|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||

|| ऋग्वेद संहिता (मंडल: 04) ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
Mantra classification is following this convention{मंडल,सूक्त,मंत्र}{मंडल,अनुवाक,सूक्त,मंत्र}{अष्टक,अध्याय,वर्ग,मंत्र}{मंडल मन्त्र संख्या,ऋक्संहित सूक्त संख्या,ऋक्संहित मन्त्र संख्या}
[Last updated on: 16-Mar-2025]

[1] त्वांह्यग्नइति विंशत्यृचस्य सूक्तस्य गौतमोवामदेवोग्निर्द्वितीयादिचतसृणामग्निवरुणौ त्रिष्टुप् आद्यास्तिस्रः क्रमेणाष्ट्यतिजगतीधृतयः |
त्वां ह्य॑ग्ने॒ सद॒मित्‌ स॑म॒न्यवो᳚ दे॒वासो᳚ दे॒वम॑र॒तिं न्ये᳚रि॒र इति॒ क्रत्वा᳚ न्येरि॒रे |{गौतमो वामदेवः | अग्निः | अष्टिः}

अम॑र्त्यं यजत॒ मर्त्ये॒ष्वा दे॒वमादे᳚वं जनत॒ प्रचे᳚तसं॒ विश्व॒मादे᳚वं जनत॒ प्रचे᳚तसम् ||{1/20}{4.1.1}{4.1.1.1}{3.4.12.1}{1, 297, 3053}

स भ्रात॑रं॒ वरु॑णमग्न॒ आ व॑वृत्स्व दे॒वाँ, अच्छा᳚ सुम॒ती य॒ज्ञव॑नसं॒ ज्येष्ठं᳚ य॒ज्ञव॑नसम् |{गौतमो वामदेवः | अग्निः वरुणौ | अतिजगती}

ऋ॒तावा᳚नमादि॒त्यं च॑र्षणी॒धृतं॒ राजा᳚नं चर्षणी॒धृत᳚म् ||{2/20}{4.1.2}{4.1.1.2}{3.4.12.2}{2, 297, 3054}

सखे॒ सखा᳚यम॒भ्या व॑वृत्स्वा॒शुं न च॒क्रं रथ्ये᳚व॒ रंह्या॒स्मभ्यं᳚ दस्म॒ रंह्या᳚ |{गौतमो वामदेवः | अग्निः वरुणौ | धृतिः}

अग्ने᳚ मृळी॒कं वरु॑णे॒ सचा᳚ विदो म॒रुत्सु॑ वि॒श्वभा᳚नुषु |{गौतमो वामदेवः | अग्निः वरुणौ | धृतिः}

तो॒काय॑ तु॒जे शु॑शुचान॒ शं कृ॑ध्य॒स्मभ्यं᳚ दस्म॒ शं कृ॑धि ||{3/20}{4.1.3}{4.1.1.3}{3.4.12.3}{3, 297, 3055}

त्वं नो᳚, अग्ने॒ वरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेळोऽव॑ यासिसीष्ठाः |{गौतमो वामदेवः | अग्निः वरुणौ | त्रिष्टुप्}

यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषां᳚सि॒ प्र मु॑मुग्ध्य॒स्मत् ||{4/20}{4.1.4}{4.1.1.4}{3.4.12.4}{4, 297, 3056}

स त्वं नो᳚, अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो, अ॒स्या, उ॒षसो॒ व्यु॑ष्टौ |{गौतमो वामदेवः | अग्निः वरुणौ | त्रिष्टुप्}

अव॑ यक्ष्व नो॒ वरु॑णं॒ ररा᳚णो वी॒हि मृ॑ळी॒कं सु॒हवो᳚ न एधि ||{5/20}{4.1.5}{4.1.1.5}{3.4.12.5}{5, 297, 3057}

अ॒स्य श्रेष्ठा᳚ सु॒भग॑स्य सं॒दृग् दे॒वस्य॑ चि॒त्रत॑मा॒ मर्त्ये᳚षु |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

शुचि॑ घृ॒तं न त॒प्तमघ्न्या᳚याः स्पा॒र्हा दे॒वस्य॑ मं॒हने᳚व धे॒नोः ||{6/20}{4.1.6}{4.1.1.6}{3.4.13.1}{6, 297, 3058}

त्रिर॑स्य॒ ता प॑र॒मा स᳚न्ति स॒त्या स्पा॒र्हा दे॒वस्य॒ जनि॑मान्य॒ग्नेः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अ॒न॒न्ते, अ॒न्तः परि॑वीत॒ आगा॒च्छुचिः॑ शु॒क्रो, अ॒र्यो रोरु॑चानः ||{7/20}{4.1.7}{4.1.1.7}{3.4.13.2}{7, 297, 3059}

स दू॒तो विश्वेद॒भि व॑ष्टि॒ सद्मा॒ होता॒ हिर᳚ण्यरथो॒ रंसु॑जिह्वः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

रो॒हिद॑श्वो वपु॒ष्यो᳚ वि॒भावा॒ सदा᳚ र॒ण्वः पि॑तु॒मती᳚व सं॒सत् ||{8/20}{4.1.8}{4.1.1.8}{3.4.13.3}{8, 297, 3060}

स चे᳚तय॒न्मनु॑षो य॒ज्ञब᳚न्धुः॒ प्र तं म॒ह्या र॑श॒नया᳚ नयन्ति |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

स क्षे᳚त्यस्य॒ दुर्या᳚सु॒ साध᳚न् दे॒वो मर्त॑स्य सधनि॒त्वमा᳚प ||{9/20}{4.1.9}{4.1.1.9}{3.4.13.4}{9, 297, 3061}

स तू नो᳚, अ॒ग्निर्न॑यतु प्रजा॒नन्नच्छा॒ रत्नं᳚ दे॒वभ॑क्तं॒ यद॑स्य |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

धि॒या यद्‌ विश्वे᳚, अ॒मृता॒, अकृ᳚ण्व॒न् द्यौष्पि॒ता ज॑नि॒ता स॒त्यमु॑क्षन् ||{10/20}{4.1.10}{4.1.1.10}{3.4.13.5}{10, 297, 3062}

स जा᳚यत प्रथ॒मः प॒स्त्या᳚सु म॒हो बु॒ध्ने रज॑सो, अ॒स्य योनौ᳚ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अ॒पाद॑शी॒र्षा गु॒हमा᳚नो॒, अन्ता॒योयु॑वानो वृष॒भस्य॑ नी॒ळे ||{11/20}{4.1.11}{4.1.1.11}{3.4.14.1}{11, 297, 3063}

प्र शर्ध॑ आर्त प्रथ॒मं वि॑प॒न्याँ, ऋ॒तस्य॒ योना᳚ वृष॒भस्य॑ नी॒ळे |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

स्पा॒र्हो युवा᳚ वपु॒ष्यो᳚ वि॒भावा᳚ स॒प्त प्रि॒यासो᳚ऽजनयन्त॒ वृष्णे᳚ ||{12/20}{4.1.12}{4.1.1.12}{3.4.14.2}{12, 297, 3064}

अ॒स्माक॒मत्र॑ पि॒तरो᳚ मनु॒ष्या᳚, अ॒भि प्र से᳚दुरृ॒तमा᳚शुषा॒णाः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अश्म᳚व्रजाः सु॒दुघा᳚ व॒व्रे, अ॒न्तरुदु॒स्रा, आ᳚जन्नु॒षसो᳚ हुवा॒नाः ||{13/20}{4.1.13}{4.1.1.13}{3.4.14.3}{13, 297, 3065}

ते म᳚र्मृजत ददृ॒वांसो॒, अद्रिं॒ तदे᳚षाम॒न्ये, अ॒भितो॒ वि वो᳚चन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

प॒श्वय᳚न्त्रासो, अ॒भि का॒रम॑र्चन् वि॒दन्त॒ ज्योति॑श्चकृ॒पन्त॑ धी॒भिः ||{14/20}{4.1.14}{4.1.1.14}{3.4.14.4}{14, 297, 3066}

ते ग᳚व्य॒ता मन॑सा दृ॒ध्रमु॒ब्धं गा ये᳚मा॒नं परि॒ षन्त॒मद्रि᳚म् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दृ॒ळ्हं नरो॒ वच॑सा॒ दैव्ये᳚न व्र॒जं गोम᳚न्तमु॒शिजो॒ वि व᳚व्रुः ||{15/20}{4.1.15}{4.1.1.15}{3.4.14.5}{15, 297, 3067}

ते म᳚न्वत प्रथ॒मं नाम॑ धे॒नोस्त्रिः स॒प्त मा॒तुः प॑र॒माणि॑ विन्दन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

तज्जा᳚न॒तीर॒भ्य॑नूषत॒ व्रा, आ॒विर्भु॑वदरु॒णीर्य॒शसा॒ गोः ||{16/20}{4.1.16}{4.1.1.16}{3.4.15.1}{16, 297, 3068}

नेश॒त्तमो॒ दुधि॑तं॒ रोच॑त॒ द्यौरुद्दे॒व्या, उ॒षसो᳚ भा॒नुर॑र्त |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

आ सूर्यो᳚ बृह॒तस्ति॑ष्ठ॒दज्राँ᳚, ऋ॒जु मर्ते᳚षु वृजि॒ना च॒ पश्य॑न् ||{17/20}{4.1.17}{4.1.1.17}{3.4.15.2}{17, 297, 3069}

आदित्‌ प॒श्चा बु॑बुधा॒ना व्य॑ख्य॒न्नादिद्‌ रत्नं᳚ धारयन्त॒ द्युभ॑क्तम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

विश्वे॒ विश्वा᳚सु॒ दुर्या᳚सु दे॒वा मित्र॑ धि॒ये व॑रुण स॒त्यम॑स्तु ||{18/20}{4.1.18}{4.1.1.18}{3.4.15.3}{18, 297, 3070}

अच्छा᳚ वोचेय शुशुचा॒नम॒ग्निं होता᳚रं वि॒श्वभ॑रसं॒ यजि॑ष्ठम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

शुच्यूधो᳚, अतृण॒न्न गवा॒मन्धो॒ न पू॒तं परि॑षिक्तमं॒शोः ||{19/20}{4.1.19}{4.1.1.19}{3.4.15.4}{19, 297, 3071}

विश्वे᳚षा॒मदि॑तिर्य॒ज्ञिया᳚नां॒ विश्वे᳚षा॒मति॑थि॒र्मानु॑षाणाम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अ॒ग्निर्दे॒वाना॒मव॑ आवृणा॒नः सु॑मृळी॒को भ॑वतु जा॒तवे᳚दाः ||{20/20}{4.1.20}{4.1.1.20}{3.4.15.5}{20, 297, 3072}

[2] योमर्त्येष्विति विंशत्यृचस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |
यो मर्त्ये᳚ष्व॒मृत॑ ऋ॒तावा᳚ दे॒वो दे॒वेष्व॑र॒तिर्नि॒धायि॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

होता॒ यजि॑ष्ठो म॒ह्ना शु॒चध्यै᳚ ह॒व्यैर॒ग्निर्मनु॑ष ईर॒यध्यै᳚ ||{1/20}{4.2.1}{4.1.2.1}{3.4.16.1}{21, 298, 3073}

इ॒ह त्वं सू᳚नो सहसो नो, अ॒द्य जा॒तो जा॒ताँ, उ॒भयाँ᳚, अ॒न्तर॑ग्ने |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दू॒त ई᳚यसे युयुजा॒न ऋ॑ष्व ऋजुमु॒ष्कान्‌ वृष॑णः शु॒क्राँश्च॑ ||{2/20}{4.2.2}{4.1.2.2}{3.4.16.2}{22, 298, 3074}

अत्या᳚ वृध॒स्नू रोहि॑ता घृ॒तस्नू᳚ ऋ॒तस्य॑ मन्ये॒ मन॑सा॒ जवि॑ष्ठा |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अ॒न्तरी᳚यसे, अरु॒षा यु॑जा॒नो यु॒ष्माँश्च॑ दे॒वान्‌ विश॒ आ च॒ मर्ता॑न् ||{3/20}{4.2.3}{4.1.2.3}{3.4.16.3}{23, 298, 3075}

अ॒र्य॒मणं॒ वरु॑णं मि॒त्रमे᳚षा॒मिन्द्रा॒विष्णू᳚ म॒रुतो᳚, अ॒श्विनो॒त |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

स्वश्वो᳚, अग्ने सु॒रथः॑ सु॒राधा॒, एदु॑ वह सुह॒विषे॒ जना᳚य ||{4/20}{4.2.4}{4.1.2.4}{3.4.16.4}{24, 298, 3076}

गोमाँ᳚, अ॒ग्नेऽवि॑माँ, अ॒श्वी य॒ज्ञो नृ॒वत्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

इळा᳚वाँ, ए॒षो, अ॑सुर प्र॒जावा᳚न् दी॒र्घो र॒यिः पृ॑थुबु॒ध्नः स॒भावा॑न् ||{5/20}{4.2.5}{4.1.2.5}{3.4.16.5}{25, 298, 3077}

यस्त॑ इ॒ध्मं ज॒भर॑त्‌ सिष्विदा॒नो मू॒र्धानं᳚ वा त॒तप॑ते त्वा॒या |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

भुव॒स्तस्य॒ स्वत॑वाँः पा॒युर॑ग्ने॒ विश्व॑स्मात्‌ सीमघाय॒त उ॑रुष्य ||{6/20}{4.2.6}{4.1.2.6}{3.4.17.1}{26, 298, 3078}

यस्ते॒ भरा॒दन्नि॑यते चि॒दन्नं᳚ नि॒शिष᳚न्म॒न्द्रमति॑थिमु॒दीर॑त् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

आ दे᳚व॒युरि॒नध॑ते दुरो॒णे तस्मि᳚न्‌ र॒यिर्ध्रु॒वो, अ॑स्तु॒ दास्वा॑न् ||{7/20}{4.2.7}{4.1.2.7}{3.4.17.2}{27, 298, 3079}

यस्त्वा᳚ दो॒षा य उ॒षसि॑ प्र॒शंसा᳚त् प्रि॒यं वा᳚ त्वा कृ॒णव॑ते ह॒विष्मा॑न् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अश्वो॒ न स्वे दम॒ आ हे॒म्यावा॒न् तमंह॑सः पीपरो दा॒श्वांस᳚म् ||{8/20}{4.2.8}{4.1.2.8}{3.4.17.3}{28, 298, 3080}

यस्तुभ्य॑मग्ने, अ॒मृता᳚य॒ दाश॒द् दुव॒स्त्वे कृ॒णव॑ते य॒तस्रु॑क् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

न स रा॒या श॑शमा॒नो वि यो᳚ष॒न्नैन॒मंहः॒ परि॑ वरदघा॒योः ||{9/20}{4.2.9}{4.1.2.9}{3.4.17.4}{29, 298, 3081}

यस्य॒ त्वम॑ग्ने, अध्व॒रं जुजो᳚षो दे॒वो मर्त॑स्य॒ सुधि॑तं॒ ररा᳚णः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

प्री॒तेद॑स॒द्धोत्रा॒ सा य॑वि॒ष्ठाऽसा᳚म॒ यस्य॑ विध॒तो वृ॒धासः॑ ||{10/20}{4.2.10}{4.1.2.10}{3.4.17.5}{30, 298, 3082}

चित्ति॒मचि॑त्तिं चिनव॒द्‌ वि वि॒द्वान् पृ॒ष्ठेव॑ वी॒ता वृ॑जि॒ना च॒ मर्ता॑न् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

रा॒ये च॑ नः स्वप॒त्याय॑ देव॒ दितिं᳚ च॒ रास्वादि॑तिमुरुष्य ||{11/20}{4.2.11}{4.1.2.11}{3.4.18.1}{31, 298, 3083}

क॒विं श॑शासुः क॒वयोऽद॑ब्धा निधा॒रय᳚न्तो॒ दुर्या᳚स्वा॒योः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अत॒स्त्वं दृश्याँ᳚, अग्न ए॒तान् प॒ड्भिः प॑श्ये॒रद्भु॑ताँ, अ॒र्य एवैः᳚ ||{12/20}{4.2.12}{4.1.2.12}{3.4.18.2}{32, 298, 3084}

त्वम॑ग्ने वा॒घते᳚ सु॒प्रणी᳚तिः सु॒तसो᳚माय विध॒ते य॑विष्ठ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

रत्नं᳚ भर शशमा॒नाय॑ घृष्वे पृ॒थु श्च॒न्द्रमव॑से चर्षणि॒प्राः ||{13/20}{4.2.13}{4.1.2.13}{3.4.18.3}{33, 298, 3085}

अधा᳚ ह॒ यद्‌ व॒यम॑ग्ने त्वा॒या प॒ड्भिर्हस्ते᳚भिश्चकृ॒मा त॒नूभिः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

रथं॒ न क्रन्तो॒, अप॑सा भु॒रिजो᳚रृ॒तं ये᳚मुः सु॒ध्य॑ आशुषा॒णाः ||{14/20}{4.2.14}{4.1.2.14}{3.4.18.4}{34, 298, 3086}

अधा᳚ मा॒तुरु॒षसः॑ स॒प्त विप्रा॒ जाये᳚महि प्रथ॒मा वे॒धसो॒ नॄन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दि॒वस्पु॒त्रा, अङ्गि॑रसो भवे॒माऽद्रिं᳚ रुजेम ध॒निनं᳚ शु॒चन्तः॑ ||{15/20}{4.2.15}{4.1.2.15}{3.4.18.5}{35, 298, 3087}

अधा॒ यथा᳚ नः पि॒तरः॒ परा᳚सः प्र॒त्नासो᳚, अग्न ऋ॒तमा᳚शुषा॒णाः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

शुचीद॑य॒न्‌ दीधि॑तिमुक्थ॒शासः॒, क्षामा᳚ भि॒न्दन्तो᳚, अरु॒णीरप᳚ व्रन् ||{16/20}{4.2.16}{4.1.2.16}{3.4.19.1}{36, 298, 3088}

सु॒कर्मा᳚णः सु॒रुचो᳚ देव॒यन्तोऽयो॒ न दे॒वा जनि॑मा॒ धम᳚न्तः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

शु॒चन्तो᳚, अ॒ग्निं व॑वृ॒धन्त॒ इन्द्र॑मू॒र्वं गव्यं᳚ परि॒षद᳚न्तो, अग्मन् ||{17/20}{4.2.17}{4.1.2.17}{3.4.19.2}{37, 298, 3089}

आ यू॒थेव॑ क्षु॒मति॑ प॒श्वो, अ॑ख्यद् दे॒वानां॒ यज्जनि॒मान्त्यु॑ग्र |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

मर्ता᳚नां चिदु॒र्वशी᳚रकृप्रन् वृ॒धे चि॑द॒र्य उप॑रस्या॒योः ||{18/20}{4.2.18}{4.1.2.18}{3.4.19.3}{38, 298, 3090}

अक᳚र्म ते॒ स्वप॑सो, अभूम ऋ॒तम॑वस्रन्नु॒षसो᳚ विभा॒तीः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अनू᳚नम॒ग्निं पु॑रु॒धा सु॑श्च॒न्द्रं दे॒वस्य॒ मर्मृ॑जत॒श्चारु॒ चक्षुः॑ ||{19/20}{4.2.19}{4.1.2.19}{3.4.19.4}{39, 298, 3091}

ए॒ता ते᳚, अग्न उ॒चथा᳚नि वे॒धोऽवो᳚चाम क॒वये॒ ता जु॑षस्व |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

उच्छो᳚चस्व कृणु॒हि वस्य॑सो नो म॒हो रा॒यः पु॑रुवार॒ प्र य᳚न्धि ||{20/20}{4.2.20}{4.1.2.20}{3.4.19.5}{40, 298, 3092}

[3] आवोराजानमिति षोडशर्चस्य सूक्तस्य गौतमोवामदेव आद्यायारुद्रोद्वितीयादीनामग्निस्त्रिष्टुप् |
आ वो॒ राजा᳚नमध्व॒रस्य॑ रु॒द्रं होता᳚रं सत्य॒यजं॒ रोद॑स्योः |{गौतमो वामदेवः | रुद्रः, अग्निः | त्रिष्टुप्}

अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर᳚ण्यरूप॒मव॑से कृणुध्वम् ||{1/16}{4.3.1}{4.1.3.1}{3.4.20.1}{41, 299, 3093}

अ॒यं योनि॑श्चकृ॒मा यं व॒यं ते᳚ जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः᳚ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अ॒र्वा॒ची॒नः परि॑वीतो॒ नि षी᳚दे॒मा, उ॑ ते स्वपाक प्रती॒चीः ||{2/16}{4.3.2}{4.1.3.2}{3.4.20.2}{42, 299, 3094}

आ॒शृ॒ण्व॒ते, अदृ॑पिताय॒ मन्म॑ नृ॒चक्ष॑से सुमृळी॒काय॑ वेधः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दे॒वाय॑ श॒स्तिम॒मृता᳚य शंस॒ ग्रावे᳚व॒ सोता᳚ मधु॒षुद्‌ यमी॒ळे ||{3/16}{4.3.3}{4.1.3.3}{3.4.20.3}{43, 299, 3095}

त्वं चि᳚न्नः॒ शम्या᳚, अग्ने, अ॒स्या, ऋ॒तस्य॑ बोध्यृतचित्‌ स्वा॒धीः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

क॒दा त॑ उ॒क्था स॑ध॒माद्या᳚नि क॒दा भ॑वन्ति स॒ख्या गृ॒हे ते᳚ ||{4/16}{4.3.4}{4.1.3.4}{3.4.20.4}{44, 299, 3096}

क॒था ह॒ तद्‌ वरु॑णाय॒ त्वम॑ग्ने क॒था दि॒वे ग᳚र्हसे॒ कन्न॒ आगः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

क॒था मि॒त्राय॑ मी॒ळ्हुषे᳚ पृथि॒व्यै ब्रवः॒ कद᳚र्य॒म्णे कद्‌ भगा᳚य ||{5/16}{4.3.5}{4.1.3.5}{3.4.20.5}{45, 299, 3097}

कद्‌ धिष्ण्या᳚सु वृधसा॒नो, अ॑ग्ने॒ कद्‌ वाता᳚य॒ प्रत॑वसे शुभं॒ये |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

परि॑ज्मने॒ नास॑त्याय॒ क्षे ब्रवः॒ कद॑ग्ने रु॒द्राय॑ नृ॒घ्ने ||{6/16}{4.3.6}{4.1.3.6}{3.4.21.1}{46, 299, 3098}

क॒था म॒हे पु॑ष्टिम्भ॒राय॑ पू॒ष्णे कद्‌ रु॒द्राय॒ सुम॑खाय हवि॒र्दे |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

कद्‌ विष्ण॑व उरुगा॒याय॒ रेतो॒ ब्रवः॒ कद॑ग्ने॒ शर॑वे बृह॒त्यै ||{7/16}{4.3.7}{4.1.3.7}{3.4.21.2}{47, 299, 3099}

क॒था शर्धा᳚य म॒रुता᳚मृ॒ताय॑ क॒था सू॒रे बृ॑ह॒ते पृ॒च्छ्यमा᳚नः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

प्रति॑ ब्र॒वोऽदि॑तये तु॒राय॒ साधा᳚ दि॒वो जा᳚तवेदश्चिकि॒त्वान् ||{8/16}{4.3.8}{4.1.3.8}{3.4.21.3}{48, 299, 3100}

ऋ॒तेन॑ ऋ॒तं निय॑तमीळ॒ आ गोरा॒मा सचा॒ मधु॑मत्‌ प॒क्वम॑ग्ने |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

कृ॒ष्णा स॒ती रुश॑ता धा॒सिनै॒षा जाम᳚र्येण॒ पय॑सा पीपाय ||{9/16}{4.3.9}{4.1.3.9}{3.4.21.4}{49, 299, 3101}

ऋ॒तेन॒ हि ष्मा᳚ वृष॒भश्चि॑द॒क्तः पुमाँ᳚, अ॒ग्निः पय॑सा पृ॒ष्ठ्ये᳚न |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अस्प᳚न्दमानो, अचरद्‌ वयो॒धा वृषा᳚ शु॒क्रं दु॑दुहे॒ पृश्नि॒रूधः॑ ||{10/16}{4.3.10}{4.1.3.10}{3.4.21.5}{50, 299, 3102}

ऋ॒तेनाद्रिं॒ व्य॑सन्‌ भि॒दन्तः॒ समङ्गि॑रसो नवन्त॒ गोभिः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

शु॒नं नरः॒ परि॑ षदन्नु॒षास॑मा॒विः स्व॑रभवज्जा॒ते, अ॒ग्नौ ||{11/16}{4.3.11}{4.1.3.11}{3.4.22.1}{51, 299, 3103}

ऋ॒तेन॑ दे॒वीर॒मृता॒, अमृ॑क्ता॒, अर्णो᳚भि॒रापो॒ मधु॑मद्भिरग्ने |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

वा॒जी न सर्गे᳚षु प्रस्तुभा॒नः प्र सद॒मित्‌ स्रवि॑तवे दधन्युः ||{12/16}{4.3.12}{4.1.3.12}{3.4.22.2}{52, 299, 3104}

मा कस्य॑ य॒क्षं सद॒मिद्धु॒रो गा॒ मा वे॒शस्य॑ प्रमिन॒तो मापेः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

मा भ्रातु॑रग्ने॒, अनृ॑जोरृ॒णं वे॒र्मा सख्यु॒र्दक्षं᳚ रि॒पोर्भु॑जेम ||{13/16}{4.3.13}{4.1.3.13}{3.4.22.3}{53, 299, 3105}

रक्षा᳚ णो, अग्ने॒ तव॒ रक्ष॑णेभी रारक्षा॒णः सु॑मख प्रीणा॒नः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

प्रति॑ ष्फुर॒ वि रु॑ज वी॒ड्वंहो᳚ ज॒हि रक्षो॒ महि॑ चिद्‌ वावृधा॒नम् ||{14/16}{4.3.14}{4.1.3.14}{3.4.22.4}{54, 299, 3106}

ए॒भिर्भ॑व सु॒मना᳚, अग्ने, अ॒र्कैरि॒मान्‌ त्स्पृ॑श॒ मन्म॑भिः शूर॒ वाजा॑न् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

उ॒त ब्रह्मा᳚ण्यङ्गिरो जुषस्व॒ सं ते᳚ श॒स्तिर्दे॒ववा᳚ता जरेत ||{15/16}{4.3.15}{4.1.3.15}{3.4.22.5}{55, 299, 3107}

ए॒ता विश्वा᳚ वि॒दुषे॒ तुभ्यं᳚ वेधो नी॒थान्य॑ग्ने नि॒ण्या वचां᳚सि |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

नि॒वच॑ना क॒वये॒ काव्या॒न्यशं᳚सिषं म॒तिभि॒र्विप्र॑ उ॒क्थैः ||{16/16}{4.3.16}{4.1.3.16}{3.4.22.6}{56, 299, 3108}

[4] कृणुष्वेति पंचदशर्चस्य सूक्तस्य गौतमोवामदेवोरक्षोहाग्निस्त्रिष्टुप् |
कृ॒णु॒ष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वाँ॒, इभे᳚न |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता᳚सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ||{1/15}{4.4.1}{4.1.4.1}{3.4.23.1}{57, 300, 3109}

तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

तपूं᳚ष्यग्ने जु॒ह्वा᳚ पतं॒गानसं᳚दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ||{2/15}{4.4.2}{4.1.4.2}{3.4.23.2}{58, 300, 3110}

प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा᳚ पा॒युर्वि॒शो, अ॒स्या, अद॑ब्धः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

यो नो᳚ दू॒रे, अ॒घशं᳚सो॒ यो, अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्षीत् ||{3/15}{4.4.3}{4.1.4.3}{3.4.23.3}{59, 300, 3111}

उद॑ग्ने तिष्ठ॒ प्रत्या त॑नुष्व॒ न्य१॑(अ॒)मित्राँ᳚, ओषतात्तिग्महेते |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

यो नो॒, अरा᳚तिं समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सन्न शुष्क᳚म् ||{4/15}{4.4.4}{4.1.4.4}{3.4.23.4}{60, 300, 3112}

ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या᳚न्यग्ने |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

अव॑ स्थि॒रा त॑नुहि यातु॒जूनां᳚ जा॒मिमजा᳚मिं॒ प्र मृ॑णीहि॒ शत्रू॑न् ||{5/15}{4.4.5}{4.1.4.5}{3.4.23.5}{61, 300, 3113}

स ते᳚ जानाति सुम॒तिं य॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

विश्वा᳚न्यस्मै सु॒दिना᳚नि रा॒यो द्यु॒म्नान्य॒र्यो वि दुरो᳚, अ॒भि द्यौ᳚त् ||{6/15}{4.4.6}{4.1.4.6}{3.4.24.1}{62, 300, 3114}

सेद॑ग्ने, अस्तु सु॒भगः॑ सु॒दानु॒र्यस्त्वा॒ नित्ये᳚न ह॒विषा॒ य उ॒क्थैः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

पिप्री᳚षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ सास॑दि॒ष्टिः ||{7/15}{4.4.7}{4.1.4.7}{3.4.24.2}{63, 300, 3115}

अर्चा᳚मि ते सुम॒तिं घोष्य॒र्वाक् सं ते᳚ वा॒वाता᳚ जरतामि॒यं गीः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

स्वश्वा᳚स्त्वा सु॒रथा᳚ मर्जयेमा॒ऽस्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून् ||{8/15}{4.4.8}{4.1.4.8}{3.4.24.3}{64, 300, 3116}

इ॒ह त्वा॒ भूर्या च॑रे॒दुप॒ त्मन् दोषा᳚वस्तर्दीदि॒वांस॒मनु॒ द्यून् |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

क्रीळ᳚न्तस्त्वा सु॒मन॑सः सपेमा॒ऽभि द्यु॒म्ना त॑स्थि॒वांसो॒ जना᳚नाम् ||{9/15}{4.4.9}{4.1.4.9}{3.4.24.4}{65, 300, 3117}

यस्त्वा॒ स्वश्वः॑ सुहिर॒ण्यो, अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे᳚न |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा᳚नु॒षग्‌ जुजो᳚षत् ||{10/15}{4.4.10}{4.1.4.10}{3.4.24.5}{66, 300, 3118}

म॒हो रु॑जामि ब॒न्धुता॒ वचो᳚भि॒स्तन्मा᳚ पि॒तुर्गोत॑मा॒दन्वि॑याय |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

त्वं नो᳚, अ॒स्य वच॑सश्चिकिद्धि॒ होत᳚र्यविष्ठ सुक्रतो॒ दमू᳚नाः ||{11/15}{4.4.11}{4.1.4.11}{3.4.25.1}{67, 300, 3119}

अस्व॑प्नजस्त॒रण॑यः सु॒शेवा॒, अत᳚न्द्रासोऽवृ॒का, अश्र॑मिष्ठाः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

ते पा॒यवः॑ स॒ध्र्य᳚ञ्चो नि॒षद्याऽग्ने॒ तव॑ नः पान्त्वमूर ||{12/15}{4.4.12}{4.1.4.12}{3.4.25.2}{68, 300, 3120}

ये पा॒यवो᳚ मामते॒यं ते᳚, अग्ने॒ पश्य᳚न्तो, अ॒न्धं दु॑रि॒तादर॑क्षन् |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

र॒रक्ष॒ तान्‌ त्सु॒कृतो᳚ वि॒श्ववे᳚दा॒ दिप्स᳚न्त॒ इद्‌ रि॒पवो॒ नाह॑ देभुः ||{13/15}{4.4.13}{4.1.4.13}{3.4.25.3}{69, 300, 3121}

त्वया᳚ व॒यं स॑ध॒न्य१॑(अ॒)स्त्वोता॒स्तव॒ प्रणी᳚त्यश्याम॒ वाजा॑न् |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

उ॒भा शंसा᳚ सूदय सत्यताते ऽनुष्ठु॒या कृ॑णुह्यह्रयाण ||{14/15}{4.4.14}{4.1.4.14}{3.4.25.4}{70, 300, 3122}

अ॒या ते᳚, अग्ने स॒मिधा᳚ विधेम॒ प्रति॒ स्तोमं᳚ श॒स्यमा᳚नं गृभाय |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

दहा॒शसो᳚ र॒क्षसः॑ पा॒ह्य१॑(अ॒)स्मान् द्रु॒हो नि॒दो मि॑त्रमहो, अव॒द्यात् ||{15/15}{4.4.15}{4.1.4.15}{3.4.25.5}{71, 300, 3123}

[5] वैश्वानरायेतिपंचदशर्चस्य सूक्तस्य गौतमोवामदेवोवैश्वानरोग्निस्त्रिष्टुप् |
वै॒श्वा॒न॒राय॑ मी॒ळ्हुषे᳚ स॒जोषाः᳚ क॒था दा᳚शेमा॒ग्नये᳚ बृ॒हद्भाः |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

अनू᳚नेन बृह॒ता व॒क्षथे॒नोप॑ स्तभायदुप॒मिन्न रोधः॑ ||{1/15}{4.5.1}{4.1.5.1}{3.5.1.1}{72, 301, 3124}

मा नि᳚न्दत॒ य इ॒मां मह्यं᳚ रा॒तिं दे॒वो द॒दौ मर्त्या᳚य स्व॒धावा॑न् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

पाका᳚य॒ गृत्सो᳚, अ॒मृतो॒ विचे᳚ता वैश्वान॒रो नृत॑मो य॒ह्वो, अ॒ग्निः ||{2/15}{4.5.2}{4.1.5.2}{3.5.1.2}{73, 301, 3125}

साम॑ द्वि॒बर्हा॒ महि॑ ति॒ग्मभृ॑ष्टिः स॒हस्र॑रेता वृष॒भस्तुवि॑ष्मान् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

प॒दं न गोरप॑गूळ्हं विवि॒द्वान॒ग्निर्मह्यं॒ प्रेदु॑ वोचन्मनी॒षाम् ||{3/15}{4.5.3}{4.1.5.3}{3.5.1.3}{74, 301, 3126}

प्र ताँ, अ॒ग्निर्ब॑भसत्ति॒ग्मज᳚म्भ॒स्तपि॑ष्ठेन शो॒चिषा॒ यः सु॒राधाः᳚ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

प्र ये मि॒नन्ति॒ वरु॑णस्य॒ धाम॑ प्रि॒या मि॒त्रस्य॒ चेत॑तो ध्रु॒वाणि॑ ||{4/15}{4.5.4}{4.1.5.4}{3.5.1.4}{75, 301, 3127}

अ॒भ्रा॒तरो॒ न योष॑णो॒ व्यन्तः॑ पति॒रिपो॒ न जन॑यो दु॒रेवाः᳚ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

पा॒पासः॒ सन्तो᳚, अनृ॒ता, अ॑स॒त्या, इ॒दं प॒दम॑जनता गभी॒रम् ||{5/15}{4.5.5}{4.1.5.5}{3.5.1.5}{76, 301, 3128}

इ॒दं मे᳚, अग्ने॒ किय॑ते पाव॒काऽमि॑नते गु॒रुं भा॒रं न मन्म॑ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

बृ॒हद्द॑धाथ धृष॒ता ग॑भी॒रं य॒ह्वं पृ॒ष्ठं प्रय॑सा स॒प्तधा᳚तु ||{6/15}{4.5.6}{4.1.5.6}{3.5.2.1}{77, 301, 3129}

तमिन्न्वे॒३॑(ए॒)व स॑म॒ना स॑मा॒नम॒भि क्रत्वा᳚ पुन॒ती धी॒तिर॑श्याः |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

स॒सस्य॒ चर्म॒न्नधि॒ चारु॒ पृश्ने॒रग्रे᳚ रु॒प आरु॑पितं॒ जबा᳚रु ||{7/15}{4.5.7}{4.1.5.7}{3.5.2.2}{78, 301, 3130}

प्र॒वाच्यं॒ वच॑सः॒ किं मे᳚, अ॒स्य गुहा᳚ हि॒तमुप॑ नि॒णिग्‌ व॑दन्ति |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

यदु॒स्रिया᳚णा॒मप॒ वारि॑व॒ व्रन् पाति॑ प्रि॒यं रु॒पो, अग्रं᳚ प॒दं वेः ||{8/15}{4.5.8}{4.1.5.8}{3.5.2.3}{79, 301, 3131}

इ॒दमु॒ त्यन्महि॑ म॒हामनी᳚कं॒ यदु॒स्रिया॒ सच॑त पू॒र्व्यं गौः |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

ऋ॒तस्य॑ प॒दे, अधि॒ दीद्या᳚नं॒ गुहा᳚ रघु॒ष्यद्‌ र॑घु॒यद्‌ वि॑वेद ||{9/15}{4.5.9}{4.1.5.9}{3.5.2.4}{80, 301, 3132}

अध॑ द्युता॒नः पि॒त्रोः सचा॒साऽम॑नुत॒ गुह्यं॒ चारु॒ पृश्नेः᳚ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

मा॒तुष्प॒दे प॑र॒मे, अन्ति॒ षद्‌ गोर्वृष्णः॑ शो॒चिषः॒ प्रय॑तस्य जि॒ह्वा ||{10/15}{4.5.10}{4.1.5.10}{3.5.2.5}{81, 301, 3133}

ऋ॒तं वो᳚चे॒ नम॑सा पृ॒च्छ्यमा᳚न॒स्तवा॒शसा᳚ जातवेदो॒ यदी॒दम् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

त्वम॒स्य क्ष॑यसि॒ यद्ध॒ विश्वं᳚ दि॒वि यदु॒ द्रवि॑णं॒ यत्‌ पृ॑थि॒व्याम् ||{11/15}{4.5.11}{4.1.5.11}{3.5.3.1}{82, 301, 3134}

किं नो᳚, अ॒स्य द्रवि॑णं॒ कद्ध॒ रत्नं॒ वि नो᳚ वोचो जातवेदश्चिकि॒त्वान् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

गुहाध्व॑नः पर॒मं यन्नो᳚, अ॒स्य रेकु॑ प॒दं न नि॑दा॒ना, अग᳚न्म ||{12/15}{4.5.12}{4.1.5.12}{3.5.3.2}{83, 301, 3135}

का म॒र्यादा᳚ व॒युना॒ कद्ध॑ वा॒ममच्छा᳚ गमेम र॒घवो॒ न वाज᳚म् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

क॒दा नो᳚ दे॒वीर॒मृत॑स्य॒ पत्नीः॒ सूरो॒ वर्णे᳚न ततनन्नु॒षासः॑ ||{13/15}{4.5.13}{4.1.5.13}{3.5.3.3}{84, 301, 3136}

अ॒नि॒रेण॒ वच॑सा फ॒ल्ग्वे᳚न प्र॒तीत्ये᳚न कृ॒धुना᳚तृ॒पासः॑ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

अधा॒ ते, अ॑ग्ने॒ किमि॒हा व॑दन्त्यनायु॒धास॒ आस॑ता सचन्ताम् ||{14/15}{4.5.14}{4.1.5.14}{3.5.3.4}{85, 301, 3137}

अ॒स्य श्रि॒ये स॑मिधा॒नस्य॒ वृष्णो॒ वसो॒रनी᳚कं॒ दम॒ आ रु॑रोच |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

रुश॒द्‌ वसा᳚नः सु॒दृशी᳚करूपः, क्षि॒तिर्न रा॒या पु॑रु॒वारो᳚, अद्यौत् ||{15/15}{4.5.15}{4.1.5.15}{3.5.3.5}{86, 301, 3138}

[6] ऊर्ध्वऊषुणइत्येकादशर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |
ऊ॒र्ध्व ऊ॒ षु णो᳚, अध्वरस्य होत॒रग्ने॒ तिष्ठ॑ दे॒वता᳚ता॒ यजी᳚यान् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

त्वं हि विश्व॑म॒भ्यसि॒ मन्म॒ प्र वे॒धस॑श्चित्तिरसि मनी॒षाम् ||{1/11}{4.6.1}{4.1.6.1}{3.5.4.1}{87, 302, 3139}

अमू᳚रो॒ होता॒ न्य॑सादि वि॒क्ष्व१॑(अ॒)ग्निर्म॒न्द्रो वि॒दथे᳚षु॒ प्रचे᳚ताः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

ऊ॒र्ध्वं भा॒नुं स॑वि॒तेवा᳚श्रे॒न्मेते᳚व धू॒मं स्त॑भाय॒दुप॒ द्याम् ||{2/11}{4.6.2}{4.1.6.2}{3.5.4.2}{88, 302, 3140}

य॒ता सु॑जू॒र्णी रा॒तिनी᳚ घृ॒ताची᳚ प्रदक्षि॒णिद्‌ दे॒वता᳚तिमुरा॒णः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

उदु॒ स्वरु᳚र्नव॒जा नाक्रः प॒श्वो, अ॑नक्ति॒ सुधि॑तः सु॒मेकः॑ ||{3/11}{4.6.3}{4.1.6.3}{3.5.4.3}{89, 302, 3141}

स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने, अ॒ग्ना, ऊ॒र्ध्वो, अ॑ध्व॒र्युर्जु॑जुषा॒णो, अ॑स्थात् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

पर्य॒ग्निः प॑शु॒पा न होता᳚ त्रिवि॒ष्ट्ये᳚ति प्र॒दिव॑ उरा॒णः ||{4/11}{4.6.4}{4.1.6.4}{3.5.4.4}{90, 302, 3142}

परि॒ त्मना᳚ मि॒तद्रु॑रेति॒ होता॒ऽग्निर्म॒न्द्रो मधु॑वचा, ऋ॒तावा᳚ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

द्रव᳚न्त्यस्य वा॒जिनो॒ न शोका॒ भय᳚न्ते॒ विश्वा॒ भुव॑ना॒ यदभ्रा᳚ट् ||{5/11}{4.6.5}{4.1.6.5}{3.5.4.5}{91, 302, 3143}

भ॒द्रा ते᳚, अग्ने स्वनीक सं॒दृग् घो॒रस्य॑ स॒तो विषु॑णस्य॒ चारुः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

न यत्ते᳚ शो॒चिस्तम॑सा॒ वर᳚न्त॒ न ध्व॒स्मान॑स्त॒न्वी॒३॑(ई॒) रेप॒ आ धुः॑ ||{6/11}{4.6.6}{4.1.6.6}{3.5.5.1}{92, 302, 3144}

न यस्य॒ सातु॒र्जनि॑तो॒रवा᳚रि॒ न मा॒तरा᳚पि॒तरा॒ नू चि॑दि॒ष्टौ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अधा᳚ मि॒त्रो न सुधि॑तः पाव॒को॒३॑(ओ॒)ऽग्निर्दी᳚दाय॒ मानु॑षीषु वि॒क्षु ||{7/11}{4.6.7}{4.1.6.7}{3.5.5.2}{93, 302, 3145}

द्विर्यं पञ्च॒ जीज॑नन्‌ त्सं॒वसा᳚नाः॒ स्वसा᳚रो, अ॒ग्निं मानु॑षीषु वि॒क्षु |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

उ॒ष॒र्बुध॑मथ॒र्यो॒३॑(ओ॒) न दन्तं᳚ शु॒क्रं स्वासं᳚ पर॒शुं न ति॒ग्मम् ||{8/11}{4.6.8}{4.1.6.8}{3.5.5.3}{94, 302, 3146}

तव॒ त्ये, अ॑ग्ने ह॒रितो᳚ घृत॒स्ना रोहि॑तास ऋ॒ज्वञ्चः॒ स्वञ्चः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अ॒रु॒षासो॒ वृष॑ण ऋजुमु॒ष्का, आ दे॒वता᳚तिमह्वन्त द॒स्माः ||{9/11}{4.6.9}{4.1.6.9}{3.5.5.4}{95, 302, 3147}

ये ह॒ त्ये ते॒ सह॑माना, अ॒यास॑स्त्वे॒षासो᳚, अग्ने, अ॒र्चय॒श्चर᳚न्ति |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

श्ये॒नासो॒ न दु॑वस॒नासो॒, अर्थं᳚ तुविष्व॒णसो॒ मारु॑तं॒ न शर्धः॑ ||{10/11}{4.6.10}{4.1.6.10}{3.5.5.5}{96, 302, 3148}

अका᳚रि॒ ब्रह्म॑ समिधान॒ तुभ्यं॒ शंसा᳚त्यु॒क्थं यज॑ते॒ व्यू᳚ धाः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

होता᳚रम॒ग्निं मनु॑षो॒ नि षे᳚दुर्नम॒स्यन्त॑ उ॒शिजः॒ शंस॑मा॒योः ||{11/11}{4.6.11}{4.1.6.11}{3.5.5.6}{97, 302, 3149}

[7] अयमिहेत्येकादशर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् आद्याजगतीद्वितीयाद्यापंचानुष्टुभः |
अ॒यमि॒ह प्र॑थ॒मो धा᳚यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो, अध्व॒रेष्वीड्यः॑ |{गौतमो वामदेवः | अग्निः | जगती}

यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने᳚षु चि॒त्रं वि॒भ्वं᳚ वि॒शेवि॑शे ||{1/11}{4.7.1}{4.1.7.1}{3.5.6.1}{98, 303, 3150}

अग्ने᳚ क॒दा त॑ आनु॒षग् भुव॑द्दे॒वस्य॒ चेत॑नम् |{गौतमो वामदेवः | अग्निः | अनुष्टुप्}

अधा॒ हि त्वा᳚ जगृभ्रि॒रे मर्ता᳚सो वि॒क्ष्वीड्य᳚म् ||{2/11}{4.7.2}{4.1.7.2}{3.5.6.2}{99, 303, 3151}

ऋ॒तावा᳚नं॒ विचे᳚तसं॒ पश्य᳚न्तो॒ द्यामि॑व॒ स्तृभिः॑ |{गौतमो वामदेवः | अग्निः | अनुष्टुप्}

विश्वे᳚षामध्व॒राणां᳚ हस्क॒र्तारं॒ दमे᳚दमे ||{3/11}{4.7.3}{4.1.7.3}{3.5.6.3}{100, 303, 3152}

आ॒शुं दू॒तं वि॒वस्व॑तो॒ विश्वा॒ यश्च॑र्ष॒णीर॒भि |{गौतमो वामदेवः | अग्निः | अनुष्टुप्}

आ ज॑भ्रुः के॒तुमा॒यवो॒ भृग॑वाणं वि॒शेवि॑शे ||{4/11}{4.7.4}{4.1.7.4}{3.5.6.4}{101, 303, 3153}

तमीं॒ होता᳚रमानु॒षक् चि॑कि॒त्वांसं॒ नि षे᳚दिरे |{गौतमो वामदेवः | अग्निः | अनुष्टुप्}

र॒ण्वं पा᳚व॒कशो᳚चिषं॒ यजि॑ष्ठं स॒प्त धाम॑भिः ||{5/11}{4.7.5}{4.1.7.5}{3.5.6.5}{102, 303, 3154}

तं शश्व॑तीषु मा॒तृषु॒ वन॒ आ वी॒तमश्रि॑तम् |{गौतमो वामदेवः | अग्निः | अनुष्टुप्}

चि॒त्रं सन्तं॒ गुहा᳚ हि॒तं सु॒वेदं᳚ कूचिद॒र्थिन᳚म् ||{6/11}{4.7.6}{4.1.7.6}{3.5.7.1}{103, 303, 3155}

स॒सस्य॒ यद्‌ वियु॑ता॒ सस्मि॒न्नूध᳚न्नृ॒तस्य॒ धाम᳚न्‌ र॒णय᳚न्त दे॒वाः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

म॒हाँ, अ॒ग्निर्नम॑सा रा॒तह᳚व्यो॒ वेर॑ध्व॒राय॒ सद॒मिदृ॒तावा᳚ ||{7/11}{4.7.7}{4.1.7.7}{3.5.7.2}{104, 303, 3156}

वेर॑ध्व॒रस्य॑ दू॒त्या᳚नि वि॒द्वानु॒भे, अ॒न्ता रोद॑सी संचिकि॒त्वान् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दू॒त ई᳚यसे प्र॒दिव॑ उरा॒णो वि॒दुष्ट॑रो दि॒व आ॒रोध॑नानि ||{8/11}{4.7.8}{4.1.7.8}{3.5.7.3}{105, 303, 3157}

कृ॒ष्णं त॒ एम॒ रुश॑तः पु॒रो भाश्च॑रि॒ष्ण्व१॑(अ॒)र्चिर्वपु॑षा॒मिदेक᳚म् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

यदप्र॑वीता॒ दध॑ते ह॒ गर्भं᳚ स॒द्यश्चि॑ज्जा॒तो भव॒सीदु॑ दू॒तः ||{9/11}{4.7.9}{4.1.7.9}{3.5.7.4}{106, 303, 3158}

स॒द्यो जा॒तस्य॒ ददृ॑शान॒मोजो॒ यद॑स्य॒ वातो᳚, अनु॒वाति॑ शो॒चिः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

वृ॒णक्ति॑ ति॒ग्माम॑त॒सेषु॑ जि॒ह्वां स्थि॒रा चि॒दन्ना᳚ दयते॒ वि जम्भैः᳚ ||{10/11}{4.7.10}{4.1.7.10}{3.5.7.5}{107, 303, 3159}

तृ॒षु यदन्ना᳚ तृ॒षुणा᳚ व॒वक्ष॑ तृ॒षुं दू॒तं कृ॑णुते य॒ह्वो, अ॒ग्निः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

वात॑स्य मे॒ळिं स॑चते नि॒जूर्व᳚न्ना॒शुं न वा᳚जयते हि॒न्वे, अर्वा᳚ ||{11/11}{4.7.11}{4.1.7.11}{3.5.7.6}{108, 303, 3160}

[8] दूतंवइत्यष्टर्चस्य सूक्तस्य गौतमोवामदेवोग्निर्गायत्री |
दू॒तं वो᳚ वि॒श्ववे᳚दसं हव्य॒वाह॒मम॑र्त्यम् |{गौतमो वामदेवः | अग्निः | गायत्री}

यजि॑ष्ठमृञ्जसे गि॒रा ||{1/8}{4.8.1}{4.1.8.1}{3.5.8.1}{109, 304, 3161}

स हि वेदा॒ वसु॑धितिं म॒हाँ, आ॒रोध॑नं दि॒वः |{गौतमो वामदेवः | अग्निः | गायत्री}

स दे॒वाँ, एह व॑क्षति ||{2/8}{4.8.2}{4.1.8.2}{3.5.8.2}{110, 304, 3162}

स वे᳚द दे॒व आ॒नमं᳚ दे॒वाँ, ऋ॑ताय॒ते दमे᳚ |{गौतमो वामदेवः | अग्निः | गायत्री}

दाति॑ प्रि॒याणि॑ चि॒द्वसु॑ ||{3/8}{4.8.3}{4.1.8.3}{3.5.8.3}{111, 304, 3163}

स होता॒ सेदु॑ दू॒त्यं᳚ चिकि॒त्वाँ, अ॒न्तरी᳚यते |{गौतमो वामदेवः | अग्निः | गायत्री}

वि॒द्वाँ, आ॒रोध॑नं दि॒वः ||{4/8}{4.8.4}{4.1.8.4}{3.5.8.4}{112, 304, 3164}

ते स्या᳚म॒ ये, अ॒ग्नये᳚ ददा॒शुर्ह॒व्यदा᳚तिभिः |{गौतमो वामदेवः | अग्निः | गायत्री}

य ईं॒ पुष्य᳚न्त इन्ध॒ते ||{5/8}{4.8.5}{4.1.8.5}{3.5.8.5}{113, 304, 3165}

ते रा॒या ते सु॒वीर्यैः᳚ सस॒वांसो॒ वि शृ᳚ण्विरे |{गौतमो वामदेवः | अग्निः | गायत्री}

ये, अ॒ग्ना द॑धि॒रे दुवः॑ ||{6/8}{4.8.6}{4.1.8.6}{3.5.8.6}{114, 304, 3166}

अ॒स्मे रायो᳚ दि॒वेदि॑वे॒ सं च॑रन्तु पुरु॒स्पृहः॑ |{गौतमो वामदेवः | अग्निः | गायत्री}

अ॒स्मे वाजा᳚स ईरताम् ||{7/8}{4.8.7}{4.1.8.7}{3.5.8.7}{115, 304, 3167}

स विप्र॑श्चर्षणी॒नां शव॑सा॒ मानु॑षाणाम् |{गौतमो वामदेवः | अग्निः | गायत्री}

अति॑ क्षि॒प्रेव॑ विध्यति ||{8/8}{4.8.8}{4.1.8.8}{3.5.8.8}{116, 304, 3168}

[9] अग्नेमृळेत्यष्टर्चस्य सूक्तस्य गौतमोवामदेवोग्निर्गायत्री |
अग्ने᳚ मृ॒ळ म॒हाँ, अ॑सि॒ य ई॒मा दे᳚व॒युं जन᳚म् |{गौतमो वामदेवः | अग्निः | गायत्री}

इ॒येथ॑ ब॒र्हिरा॒सद᳚म् ||{1/8}{4.9.1}{4.1.9.1}{3.5.9.1}{117, 305, 3169}

स मानु॑षीषु दू॒ळभो᳚ वि॒क्षु प्रा॒वीरम॑र्त्यः |{गौतमो वामदेवः | अग्निः | गायत्री}

दू॒तो विश्वे᳚षां भुवत् ||{2/8}{4.9.2}{4.1.9.2}{3.5.9.2}{118, 305, 3170}

स सद्म॒ परि॑ णीयते॒ होता᳚ म॒न्द्रो दिवि॑ष्टिषु |{गौतमो वामदेवः | अग्निः | गायत्री}

उ॒त पोता॒ नि षी᳚दति ||{3/8}{4.9.3}{4.1.9.3}{3.5.9.3}{119, 305, 3171}

उ॒त ग्ना, अ॒ग्निर॑ध्व॒र उ॒तो गृ॒हप॑ति॒र्दमे᳚ |{गौतमो वामदेवः | अग्निः | गायत्री}

उ॒त ब्र॒ह्मा नि षी᳚दति ||{4/8}{4.9.4}{4.1.9.4}{3.5.9.4}{120, 305, 3172}

वेषि॒ ह्य॑ध्वरीय॒तामु॑पव॒क्ता जना᳚नाम् |{गौतमो वामदेवः | अग्निः | गायत्री}

ह॒व्या च॒ मानु॑षाणाम् ||{5/8}{4.9.5}{4.1.9.5}{3.5.9.5}{121, 305, 3173}

वेषीद्व॑स्य दू॒त्य१॑(अं॒) यस्य॒ जुजो᳚षो, अध्व॒रम् |{गौतमो वामदेवः | अग्निः | गायत्री}

ह॒व्यं मर्त॑स्य॒ वोळ्ह॑वे ||{6/8}{4.9.6}{4.1.9.6}{3.5.9.6}{122, 305, 3174}

अ॒स्माकं᳚ जोष्यध्व॒रम॒स्माकं᳚ य॒ज्ञम᳚ङ्गिरः |{गौतमो वामदेवः | अग्निः | गायत्री}

अ॒स्माकं᳚ शृणुधी॒ हव᳚म् ||{7/8}{4.9.7}{4.1.9.7}{3.5.9.7}{123, 305, 3175}

परि॑ ते दू॒ळभो॒ रथो॒ऽस्माँ, अ॑श्नोतु वि॒श्वतः॑ |{गौतमो वामदेवः | अग्निः | गायत्री}

येन॒ रक्ष॑सि दा॒शुषः॑ ||{8/8}{4.9.8}{4.1.9.8}{3.5.9.8}{124, 305, 3176}

[10] अग्नेतमद्येत्यष्टर्चस्य सूक्तस्य गौतमोवामदेवोग्निः पदपंक्तिः पंचमीमहापदपंक्तिः अंत्येद्वेउष्णिहौ |
अग्ने॒ तम॒द्याऽश्वं॒ न स्तोमैः॒ क्रतुं॒ न भ॒द्रं हृ॑दि॒स्पृश᳚म् |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः}

ऋ॒ध्यामा᳚ त॒ ओहैः᳚ ||{1/8}{4.10.1}{4.1.10.1}{3.5.10.1}{125, 306, 3177}

अधा॒ ह्य॑ग्ने॒ क्रतो᳚र्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः}

र॒थीरृ॒तस्य॑ बृह॒तो ब॒भूथ॑ ||{2/8}{4.10.2}{4.1.10.2}{3.5.10.2}{126, 306, 3178}

ए॒भिर्नो᳚, अ॒र्कैर्भवा᳚ नो, अ॒र्वाङ्स्व१॑(अ॒)र्ण ज्योतिः॑ |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः}

अग्ने॒ विश्वे᳚भिः सु॒मना॒, अनी᳚कैः ||{3/8}{4.10.3}{4.1.10.3}{3.5.10.3}{127, 306, 3179}

आ॒भिष्टे᳚, अ॒द्य गी॒र्भिर्गृ॒णन्तोऽग्ने॒ दाशे᳚म |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः}

प्र ते᳚ दि॒वो न स्त॑नयन्ति॒ शुष्माः᳚ ||{4/8}{4.10.4}{4.1.10.4}{3.5.10.4}{128, 306, 3180}

तव॒ स्वादि॒ष्ठाऽग्ने॒ संदृ॑ष्टिरि॒दा चि॒दह्न॑ इ॒दा चि॑द॒क्तोः |{गौतमो वामदेवः | अग्निः | महापदपङ्क्तिः}

श्रि॒ये रु॒क्मो न रो᳚चत उपा॒के ||{5/8}{4.10.5}{4.1.10.5}{3.5.10.5}{129, 306, 3181}

घृ॒तं न पू॒तं त॒नूर॑रे॒पाः शुचि॒ हिर᳚ण्यम् |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः}

तत्ते᳚ रु॒क्मो न रो᳚चत स्वधावः ||{6/8}{4.10.6}{4.1.10.6}{3.5.10.6}{130, 306, 3182}

कृ॒तं चि॒द्धि ष्मा॒ सने᳚मि॒ द्वेषोऽग्न॑ इ॒नोषि॒ मर्ता᳚त् |{गौतमो वामदेवः | अग्निः | उष्णिक्}

इ॒त्था यज॑मानादृतावः ||{7/8}{4.10.7}{4.1.10.7}{3.5.10.7}{131, 306, 3183}

शि॒वा नः॑ स॒ख्या सन्तु॑ भ्रा॒त्राऽग्ने᳚ दे॒वेषु॑ यु॒ष्मे |{गौतमो वामदेवः | अग्निः | उष्णिक्}

सा नो॒ नाभिः॒ सद॑ने॒ सस्मि॒न्नूध॑न् ||{8/8}{4.10.8}{4.1.10.8}{3.5.10.8}{132, 306, 3184}

[11] भद्रंतइति षडृचस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |
भ॒द्रं ते᳚, अग्ने सहसि॒न्ननी᳚कमुपा॒क आ रो᳚चते॒ सूर्य॑स्य |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

रुश॑द्‌ दृ॒शे द॑दृशे नक्त॒या चि॒दरू᳚क्षितं दृ॒श आ रू॒पे, अन्न᳚म् ||{1/6}{4.11.1}{4.2.1.1}{3.5.11.1}{133, 307, 3185}

वि षा᳚ह्यग्ने गृण॒ते म॑नी॒षां खं वेप॑सा तुविजात॒ स्तवा᳚नः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

विश्वे᳚भि॒र्यद्‌ वा॒वनः॑ शुक्र दे॒वैस्तन्नो᳚ रास्व सुमहो॒ भूरि॒ मन्म॑ ||{2/6}{4.11.2}{4.2.1.2}{3.5.11.2}{134, 307, 3186}

त्वद॑ग्ने॒ काव्या॒ त्वन्म॑नी॒षास्त्वदु॒क्था जा᳚यन्ते॒ राध्या᳚नि |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

त्वदे᳚ति॒ द्रवि॑णं वी॒रपे᳚शा, इ॒त्थाधि॑ये दा॒शुषे॒ मर्त्या᳚य ||{3/6}{4.11.3}{4.2.1.3}{3.5.11.3}{135, 307, 3187}

त्वद्वा॒जी वा᳚जम्भ॒रो विहा᳚या, अभिष्टि॒कृज्जा᳚यते स॒त्यशु॑ष्मः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

त्वद्र॒यिर्दे॒वजू᳚तो मयो॒भुस्त्वदा॒शुर्जू᳚जु॒वाँ, अ॑ग्ने॒, अर्वा᳚ ||{4/6}{4.11.4}{4.2.1.4}{3.5.11.4}{136, 307, 3188}

त्वाम॑ग्ने प्रथ॒मं दे᳚व॒यन्तो᳚ दे॒वं मर्ता᳚, अमृत म॒न्द्रजि॑ह्वम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

द्वे॒षो॒युत॒मा वि॑वासन्ति धी॒भिर्दमू᳚नसं गृ॒हप॑ति॒ममू᳚रम् ||{5/6}{4.11.5}{4.2.1.5}{3.5.11.5}{137, 307, 3189}

आ॒रे, अ॒स्मदम॑तिमा॒रे, अंह॑ आ॒रे विश्वां᳚ दुर्म॒तिं यन्नि॒पासि॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दो॒षा शि॒वः स॑हसः सूनो, अग्ने॒ यं दे॒व आ चि॒त्‌ सच॑से स्व॒स्ति ||{6/6}{4.11.6}{4.2.1.6}{3.5.11.6}{138, 307, 3190}

[12] यस्त्वामग्नइति षडृचस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |
यस्त्वाम॑ग्न इ॒नध॑ते य॒तस्रु॒क् त्रिस्ते॒, अन्नं᳚ कृ॒णव॒त्‌ सस्मि॒न्नह॑न् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

स सु द्यु॒म्नैर॒भ्य॑स्तु प्र॒सक्ष॒त् तव॒ क्रत्वा᳚ जातवेदश्चिकि॒त्वान् ||{1/6}{4.12.1}{4.2.2.1}{3.5.12.1}{139, 308, 3191}

इ॒ध्मं यस्ते᳚ ज॒भर॑च्छश्रमा॒णो म॒हो, अ॑ग्ने॒, अनी᳚क॒मा स॑प॒र्यन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

स इ॑धा॒नः प्रति॑ दो॒षामु॒षासं॒ पुष्य᳚न्‌ र॒यिं स॑चते॒ घ्नन्न॒मित्रा॑न् ||{2/6}{4.12.2}{4.2.2.2}{3.5.12.2}{140, 308, 3192}

अ॒ग्निरी᳚शे बृह॒तः, क्ष॒त्रिय॑स्या॒ऽग्निर्वाज॑स्य पर॒मस्य॑ रा॒यः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दधा᳚ति॒ रत्नं᳚ विध॒ते यवि॑ष्ठो॒ व्या᳚नु॒षङ्मर्त्या᳚य स्व॒धावा॑न् ||{3/6}{4.12.3}{4.2.2.3}{3.5.12.3}{141, 308, 3193}

यच्चि॒द्धि ते᳚ पुरुष॒त्रा य॑वि॒ष्ठाऽचि॑त्तिभिश्चकृ॒मा कच्चि॒दागः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

कृ॒धी ष्व१॑(अ॒)स्माँ, अदि॑ते॒रना᳚गा॒न् व्येनां᳚सि शिश्रथो॒ विष्व॑गग्ने ||{4/6}{4.12.4}{4.2.2.4}{3.5.12.4}{142, 308, 3194}

म॒हश्चि॑दग्न॒ एन॑सो, अ॒भीक॑ ऊ॒र्वाद्दे॒वाना᳚मु॒त मर्त्या᳚नाम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

मा ते॒ सखा᳚यः॒ सद॒मिद्रि॑षाम॒ यच्छा᳚ तो॒काय॒ तन॑याय॒ शं योः ||{5/6}{4.12.5}{4.2.2.5}{3.5.12.5}{143, 308, 3195}

यथा᳚ ह॒ त्यद्‌ व॑सवो गौ॒र्यं᳚ चित् प॒दि षि॒ताममु᳚ञ्चता यजत्राः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

ए॒वो ष्व१॑(अ॒)स्मन्मु᳚ञ्चता॒ व्यंहः॒ प्र ता᳚र्यग्ने प्रत॒रं न॒ आयुः॑ ||{6/6}{4.12.6}{4.2.2.6}{3.5.12.6}{144, 308, 3196}

[13] प्रत्यग्निरिति पंचर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |
प्रत्य॒ग्निरु॒षसा॒मग्र॑मख्यद् विभाती॒नां सु॒मना᳚ रत्न॒धेय᳚म् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

या॒तम॑श्विना सु॒कृतो᳚ दुरो॒णमुत्सूर्यो॒ ज्योति॑षा दे॒व ए᳚ति ||{1/5}{4.13.1}{4.2.3.1}{3.5.13.1}{145, 309, 3197}

ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो, अ॑श्रेद् द्र॒प्सं दवि॑ध्वद्‌ गवि॒षो न सत्वा᳚ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अनु᳚ व्र॒तं वरु॑णो यन्ति मि॒त्रो यत्सूर्यं᳚ दि॒व्या᳚रो॒हय᳚न्ति ||{2/5}{4.13.2}{4.2.3.2}{3.5.13.2}{146, 309, 3198}

यं सी॒मकृ᳚ण्व॒न्‌ तम॑से वि॒पृचे᳚ ध्रु॒वक्षे᳚मा॒, अन॑वस्यन्तो॒, अर्थ᳚म् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

तं सूर्यं᳚ ह॒रितः॑ स॒प्त य॒ह्वीः स्पशं॒ विश्व॑स्य॒ जग॑तो वहन्ति ||{3/5}{4.13.3}{4.2.3.3}{3.5.13.3}{147, 309, 3199}

वहि॑ष्ठेभिर्वि॒हर᳚न्यासि॒ तन्तु॑मव॒व्यय॒न्नसि॑तं देव॒ वस्म॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दवि॑ध्वतो र॒श्मयः॒ सूर्य॑स्य॒ चर्मे॒वावा᳚धु॒स्तमो᳚, अ॒प्स्व१॑(अ॒)न्तः ||{4/5}{4.13.4}{4.2.3.4}{3.5.13.4}{148, 309, 3200}

अना᳚यतो॒, अनि॑बद्धः क॒थायं न्य᳚ङ्ङुत्ता॒नोऽव॑ पद्यते॒ न |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

कया᳚ याति स्व॒धया॒ को द॑दर्श दि॒वः स्क॒म्भः समृ॑तः पाति॒ नाक᳚म् ||{5/5}{4.13.5}{4.2.3.5}{3.5.13.5}{149, 309, 3201}

[14] प्रत्यग्निरिति पंचर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् | (अनयोः सूक्तयोः केचिदाचार्यालिङ्गोक्तदेवताआहुःताश्च आद्यसूक्ते आद्यानां तिसृणामग्निः चतुर्थ्याः सवितृवरुणमित्राः पंचम्याः सूर्यः | अपरसूक्तेक्रमेण अग्न्याश्विनः सूर्य उषाअश्व्युषसः सूर्य इत्येवंज्ञेयाः )|
प्रत्य॒ग्निरु॒षसो᳚ जा॒तवे᳚दा॒, अख्य॑द्दे॒वो रोच॑माना॒ महो᳚भिः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

आ ना᳚सत्योरुगा॒या रथे᳚ने॒मं य॒ज्ञमुप॑ नो यात॒मच्छ॑ ||{1/5}{4.14.1}{4.2.4.1}{3.5.14.1}{150, 310, 3202}

ऊ॒र्ध्वं के॒तुं स॑वि॒ता दे॒वो, अ॑श्रे॒ज्ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृ॒ण्वन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

आप्रा॒ द्यावा᳚पृथि॒वी, अ॒न्तरि॑क्षं॒ वि सूर्यो᳚ र॒श्मिभि॒श्चेकि॑तानः ||{2/5}{4.14.2}{4.2.4.2}{3.5.14.2}{151, 310, 3203}

आ॒वह᳚न्त्यरु॒णीर्ज्योति॒षागा᳚न्म॒ही चि॒त्रा र॒श्मिभि॒श्चेकि॑ताना |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

प्र॒बो॒धय᳚न्ती सुवि॒ताय॑ दे॒व्यु१॑(उ॒)षा, ई᳚यते सु॒युजा॒ रथे᳚न ||{3/5}{4.14.3}{4.2.4.3}{3.5.14.3}{152, 310, 3204}

आ वां॒ वहि॑ष्ठा, इ॒ह ते व॑हन्तु॒ रथा॒, अश्वा᳚स उ॒षसो॒ व्यु॑ष्टौ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

इ॒मे हि वां᳚ मधु॒पेया᳚य॒ सोमा᳚, अ॒स्मिन्‌ य॒ज्ञे वृ॑षणा मादयेथाम् ||{4/5}{4.14.4}{4.2.4.4}{3.5.14.4}{153, 310, 3205}

अना᳚यतो॒, अनि॑बद्धः क॒थायं न्य᳚ङ्ङुत्ता॒नोऽव॑ पद्यते॒ न |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

कया᳚ याति स्व॒धया॒ को द॑दर्श दि॒वः स्क॒म्भः समृ॑तः पाति॒ नाक᳚म् ||{5/5}{4.14.5}{4.2.4.5}{3.5.14.5}{154, 310, 3206}

[15] अग्निहोतेति दशर्चस्य सूक्तस्य गौतमोवामदेवोग्निः सप्तम्यष्टम्योःसाहदेव्यःसोमकः अंत्ययोरश्विनौगायत्री |
अ॒ग्निर्होता᳚ नो, अध्व॒रे वा॒जी सन्‌ परि॑ णीयते |{गौतमो वामदेवः | अग्निः | गायत्री}

दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ||{1/10}{4.15.1}{4.2.5.1}{3.5.15.1}{155, 311, 3207}

परि॑ त्रिवि॒ष्ट्य॑ध्व॒रं यात्य॒ग्नी र॒थीरि॑व |{गौतमो वामदेवः | अग्निः | गायत्री}

आ दे॒वेषु॒ प्रयो॒ दध॑त् ||{2/10}{4.15.2}{4.2.5.2}{3.5.15.2}{156, 311, 3208}

परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् |{गौतमो वामदेवः | अग्निः | गायत्री}

दध॒द्रत्ना᳚नि दा॒शुषे᳚ ||{3/10}{4.15.3}{4.2.5.3}{3.5.15.3}{157, 311, 3209}

अ॒यं यः सृञ्ज॑ये पु॒रो दै᳚ववा॒ते स॑मि॒ध्यते᳚ |{गौतमो वामदेवः | अग्निः | गायत्री}

द्यु॒माँ, अ॑मित्र॒दम्भ॑नः ||{4/10}{4.15.4}{4.2.5.4}{3.5.15.4}{158, 311, 3210}

अस्य॑ घा वी॒र ईव॑तो॒ऽग्नेरी᳚शीत॒ मर्त्यः॑ |{गौतमो वामदेवः | अग्निः | गायत्री}

ति॒ग्मज᳚म्भस्य मी॒ळ्हुषः॑ ||{5/10}{4.15.5}{4.2.5.5}{3.5.15.5}{159, 311, 3211}

तमर्व᳚न्तं॒ न सा᳚न॒सिम॑रु॒षं न दि॒वः शिशु᳚म् |{गौतमो वामदेवः | अग्निः | गायत्री}

म॒र्मृ॒ज्यन्ते᳚ दि॒वेदि॑वे ||{6/10}{4.15.6}{4.2.5.6}{3.5.16.1}{160, 311, 3212}

बोध॒द्यन्मा॒ हरि॑भ्यां कुमा॒रः सा᳚हदे॒व्यः |{गौतमो वामदेवः | साहदेव्यः सोमकः | गायत्री}

अच्छा॒ न हू॒त उद॑रम् ||{7/10}{4.15.7}{4.2.5.7}{3.5.16.2}{161, 311, 3213}

उ॒त त्या य॑ज॒ता हरी᳚ कुमा॒रात्‌ सा᳚हदे॒व्यात् |{गौतमो वामदेवः | साहदेव्यः सोमकः | गायत्री}

प्रय॑ता स॒द्य आ द॑दे ||{8/10}{4.15.8}{4.2.5.8}{3.5.16.3}{162, 311, 3214}

ए॒ष वां᳚ देवावश्विना कुमा॒रः सा᳚हदे॒व्यः |{गौतमो वामदेवः | अश्विनौ | गायत्री}

दी॒र्घायु॑रस्तु॒ सोम॑कः ||{9/10}{4.15.9}{4.2.5.9}{3.5.16.4}{163, 311, 3215}

तं यु॒वं दे᳚वावश्विना कुमा॒रं सा᳚हदे॒व्यम् |{गौतमो वामदेवः | अश्विनौ | गायत्री}

दी॒र्घायु॑षं कृणोतन ||{10/10}{4.15.10}{4.2.5.10}{3.5.16.5}{164, 311, 3216}

[16] आसत्योयात्वित्येकविंशत्यृचस्य सूक्तस्य गौतमोवामदेवइंद्रस्त्रिष्टुप् |
आ स॒त्यो या᳚तु म॒घवाँ᳚, ऋजी॒षी द्रव᳚न्त्वस्य॒ हर॑य॒ उप॑ नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

तस्मा॒, इदन्धः॑ सुषुमा सु॒दक्ष॑मि॒हाभि॑पि॒त्वं क॑रते गृणा॒नः ||{1/21}{4.16.1}{4.2.6.1}{3.5.17.1}{165, 312, 3217}

अव॑ स्य शू॒राध्व॑नो॒ नान्ते॒ऽस्मिन्‌ नो᳚, अ॒द्य सव॑ने म॒न्दध्यै᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

शंसा᳚त्यु॒क्थमु॒शने᳚व वे॒धाश्चि॑कि॒तुषे᳚, असु॒र्या᳚य॒ मन्म॑ ||{2/21}{4.16.2}{4.2.6.2}{3.5.17.2}{166, 312, 3218}

क॒विर्न नि॒ण्यं वि॒दथा᳚नि॒ साध॒न् वृषा॒ यत्‌ सेकं᳚ विपिपा॒नो, अर्चा᳚त् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

दि॒व इ॒त्था जी᳚जनत्‌ स॒प्त का॒रूनह्ना᳚ चिच्चक्रुर्व॒युना᳚ गृ॒णन्तः॑ ||{3/21}{4.16.3}{4.2.6.3}{3.5.17.3}{167, 312, 3219}

स्व१॑(अ॒)र्यद्‌ वेदि॑ सु॒दृशी᳚कम॒र्कैर्महि॒ ज्योती᳚ रुरुचु॒र्यद्ध॒ वस्तोः᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अ॒न्धा तमां᳚सि॒ दुधि॑ता वि॒चक्षे॒ नृभ्य॑श्चकार॒ नृत॑मो, अ॒भिष्टौ᳚ ||{4/21}{4.16.4}{4.2.6.4}{3.5.17.4}{168, 312, 3220}

व॒व॒क्ष इन्द्रो॒, अमि॑तमृजी॒ष्यु१॑(उ॒)भे, आ प॑प्रौ॒ रोद॑सी महि॒त्वा |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अत॑श्चिदस्य महि॒मा वि रे᳚च्य॒भि यो विश्वा॒ भुव॑ना ब॒भूव॑ ||{5/21}{4.16.5}{4.2.6.5}{3.5.17.5}{169, 312, 3221}

विश्वा᳚नि श॒क्रो नर्या᳚णि वि॒द्वान॒पो रि॑रेच॒ सखि॑भि॒र्निका᳚मैः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अश्मा᳚नं चि॒द्ये बि॑भि॒दुर्वचो᳚भिर्व्र॒जं गोम᳚न्तमु॒शिजो॒ वि व᳚व्रुः ||{6/21}{4.16.6}{4.2.6.6}{3.5.18.1}{170, 312, 3222}

अ॒पो वृ॒त्रं व᳚व्रि॒वांसं॒ परा᳚ह॒न् प्राव॑त्ते॒ वज्रं᳚ पृथि॒वी सचे᳚ताः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

प्रार्णां᳚सि समु॒द्रिया᳚ण्यैनोः॒ पति॒र्भव॒ञ्छव॑सा शूर धृष्णो ||{7/21}{4.16.7}{4.2.6.7}{3.5.18.2}{171, 312, 3223}

अ॒पो यदद्रिं᳚ पुरुहूत॒ दर्द॑रा॒विर्भु॑वत्‌ स॒रमा᳚ पू॒र्व्यं ते᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स नो᳚ ने॒ता वाज॒मा द॑र्षि॒ भूरिं᳚ गो॒त्रा रु॒जन्नङ्गि॑रोभिर्गृणा॒नः ||{8/21}{4.16.8}{4.2.6.8}{3.5.18.3}{172, 312, 3224}

अच्छा᳚ क॒विं नृ॑मणो गा, अ॒भिष्टौ॒ स्व॑र्षाता मघव॒न्नाध॑मानम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ऊ॒तिभि॒स्तमि॑षणो द्यु॒म्नहू᳚तौ॒ नि मा॒यावा॒नब्र᳚ह्मा॒ दस्यु॑रर्त ||{9/21}{4.16.9}{4.2.6.9}{3.5.18.4}{173, 312, 3225}

आ द॑स्यु॒घ्ना मन॑सा या॒ह्यस्तं॒ भुव॑त्ते॒ कुत्सः॑ स॒ख्ये निका᳚मः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स्वे योनौ॒ नि ष॑दतं॒ सरू᳚पा॒ वि वां᳚ चिकित्सदृत॒चिद्ध॒ नारी᳚ ||{10/21}{4.16.10}{4.2.6.10}{3.5.18.5}{174, 312, 3226}

यासि॒ कुत्से᳚न स॒रथ॑मव॒स्युस्तो॒दो वात॑स्य॒ हर्यो॒रीशा᳚नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ऋ॒ज्रा वाजं॒ न गध्यं॒ युयू᳚षन् क॒विर्यदह॒न्‌ पार्या᳚य॒ भूषा᳚त् ||{11/21}{4.16.11}{4.2.6.11}{3.5.19.1}{175, 312, 3227}

कुत्सा᳚य॒ शुष्ण॑म॒शुषं॒ नि ब᳚र्हीः प्रपि॒त्वे, अह्नः॒ कुय॑वं स॒हस्रा᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स॒द्यो दस्यू॒न्‌ प्र मृ॑ण कु॒त्स्येन॒ प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके᳚ ||{12/21}{4.16.12}{4.2.6.12}{3.5.19.2}{176, 312, 3228}

त्वं पिप्रुं॒ मृग॑यं शूशु॒वांस॑मृ॒जिश्व॑ने वैदथि॒नाय॑ रन्धीः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

प॒ञ्चा॒शत्‌ कृ॒ष्णा नि व॑पः स॒हस्रा ऽत्कं॒ न पुरो᳚ जरि॒मा वि द॑र्दः ||{13/21}{4.16.13}{4.2.6.13}{3.5.19.3}{177, 312, 3229}

सूर॑ उपा॒के त॒न्व१॑(अं॒) दधा᳚नो॒ वि यत्ते॒ चेत्य॒मृत॑स्य॒ वर्पः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

मृ॒गो न ह॒स्ती तवि॑षीमुषा॒णः सिं॒हो न भी॒म आयु॑धानि॒ बिभ्र॑त् ||{14/21}{4.16.14}{4.2.6.14}{3.5.19.4}{178, 312, 3230}

इन्द्रं॒ कामा᳚ वसू॒यन्तो᳚, अग्म॒न् त्स्व᳚र्मीळ्हे॒ न सव॑ने चका॒नाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

श्र॒व॒स्यवः॑ शशमा॒नास॑ उ॒क्थैरोको॒ न र॒ण्वा सु॒दृशी᳚व पु॒ष्टिः ||{15/21}{4.16.15}{4.2.6.15}{3.5.19.5}{179, 312, 3231}

तमिद्‌ व॒ इन्द्रं᳚ सु॒हवं᳚ हुवेम॒ यस्ता च॒कार॒ नर्या᳚ पु॒रूणि॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

यो माव॑ते जरि॒त्रे गध्यं᳚ चिन्म॒क्षू वाजं॒ भर॑ति स्पा॒र्हरा᳚धाः ||{16/21}{4.16.16}{4.2.6.16}{3.5.20.1}{180, 312, 3232}

ति॒ग्मा यद॒न्तर॒शनिः॒ पता᳚ति॒ कस्मि᳚ञ्चिच्छूर मुहु॒के जना᳚नाम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

घो॒रा यद᳚र्य॒ समृ॑ति॒र्भवा॒त्यध॑ स्मा नस्त॒न्वो᳚ बोधि गो॒पाः ||{17/21}{4.16.17}{4.2.6.17}{3.5.20.2}{181, 312, 3233}

भुवो᳚ऽवि॒ता वा॒मदे᳚वस्य धी॒नां भुवः॒ सखा᳚वृ॒को वाज॑सातौ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

त्वामनु॒ प्रम॑ति॒मा ज॑गन्मोरु॒शंसो᳚ जरि॒त्रे वि॒श्वध॑ स्याः ||{18/21}{4.16.18}{4.2.6.18}{3.5.20.3}{182, 312, 3234}

ए॒भिर्नृभि॑रिन्द्र त्वा॒युभि॑ष्ट्वा म॒घव॑द्भिर्मघव॒न्‌ विश्व॑ आ॒जौ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

द्यावो॒ न द्यु॒म्नैर॒भि सन्तो᳚, अ॒र्यः, क्ष॒पो म॑देम श॒रद॑श्च पू॒र्वीः ||{19/21}{4.16.19}{4.2.6.19}{3.5.20.4}{183, 312, 3235}

ए॒वेदिन्द्रा᳚य वृष॒भाय॒ वृष्णे॒ ब्रह्मा᳚कर्म॒ भृग॑वो॒ न रथ᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

नू चि॒द्‌ यथा᳚ नः स॒ख्या वि॒योष॒दस᳚न्न उ॒ग्रो᳚ऽवि॒ता त॑नू॒पाः ||{20/21}{4.16.20}{4.2.6.20}{3.5.20.5}{184, 312, 3236}

नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{21/21}{4.16.21}{4.2.6.21}{3.5.20.6}{185, 312, 3237}

[17] त्वंमहानित्येकविंशत्यृचस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् असिक्न्यामित्येकपदाविराट् |
त्वं म॒हाँ, इ᳚न्द्र॒ तुभ्यं᳚ ह॒ क्षा, अनु॑ क्ष॒त्रं मं॒हना᳚ मन्यत॒ द्यौः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

त्वं वृ॒त्रं शव॑सा जघ॒न्वान् त्सृ॒जः सिन्धूँ॒रहि॑ना जग्रसा॒नान् ||{1/21}{4.17.1}{4.2.7.1}{3.5.21.1}{186, 313, 3238}

तव॑ त्वि॒षो जनि॑मन्‌ रेजत॒ द्यौ रेज॒द्‌ भूमि॑र्भि॒यसा॒ स्वस्य॑ म॒न्योः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ऋ॒घा॒यन्त॑ सु॒भ्व१॑(अः॒) पर्व॑तास॒ आर्द॒न्‌ धन्वा᳚नि स॒रय᳚न्त॒ आपः॑ ||{2/21}{4.17.2}{4.2.7.2}{3.5.21.2}{187, 313, 3239}

भि॒नद्‌ गि॒रिं शव॑सा॒ वज्र॑मि॒ष्णन्ना᳚विष्कृण्वा॒नः स॑हसा॒न ओजः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

वधी᳚द्‌ वृ॒त्रं वज्रे᳚ण मन्दसा॒नः सर॒न्नापो॒ जव॑सा ह॒तवृ॑ष्णीः ||{3/21}{4.17.3}{4.2.7.3}{3.5.21.3}{188, 313, 3240}

सु॒वीर॑स्ते जनि॒ता म᳚न्यत॒ द्यौरिन्द्र॑स्य क॒र्ता स्वप॑स्तमो भूत् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

य ईं᳚ ज॒जान॑ स्व॒र्यं᳚ सु॒वज्र॒मन॑पच्युतं॒ सद॑सो॒ न भूम॑ ||{4/21}{4.17.4}{4.2.7.4}{3.5.21.4}{189, 313, 3241}

य एक॑ इच्च्या॒वय॑ति॒ प्र भूमा॒ राजा᳚ कृष्टी॒नां पु॑रुहू॒त इन्द्रः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स॒त्यमे᳚न॒मनु॒ विश्वे᳚ मदन्ति रा॒तिं दे॒वस्य॑ गृण॒तो म॒घोनः॑ ||{5/21}{4.17.5}{4.2.7.5}{3.5.21.5}{190, 313, 3242}

स॒त्रा सोमा᳚, अभवन्नस्य॒ विश्वे᳚ स॒त्रा मदा᳚सो बृह॒तो मदि॑ष्ठाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स॒त्राभ॑वो॒ वसु॑पति॒र्वसू᳚नां॒ दत्रे॒ विश्वा᳚, अधिथा, इन्द्र कृ॒ष्टीः ||{6/21}{4.17.6}{4.2.7.6}{3.5.22.1}{191, 313, 3243}

त्वमध॑ प्रथ॒मं जाय॑मा॒नोऽमे॒ विश्वा᳚, अधिथा, इन्द्र कृ॒ष्टीः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

त्वं प्रति॑ प्र॒वत॑ आ॒शया᳚न॒महिं॒ वज्रे᳚ण मघव॒न्‌ वि वृ॑श्चः ||{7/21}{4.17.7}{4.2.7.7}{3.5.22.2}{192, 313, 3244}

स॒त्रा॒हणं॒ दाधृ॑षिं॒ तुम्र॒मिन्द्रं᳚ म॒हाम॑पा॒रं वृ॑ष॒भं सु॒वज्र᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

हन्ता॒ यो वृ॒त्रं सनि॑तो॒त वाजं॒ दाता᳚ म॒घानि॑ म॒घवा᳚ सु॒राधाः᳚ ||{8/21}{4.17.8}{4.2.7.8}{3.5.22.3}{193, 313, 3245}

अ॒यं वृत॑श्चातयते समी॒चीर्य आ॒जिषु॑ म॒घवा᳚ शृ॒ण्व एकः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अ॒यं वाजं᳚ भरति॒ यं स॒नोत्य॒स्य प्रि॒यासः॑ स॒ख्ये स्या᳚म ||{9/21}{4.17.9}{4.2.7.9}{3.5.22.4}{194, 313, 3246}

अ॒यं शृ᳚ण्वे॒, अध॒ जय᳚न्नु॒त घ्नन्न॒यमु॒त प्र कृ॑णुते यु॒धा गाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

य॒दा स॒त्यं कृ॑णु॒ते म॒न्युमिन्द्रो॒ विश्वं᳚ दृ॒ळ्हं भ॑यत॒ एज॑दस्मात् ||{10/21}{4.17.10}{4.2.7.10}{3.5.22.5}{195, 313, 3247}

समिन्द्रो॒ गा, अ॑जय॒त्‌ सं हिर᳚ण्या॒ सम॑श्वि॒या म॒घवा॒ यो ह॑ पू॒र्वीः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ए॒भिर्नृभि॒र्नृत॑मो, अस्य शा॒कै रा॒यो वि॑भ॒क्ता स᳚म्भ॒रश्च॒ वस्वः॑ ||{11/21}{4.17.11}{4.2.7.11}{3.5.23.1}{196, 313, 3248}

किय॑त्‌ स्वि॒दिन्द्रो॒, अध्ये᳚ति मा॒तुः किय॑त्‌ पि॒तुर्ज॑नि॒तुर्यो ज॒जान॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

यो, अ॑स्य॒ शुष्मं᳚ मुहु॒कैरिय॑र्ति॒ वातो॒ न जू॒तः स्त॒नय॑द्भिर॒भ्रैः ||{12/21}{4.17.12}{4.2.7.12}{3.5.23.2}{197, 313, 3249}

क्षि॒यन्तं᳚ त्व॒मक्षि॑यन्तं कृणो॒तीय॑र्ति रे॒णुं म॒घवा᳚ स॒मोह᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

वि॒भ॒ञ्ज॒नुर॒शनि॑माँ, इव॒ द्यौरु॒त स्तो॒तारं᳚ म॒घवा॒ वसौ᳚ धात् ||{13/21}{4.17.13}{4.2.7.13}{3.5.23.3}{198, 313, 3250}

अ॒यं च॒क्रमि॑षण॒त्‌ सूर्य॑स्य॒ न्येत॑शं रीरमत्‌ ससृमा॒णम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

आ कृ॒ष्ण ईं᳚ जुहुरा॒णो जि॑घर्ति त्व॒चो बु॒ध्ने रज॑सो, अ॒स्य योनौ᳚ ||{14/21}{4.17.14}{4.2.7.14}{3.5.23.4}{199, 313, 3251}

असि॑क्न्यां॒ यज॑मानो॒ न होता᳚ ||{गौतमो वामदेवः | इन्द्रः | एकपदा विराट्}{15/21}{4.17.15}{4.2.7.15}{3.5.23.5}{200, 313, 3252}
ग॒व्यन्त॒ इन्द्रं᳚ स॒ख्याय॒ विप्रा᳚, अश्वा॒यन्तो॒ वृष॑णं वा॒जय᳚न्तः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ज॒नी॒यन्तो᳚ जनि॒दामक्षि॑तोति॒मा च्या᳚वयामोऽव॒ते न कोश᳚म् ||{16/21}{4.17.16}{4.2.7.16}{3.5.24.1}{201, 313, 3253}

त्रा॒ता नो᳚ बोधि॒ ददृ॑शान आ॒पिर॑भिख्या॒ता म॑र्डि॒ता सो॒म्याना᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

सखा᳚ पि॒ता पि॒तृत॑मः पितॄ॒णां कर्ते᳚मु लो॒कमु॑श॒ते व॑यो॒धाः ||{17/21}{4.17.17}{4.2.7.17}{3.5.24.2}{202, 313, 3254}

स॒खी॒य॒ताम॑वि॒ता बो᳚धि॒ सखा᳚ गृणा॒न इ᳚न्द्र स्तुव॒ते वयो᳚ धाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

व॒यं ह्या ते᳚ चकृ॒मा स॒बाध॑ आ॒भिः शमी᳚भिर्म॒हय᳚न्त इन्द्र ||{18/21}{4.17.18}{4.2.7.18}{3.5.24.3}{203, 313, 3255}

स्तु॒त इन्द्रो᳚ म॒घवा॒ यद्ध॑ वृ॒त्रा भूरी॒ण्येको᳚, अप्र॒तीनि॑ हन्ति |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अ॒स्य प्रि॒यो ज॑रि॒ता यस्य॒ शर्म॒न्नकि॑र्दे॒वा वा॒रय᳚न्ते॒ न मर्ताः᳚ ||{19/21}{4.17.19}{4.2.7.19}{3.5.24.4}{204, 313, 3256}

ए॒वा न॒ इन्द्रो᳚ म॒घवा᳚ विर॒प्शी कर॑त्‌ स॒त्या च॑र्षणी॒धृद॑न॒र्वा |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

त्वं राजा᳚ ज॒नुषां᳚ धेह्य॒स्मे, अधि॒ श्रवो॒ माहि॑नं॒ यज्ज॑रि॒त्रे ||{20/21}{4.17.20}{4.2.7.20}{3.5.24.5}{205, 313, 3257}

नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{21/21}{4.17.21}{4.2.7.21}{3.5.24.6}{206, 313, 3258}

[18] अयंपंथाइति त्रयोदशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः आद्यायाइंद्रऋषिः नहीन्वस्येत्यादिसार्धतिसृणमदितिरृषिका आद्यायावामदेवोदेवता नाहमतइत्यादिपंचार्धर्चानामंत्यानांषण्णामृचांचेंद्रोदेवता नहीन्वस्येतिसार्धतिसृणांवामदेवोदेवतात्रिष्टुप् |
अ॒यं पन्था॒, अनु॑वित्तः पुरा॒णो यतो᳚ दे॒वा, उ॒दजा᳚यन्त॒ विश्वे᳚ |{इन्द्रः | वामदेवः | त्रिष्टुप्}

अत॑श्चि॒दा ज॑निषीष्ट॒ प्रवृ॑द्धो॒ मा मा॒तर॑ममु॒या पत्त॑वे कः ||{1/13}{4.18.1}{4.2.8.1}{3.5.25.1}{207, 314, 3259}

नाहमतो॒ निर॑या दु॒र्गहै॒तत् ति॑र॒श्चता᳚ पा॒र्श्वान्निर्ग॑माणि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ब॒हूनि॑ मे॒, अकृ॑ता॒ कर्त्वा᳚नि॒ युध्यै᳚ त्वेन॒ सं त्वे᳚न पृच्छै ||{2/13}{4.18.2}{4.2.8.2}{3.5.25.2}{208, 314, 3260}

प॒रा॒य॒तीं मा॒तर॒मन्व॑चष्ट॒ न नानु॑ गा॒न्यनु॒ नू ग॑मानि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

त्वष्टु॑र्गृ॒हे, अ॑पिब॒त्‌ सोम॒मिन्द्रः॑ शतध॒न्यं᳚ च॒म्वोः᳚ सु॒तस्य॑ ||{3/13}{4.18.3}{4.2.8.3}{3.5.25.3}{209, 314, 3261}

किं स ऋध॑क्‌ कृणव॒द्यं स॒हस्रं᳚ मा॒सो ज॒भार॑ श॒रद॑श्च पू॒र्वीः |{१/२: गौतमो वामदेवः २/२:अदितिरृषिका | १/२:इन्द्रः २/२:वामदेवः | त्रिष्टुप्}

न॒ही न्व॑स्य प्रति॒मान॒मस्त्य॒न्तर्जा॒तेषू॒त ये जनि॑त्वाः ||{4/13}{4.18.4}{4.2.8.4}{3.5.25.4}{210, 314, 3262}

अ॒व॒द्यमि॑व॒ मन्य॑माना॒ गुहा᳚क॒रिन्द्रं᳚ मा॒ता वी॒र्ये᳚णा॒ न्यृ॑ष्टम् |{अदितिरृषिका | वामदेवः | त्रिष्टुप्}

अथोद॑स्थात्‌ स्व॒यमत्कं॒ वसा᳚न॒ आ रोद॑सी, अपृणा॒ज्जाय॑मानः ||{5/13}{4.18.5}{4.2.8.5}{3.5.25.5}{211, 314, 3263}

ए॒ता, अ॑र्षन्त्यलला॒भव᳚न्तीरृ॒ताव॑रीरिव सं॒क्रोश॑मानाः |{अदितिरृषिका | वामदेवः | त्रिष्टुप्}

ए॒ता वि पृ॑च्छ॒ किमि॒दं भ॑नन्ति॒ कमापो॒, अद्रिं᳚ परि॒धिं रु॑जन्ति ||{6/13}{4.18.6}{4.2.8.6}{3.5.26.1}{212, 314, 3264}

किमु॑ ष्विदस्मै नि॒विदो᳚ भन॒न्तेन्द्र॑स्याव॒द्यं दि॑धिषन्त॒ आपः॑ |{अदितिरृषिका | वामदेवः | त्रिष्टुप्}

ममै॒तान्‌ पु॒त्रो म॑ह॒ता व॒धेन॑ वृ॒त्रं ज॑घ॒न्वाँ, अ॑सृज॒द्वि सिन्धू॑न् ||{7/13}{4.18.7}{4.2.8.7}{3.5.26.2}{213, 314, 3265}

मम॑च्च॒न त्वा᳚ युव॒तिः प॒रास॒ मम॑च्च॒न त्वा᳚ कु॒षवा᳚ ज॒गार॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

मम॑च्चि॒दापः॒ शिश॑वे ममृड्यु॒र्मम॑च्चि॒दिन्द्रः॒ सह॒सोद॑तिष्ठत् ||{8/13}{4.18.8}{4.2.8.8}{3.5.26.3}{214, 314, 3266}

मम॑च्च॒न ते᳚ मघव॒न्‌ व्यं᳚सो निविवि॒ध्वाँ, अप॒ हनू᳚ ज॒घान॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अधा॒ निवि॑द्ध॒ उत्त॑रो बभू॒वाञ्छिरो᳚ दा॒सस्य॒ सं पि॑णग्व॒धेन॑ ||{9/13}{4.18.9}{4.2.8.9}{3.5.26.4}{215, 314, 3267}

गृ॒ष्टिः स॑सूव॒ स्थवि॑रं तवा॒गाम॑नाधृ॒ष्यं वृ॑ष॒भं तुम्र॒मिन्द्र᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अरी᳚ळ्हं व॒त्सं च॒रथा᳚य मा॒ता स्व॒यं गा॒तुं त॒न्व॑ इ॒च्छमा᳚नम् ||{10/13}{4.18.10}{4.2.8.10}{3.5.26.5}{216, 314, 3268}

उ॒त मा॒ता म॑हि॒षमन्व॑वेनद॒मी त्वा᳚ जहति पुत्र दे॒वाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अथा᳚ब्रवीद्‌ वृ॒त्रमिन्द्रो᳚ हनि॒ष्यन् त्सखे᳚ विष्णो वित॒रं वि क्र॑मस्व ||{11/13}{4.18.11}{4.2.8.11}{3.5.26.6}{217, 314, 3269}

कस्ते᳚ मा॒तरं᳚ वि॒धवा᳚मचक्रच्छ॒युं कस्त्वाम॑जिघांस॒च्चर᳚न्तम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

कस्ते᳚ दे॒वो, अधि॑ मार्डी॒क आ᳚सी॒द्‌ यत्‌ प्राक्षि॑णाः पि॒तरं᳚ पाद॒गृह्य॑ ||{12/13}{4.18.12}{4.2.8.12}{3.5.26.7}{218, 314, 3270}

अव॑र्त्या॒ शुन॑ आ॒न्त्राणि॑ पेचे॒ न दे॒वेषु॑ विविदे मर्डि॒तार᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अप॑श्यं जा॒यामम॑हीयमाना॒मधा᳚ मे श्ये॒नो मध्वा ज॑भार ||{13/13}{4.18.13}{4.2.8.13}{3.5.26.8}{219, 314, 3271}

[19] एवात्वामित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |
ए॒वा त्वामि᳚न्द्र वज्रि॒न्नत्र॒ विश्वे᳚ दे॒वासः॑ सु॒हवा᳚स॒ ऊमाः᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

म॒हामु॒भे रोद॑सी वृ॒द्धमृ॒ष्वं निरेक॒मिद्‌ वृ॑णते वृत्र॒हत्ये᳚ ||{1/11}{4.19.1}{4.2.9.1}{3.6.1.1}{220, 315, 3272}

अवा᳚सृजन्त॒ जिव्र॑यो॒ न दे॒वा भुवः॑ स॒म्राळि᳚न्द्र स॒त्ययो᳚निः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अह॒न्नहिं᳚ परि॒शया᳚न॒मर्णः॒ प्र व॑र्त॒नीर॑रदो वि॒श्वधे᳚नाः ||{2/11}{4.19.2}{4.2.9.2}{3.6.1.2}{221, 315, 3273}

अतृ॑प्णुवन्तं॒ विय॑तमबु॒ध्यमबु॑ध्यमानं सुषुपा॒णमि᳚न्द्र |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स॒प्त प्रति॑ प्र॒वत॑ आ॒शया᳚न॒महिं॒ वज्रे᳚ण॒ वि रि॑णा, अप॒र्वन् ||{3/11}{4.19.3}{4.2.9.3}{3.6.1.3}{222, 315, 3274}

अक्षो᳚दय॒च्छव॑सा॒ क्षाम॑ बु॒ध्नं वार्ण वात॒स्तवि॑षीभि॒रिन्द्रः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

दृ॒ळ्हान्यौ᳚भ्नादु॒शमा᳚न॒ ओजोऽवा᳚भिनत्‌ क॒कुभः॒ पर्व॑तानाम् ||{4/11}{4.19.4}{4.2.9.4}{3.6.1.4}{223, 315, 3275}

अ॒भि प्र द॑द्रु॒र्जन॑यो॒ न गर्भं॒ रथा᳚, इव॒ प्र य॑युः सा॒कमद्र॑यः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अत॑र्पयो वि॒सृत॑ उ॒ब्ज ऊ॒र्मीन् त्वं वृ॒ताँ, अ॑रिणा, इन्द्र॒ सिन्धू॑न् ||{5/11}{4.19.5}{4.2.9.5}{3.6.1.5}{224, 315, 3276}

त्वं म॒हीम॒वनिं᳚ वि॒श्वधे᳚नां तु॒र्वीत॑ये व॒य्या᳚य॒ क्षर᳚न्तीम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अर॑मयो॒ नम॒सैज॒दर्णः॑ सुतर॒णाँ, अ॑कृणोरिन्द्र॒ सिन्धू॑न् ||{6/11}{4.19.6}{4.2.9.6}{3.6.2.1}{225, 315, 3277}

प्राग्रुवो᳚ नभ॒न्वो॒३॑(ओ॒) न वक्वा᳚ ध्व॒स्रा, अ॑पिन्वद्‌ युव॒तीरृ॑त॒ज्ञाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

धन्वा॒न्यज्राँ᳚, अपृणक्‌ तृषा॒णाँ, अधो॒गिन्द्रः॑ स्त॒र्यो॒३॑(ओ॒) दंसु॑पत्नीः ||{7/11}{4.19.7}{4.2.9.7}{3.6.2.2}{226, 315, 3278}

पू॒र्वीरु॒षसः॑ श॒रद॑श्च गू॒र्ता वृ॒त्रं ज॑घ॒न्वाँ, अ॑सृज॒द्वि सिन्धू॑न् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

परि॑ष्ठिता, अतृणद्‌ बद्बधा॒नाः सी॒रा, इन्द्रः॒ स्रवि॑तवे पृथि॒व्या ||{8/11}{4.19.8}{4.2.9.8}{3.6.2.3}{227, 315, 3279}

व॒म्रीभिः॑ पु॒त्रम॒ग्रुवो᳚, अदा॒नं नि॒वेश॑नाद्धरिव॒ आ ज॑भर्थ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

व्य१॑(अ॒)न्धो, अ॑ख्य॒दहि॑माददा॒नो निर्भू᳚दुख॒च्छित्‌ सम॑रन्त॒ पर्व॑ ||{9/11}{4.19.9}{4.2.9.9}{3.6.2.4}{228, 315, 3280}

प्र ते॒ पूर्वा᳚णि॒ कर॑णानि विप्राऽऽवि॒द्वाँ, आ᳚ह वि॒दुषे॒ करां᳚सि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

यथा᳚यथा॒ वृष्ण्या᳚नि॒ स्वगू॒र्ताऽपां᳚सि राज॒न्‌ नर्यावि॑वेषीः ||{10/11}{4.19.10}{4.2.9.10}{3.6.2.5}{229, 315, 3281}

नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{11/11}{4.19.11}{4.2.9.11}{3.6.2.6}{230, 315, 3282}

[20] आनइंद्रइत्येकादशर्चस्य सूक्तस्यगौतमोवामदेव इंद्रस्त्रिष्टुप् |
आ न॒ इन्द्रो᳚ दू॒रादा न॑ आ॒साद॑भिष्टि॒कृदव॑से यासदु॒ग्रः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ओजि॑ष्ठेभिर्नृ॒पति॒र्वज्र॑बाहुः सं॒गे स॒मत्सु॑ तु॒र्वणिः॑ पृत॒न्यून् ||{1/11}{4.20.1}{4.2.10.1}{3.6.3.1}{231, 316, 3283}

आ न॒ इन्द्रो॒ हरि॑भिर्या॒त्वच्छा᳚ऽर्वाची॒नोऽव॑से॒ राध॑से च |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

तिष्ठा᳚ति व॒ज्री म॒घवा᳚ विर॒प्शीमं य॒ज्ञमनु॑ नो॒ वाज॑सातौ ||{2/11}{4.20.2}{4.2.10.2}{3.6.3.2}{232, 316, 3284}

इ॒मं य॒ज्ञं त्वम॒स्माक॑मिन्द्र पु॒रो दध॑त्‌ सनिष्यसि॒ क्रतुं᳚ नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

श्व॒घ्नीव॑ वज्रिन्‌ त्स॒नये॒ धना᳚नां॒ त्वया᳚ व॒यम॒र्य आ॒जिं ज॑येम ||{3/11}{4.20.3}{4.2.10.3}{3.6.3.3}{233, 316, 3285}

उ॒शन्नु॒ षु णः॑ सु॒मना᳚, उपा॒के सोम॑स्य॒ नु सुषु॑तस्य स्वधावः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

पा, इ᳚न्द्र॒ प्रति॑भृतस्य॒ मध्वः॒ समन्ध॑सा ममदः पृ॒ष्ठ्ये᳚न ||{4/11}{4.20.4}{4.2.10.4}{3.6.3.4}{234, 316, 3286}

वि यो र॑र॒प्श ऋषि॑भि॒र्नवे᳚भिर्वृ॒क्षो न प॒क्वः सृण्यो॒ न जेता᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

मर्यो॒ न योषा᳚म॒भि मन्य॑मा॒नोऽच्छा᳚ विवक्मि पुरुहू॒तमिन्द्र᳚म् ||{5/11}{4.20.5}{4.2.10.5}{3.6.3.5}{235, 316, 3287}

गि॒रिर्न यः स्वत॑वाँ, ऋ॒ष्व इन्द्रः॑ स॒नादे॒व सह॑से जा॒त उ॒ग्रः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

आद॑र्ता॒ वज्रं॒ स्थवि॑रं॒ न भी॒म उ॒द्नेव॒ कोशं॒ वसु॑ना॒ न्यृ॑ष्टम् ||{6/11}{4.20.6}{4.2.10.6}{3.6.4.1}{236, 316, 3288}

न यस्य॑ व॒र्ता ज॒नुषा॒ न्वस्ति॒ न राध॑स आमरी॒ता म॒घस्य॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

उ॒द्वा॒वृ॒षा॒णस्त॑विषीव उग्रा॒ऽस्मभ्यं᳚ दद्धि पुरुहूत रा॒यः ||{7/11}{4.20.7}{4.2.10.7}{3.6.4.2}{237, 316, 3289}

ईक्षे᳚ रा॒यः, क्षय॑स्य चर्षणी॒नामु॒त व्र॒जम॑पव॒र्तासि॒ गोना᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

शि॒क्षा॒न॒रः स॑मि॒थेषु॑ प्र॒हावा॒न् वस्वो᳚ रा॒शिम॑भिने॒तासि॒ भूरि᳚म् ||{8/11}{4.20.8}{4.2.10.8}{3.6.4.3}{238, 316, 3290}

कया॒ तच्छृ᳚ण्वे॒ शच्या॒ शचि॑ष्ठो॒ यया᳚ कृ॒णोति॒ मुहु॒ का चि॑दृ॒ष्वः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

पु॒रु दा॒शुषे॒ विच॑यिष्ठो॒, अंहोऽथा᳚ दधाति॒ द्रवि॑णं जरि॒त्रे ||{9/11}{4.20.9}{4.2.10.9}{3.6.4.4}{239, 316, 3291}

मा नो᳚ मर्धी॒रा भ॑रा द॒द्धि तन्नः॒ प्र दा॒शुषे॒ दात॑वे॒ भूरि॒ यत्ते᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

नव्ये᳚ दे॒ष्णे श॒स्ते, अ॒स्मिन्त॑ उ॒क्थे प्र ब्र॑वाम व॒यमि᳚न्द्र स्तु॒वन्तः॑ ||{10/11}{4.20.10}{4.2.10.10}{3.6.4.5}{240, 316, 3292}

नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{11/11}{4.20.11}{4.2.10.11}{3.6.4.6}{241, 316, 3293}

[21] आयात्विंद्र इत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |
आ या॒त्विन्द्रोऽव॑स॒ उप॑ न इ॒ह स्तु॒तः स॑ध॒माद॑स्तु॒ शूरः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑ पू॒र्वीर्द्यौर्न क्ष॒त्रम॒भिभू᳚ति॒ पुष्या᳚त् ||{1/11}{4.21.1}{4.2.11.1}{3.6.5.1}{242, 317, 3294}

तस्येदि॒ह स्त॑वथ॒ वृष्ण्या᳚नि तुविद्यु॒म्नस्य॑ तुवि॒राध॑सो॒ नॄन् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

यस्य॒ क्रतु᳚र्विद॒थ्यो॒३॑(ओ॒) न स॒म्राट् सा॒ह्वान्‌ तरु॑त्रो, अ॒भ्यस्ति॑ कृ॒ष्टीः ||{2/11}{4.21.2}{4.2.11.2}{3.6.5.2}{243, 317, 3295}

आ या॒त्विन्द्रो᳚ दि॒व आ पृ॑थि॒व्या म॒क्षू स॑मु॒द्रादु॒त वा॒ पुरी᳚षात् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स्व᳚र्णरा॒दव॑से नो म॒रुत्वा᳚न् परा॒वतो᳚ वा॒ सद॑नादृ॒तस्य॑ ||{3/11}{4.21.3}{4.2.11.3}{3.6.5.3}{244, 317, 3296}

स्थू॒रस्य॑ रा॒यो बृ॑ह॒तो य ईशे॒ तमु॑ ष्टवाम वि॒दथे॒ष्विन्द्र᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

यो वा॒युना॒ जय॑ति॒ गोम॑तीषु॒ प्र धृ॑ष्णु॒या नय॑ति॒ वस्यो॒, अच्छ॑ ||{4/11}{4.21.4}{4.2.11.4}{3.6.5.4}{245, 317, 3297}

उप॒ यो नमो॒ नम॑सि स्तभा॒यन्निय॑र्ति॒ वाचं᳚ ज॒नय॒न्‌ यज॑ध्यै |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ऋ॒ञ्ज॒सा॒नः पु॑रु॒वार॑ उ॒क्थैरेन्द्रं᳚ कृण्वीत॒ सद॑नेषु॒ होता᳚ ||{5/11}{4.21.5}{4.2.11.5}{3.6.5.5}{246, 317, 3298}

धि॒षा यदि॑ धिष॒ण्यन्तः॑ सर॒ण्यान् त्सद᳚न्तो॒, अद्रि॑मौशि॒जस्य॒ गोहे᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

आ दु॒रोषाः᳚ पा॒स्त्यस्य॒ होता॒ यो नो᳚ म॒हान्‌ त्सं॒वर॑णेषु॒ वह्निः॑ ||{6/11}{4.21.6}{4.2.11.6}{3.6.6.1}{247, 317, 3299}

स॒त्रा यदीं᳚ भार्व॒रस्य॒ वृष्णः॒ सिष॑क्ति॒ शुष्मः॑ स्तुव॒ते भरा᳚य |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

गुहा॒ यदी᳚मौशि॒जस्य॒ गोहे॒ प्र यद्धि॒ये प्राय॑से॒ मदा᳚य ||{7/11}{4.21.7}{4.2.11.7}{3.6.6.2}{248, 317, 3300}

वि यद्वरां᳚सि॒ पर्व॑तस्य वृ॒ण्वे पयो᳚भिर्जि॒न्वे, अ॒पां जवां᳚सि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

वि॒दद्‌ गौ॒रस्य॑ गव॒यस्य॒ गोहे॒ यदी॒ वाजा᳚य सु॒ध्यो॒३॑(ओ॒) वह᳚न्ति ||{8/11}{4.21.8}{4.2.11.8}{3.6.6.3}{249, 317, 3301}

भ॒द्रा ते॒ हस्ता॒ सुकृ॑तो॒त पा॒णी प्र॑य॒न्तारा᳚ स्तुव॒ते राध॑ इन्द्र |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

का ते॒ निष॑त्तिः॒ किमु॒ नो म॑मत्सि॒ किं नोदु॑दु हर्षसे॒ दात॒वा, उ॑ ||{9/11}{4.21.9}{4.2.11.9}{3.6.6.4}{250, 317, 3302}

ए॒वा वस्व॒ इन्द्रः॑ स॒त्यः स॒म्राड्ढन्ता᳚ वृ॒त्रं वरि॑वः पू॒रवे᳚ कः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

पुरु॑ष्टुत॒ क्रत्वा᳚ नः शग्धि रा॒यो भ॑क्षी॒य तेऽव॑सो॒ दैव्य॑स्य ||{10/11}{4.21.10}{4.2.11.10}{3.6.6.5}{251, 317, 3303}

नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{11/11}{4.21.11}{4.2.11.11}{3.6.6.6}{252, 317, 3304}

[22] यन्नइंद्र इत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |
यन्न॒ इन्द्रो᳚ जुजु॒षे यच्च॒ वष्टि॒ तन्नो᳚ म॒हान्‌ क॑रति शु॒ष्म्या चि॑त् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ब्रह्म॒ स्तोमं᳚ म॒घवा॒ सोम॑मु॒क्था यो, अश्मा᳚नं॒ शव॑सा॒ बिभ्र॒देति॑ ||{1/11}{4.22.1}{4.3.1.1}{3.6.7.1}{253, 318, 3305}

वृषा॒ वृष᳚न्धिं॒ चतु॑रश्रि॒मस्य᳚न्नु॒ग्रो बा॒हुभ्यां॒ नृत॑मः॒ शची᳚वान् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

श्रि॒ये परु॑ष्णीमु॒षमा᳚ण॒ ऊर्णां॒ यस्याः॒ पर्वा᳚णि स॒ख्याय॑ वि॒व्ये ||{2/11}{4.22.2}{4.3.1.2}{3.6.7.2}{254, 318, 3306}

यो दे॒वो दे॒वत॑मो॒ जाय॑मानो म॒हो वाजे᳚भिर्म॒हद्भि॑श्च॒ शुष्मैः᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

दधा᳚नो॒ वज्रं᳚ बा॒ह्वोरु॒शन्तं॒ द्याममे᳚न रेजय॒त्‌ प्र भूम॑ ||{3/11}{4.22.3}{4.3.1.3}{3.6.7.3}{255, 318, 3307}

विश्वा॒ रोधां᳚सि प्र॒वत॑श्च पू॒र्वीर्द्यौरृ॒ष्वाज्जनि॑मन्‌ रेजत॒ क्षाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

आ मा॒तरा॒ भर॑ति शु॒ष्म्या गोर्नृ॒वत्‌ परि॑ज्मन्‌ नोनुवन्त॒ वाताः᳚ ||{4/11}{4.22.4}{4.3.1.4}{3.6.7.4}{256, 318, 3308}

ता तू त॑ इन्द्र मह॒तो म॒हानि॒ विश्वे॒ष्वित्‌ सव॑नेषु प्र॒वाच्या᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

यच्छू᳚र धृष्णो धृष॒ता द॑धृ॒ष्वानहिं॒ वज्रे᳚ण॒ शव॒सावि॑वेषीः ||{5/11}{4.22.5}{4.3.1.5}{3.6.7.5}{257, 318, 3309}

ता तू ते᳚ स॒त्या तु॑विनृम्ण॒ विश्वा॒ प्र धे॒नवः॑ सिस्रते॒ वृष्ण॒ ऊध्नः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अधा᳚ ह॒ त्वद्‌ वृ॑षमणो भिया॒नाः प्र सिन्ध॑वो॒ जव॑सा चक्रमन्त ||{6/11}{4.22.6}{4.3.1.6}{3.6.8.1}{258, 318, 3310}

अत्राह॑ ते हरिव॒स्ता, उ॑ दे॒वीरवो᳚भिरिन्द्र स्तवन्त॒ स्वसा᳚रः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

यत्सी॒मनु॒ प्र मु॒चो ब॑द्बधा॒ना दी॒र्घामनु॒ प्रसि॑तिं स्यन्द॒यध्यै᳚ ||{7/11}{4.22.7}{4.3.1.7}{3.6.8.2}{259, 318, 3311}

पि॒पी॒ळे, अं॒शुर्मद्यो॒ न सिन्धु॒रा त्वा॒ शमी᳚ शशमा॒नस्य॑ श॒क्तिः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अ॒स्म॒द्र्य॑क्‌ छुशुचा॒नस्य॑ यम्या, आ॒शुर्न र॒श्मिं तु॒व्योज॑सं॒ गोः ||{8/11}{4.22.8}{4.3.1.8}{3.6.8.3}{260, 318, 3312}

अ॒स्मे वर्षि॑ष्ठा कृणुहि॒ ज्येष्ठा᳚ नृ॒म्णानि॑ स॒त्रा स॑हुरे॒ सहां᳚सि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अ॒स्मभ्यं᳚ वृ॒त्रा सु॒हना᳚नि रन्धि ज॒हि वध᳚र्व॒नुषो॒ मर्त्य॑स्य ||{9/11}{4.22.9}{4.3.1.9}{3.6.8.4}{261, 318, 3313}

अ॒स्माक॒मित्‌ सु शृ॑णुहि॒ त्वमि᳚न्द्रा॒ऽस्मभ्यं᳚ चि॒त्राँ, उप॑ माहि॒ वाजा॑न् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अ॒स्मभ्यं॒ विश्वा᳚, इषणः॒ पुरं᳚धीर॒स्माकं॒ सु म॑घवन्‌ बोधि गो॒दाः ||{10/11}{4.22.10}{4.3.1.10}{3.6.8.5}{262, 318, 3314}

नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{11/11}{4.22.11}{4.3.1.11}{3.6.8.6}{263, 318, 3315}

[23] कथामहामित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् ( अंत्यानांतिसृणांऋतंदेवतावा ) |
क॒था म॒हाम॑वृध॒त्‌ कस्य॒ होतु᳚र्य॒ज्ञं जु॑षा॒णो, अ॒भि सोम॒मूधः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

पिब᳚न्नुशा॒नो जु॒षमा᳚णो॒, अन्धो᳚ वव॒क्ष ऋ॒ष्वः शु॑च॒ते धना᳚य ||{1/11}{4.23.1}{4.3.2.1}{3.6.9.1}{264, 319, 3316}

को, अ॑स्य वी॒रः स॑ध॒माद॑माप॒ समा᳚नंश सुम॒तिभिः॒ को, अ॑स्य |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

कद॑स्य चि॒त्रं चि॑किते॒ कदू॒ती वृ॒धे भु॑वच्छशमा॒नस्य॒ यज्योः᳚ ||{2/11}{4.23.2}{4.3.2.2}{3.6.9.2}{265, 319, 3317}

क॒था शृ॑णोति हू॒यमा᳚न॒मिन्द्रः॑ क॒था शृ॒ण्वन्नव॑सामस्य वेद |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

का, अ॑स्य पू॒र्वीरुप॑मातयो ह क॒थैन॑माहुः॒ पपु॑रिं जरि॒त्रे ||{3/11}{4.23.3}{4.3.2.3}{3.6.9.3}{266, 319, 3318}

क॒था स॒बाधः॑ शशमा॒नो, अ॑स्य॒ नश॑द॒भि द्रवि॑णं॒ दीध्या᳚नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

दे॒वो भु॑व॒न्नवे᳚दा म ऋ॒तानां॒ नमो᳚ जगृ॒भ्वाँ, अ॒भि यज्जुजो᳚षत् ||{4/11}{4.23.4}{4.3.2.4}{3.6.9.4}{267, 319, 3319}

क॒था कद॒स्या, उ॒षसो॒ व्यु॑ष्टौ दे॒वो मर्त॑स्य स॒ख्यं जु॑जोष |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

क॒था कद॑स्य स॒ख्यं सखि॑भ्यो॒ ये, अ॑स्मि॒न्‌ कामं᳚ सु॒युजं᳚ तत॒स्रे ||{5/11}{4.23.5}{4.3.2.5}{3.6.9.5}{268, 319, 3320}

किमादम॑त्रं स॒ख्यं सखि॑भ्यः क॒दा नु ते᳚ भ्रा॒त्रं प्र ब्र॑वाम |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

श्रि॒ये सु॒दृशो॒ वपु॑रस्य॒ सर्गाः॒ स्व१॑(अ॒)र्ण चि॒त्रत॑ममिष॒ आ गोः ||{6/11}{4.23.6}{4.3.2.6}{3.6.10.1}{269, 319, 3321}

द्रुहं॒ जिघां᳚सन्‌ ध्व॒रस॑मनि॒न्द्रां तेति॑क्ते ति॒ग्मा तु॒जसे॒, अनी᳚का |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ऋ॒णा चि॒द्यत्र॑ ऋण॒या न॑ उ॒ग्रो दू॒रे, अज्ञा᳚ता, उ॒षसो᳚ बबा॒धे ||{7/11}{4.23.7}{4.3.2.7}{3.6.10.2}{270, 319, 3322}

ऋ॒तस्य॒ हि शु॒रुधः॒ सन्ति॑ पू॒र्वीरृ॒तस्य॑ धी॒तिर्वृ॑जि॒नानि॑ हन्ति |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ऋ॒तस्य॒ श्लोको᳚ बधि॒रा त॑तर्द॒ कर्णा᳚ बुधा॒नः शु॒चमा᳚न आ॒योः ||{8/11}{4.23.8}{4.3.2.8}{3.6.10.3}{271, 319, 3323}

ऋ॒तस्य॑ दृ॒ळ्हा ध॒रुणा᳚नि सन्ति पु॒रूणि॑ च॒न्द्रा वपु॑षे॒ वपूं᳚षि |{गौतमो वामदेवः | इन्द्रऱ्‌ऱितदेवता वा | त्रिष्टुप्}

ऋ॒तेन॑ दी॒र्घमि॑षणन्त॒ पृक्ष॑ ऋ॒तेन॒ गाव॑ ऋ॒तमा वि॑वेशुः ||{9/11}{4.23.9}{4.3.2.9}{3.6.10.4}{272, 319, 3324}

ऋ॒तं ये᳚मा॒न ऋ॒तमिद्‌ व॑नोत्यृ॒तस्य॒ शुष्म॑स्तुर॒या, उ॑ ग॒व्युः |{गौतमो वामदेवः | इन्द्रऱ्‌ऱितदेवता वा | त्रिष्टुप्}

ऋ॒ताय॑ पृ॒थ्वी ब॑हु॒ले ग॑भी॒रे, ऋ॒ताय॑ धे॒नू प॑र॒मे दु॑हाते ||{10/11}{4.23.10}{4.3.2.10}{3.6.10.5}{273, 319, 3325}

नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |{गौतमो वामदेवः | इन्द्रऱ्‌ऱितदेवता वा | त्रिष्टुप्}

अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{11/11}{4.23.11}{4.3.2.11}{3.6.10.6}{274, 319, 3326}

[24] कासुष्टुतिरित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |
का सु॑ष्टु॒तिः शव॑सः सू॒नुमिन्द्र॑मर्वाची॒नं राध॑स॒ आ व॑वर्तत् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

द॒दिर्हि वी॒रो गृ॑ण॒ते वसू᳚नि॒ स गोप॑तिर्नि॒ष्षिधां᳚ नो जनासः ||{1/11}{4.24.1}{4.3.3.1}{3.6.11.1}{275, 320, 3327}

स वृ॑त्र॒हत्ये॒ हव्यः॒ स ईड्यः॒ स सुष्टु॑त॒ इन्द्रः॑ स॒त्यरा᳚धाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स याम॒न्ना म॒घवा॒ मर्त्या᳚य ब्रह्मण्य॒ते सुष्व॑ये॒ वरि॑वो धात् ||{2/11}{4.24.2}{4.3.3.2}{3.6.11.2}{276, 320, 3328}

तमिन्नरो॒ वि ह्व॑यन्ते समी॒के रि॑रि॒क्वांस॑स्त॒न्वः॑ कृण्वत॒ त्राम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

मि॒थो यत्‌ त्या॒गमु॒भया᳚सो॒, अग्म॒न् नर॑स्तो॒कस्य॒ तन॑यस्य सा॒तौ ||{3/11}{4.24.3}{4.3.3.3}{3.6.11.3}{277, 320, 3329}

क्र॒तू॒यन्ति॑ क्षि॒तयो॒ योग॑ उग्राऽऽशुषा॒णासो᳚ मि॒थो, अर्ण॑सातौ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

सं यद्विशोऽव॑वृत्रन्त यु॒ध्मा, आदिन्नेम॑ इन्द्रयन्ते, अ॒भीके᳚ ||{4/11}{4.24.4}{4.3.3.4}{3.6.11.4}{278, 320, 3330}

आदिद्ध॒ नेम॑ इन्द्रि॒यं य॑जन्त॒ आदित्‌ प॒क्तिः पु॑रो॒ळाशं᳚ रिरिच्यात् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

आदित्सोमो॒ वि प॑पृच्या॒दसु॑ष्वी॒नादिज्जु॑जोष वृष॒भं यज॑ध्यै ||{5/11}{4.24.5}{4.3.3.5}{3.6.11.5}{279, 320, 3331}

कृ॒णोत्य॑स्मै॒ वरि॑वो॒ य इ॒त्थेन्द्रा᳚य॒ सोम॑मुश॒ते सु॒नोति॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स॒ध्री॒चीने᳚न॒ मन॒सावि॑वेन॒न् तमित्सखा᳚यं कृणुते स॒मत्सु॑ ||{6/11}{4.24.6}{4.3.3.6}{3.6.12.1}{280, 320, 3332}

य इन्द्रा᳚य सु॒नव॒त्‌ सोम॑म॒द्य पचा᳚त्‌ प॒क्तीरु॒त भृ॒ज्जाति॑ धा॒नाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

प्रति॑ मना॒योरु॒चथा᳚नि॒ हर्य॒न् तस्मि᳚न्‌ दध॒द्‌ वृष॑णं॒ शुष्म॒मिन्द्रः॑ ||{7/11}{4.24.7}{4.3.3.7}{3.6.12.2}{281, 320, 3333}

य॒दा स॑म॒र्यं व्यचे॒दृघा᳚वा दी॒र्घं यदा॒जिम॒भ्यख्य॑द॒र्यः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अचि॑क्रद॒द्‌ वृष॑णं॒ पत्न्यच्छा᳚ दुरो॒ण आ निशि॑तं सोम॒सुद्भिः॑ ||{8/11}{4.24.8}{4.3.3.8}{3.6.12.3}{282, 320, 3334}

भूय॑सा व॒स्नम॑चर॒त्‌ कनी॒योऽवि॑क्रीतो, अकानिषं॒ पुन॒र्यन् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स भूय॑सा॒ कनी᳚यो॒ नारि॑रेचीद् दी॒ना दक्षा॒ वि दु॑हन्ति॒ प्र वा॒णम् ||{9/11}{4.24.9}{4.3.3.9}{3.6.12.4}{283, 320, 3335}

क इ॒मं द॒शभि॒र्ममेन्द्रं᳚ क्रीणाति धे॒नुभिः॑ |{गौतमो वामदेवः | इन्द्रः | अनुष्टुप्}

य॒दा वृ॒त्राणि॒ जङ्घ॑न॒दथै᳚नं मे॒ पुन॑र्ददत् ||{10/11}{4.24.10}{4.3.3.10}{3.6.12.5}{284, 320, 3336}

नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{11/11}{4.24.11}{4.3.3.11}{3.6.12.6}{285, 320, 3337}

[25] कोअद्येत्यष्टर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |
को, अ॒द्य नर्यो᳚ दे॒वका᳚म उ॒शन्निन्द्र॑स्य स॒ख्यं जु॑जोष |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

को वा᳚ म॒हेऽव॑से॒ पार्या᳚य॒ समि॑द्धे, अ॒ग्नौ सु॒तसो᳚म ईट्टे ||{1/8}{4.25.1}{4.3.4.1}{3.6.13.1}{286, 321, 3338}

को ना᳚नाम॒ वच॑सा सो॒म्याय॑ मना॒युर्वा᳚ भवति॒ वस्त॑ उ॒स्राः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

क इन्द्र॑स्य॒ युज्यं॒ कः स॑खि॒त्वं को भ्रा॒त्रं व॑ष्टि क॒वये॒ क ऊ॒ती ||{2/8}{4.25.2}{4.3.4.2}{3.6.13.2}{287, 321, 3339}

को दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीते॒ क आ᳚दि॒त्याँ, अदि॑तिं॒ ज्योति॑रीट्टे |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

कस्या॒श्विना॒विन्द्रो᳚, अ॒ग्निः सु॒तस्यां॒ऽशोः पि॑बन्ति॒ मन॒सावि॑वेनम् ||{3/8}{4.25.3}{4.3.4.3}{3.6.13.3}{288, 321, 3340}

तस्मा᳚, अ॒ग्निर्भार॑तः॒ शर्म॑ यंस॒ज्ज्योक्‌ प॑श्या॒त्‌ सूर्य॑मु॒च्चर᳚न्तम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

य इन्द्रा᳚य सु॒नवा॒मेत्याह॒ नरे॒ नर्या᳚य॒ नृत॑माय नृ॒णाम् ||{4/8}{4.25.4}{4.3.4.4}{3.6.13.4}{289, 321, 3341}

न तं जि॑नन्ति ब॒हवो॒ न द॒भ्रा, उ॒र्व॑स्मा॒, अदि॑तिः॒ शर्म॑ यंसत् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

प्रि॒यः सु॒कृत्‌ प्रि॒य इन्द्रे᳚ मना॒युः प्रि॒यः सु॑प्रा॒वीः प्रि॒यो, अ॑स्य सो॒मी ||{5/8}{4.25.5}{4.3.4.5}{3.6.13.5}{290, 321, 3342}

सु॒प्रा॒व्यः॑ प्राशु॒षाळे॒ष वी॒रः सुष्वेः᳚ प॒क्तिं कृ॑णुते॒ केव॒लेन्द्रः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

नासु॑ष्वेरा॒पिर्न सखा॒ न जा॒मिर्दु॑ष्प्रा॒व्यो᳚ऽवह॒न्तेदवा᳚चः ||{6/8}{4.25.6}{4.3.4.6}{3.6.14.1}{291, 321, 3343}

न रे॒वता᳚ प॒णिना᳚ स॒ख्यमिन्द्रोऽसु᳚न्वता सुत॒पाः सं गृ॑णीते |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

आस्य॒ वेदः॑ खि॒दति॒ हन्ति॑ न॒ग्नं वि सुष्व॑ये प॒क्तये॒ केव॑लो भूत् ||{7/8}{4.25.7}{4.3.4.7}{3.6.14.2}{292, 321, 3344}

इन्द्रं॒ परेऽव॑रे मध्य॒मास॒ इन्द्रं॒ यान्तोऽव॑सितास॒ इन्द्र᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

इन्द्रं᳚ क्षि॒यन्त॑ उ॒त युध्य॑माना॒, इन्द्रं॒ नरो᳚ वाज॒यन्तो᳚ हवन्ते ||{8/8}{4.25.8}{4.3.4.8}{3.6.14.3}{293, 321, 3345}

[26] अहंमनुरिति सप्तर्चस्य सूक्तस्य गौतमोवामदेवःआद्यानांतिसृणामात्मा देवता अंत्यानांचतसृणांश्येनस्त्रिष्टुप् (आद्यतृचेवामदेवेंद्रयोरृषित्वविकल्पमाहुः केचित्) |
अ॒हं मनु॑रभवं॒ सूर्य॑श्चा॒ऽहं क॒क्षीवाँ॒, ऋषि॑रस्मि॒ विप्रः॑ |{गौतमो वामदेवः, इन्द्रः | इन्द्रः, आत्माः | त्रिष्टुप्}

अ॒हं कुत्स॑मार्जुने॒यं न्यृ᳚ञ्जे॒ऽहं क॒विरु॒शना॒ पश्य॑ता मा ||{1/7}{4.26.1}{4.3.5.1}{3.6.15.1}{294, 322, 3346}

अ॒हं भूमि॑मददा॒मार्या᳚या॒ऽहं वृ॒ष्टिं दा॒शुषे॒ मर्त्या᳚य |{गौतमो वामदेवः, इन्द्रः | इन्द्रः, आत्माः | त्रिष्टुप्}

अ॒हम॒पो, अ॑नयं वावशा॒ना मम॑ दे॒वासो॒, अनु॒ केत॑मायन् ||{2/7}{4.26.2}{4.3.5.2}{3.6.15.2}{295, 322, 3347}

अ॒हं पुरो᳚ मन्दसा॒नो व्यै᳚रं॒ नव॑ सा॒कं न॑व॒तीः शम्ब॑रस्य |{गौतमो वामदेवः, इन्द्रः | इन्द्रः, आत्माः | त्रिष्टुप्}

श॒त॒त॒मं वे॒श्यं᳚ स॒र्वता᳚ता॒ दिवो᳚दासमतिथि॒ग्वं यदाव᳚म् ||{3/7}{4.26.3}{4.3.5.3}{3.6.15.3}{296, 322, 3348}

प्र सु ष विभ्यो᳚ मरुतो॒ विर॑स्तु॒ प्र श्ये॒नः श्ये॒नेभ्य॑ आशु॒पत्वा᳚ |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

अ॒च॒क्रया॒ यत्‌ स्व॒धया᳚ सुप॒र्णो ह॒व्यं भर॒न्मन॑वे दे॒वजु॑ष्टम् ||{4/7}{4.26.4}{4.3.5.4}{3.6.15.4}{297, 322, 3349}

भर॒द्यदि॒ विरतो॒ वेवि॑जानः प॒थोरुणा॒ मनो᳚जवा, असर्जि |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

तूयं᳚ ययौ॒ मधु॑ना सो॒म्येनो॒त श्रवो᳚ विविदे श्ये॒नो, अत्र॑ ||{5/7}{4.26.5}{4.3.5.5}{3.6.15.5}{298, 322, 3350}

ऋ॒जी॒पी श्ये॒नो दद॑मानो, अं॒शुं प॑रा॒वतः॑ शकु॒नो म॒न्द्रं मद᳚म् |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

सोमं᳚ भरद्‌ दादृहा॒णो दे॒वावा᳚न् दि॒वो, अ॒मुष्मा॒दुत्त॑रादा॒दाय॑ ||{6/7}{4.26.6}{4.3.5.6}{3.6.15.6}{299, 322, 3351}

आ॒दाय॑ श्ये॒नो, अ॑भर॒त्‌ सोमं᳚ स॒हस्रं᳚ स॒वाँ, अ॒युतं᳚ च सा॒कम् |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

अत्रा॒ पुरं᳚धिरजहा॒दरा᳚ती॒र्मदे॒ सोम॑स्य मू॒रा, अमू᳚रः ||{7/7}{4.26.7}{4.3.5.7}{3.6.15.7}{300, 322, 3352}

[27] गर्भेन्विति पंचर्चस्य सूक्तस्य गौतमोवामदेवः श्येनस्त्रिष्टुबन्त्याशक्वरी (परानवाष्टौवेत्यनुक्रमण्या मुक्तेरधश्वेतमित्यस्यां पाक्षिकींद्रदेवता यदिश्येनदेवतायाअष्टर्चत्वंस्वीकृतंचेत्) |
गर्भे॒ नु सन्नन्वे᳚षामवेदम॒हं दे॒वानां॒ जनि॑मानि॒ विश्वा᳚ |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

श॒तं मा॒ पुर॒ आय॑सीररक्ष॒न्नध॑ श्ये॒नो ज॒वसा॒ निर॑दीयम् ||{1/5}{4.27.1}{4.3.6.1}{3.6.16.1}{301, 323, 3353}

न घा॒ स मामप॒ जोषं᳚ जभारा॒ऽभीमा᳚स॒ त्वक्ष॑सा वी॒र्ये᳚ण |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

ई॒र्मा पुरं᳚धिरजहा॒दरा᳚तीरु॒त वाताँ᳚, अतर॒च्छूशु॑वानः ||{2/5}{4.27.2}{4.3.6.2}{3.6.16.2}{302, 323, 3354}

अव॒ यच्छ्ये॒नो, अस्व॑नी॒दध॒ द्योर्वि यद्यदि॒ वात॑ ऊ॒हुः पुरं᳚धिम् |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

सृ॒जद्यद॑स्मा॒, अव॑ ह क्षि॒पज्ज्यां कृ॒शानु॒रस्ता॒ मन॑सा भुर॒ण्यन् ||{3/5}{4.27.3}{4.3.6.3}{3.6.16.3}{303, 323, 3355}

ऋ॒जि॒प्य ई॒मिन्द्रा᳚वतो॒ न भु॒ज्युं श्ये॒नो ज॑भार बृह॒तो, अधि॒ ष्णोः |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

अ॒न्तः प॑तत्‌ पत॒त्र्य॑स्य प॒र्णमध॒ याम॑नि॒ प्रसि॑तस्य॒ तद्वेः ||{4/5}{4.27.4}{4.3.6.4}{3.6.16.4}{304, 323, 3356}

अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तमा᳚पिप्या॒नं म॒घवा᳚ शु॒क्रमन्धः॑ |{गौतमो वामदेवः | श्येनः, इन्द्रः | शक्वरी}

अ॒ध्व॒र्युभिः॒ प्रय॑तं॒ मध्वो॒, अग्र॒मिन्द्रो॒ मदा᳚य॒ प्रति॑ ध॒त्‌ पिब॑ध्यै॒ शूरो॒ मदा᳚य॒ प्रति॑ ध॒त्‌ पिब॑ध्यै ||{5/5}{4.27.5}{4.3.6.5}{3.6.16.5}{305, 323, 3357}

[28] त्वायुजेति पंचर्चस्य सूक्तस्य गौतमोवामदेव इंद्रत्रिष्टुप् (इंद्रासोमौवा देवते) |
त्वा यु॒जा तव॒ तत्‌ सो᳚म स॒ख्य इन्द्रो᳚, अ॒पो मन॑वे स॒स्रुत॑स्कः |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्}

अह॒न्नहि॒मरि॑णात्‌ स॒प्त सिन्धू॒नपा᳚वृणो॒दपि॑हितेव॒ खानि॑ ||{1/5}{4.28.1}{4.3.7.1}{3.6.17.1}{306, 324, 3358}

त्वा यु॒जा नि खि॑द॒त्‌ सूर्य॒स्येन्द्र॑श्च॒क्रं सह॑सा स॒द्य इ᳚न्दो |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्}

अधि॒ ष्णुना᳚ बृह॒ता वर्त॑मानं म॒हो द्रु॒हो, अप॑ वि॒श्वायु॑ धायि ||{2/5}{4.28.2}{4.3.7.2}{3.6.17.2}{307, 324, 3359}

अह॒न्निन्द्रो॒, अद॑हद॒ग्निरि᳚न्दो पु॒रा दस्यू᳚न्‌ म॒ध्यंदि॑नाद॒भीके᳚ |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्}

दु॒र्गे दु॑रो॒णे क्रत्वा॒ न या॒तां पु॒रू स॒हस्रा॒ शर्वा॒ नि ब᳚र्हीत् ||{3/5}{4.28.3}{4.3.7.3}{3.6.17.3}{308, 324, 3360}

विश्व॑स्मात्‌ सीमध॒माँ, इ᳚न्द्र॒ दस्यू॒न् विशो॒ दासी᳚रकृणोरप्रश॒स्ताः |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्}

अबा᳚धेथा॒ममृ॑णतं॒ नि शत्रू॒नवि᳚न्देथा॒मप॑चितिं॒ वध॑त्रैः ||{4/5}{4.28.4}{4.3.7.4}{3.6.17.4}{309, 324, 3361}

ए॒वा स॒त्यं म॑घवाना यु॒वं तदिन्द्र॑श्च सोमो॒र्वमश्व्यं॒ गोः |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्}

आद॑र्दृत॒मपि॑हिता॒न्यश्ना᳚ रिरि॒चथुः॒, क्षाश्चि॑त्‌ ततृदा॒ना ||{5/5}{4.28.5}{4.3.7.5}{3.6.17.5}{310, 324, 3362}

[29] आनःस्तुतइति पंचर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |
आ नः॑ स्तु॒त उप॒ वाजे᳚भिरू॒ती, इन्द्र॑ या॒हि हरि॑भिर्मन्दसा॒नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ति॒रश्चि॑द॒र्यः सव॑ना पु॒रूण्या᳚ङ्गू॒षेभि॑र्गृणा॒नः स॒त्यरा᳚धाः ||{1/5}{4.29.1}{4.3.8.1}{3.6.18.1}{311, 325, 3363}

आ हि ष्मा॒ याति॒ नर्य॑श्चिकि॒त्वान् हू॒यमा᳚नः सो॒तृभि॒रुप॑ य॒ज्ञम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स्वश्वो॒ यो, अभी᳚रु॒र्मन्य॑मानः सुष्वा॒णेभि॒र्मद॑ति॒ सं ह॑ वी॒रैः ||{2/5}{4.29.2}{4.3.8.2}{3.6.18.2}{312, 325, 3364}

श्रा॒वयेद॑स्य॒ कर्णा᳚ वाज॒यध्यै॒ जुष्टा॒मनु॒ प्र दिशं᳚ मन्द॒यध्यै᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

उ॒द्वा॒वृ॒षा॒णो राध॑से॒ तुवि॑ष्मा॒न् कर᳚न्न॒ इन्द्रः॑ सुती॒र्थाभ॑यं च ||{3/5}{4.29.3}{4.3.8.3}{3.6.18.3}{313, 325, 3365}

अच्छा॒ यो गन्ता॒ नाध॑मानमू॒ती, इ॒त्था विप्रं॒ हव॑मानं गृ॒णन्त᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

उप॒ त्मनि॒ दधा᳚नो धु॒र्या॒३॑(आ॒)शून् त्स॒हस्रा᳚णि श॒तानि॒ वज्र॑बाहुः ||{4/5}{4.29.4}{4.3.8.4}{3.6.18.4}{314, 325, 3366}

त्वोता᳚सो मघवन्निन्द्र॒ विप्रा᳚ व॒यं ते᳚ स्याम सू॒रयो᳚ गृ॒णन्तः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

भे॒जा॒नासो᳚ बृ॒हद्दि॑वस्य रा॒य आ᳚का॒य्य॑स्य दा॒वने᳚ पुरु॒क्षोः ||{5/5}{4.29.5}{4.3.8.5}{3.6.18.5}{315, 325, 3367}

[30] नकिरिंद्रेति चतुर्विंशत्यृचस्य सूक्तस्य गौतमोवामदेवइन्द्रः नवम्यादितिसृणामिंद्रोषसौगायत्री अष्टम्यंत्ये अनुष्टुभौ |
नकि॑रिन्द्र॒ त्वदुत्त॑रो॒ न ज्यायाँ᳚, अस्ति वृत्रहन् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

नकि॑रे॒वा यथा॒ त्वम् ||{1/24}{4.30.1}{4.3.9.1}{3.6.19.1}{316, 326, 3368}

स॒त्रा ते॒, अनु॑ कृ॒ष्टयो॒ विश्वा᳚ च॒क्रेव॑ वावृतुः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

स॒त्रा म॒हाँ, अ॑सि श्रु॒तः ||{2/24}{4.30.2}{4.3.9.2}{3.6.19.2}{317, 326, 3369}

विश्वे᳚ च॒नेद॒ना त्वा᳚ दे॒वास॑ इन्द्र युयुधुः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

यदहा॒ नक्त॒माति॑रः ||{3/24}{4.30.3}{4.3.9.3}{3.6.19.3}{318, 326, 3370}

यत्रो॒त बा᳚धि॒तेभ्य॑श्च॒क्रं कुत्सा᳚य॒ युध्य॑ते |{गौतमो वामदेवः | इन्द्रः | गायत्री}

मु॒षा॒य इ᳚न्द्र॒ सूर्य᳚म् ||{4/24}{4.30.4}{4.3.9.4}{3.6.19.4}{319, 326, 3371}

यत्र॑ दे॒वाँ, ऋ॑घाय॒तो विश्वाँ॒, अयु॑ध्य॒ एक॒ इत् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

त्वमि᳚न्द्र व॒नूँरह॑न् ||{5/24}{4.30.5}{4.3.9.5}{3.6.19.5}{320, 326, 3372}

यत्रो॒त मर्त्या᳚य॒ कमरि॑णा, इन्द्र॒ सूर्य᳚म् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

प्रावः॒ शची᳚भि॒रेत॑शम् ||{6/24}{4.30.6}{4.3.9.6}{3.6.20.1}{321, 326, 3373}

किमादु॒तासि॑ वृत्रह॒न् मघ॑वन्‌ मन्यु॒मत्त॑मः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अत्राह॒ दानु॒माति॑रः ||{7/24}{4.30.7}{4.3.9.7}{3.6.20.2}{322, 326, 3374}

ए॒तद्घेदु॒त वी॒र्य१॑(अ॒)मिन्द्र॑ च॒कर्थ॒ पौंस्य᳚म् |{गौतमो वामदेवः | इन्द्रः | अनुष्टुप्}

स्त्रियं॒ यद्‌ दु᳚र्हणा॒युवं॒ वधी᳚र्दुहि॒तरं᳚ दि॒वः ||{8/24}{4.30.8}{4.3.9.8}{3.6.20.3}{323, 326, 3375}

दि॒वश्चि॑द्घा दुहि॒तरं᳚ म॒हान्‌ म॑ही॒यमा᳚नाम् |{गौतमो वामदेवः | इंद्रोषसौ | गायत्री}

उ॒षास॑मिन्द्र॒ सं पि॑णक् ||{9/24}{4.30.9}{4.3.9.9}{3.6.20.4}{324, 326, 3376}

अपो॒षा, अन॑सः सर॒त् सम्पि॑ष्टा॒दह॑ बि॒भ्युषी᳚ |{गौतमो वामदेवः | इंद्रोषसौ | गायत्री}

नि यत्सीं᳚ शि॒श्नथ॒द्‌ वृषा᳚ ||{10/24}{4.30.10}{4.3.9.10}{3.6.20.5}{325, 326, 3377}

ए॒तद॑स्या॒, अनः॑ शये॒ सुस᳚म्पिष्टं॒ विपा॒श्या |{गौतमो वामदेवः | इंद्रोषसौ | गायत्री}

स॒सार॑ सीं परा॒वतः॑ ||{11/24}{4.30.11}{4.3.9.11}{3.6.21.1}{326, 326, 3378}

उ॒त सिन्धुं᳚ विबा॒ल्यं᳚ वितस्था॒नामधि॒ क्षमि॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

परि॑ ष्ठा, इन्द्र मा॒यया᳚ ||{12/24}{4.30.12}{4.3.9.12}{3.6.21.2}{327, 326, 3379}

उ॒त शुष्ण॑स्य धृष्णु॒या प्र मृ॑क्षो, अ॒भि वेद॑नम् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

पुरो॒ यद॑स्य सम्पि॒णक् ||{13/24}{4.30.13}{4.3.9.13}{3.6.21.3}{328, 326, 3380}

उ॒त दा॒सं कौ᳚लित॒रं बृ॑ह॒तः पर्व॑ता॒दधि॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अवा᳚हन्निन्द्र॒ शम्ब॑रम् ||{14/24}{4.30.14}{4.3.9.14}{3.6.21.4}{329, 326, 3381}

उ॒त दा॒सस्य॑ व॒र्चिनः॑ स॒हस्रा᳚णि श॒ताव॑धीः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अधि॒ पञ्च॑ प्र॒धीँरि॑व ||{15/24}{4.30.15}{4.3.9.15}{3.6.21.5}{330, 326, 3382}

उ॒त त्यं पु॒त्रम॒ग्रुवः॒ परा᳚वृक्तं श॒तक्र॑तुः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

उ॒क्थेष्विन्द्र॒ आभ॑जत् ||{16/24}{4.30.16}{4.3.9.16}{3.6.22.1}{331, 326, 3383}

उ॒त त्या तु॒र्वशा॒यदू᳚, अस्ना॒तारा॒ शची॒पतिः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

इन्द्रो᳚ वि॒द्वाँ, अ॑पारयत् ||{17/24}{4.30.17}{4.3.9.17}{3.6.22.2}{332, 326, 3384}

उ॒त त्या स॒द्य आर्या᳚ स॒रयो᳚रिन्द्र पा॒रतः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अर्णा᳚चि॒त्रर॑थावधीः ||{18/24}{4.30.18}{4.3.9.18}{3.6.22.3}{333, 326, 3385}

अनु॒ द्वा ज॑हि॒ता न॑यो॒ऽन्धं श्रो॒णं च॑ वृत्रहन् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

न तत्ते᳚ सु॒म्नमष्ट॑वे ||{19/24}{4.30.19}{4.3.9.19}{3.6.22.4}{334, 326, 3386}

श॒तम॑श्म॒न्‌ मयी᳚नां पु॒रामिन्द्रो॒ व्या᳚स्यत् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

दिवो᳚दासाय दा॒शुषे᳚ ||{20/24}{4.30.20}{4.3.9.20}{3.6.22.5}{335, 326, 3387}

अस्वा᳚पयद्‌ द॒भीत॑ये स॒हस्रा᳚ त्रिं॒शतं॒ हथैः᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

दा॒साना॒मिन्द्रो᳚ मा॒यया᳚ ||{21/24}{4.30.21}{4.3.9.21}{3.6.23.1}{336, 326, 3388}

स घेदु॒तासि॑ वृत्रहन् त्समा॒न इ᳚न्द्र॒ गोप॑तिः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

यस्ता विश्वा᳚नि चिच्यु॒षे ||{22/24}{4.30.22}{4.3.9.22}{3.6.23.2}{337, 326, 3389}

उ॒त नू॒नं यदि᳚न्द्रि॒यं क॑रि॒ष्या, इ᳚न्द्र॒ पौंस्य᳚म् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अ॒द्या नकि॒ष्टदा मि॑नत् ||{23/24}{4.30.23}{4.3.9.23}{3.6.23.3}{338, 326, 3390}

वा॒मंवा᳚मं त आदुरे दे॒वो द॑दात्वर्य॒मा |{गौतमो वामदेवः | इन्द्रः | अनुष्टुप्}

वा॒मं पू॒षा वा॒मं भगो᳚ वा॒मं दे॒वः करू᳚ळती ||{24/24}{4.30.24}{4.3.9.24}{3.6.23.4}{339, 326, 3391}

[31] कयानइति पंचदशर्चस्य सूक्तस्य गौतमोवामदेवइंद्रोगायत्री तृतीयापादनिचृत् |
कया᳚ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

कया॒ शचि॑ष्ठया वृ॒ता ||{1/15}{4.31.1}{4.3.10.1}{3.6.24.1}{340, 327, 3392}

कस्त्वा᳚ स॒त्यो मदा᳚नां॒ मंहि॑ष्ठो मत्स॒दन्ध॑सः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

दृ॒ळ्हा चि॑दा॒रुजे॒ वसु॑ ||{2/15}{4.31.2}{4.3.10.2}{3.6.24.2}{341, 327, 3393}

अ॒भी षु णः॒ सखी᳚नामवि॒ता ज॑रितॄ॒णाम् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

श॒तं भ॑वास्यू॒तिभिः॑ ||{3/15}{4.31.3}{4.3.10.3}{3.6.24.3}{342, 327, 3394}

अ॒भी न॒ आ व॑वृत्स्व च॒क्रं न वृ॒त्तमर्व॑तः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

नि॒युद्भि॑श्चर्षणी॒नाम् ||{4/15}{4.31.4}{4.3.10.4}{3.6.24.4}{343, 327, 3395}

प्र॒वता॒ हि क्रतू᳚ना॒मा हा᳚ प॒देव॒ गच्छ॑सि |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अभ॑क्षि॒ सूर्ये॒ सचा᳚ ||{5/15}{4.31.5}{4.3.10.5}{3.6.24.5}{344, 327, 3396}

सं यत्त॑ इन्द्र म॒न्यवः॒ सं च॒क्राणि॑ दधन्वि॒रे |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अध॒ त्वे, अध॒ सूर्ये᳚ ||{6/15}{4.31.6}{4.3.10.6}{3.6.25.1}{345, 327, 3397}

उ॒त स्मा॒ हि त्वामा॒हुरिन्म॒घवा᳚नं शचीपते |{गौतमो वामदेवः | इन्द्रः | गायत्री}

दाता᳚र॒मवि॑दीधयुम् ||{7/15}{4.31.7}{4.3.10.7}{3.6.25.2}{346, 327, 3398}

उ॒त स्मा᳚ स॒द्य इत्‌ परि॑ शशमा॒नाय॑ सुन्व॒ते |{गौतमो वामदेवः | इन्द्रः | गायत्री}

पु॒रू चि᳚न्मंहसे॒ वसु॑ ||{8/15}{4.31.8}{4.3.10.8}{3.6.25.3}{347, 327, 3399}

न॒हि ष्मा᳚ ते श॒तं च॒न राधो॒ वर᳚न्त आ॒मुरः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

न च्यौ॒त्नानि॑ करिष्य॒तः ||{9/15}{4.31.9}{4.3.10.9}{3.6.25.4}{348, 327, 3400}

अ॒स्माँ, अ॑वन्तु ते श॒तम॒स्मान्‌ त्स॒हस्र॑मू॒तयः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अ॒स्मान्‌ विश्वा᳚, अ॒भिष्ट॑यः ||{10/15}{4.31.10}{4.3.10.10}{3.6.25.5}{349, 327, 3401}

अ॒स्माँ, इ॒हा वृ॑णीष्व स॒ख्याय॑ स्व॒स्तये᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

म॒हो रा॒ये दि॒वित्म॑ते ||{11/15}{4.31.11}{4.3.10.11}{3.6.26.1}{350, 327, 3402}

अ॒स्माँ, अ॑विड्ढि वि॒श्वहेन्द्र॑ रा॒या परी᳚णसा |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अ॒स्मान्‌ विश्वा᳚भिरू॒तिभिः॑ ||{12/15}{4.31.12}{4.3.10.12}{3.6.26.2}{351, 327, 3403}

अ॒स्मभ्यं॒ ताँ, अपा᳚ वृधि व्र॒जाँ, अस्ते᳚व॒ गोम॑तः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

नवा᳚भिरिन्द्रो॒तिभिः॑ ||{13/15}{4.31.13}{4.3.10.13}{3.6.26.3}{352, 327, 3404}

अ॒स्माकं᳚ धृष्णु॒या रथो᳚ द्यु॒माँ, इ॒न्द्रान॑पच्युतः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

ग॒व्युर॑श्व॒युरी᳚यते ||{14/15}{4.31.14}{4.3.10.14}{3.6.26.4}{353, 327, 3405}

अ॒स्माक॑मुत्त॒मं कृ॑धि॒ श्रवो᳚ दे॒वेषु॑ सूर्य |{गौतमो वामदेवः | इन्द्रः | गायत्री}

वर्षि॑ष्ठं॒ द्यामि॑वो॒परि॑ ||{15/15}{4.31.15}{4.3.10.15}{3.6.26.5}{354, 327, 3406}

[32] आतूनइति चतुर्विंशत्यृचस्य सूक्तस्य गौतमोवामदेव इंद्रोंत्ययोरिंद्राश्वौगायत्री |
आ तू न॑ इन्द्र वृत्रहन्न॒स्माक॑म॒र्धमा ग॑हि |{गौतमो वामदेवः | इन्द्रः | गायत्री}

म॒हान्‌ म॒हीभि॑रू॒तिभिः॑ ||{1/24}{4.32.1}{4.3.11.1}{3.6.27.1}{355, 328, 3407}

भृमि॑श्चिद्‌ घासि॒ तूतु॑जि॒रा चि॑त्र चि॒त्रिणी॒ष्वा |{गौतमो वामदेवः | इन्द्रः | गायत्री}

चि॒त्रं कृ॑णोष्यू॒तये᳚ ||{2/24}{4.32.2}{4.3.11.2}{3.6.27.2}{356, 328, 3408}

द॒भ्रेभि॑श्चि॒च्छशी᳚यांसं॒ हंसि॒ व्राध᳚न्त॒मोज॑सा |{गौतमो वामदेवः | इन्द्रः | गायत्री}

सखि॑भि॒र्ये त्वे सचा᳚ ||{3/24}{4.32.3}{4.3.11.3}{3.6.27.3}{357, 328, 3409}

व॒यमि᳚न्द्र॒ त्वे सचा᳚ व॒यं त्वा॒भि नो᳚नुमः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अ॒स्माँअ॑स्माँ॒, इदुद॑व ||{4/24}{4.32.4}{4.3.11.4}{3.6.27.4}{358, 328, 3410}

स न॑श्चि॒त्राभि॑रद्रिवोऽनव॒द्याभि॑रू॒तिभिः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अना᳚धृष्टाभि॒रा ग॑हि ||{5/24}{4.32.5}{4.3.11.5}{3.6.27.5}{359, 328, 3411}

भू॒यामो॒ षु त्वाव॑तः॒ सखा᳚य इन्द्र॒ गोम॑तः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

युजो॒ वाजा᳚य॒ घृष्व॑ये ||{6/24}{4.32.6}{4.3.11.6}{3.6.28.1}{360, 328, 3412}

त्वं ह्येक॒ ईशि॑ष॒ इन्द्र॒ वाज॑स्य॒ गोम॑तः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

स नो᳚ यन्धि म॒हीमिष᳚म् ||{7/24}{4.32.7}{4.3.11.7}{3.6.28.2}{361, 328, 3413}

न त्वा᳚ वरन्ते, अ॒न्यथा॒ यद्दित्स॑सि स्तु॒तो म॒घम् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

स्तो॒तृभ्य॑ इन्द्र गिर्वणः ||{8/24}{4.32.8}{4.3.11.8}{3.6.28.3}{362, 328, 3414}

अ॒भि त्वा॒ गोत॑मा गि॒राऽनू᳚षत॒ प्र दा॒वने᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

इन्द्र॒ वाजा᳚य॒ घृष्व॑ये ||{9/24}{4.32.9}{4.3.11.9}{3.6.28.4}{363, 328, 3415}

प्र ते᳚ वोचाम वी॒र्या॒३॑(आ॒) या म᳚न्दसा॒न आरु॑जः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

पुरो॒ दासी᳚र॒भीत्य॑ ||{10/24}{4.32.10}{4.3.11.10}{3.6.28.5}{364, 328, 3416}

ता ते᳚ गृणन्ति वे॒धसो॒ यानि॑ च॒कर्थ॒ पौंस्या᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

सु॒तेष्वि᳚न्द्र गिर्वणः ||{11/24}{4.32.11}{4.3.11.11}{3.6.29.1}{365, 328, 3417}

अवी᳚वृधन्त॒ गोत॑मा॒, इन्द्र॒ त्वे स्तोम॑वाहसः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

ऐषु॑ धा वी॒रव॒द्यशः॑ ||{12/24}{4.32.12}{4.3.11.12}{3.6.29.2}{366, 328, 3418}

यच्चि॒द्धि शश्व॑ता॒मसीन्द्र॒ साधा᳚रण॒स्त्वम् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

तं त्वा᳚ व॒यं ह॑वामहे ||{13/24}{4.32.13}{4.3.11.13}{3.6.29.3}{367, 328, 3419}

अ॒र्वा॒ची॒नो व॑सो भवा॒ऽस्मे सु म॒त्स्वान्ध॑सः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

सोमा᳚नामिन्द्र सोमपाः ||{14/24}{4.32.14}{4.3.11.14}{3.6.29.4}{368, 328, 3420}

अ॒स्माकं᳚ त्वा मती॒नामा स्तोम॑ इन्द्र यच्छतु |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अ॒र्वागा व॑र्तया॒ हरी᳚ ||{15/24}{4.32.15}{4.3.11.15}{3.6.29.5}{369, 328, 3421}

पु॒रो॒ळाशं᳚ च नो॒ घसो᳚ जो॒षया᳚से॒ गिर॑श्च नः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

व॒धू॒युरि॑व॒ योष॑णाम् ||{16/24}{4.32.16}{4.3.11.16}{3.6.29.6}{370, 328, 3422}

स॒हस्रं॒ व्यती᳚नां यु॒क्ताना॒मिन्द्र॑मीमहे |{गौतमो वामदेवः | इन्द्रः | गायत्री}

श॒तं सोम॑स्य खा॒र्यः॑ ||{17/24}{4.32.17}{4.3.11.17}{3.6.30.1}{371, 328, 3423}

स॒हस्रा᳚ ते श॒ता व॒यं गवा॒मा च्या᳚वयामसि |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अ॒स्म॒त्रा राध॑ एतु ते ||{18/24}{4.32.18}{4.3.11.18}{3.6.30.2}{372, 328, 3424}

दश॑ ते क॒लशा᳚नां॒ हिर᳚ण्यानामधीमहि |{गौतमो वामदेवः | इन्द्रः | गायत्री}

भू॒रि॒दा, अ॑सि वृत्रहन् ||{19/24}{4.32.19}{4.3.11.19}{3.6.30.3}{373, 328, 3425}

भूरि॑दा॒ भूरि॑ देहि नो॒ मा द॒भ्रं भूर्या भ॑र |{गौतमो वामदेवः | इन्द्रः | गायत्री}

भूरि॒ घेदि᳚न्द्र दित्ससि ||{20/24}{4.32.20}{4.3.11.20}{3.6.30.4}{374, 328, 3426}

भू॒रि॒दा ह्यसि॑ श्रु॒तः पु॑रु॒त्रा शू᳚र वृत्रहन् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

आ नो᳚ भजस्व॒ राध॑सि ||{21/24}{4.32.21}{4.3.11.21}{3.6.30.5}{375, 328, 3427}

प्र ते᳚ ब॒भ्रू वि॑चक्षण॒ शंसा᳚मि गोषणो नपात् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

माभ्यां॒ गा, अनु॑ शिश्रथः ||{22/24}{4.32.22}{4.3.11.22}{3.6.30.6}{376, 328, 3428}

क॒नी॒न॒केव॑ विद्र॒धे नवे᳚ द्रुप॒दे, अ॑र्भ॒के |{गौतमो वामदेवः | इन्द्राश्वौ | गायत्री}

ब॒भ्रू यामे᳚षु शोभेते ||{23/24}{4.32.23}{4.3.11.23}{3.6.30.7}{377, 328, 3429}

अरं᳚ म उ॒स्रया॒म्णेऽर॒मनु॑स्रयाम्णे |{गौतमो वामदेवः | इन्द्राश्वौ | गायत्री}

ब॒भ्रू यामे᳚ष्व॒स्रिधा᳚ ||{24/24}{4.32.24}{4.3.11.24}{3.6.30.8}{378, 328, 3430}

[33] प्रऋभुभ्यइत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव ऋभवस्त्रिष्टुप् |
प्र ऋ॒भुभ्यो᳚ दू॒तमि॑व॒ वाच॑मिष्य उप॒स्तिरे॒ श्वैत॑रीं धे॒नुमी᳚ळे |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

ये वात॑जूतास्त॒रणि॑भि॒रेवैः॒ परि॒ द्यां स॒द्यो, अ॒पसो᳚ बभू॒वुः ||{1/11}{4.33.1}{4.4.1.1}{3.7.1.1}{379, 329, 3431}

य॒दार॒मक्र᳚न्नृ॒भवः॑ पि॒तृभ्यां॒ परि॑विष्टी वे॒षणा᳚ दं॒सना᳚भिः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

आदिद्दे॒वाना॒मुप॑ स॒ख्यमा᳚य॒न् धीरा᳚सः पु॒ष्टिम॑वहन्‌ म॒नायै᳚ ||{2/11}{4.33.2}{4.4.1.2}{3.7.1.2}{380, 329, 3432}

पुन॒र्ये च॒क्रुः पि॒तरा॒ युवा᳚ना॒ सना॒ यूपे᳚व जर॒णा शया᳚ना |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

ते वाजो॒ विभ्वाँ᳚, ऋ॒भुरिन्द्र॑वन्तो॒ मधु॑प्सरसो नोऽवन्तु य॒ज्ञम् ||{3/11}{4.33.3}{4.4.1.3}{3.7.1.3}{381, 329, 3433}

यत्‌ सं॒वत्स॑मृ॒भवो॒ गामर॑क्ष॒न् यत्‌ सं॒वत्स॑मृ॒भवो॒ मा, अपिं᳚शन् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

यत्‌ सं॒वत्स॒मभ॑र॒न्‌ भासो᳚, अस्या॒स्ताभिः॒ शमी᳚भिरमृत॒त्वमा᳚शुः ||{4/11}{4.33.4}{4.4.1.4}{3.7.1.4}{382, 329, 3434}

ज्ये॒ष्ठ आ᳚ह चम॒सा द्वा क॒रेति॒ कनी᳚या॒न्‌ त्रीन्‌ कृ॑णवा॒मेत्या᳚ह |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

क॒नि॒ष्ठ आ᳚ह च॒तुर॑स्क॒रेति॒ त्वष्ट॑ ऋभव॒स्तत्‌ प॑नय॒द्‌ वचो᳚ वः ||{5/11}{4.33.5}{4.4.1.5}{3.7.1.5}{383, 329, 3435}

स॒त्यमू᳚चु॒र्नर॑ ए॒वा हि च॒क्रुरनु॑ स्व॒धामृ॒भवो᳚ जग्मुरे॒ताम् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

वि॒भ्राज॑मानाँश्चम॒साँ, अहे॒वावे᳚न॒त्‌ त्वष्टा᳚ च॒तुरो᳚ ददृ॒श्वान् ||{6/11}{4.33.6}{4.4.1.6}{3.7.2.1}{384, 329, 3436}

द्वाद॑श॒ द्यून्‌ यदगो᳚ह्यस्याऽऽति॒थ्ये रण᳚न्नृ॒भवः॑ स॒सन्तः॑ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

सु॒क्षेत्रा᳚कृण्व॒न्नन॑यन्त॒ सिन्धू॒न् धन्वाति॑ष्ठ॒न्नोष॑धीर्नि॒म्नमापः॑ ||{7/11}{4.33.7}{4.4.1.7}{3.7.2.2}{385, 329, 3437}

रथं॒ ये च॒क्रुः सु॒वृतं᳚ नरे॒ष्ठां ये धे॒नुं वि॑श्व॒जुवं᳚ वि॒श्वरू᳚पाम् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

त आ त॑क्षन्त्वृ॒भवो᳚ र॒यिं नः॒ स्वव॑सः॒ स्वप॑सः सु॒हस्ताः᳚ ||{8/11}{4.33.8}{4.4.1.8}{3.7.2.3}{386, 329, 3438}

अपो॒ ह्ये᳚षा॒मजु॑षन्त दे॒वा, अ॒भि क्रत्वा॒ मन॑सा॒ दीध्या᳚नाः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

वाजो᳚ दे॒वाना᳚मभवत्‌ सु॒कर्मेन्द्र॑स्य ऋभु॒क्षा वरु॑णस्य॒ विभ्वा᳚ ||{9/11}{4.33.9}{4.4.1.9}{3.7.2.4}{387, 329, 3439}

ये हरी᳚ मे॒धयो॒क्था मद᳚न्त॒ इन्द्रा᳚य च॒क्रुः सु॒युजा॒ ये, अश्वा᳚ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

ते रा॒यस्पोषं॒ द्रवि॑णान्य॒स्मे ध॒त्त ऋ॑भवः, क्षेम॒यन्तो॒ न मि॒त्रम् ||{10/11}{4.33.10}{4.4.1.10}{3.7.2.5}{388, 329, 3440}

इ॒दाह्नः॑ पी॒तिमु॒त वो॒ मदं᳚ धु॒र्न ऋ॒ते श्रा॒न्तस्य॑ स॒ख्याय॑ दे॒वाः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

ते नू॒नम॒स्मे, ऋ॑भवो॒ वसू᳚नि तृ॒तीये᳚, अ॒स्मिन्‌ त्सव॑ने दधात ||{11/11}{4.33.11}{4.4.1.11}{3.7.2.6}{389, 329, 3441}

[34] ऋभुर्विभ्वेत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव ऋभवस्त्रिष्टुप् |
ऋ॒भुर्विभ्वा॒ वाज॒ इन्द्रो᳚ नो॒, अच्छे॒मं य॒ज्ञं र॑त्न॒धेयोप॑ यात |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

इ॒दा हि वो᳚ धि॒षणा᳚ दे॒व्यह्ना॒मधा᳚त्‌ पी॒तिं सं मदा᳚, अग्मता वः ||{1/11}{4.34.1}{4.4.2.1}{3.7.3.1}{390, 330, 3442}

वि॒दा॒नासो॒ जन्म॑नो वाजरत्ना, उ॒त ऋ॒तुभि᳚रृभवो मादयध्वम् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

सं वो॒ मदा॒, अग्म॑त॒ सं पुरं᳚धिः सु॒वीरा᳚म॒स्मे र॒यिमेर॑यध्वम् ||{2/11}{4.34.2}{4.4.2.2}{3.7.3.2}{391, 330, 3443}

अ॒यं वो᳚ य॒ज्ञ ऋ॑भवोऽकारि॒ यमा म॑नु॒ष्वत्‌ प्र॒दिवो᳚ दधि॒ध्वे |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

प्र वोऽच्छा᳚ जुजुषा॒णासो᳚, अस्थु॒रभू᳚त॒ विश्वे᳚, अग्रि॒योत वा᳚जाः ||{3/11}{4.34.3}{4.4.2.3}{3.7.3.3}{392, 330, 3444}

अभू᳚दु वो विध॒ते र॑त्न॒धेय॑मि॒दा न॑रो दा॒शुषे॒ मर्त्या᳚य |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

पिब॑त वाजा, ऋभवो द॒दे वो॒ महि॑ तृ॒तीयं॒ सव॑नं॒ मदा᳚य ||{4/11}{4.34.4}{4.4.2.4}{3.7.3.4}{393, 330, 3445}

आ वा᳚जा या॒तोप॑ न ऋभुक्षा म॒हो न॑रो॒ द्रवि॑णसो गृणा॒नाः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

आ वः॑ पी॒तयो᳚ऽभिपि॒त्वे, अह्ना᳚मि॒मा, अस्तं᳚ नव॒स्व॑ इव ग्मन् ||{5/11}{4.34.5}{4.4.2.5}{3.7.3.5}{394, 330, 3446}

आ न॑पातः शवसो यात॒नोपे॒मं य॒ज्ञं नम॑सा हू॒यमा᳚नाः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

स॒जोष॑सः सूरयो॒ यस्य॑ च॒ स्थ मध्वः॑ पात रत्न॒धा, इन्द्र॑वन्तः ||{6/11}{4.34.6}{4.4.2.6}{3.7.4.1}{395, 330, 3447}

स॒जोषा᳚, इन्द्र॒ वरु॑णेन॒ सोमं᳚ स॒जोषाः᳚ पाहि गिर्वणो म॒रुद्भिः॑ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

अ॒ग्रे॒पाभि᳚रृतु॒पाभिः॑ स॒जोषा॒ ग्नास्पत्नी᳚भी रत्न॒धाभिः॑ स॒जोषाः᳚ ||{7/11}{4.34.7}{4.4.2.7}{3.7.4.2}{396, 330, 3448}

स॒जोष॑स आदि॒त्यैर्मा᳚दयध्वं स॒जोष॑स ऋभवः॒ पर्व॑तेभिः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

स॒जोष॑सो॒ दैव्ये᳚ना सवि॒त्रा स॒जोष॑सः॒ सिन्धु॑भी रत्न॒धेभिः॑ ||{8/11}{4.34.8}{4.4.2.8}{3.7.4.3}{397, 330, 3449}

ये, अ॒श्विना॒ ये पि॒तरा॒ य ऊ॒ती धे॒नुं त॑त॒क्षुरृ॒भवो॒ ये, अश्वा᳚ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

ये, अंस॑त्रा॒ य ऋध॒ग्रोद॑सी॒ ये विभ्वो॒ नरः॑ स्वप॒त्यानि॑ च॒क्रुः ||{9/11}{4.34.9}{4.4.2.9}{3.7.4.4}{398, 330, 3450}

ये गोम᳚न्तं॒ वाज॑वन्तं सु॒वीरं᳚ र॒यिं ध॒त्थ वसु॑मन्तं पुरु॒क्षुम् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

ते, अ॑ग्रे॒पा, ऋ॑भवो मन्दसा॒ना, अ॒स्मे ध॑त्त॒ ये च॑ रा॒तिं गृ॒णन्ति॑ ||{10/11}{4.34.10}{4.4.2.10}{3.7.4.5}{399, 330, 3451}

नापा᳚भूत॒ न वो᳚ऽतीतृषा॒माऽनिः॑शस्ता, ऋभवो य॒ज्ञे, अ॒स्मिन् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

समिन्द्रे᳚ण॒ मद॑थ॒ सं म॒रुद्भिः॒ सं राज॑भी रत्न॒धेया᳚य देवाः ||{11/11}{4.34.11}{4.4.2.11}{3.7.4.6}{400, 330, 3452}

[35] इहोपेति नवर्चस्य सूक्तस्य गौतमोवामदेवऋभवस्त्रिष्टुप् |
इ॒होप॑ यात शवसो नपातः॒ सौध᳚न्वना, ऋभवो॒ माप॑ भूत |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

अ॒स्मिन्‌ हि वः॒ सव॑ने रत्न॒धेयं॒ गम॒न्त्विन्द्र॒मनु॑ वो॒ मदा᳚सः ||{1/9}{4.35.1}{4.4.3.1}{3.7.5.1}{401, 331, 3453}

आग᳚न्नृभू॒णामि॒ह र॑त्न॒धेय॒मभू॒त्‌ सोम॑स्य॒ सुषु॑तस्य पी॒तिः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

सु॒कृ॒त्यया॒ यत्‌ स्व॑प॒स्यया᳚ चँ॒, एकं᳚ विच॒क्र च॑म॒सं च॑तु॒र्धा ||{2/9}{4.35.2}{4.4.3.2}{3.7.5.2}{402, 331, 3454}

व्य॑कृणोत चम॒सं च॑तु॒र्धा सखे॒ वि शि॒क्षेत्य॑ब्रवीत |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

अथै᳚त वाजा, अ॒मृत॑स्य॒ पन्थां᳚ ग॒णं दे॒वाना᳚मृभवः सुहस्ताः ||{3/9}{4.35.3}{4.4.3.3}{3.7.5.3}{403, 331, 3455}

कि॒म्मयः॑ स्विच्चम॒स ए॒ष आ᳚स॒ यं काव्ये᳚न च॒तुरो᳚ विच॒क्र |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

अथा᳚ सुनुध्वं॒ सव॑नं॒ मदा᳚य पा॒त ऋ॑भवो॒ मधु॑नः सो॒म्यस्य॑ ||{4/9}{4.35.4}{4.4.3.4}{3.7.5.4}{404, 331, 3456}

शच्या᳚कर्त पि॒तरा॒ युवा᳚ना॒ शच्या᳚कर्त चम॒सं दे᳚व॒पान᳚म् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

शच्या॒ हरी॒ धनु॑तरावतष्टेन्द्र॒वाहा᳚वृभवो वाजरत्नाः ||{5/9}{4.35.5}{4.4.3.5}{3.7.5.5}{405, 331, 3457}

यो वः॑ सु॒नोत्य॑भिपि॒त्वे, अह्नां᳚ ती॒व्रं वा᳚जासः॒ सव॑नं॒ मदा᳚य |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

तस्मै᳚ र॒यिमृ॑भवः॒ सर्व॑वीर॒मा त॑क्षत वृषणो मन्दसा॒नाः ||{6/9}{4.35.6}{4.4.3.6}{3.7.6.1}{406, 331, 3458}

प्रा॒तः सु॒तम॑पिबो हर्यश्व॒ माध्यं᳚दिनं॒ सव॑नं॒ केव॑लं ते |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

समृ॒भुभिः॑ पिबस्व रत्न॒धेभिः॒ सखीँ॒र्याँ, इ᳚न्द्र चकृ॒षे सु॑कृ॒त्या ||{7/9}{4.35.7}{4.4.3.7}{3.7.6.2}{407, 331, 3459}

ये दे॒वासो॒, अभ॑वता सुकृ॒त्या श्ये॒ना, इ॒वेदधि॑ दि॒वि नि॑षे॒द |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

ते रत्नं᳚ धात शवसो नपातः॒ सौध᳚न्वना॒, अभ॑वता॒मृता᳚सः ||{8/9}{4.35.8}{4.4.3.8}{3.7.6.3}{408, 331, 3460}

यत्‌ तृ॒तीयं॒ सव॑नं रत्न॒धेय॒मकृ॑णुध्वं स्वप॒स्या सु॑हस्ताः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

तदृ॑भवः॒ परि॑षिक्तं व ए॒तत् सं मदे᳚भिरिन्द्रि॒येभिः॑ पिबध्वम् ||{9/9}{4.35.9}{4.4.3.9}{3.7.6.4}{409, 331, 3461}

[36] अनश्वोजातइति नवर्चस्य सूक्तस्य गौतमोवामदेव ऋभवो जगत्यंत्यात्रिष्टुप् |
अ॒न॒श्वो जा॒तो, अ॑नभी॒शुरु॒क्थ्यो॒३॑(ओ॒) रथ॑स्त्रिच॒क्रः परि॑ वर्तते॒ रजः॑ |{गौतमो वामदेवः | ऋभवः | जगती}

म॒हत्तद्वो᳚ दे॒व्य॑स्य प्र॒वाच॑नं॒ द्यामृ॑भवः पृथि॒वीं यच्च॒ पुष्य॑थ ||{1/9}{4.36.1}{4.4.4.1}{3.7.7.1}{410, 332, 3462}

रथं॒ ये च॒क्रुः सु॒वृतं᳚ सु॒चेत॒सो ऽवि॑ह्वरन्तं॒ मन॑स॒स्परि॒ ध्यया᳚ |{गौतमो वामदेवः | ऋभवः | जगती}

ताँ, ऊ॒ न्व१॑(अ॒)स्य सव॑नस्य पी॒तय॒ आ वो᳚ वाजा, ऋभवो वेदयामसि ||{2/9}{4.36.2}{4.4.4.2}{3.7.7.2}{411, 332, 3463}

तद्वो᳚ वाजा, ऋभवः सुप्रवाच॒नं दे॒वेषु॑ विभ्वो, अभवन्महित्व॒नम् |{गौतमो वामदेवः | ऋभवः | जगती}

जिव्री॒ यत्सन्ता᳚ पि॒तरा᳚ सना॒जुरा॒ पुन॒र्युवा᳚ना च॒रथा᳚य॒ तक्ष॑थ ||{3/9}{4.36.3}{4.4.4.3}{3.7.7.3}{412, 332, 3464}

एकं॒ वि च॑क्र चम॒सं चतु᳚र्वयं॒ निश्चर्म॑णो॒ गाम॑रिणीत धी॒तिभिः॑ |{गौतमो वामदेवः | ऋभवः | जगती}

अथा᳚ दे॒वेष्व॑मृत॒त्वमा᳚नश श्रु॒ष्टी वा᳚जा, ऋभव॒स्तद्व॑ उ॒क्थ्य᳚म् ||{4/9}{4.36.4}{4.4.4.4}{3.7.7.4}{413, 332, 3465}

ऋ॒भु॒तो र॒यिः प्र॑थ॒मश्र॑वस्तमो॒ वाज॑श्रुतासो॒ यमजी᳚जन॒न्नरः॑ |{गौतमो वामदेवः | ऋभवः | जगती}

वि॒भ्व॒त॒ष्टो वि॒दथे᳚षु प्र॒वाच्यो॒ यं दे᳚वा॒सोऽव॑था॒ स विच॑र्षणिः ||{5/9}{4.36.5}{4.4.4.5}{3.7.7.5}{414, 332, 3466}

स वा॒ज्यर्वा॒ स ऋषि᳚र्वच॒स्यया॒ स शूरो॒, अस्ता॒ पृत॑नासु दु॒ष्टरः॑ |{गौतमो वामदेवः | ऋभवः | जगती}

स रा॒यस्पोषं॒ स सु॒वीर्यं᳚ दधे॒ यं वाजो॒ विभ्वाँ᳚, ऋ॒भवो॒ यमावि॑षुः ||{6/9}{4.36.6}{4.4.4.6}{3.7.8.1}{415, 332, 3467}

श्रेष्ठं᳚ वः॒ पेशो॒, अधि॑ धायि दर्श॒तं स्तोमो᳚ वाजा, ऋभव॒स्तं जु॑जुष्टन |{गौतमो वामदेवः | ऋभवः | जगती}

धीरा᳚सो॒ हि ष्ठा क॒वयो᳚ विप॒श्चित॒स्तान्व॑ ए॒ना ब्रह्म॒णा वे᳚दयामसि ||{7/9}{4.36.7}{4.4.4.7}{3.7.8.2}{416, 332, 3468}

यू॒यम॒स्मभ्यं᳚ धि॒षणा᳚भ्य॒स्परि॑ वि॒द्वांसो॒ विश्वा॒ नर्या᳚णि॒ भोज॑ना |{गौतमो वामदेवः | ऋभवः | जगती}

द्यु॒मन्तं॒ वाजं॒ वृष॑शुष्ममुत्त॒ममा नो᳚ र॒यिमृ॑भवस्तक्ष॒ता वयः॑ ||{8/9}{4.36.8}{4.4.4.8}{3.7.8.3}{417, 332, 3469}

इ॒ह प्र॒जामि॒ह र॒यिं ररा᳚णा, इ॒ह श्रवो᳚ वी॒रव॑त्‌ तक्षता नः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

येन॑ व॒यं चि॒तये॒मात्य॒न्यान् तं वाजं᳚ चि॒त्रमृ॑भवो ददा नः ||{9/9}{4.36.9}{4.4.4.9}{3.7.8.4}{418, 332, 3470}

[37] उपनइत्यष्टर्चस्य ऊक्तस्य गौतमोवामदेवऋभवस्त्रिष्टुप् अंत्याश्चतस्रोनुष्टुभः |
उप॑ नो वाजा, अध्व॒रमृ॑भुक्षा॒ देवा᳚ या॒त प॒थिभि॑र्देव॒यानैः᳚ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

यथा᳚ य॒ज्ञं मनु॑षो वि॒क्ष्वा॒३॑(आ॒)सु द॑धि॒ध्वे र᳚ण्वाः सु॒दिने॒ष्वह्ना᳚म् ||{1/8}{4.37.1}{4.4.5.1}{3.7.9.1}{419, 333, 3471}

ते वो᳚ हृ॒दे मन॑से सन्तु य॒ज्ञा जुष्टा᳚सो, अ॒द्य घृ॒तनि᳚र्णिजो गुः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

प्र वः॑ सु॒तासो᳚ हरयन्त पू॒र्णाः क्रत्वे॒ दक्षा᳚य हर्षयन्त पी॒ताः ||{2/8}{4.37.2}{4.4.5.2}{3.7.9.2}{420, 333, 3472}

त्र्यु॒दा॒यं दे॒वहि॑तं॒ यथा᳚ वः॒ स्तोमो᳚ वाजा, ऋभुक्षणो द॒दे वः॑ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

जु॒ह्वे म॑नु॒ष्वदुप॑रासु वि॒क्षु यु॒ष्मे सचा᳚ बृ॒हद्दि॑वेषु॒ सोम᳚म् ||{3/8}{4.37.3}{4.4.5.3}{3.7.9.3}{421, 333, 3473}

पीवो᳚अश्वाः शु॒चद्र॑था॒ हि भू॒ताऽयः॑शिप्रा वाजिनः सुनि॒ष्काः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

इन्द्र॑स्य सूनो शवसो नपा॒तोऽनु॑ वश्चेत्यग्रि॒यं मदा᳚य ||{4/8}{4.37.4}{4.4.5.4}{3.7.9.4}{422, 333, 3474}

ऋ॒भुमृ॑भुक्षणो र॒यिं वाजे᳚ वा॒जिन्त॑मं॒ युज᳚म् |{गौतमो वामदेवः | ऋभवः | अनुष्टुप्}

इन्द्र॑स्वन्तं हवामहे सदा॒सात॑मम॒श्विन᳚म् ||{5/8}{4.37.5}{4.4.5.5}{3.7.9.5}{423, 333, 3475}

सेदृ॑भवो॒ यमव॑थ यू॒यमिन्द्र॑श्च॒ मर्त्य᳚म् |{गौतमो वामदेवः | ऋभवः | अनुष्टुप्}

स धी॒भिर॑स्तु॒ सनि॑ता मे॒धसा᳚ता॒ सो, अर्व॑ता ||{6/8}{4.37.6}{4.4.5.6}{3.7.10.1}{424, 333, 3476}

वि नो᳚ वाजा, ऋभुक्षणः प॒थश्चि॑तन॒ यष्ट॑वे |{गौतमो वामदेवः | ऋभवः | अनुष्टुप्}

अ॒स्मभ्यं᳚ सूरयः स्तु॒ता विश्वा॒, आशा᳚स्तरी॒षणि॑ ||{7/8}{4.37.7}{4.4.5.7}{3.7.10.2}{425, 333, 3477}

तं नो᳚ वाजा, ऋभुक्षण॒ इन्द्र॒ नास॑त्या र॒यिम् |{गौतमो वामदेवः | ऋभवः | अनुष्टुप्}

समश्वं᳚ चर्ष॒णिभ्य॒ आ पु॒रु श॑स्त म॒घत्त॑ये ||{8/8}{4.37.8}{4.4.5.8}{3.7.10.3}{426, 333, 3478}

[38] उतोहीति दशर्चस्य सूक्तस्य गौतमोवामदेवोदधिक्रावा आद्यायाद्यावापृथिवीत्रिष्टुप्
उ॒तो हि वां᳚ दा॒त्रा सन्ति॒ पूर्वा॒ या पू॒रुभ्य॑स्त्र॒सद॑स्युर्नितो॒शे |{गौतमो वामदेवः | द्यावापृथिवी | त्रिष्टुप्}

क्षे॒त्रा॒सां द॑दथुरुर्वरा॒सां घ॒नं दस्यु॑भ्यो, अ॒भिभू᳚तिमु॒ग्रम् ||{1/10}{4.38.1}{4.4.6.1}{3.7.11.1}{427, 334, 3479}

उ॒त वा॒जिनं᳚ पुरुनि॒ष्षिध्वा᳚नं दधि॒क्रामु॑ ददथुर्वि॒श्वकृ॑ष्टिम् |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

ऋ॒जि॒प्यं श्ये॒नं प्रु॑षि॒तप्सु॑मा॒शुं च॒र्कृत्य॑म॒र्यो नृ॒पतिं॒ न शूर᳚म् ||{2/10}{4.38.2}{4.4.6.2}{3.7.11.2}{428, 334, 3480}

यं सी॒मनु॑ प्र॒वते᳚व॒ द्रव᳚न्तं॒ विश्वः॑ पू॒रुर्मद॑ति॒ हर्ष॑माणः |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

प॒ड्भिर्गृध्य᳚न्तं मेध॒युं न शूरं᳚ रथ॒तुरं॒ वात॑मिव॒ ध्रज᳚न्तम् ||{3/10}{4.38.3}{4.4.6.3}{3.7.11.3}{429, 334, 3481}

यः स्मा᳚रुन्धा॒नो गध्या᳚ स॒मत्सु॒ सनु॑तर॒श्चर॑ति॒ गोषु॒ गच्छ॑न् |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

आ॒विरृ॑जीको वि॒दथा᳚ नि॒चिक्य॑त् ति॒रो, अ॑र॒तिं पर्याप॑ आ॒योः ||{4/10}{4.38.4}{4.4.6.4}{3.7.11.4}{430, 334, 3482}

उ॒त स्मै᳚नं वस्त्र॒मथिं॒ न ता॒युमनु॑ क्रोशन्ति क्षि॒तयो॒ भरे᳚षु |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

नी॒चाय॑मानं॒ जसु॑रिं॒ न श्ये॒नं श्रव॒श्चाच्छा᳚ पशु॒मच्च॑ यू॒थम् ||{5/10}{4.38.5}{4.4.6.5}{3.7.11.5}{431, 334, 3483}

उ॒त स्मा᳚सु प्रथ॒मः स॑रि॒ष्यन् नि वे᳚वेति॒ श्रेणि॑भी॒ रथा᳚नाम् |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

स्रजं᳚ कृण्वा॒नो जन्यो॒ न शुभ्वा᳚ रे॒णुं रेरि॑हत्‌ कि॒रणं᳚ दद॒श्वान् ||{6/10}{4.38.6}{4.4.6.6}{3.7.12.1}{432, 334, 3484}

उ॒त स्य वा॒जी सहु॑रिरृ॒तावा॒ शुश्रू᳚षमाणस्त॒न्वा᳚ सम॒र्ये |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

तुरं᳚ य॒तीषु॑ तु॒रय᳚न्नृजि॒प्योऽधि॑ भ्रु॒वोः कि॑रते रे॒णुमृ॒ञ्जन् ||{7/10}{4.38.7}{4.4.6.7}{3.7.12.2}{433, 334, 3485}

उ॒त स्मा᳚स्य तन्य॒तोरि॑व॒ द्योरृ॑घाय॒तो, अ॑भि॒युजो᳚ भयन्ते |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

य॒दा स॒हस्र॑म॒भि षी॒मयो᳚धीद् दु॒र्वर्तुः॑ स्मा भवति भी॒म ऋ॒ञ्जन् ||{8/10}{4.38.8}{4.4.6.8}{3.7.12.3}{434, 334, 3486}

उ॒त स्मा᳚स्य पनयन्ति॒ जना᳚ जू॒तिं कृ॑ष्टि॒प्रो, अ॒भिभू᳚तिमा॒शोः |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

उ॒तैन॑माहुः समि॒थे वि॒यन्तः॒ परा᳚ दधि॒क्रा, अ॑सरत्‌ स॒हस्रैः᳚ ||{9/10}{4.38.9}{4.4.6.9}{3.7.12.4}{435, 334, 3487}

आ द॑धि॒क्राः शव॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस्त॑तान |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

स॒ह॒स्र॒साः श॑त॒सा वा॒ज्यर्वा᳚ पृ॒णक्तु॒ मध्वा॒ समि॒मा वचां᳚सि ||{10/10}{4.38.10}{4.4.6.10}{3.7.12.5}{436, 334, 3488}

[39] आशुमिति षडृचस्य सूक्तस्य गौतमोवामदेवोदधिक्रावात्रिष्टुबन्त्यानुष्टुप् |
आ॒शुं द॑धि॒क्रां तमु॒ नु ष्ट॑वाम दि॒वस्पृ॑थि॒व्या, उ॒त च॑र्किराम |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

उ॒च्छन्ती॒र्मामु॒षसः॑ सूदय॒न्त्वति॒ विश्वा᳚नि दुरि॒तानि॑ पर्षन् ||{1/6}{4.39.1}{4.4.7.1}{3.7.13.1}{437, 335, 3489}

म॒हश्च॑र्क॒र्म्यर्व॑तः क्रतु॒प्रा द॑धि॒क्राव्णः॑ पुरु॒वार॑स्य॒ वृष्णः॑ |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

यं पू॒रुभ्यो᳚ दीदि॒वांसं॒ नाग्निं द॒दथु᳚र्मित्रावरुणा॒ ततु॑रिम् ||{2/6}{4.39.2}{4.4.7.2}{3.7.13.2}{438, 335, 3490}

यो, अश्व॑स्य दधि॒क्राव्णो॒, अका᳚री॒त् समि॑द्धे, अ॒ग्ना, उ॒षसो॒ व्यु॑ष्टौ |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

अना᳚गसं॒ तमदि॑तिः कृणोतु॒ स मि॒त्रेण॒ वरु॑णेना स॒जोषाः᳚ ||{3/6}{4.39.3}{4.4.7.3}{3.7.13.3}{439, 335, 3491}

द॒धि॒क्राव्ण॑ इ॒ष ऊ॒र्जो म॒हो यदम᳚न्महि म॒रुतां॒ नाम॑ भ॒द्रम् |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

स्व॒स्तये॒ वरु॑णं मि॒त्रम॒ग्निं हवा᳚मह॒ इन्द्रं॒ वज्र॑बाहुम् ||{4/6}{4.39.4}{4.4.7.4}{3.7.13.4}{440, 335, 3492}

इन्द्र॑मि॒वेदु॒भये॒ वि ह्व॑यन्त उ॒दीरा᳚णा य॒ज्ञमु॑पप्र॒यन्तः॑ |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

द॒धि॒क्रामु॒ सूद॑नं॒ मर्त्या᳚य द॒दथु᳚र्मित्रावरुणा नो॒, अश्व᳚म् ||{5/6}{4.39.5}{4.4.7.5}{3.7.13.5}{441, 335, 3493}

द॒धि॒क्राव्णो᳚, अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ |{गौतमो वामदेवः | दधिक्राः | अनुष्टुप्}

सु॒र॒भि नो॒ मुखा᳚ कर॒त् प्र ण॒ आयूं᳚षि तारिषत् ||{6/6}{4.39.6}{4.4.7.6}{3.7.13.6}{442, 335, 3494}

[40] दधिक्राव्णइति पंचर्चस्य सूक्तस्य गौतमोवामदेवदधिक्रावा अंत्यायाः सूर्यस्त्रिष्टुप् अंत्याश्चतस्रोजगत्यः
द॒धि॒क्राव्ण॒ इदु॒ नु च॑र्किराम॒ विश्वा॒, इन्मामु॒षसः॑ सूदयन्तु |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

अ॒पाम॒ग्नेरु॒षसः॒ सूर्य॑स्य॒ बृह॒स्पते᳚राङ्गिर॒सस्य॑ जि॒ष्णोः ||{1/5}{4.40.1}{4.4.8.1}{3.7.14.1}{443, 336, 3495}

सत्वा᳚ भरि॒षो ग॑वि॒षो दु॑वन्य॒सच्छ्र॑व॒स्यादि॒ष उ॒षस॑स्तुरण्य॒सत् |{गौतमो वामदेवः | दधिक्राः | जगती}

स॒त्यो द्र॒वो द्र॑व॒रः प॑तंग॒रो द॑धि॒क्रावेष॒मूर्जं॒ स्व॑र्जनत् ||{2/5}{4.40.2}{4.4.8.2}{3.7.14.2}{444, 336, 3496}

उ॒त स्मा᳚स्य॒ द्रव॑तस्तुरण्य॒तः प॒र्णं न वेरनु॑ वाति प्रग॒र्धिनः॑ |{गौतमो वामदेवः | दधिक्राः | जगती}

श्ये॒नस्ये᳚व॒ ध्रज॑तो, अङ्क॒सं परि॑ दधि॒क्राव्णः॑ स॒होर्जा तरि॑त्रतः ||{3/5}{4.40.3}{4.4.8.3}{3.7.14.3}{445, 336, 3497}

उ॒त स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां᳚ ब॒द्धो, अ॑पिक॒क्ष आ॒सनि॑ |{गौतमो वामदेवः | दधिक्राः | जगती}

क्रतुं᳚ दधि॒क्रा, अनु॑ सं॒तवी᳚त्वत् प॒थामङ्कां॒स्यन्वा॒पनी᳚फणत् ||{4/5}{4.40.4}{4.4.8.4}{3.7.14.4}{446, 336, 3498}

हं॒सः शु॑चि॒षद्‌ वसु॑रन्तरिक्ष॒सद्धोता᳚ वेदि॒षदति॑थिर्दुरोण॒सत् |{गौतमो वामदेवः | सूर्यः | जगती}

नृ॒षद्‌ व॑र॒सदृ॑त॒सद्‌ व्यो᳚म॒सद॒ब्जा गो॒जा, ऋ॑त॒जा, अ॑द्रि॒जा, ऋ॒तम् ||{5/5}{4.40.5}{4.4.8.5}{3.7.14.5}{447, 336, 3499}

[41] इंद्राकोवामित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रावरुणौत्रिष्टुप्
इन्द्रा॒ को वां᳚ वरुणा सु॒म्नमा᳚प॒ स्तोमो᳚ ह॒विष्माँ᳚, अ॒मृतो॒ न होता᳚ |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

यो वां᳚ हृ॒दि क्रतु॑माँ, अ॒स्मदु॒क्तः प॒स्पर्श॑दिन्द्रावरुणा॒ नम॑स्वान् ||{1/11}{4.41.1}{4.4.9.1}{3.7.15.1}{448, 337, 3500}

इन्द्रा᳚ ह॒ यो वरु॑णा च॒क्र आ॒पी दे॒वौ मर्तः॑ स॒ख्याय॒ प्रय॑स्वान् |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

स ह᳚न्ति वृ॒त्रा स॑मि॒थेषु॒ शत्रू॒नवो᳚भिर्वा म॒हद्भिः॒ स प्र शृ᳚ण्वे ||{2/11}{4.41.2}{4.4.9.2}{3.7.15.2}{449, 337, 3501}

इन्द्रा᳚ ह॒ रत्नं॒ वरु॑णा॒ धेष्ठे॒त्था नृभ्यः॑ शशमा॒नेभ्य॒स्ता |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

यदी॒ सखा᳚या स॒ख्याय॒ सोमैः᳚ सु॒तेभिः॑ सुप्र॒यसा᳚ मा॒दयै᳚ते ||{3/11}{4.41.3}{4.4.9.3}{3.7.15.3}{450, 337, 3502}

इन्द्रा᳚ यु॒वं व॑रुणा दि॒द्युम॑स्मि॒न्नोजि॑ष्ठमुग्रा॒ नि व॑धिष्टं॒ वज्र᳚म् |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

यो नो᳚ दु॒रेवो᳚ वृ॒कति॑र्द॒भीति॒स्तस्मि᳚न्‌ मिमाथाम॒भिभू॒त्योजः॑ ||{4/11}{4.41.4}{4.4.9.4}{3.7.15.4}{451, 337, 3503}

इन्द्रा᳚ यु॒वं व॑रुणा भू॒तम॒स्या धि॒यः प्रे॒तारा᳚ वृष॒भेव॑ धे॒नोः |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

सा नो᳚ दुहीय॒द्यव॑सेव ग॒त्वी स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ||{5/11}{4.41.5}{4.4.9.5}{3.7.15.5}{452, 337, 3504}

तो॒के हि॒ते तन॑य उ॒र्वरा᳚सु॒ सूरो॒ दृशी᳚के॒ वृष॑णश्च॒ पौंस्ये᳚ |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

इन्द्रा᳚ नो॒, अत्र॒ वरु॑णा स्याता॒मवो᳚भिर्द॒स्मा परि॑तक्म्यायाम् ||{6/11}{4.41.6}{4.4.9.6}{3.7.16.1}{453, 337, 3505}

यु॒वामिद्ध्यव॑से पू॒र्व्याय॒ परि॒ प्रभू᳚ती ग॒विषः॑ स्वापी |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

वृ॒णी॒महे᳚ स॒ख्याय॑ प्रि॒याय॒ शूरा॒ मंहि॑ष्ठा पि॒तरे᳚व श॒म्भू ||{7/11}{4.41.7}{4.4.9.7}{3.7.16.2}{454, 337, 3506}

ता वां॒ धियोऽव॑से वाज॒यन्ती᳚रा॒जिं न ज॑ग्मुर्युव॒यूः सु॑दानू |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

श्रि॒ये न गाव॒ उप॒ सोम॑मस्थु॒रिन्द्रं॒ गिरो॒ वरु॑णं मे मनी॒षाः ||{8/11}{4.41.8}{4.4.9.8}{3.7.16.3}{455, 337, 3507}

इ॒मा, इन्द्रं॒ वरु॑णं मे मनी॒षा, अग्म॒न्नुप॒ द्रवि॑णमि॒च्छमा᳚नाः |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

उपे᳚मस्थुर्जो॒ष्टार॑ इव॒ वस्वो᳚ र॒घ्वीरि॑व॒ श्रव॑सो॒ भिक्ष॑माणाः ||{9/11}{4.41.9}{4.4.9.9}{3.7.16.4}{456, 337, 3508}

अश्व्य॑स्य॒ त्मना॒ रथ्य॑स्य पु॒ष्टेर्नित्य॑स्य रा॒यः पत॑यः स्याम |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

ता च॑क्रा॒णा, ऊ॒तिभि॒र्नव्य॑सीभिरस्म॒त्रा रायो᳚ नि॒युतः॑ सचन्ताम् ||{10/11}{4.41.10}{4.4.9.10}{3.7.16.5}{457, 337, 3509}

आ नो᳚ बृहन्ता बृह॒तीभि॑रू॒ती, इन्द्र॑ या॒तं व॑रुण॒ वाज॑सातौ |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

यद्दि॒द्यवः॒ पृत॑नासु प्र॒क्रीळा॒न् तस्य॑ वां स्याम सनि॒तार॑ आ॒जेः ||{11/11}{4.41.11}{4.4.9.11}{3.7.16.6}{458, 337, 3510}

[42] ममद्वितेति दशर्चस्य सूक्तस्य पौरुकुत्स्यस्त्रसदस्युः आद्यानांषण्णांत्रसदस्युर्देवता अंत्यानांचतसृणामिंद्रावरुणौत्रिष्टुप्
मम॑ द्वि॒ता रा॒ष्ट्रं क्ष॒त्रिय॑स्य वि॒श्वायो॒र्विश्वे᳚, अ॒मृता॒ यथा᳚ नः |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्}

क्रतुं᳚ सचन्ते॒ वरु॑णस्य दे॒वा राजा᳚मि कृ॒ष्टेरु॑प॒मस्य॑ व॒व्रेः ||{1/10}{4.42.1}{4.4.10.1}{3.7.17.1}{459, 338, 3511}

अ॒हं राजा॒ वरु॑णो॒ मह्यं॒ तान्य॑सु॒र्या᳚णि प्रथ॒मा धा᳚रयन्त |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्}

क्रतुं᳚ सचन्ते॒ वरु॑णस्य दे॒वा राजा᳚मि कृ॒ष्टेरु॑प॒मस्य॑ व॒व्रेः ||{2/10}{4.42.2}{4.4.10.2}{3.7.17.2}{460, 338, 3512}

अ॒हमिन्द्रो॒ वरु॑ण॒स्ते म॑हि॒त्वोर्वी ग॑भी॒रे रज॑सी सु॒मेके᳚ |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्}

त्वष्टे᳚व॒ विश्वा॒ भुव॑नानि वि॒द्वान् त्समै᳚रयं॒ रोद॑सी धा॒रयं᳚ च ||{3/10}{4.42.3}{4.4.10.3}{3.7.17.3}{461, 338, 3513}

अ॒हम॒पो, अ॑पिन्वमु॒क्षमा᳚णा धा॒रयं॒ दिवं॒ सद॑न ऋ॒तस्य॑ |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्}

ऋ॒तेन॑ पु॒त्रो, अदि॑तेरृ॒तावो॒त त्रि॒धातु॑ प्रथय॒द्वि भूम॑ ||{4/10}{4.42.4}{4.4.10.4}{3.7.17.4}{462, 338, 3514}

मां नरः॒ स्वश्वा᳚ वा॒जय᳚न्तो॒ मां वृ॒ताः स॒मर॑णे हवन्ते |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्}

कृ॒णोम्या॒जिं म॒घवा॒हमिन्द्र॒ इय᳚र्मि रे॒णुम॒भिभू᳚त्योजाः ||{5/10}{4.42.5}{4.4.10.5}{3.7.17.5}{463, 338, 3515}

अ॒हं ता विश्वा᳚ चकरं॒ नकि᳚र्मा॒ दैव्यं॒ सहो᳚ वरते॒, अप्र॑तीतम् |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्}

यन्मा॒ सोमा᳚सो म॒मद॒न्यदु॒क्थोभे भ॑येते॒ रज॑सी, अपा॒रे ||{6/10}{4.42.6}{4.4.10.6}{3.7.18.1}{464, 338, 3516}

वि॒दुष्टे॒ विश्वा॒ भुव॑नानि॒ तस्य॒ ता प्र ब्र॑वीषि॒ वरु॑णाय वेधः |{पौरुकुत्स्यः त्रसदस्युः | इन्द्रावरुणौ | त्रिष्टुप्}

त्वं वृ॒त्राणि॑ शृण्विषे जघ॒न्वान् त्वं वृ॒ताँ, अ॑रिणा, इन्द्र॒ सिन्धू॑न् ||{7/10}{4.42.7}{4.4.10.7}{3.7.18.2}{465, 338, 3517}

अ॒स्माक॒मत्र॑ पि॒तर॒स्त आ᳚सन् त्स॒प्त ऋष॑यो दौर्ग॒हे ब॒ध्यमा᳚ने |{पौरुकुत्स्यः त्रसदस्युः | इन्द्रावरुणौ | त्रिष्टुप्}

त आय॑जन्त त्र॒सद॑स्युमस्या॒, इन्द्रं॒ न वृ॑त्र॒तुर॑मर्धदे॒वम् ||{8/10}{4.42.8}{4.4.10.8}{3.7.18.3}{466, 338, 3518}

पु॒रु॒कुत्सा᳚नी॒ हि वा॒मदा᳚शद्ध॒व्येभि॑रिन्द्रावरुणा॒ नमो᳚भिः |{पौरुकुत्स्यः त्रसदस्युः | इन्द्रावरुणौ | त्रिष्टुप्}

अथा॒ राजा᳚नं त्र॒सद॑स्युमस्या वृत्र॒हणं᳚ ददथुरर्धदे॒वम् ||{9/10}{4.42.9}{4.4.10.9}{3.7.18.4}{467, 338, 3519}

रा॒या व॒यं स॑स॒वांसो᳚ मदेम ह॒व्येन॑ दे॒वा यव॑सेन॒ गावः॑ |{पौरुकुत्स्यः त्रसदस्युः | इन्द्रावरुणौ | त्रिष्टुप्}

तां धे॒नुमि᳚न्द्रावरुणा यु॒वं नो᳚ वि॒श्वाहा᳚ धत्त॒मन॑पस्फुरन्तीम् ||{10/10}{4.42.10}{4.4.10.10}{3.7.18.5}{468, 338, 3520}

[43] कउश्रवदिति सप्तर्चस्य सूक्तस्य सौहोत्रौ पुरुमीळ्हाजमीळ्हावश्विनौत्रिष्टुप् |
क उ॑ श्रवत्‌ कत॒मो य॒ज्ञिया᳚नां व॒न्दारु॑ दे॒वः क॑त॒मो जु॑षाते |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

कस्ये॒मां दे॒वीम॒मृते᳚षु॒ प्रेष्ठां᳚ हृ॒दि श्रे᳚षाम सुष्टु॒तिं सु॑ह॒व्याम् ||{1/7}{4.43.1}{4.4.11.1}{3.7.19.1}{469, 339, 3521}

को मृ॑ळाति कत॒म आग॑मिष्ठो दे॒वाना᳚मु कत॒मः शम्भ॑विष्ठः |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

रथं॒ कमा᳚हुर्द्र॒वद॑श्वमा॒शुं यं सूर्य॑स्य दुहि॒तावृ॑णीत ||{2/7}{4.43.2}{4.4.11.2}{3.7.19.2}{470, 339, 3522}

म॒क्षू हि ष्मा॒ गच्छ॑थ॒ ईव॑तो॒ द्यूनिन्द्रो॒ न श॒क्तिं परि॑तक्म्यायाम् |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

दि॒व आजा᳚ता दि॒व्या सु॑प॒र्णा कया॒ शची᳚नां भवथः॒ शचि॑ष्ठा ||{3/7}{4.43.3}{4.4.11.3}{3.7.19.3}{471, 339, 3523}

का वां᳚ भू॒दुप॑मातिः॒ कया᳚ न॒ आश्वि॑ना गमथो हू॒यमा᳚ना |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

को वां᳚ म॒हश्चि॒त्‌ त्यज॑सो, अ॒भीक॑ उरु॒ष्यतं᳚ माध्वी दस्रा न ऊ॒ती ||{4/7}{4.43.4}{4.4.11.4}{3.7.19.4}{472, 339, 3524}

उ॒रु वां॒ रथः॒ परि॑ नक्षति॒ द्यामा यत्‌ स॑मु॒द्राद॒भि वर्त॑ते वाम् |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

मध्वा᳚ माध्वी॒ मधु॑ वां प्रुषाय॒न् यत्सीं᳚ वां॒ पृक्षो᳚ भु॒रज᳚न्त प॒क्वाः ||{5/7}{4.43.5}{4.4.11.5}{3.7.19.5}{473, 339, 3525}

सिन्धु᳚र्ह वां र॒सया᳚ सिञ्च॒दश्वा᳚न् घृ॒णा वयो᳚ऽरु॒षासः॒ परि॑ ग्मन् |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

तदू॒ षु वा᳚मजि॒रं चे᳚ति॒ यानं॒ येन॒ पती॒ भव॑थः सू॒र्यायाः᳚ ||{6/7}{4.43.6}{4.4.11.6}{3.7.19.6}{474, 339, 3526}

इ॒हेह॒ यद्वां᳚ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा᳚जरत्ना |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

उ॒रु॒ष्यतं᳚ जरि॒तारं᳚ यु॒वं ह॑ श्रि॒तः कामो᳚ नासत्या युव॒द्रिक् ||{7/7}{4.43.7}{4.4.11.7}{3.7.19.7}{475, 339, 3527}

[44] तंवामिति सप्तर्चस्य सूक्तस्य सौहोत्रौ पुरुमीळ्हाजमीळ्हावश्विनौत्रिष्टुप् |
तं वां॒ रथं᳚ व॒यम॒द्या हु॑वेम पृथु॒ज्रय॑मश्विना॒ संग॑तिं॒ गोः |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

यः सू॒र्यां वह॑ति वन्धुरा॒युर्गिर्वा᳚हसं पुरु॒तमं᳚ वसू॒युम् ||{1/7}{4.44.1}{4.4.12.1}{3.7.20.1}{476, 340, 3528}

यु॒वं श्रिय॑मश्विना दे॒वता॒ तां दिवो᳚ नपाता वनथः॒ शची᳚भिः |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

यु॒वोर्वपु॑र॒भि पृक्षः॑ सचन्ते॒ वह᳚न्ति॒ यत्‌ क॑कु॒हासो॒ रथे᳚ वाम् ||{2/7}{4.44.2}{4.4.12.2}{3.7.20.2}{477, 340, 3529}

को वा᳚म॒द्या क॑रते रा॒तह᳚व्य ऊ॒तये᳚ वा सुत॒पेया᳚य वा॒र्कैः |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

ऋ॒तस्य॑ वा व॒नुषे᳚ पू॒र्व्याय॒ नमो᳚ येमा॒नो, अ॑श्वि॒ना व॑वर्तत् ||{3/7}{4.44.3}{4.4.12.3}{3.7.20.3}{478, 340, 3530}

हि॒र॒ण्यये᳚न पुरुभू॒ रथे᳚ने॒मं य॒ज्ञं ना᳚स॒त्योप॑ यातम् |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

पिबा᳚थ॒ इन्मधु॑नः सो॒म्यस्य॒ दध॑थो॒ रत्नं᳚ विध॒ते जना᳚य ||{4/7}{4.44.4}{4.4.12.4}{3.7.20.4}{479, 340, 3531}

आ नो᳚ यातं दि॒वो, अच्छा᳚ पृथि॒व्या हि॑र॒ण्यये᳚न सु॒वृता॒ रथे᳚न |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

मा वा᳚म॒न्ये नि य॑मन्‌ देव॒यन्तः॒ सं यद्द॒दे नाभिः॑ पू॒र्व्या वा᳚म् ||{5/7}{4.44.5}{4.4.12.5}{3.7.20.5}{480, 340, 3532}

नू नो᳚ र॒यिं पु॑रु॒वीरं᳚ बृ॒हन्तं॒ दस्रा॒ मिमा᳚थामु॒भये᳚ष्व॒स्मे |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

नरो॒ यद्वा᳚मश्विना॒ स्तोम॒माव᳚न् त्स॒धस्तु॑तिमाजमी॒ळ्हासो᳚, अग्मन् ||{6/7}{4.44.6}{4.4.12.6}{3.7.20.6}{481, 340, 3533}

इ॒हेह॒ यद्वां᳚ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा᳚जरत्ना |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

उ॒रु॒ष्यतं᳚ जरि॒तारं᳚ यु॒वं ह॑ श्रि॒तः कामो᳚ नासत्या युव॒द्रिक् ||{7/7}{4.44.7}{4.4.12.7}{3.7.20.7}{482, 340, 3534}

[45] एषस्यइति सप्तर्चस्य सूक्तस्य गौतमो वामदेवोश्विनौ जगत्यंत्यात्रिष्टुप् |
ए॒ष स्य भा॒नुरुदि॑यर्ति यु॒ज्यते॒ रथः॒ परि॑ज्मा दि॒वो, अ॒स्य सान॑वि |{गौतमो वामदेवः | अश्विनौ | जगती}

पृ॒क्षासो᳚, अस्मिन्‌ मिथु॒ना, अधि॒ त्रयो॒ दृति॑स्तु॒रीयो॒ मधु॑नो॒ वि र॑प्शते ||{1/7}{4.45.1}{4.4.13.1}{3.7.21.1}{483, 341, 3535}

उद्वां᳚ पृ॒क्षासो॒ मधु॑मन्त ईरते॒ रथा॒, अश्वा᳚स उ॒षसो॒ व्यु॑ष्टिषु |{गौतमो वामदेवः | अश्विनौ | जगती}

अ॒पो॒र्णु॒वन्त॒स्तम॒ आ परी᳚वृतं॒ स्व१॑(अ॒)र्ण शु॒क्रं त॒न्वन्त॒ आ रजः॑ ||{2/7}{4.45.2}{4.4.13.2}{3.7.21.2}{484, 341, 3536}

मध्वः॑ पिबतं मधु॒पेभि॑रा॒सभि॑रु॒त प्रि॒यं मधु॑ने युञ्जाथां॒ रथ᳚म् |{गौतमो वामदेवः | अश्विनौ | जगती}

आ व॑र्त॒निं मधु॑ना जिन्वथस्प॒थो दृतिं᳚ वहेथे॒ मधु॑मन्तमश्विना ||{3/7}{4.45.3}{4.4.13.3}{3.7.21.3}{485, 341, 3537}

हं॒सासो॒ ये वां॒ मधु॑मन्तो, अ॒स्रिधो॒ हिर᳚ण्यपर्णा, उ॒हुव॑ उष॒र्बुधः॑ |{गौतमो वामदेवः | अश्विनौ | जगती}

उ॒द॒प्रुतो᳚ म॒न्दिनो᳚ मन्दिनि॒स्पृशो॒ मध्वो॒ न मक्षः॒ सव॑नानि गच्छथः ||{4/7}{4.45.4}{4.4.13.4}{3.7.21.4}{486, 341, 3538}

स्व॒ध्व॒रासो॒ मधु॑मन्तो, अ॒ग्नय॑ उ॒स्रा ज॑रन्ते॒ प्रति॒ वस्तो᳚र॒श्विना᳚ |{गौतमो वामदेवः | अश्विनौ | जगती}

यन्नि॒क्तह॑स्तस्त॒रणि᳚र्विचक्ष॒णः सोमं᳚ सु॒षाव॒ मधु॑मन्त॒मद्रि॑भिः ||{5/7}{4.45.5}{4.4.13.5}{3.7.21.5}{487, 341, 3539}

आ॒के॒नि॒पासो॒, अह॑भि॒र्दवि॑ध्वतः॒ स्व१॑(अ॒)र्ण शु॒क्रं त॒न्वन्त॒ आ रजः॑ |{गौतमो वामदेवः | अश्विनौ | जगती}

सूर॑श्चि॒दश्वा᳚न्‌ युयुजा॒न ई᳚यते॒ विश्वाँ॒, अनु॑ स्व॒धया᳚ चेतथस्प॒थः ||{6/7}{4.45.6}{4.4.13.6}{3.7.21.6}{488, 341, 3540}

प्र वा᳚मवोचमश्विना धियं॒धा रथः॒ स्वश्वो᳚, अ॒जरो॒ यो, अस्ति॑ |{गौतमो वामदेवः | अश्विनौ | त्रिष्टुप्}

येन॑ स॒द्यः परि॒ रजां᳚सि या॒थो ह॒विष्म᳚न्तं त॒रणिं᳚ भो॒जमच्छ॑ ||{7/7}{4.45.7}{4.4.13.7}{3.7.21.7}{489, 341, 3541}

[46] अग्रम्पिबेति सप्तर्चस्य सूक्तस्य गौतमोवामदेव इंद्रवायू आद्यायावायुर्गायत्री |
अग्रं᳚ पिबा॒ मधू᳚नां सु॒तं वा᳚यो॒ दिवि॑ष्टिषु |{गौतमो वामदेवः | वायुः | गायत्री}

त्वं हि पू᳚र्व॒पा, असि॑ ||{1/7}{4.46.1}{4.5.1.1}{3.7.22.1}{490, 342, 3542}

श॒तेना᳚ नो, अ॒भिष्टि॑भिर्नि॒युत्वाँ॒, इन्द्र॑सारथिः |{गौतमो वामदेवः | इंद्रवायू | गायत्री}

वायो᳚ सु॒तस्य॑ तृम्पतम् ||{2/7}{4.46.2}{4.5.1.2}{3.7.22.2}{491, 342, 3543}

आ वां᳚ स॒हस्रं॒ हर॑य॒ इन्द्र॑वायू, अ॒भि प्रयः॑ |{गौतमो वामदेवः | इंद्रवायू | गायत्री}

वह᳚न्तु॒ सोम॑पीतये ||{3/7}{4.46.3}{4.5.1.3}{3.7.22.3}{492, 342, 3544}

रथं॒ हिर᳚ण्यवन्धुर॒मिन्द्र॑वायू स्वध्व॒रम् |{गौतमो वामदेवः | इंद्रवायू | गायत्री}

आ हि स्थाथो᳚ दिवि॒स्पृश᳚म् ||{4/7}{4.46.4}{4.5.1.4}{3.7.22.4}{493, 342, 3545}

रथे᳚न पृथु॒पाज॑सा दा॒श्वांस॒मुप॑ गच्छतम् |{गौतमो वामदेवः | इंद्रवायू | गायत्री}

इन्द्र॑वायू, इ॒हा ग॑तम् ||{5/7}{4.46.5}{4.5.1.5}{3.7.22.5}{494, 342, 3546}

इन्द्र॑वायू, अ॒यं सु॒तस्तं दे॒वेभिः॑ स॒जोष॑सा |{गौतमो वामदेवः | इंद्रवायू | गायत्री}

पिब॑तं दा॒शुषो᳚ गृ॒हे ||{6/7}{4.46.6}{4.5.1.6}{3.7.22.6}{495, 342, 3547}

इ॒ह प्र॒याण॑मस्तु वा॒मिन्द्र॑वायू वि॒मोच॑नम् |{गौतमो वामदेवः | इंद्रवायू | गायत्री}

इ॒ह वां॒ सोम॑पीतये ||{7/7}{4.46.7}{4.5.1.7}{3.7.22.7}{496, 342, 3548}

[47] वायोशुक्रइति चतुरृचस्य सूक्तस्य गौतमोवामदेव इंद्रवायू आद्यायावायुरनुष्टुप् |
वायो᳚ शु॒क्रो, अ॑यामि ते॒ मध्वो॒, अग्रं॒ दिवि॑ष्टिषु |{गौतमो वामदेवः | वायुः | अनुष्टुप्}

आ या᳚हि॒ सोम॑पीतये स्पा॒र्हो दे᳚व नि॒युत्व॑ता ||{1/4}{4.47.1}{4.5.2.1}{3.7.23.1}{497, 343, 3549}

इन्द्र॑श्च वायवेषां॒ सोमा᳚नां पी॒तिम᳚र्हथः |{गौतमो वामदेवः | इंद्रवायू | अनुष्टुप्}

यु॒वां हि यन्तीन्द॑वो नि॒म्नमापो॒ न स॒ध्र्य॑क् ||{2/4}{4.47.2}{4.5.2.2}{3.7.23.2}{498, 343, 3550}

वाय॒विन्द्र॑श्च शु॒ष्मिणा᳚ स॒रथं᳚ शवसस्पती |{गौतमो वामदेवः | इंद्रवायू | अनुष्टुप्}

नि॒युत्व᳚न्ता न ऊ॒तय॒ आ या᳚तं॒ सोम॑पीतये ||{3/4}{4.47.3}{4.5.2.3}{3.7.23.3}{499, 343, 3551}

या वां॒ सन्ति॑ पुरु॒स्पृहो᳚ नि॒युतो᳚ दा॒शुषे᳚ नरा |{गौतमो वामदेवः | इंद्रवायू | अनुष्टुप्}

अ॒स्मे ता य॑ज्ञवाह॒सेन्द्र॑वायू॒ नि य॑च्छतम् ||{4/4}{4.47.4}{4.5.2.4}{3.7.23.4}{500, 343, 3552}

[48] विहिहोत्राइति पंचर्चस्य सूक्तस्य गौतमोवामदेवोवायुरनुष्टुप् |
वि॒हि होत्रा॒, अवी᳚ता॒ विपो॒ न रायो᳚, अ॒र्यः |{गौतमो वामदेवः | वायुः | अनुष्टुप्}

वाय॒वा च॒न्द्रेण॒ रथे᳚न या॒हि सु॒तस्य॑ पी॒तये᳚ ||{1/5}{4.48.1}{4.5.3.1}{3.7.24.1}{501, 344, 3553}

नि॒र्यु॒वा॒णो, अश॑स्तीर्नि॒युत्वाँ॒, इन्द्र॑सारथिः |{गौतमो वामदेवः | वायुः | अनुष्टुप्}

वाय॒वा च॒न्द्रेण॒ रथे᳚न या॒हि सु॒तस्य॑ पी॒तये᳚ ||{2/5}{4.48.2}{4.5.3.2}{3.7.24.2}{502, 344, 3554}

अनु॑ कृ॒ष्णे वसु॑धिती ये॒माते᳚ वि॒श्वपे᳚शसा |{गौतमो वामदेवः | वायुः | अनुष्टुप्}

वाय॒वा च॒न्द्रेण॒ रथे᳚न या॒हि सु॒तस्य॑ पी॒तये᳚ ||{3/5}{4.48.3}{4.5.3.3}{3.7.24.3}{503, 344, 3555}

वह᳚न्तु त्वा मनो॒युजो᳚ यु॒क्तासो᳚ नव॒तिर्नव॑ |{गौतमो वामदेवः | वायुः | अनुष्टुप्}

वाय॒वा च॒न्द्रेण॒ रथे᳚न या॒हि सु॒तस्य॑ पी॒तये᳚ ||{4/5}{4.48.4}{4.5.3.4}{3.7.24.4}{504, 344, 3556}

वायो᳚ श॒तं हरी᳚णां यु॒वस्व॒ पोष्या᳚णाम् |{गौतमो वामदेवः | वायुः | अनुष्टुप्}

उ॒त वा᳚ ते सह॒स्रिणो॒ रथ॒ आ या᳚तु॒ पाज॑सा ||{5/5}{4.48.5}{4.5.3.5}{3.7.24.5}{505, 344, 3557}

[49] इदंवामिति षडृचस्य सूक्तस्य गौतमोवामदेव इंद्राबृहस्पतीगायत्री
इ॒दं वा᳚मा॒स्ये᳚ ह॒विः प्रि॒यमि᳚न्द्राबृहस्पती |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री}

उ॒क्थं मद॑श्च शस्यते ||{1/6}{4.49.1}{4.5.4.1}{3.7.25.1}{506, 345, 3558}

अ॒यं वां॒ परि॑ षिच्यते॒ सोम॑ इन्द्राबृहस्पती |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री}

चारु॒र्मदा᳚य पी॒तये᳚ ||{2/6}{4.49.2}{4.5.4.2}{3.7.25.2}{507, 345, 3559}

आ न॑ इन्द्राबृहस्पती गृ॒हमिन्द्र॑श्च गच्छतम् |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री}

सो॒म॒पा सोम॑पीतये ||{3/6}{4.49.3}{4.5.4.3}{3.7.25.3}{508, 345, 3560}

अ॒स्मे, इ᳚न्द्राबृहस्पती र॒यिं ध॑त्तं शत॒ग्विन᳚म् |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री}

अश्वा᳚वन्तं सह॒स्रिण᳚म् ||{4/6}{4.49.4}{4.5.4.4}{3.7.25.4}{509, 345, 3561}

इन्द्रा॒बृह॒स्पती᳚ व॒यं सु॒ते गी॒र्भिर्ह॑वामहे |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री}

अ॒स्य सोम॑स्य पी॒तये᳚ ||{5/6}{4.49.5}{4.5.4.5}{3.7.25.5}{510, 345, 3562}

सोम॑मिन्द्राबृहस्पती॒ पिब॑तं दा॒शुषो᳚ गृ॒हे |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री}

मा॒दये᳚थां॒ तदो᳚कसा ||{6/6}{4.49.6}{4.5.4.6}{3.7.25.6}{511, 345, 3563}

[50] यस्तस्तंभेत्येकादशर्चस्य सूक्तस्य गौतमोवामदेवो बृहस्पतिरंत्ययोर्द्वयोरिंद्राबृहस्पतीत्रिष्टुप्‌दशमी जगती |
यस्त॒स्तम्भ॒ सह॑सा॒ वि ज्मो, अन्ता॒न् बृह॒स्पति॑स्त्रिषध॒स्थो रवे᳚ण |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

तं प्र॒त्नास॒ ऋष॑यो॒ दीध्या᳚नाः पु॒रो विप्रा᳚ दधिरे म॒न्द्रजि॑ह्वम् ||{1/11}{4.50.1}{4.5.5.1}{3.7.26.1}{512, 346, 3564}

धु॒नेत॑यः सुप्रके॒तं मद᳚न्तो॒ बृह॑स्पते, अ॒भि ये न॑स्तत॒स्रे |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

पृष᳚न्तं सृ॒प्रमद॑ब्धमू॒र्वं बृह॑स्पते॒ रक्ष॑तादस्य॒ योनि᳚म् ||{2/11}{4.50.2}{4.5.5.2}{3.7.26.2}{513, 346, 3565}

बृह॑स्पते॒ या प॑र॒मा प॑रा॒वदत॒ आ त॑ ऋत॒स्पृशो॒ नि षे᳚दुः |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

तुभ्यं᳚ खा॒ता, अ॑व॒ता, अद्रि॑दुग्धा॒ मध्वः॑ श्चोतन्त्य॒भितो᳚ विर॒प्शम् ||{3/11}{4.50.3}{4.5.5.3}{3.7.26.3}{514, 346, 3566}

बृह॒स्पतिः॑ प्रथ॒मं जाय॑मानो म॒हो ज्योति॑षः पर॒मे व्यो᳚मन् |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

स॒प्तास्य॑स्तुविजा॒तो रवे᳚ण॒ वि स॒प्तर॑श्मिरधम॒त्तमां᳚सि ||{4/11}{4.50.4}{4.5.5.4}{3.7.26.4}{515, 346, 3567}

स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒लं रु॑रोज फलि॒गं रवे᳚ण |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति॑रु॒स्रिया᳚ हव्य॒सूदः॒ कनि॑क्रद॒द्‌ वाव॑शती॒रुदा᳚जत् ||{5/11}{4.50.5}{4.5.5.5}{3.7.26.5}{516, 346, 3568}

ए॒वा पि॒त्रे वि॒श्वदे᳚वाय॒ वृष्णे᳚ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

बृह॑स्पते सुप्र॒जा वी॒रव᳚न्तो व॒यं स्या᳚म॒ पत॑यो रयी॒णाम् ||{6/11}{4.50.6}{4.5.5.6}{3.7.27.1}{517, 346, 3569}

स इद्‌ राजा॒ प्रति॑जन्यानि॒ विश्वा॒ शुष्मे᳚ण तस्थाव॒भि वी॒र्ये᳚ण |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पतिं॒ यः सुभृ॑तं बि॒भर्ति॑ वल्गू॒यति॒ वन्द॑ते पूर्व॒भाज᳚म् ||{7/11}{4.50.7}{4.5.5.7}{3.7.27.2}{518, 346, 3570}

स इत्‌ क्षे᳚ति॒ सुधि॑त॒ ओक॑सि॒ स्वे तस्मा॒, इळा᳚ पिन्वते विश्व॒दानी᳚म् |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

तस्मै॒ विशः॑ स्व॒यमे॒वा न॑मन्ते॒ यस्मि᳚न्‌ ब्र॒ह्मा राज॑नि॒ पूर्व॒ एति॑ ||{8/11}{4.50.8}{4.5.5.8}{3.7.27.3}{519, 346, 3571}

अप्र॑तीतो जयति॒ सं धना᳚नि॒ प्रति॑जन्यान्यु॒त या सज᳚न्या |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

अ॒व॒स्यवे॒ यो वरि॑वः कृ॒णोति॑ ब्र॒ह्मणे॒ राजा॒ तम॑वन्ति दे॒वाः ||{9/11}{4.50.9}{4.5.5.9}{3.7.27.4}{520, 346, 3572}

इन्द्र॑श्च॒ सोमं᳚ पिबतं बृहस्पते॒ऽस्मिन्‌ य॒ज्ञे म᳚न्दसा॒ना वृ॑षण्वसू |{गौतमो वामदेवः | इंद्राबृहस्पती | जगती}

आ वां᳚ विश॒न्त्विन्द॑वः स्वा॒भुवो॒ऽस्मे र॒यिं सर्व॑वीरं॒ नि य॑च्छतम् ||{10/11}{4.50.10}{4.5.5.10}{3.7.27.5}{521, 346, 3573}

बृह॑स्पत इन्द्र॒ वर्ध॑तं नः॒ सचा॒ सा वां᳚ सुम॒तिर्भू᳚त्व॒स्मे |{गौतमो वामदेवः | इंद्राबृहस्पती | त्रिष्टुप्}

अ॒वि॒ष्टं धियो᳚ जिगृ॒तं पुरं᳚धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा᳚तीः ||{11/11}{4.50.11}{4.5.5.11}{3.7.27.6}{522, 346, 3574}

[51] इदमुत्यदित्येकादशर्चस्य सूक्तस्य गौतमोवामदेवउषास्त्रिष्टुप् |
इ॒दमु॒ त्यत्‌ पु॑रु॒तमं᳚ पु॒रस्ता॒ज्ज्योति॒स्तम॑सो व॒युना᳚वदस्थात् |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

नू॒नं दि॒वो दु॑हि॒तरो᳚ विभा॒तीर्गा॒तुं कृ॑णवन्नु॒षसो॒ जना᳚य ||{1/11}{4.51.1}{4.5.6.1}{3.8.1.1}{523, 347, 3575}

अस्थु॑रु चि॒त्रा, उ॒षसः॑ पु॒रस्ता᳚न्मि॒ता, इ॑व॒ स्वर॑वोऽध्व॒रेषु॑ |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

व्यू᳚ व्र॒जस्य॒ तम॑सो॒ द्वारो॒च्छन्ती᳚रव्र॒ञ्छुच॑यः पाव॒काः ||{2/11}{4.51.2}{4.5.6.2}{3.8.1.2}{524, 347, 3576}

उ॒च्छन्ती᳚र॒द्य चि॑तयन्त भो॒जान्‌ रा᳚धो॒देया᳚यो॒षसो᳚ म॒घोनीः᳚ |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

अ॒चि॒त्रे, अ॒न्तः प॒णयः॑ सस॒न्त्वबु॑ध्यमाना॒स्तम॑सो॒ विम॑ध्ये ||{3/11}{4.51.3}{4.5.6.3}{3.8.1.3}{525, 347, 3577}

कु॒वित्स दे᳚वीः स॒नयो॒ नवो᳚ वा॒ यामो᳚ बभू॒यादु॑षसो वो, अ॒द्य |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

येना॒ नव॑ग्वे॒, अङ्गि॑रे॒ दश॑ग्वे स॒प्तास्ये᳚ रेवती रे॒वदू॒ष ||{4/11}{4.51.4}{4.5.6.4}{3.8.1.4}{526, 347, 3578}

यू॒यं हि दे᳚वीरृत॒युग्भि॒रश्वैः᳚ परिप्रया॒थ भुव॑नानि स॒द्यः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

प्र॒बो॒धय᳚न्तीरुषसः स॒सन्तं᳚ द्वि॒पाच्चतु॑ष्पाच्च॒रथा᳚य जी॒वम् ||{5/11}{4.51.5}{4.5.6.5}{3.8.1.5}{527, 347, 3579}

क्व॑ स्विदासां कत॒मा पु॑रा॒णी यया᳚ वि॒धाना᳚ विद॒धुरृ॑भू॒णाम् |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

शुभं॒ यच्छु॒भ्रा, उ॒षस॒श्चर᳚न्ति॒ न वि ज्ञा᳚यन्ते स॒दृशी᳚रजु॒र्याः ||{6/11}{4.51.6}{4.5.6.6}{3.8.2.1}{528, 347, 3580}

ता घा॒ ता भ॒द्रा, उ॒षसः॑ पु॒रासु॑रभि॒ष्टिद्यु᳚म्ना, ऋ॒तजा᳚तसत्याः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

यास्वी᳚जा॒नः श॑शमा॒न उ॒क्थैः स्तु॒वञ्छंस॒न्‌ द्रवि॑णं स॒द्य आप॑ ||{7/11}{4.51.7}{4.5.6.7}{3.8.2.2}{529, 347, 3581}

ता, आ च॑रन्ति सम॒ना पु॒रस्ता᳚त् समा॒नतः॑ सम॒ना प॑प्रथा॒नाः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

ऋ॒तस्य॑ दे॒वीः सद॑सो बुधा॒ना गवां॒ न सर्गा᳚, उ॒षसो᳚ जरन्ते ||{8/11}{4.51.8}{4.5.6.8}{3.8.2.3}{530, 347, 3582}

ता, इन्न्वे॒३॑(ए॒)व स॑म॒ना स॑मा॒नीरमी᳚तवर्णा, उ॒षस॑श्चरन्ति |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

गूह᳚न्ती॒रभ्व॒मसि॑तं॒ रुश॑द्भिः शु॒क्रास्त॒नूभिः॒ शुच॑यो रुचा॒नाः ||{9/11}{4.51.9}{4.5.6.9}{3.8.2.4}{531, 347, 3583}

र॒यिं दि॑वो दुहितरो विभा॒तीः प्र॒जाव᳚न्तं यच्छता॒स्मासु॑ देवीः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

स्यो॒नादा वः॑ प्रति॒बुध्य॑मानाः सु॒वीर्य॑स्य॒ पत॑यः स्याम ||{10/11}{4.51.10}{4.5.6.10}{3.8.2.5}{532, 347, 3584}

तद्वो᳚ दिवो दुहितरो विभा॒तीरुप॑ ब्रुव उषसो य॒ज्ञके᳚तुः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

व॒यं स्या᳚म य॒शसो॒ जने᳚षु॒ तद्द्यौश्च॑ ध॒त्तां पृ॑थि॒वी च॑ दे॒वी ||{11/11}{4.51.11}{4.5.6.11}{3.8.2.6}{533, 347, 3585}

[52] प्रतिष्येति सप्तर्चस्य सूक्तस्य गौतमोवामदेव उषागायत्री |
प्रति॒ ष्या सू॒नरी॒ जनी᳚ व्यु॒च्छन्ती॒ परि॒ स्वसुः॑ |{गौतमो वामदेवः | उषाः | गायत्री}

दि॒वो, अ॑दर्शि दुहि॒ता ||{1/7}{4.52.1}{4.5.7.1}{3.8.3.1}{534, 348, 3586}

अश्वे᳚व चि॒त्रारु॑षी मा॒ता गवा᳚मृ॒ताव॑री |{गौतमो वामदेवः | उषाः | गायत्री}

सखा᳚भूद॒श्विनो᳚रु॒षाः ||{2/7}{4.52.2}{4.5.7.2}{3.8.3.2}{535, 348, 3587}

उ॒त सखा᳚स्य॒श्विनो᳚रु॒त मा॒ता गवा᳚मसि |{गौतमो वामदेवः | उषाः | गायत्री}

उ॒तोषो॒ वस्व॑ ईशिषे ||{3/7}{4.52.3}{4.5.7.3}{3.8.3.3}{536, 348, 3588}

या॒व॒यद्द्वे᳚षसं त्वा चिकि॒त्वित्सू᳚नृतावरि |{गौतमो वामदेवः | उषाः | गायत्री}

प्रति॒ स्तोमै᳚रभुत्स्महि ||{4/7}{4.52.4}{4.5.7.4}{3.8.3.4}{537, 348, 3589}

प्रति॑ भ॒द्रा, अ॑दृक्षत॒ गवां॒ सर्गा॒ न र॒श्मयः॑ |{गौतमो वामदेवः | उषाः | गायत्री}

ओषा, अ॑प्रा, उ॒रु ज्रयः॑ ||{5/7}{4.52.5}{4.5.7.5}{3.8.3.5}{538, 348, 3590}

आ॒प॒प्रुषी᳚ विभावरि॒ व्या᳚व॒र्ज्योति॑षा॒ तमः॑ |{गौतमो वामदेवः | उषाः | गायत्री}

उषो॒, अनु॑ स्व॒धाम॑व ||{6/7}{4.52.6}{4.5.7.6}{3.8.3.6}{539, 348, 3591}

आ द्यां त॑नोषि र॒श्मिभि॒रान्तरि॑क्षमु॒रु प्रि॒यम् |{गौतमो वामदेवः | उषाः | गायत्री}

उषः॑ शु॒क्रेण॑ शो॒चिषा᳚ ||{7/7}{4.52.7}{4.5.7.7}{3.8.3.7}{540, 348, 3592}

[53] तद्देवस्येति सप्तर्चस्य सूक्तस्य गौतमोवामदेवः सविताजगती |
तद्दे॒वस्य॑ सवि॒तुर्वार्यं᳚ म॒हद् वृ॑णी॒महे॒, असु॑रस्य॒ प्रचे᳚तसः |{गौतमो वामदेवः | सविता | जगती}

छ॒र्दिर्येन॑ दा॒शुषे॒ यच्छ॑ति॒ त्मना॒ तन्नो᳚ म॒हाँ, उद॑यान्‌ दे॒वो, अ॒क्तुभिः॑ ||{1/7}{4.53.1}{4.5.8.1}{3.8.4.1}{541, 349, 3593}

दि॒वो ध॒र्ता भुव॑नस्य प्र॒जाप॑तिः पि॒शङ्गं᳚ द्रा॒पिं प्रति॑ मुञ्चते क॒विः |{गौतमो वामदेवः | सविता | जगती}

वि॒च॒क्ष॒णः प्र॒थय᳚न्नापृ॒णन्नु॒र्वजी᳚जनत्‌ सवि॒ता सु॒म्नमु॒क्थ्य᳚म् ||{2/7}{4.53.2}{4.5.8.2}{3.8.4.2}{542, 349, 3594}

आप्रा॒ रजां᳚सि दि॒व्यानि॒ पार्थि॑वा॒ श्लोकं᳚ दे॒वः कृ॑णुते॒ स्वाय॒ धर्म॑णे |{गौतमो वामदेवः | सविता | जगती}

प्र बा॒हू, अ॑स्राक्‌ सवि॒ता सवी᳚मनि निवे॒शय᳚न्‌ प्रसु॒वन्न॒क्तुभि॒र्जग॑त् ||{3/7}{4.53.3}{4.5.8.3}{3.8.4.3}{543, 349, 3595}

अदा᳚भ्यो॒ भुव॑नानि प्र॒चाक॑शद् व्र॒तानि॑ दे॒वः स॑वि॒ताभि र॑क्षते |{गौतमो वामदेवः | सविता | जगती}

प्रास्रा᳚ग्बा॒हू भुव॑नस्य प्र॒जाभ्यो᳚ धृ॒तव्र॑तो म॒हो, अज्म॑स्य राजति ||{4/7}{4.53.4}{4.5.8.4}{3.8.4.4}{544, 349, 3596}

त्रिर॒न्तरि॑क्षं सवि॒ता म॑हित्व॒ना त्री रजां᳚सि परि॒भूस्त्रीणि॑ रोच॒ना |{गौतमो वामदेवः | सविता | जगती}

ति॒स्रो दिवः॑ पृथि॒वीस्ति॒स्र इ᳚न्वति त्रि॒भिर्व्र॒तैर॒भि नो᳚ रक्षति॒ त्मना᳚ ||{5/7}{4.53.5}{4.5.8.5}{3.8.4.5}{545, 349, 3597}

बृ॒हत्सु᳚म्नः प्रसवी॒ता नि॒वेश॑नो॒ जग॑तः स्था॒तुरु॒भय॑स्य॒ यो व॒शी |{गौतमो वामदेवः | सविता | जगती}

स नो᳚ दे॒वः स॑वि॒ता शर्म॑ यच्छत्व॒स्मे क्षया᳚य त्रि॒वरू᳚थ॒मंह॑सः ||{6/7}{4.53.6}{4.5.8.6}{3.8.4.6}{546, 349, 3598}

आग᳚न्दे॒व ऋ॒तुभि॒र्वर्ध॑तु॒ क्षयं॒ दधा᳚तु नः सवि॒ता सु॑प्र॒जामिष᳚म् |{गौतमो वामदेवः | सविता | जगती}

स नः॑, क्ष॒पाभि॒रह॑भिश्च जिन्वतु प्र॒जाव᳚न्तं र॒यिम॒स्मे समि᳚न्वतु ||{7/7}{4.53.7}{4.5.8.7}{3.8.4.7}{547, 349, 3599}

[54] अभूद्देवइति षडृचस्य सूक्तस्य गौतमो वामदेवः सविताजगत्यंत्यात्रिष्टुप् |
अभू᳚द्दे॒वः स॑वि॒ता वन्द्यो॒ नु न॑ इ॒दानी॒मह्न॑ उप॒वाच्यो॒ नृभिः॑ |{गौतमो वामदेवः | सविता | जगती}

वि यो रत्ना॒ भज॑ति मान॒वेभ्यः॒ श्रेष्ठं᳚ नो॒, अत्र॒ द्रवि॑णं॒ यथा॒ दध॑त् ||{1/6}{4.54.1}{4.5.9.1}{3.8.5.1}{548, 350, 3600}

दे॒वेभ्यो॒ हि प्र॑थ॒मं य॒ज्ञिये᳚भ्योऽमृत॒त्वं सु॒वसि॑ भा॒गमु॑त्त॒मम् |{गौतमो वामदेवः | सविता | जगती}

आदिद्दा॒मानं᳚ सवित॒र्व्यू᳚र्णुषेऽनूची॒ना जी᳚वि॒ता मानु॑षेभ्यः ||{2/6}{4.54.2}{4.5.9.2}{3.8.5.2}{549, 350, 3601}

अचि॑त्ती॒ यच्च॑कृ॒मा दैव्ये॒ जने᳚ दी॒नैर्दक्षैः॒ प्रभू᳚ती पूरुष॒त्वता᳚ |{गौतमो वामदेवः | सविता | जगती}

दे॒वेषु॑ च सवित॒र्मानु॑षेषु च॒ त्वं नो॒, अत्र॑ सुवता॒दना᳚गसः ||{3/6}{4.54.3}{4.5.9.3}{3.8.5.3}{550, 350, 3602}

न प्र॒मिये᳚ सवि॒तुर्दैव्य॑स्य॒ तद्‌ यथा॒ विश्वं॒ भुव॑नं धारयि॒ष्यति॑ |{गौतमो वामदेवः | सविता | जगती}

यत्‌ पृ॑थि॒व्या वरि॑म॒न्ना स्व᳚ङ्गु॒रिर्वर्ष्म᳚न्‌ दि॒वः सु॒वति॑ स॒त्यम॑स्य॒ तत् ||{4/6}{4.54.4}{4.5.9.4}{3.8.5.4}{551, 350, 3603}

इन्द्र॑ज्येष्ठान्‌ बृ॒हद्भ्यः॒ पर्व॑तेभ्यः॒, क्षयाँ᳚, एभ्यः सुवसि प॒स्त्या᳚वतः |{गौतमो वामदेवः | सविता | जगती}

यथा᳚यथा प॒तय᳚न्तो वियेमि॒र ए॒वैव त॑स्थुः सवितः स॒वाय॑ ते ||{5/6}{4.54.5}{4.5.9.5}{3.8.5.5}{552, 350, 3604}

ये ते॒ त्रिरह᳚न्‌ त्सवितः स॒वासो᳚ दि॒वेदि॑वे॒ सौभ॑गमासु॒वन्ति॑ |{गौतमो वामदेवः | सविता | त्रिष्टुप्}

इन्द्रो॒ द्यावा᳚पृथि॒वी सिन्धु॑र॒द्भिरा᳚दि॒त्यैर्नो॒, अदि॑तिः॒ शर्म॑ यंसत् ||{6/6}{4.54.6}{4.5.9.6}{3.8.5.6}{553, 350, 3605}

[55] कोवस्त्रातेति दशर्चस्य सूक्तस्य गौतमोवामदेवो विश्वेदेवास्त्रिष्टुप् अंत्यास्तिस्रो गायत्र्यः । (भेदपक्षे - विश्वेदेवाः ७ अग्निः १ उषाः १ विश्वेदेवाः १ एवंदश) |
को व॑स्त्रा॒ता व॑सवः॒ को व॑रू॒ता द्यावा᳚भूमी, अदिते॒ त्रासी᳚थां नः |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्}

सही᳚यसो वरुण मित्र॒ मर्ता॒त् को वो᳚ऽध्व॒रे वरि॑वो धाति देवाः ||{1/10}{4.55.1}{4.5.10.1}{3.8.6.1}{554, 351, 3606}

प्र ये धामा᳚नि पू॒र्व्याण्यर्चा॒न् वि यदु॒च्छान्‌ वि॑यो॒तारो॒, अमू᳚राः |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्}

वि॒धा॒तारो॒ वि ते द॑धु॒रज॑स्रा, ऋ॒तधी᳚तयो रुरुचन्त द॒स्माः ||{2/10}{4.55.2}{4.5.10.2}{3.8.6.2}{555, 351, 3607}

प्र प॒स्त्या॒३॑(आ॒)मदि॑तिं॒ सिन्धु॑म॒र्कैः स्व॒स्तिमी᳚ळे स॒ख्याय॑ दे॒वीम् |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्}

उ॒भे यथा᳚ नो॒, अह॑नी नि॒पात॑ उ॒षासा॒नक्ता᳚ करता॒मद॑ब्धे ||{3/10}{4.55.3}{4.5.10.3}{3.8.6.3}{556, 351, 3608}

व्य᳚र्य॒मा वरु॑णश्चेति॒ पन्था᳚मि॒षस्पतिः॑ सुवि॒तं गा॒तुम॒ग्निः |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्}

इन्द्रा᳚विष्णू नृ॒वदु॒ षु स्तवा᳚ना॒ शर्म॑ नो यन्त॒मम॑व॒द्वरू᳚थम् ||{4/10}{4.55.4}{4.5.10.4}{3.8.6.4}{557, 351, 3609}

आ पर्व॑तस्य म॒रुता॒मवां᳚सि दे॒वस्य॑ त्रा॒तुर᳚व्रि॒ भग॑स्य |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्}

पात्‌ पति॒र्जन्या॒दंह॑सो नो मि॒त्रो मि॒त्रिया᳚दु॒त न॑ उरुष्येत् ||{5/10}{4.55.5}{4.5.10.5}{3.8.6.5}{558, 351, 3610}

नू रो᳚दसी॒, अहि॑ना बु॒ध्न्ये᳚न स्तुवी॒त दे᳚वी॒, अप्ये᳚भिरि॒ष्टैः |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्}

स॒मु॒द्रं न सं॒चर॑णे सनि॒ष्यवो᳚ घ॒र्मस्व॑रसो न॒द्यो॒३॑(ओ॒) अप᳚ व्रन् ||{6/10}{4.55.6}{4.5.10.6}{3.8.7.1}{559, 351, 3611}

दे॒वैर्नो᳚ दे॒व्यदि॑ति॒र्नि पा᳚तु दे॒वस्त्रा॒ता त्रा᳚यता॒मप्र॑युच्छन् |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्}

न॒हि मि॒त्रस्य॒ वरु॑णस्य धा॒सिमर्हा᳚मसि प्र॒मियं॒ सान्व॒ग्नेः ||{7/10}{4.55.7}{4.5.10.7}{3.8.7.2}{560, 351, 3612}

अ॒ग्निरी᳚शे वस॒व्य॑स्या॒ऽग्निर्म॒हः सौभ॑गस्य |{गौतमो वामदेवः | विश्वदेवाः | गायत्री}

तान्य॒स्मभ्यं᳚ रासते ||{8/10}{4.55.8}{4.5.10.8}{3.8.7.3}{561, 351, 3613}

उषो᳚ मघो॒न्या व॑ह॒ सूनृ॑ते॒ वार्या᳚ पु॒रु |{गौतमो वामदेवः | विश्वदेवाः | गायत्री}

अ॒स्मभ्यं᳚ वाजिनीवति ||{9/10}{4.55.9}{4.5.10.9}{3.8.7.4}{562, 351, 3614}

तत्सु नः॑ सवि॒ता भगो॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{गौतमो वामदेवः | विश्वदेवाः | गायत्री}

इन्द्रो᳚ नो॒ राध॒सा ग॑मत् ||{10/10}{4.55.10}{4.5.10.10}{3.8.7.5}{563, 351, 3615}

[56] महीइति सप्तर्चस्य सूक्तस्य गौतमो वामदेवोद्यावापृथिवीत्रिष्टुप् अंत्यास्तिस्रो गायत्र्यः |
म॒ही द्यावा᳚पृथि॒वी, इ॒ह ज्येष्ठे᳚ रु॒चा भ॑वतां शु॒चय॑द्भिर॒र्कैः |{गौतमो वामदेवः | द्यावापृथिव्यौ | त्रिष्टुप्}

यत्सीं॒ वरि॑ष्ठे बृह॒ती वि॑मि॒न्वन् रु॒वद्धो॒क्षा प॑प्रथा॒नेभि॒रेवैः᳚ ||{1/7}{4.56.1}{4.5.11.1}{3.8.8.1}{564, 352, 3616}

दे॒वी दे॒वेभि᳚र्यज॒ते यज॑त्रै॒रमि॑नती तस्थतुरु॒क्षमा᳚णे |{गौतमो वामदेवः | द्यावापृथिव्यौ | त्रिष्टुप्}

ऋ॒ताव॑री, अ॒द्रुहा᳚ दे॒वपु॑त्रे य॒ज्ञस्य॑ ने॒त्री शु॒चय॑द्भिर॒र्कैः ||{2/7}{4.56.2}{4.5.11.2}{3.8.8.2}{565, 352, 3617}

स इत्‌ स्वपा॒ भुव॑नेष्वास॒ य इ॒मे द्यावा᳚पृथि॒वी ज॒जान॑ |{गौतमो वामदेवः | द्यावापृथिव्यौ | त्रिष्टुप्}

उ॒र्वी ग॑भी॒रे रज॑सी सु॒मेके᳚, अवं॒शे धीरः॒ शच्या॒ समै᳚रत् ||{3/7}{4.56.3}{4.5.11.3}{3.8.8.3}{566, 352, 3618}

नू रो᳚दसी बृ॒हद्भि᳚र्नो॒ वरू᳚थैः॒ पत्नी᳚वद्भिरि॒षय᳚न्ती स॒जोषाः᳚ |{गौतमो वामदेवः | द्यावापृथिव्यौ | त्रिष्टुप्}

उ॒रू॒ची विश्वे᳚ यज॒ते नि पा᳚तं धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{4/7}{4.56.4}{4.5.11.4}{3.8.8.4}{567, 352, 3619}

प्र वां॒ महि॒ द्यवी᳚, अ॒भ्युप॑स्तुतिं भरामहे |{गौतमो वामदेवः | द्यावापृथिव्यौ | गायत्री}

शुची॒, उप॒ प्रश॑स्तये ||{5/7}{4.56.5}{4.5.11.5}{3.8.8.5}{568, 352, 3620}

पु॒ना॒ने त॒न्वा᳚ मि॒थः स्वेन॒ दक्षे᳚ण राजथः |{गौतमो वामदेवः | द्यावापृथिव्यौ | गायत्री}

ऊ॒ह्याथे᳚ स॒नादृ॒तम् ||{6/7}{4.56.6}{4.5.11.6}{3.8.8.6}{569, 352, 3621}

म॒ही मि॒त्रस्य॑ साधथ॒स्तर᳚न्ती॒ पिप्र॑ती, ऋ॒तम् |{गौतमो वामदेवः | द्यावापृथिव्यौ | गायत्री}

परि॑ य॒ज्ञं नि षे᳚दथुः ||{7/7}{4.56.7}{4.5.11.7}{3.8.8.7}{570, 352, 3622}

[57] क्षेत्रस्येत्यष्टर्चस्य सूक्तस्य गौतमोवामदेव आद्यानांतिसृणां क्षेत्रपतिर्देवता चतुर्थ्याःशुनः पंचम्यष्टम्योः शुनासीरौ षष्ठीसप्तम्योः सीता आद्याचतुर्थीषष्ठीसप्तम्योनुष्टुभः पंचमीपुरउष्णिक् शेषास्त्रिष्टुभः (अत्रचतुर्थ्याः शुनोऽदंतः | तथाशुनासीरावित्यत्र केचिद्वाय्वादित्या वित्युञ्चारयन्तितन्नचतुरस्रं यतः वायुः शुनः सूर्य एवात्रसीरः शुनासीरौवायुसूर्योवदंति | शुनासीरंयास्कइंद्रतुमेने सूर्येद्रौ तौमन्यतेशाकपूर्णि रितिशुनासीरस्वरूपेशौनकेनाचार्यमतदर्शनव्याजेनवैविध्यंप्रतिपादितं तस्मात्प्रकृतिभूतशुनासीरशब्देनोच्चारणंयुक्तं) |
क्षेत्र॑स्य॒ पति॑ना व॒यं हि॒तेने᳚व जयामसि |{गौतमो वामदेवः | क्षेत्रपतिः | अनुष्टुप्}

गामश्वं᳚ पोषयि॒त्न्वा स नो᳚ मृळाती॒दृशे᳚ ||{1/8}{4.57.1}{4.5.12.1}{3.8.9.1}{571, 353, 3623}

क्षेत्र॑स्य पते॒ मधु॑मन्तमू॒र्मिं धे॒नुरि॑व॒ पयो᳚, अ॒स्मासु॑ धुक्ष्व |{गौतमो वामदेवः | क्षेत्रपतिः | त्रिष्टुप्}

म॒धु॒श्चुतं᳚ घृ॒तमि॑व॒ सुपू᳚तमृ॒तस्य॑ नः॒ पत॑यो मृळयन्तु ||{2/8}{4.57.2}{4.5.12.2}{3.8.9.2}{572, 353, 3624}

मधु॑मती॒रोष॑धी॒र्द्याव॒ आपो॒ मधु॑मन्नो भवत्व॒न्तरि॑क्षम् |{गौतमो वामदेवः | क्षेत्रपतिः | त्रिष्टुप्}

क्षेत्र॑स्य॒ पति॒र्मधु॑मान्‌ नो, अ॒स्त्वरि॑ष्यन्तो॒, अन्वे᳚नं चरेम ||{3/8}{4.57.3}{4.5.12.3}{3.8.9.3}{573, 353, 3625}

शु॒नं वा॒हाः शु॒नं नरः॑ शु॒नं कृ॑षतु॒ लाङ्ग॑लम् |{गौतमो वामदेवः | शुनः | अनुष्टुप्}

शु॒नं व॑र॒त्रा ब॑ध्यन्तां शु॒नमष्ट्रा॒मुदि᳚ङ्गय ||{4/8}{4.57.4}{4.5.12.4}{3.8.9.4}{574, 353, 3626}

शुना᳚सीरावि॒मां वाचं᳚ जुषेथां॒ यद्दि॒वि च॒क्रथुः॒ पयः॑ |{गौतमो वामदेवः | शुनासीरौ | पुर उष्णिक्}

तेने॒मामुप॑ सिञ्चतम् ||{5/8}{4.57.5}{4.5.12.5}{3.8.9.5}{575, 353, 3627}

अ॒र्वाची᳚ सुभगे भव॒ सीते॒ वन्दा᳚महे त्वा |{गौतमो वामदेवः | सीता | अनुष्टुप्}

यथा᳚ नः सु॒भगास॑सि॒ यथा᳚ नः सु॒फलास॑सि ||{6/8}{4.57.6}{4.5.12.6}{3.8.9.6}{576, 353, 3628}

इन्द्रः॒ सीतां॒ नि गृ᳚ह्णातु॒ तां पू॒षानु॑ यच्छतु |{गौतमो वामदेवः | सीता | अनुष्टुप्}

सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा᳚म् ||{7/8}{4.57.7}{4.5.12.7}{3.8.9.7}{577, 353, 3629}

शु॒नं नः॒ फाला॒ वि कृ॑षन्तु॒ भूमिं᳚ शु॒नं की॒नाशा᳚, अ॒भि य᳚न्तु वा॒हैः |{गौतमो वामदेवः | शुनासीरौ | त्रिष्टुप्}

शु॒नं प॒र्जन्यो॒ मधु॑ना॒ पयो᳚भिः॒ शुना᳚सीरा शु॒नम॒स्मासु॑ धत्तम् ||{8/8}{4.57.8}{4.5.12.8}{3.8.9.8}{578, 353, 3630}

[58] समुद्रादूर्मिरित्येकादशर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुबंत्याजगती | (सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता) |
स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒, उदा᳚र॒दुपां॒शुना॒ सम॑मृत॒त्वमा᳚नट् |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना᳚म॒मृत॑स्य॒ नाभिः॑ ||{1/11}{4.58.1}{4.5.13.1}{3.8.10.1}{579, 354, 3631}

व॒यं नाम॒ प्र ब्र॑वामा घृ॒तस्या॒स्मिन्‌ य॒ज्ञे धा᳚रयामा॒ नमो᳚भिः |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा᳚नं॒ चतुः॑शृङ्गोऽवमीद्‌ गौ॒र ए॒तत् ||{2/11}{4.58.2}{4.5.13.2}{3.8.10.2}{580, 354, 3632}

च॒त्वारि॒ शृङ्गा॒ त्रयो᳚, अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता᳚सो, अस्य |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

त्रिधा᳚ ब॒द्धो वृ॑ष॒भो रो᳚रवीति म॒हो दे॒वो मर्त्याँ॒, आ वि॑वेश ||{3/11}{4.58.3}{4.5.13.3}{3.8.10.3}{581, 354, 3633}

त्रिधा᳚ हि॒तं प॒णिभि॑र्गु॒ह्यमा᳚नं॒ गवि॑ दे॒वासो᳚ घृ॒तमन्व॑विन्दन् |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

इन्द्र॒ एकं॒ सूर्य॒ एकं᳚ जजान वे॒नादेकं᳚ स्व॒धया॒ निष्ट॑तक्षुः ||{4/11}{4.58.4}{4.5.13.4}{3.8.10.4}{582, 354, 3634}

ए॒ता, अ॑र्षन्ति॒ हृद्या᳚त्‌ समु॒द्राच्छ॒तव्र॑जा रि॒पुणा॒ नाव॒चक्षे᳚ |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

घृ॒तस्य॒ धारा᳚, अ॒भि चा᳚कशीमि हिर॒ण्ययो᳚ वेत॒सो मध्य॑ आसाम् ||{5/11}{4.58.5}{4.5.13.5}{3.8.10.5}{583, 354, 3635}

स॒म्यक्‌ स्र॑वन्ति स॒रितो॒ न धेना᳚, अ॒न्तर्हृ॒दा मन॑सा पू॒यमा᳚नाः |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

ए॒ते, अ॑र्षन्त्यू॒र्मयो᳚ घृ॒तस्य॑ मृ॒गा, इ॑व क्षिप॒णोरीष॑माणाः ||{6/11}{4.58.6}{4.5.13.6}{3.8.11.1}{584, 354, 3636}

सिन्धो᳚रिव प्राध्व॒ने शू᳚घ॒नासो॒ वात॑प्रमियः पतयन्ति य॒ह्वाः |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

घृ॒तस्य॒ धारा᳚, अरु॒षो न वा॒जी काष्ठा᳚ भि॒न्दन्नू॒र्मिभिः॒ पिन्व॑मानः ||{7/11}{4.58.7}{4.5.13.7}{3.8.11.2}{585, 354, 3637}

अ॒भि प्र॑वन्त॒ सम॑नेव॒ योषाः᳚ कल्या॒ण्य१॑(अः॒) स्मय॑मानासो, अ॒ग्निम् |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

घृ॒तस्य॒ धाराः᳚ स॒मिधो᳚ नसन्त॒ ता जु॑षा॒णो ह᳚र्यति जा॒तवे᳚दाः ||{8/11}{4.58.8}{4.5.13.8}{3.8.11.3}{586, 354, 3638}

क॒न्या᳚, इव वह॒तुमेत॒वा, उ॑ अ॒ञ्ज्य᳚ञ्जा॒ना, अ॒भि चा᳚कशीमि |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

यत्र॒ सोमः॑ सू॒यते॒ यत्र॑ य॒ज्ञो घृ॒तस्य॒ धारा᳚, अ॒भि तत्‌ प॑वन्ते ||{9/11}{4.58.9}{4.5.13.9}{3.8.11.4}{587, 354, 3639}

अ॒भ्य॑र्षत सुष्टु॒तिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

इ॒मं य॒ज्ञं न॑यत दे॒वता᳚ नो घृ॒तस्य॒ धारा॒ मधु॑मत्‌ पवन्ते ||{10/11}{4.58.10}{4.5.13.10}{3.8.11.5}{588, 354, 3640}

धाम᳚न्‌ ते॒ विश्वं॒ भुव॑न॒मधि॑ श्रि॒तम॒न्तः स॑मु॒द्रे हृ॒द्य१॑(अ॒)न्तरायु॑षि |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | जगती}

अ॒पामनी᳚के समि॒थे य आभृ॑त॒स्तम॑श्याम॒ मधु॑मन्तं त ऊ॒र्मिम् ||{11/11}{4.58.11}{4.5.13.11}{3.8.11.6}{589, 354, 3641}