क्षणो॒ मध्ये᳚ त॒स्थुर्म॒हो दि॒वः |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} दे॒व॒त्रा नु प्र॒वाच्यं᳚ सध्रीची॒ना नि वा᳚वृतुर्वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{10/19}{1.105.10}{1.15.12.10}{1.7.21.5}{1156, 105, 1156} अ॒मी इति॑¦ये¦पंच॑¦उ॒क्षणः॑¦मध्ये᳚¦त॒स्थुः¦म॒हः¦दि॒वः | |
सु॒प॒र्णा, ए॒त आ᳚सते॒ मध्य॑ आ॒रोध॑ने दि॒वः |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} ते से᳚धन्ति प॒थो वृकं॒ तर᳚न्तं य॒ह्वती᳚र॒पो वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{11/19}{1.105.11}{1.15.12.11}{1.7.22.1}{1157, 105, 1157} सु॒ऽप॒र्णाः¦ए॒ते¦आ॒स॒ते॒¦मध्ये᳚¦आ॒ऽरोध॑ने¦दि॒वः | |
नव्यं॒ तदु॒क्थ्यं᳚ हि॒तं देवा᳚सः सुप्रवाच॒नम् |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} ऋ॒तम॑र्षन्ति॒ सिन्ध॑वः स॒त्यं ता᳚तान॒ सूर्यो᳚ वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{12/19}{1.105.12}{1.15.12.12}{1.7.22.2}{1158, 105, 1158} नव्य᳚म्¦तत्¦उ॒क्थ्य᳚म्¦हि॒तम्¦देवा᳚सः¦सु॒ऽप्र॒वा॒च॒नम् | |
अग्ने॒ तव॒ त्यदु॒क्थ्यं᳚ दे॒वेष्व॒स्त्याप्य᳚म् |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} स नः॑ स॒त्तो म॑नु॒ष्वदा दे॒वान् य॑क्षि वि॒दुष्ट॑रो वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{13/19}{1.105.13}{1.15.12.13}{1.7.22.3}{1159, 105, 1159} अग्ने᳚¦तव॑¦त्यत्¦उ॒क्थ्य᳚म्¦दे॒वेषु॑¦अ॒स्ति॒¦आप्य᳚म् | |
स॒त्तो होता᳚ मनु॒ष्वदा दे॒वाँ, अच्छा᳚ वि॒दुष्ट॑रः |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} अ॒ग्निर्ह॒व्या सु॑षूदति दे॒वो दे॒वेषु॒ मेधि॑रो वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{14/19}{1.105.14}{1.15.12.14}{1.7.22.4}{1160, 105, 1160} स॒त्तः¦होता᳚¦म॒नु॒ष्वत्¦आ¦दे॒वान्¦अच्छ॑¦वि॒दुःऽत॑रः | |
ब्रह्मा᳚ कृणोति॒ वरु॑णो गातु॒विदं॒ तमी᳚महे |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} व्यू᳚र्णोति हृ॒दा म॒तिं नव्यो᳚ जायतामृ॒तं वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{15/19}{1.105.15}{1.15.12.15}{1.7.22.5}{1161, 105, 1161} ब्रह्म॑¦कृ॒णो॒ति॒¦वरु॑णः¦गा॒तु॒ऽविद᳚म्¦तम्¦ई॒म॒हे॒ | |
अ॒सौ यः पन्था᳚, आदि॒त्यो दि॒वि प्र॒वाच्यं᳚ कृ॒तः |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} न स दे᳚वा, अति॒क्रमे॒ तं म॑र्तासो॒ न प॑श्यथ वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{16/19}{1.105.16}{1.15.12.16}{1.7.23.1}{1162, 105, 1162} अ॒सौ¦यः¦पन्थाः᳚¦आ॒दि॒त्यः¦दि॒वि¦प्र॒ऽवाच्य᳚म्¦कृ॒तः | |
त्रि॒तः कूपेऽव॑हितो दे॒वान् ह॑वत ऊ॒तये᳚ |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} तच्छु॑श्राव॒ बृह॒स्पतिः॑ कृ॒ण्वन्नं᳚हूर॒णादु॒रु वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{17/19}{1.105.17}{1.15.12.17}{1.7.23.2}{1163, 105, 1163} त्रि॒तः¦कूपे᳚¦अव॑ऽहितः¦दे॒वान्¦ह॒व॒ते॒¦ऊ॒तये᳚ | |
अ॒रु॒णो मा᳚ स॒कृद् वृकः॑ प॒था यन्तं᳚ द॒दर्श॒ हि |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} उज्जि॑हीते नि॒चाय्या॒ तष्टे᳚व पृष्ट्याम॒यी वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{18/19}{1.105.18}{1.15.12.18}{1.7.23.3}{1164, 105, 1164} अ॒रु॒णः¦मा॒¦स॒कृत्¦वृकः॑¦प॒था¦यन्त᳚म्¦द॒दर्श॑¦हि | |
ए॒नाङ्गू॒षेण॑ व॒यमिन्द्र॑वन्तो॒ऽभि ष्या᳚म वृ॒जने॒ सर्व॑वीराः |{आप्त्यस्त्रित | विश्वदेवाः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{19/19}{1.105.19}{1.15.12.19}{1.7.23.4}{1165, 105, 1165} ए॒ना¦आ॒ङ्गू॒षेण॑¦व॒यम्¦इन्द्र॑ऽवन्तः¦अ॒भि¦स्या॒म॒¦वृ॒जने᳚¦सर्व॑ऽवीराः | |
[106] इंद्रंमित्रमिति सप्तर्चस्य सूक्तस्य कुत्सो विश्वेदेवाजगतीअंत्यात्रिष्टुप् | |
इन्द्रं᳚ मि॒त्रं वरु॑णम॒ग्निमू॒तये॒ मारु॑तं॒ शर्धो॒, अदि॑तिं हवामहे |{कुत्सः | विश्वदेवाः | जगती} रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒, अंह॑सो॒ निष्पि॑पर्तन ||{1/7}{1.106.1}{1.16.1.1}{1.7.24.1}{1166, 106, 1166} इन्द्र᳚म्¦मि॒त्रम्¦वरु॑णम्¦अ॒ग्निम्¦ऊ॒तये᳚¦मारु॑तम्¦शर्धः॑¦अदि॑तिम्¦ह॒वा॒म॒हे॒ | |
त आ᳚दित्या॒, आ ग॑ता स॒र्वता᳚तये भू॒त दे᳚वा वृत्र॒तूर्ये᳚षु श॒म्भुवः॑ |{कुत्सः | विश्वदेवाः | जगती} रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒, अंह॑सो॒ निष्पि॑पर्तन ||{2/7}{1.106.2}{1.16.1.2}{1.7.24.2}{1167, 106, 1167} ते¦आ॒दि॒त्याः॒¦आ¦ग॒त॒¦स॒र्वऽता᳚तये¦भू॒त¦दे॒वाः॒¦वृ॒त्र॒ऽतूर्ये᳚षु¦श॒म्ऽभुवः॑ | |
अव᳚न्तु नः पि॒तरः॑ सुप्रवाच॒ना, उ॒त दे॒वी दे॒वपु॑त्रे, ऋता॒वृधा᳚ |{कुत्सः | विश्वदेवाः | जगती} रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒, अंह॑सो॒ निष्पि॑पर्तन ||{3/7}{1.106.3}{1.16.1.3}{1.7.24.3}{1168, 106, 1168} अव᳚न्तु¦नः॒¦पि॒तरः॑¦सु॒ऽप्र॒वा॒च॒नाः¦उ॒त¦दे॒वी इति॑¦दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे¦ऋ॒त॒ऽवृधा᳚ | |
नरा॒शंसं᳚ वा॒जिनं᳚ वा॒जय᳚न्नि॒ह क्ष॒यद्वी᳚रं पू॒षणं᳚ सु॒म्नैरी᳚महे |{कुत्सः | विश्वदेवाः | जगती} रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒, अंह॑सो॒ निष्पि॑पर्तन ||{4/7}{1.106.4}{1.16.1.4}{1.7.24.4}{1169, 106, 1169} नरा॒शंस᳚म्¦वा॒जिन᳚म्¦वा॒जय॑न्¦इ॒ह¦क्ष॒यत्ऽवी᳚रम्¦पू॒षण᳚म्¦सु॒म्नैः¦ई॒म॒हे॒ | |
बृह॑स्पते॒ सद॒मिन्नः॑ सु॒गं कृ॑धि॒ शं योर्यत्ते॒ मनु᳚र्हितं॒ तदी᳚महे |{कुत्सः | विश्वदेवाः | जगती} रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒, अंह॑सो॒ निष्पि॑पर्तन ||{5/7}{1.106.5}{1.16.1.5}{1.7.24.5}{1170, 106, 1170} बृह॑स्पते¦सद᳚म्¦इत्¦नः॒¦सु॒ऽगम्¦कृ॒धि॒¦शम्¦योः¦यत्¦ते॒¦मनुः॑ऽहितम्¦तत्¦ई॒म॒हे॒ | |
इन्द्रं॒ कुत्सो᳚ वृत्र॒हणं॒ शची॒पतिं᳚ का॒टे निबा᳚ळ्ह॒ ऋषि॑रह्वदू॒तये᳚ |{कुत्सः | विश्वदेवाः | जगती} रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒, अंह॑सो॒ निष्पि॑पर्तन ||{6/7}{1.106.6}{1.16.1.6}{1.7.24.6}{1171, 106, 1171} इन्द्र᳚म्¦कुत्सः॑¦वृ॒त्र॒ऽहन᳚म्¦शची॒३॒॑ऽपति᳚म्¦का॒टे¦निऽबा᳚ळ्हः¦ऋषिः॑¦अ॒ह्व॒त्¦ऊ॒तये᳚ | |
दे॒वैर्नो᳚ दे॒व्यदि॑ति॒र्नि पा᳚तु दे॒वस्त्रा॒ता त्रा᳚यता॒मप्र॑युच्छन् |{कुत्सः | विश्वदेवाः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{7/7}{1.106.7}{1.16.1.7}{1.7.24.7}{1172, 106, 1172} दे॒वैः¦नः॒¦दे॒वी¦अदि॑तिः¦नि¦पा॒तु॒¦दे॒वः¦त्रा॒ता¦त्रा॒य॒ता॒म्¦अप्र॑ऽयुच्छन् | |
[107] यज्ञोदेवानामिति तृचस्य सूक्तस्य कुत्सोविश्वेदेवास्त्रिष्टुप् | |
य॒ज्ञो दे॒वानां॒ प्रत्ये᳚ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृळ॒यन्तः॑ |{कुत्सः | विश्वदेवाः | त्रिष्टुप्} आ वो॒ऽर्वाची᳚ सुम॒तिर्व॑वृत्यादं॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑त् ||{1/3}{1.107.1}{1.16.2.1}{1.7.25.1}{1173, 107, 1173} य॒ज्ञः¦दे॒वाना᳚म्¦प्रति॑¦ए॒ति॒¦सु॒म्नम्¦आदि॑त्यासः¦भव॑त¦मृ॒ळ॒यन्तः॑ | |
उप॑ नो दे॒वा, अव॒सा ग॑म॒न्त्वङ्गि॑रसां॒ साम॑भिः स्तू॒यमा᳚नाः |{कुत्सः | विश्वदेवाः | त्रिष्टुप्} इन्द्र॑ इन्द्रि॒यैर्म॒रुतो᳚ म॒रुद्भि॑रादि॒त्यैर्नो॒, अदि॑तिः॒ शर्म॑ यंसत् ||{2/3}{1.107.2}{1.16.2.2}{1.7.25.2}{1174, 107, 1174} उप॑¦नः॒¦दे॒वाः¦अव॑सा¦आ¦ग॒म॒न्तु॒¦अङ्गि॑रसाम्¦साम॑ऽभिः¦स्तू॒यमा᳚नाः | |
तन्न॒ इन्द्र॒स्तद् वरु॑ण॒स्तद॒ग्निस्तद᳚र्य॒मा तत्स॑वि॒ता चनो᳚ धात् |{कुत्सः | विश्वदेवाः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{3/3}{1.107.3}{1.16.2.3}{1.7.25.3}{1175, 107, 1175} तत्¦नः॒¦इन्द्रः॑¦तत्¦वरु॑णः¦तत्¦अ॒ग्निः¦तत्¦अ॒र्य॒मा¦तत्¦स॒वि॒ता¦चनः॑¦धा॒त् | |
[108] यइंद्राग्नी इति त्रयोदशर्चस्य सूक्तस्य कुत्स इंद्राग्नीत्रिष्टुप् | |
य इ᳚न्द्राग्नी चि॒त्रत॑मो॒ रथो᳚ वाम॒भि विश्वा᳚नि॒ भुव॑नानि॒ चष्टे᳚ |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} तेना या᳚तं स॒रथं᳚ तस्थि॒वांसाथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ||{1/13}{1.108.1}{1.16.3.1}{1.7.26.1}{1176, 108, 1176} यः¦इ॒न्द्रा॒ग्नी॒ इति॑¦चि॒त्रऽत॑मः¦रथः॑¦वा॒म्¦अ॒भि¦विश्वा᳚नि¦भुव॑नानि¦चष्टे᳚ | |
याव॑दि॒दं भुव॑नं॒ विश्व॒मस्त्यु॑रु॒व्यचा᳚ वरि॒मता᳚ गभी॒रम् |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} तावाँ᳚, अ॒यं पात॑वे॒ सोमो᳚, अ॒स्त्वर॑मिन्द्राग्नी॒ मन॑से यु॒वभ्या᳚म् ||{2/13}{1.108.2}{1.16.3.2}{1.7.26.2}{1177, 108, 1177} याव॑त्¦इद॒म्¦भुव॑नम्¦विश्व᳚म्¦अस्ति॑¦उ॒रु॒ऽव्यचा᳚¦व॒रि॒मता᳚¦ग॒भी॒रम् | |
च॒क्राथे॒ हि स॒ध्र्य१॑(अ॒)ङ्नाम॑ भ॒द्रं स॑ध्रीची॒ना वृ॑त्रहणा, उ॒त स्थः॑ |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} तावि᳚न्द्राग्नी स॒ध्र्य᳚ञ्चा नि॒षद्या॒ वृष्णः॒ सोम॑स्य वृष॒णा वृ॑षेथाम् ||{3/13}{1.108.3}{1.16.3.3}{1.7.26.3}{1178, 108, 1178} च॒क्राथे॒ इति॑¦हि¦स॒ध्र्य॑क्¦नाम॑¦भ॒द्रम्¦स॒ध्री॒ची॒ना¦वृ॒त्र॒ऽह॒नौ॒¦उ॒त¦स्थः॒ | |
समि॑द्धेष्व॒ग्निष्वा᳚नजा॒ना य॒तस्रु॑चा ब॒र्हिरु॑ तिस्तिरा॒णा |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} ती॒व्रैः सोमैः॒ परि॑षिक्तेभिर॒र्वागेन्द्रा᳚ग्नी सौमन॒साय॑ यातम् ||{4/13}{1.108.4}{1.16.3.4}{1.7.26.4}{1179, 108, 1179} सम्ऽइ᳚द्धेषु¦अ॒ग्निषु॑¦आ॒न॒जा॒ना¦य॒तऽस्रु॑चा¦ब॒र्हिः¦ऊँ॒ इति॑¦ति॒स्ति॒रा॒णा | |
यानी᳚न्द्राग्नी च॒क्रथु᳚र्वी॒र्या᳚णि॒ यानि॑ रू॒पाण्यु॒त वृष्ण्या᳚नि |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} या वां᳚ प्र॒त्नानि॑ स॒ख्या शि॒वानि॒ तेभिः॒ सोम॑स्य पिबतं सु॒तस्य॑ ||{5/13}{1.108.5}{1.16.3.5}{1.7.26.5}{1180, 108, 1180} यानि॑¦इ॒न्द्रा॒ग्नी॒ इति॑¦च॒क्रथुः॑¦वी॒र्या᳚णि¦यानि॑¦रू॒पाणि॑¦उ॒त¦वृष्ण्या᳚नि | |
यदब्र॑वं प्रथ॒मं वां᳚ वृणा॒नो॒३॑(ओ॒)ऽयं सोमो॒, असु॑रैर्नो वि॒हव्यः॑ |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} तां स॒त्यां श्र॒द्धाम॒भ्या हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ||{6/13}{1.108.6}{1.16.3.6}{1.7.27.1}{1181, 108, 1181} यत्¦अब्र॑वम्¦प्र॒थ॒मम्¦वा॒म्¦वृ॒णा॒नः¦अ॒यम्¦सोमः॑¦असु॑रैः¦नः॒¦वि॒ऽहव्यः॑ | |
यदि᳚न्द्राग्नी॒ मद॑थः॒ स्वे दु॑रो॒णे यद् ब्र॒ह्मणि॒ राज॑नि वा यजत्रा |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ||{7/13}{1.108.7}{1.16.3.7}{1.7.27.2}{1182, 108, 1182} यत्¦इ॒न्द्रा॒ग्नी॒ इति॑¦मद॑थः¦स्वे¦दु॒रो॒णे¦यत्¦ब्र॒ह्मणि॑¦राज॑नि¦वा॒¦य॒ज॒त्रा॒ | |
यदि᳚न्द्राग्नी॒ यदु॑षु तु॒र्वशे᳚षु॒ यद् द्रु॒ह्युष्वनु॑षु पू॒रुषु॒ स्थः |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ||{8/13}{1.108.8}{1.16.3.8}{1.7.27.3}{1183, 108, 1183} यत्¦इ॒न्द्रा॒ग्नी॒ इति॑¦यदु॑षु¦तु॒र्वशे᳚षु¦यत्¦द्रु॒ह्युषु॑¦अनु॑षु¦पू॒रुषु॑¦स्थः | |
यदि᳚न्द्राग्नी, अव॒मस्यां᳚ पृथि॒व्यां म॑ध्य॒मस्यां᳚ पर॒मस्या᳚मु॒त स्थः |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ||{9/13}{1.108.9}{1.16.3.9}{1.7.27.4}{1184, 108, 1184} यत्¦इ॒न्द्रा॒ग्नी॒ इति॑¦अ॒व॒मस्या᳚म्¦पृ॒थि॒व्याम्¦म॒ध्य॒मस्या᳚म्¦प॒र॒मस्या᳚म्¦उ॒त¦स्थः | |
यदि᳚न्द्राग्नी पर॒मस्यां᳚ पृथि॒व्यां म॑ध्य॒मस्या᳚मव॒मस्या᳚मु॒त स्थः |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ||{10/13}{1.108.10}{1.16.3.10}{1.7.27.5}{1185, 108, 1185} यत्¦इ॒न्द्रा॒ग्नी॒ इति॑¦प॒र॒मस्या᳚म्¦पृ॒थि॒व्याम्¦म॒ध्य॒मस्या᳚म्¦अ॒व॒मस्या᳚म्¦उ॒त¦स्थः | |
यदि᳚न्द्राग्नी दि॒वि ष्ठो यत् पृ॑थि॒व्यां यत् पर्व॑ते॒ष्वोष॑धीष्व॒प्सु |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ||{11/13}{1.108.11}{1.16.3.11}{1.7.27.6}{1186, 108, 1186} यत्¦इ॒न्द्रा॒ग्नी॒ इति॑¦दि॒वि¦स्थः¦यत्¦पृ॒थि॒व्याम्¦यत्¦पर्व॑तेषु¦ओष॑धीषु¦अ॒प्ऽसु | |
यदि᳚न्द्राग्नी॒, उदि॑ता॒ सूर्य॑स्य॒ मध्ये᳚ दि॒वः स्व॒धया᳚ मा॒दये᳚थे |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ||{12/13}{1.108.12}{1.16.3.12}{1.7.27.7}{1187, 108, 1187} यत्¦इ॒न्द्रा॒ग्नी॒ इति॑¦उत्ऽइ᳚ता¦सूर्य॑स्य¦मध्ये᳚¦दि॒वः¦स्व॒धया᳚¦मा॒दये᳚थे॒ इति॑ | |
ए॒वेन्द्रा᳚ग्नी पपि॒वांसा᳚ सु॒तस्य॒ विश्वा॒स्मभ्यं॒ सं ज॑यतं॒ धना᳚नि |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{13/13}{1.108.13}{1.16.3.13}{1.7.27.8}{1188, 108, 1188} ए॒व¦इ॒न्द्रा॒ग्नी॒ इति॑¦प॒पि॒ऽवांसा᳚¦सु॒तस्य॑¦विश्वा᳚¦अ॒स्मभ्य᳚म्¦सम्¦ज॒यत॒म्¦धना᳚नि | |
[109] विह्यख्यमित्यष्टर्चस्य सूक्तस्य कुत्सइंद्राग्नीत्रिष्टुप् | |
वि ह्यख्यं॒ मन॑सा॒ वस्य॑ इ॒च्छन्निन्द्रा᳚ग्नी ज्ञा॒स उ॒त वा᳚ सजा॒तान् |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} नान्या यु॒वत् प्रम॑तिरस्ति॒ मह्यं॒ स वां॒ धियं᳚ वाज॒यन्ती᳚मतक्षम् ||{1/8}{1.109.1}{1.16.4.1}{1.7.28.1}{1189, 109, 1189} वि¦हि¦अख्य᳚म्¦मन॑सा¦वस्यः॑¦इ॒च्छन्¦इन्द्रा᳚ग्नी॒ इति॑¦ज्ञा॒सः¦उ॒त¦वा॒¦स॒ऽजा॒तान् | |
अश्र॑वं॒ हि भू᳚रि॒दाव॑त्तरा वां॒ विजा᳚मातुरु॒त वा᳚ घा स्या॒लात् |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} अथा॒ सोम॑स्य॒ प्रय॑ती यु॒वभ्या॒मिन्द्रा᳚ग्नी॒ स्तोमं᳚ जनयामि॒ नव्य᳚म् ||{2/8}{1.109.2}{1.16.4.2}{1.7.28.2}{1190, 109, 1190} अश्र॑वम्¦हि¦भू॒रि॒दाव॑त्ऽतरा¦वा॒म्¦विऽजा᳚मातुः¦उ॒त¦वा॒¦घ॒¦स्या॒लात् | |
मा च्छे᳚द्म र॒श्मीँरिति॒ नाध॑मानाः पितॄ॒णां श॒क्तीर॑नु॒यच्छ॑मानाः |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} इ॒न्द्रा॒ग्निभ्यां॒ कं वृष॑णो मदन्ति॒ ता ह्यद्री᳚ धि॒षणा᳚या, उ॒पस्थे᳚ ||{3/8}{1.109.3}{1.16.4.3}{1.7.28.3}{1191, 109, 1191} मा¦छे॒द्म॒¦र॒श्मीन्¦इति॑¦नाध॑मानाः¦पि॒तॄ॒णाम्¦श॒क्तीः¦अ॒नु॒ऽयच्छ॑मानाः | |
यु॒वाभ्यां᳚ दे॒वी धि॒षणा॒ मदा॒येन्द्रा᳚ग्नी॒ सोम॑मुश॒ती सु॑नोति |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} ताव॑श्विना भद्रहस्ता सुपाणी॒, आ धा᳚वतं॒ मधु॑ना पृ॒ङ्क्तम॒प्सु ||{4/8}{1.109.4}{1.16.4.4}{1.7.28.4}{1192, 109, 1192} यु॒वाभ्या᳚म्¦दे॒वी¦धि॒षणा᳚¦मदा᳚य¦इन्द्रा᳚ग्नी॒ इति॑¦सोम᳚म्¦उ॒श॒ती¦सु॒नो॒ति॒ | |
यु॒वामि᳚न्द्राग्नी॒ वसु॑नो विभा॒गे त॒वस्त॑मा शुश्रव वृत्र॒हत्ये᳚ |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} तावा॒सद्या᳚ ब॒र्हिषि॑ य॒ज्ञे, अ॒स्मिन् प्र च॑र्षणी मादयेथां सु॒तस्य॑ ||{5/8}{1.109.5}{1.16.4.5}{1.7.28.5}{1193, 109, 1193} यु॒वाम्¦इ॒न्द्रा॒ग्नी॒ इति॑¦वसु॑नः¦वि॒ऽभा॒गे¦त॒वःऽत॑मा¦शु॒श्र॒व॒¦वृ॒त्र॒ऽहत्ये᳚ | |
प्र च॑र्ष॒णिभ्यः॑ पृतना॒हवे᳚षु॒ प्र पृ॑थि॒व्या रि॑रिचाथे दि॒वश्च॑ |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} प्र सिन्धु॑भ्यः॒ प्र गि॒रिभ्यो᳚ महि॒त्वा प्रेन्द्रा᳚ग्नी॒ विश्वा॒ भुव॒नात्य॒न्या ||{6/8}{1.109.6}{1.16.4.6}{1.7.29.1}{1194, 109, 1194} प्र¦च॒र्ष॒णिऽभ्यः॑¦पृ॒त॒ना॒ऽहवे᳚षु¦प्र¦पृ॒थि॒व्याः¦रि॒रि॒चा॒थे॒ इति॑¦दि॒वः¦च॒ | |
आ भ॑रतं॒ शिक्ष॑तं वज्रबाहू, अ॒स्माँ, इ᳚न्द्राग्नी, अवतं॒ शची᳚भिः |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} इ॒मे नु ते र॒श्मयः॒ सूर्य॑स्य॒ येभिः॑ सपि॒त्वं पि॒तरो᳚ न॒ आस॑न् ||{7/8}{1.109.7}{1.16.4.7}{1.7.29.2}{1195, 109, 1195} आ¦भ॒र॒त॒म्¦शिक्ष॑तम्¦व॒ज्र॒बा॒हू॒ इति॑ वज्रऽबाहू¦अ॒स्मान्¦इ॒न्द्रा॒ग्नी॒¦अ॒व॒त॒म्¦शची᳚भिः | |
पुरं᳚दरा॒ शिक्ष॑तं वज्रहस्ता॒स्माँ, इ᳚न्द्राग्नी, अवतं॒ भरे᳚षु |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{8/8}{1.109.8}{1.16.4.8}{1.7.29.3}{1196, 109, 1196} पुर᳚म्ऽदरा¦शिक्ष॑तम्¦व॒ज्र॒ऽह॒स्ता॒¦अ॒स्मान्¦इ॒न्द्रा॒ग्नी॒ इति॑¦अ॒व॒त॒म्¦भरे᳚षु | |
[110] ततंमइति नवर्चस्य सूक्तस्य कुत्स ऋभवोजगतीपंचम्यंत्येत्रिष्टुभौ |
त॒तं मे॒, अप॒स्तदु॑ तायते॒ पुनः॒ स्वादि॑ष्ठा धी॒तिरु॒चथा᳚य शस्यते |{कुत्सः | ऋभवः | जगती} अ॒यं स॑मु॒द्र इ॒ह वि॒श्वदे᳚व्यः॒ स्वाहा᳚कृतस्य॒ समु॑ तृप्णुत ऋभवः ||{1/9}{1.110.1}{1.16.5.1}{1.7.30.1}{1197, 110, 1197} त॒तम्¦मे॒¦अपः॑¦तत्¦ऊँ॒ इति॑¦ता॒य॒ते॒¦पुन॒रिति॑¦स्वादि॑ष्ठा¦धी॒तिः¦उ॒चथा᳚य¦श॒स्य॒ते॒ | |
आ॒भो॒गयं॒ प्र यदि॒च्छन्त॒ ऐत॒नापा᳚काः॒ प्राञ्चो॒ मम॒ के चि॑दा॒पयः॑ |{कुत्सः | ऋभवः | जगती} सौध᳚न्वनासश्चरि॒तस्य॑ भू॒मनाग॑च्छत सवि॒तुर्दा॒शुषो᳚ गृ॒हम् ||{2/9}{1.110.2}{1.16.5.2}{1.7.30.2}{1198, 110, 1198} आ॒ऽभो॒गय᳚म्¦प्र¦यत्¦इ॒च्छन्तः॑¦ऐत॑न¦अपा᳚काः¦प्रांचः॑¦मम॑¦के¦चि॒त्¦आ॒पयः॑ | |
तत् स॑वि॒ता वो᳚ऽमृत॒त्वमासु॑व॒दगो᳚ह्यं॒ यच्छ्र॒वय᳚न्त॒ ऐत॑न |{कुत्सः | ऋभवः | जगती} त्यं चि॑च्चम॒समसु॑रस्य॒ भक्ष॑ण॒मेकं॒ सन्त॑मकृणुता॒ चतु᳚र्वयम् ||{3/9}{1.110.3}{1.16.5.3}{1.7.30.3}{1199, 110, 1199} तत्¦स॒वि॒ता¦वः॒¦अ॒मृ॒त॒ऽत्वम्¦आ¦अ॒सु॒व॒त्¦अगो᳚ह्यम्¦यत्¦श्र॒वय᳚न्तः¦ऐत॑न | |
वि॒ष्ट्वी शमी᳚ तरणि॒त्वेन॑ वा॒घतो॒ मर्ता᳚सः॒ सन्तो᳚, अमृत॒त्वमा᳚नशुः |{कुत्सः | ऋभवः | जगती} सौ॒ध॒न्व॒ना, ऋ॒भवः॒ सूर॑चक्षसः संवत्स॒रे सम॑पृच्यन्त धी॒तिभिः॑ ||{4/9}{1.110.4}{1.16.5.4}{1.7.30.4}{1200, 110, 1200} वि॒ष्ट्वी¦शमी᳚¦त॒र॒णि॒ऽत्वेन॑¦वा॒घतः॑¦मर्ता᳚सः¦सन्तः॑¦अ॒मृ॒त॒ऽत्वम्¦आ॒न॒शुः॒ | |
क्षेत्र॑मिव॒ वि म॑मु॒स्ते ज॑नेनँ॒, एकं॒ पात्र॑मृ॒भवो॒ जेह॑मानम् |{कुत्सः | ऋभवः | त्रिष्टुप्} उप॑स्तुता, उप॒मं नाध॑माना॒, अम॑र्त्येषु॒ श्रव॑ इ॒च्छमा᳚नाः ||{5/9}{1.110.5}{1.16.5.5}{1.7.30.5}{1201, 110, 1201} क्षेत्र᳚म्ऽइव¦वि¦म॒मुः॒¦तेज॑नेन¦एक᳚म्¦पात्र᳚म्¦ऋ॒भवः॑¦जेह॑मानम् | |
आ म॑नी॒षाम॒न्तरि॑क्षस्य॒ नृभ्यः॑ स्रु॒चेव॑ घृ॒तं जु॑हवाम वि॒द्मना᳚ |{कुत्सः | ऋभवः | जगती} त॒र॒णि॒त्वा ये पि॒तुर॑स्य सश्चि॒र ऋ॒भवो॒ वाज॑मरुहन् दि॒वो रजः॑ ||{6/9}{1.110.6}{1.16.5.6}{1.7.31.1}{1202, 110, 1202} आ¦मा॒नी॒षाम्¦अ॒न्तरि॑क्षस्य¦नृऽभ्यः॑¦स्रु॒चाऽइ᳚व¦घृ॒तम्¦जु॒ह॒वा॒म॒¦वि॒द्मना᳚ | |
ऋ॒भुर्न॒ इन्द्रः॒ शव॑सा॒ नवी᳚यानृ॒भुर्वाजे᳚भि॒र्वसु॑भि॒र्वसु॑र्द॒दिः |{कुत्सः | ऋभवः | जगती} यु॒ष्माकं᳚ देवा॒, अव॒साह॑नि प्रि॒ये॒३॑(ए॒)ऽभि ति॑ष्ठेम पृत्सु॒तीरसु᳚न्वताम् ||{7/9}{1.110.7}{1.16.5.7}{1.7.31.2}{1203, 110, 1203} ऋ॒भुः¦नः॒¦इन्द्रः॑¦शव॑सा¦नवी᳚यान्¦ऋ॒भुः¦वाजे᳚भिः¦वसु॑ऽभिः¦वसुः॑¦द॒दिः | |
निश्चर्म॑ण ऋभवो॒ गाम॑पिंशत॒ सं व॒त्सेना᳚सृजता मा॒तरं॒ पुनः॑ |{कुत्सः | ऋभवः | जगती} सौध᳚न्वनासः स्वप॒स्यया᳚ नरो॒ जिव्री॒ युवा᳚ना पि॒तरा᳚कृणोतन ||{8/9}{1.110.8}{1.16.5.8}{1.7.31.3}{1204, 110, 1204} निः¦चर्म॑णः¦ऋ॒भ॒वः॒¦गाम्¦अ॒पिं॒श॒त॒¦सम्¦व॒त्सेन॑¦अ॒सृ॒ज॒त॒¦मा॒तर᳚म्¦पुन॒रिति॑ | |
वाजे᳚भिर्नो॒ वाज॑सातावविड्ढ्यृभु॒माँ, इ᳚न्द्र चि॒त्रमा द॑र्षि॒ राधः॑ |{कुत्सः | ऋभवः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{9/9}{1.110.9}{1.16.5.9}{1.7.31.4}{1205, 110, 1205} वाजे᳚भिः¦नः॒¦वाज॑ऽसातौ¦अ॒वि॒ड्ढि॒¦ऋ॒भु॒ऽमान्¦इ॒न्द्र॒¦चि॒त्रम्¦आ¦द॒र्षि॒¦राधः॑ | |
[111] तक्षन्रथमिति पंचर्चस्य सूक्तस्य कुत्स ऋभवोजगतीअंत्यात्रिष्टुप् | |
तक्ष॒न् रथं᳚ सु॒वृतं᳚ विद्म॒नाप॑स॒स्तक्ष॒न् हरी᳚, इन्द्र॒वाहा॒ वृष᳚ण्वसू |{कुत्सः | ऋभवः | जगती} तक्ष᳚न् पि॒तृभ्या᳚मृ॒भवो॒ युव॒द्वय॒स्तक्ष᳚न् व॒त्साय॑ मा॒तरं᳚ सचा॒भुव᳚म् ||{1/5}{1.111.1}{1.16.6.1}{1.7.32.1}{1206, 111, 1206} तक्ष॑न्¦रथ᳚म्¦सु॒ऽवृत᳚म्¦वि॒द्म॒ना।आ॑पसः¦तक्ष॑न्¦हरी॒ इति॑¦इ॒न्द्र॒ऽवाहा᳚¦वृष᳚ण्वसू॒ इति॒ वृष॑ण्ऽवसू | |
आ नो᳚ य॒ज्ञाय॑ तक्षत ऋभु॒मद्वयः॒ क्रत्वे॒ दक्षा᳚य सुप्र॒जाव॑ती॒मिष᳚म् |{कुत्सः | ऋभवः | जगती} यथा॒ क्षया᳚म॒ सर्व॑वीरया वि॒शा तन्नः॒ शर्धा᳚य धासथा॒ स्वि᳚न्द्रि॒यम् ||{2/5}{1.111.2}{1.16.6.2}{1.7.32.2}{1207, 111, 1207} आ¦नः॒¦य॒ज्ञाय॑¦त॒क्ष॒त॒¦ऋ॒भु॒ऽमत्¦वयः॑¦ऋत्वे᳚¦दक्षा᳚य¦सु॒ऽप्र॒जाव॑तीम्¦इष᳚म् | |
आ त॑क्षत सा॒तिम॒स्मभ्य॑मृभवः सा॒तिं रथा᳚य सा॒तिमर्व॑ते नरः |{कुत्सः | ऋभवः | जगती} सा॒तिं नो॒ जैत्रीं॒ सं म॑हेत वि॒श्वहा᳚ जा॒मिमजा᳚मिं॒ पृत॑नासु स॒क्षणि᳚म् ||{3/5}{1.111.3}{1.16.6.3}{1.7.32.3}{1208, 111, 1208} आ¦त॒क्ष॒त॒¦सा॒तिम्¦अ॒स्मभ्य᳚म्¦ऋ॒भ॒वः॒¦सा॒तिम्¦रथा᳚य¦सा॒तिम्¦अर्व॑ते¦न॒रः॒ | |
ऋ॒भु॒क्षण॒मिन्द्र॒मा हु॑व ऊ॒तय॑ ऋ॒भून्वाजा᳚न् म॒रुतः॒ सोम॑पीतये |{कुत्सः | ऋभवः | जगती} उ॒भा मि॒त्रावरु॑णा नू॒नम॒श्विना॒ ते नो᳚ हिन्वन्तु सा॒तये᳚ धि॒ये जि॒षे ||{4/5}{1.111.4}{1.16.6.4}{1.7.32.4}{1209, 111, 1209} ऋ॒भु॒क्षण᳚म्¦इन्द्र᳚म्¦आ¦हु॒वे॒¦ऊ॒तये᳚¦ऋ॒भून्¦वाजा᳚न्¦म॒रुतः॑¦सोम॑ऽपीतये | |
ऋ॒भुर्भरा᳚य॒ सं शि॑शातु सा॒तिं स॑मर्य॒जिद्वाजो᳚, अ॒स्माँ, अ॑विष्टु |{कुत्सः | ऋभवः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{5/5}{1.111.5}{1.16.6.5}{1.7.32.5}{1210, 111, 1210} ऋ॒भुः¦भरा᳚य¦सम्¦शि॒शा॒तु॒¦सा॒तिम्¦स॒म॒र्य॒ऽजित्¦वाजः॑¦अ॒स्मान्¦अ॒वि॒ष्टु॒ | |
[112] ईळेद्यावापृथिवीइति पंचविंशत्यृचस्य सूक्तस्य कुत्सः आद्यायाद्यावापृथिव्यग्न्यश्विनः शिष्टानामश्विनौ जगतीअंत्येद्वेत्रिष्टुभौ |
ईळे॒ द्यावा᳚पृथि॒वी पू॒र्वचि॑त्तये॒ऽग्निं घ॒र्मं सु॒रुचं॒ याम᳚न्नि॒ष्टये᳚ |{कुत्सः | १/४ द्यावापृथिव्यौ, २/४ अग्निः, उत्तरार्धस्य अश्विनौ | जगती} याभि॒र्भरे᳚ का॒रमंशा᳚य॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{1/25}{1.112.1}{1.16.7.1}{1.7.33.1}{1211, 112, 1211} ईळे᳚¦द्यावा᳚पृथि॒वी इति॑¦पू॒र्वऽचि॑त्तये¦अ॒ग्निम्¦घ॒र्मम्¦सु॒ऽरुच᳚म्¦याम॑न्¦इ॒ष्टये᳚ | |
यु॒वोर्दा॒नाय॑ सु॒भरा᳚, अस॒श्चतो॒ रथ॒मा त॑स्थुर्वच॒सं न मन्त॑वे |{कुत्सः | अश्विनौ | जगती} याभि॒र्धियोऽव॑थः॒ कर्म᳚न्नि॒ष्टये॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{2/25}{1.112.2}{1.16.7.2}{1.7.33.2}{1212, 112, 1212} यु॒वोः¦दा॒नाय॑¦सु॒ऽभराः᳚¦अ॒स॒श्चतः॑¦रथ᳚म्¦आ¦त॒स्थुः॒¦व॒च॒सम्¦न¦मन्त॑वे | |
यु॒वं तासां᳚ दि॒व्यस्य॑ प्र॒शास॑ने वि॒शां क्ष॑यथो, अ॒मृत॑स्य म॒ज्मना᳚ |{कुत्सः | अश्विनौ | जगती} याभि॑र्धे॒नुम॒स्व१॑(अं॒) पिन्व॑थो नरा॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{3/25}{1.112.3}{1.16.7.3}{1.7.33.3}{1213, 112, 1213} यु॒वम्¦तासा᳚म्¦दि॒व्यस्य॑¦प्र॒ऽशास॑ने¦वि॒शाम्¦क्ष॒य॒थः॒¦अ॒मृत॑स्य¦म॒ज्मना᳚ | |
याभिः॒ परि॑ज्मा॒ तन॑यस्य म॒ज्मना᳚ द्विमा॒ता तू॒र्षु त॒रणि᳚र्वि॒भूष॑ति |{कुत्सः | अश्विनौ | जगती} याभि॑स्त्रि॒मन्तु॒रभ॑वद् विचक्ष॒णस्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{4/25}{1.112.4}{1.16.7.4}{1.7.33.4}{1214, 112, 1214} याभिः॑¦परि॑ऽज्मा¦तन॑यस्य¦म॒ज्मना᳚¦द्वि॒ऽमा॒ता¦तू॒र्षु¦त॒रणिः॑¦वि॒ऽभूष॑ति | |
याभी᳚ रे॒भं निवृ॑तं सि॒तम॒द्भ्य उद् वन्द॑न॒मैर॑यतं॒ स्व॑र्दृ॒शे |{कुत्सः | अश्विनौ | जगती} याभिः॒ कण्वं॒ प्र सिषा᳚सन्त॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{5/25}{1.112.5}{1.16.7.5}{1.7.33.5}{1215, 112, 1215} याभिः॑¦रे॒भम्¦निऽवृ॑तम्¦सि॒तम्¦अ॒त्ऽभ्यः¦उत्¦वन्द॑नम्¦ऐर॑यतम्¦स्वः॑¦दृ॒शे | |
याभि॒रन्त॑कं॒ जस॑मान॒मार॑णे भु॒ज्युं याभि॑रव्य॒थिभि॑र्जिजि॒न्वथुः॑ |{कुत्सः | अश्विनौ | जगती} याभिः॑ क॒र्कन्धुं᳚ व॒य्यं᳚ च॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{6/25}{1.112.6}{1.16.7.6}{1.7.34.1}{1216, 112, 1216} याभिः॑¦अन्त॑कम्¦जस॑मानम्¦आ॒।आर॑णे¦भु॒ज्युम्¦याभिः॑¦अ॒व्य॒थिऽभिः॑¦जि॒जि॒न्वथुः॑ | |
याभिः॑ शुच॒न्तिं ध॑न॒सां सु॑षं॒सदं᳚ त॒प्तं घ॒र्ममो॒म्याव᳚न्त॒मत्र॑ये |{कुत्सः | अश्विनौ | जगती} याभिः॒ पृश्नि॑गुं पुरु॒कुत्स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{7/25}{1.112.7}{1.16.7.7}{1.7.34.2}{1217, 112, 1217} याभिः॑¦शु॒च॒न्तिम्¦ध॒न॒ऽसाम्¦सु॒ऽसं॒सद᳚म्¦त॒प्तम्¦घ॒र्मम्¦ओ॒म्याऽव᳚न्तम्¦अत्र॑ये | |
याभिः॒ शची᳚भिर्वृषणा परा॒वृजं॒ प्रान्धं श्रो॒णं चक्ष॑स॒ एत॑वे कृ॒थः |{कुत्सः | अश्विनौ | जगती} याभि॒र्वर्ति॑कां ग्रसि॒ताममु᳚ञ्चतं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{8/25}{1.112.8}{1.16.7.8}{1.7.34.3}{1218, 112, 1218} याभिः॑¦शची᳚भिः¦वृ॒ष॒णा॒¦प॒रा॒ऽवृज᳚म्¦प्र¦अ॒न्धम्¦श्रो॒णम्¦चक्ष॑से¦एत॑वे¦कृ॒थः | |
याभिः॒ सिन्धुं॒ मधु॑मन्त॒मस॑श्चतं॒ वसि॑ष्ठं॒ याभि॑रजरा॒वजि᳚न्वतम् |{कुत्सः | अश्विनौ | जगती} याभिः॒ कुत्सं᳚ श्रु॒तर्यं॒ नर्य॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{9/25}{1.112.9}{1.16.7.9}{1.7.34.4}{1219, 112, 1219} याभिः॑¦सिन्धु᳚म्¦मधु॑ऽमन्तम्¦अस॑श्चतम्¦वसि॑ष्ठम्¦याभिः॑¦अ॒ज॒रौ॒¦अजि᳚न्वतम् | |
याभि᳚र्वि॒श्पलां᳚ धन॒साम॑थ॒र्व्यं᳚ स॒हस्र॑मीळ्ह आ॒जावजि᳚न्वतम् |{कुत्सः | अश्विनौ | जगती} याभि॒र्वश॑म॒श्व्यं प्रे॒णिमाव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{10/25}{1.112.10}{1.16.7.10}{1.7.34.5}{1220, 112, 1220} याभिः॑¦वि॒श्पला᳚म्¦ध॒न॒ऽसाम्¦अ॒थ॒र्व्य᳚म्¦स॒हस्र॑ऽमीळ्हे¦आ॒जौ¦अजि᳚न्वतम् | |
याभिः॑ सुदानू, औशि॒जाय॑ व॒णिजे᳚ दी॒र्घश्र॑वसे॒ मधु॒ कोशो॒, अक्ष॑रत् |{कुत्सः | अश्विनौ | जगती} क॒क्षीव᳚न्तं स्तो॒तारं॒ याभि॒राव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{11/25}{1.112.11}{1.16.7.11}{1.7.35.1}{1221, 112, 1221} याभिः॑¦सु॒दा॒नू॒ इति॑ सुऽदानू¦औ॒शि॒जाय॑¦व॒णिजे᳚¦दी॒र्घऽश्र॑वसे¦मधु॑¦कोशः॑¦अक्ष॑रत् | |
याभी᳚ र॒सां क्षोद॑सो॒द्नः पि॑पि॒न्वथु॑रन॒श्वं याभी॒ रथ॒माव॑तं जि॒षे |{कुत्सः | अश्विनौ | जगती} याभि॑स्त्रि॒शोक॑ उ॒स्रिया᳚, उ॒दाज॑त॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{12/25}{1.112.12}{1.16.7.12}{1.7.35.2}{1222, 112, 1222} याभिः॑¦र॒साम्¦क्षोद॑सा¦उ॒द्नः¦पि॒पि॒न्वथुः॑¦अ॒न॒श्वम्¦याभिः॑¦रथ᳚म्¦आव॑तम्¦जि॒षे | |
याभिः॒ सूर्यं᳚ परिया॒थः प॑रा॒वति॑ मन्धा॒तारं॒ क्षैत्र॑पत्ये॒ष्वाव॑तम् |{कुत्सः | अश्विनौ | जगती} याभि॒र्विप्रं॒ प्र भ॒रद्वा᳚ज॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{13/25}{1.112.13}{1.16.7.13}{1.7.35.3}{1223, 112, 1223} याभिः॑¦सूर्य᳚म्¦प॒रि॒ऽया॒थः¦प॒रा॒ऽवति॑¦म॒न्धा॒तार᳚म्¦क्षैत्र॑ऽपत्येषु¦आव॑तम् | |
याभि᳚र्म॒हाम॑तिथि॒ग्वं क॑शो॒जुवं॒ दिवो᳚दासं शम्बर॒हत्य॒ आव॑तम् |{कुत्सः | अश्विनौ | जगती} याभिः॑ पू॒र्भिद्ये᳚ त्र॒सद॑स्यु॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{14/25}{1.112.14}{1.16.7.14}{1.7.35.4}{1224, 112, 1224} याभिः॑¦म॒हाम्¦अ॒ति॒थि॒ऽग्वम्¦क॒शः॒ऽजुव᳚म्¦दिवः॑ऽदासम्¦श॒म्ब॒र॒ऽहत्ये᳚¦आव॑तम् | |
याभि᳚र्व॒म्रं वि॑पिपा॒नमु॑पस्तु॒तं क॒लिं याभि᳚र्वि॒त्तजा᳚निं दुव॒स्यथः॑ |{कुत्सः | अश्विनौ | जगती} याभि॒र्व्य॑श्वमु॒त पृथि॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{15/25}{1.112.15}{1.16.7.15}{1.7.35.5}{1225, 112, 1225} याभिः॑¦व॒म्रम्¦वि॒ऽपि॒पा॒नम्¦उ॒प॒ऽस्तु॒तम्¦क॒लिम्¦याभिः॑¦वि॒त्तऽजा᳚निम्¦दु॒व॒स्यथः॑ | |
याभि᳚र्नरा श॒यवे॒ याभि॒रत्र॑ये॒ याभिः॑ पु॒रा मन॑वे गा॒तुमी॒षथुः॑ |{कुत्सः | अश्विनौ | जगती} याभिः॒ शारी॒राज॑तं॒ स्यूम॑रश्मये॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{16/25}{1.112.16}{1.16.7.16}{1.7.36.1}{1226, 112, 1226} याभिः॑¦न॒रा॒¦श॒यवे᳚¦याभिः॑¦अत्र॑ये¦याभिः॑¦पु॒रा¦मन॑वे¦गा॒तुम्¦ई॒षथुः॑ | |
याभिः॒ पठ᳚र्वा॒ जठ॑रस्य म॒ज्मना॒ऽग्निर्नादी᳚देच्चि॒त इ॒द्धो, अज्म॒न्ना |{कुत्सः | अश्विनौ | जगती} याभिः॒ शर्या᳚त॒मव॑थो महाध॒ने ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{17/25}{1.112.17}{1.16.7.17}{1.7.36.2}{1227, 112, 1227} याभिः॑¦पठ᳚र्वा¦जठ॑रस्य¦म॒ज्मना᳚¦अ॒ग्निः¦न¦अदी᳚देत्¦चि॒तः¦इ॒द्धः¦अज्म॑न्¦आ | |
याभि॑रङ्गिरो॒ मन॑सा निर॒ण्यथोऽग्रं॒ गच्छ॑थो विव॒रे गो,अ᳚र्णसः |{कुत्सः | अश्विनौ | जगती} याभि॒र्मनुं॒ शूर॑मि॒षा स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{18/25}{1.112.18}{1.16.7.18}{1.7.36.3}{1228, 112, 1228} याभिः॑¦अ॒ङ्गि॒रः॒¦मन॑सा¦नि॒ऽर॒ण्यथः॑¦अग्र᳚म्¦गच्छ॑थः¦वि॒ऽव॒रे¦गो।आ᳚र्णसः | |
याभिः॒ पत्नी᳚र्विम॒दाय᳚ न्यू॒हथु॒रा घ॑ वा॒ याभि॑ररु॒णीरशि॑क्षतम् |{कुत्सः | अश्विनौ | जगती} याभिः॑ सु॒दास॑ ऊ॒हथुः॑ सुदे॒व्य१॑(अं॒) ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{19/25}{1.112.19}{1.16.7.19}{1.7.36.4}{1229, 112, 1229} याभिः॑¦पत्नीः᳚¦वि॒ऽम॒दाय॑¦नि॒ऽऊ॒हथुः॑¦आ¦घ॒¦वा॒¦याभिः॑¦अ॒रु॒णीः¦अशि॑क्षतम् | |
याभिः॒ शंता᳚ती॒ भव॑थो ददा॒शुषे᳚ भु॒ज्युं याभि॒रव॑थो॒ याभि॒रध्रि॑गुम् |{कुत्सः | अश्विनौ | जगती} ओ॒म्याव॑तीं सु॒भरा᳚मृत॒स्तुभं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{20/25}{1.112.20}{1.16.7.20}{1.7.36.5}{1230, 112, 1230} याभिः॑¦शंता᳚ती॒ इति॒ शम्ऽता᳚ती¦भव॑थः¦द॒दा॒शुषे᳚¦भु॒ज्युम्¦याभिः॑¦अव॑थः¦याभिः॑¦अध्रि॑ऽगुम् | |
याभिः॑ कृ॒शानु॒मस॑ने दुव॒स्यथो᳚ ज॒वे याभि॒र्यूनो॒, अर्व᳚न्त॒माव॑तम् |{कुत्सः | अश्विनौ | जगती} मधु॑ प्रि॒यं भ॑रथो॒ यत्स॒रड्भ्य॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{21/25}{1.112.21}{1.16.7.21}{1.7.37.1}{1231, 112, 1231} याभिः॑¦कृ॒शानु᳚म्¦अस॑ने¦दु॒व॒स्यथः॑¦ज॒वे¦याभिः॑¦यूनः॑¦अर्व᳚न्तम्¦आव॑तम् | |
याभि॒र्नरं᳚ गोषु॒युधं᳚ नृ॒षाह्ये॒ क्षेत्र॑स्य सा॒ता तन॑यस्य॒ जिन्व॑थः |{कुत्सः | अश्विनौ | जगती} याभी॒ रथाँ॒, अव॑थो॒ याभि॒रर्व॑त॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{22/25}{1.112.22}{1.16.7.22}{1.7.37.2}{1232, 112, 1232} याभिः॑¦नर᳚म्¦गो॒षु॒ऽयुध᳚म्¦नृ॒ऽसह्ये᳚¦क्षेत्र॑स्य¦सा॒ता¦तन॑यस्य¦जिन्व॑थः | |
याभिः॒ कुत्स॑मार्जुने॒यं श॑तक्रतू॒ प्र तु॒र्वीतिं॒ प्र च॑ द॒भीति॒माव॑तम् |{कुत्सः | अश्विनौ | जगती} याभि॑र्ध्व॒सन्तिं᳚ पुरु॒षन्ति॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{23/25}{1.112.23}{1.16.7.23}{1.7.37.3}{1233, 112, 1233} याभिः॑¦कुत्स᳚म्¦आ॒र्जु॒ने॒यम्¦श॒त॒क्र॒तू॒ इति॑ शतऽक्रतू¦प्र¦तु॒र्वीति᳚म्¦प्र¦च॒¦द॒भीति᳚म्¦आव॑तम् | |
अप्न॑स्वतीमश्विना॒ वाच॑म॒स्मे कृ॒तं नो᳚ दस्रा वृषणा मनी॒षाम् |{कुत्सः | अश्विनौ | त्रिष्टुप्} अ॒द्यू॒त्येऽव॑से॒ नि ह्व॑ये वां वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ||{24/25}{1.112.24}{1.16.7.24}{1.7.37.4}{1234, 112, 1234} अप्न॑स्वतीम्¦अ॒श्वि॒ना॒¦वाच᳚म्¦अ॒स्मे इति॑¦कृ॒तम्¦नः॒¦द॒स्रा॒¦वृ॒ष॒णा॒¦म॒नी॒षाम् | |
द्युभि॑र॒क्तुभिः॒ परि॑ पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः |{कुत्सः | अश्विनौ | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{25/25}{1.112.25}{1.16.7.25}{1.7.37.5}{1235, 112, 1235} द्युऽभिः॑¦अ॒क्तुऽभिः॑¦परि॑¦पा॒त॒म्¦अ॒स्मान्¦अरि॑ष्टेभिः¦अ॒श्वि॒ना॒¦सौभ॑गेभिः | |
[113] इदंश्रेष्ठमिति विंशत्यृचस्य सूक्तस्य कुत्स उषाद्वितीयायाअर्धर्चोरात्रिस्त्रिष्टुप् | |
इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॒रागा᳚च्चि॒त्रः प्र॑के॒तो, अ॑जनिष्ट॒ विभ्वा᳚ |{कुत्सः | १/२:उषाः २/२:रात्रिः | त्रिष्टुप्} यथा॒ प्रसू᳚ता सवि॒तुः स॒वायँ᳚, ए॒वा रात्र्यु॒षसे॒ योनि॑मारैक् ||{1/20}{1.113.1}{1.16.8.1}{1.8.1.1}{1236, 113, 1236} इ॒दम्¦श्रेष्ठ᳚म्¦ज्योति॑षाम्¦ज्योतिः॑¦आ¦अ॒गा॒त्¦चि॒त्रः¦प्र॒ऽके॒तः¦अ॒ज॒नि॒ष्ट॒¦विऽभ्वा᳚ | |
रुश॑द्वत्सा॒ रुश॑ती श्वे॒त्यागा॒दारै᳚गु कृ॒ष्णा सद॑नान्यस्याः |{कुत्सः | उषाः | त्रिष्टुप्} स॒मा॒नब᳚न्धू, अ॒मृते᳚, अनू॒ची द्यावा॒ वर्णं᳚ चरत आमिना॒ने ||{2/20}{1.113.2}{1.16.8.2}{1.8.1.2}{1237, 113, 1237} रुश॑त्ऽवत्सा¦रुश॑ती¦श्वे॒त्या¦आ¦अ॒गा॒त्¦अरै᳚क्¦ऊँ॒ इति॑¦कृ॒ष्णा¦सद॑नानि¦अ॒स्याः॒ | |
स॒मा॒नो, अध्वा॒ स्वस्रो᳚रन॒न्तस्तम॒न्यान्या᳚ चरतो दे॒वशि॑ष्टे |{कुत्सः | उषाः | त्रिष्टुप्} न मे᳚थेते॒ न त॑स्थतुः सु॒मेके॒ नक्तो॒षासा॒ सम॑नसा॒ विरू᳚पे ||{3/20}{1.113.3}{1.16.8.3}{1.8.1.3}{1238, 113, 1238} स॒मा॒नः¦अध्वा᳚¦स्वस्रोः᳚¦अ॒न॒न्तः¦तम्¦अ॒न्या।आ᳚न्या¦च॒र॒तः॒¦दे॒वशि॑ष्टे॒ इति॑ दे॒वऽशि॑ष्टे | |
भास्व॑ती ने॒त्री सू॒नृता᳚ना॒मचे᳚ति चि॒त्रा वि दुरो᳚ न आवः |{कुत्सः | उषाः | त्रिष्टुप्} प्रार्प्या॒ जग॒द् व्यु॑ नो रा॒यो, अ॑ख्यदु॒षा, अ॑जीग॒र्भुव॑नानि॒ विश्वा᳚ ||{4/20}{1.113.4}{1.16.8.4}{1.8.1.4}{1239, 113, 1239} भास्व॑ती¦ने॒त्री¦सू॒नृता᳚नाम्¦अचे᳚ति¦चि॒त्रा¦वि¦दुरः॑¦नः॒¦आ॒व॒रित्या᳚वः | |
जि॒ह्म॒श्ये॒३॑(ए॒) चरि॑तवे म॒घोन्या᳚भो॒गय॑ इ॒ष्टये᳚ रा॒य उ॑ त्वम् |{कुत्सः | उषाः | त्रिष्टुप्} द॒भ्रं पश्य॑द्भ्य उर्वि॒या वि॒चक्ष॑ उ॒षा, अ॑जीग॒र्भुव॑नानि॒ विश्वा᳚ ||{5/20}{1.113.5}{1.16.8.5}{1.8.1.5}{1240, 113, 1240} जि॒ह्म॒ऽश्ये᳚¦चरि॑तवे¦म॒घोनी᳚¦आ॒ऽभो॒गये᳚¦इ॒ष्टये᳚¦रा॒ये¦ऊँ॒ इति॑¦त्व॒म् | |
क्ष॒त्राय॑ त्वं॒ श्रव॑से त्वं मही॒या, इ॒ष्टये᳚ त्व॒मर्थ॑मिव त्वमि॒त्यै |{कुत्सः | उषाः | त्रिष्टुप्} विस॑दृशा जीवि॒ताभि॑प्र॒चक्ष॑ उ॒षा, अ॑जीग॒र्भुव॑नानि॒ विश्वा᳚ ||{6/20}{1.113.6}{1.16.8.6}{1.8.2.1}{1241, 113, 1241} क्ष॒त्राय॑¦त्व॒म्¦श्रव॑से¦त्व॒म्¦म॒ही॒यै¦इ॒ष्टये᳚¦त्व॒म्¦अर्थ᳚म्ऽइव¦त्व॒म्¦इ॒त्यै | |
ए॒षा दि॒वो दु॑हि॒ता प्रत्य॑दर्शि व्यु॒च्छन्ती᳚ युव॒तिः शु॒क्रवा᳚साः |{कुत्सः | उषाः | त्रिष्टुप्} विश्व॒स्येशा᳚ना॒ पार्थि॑वस्य॒ वस्व॒ उषो᳚, अ॒द्येह सु॑भगे॒ व्यु॑च्छ ||{7/20}{1.113.7}{1.16.8.7}{1.8.2.2}{1242, 113, 1242} ए॒षा¦दि॒वः¦दु॒हि॒ता¦प्रति॑¦अ॒द॒र्शि॒¦वि॒।औ॒च्छन्ती᳚¦यु॒व॒तिः¦शु॒क्रऽवा᳚साः | |
प॒रा॒य॒ती॒नामन्वे᳚ति॒ पाथ॑ आयती॒नां प्र॑थ॒मा शश्व॑तीनाम् |{कुत्सः | उषाः | त्रिष्टुप्} व्यु॒च्छन्ती᳚ जी॒वमु॑दी॒रय᳚न्त्यु॒षा मृ॒तं कं च॒न बो॒धय᳚न्ती ||{8/20}{1.113.8}{1.16.8.8}{1.8.2.3}{1243, 113, 1243} प॒रा॒ऽय॒ती॒नाम्¦अनु॑¦ए॒ति॒¦पाथः॑¦आ॒ऽय॒ती॒नाम्¦प्र॒थ॒मा¦शश्व॑तीनाम् | |
उषो॒ यद॒ग्निं स॒मिधे᳚ च॒कर्थ॒ वि यदाव॒श्चक्ष॑सा॒ सूर्य॑स्य |{कुत्सः | उषाः | त्रिष्टुप्} यन्मानु॑षान् य॒क्ष्यमा᳚णाँ॒, अजी᳚ग॒स्तद् दे॒वेषु॑ चकृषे भ॒द्रमप्नः॑ ||{9/20}{1.113.9}{1.16.8.9}{1.8.2.4}{1244, 113, 1244} उषः॑¦यत्¦अ॒ग्निम्¦स॒म्ऽइधे᳚¦च॒कर्थ॑¦वि¦यत्¦आवः॑¦चक्ष॑सा¦सूर्य॑स्य | |
किया॒त्या यत् स॒मया॒ भवा᳚ति॒ या व्यू॒षुर्याश्च॑ नू॒नं व्यु॒च्छान् |{कुत्सः | उषाः | त्रिष्टुप्} अनु॒ पूर्वाः᳚ कृपते वावशा॒ना प्र॒दीध्या᳚ना॒ जोष॑म॒न्याभि॑रेति ||{10/20}{1.113.10}{1.16.8.10}{1.8.2.5}{1245, 113, 1245} किय॑ति¦आ¦यत्¦स॒मया᳚¦भवा᳚ति¦याः¦वि॒ऽऊ॒षुः¦याः¦च॒¦नू॒नम्¦वि॒।औ॒च्छान् | |
ई॒युष्टे ये पूर्व॑तरा॒मप॑श्यन् व्यु॒च्छन्ती᳚मु॒षसं॒ मर्त्या᳚सः |{कुत्सः | उषाः | त्रिष्टुप्} अ॒स्माभि॑रू॒ नु प्र॑ति॒चक्ष्या᳚भू॒दो ते य᳚न्ति॒ ये, अ॑प॒रीषु॒ पश्या॑न् ||{11/20}{1.113.11}{1.16.8.11}{1.8.3.1}{1246, 113, 1246} ई॒युः¦ते¦ये¦पूर्व॑ऽतराम्¦अप॑श्यन्¦वि॒।औ॒च्छन्ती᳚म्¦उ॒षस᳚म्¦मर्त्या᳚सः | |
या॒व॒यद्द्वे᳚षा, ऋत॒पा, ऋ॑ते॒जाः सु᳚म्ना॒वरी᳚ सू॒नृता᳚, ई॒रय᳚न्ती |{कुत्सः | उषाः | त्रिष्टुप्} सु॒म॒ङ्ग॒लीर्बिभ्र॑ती दे॒ववी᳚तिमि॒हाद्योषः॒ श्रेष्ठ॑तमा॒ व्यु॑च्छ ||{12/20}{1.113.12}{1.16.8.12}{1.8.3.2}{1247, 113, 1247} या॒व॒यत्ऽद्वे᳚षाः¦ऋ॒त॒ऽपाः¦ऋ॒ते॒ऽजाः¦सु॒म्न॒ऽवरी᳚¦सू॒नृताः᳚¦ई॒रय᳚न्ती | |
शश्व॑त् पु॒रोषा व्यु॑वास दे॒व्यथो᳚, अ॒द्येदं व्या᳚वो म॒घोनी᳚ |{कुत्सः | उषाः | त्रिष्टुप्} अथो॒ व्यु॑च्छा॒दुत्त॑राँ॒, अनु॒ द्यून॒जरा॒मृता᳚ चरति स्व॒धाभिः॑ ||{13/20}{1.113.13}{1.16.8.13}{1.8.3.3}{1248, 113, 1248} शश्व॑त्¦पु॒रा¦उ॒षाः¦वि¦उ॒वा॒स॒¦दे॒वी¦अथो॒ इति॑¦अ॒द्य¦इ॒दम्¦वि¦आ॒वः॒¦म॒घोनी᳚ | |
व्य१॑(अ॒)न्जिभि॑र्दि॒व आता᳚स्वद्यौ॒दप॑ कृ॒ष्णां नि॒र्णिजं᳚ दे॒व्या᳚वः |{कुत्सः | उषाः | त्रिष्टुप्} प्र॒बो॒धय᳚न्त्यरु॒णेभि॒रश्वै॒रोषा या᳚ति सु॒युजा॒ रथे᳚न ||{14/20}{1.113.14}{1.16.8.14}{1.8.3.4}{1249, 113, 1249} वि¦अं॒जिऽभिः॑¦दि॒वः¦आता᳚सु¦अ॒द्यौ॒त्¦अप॑¦कृ॒ष्णाम्¦निः॒ऽनिज᳚म्¦दे॒वी¦आ॒व॒रित्या᳚वः | |
आ॒वह᳚न्ती॒ पोष्या॒ वार्या᳚णि चि॒त्रं के॒तुं कृ॑णुते॒ चेकि॑ताना |{कुत्सः | उषाः | त्रिष्टुप्} ई॒युषी᳚णामुप॒मा शश्व॑तीनां विभाती॒नां प्र॑थ॒मोषा व्य॑श्वैत् ||{15/20}{1.113.15}{1.16.8.15}{1.8.3.5}{1250, 113, 1250} आ॒ऽवह᳚न्ती¦पोष्या᳚¦वार्या᳚णि¦चि॒त्रम्¦के॒तुम्¦कृ॒णु॒ते॒¦चेकि॑ताना | |
उदी᳚र्ध्वं जी॒वो, असु᳚र्न॒ आगा॒दप॒ प्रागा॒त्तम॒ आ ज्योति॑रेति |{कुत्सः | उषाः | त्रिष्टुप्} आरै॒क् पन्थां॒ यात॑वे॒ सूर्या॒याग᳚न्म॒ यत्र॑ प्रति॒रन्त॒ आयुः॑ ||{16/20}{1.113.16}{1.16.8.16}{1.8.4.1}{1251, 113, 1251} उत्¦ई॒र्ध्व॒म्¦जी॒वः¦असुः॑¦नः॒¦आ¦अ॒गा॒त्¦अप॑¦प्र¦अ॒गा॒त्¦तमः॑¦आ¦ज्योतिः॑¦ए॒ति॒ | |
स्यूम॑ना वा॒च उदि॑यर्ति॒ वह्निः॒ स्तवा᳚नो रे॒भ उ॒षसो᳚ विभा॒तीः |{कुत्सः | उषाः | त्रिष्टुप्} अ॒द्या तदु॑च्छ गृण॒ते म॑घोन्य॒स्मे, आयु॒र्नि दि॑दीहि प्र॒जाव॑त् ||{17/20}{1.113.17}{1.16.8.17}{1.8.4.2}{1252, 113, 1252} स्यूम॑ना¦वा॒चः¦उत्¦इ॒य॒र्ति॒¦वह्निः॑¦स्तवा᳚नः¦रे॒भः¦उ॒षसः॑¦वि॒ऽभा॒तीः | |
या गोम॑तीरु॒षसः॒ सर्व॑वीरा व्यु॒च्छन्ति॑ दा॒शुषे॒ मर्त्या᳚य |{कुत्सः | उषाः | त्रिष्टुप्} वा॒योरि॑व सू॒नृता᳚नामुद॒र्के ता, अ॑श्व॒दा, अ॑श्नवत् सोम॒सुत्वा᳚ ||{18/20}{1.113.18}{1.16.8.18}{1.8.4.3}{1253, 113, 1253} याः¦गोऽम॑तीः¦उ॒षसः॑¦सर्व॑ऽवीराः¦वि॒।औ॒च्छन्ति॑¦दा॒शुषे᳚¦मर्त्या᳚य | |
मा॒ता दे॒वाना॒मदि॑ते॒रनी᳚कं य॒ज्ञस्य॑ के॒तुर्बृ॑ह॒ती वि भा᳚हि |{कुत्सः | उषाः | त्रिष्टुप्} प्र॒श॒स्ति॒कृद् ब्रह्म॑णे नो॒ व्यु१॑(उ॒)च्छा नो॒ जने᳚ जनय विश्ववारे ||{19/20}{1.113.19}{1.16.8.19}{1.8.4.4}{1254, 113, 1254} मा॒ता¦दे॒वाना᳚म्¦अदि॑तेः¦अनी᳚कम्¦य॒ज्ञस्य॑¦के॒तुः¦बृ॒ह॒ती¦वि¦भा॒हि॒ | |
यच्चि॒त्रमप्न॑ उ॒षसो॒ वह᳚न्तीजा॒नाय॑ शशमा॒नाय॑ भ॒द्रम् |{कुत्सः | उषाः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{20/20}{1.113.20}{1.16.8.20}{1.8.4.5}{1255, 113, 1255} यत्¦चि॒त्रम्¦अप्नः॑¦उ॒षसः॑¦वह᳚न्ति¦ई॒जा॒नाय॑¦श॒श॒मा॒नाय॑¦भ॒द्रम् | |
[114] इमारुद्रायेत्येकादशर्चस्य सूक्तस्य कुत्सोरुद्रोजगतीअंत्येद्वेत्रिष्टुभौ | |
इ॒मा रु॒द्राय॑ त॒वसे᳚ कप॒र्दिने᳚ क्ष॒यद्वी᳚राय॒ प्र भ॑रामहे म॒तीः |{कुत्सः | रुद्रः | जगती} यथा॒ शमस॑द् द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं᳚ पु॒ष्टं ग्रामे᳚, अ॒स्मिन्न॑नातु॒रम् ||{1/11}{1.114.1}{1.16.9.1}{1.8.5.1}{1256, 114, 1256} इ॒माः¦रु॒द्राय॑¦त॒वसे᳚¦क॒प॒र्दिने᳚¦क्ष॒यत्ऽवी᳚राय¦प्र¦भ॒रा॒म॒हे॒¦म॒तीः | |
मृ॒ळा नो᳚ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी᳚राय॒ नम॑सा विधेम ते |{कुत्सः | रुद्रः | जगती} यच्छं च॒ योश्च॒ मनु॑राये॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी᳚तिषु ||{2/11}{1.114.2}{1.16.9.2}{1.8.5.2}{1257, 114, 1257} मृ॒ळ¦नः॒¦रु॒द्र॒¦उ॒त¦नः॒¦मयः॑¦कृ॒धि॒¦क्ष॒यत्ऽवी᳚राय¦नम॑सा¦वि॒धे॒म॒¦ते॒ | |
अ॒श्याम॑ ते सुम॒तिं दे᳚वय॒ज्यया᳚ क्ष॒यद्वी᳚रस्य॒ तव॑ रुद्र मीढ्वः |{कुत्सः | रुद्रः | जगती} सु॒म्ना॒यन्निद् विशो᳚, अ॒स्माक॒मा च॒रारि॑ष्टवीरा जुहवाम ते ह॒विः ||{3/11}{1.114.3}{1.16.9.3}{1.8.5.3}{1258, 114, 1258} अ॒श्याम॑¦ते॒¦सु॒ऽम॒तिम्¦दे॒व॒ऽय॒ज्यया᳚¦क्ष॒यत्ऽवी᳚रस्य¦तव॑¦रु॒द्र॒¦मी॒ढ्वः॒ | |
त्वे॒षं व॒यं रु॒द्रं य॑ज्ञ॒साधं᳚ व॒ङ्कुं क॒विमव॑से॒ नि ह्व॑यामहे |{कुत्सः | रुद्रः | जगती} आ॒रे, अ॒स्मद्दैव्यं॒ हेळो᳚, अस्यतु सुम॒तिमिद् व॒यम॒स्या वृ॑णीमहे ||{4/11}{1.114.4}{1.16.9.4}{1.8.5.4}{1259, 114, 1259} त्वे॒षम्¦व॒यम्¦रु॒द्रम्¦य॒ज्ञ॒ऽसाध᳚म्¦व॒ङ्कुम्¦क॒विम्¦अव॑से¦नि¦ह्व॒या॒म॒हे॒ | |
दि॒वो व॑रा॒हम॑रु॒षं क॑प॒र्दिनं᳚ त्वे॒षं रू॒पं नम॑सा॒ नि ह्व॑यामहे |{कुत्सः | रुद्रः | जगती} हस्ते॒ बिभ्र॑द् भेष॒जा वार्या᳚णि॒ शर्म॒ वर्म॑ च्छ॒र्दिर॒स्मभ्यं᳚ यंसत् ||{5/11}{1.114.5}{1.16.9.5}{1.8.5.5}{1260, 114, 1260} दि॒वः¦व॒रा॒हम्¦अ॒रु॒षम्¦क॒प॒र्दिन᳚म्¦त्वे॒षम्¦रू॒पम्¦नम॑सा¦नि¦ह्व॒या॒म॒हे॒ | |
इ॒दं पि॒त्रे म॒रुता᳚मुच्यते॒ वचः॑ स्वा॒दोः स्वादी᳚यो रु॒द्राय॒ वर्ध॑नम् |{कुत्सः | रुद्रः | जगती} रास्वा᳚ च नो, अमृत मर्त॒भोज॑नं॒ त्मने᳚ तो॒काय॒ तन॑याय मृळ ||{6/11}{1.114.6}{1.16.9.6}{1.8.6.1}{1261, 114, 1261} इ॒दम्¦पि॒त्रे¦म॒रुता᳚म्¦उ॒च्य॒ते॒¦वचः॑¦स्वा॒दोः¦स्वादी᳚यः¦रु॒द्राय॑¦वर्ध॑नम् | |
मा नो᳚ म॒हान्त॑मु॒त मा नो᳚, अर्भ॒कं मा न॒ उक्ष᳚न्तमु॒त मा न॑ उक्षि॒तम् |{कुत्सः | रुद्रः | जगती} मा नो᳚ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा नः॑ प्रि॒यास्त॒न्वो᳚ रुद्र रीरिषः ||{7/11}{1.114.7}{1.16.9.7}{1.8.6.2}{1262, 114, 1262} मा¦नः॒¦म॒हान्त᳚म्¦उ॒त¦मा¦नः॒¦अ॒र्भ॒कम्¦मा¦नः॒¦उक्ष᳚न्तम्¦उ॒त¦मा¦नः॒¦उ॒क्षि॒तम् | |
मा न॑स्तो॒के तन॑ये॒ मा न॑ आ॒यौ मा नो॒ गोषु॒ मा नो॒, अश्वे᳚षु रीरिषः |{कुत्सः | रुद्रः | जगती} वी॒रान् मा नो᳚ रुद्र भामि॒तो व॑धीर्ह॒विष्म᳚न्तः॒ सद॒मित् त्वा᳚ हवामहे ||{8/11}{1.114.8}{1.16.9.8}{1.8.6.3}{1263, 114, 1263} मा¦नः॒¦तो॒के¦तन॑ये¦मा¦नः॒¦आ॒यौ¦मा¦नः॒¦गोषु॑¦मा¦नः॒¦अश्वे᳚षु¦रि॒रि॒षः॒ | |
उप॑ ते॒ स्तोमा᳚न् पशु॒पा, इ॒वाक॑रं॒ रास्वा᳚ पितर्मरुतां सु॒म्नम॒स्मे |{कुत्सः | रुद्रः | जगती} भ॒द्रा हि ते᳚ सुम॒तिर्मृ॑ळ॒यत्त॒माथा᳚ व॒यमव॒ इत्ते᳚ वृणीमहे ||{9/11}{1.114.9}{1.16.9.9}{1.8.6.4}{1264, 114, 1264} उप॑¦ते॒¦स्तोमा᳚न्¦प॒शु॒पाःऽइ᳚व¦आ¦अ॒क॒र॒म्¦रास्व॑¦पि॒तः॒¦म॒रु॒ता॒म्¦सु॒म्नम्¦अ॒स्मे इति॑ | |
आ॒रे ते᳚ गो॒घ्नमु॒त पू᳚रुष॒घ्नं क्षय॑द्वीर सु॒म्नम॒स्मे ते᳚, अस्तु |{कुत्सः | रुद्रः | त्रिष्टुप्} मृ॒ळा च॑ नो॒, अधि॑ च ब्रूहि दे॒वाधा᳚ च नः॒ शर्म॑ यच्छ द्वि॒बर्हाः᳚ ||{10/11}{1.114.10}{1.16.9.10}{1.8.6.5}{1265, 114, 1265} आ॒रे¦ते॒¦गो॒ऽघ्नम्¦उ॒त¦पु॒रु॒ष॒ऽघ्नम्¦क्षय॑त्ऽवीर¦सु॒म्नम्¦अ॒स्मे इति॑¦ते॒¦अ॒स्तु॒ | |
अवो᳚चाम॒ नमो᳚, अस्मा, अव॒स्यवः॑ शृ॒णोतु॑ नो॒ हवं᳚ रु॒द्रो म॒रुत्वा॑न् |{कुत्सः | रुद्रः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{11/11}{1.114.11}{1.16.9.11}{1.8.6.6}{1266, 114, 1266} अवो᳚चाम¦नमः॑¦अ॒स्मै॒¦अ॒व॒स्यवः॑¦शृ॒णोतु॑¦नः॒¦हव᳚म्¦रु॒द्रः¦म॒रुत्वा॑न् | |
[115] चित्रंदेवानामितिषडृचस्य सूक्तस्य कुत्सः सूर्यस्त्रिष्टुप् | |
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी᳚कं॒ चक्षु᳚र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः |{कुत्सः | सूर्यः | त्रिष्टुप्} आप्रा॒ द्यावा᳚पृथि॒वी, अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ||{1/6}{1.115.1}{1.16.10.1}{1.8.7.1}{1267, 115, 1267} चि॒त्रम्¦दे॒वाना᳚म्¦उत्¦अ॒गा॒त्¦अनी᳚कम्¦चक्षुः॑¦मि॒त्रस्य॑¦वरु॑णस्य¦अ॒ग्नेः | |
सूर्यो᳚ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒ न योषा᳚म॒भ्ये᳚ति प॒श्चात् |{कुत्सः | सूर्यः | त्रिष्टुप्} यत्रा॒ नरो᳚ देव॒यन्तो᳚ यु॒गानि॑ वितन्व॒ते प्रति॑ भ॒द्राय॑ भ॒द्रम् ||{2/6}{1.115.2}{1.16.10.2}{1.8.7.2}{1268, 115, 1268} सूर्यः॑¦दे॒वीम्¦उ॒षस᳚म्¦रोच॑मानाम्¦मर्यः॑¦न¦योषा᳚म्¦अ॒भि¦ए॒ति॒¦प॒श्चात् | |
भ॒द्रा, अश्वा᳚ ह॒रितः॒ सूर्य॑स्य चि॒त्रा, एत॑ग्वा, अनु॒माद्या᳚सः |{कुत्सः | सूर्यः | त्रिष्टुप्} न॒म॒स्यन्तो᳚ दि॒व आ पृ॒ष्ठम॑स्थुः॒ परि॒ द्यावा᳚पृथि॒वी य᳚न्ति स॒द्यः ||{3/6}{1.115.3}{1.16.10.3}{1.8.7.3}{1269, 115, 1269} भ॒द्राः¦अश्वाः᳚¦ह॒रितः॑¦सूर्य॑स्य¦चि॒त्राः¦एत॑ऽग्वाः¦अ॒नु॒ऽमाद्या᳚सः | |
तत् सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑तं॒ सं ज॑भार |{कुत्सः | सूर्यः | त्रिष्टुप्} य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै᳚ ||{4/6}{1.115.4}{1.16.10.4}{1.8.7.4}{1270, 115, 1270} तत्¦सूर्य॑स्य¦दे॒व॒ऽत्वम्¦तत्¦म॒हि॒ऽत्वम्¦म॒ध्या¦कर्तोः᳚¦विऽत॑तम्¦सम्¦ज॒भा॒र॒ | |
तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो᳚ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे᳚ |{कुत्सः | सूर्यः | त्रिष्टुप्} अ॒न॒न्तम॒न्यद् रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रन्ति ||{5/6}{1.115.5}{1.16.10.5}{1.8.7.5}{1271, 115, 1271} तत्¦मि॒त्रस्य॑¦वरु॑णस्य¦अ॒भि॒ऽचक्षे᳚¦सूर्यः॑¦रू॒पम्¦कृ॒णु॒ते॒¦द्योः¦उ॒पऽस्थे᳚ | |
अ॒द्या दे᳚वा॒, उदि॑ता॒ सूर्य॑स्य॒ निरंह॑सः पिपृ॒ता निर॑व॒द्यात् |{कुत्सः | सूर्यः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{6/6}{1.115.6}{1.16.10.6}{1.8.7.6}{1272, 115, 1272} अ॒द्य¦दे॒वाः॒¦उत्ऽइ᳚ता¦सूर्य॑स्य¦निः¦अंह॑सः¦पि॒पृ॒त¦निः¦अ॒व॒द्यात् | |
[116] नासत्याभ्यामिति पंचविंशत्यृचस्य सूक्तस्य दैर्घतमसः कक्षीवानश्विनौत्रिष्टुप् | |
नास॑त्याभ्यां ब॒र्हिरि॑व॒ प्र वृ᳚ञ्जे॒ स्तोमाँ᳚, इयर्म्य॒भ्रिये᳚व॒ वातः॑ |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} यावर्भ॑गाय विम॒दाय॑ जा॒यां से᳚ना॒जुवा᳚ न्यू॒हतू॒ रथे᳚न ||{1/25}{1.116.1}{1.17.1.1}{1.8.8.1}{1273, 116, 1273} नास॑त्याभ्याम्¦ब॒र्हिःऽइ᳚व¦प्र¦वृं॒जे॒¦स्तोमा᳚न्¦इ॒य॒र्मि॒¦अ॒भ्रिया᳚ऽइव¦वातः॑ | |
वी॒ळु॒पत्म॑भिराशु॒हेम॑भिर्वा दे॒वानां᳚ वा जू॒तिभिः॒ शाश॑दाना |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} तद् रास॑भो नासत्या स॒हस्र॑मा॒जा य॒मस्य॑ प्र॒धने᳚ जिगाय ||{2/25}{1.116.2}{1.17.1.2}{1.8.8.2}{1274, 116, 1274} वी॒ळु॒पत्म॑ऽभिः¦आ॒शु॒हेम॑ऽभिः¦वा॒¦दे॒वाना᳚म्¦वा॒¦जू॒तिऽभिः॑¦शाश॑दाना | |
तुग्रो᳚ ह भु॒ज्युम॑श्विनोदमे॒घे र॒यिं न कश्चि᳚न् ममृ॒वाँ, अवा᳚हाः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} तमू᳚हथुर्नौ॒भिरा᳚त्म॒न्वती᳚भिरन्तरिक्ष॒प्रुद्भि॒रपो᳚दकाभिः ||{3/25}{1.116.3}{1.17.1.3}{1.8.8.3}{1275, 116, 1275} तुग्रः॑¦ह॒¦भु॒ज्युम्¦अ॒श्वि॒ना॒¦उ॒द॒ऽमे॒घे¦र॒यिम्¦न¦कः¦चि॒त्¦म॒मृ॒ऽवान्¦अव॑¦अ॒हाः॒ | |
ति॒स्रः, क्षप॒स्त्रिरहा᳚ति॒व्रज॑द्भि॒र्नास॑त्या भु॒ज्युमू᳚हथुः पतं॒गैः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} स॒मु॒द्रस्य॒ धन्व᳚न्ना॒र्द्रस्य॑ पा॒रे त्रि॒भी रथैः᳚ श॒तप॑द्भिः॒ षळ॑श्वैः ||{4/25}{1.116.4}{1.17.1.4}{1.8.8.4}{1276, 116, 1276} ति॒स्रः¦क्षपः॑¦त्रिः¦अहा᳚¦अ॒ति॒व्रज॑त्ऽभिः¦नास॑त्या¦भु॒ज्युम्¦ऊ॒ह॒थुः॒¦प॒त॒ङ्गैः | |
अ॒ना॒र॒म्भ॒णे तद॑वीरयेथामनास्था॒ने, अ॑ग्रभ॒णे स॑मु॒द्रे |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} यद॑श्विना, ऊ॒हथु॑र्भु॒ज्युमस्तं᳚ श॒तारि॑त्रां॒ नाव॑मातस्थि॒वांस᳚म् ||{5/25}{1.116.5}{1.17.1.5}{1.8.8.5}{1277, 116, 1277} अ॒ना॒र॒म्भ॒णे¦तत्¦अ॒वी॒र॒ये॒था॒म्¦अ॒ना॒स्था॒ने¦अ॒ग्र॒भ॒णे¦स॒मु॒द्रे | |
यम॑श्विना द॒दथुः॑ श्वे॒तमश्व॑म॒घाश्वा᳚य॒ शश्व॒दित् स्व॒स्ति |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} तद् वां᳚ दा॒त्रं महि॑ की॒र्तेन्यं᳚ भूत् पै॒द्वो वा॒जी सद॒मिद्धव्यो᳚, अ॒र्यः ||{6/25}{1.116.6}{1.17.1.6}{1.8.9.1}{1278, 116, 1278} यम्¦अ॒श्वि॒ना॒¦द॒दथुः॑¦श्वे॒तम्¦अश्व᳚म्¦अ॒घ।आ॑श्वाय¦शश्व॑त्¦इत्¦स्व॒स्ति | |
यु॒वं न॑रा स्तुव॒ते प॑ज्रि॒याय॑ क॒क्षीव॑ते, अरदतं॒ पुरं᳚धिम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} का॒रो॒त॒राच्छ॒फादश्व॑स्य॒ वृष्णः॑ श॒तं कु॒म्भाँ, अ॑सिञ्चतं॒ सुरा᳚याः ||{7/25}{1.116.7}{1.17.1.7}{1.8.9.2}{1279, 116, 1279} यु॒वम्¦न॒रा॒¦स्तु॒व॒ते¦प॒ज्रि॒याय॑¦क॒क्षीव॑ते¦अ॒र॒द॒त॒म्¦पुर᳚म्ऽधिम् | |
हि॒मेना॒ग्निं घ्रं॒सम॑वारयेथां पितु॒मती॒मूर्ज॑मस्मा, अधत्तम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} ऋ॒बीसे॒, अत्रि॑मश्वि॒नाव॑नीत॒मुन्नि᳚न्यथुः॒ सर्व॑गणं स्व॒स्ति ||{8/25}{1.116.8}{1.17.1.8}{1.8.9.3}{1280, 116, 1280} हि॒मेन॑¦अ॒ग्निम्¦घ्रं॒सम्¦अ॒वा॒र॒ये॒था॒म्¦पि॒तु॒ऽमती᳚म्¦ऊर्ज᳚म्¦अ॒स्मै॒¦अ॒ध॒त्त॒म् | |
परा᳚व॒तं ना᳚सत्यानुदेथामु॒च्चाबु॑ध्नं चक्रथुर्जि॒ह्मबा᳚रम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} क्षर॒न्नापो॒ न पा॒यना᳚य रा॒ये स॒हस्रा᳚य॒ तृष्य॑ते॒ गोत॑मस्य ||{9/25}{1.116.9}{1.17.1.9}{1.8.9.4}{1281, 116, 1281} परा᳚¦अ॒व॒तम्¦ना॒स॒त्या॒¦अ॒नु॒दे॒था॒म्¦उ॒च्चाऽबु॑ध्नम्¦च॒क्र॒थुः॒¦जि॒ह्मऽबा᳚रम् | |
जु॒जु॒रुषो᳚ नासत्यो॒त व॒व्रिं प्रामु᳚ञ्चतं द्रा॒पिमि॑व॒ च्यवा᳚नात् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} प्राति॑रतं जहि॒तस्यायु॑र्द॒स्रादित् पति॑मकृणुतं क॒नीना᳚म् ||{10/25}{1.116.10}{1.17.1.10}{1.8.9.5}{1282, 116, 1282} जु॒जु॒रुषः॑¦ना॒स॒त्या॒¦उ॒त¦व॒व्रिम्¦प्र¦अ॒मुं॒च॒त॒म्¦द्रा॒पिम्ऽइ᳚व¦च्यवा᳚नात् | |
तद् वां᳚ नरा॒ शंस्यं॒ राध्यं᳚ चाभिष्टि॒मन्ना᳚सत्या॒ वरू᳚थम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} यद् वि॒द्वांसा᳚ नि॒धिमि॒वाप॑गूळ्ह॒मुद् द॑र्श॒तादू॒पथु॒र्वन्द॑नाय ||{11/25}{1.116.11}{1.17.1.11}{1.8.10.1}{1283, 116, 1283} तत्¦वा॒म्¦न॒रा॒¦शंस्य᳚म्¦राध्य᳚म्¦च॒¦अ॒भि॒ष्टि॒ऽमत्¦ना॒स॒त्या॒¦वरू᳚थम् | |
तद् वां᳚ नरा स॒नये॒ दंस॑ उ॒ग्रमा॒विष्कृ॑णोमि तन्य॒तुर्न वृ॒ष्टिम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} द॒ध्यङ् ह॒ यन्मध्वा᳚थर्व॒णो वा॒मश्व॑स्य शी॒र्ष्णा प्र यदी᳚मु॒वाच॑ ||{12/25}{1.116.12}{1.17.1.12}{1.8.10.2}{1284, 116, 1284} तत्¦वा॒म्¦न॒रा॒¦स॒नये᳚¦दंसः॑¦उ॒ग्रम्¦आ॒विः¦कृ॒णो॒मि॒¦त्॒न्य॒तुः¦न¦वृ॒ष्टिम् | |
अजो᳚हवीन्नासत्या क॒रा वां᳚ म॒हे याम᳚न् पुरुभुजा॒ पुरं᳚धिः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} श्रु॒तं तच्छासु॑रिव वध्रिम॒त्या हिर᳚ण्यहस्तमश्विनावदत्तम् ||{13/25}{1.116.13}{1.17.1.13}{1.8.10.3}{1285, 116, 1285} अजो᳚हवीत्¦ना॒स॒त्या॒¦क॒रा¦वा॒म्¦म॒हे¦याम॑न्¦पु॒रु॒ऽभु॒जा॒¦पुर᳚म्ऽधिः | |
आ॒स्नो वृक॑स्य॒ वर्ति॑काम॒भीके᳚ यु॒वं न॑रा नासत्यामुमुक्तम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} उ॒तो क॒विं पु॑रुभुजा यु॒वं ह॒ कृप॑माणमकृणुतं वि॒चक्षे᳚ ||{14/25}{1.116.14}{1.17.1.14}{1.8.10.4}{1286, 116, 1286} आ॒स्नः¦वृक॑स्य¦वर्ति॑काम्¦अ॒भीके᳚¦यु॒वम्¦न॒रा॒¦ना॒स॒त्या॒¦अ॒मु॒मु॒क्त॒म् | |
च॒रित्रं॒ हि वेरि॒वाच्छे᳚दि प॒र्णमा॒जा खे॒लस्य॒ परि॑तक्म्यायाम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} स॒द्यो जङ्घा॒माय॑सीं वि॒श्पला᳚यै॒ धने᳚ हि॒ते सर्त॑वे॒ प्रत्य॑धत्तम् ||{15/25}{1.116.15}{1.17.1.15}{1.8.10.5}{1287, 116, 1287} च॒रित्र᳚म्¦हि¦वेःऽइ᳚व¦अच्छे᳚दि¦प॒र्णम्¦आ॒जा¦खे॒लस्य॑¦परि॑ऽतक्म्यायाम् | |
श॒तं मे॒षान् वृ॒क्ये᳚ चक्षदा॒नमृ॒ज्राश्वं॒ तं पि॒तान्धं च॑कार |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} तस्मा᳚, अ॒क्षी ना᳚सत्या वि॒चक्ष॒ आध॑त्तं दस्रा भिषजावन॒र्वन् ||{16/25}{1.116.16}{1.17.1.16}{1.8.11.1}{1288, 116, 1288} श॒तम्¦मे॒षान्¦वृ॒क्ये᳚¦च॒क्ष॒दा॒नम्¦ऋ॒ज्र।आ॑श्वम्¦तम्¦पि॒ता¦अ॒न्धम्¦च॒का॒र॒ | |
आ वां॒ रथं᳚ दुहि॒ता सूर्य॑स्य॒ कार्ष्मे᳚वातिष्ठ॒दर्व॑ता॒ जय᳚न्ती |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} विश्वे᳚ दे॒वा, अन्व॑मन्यन्त हृ॒द्भिः समु॑ श्रि॒या ना᳚सत्या सचेथे ||{17/25}{1.116.17}{1.17.1.17}{1.8.11.2}{1289, 116, 1289} आ¦वा॒म्¦रथ᳚म्¦दु॒हि॒ता¦सूर्य॑स्य¦कार्ष्म॑ऽइव¦अ॒ति॒ष्ठ॒त्¦अर्व॑ता¦जय᳚न्ती | |
यदया᳚तं॒ दिवो᳚दासाय व॒र्तिर्भ॒रद्वा᳚जायाश्विना॒ हय᳚न्ता |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} रे॒वदु॑वाह सच॒नो रथो᳚ वां वृष॒भश्च॑ शिंशु॒मार॑श्च यु॒क्ता ||{18/25}{1.116.18}{1.17.1.18}{1.8.11.3}{1290, 116, 1290} यत्¦अया᳚तम्¦दिवः॑ऽदासाय¦व॒र्तिः¦भ॒रत्ऽवा᳚जाय¦अ॒श्वि॒ना॒¦हय᳚न्ता | |
र॒यिं सु॑क्ष॒त्रं स्व॑प॒त्यमायुः॑ सु॒वीर्यं᳚ नासत्या॒ वह᳚न्ता |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} आ ज॒ह्नावीं॒ सम॑न॒सोप॒ वाजै॒स्त्रिरह्नो᳚ भा॒गं दध॑तीमयातम् ||{19/25}{1.116.19}{1.17.1.19}{1.8.11.4}{1291, 116, 1291} र॒यिम्¦सु॒ऽक्ष॒त्रम्¦सु॒।आ॒प॒त्यम्¦आयुः॑¦सु॒ऽवीर्य᳚म्¦ना॒स॒त्या॒¦वह᳚न्ता | |
परि॑विष्टं जाहु॒षं वि॒श्वतः॑ सीं सु॒गेभि॒र्नक्त॑मूहथू॒ रजो᳚भिः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} वि॒भि॒न्दुना᳚ नासत्या॒ रथे᳚न॒ वि पर्व॑ताँ, अजर॒यू, अ॑यातम् ||{20/25}{1.116.20}{1.17.1.20}{1.8.11.5}{1292, 116, 1292} परि॑ऽविष्टम्¦जा॒हु॒षम्¦वि॒श्वतः॑¦सी॒म्¦सु॒ऽगेभिः॑¦नक्त᳚म्¦ऊ॒ह॒थुः॒¦रजः॑ऽभिः | |
एक॑स्या॒ वस्तो᳚रावतं॒ रणा᳚य॒ वश॑मश्विना स॒नये᳚ स॒हस्रा᳚ |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} निर॑हतं दु॒च्छुना॒, इन्द्र॑वन्ता पृथु॒श्रव॑सो वृषणा॒वरा᳚तीः ||{21/25}{1.116.21}{1.17.1.21}{1.8.12.1}{1293, 116, 1293} एक॑स्याः¦वस्तोः᳚¦आ॒व॒त॒म्¦रणा᳚य¦वश᳚म्¦अ॒श्वि॒ना॒¦स॒नये᳚¦स॒हस्रा᳚ | |
श॒रस्य॑ चिदार्च॒त्कस्या᳚व॒तादा नी॒चादु॒च्चा च॑क्रथुः॒ पात॑वे॒ वाः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} श॒यवे᳚ चिन्नासत्या॒ शची᳚भि॒र्जसु॑रये स्त॒र्यं᳚ पिप्यथु॒र्गाम् ||{22/25}{1.116.22}{1.17.1.22}{1.8.12.2}{1294, 116, 1294} श॒रस्य॑¦चि॒त्¦आ॒र्च॒त्ऽकस्य॑¦अ॒व॒तात्¦आ¦नी॒चात्¦उ॒च्चा¦च॒क्र॒थुः॒¦पात॑वे¦वारिति॒ वाः | |
अ॒व॒स्य॒ते स्तु॑व॒ते कृ॑ष्णि॒याय॑ ऋजूय॒ते ना᳚सत्या॒ शची᳚भिः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} प॒शुं न न॒ष्टमि॑व॒ दर्श॑नाय विष्णा॒प्वं᳚ ददथु॒र्विश्व॑काय ||{23/25}{1.116.23}{1.17.1.23}{1.8.12.3}{1295, 116, 1295} अ॒व॒स्य॒ते¦स्तु॒व॒ते¦कृ॒ष्णि॒याय॑¦ऋ॒जु॒ऽय॒ते¦ना॒स॒त्या॒¦शची᳚भिः | |
दश॒ रात्री॒रशि॑वेना॒ नव॒ द्यूनव॑नद्धं श्नथि॒तम॒प्स्व१॑(अ॒)न्तः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} विप्रु॑तं रे॒भमु॒दनि॒ प्रवृ॑क्त॒मुन्नि᳚न्यथुः॒ सोम॑मिव स्रु॒वेण॑ ||{24/25}{1.116.24}{1.17.1.24}{1.8.12.4}{1296, 116, 1296} दश॑¦रात्रीः᳚¦अशि॑वेन¦नव॑¦द्यून्¦अव॑ऽनद्धम्¦श्न॒थि॒तम्¦अ॒प्ऽसु¦अ॒न्तरिति॑ | |
प्र वां॒ दंसां᳚स्यश्विनाववोचम॒स्य पतिः॑ स्यां सु॒गवः॑ सु॒वीरः॑ |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} उ॒त पश्य᳚न्नश्नु॒वन् दी॒र्घमायु॒रस्त॑मि॒वेज्ज॑रि॒माणं᳚ जगम्याम् ||{25/25}{1.116.25}{1.17.1.25}{1.8.12.5}{1297, 116, 1297} प्र¦वा॒म्¦दंसां᳚सि¦अ॒श्वि॒नौ॒¦अ॒वो॒च॒म्¦अ॒स्य¦पतिः॑¦स्या॒म्¦सु॒ऽगवः॑¦सु॒ऽवीरः॑ | |
[117] मध्वःसोमस्येति पंचविंशत्यृचस्य सूक्तस्य दैर्घतमसः कक्षीवानश्विनौत्रिष्टुप् | |
मध्वः॒ सोम॑स्याश्विना॒ मदा᳚य प्र॒त्नो होता वि॑वासते वाम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} ब॒र्हिष्म॑ती रा॒तिर्विश्रि॑ता॒ गीरि॒षा या᳚तं नास॒त्योप॒ वाजैः᳚ ||{1/25}{1.117.1}{1.17.2.1}{1.8.13.1}{1298, 117, 1298} मध्वः॑¦सोम॑स्य¦अ॒श्वि॒ना॒¦मदा᳚य¦प्र॒त्नः¦होता᳚¦आ¦वि॒वा॒स॒ते॒¦वा॒म् | |
यो वा᳚मश्विना॒ मन॑सो॒ जवी᳚या॒न् रथः॒ स्वश्वो॒ विश॑ आ॒जिगा᳚ति |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} येन॒ गच्छ॑थः सु॒कृतो᳚ दुरो॒णं तेन॑ नरा व॒र्तिर॒स्मभ्यं᳚ यातम् ||{2/25}{1.117.2}{1.17.2.2}{1.8.13.2}{1299, 117, 1299} यः¦वा॒म्¦अ॒श्वि॒ना॒¦मन॑सः¦जवी᳚यान्¦रथः॑¦सु॒।आश्वः॑¦विशः॑¦आ॒ऽजिगा᳚ति | |
ऋषिं᳚ नरा॒वंह॑सः॒ पाञ्च॑जन्यमृ॒बीसा॒दत्रिं᳚ मुञ्चथो ग॒णेन॑ |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} मि॒नन्ता॒ दस्यो॒रशि॑वस्य मा॒या, अ॑नुपू॒र्वं वृ॑षणा चो॒दय᳚न्ता ||{3/25}{1.117.3}{1.17.2.3}{1.8.13.3}{1300, 117, 1300} ऋषि᳚म्¦न॒रौ॒¦अंह॑सः¦पांच॑ऽजन्यम्¦ऋ॒बीसा᳚त्¦अत्रि᳚म्¦मुं॒च॒थः॒¦ग॒णेन॑ | |
अश्वं॒ न गू॒ळ्हम॑श्विना दु॒रेवै॒रृषिं᳚ नरा वृषणा रे॒भम॒प्सु |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} सं तं रि॑णीथो॒ विप्रु॑तं॒ दंसो᳚भि॒र्न वां᳚ जूर्यन्ति पू॒र्व्या कृ॒तानि॑ ||{4/25}{1.117.4}{1.17.2.4}{1.8.13.4}{1301, 117, 1301} अश्व᳚म्¦न¦गू॒ळ्हम्¦अ॒श्वि॒ना॒¦दुः॒ऽएवैः᳚¦ऋषि᳚म्¦न॒रा॒¦वृ॒ष॒णा॒¦रे॒भम्¦अ॒प्ऽसु | |
सु॒षु॒प्वांसं॒ न निरृ॑तेरु॒पस्थे॒ सूर्यं॒ न द॑स्रा॒ तम॑सि क्षि॒यन्त᳚म् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} शु॒भे रु॒क्मं न द॑र्श॒तं निखा᳚त॒मुदू᳚पथुरश्विना॒ वन्द॑नाय ||{5/25}{1.117.5}{1.17.2.5}{1.8.13.5}{1302, 117, 1302} सु॒सु॒प्वांस᳚म्¦न¦निःऽऋ॑तेः¦उ॒पऽस्थे᳚¦सूर्य᳚म्¦न¦द॒स्रा॒¦तम॑सि¦क्षि॒यन्त᳚म् | |
तद् वां᳚ नरा॒ शंस्यं᳚ पज्रि॒येण॑ क॒क्षीव॑ता नासत्या॒ परि॑ज्मन् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} श॒फादश्व॑स्य वा॒जिनो॒ जना᳚य श॒तं कु॒म्भाँ, अ॑सिञ्चतं॒ मधू᳚नाम् ||{6/25}{1.117.6}{1.17.2.6}{1.8.14.1}{1303, 117, 1303} तत्¦वा॒म्¦न॒रा॒¦शंस्य᳚म्¦प॒ज्रि॒येण॑¦क॒क्षीव॑ता¦ना॒स॒त्या॒¦परि॑ऽज्मन् | |
यु॒वं न॑रा स्तुव॒ते कृ॑ष्णि॒याय॑ विष्णा॒प्वं᳚ ददथु॒र्विश्व॑काय |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} घोषा᳚यै चित् पितृ॒षदे᳚ दुरो॒णे पतिं॒ जूर्य᳚न्त्या, अश्विनावदत्तम् ||{7/25}{1.117.7}{1.17.2.7}{1.8.14.2}{1304, 117, 1304} यु॒वम्¦न॒रा॒¦स्तु॒व॒ते¦कृ॒ष्णि॒याय॑¦वि॒ष्णा॒प्व᳚म्¦द॒द॒थुः॒¦विश्व॑काय | |
यु॒वं श्यावा᳚य॒ रुश॑तीमदत्तं म॒हः, क्षो॒णस्या᳚श्विना॒ कण्वा᳚य |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} प्र॒वाच्यं॒ तद् वृ॑षणा कृ॒तं वां॒ यन्ना᳚र्ष॒दाय॒ श्रवो᳚, अ॒ध्यध॑त्तम् ||{8/25}{1.117.8}{1.17.2.8}{1.8.14.3}{1305, 117, 1305} यु॒वम्¦श्यावा᳚य¦रुश॑तीम्¦अ॒द॒त्त॒म्¦म॒हः¦क्षो॒णस्य॑¦अ॒श्वि॒ना॒¦कण्वा᳚य | |
पु॒रू वर्पां᳚स्यश्विना॒ दधा᳚ना॒ नि पे॒दव॑ ऊहथुरा॒शुमश्व᳚म् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} स॒ह॒स्र॒सां वा॒जिन॒मप्र॑तीतमहि॒हनं᳚ श्रव॒स्य१॑(अं॒) तरु॑त्रम् ||{9/25}{1.117.9}{1.17.2.9}{1.8.14.4}{1306, 117, 1306} पु॒रु¦वर्पां᳚सि¦अ॒श्वि॒ना॒¦दधा᳚ना¦नि¦पे॒दवे᳚¦ऊ॒ह॒थुः॒¦आ॒शुम्¦अश्व᳚म् | |
ए॒तानि॑ वां श्रव॒स्या᳚ सुदानू॒ ब्रह्मा᳚ङ्गू॒षं सद॑नं॒ रोद॑स्योः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} यद् वां᳚ प॒ज्रासो᳚, अश्विना॒ हव᳚न्ते या॒तमि॒षा च॑ वि॒दुषे᳚ च॒ वाज᳚म् ||{10/25}{1.117.10}{1.17.2.10}{1.8.14.5}{1307, 117, 1307} ए॒तानि॑¦वा॒म्¦श्र॒व॒स्या᳚¦सु॒दा॒नू॒ इति॑ सुऽदानू¦ब्रह्म॑¦आ॒ङ्गू॒षम्¦सद॑नम्¦रोद॑स्योः | |
सू॒नोर्माने᳚नाश्विना गृणा॒ना वाजं॒ विप्रा᳚य भुरणा॒ रद᳚न्ता |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} अ॒गस्त्ये॒ ब्रह्म॑णा वावृधा॒ना सं वि॒श्पलां᳚ नासत्यारिणीतम् ||{11/25}{1.117.11}{1.17.2.11}{1.8.15.1}{1308, 117, 1308} सू॒नोः¦माने᳚न¦अ॒श्वि॒ना॒¦गृ॒णा॒ना¦वाज᳚म्¦विप्रा᳚य¦भु॒र॒णा॒¦रद᳚न्ता | |
कुह॒ यान्ता᳚ सुष्टु॒तिं का॒व्यस्य॒ दिवो᳚ नपाता वृषणा शयु॒त्रा |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} हिर᳚ण्यस्येव क॒लशं॒ निखा᳚त॒मुदू᳚पथुर्दश॒मे, अ॑श्वि॒नाह॑न् ||{12/25}{1.117.12}{1.17.2.12}{1.8.15.2}{1309, 117, 1309} कुह॑¦यान्ता᳚¦सु॒ऽस्तु॒तिम्¦का॒व्यस्य॑¦दिवः॑¦न॒पा॒ता॒¦वृ॒ष॒णा॒¦श॒यु॒ऽत्रा | |
यु॒वं च्यवा᳚नमश्विना॒ जर᳚न्तं॒ पुन॒र्युवा᳚नं चक्रथुः॒ शची᳚भिः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} यु॒वो रथं᳚ दुहि॒ता सूर्य॑स्य स॒ह श्रि॒या ना᳚सत्यावृणीत ||{13/25}{1.117.13}{1.17.2.13}{1.8.15.3}{1310, 117, 1310} यु॒वम्¦च्यवा᳚नम्¦अ॒श्वि॒ना॒¦जर᳚न्तम्¦पुनः॑¦युवा᳚नम्¦च॒क्र॒थुः॒¦शची᳚भिः | |
यु॒वं तुग्रा᳚य पू॒र्व्येभि॒रेवैः᳚ पुनर्म॒न्याव॑भवतं युवाना |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} यु॒वं भु॒ज्युमर्ण॑सो॒ निः स॑मु॒द्राद् विभि॑रूहथुरृ॒ज्रेभि॒रश्वैः᳚ ||{14/25}{1.117.14}{1.17.2.14}{1.8.15.4}{1311, 117, 1311} यु॒वम्¦तुग्रा᳚य¦पू॒र्व्येभिः॑¦एवैः᳚¦पु॒नः॒ऽम॒न्यौ¦अ॒भ॒व॒त॒म्¦यु॒वा॒ना॒ | |
अजो᳚हवीदश्विना तौ॒ग्र्यो वां॒ प्रोळ्हः॑ समु॒द्रम᳚व्य॒थिर्ज॑ग॒न्वान् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} निष्टमू᳚हथुः सु॒युजा॒ रथे᳚न॒ मनो᳚जवसा वृषणा स्व॒स्ति ||{15/25}{1.117.15}{1.17.2.15}{1.8.15.5}{1312, 117, 1312} अजो᳚हवीत्¦अ॒श्वि॒ना॒¦तौ॒ग्र्यः¦वा॒म्¦प्रऽऊ᳚ळ्हः¦स॒मु॒द्रम्¦अ॒व्य॒थिः¦ज॒ग॒न्वान् | |
अजो᳚हवीदश्विना॒ वर्ति॑का वामा॒स्नो यत् सी॒ममु᳚ञ्चतं॒ वृक॑स्य |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} वि ज॒युषा᳚ ययथुः॒ सान्वद्रे᳚र्जा॒तं वि॒ष्वाचो᳚, अहतं वि॒षेण॑ ||{16/25}{1.117.16}{1.17.2.16}{1.8.16.1}{1313, 117, 1313} अजो᳚हवीत्¦अ॒श्वि॒ना॒¦वर्ति॑का¦वा॒म्¦आ॒स्नः¦यत्¦सी॒म्¦अमुं᳚चतम्¦वृक॑स्य | |
श॒तं मे॒षान् वृ॒क्ये᳚ मामहा॒नं तमः॒ प्रणी᳚त॒मशि॑वेन पि॒त्रा |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} आक्षी, ऋ॒ज्राश्वे᳚, अश्विनावधत्तं॒ ज्योति॑र॒न्धाय॑ चक्रथुर्वि॒चक्षे᳚ ||{17/25}{1.117.17}{1.17.2.17}{1.8.16.2}{1314, 117, 1314} श॒तम्¦मे॒षान्¦वृ॒क्ये᳚¦म॒म॒हा॒नम्¦तमः॑¦प्रऽनी᳚तम्¦अशि॑वेन¦पि॒त्रा | |
शु॒नम॒न्धाय॒ भर॑मह्वय॒त् सा वृ॒कीर॑श्विना वृषणा॒ नरेति॑ |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} जा॒रः क॒नीन॑ इव चक्षदा॒न ऋ॒ज्राश्वः॑ श॒तमेकं᳚ च मे॒षान् ||{18/25}{1.117.18}{1.17.2.18}{1.8.16.3}{1315, 117, 1315} शु॒नम्¦अ॒न्धाय॑¦भर᳚म्¦अ॒ह्व॒य॒त्¦सा¦वृ॒कीः¦अ॒श्वि॒ना॒¦वृ॒ष॒णा॒¦नरा᳚¦इति॑ | |
म॒ही वा᳚मू॒तिर॑श्विना मयो॒भूरु॒त स्रा॒मं धि॑ष्ण्या॒ सं रि॑णीथः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} अथा᳚ यु॒वामिद॑ह्वय॒त् पुरं᳚धि॒राग॑च्छतं सीं वृषणा॒ववो᳚भिः ||{19/25}{1.117.19}{1.17.2.19}{1.8.16.4}{1316, 117, 1316} म॒ही¦वा॒म्¦ऊ॒तिः¦अ॒श्वि॒ना॒¦म॒यः॒ऽभूः¦उ॒त¦स्रा॒मम्¦धि॒ष्ण्या॒¦सम्¦रि॒णी॒थः॒ | |
अधे᳚नुं दस्रा स्त॒र्य१॑(अं॒) विष॑क्ता॒मपि᳚न्वतं श॒यवे᳚, अश्विना॒ गाम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} यु॒वं शची᳚भिर्विम॒दाय॑ जा॒यां न्यू᳚हथुः पुरुमि॒त्रस्य॒ योषा᳚म् ||{20/25}{1.117.20}{1.17.2.20}{1.8.16.5}{1317, 117, 1317} अधे᳚नुम्¦द॒स्रा॒¦स्त॒र्य᳚म्¦विऽस॑क्ताम्¦अपि᳚न्वतम्¦श॒यवे᳚¦अ॒श्वि॒ना॒¦गाम् | |
यवं॒ वृके᳚णाश्विना॒ वप॒न्तेषं᳚ दु॒हन्ता॒ मनु॑षाय दस्रा |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} अ॒भि दस्युं॒ बकु॑रेणा॒ धम᳚न्तो॒रु ज्योति॑श्चक्रथु॒रार्या᳚य ||{21/25}{1.117.21}{1.17.2.21}{1.8.17.1}{1318, 117, 1318} यव᳚म्¦वृके᳚ण¦अ॒श्वि॒न॒¦वप᳚न्ता¦इष᳚म्¦दु॒हन्ता᳚¦मनु॑षाय¦द॒स्रा॒ | |
आ॒थ॒र्व॒णाया᳚श्विना दधी॒चेऽश्व्यं॒ शिरः॒ प्रत्यै᳚रयतम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} स वां॒ मधु॒ प्र वो᳚चदृता॒यन् त्वा॒ष्ट्रं यद्द॑स्रावपिक॒क्ष्यं᳚ वाम् ||{22/25}{1.117.22}{1.17.2.22}{1.8.17.2}{1319, 117, 1319} आ॒थ॒र्व॒णाय॑¦अ॒श्वि॒ना॒¦द॒धी॒चे¦अश्व्य᳚म्¦शिरः॑¦प्रति॑¦ऐ॒र॒य॒त॒म् | |
सदा᳚ कवी सुम॒तिमा च॑के वां॒ विश्वा॒ धियो᳚, अश्विना॒ प्राव॑तं मे |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} अ॒स्मे र॒यिं ना᳚सत्या बृ॒हन्त॑मपत्य॒साचं॒ श्रुत्यं᳚ रराथाम् ||{23/25}{1.117.23}{1.17.2.23}{1.8.17.3}{1320, 117, 1320} सदा᳚¦क॒वी॒ इति॑¦सु॒ऽम॒तिम्¦आ¦च॒के॒¦वा॒म्¦विश्वाः᳚¦धियः॑¦अ॒श्वि॒ना॒¦प्र¦अ॒व॒त॒म्¦मे॒ | |
हिर᳚ण्यहस्तमश्विना॒ ररा᳚णा पु॒त्रं न॑रा वध्रिम॒त्या, अ॑दत्तम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} त्रिधा᳚ ह॒ श्याव॑मश्विना॒ विक॑स्त॒मुज्जी॒वस॑ ऐरयतं सुदानू ||{24/25}{1.117.24}{1.17.2.24}{1.8.17.4}{1321, 117, 1321} हिर᳚ण्यऽहस्तम्¦अ॒श्वि॒ना॒¦ररा᳚णा¦पु॒त्रम्¦न॒रा॒¦व॒ध्रि॒ऽम॒त्याः¦अ॒द॒त्त॒म् | |
ए॒तानि॑ वामश्विना वी॒र्या᳚णि॒ प्र पू॒र्व्याण्या॒यवो᳚ऽवोचन् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} ब्रह्म॑ कृ॒ण्वन्तो᳚ वृषणा यु॒वभ्यां᳚ सु॒वीरा᳚सो वि॒दथ॒मा व॑देम ||{25/25}{1.117.25}{1.17.2.25}{1.8.17.5}{1322, 117, 1322} ए॒तानि॑¦वा॒म्¦अ॒श्वि॒ना॒¦वी॒र्या᳚णि¦प्र¦पू॒र्व्याणि॑¦आ॒यवः॑¦अ॒वो॒च॒न् | |
[118] आवांरथइत्येकादशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानश्विनौत्रिष्टुप् | |
आ वां॒ रथो᳚, अश्विना श्ये॒नप॑त्वा सुमृळी॒कः स्ववाँ᳚ यात्व॒र्वाङ् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} यो मर्त्य॑स्य॒ मन॑सो॒ जवी᳚यान् त्रिवन्धु॒रो वृ॑षणा॒ वात॑रंहाः ||{1/11}{1.118.1}{1.17.3.1}{1.8.18.1}{1323, 118, 1323} आ¦वा॒म्¦रथः॑¦अ॒श्वि॒ना॒¦श्ये॒नऽप॑त्वा¦सु॒ऽमृ॒ळी॒कः¦स्वऽवा᳚न्¦या॒तु॒¦अ॒र्वाङ् | |
त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॒ रथे᳚न त्रिच॒क्रेण॑ सु॒वृता या᳚तम॒र्वाक् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} पिन्व॑तं॒ गा जिन्व॑त॒मर्व॑तो नो व॒र्धय॑तमश्विना वी॒रम॒स्मे ||{2/11}{1.118.2}{1.17.3.2}{1.8.18.2}{1324, 118, 1324} त्रि॒ऽव॒न्धु॒रेण॑¦त्रि॒ऽवृता᳚¦रथे᳚न¦त्रि॒ऽच॒क्रेण॑¦सु॒ऽवृता᳚¦आ¦या॒त॒म्¦अ॒र्वाक् | |
प्र॒वद्या᳚मना सु॒वृता॒ रथे᳚न॒ दस्रा᳚वि॒मं शृ॑णुतं॒ श्लोक॒मद्रेः᳚ |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} किम॒ङ्ग वां॒ प्रत्यव॑र्तिं॒ गमि॑ष्ठा॒हुर्विप्रा᳚सो, अश्विना पुरा॒जाः ||{3/11}{1.118.3}{1.17.3.3}{1.8.18.3}{1325, 118, 1325} प्र॒वत्ऽया᳚मना¦सु॒ऽवृता᳚¦रथे᳚न¦दस्रौ᳚¦इ॒मम्¦शृ॒णु॒त॒म्¦श्लोक᳚म्¦अद्रेः᳚ | |
आ वां᳚ श्ये॒नासो᳚, अश्विना वहन्तु॒ रथे᳚ यु॒क्तास॑ आ॒शवः॑ पतं॒गाः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} ये, अ॒प्तुरो᳚ दि॒व्यासो॒ न गृध्रा᳚, अ॒भि प्रयो᳚ नासत्या॒ वह᳚न्ति ||{4/11}{1.118.4}{1.17.3.4}{1.8.18.4}{1326, 118, 1326} आ¦वा॒म्¦श्ये॒नासः॑¦अ॒श्वि॒ना॒¦व॒ह॒न्तु॒¦रथे᳚¦यु॒क्तासः॑¦आ॒शवः॑¦प॒त॒ङ्गाः | |
आ वां॒ रथं᳚ युव॒तिस्ति॑ष्ठ॒दत्र॑ जु॒ष्ट्वी न॑रा दुहि॒ता सूर्य॑स्य |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} परि॑ वा॒मश्वा॒ वपु॑षः पतं॒गा वयो᳚ वहन्त्वरु॒षा, अ॒भीके᳚ ||{5/11}{1.118.5}{1.17.3.5}{1.8.18.5}{1327, 118, 1327} आ¦वा॒म्¦रथ᳚म्¦यु॒व॒तिः¦ति॒ष्ठ॒त्¦अत्र॑¦जु॒ष्ट्वी¦न॒रा॒¦दु॒हि॒ता¦सूर्य॑स्य | |
उद् वन्द॑नमैरतं दं॒सना᳚भि॒रुद्रे॒भं द॑स्रा वृषणा॒ शची᳚भिः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} निष्टौ॒ग्र्यं पा᳚रयथः समु॒द्रात् पुन॒श्च्यवा᳚नं चक्रथु॒र्युवा᳚नम् ||{6/11}{1.118.6}{1.17.3.6}{1.8.19.1}{1328, 118, 1328} उत्¦वन्द॑नम्¦ऐ॒र॒त॒म्¦दं॒सना᳚भिः¦उत्¦रे॒भम्¦द॒स्रा॒¦वृ॒ष॒णा॒¦शची᳚भिः | |
यु॒वमत्र॒येऽव॑नीताय त॒प्तमूर्ज॑मो॒मान॑मश्विनावधत्तम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} यु॒वं कण्वा॒यापि॑रिप्ताय॒ चक्षुः॒ प्रत्य॑धत्तं सुष्टु॒तिं जु॑जुषा॒णा ||{7/11}{1.118.7}{1.17.3.7}{1.8.19.2}{1329, 118, 1329} यु॒वम्¦अत्र॑ये¦अव॑ऽनीताय¦त॒प्तम्¦ऊर्ज᳚म्¦ओ॒मान᳚म्¦अ॒श्वि॒नौ॒¦अ॒ध॒त्त॒म् | |
यु॒वं धे॒नुं श॒यवे᳚ नाधि॒तायापि᳚न्वतमश्विना पू॒र्व्याय॑ |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} अमु᳚ञ्चतं॒ वर्ति॑का॒मंह॑सो॒ निः प्रति॒ जङ्घां᳚ वि॒श्पला᳚या, अधत्तम् ||{8/11}{1.118.8}{1.17.3.8}{1.8.19.3}{1330, 118, 1330} यु॒वम्¦धे॒नुम्¦श॒यवे᳚¦ना॒धि॒ताय॑¦अपि᳚न्वतम्¦अ॒श्वि॒ना॒¦पू॒र्व्याय॑ | |
यु॒वं श्वे॒तं पे॒दव॒ इन्द्र॑जूतमहि॒हन॑मश्विनादत्त॒मश्व᳚म् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} जो॒हूत्र॑म॒र्यो, अ॒भिभू᳚तिमु॒ग्रं स॑हस्र॒सां वृष॑णं वी॒ड्व᳚ङ्गम् ||{9/11}{1.118.9}{1.17.3.9}{1.8.19.4}{1331, 118, 1331} यु॒वम्¦श्वे॒तम्¦पे॒दवे᳚¦इन्द्र॑ऽजूतम्¦अ॒हि॒ऽहन᳚म्¦अ॒श्वि॒ना॒¦अ॒द॒त्त॒म्¦अश्व᳚म् | |
ता वां᳚ नरा॒ स्वव॑से सुजा॒ता हवा᳚महे, अश्विना॒ नाध॑मानाः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} आ न॒ उप॒ वसु॑मता॒ रथे᳚न॒ गिरो᳚ जुषा॒णा सु॑वि॒ताय॑ यातम् ||{10/11}{1.118.10}{1.17.3.10}{1.8.19.5}{1332, 118, 1332} ता¦वा॒म्¦न॒रा॒¦सु¦अव॑से¦सु॒ऽजा॒ता¦हवा᳚महे¦अ॒श्वि॒ना॒¦नाध॑मानाः | |
आ श्ये॒नस्य॒ जव॑सा॒ नूत॑नेना॒स्मे या᳚तं नासत्या स॒जोषाः᳚ |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} हवे॒ हि वा᳚मश्विना रा॒तह᳚व्यः शश्वत्त॒माया᳚, उ॒षसो॒ व्यु॑ष्टौ ||{11/11}{1.118.11}{1.17.3.11}{1.8.19.6}{1333, 118, 1333} आ¦श्ये॒नस्य॑¦जव॑सा¦नूत॑नेन¦अ॒स्मे इति॑¦य॒त॒म्¦ना॒स॒त्या॒¦स॒जोषाः᳚ | |
[119] आवांरथमिति दशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानश्विनौजगती | |
आ वां॒ रथं᳚ पुरुमा॒यं म॑नो॒जुवं᳚ जी॒राश्वं᳚ य॒ज्ञियं᳚ जी॒वसे᳚ हुवे |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती} स॒हस्र॑केतुं व॒निनं᳚ श॒तद्व॑सुं श्रुष्टी॒वानं᳚ वरिवो॒धाम॒भि प्रयः॑ ||{1/10}{1.119.1}{1.17.4.1}{1.8.20.1}{1334, 119, 1334} आ¦वा॒म्¦रथ᳚म्¦पु॒रु॒ऽमा॒यम्¦म॒नः॒ऽजुव᳚म्¦जी॒र।आ॑श्वम्¦य॒ज्ञिय᳚म्¦जी॒वसे᳚¦हु॒वे॒ | |
ऊ॒र्ध्वा धी॒तिः प्रत्य॑स्य॒ प्रया᳚म॒न्यधा᳚यि॒ शस्म॒न्त्सम॑यन्त॒ आ दिशः॑ |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती} स्वदा᳚मि घ॒र्मं प्रति॑ यन्त्यू॒तय॒ आ वा᳚मू॒र्जानी॒ रथ॑मश्विनारुहत् ||{2/10}{1.119.2}{1.17.4.2}{1.8.20.2}{1335, 119, 1335} ऊ॒र्ध्वा¦धी॒तिः¦प्रति॑¦अ॒स्य॒¦प्रऽया᳚मनि¦अधा᳚यि¦शस्म॑न्¦सम्¦अ॒य॒न्ते॒¦आ¦दिशः॑ | |
सं यन्मि॒थः प॑स्पृधा॒नासो॒, अग्म॑त शु॒भे म॒खा, अमि॑ता जा॒यवो॒ रणे᳚ |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती} यु॒वोरह॑ प्रव॒णे चे᳚किते॒ रथो॒ यद॑श्विना॒ वह॑थः सू॒रिमा वर᳚म् ||{3/10}{1.119.3}{1.17.4.3}{1.8.20.3}{1336, 119, 1336} सम्¦यत्¦मि॒थः¦प॒स्पृ॒धा॒नासः॑¦अग्म॑त¦शु॒भे¦म॒खाः¦अमि॑ताः¦जा॒यवः॑¦रणे᳚ | |
यु॒वं भु॒ज्युं भु॒रमा᳚णं॒ विभि॑र्ग॒तं स्वयु॑क्तिभिर्नि॒वह᳚न्ता पि॒तृभ्य॒ आ |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती} या॒सि॒ष्टं व॒र्तिर्वृ॑षणा विजे॒न्य१॑(अं॒) दिवो᳚दासाय॒ महि॑ चेति वा॒मवः॑ ||{4/10}{1.119.4}{1.17.4.4}{1.8.20.4}{1337, 119, 1337} यु॒वम्¦भु॒ज्युम्¦भु॒रमा᳚णम्¦विऽभिः॑¦ग॒तम्¦स्वयु॑क्तिऽभिः¦नि॒ऽवह᳚न्ता¦पि॒तृऽभ्यः॑¦आ | |
यु॒वोर॑श्विना॒ वपु॑षे युवा॒युजं॒ रथं॒ वाणी᳚ येमतुरस्य॒ शर्ध्य᳚म् |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती} आ वां᳚ पति॒त्वं स॒ख्याय॑ ज॒ग्मुषी॒ योषा᳚वृणीत॒ जेन्या᳚ यु॒वां पती᳚ ||{5/10}{1.119.5}{1.17.4.5}{1.8.20.5}{1338, 119, 1338} यु॒वोः¦अ॒श्वि॒ना॒¦वपु॑षे¦यु॒वा॒ऽयुज᳚म्¦रथ᳚म्¦वाणी॒ इति॑¦ये॒म॒तुः॒¦अ॒स्य॒¦शर्ध्य᳚म् | |
यु॒वं रे॒भं परि॑षूतेरुरुष्यथो हि॒मेन॑ घ॒र्मं परि॑तप्त॒मत्र॑ये |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती} यु॒वं श॒योर॑व॒सं पि॑प्यथु॒र्गवि॒ प्र दी॒र्घेण॒ वन्द॑नस्ता॒र्यायु॑षा ||{6/10}{1.119.6}{1.17.4.6}{1.8.21.1}{1339, 119, 1339} यु॒वम्¦रे॒भम्¦परि॑ऽसूतेः¦उ॒रु॒ष्य॒थः॒¦हि॒मेन॑¦घ॒र्मम्¦परि॑ऽतप्तम्¦अत्र॑ये | |
यु॒वं वन्द॑नं॒ निरृ॑तं जर॒ण्यया॒ रथं॒ न द॑स्रा कर॒णा समि᳚न्वथः |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती} क्षेत्रा॒दा विप्रं᳚ जनथो विप॒न्यया॒ प्र वा॒मत्र॑ विध॒ते दं॒सना᳚ भुवत् ||{7/10}{1.119.7}{1.17.4.7}{1.8.21.2}{1340, 119, 1340} यु॒वम्¦वन्द॑नम्¦निःऽऋ॑तम्¦ज॒र॒ण्यया᳚¦रथ᳚म्¦न¦द॒स्रा॒¦क॒र॒णा¦सम्¦इ॒न्व॒थः॒ | |
अग॑च्छतं॒ कृप॑माणं परा॒वति॑ पि॒तुः स्वस्य॒ त्यज॑सा॒ निबा᳚धितम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती} स्व᳚र्वतीरि॒त ऊ॒तीर्यु॒वोरह॑ चि॒त्रा, अ॒भीके᳚, अभवन्न॒भिष्ट॑यः ||{8/10}{1.119.8}{1.17.4.8}{1.8.21.3}{1341, 119, 1341} अग॑च्छतम्¦कृप॑माणम्¦प॒रा॒ऽवति॑¦पि॒तुः¦स्वस्य॑¦त्यज॑सा¦निऽबा᳚धितम् | |
उ॒त स्या वां॒ मधु॑म॒न्मक्षि॑कारप॒न्मदे॒ सोम॑स्यौशि॒जो हु॑वन्यति |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती} यु॒वं द॑धी॒चो मन॒ आ वि॑वास॒थोऽथा॒ शिरः॒ प्रति॑ वा॒मश्व्यं᳚ वदत् ||{9/10}{1.119.9}{1.17.4.9}{1.8.21.4}{1342, 119, 1342} उ॒त¦स्या¦वा॒म्¦मधु॑ऽमत्¦मक्षि॑का¦अ॒र॒प॒त्¦मदे᳚¦सोम॑स्य¦औ॒शि॒जः¦हु॒व॒न्य॒ति॒ | |
यु॒वं पे॒दवे᳚ पुरु॒वार॑मश्विना स्पृ॒धां श्वे॒तं त॑रु॒तारं᳚ दुवस्यथः |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती} शर्यै᳚र॒भिद्युं॒ पृत॑नासु दु॒ष्टरं᳚ च॒र्कृत्य॒मिन्द्र॑मिव चर्षणी॒सह᳚म् ||{10/10}{1.119.10}{1.17.4.10}{1.8.21.5}{1343, 119, 1343} यु॒वम्¦पे॒दवे᳚¦पु॒रु॒ऽवार᳚म्¦अ॒श्वि॒ना॒¦स्पृ॒धाम्¦श्वे॒तम्¦त॒रु॒तार᳚म्¦दु॒व॒स्य॒थः॒ | |
[120] काराधदिति द्वादशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानश्विनौ आद्यागायत्री द्वितीयाककुप् तृतीयाकाविराट् चतुर्थीनष्टरूपी पंचमीतनुशिरा षष्ट्युष्णिक् सप्तमीविष्टारबृहत्यष्टमीकृतिर्नवमीविराट्अंत्यास्तिस्रोगायत्र्यः ( अंत्यादुःस्वप्ननाशिनी ) |
का रा᳚ध॒द्धोत्रा᳚श्विना वां॒ को वां॒ जोष॑ उ॒भयोः᳚ |{दैर्घतमसः कक्षीवान् | अश्विनौ | गायत्री} क॒था वि॑धा॒त्यप्र॑चेताः ||{1/12}{1.120.1}{1.17.5.1}{1.8.22.1}{1344, 120, 1344} का¦रा॒ध॒त्¦होत्रा᳚¦अ॒श्वि॒ना॒¦वा॒म्¦कः¦वा॒म्¦जोषे᳚¦उ॒भयोः᳚ | क॒था¦वि॒धा॒ति॒¦अप्र॑ऽचेताः || |
वि॒द्वांसा॒विद्दुरः॑ पृच्छे॒दवि॑द्वानि॒त्थाप॑रो, अचे॒ताः |{दैर्घतमसः कक्षीवान् | अश्विनौ | ककुप्} नू चि॒न्नु मर्ते॒, अक्रौ᳚ ||{2/12}{1.120.2}{1.17.5.2}{1.8.22.2}{1345, 120, 1345} वि॒द्वांसौ᳚¦इत्¦दुरः॑¦पृ॒च्छे॒त्¦अवि॑द्वान्¦इ॒त्था¦अप॑रः¦अ॒चे॒ताः | नु¦चि॒त्¦नु¦मर्ते᳚¦अक्रौ᳚ || |
ता वि॒द्वांसा᳚ हवामहे वां॒ ता नो᳚ वि॒द्वांसा॒ मन्म॑ वोचेतम॒द्य |{दैर्घतमसः कक्षीवान् | अश्विनौ | काविराट्} प्रार्च॒द्दय॑मानो यु॒वाकुः॑ ||{3/12}{1.120.3}{1.17.5.3}{1.8.22.3}{1346, 120, 1346} ता¦वि॒द्वांसा᳚¦ह॒वा॒म॒हे॒¦वा॒म्¦ता¦नः॒¦वि॒द्वांसा᳚¦मन्म॑¦वो॒चे॒त॒म्¦अ॒द्य | प्र¦आ॒र्च॒त्¦दय॑मानः¦यु॒वाकुः॑ || |
वि पृ॑च्छामि पा॒क्या॒३॑(आ॒) न दे॒वान् वष॑ट्कृतस्याद् भु॒तस्य॑ दस्रा |{दैर्घतमसः कक्षीवान् | अश्विनौ | नष्टरूपी} पा॒तं च॒ सह्य॑सो यु॒वं च॒ रभ्य॑सो नः ||{4/12}{1.120.4}{1.17.5.4}{1.8.22.4}{1347, 120, 1347} वि¦पृ॒च्छा॒मि॒¦पा॒क्या᳚¦न¦दे॒वान्¦वष॑ट्ऽकृतस्य¦अ॒द्भु॒तस्य॑¦द॒स्रा॒ | पा॒तम्¦च॒¦सह्य॑सः¦यु॒वम्¦च॒¦रभ्य॑सः¦नः॒ || |
प्र या घोषे॒ भृग॑वाणे॒ न शोभे॒ यया᳚ वा॒चा यज॑ति पज्रि॒यो वा᳚म् |{दैर्घतमसः कक्षीवान् | अश्विनौ | तनुशिरा} प्रैष॒युर्न वि॒द्वान् ||{5/12}{1.120.5}{1.17.5.5}{1.8.22.5}{1348, 120, 1348} प्र¦या¦घोषे᳚¦भृग॑वाणे¦न¦शोभे᳚¦यया᳚¦वा॒चा¦यज॑ति¦प॒ज्रि॒यः¦वा॒म् | प्र¦इ॒ष॒ऽयुः¦न¦वि॒द्वान् || |
श्रु॒तं गा᳚य॒त्रं तक॑वानस्या॒ऽहं चि॒द्धि रि॒रेभा᳚श्विना वाम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | उष्णिक्} आक्षी शु॑भस्पती॒ दन् ||{6/12}{1.120.6}{1.17.5.6}{1.8.23.1}{1349, 120, 1349} श्रु॒तम्¦गा॒य॒त्रम्¦तक॑वानस्य¦अ॒हम्¦चि॒त्¦हि¦रि॒रेभ॑¦अ॒श्वि॒ना॒¦वा॒म् | आ¦अ॒क्षी इति॑¦शु॒भः॒¦प॒ती॒ इति॑¦दन् || |
यु॒वं ह्यास्तं᳚ म॒हो रन् यु॒वं वा॒ यन्नि॒रत॑तंसतम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | विष्टारबृहती} ता नो᳚ वसू सुगो॒पा स्या᳚तं पा॒तं नो॒ वृका᳚दघा॒योः ||{7/12}{1.120.7}{1.17.5.7}{1.8.23.2}{1350, 120, 1350} यु॒वम्¦हि¦आस्त᳚म्¦म॒हः¦रन्¦यु॒वम्¦वा॒¦यत्¦निः॒।आत॑तंसतम् | |
मा कस्मै᳚ धातम॒भ्य॑मि॒त्रिणे᳚ नो॒ माकुत्रा᳚ नो गृ॒हेभ्यो᳚ धे॒नवो᳚ गुः |{दैर्घतमसः कक्षीवान् | अश्विनौ | कृतिः} स्त॒ना॒भुजो॒, अशि॑श्वीः ||{8/12}{1.120.8}{1.17.5.8}{1.8.23.3}{1351, 120, 1351} मा¦कस्मै᳚¦धा॒त॒म्¦अ॒भि¦अ॒मि॒त्रिणे᳚¦नः॒¦मा¦अ॒कुत्र॑¦नः॒¦गृ॒हेभ्यः॑¦धे॒नवः॑¦गुः॒ | स्त॒न॒ऽभुजः॑¦अशि॑श्वीः || |
दु॒ही॒यन् मि॒त्रधि॑तये यु॒वाकु॑ रा॒ये च॑ नो मिमी॒तं वाज॑वत्यै |{दैर्घतमसः कक्षीवान् | अश्विनौ | विराट्} इ॒षे च॑ नो मिमीतं धेनु॒मत्यै᳚ ||{9/12}{1.120.9}{1.17.5.9}{1.8.23.4}{1352, 120, 1352} दु॒ही॒यन्¦मि॒त्रऽधि॑तये¦यु॒वाकु॑¦रा॒ये¦च॒¦नः॒¦मि॒मी॒तम्¦वाज॑ऽवत्यै | इ॒षे¦च॒¦नः॒¦मि॒मी॒त॒म्¦धे॒नु॒ऽमत्यै᳚ || |
अ॒श्विनो᳚रसनं॒ रथ॑मन॒श्वं वा॒जिनी᳚वतोः |{दैर्घतमसः कक्षीवान् | अश्विनौ | गायत्री} तेना॒हं भूरि॑ चाकन ||{10/12}{1.120.10}{1.17.5.10}{1.8.23.5}{1353, 120, 1353} अ॒श्विनोः᳚¦अ॒स॒न॒म्¦रथ᳚म्¦अ॒न॒श्वम्¦वा॒जिनी᳚ऽवतोः | तेन॑¦अ॒हम्¦भूरि॑¦चा॒क॒न॒ || |
अ॒यं स॑मह मा तनू॒ह्याते॒ जनाँ॒, अनु॑ |{दैर्घतमसः कक्षीवान् | अश्विनौ | गायत्री} सो॒म॒पेयं᳚ सु॒खो रथः॑ ||{11/12}{1.120.11}{1.17.5.11}{1.8.23.6}{1354, 120, 1354} अ॒यम्¦स॒म॒ह॒¦मा॒¦त॒नु॒¦ऊ॒ह्याते᳚¦जना᳚न्¦अनु॑ | सो॒म॒ऽपेय᳚म्¦सु॒ऽखः¦रथः॑ || |
अध॒ स्वप्न॑स्य॒ निर्वि॒देऽभु᳚ञ्जतश्च रे॒वतः॑ |{दैर्घतमसः कक्षीवान् | अश्विनौ | गायत्री} उ॒भा ता बस्रि॑ नश्यतः ||{12/12}{1.120.12}{1.17.5.12}{1.8.23.7}{1355, 120, 1355} अध॑¦स्वप्न॑स्य¦निः¦वि॒दे॒¦अभुं᳚जतः¦च॒¦रे॒वतः॑ | उ॒भा¦ता¦बस्रि॑¦न॒श्य॒तः॒ || |
[121] कदित्थेति पंचदशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानिंद्रस्त्रिष्टुप् (विश्वेदेवावा) | |
कदि॒त्था नॄँः पात्रं᳚ देवय॒तां श्रव॒द्गिरो॒, अङ्गि॑रसां तुर॒ण्यन् |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} प्र यदान॒ड्विश॒ आ ह॒र्म्यस्यो॒रु क्रं᳚सते, अध्व॒रे यज॑त्रः ||{1/15}{1.121.1}{1.18.1.1}{1.8.24.1}{1356, 121, 1356} कत्¦इ॒त्था¦नॄन्¦पात्र᳚म्¦दे॒व॒ऽय॒ताम्¦श्रव॑त्¦गिरः॑¦अङ्गि॑रसाम्¦तु॒र॒ण्यन् | |
स्तम्भी᳚द्ध॒ द्यां स ध॒रुणं᳚ प्रुषायदृ॒भुर्वाजा᳚य॒ द्रवि॑णं॒ नरो॒ गोः |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} अनु॑ स्व॒जां म॑हि॒षस् च॑क्षत॒ व्रां मेना॒मश्व॑स्य॒ परि॑ मा॒तरं॒ गोः ||{2/15}{1.121.2}{1.18.1.2}{1.8.24.2}{1357, 121, 1357} स्तम्भी᳚त्¦ह॒¦द्याम्¦सः¦ध॒रुण᳚म्¦प्रु॒षा॒य॒त्¦ऋ॒भुः¦वाजा᳚य¦द्रवि॑णम्¦नरः॑¦गोः | |
नक्ष॒द्धव॑मरु॒णीः पू॒र्व्यं राट् तु॒रो वि॒शामङ्गि॑रसा॒मनु॒ द्यून् |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} तक्ष॒द्वज्रं॒ नियु॑तं त॒स्तम्भ॒द्द्यां चतु॑ष्पदे॒ नर्या᳚य द्वि॒पादे᳚ ||{3/15}{1.121.3}{1.18.1.3}{1.8.24.3}{1358, 121, 1358} नक्ष॑त्¦हव᳚म्¦अ॒रु॒णीः¦पू॒र्व्यम्¦राट्¦तु॒रः¦वि॒शाम्¦अङ्गि॑रसाम्¦अनु॑¦द्यून् | |
अ॒स्य मदे᳚ स्व॒र्यं᳚ दा, ऋ॒तायापी᳚वृतमु॒स्रिया᳚णा॒मनी᳚कम् |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} यद्ध॑ प्र॒सर्गे᳚ त्रिक॒कुम्नि॒वर्त॒दप॒ द्रुहो॒ मानु॑षस्य॒ दुरो᳚ वः ||{4/15}{1.121.4}{1.18.1.4}{1.8.24.4}{1359, 121, 1359} अ॒स्य¦मदे᳚¦स्व॒र्य᳚म्¦दाः॒¦ऋ॒ताय॑¦अपि॑ऽवृतम्¦उ॒स्रिया᳚णाम्¦अनी᳚कम् | |
तुभ्यं॒ पयो॒ यत् पि॒तरा॒वनी᳚तां॒ राधः॑ सु॒रेत॑स्तु॒रणे᳚ भुर॒ण्यू |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} शुचि॒ यत्ते॒ रेक्ण॒ आय॑जन्त सब॒र्दुघा᳚याः॒ पय॑ उ॒स्रिया᳚याः ||{5/15}{1.121.5}{1.18.1.5}{1.8.24.5}{1360, 121, 1360} तुभ्य᳚म्¦पयः॑¦यत्¦पि॒तरौ᳚¦अनी᳚ताम्¦राधः॑¦सु॒ऽरेतः॑¦तु॒रणे᳚¦भु॒र॒ण्यू इति॑ | |
अध॒ प्र ज॑ज्ञे त॒रणि᳚र्ममत्तु॒ प्र रो᳚च्य॒स्या, उ॒षसो॒ न सूरः॑ |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} इन्दु॒र्येभि॒राष्ट॒ स्वेदु॑हव्यैः स्रु॒वेण॑ सि॒ञ्चञ्ज॒रणा॒भि धाम॑ ||{6/15}{1.121.6}{1.18.1.6}{1.8.25.1}{1361, 121, 1361} अध॑¦प्र¦ज॒ज्ञे॒¦त॒रणिः॑¦म॒म॒त्तु॒¦प्र¦रो॒चि॒¦अ॒स्याः¦उ॒षसः॑¦न¦सूरः॑ | |
स्वि॒ध्मा यद् व॒नधि॑तिरप॒स्यात् सूरो᳚, अध्व॒रे परि॒ रोध॑ना॒ गोः |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} यद्ध॑ प्र॒भासि॒ कृत्व्याँ॒, अनु॒ द्यूनन᳚र्विशे प॒श्विषे᳚ तु॒राय॑ ||{7/15}{1.121.7}{1.18.1.7}{1.8.25.2}{1362, 121, 1362} सु॒ऽइ॒ध्मा¦यत्¦व॒नऽधि॑तिः¦अ॒प॒स्यात्¦सूरः॑¦अ॒ध्व॒रे¦परि॑¦रोध॑ना¦गोः | |
अ॒ष्टा म॒हो दि॒व आदो॒ हरी᳚, इ॒ह द्यु᳚म्ना॒साह॑म॒भि यो᳚धा॒न उत्स᳚म् |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} हरिं॒ यत्ते᳚ म॒न्दिनं᳚ दु॒क्षन् वृ॒धे गोर॑भस॒मद्रि॑भिर्वा॒ताप्य᳚म् ||{8/15}{1.121.8}{1.18.1.8}{1.8.25.3}{1363, 121, 1363} अ॒ष्टा¦म॒हः¦दि॒वः¦आदः॑¦हरी॒ इति॑¦इ॒ह¦द्यु॒म्न॒ऽसह᳚म्¦अ॒भि¦यो॒धा॒नः¦उत्स᳚म् | |
त्वमा᳚य॒सं प्रति॑ वर्तयो॒ गोर्दि॒वो, अश्मा᳚न॒मुप॑नीत॒मृभ्वा᳚ |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} कुत्सा᳚य॒ यत्र॑ पुरुहूत व॒न्वञ्छुष्ण॑मन॒न्तैः प॑रि॒यासि॑ व॒धैः ||{9/15}{1.121.9}{1.18.1.9}{1.8.25.4}{1364, 121, 1364} त्वम्¦आ॒य॒सम्¦प्रति॑¦व॒र्त॒यः॒¦गोः¦दि॒वः¦अश्मा᳚नम्¦उप॑ऽनीतम्¦ऋभ्वा᳚ | |
पु॒रा यत् सूर॒स्तम॑सो॒, अपी᳚ते॒स्तम॑द्रिवः फलि॒गं हे॒तिम॑स्य |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} शुष्ण॑स्य चि॒त् परि॑हितं॒ यदोजो᳚ दि॒वस्परि॒ सुग्र॑थितं॒ तदादः॑ ||{10/15}{1.121.10}{1.18.1.10}{1.8.25.5}{1365, 121, 1365} पु॒रा¦यत्¦सूरः॑¦तम॑सः¦अपि॑ऽइतेः¦तम्¦अ॒द्रि॒ऽवः॒¦फ॒लि॒ऽगम्¦हे॒तिम्¦अ॒स्य॒ | |
अनु॑ त्वा म॒ही पाज॑सी, अच॒क्रे द्यावा॒क्षामा᳚ मदतामिन्द्र॒ कर्म॑न् |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} त्वं वृ॒त्रमा॒शया᳚नं सि॒रासु॑ म॒हो वज्रे᳚ण सिष्वपो व॒राहु᳚म् ||{11/15}{1.121.11}{1.18.1.11}{1.8.26.1}{1366, 121, 1366} अनु॑¦त्वा॒¦म॒ही इति॑¦पाज॑सी॒ इति॑¦अ॒च॒क्रे इति॑¦द्यावा॒क्षामा᳚¦म॒द॒ता॒म्¦इ॒न्द्र॒¦कर्म॑न् | |
त्वमि᳚न्द्र॒ नर्यो॒ याँ, अवो॒ नॄन् तिष्ठा॒ वात॑स्य सु॒युजो॒ वहि॑ष्ठान् |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} यं ते᳚ का॒व्य उ॒शना᳚ म॒न्दिनं॒ दाद् वृ॑त्र॒हणं॒ पार्यं᳚ ततक्ष॒ वज्र᳚म् ||{12/15}{1.121.12}{1.18.1.12}{1.8.26.2}{1367, 121, 1367} त्वम्¦इ॒न्द्र॒¦नर्यः॑¦यान्¦अवः॑¦नॄन्¦तिष्ठ॑¦वात॑स्य¦सु॒ऽयुजः॑¦वहि॑ष्ठान् | |
त्वं सूरो᳚ ह॒रितो᳚ रामयो॒ नॄन् भर॑च्च॒क्रमेत॑शो॒ नायमि᳚न्द्र |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} प्रास्य॑ पा॒रं न॑व॒तिं ना॒व्या᳚ना॒मपि॑ क॒र्तम॑वर्त॒योऽय॑ज्यून् ||{13/15}{1.121.13}{1.18.1.13}{1.8.26.3}{1368, 121, 1368} त्वम्¦सूरः॑¦ह॒रितः॑¦र॒म॒यः॒¦नॄन्¦भर॑त्¦च॒क्रम्¦एत॑शः¦न¦अ॒यम्¦इ॒न्द्र॒ | |
त्वं नो᳚, अ॒स्या, इ᳚न्द्र दु॒र्हणा᳚याः पा॒हि व॑ज्रिवो दुरि॒ताद॒भीके᳚ |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} प्र नो॒ वाजा᳚न् र॒थ्यो॒३॑(ओ॒) अश्व॑बुध्यानि॒षे य᳚न्धि॒ श्रव॑से सू॒नृता᳚यै ||{14/15}{1.121.14}{1.18.1.14}{1.8.26.4}{1369, 121, 1369} त्वम्¦नः॒¦अ॒स्याः¦इ॒न्द्र॒¦दुः॒ऽहना᳚याः¦पा॒हि¦व॒ज्रि॒ऽवः॒¦दुः॒ऽइ॒तात्¦अ॒भीके᳚ | |
मा सा ते᳚, अ॒स्मत् सु॑म॒तिर्वि द॑स॒द् वाज॑प्रमहः॒ समिषो᳚ वरन्त |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} आ नो᳚ भज मघव॒न् गोष्व॒र्यो मंहि॑ष्ठास्ते सध॒मादः॑ स्याम ||{15/15}{1.121.15}{1.18.1.15}{1.8.26.5}{1370, 121, 1370} मा¦सा¦ते॒¦अ॒स्मत्¦सु॒ऽम॒तिः¦वि¦द॒स॒त्¦वाज॑ऽप्रमहः¦सम्¦इषः॑¦व॒र॒न्त॒ | |
[122] प्रवःपांतमिति पंचदशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवान्विश्वेदेवास्त्रिष्टुप् पंचमीषष्ठ्यौ विराड्रूपे | (भेदप्रयोगपक्षेतुआद्यानांषण्णांक्रमेणरुद्रमरुतउषासानक्ता विश्वेदेवाअश्विनौविश्वेदेवामित्रावरुणसिंधवोदेवताः ततोद्वयोर्विश्वेदेवाः ततोद्वयोर्मित्रावरुणौ अंत्य पंचानांविश्वेदेवाः एवं १५) | |
प्र वः॒ पान्तं᳚ रघुमन्य॒वोऽन्धो᳚ य॒ज्ञं रु॒द्राय॑ मी॒ळ्हुषे᳚ भरध्वम् |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्} दि॒वो, अ॑स्तो॒ष्यसु॑रस्य वी॒रैरि॑षु॒ध्येव॑ म॒रुतो॒ रोद॑स्योः ||{1/15}{1.122.1}{1.18.2.1}{2.1.1.1}{1371, 122, 1371} प्र¦वः॒¦पान्त᳚म्¦र॒घु॒ऽम॒न्य॒वः॒¦अन्धः॑¦य॒ज्ञम्¦रु॒द्राय॑¦मी॒ळ्हुषे᳚¦भ॒र॒ध्व॒म् | |
पत्नी᳚व पू॒र्वहू᳚तिं वावृ॒धध्या᳚, उ॒षासा॒नक्ता᳚ पुरु॒धा विदा᳚ने |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्} स्त॒रीर्नात्कं॒ व्यु॑तं॒ वसा᳚ना॒ सूर्य॑स्य श्रि॒या सु॒दृशी॒ हिर᳚ण्यैः ||{2/15}{1.122.2}{1.18.2.2}{2.1.1.2}{1372, 122, 1372} पत्नी᳚ऽइव¦पू॒र्वऽहू᳚तिम्¦व॒वृ॒धध्यै᳚¦उ॒षसा॒नक्ता᳚¦पु॒रु॒धा¦विदा᳚ने॒ इति॑ | |
म॒मत्तु॑ नः॒ परि॑ज्मा वस॒र्हा म॒मत्तु॒ वातो᳚, अ॒पां वृष᳚ण्वान् |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्} शि॒शी॒तमि᳚न्द्रापर्वता यु॒वं न॒स्तन्नो॒ विश्वे᳚ वरिवस्यन्तु दे॒वाः ||{3/15}{1.122.3}{1.18.2.3}{2.1.1.3}{1373, 122, 1373} म॒मत्तु॑¦नः॒¦परि॑ऽज्मा¦व॒स॒र्हा¦म॒मत्तु॑¦वातः॑¦अ॒पाम्¦वृष॑ण्ऽवान् | |
उ॒त त्या मे᳚ य॒शसा᳚ श्वेत॒नायै॒ व्यन्ता॒ पान्तौ᳚शि॒जो हु॒वध्यै᳚ |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्} प्र वो॒ नपा᳚तम॒पां कृ॑णुध्वं॒ प्र मा॒तरा᳚ रास्पि॒नस्या॒योः ||{4/15}{1.122.4}{1.18.2.4}{2.1.1.4}{1374, 122, 1374} उ॒त¦त्या¦मे॒¦य॒शसा᳚¦श्वे॒त॒नायै᳚¦व्यन्ता᳚¦पान्ता᳚¦औ॒शि॒जः॒¦हु॒वध्यै᳚ | |
आ वो᳚ रुव॒ण्युमौ᳚शि॒जो हु॒वध्यै॒ घोषे᳚व॒ शंस॒मर्जु॑नस्य॒ नंशे᳚ |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | विराड्रूपा} प्र वः॑ पू॒ष्णे दा॒वन॒ आँ, अच्छा᳚ वोचेय व॒सुता᳚तिम॒ग्नेः ||{5/15}{1.122.5}{1.18.2.5}{2.1.1.5}{1375, 122, 1375} आ¦वः॒¦रु॒व॒ण्युम्¦औ॒शि॒जः¦हु॒वध्यै᳚¦घोषा᳚ऽइव¦शंस᳚म्¦अर्जु॑नस्य¦नंशे᳚ | |
श्रु॒तं मे᳚ मित्रावरुणा॒ हवे॒मोत श्रु॑तं॒ सद॑ने वि॒श्वतः॑ सीम् |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | विराड्रूपा} श्रोतु॑ नः॒ श्रोतु॑रातिः सु॒श्रोतुः॑ सु॒क्षेत्रा॒ सिन्धु॑र॒द्भिः ||{6/15}{1.122.6}{1.18.2.6}{2.1.2.1}{1376, 122, 1376} श्रु॒तम्¦मे॒¦मि॒त्रा॒व॒रु॒णा॒¦हवा᳚¦इ॒मा¦उ॒त¦श्रु॒त॒म्¦सद॑ने¦वि॒श्वतः॑¦सी॒म् | |
स्तु॒षे सा वां᳚ वरुण मित्र रा॒तिर्गवां᳚ श॒ता पृ॒क्षया᳚मेषु प॒ज्रे |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्} श्रु॒तर॑थे प्रि॒यर॑थे॒ दधा᳚नाः स॒द्यः पु॒ष्टिं नि॑रुन्धा॒नासो᳚, अग्मन् ||{7/15}{1.122.7}{1.18.2.7}{2.1.2.2}{1377, 122, 1377} स्तु॒षे¦सा¦वा॒म्¦व॒रु॒ण॒¦मि॒त्र॒¦रा॒तिः¦गवा᳚म्¦श॒ता¦पृ॒क्षऽया᳚मेषु¦प॒ज्रे | |
अ॒स्य स्तु॑षे॒ महि॑मघस्य॒ राधः॒सचा᳚ सनेम॒ नहु॑षः सु॒वीराः᳚ |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्} जनो॒ यः प॒ज्रेभ्यो᳚ वा॒जिनी᳚वा॒नश्वा᳚वतो र॒थिनो॒ मह्यं᳚ सू॒रिः ||{8/15}{1.122.8}{1.18.2.8}{2.1.2.3}{1378, 122, 1378} अ॒स्य¦स्तु॒षे॒¦महि॑ऽमघस्य¦राधः॑¦सचा᳚¦स॒ने॒म॒¦नहु॑षः¦सु॒ऽवीराः᳚ | |
जनो॒ यो मि॑त्रावरुणावभि॒ध्रुग॒पो न वां᳚ सु॒नोत्य॑क्ष्णया॒ध्रुक् |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्} स्व॒यं स यक्ष्मं॒ हृद॑ये॒ नि ध॑त्त॒ आप॒ यदीं॒ होत्रा᳚भिरृ॒तावा᳚ ||{9/15}{1.122.9}{1.18.2.9}{2.1.2.4}{1379, 122, 1379} जनः॑¦यः¦मि॒त्रा॒व॒रु॒णौ॒¦अ॒भि॒ऽध्रुक्¦अ॒पः¦न¦वा॒म्¦सु॒नोति॑¦अ॒क्ष्ण॒या॒ऽध्रुक् | |
स व्राध॑तो॒ नहु॑षो॒ दंसु॑जूतः॒ शर्ध॑स्तरो न॒रां गू॒र्तश्र॑वाः |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्} विसृ॑ष्टरातिर्याति बाळ्ह॒सृत्वा॒ विश्वा᳚सु पृ॒त्सु सद॒मिच्छूरः॑ ||{10/15}{1.122.10}{1.18.2.10}{2.1.2.5}{1380, 122, 1380} सः¦व्राध॑तः¦नहु॑षः¦दम्ऽसु॑जूतः¦शर्धः॑ऽतरः¦न॒राम्¦गू॒र्तऽश्र॑वाः | |
अध॒ ग्मन्ता॒ नहु॑षो॒ हवं᳚ सू॒रेः श्रोता᳚ राजानो, अ॒मृत॑स्य मन्द्राः |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्} न॒भो॒जुवो॒ यन्नि॑र॒वस्य॒ राधः॒ प्रश॑स्तये महि॒ना रथ॑वते ||{11/15}{1.122.11}{1.18.2.11}{2.1.3.1}{1381, 122, 1381} अध॑¦ग्मन्त॑¦नहु॑षः¦हव᳚म्¦सू॒रेः¦श्रोत॑¦रा॒जा॒नः॒¦अ॒मृत॑स्य¦म॒न्द्राः॒ | |
ए॒तं शर्धं᳚ धाम॒ यस्य॑ सू॒रेरित्य॑वोच॒न्दश॑तयस्य॒ नंशे᳚ |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्} द्यु॒म्नानि॒ येषु॑ व॒सुता᳚ती रा॒रन् विश्वे᳚ सन्वन्तु प्रभृ॒थेषु॒ वाज᳚म् ||{12/15}{1.122.12}{1.18.2.12}{2.1.3.2}{1382, 122, 1382} ए॒तम्¦शर्ध᳚म्¦धा॒म॒¦यस्य॑¦सू॒रेः¦इति॑¦अ॒वो॒च॒न्¦दश॑ऽतयस्य¦नंशे᳚ | |
मन्दा᳚महे॒ दश॑तयस्य धा॒सेर्द्विर्यत् पञ्च॒ बिभ्र॑तो॒ यन्त्यन्ना᳚ |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्} किमि॒ष्टाश्व॑ इ॒ष्टर॑श्मिरे॒त ई᳚शा॒नास॒स्तरु॑ष ऋञ्जते॒ नॄन् ||{13/15}{1.122.13}{1.18.2.13}{2.1.3.3}{1383, 122, 1383} मन्दा᳚महे¦दश॑ऽतयस्य¦धा॒सेः¦द्विः¦यत्¦पंच॑¦बिभ्र॑तः¦यन्ति॑¦अन्ना᳚ | |
हिर᳚ण्यकर्णं मणिग्रीव॒मर्ण॒स्तन्नो॒ विश्वे᳚ वरिवस्यन्तु दे॒वाः |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्} अ॒र्यो गिरः॑ स॒द्य आ ज॒ग्मुषी॒रोस्राश्चा᳚कन्तू॒ भये᳚ष्व॒स्मे ||{14/15}{1.122.14}{1.18.2.14}{2.1.3.4}{1384, 122, 1384} हिर᳚ण्यऽकर्णम्¦म॒णि॒ऽग्री॒व॒म्¦अर्णः॑¦तत्¦नः॒¦विश्वे᳚¦व॒रि॒व॒स्य॒न्तु॒¦दे॒वाः | |
च॒त्वारो᳚ मा मश॒र्शार॑स्य॒ शिश्व॒स्त्रयो॒ राज्ञ॒ आय॑वसस्य जि॒ष्णोः |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्} रथो᳚ वां मित्रावरुणा दी॒र्घाप्साः॒ स्यूम॑गभस्तिः॒ सूरो॒ नाद्यौ᳚त् ||{15/15}{1.122.15}{1.18.2.15}{2.1.3.5}{1385, 122, 1385} च॒त्वारः॑¦मा॒¦म॒श॒र्शार॑स्य¦शिश्वः॑¦त्रयः॑¦राज्ञः॑¦आय॑वसस्य¦जि॒ष्णोः | |
[123] पृथूरथइति त्रयोदशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानुषास्त्रिष्टुप् | |
पृ॒थू रथो॒ दक्षि॑णाया, अयो॒ज्यैनं᳚ दे॒वासो᳚, अ॒मृता᳚सो, अस्थुः |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} कृ॒ष्णादुद॑स्थाद॒र्या॒३॑(आ॒) विहा᳚या॒श्चिकि॑त्सन्ती॒ मानु॑षाय॒ क्षया᳚य ||{1/13}{1.123.1}{1.18.3.1}{2.1.4.1}{1386, 123, 1386} पृ॒थुः¦रथः॑¦दक्षि॑णायाः¦अ॒यो॒जि॒¦आ¦ए॒न॒म्¦दे॒वासः॑¦अ॒मृता᳚सः¦अ॒स्थुः॒ | |
पूर्वा॒ विश्व॑स्मा॒द् भुव॑नादबोधि॒ जय᳚न्ती॒ वाजं᳚ बृह॒ती सनु॑त्री |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} उ॒च्चा व्य॑ख्यद् युव॒तिः पु॑न॒र्भूरोषा, अ॑गन् प्रथ॒मा पू॒र्वहू᳚तौ ||{2/13}{1.123.2}{1.18.3.2}{2.1.4.2}{1387, 123, 1387} पूर्वा᳚¦विश्व॑स्मात्¦भुव॑नात्¦अ॒बो॒धि॒¦जय᳚न्ती¦वाज᳚म्¦बृ॒ह॒ती¦सनु॑त्री | |
यद॒द्य भा॒गं वि॒भजा᳚सि॒ नृभ्य॒ उषो᳚ देवि मर्त्य॒त्रा सु॑जाते |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} दे॒वो नो॒, अत्र॑ सवि॒ता दमू᳚ना॒, अना᳚गसो वोचति॒ सूर्या᳚य ||{3/13}{1.123.3}{1.18.3.3}{2.1.4.3}{1388, 123, 1388} यत्¦अ॒द्य¦भा॒गम्¦वि॒ऽभजा᳚सि¦नृऽभ्यः॑¦उषः॑¦दे॒वि॒¦म॒र्त्य॒ऽत्रा¦सु॒ऽजा॒ते॒ | |
गृ॒हंगृ॑हमह॒ना या॒त्यच्छा᳚ दि॒वेदि॑वे॒, अधि॒ नामा॒ दधा᳚ना |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} सिषा᳚सन्ती द्योत॒ना शश्व॒दागा॒दग्र॑मग्र॒मिद् भ॑जते॒ वसू᳚नाम् ||{4/13}{1.123.4}{1.18.3.4}{2.1.4.4}{1389, 123, 1389} गृ॒हम्ऽगृ॑हम्¦अ॒ह॒ना¦या॒ति॒¦अच्छ॑¦दि॒वेऽदि॑वे¦अधि॑¦नाम॑¦दधा᳚ना | |
भग॑स्य॒ स्वसा॒ वरु॑णस्य जा॒मिरुषः॑ सूनृते प्रथ॒मा ज॑रस्व |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} प॒श्चा स द॑घ्या॒ यो, अ॒घस्य॑ धा॒ता जये᳚म॒ तं दक्षि॑णया॒ रथे᳚न ||{5/13}{1.123.5}{1.18.3.5}{2.1.4.5}{1390, 123, 1390} भग॑स्य¦स्वसा᳚¦वरु॑णस्य¦जा॒मिः¦उषः॑¦सू॒नृ॒ते॒¦प्र॒थ॒मा¦ज॒र॒स्व॒ | |
उदी᳚रतां सू॒नृता॒, उत् पुरं᳚धी॒रुद॒ग्नयः॑ शुशुचा॒नासो᳚, अस्थुः |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} स्पा॒र्हा वसू᳚नि॒ तम॒साप॑गूळ्हा॒विष्कृ᳚ण्वन्त्यु॒षसो᳚ विभा॒तीः ||{6/13}{1.123.6}{1.18.3.6}{2.1.5.1}{1391, 123, 1391} उत्¦ई॒र॒ता॒म्¦सू॒नृताः᳚¦उत्¦पुर᳚म्ऽधीः¦उत्¦अ॒ग्नयः॑¦शु॒शु॒चा॒नासः॑¦अ॒स्थुः॒ | |
अपा॒न्यदेत्य॒भ्य१॑(अ॒)न्यदे᳚ति॒ विषु॑रूपे॒, अह॑नी॒ सं च॑रेते |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} प॒रि॒क्षितो॒स्तमो᳚, अ॒न्या गुहा᳚क॒रद्यौ᳚दु॒षाः शोशु॑चता॒ रथे᳚न ||{7/13}{1.123.7}{1.18.3.7}{2.1.5.2}{1392, 123, 1392} अप॑¦अ॒न्यत्¦एति॑¦अ॒भि¦अ॒न्यत्¦ए॒ति॒¦विषु॑रूपे॒ इति॒ विषु॑ऽरूपे¦अह॑नी॒ इति॑¦सम्¦च॒रे॒ते॒ इति॑ | |
स॒दृशी᳚र॒द्य स॒दृशी॒रिदु॒ श्वो दी॒र्घं स॑चन्ते॒ वरु॑णस्य॒ धाम॑ |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} अ॒न॒व॒द्यास्त्रिं॒शतं॒ योज॑ना॒न्येकै᳚का॒ क्रतुं॒ परि॑ यन्ति स॒द्यः ||{8/13}{1.123.8}{1.18.3.8}{2.1.5.3}{1393, 123, 1393} स॒ऽदृशीः᳚¦अ॒द्य¦स॒ऽदृशीः᳚¦इत्¦ऊँ॒ इति॑¦श्वः¦दी॒र्घम्¦स॒च॒न्ते॒¦वरु॑णस्य¦धाम॑ | |
जा॒न॒त्यह्नः॑ प्रथ॒मस्य॒ नाम॑ शु॒क्रा कृ॒ष्णाद॑जनिष्ट श्विती॒ची |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} ऋ॒तस्य॒ योषा॒ न मि॑नाति॒ धामाह॑रहर्निष्कृ॒तमा॒चर᳚न्ती ||{9/13}{1.123.9}{1.18.3.9}{2.1.5.4}{1394, 123, 1394} जा॒न॒ती¦अह्नः॑¦प्र॒थ॒मस्य॑¦नाम॑¦शु॒क्रा¦कृ॒ष्णात्¦अ॒ज॒नि॒ष्ट॒¦श्वि॒ती॒ची | |
क॒न्ये᳚व त॒न्वा॒३॑(आ॒) शाश॑दानाँ॒, एषि॑ देवि दे॒वमिय॑क्षमाणम् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} सं॒स्मय॑माना युव॒तिः पु॒रस्ता᳚दा॒विर्वक्षां᳚सि कृणुषे विभा॒ती ||{10/13}{1.123.10}{1.18.3.10}{2.1.5.5}{1395, 123, 1395} क॒न्या᳚ऽइव¦त॒न्वा᳚¦शाश॑दाना¦एषि॑¦दे॒वि॒¦दे॒वम्¦इय॑क्षमाणम् | |
सु॒सं॒का॒शा मा॒तृमृ॑ष्टेव॒ योषा॒विस्त॒न्वं᳚ कृणुषे दृ॒शे कम् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} भ॒द्रा त्वमु॑षो वित॒रं व्यु॑च्छ॒ न तत्ते᳚, अ॒न्या, उ॒षसो᳚ नशन्त ||{11/13}{1.123.11}{1.18.3.11}{2.1.6.1}{1396, 123, 1396} सु॒ऽस॒ङ्का॒शा¦मा॒तृमृ॑ष्टाऽइव¦योषा᳚¦आ॒विः¦त॒न्व᳚म्¦कृ॒णु॒षे॒¦दृ॒शे¦कम् | |
अश्वा᳚वती॒र्गोम॑तीर्वि॒श्ववा᳚रा॒ यत॑माना र॒श्मिभिः॒ सूर्य॑स्य |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} परा᳚ च॒ यन्ति॒ पुन॒रा च॑ यन्ति भ॒द्रा नाम॒ वह॑माना, उ॒षासः॑ ||{12/13}{1.123.12}{1.18.3.12}{2.1.6.2}{1397, 123, 1397} अश्व॑ऽवतीः¦गोऽम॑तीः¦वि॒श्वऽवा᳚राः¦यत॑मानाः¦र॒श्मिऽभिः॑¦सूर्य॑स्य | |
ऋ॒तस्य॑ र॒श्मिम॑नु॒यच्छ॑माना भ॒द्रम्भ॑द्रं॒ क्रतु॑म॒स्मासु॑ धेहि |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} उषो᳚ नो, अ॒द्य सु॒हवा॒ व्यु॑च्छा॒ऽस्मासु॒ रायो᳚ म॒घव॑त्सु च स्युः ||{13/13}{1.123.13}{1.18.3.13}{2.1.6.3}{1398, 123, 1398} ऋ॒तस्य॑¦र॒श्मिम्¦अ॒नु॒ऽयच्छ॑माना¦भ॒द्रम्ऽभ॑द्रम्¦क्रतु᳚म्¦अ॒स्मासु॑¦धे॒हि॒ | |
[124] उषा उच्छंतीति त्रयोदशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानुषास्त्रिष्टुप् | |
उ॒षा, उ॒च्छन्ती᳚ समिधा॒ने, अ॒ग्ना, उ॒द्यन्त्सूर्य॑ उर्वि॒या ज्योति॑रश्रेत् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} दे॒वो नो॒, अत्र॑ सवि॒ता न्वर्थं॒ प्रासा᳚वीद् द्वि॒पत् प्र चतु॑ष्पदि॒त्यै ||{1/13}{1.124.1}{1.18.4.1}{2.1.7.1}{1399, 124, 1399} उ॒षाः¦उ॒च्छन्ती᳚¦स॒म्ऽइ॒धा॒ने¦अ॒ग्नौ¦उ॒त्ऽयन्¦सूर्यः॑¦उ॒र्वि॒या¦ज्योतिः॑¦अ॒श्रे॒त् | |
अमि॑नती॒ दैव्या᳚नि व्र॒तानि॑ प्रमिन॒ती म॑नु॒ष्या᳚ यु॒गानि॑ |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} ई॒युषी᳚णामुप॒मा शश्व॑तीनामायती॒नां प्र॑थ॒मोषा व्य॑द्यौत् ||{2/13}{1.124.2}{1.18.4.2}{2.1.7.2}{1400, 124, 1400} अमि॑नती¦दैव्या᳚नि¦व्र॒तानि॑¦प्र॒ऽमि॒न॒ती¦म॒नु॒ष्या᳚¦यु॒गानि॑ | |
ए॒षा दि॒वो दु॑हि॒ताऽ प्रत्य॑दर्शि॒ ज्योति॒र्वसा᳚ना सम॒ना पु॒रस्ता᳚त् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} ऋ॒तस्य॒ पन्था॒मन्वे᳚ति सा॒धु प्र॑जान॒तीव॒ न दिशो᳚ मिनाति ||{3/13}{1.124.3}{1.18.4.3}{2.1.7.3}{1401, 124, 1401} ए॒षा¦दि॒वः¦दु॒हि॒ता¦प्रति॑¦अ॒द॒र्शि॒¦ज्योतिः॑¦वसा᳚ना¦स॒म॒ना¦पु॒रस्ता᳚त् | |
उपो᳚, अदर्शि शु॒न्ध्युवो॒ न वक्षो᳚ नो॒धा, इ॑वा॒विर॑कृत प्रि॒याणि॑ |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} अ॒द्म॒सन्न स॑स॒तो बो॒धय᳚न्ती शश्वत्त॒मागा॒त् पुन॑रे॒युषी᳚णाम् ||{4/13}{1.124.4}{1.18.4.4}{2.1.7.4}{1402, 124, 1402} उपो॒ इति॑¦अ॒द॒र्शि॒¦शु॒न्ध्युवः॑¦न¦वक्षः॑¦नो॒धाःऽइ᳚व¦आ॒विः¦अ॒कृ॒त॒¦प्रि॒याणि॑ | |
पूर्वे॒, अर्धे॒ रज॑सो, अ॒प्त्यस्य॒ गवां॒ जनि॑त्र्यकृत॒ प्र के॒तुम् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} व्यु॑ प्रथते वित॒रं वरी᳚य॒ ओभा पृ॒णन्ती᳚ पि॒त्रोरु॒पस्था᳚ ||{5/13}{1.124.5}{1.18.4.5}{2.1.7.5}{1403, 124, 1403} पूर्वे᳚¦अर्धे᳚¦रज॑सः¦अ॒प्त्यस्य॑¦गवा᳚म्¦जनि॑त्री¦अ॒कृ॒त॒¦प्र¦के॒तुम् | |
ए॒वेदे॒षा पु॑रु॒तमा᳚ दृ॒शे कं नाजा᳚मिं॒ न परि॑ वृणक्ति जा॒मिम् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} अ॒रे॒पसा᳚ त॒न्वा॒३॑(आ॒) शाश॑दाना॒ नार्भा॒दीष॑ते॒ न म॒हो वि॑भा॒ती ||{6/13}{1.124.6}{1.18.4.6}{2.1.8.1}{1404, 124, 1404} ए॒व¦इत्¦ए॒षा¦पु॒रु॒ऽतमा᳚¦दृ॒शे¦कम्¦न¦अजा᳚मिम्¦न¦परि॑¦वृ॒ण॒क्ति॒¦जा॒मिम् | |
अ॒भ्रा॒तेव॑ पुं॒स ए᳚ति प्रती॒ची ग॑र्ता॒रुगि॑व स॒नये॒ धना᳚नाम् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} जा॒येव॒ पत्य॑ उश॒ती सु॒वासा᳚, उ॒षा ह॒स्रेव॒ नि रि॑णीते॒, अप्सः॑ ||{7/13}{1.124.7}{1.18.4.7}{2.1.8.2}{1405, 124, 1405} अ॒भ्रा॒ताऽइ᳚व¦पुं॒सः¦ए॒ति॒¦प्र॒ती॒ची¦ग॒र्त॒ऽआ॒रुगि॑व¦स॒नये᳚¦धना᳚नाम् | |
स्वसा॒ स्वस्रे॒ ज्याय॑स्यै॒ योनि॑मारै॒गपै᳚त्यस्याः प्रति॒चक्ष्ये᳚व |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} व्यु॒च्छन्ती᳚ र॒श्मिभिः॒ सूर्य॑स्या॒ञ्ज्य᳚ङ्क्ते समन॒गा, इ॑व॒ व्राः ||{8/13}{1.124.8}{1.18.4.8}{2.1.8.3}{1406, 124, 1406} स्वसा᳚¦स्वस्रे᳚¦ज्याय॑स्यै¦योनि᳚म्¦अ॒रै॒क्¦अप॑¦ए॒ति॒¦अ॒स्याः॒¦प्र॒ति॒चक्ष्य॑ऽइव | |
आ॒सां पूर्वा᳚सा॒मह॑सु॒ स्वसॄ᳚णा॒मप॑रा॒ पूर्वा᳚म॒भ्ये᳚ति प॒श्चात् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} ताः प्र॑त्न॒वन्नव्य॑सीर्नू॒नम॒स्मे रे॒वदु॑च्छन्तु सु॒दिना᳚, उ॒षासः॑ ||{9/13}{1.124.9}{1.18.4.9}{2.1.8.4}{1407, 124, 1407} आ॒साम्¦पूर्वा᳚साम्¦अह॑ऽसु¦स्वसॄ᳚णाम्¦अप॑रा¦पूर्वा᳚म्¦अ॒भि¦ए॒ति॒¦प॒श्चात् | |
प्र बो᳚धयोषः पृण॒तो म॑घो॒न्यबु॑ध्यमानाः प॒णयः॑ ससन्तु |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} रे॒वदु॑च्छ म॒घव॑द्भ्यो मघोनि रे॒वत् स्तो॒त्रे सू᳚नृते जा॒रय᳚न्ती ||{10/13}{1.124.10}{1.18.4.10}{2.1.8.5}{1408, 124, 1408} प्र¦बो॒ध॒य॒¦उ॒षः॒¦पृ॒ण॒तः¦म॒घो॒नि॒¦अबु॑ध्यमानाः¦प॒णयः॑¦स॒स॒न्तु॒ | |
अवे॒यम॑श्वैद् युव॒तिः पु॒रस्ता᳚द् यु॒ङ्क्ते गवा᳚मरु॒णाना॒मनी᳚कम् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} वि नू॒नमु॑च्छा॒दस॑ति॒ प्र के॒तुर्गृ॒हंगृ॑ह॒मुप॑ तिष्ठाते, अ॒ग्निः ||{11/13}{1.124.11}{1.18.4.11}{2.1.9.1}{1409, 124, 1409} अव॑¦इ॒यम्¦अ॒श्वै॒त्¦यु॒व॒तिः¦पु॒रस्ता᳚त्¦यु॒ङ्क्ते¦गवा᳚म्¦अ॒रु॒णाना᳚म्¦अनी᳚कम् | |
उत् ते॒ वय॑श्चिद् वस॒तेर॑पप्त॒न् नर॑श्च॒ ये पि॑तु॒भाजो॒ व्यु॑ष्टौ |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} अ॒मा स॒ते व॑हसि॒ भूरि॑ वा॒ममुषो᳚ देवि दा॒शुषे॒ मर्त्या᳚य ||{12/13}{1.124.12}{1.18.4.12}{2.1.9.2}{1410, 124, 1410} उत्¦ते॒¦वयः॑¦चि॒त्¦व॒स॒तेः¦अ॒प॒प्त॒न्¦नरः॑¦च॒¦ये¦पि॒तु॒ऽभाजः॑¦वि।औ᳚ष्टौ | |
अस्तो᳚ढ्वं स्तोम्या॒ ब्रह्म॑णा॒ मेऽवी᳚वृधध्वमुश॒तीरु॑षासः |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} यु॒ष्माकं᳚ देवी॒रव॑सा सनेम सह॒स्रिणं᳚ च श॒तिनं᳚ च॒ वाज᳚म् ||{13/13}{1.124.13}{1.18.4.13}{2.1.9.3}{1411, 124, 1411} अस्तो᳚ढ्वम्¦स्तो॒म्याः॒¦ब्रह्म॑णा¦मे॒¦अवी᳚वृधध्वम्¦उ॒श॒तीः¦उ॒ष॒सः॒ | |
[125] प्रातारत्नमिति सप्तर्चस्य सूक्तस्य दैर्घतमसः कक्षीवान्त्स्वनयस्यदानस्तुतिस्त्रिष्टुप् चतुर्थीपंचम्यौजगत्यौ | (स्वनयनाम्नोराज्ञोदानस्तुतिरतःस्वनयोदेवता) | |
प्रा॒ता रत्नं᳚ प्रात॒रित्वा᳚ दधाति॒ तं चि॑कि॒त्वान् प्र॑ति॒गृह्या॒ नि ध॑त्ते |{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | त्रिष्टुप्} तेन॑ प्र॒जां व॒र्धय॑मान॒ आयू᳚ रा॒यस्पोषे᳚ण सचते सु॒वीरः॑ ||{1/7}{1.125.1}{1.18.5.1}{2.1.10.1}{1412, 125, 1412} प्रा॒तरिति॑¦रत्न᳚म्¦प्रा॒तः॒ऽइत्वा᳚¦द॒धा॒ति॒¦तम्¦चि॒कि॒त्वान्¦प्र॒ति॒ऽगृह्य॑¦नि¦ध॒त्ते॒ | |
सु॒गुर॑सत् सुहिर॒ण्यः स्वश्वो᳚ बृ॒हद॑स्मै॒ वय॒ इन्द्रो᳚ दधाति |{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | त्रिष्टुप्} यस्त्वा॒यन्तं॒ वसु॑ना ऽ प्रातरित्वो मु॒क्षीज॑येव॒ पदि॑मुत्सि॒नाति॑ ||{2/7}{1.125.2}{1.18.5.2}{2.1.10.2}{1413, 125, 1413} सु॒ऽगुः¦अ॒स॒त्¦सु॒ऽहि॒र॒ण्यः¦सु॒।आश्वः॑¦बृ॒हत्¦अ॒स्मै॒¦वयः॑¦इन्द्रः॑¦द॒धा॒ति॒ | |
आय॑म॒द्य सु॒कृतं᳚ प्रा॒तरि॒च्छन्नि॒ष्टेः पु॒त्रं वसु॑मता॒ रथे᳚न |{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | त्रिष्टुप्} अं॒शोः सु॒तं पा᳚यय मत्स॒रस्य॑ क्ष॒यद्वी᳚रं वर्धय सू॒नृता᳚भिः ||{3/7}{1.125.3}{1.18.5.3}{2.1.10.3}{1414, 125, 1414} आय᳚म्¦अ॒द्य¦सु॒ऽकृत᳚म्¦प्रा॒तः¦इ॒च्छन्¦इ॒ष्टेः¦पु॒त्रम्¦वसु॑ऽमता¦रथे᳚न | |
उप॑ क्षरन्ति॒ सिन्ध॑वो मयो॒भुव॑ ईजा॒नं च॑ य॒क्ष्यमा᳚णं च धे॒नवः॑ |{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | जगती} पृ॒णन्तं᳚ च॒ पपु॑रिं च श्रव॒स्यवो᳚ घृ॒तस्य॒ धारा॒, उप॑ यन्ति वि॒श्वतः॑ ||{4/7}{1.125.4}{1.18.5.4}{2.1.10.4}{1415, 125, 1415} उप॑¦क्ष॒र॒न्ति॒¦सिन्ध॑वः¦म॒यः॒ऽभुवः॑¦ई॒जा॒नम्¦च॒¦य॒क्ष्यमा᳚णम्¦च॒¦धे॒नवः॑ | |
नाक॑स्य पृ॒ष्ठे, अधि॑ तिष्ठति श्रि॒तो यः पृ॒णाति॒ स ह॑ दे॒वेषु॑ गच्छति |{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | जगती} तस्मा॒, आपो᳚ घृ॒तम॑र्षन्ति॒ सिन्ध॑व॒स्तस्मा᳚, इ॒यं दक्षि॑णा पिन्वते॒ सदा᳚ ||{5/7}{1.125.5}{1.18.5.5}{2.1.10.5}{1416, 125, 1416} नाक॑स्य¦पृ॒ष्ठे¦अधि॑¦ति॒ष्ठ॒ति॒¦श्रि॒तः¦यः¦पृ॒णाति॑¦सः¦ह॒¦दे॒वेषु॑¦ग॒च्छ॒ति॒ | |
दक्षि॑णावता॒मिदि॒मानि॑ चि॒त्रा दक्षि॑णावतां दि॒वि सूर्या᳚सः |{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | त्रिष्टुप्} दक्षि॑णावन्तो, अ॒मृतं᳚ भजन्ते॒ दक्षि॑णावन्तः॒ प्र ति॑रन्त॒ आयुः॑ ||{6/7}{1.125.6}{1.18.5.6}{2.1.10.6}{1417, 125, 1417} दक्षि॑णाऽवताम्¦इत्¦इ॒मानि॑¦चि॒त्रा¦दक्षि॑णाऽवताम्¦दि॒वि¦सूर्या᳚सः | |
मा पृ॒णन्तो॒ दुरि॑त॒मेन॒ आर॒न् मा जा᳚रिषुः सू॒रयः॑ सुव्र॒तासः॑ |{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | त्रिष्टुप्} अ॒न्यस्तेषां᳚ परि॒धिर॑स्तु॒ कश्चि॒दपृ॑णन्तम॒भि सं य᳚न्तु॒ शोकाः᳚ ||{7/7}{1.125.7}{1.18.5.7}{2.1.10.7}{1418, 125, 1418} मा¦पृ॒णन्तः॑¦दुःऽइ᳚तम्¦एनः॑¦आ¦अ॒र॒न्¦मा¦जा॒रि॒षुः॒¦सू॒रयः॑¦सु॒ऽव्र॒तासः॑ | |
[126] अमंदानिति सप्तर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानृषिः आगधितेत्यस्यभावयव्यऋषिः रोमशादेवता उपोपमइत्यस्यरोमशाऋषिकास्वनयोदेवतात्रिष्टुप् अंत्येद्वेअनुष्टुभौ | (स्वनयएवभावयव्यशब्देनोच्यते रोमशास्वनयभार्याअंत्येद्वेऋचौतयोः परस्परंसंवादः आद्याभिःपंचभिर्दानुतष्टः कक्षीवान्भावयव्यमस्तौत् ततश्चसएवदेवता) | |
अम᳚न्दा॒न् त्स्तोमा॒न् प्र भ॑रे मनी॒षा सिन्धा॒वधि॑ क्षिय॒तो भा॒व्यस्य॑ |{दैर्घतमसः कक्षीवान् | भावयव्यः | त्रिष्टुप्} यो मे᳚ स॒हस्र॒ममि॑मीत स॒वान॒तूर्तो॒ राजा॒ श्रव॑ इ॒च्छमा᳚नः ||{1/7}{1.126.1}{1.18.6.1}{2.1.11.1}{1419, 126, 1419} अम᳚न्दान्¦स्तोमा᳚न्¦प्र¦भ॒रे॒¦म॒नी॒षा¦सिन्धौ᳚¦अधि॑¦क्षि॒य॒तः¦भा॒व्यस्य॑ | |
श॒तं राज्ञो॒ नाध॑मानस्य नि॒ष्काञ् छ॒तमश्वा॒न् प्रय॑तान् त्स॒द्य आद᳚म् |{दैर्घतमसः कक्षीवान् | भावयव्यः | त्रिष्टुप्} श॒तं क॒क्षीवाँ॒, असु॑रस्य॒ गोनां᳚ दि॒वि श्रवो॒ऽजर॒मा त॑तान ||{2/7}{1.126.2}{1.18.6.2}{2.1.11.2}{1420, 126, 1420} श॒तम्¦राज्ञः॑¦नाध॑मानस्य¦नि॒ष्कान्¦श॒तम्¦अश्वा᳚न्¦प्रऽय॑तान्¦स॒द्यः¦आद᳚म् | |
उप॑ मा श्या॒वाः स्व॒नये᳚न द॒त्ता व॒धूम᳚न्तो॒ दश॒ रथा᳚सो, अस्थुः |{दैर्घतमसः कक्षीवान् | भावयव्यः | त्रिष्टुप्} ष॒ष्टिः स॒हस्र॒मनु॒ गव्य॒मागा॒त् सन॑त् क॒क्षीवाँ᳚, अभिपि॒त्वे, अह्ना᳚म् ||{3/7}{1.126.3}{1.18.6.3}{2.1.11.3}{1421, 126, 1421} उप॑¦मा॒¦श्या॒वाः¦स्व॒नये᳚न¦द॒त्ताः¦व॒धूऽम᳚न्तः¦दश॑¦रथा᳚सः¦अ॒स्थुः॒ | |
च॒त्वा॒रिं॒शद् दश॑रथस्य॒ शोणाः᳚ स॒हस्र॒स्याग्रे॒ श्रेणिं᳚ नयन्ति |{दैर्घतमसः कक्षीवान् | भावयव्यः | त्रिष्टुप्} म॒द॒च्युतः॑ कृश॒नाव॑तो॒, अत्या᳚न् क॒क्षीव᳚न्त॒ उद॑मृक्षन्त प॒ज्राः ||{4/7}{1.126.4}{1.18.6.4}{2.1.11.4}{1422, 126, 1422} च॒त्वा॒रिं॒शत्¦दश॑ऽरथस्य¦शोणाः᳚¦स॒हस्र॑स्य¦अग्रे᳚¦श्रेणि᳚म्¦न॒य॒न्ति॒ | |
पूर्वा॒मनु॒ प्रय॑ति॒मा द॑दे व॒स्त्रीन् यु॒क्ताँ, अ॒ष्टाव॒रिधा᳚यसो॒ गाः |{दैर्घतमसः कक्षीवान् | भावयव्यः | त्रिष्टुप्} सु॒बन्ध॑वो॒ ये वि॒श्या᳚, इव॒ व्रा, अन॑स्वन्तः॒ श्रव॒ ऐष᳚न्त प॒ज्राः ||{5/7}{1.126.5}{1.18.6.5}{2.1.11.5}{1423, 126, 1423} पूर्वा᳚म्¦अनु॑¦प्रऽय॑तिम्¦आ¦द॒दे॒¦वः॒¦त्रीन्¦यु॒क्तान्¦अ॒ष्टौ¦अ॒रिऽधा᳚यसः¦गाः | |
आग॑धिता॒ परि॑गधिता॒ या क॑शी॒केव॒ जङ्ग॑हे |{भावयव्यः | रोमशा | अनुष्टुप्} ददा᳚ति॒ मह्यं॒ यादु॑री॒ याशू᳚नां भो॒ज्या᳚ श॒ता ||{6/7}{1.126.6}{1.18.6.6}{2.1.11.6}{1424, 126, 1424} आऽग॑धिता¦परि॑ऽगधिता¦या¦क॒शी॒काऽइ᳚व¦जङ्ग॑हे | ददा᳚ति¦मह्य᳚म्¦यादु॑री¦याशू᳚नाम्¦भो॒ज्या᳚¦श॒ता || |
उपो᳚प मे॒ परा᳚ मृश॒ मा मे᳚ द॒भ्राणि॑ मन्यथाः |{रोमशा | स्वनयो | अनुष्टुप्} सर्वा॒हम॑स्मि रोम॒शा ग॒न्धारी᳚णामिवावि॒का ||{7/7}{1.126.7}{1.18.6.7}{2.1.11.7}{1425, 126, 1425} उप॑।औप¦मे॒¦परा᳚¦मृ॒श॒¦मा¦मे॒¦द॒भ्राणि॑¦म॒न्य॒थाः॒ | सर्वा᳚¦अ॒हम्¦अ॒स्मि॒¦रो॒म॒शा¦ग॒न्धारी᳚णाम्ऽइव¦अ॒वि॒का || |
[127] अग्निहोतारमित्येकादशर्चस्य सूक्तस्य दैवोदासिःपरुच्छेपोऽग्निरत्यष्टिः षष्ट्यतिधृतिः | |
अ॒ग्निं होता᳚रं मन्ये॒ दास्व᳚न्तं॒ वसुं᳚ सू॒नुं सह॑सो जा॒तवे᳚दसं॒ विप्रं॒ न जा॒तवे᳚दसम् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} य ऊ॒र्ध्वया᳚ स्वध्व॒रो दे॒वो दे॒वाच्या᳚ कृ॒पा |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} घृ॒तस्य॒ विभ्रा᳚ष्टि॒मनु॑ वष्टि शो॒चिषा॒ऽऽ जुह्वा᳚नस्य स॒र्पिषः॑ ||{1/11}{1.127.1}{1.19.1.1}{2.1.12.1}{1426, 127, 1426} अ॒ग्निम्¦होता᳚रम्¦म॒न्ये॒¦दास्व᳚न्तम्¦वसु᳚म्¦सू॒नुम्¦सह॑सः¦जा॒तऽवे᳚दसम्¦विप्र᳚म्¦न¦जा॒तऽवे᳚दसम् | |
यजि॑ष्ठं त्वा॒ यज॑माना हुवेम॒ ज्येष्ठ॒मङ्गि॑रसां विप्र॒ मन्म॑भि॒र्विप्रे᳚भिः शुक्र॒ मन्म॑भिः |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} परि॑ज्मानमिव॒ द्यां होता᳚रं चर्षणी॒नाम् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} शो॒चिष्के᳚शं॒ वृष॑णं॒ यमि॒मा विशः॒ प्राव᳚न्तु जू॒तये॒ विशः॑ ||{2/11}{1.127.2}{1.19.1.2}{2.1.12.2}{1427, 127, 1427} यजि॑ष्ठम्¦त्वा॒¦यज॑मानाः¦हु॒वे॒म॒¦ज्येष्ठ᳚म्¦अङ्गि॑रसाम्¦वि॒प्र॒¦मन्म॑ऽभिः¦विप्रे᳚भिः¦शु॒क्र॒¦मन्म॑ऽभिः | |
स हि पु॒रू चि॒दोज॑सा वि॒रुक्म॑ता॒ दीद्या᳚नो॒ भव॑ति द्रुहंत॒रः प॑र॒शुर्न द्रु॑हंत॒रः |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} वी॒ळु चि॒द्यस्य॒ समृ॑तौ॒ श्रुव॒द् वने᳚व॒ यत् स्थि॒रम् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} निः॒षह॑माणो यमते॒ नाय॑ते धन्वा॒सहा॒ नाय॑ते ||{3/11}{1.127.3}{1.19.1.3}{2.1.12.3}{1428, 127, 1428} सः¦हि¦पु॒रु¦चि॒त्¦ओज॑सा¦वि॒रुक्म॑ता¦दीद्या᳚नः¦भव॑ति¦द्रु॒ह॒म्ऽत॒रः¦प॒र॒शुः¦न¦द्रु॒ह॒म्ऽत॒रः | |
दृ॒ळ्हा चि॑दस्मा॒, अनु॑ दु॒र्यथा᳚ वि॒दे तेजि॑ष्ठाभिर॒रणि॑भिर्दा॒ष्ट्यव॑से॒ऽग्नये᳚ दा॒ष्ट्यव॑से |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} प्र यः पु॒रूणि॒ गाह॑ते॒ तक्ष॒द् वने᳚व शो॒चिषा᳚ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} स्थि॒रा चि॒दन्ना॒ नि रि॑णा॒त्योज॑सा॒ नि स्थि॒राणि॑ चि॒दोज॑सा ||{4/11}{1.127.4}{1.19.1.4}{2.1.12.4}{1429, 127, 1429} दृ॒ळ्हा¦चि॒त्¦अ॒स्मै॒¦अनु॑¦दुः॒¦यथा᳚¦वि॒दे¦तेजि॑ष्ठाभिः¦अ॒रणि॑ऽभिः¦दा॒ष्टि॒¦अव॑से¦अ॒ग्नये᳚¦दा॒ष्टि॒¦अव॑से | |
तम॑स्य पृ॒क्षमुप॑रासु धीमहि॒ नक्तं॒ यः सु॒दर्श॑तरो॒ दिवा᳚तरा॒दप्रा᳚युषे॒ दिवा᳚तरात् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} आद॒स्यायु॒र्ग्रभ॑णवद् वी॒ळु शर्म॒ न सू॒नवे᳚ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} भ॒क्तमभ॑क्त॒मवो॒ व्यन्तो᳚, अ॒जरा᳚, अ॒ग्नयो॒ व्यन्तो᳚, अ॒जराः᳚ ||{5/11}{1.127.5}{1.19.1.5}{2.1.12.5}{1430, 127, 1430} तम्¦अ॒स्य॒¦पृ॒क्षम्¦उप॑रासु¦धी॒म॒हि॒¦नक्त᳚म्¦यः¦सु॒दर्श॑ऽतरः¦दिवा᳚ऽतरात्¦अप्र॑ऽआयुषे¦दिवा᳚ऽतरात् | |
स हि शर्धो॒ न मारु॑तं तुवि॒ष्वणि॒रप्न॑स्वतीषू॒र्वरा᳚स्वि॒ष्टनि॒रार्त॑नास्वि॒ष्टनिः॑ |{दैवोदासिः परुच्छेपः | अग्निः | अतिधृतिः} आद॑द्ध॒व्यान्या᳚द॒दिर्य॒ज्ञस्य॑ के॒तुर॒र्हणा᳚ |{दैवोदासिः परुच्छेपः | अग्निः | अतिधृतिः} अध॑ स्मास्य॒ हर्ष॑तो॒ हृषी᳚वतो॒ विश्वे᳚ जुषन्त॒ पन्थां॒ नरः॑ शु॒भे न पन्था᳚म् ||{6/11}{1.127.6}{1.19.1.6}{2.1.13.1}{1431, 127, 1431} सः¦हि¦शर्धः॑¦न¦मारु॑तम्¦तु॒वि॒ऽस्वणिः॑¦अप्न॑स्वतीषु¦उ॒र्वरा᳚सु¦इ॒ष्टनिः॑¦आर्त॑नासु¦इ॒ष्टनिः॑ | |
द्वि॒ता यदीं᳚ की॒स्तासो᳚, अ॒भिद्य॑वो नम॒स्यन्त॑ उप॒वोच᳚न्त॒ भृग॑वो म॒थ्नन्तो᳚ दा॒शा भृग॑वः |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} अ॒ग्निरी᳚शे॒ वसू᳚नां॒ शुचि॒र्यो ध॒र्णिरे᳚षाम् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} प्रि॒याँ, अ॑पि॒धीँर्व॑निषीष्ट॒ मेधि॑र॒ आ व॑निषीष्ट॒ मेधि॑रः ||{7/11}{1.127.7}{1.19.1.7}{2.1.13.2}{1432, 127, 1432} द्वि॒ता¦यत्¦ई॒म्¦की॒स्तासः॑¦अ॒भिऽद्य॑वः¦न॒म॒स्यन्तः॑¦उ॒प॒ऽवोच᳚न्त¦भृग॑वः¦म॒थ्नन्तः॑¦दा॒शा¦भृग॑वः | |
विश्वा᳚सां त्वा वि॒शां पतिं᳚ हवामहे॒ सर्वा᳚सां समा॒नं दम्प॑तिं भु॒जे स॒त्यगि᳚र्वाहसं भु॒जे |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} अति॑थिं॒ मानु॑षाणां पि॒तुर्न यस्या᳚स॒या |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} अ॒मी च॒ विश्वे᳚, अ॒मृता᳚स॒ आ वयो᳚ ह॒व्या दे॒वेष्वा वयः॑ ||{8/11}{1.127.8}{1.19.1.8}{2.1.13.3}{1433, 127, 1433} विश्वा᳚साम्¦त्वा॒¦वि॒शाम्¦पति᳚म्¦ह॒वा॒म॒हे॒¦सर्वा᳚साम्¦स॒मा॒नम्¦दम्ऽप॑तिम्¦भु॒जे¦स॒त्यऽगि᳚र्वाहसम्¦भु॒जे | |
त्वम॑ग्ने॒ सह॑सा॒ सह᳚न्तमः शु॒ष्मिन्त॑मो जायसे दे॒वता᳚तये र॒यिर्न दे॒वता᳚तये |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} शु॒ष्मिन्त॑मो॒ हि ते॒ मदो᳚ द्यु॒म्निन्त॑म उ॒त क्रतुः॑ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} अध॑ स्मा ते॒ परि॑ चरन्त्यजर श्रुष्टी॒वानो॒ नाज॑र ||{9/11}{1.127.9}{1.19.1.9}{2.1.13.4}{1434, 127, 1434} त्वम्¦अ॒ग्ने॒¦सह॑सा¦सह॑न्ऽतमः¦शु॒ष्मिन्ऽत॑मः¦जा॒य॒से॒¦दे॒वऽता᳚तये¦र॒यिः¦न¦दे॒वऽता᳚तये | |
प्र वो᳚ म॒हे सह॑सा॒ सह॑स्वत उष॒र्बुधे᳚ पशु॒षे नाग्नये॒ स्तोमो᳚ बभूत्व॒ग्नये᳚ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} प्रति॒ यदीं᳚ ह॒विष्मा॒न् विश्वा᳚सु॒ क्षासु॒ जोगु॑वे |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} अग्रे᳚ रे॒भो न ज॑रत ऋषू॒णां जूर्णि॒र्होत॑ ऋषू॒णाम् ||{10/11}{1.127.10}{1.19.1.10}{2.1.13.5}{1435, 127, 1435} प्र¦वः॒¦म॒हे¦सह॑सा¦सह॑स्वते¦उ॒षः॒ऽबुधे᳚¦प॒शु॒ऽसे¦न¦अ॒ग्नये᳚¦स्तोमः॑¦ब॒भू॒तु॒¦अ॒ग्नये᳚ | |
स नो॒ नेदि॑ष्ठं॒ ददृ॑शान॒ आ भ॒राग्ने᳚ दे॒वेभिः॒ सच॑नाः सुचे॒तुना᳚ म॒हो रा॒यः सु॑चे॒तुना᳚ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} महि॑ शविष्ठ नस्कृधि सं॒चक्षे᳚ भु॒जे, अ॒स्यै |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} महि॑ स्तो॒तृभ्यो᳚ मघवन् त्सु॒वीर्यं॒ मथी᳚रु॒ग्रो न शव॑सा ||{11/11}{1.127.11}{1.19.1.11}{2.1.13.6}{1436, 127, 1436} सः¦नः॒¦नेदि॑ष्ठम्¦ददृ॑शानः¦आ¦भ॒र॒¦अग्ने᳚¦दे॒वेभिः॑¦सऽच॑नाः¦सु॒ऽचे॒तुना᳚¦म॒हः¦रा॒यः¦सु॒ऽचे॒तुना᳚ | |
[128] अयंजायतेत्यष्टर्चस्य सूक्तस्य दैवोदासिःपरुच्छेपोग्निरत्यष्टिः | |
अ॒यं जा᳚यत॒ मनु॑षो॒ धरी᳚मणि॒ होता॒ यजि॑ष्ठ उ॒शिजा॒मनु᳚ व्र॒तम॒ग्निः स्वमनु᳚ व्र॒तम् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} वि॒श्वश्रु॑ष्टिः सखीय॒ते र॒यिरि॑व श्रवस्य॒ते |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} अद॑ब्धो॒ होता॒ नि ष॑ददि॒ळस्प॒दे परि॑वीत इ॒ळस्प॒दे ||{1/8}{1.128.1}{1.19.2.1}{2.1.14.1}{1437, 128, 1437} अ॒यम्¦जा॒य॒त॒¦मनु॑षः¦धरी᳚मणि¦होता᳚¦यजि॑ष्ठः¦उ॒शिजा᳚म्¦अनु॑¦व्र॒तम्¦अ॒ग्निः¦स्वम्¦अनु॑¦व्र॒तम् | |
तं य॑ज्ञ॒साध॒मपि॑ वातयामस्यृ॒तस्य॑ प॒था नम॑सा ह॒विष्म॑ता दे॒वता᳚ता ह॒विष्म॑ता |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} स न॑ ऊ॒र्जामु॒पाभृ॑त्य॒या कृ॒पा न जू᳚र्यति |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} यं मा᳚त॒रिश्वा॒ मन॑वे परा॒वतो᳚ दे॒वं भाः प॑रा॒वतः॑ ||{2/8}{1.128.2}{1.19.2.2}{2.1.14.2}{1438, 128, 1438} तम्¦य॒ज्ञ॒ऽसाध᳚म्¦अपि॑¦वा॒त॒या॒म॒सि॒¦ऋ॒तस्य॑¦प॒था¦नम॑सा¦ह॒विष्म॑ता¦दे॒वऽता᳚ता¦ह॒विष्म॑ता | |
एवे᳚न स॒द्यः पर्ये᳚ति॒ पार्थि॑वं मुहु॒र्गी रेतो᳚ वृष॒भः कनि॑क्रद॒द् दध॒द्रेतः॒ कनि॑क्रदत् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} श॒तं चक्षा᳚णो, अ॒क्षभि॑र्दे॒वो वने᳚षु तु॒र्वणिः॑ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} सदो॒ दधा᳚न॒ उप॑रेषु॒ सानु॑ष्व॒ग्निः परे᳚षु॒ सानु॑षु ||{3/8}{1.128.3}{1.19.2.3}{2.1.14.3}{1439, 128, 1439} एवे᳚न¦स॒द्यः¦परि॑¦ए॒ति॒¦पार्थि॑वम्¦मु॒हुः॒ऽगीः¦रेतः॑¦वृ॒ष॒भः¦कनि॑क्रदत्¦दध॑त्¦रेतः॑¦कनि॑क्रदत् | |
स सु॒क्रतुः॑ पु॒रोहि॑तो॒ दमे᳚दमे॒ऽग्निर्य॒ज्ञस्या᳚ध्व॒रस्य॑ चेतति॒ क्रत्वा᳚ य॒ज्ञस्य॑ चेतति |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} क्रत्वा᳚ वे॒धा, इ॑षूय॒ते विश्वा᳚ जा॒तानि॑ पस्पशे |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} यतो᳚ घृत॒श्रीरति॑थि॒रजा᳚यत॒ वह्नि᳚र्वे॒धा, अजा᳚यत ||{4/8}{1.128.4}{1.19.2.4}{2.1.14.4}{1440, 128, 1440} सः¦सु॒ऽक्रतुः॑¦पु॒रःऽहि॑तः¦दमे᳚ऽदमे¦अ॒ग्निः¦य॒ज्ञस्य॑¦अ॒ध्व॒रस्य॑¦चे॒त॒ति॒¦क्रत्वा᳚¦य॒ज्ञस्य॑¦चे॒त॒ति॒ | |
क्रत्वा॒ यद॑स्य॒ तवि॑षीषु पृ॒ञ्चते॒ऽग्नेरवे᳚ण म॒रुतां॒ न भो॒ज्ये᳚षि॒राय॒ न भो॒ज्या᳚ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} स हि ष्मा॒ दान॒मिन्व॑ति॒ वसू᳚नां च म॒ज्मना᳚ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} स न॑स्त्रासते दुरि॒ताद॑भि॒ह्रुतः॒ शंसा᳚द॒घाद॑भि॒ह्रुतः॑ ||{5/8}{1.128.5}{1.19.2.5}{2.1.14.5}{1441, 128, 1441} क्रत्वा᳚¦यत्¦अ॒स्य॒¦तवि॑षीषु¦पृं॒चते᳚¦अ॒ग्नेः¦अवे᳚न¦म॒रुता᳚म्¦न¦भो॒ज्या᳚¦इ॒षि॒राय॑¦न¦भो॒ज्या᳚ | |
विश्वो॒ विहा᳚या, अर॒तिर्वसु॑र्दधे॒ हस्ते॒ दक्षि॑णे त॒रणि॒र्न शि॑श्रथच्छ्रव॒स्यया॒ न शि॑श्रथत् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} विश्व॑स्मा॒, इदि॑षुध्य॒ते दे᳚व॒त्रा ह॒व्यमोहि॑षे |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} विश्व॑स्मा॒, इत् सु॒कृते॒ वार॑मृण्वत्य॒ग्निर्द्वारा॒ व्यृ᳚ण्वति ||{6/8}{1.128.6}{1.19.2.6}{2.1.15.1}{1442, 128, 1442} विश्वः॑¦विऽहा᳚याः¦अ॒र॒तिः¦वसुः॑¦द॒धे॒¦हस्ते᳚¦दक्षि॑णे¦त॒रणिः॑¦न¦शि॒श्र॒थ॒त्¦श्र॒व॒स्यया᳚¦न¦शि॒श्र॒थ॒त् | |
स मानु॑षे वृ॒जने॒ शंत॑मो हि॒तो॒३॑(ओ॒)ऽग्निर्य॒ज्ञेषु॒ जेन्यो॒ न वि॒श्पतिः॑ प्रि॒यो य॒ज्ञेषु॑ वि॒श्पतिः॑ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} स ह॒व्या मानु॑षाणामि॒ळा कृ॒तानि॑ पत्यते |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} स न॑स्त्रासते॒ वरु॑णस्य धू॒र्तेर्म॒हो दे॒वस्य॑ धू॒र्तेः ||{7/8}{1.128.7}{1.19.2.7}{2.1.15.2}{1443, 128, 1443} सः¦मानु॑षे¦वृ॒जने᳚¦शम्ऽत॑मः¦हि॒तः¦अ॒ग्निः¦य॒ज्ञेषु॑¦जेन्यः॑¦न¦वि॒श्पतिः॑¦प्रि॒यः¦य॒ज्ञेषु॑¦वि॒श्पतिः॑ | |
अ॒ग्निं होता᳚रमीळते॒ वसु॑धितिं प्रि॒यं चेति॑ष्ठमर॒तिं न्ये᳚रिरे हव्य॒वाहं॒ न्ये᳚रिरे |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} वि॒श्वायुं᳚ वि॒श्ववे᳚दसं॒ होता᳚रं यज॒तं क॒विम् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} दे॒वासो᳚ र॒ण्वमव॑से वसू॒यवो᳚ गी॒र्भी र॒ण्वं व॑सू॒यवः॑ ||{8/8}{1.128.8}{1.19.2.8}{2.1.15.3}{1444, 128, 1444} अ॒ग्निम्¦होता᳚रम्¦ई॒ळ॒ते॒¦वसु॑ऽधितिम्¦प्रि॒यम्¦चेति॑ष्ठम्¦अ॒र॒तिम्¦नि¦ए॒रि॒रे॒¦ह॒व्य॒ऽवाह᳚म्¦नि¦ए॒रि॒रे॒ | |
[129] यंत्वंरथमित्येकादशर्चस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्रः षष्ट्याइंदुरत्यष्टिः अष्टमीनवम्यावतिशक्वर्यावेकादश्यष्टिः | |
यं त्वं रथ॑मिन्द्र मे॒धसा᳚तयेऽपा॒का सन्त॑मिषिर प्र॒णय॑सि॒ प्रान॑वद्य॒ नय॑सि |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} स॒द्यश्चि॒त्तम॒भिष्ट॑ये॒ करो॒ वश॑श्च वा॒जिन᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} सास्माक॑मनवद्य तूतुजान वे॒धसा᳚मि॒मां वाचं॒ न वे॒धसा᳚म् ||{1/11}{1.129.1}{1.19.3.1}{2.1.16.1}{1445, 129, 1445} यम्¦त्वम्¦रथ᳚म्¦इ॒न्द्र॒¦मे॒धऽसा᳚तये¦अ॒पा॒का¦सन्त᳚म्¦इ॒षि॒र॒¦प्र॒ऽनय॑सि¦प्र¦अ॒न॒व॒द्य॒¦नय॑सि | |
स श्रु॑धि॒ यः स्मा॒ पृत॑नासु॒ कासु॑ चिद् द॒क्षाय्य॑ इन्द्र॒ भर॑हूतये॒ नृभि॒रसि॒ प्रतू᳚र्तये॒ नृभिः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} यः शूरैः॒ स्व१॑(अः॒) सनि॑ता॒ यो विप्रै॒र्वाजं॒ तरु॑ता |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} तमी᳚शा॒नास॑ इरधन्त वा॒जिनं᳚ पृ॒क्षमत्यं॒ न वा॒जिन᳚म् ||{2/11}{1.129.2}{1.19.3.2}{2.1.16.2}{1446, 129, 1446} सः¦श्रु॒धि॒¦यः¦स्म॒¦पृत॑नासु¦कासु॑¦चि॒त्¦द॒क्षाय्यः॑¦इ॒न्द्र॒¦भर॑ऽहूतये¦नृऽभिः॑¦अ॒सि॒¦प्रऽतू᳚र्तये¦नृऽभिः॑ | |
द॒स्मो हि ष्मा॒ वृष॑णं॒ पिन्व॑सि॒ त्वचं॒ कं चि॑द्यावीर॒ररुं᳚ शूर॒ मर्त्यं᳚ परिवृ॒णक्षि॒ मर्त्य᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} इन्द्रो॒त तुभ्यं॒ तद्दि॒वे तद्रु॒द्राय॒ स्वय॑शसे |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} मि॒त्राय॑ वोचं॒ वरु॑णाय स॒प्रथः॑ सुमृळी॒काय॑ स॒प्रथः॑ ||{3/11}{1.129.3}{1.19.3.3}{2.1.16.3}{1447, 129, 1447} द॒स्मः¦हि¦स्म॒¦वृष॑णम्¦पिन्व॑सि¦त्वच᳚म्¦कम्¦चि॒त्¦या॒वीः॒¦अ॒ररु᳚म्¦शू॒र॒¦मर्त्य᳚म्¦प॒रि॒ऽवृ॒णक्षि॑¦मर्त्य᳚म् | |
अ॒स्माकं᳚ व॒ इन्द्र॑मुश्मसी॒ष्टये॒ सखा᳚यं वि॒श्वायुं᳚ प्रा॒सहं॒ युजं॒ वाजे᳚षु प्रा॒सहं॒ युज᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} अ॒स्माकं॒ ब्रह्मो॒तयेऽवा᳚ पृ॒त्सुषु॒ कासु॑ चित् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} न॒हि त्वा॒ शत्रुः॒ स्तर॑ते स्तृ॒णोषि॒ यं विश्वं॒ शत्रुं᳚ स्तृ॒णोषि॒ यम् ||{4/11}{1.129.4}{1.19.3.4}{2.1.16.4}{1448, 129, 1448} अ॒स्माक᳚म्¦वः॒¦इन्द्र᳚म्¦उ॒श्म॒सि॒¦इ॒ष्टये᳚¦सखा᳚य¦वि॒श्वऽआ᳚युम्¦प्र॒ऽसह᳚म्¦युज᳚म्¦वाजे᳚षु¦प्र॒ऽसह᳚म्¦युज᳚म् | |
नि षू न॒माति॑मतिं॒ कय॑स्य चि॒त् तेजि॑ष्ठाभिर॒रणि॑भि॒र्नोतिभि॑रु॒ग्राभि॑रुग्रो॒तिभिः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} नेषि॑ णो॒ यथा᳚ पु॒राने॒नाः शू᳚र॒ मन्य॑से |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} विश्वा᳚नि पू॒रोरप॑ पर्षि॒ वह्नि॑रा॒सा वह्नि᳚र्नो॒, अच्छ॑ ||{5/11}{1.129.5}{1.19.3.5}{2.1.16.5}{1449, 129, 1449} नि¦सु¦न॒म॒¦अति॑ऽमतिम्¦कय॑स्य¦चि॒त्¦तेजि॑ष्ठाभिः¦अ॒रणि॑ऽभिः¦न¦ऊ॒तिऽभिः॑¦उ॒ग्राभिः॑¦उ॒ग्र॒¦ऊ॒तिऽभिः॑ | |
प्र तद् वो᳚चेयं॒ भव्या॒येन्द॑वे॒ हव्यो॒ न य इ॒षवा॒न् मन्म॒ रेज॑ति रक्षो॒हा मन्म॒ रेज॑ति |{दैवोदासिः परुच्छेपः | इन्दुः | अत्यष्टिः} स्व॒यं सो, अ॒स्मदा नि॒दो व॒धैर॑जेत दुर्म॒तिम् |{दैवोदासिः परुच्छेपः | इन्दुः | अत्यष्टिः} अव॑ स्रवेद॒घशं᳚सोऽवत॒रमव॑ क्षु॒द्रमि॑व स्रवेत् ||{6/11}{1.129.6}{1.19.3.6}{2.1.17.1}{1450, 129, 1450} प्र¦तत्¦वो॒चे॒य॒म्¦भव्या᳚य¦इन्द॑वे¦हव्यः॑¦न¦यः¦इ॒षऽवा᳚न्¦मन्म॑¦रेज॑ति¦र॒क्षः॒ऽहा¦मन्म॑¦रेज॑ति | |
व॒नेम॒ तद्धोत्र॑या चि॒तन्त्या᳚ व॒नेम॑ र॒यिं र॑यिवः सु॒वीर्यं᳚ र॒ण्वं सन्तं᳚ सु॒वीर्य᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} दु॒र्मन्मा᳚नं सु॒मन्तु॑भि॒रेमि॒षा पृ॑चीमहि |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} आ स॒त्याभि॒रिन्द्रं᳚ द्यु॒म्नहू᳚तिभि॒र्यज॑त्रं द्यु॒म्नहू᳚तिभिः ||{7/11}{1.129.7}{1.19.3.7}{2.1.17.2}{1451, 129, 1451} व॒नेम॑¦तत्¦होत्र॑या¦चि॒तन्त्या᳚¦व॒नेम॑¦र॒यिम्¦र॒यि॒ऽवः॒¦सु॒ऽवीर्य᳚म्¦र॒ण्वम्¦सन्त᳚म्¦सु॒ऽवीर्य᳚म् | |
प्रप्रा᳚ वो, अ॒स्मे स्वय॑शोभिरू॒ती प॑रिव॒र्ग इन्द्रो᳚ दुर्मती॒नां दरी᳚मन् दुर्मती॒नाम् |{दैवोदासिः परुच्छेपः | इन्द्रः | अतिशक्वरी} स्व॒यं सा रि॑ष॒यध्यै॒ या न॑ उपे॒षे, अ॒त्रैः |{दैवोदासिः परुच्छेपः | इन्द्रः | अतिशक्वरी} ह॒तेम॑स॒न्न व॑क्षति क्षि॒प्ता जू॒र्णिर्न व॑क्षति ||{8/11}{1.129.8}{1.19.3.8}{2.1.17.3}{1452, 129, 1452} प्रऽप्र॑¦वः॒¦अ॒स्मे इति॑¦स्वय॑शःऽभिः¦ऊ॒ती¦प॒रि॒ऽव॒र्गे¦इन्द्रः॑¦दुः॒ऽम॒ती॒नाम्¦दरी᳚मन्¦दुः॒ऽम॒ती॒नाम् | |
त्वं न॑ इन्द्र रा॒या परी᳚णसा या॒हि प॒थाँ, अ॑ने॒हसा᳚ पु॒रो या᳚ह्यर॒क्षसा᳚ |{दैवोदासिः परुच्छेपः | इन्द्रः | अतिशक्वरी} सच॑स्व नः परा॒क आ सच॑स्वास्तमी॒क आ |{दैवोदासिः परुच्छेपः | इन्द्रः | अतिशक्वरी} पा॒हि नो᳚ दू॒रादा॒राद॒भिष्टि॑भिः॒ सदा᳚ पाह्य॒भिष्टि॑भिः ||{9/11}{1.129.9}{1.19.3.9}{2.1.17.4}{1453, 129, 1453} त्वम्¦नः॒¦इ॒न्द्र॒¦रा॒या¦परी᳚णसा¦या॒हि¦प॒था¦अ॒ने॒हसा᳚¦पु॒रः¦या॒हि¦अ॒र॒क्षसा᳚ | |
त्वं न॑ इन्द्र रा॒या तरू᳚षसो॒ऽग्रं चि॑त् त्वा महि॒मा स॑क्ष॒दव॑से म॒हे मि॒त्रं नाव॑से |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} ओजि॑ष्ठ॒ त्रात॒रवि॑ता॒ रथं॒ कं चि॑दमर्त्य |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} अ॒न्यम॒स्मद् रि॑रिषेः॒ कं चि॑दद्रिवो॒ रिरि॑क्षन्तं चिदद्रिवः ||{10/11}{1.129.10}{1.19.3.10}{2.1.17.5}{1454, 129, 1454} त्वम्¦नः॒¦इ॒न्द्र॒¦रा॒या¦तरु॑षसा¦उ॒ग्रम्¦चि॒त्¦त्वा॒¦म॒हि॒मा¦स॒क्ष॒त्¦अव॑से¦म॒हे¦मि॒त्रम्¦न¦अव॑से | |
पा॒हि न॑ इन्द्र सुष्टुत स्रि॒धो᳚ऽवया॒ता सद॒मिद्दु᳚र्मती॒नां दे॒वः सन् दु᳚र्मती॒नाम् |{दैवोदासिः परुच्छेपः | इन्द्रः | अष्टिः} ह॒न्ता पा॒पस्य॑ र॒क्षस॑स्त्रा॒ता विप्र॑स्य॒ माव॑तः |{दैवोदासिः परुच्छेपः | इन्द्रः | अष्टिः} अधा॒ हि त्वा᳚ जनि॒ता जीज॑नद् वसो रक्षो॒हणं᳚ त्वा॒ जीज॑नद् वसो ||{11/11}{1.129.11}{1.19.3.11}{2.1.17.6}{1455, 129, 1455} पा॒हि¦नः॒¦इ॒न्द्र॒¦सु॒ऽस्तु॒त॒¦स्रि॒धः¦अ॒व॒ऽया॒ता¦सद᳚म्¦इत्¦दुः॒ऽम॒ती॒नाम्¦दे॒वः¦सन्¦दुः॒ऽम॒ती॒नाम् | |
[130] एंद्रयाहीतिदशर्चस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्रोत्यष्टिरंत्यात्रिष्टुप् | (अष्टिरित्येवप्रयोगः साधुः)| |
एन्द्र॑ या॒ह्युप॑ नः परा॒वतो॒ नायमच्छा᳚ वि॒दथा᳚नीव॒ सत्प॑ति॒रस्तं॒ राजे᳚व॒ सत्प॑तिः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} हवा᳚महे त्वा व॒यं प्रय॑स्वन्तः सु॒ते सचा᳚ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} पु॒त्रासो॒ न पि॒तरं॒ वाज॑सातये॒ मंहि॑ष्ठं॒ वाज॑सातये ||{1/10}{1.130.1}{1.19.4.1}{2.1.18.1}{1456, 130, 1456} आ¦इ॒न्द्र॒¦या॒हि॒¦उप॑¦नः॒¦प॒रा॒ऽवतः॑¦न¦अ॒यम्¦अच्छ॑¦वि॒दथा᳚निऽइव¦सत्ऽप॑तिः¦अस्त᳚म्¦राजा᳚ऽइव¦सत्ऽप॑तिः | |
पिबा॒ सोम॑मिन्द्र सुवा॒नमद्रि॑भिः॒ कोशे᳚न सि॒क्तम॑व॒तं न वंस॑गस्तातृषा॒णो न वंस॑गः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} मदा᳚य हर्य॒ताय॑ ते तु॒विष्ट॑माय॒ धाय॑से |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} आ त्वा᳚ यच्छन्तु ह॒रितो॒ न सूर्य॒महा॒ विश्वे᳚व॒ सूर्य᳚म् ||{2/10}{1.130.2}{1.19.4.2}{2.1.18.2}{1457, 130, 1457} पिब॑¦सोम᳚म्¦इ॒न्द्र॒¦सु॒वा॒नम्¦अद्रि॑ऽभिः¦कोशे᳚न¦सि॒क्तम्¦अ॒व॒तम्¦न¦वंस॑गः¦त॒तृ॒षा॒णः¦न¦वंस॑गः | |
अवि᳚न्दद्दि॒वो निहि॑तं॒ गुहा᳚ नि॒धिं वेर्न गर्भं॒ परि॑वीत॒मश्म᳚न्यन॒न्ते, अ॒न्तरश्म॑नि |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} व्र॒जं व॒ज्री गवा᳚मिव॒ सिषा᳚स॒न्नङ्गि॑रस्तमः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} अपा᳚वृणो॒दिष॒ इन्द्रः॒ परी᳚वृता॒ द्वार॒ इषः॒ परी᳚वृताः ||{3/10}{1.130.3}{1.19.4.3}{2.1.18.3}{1458, 130, 1458} अवि᳚न्दत्¦दि॒वः¦निऽहि॑तम्¦गुहा᳚¦नि॒ऽधिम्¦वेः¦न¦गर्भ᳚म्¦परि॑ऽवीतम्¦अश्म॑नि¦अ॒न॒न्ते¦अ॒न्तः¦अश्म॑नि | |
दा॒दृ॒हा॒णो वज्र॒मिन्द्रो॒ गभ॑स्त्योः॒, क्षद्मे᳚व ति॒ग्ममस॑नाय॒ सं श्य॑दहि॒हत्या᳚य॒ सं श्य॑त् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} सं॒वि॒व्या॒न ओज॑सा॒ शवो᳚भिरिन्द्र म॒ज्मना᳚ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} तष्टे᳚व वृ॒क्षं व॒निनो॒ नि वृ॑श्चसि पर॒श्वेव॒ नि वृ॑श्चसि ||{4/10}{1.130.4}{1.19.4.4}{2.1.18.4}{1459, 130, 1459} दा॒दृ॒हा॒णः¦वज्र᳚म्¦इन्द्रः॑¦गभ॑स्त्योः¦क्षद्म॑ऽइव¦ति॒ग्मम्¦अस॑नाय¦सम्¦श्य॒त्¦अ॒हि॒ऽहत्या᳚य¦सम्¦श्य॒त् | |
त्वं वृथा᳚ न॒द्य॑ इन्द्र॒ सर्त॒वेऽच्छा᳚ समु॒द्रम॑सृजो॒ रथाँ᳚, इव वाजय॒तो रथाँ᳚, इव |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} इ॒त ऊ॒तीर॑युञ्जत समा॒नमर्थ॒मक्षि॑तम् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} धे॒नूरि॑व॒ मन॑वे वि॒श्वदो᳚हसो॒ जना᳚य वि॒श्वदो᳚हसः ||{5/10}{1.130.5}{1.19.4.5}{2.1.18.5}{1460, 130, 1460} त्वम्¦वृथा᳚¦न॒द्यः॑¦इ॒न्द्र॒¦सर्त॑वे¦अच्छ॑¦स॒मु॒द्रम्¦अ॒सृ॒जः॒¦रथा᳚न्ऽइव¦वा॒ज॒ऽय॒तः¦रथा᳚न्ऽइव | |
इ॒मां ते॒ वाचं᳚ वसू॒यन्त॑ आ॒यवो॒ रथं॒ न धीरः॒ स्वपा᳚, अतक्षिषुः सु॒म्नाय॒ त्वाम॑तक्षिषुः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} शु॒म्भन्तो॒ जेन्यं᳚ यथा॒ वाजे᳚षु विप्र वा॒जिन᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} अत्य॑मिव॒ शव॑से सा॒तये॒ धना॒ विश्वा॒ धना᳚नि सा॒तये᳚ ||{6/10}{1.130.6}{1.19.4.6}{2.1.19.1}{1461, 130, 1461} इ॒माम्¦ते॒¦वाच᳚म्¦व॒सु॒ऽयन्तः॑¦आ॒यवः॑¦रथ᳚म्¦न¦धीरः॑¦सु॒।आपाः᳚¦अ॒त॒क्षि॒षुः॒¦सु॒म्नाय॑¦त्वाम्¦अ॒त॒क्षि॒षुः॒ | |
भि॒नत् पुरो᳚ नव॒तिमि᳚न्द्र पू॒रवे॒ दिवो᳚दासाय॒ महि॑ दा॒शुषे᳚ नृतो॒ वज्रे᳚ण दा॒शुषे᳚ नृतो |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} अ॒ति॒थि॒ग्वाय॒ शम्ब॑रं गि॒रेरु॒ग्रो, अवा᳚भरत् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} म॒हो धना᳚नि॒ दय॑मान॒ ओज॑सा॒ विश्वा॒ धना॒न्योज॑सा ||{7/10}{1.130.7}{1.19.4.7}{2.1.19.2}{1462, 130, 1462} भि॒नत्¦पुरः॑¦न॒व॒तिम्¦इ॒न्द्र॒¦पू॒रवे᳚¦दिवः॑ऽदासाय¦महि॑¦दा॒शुषे᳚¦नृ॒तो॒ इति॑¦वज्रे᳚ण¦दा॒शुषे᳚¦नृ॒तो॒ इति॑ | |
इन्द्रः॑ स॒मत्सु॒ यज॑मान॒मार्यं॒ प्राव॒द् विश्वे᳚षु श॒तमू᳚तिरा॒जिषु॒ स्व᳚र्मीळ्हेष्वा॒जिषु॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} मन॑वे॒ शास॑दव्र॒तान् त्वचं᳚ कृ॒ष्णाम॑रन्धयत् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} दक्ष॒न्न विश्वं᳚ ततृषा॒णमो᳚षति॒ न्य॑र्शसा॒नमो᳚षति ||{8/10}{1.130.8}{1.19.4.8}{2.1.19.3}{1463, 130, 1463} इन्द्रः॑¦स॒मत्ऽसु॑¦यज॑मानम्¦आर्य᳚म्¦प्र¦आ॒व॒त्¦विश्वे᳚षु¦श॒तम्ऽऊ᳚तिः¦आ॒जिषु॑¦स्वः॑ऽमीळ्हेषु¦आ॒जिषु॑ | |
सूर॑श्च॒क्रं प्र वृ॑हज्जा॒त ओज॑सा ऽप्रपि॒त्वे वाच॑मरु॒णो मु॑षायतीशा॒न आ मु॑षायति |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} उ॒शना॒ यत् प॑रा॒वतोऽज॑गन्नू॒तये᳚ कवे |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} सु॒म्नानि॒ विश्वा॒ मनु॑षेव तु॒र्वणि॒रहा॒ विश्वे᳚व तु॒र्वणिः॑ ||{9/10}{1.130.9}{1.19.4.9}{2.1.19.4}{1464, 130, 1464} सूरः॑¦च॒क्रम्¦प्र¦वृ॒ह॒त्¦जा॒तः¦ओज॑सा¦प्र॒ऽपि॒त्वे¦वाच᳚म्¦अ॒रु॒णः¦मु॒षा॒य॒ति॒¦ई॒शा॒नः¦आ¦मु॒षा॒य॒ति॒ | |
स नो॒ नव्ये᳚भिर्वृषकर्मन्नु॒क्थैः पुरां᳚ दर्तः पा॒युभिः॑ पाहि श॒ग्मैः |{दैवोदासिः परुच्छेपः | इन्द्रः | त्रिष्टुप्} दि॒वो॒दा॒सेभि॑रिन्द्र॒ स्तवा᳚नो वावृधी॒था, अहो᳚भिरिव॒ द्यौः ||{10/10}{1.130.10}{1.19.4.10}{2.1.19.5}{1465, 130, 1465} सः¦नः॒¦नव्ये᳚भिः¦वृ॒ष॒ऽक॒र्म॒न्¦उ॒क्थैः¦पुरा᳚म्¦द॒र्त॒रिति॑ दर्तः¦पा॒युऽभिः॑¦पा॒हि॒¦श॒ग्मैः | |
[131] इंद्रायहीति सप्तर्चस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्रोत्यष्टिः | |
इन्द्रा᳚य॒ हि द्यौरसु॑रो॒, अन᳚म्न॒तेन्द्रा᳚य म॒ही पृ॑थि॒वी वरी᳚मभिर्द्यु॒म्नसा᳚ता॒ वरी᳚मभिः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} इन्द्रं॒ विश्वे᳚ स॒जोष॑सो दे॒वासो᳚ दधिरे पु॒रः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} इन्द्रा᳚य॒ विश्वा॒ सव॑नानि॒ मानु॑षा रा॒तानि॑ सन्तु॒ मानु॑षा ||{1/7}{1.131.1}{1.19.5.1}{2.1.20.1}{1466, 131, 1466} इन्द्रा᳚य¦हि¦द्यौः¦असु॑रः¦अन᳚म्नत¦इन्द्रा᳚य¦म॒ही¦पृ॒थि॒वी¦वरी᳚मऽभिः¦द्यु॒म्नऽसा᳚ता¦वरी᳚मऽभिः | |
विश्वे᳚षु॒ हि त्वा॒ सव॑नेषु तु॒ञ्जते᳚ समा॒नमेकं॒ वृष॑मण्यवः॒ पृथ॒क् स्वः॑ सनि॒ष्यवः॒ पृथ॑क् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} तं त्वा॒ नावं॒ न प॒र्षणिं᳚ शू॒षस्य॑ धु॒रि धी᳚महि |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} इन्द्रं॒ न य॒ज्ञैश्चि॒तय᳚न्त आ॒यवः॒ स्तोमे᳚भि॒रिन्द्र॑मा॒यवः॑ ||{2/7}{1.131.2}{1.19.5.2}{2.1.20.2}{1467, 131, 1467} विश्वे᳚षु¦हि¦त्वा॒¦सव॑नेषु¦तुं॒जते᳚¦स॒मा॒नम्¦एक᳚म्¦वृष॑ऽमन्यवः¦पृथ॑क्¦स्व१॒॑रिति॒ स्वः॑¦स॒नि॒ष्यवः॑¦पृथ॑क् | |
वि त्वा᳚ ततस्रे मिथु॒ना, अ॑व॒स्यवो᳚ व्र॒जस्य॑ सा॒ता गव्य॑स्य निः॒सृजः॒ सक्ष᳚न्त इन्द्र निः॒सृजः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} यद् ग॒व्यन्ता॒ द्वा जना॒ स्व१॑(अ॒)र्यन्ता᳚ स॒मूह॑सि |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} आ॒विष्करि॑क्र॒द् वृष॑णं सचा॒भुवं॒ वज्र॑मिन्द्र सचा॒भुव᳚म् ||{3/7}{1.131.3}{1.19.5.3}{2.1.20.3}{1468, 131, 1468} वि¦त्वा॒¦त॒त॒स्रे॒¦मि॒थु॒नाः¦अ॒व॒स्यवः॑¦व्र॒जस्य॑¦सा॒ता¦गव्य॑स्य¦निः॒ऽसृजः॑¦सक्ष᳚न्तः¦इ॒न्द्र॒¦निः॒ऽसृजः॑ | |
वि॒दुष्टे᳚, अ॒स्य वी॒र्य॑स्य पू॒रवः॒ पुरो॒ यदि᳚न्द्र॒ शार॑दीर॒वाति॑रः सासहा॒नो, अ॒वाति॑रः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} शास॒स्तमि᳚न्द्र॒ मर्त्य॒मय॑ज्युं शवसस्पते |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} म॒हीम॑मुष्णाः पृथि॒वीमि॒मा, अ॒पो म᳚न्दसा॒न इ॒मा, अ॒पः ||{4/7}{1.131.4}{1.19.5.4}{2.1.20.4}{1469, 131, 1469} वि॒दुः¦ते॒¦अ॒स्य¦वी॒र्य॑स्य¦पू॒रवः॑¦पुरः॑¦यत्¦इ॒न्द्र॒¦शार॑दीः¦अ॒व॒।आति॑रः¦स॒स॒हा॒नः¦अ॒व॒।आति॑रः | |
आदित्ते᳚, अ॒स्य वी॒र्य॑स्य चर्किर॒न् मदे᳚षु वृषन्नु॒शिजो॒ यदावि॑थ सखीय॒तो यदावि॑थ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} च॒कर्थ॑ का॒रमे᳚भ्यः॒ पृत॑नासु॒ प्रव᳚न्तवे |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} ते, अ॒न्याम᳚न्यां न॒द्यं᳚ सनिष्णत श्रव॒स्यन्तः॑ सनिष्णत ||{5/7}{1.131.5}{1.19.5.5}{2.1.20.5}{1470, 131, 1470} आत्¦इत्¦ते॒¦अ॒स्य¦वी॒र्य॑स्य¦च॒र्कि॒र॒न्¦मदे᳚षु¦वृ॒ष॒न्¦उ॒शिजः॑¦यत्¦आवि॑थ¦स॒खि॒ऽय॒तः¦यत्¦आवि॑थ | |
उ॒तो नो᳚, अ॒स्या, उ॒षसो᳚ जु॒षेत॒ ह्य१॑(अ॒)र्कस्य॑ बोधि ह॒विषो॒ हवी᳚मभिः॒ स्व॑र्षाता॒ हवी᳚मभिः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} यदि᳚न्द्र॒ हन्त॑वे॒ मृधो॒ वृषा᳚ वज्रि॒ञ्चिके᳚तसि |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} आ मे᳚, अ॒स्य वे॒धसो॒ नवी᳚यसो॒ मन्म॑ श्रुधि॒ नवी᳚यसः ||{6/7}{1.131.6}{1.19.5.6}{2.1.20.6}{1471, 131, 1471} उ॒तो इति॑¦नः॒¦अ॒स्याः¦उ॒षसः॑¦जु॒षेत॑¦हि¦अ॒र्कस्य॑¦बो॒धि॒¦ह॒विषः॑¦हवी᳚मऽभिः¦स्वः॑ऽसाता¦हवी᳚मऽभिः | |
त्वं तमि᳚न्द्र वावृधा॒नो, अ॑स्म॒युर॑मित्र॒यन्तं᳚ तुविजात॒ मर्त्यं॒ वज्रे᳚ण शूर॒ मर्त्य᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} ज॒हि यो नो᳚, अघा॒यति॑ शृणु॒ष्व सु॒श्रव॑स्तमः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} रि॒ष्टं न याम॒न्नप॑ भूतु दुर्म॒तिर्विश्वाप॑ भूतु दुर्म॒तिः ||{7/7}{1.131.7}{1.19.5.7}{2.1.20.7}{1472, 131, 1472} त्वम्¦तम्¦इ॒न्द्र॒¦व॒वृ॒धा॒नः¦अ॒स्म॒ऽयुः¦अ॒मि॒त्र॒ऽयन्त᳚म्¦तु॒वि॒ऽजा॒त॒¦मर्त्य᳚म्¦वज्रे᳚ण¦शू॒र॒¦मर्त्य᳚म् | |
[132] त्वयावयमिति षडृचस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्रोयुवंतमिंद्रेत्यर्धचइंद्रापर्वतावत्यष्टिः |
त्वया᳚ व॒यं म॑घव॒न् पूर्व्ये॒ धन॒ इन्द्र॑त्वोताः सासह्याम पृतन्य॒तो व॑नु॒याम॑ वनुष्य॒तः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} नेदि॑ष्ठे, अ॒स्मिन्नह॒न्यधि॑ वोचा॒ नु सु᳚न्व॒ते |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} अ॒स्मिन् य॒ज्ञे वि च॑येमा॒ भरे᳚ कृ॒तं वा᳚ज॒यन्तो॒ भरे᳚ कृ॒तम् ||{1/6}{1.132.1}{1.19.6.1}{2.1.21.1}{1473, 132, 1473} त्वया᳚¦व॒यम्¦म॒घ॒ऽव॒न्¦पूर्व्ये᳚¦धने᳚¦इन्द्र॑त्वाऽऊताः¦स॒स॒ह्या॒म॒¦पृ॒त॒न्य॒तः¦व॒नु॒याम॑¦व॒नु॒ष्य॒तः | |
स्व॒र्जे॒षे भर॑ आ॒प्रस्य॒ वक्म᳚न्युष॒र्बुधः॒ स्वस्मि॒न्नञ्ज॑सि क्रा॒णस्य॒ स्वस्मि॒न्नञ्ज॑सि |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} अह॒न्निन्द्रो॒ यथा᳚ वि॒दे शी॒र्ष्णाशी᳚र्ष्णोप॒वाच्यः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} अ॒स्म॒त्रा ते᳚ स॒ध्र्य॑क् सन्तु रा॒तयो᳚ भ॒द्रा भ॒द्रस्य॑ रा॒तयः॑ ||{2/6}{1.132.2}{1.19.6.2}{2.1.21.2}{1474, 132, 1474} स्वः॒ऽजे॒षे¦भरे᳚¦आ॒प्रस्य॑¦वक्म॑नि¦उ॒षः॒ऽबुधः॑¦स्वस्मि॑न्¦अंज॑सि¦क्रा॒णस्य॑¦स्वस्मि॑न्¦अंज॑सि | |
तत्तु प्रयः॑ प्र॒त्नथा᳚ ते शुशुक्व॒नं यस्मि᳚न् य॒ज्ञे वार॒मकृ᳚ण्वत॒ क्षय॑मृ॒तस्य॒ वार॑सि॒ क्षय᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} वि तद्वो᳚चे॒रध॑ द्वि॒ताऽन्तः प॑श्यन्ति र॒श्मिभिः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} स घा᳚ विदे॒, अन्विन्द्रो᳚ ग॒वेष॑णो बन्धु॒क्षिद्भ्यो᳚ ग॒वेष॑णः ||{3/6}{1.132.3}{1.19.6.3}{2.1.21.3}{1475, 132, 1475} तत्¦तु¦प्रयः॑¦प्र॒त्नऽथा᳚¦ते॒¦शु॒शु॒क्व॒नम्¦यस्मि॑न्¦य॒ज्ञे¦वार᳚म्¦अकृ᳚ण्वत¦क्षय᳚म्¦ऋ॒तस्य॑¦वाः¦अ॒सि॒¦क्षय᳚म् | |
नू, इ॒त्था ते᳚ पू॒र्वथा᳚ च प्र॒वाच्यं॒ यदङ्गि॑रो॒भ्योऽवृ॑णो॒रप᳚ व्र॒जमिन्द्र॒ शिक्ष॒न्नप᳚ व्र॒जम् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} ऐभ्यः॑ समा॒न्या दि॒शाऽस्मभ्यं᳚ जेषि॒ योत्सि॑ च |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} सु॒न्वद्भ्यो᳚ रन्धया॒ कं चि॑दव्र॒तं हृ॑णा॒यन्तं᳚ चिदव्र॒तम् ||{4/6}{1.132.4}{1.19.6.4}{2.1.21.4}{1476, 132, 1476} नु¦इ॒त्था¦ते॒¦पू॒र्वऽथा᳚¦च॒¦प्र॒ऽवाच्य᳚म्¦यत्¦अङ्गि॑रःऽभ्यः¦अवृ॑णोः¦अप॑¦व्र॒जम्¦इन्द्र॑¦शिक्ष॑न्¦अप॑¦व्र॒जम् | |
सं यज्जना॒न् क्रतु॑भिः॒ शूर॑ ई॒क्षय॒द्धने᳚ हि॒ते त॑रुषन्त श्रव॒स्यवः॒ प्र य॑क्षन्त श्रव॒स्यवः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} तस्मा॒, आयुः॑ प्र॒जाव॒दिद् बाधे᳚, अर्च॒न्त्योज॑सा |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} इन्द्र॑ ओ॒क्यं᳚ दिधिषन्त धी॒तयो᳚ दे॒वाँ, अच्छा॒ न धी॒तयः॑ ||{5/6}{1.132.5}{1.19.6.5}{2.1.21.5}{1477, 132, 1477} सम्¦यत्¦जना᳚न्¦क्रतु॑ऽभिः¦शूरः॑¦ई॒क्षय॑त्¦धने᳚¦हि॒ते¦त॒रु॒ष॒न्त॒¦श्र॒व॒स्यवः॑¦प्र¦य॒क्ष॒न्त॒¦श्र॒व॒स्यवः॑ | |
यु॒वं तमि᳚न्द्रापर्वता पुरो॒युधा॒ यो नः॑ पृत॒न्यादप॒ तंत॒मिद्ध॑तं॒ वज्रे᳚ण॒ तंत॒मिद्ध॑तम् |{दैवोदासिः परुच्छेपः | १/२:इंद्रापर्वतौ २/२:इन्द्रः | अत्यष्टिः} दू॒रे च॒त्ताय॑ च्छन् त्स॒द् गह॑नं॒ यदिन॑क्षत् |{दैवोदासिः परुच्छेपः | १/२:इंद्रापर्वतौ २/२:इन्द्रः | अत्यष्टिः} अ॒स्माकं॒ शत्रू॒न् परि॑ शूर वि॒श्वतो᳚ द॒र्मा द॑र्षीष्ट वि॒श्वतः॑ ||{6/6}{1.132.6}{1.19.6.6}{2.1.21.6}{1478, 132, 1478} यु॒वम्¦तम्¦इ॒न्द्रा॒प॒र्व॒ता॒¦पु॒रः॒ऽयुधा᳚¦यः¦नः॒¦पृ॒त॒न्यात्¦अप॑¦तम्ऽत᳚म्¦इत्¦ह॒त॒म्¦वज्रे᳚ण¦तम्ऽत᳚म्¦इत्¦ह॒त॒म् | |
[133] उभेपुनामीति सप्तर्चस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्र आद्यात्रिष्टुप् द्वितीयादितिस्रोनुष्टुभः पंचमीगायत्री षष्ठीधृतिः सप्तम्यष्टिः | |
उ॒भे पु॑नामि॒ रोद॑सी, ऋ॒तेन॒ द्रुहो᳚ दहामि॒ सं म॒हीर॑नि॒न्द्राः |{दैवोदासिः परुच्छेपः | इन्द्रः | त्रिष्टुप्} अ॒भि॒व्लग्य॒ यत्र॑ ह॒ता, अ॒मित्रा᳚ वैलस्था॒नं परि॑ तृ॒ळ्हा, अशे᳚रन् ||{1/7}{1.133.1}{1.19.7.1}{2.1.22.1}{1479, 133, 1479} उ॒भे इति॑¦पु॒ना॒मि॒¦रोद॑सी॒ इति॑¦ऋ॒तेन॑¦द्रुहः॑¦द॒हा॒मि॒¦सम्¦म॒हीः¦अ॒नि॒न्द्राः | |
अ॒भि॒व्लग्या᳚ चिदद्रिवः शी॒र्षा या᳚तु॒मती᳚नाम् |{दैवोदासिः परुच्छेपः | इन्द्रः | अनुष्टुप्} छि॒न्धि व॑टू॒रिणा᳚ प॒दा म॒हाव॑टूरिणा प॒दा ||{2/7}{1.133.2}{1.19.7.2}{2.1.22.2}{1480, 133, 1480} अ॒भि॒ऽव्लग्य॑¦चि॒त्¦अ॒द्रि॒ऽवः॒¦शी॒र्षा¦या॒तु॒ऽमती᳚नाम् | छि॒न्धि¦व॒टू॒रिणा᳚¦प॒दा¦म॒हाऽव॑टूरिणा¦प॒दा || |
अवा᳚सां मघवञ्जहि॒ शर्धो᳚ यातु॒मती᳚नाम् |{दैवोदासिः परुच्छेपः | इन्द्रः | अनुष्टुप्} वै॒ल॒स्था॒न॒के, अ᳚र्म॒के म॒हावै᳚लस्थे, अर्म॒के ||{3/7}{1.133.3}{1.19.7.3}{2.1.22.3}{1481, 133, 1481} अव॑¦आ॒सा॒म्¦म॒घ॒ऽव॒न्¦ज॒हि॒¦शर्धः॑¦या॒तु॒ऽमती᳚नाम् | वै॒ल॒ऽस्था॒न॒के¦अ॒र्भ॒के¦म॒हाऽवै᳚लस्थे¦अ॒र्भ॒के || |
यासां᳚ ति॒स्रः प᳚ञ्चा॒शतो᳚ऽभिव्ल॒ङ्गैर॒पाव॑पः |{दैवोदासिः परुच्छेपः | इन्द्रः | अनुष्टुप्} तत्सु ते᳚ मनायति त॒कत्सु ते᳚ मनायति ||{4/7}{1.133.4}{1.19.7.4}{2.1.22.4}{1482, 133, 1482} यासा᳚म्¦ति॒स्रः¦पं॒चा॒शतः॑¦अ॒भि॒ऽव्ल॒ङ्गैः¦अ॒प॒।आव॑पः | तत्¦सु¦ते॒¦म॒ना॒य॒ति॒¦त॒कत्¦सु¦ते॒¦म॒ना॒य॒ति॒ || |
पि॒शङ्ग॑भृष्टिमम्भृ॒णं पि॒शाचि॑मिन्द्र॒ सं मृ॑ण |{दैवोदासिः परुच्छेपः | इन्द्रः | गायत्री} सर्वं॒ रक्षो॒ नि ब᳚र्हय ||{5/7}{1.133.5}{1.19.7.5}{2.1.22.5}{1483, 133, 1483} पि॒शङ्ग॑ऽभृष्टिम्¦अ॒म्भृ॒णम्¦पि॒शाचि᳚म्¦इ॒न्द्र॒¦सम्¦मृ॒ण॒ | सर्व᳚म्¦रक्षः॑¦नि¦ब॒र्ह॒य॒ || |
अ॒वर्म॒ह इ᳚न्द्र दादृ॒हि श्रु॒धी नः॑ शु॒शोच॒ हि द्यौः, क्षा न भी॒षाँ, अ॑द्रिवो घृ॒णान्न भी॒षाँ, अ॑द्रिवः |{दैवोदासिः परुच्छेपः | इन्द्रः | धृतिः} शु॒ष्मिन्त॑मो॒ हि शु॒ष्मिभि᳚र्व॒धैरु॒ग्रेभि॒रीय॑से |{दैवोदासिः परुच्छेपः | इन्द्रः | धृतिः} अपू᳚रुषघ्नो, अप्रतीत शूर॒ सत्व॑भिस्त्रिस॒प्तैः शू᳚र॒ सत्व॑भिः ||{6/7}{1.133.6}{1.19.7.6}{2.1.22.6}{1484, 133, 1484} अ॒वः¦म॒हः¦इ॒न्द्र॒¦द॒दृ॒हि¦श्रु॒धि¦नः॒¦शु॒शोच॑¦हि¦द्यौः¦क्षाः¦न¦भी॒षा¦अ॒द्रि॒ऽवः॒¦घृ॒णात्¦न¦भी॒षा¦अ॒द्रि॒ऽवः॒ | |
व॒नोति॒ हि सु॒न्वन् क्षयं॒ परी᳚णसः सुन्वा॒नो हि ष्मा॒ यज॒त्यव॒ द्विषो᳚ दे॒वाना॒मव॒ द्विषः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अष्टिः} सु॒न्वा॒न इत्सि॑षासति स॒हस्रा᳚ वा॒ज्यवृ॑तः |{दैवोदासिः परुच्छेपः | इन्द्रः | अष्टिः} सु॒न्वा॒नायेन्द्रो᳚ ददात्या॒भुवं᳚ र॒यिं द॑दात्या॒भुव᳚म् ||{7/7}{1.133.7}{1.19.7.7}{2.1.22.7}{1485, 133, 1485} व॒नोति॑¦हि¦सु॒न्वन्¦क्षय᳚म्¦परी᳚णसः¦सु॒न्वा॒नः¦हि¦स्म॒¦यज॑ति¦अव॑¦द्विषः॑¦दे॒वाना᳚म्¦अव॑¦द्विषः॑ | |
[134] आत्वाजुवइति षडृचस्य सूक्तस्य दैवोदासिः परुच्छेपोवायुरत्यष्टिरंत्याष्टिः | |
आ त्वा॒ जुवो᳚ रारहा॒णा, अ॒भि प्रयो॒ वायो॒ वह᳚न्त्वि॒ह पू॒र्वपी᳚तये॒ सोम॑स्य पू॒र्वपी᳚तये |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} ऊ॒र्ध्वा ते॒, अनु॑ सू॒नृता॒ मन॑स्तिष्ठतु जान॒ती |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} नि॒युत्व॑ता॒ रथे॒ना या᳚हि दा॒वने॒ वायो᳚ म॒खस्य॑ दा॒वने᳚ ||{1/6}{1.134.1}{1.20.1.1}{2.1.23.1}{1486, 134, 1486} आ¦त्वा॒¦जुवः॑¦र॒र॒हा॒णाः¦अ॒भि¦प्रयः॑¦वायो॒ इति॑¦वह᳚न्तु¦इ॒ह¦पू॒र्वऽपी᳚तये¦सोम॑स्य¦पू॒र्वऽपी᳚तये | |
मन्द᳚न्तु त्वा म॒न्दिनो᳚ वाय॒विन्द॑वो॒ऽस्मत् क्रा॒णासः॒ सुकृ॑ता, अ॒भिद्य॑वो॒ गोभिः॑ क्रा॒णा, अ॒भिद्य॑वः |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} यद्ध॑ क्रा॒णा, इ॒रध्यै॒ दक्षं॒ सच᳚न्त ऊ॒तयः॑ |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} स॒ध्री॒ची॒ना नि॒युतो᳚ दा॒वने॒ धिय॒ उप॑ ब्रुवत ईं॒ धियः॑ ||{2/6}{1.134.2}{1.20.1.2}{2.1.23.2}{1487, 134, 1487} मन्द᳚न्तु¦त्वा॒¦म॒न्दिनः॑¦वायो॒ इति॑¦इन्द॑वः¦अ॒स्मत्¦क्रा॒णासः॑¦सुऽकृ॑ताः¦अ॒भिऽद्य॑वः¦गोऽभिः॑¦क्रा॒णाः¦अ॒भिऽद्य॑वः | |
वा॒युर्यु᳚ङ्क्ते॒ रोहि॑ता वा॒युर॑रु॒णा वा॒यू रथे᳚, अजि॒रा धु॒रि वोळ्ह॑वे॒ वहि॑ष्ठा धु॒रि वोळ्ह॑वे |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} प्र बो᳚धया॒ पुरं᳚धिं जा॒र आ स॑स॒तीमि॑व |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} प्र च॑क्षय॒ रोद॑सी वासयो॒षसः॒ श्रव॑से वासयो॒षसः॑ ||{3/6}{1.134.3}{1.20.1.3}{2.1.23.3}{1488, 134, 1488} वा॒युः¦यु॒ङ्क्ते॒¦रोहि॑ता¦वा॒युः¦अ॒रु॒णा¦वा॒युः¦रथे᳚¦अ॒जि॒रा¦धु॒रि¦वोळ्ह॑वे¦वहि॑ष्ठा¦धु॒रि¦वोळ्ह॑वे | |
तुभ्य॑मु॒षासः॒ शुच॑यः परा॒वति॑ भ॒द्रा वस्त्रा᳚ तन्वते॒ दंसु॑ र॒श्मिषु॑ चि॒त्रा नव्ये᳚षु र॒श्मिषु॑ |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} तुभ्यं᳚ धे॒नुः स॑ब॒र्दुघा॒ विश्वा॒ वसू᳚नि दोहते |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} अज॑नयो म॒रुतो᳚ व॒क्षणा᳚भ्यो दि॒व आ व॒क्षणा᳚भ्यः ||{4/6}{1.134.4}{1.20.1.4}{2.1.23.4}{1489, 134, 1489} तुभ्य᳚म्¦उ॒षसः॑¦शुच॑यः¦प॒रा॒ऽवति॑¦भ॒द्रा¦वस्त्रा᳚¦त॒न्व॒ते॒¦दम्ऽसु॑¦र॒श्मिषु॑¦चि॒त्रा¦नव्ये᳚षु¦र॒श्मिषु॑ | |
तुभ्यं᳚ शु॒क्रासः॒ शुच॑यस्तुर॒ण्यवो॒ मदे᳚षू॒ग्रा, इ॑षणन्त भु॒र्वण्य॒पामि॑षन्त भु॒र्वणि॑ |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} त्वां त्सा॒री दस॑मानो॒ भग॑मीट्टे तक्व॒वीये᳚ |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} त्वं विश्व॑स्मा॒द् भुव॑नात् पासि॒ धर्म॑णाऽसु॒र्या᳚त् पासि॒ धर्म॑णा ||{5/6}{1.134.5}{1.20.1.5}{2.1.23.5}{1490, 134, 1490} तुभ्य᳚म्¦शु॒क्रास॑¦शुच॑यः¦तु॒र॒ण्यवः॑¦मदे᳚षु¦उ॒ग्राः¦इ॒ष॒ण॒न्त॒¦भु॒र्वणि॑¦अ॒पाम्¦इ॒ष॒न्त॒¦भु॒र्वणि॑ | |
त्वं नो᳚ वायवेषा॒मपू᳚र्व्यः॒ सोमा᳚नां प्रथ॒मः पी॒तिम᳚र्हसि सु॒तानां᳚ पी॒तिम᳚र्हसि |{दैवोदासिः परुच्छेपः | वायुः | अष्टिः} उ॒तो वि॒हुत्म॑तीनां वि॒शां व॑व॒र्जुषी᳚णाम् |{दैवोदासिः परुच्छेपः | वायुः | अष्टिः} विश्वा॒, इत्ते᳚ धे॒नवो᳚ दुह्र आ॒शिरं᳚ घृ॒तं दु॑ह्रत आ॒शिर᳚म् ||{6/6}{1.134.6}{1.20.1.6}{2.1.23.6}{1491, 134, 1491} त्वम्¦नः॒¦वा॒यो॒ इति॑¦ए॒षा॒म्¦अपू᳚र्व्यः¦सोमा᳚नाम्¦प्र॒थ॒मः¦पी॒तिम्¦अ॒र्ह॒सि॒¦सु॒ताना᳚म्¦पी॒तिम्¦अ॒र्ह॒सि॒ | |
[135] स्तीर्णम्बर्हिरिति नवर्चस्य सूक्तस्य दैवोदासिः परुच्छेपोवायुश्चतुर्थ्यादिपंचानामिंद्रोवाअत्यष्टिः सप्तम्यष्टम्यावष्टी | |
स्ती॒र्णं ब॒र्हिरुप॑ नो याहि वी॒तये᳚ स॒हस्रे᳚ण नि॒युता᳚ नियुत्वते श॒तिनी᳚भिर्नियुत्वते |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} तुभ्यं॒ हि पू॒र्वपी᳚तये दे॒वा दे॒वाय॑ येमि॒रे |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} प्र ते᳚ सु॒तासो॒ मधु॑मन्तो, अस्थिर॒न् मदा᳚य॒ क्रत्वे᳚, अस्थिरन् ||{1/9}{1.135.1}{1.20.2.1}{2.1.24.1}{1492, 135, 1492} स्ती॒र्णम्¦ब॒र्हिः¦उप॑¦नः॒¦या॒हि॒¦वी॒तये᳚¦स॒हस्रे᳚ण¦नि॒ऽयुता᳚¦नि॒यु॒त्व॒ते॒¦श॒तिनी᳚भिः¦नि॒यु॒त्व॒ते॒ | |
तुभ्या॒यं सोमः॒ परि॑पूतो॒, अद्रि॑भिः स्पा॒र्हा वसा᳚नः॒ परि॒ कोश॑मर्षति शु॒क्रा वसा᳚नो, अर्षति |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} तवा॒यं भा॒ग आ॒युषु॒ सोमो᳚ दे॒वेषु॑ हूयते |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} वह॑ वायो नि॒युतो᳚ याह्यस्म॒युर्जु॑षा॒णो या᳚ह्यस्म॒युः ||{2/9}{1.135.2}{1.20.2.2}{2.1.24.2}{1493, 135, 1493} तुभ्य॑¦अ॒यम्¦सोमः॑¦परि॑ऽपूतः¦अद्रि॑ऽभिः¦स्पा॒र्हा¦वसा᳚नः¦परि॑¦कोश᳚म्¦अ॒र्ष॒ति॒¦शु॒क्रा¦वसा᳚नः¦अ॒र्ष॒ति॒ | |
आ नो᳚ नि॒युद्भिः॑ श॒तिनी᳚भिरध्व॒रं स॑ह॒स्रिणी᳚भि॒रुप॑ याहि वी॒तये॒ वायो᳚ ह॒व्यानि॑ वी॒तये᳚ |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} तवा॒यं भा॒ग ऋ॒त्वियः॒ सर॑श्मिः॒ सूर्ये॒ सचा᳚ |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} अ॒ध्व॒र्युभि॒र्भर॑माणा, अयंसत॒ वायो᳚ शु॒क्रा, अ॑यंसत ||{3/9}{1.135.3}{1.20.2.3}{2.1.24.3}{1494, 135, 1494} आ¦नः॒¦नि॒युत्ऽभिः॑¦श॒तिनी᳚भिः¦अ॒ध्व॒रम्¦स॒ह॒स्रिणी᳚भिः¦उप॑¦या॒हि॒¦वी॒तये᳚¦वायो॒ इति॑¦ह॒व्यानि॑¦वी॒तये᳚ | |
आ वां॒ रथो᳚ नि॒युत्वा᳚न् वक्ष॒दव॑से॒ऽभि प्रयां᳚सि॒ सुधि॑तानि वी॒तये॒ वायो᳚ ह॒व्यानि॑ वी॒तये᳚ |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः} पिब॑तं॒ मध्वो॒, अन्ध॑सः पूर्व॒पेयं॒ हि वां᳚ हि॒तम् |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः} वाय॒वा च॒न्द्रेण॒ राध॒सा ग॑त॒मिन्द्र॑श्च॒ राध॒सा ग॑तम् ||{4/9}{1.135.4}{1.20.2.4}{2.1.24.4}{1495, 135, 1495} आ¦वा॒म्¦रथः॑¦नि॒युत्वा᳚न्¦व॒क्ष॒त्¦अव॑से¦अ॒भि¦प्रयां᳚सि¦सुऽधि॑तानि¦वी॒तये᳚¦वायो॒ इति॑¦ह॒व्यानि॑¦वी॒तये᳚ | |
आ वां॒ धियो᳚ ववृत्युरध्व॒राँ, उपे॒ममिन्दुं᳚ मर्मृजन्त वा॒जिन॑मा॒शुमत्यं॒ न वा॒जिन᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः} तेषां᳚ पिबतमस्म॒यू, आ नो᳚ गन्तमि॒होत्या |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः} इन्द्र॑वायू सु॒ताना॒मद्रि॑भिर्यु॒वं मदा᳚य वाजदा यु॒वम् ||{5/9}{1.135.5}{1.20.2.5}{2.1.24.5}{1496, 135, 1496} आ¦वा॒म्¦धियः॑¦व॒वृ॒त्युः॒¦अ॒ध्व॒रान्¦उप॑¦इ॒मम्¦इन्दु᳚म्¦म॒र्मृ॒ज॒न्त॒¦वा॒जिन᳚म्¦आ॒शुम्¦अत्य᳚म्¦न¦वा॒जिन᳚म् | |
इ॒मे वां॒ सोमा᳚, अ॒प्स्वा सु॒ता, इ॒हाध्व॒र्युभि॒र्भर॑माणा, अयंसत॒ वायो᳚ शु॒क्रा, अ॑यंसत |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः} ए॒ते वा᳚म॒भ्य॑सृक्षत ति॒रः प॒वित्र॑मा॒शवः॑ |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः} यु॒वा॒यवोऽति॒ रोमा᳚ण्य॒व्यया॒ सोमा᳚सो॒, अत्य॒व्यया᳚ ||{6/9}{1.135.6}{1.20.2.6}{2.1.25.1}{1497, 135, 1497} इ॒मे¦वा॒म्¦सोमाः᳚¦अ॒प्ऽसु¦आ¦सु॒ताः¦इ॒ह¦अ॒ध्व॒र्युऽभिः॑¦भर॑माणाः¦अ॒यं॒स॒त॒¦वायो॒ इति॑¦शु॒क्राः¦अ॒यं॒स॒त॒ | |
अति॑ वायो सस॒तो या᳚हि॒ शश्व॑तो॒ यत्र॒ ग्रावा॒ वद॑ति॒ तत्र॑ गच्छतं गृ॒हमिन्द्र॑श्च गच्छतम् |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अष्टिः} वि सू॒नृता॒ ददृ॑शे॒ रीय॑ते घृ॒तमा पू॒र्णया᳚ नि॒युता᳚ याथो, अध्व॒रमिन्द्र॑श्च याथो, अध्व॒रम् ||{7/9}{1.135.7}{1.20.2.7}{2.1.25.2}{1498, 135, 1498} अति॑¦वा॒यो॒ इति॑¦स॒स॒तः¦या॒हि॒¦शश्व॑तः¦यत्र॑¦ग्रावा᳚¦वद॑ति¦तत्र॑¦ग॒च्छ॒त॒म्¦गृ॒हम्¦इन्द्रः॑¦च॒¦ग॒च्छ॒त॒म् | |
अत्राह॒ तद् व॑हेथे॒ मध्व॒ आहु॑तिं॒ यम॑श्व॒त्थमु॑प॒तिष्ठ᳚न्त जा॒यवो॒ऽस्मे ते स᳚न्तु जा॒यवः॑ |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अष्टिः} सा॒कं गावः॒ सुव॑ते॒ पच्य॑ते॒ यवो॒ न ते᳚ वाय॒ उप॑ दस्यन्ति धे॒नवो॒ नाप॑ दस्यन्ति धे॒नवः॑ ||{8/9}{1.135.8}{1.20.2.8}{2.1.25.3}{1499, 135, 1499} अत्र॑¦अह॑¦तत्¦व॒हे॒थे॒ इति॑¦मध्वः॑¦आऽहु॑तिम्¦यम्¦अ॒श्व॒त्थम्¦उ॒प॒ऽतिष्ठ᳚न्त¦जा॒यवः॑¦अ॒स्मे इति॑¦ते¦स॒न्तु॒¦जा॒यवः॑ | |
इ॒मे ये ते॒ सु वा᳚यो बा॒ह्वो᳚जसो॒ऽन्तर्न॒दी ते᳚ प॒तय᳚न्त्यु॒क्षणो॒ महि॒ व्राध᳚न्त उ॒क्षणः॑ |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} धन्व᳚ञ्चि॒द्ये, अ॑ना॒शवो᳚ जी॒राश्चि॒दगि॑रौकसः |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} सूर्य॑स्येव र॒श्मयो᳚ दुर्नि॒यन्त॑वो॒ हस्त॑योर्दुर्नि॒यन्त॑वः ||{9/9}{1.135.9}{1.20.2.9}{2.1.25.4}{1500, 135, 1500} इ॒मे¦ये¦ते॒¦सु¦वा॒यो॒ इति॑¦बा॒हुऽओ᳚जसः¦अ॒न्तः¦न॒दी इति॑¦ते॒¦प॒तय᳚न्ति¦उ॒क्षणः॑¦महि॑¦व्राध᳚न्तः¦उ॒क्षणः॑ | |
[136] प्रसुज्येष्ठमिति सप्तर्चस्य सूक्तस्य दैवोदासिः परुच्छेपोमित्रावरुणौ नमोदिवइत्यस्यारोदसी मित्रावरुणेंद्राग्न्यर्यमभगसोमा देवताः ऊतीदेवानामित्यस्यादेवमरुदग्निमित्रवरुणमघवंतोदेवता अत्यष्टिः अंत्यात्रिष्टुप् | |
प्र सु ज्येष्ठं᳚ निचि॒राभ्यां᳚ बृ॒हन्नमो᳚ ह॒व्यं म॒तिं भ॑रता मृळ॒यद्भ्यां॒ स्वादि॑ष्ठं मृळ॒यद्भ्या᳚म् |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः} ता स॒म्राजा᳚ घृ॒तासु॑ती य॒ज्ञेय॑ज्ञ॒ उप॑स्तुता |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः} अथै᳚नोः, क्ष॒त्रं न कुत॑श्च॒नाधृषे᳚ देव॒त्वं नू चि॑दा॒धृषे᳚ ||{1/7}{1.136.1}{1.20.3.1}{2.1.26.1}{1501, 136, 1501} प्र¦सु¦ज्येष्ठ᳚म्¦नि॒ऽचि॒राभ्या᳚म्¦बृ॒हत्¦नमः॑¦ह॒व्यम्¦म॒तिम्¦भ॒र॒त॒¦मृ॒ळ॒यत्ऽभ्या᳚म्¦स्वादि॑ष्ठम्¦मृ॒ळ॒यत्ऽभ्या᳚म् | |
अद॑र्शि गा॒तुरु॒रवे॒ वरी᳚यसी॒ पन्था᳚ ऋ॒तस्य॒ सम॑यंस्त र॒श्मिभि॒श्चक्षु॒र्भग॑स्य र॒श्मिभिः॑ |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः} द्यु॒क्षं मि॒त्रस्य॒ साद॑नमर्य॒म्णो वरु॑णस्य च |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः} अथा᳚ दधाते बृ॒हदु॒क्थ्य१॑(अं॒) वय॑ उप॒स्तुत्यं᳚ बृ॒हद्वयः॑ ||{2/7}{1.136.2}{1.20.3.2}{2.1.26.2}{1502, 136, 1502} अद॑र्शि¦गा॒तुः¦उ॒रवे᳚¦वरी᳚यसी¦पन्थाः᳚¦ऋ॒तस्य॑¦सम्¦अ॒यं॒स्त॒¦र॒श्मिऽभिः॑¦चक्षुः॑¦भग॑स्य¦र॒श्मिऽभिः॑ | |
ज्योति॑ष्मती॒मदि॑तिं धार॒यत् क्षि॑तिं॒ स्व᳚र्वती॒मा स॑चेते दि॒वेदि॑वे जागृ॒वांसा᳚ दि॒वेदि॑वे |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः} ज्योति॑ष्मत् क्ष॒त्रमा᳚शाते, आदि॒त्या दानु॑न॒स्पती᳚ |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः} मि॒त्रस्तयो॒र्वरु॑णो यात॒यज्ज॑नोऽर्य॒मा या᳚त॒यज्ज॑नः ||{3/7}{1.136.3}{1.20.3.3}{2.1.26.3}{1503, 136, 1503} ज्योति॑ष्मतीम्¦अदि॑तिम्¦धा॒र॒यत्ऽक्षि॑तिम्¦स्वः॑ऽवतीम्¦आ¦स॒चे॒ते॒ इति॑¦दि॒वेऽदि॑वे¦जा॒गृ॒ऽवांसा᳚¦दि॒वेऽदि॑वे | |
अ॒यं मि॒त्राय॒ वरु॑णाय॒ शंत॑मः॒ सोमो᳚ भूत्वव॒पाने॒ष्वाभ॑गो दे॒वो दे॒वेष्वाभ॑गः |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः} तं दे॒वासो᳚ जुषेरत॒ विश्वे᳚, अ॒द्य स॒जोष॑सः |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः} तथा᳚ राजाना करथो॒ यदीम॑ह॒ ऋता᳚वाना॒ यदीम॑हे ||{4/7}{1.136.4}{1.20.3.4}{2.1.26.4}{1504, 136, 1504} अ॒यम्¦मि॒त्राय॑¦वरु॑णाय¦शम्ऽत॑मः¦सोमः॑¦भू॒तु॒¦अ॒व॒ऽपाने᳚षु¦आऽभ॑गः¦दे॒वः¦दे॒वेषु॑¦आऽभ॑गः | |
यो मि॒त्राय॒ वरु॑णा॒यावि॑ध॒ज्जनो᳚ऽन॒र्वाणं॒ तं परि॑ पातो॒, अंह॑सो दा॒श्वांसं॒ मर्त॒मंह॑सः |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः} तम᳚र्य॒माभि र॑क्षत्यृजू॒यन्त॒मनु᳚ व्र॒तम् |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः} उ॒क्थैर्य ए᳚नोः परि॒भूष॑ति व्र॒तं स्तोमै᳚रा॒भूष॑ति व्र॒तम् ||{5/7}{1.136.5}{1.20.3.5}{2.1.26.5}{1505, 136, 1505} यः¦मि॒त्राय॑¦वरु॑णाय¦अवि॑धत्¦जनः॑¦अ॒न॒र्वाण᳚म्¦तम्¦परि॑¦पा॒तः॒¦अंह॑सः¦दा॒श्वांस᳚म्¦मर्त᳚म्¦अंह॑सः | |
नमो᳚ दि॒वे बृ॑ह॒ते रोद॑सीभ्यां मि॒त्राय॑ वोचं॒ वरु॑णाय मी॒ळ्हुषे᳚ सुमृळी॒काय॑ मी॒ळ्हुषे᳚ |{दैवोदासिः परुच्छेपः | लिङ्गोक्ता | अत्यष्टिः} इन्द्र॑म॒ग्निमुप॑ स्तुहि द्यु॒क्षम᳚र्य॒मणं॒ भग᳚म् |{दैवोदासिः परुच्छेपः | लिङ्गोक्ता | अत्यष्टिः} ज्योग्जीव᳚न्तः प्र॒जया᳚ सचेमहि॒ सोम॑स्यो॒ती स॑चेमहि ||{6/7}{1.136.6}{1.20.3.6}{2.1.26.6}{1506, 136, 1506} नमः॑¦दि॒वे¦बृ॒ह॒ते¦रोद॑सीभ्याम्¦मि॒त्राय॑¦वो॒च॒म्¦वरु॑णाय¦मी॒ळ्हुषे᳚¦सु॒ऽमृ॒ळी॒काय॑¦मी॒ळ्हुषे᳚ | |
ऊ॒ती दे॒वानां᳚ व॒यमिन्द्र॑वन्तो मंसी॒महि॒ स्वय॑शसो म॒रुद्भिः॑ |{दैवोदासिः परुच्छेपः | लिङ्गोक्ता | त्रिष्टुप्} अ॒ग्निर्मि॒त्रो वरु॑णः॒ शर्म॑ यंस॒न् तद॑श्याम म॒घवा᳚नो व॒यं च॑ ||{7/7}{1.136.7}{1.20.3.7}{2.1.26.7}{1507, 136, 1507} ऊ॒ती¦दे॒वाना᳚म्¦व॒यम्¦इन्द्र॑ऽवन्तः¦मं॒सी॒महि॑¦स्वऽय॑शसः¦म॒रुत्ऽभिः॑ | |
[137] सुषुमेति तृचस्य सूक्तस्य दैवोदासिःपरुच्छेपोमित्रावरुणावतिशक्वरी | |
सु॒षु॒मा या᳚त॒मद्रि॑भि॒र्गोश्री᳚ता मत्स॒रा, इ॒मे सोमा᳚सो मत्स॒रा, इ॒मे |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी} आ रा᳚जाना दिविस्पृशाऽस्म॒त्रा ग᳚न्त॒मुप॑ नः |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी} इ॒मे वां᳚ मित्रावरुणा॒ गवा᳚शिरः॒ सोमाः᳚ शु॒क्रा गवा᳚शिरः ||{1/3}{1.137.1}{1.20.4.1}{2.2.1.1}{1508, 137, 1508} सु॒षु॒म¦आ¦या॒त॒म्¦अद्रि॑ऽभिः¦गोऽश्री᳚ताः¦म॒त्स॒राः¦इ॒मे¦सोमा᳚सः¦म॒त्स॒राः¦इ॒मे | |
इ॒म आ या᳚त॒मिन्द॑वः॒ सोमा᳚सो॒ दध्या᳚शिरः सु॒तासो॒ दध्या᳚शिरः |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी} उ॒त वा᳚मु॒षसो᳚ बु॒धि सा॒कं सूर्य॑स्य र॒श्मिभिः॑ |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी} सु॒तो मि॒त्राय॒ वरु॑णाय पी॒तये॒ चारु᳚रृ॒ताय॑ पी॒तये᳚ ||{2/3}{1.137.2}{1.20.4.2}{2.2.1.2}{1509, 137, 1509} इ॒मे¦आ¦या॒त॒म्¦इन्द॑वः¦सोमा᳚सः¦दधि॑ऽआशिरः¦सु॒तासः॑¦दधि॑ऽआशिरः | |
तां वां᳚ धे॒नुं न वा᳚स॒रीमं॒शुं दु॑ह॒न्त्यद्रि॑भिः॒ सोमं᳚ दुह॒न्त्यद्रि॑भिः |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी} अ॒स्म॒त्रा ग᳚न्त॒मुप॑ नो॒ऽर्वाञ्चा॒ सोम॑पीतये |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी} अ॒यं वां᳚ मित्रावरुणा॒ नृभिः॑ सु॒तः सोम॒ आ पी॒तये᳚ सु॒तः ||{3/3}{1.137.3}{1.20.4.3}{2.2.1.3}{1510, 137, 1510} ताम्¦वा॒म्¦धे॒नुम्¦न¦वा॒स॒रीम्¦अं॒शुम्¦दु॒ह॒न्ति॒¦अद्रि॑ऽभिः¦सोम᳚म्¦दु॒ह॒न्ति॒¦अद्रि॑ऽभिः | |
[138] प्रप्रपूष्णइति चतुरृचस्य सूक्तस्य दैवोदासिःपरुच्छेपःपूषात्यष्टिः | |
प्रप्र॑ पू॒ष्णस्तु॑विजा॒तस्य॑ शस्यते महि॒त्वम॑स्य त॒वसो॒ न त᳚न्दते स्तो॒त्रम॑स्य॒ न त᳚न्दते |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि} अर्चा᳚मि सुम्न॒यन्न॒हमन्त्यू᳚तिं मयो॒भुव᳚म् |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि} विश्व॑स्य॒ यो मन॑ आयुयु॒वे म॒खो दे॒व आ᳚युयु॒वे म॒खः ||{1/4}{1.138.1}{1.20.5.1}{2.2.2.1}{1511, 138, 1511} प्रऽप्र॑¦पू॒ष्णः¦तु॒वि॒ऽजा॒तस्य॑¦श॒स्य॒ते॒¦म॒हि॒ऽत्वम्¦अ॒स्य॒¦त॒वसः॑¦न¦त॒न्द॒ते॒¦स्तो॒त्रम्¦अ॒स्य॒¦न¦त॒न्द॒ते॒ | |
प्र हि त्वा᳚ पूषन्नजि॒रं न याम॑नि॒ स्तोमे᳚भिः कृ॒ण्व ऋ॒णवो॒ यथा॒ मृध॒ उष्ट्रो॒ न पी᳚परो॒ मृधः॑ |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि} हु॒वे यत् त्वा᳚ मयो॒भुवं᳚ दे॒वं स॒ख्याय॒ मर्त्यः॑ |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि} अ॒स्माक॑माङ्गू॒षान् द्यु॒म्निन॑स्कृधि॒ वाजे᳚षु द्यु॒म्निन॑स्कृधि ||{2/4}{1.138.2}{1.20.5.2}{2.2.2.2}{1512, 138, 1512} प्र¦हि¦त्वा॒¦पू॒ष॒न्¦अ॒जि॒रम्¦न¦याम॑नि¦स्तोमे᳚भिः¦कृ॒ण्वे¦ऋ॒णवः॑¦यथा᳚¦मृधः॑¦उष्ट्रः॑¦न¦पी॒प॒रः॒¦मृधः॑ | |
यस्य॑ ते पूषन् त्स॒ख्ये वि॑प॒न्यवः॒ क्रत्वा᳚ चि॒त् सन्तोऽव॑सा बुभुज्रि॒र इति॒ क्रत्वा᳚ बुभुज्रि॒रे |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि} तामनु॑ त्वा॒ नवी᳚यसीं नि॒युतं᳚ रा॒य ई᳚महे |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि} अहे᳚ळमान उरुशंस॒ सरी᳚ भव॒ वाजे᳚वाजे॒ सरी᳚ भव ||{3/4}{1.138.3}{1.20.5.3}{2.2.2.3}{1513, 138, 1513} यस्य॑¦ते॒¦पू॒ष॒न्¦स॒ख्ये¦वि॒प॒न्यवः॑¦क्रत्वा᳚¦चि॒त्¦सन्तः॑¦अव॑सा¦बु॒भु॒ज्रि॒रे¦इति॑¦क्रत्वा᳚¦बु॒भु॒ज्रि॒रे | |
अ॒स्या, ऊ॒ षु ण॒ उप॑ सा॒तये᳚ भु॒वोऽहे᳚ळमानो ररि॒वाँ, अ॑जाश्व श्रवस्य॒ताम॑जाश्व |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि} ओ षु त्वा᳚ ववृतीमहि॒ स्तोमे᳚भिर्दस्म सा॒धुभिः॑ |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि} न॒हि त्वा᳚ पूषन्नति॒मन्य॑ आघृणे॒ न ते᳚ स॒ख्यम॑पह्नु॒वे ||{4/4}{1.138.4}{1.20.5.4}{2.2.2.4}{1514, 138, 1514} अ॒स्याः¦ऊँ॒ इति॑¦सु¦नः॒¦उप॑¦सा॒तये᳚¦भु॒वः॒¦अहे᳚ळमानः¦र॒रि॒ऽवान्¦अ॒ज॒।आ॒श्व॒¦श्र॒व॒स्य॒ताम्¦अ॒ज॒।आ॒श्व॒ | |
[139] अस्तुश्रौषडित्येकादशर्चस्य सूक्तस्य दैवोदासिःपरुच्छेप आद्यायाविश्वेदेवाः द्वितीयायामित्रावरुणौ तृतीयादितिसृणामाश्विनौ षष्ठ्याइंद्रः सप्तम्याअग्निरष्टम्यामरुतो नवम्याइंद्राग्नी दशम्याबृहस्पतिरंत्यायाविश्वेदेवाअत्यष्टिः पंचमीबृहत्यंत्यात्रिष्टुप् | ( वैश्वदेवमेतत्सूक्तं | अत्रप्रत्येकं देवताविभागस्त्वाकरएवपठितः | अनयैवदिशासर्वत्रापिवैश्वदेवसूक्ते देवताविभागः कर्तव्यइतिहितदनुज्ञा | यथाह - एवमन्यासामपिसूक्तप्रयोगेवैश्वदेवत्वं सूक्तभेदप्रयोगेतुयल्लिंगंसादेवतेति) | |
अस्तु॒ श्रौष॑ट् पु॒रो, अ॒ग्निं धि॒या द॑ध॒ आ नु तच्छर्धो᳚ दि॒व्यं वृ॑णीमह इन्द्रवा॒यू वृ॑णीमहे |{दैवोदासिः परुच्छेपः | विश्वदेवाः | अत्यष्टिः} यद्ध॑ क्रा॒णा वि॒वस्व॑ति॒ नाभा᳚ सं॒दायि॒ नव्य॑सी |{दैवोदासिः परुच्छेपः | विश्वदेवाः | अत्यष्टिः} अध॒ प्र सू न॒ उप॑ यन्तु धी॒तयो᳚ दे॒वाँ, अच्छा॒ न धी॒तयः॑ ||{1/11}{1.139.1}{1.20.6.1}{2.2.3.1}{1515, 139, 1515} अस्तु॑¦श्रौष॑ट्¦पु॒रः¦अ॒ग्निम्¦धि॒या¦द॒धे॒¦आ¦नु¦तत्¦शर्धः॑¦दि॒व्यम्¦वृ॒णी॒म॒हे॒¦इ॒न्द्र॒वा॒यू इति॑¦वृ॒णी॒म॒हे॒ | |
यद्ध॒ त्यन् मि॑त्रावरुणावृ॒तादध्या᳚द॒दाथे॒, अनृ॑तं॒ स्वेन॑ म॒न्युना॒ दक्ष॑स्य॒ स्वेन॑ म॒न्युना᳚ |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः} यु॒वोरि॒त्थाधि॒ सद्म॒स्वप॑श्याम हिर॒ण्यय᳚म् |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः} धी॒भिश्च॒न मन॑सा॒ स्वेभि॑र॒क्षभिः॒ सोम॑स्य॒ स्वेभि॑र॒क्षभिः॑ ||{2/11}{1.139.2}{1.20.6.2}{2.2.3.2}{1516, 139, 1516} यत्¦ह॒¦त्यत्¦मि॒त्रा॒व॒रु॒णौ॒¦ऋ॒तात्¦अधि॑¦आ॒द॒दाथे॒ इत्या᳚ऽद॒दाथे᳚¦अनृ॑तम्¦स्वेन॑¦म॒न्युना᳚¦दक्ष॑स्य¦स्वेन॑¦म॒न्युना᳚ | |
यु॒वां स्तोमे᳚भिर्देव॒यन्तो᳚, अश्विनाऽऽश्रा॒वय᳚न्त इव॒ श्लोक॑मा॒यवो᳚ यु॒वां ह॒व्याभ्या॒३॑(आ॒)यवः॑ |{दैवोदासिः परुच्छेपः | अश्विनौ | अत्यष्टिः} यु॒वोर्विश्वा॒, अधि॒ श्रियः॒ पृक्ष॑श्च विश्ववेदसा |{दैवोदासिः परुच्छेपः | अश्विनौ | अत्यष्टिः} प्रु॒षा॒यन्ते᳚ वां प॒वयो᳚ हिर॒ण्यये॒ रथे᳚ दस्रा हिर॒ण्यये᳚ ||{3/11}{1.139.3}{1.20.6.3}{2.2.3.3}{1517, 139, 1517} यु॒वाम्¦स्तोमे᳚भिः¦दे॒व॒ऽयन्तः॑¦अ॒श्वि॒ना॒¦आ॒श्रा॒वय᳚न्तःऽइव¦श्लोक᳚म्¦आ॒यवः॑¦यु॒वाम्¦ह॒व्या¦अ॒भि¦आ॒यवः॑ | |
अचे᳚ति दस्रा॒ व्यु१॑(उ॒) नाक॑मृण्वथो यु॒ञ्जते᳚ वां रथ॒युजो॒ दिवि॑ष्टिष्वध्व॒स्मानो॒ दिवि॑ष्टिषु |{दैवोदासिः परुच्छेपः | अश्विनौ | अत्यष्टिः} अधि॑ वां॒ स्थाम॑ व॒न्धुरे॒ रथे᳚ दस्रा हिर॒ण्यये᳚ |{दैवोदासिः परुच्छेपः | अश्विनौ | अत्यष्टिः} प॒थेव॒ यन्ता᳚वनु॒शास॑ता॒ रजोऽञ्ज॑सा॒ शास॑ता॒ रजः॑ ||{4/11}{1.139.4}{1.20.6.4}{2.2.3.4}{1518, 139, 1518} अचे᳚ति¦द॒स्रा॒¦वि¦ऊँ॒ इति॑¦नाक᳚म्¦ऋ॒ण्व॒थः॒¦युं॒जते᳚¦वा॒म्¦र॒थ॒ऽयुजः॑¦दिवि॑ष्टिशु¦अ॒ध्व॒स्मानः॑¦दिवि॑ष्टिषु | |
शची᳚भिर्नः शचीवसू॒ दिवा॒ नक्तं᳚ दशस्यतम् |{दैवोदासिः परुच्छेपः | अश्विनौ | बृहतिः} मा वां᳚ रा॒तिरुप॑ दस॒त्कदा᳚ च॒नाऽस्मद्रा॒तिः कदा᳚ च॒न ||{5/11}{1.139.5}{1.20.6.5}{2.2.3.5}{1519, 139, 1519} शची᳚भिः¦नः॒¦श॒ची॒व॒सू॒ इति॑ शचीऽवसू¦दिवा᳚¦नक्त᳚म्¦द॒श॒स्य॒त॒म् | |
वृष᳚न्निन्द्र वृष॒पाणा᳚स॒ इन्द॑व इ॒मे सु॒ता, अद्रि॑षुतास उ॒द्भिद॒स्तुभ्यं᳚ सु॒तास॑ उ॒द्भिदः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} ते त्वा᳚ मन्दन्तु दा॒वने᳚ म॒हे चि॒त्राय॒ राध॑से |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} गी॒र्भिर्गि᳚र्वाहः॒ स्तव॑मान॒ आ ग॑हि सुमृळी॒को न॒ आ ग॑हि ||{6/11}{1.139.6}{1.20.6.6}{2.2.4.1}{1520, 139, 1520} वृष॑न्¦इ॒न्द्र॒¦वृ॒ष॒ऽपाना᳚सः¦इन्द॑वः¦इ॒मे¦सु॒ताः¦अद्रि॑ऽसुतासः¦उ॒त्ऽभिदः॑¦तुभ्य᳚म्¦सु॒तासः॑¦उ॒त्ऽभिदः॑ | |
ओ षू णो᳚, अग्ने शृणुहि॒ त्वमी᳚ळि॒तो दे॒वेभ्यो᳚ ब्रवसि य॒ज्ञिये᳚भ्यो॒ राज॑भ्यो य॒ज्ञिये᳚भ्यः |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} यद्ध॒ त्यामङ्गि॑रोभ्यो धे॒नुं दे᳚वा॒, अद॑त्तन |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} वि तां दु॑ह्रे, अर्य॒मा क॒र्तरी॒ सचाँ᳚, ए॒ष तां वे᳚द मे॒ सचा᳚ ||{7/11}{1.139.7}{1.20.6.7}{2.2.4.2}{1521, 139, 1521} ओ इति॑¦सु¦नः॒¦अ॒ग्ने॒¦शृ॒णु॒हि॒¦त्वम्¦ई॒ळि॒तः¦दे॒वेभ्यः॑¦ब्र॒व॒सि॒¦य॒ज्ञिये᳚भ्यः¦राज॑ऽभ्यः¦य॒ज्ञिये᳚भ्यः | |
मो षु वो᳚, अ॒स्मद॒भि तानि॒ पौंस्या॒ सना᳚ भूवन् द्यु॒म्नानि॒ मोत जा᳚रिषुर॒स्मत् पु॒रोत जा᳚रिषुः |{दैवोदासिः परुच्छेपः | मरुतः | अत्यष्टिः} यद्व॑श्चि॒त्रं यु॒गेयु॑गे॒ नव्यं॒ घोषा॒दम॑र्त्यम् |{दैवोदासिः परुच्छेपः | मरुतः | अत्यष्टिः} अ॒स्मासु॒ तन्म॑रुतो॒ यच्च॑ दु॒ष्टरं᳚ दिधृ॒ता यच्च॑ दु॒ष्टर᳚म् ||{8/11}{1.139.8}{1.20.6.8}{2.2.4.3}{1522, 139, 1522} मो इति॑¦सु¦वः॒¦अ॒स्मत्¦अ॒भि¦तानि॑¦पौंस्या᳚¦सना᳚¦भू॒व॒न्¦द्यु॒म्नानि॑¦मा¦उ॒त¦जा॒रि॒षुः॒¦अ॒स्मत्¦पु॒रा¦उ॒त¦जा॒रि॒षुः॒ | |
द॒ध्यङ् ह॑ मे ज॒नुषं॒ पूर्वो॒, अङ्गि॑राः प्रि॒यमे᳚धः॒ कण्वो॒, अत्रि॒र्मनु᳚र्विदु॒स्ते मे॒ पूर्वे॒ मनु᳚र्विदुः |{दैवोदासिः परुच्छेपः | इन्द्राग्नी | अत्यष्टिः} तेषां᳚ दे॒वेष्वाय॑तिर॒स्माकं॒ तेषु॒ नाभ॑यः |{दैवोदासिः परुच्छेपः | इन्द्राग्नी | अत्यष्टिः} तेषां᳚ प॒देन॒ मह्या न॑मे गि॒रेन्द्रा॒ग्नी, आ न॑मे गि॒रा ||{9/11}{1.139.9}{1.20.6.9}{2.2.4.4}{1523, 139, 1523} द॒ध्यङ्¦ह॒¦मे॒¦ज॒नुष᳚म्¦पूर्वः॑¦अङ्गि॑राः¦प्रि॒यऽमे᳚धः¦कण्वः॑¦अत्रिः॑¦मनुः॑¦वि॒दुः॒¦ते¦मे॒¦पूर्वे᳚¦मनुः॑¦वि॒दुः॒ | |
होता᳚ यक्षद् व॒निनो᳚ वन्त॒ वार्यं॒ बृह॒स्पति᳚र्यजति वे॒न उ॒क्षभिः॑ पुरु॒वारे᳚भिरु॒क्षभिः॑ |{दैवोदासिः परुच्छेपः | बृहस्पतिः | अत्यष्टिः} ज॒गृ॒भ्मा दू॒रआ᳚दिशं॒ श्लोक॒मद्रे॒रध॒ त्मना᳚ |{दैवोदासिः परुच्छेपः | बृहस्पतिः | अत्यष्टिः} अधा᳚रयदर॒रिन्दा᳚नि सु॒क्रतुः॑ पु॒रू सद्मा᳚नि सु॒क्रतुः॑ ||{10/11}{1.139.10}{1.20.6.10}{2.2.4.5}{1524, 139, 1524} होता᳚¦य॒क्ष॒त्¦व॒निनः॑¦व॒न्त॒¦वार्य᳚म्¦बृह॒स्पतिः॑¦य॒ज॒ति॒¦वे॒नः¦उ॒क्षऽभिः॑¦पु॒रु॒ऽवारे᳚भिः¦उ॒क्षऽभिः॑ | |
ये दे᳚वासो दि॒व्येका᳚दश॒ स्थ पृ॑थि॒व्यामध्येका᳚दश॒ स्थ |{दैवोदासिः परुच्छेपः | विश्वदेवाः | त्रिष्टुप्} अ॒प्सु॒क्षितो᳚ महि॒नैका᳚दश॒ स्थ ते दे᳚वासो य॒ज्ञमि॒मं जु॑षध्वम् ||{11/11}{1.139.11}{1.20.6.11}{2.2.4.6}{1525, 139, 1525} ये¦दे॒वा॒सः॒¦दि॒वि¦एका᳚दश¦स्थ¦पृ॒थि॒व्याम्¦अधि॑¦एका᳚दश¦स्थ | |
[140] वेदिषदइति त्रयोदशर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निर्जगती अंत्येद्वेत्रिष्टुभौदशमीत्रिष्टुब्वा | |
वे॒दि॒षदे᳚ प्रि॒यधा᳚माय सु॒द्युते᳚ धा॒सिमि॑व॒ प्र भ॑रा॒ योनि॑म॒ग्नये᳚ |{औचथ्यो दीर्घतमाः | अग्निः | जगती} वस्त्रे᳚णेव वासया॒ मन्म॑ना॒ शुचिं᳚ ज्यो॒तीर॑थं शु॒क्रव᳚र्णं तमो॒हन᳚म् ||{1/13}{1.140.1}{1.21.1.1}{2.2.5.1}{1526, 140, 1526} वे॒दि॒ऽसदे᳚¦प्रि॒यऽधा᳚माय¦सु॒ऽद्युते᳚¦धा॒सिम्ऽइ᳚व¦प्र¦भ॒र॒¦योनि᳚म्¦अ॒ग्नये᳚ | |
अ॒भि द्वि॒जन्मा᳚ त्रि॒वृदन्न॑मृज्यते संवत्स॒रे वा᳚वृधे ज॒ग्धमी॒ पुनः॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती} अ॒न्यस्या॒सा जि॒ह्वया॒ जेन्यो॒ वृषा॒ न्य१॑(अ॒)न्येन॑ व॒निनो᳚ मृष्ट वार॒णः ||{2/13}{1.140.2}{1.21.1.2}{2.2.5.2}{1527, 140, 1527} अ॒भि¦द्वि॒ऽजन्मा᳚¦त्रि॒ऽवृत्¦अन्न᳚म्¦ऋ॒ज्य॒ते॒¦सं॒व॒त्स॒रे¦व॒वृ॒धे॒¦ज॒ग्धम्¦ई॒मिति॑¦पुन॒रिति॑ | |
कृ॒ष्ण॒प्रुतौ᳚ वेवि॒जे, अ॑स्य स॒क्षिता᳚, उ॒भा त॑रेते, अ॒भि मा॒तरा॒ शिशु᳚म् |{औचथ्यो दीर्घतमाः | अग्निः | जगती} प्रा॒चाजि॑ह्वं ध्व॒सय᳚न्तं तृषु॒च्युत॒मा साच्यं॒ कुप॑यं॒ वर्ध॑नं पि॒तुः ||{3/13}{1.140.3}{1.21.1.3}{2.2.5.3}{1528, 140, 1528} कृ॒ष्ण॒ऽप्रुतौ᳚¦वे॒वि॒जे इति॑¦अ॒स्य॒¦स॒ऽक्षितौ᳚¦उ॒भा¦त॒रे॒ते॒ इति॑¦अ॒भि¦मा॒तरा᳚¦शिशु᳚म् | |
मु॒मु॒क्ष्वो॒३॑(ओ॒) मन॑वे मानवस्य॒ते र॑घु॒द्रुवः॑ कृ॒ष्णसी᳚तास ऊ॒ जुवः॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती} अ॒स॒म॒ना, अ॑जि॒रासो᳚ रघु॒ष्यदो॒ वात॑जूता॒, उप॑ युज्यन्त आ॒शवः॑ ||{4/13}{1.140.4}{1.21.1.4}{2.2.5.4}{1529, 140, 1529} मु॒मु॒क्ष्वः॑¦मन॑वे¦मा॒न॒व॒स्य॒ते¦र॒घु॒ऽद्रुवः॑¦कृ॒ष्णऽसी᳚तासः¦ऊँ॒ इति॑¦जुवः॑ | |
आद॑स्य॒ ते ध्व॒सय᳚न्तो॒ वृथे᳚रते कृ॒ष्णमभ्वं॒ महि॒ वर्पः॒ करि॑क्रतः |{औचथ्यो दीर्घतमाः | अग्निः | जगती} यत् सीं᳚ म॒हीम॒वनिं॒ प्राभि मर्मृ॑शदभिश्व॒सन्त् स्त॒नय॒न्नेति॒ नान॑दत् ||{5/13}{1.140.5}{1.21.1.5}{2.2.5.5}{1530, 140, 1530} आत्¦अ॒स्य॒¦ते¦ध्व॒सय᳚न्तः¦वृथा᳚¦ई॒र॒ते॒¦कृ॒ष्णम्¦अभ्व᳚म्¦महि॑¦वर्पः॑¦करि॑क्रतः | |
भूष॒न्न योधि॑ ब॒भ्रूषु॒ नम्न॑ते॒ वृषे᳚व॒ पत्नी᳚र॒भ्ये᳚ति॒ रोरु॑वत् |{औचथ्यो दीर्घतमाः | अग्निः | जगती} ओ॒जा॒यमा᳚नस्त॒न्व॑श्च शुम्भते भी॒मो न शृङ्गा᳚ दविधाव दु॒र्गृभिः॑ ||{6/13}{1.140.6}{1.21.1.6}{2.2.6.1}{1531, 140, 1531} भूष॑न्¦न¦यः¦अधि॑¦ब॒भ्रूषु॑¦नम्न॑ते¦वृषा᳚ऽइव¦पत्नीः᳚¦अ॒भि¦ए॒ति॒¦रोरु॑वत् | |
स सं॒स्तिरो᳚ वि॒ष्टिरः॒ सं गृ॑भायति जा॒नन्ने॒व जा᳚न॒तीर्नित्य॒ आ श॑ये |{औचथ्यो दीर्घतमाः | अग्निः | जगती} पुन᳚र्वर्धन्ते॒, अपि॑ यन्ति दे॒व्य॑म॒न्यद्वर्पः॑ पि॒त्रोः कृ᳚ण्वते॒ सचा᳚ ||{7/13}{1.140.7}{1.21.1.7}{2.2.6.2}{1532, 140, 1532} सः¦स॒म्ऽस्तिरः॑¦वि॒ऽस्तिरः॑¦सम्¦गृ॒भा॒य॒ति॒¦जा॒नन्¦ए॒व¦जा॒न॒तीः¦नित्यः॑¦आ¦श॒ये॒ | |
तम॒ग्रुवः॑ के॒शिनीः॒ सं हि रे᳚भि॒र ऊ॒र्ध्वास्त॑स्थुर्म॒म्रुषीः॒ प्रायवे॒ पुनः॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती} तासां᳚ ज॒रां प्र॑मु॒ञ्चन्ने᳚ति॒ नान॑द॒दसुं॒ परं᳚ ज॒नय᳚ञ्जी॒वमस्तृ॑तम् ||{8/13}{1.140.8}{1.21.1.8}{2.2.6.3}{1533, 140, 1533} तम्¦अ॒ग्रुवः॑¦के॒शिनीः᳚¦सम्¦हि¦रे॒भि॒रे¦ऊ॒र्ध्वाः¦त॒स्थुः॒¦म॒म्रुषीः᳚¦प्र¦आ॒यवे᳚¦पुन॒रिति॑ | |
अ॒धी॒वा॒सं परि॑ मा॒तू रि॒हन्नह॑ तुवि॒ग्रेभिः॒ सत्व॑भिर्याति॒ वि ज्रयः॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती} वयो॒ दध॑त् प॒द्वते॒ रेरि॑ह॒त्सदाऽनु॒ श्येनी᳚ सचते वर्त॒नीरह॑ ||{9/13}{1.140.9}{1.21.1.9}{2.2.6.4}{1534, 140, 1534} अ॒धी॒वा॒सम्¦परि॑¦मा॒तुः¦रि॒हन्¦अह॑¦तु॒वि॒ऽग्रेभिः॑¦सत्व॑ऽभिः¦या॒ति॒¦वि¦ज्रयः॑ | |
अ॒स्माक॑मग्ने म॒घव॑त्सु दीदि॒ह्यध॒ श्वसी᳚वान् वृष॒भो दमू᳚नाः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुब्वा} अ॒वास्या॒ शिशु॑मतीरदीदे॒र्वर्मे᳚व यु॒त्सु प॑रि॒जर्भु॑राणः ||{10/13}{1.140.10}{1.21.1.10}{2.2.6.5}{1535, 140, 1535} अ॒स्माक᳚म्¦अ॒ग्ने॒¦म॒घव॑त्ऽसु¦दी॒दि॒हि॒¦अध॑¦श्वसी᳚वान्¦वृ॒ष॒भः¦दमू᳚नाः | |
इ॒दम॑ग्ने॒ सुधि॑तं॒ दुर्धि॑ता॒दधि॑ प्रि॒यादु॑ चि॒न्मन् म॑नः॒ प्रेयो᳚, अस्तु ते |{औचथ्यो दीर्घतमाः | अग्निः | जगती} यत्ते᳚ शु॒क्रं त॒न्वो॒३॑(ओ॒) रोच॑ते॒ शुचि॒ तेना॒स्मभ्यं᳚ वनसे॒ रत्न॒मा त्वम् ||{11/13}{1.140.11}{1.21.1.11}{2.2.7.1}{1536, 140, 1536} इ॒दम्¦अ॒ग्ने॒¦सुऽधि॑तम्¦दुःऽधि॑तात्¦अधि॑¦प्रि॒यात्¦ऊँ॒ इति॑¦चि॒त्¦मन्म॑नः¦प्रेयः॑¦अ॒स्तु॒¦ते॒ | |
रथा᳚य॒ नाव॑मु॒त नो᳚ गृ॒हाय॒ नित्या᳚रित्रां प॒द्वतीं᳚ रास्यग्ने |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} अ॒स्माकं᳚ वी॒राँ, उ॒त नो᳚ म॒घोनो॒ जनाँ᳚श्च॒ या पा॒रया॒च्छर्म॒ या च॑ ||{12/13}{1.140.12}{1.21.1.12}{2.2.7.2}{1537, 140, 1537} रथा᳚य¦नाव᳚म्¦उ॒त¦नः॒¦गृ॒हाय॑¦नित्य॑।आरित्राम्¦प॒त्ऽवती᳚म्¦रा॒सि॒¦अ॒ग्ने॒ | |
अ॒भी नो᳚, अग्न उ॒क्थमिज्जु॑गुर्या॒ द्यावा॒क्षामा॒ सिन्ध॑वश्च॒ स्वगू᳚र्ताः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} गव्यं॒ यव्यं॒ यन्तो᳚ दी॒र्घाहेषं॒ वर॑मरु॒ण्यो᳚ वरन्त ||{13/13}{1.140.13}{1.21.1.13}{2.2.7.3}{1538, 140, 1538} अ॒भि¦नः॒¦अ॒ग्ने॒¦उ॒क्थम्¦इत्¦जु॒गु॒र्याः॒¦द्यावा॒क्षामा᳚¦सिन्ध॑वः¦च॒¦स्वऽगू᳚र्ताः | |
[141] बळित्थेति त्रयोदशर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निर्जगती अंत्येद्वेत्रिष्टुभौ| |
बळि॒त्था तद्वपु॑षे धायि दर्श॒तं दे॒वस्य॒ भर्गः॒ सह॑सो॒ यतो॒ जनि॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती} यदी॒मुप॒ ह्वर॑ते॒ साध॑ते म॒तिरृ॒तस्य॒ धेना᳚, अनयन्त स॒स्रुतः॑ ||{1/13}{1.141.1}{1.21.2.1}{2.2.8.1}{1539, 141, 1539} बट्¦इ॒त्था¦तत्¦वपु॑षे¦धा॒यि॒¦द॒र्श॒तम्¦दे॒वस्य॑¦भर्गः॑¦सह॑सः¦यतः॑¦जनि॑ | |
पृ॒क्षो वपुः॑ पितु॒मान्नित्य॒ आ श॑ये द्वि॒तीय॒मा स॒प्तशि॑वासु मा॒तृषु॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती} तृ॒तीय॑मस्य वृष॒भस्य॑ दो॒हसे॒ दश॑प्रमतिं जनयन्त॒ योष॑णः ||{2/13}{1.141.2}{1.21.2.2}{2.2.8.2}{1540, 141, 1540} पृ॒क्षः¦वपुः॑¦पि॒तु॒ऽमान्¦नित्यः॑¦आ¦श॒ये॒¦द्वि॒तीय᳚म्¦आ¦स॒प्तऽशि॑वासु¦मा॒तृषु॑ | |
निर्यदीं᳚ बु॒ध्नान्म॑हि॒षस्य॒ वर्प॑स ईशा॒नासः॒ शव॑सा॒ क्रन्त॑ सू॒रयः॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती} यदी॒मनु॑ प्र॒दिवो॒ मध्व॑ आध॒वे गुहा॒ सन्तं᳚ मात॒रिश्वा᳚ मथा॒यति॑ ||{3/13}{1.141.3}{1.21.2.3}{2.2.8.3}{1541, 141, 1541} निः¦यत्¦ई॒म्¦बु॒ध्नात्¦म॒हि॒षस्य॑¦वर्प॑सः¦ई॒शा॒नासः॑¦शव॑सा¦क्रन्त॑¦सू॒रयः॑ | |
प्र यत् पि॒तुः प॑र॒मान्नी॒यते॒ पर्या पृ॒क्षुधो᳚ वी॒रुधो॒ दंसु॑ रोहति |{औचथ्यो दीर्घतमाः | अग्निः | जगती} उ॒भा यद॑स्य ज॒नुषं॒ यदिन्व॑त॒ आदिद्यवि॑ष्ठो, अभवद् घृ॒णा शुचिः॑ ||{4/13}{1.141.4}{1.21.2.4}{2.2.8.4}{1542, 141, 1542} प्र¦यत्¦पि॒तुः¦प॒र॒मात्¦नी॒यते᳚¦परि॑¦आ¦पृ॒क्षुधः॑¦वी॒रुधः॑¦दम्ऽसु॑¦रो॒ह॒ति॒ | |
आदिन्मा॒तॄरावि॑श॒द् यास्वा शुचि॒रहिं᳚स्यमान उर्वि॒या वि वा᳚वृधे |{औचथ्यो दीर्घतमाः | अग्निः | जगती} अनु॒ यत् पूर्वा॒, अरु॑हत् सना॒जुवो॒ नि नव्य॑सी॒ष्वव॑रासु धावते ||{5/13}{1.141.5}{1.21.2.5}{2.2.8.5}{1543, 141, 1543} आत्¦इत्¦मा॒तॄः¦आ¦अ॒वि॒श॒त्¦यासु॑¦आ¦शुचिः॑¦अहिं᳚स्यमानः¦उ॒र्वि॒या¦वि¦व॒वृ॒धे॒ | |
आदिद्धोता᳚रं वृणते॒ दिवि॑ष्टिषु॒ भग॑मिव पपृचा॒नास॑ ऋञ्जते |{औचथ्यो दीर्घतमाः | अग्निः | जगती} दे॒वान्यत्क्रत्वा᳚ म॒ज्मना᳚ पुरुष्टु॒तो मर्तं॒ शंसं᳚ वि॒श्वधा॒ वेति॒ धाय॑से ||{6/13}{1.141.6}{1.21.2.6}{2.2.9.1}{1544, 141, 1544} आत्¦इत्¦होता᳚रम्¦वृ॒ण॒ते॒¦दिवि॑ष्टिषु¦भग᳚म्ऽइव¦प॒पृ॒चा॒नासः॑¦ऋं॒ज॒ते॒ | |
वि यदस्था᳚द् यज॒तो वात॑चोदितो ह्वा॒रो न वक्वा᳚ ज॒रणा॒, अना᳚कृतः |{औचथ्यो दीर्घतमाः | अग्निः | जगती} तस्य॒ पत्म᳚न् द॒क्षुषः॑ कृ॒ष्णजं᳚हसः॒ शुचि॑जन्मनो॒ रज॒ आ व्य॑ध्वनः ||{7/13}{1.141.7}{1.21.2.7}{2.2.9.2}{1545, 141, 1545} वि¦यत्¦अस्था᳚त्¦य॒ज॒तः¦वात॑ऽचोदितः¦ह्वा॒रः¦न¦वक्वा᳚¦ज॒रणाः᳚¦अना᳚कृतः | |
रथो॒ न या॒तः शिक्व॑भिः कृ॒तो द्यामङ्गे᳚भिररु॒षेभि॑रीयते |{औचथ्यो दीर्घतमाः | अग्निः | जगती} आद॑स्य॒ ते कृ॒ष्णासो᳚ दक्षि सू॒रयः॒ शूर॑स्येव त्वे॒षथा᳚दीषते॒ वयः॑ ||{8/13}{1.141.8}{1.21.2.8}{2.2.9.3}{1546, 141, 1546} रथः॑¦न¦या॒तः¦शिक्व॑ऽभिः¦कृ॒तः¦द्याम्¦अङ्गे᳚भिः¦अ॒रु॒षेभिः॑¦ई॒य॒ते॒ | |
त्वया॒ ह्य॑ग्ने॒ वरु॑णो धृ॒तव्र॑तो मि॒त्रः शा᳚श॒द्रे, अ᳚र्य॒मा सु॒दान॑वः |{औचथ्यो दीर्घतमाः | अग्निः | जगती} यत् सी॒मनु॒ क्रतु॑ना वि॒श्वथा᳚ वि॒भुर॒रान्न ने॒मिः प॑रि॒भूरजा᳚यथाः ||{9/13}{1.141.9}{1.21.2.9}{2.2.9.4}{1547, 141, 1547} त्वया᳚¦हि¦अ॒ग्ने॒¦वरु॑णः¦धृ॒तऽव्र॑तः¦मि॒त्रः¦शा॒श॒द्रे¦अ॒र्य॒मा¦सु॒ऽदान॑वः | |
त्वम॑ग्ने शशमा॒नाय॑ सुन्व॒ते रत्नं᳚ यविष्ठ दे॒वता᳚तिमिन्वसि |{औचथ्यो दीर्घतमाः | अग्निः | जगती} तं त्वा॒ नु नव्यं᳚ सहसो युवन् व॒यं भगं॒ न का॒रे म॑हिरत्न धीमहि ||{10/13}{1.141.10}{1.21.2.10}{2.2.9.5}{1548, 141, 1548} त्वम्¦अ॒ग्ने॒¦श॒श॒मा॒नाय॑¦सु॒न्व॒ते¦रत्न᳚म्¦य॒वि॒ष्ठ॒¦दे॒वऽता᳚तिम्¦इ॒न्व॒सि॒ | |
अ॒स्मे र॒यिं न स्वर्थं॒ दमू᳚नसं॒ भगं॒ दक्षं॒ न प॑पृचासि धर्ण॒सिम् |{औचथ्यो दीर्घतमाः | अग्निः | जगती} र॒श्मीँऽ रि॑व॒ यो यम॑ति॒ जन्म॑नी, उ॒भे दे॒वानां॒ शंस॑मृ॒त आ च॑ सु॒क्रतुः॑ ||{11/13}{1.141.11}{1.21.2.11}{2.2.9.6}{1549, 141, 1549} अ॒स्मे इति॑¦र॒यिम्¦न¦सु॒।आर्थ᳚म्¦दमू᳚नसम्¦भग॑न्¦दक्ष᳚म्¦न¦प॒पृ॒चा॒सि॒¦ध॒र्ण॒सिम् | |
उ॒त नः॑ सु॒द्योत्मा᳚ जी॒राश्वो॒ होता᳚ म॒न्द्रः शृ॑णवच्च॒न्द्रर॑थः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} स नो᳚ नेष॒न्नेष॑तमै॒रमू᳚रो॒ऽग्निर्वा॒मं सु॑वि॒तं वस्यो॒, अच्छ॑ ||{12/13}{1.141.12}{1.21.2.12}{2.2.9.7}{1550, 141, 1550} उ॒त¦नः॒¦सु॒ऽद्योत्मा᳚¦जी॒र।आ॑श्वः¦होता᳚¦म॒न्द्रः¦शृ॒ण॒व॒त्¦च॒न्द्रऽर॑थः | |
अस्ता᳚व्य॒ग्निः शिमी᳚वद्भिर॒र्कैः साम्रा᳚ज्याय प्रत॒रं दधा᳚नः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} अ॒मी च॒ ये म॒घवा᳚नो व॒यं च॒ मिहं॒ न सूरो॒, अति॒ निष्ट॑तन्युः ||{13/13}{1.141.13}{1.21.2.13}{2.2.9.8}{1551, 141, 1551} अस्ता᳚वि¦अ॒ग्निः¦शिमी᳚वत्ऽभिः¦अ॒र्कैः¦साम्ऽरा᳚ज्याय¦प्र॒ऽत॒रम्¦दधा᳚नः | |
[142] समिद्धोअग्नइति त्रयोदशर्चस्य सूक्तस्यौचथ्योदीर्घतमाऋषिः इध्मस्तनूनपान्नराशंसइळो बर्हिर्देवीर्द्वार उषासानक्ता देव्यौहोतारौ सरस्वतीळाभारत्यस्त्वष्टावनस्पतिः स्वाहाकृतयइतिक्रमेणदेवताः अंत्याया इंद्रोनुष्टुप् | |
समि॑द्धो, अग्न॒ आ व॑ह दे॒वाँ, अ॒द्य य॒तस्रु॑चे |{औचथ्यो दीर्घतमाः | इध्मः समिद्धोऽग्निर्वा | अनुष्टुप्} तन्तुं᳚ तनुष्व पू॒र्व्यं सु॒तसो᳚माय दा॒शुषे᳚ ||{1/13}{1.142.1}{1.21.3.1}{2.2.10.1}{1552, 142, 1552} सम्ऽइ᳚द्धः¦अ॒ग्ने॒¦आ¦व॒ह॒¦दे॒वान्¦अ॒द्य¦य॒तऽस्रु॑चे | तन्तु᳚म्¦त॒नु॒ष्व॒¦पू॒र्व्यम्¦सु॒तऽसो᳚माय¦दा॒शुषे᳚ || |
घृ॒तव᳚न्त॒मुप॑ मासि॒ मधु॑मन्तं तनूनपात् |{औचथ्यो दीर्घतमाः | तनूनपात् | अनुष्टुप्} य॒ज्ञं विप्र॑स्य॒ माव॑तः शशमा॒नस्य॑ दा॒शुषः॑ ||{2/13}{1.142.2}{1.21.3.2}{2.2.10.2}{1553, 142, 1553} घृ॒तऽव᳚न्तम्¦उप॑¦मा॒सि॒¦मधु॑ऽमन्तम्¦त॒नू॒ऽन॒पा॒त् | य॒ज्ञम्¦विप्र॑स्य¦माऽव॑तः¦श॒श॒मा॒नस्य॑¦दा॒शुषः॑ || |
शुचिः॑ पाव॒को, अद्भु॑तो॒ मध्वा᳚ य॒ज्ञं मि॑मिक्षति |{औचथ्यो दीर्घतमाः | नराशंसः | अनुष्टुप्} नरा॒शंस॒स्त्रिरा दि॒वो दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ||{3/13}{1.142.3}{1.21.3.3}{2.2.10.3}{1554, 142, 1554} शुचिः॑¦पा॒व॒कः¦अद्भु॑तः¦मध्वा᳚¦य॒ज्ञम्¦मि॒मि॒क्ष॒ति॒ | नरा॒शंसः॑¦त्रिः¦आ¦दि॒वः¦दे॒वः¦दे॒वेषु॑¦य॒ज्ञियः॑ || |
ई॒ळि॒तो, अ॑ग्न॒ आ व॒हेन्द्रं᳚ चि॒त्रमि॒ह प्रि॒यम् |{औचथ्यो दीर्घतमाः | इळः | अनुष्टुप्} इ॒यं हि त्वा᳚ म॒तिर्ममाच्छा᳚ सुजिह्व व॒च्यते᳚ ||{4/13}{1.142.4}{1.21.3.4}{2.2.10.4}{1555, 142, 1555} ई॒ळि॒तः¦अ॒ग्ने॒¦आ¦व॒ह॒¦इन्द्र᳚म्¦चि॒त्रम्¦इ॒ह¦प्रि॒यम् | इ॒यम्¦हि¦त्वा॒¦म॒तिः¦मम॑¦अच्छ॑¦सु॒ऽजि॒ह्व॒¦व॒च्यते᳚ || |
स्तृ॒णा॒नासो᳚ य॒तस्रु॑चो ब॒र्हिर्य॒ज्ञे स्व॑ध्व॒रे |{औचथ्यो दीर्घतमाः | बर्हिः | अनुष्टुप्} वृ॒ञ्जे दे॒वव्य॑चस्तम॒मिन्द्रा᳚य॒ शर्म॑ स॒प्रथः॑ ||{5/13}{1.142.5}{1.21.3.5}{2.2.10.5}{1556, 142, 1556} स्तृ॒णा॒नासः॑¦य॒तऽस्रु॑चः¦ब॒र्हिः¦य॒ज्ञे¦सु॒।आ॒ध्व॒रे | वृं॒जे¦दे॒वव्य॑चःऽतमम्¦इन्द्रा᳚य¦शर्म॑¦स॒ऽप्रथः॑ || |
वि श्र॑यन्तामृता॒वृधः॑ प्र॒यै दे॒वेभ्यो᳚ म॒हीः |{औचथ्यो दीर्घतमाः | देवीर्द्वारः | अनुष्टुप्} पा॒व॒कासः॑ पुरु॒स्पृहो॒ द्वारो᳚ दे॒वीर॑स॒श्चतः॑ ||{6/13}{1.142.6}{1.21.3.6}{2.2.10.6}{1557, 142, 1557} वि¦श्र॒य॒न्ता॒म्¦ऋ॒त॒ऽवृधः॑¦प्र॒ऽयै¦दे॒वेभ्यः॑¦म॒हीः | पा॒व॒कासः॑¦पु॒रु॒ऽस्पृहः॑¦द्वारः॑¦दे॒वीः¦अ॒स॒श्चतः॑ || |
आ भन्द॑माने॒, उपा᳚के॒ नक्तो॒षासा᳚ सु॒पेश॑सा |{औचथ्यो दीर्घतमाः | उषासानक्ता | अनुष्टुप्} य॒ह्वी, ऋ॒तस्य॑ मा॒तरा॒ सीद॑तां ब॒र्हिरा सु॒मत् ||{7/13}{1.142.7}{1.21.3.7}{2.2.11.1}{1558, 142, 1558} आ¦भन्द॑माने॒ इति॑¦उपा᳚के॒ इति॑¦नक्तो॒षसा᳚¦सु॒ऽपेश॑सा | य॒ह्वी इति॑¦ऋ॒तस्य॑¦मा॒तरा᳚¦सीद॑ताम्¦ब॒र्हिः¦आ¦सु॒ऽमत् || |
म॒न्द्रजि॑ह्वा जुगु॒र्वणी॒ होता᳚रा॒ दैव्या᳚ क॒वी |{औचथ्यो दीर्घतमाः | देव्यौहोतारौ | अनुष्टुप्} य॒ज्ञं नो᳚ यक्षतामि॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृश᳚म् ||{8/13}{1.142.8}{1.21.3.8}{2.2.11.2}{1559, 142, 1559} म॒न्द्रऽजि॑ह्वा¦जु॒गु॒र्वणी॒ इति॑¦होता᳚रा¦दैव्या᳚¦क॒वी इति॑ | य॒ज्ञम्¦नः॒¦य॒क्ष॒ता॒म्¦इ॒मम्¦सि॒ध्रम्¦अ॒द्य¦दि॒वि॒ऽस्पृश᳚म् || |
शुचि॑र्दे॒वेष्वर्पि॑ता॒ होत्रा᳚ म॒रुत्सु॒ भार॑ती |{औचथ्यो दीर्घतमाः | तिस्रो देव्यः सरस्वतीळाभारत्यः | अनुष्टुप्} इळा॒ सर॑स्वती म॒ही ब॒र्हिः सी᳚दन्तु य॒ज्ञियाः᳚ ||{9/13}{1.142.9}{1.21.3.9}{2.2.11.3}{1560, 142, 1560} शुचिः॑¦दे॒वेषु॑¦अर्पि॑ता¦होत्रा᳚¦म॒रुत्ऽसु॑¦भार॑ती | इळा᳚¦सर॑स्वती¦म॒ही¦ब॒र्हिः¦सी॒द॒न्तु॒¦य॒ज्ञियाः᳚ || |
तन्न॑स्तु॒रीप॒मद्भु॑तं पु॒रु वारं᳚ पु॒रु त्मना᳚ |{औचथ्यो दीर्घतमाः | त्वष्टाः | अनुष्टुप्} त्वष्टा॒ पोषा᳚य॒ वि ष्य॑तु रा॒ये नाभा᳚ नो, अस्म॒युः ||{10/13}{1.142.10}{1.21.3.10}{2.2.11.4}{1561, 142, 1561} तत्¦नः॒¦तु॒रीप᳚म्¦अद्भु॑तम्¦पु॒रु¦वा॒¦अर᳚म्¦पु॒रु¦त्मना᳚ | त्वष्टा᳚¦पोषा᳚य¦वि¦स्य॒तु॒¦रा॒ये¦नाभा᳚¦नः॒¦अ॒स्म॒ऽयुः || |
अ॒व॒सृ॒जन्नुप॒ त्मना᳚ दे॒वान् य॑क्षि वनस्पते |{औचथ्यो दीर्घतमाः | वनस्पतिः | अनुष्टुप्} अ॒ग्निर्ह॒व्या सु॑षूदति दे॒वो दे॒वेषु॒ मेधि॑रः ||{11/13}{1.142.11}{1.21.3.11}{2.2.11.5}{1562, 142, 1562} अ॒व॒ऽसृ॒जन्¦उप॑¦त्मना᳚¦दे॒वान्¦य॒क्षि॒¦व॒न॒स्प॒ते॒ | अ॒ग्निः¦ह॒व्या¦सु॒सू॒द॒ति॒¦दे॒वः¦दे॒वेषु॑¦मेधि॑रः || |
पू॒ष॒ण्वते᳚ म॒रुत्व॑ते वि॒श्वदे᳚वाय वा॒यवे᳚ |{औचथ्यो दीर्घतमाः | स्वाहाकृतयः | अनुष्टुप्} स्वाहा᳚ गाय॒त्रवे᳚पसे ह॒व्यमिन्द्रा᳚य कर्तन ||{12/13}{1.142.12}{1.21.3.12}{2.2.11.6}{1563, 142, 1563} पू॒ष॒ण्ऽवते᳚¦म॒रुत्व॑ते¦वि॒श्वऽदे᳚वाय¦वा॒यवे᳚ | स्वाहा᳚¦गा॒य॒त्रऽवे᳚पसे¦ह॒व्यम्¦इन्द्रा᳚य¦क॒र्त॒न॒ || |
स्वाहा᳚कृता॒न्या ग॒ह्युप॑ ह॒व्यानि॑ वी॒तये᳚ |{औचथ्यो दीर्घतमाः | इन्द्रः | अनुष्टुप्} इन्द्रा ग॑हि श्रु॒धी हवं॒ त्वां ह॑वन्ते, अध्व॒रे ||{13/13}{1.142.13}{1.21.3.13}{2.2.11.7}{1564, 142, 1564} स्वाहा᳚ऽकृतानि¦आ¦ग॒हि॒¦उप॑¦ह॒व्यानि॑¦वी॒तये᳚ | इन्द्र॑¦आ¦ग॒हि॒¦श्रु॒धि¦हव᳚म्¦त्वाम्¦ह॒व॒न्ते॒¦अ॒ध्व॒रे || |
[143] प्रतव्यसीमित्यष्टर्चस्य सूक्तस्यौचथ्यो दीर्घतमाअग्निर्जगतीअंत्यात्रिष्टुप् | |
प्र तव्य॑सीं॒ नव्य॑सीं धी॒तिम॒ग्नये᳚ वा॒चो म॒तिं सह॑सः सू॒नवे᳚ भरे |{औचथ्यो दीर्घतमाः | अग्निः | जगती} अ॒पां नपा॒द्यो वसु॑भिः स॒ह प्रि॒यो होता᳚ पृथि॒व्यां न्यसी᳚ददृ॒त्वियः॑ ||{1/8}{1.143.1}{1.21.4.1}{2.2.12.1}{1565, 143, 1565} प्र¦तव्य॑सीम्¦नव्य॑सीम्¦धी॒तिम्¦अ॒ग्नये᳚¦वा॒चः¦म॒तिम्¦सह॑सः¦सू॒नवे᳚¦भ॒रे॒ | |
स जाय॑मानः पर॒मे व्यो᳚मन्या॒विर॒ग्निर॑भवन्मात॒रिश्व॑ने |{औचथ्यो दीर्घतमाः | अग्निः | जगती} अ॒स्य क्रत्वा᳚ समिधा॒नस्य॑ म॒ज्मना॒ प्र द्यावा᳚ शो॒चिः पृ॑थि॒वी, अ॑रोचयत् ||{2/8}{1.143.2}{1.21.4.2}{2.2.12.2}{1566, 143, 1566} सः¦जाय॑मानः¦प॒र॒मे¦विऽओ᳚मनि¦आ॒विः¦अ॒ग्निः¦अ॒भ॒व॒त्¦मा॒त॒रिश्व॑ने | |
अ॒स्य त्वे॒षा, अ॒जरा᳚, अ॒स्य भा॒नवः॑ सुसं॒दृशः॑ सु॒प्रती᳚कस्य सु॒द्युतः॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती} भात्व॑क्षसो॒, अत्य॒क्तुर्न सिन्ध॑वो॒ऽग्ने रे᳚जन्ते॒, अस॑सन्तो, अ॒जराः᳚ ||{3/8}{1.143.3}{1.21.4.3}{2.2.12.3}{1567, 143, 1567} अ॒स्य¦त्वे॒षाः¦अ॒जराः᳚¦अ॒स्य¦भा॒नवः॑¦सु॒ऽसं॒दृशः॑¦सु॒ऽप्रती᳚कस्य¦सु॒ऽद्युतः॑ | |
यमे᳚रि॒रे भृग॑वो वि॒श्ववे᳚दसं॒ नाभा᳚ पृथि॒व्या भुव॑नस्य म॒ज्मना᳚ |{औचथ्यो दीर्घतमाः | अग्निः | जगती} अ॒ग्निं तं गी॒र्भिर्हि॑नुहि॒ स्व आ दमे॒ य एको॒ वस्वो॒ वरु॑णो॒ न राज॑ति ||{4/8}{1.143.4}{1.21.4.4}{2.2.12.4}{1568, 143, 1568} यम्¦आ॒ऽई॒रि॒रे॒¦भृग॑वः¦वि॒श्वऽवे᳚दसम्¦नाभा᳚¦पृ॒थि॒व्याः¦भुव॑नस्य¦म॒ज्मना᳚ | |
न यो वरा᳚य म॒रुता᳚मिव स्व॒नः सेने᳚व सृ॒ष्टा दि॒व्या यथा॒शनिः॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती} अ॒ग्निर्जम्भै᳚स्तिगि॒तैर॑त्ति॒ भर्व॑ति यो॒धो न शत्रू॒न् त्स वना॒ न्यृ᳚ञ्जते ||{5/8}{1.143.5}{1.21.4.5}{2.2.12.5}{1569, 143, 1569} न¦यः¦वरा᳚य¦म॒रुता᳚म्ऽइव¦स्व॒नः¦सेना᳚ऽइव¦सृ॒ष्टा¦दि॒व्या¦यथा᳚¦अ॒शनिः॑ | |
कु॒विन्नो᳚, अ॒ग्निरु॒चथ॑स्य॒ वीरस॒द् वसु॑ष्कु॒विद् वसु॑भिः॒ काम॑मा॒वर॑त् |{औचथ्यो दीर्घतमाः | अग्निः | जगती} चो॒दः कु॒वित् तु॑तु॒ज्यात् सा॒तये॒ धियः॒ शुचि॑प्रतीकं॒ तम॒या धि॒या गृ॑णे ||{6/8}{1.143.6}{1.21.4.6}{2.2.12.6}{1570, 143, 1570} कु॒वित्¦नः॒¦अ॒ग्निः¦उ॒चथ॑स्य¦वीः¦अस॑त्¦वसुः॑¦कु॒वित्¦वसु॑ऽभिः¦काम᳚म्¦आ॒ऽवर॑त् | |
घृ॒तप्र॑तीकं व ऋ॒तस्य॑ धू॒र्षद॑म॒ग्निं मि॒त्रं न स॑मिधा॒न ऋ᳚ञ्जते |{औचथ्यो दीर्घतमाः | अग्निः | जगती} इन्धा᳚नो, अ॒क्रो वि॒दथे᳚षु॒ दीद्य॑च्छु॒क्रव᳚र्णा॒मुदु॑ नो यंसते॒ धिय᳚म् ||{7/8}{1.143.7}{1.21.4.7}{2.2.12.7}{1571, 143, 1571} घृ॒तऽप्र॑तीकम्¦वः॒¦ऋ॒तस्य॑¦धूः॒ऽसद᳚म्¦अ॒ग्निम्¦मि॒त्रम्¦न¦स॒म्ऽइ॒धा॒नः¦ऋं॒ज॒ते॒ | |
अप्र॑युच्छ॒न्नप्र॑युच्छद्भिरग्ने शि॒वेभि᳚र्नः पा॒युभिः॑ पाहि श॒ग्मैः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} अद॑ब्धेभि॒रदृ॑पितेभिरि॒ष्टेऽनि॑मिषद्भिः॒ परि॑ पाहि नो॒ जाः ||{8/8}{1.143.8}{1.21.4.8}{2.2.12.8}{1572, 143, 1572} अप्र॑ऽयुच्छन्¦अप्र॑युच्छत्ऽभिः¦अ॒ग्ने॒¦शि॒वेभिः॑¦नः॒¦पा॒युऽभिः॑¦पा॒हि॒¦श॒ग्मैः | |
[144] एतीति सप्तर्चस्य सूक्तस्यौचथ्योदीर्घतमाग्निर्जगती | |
एति॒ प्र होता᳚ व्र॒तम॑स्य मा॒ययो॒र्ध्वां दधा᳚नः॒ शुचि॑पेशसं॒ धिय᳚म् |{औचथ्यो दीर्घतमाः | अग्निः | जगती} अ॒भि स्रुचः॑ क्रमते दक्षिणा॒वृतो॒ या, अ॑स्य॒ धाम॑ प्रथ॒मं ह॒ निंस॑ते ||{1/7}{1.144.1}{1.21.5.1}{2.2.13.1}{1573, 144, 1573} एति॑¦प्र¦होता᳚¦व्र॒तम्¦अ॒स्य॒¦मा॒यया᳚¦ऊ॒र्ध्वाम्¦दधा᳚नः¦शुचि॑ऽपेशसम्¦धिय᳚म् | |
अ॒भीमृ॒तस्य॑ दो॒हना᳚, अनूषत॒ योनौ᳚ दे॒वस्य॒ सद॑ने॒ परी᳚वृताः |{औचथ्यो दीर्घतमाः | अग्निः | जगती} अ॒पामु॒पस्थे॒ विभृ॑तो॒ यदाव॑स॒दध॑ स्व॒धा, अ॑धय॒द् याभि॒रीय॑ते ||{2/7}{1.144.2}{1.21.5.2}{2.2.13.2}{1574, 144, 1574} अ॒भि¦ई॒म्¦ऋ॒तस्य॑¦दो॒हनाः᳚¦अ॒नू॒ष॒त॒¦योनौ᳚¦दे॒वस्य॑¦सद॑ने¦परि॑ऽवृताः | |
युयू᳚षतः॒ सव॑यसा॒ तदिद् वपुः॑ समा॒नमर्थं᳚ वि॒तरि॑त्रता मि॒थः |{औचथ्यो दीर्घतमाः | अग्निः | जगती} आदीं॒ भगो॒ न हव्यः॒ सम॒स्मदा वोळ्हु॒र्न र॒श्मीन् त्सम॑यंस्त॒ सार॑थिः ||{3/7}{1.144.3}{1.21.5.3}{2.2.13.3}{1575, 144, 1575} युयू᳚षतः¦सऽव॑यसा¦तत्¦इत्¦वपुः॑¦स॒मा॒नम्¦अर्थ᳚म्¦वि॒ऽतरि॑त्रता¦मि॒थः | |
यमीं॒ द्वा सव॑यसा सप॒र्यतः॑ समा॒ने योना᳚ मिथु॒ना समो᳚कसा |{औचथ्यो दीर्घतमाः | अग्निः | जगती} दिवा॒ न नक्तं᳚ पलि॒तो युवा᳚जनि पु॒रू चर᳚न् न॒जरो॒ मानु॑षा यु॒गा ||{4/7}{1.144.4}{1.21.5.4}{2.2.13.4}{1576, 144, 1576} यम्¦ई॒म्¦द्वा¦सऽव॑यसा¦स॒प॒र्यतः॑¦स॒मा॒ने¦योना᳚¦मि॒थु॒ना¦सम्ऽओ᳚कसा | |
तमीं᳚ हिन्वन्ति धी॒तयो॒ दश॒ व्रिशो᳚ दे॒वं मर्ता᳚स ऊ॒तये᳚ हवामहे |{औचथ्यो दीर्घतमाः | अग्निः | जगती} धनो॒रधि॑ प्र॒वत॒ आ स ऋ᳚ण्वत्यभि॒व्रज॑द्भिर्व॒युना॒ नवा᳚धित ||{5/7}{1.144.5}{1.21.5.5}{2.2.13.5}{1577, 144, 1577} तम्¦ई॒म्¦हि॒न्व॒न्ति॒¦धी॒तयः॑¦दश॑¦व्रिशः॑¦दे॒वम्¦मर्ता᳚सः¦ऊ॒तये᳚¦ह॒वा॒म॒हे॒ | |
त्वं ह्य॑ग्ने दि॒व्यस्य॒ राज॑सि॒ त्वं पार्थि॑वस्य पशु॒पा, इ॑व॒ त्मना᳚ |{औचथ्यो दीर्घतमाः | अग्निः | जगती} एनी᳚ त ए॒ते बृ॑ह॒ती, अ॑भि॒श्रिया᳚ हिर॒ण्ययी॒ वक्व॑री ब॒र्हिरा᳚शाते ||{6/7}{1.144.6}{1.21.5.6}{2.2.13.6}{1578, 144, 1578} त्वम्¦हि¦अ॒ग्ने॒¦दि॒व्यस्य॑¦राज॑सि¦त्वम्¦पार्थि॑वस्य¦प॒शु॒पाःऽइ᳚व¦त्मना᳚ | |
अग्ने᳚ जु॒षस्व॒ प्रति॑ हर्य॒ तद्वचो॒ मन्द्र॒ स्वधा᳚व॒ ऋत॑जात॒ सुक्र॑तो |{औचथ्यो दीर्घतमाः | अग्निः | जगती} यो वि॒श्वतः॑ प्र॒त्यङ्ङसि॑ दर्श॒तो र॒ण्वः संदृ॑ष्टौ पितु॒माँ, इ॑व॒ क्षयः॑ ||{7/7}{1.144.7}{1.21.5.7}{2.2.13.7}{1579, 144, 1579} अग्ने᳚¦जु॒षस्व॑¦प्रति॑¦ह॒र्य॒¦तत्¦वचः॑¦मन्द्र॑¦स्वधा᳚ऽवः¦ऋत॑ऽजात¦सुक्र॑तो॒ इति॒ सुऽक्र॑तो | |
[145] तंपृच्छतेति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निर्जगतीअंत्यात्रिष्टुप् | |
तं पृ॑च्छता॒ स ज॑गामा॒ स वे᳚द॒ स चि॑कि॒त्वाँ, ई᳚यते॒ सा न्वी᳚यते |{औचथ्यो दीर्घतमाः | अग्निः | जगती} तस्मि᳚न् त्सन्ति प्र॒शिष॒स्तस्मि᳚न्नि॒ष्टयः॒ स वाज॑स्य॒ शव॑सः शु॒ष्मिण॒स्पतिः॑ ||{1/5}{1.145.1}{1.21.6.1}{2.2.14.1}{1580, 145, 1580} तम्¦पृ॒च्छ॒त॒¦सः¦ज॒गा॒म॒¦सः¦वे॒द॒¦सः¦चि॒कि॒त्वान्¦ई॒य॒ते॒¦सः¦नु¦ई॒य॒ते॒ | |
तमित् पृ॑च्छन्ति॒ न सि॒मो वि पृ॑च्छति॒ स्वेने᳚व॒ धीरो॒ मन॑सा॒ यदग्र॑भीत् |{औचथ्यो दीर्घतमाः | अग्निः | जगती} न मृ॑ष्यते प्रथ॒मं नाप॑रं॒ वचो॒ऽस्य क्रत्वा᳚ सचते॒, अप्र॑दृपितः ||{2/5}{1.145.2}{1.21.6.2}{2.2.14.2}{1581, 145, 1581} तम्¦इत्¦पृ॒च्छ॒न्ति॒¦न¦सि॒मः¦वि¦पृ॒च्छ॒ति॒¦स्वेन॑ऽव¦धीरः॑¦मन॑सा¦यत्¦अग्र॑भीत् | |
तमिद् ग॑च्छन्ति जु॒ह्व१॑(अ॒)स्तमर्व॑ती॒र्विश्वा॒न्येकः॑ शृणव॒द् वचां᳚सि मे |{औचथ्यो दीर्घतमाः | अग्निः | जगती} पु॒रु॒प्रै॒षस्ततु॑रिर्यज्ञ॒साध॒नोऽच्छि॑द्रोतिः॒ शिशु॒राद॑त्त॒ सं रभः॑ ||{3/5}{1.145.3}{1.21.6.3}{2.2.14.3}{1582, 145, 1582} तम्¦इत्¦ग॒च्छ॒न्ति॒¦जु॒ह्वः॑¦तम्¦अर्व॑तीः¦विश्वा᳚नि¦एकः॑¦शृ॒ण॒व॒त्¦वचां᳚सि¦मे॒ | |
उ॒प॒स्थायं᳚ चरति॒ यत् स॒मार॑त स॒द्यो जा॒तस्त॑त्सार॒ युज्ये᳚भिः |{औचथ्यो दीर्घतमाः | अग्निः | जगती} अ॒भि श्वा॒न्तं मृ॑शते ना॒न्द्ये᳚ मु॒दे यदीं॒ गच्छ᳚न् त्युश॒तीर॑पिष्ठि॒तम् ||{4/5}{1.145.4}{1.21.6.4}{2.2.14.4}{1583, 145, 1583} उ॒प॒ऽस्थाय᳚म्¦च॒र॒ति॒¦यत्¦स॒म्ऽआर॑त¦स॒द्यः¦जा॒तः¦त॒त्सा॒र॒¦युज्ये᳚भिः | |
स ईं᳚ मृ॒गो, अप्यो᳚ वन॒र्गुरुप॑ त्व॒च्यु॑प॒मस्यां॒ नि धा᳚यि |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} व्य॑ब्रवीद् व॒युना॒ मर्त्ये᳚भ्यो॒ऽग्निर्वि॒द्वाँ, ऋ॑त॒चिद्धि स॒त्यः ||{5/5}{1.145.5}{1.21.6.5}{2.2.14.5}{1584, 145, 1584} सः¦ई॒म्¦मृ॒गः¦अप्यः॑¦व॒न॒र्गुः¦उप॑¦त्व॒चि¦उ॒प॒ऽमस्या᳚म्¦नि¦धा॒यि॒ | |
[146] त्रिमूर्धानमिति पंचर्चस्य सूक्तस्यौचथ्यो दीर्घतमाअग्निस्त्रिष्टुप् | |
त्रि॒मू॒र्धानं᳚ स॒प्तर॑श्मिं गृणी॒षेऽनू᳚नम॒ग्निं पि॒त्रोरु॒पस्थे᳚ |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} नि॒ष॒त्तम॑स्य॒ चर॑तो ध्रु॒वस्य॒ विश्वा᳚ दि॒वो रो᳚च॒नाप॑प्रि॒वांस᳚म् ||{1/5}{1.146.1}{1.21.7.1}{2.2.15.1}{1585, 146, 1585} त्रि॒ऽमू॒र्धान᳚म्¦स॒प्तऽर॑श्मिम्¦गृ॒णी॒षे॒¦अनू᳚नम्¦अ॒ग्निम्¦पि॒त्रोः¦उ॒पऽस्थे᳚ | |
उ॒क्षा म॒हाँ, अ॒भि व॑वक्ष एने, अ॒जर॑स्तस्थावि॒तऊ᳚तिरृ॒ष्वः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} उ॒र्व्याः प॒दो नि द॑धाति॒ सानौ᳚ रि॒हन्त्यूधो᳚, अरु॒षासो᳚, अस्य ||{2/5}{1.146.2}{1.21.7.2}{2.2.15.2}{1586, 146, 1586} उ॒क्षा¦म॒हान्¦अ॒भि¦व॒व॒क्षे॒¦ए॒ने॒ इति॑¦अ॒जरः॑¦त॒स्थौ॒¦इ॒तःऽऊ᳚तिः¦ऋ॒ष्वः | |
स॒मा॒नं व॒त्सम॒भि सं॒चर᳚न्ती॒ विष्व॑ग्धे॒नू वि च॑रतः सु॒मेके᳚ |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} अ॒न॒प॒वृ॒ज्याँ, अध्व॑नो॒ मिमा᳚ने॒ विश्वा॒न् केताँ॒, अधि॑ म॒हो दधा᳚ने ||{3/5}{1.146.3}{1.21.7.3}{2.2.15.3}{1587, 146, 1587} स॒मा॒नम्¦व॒त्सम्¦अ॒भि¦सं॒चर᳚न्ती॒ इति॑ स॒म्ऽचर᳚न्ती¦विष्व॑क्¦धे॒नू इति॑¦वि¦च॒र॒तः॒¦सु॒मेके॒ इति॑ सु॒ऽमेके᳚ | |
धीरा᳚सः प॒दं क॒वयो᳚ नयन्ति॒ नाना᳚ हृ॒दा रक्ष॑माणा, अजु॒र्यम् |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} सिषा᳚सन्तः॒ पर्य॑पश्यन्त॒ सिन्धु॑मा॒विरे᳚भ्यो, अभव॒त् सूर्यो॒ नॄन् ||{4/5}{1.146.4}{1.21.7.4}{2.2.15.4}{1588, 146, 1588} धीरा᳚सः¦प॒दम्¦क॒वयः॑¦न॒य॒न्ति॒¦नाना᳚¦हृ॒दा¦रक्ष॑माणाः¦अ॒जु॒र्यम् | |
दि॒दृ॒क्षेण्यः॒ परि॒ काष्ठा᳚सु॒ जेन्य॑ ई॒ळेन्यो᳚ म॒हो, अर्भा᳚य जी॒वसे᳚ |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} पु॒रु॒त्रा यदभ॑व॒त् सूरहै᳚भ्यो॒ गर्भे᳚भ्यो म॒घवा᳚ वि॒श्वद॑र्शतः ||{5/5}{1.146.5}{1.21.7.5}{2.2.15.5}{1589, 146, 1589} दि॒दृ॒क्षेण्यः॑¦परि॑¦काष्ठा᳚सु¦जेन्यः॑¦ई॒ळेन्यः॑¦म॒हः¦अर्भा᳚य¦जी॒वसे᳚ | |
[147] कथातइतिपंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्नित्रिष्टुप् | |
क॒था ते᳚, अग्ने शु॒चय᳚न्त आ॒योर्द॑दा॒शुर्वाजे᳚भिराशुषा॒णाः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} उ॒भे यत्तो॒के तन॑ये॒ दधा᳚ना, ऋ॒तस्य॒ साम᳚न् र॒णय᳚न्त दे॒वाः ||{1/5}{1.147.1}{1.21.8.1}{2.2.16.1}{1590, 147, 1590} क॒था¦ते॒¦अ॒ग्ने॒¦शु॒चय᳚न्तः¦आ॒योः¦द॒दा॒शुः¦वाजे᳚भिः¦आ॒शु॒षा॒णाः | |
बोधा᳚ मे, अ॒स्य वच॑सो यविष्ठ॒ मंहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} पीय॑ति त्वो॒, अनु॑ त्वो गृणाति व॒न्दारु॑स्ते त॒न्वं᳚ वन्दे, अग्ने ||{2/5}{1.147.2}{1.21.8.2}{2.2.16.2}{1591, 147, 1591} बोध॑¦मे॒¦अ॒स्य¦वच॑सः¦य॒वि॒ष्ठ॒¦मंहि॑ष्ठस्य¦प्रऽभृ॑तस्य¦स्व॒धा॒ऽवः॒ | |
ये पा॒यवो᳚ मामते॒यं ते᳚, अग्ने॒ पश्य᳚न्तो, अ॒न्धं दु॑रि॒तादर॑क्षन् |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} र॒रक्ष॒ तान् त्सु॒कृतो᳚ वि॒श्ववे᳚दा॒ दिप्स᳚न्त॒ इद् रि॒पवो॒ नाह॑ देभुः ||{3/5}{1.147.3}{1.21.8.3}{2.2.16.3}{1592, 147, 1592} ये¦पा॒यवः॑¦मा॒म॒ते॒यम्¦ते॒¦अ॒ग्ने॒¦पश्य᳚न्तः¦अ॒न्धम्¦दुः॒ऽइ॒तात्¦अर॑क्षन् | |
यो नो᳚, अग्ने॒, अर॑रिवाँ, अघा॒युर॑राती॒वा म॒र्चय॑ति द्व॒येन॑ |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} मन्त्रो᳚ गु॒रुः पुन॑रस्तु॒ सो, अ॑स्मा॒, अनु॑ मृक्षीष्ट त॒न्वं᳚ दुरु॒क्तैः ||{4/5}{1.147.4}{1.21.8.4}{2.2.16.4}{1593, 147, 1593} यः¦नः॒¦अ॒ग्ने॒¦अर॑रिऽवान्¦अ॒घ॒ऽयुः¦अ॒रा॒ति॒ऽवा¦म॒र्चय॑ति¦द्व॒येन॑ | |
उ॒त वा॒ यः स॑हस्य प्रवि॒द्वान् मर्तो॒ मर्तं᳚ म॒र्चय॑ति द्व॒येन॑ |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} अतः॑ पाहि स्तवमान स्तु॒वन्त॒मग्ने॒ माकि᳚र्नो दुरि॒ताय॑ धायीः ||{5/5}{1.147.5}{1.21.8.5}{2.2.16.5}{1594, 147, 1594} उ॒त¦वा॒¦यः¦स॒ह॒स्य॒¦प्र॒ऽवि॒द्वान्¦मर्तः॑¦मर्त᳚म्¦म॒र्चय॑ति¦द्व॒येन॑ | |
[148] मथीद्यदीमिति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निस्त्रिष्टुप् | |
मथी॒द् यदीं᳚ वि॒ष्टो मा᳚त॒रिश्वा॒ होता᳚रं वि॒श्वाप्सुं᳚ वि॒श्वदे᳚व्यम् |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} नि यं द॒धुर्म॑नु॒ष्या᳚सु वि॒क्षु स्व१॑(अ॒)र्ण चि॒त्रं वपु॑षे वि॒भाव᳚म् ||{1/5}{1.148.1}{1.21.9.1}{2.2.17.1}{1595, 148, 1595} मथी᳚त्¦यत्¦ई॒म्¦वि॒ष्टः¦मा॒त॒रिश्वा᳚¦होता᳚रम्¦वि॒श्व।आ॑प्सुम्¦वि॒श्वऽदे᳚व्यम् | |
द॒दा॒नमिन्न द॑दभन्त॒ मन्मा॒ग्निर्वरू᳚थं॒ मम॒ तस्य॑ चाकन् |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} जु॒षन्त॒ विश्वा᳚न्यस्य॒ कर्मोप॑स्तुतिं॒ भर॑माणस्य का॒रोः ||{2/5}{1.148.2}{1.21.9.2}{2.2.17.2}{1596, 148, 1596} द॒दा॒नम्¦इत्¦न¦द॒द॒भ॒न्त॒¦मन्म॑¦अ॒ग्निः¦वरू᳚थम्¦मम॑¦तस्य॑ ¦चा॒क॒न् | |
नित्ये᳚ चि॒न्नु यं सद॑ने जगृ॒भ्रे प्रश॑स्तिभिर्दधि॒रे य॒ज्ञिया᳚सः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} प्र सू न॑यन्त गृ॒भय᳚न्त इ॒ष्टावश्वा᳚सो॒ न र॒थ्यो᳚ रारहा॒णाः ||{3/5}{1.148.3}{1.21.9.3}{2.2.17.3}{1597, 148, 1597} नित्ये᳚¦चि॒त्¦नु¦यम्¦सद॑ने¦ज॒गृ॒भ्रे¦प्रश॑स्तिऽभिः¦द॒धि॒रे¦य॒ज्ञिया᳚सः | |
पु॒रूणि॑ द॒स्मो नि रि॑णाति॒ जम्भै॒राद् रो᳚चते॒ वन॒ आ वि॒भावा᳚ |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} आद॑स्य॒ वातो॒, अनु॑ वाति शो॒चिरस्तु॒र्न शर्या᳚मस॒नामनु॒ द्यून् ||{4/5}{1.148.4}{1.21.9.4}{2.2.17.4}{1598, 148, 1598} पु॒रूणि॑¦द॒स्मः¦नि¦रि॒णा॒ति॒¦जम्भैः᳚¦आत्¦रो॒च॒ते॒¦वने᳚¦आ¦वि॒भाऽवा᳚ | |
न यं रि॒पवो॒ न रि॑ष॒ण्यवो॒ गर्भे॒ सन्तं᳚ रेष॒णा रे॒षय᳚न्ति |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} अ॒न्धा, अ॑प॒श्या न द॑भन्नभि॒ख्या नित्या᳚स ईं प्रे॒तारो᳚, अरक्षन् ||{5/5}{1.148.5}{1.21.9.5}{2.2.17.5}{1599, 148, 1599} न¦यम्¦रि॒पवः॑¦न¦रि॒ष॒ण्यवः॑¦गर्भे᳚¦सन्त᳚म्¦रे॒ष॒णाः¦रे॒षय᳚न्ति | |
[149] महः सरायइति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निर्विराट् | |
म॒हः स रा॒य एष॑ते॒ पति॒र्दन्नि॒न इ॒नस्य॒ वसु॑नः प॒द आ |{औचथ्यो दीर्घतमाः | अग्निः | विराट्} उप॒ ध्रज᳚न्त॒मद्र॑यो वि॒धन्नित् ||{1/5}{1.149.1}{1.21.10.1}{2.2.18.1}{1600, 149, 1600} म॒हः¦सः¦रा॒यः¦आ¦ई॒ष॒ते॒¦पतिः॑¦दन्¦इ॒नः¦इ॒नस्य॑¦वसु॑नः¦प॒दे¦आ | उप॑¦ध्रज᳚न्तम्¦अद्र॑यः¦वि॒धन्¦इत् || |
स यो वृषा᳚ न॒रां न रोद॑स्योः॒ श्रवो᳚भि॒रस्ति॑ जी॒वपी᳚तसर्गः |{औचथ्यो दीर्घतमाः | अग्निः | विराट्} प्र यः स॑स्रा॒णः शि॑श्री॒त योनौ᳚ ||{2/5}{1.149.2}{1.21.10.2}{2.2.18.2}{1601, 149, 1601} सः¦यः¦वृषा᳚¦न॒राम्¦न¦रोद॑स्योः¦श्रवः॑ऽभिः¦अस्ति॑¦जी॒वपी᳚तऽसर्गः | प्र¦यः¦स॒स्रा॒णः¦शि॒श्री॒त¦योनौ᳚ || |
आ यः पुरं॒ नार्मि॑णी॒मदी᳚दे॒दत्यः॑ क॒विर्न॑भ॒न्यो॒३॑(ओ॒) नार्वा᳚ |{औचथ्यो दीर्घतमाः | अग्निः | विराट्} सूरो॒ न रु॑रु॒क्वाञ्छ॒तात्मा᳚ ||{3/5}{1.149.3}{1.21.10.3}{2.2.18.3}{1602, 149, 1602} आ¦यः¦पुर᳚म्¦नार्मि॑णीम्¦अदी᳚देत्¦अत्यः॑¦क॒विः¦न॒भ॒न्यः॑¦न¦आर्वा᳚ | सूरः॑¦न¦रु॒रु॒क्वान्¦श॒तऽआ᳚त्मा || |
अ॒भि द्वि॒जन्मा॒ त्री रो᳚च॒नानि॒ विश्वा॒ रजां᳚सि शुशुचा॒नो, अ॑स्थात् |{औचथ्यो दीर्घतमाः | अग्निः | विराट्} होता॒ यजि॑ष्ठो, अ॒पां स॒धस्थे᳚ ||{4/5}{1.149.4}{1.21.10.4}{2.2.18.4}{1603, 149, 1603} अ॒भि¦द्वि॒ऽजन्मा᳚¦त्री¦रो॒च॒नानि॑¦विश्वा᳚¦रजां᳚सि¦शु॒शु॒चा॒नः¦अ॒स्था॒त् | होता᳚¦यजि॑ष्ठः¦अ॒पाम्¦स॒धऽस्थे᳚ || |
अ॒यं स होता॒ यो द्वि॒जन्मा॒ विश्वा᳚ द॒धे वार्या᳚णि श्रव॒स्या |{औचथ्यो दीर्घतमाः | अग्निः | विराट्} मर्तो॒ यो, अ॑स्मै सु॒तुको᳚ द॒दाश॑ ||{5/5}{1.149.5}{1.21.10.5}{2.2.18.5}{1604, 149, 1604} अ॒यम्¦सः¦होता᳚¦यः¦द्वि॒ऽजन्मा᳚¦विश्वा᳚¦द॒धे¦वार्या᳚णि¦श्र॒व॒स्या | मर्तः॑¦यः¦अ॒स्मै॒¦सु॒ऽतुकः॑¦द॒दाश॑ || |
[150] पुरुत्वेति तृचस्य सूक्तस्यौचथ्योदीर्घतमाअग्निरुष्णिक् | |
पु॒रु त्वा᳚ दा॒श्वान् वो᳚चे॒ऽरिर॑ग्ने॒ तव॑ स्वि॒दा |{औचथ्यो दीर्घतमाः | अग्निः | उष्णिक्} तो॒दस्ये᳚व शर॒ण आ म॒हस्य॑ ||{1/3}{1.150.1}{1.21.11.1}{2.2.19.1}{1605, 150, 1605} पु॒रु¦त्वा॒¦दा॒श्वान्¦वो॒चे॒¦अ॒रिः¦अ॒ग्ने॒¦तव॑¦स्वि॒त्¦आ | तो॒दस्य॑ऽइव¦श॒र॒णे¦आ¦म॒हस्य॑ || |
व्य॑नि॒नस्य॑ ध॒निनः॑ प्रहो॒षे चि॒दर॑रुषः |{औचथ्यो दीर्घतमाः | अग्निः | उष्णिक्} क॒दा च॒न प्र॒जिग॑तो॒, अदे᳚वयोः ||{2/3}{1.150.2}{1.21.11.2}{2.2.19.2}{1606, 150, 1606} वि¦अ॒नि॒नस्य॑¦ध॒निनः॑¦प्र॒ऽहो॒षे¦चि॒त्¦अर॑रुषः | क॒दा¦च॒न¦प्र॒ऽजिग॑तः¦अदे᳚वऽयोः || |
स च॒न्द्रो वि॑प्र॒ मर्त्यो᳚ म॒हो व्राध᳚न्तमो दि॒वि |{औचथ्यो दीर्घतमाः | अग्निः | उष्णिक्} प्रप्रेत्ते᳚, अग्ने व॒नुषः॑ स्याम ||{3/3}{1.150.3}{1.21.11.3}{2.2.19.3}{1607, 150, 1607} सः¦च॒न्द्रः¦वि॒प्र॒¦मर्त्यः॑¦म॒हः¦व्राध॑न्ऽतमः¦दि॒वि | प्रऽप्र॑¦इत्¦ते॒¦अ॒ग्ने॒¦व॒नुषः॑¦स्या॒म॒ || |
[151] मित्रंनयमिति नवर्चस्य सूक्तस्यौचथ्योदीर्घतमामित्रावरुणावाद्यायामित्रोजगती | |
मि॒त्रं न यं शिम्या॒ गोषु॑ ग॒व्यवः॑ स्वा॒ध्यो᳚ वि॒दथे᳚, अ॒प्सु जीज॑नन् |{औचथ्यो दीर्घतमाः | मित्रः | जगती} अरे᳚जेतां॒ रोद॑सी॒ पाज॑सा गि॒रा प्रति॑ प्रि॒यं य॑ज॒तं ज॒नुषा॒मवः॑ ||{1/9}{1.151.1}{1.21.12.1}{2.2.20.1}{1608, 151, 1608} मि॒त्रम्¦न¦यम्¦शिम्या᳚¦गोषु॑¦ग॒व्यवः॑¦सु॒ऽआ॒ध्यः॑¦वि॒दथे᳚¦अ॒प्ऽसु¦जीज॑नन् | |
यद्ध॒ त्यद् वां᳚ पुरुमी॒ळ्हस्य॑ सो॒मिनः॒ प्र मि॒त्रासो॒ न द॑धि॒रे स्वा॒भुवः॑ |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती} अध॒ क्रतुं᳚ विदतं गा॒तुमर्च॑त उ॒त श्रु॑तं वृषणा प॒स्त्या᳚वतः ||{2/9}{1.151.2}{1.21.12.2}{2.2.20.2}{1609, 151, 1609} यत्¦ह॒¦त्यत्¦वा॒म्¦पु॒रु॒ऽमी॒ळ्हस्य॑¦सो॒मिनः॑¦प्र¦मि॒त्रासः॑¦न¦द॒धि॒रे¦सु॒ऽआ॒भुवः॑ | |
आ वां᳚ भूषन् क्षि॒तयो॒ जन्म॒ रोद॑स्योः प्र॒वाच्यं᳚ वृषणा॒ दक्ष॑से म॒हे |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती} यदी᳚मृ॒ताय॒ भर॑थो॒ यदर्व॑ते॒ प्र होत्र॑या॒ शिम्या᳚ वीथो, अध्व॒रम् ||{3/9}{1.151.3}{1.21.12.3}{2.2.20.3}{1610, 151, 1610} आ¦वा॒म्¦भू॒ष॒न्¦क्षि॒तयः॑¦जन्म॑¦रोद॑स्योः¦प्र॒ऽवाच्य᳚म्¦वृ॒ष॒णा॒¦दक्ष॑से¦म॒हे | |
प्र सा क्षि॒तिर॑सुर॒ या महि॑ प्रि॒य ऋता᳚वानावृ॒तमा घो᳚षथो बृ॒हत् |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती} यु॒वं दि॒वो बृ॑ह॒तो दक्ष॑मा॒भुवं॒ गां न धु॒र्युप॑ युञ्जाथे, अ॒पः ||{4/9}{1.151.4}{1.21.12.4}{2.2.20.4}{1611, 151, 1611} प्र¦सा¦क्षि॒तिः¦अ॒सु॒रा॒¦या¦महि॑¦प्रि॒या¦ऋत॑ऽवानौ¦ऋ॒तम्¦आ¦घो॒ष॒थः॒¦बृ॒हत् | |
म॒ही, अत्र॑ महि॒ना वार॑मृण्वथोऽरे॒णव॒स्तुज॒ आ सद्म᳚न् धे॒नवः॑ |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती} स्वर᳚न्ति॒ ता, उ॑प॒रता᳚ति॒ सूर्य॒मा नि॒म्रुच॑ उ॒षस॑स्तक्व॒वीरि॑व ||{5/9}{1.151.5}{1.21.12.5}{2.2.20.5}{1612, 151, 1612} म॒ही इति॑¦अत्र॑¦म॒हि॒ना¦वार᳚म्¦ऋ॒ण्व॒थः॒¦अ॒रे॒णवः॑¦तुजः॑¦आ¦सद्म॑न्¦धे॒नवः॑ | |
आ वा᳚मृ॒ताय॑ के॒शिनी᳚रनूषत॒ मित्र॒ यत्र॒ वरु॑ण गा॒तुमर्च॑थः |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती} अव॒ त्मना᳚ सृ॒जतं॒ पिन्व॑तं॒ धियो᳚ यु॒वं विप्र॑स्य॒ मन्म॑नामिरज्यथः ||{6/9}{1.151.6}{1.21.12.6}{2.2.21.1}{1613, 151, 1613} आ¦वा॒म्¦ऋ॒ताय॑¦के॒शिनीः᳚¦अ॒नू॒ष॒त॒¦मित्र॑¦यत्र॑¦वरु॑ण¦गा॒तुम्¦अर्च॑थः | |
यो वां᳚ य॒ज्ञैः श॑शमा॒नो ह॒ दाश॑ति क॒विर्होता॒ यज॑ति मन्म॒साध॑नः |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती} उपाह॒ तं गच्छ॑थो वी॒थो, अ॑ध्व॒रमच्छा॒ गिरः॑ सुम॒तिं ग᳚न्तमस्म॒यू ||{7/9}{1.151.7}{1.21.12.7}{2.2.21.2}{1614, 151, 1614} यः¦वा॒म्¦य॒ज्ञैः¦श॒श॒मा॒नः¦ह॒¦दाश॑ति¦क॒विः¦होता᳚¦यज॑ति¦म॒न्म॒ऽसाध॑नः | |
यु॒वां य॒ज्ञैः प्र॑थ॒मा गोभि॑रञ्जत॒ ऋता᳚वाना॒ मन॑सो॒ न प्रयु॑क्तिषु |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती} भर᳚न्ति वां॒ मन्म॑ना सं॒यता॒ गिरोऽदृ॑प्यता॒ मन॑सा रे॒वदा᳚शाथे ||{8/9}{1.151.8}{1.21.12.8}{2.2.21.3}{1615, 151, 1615} यु॒वाम्¦य॒ज्ञैः¦प्र॒थ॒मा¦गोभिः॑¦अं॒ज॒ते॒¦ऋत॑ऽवाना¦मन॑सः¦न¦प्रऽयु॑क्तिषु | |
रे॒वद् वयो᳚ दधाथे रे॒वदा᳚शाथे॒ नरा᳚ मा॒याभि॑रि॒तऊ᳚ति॒ माहि॑नम् |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती} न वां॒ द्यावोऽह॑भि॒र्नोत सिन्ध॑वो॒ न दे᳚व॒त्वं प॒णयो॒ नान॑शुर्म॒घम् ||{9/9}{1.151.9}{1.21.12.9}{2.2.21.4}{1616, 151, 1616} रे॒वत्¦वयः॑¦द॒धा॒थे॒ इति॑¦रे॒वत्¦आ॒शा॒थे॒ इति॑¦नरा᳚¦मा॒याभिः॑¦इ॒तःऽऊ᳚ति¦माहि॑नम् | |
[152] युवंवस्त्राणीति सप्तर्चस्य सूक्तस्यौचथ्योदीर्घतमामित्रावरुणौत्रिष्टुप् | |
यु॒वं वस्त्रा᳚णि पीव॒सा व॑साथे यु॒वोरच्छि॑द्रा॒ मन्त॑वो ह॒ सर्गाः᳚ |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्} अवा᳚तिरत॒मनृ॑तानि॒ विश्व॑ ऋ॒तेन॑ मित्रावरुणा सचेथे ||{1/7}{1.152.1}{1.21.13.1}{2.2.22.1}{1617, 152, 1617} यु॒वम्¦वस्त्रा᳚णि¦पी॒व॒सा¦व॒सा॒थे॒ इति॑¦यु॒वोः¦अच्छि॑द्राः¦मन्त॑वः¦ह॒¦सर्गाः᳚ | |
ए॒तच्च॒न त्वो॒ वि चि॑केतदेषां स॒त्यो मन्त्रः॑ कविश॒स्त ऋघा᳚वान् |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्} त्रि॒रश्रिं᳚ हन्ति॒ चतु॑रश्रिरु॒ग्रो दे᳚व॒निदो᳚ ह प्र॑थ॒मा, अ॑जूर्यन् ||{2/7}{1.152.2}{1.21.13.2}{2.2.22.2}{1618, 152, 1618} ए॒तत्¦च॒न¦त्वः॒¦वि¦चि॒के॒त॒त्¦ए॒षा॒म्¦स॒त्यः¦मन्त्रः॑¦क॒वि॒ऽश॒स्तः¦ऋघा᳚वान् | |
अ॒पादे᳚ति प्रथ॒मा प॒द्वती᳚नां॒ कस्तद् वां᳚ मित्रावरु॒णा चि॑केत |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्} गर्भो᳚ भा॒रं भ॑र॒त्या चि॑दस्य ऋ॒तं पिप॒र्त्यनृ॑तं॒ नि ता᳚रीत् ||{3/7}{1.152.3}{1.21.13.3}{2.2.22.3}{1619, 152, 1619} अ॒पात्¦ए॒ति॒¦प्र॒थ॒मा¦प॒त्ऽवती᳚नाम्¦कः¦तत्¦वा॒म्¦मि॒त्रा॒व॒रु॒णा॒¦आ¦चि॒के॒त॒ | |
प्र॒यन्त॒मित् परि॑ जा॒रं क॒नीनां॒ पश्या᳚मसि॒ नोप॑नि॒पद्य॑मानम् |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्} अन॑वपृग्णा॒ वित॑ता॒ वसा᳚नं प्रि॒यं मि॒त्रस्य॒ वरु॑णस्य॒ धाम॑ ||{4/7}{1.152.4}{1.21.13.4}{2.2.22.4}{1620, 152, 1620} प्र॒ऽयन्त᳚म्¦इत्¦परि॑¦जा॒रम्¦क॒नीना᳚म्¦पश्या᳚मसि¦न¦उ॒प॒ऽनि॒पद्य॑मानम् | |
अ॒न॒श्वो जा॒तो, अ॑नभी॒शुरर्वा॒ कनि॑क्रदत् पतयदू॒र्ध्वसा᳚नुः |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्} अ॒चित्तं॒ ब्रह्म॑ जुजुषु॒र्युवा᳚नः॒ प्र मि॒त्रे धाम॒ वरु॑णे गृ॒णन्तः॑ ||{5/7}{1.152.5}{1.21.13.5}{2.2.22.5}{1621, 152, 1621} अ॒न॒श्वः¦जा॒तः¦अ॒न॒भी॒शुः¦अर्वा᳚¦कनि॑क्रदत्¦प॒त॒य॒त्¦ऊ॒र्ध्वऽसा᳚नुः | |
आ धे॒नवो᳚ मामते॒यमव᳚न्तीर्ब्रह्म॒प्रियं᳚ पीपय॒न् त्सस्मि॒न्नूध॑न् |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्} पि॒त्वो भि॑क्षेत व॒युना᳚नि वि॒द्वाना॒साविवा᳚स॒न्नदि॑तिमुरुष्येत् ||{6/7}{1.152.6}{1.21.13.6}{2.2.22.6}{1622, 152, 1622} आ¦धे॒नवः॑¦मा॒म॒ते॒यम्¦अव᳚न्तीः¦ब्र॒ह्म॒ऽप्रिय᳚म्¦पी॒प॒य॒न्¦सस्मि॑न्¦ऊध॑न् | |
आवां᳚ मित्रावरुणा ह॒व्यजु॑ष्टिं॒ नम॑सा देवा॒वव॑सा ववृत्याम् |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्} अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु सह्या, अ॒स्माकं᳚ वृ॒ष्टिर्दि॒व्या सु॑पा॒रा ||{7/7}{1.152.7}{1.21.13.7}{2.2.22.7}{1623, 152, 1623} आ¦वा॒म्¦मि॒त्रा॒व॒रु॒णा॒¦ह॒व्यऽजु॑ष्टिम्¦नम॑सा¦दे॒वौ॒¦अव॑सा¦व॒वृ॒त्या॒म् | |
[153] यजामहइति चतुरृचस्य सूक्तस्यौचथ्योदीर्घतमामित्रावरुणौत्रिष्टुप् | |
यजा᳚महे वां म॒हः स॒जोषा᳚ ह॒व्येभि᳚र्मित्रावरुणा॒ नमो᳚भिः |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्} घृ॒तैर्घृ॑तस्नू॒, अध॒ यद् वा᳚म॒स्मे, अ॑ध्व॒र्यवो॒ न धी॒तिभि॒र्भर᳚न्ति ||{1/4}{1.153.1}{1.21.14.1}{2.2.23.1}{1624, 153, 1624} यजा᳚महे¦वा॒म्¦म॒हः¦स॒ऽजोषाः᳚¦ह॒व्येभिः॑¦मि॒त्रा॒व॒रु॒णा॒¦नमः॑ऽभिः | |
प्रस्तु॑तिर्वां॒ धाम॒ न प्रयु॑क्ति॒रया᳚मि मित्रावरुणा सुवृ॒क्तिः |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्} अ॒नक्ति॒ यद् वां᳚ वि॒दथे᳚षु॒ होता᳚ सु॒म्नं वां᳚ सू॒रिर्वृ॑षणा॒विय॑क्षन् ||{2/4}{1.153.2}{1.21.14.2}{2.2.23.2}{1625, 153, 1625} प्रऽस्तु॑तिः¦वा॒म्¦धाम॑¦न¦प्रऽयु॑क्तिः¦अया᳚मि¦मि॒त्रा॒व॒रु॒णा॒¦सु॒ऽवृ॒क्तिः | |
पी॒पाय॑ धे॒नुरदि॑तिरृ॒ताय॒ जना᳚य मित्रावरुणा हवि॒र्दे |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्} हि॒नोति॒ यद् वां᳚ वि॒दथे᳚ सप॒र्यन् त्स रा॒तह᳚व्यो॒ मानु॑षो॒ न होता᳚ ||{3/4}{1.153.3}{1.21.14.3}{2.2.23.3}{1626, 153, 1626} पी॒पाय॑¦धे॒नुः¦अदि॑तिः¦ऋ॒ताय॑¦जना᳚य¦मि॒त्रा॒व॒रु॒णा॒¦ह॒विः॒ऽदे | |
उ॒त वां᳚ वि॒क्षु मद्या॒स्वन्धो॒ गाव॒ आप॑श्च पीपयन्त दे॒वीः |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्} उ॒तो नो᳚, अ॒स्य पू॒र्व्यः पति॒र्दन् वी॒तं पा॒तं पय॑स उ॒स्रिया᳚याः ||{4/4}{1.153.4}{1.21.14.4}{2.2.23.4}{1627, 153, 1627} उ॒त¦वा॒म्¦वि॒क्षु¦मद्या᳚सु¦अन्धः॑¦गावः॑¦आपः॑¦च॒¦पी॒प॒य॒न्त॒¦दे॒वीः | |
[154] विष्णोर्नुकमिति षडृचस्य सूक्तस्यौचध्योदीर्घतमा विष्णुस्त्रिष्टुप् | |
विष्णो॒र्नु कं᳚ वी॒र्या᳚णि॒ प्र वो᳚चं॒ यः पार्थि॑वानि विम॒मे रजां᳚सि |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्} यो, अस्क॑भाय॒दुत्त॑रं स॒धस्थं᳚ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः ||{1/6}{1.154.1}{1.21.15.1}{2.2.24.1}{1628, 154, 1628} विष्णोः᳚¦नु¦क॒म्¦वी॒र्या᳚णि¦प्र¦वो॒च॒म्¦यः¦पार्थि॑वानि¦वि॒ऽम॒मे¦रजां᳚सि | |
प्र तद् विष्णुः॑ स्तवते वी॒र्ये᳚ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्} यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा᳚ ||{2/6}{1.154.2}{1.21.15.2}{2.2.24.2}{1629, 154, 1629} प्र¦तत्¦विष्णुः॑¦स्त॒व॒ते॒¦वी॒र्ये᳚ण¦मृ॒गः¦न¦भी॒मः¦कु॒च॒रः¦गि॒रि॒ऽस्थाः | |
प्र विष्ण॑वे शू॒षमे᳚तु॒ मन्म॑ गिरि॒क्षित॑ उरुगा॒याय॒ वृष्णे᳚ |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्} य इ॒दं दी॒र्घं प्रय॑तं स॒धस्थ॒मेको᳚ विम॒मे त्रि॒भिरित् प॒देभिः॑ ||{3/6}{1.154.3}{1.21.15.3}{2.2.24.3}{1630, 154, 1630} प्र¦विष्ण॑वे¦शू॒षम्¦ए॒तु॒¦मन्म॑¦गि॒रि॒ऽक्षिते᳚¦उ॒रु॒ऽगा॒याय॑¦वृष्णे᳚ | |
यस्य॒ त्री पू॒र्णा मधु॑ना प॒दान्यक्षी᳚यमाणा स्व॒धया॒ मद᳚न्ति |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्} य उ॑ त्रि॒धातु॑ पृथि॒वीमु॒त द्यामेको᳚ दा॒धार॒ भुव॑नानि॒ विश्वा᳚ ||{4/6}{1.154.4}{1.21.15.4}{2.2.24.4}{1631, 154, 1631} यस्य॑¦त्री¦पू॒र्णा¦मधु॑ना¦प॒दानि॑¦अक्षी᳚यमाणा¦स्व॒धया᳚¦मद᳚न्ति | |
तद॑स्य प्रि॒यम॒भि पाथो᳚, अश्यां॒ नरो॒ यत्र॑ देव॒यवो॒ मद᳚न्ति |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्} उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था विष्णोः᳚ प॒दे प॑र॒मे मध्व॒ उत्सः॑ ||{5/6}{1.154.5}{1.21.15.5}{2.2.24.5}{1632, 154, 1632} तत्¦अ॒स्य॒¦प्रि॒यम्¦अ॒भि¦पाथः॑¦अ॒श्या॒म्¦नरः॑¦यत्र॑¦दे॒व॒ऽयवः॑¦मद᳚न्ति | |
ता वां॒ वास्तू᳚न्युश्मसि॒ गम॑ध्यै॒ यत्र॒ गावो॒ भूरि॑शृङ्गा, अ॒यासः॑ |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्} अत्रा ह॒तदु॑रुगा॒यस्य॒ वृष्णः॑ पर॒मं प॒दमव॑ भाति॒ भूरि॑ ||{6/6}{1.154.6}{1.21.15.6}{2.2.24.6}{1633, 154, 1633} ता¦वा॒म्¦वास्तू᳚नि¦उ॒श्म॒सि॒¦गम॑ध्यै¦यत्र॑¦गावः॑¦भूरि॑ऽशृङ्गाः¦अ॒यासः॑ | |
[155] प्रवःपांतमिति षडृचस्य सूक्तस्यौचथ्योदीर्घतमा आद्यानांतिसृणामिंद्राविष्णू ततस्तिसृणांविष्णुर्जगती | |
प्र वः॒ पान्त॒मन्ध॑सो धियाय॒ते म॒हे शूरा᳚य॒ विष्ण॑वे चार्चत |{औचथ्यो दीर्घतमाः | इंद्राविष्णूः | जगती} या सानु॑नि॒ पर्व॑ताना॒मदा᳚भ्या म॒हस्त॒स्थतु॒रर्व॑तेव सा॒धुना᳚ ||{1/6}{1.155.1}{1.21.16.1}{2.2.25.1}{1634, 155, 1634} प्र¦वः॒¦पान्त᳚म्¦अन्ध॑सः¦धि॒या॒ऽय॒ते¦म॒हे¦शूरा᳚य¦विष्ण॑वे¦च॒¦अ॒र्च॒त॒ | |
त्वे॒षमि॒त्था स॒मर॑णं॒ शिमी᳚वतो॒रिन्द्रा᳚विष्णू सुत॒पा वा᳚मुरुष्यति |{औचथ्यो दीर्घतमाः | इंद्राविष्णूः | जगती} या मर्त्या᳚य प्रतिधी॒यमा᳚न॒मित् कृ॒शानो॒रस्तु॑रस॒नामु॑रु॒ष्यथः॑ ||{2/6}{1.155.2}{1.21.16.2}{2.2.25.2}{1635, 155, 1635} त्वे॒षम्¦इ॒त्था¦स॒म्।आर॑णम्¦शिमी᳚ऽवतोः¦इन्द्रा᳚विष्णू॒ इति॑¦सु॒त॒ऽपाः¦वा॒म्¦उ॒रु॒ष्य॒ति॒ | |
ता, ईं᳚ वर्धन्ति॒ मह्य॑स्य॒ पौंस्यं॒ नि मा॒तरा᳚ नयति॒ रेत॑से भु॒जे |{औचथ्यो दीर्घतमाः | इंद्राविष्णूः | जगती} दधा᳚ति पु॒त्रोऽव॑रं॒ परं᳚ पि॒तुर्नाम॑ तृ॒तीय॒मधि॑ रोच॒ने दि॒वः ||{3/6}{1.155.3}{1.21.16.3}{2.2.25.3}{1636, 155, 1636} ताः¦ई॒म्¦व॒र्ध॒न्ति॒¦महि॑¦अ॒स्य॒¦पौंस्य᳚म्¦नि¦मा॒तरा᳚¦न॒य॒ति॒¦रेत॑से¦भु॒जे | |
तत्त॒दिद॑स्य॒ पौंस्यं᳚ गृणीमसी॒नस्य॑ त्रा॒तुर॑वृ॒कस्य॑ मी॒ळ्हुषः॑ |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} यः पार्थि॑वानि त्रि॒भिरिद् विगा᳚मभिरु॒रु क्रमि॑ष्टोरुगा॒याय॑ जी॒वसे᳚ ||{4/6}{1.155.4}{1.21.16.4}{2.2.25.4}{1637, 155, 1637} तत्ऽत॑त्¦इत्¦अ॒स्य॒¦पौंस्य᳚म्¦गृ॒णी॒म॒सि॒¦इ॒नस्य॑¦त्रा॒तुः¦अ॒वृ॒कस्य॑¦मी॒ळ्हुषः॑ | |
द्वे, इद॑स्य॒ क्रम॑णे स्व॒र्दृशो᳚ऽभि॒ख्याय॒ मर्त्यो᳚ भुरण्यति |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} तृ॒तीय॑मस्य॒ नकि॒रा द॑धर्षति॒ वय॑श्च॒न प॒तय᳚न्तः पत॒त्रिणः॑ ||{5/6}{1.155.5}{1.21.16.5}{2.2.25.5}{1638, 155, 1638} द्वे इति॑¦इत्¦अ॒स्य॒¦क्रम॑णे॒ इति॑¦स्वः॒ऽदृशः॑¦अ॒भि॒ऽख्याय॑¦मर्त्यः॑¦भु॒र॒ण्य॒ति॒ | |
च॒तुर्भिः॑ सा॒कं न॑व॒तिं च॒ नाम॑भिश्च॒क्रं न वृ॒त्तं व्यतीँ᳚रवीविपत् |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} बृ॒हच्छ॑रीरो वि॒मिमा᳚न॒ ऋक्व॑भिर्॒युवाकु॑मारः॒ प्रत्ये᳚त्याह॒वम् ||{6/6}{1.155.6}{1.21.16.6}{2.2.25.6}{1639, 155, 1639} च॒तुःऽभिः॑¦सा॒कम्¦न॒व॒तिम्¦च॒¦नाम॑ऽभिः¦च॒क्रम्¦न¦वृ॒त्तम्¦व्यती᳚न्¦अ॒वी॒वि॒प॒त् | |
[156] भवामित्रइति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाविष्णुर्जगती | |
भवा᳚ मि॒त्रो न शेव्यो᳚ घृ॒तासु॑तिर्॒विभू᳚तद्युम्न एव॒या, उ॑ स॒प्रथाः᳚ |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} अधा᳚ ते विष्णो वि॒दुषा᳚ चि॒दर्ध्यः॒ स्तोमो᳚ य॒ज्ञश्च॒ राध्यो᳚ ह॒विष्म॑ता ||{1/5}{1.156.1}{1.21.17.1}{2.2.26.1}{1640, 156, 1640} भव॑¦मि॒त्रः¦न¦शेव्यः॑¦घृ॒तऽआ᳚सुतिः¦विभू᳚तऽद्युम्नः¦ए॒व॒ऽयाः¦ऊँ॒ इति॑¦स॒ऽप्रथाः᳚ | |
यः पू॒र्व्याय॑ वे॒धसे॒ नवी᳚यसे सु॒मज्जा᳚नये॒ विष्ण॑वे॒ ददा᳚शति |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} यो जा॒तम॑स्य मह॒तो महि॒ ब्रव॒त् सेदु॒ श्रवो᳚भि॒र्युज्यं᳚ चिद॒भ्य॑सत् ||{2/5}{1.156.2}{1.21.17.2}{2.2.26.2}{1641, 156, 1641} यः¦पू॒र्व्याय॑¦वे॒धसे᳚¦नवी᳚यसे¦सु॒मत्ऽजा᳚नये¦विष्ण॑वे¦ददा᳚शति | |
तमु॑ स्तोतारः पू॒र्व्यं यथा᳚ वि॒द ऋ॒तस्य॒ गर्भं᳚ ज॒नुषा᳚ पिपर्तन |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} आस्य॑ जा॒नन्तो॒ नाम॑ चिद् विवक्तन म॒हस्ते᳚ विष्णो सुम॒तिं भ॑जामहे ||{3/5}{1.156.3}{1.21.17.3}{2.2.26.3}{1642, 156, 1642} तम्¦ऊँ॒ इति॑¦स्तो॒ता॒रः॒¦पू॒र्व्यम्¦यथा᳚¦वि॒द¦ऋ॒तस्य॑¦गर्भ᳚म्¦ज॒नुषा᳚¦पि॒प॒र्त॒न॒ | |
तम॑स्य॒ राजा॒ वरु॑ण॒स्तम॒श्विना॒ क्रतुं᳚ सचन्त॒ मारु॑तस्य वे॒धसः॑ |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} दा॒धार॒ दक्ष॑मुत्त॒मम॑ह॒र्विदं᳚ व्र॒जं च॒ विष्णुः॒ सखि॑वाँ, अपोर्णु॒ते ||{4/5}{1.156.4}{1.21.17.4}{2.2.26.4}{1643, 156, 1643} तम्¦अ॒स्य॒¦राजा᳚¦वरु॑णः¦तम्¦अ॒श्विना᳚¦क्रतु᳚म्¦स॒च॒न्त॒¦मारु॑तस्य¦वे॒धसः॑ | |
आ यो वि॒वाय॑ स॒चथा᳚य॒ दैव्य॒ इन्द्रा᳚य॒ विष्णुः॑ सु॒कृते᳚ सु॒कृत्त॑रः |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} वे॒धा, अ॑जिन्वत् त्रिषध॒स्थ आर्य॑मृ॒तस्य॑ भा॒गे यज॑मान॒माभ॑जत् ||{5/5}{1.156.5}{1.21.17.5}{2.2.26.5}{1644, 156, 1644} आ¦यः¦वि॒वाय॑¦स॒चथा᳚य¦दैव्यः॑¦इन्द्रा᳚य¦विष्णुः॑¦सु॒ऽकृते᳚¦सु॒कृत्ऽत॑रः | |
[157] अबोध्यग्निरिति षडृचस्य सूक्तस्यौचथ्योदीर्घतमाअश्विनौ जगत्यंत्येद्वेत्रिष्टुभौ | |
अबो᳚ध्य॒ग्निर्ज्म उदे᳚ति॒ सूर्यो॒ व्यु१॑(उ॒)षाश्च॒न्द्रा म॒ह्या᳚वो, अ॒र्चिषा᳚ |{औचथ्यो दीर्घतमाः | अश्विनौ | जगती} आयु॑क्षाताम॒श्विना॒ यात॑वे॒ रथं॒ प्रासा᳚वीद्दे॒वः स॑वि॒ता जग॒त् पृथ॑क् ||{1/6}{1.157.1}{1.22.1.1}{2.2.27.1}{1645, 157, 1645} अबो᳚धि¦अ॒ग्निः¦ज्मः¦उत्¦ए॒ति॒¦सूर्यः॑¦वि¦उ॒षाः¦च॒न्द्रा¦म॒ही¦आ॒वः॒¦अ॒र्चिषा᳚ | |
यद् यु॒ञ्जाथे॒ वृष॑णमश्विना॒ रथं᳚ घृ॒तेन॑ नो॒ मधु॑ना क्ष॒त्रमु॑क्षतम् |{औचथ्यो दीर्घतमाः | अश्विनौ | जगती} अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु जिन्वतं व॒यं धना॒ शूर॑साता भजेमहि ||{2/6}{1.157.2}{1.22.1.2}{2.2.27.2}{1646, 157, 1646} यत्¦युं॒जाथे॒ इति॑¦वृष॑णम्¦अ॒श्वि॒ना॒¦रथ᳚म्¦घृ॒तेन॑¦नः॒¦मधु॑ना¦क्ष॒त्रम्¦उ॒क्ष॒त॒म् | |
अ॒र्वाङ् त्रि॑च॒क्रो म॑धु॒वाह॑नो॒ रथो᳚ जी॒राश्वो᳚, अ॒श्विनो᳚र्यातु॒ सुष्टु॑तः |{औचथ्यो दीर्घतमाः | अश्विनौ | जगती} त्रि॒व॒न्धु॒रो म॒घवा᳚ वि॒श्वसौ᳚भगः॒ शं न॒ आ व॑क्षद्द्वि॒पदे॒ चतु॑ष्पदे ||{3/6}{1.157.3}{1.22.1.3}{2.2.27.3}{1647, 157, 1647} अ॒र्वाङ्¦त्रि॒ऽच॒क्रः¦म॒धु॒ऽवाह॑नः¦रथः॑¦जी॒र।आ॑श्वः¦अ॒श्विनोः᳚¦या॒तु॒¦सुऽस्तु॑तः | |
आ न॒ ऊर्जं᳚ वहतमश्विना यु॒वं मधु॑मत्या नः॒ कश॑या मिमिक्षतम् |{औचथ्यो दीर्घतमाः | अश्विनौ | जगती} प्रायु॒स्तारि॑ष्टं॒ नी रपां᳚सि मृक्षतं॒ सेध॑तं॒ द्वेषो॒ भव॑तं सचा॒भुवा᳚ ||{4/6}{1.157.4}{1.22.1.4}{2.2.27.4}{1648, 157, 1648} आ¦नः॒¦ऊर्ज᳚म्¦व॒ह॒त॒म्¦अ॒श्वि॒ना॒¦यु॒वम्¦मधु॑ऽमत्या¦नः॒¦कश॑या¦मि॒मि॒क्ष॒त॒म् | |
यु॒वं ह॒ गर्भं॒ जग॑तीषु धत्थो यु॒वं विश्वे᳚षु॒ भुव॑नेष्व॒न्तः |{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्} यु॒वम॒ग्निं च॑ वृषणाव॒पश्च॒ वन॒स्पतीँ᳚रश्विना॒वैर॑येथाम् ||{5/6}{1.157.5}{1.22.1.5}{2.2.27.5}{1649, 157, 1649} यु॒वम्¦ह॒¦गर्भ᳚म्¦जग॑तीषु¦ध॒त्थः॒¦यु॒वम्¦विश्वे᳚षु¦भुव॑नेषु¦अ॒न्तरिति॑ | |
यु॒वं ह॑ स्थो भि॒षजा᳚ भेष॒जेभि॒रथो᳚ ह स्थो र॒थ्या॒३॑(आ॒) राथ्ये᳚भिः |{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्} अथो᳚ ह क्ष॒त्रमधि॑ धत्थ उग्रा॒ यो वां᳚ ह॒विष्मा॒न् मन॑सा द॒दाश॑ ||{6/6}{1.157.6}{1.22.1.6}{2.2.27.6}{1650, 157, 1650} यु॒वम्¦ह॒¦स्थः॒¦भि॒षजा᳚¦भे॒ष॒जेभिः॑¦अथो॒ इति॑¦ह॒¦स्थः॒¦र॒थ्या᳚¦रथ्ये᳚भि॒रिति॒ रथ्ये᳚भिः | |
[158] वसूरुद्राइति षडृचस्य सूक्तस्यौचथ्योदीर्घतमाअश्विनौत्रिष्टुबन्त्यानुष्टुप् | |
वसू᳚ रु॒द्रा पु॑रु॒मन्तू᳚ वृ॒धन्ता᳚ दश॒स्यतं᳚ नो वृषणाव॒भिष्टौ᳚ |{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्} दस्रा᳚ ह॒ यद् रेक्ण॑ औच॒थ्यो वां॒ प्र यत् स॒स्राथे॒, अक॑वाभिरू॒ती ||{1/6}{1.158.1}{1.22.2.1}{2.3.1.1}{1651, 158, 1651} वसू॒ इति॑¦रु॒द्रा¦पु॒रु॒मन्तू॒ इति॑ पु॒रु॒ऽमन्तू᳚¦वृ॒धन्ता᳚¦द॒श॒स्यत᳚म्¦नः॒¦वृ॒ष॒णौ॒¦अ॒भिष्टौ᳚ | |
को वां᳚ दाशत् सुम॒तये᳚ चिद॒स्यै वसू॒ यद् धेथे॒ नम॑सा प॒दे गोः |{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्} जि॒गृ॒तम॒स्मे रे॒वतीः॒ पुरं᳚धीः काम॒प्रेणे᳚व॒ मन॑सा॒ चर᳚न्ता ||{2/6}{1.158.2}{1.22.2.2}{2.3.1.2}{1652, 158, 1652} कः¦वा॒म्¦दा॒श॒त्¦सु॒ऽम॒तये᳚¦चि॒त्¦अ॒स्यै¦वसू॒ इति॑¦यत्¦धेथे॒ इति॑¦नम॑सा¦प॒दे¦गोः | |
यु॒क्तो ह॒ यद् वां᳚ तौ॒ग्र्याय॑ पे॒रुर्वि मध्ये॒, अर्ण॑सो॒ धायि॑ प॒ज्रः |{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्} उप॑ वा॒मवः॑ शर॒णं ग॑मेयं॒ शूरो॒ नाज्म॑ प॒तय॑द्भि॒रेवैः᳚ ||{3/6}{1.158.3}{1.22.2.3}{2.3.1.3}{1653, 158, 1653} यु॒क्तः¦ह॒¦यत्¦वा॒म्¦तौ॒ग्र्याय॑¦पे॒रुः¦वि¦मध्ये᳚¦अर्ण॑सः¦धायि॑¦प॒ज्रः | |
उप॑स्तुतिरौच॒थ्यमु॑रुष्ये॒न्मा मामि॒मे प॑त॒त्रिणी॒ वि दु॑ग्धाम् |{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्} मा मामेधो॒ दश॑तयश्चि॒तो धा॒क् प्र यद् वां᳚ ब॒द्धस्त्मनि॒ खाद॑ति॒ क्षाम् ||{4/6}{1.158.4}{1.22.2.4}{2.3.1.4}{1654, 158, 1654} उप॑ऽस्तुतिः¦औ॒च॒थ्यम्¦उ॒रु॒ष्ये॒त्¦मा¦माम्¦इ॒मे इति॑¦प॒त॒त्रिणी॒ इति॑¦वि¦दु॒ग्धा॒म् | |
न मा᳚ गरन् न॒द्यो᳚ मा॒तृत॑मा दा॒सा यदीं॒ सुस॑मुब्धम॒वाधुः॑ |{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्} शिरो॒ यद॑स्य त्रैत॒नो वि॒तक्ष॑त् स्व॒यं दा॒स उरो॒, अंसा॒वपि॑ ग्ध ||{5/6}{1.158.5}{1.22.2.5}{2.3.1.5}{1655, 158, 1655} न¦मा॒¦ग॒र॒न्¦न॒द्यः॑¦मा॒तृऽत॑माः¦दा॒साः¦यत्¦ई॒म्¦सुऽस॑मुब्धम्¦अ॒व॒।आधुः॑ | |
दी॒र्घत॑मा मामते॒यो जु॑जु॒र्वान् द॑श॒मे यु॒गे |{औचथ्यो दीर्घतमाः | अश्विनौ | अनुष्टुप्} अ॒पामर्थं᳚ य॒तीनां᳚ ब्र॒ह्मा भ॑वति॒ सार॑थिः ||{6/6}{1.158.6}{1.22.2.6}{2.3.1.6}{1656, 158, 1656} दी॒र्घऽत॑माः¦मा॒म॒ते॒यः¦जु॒जु॒र्वान्¦द॒श॒मे¦यु॒गे | अ॒पाम्¦अर्थ᳚म्¦य॒तीना᳚म्¦ब्र॒ह्मा¦भ॒व॒ति॒¦सार॑थिः || |
[159] प्रद्यावायज्ञैरिति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाद्यावापृथिव्यौजगती | |
प्र द्यावा᳚ य॒ज्ञैः पृ॑थि॒वी, ऋ॑ता॒वृधा᳚ म॒ही स्तु॑षे वि॒दथे᳚षु॒ प्रचे᳚तसा |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती} दे॒वेभि॒र्ये दे॒वपु॑त्रे सु॒दंस॑से॒त्था धि॒या वार्या᳚णि प्र॒भूष॑तः ||{1/5}{1.159.1}{1.22.3.1}{2.3.2.1}{1657, 159, 1657} प्र¦द्यावा᳚¦य॒ज्ञैः¦पृ॒थि॒वी इति॑¦ऋ॒त॒ऽवृधा᳚¦म॒ही इति॑¦स्तु॒षे॒¦वि॒दथे᳚षु¦प्रऽचे᳚तसा | |
उ॒त म᳚न्ये पि॒तुर॒द्रुहो॒ मनो᳚ मा॒तुर्महि॒ स्वत॑व॒स्तद्धवी᳚मभिः |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती} सु॒रेत॑सा पि॒तरा॒ भूम॑ चक्रतुरु॒रु प्र॒जाया᳚, अ॒मृतं॒ वरी᳚मभिः ||{2/5}{1.159.2}{1.22.3.2}{2.3.2.2}{1658, 159, 1658} उ॒त¦म॒न्ये॒¦पि॒तुः¦अ॒द्रुहः॑¦मनः॑¦मा॒तुः¦महि॑¦स्वऽत॑वः¦तत्¦हवी᳚मऽभिः | |
ते सू॒नवः॒ स्वप॑सः सु॒दंस॑सो म॒ही ज॑ज्ञुर्मा॒तरा᳚ पू॒र्वचि॑त्तये |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती} स्था॒तुश्च॑ स॒त्यं जग॑तश्च॒ धर्म॑णि पु॒त्रस्य॑ पाथः प॒दमद्व॑याविनः ||{3/5}{1.159.3}{1.22.3.3}{2.3.2.3}{1659, 159, 1659} ते¦सू॒नवः॑¦सु॒।आप॑सः¦सु॒ऽदंस॑सः¦म॒ही इति॑¦ज॒ज्ञुः॒¦मा॒तरा᳚¦पू॒र्वऽचि॑त्तये | |
ते मा॒यिनो᳚ ममिरे सु॒प्रचे᳚तसो जा॒मी सयो᳚नी मिथु॒ना समो᳚कसा |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती} नव्यं᳚नव्यं॒ तन्तु॒मा त᳚न्वते दि॒वि स॑मु॒द्रे, अ॒न्तः क॒वयः॑ सुदी॒तयः॑ ||{4/5}{1.159.4}{1.22.3.4}{2.3.2.4}{1660, 159, 1660} ते¦मा॒यिनः॑¦म॒मि॒रे॒¦सु॒ऽप्रचे᳚तसः¦जा॒मी इति॑¦सयो᳚नी॒ इति॒ सऽयो᳚नी¦मि॒थु॒ना¦सम्ऽओ᳚कसा | |
तद् राधो᳚, अ॒द्य स॑वि॒तुर्वरे᳚ण्यं व॒यं दे॒वस्य॑ प्रस॒वे म॑नामहे |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती} अ॒स्मभ्यं᳚ द्यावापृथिवी सुचे॒तुना᳚ र॒यिं ध॑त्तं॒ वसु॑मन्तं शत॒ग्विन᳚म् ||{5/5}{1.159.5}{1.22.3.5}{2.3.2.5}{1661, 159, 1661} तत्¦राधः॑¦अ॒द्य¦स॒वि॒तुः¦वरे᳚ण्यम्¦व॒यम्¦दे॒वस्य॑¦प्र॒ऽस॒वे¦म॒ना॒म॒हे॒ | |
[160] तेहीति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाद्यावापृथिव्यौजगती | |
ते हि द्यावा᳚पृथि॒वी वि॒श्वश᳚म्भुव ऋ॒ताव॑री॒ रज॑सो धार॒यत्क॑वी |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती} सु॒जन्म॑नी धि॒षणे᳚, अ॒न्तरी᳚यते दे॒वो दे॒वी धर्म॑णा॒ सूर्यः॒ शुचिः॑ ||{1/5}{1.160.1}{1.22.4.1}{2.3.3.1}{1662, 160, 1662} ते इति॑¦हि¦द्यावा᳚पृथि॒वी इति॑¦वि॒श्वऽश᳚म्भुवा¦ऋ॒तव॑री॒ इत्यृ॒तऽव॑री¦रज॑सः¦धा॒र॒यत्क॑वी॒ इति॑ धा॒र॒यत्ऽक॑वी | |
उ॒रु॒व्यच॑सा म॒हिनी᳚, अस॒श्चता᳚ पि॒ता मा॒ता च॒ भुव॑नानि रक्षतः |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती} सु॒धृष्ट॑मे वपु॒ष्ये॒३॑(ए॒) न रोद॑सी पि॒ता यत् सी᳚म॒भि रू॒पैरवा᳚सयत् ||{2/5}{1.160.2}{1.22.4.2}{2.3.3.2}{1663, 160, 1663} उ॒रु॒ऽव्यच॑सा¦म॒हिनी॒ इति॑¦अ॒स॒श्चता᳚¦पि॒ता¦मा॒ता¦च॒¦भुव॑नानि¦र॒क्ष॒तः॒ | |
स वह्निः॑ पु॒त्रः पि॒त्रोः प॒वित्र॑वान् पु॒नाति॒ धीरो॒ भुव॑नानि मा॒यया᳚ |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती} धे॒नुं च॒ पृश्निं᳚ वृष॒भं सु॒रेत॑सं वि॒श्वाहा᳚ शु॒क्रं पयो᳚, अस्य दुक्षत ||{3/5}{1.160.3}{1.22.4.3}{2.3.3.3}{1664, 160, 1664} सः¦वह्निः॑¦पु॒त्रः¦पि॒त्रोः¦प॒वित्र॑ऽवान्¦पु॒नाति॑¦धीरः॑¦भुव॑नानि¦मा॒यया᳚ | |
अ॒यं दे॒वाना᳚म॒पसा᳚म॒पस्त॑मो॒ यो ज॒जान॒ रोद॑सी वि॒श्वश᳚म्भुवा |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती} वि यो म॒मे रज॑सी सुक्रतू॒यया॒जरे᳚भिः॒ स्कम्भ॑नेभिः॒ समा᳚नृचे ||{4/5}{1.160.4}{1.22.4.4}{2.3.3.4}{1665, 160, 1665} अ॒यम्¦दे॒वाना᳚म्¦अ॒पसा᳚म्¦अ॒पःऽत॑मः¦यः¦ज॒जान॑¦रोद॑सी॒ इति॑¦वि॒श्वऽश᳚म्भुवा | |
ते नो᳚ गृणा॒ने म॑हिनी॒ महि॒ श्रवः॑, क्ष॒त्रं द्या᳚वापृथिवी धासथो बृ॒हत् |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती} येना॒भि कृ॒ष्टीस्त॒तना᳚म वि॒श्वहा᳚ प॒नाय्य॒मोजो᳚, अ॒स्मे समि᳚न्वतम् ||{5/5}{1.160.5}{1.22.4.5}{2.3.3.5}{1666, 160, 1666} ते इति॑¦नः॒¦गृ॒णा॒ने इति॑¦म॒हि॒नी॒ इति॑¦महि॑¦श्रवः॑¦क्ष॒त्रम्¦द्या॒वा॒पृ॒थि॒वी॒ इति॑¦धा॒स॒थः॒¦बृ॒हत् | |
[161] किमुश्रेष्ठइति चतुर्दशर्चस्य सूक्तस्यौचथ्योदीर्घतमाऋभवोजगत्यंत्या त्रिष्टुप् | |
किमु॒ श्रेष्ठः॒ किं यवि॑ष्ठो न॒ आज॑ग॒न् किमी᳚यते दू॒त्य१॑(अं॒) कद्यदू᳚चि॒म |{औचथ्यो दीर्घतमाः | ऋभवः | जगती} न नि᳚न्दिम चम॒सं यो म॑हाकु॒लोऽग्ने᳚ भ्रात॒र्द्रुण॒ इद् भू॒तिमू᳚दिम ||{1/14}{1.161.1}{1.22.5.1}{2.3.4.1}{1667, 161, 1667} किम्¦ऊँ॒ इति॑¦श्रेष्ठः॑¦किम्¦यवि॑ष्ठः¦नः॒¦आ¦अ॒ज॒ग॒न्¦किम्¦ई॒य॒ते॒¦दू॒त्य᳚म्¦कत्¦यत्¦ऊ॒चि॒म | |
एकं᳚ चम॒सं च॒तुरः॑ कृणोतन॒ तद् वो᳚ दे॒वा, अ॑ब्रुव॒न् तद् व॒ आग॑मम् |{औचथ्यो दीर्घतमाः | ऋभवः | जगती} सौध᳚न्वना॒ यद्ये॒वा क॑रि॒ष्यथ॑ सा॒कं दे॒वैर्य॒ज्ञिया᳚सो भविष्यथ ||{2/14}{1.161.2}{1.22.5.2}{2.3.4.2}{1668, 161, 1668} एक᳚म्¦च॒म॒सम्¦च॒तुरः॑¦कृ॒णो॒त॒न॒¦तत्¦वः॒¦दे॒वाः¦अ॒ब्रु॒व॒न्¦तत्¦वः॒¦आ¦अ॒ग॒म॒म् | |
अ॒ग्निं दू॒तं प्रति॒ यदब्र॑वीत॒नाश्वः॒ कर्त्वो॒ रथ॑ उ॒तेह कर्त्वः॑ |{औचथ्यो दीर्घतमाः | ऋभवः | जगती} धे॒नुः कर्त्वा᳚ युव॒शा कर्त्वा॒ द्वा तानि॑ भ्रात॒रनु॑ वः कृ॒त्व्येम॑सि ||{3/14}{1.161.3}{1.22.5.3}{2.3.4.3}{1669, 161, 1669} अ॒ग्निम्¦दू॒तम्¦प्रति॑¦यत्¦अब्र॑वीतन¦अश्वः॑¦कर्त्वः॑¦रथः॑¦उ॒त¦इ॒ह¦कर्त्वः॑ | |
च॒कृ॒वांस॑ ऋभव॒स्तद॑पृच्छत॒ क्वेद॑भू॒द्यः स्य दू॒तो न॒ आज॑गन् |{औचथ्यो दीर्घतमाः | ऋभवः | जगती} य॒दावाख्य॑च्चम॒साञ्च॒तुरः॑ कृ॒तानादित् त्वष्टा॒ ग्नास्व॒न्तर्न्या᳚नजे ||{4/14}{1.161.4}{1.22.5.4}{2.3.4.4}{1670, 161, 1670} च॒कृ॒ऽवांसः॑¦ऋ॒भ॒वः॒¦तत्¦अ॒पृ॒च्छ॒त॒¦क्व॑¦इत्¦अ॒भू॒त्¦यः¦स्यः¦दू॒तः¦नः॒¦आ¦अज॑गन् | |
हना᳚मैनाँ॒, इति॒ त्वष्टा॒ यदब्र॑वीच्चम॒सं ये दे᳚व॒पान॒मनि᳚न्दिषुः |{औचथ्यो दीर्घतमाः | ऋभवः | जगती} अ॒न्या नामा᳚नि कृण्वते सु॒ते सचाँ᳚, अ॒न्यैरे᳚नान् क॒न्या॒३॑(आ॒) नाम॑भिः स्परत् ||{5/14}{1.161.5}{1.22.5.5}{2.3.4.5}{1671, 161, 1671} हना᳚म¦ए॒ना॒न्¦इति॑¦त्वष्टा᳚¦यत्¦अब्र॑वीत्¦च॒म॒सम्¦ये¦दे॒व॒ऽपान᳚म्¦अनि᳚न्दिषुः | |
इन्द्रो॒ हरी᳚ युयु॒जे, अ॒श्विना॒ रथं॒ बृह॒स्पति᳚र्वि॒श्वरू᳚पा॒मुपा᳚जत |{औचथ्यो दीर्घतमाः | ऋभवः | जगती} ऋ॒भुर्विभ्वा॒ वाजो᳚ दे॒वाँ, अ॑गच्छत॒ स्वप॑सो य॒ज्ञियं᳚ भा॒गमै᳚तन ||{6/14}{1.161.6}{1.22.5.6}{2.3.5.1}{1672, 161, 1672} इन्द्रः॑¦हरी᳚¦यु॒यु॒जे¦अ॒श्विना᳚¦रथ᳚म्¦बृह॒स्पतिः॑¦वि॒श्वऽरू᳚पाम्¦उप॑¦आ॒ज॒त॒ | |
निश्चर्म॑णो॒ गाम॑रिणीत धी॒तिभि॒र्या जर᳚न्ता युव॒शा ताकृ॑णोतन |{औचथ्यो दीर्घतमाः | ऋभवः | जगती} सौध᳚न्वना॒, अश्वा॒दश्व॑मतक्षत यु॒क्त्वा रथ॒मुप॑ दे॒वाँ, अ॑यातन ||{7/14}{1.161.7}{1.22.5.7}{2.3.5.2}{1673, 161, 1673} निः¦चर्म॑णः¦गाम्¦अ॒रि॒णी॒त॒¦धी॒तिऽभिः॑¦या¦जर᳚न्ता¦यु॒व॒शा¦ता¦अ॒कृ॒णो॒त॒न॒ | |
इ॒दमु॑द॒कं पि॑ब॒तेत्य॑ब्रवीतने॒दं वा᳚ घा पिबता मुञ्ज॒नेज॑नम् |{औचथ्यो दीर्घतमाः | ऋभवः | जगती} सौध᳚न्वना॒ यदि॒ तन्नेव॒ हर्य॑थ तृ॒तीये᳚ घा॒ सव॑ने मादयाध्वै ||{8/14}{1.161.8}{1.22.5.8}{2.3.5.3}{1674, 161, 1674} इ॒दम्¦उ॒द॒कम्¦पि॒ब॒त॒¦इति॑¦अ॒ब्र॒वी॒त॒न॒¦इ॒दम्¦वा॒¦घ॒¦पि॒ब॒त॒¦मुं॒ज॒ऽनेज॑नम् | |
आपो॒ भूयि॑ष्ठा॒, इत्येको᳚, अब्रवीद॒ग्निर्भूयि॑ष्ठ॒ इत्य॒न्यो, अ॑ब्रवीत् |{औचथ्यो दीर्घतमाः | ऋभवः | जगती} व॒ध॒र्यन्तीं᳚ ब॒हुभ्यः॒ प्रैको᳚, अब्रवीदृ॒ता वद᳚न्तश्चम॒साँ, अ॑पिंशत ||{9/14}{1.161.9}{1.22.5.9}{2.3.5.4}{1675, 161, 1675} आपः॑¦भूयि॑ष्ठाः¦इति॑¦एकः॑¦अ॒ब्र॒वी॒त्¦अ॒ग्निः¦भूयि॑ष्ठः¦इति॑¦अ॒न्यः¦अ॒ब्र॒वी॒त् | |
श्रो॒णामेक॑ उद॒कं गामवा᳚जति मां॒समेकः॑ पिंशति सू॒नयाभृ॑तम् |{औचथ्यो दीर्घतमाः | ऋभवः | जगती} आ नि॒म्रुचः॒ शकृ॒देको॒, अपा᳚भर॒त् किं स्वि॑त् पु॒त्रेभ्यः॑ पि॒तरा॒, उपा᳚वतुः ||{10/14}{1.161.10}{1.22.5.10}{2.3.5.5}{1676, 161, 1676} श्रो॒णाम्¦एकः॑¦उ॒द॒कम्¦गाम्¦अव॑¦अ॒ज॒ति॒¦मां॒सम्¦एकः॑¦पिं॒श॒ति॒¦सू॒नया᳚¦आऽभृ॑तम् | |
उ॒द्वत्स्व॑स्मा, अकृणोतना॒ तृणं᳚ नि॒वत्स्व॒पः स्व॑प॒स्यया᳚ नरः |{औचथ्यो दीर्घतमाः | ऋभवः | जगती} अगो᳚ह्यस्य॒ यदस॑स्तना गृ॒हे तद॒द्येदमृ॑भवो॒ नानु॑ गच्छथ ||{11/14}{1.161.11}{1.22.5.11}{2.3.6.1}{1677, 161, 1677} उ॒द्वत्ऽसु॑¦अ॒स्मै॒¦अ॒कृ॒णो॒त॒न॒¦तृण᳚म्¦नि॒वत्ऽसु॑¦अ॒पः¦सु॒।आ॒प॒स्यया᳚¦न॒रः॒ | |
स॒म्मील्य॒ यद् भुव॑ना प॒र्यस॑र्पत॒ क्व॑ स्वित्ता॒त्या पि॒तरा᳚ व आसतुः |{औचथ्यो दीर्घतमाः | ऋभवः | जगती} अश॑पत॒ यः क॒रस्नं᳚ व आद॒दे यः प्राब्र॑वी॒त् प्रो तस्मा᳚, अब्रवीतन ||{12/14}{1.161.12}{1.22.5.12}{2.3.6.2}{1678, 161, 1678} स॒म्ऽमील्य॑¦यत्¦भुव॑ना¦प॒रि॒।आस॑र्पत¦क्व॑¦स्वि॒त्¦ता॒त्या¦पि॒तरा᳚¦वः॒¦आ॒स॒तुः॒ | |
सु॒षु॒प्वांस॑ ऋभव॒स्तद॑पृच्छ॒तागो᳚ह्य॒ क इ॒दं नो᳚, अबूबुधत् |{औचथ्यो दीर्घतमाः | ऋभवः | जगती} श्वानं᳚ ब॒स्तो बो᳚धयि॒तार॑मब्रवीत् संवत्स॒र इ॒दम॒द्या व्य॑ख्यत ||{13/14}{1.161.13}{1.22.5.13}{2.3.6.3}{1679, 161, 1679} सु॒सु॒प्वांसः॑¦ऋ॒भ॒वः॒¦तत्¦अ॒पृ॒च्छ॒त॒¦अगो᳚ह्य¦कः¦इ॒दम्¦नः॒¦अ॒बू॒बु॒ध॒त् | |
दि॒वा या᳚न्ति म॒रुतो॒ भूम्या॒ग्निर॒यं वातो᳚, अ॒न्तरि॑क्षेण याति |{औचथ्यो दीर्घतमाः | ऋभवः | त्रिष्टुप्} अ॒द्भिर्या᳚ति॒ वरु॑णः समु॒द्रैर्यु॒ष्माँ, इ॒च्छन्तः॑ शवसो नपातः ||{14/14}{1.161.14}{1.22.5.14}{2.3.6.4}{1680, 161, 1680} दि॒वा¦या॒न्ति॒¦म॒रुतः॑¦भूम्या᳚¦अ॒ग्निः¦अ॒यम्¦वातः॑¦अ॒न्तरि॑क्षेण¦या॒ति॒ | |
[162] मानोमित्रइति द्वाविंशत्यृचस्य सूक्तस्य औचथ्योदीर्घतमाअश्वस्त्रिष्टुप् तृतीयाषष्ट्यौजगत्यौ | (अश्वस्तुत्याश्वोदेवता) | |
मा नो᳚ मि॒त्रो वरु॑णो, अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुतः॒ परि॑ ख्यन् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} यद् वा॒जिनो᳚ दे॒वजा᳚तस्य॒ सप्तेः᳚ प्रव॒क्ष्यामो᳚ वि॒दथे᳚ वी॒र्या᳚णि ||{1/22}{1.162.1}{1.22.6.1}{2.3.7.1}{1681, 162, 1681} मा¦नः॒¦मि॒त्रः¦वरु॑णः¦अ॒र्य॒मा¦आ॒युः¦इन्द्रः॑¦ऋ॒भु॒क्षाः¦म॒रुतः॑¦परि॑¦ख्य॒न् | |
यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒तां मु॑ख॒तो नय᳚न्ति |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} सुप्रा᳚ङ॒जो मेम्य॑द् वि॒श्वरू᳚प इन्द्रापू॒ष्णोः प्रि॒यमप्ये᳚ति॒ पाथः॑ ||{2/22}{1.162.2}{1.22.6.2}{2.3.7.2}{1682, 162, 1682} यत्¦निः॒ऽनिजा᳚¦रेक्ण॑सा¦प्रावृ॑तस्य¦रा॒तिम्¦गृ॒भी॒ताम्¦मु॒ख॒तः¦नय᳚न्ति | |
ए॒ष च्छागः॑ पु॒रो, अश्वे᳚न वा॒जिना᳚ पू॒ष्णो भा॒गो नी᳚यते वि॒श्वदे᳚व्यः |{औचथ्यो दीर्घतमाः | अश्वः | जगती} अ॒भि॒प्रियं॒ यत् पु॑रो॒ळाश॒मर्व॑ता॒ त्वष्टेदे᳚नं सौश्रव॒साय॑ जिन्वति ||{3/22}{1.162.3}{1.22.6.3}{2.3.7.3}{1683, 162, 1683} ए॒षः¦छागः॑¦पु॒रः¦अश्वे᳚न¦वा॒जिना᳚¦पू॒ष्णः¦भा॒गः¦नी॒य॒ते॒¦वि॒श्वऽदे᳚व्यः | |
यद्ध॑वि॒ष्य॑मृतु॒शो दे᳚व॒यानं॒ त्रिर्मानु॑षाः॒ पर्यश्वं॒ नय᳚न्ति |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} अत्रा᳚ पू॒ष्णः प्र॑थ॒मो भा॒ग ए᳚ति य॒ज्ञं दे॒वेभ्यः॑ प्रतिवे॒दय᳚न्न॒जः ||{4/22}{1.162.4}{1.22.6.4}{2.3.7.4}{1684, 162, 1684} यत्¦ह॒वि॒ष्य᳚म्¦ऋ॒तु॒ऽशः¦दे॒व॒ऽयान᳚म्¦त्रिः¦मानु॑षाः¦परि॑¦अश्व᳚म्¦नय᳚न्ति | |
होता᳚ध्व॒र्युराव॑या, अग्निमि॒न्धो ग्रा᳚वग्रा॒भ उ॒त शंस्ता॒ सुवि॑प्रः |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} तेन॑ य॒ज्ञेन॒ स्व॑रंकृतेन॒ स्वि॑ष्टेन व॒क्षणा॒, आ पृ॑णध्वम् ||{5/22}{1.162.5}{1.22.6.5}{2.3.7.5}{1685, 162, 1685} होता᳚¦अ॒ध्व॒र्युः¦आऽव॑याः¦अ॒ग्नि॒म्ऽइ॒न्धः¦ग्रा॒व॒ऽग्रा॒भः¦उ॒त¦शंस्ता᳚¦सुऽवि॑प्रः | |
यू॒प॒व्र॒स्का, उ॒त ये यू᳚पवा॒हाश्च॒षालं॒ ये, अ॑श्वयू॒पाय॒ तक्ष॑ति |{औचथ्यो दीर्घतमाः | अश्वः | जगती} ये चार्व॑ते॒ पच॑नं स॒म्भर᳚न्त्यु॒तो तेषा᳚म॒भिगू᳚र्तिर्न इन्वतु ||{6/22}{1.162.6}{1.22.6.6}{2.3.8.1}{1686, 162, 1686} यू॒प॒ऽव्र॒स्काः¦उ॒त¦ये¦यू॒प॒ऽवा॒हाः¦च॒षाल᳚म्¦ये¦अ॒श्व॒ऽयू॒पाय॑¦तक्ष॑ति | |
उप॒ प्रागा᳚त् सु॒मन्मे᳚ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒, उप॑ वी॒तपृ॑ष्ठः |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} अन्वे᳚नं॒ विप्रा॒ ऋष॑यो मदन्ति दे॒वानां᳚ पु॒ष्टे च॑कृमा सु॒बन्धु᳚म् ||{7/22}{1.162.7}{1.22.6.7}{2.3.8.2}{1687, 162, 1687} उप॑¦प्र¦अ॒गा॒त्¦सु॒ऽमत्¦मे॒¦अ॒धा॒यि॒¦मन्म॑¦दे॒वाना᳚म्¦आशाः᳚¦उप॑¦वी॒तऽपृ॑ष्ठः | |
यद् वा॒जिनो॒ दाम॑ सं॒दान॒मर्व॑तो॒ या शी᳚र्ष॒ण्या᳚ रश॒ना रज्जु॑रस्य |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} यद् वा᳚ घास्य॒ प्रभृ॑तमा॒स्ये॒३॑(ए॒) तृणं॒ सर्वा॒ ता ते॒, अपि॑ दे॒वेष्व॑स्तु ||{8/22}{1.162.8}{1.22.6.8}{2.3.8.3}{1688, 162, 1688} यत्¦वा॒जिनः॑¦दाम॑¦स॒म्ऽदान᳚म्¦अर्व॑तः¦या¦शी॒र्ष॒ण्या᳚¦र॒श॒ना¦रज्जुः॑¦अ॒स्य॒ | |
यदश्व॑स्य क्र॒विषो॒ मक्षि॒काश॒ यद् वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒, अपि॑ दे॒वेष्व॑स्तु ||{9/22}{1.162.9}{1.22.6.9}{2.3.8.4}{1689, 162, 1689} यत्¦अश्व॑स्य¦क्र॒विषः॑¦मक्षि॑का¦आश॑¦यत्¦वा॒¦स्वरौ᳚¦स्वऽधि॑तौ¦रि॒प्तम्¦अस्ति॑ | |
यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ य आ॒मस्य॑ क्र॒विषो᳚ ग॒न्धो, अस्ति॑ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} सु॒कृ॒ता तच्छ॑मि॒तारः॑ कृण्वन्तू॒त मेधं᳚ शृत॒पाकं᳚ पचन्तु ||{10/22}{1.162.10}{1.22.6.10}{2.3.8.5}{1690, 162, 1690} यत्¦ऊव॑ध्यम्¦उ॒दर॑स्य¦अ॒प॒ऽवाति॑¦यः¦आ॒मस्य॑¦क्र॒विषः॑¦ग॒न्धः¦अस्ति॑ | |
यत्ते॒ गात्रा᳚द॒ग्निना᳚ प॒च्यमा᳚नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} मा तद् भूम्या॒मा श्रि॑ष॒न्मा तृणे᳚षु दे॒वेभ्य॒स्तदु॒शद्भ्यो᳚ रा॒तम॑स्तु ||{11/22}{1.162.11}{1.22.6.11}{2.3.9.1}{1691, 162, 1691} यत्¦ते॒¦गात्रा᳚त्¦अ॒ग्निना᳚¦प॒च्यमा᳚नात्¦अ॒भि¦शूल᳚म्¦निऽह॑तस्य¦अ॒व॒ऽधाव॑ति | |
ये वा॒जिनं᳚ परि॒पश्य᳚न्ति प॒क्वं य ई᳚मा॒हुः सु॑र॒भिर्निर्ह॒रेति॑ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} ये चार्व॑तो मांसभि॒क्षामु॒पास॑त उ॒तो तेषा᳚म॒भिगू᳚र्तिर्न इन्वतु ||{12/22}{1.162.12}{1.22.6.12}{2.3.9.2}{1692, 162, 1692} ये¦वा॒जिन᳚म्¦प॒रि॒ऽपश्य᳚न्ति¦प॒क्वम्¦ये¦ई॒म्¦आ॒हुः¦सु॒र॒भिः¦निः¦ह॒र॒¦इति॑ | |
यन्नीक्ष॑णं मां॒स्पच᳚न्या, उ॒खाया॒ या पात्रा᳚णि यू॒ष्ण आ॒सेच॑नानि |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} ऊ॒ष्म॒ण्या᳚पि॒धाना᳚ चरू॒णाम॒ङ्काः सू॒नाः परि॑ भूष॒न्त्यश्व᳚म् ||{13/22}{1.162.13}{1.22.6.13}{2.3.9.3}{1693, 162, 1693} यत्¦नि॒ऽईक्ष॑णम्¦मां॒स्पच᳚न्याः¦उ॒खायाः᳚¦या¦पात्रा᳚णि¦यू॒ष्णः¦आ॒ऽसेच॑नानि | |
नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त॑नं॒ यच्च॒ पड्बी᳚श॒मर्व॑तः |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} यच्च॑ प॒पौ यच्च॑ घा॒सिं ज॒घास॒ सर्वा॒ ता ते॒, अपि॑ दे॒वेष्व॑स्तु ||{14/22}{1.162.14}{1.22.6.14}{2.3.9.4}{1694, 162, 1694} नि॒ऽक्रम॑णम्¦नि॒ऽसद॑नम्¦वि॒ऽवर्त॑नम्¦यत्¦च॒¦पड्बी᳚शम्¦अर्व॑तः | |
मा त्वा॒ग्निर्ध्व॑नयीद् धू॒मग᳚न्धि॒र्मोखा भ्राज᳚न्त्य॒भि वि॑क्त॒ जघ्रिः॑ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} इ॒ष्टं वी॒तम॒भिगू᳚र्तं॒ वष॑ट्कृतं॒ तं दे॒वासः॒ प्रति॑ गृभ्ण॒न्त्यश्व᳚म् ||{15/22}{1.162.15}{1.22.6.15}{2.3.9.5}{1695, 162, 1695} मा¦त्वा॒¦अ॒ग्निः¦ध्व॒न॒यी॒त्¦धू॒मऽग᳚न्धिः¦मा¦उ॒खा¦भ्राज᳚न्ती¦अ॒भि¦वि॒क्त॒¦जघ्रिः॑ | |
यदश्वा᳚य॒ वास॑ उपस्तृ॒णन्त्य॑धीवा॒सं या हिर᳚ण्यान्यस्मै |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} सं॒दान॒मर्व᳚न्तं॒ पड्बी᳚शं प्रि॒या दे॒वेष्वा या᳚मयन्ति ||{16/22}{1.162.16}{1.22.6.16}{2.3.10.1}{1696, 162, 1696} यत्¦अश्वा᳚य¦वासः॑¦उ॒प॒ऽस्तृ॒णन्ति॑¦अ॒धी॒वा॒सम्¦या¦हिर᳚ण्यानि¦अ॒स्मै॒ | |
यत्ते᳚ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्ण्या᳚ वा॒ कश॑या वा तु॒तोद॑ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} स्रु॒चेव॒ ता ह॒विषो᳚, अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि ||{17/22}{1.162.17}{1.22.6.17}{2.3.10.2}{1697, 162, 1697} यत्¦ते॒¦सा॒दे¦मह॑सा¦शूकृ॑तस्य¦पार्ष्ण्या᳚¦वा॒¦कश॑या¦वा॒¦तु॒तोद॑ | |
चतु॑स्त्रिंशद् वा॒जिनो᳚ दे॒वब᳚न्धोर्॒वङ्क्री॒रश्व॑स्य॒ स्वधि॑तिः॒ समे᳚ति |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} अच्छि॑द्रा॒ गात्रा᳚ व॒युना᳚ कृणोत॒ परु॑ष्परुरनु॒घुष्या॒ वि श॑स्त ||{18/22}{1.162.18}{1.22.6.18}{2.3.10.3}{1698, 162, 1698} चतुः॑ऽत्रिंशत्¦वा॒जिनः॑¦दे॒वऽब᳚न्धोः¦वङ्क्रीः᳚¦अश्व॑स्य¦स्वऽधि॑तिः¦सम्¦ए॒ति॒ | |
एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒न्तारा᳚ भवत॒स्तथ॑ ऋ॒तुः |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} या ते॒ गात्रा᳚णामृतु॒था कृ॒णोमि॒ ताता॒ पिण्डा᳚नां॒ प्र जु॑होम्य॒ग्नौ ||{19/22}{1.162.19}{1.22.6.19}{2.3.10.4}{1699, 162, 1699} एकः॑¦त्वष्टुः॑¦अश्व॑स्य¦वि॒ऽश॒स्ता¦द्वा¦य॒न्तारा᳚¦भ॒व॒तः॒¦तथा᳚¦ऋ॒तुः | |
मा त्वा᳚ तपत् प्रि॒य आ॒त्मापि॒यन्तं॒ मा स्वधि॑तिस्त॒न्व१॑(अ॒) आ ति॑ष्ठिपत्ते |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} मा ते᳚ गृ॒ध्नुर॑विश॒स्ताति॒हाय॑ छि॒द्रा गात्रा᳚ण्य॒सिना॒ मिथू᳚ कः ||{20/22}{1.162.20}{1.22.6.20}{2.3.10.5}{1700, 162, 1700} मा¦त्वा॒¦त॒प॒त्¦प्रि॒यः¦आ॒त्मा¦अ॒पि॒ऽयन्त᳚म्¦मा¦स्वऽधि॑तिः¦त॒न्वः॑¦आ¦ति॒स्थि॒प॒त्¦ते॒ | |
न वा, उ॑ ए॒तन् म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ, इदे᳚षि प॒थिभिः॑ सु॒गेभिः॑ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} हरी᳚ ते॒ युञ्जा॒ पृष॑ती, अभूता॒मुपा᳚स्थाद् वा॒जी धु॒रि रास॑भस्य ||{21/22}{1.162.21}{1.22.6.21}{2.3.10.6}{1701, 162, 1701} न¦वै¦ऊँ॒ इति॑¦ए॒तत्¦म्रि॒य॒से॒¦न¦रि॒ष्य॒सि॒¦दे॒वान्¦इत्¦ए॒षि॒¦प॒थिऽभिः॑¦सु॒ऽगेभिः॑ | |
सु॒गव्यं᳚ नो वा॒जी स्वश्व्यं᳚ पुं॒सः पु॒त्राँ, उ॒त वि॑श्वा॒पुषं᳚ र॒यिम् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} अ॒ना॒गा॒स्त्वं नो॒, अदि॑तिः कृणोतु क्ष॒त्रं नो॒, अश्वो᳚ वनतां ह॒विष्मा॑न् ||{22/22}{1.162.22}{1.22.6.22}{2.3.10.7}{1702, 162, 1702} सु॒ऽगव्य᳚म्¦नः॒¦वा॒जी¦सु॒।आश्व्य᳚म्¦पुं॒सः¦पु॒त्रान्¦उ॒त¦वि॒श्व॒ऽपुष᳚म्¦र॒यिम् | |
[163] यदक्रंदइति त्रयोदशर्चस्य सूक्तस्यौचथ्योदीर्घतमाअश्वस्त्रिष्टुप् | |
यदक्र᳚न्दः प्रथ॒मं जाय॑मान उ॒द्यन् त्स॑मु॒द्रादु॒त वा॒ पुरी᳚षात् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू, उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते᳚, अर्वन् ||{1/13}{1.163.1}{1.22.7.1}{2.3.11.1}{1703, 163, 1703} यत्¦अक्र᳚न्दः¦प्र॒थ॒मम्¦जाय॑मानः¦उ॒त्ऽयन्¦स॒मु॒द्रात्¦उ॒त¦वा॒¦पुरी᳚षात् | |
य॒मेन॑ द॒त्तं त्रि॒त ए᳚नमायुन॒गिन्द्र॑ एणं प्रथ॒मो, अध्य॑तिष्ठत् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} ग॒न्ध॒र्वो, अ॑स्य रश॒नाम॑गृभ्णा॒त् सूरा॒दश्वं᳚ वसवो॒ निर॑तष्ट ||{2/13}{1.163.2}{1.22.7.2}{2.3.11.2}{1704, 163, 1704} य॒मेन॑¦द॒त्तम्¦त्रि॒तः¦ए॒न॒म्¦अ॒यु॒न॒क्¦इन्द्रः॑¦ए॒न॒म्¦प्र॒थ॒मः¦अधि॑¦अ॒ति॒ष्ठ॒त् | |
असि॑ य॒मो, अस्या᳚दि॒त्यो, अ᳚र्व॒न्नसि॑ त्रि॒तो गुह्ये᳚न व्र॒तेन॑ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} असि॒ सोमे᳚न स॒मया॒ विपृ॑क्त आ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि ||{3/13}{1.163.3}{1.22.7.3}{2.3.11.3}{1705, 163, 1705} असि॑¦य॒मः¦असि॑¦आ॒दि॒त्यः¦अ॒र्व॒न्¦असि॑¦त्रि॒तः¦गुह्ये᳚न¦व्र॒तेन॑ | |
त्रीणि॑ त आहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तः स॑मु॒द्रे |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} उ॒तेव॑ मे॒ वरु॑णश्छन् त्स्यर्व॒न् यत्रा᳚ त आ॒हुः प॑र॒मं ज॒नित्र᳚म् ||{4/13}{1.163.4}{1.22.7.4}{2.3.11.4}{1706, 163, 1706} त्रीणि॑¦ते॒¦आ॒हुः॒¦दि॒वि¦बन्ध॑नानि¦त्रीणि॑¦अ॒प्ऽसु¦त्रीणि॑¦अ॒न्तरिति॑¦स॒मु॒द्रे | |
इ॒मा ते᳚ वाजिन्नव॒मार्ज॑नानी॒मा श॒फानां᳚ सनि॒तुर्नि॒धाना᳚ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} अत्रा᳚ ते भ॒द्रा र॑श॒ना, अ॑पश्यमृ॒तस्य॒ या, अ॑भि॒रक्ष᳚न्ति गो॒पाः ||{5/13}{1.163.5}{1.22.7.5}{2.3.11.5}{1707, 163, 1707} इ॒मा¦ते॒¦वा॒जि॒न्¦अ॒व॒ऽमार्ज॑नानि¦इ॒मा¦श॒फाना᳚म्¦स॒नि॒तुः¦नि॒ऽधाना᳚ | |
आ॒त्मानं᳚ ते॒ मन॑सा॒राद॑जानाम॒वो दि॒वा प॒तय᳚न्तं पतं॒गम् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} शिरो᳚, अपश्यं प॒थिभिः॑ सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानं पत॒त्रि ||{6/13}{1.163.6}{1.22.7.6}{2.3.12.1}{1708, 163, 1708} आ॒त्मान᳚म्¦ते॒¦मन॑सा¦आ॒रात्¦अ॒जा॒ना॒म्¦अ॒वः¦दि॒वा¦प॒तय᳚न्तम्¦प॒त॒ङ्गम् | |
अत्रा᳚ ते रू॒पमु॑त्त॒मम॑पश्यं॒ जिगी᳚षमाणमि॒ष आ प॒दे गोः |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} य॒दा ते॒ मर्तो॒, अनु॒ भोग॒मान॒ळादिद् ग्रसि॑ष्ठ॒ ओष॑धीरजीगः ||{7/13}{1.163.7}{1.22.7.7}{2.3.12.2}{1709, 163, 1709} अत्र॑¦ते॒¦रू॒पम्¦उ॒त्ऽत॒मम्¦अ॒प॒श्य॒म्¦जिगी᳚षमाणम्¦इ॒षः¦आ¦प॒दे¦गोः | |
अनु॑ त्वा॒ रथो॒, अनु॒ मर्यो᳚, अर्व॒न्ननु॒ गावोऽनु॒ भगः॑ क॒नीना᳚म् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} अनु॒ व्राता᳚स॒स्तव॑ स॒ख्यमी᳚यु॒रनु॑ दे॒वा म॑मिरे वी॒र्यं᳚ ते ||{8/13}{1.163.8}{1.22.7.8}{2.3.12.3}{1710, 163, 1710} अनु॑¦त्वा॒¦रथः॑¦अनु॑¦मर्यः॑¦अ॒र्व॒न्¦अनु॑¦गावः॑¦अनु॑¦भगः॑¦क॒नीना᳚म् | |
हिर᳚ण्यशृ॒ङ्गोऽयो᳚, अस्य॒ पादा॒ मनो᳚जवा॒, अव॑र॒ इन्द्र॑ आसीत् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} दे॒वा, इद॑स्य हवि॒रद्य॑माय॒न् यो, अर्व᳚न्तं प्रथ॒मो, अ॒ध्यति॑ष्ठत् ||{9/13}{1.163.9}{1.22.7.9}{2.3.12.4}{1711, 163, 1711} हिर᳚ण्यऽशृङ्गः¦अयः॑¦अ॒स्य॒¦पादाः᳚¦मनः॑ऽजवाः¦अव॑रः¦इन्द्रः॑¦आ॒सी॒त् | |
ई॒र्मान्ता᳚सः॒ सिलि॑कमध्यमासः॒ सं शूर॑णासो दि॒व्यासो॒, अत्याः᳚ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} हं॒सा, इ॑व श्रेणि॒शो य॑तन्ते॒ यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वाः᳚ ||{10/13}{1.163.10}{1.22.7.10}{2.3.12.5}{1712, 163, 1712} ई॒र्म।आ᳚न्तासः¦सिलि॑कऽमध्यमासः¦सम्¦शूर॑णासः¦दि॒व्यासः॑¦अत्याः᳚ | |
तव॒ शरी᳚रं पतयि॒ष्ण्व᳚र्व॒न् तव॑ चि॒त्तं वात॑ इव॒ ध्रजी᳚मान् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} तव॒ शृङ्गा᳚णि॒ विष्ठि॑ता पुरु॒त्रार᳚ण्येषु॒ जर्भु॑राणा चरन्ति ||{11/13}{1.163.11}{1.22.7.11}{2.3.13.1}{1713, 163, 1713} तव॑¦शरी᳚रम्¦प॒त॒यि॒ष्णु¦अ॒र्व॒न्¦तव॑¦चि॒त्तम्¦वातः॑ऽइव¦ध्रजी᳚मान् | |
उप॒ प्रागा॒च्छस॑नं वा॒ज्यर्वा᳚ देव॒द्रीचा॒ मन॑सा॒ दीध्या᳚नः |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} अ॒जः पु॒रो नी᳚यते॒ नाभि॑र॒स्यानु॑ प॒श्चात् क॒वयो᳚ यन्ति रे॒भाः ||{12/13}{1.163.12}{1.22.7.12}{2.3.13.2}{1714, 163, 1714} उप॑¦प्र¦अ॒गा॒त्¦शस॑नम्¦वा॒जी¦अर्वा᳚¦दे॒व॒द्रीचा᳚¦मन॑सा¦दीध्या᳚नः | |
उप॒ प्रागा᳚त् पर॒मं यत् स॒धस्थ॒मर्वाँ॒, अच्छा᳚ पि॒तरं᳚ मा॒तरं᳚ च |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} अ॒द्या दे॒वाञ्जुष्ट॑तमो॒ हि ग॒म्या, अथा शा᳚स्ते दा॒शुषे॒ वार्या᳚णि ||{13/13}{1.163.13}{1.22.7.13}{2.3.13.3}{1715, 163, 1715} उप॑¦प्र¦अ॒गा॒त्¦प॒र॒मम्¦यत्¦स॒धऽस्थ᳚म्¦अर्वा᳚न्¦अच्छ॑¦पि॒तर᳚म्¦मा॒तर᳚म्¦च॒ | |
[164] अस्यवामस्येति द्विपंचाशदृचस्य सूक्तस्य औचथ्योदीर्घतमा आद्यानामेकचत्वारिंशटृचां विश्वेदेवास्तस्याः समुद्राइत्यस्यावाक्समुद्राक्षरापः शकमयमित्यस्याःशकधूमसोमौत्रयः केशिनइत्यस्याअग्निसूर्यवायवो (केशिनइतिगुणः) चत्वारिवागित्यस्यावाक्इंद्रंमित्रमितिद्वयोः सूर्योद्वादशप्रधयइत्यस्याः कालचक्रं (अत्रसंवत्सरसंस्थंकालचक्रवर्णनं) यस्तइत्यस्याः सरस्वतीयज्ञेनेत्यस्याः साध्याःसमानमित्यस्याः सूर्यः (पर्जन्याग्नीवा) दिव्यंसुपर्णमित्यस्याः सरस्वान् (सूर्योवा) त्रिष्टुप् द्वादशी पंचदशी त्रयोविंशी एकोनत्रिंशी षट्त्रिंश्येकचत्वारिं- शीचजगत्यः द्विचत्वारिंशी प्रस्तारपंक्तिः एकपंचाश्यनुष्टुप् | |
अ॒स्य वा॒मस्य॑ पलि॒तस्य॒ होतु॒स्तस्य॒ भ्राता᳚ मध्य॒मो, अ॒स्त्यश्नः॑ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} तृ॒तीयो॒ भ्राता᳚ घृ॒तपृ॑ष्ठो, अ॒स्यात्रा᳚पश्यं वि॒श्पतिं᳚ स॒प्तपु॑त्रम् ||{1/52}{1.164.1}{1.22.8.1}{2.3.14.1}{1716, 164, 1716} अ॒स्य¦वा॒मस्य॑¦प॒लि॒तस्य॑¦होतुः॑¦तस्य॑¦भ्राता᳚¦म॒ध्य॒मः¦अ॒स्ति॒¦अश्नः॑ | |
स॒प्त यु᳚ञ्जन्ति॒ रथ॒मेक॑चक्र॒मेको॒, अश्वो᳚ वहति स॒प्तना᳚मा |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} त्रि॒नाभि॑ च॒क्रम॒जर॑मन॒र्वं यत्रे॒मा विश्वा॒ भुव॒नाधि॑ त॒स्थुः ||{2/52}{1.164.2}{1.22.8.2}{2.3.14.2}{1717, 164, 1717} स॒प्त¦युं॒ज॒न्ति॒¦रथ᳚म्¦एक॑ऽचक्रम्¦एकः॑¦अश्वः॑¦व॒ह॒ति॒¦स॒प्तऽना᳚मा | |
इ॒मं रथ॒मधि॒ ये स॒प्त त॒स्थुः स॒प्तच॑क्रं स॒प्त व॑ह॒न्त्यश्वाः᳚ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} स॒प्त स्वसा᳚रो, अ॒भि सं न॑वन्ते॒ यत्र॒ गवां॒ निहि॑ता स॒प्त नाम॑ ||{3/52}{1.164.3}{1.22.8.3}{2.3.14.3}{1718, 164, 1718} इ॒मम्¦रथ᳚म्¦अधि॑¦ये¦स॒प्त¦त॒स्थुः¦स॒प्तऽच॑क्रम्¦स॒प्त¦व॒ह॒न्ति॒¦अश्वाः᳚ | |
को द॑दर्श प्रथ॒मं जाय॑मानमस्थ॒न्वन्तं॒ यद॑न॒स्था बिभ॑र्ति |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} भूम्या॒, असु॒रसृ॑गा॒त्मा क्व॑ स्वि॒त् को वि॒द्वांस॒मुप॑ गा॒त् प्रष्टु॑मे॒तत् ||{4/52}{1.164.4}{1.22.8.4}{2.3.14.4}{1719, 164, 1719} कः¦द॒द॒र्श॒¦प्र॒थ॒मम्¦जाय॑मानम्¦अ॒स्थ॒न्ऽवन्त᳚म्¦यत्¦अ॒न॒स्था¦बिभ॑र्ति | |
पाकः॑ पृच्छामि॒ मन॒सावि॑जानन् दे॒वाना᳚मे॒ना निहि॑ता प॒दानि॑ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} व॒त्से ब॒ष्कयेऽधि॑ स॒प्त तन्तू॒न् वि त॑त्निरे क॒वय॒ ओत॒वा, उ॑ ||{5/52}{1.164.5}{1.22.8.5}{2.3.14.5}{1720, 164, 1720} पाकः॑¦पृ॒च्छा॒मि॒¦मन॑सा¦अवि॑ऽजानन्¦दे॒वाना᳚म्¦ए॒ना¦निऽहि॑ता¦प॒दानि॑ | |
अचि॑कित्वाञ्चिकि॒तुष॑श्चि॒दत्र॑ क॒वीन् पृ॑च्छामि वि॒द्मने॒ न वि॒द्वान् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} वि यस्त॒स्तम्भ॒ षळि॒मा रजां᳚स्य॒जस्य॑ रू॒पे किमपि॑ स्वि॒देक᳚म् ||{6/52}{1.164.6}{1.22.8.6}{2.3.15.1}{1721, 164, 1721} अचि॑कित्वान्¦चि॒कि॒तुषः॑¦चि॒त्¦अत्र॑¦क॒वीन्¦पृ॒च्छा॒मि॒¦वि॒द्मने᳚¦न¦वि॒द्वान् | |
इ॒ह ब्र॑वीतु॒ य ई᳚म॒ङ्ग वेदा॒स्य वा॒मस्य॒ निहि॑तं प॒दं वेः |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} शी॒र्ष्णः, क्षी॒रं दु॑ह्रते॒ गावो᳚, अस्य व॒व्रिं वसा᳚ना, उद॒कं प॒दापुः॑ ||{7/52}{1.164.7}{1.22.8.7}{2.3.15.2}{1722, 164, 1722} इ॒ह¦ब्र॒वी॒तु॒¦यः¦ई॒म्¦अ॒ङ्ग¦वेद॑¦अ॒स्य¦वा॒मस्य॑¦निऽहि॑तम्¦प॒दम्¦वेरिति॒ वेः | |
मा॒ता पि॒तर॑मृ॒त आ ब॑भाज धी॒त्यग्रे॒ मन॑सा॒ सं हि ज॒ग्मे |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} सा बी᳚भ॒त्सुर्गर्भ॑रसा॒ निवि॑द्धा॒ नम॑स्वन्त॒ इदु॑पवा॒कमी᳚युः ||{8/52}{1.164.8}{1.22.8.8}{2.3.15.3}{1723, 164, 1723} मा॒ता¦पि॒तर᳚म्¦ऋ॒ते¦आ¦ब॒भा॒ज॒¦धी॒ती¦अग्रे᳚¦मन॑सा¦सम्¦हि¦ज॒ग्मे | |
यु॒क्ता मा॒तासी᳚द् धु॒रि दक्षि॑णाया॒, अति॑ष्ठ॒द् गर्भो᳚ वृज॒नीष्व॒न्तः |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} अमी᳚मेद् व॒त्सो, अनु॒ गाम॑पश्यद् विश्वरू॒प्यं᳚ त्रि॒षु योज॑नेषु ||{9/52}{1.164.9}{1.22.8.9}{2.3.15.4}{1724, 164, 1724} यु॒क्ता¦मा॒ता¦आ॒सी॒त्¦धु॒रि¦दक्षि॑णायाः¦अति॑ष्ठत्¦गर्भः॑¦वृ॒ज॒नीषु॑¦अ॒न्तरिति॑ | |
ति॒स्रो मा॒तॄस्त्रीन् पि॒तॄन् बिभ्र॒देक॑ ऊ॒र्ध्वस्त॑स्थौ॒ नेमव॑ ग्लापयन्ति |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} म॒न्त्रय᳚न्ते दि॒वो, अ॒मुष्य॑ पृ॒ष्ठे वि॑श्व॒विदं॒ वाच॒मवि॑श्वमिन्वाम् ||{10/52}{1.164.10}{1.22.8.10}{2.3.15.5}{1725, 164, 1725} ति॒स्रः¦मा॒तॄः¦त्रीन्¦पि॒तॄन्¦बिभ्र॑त्¦एकः॑¦ऊ॒र्ध्वः¦त॒स्थौ॒¦न¦ई॒म्¦अव॑¦ग्ल॒प॒य॒न्ति॒ | |
द्वाद॑शारं न॒हि तज्जरा᳚य॒ वर्व॑र्ति च॒क्रं परि॒ द्यामृ॒तस्य॑ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} आ पु॒त्रा, अ॑ग्ने मिथु॒नासो॒, अत्र॑ स॒प्त श॒तानि॑ विंश॒तिश्च॑ तस्थुः ||{11/52}{1.164.11}{1.22.8.11}{2.3.16.1}{1726, 164, 1726} द्वाद॑श।आरम्¦न॒हि¦तत्¦जरा᳚य¦वर्व॑र्ति¦च॒क्रम्¦परि॑¦द्याम्¦ऋ॒तस्य॑ | |
पञ्च॑पादं पि॒तरं॒ द्वाद॑शाकृतिं दि॒व आ᳚हुः॒ परे॒, अर्धे᳚ पुरी॒षिण᳚म् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती} अथे॒मे, अ॒न्य उप॑रे विचक्ष॒णं स॒प्तच॑क्रे॒ षळ॑र आहु॒रर्पि॑तम् ||{12/52}{1.164.12}{1.22.8.12}{2.3.16.2}{1727, 164, 1727} पंच॑ऽपादम्¦पि॒तर᳚म्¦द्वाद॑शऽआकृतिम्¦दि॒वः¦आ॒हुः॒¦परे᳚¦अर्धे᳚¦पु॒री॒षिण᳚म् | |
पञ्चा᳚रे च॒क्रे प॑रि॒वर्त॑माने॒ तस्मि॒न्ना त॑स्थु॒र्भुव॑नानि॒ विश्वा᳚ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} तस्य॒ नाक्ष॑स्तप्यते॒ भूरि॑भारः स॒नादे॒व न शी᳚र्यते॒ सना᳚भिः ||{13/52}{1.164.13}{1.22.8.13}{2.3.16.3}{1728, 164, 1728} पंच॑।आरे¦च॒क्रे¦प॒रि॒ऽवर्त॑माने¦तस्मि॑न्¦आ¦त॒स्थुः॒¦भुव॑नानि¦विश्वा᳚ | |
सने᳚मि च॒क्रम॒जरं॒ वि वा᳚वृत उत्ता॒नायां॒ दश॑ यु॒क्ता व॑हन्ति |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} सूर्य॑स्य॒ चक्षू॒ रज॑सै॒त्यावृ॑तं॒ तस्मि॒न्नार्पि॑ता॒ भुव॑नानि॒ विश्वा᳚ ||{14/52}{1.164.14}{1.22.8.14}{2.3.16.4}{1729, 164, 1729} सऽने᳚मि¦च॒क्रम्¦अ॒जर᳚म्¦वि¦व॒वृ॒ते॒¦उ॒त्ता॒नाया᳚म्¦दश॑¦यु॒क्ताः¦व॒ह॒न्ति॒ | |
सा॒कं॒जानां᳚ स॒प्तथ॑माहुरेक॒जं षळिद् य॒मा, ऋष॑यो देव॒जा, इति॑ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती} तेषा᳚मि॒ष्टानि॒ विहि॑तानि धाम॒शः स्था॒त्रे रे᳚जन्ते॒ विकृ॑तानि रूप॒शः ||{15/52}{1.164.15}{1.22.8.15}{2.3.16.5}{1730, 164, 1730} सा॒क॒म्ऽजाना᳚म्¦स॒प्तथ᳚म्¦आ॒हुः॒¦ए॒क॒ऽजम्¦षट्¦इत्¦य॒माः¦ऋष॑यः¦दे॒व॒ऽजाः¦इति॑ | |
स्त्रियः॑ स॒तीस्ताँ, उ॑ मे पुं॒स आ᳚हुः॒ पश्य॑दक्ष॒ण्वान् न वि चे᳚तद॒न्धः |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} क॒विर्यः पु॒त्रः स ई॒मा चि॑केत॒ यस्ता वि॑जा॒नात् स पि॒तुष्पि॒तास॑त् ||{16/52}{1.164.16}{1.22.8.16}{2.3.17.1}{1731, 164, 1731} स्त्रियः॑¦स॒तीः¦तान्¦ऊँ॒ इति॑¦मे॒¦पुं॒सः¦आ॒हुः॒¦पश्य॑त्¦अ॒क्ष॒ण्ऽवान्¦न¦वि¦चे॒त॒त्¦अ॒न्धः | |
अ॒वः परे᳚ण प॒र ए॒नाव॑रेण प॒दा व॒त्सं बिभ्र॑ती॒ गौरुद॑स्थात् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} सा क॒द्रीची॒ कं स्वि॒दर्धं॒ परा᳚गा॒त् क्व॑ स्वित् सूते न॒हि यू॒थे, अ॒न्तः ||{17/52}{1.164.17}{1.22.8.17}{2.3.17.2}{1732, 164, 1732} अ॒वः¦परे᳚ण¦प॒रः¦ए॒ना¦अव॑रेण¦प॒दा¦व॒त्सम्¦बिभ्र॑ती¦गौः¦उत्¦अ॒स्था॒त् | |
अ॒वः परे᳚ण पि॒तरं॒ यो, अ॑स्यानु॒वेद॑ प॒र ए॒नाव॑रेण |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} क॒वी॒यमा᳚नः॒ क इ॒ह प्र वो᳚चद् दे॒वं मनः॒ कुतो॒, अधि॒ प्रजा᳚तम् ||{18/52}{1.164.18}{1.22.8.18}{2.3.17.3}{1733, 164, 1733} अ॒वः¦परे᳚ण¦पि॒तर᳚म्¦यः¦अ॒स्य॒¦अ॒नु॒ऽवेद॑¦प॒रः¦ए॒ना¦अव॑रेण | |
ये, अ॒र्वाञ्च॒स्ताँ, उ॒ परा᳚च आहु॒र्ये परा᳚ञ्च॒स्ताँ, उ॑ अ॒र्वाच॑ आहुः |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} इन्द्र॑श्च॒ या च॒क्रथुः॑ सोम॒ तानि॑ धु॒रा न यु॒क्ता रज॑सो वहन्ति ||{19/52}{1.164.19}{1.22.8.19}{2.3.17.4}{1734, 164, 1734} ये¦अ॒र्वांचः॑¦तान्¦ऊँ॒ इति॑¦परा᳚चः¦आ॒हुः॒¦ये¦परां᳚चः¦तान्¦ऊँ॒ इति॑¦अ॒र्वाचः॑¦आ॒हुः॒ | |
द्वा सु॑प॒र्णा स॒युजा॒ सखा᳚या समा॒नं वृ॒क्षं परि॑ षस्वजाते |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} तयो᳚र॒न्यः पिप्प॑लं स्वा॒द्वत् त्यन॑श्नन्न॒न्यो, अ॒भि चा᳚कशीति ||{20/52}{1.164.20}{1.22.8.20}{2.3.17.5}{1735, 164, 1735} द्वा¦सु॒ऽप॒र्णा¦स॒ऽयुजा᳚¦सखा᳚या¦स॒म॒नम्¦वृ॒क्षम्¦परि॑¦स॒स्व॒जा॒ते॒ इति॑ | |
यत्रा᳚ सुप॒र्णा, अ॒मृत॑स्य भा॒गमनि॑मेषं वि॒दथा᳚भि॒स्वर᳚न्ति |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} इ॒नो विश्व॑स्य॒ भुव॑नस्य गो॒पाः स मा॒ धीरः॒ पाक॒मत्रा वि॑वेश ||{21/52}{1.164.21}{1.22.8.21}{2.3.18.1}{1736, 164, 1736} यत्र॑¦सु॒ऽप॒र्णाः¦अ॒मृत॑स्य¦भा॒गम्¦अनि॑ऽमेषम्¦वि॒दथा᳚¦अ॒भि॒ऽस्वर᳚न्ति | |
यस्मि᳚न् वृ॒क्षे म॒ध्वदः॑ सुप॒र्णा नि॑वि॒शन्ते॒ सुव॑ते॒ चाधि॒ विश्वे᳚ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} तस्येदा᳚हुः॒ पिप्प॑लं स्वा॒द्वग्रे॒ तन्नोन्न॑श॒द्यः पि॒तरं॒ न वेद॑ ||{22/52}{1.164.22}{1.22.8.22}{2.3.18.2}{1737, 164, 1737} यस्मि॑न्¦वृ॒क्षे¦म॒धु॒।आदः॑¦सु॒ऽप॒र्णाः¦नि॒ऽवि॒शन्ते᳚¦सुव॑ते¦च॒¦अधि॑¦विश्वे᳚ | |
यद् गा᳚य॒त्रे, अधि॑ गाय॒त्रमाहि॑तं॒ त्रैष्टु॑भाद् वा॒ त्रैष्टु॑भं नि॒रत॑क्षत |{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती} यद् वा॒ जग॒ज्जग॒त्याहि॑तं प॒दं य इत्तद् वि॒दुस्ते, अ॑मृत॒त्वमा᳚नशुः ||{23/52}{1.164.23}{1.22.8.23}{2.3.18.3}{1738, 164, 1738} यत्¦गा॒य॒त्रे¦अधि॑¦गा॒य॒त्रम्¦आऽहि॑तम्¦त्रैस्तु॑भात्¦वा॒¦त्रैस्तु॑भम्¦निः॒।आत॑क्षत | |
गा॒य॒त्रेण॒ प्रति॑ मिमीते, अ॒र्कम॒र्केण॒ साम॒ त्रैष्टु॑भेन वा॒कम् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} वा॒केन॑ वा॒कं द्वि॒पदा॒ चतु॑ष्पदा॒क्षरे᳚ण मिमते स॒प्त वाणीः᳚ ||{24/52}{1.164.24}{1.22.8.24}{2.3.18.4}{1739, 164, 1739} गा॒य॒त्रेण॑¦प्रति॑¦मि॒मी॒ते॒¦अ॒र्कम्¦अ॒र्केण॑¦साम॑¦त्रैस्तु॑भेन¦वा॒कम् | |
जग॑ता॒ सिन्धुं᳚ दि॒व्य॑स्तभायद् रथंत॒रे सूर्यं॒ पर्य॑पश्यत् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} गा॒य॒त्रस्य॑ स॒मिध॑स्ति॒स्र आ᳚हु॒स्ततो᳚ म॒ह्ना प्र रि॑रिचे महि॒त्वा ||{25/52}{1.164.25}{1.22.8.25}{2.3.18.5}{1740, 164, 1740} जग॑ता¦सिन्धु᳚म्¦दि॒वि¦अ॒स्त॒भा॒य॒त्¦र॒थ॒म्ऽत॒रे¦सूर्य᳚म्¦परि॑¦अ॒प॒श्य॒त् | |
उप॑ ह्वये सु॒दुघां᳚ धे॒नुमे॒तां सु॒हस्तो᳚ गो॒धुगु॒त दो᳚हदेनाम् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} श्रेष्ठं᳚ स॒वं स॑वि॒ता सा᳚विषन्नो॒ऽभी᳚द्धो घ॒र्मस्तदु॒ षु प्र वो᳚चम् ||{26/52}{1.164.26}{1.22.8.26}{2.3.19.1}{1741, 164, 1741} उप॑¦ह्व॒ये॒¦सु॒ऽदुघा᳚म्¦धे॒नुम्¦ए॒ताम्¦सु॒ऽहस्तः॑¦गो॒ऽधुक्¦उ॒त¦दो॒ह॒त्¦ए॒ना॒म् | |
हि॒ङ्कृ॒ण्व॒ती व॑सु॒पत्नी॒ वसू᳚नां व॒त्समि॒च्छन्ती॒ मन॑सा॒भ्यागा᳚त् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} दु॒हाम॒श्विभ्यां॒ पयो᳚, अ॒घ्न्येयं सा व॑र्धतां मह॒ते सौभ॑गाय ||{27/52}{1.164.27}{1.22.8.27}{2.3.19.2}{1742, 164, 1742} हि॒ङ्ऽकृ॒ण्व॒ती¦व॒सु॒ऽपत्नी᳚¦वसू᳚नाम्¦व॒त्सम्¦इ॒च्छन्ती᳚¦मन॑सा¦अ॒भि¦आ¦अ॒गा॒त् | |
गौर॑मीमे॒दनु॑ व॒त्सं मि॒षन्तं᳚ मू॒र्धानं॒ हिङ्ङ॑कृणो॒न्मात॒वा, उ॑ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} सृक्वा᳚णं घ॒र्मम॒भि वा᳚वशा॒ना मिमा᳚ति मा॒युं पय॑ते॒ पयो᳚भिः ||{28/52}{1.164.28}{1.22.8.28}{2.3.19.3}{1743, 164, 1743} गौः¦अ॒मी॒मे॒त्¦अनु॑¦व॒त्सम्¦मि॒षन्त᳚म्¦मू॒र्धान᳚म्¦हिङ्¦अ॒कृ॒णो॒त्¦मात॒वै¦ऊँ॒ इति॑ | |
अ॒यं स शि᳚ङ्क्ते॒ येन॒ गौर॒भीवृ॑ता॒ मिमा᳚ति मा॒युं ध्व॒सना॒वधि॑ श्रि॒ता |{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती} सा चि॒त्तिभि॒र्नि हि च॒कार॒ मर्त्यं᳚ वि॒द्युद् भव᳚न्ती॒ प्रति॑ व॒व्रिमौ᳚हत ||{29/52}{1.164.29}{1.22.8.29}{2.3.19.4}{1744, 164, 1744} अ॒यम्¦सः¦शि॒ङ्क्ते॒¦येन॑¦गौः¦अ॒भिऽवृ॑ता¦मिमा᳚ति¦मा॒युम्¦ध्व॒सनौ᳚¦अधि॑¦श्रि॒ता | |
अ॒नच्छ॑ये तु॒रगा᳚तु जी॒वमेज॑द् ध्रु॒वं मध्य॒ आ प॒स्त्या᳚नाम् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} जी॒वो मृ॒तस्य॑ चरति स्व॒धाभि॒रम॑र्त्यो॒ मर्त्ये᳚ना॒ सयो᳚निः ||{30/52}{1.164.30}{1.22.8.30}{2.3.19.5}{1745, 164, 1745} अ॒नत्¦श॒ये॒¦तु॒रऽगा᳚तु¦जी॒वम्¦एज॑त्¦ध्रु॒वम्¦मध्ये᳚¦आ¦प॒स्त्या᳚नाम् | |
अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा᳚ च प॒थिभि॒श्चर᳚न्तम् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} स स॒ध्रीचीः॒ स विषू᳚ची॒र्वसा᳚न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ||{31/52}{1.164.31}{1.22.8.31}{2.3.20.1}{1746, 164, 1746} अप॑श्यम्¦गो॒पाम्¦अनि॑ऽपद्यमानम्¦आ¦च॒¦परा᳚¦च॒¦प॒थिऽभिः॑¦चर᳚न्तम् | |
य ईं᳚ च॒कार॒ न सो, अ॒स्य वे᳚द॒ य ईं᳚ द॒दर्श॒ हिरु॒गिन्नु तस्मा᳚त् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} स मा॒तुर्योना॒ परि॑वीतो, अ॒न्तर्ब॑हुप्र॒जा निरृ॑ति॒मा वि॑वेश ||{32/52}{1.164.32}{1.22.8.32}{2.3.20.2}{1747, 164, 1747} यः¦ई॒म्¦च॒कार॑¦न¦सः¦अ॒स्य¦वे॒द॒¦यः¦ई॒म्¦द॒दर्श॑¦हिरु॑क्¦इत्¦नु¦तस्मा᳚त् | |
द्यौर्मे᳚ पि॒ता ज॑नि॒ता नाभि॒रत्र॒ बन्धु᳚र्मे मा॒ता पृ॑थि॒वी म॒हीयम् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} उ॒त्ता॒नयो᳚श्च॒म्वो॒३॑(ओ॒)र्योनि॑र॒न्तरत्रा᳚ पि॒ता दु॑हि॒तुर्गर्भ॒माधा᳚त् ||{33/52}{1.164.33}{1.22.8.33}{2.3.20.3}{1748, 164, 1748} द्यौः¦मे॒¦पि॒ता¦ज॒नि॒ता¦नाभिः॑¦अत्र॑¦बन्धुः॑¦मे॒¦मा॒ता¦पृ॒थि॒वी¦म॒ही¦इ॒यम् | |
पृ॒च्छामि॑ त्वा॒ पर॒मन्तं᳚ पृथि॒व्याः पृ॒च्छामि॒ यत्र॒ भुव॑नस्य॒ नाभिः॑ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} पृ॒च्छामि॑ त्वा॒ वृष्णो॒, अश्व॑स्य॒ रेतः॑ पृ॒च्छामि॑ वा॒चः प॑र॒मं व्यो᳚म ||{34/52}{1.164.34}{1.22.8.34}{2.3.20.4}{1749, 164, 1749} पृ॒च्छामि॑¦त्वा॒¦पर᳚म्¦अन्त᳚म्¦पृ॒थि॒व्याः¦पृ॒च्छामि॑¦यत्र॑¦भुव॑नस्य¦नाभिः॑ | |
इ॒यं वेदिः॒ परो॒, अन्तः॑ पृथि॒व्या, अ॒यं य॒ज्ञो भुव॑नस्य॒ नाभिः॑ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} अ॒यं सोमो॒ वृष्णो॒, अश्व॑स्य॒ रेतो᳚ ब्र॒ह्मायं वा॒चः प॑र॒मं व्यो᳚म ||{35/52}{1.164.35}{1.22.8.35}{2.3.20.5}{1750, 164, 1750} इ॒यम्¦वेदिः॑¦परः॑¦अन्तः॑¦पृ॒थि॒व्याः¦अ॒यम्¦य॒ज्ञः¦भुव॑नस्य¦नाभिः॑ | |
स॒प्तार्ध॑ग॒र्भा भुव॑नस्य॒ रेतो॒ विष्णो᳚स्तिष्ठन्ति प्र॒दिशा॒ विध᳚र्मणि |{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती} ते धी॒तिभि॒र्मन॑सा॒ ते वि॑प॒श्चितः॑ परि॒भुवः॒ परि॑ भवन्ति वि॒श्वतः॑ ||{36/52}{1.164.36}{1.22.8.36}{2.3.21.1}{1751, 164, 1751} स॒प्त¦अ॒र्ध॒ऽग॒र्भाः¦भुव॑नस्य¦रेतः॑¦विष्णोः᳚¦ति॒ष्ठ॒न्ति॒¦प्र॒ऽदिशा᳚¦विऽध᳚र्मणि | |
न वि जा᳚नामि॒ यदि॑वे॒दमस्मि॑ नि॒ण्यः संन॑द्धो॒ मन॑सा चरामि |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} य॒दा माग᳚न् प्रथम॒जा, ऋ॒तस्यादिद् वा॒चो, अ॑श्नुवे भा॒गम॒स्याः ||{37/52}{1.164.37}{1.22.8.37}{2.3.21.2}{1752, 164, 1752} न¦वि¦जा॒ना॒मि॒¦यत्ऽइ᳚व¦इ॒दम्¦अस्मि॑¦नि॒ण्यः¦सम्ऽन॑द्धः¦मन॑सा¦च॒रा॒मि॒ | |
अपा॒ङ् प्राङे᳚ति स्व॒धया᳚ गृभी॒तोऽम॑र्त्यो॒ मर्त्ये᳚ना॒ सयो᳚निः |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} ता शश्व᳚न्ता विषू॒चीना᳚ वि॒यन्ता॒ न्य१॑(अ॒)न्यं चि॒क्युर्न नि चि॑क्युर॒न्यम् ||{38/52}{1.164.38}{1.22.8.38}{2.3.21.3}{1753, 164, 1753} अपा᳚ङ्¦प्राङ्¦ए॒ति॒¦स्व॒धया᳚¦गृ॒भी॒तः¦अम॑र्त्यः¦मर्त्ये᳚न¦सऽयो᳚निः | |
ऋ॒चो, अ॒क्षरे᳚ पर॒मे व्यो᳚म॒न् यस्मि᳚न् दे॒वा, अधि॒ विश्वे᳚ निषे॒दुः |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒ य इत्तद्वि॒दुस्त इ॒मे समा᳚सते ||{39/52}{1.164.39}{1.22.8.39}{2.3.21.4}{1754, 164, 1754} ऋ॒चः¦अ॒क्षरे᳚¦प॒र॒मे¦विऽओ᳚मन्¦यस्मि॑न्¦दे॒वाः¦अधि॑¦विश्वे᳚¦नि॒ऽसे॒दुः | |
सू॒य॒व॒साद् भग॑वती॒ हि भू॒या, अथो᳚ व॒यं भग॑वन्तः स्याम |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} अ॒द्धि तृण॑मघ्न्ये विश्व॒दानीं॒ पिब॑ शु॒द्धमु॑द॒कमा॒चर᳚न्ती ||{40/52}{1.164.40}{1.22.8.40}{2.3.21.5}{1755, 164, 1755} सु॒य॒व॒स॒।आत्¦भग॑ऽवती¦हि¦भू॒याः¦अथो॒ इति॑¦व॒यम्¦भग॑ऽवन्तः¦स्या॒म॒ | |
गौ॒रीर्मि॑माय सलि॒लानि॒ तक्ष॒त्येक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी |{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती} अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी᳚ स॒हस्रा᳚क्षरा पर॒मे व्यो᳚मन् ||{41/52}{1.164.41}{1.22.8.41}{2.3.22.1}{1756, 164, 1756} गौ॒रीः¦मि॒मा॒य॒¦स॒लि॒लानि॑¦तक्ष॑ती¦एक॑ऽपदी¦द्वि॒ऽपदी᳚¦सा¦चतुः॑ऽपदी | |
तस्याः᳚ समु॒द्रा, अधि॒ वि क्ष॑रन्ति॒ तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः |{औचथ्यो दीर्घतमाः | १/२: वाक् २/२: चापः | प्रस्तारपङ्क्तिः} ततः॑, क्षरत्य॒क्षरं॒ तद् विश्व॒मुप॑ जीवति ||{42/52}{1.164.42}{1.22.8.42}{2.3.22.2}{1757, 164, 1757} तस्याः᳚¦स॒मु॒द्राः¦अधि॑¦वि¦क्ष॒र॒न्ति॒¦तेन॑¦जी॒व॒न्ति॒¦प्र॒ऽदिशः॑¦चत॑स्रः | |
श॒क॒मयं᳚ धू॒ममा॒राद॑पश्यं विषू॒वता᳚ प॒र ए॒नाव॑रेण |{औचथ्यो दीर्घतमाः | १/२:शकधूमः २/२:सोमः | त्रिष्टुप्} उ॒क्षाणं॒ पृश्नि॑मपचन्त वी॒रास्तानि॒ धर्मा᳚णि प्रथ॒मान्या᳚सन् ||{43/52}{1.164.43}{1.22.8.43}{2.3.22.3}{1758, 164, 1758} श॒क॒ऽमय᳚म्¦धू॒मम्¦आ॒रात्¦अ॒प॒श्य॒म्¦वि॒षु॒ऽवता᳚¦प॒रः¦ए॒ना¦अव॑रेण | |
त्रयः॑ के॒शिन॑ ऋतु॒था वि च॑क्षते संवत्स॒रे व॑पत॒ एक॑ एषाम् |{औचथ्यो दीर्घतमाः | केशिनः (अग्निः सूर्यो वायुश्च) | त्रिष्टुप्} विश्व॒मेको᳚, अ॒भि च॑ष्टे॒ शची᳚भि॒र्ध्राजि॒रेक॑स्य ददृशे॒ न रू॒पम् ||{44/52}{1.164.44}{1.22.8.44}{2.3.22.4}{1759, 164, 1759} त्रयः॑¦के॒शिनः॑¦ऋ॒तु॒ऽथा¦वि¦च॒क्ष॒ते॒¦सं॒व॒त्स॒रे¦व॒प॒ते॒¦एकः॑¦ए॒षा॒म् | |
च॒त्वारि॒ वाक् परि॑मिता प॒दानि॒ तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिणः॑ |{औचथ्यो दीर्घतमाः | वाक् | त्रिष्टुप्} गुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति तु॒रीयं᳚ वा॒चो म॑नु॒ष्या᳚ वदन्ति ||{45/52}{1.164.45}{1.22.8.45}{2.3.22.5}{1760, 164, 1760} च॒त्वारि॑¦वाक्¦परि॑ऽमिता¦प॒दानि॑¦तानि॑¦वि॒दुः॒¦ब्रा॒ह्म॒णाः¦ये¦म॒नी॒षिणः॑ | |
इन्द्रं᳚ मि॒त्रं वरु॑णम॒ग्निमा᳚हु॒रथो᳚ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मा॑न् |{औचथ्यो दीर्घतमाः | सूर्यः | त्रिष्टुप्} एकं॒ सद् विप्रा᳚ बहु॒धा व॑दन्त्य॒ग्निं य॒मं मा᳚त॒रिश्वा᳚नमाहुः ||{46/52}{1.164.46}{1.22.8.46}{2.3.22.6}{1761, 164, 1761} इन्द्र᳚म्¦मि॒त्रम्¦वरु॑णम्¦अ॒ग्निम्¦आ॒हुः॒¦अथो॒ इति॑¦दि॒व्यः¦सः¦सु॒ऽप॒र्णः¦ग॒रुत्मा॑न् | |
कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा, अ॒पो वसा᳚ना॒ दिव॒मुत्प॑तन्ति |{औचथ्यो दीर्घतमाः | सूर्यः | त्रिष्टुप्} त आव॑वृत्र॒न् त्सद॑नादृ॒तस्यादिद् घृ॒तेन॑ पृथि॒वी व्यु॑द्यते ||{47/52}{1.164.47}{1.22.8.47}{2.3.23.1}{1762, 164, 1762} कृ॒ष्णम्¦नि॒ऽयान᳚म्¦हर॑यः¦सु॒ऽप॒र्णाः¦अ॒पः¦वसा᳚नाः¦दिव᳚म्¦उत्¦प॒त॒न्ति॒ | |
द्वाद॑श प्र॒धय॑श्च॒क्रमेकं॒ त्रीणि॒ नभ्या᳚नि॒ क उ॒ तच्चि॑केत |{औचथ्यो दीर्घतमाः | संवत्सरात्मा कालः | त्रिष्टुप्} तस्मि᳚न् त्सा॒कं त्रि॑श॒ता न श॒ङ्कवो᳚ऽर्पि॒ताः ष॒ष्टिर्न च॑लाच॒लासः॑ ||{48/52}{1.164.48}{1.22.8.48}{2.3.23.2}{1763, 164, 1763} द्वाद॑श¦प्र॒ऽधयः॑¦च॒क्रम्¦एक᳚म्¦त्रीणि॑¦नभ्या᳚नि¦कः¦ऊँ॒ इति॑¦तत्¦चि॒के॒त॒ | |
यस्ते॒ स्तनः॑ शश॒यो यो म॑यो॒भूर्येन॒ विश्वा॒ पुष्य॑सि॒ वार्या᳚णि |{औचथ्यो दीर्घतमाः | सरस्वती | त्रिष्टुप्} यो र॑त्न॒धा व॑सु॒विद् यः सु॒दत्रः॒ सर॑स्वति॒ तमि॒ह धात॑वे कः ||{49/52}{1.164.49}{1.22.8.49}{2.3.23.3}{1764, 164, 1764} यः¦ते॒¦स्तनः॑¦श॒श॒यः¦यः¦म॒यः॒ऽभूः¦येन॑¦विश्वा᳚¦पुष्य॑सि¦वार्या᳚णि | |
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा᳚णि प्रथ॒मान्या᳚सन् |{औचथ्यो दीर्घतमाः | साध्याः | त्रिष्टुप्} ते ह॒ नाकं᳚ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे᳚ सा॒ध्याः सन्ति॑ दे॒वाः ||{50/52}{1.164.50}{1.22.8.50}{2.3.23.4}{1765, 164, 1765} य॒ज्ञेन॑¦य॒ज्ञम्¦अ॒य॒ज॒न्त॒¦दे॒वाः¦तानि॑¦धर्मा᳚णि¦प्र॒थ॒मानि॑¦आ॒सन् | |
स॒मा॒नमे॒तदु॑द॒कमुच्चैत्यव॒ चाह॑भिः |{औचथ्यो दीर्घतमाः | सूर्यः पर्जन्योऽग्नयो वा | अनुष्टुप्} भूमिं᳚ प॒र्जन्या॒ जिन्व᳚न्ति॒ दिवं᳚ जिन्वन्त्य॒ग्नयः॑ ||{51/52}{1.164.51}{1.22.8.51}{2.3.23.5}{1766, 164, 1766} स॒मा॒नम्¦ए॒तत्¦उ॒द॒कम्¦उत्¦च॒¦एति॑¦अव॑¦च॒¦अह॑ऽभिः | भूमि᳚म्¦प॒र्जन्याः᳚¦जिन्व᳚न्ति¦दिव᳚म्¦जि॒न्व॒न्ति॒¦अ॒ग्नयः॑ || |
दि॒व्यं सु॑प॒र्णं वा᳚य॒सं बृ॒हन्त॑म॒पां गर्भं᳚ दर्श॒तमोष॑धीनाम् |{औचथ्यो दीर्घतमाः | सरस्वान् सूर्यो वा | त्रिष्टुप्} अ॒भी॒प॒तो वृ॒ष्टिभि॑स्त॒र्पय᳚न्तं॒ सर॑स्वन्त॒मव॑से जोहवीमि ||{52/52}{1.164.52}{1.22.8.52}{2.3.23.6}{1767, 164, 1767} दि॒व्यम्¦सु॒ऽप॒र्णम्¦वा॒य॒सम्¦बृ॒हन्त᳚म्¦अ॒पाम्¦गर्भ᳚म्¦द॒र्श॒तम्¦ओष॑धीनाम् | |
[165] कयाशुभेति पंचदशर्चस्य सूक्तस्य तृतीयाद्ययुगृचामेकादशीवर्ज्यानां मरुतः त्रयोदश्यादितिसृणामगस्त्यः शिष्टानामिंद्रऋषिः | सर्वसूक्तस्यमरुत्वानिंद्रोदेवतात्रिष्टुप्छंदः | |
कया᳚ शु॒भा सव॑यसः॒ सनी᳚ळाः समा॒न्या म॒रुतः॒ सं मि॑मिक्षुः |{इन्द्रः | इन्द्रः | त्रिष्टुप्} कया᳚ म॒ती कुत॒ एता᳚स ए॒तेऽर्च᳚न्ति॒ शुष्मं॒ वृष॑णो वसू॒या ||{1/15}{1.165.1}{1.23.1.1}{2.3.24.1}{1768, 165, 1768} कया᳚¦शु॒भा¦सऽव॑यसः¦सऽनी᳚ळाः¦स॒मा॒न्या¦म॒रुतः॑¦सम्¦मि॒मि॒क्षुः॒ | |
कस्य॒ ब्रह्मा᳚णि जुजुषु॒र्युवा᳚नः॒ को, अ॑ध्व॒रे म॒रुत॒ आ व॑वर्त |{इन्द्रः | इन्द्रः | त्रिष्टुप्} श्ये॒नाँ, इ॑व॒ ध्रज॑तो, अ॒न्तरि॑क्षे॒ केन॑ म॒हा मन॑सा रीरमाम ||{2/15}{1.165.2}{1.23.1.2}{2.3.24.2}{1769, 165, 1769} कस्य॑¦ब्रह्मा᳚णि¦जु॒जु॒षुः॒¦युवा᳚नः¦कः¦अ॒ध्व॒रे¦म॒रुतः॑¦आ¦व॒व॒र्त॒ | |
कुत॒स्त्वमि᳚न्द्र॒ माहि॑नः॒ सन्नेको᳚ यासि सत्पते॒ किं त॑ इ॒त्था |{मरुतः | इन्द्रः | त्रिष्टुप्} सं पृ॑च्छसे समरा॒णः शु॑भा॒नैर्वो॒चेस्तन्नो᳚ हरिवो॒ यत्ते᳚, अ॒स्मे ||{3/15}{1.165.3}{1.23.1.3}{2.3.24.3}{1770, 165, 1770} कुतः॑¦त्वम्¦इ॒न्द्र॒¦माहि॑नः¦सन्¦एकः॑¦या॒सि॒¦स॒त्ऽप॒ते॒¦किम्¦ते॒¦इ॒त्था | |
ब्रह्मा᳚णि मे म॒तयः॒ शं सु॒तासः॒ शुष्म॑ इयर्ति॒ प्रभृ॑तो मे॒, अद्रिः॑ |{इन्द्रः | इन्द्रः | त्रिष्टुप्} आ शा᳚सते॒ प्रति॑ हर्यन्त्यु॒क्थेमा हरी᳚ वहत॒स्ता नो॒, अच्छ॑ ||{4/15}{1.165.4}{1.23.1.4}{2.3.24.4}{1771, 165, 1771} ब्रह्मा᳚णि¦मे॒¦म॒तयः॑¦शम्¦सु॒तासः॑¦शुष्मः॑¦इ॒य॒र्ति॒¦प्रऽभृ॑तः¦मे॒¦अद्रिः॑ | |
अतो᳚ व॒यम᳚न्त॒मेभि᳚र्युजा॒नाः स्वक्ष॑त्रेभिस्त॒न्व१॑(अः॒) शुम्भ॑मानाः |{मरुतः | इन्द्रः | त्रिष्टुप्} महो᳚भि॒रेताँ॒, उप॑ युज्महे॒न्विन्द्र॑ स्व॒धामनु॒ हि नो᳚ ब॒भूथ॑ ||{5/15}{1.165.5}{1.23.1.5}{2.3.24.5}{1772, 165, 1772} अतः॑¦व॒यम्¦अ॒न्त॒मेभिः॑¦यु॒जा॒नाः¦स्वऽक्ष॑त्रेभिः¦त॒न्वः॑¦शुम्भ॑मानाः | |
क्व१॑(अ॒) स्या वो᳚ मरुतः स्व॒धासी॒द् यन्मामेकं᳚ स॒मध॑त्ताहि॒हत्ये᳚ |{इन्द्रः | इन्द्रः | त्रिष्टुप्} अ॒हं ह्यु१॑(उ॒)ग्रस्त॑वि॒षस्तुवि॑ष्मा॒न् विश्व॑स्य॒ शत्रो॒रन॑मं वध॒स्नैः ||{6/15}{1.165.6}{1.23.1.6}{2.3.25.1}{1773, 165, 1773} क्व॑¦स्या¦वः॒¦म॒रु॒तः॒¦स्व॒धा¦आ॒सी॒त्¦यत्¦माम्¦एक᳚म्¦स॒म्।आध॑त्त¦अ॒हि॒ऽहत्ये᳚ | |
भूरि॑ चकर्थ॒ युज्ये᳚भिर॒स्मे स॑मा॒नेभि᳚र्वृषभ॒ पौंस्ये᳚भिः |{मरुतः | इन्द्रः | त्रिष्टुप्} भूरी᳚णि॒ हि कृ॒णवा᳚मा शवि॒ष्ठेन्द्र॒ क्रत्वा᳚ मरुतो॒ यद् वशा᳚म ||{7/15}{1.165.7}{1.23.1.7}{2.3.25.2}{1774, 165, 1774} भूरि॑¦च॒क॒र्थ॒¦युज्ये᳚भिः¦अ॒स्मे इति॑¦स॒मा॒नेभिः॑¦वृ॒ष॒भ॒¦पौंस्ये᳚भिः | |
वधीं᳚ वृ॒त्रं म॑रुत इन्द्रि॒येण॒ स्वेन॒ भामे᳚न तवि॒षो ब॑भू॒वान् |{इन्द्रः | इन्द्रः | त्रिष्टुप्} अ॒हमे॒ता मन॑वे वि॒श्वश्च᳚न्द्राः सु॒गा, अ॒पश्च॑कर॒ वज्र॑बाहुः ||{8/15}{1.165.8}{1.23.1.8}{2.3.25.3}{1775, 165, 1775} वधी᳚म्¦वृ॒त्रम्¦म॒रु॒तः॒¦इ॒न्द्रि॒येण॑¦स्वेन॑¦भामे᳚न¦त॒वि॒षः¦ब॒भू॒वान् | |
अनु॑त्त॒मा ते᳚ मघव॒न्नकि॒र्नु न त्वावाँ᳚, अस्ति दे॒वता॒ विदा᳚नः |{मरुतः | इन्द्रः | त्रिष्टुप्} न जाय॑मानो॒ नश॑ते॒ न जा॒तो यानि॑ करि॒ष्या कृ॑णु॒हि प्र॑वृद्ध ||{9/15}{1.165.9}{1.23.1.9}{2.3.25.4}{1776, 165, 1776} अनु॑त्तम्¦आ¦ते॒¦म॒घ॒ऽव॒न्¦नकिः॑¦नु¦न¦त्वाऽवा᳚न्¦अ॒स्ति॒¦दे॒वता᳚¦विदा᳚नः | |
एक॑स्य चिन्मे वि॒भ्व१॑(अ॒)स्त्वोजो॒ या नु द॑धृ॒ष्वान् कृ॒णवै᳚ मनी॒षा |{इन्द्रः | इन्द्रः | त्रिष्टुप्} अ॒हं ह्यु१॑(उ॒)ग्रो म॑रुतो॒ विदा᳚नो॒ यानि॒ च्यव॒मिन्द्र॒ इदी᳚श एषाम् ||{10/15}{1.165.10}{1.23.1.10}{2.3.25.5}{1777, 165, 1777} एक॑स्य¦चि॒त्¦मे॒¦वि॒ऽभु¦अ॒स्तु॒¦ओजः॑¦या¦नु¦द॒धृ॒ष्वान्¦कृ॒णवै᳚¦म॒नी॒षा | |
अम᳚न्दन्मा मरुतः॒ स्तोमो॒, अत्र॒ यन्मे᳚ नरः॒ श्रुत्यं॒ ब्रह्म॑ च॒क्र |{इन्द्रः | इन्द्रः | त्रिष्टुप्} इन्द्रा᳚य॒ वृष्णे॒ सुम॑खाय॒ मह्यं॒ सख्ये॒ सखा᳚यस्त॒न्वे᳚ त॒नूभिः॑ ||{11/15}{1.165.11}{1.23.1.11}{2.3.26.1}{1778, 165, 1778} अम᳚न्दत्¦मा॒¦म॒रु॒तः॒¦स्तोमः॑¦अत्र॑¦यत्¦मे॒¦न॒रः॒¦श्रुत्य᳚म्¦ब्रह्म॑¦च॒क्र | |
ए॒वेदे॒ते प्रति॑ मा॒ रोच॑माना॒, अने᳚द्यः॒ श्रव॒ एषो॒ दधा᳚नाः |{इन्द्रः | इन्द्रः | त्रिष्टुप्} सं॒चक्ष्या᳚ मरुतश्च॒न्द्रव᳚र्णा॒, अच्छा᳚न्त मे छ॒दया᳚था च नू॒नम् ||{12/15}{1.165.12}{1.23.1.12}{2.3.26.2}{1779, 165, 1779} ए॒व¦इत्¦ए॒ते¦प्रति॑¦मा॒¦रोच॑मानाः¦अने᳚द्यः¦श्रवः॑¦आ¦इषः॑¦दधा᳚नाः | |
को न्वत्र॑ मरुतो मामहे वः॒ प्र या᳚तन॒ सखीँ॒रच्छा᳚ सखायः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} मन्मा᳚नि चित्रा, अपिवा॒तय᳚न्त ए॒षां भू᳚त॒ नवे᳚दा म ऋ॒ताना᳚म् ||{13/15}{1.165.13}{1.23.1.13}{2.3.26.3}{1780, 165, 1780} कः¦नु¦अत्र॑¦म॒रु॒तः॒¦म॒म॒हे॒¦वः॒¦प्र¦या॒त॒न॒¦सखी॒न्¦अच्छ॑¦स॒खा॒यः॒ | |
आ यद् दु॑व॒स्याद् दु॒वसे॒ न का॒रुर॒स्माञ्च॒क्रे मा॒न्यस्य॑ मे॒धा |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} ओ षु व॑र्त्त मरुतो॒ विप्र॒मच्छे॒मा ब्रह्मा᳚णि जरि॒ता वो᳚, अर्चत् ||{14/15}{1.165.14}{1.23.1.14}{2.3.26.4}{1781, 165, 1781} आ¦यत्¦दु॒व॒स्यात्¦दु॒वसे᳚¦न¦का॒रुः¦अ॒स्मान्¦च॒क्रे¦मा॒न्यस्य॑¦मे॒धा | |
ए॒ष वः॒ स्तोमो᳚ मरुत इ॒यं गीर्मा᳚न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} एषा या᳚सीष्ट त॒न्वे᳚ व॒यां वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{15/15}{1.165.15}{1.23.1.15}{2.3.26.5}{1782, 165, 1782} ए॒षः¦वः॒¦स्तोमः॑¦म॒रु॒तः॒¦इ॒यम्¦गीः¦मा॒न्दा॒र्यस्य॑¦मा॒न्यस्य॑¦का॒रोः | |
[166] तन्नुवोचामेति पंचदशर्चस्य सूक्तस्यमैत्रावरुणिरगस्त्योमरुतोजगत्यंत्येद्वेत्रिष्टुभौ | |
तन्नु वो᳚चाम रभ॒साय॒ जन्म॑ने॒ पूर्वं᳚ महि॒त्वं वृ॑ष॒भस्य॑ के॒तवे᳚ |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} ऐ॒धेव॒ याम᳚न् मरुतस्तुविष्वणो यु॒धेव॑ शक्रास्तवि॒षाणि॑ कर्तन ||{1/15}{1.166.1}{1.23.2.1}{2.4.1.1}{1783, 166, 1783} तत्¦नु¦वो॒चा॒म॒¦र॒भ॒साय॑¦जन्म॑ने¦पूर्व᳚म्¦म॒हि॒त्वम्¦वृ॒ष॒भस्य॑¦के॒तवे᳚ | |
नित्यं॒ न सू॒नुं मधु॒ बिभ्र॑त॒ उप॒ क्रीळ᳚न्ति क्री॒ळा वि॒दथे᳚षु॒ घृष्व॑यः |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} नक्ष᳚न्ति रु॒द्रा, अव॑सा नम॒स्विनं॒ न म॑र्धन्ति॒ स्वत॑वसो हवि॒ष्कृत᳚म् ||{2/15}{1.166.2}{1.23.2.2}{2.4.1.2}{1784, 166, 1784} नित्य᳚म्¦न¦सू॒नुम्¦मधु॑¦बिभ्र॑तः¦उप॑¦क्रीळ᳚न्ति¦क्री॒ळाः¦वि॒दथे᳚षु¦घृष्व॑यः | |
यस्मा॒, ऊमा᳚सो, अ॒मृता॒, अरा᳚सत रा॒यस्पोषं᳚ च ह॒विषा᳚ ददा॒शुषे᳚ |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} उ॒क्षन्त्य॑स्मै म॒रुतो᳚ हि॒ता, इ॑व पु॒रू रजां᳚सि॒ पय॑सा मयो॒भुवः॑ ||{3/15}{1.166.3}{1.23.2.3}{2.4.1.3}{1785, 166, 1785} यस्मै᳚¦ऊमा᳚सः¦अ॒मृताः᳚¦अरा᳚सत¦रा॒यः¦पोष᳚म्¦च॒¦ह॒विषा᳚¦द॒दा॒शुषे᳚ | |
आ ये रजां᳚सि॒ तवि॑षीभि॒रव्य॑त॒ प्र व॒ एवा᳚सः॒ स्वय॑तासो, अध्रजन् |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} भय᳚न्ते॒ विश्वा॒ भुव॑नानि ह॒र्म्या चि॒त्रो वो॒ यामः॒ प्रय॑तास्वृ॒ष्टिषु॑ ||{4/15}{1.166.4}{1.23.2.4}{2.4.1.4}{1786, 166, 1786} आ¦ये¦रजां᳚सि¦तवि॑षीभिः¦अव्य॑त¦प्र¦वः॒¦एवा᳚सः¦स्वऽय॑तासः¦अ॒ध्र॒ज॒न् | |
यत् त्वे॒षया᳚मा न॒दय᳚न्त॒ पर्व॑तान् दि॒वो वा᳚ पृ॒ष्ठं नर्या॒, अचु॑च्यवुः |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} विश्वो᳚ वो॒, अज्म᳚न् भयते॒ वन॒स्पती᳚ रथी॒यन्ती᳚व॒ प्र जि॑हीत॒ ओष॑धिः ||{5/15}{1.166.5}{1.23.2.5}{2.4.1.5}{1787, 166, 1787} यत्¦त्वे॒षऽया᳚माः¦न॒दय᳚न्त¦पर्व॑तान्¦दि॒वः¦वा॒¦पृ॒ष्ठम्¦नर्याः᳚¦अचु॑च्यवुः | |
यू॒यं न॑ उग्रा मरुतः सुचे॒तुनारि॑ष्टग्रामाः सुम॒तिं पि॑पर्तन |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} यत्रा᳚ वो दि॒द्युद् रद॑ति॒ क्रिवि॑र्दती रि॒णाति॑ प॒श्वः सुधि॑तेव ब॒र्हणा᳚ ||{6/15}{1.166.6}{1.23.2.6}{2.4.2.1}{1788, 166, 1788} यू॒यम्¦नः॒¦उ॒ग्राः॒¦म॒रु॒तः॒¦सु॒ऽचे॒तुना᳚¦अरि॑ष्टऽग्रामाः¦सु॒ऽम॒तिम्¦पि॒प॒र्त॒न॒ | |
प्र स्क॒म्भदे᳚ष्णा, अनव॒भ्ररा᳚धसोऽलातृ॒णासो᳚ वि॒दथे᳚षु॒ सुष्टु॑ताः |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} अर्च᳚न्त्य॒र्कं म॑दि॒रस्य॑ पी॒तये᳚ वि॒दुर्वी॒रस्य॑ प्रथ॒मानि॒ पौंस्या᳚ ||{7/15}{1.166.7}{1.23.2.7}{2.4.2.2}{1789, 166, 1789} प्र¦स्क॒म्भऽदे᳚ष्णाः¦अ॒न॒व॒भ्रऽरा᳚धसः¦अ॒ला॒तृ॒णासः॑¦वि॒दथे᳚षु¦सुऽस्तु॑ताः | |
श॒तभु॑जिभि॒स्तम॒भिह्रु॑तेर॒घात् पू॒र्भी र॑क्षता मरुतो॒ यमाव॑त |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} जनं॒ यमु॑ग्रास्तवसो विरप्शिनः पा॒थना॒ शंसा॒त्तन॑यस्य पु॒ष्टिषु॑ ||{8/15}{1.166.8}{1.23.2.8}{2.4.2.3}{1790, 166, 1790} श॒तभु॑जिऽभिः¦तम्¦अ॒भिऽह्रु॑तेः¦अ॒घात्¦पूः॒ऽभिः¦र॒क्ष॒त॒¦म॒रु॒तः॒¦यम्¦आव॑त | |
विश्वा᳚नि भ॒द्रा म॑रुतो॒ रथे᳚षु वो मिथ॒स्पृध्ये᳚व तवि॒षाण्याहि॑ता |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} अंसे॒ष्वा वः॒ प्रप॑थेषु खा॒दयोऽक्षो᳚ वश्च॒क्रा स॒मया॒ वि वा᳚वृते ||{9/15}{1.166.9}{1.23.2.9}{2.4.2.4}{1791, 166, 1791} विश्वा᳚नि¦भ॒द्रा¦म॒रु॒तः॒¦रथे᳚षु¦वः॒¦मि॒थ॒स्पृध्या᳚ऽइव¦त॒वि॒षाणि॑¦आऽहि॑ता | |
भूरी᳚णि भ॒द्रा नर्ये᳚षु बा॒हुषु॒ वक्ष॑स्सु रु॒क्मा र॑भ॒सासो᳚, अ॒ञ्जयः॑ |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} अंसे॒ष्वेताः᳚ प॒विषु॑ क्षु॒रा, अधि॒ वयो॒ न प॒क्षान् व्यनु॒ श्रियो᳚ धिरे ||{10/15}{1.166.10}{1.23.2.10}{2.4.2.5}{1792, 166, 1792} भूरी᳚णि¦भ॒द्रा¦नर्ये᳚षु¦बा॒हुषु॑¦वक्षः॑ऽसु¦रु॒क्माः¦र॒भ॒सासः॑¦अं॒जयः॑ | |
म॒हान्तो᳚ म॒ह्ना वि॒भ्वो॒३॑(ओ॒) विभू᳚तयो दूरे॒दृशो॒ ये दि॒व्या, इ॑व॒ स्तृभिः॑ |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} म॒न्द्राः सु॑जि॒ह्वाः स्वरि॑तार आ॒सभिः॒ सम्मि॑श्ला॒, इन्द्रे᳚ म॒रुतः॑ परि॒ष्टुभः॑ ||{11/15}{1.166.11}{1.23.2.11}{2.4.3.1}{1793, 166, 1793} म॒हान्तः॑¦म॒ह्ना¦वि॒ऽभ्वः॑¦विऽभू᳚तयः¦दू॒रे॒ऽदृशः॑¦ये¦दि॒व्याःऽइ᳚व¦स्तृऽभिः॑ | |
तद् वः॑ सुजाता मरुतो महित्व॒नं दी॒र्घं वो᳚ दा॒त्रमदि॑तेरिव व्र॒तम् |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} इन्द्र॑श्च॒न त्यज॑सा॒ वि ह्रु॑णाति॒ तज्जना᳚य॒ यस्मै᳚ सु॒कृते॒, अरा᳚ध्वम् ||{12/15}{1.166.12}{1.23.2.12}{2.4.3.2}{1794, 166, 1794} तत्¦वः॒¦सु॒ऽजा॒ताः॒¦म॒रु॒तः॒¦म॒हि॒ऽत्व॒नम्¦दी॒र्घम्¦वः॒¦दा॒त्रम्¦अदि॑तेःऽइव¦व्र॒तम् | |
तद् वो᳚ जामि॒त्वं म॑रुतः॒ परे᳚ यु॒गे पु॒रू यच्छंस॑ममृतास॒ आव॑त |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} अ॒या धि॒या मन॑वे श्रु॒ष्टिमाव्या᳚ सा॒कं नरो᳚ दं॒सनै॒रा चि॑कित्रिरे ||{13/15}{1.166.13}{1.23.2.13}{2.4.3.3}{1795, 166, 1795} तत्¦वः॒¦जा॒मि॒ऽत्वम्¦म॒रु॒तः॒¦परे᳚¦यु॒गे¦पु॒रु¦यत्¦शंस᳚म्¦अ॒मृ॒ता॒सः॒¦आव॑त | |
येन॑ दी॒र्घं म॑रुतः शू॒शवा᳚म यु॒ष्माके᳚न॒ परी᳚णसा तुरासः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} आ यत् त॒तन᳚न् वृ॒जने॒ जना᳚स ए॒भिर्य॒ज्ञेभि॒स्तद॒भीष्टि॑मश्याम् ||{14/15}{1.166.14}{1.23.2.14}{2.4.3.4}{1796, 166, 1796} येन॑¦दी॒र्घम्¦म॒रु॒तः॒¦शू॒शवा᳚म¦यु॒ष्माके᳚न¦परी᳚णसा¦तु॒रा॒सः॒ | |
ए॒ष वः॒ स्तोमो᳚ मरुत इ॒यं गीर्मा᳚न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} एषा या᳚सीष्ट त॒न्वे᳚ व॒यां वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{15/15}{1.166.15}{1.23.2.15}{2.4.3.5}{1797, 166, 1797} ए॒षः¦वः॒¦स्तोमः॑¦म॒रु॒तः॒¦इ॒यम्¦गीः¦मा॒न्दा॒र्यस्य॑¦मा॒न्यस्य॑¦का॒रोः | |
[167] सहस्रंतइत्येकादशर्चस्य सूक्तस्यमैत्रावरुणिरगस्त्यो मरुत आद्यायाइंद्रस्त्रिष्टुप् | |
स॒हस्रं᳚ त इन्द्रो॒तयो᳚ नः स॒हस्र॒मिषो᳚ हरिवो गू॒र्तत॑माः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} स॒हस्रं॒ रायो᳚ माद॒यध्यै᳚ सह॒स्रिण॒ उप॑ नो यन्तु॒ वाजाः᳚ ||{1/11}{1.167.1}{1.23.3.1}{2.4.4.1}{1798, 167, 1798} स॒हस्र᳚म्¦ते॒¦इ॒न्द्र॒¦ऊ॒तयः॑¦नः॒¦स॒हस्र᳚म्¦इषः॑¦ह॒रि॒ऽवः॒¦गू॒र्तऽत॑माः | |
आ नोऽवो᳚भिर्म॒रुतो᳚ या॒न्त्वच्छा॒ ज्येष्ठे᳚भिर्वा बृ॒हद्दि॑वैः सुमा॒याः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} अध॒ यदे᳚षां नि॒युतः॑ पर॒माः स॑मु॒द्रस्य॑ चिद् ध॒नय᳚न्त पा॒रे ||{2/11}{1.167.2}{1.23.3.2}{2.4.4.2}{1799, 167, 1799} आ¦नः॒¦अवः॑ऽभिः¦म॒रुतः॑¦या॒न्तु॒¦अच्छ॑¦ज्येष्ठे᳚भिः¦वा॒¦बृ॒हत्ऽदि॑वैः¦सु॒ऽमा॒याः | |
मि॒म्यक्ष॒ येषु॒ सुधि॑ता घृ॒ताची॒ हिर᳚ण्यनिर्णि॒गुप॑रा॒ न ऋ॒ष्टिः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} गुहा॒ चर᳚न्ती॒ मनु॑षो॒ न योषा᳚ स॒भाव॑ती विद॒थ्ये᳚व॒ सं वाक् ||{3/11}{1.167.3}{1.23.3.3}{2.4.4.3}{1800, 167, 1800} मि॒म्यक्ष॑¦येषु॑¦सुऽधि॑ता¦घृ॒ताची᳚¦हिर᳚ण्यऽनिर्निक्¦उप॑रा¦न¦ऋ॒ष्टिः | |
परा᳚ शु॒भ्रा, अ॒यासो᳚ य॒व्या सा᳚धार॒ण्येव॑ म॒रुतो᳚ मिमिक्षुः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} न रो᳚द॒सी, अप॑ नुदन्त घो॒रा जु॒षन्त॒ वृधं᳚ स॒ख्याय॑ दे॒वाः ||{4/11}{1.167.4}{1.23.3.4}{2.4.4.4}{1801, 167, 1801} परा᳚¦शु॒भ्राः¦अ॒यासः॑¦य॒व्या¦सा॒धा॒र॒ण्याऽइ᳚व¦म॒रुतः॑¦मि॒मि॒क्षुः॒ | |
जोष॒द् यदी᳚मसु॒र्या᳚ स॒चध्यै॒ विषि॑तस्तुका रोद॒सी नृ॒मणाः᳚ |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} आ सू॒र्येव॑ विध॒तो रथं᳚ गात् त्वे॒षप्र॑तीका॒ नभ॑सो॒ नेत्या ||{5/11}{1.167.5}{1.23.3.5}{2.4.4.5}{1802, 167, 1802} जोष॑त्¦यत्¦ई॒म्¦अ॒सु॒र्या᳚¦स॒चध्यै᳚¦विसि॑तऽस्तुका¦रो॒द॒सी¦नृ॒ऽमनाः᳚ | |
आस्था᳚पयन्त युव॒तिं युवा᳚नः शु॒भे निमि॑श्लां वि॒दथे᳚षु प॒ज्राम् |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} अ॒र्को यद् वो᳚ मरुतो ह॒विष्मा॒न् गाय॑द् गा॒थं सु॒तसो᳚मो दुव॒स्यन् ||{6/11}{1.167.6}{1.23.3.6}{2.4.5.1}{1803, 167, 1803} आ¦अ॒स्था॒प॒य॒न्त॒¦यु॒व॒तिम्¦युवा᳚नः¦शु॒भे¦निऽमि॑श्लाम्¦वि॒दथे᳚षु¦प॒ज्राम् | |
प्र तं वि॑वक्मि॒ वक्म्यो॒ य ए᳚षां म॒रुतां᳚ महि॒मा स॒त्यो, अस्ति॑ |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} सचा॒ यदीं॒ वृष॑मणा, अहं॒युः स्थि॒रा चि॒ज्जनी॒र्वह॑ते सुभा॒गाः ||{7/11}{1.167.7}{1.23.3.7}{2.4.5.2}{1804, 167, 1804} प्र¦तम्¦वि॒व॒क्मि॒¦वक्म्यः॑¦यः¦ए॒षा॒म्¦म॒रुता᳚म्¦म॒हि॒मा¦स॒त्यः¦अस्ति॑ | |
पान्ति॑ मि॒त्रावरु॑णावव॒द्याच्चय॑त ईमर्य॒मो, अप्र॑शस्तान् |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} उ॒त च्य॑वन्ते॒, अच्यु॑ता ध्रु॒वाणि॑ वावृ॒ध ईं᳚ मरुतो॒ दाति॑वारः ||{8/11}{1.167.8}{1.23.3.8}{2.4.5.3}{1805, 167, 1805} पान्ति॑¦मि॒त्रावरु॑णौ¦अ॒व॒द्यात्¦चय॑ते¦ई॒म्¦अ॒र्य॒मो इति॑¦अप्र॑ऽशस्तान् | |
न॒ही नु वो᳚ मरुतो॒, अन्त्य॒स्मे, आ॒रात्ता᳚च्चि॒च्छव॑सो॒, अन्त॑मा॒पुः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} ते धृ॒ष्णुना॒ शव॑सा शूशु॒वांसोऽर्णो॒ न द्वेषो᳚ धृष॒ता परि॑ ष्ठुः ||{9/11}{1.167.9}{1.23.3.9}{2.4.5.4}{1806, 167, 1806} न॒हि¦नु¦वः॒¦म॒रु॒तः॒¦अन्ति॑¦अ॒स्मे इति॑¦आ॒रात्ता᳚त्¦चि॒त्¦शव॑सः¦अन्त᳚म्¦आ॒पुः | |
व॒यम॒द्येन्द्र॑स्य॒ प्रेष्ठा᳚ व॒यं श्वो वो᳚चेमहि सम॒र्ये |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} व॒यं पु॒रा महि॑ च नो॒, अनु॒ द्यून् तन्न॑ ऋभु॒क्षा न॒रामनु॑ ष्यात् ||{10/11}{1.167.10}{1.23.3.10}{2.4.5.5}{1807, 167, 1807} व॒यम्¦अ॒द्य¦इन्द्र॑स्य¦प्रेष्ठाः᳚¦व॒यम्¦श्वः¦वो॒चे॒म॒हि॒¦स॒ऽम॒र्ये | |
ए॒ष वः॒ स्तोमो᳚ मरुत इ॒यं गीर्मा᳚न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} एषा या᳚सीष्ट त॒न्वे᳚ व॒यां वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{11/11}{1.167.11}{1.23.3.11}{2.4.5.6}{1808, 167, 1808} ए॒षः¦वः॒¦स्तोमः॑¦म॒रु॒तः॒¦इ॒यम्¦गीः¦मा॒न्दा॒र्यस्य॑¦मा॒न्यस्य॑¦का॒रोः | |
[168] यज्ञायज्ञेति दशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यो मरुतोजगती अंत्यास्तिस्रस्त्रिष्टुभः | |
य॒ज्ञाय॑ज्ञा वः सम॒ना तु॑तु॒र्वणि॒र्धियं᳚धियं वो देव॒या, उ॑ दधिध्वे |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} आ वो॒ऽर्वाचः॑ सुवि॒ताय॒ रोद॑स्योर्म॒हे व॑वृत्या॒मव॑से सुवृ॒क्तिभिः॑ ||{1/10}{1.168.1}{1.23.4.1}{2.4.6.1}{1809, 168, 1809} य॒ज्ञाऽय॑ज्ञा¦वः॒¦स॒म॒ना¦तु॒तु॒र्वणिः॑¦धिय᳚म्ऽधियम्¦वः॒¦दे॒व॒ऽयाः¦ऊँ॒ इति॑¦द॒धि॒ध्वे॒ | |
व॒व्रासो॒ न ये स्व॒जाः स्वत॑वस॒ इषं॒ स्व॑रभि॒जाय᳚न्त॒ धूत॑यः |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} स॒ह॒स्रिया᳚सो, अ॒पां नोर्मय॑ आ॒सा गावो॒ वन्द्या᳚सो॒ नोक्षणः॑ ||{2/10}{1.168.2}{1.23.4.2}{2.4.6.2}{1810, 168, 1810} व॒व्रासः॑¦न¦ये¦स्व॒ऽजाः¦स्वऽत॑वसः¦इष᳚म्¦स्वः॑¦अ॒भि॒ऽजाय᳚न्त¦धूत॑यः | |
सोमा᳚सो॒ न ये सु॒तास्तृ॒प्तांश॑वो हृ॒त्सु पी॒तासो᳚ दु॒वसो॒ नास॑ते |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} ऐषा॒मंसे᳚षु र॒म्भिणी᳚व रारभे॒ हस्ते᳚षु खा॒दिश्च॑ कृ॒तिश्च॒ सं द॑धे ||{3/10}{1.168.3}{1.23.4.3}{2.4.6.3}{1811, 168, 1811} सोमा᳚सः¦न¦ये¦सु॒ताः¦तृ॒प्त।आं᳚शवः¦हृ॒त्ऽसु¦पी॒तासः॑¦दु॒वसः॑¦न¦आस॑ते | |
अव॒ स्वयु॑क्ता दि॒व आ वृथा᳚ ययु॒रम॑र्त्याः॒ कश॑या चोदत॒ त्मना᳚ |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} अ॒रे॒णव॑स्तुविजा॒ता, अ॑चुच्यवुर्दृ॒ळ्हानि॑ चिन्म॒रुतो॒ भ्राज॑दृष्टयः ||{4/10}{1.168.4}{1.23.4.4}{2.4.6.4}{1812, 168, 1812} अव॑¦स्वऽयु॑क्ताः¦दि॒वः¦आ¦वृथा᳚¦य॒युः॒¦अम॑र्त्याः¦कश॑या¦चो॒द॒त॒¦त्मना᳚ | |
को वो॒ऽन्तर्म॑रुत ऋष्टिविद्युतो॒ रेज॑ति॒ त्मना॒ हन्वे᳚व जि॒ह्वया᳚ |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} ध॒न्व॒च्युत॑ इ॒षां न याम॑नि पुरु॒प्रैषा᳚, अह॒न्यो॒३॑(ओ॒) नैत॑शः ||{5/10}{1.168.5}{1.23.4.5}{2.4.6.5}{1813, 168, 1813} कः¦वः॒¦अ॒न्तः¦म॒रु॒तः॒¦ऋ॒ष्टि॒ऽवि॒द्यु॒तः॒¦रेज॑ति¦त्मना᳚¦हन्वा᳚ऽइव¦जि॒ह्वया᳚ | |
क्व॑ स्विद॒स्य रज॑सो म॒हस्परं॒ क्वाव॑रं मरुतो॒ यस्मि᳚न्नाय॒य |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} यच्च्या॒वय॑थ विथु॒रेव॒ संहि॑तं॒ व्यद्रि॑णा पतथ त्वे॒षम᳚र्ण॒वम् ||{6/10}{1.168.6}{1.23.4.6}{2.4.7.1}{1814, 168, 1814} क्व॑¦स्वि॒त्¦अ॒स्य¦रज॑सः¦म॒हः¦पर᳚म्¦क्व॑¦अव॑रम्¦म॒रु॒तः॒¦यस्मि॑न्¦आ॒ऽय॒य | |
सा॒तिर्न वोऽम॑वती॒ स्व᳚र्वती त्वे॒षा विपा᳚का मरुतः॒ पिपि॑ष्वती |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} भ॒द्रा वो᳚ रा॒तिः पृ॑ण॒तो न दक्षि॑णा पृथु॒ज्रयी᳚, असु॒र्ये᳚व॒ जञ्ज॑ती ||{7/10}{1.168.7}{1.23.4.7}{2.4.7.2}{1815, 168, 1815} सा॒तिः¦न¦वः॒¦अम॑ऽवती¦स्वः॑ऽवती¦त्वे॒षा¦विऽपा᳚का¦म॒रु॒तः॒¦पिपि॑ष्वती | |
प्रति॑ ष्टोभन्ति॒ सिन्ध॑वः प॒विभ्यो॒ यद॒भ्रियां॒ वाच॑मुदी॒रय᳚न्ति |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} अव॑ स्मयन्त वि॒द्युतः॑ पृथि॒व्यां यदी᳚ घृ॒तं म॒रुतः॑ प्रुष्णु॒वन्ति॑ ||{8/10}{1.168.8}{1.23.4.8}{2.4.7.3}{1816, 168, 1816} प्रति॑¦स्तो॒भ॒न्ति॒¦सिन्ध॑वः¦प॒विऽभ्यः॑¦यत्¦अ॒भ्रिया᳚म्¦वाच᳚म्¦उ॒त्ऽई॒रय᳚न्ति | |
असू᳚त॒ पृश्नि᳚र्मह॒ते रणा᳚य त्वे॒षम॒यासां᳚ म॒रुता॒मनी᳚कम् |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} ते स॑प्स॒रासो᳚ऽजनय॒न्ताभ्व॒मादित् स्व॒धामि॑षि॒रां पर्य॑पश्यन् ||{9/10}{1.168.9}{1.23.4.9}{2.4.7.4}{1817, 168, 1817} असू᳚त¦पृश्निः॑¦म॒ह॒ते¦रणा᳚य¦त्वे॒षम्¦अ॒यासा᳚म्¦म॒रुता᳚म्¦अनी᳚कम् | |
ए॒ष वः॒ स्तोमो᳚ मरुत इ॒यं गीर्मा᳚न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} एषा या᳚सीष्ट त॒न्वे᳚ व॒यां वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{10/10}{1.168.10}{1.23.4.10}{2.4.7.5}{1818, 168, 1818} ए॒षः¦वः॒¦स्तोमः॑¦म॒रु॒तः॒¦इ॒यम्¦गीः¦मा॒न्दा॒र्यस्य॑¦मा॒न्यस्य॑¦का॒रोः | |
[169] महश्चिदित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् द्वितीयाविराट् | |
म॒हश्चि॒त् त्वमि᳚न्द्र य॒त ए॒तान् म॒हश्चि॑दसि॒ त्यज॑सो वरू॒ता |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} स नो᳚ वेधो म॒रुतां᳚ चिकि॒त्वान् त्सु॒म्ना व॑नुष्व॒ तव॒ हि प्रेष्ठा᳚ ||{1/8}{1.169.1}{1.23.5.1}{2.4.8.1}{1819, 169, 1819} म॒हः¦चि॒त्¦त्वम्¦इ॒न्द्र॒¦य॒तः¦ए॒तान्¦म॒हः¦चि॒त्¦अ॒सि॒¦त्यज॑सः¦व॒रू॒ता | |
अयु॑ज्र॒न्त इ᳚न्द्र वि॒श्वकृ॑ष्टीर्विदा॒नासो᳚ नि॒ष्षिधो᳚ मर्त्य॒त्रा |{मैत्रावरुणिरगस्त्यः | इन्द्रः | विराट्} म॒रुतां᳚ पृत्सु॒तिर्हास॑माना॒ स्व᳚र्मीळ्हस्य प्र॒धन॑स्य सा॒तौ ||{2/8}{1.169.2}{1.23.5.2}{2.4.8.2}{1820, 169, 1820} अयु॑ज्रन्¦ते¦इ॒न्द्र॒¦वि॒श्वऽकृ॑ष्टीः¦वि॒दा॒नासः॑¦निः॒ऽसिधः॑¦म॒र्त्य॒ऽत्रा | म॒रुता᳚म्¦पृ॒त्सु॒तिः¦हास॑माना¦स्वः॑ऽमीळ्हस्य¦प्र॒ऽधन॑स्य¦सा॒तौ || |
अम्य॒क् सा त॑ इन्द्र ऋ॒ष्टिर॒स्मे सने॒म्यभ्वं᳚ म॒रुतो᳚ जुनन्ति |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} अ॒ग्निश्चि॒द्धि ष्मा᳚त॒से शु॑शु॒क्वानापो॒ न द्वी॒पं दध॑ति॒ प्रयां᳚सि ||{3/8}{1.169.3}{1.23.5.3}{2.4.8.3}{1821, 169, 1821} अम्य॑क्¦सा¦ते॒¦इ॒न्द्र॒¦ऋ॒ष्टिः¦अ॒स्मे इति॑¦सने᳚मि¦अभ्व᳚म्¦म॒रुतः॑¦जु॒न॒न्ति॒ | |
त्वं तू न॑ इन्द्र॒ तं र॒यिं दा॒, ओजि॑ष्ठया॒ दक्षि॑णयेव रा॒तिम् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} स्तुत॑श्च॒ यास्ते᳚ च॒कन᳚न्त वा॒योः स्तनं॒ न मध्वः॑ पीपयन्त॒ वाजैः᳚ ||{4/8}{1.169.4}{1.23.5.4}{2.4.8.4}{1822, 169, 1822} त्वम्¦तु¦नः॒¦इ॒न्द्र॒¦तम्¦र॒यिम्¦दाः॒¦ओजि॑ष्ठया¦दक्षि॑णयाऽइव¦रा॒तिम् | |
त्वे राय॑ इन्द्र तो॒शत॑माः प्रणे॒तारः॒ कस्य॑ चिदृता॒योः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} ते षु णो᳚ म॒रुतो᳚ मृळयन्तु॒ ये स्मा᳚ पु॒रा गा᳚तू॒यन्ती᳚व दे॒वाः ||{5/8}{1.169.5}{1.23.5.5}{2.4.8.5}{1823, 169, 1823} त्वे इति॑¦रायः॑¦इ॒न्द्र॒¦तो॒शऽत॑माः¦प्र॒ऽने॒तारः॑¦कस्य॑¦चि॒त्¦ऋ॒त॒ऽयोः | |
प्रति॒ प्र या᳚हीन्द्र मी॒ळ्हुषो॒ नॄन् म॒हः पार्थि॑वे॒ सद॑ने यतस्व |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} अध॒ यदे᳚षां पृथुबु॒ध्नास॒ एता᳚स्ती॒र्थे नार्यः पौंस्या᳚नि त॒स्थुः ||{6/8}{1.169.6}{1.23.5.6}{2.4.9.1}{1824, 169, 1824} प्रति॑¦प्र¦या॒हि॒¦इ॒न्द्र॒¦मी॒ळ्हुषः॑¦नॄन्¦म॒हः¦पार्थि॑वे¦सद॑ने¦य॒त॒स्व॒ | |
प्रति॑ घो॒राणा॒मेता᳚नाम॒यासां᳚ म॒रुतां᳚ शृण्व आय॒तामु॑प॒ब्दिः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} ये मर्त्यं᳚ पृतना॒यन्त॒मूमै᳚रृणा॒वानं॒ न प॒तय᳚न्त॒ सर्गैः᳚ ||{7/8}{1.169.7}{1.23.5.7}{2.4.9.2}{1825, 169, 1825} प्रति॑¦घो॒राणा᳚म्¦एता᳚नाम्¦अ॒यासा᳚म्¦म॒रुता᳚म्¦शृ॒ण्वे॒¦आ॒ऽय॒ताम्¦उ॒प॒ब्दिः | |
त्वं माने᳚भ्य इन्द्र वि॒श्वज᳚न्या॒ रदा᳚ म॒रुद्भिः॑ शु॒रुधो॒ गो,अ॑ग्राः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} स्तवा᳚नेभिः स्तवसे देव दे॒वैर्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{8/8}{1.169.8}{1.23.5.8}{2.4.9.3}{1826, 169, 1826} त्वम्¦माने᳚भ्यः¦इ॒न्द्र॒¦वि॒श्वऽज᳚न्या¦रद॑¦म॒रुत्ऽभिः॑¦शु॒रुधः॑¦गो।आ॑ग्राः | |
[170] ननूनमिति पंचर्चस्य सूक्तस्यप्रथमतृतीयाचतुर्थीनामृचामिंद्रोगस्त्यो द्वितीयापंचम्योरगस्यऋषिरिंद्रोदेवता आद्याबृहती ततस्तिस्रोनुष्टुभोंत्यात्रिष्टुप् | |
न नू॒नमस्ति॒ नो श्वः कस्तद् वे᳚द॒ यदद्भु॑तम् |{इंद्रोगस्त्यो | इन्द्रः | बृहती} अ॒न्यस्य॑ चि॒त्तम॒भि सं᳚च॒रेण्य॑मु॒ताधी᳚तं॒ वि न॑श्यति ||{1/5}{1.170.1}{1.23.6.1}{2.4.10.1}{1827, 170, 1827} न¦नू॒नम्¦अस्ति॑¦नो इति॑¦श्वः¦कः¦तत्¦वे॒द॒¦यत्¦अद्भु॑तम् | |
किं न॑ इन्द्र जिघांससि॒ भ्रात॑रो म॒रुत॒स्तव॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्} तेभिः॑ कल्पस्व साधु॒या मा नः॑ स॒मर॑णे वधीः ||{2/5}{1.170.2}{1.23.6.2}{2.4.10.2}{1828, 170, 1828} किम्¦नः॒¦इ॒न्द्र॒¦जि॒घां॒स॒सि॒¦भ्रात॑रः¦म॒रुतः॑¦तव॑ | तेभिः॑¦क॒ल्प॒स्व॒¦सा॒धु॒ऽया¦मा¦नः॒¦स॒म्।आर॑णे¦व॒धीः॒ || |
किं नो᳚ भ्रातरगस्त्य॒ सखा॒ सन्नति॑ मन्यसे |{इंद्रोगस्त्यो | इन्द्रः | अनुष्टुप्} वि॒द्मा हि ते॒ यथा॒ मनो॒ऽस्मभ्य॒मिन्न दि॑त्ससि ||{3/5}{1.170.3}{1.23.6.3}{2.4.10.3}{1829, 170, 1829} किम्¦नः॒¦भ्रा॒तः॒¦अ॒ग॒स्त्य॒¦सखा᳚¦सन्¦अति॑¦म॒न्य॒से॒ | वि॒द्म¦हि¦ते॒¦यथा᳚¦मनः॑¦अ॒स्मभ्य᳚म्¦इत्¦न¦दि॒त्स॒सि॒ || |
अरं᳚ कृण्वन्तु॒ वेदिं॒ सम॒ग्निमि᳚न्धतां पु॒रः |{इंद्रोगस्त्यो | इन्द्रः | अनुष्टुप्} तत्रा॒मृत॑स्य॒ चेत॑नं य॒ज्ञं ते᳚ तनवावहै ||{4/5}{1.170.4}{1.23.6.4}{2.4.10.4}{1830, 170, 1830} अर᳚म्¦कृ॒ण्व॒न्तु॒¦वेदि᳚म्¦सम्¦अ॒ग्निम्¦इ॒न्ध॒ता॒म्¦पु॒रः | तत्र॑¦अ॒मृत॑स्य¦चेत॑नम्¦य॒ज्ञम्¦ते॒¦त॒न॒वा॒व॒है॒ || |
त्वमी᳚शिषे वसुपते॒ वसू᳚नां॒ त्वं मि॒त्राणां᳚ मित्रपते॒ धेष्ठः॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} इन्द्र॒ त्वं म॒रुद्भिः॒ सं व॑द॒स्वाध॒ प्राशा᳚न ऋतु॒था ह॒वींषि॑ ||{5/5}{1.170.5}{1.23.6.5}{2.4.10.5}{1831, 170, 1831} त्वम्¦ई॒शि॒षे॒¦व॒सु॒ऽप॒ते॒¦वसू᳚नाम्¦त्वम्¦मि॒त्राणा᳚म्¦मि॒त्र॒ऽप॒ते॒¦धेष्ठः॑ | |
[171] प्रतिवइति षडृचस्य सूक्तस्यागस्त्योमरुतः अंत्यानांचतसृणांमरुत्वानिंद्रस्त्रिष्टुप् | |
प्रति॑ व ए॒ना नम॑सा॒हमे᳚मि सू॒क्तेन॑ भिक्षे सुम॒तिं तु॒राणा᳚म् |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} र॒रा॒णता᳚ मरुतो वे॒द्याभि॒र्नि हेळो᳚ ध॒त्त वि मु॑चध्व॒मश्वा॑न् ||{1/6}{1.171.1}{1.23.7.1}{2.4.11.1}{1832, 171, 1832} प्रति॑¦वः॒¦ए॒ना¦नम॑सा¦अ॒हम्¦ए॒मि॒¦सु॒।औ॒क्तेन॑¦भि॒क्षे॒¦सु॒ऽम॒तिम्¦तु॒राणा᳚म् | |
ए॒ष वः॒ स्तोमो᳚ मरुतो॒ नम॑स्वान् हृ॒दा त॒ष्टो मन॑सा धायि देवाः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} उपे॒मा या᳚त॒ मन॑सा जुषा॒णा यू॒यं हि ष्ठा नम॑स॒ इद् वृ॒धासः॑ ||{2/6}{1.171.2}{1.23.7.2}{2.4.11.2}{1833, 171, 1833} ए॒षः¦वः॒¦स्तोमः॑¦म॒रु॒तः॒¦नम॑स्वान्¦हृ॒दा¦त॒ष्टः¦मन॑सा¦धा॒यि॒¦दे॒वाः॒ | |
स्तु॒तासो᳚ नो म॒रुतो᳚ मृळयन्तू॒त स्तु॒तो म॒घवा॒ शम्भ॑विष्ठः |{मैत्रावरुणिरगस्त्यः | मरुत्वानिंद्रः | त्रिष्टुप्} ऊ॒र्ध्वा नः॑ सन्तु को॒म्या वना॒न्यहा᳚नि॒ विश्वा᳚ मरुतो जिगी॒षा ||{3/6}{1.171.3}{1.23.7.3}{2.4.11.3}{1834, 171, 1834} स्तु॒तासः॑¦नः॒¦म॒रुतः॑¦मृ॒ळ॒य॒न्तु॒¦उ॒त¦स्तु॒तः¦म॒घऽवा᳚¦शम्ऽभ॑विष्ठः | |
अ॒स्माद॒हं त॑वि॒षादीष॑माण॒ इन्द्रा᳚द् भि॒या म॑रुतो॒ रेज॑मानः |{मैत्रावरुणिरगस्त्यः | मरुत्वानिंद्रः | त्रिष्टुप्} यु॒ष्मभ्यं᳚ ह॒व्या निशि॑तान्यास॒न् तान्या॒रे च॑कृमा मृ॒ळता᳚ नः ||{4/6}{1.171.4}{1.23.7.4}{2.4.11.4}{1835, 171, 1835} अ॒स्मात्¦अ॒हम्¦त॒वि॒षात्¦ईष॑माणः¦इन्द्रा᳚त्¦भि॒या¦म॒रु॒तः॒¦रेज॑मानः | |
येन॒ माना᳚सश्चि॒तय᳚न्त उ॒स्रा व्यु॑ष्टिषु॒ शव॑सा॒ शश्व॑तीनाम् |{मैत्रावरुणिरगस्त्यः | मरुत्वानिंद्रः | त्रिष्टुप्} स नो᳚ म॒रुद्भि᳚र्वृषभ॒ श्रवो᳚ धा, उ॒ग्र उ॒ग्रेभिः॒ स्थवि॑रः सहो॒दाः ||{5/6}{1.171.5}{1.23.7.5}{2.4.11.5}{1836, 171, 1836} येन॑¦माना᳚सः¦चि॒तय᳚न्ते¦उ॒स्राः¦वि।औ᳚ष्टिषु¦शव॑सा¦शश्व॑तीनाम् | |
त्वं पा᳚हीन्द्र॒ सही᳚यसो॒ नॄन् भवा᳚ म॒रुद्भि॒रव॑यातहेळाः |{मैत्रावरुणिरगस्त्यः | मरुत्वानिंद्रः | त्रिष्टुप्} सु॒प्र॒के॒तेभिः॑ सास॒हिर्दधा᳚नो वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{6/6}{1.171.6}{1.23.7.6}{2.4.11.6}{1837, 171, 1837} त्वम्¦पा॒हि॒¦इ॒न्द्र॒¦सही᳚यसः¦नॄन्¦भव॑¦म॒रुत्ऽभिः॑¦अव॑यातऽहेळाः | |
[172] चित्रोवइति तृचस्य सूक्तस्य मैत्रावरुणिरगस्त्यो मरुतो गायत्री | |
चि॒त्रो वो᳚ऽस्तु॒ याम॑श्चि॒त्र ऊ॒ती सु॑दानवः |{मैत्रावरुणिरगस्त्यः | मरुतः | गायत्री} मरु॑तो॒, अहि॑भानवः ||{1/3}{1.172.1}{1.23.8.1}{2.4.12.1}{1838, 172, 1838} चि॒त्रः¦वः॒¦अ॒स्तु॒¦यामः॑¦चि॒त्रः¦ऊ॒ती¦सु॒ऽदा॒न॒वः॒ | मरु॑तः¦अहि॑ऽभानवः || |
आ॒रे सा वः॑ सुदानवो॒ मरु॑त ऋञ्ज॒ती शरुः॑ |{मैत्रावरुणिरगस्त्यः | मरुतः | गायत्री} आ॒रे, अश्मा॒ यमस्य॑थ ||{2/3}{1.172.2}{1.23.8.2}{2.4.12.2}{1839, 172, 1839} आ॒रे¦सा¦वः॒¦सु॒ऽदा॒न॒वः॒¦मरु॑तः¦ऋं॒ज॒ती¦शरुः॑ | आ॒रे¦अश्मा᳚¦यम्¦अस्य॑थ || |
तृ॒ण॒स्क॒न्दस्य॒ नु विशः॒ परि॑ वृङ्क्त सुदानवः |{मैत्रावरुणिरगस्त्यः | मरुतः | गायत्री} ऊ॒र्ध्वान् नः॑ कर्त जी॒वसे᳚ ||{3/3}{1.172.3}{1.23.8.3}{2.4.12.3}{1840, 172, 1840} तृ॒ण॒ऽस्क॒न्दस्य॑¦नु¦विशः॑¦परि॑¦वृ॒ङ्क्त॒¦सु॒ऽदा॒न॒वः॒ | ऊ॒र्ध्वान्¦नः॒¦क॒र्त॒¦जी॒वसे᳚ || |
[173] गायत्सामेति त्रयोदशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् | |
गाय॒त् साम॑ नभ॒न्य१॑(अं॒) यथा॒ वेरर्चा᳚म॒ तद् वा᳚वृधा॒नं स्व᳚र्वत् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} गावो᳚ धे॒नवो᳚ ब॒र्हिष्यद॑ब्धा॒, आ यत् स॒द्मानं᳚ दि॒व्यं विवा᳚सान् ||{1/13}{1.173.1}{1.23.9.1}{2.4.13.1}{1841, 173, 1841} गाय॑त्¦साम॑¦न॒भ॒न्य᳚म्¦यथा᳚¦वेः¦अर्चा᳚म¦तत्¦व॒वृ॒धा॒नम्¦स्वः॑ऽवत् | |
अर्च॒द् वृषा॒ वृष॑भिः॒ स्वेदु॑हव्यैर्मृ॒गो नाश्नो॒, अति॒ यज्जु॑गु॒र्यात् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} प्र म᳚न्द॒युर्म॒नां गू᳚र्त॒ होता॒ भर॑ते॒ मर्यो᳚ मिथु॒ना यज॑त्रः ||{2/13}{1.173.2}{1.23.9.2}{2.4.13.2}{1842, 173, 1842} अर्च॑त्¦वृषा᳚¦वृष॑ऽभिः¦स्व॒ऽइदु॑हव्यैः¦मृ॒गः¦न¦अश्नः॑¦अति॑¦यत्¦जु॒गु॒र्यात् | |
नक्ष॒द्धोता॒ परि॒ सद्म॑ मि॒ता यन् भर॒द् गर्भ॒मा श॒रदः॑ पृथि॒व्याः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} क्रन्द॒दश्वो॒ नय॑मानो रु॒वद् गौर॒न्तर्दू॒तो न रोद॑सी चर॒द् वाक् ||{3/13}{1.173.3}{1.23.9.3}{2.4.13.3}{1843, 173, 1843} नक्ष॑त्¦होता᳚¦परि॑¦सद्म॑¦मि॒ता¦यन्¦भर॑त्¦गर्भ᳚म्¦आ¦श॒रदः॑¦पृ॒थि॒व्याः | |
ता क॒र्माष॑तरास्मै॒ प्र च्यौ॒त्नानि॑ देव॒यन्तो᳚ भरन्ते |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} जुजो᳚ष॒दिन्द्रो᳚ द॒स्मव॑र्चा॒ नास॑त्येव॒ सुग्म्यो᳚ रथे॒ष्ठाः ||{4/13}{1.173.4}{1.23.9.4}{2.4.13.4}{1844, 173, 1844} ता¦क॒र्म॒¦अष॑ऽतरा¦अ॒स्मै॒¦प्र¦च्यौ॒त्नानि॑¦दे॒व॒ऽयन्तः॑¦भ॒र॒न्ते॒ | |
तमु॑ ष्टु॒हीन्द्रं॒ यो ह॒ सत्वा॒ यः शूरो᳚ म॒घवा॒ यो र॑थे॒ष्ठाः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} प्र॒ती॒चश्चि॒द् योधी᳚या॒न् वृष᳚ण्वान् वव॒व्रुष॑श्चि॒त्तम॑सो विह॒न्ता ||{5/13}{1.173.5}{1.23.9.5}{2.4.13.5}{1845, 173, 1845} तम्¦उँ॒ इति॑¦स्तु॒हि॒¦इन्द्र᳚म्¦यः¦ह॒¦सत्वा᳚¦यः¦शूरः॑¦म॒घऽवा᳚¦यः¦र॒थे॒ऽस्थाः | |
प्र यदि॒त्था म॑हि॒ना नृभ्यो॒, अस्त्यरं॒ रोद॑सी क॒क्ष्ये॒३॑(ए॒) नास्मै᳚ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} सं वि᳚व्य॒ इन्द्रो᳚ वृ॒जनं॒ न भूमा॒ भर्ति॑ स्व॒धावाँ᳚, ओप॒शमि॑व॒ द्याम् ||{6/13}{1.173.6}{1.23.9.6}{2.4.14.1}{1846, 173, 1846} प्र¦यत्¦इ॒त्था¦म॒हि॒ना¦नृऽभ्यः॑¦अस्ति॑¦अर᳚म्¦रोद॑सी॒ इति॑¦क॒क्ष्ये॒३॒॑ इति॑¦न¦अ॒स्मै॒ | |
स॒मत्सु॑ त्वा शूर स॒तामु॑रा॒णं प्र॑प॒थिन्त॑मं परितंस॒यध्यै᳚ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} स॒जोष॑स॒ इन्द्रं॒ मदे᳚ क्षो॒णीः सू॒रिं चि॒द् ये, अ॑नु॒मद᳚न्ति॒ वाजैः᳚ ||{7/13}{1.173.7}{1.23.9.7}{2.4.14.2}{1847, 173, 1847} स॒मत्ऽसु॑¦त्वा॒¦शू॒र॒¦स॒ताम्¦उ॒रा॒णम्¦प्र॒प॒थिन्ऽत॑मम्¦प॒रि॒ऽतं॒स॒यध्यै᳚ | |
ए॒वा हि ते॒ शं सव॑ना समु॒द्र आपो॒ यत्त॑ आ॒सु मद᳚न्ति दे॒वीः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} विश्वा᳚ ते॒, अनु॒ जोष्या᳚ भू॒द्गौः सू॒रीँश्चि॒द् यदि॑ धि॒षा वेषि॒ जना॑न् ||{8/13}{1.173.8}{1.23.9.8}{2.4.14.3}{1848, 173, 1848} ए॒व¦हि¦ते॒¦शम्¦सव॑ना¦स॒मु॒द्रे¦आपः॑¦यत्¦ते॒¦आ॒सु¦मद᳚न्ति¦दे॒वीः | |
असा᳚म॒ यथा᳚ सुष॒खाय॑ एन स्वभि॒ष्टयो᳚ न॒रां न शंसैः᳚ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} अस॒द् यथा᳚ न॒ इन्द्रो᳚ वन्दने॒ष्ठास्तु॒रो न कर्म॒ नय॑मान उ॒क्था ||{9/13}{1.173.9}{1.23.9.9}{2.4.14.4}{1849, 173, 1849} असा᳚म¦यथा᳚¦सु॒ऽस॒खायः॑¦ए॒न॒¦सु॒।आ॒भि॒ष्टयः॑¦न॒राम्¦न¦शंसैः᳚ | |
विष्प॑र्धसो न॒रां न शंसै᳚र॒स्माका᳚स॒दिन्द्रो॒ वज्र॑हस्तः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} मि॒त्रा॒युवो॒ न पूर्प॑तिं॒ सुशि॑ष्टौ मध्या॒युव॒ उप॑ शिक्षन्ति य॒ज्ञैः ||{10/13}{1.173.10}{1.23.9.10}{2.4.14.5}{1850, 173, 1850} विऽस्प॑र्धसः¦न॒राम्¦न¦शंसैः᳚¦अ॒स्माक॑¦अ॒स॒त्¦इन्द्रः॑¦वज्र॑ऽहस्तः | |
य॒ज्ञो हि ष्मेन्द्रं॒ कश्चि॑दृ॒न्धञ्जु॑हुरा॒णश्चि॒न्मन॑सा परि॒यन् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} ती॒र्थे नाच्छा᳚ तातृषा॒णमोको᳚ दी॒र्घो न सि॒ध्रमा कृ॑णो॒त्यध्वा᳚ ||{11/13}{1.173.11}{1.23.9.11}{2.4.15.1}{1851, 173, 1851} य॒ज्ञः¦हि¦स्म॒¦इन्द्र᳚म्¦कः¦चि॒त्¦ऋ॒न्धन्¦जु॒हु॒रा॒णः¦चि॒त्¦मन॑सा¦प॒रि॒ऽयन् | |
मो षू ण॑ इ॒न्द्रात्र॑ पृ॒त्सु दे॒वैरस्ति॒ हि ष्मा᳚ ते शुष्मिन्नव॒याः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} म॒हश्चि॒द् यस्य॑ मी॒ळ्हुषो᳚ य॒व्या ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः ||{12/13}{1.173.12}{1.23.9.12}{2.4.15.2}{1852, 173, 1852} मो इति॑¦सु¦नः॒¦इ॒न्द्र॒¦अत्र॑¦पृ॒त्ऽसु¦दे॒वैः¦अस्ति॑¦हि¦स्म॒¦ते॒¦शु॒ष्मि॒न्¦अ॒व॒ऽयाः | |
ए॒ष स्तोम॑ इन्द्र॒ तुभ्य॑म॒स्मे, ए॒तेन॑ गा॒तुं ह॑रिवो विदो नः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} आ नो᳚ ववृत्याः सुवि॒ताय॑ देव वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{13/13}{1.173.13}{1.23.9.13}{2.4.15.3}{1853, 173, 1853} ए॒षः¦स्तोमः॑¦इ॒न्द्र॒¦तुभ्य᳚म्¦अ॒स्मे इति॑¦ए॒तेन॑¦गा॒तुम्¦ह॒रि॒ऽवः॒¦वि॒दः॒¦नः॒ | |
[174] त्वंराजेति दशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् | |
त्वं राजे᳚न्द्र॒ ये च॑ दे॒वा रक्षा॒ नॄन् पा॒ह्य॑सुर॒ त्वम॒स्मान् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} त्वं सत्प॑तिर्म॒घवा᳚ न॒स्तरु॑त्र॒स्त्वं स॒त्यो वस॑वानः सहो॒दाः ||{1/10}{1.174.1}{1.23.10.1}{2.4.16.1}{1854, 174, 1854} त्वम्¦राजा᳚¦इ॒न्द्र॒¦ये¦च॒¦दे॒वाः¦रक्ष॑¦नॄन्¦पा॒हि¦अ॒सु॒र॒¦त्वम्¦अ॒स्मान् | |
दनो॒ विश॑ इन्द्र मृ॒ध्रवा᳚चः स॒प्त यत् पुरः॒ शर्म॒ शार॑दी॒र्दर्त् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} ऋ॒णोर॒पो, अ॑नव॒द्यार्णा॒ यूने᳚ वृ॒त्रं पु॑रु॒कुत्सा᳚य रन्धीः ||{2/10}{1.174.2}{1.23.10.2}{2.4.16.2}{1855, 174, 1855} दनः॑¦विशः॑¦इ॒न्द्र॒¦मृ॒ध्रऽवा᳚चः¦स॒प्त¦यत्¦पुरः॑¦शर्म॑¦शार॑दीः¦दर्त् | |
अजा॒ वृत॑ इन्द्र॒ शूर॑पत्नी॒र्द्यां च॒ येभिः॑ पुरुहूत नू॒नम् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} रक्षो᳚, अ॒ग्निम॒शुषं॒ तूर्व॑याणं सिं॒हो न दमे॒, अपां᳚सि॒ वस्तोः᳚ ||{3/10}{1.174.3}{1.23.10.3}{2.4.16.3}{1856, 174, 1856} अज॑¦वृतः॑¦इ॒न्द्र॒¦शूर॑ऽपत्नीः¦द्याम्¦च॒¦येभिः॑¦पु॒रु॒ऽहू॒त॒¦नू॒नम् | |
शेष॒न् नु त इ᳚न्द्र॒ सस्मि॒न् योनौ॒ प्रश॑स्तये॒ पवी᳚रवस्य म॒ह्ना |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} सृ॒जदर्णां॒स्यव॒ यद् यु॒धा गास्तिष्ठ॒द्धरी᳚ धृष॒ता मृ॑ष्ट॒ वाजा॑न् ||{4/10}{1.174.4}{1.23.10.4}{2.4.16.4}{1857, 174, 1857} शेष॑न्¦नु¦ते¦इ॒न्द्र॒¦सस्मि॑न्¦योनौ᳚¦प्रऽश॑स्तये¦पवी᳚रवस्य¦म॒ह्ना | |
वह॒ कुत्स॑मिन्द्र॒ यस्मि᳚ञ्चा॒कन् त्स्यू᳚म॒न्यू, ऋ॒ज्रा वात॒स्याश्वा᳚ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॒ऽभि स्पृधो᳚ यासिष॒द् वज्र॑बाहुः ||{5/10}{1.174.5}{1.23.10.5}{2.4.16.5}{1858, 174, 1858} वह॑¦कुत्स᳚म्¦इ॒न्द्र॒¦यस्मि॑न्¦चा॒कन्¦स्यू॒म॒न्यू इति॑¦ऋ॒ज्रा¦वात॑स्य¦अश्वा᳚ | |
ज॒घ॒न्वाँ, इ᳚न्द्र मि॒त्रेरू᳚ञ्चो॒दप्र॑वृद्धो हरिवो॒, अदा᳚शून् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} प्र ये पश्य᳚न्नर्य॒मणं॒ सचा॒योस्त्वया᳚ शू॒र्ता वह॑माना॒, अप॑त्यम् ||{6/10}{1.174.6}{1.23.10.6}{2.4.17.1}{1859, 174, 1859} ज॒घ॒न्वान्¦इ॒न्द्र॒¦मि॒त्रेरू᳚न्¦चो॒दऽप्र॑वृद्धः¦ह॒रि॒ऽवः॒¦अदा᳚शून् | |
रप॑त् क॒विरि᳚न्द्रा॒र्कसा᳚तौ॒ क्षां दा॒सायो᳚प॒बर्ह॑णीं कः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} कर॑त्ति॒स्रो म॒घवा॒ दानु॑चित्रा॒ नि दु᳚र्यो॒णे कुय॑वाचं मृ॒धि श्रे᳚त् ||{7/10}{1.174.7}{1.23.10.7}{2.4.17.2}{1860, 174, 1860} रप॑त्¦क॒विः¦इ॒न्द्र॒¦अ॒र्कऽसा᳚तौ¦क्षाम्¦दा॒साय॑¦उ॒प॒ऽबर्ह॑णीम्¦क॒रिति॑ कः | |
सना॒ ता त॑ इन्द्र॒ नव्या॒, आगुः॒ सहो॒ नभोऽवि॑रणाय पू॒र्वीः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} भि॒नत् पुरो॒ न भिदो॒, अदे᳚वीर्न॒नमो॒ वध॒रदे᳚वस्य पी॒योः ||{8/10}{1.174.8}{1.23.10.8}{2.4.17.3}{1861, 174, 1861} सना᳚¦ता¦ते॒¦इ॒न्द्र॒¦नव्याः᳚¦आ¦अ॒गुः॒¦सहः॑¦नभः॑¦अवि॑ऽरणाय¦पू॒र्वीः | |
त्वं धुनि॑रिन्द्र॒ धुनि॑मतीरृ॒णोर॒पः सी॒रा न स्रव᳚न्तीः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} प्र यत् स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया᳚ तु॒र्वशं॒ यदुं᳚ स्व॒स्ति ||{9/10}{1.174.9}{1.23.10.9}{2.4.17.4}{1862, 174, 1862} त्वम्¦धुनिः॑¦इ॒न्द्र॒¦धुनि॑ऽमतीः¦ऋ॒णोः¦अ॒पः¦सी॒राः¦न¦स्रव᳚न्तीः | |
त्वम॒स्माक॑मिन्द्र वि॒श्वध॑ स्या, अवृ॒कत॑मो न॒रां नृ॑पा॒ता |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} स नो॒ विश्वा᳚सां स्पृ॒धां स॑हो॒दा वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{10/10}{1.174.10}{1.23.10.10}{2.4.17.5}{1863, 174, 1863} त्वम्¦अ॒स्माक᳚म्¦इ॒न्द्र॒¦वि॒श्वध॑¦स्याः॒¦अ॒वृ॒कऽत॑मः¦न॒राम्¦नृ॒ऽपा॒ता | |
[175] मत्स्यपायीति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्य इंद्रोनुष्टुप् आद्यास्कंधोग्रीवी अंत्यात्रिष्टुप् | |
मत्स्यपा᳚यि ते॒ महः॒ पात्र॑स्येव हरिवो मत्स॒रो मदः॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | स्कन्धोग्रीवीबृहती} वृषा᳚ ते॒ वृष्ण॒ इन्दु᳚र्वा॒जी स॑हस्र॒सात॑मः ||{1/6}{1.175.1}{1.23.11.1}{2.4.18.1}{1864, 175, 1864} मत्सि॑¦अपा᳚यि¦ते॒¦महः॑¦पात्र॑स्यऽइव¦ह॒रि॒ऽवः¦म॒त्स॒रः¦मदः॑ | |
आ न॑स्ते गन्तु मत्स॒रो वृषा॒ मदो॒ वरे᳚ण्यः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्} स॒हावाँ᳚, इन्द्र सान॒सिः पृ॑तना॒षाळम॑र्त्यः ||{2/6}{1.175.2}{1.23.11.2}{2.4.18.2}{1865, 175, 1865} आ¦नः॒¦ते॒¦ग॒न्तु॒¦म॒त्स॒रः¦वृषा᳚¦मदः॑¦वरे᳚ण्यः | स॒हऽवा᳚न्¦इ॒न्द्र॒¦सा॒न॒सिः¦पृ॒त॒ना॒षाट्¦अम॑र्त्यः || |
त्वं हि शूरः॒ सनि॑ता चो॒दयो॒ मनु॑षो॒ रथ᳚म् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्} स॒हावा॒न् दस्यु॑मव्र॒तमोषः॒ पात्रं॒ न शो॒चिषा᳚ ||{3/6}{1.175.3}{1.23.11.3}{2.4.18.3}{1866, 175, 1866} त्वम्¦हि¦शूरः॑¦सनि॑ता¦चो॒दयः॑¦मनु॑षः¦रथ᳚म् | स॒हऽवा᳚न्¦दस्यु᳚म्¦अ॒व्र॒तम्¦ओषः॑¦पात्र᳚म्¦न¦शो॒चिषा᳚ || |
मु॒षा॒य सूर्यं᳚ कवे च॒क्रमीशा᳚न॒ ओज॑सा |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्} वह॒ शुष्णा᳚य व॒धं कुत्सं॒ वात॒स्याश्वैः᳚ ||{4/6}{1.175.4}{1.23.11.4}{2.4.18.4}{1867, 175, 1867} मु॒षा॒य¦सूर्य᳚म्¦क॒वे॒¦च॒क्रम्¦ईशा᳚नः¦ओज॑सा | वह॑¦शुष्णा᳚य¦व॒धम्¦कुत्स᳚म्¦वात॑स्य¦अश्वैः᳚ || |
शु॒ष्मिन्त॑मो॒ हि ते॒ मदो᳚ द्यु॒म्निन्त॑म उ॒त क्रतुः॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्} वृ॒त्र॒घ्ना व॑रिवो॒विदा᳚ मंसी॒ष्ठा, अ॑श्व॒सात॑मः ||{5/6}{1.175.5}{1.23.11.5}{2.4.18.5}{1868, 175, 1868} शु॒ष्मिन्ऽत॑मः¦हि¦ते॒¦मदः॑¦द्यु॒म्निन्ऽत॑मः¦उ॒त¦क्रतुः॑ | वृ॒त्र॒ऽघ्ना¦व॒रि॒वः॒ऽविदा᳚¦मं॒सी॒ष्ठाः¦अ॒श्व॒ऽसात॑मः || |
यथा॒ पूर्वे᳚भ्यो जरि॒तृभ्य॑ इन्द्र॒ मय॑ इ॒वापो॒ न तृष्य॑ते ब॒भूथ॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} तामनु॑ त्वा नि॒विदं᳚ जोहवीमि वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{6/6}{1.175.6}{1.23.11.6}{2.4.18.6}{1869, 175, 1869} यथा᳚¦पूर्वे᳚भ्यः¦ज॒रि॒तृऽभ्यः॑¦इ॒न्द्र॒¦मयः॑ऽइव¦आपः॑¦न¦तृष्य॑ते¦ब॒भूथ॑ | |
[176] मत्सिनइति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्य इंद्रोनुष्टुबन्त्या त्रिष्टुप् | |
मत्सि॑ नो॒ वस्य॑ इष्टय॒ इन्द्र॑मिन्दो॒ वृषा वि॑श |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्} ऋ॒घा॒यमा᳚ण इन्वसि॒ शत्रु॒मन्ति॒ न वि᳚न्दसि ||{1/6}{1.176.1}{1.23.12.1}{2.4.19.1}{1870, 176, 1870} मत्सि॑¦नः॒¦वस्यः॑ऽइष्टये¦इन्द्र᳚म्¦इ॒न्दो॒ इति॑¦वृषा᳚¦आ¦वि॒श॒ | ऋ॒घा॒यमा᳚णः¦इ॒न्व॒सि॒¦शत्रु᳚म्¦अन्ति॑¦न¦वि॒न्द॒सि॒ || |
तस्मि॒न्ना वे᳚शया॒ गिरो॒ य एक॑श्चर्षणी॒नाम् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्} अनु॑ स्व॒धा यमु॒प्यते॒ यवं॒ न चर्कृ॑ष॒द् वृषा᳚ ||{2/6}{1.176.2}{1.23.12.2}{2.4.19.2}{1871, 176, 1871} तस्मि॑न्¦आ¦वे॒श॒य॒¦गिरः॑¦यः¦एकः॑¦च॒र्ष॒णी॒नाम् | अनु॑¦स्व॒धा¦यम्¦उ॒प्यते᳚¦यव᳚म्¦न¦चर्कृ॑षत्¦वृषा᳚ || |
यस्य॒ विश्वा᳚नि॒ हस्त॑योः॒ पञ्च॑ क्षिती॒नां वसु॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्} स्पा॒शय॑स्व॒ यो, अ॑स्म॒ध्रुग्दि॒व्येवा॒शनि॑र्जहि ||{3/6}{1.176.3}{1.23.12.3}{2.4.19.3}{1872, 176, 1872} यस्य॑¦विश्वा᳚नि¦हस्त॑योः¦पंच॑¦क्षि॒ती॒नाम्¦वसु॑ | स्पा॒शय॑स्व¦यः¦अ॒स्म॒ऽध्रुक्¦दि॒व्याऽइ᳚व¦अ॒शनिः॑¦ज॒हि॒ || |
असु᳚न्वन्तं समं जहि दू॒णाशं॒ यो न ते॒ मयः॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्} अ॒स्मभ्य॑मस्य॒ वेद॑नं द॒द्धि सू॒रिश्चि॑दोहते ||{4/6}{1.176.4}{1.23.12.4}{2.4.19.4}{1873, 176, 1873} असु᳚न्वन्तम्¦स॒म॒म्¦ज॒हि॒¦दुः॒ऽनश᳚म्¦यः¦न¦ते॒¦मयः॑ | अ॒स्मभ्य᳚म्¦अ॒स्य॒¦वेद॑नम्¦द॒द्धि¦सू॒रिः¦चि॒त्¦ओ॒ह॒ते॒ || |
आवो॒ यस्य॑ द्वि॒बर्ह॑सो॒ऽर्केषु॑ सानु॒षगस॑त् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्} आ॒जाविन्द्र॑स्येन्दो॒ प्रावो॒ वाजे᳚षु वा॒जिन᳚म् ||{5/6}{1.176.5}{1.23.12.5}{2.4.19.5}{1874, 176, 1874} आवः॑¦यस्य॑¦द्वि॒ऽबर्ह॑सः¦अ॒र्केषु॑¦सा॒नु॒षक्¦अस॑त् | आ॒जौ¦इन्द्र॑स्य¦इ॒न्दो॒ इति॑¦प्र¦आ॒वः॒¦वाजे᳚षु¦वा॒जिन᳚म् || |
यथा॒ पूर्वे᳚भ्यो जरि॒तृभ्य॑ इन्द्र॒ मय॑ इ॒वापो॒ न तृष्य॑ते ब॒भूथ॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} तामनु॑ त्वा नि॒विदं᳚ जोहवीमि वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{6/6}{1.176.6}{1.23.12.6}{2.4.19.6}{1875, 176, 1875} यथा᳚¦पूर्वे᳚भ्यः¦ज॒रि॒तृऽभ्यः॑¦इ॒न्द्र॒¦मयः॑ऽइव¦आपः॑¦न¦तृष्य॑ते¦ब॒भूथ॑ | |
[177] आचर्षणिप्राइति पंचर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् | |
आ च॑र्षणि॒प्रा वृ॑ष॒भो जना᳚नां॒ राजा᳚ कृष्टी॒नां पु॑रुहू॒त इन्द्रः॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} स्तु॒तः श्र॑व॒स्यन्नव॒सोप॑ म॒द्रिग्यु॒क्त्वा हरी॒ वृष॒णा या᳚ह्य॒र्वाङ् ||{1/5}{1.177.1}{1.23.13.1}{2.4.20.1}{1876, 177, 1876} आ¦च॒र्ष॒णि॒ऽप्राः¦वृ॒ष॒भः¦जना᳚नाम्¦राजा᳚¦कृ॒ष्टी॒नाम्¦पु॒रु॒ऽहू॒तः¦इन्द्रः॑ | |
ये ते॒ वृष॑णो वृष॒भास॑ इन्द्र ब्रह्म॒युजो॒ वृष॑रथासो॒, अत्याः᳚ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} ताँ, आ ति॑ष्ठ॒ तेभि॒रा या᳚ह्य॒र्वाङ् हवा᳚महे त्वा सु॒त इ᳚न्द्र॒ सोमे᳚ ||{2/5}{1.177.2}{1.23.13.2}{2.4.20.2}{1877, 177, 1877} ये¦ते॒¦वृष॑णः¦वृ॒ष॒भासः॑¦इ॒न्द्र॒¦ब्र॒ह्म॒ऽयुजः॑¦वृष॑ऽरथासः¦अत्याः᳚ | |
आ ति॑ष्ठ॒ रथं॒ वृष॑णं॒ वृषा᳚ ते सु॒तः सोमः॒ परि॑षिक्ता॒ मधू᳚नि |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} यु॒क्त्वा वृष॑भ्यां वृषभ क्षिती॒नां हरि॑भ्यां याहि प्र॒वतोप॑ म॒द्रिक् ||{3/5}{1.177.3}{1.23.13.3}{2.4.20.3}{1878, 177, 1878} आ¦ति॒ष्ठ॒¦रथ᳚म्¦वृष॑णम्¦वृषा᳚¦ते॒¦सु॒तः¦सोमः॑¦परि॑ऽसिक्ता¦मधू᳚नि | |
अ॒यं य॒ज्ञो दे᳚व॒या, अ॒यं मि॒येध॑ इ॒मा ब्रह्मा᳚ण्य॒यमि᳚न्द्र॒ सोमः॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} स्ती॒र्णं ब॒र्हिरा तु श॑क्र॒ प्र या᳚हि॒ पिबा᳚ नि॒षद्य॒ वि मु॑चा॒ हरी᳚, इ॒ह ||{4/5}{1.177.4}{1.23.13.4}{2.4.20.4}{1879, 177, 1879} अ॒यम्¦य॒ज्ञः¦दे॒व॒ऽयाः¦अ॒यम्¦मि॒येधः॑¦इ॒मा¦ब्रह्मा᳚णि¦अ॒यम्¦इ॒न्द्र॒¦सोमः॑ | |
ओ सुष्टु॑त इन्द्र याह्य॒र्वाङुप॒ ब्रह्मा᳚णि मा॒न्यस्य॑ का॒रोः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो᳚ वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{5/5}{1.177.5}{1.23.13.5}{2.4.20.5}{1880, 177, 1880} ओ इति॑¦सुऽस्तु॑तः¦इ॒न्द्र॒¦या॒हि॒¦अ॒र्वाङ्¦उप॑¦ब्रह्मा᳚णि¦मा॒न्यस्य॑¦का॒रोः | |
[178] यद्धस्यातइति पंचर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् | |
यद्ध॒ स्या त॑ इन्द्र श्रु॒ष्टिरस्ति॒ यया᳚ ब॒भूथ॑ जरि॒तृभ्य॑ ऊ॒ती |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} मा नः॒ कामं᳚ म॒हय᳚न्त॒मा ध॒ग्विश्वा᳚ ते, अश्यां॒ पर्याप॑ आ॒योः ||{1/5}{1.178.1}{1.23.14.1}{2.4.21.1}{1881, 178, 1881} यत्¦ह॒¦स्या¦ते॒¦इ॒न्द्र॒¦श्रु॒ष्टिः¦अस्ति॑¦यया᳚¦ब॒भूथ॑¦ज॒रि॒तृऽभ्यः॑¦ऊ॒ती | |
न घा॒ राजेन्द्र॒ आ द॑भन्नो॒ या नु स्वसा᳚रा कृ॒णव᳚न्त॒ योनौ᳚ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} आप॑श्चिदस्मै सु॒तुका᳚, अवेष॒न् गम᳚न्न॒ इन्द्रः॑ स॒ख्या वय॑श्च ||{2/5}{1.178.2}{1.23.14.2}{2.4.21.2}{1882, 178, 1882} न¦घ॒¦राजा᳚¦इन्द्रः॑¦आ¦द॒भ॒त्¦नः॒¦या¦नु¦स्वसा᳚रा¦कृ॒णव᳚न्त¦योनौ᳚ | |
जेता॒ नृभि॒रिन्द्रः॑ पृ॒त्सु शूरः॒ श्रोता॒ हवं॒ नाध॑मानस्य का॒रोः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} प्रभ॑र्ता॒ रथं᳚ दा॒शुष॑ उपा॒क उद्य᳚न्ता॒ गिरो॒ यदि॑ च॒ त्मना॒ भूत् ||{3/5}{1.178.3}{1.23.14.3}{2.4.21.3}{1883, 178, 1883} जेता᳚¦नृऽभिः॑¦इन्द्रः॑¦पृ॒त्ऽसु¦शूरः॑¦श्रोता᳚¦हव᳚म्¦नाध॑मानस्य¦का॒रोः | |
ए॒वा नृभि॒रिन्द्रः॑ सुश्रव॒स्या प्र॑खा॒दः पृ॒क्षो, अ॒भि मि॒त्रिणो᳚ भूत् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} स॒म॒र्य इ॒षः स्त॑वते॒ विवा᳚चि सत्राक॒रो यज॑मानस्य॒ शंसः॑ ||{4/5}{1.178.4}{1.23.14.4}{2.4.21.4}{1884, 178, 1884} ए॒व¦नृऽभिः॑¦इन्द्रः॑¦सु॒ऽश्र॒व॒स्या¦प्र॒ऽखा॒दः¦पृ॒क्षः¦अ॒भि¦मि॒त्रिणः॑¦भू॒त् | |
त्वया᳚ व॒यं म॑घवन्निन्द्र॒ शत्रू᳚न॒भि ष्या᳚म मह॒तो मन्य॑मानान् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} त्वं त्रा॒ता त्वमु॑ नो वृ॒धे भू᳚र्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{5/5}{1.178.5}{1.23.14.5}{2.4.21.5}{1885, 178, 1885} त्वया᳚¦व॒यम्¦म॒घ॒ऽव॒न्¦इ॒न्द्र॒¦शत्रू᳚न्¦अ॒भि¦स्या॒म॒¦म॒ह॒तः¦मन्य॑मानान् | |
[179] पूर्वीरमिति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्यः आद्ययोर्द्वयोर्लोपामुद्राऋषिका अंत्ययोर्द्वयोरगस्त्यांतेवासीब्रह्मचारीऋषिः सर्वासांरतिर्देवता त्रिष्टुप् पंचमी बृहती | |
पू॒र्वीर॒हं श॒रदः॑ शश्रमा॒णा दो॒षा वस्तो᳚रु॒षसो᳚ ज॒रय᳚न्तीः |{लोपामुद्रा ऋषिका | रतिः | त्रिष्टुप्} मि॒नाति॒ श्रियं᳚ जरि॒मा त॒नूना॒मप्यू॒ नु पत्नी॒र्वृष॑णो जगम्युः ||{1/6}{1.179.1}{1.23.15.1}{2.4.22.1}{1886, 179, 1886} पू॒र्वीः¦अ॒हम्¦श॒रदः॑¦श॒श्र॒मा॒णा¦दो॒षाः¦वस्तोः᳚¦उ॒षसः॑¦ज॒रय᳚न्तीः | |
ये चि॒द्धि पूर्व॑ ऋत॒साप॒ आस᳚न् त्सा॒कं दे॒वेभि॒रव॑दन्नृ॒तानि॑ |{लोपामुद्रा ऋषिका | रतिः | त्रिष्टुप्} ते चि॒दवा᳚सुर्न॒ह्यन्त॑मा॒पुः समू॒ नु पत्नी॒र्वृष॑भिर्जगम्युः ||{2/6}{1.179.2}{1.23.15.2}{2.4.22.2}{1887, 179, 1887} ये¦चि॒त्¦हि¦पूर्वे᳚¦ऋ॒त॒ऽसापः॑¦आस॑न्¦सा॒कम्¦दे॒वेभिः॑¦अव॑दन्¦ऋ॒तानि॑ | |
न मृषा᳚ श्रा॒न्तं यदव᳚न्ति दे॒वा विश्वा॒, इत् स्पृधो᳚, अ॒भ्य॑श्नवाव |{मैत्रावरुणिरगस्त्यः | रतिः | त्रिष्टुप्} जया॒वेदत्र॑ श॒तनी᳚थमा॒जिं यत् स॒म्यञ्चा᳚ मिथु॒नाव॒भ्यजा᳚व ||{3/6}{1.179.3}{1.23.15.3}{2.4.22.3}{1888, 179, 1888} न¦मृषा᳚¦श्रा॒न्तम्¦यत्¦अव᳚न्ति¦दे॒वाः¦विश्वाः᳚¦इत्¦स्पृधः॑¦अ॒भि¦अ॒श्न॒वा॒व॒ | |
न॒दस्य॑ मा रुध॒तः काम॒ आग᳚न्नि॒त आजा᳚तो, अ॒मुतः॒ कुत॑श्चित् |{मैत्रावरुणिरगस्त्यः | रतिः | त्रिष्टुप्} लोपा᳚मुद्रा॒ वृष॑णं॒ नी रि॑णाति॒ धीर॒मधी᳚रा धयति श्व॒सन्त᳚म् ||{4/6}{1.179.4}{1.23.15.4}{2.4.22.4}{1889, 179, 1889} न॒दस्य॑¦मा॒¦रु॒ध॒तः¦कामः॑¦आ¦अ॒ग॒न्¦इ॒तः¦आऽजा᳚तः¦अ॒मुतः॑¦कुतः॑¦चि॒त् | |
इ॒मं नु सोम॒मन्ति॑तो हृ॒त्सु पी॒तमुप॑ ब्रुवे |{अगस्त्यान्तेवासी ब्रह्मचारी | रतिः | त्रिष्टुप्} यत् सी॒माग॑श्चकृ॒मा तत् सु मृ॑ळतु पुलु॒कामो॒ हि मर्त्यः॑ ||{5/6}{1.179.5}{1.23.15.5}{2.4.22.5}{1890, 179, 1890} इ॒मम्¦नु¦सोम᳚म्¦अन्ति॑तः¦हृ॒त्ऽसु¦पी॒तम्¦उप॑¦ब्रु॒वे॒ | |
अ॒गस्त्यः॒ खन॑मानः ख॒नित्रैः᳚ प्र॒जामप॑त्यं॒ बल॑मि॒च्छमा᳚नः |{अगस्त्यान्तेवासी ब्रह्मचारी | रतिः | त्रिष्टुप्} उ॒भौ वर्णा॒वृषि॑रु॒ग्रः पु॑पोष स॒त्या दे॒वेष्वा॒शिषो᳚ जगाम ||{6/6}{1.179.6}{1.23.15.6}{2.4.22.6}{1891, 179, 1891} अ॒गस्त्यः॑¦खन॑मानः¦ख॒नित्रैः᳚¦प्र॒ऽजाम्¦अप॑त्यम्¦बल᳚म्¦इ॒च्छमा᳚नः | |
[180] युवोरजांसीति दशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौत्रिष्टुप् | |
यु॒वो रजां᳚सि सु॒यमा᳚सो॒, अश्वा॒ रथो॒ यद् वां॒ पर्यर्णां᳚सि॒ दीय॑त् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} हि॒र॒ण्यया᳚ वां प॒वयः॑ प्रुषाय॒न् मध्वः॒ पिब᳚न्ता, उ॒षसः॑ सचेथे ||{1/10}{1.180.1}{1.24.1.1}{2.4.23.1}{1892, 180, 1892} यु॒वोः¦रजां᳚सि¦सु॒ऽयमा᳚सः¦अश्वाः᳚¦रथः॑¦यत्¦वा॒म्¦परि॑¦अर्णां᳚सि¦दीय॑त् | |
यु॒वमत्य॒स्याव॑ नक्षथो॒ यद् विप॑त्मनो॒ नर्य॑स्य॒ प्रय॑ज्योः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} स्वसा॒ यद् वां᳚ विश्वगूर्ती॒ भरा᳚ति॒ वाजा॒येट्टे᳚ मधुपावि॒षे च॑ ||{2/10}{1.180.2}{1.24.1.2}{2.4.23.2}{1893, 180, 1893} यु॒वम्¦अत्य॑स्य¦अव॑¦न॒क्ष॒थः॒¦यत्¦विऽप॑त्मनः¦नर्य॑स्य¦प्रऽय॑ज्योः | |
यु॒वं पय॑ उ॒स्रिया᳚यामधत्तं प॒क्वमा॒माया॒मव॒ पूर्व्यं॒ गोः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} अ॒न्तर्यद् व॒निनो᳚ वामृतप्सू ह्वा॒रो न शुचि॒र्यज॑ते ह॒विष्मा॑न् ||{3/10}{1.180.3}{1.24.1.3}{2.4.23.3}{1894, 180, 1894} यु॒वम्¦पयः॑¦उ॒स्रिया᳚याम्¦अ॒ध॒त्त॒म्¦प॒क्वम्¦आ॒माया᳚म्¦अव॑¦पूर्व्य᳚म्¦गोः | |
यु॒वं ह॑ घ॒र्मं मधु॑मन्त॒मत्र॑ये॒ऽपो न क्षोदो᳚ऽवृणीतमे॒षे |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} तद् वां᳚ नरावश्विना॒ पश्व॑इष्टी॒ रथ्ये᳚व च॒क्रा प्रति॑ यन्ति॒ मध्वः॑ ||{4/10}{1.180.4}{1.24.1.4}{2.4.23.4}{1895, 180, 1895} यु॒वम्¦ह॒¦घ॒र्मम्¦मधु॑ऽमन्तम्¦अत्र॑ये¦अ॒पः¦न¦क्षोदः॑¦अ॒वृ॒णी॒त॒म्¦ए॒षे | |
आ वां᳚ दा॒नाय॑ ववृतीय दस्रा॒ गोरोहे᳚ण तौ॒ग्र्यो न जिव्रिः॑ |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} अ॒पः, क्षो॒णी स॑चते॒ माहि॑ना वां जू॒र्णो वा॒मक्षु॒रंह॑सो यजत्रा ||{5/10}{1.180.5}{1.24.1.5}{2.4.23.5}{1896, 180, 1896} आ¦वा॒म्¦दा॒नाय॑¦व॒वृ॒ती॒य॒¦द॒स्रा॒¦गोः¦ओहे᳚न¦तौ॒ग्र्यः¦न¦जिव्रिः॑ | |
नि यद् यु॒वेथे᳚ नि॒युतः॑ सुदानू॒, उप॑ स्व॒धाभिः॑ सृजथः॒ पुरं᳚धिम् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} प्रेष॒द् वेष॒द् वातो॒ न सू॒रिरा म॒हे द॑दे सुव्र॒तो न वाज᳚म् ||{6/10}{1.180.6}{1.24.1.6}{2.4.24.1}{1897, 180, 1897} नि¦यत्¦यु॒वेथे॒ इति॑¦नि॒ऽयुतः॑¦सु॒दा॒नू॒ इति॑ सुऽदानू¦उप॑¦स्व॒धाभिः॑¦सृ॒ज॒थः॒¦पुर᳚म्ऽधिम् | |
व॒यं चि॒द्धि वां᳚ जरि॒तारः॑ स॒त्या वि॑प॒न्याम॑हे॒ वि प॒णिर्हि॒तावा॑न् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} अधा᳚ चि॒द्धि ष्मा᳚श्विनावनिन्द्या पा॒थो हि ष्मा᳚ वृषणा॒वन्ति॑देवम् ||{7/10}{1.180.7}{1.24.1.7}{2.4.24.2}{1898, 180, 1898} व॒यम्¦चि॒त्¦हि¦वा॒म्¦ज॒रि॒तारः॑¦स॒त्याः¦वि॒प॒न्याम॑हे¦वि¦प॒णिः¦हि॒तऽवा॑न् | |
यु॒वां चि॒द्धि ष्मा᳚श्विना॒वनु॒ द्यून् विरु॑द्रस्य प्र॒स्रव॑णस्य सा॒तौ |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} अ॒गस्त्यो᳚ न॒रां नृषु॒ प्रश॑स्तः॒ कारा᳚धुनीव चितयत् स॒हस्रैः᳚ ||{8/10}{1.180.8}{1.24.1.8}{2.4.24.3}{1899, 180, 1899} यु॒वाम्¦चि॒त्¦हि¦स्म॒¦अ॒श्वि॒नौ॒¦अनु॑¦द्यून्¦विऽरु॑द्रस्य¦प्र॒ऽस्रव॑णस्य¦सा॒तौ | |
प्र यद् वहे᳚थे महि॒ना रथ॑स्य॒ प्र स्प᳚न्द्रा याथो॒ मनु॑षो॒ न होता᳚ |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} ध॒त्तं सू॒रिभ्य॑ उ॒त वा॒ स्वश्व्यं॒ नास॑त्या रयि॒षाचः॑ स्याम ||{9/10}{1.180.9}{1.24.1.9}{2.4.24.4}{1900, 180, 1900} प्र¦यत्¦वहे᳚थे॒ इति॑¦म॒हि॒ना¦रथ॑स्य¦प्र¦स्प॒न्द्रा॒¦या॒थः॒¦मनु॑षः¦न¦होता᳚ | |
तं वां॒ रथं᳚ व॒यम॒द्या हु॑वेम॒ स्तोमै᳚रश्विना सुवि॒ताय॒ नव्य᳚म् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} अरि॑ष्टनेमिं॒ परि॒ द्यामि॑या॒नं वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{10/10}{1.180.10}{1.24.1.10}{2.4.24.5}{1901, 180, 1901} तम्¦वा॒म्¦रथ᳚म्¦व॒यम्¦अ॒द्य¦हु॒वे॒म॒¦स्तोमैः᳚¦अ॒श्वि॒ना॒¦सु॒वि॒ताय॑¦नव्य᳚म् | |
[181] कदुप्रेष्ठाविति नवर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौत्रिष्टुप् | |
कदु॒ प्रेष्टा᳚वि॒षां र॑यी॒णाम॑ध्व॒र्यन्ता॒ यदु᳚न्निनी॒थो, अ॒पाम् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} अ॒यं वां᳚ य॒ज्ञो, अ॑कृत॒ प्रश॑स्तिं॒ वसु॑धिती॒, अवि॑तारा जनानाम् ||{1/9}{1.181.1}{1.24.2.1}{2.4.25.1}{1902, 181, 1902} कत्¦ऊँ॒ इति॑¦प्रेष्ठौ᳚¦इ॒षाम्¦र॒यी॒णाम्¦अ॒ध्व॒र्यन्ता᳚¦यत्¦उ॒त्ऽनि॒नी॒थः¦अ॒पाम् | |
आ वा॒मश्वा᳚सः॒ शुच॑यः पय॒स्पा वात॑रंहसो दि॒व्यासो॒, अत्याः᳚ |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} म॒नो॒जुवो॒ वृष॑णो वी॒तपृ॑ष्ठा॒, एह स्व॒राजो᳚, अ॒श्विना᳚ वहन्तु ||{2/9}{1.181.2}{1.24.2.2}{2.4.25.2}{1903, 181, 1903} आ¦वा॒म्¦अश्वा᳚सः¦शुच॑यः¦प॒यः॒ऽपाः¦वात॑ऽरंहसः¦दि॒व्यासः॑¦अत्याः᳚ | |
आ वां॒ रथो॒ऽवनि॒र्न प्र॒वत्वा᳚न् त्सृ॒प्रव᳚न्धुरः सुवि॒ताय॑ गम्याः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} वृष्णः॑ स्थातारा॒ मन॑सो॒ जवी᳚यानहम्पू॒र्वो य॑ज॒तो धि॑ष्ण्या॒ यः ||{3/9}{1.181.3}{1.24.2.3}{2.4.25.3}{1904, 181, 1904} आ¦वा॒म्¦रथः॑¦अ॒वनिः॑¦न¦प्र॒वत्वा᳚न्¦सृ॒प्रऽव᳚न्धुरः¦सु॒वि॒ताय॑¦ग॒म्याः॒ | |
इ॒हेह॑ जा॒ता सम॑वावशीतामरे॒पसा᳚ त॒न्वा॒३॑(आ॒) नाम॑भिः॒ स्वैः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} जि॒ष्णुर्वा᳚म॒न्यः सुम॑खस्य सू॒रिर्दि॒वो, अ॒न्यः सु॒भगः॑ पु॒त्र ऊ᳚हे ||{4/9}{1.181.4}{1.24.2.4}{2.4.25.4}{1905, 181, 1905} इ॒हऽइ᳚ह¦जा॒ता¦सम्¦अ॒वा॒व॒शी॒ता॒म्¦अ॒रे॒पसा᳚¦त॒न्वा᳚¦नाम॑ऽभिः¦स्वैः | |
प्र वां᳚ निचे॒रुः क॑कु॒हो वशाँ॒, अनु॑ पि॒शङ्ग॑रूपः॒ सद॑नानि गम्याः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} हरी᳚, अ॒न्यस्य॑ पी॒पय᳚न्त॒ वाजै᳚र्म॒थ्रा रजां᳚स्यश्विना॒ वि घोषैः᳚ ||{5/9}{1.181.5}{1.24.2.5}{2.4.25.5}{1906, 181, 1906} प्र¦वा॒म्¦नि॒ऽचे॒रुः¦क॒कु॒हः¦वशा᳚न्¦अनु॑¦पि॒शङ्ग॑ऽरूपः¦सद॑नानि¦ग॒म्याः॒ | |
प्र वां᳚ श॒रद्वा᳚न् वृष॒भो न नि॒ष्षाट् पू॒र्वीरिष॑श्चरति॒ मध्व॑ इ॒ष्णन् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} एवै᳚र॒न्यस्य॑ पी॒पय᳚न्त॒ वाजै॒र्वेष᳚न्तीरू॒र्ध्वा न॒द्यो᳚ न॒ आगुः॑ ||{6/9}{1.181.6}{1.24.2.6}{2.4.26.1}{1907, 181, 1907} प्र¦वा॒म्¦श॒रत्ऽवा᳚न्¦वृ॒ष॒भः¦न¦नि॒ष्षाट्¦पू॒र्वीः¦इषः॑¦च॒र॒ति॒¦मध्वः॑¦इ॒ष्णन् | |
अस॑र्जि वां॒ स्थवि॑रा वेधसा॒ गीर्बा॒ळ्हे, अ॑श्विना त्रे॒धा क्षर᳚न्ती |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} उप॑स्तुताववतं॒ नाध॑मानं॒ याम॒न्नया᳚मञ्छृणुतं॒ हवं᳚ मे ||{7/9}{1.181.7}{1.24.2.7}{2.4.26.2}{1908, 181, 1908} अस॑र्जि¦वा॒म्¦स्थवि॑रा¦वे॒ध॒सा॒¦गीः¦बा॒ळ्हे¦अ॒श्वि॒ना॒¦त्रे॒धा¦क्षर᳚न्ती | |
उ॒त स्या वां॒ रुश॑तो॒ वप्स॑सो॒ गीस्त्रि॑ब॒र्हिषि॒ सद॑सि पिन्वते॒ नॄन् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} वृषा᳚ वां मे॒घो वृ॑षणा पीपाय॒ गोर्न सेके॒ मनु॑षो दश॒स्यन् ||{8/9}{1.181.8}{1.24.2.8}{2.4.26.3}{1909, 181, 1909} उ॒त¦स्या¦वा॒म्¦रुश॑तः¦वप्स॑सः¦गीः¦त्रि॒ऽब॒र्हिषि॑¦सद॑सि¦पि॒न्व॒ते॒¦नॄन् | |
यु॒वां पू॒षेवा᳚श्विना॒ पुरं᳚धिर॒ग्निमु॒षां न ज॑रते ह॒विष्मा॑न् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} हु॒वे यद् वां᳚ वरिव॒स्या गृ॑णा॒नो वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{9/9}{1.181.9}{1.24.2.9}{2.4.26.4}{1910, 181, 1910} यु॒वाम्¦पू॒षाऽइ᳚व¦अ॒श्वि॒ना॒¦पुर᳚म्ऽधिः¦अ॒ग्निम्¦उ॒षाम्¦न¦ज॒र॒ते॒¦ह॒विष्मा॑न् | |
[182] अभूदिदमित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौजगती षष्ठ्यंत्येत्रिष्टुभौ | |
अभू᳚दि॒दं व॒युन॒मो षु भू᳚षता॒ रथो॒ वृष᳚ण्वा॒न् मद॑ता मनीषिणः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती} धि॒यं॒जि॒न्वा धिष्ण्या᳚ वि॒श्पला᳚वसू दि॒वो नपा᳚ता सु॒कृते॒ शुचि᳚व्रता ||{1/8}{1.182.1}{1.24.3.1}{2.4.27.1}{1911, 182, 1911} अभू᳚त्¦इ॒दम्¦व॒युन᳚म्¦ओ इति॑¦सु¦भू॒ष॒त॒¦रथः॑¦वृष॑ण्ऽवान्¦मद॑त¦म॒नी॒षि॒णः॒ | |
इन्द्र॑तमा॒ हि धिष्ण्या᳚ म॒रुत्त॑मा द॒स्रा दंसि॑ष्ठा र॒थ्या᳚ र॒थीत॑मा |{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती} पू॒र्णं रथं᳚ वहेथे॒ मध्व॒ आचि॑तं॒ तेन॑ दा॒श्वांस॒मुप॑ याथो, अश्विना ||{2/8}{1.182.2}{1.24.3.2}{2.4.27.2}{1912, 182, 1912} इन्द्र॑ऽतमा¦हि¦धिष्ण्या᳚¦म॒रुत्ऽत॑मा¦द॒स्रा¦दंसि॑ष्ठा¦र॒थ्या᳚¦र॒थिऽत॑मा | |
किमत्र॑ दस्रा कृणुथः॒ किमा᳚साथे॒ जनो॒ यः कश्चि॒दह॑विर्मही॒यते᳚ |{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती} अति॑ क्रमिष्टं जु॒रतं᳚ प॒णेरसुं॒ ज्योति॒र्विप्रा᳚य कृणुतं वच॒स्यवे᳚ ||{3/8}{1.182.3}{1.24.3.3}{2.4.27.3}{1913, 182, 1913} किम्¦अत्र॑¦द॒स्रा॒¦कृ॒णु॒थः॒¦किम्¦आ॒सा॒थे॒ इति॑¦जनः॑¦यः¦कः¦चि॒त्¦अह॑विः¦म॒ही॒यते᳚ | |
ज॒म्भय॑तम॒भितो॒ राय॑तः॒ शुनो᳚ ह॒तं मृधो᳚ वि॒दथु॒स्तान्य॑श्विना |{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती} वाचं᳚वाचं जरि॒तू र॒त्निनीं᳚ कृतमु॒भा शंसं᳚ नासत्यावतं॒ मम॑ ||{4/8}{1.182.4}{1.24.3.4}{2.4.27.4}{1914, 182, 1914} ज॒म्भय॑तम्¦अ॒भितः॑¦राय॑तः¦शुनः॑¦ह॒तम्¦मृधः॑¦वि॒दथुः॑¦तानि॑¦अ॒श्वि॒ना॒ | |
यु॒वमे॒तं च॑क्रथुः॒ सिन्धु॑षु प्ल॒वमा᳚त्म॒न्वन्तं᳚ प॒क्षिणं᳚ तौ॒ग्र्याय॒ कम् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती} येन॑ देव॒त्रा मन॑सा निरू॒हथुः॑ सुपप्त॒नी पे᳚तथुः॒, क्षोद॑सो म॒हः ||{5/8}{1.182.5}{1.24.3.5}{2.4.27.5}{1915, 182, 1915} यु॒वम्¦ए॒तम्¦च॒क्र॒तुः॒¦सिन्धु॑षु¦प्ल॒वम्¦आ॒त्म॒न्ऽवन्त᳚म्¦प॒क्षिण᳚म्¦तौ॒ग्र्याय॑¦कम् | |
अव॑विद्धं तौ॒ग्र्यम॒प्स्व१॑(अ॒)न्तर॑नारम्भ॒णे तम॑सि॒ प्रवि॑द्धम् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} चत॑स्रो॒ नावो॒ जठ॑लस्य॒ जुष्टा॒, उद॒श्विभ्या᳚मिषि॒ताः पा᳚रयन्ति ||{6/8}{1.182.6}{1.24.3.6}{2.4.28.1}{1916, 182, 1916} अव॑ऽविद्धम्¦तौ॒ग्र्यम्¦अ॒प्ऽसु¦अ॒न्तः¦अ॒ना॒र॒म्भ॒णे¦तम॑सि¦प्रऽवि॑द्धम् | |
कः स्वि॑द् वृ॒क्षो निष्ठि॑तो॒ मध्ये॒, अर्ण॑सो॒ यं तौ॒ग्र्यो ना᳚धि॒तः प॒र्यष॑स्वजत् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती} प॒र्णा मृ॒गस्य॑ प॒तरो᳚रिवा॒रभ॒ उद॑श्विना, ऊहथुः॒ श्रोम॑ताय॒ कम् ||{7/8}{1.182.7}{1.24.3.7}{2.4.28.2}{1917, 182, 1917} कः¦स्वि॒त्¦वृ॒क्षः¦निःऽस्थि॑तः¦मध्ये᳚¦अर्ण॑सः¦यम्¦तौ॒ग्र्यः¦ना॒धि॒तः¦प॒रि॒।आस॑स्वजत् | |
तद् वां᳚ नरा नासत्या॒वनु॑ ष्या॒द् यद् वां॒ माना᳚स उ॒चथ॒मवो᳚चन् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} अ॒स्माद॒द्य सद॑सः सो॒म्यादा वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{8/8}{1.182.8}{1.24.3.8}{2.4.28.3}{1918, 182, 1918} तत्¦वा॒म्¦न॒रा॒¦ना॒स॒त्यौ॒¦अनु॑¦स्या॒त्¦यत्¦वा॒म्¦माना᳚सः¦उ॒चथ᳚म्¦अवो᳚चन् | |
[183] तंयुञ्जाथामिति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौत्रिष्टुप् | |
तं यु᳚ञ्जाथां॒ मन॑सो॒ यो जवी᳚यान् त्रिवन्धु॒रो वृ॑षणा॒ यस्त्रि॑च॒क्रः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} येनो᳚पया॒थः सु॒कृतो᳚ दुरो॒णं त्रि॒धातु॑ना पतथो॒ विर्न प॒र्णैः ||{1/6}{1.183.1}{1.24.4.1}{2.4.29.1}{1919, 183, 1919} तम्¦युं॒जा॒था॒म्¦मन॑सः¦यः¦जवी᳚यान्¦त्रि॒ऽव॒न्धु॒रः¦वृ॒ष॒णा॒¦यः¦त्रि॒ऽच॒क्रः | |
सु॒वृद् रथो᳚ वर्तते॒ यन्न॒भि क्षां यत्तिष्ठ॑थः॒ क्रतु॑म॒न्तानु॑ पृ॒क्षे |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} वपु᳚र्वपु॒ष्या स॑चतामि॒यं गीर्दि॒वो दु॑हि॒त्रोषसा᳚ सचेथे ||{2/6}{1.183.2}{1.24.4.2}{2.4.29.2}{1920, 183, 1920} सु॒ऽवृत्¦रथः॑¦व॒र्त॒ते॒¦यन्¦अ॒भि¦क्षाम्¦यत्¦तिष्ठ॑थः¦क्रतु॑ऽमन्ता¦अनु॑¦पृ॒क्षे | |
आ ति॑ष्ठतं सु॒वृतं॒ यो रथो᳚ वा॒मनु᳚ व्र॒तानि॒ वर्त॑ते ह॒विष्मा॑न् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} येन॑ नरा नासत्येष॒यध्यै᳚ व॒र्तिर्या॒थस्तन॑याय॒ त्मने᳚ च ||{3/6}{1.183.3}{1.24.4.3}{2.4.29.3}{1921, 183, 1921} आ¦ति॒ष्ठ॒त॒म्¦सु॒ऽवृत᳚म्¦यः¦रथः॑¦वा॒म्¦अनु॑¦व्र॒तानि॑¦वर्त॑ते¦ह॒विष्मा॑न् | |
मा वां॒ वृको॒ मा वृ॒कीरा द॑धर्षी॒न्मा परि॑ वर्क्तमु॒त माति॑ धक्तम् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} अ॒यं वां᳚ भा॒गो निहि॑त इ॒यं गीर्दस्रा᳚वि॒मे वां᳚ नि॒धयो॒ मधू᳚नाम् ||{4/6}{1.183.4}{1.24.4.4}{2.4.29.4}{1922, 183, 1922} मा¦वा॒म्¦वृकः॑¦मा¦वृ॒कीः¦आ¦द॒ध॒र्षी॒त्¦मा¦परि॑¦व॒र्क्त॒म्¦उ॒त¦मा¦अति॑¦ध॒क्त॒म् | |
यु॒वां गोत॑मः पुरुमी॒ळ्हो, अत्रि॒र्दस्रा॒ हव॒तेऽव॑से ह॒विष्मा॑न् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} दिशं॒ न दि॒ष्टामृ॑जू॒येव॒ यन्ता मे॒ हवं᳚ नास॒त्योप॑ यातम् ||{5/6}{1.183.5}{1.24.4.5}{2.4.29.5}{1923, 183, 1923} यु॒वाम्¦गोत॑मः¦पु॒रु॒ऽमी॒ळ्हः¦अत्रिः॑¦दस्रा᳚¦हव॑ते¦अव॑से¦ह॒विष्मा॑न् | |
अता᳚रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो᳚, अश्विनावधायि |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} एह या᳚तं प॒थिभि॑र्देव॒यानै᳚र्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{6/6}{1.183.6}{1.24.4.6}{2.4.29.6}{1924, 183, 1924} अता᳚रिष्म¦तम॑सः¦पा॒रम्¦अ॒स्य¦प्रति॑¦वा॒म्¦स्तोमः॑¦अ॒श्वि॒नौ॒¦अ॒धा॒यि॒ | |
[184] तावामिति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौत्रिष्टुप् | |
ता वा᳚म॒द्य ताव॑प॒रं हु॑वेमो॒च्छन्त्या᳚मु॒षसि॒ वह्नि॑रु॒क्थैः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} नास॑त्या॒ कुह॑ चि॒त् सन्ता᳚व॒र्यो दि॒वो नपा᳚ता सु॒दास्त॑राय ||{1/6}{1.184.1}{1.24.5.1}{2.5.1.1}{1925, 184, 1925} ता¦वा॒म्¦अ॒द्य¦तौ¦अ॒प॒रम्¦हु॒वे॒म॒¦उ॒च्छन्त्या᳚म्¦उ॒षसि॑¦वह्निः॑¦उ॒क्थैः | |
अ॒स्मे, ऊ॒ षु वृ॑षणा मादयेथा॒मुत् प॒णीँर्ह॑तमू॒र्म्या मद᳚न्ता |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} श्रु॒तं मे॒, अच्छो᳚क्तिभिर्मती॒नामेष्टा᳚ नरा॒ निचे᳚तारा च॒ कर्णैः᳚ ||{2/6}{1.184.2}{1.24.5.2}{2.5.1.2}{1926, 184, 1926} अ॒स्मे इति॑¦ऊँ॒ इति॑¦सु¦वृ॒ष॒णा॒¦मा॒द॒ये॒था॒म्¦उत्¦प॒णीन्¦ह॒त॒म्¦ऊ॒र्म्या¦मद᳚न्ता | |
श्रि॒ये पू᳚षन्निषु॒कृते᳚व दे॒वा नास॑त्या वह॒तुं सू॒र्यायाः᳚ |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} व॒च्यन्ते᳚ वां ककु॒हा, अ॒प्सु जा॒ता यु॒गा जू॒र्णेव॒ वरु॑णस्य॒ भूरेः᳚ ||{3/6}{1.184.3}{1.24.5.3}{2.5.1.3}{1927, 184, 1927} श्रि॒ये¦पू॒ष॒न्¦इ॒षु॒कृता᳚ऽइव¦दे॒वा¦नास॑त्या¦व॒ह॒तुम्¦सू॒र्यायाः᳚ | |
अ॒स्मे सा वां᳚ माध्वी रा॒तिर॑स्तु॒ स्तोमं᳚ हिनोतं मा॒न्यस्य॑ का॒रोः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} अनु॒ यद् वां᳚ श्रव॒स्या᳚ सुदानू सु॒वीर्या᳚य चर्ष॒णयो॒ मद᳚न्ति ||{4/6}{1.184.4}{1.24.5.4}{2.5.1.4}{1928, 184, 1928} अ॒स्मे इति॑¦सा¦वा॒म्¦मा॒ध्वी॒ इति॑¦रा॒तिः¦अ॒स्तु॒¦स्तोम᳚म्¦हि॒नो॒त॒म्¦मा॒न्यस्य॑¦का॒रोः | |
ए॒ष वां॒ स्तोमो᳚, अश्विनावकारि॒ माने᳚भिर्मघवाना सुवृ॒क्ति |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} या॒तं व॒र्तिस्तन॑याय॒ त्मने᳚ चा॒गस्त्ये᳚ नासत्या॒ मद᳚न्ता ||{5/6}{1.184.5}{1.24.5.5}{2.5.1.5}{1929, 184, 1929} ए॒षः¦वा॒म्¦स्तोमः॑¦अ॒श्वि॒नौ॒¦अ॒का॒रि॒¦माने᳚भिः¦म॒घ॒ऽवा॒ना॒¦सु॒ऽवृ॒क्ति | |
अता᳚रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो᳚, अश्विनावधायि |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} एह या᳚तं प॒थिभि॑र्देव॒यानै᳚र्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{6/6}{1.184.6}{1.24.5.6}{2.5.1.6}{1930, 184, 1930} अता᳚रिष्म¦तम॑सः¦पा॒रम्¦अ॒स्य¦प्रति॑¦वा॒म्¦स्तोमः॑¦अ॒श्वि॒नौ॒¦अ॒धा॒यि॒ | |
[185] कतरेत्येकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योद्यावापृथिवीत्रिष्टुप् | |
क॒त॒रा पूर्वा᳚ कत॒राप॑रा॒योः क॒था जा॒ते क॑वयः॒ को वि वे᳚द |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्} विश्वं॒ त्मना᳚ बिभृतो॒ यद्ध॒ नाम॒ वि व॑र्तेते॒, अह॑नी च॒क्रिये᳚व ||{1/11}{1.185.1}{1.24.6.1}{2.5.2.1}{1931, 185, 1931} क॒त॒रा¦पूर्वा᳚¦क॒त॒रा¦अप॑रा¦अ॒योः¦क॒था¦जा॒ते इति॑¦क॒व॒यः॒¦कः¦वि¦वे॒द॒ | |
भूरिं॒ द्वे, अच॑रन्ती॒ चर᳚न्तं प॒द्वन्तं॒ गर्भ॑म॒पदी᳚ दधाते |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्} नित्यं॒ न सू॒नुं पि॒त्रोरु॒पस्थे॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒, अभ्वा᳚त् ||{2/11}{1.185.2}{1.24.6.2}{2.5.2.2}{1932, 185, 1932} भूरि॑¦द्वे इति॑¦अच॑रन्ती॒ इति॑¦चर᳚न्तम्¦प॒त्ऽवन्त᳚म्¦गर्भ᳚म्¦अ॒पदी॒ इति॑¦द॒धा॒ते॒ इति॑ | |
अ॒ने॒हो दा॒त्रमदि॑तेरन॒र्वं हु॒वे स्व᳚र्वदव॒धं नम॑स्वत् |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्} तद् रो᳚दसी जनयतं जरि॒त्रे द्यावा॒ रक्ष॑तं पृथिवी नो॒, अभ्वा᳚त् ||{3/11}{1.185.3}{1.24.6.3}{2.5.2.3}{1933, 185, 1933} अ॒ने॒हः¦दा॒त्रम्¦अदि॑तेः¦अ॒न॒र्वम्¦हु॒वे¦स्वः॑ऽवत्¦अ॒व॒धम्¦नम॑स्वत् | |
अत॑प्यमाने॒, अव॒साव᳚न्ती॒, अनु॑ ष्याम॒ रोद॑सी दे॒वपु॑त्रे |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्} उ॒भे दे॒वाना᳚मु॒भये᳚भि॒रह्नां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒, अभ्वा᳚त् ||{4/11}{1.185.4}{1.24.6.4}{2.5.2.4}{1934, 185, 1934} अत॑प्यमाने॒ इति॑¦अव॑सा¦अव᳚न्ती॒ इति॑¦अनु॑¦स्या॒म॒¦रोद॑सी॒ इति॑¦दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे | |
सं॒गच्छ॑माने युव॒ती सम᳚न्ते॒ स्वसा᳚रा जा॒मी पि॒त्रोरु॒पस्थे᳚ |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्} अ॒भि॒जिघ्र᳚न्ती॒ भुव॑नस्य॒ नाभिं॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒, अभ्वा᳚त् ||{5/11}{1.185.5}{1.24.6.5}{2.5.2.5}{1935, 185, 1935} सं॒गच्छ॑माने॒ इति॑ स॒म्ऽगच्छ॑माने¦यु॒व॒ती इति॑¦सम᳚न्ते॒ इति॒ सम्।आ᳚न्ते¦स्वसा᳚रा¦जा॒मी इति॑¦पि॒त्रोः¦उ॒पऽस्थे᳚ | |
उ॒र्वी सद्म॑नी बृह॒ती, ऋ॒तेन॑ हु॒वे दे॒वाना॒मव॑सा॒ जनि॑त्री |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्} द॒धाते॒ ये, अ॒मृतं᳚ सु॒प्रती᳚के॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒, अभ्वा᳚त् ||{6/11}{1.185.6}{1.24.6.6}{2.5.3.1}{1936, 185, 1936} उ॒र्वी इति॑¦सद्म॑नी॒ इति॑¦बृ॒ह॒ती इति॑¦ऋ॒तेन॑¦हु॒वे¦दे॒वाना᳚म्¦अव॑सा¦जनि॑त्री॒ इति॑ | |
उ॒र्वी पृ॒थ्वी ब॑हु॒ले दू॒रे,अ᳚न्ते॒, उप॑ ब्रुवे॒ नम॑सा य॒ज्ञे, अ॒स्मिन् |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्} द॒धाते॒ ये सु॒भगे᳚ सु॒प्रतू᳚र्ती॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒, अभ्वा᳚त् ||{7/11}{1.185.7}{1.24.6.7}{2.5.3.2}{1937, 185, 1937} उ॒र्वी इति॑¦पृ॒थ्वी इति॑¦ब॒हु॒ले इति॑¦दू॒रेअ᳚न्ते॒ इति॑ दू॒रे।आ᳚न्ते¦उप॑¦ब्रु॒वे॒¦नम॑सा¦य॒ज्ञे¦अ॒स्मिन् | |
दे॒वान् वा॒ यच्च॑कृ॒मा कच्चि॒दागः॒ सखा᳚यं वा॒ सद॒मिज्जास्प॑तिं वा |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्} इ॒यं धीर्भू᳚या, अव॒यान॑मेषां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒, अभ्वा᳚त् ||{8/11}{1.185.8}{1.24.6.8}{2.5.3.3}{1938, 185, 1938} दे॒वान्¦वा॒¦यत्¦च॒कृ॒म¦कत्¦चि॒त्¦आगः॑¦सखा᳚यम्¦वा॒¦सद᳚म्¦इत्¦जाःऽप॑तिम्¦वा॒ | |
उ॒भा शंसा॒ नर्या॒ माम॑विष्टामु॒भे मामू॒ती, अव॑सा सचेताम् |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्} भूरि॑ चिद॒र्यः सु॒दास्त॑राये॒षा मद᳚न्त इषयेम देवाः ||{9/11}{1.185.9}{1.24.6.9}{2.5.3.4}{1939, 185, 1939} उ॒भा¦शंसा᳚¦नर्या᳚¦माम्¦अ॒वि॒ष्टा॒म्¦उ॒भे इति॑¦माम्¦ऊ॒ती इति॑¦अव॑सा¦स॒चे॒ता॒म् | |
ऋ॒तं दि॒वे तद॑वोचं पृथि॒व्या, अ॑भिश्रा॒वाय॑ प्रथ॒मं सु॑मे॒धाः |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्} पा॒ताम॑व॒द्याद् दु॑रि॒ताद॒भीके᳚ पि॒ता मा॒ता च॑ रक्षता॒मवो᳚भिः ||{10/11}{1.185.10}{1.24.6.10}{2.5.3.5}{1940, 185, 1940} ऋ॒तम्¦दि॒वे¦तत्¦अ॒वो॒च॒म्¦पृ॒थि॒व्यै¦अ॒भि॒ऽश्रा॒वाय॑¦प्र॒थ॒मम्¦सु॒ऽमे॒धाः | |
इ॒दं द्या᳚वापृथिवी स॒त्यम॑स्तु॒ पित॒र्मात॒र्यदि॒होप॑ब्रु॒वे वा᳚म् |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्} भू॒तं दे॒वाना᳚मव॒मे, अवो᳚भिर्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{11/11}{1.185.11}{1.24.6.11}{2.5.3.6}{1941, 185, 1941} इ॒दम्¦द्या॒वा॒पृ॒थि॒वी॒ इति॑¦स॒त्यम्¦अ॒स्तु॒¦पितः॑¦मातः॑¦यत्¦इ॒ह¦उ॒प॒ऽब्रु॒वे¦वा॒म् | |
[186] आनइळाभिरित्येकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योविश्वेदेवास्त्रिष्टुप् | (सूक्तभेदप्रयोगेतु-आद्यचतसृणां विश्वेदेवाः ततएकस्याअहिर्बुध्न्यः ततएकस्यास्त्वष्टा ततएकस्याइंद्रः ततोद्वयोर्मरुतः ततोद्वयोर्विश्वेदेवाः एवमेकादश) | |
आ न॒ इळा᳚भिर्वि॒दथे᳚ सुश॒स्ति वि॒श्वान॑रः सवि॒ता दे॒व ए᳚तु |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्} अपि॒ यथा᳚ युवानो॒ मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा ||{1/11}{1.186.1}{1.24.7.1}{2.5.4.1}{1942, 186, 1942} आ¦नः॒¦इळा᳚भिः¦वि॒दथे᳚¦सु॒ऽश॒स्ति¦वि॒श्वान॑रः¦स॒वि॒ता¦दे॒वः¦ए॒तु॒ | |
आ नो॒ विश्व॒ आस्क्रा᳚ गमन्तु दे॒वा मि॒त्रो, अ᳚र्य॒मा वरु॑णः स॒जोषाः᳚ |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्} भुव॒न् यथा᳚ नो॒ विश्वे᳚ वृ॒धासः॒ कर᳚न् त्सु॒षाहा᳚ विथु॒रं न शवः॑ ||{2/11}{1.186.2}{1.24.7.2}{2.5.4.2}{1943, 186, 1943} आ¦नः॒¦विश्वे᳚¦आस्क्राः᳚¦ग॒म॒न्तु॒¦दे॒वाः¦मि॒त्रः¦अ॒र्य॒मा¦वरु॑णः¦स॒ऽजोषाः᳚ | |
प्रेष्ठं᳚ वो॒, अति॑थिं गृणीषे॒ऽग्निं श॒स्तिभि॑स्तु॒र्वणिः॑ स॒जोषाः᳚ |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्} अस॒द् यथा᳚ नो॒ वरु॑णः सुकी॒र्तिरिष॑श्च पर्षदरिगू॒र्तः सू॒रिः ||{3/11}{1.186.3}{1.24.7.3}{2.5.4.3}{1944, 186, 1944} प्रेष्ठ᳚म्¦वः॒¦अति॑थिम्¦गृ॒णी॒षे॒¦अ॒ग्निम्¦श॒स्तिऽभिः॑¦तु॒र्वणिः॑¦स॒ऽजोषाः᳚ | |
उप॑ व॒ एषे॒ नम॑सा जिगी॒षोषासा॒नक्ता᳚ सु॒दुघे᳚व धे॒नुः |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्} स॒मा॒ने, अह᳚न् वि॒मिमा᳚नो, अ॒र्कं विषु॑रूपे॒ पय॑सि॒ सस्मि॒न्नूध॑न् ||{4/11}{1.186.4}{1.24.7.4}{2.5.4.4}{1945, 186, 1945} उप॑¦वः॒¦आ¦इ॒षे॒¦नम॑सा¦जि॒गी॒षा¦उ॒षसा॒नक्ता᳚¦सु॒दुघा᳚ऽइव¦धे॒नुः | |
उ॒त नोऽहि॑र्बु॒ध्न्यो॒३॑(ओ॒) मय॑स्कः॒ शिशुं॒ न पि॒प्युषी᳚व वेति॒ सिन्धुः॑ |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्} येन॒ नपा᳚तम॒पां जु॒नाम॑ मनो॒जुवो॒ वृष॑णो॒ यं वह᳚न्ति ||{5/11}{1.186.5}{1.24.7.5}{2.5.4.5}{1946, 186, 1946} उ॒त¦नः॒¦अहिः॑¦बु॒ध्न्यः॑¦मयः॑¦क॒रिति॑ कः¦शिशु᳚म्¦न¦पि॒प्युषी᳚ऽइव¦वे॒ति॒¦सिन्धुः॑ | |
उ॒त न॑ ईं॒ त्वष्टा ग॒न्त्वच्छा॒ स्मत् सू॒रिभि॑रभिपि॒त्वे स॒जोषाः᳚ |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्} आ वृ॑त्र॒हेन्द्र॑श्चर्षणि॒प्रास्तु॒विष्ट॑मो न॒रां न॑ इ॒ह ग᳚म्याः ||{6/11}{1.186.6}{1.24.7.6}{2.5.5.1}{1947, 186, 1947} उ॒त¦नः॒¦ई॒म्¦त्वष्टा᳚¦आ¦ग॒न्तु॒¦अच्छ॑¦स्मत्¦सू॒रिऽभिः॑¦अ॒भि॒ऽपि॒त्वे¦स॒ऽजोषाः᳚ | |
उ॒त न॑ ईं म॒तयोऽश्व॑योगाः॒ शिशुं॒ न गाव॒स्तरु॑णं रिहन्ति |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्} तमीं॒ गिरो॒ जन॑यो॒ न पत्नीः᳚ सुर॒भिष्ट॑मं न॒रां न॑सन्त ||{7/11}{1.186.7}{1.24.7.7}{2.5.5.2}{1948, 186, 1948} उ॒त¦नः॒¦ई॒म्¦म॒तयः॑¦अश्व॑ऽयोगाः¦शिशु᳚म्¦न¦गावः॑¦तरु॑णम्¦रि॒ह॒न्ति॒ | |
उ॒त न॑ ईं म॒रुतो᳚ वृ॒द्धसे᳚नाः॒ स्मद् रोद॑सी॒ सम॑नसः सदन्तु |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्} पृष॑दश्वासो॒ऽवन॑यो॒ न रथा᳚ रि॒शाद॑सो मित्र॒युजो॒ न दे॒वाः ||{8/11}{1.186.8}{1.24.7.8}{2.5.5.3}{1949, 186, 1949} उ॒त¦नः॒¦ई॒म्¦म॒रुतः॑¦वृ॒द्धऽसे᳚नाः¦स्मत्¦रोद॑सी॒ इति॑¦सऽम॑नसः¦स॒द॒न्तु॒ | |
प्र नु यदे᳚षां महि॒ना चि॑कि॒त्रे प्र यु᳚ञ्जते प्र॒युज॒स्ते सु॑वृ॒क्ति |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्} अध॒ यदे᳚षां सु॒दिने॒ न शरु॒र्विश्व॒मेरि॑णं प्रुषा॒यन्त॒ सेनाः᳚ ||{9/11}{1.186.9}{1.24.7.9}{2.5.5.4}{1950, 186, 1950} प्र¦नु¦यत्¦ए॒षा॒म्¦म॒हि॒ना¦चि॒कि॒त्रे¦प्र¦युं॒ज॒ते॒¦प्र॒ऽयुजः॑¦ते¦सु॒ऽवृ॒क्ति | |
प्रो, अ॒श्विना॒वव॑से कृणुध्वं॒ प्र पू॒षणं॒ स्वत॑वसो॒ हि सन्ति॑ |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्} अ॒द्वे॒षो विष्णु॒र्वात॑ ऋभु॒क्षा, अच्छा᳚ सु॒म्नाय॑ ववृतीय दे॒वान् ||{10/11}{1.186.10}{1.24.7.10}{2.5.5.5}{1951, 186, 1951} प्रो इति॑¦अ॒श्विनौ᳚¦अव॑से¦कृ॒णु॒ध्व॒म्¦प्र¦पू॒षण᳚म्¦स्वऽत॑वसः¦हि¦सन्ति॑ | |
इ॒यं सा वो᳚, अ॒स्मे दीधि॑तिर्यजत्रा, अपि॒प्राणी᳚ च॒ सद॑नी च भूयाः |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्} नि या दे॒वेषु॒ यत॑ते वसू॒युर्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{11/11}{1.186.11}{1.24.7.11}{2.5.5.6}{1952, 186, 1952} इ॒यम्¦सा¦वः॒¦अ॒स्मे इति॑¦दीधि॑तिः¦य॒ज॒त्राः॒¦अ॒पि॒ऽप्राणी᳚¦च॒¦सद॑नी¦च॒¦भू॒याः॒ | |
[187] पितुंन्वित्येकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योन्नं गायत्री आद्यानुष्टुगर्भा तृतीयापंचम्याद्याश्चतस्रोनुष्टुभोन्त्याबृहतीवा | |
पि॒तुं नु स्तो᳚षं म॒हो ध॒र्माणं॒ तवि॑षीम् |{मैत्रावरुणिरगस्त्यः | अन्नं | अनुष्टुगर्भोष्णिक्} यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप᳚र्वम॒र्दय॑त् ||{1/11}{1.187.1}{1.24.8.1}{2.5.6.1}{1953, 187, 1953} पि॒तुम्¦नु¦स्तो॒ष॒म्¦म॒हः¦ध॒र्माण᳚म्¦तवि॑षीम् | |
स्वादो᳚ पितो॒ मधो᳚ पितो व॒यं त्वा᳚ ववृमहे |{मैत्रावरुणिरगस्त्यः | अन्नं | गायत्री} अ॒स्माक॑मवि॒ता भ॑व ||{2/11}{1.187.2}{1.24.8.2}{2.5.6.2}{1954, 187, 1954} स्वादो॒ इति॑¦पितो॒ इति॑¦मधो॒ इति॑¦पि॒तो॒ इति॑¦व॒यम्¦त्वा॒¦व॒वृ॒म॒हे॒ | अ॒स्माक᳚म्¦अ॒वि॒ता¦भ॒व॒ || |
उप॑ नः पित॒वा च॑र शि॒वः शि॒वाभि॑रू॒तिभिः॑ |{मैत्रावरुणिरगस्त्यः | अन्नं | अनुष्टुप्} म॒यो॒भुर॑द्विषे॒ण्यः सखा᳚ सु॒शेवो॒, अद्व॑याः ||{3/11}{1.187.3}{1.24.8.3}{2.5.6.3}{1955, 187, 1955} उप॑¦नः॒¦पि॒तो॒ इति॑¦आ¦च॒र॒¦शि॒वः¦शि॒वाभिः॑¦ऊ॒तिऽभिः॑ | म॒यः॒ऽभुः¦अ॒द्वि॒षे॒ण्यः¦सखा᳚¦सु॒ऽशेवः॑¦अद्व॑याः || |
तव॒ त्ये पि॑तो॒ रसा॒ रजां॒स्यनु॒ विष्ठि॑ताः |{मैत्रावरुणिरगस्त्यः | अन्नं | गायत्री} दि॒वि वाता᳚, इव श्रि॒ताः ||{4/11}{1.187.4}{1.24.8.4}{2.5.6.4}{1956, 187, 1956} तव॑¦त्ये¦पि॒तो॒ इति॑¦रसाः᳚¦रजां᳚सि¦अनु॑¦विऽस्थि॑ताः | दि॒वि¦वाताः᳚ऽइव¦श्रि॒ताः || |
तव॒ त्ये पि॑तो॒ दद॑त॒स्तव॑ स्वादिष्ठ॒ ते पि॑तो |{मैत्रावरुणिरगस्त्यः | अन्नं | अनुष्टुप्} प्र स्वा॒द्मानो॒ रसा᳚नां तुवि॒ग्रीवा᳚, इवेरते ||{5/11}{1.187.5}{1.24.8.5}{2.5.6.5}{1957, 187, 1957} तव॑¦त्ये¦पि॒तो॒ इति॑¦दद॑तः¦तव॑¦स्वा॒दि॒ष्ठ॒¦ते¦पि॒तो॒ इति॑ | प्र¦स्वा॒द्मानः॑¦रसा᳚नाम्¦तु॒वि॒ग्रीवाः᳚ऽइव¦ई॒र॒ते॒ || |
त्वे पि॑तो म॒हानां᳚ दे॒वानां॒ मनो᳚ हि॒तम् |{मैत्रावरुणिरगस्त्यः | अन्नं | अनुष्टुप्} अका᳚रि॒ चारु॑ के॒तुना॒ तवाहि॒मव॑सावधीत् ||{6/11}{1.187.6}{1.24.8.6}{2.5.7.1}{1958, 187, 1958} त्वे इति॑¦पि॒तो॒ इति॑¦म॒हाना᳚म्¦दे॒वाना᳚म्¦मनः॑¦हि॒तम् | अका᳚रि¦चारु॑¦के॒तुना᳚¦तव॑¦अहि᳚म्¦अव॑सा¦अ॒व॒धी॒त् || |
यद॒दो पि॑तो॒, अज॑गन् वि॒वस्व॒ पर्व॑तानाम् |{मैत्रावरुणिरगस्त्यः | अन्नं | अनुष्टुप्} अत्रा᳚ चिन्नो मधो पि॒तोऽरं᳚ भ॒क्षाय॑ गम्याः ||{7/11}{1.187.7}{1.24.8.7}{2.5.7.2}{1959, 187, 1959} यत्¦अ॒दः¦पि॒तो॒ इति॑¦अज॑गन्¦वि॒वस्व॑¦पर्व॑तानाम् | अत्र॑¦चि॒त्¦नः॒¦म॒धो॒ इति॑¦पि॒तो॒ इति॑¦अर᳚म्¦भ॒क्षाय॑¦ग॒म्याः॒ || |
यद॒पामोष॑धीनां परिं॒शमा᳚रि॒शाम॑हे |{मैत्रावरुणिरगस्त्यः | अन्नं | गायत्री} वाता᳚पे॒ पीव॒ इद् भ॑व ||{8/11}{1.187.8}{1.24.8.8}{2.5.7.3}{1960, 187, 1960} यत्¦अ॒पाम्¦ओष॑धीनाम्¦प॒रिं॒शम्¦आ॒ऽरि॒शाम॑हे | वाता᳚पे¦पीवः॑¦इत्¦भ॒व॒ || |
यत्ते᳚ सोम॒ गवा᳚शिरो॒ यवा᳚शिरो॒ भजा᳚महे |{मैत्रावरुणिरगस्त्यः | अन्नं | गायत्री} वाता᳚पे॒ पीव॒ इद् भ॑व ||{9/11}{1.187.9}{1.24.8.9}{2.5.7.4}{1961, 187, 1961} यत्¦ते॒¦सो॒म॒¦गोऽआ᳚शिरः¦यव॑ऽआशिरः¦भजा᳚महे | वाता᳚पे¦पीवः॑¦इत्¦भ॒व॒ || |
क॒र॒म्भ ओ᳚षधे भव॒ पीवो᳚ वृ॒क्क उ॑दार॒थिः |{मैत्रावरुणिरगस्त्यः | अन्नं | गायत्री} वाता᳚पे॒ पीव॒ इद् भ॑व ||{10/11}{1.187.10}{1.24.8.10}{2.5.7.5}{1962, 187, 1962} क॒र॒म्भः¦ओ॒ष॒धे॒¦भ॒व॒¦पीवः॑¦वृ॒क्कः¦उ॒दा॒र॒थिः | वाता᳚पे¦पीवः॑¦इत्¦भ॒व॒ || |
तं त्वा᳚ व॒यं पि॑तो॒ वचो᳚भि॒र्गावो॒ न ह॒व्या सु॑षूदिम |{मैत्रावरुणिरगस्त्यः | अन्नं | बृहती} दे॒वेभ्य॑स्त्वा सध॒माद॑म॒स्मभ्यं᳚ त्वा सध॒माद᳚म् ||{11/11}{1.187.11}{1.24.8.11}{2.5.7.6}{1963, 187, 1963} त्वम्¦त्वा॒¦व॒यम्¦पि॒तो॒ इति॑¦वचः॑ऽभिः¦गावः॑¦न¦ह॒व्या¦सु॒सू॒दि॒म॒ | |
[188] समिद्धइत्येकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य इध्मस्तनूनपादिळोबर्हिर्देवीर्द्वार उषासानक्तादैव्यौहोतारौ सरस्वतीळा भारत्यस्त्वष्टा वनस्पति स्वाहाकृतयइतिक्रमेणदेवताः गायत्रीच्छंदः | |
समि॑द्धो, अ॒द्य रा᳚जसि दे॒वो दे॒वैः स॑हस्रजित् |{मैत्रावरुणिरगस्त्यः | इध्मः समिद्धोऽग्निर्वा | गायत्री} दू॒तो ह॒व्या क॒विर्व॑ह ||{1/11}{1.188.1}{1.24.9.1}{2.5.8.1}{1964, 188, 1964} सम्ऽइ᳚द्धः¦अ॒द्य¦रा॒ज॒सि॒¦दे॒वः¦दे॒वैः¦स॒ह॒स्र॒ऽजि॒त् | दू॒तः¦ह॒व्या¦क॒विः¦व॒ह॒ || |
तनू᳚नपादृ॒तं य॒ते मध्वा᳚ य॒ज्ञः सम॑ज्यते |{मैत्रावरुणिरगस्त्यः | तनूनपात् | गायत्री} दध॑त् सह॒स्रिणी॒रिषः॑ ||{2/11}{1.188.2}{1.24.9.2}{2.5.8.2}{1965, 188, 1965} तनू᳚ऽनपात्¦ऋ॒तम्¦य॒ते¦मध्वा᳚¦य॒ज्ञः¦सम्¦अ॒ज्य॒ते॒ | दध॑त्¦स॒ह॒स्रिणीः᳚¦इषः॑ || |
आ॒जुह्वा᳚नो न॒ ईड्यो᳚ दे॒वाँ, आ व॑क्षि य॒ज्ञिया॑न् |{मैत्रावरुणिरगस्त्यः | इळः | गायत्री} अग्ने᳚ सहस्र॒सा, अ॑सि ||{3/11}{1.188.3}{1.24.9.3}{2.5.8.3}{1966, 188, 1966} आ॒ऽजुह्वा᳚नः¦नः॒¦ईड्यः॑¦दे॒वान्¦आ¦व॒क्षि॒¦य॒ज्ञिया॑न् | अग्ने᳚¦स॒ह॒स्र॒ऽसाः¦अ॒सि॒ || |
प्रा॒चीनं᳚ ब॒र्हिरोज॑सा स॒हस्र॑वीरमस्तृणन् |{मैत्रावरुणिरगस्त्यः | बर्हिः | गायत्री} यत्रा᳚दित्या वि॒राज॑थ ||{4/11}{1.188.4}{1.24.9.4}{2.5.8.4}{1967, 188, 1967} प्रा॒चीन᳚म्¦ब॒र्हिः¦ओज॑सा¦स॒हस्र॑ऽवीरम्¦अ॒स्तृ॒ण॒न् | यत्र॑¦आ॒दि॒त्याः॒¦वि॒ऽराज॑थ || |
वि॒राट् स॒म्राड्वि॒भ्वीः प्र॒भ्वीर्ब॒ह्वीश्च॒ भूय॑सीश्च॒ याः |{मैत्रावरुणिरगस्त्यः | देवीर्द्वारः | गायत्री} दुरो᳚ घृ॒तान्य॑क्षरन् ||{5/11}{1.188.5}{1.24.9.5}{2.5.8.5}{1968, 188, 1968} वि॒ऽराट्¦स॒म्ऽराट्¦वि॒ऽभ्वीः¦प्र॒ऽभ्वीः¦ब॒ह्वीः¦च॒¦भूय॑सीः¦च॒¦याः | दुरः॑¦घृ॒तानि॑¦अ॒क्ष॒र॒न् || |
सु॒रु॒क्मे हि सु॒पेश॒साधि॑ श्रि॒या वि॒राज॑तः |{मैत्रावरुणिरगस्त्यः | उषासानक्ता | गायत्री} उ॒षासा॒वेह सी᳚दताम् ||{6/11}{1.188.6}{1.24.9.6}{2.5.9.1}{1969, 188, 1969} सु॒रु॒क्मे इति॑ सु॒ऽरु॒क्मे¦हि¦सु॒ऽपेश॑सा¦अधि॑¦श्रि॒या¦वि॒ऽराज॑तः | उ॒षसौ᳚¦आ¦इ॒ह¦सी॒द॒ता॒म् || |
प्र॒थ॒मा हि सु॒वाच॑सा॒ होता᳚रा॒ दैव्या᳚ क॒वी |{मैत्रावरुणिरगस्त्यः | दैव्यौ होतारौ प्रचेतसौ | गायत्री} य॒ज्ञं नो᳚ यक्षतामि॒मम् ||{7/11}{1.188.7}{1.24.9.7}{2.5.9.2}{1970, 188, 1970} प्र॒थ॒मा¦हि¦सु॒ऽवाच॑सा¦होता᳚रा¦दैव्या᳚¦क॒वी इति॑ | य॒ज्ञम्¦नः॒¦य॒क्ष॒ता॒म्¦इ॒मम् || |
भार॒तीळे॒ सर॑स्वति॒ या वः॒ सर्वा᳚, उपब्रु॒वे |{मैत्रावरुणिरगस्त्यः | तिस्रो देव्यः सरस्वतीळाभारत्यः | गायत्री} ता न॑श्चोदयत श्रि॒ये ||{8/11}{1.188.8}{1.24.9.8}{2.5.9.3}{1971, 188, 1971} भार॑ति¦इळे᳚¦सर॑स्वति¦याः¦वः॒¦सर्वाः᳚¦उ॒प॒ऽब्रु॒वे | ताः¦नः॒¦चो॒द॒य॒त॒¦श्रि॒ये || |
त्वष्टा᳚ रू॒पाणि॒ हि प्र॒भुः प॒शून् विश्वा᳚न् त्समान॒जे |{मैत्रावरुणिरगस्त्यः | त्वष्टा | गायत्री} तेषां᳚ नः स्फा॒तिमा य॑ज ||{9/11}{1.188.9}{1.24.9.9}{2.5.9.4}{1972, 188, 1972} त्वष्टा᳚¦रू॒पाणि॑¦हि¦प्र॒ऽभुः¦प॒शून्¦विश्वा᳚न्¦स॒म्ऽआ॒न॒जे | तेषा᳚म्¦नः॒¦स्फा॒तिम्¦आ¦य॒ज॒ || |
उप॒ त्मन्या᳚ वनस्पते॒ पाथो᳚ दे॒वेभ्यः॑ सृज |{मैत्रावरुणिरगस्त्यः | वनस्पतिः | गायत्री} अ॒ग्निर्ह॒व्यानि॑ सिष्वदत् ||{10/11}{1.188.10}{1.24.9.10}{2.5.9.5}{1973, 188, 1973} उप॑¦त्मन्या᳚¦व॒न॒स्प॒ते॒¦पाथः॑¦दे॒वेभ्यः॑¦सृ॒ज॒ | अ॒ग्निः¦ह॒व्यानि॑¦सि॒स्व॒द॒त् || |
पु॒रो॒गा, अ॒ग्निर्दे॒वानां᳚ गाय॒त्रेण॒ सम॑ज्यते |{मैत्रावरुणिरगस्त्यः | स्वाहाकृतयः | गायत्री} स्वाहा᳚कृतीषु रोचते ||{11/11}{1.188.11}{1.24.9.11}{2.5.9.6}{1974, 188, 1974} पु॒रः॒ऽगाः¦अ॒ग्निः¦दे॒वाना᳚म्¦गा॒य॒त्रेण॑¦सम्¦अ॒ज्य॒ते॒ | स्वाहा᳚ऽकृतीषु¦रो॒च॒ते॒ || |
[189] अग्नेनयेत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योग्निस्त्रिष्टुप् | |
अग्ने॒ नय॑ सु॒पथा᳚ रा॒ये, अ॒स्मान् विश्वा᳚नि देव व॒युना᳚नि वि॒द्वान् |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्} यु॒यो॒ध्य१॑(अ॒)स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ||{1/8}{1.189.1}{1.24.10.1}{2.5.10.1}{1975, 189, 1975} अग्ने᳚¦नय॑¦सु॒ऽपथा᳚¦रा॒ये¦अ॒स्मान्¦विश्वा᳚नि¦दे॒व॒¦व॒युना᳚नि¦वि॒द्वान् | |
अग्ने॒ त्वं पा᳚रया॒ नव्यो᳚, अ॒स्मान् त्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्} पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा᳚ तो॒काय॒ तन॑याय॒ शं योः ||{2/8}{1.189.2}{1.24.10.2}{2.5.10.2}{1976, 189, 1976} अग्ने᳚¦त्वम्¦पा॒र॒य॒¦नव्यः॑¦अ॒स्मान्¦स्व॒स्तिऽभिः॑¦अति॑¦दुः॒ऽगाणि॑¦विश्वा᳚ | |
अग्ने॒ त्वम॒स्मद् यु॑यो॒ध्यमी᳚वा॒, अन॑ग्नित्रा, अ॒भ्यम᳚न्त कृ॒ष्टीः |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्} पुन॑र॒स्मभ्यं᳚ सुवि॒ताय॑ देव॒ क्षां विश्वे᳚भिर॒मृते᳚भिर्यजत्र ||{3/8}{1.189.3}{1.24.10.3}{2.5.10.3}{1977, 189, 1977} अग्ने᳚¦त्वम्¦अ॒स्मत्¦यु॒यो॒धि॒¦अमी᳚वाः¦अन॑ग्निऽत्राः¦अ॒भि¦अम᳚न्त¦कृ॒ष्टीः | |
पा॒हि नो᳚, अग्ने पा॒युभि॒रज॑स्रैरु॒त प्रि॒ये सद॑न॒ आ शु॑शु॒क्वान् |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्} मा ते᳚ भ॒यं ज॑रि॒तारं᳚ यविष्ठ नू॒नं वि॑द॒न्माप॒रं स॑हस्वः ||{4/8}{1.189.4}{1.24.10.4}{2.5.10.4}{1978, 189, 1978} पा॒हि¦नः॒¦अ॒ग्ने॒¦पा॒युऽभिः॑¦अज॑स्रैः¦उ॒त¦प्रि॒ये¦सद॑ने¦आ¦शु॒शु॒क्वान् | |
मा नो᳚, अ॒ग्नेऽव॑ सृजो, अ॒घाया᳚वि॒ष्यवे᳚ रि॒पवे᳚ दु॒च्छुना᳚यै |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्} मा द॒त्वते॒ दश॑ते॒ मादते᳚ नो॒ मा रीष॑ते सहसाव॒न् परा᳚ दाः ||{5/8}{1.189.5}{1.24.10.5}{2.5.10.5}{1979, 189, 1979} मा¦नः॒¦अ॒ग्ने॒¦अव॑¦सृ॒जः॒¦अ॒घाय॑¦अ॒वि॒ष्यवे᳚¦रि॒पवे᳚¦दु॒च्छुना᳚यै | |
वि घ॒ त्वावाँ᳚, ऋतजात यंसद् गृणा॒नो, अ॑ग्ने त॒न्वे॒३॑(ए॒) वरू᳚थम् |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्} विश्वा᳚द् रिरि॒क्षोरु॒त वा᳚ निनि॒त्सोर॑भि॒ह्रुता॒मसि॒ हि दे᳚व वि॒ष्पट् ||{6/8}{1.189.6}{1.24.10.6}{2.5.11.1}{1980, 189, 1980} वि¦घ॒¦त्वाऽवा᳚न्¦ऋ॒त॒ऽजा॒त॒¦यं॒स॒त्¦गृ॒ण॒नः¦अ॒ग्ने॒¦त॒न्वे᳚¦वरू᳚थम् | |
त्वं ताँ, अ॑ग्न उ॒भया॒न् वि वि॒द्वान् वेषि॑ प्रपि॒त्वे मनु॑षो यजत्र |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्} अ॒भि॒पि॒त्वे मन॑वे॒ शास्यो᳚ भूर्मर्मृ॒जेन्य॑ उ॒शिग्भि॒र्नाक्रः ||{7/8}{1.189.7}{1.24.10.7}{2.5.11.2}{1981, 189, 1981} त्वम्¦ताम्¦अ॒ग्ने॒¦उ॒भया᳚न्¦वि¦वि॒द्वान्¦वेषि॑¦प्र॒ऽपि॒त्वे¦मनु॑षः¦य॒ज॒त्र॒ | |
अवो᳚चाम नि॒वच॑नान्यस्मि॒न् मान॑स्य सू॒नुः स॑हसा॒ने, अ॒ग्नौ |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्} व॒यं स॒हस्र॒मृषि॑भिः सनेम वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{8/8}{1.189.8}{1.24.10.8}{2.5.11.3}{1982, 189, 1982} अवो᳚चाम¦नि॒ऽवच॑नानि¦अ॒स्मि॒न्¦मान॑स्य¦सू॒नुः¦स॒ह॒सा॒ने¦अ॒ग्नौ | |
[190] अनर्वाणमित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यो बृहस्पतिस्त्रिष्टुप् | |
अ॒न॒र्वाणं᳚ वृष॒भं म॒न्द्रजि॑ह्वं॒ बृह॒स्पतिं᳚ वर्धया॒ नव्य॑म॒र्कैः |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्} गा॒था॒न्यः॑ सु॒रुचो॒ यस्य॑ दे॒वा, आ᳚शृ॒ण्वन्ति॒ नव॑मानस्य॒ मर्ताः᳚ ||{1/8}{1.190.1}{1.24.11.1}{2.5.12.1}{1983, 190, 1983} अ॒न॒र्वाण᳚म्¦वृ॒ष॒भम्¦म॒न्द्रऽजि॑ह्वम्¦बृह॒स्पति᳚म्¦व॒र्ध॒य॒¦नव्य᳚म्¦अ॒र्कैः | |
तमृ॒त्विया॒, उप॒ वाचः॑ सचन्ते॒ सर्गो॒ न यो दे᳚वय॒तामस॑र्जि |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्} बृह॒स्पतिः॒ स ह्यञ्जो॒ वरां᳚सि॒ विभ्वाभ॑व॒त् समृ॒ते मा᳚त॒रिश्वा᳚ ||{2/8}{1.190.2}{1.24.11.2}{2.5.12.2}{1984, 190, 1984} तम्¦ऋ॒त्वियाः᳚¦उप॑¦वाचः॑¦स॒च॒न्ते॒¦सर्गः॑¦न¦यः¦दे॒व॒ऽय॒ताम्¦अस॑र्जि | |
उप॑स्तुतिं॒ नम॑स॒ उद्य॑तिं च॒ श्लोकं᳚ यंसत् सवि॒तेव॒ प्र बा॒हू |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्} अ॒स्य क्रत्वा᳚ह॒न्यो॒३॑(ओ॒) यो, अस्ति॑ मृ॒गो न भी॒मो, अ॑र॒क्षस॒स्तुवि॑ष्मान् ||{3/8}{1.190.3}{1.24.11.3}{2.5.12.3}{1985, 190, 1985} उप॑ऽस्तुतिम्¦नम॑सः¦उत्ऽय॑तिम्¦च॒¦श्लोक᳚म्¦यं॒स॒त्¦स॒वि॒ताऽइ᳚व¦प्र¦बा॒हू इति॑ | |
अ॒स्य श्लोको᳚ दि॒वीय॑ते पृथि॒व्यामत्यो॒ न यं᳚सद् यक्ष॒भृद् विचे᳚ताः |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्} मृ॒गाणां॒ न हे॒तयो॒ यन्ति॑ चे॒मा बृह॒स्पते॒रहि॑मायाँ, अ॒भि द्यून् ||{4/8}{1.190.4}{1.24.11.4}{2.5.12.4}{1986, 190, 1986} अ॒स्य¦श्लोकः॑¦दि॒वि¦ई॒य॒ते॒¦पृ॒थि॒व्याम्¦अत्यः॑¦न¦यं॒स॒त्¦य॒क्ष॒ऽभृत्¦विऽचे᳚ताः | |
ये त्वा᳚ देवोस्रि॒कं मन्य॑मानाः पा॒पा भ॒द्रमु॑प॒जीव᳚न्ति प॒ज्राः |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्} न दू॒ढ्ये॒३॑(ए॒) अनु॑ ददासि वा॒मं बृह॑स्पते॒ चय॑स॒ इत् पिया᳚रुम् ||{5/8}{1.190.5}{1.24.11.5}{2.5.12.5}{1987, 190, 1987} ये¦त्वा॒¦दे॒व॒¦उ॒स्रि॒कम्¦मन्य॑मानाः¦पा॒पाः¦भ॒द्रम्¦उ॒प॒ऽजीव᳚न्ति¦प॒ज्राः | |
सु॒प्रैतुः॑ सू॒यव॑सो॒ न पन्था᳚ दुर्नि॒यन्तुः॒ परि॑प्रीतो॒ न मि॒त्रः |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्} अ॒न॒र्वाणो᳚, अ॒भि ये चक्ष॑ते॒ नोऽपी᳚वृता, अपोर्णु॒वन्तो᳚, अस्थुः ||{6/8}{1.190.6}{1.24.11.6}{2.5.13.1}{1988, 190, 1988} सु॒ऽप्रैतुः॑¦सु॒ऽयव॑सः¦न¦पन्थाः᳚¦दुः॒ऽनि॒यन्तुः॑¦परि॑ऽप्रीतः¦न¦मि॒त्रः | |
सं यं स्तुभो॒ऽवन॑यो॒ न यन्ति॑ समु॒द्रं न स्र॒वतो॒ रोध॑चक्राः |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्} स वि॒द्वाँ, उ॒भयं᳚ चष्टे, अ॒न्तर्बृह॒स्पति॒स्तर॒ आप॑श्च॒ गृध्रः॑ ||{7/8}{1.190.7}{1.24.11.7}{2.5.13.2}{1989, 190, 1989} सम्¦यम्¦स्तुभः॑¦अ॒वन॑यः¦न¦यन्ति॑¦स॒मु॒द्रम्¦न¦स्र॒वतः॑¦रोध॑ऽचक्राः | |
ए॒वा म॒हस्तु॑विजा॒तस्तुवि॑ष्मा॒न् बृह॒स्पति᳚र्वृष॒भो धा᳚यि दे॒वः |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्} स नः॑ स्तु॒तो वी॒रव॑द् धातु॒ गोम॑द् वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{8/8}{1.190.8}{1.24.11.8}{2.5.13.3}{1990, 190, 1990} ए॒व¦म॒हः¦तु॒वि॒ऽजा॒तः¦तुवि॑ष्मान्¦बृह॒स्पतिः॑¦वृ॒ष॒भः¦धा॒यि॒¦दे॒वः | |
[191] कङ्कतइति षोळशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योप्तृणसूर्याअनुष्टुप् दशम्याद्यास्तिस्रो महापंक्तयस्त्रयोदशी महाबृहती | (विषन्नसूक्तं) | |
कङ्क॑तो॒ न कङ्क॒तोऽथो᳚ सती॒नक᳚ङ्कतः |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्} द्वाविति॒ प्लुषी॒, इति॒ न्य१॑(अ॒)दृष्टा᳚, अलिप्सत ||{1/16}{1.191.1}{1.24.12.1}{2.5.14.1}{1991, 191, 1991} कङ्क॑तः¦न¦कङ्क॑तः¦अथो॒ इति॑¦स॒ती॒नऽक᳚ङ्कतः | द्वौ¦इति॑¦प्लुषी॒ इति॑¦इति॑¦नि¦अ॒दृष्टाः᳚¦अ॒लि॒प्स॒त॒ || |
अ॒दृष्टा᳚न् हन्त्याय॒त्यथो᳚ हन्ति पराय॒ती |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्} अथो᳚, अवघ्न॒ती ह॒न्त्यथो᳚ पिनष्टि पिंष॒ती ||{2/16}{1.191.2}{1.24.12.2}{2.5.14.2}{1992, 191, 1992} अ॒दृष्टा᳚न्¦ह॒न्ति॒¦आ॒ऽय॒ती¦अथो॒ इति॑¦ह॒न्ति॒¦प॒रा॒ऽय॒ती | अथो॒ इति॑¦अ॒व॒ऽघ्न॒ती¦ह॒न्ति॒¦अथो॒ इति॑¦पि॒न॒ष्टि॒¦पिं॒ष॒ती || |
श॒रासः॒ कुश॑रासो द॒र्भासः॑ सै॒र्या, उ॒त |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्} मौ॒ञ्जा, अ॒दृष्टा᳚ वैरि॒णाः सर्वे᳚ सा॒कं न्य॑लिप्सत ||{3/16}{1.191.3}{1.24.12.3}{2.5.14.3}{1993, 191, 1993} श॒रासः॑¦कुश॑रासः¦द॒र्भासः॑¦सै॒र्याः¦उ॒त | मौं॒जाः¦अ॒दृष्टाः᳚¦वै॒रि॒णाः¦सर्वे᳚¦सा॒कम्¦नि¦अ॒लि॒प्स॒त॒ || |
नि गावो᳚ गो॒ष्ठे, अ॑सद॒न् नि मृ॒गासो᳚, अविक्षत |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्} नि के॒तवो॒ जना᳚नां॒ न्य१॑(अ॒)दृष्टा᳚, अलिप्सत ||{4/16}{1.191.4}{1.24.12.4}{2.5.14.4}{1994, 191, 1994} नि¦गावः॑¦गो॒ऽस्थे¦अ॒स॒द॒न्¦नि¦मृ॒गासः॑¦अ॒वि॒क्ष॒त॒ | नि¦के॒तवः॑¦जना᳚नाम्¦नि¦अ॒दृष्टाः᳚¦अ॒लि॒प्स॒त॒ || |
ए॒त उ॒ त्ये प्रत्य॑दृश्रन् प्रदो॒षं तस्क॑रा, इव |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्} अदृ॑ष्टा॒ विश्व॑दृष्टाः॒ प्रति॑बुद्धा, अभूतन ||{5/16}{1.191.5}{1.24.12.5}{2.5.14.5}{1995, 191, 1995} ए॒ते¦ऊँ॒ इति॑¦त्ये¦प्रति॑¦अ॒दृ॒श्र॒न्¦प्र॒ऽदो॒षम्¦तस्क॑राःऽइव | अदृ॑ष्टाः¦विश्व॑ऽदृष्टाः¦प्रति॑ऽबुद्धाः¦अ॒भू॒त॒न॒ || |
द्यौर्वः॑ पि॒ता पृ॑थि॒वी मा॒ता सोमो॒ भ्रातादि॑तिः॒ स्वसा᳚ |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्} अदृ॑ष्टा॒ विश्व॑दृष्टा॒स्तिष्ठ॑ते॒लय॑ता॒ सु क᳚म् ||{6/16}{1.191.6}{1.24.12.6}{2.5.15.1}{1996, 191, 1996} द्यौः¦वः॒¦पि॒ता¦पृ॒थि॒वी¦मा॒ता¦सोमः॑¦भ्राता᳚¦अदि॑तिः¦स्वसा᳚ | अदृ॑ष्टाः¦विश्व॑ऽदृष्टाः¦तिष्ठ॑त¦इ॒लय॑त¦सु¦क॒म् || |
ये, अंस्या॒ ये, अङ्ग्याः᳚ सू॒चीका॒ ये प्र॑कङ्क॒ताः |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्} अदृ॑ष्टाः॒ किं च॒नेह वः॒ सर्वे᳚ सा॒कं नि ज॑स्यत ||{7/16}{1.191.7}{1.24.12.7}{2.5.15.2}{1997, 191, 1997} ये¦अंस्याः᳚¦ये¦अङ्ग्याः᳚¦सू॒चीकाः᳚¦ये¦प्र॒ऽक॒ङ्क॒ताः | अदृ॑ष्टाः¦किम्¦च॒न¦इ॒ह¦वः॒¦सर्वे᳚¦सा॒कम्¦नि¦ज॒स्य॒त॒ || |
उत् पु॒रस्ता॒त् सूर्य॑ एति वि॒श्वदृ॑ष्टो, अदृष्ट॒हा |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्} अ॒दृष्टा॒न् त्सर्वा᳚ञ्ज॒म्भय॒न् त्सर्वा᳚श्च यातुधा॒न्यः॑ ||{8/16}{1.191.8}{1.24.12.8}{2.5.15.3}{1998, 191, 1998} उत्¦पु॒रस्ता᳚त्¦सूर्यः॑¦ए॒ति॒¦वि॒श्वऽदृ॑ष्टः¦अ॒दृ॒ष्ट॒ऽहा | अ॒दृष्टा᳚न्¦सर्वा᳚न्¦ज॒म्भय॑न्¦सर्वाः᳚¦च॒¦या॒तु॒ऽधा॒न्यः॑ || |
उद॑पप्तद॒सौ सूर्यः॑ पु॒रु विश्वा᳚नि॒ जूर्व॑न् |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्} आ॒दि॒त्यः पर्व॑तेभ्यो वि॒श्वदृ॑ष्टो, अदृष्ट॒हा ||{9/16}{1.191.9}{1.24.12.9}{2.5.15.4}{1999, 191, 1999} उत्¦अ॒प॒प्त॒त्¦अ॒सौ¦सूर्यः॑¦पु॒रु¦विश्वा᳚नि¦जूर्व॑न् | आ॒दि॒त्यः¦पर्व॑तेभ्यः¦वि॒श्वऽदृ॑ष्टः¦अ॒दृ॒ष्ट॒ऽहा || |
सूर्ये᳚ वि॒षमा स॑जामि॒ दृतिं॒ सुरा᳚वतो गृ॒हे |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | महापङ्क्तिः} सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒रे, अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ||{10/16}{1.191.10}{1.24.12.10}{2.5.15.5}{2000, 191, 2000} सूर्ये᳚¦वि॒षम्¦आ¦स॒जा॒मि॒¦दृति᳚म्¦सुरा᳚ऽवतः¦गृ॒हे | |
इ॒य॒त्ति॒का श॑कुन्ति॒का स॒का ज॑घास ते वि॒षम् |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | महापङ्क्तिः} सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒रे, अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ||{11/16}{1.191.11}{1.24.12.11}{2.5.16.1}{2001, 191, 2001} इ॒य॒त्ति॒का¦श॒कु॒न्ति॒का¦स॒का¦ज॒घा॒स॒¦ते॒¦वि॒षम् | |
त्रिः स॒प्त वि॑ष्पुलिङ्ग॒का वि॒षस्य॒ पुष्प॑मक्षन् |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | महापङ्क्तिः} ताश्चि॒न्नु न म॑रन्ति॒ नो व॒यं म॑रामा॒रे, अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ||{12/16}{1.191.12}{1.24.12.12}{2.5.16.2}{2002, 191, 2002} त्रिः¦स॒प्त¦वि॒ष्पु॒लि॒ङ्ग॒काः¦वि॒षस्य॑¦पुष्य᳚म्¦अ॒क्ष॒न् | |
न॒वा॒नां न॑वती॒नां वि॒षस्य॒ रोपु॑षीणाम् |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | महाबृहती} सर्वा᳚सामग्रभं॒ नामा॒रे, अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ||{13/16}{1.191.13}{1.24.12.13}{2.5.16.3}{2003, 191, 2003} न॒वा॒नाम्¦न॒व॒ती॒नाम्¦वि॒षस्य॑¦रोपु॑षीणाम् | |
त्रिः स॒प्त म॑यू॒र्यः॑ स॒प्त स्वसा᳚रो, अ॒ग्रुवः॑ |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्} तास्ते᳚ वि॒षं वि ज॑भ्रिर उद॒कं कु॒म्भिनी᳚रिव ||{14/16}{1.191.14}{1.24.12.14}{2.5.16.4}{2004, 191, 2004} त्रिः¦स॒प्त¦म॒यू॒र्यः॑¦स॒प्त¦स्वसा᳚रः¦अ॒ग्रुवः॑ | ताः¦ते॒¦वि॒षम्¦वि¦ज॒भ्रि॒रे॒¦उ॒द॒कम्¦कु॒म्भिनीः᳚ऽइव || |
इ॒य॒त्त॒कः कु॑षुम्भ॒कस्त॒कं भि॑न॒द्म्यश्म॑ना |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्} ततो᳚ वि॒षं प्र वा᳚वृते॒ परा᳚ची॒रनु॑ सं॒वतः॑ ||{15/16}{1.191.15}{1.24.12.15}{2.5.16.5}{2005, 191, 2005} इ॒य॒त्त॒कः¦कु॒षु॒म्भ॒कः¦त॒कम्¦भि॒न॒द्मि॒¦अश्म॑ना | ततः॑¦वि॒षम्¦प्र¦व॒वृ॒ते॒¦परा᳚चीः¦अनु॑¦स॒म्ऽवतः॑ || |
कु॒षु॒म्भ॒कस्तद॑ब्रवीद् गि॒रेः प्र॑वर्तमान॒कः |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्} वृश्चि॑कस्यार॒सं वि॒षम॑र॒सं वृ॑श्चिक ते वि॒षम् ||{16/16}{1.191.16}{1.24.12.16}{2.5.16.6}{2006, 191, 2006} कु॒षु॒म्भ॒कः¦तत्¦अ॒ब्र॒वी॒त्¦गि॒रेः¦प्र॒ऽव॒र्त॒मा॒न॒कः | वृश्चि॑कस्य¦अ॒र॒सम्¦वि॒षम्¦अ॒र॒सम्¦वृ॒श्चि॒क॒¦ते॒¦वि॒षम् || |