|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||

|| ऋग्वेद संहिता (मंडल: 05) ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
Mantra classification is following this convention{मंडल,सूक्त,मंत्र}{मंडल,अनुवाक,सूक्त,मंत्र}{अष्टक,अध्याय,वर्ग,मंत्र}{मंडल मन्त्र संख्या,ऋक्संहित सूक्त संख्या,ऋक्संहित मन्त्र संख्या}
[Last updated on: 03-Jun-2025]

[1] अबोधीति द्वादशर्चस्य सूक्तस्यात्रेयौ बुधगविष्ठिरावग्निस्त्रिष्टुप् |
अबो᳚ध्य॒ग्निः स॒मिधा॒ जना᳚नां॒ प्रति॑ धे॒नुमि॑वाय॒तीमु॒षास᳚म् |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

य॒ह्वा, इ॑व॒ प्र व॒यामु॒ज्जिहा᳚नाः॒ प्र भा॒नवः॑ सिस्रते॒ नाक॒मच्छ॑ ||{1/12}{5.1.1}{5.1.1.1}{3.8.12.1}{1, 355, 3642}

अबो᳚धि¦अ॒ग्निः¦स॒‌म्ऽ‌इधा᳚¦जना᳚ना‌म्¦प्रति॑¦धे॒नु‌म्ऽ‌इ᳚व¦आ॒ऽय॒ती‌म्¦उ॒षस᳚‌म् |
य॒ह्वाःऽ‌इ᳚व¦प्र¦व॒या‌म्¦उ॒त्ऽजिहा᳚नाः¦प्र¦भा॒नवः॑¦सि॒स्र॒ते॒¦नाक᳚‌म्¦अच्छ॑ ||

अबो᳚धि॒ होता᳚ य॒जथा᳚य दे॒वानू॒र्ध्वो, अ॒ग्निः सु॒मनाः᳚ प्रा॒तर॑स्थात् |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

समि॑द्धस्य॒ रुश॑ददर्शि॒ पाजो᳚ म॒हान्‌ दे॒वस्तम॑सो॒ निर॑मोचि ||{2/12}{5.1.2}{5.1.1.2}{3.8.12.2}{2, 355, 3643}

अबो᳚धि¦होता᳚¦य॒जथा᳚य¦दे॒वान्¦ऊ॒र्ध्वः¦अ॒ग्निः¦सु॒ऽमनाः᳚¦प्रा॒तः¦अ॒स्था॒त् |
स‌म्ऽ‌इ᳚द्धस्य¦रुश॑त्¦अ॒द॒र्शि॒¦पाजः॑¦म॒हान्¦दे॒वः¦तम॑सः¦निः¦अ॒मो॒चि॒ ||

यदीं᳚ ग॒णस्य॑ रश॒नामजी᳚गः॒ शुचि॑रङ्क्ते॒ शुचि॑भि॒र्गोभि॑र॒ग्निः |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

आद्दक्षि॑णा युज्यते वाज॒यन्त्यु॑त्ता॒नामू॒र्ध्वो, अ॑धयज्जु॒हूभिः॑ ||{3/12}{5.1.3}{5.1.1.3}{3.8.12.3}{3, 355, 3644}

यत्¦ई॒‌म्¦ग॒णस्य॑¦र॒श॒ना‌म्¦अजी᳚ग॒रिति॑¦शुचिः॑¦अ॒ङ्क्ते॒¦शुचि॑ऽभिः¦गोभिः॑¦अ॒ग्निः |
आत्¦दक्षि॑णा¦यु॒ज्य॒ते॒¦वा॒ज॒ऽयन्ती᳚¦उ॒त्ता॒ना‌म्¦ऊ॒र्ध्वः¦अ॒ध॒य॒त्¦जु॒हूभिः॑ ||

अ॒ग्निमच्छा᳚ देवय॒तां मनां᳚सि॒ चक्षूं᳚षीव॒ सूर्ये॒ सं च॑रन्ति |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

यदीं॒ सुवा᳚ते, उ॒षसा॒ विरू᳚पे श्वे॒तो वा॒जी जा᳚यते॒, अग्रे॒, अह्ना᳚म् ||{4/12}{5.1.4}{5.1.1.4}{3.8.12.4}{4, 355, 3645}

अ॒ग्नि‌म्¦अच्छ॑¦दे॒व॒ऽय॒ता‌म्¦मनां᳚सि¦चक्षूं᳚षिऽ‌इव¦सूर्ये᳚¦स‌म्¦च॒र॒न्ति॒ |
यत्¦ई॒‌म्¦सुवा᳚ते॒ इति॑¦उ॒षसा᳚¦विरू᳚पे॒ इति॒ विऽरू᳚पे¦श्वे॒तः¦वा॒जी¦जा॒य॒ते॒¦अग्रे᳚¦अह्ना᳚‌म् ||

जनि॑ष्ट॒ हि जेन्यो॒, अग्रे॒, अह्नां᳚ हि॒तो हि॒तेष्व॑रु॒षो वने᳚षु |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

दमे᳚दमे स॒प्त रत्ना॒ दधा᳚नो॒ऽग्निर्होता॒ नि ष॑सादा॒ यजी᳚यान् ||{5/12}{5.1.5}{5.1.1.5}{3.8.12.5}{5, 355, 3646}

जनि॑ष्ट¦हि¦जेन्यः॑¦अग्रे᳚¦अह्ना᳚‌म्¦हि॒तः¦हि॒तेषु॑¦अ॒रु॒षः¦वने᳚षु |
दमे᳚ऽदमे¦स॒प्त¦रत्ना᳚¦दधा᳚नः¦अ॒ग्निः¦होता᳚¦नि¦स॒सा॒द॒¦यजी᳚यान् ||

अ॒ग्निर्होता॒ न्य॑सीद॒द्‌ यजी᳚यानु॒पस्थे᳚ मा॒तुः सु॑र॒भा, उ॑ लो॒के |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

युवा᳚ क॒विः पु॑रुनि॒ष्ठ ऋ॒तावा᳚ ध॒र्ता कृ॑ष्टी॒नामु॒त मध्य॑ इ॒द्धः ||{6/12}{5.1.6}{5.1.1.6}{3.8.12.6}{6, 355, 3647}

अ॒ग्निः¦होता᳚¦नि¦अ॒सी॒द॒त्¦यजी᳚यान्¦उ॒पऽस्थे᳚¦मा॒तुः¦सु॒र॒भौ¦ऊँ॒ इति॑¦लो॒के |
युवा᳚¦क॒विः¦पु॒रु॒निः॒ऽस्थः¦ऋ॒तऽवा᳚¦ध॒र्ता¦कृ॒ष्टी॒ना‌म्¦उ॒त¦मध्ये᳚¦इ॒द्धः ||

प्र णु त्यं विप्र॑मध्व॒रेषु॑ सा॒धुम॒ग्निं होता᳚रमीळते॒ नमो᳚भिः |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

आ यस्त॒तान॒ रोद॑सी, ऋ॒तेन॒ नित्यं᳚ मृजन्ति वा॒जिनं᳚ घृ॒तेन॑ ||{7/12}{5.1.7}{5.1.1.7}{3.8.13.1}{7, 355, 3648}

प्र¦नु¦त्य‌म्¦विप्र᳚‌म्¦अ॒ध्व॒रेषु॑¦सा॒धु‌म्¦अ॒ग्नि‌म्¦होता᳚र‌म्¦ई॒ळ॒ते॒¦नमः॑ऽभिः |
आ¦यः¦त॒तान॑¦रोद॑सी॒ इति॑¦ऋ॒तेन॑¦नित्य᳚‌म्¦मृ॒ज॒न्ति॒¦वा॒जिन᳚‌म्¦घृ॒तेन॑ ||

मा॒र्जा॒ल्यो᳚ मृज्यते॒ स्वे दमू᳚नाः कविप्रश॒स्तो, अति॑थिः शि॒वो नः॑ |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

स॒हस्र॑शृङ्गो वृष॒भस्तदो᳚जा॒ विश्वाँ᳚, अग्ने॒ सह॑सा॒ प्रास्य॒न्यान् ||{8/12}{5.1.8}{5.1.1.8}{3.8.13.2}{8, 355, 3649}

मा॒र्जा॒ल्यः॑¦मृ॒ज्य॒ते॒¦स्वे¦दमू᳚नाः¦क॒वि॒ऽप्र॒श॒स्तः¦अति॑थिः¦शि॒वः¦नः॒ |
स॒हस्र॑ऽशृङ्गः¦वृ॒ष॒भः¦तत्ऽओ᳚जाः¦विश्वा᳚न्¦अ॒ग्ने॒¦सह॑सा¦प्र¦अ॒सि॒¦अ॒न्यान् ||

प्र स॒द्यो, अ॑ग्ने॒, अत्ये᳚ष्य॒न्याना॒विर्यस्मै॒ चारु॑तमो ब॒भूथ॑ |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

ई॒ळेन्यो᳚ वपु॒ष्यो᳚ वि॒भावा᳚ प्रि॒यो वि॒शामति॑थि॒र्मानु॑षीणाम् ||{9/12}{5.1.9}{5.1.1.9}{3.8.13.3}{9, 355, 3650}

प्र¦स॒द्यः¦अ॒ग्ने॒¦अति॑¦ए॒षि॒¦अ॒न्यान्¦आ॒विः¦यस्मै᳚¦चारु॑ऽतमः¦ब॒भूथ॑ |
ई॒ळेन्यः॑¦व॒पु॒ष्यः॑¦वि॒भाऽवा᳚¦प्रि॒यः¦वि॒शा‌म्¦अति॑थिः¦मानु॑षीणा‌म् ||

तुभ्यं᳚ भरन्ति क्षि॒तयो᳚ यविष्ठ ब॒लिम॑ग्ने॒, अन्ति॑त॒ ओत दू॒रात् |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

आ भन्दि॑ष्ठस्य सुम॒तिं चि॑किद्धि बृ॒हत्ते᳚, अग्ने॒ महि॒ शर्म॑ भ॒द्रम् ||{10/12}{5.1.10}{5.1.1.10}{3.8.13.4}{10, 355, 3651}

तुभ्य᳚‌म्¦भ॒र॒न्ति॒¦क्षि॒तयः॑¦य॒वि॒ष्ठ॒¦ब॒लि‌म्¦अ॒ग्ने॒¦अन्ति॑तः¦आ¦उ॒त¦दू॒रात् |
आ¦भन्दि॑ष्ठस्य¦सु॒ऽम॒ति‌म्¦चि॒कि॒द्धि॒¦बृ॒हत्¦ते॒¦अ॒ग्ने॒¦महि॑¦शर्म॑¦भ॒द्र‌म् ||

आद्य रथं᳚ भानुमो भानु॒मन्त॒मग्ने॒ तिष्ठ॑ यज॒तेभिः॒ सम᳚न्तम् |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

वि॒द्वान्‌ प॑थी॒नामु॒र्व१॑(अ॒)न्तरि॑क्ष॒मेह दे॒वान्‌ ह॑वि॒रद्या᳚य वक्षि ||{11/12}{5.1.11}{5.1.1.11}{3.8.13.5}{11, 355, 3652}

आ¦अ॒द्य¦रथ᳚‌म्¦भा॒नु॒ऽमः॒¦भा॒नु॒ऽमन्त᳚‌म्¦अग्ने᳚¦तिष्ठ॑¦य॒ज॒तेभिः॑¦स‌म्।आ᳚न्त‌म् |
वि॒द्वान्¦प॒थी॒ना‌म्¦उ॒रु¦अ॒न्तरि॑क्ष‌म्¦आ¦इ॒ह¦दे॒वान्¦ह॒विः॒।आद्या᳚य¦व॒क्षि॒ ||

अवो᳚चाम क॒वये॒ मेध्या᳚य॒ वचो᳚ व॒न्दारु॑ वृष॒भाय॒ वृष्णे᳚ |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

गवि॑ष्ठिरो॒ नम॑सा॒ स्तोम॑म॒ग्नौ दि॒वी᳚व रु॒क्ममु॑रु॒व्यञ्च॑मश्रेत् ||{12/12}{5.1.12}{5.1.1.12}{3.8.13.6}{12, 355, 3653}

अवो᳚चाम¦क॒वये᳚¦मेध्या᳚य¦वचः॑¦व॒न्दारु॑¦वृ॒ष॒भाय॑¦वृष्णे᳚ |
गवि॑ष्ठिरः¦नम॑सा¦स्तोम᳚‌म्¦अ॒ग्नौ¦दि॒विऽ‌इ᳚व¦रु॒क्म‌म्¦उ॒रु॒ऽव्यंच᳚‌म्¦अ॒श्रे॒त् ||

[2] कुमारमिति द्वादशर्चस्य सूक्तस्य आत्रेयःकुमारः कमेतंविज्योतिषेत्यनयोर्जानोवृशोग्निस्त्रिष्टुप् अंत्याशक्वरी ( पाक्षिकोजरोवृशः सर्वसूक्तेपि । अत्रसर्वानुक्रमभाष्येजननाम्नऋषेः पुत्रोजानइत्येवनिर्णीतम् । जरनाग्नऋषेः पुत्रोजारोवृशइतितुसायनभाष्यम् । )
कु॒मा॒रं मा॒ता यु॑व॒तिः समु॑ब्धं॒ गुहा᳚ बिभर्ति॒ न द॑दाति पि॒त्रे |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्}

अनी᳚कमस्य॒ न मि॒नज्जना᳚सः पु॒रः प॑श्यन्ति॒ निहि॑तमर॒तौ ||{1/12}{5.2.1}{5.1.2.1}{3.8.14.1}{13, 356, 3654}

कु॒मा॒र‌म्¦मा॒ता¦यु॒व॒तिः¦स‌म्।औ᳚ब्ध‌म्¦गुहा᳚¦बि॒भ॒र्ति॒¦न¦द॒दा॒ति॒¦पि॒त्रे |
अनी᳚क‌म्¦अ॒स्य॒¦न¦मि॒नत्¦जना᳚सः¦पु॒रः¦प॒श्य॒न्ति॒¦निऽहि॑त‌म्¦अ॒र॒तौ ||

कमे॒तं त्वं यु॑वते कुमा॒रं पेषी᳚ बिभर्षि॒ महि॑षी जजान |{जानोवृशः | अग्निः | त्रिष्टुप्}

पू॒र्वीर्हि गर्भः॑ श॒रदो᳚ व॒वर्धाऽप॑श्यं जा॒तं यदसू᳚त मा॒ता ||{2/12}{5.2.2}{5.1.2.2}{3.8.14.2}{14, 356, 3655}

क‌म्¦ए॒त‌म्¦त्व‌म्¦यु॒व॒ते॒¦कु॒मा॒र‌म्¦पेषी᳚¦बि॒भ॒र्षि॒¦महि॑षी¦ज॒जा॒न॒ |
पू॒र्वीः¦हि¦गर्भः॑¦श॒रदः॑¦व॒वर्ध॑¦अप॑श्य‌म्¦जा॒त‌म्¦यत्¦असू᳚त¦मा॒ता ||

हिर᳚ण्यदन्तं॒ शुचि॑वर्णमा॒रात् क्षेत्रा᳚दपश्य॒मायु॑धा॒ मिमा᳚नम् |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्}

द॒दा॒नो, अ॑स्मा, अ॒मृतं᳚ वि॒पृक्व॒त् किं माम॑नि॒न्द्राः कृ॑णवन्ननु॒क्थाः ||{3/12}{5.2.3}{5.1.2.3}{3.8.14.3}{15, 356, 3656}

हिर᳚ण्यऽदन्त‌म्¦शुचि॑ऽवर्ण‌म्¦आ॒रात्¦क्षेत्रा᳚त्¦अ॒प॒श्य॒‌म्¦आयु॑धा¦मिमा᳚न‌म् |
द॒दा॒नः¦अ॒स्मै॒¦अ॒मृत᳚‌म्¦वि॒पृक्व॑त्¦कि‌म्¦मा‌म्¦अ॒नि॒न्द्राः¦कृ॒ण॒व॒न्¦अ॒नु॒क्थाः ||

क्षेत्रा᳚दपश्यं सनु॒तश्चर᳚न्तं सु॒मद्‌ यू॒थं न पु॒रु शोभ॑मानम् |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्}

न ता, अ॑गृभ्र॒न्नज॑निष्ट॒ हि षः पलि॑क्नी॒रिद्‌ यु॑व॒तयो᳚ भवन्ति ||{4/12}{5.2.4}{5.1.2.4}{3.8.14.4}{16, 356, 3657}

क्षेत्रा᳚त्¦अ॒प॒श्य॒‌म्¦स॒नु॒तरिति॑¦चर᳚न्त‌म्¦सु॒ऽमत्¦यू॒थ‌म्¦न¦पु॒रु¦शोभ॑मान‌म् |
न¦ताः¦अ॒गृ॒भ्र॒न्¦अज॑निष्ट¦हि¦सः¦पलि॑क्नीः¦इत्¦यु॒व॒तयः॑¦भ॒व॒न्ति॒ ||

के मे᳚ मर्य॒कं वि य॑वन्त॒ गोभि॒र्न येषां᳚ गो॒पा, अर॑णश्चि॒दास॑ |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्}

य ईं᳚ जगृ॒भुरव॒ ते सृ॑ज॒न्त्वाजा᳚ति प॒श्व उप॑ नश्चिकि॒त्वान् ||{5/12}{5.2.5}{5.1.2.5}{3.8.14.5}{17, 356, 3658}

के¦मे॒¦म॒र्य॒क‌म्¦वि¦य॒व॒न्त॒¦गोभिः॑¦न¦येषा᳚‌म्¦गो॒पाः¦अर॑णः¦चि॒त्¦आस॑ |
ये¦ई॒‌म्¦ज॒गृ॒भुः¦अव॑¦ते¦सृ॒ज॒न्तु¦आ¦अ॒जा॒ति॒¦प॒श्वः¦उप॑¦नः॒¦चि॒कि॒त्वान् ||

व॒सां राजा᳚नं वस॒तिं जना᳚ना॒मरा᳚तयो॒ नि द॑धु॒र्मर्त्ये᳚षु |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्}

ब्रह्मा॒ण्यत्रे॒रव॒ तं सृ॑जन्तु निन्दि॒तारो॒ निन्द्या᳚सो भवन्तु ||{6/12}{5.2.6}{5.1.2.6}{3.8.14.6}{18, 356, 3659}

व॒सा‌म्¦राजा᳚न‌म्¦व॒स॒ति‌म्¦जना᳚ना‌म्¦अरा᳚तयः¦नि¦द॒धुः॒¦मर्त्ये᳚षु |
ब्रह्मा᳚णि¦अत्रेः᳚¦अव॑¦त‌म्¦सृ॒ज॒न्तु॒¦नि॒न्दि॒तारः॑¦निन्द्या᳚सः¦भ॒व॒न्तु॒ ||

शुन॑श्चि॒च्छेपं॒ निदि॑तं स॒हस्रा॒द्‌ यूपा᳚दमुञ्चो॒, अश॑मिष्ट॒ हि षः |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्}

ए॒वास्मद॑ग्ने॒ वि मु॑मुग्धि॒ पाशा॒न् होत॑श्चिकित्व इ॒ह तू नि॒षद्य॑ ||{7/12}{5.2.7}{5.1.2.7}{3.8.15.1}{19, 356, 3660}

शुनः॒ऽशेप᳚‌म्¦चि॒त्¦निऽदि॑त‌म्¦स॒हस्रा᳚त्¦यूपा᳚त्¦अ॒मुं॒चः॒¦अश॑मिष्ट¦हि¦सः |
ए॒व¦अ॒स्मत्¦अ॒ग्ने॒¦वि¦मु॒मु॒ग्धि॒¦पासा᳚न्¦होत॒रिति॑¦चि॒कि॒त्वः॒¦इ॒ह¦तु¦नि॒ऽसद्य॑ ||

हृ॒णी॒यमा᳚नो॒, अप॒ हि मदैयेः॒ प्र मे᳚ दे॒वानां᳚ व्रत॒पा, उ॑वाच |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्}

इन्द्रो᳚ वि॒द्वाँ, अनु॒ हि त्वा᳚ च॒चक्ष॒ तेना॒हम॑ग्ने॒, अनु॑शिष्ट॒ आगा᳚म् ||{8/12}{5.2.8}{5.1.2.8}{3.8.15.2}{20, 356, 3661}

हृ॒णी॒यमा᳚नः¦अप॑¦हि¦मत्¦ऐयेः᳚¦प्र¦मे॒¦दे॒वाना᳚‌म्¦व्र॒त॒ऽपाः¦उ॒वा॒च॒ |
इन्द्रः॑¦वि॒द्वान्¦अनु॑¦हि¦त्वा॒¦च॒चक्ष॑¦तेन॑¦अ॒ह‌म्¦अ॒ग्ने॒¦अनु॑ऽशिष्टः¦आ¦अ॒गा॒‌म् ||

वि ज्योति॑षा बृह॒ता भा᳚त्य॒ग्निरा॒विर्विश्वा᳚नि कृणुते महि॒त्वा |{जानोवृशः | अग्निः | त्रिष्टुप्}

प्रादे᳚वीर्मा॒याः स॑हते दु॒रेवाः॒ शिशी᳚ते॒ शृङ्गे॒ रक्ष॑से वि॒निक्षे᳚ ||{9/12}{5.2.9}{5.1.2.9}{3.8.15.3}{21, 356, 3662}

वि¦ज्योति॑षा¦बृ॒ह॒ता¦भा॒ति॒¦अ॒ग्निः¦आ॒विः¦विश्वा᳚नि¦कृ॒णु॒ते॒¦म॒हि॒ऽत्वा |
प्र¦अदे᳚वीः¦मा॒याः¦स॒ह॒ते॒¦दुः॒ऽएवाः᳚¦शिशी᳚ते¦शृङ्गे॒ इति॑¦रक्ष॑से¦वि॒ऽनिक्षे᳚ ||

उ॒त स्वा॒नासो᳚ दि॒वि ष᳚न्त्व॒ग्नेस्ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒वा, उ॑ |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्}

मदे᳚ चिदस्य॒ प्र रु॑जन्ति॒ भामा॒ न व॑रन्ते परि॒बाधो॒, अदे᳚वीः ||{10/12}{5.2.10}{5.1.2.10}{3.8.15.4}{22, 356, 3663}

उ॒त¦स्वा॒नासः॑¦दि॒वि¦स॒न्तु॒¦अ॒ग्नेः¦ति॒ग्मऽआ᳚युधाः¦रक्ष॑से¦हन्त॒वै¦ऊँ॒ इति॑ |
मदे᳚¦चि॒त्¦अ॒स्य॒¦प्र¦रु॒ज॒न्ति॒¦भामाः᳚¦न¦व॒र॒न्ते॒¦प॒रि॒ऽबाधः॑¦अदे᳚वीः ||

ए॒तं ते॒ स्तोमं᳚ तुविजात॒ विप्रो॒ रथं॒ न धीरः॒ स्वपा᳚, अतक्षम् |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्}

यदीद॑ग्ने॒ प्रति॒ त्वं दे᳚व॒ हर्याः॒ स्व᳚र्वतीर॒प ए᳚ना जयेम ||{11/12}{5.2.11}{5.1.2.11}{3.8.15.5}{23, 356, 3664}

ए॒त‌म्¦ते॒¦स्तोम᳚‌म्¦तु॒वि॒ऽजा॒त॒¦विप्रः॑¦रथ᳚‌म्¦न¦धीरः॑¦सु॒।आपाः᳚¦अ॒त॒क्ष॒‌म् |
यदि॑¦इत्¦अ॒ग्ने॒¦प्रति॑¦त्व‌म्¦दे॒व॒¦हर्याः᳚¦स्वः॑ऽवतीः¦अ॒पः¦ए॒न॒¦ज॒ये॒म॒ ||

तु॒वि॒ग्रीवो᳚ वृष॒भो वा᳚वृधा॒नो᳚ऽश॒त्र्व१॑(अ॒)र्यः सम॑जाति॒ वेदः॑ |{आत्रेयःकुमारः | अग्निः | शक्वरी}

इती॒मम॒ग्निम॒मृता᳚, अवोचन् ब॒र्हिष्म॑ते॒ मन॑वे॒ शर्म॑ यंसद्ध॒विष्म॑ते॒ मन॑वे॒ शर्म॑ यंसत् ||{12/12}{5.2.12}{5.1.2.12}{3.8.15.6}{24, 356, 3665}

तु॒वि॒ऽग्रीवः॑¦वृ॒ष॒भः¦व॒वृ॒धा॒नः¦अ॒श॒त्रु¦अ॒र्यः¦स‌म्¦अ॒जा॒ति॒¦वेदः॑ |
इति॑¦इ॒म‌म्¦अ॒ग्नि‌म्¦अ॒मृताः᳚¦अ॒वो॒च॒न्¦ब॒र्हिष्म॑ते¦मन॑वे¦शर्म॑¦यं॒स॒त्¦ह॒विष्म॑ते¦मन॑वे¦शर्म॑¦यं॒स॒त् ||

[3] त्वमग्नइतिद्वादशर्चस्य सूक्तस्यात्रेयोवसुश्रुतोग्निस्तृतीयायामरुद्रुद्रविष्णवस्त्रिष्टुबाद्याविराट् |
त्वम॑ग्ने॒ वरु॑णो॒ जाय॑से॒ यत् त्वं मि॒त्रो भ॑वसि॒ यत्समि॑द्धः |{आत्रेयो वसुश्रुतः | अग्निः | विराट्}

त्वे विश्वे᳚ सहसस्पुत्र दे॒वास्त्वमिन्द्रो᳚ दा॒शुषे॒ मर्त्या᳚य ||{1/12}{5.3.1}{5.1.3.1}{3.8.16.1}{25, 357, 3666}

त्व‌म्¦अ॒ग्ने॒¦वरु॑णः¦जाय॑से¦यत्¦त्व‌म्¦मि॒त्रः¦भ॒व॒सि॒¦यत्¦स‌म्ऽ‌इ᳚द्धः | त्वे इति॑¦विश्वे᳚¦स॒ह॒सः॒¦पु॒त्र॒¦दे॒वाः¦त्व‌म्¦इन्द्रः॑¦दा॒शुषे᳚¦मर्त्या᳚य ||

त्वम᳚र्य॒मा भ॑वसि॒ यत्‌ क॒नीनां॒ नाम॑ स्वधाव॒न्‌ गुह्यं᳚ बिभर्षि |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

अ॒ञ्जन्ति॑ मि॒त्रं सुधि॑तं॒ न गोभि॒र्यद्‌ दम्प॑ती॒ सम॑नसा कृ॒णोषि॑ ||{2/12}{5.3.2}{5.1.3.2}{3.8.16.2}{26, 357, 3667}

त्व‌म्¦अ॒र्य॒मा¦भ॒व॒सि॒¦यत्¦क॒नीना᳚‌म्¦नाम॑¦स्व॒धा॒ऽव॒न्¦गुह्य᳚‌म्¦बि॒भ॒र्षि॒ |
अं॒जन्ति॑¦मि॒त्र‌म्¦सुऽधि॑त‌म्¦न¦गोभिः॑¦यत्¦दंप॑ती॒ इति॒ द‌म्ऽप॑ती¦सऽम॑नसा¦कृ॒णोषि॑ ||

तव॑ श्रि॒ये म॒रुतो᳚ मर्जयन्त॒ रुद्र॒ यत्ते॒ जनि॑म॒ चारु॑ चि॒त्रम् |{आत्रेयो वसुश्रुतः | मरुद्रुद्रविष्णवः | त्रिष्टुप्}

प॒दं यद्विष्णो᳚रुप॒मं नि॒धायि॒ तेन॑ पासि॒ गुह्यं॒ नाम॒ गोना᳚म् ||{3/12}{5.3.3}{5.1.3.3}{3.8.16.3}{27, 357, 3668}

तव॑¦श्रि॒ये¦म॒रुतः॑¦म॒र्ज॒य॒न्त॒¦रुद्र॑¦यत्¦ते॒¦जनि॑म¦चारु॑¦चि॒त्र‌म् |
प॒द‌म्¦यत्¦विष्णोः᳚¦उ॒प॒ऽम‌म्¦नि॒ऽधायि॑¦तेन॑¦पा॒सि॒¦गुह्य᳚‌म्¦नाम॑¦गोना᳚‌म् ||

तव॑ श्रि॒या सु॒दृशो᳚ देव दे॒वाः पु॒रू दधा᳚ना, अ॒मृतं᳚ सपन्त |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

होता᳚रम॒ग्निं मनु॑षो॒ नि षे᳚दुर्दश॒स्यन्त॑ उ॒शिजः॒ शंस॑मा॒योः ||{4/12}{5.3.4}{5.1.3.4}{3.8.16.4}{28, 357, 3669}

तव॑¦श्रि॒या¦सु॒ऽदृशः॑¦दे॒व॒¦दे॒वाः¦पु॒रु¦दधा᳚नाः¦अ॒मृत᳚‌म्¦स॒प॒न्त॒ |
होता᳚र‌म्¦अ॒ग्नि‌म्¦मनु॑षः¦नि¦से॒दुः॒¦द॒श॒स्यन्तः॑¦उ॒शिजः॑¦शंस᳚‌म्¦आ॒योः ||

न त्वद्धोता॒ पूर्वो᳚, अग्ने॒ यजी᳚या॒न् न काव्यैः᳚ प॒रो, अ॑स्ति स्वधावः |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

वि॒शश्च॒ यस्या॒, अति॑थि॒र्भवा᳚सि॒ स य॒ज्ञेन॑ वनवद्देव॒ मर्ता॑न् ||{5/12}{5.3.5}{5.1.3.5}{3.8.16.5}{29, 357, 3670}

न¦त्वत्¦होता᳚¦पूर्वः॑¦अ॒ग्ने॒¦यजी᳚यान्¦न¦काव्यैः᳚¦प॒रः¦अ॒स्ति॒¦स्व॒धा॒ऽवः॒ |
वि॒शः¦च॒¦यस्याः᳚¦अति॑थिः¦भवा᳚सि¦सः¦य॒ज्ञेन॑¦व॒न॒व॒त्¦दे॒व॒¦मर्ता॑न् ||

व॒यम॑ग्ने वनुयाम॒ त्वोता᳚ वसू॒यवो᳚ ह॒विषा॒ बुध्य॑मानाः |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

व॒यं स॑म॒र्ये वि॒दथे॒ष्वह्नां᳚ व॒यं रा॒या स॑हसस्पुत्र॒ मर्ता॑न् ||{6/12}{5.3.6}{5.1.3.6}{3.8.16.6}{30, 357, 3671}

व॒य‌म्¦अ॒ग्ने॒¦व॒नु॒या॒म॒¦त्वाऽऊ᳚ताः¦व॒सु॒ऽयवः॑¦ह॒विषा᳚¦बुध्य॑मानाः |
व॒य‌म्¦स॒ऽम॒र्ये¦वि॒दथे᳚षु¦अह्ना᳚‌म्¦व॒य‌म्¦रा॒या¦स॒ह॒सः॒¦पु॒त्र॒¦मर्ता॑न् ||

यो न॒ आगो᳚, अ॒भ्येनो॒ भरा॒त्यधीद॒घम॒घशं᳚से दधात |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

ज॒ही चि॑कित्वो, अ॒भिश॑स्तिमे॒तामग्ने॒ यो नो᳚ म॒र्चय॑ति द्व॒येन॑ ||{7/12}{5.3.7}{5.1.3.7}{3.8.17.1}{31, 357, 3672}

यः¦नः॒¦आगः॑¦अ॒भि¦एनः॑¦भरा᳚ति¦अधि॑¦इत्¦अ॒घ‌म्¦अ॒घऽशं᳚से¦द॒धा॒त॒ |
ज॒हि¦चि॒कि॒त्वः॒¦अ॒भिऽश॑स्ति‌म्¦ए॒ता‌म्¦अग्ने᳚¦यः¦नः॒¦म॒र्चय॑ति¦द्व॒येन॑ ||

त्वाम॒स्या व्युषि॑ देव॒ पूर्वे᳚ दू॒तं कृ᳚ण्वा॒ना, अ॑यजन्त ह॒व्यैः |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

सं॒स्थे यद॑ग्न॒ ईय॑से रयी॒णां दे॒वो मर्तै॒र्वसु॑भिरि॒ध्यमा᳚नः ||{8/12}{5.3.8}{5.1.3.8}{3.8.17.2}{32, 357, 3673}

त्वा‌म्¦अ॒स्याः¦वि॒।औषि॑¦दे॒व॒¦पूर्वे᳚¦दू॒त‌म्¦कृ॒ण्वा॒नाः¦अ॒य॒ज॒न्त॒¦ह॒व्यैः |
स॒‌म्ऽस्थे¦यत्¦अ॒ग्ने॒¦ईय॑से¦र॒यी॒णा‌म्¦दे॒वः¦मर्तैः᳚¦वसु॑ऽभिः¦इ॒ध्यमा᳚नः ||

अव॑ स्पृधि पि॒तरं॒ योधि॑ वि॒द्वान् पु॒त्रो यस्ते᳚ सहसः सून ऊ॒हे |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

क॒दा चि॑कित्वो, अ॒भि च॑क्षसे॒ नोऽग्ने᳚ क॒दाँ, ऋ॑त॒चिद्‌ या᳚तयासे ||{9/12}{5.3.9}{5.1.3.9}{3.8.17.3}{33, 357, 3674}

अव॑¦स्पृ॒धि॒¦पि॒तर᳚‌म्¦योधि॑¦वि॒द्वान्¦पु॒त्रः¦यः¦ते॒¦स॒ह॒सः॒¦सू॒नो॒ इति॑¦ऊ॒हे |
क॒दा¦चि॒कि॒त्वः॒¦अ॒भि¦च॒क्ष॒से॒¦नः॒¦अ॒ग्ने॒¦क॒दा¦ऋ॒त॒ऽचित्¦या॒त॒या॒से॒ ||

भूरि॒ नाम॒ वन्द॑मानो दधाति पि॒ता व॑सो॒ यदि॒ तज्जो॒षया᳚से |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

कु॒विद्दे॒वस्य॒ सह॑सा चका॒नः सु॒म्नम॒ग्निर्व॑नते वावृधा॒नः ||{10/12}{5.3.10}{5.1.3.10}{3.8.17.4}{34, 357, 3675}

भूरि॑¦नाम॑¦वन्द॑मानः¦द॒धा॒ति॒¦पि॒ता¦व॒सो॒ इति॑¦यदि॑¦तत्¦जो॒षया᳚से |
कु॒वित्¦दे॒वस्य॑¦सह॑सा¦च॒का॒नः¦सु॒म्न‌म्¦अ॒ग्निः¦व॒न॒ते॒¦व॒वृ॒धा॒नः ||

त्वम॒ङ्ग ज॑रि॒तारं᳚ यविष्ठ॒ विश्वा᳚न्यग्ने दुरि॒ताति॑ पर्षि |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

स्ते॒ना, अ॑दृश्रन्‌ रि॒पवो॒ जना॒सोऽज्ञा᳚तकेता वृजि॒ना, अ॑भूवन् ||{11/12}{5.3.11}{5.1.3.11}{3.8.17.5}{35, 357, 3676}

त्व‌म्¦अ॒ङ्ग¦ज॒रि॒तार᳚‌म्¦य॒वि॒ष्ठ॒¦विश्वा᳚नि¦अ॒ग्ने॒¦दुः॒ऽ‌इ॒ता¦अति॑¦प॒र्षि |
स्ते॒नाः¦अ॒दृ॒श्र॒न्¦रि॒पवः॑¦जना᳚सः¦अज्ञा᳚तऽकेताः¦वृ॒जि॒नाः¦अ॒भू॒व॒न् ||

इ॒मे यामा᳚सस्त्व॒द्रिग॑भूव॒न् वस॑वे वा॒ तदिदागो᳚, अवाचि |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

नाहा॒यम॒ग्निर॒भिश॑स्तये नो॒ न रीष॑ते वावृधा॒नः परा᳚ दात् ||{12/12}{5.3.12}{5.1.3.12}{3.8.17.6}{36, 357, 3677}

इ॒मे¦यामा᳚सः¦त्व॒द्रिक्¦अ॒भू॒व॒न्¦वस॑वे¦वा॒¦तत्¦इत्¦आगः॑¦अ॒वा॒चि॒ |
न¦अह॑¦अ॒य‌म्¦अ॒ग्निः¦अ॒भिऽश॑स्तये¦नः॒¦न¦रिष॑ते¦व॒वृ॒धा॒नः¦परा᳚¦दा॒त् ||

[4] त्वामग्नइत्येकादशर्चस्य सूक्तस्यात्रेयोवसुश्रुतोग्निस्त्रिष्टुप् |
त्वाम॑ग्ने॒ वसु॑पतिं॒ वसू᳚नाम॒भि प्र म᳚न्दे, अध्व॒रेषु॑ राजन् |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

त्वया॒ वाजं᳚ वाज॒यन्तो᳚ जयेमा॒ऽभि ष्या᳚म पृत्सु॒तीर्मर्त्या᳚नाम् ||{1/11}{5.4.1}{5.1.4.1}{3.8.18.1}{37, 358, 3678}

त्वा‌म्¦अ॒ग्ने॒¦वसु॑ऽपति‌म्¦वसू᳚ना‌म्¦अ॒भि¦प्र¦म॒न्दे॒¦अ॒ध्व॒रेषु॑¦रा॒ज॒न् |
त्वया᳚¦वाज᳚‌म्¦वा॒ज॒ऽयन्तः॑¦ज॒ये॒म॒¦अ॒भि¦स्या॒म॒¦पृ॒त्सु॒तीः¦मर्त्या᳚ना‌म् ||

ह॒व्य॒वाळ॒ग्निर॒जरः॑ पि॒ता नो᳚ वि॒भुर्वि॒भावा᳚ सु॒दृशी᳚को, अ॒स्मे |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

सु॒गा॒र्ह॒प॒त्याः समिषो᳚ दिदीह्यस्म॒द्र्य१॑(अ॒)क्‌ सं मि॑मीहि॒ श्रवां᳚सि ||{2/11}{5.4.2}{5.1.4.2}{3.8.18.2}{38, 358, 3679}

ह॒व्य॒ऽवाट्¦अ॒ग्निः¦अ॒जरः॑¦पि॒ता¦नः॒¦वि॒ऽभुः¦वि॒भाऽवा᳚¦सु॒ऽदृशी᳚कः¦अ॒स्मे इति॑ |
सु॒ऽगा॒र्ह॒प॒त्याः¦स‌म्¦इषः॑¦दि॒दी॒हि॒¦अ॒स्म॒द्र्य॑क्¦स‌म्¦मि॒मी॒हि॒¦श्रवां᳚सि ||

वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षीणां॒ शुचिं᳚ पाव॒कं घृ॒तपृ॑ष्ठम॒ग्निम् |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

नि होता᳚रं विश्व॒विदं᳚ दधिध्वे॒ स दे॒वेषु॑ वनते॒ वार्या᳚णि ||{3/11}{5.4.3}{5.1.4.3}{3.8.18.3}{39, 358, 3680}

वि॒शा‌म्¦क॒वि‌म्¦वि॒श्पति᳚‌म्¦मानु॑षीणा‌म्¦शुचि᳚‌म्¦पा॒व॒क‌म्¦घृ॒तऽपृ॑ष्ठ‌म्¦अ॒ग्नि‌म् |
नि¦होता᳚र‌म्¦वि॒श्व॒ऽविद᳚‌म्¦द॒धि॒ध्वे॒¦सः¦दे॒वेषु॑¦व॒न॒ते॒¦वार्या᳚णि ||

जु॒षस्वा᳚ग्न॒ इळ॑या स॒जोषा॒ यत॑मानो र॒श्मिभिः॒ सूर्य॑स्य |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

जु॒षस्व॑ नः स॒मिधं᳚ जातवेद॒ आ च॑ दे॒वान्‌ ह॑वि॒रद्या᳚य वक्षि ||{4/11}{5.4.4}{5.1.4.4}{3.8.18.4}{40, 358, 3681}

जु॒षस्व॑¦अ॒ग्ने॒¦इळ॑या¦स॒ऽजोषाः᳚¦यत॑मानः¦र॒श्मिऽभिः॑¦सूर्य॑स्य |
जु॒षस्व॑¦नः॒¦स॒‌म्ऽ‌इध᳚‌म्¦जा॒त॒ऽवे॒दः॒¦आ¦च॒¦दे॒वान्¦ह॒विः॒।आद्या᳚य¦व॒क्षि॒ ||

जुष्टो॒ दमू᳚ना॒, अति॑थिर्दुरो॒ण इ॒मं नो᳚ य॒ज्ञमुप॑ याहि वि॒द्वान् |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

विश्वा᳚, अग्ने, अभि॒युजो᳚ वि॒हत्या᳚ शत्रूय॒तामा भ॑रा॒ भोज॑नानि ||{5/11}{5.4.5}{5.1.4.5}{3.8.18.5}{41, 358, 3682}

जुष्टः॑¦दमू᳚नाः¦अति॑थिः¦दु॒रो॒णे¦इ॒म‌म्¦नः॒¦य॒ज्ञ‌म्¦उप॑¦या॒हि॒¦वि॒द्वान् |
विश्वाः᳚¦अ॒ग्ने॒¦अ॒भि॒ऽयुजः॑¦वि॒ऽहत्य॑¦श॒त्रु॒ऽय॒ता‌म्¦आ¦भ॒र॒¦भोज॑नानि ||

व॒धेन॒ दस्युं॒ प्र हि चा॒तय॑स्व॒ वयः॑ कृण्वा॒नस्त॒न्वे॒३॑(ए॒) स्वायै᳚ |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

पिप॑र्षि॒ यत्‌ स॑हसस्पुत्र दे॒वान् त्सो, अ॑ग्ने पाहि नृतम॒ वाजे᳚, अ॒स्मान् ||{6/11}{5.4.6}{5.1.4.6}{3.8.19.1}{42, 358, 3683}

वे॒धेन॑¦दस्यु᳚‌म्¦प्र¦हि¦चा॒तय॑स्व¦वयः॑¦कृ॒ण्वा॒नः¦त॒न्वे᳚¦स्वायै᳚ |
पिप॑र्षि¦यत्¦स॒ह॒सः॒¦पु॒त्र॒¦दे॒वान्¦सः¦अ॒ग्ने॒¦पा॒हि॒¦नृ॒ऽत॒म॒¦वाजे᳚¦अ॒स्मान् ||

व॒यं ते᳚, अग्न उ॒क्थैर्वि॑धेम व॒यं ह॒व्यैः पा᳚वक भद्रशोचे |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

अ॒स्मे र॒यिं वि॒श्ववा᳚रं॒ समि᳚न्वा॒स्मे विश्वा᳚नि॒ द्रवि॑णानि धेहि ||{7/11}{5.4.7}{5.1.4.7}{3.8.19.2}{43, 358, 3684}

व॒य‌म्¦ते॒¦अ॒ग्ने॒¦उ॒क्थैः¦वि॒धे॒म॒¦व॒य‌म्¦ह॒व्यैः¦पा॒व॒क॒¦भ॒द्र॒ऽशो॒चे॒ |
अ॒स्मे इति॑¦र॒यि‌म्¦वि॒श्वऽवा᳚र‌म्¦स‌म्¦इ॒न्व॒¦अ॒स्मे इति॑¦विश्वा᳚नि¦द्रवि॑णानि¦धे॒हि॒ ||

अ॒स्माक॑मग्ने, अध्व॒रं जु॑षस्व॒ सह॑सः सूनो त्रिषधस्थ ह॒व्यम् |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

व॒यं दे॒वेषु॑ सु॒कृतः॑ स्याम॒ शर्म॑णा नस्त्रि॒वरू᳚थेन पाहि ||{8/11}{5.4.8}{5.1.4.8}{3.8.19.3}{44, 358, 3685}

अ॒स्माक᳚‌म्¦अ॒ग्ने॒¦अ॒ध्व॒र‌म्¦जु॒ष॒स्व॒¦सह॑सः¦सू॒नो॒ इति॑¦त्रि॒ऽस॒ध॒स्थ॒¦ह॒व्य‌म् |
व॒य‌म्¦दे॒वेषु॑¦सु॒ऽकृतः॑¦स्या॒म॒¦शर्म॑णा¦नः॒¦त्रि॒ऽवरू᳚थेन¦पा॒हि॒ ||

विश्वा᳚नि नो दु॒र्गहा᳚ जातवेदः॒ सिन्धुं॒ न ना॒वा दु॑रि॒ताति॑ पर्षि |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

अग्ने᳚, अत्रि॒वन्नम॑सा गृणा॒नो॒३॑(ओ॒)ऽस्माकं᳚ बोध्यवि॒ता त॒नूना᳚म् ||{9/11}{5.4.9}{5.1.4.9}{3.8.19.4}{45, 358, 3686}

विश्वा᳚नि¦नः॒¦दुः॒ऽगहा᳚¦जा॒त॒ऽवे॒दः॒¦सिन्धु᳚‌म्¦न¦ना॒वा¦दुः॒ऽ‌इ॒ता¦अति॑¦प॒र्षि॒ |
अग्ने᳚¦अ॒त्रि॒ऽवत्¦नम॑सा¦गृ॒णा॒नः¦अ॒स्माक᳚‌म्¦बो॒धि॒¦अ॒वि॒ता¦त॒नूना᳚‌म् ||

यस्त्वा᳚ हृ॒दा की॒रिणा॒ मन्य॑मा॒नोऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

जात॑वेदो॒ यशो᳚, अ॒स्मासु॑ धेहि प्र॒जाभि॑रग्ने, अमृत॒त्वम॑श्याम् ||{10/11}{5.4.10}{5.1.4.10}{3.8.19.5}{46, 358, 3687}

यः¦त्वा॒¦हृ॒दा¦की॒रिणा᳚¦मन्य॑मानः¦अम॑र्त्य‌म्¦मर्त्यः॑¦जोह॑वीमि |
जात॑ऽवेदः¦यशः॑¦अ॒स्मासु॑¦धे॒हि॒¦प्र॒ऽजाभिः॑¦अ॒ग्ने॒¦अ॒मृ॒त॒ऽत्व‌म्¦अ॒श्या॒‌म् ||

यस्मै॒ त्वं सु॒कृते᳚ जातवेद उ लो॒कम॑ग्ने कृ॒णवः॑ स्यो॒नम् |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

अ॒श्विनं॒ स पु॒त्रिणं᳚ वी॒रव᳚न्तं॒ गोम᳚न्तं र॒यिं न॑शते स्व॒स्ति ||{11/11}{5.4.11}{5.1.4.11}{3.8.19.6}{47, 358, 3688}

यस्मै᳚¦त्व‌म्¦सु॒ऽकृते᳚¦जा॒त॒ऽवे॒दः॒¦ऊँ॒ इति॑¦लो॒क‌म्¦अ॒ग्ने॒¦कृ॒णवः॑¦स्यो॒न‌म् |
अ॒श्विन᳚‌म्¦सः¦पु॒त्रिण᳚‌म्¦वी॒रऽव᳚न्त‌म्¦गोऽम᳚न्त‌म्¦र॒यि‌म्¦न॒श॒ते॒¦स्व॒स्ति ||

[5] सुसमिद्धायेत्येकादशर्चस्य सूक्तस्यात्रेयो वसुश्रुतः इध्मोनराशंस इळोबर्हिर्देवीर्द्वार उषासानक्तादैव्यौहोतारौ सरस्वतीळाभारत्यस्त्वष्टा वनस्पति स्वाहाकृतयो गायत्री |
सुस॑मिद्धाय शो॒चिषे᳚ घृ॒तं ती॒व्रं जु॑होतन |{आत्रेयो वसुश्रुतः | इध्मः समिद्धोऽग्निर्वा | गायत्री}

अ॒ग्नये᳚ जा॒तवे᳚दसे ||{1/11}{5.5.1}{5.1.5.1}{3.8.20.1}{48, 359, 3689}

सुऽस॑मिद्धाय¦शो॒चिषे᳚¦घृ॒त‌म्¦ती॒व्र‌म्¦जु॒हो॒त॒न॒ | अ॒ग्नये᳚¦जा॒तऽवे᳚दसे ||

नरा॒शंसः॑ सुषूदती॒मं य॒ज्ञमदा᳚भ्यः |{आत्रेयो वसुश्रुतः | नराशंसः | गायत्री}

क॒विर्हि मधु॑हस्त्यः ||{2/11}{5.5.2}{5.1.5.2}{3.8.20.2}{49, 359, 3690}

नरा॒शंसः॑¦सु॒सू॒द॒ति॒¦इ॒म‌म्¦य॒ज्ञ‌म्¦अदा᳚भ्यः | क॒विः¦हि¦मधु॑ऽहस्त्यः ||

ई॒ळि॒तो, अ॑ग्न॒ आ व॒हेन्द्रं᳚ चि॒त्रमि॒ह प्रि॒यम् |{आत्रेयो वसुश्रुतः | इळः | गायत्री}

सु॒खै रथे᳚भिरू॒तये᳚ ||{3/11}{5.5.3}{5.1.5.3}{3.8.20.3}{50, 359, 3691}

ई॒ळि॒तः¦अ॒ग्ने॒¦आ¦व॒ह॒¦इन्द्र᳚‌म्¦चि॒त्र‌म्¦इ॒ह¦प्रि॒य‌म् | सु॒ऽखैः¦रथे᳚भिः¦ऊ॒तये᳚ ||

ऊर्ण᳚म्रदा॒ वि प्र॑थस्वा॒ऽभ्य१॑(अ॒)र्का, अ॑नूषत |{आत्रेयो वसुश्रुतः | बर्हिः | गायत्री}

भवा᳚ नः शुभ्र सा॒तये᳚ ||{4/11}{5.5.4}{5.1.5.4}{3.8.20.4}{51, 359, 3692}

ऊर्ण॑ऽम्रदाः¦वि¦प्र॒थ॒स्व॒¦अ॒भि¦अ॒र्काः¦अ॒नू॒ष॒त॒ | भव॑¦नः॒¦शु॒भ्र॒¦सा॒तये᳚ ||

देवी᳚र्द्वारो॒ वि श्र॑यध्वं सुप्राय॒णा न॑ ऊ॒तये᳚ |{आत्रेयो वसुश्रुतः | देवीर्द्वारः | गायत्री}

प्रप्र॑ य॒ज्ञं पृ॑णीतन ||{5/11}{5.5.5}{5.1.5.5}{3.8.20.5}{52, 359, 3693}

देवीः᳚¦द्वा॒रः॒¦वि¦श्र॒य॒ध्व॒‌म्¦सु॒प्र॒।आ॒य॒नाः¦नः॒¦ऊ॒तये᳚ | प्रऽप्र॑¦य॒ज्ञ‌म्¦पृ॒णी॒त॒न॒ ||

सु॒प्रती᳚के वयो॒वृधा᳚ य॒ह्वी, ऋ॒तस्य॑ मा॒तरा᳚ |{आत्रेयो वसुश्रुतः | उषसानक्ता | गायत्री}

दो॒षामु॒षास॑मीमहे ||{6/11}{5.5.6}{5.1.5.6}{3.8.21.1}{53, 359, 3694}

सु॒प्रती᳚के॒ इति॑ सु॒ऽप्रती᳚के¦व॒यः॒ऽवृधा᳚¦य॒ह्वी इति॑¦ऋ॒तस्य॑¦मा॒तरा᳚ | दो॒षा‌म्¦उ॒षस᳚‌म्¦ई॒म॒हे॒ ||

वात॑स्य॒ पत्म᳚न्नीळि॒ता दैव्या॒ होता᳚रा॒ मनु॑षः |{आत्रेयो वसुश्रुतः | दैव्यौ होतारौ प्रचेतसौ | गायत्री}

इ॒मं नो᳚ य॒ज्ञमा ग॑तम् ||{7/11}{5.5.7}{5.1.5.7}{3.8.21.2}{54, 359, 3695}

वात॑स्य¦पत्म॑न्¦ई॒ळि॒ता¦दैव्या᳚¦होता᳚रा¦मनु॑षः | इ॒म‌म्¦नः॒¦य॒ज्ञ‌म्¦आ¦ग॒त॒‌म् ||

इळा॒ सर॑स्वती म॒ही ति॒स्रो दे॒वीर्म॑यो॒भुवः॑ |{आत्रेयो वसुश्रुतः | तिस्रो देव्यः सरस्वतीळाभारत्यः | गायत्री}

ब॒र्हिः सी᳚दन्त्व॒स्रिधः॑ ||{8/11}{5.5.8}{5.1.5.8}{3.8.21.3}{55, 359, 3696}

इळा᳚¦सर॑स्वती¦म॒ही¦ति॒स्रः¦दे॒वीः¦म॒यः॒ऽभुवः॑ | ब॒र्हिः¦सी॒द॒न्तु॒¦अ॒स्रिधः॑ ||

शि॒वस्त्व॑ष्टरि॒हा ग॑हि वि॒भुः पोष॑ उ॒त त्मना᳚ |{आत्रेयो वसुश्रुतः | त्वष्टा | गायत्री}

य॒ज्ञेय॑ज्ञे न॒ उद॑व ||{9/11}{5.5.9}{5.1.5.9}{3.8.21.4}{56, 359, 3697}

शि॒वः¦त्व॒ष्टः॒¦इ॒ह¦आ॒¦ग॒हि॒¦वि॒ऽभुः¦पोषे᳚¦उ॒त¦त्मना᳚ | य॒ज्ञेऽय॑ज्ञे¦नः॒¦उत्¦अ॒व॒ ||

यत्र॒ वेत्थ॑ वनस्पते दे॒वानां॒ गुह्या॒ नामा᳚नि |{आत्रेयो वसुश्रुतः | वनस्पतिः | गायत्री}

तत्र॑ ह॒व्यानि॑ गामय ||{10/11}{5.5.10}{5.1.5.10}{3.8.21.5}{57, 359, 3698}

यत्र॑¦वेत्थ॑¦व॒न॒स्प॒ते॒¦दे॒वाना᳚‌म्¦गुह्या᳚¦नामा᳚नि | तत्र॑¦ह॒व्यानि॑¦ग॒म॒य॒ ||

स्वाहा॒ग्नये॒ वरु॑णाय॒ स्वाहेन्द्रा᳚य म॒रुद्भ्यः॑ |{आत्रेयो वसुश्रुतः | स्वाहाकृतयः | गायत्री}

स्वाहा᳚ दे॒वेभ्यो᳚ ह॒विः ||{11/11}{5.5.11}{5.1.5.11}{3.8.21.6}{58, 359, 3699}

स्वाहा᳚¦अ॒ग्नये᳚¦वरु॑णाय¦स्वाहा᳚¦इन्द्रा᳚य¦म॒रुत्ऽभ्यः॑ | स्वाहा᳚¦दे॒वेभ्यः॑¦ह॒विः ||

[6] अग्निंतमिति दशर्चर्स्य सूक्तस्यात्रेयोवसुश्रुतोग्निपङ्क्तिः |
अ॒ग्निं तं म᳚न्ये॒ यो वसु॒रस्तं॒ यं यन्ति॑ धे॒नवः॑ |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

अस्त॒मर्व᳚न्त आ॒शवोऽस्तं॒ नित्या᳚सो वा॒जिन॒ इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{1/10}{5.6.1}{5.1.6.1}{3.8.22.1}{59, 360, 3700}

अ॒ग्नि‌म्¦त‌म्¦म॒न्ये॒¦यः¦वसुः॑¦अस्त᳚‌म्¦य‌म्¦यन्ति॑¦धे॒नवः॑ |
अस्त᳚‌म्¦अर्व᳚न्तः¦आ॒शवः॑¦अस्त᳚‌म्¦नित्या᳚सः¦वा॒जिनः॑¦इष᳚‌म्¦स्तो॒तृऽभ्यः॑¦आ¦भ॒र॒ ||

सो, अ॒ग्निर्यो वसु॑र्गृ॒णे सं यमा॒यन्ति॑ धे॒नवः॑ |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

समर्व᳚न्तो रघु॒द्रुवः॒ सं सु॑जा॒तासः॑ सू॒रय॒ इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{2/10}{5.6.2}{5.1.6.2}{3.8.22.2}{60, 360, 3701}

सः¦अ॒ग्निः¦यः¦वसुः॑¦गृ॒णे¦स‌म्¦य‌म्¦आ॒ऽयन्ति॑¦धे॒नवः॑ |
स‌म्¦अर्व᳚न्तः¦र॒घु॒ऽद्रुवः॑¦स‌म्¦सु॒ऽजा॒तासः॑¦सू॒रय॑¦इष᳚‌म्¦स्तो॒तृऽभ्यः॑¦आ¦भ॒र॒ ||

अ॒ग्निर्हि वा॒जिनं᳚ वि॒शे ददा᳚ति वि॒श्वच॑र्षणिः |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

अ॒ग्नी रा॒ये स्वा॒भुवं॒ स प्री॒तो या᳚ति॒ वार्य॒मिषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{3/10}{5.6.3}{5.1.6.3}{3.8.22.3}{61, 360, 3702}

अ॒ग्निः¦हि¦वा॒जिन᳚‌म्¦वि॒शे¦ददा᳚ति¦वि॒श्वऽच॑र्षणिः |
अ॒ग्निः¦रा॒ये¦सु॒ऽआ॒भुव᳚‌म्¦सः¦प्री॒तः¦या॒ति॒¦वार्य᳚‌म्¦इष᳚‌म्¦स्तो॒तृऽभ्यः॑¦आ¦भ॒र॒ ||

आ ते᳚, अग्न इधीमहि द्यु॒मन्तं᳚ देवा॒जर᳚म् |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

यद्ध॒ स्या ते॒ पनी᳚यसी स॒मिद्‌ दी॒दय॑ति॒ द्यवीषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{4/10}{5.6.4}{5.1.6.4}{3.8.22.4}{62, 360, 3703}

आ¦ते॒¦अ॒ग्ने॒¦इ॒धी॒म॒हि॒¦द्यु॒ऽमन्त᳚‌म्¦दे॒व॒¦अ॒जर᳚‌म् |
यत्¦ह॒¦स्या¦ते॒¦पनी᳚यसी¦स॒‌म्ऽ‌इत्¦दी॒दय॑ति¦द्यवि॑¦इष᳚‌म्¦स्तो॒तृऽभ्यः॑¦आ¦भ॒र॒ ||

आ ते᳚, अग्न ऋ॒चा ह॒विः शुक्र॑स्य शोचिषस्पते |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

सुश्च᳚न्द्र॒ दस्म॒ विश्प॑ते॒ हव्य॑वा॒ट्‌ तुभ्यं᳚ हूयत॒ इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{5/10}{5.6.5}{5.1.6.5}{3.8.22.5}{63, 360, 3704}

आ¦ते॒¦अ॒ग्ने॒¦ऋ॒चा¦ह॒विः¦शुक्र॑स्य¦शो॒चि॒षः॒¦प॒ते॒ |
सुऽच᳚न्द्र¦दस्म॑¦विश्प॑ते¦हव्य॑ऽवाट्¦तुभ्य᳚‌म्¦हू॒य॒ते॒¦इष᳚‌म्¦स्तो॒तृऽभ्यः॑¦आ¦भ॒र॒ ||

प्रो त्ये, अ॒ग्नयो॒ऽग्निषु॒ विश्वं᳚ पुष्यन्ति॒ वार्य᳚म् |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

ते हि᳚न्विरे॒ त इ᳚न्विरे॒ त इ॑षण्यन्त्यानु॒षगिषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{6/10}{5.6.6}{5.1.6.6}{3.8.23.1}{64, 360, 3705}

प्रो इति॑¦त्ये¦अ॒ग्नयः॑¦अ॒ग्निषु॑¦विश्व᳚‌म्¦पु॒ष्य॒न्ति॒¦वार्य᳚‌म् |
ते¦हि॒न्वि॒रे॒¦ते¦इ॒न्वि॒रे॒¦ते¦इ॒ष॒ण्य॒न्ति॒¦आ॒नु॒षक्¦इष᳚‌म्¦स्तो॒तृऽभ्यः॑¦आ¦भ॒र॒ ||

तव॒ त्ये, अ॑ग्ने, अ॒र्चयो॒ महि᳚ व्राधन्त वा॒जिनः॑ |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

ये पत्व॑भिः श॒फानां᳚ व्र॒जा भु॒रन्त॒ गोना॒मिषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{7/10}{5.6.7}{5.1.6.7}{3.8.23.2}{65, 360, 3706}

तव॑¦त्ये¦अ॒ग्ने॒¦अ॒र्चयः॑¦महि॑¦व्रा॒ध॒न्त॒¦वा॒जिनः॑ |
ये¦पत्व॑ऽभिः¦श॒फाना᳚‌म्¦व्र॒जा¦भु॒रन्त॑¦गोना᳚‌म्¦इष᳚‌म्¦स्तो॒तृऽभ्यः॑¦आ¦भ॒र॒ ||

नवा᳚ नो, अग्न॒ आ भ॑र स्तो॒तृभ्यः॑ सुक्षि॒तीरिषः॑ |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

ते स्या᳚म॒ य आ᳚नृ॒चुस्त्वादू᳚तासो॒ दमे᳚दम॒ इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{8/10}{5.6.8}{5.1.6.8}{3.8.23.3}{66, 360, 3707}

नवाः᳚¦नः॒¦अ॒ग्ने॒¦आ¦भ॒र॒¦स्तो॒तृऽभ्यः॑¦सु॒ऽक्षि॒तीः¦इषः॑ |
ते¦स्या॒म॒¦ये¦आ॒नृ॒चुः¦त्वाऽदू᳚तासः¦दमे᳚ऽदमे¦इष᳚‌म्¦स्तो॒तृऽभ्यः॑¦आ¦भ॒र॒ ||

उ॒भे सु॑श्चन्द्र स॒र्पिषो॒ दर्वी᳚ श्रीणीष आ॒सनि॑ |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

उ॒तो न॒ उत्‌ पु॑पूर्या, उ॒क्थेषु॑ शवसस्पत॒ इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{9/10}{5.6.9}{5.1.6.9}{3.8.23.4}{67, 360, 3708}

उ॒भे इति॑¦सु॒ऽच॒न्द्र॒¦स॒र्पिषः॑¦दर्वी॒ इति॑¦श्री॒णी॒षे॒¦आ॒सनि॑ |
उ॒तो इति॑¦नः॒¦उत्¦पु॒पू॒र्याः॒¦उ॒क्थेषु॑¦श॒व॒सः॒¦प॒ते॒¦इष᳚‌म्¦स्तो॒तृऽभ्यः॑¦आ¦भ॒र॒ ||

ए॒वाँ, अ॒ग्निम॑जुर्यमुर्गी॒र्भिर्य॒ज्ञेभि॑रानु॒षक् |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

दध॑द॒स्मे सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्य॒मिषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{10/10}{5.6.10}{5.1.6.10}{3.8.23.5}{68, 360, 3709}

ए॒व¦अ॒ग्नि‌म्¦अ॒जु॒र्य॒मुः॒¦गीः॒ऽभिः¦य॒ज्ञेभिः॑¦आ॒नु॒षक् |
दध॑त्¦अ॒स्मे इति॑¦सु॒ऽवीर्य᳚‌म्¦उ॒त¦त्यत्¦आ॒शु॒।आश्व्य᳚‌म्¦इष᳚‌म्¦स्तो॒तृऽभ्यः॑¦आ¦भ॒र॒ ||

[7] सखायःसागिति दशर्चस्य सूक्तस्यात्रेयइषोग्निरनुष्टुबन्त्यापङ्क्तिः |
सखा᳚यः॒ सं वः॑ स॒म्यञ्च॒मिषं॒ स्तोमं᳚ चा॒ग्नये᳚ |{आत्रेय इषः | अग्निः | अनुष्टुप्}

वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते ||{1/10}{5.7.1}{5.1.7.1}{3.8.24.1}{69, 361, 3710}

सखा᳚यः¦स‌म्¦वः॒¦स॒म्यंच᳚‌म्¦इष᳚‌म्¦स्तोम᳚‌म्¦च॒¦अ॒ग्नये᳚ | वर्षि॑ष्ठाय¦क्षि॒ती॒ना‌म्¦ऊ॒र्जः¦नप्त्रे᳚¦सह॑स्वते ||

कुत्रा᳚ चि॒द्यस्य॒ समृ॑तौ र॒ण्वा नरो᳚ नृ॒षद॑ने |{आत्रेय इषः | अग्निः | अनुष्टुप्}

अर्ह᳚न्तश्चि॒द्‌ यमि᳚न्ध॒ते सं᳚ज॒नय᳚न्ति ज॒न्तवः॑ ||{2/10}{5.7.2}{5.1.7.2}{3.8.24.2}{70, 361, 3711}

कुत्र॑¦चि॒त्¦यस्य॑¦स‌म्ऽऋ॑तौ¦र॒ण्वाः¦नरः॑¦नृ॒ऽसद॑ने | अर्ह᳚न्तः¦चि॒त्¦य‌म्¦इ॒न्ध॒ते¦स॒‌म्ऽज॒नय᳚न्ति¦ज॒न्तवः॑ ||

सं यदि॒षो वना᳚महे॒ सं ह॒व्या मानु॑षाणाम् |{आत्रेय इषः | अग्निः | अनुष्टुप्}

उ॒त द्यु॒म्नस्य॒ शव॑स ऋ॒तस्य॑ र॒श्मिमा द॑दे ||{3/10}{5.7.3}{5.1.7.3}{3.8.24.3}{71, 361, 3712}

स‌म्¦यत्¦इ॒षः¦वना᳚महे¦स‌म्¦ह॒व्या¦मानु॑षाणा‌म् | उ॒त¦द्यु॒म्नस्य॑¦शव॑सा¦ऋ॒तस्य॑¦र॒श्मि‌म्¦आ¦द॒दे॒ ||

स स्मा᳚ कृणोति के॒तुमा नक्तं᳚ चिद्दू॒र आ स॒ते |{आत्रेय इषः | अग्निः | अनुष्टुप्}

पा॒व॒को यद्‌ वन॒स्पती॒न् प्र स्मा᳚ मि॒नात्य॒जरः॑ ||{4/10}{5.7.4}{5.1.7.4}{3.8.24.4}{72, 361, 3713}

सः¦स्म॒¦कृ॒णो॒ति॒¦के॒तु‌म्¦आ¦नक्त᳚‌म्¦चि॒त्¦दू॒रे¦आ¦स॒ते | पा॒व॒कः¦यत्¦वन॒स्पती᳚न्¦प्र¦स्म॒¦मि॒नाति॑¦अ॒जरः॑ ||

अव॑ स्म॒ यस्य॒ वेष॑णे॒ स्वेदं᳚ प॒थिषु॒ जुह्व॑ति |{आत्रेय इषः | अग्निः | अनुष्टुप्}

अ॒भीमह॒ स्वजे᳚न्यं॒ भूमा᳚ पृ॒ष्ठेव॑ रुरुहुः ||{5/10}{5.7.5}{5.1.7.5}{3.8.24.5}{73, 361, 3714}

अव॑¦स्म॒¦यस्य॑¦वेष॑णे¦स्वेद᳚‌म्¦प॒थिषु॑¦जुह्व॑ति | अ॒भि¦ई॒‌म्¦अह॑¦स्वऽजे᳚न्य‌म्¦भूम॑¦पृ॒ष्ठाऽ‌इ᳚व¦रु॒रु॒हुः॒ ||

यं मर्त्यः॑ पुरु॒स्पृहं᳚ वि॒दद्‌ विश्व॑स्य॒ धाय॑से |{आत्रेय इषः | अग्निः | अनुष्टुप्}

प्र स्वाद॑नं पितू॒नामस्त॑तातिं चिदा॒यवे᳚ ||{6/10}{5.7.6}{5.1.7.6}{3.8.25.1}{74, 361, 3715}

य‌म्¦मर्त्यः॑¦पु॒रु॒ऽस्पृह᳚‌म्¦वि॒दत्¦विश्व॑स्य¦धाय॑से | प्र¦स्वाद॑न‌म्¦पि॒तू॒ना‌म्¦अस्त॑ऽताति‌म्¦चि॒त्¦आ॒यवे᳚ ||

स हि ष्मा॒ धन्वाक्षि॑तं॒ दाता॒ न दात्या प॒शुः |{आत्रेय इषः | अग्निः | अनुष्टुप्}

हिरि॑श्मश्रुः॒ शुचि॑दन्नृ॒भुरनि॑भृष्टतविषिः ||{7/10}{5.7.7}{5.1.7.7}{3.8.25.2}{75, 361, 3716}

सः¦हि¦स्म॒¦धन्व॑¦आऽक्षि॑त‌म्¦दाता᳚¦न¦दाति॑¦आ¦प॒शुः | हिरि॑ऽश्मश्रुः¦शुचि॑ऽदन्¦ऋ॒भुः¦अनि॑भृष्टऽतविषिः ||

शुचिः॑ ष्म॒ यस्मा᳚, अत्रि॒वत् प्र स्वधि॑तीव॒ रीय॑ते |{आत्रेय इषः | अग्निः | अनुष्टुप्}

सु॒षूर॑सूत मा॒ता क्रा॒णा यदा᳚न॒शे भग᳚म् ||{8/10}{5.7.8}{5.1.7.8}{3.8.25.3}{76, 361, 3717}

शुचिः॑¦स्म॒¦यस्मै᳚¦अ॒त्रि॒ऽवत्¦प्र¦स्वधि॑तिःऽ‌इव¦रीय॑ते | सु॒ऽसूः¦अ॒सू॒त॒¦मा॒ता¦क्रा॒णा¦यत्¦आ॒न॒शे¦भग᳚‌म् ||

आ यस्ते᳚ सर्पिरासु॒तेऽग्ने॒ शमस्ति॒ धाय॑से |{आत्रेय इषः | अग्निः | अनुष्टुप्}

ऐषु॑ द्यु॒म्नमु॒त श्रव॒ आ चि॒त्तं मर्त्ये᳚षु धाः ||{9/10}{5.7.9}{5.1.7.9}{3.8.25.4}{77, 361, 3718}

आ¦यः¦ते॒¦स॒र्पिः॒ऽआ॒सु॒ते॒¦अग्ने᳚¦श‌म्¦अस्ति॑¦धाय॑से | आ¦ए॒षु॒¦द्यु॒म्न‌म्¦उ॒त¦श्रवः॑¦आ¦चि॒त्त‌म्¦मर्त्ये᳚षु¦धाः॒ ||

इति॑ चिन्म॒न्युम॒ध्रिज॒स्त्वादा᳚त॒मा प॒शुं द॑दे |{आत्रेय इषः | अग्निः | पङ्क्तिः}

आद॑ग्ने॒, अपृ॑ण॒तोऽत्रिः॑ सासह्या॒द्‌ दस्यू᳚नि॒षः सा᳚सह्या॒न्नॄन् ||{10/10}{5.7.10}{5.1.7.10}{3.8.25.5}{78, 361, 3719}

इति॑¦चि॒त्¦म॒न्यु‌म्¦अ॒ध्रिजः॑¦त्वाऽदा᳚त‌म्¦आ¦प॒शु‌म्¦द॒दे॒ |
आत्¦अ॒ग्ने॒¦अपृ॑णतः¦अत्रिः॑¦स॒स॒ह्या॒त्¦दस्यू᳚न्¦इ॒षः¦स॒स॒ह्या॒त्¦नॄन् ||

[8] त्वामग्नऋतायवइति सप्तर्चस्य सूक्तस्यात्रेय इषोग्निर्जगती |
त्वाम॑ग्न ऋता॒यवः॒ समी᳚धिरे प्र॒त्नं प्र॒त्नास॑ ऊ॒तये᳚ सहस्कृत |{आत्रेय इषः | अग्निः | जगती}

पु॒रु॒श्च॒न्द्रं य॑ज॒तं वि॒श्वधा᳚यसं॒ दमू᳚नसं गृ॒हप॑तिं॒ वरे᳚ण्यम् ||{1/7}{5.8.1}{5.1.8.1}{3.8.26.1}{79, 362, 3720}

त्वा‌म्¦अ॒ग्ने॒¦ऋ॒त॒ऽयवः॑¦स‌म्¦ई॒धि॒रे॒¦प्र॒त्न‌म्¦प्र॒त्नासः॑¦ऊ॒तये᳚¦स॒हः॒ऽकृ॒त॒ |
पु॒रु॒ऽच॒न्द्र‌म्¦य॒ज॒त‌म्¦वि॒श्वऽधा᳚यस‌म्¦दमू᳚नस‌म्¦गृ॒हऽप॑ति‌म्¦वरे᳚ण्य‌म् ||

त्वाम॑ग्ने॒, अति॑थिं पू॒र्व्यं विशः॑ शो॒चिष्के᳚शं गृ॒हप॑तिं॒ नि षे᳚दिरे |{आत्रेय इषः | अग्निः | जगती}

बृ॒हत्के᳚तुं पुरु॒रूपं᳚ धन॒स्पृतं᳚ सु॒शर्मा᳚णं॒ स्वव॑सं जर॒द्विष᳚म् ||{2/7}{5.8.2}{5.1.8.2}{3.8.26.2}{80, 362, 3721}

त्वा‌म्¦अ॒ग्ने॒¦अति॑थि‌म्¦पू॒र्व्य‌म्¦विशः॑¦शो॒चिःऽके᳚श‌म्¦गृ॒हऽप॑ति‌म्¦नि¦से॒दि॒रे॒ |
बृ॒हत्ऽके᳚तु‌म्¦पु॒रु॒ऽरूप᳚‌म्¦ध॒न॒ऽस्पृत᳚‌म्¦सु॒ऽशर्मा᳚ण‌म्¦सु॒।आव॑स‌म्¦ज॒र॒त्ऽविष᳚‌म् ||

त्वाम॑ग्ने॒ मानु॑षीरीळते॒ विशो᳚ होत्रा॒विदं॒ विवि॑चिं रत्न॒धात॑मम् |{आत्रेय इषः | अग्निः | जगती}

गुहा॒ सन्तं᳚ सुभग वि॒श्वद॑र्शतं तुविष्व॒णसं᳚ सु॒यजं᳚ घृत॒श्रिय᳚म् ||{3/7}{5.8.3}{5.1.8.3}{3.8.26.3}{81, 362, 3722}

त्वा‌म्¦अ॒ग्ने॒¦मानु॑षीः¦ई॒ळ॒ते॒¦विशः॑¦हो॒त्रा॒ऽविद᳚‌म्¦विवि॑चि‌म्¦र॒त्न॒ऽधात॑म‌म् |
गुहा᳚¦सन्त᳚‌म्¦सु॒ऽभ॒ग॒¦वि॒श्वऽद॑र्शत‌म्¦तु॒वि॒ऽस्व॒णस᳚‌म्¦सु॒ऽयज᳚‌म्¦घृ॒त॒ऽश्रिय᳚‌म् ||

त्वाम॑ग्ने धर्ण॒सिं वि॒श्वधा᳚ व॒यं गी॒र्भिर्गृ॒णन्तो॒ नम॒सोप॑ सेदिम |{आत्रेय इषः | अग्निः | जगती}

स नो᳚ जुषस्व समिधा॒नो, अ᳚ङ्गिरो दे॒वो मर्त॑स्य य॒शसा᳚ सुदी॒तिभिः॑ ||{4/7}{5.8.4}{5.1.8.4}{3.8.26.4}{82, 362, 3723}

त्वा‌म्¦अ॒ग्ने॒¦ध॒र्ण॒सि‌म्¦वि॒श्वधा᳚¦व॒य‌म्¦गीः॒ऽभिः¦गृ॒णन्तः॑¦नम॑सा¦उप॑¦से॒दि॒म॒ |
सः¦नः॒¦जु॒ष॒स्व॒¦स॒‌म्ऽ‌इ॒धा॒नः¦अ॒ङ्गि॒रः॒¦दे॒वः¦मर्त॑स्य¦य॒शसा᳚¦सु॒दी॒तिऽभिः॑ ||

त्वम॑ग्ने पुरु॒रूपो᳚ वि॒शेवि॑शे॒ वयो᳚ दधासि प्र॒त्नथा᳚ पुरुष्टुत |{आत्रेय इषः | अग्निः | जगती}

पु॒रूण्यन्ना॒ सह॑सा॒ वि रा᳚जसि॒ त्विषिः॒ सा ते᳚ तित्विषा॒णस्य॒ नाधृषे᳚ ||{5/7}{5.8.5}{5.1.8.5}{3.8.26.5}{83, 362, 3724}

त्व‌म्¦अ॒ग्ने॒¦पु॒रु॒ऽरूपः॑¦वि॒शेऽवि॑शे¦वयः॑¦द॒धा॒सि॒¦प्र॒त्नऽथा᳚¦पु॒रु॒ऽस्तु॒त॒ |
पु॒रूणि॑¦अन्ना᳚¦सह॑सा¦वि¦रा॒ज॒सि॒¦त्विषिः॑¦सा¦ते॒¦ति॒त्वि॒षा॒णस्य॑¦न¦आ॒ऽधृषे᳚ ||

त्वाम॑ग्ने समिधा॒नं य॑विष्ठ्य दे॒वा दू॒तं च॑क्रिरे हव्य॒वाह॑नम् |{आत्रेय इषः | अग्निः | जगती}

उ॒रु॒ज्रय॑सं घृ॒तयो᳚नि॒माहु॑तं त्वे॒षं चक्षु॑र्दधिरे चोद॒यन्म॑ति ||{6/7}{5.8.6}{5.1.8.6}{3.8.26.6}{84, 362, 3725}

त्वा‌म्¦अ॒ग्ने॒¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦य॒वि॒ष्ठ्य॒¦दे॒वाः¦दू॒त‌म्¦च॒क्रि॒रे॒¦ह॒व्य॒ऽवाह॑न‌म् |
उ॒रु॒ऽज्रय॑स‌म्¦घृ॒तऽयो᳚नि‌म्¦आऽहु॑त‌म्¦त्वे॒ष‌म्¦चक्षुः॑¦द॒धि॒रे॒¦चो॒द॒यत्ऽम॑ति ||

त्वाम॑ग्ने प्र॒दिव॒ आहु॑तं घृ॒तैः सु᳚म्ना॒यवः॑ सुष॒मिधा॒ समी᳚धिरे |{आत्रेय इषः | अग्निः | जगती}

स वा᳚वृधा॒न ओष॑धीभिरुक्षि॒तो॒३॑(ओ॒)ऽभि ज्रयां᳚सि॒ पार्थि॑वा॒ वि ति॑ष्ठसे ||{7/7}{5.8.7}{5.1.8.7}{3.8.26.7}{85, 362, 3726}

त्वा‌म्¦अ॒ग्ने॒¦प्र॒ऽदिवः॑¦आऽहु॑त‌म्¦घृ॒तैः¦सु॒म्न॒ऽयवः॑¦सु॒ऽस॒मिधा᳚¦स‌म्¦ई॒धि॒रे॒ |
सः¦व॒वृ॒धा॒नः¦ओष॑धीभिः¦उ॒क्षि॒तः¦अ॒भि¦ज्रयां᳚सि¦पार्थि॑वा¦वि¦ति॒ष्ठ॒से॒ ||

[9] त्वामग्नइति सप्तर्चस्य सूक्तस्यात्रेयोगयोग्निरनुष्टुप्‌ पंचमी सप्तम्यौपङ्क्ती |
त्वाम॑ग्ने ह॒विष्म᳚न्तो दे॒वं मर्ता᳚स ईळते |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

मन्ये᳚ त्वा जा॒तवे᳚दसं॒ स ह॒व्या व॑क्ष्यानु॒षक् ||{1/7}{5.9.1}{5.1.9.1}{4.1.1.1}{86, 363, 3727}

त्वा‌म्¦अ॒ग्ने॒¦ह॒विष्म᳚न्तः¦दे॒व‌म्¦मर्ता᳚सः¦ई॒ळ॒ते॒ | मन्ये᳚¦त्वा॒¦जा॒तऽवे᳚दस‌म्¦सः¦ह॒व्या¦व॒क्षि॒¦आ॒नु॒षक् ||

अ॒ग्निर्होता॒ दास्व॑तः॒, क्षय॑स्य वृ॒क्तब᳚र्हिषः |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

सं य॒ज्ञास॒श्चर᳚न्ति॒ यं सं वाजा᳚सः श्रव॒स्यवः॑ ||{2/7}{5.9.2}{5.1.9.2}{4.1.1.2}{87, 363, 3728}

अ॒ग्निः¦होता᳚¦दास्व॑तः¦क्षय॑स्य¦वृ॒क्तऽब॑र्हिषः | स‌म्¦य॒ज्ञासः॑¦चर᳚न्ति¦य‌म्¦स‌म्¦वाजा᳚सः¦श्र॒व॒स्यवः॑ ||

उ॒त स्म॒ यं शिशुं᳚ यथा॒ नवं॒ जनि॑ष्टा॒रणी᳚ |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

ध॒र्तारं॒ मानु॑षीणां वि॒शाम॒ग्निं स्व॑ध्व॒रम् ||{3/7}{5.9.3}{5.1.9.3}{4.1.1.3}{88, 363, 3729}

उ॒त¦स्म॒¦य‌म्¦शिशु᳚‌म्¦य॒था॒¦नव᳚‌म्¦जनि॑ष्ट¦अ॒रणी॒ इति॑ | ध॒र्तार᳚‌म्¦मानु॑षीणा‌म्¦वि॒शा‌म्¦अ॒ग्नि‌म्¦सु॒।आ॒ध्व॒र‌म् ||

उ॒त स्म॑ दुर्गृभीयसे पु॒त्रो न ह्वा॒र्याणा᳚म् |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

पु॒रू यो दग्धासि॒ वनाऽग्ने᳚ प॒शुर्न यव॑से ||{4/7}{5.9.4}{5.1.9.4}{4.1.1.4}{89, 363, 3730}

उ॒त¦स्म॒¦दुः॒ऽगृ॒भी॒य॒से॒¦पु॒त्रः¦न¦ह्वा॒र्याणा᳚‌म् | पु॒रु¦यः¦दग्धा᳚¦असि॑¦वना᳚¦अग्ने᳚¦प॒शुः¦न¦यव॑से ||

अध॑ स्म॒ यस्या॒र्चयः॑ स॒म्यक्‌ सं॒यन्ति॑ धू॒मिनः॑ |{आत्रेयो गयः | अग्निः | पङ्क्तिः}

यदी॒मह॑ त्रि॒तो दि॒व्युप॒ ध्माते᳚व॒ धम॑ति॒ शिशी᳚ते ध्मा॒तरी᳚ यथा ||{5/7}{5.9.5}{5.1.9.5}{4.1.1.5}{90, 363, 3731}

अध॑¦स्म॒¦यस्य॑¦अ॒र्चयः॑¦स॒म्यक्¦स॒‌म्ऽयन्ति॑¦धू॒मिनः॑ |
यत्¦ई॒‌म्¦अह॑¦त्रि॒तः¦दि॒वि¦उप॑¦ध्माता᳚ऽ‌इव¦धम॑ति¦शिशी᳚ते¦ध्मा॒तरि॑¦य॒था॒ ||

तवा॒हम॑ग्न ऊ॒तिभि᳚र्मि॒त्रस्य॑ च॒ प्रश॑स्तिभिः |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

द्वे॒षो॒युतो॒ न दु॑रि॒ता तु॒र्याम॒ मर्त्या᳚नाम् ||{6/7}{5.9.6}{5.1.9.6}{4.1.1.6}{91, 363, 3732}

तव॑¦अ॒ह‌म्¦अ॒ग्ने॒¦ऊ॒तिऽभिः॑¦मि॒त्रस्य॑¦च॒¦प्रश॑स्तिऽभिः | द्वे॒षः॒ऽयुतः॑¦न¦दुः॒ऽ‌इ॒ता¦तु॒र्याम॑¦मर्त्या᳚ना‌म् ||

तं नो᳚, अग्ने, अ॒भी नरो᳚ र॒यिं स॑हस्व॒ आ भ॑र |{आत्रेयो गयः | अग्निः | पङ्क्तिः}

स क्षे᳚पय॒त्‌ स पो᳚षय॒द् भुव॒द्‌ वाज॑स्य सा॒तय॑ उ॒तैधि॑ पृ॒त्सु नो᳚ वृ॒धे ||{7/7}{5.9.7}{5.1.9.7}{4.1.1.7}{92, 363, 3733}

त‌म्¦नः॒¦अ॒ग्ने॒¦अ॒भि¦नरः॑¦र॒यि‌म्¦स॒ह॒स्वः॒¦आ¦भ॒र॒ |
सः¦क्षे॒प॒य॒त्¦सः¦पो॒ष॒य॒त्¦भुव॑त्¦वाज॑स्य¦सा॒तये᳚¦उ॒त¦ए॒धि॒¦पृ॒त्सु¦नः॒¦वृ॒धे ||

[10] अग्नओजिष्टमिति सप्तर्चस्य सूक्तस्यात्रेयोगयोग्निरनुष्टुप्‌ चतुर्थीसप्तम्यौपङ्क्ती |
अग्न॒ ओजि॑ष्ठ॒मा भ॑र द्यु॒म्नम॒स्मभ्य॑मध्रिगो |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

प्र नो᳚ रा॒या परी᳚णसा॒ रत्सि॒ वाजा᳚य॒ पन्था᳚म् ||{1/7}{5.10.1}{5.1.10.1}{4.1.2.1}{93, 364, 3734}

अग्ने᳚¦ओजि॑ष्ठ‌म्¦आ¦भ॒र॒¦द्यु॒म्न‌म्¦अ॒स्मभ्य᳚‌म्¦अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो | प्र¦नः॒¦रा॒या¦परी᳚णसा¦रत्सि॑¦वाजा᳚य¦पन्था᳚‌म् ||

त्वं नो᳚, अग्ने, अद्भुत॒ क्रत्वा॒ दक्ष॑स्य मं॒हना᳚ |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

त्वे, अ॑सु॒र्य१॑(अ॒)मारु॑हत् क्रा॒णा मि॒त्रो न य॒ज्ञियः॑ ||{2/7}{5.10.2}{5.1.10.2}{4.1.2.2}{94, 364, 3735}

त्व‌म्¦नः॒¦अ॒ग्ने॒¦अ॒द्भु॒त॒¦क्रत्वा᳚¦दक्ष॑स्य¦मं॒हना᳚ | त्वे इति॑¦अ॒सु॒र्य᳚‌म्¦आ¦अ॒रु॒ह॒त्¦क्रा॒णा¦मि॒त्रः¦न¦य॒ज्ञियः॑ ||

त्वं नो᳚, अग्न एषां॒ गयं᳚ पु॒ष्टिं च॑ वर्धय |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

ये स्तोमे᳚भिः॒ प्र सू॒रयो॒ नरो᳚ म॒घान्या᳚न॒शुः ||{3/7}{5.10.3}{5.1.10.3}{4.1.2.3}{95, 364, 3736}

त्व‌म्¦नः॒¦अ॒ग्ने॒¦ए॒षा॒‌म्¦गय᳚‌म्¦पु॒ष्टि‌म्¦च॒¦व॒र्ध॒य॒ | ये¦स्तोमे᳚भिः¦प्र¦सू॒रयः॑¦नरः॑¦म॒घानि॑¦आ॒न॒शुः ||

ये, अ॑ग्ने चन्द्र ते॒ गिरः॑ शु॒म्भन्त्यश्व॑राधसः |{आत्रेयो गयः | अग्निः | पङ्क्तिः}

शुष्मे᳚भिः शु॒ष्मिणो॒ नरो᳚ दि॒वश्चि॒द्‌ येषां᳚ बृ॒हत् सु॑की॒र्तिर्बोध॑ति॒ त्मना᳚ ||{4/7}{5.10.4}{5.1.10.4}{4.1.2.4}{96, 364, 3737}

ये¦अ॒ग्ने॒¦च॒न्द्र॒¦ते॒¦गिरः॑¦शु॒म्भन्ति॑¦अश्व॑ऽराधसः |
शुष्मे᳚भिः¦शु॒ष्मिणः॑¦नरः॑¦दि॒वः¦चि॒त्¦येषा᳚‌म्¦बृ॒हत्¦सु॒ऽकी॒र्तिः¦बोध॑ति¦त्मना᳚ ||

तव॒ त्ये, अ॑ग्ने, अ॒र्चयो॒ भ्राज᳚न्तो यन्ति धृष्णु॒या |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

परि॑ज्मानो॒ न वि॒द्युतः॑ स्वा॒नो रथो॒ न वा᳚ज॒युः ||{5/7}{5.10.5}{5.1.10.5}{4.1.2.5}{97, 364, 3738}

तव॑¦त्ये¦अ॒ग्ने॒¦अ॒र्चयः॑¦भ्राज᳚न्तः¦य॒न्ति॒¦धृ॒ष्णु॒ऽया | परि॑ऽज्मानः¦न¦वि॒ऽद्युतः॑¦स्वा॒नः¦रथः॑¦न¦वा॒ज॒ऽयुः ||

नू नो᳚, अग्न ऊ॒तये᳚ स॒बाध॑सश्च रा॒तये᳚ |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

अ॒स्माका᳚सश्च सू॒रयो॒ विश्वा॒, आशा᳚स्तरी॒षणि॑ ||{6/7}{5.10.6}{5.1.10.6}{4.1.2.6}{98, 364, 3739}

नु¦नः॒¦अ॒ग्ने॒¦ऊ॒तये᳚¦स॒ऽबाध॑सः¦च॒¦रा॒तये᳚ | अ॒स्माका᳚सः¦च॒¦सू॒रयः॑¦विश्वाः᳚¦आशाः᳚¦त॒री॒षणि॑ ||

त्वं नो᳚, अग्ने, अङ्गिरः स्तु॒तः स्तवा᳚न॒ आ भ॑र |{आत्रेयो गयः | अग्निः | पङ्क्तिः}

होत᳚र्विभ्वा॒सहं᳚ र॒यिं स्तो॒तृभ्यः॒ स्तव॑से च न उ॒तैधि॑ पृ॒त्सु नो᳚ वृ॒धे ||{7/7}{5.10.7}{5.1.10.7}{4.1.2.7}{99, 364, 3740}

त्व‌म्¦नः॒¦अ॒ग्ने॒¦अ॒ङ्गि॒रः॒¦स्तु॒तः¦स्तवा᳚नः¦आ¦भ॒र॒ |
होतः॑¦वि॒भ्व॒ऽसह᳚‌म्¦र॒यि‌म्¦स्तो॒तृऽभ्यः॑¦स्तव॑से¦च॒¦नः॒¦उ॒त¦ए॒धि॒¦पृ॒त्ऽसु¦नः॒¦वृ॒धे ||

[11] जनस्येति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निर्जगती |
जन॑स्य गो॒पा, अ॑जनिष्ट॒ जागृ॑विर॒ग्निः सु॒दक्षः॑ सुवि॒ताय॒ नव्य॑से |{आत्रेयः सुतम्भरः | अग्निः | जगती}

घृ॒तप्र॑तीको बृह॒ता दि॑वि॒स्पृशा᳚ द्यु॒मद्‌ वि भा᳚ति भर॒तेभ्यः॒ शुचिः॑ ||{1/6}{5.11.1}{5.1.11.1}{4.1.3.1}{100, 365, 3741}

जन॑स्य¦गो॒पाः¦अ॒ज॒नि॒ष्ट॒¦जागृ॑विः¦अ॒ग्निः¦सु॒ऽदक्षः॑¦सु॒वि॒ताय॑¦नव्य॑से |
घृ॒तऽप्र॑तीकः¦बृ॒ह॒ता¦दि॒वि॒ऽस्पृशा᳚¦द्यु॒ऽमत्¦वि¦भा॒ति॒¦भ॒र॒तेभ्यः॑¦शुचिः॑ ||

य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तम॒ग्निं नर॑स्त्रिषध॒स्थे समी᳚धिरे |{आत्रेयः सुतम्भरः | अग्निः | जगती}

इन्द्रे᳚ण दे॒वैः स॒रथं॒ स ब॒र्हिषि॒ सीद॒न्नि होता᳚ य॒जथा᳚य सु॒क्रतुः॑ ||{2/6}{5.11.2}{5.1.11.2}{4.1.3.2}{101, 365, 3742}

य॒ज्ञस्य॑¦के॒तु‌म्¦प्र॒थ॒म‌म्¦पु॒रःऽहि॑त‌म्¦अ॒ग्नि‌म्¦नरः॑¦त्रि॒ऽस॒ध॒स्थे¦स‌म्¦ई॒धि॒रे॒ |
इन्द्रे᳚ण¦दे॒वैः¦स॒ऽरथ᳚‌म्¦सः¦ब॒र्हिषि॑¦सीद॑त्¦नि¦होता᳚¦य॒जथा᳚य¦सु॒ऽक्रतुः॑ ||

अस᳚म्मृष्टो जायसे मा॒त्रोः शुचि᳚र्म॒न्द्रः क॒विरुद॑तिष्ठो वि॒वस्व॑तः |{आत्रेयः सुतम्भरः | अग्निः | जगती}

घृ॒तेन॑ त्वावर्धयन्नग्न आहुत धू॒मस्ते᳚ के॒तुर॑भवद्‌ दि॒वि श्रि॒तः ||{3/6}{5.11.3}{5.1.11.3}{4.1.3.3}{102, 365, 3743}

अस᳚‌म्ऽमृष्टः¦जा॒य॒से॒¦मा॒त्रोः¦शुचिः॑¦म॒न्द्रः¦क॒विः¦उत्¦अ॒ति॒ष्ठः॒¦वि॒वस्व॑तः |
घृ॒तेन॑¦त्वा॒¦अ॒व॒र्ध॒य॒न्¦अ॒ग्ने॒¦आ॒ऽहु॒त॒¦धू॒मः¦ते॒¦के॒तुः¦अ॒भ॒व॒त्¦दि॒वि¦श्रि॒तः ||

अ॒ग्निर्नो᳚ य॒ज्ञमुप॑ वेतु साधु॒या ऽग्निं नरो॒ वि भ॑रन्ते गृ॒हेगृ॑हे |{आत्रेयः सुतम्भरः | अग्निः | जगती}

अ॒ग्निर्दू॒तो, अ॑भवद्धव्य॒वाह॑नो॒ ऽग्निं वृ॑णा॒ना वृ॑णते क॒विक्र॑तुम् ||{4/6}{5.11.4}{5.1.11.4}{4.1.3.4}{103, 365, 3744}

अ॒ग्निः¦नः॒¦य॒ज्ञ‌म्¦उप॑¦वे॒तु॒¦सा॒धु॒ऽया¦अ॒ग्नि‌म्¦नरः॑¦वि¦भ॒र॒न्ते॒¦गृ॒हेऽगृ॑हे |
अ॒ग्निः¦दू॒तः¦अ॒भ॒व॒त्¦ह॒व्य॒ऽवाह॑नः¦अ॒ग्नि‌म्¦वृ॒णा॒नाः¦वृ॒ण॒ते॒¦क॒विऽक्र॑तु‌म् ||

तुभ्ये॒दम॑ग्ने॒ मधु॑मत्तमं॒ वच॒स्तुभ्यं᳚ मनी॒षा, इ॒यम॑स्तु॒ शं हृ॒दे |{आत्रेयः सुतम्भरः | अग्निः | जगती}

त्वां गिरः॒ सिन्धु॑मिवा॒वनी᳚र्म॒हीरा पृ॑णन्ति॒ शव॑सा व॒र्धय᳚न्ति च ||{5/6}{5.11.5}{5.1.11.5}{4.1.3.5}{104, 365, 3745}

तुभ्य॑¦इ॒द‌म्¦अ॒ग्ने॒¦मधु॑मत्ऽतम‌म्¦वचः॑¦तुभ्य᳚‌म्¦म॒नी॒षा¦इ॒य‌म्¦अ॒स्तु॒¦श‌म्¦हृ॒दे |
त्वा‌म्¦गिरः॑¦सिन्धु᳚‌म्ऽ‌इव¦अ॒वनीः᳚¦म॒हीः¦आ¦पृ॒ण॒न्ति॒¦शव॑सा¦व॒र्धय᳚न्ति¦च॒ ||

त्वाम॑ग्ने॒, अङ्गि॑रसो॒ गुहा᳚ हि॒तमन्व॑विन्दञ्छिश्रिया॒णं वने᳚वने |{आत्रेयः सुतम्भरः | अग्निः | जगती}

स जा᳚यसे म॒थ्यमा᳚नः॒ सहो᳚ म॒हत् त्वामा᳚हुः॒ सह॑सस्पु॒त्रम᳚ङ्गिरः ||{6/6}{5.11.6}{5.1.11.6}{4.1.3.6}{105, 365, 3746}

त्वा‌म्¦अ॒ग्ने॒¦अङ्गि॑रसः¦गुहा᳚¦हि॒त‌म्¦अनु॑¦अ॒वि॒न्द॒न्¦शि॒श्रि॒या॒ण‌म्¦वने᳚ऽवने |
सः¦जा॒य॒से॒¦म॒थ्यमा᳚नः¦सहः॑¦म॒हत्¦त्वा‌म्¦आ॒हुः॒¦सह॑सः¦पु॒त्र‌म्¦अ॒ङ्गि॒रः॒ ||

[12] प्राग्नयइति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निस्त्रिष्टुप् |
प्राग्नये᳚ बृह॒ते य॒ज्ञिया᳚य ऋ॒तस्य॒ वृष्णे॒, असु॑राय॒ मन्म॑ |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

घृ॒तं न य॒ज्ञ आ॒स्ये॒३॑(ए॒) सुपू᳚तं॒ गिरं᳚ भरे वृष॒भाय॑ प्रती॒चीम् ||{1/6}{5.12.1}{5.1.12.1}{4.1.4.1}{106, 366, 3747}

प्र¦अ॒ग्नये᳚¦बृ॒ह॒ते¦य॒ज्ञिया᳚य¦ऋ॒तस्य॑¦वृष्णे᳚¦असु॑राय¦मन्म॑ |
घृ॒त‌म्¦न¦य॒ज्ञे¦आ॒स्ये᳚¦सुऽपू᳚त‌म्¦गिर᳚‌म्¦भ॒रे॒¦वृ॒ष॒भाय॑¦प्र॒ती॒ची‌म् ||

ऋ॒तं चि॑कित्व ऋ॒तमिच्चि॑किद्ध्यृ॒तस्य॒ धारा॒, अनु॑ तृन्धि पू॒र्वीः |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

नाहं या॒तुं सह॑सा॒ न द्व॒येन॑ ऋ॒तं स॑पाम्यरु॒षस्य॒ वृष्णः॑ ||{2/6}{5.12.2}{5.1.12.2}{4.1.4.2}{107, 366, 3748}

ऋ॒त‌म्¦चि॒कि॒त्वः॒¦ऋ॒त‌म्¦इत्¦चि॒कि॒द्धि॒¦ऋ॒तस्य॑¦धाराः᳚¦अनु॑¦तृ॒न्धि॒¦पू॒र्वीः |
न¦अ॒ह‌म्¦या॒तु‌म्¦सह॑सा¦न¦द्व॒येन॑¦ऋ॒त‌म्¦स॒पा॒मि॒¦अ॒रु॒षस्य॑¦वृष्णः॑ ||

कया᳚ नो, अग्न ऋ॒तय᳚न्नृ॒तेन॒ भुवो॒ नवे᳚दा, उ॒चथ॑स्य॒ नव्यः॑ |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

वेदा᳚ मे दे॒व ऋ॑तु॒पा, ऋ॑तू॒नां नाहं पतिं᳚ सनि॒तुर॒स्य रा॒यः ||{3/6}{5.12.3}{5.1.12.3}{4.1.4.3}{108, 366, 3749}

कया᳚¦नः॒¦अ॒ग्ने॒¦ऋ॒तय॑न्¦ऋ॒तेन॑¦भुवः॑¦नवे᳚दाः¦उ॒चथ॑स्य¦नव्यः॑ |
वेद॑¦मे॒¦दे॒वः¦ऋ॒तु॒ऽपाः¦ऋ॒तू॒ना‌म्¦न¦अ॒ह‌म्¦पति᳚‌म्¦स॒नि॒तुः॒¦अ॒स्य¦रा॒यः ||

के ते᳚, अग्ने रि॒पवे॒ बन्ध॑नासः॒ के पा॒यवः॑ सनिषन्त द्यु॒मन्तः॑ |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

के धा॒सिम॑ग्ने॒, अनृ॑तस्य पान्ति॒ क आस॑तो॒ वच॑सः सन्ति गो॒पाः ||{4/6}{5.12.4}{5.1.12.4}{4.1.4.4}{109, 366, 3750}

के¦ते॒¦अ॒ग्ने॒¦रि॒पवे᳚¦बन्ध॑नासः¦के¦पा॒यवः॑¦स॒नि॒ष॒न्त॒¦द्यु॒ऽमन्तः॑ |
के¦धा॒सि‌म्¦अ॒ग्ने॒¦अनृ॑तस्य¦पा॒न्ति॒¦के¦अस॑तः¦वच॑सः¦स॒न्ति॒¦गो॒पाः ||

सखा᳚यस्ते॒ विषु॑णा, अग्न ए॒ते शि॒वासः॒ सन्तो॒, अशि॑वा, अभूवन् |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

अधू᳚र्षत स्व॒यमे॒ते वचो᳚भिरृजूय॒ते वृ॑जि॒नानि॑ ब्रु॒वन्तः॑ ||{5/6}{5.12.5}{5.1.12.5}{4.1.4.5}{110, 366, 3751}

सखा᳚यः¦ते॒¦विषु॑णाः¦अ॒ग्ने॒¦ए॒ते¦शि॒वासः॑¦सन्तः॑¦अशि॑वाः¦अ॒भू॒व॒न् |
अधू᳚र्षत¦स्व॒य‌म्¦ए॒ते¦वचः॑ऽभिः¦ऋ॒जु॒ऽय॒ते¦वृ॒जि॒नानि॑¦ब्रु॒वन्तः॑ ||

यस्ते᳚, अग्ने॒ नम॑सा य॒ज्ञमीट्ट॑ ऋ॒तं स पा᳚त्यरु॒षस्य॒ वृष्णः॑ |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

तस्य॒ क्षयः॑ पृ॒थुरा सा॒धुरे᳚तु प्र॒सर्स्रा᳚णस्य॒ नहु॑षस्य॒ शेषः॑ ||{6/6}{5.12.6}{5.1.12.6}{4.1.4.6}{111, 366, 3752}

यः¦ते॒¦अ॒ग्ने॒¦नम॑सा¦य॒ज्ञ‌म्¦ईट्टे᳚¦ऋ॒त‌म्¦सः¦पा॒ति॒¦अ॒रु॒षस्य॑¦वृष्णः॑ |
तस्य॑¦क्षयः॑¦पृ॒थुः¦आ¦सा॒धुः¦ए॒तु॒¦प्र॒ऽसर्स्रा᳚णस्य¦नहु॑षस्य¦शेषः॑ ||

[13] अर्चतइति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निर्गायत्री |
अर्च᳚न्तस्त्वा हवाम॒हेऽर्च᳚न्तः॒ समि॑धीमहि |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

अग्ने॒, अर्च᳚न्त ऊ॒तये᳚ ||{1/6}{5.13.1}{5.1.13.1}{4.1.5.1}{112, 367, 3753}

अर्च᳚न्तः¦त्वा॒¦ह॒वा॒म॒हे॒¦अर्च᳚न्तः¦स‌म्¦इ॒धी॒म॒हि॒ | अग्ने᳚¦अर्च᳚न्तः¦ऊ॒तये᳚ ||

अ॒ग्नेः स्तोमं᳚ मनामहे सि॒ध्रम॒द्य दि॑वि॒स्पृशः॑ |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

दे॒वस्य॑ द्रविण॒स्यवः॑ ||{2/6}{5.13.2}{5.1.13.2}{4.1.5.2}{113, 367, 3754}

अ॒ग्नेः¦स्तोम᳚‌म्¦म॒ना॒म॒हे॒¦सि॒ध्र‌म्¦अ॒द्य¦दि॒वि॒ऽस्पृशः॑ | दे॒वस्य॑¦द्र॒वि॒ण॒स्यवः॑ ||

अ॒ग्निर्जु॑षत नो॒ गिरो॒ होता॒ यो मानु॑षे॒ष्वा |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

स य॑क्ष॒द्‌ दैव्यं॒ जन᳚म् ||{3/6}{5.13.3}{5.1.13.3}{4.1.5.3}{114, 367, 3755}

अ॒ग्निः¦जु॒ष॒त॒¦नः॒¦गिरः॑¦होता᳚¦यः¦मानु॑षेषु¦आ | सः¦य॒क्ष॒त्¦दैव्य᳚‌म्¦जन᳚‌म् ||

त्वम॑ग्ने स॒प्रथा᳚, असि॒ जुष्टो॒ होता॒ वरे᳚ण्यः |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

त्वया᳚ य॒ज्ञं वि त᳚न्वते ||{4/6}{5.13.4}{5.1.13.4}{4.1.5.4}{115, 367, 3756}

त्व‌म्¦अ॒ग्ने॒¦स॒ऽप्रथाः᳚¦अ॒सि॒¦जुष्टः॑¦होता᳚¦वरे᳚ण्यः | त्वया᳚¦य॒ज्ञ‌म्¦वि¦त॒न्व॒ते॒ ||

त्वाम॑ग्ने वाज॒सात॑मं॒ विप्रा᳚ वर्धन्ति॒ सुष्टु॑तम् |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

स नो᳚ रास्व सु॒वीर्य᳚म् ||{5/6}{5.13.5}{5.1.13.5}{4.1.5.5}{116, 367, 3757}

त्वा‌म्¦अ॒ग्ने॒¦वा॒ज॒ऽसात॑म‌म्¦विप्राः᳚¦व॒र्ध॒न्ति॒¦सुऽस्तु॑त‌म् | सः¦नः॒¦रा॒स्व॒¦सु॒ऽवीर्य᳚‌म् ||

अग्ने᳚ ने॒मिर॒राँ, इ॑व दे॒वाँस्त्वं प॑रि॒भूर॑सि |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

आ राध॑श्चि॒त्रमृ᳚ञ्जसे ||{6/6}{5.13.6}{5.1.13.6}{4.1.5.6}{117, 367, 3758}

अग्ने᳚¦ने॒मिः¦अ॒रान्ऽ‌इ᳚व¦दे॒वान्¦त्व‌म्¦प॒रि॒ऽभूः¦अ॒सि॒ | आ¦राधः॑¦चि॒त्र‌म्¦ऋं॒ज॒से॒ ||

[14] अग्निंस्तोमेनेति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निर्गायत्री |
अ॒ग्निं स्तोमे᳚न बोधय समिधा॒नो, अम॑र्त्यम् |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

ह॒व्या दे॒वेषु॑ नो दधत् ||{1/6}{5.14.1}{5.1.14.1}{4.1.6.1}{118, 368, 3759}

अ॒ग्नि‌म्¦स्तोमे᳚न¦बो॒ध॒य॒¦स॒‌म्ऽ‌इ॒धा॒नः¦अम॑र्त्य‌म् | ह॒व्या¦दे॒वेषु॑¦नः॒¦द॒ध॒त् ||

तम॑ध्व॒रेष्वी᳚ळते दे॒वं मर्ता॒, अम॑र्त्यम् |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

यजि॑ष्ठं॒ मानु॑षे॒ जने᳚ ||{2/6}{5.14.2}{5.1.14.2}{4.1.6.2}{119, 368, 3760}

त‌म्¦अ॒ध्व॒रेषु॑¦ई॒ळ॒ते॒¦दे॒व‌म्¦मर्ताः᳚¦अम॑र्त्य‌म् | यजि॑ष्ठ‌म्¦मानु॑षे¦जने᳚ ||

तं हि शश्व᳚न्त॒ ईळ॑ते स्रु॒चा दे॒वं घृ॑त॒श्चुता᳚ |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

अ॒ग्निं ह॒व्याय॒ वोळ्ह॑वे ||{3/6}{5.14.3}{5.1.14.3}{4.1.6.3}{120, 368, 3761}

त‌म्¦हि¦शश्व᳚न्तः¦ईळ॑ते¦स्रु॒चा¦दे॒व‌म्¦घृ॒त॒ऽश्चुता᳚ | अ॒ग्नि‌म्¦ह॒व्याय॑¦वोळ्ह॑वे ||

अ॒ग्निर्जा॒तो, अ॑रोचत॒ घ्नन्‌ दस्यू॒ञ्ज्योति॑षा॒ तमः॑ |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

अवि᳚न्द॒द्‌ गा, अ॒पः स्वः॑ ||{4/6}{5.14.4}{5.1.14.4}{4.1.6.4}{121, 368, 3762}

अ॒ग्निः¦जा॒तः¦अ॒रो॒च॒त॒¦घ्नन्¦दस्यू᳚न्¦ज्योति॑षा¦तमः॑ | अवि᳚न्दत्¦गाः¦अ॒पः¦स्व१॒॑रिति॒ स्वः॑ ||

अ॒ग्निमी॒ळेन्यं᳚ क॒विं घृ॒तपृ॑ष्ठं सपर्यत |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

वेतु॑ मे शृ॒णव॒द्धव᳚म् ||{5/6}{5.14.5}{5.1.14.5}{4.1.6.5}{122, 368, 3763}

अ॒ग्नि‌म्¦ई॒ळेन्य᳚‌म्¦क॒वि‌म्¦घृ॒तऽपृ॑ष्ठ‌म्¦स॒प॒र्य॒त॒ | वेतु॑¦मे॒¦शृ॒णव॑त्¦हव᳚‌म् ||

अ॒ग्निं घृ॒तेन॑ वावृधुः॒ स्तोमे᳚भिर्वि॒श्वच॑र्षणिम् |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

स्वा॒धीभि᳚र्वच॒स्युभिः॑ ||{6/6}{5.14.6}{5.1.14.6}{4.1.6.6}{123, 368, 3764}

अ॒ग्नि‌म्¦घृ॒तेन॑¦व॒वृ॒धुः॒¦स्तोमे᳚भिः¦वि॒श्वऽच॑र्षणि‌म् | सु॒ऽआ॒धीभिः॑¦व॒च॒स्युऽभिः॑ ||

[15] प्रवेधसइति पंचर्चस्य सूक्तस्यांगिरसोधरुणोऽग्निस्त्रिष्टुप् |
प्र वे॒धसे᳚ क॒वये॒ वेद्या᳚य॒ गिरं᳚ भरे य॒शसे᳚ पू॒र्व्याय॑ |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्}

घृ॒तप्र॑सत्तो॒, असु॑रः सु॒शेवो᳚ रा॒यो ध॒र्ता ध॒रुणो॒ वस्वो᳚, अ॒ग्निः ||{1/5}{5.15.1}{5.2.1.1}{4.1.7.1}{124, 369, 3765}

प्र¦वे॒धसे᳚¦क॒वये᳚¦वेद्या᳚य¦गिर᳚‌म्¦भ॒रे॒¦य॒शसे᳚¦पू॒र्व्याय॑ |
घृ॒तऽप्र॑सत्तः¦असु॑रः¦सु॒ऽशेवः॑¦रा॒यः¦ध॒र्ता¦ध॒रुणः॑¦वस्वः॑¦अ॒ग्निः ||

ऋ॒तेन॑ ऋ॒तं ध॒रुणं᳚ धारयन्त य॒ज्ञस्य॑ शा॒के प॑र॒मे व्यो᳚मन् |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्}

दि॒वो धर्म᳚न्‌ ध॒रुणे᳚ से॒दुषो॒ नॄञ्जा॒तैरजा᳚ताँ, अ॒भि ये न॑न॒क्षुः ||{2/5}{5.15.2}{5.2.1.2}{4.1.7.2}{125, 369, 3766}

ऋ॒तेन॑¦ऋ॒त‌म्¦ध॒रुण᳚‌म्¦धा॒र॒य॒न्त॒¦य॒ज्ञस्य॑¦शो॒के¦प॒र॒मे¦विऽओ᳚मन् |
दि॒वः¦धर्म॑न्¦ध॒रुणे᳚¦से॒दुषः॑¦नॄन्¦जा॒तैः¦अजा᳚तान्¦अ॒भि¦ये¦न॒न॒क्षुः ||

अं॒हो॒युव॑स्त॒न्व॑स्तन्वते॒ वि वयो᳚ म॒हद्‌ दु॒ष्टरं᳚ पू॒र्व्याय॑ |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्}

स सं॒वतो॒ नव॑जातस्तुतुर्यात् सिं॒हं न क्रु॒द्धम॒भितः॒ परि॑ ष्ठुः ||{3/5}{5.15.3}{5.2.1.3}{4.1.7.3}{126, 369, 3767}

अं॒हः॒ऽयुवः॑¦त॒न्वः॑¦त॒न्व॒ते॒¦वि¦वयः॑¦म॒हत्¦दु॒स्तर᳚‌म्¦पू॒र्व्याय॑ |
सः¦स॒‌म्ऽवतः॑¦नव॑ऽजातः¦तु॒तु॒र्या॒त्¦सिं॒ह‌म्¦न¦क्रु॒द्ध‌म्¦अ॒भितः॑¦परि॑¦स्थुः॒ ||

मा॒तेव॒ यद्‌ भर॑से पप्रथा॒नो जनं᳚जनं॒ धाय॑से॒ चक्ष॑से च |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्}

वयो᳚वयो जरसे॒ यद्‌ दधा᳚नः॒ परि॒ त्मना॒ विषु॑रूपो जिगासि ||{4/5}{5.15.4}{5.2.1.4}{4.1.7.4}{127, 369, 3768}

मा॒ताऽ‌इ᳚व¦यत्¦भर॑से¦प॒प्र॒था॒नः¦जन᳚‌म्ऽजन‌म्¦धाय॑से¦चक्ष॑से¦च॒ |
वयः॑ऽवयः¦ज॒र॒से॒¦यत्¦दधा᳚नः¦परि॑¦त्मना᳚¦विषु॑ऽरूपः¦जि॒गा॒सि॒ ||

वाजो॒ नु ते॒ शव॑सस्पा॒त्वन्त॑मु॒रुं दोघं᳚ ध॒रुणं᳚ देव रा॒यः |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्}

प॒दं न ता॒युर्गुहा॒ दधा᳚नो म॒हो रा॒ये चि॒तय॒न्नत्रि॑मस्पः ||{5/5}{5.15.5}{5.2.1.5}{4.1.7.5}{128, 369, 3769}

वाजः॑¦नु¦ते॒¦शव॑सः¦पा॒तु॒¦अन्त᳚‌म्¦उ॒रु‌म्¦दोघ᳚‌म्¦ध॒रुण᳚‌म्¦दे॒व॒¦रा॒यः |
प॒द‌म्¦न¦ता॒युः¦गुहा᳚¦दधा᳚नः¦म॒हः¦रा॒ये¦चि॒तय॑न्¦अत्रि᳚‌म्¦अ॒स्प॒रित्य॑स्पः ||

[16] बृहद्वयइति पंचर्चस्य सूक्तस्यात्रेयः पूरुरग्निरनुष्टुप्‌ अंत्या पङ्क्तिः |
बृ॒हद्वयो॒ हि भा॒नवे ऽर्चा᳚ दे॒वाया॒ग्नये᳚ |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

यं मि॒त्रं न प्रश॑स्तिभि॒र्मर्ता᳚सो दधि॒रे पु॒रः ||{1/5}{5.16.1}{5.2.2.1}{4.1.8.1}{129, 370, 3770}

बृ॒हत्¦वयः॑¦हि¦भा॒नवे᳚¦अर्च॑¦दे॒वाय॑¦अ॒ग्नये᳚ | य‌म्¦मि॒त्र‌म्¦न¦प्रश॑स्तिऽभिः¦मर्ता᳚सः¦द॒धि॒रे¦पु॒रः ||

स हि द्युभि॒र्जना᳚नां॒ होता॒ दक्ष॑स्य बा॒ह्वोः |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

वि ह॒व्यम॒ग्निरा᳚नु॒षग्भगो॒ न वार॑मृण्वति ||{2/5}{5.16.2}{5.2.2.2}{4.1.8.2}{130, 370, 3771}

सः¦हि¦द्युऽभिः॑¦जना᳚ना‌म्¦होता᳚¦दक्ष॑स्य¦बा॒ह्वोः | वि¦ह॒व्य‌म्¦अ॒ग्निः¦आ॒नु॒षक्¦भगः॑¦न¦वार᳚‌म्¦ऋ॒ण्व॒ति॒ ||

अ॒स्य स्तोमे᳚ म॒घोनः॑ स॒ख्ये वृ॒द्धशो᳚चिषः |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

विश्वा॒ यस्मि᳚न्‌ तुवि॒ष्वणि॒ सम॒र्ये शुष्म॑माद॒धुः ||{3/5}{5.16.3}{5.2.2.3}{4.1.8.3}{131, 370, 3772}

अ॒स्य¦स्तोमे᳚¦म॒घोनः॑¦स॒ख्ये¦वृ॒द्धऽशो᳚चिषः | विश्वा᳚¦यस्मि॑न्¦तु॒वि॒ऽस्वणि॑¦स‌म्¦अ॒र्ये¦शुष्म᳚‌म्¦आ॒ऽद॒धुः ||

अधा॒ ह्य॑ग्न एषां सु॒वीर्य॑स्य मं॒हना᳚ |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

तमिद्‌ य॒ह्वं न रोद॑सी॒ परि॒ श्रवो᳚ बभूवतुः ||{4/5}{5.16.4}{5.2.2.4}{4.1.8.4}{132, 370, 3773}

अध॑¦हि¦अ॒ग्ने॒¦ए॒षा॒‌म्¦सु॒ऽवीर्य॑स्य¦मं॒हना᳚ | त‌म्¦इत्¦य॒ह्व‌म्¦न¦रोद॑सी॒ इति॑¦परि॑¦श्रवः॑¦ब॒भू॒व॒तुः॒ ||

नू न॒ एहि॒ वार्य॒मग्ने᳚ गृणा॒न आ भ॑र |{आत्रेयः पूरुः | अग्निः | पङ्क्तिः}

ये व॒यं ये च॑ सू॒रयः॑ स्व॒स्ति धाम॑हे॒ सचो॒तैधि॑ पृ॒त्सु नो᳚ वृ॒धे ||{5/5}{5.16.5}{5.2.2.5}{4.1.8.5}{133, 370, 3774}

नु¦नः॒¦आ¦इ॒हि॒¦वार्य᳚‌म्¦अग्ने᳚¦गृ॒णा॒नः¦आ¦भ॒र॒ |
ये¦व॒य‌म्¦ये¦च॒¦सू॒रयः॑¦स्व॒स्ति¦धाम॑हे¦सचा᳚¦उ॒त¦ए॒धि॒¦पृ॒त्ऽसु¦नः॒¦वृ॒धे ||

[17] आयज्ञैरिति पंचर्चस्य सूक्तस्यात्रेयः पूरुरग्निरनुष्टुप्‌ अंत्या पङ्क्तिः |
आ य॒ज्ञैर्दे᳚व॒ मर्त्य॑ इ॒त्था तव्यां᳚समू॒तये᳚ |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

अ॒ग्निं कृ॒ते स्व॑ध्व॒रे पू॒रुरी᳚ळी॒ताव॑से ||{1/5}{5.17.1}{5.2.3.1}{4.1.9.1}{134, 371, 3775}

आ¦य॒ज्ञैः¦दे॒व॒¦मर्त्यः॑¦इ॒त्था¦तव्यां᳚स‌म्¦ऊ॒तये᳚ | अ॒ग्नि‌म्¦कृ॒ते¦सु॒।आ॒ध्व॒रे¦पू॒रुः¦ई॒ळी॒त॒¦अव॑से ||

अस्य॒ हि स्वय॑शस्तर आ॒सा वि॑धर्म॒न्‌ मन्य॑से |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

तं नाकं᳚ चि॒त्रशो᳚चिषं म॒न्द्रं प॒रो म॑नी॒षया᳚ ||{2/5}{5.17.2}{5.2.3.2}{4.1.9.2}{135, 371, 3776}

अस्य॑¦हि¦स्वय॑शःऽतरः¦आ॒सा¦वि॒ऽध॒र्म॒न्¦मन्य॑से | त‌म्¦नाक᳚‌म्¦चि॒त्रऽशो᳚चिष‌म्¦म॒न्द्र‌म्¦प॒रः¦म॒नी॒षया᳚ ||

अ॒स्य वासा, उ॑ अ॒र्चिषा॒ य आयु॑क्त तु॒जा गि॒रा |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

दि॒वो न यस्य॒ रेत॑सा बृ॒हच्छोच᳚न्त्य॒र्चयः॑ ||{3/5}{5.17.3}{5.2.3.3}{4.1.9.3}{136, 371, 3777}

अ॒स्य¦वै¦अ॒सौ¦ऊँ॒ इति॑¦अ॒र्चिषा᳚¦यः¦अयु॑क्त¦तु॒जा¦गि॒रा | दि॒वः¦न¦यस्य॑¦रेत॑सा¦बृ॒हत्¦शोच᳚न्ति¦अ॒र्चयः॑ ||

अ॒स्य क्रत्वा॒ विचे᳚तसो द॒स्मस्य॒ वसु॒ रथ॒ आ |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

अधा॒ विश्वा᳚सु॒ हव्यो॒ ऽग्निर्वि॒क्षु प्र श॑स्यते ||{4/5}{5.17.4}{5.2.3.4}{4.1.9.4}{137, 371, 3778}

अ॒स्य¦क्रत्वा᳚¦विऽचे᳚तसः¦द॒स्मस्य॑¦वसु॑¦रथे᳚¦आ | अध॑¦विश्वा᳚सु¦हव्यः॑¦अ॒ग्निः¦वि॒क्षु¦प्र¦श॒स्य॒ते॒ ||

नू न॒ इद्धि वार्य॑मा॒सा स॑चन्त सू॒रयः॑ |{आत्रेयः पूरुः | अग्निः | पङ्क्तिः}

ऊर्जो᳚ नपाद॒भिष्ट॑ये पा॒हि श॒ग्धि स्व॒स्तय॑ उ॒तैधि॑ पृ॒त्सु नो᳚ वृ॒धे ||{5/5}{5.17.5}{5.2.3.5}{4.1.9.5}{138, 371, 3779}

नु¦नः॒¦इत्¦हि¦वार्य᳚‌म्¦आ॒सा¦स॒च॒न्त॒¦सू॒रयः॑ |
ऊर्जः॑¦न॒पा॒त्¦अ॒भिष्ट॑ये¦पा॒हि¦श॒ग्धि¦स्व॒स्तये᳚¦उ॒त¦ए॒धि॒¦पृ॒त्ऽसु¦नः॒¦वृ॒धे ||

[18] प्रातरग्निरिति पंचर्चस्य सूक्तस्यात्रेयोमृक्तवाहाद्वितोग्निरनुष्टुप् अंत्या पङ्क्तिः |
प्रा॒तर॒ग्निः पु॑रुप्रि॒यो वि॒शः स्त॑वे॒ताति॑थिः |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | अनुष्टुप्}

विश्वा᳚नि॒ यो, अम॑र्त्यो ह॒व्या मर्ते᳚षु॒ रण्य॑ति ||{1/5}{5.18.1}{5.2.4.1}{4.1.10.1}{139, 372, 3780}

प्रा॒तः¦अ॒ग्निः¦पु॒रु॒ऽप्रि॒यः¦वि॒शः¦स्त॒वे॒त॒¦अति॑थिः | विश्वा᳚नि¦यः¦अम॑र्त्यः¦ह॒व्या¦मर्ते᳚षु¦रण्य॑ति ||

द्वि॒ताय॑ मृ॒क्तवा᳚हसे॒ स्वस्य॒ दक्ष॑स्य मं॒हना᳚ |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | अनुष्टुप्}

इन्दुं॒ स ध॑त्त आनु॒षक् स्तो॒ता चि॑त्ते, अमर्त्य ||{2/5}{5.18.2}{5.2.4.2}{4.1.10.2}{140, 372, 3781}

द्वि॒ताय॑¦मृ॒क्तऽवा᳚हसे¦स्वस्य॑¦दक्ष॑स्य¦मं॒हना᳚ | इन्दु॒‌म्¦सः¦ध॒त्ते॒¦आ॒नु॒षक्¦स्तो॒ता¦चि॒त्¦ते॒¦अ॒म॒र्त्य॒ ||

तं वो᳚ दी॒र्घायु॑शोचिषं गि॒रा हु॑वे म॒घोना᳚म् |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | अनुष्टुप्}

अरि॑ष्टो॒ येषां॒ रथो॒ व्य॑श्वदाव॒न्नीय॑ते ||{3/5}{5.18.3}{5.2.4.3}{4.1.10.3}{141, 372, 3782}

त‌म्¦वः॒¦दी॒र्घायु॑ऽशोचिष‌म्¦गि॒रा¦हु॒वे॒¦म॒घोना᳚‌म् | अरि॑ष्टः¦येषा᳚‌म्¦रथः॑¦वि¦अ॒श्व॒ऽदा॒व॒न्¦ईय॑ते ||

चि॒त्रा वा॒ येषु॒ दीधि॑तिरा॒सन्नु॒क्था पान्ति॒ ये |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | अनुष्टुप्}

स्ती॒र्णं ब॒र्हिः स्व᳚र्णरे॒ श्रवां᳚सि दधिरे॒ परि॑ ||{4/5}{5.18.4}{5.2.4.4}{4.1.10.4}{142, 372, 3783}

चि॒त्रा¦वा॒¦येषु॑¦दीधि॑तिः¦आ॒सन्¦उ॒क्था¦पान्ति॑¦ये | स्ती॒र्ण‌म्¦ब॒र्हिः¦स्वः॑ऽनरे¦श्रवां᳚सि¦द॒धि॒रे॒¦परि॑ ||

ये मे᳚ पञ्चा॒शतं᳚ द॒दुरश्वा᳚नां स॒धस्तु॑ति |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | पङ्क्तिः}

द्यु॒मद॑ग्ने॒ महि॒ श्रवो᳚ बृ॒हत्‌ कृ॑धि म॒घोनां᳚ नृ॒वद॑मृत नृ॒णाम् ||{5/5}{5.18.5}{5.2.4.5}{4.1.10.5}{143, 372, 3784}

ये¦मे॒¦पं॒चा॒शत᳚‌म्¦द॒दुः¦अश्वा᳚ना‌म्¦स॒धऽस्तु॑ति |
द्यु॒ऽमत्¦अ॒ग्ने॒¦महि॑¦श्रवः॑¦बृ॒हत्¦कृ॒धि॒¦म॒घोना᳚‌म्¦नृ॒ऽवत्¦अ॒मृ॒त॒¦नृ॒णा‌म् ||

[19] अभ्यवस्थाइति पंचर्चस्य सूक्तस्यात्रेयोवव्रिरग्निः आद्येद्वेगायत्र्यौ तृतीया चतुर्थ्यां वनुष्टुभौ पंचमीविराड्रूपा |
अ॒भ्य॑व॒स्थाः प्र जा᳚यन्ते॒ प्र व॒व्रेर्व॒व्रिश्चि॑केत |{आत्रेयो वव्रिः | अग्निः | गायत्री}

उ॒पस्थे᳚ मा॒तुर्वि च॑ष्टे ||{1/5}{5.19.1}{5.2.5.1}{4.1.11.1}{144, 373, 3785}

अ॒भि¦अ॒व॒ऽस्थाः¦प्र¦जा॒य॒न्ते॒¦प्र¦व॒व्रेः¦व॒व्रिः¦चि॒के॒त॒ | उ॒पऽस्थे᳚¦मा॒तुः¦वि¦च॒ष्टे॒ ||

जु॒हु॒रे वि चि॒तय॒न्तो ऽनि॑मिषं नृ॒म्णं पा᳚न्ति |{आत्रेयो वव्रिः | अग्निः | गायत्री}

आ दृ॒ळ्हां पुरं᳚ विविशुः ||{2/5}{5.19.2}{5.2.5.2}{4.1.11.2}{145, 373, 3786}

जु॒हु॒रे¦वि¦चि॒तय᳚न्तः¦अनि॑ऽमिष‌म्¦नृ॒म्ण‌म्¦पा॒न्ति॒ | आ¦दृ॒ळ्हा‌म्¦पुर᳚‌म्¦वि॒वि॒शुः॒ ||

आ श्वै᳚त्रे॒यस्य॑ ज॒न्तवो᳚ द्यु॒मद्‌ व॑र्धन्त कृ॒ष्टयः॑ |{आत्रेयो वव्रिः | अग्निः | अनुष्टुप्}

नि॒ष्कग्री᳚वो बृ॒हदु॑क्थ ए॒ना मध्वा॒ न वा᳚ज॒युः ||{3/5}{5.19.3}{5.2.5.3}{4.1.11.3}{146, 373, 3787}

आ¦श्वै॒त्रे॒यस्य॑¦ज॒न्तवः॑¦द्यु॒ऽमत्¦व॒र्ध॒न्त॒¦कृ॒ष्टयः॑ | नि॒ष्कऽग्री᳚वः¦बृ॒हत्।औ᳚क्थः¦ए॒ना¦मध्वा᳚¦न¦वा॒ज॒ऽयुः ||

प्रि॒यं दु॒ग्धं न काम्य॒मजा᳚मि जा॒म्योः सचा᳚ |{आत्रेयो वव्रिः | अग्निः | अनुष्टुप्}

घ॒र्मो न वाज॑जठ॒रो ऽद॑ब्धः॒ शश्व॑तो॒ दभः॑ ||{4/5}{5.19.4}{5.2.5.4}{4.1.11.4}{147, 373, 3788}

प्रि॒य‌म्¦दु॒ग्ध‌म्¦न¦काम्य᳚‌म्¦अजा᳚मि¦जा॒म्योः¦सचा᳚ | घ॒र्मः¦न¦वाज॑ऽजठरः¦अद॑ब्धः¦शश्व॑तः¦दभः॑ ||

क्रीळ᳚न्नो रश्म॒ आ भु॑वः॒ सं भस्म॑ना वा॒युना॒ वेवि॑दानः |{आत्रेयो वव्रिः | अग्निः | विराड्रूपा}

ता, अ॑स्य सन्‌ धृ॒षजो॒ न ति॒ग्माः सुसं᳚शिता व॒क्ष्यो᳚ वक्षणे॒स्थाः ||{5/5}{5.19.5}{5.2.5.5}{4.1.11.5}{148, 373, 3789}

क्रीळ॑न्¦नः॒¦र॒श्मे॒¦आ¦भु॒वः॒¦स‌म्¦भस्म॑ना¦वा॒युना᳚¦वेवि॑दानः |
ताः¦अ॒स्य॒¦स॒न्¦धृ॒षजः॑¦न¦ति॒ग्माः¦सुऽसं᳚शिताः¦व॒क्ष्यः॑¦व॒क्ष॒णे॒ऽस्थाः ||

[20] यमग्न इति चतुरृचस्य सूक्तस्यात्रेयः प्रयस्वंतोग्निरनुष्टुप् अंत्या पङ्क्तिः |
यम॑ग्ने वाजसातम॒ त्वं चि॒न्‌ मन्य॑से र॒यिम् |{आत्रेयः प्रयस्वंतः | अग्निः | अनुष्टुप्}

तं नो᳚ गी॒र्भिः श्र॒वाय्यं᳚ देव॒त्रा प॑नया॒ युज᳚म् ||{1/4}{5.20.1}{5.2.6.1}{4.1.12.1}{149, 374, 3790}

य‌म्¦अ॒ग्ने॒¦वा॒ज॒ऽसा॒त॒म॒¦त्व‌म्¦चि॒त्¦मन्य॑से¦र॒यि‌म् | त‌म्¦नः॒¦गीः॒ऽभिः¦श्र॒वाय्य᳚‌म्¦दे॒व॒ऽत्रा¦प॒न॒य॒¦युज᳚‌म् ||

ये, अ॑ग्ने॒ नेरय᳚न्ति ते वृ॒द्धा, उ॒ग्रस्य॒ शव॑सः |{आत्रेयः प्रयस्वंतः | अग्निः | अनुष्टुप्}

अप॒ द्वेषो॒, अप॒ ह्वरो॒ ऽन्यव्र॑तस्य सश्चिरे ||{2/4}{5.20.2}{5.2.6.2}{4.1.12.2}{150, 374, 3791}

ये¦अ॒ग्ने॒¦न¦ई॒रय᳚न्ति¦ते॒¦वृ॒द्धाः¦उ॒ग्रस्य॑¦शव॑सः | अप॑¦द्वेषः॑¦अप॑¦ह्वरः॑¦अ॒न्यऽव्र॑तस्य¦स॒श्चि॒रे॒ ||

होता᳚रं त्वा वृणीम॒हे ऽग्ने॒ दक्ष॑स्य॒ साध॑नम् |{आत्रेयः प्रयस्वंतः | अग्निः | अनुष्टुप्}

य॒ज्ञेषु॑ पू॒र्व्यं गि॒रा प्रय॑स्वन्तो हवामहे ||{3/4}{5.20.3}{5.2.6.3}{4.1.12.3}{151, 374, 3792}

होता᳚र‌म्¦त्वा॒¦वृ॒णी॒म॒हे॒¦अग्ने᳚¦दक्ष॑स्य¦साध॑न‌म् | य॒ज्ञेषु॑¦पू॒र्व्य‌म्¦गि॒रा¦प्रय॑स्वन्तः¦ह॒वा॒म॒हे॒ ||

इ॒त्था यथा᳚ त ऊ॒तये॒ सह॑सावन्‌ दि॒वेदि॑वे |{आत्रेयः प्रयस्वंतः | अग्निः | पङ्क्तिः}

रा॒य ऋ॒ताय॑ सुक्रतो॒ गोभिः॑ ष्याम सध॒मादो᳚ वी॒रैः स्या᳚म सध॒मादः॑ ||{4/4}{5.20.4}{5.2.6.4}{4.1.12.4}{152, 374, 3793}

इ॒त्था¦यथा᳚¦ते॒¦ऊ॒तये᳚¦सह॑साऽवन्¦दि॒वेऽदि॑वे |
रा॒ये¦ऋ॒ताय॑¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो¦गोभिः॑¦स्या॒म॒¦स॒ध॒ऽमादः॑¦वी॒रैः¦स्या॒म॒¦स॒ध॒ऽमादः॑ ||

[21] मनुष्वदिति चतुरृचस्य सूक्तस्यात्रेयःससोग्निरनुष्टुप् अंत्या पङ्क्तिः |
म॒नु॒ष्वत्‌ त्वा॒ नि धी᳚महि मनु॒ष्वत्‌ समि॑धीमहि |{आत्रेयः ससः | अग्निः | अनुष्टुप्}

अग्ने᳚ मनु॒ष्वद᳚ङ्गिरो दे॒वान्‌ दे᳚वय॒ते य॑ज ||{1/4}{5.21.1}{5.2.7.1}{4.1.13.1}{153, 375, 3794}

म॒नु॒ष्वत्¦त्वा॒¦नि¦धी॒म॒हि॒¦म॒नु॒ष्वत्¦स‌म्¦इ॒धी॒म॒हि॒ | अग्ने᳚¦म॒नु॒ष्वत्¦अ॒ङ्गि॒रः॒¦दे॒वान्¦दे॒व॒ऽय॒ते¦य॒ज॒ ||

त्वं हि मानु॑षे॒ जने ऽग्ने॒ सुप्री᳚त इ॒ध्यसे᳚ |{आत्रेयः ससः | अग्निः | अनुष्टुप्}

स्रुच॑स्त्वा यन्त्यानु॒षक् सुजा᳚त॒ सर्पि॑रासुते ||{2/4}{5.21.2}{5.2.7.2}{4.1.13.2}{154, 375, 3795}

त्व‌म्¦हि¦मानु॑षे¦जने᳚¦अग्ने᳚¦सुऽप्री᳚तः¦इ॒ध्यसे᳚ | स्रुचः॑¦त्वा॒¦य॒न्ति॒¦आ॒नु॒षक्¦सुऽजा᳚त¦सर्पिः॑ऽआसुते ||

त्वां विश्वे᳚ स॒जोष॑सो दे॒वासो᳚ दू॒तम॑क्रत |{आत्रेयः ससः | अग्निः | अनुष्टुप्}

स॒प॒र्यन्त॑स्त्वा कवे य॒ज्ञेषु॑ दे॒वमी᳚ळते ||{3/4}{5.21.3}{5.2.7.3}{4.1.13.3}{155, 375, 3796}

त्वा‌म्¦विश्वे᳚¦स॒ऽजोष॑सः¦दे॒वासः॑¦दू॒त‌म्¦अ॒क्र॒त॒ | स॒प॒र्यन्तः॑¦त्वा॒¦क॒वे॒¦य॒ज्ञेषु॑¦दे॒व‌म्¦ई॒ळ॒ते॒ ||

दे॒वं वो᳚ देवय॒ज्यया॒ ऽग्निमी᳚ळीत॒ मर्त्यः॑ |{आत्रेयः ससः | अग्निः | पङ्क्तिः}

समि॑द्धः शुक्र दीदिह्यृ॒तस्य॒ योनि॒मास॑दः स॒सस्य॒ योनि॒मास॑दः ||{4/4}{5.21.4}{5.2.7.4}{4.1.13.4}{156, 375, 3797}

दे॒व‌म्¦वः॒¦दे॒व॒ऽय॒ज्यया᳚¦अ॒ग्नि‌म्¦ई॒ळी॒त॒¦मर्त्यः॑ |
स‌म्ऽ‌इ᳚द्धः¦शु॒क्र॒¦दी॒दि॒हि॒¦ऋ॒तस्य॑¦योनि᳚‌म्¦आ¦अ॒स॒दः॒¦स॒सस्य॑¦योनि᳚‌म्¦आ¦अ॒स॒दः॒ ||

[22] प्रविश्वसामन्निति चतुरृचस्य सूक्तस्यात्रेयोविश्वसामाग्निरनुष्टुप् अंत्या पङ्क्तिः |
प्र वि॑श्वसामन्नत्रि॒वदर्चा᳚ पाव॒कशो᳚चिषे |{आत्रेयो विश्वसामा | अग्निः | अनुष्टुप्}

यो, अ॑ध्व॒रेष्वीड्यो॒ होता᳚ म॒न्द्रत॑मो वि॒शि ||{1/4}{5.22.1}{5.2.8.1}{4.1.14.1}{157, 376, 3798}

प्र¦वि॒श्व॒ऽसा॒म॒न्¦अ॒त्रि॒ऽवत्¦अर्च॑¦पा॒व॒कऽशो᳚चिषे | यः¦अ॒ध्व॒रेषु॑¦ईड्यः॑¦होता᳚¦म॒न्द्रऽत॑मः¦वि॒शि ||

न्य१॑(अ॒)ग्निं जा॒तवे᳚दसं॒ दधा᳚ता दे॒वमृ॒त्विज᳚म् |{आत्रेयो विश्वसामा | अग्निः | अनुष्टुप्}

प्र य॒ज्ञ ए᳚त्वानु॒षग॒द्या दे॒वव्य॑चस्तमः ||{2/4}{5.22.2}{5.2.8.2}{4.1.14.2}{158, 376, 3799}

नि¦अ॒ग्नि‌म्¦जा॒तऽवे᳚दस‌म्¦दधा᳚त¦दे॒व‌म्¦ऋ॒त्विज᳚‌म् | प्र¦य॒ज्ञः¦ए॒तु॒¦आ॒नु॒षक्¦अ॒द्य¦दे॒वव्य॑चःऽतमः ||

चि॒कि॒त्विन्म॑नसं त्वा दे॒वं मर्ता᳚स ऊ॒तये᳚ |{आत्रेयो विश्वसामा | अग्निः | अनुष्टुप्}

वरे᳚ण्यस्य॒ तेऽव॑स इया॒नासो᳚, अमन्महि ||{3/4}{5.22.3}{5.2.8.3}{4.1.14.3}{159, 376, 3800}

चि॒कि॒त्वित्ऽम॑नस‌म्¦त्वा॒¦दे॒व‌म्¦मर्ता᳚सः¦ऊ॒तये᳚ | वरे᳚ण्यस्य¦ते॒¦अव॑सः¦इ॒या॒नासः॑¦अ॒म॒न्म॒हि॒ ||

अग्ने᳚ चिकि॒द्ध्य१॑(अ॒)स्य न॑ इ॒दं वचः॑ सहस्य |{आत्रेयो विश्वसामा | अग्निः | पङ्क्तिः}

तं त्वा᳚ सुशिप्र दम्पते॒ स्तोमै᳚र्वर्ध॒न्त्यत्र॑यो गी॒र्भिः शु᳚म्भ॒न्त्यत्र॑यः ||{4/4}{5.22.4}{5.2.8.4}{4.1.14.4}{160, 376, 3801}

अग्ने᳚¦चि॒कि॒द्धि¦अ॒स्य¦नः॒¦इ॒द‌म्¦वचः॑¦स॒ह॒स्य॒ |
त‌म्¦त्वा॒¦सु॒ऽशि॒प्र॒¦द॒‌म्ऽप॒ते॒¦स्तोमैः᳚¦व॒र्ध॒न्ति॒¦अत्र॑यः¦गीः॒ऽभिः¦शु॒म्भ॒न्ति॒¦अत्र॑यः ||

[23] अग्नेसहंतमिति चतुरृचस्य सूक्तस्यात्रेयोद्युम्नोविश्वचर्षणिरग्निरनुष्टुप् अंत्या पङ्क्तिः |
अग्ने॒ सह᳚न्त॒मा भ॑र द्यु॒म्नस्य॑ प्रा॒सहा᳚ र॒यिम् |{आत्रेयो द्युम्नो विश्वचर्षणिः | अग्निः | अनुष्टुप्}

विश्वा॒ यश्च॑र्ष॒णीर॒भ्या॒३॑(आ॒)सा वाजे᳚षु सा॒सह॑त् ||{1/4}{5.23.1}{5.2.9.1}{4.1.15.1}{161, 377, 3802}

अग्ने᳚¦सह᳚न्त‌म्¦आ¦भ॒र॒¦द्यु॒म्नस्य॑¦प्र॒ऽसहा᳚¦र॒यि‌म् | विश्वाः᳚¦यः¦च॒र्ष॒णीः¦अ॒भि¦आ॒सा¦वाजे᳚षु¦स॒सह॑त् ||

तम॑ग्ने पृतना॒षहं᳚ र॒यिं स॑हस्व॒ आ भ॑र |{आत्रेयो द्युम्नो विश्वचर्षणिः | अग्निः | अनुष्टुप्}

त्वं हि स॒त्यो, अद्भु॑तो दा॒ता वाज॑स्य॒ गोम॑तः ||{2/4}{5.23.2}{5.2.9.2}{4.1.15.2}{162, 377, 3803}

त‌म्¦अ॒ग्ने॒¦पृ॒त॒ना॒ऽसह᳚‌म्¦र॒यि‌म्¦स॒ह॒स्वः॒¦आ¦भ॒र॒ | त्व‌म्¦हि¦स॒त्यः¦अद्भु॑तः¦दा॒ता¦वाज॑स्य¦गोऽम॑तः ||

विश्वे॒ हि त्वा᳚ स॒जोष॑सो॒ जना᳚सो वृ॒क्तब᳚र्हिषः |{आत्रेयो द्युम्नो विश्वचर्षणिः | अग्निः | अनुष्टुप्}

होता᳚रं॒ सद्म॑सु प्रि॒यं व्यन्ति॒ वार्या᳚ पु॒रु ||{3/4}{5.23.3}{5.2.9.3}{4.1.15.3}{163, 377, 3804}

विश्वे᳚¦हि¦त्वा॒¦स॒ऽजोष॑सः¦जना᳚सः¦वृ॒क्तऽब॑र्हिषः | होता᳚र‌म्¦सद्म॑ऽसु¦प्रि॒य‌म्¦व्यन्ति॑¦वार्या᳚¦पु॒रु ||

स हि ष्मा᳚ वि॒श्वच॑र्षणिर॒भिमा᳚ति॒ सहो᳚ द॒धे |{आत्रेयो द्युम्नो विश्वचर्षणिः | अग्निः | पङ्क्तिः}

अग्न॑ ए॒षु क्षये॒ष्वा रे॒वन्नः॑ शुक्र दीदिहि द्यु॒मत्‌ पा᳚वक दीदिहि ||{4/4}{5.23.4}{5.2.9.4}{4.1.15.4}{164, 377, 3805}

सः¦हि¦स्म॒¦वि॒श्वऽच॑र्षणिः¦अ॒भिऽमा᳚ति¦सहः॑¦द॒धे |
अग्ने᳚¦ए॒षु¦क्षये᳚षु¦आ¦रे॒वत्¦नः॒¦शु॒क्र॒¦दी॒दि॒हि॒¦द्यु॒ऽमत्¦पा॒व॒क॒¦दी॒दि॒हि॒ ||

[24] अग्नेत्वंनइति चतुरृचस्य सूक्तस्य गौपायना लौपायनावाबंधुः सुबंधुः श्रुतबंधुर्विप्रबंधुश्चक्रमेणर्षयोऽग्निर्द्विपदा विराट् |
अग्ने॒ त्वं नो॒, अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्यः॑ ||{गौपायना लौपायनावाबंधुः | अग्निः | द्विपदाविराट्}{1/4}{5.24.1}{5.2.10.1}{4.1.16.1}{165, 378, 3806}

अग्ने᳚¦त्व‌म्¦नः॒¦अन्त॑मः¦उ॒त¦त्रा॒ता¦शि॒वः¦भ॒व॒¦व॒रू॒थ्यः॑ ||

वसु॑र॒ग्निर्वसु॑श्रवा॒, अच्छा᳚ नक्षि द्यु॒मत्त॑मं र॒यिं दाः᳚ ||{गौपायना लौपायनावा सुबंधुः | अग्निः | द्विपदाविराट्}{2/4}{5.24.2}{5.2.10.2}{4.1.16.2}{166, 378, 3807}

वसुः॑¦अ॒ग्निः¦वसु॑ऽश्रवाः¦अच्छ॑¦न॒क्षि॒¦द्यु॒मत्ऽत॑म‌म्¦र॒यि‌म्¦दाः॒ ||

स नो᳚ बोधि श्रु॒धी हव॑मुरु॒ष्या णो᳚, अघाय॒तः स॑मस्मात् ||{गौपायना लौपायनावा श्रुतबंधुः | अग्निः | द्विपदाविराट्}{3/4}{5.24.3}{5.2.10.3}{4.1.16.3}{167, 378, 3808}

सः¦नः॒¦बो॒धि॒¦श्रु॒धि¦हव᳚‌म्¦उ॒रु॒ष्य¦नः॒¦अ॒घ॒ऽय॒तः¦स॒म॒स्मा॒त् ||

तं त्वा᳚ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी᳚महे॒ सखि॑भ्यः ||{गौपायना लौपायनावा विप्रबंधुः | अग्निः | द्विपदाविराट्}{4/4}{5.24.4}{5.2.10.4}{4.1.16.4}{168, 378, 3809}

त‌म्¦त्वा॒¦शो॒चि॒ष्ठ॒¦दी॒दि॒ऽवः॒¦सु॒म्नाय॑¦नू॒न‌म्¦ई॒म॒हे॒¦सखि॑ऽभ्यः ||

[25] अच्छावइति नवर्चस्य सूक्तस्यात्रेयो वसूयवोग्निरनुष्टुप् |
अच्छा᳚ वो, अ॒ग्निमव॑से दे॒वं गा᳚सि॒ स नो॒ वसुः॑ |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

रास॑त्‌ पु॒त्र ऋ॑षू॒णामृ॒तावा᳚ पर्षति द्वि॒षः ||{1/9}{5.25.1}{5.2.11.1}{4.1.17.1}{169, 379, 3810}

अच्छ॑¦वः॒¦अ॒ग्नि‌म्¦अव॑से¦दे॒व‌म्¦गा॒सि॒¦सः¦नः॒¦वसुः॑ | रास॑त्¦पु॒त्रः¦ऋ॒षू॒णा‌म्¦ऋ॒तऽवा᳚¦प॒र्ष॒ति॒¦द्वि॒षः ||

स हि स॒त्यो यं पूर्वे᳚ चिद् दे॒वास॑श्चि॒द्‌ यमी᳚धि॒रे |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

होता᳚रं म॒न्द्रजि॑ह्व॒मित् सु॑दी॒तिभि᳚र्वि॒भाव॑सुम् ||{2/9}{5.25.2}{5.2.11.2}{4.1.17.2}{170, 379, 3811}

सः¦हि¦स॒त्यः¦य‌म्¦पूर्वे᳚¦चि॒त्¦दे॒वासः॑¦चि॒त्¦य‌म्¦ई॒धि॒रे | होता᳚र‌म्¦म॒न्द्रऽजि॑ह्व‌म्¦इत्¦सु॒दी॒तिऽभिः॑¦वि॒भाऽव॑सु‌म् ||

स नो᳚ धी॒ती वरि॑ष्ठया॒ श्रेष्ठ॑या च सुम॒त्या |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

अग्ने᳚ रा॒यो दि॑दीहि नः सुवृ॒क्तिभि᳚र्वरेण्य ||{3/9}{5.25.3}{5.2.11.3}{4.1.17.3}{171, 379, 3812}

सः¦नः॒¦धी॒ती¦वरि॑ष्ठया¦श्रेष्ठ॑या¦च॒¦सु॒ऽम॒त्या | अग्ने᳚¦रा॒यः¦दि॒दी॒हि॒¦नः॒¦सु॒वृ॒क्तिऽभिः॑¦व॒रे॒ण्य॒ ||

अ॒ग्निर्दे॒वेषु॑ राजत्य॒ग्निर्मर्ते᳚ष्वावि॒शन् |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

अ॒ग्निर्नो᳚ हव्य॒वाह॑नो॒ ऽग्निं धी॒भिः स॑पर्यत ||{4/9}{5.25.4}{5.2.11.4}{4.1.17.4}{172, 379, 3813}

अ॒ग्निः¦दे॒वेषु॑¦रा॒ज॒ति॒¦अ॒ग्निः¦मर्ते᳚षु¦आ॒ऽवि॒शन् | अ॒ग्निः¦नः॒¦ह॒व्य॒ऽवाह॑नः¦अ॒ग्नि‌म्¦धी॒भिः¦स॒प॒र्य॒त॒ ||

अ॒ग्निस्तु॒विश्र॑वस्तमं तु॒विब्र᳚ह्माणमुत्त॒मम् |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

अ॒तूर्तं᳚ श्राव॒यत्प॑तिं पु॒त्रं द॑दाति दा॒शुषे᳚ ||{5/9}{5.25.5}{5.2.11.5}{4.1.17.5}{173, 379, 3814}

अ॒ग्निः¦तु॒विश्र॑वःऽतम‌म्¦तु॒विऽब्र᳚ह्माण‌म्¦उ॒त्ऽत॒म‌म् | अ॒तूर्त᳚‌म्¦श्र॒व॒यत्ऽप॑ति‌म्¦पु॒त्र‌म्¦द॒दा॒ति॒¦दा॒शुषे᳚ ||

अ॒ग्निर्द॑दाति॒ सत्प॑तिं सा॒साह॒ यो यु॒धा नृभिः॑ |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

अ॒ग्निरत्यं᳚ रघु॒ष्यदं॒ जेता᳚र॒मप॑राजितम् ||{6/9}{5.25.6}{5.2.11.6}{4.1.18.1}{174, 379, 3815}

अ॒ग्निः¦द॒दा॒ति॒¦सत्ऽप॑ति‌म्¦स॒साह॑¦यः¦यु॒धा¦नृऽभिः॑ | अ॒ग्निः¦अत्य᳚‌म्¦र॒घु॒ऽस्यद᳚‌म्¦जेता᳚र‌म्¦अप॑राऽजित‌म् ||

यद्वाहि॑ष्ठं॒ तद॒ग्नये᳚ बृ॒हद॑र्च विभावसो |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

महि॑षीव॒ त्वद्‌ र॒यिस्त्वद्‌ वाजा॒, उदी᳚रते ||{7/9}{5.25.7}{5.2.11.7}{4.1.18.2}{175, 379, 3816}

यत्¦वाहि॑ष्ठ‌म्¦तत्¦अ॒ग्नये᳚¦बृ॒हत्¦अ॒र्च॒¦वि॒भा॒व॒सो॒ इति॑ विभाऽवसो | महि॑षीऽ‌इव¦त्वत्¦र॒यिः¦त्वत्¦वाजाः᳚¦उत्¦ई॒र॒ते॒ ||

तव॑ द्यु॒मन्तो᳚, अ॒र्चयो॒ ग्रावे᳚वोच्यते बृ॒हत् |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

उ॒तो ते᳚ तन्य॒तुर्य॑था स्वा॒नो, अ॑र्त॒ त्मना᳚ दि॒वः ||{8/9}{5.25.8}{5.2.11.8}{4.1.18.3}{176, 379, 3817}

तव॑¦द्यु॒ऽमन्तः॑¦अ॒र्चयः॑¦ग्रावा᳚ऽ‌इव¦उ॒च्य॒ते॒¦बृ॒हत् | उ॒तो इति॑¦ते॒¦त॒न्य॒तुः¦य॒था॒¦स्वा॒नः¦अ॒र्त॒¦त्मना᳚¦दि॒वः ||

ए॒वाँ, अ॒ग्निं व॑सू॒यवः॑ सहसा॒नं व॑वन्दिम |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

स नो॒ विश्वा॒, अति॒ द्विषः॒ पर्ष᳚न्ना॒वेव॑ सु॒क्रतुः॑ ||{9/9}{5.25.9}{5.2.11.9}{4.1.18.4}{177, 379, 3818}

ए॒व¦अ॒ग्नि‌म्¦व॒सु॒ऽयवः॑¦स॒ह॒सा॒न‌म्¦व॒व॒न्दि॒म॒ | सः¦नः॒¦विश्वाः᳚¦अति॑¦द्विषः॑¦पर्ष॑त्¦ना॒वाऽ‌इ᳚व¦सु॒ऽक्रतुः॑ ||

[26] अग्नेपावकेति नवर्चस्य सूक्तस्यात्रेयोवसूयवोग्निरंत्यायाविश्वेदेवागायत्री |
अग्ने᳚ पावक रो॒चिषा᳚ म॒न्द्रया᳚ देव जि॒ह्वया᳚ |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

आ दे॒वान्‌ व॑क्षि॒ यक्षि॑ च ||{1/9}{5.26.1}{5.2.12.1}{4.1.19.1}{178, 380, 3819}

अग्ने᳚¦पा॒व॒क॒¦रो॒चिषा᳚¦म॒न्द्रया᳚¦दे॒व॒¦जि॒ह्वया᳚ | आ¦दे॒वान्¦व॒क्षि॒¦यक्षि॑¦च॒ ||

तं त्वा᳚ घृतस्नवीमहे॒ चित्र॑भानो स्व॒र्दृश᳚म् |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

दे॒वाँ, आ वी॒तये᳚ वह ||{2/9}{5.26.2}{5.2.12.2}{4.1.19.2}{179, 380, 3820}

त‌म्¦त्वा॒¦घृ॒त॒स्नो॒ इति॑ घृतऽस्नो¦ई॒म॒हे॒¦चित्र॑भानो॒ इति॒ चित्र॑ऽभानो¦स्वः॒ऽदृश᳚‌म् | दे॒वान्¦आ¦वी॒तये᳚¦व॒ह॒ ||

वी॒तिहो᳚त्रं त्वा कवे द्यु॒मन्तं॒ समि॑धीमहि |{आत्रेयो वसूयवः | अग्निः | गायत्री}

अग्ने᳚ बृ॒हन्त॑मध्व॒रे ||{3/9}{5.26.3}{5.2.12.3}{4.1.19.3}{180, 380, 3821}

वी॒तिऽहो᳚त्र‌म्¦त्वा॒¦क॒वे॒¦द्यु॒ऽमन्त᳚‌म्¦स‌म्¦इ॒धी॒म॒हि॒ | अग्ने᳚¦बृ॒हन्त᳚‌म्¦अ॒ध्व॒रे ||

अग्ने॒ विश्वे᳚भि॒रा ग॑हि दे॒वेभि᳚र्ह॒व्यदा᳚तये |{आत्रेयो वसूयवः | अग्निः | गायत्री}

होता᳚रं त्वा वृणीमहे ||{4/9}{5.26.4}{5.2.12.4}{4.1.19.4}{181, 380, 3822}

अग्ने᳚¦विश्वे᳚ऽभिः¦आ¦ग॒हि॒¦दे॒वेभिः॑¦ह॒व्यऽदा᳚तये | होता᳚र‌म्¦त्वा॒¦वृ॒णी॒म॒हे॒ ||

यज॑मानाय सुन्व॒त आग्ने᳚ सु॒वीर्यं᳚ वह |{आत्रेयो वसूयवः | अग्निः | गायत्री}

दे॒वैरा स॑त्सि ब॒र्हिषि॑ ||{5/9}{5.26.5}{5.2.12.5}{4.1.19.5}{182, 380, 3823}

यज॑मानाय¦सु॒न्व॒ते¦आ¦अ॒ग्ने॒¦सु॒ऽवीर्य᳚‌म्¦व॒ह॒ | दे॒वैः¦आ¦स॒त्सि॒¦ब॒र्हिषि॑ ||

स॒मि॒धा॒नः स॑हस्रजि॒दग्ने॒ धर्मा᳚णि पुष्यसि |{आत्रेयो वसूयवः | अग्निः | गायत्री}

दे॒वानां᳚ दू॒त उ॒क्थ्यः॑ ||{6/9}{5.26.6}{5.2.12.6}{4.1.20.1}{183, 380, 3824}

स॒‌म्ऽ‌इ॒धा॒नः¦स॒ह॒स्र॒ऽजि॒त्¦अग्ने᳚¦धर्मा᳚णि¦पु॒ष्य॒सि॒ | दे॒वाना᳚‌म्¦दू॒तः¦उ॒क्थ्यः॑ ||

न्य१॑(अ॒)ग्निं जा॒तवे᳚दसं होत्र॒वाहं॒ यवि॑ष्ठ्यम् |{आत्रेयो वसूयवः | अग्निः | गायत्री}

दधा᳚ता दे॒वमृ॒त्विज᳚म् ||{7/9}{5.26.7}{5.2.12.7}{4.1.20.2}{184, 380, 3825}

नि¦अ॒ग्नि‌म्¦जा॒तऽवे᳚दस‌म्¦हो॒त्र॒ऽवाह᳚‌म्¦यवि॑ष्ठ्य‌म् | दधा᳚त¦दे॒व‌म्¦ऋ॒त्विज᳚‌म् ||

प्र य॒ज्ञ ए᳚त्वानु॒षग॒द्या दे॒वव्य॑चस्तमः |{आत्रेयो वसूयवः | अग्निः | गायत्री}

स्तृ॒णी॒त ब॒र्हिरा॒सदे᳚ ||{8/9}{5.26.8}{5.2.12.8}{4.1.20.3}{185, 380, 3826}

प्र¦य॒ज्ञः¦ए॒तु॒¦आ॒नु॒षक्¦अ॒द्य¦दे॒वव्य॑चःऽतमः | स्तृ॒णी॒त¦ब॒र्हिः¦आ॒ऽसदे᳚ ||

एदं म॒रुतो᳚, अ॒श्विना᳚ मि॒त्रः सी᳚दन्तु॒ वरु॑णः |{आत्रेयो वसूयवः | विश्वेदेवाः | गायत्री}

दे॒वासः॒ सर्व॑या वि॒शा ||{9/9}{5.26.9}{5.2.12.9}{4.1.20.4}{186, 380, 3827}

आ¦इ॒द‌म्¦म॒रुतः॑¦अ॒श्विना᳚¦मि॒त्रः¦सी॒द॒न्तु॒¦वरु॑णः | दे॒वासः॑¦सर्व॑या¦वि॒शा ||

[27] अनस्वंतेति षडृचस्य सूक्तस्य त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्चैतेऋषयोऽग्निरंत्यायाइंद्राग्नीत्रिष्टुप् अंत्यास्तिस्रोनुष्टुभः | ( अस्मिन्सूक्तेभौमोत्रिरेवदेवतेतिकेचित् अन्यथायोमेशताचविंशतिंचगोनामित्यादिदातृ क्रियायाअनुपपक्तेः | नैतदन्ये मन्यंतेआत्माध्यासपक्षस्वीकारेणतथाप्युपपक्तेः)
अन॑स्वन्ता॒ सत्प॑तिर्मामहे मे॒ गावा॒ चेति॑ष्ठो॒, असु॑रो म॒घोनः॑ |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | त्रिष्टुप्}

त्रै॒वृ॒ष्णो, अ॑ग्ने द॒शभिः॑ स॒हस्रै॒र्वैश्वा᳚नर॒ त्र्य॑रुणश्चिकेत ||{1/6}{5.27.1}{5.2.13.1}{4.1.21.1}{187, 381, 3828}

अन॑स्वन्ता¦सत्ऽप॑तिः¦म॒म॒हे॒¦मे॒¦गावा᳚¦चेति॑ष्ठः¦असु॑रः¦म॒घोनः॑ |
त्रै॒वृ॒ष्णः¦अ॒ग्ने॒¦द॒शऽभिः॑¦स॒हस्रैः᳚¦वैश्वा᳚नर¦त्रि।आ॑रुणः¦चि॒के॒त॒ ||

यो मे᳚ श॒ता च॑ विंश॒तिं च॒ गोनां॒ हरी᳚ च यु॒क्ता सु॒धुरा॒ ददा᳚ति |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | त्रिष्टुप्}

वैश्वा᳚नर॒ सुष्टु॑तो वावृधा॒नो ऽग्ने॒ यच्छ॒ त्र्य॑रुणाय॒ शर्म॑ ||{2/6}{5.27.2}{5.2.13.2}{4.1.21.2}{188, 381, 3829}

यः¦मे॒¦श॒ता¦च॒¦विं॒श॒ति‌म्¦च॒¦गोना᳚‌म्¦हरी॒ इति॑¦च॒¦यु॒क्ता¦सु॒ऽधुरा᳚¦ददा᳚ति |
वैश्वा᳚नर¦सुऽस्तु॑तः¦व॒वृ॒धा॒नः¦अग्ने᳚¦यच्छ॑¦त्रि।आ॑रुणाय¦शर्म॑ ||

ए॒वा ते᳚, अग्ने सुम॒तिं च॑का॒नो नवि॑ष्ठाय नव॒मं त्र॒सद॑स्युः |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | त्रिष्टुप्}

यो मे॒ गिर॑स्तुविजा॒तस्य॑ पू॒र्वीर्यु॒क्तेना॒भि त्र्य॑रुणो गृ॒णाति॑ ||{3/6}{5.27.3}{5.2.13.3}{4.1.21.3}{189, 381, 3830}

ए॒व¦ते॒¦अ॒ग्ने॒¦सु॒ऽम॒ति‌म्¦च॒का॒नः¦नवि॑ष्ठाय¦न॒व॒म‌म्¦त्र॒सद॑स्युः |
यः¦मे॒¦गिरः॑¦तु॒वि॒ऽजा॒तस्य॑¦पू॒र्वीः¦यु॒क्तेन॑¦अ॒भि¦त्रि।आ॑रुणः¦गृ॒णाति॑ ||

यो म॒ इति॑ प्र॒वोच॒त्यश्व॑मेधाय सू॒रये᳚ |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | अनुष्टुप्}

दद॑दृ॒चा स॒निं य॒ते दद᳚न्मे॒धामृ॑ताय॒ते ||{4/6}{5.27.4}{5.2.13.4}{4.1.21.4}{190, 381, 3831}

यः¦मे॒¦इति॑¦प्र॒ऽवोच॑ति¦अश्व॑ऽमेधाय¦सू॒रये᳚ | दद॑त्¦ऋ॒चा¦स॒नि‌म्¦य॒ते¦दद॑त्¦मे॒धा‌म्¦ऋ॒त॒ऽय॒ते ||

यस्य॑ मा परु॒षाः श॒तमु॑द्ध॒र्षय᳚न्त्यु॒क्षणः॑ |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | अनुष्टुप्}

अश्व॑मेधस्य॒ दानाः॒ सोमा᳚, इव॒ त्र्या᳚शिरः ||{5/6}{5.27.5}{5.2.13.5}{4.1.21.5}{191, 381, 3832}

यस्य॑¦मा॒¦प॒रु॒षाः¦श॒त‌म्¦उ॒त्ऽह॒र्षय᳚न्ति¦उ॒क्षणः॑ | अश्व॑ऽमेधस्य¦दानाः᳚¦सोमाः᳚ऽ‌इव¦त्रिऽआ᳚शिरः ||

इन्द्रा᳚ग्नी शत॒दाव्न्यश्व॑मेधे सु॒वीर्य᳚म् |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | इन्द्राग्नी | अनुष्टुप्}

क्ष॒त्रं धा᳚रयतं बृ॒हद् दि॒वि सूर्य॑मिवा॒जर᳚म् ||{6/6}{5.27.6}{5.2.13.6}{4.1.21.6}{192, 381, 3833}

इन्द्रा᳚ग्नी॒ इति॑¦श॒त॒ऽदाव्नि॑¦अश्व॑ऽमेधे¦सु॒ऽवीर्य᳚‌म् | क्ष॒त्र‌म्¦धा॒र॒य॒त॒‌म्¦बृ॒हत्¦दि॒वि¦सूर्य᳚‌म्ऽ‌इव¦अ॒जर᳚‌म् ||

[28] समिद्धइति षडृचस्य सूक्तस्यात्रेयी विश्ववाराऋषिकाग्निः आद्याःक्रमेणत्रिष्टुब्जगतीत्रिष्टुबनुष्टुभः अंत्येद्वेगायत्र्यौ |
समि॑द्धो, अ॒ग्निर्दि॒वि शो॒चिर॑श्रेत् प्र॒त्यङ्ङु॒षस॑मुर्वि॒या वि भा᳚ति |{आत्रेयी विश्ववारा ऋषिका | अग्निः | त्रिष्टुप्}

एति॒ प्राची᳚ वि॒श्ववा᳚रा॒ नमो᳚भिर्दे॒वाँ, ईळा᳚ना ह॒विषा᳚ घृ॒ताची᳚ ||{1/6}{5.28.1}{5.2.14.1}{4.1.22.1}{193, 382, 3834}

स‌म्ऽ‌इ᳚द्धः¦अ॒ग्निः¦दि॒वि¦शो॒चिः¦अ॒श्रे॒त्¦प्र॒त्यङ्¦उ॒षस᳚‌म्¦उ॒र्वि॒या¦वि¦भा॒ति॒ |
एति॑¦प्राची᳚¦वि॒श्वऽवा᳚रा¦नमः॑ऽभिः¦दे॒वान्¦ईळा᳚ना¦ह॒विषा᳚¦घृ॒ताची᳚ ||

स॒मि॒ध्यमा᳚नो, अ॒मृत॑स्य राजसि ह॒विष्कृ॒ण्वन्तं᳚ सचसे स्व॒स्तये᳚ |{आत्रेयी विश्ववारा ऋषिका | अग्निः | जगती}

विश्वं॒ स ध॑त्ते॒ द्रवि॑णं॒ यमिन्व॑स्याति॒थ्यम॑ग्ने॒ नि च॑ धत्त॒ इत्‌ पु॒रः ||{2/6}{5.28.2}{5.2.14.2}{4.1.22.2}{194, 382, 3835}

स॒‌म्ऽ‌इ॒ध्यमा᳚नः¦अ॒मृत॑स्य¦रा॒ज॒सि॒¦ह॒विः¦कृ॒ण्वन्त᳚‌म्¦स॒च॒से॒¦स्व॒स्तये᳚ |
विश्व᳚‌म्¦सः¦ध॒त्ते॒¦द्रवि॑ण‌म्¦य‌म्¦इन्व॑सि¦आ॒ति॒थ्य‌म्¦अ॒ग्ने॒¦नि¦च॒¦ध॒त्ते॒¦इत्¦पु॒रः ||

अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय॒ तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु |{आत्रेयी विश्ववारा ऋषिका | अग्निः | त्रिष्टुप्}

सं जा᳚स्प॒त्यं सु॒यम॒मा कृ॑णुष्व शत्रूय॒ताम॒भि ति॑ष्ठा॒ महां᳚सि ||{3/6}{5.28.3}{5.2.14.3}{4.1.22.3}{195, 382, 3836}

अग्ने᳚¦शर्ध॑¦म॒ह॒ते¦सौभ॑गाय¦तव॑¦द्यु॒म्नानि॑¦उ॒त्ऽत॒मानि॑¦स॒न्तु॒ |
स‌म्¦जाः॒ऽप॒त्य‌म्¦सु॒ऽयम᳚‌म्¦आ¦कृ॒णु॒ष्व॒¦श॒त्रु॒ऽय॒ता‌म्¦अ॒भि¦ति॒ष्ठ॒¦महां᳚सि ||

समि॑द्धस्य॒ प्रम॑ह॒सो ऽग्ने॒ वन्दे॒ तव॒ श्रिय᳚म् |{आत्रेयी विश्ववारा ऋषिका | अग्निः | अनुष्टुप्}

वृ॒ष॒भो द्यु॒म्नवाँ᳚, असि॒ सम॑ध्व॒रेष्वि॑ध्यसे ||{4/6}{5.28.4}{5.2.14.4}{4.1.22.4}{196, 382, 3837}

स‌म्ऽ‌इ᳚द्धस्य¦प्रऽम॑हसः¦अ॒ग्ने॒¦वन्दे᳚¦तव॑¦श्रिय᳚‌म् | वृ॒ष॒भः¦द्यु॒म्नऽवा᳚न्¦अ॒सि॒¦स‌म्¦अ॒ध्व॒रेषु॑¦इ॒ध्य॒से॒ ||

समि॑द्धो, अग्न आहुत दे॒वान्‌ य॑क्षि स्वध्वर |{आत्रेयी विश्ववारा ऋषिका | अग्निः | गायत्री}

त्वं हि ह᳚व्य॒वाळसि॑ ||{5/6}{5.28.5}{5.2.14.5}{4.1.22.5}{197, 382, 3838}

स‌म्ऽ‌इ᳚द्धः¦अ॒ग्ने॒¦आ॒ऽहु॒त॒¦दे॒वान्¦य॒क्षि॒¦सु॒।आ॒ध्व॒र॒ | त्व‌म्¦हि¦ह॒व्य॒ऽवाट्¦असि॑ ||

आ जु॑होता दुव॒स्यता॒ ऽग्निं प्र॑य॒त्य॑ध्व॒रे |{आत्रेयी विश्ववारा ऋषिका | अग्निः | गायत्री}

वृ॒णी॒ध्वं ह᳚व्य॒वाह॑नम् ||{6/6}{5.28.6}{5.2.14.6}{4.1.22.6}{198, 382, 3839}

आ¦जु॒हो॒त॒¦दु॒व॒स्यत॑¦अ॒ग्नि‌म्¦प्र॒ऽय॒ति¦अ॒ध्व॒रे | वृ॒णी॒ध्व‌म्¦ह॒व्य॒ऽवाह॑न‌म् ||

[29] त्र्यर्यमेति पंचदशर्चस्य सूक्तस्य शाक्त्योगौरिवीतिरिंद्रः (उशनायदितिपादस्योशनावा) त्रिष्टुप् |
त्र्य᳚र्य॒मा मनु॑षो दे॒वता᳚ता॒ त्री रो᳚च॒ना दि॒व्या धा᳚रयन्त |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अर्च᳚न्ति त्वा म॒रुतः॑ पू॒तद॑क्षा॒स्त्वमे᳚षा॒मृषि॑रिन्द्रासि॒ धीरः॑ ||{1/15}{5.29.1}{5.2.15.1}{4.1.23.1}{199, 383, 3840}

त्री¦अ॒र्य॒मा¦मनु॑षः¦दे॒वऽता᳚ता¦त्री¦रो॒च॒ना¦दि॒व्या¦धा॒र॒य॒न्त॒ |
अर्च᳚न्ति¦त्वा॒¦म॒रुतः॑¦पू॒तऽद॑क्षाः¦त्व‌म्¦ए॒षा॒‌म्¦ऋषिः॑¦इ॒न्द्र॒¦अ॒सि॒¦धीरः॑ ||

अनु॒ यदीं᳚ म॒रुतो᳚ मन्दसा॒नमार्च॒न्निन्द्रं᳚ पपि॒वांसं᳚ सु॒तस्य॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

आद॑त्त॒ वज्र॑म॒भि यदहिं॒ हन्न॒पो य॒ह्वीर॑सृज॒त्‌ सर्त॒वा, उ॑ ||{2/15}{5.29.2}{5.2.15.2}{4.1.23.2}{200, 383, 3841}

अनु॑¦यत्¦ई॒‌म्¦म॒रुतः॑¦म॒न्द॒सा॒न‌म्¦आर्च॑न्¦इन्द्र᳚‌म्¦प॒पि॒ऽवांस᳚‌म्¦सु॒तस्य॑ |
आ¦अ॒द॒त्त॒¦वज्र᳚‌म्¦अ॒भि¦यत्¦अहि᳚‌म्¦हन्¦अ॒पः¦य॒ह्वीः¦अ॒सृ॒ज॒त्¦सर्त॒वै¦ऊँ॒ इति॑ ||

उ॒त ब्र᳚ह्माणो मरुतो मे, अ॒स्येन्द्रः॒ सोम॑स्य॒ सुषु॑तस्य पेयाः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

तद्धि ह॒व्यं मनु॑षे॒ गा, अवि᳚न्द॒दह॒न्नहिं᳚ पपि॒वाँ, इन्द्रो᳚, अस्य ||{3/15}{5.29.3}{5.2.15.3}{4.1.23.3}{201, 383, 3842}

उ॒त¦ब्र॒ह्मा॒णः॒¦म॒रु॒तः॒¦मे॒¦अ॒स्य¦इन्द्रः॑¦सोम॑स्य¦सुऽसु॑तस्य¦पे॒याः॒ |
तत्¦हि¦ह॒व्य‌म्¦मनु॑षे¦गाः¦अवि᳚न्दत्¦अह॑न्¦अहि᳚‌म्¦प॒पि॒ऽवान्¦इन्द्रः॑¦अ॒स्य॒ ||

आद्रोद॑सी वित॒रं वि ष्क॑भायत् संविव्या॒नश्चि॑द्‌ भि॒यसे᳚ मृ॒गं कः॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

जिग॑र्ति॒मिन्द्रो᳚, अप॒जर्गु॑राणः॒ प्रति॑ श्व॒सन्त॒मव॑ दान॒वं ह॑न् ||{4/15}{5.29.4}{5.2.15.4}{4.1.23.4}{202, 383, 3843}

आत्¦रोद॑सी॒ इति॑¦वि॒ऽत॒र‌म्¦वि¦स्क॒भा॒य॒त्¦स॒‌म्ऽवि॒व्या॒नः¦चि॒त्¦भि॒यसे᳚¦मृ॒ग‌म्¦क॒रिति॑ कः |
जिग॑र्ति‌म्¦इन्द्रः॑¦अ॒प॒ऽजर्गु॑राणः¦प्रति॑¦श्व॒सन्त᳚‌म्¦अव॑¦दा॒न॒व‌म्¦ह॒न्निति॑ हन् ||

अध॒ क्रत्वा᳚ मघव॒न्‌ तुभ्यं᳚ दे॒वा, अनु॒ विश्वे᳚, अददुः सोम॒पेय᳚म् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

यत्सूर्य॑स्य ह॒रितः॒ पत᳚न्तीः पु॒रः स॒तीरुप॑रा॒, एत॑शे॒ कः ||{5/15}{5.29.5}{5.2.15.5}{4.1.23.5}{203, 383, 3844}

अध॑¦क्रत्वा᳚¦म॒घ॒ऽव॒न्¦तुभ्य᳚‌म्¦दे॒वाः¦अनु॑¦विश्वे᳚¦अ॒द॒दुः॒¦सो॒म॒ऽपेय᳚‌म् |
यत्¦सूर्य॑स्य¦ह॒रितः॑¦पत᳚न्तीः¦पु॒रः¦स॒तीः¦उप॑राः¦एत॑शे¦करिति॒ कः ||

नव॒ यद॑स्य नव॒तिं च॑ भो॒गान् त्सा॒कं वज्रे᳚ण म॒घवा᳚ विवृ॒श्चत् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अर्च॒न्तीन्द्रं᳚ म॒रुतः॑ स॒धस्थे॒ त्रैष्टु॑भेन॒ वच॑सा बाधत॒ द्याम् ||{6/15}{5.29.6}{5.2.15.6}{4.1.24.1}{204, 383, 3845}

नव॑¦यत्¦अ॒स्य॒¦न॒व॒ति‌म्¦च॒¦भो॒गान्¦सा॒क‌म्¦वज्रे᳚ण¦म॒घऽवा᳚¦वि॒वृ॒श्चत् |
अर्च᳚न्ति¦इन्द्र᳚‌म्¦म॒रुतः॑¦स॒धऽस्थे᳚¦त्रैस्तु॑भेन¦वच॑सा¦बा॒ध॒त॒¦द्या‌म् ||

सखा॒ सख्ये᳚, अपच॒त्‌ तूय॑म॒ग्निर॒स्य क्रत्वा᳚ महि॒षा त्री श॒तानि॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

त्री सा॒कमिन्द्रो॒ मनु॑षः॒ सरां᳚सि सु॒तं पि॑बद्‌ वृत्र॒हत्या᳚य॒ सोम᳚म् ||{7/15}{5.29.7}{5.2.15.7}{4.1.24.2}{205, 383, 3846}

सखा᳚¦सख्ये᳚¦अ॒प॒च॒त्¦तूय᳚‌म्¦अ॒ग्निः¦अ॒स्य¦क्रत्वा᳚¦म॒हि॒षा¦त्री¦श॒तानि॑ |
त्री¦सा॒क‌म्¦इन्द्रः॑¦मनु॑षः¦सरां᳚सि¦सु॒त‌म्¦पि॒ब॒त्¦वृ॒त्र॒ऽहत्या᳚य¦सोम᳚‌म् ||

त्री यच्छ॒ता म॑हि॒षाणा॒मघो॒ मास्त्री सरां᳚सि म॒घवा᳚ सो॒म्यापाः᳚ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

का॒रं न विश्वे᳚, अह्वन्त दे॒वा भर॒मिन्द्रा᳚य॒ यदहिं᳚ ज॒घान॑ ||{8/15}{5.29.8}{5.2.15.8}{4.1.24.3}{206, 383, 3847}

त्री¦यत्¦श॒ता¦म॒हि॒षाणा᳚‌म्¦अघः॑¦माः¦त्री¦सरां᳚सि¦म॒घऽवा᳚¦सो॒म्या¦अपाः᳚ |
का॒र‌म्¦न¦विश्वे᳚¦अ॒ह्व॒न्त॒¦दे॒वाः¦भर᳚‌म्¦इन्द्रा᳚य¦यत्¦अहि᳚‌म्¦ज॒घान॑ ||

उ॒शना॒ यत्स॑ह॒स्यै॒३॑(ऐ॒)रया᳚तं गृ॒हमि᳚न्द्र जूजुवा॒नेभि॒रश्वैः᳚ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

व॒न्वा॒नो, अत्र॑ स॒रथं᳚ ययाथ॒ कुत्से᳚न दे॒वैरव॑नोर्ह॒ शुष्ण᳚म् ||{9/15}{5.29.9}{5.2.15.9}{4.1.24.4}{207, 383, 3848}

उ॒शना᳚¦यत्¦स॒ह॒स्यैः᳚¦अया᳚त‌म्¦गृ॒ह‌म्¦इ॒न्द्र॒¦जू॒जु॒वा॒नेभिः॑¦अश्वैः᳚ |
व॒न्वा॒नः¦अत्र॑¦स॒ऽरथ᳚‌म्¦य॒या॒थ॒¦कुत्से᳚न¦दे॒वैः¦अव॑नोः¦ह॒¦शुष्ण᳚‌म् ||

प्रान्यच्च॒क्रम॑वृहः॒ सूर्य॑स्य॒ कुत्सा᳚या॒न्यद्वरि॑वो॒ यात॑वेऽकः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अ॒नासो॒ दस्यूँ᳚रमृणो व॒धेन॒ नि दु᳚र्यो॒ण आ᳚वृणङ्‌ मृ॒ध्रवा᳚चः ||{10/15}{5.29.10}{5.2.15.10}{4.1.24.5}{208, 383, 3849}

प्र¦अ॒न्यत्¦च॒क्र‌म्¦अ॒वृ॒हः॒¦सूर्य॑स्य¦कुत्सा᳚य¦अ॒न्यत्¦वरि॑वः¦यात॑वे¦अ॒क॒रित्य॑कः |
अ॒नासः॑¦दस्यू᳚न्¦अ॒मृ॒णः॒¦व॒धेन॑¦नि¦दु॒र्यो॒णे¦अ॒वृ॒ण॒क्¦मृ॒ध्रऽवा᳚चः ||

स्तोमा᳚सस्त्वा॒ गौरि॑वीतेरवर्ध॒न्नर᳚न्धयो वैदथि॒नाय॒ पिप्रु᳚म् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

आ त्वामृ॒जिश्वा᳚ स॒ख्याय॑ चक्रे॒ पच᳚न्‌ प॒क्तीरपि॑बः॒ सोम॑मस्य ||{11/15}{5.29.11}{5.2.15.11}{4.1.25.1}{209, 383, 3850}

स्तोमा᳚सः¦त्वा॒¦गौरि॑ऽवीतेः¦अ॒व॒र्ध॒न्¦अर᳚न्धयः¦वै॒द॒थि॒नाय॑¦पिप्रु᳚‌म् |
आ¦त्वा‌म्¦ऋ॒जिश्वा᳚¦स॒ख्याय॑¦च॒क्रे॒¦पच॑न्¦प॒क्तीः¦अपि॑बः¦सोम᳚‌म्¦अ॒स्य॒ ||

नव॑ग्वासः सु॒तसो᳚मास॒ इन्द्रं॒ दश॑ग्वासो, अ॒भ्य॑र्चन्त्य॒र्कैः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

गव्यं᳚ चिदू॒र्वम॑पि॒धान॑वन्तं॒ तं चि॒न्नरः॑ शशमा॒ना, अप᳚ व्रन् ||{12/15}{5.29.12}{5.2.15.12}{4.1.25.2}{210, 383, 3851}

नव॑ऽग्वासः¦सु॒तऽसो᳚मासः¦इन्द्र᳚‌म्¦दश॑ऽग्वासः¦अ॒भि¦अ॒र्च॒न्ति॒¦अ॒र्कैः |
गव्य᳚‌म्¦चि॒त्¦ऊ॒र्व‌म्¦अ॒पि॒धान॑ऽवन्त‌म्¦त‌म्¦चि॒त्¦नरः॑¦श॒श॒मा॒नाः¦अप॑¦व्र॒न् ||

क॒थो नु ते॒ परि॑ चराणि वि॒द्वान् वी॒र्या᳚ मघव॒न्या च॒कर्थ॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

या चो॒ नु नव्या᳚ कृ॒णवः॑ शविष्ठ॒ प्रेदु॒ ता ते᳚ वि॒दथे᳚षु ब्रवाम ||{13/15}{5.29.13}{5.2.15.13}{4.1.25.3}{211, 383, 3852}

क॒थो इति॑¦नु¦ते॒¦परि॑¦च॒रा॒णि॒¦वि॒द्वान्¦वी॒र्या᳚¦म॒घ॒ऽव॒न्¦या¦च॒कर्थ॑ |
या¦चो॒ इति॑¦नु¦नव्या᳚¦कृ॒णवः॑¦श॒वि॒ष्ठ॒¦प्र¦इत्¦ऊँ॒ इति॑¦ता¦ते॒¦वि॒दथे᳚षु¦ब्र॒वा॒म॒ ||

ए॒ता विश्वा᳚ चकृ॒वाँ, इ᳚न्द्र॒ भूर्यप॑रीतो ज॒नुषा᳚ वी॒र्ये᳚ण |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

या चि॒न्नु व॑ज्रिन्‌ कृ॒णवो᳚ दधृ॒ष्वान् न ते᳚ व॒र्ता तवि॑ष्या, अस्ति॒ तस्याः᳚ ||{14/15}{5.29.14}{5.2.15.14}{4.1.25.4}{212, 383, 3853}

ए॒ता¦विश्वा᳚¦च॒कृ॒ऽवान्¦इ॒न्द्र॒¦भूरि॑¦अप॑रिऽ‌इतः¦ज॒नुषा᳚¦वी॒र्ये᳚ण |
या¦चि॒त्¦नु¦व॒ज्रि॒न्¦कृ॒णवः॑¦द॒धृ॒ष्वान्¦न¦ते॒¦व॒र्ता¦तवि॑ष्याः¦अ॒स्ति॒¦तस्याः᳚ ||

इन्द्र॒ ब्रह्म॑ क्रि॒यमा᳚णा जुषस्व॒ या ते᳚ शविष्ठ॒ नव्या॒, अक᳚र्म |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

वस्त्रे᳚व भ॒द्रा सुकृ॑ता वसू॒यू रथं॒ न धीरः॒ स्वपा᳚, अतक्षम् ||{15/15}{5.29.15}{5.2.15.15}{4.1.25.5}{213, 383, 3854}

इन्द्र॑¦ब्रह्म॑¦क्रि॒यमा᳚णा¦जु॒ष॒स्व॒¦या¦ते॒¦श॒वि॒ष्ठ॒¦नव्याः᳚¦अक᳚र्म |
वस्त्रा᳚ऽ‌इव¦भ॒द्रा¦सुऽकृ॑ता¦व॒सु॒ऽयुः¦रथ᳚‌म्¦न¦धीरः॑¦सु॒।आपाः᳚¦अ॒त॒क्ष॒‌म् ||

[30] क्वस्येति पंचदशर्चस्य सूक्तस्यात्रेयोबभ्रुरिंद्रोंत्यानांचतसृणामृणंचयेंद्रौदेवतेत्रिष्टुप् |
क्व१॑(अ॒) स्य वी॒रः को, अ॑पश्य॒दिन्द्रं᳚ सु॒खर॑थ॒मीय॑मानं॒ हरि॑भ्याम् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

यो रा॒या व॒ज्री सु॒तसो᳚ममि॒च्छन् तदोको॒ गन्ता᳚ पुरुहू॒त ऊ॒ती ||{1/15}{5.30.1}{5.2.16.1}{4.1.26.1}{214, 384, 3855}

क्व॑¦स्यः¦वी॒रः¦कः¦अ॒प॒श्य॒त्¦इन्द्र᳚‌म्¦सु॒खऽर॑थ‌म्¦ईय॑मान‌म्¦हरि॑ऽभ्या‌म् |
यः¦रा॒या¦व॒ज्री¦सु॒तऽसो᳚म‌म्¦इ॒च्छन्¦तत्¦ओकः॑¦गन्ता᳚¦पु॒रु॒ऽहू॒तः¦ऊ॒ती ||

अवा᳚चचक्षं प॒दम॑स्य स॒स्वरु॒ग्रं नि॑धा॒तुरन्वा᳚यमि॒च्छन् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अपृ॑च्छम॒न्याँ, उ॒त ते म॑ आहु॒रिन्द्रं॒ नरो᳚ बुबुधा॒ना, अ॑शेम ||{2/15}{5.30.2}{5.2.16.2}{4.1.26.2}{215, 384, 3856}

अव॑¦अ॒च॒च॒क्ष॒‌म्¦प॒द‌म्¦अ॒स्य॒¦स॒स्वः¦उ॒ग्र‌म्¦नि॒ऽधा॒तुः¦अनु॑¦आ॒य॒‌म्¦इ॒च्छन् |
अपृ॑च्छ‌म्¦अ॒न्यान्¦उ॒त¦ते¦मे॒¦आ॒हुः॒¦इन्द्र᳚‌म्¦नरः॑¦बु॒बु॒धा॒नाः¦अ॒शे॒म॒ ||

प्र नु व॒यं सु॒ते या ते᳚ कृ॒तानीन्द्र॒ ब्रवा᳚म॒ यानि॑ नो॒ जुजो᳚षः |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

वेद॒दवि॑द्वाञ्छृ॒णव॑च्च वि॒द्वान् वह॑ते॒ऽयं म॒घवा॒ सर्व॑सेनः ||{3/15}{5.30.3}{5.2.16.3}{4.1.26.3}{216, 384, 3857}

प्र¦नु¦व॒य‌म्¦सु॒ते¦या¦ते॒¦कृ॒तानि॑¦इन्द्र॑¦ब्रवा᳚म¦यानि॑¦नः॒¦जुजो᳚षः |
वेद॑त्¦अवि॑द्वान्¦शृ॒णव॑त्¦च॒¦वि॒द्वान्¦वह॑ते¦अ॒य‌म्¦म॒घऽवा᳚¦सर्व॑ऽसेनः ||

स्थि॒रं मन॑श्चकृषे जा॒त इ᳚न्द्र॒ वेषीदेको᳚ यु॒धये॒ भूय॑सश्चित् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अश्मा᳚नं चि॒च्छव॑सा दिद्युतो॒ वि वि॒दो गवा᳚मू॒र्वमु॒स्रिया᳚णाम् ||{4/15}{5.30.4}{5.2.16.4}{4.1.26.4}{217, 384, 3858}

स्थि॒र‌म्¦मनः॑¦च॒कृ॒षे॒¦जा॒तः¦इ॒न्द्र॒¦वेषि॑¦इत्¦एकः॑¦यु॒धये᳚¦भूय॑सः¦चि॒त् |
अश्मा᳚न‌म्¦चि॒त्¦शव॑सा¦दि॒द्यु॒तः॒¦वि¦वि॒दः¦गवा᳚‌म्¦ऊ॒र्व‌म्¦उ॒स्रिया᳚णा‌म् ||

प॒रो यत्‌ त्वं प॑र॒म आ॒जनि॑ष्ठाः परा॒वति॒ श्रुत्यं॒ नाम॒ बिभ्र॑त् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अत॑श्चि॒दिन्द्रा᳚दभयन्त दे॒वा विश्वा᳚, अ॒पो, अ॑जयद्‌ दा॒सप॑त्नीः ||{5/15}{5.30.5}{5.2.16.5}{4.1.26.5}{218, 384, 3859}

प॒रः¦यत्¦त्व‌म्¦प॒र॒मः¦आ॒ऽजनि॑ष्ठाः¦प॒रा॒ऽवति॑¦श्रुत्य᳚‌म्¦नाम॑¦बिभ्र॑त् |
अतः॑¦चि॒त्¦इन्द्रा᳚त्¦अ॒भ॒य॒न्त॒¦दे॒वाः¦विश्वाः᳚¦अ॒पः¦अ॒ज॒य॒त्¦दा॒सऽप॑त्नीः ||

तुभ्येदे॒ते म॒रुतः॑ सु॒शेवा॒, अर्च᳚न्त्य॒र्कं सु॒न्वन्त्यन्धः॑ |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अहि॑मोहा॒नम॒प आ॒शया᳚नं॒ प्र मा॒याभि᳚र्मा॒यिनं᳚ सक्ष॒दिन्द्रः॑ ||{6/15}{5.30.6}{5.2.16.6}{4.1.27.1}{219, 384, 3860}

तुभ्य॑¦इत्¦ए॒ते¦म॒रुतः॑¦सु॒ऽशेवाः᳚¦अर्च᳚न्ति¦अ॒र्क‌म्¦सु॒न्वन्ति॑¦अन्धः॑ |
अहि᳚‌म्¦ओ॒हा॒न‌म्¦अ॒पः¦आ॒ऽशया᳚न‌म्¦प्र¦मा॒याभिः॑¦मा॒यिन᳚‌म्¦स॒क्ष॒त्¦इन्द्रः॑ ||

वि षू मृधो᳚ ज॒नुषा॒ दान॒मिन्व॒न्नह॒न्‌ गवा᳚ मघवन्‌ त्संचका॒नः |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अत्रा᳚ दा॒सस्य॒ नमु॑चेः॒ शिरो॒ यदव॑र्तयो॒ मन॑वे गा॒तुमि॒च्छन् ||{7/15}{5.30.7}{5.2.16.7}{4.1.27.2}{220, 384, 3861}

वि¦सु¦मृधः॑¦ज॒नुषा᳚¦दान᳚‌म्¦इन्व॑न्¦अह॑न्¦गवा᳚¦म॒घ॒ऽव॒न्¦स॒‌म्ऽच॒का॒नः |
अत्र॑¦दा॒सस्य॑¦नमु॑चेः¦शिरः॑¦यत्¦अव॑र्तयः¦मन॑वे¦गा॒तु‌म्¦इ॒च्छन् ||

युजं॒ हि मामकृ॑था॒, आदिदि᳚न्द्र॒ शिरो᳚ दा॒सस्य॒ नमु॑चेर्मथा॒यन् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अश्मा᳚नं चित्‌ स्व॒र्य१॑(अं॒) वर्त॑मानं॒ प्र च॒क्रिये᳚व॒ रोद॑सी म॒रुद्भ्यः॑ ||{8/15}{5.30.8}{5.2.16.8}{4.1.27.3}{221, 384, 3862}

युज᳚‌म्¦हि¦मा‌म्¦अकृ॑थाः¦आत्¦इत्¦इ॒न्द्र॒¦शिरः॑¦दा॒सस्य॑¦नमु॑चेः¦म॒था॒यन् |
अश्मा᳚न‌म्¦चि॒त्¦स्व॒र्य᳚‌म्¦वर्त॑मान‌म्¦प्र¦च॒क्रिया᳚ऽ‌इव¦रोद॑सी॒ इति॑¦म॒रुत्ऽभ्यः॑ ||

स्त्रियो॒ हि दा॒स आयु॑धानि च॒क्रे किं मा᳚ करन्नब॒ला, अ॑स्य॒ सेनाः᳚ |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अ॒न्तर्ह्यख्य॑दु॒भे, अ॑स्य॒ धेने॒, अथोप॒ प्रैद्‌ यु॒धये॒ दस्यु॒मिन्द्रः॑ ||{9/15}{5.30.9}{5.2.16.9}{4.1.27.4}{222, 384, 3863}

स्त्रियः॑¦हि¦दा॒सः¦आयु॑धानि¦च॒क्रे¦कि‌म्¦मा॒¦क॒र॒न्¦अ॒ब॒लाः¦अ॒स्य॒¦सेनाः᳚ |
अ॒न्तः¦हि¦अख्य॑त्¦उ॒भे इति॑¦अ॒स्य॒¦धेने॒ इति॑¦अथ॑¦उप॑¦प्र¦ऐ॒त्¦यु॒धये᳚¦दस्यु᳚‌म्¦इन्द्रः॑ ||

समत्र॒ गावो॒ऽभितो᳚ऽनवन्ते॒हेह॑ व॒त्सैर्वियु॑ता॒ यदास॑न् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

सं ता, इन्द्रो᳚, असृजदस्य शा॒कैर्यदीं॒ सोमा᳚सः॒ सुषु॑ता॒, अम᳚न्दन् ||{10/15}{5.30.10}{5.2.16.10}{4.1.27.5}{223, 384, 3864}

स‌म्¦अत्र॑¦गावः॑¦अ॒भितः॑¦अ॒न॒व॒न्त॒¦इ॒हऽ‌इ᳚ह¦व॒त्सैः¦विऽयु॑ताः¦यत्¦आस॑न् |
स‌म्¦ताः¦इन्द्रः॑¦अ॒सृ॒ज॒त्¦अ॒स्य॒¦शा॒कैः¦यत्¦ई॒‌म्¦सोमा᳚सः¦सुऽसु॑ताः¦अम᳚न्दन् ||

यदीं॒ सोमा᳚ ब॒भ्रुधू᳚ता॒, अम᳚न्द॒न्नरो᳚रवीद्‌ वृष॒भः साद॑नेषु |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

पु॒रं॒द॒रः प॑पि॒वाँ, इन्द्रो᳚, अस्य॒ पुन॒र्गवा᳚मददादु॒स्रिया᳚णाम् ||{11/15}{5.30.11}{5.2.16.11}{4.1.28.1}{224, 384, 3865}

यत्¦ई॒‌म्¦सोमाः᳚¦ब॒भ्रुऽधू᳚ताः¦अम᳚न्दन्¦अरो᳚रवीत्¦वृ॒ष॒भः¦साद॑नेषु |
पु॒र॒‌म्ऽद॒रः¦प॒पि॒ऽवान्¦इन्द्रः॑¦अ॒स्य॒¦पुनः॑¦गवा᳚‌म्¦अ॒द॒दा॒त्¦उ॒स्रिया᳚णा‌म् ||

भ॒द्रमि॒दं रु॒शमा᳚, अग्ने, अक्र॒न् गवां᳚ च॒त्वारि॒ दद॑तः स॒हस्रा᳚ |{आत्रेयो बभ्रुः | ऋणामृणंचयेंद्रौ | त्रिष्टुप्}

ऋ॒णं॒च॒यस्य॒ प्रय॑ता म॒घानि॒ प्रत्य॑ग्रभीष्म॒ नृत॑मस्य नृ॒णाम् ||{12/15}{5.30.12}{5.2.16.12}{4.1.28.2}{225, 384, 3866}

भ॒द्र‌म्¦इ॒द‌म्¦रु॒शमाः᳚¦अ॒ग्ने॒¦अ॒क्र॒न्¦गवा᳚‌म्¦च॒त्वारि॑¦दद॑तः¦स॒हस्रा᳚ |
ऋ॒ण॒‌म्ऽच॒यस्य॑¦प्रऽय॑ता¦म॒घानि॑¦प्रति॑¦अ॒ग्र॒भी॒ष्म॒¦नृऽत॑मस्य¦नृ॒णा‌म् ||

सु॒पेश॑सं॒ माव॑ सृज॒न्त्यस्तं॒ गवां᳚ स॒हस्रै᳚ रु॒शमा᳚सो, अग्ने |{आत्रेयो बभ्रुः | ऋणामृणंचयेंद्रौ | त्रिष्टुप्}

ती॒व्रा, इन्द्र॑मममन्दुः सु॒तासो॒ ऽक्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाः ||{13/15}{5.30.13}{5.2.16.13}{4.1.28.3}{226, 384, 3867}

सु॒ऽपेश॑स‌म्¦मा॒¦अव॑¦सृ॒ज॒न्ति॒¦अस्त᳚‌म्¦गवा᳚‌म्¦स॒हस्रैः᳚¦रु॒शमा᳚सः¦अ॒ग्ने॒ |
ती॒व्राः¦इन्द्र᳚‌म्¦अ॒म॒म॒न्दुः॒¦सु॒तासः॑¦अ॒क्तोः¦वि।औ᳚ष्टौ¦परि॑ऽतक्म्यायाः ||

औच्छ॒त्सा रात्री॒ परि॑तक्म्या॒ याँ, ऋ॑णंच॒ये राज॑नि रु॒शमा᳚नाम् |{आत्रेयो बभ्रुः | ऋणामृणंचयेंद्रौ | त्रिष्टुप्}

अत्यो॒ न वा॒जी र॒घुर॒ज्यमा᳚नो ब॒भ्रुश्च॒त्वार्य॑सनत्‌ स॒हस्रा᳚ ||{14/15}{5.30.14}{5.2.16.14}{4.1.28.4}{227, 384, 3868}

औच्छ॑त्¦सा¦रात्री᳚¦परि॑ऽतक्म्या¦या¦ऋ॒ण॒‌म्ऽच॒ये¦राज॑नि¦रु॒शमा᳚ना‌म् |
अत्यः॑¦न¦वा॒जी¦र॒घुः¦अ॒ज्यमा᳚नः¦ब॒भ्रुः¦च॒त्वारि॑¦अ॒स॒न॒त्¦स॒हस्रा᳚ ||

चतुः॑सहस्रं॒ गव्य॑स्य प॒श्वः प्रत्य॑ग्रभीष्म रु॒शमे᳚ष्वग्ने |{आत्रेयो बभ्रुः | ऋणामृणंचयेंद्रौ | त्रिष्टुप्}

घ॒र्मश्चि॑त्‌ त॒प्तः प्र॒वृजे॒ य आसी᳚दय॒स्मय॒स्तम्वादा᳚म॒ विप्राः᳚ ||{15/15}{5.30.15}{5.2.16.15}{4.1.28.5}{228, 384, 3869}

चतुः॑ऽसहस्र‌म्¦गव्य॑स्य¦प॒श्वः¦प्रति॑¦अ॒ग्र॒भी॒ष्म॒¦रु॒शमे᳚षु¦अ॒ग्ने॒ |
घ॒र्मः¦चि॒त्¦त॒प्तः¦प्र॒ऽवृजे᳚¦यः¦आसी᳚त्¦अ॒य॒स्मयः॑¦त‌म्¦ऊँ॒ इति॑¦आदा᳚म¦विप्राः᳚ ||

[31] इंद्रोरथायेति त्रयोदशर्चस्य सूक्तस्यात्रेयोवस्युरिंद्रः | ( उग्रमयातमित्यादि पादौ कुत्सदैवत्यौ‌उशनोदैवत्यौवा) नवम्या इंद्रा कुत्सौत्रिष्टुप् |
इन्द्रो॒ रथा᳚य प्र॒वतं᳚ कृणोति॒ यम॒ध्यस्था᳚न्म॒घवा᳚ वाज॒यन्त᳚म् |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

यू॒थेव॑ प॒श्वो व्यु॑नोति गो॒पा, अरि॑ष्टो याति प्रथ॒मः सिषा᳚सन् ||{1/13}{5.31.1}{5.2.17.1}{4.1.29.1}{229, 385, 3870}

इन्द्रः॑¦रथा᳚य¦प्र॒ऽवत᳚‌म्¦कृ॒णो॒ति॒¦य‌म्¦अ॒धि॒।आस्था᳚त्¦म॒घऽवा᳚¦वा॒ज॒ऽयन्त᳚‌म् |
यू॒थाऽ‌इ᳚व¦प॒श्वः¦वि¦उ॒नो॒ति॒¦गो॒पाः¦अरि॑ष्टः¦या॒ति॒¦प्र॒थ॒मः¦सिसा᳚सन् ||

आ प्र द्र॑व हरिवो॒ मा वि वे᳚नः॒ पिश᳚ङ्गराते, अ॒भि नः॑ सचस्व |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

न॒हि त्वदि᳚न्द्र॒ वस्यो᳚, अ॒न्यदस्त्य॑मे॒नाँश्चि॒ज्जनि॑वतश्चकर्थ ||{2/13}{5.31.2}{5.2.17.2}{4.1.29.2}{230, 385, 3871}

आ¦प्र¦द्र॒व॒¦ह॒रि॒ऽवः॒¦मा¦वि¦वे॒नः॒¦पिश᳚ङ्गऽराते¦अ॒भि¦नः॒¦स॒च॒स्व॒ |
न॒हि¦त्वत्¦इ॒न्द्र॒¦वस्यः॑¦अ॒न्यत्¦अस्ति॑¦अ॒मे॒नान्¦चि॒त्¦जनि॑ऽवतः¦च॒क॒र्थ॒ ||

उद्यत्‌ सहः॒ सह॑स॒ आज॑निष्ट॒ देदि॑ष्ट॒ इन्द्र॑ इन्द्रि॒याणि॒ विश्वा᳚ |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

प्राचो᳚दयत्‌ सु॒दुघा᳚ व॒व्रे, अ॒न्तर्वि ज्योति॑षा संववृ॒त्वत्‌ तमो᳚ऽवः ||{3/13}{5.31.3}{5.2.17.3}{4.1.29.3}{231, 385, 3872}

उत्¦यत्¦सहः॑¦सह॑सः¦आ¦अज॑निष्ट¦देदि॑ष्टे¦इन्द्रः॑¦इ॒न्द्रि॒याणि॑¦विश्वा᳚ |
प्र¦अ॒चो॒द॒य॒त्¦सु॒ऽदुघाः᳚¦व॒व्रे¦अ॒न्तः¦वि¦ज्योति॑षा¦स॒‌म्ऽव॒वृ॒त्वत्¦तमः॑¦अ॒व॒रित्य॑वः ||

अन॑वस्ते॒ रथ॒मश्वा᳚य तक्ष॒न् त्वष्टा॒ वज्रं᳚ पुरुहूत द्यु॒मन्त᳚म् |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

ब्र॒ह्माण॒ इन्द्रं᳚ म॒हय᳚न्तो, अ॒र्कैरव॑र्धय॒न्नह॑ये॒ हन्त॒वा, उ॑ ||{4/13}{5.31.4}{5.2.17.4}{4.1.29.4}{232, 385, 3873}

अन॑वः¦ते॒¦रथ᳚‌म्¦अश्वा᳚य¦त॒क्ष॒न्¦त्वष्टा᳚¦वज्र᳚‌म्¦पु॒रु॒ऽहू॒त॒¦द्यु॒ऽमन्त᳚‌म् |
ब्र॒ह्माणः॑¦इन्द्र᳚‌म्¦म॒हय᳚न्तः¦अ॒र्कैः¦अव॑र्धयन्¦अह॑ये¦हन्त॒वै¦ऊँ॒ इति॑ ||

वृष्णे॒ यत्ते॒ वृष॑णो, अ॒र्कमर्चा॒निन्द्र॒ ग्रावा᳚णो॒, अदि॑तिः स॒जोषाः᳚ |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

अ॒न॒श्वासो॒ ये प॒वयो᳚ऽर॒था, इन्द्रे᳚षिता, अ॒भ्यव॑र्तन्त॒ दस्यू॑न् ||{5/13}{5.31.5}{5.2.17.5}{4.1.29.5}{233, 385, 3874}

वृष्णे᳚¦यत्¦ते॒¦वृष॑णः¦अ॒र्क‌म्¦अर्चा᳚न्¦इन्द्र॑¦ग्रावा᳚णः¦अदि॑तिः¦स॒ऽजोषाः᳚ |
अ॒न॒श्वासः॑¦ये¦प॒वयः॑¦अ॒र॒थाः¦इन्द्र॑ऽ‌इषिताः¦अ॒भि¦अव॑र्तन्त¦दस्यू॑न् ||

प्र ते॒ पूर्वा᳚णि॒ कर॑णानि वोचं॒ प्र नूत॑ना मघव॒न्या च॒कर्थ॑ |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

शक्ती᳚वो॒ यद्‌ वि॒भरा॒ रोद॑सी, उ॒भे जय᳚न्न॒पो मन॑वे॒ दानु॑चित्राः ||{6/13}{5.31.6}{5.2.17.6}{4.1.30.1}{234, 385, 3875}

प्र¦ते॒¦पूर्वा᳚णि¦कर॑णानि¦वो॒च॒‌म्¦प्र¦नूत॑ना¦म॒घ॒ऽव॒न्¦या¦च॒कर्थ॑ |
शक्ति॑ऽवः¦यत्¦वि॒ऽभराः᳚¦रोद॑सी॒ इति॑¦उ॒भे इति॑¦जय॑न्¦अ॒पः¦मन॑वे¦दानु॑ऽचित्राः ||

तदिन्नु ते॒ कर॑णं दस्म वि॒प्राहिं॒ यद्‌ घ्नन्नोजो॒, अत्रामि॑मीथाः |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

शुष्ण॑स्य चि॒त्‌ परि॑ मा॒या, अ॑गृभ्णाः प्रपि॒त्वं यन्नप॒ दस्यूँ᳚रसेधः ||{7/13}{5.31.7}{5.2.17.7}{4.1.30.2}{235, 385, 3876}

तत्¦इत्¦नु¦ते॒¦कर॑ण‌म्¦द॒स्म॒¦वि॒प्र॒¦अहि᳚‌म्¦यत्¦घ्नन्¦ओजः॑¦अत्र॑¦अमि॑मीथाः |
शुष्ण॑स्य¦चि॒त्¦परि॑¦मा॒याः¦अ॒गृ॒भ्णाः॒¦प्र॒ऽपि॒त्व‌म्¦यन्¦अप॑¦दस्यू᳚न्¦अ॒से॒धः॒ ||

त्वम॒पो यद॑वे तु॒र्वशा॒याऽर॑मयः सु॒दुघाः᳚ पा॒र इ᳚न्द्र |{आत्रेयो वस्युः | १/२:इन्द्रः, २/२:इन्द्र कुत्सो वा, इन्द्र उशना वा | त्रिष्टुप्}

उ॒ग्रम॑यात॒मव॑हो ह॒ कुत्सं॒ सं ह॒ यद्वा᳚मु॒शनार᳚न्त दे॒वाः ||{8/13}{5.31.8}{5.2.17.8}{4.1.30.3}{236, 385, 3877}

त्व‌म्¦अ॒पः¦यद॑वे¦तु॒र्वशा॒य¦अर॑मयः¦सु॒ऽदुघाः᳚¦पा॒रः¦इ॒न्द्र॒ |
उ॒ग्र‌म्¦अ॒या॒त॒‌म्¦अव॑हः¦ह॒¦कुत्स᳚‌म्¦स‌म्¦ह॒¦यत्¦वा॒‌म्¦उ॒शना᳚¦अर᳚न्त¦दे॒वाः ||

इन्द्रा᳚कुत्सा॒ वह॑माना॒ रथे॒ना वा॒मत्या॒, अपि॒ कर्णे᳚ वहन्तु |{आत्रेयो वस्युः | इन्द्र कुत्सो वा | त्रिष्टुप्}

निः षी᳚म॒द्भ्यो धम॑थो॒ निः ष॒धस्था᳚न् म॒घोनो᳚ हृ॒दो व॑रथ॒स्तमां᳚सि ||{9/13}{5.31.9}{5.2.17.9}{4.1.30.4}{237, 385, 3878}

इन्द्रा᳚कुत्सा¦वह॑माना¦रथे᳚न¦आ¦वा॒‌म्¦अत्याः᳚¦अपि॑¦कर्णे᳚¦व॒ह॒न्तु॒ |
निः¦सी॒‌म्¦अ॒त्ऽभ्यः¦धम॑थः¦निः¦स॒धऽस्था᳚त्¦म॒घोनः॑¦हृ॒दः¦व॒र॒थः॒¦तमां᳚सि ||

वात॑स्य यु॒क्तान्‌ त्सु॒युज॑श्चि॒दश्वा᳚न् क॒विश्चि॑दे॒षो, अ॑जगन्नव॒स्युः |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

विश्वे᳚ ते॒, अत्र॑ म॒रुतः॒ सखा᳚य॒ इन्द्र॒ ब्रह्मा᳚णि॒ तवि॑षीमवर्धन् ||{10/13}{5.31.10}{5.2.17.10}{4.1.30.5}{238, 385, 3879}

वात॑स्य¦यु॒क्तान्¦सु॒ऽयुजः॑¦चि॒त्¦अश्वा᳚न्¦क॒विः¦चि॒त्¦ए॒षः¦अ॒ज॒ग॒न्¦अ॒व॒स्युः |
विश्वे᳚¦ते॒¦अत्र॑¦म॒रुतः॑¦सखा᳚यः¦इन्द्र॑¦ब्रह्मा᳚णि¦तवि॑षी‌म्¦अ॒व॒र्ध॒न् ||

सूर॑श्चि॒द्रथं॒ परि॑तक्म्यायां॒ पूर्वं᳚ कर॒दुप॑रं जूजु॒वांस᳚म् |{आत्रेयो वस्युः | इन्द्रः कुत्सश्च | त्रिष्टुप्}

भर॑च्च॒क्रमेत॑शः॒ सं रि॑णाति पु॒रो दध॑त्‌ सनिष्यति॒ क्रतुं᳚ नः ||{11/13}{5.31.11}{5.2.17.11}{4.1.31.1}{239, 385, 3880}

सूरः॑¦चि॒त्¦रथ᳚‌म्¦परि॑ऽतक्म्याया‌म्¦पूर्व᳚‌म्¦क॒र॒त्¦उप॑र‌म्¦जू॒जु॒ऽवांस᳚‌म् |
भर॑त्¦च॒क्र‌म्¦एत॑शः¦स‌म्¦रि॒णा॒ति॒¦पु॒रः¦दध॑त्¦स॒नि॒ष्य॒ति॒¦क्रतु᳚‌म्¦नः॒ ||

आयं ज॑ना, अभि॒चक्षे᳚ जगा॒मेन्द्रः॒ सखा᳚यं सु॒तसो᳚ममि॒च्छन् |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

वद॒न्‌ ग्रावाव॒ वेदिं᳚ भ्रियाते॒ यस्य॑ जी॒रम॑ध्व॒र्यव॒श्चर᳚न्ति ||{12/13}{5.31.12}{5.2.17.12}{4.1.31.2}{240, 385, 3881}

आ¦अ॒य‌म्¦ज॒नाः॒¦अ॒भि॒ऽचक्षे᳚¦ज॒गा॒म॒¦इन्द्रः॑¦सखा᳚य‌म्¦सु॒तऽसो᳚म‌म्¦इ॒च्छन् |
वद॑न्¦ग्रावा᳚¦अव॑¦वेदि᳚‌म्¦भ्रि॒या॒ते॒¦यस्य॑¦जी॒र‌म्¦अ॒ध्व॒र्यवः॑¦चर᳚न्ति ||

ये चा॒कन᳚न्त चा॒कन᳚न्त॒ नू ते मर्ता᳚, अमृत॒ मो ते, अंह॒ आर॑न् |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

वा॒व॒न्धि यज्यूँ᳚रु॒त तेषु॑ धे॒ह्योजो॒ जने᳚षु॒ येषु॑ ते॒ स्याम॑ ||{13/13}{5.31.13}{5.2.17.13}{4.1.31.3}{241, 385, 3882}

ये¦चा॒कन᳚न्त¦चा॒कन᳚न्त¦नु¦ते¦मर्ताः᳚¦अ॒मृ॒त॒¦मो इति॑¦ते¦अंहः॑¦आ¦अ॒र॒न् |
व॒व॒न्धि¦यज्यू᳚न्¦उ॒त¦तेषु॑¦धे॒हि॒¦ओजः॑¦जने᳚षु¦येषु॑¦ते॒¦स्याम॑ ||

[32] अदुर्दरुत्समिति द्वादशर्चस्य सूक्तस्यात्रेयोगातुरिंद्रस्त्रिष्टुप् |
अद॑र्द॒रुत्स॒मसृ॑जो॒ वि खानि॒ त्वम᳚र्ण॒वान्‌ ब॑द्बधा॒नाँ, अ॑रम्णाः |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

म॒हान्त॑मिन्द्र॒ पर्व॑तं॒ वि यद्‌ वः सृ॒जो वि धारा॒, अव॑ दान॒वं ह॑न् ||{1/12}{5.32.1}{5.2.18.1}{4.1.32.1}{242, 386, 3883}

अद॑र्दः¦उत्स᳚‌म्¦असृ॑जः¦वि¦खानि॑¦त्व‌म्¦अ॒र्ण॒वान्¦ब॒द्ब॒धा॒नान्¦अर᳚म्णाः |
म॒हान्त᳚‌म्¦इ॒न्द्र॒¦पर्व॑त‌म्¦वि¦यत्¦वरिति॒ वः¦सृ॒जः¦वि¦धाराः᳚¦अव॑¦दा॒न॒व‌म्¦ह॒न्निति॑ हन् ||

त्वमुत्साँ᳚, ऋ॒तुभि॑र्बद्बधा॒नाँ, अरं᳚ह॒ ऊधः॒ पर्व॑तस्य वज्रिन् |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

अहिं᳚ चिदुग्र॒ प्रयु॑तं॒ शया᳚नं जघ॒न्वाँ, इ᳚न्द्र॒ तवि॑षीमधत्थाः ||{2/12}{5.32.2}{5.2.18.2}{4.1.32.2}{243, 386, 3884}

त्व‌म्¦उत्सा᳚न्¦ऋ॒तुऽभिः॑¦ब॒द्ब॒धा॒नान्¦अरं᳚हः¦ऊधः॑¦पर्व॑तस्य¦व॒ज्रि॒न् |
अहि᳚‌म्¦चि॒त्¦उ॒ग्र॒¦प्रऽयु॑त‌म्¦शया᳚न‌म्¦ज॒घ॒न्वान्¦इ॒न्द्र॒¦तवि॑षी‌म्¦अ॒ध॒त्थाः॒ ||

त्यस्य॑ चिन्मह॒तो निर्मृ॒गस्य॒ वध॑र्जघान॒ तवि॑षीभि॒रिन्द्रः॑ |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

य एक॒ इद॑प्र॒तिर्मन्य॑मान॒ आद॑स्माद॒न्यो, अ॑जनिष्ट॒ तव्या॑न् ||{3/12}{5.32.3}{5.2.18.3}{4.1.32.3}{244, 386, 3885}

त्यस्य॑¦चि॒त्¦म॒ह॒तः¦निः¦मृ॒गस्य॑¦वधः॑¦ज॒घा॒न॒¦तवि॑षीभिः¦इन्द्रः॑ |
यः¦एकः॑¦इत्¦अ॒प्र॒तिः¦मन्य॑मानः¦आत्¦अ॒स्मा॒त्¦अ॒न्यः¦अ॒ज॒नि॒ष्ट॒¦तव्या॑न् ||

त्यं चि॑देषां स्व॒धया॒ मद᳚न्तं मि॒हो नपा᳚तं सु॒वृधं᳚ तमो॒गाम् |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

वृष॑प्रभर्मा दान॒वस्य॒ भामं॒ वज्रे᳚ण व॒ज्री नि ज॑घान॒ शुष्ण᳚म् ||{4/12}{5.32.4}{5.2.18.4}{4.1.32.4}{245, 386, 3886}

त्य‌म्¦चि॒त्¦ए॒षा॒‌म्¦स्व॒धया᳚¦मद᳚न्त‌म्¦मि॒हः¦नपा᳚त‌म्¦सु॒ऽवृध᳚‌म्¦त॒मः॒ऽगा‌म् |
वृष॑ऽप्रभर्मा¦दा॒न॒वस्य॑¦भाम᳚‌म्¦वज्रे᳚ण¦व॒ज्री¦नि¦ज॒घा॒न॒¦शुष्ण᳚‌म् ||

त्यं चि॑दस्य॒ क्रतु॑भि॒र्निष॑त्तमम॒र्मणो᳚ वि॒ददिद॑स्य॒ मर्म॑ |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

यदीं᳚ सुक्षत्र॒ प्रभृ॑ता॒ मद॑स्य॒ युयु॑त्सन्तं॒ तम॑सि ह॒र्म्ये धाः ||{5/12}{5.32.5}{5.2.18.5}{4.1.32.5}{246, 386, 3887}

त्य‌म्¦चि॒त्¦अ॒स्य॒¦क्रतु॑ऽभिः¦निऽस॑त्त‌म्¦अ॒म॒र्मणः॑¦वि॒दत्¦इत्¦अ॒स्य॒¦मर्म॑ |
यत्¦ई॒‌म्¦सु॒ऽक्ष॒त्र॒¦प्रऽभृ॑ता¦मद॑स्य¦युयु॑त्सन्त‌म्¦तम॑सि¦ह॒र्म्ये¦धाः ||

त्यं चि॑दि॒त्था क॑त्प॒यं शया᳚नमसू॒र्ये तम॑सि वावृधा॒नम् |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

तं चि᳚न्मन्दा॒नो वृ॑ष॒भः सु॒तस्यो॒च्चैरिन्द्रो᳚, अप॒गूर्या᳚ जघान ||{6/12}{5.32.6}{5.2.18.6}{4.1.32.6}{247, 386, 3888}

त्य‌म्¦चि॒त्¦इ॒त्था¦क॒त्प॒य‌म्¦शया᳚न‌म्¦अ॒सू॒र्ये¦तम॑सि¦व॒वृ॒धा॒न‌म् |
त‌म्¦चि॒त्¦म॒न्दा॒नः¦वृ॒ष॒भः¦सु॒तस्य॑¦उ॒च्चैः¦इन्द्रः॑¦अ॒प॒ऽगूर्य॑¦ज॒घा॒न॒ ||

उद्‌ यदिन्द्रो᳚ मह॒ते दा᳚न॒वाय॒ वध॒र्यमि॑ष्ट॒ सहो॒, अप्र॑तीतम् |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

यदीं॒ वज्र॑स्य॒ प्रभृ॑तौ द॒दाभ॒ विश्व॑स्य ज॒न्तोर॑ध॒मं च॑कार ||{7/12}{5.32.7}{5.2.18.7}{4.1.33.1}{248, 386, 3889}

उत्¦यत्¦इन्द्रः॑¦म॒ह॒ते¦दा॒न॒वाय॑¦वधः॑¦यमि॑ष्ट¦सहः॑¦अप्र॑तिऽ‌इत‌म् |
यत्¦ई॒‌म्¦वज्र॑स्य¦प्रऽभृ॑तौ¦द॒दाभ॑¦विश्व॑स्य¦ज॒न्तोः¦अ॒ध॒म‌म्¦च॒का॒र॒ ||

त्यं चि॒दर्णं᳚ मधु॒पं शया᳚नमसि॒न्वं व॒व्रं मह्याद॑दु॒ग्रः |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

अ॒पाद॑म॒त्रं म॑ह॒ता व॒धेन॒ नि दु᳚र्यो॒ण आ᳚वृणङ्‌ मृ॒ध्रवा᳚चम् ||{8/12}{5.32.8}{5.2.18.8}{4.1.33.2}{249, 386, 3890}

त्य‌म्¦चि॒त्¦अर्ण᳚‌म्¦म॒धु॒ऽप‌म्¦शया᳚न‌म्¦अ॒सि॒न्व‌म्¦व॒व्र‌म्¦महि॑¦आद॑त्¦उ॒ग्रः |
अ॒पाद᳚‌म्¦अ॒त्र‌म्¦म॒ह॒ता¦व॒धेन॑¦नि¦दु॒र्यो॒णे¦अ॒वृ॒ण॒क्¦मृ॒ध्रऽवा᳚च‌म् ||

को, अ॑स्य॒ शुष्मं॒ तवि॑षीं वरात॒ एको॒ धना᳚ भरते॒, अप्र॑तीतः |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

इ॒मे चि॑दस्य॒ ज्रय॑सो॒ नु दे॒वी, इन्द्र॒स्यौज॑सो भि॒यसा᳚ जिहाते ||{9/12}{5.32.9}{5.2.18.9}{4.1.33.3}{250, 386, 3891}

कः¦अ॒स्य॒¦शुष्म᳚‌म्¦तवि॑षी‌म्¦व॒रा॒ते॒¦एकः॑¦धना᳚¦भ॒र॒ते॒¦अप्र॑तिऽ‌इतः |
इ॒मे इति॑¦चि॒त्¦अ॒स्य॒¦ज्रय॑सः¦नु¦दे॒वी इति॑¦इन्द्र॑स्य¦ओज॑सः¦भि॒यसा᳚¦जि॒हा॒ते॒ इति॑ ||

न्य॑स्मै दे॒वी स्वधि॑तिर्जिहीत॒ इन्द्रा᳚य गा॒तुरु॑श॒तीव॑ येमे |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

सं यदोजो᳚ यु॒वते॒ विश्व॑माभि॒रनु॑ स्व॒धाव्ने᳚ क्षि॒तयो᳚ नमन्त ||{10/12}{5.32.10}{5.2.18.10}{4.1.33.4}{251, 386, 3892}

नि¦अ॒स्मै॒¦दे॒वी¦स्वऽधि॑तिः¦जि॒ही॒ते॒¦इन्द्रा᳚य¦गा॒तुः¦उ॒श॒तीऽ‌इ᳚व¦ये॒मे॒ |
स‌म्¦यत्¦ओजः॑¦यु॒वते᳚¦विश्व᳚‌म्¦आ॒भिः॒¦अनु॑¦स्व॒धाऽव्ने᳚¦क्षि॒तयः॑¦न॒म॒न्त॒ ||

एकं॒ नु त्वा॒ सत्प॑तिं॒ पाञ्च॑जन्यं जा॒तं शृ॑णोमि य॒शसं॒ जने᳚षु |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

तं मे᳚ जगृभ्र आ॒शसो॒ नवि॑ष्ठं दो॒षा वस्तो॒र्हव॑मानास॒ इन्द्र᳚म् ||{11/12}{5.32.11}{5.2.18.11}{4.1.33.5}{252, 386, 3893}

एक॒‌म्¦नु¦त्वा॒¦सत्ऽप॑ति‌म्¦पांच॑ऽजन्य‌म्¦जा॒त‌म्¦शृ॒णो॒मि॒¦य॒शस᳚‌म्¦जने᳚षु |
त‌म्¦मे॒¦ज॒गृ॒भ्रे॒¦आ॒ऽशसः॑¦नवि॑ष्ठ‌म्¦दो॒षा¦वस्तोः᳚¦हव॑मानासः¦इन्द्र᳚‌म् ||

ए॒वा हि त्वामृ॑तु॒था या॒तय᳚न्तं म॒घा विप्रे᳚भ्यो॒ दद॑तं शृ॒णोमि॑ |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

किं ते᳚ ब्र॒ह्माणो᳚ गृहते॒ सखा᳚यो॒ ये त्वा॒या नि॑द॒धुः काम॑मिन्द्र ||{12/12}{5.32.12}{5.2.18.12}{4.1.33.6}{253, 386, 3894}

ए॒व¦हि¦त्वा‌म्¦ऋ॒तु॒ऽथा¦या॒तय᳚न्त‌म्¦म॒घा¦विप्रे᳚भ्यः¦दद॑त‌म्¦शृ॒णोमि॑ |
कि‌म्¦ते॒¦ब्र॒ह्माणः॑¦गृ॒ह॒ते॒¦सखा᳚यः¦ये¦त्वा॒ऽया¦नि॒ऽद॒धुः¦काम᳚‌म्¦इ॒न्द्र॒ ||

[33] महिमहइति दशर्चस्य सूक्तस्य प्राजापत्यः संवरणइंद्रस्त्रिष्टुप् |
महि॑ म॒हे त॒वसे᳚ दीध्ये॒ नॄनिन्द्रा᳚ये॒त्था त॒वसे॒, अत᳚व्यान् |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

यो, अ॑स्मै सुम॒तिं वाज॑सातौ स्तु॒तो जने᳚ सम॒र्य॑श्चि॒केत॑ ||{1/10}{5.33.1}{5.3.1.1}{4.2.1.1}{254, 387, 3895}

महि॑¦म॒हे¦त॒वसे᳚¦दी॒ध्ये॒¦नॄन्¦इन्द्रा᳚य¦इ॒त्था¦त॒वसे᳚¦अत᳚व्यान् |
यः¦अ॒स्मै॒¦सु॒ऽम॒ति‌म्¦वाज॑ऽसातौ¦स्तु॒तः¦जने᳚¦स॒ऽम॒र्यः॑¦चि॒केत॑ ||

स त्वं न॑ इन्द्र धियसा॒नो, अ॒र्कैर्हरी᳚णां वृष॒न्‌ योक्त्र॑मश्रेः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

या, इ॒त्था म॑घव॒न्ननु॒ जोषं॒ वक्षो᳚, अ॒भि प्रार्यः स॑क्षि॒ जना॑न् ||{2/10}{5.33.2}{5.3.1.2}{4.2.1.2}{255, 387, 3896}

सः¦त्व‌म्¦नः॒¦इ॒न्द्र॒¦धि॒य॒सा॒नः¦अ॒र्कैः¦हरी᳚णा‌म्¦वृ॒ष॒न्¦योक्त्र᳚‌म्¦अ॒श्रेः॒ |
याः¦इ॒त्था¦म॒घ॒ऽव॒न्¦अनु॑¦जोष᳚‌म्¦वक्षः॑¦अ॒भि¦प्र¦अ॒र्यः¦स॒क्षि॒¦जना॑न् ||

न ते त॑ इन्द्रा॒भ्य१॑(अ॒)स्मदृ॒ष्वाऽयु॑क्तासो, अब्र॒ह्मता॒ यदस॑न् |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

तिष्ठा॒ रथ॒मधि॒ तं व॑ज्रह॒स्ता र॒श्मिं दे᳚व यमसे॒ स्वश्वः॑ ||{3/10}{5.33.3}{5.3.1.3}{4.2.1.3}{256, 387, 3897}

न¦ते¦ते॒¦इ॒न्द्र॒¦अ॒भि¦अ॒स्मत्¦ऋ॒ष्व॒¦अयु॑क्तासः¦अ॒ब्र॒ह्मता᳚¦यत्¦अस॑न् |
तिष्ठ॑¦रथ᳚‌म्¦अधि॑¦त‌म्¦व॒ज्र॒ऽह॒स्त॒¦आ¦र॒श्मि‌म्¦दे॒व॒¦य॒म॒से॒¦सु॒।आश्वः॑ ||

पु॒रू यत्त॑ इन्द्र॒ सन्त्यु॒क्था गवे᳚ च॒कर्थो॒र्वरा᳚सु॒ युध्य॑न् |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

त॒त॒क्षे सूर्या᳚य चि॒दोक॑सि॒ स्वे वृषा᳚ स॒मत्सु॑ दा॒सस्य॒ नाम॑ चित् ||{4/10}{5.33.4}{5.3.1.4}{4.2.1.4}{257, 387, 3898}

पु॒रु¦यत्¦ते॒¦इ॒न्द्र॒¦सन्ति॑¦उ॒क्था¦गवे᳚¦च॒कर्थ॑¦उ॒र्वरा᳚सु¦युध्य॑न् |
त॒त॒क्षे¦सूर्या᳚य¦चि॒त्¦ओक॑सि¦स्वे¦वृषा᳚¦स॒मत्ऽसु॑¦दा॒सस्य॑¦नाम॑¦चि॒त् ||

व॒यं ते त॑ इन्द्र॒ ये च॒ नरः॒ शर्धो᳚ जज्ञा॒ना या॒ताश्च॒ रथाः᳚ |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

आस्माञ्ज॑गम्यादहिशुष्म॒ सत्वा॒ भगो॒ न हव्यः॑ प्रभृ॒थेषु॒ चारुः॑ ||{5/10}{5.33.5}{5.3.1.5}{4.2.1.5}{258, 387, 3899}

व॒य‌म्¦ते¦ते॒¦इ॒न्द्र॒¦ये¦च॒¦नरः॑¦शर्धः॑¦ज॒ज्ञा॒नाः¦या॒ताः¦च॒¦रथाः᳚ |
आ¦अ॒स्मान्¦ज॒ग॒म्या॒त्¦अ॒हि॒ऽशु॒ष्म॒¦सत्वा᳚¦भगः॑¦न¦हव्यः॑¦प्र॒ऽभृ॒थेषु॑¦चारुः॑ ||

प॒पृ॒क्षेण्य॑मिन्द्र॒ त्वे ह्योजो᳚ नृ॒म्णानि॑ च नृ॒तमा᳚नो॒, अम॑र्तः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

स न॒ एनीं᳚ वसवानो र॒यिं दाः॒ प्रार्यः स्तु॑षे तुविम॒घस्य॒ दान᳚म् ||{6/10}{5.33.6}{5.3.1.6}{4.2.2.1}{259, 387, 3900}

प॒पृ॒क्षेण्य᳚‌म्¦इ॒न्द्र॒¦त्वे इति॑¦हि¦ओजः॑¦नृ॒म्णानि॑¦च॒¦नृ॒तमा᳚नः¦अम॑र्तः |
सः¦नः॒¦एनी᳚‌म्¦व॒स॒वा॒नः॒¦र॒यि‌म्¦दाः॒¦प्र¦अ॒र्यः¦स्तु॒षे॒¦तु॒वि॒ऽम॒घस्य॑¦दान᳚‌म् ||

ए॒वा न॑ इन्द्रो॒तिभि॑रव पा॒हि गृ॑ण॒तः शू᳚र का॒रून् |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

उ॒त त्वचं॒ दद॑तो॒ वाज॑सातौ पिप्री॒हि मध्वः॒ सुषु॑तस्य॒ चारोः᳚ ||{7/10}{5.33.7}{5.3.1.7}{4.2.2.2}{260, 387, 3901}

ए॒व¦नः॒¦इ॒न्द्र॒¦ऊ॒तिऽभिः॑¦अ॒व॒¦पा॒हि¦गृ॒ण॒तः¦शू॒र॒¦का॒रून् |
उ॒त¦त्वच᳚‌म्¦दद॑तः¦वाज॑ऽसातौ¦पि॒प्री॒हि¦मध्वः॑¦सुऽसु॑तस्य¦चारोः᳚ ||

उ॒त त्ये मा᳚ पौरुकु॒त्स्यस्य॑ सू॒रेस्त्र॒सद॑स्योर्हिर॒णिनो॒ ररा᳚णाः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

वह᳚न्तु मा॒ दश॒ श्येता᳚सो, अस्य गैरिक्षि॒तस्य॒ क्रतु॑भि॒र्नु स॑श्चे ||{8/10}{5.33.8}{5.3.1.8}{4.2.2.3}{261, 387, 3902}

उ॒त¦त्ये¦मा॒¦पौ॒रु॒ऽकु॒त्स्यस्य॑¦सू॒रेः¦त्र॒सद॑स्योः¦हि॒र॒णिनः॑¦ररा᳚णाः |
वह᳚न्तु¦मा॒¦दश॑¦श्येता᳚सः¦अ॒स्य॒¦गै॒रि॒ऽक्षि॒तस्य॑¦क्रतु॑ऽभिः¦नु¦स॒श्चे॒ ||

उ॒त त्ये मा᳚ मारु॒ताश्व॑स्य॒ शोणाः॒ क्रत्वा᳚मघासो वि॒दथ॑स्य रा॒तौ |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

स॒हस्रा᳚ मे॒ च्यव॑तानो॒ ददा᳚न आनू॒कम॒र्यो वपु॑षे॒ नार्च॑त् ||{9/10}{5.33.9}{5.3.1.9}{4.2.2.4}{262, 387, 3903}

उ॒त¦त्ये¦मा॒¦मा॒रु॒त।आ॑श्वस्य¦शोणाः᳚¦क्रत्वा᳚ऽमघासः¦वि॒दथ॑स्य¦रा॒तौ |
स॒हस्रा᳚¦मे॒¦च्यव॑तानः¦ददा᳚नः¦आ॒नू॒क‌म्¦अ॒र्यः¦वपु॑षे¦न¦आ॒र्च॒त् ||

उ॒त त्ये मा᳚ ध्व॒न्य॑स्य॒ जुष्टा᳚ लक्ष्म॒ण्य॑स्य सु॒रुचो॒ यता᳚नाः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

म॒ह्ना रा॒यः सं॒वर॑णस्य॒ ऋषे᳚र्व्र॒जं न गावः॒ प्रय॑ता॒, अपि॑ ग्मन् ||{10/10}{5.33.10}{5.3.1.10}{4.2.2.5}{263, 387, 3904}

उ॒त¦त्ये¦मा॒¦ध्व॒न्य॑स्य¦जुष्टाः᳚¦ल॒क्ष्म॒ण्य॑स्य¦सु॒ऽरुचः॑¦यता᳚नाः |
म॒ह्ना¦रा॒यः¦स॒‌म्ऽवर॑णस्य¦ऋषेः᳚¦व्र॒ज‌म्¦न¦गावः॑¦प्रऽय॑ताः¦अपि॑¦ग्म॒न् ||

[34] अजातशत्रुमिति नवर्चस्य सूक्तस्य प्राजापत्यः संवरणइंद्रोजगत्यंत्यात्रिष्टुप् |
अजा᳚तशत्रुम॒जरा॒ स्व᳚र्व॒त्यनु॑ स्व॒धामि॑ता द॒स्ममी᳚यते |{प्राजापत्यः संवरण | इन्द्रः | जगती}

सु॒नोत॑न॒ पच॑त॒ ब्रह्म॑वाहसे पुरुष्टु॒ताय॑ प्रत॒रं द॑धातन ||{1/9}{5.34.1}{5.3.2.1}{4.2.3.1}{264, 388, 3905}

अजा᳚तऽशत्रु‌म्¦अ॒जरा᳚¦स्वः॑ऽवती¦अनु॑¦स्व॒धा¦अमि॑ता¦द॒स्म‌म्¦ई॒य॒ते॒ |
सु॒नोत॑न¦पच॑त¦ब्रह्म॑ऽवाहसे¦पु॒रु॒ऽस्तु॒ताय॑¦प्र॒ऽत॒र‌म्¦द॒धा॒त॒न॒ ||

आ यः सोमे᳚न ज॒ठर॒मपि॑प्र॒ताऽम᳚न्दत म॒घवा॒ मध्वो॒, अन्ध॑सः |{प्राजापत्यः संवरण | इन्द्रः | जगती}

यदीं᳚ मृ॒गाय॒ हन्त॑वे म॒हाव॑धः स॒हस्र॑भृष्टिमु॒शना᳚ व॒धं यम॑त् ||{2/9}{5.34.2}{5.3.2.2}{4.2.3.2}{265, 388, 3906}

आ¦यः¦सोमे᳚न¦ज॒ठर᳚‌म्¦अपि॑प्रत¦अम᳚न्दत¦म॒घऽवा᳚¦मध्वः॑¦अन्ध॑सः |
यत्¦ई॒‌म्¦मृ॒गाय॑¦हन्त॑वे¦म॒हाऽव॑धः¦स॒हस्र॑ऽभृष्टि‌म्¦उ॒शना᳚¦व॒ध‌म्¦यम॑त् ||

यो, अ॑स्मै घ्रं॒स उ॒त वा॒ य ऊध॑नि॒ सोमं᳚ सु॒नोति॒ भव॑ति द्यु॒माँ, अह॑ |{प्राजापत्यः संवरण | इन्द्रः | जगती}

अपा᳚प श॒क्रस्त॑त॒नुष्टि॑मूहति त॒नूशु॑भ्रं म॒घवा॒ यः क॑वास॒खः ||{3/9}{5.34.3}{5.3.2.3}{4.2.3.3}{266, 388, 3907}

यः¦अ॒स्मै॒¦घ्रं॒से¦उ॒त¦वा॒¦यः¦ऊध॑नि¦सोम᳚‌म्¦सु॒नोति॑¦भव॑ति¦द्यु॒ऽमान्¦अह॑ |
अप॑।आप¦श॒क्रः¦त॒त॒नुष्टि᳚‌म्¦ऊ॒ह॒ति॒¦त॒नूऽशु॑भ्र‌म्¦म॒घऽवा᳚¦यः¦क॒व॒ऽस॒खः ||

यस्याव॑धीत्‌ पि॒तरं॒ यस्य॑ मा॒तरं॒ यस्य॑ श॒क्रो भ्रात॑रं॒ नात॑ ईषते |{प्राजापत्यः संवरण | इन्द्रः | जगती}

वेतीद्व॑स्य॒ प्रय॑ता यतंक॒रो न किल्बि॑षादीषते॒ वस्व॑ आक॒रः ||{4/9}{5.34.4}{5.3.2.4}{4.2.3.4}{267, 388, 3908}

यस्य॑¦अव॑धीत्¦पि॒तर᳚‌म्¦यस्य॑¦मा॒तर᳚‌म्¦यस्य॑¦श॒क्रः¦भ्रात॑र‌म्¦न¦अतः॑¦ई॒ष॒ते॒ |
वेति॑¦इत्¦ऊँ॒ इति॑¦अ॒स्य॒¦प्रऽय॑ता¦य॒त॒‌म्ऽक॒रः¦न¦किल्बि॑षात्¦ई॒ष॒ते॒¦वस्वः॑¦आ॒ऽक॒रः ||

न प॒ञ्चभि॑र्द॒शभि᳚र्वष्ट्या॒रभं॒ नासु᳚न्वता सचते॒ पुष्य॑ता च॒न |{प्राजापत्यः संवरण | इन्द्रः | जगती}

जि॒नाति॒ वेद॑मु॒या हन्ति॑ वा॒ धुनि॒रा दे᳚व॒युं भ॑जति॒ गोम॑ति व्र॒जे ||{5/9}{5.34.5}{5.3.2.5}{4.2.3.5}{268, 388, 3909}

न¦पं॒चऽभिः॑¦द॒शऽभिः॑¦व॒ष्टि॒¦आ॒ऽरभ᳚‌म्¦न¦असु᳚न्वता¦स॒च॒ते॒¦पुष्य॑ता¦च॒न |
जि॒नाति॑¦वा॒¦इत्¦अ॒मु॒या¦हन्ति॑¦वा॒¦धुनिः॑¦आ¦दे॒व॒ऽयु‌म्¦भ॒ज॒ति॒¦गोऽम॑ति¦व्र॒जे ||

वि॒त्वक्ष॑णः॒ समृ॑तौ चक्रमास॒जोऽसु᳚न्वतो॒ विषु॑णः सुन्व॒तो वृ॒धः |{प्राजापत्यः संवरण | इन्द्रः | जगती}

इन्द्रो॒ विश्व॑स्य दमि॒ता वि॒भीष॑णो यथाव॒शं न॑यति॒ दास॒मार्यः॑ ||{6/9}{5.34.6}{5.3.2.6}{4.2.4.1}{269, 388, 3910}

वि॒ऽत्वक्ष॑णः¦स‌म्ऽऋ॑तौ¦च॒क्र॒‌म्ऽआ॒स॒जः¦असु᳚न्वतः¦विषु॑णः¦सु॒न्व॒तः¦वृ॒धः |
इन्द्रः॑¦विश्व॑स्य¦द॒मि॒ता¦वि॒ऽभीष॑णः¦य॒था॒ऽव॒श‌म्¦न॒य॒ति॒¦दास᳚‌म्¦आर्यः॑ ||

समीं᳚ प॒णेर॑जति॒ भोज॑नं मु॒षे वि दा॒शुषे᳚ भजति सू॒नरं॒ वसु॑ |{प्राजापत्यः संवरण | इन्द्रः | जगती}

दु॒र्गे च॒न ध्रि॑यते॒ विश्व॒ आ पु॒रु जनो॒ यो, अ॑स्य॒ तवि॑षी॒मचु॑क्रुधत् ||{7/9}{5.34.7}{5.3.2.7}{4.2.4.2}{270, 388, 3911}

स‌म्¦ई॒‌म्¦प॒णेः¦अ॒ज॒ति॒¦भोज॑न‌म्¦मु॒षे¦वि¦दा॒शुषे᳚¦भ॒ज॒ति॒¦सू॒नर᳚‌म्¦वसु॑ |
दुः॒ऽगे¦च॒न¦ध्रि॒य॒ते॒¦विश्वः॑¦आ¦पु॒रु¦जनः॑¦यः¦अ॒स्य॒¦तवि॑षी‌म्¦अचु॑क्रुधत् ||

सं यज्जनौ᳚ सु॒धनौ᳚ वि॒श्वश॑र्धसा॒ववे॒दिन्द्रो᳚ म॒घवा॒ गोषु॑ शु॒भ्रिषु॑ |{प्राजापत्यः संवरण | इन्द्रः | जगती}

युजं॒ ह्य१॑(अ॒)न्यमकृ॑त प्रवेप॒न्युदीं॒ गव्यं᳚ सृजते॒ सत्व॑भि॒र्धुनिः॑ ||{8/9}{5.34.8}{5.3.2.8}{4.2.4.3}{271, 388, 3912}

स‌म्¦यत्¦जनौ᳚¦सु॒ऽधनौ᳚¦वि॒श्वऽश॑र्धसौ¦अवे᳚त्¦इन्द्रः॑¦म॒घऽवा᳚¦गोषु॑¦शु॒भ्रिषु॑ |
युज᳚‌म्¦हि¦अ॒न्य‌म्¦अकृ॑त¦प्र॒ऽवे॒प॒नी¦उत्¦ई॒‌म्¦गव्य᳚‌म्¦सृ॒ज॒ते॒¦सत्व॑ऽभिः¦धुनिः॑ ||

स॒ह॒स्र॒सामाग्नि॑वेशिं गृणीषे॒ शत्रि॑मग्न उप॒मां के॒तुम॒र्यः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

तस्मा॒, आपः॑ सं॒यतः॑ पीपयन्त॒ तस्मि᳚न्‌ क्ष॒त्रमम॑वत्‌ त्वे॒षम॑स्तु ||{9/9}{5.34.9}{5.3.2.9}{4.2.4.4}{272, 388, 3913}

स॒ह॒स्र॒ऽसा‌म्¦आग्नि॑ऽवेशि‌म्¦गृ॒णी॒षे॒¦शत्रि᳚‌म्¦अ॒ग्ने॒¦उ॒प॒ऽमा‌म्¦के॒तु‌म्¦अ॒र्यः |
तस्मै᳚¦आपः॑¦स॒‌म्ऽयतः॑¦पी॒प॒य॒न्त॒¦तस्मि॑न्¦क्ष॒त्र‌म्¦अम॑ऽवत्¦त्वे॒ष‌म्¦अ॒स्तु॒ ||

[35] यस्तेसाधिष्टइत्यष्टर्चस्य सूक्तस्याङ्गिरसः प्रभूवसुरिंद्रोनुष्टुबंत्यापंक्तिः |
यस्ते॒ साधि॒ष्ठोऽव॑स॒ इन्द्र॒ क्रतु॒ष्टमा भ॑र |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

अ॒स्मभ्यं᳚ चर्षणी॒सहं॒ सस्निं॒ वाजे᳚षु दु॒ष्टर᳚म् ||{1/8}{5.35.1}{5.3.3.1}{4.2.5.1}{273, 389, 3914}

यः¦ते॒¦साधि॑ष्ठः¦अव॑से¦इन्द्र॑¦क्रतुः॑¦त‌म्¦आ¦भ॒र॒ | अ॒स्मभ्य᳚‌म्¦च॒र्ष॒णि॒ऽसह᳚‌म्¦सस्नि᳚‌म्¦वाजे᳚षु¦दु॒स्तर᳚‌म् ||

यदि᳚न्द्र ते॒ चत॑स्रो॒ यच्छू᳚र॒ सन्ति॑ ति॒स्रः |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

यद्वा॒ पञ्च॑ क्षिती॒नामव॒स्तत्‌ सु न॒ आ भ॑र ||{2/8}{5.35.2}{5.3.3.2}{4.2.5.2}{274, 389, 3915}

यत्¦इ॒न्द्र॒¦ते॒¦चत॑स्रः¦यत्¦शू॒र॒¦सन्ति॑¦ति॒स्रः | यत्¦वा॒¦पंच॑¦क्षि॒ती॒ना‌म्¦अवः॑¦तत्¦सु¦नः॒¦आ¦भ॒र॒ ||

आ तेऽवो॒ वरे᳚ण्यं॒ वृष᳚न्तमस्य हूमहे |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

वृष॑जूति॒र्हि ज॑ज्ञि॒ष आ॒भूभि॑रिन्द्र तु॒र्वणिः॑ ||{3/8}{5.35.3}{5.3.3.3}{4.2.5.3}{275, 389, 3916}

आ¦ते॒¦अवः॑¦वरे᳚ण्य‌म्¦वृष॑न्ऽतमस्य¦हू॒म॒हे॒ | वृष॑ऽजूतिः¦हि¦ज॒ज्ञि॒षे¦आ॒ऽभूभिः॑¦इ॒न्द्र॒¦तु॒र्वणिः॑ ||

वृषा॒ ह्यसि॒ राध॑से जज्ञि॒षे वृष्णि॑ ते॒ शवः॑ |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

स्वक्ष॑त्रं ते धृ॒षन्मनः॑ सत्रा॒हमि᳚न्द्र॒ पौंस्य᳚म् ||{4/8}{5.35.4}{5.3.3.4}{4.2.5.4}{276, 389, 3917}

वृषा᳚¦हि¦असि॑¦राध॑से¦ज॒ज्ञि॒षे¦वृष्णि॑¦ते॒¦शवः॑ | स्वऽक्ष॑त्र‌म्¦ते॒¦धृ॒षत्¦मनः॑¦स॒त्रा॒ऽह‌म्¦इ॒न्द्र॒¦पौंस्य᳚‌म् ||

त्वं तमि᳚न्द्र॒ मर्त्य॑ममित्र॒यन्त॑मद्रिवः |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

स॒र्व॒र॒था श॑तक्रतो॒ नि या᳚हि शवसस्पते ||{5/8}{5.35.5}{5.3.3.5}{4.2.5.5}{277, 389, 3918}

त्व‌म्¦त‌म्¦इ॒न्द्र॒¦मर्त्य᳚‌म्¦अ॒मि॒त्र॒ऽयन्त᳚‌म्¦अ॒द्रि॒ऽवः॒ | स॒र्व॒ऽर॒था¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो¦नि¦या॒हि॒¦श॒व॒सः॒¦प॒ते॒ ||

त्वामिद्‌ वृ॑त्रहन्तम॒ जना᳚सो वृ॒क्तब᳚र्हिषः |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

उ॒ग्रं पू॒र्वीषु॑ पू॒र्व्यं हव᳚न्ते॒ वाज॑सातये ||{6/8}{5.35.6}{5.3.3.6}{4.2.6.1}{278, 389, 3919}

त्वा‌म्¦इत्¦वृ॒त्र॒ह॒न्ऽत॒म॒¦जना᳚सः¦वृ॒क्तऽब॑र्हिषः | उ॒ग्र‌म्¦पू॒र्वीषु॑¦पू॒र्व्य‌म्¦हव᳚न्ते¦वाज॑ऽसातये ||

अ॒स्माक॑मिन्द्र दु॒ष्टरं᳚ पुरो॒यावा᳚नमा॒जिषु॑ |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

स॒यावा᳚नं॒ धने᳚धने वाज॒यन्त॑मवा॒ रथ᳚म् ||{7/8}{5.35.7}{5.3.3.7}{4.2.6.2}{279, 389, 3920}

अ॒स्माक᳚‌म्¦इ॒न्द्र॒¦दु॒स्तर᳚‌म्¦पु॒रः॒ऽयावा᳚न‌म्¦आ॒जिषु॑ | स॒ऽयावा᳚न‌म्¦धने᳚ऽधने¦वा॒ज॒ऽयन्त᳚‌म्¦अ॒व॒¦रथ᳚‌म् ||

अ॒स्माक॑मि॒न्द्रेहि॑ नो॒ रथ॑मवा॒ पुरं᳚ध्या |{आंगिरसः प्रभूवसुः | इन्द्रः | पङ्क्तिः}

व॒यं श॑विष्ठ॒ वार्यं᳚ दि॒वि श्रवो᳚ दधीमहि दि॒वि स्तोमं᳚ मनामहे ||{8/8}{5.35.8}{5.3.3.8}{4.2.6.3}{280, 389, 3921}

अ॒स्माक᳚‌म्¦इ॒न्द्र॒¦आ¦इ॒हि॒¦नः॒¦रथ᳚‌म्¦अ॒व॒¦पुर᳚‌म्ऽध्या |
व॒य‌म्¦श॒वि॒ष्ठ॒¦वार्य᳚‌म्¦दि॒वि¦श्रवः॑¦द॒धी॒म॒हि॒¦दि॒वि¦स्तोम᳚‌म्¦म॒ना॒म॒हे॒ ||

[36] सआगमदिति षडृचस्य सूक्तस्याङ्गिरसःप्रभूवसुरिंद्रस्त्रिष्टुप् तृतीयाजगती |
स आ ग॑म॒दिन्द्रो॒ यो वसू᳚नां॒ चिके᳚त॒द्‌ दातुं॒ दाम॑नो रयी॒णाम् |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्}

ध॒न्व॒च॒रो न वंस॑गस्तृषा॒णश्च॑कमा॒नः पि॑बतु दु॒ग्धमं॒शुम् ||{1/6}{5.36.1}{5.3.4.1}{4.2.7.1}{281, 390, 3922}

सः¦आ¦ग॒म॒त्¦इन्द्रः॑¦यः¦वसू᳚ना‌म्¦चिके᳚तत्¦दातु᳚‌म्¦दाम॑नः¦र॒यी॒णा‌म् |
ध॒न्व॒ऽच॒रः¦न¦वंस॑गः¦तृ॒षा॒णः¦च॒क॒मा॒नः¦पि॒ब॒तु॒¦दु॒ग्ध‌म्¦अं॒शु‌म् ||

आ ते॒ हनू᳚ हरिवः शूर॒ शिप्रे॒ रुह॒त्‌ सोमो॒ न पर्व॑तस्य पृ॒ष्ठे |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्}

अनु॑ त्वा राज॒न्नर्व॑तो॒ न हि॒न्वन् गी॒र्भिर्म॑देम पुरुहूत॒ विश्वे᳚ ||{2/6}{5.36.2}{5.3.4.2}{4.2.7.2}{282, 390, 3923}

आ¦ते॒¦हनू॒ इति॑¦ह॒रि॒ऽवः॒¦शू॒र॒¦शिप्रे॒ इति॑¦रुह॑त्¦सोमः॑¦न¦पर्व॑तस्य¦पृ॒ष्ठे |
अनु॑¦त्वा॒¦रा॒ज॒न्¦अर्व॑तः¦न¦हि॒न्वन्¦गीः॒ऽभिः¦म॒दे॒म॒¦पु॒रु॒ऽहू॒त॒¦विश्वे᳚ ||

च॒क्रं न वृ॒त्तं पु॑रुहूत वेपते॒ मनो᳚ भि॒या मे॒, अम॑ते॒रिद॑द्रिवः |{आंगिरसः प्रभूवसुः | इन्द्रः | जगती}

रथा॒दधि॑ त्वा जरि॒ता स॑दावृध कु॒विन्नु स्तो᳚षन्मघवन्‌ पुरू॒वसुः॑ ||{3/6}{5.36.3}{5.3.4.3}{4.2.7.3}{283, 390, 3924}

च॒क्र‌म्¦न¦वृ॒त्त‌म्¦पु॒रु॒ऽहू॒त॒¦वे॒प॒ते॒¦मनः॑¦भि॒या¦मे॒¦अम॑तेः¦इत्¦अ॒द्रि॒ऽवः॒ |
रथा᳚त्¦अधि॑¦त्वा॒¦ज॒रि॒ता¦स॒दा॒ऽवृ॒ध॒¦कु॒वित्¦नु¦स्तो॒ष॒त्¦म॒घ॒ऽव॒न्¦पु॒रु॒ऽवसुः॑ ||

ए॒ष ग्रावे᳚व जरि॒ता त॑ इ॒न्द्रेय॑र्ति॒ वाचं᳚ बृ॒हदा᳚शुषा॒णः |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्}

प्र स॒व्येन॑ मघव॒न्‌ यंसि॑ रा॒यः प्र द॑क्षि॒णिद्ध॑रिवो॒ मा वि वे᳚नः ||{4/6}{5.36.4}{5.3.4.4}{4.2.7.4}{284, 390, 3925}

ए॒षः¦ग्रावा᳚ऽ‌इव¦ज॒रि॒ता¦ते॒¦इ॒न्द्र॒¦इय॑र्ति¦वाच᳚‌म्¦बृ॒हत्¦आ॒शु॒षा॒णः |
प्र¦स॒व्येन॑¦म॒घ॒ऽव॒न्¦यंसि॑¦रा॒यः¦प्र¦द॒क्षि॒णित्¦ह॒रि॒ऽवः॒¦मा¦वि¦वे॒नः॒ ||

वृषा᳚ त्वा॒ वृष॑णं वर्धतु॒ द्यौर्वृषा॒ वृष॑भ्यां वहसे॒ हरि॑भ्याम् |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्}

स नो॒ वृषा॒ वृष॑रथः सुशिप्र॒ वृष॑क्रतो॒ वृषा᳚ वज्रि॒न्‌ भरे᳚ धाः ||{5/6}{5.36.5}{5.3.4.5}{4.2.7.5}{285, 390, 3926}

वृषा᳚¦त्वा॒¦वृष॑ण‌म्¦व॒र्ध॒तु॒¦द्यौः¦वृषा᳚¦वृष॑ऽभ्या‌म्¦व॒ह॒से॒¦हरि॑ऽभ्या‌म् |
सः¦नः॒¦वृषा᳚¦वृष॑ऽरथः¦सु॒ऽशि॒प्र॒¦वृष॑क्रतो॒ इति॒ वृष॑ऽक्रतो¦वृषा᳚¦वज्रि॒न्¦भरे᳚¦धाः॒ ||

यो रोहि॑तौ वा॒जिनौ᳚ वा॒जिनी᳚वान् त्रि॒भिः श॒तैः सच॑माना॒वदि॑ष्ट |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्}

यूने॒ सम॑स्मै क्षि॒तयो᳚ नमन्तां श्रु॒तर॑थाय मरुतो दुवो॒या ||{6/6}{5.36.6}{5.3.4.6}{4.2.7.6}{286, 390, 3927}

यः¦रोहि॑तौ¦वा॒जिनौ᳚¦वा॒जिनी᳚ऽवान्¦त्रि॒ऽभिः¦श॒तैः¦सच॑मानौ¦अदि॑ष्ट |
यूने᳚¦स‌म्¦अ॒स्मै॒¦क्षि॒तयः॑¦न॒म॒न्ता॒‌म्¦श्रु॒तऽर॑थाय¦म॒रु॒तः॒¦दु॒वः॒ऽया ||

[37] संभानुनेति पंचर्चस्य सूक्तस्य भौमोत्रिरिंद्रस्त्रिष्टुप् |
सं भा॒नुना᳚ यतते॒ सूर्य॑स्या॒ऽऽजुह्वा᳚नो घृ॒तपृ॑ष्ठः॒ स्वञ्चाः᳚ |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

तस्मा॒, अमृ॑ध्रा, उ॒षसो॒ व्यु॑च्छा॒न् य इन्द्रा᳚य सु॒नवा॒मेत्याह॑ ||{1/5}{5.37.1}{5.3.5.1}{4.2.8.1}{287, 391, 3928}

स‌म्¦भा॒नुना᳚¦य॒त॒ते॒¦सूर्य॑स्य¦आ॒ऽजुह्वा᳚नः¦घृ॒तऽपृ॑ष्ठः¦सु॒।आंचाः᳚ |
तस्मै᳚¦अमृ॑ध्राः¦उ॒षसः॑¦वि¦उ॒च्छा॒न्¦यः¦इन्द्रा᳚य¦सु॒नवा᳚म¦इति॑¦आह॑ ||

समि॑द्धाग्निर्वनवत्‌ स्ती॒र्णब᳚र्हिर्यु॒क्तग्रा᳚वा सु॒तसो᳚मो जराते |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

ग्रावा᳚णो॒ यस्ये᳚षि॒रं वद॒न्त्यय॑दध्व॒र्युर्ह॒विषाव॒ सिन्धु᳚म् ||{2/5}{5.37.2}{5.3.5.2}{4.2.8.2}{288, 391, 3929}

समि॑द्ध।आग्निः¦व॒न॒व॒त्¦स्ती॒र्णऽब॑र्हिः¦यु॒क्तऽग्रा᳚वा¦सु॒तऽसो᳚मः¦ज॒रा॒ते॒ |
ग्रावा᳚णः¦यस्य॑¦इ॒षि॒र‌म्¦वद᳚न्ति¦अय॑त्¦अ॒ध्व॒र्युः¦ह॒विषा᳚¦अव॑¦सिन्धु᳚‌म् ||

व॒धूरि॒यं पति॑मि॒च्छन्त्ये᳚ति॒ य ईं॒ वहा᳚ते॒ महि॑षीमिषि॒राम् |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

आस्य॑ श्रवस्या॒द्‌ रथ॒ आ च॑ घोषात् पु॒रू स॒हस्रा॒ परि॑ वर्तयाते ||{3/5}{5.37.3}{5.3.5.3}{4.2.8.3}{289, 391, 3930}

व॒धूः¦इ॒य‌म्¦पति᳚‌म्¦इ॒च्छन्ती᳚¦ए॒ति॒¦यः¦ई॒‌म्¦वहा᳚ते¦महि॑षी‌म्¦इ॒षि॒रा‌म् |
आ¦अ॒स्य॒¦श्र॒व॒स्या॒त्¦रथः॑¦आ¦च॒¦घो॒षा॒त्¦पु॒रु¦स॒हस्रा᳚¦परि॑¦व॒र्त॒या॒ते॒ ||

न स राजा᳚ व्यथते॒ यस्मि॒न्निन्द्र॑स्ती॒व्रं सोमं॒ पिब॑ति॒ गोस॑खायम् |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

आ स॑त्व॒नैरज॑ति॒ हन्ति॑ वृ॒त्रं क्षेति॑ क्षि॒तीः सु॒भगो॒ नाम॒ पुष्य॑न् ||{4/5}{5.37.4}{5.3.5.4}{4.2.8.4}{290, 391, 3931}

न¦सः¦राजा᳚¦व्य॒थ॒ते॒¦यस्मि॑न्¦इन्द्रः॑¦ती॒व्र‌म्¦सोम᳚‌म्¦पिब॑ति¦गोऽस॑खाय‌म् |
आ¦स॒त्व॒नैः¦अज॑ति¦हन्ति॑¦वृ॒त्र‌म्¦क्षेति॑¦क्षि॒तीः¦सु॒ऽभगः॑¦नाम॑¦पुष्य॑न् ||

पुष्या॒त्‌ क्षेमे᳚, अ॒भि योगे᳚ भवात्यु॒भे वृतौ᳚ संय॒ती सं ज॑याति |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

प्रि॒यः सूर्ये᳚ प्रि॒यो, अ॒ग्ना भ॑वाति॒ य इन्द्रा᳚य सु॒तसो᳚मो॒ ददा᳚शत् ||{5/5}{5.37.5}{5.3.5.5}{4.2.8.5}{291, 391, 3932}

पुष्या᳚त्¦क्षेमे᳚¦अ॒भि¦योगे᳚¦भ॒वा॒ति॒¦उ॒भे इति॑¦वृतौ᳚¦सं॒य॒ती इति॑ स॒‌म्ऽय॒ती¦स‌म्¦ज॒या॒ति॒ |
प्रि॒यः¦सूर्ये᳚¦प्रि॒यः¦अ॒ग्ना¦भ॒वा॒ति॒¦यः¦इन्द्रा᳚य¦सु॒तऽसो᳚मः¦ददा᳚शत् ||

[38] उरोष्टइति पंचर्चस्य सूक्तस्य भौमोत्रिरिंद्रोनुष्टुप् |
उ॒रोष्ट॑ इन्द्र॒ राध॑सो वि॒भ्वी रा॒तिः श॑तक्रतो |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

अधा᳚ नो विश्वचर्षणे द्यु॒म्ना सु॑क्षत्र मंहय ||{1/5}{5.38.1}{5.3.6.1}{4.2.9.1}{292, 392, 3933}

उ॒रोः¦ते॒¦इ॒न्द्र॒¦राध॑सः¦वि॒ऽभ्वी¦रा॒तिः¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | अध॑¦नः॒¦वि॒श्व॒ऽच॒र्ष॒णे॒¦द्यु॒म्ना¦सु॒ऽक्ष॒त्र॒¦मं॒ह॒य॒ ||

यदी᳚मिन्द्र श्र॒वाय्य॒मिषं᳚ शविष्ठ दधि॒षे |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

प॒प्र॒थे दी᳚र्घ॒श्रुत्त॑मं॒ हिर᳚ण्यवर्ण दु॒ष्टर᳚म् ||{2/5}{5.38.2}{5.3.6.2}{4.2.9.2}{293, 392, 3934}

यत्¦ई॒‌म्¦इ॒न्द्र॒¦श्र॒वाय्य᳚‌म्¦इष᳚‌म्¦श॒वि॒ष्ठ॒¦द॒धि॒षे | प॒प्र॒थे¦दी॒र्घ॒श्रुत्ऽत॑म‌म्¦हिर᳚ण्यऽवर्ण¦दु॒स्तर᳚‌म् ||

शुष्मा᳚सो॒ ये ते᳚, अद्रिवो मे॒हना᳚ केत॒सापः॑ |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

उ॒भा दे॒वाव॒भिष्ट॑ये दि॒वश्च॒ ग्मश्च॑ राजथः ||{3/5}{5.38.3}{5.3.6.3}{4.2.9.3}{294, 392, 3935}

शुष्मा᳚सः¦ये¦ते॒¦अ॒द्रि॒ऽवः॒¦मे॒हना᳚¦के॒त॒ऽसापः॑ | उ॒भा¦दे॒वौ¦अ॒भिष्ट॑ये¦दि॒वः¦च॒¦ग्मः¦च॒¦रा॒ज॒थः॒ ||

उ॒तो नो᳚, अ॒स्य कस्य॑ चि॒द् दक्ष॑स्य॒ तव॑ वृत्रहन् |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

अ॒स्मभ्यं᳚ नृ॒म्णमा भ॑रा॒ऽस्मभ्यं᳚ नृमणस्यसे ||{4/5}{5.38.4}{5.3.6.4}{4.2.9.4}{295, 392, 3936}

उ॒तो इति॑¦नः॒¦अ॒स्य¦कस्य॑¦चि॒त्¦दक्ष॑स्य¦तव॑¦वृ॒त्र॒ऽह॒न् | अ॒स्मभ्य᳚‌म्¦नृ॒म्ण‌म्¦आ¦भ॒र॒¦अ॒स्मभ्य᳚‌म्¦नृ॒ऽम॒न॒स्य॒से॒ ||

नू त॑ आ॒भिर॒भिष्टि॑भि॒स्तव॒ शर्म᳚ञ्छतक्रतो |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

इन्द्र॒ स्याम॑ सुगो॒पाः शूर॒ स्याम॑ सुगो॒पाः ||{5/5}{5.38.5}{5.3.6.5}{4.2.9.5}{296, 392, 3937}

नु¦ते॒¦आ॒भिः¦अ॒भिष्टि॑ऽभिः¦तव॑¦शर्म॑न्¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | इन्द्र॑¦स्याम॑¦सु॒ऽगो॒पाः¦शूर॑¦स्याम॑¦सु॒ऽगो॒पाः ||

[39] यदिंद्रेति पंचर्चस्य सूक्तस्य भौमोत्रिरिंद्रोनुष्ठुबंत्यापंक्तिः |
यदि᳚न्द्र चित्र मे॒हना ऽस्ति॒ त्वादा᳚तमद्रिवः |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

राध॒स्तन्नो᳚ विदद्वस उभयाह॒स्त्या भ॑र ||{1/5}{5.39.1}{5.3.7.1}{4.2.10.1}{297, 393, 3938}

यत्¦इ॒न्द्र॒¦चि॒त्र॒¦मे॒हना᳚¦अस्ति॑¦त्वाऽदा᳚त‌म्¦अ॒द्रि॒ऽवः॒ | राधः॑¦तत्¦नः॒¦वि॒द॒द्व॒सो॒ इति॑ विदत्ऽवसो¦उ॒भ॒या॒ह॒स्ति¦आ¦भ॒र॒ ||

यन्मन्य॑से॒ वरे᳚ण्य॒मिन्द्र॑ द्यु॒क्षं तदा भ॑र |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

वि॒द्याम॒ तस्य॑ ते व॒यमकू᳚पारस्य दा॒वने᳚ ||{2/5}{5.39.2}{5.3.7.2}{4.2.10.2}{298, 393, 3939}

यत्¦मन्य॑से¦वरे᳚ण्य‌म्¦इन्द्र॑¦द्यु॒क्ष‌म्¦तत्¦आ¦भ॒र॒ | वि॒द्याम॑¦तस्य॑¦ते॒¦व॒य‌म्¦अकू᳚पारस्य¦दा॒वने᳚ ||

यत्ते᳚ दि॒त्सु प्र॒राध्यं॒ मनो॒, अस्ति॑ श्रु॒तं बृ॒हत् |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

तेन॑ दृ॒ळ्हा चि॑दद्रिव॒ आ वाजं᳚ दर्षि सा॒तये᳚ ||{3/5}{5.39.3}{5.3.7.3}{4.2.10.3}{299, 393, 3940}

यत्¦ते॒¦दि॒त्सु¦प्र॒ऽराध्य᳚‌म्¦मनः॑¦अस्ति॑¦श्रु॒त‌म्¦बृ॒हत् | तेन॑¦दृ॒ळ्हा¦चि॒त्¦अ॒द्रि॒ऽवः॒¦आ¦वाज᳚‌म्¦द॒र्षि॒¦सा॒तये᳚ ||

मंहि॑ष्ठं वो म॒घोनां॒ राजा᳚नं चर्षणी॒नाम् |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

इन्द्र॒मुप॒ प्रश॑स्तये पू॒र्वीभि॑र्जुजुषे॒ गिरः॑ ||{4/5}{5.39.4}{5.3.7.4}{4.2.10.4}{300, 393, 3941}

मंहि॑ष्ठ‌म्¦वः॒¦म॒घोना᳚‌म्¦राजा᳚न‌म्¦च॒र्ष॒णी॒ना‌म् | इन्द्र᳚‌म्¦उप॑¦प्रऽश॑स्तये¦पू॒र्वीभिः॑¦जु॒जु॒षे॒¦गिरः॑ ||

अस्मा॒, इत्‌ काव्यं॒ वच॑ उ॒क्थमिन्द्रा᳚य॒ शंस्य᳚म् |{भौमोत्रिः | इन्द्रः | पङ्क्तिः}

तस्मा᳚, उ॒ ब्रह्म॑वाहसे॒ गिरो᳚ वर्ध॒न्त्यत्र॑यो॒ गिरः॑ शुम्भ॒न्त्यत्र॑यः ||{5/5}{5.39.5}{5.3.7.5}{4.2.10.5}{301, 393, 3942}

अस्मै᳚¦इत्¦काव्य᳚‌म्¦वचः॑¦उ॒क्थ‌म्¦इन्द्रा᳚य¦शंस्य᳚‌म् |
तस्मै᳚¦ऊँ॒ इति॑¦ब्रह्म॑ऽवाहसे¦गिरः॑¦व॒र्ध॒न्ति॒¦अत्र॑यः¦गिरः॑¦शु॒म्भ॒न्ति॒¦अत्र॑यः ||

[40] आयाहीति नवर्चस्य सूक्तस्य भौमोत्रिः आद्यानांचतसृणामिंद्रः पंचम्याःसूर्यः षष्ट्यादिचतसृणामत्रिर्देवता आद्यास्तिस्रउष्णिहः पंचम्यंत्येऽनुष्टुभौ शिष्टास्त्रिष्टुभः |
आ या॒ह्यद्रि॑भिः सु॒तं सोमं᳚ सोमपते पिब |{भौमोत्रिः | इन्द्रः | उष्णिक्}

वृष᳚न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ||{1/9}{5.40.1}{5.3.8.1}{4.2.11.1}{302, 394, 3943}

आ¦या॒हि॒¦अद्रि॑ऽभिः¦सु॒त‌म्¦सोम᳚‌म्¦सो॒म॒ऽप॒ते॒¦पि॒ब॒ | वृष॑न्¦इ॒न्द्र॒¦वृष॑ऽभिः¦वृ॒त्र॒ह॒न्ऽत॒म॒ ||

वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो᳚, अ॒यं सु॒तः |{भौमोत्रिः | इन्द्रः | उष्णिक्}

वृष᳚न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ||{2/9}{5.40.2}{5.3.8.2}{4.2.11.2}{303, 394, 3944}

वृषा᳚¦ग्रावा᳚¦वृषा᳚¦मदः॑¦वृषा᳚¦सोमः॑¦अ॒य‌म्¦सु॒तः | वृष॑न्¦इ॒न्द्र॒¦वृष॑ऽभिः¦वृ॒त्र॒ह॒न्ऽत॒म॒ ||

वृषा᳚ त्वा॒ वृष॑णं हुवे॒ वज्रि᳚ञ्चि॒त्राभि॑रू॒तिभिः॑ |{भौमोत्रिः | इन्द्रः | उष्णिक्}

वृष᳚न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ||{3/9}{5.40.3}{5.3.8.3}{4.2.11.3}{304, 394, 3945}

वृषा᳚¦त्वा॒¦वृष॑ण‌म्¦हु॒वे॒¦वज्रि॑न्¦चि॒त्राभिः॑¦ऊ॒तिऽभिः॑ | वृष॑न्¦इ॒न्द्र॒¦वृष॑ऽभिः¦वृ॒त्र॒ह॒न्ऽत॒म॒ ||

ऋ॒जी॒षी व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट्छु॒ष्मी राजा᳚ वृत्र॒हा सो᳚म॒पावा᳚ |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

यु॒क्त्वा हरि॑भ्या॒मुप॑ यासद॒र्वाङ् माध्यं᳚दिने॒ सव॑ने मत्स॒दिन्द्रः॑ ||{4/9}{5.40.4}{5.3.8.4}{4.2.11.4}{305, 394, 3946}

ऋ॒जी॒षी¦व॒ज्री¦वृ॒ष॒भः¦तु॒रा॒षाट्¦शु॒ष्मी¦राजा᳚¦वृ॒त्र॒ऽहा¦सो॒म॒ऽपावा᳚ |
यु॒क्त्वा¦हरि॑ऽभ्या‌म्¦उप॑¦या॒स॒त्¦अ॒र्वाङ्¦माध्य᳚न्दिने¦सव॑ने¦म॒त्स॒त्¦इन्द्रः॑ ||

यत्‌ त्वा᳚ सूर्य॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः |{भौमोत्रिः | सूर्यः | अनुष्टुप्}

अक्षे᳚त्रवि॒द्‌ यथा᳚ मु॒ग्धो भुव॑नान्यदीधयुः ||{5/9}{5.40.5}{5.3.8.5}{4.2.11.5}{306, 394, 3947}

यत्¦त्वा॒¦सू॒र्य॒¦स्वः॑ऽभानुः¦तम॑सा¦अवि॑ध्यत्¦आ॒सु॒रः | अक्षे᳚त्रऽवित्¦यथा᳚¦मु॒ग्धः¦भुव॑नानि¦अ॒दी॒ध॒युः॒ ||

स्व॑र्भानो॒रध॒ यदि᳚न्द्र मा॒या, अ॒वो दि॒वो वर्त॑माना, अ॒वाह॑न् |{भौमोत्रिः | अत्रिः | त्रिष्टुप्}

गू॒ळ्हं सूर्यं॒ तम॒साप᳚व्रतेन तु॒रीये᳚ण॒ ब्रह्म॑णाविन्द॒दत्रिः॑ ||{6/9}{5.40.6}{5.3.8.6}{4.2.12.1}{307, 394, 3948}

स्वः॑ऽभानोः¦अध॑¦यत्¦इ॒न्द्र॒¦मा॒याः¦अ॒वः¦दि॒वः¦वर्त॑मानाः¦अ॒व॒।आह॑न् |
गू॒ळ्ह‌म्¦सूर्य᳚‌म्¦तम॑सा¦अप॑ऽव्रतेन¦तु॒रीये᳚ण¦ब्रह्म॑णा¦अ॒वि॒न्द॒त्¦अत्रिः॑ ||

मा मामि॒मं तव॒ सन्त॑मत्र इर॒स्या द्रु॒ग्धो भि॒यसा॒ नि गा᳚रीत् |{भौमोत्रिः | अत्रिः | त्रिष्टुप्}

त्वं मि॒त्रो, अ॑सि स॒त्यरा᳚धा॒स्तौ मे॒हाव॑तं॒ वरु॑णश्च॒ राजा᳚ ||{7/9}{5.40.7}{5.3.8.7}{4.2.12.2}{308, 394, 3949}

मा¦मा‌म्¦इ॒म‌म्¦तव॑¦सन्त᳚‌म्¦अ॒त्रे॒¦इ॒र॒स्या¦द्रु॒ग्धः¦भि॒यसा᳚¦नि¦गा॒री॒त् |
त्व‌म्¦मि॒त्रः¦अ॒सि॒¦स॒त्यऽरा᳚धाः¦तौ¦मा॒¦इ॒ह¦अ॒व॒त॒‌म्¦वरु॑णः¦च॒¦राजा᳚ ||

ग्राव्णो᳚ ब्र॒ह्मा यु॑युजा॒नः स॑प॒र्यन् की॒रिणा᳚ दे॒वान्‌ नम॑सोप॒शिक्ष॑न् |{भौमोत्रिः | अत्रिः | त्रिष्टुप्}

अत्रिः॒ सूर्य॑स्य दि॒वि चक्षु॒राधा॒त् स्व॑र्भानो॒रप॑ मा॒या, अ॑घुक्षत् ||{8/9}{5.40.8}{5.3.8.8}{4.2.12.3}{309, 394, 3950}

ग्राव्णः॑¦ब्र॒ह्मा¦यु॒यु॒जा॒नः¦स॒प॒र्यन्¦की॒रिणा᳚¦दे॒वान्¦नम॑सा¦उ॒प॒ऽशिक्ष॑न् |
अत्रिः॑¦सूर्य॑स्य¦दि॒वि¦चक्षुः॑¦आ¦अ॒धा॒त्¦स्वः॑ऽभानोः¦अप॑¦मा॒याः¦अ॒घु॒क्ष॒त् ||

यं वै सूर्यं॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः |{भौमोत्रिः | अत्रिः | अनुष्टुप्}

अत्र॑य॒स्तमन्व॑विन्दन् न॒ह्य१॑(अ॒)न्ये, अश॑क्नुवन् ||{9/9}{5.40.9}{5.3.8.9}{4.2.12.4}{310, 394, 3951}

य‌म्¦वै¦सूर्य᳚‌म्¦स्वः॑ऽभानुः¦तम॑सा¦अवि॑ध्यत्¦आ॒सु॒रः | अत्र॑यः¦त‌म्¦अनु॑¦अ॒वि॒न्द॒न्¦न॒हि¦अ॒न्ये¦अश॑क्नुवन् ||

[41] कोनुवामिति विंशत्यृचस्य सूक्तस्य भौमोत्रिर्विश्वेदेवास्त्रिष्टुप्‌ षोडशीसप्तदश्यावतिजगत्यावन्त्यैकपदा | (भेदपक्षे - मित्रावरुणौ १ विश्वेदेवाः १ अश्विनौ १ विश्वेदेवाः १ मरुतः १ विश्वेदेवाः १ उषासानक्ते १ विश्वेदेवाः २ अग्निः १ | विश्वेदेवाः २ मरुतः १ विश्वेदेवाः १ भूमिः १ विश्वेदेवाः ३ भूमिः १ विश्वेदेवाः १ एवं २०)|
को नु वां᳚ मित्रावरुणावृता॒यन् दि॒वो वा᳚ म॒हः पार्थि॑वस्य वा॒ दे |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒तस्य॑ वा॒ सद॑सि॒ त्रासी᳚थां नो यज्ञाय॒ते वा᳚ पशु॒षो न वाजा॑न् ||{1/20}{5.41.1}{5.3.9.1}{4.2.13.1}{311, 395, 3952}

कः¦नु¦वा॒‌म्¦मि॒त्रा॒व॒रु॒णौ॒¦ऋ॒त॒ऽयन्¦दि॒वः¦वा॒¦म॒हः¦पार्थि॑वस्य¦वा॒¦दे |
ऋ॒तस्य॑¦वा॒¦सद॑सि¦त्रासी᳚था‌म्¦नः॒¦य॒ज्ञ॒ऽय॒ते¦वा॒¦प॒शु॒ऽसः¦न¦वाजा॑न् ||

ते नो᳚ मि॒त्रो वरु॑णो, अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुतो᳚ जुषन्त |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

नमो᳚भिर्वा॒ ये दध॑ते सुवृ॒क्तिं स्तोमं᳚ रु॒द्राय॑ मी॒ळ्हुषे᳚ स॒जोषाः᳚ ||{2/20}{5.41.2}{5.3.9.2}{4.2.13.2}{312, 395, 3953}

ते¦नः॒¦मि॒त्रः¦वरु॑णः¦अ॒र्य॒मा¦आ॒युः¦इन्द्रः॑¦ऋ॒भु॒क्षाः¦म॒रुतः॑¦जु॒ष॒न्त॒ |
नमः॑ऽभिः¦वा॒¦ये¦दध॑ते¦सु॒ऽवृ॒क्ति‌म्¦स्तोम᳚‌म्¦रु॒द्राय॑¦मी॒ळ्हुषे᳚¦स॒ऽजोषाः᳚ ||

आ वां॒ येष्ठा᳚श्विना हु॒वध्यै॒ वात॑स्य॒ पत्म॒न्‌ रथ्य॑स्य पु॒ष्टौ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

उ॒त वा᳚ दि॒वो, असु॑राय॒ मन्म॒ प्रान्धां᳚सीव॒ यज्य॑वे भरध्वम् ||{3/20}{5.41.3}{5.3.9.3}{4.2.13.3}{313, 395, 3954}

आ¦वा॒‌म्¦येष्ठा᳚¦अ॒श्वि॒ना॒¦हु॒वध्यै᳚¦वात॑स्य¦पत्म॑न्¦रथ्य॑स्य¦पु॒ष्टौ |
उ॒त¦वा॒¦दि॒वः¦असु॑राय¦मन्म॑¦प्र¦अन्धां᳚सिऽ‌इव¦यज्य॑वे¦भ॒र॒ध्व॒‌म् ||

प्र स॒क्षणो᳚ दि॒व्यः कण्व॑होता त्रि॒तो दि॒वः स॒जोषा॒ वातो᳚, अ॒ग्निः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

पू॒षा भगः॑ प्रभृ॒थे वि॒श्वभो᳚जा, आ॒जिं न ज॑ग्मुरा॒श्व॑श्वतमाः ||{4/20}{5.41.4}{5.3.9.4}{4.2.13.4}{314, 395, 3955}

प्र¦स॒क्षणः॑¦दि॒व्यः¦कण्व॑ऽहोता¦त्रि॒तः¦दि॒वः¦स॒ऽजोषाः᳚¦वातः॑¦अ॒ग्निः |
पू॒षा¦भगः॑¦प्र॒ऽभृ॒थे¦वि॒श्वऽभो᳚जाः¦आ॒जि‌म्¦न¦ज॒ग्मुः॒¦आ॒श्व॑श्वऽतमाः ||

प्र वो᳚ र॒यिं यु॒क्ताश्वं᳚ भरध्वं रा॒य एषेऽव॑से दधीत॒ धीः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सु॒शेव॒ एवै᳚रौशि॒जस्य॒ होता॒ ये व॒ एवा᳚ मरुतस्तु॒राणा᳚म् ||{5/20}{5.41.5}{5.3.9.5}{4.2.13.5}{315, 395, 3956}

प्र¦वः॒¦र॒यि‌म्¦यु॒क्त।आ॑श्व‌म्¦भ॒र॒ध्व॒‌म्¦रा॒यः¦एषे᳚¦अव॑से¦द॒धी॒त॒¦धीः |
सु॒ऽशेवः॑¦एवैः᳚¦औ॒शि॒जस्य॑¦होता᳚¦ये¦वः॒¦एवाः᳚¦म॒रु॒तः॒¦तु॒राणा᳚‌म् ||

प्र वो᳚ वा॒युं र॑थ॒युजं᳚ कृणुध्वं॒ प्र दे॒वं विप्रं᳚ पनि॒तार॑म॒र्कैः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

इ॒षु॒ध्यव॑ ऋत॒सापः॒ पुरं᳚धी॒र्वस्वी᳚र्नो॒, अत्र॒ पत्नी॒रा धि॒ये धुः॑ ||{6/20}{5.41.6}{5.3.9.6}{4.2.14.1}{316, 395, 3957}

प्र¦वः॒¦वा॒यु‌म्¦र॒थ॒ऽयुज᳚‌म्¦कृ॒णु॒ध्व॒‌म्¦प्र¦दे॒व‌म्¦विप्र᳚‌म्¦प॒नि॒तार᳚‌म्¦अ॒र्कैः |
इ॒षु॒ध्यवः॑¦ऋ॒त॒ऽसापः॑¦पुर᳚‌म्ऽधीः¦वस्वीः᳚¦नः॒¦अत्र॑¦पत्नीः᳚¦आ¦धि॒ये¦धु॒रिति॑ धुः ||

उप॑ व॒ एषे॒ वन्द्ये᳚भिः शू॒षैः प्र य॒ह्वी दि॒वश्चि॒तय॑द्भिर॒र्कैः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

उ॒षासा॒नक्ता᳚ वि॒दुषी᳚व॒ विश्व॒मा हा᳚ वहतो॒ मर्त्या᳚य य॒ज्ञम् ||{7/20}{5.41.7}{5.3.9.7}{4.2.14.2}{317, 395, 3958}

उप॑¦वः॒¦एषे᳚¦वन्द्ये᳚भिः¦शू॒षैः¦प्र¦य॒ह्वी इति॑¦दि॒वः¦चि॒तय॑त्ऽभिः¦अ॒र्कैः |
उ॒षसा॒नक्ता᳚¦वि॒दुषी᳚ इ॒वेति॑ वि॒दुषी᳚ऽ‌इव¦विश्व᳚‌म्¦आ¦ह॒¦व॒ह॒तः॒¦मर्त्या᳚य¦य॒ज्ञ‌म् ||

अ॒भि वो᳚, अर्चे पो॒ष्याव॑तो॒ नॄन् वास्तो॒ष्पतिं॒ त्वष्टा᳚रं॒ ररा᳚णः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

धन्या᳚ स॒जोषा᳚ धि॒षणा॒ नमो᳚भि॒र्वन॒स्पतीँ॒रोष॑धी रा॒य एषे᳚ ||{8/20}{5.41.8}{5.3.9.8}{4.2.14.3}{318, 395, 3959}

अ॒भि¦वः॒¦अ॒र्चे॒¦पो॒ष्याऽव॑तः¦नॄन्¦वास्तोः᳚¦पति᳚‌म्¦त्वष्टा᳚र‌म्¦ररा᳚णः |
धन्या᳚¦स॒ऽजोषाः᳚¦धि॒षणा᳚¦नमः॑ऽभिः¦वन॒स्पती᳚न्¦ओष॑धीः¦रा॒यः¦एषे᳚ ||

तु॒जे न॒स्तने॒ पर्व॑ताः सन्तु॒ स्वैत॑वो॒ ये वस॑वो॒ न वी॒राः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

प॒नि॒त आ॒प्त्यो य॑ज॒तः सदा᳚ नो॒ वर्धा᳚न्नः॒ शंसं॒ नर्यो᳚, अ॒भिष्टौ᳚ ||{9/20}{5.41.9}{5.3.9.9}{4.2.14.4}{319, 395, 3960}

तु॒जे¦नः॒¦तने᳚¦पर्व॑ताः¦स॒न्तु॒¦स्वऽए᳚तवः¦ये¦वस॑वः¦न¦वी॒राः |
प॒नि॒तः¦आ॒प्त्यः¦य॒ज॒तः¦सदा᳚¦नः॒¦वर्धा᳚त्¦नः॒¦शंस᳚‌म्¦नर्यः॑¦अ॒भिष्टौ᳚ ||

वृष्णो᳚, अस्तोषि भू॒म्यस्य॒ गर्भं᳚ त्रि॒तो नपा᳚तम॒पां सु॑वृ॒क्ति |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

गृ॒णी॒ते, अ॒ग्निरे॒तरी॒ न शू॒षैः शो॒चिष्के᳚शो॒ नि रि॑णाति॒ वना᳚ ||{10/20}{5.41.10}{5.3.9.10}{4.2.14.5}{320, 395, 3961}

वृष्णः॑¦अ॒स्तो॒षि॒¦भू॒म्यस्य॑¦गर्भ᳚‌म्¦त्रि॒तः¦नपा᳚त‌म्¦अ॒पा‌म्¦सु॒ऽवृ॒क्ति |
गृ॒णी॒ते¦अ॒ग्निः¦ए॒तरि॑¦न¦शू॒षैः¦शो॒चिःऽके᳚शः¦नि¦रि॒णा॒ति॒¦वना᳚ ||

क॒था म॒हे रु॒द्रिया᳚य ब्रवाम॒ कद्रा॒ये चि॑कि॒तुषे॒ भगा᳚य |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

आप॒ ओष॑धीरु॒त नो᳚ऽवन्तु॒ द्यौर्वना᳚ गि॒रयो᳚ वृ॒क्षके᳚शाः ||{11/20}{5.41.11}{5.3.9.11}{4.2.15.1}{321, 395, 3962}

क॒था¦म॒हे¦रु॒द्रिया᳚य¦ब्र॒वा॒म॒¦कत्¦रा॒ये¦चि॒कि॒तुषे᳚¦भगा᳚य |
आपः॑¦ओष॑धीः¦उ॒त¦नः॒¦अ॒व॒न्तु॒¦द्यौः¦वना᳚¦गि॒रयः॑¦वृ॒क्षऽके᳚शाः ||

शृ॒णोतु॑ न ऊ॒र्जां पति॒र्गिरः॒ स नभ॒स्तरी᳚याँ, इषि॒रः परि॑ज्मा |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

शृ॒ण्वन्त्वापः॒ पुरो॒ न शु॒भ्राः परि॒ स्रुचो᳚ बबृहा॒णस्याद्रेः᳚ ||{12/20}{5.41.12}{5.3.9.12}{4.2.15.2}{322, 395, 3963}

शृ॒णोतु॑¦नः॒¦ऊ॒र्जा‌म्¦पतिः॑¦गिरः॑¦सः¦नभः॑¦तरी᳚यान्¦इ॒षि॒रः¦परि॑ऽज्मा |
शृ॒ण्वन्तु॑¦आपः॑¦पुरः॑¦न¦शु॒भ्राः¦परि॑¦स्रुचः॑¦ब॒बृ॒हा॒णस्य॑¦अद्रेः᳚ ||

वि॒दा चि॒न्नु म॑हान्तो॒ ये व॒ एवा॒ ब्रवा᳚म दस्मा॒ वार्यं॒ दधा᳚नाः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

वय॑श्च॒न सु॒भ्व१॑(अ॒) आव॑ यन्ति क्षु॒भा मर्त॒मनु॑यतं वध॒स्नैः ||{13/20}{5.41.13}{5.3.9.13}{4.2.15.3}{323, 395, 3964}

वि॒द¦चि॒त्¦नु¦म॒हा॒न्तः॒¦ये¦वः॒¦एवाः᳚¦ब्रवा᳚म¦द॒स्माः॒¦वार्य᳚‌म्¦दधा᳚नाः |
वयः॑¦च॒न¦सु॒ऽभ्वः॑¦आ¦अव॑¦य॒न्ति॒¦क्षु॒भा¦मर्त᳚‌म्¦अनु॑ऽयत‌म्¦व॒ध॒ऽस्नैः ||

आ दैव्या᳚नि॒ पार्थि॑वानि॒ जन्मा॒ऽपश्चाच्छा॒ सुम॑खाय वोचम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

वर्ध᳚न्तां॒ द्यावो॒ गिर॑श्च॒न्द्राग्रा᳚, उ॒दा व॑र्धन्ताम॒भिषा᳚ता॒, अर्णाः᳚ ||{14/20}{5.41.14}{5.3.9.14}{4.2.15.4}{324, 395, 3965}

आ¦दैव्या᳚नि¦पार्थि॑वानि¦जन्म॑¦अ॒पः¦च॒¦अच्छ॑¦सुऽम॑खाय¦वो॒च॒‌म् |
वर्ध᳚न्ता‌म्¦द्यावः॑¦गिरः॑¦च॒न्द्र।आ॑ग्राः¦उ॒दा¦व॒र्ध॒न्ता॒‌म्¦अ॒भिऽसा᳚ताः¦अर्णाः᳚ ||

प॒देप॑दे मे जरि॒मा नि धा᳚यि॒ वरू᳚त्री वा श॒क्रा या पा॒युभि॑श्च |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सिष॑क्तु मा॒ता म॒ही र॒सा नः॒ स्मत्‌ सू॒रिभि᳚रृजु॒हस्त॑ ऋजु॒वनिः॑ ||{15/20}{5.41.15}{5.3.9.15}{4.2.15.5}{325, 395, 3966}

प॒देऽप॑दे¦मे॒¦ज॒रि॒मा¦नि¦धा॒यि॒¦वरू᳚त्री¦वा॒¦श॒क्रा¦या¦पा॒युऽभिः॑¦च॒ |
सिस॑क्तु¦मा॒ता¦म॒ही¦र॒सा¦नः॒¦स्मत्¦सू॒रिऽभिः॑¦ऋ॒जु॒ऽहस्ता᳚¦ऋ॒जु॒ऽवनिः॑ ||

क॒था दा᳚शेम॒ नम॑सा सु॒दानू᳚नेव॒या म॒रुतो॒, अच्छो᳚क्तौ॒ प्रश्र॑वसो म॒रुतो॒, अच्छो᳚क्तौ |{भौमोत्रिः | विश्वदेवाः | अतिजगती}

मा नोऽहि॑र्बु॒ध्न्यो᳚ रि॒षे धा᳚द॒स्माकं᳚ भूदुपमाति॒वनिः॑ ||{16/20}{5.41.16}{5.3.9.16}{4.2.16.1}{326, 395, 3967}

क॒था¦दा॒शे॒म॒¦नम॑सा¦सु॒ऽदानू᳚न्¦ए॒व॒ऽया¦म॒रुतः॑¦अच्छ॑।औक्तौ¦प्रऽश्र॑वसः¦म॒रुतः॑¦अच्छ॑।औक्तौ |
मा¦नः॒¦अहिः॑¦बु॒ध्न्यः॑¦रि॒षे¦धा॒त्¦अ॒स्माक᳚‌म्¦भू॒त्¦उ॒प॒मा॒ति॒ऽवनिः॑ ||

इति॑ चि॒न्नु प्र॒जायै᳚ पशु॒मत्यै॒ देवा᳚सो॒ वन॑ते॒ मर्त्यो᳚ व॒ आ दे᳚वासो वनते॒ मर्त्यो᳚ वः |{भौमोत्रिः | विश्वदेवाः | अतिजगती}

अत्रा᳚ शि॒वां त॒न्वो᳚ धा॒सिम॒स्या ज॒रां चि᳚न्मे॒ निरृ॑तिर्जग्रसीत ||{17/20}{5.41.17}{5.3.9.17}{4.2.16.2}{327, 395, 3968}

इति॑¦चि॒त्¦नु¦प्र॒ऽजायै᳚¦प॒शु॒ऽमत्यै᳚¦देवा᳚सः¦वन॑ते¦मर्त्यः॑¦वः॒¦आ¦दे॒वा॒सः॒¦व॒न॒ते॒¦मर्त्यः॑¦वः॒ |
अत्र॑¦शि॒वा‌म्¦त॒न्वः॑¦धा॒सि‌म्¦अ॒स्याः¦ज॒रा‌म्¦चि॒त्¦मे॒¦निःऽऋ॑तिः¦ज॒ग्र॒सी॒त॒ ||

तां वो᳚ देवाः सुम॒तिमू॒र्जय᳚न्ती॒मिष॑मश्याम वसवः॒ शसा॒ गोः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सा नः॑ सु॒दानु᳚र्मृ॒ळय᳚न्ती दे॒वी प्रति॒ द्रव᳚न्ती सुवि॒ताय॑ गम्याः ||{18/20}{5.41.18}{5.3.9.18}{4.2.16.3}{328, 395, 3969}

ता‌म्¦वः॒¦दे॒वाः॒¦सु॒ऽम॒ति‌म्¦ऊ॒र्जय᳚न्ती‌म्¦इष᳚‌म्¦अ॒श्या॒म॒¦व॒स॒वः॒¦शसा᳚¦गोः |
सा¦नः॒¦सु॒ऽदानुः॑¦मृ॒ळय᳚न्ती¦दे॒वी¦प्रति॑¦द्रव᳚न्ती¦सु॒वि॒ताय॑¦ग॒म्याः॒ ||

अ॒भि न॒ इळा᳚ यू॒थस्य॑ मा॒ता स्मन्न॒दीभि॑रु॒र्वशी᳚ वा गृणातु |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

उ॒र्वशी᳚ वा बृहद्दि॒वा गृ॑णा॒नाऽभ्यू᳚र्ण्वा॒ना प्र॑भृ॒थस्या॒योः ||{19/20}{5.41.19}{5.3.9.19}{4.2.16.4}{329, 395, 3970}

अ॒भि¦नः॒¦इळा᳚¦यू॒थस्य॑¦मा॒ता¦स्मत्¦न॒दीभिः॑¦उ॒र्वशी᳚¦वा॒¦गृ॒णा॒तु॒ |
उ॒र्वशी᳚¦वा॒¦बृ॒ह॒त्ऽदि॒वा¦गृ॒णा॒ना¦अ॒भि॒ऽऊ॒र्ण्वा॒ना¦प्र॒ऽभृ॒थस्य॑¦आ॒योः ||

सिष॑क्तु न ऊर्ज॒व्य॑स्य पु॒ष्टेः ||{भौमोत्रिः | विश्वदेवाः | एकपदाविराट्}{20/20}{5.41.20}{5.3.9.20}{4.2.16.5}{330, 395, 3971}

सिस॑क्तु¦नः॒¦ऊ॒र्ज॒व्य॑स्य¦पु॒ष्टेः ||

[42] प्रशंतमेत्यष्टादशर्चस्य सूक्तस्य भौमोत्रिर्विश्वेदेवाः एकादश्यारुद्रत्रिष्टुप् सप्तदश्येकपदा | (भेदपक्षे - विश्वेदेवाः २ सविता १ इंद्रः १ विश्वेदेवाः ९ इंद्रः १ बृहस्पतिः ३ मरुतः १ रुद्रः १ विश्वेदेवाः ९ पर्जन्यः २ मरुतः १ विश्वेदेवाः २ अश्विनौ १ एवं १८) |
प्र शंत॑मा॒ वरु॑णं॒ दीधि॑ती॒ गीर्मि॒त्रं भग॒मदि॑तिं नू॒नम॑श्याः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

पृष॑द्योनिः॒ पञ्च॑होता शृणो॒त्वतू᳚र्तपन्था॒, असु॑रो मयो॒भुः ||{1/18}{5.42.1}{5.3.10.1}{4.2.17.1}{331, 396, 3972}

प्र¦श‌म्ऽत॑मा¦वरु॑ण‌म्¦दीधि॑ती¦गीः¦मि॒त्र‌म्¦भग᳚‌म्¦अदि॑ति‌म्¦नू॒न‌म्¦अ॒श्याः॒ |
पृष॑त्ऽयोनिः¦पंच॑ऽहोता¦शृ॒णो॒तु॒¦अतू᳚र्तऽपन्थाः¦असु॑रः¦म॒यः॒ऽभुः ||

प्रति॑ मे॒ स्तोम॒मदि॑तिर्जगृभ्यात् सू॒नुं न मा॒ता हृद्यं᳚ सु॒शेव᳚म् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुपि}

ब्रह्म॑ प्रि॒यं दे॒वहि॑तं॒ यदस्त्य॒हं मि॒त्रे वरु॑णे॒ यन्म॑यो॒भु ||{2/18}{5.42.2}{5.3.10.2}{4.2.17.2}{332, 396, 3973}

प्रति॑¦मे॒¦स्तोम᳚‌म्¦अदि॑तिः¦ज॒गृ॒भ्या॒त्¦सू॒नु‌म्¦न¦मा॒ता¦हृद्य᳚‌म्¦सु॒ऽशेव᳚‌म् |
ब्रह्म॑¦प्रि॒य‌म्¦दे॒वऽहि॑त‌म्¦यत्¦अस्ति॑¦अ॒ह‌म्¦मि॒त्रे¦वरु॑णे¦यत्¦म॒यः॒ऽभुः ||

उदी᳚रय क॒वित॑मं कवी॒नामु॒नत्तै᳚नम॒भि मध्वा᳚ घृ॒तेन॑ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

स नो॒ वसू᳚नि॒ प्रय॑ता हि॒तानि॑ च॒न्द्राणि॑ दे॒वः स॑वि॒ता सु॑वाति ||{3/18}{5.42.3}{5.3.10.3}{4.2.17.3}{333, 396, 3974}

उत्¦ई॒र॒य॒¦क॒विऽत॑म‌म्¦क॒वी॒ना‌म्¦उ॒नत्त॑¦ए॒न॒‌म्¦अ॒भि¦मध्वा᳚¦घृ॒तेन॑ |
सः¦नः॒¦वसू᳚नि¦प्रऽय॑ता¦हि॒तानि॑¦च॒न्द्राणि॑¦दे॒वः¦स॒वि॒ता¦सु॒वा॒ति॒ ||

समि᳚न्द्र णो॒ मन॑सा नेषि॒ गोभिः॒ सं सू॒रिभि᳚र्हरिवः॒ सं स्व॒स्ति |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सं ब्रह्म॑णा दे॒वहि॑तं॒ यदस्ति॒ सं दे॒वानां᳚ सुम॒त्या य॒ज्ञिया᳚नाम् ||{4/18}{5.42.4}{5.3.10.4}{4.2.17.4}{334, 396, 3975}

स‌म्¦इ॒न्द्र॒¦नः॒¦मन॑सा¦ने॒षि॒¦गोभिः॑¦स‌म्¦सू॒रिऽभिः॑¦ह॒रि॒ऽवः॒¦स‌म्¦स्व॒स्ति |
स‌म्¦ब्रह्म॑णा¦दे॒वऽहि॑त‌म्¦यत्¦अस्ति॑¦स‌म्¦दे॒वाना᳚‌म्¦सु॒ऽम॒त्या¦य॒ज्ञिया᳚ना‌म् ||

दे॒वो भगः॑ सवि॒ता रा॒यो, अंश॒ इन्द्रो᳚ वृ॒त्रस्य॑ सं॒जितो॒ धना᳚नाम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒भु॒क्षा वाज॑ उ॒त वा॒ पुरं᳚धि॒रव᳚न्तु नो, अ॒मृता᳚सस्तु॒रासः॑ ||{5/18}{5.42.5}{5.3.10.5}{4.2.17.5}{335, 396, 3976}

दे॒वः¦भगः॑¦स॒वि॒ता¦रा॒यः¦अंशः॑¦इन्द्रः॑¦वृ॒त्रस्य॑¦स॒‌म्ऽजितः॑¦धना᳚ना‌म् |
ऋ॒भु॒क्षाः¦वाजः॑¦उ॒त¦वा॒¦पुर᳚‌म्ऽधिः¦अव᳚न्तु¦नः॒¦अ॒मृता᳚सः¦तु॒रासः॑ ||

म॒रुत्व॑तो॒, अप्र॑तीतस्य जि॒ष्णोरजू᳚र्यतः॒ प्र ब्र॑वामा कृ॒तानि॑ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

न ते॒ पूर्वे᳚ मघव॒न्‌ नाप॑रासो॒ न वी॒र्य१॑(अं॒) नूत॑नः॒ कश्च॒नाप॑ ||{6/18}{5.42.6}{5.3.10.6}{4.2.18.1}{336, 396, 3977}

म॒रुत्व॑तः¦अप्र॑तिऽ‌इतस्य¦जि॒ष्णोः¦अजू᳚र्यतः¦प्र¦ब्र॒वा॒म॒¦कृ॒तानि॑ |
न¦ते॒¦पूर्वे᳚¦म॒घ॒ऽव॒न्¦न¦अप॑रासः¦न¦वी॒र्य᳚‌म्¦नूत॑नः¦कः¦च॒न¦आ॒प॒ ||

उप॑ स्तुहि प्रथ॒मं र॑त्न॒धेयं॒ बृह॒स्पतिं᳚ सनि॒तारं॒ धना᳚नाम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

यः शंस॑ते स्तुव॒ते शम्भ॑विष्ठः पुरू॒वसु॑रा॒गम॒ज्जोहु॑वानम् ||{7/18}{5.42.7}{5.3.10.7}{4.2.18.2}{337, 396, 3978}

उप॑¦स्तु॒हि॒¦प्र॒थ॒म‌म्¦र॒त्न॒ऽधेय᳚‌म्¦बृह॒स्पति᳚‌म्¦स॒नि॒तार᳚‌म्¦धना᳚ना‌म् |
यः¦शंस॑ते¦स्तु॒व॒ते¦श‌म्ऽभ॑विष्ठः¦पु॒रु॒ऽवसुः॑¦आ॒ऽगम॑त्¦जोहु॑वान‌म् ||

तवो॒तिभिः॒ सच॑माना॒, अरि॑ष्टा॒ बृह॑स्पते म॒घवा᳚नः सु॒वीराः᳚ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

ये, अ॑श्व॒दा, उ॒त वा॒ सन्ति॑ गो॒दा ये व॑स्त्र॒दाः सु॒भगा॒स्तेषु॒ रायः॑ ||{8/18}{5.42.8}{5.3.10.8}{4.2.18.3}{338, 396, 3979}

तव॑¦ऊ॒तिऽभिः॑¦सच॑मानाः¦अरि॑ष्टाः¦बृह॑स्पते¦म॒घऽवा᳚नः¦सु॒ऽवीराः᳚ |
ये¦अ॒श्व॒ऽदाः¦उ॒त¦वा॒¦सन्ति॑¦गो॒ऽदाः¦ये¦व॒स्त्र॒ऽदाः¦सु॒ऽभगाः᳚¦तेषु॑¦रायः॑ ||

वि॒स॒र्माणं᳚ कृणुहि वि॒त्तमे᳚षां॒ ये भु॒ञ्जते॒, अपृ॑णन्तो न उ॒क्थैः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

अप᳚व्रतान्‌ प्रस॒वे वा᳚वृधा॒नान् ब्र᳚ह्म॒द्विषः॒ सूर्या᳚द्‌ यावयस्व ||{9/18}{5.42.9}{5.3.10.9}{4.2.18.4}{339, 396, 3980}

वि॒ऽस॒र्माण᳚‌म्¦कृ॒णु॒हि॒¦वि॒त्त‌म्¦ए॒षा॒‌म्¦ये¦भुं॒जते᳚¦अपृ॑णन्तः¦नः॒¦उ॒क्थैः |
अप॑ऽव्रतान्¦प्र॒ऽस॒वे¦व॒वृ॒धा॒नान्¦ब्र॒ह्म॒ऽद्विषः॑¦सूर्या᳚त्¦य॒व॒य॒स्व॒ ||

य ओह॑ते र॒क्षसो᳚ दे॒ववी᳚तावच॒क्रेभि॒स्तं म॑रुतो॒ नि या᳚त |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

यो वः॒ शमीं᳚ शशमा॒नस्य॒ निन्दा᳚त् तु॒च्छ्यान्‌ कामा᳚न्‌ करते सिष्विदा॒नः ||{10/18}{5.42.10}{5.3.10.10}{4.2.18.5}{340, 396, 3981}

यः¦ओह॑ते¦र॒क्षसः॑¦दे॒वऽवी᳚तौ¦अ॒च॒क्रेभिः॑¦त‌म्¦म॒रु॒तः॒¦नि¦या॒त॒ |
यः¦वः॒¦शमी᳚‌म्¦श॒श॒मा॒नस्य॑¦निन्दा᳚त्¦तु॒च्छ्यान्¦कामा᳚न्¦क॒र॒ते॒¦सि॒स्वि॒दा॒नः ||

तमु॑ ष्टुहि॒ यः स्वि॒षुः सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑ |{भौमोत्रिः | रुद्रः | त्रिष्टुप्}

यक्ष्वा᳚ म॒हे सौ᳚मन॒साय॑ रु॒द्रं नमो᳚भिर्दे॒वमसु॑रं दुवस्य ||{11/18}{5.42.11}{5.3.10.11}{4.2.19.1}{341, 396, 3982}

त‌म्¦ऊँ॒ इति॑¦स्तु॒हि॒¦यः¦सु॒ऽ‌इ॒षुः¦सु॒ऽधन्वा᳚¦यः¦विश्व॑स्य¦क्षय॑ति¦भे॒ष॒जस्य॑ |
यक्ष्व॑¦म॒हे¦सौ॒म॒न॒साय॑¦रु॒द्र‌म्¦नमः॑ऽभिः¦दे॒व‌म्¦असु॑र‌म्¦दु॒व॒स्य॒ ||

दमू᳚नसो, अ॒पसो॒ ये सु॒हस्ता॒ वृष्णः॒ पत्नी᳚र्न॒द्यो᳚ विभ्वत॒ष्टाः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सर॑स्वती बृहद्दि॒वोत रा॒का द॑श॒स्यन्ती᳚र्वरिवस्यन्तु शु॒भ्राः ||{12/18}{5.42.12}{5.3.10.12}{4.2.19.2}{342, 396, 3983}

दमू᳚नसः¦अ॒पसः॑¦ये¦सु॒ऽहस्ताः᳚¦वृष्णः॑¦पत्नीः᳚¦न॒द्यः॑¦वि॒भ्व॒ऽत॒ष्टाः |
सर॑स्वती¦बृ॒ह॒त्ऽदि॒वा¦उ॒त¦रा॒का¦द॒श॒स्यन्तीः᳚¦व॒रि॒व॒स्य॒न्तु॒¦शु॒भ्राः ||

प्र सू म॒हे सु॑शर॒णाय॑ मे॒धां गिरं᳚ भरे॒ नव्य॑सीं॒ जाय॑मानाम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

य आ᳚ह॒ना दु॑हि॒तुर्व॒क्षणा᳚सु रू॒पा मि॑ना॒नो, अकृ॑णोदि॒दं नः॑ ||{13/18}{5.42.13}{5.3.10.13}{4.2.19.3}{343, 396, 3984}

प्र¦सु¦म॒हे¦सु॒ऽश॒र॒णाय॑¦मे॒धा‌म्¦गिर᳚‌म्¦भ॒रे॒¦नव्य॑सी‌म्¦जाय॑माना‌म् |
यः¦आ॒ह॒नाः¦दु॒हि॒तुः¦व॒क्षणा᳚सु¦रू॒पा¦मि॒ना॒नः¦अकृ॑णोत्¦इ॒द‌म्¦नः॒ ||

प्र सु॑ष्टु॒तिः स्त॒नय᳚न्तं रु॒वन्त॑मि॒ळस्पतिं᳚ जरितर्नू॒नम॑श्याः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

यो, अ॑ब्दि॒माँ, उ॑दनि॒माँ, इय॑र्ति॒ प्र वि॒द्युता॒ रोद॑सी, उ॒क्षमा᳚णः ||{14/18}{5.42.14}{5.3.10.14}{4.2.19.4}{344, 396, 3985}

प्र¦सु॒ऽस्तु॒तिः¦स्त॒नय᳚न्त‌म्¦रु॒वन्त᳚‌म्¦इ॒ळः¦पति᳚‌म्¦ज॒रि॒तः॒¦नू॒न‌म्¦अ॒श्याः॒ |
यः¦अ॒ब्दि॒ऽमान्¦उ॒द॒नि॒ऽमान्¦इय॑र्ति¦प्र¦वि॒ऽद्युता᳚¦रोद॑सी॒ इति॑¦उ॒क्षमा᳚णः ||

ए॒ष स्तोमो॒ मारु॑तं॒ शर्धो॒, अच्छा᳚ रु॒द्रस्य॑ सू॒नूँर्यु॑व॒न्यूँरुद॑श्याः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

कामो᳚ रा॒ये ह॑वते मा स्व॒स्त्युप॑ स्तुहि॒ पृष॑दश्वाँ, अ॒यासः॑ ||{15/18}{5.42.15}{5.3.10.15}{4.2.19.5}{345, 396, 3986}

ए॒षः¦स्तोमः॑¦मारु॑त‌म्¦शर्धः॑¦अच्छ॑¦रु॒द्रस्य॑¦सू॒नून्¦यु॒व॒न्यून्¦उत्¦अ॒श्याः॒ |
कामः॑¦रा॒ये¦ह॒व॒ते॒¦मा॒¦स्व॒स्ति¦उप॑¦स्तु॒हि॒¦पृष॑त्।आश्वान्¦अ॒यासः॑ ||

प्रैष स्तोमः॑ पृथि॒वीम॒न्तरि॑क्षं॒ वन॒स्पतीँ॒रोष॑धी रा॒ये, अ॑श्याः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

दे॒वोदे᳚वः सु॒हवो᳚ भूतु॒ मह्यं॒ मा नो᳚ मा॒ता पृ॑थि॒वी दु᳚र्म॒तौ धा᳚त् ||{16/18}{5.42.16}{5.3.10.16}{4.2.19.6}{346, 396, 3987}

प्र¦ए॒षः¦स्तोमः॑¦पृ॒थि॒वी‌म्¦अ॒न्तरि॑क्ष‌म्¦वन॒स्पती᳚न्¦ओष॑धीः¦रा॒ये¦अ॒श्याः॒ |
दे॒वःऽदे᳚वः¦सु॒ऽहवः॑¦भू॒तु॒¦मह्य᳚‌म्¦मा¦नः॒¦मा॒ता¦पृ॒थि॒वी¦दुः॒ऽम॒तौ¦धा॒त् ||

उ॒रौ दे᳚वा, अनिबा॒धे स्या᳚म ||{भौमोत्रिः | विश्वदेवाः | एकपदाविराट्}{17/18}{5.42.17}{5.3.10.17}{4.2.19.7}{347, 396, 3988}

उ॒रौ¦दे॒वाः॒¦अ॒नि॒ऽबा॒धे¦स्या॒म॒ ||

सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा᳚ सु॒प्रणी᳚ती गमेम |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

आ नो᳚ र॒यिं व॑हत॒मोत वी॒राना विश्वा᳚न्यमृता॒ सौभ॑गानि ||{18/18}{5.42.18}{5.3.10.18}{4.2.19.8}{348, 396, 3989}

स‌म्¦अ॒श्विनोः᳚¦अव॑सा¦नूत॑नेन¦म॒यः॒ऽभुवा᳚¦सु॒ऽप्रनी᳚ती¦ग॒मे॒म॒ |
आ¦नः॒¦र॒यि‌म्¦व॒ह॒त॒‌म्¦आ¦उ॒त¦वी॒रान्¦आ¦विश्वा᳚नि¦अ॒मृ॒ता॒¦सौभ॑गानि ||

[43] आधेनवइति सप्तदशर्चस्य सूक्तस्य भौमोत्रिर्विश्वेदेवास्त्रिष्टुप् षोडश्येकपदाविराट् (भेदपक्षे - नदी १ द्यावापृथिवी १ वायुः १ सोमः १ इंद्रः १ अग्निः १ धर्मः १ अश्विनौ १ विश्वेदेवाः २ सरस्वती १ बृहस्पतिः १ अग्निः ३ विश्वेदेवाः १ अश्विनौ १ एवं १७) |
आ धे॒नवः॒ पय॑सा॒ तूर्ण्य॑र्था॒, अम॑र्धन्ती॒रुप॑ नो यन्तु॒ मध्वा᳚ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

म॒हो रा॒ये बृ॑ह॒तीः स॒प्त विप्रो᳚ मयो॒भुवो᳚ जरि॒ता जो᳚हवीति ||{1/17}{5.43.1}{5.3.11.1}{4.2.20.1}{349, 397, 3990}

आ¦धे॒नवः॑¦पय॑सा¦तूर्णि॑।आर्थाः¦अम॑र्धन्तीः¦उप॑¦नः॒¦य॒न्तु॒¦मध्वा᳚ |
म॒हः¦रा॒ये¦बृ॒ह॒तीः¦स॒प्त¦विप्रः॑¦म॒यः॒ऽभुवः॑¦ज॒रि॒ता¦जो॒ह॒वी॒ति॒ ||

आ सु॑ष्टु॒ती नम॑सा वर्त॒यध्यै॒ द्यावा॒ वाजा᳚य पृथि॒वी, अमृ॑ध्रे |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

पि॒ता मा॒ता मधु॑वचाः सु॒हस्ता॒ भरे᳚भरे नो य॒शसा᳚वविष्टाम् ||{2/17}{5.43.2}{5.3.11.2}{4.2.20.2}{350, 397, 3991}

आ¦सु॒ऽस्तु॒ती¦नम॑सा¦व॒र्त॒यध्यै᳚¦द्यावा᳚¦वाजा᳚य¦पृ॒थि॒वी इति॑¦अमृ॑ध्रे॒ इति॑ |
पि॒ता¦मा॒ता¦मधु॑ऽवचाः¦सु॒ऽहस्ता᳚¦भरे᳚ऽभरे¦नः॒¦य॒शसौ᳚¦अ॒वि॒ष्टा॒‌म् ||

अध्व᳚र्यवश्चकृ॒वांसो॒ मधू᳚नि॒ प्र वा॒यवे᳚ भरत॒ चारु॑ शु॒क्रम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

होते᳚व नः प्रथ॒मः पा᳚ह्य॒स्य देव॒ मध्वो᳚ ररि॒मा ते॒ मदा᳚य ||{3/17}{5.43.3}{5.3.11.3}{4.2.20.3}{351, 397, 3992}

अध्व᳚र्यवः¦च॒कृ॒ऽवांसः॑¦मधू᳚नि¦प्र¦वा॒यवे᳚¦भ॒र॒त॒¦चारु॑¦शु॒क्र‌म् |
होता᳚ऽ‌इव¦नः॒¦प्र॒थ॒मः¦पा॒हि॒¦अ॒स्य¦देव॑¦मध्वः॑¦र॒रि॒म¦ते॒¦मदा᳚य ||

दश॒ क्षिपो᳚ युञ्जते बा॒हू, अद्रिं॒ सोम॑स्य॒ या श॑मि॒तारा᳚ सु॒हस्ता᳚ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

मध्वो॒ रसं᳚ सु॒गभ॑स्तिर्गिरि॒ष्ठां चनि॑श्चदद्‌ दुदुहे शु॒क्रमं॒शुः ||{4/17}{5.43.4}{5.3.11.4}{4.2.20.4}{352, 397, 3993}

दश॑¦क्षिपः॑¦युं॒ज॒ते॒¦बा॒हू इति॑¦अद्रि᳚‌म्¦सोम॑स्य¦या¦श॒मि॒तारा᳚¦सु॒ऽहस्ता᳚ |
मध्वः॑¦रस᳚‌म्¦सु॒ऽगभ॑स्तिः¦गि॒रि॒ऽस्था‌म्¦चनि॑श्चदत्¦दु॒दु॒हे॒¦शु॒क्र‌म्¦अं॒शुः ||

असा᳚वि ते जुजुषा॒णाय॒ सोमः॒ क्रत्वे॒ दक्षा᳚य बृह॒ते मदा᳚य |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

हरी॒ रथे᳚ सु॒धुरा॒ योगे᳚, अ॒र्वागिन्द्र॑ प्रि॒या कृ॑णुहि हू॒यमा᳚नः ||{5/17}{5.43.5}{5.3.11.5}{4.2.20.5}{353, 397, 3994}

असा᳚वि¦ते॒¦जु॒जु॒षा॒णाय॑¦सोमः॑¦क्रत्वे᳚¦दक्षा᳚य¦बृ॒ह॒ते¦मदा᳚य |
हरी॒ इति॑¦रथे᳚¦सु॒ऽधुरा᳚¦योगे᳚¦अ॒र्वाक्¦इन्द्र॑¦प्रि॒या¦कृ॒णु॒हि॒¦हू॒यमा᳚नः ||

आ नो᳚ म॒हीम॒रम॑तिं स॒जोषा॒ ग्नां दे॒वीं नम॑सा रा॒तह᳚व्याम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

मधो॒र्मदा᳚य बृह॒तीमृ॑त॒ज्ञामाग्ने᳚ वह प॒थिभि॑र्देव॒यानैः᳚ ||{6/17}{5.43.6}{5.3.11.6}{4.2.21.1}{354, 397, 3995}

आ¦नः॒¦म॒ही‌म्¦अ॒रम॑ति‌म्¦स॒ऽजोषाः᳚¦ग्ना‌म्¦दे॒वी‌म्¦नम॑सा¦रा॒तऽह᳚व्या‌म् |
मधोः᳚¦मदा᳚य¦बृ॒ह॒ती‌म्¦ऋ॒त॒ऽज्ञा‌म्¦आ¦अ॒ग्ने॒¦व॒ह॒¦प॒थिऽभिः॑¦दे॒व॒ऽयानैः᳚ ||

अ॒ञ्जन्ति॒ यं प्र॒थय᳚न्तो॒ न विप्रा᳚ व॒पाव᳚न्तं॒ नाग्निना॒ तप᳚न्तः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

पि॒तुर्न पु॒त्र उ॒पसि॒ प्रेष्ठ॒ आ घ॒र्मो, अ॒ग्निमृ॒तय᳚न्नसादि ||{7/17}{5.43.7}{5.3.11.7}{4.2.21.2}{355, 397, 3996}

अं॒जन्ति॑¦य‌म्¦प्र॒थय᳚न्तः¦न¦विप्राः᳚¦व॒पाऽव᳚न्त‌म्¦न¦अ॒ग्निना᳚¦तप᳚न्तः |
पि॒तुः¦न¦पु॒त्रः¦उ॒पसि॑¦प्रेष्ठः॑¦आ¦घ॒र्मः¦अ॒ग्नि‌म्¦ऋ॒तय॑न्¦अ॒सा॒दि॒ ||

अच्छा᳚ म॒ही बृ॑ह॒ती शंत॑मा॒ गीर्दू॒तो न ग᳚न्त्व॒श्विना᳚ हु॒वध्यै᳚ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

म॒यो॒भुवा᳚ स॒रथा या᳚तम॒र्वाग्ग॒न्तं नि॒धिं धुर॑मा॒णिर्न नाभि᳚म् ||{8/17}{5.43.8}{5.3.11.8}{4.2.21.3}{356, 397, 3997}

अच्छ॑¦म॒ही¦बृ॒ह॒ती¦श‌म्ऽत॑मा¦गीः¦दू॒तः¦न¦ग॒न्तु॒¦अ॒श्विना᳚¦हु॒वध्यै᳚ |
म॒यः॒ऽभुवा᳚¦स॒ऽरथा᳚¦आ¦या॒त॒‌म्¦अ॒र्वाक्¦ग॒न्त‌म्¦नि॒ऽधि‌म्¦धुर᳚‌म्¦आ॒णिः¦न¦नाभि᳚‌म् ||

प्र तव्य॑सो॒ नम॑उक्तिं तु॒रस्या॒ऽहं पू॒ष्ण उ॒त वा॒योर॑दिक्षि |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

या राध॑सा चोदि॒तारा᳚ मती॒नां या वाज॑स्य द्रविणो॒दा, उ॒त त्मन् ||{9/17}{5.43.9}{5.3.11.9}{4.2.21.4}{357, 397, 3998}

प्र¦तव्य॑सः¦नमः॑।औक्ति‌म्¦तु॒रस्य॑¦अ॒ह‌म्¦पू॒ष्णः¦उ॒त¦वा॒योः¦अ॒दि॒क्षि॒ |
या¦राध॑सा¦चो॒दि॒तारा᳚¦म॒ती॒ना‌म्¦या¦वाज॑स्य¦द्र॒वि॒णः॒ऽदौ¦उ॒त¦त्मन् ||

आ नाम॑भिर्म॒रुतो᳚ वक्षि॒ विश्वा॒ना रू॒पेभि॑र्जातवेदो हुवा॒नः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

य॒ज्ञं गिरो᳚ जरि॒तुः सु॑ष्टु॒तिं च॒ विश्वे᳚ गन्त मरुतो॒ विश्व॑ ऊ॒ती ||{10/17}{5.43.10}{5.3.11.10}{4.2.21.5}{358, 397, 3999}

आ¦नाम॑ऽभिः¦म॒रुतः॑¦व॒क्षि॒¦विश्वा᳚न्¦आ¦रू॒पेभिः॑¦जा॒त॒ऽवे॒दः॒¦हु॒वा॒नः |
य॒ज्ञ‌म्¦गिरः॑¦ज॒रि॒तुः¦सु॒ऽस्तु॒ति‌म्¦च॒¦विश्वे᳚¦ग॒न्त॒¦म॒रु॒तः॒¦विश्वे᳚¦ऊ॒ती ||

आ नो᳚ दि॒वो बृ॑ह॒तः पर्व॑ता॒दा सर॑स्वती यज॒ता ग᳚न्तु य॒ज्ञम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

हवं᳚ दे॒वी जु॑जुषा॒णा घृ॒ताची᳚ श॒ग्मां नो॒ वाच॑मुश॒ती शृ॑णोतु ||{11/17}{5.43.11}{5.3.11.11}{4.2.22.1}{359, 397, 4000}

आ¦नः॒¦दि॒वः¦बृ॒ह॒तः¦पर्व॑तात्¦आ¦सर॑स्वती¦य॒ज॒ता¦ग॒न्तु॒¦य॒ज्ञ‌म् |
हव᳚‌म्¦दे॒वी¦जु॒जु॒षा॒णा¦घृ॒ताची᳚¦श॒ग्मा‌म्¦नः॒¦वाच᳚‌म्¦उ॒श॒ती¦शृ॒णो॒तु॒ ||

आ वे॒धसं॒ नील॑पृष्ठं बृ॒हन्तं॒ बृह॒स्पतिं॒ सद॑ने सादयध्वम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सा॒दद्यो᳚निं॒ दम॒ आ दी᳚दि॒वांसं॒ हिर᳚ण्यवर्णमरु॒षं स॑पेम ||{12/17}{5.43.12}{5.3.11.12}{4.2.22.2}{360, 397, 4001}

आ¦वे॒धस᳚‌म्¦नील॑ऽपृष्ठ‌म्¦बृ॒हन्त᳚‌म्¦बृह॒स्पति᳚‌म्¦सद॑ने¦सा॒द॒य॒ध्व॒‌म् |
सा॒दत्ऽयो᳚नि‌म्¦दमे᳚¦आ¦दी॒दि॒ऽवांस᳚‌म्¦हिर᳚ण्यऽवर्ण‌म्¦अ॒रु॒ष‌म्¦स॒पे॒म॒ ||

आ ध᳚र्ण॒सिर्बृ॒हद्दि॑वो॒ ररा᳚णो॒ विश्वे᳚भिर्ग॒न्त्वोम॑भिर्हुवा॒नः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

ग्ना वसा᳚न॒ ओष॑धी॒रमृ॑ध्रस्त्रि॒धातु॑शृङ्गो वृष॒भो व॑यो॒धाः ||{13/17}{5.43.13}{5.3.11.13}{4.2.22.3}{361, 397, 4002}

आ¦ध॒र्ण॒सिः¦बृ॒हत्ऽदि॑वः¦ररा᳚णः¦विश्वे᳚भिः¦ग॒न्तु॒¦ओम॑ऽभिः¦हु॒वा॒नः |
ग्नाः¦वसा᳚नः¦ओष॑धीः¦अमृ॑ध्रः¦त्रि॒धातु॑ऽशृङ्गः¦वृ॒ष॒भः¦व॒यः॒ऽधाः ||

मा॒तुष्प॒दे प॑र॒मे शु॒क्र आ॒योर्वि॑प॒न्यवो᳚ रास्पि॒रासो᳚, अग्मन् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सु॒शेव्यं॒ नम॑सा रा॒तह᳚व्याः॒ शिशुं᳚ मृजन्त्या॒यवो॒ न वा॒से ||{14/17}{5.43.14}{5.3.11.14}{4.2.22.4}{362, 397, 4003}

मा॒तुः¦प॒दे¦प॒र॒मे¦शु॒क्रे¦आ॒योः¦वि॒प॒न्यवः॑¦रा॒स्पि॒रासः॑¦अ॒ग्म॒न् |
सु॒ऽशेव्य᳚‌म्¦नम॑सा¦रा॒तऽह᳚व्याः¦शिशु᳚‌म्¦मृ॒ज॒न्ति॒¦आ॒यवः॑¦न¦वा॒से ||

बृ॒हद्वयो᳚ बृह॒ते तुभ्य॑मग्ने धिया॒जुरो᳚ मिथु॒नासः॑ सचन्त |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

दे॒वोदे᳚वः सु॒हवो᳚ भूतु॒ मह्यं॒ मा नो᳚ मा॒ता पृ॑थि॒वी दु᳚र्म॒तौ धा᳚त् ||{15/17}{5.43.15}{5.3.11.15}{4.2.22.5}{363, 397, 4004}

बृ॒हत्¦वयः॑¦बृ॒ह॒ते¦तुभ्य᳚‌म्¦अ॒ग्ने॒¦धि॒या॒ऽजुरः॑¦मि॒थु॒नासः॑¦स॒च॒न्त॒ |
दे॒वःऽदे᳚वः¦सु॒ऽहवः॑¦भू॒तु॒¦मह्य᳚‌म्¦मा¦नः॒¦मा॒ता¦पृ॒थि॒वी¦दुः॒ऽम॒तौ¦धा॒त् ||

उ॒रौ दे᳚वा, अनिबा॒धे स्या᳚म ||{भौमोत्रिः | विश्वदेवाः | एकपदाविराट्}{16/17}{5.43.16}{5.3.11.16}{4.2.22.6}{364, 397, 4005}

उ॒रौ¦दे॒वाः॒¦अ॒नि॒ऽबा॒धे¦स्या॒म॒ ||

सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा᳚ सु॒प्रणी᳚ती गमेम |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

आ नो᳚ र॒यिं व॑हत॒मोत वी॒राना विश्वा᳚न्यमृता॒ सौभ॑गानि ||{17/17}{5.43.17}{5.3.11.17}{4.2.22.7}{365, 397, 4006}

स‌म्¦अ॒श्विनोः᳚¦अव॑सा¦नूत॑नेन¦म॒यः॒ऽभुवा᳚¦सु॒ऽप्रनी᳚ती¦ग॒मे॒म॒ |
आ¦नः॒¦र॒यि‌म्¦व॒ह॒त॒‌म्¦आ¦उ॒त¦वी॒रान्¦आ¦विश्वा᳚नि¦अ॒मृ॒ता॒¦सौभ॑गानि ||

[44] तंप्रत्नथेति पंचदशर्चस्य सूक्तस्य काश्यपोवत्सारोविश्वेदेवाजगत्यंत्येद्वेत्रिष्टुभौ (भेदपक्षे - इंद्रः २ अग्निः १ सूर्यः १ अग्निः १ विश्वेदेवाः १ सूर्यः १ अग्निः १ सूर्यः २ विश्वेदेवाः २ सुतंभरः १ अग्निः २ एवं १५) |
तं प्र॒त्नथा᳚ पू॒र्वथा᳚ वि॒श्वथे॒मथा᳚ ज्ये॒ष्ठता᳚तिं बर्हि॒षदं᳚ स्व॒र्विद᳚म् |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

प्र॒ती॒ची॒नं वृ॒जनं᳚ दोहसे गि॒राऽऽशुं जय᳚न्त॒मनु॒ यासु॒ वर्ध॑से ||{1/15}{5.44.1}{5.3.12.1}{4.2.23.1}{366, 398, 4007}

त‌म्¦प्र॒त्नऽथा᳚¦पू॒र्वऽथा᳚¦वि॒श्वऽथा᳚¦इ॒‌म्।आथा᳚¦ज्ये॒ष्ठऽता᳚ति‌म्¦ब॒र्हि॒ऽसद᳚‌म्¦स्वः॒ऽविद᳚‌म् |
प्र॒ती॒ची॒न‌म्¦वृ॒जन᳚‌म्¦दो॒ह॒से॒¦गि॒रा¦आ॒शु‌म्¦जय᳚न्त‌म्¦अनु॑¦यासु॑¦वर्ध॑से ||

श्रि॒ये सु॒दृशी॒रुप॑रस्य॒ याः स्व᳚र्वि॒रोच॑मानः क॒कुभा᳚मचो॒दते᳚ |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

सु॒गो॒पा, अ॑सि॒ न दभा᳚य सुक्रतो प॒रो मा॒याभि᳚रृ॒त आ᳚स॒ नाम॑ ते ||{2/15}{5.44.2}{5.3.12.2}{4.2.23.2}{367, 398, 4008}

श्रि॒ये¦सु॒ऽदृशीः᳚¦उप॑रस्य¦याः¦स्वः॑¦वि॒ऽरोच॑मानः¦क॒कुभा᳚‌म्¦अ॒चो॒दते᳚ |
सु॒ऽगो॒पाः¦अ॒सि॒¦न¦दभा᳚य¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो¦प॒रः¦मा॒याभिः॑¦ऋ॒ते¦आ॒स॒¦नाम॑¦ते॒ ||

अत्यं᳚ ह॒विः स॑चते॒ सच्च॒ धातु॒ चारि॑ष्टगातुः॒ स होता᳚ सहो॒भरिः॑ |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

प्र॒सर्स्रा᳚णो॒, अनु॑ ब॒र्हिर्वृषा॒ शिशु॒र्मध्ये॒ युवा॒जरो᳚ वि॒स्रुहा᳚ हि॒तः ||{3/15}{5.44.3}{5.3.12.3}{4.2.23.3}{368, 398, 4009}

अत्य᳚‌म्¦ह॒विः¦स॒च॒ते॒¦सत्¦च॒¦धातु॑¦च॒¦अरि॑ष्टऽगातुः¦सः¦होता᳚¦स॒हः॒ऽभरिः॑ |
प्र॒ऽसर्स्रा᳚णः¦अनु॑¦ब॒र्हिः¦वृषा᳚¦शिशुः॑¦मध्ये᳚¦युवा᳚¦अ॒जरः॑¦वि॒ऽस्रुहा᳚¦हि॒तः ||

प्र व॑ ए॒ते सु॒युजो॒ याम᳚न्नि॒ष्टये॒ नीची᳚र॒मुष्मै᳚ य॒म्य॑ ऋता॒वृधः॑ |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

सु॒यन्तु॑भिः सर्वशा॒सैर॒भीशु॑भिः॒ क्रिवि॒र्नामा᳚नि प्रव॒णे मु॑षायति ||{4/15}{5.44.4}{5.3.12.4}{4.2.23.4}{369, 398, 4010}

प्र¦वः॒¦ए॒ते¦सु॒ऽयुजः॑¦याम॑न्¦इ॒ष्टये᳚¦नीचीः᳚¦अ॒मुष्मै᳚¦य॒म्यः॑¦ऋ॒त॒ऽवृधः॑ |
सु॒यन्तु॑ऽभिः¦स॒र्व॒ऽशा॒सैः¦अ॒भीशु॑ऽभिः¦क्रिविः॑¦नामा᳚नि¦प्र॒व॒णे¦मु॒षा॒य॒ति॒ ||

सं॒जर्भु॑राण॒स्तरु॑भिः सुते॒गृभं᳚ वया॒किनं᳚ चि॒त्तग॑र्भासु सु॒स्वरुः॑ |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

धा॒र॒वा॒केष्वृ॑जुगाथ शोभसे॒ वर्ध॑स्व॒ पत्नी᳚र॒भि जी॒वो, अ॑ध्व॒रे ||{5/15}{5.44.5}{5.3.12.5}{4.2.23.5}{370, 398, 4011}

स॒‌म्ऽजर्भु॑राणः¦तरु॑ऽभिः¦सु॒ते॒ऽगृभ᳚‌म्¦व॒या॒किन᳚‌म्¦चि॒त्तऽग॑र्भासु¦सु॒ऽस्वरुः॑ |
धा॒र॒ऽवा॒केषु॑¦ऋ॒जु॒ऽगा॒थ॒¦शो॒भ॒से॒¦वर्ध॑स्व¦पत्नीः᳚¦अ॒भि¦जी॒वः¦अ॒ध्व॒रे ||

या॒दृगे॒व ददृ॑शे ता॒दृगु॑च्यते॒ सं छा॒यया᳚ दधिरे सि॒ध्रया॒प्स्वा |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

म॒हीम॒स्मभ्य॑मुरु॒षामु॒रु ज्रयो᳚ बृ॒हत्‌ सु॒वीर॒मन॑पच्युतं॒ सहः॑ ||{6/15}{5.44.6}{5.3.12.6}{4.2.24.1}{371, 398, 4012}

या॒दृक्¦ए॒व¦ददृ॑शे¦ता॒दृक्¦उ॒च्य॒ते॒¦स‌म्¦छा॒यया᳚¦द॒धि॒रे॒¦सि॒ध्रया᳚¦अ॒प्ऽसु¦आ |
म॒ही‌म्¦अ॒स्मभ्य᳚‌म्¦उ॒रु॒ऽसा‌म्¦उ॒रु¦ज्रयः॑¦बृ॒हत्¦सु॒ऽवीर᳚‌म्¦अन॑पऽच्युत‌म्¦सहः॑ ||

वेत्यग्रु॒र्जनि॑वा॒न्‌ वा, अति॒ स्पृधः॑ समर्य॒ता मन॑सा॒ सूर्यः॑ क॒विः |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

घ्रं॒सं रक्ष᳚न्तं॒ परि॑ वि॒श्वतो॒ गय॑म॒स्माकं॒ शर्म॑ वनव॒त्‌ स्वाव॑सुः ||{7/15}{5.44.7}{5.3.12.7}{4.2.24.2}{372, 398, 4013}

वेति॑¦अग्रुः॑¦जनि॑ऽवान्¦वै¦अति॑¦स्पृधः॑¦स॒ऽम॒र्य॒ता¦मन॑सा¦सूर्यः॑¦क॒विः |
घ्रं॒स‌म्¦रक्ष᳚न्त‌म्¦परि॑¦वि॒श्वतः॑¦गय᳚‌म्¦अ॒स्माक᳚‌म्¦शर्म॑¦व॒न॒व॒त्¦स्वऽव॑सुः ||

ज्यायां᳚सम॒स्य य॒तुन॑स्य के॒तुन॑ ऋषिस्व॒रं च॑रति॒ यासु॒ नाम॑ ते |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

या॒दृश्मि॒न्‌ धायि॒ तम॑प॒स्यया᳚ विद॒द्‌ य उ॑ स्व॒यं वह॑ते॒ सो, अरं᳚ करत् ||{8/15}{5.44.8}{5.3.12.8}{4.2.24.3}{373, 398, 4014}

ज्यायां᳚स‌म्¦अ॒स्य¦य॒तुन॑स्य¦के॒तुना᳚¦ऋ॒षि॒ऽस्व॒र‌म्¦च॒र॒ति॒¦यासु॑¦नाम॑¦ते॒ |
या॒दृश्मि॑न्¦धा॒यि॒¦त‌म्¦अ॒प॒स्यया᳚¦वि॒द॒त्¦यः¦ऊँ॒ इति॑¦स्व॒य‌म्¦वह॑ते¦सः¦अर᳚‌म्¦क॒र॒त् ||

स॒मु॒द्रमा᳚सा॒मव॑ तस्थे, अग्रि॒मा न रि॑ष्यति॒ सव॑नं॒ यस्मि॒न्नाय॑ता |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

अत्रा॒ न हार्दि॑ क्रव॒णस्य॑ रेजते॒ यत्रा᳚ म॒तिर्वि॒द्यते᳚ पूत॒बन्ध॑नी ||{9/15}{5.44.9}{5.3.12.9}{4.2.24.4}{374, 398, 4015}

स॒मु॒द्र‌म्¦आ॒सा॒‌म्¦अव॑¦त॒स्थे॒¦अ॒ग्रि॒मा¦न¦रि॒ष्य॒ति॒¦सव॑न‌म्¦यस्मि॑न्¦आऽय॑ता |
अत्र॑¦न¦हार्दि॑¦क्र॒व॒णस्य॑¦रे॒ज॒ते॒¦यत्र॑¦म॒तिः¦वि॒द्यते᳚¦पू॒त॒ऽबन्ध॑नी ||

स हि क्ष॒त्रस्य॑ मन॒सस्य॒ चित्ति॑भिरेवाव॒दस्य॑ यज॒तस्य॒ सध्रेः᳚ |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

अ॒व॒त्सा॒रस्य॑ स्पृणवाम॒ रण्व॑भिः॒ शवि॑ष्ठं॒ वाजं᳚ वि॒दुषा᳚ चि॒दर्ध्य᳚म् ||{10/15}{5.44.10}{5.3.12.10}{4.2.24.5}{375, 398, 4016}

सः¦हि¦क्ष॒त्रस्य॑¦म॒न॒सस्य॑¦चित्ति॑ऽभिः¦ए॒व॒ऽव॒दस्य॑¦य॒ज॒तस्य॑¦सध्रेः᳚ |
अ॒व॒ऽत्सा॒रस्य॑¦स्पृ॒ण॒वा॒म॒¦रण्व॑ऽभिः¦शवि॑ष्ठ‌म्¦वाज᳚‌म्¦वि॒दुषा᳚¦चि॒त्¦अर्ध्य᳚‌म् ||

श्ये॒न आ᳚सा॒मदि॑तिः क॒क्ष्यो॒३॑(ओ॒) मदो᳚ वि॒श्ववा᳚रस्य यज॒तस्य॑ मा॒यिनः॑ |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

सम॒न्यम᳚न्यमर्थय॒न्त्येत॑वे वि॒दुर्वि॒षाणं᳚ परि॒पान॒मन्ति॒ ते ||{11/15}{5.44.11}{5.3.12.11}{4.2.25.1}{376, 398, 4017}

श्ये॒नः¦आ॒सा॒‌म्¦अदि॑तिः¦क॒क्ष्यः॑¦मदः॑¦वि॒श्वऽवा᳚रस्य¦य॒ज॒तस्य॑¦मा॒यिनः॑ |
स‌म्¦अ॒न्य‌म्।आ᳚न्य‌म्¦अ॒र्थ॒य॒न्ति॒¦एत॑वे¦वि॒दुः¦वि॒ऽसाण᳚‌म्¦प॒रि॒ऽपान᳚‌म्¦अन्ति॑¦ते॒ ||

स॒दा॒पृ॒णो य॑ज॒तो वि द्विषो᳚ वधीद् बाहुवृ॒क्तः श्रु॑त॒वित्तर्यो᳚ वः॒ सचा᳚ |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

उ॒भा स वरा॒ प्रत्ये᳚ति॒ भाति॑ च॒ यदीं᳚ ग॒णं भज॑ते सुप्र॒याव॑भिः ||{12/15}{5.44.12}{5.3.12.12}{4.2.25.2}{377, 398, 4018}

स॒दा॒ऽपृ॒णः¦य॒ज॒तः¦वि¦द्विषः॑¦व॒धी॒त्¦बा॒हु॒ऽवृ॒क्तः¦श्रु॒त॒ऽवित्¦तर्यः॑¦वः॒¦सचा᳚ |
उ॒भा¦सः¦वरा᳚¦प्रति॑¦ए॒ति॒¦भाति॑¦च॒¦यत्¦ई॒‌म्¦ग॒ण‌म्¦भज॑ते¦सु॒प्र॒याव॑ऽभिः ||

सु॒त॒म्भ॒रो यज॑मानस्य॒ सत्प॑ति॒र्विश्वा᳚सा॒मूधः॒ स धि॒यामु॒दञ्च॑नः |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

भर॑द्‌ धे॒नू रस॑वच्छिश्रिये॒ पयो᳚ ऽनुब्रुवा॒णो, अध्ये᳚ति॒ न स्व॒पन् ||{13/15}{5.44.13}{5.3.12.13}{4.2.25.3}{378, 398, 4019}

सु॒त॒‌म्ऽभ॒रः¦यज॑मानस्य¦सत्ऽप॑तिः¦विश्वा᳚सा‌म्¦ऊधः॑¦सः¦धि॒या‌म्¦उ॒त्।आंच॑नः |
भर॑त्¦धे॒नुः¦रस॑ऽवत्¦शि॒श्रि॒ये॒¦पयः॑¦अ॒नु॒ऽब्रु॒वा॒णः¦अधि॑¦ए॒ति॒¦न¦स्व॒पन् ||

यो जा॒गार॒ तमृचः॑ कामयन्ते॒ यो जा॒गार॒ तमु॒ सामा᳚नि यन्ति |{काश्यपो वत्सारः | विश्वदेवाः | त्रिष्टुप्}

यो जा॒गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो᳚काः ||{14/15}{5.44.14}{5.3.12.14}{4.2.25.4}{379, 398, 4020}

यः¦जा॒गार॑¦त‌म्¦ऋचः॑¦का॒म॒य॒न्ते॒¦यः¦जा॒गार॑¦त‌म्¦ऊँ॒ इति॑¦सामा᳚नि¦य॒न्ति॒ |
यः¦जा॒गार॑¦त‌म्¦अ॒य‌म्¦सोमः॑¦आ॒ह॒¦तव॑¦अ॒ह‌म्¦अ॒स्मि॒¦स॒ख्ये¦निऽओ᳚काः ||

अ॒ग्निर्जा᳚गार॒ तमृचः॑ कामयन्ते॒ ऽग्निर्जा᳚गार॒ तमु॒ सामा᳚नि यन्ति |{काश्यपो वत्सारः | विश्वदेवाः | त्रिष्टुप्}

अ॒ग्निर्जा᳚गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो᳚काः ||{15/15}{5.44.15}{5.3.12.15}{4.2.25.5}{380, 398, 4021}

अ॒ग्निः¦जा॒गा॒र॒¦त‌म्¦ऋचः॑¦का॒म॒य॒न्ते॒¦अ॒ग्निः¦जा॒गा॒र॒¦त‌म्¦ऊँ॒ इति॑¦सामा᳚नि¦य॒न्ति॒ |
अ॒ग्निः¦जा॒गा॒र॒¦त‌म्¦अ॒य‌म्¦सोमः॑¦आ॒ह॒¦तव॑¦अ॒ह‌म्¦अ॒स्मि॒¦स॒ख्ये¦निऽओ᳚काः ||

[45] विदादिवइत्येकादशर्चस्य सूक्तस्यात्रेयः सदापृणो विश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - इंद्रसूर्यौ १ विश्वेदेवाः २ इंद्राग्नी १ विश्वेदेवाः ६ आपः १ एवं ११ (अत्रसूक्ते सदापृणर्षेर्यजतइत्यादि लिंगोक्तऋषिभिः समुच्चयइति केचित्) |
वि॒दा दि॒वो वि॒ष्यन्नद्रि॑मु॒क्थैरा᳚य॒त्या, उ॒षसो᳚, अ॒र्चिनो᳚ गुः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

अपा᳚वृत व्र॒जिनी॒रुत्‌ स्व॑र्गा॒द् वि दुरो॒ मानु॑षीर्दे॒व आ᳚वः ||{1/11}{5.45.1}{5.4.1.1}{4.2.26.1}{381, 399, 4022}

वि॒दाः¦दि॒वः¦वि॒ऽस्यन्¦अद्रि᳚‌म्¦उ॒क्थैः¦आ॒ऽय॒त्याः¦उ॒षसः॑¦अ॒र्चिनः॑¦गुः॒ |
अप॑¦अ॒वृ॒त॒¦व्र॒जिनीः᳚¦उत्¦स्वः॑¦गा॒त्¦वि¦दुरः॑¦मानु॑षीः¦दे॒वः¦आ॒व॒रित्या᳚वः ||

वि सूर्यो᳚, अ॒मतिं॒ न श्रियं᳚ सा॒दोर्वाद्‌ गवां᳚ मा॒ता जा᳚न॒ती गा᳚त् |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

धन्व᳚र्णसो न॒द्य१॑(अः॒) खादो᳚अर्णाः॒ स्थूणे᳚व॒ सुमि॑ता दृंहत॒ द्यौः ||{2/11}{5.45.2}{5.4.1.2}{4.2.26.2}{382, 399, 4023}

वि¦सूर्यः॑¦अ॒मति᳚‌म्¦न¦श्रिय᳚‌म्¦सा॒त्¦आ¦ऊ॒र्वात्¦गवा᳚‌म्¦मा॒ता¦जा॒न॒ती¦गा॒त् |
धन्व॑।आर्णसः¦न॒द्यः॑¦खादः॑।आर्णाः¦स्थूणा᳚ऽ‌इव¦सुऽमि॑ता¦दृं॒ह॒त॒¦द्यौः ||

अ॒स्मा, उ॒क्थाय॒ पर्व॑तस्य॒ गर्भो᳚ म॒हीनां᳚ ज॒नुषे᳚ पू॒र्व्याय॑ |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

वि पर्व॑तो॒ जिही᳚त॒ साध॑त॒ द्यौरा॒विवा᳚सन्तो दसयन्त॒ भूम॑ ||{3/11}{5.45.3}{5.4.1.3}{4.2.26.3}{383, 399, 4024}

अ॒स्मै¦उ॒क्थाय॑¦पर्व॑तस्य¦गर्भः॑¦म॒हीना᳚‌म्¦ज॒नुषे᳚¦पू॒र्व्याय॑ |
वि¦पर्व॑तः¦जिही᳚त¦साध॑त¦द्यौः¦आ॒ऽविवा᳚सन्तः¦द॒स॒य॒न्त॒¦भूम॑ ||

सू॒क्तेभि᳚र्वो॒ वचो᳚भिर्दे॒वजु॑ष्टै॒रिन्द्रा॒ न्व१॑(अ॒)ग्नी, अव॑से हु॒वध्यै᳚ |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

उ॒क्थेभि॒र्हि ष्मा᳚ क॒वयः॑ सुय॒ज्ञा, आ॒विवा᳚सन्तो म॒रुतो॒ यज᳚न्ति ||{4/11}{5.45.4}{5.4.1.4}{4.2.26.4}{384, 399, 4025}

सु॒।औ॒क्तेभिः॑¦वः॒¦वचः॑ऽभिः¦दे॒वऽजु॑ष्टैः¦इन्द्रा᳚¦नु¦अ॒ग्नी इति॑¦अव॑से¦हु॒वध्यै᳚ |
उ॒क्थेभिः॑¦हि¦स्म॒¦क॒वयः॑¦सु॒ऽय॒ज्ञाः¦आ॒ऽविवा᳚सन्तः¦म॒रुतः॑¦यज᳚न्ति ||

एतो॒ न्व१॑(अ॒)द्य सु॒ध्यो॒३॑(ओ॒) भवा᳚म॒ प्र दु॒च्छुना᳚ मिनवामा॒ वरी᳚यः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

आ॒रे द्वेषां᳚सि सनु॒तर्द॑धा॒माऽया᳚म॒ प्राञ्चो॒ यज॑मान॒मच्छ॑ ||{5/11}{5.45.5}{5.4.1.5}{4.2.26.5}{385, 399, 4026}

एतो॒ इति॑¦नु¦अ॒द्य¦सु॒ऽध्यः॑¦भवा᳚म¦प्र¦दु॒च्छुनाः᳚¦मि॒न॒वा॒म॒¦वरी᳚यः |
आ॒रे¦द्वेषां᳚सि¦स॒नु॒तः¦द॒धा॒म॒¦अया᳚म¦प्रांचः॑¦यज॑मान‌म्¦अच्छ॑ ||

एता॒ धियं᳚ कृ॒णवा᳚मा सखा॒यो ऽप॒ या मा॒ताँ, ऋ॑णु॒त व्र॒जं गोः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

यया॒ मनु᳚र्विशिशि॒प्रं जि॒गाय॒ यया᳚ व॒णिग्व॒ङ्कुरापा॒ पुरी᳚षम् ||{6/11}{5.45.6}{5.4.1.6}{4.2.27.1}{386, 399, 4027}

आ¦इ॒त॒¦धिय᳚‌म्¦कृ॒णवा᳚म¦स॒खा॒यः॒¦अप॑¦या¦मा॒ता¦ऋ॒णु॒त¦व्र॒ज‌म्¦गोः |
यया᳚¦मनुः॑¦वि॒शि॒ऽशि॒प्र‌म्¦जि॒गाय॑¦यया᳚¦व॒णिक्¦व॒ङ्कुः¦आप॑¦पुरी᳚ष‌म् ||

अनू᳚नो॒दत्र॒ हस्त॑यतो॒, अद्रि॒रार्च॒न्‌ येन॒ दश॑ मा॒सो नव॑ग्वाः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒तं य॒ती स॒रमा॒ गा, अ॑विन्द॒द् विश्वा᳚नि स॒त्याङ्गि॑राश्चकार ||{7/11}{5.45.7}{5.4.1.7}{4.2.27.2}{387, 399, 4028}

अनू᳚नोत्¦अत्र॑¦हस्त॑ऽयतः¦अद्रिः॑¦आर्च॑न्¦येन॑¦दश॑¦मा॒सः¦नव॑ऽग्वाः |
ऋ॒त‌म्¦य॒ती¦स॒रमा᳚¦गाः¦अ॒वि॒न्द॒त्¦विश्वा᳚नि¦स॒त्या¦अङ्गि॑राः¦च॒का॒र॒ ||

विश्वे᳚, अ॒स्या व्युषि॒ माहि॑नायाः॒ सं यद्‌ गोभि॒रङ्गि॑रसो॒ नव᳚न्त |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

उत्स॑ आसां पर॒मे स॒धस्थ॑ ऋ॒तस्य॑ प॒था स॒रमा᳚ विद॒द्‌ गाः ||{8/11}{5.45.8}{5.4.1.8}{4.2.27.3}{388, 399, 4029}

विश्वे᳚¦अ॒स्याः¦वि॒।औषि॑¦माहि॑नायाः¦स‌म्¦यत्¦गोभिः॑¦अङ्गि॑रसः¦नव᳚न्त |
उत्सः॑¦आ॒सा॒‌म्¦प॒र॒मे¦स॒धऽस्थे᳚¦ऋ॒तस्य॑¦प॒था¦स॒रमा᳚¦वि॒द॒त्¦गाः ||

आ सूर्यो᳚ यातु स॒प्ताश्वः॒, क्षेत्रं॒ यद॑स्योर्वि॒या दी᳚र्घया॒थे |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

र॒घुः श्ये॒नः प॑तय॒दन्धो॒, अच्छा॒ युवा᳚ क॒विर्दी᳚दय॒द्‌ गोषु॒ गच्छ॑न् ||{9/11}{5.45.9}{5.4.1.9}{4.2.27.4}{389, 399, 4030}

आ¦सूर्यः॑¦या॒तु॒¦स॒प्त।आ॑श्वः¦क्षेत्र᳚‌म्¦यत्¦अ॒स्य॒¦उ॒र्वि॒या¦दी॒र्घ॒ऽया॒थे |
र॒घुः¦श्ये॒नः¦प॒त॒य॒त्¦अन्धः॑¦अच्छ॑¦युवा᳚¦क॒विः¦दी॒द॒य॒त्¦गोषु॑¦गच्छ॑न् ||

आ सूर्यो᳚, अरुहच्छु॒क्रमर्णोऽयु॑क्त॒ यद्ध॒रितो᳚ वी॒तपृ॑ष्ठाः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

उ॒द्ना न नाव॑मनयन्त॒ धीरा᳚, आशृण्व॒तीरापो᳚, अ॒र्वाग॑तिष्ठन् ||{10/11}{5.45.10}{5.4.1.10}{4.2.27.5}{390, 399, 4031}

आ¦सूर्यः॑¦अ॒रु॒ह॒त्¦शु॒क्र‌म्¦अर्णः॑¦अयु॑क्त¦यत्¦ह॒रितः॑¦वी॒तऽपृ॑ष्ठाः |
उ॒द्ना¦न¦नाव᳚‌म्¦अ॒न॒य॒न्त॒¦धीराः᳚¦आ॒ऽशृ॒ण्व॒तीः¦आपः॑¦अ॒र्वाक्¦अ॒ति॒ष्ठ॒न् ||

धियं᳚ वो, अ॒प्सु द॑धिषे स्व॒र्षां ययात॑र॒न्‌ दश॑ मा॒सो नव॑ग्वाः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

अ॒या धि॒या स्या᳚म दे॒वगो᳚पा, अ॒या धि॒या तु॑तुर्या॒मात्यंहः॑ ||{11/11}{5.45.11}{5.4.1.11}{4.2.27.6}{391, 399, 4032}

धिय᳚‌म्¦वः॒¦अ॒प्ऽसु¦द॒धि॒षे॒¦स्वः॒ऽसा‌म्¦यया᳚¦अत॑रन्¦दश॑¦मा॒सः¦नव॑ऽग्वाः |
अ॒या¦धि॒या¦स्या॒म॒¦दे॒वऽगो᳚पाः¦अ॒या¦धि॒या¦तु॒तु॒र्या॒म॒¦अति॑¦अंहः॑ ||

[46] हयोनेत्यष्टर्चस्यसूक्तस्यात्रेयःप्रतिक्षत्रोविश्वेदेवाजगती सप्तम्यष्टम्योर्देवपत्न्यः द्वितीयांत्येत्रिष्टुभौ | (भेदपक्षे-विश्वेदेवाः ६ देवपत्न्यः २ एवं ८) |
हयो॒ न वि॒द्वाँ, अ॑युजि स्व॒यं धु॒रि तां व॑हामि प्र॒तर॑णीमव॒स्युव᳚म् |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती}

नास्या᳚ वश्मि वि॒मुचं॒ नावृतं॒ पुन᳚र्वि॒द्वान्‌ प॒थः पु॑रए॒त ऋ॒जु ने᳚षति ||{1/8}{5.46.1}{5.4.2.1}{4.2.28.1}{392, 400, 4033}

हयः॑¦न¦वि॒द्वान्¦अ॒यु॒जि॒¦स्व॒य‌म्¦धु॒रि¦ता‌म्¦व॒हा॒मि॒¦प्र॒ऽतर॑णी‌म्¦अ॒व॒स्युव᳚‌म् |
न¦अ॒स्याः॒¦व॒श्मि॒¦वि॒ऽमुच᳚‌म्¦न¦आ॒ऽवृत᳚‌म्¦पुनः॑¦वि॒द्वान्¦प॒थः¦पु॒रः॒ऽए॒ता¦ऋ॒जु¦ने॒ष॒ति॒ ||

अग्न॒ इन्द्र॒ वरु॑ण॒ मित्र॒ देवाः॒ शर्धः॒ प्र य᳚न्त॒ मारु॑तो॒त वि॑ष्णो |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | त्रिष्टुप्}

उ॒भा नास॑त्या रु॒द्रो, अध॒ ग्नाः पू॒षा भगः॒ सर॑स्वती जुषन्त ||{2/8}{5.46.2}{5.4.2.2}{4.2.28.2}{393, 400, 4034}

अग्ने᳚¦इन्द्र॑¦वरु॑ण¦मित्र॑¦देवाः᳚¦शर्धः॑¦प्र¦य॒न्त॒¦मारु॑त¦उ॒त¦वि॒ष्णो॒ इति॑ |
उ॒भा¦नास॑त्या¦रु॒द्रः¦अध॑¦ग्नाः¦पू॒षा¦भगः॑¦सर॑स्वती¦जु॒ष॒न्त॒ ||

इ॒न्द्रा॒ग्नी मि॒त्रावरु॒णादि॑तिं॒ स्वः॑ पृथि॒वीं द्यां म॒रुतः॒ पर्व॑ताँ, अ॒पः |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती}

हु॒वे विष्णुं᳚ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॒ भगं॒ नु शंसं᳚ सवि॒तार॑मू॒तये᳚ ||{3/8}{5.46.3}{5.4.2.3}{4.2.28.3}{394, 400, 4035}

इ॒न्द्रा॒ग्नी इति॑¦मि॒त्रावरु॑णा¦अदि॑ति‌म्¦स्व१॒॑रिति॒ स्वः॑¦पृ॒थि॒वी‌म्¦द्या‌म्¦म॒रुतः॑¦पर्व॑तान्¦अ॒पः |
हु॒वे¦विष्णु᳚‌म्¦पू॒षण᳚‌म्¦ब्रह्म॑णः¦पति᳚‌म्¦भग᳚‌म्¦नु¦शंस᳚‌म्¦स॒वि॒तार᳚‌म्¦ऊ॒तये᳚ ||

उ॒त नो॒ विष्णु॑रु॒त वातो᳚, अ॒स्रिधो᳚ द्रविणो॒दा, उ॒त सोमो॒ मय॑स्करत् |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती}

उ॒त ऋ॒भव॑ उ॒त रा॒ये नो᳚, अ॒श्विनो॒त त्वष्टो॒त विभ्वानु॑ मंसते ||{4/8}{5.46.4}{5.4.2.4}{4.2.28.4}{395, 400, 4036}

उ॒त¦नः॒¦विष्णुः॑¦उ॒त¦वातः॑¦अ॒स्रिधः॑¦द्र॒वि॒णः॒ऽदाः¦उ॒त¦सोमः॑¦मयः॑¦क॒र॒त् |
उ॒त¦ऋ॒भवः॑¦उ॒त¦रा॒ये¦नः॒¦अ॒श्विना᳚¦उ॒त¦त्वष्टा᳚¦उ॒त¦विऽभ्वा᳚¦अनु॑¦मं॒स॒ते॒ ||

उ॒त त्यन्नो॒ मारु॑तं॒ शर्ध॒ आ ग॑मद् दिविक्ष॒यं य॑ज॒तं ब॒र्हिरा॒सदे᳚ |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती}

बृह॒स्पतिः॒ शर्म॑ पू॒षोत नो᳚ यमद् वरू॒थ्य१॑(अं॒) वरु॑णो मि॒त्रो, अ᳚र्य॒मा ||{5/8}{5.46.5}{5.4.2.5}{4.2.28.5}{396, 400, 4037}

उ॒त¦त्यत्¦नः॒¦मारु॑त‌म्¦शर्धः॑¦आ¦ग॒म॒त्¦दि॒वि॒ऽक्ष॒य‌म्¦य॒ज॒त‌म्¦ब॒र्हिः¦आ॒ऽसदे᳚ |
बृह॒स्पतिः॑¦शर्म॑¦पू॒षा¦उ॒त¦नः॒¦य॒म॒त्¦व॒रू॒थ्य᳚‌म्¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा ||

उ॒त त्ये नः॒ पर्व॑तासः सुश॒स्तयः॑ सुदी॒तयो᳚ न॒द्य१॑(अ॒)स्त्राम॑णे भुवन् |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती}

भगो᳚ विभ॒क्ता शव॒साव॒सा ग॑मदुरु॒व्यचा॒, अदि॑तिः श्रोतु मे॒ हव᳚म् ||{6/8}{5.46.6}{5.4.2.6}{4.2.28.6}{397, 400, 4038}

उ॒त¦त्ये¦नः॒¦पर्व॑तासः¦सु॒ऽश॒स्तयः॑¦सु॒ऽदी॒तयः॑¦न॒द्यः॑¦त्राम॑णे¦भु॒व॒न् |
भगः॑¦वि॒ऽभ॒क्ता¦शव॑सा¦अव॑सा¦आ¦ग॒म॒त्¦उ॒रु॒ऽव्यचाः᳚¦अदि॑तिः¦श्रो॒तु॒¦मे॒¦हव᳚‌म् ||

दे॒वानां॒ पत्नी᳚रुश॒तीर॑वन्तु नः॒ प्राव᳚न्तु नस्तु॒जये॒ वाज॑सातये |{आत्रेयः प्रतिक्षत्रः | देवपत्न्यः | जगती}

याः पार्थि॑वासो॒ या, अ॒पामपि᳚ व्र॒ते ता नो᳚ देवीः सुहवाः॒ शर्म॑ यच्छत ||{7/8}{5.46.7}{5.4.2.7}{4.2.28.7}{398, 400, 4039}

दे॒वाना᳚‌म्¦पत्नीः᳚¦उ॒श॒तीः¦अ॒व॒न्तु॒¦नः॒¦प्र¦अ॒व॒न्तु॒¦नः॒¦तु॒जये᳚¦वाज॑ऽसातये |
याः¦पार्थि॑वासः¦याः¦अ॒पा‌म्¦अपि॑¦व्र॒ते¦ताः¦नः॒¦दे॒वीः॒¦सु॒ऽह॒वाः॒¦शर्म॑¦य॒च्छ॒त॒ ||

उ॒त ग्ना व्य᳚न्तु दे॒वप॑त्नीरिन्द्रा॒ण्य१॑(अ॒)ग्नाय्य॒श्विनी॒ राट् |{आत्रेयः प्रतिक्षत्रः | देवपत्न्यः | त्रिष्टुप्}

आ रोद॑सी वरुणा॒नी शृ॑णोतु॒ व्यन्तु॑ दे॒वीर्य ऋ॒तुर्जनी᳚नाम् ||{8/8}{5.46.8}{5.4.2.8}{4.2.28.8}{399, 400, 4040}

उ॒त¦ग्नाः¦व्य॒न्तु॒¦दे॒वऽप॑त्नीः¦इ॒न्द्रा॒णी¦अ॒ग्नायी᳚¦अ॒श्विनी᳚¦राट् |
आ¦रोद॑सी॒ इति॑¦व॒रु॒णा॒नी¦शृ॒णो॒तु॒¦व्यन्तु॑¦दे॒वीः¦यः¦ऋ॒तुः¦जनी᳚ना‌म् ||

[47] प्रयुंजतीति सप्तर्चस्य सूक्तस्यात्रेयः प्रतिरथोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - उषाः १ सूर्यरश्मयः १ सूर्यः ३ विश्वेदेवाः १ मित्रावरुणाग्नयः १ एवं ७) |
प्र॒यु॒ञ्ज॒ती दि॒व ए᳚ति ब्रुवा॒णा म॒ही मा॒ता दु॑हि॒तुर्बो॒धय᳚न्ती |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

आ॒विवा᳚सन्ती युव॒तिर्म॑नी॒षा पि॒तृभ्य॒ आ सद॑ने॒ जोहु॑वाना ||{1/7}{5.47.1}{5.4.3.1}{4.3.1.1}{400, 401, 4041}

प्र॒ऽयुं॒ज॒ती¦दि॒वः¦ए॒ति॒¦ब्रु॒वा॒णा¦म॒ही¦मा॒ता¦दु॒हि॒तुः¦बो॒धय᳚न्ती |
आ॒ऽविवा᳚सन्ती¦यु॒व॒तिः¦म॒नी॒षा¦पि॒तृऽभ्यः॑¦आ¦सद॑ने¦जोहु॑वाना ||

अ॒जि॒रास॒स्तद॑प॒ ईय॑माना, आतस्थि॒वांसो᳚, अ॒मृत॑स्य॒ नाभि᳚म् |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

अ॒न॒न्तास॑ उ॒रवो᳚ वि॒श्वतः॑ सीं॒ परि॒ द्यावा᳚पृथि॒वी य᳚न्ति॒ पन्थाः᳚ ||{2/7}{5.47.2}{5.4.3.2}{4.3.1.2}{401, 401, 4042}

अ॒जि॒रासः॑¦तत्।आ॑पः¦ईय॑मानाः¦आ॒त॒स्थि॒ऽवांसः॑¦अ॒मृत॑स्य¦नाभि᳚‌म् |
अ॒न॒न्तासः॑¦उ॒रवः॑¦वि॒श्वतः॑¦सी॒‌म्¦परि॑¦द्यावा᳚पृथि॒वी इति॑¦य॒न्ति॒¦पन्थाः᳚ ||

उ॒क्षा स॑मु॒द्रो, अ॑रु॒षः सु॑प॒र्णः पूर्व॑स्य॒ योनिं᳚ पि॒तुरा वि॑वेश |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

मध्ये᳚ दि॒वो निहि॑तः॒ पृश्नि॒रश्मा॒ वि च॑क्रमे॒ रज॑सस्पा॒त्यन्तौ᳚ ||{3/7}{5.47.3}{5.4.3.3}{4.3.1.3}{402, 401, 4043}

उ॒क्षा¦स॒मु॒द्रः¦अ॒रु॒षः¦सु॒ऽप॒र्णः¦पूर्व॑स्य¦योनि᳚‌म्¦पि॒तुः¦आ¦वि॒वे॒श॒ |
मध्ये᳚¦दि॒वः¦निऽहि॑तः¦पृश्निः॑¦अश्मा᳚¦वि¦च॒क्र॒मे॒¦रज॑सः¦पा॒ति॒¦अन्तौ᳚ ||

च॒त्वार॑ ईं बिभ्रति क्षेम॒यन्तो॒ दश॒ गर्भं᳚ च॒रसे᳚ धापयन्ते |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

त्रि॒धात॑वः पर॒मा, अ॑स्य॒ गावो᳚ दि॒वश्च॑रन्ति॒ परि॑ स॒द्यो, अन्ता॑न् ||{4/7}{5.47.4}{5.4.3.4}{4.3.1.4}{403, 401, 4044}

च॒त्वारः॑¦ई॒‌म्¦बि॒भ्र॒ति॒¦क्षे॒म॒ऽयन्तः॑¦दश॑¦गर्भ᳚‌म्¦च॒रसे᳚¦धा॒प॒य॒न्ते॒ |
त्रि॒ऽधात॑वः¦प॒र॒माः¦अ॒स्य॒¦गावः॑¦दि॒वः¦च॒र॒न्ति॒¦परि॑¦स॒द्यः¦अन्ता॑न् ||

इ॒दं वपु᳚र्नि॒वच॑नं जनास॒श्चर᳚न्ति॒ यन्न॒द्य॑स्त॒स्थुरापः॑ |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

द्वे यदीं᳚ बिभृ॒तो मा॒तुर॒न्ये, इ॒हेह॑ जा॒ते य॒म्या॒३॑(आ॒) सब᳚न्धू ||{5/7}{5.47.5}{5.4.3.5}{4.3.1.5}{404, 401, 4045}

इ॒द‌म्¦वपुः॑¦नि॒ऽवच॑न‌म्¦ज॒ना॒सः॒¦चर᳚न्ति¦यत्¦न॒द्यः॑¦त॒स्थुः¦आपः॑ |
द्वे इति॑¦यत्¦ई॒‌म्¦बि॒भृ॒तः¦मा॒तुः¦अ॒न्ये इति॑¦इ॒हऽ‌इ᳚ह¦जा॒ते इति॑¦य॒म्या᳚¦सब᳚न्धू॒ इति॒ सऽब᳚न्धू ||

वि त᳚न्वते॒ धियो᳚, अस्मा॒, अपां᳚सि॒ वस्त्रा᳚ पु॒त्राय॑ मा॒तरो᳚ वयन्ति |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

उ॒प॒प्र॒क्षे वृष॑णो॒ मोद॑माना दि॒वस्प॒था व॒ध्वो᳚ य॒न्त्यच्छ॑ ||{6/7}{5.47.6}{5.4.3.6}{4.3.1.6}{405, 401, 4046}

वि¦त॒न्व॒ते॒¦धियः॑¦अ॒स्मै॒¦अपां᳚सि¦वस्त्रा᳚¦पु॒त्राय॑¦मा॒तरः॑¦व॒य॒न्ति॒ |
उ॒प॒ऽप्र॒क्षे¦वृष॑णः¦मोद॑मानाः¦दि॒वः¦प॒था¦व॒ध्वः॑¦य॒न्ति॒¦अच्छ॑ ||

तद॑स्तु मित्रावरुणा॒ तद॑ग्ने॒ शं योर॒स्मभ्य॑मि॒दम॑स्तु श॒स्तम् |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

अ॒शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठां नमो᳚ दि॒वे बृ॑ह॒ते साद॑नाय ||{7/7}{5.47.7}{5.4.3.7}{4.3.1.7}{406, 401, 4047}

तत्¦अ॒स्तु॒¦मि॒त्रा॒व॒रु॒णा॒¦तत्¦अ॒ग्ने॒¦श‌म्¦योः¦अ॒स्मभ्य᳚‌म्¦इ॒द‌म्¦अ॒स्तु॒¦श॒स्त‌म् |
अ॒शी॒महि॑¦गा॒ध‌म्¦उ॒त¦प्र॒ति॒ऽस्था‌म्¦नमः॑¦दि॒वे¦बृ॒ह॒ते¦साद॑नाय ||

[48] कदुप्रियायेति पंचर्चस्य सूक्तस्यात्रेयः प्रतिभानुर्विश्वेदेवाजगती | (भेदपक्षे - विद्युतोग्निः १ उषाः १ इंद्रसूर्यौ १ अग्निः २ एवं ५) |
कदु॑ प्रि॒याय॒ धाम्ने᳚ मनामहे॒ स्वक्ष॑त्राय॒ स्वय॑शसे म॒हे व॒यम् |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती}

आ॒मे॒न्यस्य॒ रज॑सो॒ यद॒भ्र आँ, अ॒पो वृ॑णा॒ना वि॑त॒नोति॑ मा॒यिनी᳚ ||{1/5}{5.48.1}{5.4.4.1}{4.3.2.1}{407, 402, 4048}

कत्¦ऊँ॒ इति॑¦प्रि॒याय॑¦धाम्ने᳚¦म॒ना॒म॒हे॒¦स्वऽक्ष॑त्राय¦स्वऽय॑शसे¦म॒हे¦व॒य‌म् |
आ॒ऽमे॒न्यस्य॑¦रज॑सः¦यत्¦अ॒भ्रे¦आ¦अ॒पः¦वृ॒णा॒ना¦वि॒ऽत॒नोति॑¦मा॒यिनी᳚ ||

ता, अ॑त्नत व॒युनं᳚ वी॒रव॑क्षणं समा॒न्या वृ॒तया॒ विश्व॒मा रजः॑ |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती}

अपो॒, अपा᳚ची॒रप॑रा॒, अपे᳚जते॒ प्र पूर्वा᳚भिस्तिरते देव॒युर्जनः॑ ||{2/5}{5.48.2}{5.4.4.2}{4.3.2.2}{408, 402, 4049}

ताः¦अ॒त्न॒त॒¦व॒युन᳚‌म्¦वी॒रऽव॑क्षण‌म्¦स॒मा॒न्या¦वृ॒तया᳚¦विश्व᳚‌म्¦आ¦रजः॑ |
अपो॒ इति॑¦अपा᳚चीः¦अप॑राः¦अप॑¦ई॒ज॒ते॒¦प्र¦पूर्वा᳚भिः¦ति॒र॒ते॒¦दे॒व॒ऽयुः¦जनः॑ ||

आ ग्राव॑भिरह॒न्ये᳚भिर॒क्तुभि॒र्वरि॑ष्ठं॒ वज्र॒मा जि॑घर्ति मा॒यिनि॑ |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती}

श॒तं वा॒ यस्य॑ प्र॒चर॒न्‌ त्स्वे दमे᳚ संव॒र्तय᳚न्तो॒ वि च॑ वर्तय॒न्नहा᳚ ||{3/5}{5.48.3}{5.4.4.3}{4.3.2.3}{409, 402, 4050}

आ¦ग्राव॑ऽभिः¦अ॒ह॒न्ये᳚भिः¦अ॒क्तुऽभिः॑¦वरि॑ष्ठ‌म्¦वज्र᳚‌म्¦आ¦जि॒घ॒र्ति॒¦मा॒यिनि॑ |
श॒त‌म्¦वा॒¦यस्य॑¦प्र॒ऽचर॑न्¦स्वे¦दमे᳚¦स॒‌म्ऽव॒र्तय᳚न्तः¦वि¦च॒¦व॒र्त॒य॒न्¦अहा᳚ ||

ताम॑स्य री॒तिं प॑र॒शोरि॑व॒ प्रत्यनी᳚कमख्यं भु॒जे, अ॑स्य॒ वर्प॑सः |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती}

सचा॒ यदि॑ पितु॒मन्त॑मिव॒ क्षयं॒ रत्नं॒ दधा᳚ति॒ भर॑हूतये वि॒शे ||{4/5}{5.48.4}{5.4.4.4}{4.3.2.4}{410, 402, 4051}

ता‌म्¦अ॒स्य॒¦री॒ति‌म्¦प॒र॒शोःऽ‌इ᳚व¦प्रति॑¦अनी᳚क‌म्¦अ॒ख्य॒‌म्¦भु॒जे¦अ॒स्य॒¦वर्प॑सः |
सचा᳚¦यदि॑¦पि॒तु॒मन्त᳚‌म्ऽ‌इव¦क्षय᳚‌म्¦रत्न᳚‌म्¦दधा᳚ति¦भर॑ऽहूतये¦वि॒शे ||

स जि॒ह्वया॒ चतु॑रनीक ऋञ्जते॒ चारु॒ वसा᳚नो॒ वरु॑णो॒ यत᳚न्न॒रिम् |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती}

न तस्य॑ विद्म पुरुष॒त्वता᳚ व॒यं यतो॒ भगः॑ सवि॒ता दाति॒ वार्य᳚म् ||{5/5}{5.48.5}{5.4.4.5}{4.3.2.5}{411, 402, 4052}

सः¦जि॒ह्वया᳚¦चतुः॑।आनीकः¦ऋं॒ज॒ते॒¦चारु॑¦वसा᳚नः¦वरु॑णः¦यत॑न्¦अ॒रि‌म् |
न¦तस्य॑¦वि॒द्म॒¦पु॒रु॒ष॒त्वता᳚¦व॒य‌म्¦यतः॑¦भगः॑¦स॒वि॒ता¦दाति॑¦वार्य᳚‌म् ||

[49] देवंवइति पंचर्चस्य सूक्तस्यात्रेयः प्रतिप्रभुर्विश्वेदेवास्त्रिष्टुप् अंत्यातृणपाणिः | (भेदपक्षे - विश्वेदेवाः १ सूर्यः १ विश्वेदेवाः ३ एवं ५) |
दे॒वं वो᳚, अ॒द्य स॑वि॒तार॒मेषे॒ भगं᳚ च॒ रत्नं᳚ वि॒भज᳚न्तमा॒योः |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | त्रिष्टुप्}

आ वां᳚ नरा पुरुभुजा ववृत्यां दि॒वेदि॑वे चिदश्विना सखी॒यन् ||{1/5}{5.49.1}{5.4.5.1}{4.3.3.1}{412, 403, 4053}

दे॒व‌म्¦वः॒¦अ॒द्य¦स॒वि॒तार᳚‌म्¦आ¦ई॒षे॒¦भग᳚‌म्¦च॒¦रत्न᳚‌म्¦वि॒ऽभज᳚न्त‌म्¦आ॒योः |
आ¦वा॒‌म्¦न॒रा॒¦पु॒रु॒ऽभु॒जा॒¦व॒वृ॒त्या॒‌म्¦दि॒वेऽदि॑वे¦चि॒त्¦अ॒श्वि॒ना॒¦स॒खि॒ऽयन् ||

प्रति॑ प्र॒याण॒मसु॑रस्य वि॒द्वान् त्सू॒क्तैर्दे॒वं स॑वि॒तारं᳚ दुवस्य |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | त्रिष्टुप्}

उप॑ ब्रुवीत॒ नम॑सा विजा॒नञ्ज्येष्ठं᳚ च॒ रत्नं᳚ वि॒भज᳚न्तमा॒योः ||{2/5}{5.49.2}{5.4.5.2}{4.3.3.2}{413, 403, 4054}

प्रति॑¦प्र॒ऽयान᳚‌म्¦असु॑रस्य¦वि॒द्वान्¦सु॒।औ॒क्तैः¦दे॒व‌म्¦स॒वि॒तार᳚‌म्¦दु॒व॒स्य॒ |
उप॑¦ब्रु॒वी॒त॒¦नम॑सा¦वि॒ऽजा॒नन्¦ज्येष्ठ᳚‌म्¦च॒¦रत्न᳚‌म्¦वि॒ऽभज᳚न्त‌म्¦आ॒योः ||

अ॒द॒त्र॒या द॑यते॒ वार्या᳚णि पू॒षा भगो॒, अदि॑ति॒र्वस्त॑ उ॒स्रः |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | त्रिष्टुप्}

इन्द्रो॒ विष्णु॒र्वरु॑णो मि॒त्रो, अ॒ग्निरहा᳚नि भ॒द्रा ज॑नयन्त द॒स्माः ||{3/5}{5.49.3}{5.4.5.3}{4.3.3.3}{414, 403, 4055}

अ॒द॒त्र॒ऽया¦द॒य॒ते॒¦वार्या᳚णि¦पू॒षा¦भगः॑¦अदि॑तिः¦वस्ते᳚¦उ॒स्रः |
इन्द्रः॑¦विष्णुः॑¦वरु॑णः¦मि॒त्रः¦अ॒ग्निः¦अहा᳚नि¦भ॒द्रा¦ज॒न॒य॒न्त॒¦द॒स्माः ||

तन्नो᳚, अन॒र्वा स॑वि॒ता वरू᳚थं॒ तत्‌ सिन्ध॑व इ॒षय᳚न्तो॒, अनु॑ ग्मन् |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | त्रिष्टुप्}

उप॒ यद्‌ वोचे᳚, अध्व॒रस्य॒ होता᳚ रा॒यः स्या᳚म॒ पत॑यो॒ वाज॑रत्नाः ||{4/5}{5.49.4}{5.4.5.4}{4.3.3.4}{415, 403, 4056}

तत्¦नः॒¦अ॒न॒र्वा¦स॒वि॒ता¦वरू᳚थ‌म्¦तत्¦सिन्ध॑वः¦इ॒षय᳚न्तः¦अनु॑¦ग्म॒न् |
उप॑¦यत्¦वोचे᳚¦अ॒ध्व॒रस्य॑¦होता᳚¦रा॒यः¦स्या॒म॒¦पत॑यः¦वाज॑ऽरत्नाः ||

प्र ये वसु॑भ्य॒ ईव॒दा नमो॒ दुर्ये मि॒त्रे वरु॑णे सू॒क्तवा᳚चः |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | तृणपाणिः}

अवै॒त्वभ्वं᳚ कृणु॒ता वरी᳚यो दि॒वस्पृ॑थि॒व्योरव॑सा मदेम ||{5/5}{5.49.5}{5.4.5.5}{4.3.3.5}{416, 403, 4057}

प्र¦ये¦वसु॑ऽभ्यः¦ईव॑त्¦आ¦नमः॑¦दुः¦ये¦मि॒त्रे¦वरु॑णे¦सू॒क्तऽवा᳚चः |
अव॑¦ए॒तु॒¦अभ्व᳚‌म्¦कृ॒णु॒त¦वरी᳚यः¦दि॒वःपृ॑थि॒व्योः¦अव॑सा¦म॒दे॒म॒ ||

[50] विश्वोदेवस्येति पंचर्चस्य सूक्तस्य स्वस्त्यात्रेयोविश्वेदेवाअनुष्टुप्‌अंत्यापङ्क्तिः | (भेदपक्षे - सविता २ विश्वेदेवाः १ सविता २ एवं ५) |
विश्वो᳚ दे॒वस्य॑ ने॒तुर्मर्तो᳚ वुरीत स॒ख्यम् |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

विश्वो᳚ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे᳚ ||{1/5}{5.50.1}{5.4.6.1}{4.3.4.1}{417, 404, 4058}

विश्वः॑¦दे॒वस्य॑¦ने॒तुः¦मर्तः॑¦वु॒री॒त॒¦स॒ख्य‌म् | विश्वः॑¦रा॒ये¦इ॒षु॒ध्य॒ति॒¦द्यु॒म्न‌म्¦वृ॒णी॒त॒¦पु॒ष्यसे᳚ ||

ते ते᳚ देव नेत॒र्ये चे॒माँ, अ॑नु॒शसे᳚ |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

ते रा॒या ते ह्या॒३॑(आ॒)पृचे॒ सचे᳚महि सच॒थ्यैः᳚ ||{2/5}{5.50.2}{5.4.6.2}{4.3.4.2}{418, 404, 4059}

ते¦ते॒¦दे॒व॒¦ने॒तः॒¦ये¦च॒¦इ॒मान्¦अ॒नु॒ऽशसे᳚ | ते¦रा॒या¦ते¦हि¦आ॒ऽपृचे᳚¦सचे᳚महि¦स॒च॒थ्यैः᳚ ||

अतो᳚ न॒ आ नॄनति॑थी॒नतः॒ पत्नी᳚र्दशस्यत |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

आ॒रे विश्वं᳚ पथे॒ष्ठां द्वि॒षो यु॑योतु॒ यूयु॑विः ||{3/5}{5.50.3}{5.4.6.3}{4.3.4.3}{419, 404, 4060}

अतः॑¦नः॒¦आ¦नॄन्¦अति॑थीन्¦अतः॑¦पत्नीः᳚¦द॒श॒स्य॒त॒ | आ॒रे¦विश्व᳚‌म्¦प॒थे॒ऽस्था‌म्¦द्वि॒षः¦यु॒यो॒तु॒¦युयु॑विः ||

यत्र॒ वह्नि॑र॒भिहि॑तो दु॒द्रव॒द्‌ द्रोण्यः॑ प॒शुः |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

नृ॒मणा᳚ वी॒रप॒स्त्यो ऽर्णा॒ धीरे᳚व॒ सनि॑ता ||{4/5}{5.50.4}{5.4.6.4}{4.3.4.4}{420, 404, 4061}

यत्र॑¦वह्निः॑¦अ॒भिऽहि॑तः¦दु॒द्रव॑त्¦द्रोण्यः॑¦प॒शुः | नृ॒ऽमनाः᳚¦वी॒रऽप॑स्त्यः¦अर्णा᳚¦धीरा᳚ऽ‌इव¦सनि॑ता ||

ए॒ष ते᳚ देव नेता॒ रथ॒स्पतिः॒ शं र॒यिः |{स्वस्त्यात्रेयः | विश्वदेवाः | पङ्क्तिः}

शं रा॒ये शं स्व॒स्तय॑ इषः॒स्तुतो᳚ मनामहे देव॒स्तुतो᳚ मनामहे ||{5/5}{5.50.5}{5.4.6.5}{4.3.4.5}{421, 404, 4062}

ए॒षः¦ते॒¦दे॒व॒¦ने॒त॒रिति॑¦रथः॒पतिः॑¦श‌म्¦र॒यिः |
श‌म्¦रा॒ये¦श‌म्¦स्व॒स्तये᳚¦इ॒षः॒ऽस्तुतः॑¦म॒ना॒म॒हे॒¦दे॒व॒ऽस्तुतः॑¦म॒ना॒म॒हे॒ ||

[51] अग्नेसुतस्येति पंचदशर्चस्य सूक्तस्य स्वस्त्यात्रेयो विश्वेदेवाश्चतुर्थीषष्टीसप्तमीनामिंद्रवायू पंचम्यावायुः आद्याश्चतस्रो गायत्र्यः पंचम्यादिषळुष्णिहः एकादश्यादितिस्रोजगत्यः (त्रिष्टुभोवा) अंत्येद्वेअनुष्टुभौ | (भेदपक्षे - अग्निः २ विश्वेदेवाः १ इंद्रवायू १ वायुः १ इंद्रवायू २ अग्निः ३ विश्वेदेवाः ५ एवं १५) |
अग्ने᳚ सु॒तस्य॑ पी॒तये॒ विश्वै॒रूमे᳚भि॒रा ग॑हि |{स्वस्त्यात्रेयः | विश्वदेवाः | गायत्री}

दे॒वेभि᳚र्ह॒व्यदा᳚तये ||{1/15}{5.51.1}{5.4.7.1}{4.3.5.1}{422, 405, 4063}

अग्ने᳚¦सु॒तस्य॑¦पी॒तये᳚¦विश्वैः᳚¦ऊमे᳚भिः¦आ¦ग॒हि॒ | दे॒वेभिः॑¦ह॒व्यऽदा᳚तये ||

ऋत॑धीतय॒ आ ग॑त॒ सत्य॑धर्माणो, अध्व॒रम् |{स्वस्त्यात्रेयः | विश्वदेवाः | गायत्री}

अ॒ग्नेः पि॑बत जि॒ह्वया᳚ ||{2/15}{5.51.2}{5.4.7.2}{4.3.5.2}{423, 405, 4064}

ऋत॑ऽधीतयः¦आ¦ग॒त॒¦सत्य॑ऽधर्माणः¦अ॒ध्व॒र‌म् | अ॒ग्नेः¦पि॒ब॒त॒¦जि॒ह्वया᳚ ||

विप्रे᳚भिर्विप्र सन्त्य प्रात॒र्याव॑भि॒रा ग॑हि |{स्वस्त्यात्रेयः | विश्वदेवाः | गायत्री}

दे॒वेभिः॒ सोम॑पीतये ||{3/15}{5.51.3}{5.4.7.3}{4.3.5.3}{424, 405, 4065}

विप्रे᳚भिः¦वि॒प्र॒¦स॒न्त्य॒¦प्रा॒त॒र्याव॑ऽभिः¦आ¦ग॒हि॒ | दे॒वेभिः॑¦सोम॑ऽपीतये ||

अ॒यं सोम॑श्च॒मू सु॒तो ऽम॑त्रे॒ परि॑ षिच्यते |{स्वस्त्यात्रेयः | इंद्रवायू | गायत्री}

प्रि॒य इन्द्रा᳚य वा॒यवे᳚ ||{4/15}{5.51.4}{5.4.7.4}{4.3.5.4}{425, 405, 4066}

अ॒य‌म्¦सोमः॑¦च॒मू इति॑¦सु॒तः¦अम॑त्रे¦परि॑¦सि॒च्य॒ते॒ | प्रि॒यः¦इन्द्रा᳚य¦वा॒यवे᳚ ||

वाय॒वा या᳚हि वी॒तये᳚ जुषा॒णो ह॒व्यदा᳚तये |{स्वस्त्यात्रेयः | वायुः | उष्णिक्}

पिबा᳚ सु॒तस्यान्ध॑सो, अ॒भि प्रयः॑ ||{5/15}{5.51.5}{5.4.7.5}{4.3.5.5}{426, 405, 4067}

वायो॒ इति॑¦आ¦या॒हि॒¦वी॒तये᳚¦जु॒षा॒णः¦ह॒व्यऽदा᳚तये | पिब॑¦सु॒तस्य॑¦अन्ध॑सः¦अ॒भि¦प्रयः॑ ||

इन्द्र॑श्च वायवेषां सु॒तानां᳚ पी॒तिम᳚र्हथः |{स्वस्त्यात्रेयः | इंद्रवायू | उष्णिक्}

ताञ्जु॑षेथामरे॒पसा᳚व॒भि प्रयः॑ ||{6/15}{5.51.6}{5.4.7.6}{4.3.6.1}{427, 405, 4068}

इन्द्रः॑¦च॒¦वा॒यो॒ इति॑¦ए॒षा॒‌म्¦सु॒ताना᳚‌म्¦पी॒ति‌म्¦अ॒र्ह॒थः॒ | तान्¦जु॒षे॒था॒‌म्¦अ॒रे॒पसौ᳚¦अ॒भि¦प्रयः॑ ||

सु॒ता, इन्द्रा᳚य वा॒यवे॒ सोमा᳚सो॒ दध्या᳚शिरः |{स्वस्त्यात्रेयः | इंद्रवायू | उष्णिक्}

नि॒म्नं न य᳚न्ति॒ सिन्ध॑वो॒ऽभि प्रयः॑ ||{7/15}{5.51.7}{5.4.7.7}{4.3.6.2}{428, 405, 4069}

सु॒ताः¦इन्द्रा᳚य¦वा॒यवे᳚¦सोमा᳚सः¦दधि॑ऽआशिरः | नि॒म्न‌म्¦न¦य॒न्ति॒¦सिन्ध॑वः¦अ॒भि¦प्रयः॑ ||

स॒जूर्विश्वे᳚भिर्दे॒वेभि॑र॒श्विभ्या᳚मु॒षसा᳚ स॒जूः |{स्वस्त्यात्रेयः | विश्वदेवाः | उष्णिक्}

आ या᳚ह्यग्ने, अत्रि॒वत्सु॒ते र॑ण ||{8/15}{5.51.8}{5.4.7.8}{4.3.6.3}{429, 405, 4070}

स॒ऽजूः¦विश्वे᳚भिः¦दे॒वेभिः॑¦अ॒श्विऽभ्या᳚‌म्¦उ॒षसा᳚¦स॒ऽजूः | आ¦या॒हि॒¦अ॒ग्ने॒¦अ॒त्रि॒ऽवत्¦सु॒ते¦रण॒ ||

स॒जूर्मि॒त्रावरु॑णाभ्यां स॒जूः सोमे᳚न॒ विष्णु॑ना |{स्वस्त्यात्रेयः | विश्वदेवाः | उष्णिक्}

आ या᳚ह्यग्ने, अत्रि॒वत्सु॒ते र॑ण ||{9/15}{5.51.9}{5.4.7.9}{4.3.6.4}{430, 405, 4071}

स॒ऽजूः¦मि॒त्रावरु॑णाभ्या‌म्¦स॒ऽजूः¦सोमे᳚न¦विष्णु॑ना | आ¦या॒हि॒¦अ॒ग्ने॒¦अ॒त्रि॒ऽवत्¦सु॒ते¦रण॒ ||

स॒जूरा᳚दि॒त्यैर्वसु॑भिः स॒जूरिन्द्रे᳚ण वा॒युना᳚ |{स्वस्त्यात्रेयः | विश्वदेवाः | उष्णिक्}

आ या᳚ह्यग्ने, अत्रि॒वत्सु॒ते र॑ण ||{10/15}{5.51.10}{5.4.7.10}{4.3.6.5}{431, 405, 4072}

स॒ऽजूः¦आ॒दि॒त्यैः¦वसु॑ऽभिः¦स॒ऽजूः¦इन्द्रे᳚ण¦वा॒युना᳚ | आ¦या॒हि॒¦अ॒ग्ने॒¦अ॒त्रि॒ऽवत्¦सु॒ते¦रण॒ ||

स्व॒स्ति नो᳚ मिमीताम॒श्विना॒ भगः॑ स्व॒स्ति दे॒व्यदि॑तिरन॒र्वणः॑ |{स्वस्त्यात्रेयः | विश्वदेवाः | जगती त्रिष्टुभोवा}

स्व॒स्ति पू॒षा, असु॑रो दधातु नः स्व॒स्ति द्यावा᳚पृथि॒वी सु॑चे॒तुना᳚ ||{11/15}{5.51.11}{5.4.7.11}{4.3.7.1}{432, 405, 4073}

स्व॒स्ति¦नः॒¦मि॒मी॒ता॒‌म्¦अ॒श्विना᳚¦भगः॑¦स्व॒स्ति¦दे॒वी¦अदि॑तिः¦अ॒न॒र्वणः॑ |
स्व॒स्ति¦पू॒षा¦असु॑रः¦द॒धा॒तु॒¦नः॒¦स्व॒स्ति¦द्यावा᳚पृथि॒वी इति॑¦सु॒ऽचे॒तुना᳚ ||

स्व॒स्तये᳚ वा॒युमुप॑ ब्रवामहै॒ सोमं᳚ स्व॒स्ति भुव॑नस्य॒ यस्पतिः॑ |{स्वस्त्यात्रेयः | विश्वदेवाः | जगती त्रिष्टुभोवा}

बृह॒स्पतिं॒ सर्व॑गणं स्व॒स्तये᳚ स्व॒स्तय॑ आदि॒त्यासो᳚ भवन्तु नः ||{12/15}{5.51.12}{5.4.7.12}{4.3.7.2}{433, 405, 4074}

स्व॒स्तये᳚¦वा॒यु‌म्¦उप॑¦ब्र॒वा॒म॒है॒¦सोम᳚‌म्¦स्व॒स्ति¦भुव॑नस्य¦यः¦पतिः॑ |
बृह॒स्पति᳚‌म्¦सर्व॑ऽगण‌म्¦स्व॒स्तये᳚¦स्व॒स्तये᳚¦आ॒दि॒त्यासः॑¦भ॒व॒न्तु॒¦नः॒ ||

विश्वे᳚ दे॒वा नो᳚, अ॒द्या स्व॒स्तये᳚ वैश्वान॒रो वसु॑र॒ग्निः स्व॒स्तये᳚ |{स्वस्त्यात्रेयः | विश्वदेवाः | जगती त्रिष्टुभोवा}

दे॒वा, अ॑वन्त्वृ॒भवः॑ स्व॒स्तये᳚ स्व॒स्ति नो᳚ रु॒द्रः पा॒त्वंह॑सः ||{13/15}{5.51.13}{5.4.7.13}{4.3.7.3}{434, 405, 4075}

विश्वे᳚¦दे॒वाः¦नः॒¦अ॒द्य¦स्व॒स्तये᳚¦वै॒श्वा॒न॒रः¦वसुः॑¦अ॒ग्निः¦स्व॒स्तये᳚ |
दे॒वाः¦अ॒व॒न्तु॒¦ऋ॒भवः॑¦स्व॒स्तये᳚¦स्व॒स्ति¦नः॒¦रु॒द्रः¦पा॒तु॒¦अंह॑सः ||

स्व॒स्ति मि॑त्रावरुणा स्व॒स्ति प॑थ्ये रेवति |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

स्व॒स्ति न॒ इन्द्र॑श्चा॒ग्निश्च॑ स्व॒स्ति नो᳚, अदिते कृधि ||{14/15}{5.51.14}{5.4.7.14}{4.3.7.4}{435, 405, 4076}

स्व॒स्ति¦मि॒त्रा॒व॒रु॒णा॒¦स्व॒स्ति¦प॒थ्ये॒¦रे॒व॒ति॒ | स्व॒स्ति¦नः॒¦इन्द्रः॑¦च॒¦अ॒ग्निः¦च॒¦स्व॒स्ति¦नः॒¦अ॒दि॒ते॒¦कृ॒धि॒ ||

स्व॒स्ति पन्था॒मनु॑ चरेम सूर्याचन्द्र॒मसा᳚विव |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

पुन॒र्दद॒ताघ्न॑ता जान॒ता सं ग॑मेमहि ||{15/15}{5.51.15}{5.4.7.15}{4.3.7.5}{436, 405, 4077}

स्व॒स्ति¦पन्था᳚‌म्¦अनु॑¦च॒रे॒म॒¦सू॒र्या॒च॒न्द्र॒मसौ᳚ऽ‌इव | पुनः॑¦दद॑ता¦अघ्न॑ता¦जा॒न॒ता¦स‌म्¦ग॒मे॒म॒हि॒ ||

[52] प्रश्यावाश्वेति सप्तदशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतोनुष्टुप् षष्ठीषोडशीसप्तदश्यःपंक्त्यः |
प्र श्या᳚वाश्व धृष्णु॒या ऽर्चा᳚ म॒रुद्भि॒रृक्व॑भिः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

ये, अ॑द्रो॒घम॑नुष्व॒धं श्रवो॒ मद᳚न्ति य॒ज्ञियाः᳚ ||{1/17}{5.52.1}{5.4.8.1}{4.3.8.1}{437, 406, 4078}

प्र¦श्या॒व॒।आ॒श्व॒¦धृ॒ष्णु॒ऽया¦अर्च॑¦म॒रुत्ऽभिः॑¦ऋक्व॑ऽभिः | ये¦अ॒द्रो॒घ‌म्¦अ॒नु॒ऽस्व॒ध‌म्¦श्रवः॑¦मद᳚न्ति¦य॒ज्ञियाः᳚ ||

ते हि स्थि॒रस्य॒ शव॑सः॒ सखा᳚यः॒ सन्ति॑ धृष्णु॒या |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

ते याम॒न्ना धृ॑ष॒द्विन॒स्त्मना᳚ पान्ति॒ शश्व॑तः ||{2/17}{5.52.2}{5.4.8.2}{4.3.8.2}{438, 406, 4079}

ते¦हि¦स्थि॒रस्य॑¦शव॑सः¦सखा᳚यः¦सन्ति॑¦धृ॒ष्णु॒ऽया | ते¦याम॑न्¦आ¦धृ॒ष॒त्ऽविनः॑¦त्मना᳚¦पा॒न्ति॒¦शश्व॑तः ||

ते स्प॒न्द्रासो॒ नोक्षणो ऽति॑ ष्कन्दन्ति॒ शर्व॑रीः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

म॒रुता॒मधा॒ महो᳚ दि॒वि क्ष॒मा च॑ मन्महे ||{3/17}{5.52.3}{5.4.8.3}{4.3.8.3}{439, 406, 4080}

ते¦स्प॒न्द्रासः॑¦न¦उ॒क्षणः॑¦अति॑¦स्क॒न्द॒न्ति॒¦शर्व॑रीः | म॒रुता᳚‌म्¦अध॑¦महः॑¦दि॒वि¦क्ष॒मा¦च॒¦म॒न्म॒हे॒ ||

म॒रुत्सु॑ वो दधीमहि॒ स्तोमं᳚ य॒ज्ञं च॑ धृष्णु॒या |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

विश्वे॒ ये मानु॑षा यु॒गा पान्ति॒ मर्त्यं᳚ रि॒षः ||{4/17}{5.52.4}{5.4.8.4}{4.3.8.4}{440, 406, 4081}

म॒रुत्ऽसु॑¦वः॒¦द॒धी॒म॒हि॒¦स्तोम᳚‌म्¦य॒ज्ञ‌म्¦च॒¦धृ॒ष्णु॒ऽया | विश्वे᳚¦ये¦मानु॑षा¦यु॒गा¦पान्ति॑¦मर्त्य᳚‌म्¦रि॒षः ||

अर्ह᳚न्तो॒ ये सु॒दान॑वो॒ नरो॒, असा᳚मिशवसः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

प्र य॒ज्ञं य॒ज्ञिये᳚भ्यो दि॒वो, अ॑र्चा म॒रुद्भ्यः॑ ||{5/17}{5.52.5}{5.4.8.5}{4.3.8.5}{441, 406, 4082}

अर्ह᳚न्तः¦ये¦सु॒ऽदान॑वः¦नरः॑¦असा᳚मिऽशवसः | प्र¦य॒ज्ञ‌म्¦य॒ज्ञिये᳚भ्यः¦दि॒वः¦अ॒र्च॒¦म॒रुत्ऽभ्यः॑ ||

आ रु॒क्मैरा यु॒धा नर॑ ऋ॒ष्वा, ऋ॒ष्टीर॑सृक्षत |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

अन्वे᳚नाँ॒, अह॑ वि॒द्युतो᳚ म॒रुतो॒ जज्झ॑तीरिव भा॒नुर॑र्त॒ त्मना᳚ दि॒वः ||{6/17}{5.52.6}{5.4.8.6}{4.3.9.1}{442, 406, 4083}

आ¦रु॒क्मैः¦आ¦यु॒धा¦नरः॑¦ऋ॒ष्वाः¦ऋ॒ष्टीः¦अ॒सृ॒क्ष॒त॒ | अनु॑¦ए॒ना॒न्¦अह॑¦वि॒ऽद्युतः॑¦म॒रुतः॑¦जज्झ॑तीःऽ‌इव¦भा॒नुः¦अ॒र्त॒¦त्मना᳚¦दि॒वः ||

ये वा᳚वृ॒धन्त॒ पार्थि॑वा॒ य उ॒राव॒न्तरि॑क्ष॒ आ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

वृ॒जने᳚ वा न॒दीनां᳚ स॒धस्थे᳚ वा म॒हो दि॒वः ||{7/17}{5.52.7}{5.4.8.7}{4.3.9.2}{443, 406, 4084}

ये¦व॒वृ॒धन्त॑¦पार्थि॑वाः¦ये¦उ॒रौ¦अ॒न्तरि॑क्षे¦आ | वृ॒जने᳚¦वा॒¦न॒दीना᳚‌म्¦स॒धऽस्थे᳚¦वा॒¦म॒हः¦दि॒वः ||

शर्धो॒ मारु॑त॒मुच्छं᳚स स॒त्यश॑वस॒मृभ्व॑सम् |{आत्रेयः श्यावाश्वः | मरुतः | पङ्क्तिः}

उ॒त स्म॒ ते शु॒भे नरः॒ प्र स्प॒न्द्रा यु॑जत॒ त्मना᳚ ||{8/17}{5.52.8}{5.4.8.8}{4.3.9.3}{444, 406, 4085}

शर्धः॑¦मारु॑त‌म्¦उत्¦शं॒स॒¦स॒त्यऽश॑वस‌म्¦ऋभ्व॑स‌म् |
उ॒त¦स्म॒¦ते¦शु॒भे¦नरः॑¦प्र¦स्प॒न्द्राः¦यु॒ज॒त॒¦त्मना᳚ ||

उ॒त स्म॒ ते परु॑ष्ण्या॒मूर्णा᳚ वसत शु॒न्ध्यवः॑ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

उ॒त प॒व्या रथा᳚ना॒मद्रिं᳚ भिन्द॒न्त्योज॑सा ||{9/17}{5.52.9}{5.4.8.9}{4.3.9.4}{445, 406, 4086}

उ॒त¦स्म॒¦ते¦परु॑ष्ण्या‌म्¦ऊर्णाः᳚¦व॒स॒त॒¦शु॒न्ध्यवः॑ | उ॒त¦प॒व्या¦रथा᳚ना‌म्¦अद्रि᳚‌म्¦भि॒न्द॒न्ति॒¦ओज॑सा ||

आप॑थयो॒ विप॑थ॒यो ऽन्त॑स्पथा॒, अनु॑पथाः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

ए॒तेभि॒र्मह्यं॒ नाम॑भिर्य॒ज्ञं वि॑ष्टा॒र ओ᳚हते ||{10/17}{5.52.10}{5.4.8.10}{4.3.9.5}{446, 406, 4087}

आप॑थयः¦विऽप॑थयः¦अन्तः॑ऽपथाः¦अनु॑ऽपथाः | ए॒तेभिः॑¦मह्य᳚‌म्¦नाम॑ऽभिः¦य॒ज्ञ‌म्¦वि॒ऽस्ता॒रः¦ओ॒ह॒ते॒ ||

अधा॒ नरो॒ न्यो᳚ह॒ते ऽधा᳚ नि॒युत॑ ओहते |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

अधा॒ पारा᳚वता॒, इति॑ चि॒त्रा रू॒पाणि॒ दर्श्या᳚ ||{11/17}{5.52.11}{5.4.8.11}{4.3.10.1}{447, 406, 4088}

अध॑¦नरः॑¦नि¦ओ॒ह॒ते॒¦अध॑¦नि॒ऽयुतः॑¦ओ॒ह॒ते॒ | अध॑¦पारा᳚वताः¦इति॑¦चि॒त्रा¦रू॒पाणि॑¦दर्श्या᳚ ||

छ॒न्दः॒स्तुभः॑ कुभ॒न्यव॒ उत्स॒मा की॒रिणो᳚ नृतुः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

ते मे॒ के चि॒न्न ता॒यव॒ ऊमा᳚, आसन्‌ दृ॒शि त्वि॒षे ||{12/17}{5.52.12}{5.4.8.12}{4.3.10.2}{448, 406, 4089}

छ॒न्दः॒ऽस्तुभः॑¦कु॒भ॒न्यवः॑¦उत्स᳚‌म्¦आ¦की॒रिणः॑¦नृ॒तुः॒ | ते¦मे॒¦के¦चि॒त्¦न¦ता॒यवः॑¦ऊमाः᳚¦आ॒स॒न्¦दृ॒शि¦त्वि॒षे ||

य ऋ॒ष्वा, ऋ॒ष्टिवि॑द्युतः क॒वयः॒ सन्ति॑ वे॒धसः॑ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

तमृ॑षे॒ मारु॑तं ग॒णं न॑म॒स्या र॒मया᳚ गि॒रा ||{13/17}{5.52.13}{5.4.8.13}{4.3.10.3}{449, 406, 4090}

ये¦ऋ॒ष्वाः¦ऋ॒ष्टिऽवि॑द्युतः¦क॒वयः॑¦सन्ति॑¦वे॒धसः॑ | त‌म्¦ऋ॒षे॒¦मारु॑त‌म्¦ग॒ण‌म्¦न॒म॒स्य¦र॒मय॑¦गि॒रा ||

अच्छ॑ ऋषे॒ मारु॑तं ग॒णं दा॒ना मि॒त्रं न यो॒षणा᳚ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

दि॒वो वा᳚ धृष्णव॒ ओज॑सा स्तु॒ता धी॒भिरि॑षण्यत ||{14/17}{5.52.14}{5.4.8.14}{4.3.10.4}{450, 406, 4091}

अच्छ॑¦ऋ॒षे॒¦मारु॑त‌म्¦ग॒ण‌म्¦दा॒ना¦मि॒त्र‌म्¦न¦यो॒षणा᳚ | दि॒वः¦वा॒¦धृ॒ष्ण॒वः॒¦ओज॑सा¦स्तु॒ताः¦धी॒भिः¦इ॒ष॒ण्य॒त॒ ||

नू म᳚न्वा॒न ए᳚षां दे॒वाँ, अच्छा॒ न व॒क्षणा᳚ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

दा॒ना स॑चेत सू॒रिभि॒र्याम॑श्रुतेभिर॒ञ्जिभिः॑ ||{15/17}{5.52.15}{5.4.8.15}{4.3.10.5}{451, 406, 4092}

नु¦म॒न्वा॒नः¦ए॒षा॒‌म्¦दे॒वान्¦अच्छ॑¦न¦व॒क्षणा᳚ | दा॒ना¦स॒चे॒त॒¦सू॒रिऽभिः॑¦याम॑ऽश्रुतेभिः¦अं॒जिऽभिः॑ ||

प्र ये मे᳚ बन्ध्वे॒षे गां वोच᳚न्त सू॒रयः॒ पृश्निं᳚ वोचन्त मा॒तर᳚म् |{आत्रेयः श्यावाश्वः | मरुतः | पङ्क्तिः}

अधा᳚ पि॒तर॑मि॒ष्मिणं᳚ रु॒द्रं वो᳚चन्त॒ शिक्व॑सः ||{16/17}{5.52.16}{5.4.8.16}{4.3.10.6}{452, 406, 4093}

प्र¦ये¦मे॒¦ब॒न्धु॒ऽए॒षे¦गा‌म्¦वोच᳚न्त¦सू॒रयः॑¦पृश्नि᳚‌म्¦वो॒च॒न्त॒¦मा॒तर᳚‌म् |
अध॑¦पि॒तर᳚‌म्¦इ॒ष्मिण᳚‌म्¦रु॒द्र‌म्¦वो॒च॒न्त॒¦शिक्व॑सः ||

स॒प्त मे᳚ स॒प्त शा॒किन॒ एक॑मेका श॒ता द॑दुः |{आत्रेयः श्यावाश्वः | मरुतः | पङ्क्तिः}

य॒मुना᳚या॒मधि॑ श्रु॒तमुद्राधो॒ गव्यं᳚ मृजे॒ नि राधो॒, अश्व्यं᳚ मृजे ||{17/17}{5.52.17}{5.4.8.17}{4.3.10.7}{453, 406, 4094}

स॒प्त¦मे॒¦स॒प्त¦शा॒किनः॑¦एक᳚‌म्ऽएका¦श॒ता¦द॒दुः॒ |
य॒मुना᳚या‌म्¦अधि॑¦श्रु॒त‌म्¦उत्¦राधः॑¦गव्य᳚‌म्¦मृ॒जे॒¦नि¦राधः॑¦अश्व्य᳚‌म्¦मृ॒जे॒ ||

[53] कोवेदेति षोळशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतः क्रमेणककुप्‌बृहत्यनुष्टुप्पुर‌उष्णिक्ककुप्‌ सतोबृहती सतोबृहती गायत्री सतोबृहती ककुप्‌ककुब्गायत्री सतोबृहती सतोबृहती ककुप्‌ सतोबृहत्यः |
को वे᳚द॒ जान॑मेषां॒ को वा᳚ पु॒रा सु॒म्नेष्वा᳚स म॒रुता᳚म् |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्}

यद्‌ यु॑यु॒ज्रे कि॑ला॒स्यः॑ ||{1/16}{5.53.1}{5.4.9.1}{4.3.11.1}{454, 407, 4095}

कः¦वे॒द॒¦जान᳚‌म्¦ए॒षा॒‌म्¦कः¦वा॒¦पु॒रा¦सु॒म्नेषु॑¦आ॒स॒¦म॒रुता᳚‌म् | यत्¦यु॒यु॒ज्रे¦कि॒ला॒स्यः॑ ||

ऐतान्‌ रथे᳚षु त॒स्थुषः॒ कः शु॑श्राव क॒था य॑युः |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

कस्मै᳚ सस्रुः सु॒दासे॒, अन्वा॒पय॒ इळा᳚भिर्वृ॒ष्टयः॑ स॒ह ||{2/16}{5.53.2}{5.4.9.2}{4.3.11.2}{455, 407, 4096}

आ¦ए॒तान्¦रथे᳚षु¦त॒स्थुषः॑¦कः¦शु॒श्रा॒व॒¦क॒था¦य॒युः॒ |
कस्मै᳚¦स॒स्रुः॒¦सु॒ऽदासे᳚¦अनु॑¦आ॒पयः॑¦इळा᳚भिः¦वृ॒ष्टयः॑¦स॒ह ||

ते म॑ आहु॒र्य आ᳚य॒युरुप॒ द्युभि॒र्विभि॒र्मदे᳚ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

नरो॒ मर्या᳚, अरे॒पस॑ इ॒मान्‌ पश्य॒न्निति॑ ष्टुहि ||{3/16}{5.53.3}{5.4.9.3}{4.3.11.3}{456, 407, 4097}

ते¦मे॒¦आ॒हुः॒¦ये¦आ॒ऽय॒युः¦उप॑¦द्युऽभिः॑¦विऽभिः॑¦मदे᳚ | नरः॑¦मर्याः᳚¦अ॒रे॒पसः॑¦इ॒मान्¦पश्य॑न्¦इति॑¦स्तु॒हि॒ ||

ये, अ॒ञ्जिषु॒ ये वाशी᳚षु॒ स्वभा᳚नवः स्र॒क्षु रु॒क्मेषु॑ खा॒दिषु॑ |{आत्रेयः श्यावाश्वः | मरुतः | पुरउष्णिक्}

श्रा॒या रथे᳚षु॒ धन्व॑सु ||{4/16}{5.53.4}{5.4.9.4}{4.3.11.4}{457, 407, 4098}

ये¦अं॒जिषु॑¦ये¦वाशी᳚षु¦स्वऽभा᳚नवः¦स्र॒क्षु¦रु॒क्मेषु॑¦खा॒दिषु॑ | श्रा॒याः¦रथे᳚षु¦धन्व॑ऽसु ||

यु॒ष्माकं᳚ स्मा॒ रथाँ॒, अनु॑ मु॒दे द॑धे मरुतो जीरदानवः |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्}

वृ॒ष्टी द्यावो᳚ य॒तीरि॑व ||{5/16}{5.53.5}{5.4.9.5}{4.3.11.5}{458, 407, 4099}

यु॒ष्माक᳚‌म्¦स्म॒¦रथा᳚न्¦अनु॑¦मु॒दे¦द॒धे॒¦म॒रु॒तः॒¦जी॒र॒ऽदा॒न॒वः॒ | वृ॒ष्टी¦द्यावः॑¦य॒तीःऽ‌इ᳚व ||

आ यं नरः॑ सु॒दान॑वो ददा॒शुषे᳚ दि॒वः कोश॒मचु॑च्यवुः |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

वि प॒र्जन्यं᳚ सृजन्ति॒ रोद॑सी॒, अनु॒ धन्व॑ना यन्ति वृ॒ष्टयः॑ ||{6/16}{5.53.6}{5.4.9.6}{4.3.12.1}{459, 407, 4100}

आ¦य‌म्¦नरः॑¦सु॒ऽदान॑वः¦द॒दा॒शुषे᳚¦दि॒वः¦कोश᳚‌म्¦अचु॑च्यवुः |
वि¦प॒र्जन्य᳚‌म्¦सृ॒ज॒न्ति॒¦रोद॑सी॒ इति॑¦अनु॑¦धन्व॑ना¦य॒न्ति॒¦वृ॒ष्टयः॑ ||

त॒तृ॒दा॒नाः सिन्ध॑वः॒, क्षोद॑सा॒ रजः॒ प्र स॑स्रुर्धे॒नवो᳚ यथा |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

स्य॒न्ना, अश्वा᳚, इ॒वाध्व॑नो वि॒मोच॑ने॒ वि यद्‌ वर्त᳚न्त ए॒न्यः॑ ||{7/16}{5.53.7}{5.4.9.7}{4.3.12.2}{460, 407, 4101}

त॒तृ॒दा॒नाः¦सिन्ध॑वः¦क्षोद॑सा¦रजः॑¦प्र¦स॒स्रुः॒¦धे॒नवः॑¦य॒था॒ |
स्य॒न्नाः¦अश्वाः᳚ऽ‌इव¦अध्व॑नः¦वि॒ऽमोच॑ने¦वि¦यत्¦वर्त᳚न्ते¦ए॒न्यः॑ ||

आ या᳚त मरुतो दि॒व आन्तरि॑क्षाद॒मादु॒त |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

माव॑ स्थात परा॒वतः॑ ||{8/16}{5.53.8}{5.4.9.8}{4.3.12.3}{461, 407, 4102}

आ¦या॒त॒¦म॒रु॒तः॒¦दि॒वः¦आ¦अ॒न्तरि॑क्षात्¦अ॒मात्¦उ॒त | मा¦अव॑¦स्था॒त॒¦प॒रा॒ऽवतः॑ ||

मा वो᳚ र॒सानि॑तभा॒ कुभा॒ क्रुमु॒र्मा वः॒ सिन्धु॒र्नि री᳚रमत् |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

मा वः॒ परि॑ ष्ठात्‌ स॒रयुः॑ पुरी॒षिण्य॒स्मे, इत्‌ सु॒म्नम॑स्तु वः ||{9/16}{5.53.9}{5.4.9.9}{4.3.12.4}{462, 407, 4103}

मा¦वः॒¦र॒सा¦अनि॑तभा¦कुभा᳚¦क्रुमुः॑¦मा¦वः॒¦सिन्धुः॑¦नि¦री॒र॒म॒त् |
मा¦वः॒¦परि॑¦स्था॒त्¦स॒रयुः॑¦पु॒री॒षिणी᳚¦अ॒स्मे इति॑¦इत्¦सु॒म्न‌म्¦अ॒स्तु॒¦वः॒ ||

तं वः॒ शर्धं॒ रथा᳚नां त्वे॒षं ग॒णं मारु॑तं॒ नव्य॑सीनाम् |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्}

अनु॒ प्र य᳚न्ति वृ॒ष्टयः॑ ||{10/16}{5.53.10}{5.4.9.10}{4.3.12.5}{463, 407, 4104}

त‌म्¦वः॒¦शर्ध᳚‌म्¦रथा᳚ना‌म्¦त्वे॒ष‌म्¦ग॒ण‌म्¦मारु॑त‌म्¦नव्य॑सीना‌म् | अनु॑¦प्र¦य॒न्ति॒¦वृ॒ष्टयः॑ ||

शर्धं᳚शर्धं व एषां॒ व्रातं᳚व्रातं ग॒णंग॑णं सुश॒स्तिभिः॑ |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्}

अनु॑ क्रामेम धी॒तिभिः॑ ||{11/16}{5.53.11}{5.4.9.11}{4.3.13.1}{464, 407, 4105}

शर्ध᳚‌म्ऽशर्ध‌म्¦वः॒¦ए॒षा॒‌म्¦व्रात᳚‌म्ऽव्रात‌म्¦ग॒ण‌म्ऽग॑ण‌म्¦सु॒श॒स्तिऽभिः॑ | अनु॑¦क्रा॒मे॒म॒¦धी॒तिऽभिः॑ ||

कस्मा᳚, अ॒द्य सुजा᳚ताय रा॒तह᳚व्याय॒ प्र य॑युः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

ए॒ना यामे᳚न म॒रुतः॑ ||{12/16}{5.53.12}{5.4.9.12}{4.3.13.2}{465, 407, 4106}

कस्मै᳚¦अ॒द्य¦सुऽजा᳚ताय¦रा॒तऽह᳚व्याय¦प्र¦य॒युः॒ | ए॒ना¦यामे᳚न¦म॒रुतः॑ ||

येन॑ तो॒काय॒ तन॑याय धा॒न्य१॑(अं॒) बीजं॒ वह॑ध्वे॒, अक्षि॑तम् |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

अ॒स्मभ्यं॒ तद्‌ ध॑त्तन॒ यद्व॒ ईम॑हे॒ राधो᳚ वि॒श्वायु॒ सौभ॑गम् ||{13/16}{5.53.13}{5.4.9.13}{4.3.13.3}{466, 407, 4107}

येन॑¦तो॒काय॑¦तन॑याय¦धा॒न्य᳚‌म्¦बीज᳚‌म्¦वह॑ध्वे¦अक्षि॑त‌म् |
अ॒स्मभ्य᳚‌म्¦तत्¦ध॒त्त॒न॒¦यत्¦वः॒¦ईम॑हे¦राधः॑¦वि॒श्वऽआ᳚यु¦सौभ॑ग‌म् ||

अती᳚याम नि॒दस्ति॒रः स्व॒स्तिभि᳚र्हि॒त्वाव॒द्यमरा᳚तीः |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

वृ॒ष्ट्वी शं योराप॑ उ॒स्रि भे᳚ष॒जं स्याम॑ मरुतः स॒ह ||{14/16}{5.53.14}{5.4.9.14}{4.3.13.4}{467, 407, 4108}

अति॑¦इ॒या॒म॒¦नि॒दः¦ति॒रः¦स्व॒स्तिऽभिः॑¦हि॒त्वा¦अ॒व॒द्य‌म्¦अरा᳚तीः |
वृ॒ष्ट्वी¦स‌म्¦योः¦आपः॑¦उ॒स्रि¦भे॒ष॒ज‌म्¦स्याम॑¦म॒रु॒तः॒¦स॒ह ||

सु॒दे॒वः स॑महासति सु॒वीरो᳚ नरो मरुतः॒ स मर्त्यः॑ |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्}

यं त्राय॑ध्वे॒ स्याम॒ ते ||{15/16}{5.53.15}{5.4.9.15}{4.3.13.5}{468, 407, 4109}

सु॒ऽदे॒वः¦स॒म॒ह॒¦अ॒स॒ति॒¦सु॒ऽवीरः॑¦न॒रः॒¦म॒रु॒तः॒¦सः¦मर्त्यः॑ | य‌म्¦त्राय॑ध्वे¦स्याम॑¦ते ||

स्तु॒हि भो॒जान्‌ त्स्तु॑व॒तो, अ॑स्य॒ याम॑नि॒ रण॒न्‌ गावो॒ न यव॑से |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

य॒तः पूर्वाँ᳚, इव॒ सखीँ॒रनु॑ ह्वय गि॒रा गृ॑णीहि का॒मिनः॑ ||{16/16}{5.53.16}{5.4.9.16}{4.3.13.6}{469, 407, 4110}

स्तु॒हि¦भो॒जान्¦स्तु॒व॒तः¦अ॒स्य॒¦याम॑नि¦रण॑न्¦गावः॑¦न¦यव॑से |
य॒तः¦पूर्वा᳚न्ऽ‌इव¦सखी᳚न्¦अनु॑¦ह्व॒य॒¦गि॒रा¦गृ॒णी॒हि॒¦का॒मिनः॑ ||

[54] प्रशर्धायेति पंचदशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतोजगती चतुर्दशीत्रिष्टुप् |
प्र शर्धा᳚य॒ मारु॑ताय॒ स्वभा᳚नव इ॒मां वाच॑मनजा पर्वत॒च्युते᳚ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

घ॒र्म॒स्तुभे᳚ दि॒व आ पृ॑ष्ठ॒यज्व॑ने द्यु॒म्नश्र॑वसे॒ महि॑ नृ॒म्णम॑र्चत ||{1/15}{5.54.1}{5.4.10.1}{4.3.14.1}{470, 408, 4111}

प्र¦शर्धा᳚य¦मारु॑ताय¦स्वऽभा᳚नवे¦इ॒मा‌म्¦वाच᳚‌म्¦अ॒न॒ज॒¦प॒र्व॒त॒ऽच्युते᳚ |
घ॒र्म॒ऽस्तुभे᳚¦दि॒वः¦आ¦पृ॒ष्ठ॒ऽयज्व॑ने¦द्यु॒म्नऽश्र॑वसे¦महि॑¦नृ॒म्ण‌म्¦अ॒र्च॒त॒ ||

प्र वो᳚ मरुतस्तवि॒षा, उ॑द॒न्यवो᳚ वयो॒वृधो᳚, अश्व॒युजः॒ परि॑ज्रयः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

सं वि॒द्युता॒ दध॑ति॒ वाश॑ति त्रि॒तः स्वर॒न्त्यापो॒ऽवना॒ परि॑ज्रयः ||{2/15}{5.54.2}{5.4.10.2}{4.3.14.2}{471, 408, 4112}

प्र¦वः॒¦म॒रु॒तः॒¦त॒वि॒षाः¦उ॒द॒न्यवः॑¦व॒यः॒ऽवृधः॑¦अ॒श्व॒ऽयुजः॑¦परि॑ऽज्रयः |
स‌म्¦वि॒ऽद्युता᳚¦दध॑ति¦वाश॑ति¦त्रि॒तः¦स्वर᳚न्ति¦आपः॑¦अ॒वना᳚¦परि॑ऽज्रयः ||

वि॒द्युन्म॑हसो॒ नरो॒, अश्म॑दिद्यवो॒ वात॑त्विषो म॒रुतः॑ पर्वत॒च्युतः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अ॒ब्द॒या चि॒न्मुहु॒रा ह्रा᳚दुनी॒वृतः॑ स्त॒नय॑दमा रभ॒सा, उदो᳚जसः ||{3/15}{5.54.3}{5.4.10.3}{4.3.14.3}{472, 408, 4113}

वि॒द्युत्ऽम॑हसः¦नरः॑¦अश्म॑ऽदिद्यवः¦वात॑ऽत्विषः¦म॒रुतः॑¦प॒र्व॒त॒ऽच्युतः॑ |
अ॒ब्द॒ऽया¦चि॒त्¦मुहुः॑¦आ¦ह्रा॒दु॒नि॒ऽवृतः॑¦स्त॒नय॑त्।आमाः¦र॒भ॒साः¦उत्ऽओ᳚जसः ||

व्य१॑(अ॒)क्तून्‌ रु॑द्रा॒ व्यहा᳚नि शिक्वसो॒ व्य१॑(अ॒)न्तरि॑क्षं॒ वि रजां᳚सि धूतयः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

वि यदज्राँ॒, अज॑थ॒ नाव॑ ईं यथा॒ वि दु॒र्गाणि॑ मरुतो॒ नाह॑ रिष्यथ ||{4/15}{5.54.4}{5.4.10.4}{4.3.14.4}{473, 408, 4114}

वि¦अ॒क्तून्¦रु॒द्राः॒¦वि¦अहा᳚नि¦शि॒क्व॒सः॒¦वि¦अ॒न्तरि॑क्ष‌म्¦वि¦रजां᳚सि¦धू॒त॒यः॒ |
वि¦यत्¦अज्रा᳚न्¦अज॑थ¦नावः॑¦ई॒‌म्¦य॒था॒¦वि¦दुः॒ऽगानि॑¦म॒रु॒तः॒¦न¦अह॑¦रि॒ष्य॒थ॒ ||

तद्‌ वी॒र्यं᳚ वो मरुतो महित्व॒नं दी॒र्घं त॑तान॒ सूर्यो॒ न योज॑नम् |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

एता॒ न यामे॒, अगृ॑भीतशोचि॒षो ऽन॑श्वदां॒ यन्न्यया᳚तना गि॒रिम् ||{5/15}{5.54.5}{5.4.10.5}{4.3.14.5}{474, 408, 4115}

तत्¦वी॒र्य᳚‌म्¦वः॒¦म॒रु॒तः॒¦म॒हि॒ऽत्व॒न‌म्¦दी॒र्घ‌म्¦त॒ता॒न॒¦सूर्यः॑¦न¦योज॑न‌म् |
एताः᳚¦न¦यामे᳚¦अगृ॑भीतऽशोचिषः¦अन॑श्वऽदा‌म्¦यत्¦नि¦अया᳚तन¦गि॒रि‌म् ||

अभ्रा᳚जि॒ शर्धो᳚ मरुतो॒ यद᳚र्ण॒सं मोष॑था वृ॒क्षं क॑प॒नेव॑ वेधसः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अध॑ स्मा नो, अ॒रम॑तिं सजोषस॒श्चक्षु॑रिव॒ यन्त॒मनु॑ नेषथा सु॒गम् ||{6/15}{5.54.6}{5.4.10.6}{4.3.15.1}{475, 408, 4116}

अभ्रा᳚जि¦शर्धः॑¦म॒रु॒तः॒¦यत्¦अ॒र्ण॒स‌म्¦मोष॑थ¦वृ॒क्ष‌म्¦क॒प॒नाऽ‌इ᳚व¦वे॒ध॒सः॒ |
अध॑¦स्म॒¦नः॒¦अ॒रम॑ति‌म्¦स॒ऽजो॒ष॒सः॒¦चक्षुः॑ऽ‌इव¦यन्त᳚‌म्¦अनु॑¦ने॒ष॒थ॒¦सु॒ऽग‌म् ||

न स जी᳚यते मरुतो॒ न ह᳚न्यते॒ न स्रे᳚धति॒ न व्य॑थते॒ न रि॑ष्यति |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

नास्य॒ राय॒ उप॑ दस्यन्ति॒ नोतय॒ ऋषिं᳚ वा॒ यं राजा᳚नं वा॒ सुषू᳚दथ ||{7/15}{5.54.7}{5.4.10.7}{4.3.15.2}{476, 408, 4117}

न¦सः¦जी॒य॒ते॒¦म॒रु॒तः॒¦न¦ह॒न्य॒ते॒¦न¦स्रे॒ध॒ति॒¦न¦व्य॒थ॒ते॒¦न¦रि॒ष्य॒ति॒ |
न¦अ॒स्य॒¦रायः॑¦उप॑¦द॒स्य॒न्ति॒¦न¦ऊ॒तयः॑¦ऋषि᳚‌म्¦वा॒¦य‌म्¦राजा᳚न‌म्¦वा॒¦सुसू᳚दथ ||

नि॒युत्व᳚न्तो ग्राम॒जितो॒ यथा॒ नरो᳚ ऽर्य॒मणो॒ न म॒रुतः॑ कब॒न्धिनः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

पिन्व॒न्त्युत्सं॒ यदि॒नासो॒, अस्व॑र॒न् व्यु᳚न्दन्ति पृथि॒वीं मध्वो॒, अन्ध॑सा ||{8/15}{5.54.8}{5.4.10.8}{4.3.15.3}{477, 408, 4118}

नि॒युत्व᳚न्तः¦ग्रा॒म॒ऽजितः॑¦यथा᳚¦नरः॑¦अ॒र्य॒मणः॑¦न¦म॒रुतः॑¦क॒व॒न्धिनः॑ |
पिन्व᳚न्ति¦उत्स᳚‌म्¦यत्¦इ॒नासः॑¦अस्व॑रन्¦वि¦उ॒न्द॒न्ति॒¦पृ॒थि॒वी‌म्¦मध्वः॑¦अन्ध॑सा ||

प्र॒वत्व॑ती॒यं पृ॑थि॒वी म॒रुद्भ्यः॑ प्र॒वत्व॑ती॒ द्यौर्भ॑वति प्र॒यद्भ्यः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

प्र॒वत्व॑तीः प॒थ्या᳚, अ॒न्तरि॑क्ष्याः प्र॒वत्व᳚न्तः॒ पर्व॑ता जी॒रदा᳚नवः ||{9/15}{5.54.9}{5.4.10.9}{4.3.15.4}{478, 408, 4119}

प्र॒वत्व॑ती¦इ॒य‌म्¦पृ॒थि॒वी¦म॒रुत्ऽभ्यः॑¦प्र॒वत्व॑ती¦द्यौः¦भ॒व॒ति॒¦प्र॒यत्ऽभ्यः॑ |
प्र॒वत्व॑तीः¦प॒थ्याः᳚¦अ॒न्तरि॑क्ष्याः¦प्र॒वत्व᳚न्तः¦पर्व॑ताः¦जी॒रऽदा᳚नवः ||

यन्म॑रुतः सभरसः स्वर्णरः॒ सूर्य॒ उदि॑ते॒ मद॑था दिवो नरः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

न वोऽश्वाः᳚ श्रथय॒न्ताह॒ सिस्र॑तः स॒द्यो, अ॒स्याध्व॑नः पा॒रम॑श्नुथ ||{10/15}{5.54.10}{5.4.10.10}{4.3.15.5}{479, 408, 4120}

यत्¦म॒रु॒तः॒¦स॒ऽभ॒र॒सः॒¦स्वः॒ऽन॒रः॒¦सूर्ये᳚¦उत्ऽ‌इ᳚ते¦मद॑थ¦दि॒वः॒¦न॒रः॒ |
न¦वः॒¦अश्वाः᳚¦श्र॒थ॒य॒न्त॒¦अह॑¦सिस्र॑तः¦स॒द्यः¦अ॒स्य¦अध्व॑नः¦पा॒र‌म्¦अ॒श्नु॒थ॒ ||

अंसे᳚षु व ऋ॒ष्टयः॑ प॒त्सु खा॒दयो॒ वक्ष॑स्सु रु॒क्मा म॑रुतो॒ रथे॒ शुभः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अ॒ग्निभ्रा᳚जसो वि॒द्युतो॒ गभ॑स्त्योः॒ शिप्राः᳚ शी॒र्षसु॒ वित॑ता हिर॒ण्ययीः᳚ ||{11/15}{5.54.11}{5.4.10.11}{4.3.16.1}{480, 408, 4121}

अंसे᳚षु¦वः॒¦ऋ॒ष्टयः॑¦प॒त्ऽसु¦खा॒दयः॑¦वक्षः॑ऽसु¦रु॒क्माः¦म॒रु॒तः॒¦रथे᳚¦शुभः॑ |
अ॒ग्निऽभ्रा᳚जसः¦वि॒ऽद्युतः॑¦गभ॑स्त्योः¦शिप्राः᳚¦शी॒र्षऽसु॑¦विऽत॑ताः¦हि॒र॒ण्ययीः᳚ ||

तं नाक॑म॒र्यो, अगृ॑भीतशोचिषं॒ रुश॒त्‌ पिप्प॑लं मरुतो॒ वि धू᳚नुथ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

सम॑च्यन्त वृ॒जनाति॑त्विषन्त॒ यत् स्वर᳚न्ति॒ घोषं॒ वित॑तमृता॒यवः॑ ||{12/15}{5.54.12}{5.4.10.12}{4.3.16.2}{481, 408, 4122}

त‌म्¦नाक᳚‌म्¦अ॒र्यः¦अगृ॑भीतऽशोचिष‌म्¦रुश॑त्¦पिप्प॑ल‌म्¦म॒रु॒तः॒¦वि¦धू॒नु॒थ॒ |
स‌म्¦अ॒च्य॒न्त॒¦वृ॒जना᳚¦अति॑त्विषन्त¦यत्¦स्वर᳚न्ति¦घोष᳚‌म्¦विऽत॑त‌म्¦ऋ॒त॒ऽयवः॑ ||

यु॒ष्माद॑त्तस्य मरुतो विचेतसो रा॒यः स्या᳚म र॒थ्यो॒३॑(ओ॒) वय॑स्वतः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

न यो युच्छ॑ति ति॒ष्यो॒३॑(ओ॒) यथा᳚ दि॒वो॒३॑(ओ॒) ऽस्मे रा᳚रन्त मरुतः सह॒स्रिण᳚म् ||{13/15}{5.54.13}{5.4.10.13}{4.3.16.3}{482, 408, 4123}

यु॒ष्माऽद॑त्तस्य¦म॒रु॒तः॒¦वि॒ऽचे॒त॒सः॒¦रा॒यः¦स्या॒म॒¦र॒थ्यः॑¦वय॑स्वतः |
न¦यः¦युच्छ॑ति¦ति॒ष्यः॑¦यथा᳚¦दि॒वः¦अ॒स्मे इति॑¦र॒र॒न्त॒¦म॒रु॒तः॒¦स॒ह॒स्रिण᳚‌म् ||

यू॒यं र॒यिं म॑रुतः स्पा॒र्हवी᳚रं यू॒यमृषि॑मवथ॒ साम॑विप्रम् |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

यू॒यमर्व᳚न्तं भर॒ताय॒ वाजं᳚ यू॒यं ध॑त्थ॒ राजा᳚नं श्रुष्टि॒मन्त᳚म् ||{14/15}{5.54.14}{5.4.10.14}{4.3.16.4}{483, 408, 4124}

यू॒य‌म्¦र॒यि‌म्¦म॒रु॒तः॒¦स्पा॒र्हऽवी᳚र‌म्¦यू॒य‌म्¦ऋषि᳚‌म्¦अ॒व॒थ॒¦साम॑ऽविप्र‌म् |
यू॒य‌म्¦अर्व᳚न्त‌म्¦भ॒र॒ताय॑¦वाज᳚‌म्¦यू॒य‌म्¦ध॒त्थ॒¦राजा᳚न‌म्¦श्रु॒ष्टि॒ऽमन्त᳚‌म् ||

तद्‌ वो᳚ यामि॒ द्रवि॑णं सद्यऊतयो॒ येना॒ स्व१॑(अ॒)र्ण त॒तना᳚म॒ नॄँर॒भि |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

इ॒दं सु मे᳚ मरुतो हर्यता॒ वचो॒ यस्य॒ तरे᳚म॒ तर॑सा श॒तं हिमाः᳚ ||{15/15}{5.54.15}{5.4.10.15}{4.3.16.5}{484, 408, 4125}

तत्¦वः॒¦या॒मि॒¦द्रवि॑ण‌म्¦स॒द्यः॒ऽऊ॒त॒यः॒¦येन॑¦स्वः॑¦न¦त॒तना᳚म¦नॄन्¦अ॒भि |
इ॒द‌म्¦सु¦मे॒¦म॒रु॒तः॒¦ह॒र्य॒त॒¦वचः॑¦यस्य॑¦तरे᳚म¦तर॑सा¦श॒त‌म्¦हिमाः᳚ ||

[55] प्रयज्यवइति दशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतो जगत्यंत्यात्रिष्टुप् |
प्रय॑ज्यवो म॒रुतो॒ भ्राज॑दृष्टयो बृ॒हद्वयो᳚ दधिरे रु॒क्मव॑क्षसः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

ईय᳚न्ते॒, अश्वैः᳚ सु॒यमे᳚भिरा॒शुभिः॒ शुभं᳚ या॒तामनु॒ रथा᳚, अवृत्सत ||{1/10}{5.55.1}{5.4.11.1}{4.3.17.1}{485, 409, 4126}

प्रऽय॑ज्यवः¦म॒रुतः॑¦भ्राज॑त्ऽऋष्टयः¦बृ॒हत्¦वयः॑¦द॒धि॒रे॒¦रु॒क्मऽव॑क्षसः |
ईय᳚न्ते¦अश्वैः᳚¦सु॒ऽयमे᳚भिः¦आ॒शुऽभिः॑¦शुभ᳚‌म्¦या॒ता‌म्¦अनु॑¦रथाः᳚¦अ॒वृ॒त्स॒त॒ ||

स्व॒यं द॑धिध्वे॒ तवि॑षीं॒ यथा᳚ वि॒द बृ॒हन्म॑हान्त उर्वि॒या वि रा᳚जथ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

उ॒तान्तरि॑क्षं ममिरे॒ व्योज॑सा॒ शुभं᳚ या॒तामनु॒ रथा᳚, अवृत्सत ||{2/10}{5.55.2}{5.4.11.2}{4.3.17.2}{486, 409, 4127}

स्व॒य‌म्¦द॒धि॒ध्वे॒¦तवि॑षी‌म्¦यथा᳚¦वि॒द¦बृ॒हत्¦म॒हा॒न्तः॒¦उ॒र्वि॒या¦वि¦रा॒ज॒थ॒ |
उ॒त¦अ॒न्तरि॑क्ष‌म्¦म॒मि॒रे॒¦वि¦ओज॑सा¦शुभ᳚‌म्¦या॒ता‌म्¦अनु॑¦रथाः᳚¦अ॒वृ॒त्स॒त॒ ||

सा॒कं जा॒ताः सु॒भ्वः॑ सा॒कमु॑क्षि॒ताः श्रि॒ये चि॒दा प्र॑त॒रं वा᳚वृधु॒र्नरः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

वि॒रो॒किणः॒ सूर्य॑स्येव र॒श्मयः॒ शुभं᳚ या॒तामनु॒ रथा᳚, अवृत्सत ||{3/10}{5.55.3}{5.4.11.3}{4.3.17.3}{487, 409, 4128}

सा॒क‌म्¦जा॒ताः¦सु॒ऽभ्वः॑¦सा॒क‌म्¦उ॒क्षि॒ताः¦श्रि॒ये¦चि॒त्¦आ¦प्र॒ऽत॒र‌म्¦व॒वृ॒धुः॒¦नरः॑ |
वि॒ऽरो॒किणः॑¦सूर्य॑स्यऽ‌इव¦र॒श्मयः॑¦शुभ᳚‌म्¦या॒ता‌म्¦अनु॑¦रथाः᳚¦अ॒वृ॒त्स॒त॒ ||

आ॒भू॒षेण्यं᳚ वो मरुतो महित्व॒नं दि॑दृ॒क्षेण्यं॒ सूर्य॑स्येव॒ चक्ष॑णम् |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

उ॒तो, अ॒स्माँ, अ॑मृत॒त्वे द॑धातन॒ शुभं᳚ या॒तामनु॒ रथा᳚, अवृत्सत ||{4/10}{5.55.4}{5.4.11.4}{4.3.17.4}{488, 409, 4129}

आ॒ऽभू॒षेण्य᳚‌म्¦वः॒¦म॒रु॒तः॒¦म॒हि॒ऽत्व॒न‌म्¦दि॒दृ॒क्षेण्य᳚‌म्¦सूर्य॑स्यऽ‌इव¦चक्ष॑ण‌म् |
उ॒तो इति॑¦अ॒स्मान्¦अ॒मृ॒त॒ऽत्वे¦द॒धा॒त॒न॒¦शुभ᳚‌म्¦या॒ता‌म्¦अनु॑¦रथाः᳚¦अ॒वृ॒त्स॒त॒ ||

उदी᳚रयथा मरुतः समुद्र॒तो यू॒यं वृ॒ष्टिं व॑र्षयथा पुरीषिणः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

न वो᳚ दस्रा॒, उप॑ दस्यन्ति धे॒नवः॒ शुभं᳚ या॒तामनु॒ रथा᳚, अवृत्सत ||{5/10}{5.55.5}{5.4.11.5}{4.3.17.5}{489, 409, 4130}

उत्¦ई॒र॒य॒थ॒¦म॒रु॒तः॒¦स॒मु॒द्र॒तः¦यू॒य‌म्¦वृ॒ष्टि‌म्¦व॒र्ष॒य॒थ॒¦पु॒री॒षि॒णः॒ |
न¦वः॒¦द॒स्रा॒¦उप॑¦द॒स्य॒न्ति॒¦धे॒नवः॑¦शुभ᳚‌म्¦या॒ता‌म्¦अनु॑¦रथाः᳚¦अ॒वृ॒त्स॒त॒ ||

यदश्वा᳚न्‌ धू॒र्षु पृष॑ती॒रयु॑ग्ध्वं हिर॒ण्यया॒न्‌ प्रत्यत्काँ॒, अमु॑ग्ध्वम् |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

विश्वा॒, इत्‌ स्पृधो᳚ मरुतो॒ व्य॑स्यथ॒ शुभं᳚ या॒तामनु॒ रथा᳚, अवृत्सत ||{6/10}{5.55.6}{5.4.11.6}{4.3.18.1}{490, 409, 4131}

यत्¦अश्वा᳚न्¦धूः॒ऽसु¦पृष॑तीः¦अयु॑ग्ध्व‌म्¦हि॒र॒ण्यया᳚न्¦प्रति॑¦अत्का᳚न्¦अमु॑ग्ध्व‌म् |
विश्वाः᳚¦इत्¦स्पृधः॑¦म॒रु॒तः॒¦वि¦अ॒स्य॒थ॒¦शुभ᳚‌म्¦या॒ता‌म्¦अनु॑¦रथाः᳚¦अ॒वृ॒त्स॒त॒ ||

न पर्व॑ता॒ न न॒द्यो᳚ वरन्त वो॒ यत्राचि॑ध्वं मरुतो॒ गच्छ॒थेदु॒ तत् |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

उ॒त द्यावा᳚पृथि॒वी या᳚थना॒ परि॒ शुभं᳚ या॒तामनु॒ रथा᳚, अवृत्सत ||{7/10}{5.55.7}{5.4.11.7}{4.3.18.2}{491, 409, 4132}

न¦पर्व॑ताः¦न¦न॒द्यः॑¦व॒र॒न्त॒¦वः॒¦यत्र॑¦अचि॑ध्व‌म्¦म॒रु॒तः॒¦गच्छ॑थ¦इत्¦ऊँ॒ इति॑¦तत् |
उ॒त¦द्यावा᳚पृथि॒वी इति॑¦या॒थ॒न॒¦परि॑¦शुभ᳚‌म्¦या॒ता‌म्¦अनु॑¦रथाः᳚¦अ॒वृ॒त्स॒त॒ ||

यत्‌ पू॒र्व्यं म॑रुतो॒ यच्च॒ नूत॑नं॒ यदु॒द्यते᳚ वसवो॒ यच्च॑ श॒स्यते᳚ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

विश्व॑स्य॒ तस्य॑ भवथा॒ नवे᳚दसः॒ शुभं᳚ या॒तामनु॒ रथा᳚, अवृत्सत ||{8/10}{5.55.8}{5.4.11.8}{4.3.18.3}{492, 409, 4133}

यत्¦पू॒र्व्य‌म्¦म॒रु॒तः॒¦यत्¦च॒¦नूत॑न‌म्¦यत्¦उ॒द्यते᳚¦व॒स॒वः॒¦यत्¦च॒¦श॒स्यते᳚ |
विश्व॑स्य¦तस्य॑¦भ॒व॒थ॒¦नवे᳚दसः¦शुभ᳚‌म्¦या॒ता‌म्¦अनु॑¦रथाः᳚¦अ॒वृ॒त्स॒त॒ ||

मृ॒ळत॑ नो मरुतो॒ मा व॑धिष्टना॒ऽस्मभ्यं॒ शर्म॑ बहु॒लं वि य᳚न्तन |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गातन॒ शुभं᳚ या॒तामनु॒ रथा᳚, अवृत्सत ||{9/10}{5.55.9}{5.4.11.9}{4.3.18.4}{493, 409, 4134}

मृ॒ळत॑¦नः॒¦म॒रु॒तः॒¦मा¦व॒धि॒ष्ट॒न॒¦अ॒स्मभ्य᳚‌म्¦शर्म॑¦ब॒हु॒ल‌म्¦वि¦य॒न्त॒न॒ |
अधि॑¦स्तो॒त्रस्य॑¦स॒ख्यस्य॑¦गा॒त॒न॒¦शुभ᳚‌म्¦या॒ता‌म्¦अनु॑¦रथाः᳚¦अ॒वृ॒त्स॒त॒ ||

यू॒यम॒स्मान्‌ न॑यत॒ वस्यो॒, अच्छा॒ निरं᳚ह॒तिभ्यो᳚ मरुतो गृणा॒नाः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

जु॒षध्वं᳚ नो ह॒व्यदा᳚तिं यजत्रा व॒यं स्या᳚म॒ पत॑यो रयी॒णाम् ||{10/10}{5.55.10}{5.4.11.10}{4.3.18.5}{494, 409, 4135}

यू॒य‌म्¦अ॒स्मान्¦न॒य॒त॒¦वस्यः॑¦अच्छ॑¦निः¦अं॒ह॒तिऽभ्यः॑¦म॒रु॒तः॒¦गृ॒णा॒नाः |
जु॒षध्व᳚‌म्¦नः॒¦ह॒व्यऽदा᳚ति‌म्¦य॒ज॒त्राः॒¦व॒य‌म्¦स्या॒म॒¦पत॑यः¦र॒यी॒णा‌म् ||

[56] अग्नेशर्धंतमिति नवर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतोबृहती तृतीया सप्तम्यौसतोबृहत्यौ |
अग्ने॒ शर्ध᳚न्त॒मा ग॒णं पि॒ष्टं रु॒क्मेभि॑र॒ञ्जिभिः॑ |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

विशो᳚, अ॒द्य म॒रुता॒मव॑ ह्वये दि॒वश्चि॑द्‌ रोच॒नादधि॑ ||{1/9}{5.56.1}{5.4.12.1}{4.3.19.1}{495, 410, 4136}

अग्ने᳚¦शर्ध᳚न्त‌म्¦आ¦ग॒ण‌म्¦पि॒ष्ट‌म्¦रु॒क्मेभिः॑¦अं॒जिऽभिः॑ |
विशः॑¦अ॒द्य¦म॒रुता᳚‌म्¦अव॑¦ह्व॒ये॒¦दि॒वः¦चि॒त्¦रो॒च॒नात्¦अधि॑ ||

यथा᳚ चि॒न्मन्य॑से हृ॒दा तदिन्मे᳚ जग्मुरा॒शसः॑ |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

ये ते॒ नेदि॑ष्ठं॒ हव॑नान्या॒गम॒न् तान्व॑र्ध भी॒मसं᳚दृशः ||{2/9}{5.56.2}{5.4.12.2}{4.3.19.2}{496, 410, 4137}

यथा᳚¦चि॒त्¦मन्य॑से¦हृ॒दा¦तत्¦इत्¦मे॒¦ज॒ग्मुः॒¦आ॒ऽशसः॑ |
ये¦ते॒¦नेदि॑ष्ठ‌म्¦हव॑नानि¦आ॒ऽगम॑न्¦तान्¦व॒र्ध॒¦भी॒मऽसं᳚दृशः ||

मी॒ळ्हुष्म॑तीव पृथि॒वी परा᳚हता॒ मद᳚न्त्येत्य॒स्मदा |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

ऋक्षो॒ न वो᳚ मरुतः॒ शिमी᳚वाँ॒, अमो᳚ दु॒ध्रो गौरि॑व भीम॒युः ||{3/9}{5.56.3}{5.4.12.3}{4.3.19.3}{497, 410, 4138}

मी॒ळ्हुष्म॑तीऽ‌इव¦पृ॒थि॒वी¦परा᳚ऽहता¦मद᳚न्ती¦ए॒ति॒¦अ॒स्मत्¦आ |
ऋक्षः॑¦न¦वः॒¦म॒रु॒तः॒¦शिमी᳚ऽवान्¦अमः॑¦दु॒ध्रः¦गौःऽ‌इ᳚व¦भी॒म॒ऽयुः ||

नि ये रि॒णन्त्योज॑सा॒ वृथा॒ गावो॒ न दु॒र्धुरः॑ |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

अश्मा᳚नं चित्‌ स्व॒र्य१॑(अं॒) पर्व॑तं गि॒रिं प्र च्या᳚वयन्ति॒ याम॑भिः ||{4/9}{5.56.4}{5.4.12.4}{4.3.19.4}{498, 410, 4139}

नि¦ये¦रि॒णन्ति॑¦ओज॑सा¦वृथा᳚¦गावः॑¦न¦दुः॒ऽधुरः॑ |
अश्मा᳚न‌म्¦चि॒त्¦स्व॒र्य᳚‌म्¦पर्व॑त‌म्¦गि॒रि‌म्¦प्र¦च्य॒व॒य॒न्ति॒¦याम॑ऽभिः ||

उत्ति॑ष्ठ नू॒नमे᳚षां॒ स्तोमैः॒ समु॑क्षितानाम् |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

म॒रुतां᳚ पुरु॒तम॒मपू᳚र्व्यं॒ गवां॒ सर्ग॑मिव ह्वये ||{5/9}{5.56.5}{5.4.12.5}{4.3.19.5}{499, 410, 4140}

उत्¦ति॒ष्ठ॒¦नू॒न‌म्¦ए॒षा॒‌म्¦स्तोमैः᳚¦स‌म्।औ᳚क्षिताना‌म् |
म॒रुता᳚‌म्¦पु॒रु॒ऽतम᳚‌म्¦अपू᳚र्व्य‌म्¦गवा᳚‌म्¦सर्ग᳚‌म्ऽ‌इव¦ह्व॒ये॒ ||

यु॒ङ्ग्ध्वं ह्यरु॑षी॒ रथे᳚ यु॒ङ्ग्ध्वं रथे᳚षु रो॒हितः॑ |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

यु॒ङ्ग्ध्वं हरी᳚, अजि॒रा धु॒रि वोळ्ह॑वे॒ वहि॑ष्ठा धु॒रि वोळ्ह॑वे ||{6/9}{5.56.6}{5.4.12.6}{4.3.20.1}{500, 410, 4141}

यु॒ङ्ग्ध्व‌म्¦हि¦अरु॑षीः¦रथे᳚¦यु॒ङ्ग्ध्व‌म्¦रथे᳚षु¦रो॒हितः॑ |
यु॒ङ्ग्ध्व‌म्¦हरी॒ इति॑¦अ॒जि॒रा¦धु॒रि¦वोळ्ह॑वे¦वहि॑ष्ठा¦धु॒रि¦वोळ्ह॑वे ||

उ॒त स्य वा॒ज्य॑रु॒षस्तु॑वि॒ष्वणि॑रि॒ह स्म॑ धायि दर्श॒तः |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

मा वो॒ यामे᳚षु मरुतश्चि॒रं क॑र॒त् प्र तं रथे᳚षु चोदत ||{7/9}{5.56.7}{5.4.12.7}{4.3.20.2}{501, 410, 4142}

उ॒त¦स्यः¦वा॒जी¦अ॒रु॒षः¦तु॒वि॒ऽस्वणिः॑¦इ॒ह¦स्म॒¦धा॒यि॒¦द॒र्श॒तः |
मा¦वः॒¦यामे᳚षु¦म॒रु॒तः॒¦चि॒र‌म्¦क॒र॒त्¦प्र¦त‌म्¦रथे᳚षु¦चो॒द॒त॒ ||

रथं॒ नु मारु॑तं व॒यं श्र॑व॒स्युमा हु॑वामहे |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

आ यस्मि᳚न्‌ त॒स्थौ सु॒रणा᳚नि॒ बिभ्र॑ती॒ सचा᳚ म॒रुत्सु॑ रोद॒सी ||{8/9}{5.56.8}{5.4.12.8}{4.3.20.3}{502, 410, 4143}

रथ᳚‌म्¦नु¦मारु॑त‌म्¦व॒य‌म्¦श्र॒व॒स्यु‌म्¦आ¦हु॒वा॒म॒हे॒ |
आ¦यस्मि॑न्¦त॒स्थौ¦सु॒ऽरणा᳚नि¦बिभ्र॑ती¦सचा᳚¦म॒रुत्ऽसु॑¦रो॒द॒सी ||

तं वः॒ शर्धं᳚ रथे॒शुभं᳚ त्वे॒षं प॑न॒स्युमा हु॑वे |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

यस्मि॒न्‌ त्सुजा᳚ता सु॒भगा᳚ मही॒यते॒ सचा᳚ म॒रुत्सु॑ मीळ्हु॒षी ||{9/9}{5.56.9}{5.4.12.9}{4.3.20.4}{503, 410, 4144}

त‌म्¦वः॒¦शर्ध᳚‌म्¦र॒थे॒ऽशुभ᳚‌म्¦त्वे॒ष‌म्¦प॒न॒स्यु‌म्¦आ¦हु॒वे॒ |
यस्मि॑न्¦सुऽजा᳚ता¦सु॒ऽभगा᳚¦म॒ही॒यते᳚¦सचा᳚¦म॒रुत्ऽसु॑¦मी॒ळ्हु॒षी ||

[57] आरुद्रासइत्यष्टर्चस्यसूक्तस्यात्रेयः श्यावाश्वोमरुतोजगत्यंत्येद्वेत्रिष्टुभौ |
आ रु॑द्रास॒ इन्द्र॑वन्तः स॒जोष॑सो॒ हिर᳚ण्यरथाः सुवि॒ताय॑ गन्तन |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

इ॒यं वो᳚, अ॒स्मत्‌ प्रति॑ हर्यते म॒तिस्तृ॒ष्णजे॒ न दि॒व उत्सा᳚, उद॒न्यवे᳚ ||{1/8}{5.57.1}{5.5.1.1}{4.3.21.1}{504, 411, 4145}

आ¦रु॒द्रा॒सः॒¦इन्द्र॑ऽवन्तः¦स॒ऽजोष॑सः¦हिर᳚ण्यऽरथाः¦सु॒वि॒ताय॑¦ग॒न्त॒न॒ |
इ॒य‌म्¦वः॒¦अ॒स्मत्¦प्रति॑¦ह॒र्य॒ते॒¦म॒तिः¦तृ॒ष्णऽजे᳚¦न¦दि॒वः¦उत्साः᳚¦उ॒द॒न्यवे᳚ ||

वाशी᳚मन्त ऋष्टि॒मन्तो᳚ मनी॒षिणः॑ सु॒धन्वा᳚न॒ इषु॑मन्तो निष॒ङ्गिणः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

स्वश्वाः᳚ स्थ सु॒रथाः᳚ पृश्निमातरः स्वायु॒धा म॑रुतो याथना॒ शुभ᳚म् ||{2/8}{5.57.2}{5.5.1.2}{4.3.21.2}{505, 411, 4146}

वाशी᳚ऽमन्तः¦ऋ॒ष्टि॒ऽमन्तः॑¦म॒नी॒षिणः॑¦सु॒ऽधन्वा᳚नः¦इषु॑ऽमन्तः¦नि॒ष॒ङ्गिणः॑ |
सु॒।आश्वाः᳚¦स्थ॒¦सु॒ऽरथाः᳚¦पृ॒श्नि॒ऽमा॒त॒रः॒¦सु॒ऽआ॒यु॒धाः¦म॒रु॒तः॒¦या॒थ॒न॒¦शुभ᳚‌म् ||

धू॒नु॒थ द्यां पर्व॑तान्दा॒शुषे॒ वसु॒ नि वो॒ वना᳚ जिहते॒ याम॑नो भि॒या |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

को॒पय॑थ पृथि॒वीं पृ॑श्निमातरः शु॒भे यदु॑ग्राः॒ पृष॑ती॒रयु॑ग्ध्वम् ||{3/8}{5.57.3}{5.5.1.3}{4.3.21.3}{506, 411, 4147}

धू॒नु॒थ¦द्या‌म्¦पर्व॑तान्¦दा॒शुषे᳚¦वसु॑¦नि¦वः॒¦वना᳚¦जि॒ह॒ते॒¦याम॑नः¦भि॒या |
को॒पय॑थ¦पृ॒थि॒वी‌म्¦पृ॒श्नि॒ऽमा॒त॒रः॒¦शु॒भे¦यत्¦उ॒ग्राः॒¦पृष॑तीः¦अयु॑ग्ध्व‌म् ||

वात॑त्विषो म॒रुतो᳚ व॒र्षनि᳚र्णिजो य॒मा, इ॑व॒ सुस॑दृशः सु॒पेश॑सः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

पि॒शङ्गा᳚श्वा, अरु॒णाश्वा᳚, अरे॒पसः॒ प्रत्व॑क्षसो महि॒ना द्यौरि॑वो॒रवः॑ ||{4/8}{5.57.4}{5.5.1.4}{4.3.21.4}{507, 411, 4148}

वात॑ऽत्विषः¦म॒रुतः॑¦व॒र्षऽनि᳚र्निजः¦य॒माःऽ‌इ᳚व¦सुऽस॑दृशः¦सु॒ऽपेश॑सः |
पि॒शङ्ग॑।आश्वाः¦अ॒रु॒ण।आ॑श्वाः¦अ॒रे॒पसः॑¦प्रऽत्व॑क्षसः¦म॒हि॒ना¦द्यौःऽ‌इ᳚व¦उ॒रवः॑ ||

पु॒रु॒द्र॒प्सा, अ᳚ञ्जि॒मन्तः॑ सु॒दान॑वस्त्वे॒षसं᳚दृशो, अनव॒भ्ररा᳚धसः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

सु॒जा॒तासो᳚ ज॒नुषा᳚ रु॒क्मव॑क्षसो दि॒वो, अ॒र्का, अ॒मृतं॒ नाम॑ भेजिरे ||{5/8}{5.57.5}{5.5.1.5}{4.3.21.5}{508, 411, 4149}

पु॒रु॒ऽद्र॒प्साः¦अं॒जि॒ऽमन्तः॑¦सु॒ऽदान॑वः¦त्वे॒षऽसं᳚दृशः¦अ॒न॒व॒भ्रऽरा᳚धसः |
सु॒ऽजा॒तासः॑¦ज॒नुषा᳚¦रु॒क्मऽव॑क्षसः¦दि॒वः¦अ॒र्काः¦अ॒मृत᳚‌म्¦नाम॑¦भे॒जि॒रे॒ ||

ऋ॒ष्टयो᳚ वो मरुतो॒, अंस॑यो॒रधि॒ सह॒ ओजो᳚ बा॒ह्वोर्वो॒ बलं᳚ हि॒तम् |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

नृ॒म्णा शी॒र्षस्वायु॑धा॒ रथे᳚षु वो॒ विश्वा᳚ वः॒ श्रीरधि॑ त॒नूषु॑ पिपिशे ||{6/8}{5.57.6}{5.5.1.6}{4.3.22.1}{509, 411, 4150}

ऋ॒ष्टयः॑¦वः॒¦म॒रु॒तः॒¦अंस॑योः¦अधि॑¦सहः॑¦ओजः॑¦बा॒ह्वोः¦वः॒¦बल᳚‌म्¦हि॒त‌म् |
नृ॒म्णा¦शी॒र्षऽसु॑¦आयु॑धा¦रथे᳚षु¦वः॒¦विश्वा᳚¦वः॒¦श्रीः¦अधि॑¦त॒नूषु॑¦पि॒पि॒शे॒ ||

गोम॒दश्वा᳚व॒द्‌ रथ॑वत्‌ सु॒वीरं᳚ च॒न्द्रव॒द्‌ राधो᳚ मरुतो ददा नः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

प्रश॑स्तिं नः कृणुत रुद्रियासो भक्षी॒य वोऽव॑सो॒ दैव्य॑स्य ||{7/8}{5.57.7}{5.5.1.7}{4.3.22.2}{510, 411, 4151}

गोऽम॑त्¦अश्व॑ऽवत्¦रथ॑ऽवत्¦सु॒ऽवीर᳚‌म्¦च॒न्द्रऽव॑त्¦राधः॑¦म॒रु॒तः॒¦द॒द॒¦नः॒ |
प्रऽश॑स्ति‌म्¦नः॒¦कृ॒णु॒त॒¦रु॒द्रि॒या॒सः॒¦भ॒क्षी॒य¦वः॒¦अव॑सः¦दैव्य॑स्य ||

ह॒ये नरो॒ मरु॑तो मृ॒ळता᳚ न॒स्तुवी᳚मघासो॒, अमृ॑ता॒ ऋत॑ज्ञाः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

सत्य॑श्रुतः॒ कव॑यो॒ युवा᳚नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा᳚णाः ||{8/8}{5.57.8}{5.5.1.8}{4.3.22.3}{511, 411, 4152}

ह॒ये¦नरः॑¦मरु॑तः¦मृ॒ळत॑¦नः॒¦तुवि॑ऽमघासः¦अमृ॑ताः¦ऋत॑ऽज्ञाः |
सत्य॑ऽश्रुतः¦कव॑यः¦युवा᳚नः¦बृह॑त्ऽगिरयः¦बृ॒हत्¦उ॒क्षमा᳚णाः ||

[58] तमुनूनमित्यष्टर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतस्त्रिष्टुप् |
तमु॑ नू॒नं तवि॑षीमन्तमेषां स्तु॒षे ग॒णं मारु॑तं॒ नव्य॑सीनाम् |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

य आ॒श्व॑श्वा॒, अम॑व॒द्‌ वह᳚न्त उ॒तेशि॑रे, अ॒मृत॑स्य स्व॒राजः॑ ||{1/8}{5.58.1}{5.5.2.1}{4.3.23.1}{512, 412, 4153}

त‌म्¦ऊँ॒ इति॑¦नू॒न‌म्¦तवि॑षीऽमन्त‌म्¦ए॒षा॒‌म्¦स्तु॒षे¦ग॒ण‌म्¦मारु॑त‌म्¦नव्य॑सीना‌म् |
ये¦आ॒शु।आ॑श्वाः¦अम॑ऽवत्¦वह᳚न्ते¦उ॒त¦ई॒शि॒रे॒¦अ॒मृत॑स्य¦स्व॒ऽराजः॑ ||

त्वे॒षं ग॒णं त॒वसं॒ खादि॑हस्तं॒ धुनि᳚व्रतं मा॒यिनं॒ दाति॑वारम् |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

म॒यो॒भुवो॒ ये, अमि॑ता महि॒त्वा वन्द॑स्व विप्र तुवि॒राध॑सो॒ नॄन् ||{2/8}{5.58.2}{5.5.2.2}{4.3.23.2}{513, 412, 4154}

त्वे॒ष‌म्¦ग॒ण‌म्¦त॒वस᳚‌म्¦खादि॑ऽहस्त‌म्¦धुनि॑ऽव्रत‌म्¦मा॒यिन᳚‌म्¦दाति॑ऽवार‌म् |
म॒यः॒ऽभुवः॑¦ये¦अमि॑ताः¦म॒हि॒ऽत्वा¦वन्द॑स्व¦वि॒प्र॒¦तु॒वि॒ऽराध॑सः¦नॄन् ||

आ वो᳚ यन्तूदवा॒हासो᳚, अ॒द्य वृ॒ष्टिं ये विश्वे᳚ म॒रुतो᳚ जु॒नन्ति॑ |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

अ॒यं यो, अ॒ग्निर्म॑रुतः॒ समि॑द्ध ए॒तं जु॑षध्वं कवयो युवानः ||{3/8}{5.58.3}{5.5.2.3}{4.3.23.3}{514, 412, 4155}

आ¦वः॒¦य॒न्तु॒¦उ॒द॒ऽवा॒हासः॑¦अ॒द्य¦वृ॒ष्टि‌म्¦ये¦विश्वे᳚¦म॒रुतः॑¦जु॒नन्ति॑ |
अ॒य‌म्¦यः¦अ॒ग्निः¦म॒रु॒तः॒¦स‌म्ऽ‌इ᳚द्धः¦ए॒त‌म्¦जु॒ष॒ध्व॒‌म्¦क॒व॒यः॒¦यु॒वा॒नः॒ ||

यू॒यं राजा᳚न॒मिर्यं॒ जना᳚य विभ्वत॒ष्टं ज॑नयथा यजत्राः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

यु॒ष्मदे᳚ति मुष्टि॒हा बा॒हुजू᳚तो यु॒ष्मत्‌ सद॑श्वो मरुतः सु॒वीरः॑ ||{4/8}{5.58.4}{5.5.2.4}{4.3.23.4}{515, 412, 4156}

यू॒य‌म्¦राजा᳚न‌म्¦इर्य᳚‌म्¦जना᳚य¦वि॒भ्व॒ऽत॒ष्ट‌म्¦ज॒न॒य॒थ॒¦य॒ज॒त्राः॒ |
यु॒ष्मत्¦ए॒ति॒¦मु॒ष्टि॒ऽहा¦बा॒हुऽजू᳚तः¦यु॒ष्मत्¦सत्।आ॑श्वः¦म॒रु॒तः॒¦सु॒ऽवीरः॑ ||

अ॒रा, इ॒वेदच॑रमा॒, अहे᳚व॒ प्रप्र॑ जायन्ते॒, अक॑वा॒ महो᳚भिः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

पृश्नेः᳚ पु॒त्रा, उ॑प॒मासो॒ रभि॑ष्ठाः॒ स्वया᳚ म॒त्या म॒रुतः॒ सं मि॑मिक्षुः ||{5/8}{5.58.5}{5.5.2.5}{4.3.23.5}{516, 412, 4157}

अ॒राःऽ‌इ᳚व¦इत्¦अच॑रमाः¦अहा᳚ऽ‌इव¦प्रऽप्र॑¦जा॒य॒न्ते॒¦अक॑वाः¦महः॑ऽभिः |
पृश्नेः᳚¦पु॒त्राः¦उ॒प॒ऽमासः॑¦रभि॑ष्ठाः¦स्वया᳚¦म॒त्या¦म॒रुतः॑¦स‌म्¦मि॒मि॒क्षुः॒ ||

यत्‌ प्राया᳚सिष्ट॒ पृष॑तीभि॒रश्वै᳚र्वीळुप॒विभि᳚र्मरुतो॒ रथे᳚भिः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

क्षोद᳚न्त॒ आपो᳚ रिण॒ते वना॒न्यवो॒स्रियो᳚ वृष॒भः क्र᳚न्दतु॒ द्यौः ||{6/8}{5.58.6}{5.5.2.6}{4.3.23.6}{517, 412, 4158}

यत्¦प्र¦अया᳚सिष्ट¦पृष॑तीभिः¦अश्वैः᳚¦वी॒ळु॒प॒विऽभिः॑¦म॒रु॒तः॒¦रथे᳚भिः |
क्षोद᳚न्ते¦आपः॑¦रि॒ण॒ते¦वना᳚नि¦अव॑¦उ॒स्रियः॑¦वृ॒ष॒भः¦क्र॒न्द॒तु॒¦द्यौः ||

प्रथि॑ष्ट॒ याम᳚न्‌ पृथि॒वी चि॑देषां॒ भर्ते᳚व॒ गर्भं॒ स्वमिच्छवो᳚ धुः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

वाता॒न्‌ ह्यश्वा᳚न्‌ धु॒र्या᳚युयु॒ज्रे व॒र्षं स्वेदं᳚ चक्रिरे रु॒द्रिया᳚सः ||{7/8}{5.58.7}{5.5.2.7}{4.3.23.7}{518, 412, 4159}

प्रथि॑ष्ट¦याम॑न्¦पृ॒थि॒वी¦चि॒त्¦ए॒षा॒‌म्¦भर्ता᳚ऽ‌इव¦गर्भ᳚‌म्¦स्व‌म्¦इत्¦शवः॑¦धुः॒ |
वाता᳚न्¦हि¦अश्वा᳚न्¦धु॒रि¦आ॒ऽयु॒यु॒ज्रे¦व॒र्ष‌म्¦स्वेद᳚‌म्¦च॒क्रि॒रे॒¦रु॒द्रिया᳚सः ||

ह॒ये नरो॒ मरु॑तो मृ॒ळता᳚ न॒स्तुवी᳚मघासो॒, अमृ॑ता॒ ऋत॑ज्ञाः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

सत्य॑श्रुतः॒ कव॑यो॒ युवा᳚नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा᳚णाः ||{8/8}{5.58.8}{5.5.2.8}{4.3.23.8}{519, 412, 4160}

ह॒ये¦नरः॑¦मरु॑तः¦मृ॒ळत॑¦नः॒¦तुवि॑ऽमघासः¦अमृ॑ताः¦ऋत॑ऽज्ञाः |
सत्य॑ऽश्रुतः¦कव॑यः¦युवा᳚नः¦बृह॑त्ऽगिरयः¦बृ॒हत्¦उ॒क्षमा᳚णाः ||

[59] प्रवःस्पळित्यष्टर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतो जगत्यंत्या त्रिष्टुप् |
प्र वः॒ स्पळ॑क्रन्‌ त्सुवि॒ताय॑ दा॒वने ऽर्चा᳚ दि॒वे प्र पृ॑थि॒व्या, ऋ॒तं भ॑रे |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

उ॒क्षन्ते॒, अश्वा॒न्‌ तरु॑षन्त॒ आ रजो ऽनु॒ स्वं भा॒नुं श्र॑थयन्ते, अर्ण॒वैः ||{1/8}{5.59.1}{5.5.3.1}{4.3.24.1}{520, 413, 4161}

प्र¦वः॒¦स्पट्¦अ॒क्र॒न्¦सु॒वि॒ताय॑¦दा॒वने᳚¦अर्च॑¦दि॒वे¦प्र¦पृ॒थि॒व्यै¦ऋ॒त‌म्¦भ॒रे॒ |
उ॒क्षन्ते᳚¦अश्वा᳚न्¦तरु॑षन्ते¦आ¦रजः॑¦अनु॑¦स्व‌म्¦भा॒नु‌म्¦श्र॒थ॒य॒न्ते॒¦अ॒र्ण॒वैः ||

अमा᳚देषां भि॒यसा॒ भूमि॑रेजति॒ नौर्न पू॒र्णा क्ष॑रति॒ व्यथि᳚र्य॒ती |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

दू॒रे॒दृशो॒ ये चि॒तय᳚न्त॒ एम॑भिर॒न्तर्म॒हे वि॒दथे᳚ येतिरे॒ नरः॑ ||{2/8}{5.59.2}{5.5.3.2}{4.3.24.2}{521, 413, 4162}

अमा᳚त्¦ए॒षा॒‌म्¦भि॒यसा᳚¦भूमिः॑¦ए॒ज॒ति॒¦नौः¦न¦पू॒र्णा¦क्ष॒र॒ति॒¦व्यथिः॑¦य॒ती |
दू॒रे॒ऽदृशः॑¦ये¦चि॒तय᳚न्ते¦एम॑ऽभिः¦अ॒न्तः¦म॒हे¦वि॒दथे᳚¦ये॒ति॒रे॒¦नरः॑ ||

गवा᳚मिव श्रि॒यसे॒ शृङ्ग॑मुत्त॒मं सूर्यो॒ न चक्षू॒ रज॑सो वि॒सर्ज॑ने |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अत्या᳚, इव सु॒भ्व१॑(अ॒)श्चार॑वः स्थन॒ मर्या᳚, इव श्रि॒यसे᳚ चेतथा नरः ||{3/8}{5.59.3}{5.5.3.3}{4.3.24.3}{522, 413, 4163}

गवा᳚‌म्ऽ‌इव¦श्रि॒यसे᳚¦शृङ्ग᳚‌म्¦उ॒त्ऽत॒म‌म्¦सूर्यः॑¦न¦चक्षुः॑¦रज॑सः¦वि॒ऽसर्ज॑ने |
अत्याः᳚ऽ‌इव¦सु॒ऽभ्वः॑¦चार॑वः¦स्थ॒न॒¦मर्याः᳚ऽ‌इव¦श्रि॒यसे᳚¦चे॒त॒थ॒¦न॒रः॒ ||

को वो᳚ म॒हान्ति॑ मह॒तामुद॑श्नव॒त् कस्काव्या᳚ मरुतः॒ को ह॒ पौंस्या᳚ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

यू॒यं ह॒ भूमिं᳚ कि॒रणं॒ न रे᳚जथ॒ प्र यद्‌ भर॑ध्वे सुवि॒ताय॑ दा॒वने᳚ ||{4/8}{5.59.4}{5.5.3.4}{4.3.24.4}{523, 413, 4164}

कः¦वः॒¦म॒हान्ति॑¦म॒ह॒ता‌म्¦उत्¦अ॒श्न॒व॒त्¦कः¦काव्या᳚¦म॒रु॒तः॒¦कः¦ह॒¦पौंस्या᳚ |
यू॒य‌म्¦ह॒¦भूमि᳚‌म्¦कि॒रण᳚‌म्¦न¦रे॒ज॒थ॒¦प्र¦यत्¦भर॑ध्वे¦सु॒वि॒ताय॑¦दा॒वने᳚ ||

अश्वा᳚, इ॒वेद॑रु॒षासः॒ सब᳚न्धवः॒ शूरा᳚, इव प्र॒युधः॒ प्रोत यु॑युधुः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

मर्या᳚, इव सु॒वृधो᳚ वावृधु॒र्नरः॒ सूर्य॑स्य॒ चक्षुः॒ प्र मि॑नन्ति वृ॒ष्टिभिः॑ ||{5/8}{5.59.5}{5.5.3.5}{4.3.24.5}{524, 413, 4165}

अश्वाः᳚ऽ‌इव¦इत्¦अ॒रु॒षासः॑¦सऽब᳚न्धवः¦शूराः᳚ऽ‌इव¦प्र॒ऽयुधः॑¦प्र¦उ॒त¦यु॒यु॒धुः॒ |
मर्याः᳚ऽ‌इव¦सु॒ऽवृधः॑¦व॒वृ॒धुः॒¦नरः॑¦सूर्य॑स्य¦चक्षुः॑¦प्र¦मि॒न॒न्ति॒¦वृ॒ष्टिऽभिः॑ ||

ते, अ॑ज्ये॒ष्ठा, अक॑निष्ठास उ॒द्भिदो ऽम॑ध्यमासो॒ मह॑सा॒ वि वा᳚वृधुः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

सु॒जा॒तासो᳚ ज॒नुषा॒ पृश्नि॑मातरो दि॒वो मर्या॒, आ नो॒, अच्छा᳚ जिगातन ||{6/8}{5.59.6}{5.5.3.6}{4.3.24.6}{525, 413, 4166}

ते¦अ॒ज्ये॒ष्ठाः¦अक॑निष्ठासः¦उ॒त्ऽभिदः॑¦अम॑ध्यमासः¦मह॑सा¦वि¦व॒वृ॒धुः॒ |
सु॒ऽजा॒तासः॑¦ज॒नुषा᳚¦पृश्नि॑ऽमातरः¦दि॒वः¦मर्याः᳚¦आ¦नः॒¦अच्छ॑¦जि॒गा॒त॒न॒ ||

वयो॒ न ये श्रेणीः᳚ प॒प्तुरोज॒सा ऽन्ता᳚न्दि॒वो बृ॑ह॒तः सानु॑न॒स्परि॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अश्वा᳚स एषामु॒भये॒ यथा᳚ वि॒दुः प्र पर्व॑तस्य नभ॒नूँर॑चुच्यवुः ||{7/8}{5.59.7}{5.5.3.7}{4.3.24.7}{526, 413, 4167}

वयः॑¦न¦ये¦श्रेणीः᳚¦प॒प्तुः¦ओज॑सा¦अन्ता᳚न्¦दि॒वः¦बृ॒ह॒तः¦सानु॑नः¦परि॑ |
अश्वा᳚सः¦ए॒षा॒‌म्¦उ॒भये᳚¦यथा᳚¦वि॒दुः¦प्र¦पर्व॑तस्य¦न॒भ॒नून्¦अ॒चु॒च्य॒वुः॒ ||

मिमा᳚तु॒ द्यौरदि॑तिर्वी॒तये᳚ नः॒ सं दानु॑चित्रा, उ॒षसो᳚ यतन्ताम् |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

आचु॑च्यवुर्दि॒व्यं कोश॑मे॒त ऋषे᳚ रु॒द्रस्य॑ म॒रुतो᳚ गृणा॒नाः ||{8/8}{5.59.8}{5.5.3.8}{4.3.24.8}{527, 413, 4168}

मिमा᳚तु¦द्यौः¦अदि॑तिः¦वी॒तये᳚¦नः॒¦स‌म्¦दानु॑ऽचित्राः¦उ॒षसः॑¦य॒त॒न्ता॒‌म् |
आ¦अ॒चु॒च्य॒वुः॒¦दि॒व्य‌म्¦कोश᳚‌म्¦ए॒ते¦ऋषे᳚¦रु॒द्रस्य॑¦म॒रुतः॑¦गृ॒णा॒नाः ||

[60] ईळेअग्निमित्यष्टर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतस्त्रिष्टुबंत्येद्वेजगत्यौ | (आग्नेयं च वेत्यनुक्रमण्युक्तेरग्रामरुतोवा) |
ईळे᳚, अ॒ग्निं स्वव॑सं॒ नमो᳚भिरि॒ह प्र॑स॒त्तो वि च॑यत्‌ कृ॒तं नः॑ |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

रथै᳚रिव॒ प्र भ॑रे वाज॒यद्भिः॑ प्रदक्षि॒णिन्म॒रुतां॒ स्तोम॑मृध्याम् ||{1/8}{5.60.1}{5.5.4.1}{4.3.25.1}{528, 414, 4169}

इळे᳚¦अ॒ग्नि‌म्¦सु॒।आव॑स‌म्¦नमः॑ऽभिः¦इ॒ह¦प्र॒ऽस॒त्तः¦वि¦च॒य॒त्¦कृ॒त‌म्¦नः॒ |
रथैः᳚ऽ‌इव¦प्र¦भ॒रे॒¦वा॒ज॒यत्ऽभिः॑¦प्र॒ऽद॒क्षि॒णित्¦म॒रुता᳚‌म्¦स्तोम᳚‌म्¦ऋ॒ध्या॒‌म् ||

आ ये त॒स्थुः पृष॑तीषु श्रु॒तासु॑ सु॒खेषु॑ रु॒द्रा म॒रुतो॒ रथे᳚षु |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

वना᳚ चिदुग्रा जिहते॒ नि वो᳚ भि॒या पृ॑थि॒वी चि॑द्‌ रेजते॒ पर्व॑तश्चित् ||{2/8}{5.60.2}{5.5.4.2}{4.3.25.2}{529, 414, 4170}

आ¦ये¦त॒स्थुः¦पृष॑तीषु¦श्रु॒तासु॑¦सु॒ऽखेषु॑¦रु॒द्राः¦म॒रुतः॑¦रथे᳚षु |
वना᳚¦चि॒त्¦उ॒ग्राः॒¦जि॒ह॒ते॒¦नि¦वः॒¦भि॒या¦पृ॒थि॒वी¦चि॒त्¦रे॒ज॒ते॒¦पर्व॑तः¦चि॒त् ||

पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय दि॒वश्चि॒त्‌ सानु॑ रेजत स्व॒ने वः॑ |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

यत्‌ क्रीळ॑थ मरुत ऋष्टि॒मन्त॒ आप॑ इव स॒ध्र्य᳚ञ्चो धवध्वे ||{3/8}{5.60.3}{5.5.4.3}{4.3.25.3}{530, 414, 4171}

पर्व॑तः¦चि॒त्¦महि॑¦वृ॒द्धः¦बि॒भा॒य॒¦दि॒वः¦चि॒त्¦सानु॑¦रे॒ज॒त॒¦स्व॒ने¦वः॒ |
यत्¦क्रीळ॑थ¦म॒रु॒तः॒¦ऋ॒ष्टि॒ऽमन्तः॑¦आपः॑ऽ‌इव¦स॒ध्र्यं᳚चः¦ध॒व॒ध्वे॒ ||

व॒रा, इ॒वेद्‌ रै᳚व॒तासो॒ हिर᳚ण्यैर॒भि स्व॒धाभि॑स्त॒न्वः॑ पिपिश्रे |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

श्रि॒ये श्रेयां᳚सस्त॒वसो॒ रथे᳚षु स॒त्रा महां᳚सि चक्रिरे त॒नूषु॑ ||{4/8}{5.60.4}{5.5.4.4}{4.3.25.4}{531, 414, 4172}

व॒राःऽ‌इ᳚व¦इत्¦रै॒व॒तासः॑¦हिर᳚ण्यैः¦अ॒भि¦स्व॒धाभिः॑¦त॒न्वः॑¦पि॒पि॒श्रे॒ |
श्रि॒ये¦श्रेयां᳚सः¦त॒वसः॑¦रथे᳚षु¦स॒त्रा¦महां᳚सि¦च॒क्रि॒रे॒¦त॒नूषु॑ ||

अ॒ज्ये॒ष्ठासो॒, अक॑निष्ठास ए॒ते सं भ्रात॑रो वावृधुः॒ सौभ॑गाय |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

युवा᳚ पि॒ता स्वपा᳚ रु॒द्र ए᳚षां सु॒दुघा॒ पृश्निः॑ सु॒दिना᳚ म॒रुद्भ्यः॑ ||{5/8}{5.60.5}{5.5.4.5}{4.3.25.5}{532, 414, 4173}

अ॒ज्ये॒ष्ठासः॑¦अक॑निष्ठासः¦ए॒ते¦स‌म्¦भ्रात॑रः¦व॒वृ॒धुः॒¦सौभ॑गाय |
युवा᳚¦पि॒ता¦सु॒।आपा᳚¦रु॒द्रः¦ए॒षा॒‌म्¦सु॒ऽदुघा᳚¦पृश्निः॑¦सु॒ऽदिना᳚¦म॒रुत्ऽभ्यः॑ ||

यदु॑त्त॒मे म॑रुतो मध्य॒मे वा॒ यद्‌ वा᳚व॒मे सु॑भगासो दि॒वि ष्ठ |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

अतो᳚ नो रुद्रा, उ॒त वा॒ न्व१॑(अ॒)स्याऽग्ने᳚ वि॒त्ताद्ध॒विषो॒ यद्‌ यजा᳚म ||{6/8}{5.60.6}{5.5.4.6}{4.3.25.6}{533, 414, 4174}

यत्¦उ॒त्ऽत॒मे¦म॒रु॒तः॒¦म॒ध्य॒मे¦वा॒¦यत्¦वा॒¦अ॒व॒मे¦सु॒ऽभ॒गा॒सः॒¦दि॒वि¦स्थ |
अतः॑¦नः॒¦रु॒द्राः॒¦उ॒त¦वा॒¦नु¦अ॒स्य॒¦अग्ने᳚¦वि॒त्तात्¦ह॒विषः॑¦यत्¦यजा᳚म ||

अ॒ग्निश्च॒ यन्म॑रुतो विश्ववेदसो दि॒वो वह॑ध्व॒ उत्त॑रा॒दधि॒ ष्णुभिः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

ते म᳚न्दसा॒ना धुन॑यो रिशादसो वा॒मं ध॑त्त॒ यज॑मानाय सुन्व॒ते ||{7/8}{5.60.7}{5.5.4.7}{4.3.25.7}{534, 414, 4175}

अ॒ग्निः¦च॒¦यत्¦म॒रु॒तः॒¦वि॒श्व॒ऽवे॒द॒सः॒¦दि॒वः¦वह॑ध्वे¦उत्ऽत॑रात्¦अधि॑¦स्नुऽभिः॑ |
ते¦म॒न्द॒सा॒नाः¦धुन॑यः¦रि॒शा॒द॒सः॒¦वा॒म‌म्¦ध॒त्त॒¦यज॑मानाय¦सु॒न्व॒ते ||

अग्ने᳚ म॒रुद्भिः॑ शु॒भय॑द्भि॒रृक्व॑भिः॒ सोमं᳚ पिब मन्दसा॒नो ग॑ण॒श्रिभिः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

पा॒व॒केभि᳚र्विश्वमि॒न्वेभि॑रा॒युभि॒र्वैश्वा᳚नर प्र॒दिवा᳚ के॒तुना᳚ स॒जूः ||{8/8}{5.60.8}{5.5.4.8}{4.3.25.8}{535, 414, 4176}

अग्ने᳚¦म॒रुत्ऽभिः॑¦शु॒भय॑त्ऽभिः¦ऋक्व॑ऽभिः¦सोम᳚‌म्¦पि॒ब॒¦म॒न्द॒सा॒नः¦ग॒ण॒श्रिऽभिः॑ |
पा॒व॒केभिः॑¦वि॒श्व॒‌म्ऽ‌इ॒न्वेभिः॑¦आ॒युऽभिः॑¦वैश्वा᳚नर¦प्र॒ऽदिवा᳚¦के॒तुना᳚¦स॒ऽजूः ||

[61] केष्ठानरइत्येकोनविंशत्यृचस्य सूक्तस्यश्यावाश्वः आद्यानांचतसृणां यईम्‌वहन्तइत्यादिषण्णांचमरुतः पंचम्यादिचतसृणांतरंतमहिषीशशीयसी उतमेरपदित्यस्याः पुरुमीळ्होयोमेधेनूनामित्यस्यास्तरंतः एतंमेस्तोममित्यादि तिसृणांरथवीतिर्गायत्री पंचम्यनुष्टुप्‌नवमीसतोबृहती (अवत्यौपुरुमीळ्हतरं तौवैददश्वी रथवीतिर्दार्भ्यः) |
के ष्ठा᳚ नरः॒ श्रेष्ठ॑तमा॒ य एक॑एक आय॒य |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

प॒र॒मस्याः᳚ परा॒वतः॑ ||{1/19}{5.61.1}{5.5.5.1}{4.3.26.1}{536, 415, 4177}

के¦स्थ॒¦न॒रः॒¦श्रेष्ठ॑ऽतमाः¦ये¦एकः॑ऽएकः¦आ॒ऽय॒य | प॒र॒मस्याः᳚¦प॒रा॒ऽवतः॑ ||

क्व१॑(अ॒) वोऽश्वाः॒ क्वा॒३॑(आ॒)भीश॑वः क॒थं शे᳚क क॒था य॑य |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

पृ॒ष्ठे सदो᳚ न॒सोर्यमः॑ ||{2/19}{5.61.2}{5.5.5.2}{4.3.26.2}{537, 415, 4178}

क्व॑¦वः॒¦अश्वाः᳚¦क्व॑¦अ॒भीश॑वः¦क॒थ‌म्¦शे॒क॒¦क॒था¦य॒य॒ | पृ॒ष्ठे¦सदः॑¦न॒सोः¦यमः॑ ||

ज॒घने॒ चोद॑ एषां॒ वि स॒क्थानि॒ नरो᳚ यमुः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

पु॒त्र॒कृ॒थे न जन॑यः ||{3/19}{5.61.3}{5.5.5.3}{4.3.26.3}{538, 415, 4179}

ज॒घने᳚¦चोदः॑¦ए॒षा॒‌म्¦वि¦स॒क्थानि॑¦नरः॑¦य॒मुः॒ | पु॒त्र॒ऽकृ॒थे¦न¦जन॑यः ||

परा᳚ वीरास एतन॒ मर्या᳚सो॒ भद्र॑जानयः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

अ॒ग्नि॒तपो॒ यथास॑थ ||{4/19}{5.61.4}{5.5.5.4}{4.3.26.4}{539, 415, 4180}

परा᳚¦वी॒रा॒सः॒¦इ॒त॒न॒¦मर्या᳚सः¦भद्र॑ऽजानयः | अ॒ग्नि॒ऽतपः॑¦यथा᳚¦अस॑थ ||

सन॒त्‌ साश्व्यं᳚ प॒शुमु॒त गव्यं᳚ श॒ताव॑यम् |{आत्रेयः श्यावाश्वः | तरन्तमहिषी शशीयसी | अनुष्टुप्}

श्या॒वाश्व॑स्तुताय॒ या दोर्वी॒रायो᳚प॒बर्बृ॑हत् ||{5/19}{5.61.5}{5.5.5.5}{4.3.26.5}{540, 415, 4181}

सन॑त्¦सा¦अश्व्य᳚‌म्¦प॒शु‌म्¦उ॒त¦गव्य᳚‌म्¦श॒त।आ॑वय‌म् | श्या॒वाश्व॑ऽस्तुताय¦या¦दोः¦वी॒राय॑¦उ॒प॒ऽबर्बृ॑हत् ||

उ॒त त्वा॒ स्त्री शशी᳚यसी पुं॒सो भ॑वति॒ वस्य॑सी |{आत्रेयः श्यावाश्वः | तरन्तमहिषी शशीयसी | गायत्री}

अदे᳚वत्रादरा॒धसः॑ ||{6/19}{5.61.6}{5.5.5.6}{4.3.27.1}{541, 415, 4182}

उ॒त¦त्वा॒¦स्त्री¦शशी᳚यसी¦पुं॒सः¦भ॒व॒ति॒¦वस्य॑सी | अदे᳚वऽत्रात्¦अ॒रा॒धसः॑ ||

वि या जा॒नाति॒ जसु॑रिं॒ वि तृष्य᳚न्तं॒ वि का॒मिन᳚म् |{आत्रेयः श्यावाश्वः | तरन्तमहिषी शशीयसी | गायत्री}

दे॒व॒त्रा कृ॑णु॒ते मनः॑ ||{7/19}{5.61.7}{5.5.5.7}{4.3.27.2}{542, 415, 4183}

वि¦या¦जा॒नाति॑¦जसु॑रि‌म्¦वि¦तृष्य᳚न्त‌म्¦वि¦का॒मिन᳚‌म् | दे॒व॒ऽत्रा¦कृ॒णु॒ते¦मनः॑ ||

उ॒त घा॒ नेमो॒, अस्तु॑तः॒ पुमाँ॒, इति॑ ब्रुवे प॒णिः |{आत्रेयः श्यावाश्वः | तरन्तमहिषी शशीयसी | गायत्री}

स वैर॑देय॒ इत्स॒मः ||{8/19}{5.61.8}{5.5.5.8}{4.3.27.3}{543, 415, 4184}

उ॒त¦घ॒¦नेमः॑¦अस्तु॑तः¦पुमा᳚न्¦इति॑¦ब्रु॒वे॒¦प॒णिः | सः¦वैर॑ऽदेये¦इत्¦स॒मः ||

उ॒त मे᳚ऽरपद्‌ युव॒तिर्म॑म॒न्दुषी॒ प्रति॑ श्या॒वाय॑ वर्त॒निम् |{आत्रेयः श्यावाश्वः | वैददश्विः पुरुमीळ्हः | सतोबृहती}

वि रोहि॑ता पुरुमी॒ळ्हाय॑ येमतु॒र्विप्रा᳚य दी॒र्घय॑शसे ||{9/19}{5.61.9}{5.5.5.9}{4.3.27.4}{544, 415, 4185}

उ॒त¦मे॒¦अ॒र॒प॒त्¦यु॒व॒तिः¦म॒म॒न्दुषी᳚¦प्रति॑¦श्या॒वाय॑¦व॒र्त॒नि‌म् |
वि¦रोहि॑ता¦पु॒रु॒ऽमी॒ळ्हाय॑¦ये॒म॒तुः॒¦विप्रा᳚य¦दी॒र्घऽय॑शसे ||

यो मे᳚ धेनू॒नां श॒तं वैद॑दश्वि॒र्यथा॒ दद॑त् |{आत्रेयः श्यावाश्वः | वैददश्विस्तरन्तः | गायत्री}

त॒र॒न्त इ॑व मं॒हना᳚ ||{10/19}{5.61.10}{5.5.5.10}{4.3.27.5}{545, 415, 4186}

यः¦मे॒¦धे॒नू॒ना‌म्¦श॒त‌म्¦वैद॑त्।आश्विः¦यथा᳚¦दद॑त् | त॒र॒न्तःऽ‌इ᳚व¦मं॒हना᳚ ||

य ईं॒ वह᳚न्त आ॒शुभिः॒ पिब᳚न्तो मदि॒रं मधु॑ |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

अत्र॒ श्रवां᳚सि दधिरे ||{11/19}{5.61.11}{5.5.5.11}{4.3.28.1}{546, 415, 4187}

ये¦ई॒‌म्¦वह᳚न्ते¦आ॒शुऽभिः॑¦पिब᳚न्तः¦म॒दि॒र‌म्¦मधु॑ | अत्र॑¦श्रवां᳚सि¦द॒धि॒रे॒ ||

येषां᳚ श्रि॒याधि॒ रोद॑सी वि॒भ्राज᳚न्ते॒ रथे॒ष्वा |{आत्रेयः श्यावाश्वः | तरन्तो वैददश्विः | गायत्री}

दि॒वि रु॒क्म इ॑वो॒परि॑ ||{12/19}{5.61.12}{5.5.5.12}{4.3.28.2}{547, 415, 4188}

येषा᳚‌म्¦श्रि॒या¦अधि॑¦रोद॑सी॒ इति॑¦वि॒ऽभ्राज᳚न्ते¦रथे᳚षु¦आ | दि॒वि¦रु॒क्मःऽ‌इ᳚व¦उ॒परि॑ ||

युवा॒ स मारु॑तो ग॒णस्त्वे॒षर॑थो॒, अने᳚द्यः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

शु॒भं॒यावाप्र॑तिष्कुतः ||{13/19}{5.61.13}{5.5.5.13}{4.3.28.3}{548, 415, 4189}

युवा᳚¦सः¦मारु॑तः¦ग॒णः¦त्वे॒षऽर॑थः¦अने᳚द्यः | शु॒भ॒‌म्ऽयावा᳚¦अप्र॑तिऽस्कुतः ||

को वे᳚द नू॒नमे᳚षां॒ यत्रा॒ मद᳚न्ति॒ धूत॑यः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

ऋ॒तजा᳚ता, अरे॒पसः॑ ||{14/19}{5.61.14}{5.5.5.14}{4.3.28.4}{549, 415, 4190}

कः¦वे॒द॒¦नू॒न‌म्¦ए॒षा॒‌म्¦यत्र॑¦मद᳚न्ति¦धूत॑यः | ऋ॒तऽजा᳚ताः¦अ॒रे॒पसः॑ ||

यू॒यं मर्तं᳚ विपन्यवः प्रणे॒तार॑ इ॒त्था धि॒या |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

श्रोता᳚रो॒ याम॑हूतिषु ||{15/19}{5.61.15}{5.5.5.15}{4.3.28.5}{550, 415, 4191}

यू॒य‌म्¦मर्त᳚‌म्¦वि॒प॒न्य॒वः॒¦प्र॒ऽने॒तारः॑¦इ॒त्था¦धि॒या | श्रोता᳚रः¦याम॑ऽहूतिषु ||

ते नो॒ वसू᳚नि॒ काम्या᳚ पुरुश्च॒न्द्रा रि॑शादसः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

आ य॑ज्ञियासो ववृत्तन ||{16/19}{5.61.16}{5.5.5.16}{4.3.29.1}{551, 415, 4192}

ते¦नः॒¦वसू᳚नि¦काम्या᳚¦पु॒रु॒ऽच॒न्द्राः¦रि॒शा॒द॒सः॒ | आ¦य॒ज्ञि॒या॒सः॒¦व॒वृ॒त्त॒न॒ ||

ए॒तं मे॒ स्तोम॑मूर्म्ये दा॒र्भ्याय॒ परा᳚ वह |{आत्रेयः श्यावाश्वः | दार्भ्यो रथवीतिः | गायत्री}

गिरो᳚ देवि र॒थीरि॑व ||{17/19}{5.61.17}{5.5.5.17}{4.3.29.2}{552, 415, 4193}

ए॒त‌म्¦मे॒¦स्तोम᳚‌म्¦ऊ॒र्म्ये¦दा॒र्भ्याय॑¦परा᳚¦व॒ह॒ | गिरः॑¦दे॒वि॒¦र॒थीःऽ‌इ᳚व ||

उ॒त मे᳚ वोचता॒दिति॑ सु॒तसो᳚मे॒ रथ॑वीतौ |{आत्रेयः श्यावाश्वः | दार्भ्यो रथवीतिः | गायत्री}

न कामो॒, अप॑ वेति मे ||{18/19}{5.61.18}{5.5.5.18}{4.3.29.3}{553, 415, 4194}

उ॒त¦मे॒¦वो॒च॒ता॒त्¦इति॑¦सु॒तऽसो᳚मे¦रथ॑ऽवीतौ | न¦कामः॑¦अप॑¦वे॒ति॒¦मे॒ ||

ए॒ष क्षे᳚ति॒ रथ॑वीतिर्म॒घवा॒ गोम॑ती॒रनु॑ |{आत्रेयः श्यावाश्वः | दार्भ्यो रथवीतिः | गायत्री}

पर्व॑ते॒ष्वप॑श्रितः ||{19/19}{5.61.19}{5.5.5.19}{4.3.29.4}{554, 415, 4195}

ए॒षः¦क्षे॒ति॒¦रथ॑ऽवीतिः¦म॒घऽवा᳚¦गोऽम॑तीः¦अनु॑ | पर्व॑तेषु¦अप॑ऽश्रितः ||

[62] ऋतेनऋतमिति नवर्चस्य सूक्तस्यात्रेयः श्रुतविन्मित्रवारुणौत्रिष्टुप् |
ऋ॒तेन॑ ऋ॒तमपि॑हितं ध्रु॒वं वां॒ सूर्य॑स्य॒ यत्र॑ विमु॒चन्त्यश्वा॑न् |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

दश॑ श॒ता स॒ह त॑स्थु॒स्तदेकं᳚ दे॒वानां॒ श्रेष्ठं॒ वपु॑षामपश्यम् ||{1/9}{5.62.1}{5.5.6.1}{4.3.30.1}{555, 416, 4196}

ऋ॒तेन॑¦ऋ॒त‌म्¦अपि॑ऽहित‌म्¦ध्रु॒व‌म्¦वा॒‌म्¦सूर्य॑स्य¦यत्र॑¦वि॒ऽमु॒चन्ति॑¦अश्वा॑न् |
दश॑¦श॒ता¦स॒ह¦त॒स्थुः॒¦तत्¦एक᳚‌म्¦दे॒वाना᳚‌म्¦श्रेष्ठ᳚‌म्¦वपु॑षा‌म्¦अ॒प॒श्य॒‌म् ||

तत्सु वां᳚ मित्रावरुणा महि॒त्वमी॒र्मा त॒स्थुषी॒रह॑भिर्दुदुह्रे |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

विश्वाः᳚ पिन्वथः॒ स्वस॑रस्य॒ धेना॒, अनु॑ वा॒मेकः॑ प॒विरा व॑वर्त ||{2/9}{5.62.2}{5.5.6.2}{4.3.30.2}{556, 416, 4197}

तत्¦सु¦वा॒‌म्¦मि॒त्रा॒व॒रु॒णा॒¦म॒हि॒ऽत्व‌म्¦ई॒र्मा¦त॒स्थुषीः᳚¦अह॑ऽभिः¦दु॒दु॒ह्रे॒ |
विश्वाः᳚¦पि॒न्व॒थः॒¦स्वस॑रस्य¦धेनाः᳚¦अनु॑¦वा॒‌म्¦एकः॑¦प॒विः¦आ¦व॒व॒र्त॒ ||

अधा᳚रयतं पृथि॒वीमु॒त द्यां मित्र॑राजाना वरुणा॒ महो᳚भिः |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

व॒र्धय॑त॒मोष॑धीः॒ पिन्व॑तं॒ गा, अव॑ वृ॒ष्टिं सृ॑जतं जीरदानू ||{3/9}{5.62.3}{5.5.6.3}{4.3.30.3}{557, 416, 4198}

अधा᳚रयत‌म्¦पृ॒थि॒वी‌म्¦उ॒त¦द्या‌म्¦मित्र॑ऽराजाना¦व॒रु॒णा॒¦महः॑ऽभिः |
व॒र्धय॑त‌म्¦ओष॑धीः¦पिन्व॑त‌म्¦गाः¦अव॑¦वृ॒ष्टि‌म्¦सृ॒ज॒त॒‌म्¦जी॒र॒दा॒नू॒ इति॑ जीरऽदानू ||

आ वा॒मश्वा᳚सः सु॒युजो᳚ वहन्तु य॒तर॑श्मय॒ उप॑ यन्त्व॒र्वाक् |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

घृ॒तस्य॑ नि॒र्णिगनु॑ वर्तते वा॒मुप॒ सिन्ध॑वः प्र॒दिवि॑ क्षरन्ति ||{4/9}{5.62.4}{5.5.6.4}{4.3.30.4}{558, 416, 4199}

आ¦वा॒‌म्¦अश्वा᳚सः¦सु॒ऽयुजः॑¦व॒ह॒न्तु॒¦य॒तऽर॑श्मयः¦उप॑¦य॒न्तु॒¦अ॒र्वाक् |
घृ॒तस्य॑¦निः॒ऽनिक्¦अनु॑¦व॒र्त॒ते॒¦वा॒‌म्¦उप॑¦सिन्ध॑वः¦प्र॒ऽदिवि॑¦क्ष॒र॒न्ति॒ ||

अनु॑ श्रु॒ताम॒मतिं॒ वर्ध॑दु॒र्वीं ब॒र्हिरि॑व॒ यजु॑षा॒ रक्ष॑माणा |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

नम॑स्वन्ता धृतद॒क्षाधि॒ गर्ते॒ मित्रासा᳚थे वरु॒णेळा᳚स्व॒न्तः ||{5/9}{5.62.5}{5.5.6.5}{4.3.30.5}{559, 416, 4200}

अनु॑¦श्रु॒ता‌म्¦अ॒मति᳚‌म्¦वर्ध॑त्¦उ॒र्वी‌म्¦ब॒र्हिःऽ‌इ᳚व¦यजु॑षा¦रक्ष॑माणा |
नम॑स्वन्ता¦धृ॒त॒ऽद॒क्षा॒¦अधि॑¦गर्ते᳚¦मित्र॑¦आसा᳚थे॒ इति॑¦व॒रु॒ण॒¦इळा᳚सु¦अ॒न्तरिति॑ ||

अक्र॑विहस्ता सु॒कृते᳚ पर॒स्पा यं त्रासा᳚थे वरु॒णेळा᳚स्व॒न्तः |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

राजा᳚ना क्ष॒त्रमहृ॑णीयमाना स॒हस्र॑स्थूणं बिभृथः स॒ह द्वौ ||{6/9}{5.62.6}{5.5.6.6}{4.3.31.1}{560, 416, 4201}

अक्र॑विऽहस्ता¦सु॒ऽकृते᳚¦प॒रः॒ऽपा¦य‌म्¦त्रासा᳚थे॒ इति॑¦व॒रु॒णा॒¦इळा᳚सु¦अ॒न्तरिति॑ |
राजा᳚ना¦क्ष॒त्र‌म्¦अहृ॑णीयमाना¦स॒हस्र॑ऽस्थूण‌म्¦बि॒भृ॒थः॒¦स॒ह¦द्वौ ||

हिर᳚ण्यनिर्णि॒गयो᳚, अस्य॒ स्थूणा॒ वि भ्रा᳚जते दि॒व्य१॑(अ॒)श्वाज॑नीव |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

भ॒द्रे क्षेत्रे॒ निमि॑ता॒ तिल्वि॑ले वा स॒नेम॒ मध्वो॒, अधि॑गर्त्यस्य ||{7/9}{5.62.7}{5.5.6.7}{4.3.31.2}{561, 416, 4202}

हिर᳚ण्यऽनिर्निक्¦अयः॑¦अ॒स्य॒¦स्थूणा᳚¦वि¦भ्रा॒ज॒ते॒¦दि॒वि¦अ॒श्वाज॑नीऽ‌इव |
भ॒द्रे¦क्षेत्रे᳚¦निऽमि॑ता¦तल्वि॑ले¦वा॒¦स॒नेम॑¦मध्वः॑¦अधि॑ऽगर्त्यस्य ||

हिर᳚ण्यरूपमु॒षसो॒ व्यु॑ष्टा॒वयः॑स्थूण॒मुदि॑ता॒ सूर्य॑स्य |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

आ रो᳚हथो वरुण मित्र॒ गर्त॒मत॑श्चक्षाथे॒, अदि॑तिं॒ दितिं᳚ च ||{8/9}{5.62.8}{5.5.6.8}{4.3.31.3}{562, 416, 4203}

हिर᳚ण्यऽरूप‌म्¦उ॒षसः॑¦वि।औ᳚ष्टौ¦अयः॑ऽस्थूण‌म्¦उत्ऽ‌इ᳚ता¦सूर्य॑स्य |
आ¦रो॒ह॒थः॒¦व॒रु॒ण॒¦मि॒त्र॒¦गर्त᳚‌म्¦अतः॑¦च॒क्षा॒थे॒ इति॑¦अदि॑ति‌म्¦दिति᳚‌म्¦च॒ ||

यद्‌ बंहि॑ष्ठं॒ नाति॒विधे᳚ सुदानू॒, अच्छि॑द्रं॒ शर्म॑ भुवनस्य गोपा |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

तेन॑ नो मित्रावरुणावविष्टं॒ सिषा᳚सन्तो जिगी॒वांसः॑ स्याम ||{9/9}{5.62.9}{5.5.6.9}{4.3.31.4}{563, 416, 4204}

यत्¦बंहि॑ष्ठ‌म्¦न¦अ॒ति॒ऽविधे᳚¦सु॒दा॒नू॒ इति॑ सुऽदानू¦अच्छि॑द्र‌म्¦शर्म॑¦भु॒व॒न॒स्य॒¦गो॒पा॒ |
तेन॑¦नः॒¦मि॒त्रा॒व॒रु॒णौ॒¦अ॒वि॒ष्ट॒‌म्¦सिसा᳚सन्तः¦जि॒गी॒वांसः॑¦स्या॒म॒ ||

[63] ऋतस्यगोपाविति सप्तर्चस्य सूक्तस्यात्रेयोर्चनानामित्रावरुणौजगती |
ऋत॑स्य गोपा॒वधि॑ तिष्ठथो॒ रथं॒ सत्य॑धर्माणा पर॒मे व्यो᳚मनि |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

यमत्र॑ मित्रावरु॒णाव॑थो यु॒वं तस्मै᳚ वृ॒ष्टिर्मधु॑मत्‌ पिन्वते दि॒वः ||{1/7}{5.63.1}{5.5.7.1}{4.4.1.1}{564, 417, 4205}

ऋत॑स्य¦गो॒पौ॒¦अधि॑¦ति॒ष्ठ॒थः॒¦रथ᳚‌म्¦सत्य॑ऽधर्माणा¦प॒र॒मे¦विऽओ᳚मनि |
य‌म्¦अत्र॑¦मि॒त्रा॒व॒रु॒णा॒¦अव॑थः¦यु॒व‌म्¦तस्मै᳚¦वृ॒ष्टिः¦मधु॑ऽमत्¦पि॒न्व॒ते॒¦दि॒वः ||

स॒म्राजा᳚व॒स्य भुव॑नस्य राजथो॒ मित्रा᳚वरुणा वि॒दथे᳚ स्व॒र्दृशा᳚ |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

वृ॒ष्टिं वां॒ राधो᳚, अमृत॒त्वमी᳚महे॒ द्यावा᳚पृथि॒वी वि च॑रन्ति त॒न्यवः॑ ||{2/7}{5.63.2}{5.5.7.2}{4.4.1.2}{565, 417, 4206}

स॒‌म्ऽराजौ᳚¦अ॒स्य¦भुव॑नस्य¦रा॒ज॒थः॒¦मित्रा᳚वरुणा¦वि॒दथे᳚¦स्वः॒ऽदृशा᳚ |
वृ॒ष्टि‌म्¦वा॒‌म्¦राधः॑¦अ॒मृ॒त॒ऽत्व‌म्¦ई॒म॒हे॒¦द्यावा᳚पृथि॒वी इति॑¦वि¦च॒र॒न्ति॒¦त॒न्यवः॑ ||

स॒म्राजा᳚, उ॒ग्रा वृ॑ष॒भा दि॒वस्पती᳚ पृथि॒व्या मि॒त्रावरु॑णा॒ विच॑र्षणी |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

चि॒त्रेभि॑र॒भ्रैरुप॑ तिष्ठथो॒ रवं॒ द्यां व॑र्षयथो॒, असु॑रस्य मा॒यया᳚ ||{3/7}{5.63.3}{5.5.7.3}{4.4.1.3}{566, 417, 4207}

स॒‌म्ऽराजौ᳚¦उ॒ग्रा¦वृ॒ष॒भा¦दि॒वः¦पती॒ इति॑¦पृ॒थि॒व्याः¦मि॒त्रावरु॑णा¦विच॑र्षणी॒ इति॒ विऽच॑र्षणी |
चि॒त्रेभिः॑¦अ॒भ्रैः¦उप॑¦ति॒ष्ठ॒थः॒¦रव᳚‌म्¦द्या‌म्¦व॒र्ष॒य॒थः॒¦असु॑रस्य¦मा॒यया᳚ ||

मा॒या वां᳚ मित्रावरुणा दि॒वि श्रि॒ता सूर्यो॒ ज्योति॑श्चरति चि॒त्रमायु॑धम् |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

तम॒भ्रेण॑ वृ॒ष्ट्या गू᳚हथो दि॒वि पर्ज᳚न्य द्र॒प्सा मधु॑मन्त ईरते ||{4/7}{5.63.4}{5.5.7.4}{4.4.1.4}{567, 417, 4208}

मा॒या¦वा॒‌म्¦मि॒त्रा॒व॒रु॒णा॒¦दि॒वि¦श्रि॒ता¦सूर्यः॑¦ज्योतिः॑¦च॒र॒ति॒¦चि॒त्र‌म्¦आयु॑ध‌म् |
त‌म्¦अ॒भ्रेण॑¦वृ॒ष्ट्या¦गू॒ह॒थः॒¦दि॒वि¦पर्ज᳚न्य¦द्र॒प्साः¦मधु॑ऽमन्तः¦ई॒र॒ते॒ ||

रथं᳚ युञ्जते म॒रुतः॑ शु॒भे सु॒खं शूरो॒ न मि॑त्रावरुणा॒ गवि॑ष्टिषु |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

रजां᳚सि चि॒त्रा वि च॑रन्ति त॒न्यवो᳚ दि॒वः स᳚म्राजा॒ पय॑सा न उक्षतम् ||{5/7}{5.63.5}{5.5.7.5}{4.4.1.5}{568, 417, 4209}

रथ᳚‌म्¦युं॒ज॒ते॒¦म॒रुतः॑¦शु॒भे¦सु॒ऽख‌म्¦शूरः॑¦न¦मि॒त्रा॒व॒रु॒णा॒¦गोऽ‌इ᳚ष्टिषु |
रजां᳚सि¦चि॒त्रा¦वि¦च॒र॒न्ति॒¦त॒न्यवः॑¦दि॒वः¦स॒‌म्ऽरा॒जा॒¦पय॑सा¦नः॒¦उ॒क्ष॒त॒‌म् ||

वाचं॒ सु मि॑त्रावरुणा॒विरा᳚वतीं प॒र्जन्य॑श्चि॒त्रां व॑दति॒ त्विषी᳚मतीम् |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

अ॒भ्रा व॑सत म॒रुतः॒ सु मा॒यया॒ द्यां व॑र्षयतमरु॒णाम॑रे॒पस᳚म् ||{6/7}{5.63.6}{5.5.7.6}{4.4.1.6}{569, 417, 4210}

वाच᳚‌म्¦सु¦मि॒त्रा॒व॒रु॒णौ॒¦इरा᳚ऽवती‌म्¦प॒र्जन्यः॑¦चि॒त्रा‌म्¦व॒द॒ति॒¦त्विषि॑ऽमती‌म् |
अ॒भ्रा¦व॒स॒त॒¦म॒रुतः॑¦सु¦मा॒यया᳚¦द्या‌म्¦व॒र्ष॒य॒त॒‌म्¦अ॒रु॒णा‌म्¦अ॒रे॒पस᳚‌म् ||

धर्म॑णा मित्रावरुणा विपश्चिता व्र॒ता र॑क्षेथे॒, असु॑रस्य मा॒यया᳚ |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

ऋ॒तेन॒ विश्वं॒ भुव॑नं॒ वि रा᳚जथः॒ सूर्य॒मा ध॑त्थो दि॒वि चित्र्यं॒ रथ᳚म् ||{7/7}{5.63.7}{5.5.7.7}{4.4.1.7}{570, 417, 4211}

धर्म॑णा¦मि॒त्रा॒व॒रु॒णा॒¦वि॒पः॒ऽचि॒ता॒¦व्र॒ता¦र॒क्षे॒थे॒ इति॑¦असु॑रस्य¦मा॒यया᳚ |
ऋ॒तेन॑¦विश्व᳚‌म्¦भुव॑न‌म्¦वि¦रा॒ज॒थः॒¦सूर्य᳚‌म्¦आ¦ध॒त्थः॒¦दि॒वि¦चित्र्य᳚‌म्¦रथ᳚‌म् ||

[64] वरुणंवइति सप्तर्चस्य सूक्तस्यार्चनाना मित्रावरुणावनुष्टुबंत्यापंक्तिः |
वरु॑णं वो रि॒शाद॑समृ॒चा मि॒त्रं ह॑वामहे |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

परि᳚ व्र॒जेव॑ बा॒ह्वोर्ज॑ग॒न्वांसा॒ स्व᳚र्णरम् ||{1/7}{5.64.1}{5.5.8.1}{4.4.2.1}{571, 418, 4212}

वरु॑ण‌म्¦वः॒¦रि॒शाद॑स‌म्¦ऋ॒चा¦मि॒त्र‌म्¦ह॒वा॒म॒हे॒ | परि॑¦व्र॒जाऽ‌इ᳚व¦बा॒ह्वोः¦ज॒ग॒न्वांसा᳚¦स्वः॑ऽनर‌म् ||

ता बा॒हवा᳚ सुचे॒तुना॒ प्र य᳚न्तमस्मा॒, अर्च॑ते |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

शेवं॒ हि जा॒र्यं᳚ वां॒ विश्वा᳚सु॒ क्षासु॒ जोगु॑वे ||{2/7}{5.64.2}{5.5.8.2}{4.4.2.2}{572, 418, 4213}

ता¦बा॒हवा᳚¦सु॒ऽचे॒तुना᳚¦प्र¦य॒न्त॒‌म्¦अ॒स्मै॒¦अर्च॑ते | शेव᳚‌म्¦हि¦जा॒र्य᳚‌म्¦वा॒‌म्¦विश्वा᳚सु¦क्षासु॑¦जोगु॑वे ||

यन्नू॒नम॒श्यां गतिं᳚ मि॒त्रस्य॑ यायां प॒था |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

अस्य॑ प्रि॒यस्य॒ शर्म॒ण्यहिं᳚सानस्य सश्चिरे ||{3/7}{5.64.3}{5.5.8.3}{4.4.2.3}{573, 418, 4214}

यत्¦नू॒न‌म्¦अ॒श्या‌म्¦गति᳚‌म्¦मि॒त्रस्य॑¦या॒या॒‌म्¦प॒था | अस्य॑¦प्रि॒यस्य॑¦शर्म॑णि¦अहिं᳚सानस्य¦स॒श्चि॒रे॒ ||

यु॒वाभ्यां᳚ मित्रावरुणोप॒मं धे᳚यामृ॒चा |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

यद्ध॒ क्षये᳚ म॒घोनां᳚ स्तोतॄ॒णां च॑ स्पू॒र्धसे᳚ ||{4/7}{5.64.4}{5.5.8.4}{4.4.2.4}{574, 418, 4215}

यु॒वाभ्या᳚‌म्¦मि॒त्रा॒व॒रु॒णा॒¦उ॒प॒ऽम‌म्¦धे॒या॒‌म्¦ऋ॒चा | यत्¦ह॒¦क्षये᳚¦म॒घोना᳚‌म्¦स्तो॒तॄ॒णा‌म्¦च॒¦स्पू॒र्धसे᳚ ||

आ नो᳚ मित्र सुदी॒तिभि॒र्वरु॑णश्च स॒धस्थ॒ आ |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

स्वे क्षये᳚ म॒घोनां॒ सखी᳚नां च वृ॒धसे᳚ ||{5/7}{5.64.5}{5.5.8.5}{4.4.2.5}{575, 418, 4216}

आ¦नः॒¦मि॒त्र॒¦सु॒दी॒तिऽभिः॑¦वरु॑णः¦च॒¦स॒धऽस्थे᳚¦आ | स्वे¦क्षये᳚¦म॒घोना᳚‌म्¦सखी᳚ना‌म्¦च॒¦वृ॒धसे᳚ ||

यु॒वं नो॒ येषु॑ वरुण क्ष॒त्रं बृ॒हच्च॑ बिभृ॒थः |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

उ॒रु णो॒ वाज॑सातये कृ॒तं रा॒ये स्व॒स्तये᳚ ||{6/7}{5.64.6}{5.5.8.6}{4.4.2.6}{576, 418, 4217}

यु॒व‌म्¦नः॒¦येषु॑¦व॒रु॒णा॒¦क्ष॒त्र‌म्¦बृ॒हत्¦च॒¦बि॒भृ॒थः | उ॒रु¦नः॒¦वाज॑ऽसातये¦कृ॒त‌म्¦रा॒ये¦स्व॒स्तये᳚ ||

उ॒च्छन्त्यां᳚ मे यज॒ता दे॒वक्ष॑त्रे॒ रुश॑द्गवि |{आत्रेयोर्चनाना | मित्रावरुणौ | पङ्क्तिः}

सु॒तं सोमं॒ न ह॒स्तिभि॒रा प॒ड्भिर्धा᳚वतं नरा॒ बिभ्र॑तावर्च॒नान॑सम् ||{7/7}{5.64.7}{5.5.8.7}{4.4.2.7}{577, 418, 4218}

उ॒च्छन्त्या᳚‌म्¦मे॒¦य॒ज॒ता¦दे॒वऽक्ष॑त्रे¦रुश॑त्ऽगवि |
सु॒त‌म्¦सोम᳚‌म्¦न¦ह॒स्तिऽभिः॑¦आ¦प॒ट्ऽभिः¦धा॒व॒त॒‌म्¦न॒रा॒¦बिभ्र॑तौ¦अ॒र्च॒नान॑स‌म् ||

[65] यश्चिकेतेति षडृचस्य सूक्तस्यात्रेयोरातहव्योमित्रावरुणावनुष्टुबन्त्यापंक्तिः |
यश्चि॒केत॒ स सु॒क्रतु॑र्देव॒त्रा स ब्र॑वीतु नः |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

वरु॑णो॒ यस्य॑ दर्श॒तो मि॒त्रो वा॒ वन॑ते॒ गिरः॑ ||{1/6}{5.65.1}{5.5.9.1}{4.4.3.1}{578, 419, 4219}

यः¦चि॒केत॑¦सः¦सु॒ऽक्रतुः॑¦दे॒व॒ऽत्रा¦सः¦ब्र॒वी॒तु॒¦नः॒ | वरु॑णः¦यस्य॑¦द॒र्श॒तः¦मि॒त्रः¦वा॒¦वन॑ते¦गिरः॑ ||

ता हि श्रेष्ठ॑वर्चसा॒ राजा᳚ना दीर्घ॒श्रुत्त॑मा |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

ता सत्प॑ती, ऋता॒वृध॑ ऋ॒तावा᳚ना॒ जने᳚जने ||{2/6}{5.65.2}{5.5.9.2}{4.4.3.2}{579, 419, 4220}

ता¦हि¦श्रेष्ठ॑ऽवर्चसा¦राजा᳚ना¦दी॒र्घ॒श्रुत्ऽत॑मा | ता¦सत्प॑ती॒ इति॒ सत्ऽप॑ती¦ऋ॒त॒ऽवृधा᳚¦ऋ॒तऽवा᳚ना¦जने᳚ऽजने ||

ता वा᳚मिया॒नोऽव॑से॒ पूर्वा॒, उप॑ ब्रुवे॒ सचा᳚ |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

स्वश्वा᳚सः॒ सु चे॒तुना॒ वाजाँ᳚, अ॒भि प्र दा॒वने᳚ ||{3/6}{5.65.3}{5.5.9.3}{4.4.3.3}{580, 419, 4221}

ता¦वा॒‌म्¦इ॒या॒नः¦अव॑से¦पूर्वौ᳚¦उप॑¦ब्रु॒वे॒¦सचा᳚ | सु॒।आश्वा᳚सः¦सु¦चे॒तुना᳚¦वाजा᳚न्¦अ॒भि¦प्र¦दा॒वने᳚ ||

मि॒त्रो, अं॒होश्चि॒दादु॒रु क्षया᳚य गा॒तुं व॑नते |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

मि॒त्रस्य॒ हि प्र॒तूर्व॑तः सुम॒तिरस्ति॑ विध॒तः ||{4/6}{5.65.4}{5.5.9.4}{4.4.3.4}{581, 419, 4222}

मि॒त्रः¦अं॒होः¦चि॒त्¦आत्¦उ॒रु¦क्षया᳚य¦गा॒तु‌म्¦व॒न॒ते॒ | मि॒त्रस्य॑¦हि¦प्र॒ऽतूर्व॑तः¦सु॒ऽम॒तिः¦अस्ति॑¦वि॒ध॒तः ||

व॒यं मि॒त्रस्याव॑सि॒ स्याम॑ स॒प्रथ॑स्तमे |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

अ॒ने॒हस॒स्त्वोत॑यः स॒त्रा वरु॑णशेषसः ||{5/6}{5.65.5}{5.5.9.5}{4.4.3.5}{582, 419, 4223}

व॒य‌म्¦मि॒त्रस्य॑¦अव॑सि¦स्याम॑¦स॒प्रथः॑ऽतमे | अ॒ने॒हसः॑¦त्वाऽऊ᳚तयः¦स॒त्रा¦वरु॑णऽशेषसः ||

यु॒वं मि॑त्रे॒मं जनं॒ यत॑थः॒ सं च॑ नयथः |{आत्रेयो रातहव्यः | मित्रावरुणौ | पङ्क्तिः}

मा म॒घोनः॒ परि॑ ख्यतं॒ मो, अ॒स्माक॒मृषी᳚णां गोपी॒थे न॑ उरुष्यतम् ||{6/6}{5.65.6}{5.5.9.6}{4.4.3.6}{583, 419, 4224}

यु॒व‌म्¦मि॒त्रा॒¦इ॒म‌म्¦जन᳚‌म्¦यत॑थः¦स‌म्¦च॒¦न॒य॒थः॒ |
मा¦म॒घोनः॑¦परि॑¦ख्य॒त॒‌म्¦मो इति॑¦अ॒स्माक᳚‌म्¦ऋषी᳚णा‌म्¦गो॒ऽपी॒थे¦नः॒¦उ॒रु॒ष्य॒त॒‌म् ||

[66] आचिकितानेति षडृचस्य सूक्तस्यात्रेयोरातहव्योमित्रावरुणावनुष्टुप् |
आ चि॑कितान सु॒क्रतू᳚ दे॒वौ म॑र्त रि॒शाद॑सा |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

वरु॑णाय ऋ॒तपे᳚शसे दधी॒त प्रय॑से म॒हे ||{1/6}{5.66.1}{5.5.10.1}{4.4.4.1}{584, 420, 4225}

आ¦चि॒कि॒ता॒न॒¦सु॒क्रतू॒ इति॑ सु॒ऽक्रतू᳚¦दे॒वौ¦म॒र्त॒¦रि॒शाद॑सा | वरु॑णाय¦ऋ॒तऽपे᳚शसे¦द॒धी॒त¦प्रय॑से¦म॒हे ||

ता हि क्ष॒त्रमवि॑ह्रुतं स॒म्यग॑सु॒र्य१॑(अ॒)माशा᳚ते |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

अध᳚ व्र॒तेव॒ मानु॑षं॒ स्व१॑(अ॒)र्ण धा᳚यि दर्श॒तम् ||{2/6}{5.66.2}{5.5.10.2}{4.4.4.2}{585, 420, 4226}

ता¦हि¦क्ष॒त्र‌म्¦अवि॑ऽह्रुत‌म्¦स॒म्यक्¦अ॒सु॒र्य᳚‌म्¦आशा᳚ते॒ इति॑ | अध॑¦व्र॒ताऽ‌इ᳚व¦मानु॑ष‌म्¦स्वः॑¦न¦धा॒यि॒¦द॒र्श॒त‌म् ||

ता वा॒मेषे॒ रथा᳚नामु॒र्वीं गव्यू᳚तिमेषाम् |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

रा॒तह᳚व्यस्य सुष्टु॒तिं द॒धृक्‌ स्तोमै᳚र्मनामहे ||{3/6}{5.66.3}{5.5.10.3}{4.4.4.3}{586, 420, 4227}

ता¦वा॒‌म्¦एषे᳚¦रथा᳚ना‌म्¦उ॒र्वी‌म्¦गव्यू᳚ति‌म्¦ए॒षा॒‌म् | रा॒तऽह᳚व्यस्य¦सु॒ऽस्तु॒ति‌म्¦द॒धृक्¦स्तोमैः᳚¦म॒ना॒म॒हे॒ ||

अधा॒ हि काव्या᳚ यु॒वं दक्ष॑स्य पू॒र्भिर॑द्भुता |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

नि के॒तुना॒ जना᳚नां चि॒केथे᳚ पूतदक्षसा ||{4/6}{5.66.4}{5.5.10.4}{4.4.4.4}{587, 420, 4228}

अध॑¦हि¦काव्या᳚¦यु॒व‌म्¦दक्ष॑स्य¦पूः॒ऽभिः¦अ॒द्भु॒ता॒ | नि¦के॒तुना᳚¦जना᳚ना‌म्¦चि॒केथे॒ इति॑¦पू॒त॒ऽद॒क्ष॒सा॒ ||

तदृ॒तं पृ॑थिवि बृ॒हच्छ्र॑वए॒ष ऋषी᳚णाम् |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

ज्र॒य॒सा॒नावरं᳚ पृ॒थ्वति॑ क्षरन्ति॒ याम॑भिः ||{5/6}{5.66.5}{5.5.10.5}{4.4.4.5}{588, 420, 4229}

तत्¦ऋ॒त‌म्¦पृ॒थि॒वि॒¦बृ॒हत्¦श्र॒वः॒ऽए॒षे¦ऋषी᳚णा‌म् | ज्र॒य॒सा॒नौ¦अर᳚‌म्¦पृ॒थु¦अति॑¦क्ष॒र॒न्ति॒¦याम॑ऽभिः ||

आ यद्‌ वा᳚मीयचक्षसा॒ मित्र॑ व॒यं च॑ सू॒रयः॑ |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

व्यचि॑ष्ठे बहु॒पाय्ये॒ यते᳚महि स्व॒राज्ये᳚ ||{6/6}{5.66.6}{5.5.10.6}{4.4.4.6}{589, 420, 4230}

आ¦यत्¦वा॒‌म्¦ई॒य॒ऽच॒क्ष॒सा॒¦मित्रा᳚¦व॒य‌म्¦च॒¦सू॒रयः॑ | व्यचि॑ष्ठे¦ब॒हु॒ऽपाय्ये᳚¦यते᳚महि¦स्व॒ऽराज्ये᳚ ||

[67] बळित्थादेवेति पंचर्चस्य सूक्तस्यात्रेयोयजतो मित्रावरुणावनुष्टुप् |
बळि॒त्था दे᳚व निष्कृ॒तमादि॑त्या यज॒तं बृ॒हत् |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्}

वरु॑ण॒ मित्रार्य॑म॒न् वर्षि॑ष्ठं क्ष॒त्रमा᳚शाथे ||{1/5}{5.67.1}{5.5.11.1}{4.4.5.1}{590, 421, 4231}

बट्¦इ॒त्था¦दे॒वा॒¦निः॒ऽकृ॒त‌म्¦आदि॑त्या¦य॒ज॒त‌म्¦बृ॒हत् | वरु॑ण¦मित्र॑¦अर्य॑मन्¦वर्षि॑ष्ठ‌म्¦क्ष॒त्र‌म्¦आ॒शा॒थे॒ इति॑ ||

आ यद्‌ योनिं᳚ हिर॒ण्ययं॒ वरु॑ण॒ मित्र॒ सद॑थः |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्}

ध॒र्तारा᳚ चर्षणी॒नां य॒न्तं सु॒म्नं रि॑शादसा ||{2/5}{5.67.2}{5.5.11.2}{4.4.5.2}{591, 421, 4232}

आ¦यत्¦योनि᳚‌म्¦हि॒र॒ण्यय᳚‌म्¦वरु॑ण¦मित्र॑¦सद॑थः | ध॒र्तारा᳚¦च॒र्ष॒णी॒ना‌म्¦य॒न्त‌म्¦सु॒म्न‌म्¦रि॒शा॒द॒सा॒ ||

विश्वे॒ हि वि॒श्ववे᳚दसो॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्}

व्र॒ता प॒देव॑ सश्चिरे॒ पान्ति॒ मर्त्यं᳚ रि॒षः ||{3/5}{5.67.3}{5.5.11.3}{4.4.5.3}{592, 421, 4233}

विश्वे᳚¦हि¦वि॒श्वऽवे᳚दसः¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा | व्र॒ता¦प॒दाऽ‌इ᳚व¦स॒श्चि॒रे॒¦पान्ति॑¦मर्त्य᳚‌म्¦रि॒षः ||

ते हि स॒त्या, ऋ॑त॒स्पृश॑ ऋ॒तावा᳚नो॒ जने᳚जने |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्}

सु॒नी॒थासः॑ सु॒दान॑वों॒ऽहोश्चि॑दुरु॒चक्र॑यः ||{4/5}{5.67.4}{5.5.11.4}{4.4.5.4}{593, 421, 4234}

ते¦हि¦स॒त्याः¦ऋ॒त॒ऽस्पृशः॑¦ऋ॒तऽवा᳚नः¦जने᳚ऽजने | सु॒ऽनी॒थासः॑¦सु॒ऽदान॑वः¦अं॒होः¦चि॒त्¦उ॒रु॒ऽचक्र॑यः ||

को नु वां᳚ मि॒त्रास्तु॑तो॒ वरु॑णो वा त॒नूना᳚म् |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्}

तत्सु वा॒मेष॑ते म॒तिरत्रि॑भ्य॒ एष॑ते म॒तिः ||{5/5}{5.67.5}{5.5.11.5}{4.4.5.5}{594, 421, 4235}

कः¦नु¦वा॒‌म्¦मि॒त्र॒¦अस्तु॑तः¦वरु॑णः¦वा॒¦त॒नूना᳚‌म् | तत्¦सु¦वा॒‌म्¦आ¦ई॒ष॒ते॒¦म॒तिः¦अत्रि॑ऽभ्यः¦आ¦ई॒ष॒ते॒¦म॒तिः ||

[68] प्रवोमित्रायेति पंचर्चस्य सूक्तस्यात्रेयो यजतोमित्रावरुणौगायत्री |
प्र वो᳚ मि॒त्राय॑ गायत॒ वरु॑णाय वि॒पा गि॒रा |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री}

महि॑क्षत्रावृ॒तं बृ॒हत् ||{1/5}{5.68.1}{5.5.12.1}{4.4.6.1}{595, 422, 4236}

प्र¦वः॒¦मि॒त्राय॑¦गा॒य॒त॒¦वरु॑णाय¦वि॒पा¦गि॒रा | महि॑ऽक्षत्रौ¦ऋ॒त‌म्¦बृ॒हत् ||

स॒म्राजा॒ या घृ॒तयो᳚नी मि॒त्रश्चो॒भा वरु॑णश्च |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री}

दे॒वा दे॒वेषु॑ प्रश॒स्ता ||{2/5}{5.68.2}{5.5.12.2}{4.4.6.2}{596, 422, 4237}

स॒‌म्ऽराजा᳚¦या¦घृ॒तयो᳚नी॒ इति॑ घृ॒तऽयो᳚नी¦मि॒त्रः¦च॒¦उ॒भा¦वरु॑णः¦च॒ | दे॒वा¦दे॒वेषु॑¦प्र॒ऽश॒स्ता ||

ता नः॑ शक्तं॒ पार्थि॑वस्य म॒हो रा॒यो दि॒व्यस्य॑ |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री}

महि॑ वां क्ष॒त्रं दे॒वेषु॑ ||{3/5}{5.68.3}{5.5.12.3}{4.4.6.3}{597, 422, 4238}

ता¦नः॒¦श॒क्त॒‌म्¦पार्थि॑वस्य¦म॒हः¦रा॒यः¦दि॒व्यस्य॑ | महि॑¦वा॒‌म्¦क्ष॒त्र‌म्¦दे॒वेषु॑ ||

ऋ॒तमृ॒तेन॒ सप᳚न्तेषि॒रं दक्ष॑माशाते |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री}

अ॒द्रुहा᳚ दे॒वौ व॑र्धेते ||{4/5}{5.68.4}{5.5.12.4}{4.4.6.4}{598, 422, 4239}

ऋ॒त‌म्¦ऋ॒तेन॑¦सप᳚न्ता¦इ॒षि॒र‌म्¦दक्ष᳚‌म्¦आ॒शा॒ते॒ इति॑ | अ॒द्रुहा᳚¦दे॒वौ¦व॒र्धे॒ते॒ इति॑ ||

वृ॒ष्टिद्या᳚वा री॒त्या᳚पे॒षस्पती॒ दानु॑मत्याः |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री}

बृ॒हन्तं॒ गर्त॑माशाते ||{5/5}{5.68.5}{5.5.12.5}{4.4.6.5}{599, 422, 4240}

वृ॒ष्टिऽद्या᳚वा¦री॒तिऽआ᳚पा¦इ॒षः¦पती॒ इति॑¦दानु॑ऽमत्याः | बृ॒हन्त᳚‌म्¦गर्त᳚‌म्¦आ॒शा॒ते॒ इति॑ ||

[69] त्रीरोचनेति चतुरृचस्य सूक्तस्यात्रेय उरुचक्रिर्मित्रावरुणौत्रिष्टुप् |
त्री रो᳚च॒ना व॑रुण॒ त्रीँरु॒त द्यून् त्रीणि॑ मित्र धारयथो॒ रजां᳚सि |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्}

वा॒वृ॒धा॒नाव॒मतिं᳚ क्ष॒त्रिय॒स्याऽनु᳚ व्र॒तं रक्ष॑माणावजु॒र्यम् ||{1/4}{5.69.1}{5.5.13.1}{4.4.7.1}{600, 423, 4241}

त्री¦रो॒च॒ना¦व॒रु॒ण॒¦त्रीन्¦उ॒त¦द्यून्¦त्रीणि॑¦मि॒त्र॒¦धा॒र॒य॒थः॒¦रजां᳚सि |
व॒वृ॒धा॒नौ¦अ॒मति᳚‌म्¦क्ष॒त्रिय॑स्य¦अनु॑¦व्र॒त‌म्¦रक्ष॑माणौ¦अ॒जु॒र्य‌म् ||

इरा᳚वतीर्वरुण धे॒नवो᳚ वां॒ मधु॑मद्वां॒ सिन्ध॑वो मित्र दुह्रे |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्}

त्रय॑स्तस्थुर्वृष॒भास॑स्तिसॄ॒णां धि॒षणा᳚नां रेतो॒धा वि द्यु॒मन्तः॑ ||{2/4}{5.69.2}{5.5.13.2}{4.4.7.2}{601, 423, 4242}

इरा᳚ऽवतीः¦व॒रु॒ण॒¦धे॒नवः॑¦वा॒‌म्¦मधु॑ऽमत्¦वा॒‌म्¦सिन्ध॑वः¦मि॒त्र॒¦दु॒ह्रे॒ |
त्रयः॑¦त॒स्थुः॒¦वृ॒ष॒भासः॑¦ति॒सॄ॒णा‌म्¦धि॒षणा᳚ना‌म्¦रे॒तः॒ऽधाः¦वि¦द्यु॒ऽमन्तः॑ ||

प्रा॒तर्दे॒वीमदि॑तिं जोहवीमि म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्}

रा॒ये मि॑त्रावरुणा स॒र्वता॒तेळे᳚ तो॒काय॒ तन॑याय॒ शं योः ||{3/4}{5.69.3}{5.5.13.3}{4.4.7.3}{602, 423, 4243}

प्रा॒तः¦दे॒वी‌म्¦अदि॑ति‌म्¦जो॒ह॒वी॒मि॒¦म॒ध्यंदि॑ने¦उत्ऽ‌इ᳚ता¦सूर्य॑स्य |
रा॒ये¦मि॒त्रा॒व॒रु॒णा॒¦स॒र्वऽता᳚ता¦ईळे᳚¦तो॒काय॑¦तन॑याय¦श‌म्¦योः ||

या ध॒र्तारा॒ रज॑सो रोच॒नस्यो॒तादि॒त्या दि॒व्या पार्थि॑वस्य |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्}

न वां᳚ दे॒वा, अ॒मृता॒, आ मि॑नन्ति व्र॒तानि॑ मित्रावरुणा ध्रु॒वाणि॑ ||{4/4}{5.69.4}{5.5.13.4}{4.4.7.4}{603, 423, 4244}

या¦ध॒र्तारा᳚¦रज॑सः¦रो॒च॒नस्य॑¦उ॒त¦आ॒दि॒त्या¦दि॒व्या¦पार्थि॑वस्य |
न¦वा॒‌म्¦दे॒वाः¦अ॒मृताः᳚¦आ¦मि॒न॒न्ति॒¦व्र॒तानि॑¦मि॒त्रा॒व॒रु॒णा॒¦ध्रु॒वाणि॑ ||

[70] पुरुरुणेति चतुरृचस्य सूक्तस्यात्रेय उरुचक्रिर्मित्रावरुणौगायत्री |
पु॒रू॒रुणा᳚ चि॒द्ध्यस्त्यवो᳚ नू॒नं वां᳚ वरुण |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | गायत्री}

मित्र॒ वंसि॑ वां सुम॒तिम् ||{1/4}{5.70.1}{5.5.14.1}{4.4.8.1}{604, 424, 4245}

पु॒रु॒।औ॒रुणा᳚¦चि॒त्¦हि¦अस्ति॑¦अवः॑¦नू॒न‌म्¦वा॒‌म्¦व॒रु॒ण॒ | मित्र॑¦वंसि॑¦वा॒‌म्¦सु॒ऽम॒ति‌म् ||

ता वां᳚ स॒म्यग॑द्रुह्वा॒णेष॑मश्याम॒ धाय॑से |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | गायत्री}

व॒यं ते रु॑द्रा स्याम ||{2/4}{5.70.2}{5.5.14.2}{4.4.8.2}{605, 424, 4246}

ता¦वा॒‌म्¦स॒म्यक्¦अ॒द्रु॒ह्वा॒णा॒¦इष᳚‌म्¦अ॒श्या॒म॒¦धाय॑से | व॒य‌म्¦ते¦रु॒द्रा॒¦स्या॒म॒ ||

पा॒तं नो᳚ रुद्रा पा॒युभि॑रु॒त त्रा᳚येथां सुत्रा॒त्रा |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | गायत्री}

तु॒र्याम॒ दस्यू᳚न्‌ त॒नूभिः॑ ||{3/4}{5.70.3}{5.5.14.3}{4.4.8.3}{606, 424, 4247}

पा॒त‌म्¦नः॒¦रु॒द्रा॒¦पा॒युऽभिः॑¦उ॒त¦त्रा॒ये॒था॒‌म्¦सु॒ऽत्रा॒त्रा | तु॒र्याम॑¦दस्यू᳚न्¦त॒नूभिः॑ ||

मा कस्या᳚द्भुतक्रतू य॒क्षं भु॑जेमा त॒नूभिः॑ |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | गायत्री}

मा शेष॑सा॒ मा तन॑सा ||{4/4}{5.70.4}{5.5.14.4}{4.4.8.4}{607, 424, 4248}

मा¦कस्य॑¦अ॒द्भु॒त॒क्र॒तू॒ इत्य॑द्भुतऽक्रतू¦य॒क्ष‌म्¦भु॒जे॒म॒¦त॒नूभिः॑ | मा¦शेष॑सा¦मा¦तन॑सा ||

[71] आनोगंतरिति तृचस्य सूक्तस्यात्रेयोबाहुवृक्तोमित्रावरुणौगायत्री |
आ नो᳚ गन्तं रिशादसा॒ वरु॑ण॒ मित्र॑ ब॒र्हणा᳚ |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | गायत्री}

उपे॒मं चारु॑मध्व॒रम् ||{1/3}{5.71.1}{5.5.15.1}{4.4.9.1}{608, 425, 4249}

आ¦नः॒¦ग॒न्त॒‌म्¦रि॒शा॒द॒सा॒¦वरु॑ण¦मित्र॑¦ब॒र्हणा᳚ | उप॑¦इ॒म‌म्¦चारु᳚‌म्¦अ॒ध्व॒र‌म् ||

विश्व॑स्य॒ हि प्र॑चेतसा॒ वरु॑ण॒ मित्र॒ राज॑थः |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | गायत्री}

ई॒शा॒ना पि॑प्यतं॒ धियः॑ ||{2/3}{5.71.2}{5.5.15.2}{4.4.9.2}{609, 425, 4250}

विश्व॑स्य¦हि¦प्र॒ऽचे॒त॒सा॒¦वरु॑ण¦मित्र॑¦राज॑थः | ई॒शा॒ना¦पि॒प्य॒त॒‌म्¦धियः॑ ||

उप॑ नः सु॒तमा ग॑तं॒ वरु॑ण॒ मित्र॑ दा॒शुषः॑ |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | गायत्री}

अ॒स्य सोम॑स्य पी॒तये᳚ ||{3/3}{5.71.3}{5.5.15.3}{4.4.9.3}{610, 425, 4251}

उप॑¦नः॒¦सु॒त‌म्¦आ¦ग॒त॒‌म्¦वरु॑ण¦मित्र॑¦दा॒शुषः॑ | अ॒स्य¦सोम॑स्य¦पी॒तये᳚ ||

[72] आमित्रइति तृचस्य सूक्तस्यात्रेयोबाहुवृक्तोमित्रावरुणावुष्णिक् |
आ मि॒त्रे वरु॑णे व॒यं गी॒र्भिर्जु॑हुमो, अत्रि॒वत् |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | उष्णिक्}

नि ब॒र्हिषि॑ सदतं॒ सोम॑पीतये ||{1/3}{5.72.1}{5.5.16.1}{4.4.10.1}{611, 426, 4252}

आ¦मि॒त्रे¦वरु॑णे¦व॒य‌म्¦गीः॒ऽभिः¦जु॒हु॒मः॒¦अ॒त्रि॒ऽवत् | नि¦ब॒र्हिषि॑¦स॒द॒त॒‌म्¦सोम॑ऽपीतये ||

व्र॒तेन॑ स्थो ध्रु॒वक्षे᳚मा॒ धर्म॑णा यात॒यज्ज॑ना |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | उष्णिक्}

नि ब॒र्हिषि॑ सदतं॒ सोम॑पीतये ||{2/3}{5.72.2}{5.5.16.2}{4.4.10.2}{612, 426, 4253}

व्र॒तेन॑¦स्थः॒¦ध्रु॒वऽक्षे᳚मा¦धर्म॑णा¦या॒त॒यत्ऽज॑ना | नि¦ब॒र्हिषि॑¦स॒द॒त॒‌म्¦सोम॑ऽपीतये ||

मि॒त्रश्च॑ नो॒ वरु॑णश्च जु॒षेतां᳚ य॒ज्ञमि॒ष्टये᳚ |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | उष्णिक्}

नि ब॒र्हिषि॑ सदतां॒ सोम॑पीतये ||{3/3}{5.72.3}{5.5.16.3}{4.4.10.3}{613, 426, 4254}

मि॒त्रः¦च॒¦नः॒¦वरु॑णः¦च॒¦जु॒षेता᳚‌म्¦य॒ज्ञ‌म्¦इ॒ष्टये᳚ | नि¦ब॒र्हिषि॑¦स॒द॒त॒‌म्¦सोम॑ऽपीतये ||

[73] यदद्यस्थइति दशर्चस्यसूतस्यात्रेयः पौरोश्विनावनुष्टुप् |
यद॒द्य स्थः प॑रा॒वति॒ यद᳚र्वा॒वत्य॑श्विना |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

यद्‌ वा᳚ पु॒रू पु॑रुभुजा॒ यद॒न्तरि॑क्ष॒ आ ग॑तम् ||{1/10}{5.73.1}{5.6.1.1}{4.4.11.1}{614, 427, 4255}

यत्¦अ॒द्य¦स्थः¦पा॒रा॒ऽवति॑¦यत्¦आ॒र्वा॒ऽवति॑¦अ॒श्वि॒ना॒ | यत्¦वा॒¦पु॒रु¦पु॒रु॒ऽभु॒जा॒¦यत्¦अ॒न्तरि॑क्षे¦आ¦ग॒त॒‌म् ||

इ॒ह त्या पु॑रु॒भूत॑मा पु॒रू दंसां᳚सि॒ बिभ्र॑ता |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

व॒र॒स्या या॒म्यध्रि॑गू हु॒वे तु॒विष्ट॑मा भु॒जे ||{2/10}{5.73.2}{5.6.1.2}{4.4.11.2}{615, 427, 4256}

इ॒ह¦त्या¦पु॒रु॒ऽभूत॑मा¦पु॒रु¦दंसां᳚सि¦बिभ्र॑ता | व॒र॒स्या¦या॒मि॒¦अध्रि॑गू॒ इत्यध्रि॑ऽगू¦हु॒वे¦तु॒विःऽत॑मा¦भु॒जे ||

ई॒र्मान्यद्‌ वपु॑षे॒ वपु॑श्च॒क्रं रथ॑स्य येमथुः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

पर्य॒न्या नाहु॑षा यु॒गा म॒ह्ना रजां᳚सि दीयथः ||{3/10}{5.73.3}{5.6.1.3}{4.4.11.3}{616, 427, 4257}

ई॒र्मा¦अ॒न्यत्¦वपु॑षे¦वपुः॑¦च॒क्र‌म्¦रथ॑स्य¦ये॒म॒थुः॒ | परि॑¦अ॒न्या¦नाहु॑षा¦यु॒गा¦म॒ह्ना¦रजां᳚सि¦दी॒य॒थः॒ ||

तदू॒ षु वा᳚मे॒ना कृ॒तं विश्वा॒ यद्‌ वा॒मनु॒ ष्टवे᳚ |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

नाना᳚ जा॒ताव॑रे॒पसा॒ सम॒स्मे बन्धु॒मेय॑थुः ||{4/10}{5.73.4}{5.6.1.4}{4.4.11.4}{617, 427, 4258}

तत्¦ऊँ॒ इति॑¦सु¦वा॒‌म्¦ए॒ना¦कृ॒त‌म्¦विश्वा᳚¦यत्¦वा॒‌म्¦अनु॑¦स्तवे᳚ | नाना᳚¦जा॒तौ¦अ॒रे॒पसा᳚¦स‌म्¦अ॒स्मे इति॑¦बन्धु᳚‌म्¦आ¦ई॒य॒थुः॒ ||

आ यद्‌ वां᳚ सू॒र्या रथं॒ तिष्ठ॑द्‌ रघु॒ष्यदं॒ सदा᳚ |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

परि॑ वामरु॒षा वयो᳚ घृ॒णा व॑रन्त आ॒तपः॑ ||{5/10}{5.73.5}{5.6.1.5}{4.4.11.5}{618, 427, 4259}

आ¦यत्¦वा॒‌म्¦सू॒र्या¦रथ᳚‌म्¦तिष्ठ॑त्¦र॒घु॒ऽस्यद᳚‌म्¦सदा᳚ | परि॑¦वा॒‌म्¦अ॒रु॒षाः¦वयः॑¦घृ॒णा¦व॒र॒न्ते॒¦आ॒ऽतपः॑ ||

यु॒वोरत्रि॑श्चिकेतति॒ नरा᳚ सु॒म्नेन॒ चेत॑सा |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

घ॒र्मं यद्‌ वा᳚मरे॒पसं॒ नास॑त्या॒स्ना भु॑र॒ण्यति॑ ||{6/10}{5.73.6}{5.6.1.6}{4.4.12.1}{619, 427, 4260}

यु॒वोः¦अत्रिः॑¦चि॒के॒त॒ति॒¦नरा᳚¦सु॒म्नेन॑¦चेत॑सा | घ॒र्म‌म्¦यत्¦वा॒‌म्¦अ॒रे॒पस᳚‌म्¦नास॑त्या¦आ॒स्ना¦भु॒र॒ण्यति॑ ||

उ॒ग्रो वां᳚ ककु॒हो य॒यिः शृ॒ण्वे यामे᳚षु संत॒निः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

यद्‌ वां॒ दंसो᳚भिरश्वि॒नाऽत्रि᳚र्नराव॒वर्त॑ति ||{7/10}{5.73.7}{5.6.1.7}{4.4.12.2}{620, 427, 4261}

उ॒ग्रः¦वा॒‌म्¦क॒कु॒हः¦य॒यिः¦शृ॒ण्वे¦यामे᳚षु¦स॒‌म्ऽत॒निः | यत्¦वा॒‌म्¦दंसः॑ऽभिः¦अ॒श्वि॒ना॒¦अत्रिः॑¦न॒रा॒¦आ॒ऽव॒वर्त॑ति ||

मध्व॑ ऊ॒ षु म॑धूयुवा॒ रुद्रा॒ सिष॑क्ति पि॒प्युषी᳚ |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

यत्‌ स॑मु॒द्राति॒ पर्ष॑थः प॒क्वाः पृक्षो᳚ भरन्त वाम् ||{8/10}{5.73.8}{5.6.1.8}{4.4.12.3}{621, 427, 4262}

मध्वः॑¦ऊँ॒ इति॑¦सु¦म॒धु॒ऽयु॒वा॒¦रुद्रा᳚¦सिस॑क्ति¦पि॒प्युषी᳚ | यत्¦स॒मु॒द्रा¦अति॑¦पर्ष॑थः¦प॒क्वाः¦पृक्षः॑¦भ॒र॒न्त॒¦वा॒‌म् ||

स॒त्यमिद्‌ वा, उ॑ अश्विना यु॒वामा᳚हुर्मयो॒भुवा᳚ |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

ता याम᳚न्‌ याम॒हूत॑मा॒ याम॒न्ना मृ॑ळ॒यत्त॑मा ||{9/10}{5.73.9}{5.6.1.9}{4.4.12.4}{622, 427, 4263}

स॒त्य‌म्¦इत्¦वै¦ऊँ॒ इति॑¦अ॒श्वि॒ना॒¦यु॒वा‌म्¦आ॒हुः॒¦म॒यः॒ऽभुवा᳚ | ता¦याम॑न्¦या॒म॒ऽहूत॑मा¦याम॑न्¦आ¦मृ॒ळ॒यत्ऽत॑मा ||

इ॒मा ब्रह्मा᳚णि॒ वर्ध॑ना॒ ऽश्विभ्यां᳚ सन्तु॒ शंत॑मा |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

या तक्षा᳚म॒ रथाँ᳚, इ॒वाऽवो᳚चाम बृ॒हन्नमः॑ ||{10/10}{5.73.10}{5.6.1.10}{4.4.12.5}{623, 427, 4264}

इ॒मा¦ब्रह्मा᳚णि¦वर्ध॑ना¦अ॒श्विऽभ्या᳚‌म्¦स॒न्तु॒¦श‌म्ऽत॑मा | या¦तक्षा᳚म¦रथा᳚न्ऽ‌इव¦अवो᳚चाम¦बृ॒हत्¦नमः॑ ||

[74] कूष्ठोदेवाविति दशर्चस्य सूक्तस्यात्रेयः पौरोश्विनावनुष्टुप् |
कूष्ठो᳚ देवावश्विना॒ऽद्या दि॒वो म॑नावसू |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

तच्छ्र॑वथो वृषण्वसू॒, अत्रि᳚र्वा॒मा वि॑वासति ||{1/10}{5.74.1}{5.6.2.1}{4.4.13.1}{624, 428, 4265}

कूऽस्थः॑¦दे॒वौ॒¦अ॒श्वि॒ना॒¦अ॒द्य¦दि॒वः¦म॒ना॒व॒सू॒ इति॑ | तत्¦श्र॒व॒थः॒¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू¦अत्रिः॑¦वा॒‌म्¦आ¦वि॒वा॒स॒ति॒ ||

कुह॒ त्या कुह॒ नु श्रु॒ता दि॒वि दे॒वा नास॑त्या |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

कस्मि॒न्ना य॑तथो॒ जने॒ को वां᳚ न॒दीनां॒ सचा᳚ ||{2/10}{5.74.2}{5.6.2.2}{4.4.13.2}{625, 428, 4266}

कुह॑¦त्या¦कुह॑¦नु¦श्रु॒ता¦दि॒वि¦दे॒वा¦नास॑त्या | कस्मि॑न्¦आ¦य॒त॒थः॒¦जने᳚¦कः¦वा॒‌म्¦न॒दीना᳚‌म्¦सचा᳚ ||

कं या᳚थः॒ कं ह॑ गच्छथः॒ कमच्छा᳚ युञ्जाथे॒ रथ᳚म् |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

कस्य॒ ब्रह्मा᳚णि रण्यथो व॒यं वा᳚मुश्मसी॒ष्टये᳚ ||{3/10}{5.74.3}{5.6.2.3}{4.4.13.3}{626, 428, 4267}

क‌म्¦या॒थः॒¦क‌म्¦ह॒¦ग॒च्छ॒थः॒¦क‌म्¦अच्छ॑¦युं॒जा॒थे॒ इति॑¦रथ᳚‌म् | कस्य॑¦ब्रह्मा᳚णि¦र॒ण्य॒थः॒¦व॒य‌म्¦वा॒‌म्¦उ॒श्म॒सि॒¦इ॒ष्टये᳚ ||

पौ॒रं चि॒द्ध्यु॑द॒प्रुतं॒ पौर॑ पौ॒राय॒ जिन्व॑थः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

यदीं᳚ गृभी॒तता᳚तये सिं॒हमि॑व द्रु॒हस्प॒दे ||{4/10}{5.74.4}{5.6.2.4}{4.4.13.4}{627, 428, 4268}

पौ॒र‌म्¦चि॒त्¦हि¦उ॒द॒ऽप्रुत᳚‌म्¦पौर॑¦पौ॒राय॑¦जिन्व॑थः | यत्¦ई॒‌म्¦गृ॒भी॒तऽता᳚तये¦सिं॒ह‌म्ऽ‌इ᳚व¦द्रु॒हः¦प॒दे ||

प्र च्यवा᳚नाज्जुजु॒रुषो᳚ व॒व्रिमत्कं॒ न मु᳚ञ्चथः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

युवा॒ यदी᳚ कृ॒थः पुन॒रा काम॑मृण्वे व॒ध्वः॑ ||{5/10}{5.74.5}{5.6.2.5}{4.4.13.5}{628, 428, 4269}

प्र¦च्यवा᳚नात्¦जु॒जु॒रुषः॑¦व॒व्रि‌म्¦अत्क᳚‌म्¦न¦मुं॒च॒थः॒ | युवा᳚¦यदि॑¦कृ॒थः¦पुनः॑¦आ¦काम᳚‌म्¦ऋ॒ण्वे॒¦व॒ध्वः॑ ||

अस्ति॒ हि वा᳚मि॒ह स्तो॒ता स्मसि॑ वां सं॒दृशि॑ श्रि॒ये |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

नू श्रु॒तं म॒ आ ग॑त॒मवो᳚भिर्वाजिनीवसू ||{6/10}{5.74.6}{5.6.2.6}{4.4.14.1}{629, 428, 4270}

अस्ति॑¦हि¦वा॒‌म्¦इ॒ह¦स्तो॒ता¦स्मसि॑¦वा॒‌म्¦स॒‌म्ऽदृशि॑¦श्रि॒ये | नु¦श्रु॒त‌म्¦मे॒¦आ¦ग॒त॒‌म्¦अवः॑ऽभिः¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ||

को वा᳚म॒द्य पु॑रू॒णामा व᳚व्ने॒ मर्त्या᳚नाम् |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

को विप्रो᳚ विप्रवाहसा॒ को य॒ज्ञैर्वा᳚जिनीवसू ||{7/10}{5.74.7}{5.6.2.7}{4.4.14.2}{630, 428, 4271}

कः¦वा॒‌म्¦अ॒द्य¦पु॒रू॒णा‌म्¦आ¦व॒व्ने॒¦मर्त्या᳚ना‌म् | कः¦विप्रः॑¦वि॒प्र॒ऽवा॒ह॒सा॒¦कः¦य॒ज्ञैः¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ||

आ वां॒ रथो॒ रथा᳚नां॒ येष्ठो᳚ यात्वश्विना |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

पु॒रू चि॑दस्म॒युस्ति॒र आ᳚ङ्गू॒षो मर्त्ये॒ष्वा ||{8/10}{5.74.8}{5.6.2.8}{4.4.14.3}{631, 428, 4272}

आ¦वा॒‌म्¦रथः॑¦रथा᳚ना‌म्¦येष्ठः॑¦या॒तु॒¦अ॒श्वि॒ना॒ | पु॒रु¦चि॒त्¦अ॒स्म॒ऽयुः¦ति॒रः¦आ॒ङ्गू॒षः¦मर्त्ये᳚षु¦आ ||

शमू॒ षु वां᳚ मधूयुवा॒ ऽस्माक॑मस्तु चर्कृ॒तिः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

अ॒र्वा॒ची॒ना वि॑चेतसा॒ विभिः॑ श्ये॒नेव॑ दीयतम् ||{9/10}{5.74.9}{5.6.2.9}{4.4.14.4}{632, 428, 4273}

श‌म्¦ऊँ॒ इति॑¦सु¦वा॒‌म्¦म॒धु॒ऽयु॒वा॒¦अ॒स्माक᳚‌म्¦अ॒स्तु॒¦च॒र्कृ॒तिः | अ॒र्वा॒ची॒ना¦वि॒ऽचे॒त॒सा॒¦विऽभिः॑¦श्ये॒नाऽ‌इ᳚व¦दी॒य॒त॒‌म् ||

अश्वि॑ना॒ यद्ध॒ कर्हि॑ चिच्छुश्रू॒यात॑मि॒मं हव᳚म् |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

वस्वी᳚रू॒ षु वां॒ भुजः॑ पृ॒ञ्चन्ति॒ सु वां॒ पृचः॑ ||{10/10}{5.74.10}{5.6.2.10}{4.4.14.5}{633, 428, 4274}

अश्वि॑ना¦यत्¦ह॒¦कर्हि॑¦चि॒त्¦शु॒श्रु॒यात᳚‌म्¦इ॒म‌म्¦हव᳚‌म् | वस्वीः᳚¦ऊँ॒ इति॑¦सु¦वा॒‌म्¦भुजः॑¦पृं॒चन्ति॑¦सु¦वा॒‌म्¦पृचः॑ ||

[75] प्रतिप्रियतममिति नवर्चस्य सूक्तस्यात्रेयोवस्युरश्विनौपङ्क्तिः |
प्रति॑ प्रि॒यत॑मं॒ रथं॒ वृष॑णं वसु॒वाह॑नम् |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

स्तो॒ता वा᳚मश्विना॒वृषिः॒ स्तोमे᳚न॒ प्रति॑ भूषति॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{1/9}{5.75.1}{5.6.3.1}{4.4.15.1}{634, 429, 4275}

प्रति॑¦प्रि॒यऽत॑म‌म्¦रथ᳚‌म्¦वृष॑ण‌म्¦व॒सु॒ऽवाह॑न‌म् |
स्तो॒ता¦वा॒‌म्¦अ॒श्वि॒नौ॒¦ऋषिः॑¦स्तोमे᳚न¦प्रति॑¦भू॒ष॒ति॒¦माध्वी॒ इति॑¦मम॑¦श्रुत᳚‌म्¦हव᳚‌म् ||

अ॒त्याया᳚तमश्विना ति॒रो विश्वा᳚, अ॒हं सना᳚ |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

दस्रा॒ हिर᳚ण्यवर्तनी॒ सुषु᳚म्ना॒ सिन्धु॑वाहसा॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{2/9}{5.75.2}{5.6.3.2}{4.4.15.2}{635, 429, 4276}

अ॒ति॒ऽआया᳚त‌म्¦अ॒श्वि॒ना॒¦ति॒रः¦विश्वाः᳚¦अ॒ह‌म्¦सना᳚ |
दस्रा᳚¦हिर᳚ण्यवर्तनी॒ इति॒ हिर᳚ण्यऽवर्तनी¦सुऽसु᳚म्ना¦सिन्धु॑ऽवाहसा¦माध्वी॒ इति॑¦मम॑¦श्रुत᳚‌म्¦हव᳚‌म् ||

आ नो॒ रत्ना᳚नि॒ बिभ्र॑ता॒वश्वि॑ना॒ गच्छ॑तं यु॒वम् |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

रुद्रा॒ हिर᳚ण्यवर्तनी जुषा॒णा वा᳚जिनीवसू॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{3/9}{5.75.3}{5.6.3.3}{4.4.15.3}{636, 429, 4277}

आ¦नः॒¦रत्ना᳚नि¦बिभ्र॑तौ¦अश्वि॑ना¦गच्छ॑त‌म्¦यु॒व‌म् |
रुद्रा᳚¦हिर᳚ण्यवर्तनी॒ इति॒ हिर᳚ण्यऽवर्तनी¦जु॒षा॒णा¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू¦माध्वी॒ इति॑¦मम॑¦श्रुत᳚‌म्¦हव᳚‌म् ||

सु॒ष्टुभो᳚ वां वृषण्वसू॒ रथे॒ वाणी॒च्याहि॑ता |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

उ॒त वां᳚ ककु॒हो मृ॒गः पृक्षः॑ कृणोति वापु॒षो माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{4/9}{5.75.4}{5.6.3.4}{4.4.15.4}{637, 429, 4278}

सु॒ऽस्तुभः॑¦वा॒‌म्¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू¦रथे᳚¦वाणी᳚ची¦आऽहि॑ता |
उ॒त¦वा॒‌म्¦क॒कु॒हः¦मृ॒गः¦पृक्षः॑¦कृ॒णो॒ति॒¦वा॒पु॒षः¦माध्वी॒ इति॑¦मम॑¦श्रु॒त॒‌म्¦हव᳚‌म् ||

बो॒धिन्म॑नसा र॒थ्ये᳚षि॒रा ह॑वन॒श्रुता᳚ |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

विभि॒श्च्यवा᳚नमश्विना॒ नि या᳚थो॒, अद्व॑याविनं॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{5/9}{5.75.5}{5.6.3.5}{4.4.15.5}{638, 429, 4279}

बो॒धित्ऽम॑नसा¦र॒थ्या᳚¦इ॒षि॒रा¦ह॒व॒न॒ऽश्रुता᳚ |
विऽभिः॑¦च्यवा᳚न‌म्¦अ॒श्वि॒ना॒¦नि¦या॒थः॒¦अद्व॑याविन‌म्¦माध्वी॒ इति॑¦मम॑¦श्रु॒त॒‌म्¦हव᳚‌म् ||

आ वां᳚ नरा मनो॒युजो ऽश्वा᳚सः प्रुषि॒तप्स॑वः |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

वयो᳚ वहन्तु पी॒तये᳚ स॒ह सु॒म्नेभि॑रश्विना॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{6/9}{5.75.6}{5.6.3.6}{4.4.16.1}{639, 429, 4280}

आ¦वा॒‌म्¦न॒रा॒¦म॒नः॒ऽयुजः॑¦अश्वा᳚सः¦प्रु॒षि॒तऽप्स॑वः |
वयः॑¦व॒ह॒न्तु॒¦पी॒तये᳚¦स॒ह¦सु॒म्नेभिः॑¦अ॒श्वि॒ना॒¦माध्वी॒ इति॑¦मम॑¦श्रु॒त॒‌म्¦हव᳚‌म् ||

अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे᳚नतम् |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

ति॒रश्चि॑दर्य॒या परि॑ व॒र्तिर्या᳚तमदाभ्या॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{7/9}{5.75.7}{5.6.3.7}{4.4.16.2}{640, 429, 4281}

अश्वि॑नौ¦आ¦इ॒ह¦ग॒च्छ॒त॒‌म्¦नास॑त्या¦मा¦वि¦वे॒न॒त॒‌म् |
ति॒रः¦चि॒त्¦अ॒र्य॒ऽया¦परि॑¦व॒र्तिः¦या॒त॒‌म्¦अ॒दा॒भ्या॒¦माध्वी॒ इति॑¦मम॑¦श्रु॒त॒‌म्¦हव᳚‌म् ||

अ॒स्मिन्‌ य॒ज्ञे, अ॑दाभ्या जरि॒तारं᳚ शुभस्पती |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

अ॒व॒स्युम॑श्विना यु॒वं गृ॒णन्त॒मुप॑ भूषथो॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{8/9}{5.75.8}{5.6.3.8}{4.4.16.3}{641, 429, 4282}

अ॒स्मिन्¦य॒ज्ञे¦अ॒दा॒भ्या॒¦ज॒रि॒तार᳚‌म्¦शु॒भः॒¦प॒ती॒ इति॑ |
अ॒व॒स्यु‌म्¦अ॒श्वि॒ना॒¦यु॒व‌म्¦गृ॒णन्त᳚‌म्¦उप॑¦भू॒ष॒थः॒¦माध्वी॒ इति॑¦मम॑¦श्रु॒त॒‌म्¦हव᳚‌म् ||

अभू᳚दु॒षा रुश॑त्पशु॒राग्निर॑धाय्यृ॒त्वियः॑ |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

अयो᳚जि वां वृषण्वसू॒ रथो᳚ दस्रा॒वम॑र्त्यो॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{9/9}{5.75.9}{5.6.3.9}{4.4.16.4}{642, 429, 4283}

अभू᳚त्¦उ॒षाः¦रुश॑त्ऽपशुः¦आ¦अ॒ग्निः¦अ॒धा॒यि॒¦ऋ॒त्वियः॑ |
अयो᳚जि¦वा॒‌म्¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू¦रथः॑¦द॒स्रौ॒¦अम॑र्त्यः¦माध्वी॒ इति॑¦मम॑¦श्रु॒त॒‌म्¦हव᳚‌म् ||

[76] आभात्यग्निरिति पंचर्चस्य सूक्तस्य भौमोत्रिरश्विनौत्रिष्टुप् |
आ भा᳚त्य॒ग्निरु॒षसा॒मनी᳚क॒मुद्‌ विप्रा᳚णां देव॒या वाचो᳚, अस्थुः |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

अ॒र्वाञ्चा᳚ नू॒नं र॑थ्ये॒ह या᳚तं पीपि॒वांस॑मश्विना घ॒र्ममच्छ॑ ||{1/5}{5.76.1}{5.6.4.1}{4.4.17.1}{643, 430, 4284}

आ¦भा॒ति॒¦अ॒ग्निः¦उ॒षसा᳚‌म्¦अनी᳚क‌म्¦उत्¦विप्रा᳚णा‌म्¦दे॒व॒ऽयाः¦वाचः॑¦अ॒स्थुः॒ |
अ॒र्वांचा᳚¦नू॒न‌म्¦र॒थ्या॒¦इ॒ह¦या॒त॒‌म्¦पी॒पि॒ऽवांस᳚‌म्¦अ॒श्वि॒ना॒¦घ॒र्म‌म्¦अच्छ॑ ||

न सं᳚स्कृ॒तं प्र मि॑मीतो॒ गमि॒ष्ठा ऽन्ति॑ नू॒नम॒श्विनोप॑स्तुते॒ह |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

दिवा᳚भिपि॒त्वेऽव॒साग॑मिष्ठा॒ प्रत्यव॑र्तिं दा॒शुषे॒ शम्भ॑विष्ठा ||{2/5}{5.76.2}{5.6.4.2}{4.4.17.2}{644, 430, 4285}

न¦सं॒स्कृ॒त‌म्¦प्र¦मि॒मी॒तः॒¦गमि॑ष्ठा¦अन्ति॑¦नू॒न‌म्¦अ॒श्विना᳚¦उप॑ऽस्तुता¦इ॒ह |
दि॒वा᳚¦अ॒भि॒ऽपि॒त्वे¦अव॑सा¦आऽग॑मिष्ठा¦प्रति॑¦अव॑र्ति‌म्¦दा॒शुषे᳚¦श‌म्ऽभ॑विष्ठा ||

उ॒ता या᳚तं संग॒वे प्रा॒तरह्नो᳚ म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

दिवा॒ नक्त॒मव॑सा॒ शंत॑मेन॒ नेदानीं᳚ पी॒तिर॒श्विना त॑तान ||{3/5}{5.76.3}{5.6.4.3}{4.4.17.3}{645, 430, 4286}

उ॒त¦आ¦या॒त॒‌म्¦स॒‌म्ऽग॒वे¦प्रा॒तः¦अह्नः॑¦म॒ध्यंदि॑ने¦उत्ऽ‌इ᳚ता¦सूर्य॑स्य |
दिवा᳚¦नक्त᳚‌म्¦अव॑सा¦श‌म्ऽत॑मेन¦न¦इ॒दानी᳚‌म्¦पी॒तिः¦अ॒श्विना᳚¦आ¦त॒ता॒न॒ ||

इ॒दं हि वां᳚ प्र॒दिवि॒ स्थान॒मोक॑ इ॒मे गृ॒हा, अ॑श्विने॒दं दु॑रो॒णम् |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

आ नो᳚ दि॒वो बृ॑ह॒तः पर्व॑ता॒दा ऽद्भ्यो या᳚त॒मिष॒मूर्जं॒ वह᳚न्ता ||{4/5}{5.76.4}{5.6.4.4}{4.4.17.4}{646, 430, 4287}

इ॒द‌म्¦हि¦वा॒‌म्¦प्र॒ऽदिवि॑¦स्थान᳚‌म्¦ओकः॑¦इ॒मे¦गृ॒हाः¦अ॒श्वि॒ना॒¦इ॒द‌म्¦दु॒रो॒ण‌म् |
आ¦नः॒¦दि॒वः¦बृ॒ह॒तः¦पर्व॑तात्¦आ¦अ॒त्ऽभ्यः¦या॒त॒‌म्¦इष᳚‌म्¦ऊर्ज᳚‌म्¦वह᳚न्ता ||

सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा᳚ सु॒प्रणी᳚ती गमेम |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

आ नो᳚ र॒यिं व॑हत॒मोत वी॒राना विश्वा᳚न्यमृता॒ सौभ॑गानि ||{5/5}{5.76.5}{5.6.4.5}{4.4.17.5}{647, 430, 4288}

स‌म्¦अ॒श्विनोः᳚¦अव॑सा¦नूत॑नेन¦म॒यः॒ऽभुवा᳚¦सु॒ऽप्रनी᳚ती¦ग॒मे॒म॒ |
आ¦नः॒¦र॒यि‌म्¦व॒ह॒त॒‌म्¦आ¦उ॒त¦वी॒रान्¦आ¦विश्वा᳚नि¦अ॒मृ॒ता॒¦सौभ॑गानि ||

[77] प्रातर्यावाणेति पंचर्चस्य सूक्तस्य भौमोत्रिरश्विनौत्रिष्टुप् |
प्रा॒त॒र्यावा᳚णा प्रथ॒मा य॑जध्वं पु॒रा गृध्रा॒दर॑रुषः पिबातः |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

प्रा॒तर्हि य॒ज्ञम॒श्विना᳚ द॒धाते॒ प्र शं᳚सन्ति क॒वयः॑ पूर्व॒भाजः॑ ||{1/5}{5.77.1}{5.6.5.1}{4.4.18.1}{648, 431, 4289}

प्रा॒तः॒ऽयावा᳚ना¦प्र॒थ॒मा¦य॒ज॒ध्व॒‌म्¦पु॒रा¦गृध्रा᳚त्¦अर॑रुषः¦पि॒बा॒तः॒ |
प्रा॒तः¦हि¦य॒ज्ञ‌म्¦अ॒श्विना᳚¦द॒धाते॒ इति॑¦प्र¦शं॒स॒न्ति॒¦क॒वयः॑¦पू॒र्व॒ऽभाजः॑ ||

प्रा॒तर्य॑जध्वम॒श्विना᳚ हिनोत॒ न सा॒यम॑स्ति देव॒या, अजु॑ष्टम् |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

उ॒तान्यो, अ॒स्मद्‌ य॑जते॒ वि चावः॒ पूर्वः॑पूर्वो॒ यज॑मानो॒ वनी᳚यान् ||{2/5}{5.77.2}{5.6.5.2}{4.4.18.2}{649, 431, 4290}

प्रा॒तः¦य॒ज॒ध्व॒‌म्¦अ॒श्विना᳚¦हि॒नो॒त॒¦न¦सा॒य‌म्¦अ॒स्ति॒¦दे॒व॒ऽयाः¦अजु॑ष्ट‌म् |
उ॒त¦अ॒न्यः¦अ॒स्मत्¦य॒ज॒ते॒¦वि¦च॒¦आवः॑¦पूर्वः॑ऽपूर्वः¦यज॑मानः¦वनी᳚यान् ||

हिर᳚ण्यत्व॒ङ्मधु॑वर्णो घृ॒तस्नुः॒ पृक्षो॒ वह॒न्ना रथो᳚ वर्तते वाम् |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

मनो᳚जवा, अश्विना॒ वात॑रंहा॒ येना᳚तिया॒थो दु॑रि॒तानि॒ विश्वा᳚ ||{3/5}{5.77.3}{5.6.5.3}{4.4.18.3}{650, 431, 4291}

हिर᳚ण्यऽत्वक्¦मधु॑ऽवर्णः¦घृ॒तऽस्नुः॑¦पृक्षः॑¦वह॑न्¦आ¦रथः॑¦व॒र्त॒ते॒¦वा॒‌म् |
मनः॑ऽजवाः¦अ॒श्वि॒ना॒¦वात॑ऽरंहाः¦येन॑¦अ॒ति॒ऽया॒थः¦दुः॒ऽ‌इ॒तानि॑¦विश्वा᳚ ||

यो भूयि॑ष्ठं॒ नास॑त्याभ्यां वि॒वेष॒ चनि॑ष्ठं पि॒त्वो रर॑ते विभा॒गे |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

स तो॒कम॑स्य पीपर॒च्छमी᳚भि॒रनू᳚र्ध्वभासः॒ सद॒मित्‌ तु॑तुर्यात् ||{4/5}{5.77.4}{5.6.5.4}{4.4.18.4}{651, 431, 4292}

यः¦भूयि॑ष्ठ‌म्¦नास॑त्याभ्या‌म्¦वि॒वेष॑¦चनि॑ष्ठ‌म्¦पि॒त्वः¦रर॑ते¦वि॒ऽभा॒गे |
सः¦तो॒क‌म्¦अ॒स्य॒¦पी॒प॒र॒त्¦शमी᳚भिः¦अनू᳚र्ध्वऽभासः¦सद᳚‌म्¦इत्¦तु॒तु॒र्या॒त् ||

सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा᳚ सु॒प्रणी᳚ती गमेम |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

आ नो᳚ र॒यिं व॑हत॒मोत वी॒राना विश्वा᳚न्यमृता॒ सौभ॑गानि ||{5/5}{5.77.5}{5.6.5.5}{4.4.18.5}{652, 431, 4293}

स‌म्¦अ॒श्विनोः᳚¦अव॑सा¦नूत॑नेन¦म॒यः॒ऽभुवा᳚¦सु॒ऽप्रनी᳚ती¦ग॒मे॒म॒ |
आ¦नः॒¦र॒यि‌म्¦व॒ह॒त॒‌म्¦आ¦उ॒त¦वी॒रान्¦आ¦विश्वा᳚नि¦अ॒मृ॒ता॒¦सौभ॑गानि ||

[78] अश्विनाविति नवर्चस्य सूक्तस्यात्रेयःसप्तवध्रिरश्विनावनुष्टुप् आद्यास्तिस्रउष्णिहश्चतुर्थीत्रिष्टुप् ( पंचम्यादिपंचगर्भस्राविण्यउपनिषदः ) |
अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे᳚नतम् |{आत्रेयः सप्तवध्रिः | अश्विनौ | उष्णिक्}

हं॒सावि॑व पतत॒मा सु॒ताँ, उप॑ ||{1/9}{5.78.1}{5.6.6.1}{4.4.19.1}{653, 432, 4294}

अश्वि॑नौ¦आ¦इ॒ह¦ग॒च्छ॒त॒‌म्¦नास॑त्या¦मा¦वि¦वे॒न॒त॒‌म् | हं॒सौऽ‌इ᳚व¦प॒त॒त॒‌म्¦आ¦सु॒तान्¦उप॑ ||

अश्वि॑ना हरि॒णावि॑व गौ॒रावि॒वानु॒ यव॑सम् |{आत्रेयः सप्तवध्रिः | अश्विनौ | उष्णिक्}

हं॒सावि॑व पतत॒मा सु॒ताँ, उप॑ ||{2/9}{5.78.2}{5.6.6.2}{4.4.19.2}{654, 432, 4295}

अश्वि॑ना¦ह॒रि॒णौऽ‌इ᳚व¦गौ॒रौऽ‌इ᳚व¦अनु॑¦यव॑स‌म् | हं॒सौऽ‌इ᳚व¦प॒त॒त॒‌म्¦आ¦सु॒तान्¦उप॑ ||

अश्वि॑ना वाजिनीवसू जु॒षेथां᳚ य॒ज्ञमि॒ष्टये᳚ |{आत्रेयः सप्तवध्रिः | अश्विनौ | उष्णिक्}

हं॒सावि॑व पतत॒मा सु॒ताँ, उप॑ ||{3/9}{5.78.3}{5.6.6.3}{4.4.19.3}{655, 432, 4296}

अश्वि॑ना¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू¦जु॒षेथा᳚‌म्¦य॒ज्ञ‌म्¦इ॒ष्टये᳚ | हं॒सौऽ‌इ᳚व¦प॒त॒त॒‌म्¦आ¦सु॒तान्¦उप॑ ||

अत्रि॒र्यद्‌ वा᳚मव॒रोह᳚न्नृ॒बीस॒मजो᳚हवी॒न्नाध॑मानेव॒ योषा᳚ |{आत्रेयः सप्तवध्रिः | अश्विनौ | त्रिष्टुप्}

श्ये॒नस्य॑ चि॒ज्जव॑सा॒ नूत॑ने॒ना ऽऽग॑च्छतमश्विना॒ शंत॑मेन ||{4/9}{5.78.4}{5.6.6.4}{4.4.19.4}{656, 432, 4297}

अत्रिः॑¦यत्¦वा॒‌म्¦अ॒व॒ऽरोह॑न्¦ऋ॒बीस᳚‌म्¦अजो᳚हवीत्¦नाध॑मानाऽ‌इव¦योषा᳚ |
श्ये॒नस्य॑¦चि॒त्¦जव॑सा¦नूत॑नेन¦आ¦अ॒ग॒च्छ॒त॒‌म्¦अ॒श्वि॒ना॒¦श‌म्ऽत॑मेन ||

वि जि॑हीष्व वनस्पते॒ योनिः॒ सूष्य᳚न्त्या, इव |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्}

श्रु॒तं मे᳚, अश्विना॒ हवं᳚ स॒प्तव॑ध्रिं च मुञ्चतम् ||{5/9}{5.78.5}{5.6.6.5}{4.4.20.1}{657, 432, 4298}

वि¦जि॒ही॒ष्व॒¦व॒न॒स्प॒ते॒¦योनिः॑¦सूष्य᳚न्त्याःऽ‌इव | श्रु॒त‌म्¦मे॒¦अ॒श्वि॒ना॒¦हव᳚‌म्¦स॒प्तऽव॑ध्रि‌म्¦च॒¦मुं॒च॒त॒‌म् ||

भी॒ताय॒ नाध॑मानाय॒ ऋष॑ये स॒प्तव॑ध्रये |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्}

मा॒याभि॑रश्विना यु॒वं वृ॒क्षं सं च॒ वि चा᳚चथः ||{6/9}{5.78.6}{5.6.6.6}{4.4.20.2}{658, 432, 4299}

भी॒ताय॑¦नाध॑मानाय¦ऋष॑ये¦स॒प्तऽव॑ध्रये | मा॒याभिः॑¦अ॒श्वि॒ना॒¦यु॒व‌म्¦वृ॒क्ष‌म्¦स‌म्¦च॒¦वि¦च॒¦अ॒च॒थः॒ ||

यथा॒ वातः॑ पुष्क॒रिणीं᳚ समि॒ङ्गय॑ति स॒र्वतः॑ |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्}

ए॒वा ते॒ गर्भ॑ एजतु नि॒रैतु॒ दश॑मास्यः ||{7/9}{5.78.7}{5.6.6.7}{4.4.20.3}{659, 432, 4300}

यथा᳚¦वातः॑¦पु॒ष्क॒रिणी᳚‌म्¦स॒‌म्ऽ‌इ॒ङ्गय॑ति¦स॒र्वतः॑ | ए॒व¦ते॒¦गर्भः॑¦ए॒ज॒तु॒¦निः॒।आइतु॑¦दश॑ऽमास्यः ||

यथा॒ वातो॒ यथा॒ वनं॒ यथा᳚ समु॒द्र एज॑ति |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्}

ए॒वा त्वं द॑शमास्य स॒हावे᳚हि ज॒रायु॑णा ||{8/9}{5.78.8}{5.6.6.8}{4.4.20.4}{660, 432, 4301}

यथा᳚¦वातः॑¦यथा᳚¦वन᳚‌म्¦यथा᳚¦स॒मु॒द्रः¦एज॑ति | ए॒व¦त्व‌म्¦द॒श॒ऽमा॒स्य॒¦स॒ह¦अव॑¦इ॒हि॒¦ज॒रायु॑णा ||

दश॒ मासा᳚ञ्छशया॒नः कु॑मा॒रो, अधि॑ मा॒तरि॑ |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्}

नि॒रैतु॑ जी॒वो, अक्ष॑तो जी॒वो जीव᳚न्त्या॒, अधि॑ ||{9/9}{5.78.9}{5.6.6.9}{4.4.20.5}{661, 432, 4302}

दश॑¦मासा᳚न्¦श॒श॒या॒नः¦कु॒मा॒रः¦अधि॑¦मा॒तरि॑ | निः॒।आइतु॑¦जी॒वः¦अक्ष॑तः¦जी॒वः¦जीव᳚न्त्याः¦अधि॑ ||

[79] महेनइति दशर्चस्य सूक्तस्यात्रेयःसत्यश्रवाउषाःपंक्तिः |
म॒हे नो᳚, अ॒द्य बो᳚ध॒योषो᳚ रा॒ये दि॒वित्म॑ती |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

यथा᳚ चिन्नो॒, अबो᳚धयः स॒त्यश्र॑वसि वा॒य्ये सुजा᳚ते॒, अश्व॑सूनृते ||{1/10}{5.79.1}{5.6.7.1}{4.4.21.1}{662, 433, 4303}

म॒हे¦नः॒¦अ॒द्य¦बो॒ध॒य॒¦उषः॑¦रा॒ये¦दि॒वित्म॑ती |
यथा᳚¦चि॒त्¦नः॒¦अबो᳚धयः¦स॒त्यऽश्र॑वसि¦वा॒य्ये¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

या सु॑नी॒थे शौ᳚चद्र॒थे व्यौच्छो᳚ दुहितर्दिवः |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

सा व्यु॑च्छ॒ सही᳚यसि स॒त्यश्र॑वसि वा॒य्ये सुजा᳚ते॒, अश्व॑सूनृते ||{2/10}{5.79.2}{5.6.7.2}{4.4.21.2}{663, 433, 4304}

या¦सु॒ऽनी॒थे¦शौ॒च॒त्ऽर॒थे¦वि¦औच्छः॑¦दु॒हि॒तः॒¦दि॒वः॒ |
सा¦वि¦उ॒च्छ॒¦सही᳚यसि¦स॒त्यऽश्र॑वसि¦वा॒य्ये¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

सा नो᳚, अ॒द्याभ॒रद्व॑सु॒र्व्यु॑च्छा दुहितर्दिवः |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

यो व्यौच्छः॒ सही᳚यसि स॒त्यश्र॑वसि वा॒य्ये सुजा᳚ते॒, अश्व॑सूनृते ||{3/10}{5.79.3}{5.6.7.3}{4.4.21.3}{664, 433, 4305}

सा¦नः॒¦अ॒द्य¦आ॒भ॒रत्ऽव॑सुः¦वि¦उ॒च्छ॒¦दु॒हि॒तः॒¦दि॒वः॒ |
यो इति॑¦वि¦औच्छः॑¦सही᳚यसि¦स॒त्यऽश्र॑वसि¦वा॒य्ये¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

अ॒भि ये त्वा᳚ विभावरि॒ स्तोमै᳚र्गृ॒णन्ति॒ वह्न॑यः |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

म॒घैर्म॑घोनि सु॒श्रियो॒ दाम᳚न्वन्तः सुरा॒तयः॒ सुजा᳚ते॒, अश्व॑सूनृते ||{4/10}{5.79.4}{5.6.7.4}{4.4.21.4}{665, 433, 4306}

अ॒भि¦ये¦त्वा॒¦वि॒भा॒ऽव॒रि॒¦स्तोमैः᳚¦गृ॒णन्ति॑¦वह्न॑यः |
म॒घैः¦म॒घो॒नि॒¦सु॒ऽश्रियः॑¦दाम॑न्ऽवन्तः¦सु॒ऽरा॒तयः॑¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

यच्चि॒द्धि ते᳚ ग॒णा, इ॒मे छ॒दय᳚न्ति म॒घत्त॑ये |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

परि॑ चि॒द्‌ वष्ट॑यो दधु॒र्दद॑तो॒ राधो॒, अह्र॑यं॒ सुजा᳚ते॒, अश्व॑सूनृते ||{5/10}{5.79.5}{5.6.7.5}{4.4.21.5}{666, 433, 4307}

यत्¦चि॒त्¦हि¦ते॒¦ग॒णाः¦इ॒मे¦छ॒दय᳚न्ति¦म॒घत्त॑ये |
परि॑¦चि॒त्¦वष्ट॑यः¦द॒धुः॒¦दद॑तः¦राधः॑¦अह्र॑य‌म्¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

ऐषु॑ धा वी॒रव॒द्‌ यश॒ उषो᳚ मघोनि सू॒रिषु॑ |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

ये नो॒ राधां॒स्यह्र॑या म॒घवा᳚नो॒, अरा᳚सत॒ सुजा᳚ते॒, अश्व॑सूनृते ||{6/10}{5.79.6}{5.6.7.6}{4.4.22.1}{667, 433, 4308}

आ¦ए॒षु॒¦धाः॒¦वी॒रऽव॑त्¦यशः॑¦उषः॑¦म॒घो॒नि॒¦सू॒रिषु॑ |
ये¦नः॒¦राधां᳚सि¦अह्र॑या¦म॒घऽवा᳚नः¦अरा᳚सत¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

तेभ्यो᳚ द्यु॒म्नं बृ॒हद्‌ यश॒ उषो᳚ मघो॒न्या व॑ह |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

ये नो॒ राधां॒स्यश्व्या᳚ ग॒व्या भज᳚न्त सू॒रयः॒ सुजा᳚ते॒, अश्व॑सूनृते ||{7/10}{5.79.7}{5.6.7.7}{4.4.22.2}{668, 433, 4309}

तेभ्यः॑¦द्यु॒म्न‌म्¦बृ॒हत्¦यशः॑¦उषः॑¦म॒घो॒नि॒¦आ¦व॒ह॒ |
ये¦नः॒¦राधां᳚सि¦अश्व्या᳚¦ग॒व्या¦भज᳚न्त¦सू॒रयः॑¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

उ॒त नो॒ गोम॑ती॒रिष॒ आ व॑हा दुहितर्दिवः |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

सा॒कं सूर्य॑स्य र॒श्मिभिः॑ शु॒क्रैः शोच॑द्भिर॒र्चिभिः॒ सुजा᳚ते॒, अश्व॑सूनृते ||{8/10}{5.79.8}{5.6.7.8}{4.4.22.3}{669, 433, 4310}

उ॒त¦नः॒¦गोऽम॑तीः¦इषः॑¦आ¦व॒ह॒¦दु॒हि॒तः॒¦दि॒वः॒ |
सा॒क‌म्¦सूर्य॑स्य¦र॒श्मिऽभिः॑¦शु॒क्रैः¦शोच॑त्ऽभिः¦अ॒र्चिऽभिः॑¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

व्यु॑च्छा दुहितर्दिवो॒ मा चि॒रं त॑नुथा॒, अपः॑ |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

नेत्‌ त्वा᳚ स्ते॒नं यथा᳚ रि॒पुं तपा᳚ति॒ सूरो᳚, अ॒र्चिषा॒ सुजा᳚ते॒, अश्व॑सूनृते ||{9/10}{5.79.9}{5.6.7.9}{4.4.22.4}{670, 433, 4311}

वि¦उ॒च्छ॒¦दु॒हि॒तः॒¦दि॒वः॒¦मा¦चि॒र‌म्¦त॒नु॒थाः॒¦अपः॑ |
न¦इत्¦त्वा॒¦स्ते॒न‌म्¦यथा᳚¦रि॒पु‌म्¦तपा᳚ति¦सूरः॑¦अ॒र्चिषा᳚¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

ए॒ताव॒द्‌ वेदु॑ष॒स्त्वं भूयो᳚ वा॒ दातु॑मर्हसि |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

या स्तो॒तृभ्यो᳚ विभावर्यु॒च्छन्ती॒ न प्र॒मीय॑से॒ सुजा᳚ते॒, अश्व॑सूनृते ||{10/10}{5.79.10}{5.6.7.10}{4.4.22.5}{671, 433, 4312}

ए॒ताव॑त्¦वा॒¦इत्¦उ॒षः॒¦त्व‌म्¦भूयः॑¦वा॒¦दातु᳚‌म्¦अ॒र्ह॒सि॒ |
या¦स्तो॒तृऽभ्यः॑¦वि॒भा॒ऽव॒रि॒¦उ॒च्छन्ती᳚¦न¦प्र॒ऽमीय॑से¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

[80] द्युतद्यामानमिति षडृचस्य सूक्तस्यात्रेयःसत्यश्रवाउषास्त्रिष्टुप् |
द्यु॒तद्या᳚मानं बृह॒तीमृ॒तेन॑ ऋ॒ताव॑रीमरु॒णप्सुं᳚ विभा॒तीम् |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

दे॒वीमु॒षसं॒ स्व॑रा॒वह᳚न्तीं॒ प्रति॒ विप्रा᳚सो म॒तिभि॑र्जरन्ते ||{1/6}{5.80.1}{5.6.8.1}{4.4.23.1}{672, 434, 4313}

द्यु॒तत्ऽया᳚मान‌म्¦बृ॒ह॒ती‌म्¦ऋ॒तेन॑¦ऋ॒तऽव॑री‌म्¦अ॒रु॒णऽप्सु᳚‌म्¦वि॒ऽभा॒ती‌म् |
दे॒वी‌म्¦उ॒षस᳚‌म्¦स्वः॑¦आ॒ऽवह᳚न्ती‌म्¦प्रति॑¦विप्रा᳚सः¦म॒तिऽभिः॑¦ज॒र॒न्ते॒ ||

ए॒षा जनं᳚ दर्श॒ता बो॒धय᳚न्ती सु॒गान्‌ प॒थः कृ᳚ण्व॒ती या॒त्यग्रे᳚ |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

बृ॒ह॒द्र॒था बृ॑ह॒ती वि॑श्वमि॒न्वोषा ज्योति᳚र्यच्छ॒त्यग्रे॒, अह्ना᳚म् ||{2/6}{5.80.2}{5.6.8.2}{4.4.23.2}{673, 434, 4314}

ए॒षा¦जन᳚‌म्¦द॒र्श॒ता¦बो॒धय᳚न्ती¦सु॒ऽमान्¦प॒थः¦कृ॒ण्व॒ती¦या॒ति॒¦अग्रे᳚ |
बृ॒ह॒त्ऽर॒था¦बृ॒ह॒ती¦वि॒श्व॒‌म्ऽ‌इ॒न्वा¦उ॒षाः¦ज्योतिः॑¦य॒च्छ॒ति॒¦अग्रे᳚¦अह्ना᳚‌म् ||

ए॒षा गोभि॑ररु॒णेभि᳚र्युजा॒ना ऽस्रे᳚धन्ती र॒यिमप्रा᳚यु चक्रे |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

प॒थो रद᳚न्ती सुवि॒ताय॑ दे॒वी पु॑रुष्टु॒ता वि॒श्ववा᳚रा॒ वि भा᳚ति ||{3/6}{5.80.3}{5.6.8.3}{4.4.23.3}{674, 434, 4315}

ए॒षा¦गोभिः॑¦अ॒रु॒णेभिः॑¦यु॒जा॒ना¦अस्रे᳚धन्ती¦र॒यि‌म्¦अप्र॑ऽआयु¦च॒क्रे॒ |
प॒थः¦रद᳚न्ती¦सु॒वि॒ताय॑¦दे॒वी¦पु॒रु॒ऽस्तु॒ता¦वि॒श्वऽवा᳚रा¦वि¦भा॒ति॒ ||

ए॒षा व्ये᳚नी भवति द्वि॒बर्हा᳚, आविष्कृण्वा॒ना त॒न्वं᳚ पु॒रस्ता᳚त् |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

ऋ॒तस्य॒ पन्था॒मन्वे᳚ति सा॒धु प्र॑जान॒तीव॒ न दिशो᳚ मिनाति ||{4/6}{5.80.4}{5.6.8.4}{4.4.23.4}{675, 434, 4316}

ए॒षा¦विऽए᳚नी¦भ॒व॒ति॒¦द्वि॒ऽबर्हाः᳚¦आ॒विः॒ऽकृ॒ण्वा॒ना¦त॒न्व᳚‌म्¦पु॒रस्ता᳚त् |
ऋ॒तस्य॑¦पन्था᳚‌म्¦अनु॑¦ए॒ति॒¦सा॒धु¦प्र॒जा॒न॒तीऽ‌इ᳚व¦न¦दिशः॑¦मि॒ना॒ति॒ ||

ए॒षा शु॒भ्रा न त॒न्वो᳚ विदा॒नोर्ध्वेव॑ स्ना॒ती दृ॒शये᳚ नो, अस्थात् |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

अप॒ द्वेषो॒ बाध॑माना॒ तमां᳚स्यु॒षा दि॒वो दु॑हि॒ता ज्योति॒षागा᳚त् ||{5/6}{5.80.5}{5.6.8.5}{4.4.23.5}{676, 434, 4317}

ए॒षा¦शु॒भ्रा¦न¦त॒न्वः॑¦वि॒दा॒ना¦ऊ॒र्ध्वाऽ‌इ᳚व¦स्ना॒ती¦दृ॒शये᳚¦नः॒¦अ॒स्था॒त् |
अप॑¦द्वेषः॑¦बाध॑माना¦तमां᳚सि¦उ॒षाः¦दि॒वः¦दु॒हि॒ता¦ज्योति॑षा¦आ¦अ॒गा॒त् ||

ए॒षा प्र॑ती॒ची दु॑हि॒ता दि॒वो नॄन् योषे᳚व भ॒द्रा नि रि॑णीते॒, अप्सः॑ |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

व्यू॒र्ण्व॒ती दा॒शुषे॒ वार्या᳚णि॒ पुन॒र्ज्योति᳚र्युव॒तिः पू॒र्वथा᳚कः ||{6/6}{5.80.6}{5.6.8.6}{4.4.23.6}{677, 434, 4318}

ए॒षा¦प्र॒ती॒ची¦दु॒हि॒ता¦दि॒वः¦नॄन्¦योषा᳚ऽ‌इव¦भ॒द्रा¦नि¦रि॒णी॒ते॒¦अप्सः॑ |
वि॒ऽऊ॒र्ण्व॒ती¦दा॒शुषे᳚¦वार्या᳚णि¦पुनः॑¦ज्योतिः॑¦यु॒व॒तिः¦पू॒र्वऽथा᳚¦अ॒क॒रित्य॑कः ||

[81] युंजतेमनइति पंचर्चस्य सूक्तस्यात्रेयः श्यावाश्वः सविताजगती |
यु॒ञ्जते॒ मन॑ उ॒त यु᳚ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ |{आत्रेयः श्यावाश्वः | सविता | जगती}

वि होत्रा᳚ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ||{1/5}{5.81.1}{5.6.9.1}{4.4.24.1}{678, 435, 4319}

युं॒जते᳚¦मनः॑¦उ॒त¦युं॒जते᳚¦धियः॑¦विप्राः᳚¦विप्र॑स्य¦बृ॒ह॒तः¦वि॒पः॒ऽचितः॑ |
वि¦होत्राः᳚¦द॒धे॒¦व॒यु॒न॒ऽवित्¦एकः॑¦इत्¦म॒ही¦दे॒वस्य॑¦स॒वि॒तुः¦परि॑ऽस्तुतिः ||

विश्वा᳚ रू॒पाणि॒ प्रति॑ मुञ्चते क॒विः प्रासा᳚वीद्‌ भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे |{आत्रेयः श्यावाश्वः | सविता | जगती}

वि नाक॑मख्यत्‌ सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ वि रा᳚जति ||{2/5}{5.81.2}{5.6.9.2}{4.4.24.2}{679, 435, 4320}

विश्वा᳚¦रू॒पाणि॑¦प्रति॑¦मुं॒च॒ते॒¦क॒विः¦प्र¦अ॒सा॒वी॒त्¦भ॒द्र‌म्¦द्वि॒ऽपदे᳚¦चतुः॑ऽपदे |
वि¦नाक᳚‌म्¦अ॒ख्य॒त्¦स॒वि॒ता¦वरे᳚ण्यः¦अनु॑¦प्र॒ऽयान᳚‌म्¦उ॒षसः॑¦वि¦रा॒ज॒ति॒ ||

यस्य॑ प्र॒याण॒मन्व॒न्य इद्‌ य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मोज॑सा |{आत्रेयः श्यावाश्वः | सविता | जगती}

यः पार्थि॑वानि विम॒मे स एत॑शो॒ रजां᳚सि दे॒वः स॑वि॒ता म॑हित्व॒ना ||{3/5}{5.81.3}{5.6.9.3}{4.4.24.3}{680, 435, 4321}

यस्य॑¦प्र॒ऽयान᳚‌म्¦अनु॑¦अ॒न्ये¦इत्¦य॒युः¦दे॒वाः¦दे॒वस्य॑¦म॒हि॒मान᳚‌म्¦ओज॑सा |
यः¦पार्थि॑वानि¦वि॒ऽम॒मे¦सः¦एत॑शः¦रजां᳚सि¦दे॒वः¦स॒वि॒ता¦म॒हि॒ऽत्व॒ना ||

उ॒त या᳚सि सवित॒स्त्रीणि॑ रोच॒नोत सूर्य॑स्य र॒श्मिभिः॒ समु॑च्यसि |{आत्रेयः श्यावाश्वः | सविता | जगती}

उ॒त रात्री᳚मुभ॒यतः॒ परी᳚यस उ॒त मि॒त्रो भ॑वसि देव॒ धर्म॑भिः ||{4/5}{5.81.4}{5.6.9.4}{4.4.24.4}{681, 435, 4322}

उ॒त¦या॒सि॒¦स॒वि॒त॒रिति॑¦त्रीणि॑¦रो॒च॒ना¦उ॒त¦सूर्य॑स्य¦र॒श्मिऽभिः॑¦स‌म्¦उ॒च्य॒सि॒ |
उ॒त¦रात्री᳚‌म्¦उ॒भ॒यतः॑¦परि॑¦ई॒य॒से॒¦उ॒त¦मि॒त्रः¦भ॒व॒सि॒¦दे॒व॒¦धर्म॑ऽभिः ||

उ॒तेशि॑षे प्रस॒वस्य॒ त्वमेक॒ इदु॒त पू॒षा भ॑वसि देव॒ याम॑भिः |{आत्रेयः श्यावाश्वः | सविता | जगती}

उ॒तेदं विश्वं॒ भुव॑नं॒ वि रा᳚जसि श्या॒वाश्व॑स्ते सवितः॒ स्तोम॑मानशे ||{5/5}{5.81.5}{5.6.9.5}{4.4.24.5}{682, 435, 4323}

उ॒त¦ई॒शि॒षे॒¦प्र॒ऽस॒वस्य॑¦त्व‌म्¦एकः॑¦इत्¦उ॒त¦पू॒षा¦भ॒व॒सि॒¦दे॒व॒¦याम॑ऽभिः |
उ॒त¦इ॒द‌म्¦विश्व᳚‌म्¦भुव॑न‌म्¦वि¦रा॒ज॒सि॒¦श्या॒व।आ॑श्वः¦ते॒¦स॒वि॒त॒रिति॑¦स्तोम᳚‌म्¦आ॒न॒शे॒ ||

[82] तत्सवितुरिति नवर्चस्य सूक्तस्यात्रेयःश्यावाश्वः सवितागायत्री आद्यानुष्टुप् |
तत्‌ स॑वि॒तुर्वृ॑णीमहे व॒यं दे॒वस्य॒ भोज॑नम् |{आत्रेयः श्यावाश्वः | सविता | अनुष्टुप्}

श्रेष्ठं᳚ सर्व॒धात॑मं॒ तुरं॒ भग॑स्य धीमहि ||{1/9}{5.82.1}{5.6.10.1}{4.4.25.1}{683, 436, 4324}

तत्¦स॒वि॒तुः¦वृ॒णी॒म॒हे॒¦व॒य‌म्¦दे॒वस्य॑¦भोज॑न‌म् | श्रेष्ठ᳚‌म्¦स॒र्व॒ऽधात॑म‌म्¦तुर᳚‌म्¦भग॑स्य¦धी॒म॒हि॒ ||

अस्य॒ हि स्वय॑शस्तरं सवि॒तुः कच्च॒न प्रि॒यम् |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

न मि॒नन्ति॑ स्व॒राज्य᳚म् ||{2/9}{5.82.2}{5.6.10.2}{4.4.25.2}{684, 436, 4325}

अस्य॑¦हि¦स्वय॑शःऽतर‌म्¦स॒वि॒तुः¦कत्¦च॒न¦प्रि॒य‌म् | न¦मि॒नन्ति॑¦स्व॒ऽराज्य᳚‌म् ||

स हि रत्ना᳚नि दा॒शुषे᳚ सु॒वाति॑ सवि॒ता भगः॑ |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

तं भा॒गं चि॒त्रमी᳚महे ||{3/9}{5.82.3}{5.6.10.3}{4.4.25.3}{685, 436, 4326}

सः¦हि¦रत्ना᳚नि¦दा॒शुषे᳚¦सु॒वाति॑¦स॒वि॒ता¦भगः॑ | त‌म्¦भा॒ग‌म्¦चि॒त्र‌म्¦ई॒म॒हे॒ ||

अ॒द्या नो᳚ देव सवितः प्र॒जाव॑त्‌ सावीः॒ सौभ॑गम् |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

परा᳚ दु॒ष्ष्वप्न्यं᳚ सुव ||{4/9}{5.82.4}{5.6.10.4}{4.4.25.4}{686, 436, 4327}

अ॒द्य¦नः॒¦दे॒व॒¦स॒वि॒त॒रिति॑¦प्र॒जाऽव॑त्¦सा॒वीः॒¦सौभ॑ग‌म् | परा᳚¦दुः॒ऽस्वप्न्य᳚‌म्¦सु॒व॒ ||

विश्वा᳚नि देव सवितर्दुरि॒तानि॒ परा᳚ सुव |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

यद्‌ भ॒द्रं तन्न॒ आ सु॑व ||{5/9}{5.82.5}{5.6.10.5}{4.4.25.5}{687, 436, 4328}

विश्वा᳚नि¦दे॒व॒¦स॒वि॒तः॒¦दुः॒ऽ‌इ॒तानि॑¦परा᳚¦सु॒व॒ | यत्¦भ॒द्र‌म्¦तत्¦नः॒¦आ¦सु॒व॒ ||

अना᳚गसो॒, अदि॑तये दे॒वस्य॑ सवि॒तुः स॒वे |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

विश्वा᳚ वा॒मानि॑ धीमहि ||{6/9}{5.82.6}{5.6.10.6}{4.4.26.1}{688, 436, 4329}

अना᳚गसः¦अदि॑तये¦दे॒वस्य॑¦स॒वि॒तुः¦स॒वे | विश्वा᳚¦वा॒मानि॑¦धी॒म॒हि॒ ||

आ वि॒श्वदे᳚वं॒ सत्प॑तिं सू॒क्तैर॒द्या वृ॑णीमहे |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

स॒त्यस॑वं सवि॒तार᳚म् ||{7/9}{5.82.7}{5.6.10.7}{4.4.26.2}{689, 436, 4330}

आ¦वि॒श्वऽदे᳚व‌म्¦सत्ऽप॑ति‌म्¦सु॒।औ॒क्तैः¦अ॒द्य¦वृ॒णी॒म॒हे॒ | स॒त्यऽस॑व‌म्¦स॒वि॒तार᳚‌म् ||

य इ॒मे, उ॒भे, अह॑नी पु॒र एत्यप्र॑युच्छन् |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

स्वा॒धीर्दे॒वः स॑वि॒ता ||{8/9}{5.82.8}{5.6.10.8}{4.4.26.3}{690, 436, 4331}

यः¦इ॒मे इति॑¦उ॒भे इति॑¦अह॑नी॒ इति॑¦पु॒रः¦एति॑¦अप्र॑ऽयुच्छन् | सु॒ऽआ॒धीः¦दे॒वः¦स॒वि॒ता ||

य इ॒मा विश्वा᳚ जा॒तान्या᳚श्रा॒वय॑ति॒ श्लोके᳚न |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

प्र च॑ सु॒वाति॑ सवि॒ता ||{9/9}{5.82.9}{5.6.10.9}{4.4.26.4}{691, 436, 4332}

यः¦इ॒मा¦विश्वा᳚¦जा॒तानि॑¦आ॒ऽश्र॒वय॑ति¦श्लोके᳚न | प्र¦च॒¦सु॒वाति॑¦स॒वि॒ता ||

[83] अच्छावदेति दशर्चस्य सूक्तस्य भौमोत्रिः पर्जन्यस्त्रिष्टुप्‌ द्वितीयादितिस्रोजगत्यो नवम्यनुष्टुप् |
अच्छा᳚ वद त॒वसं᳚ गी॒र्भिरा॒भिः स्तु॒हि प॒र्जन्यं॒ नम॒सा वि॑वास |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्}

कनि॑क्रदद्‌ वृष॒भो जी॒रदा᳚नू॒ रेतो᳚ दधा॒त्योष॑धीषु॒ गर्भ᳚म् ||{1/10}{5.83.1}{5.6.11.1}{4.4.27.1}{692, 437, 4333}

अच्छ॑¦व॒द॒¦त॒वस᳚‌म्¦गीः॒ऽभिः¦आ॒भिः¦स्तु॒हि¦प॒र्जन्य᳚‌म्¦नम॑सा¦आ |वि॒वा॒स॒ |
कनि॑क्रदत्¦वृ॒ष॒भः¦जी॒रऽदा᳚नुः¦रेतः॑¦द॒धा॒ति॒¦ओष॑धीषु¦गर्भ᳚‌म् ||

वि वृ॒क्षान्‌ ह᳚न्त्यु॒त ह᳚न्ति र॒क्षसो॒ विश्वं᳚ बिभाय॒ भुव॑नं म॒हाव॑धात् |{भौमोत्रिः | पर्जन्यः | जगती}

उ॒ताना᳚गा, ईषते॒ वृष्ण्या᳚वतो॒ यत्‌ प॒र्जन्यः॑ स्त॒नय॒न्‌ हन्ति॑ दु॒ष्कृतः॑ ||{2/10}{5.83.2}{5.6.11.2}{4.4.27.2}{693, 437, 4334}

वि¦वृ॒क्षान्¦ह॒न्ति॒¦उ॒त¦ह॒न्ति॒¦र॒क्षसः॑¦विश्व᳚‌म्¦बि॒भा॒य॒¦भुव॑न‌म्¦म॒हाऽव॑धात् |
उ॒त¦अना᳚गाः¦ई॒ष॒ते॒¦वृष्ण्य॑ऽवतः¦यत्¦प॒र्जन्यः॑¦स्त॒नय॑न्¦हन्ति॑¦दुः॒ऽकृतः॑ ||

र॒थीव॒ कश॒याश्वाँ᳚, अभिक्षि॒पन्ना॒विर्दू॒तान्‌ कृ॑णुते व॒र्ष्या॒३॑(आँ॒) अह॑ |{भौमोत्रिः | पर्जन्यः | जगती}

दू॒रात्‌ सिं॒हस्य॑ स्त॒नथा॒, उदी᳚रते॒ यत्‌ प॒र्जन्यः॑ कृणु॒ते व॒र्ष्य१॑(अं॒) नभः॑ ||{3/10}{5.83.3}{5.6.11.3}{4.4.27.3}{694, 437, 4335}

र॒थीऽ‌इ᳚व¦कश॑या¦अश्वा᳚न्¦अ॒भि॒ऽक्षि॒पन्¦आ॒विः¦दू॒तान्¦कृ॒णु॒ते॒¦व॒र्ष्या᳚न्¦अह॑ |
दू॒रात्¦सिं॒हस्य॑¦स्त॒नथाः᳚¦उत्¦ई॒र॒ते॒¦यत्¦प॒र्जन्यः॑¦कृ॒णु॒ते¦व॒र्ष्य᳚‌म्¦नभः॑ ||

प्र वाता॒ वान्ति॑ प॒तय᳚न्ति वि॒द्युत॒ उदोष॑धी॒र्जिह॑ते॒ पिन्व॑ते॒ स्वः॑ |{भौमोत्रिः | पर्जन्यः | जगती}

इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते॒ यत्‌ प॒र्जन्यः॑ पृथि॒वीं रेत॒साव॑ति ||{4/10}{5.83.4}{5.6.11.4}{4.4.27.4}{695, 437, 4336}

प्र¦वाताः᳚¦वान्ति॑¦प॒तय᳚न्ति¦वि॒ऽद्युतः॑¦उत्¦ओष॑धीः¦जिह॑ते¦पिन्व॑ते¦स्व१॒॑रिति॒ स्वः॑ |
इरा᳚¦विश्व॑स्मै¦भुव॑नाय¦जा॒य॒ते॒¦यत्¦प॒र्जन्यः॑¦पृ॒थि॒वी‌म्¦रेत॑सा¦अव॑ति ||

यस्य᳚ व्र॒ते पृ॑थि॒वी नन्न॑मीति॒ यस्य᳚ व्र॒ते श॒फव॒ज्जर्भु॑रीति |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्}

यस्य᳚ व्र॒त ओष॑धीर्वि॒श्वरू᳚पाः॒ स नः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ||{5/10}{5.83.5}{5.6.11.5}{4.4.27.5}{696, 437, 4337}

यस्य॑¦व्र॒ते¦पृ॒थि॒वी¦नन्न॑मीति¦यस्य॑¦व्र॒ते¦श॒फऽव॑त्¦जर्भु॑रीति |
यस्य॑¦व्र॒ते¦ओष॑धीः¦वि॒श्वऽरू᳚पाः¦सः¦नः॒¦प॒र्ज॒न्य॒¦महि॑¦शर्म॑¦य॒च्छ॒ ||

दि॒वो नो᳚ वृ॒ष्टिं म॑रुतो ररीध्वं॒ प्र पि᳚न्वत॒ वृष्णो॒, अश्व॑स्य॒ धाराः᳚ |{भौमोत्रिः | पर्जन्यः | जगती}

अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुनेह्य॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॑ ||{6/10}{5.83.6}{5.6.11.6}{4.4.28.1}{697, 437, 4338}

दि॒वः¦नः॒¦वृ॒ष्टि‌म्¦म॒रु॒तः॒¦र॒री॒ध्व॒‌म्¦प्र¦पि॒न्व॒त॒¦वृष्णः॑¦अश्व॑स्य¦धाराः᳚ |
अ॒र्वाङ्¦ए॒तेन॑¦स्त॒न॒यि॒त्नुना᳚¦आ¦इ॒हि॒¦अ॒पः¦नि॒ऽसिं॒चन्¦असु॑रः¦पि॒ता¦नाः॒ ||

अ॒भि क्र᳚न्द स्त॒नय॒ गर्भ॒मा धा᳚, उद॒न्वता॒ परि॑ दीया॒ रथे᳚न |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्}

दृतिं॒ सु क॑र्ष॒ विषि॑तं॒ न्य᳚ञ्चं स॒मा भ॑वन्तू॒द्वतो᳚ निपा॒दाः ||{7/10}{5.83.7}{5.6.11.7}{4.4.28.2}{698, 437, 4339}

अ॒भि¦क्र॒न्द॒¦स्त॒नय॑¦गर्भ᳚‌म्¦आ¦धाः॒¦उ॒द॒न्ऽवता᳚¦परि॑¦दी॒य॒¦रथे᳚न |
दृति᳚‌म्¦सु¦क॒र्ष॒¦विऽसि॑त‌म्¦न्यं᳚च‌म्¦स॒माः¦भ॒व॒न्तु॒¦उ॒त्ऽवतः॑¦नि॒ऽपा॒दाः ||

म॒हान्तं॒ कोश॒मुद॑चा॒ नि षि᳚ञ्च॒ स्यन्द᳚न्तां कु॒ल्या विषि॑ताः पु॒रस्ता᳚त् |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्}

घृ॒तेन॒ द्यावा᳚पृथि॒वी व्यु᳚न्धि सुप्रपा॒णं भ॑वत्व॒घ्न्याभ्यः॑ ||{8/10}{5.83.8}{5.6.11.8}{4.4.28.3}{699, 437, 4340}

म॒हान्त᳚‌म्¦कोश᳚‌म्¦उत्¦अ॒च॒¦नि¦सिं॒च॒¦स्यन्द᳚न्ता‌म्¦कु॒ल्याः¦विऽसि॑ताः¦पु॒रस्ता᳚त् |
घृ॒तेन॑¦द्यावा᳚पृथि॒वी इति॑¦वि¦उ॒न्धि॒¦सु॒ऽप्र॒पा॒न‌म्¦भ॒व॒तु॒¦अ॒घ्न्याभ्यः॑ ||

यत्‌ प॑र्जन्य॒ कनि॑क्रदत् स्त॒नय॒न्‌ हंसि॑ दु॒ष्कृतः॑ |{भौमोत्रिः | पर्जन्यः | अनुष्टुप्}

प्रती॒दं विश्वं᳚ मोदते॒ यत्‌ किं च॑ पृथि॒व्यामधि॑ ||{9/10}{5.83.9}{5.6.11.9}{4.4.28.4}{700, 437, 4341}

यत्¦प॒र्ज॒न्य॒¦कनि॑क्रदत्¦स्त॒नय॑न्¦हंसि॑¦दुः॒ऽकृतः॑ | प्रति॑¦इ॒द‌म्¦विश्व᳚‌म्¦मो॒द॒ते॒¦यत्¦कि‌म्¦च॒¦पृ॒थि॒व्या‌म्¦अधि॑ ||

अव॑र्षीर्व॒र्षमुदु॒ षू गृ॑भा॒याऽक॒र्धन्वा॒न्यत्ये᳚त॒वा, उ॑ |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्}

अजी᳚जन॒ ओष॑धी॒र्भोज॑नाय॒ कमु॒त प्र॒जाभ्यो᳚ऽविदो मनी॒षाम् ||{10/10}{5.83.10}{5.6.11.10}{4.4.28.5}{701, 437, 4342}

अव॑र्षीः¦व॒र्ष‌म्¦उत्¦ऊँ॒ इति॑¦सु¦गृ॒भा॒य॒¦अकः॑¦धन्वा᳚नि¦अति॑ऽए॒त॒वै¦ऊँ॒ इति॑ |
अजी᳚जनः¦ओष॑धीः¦भोज॑नाय¦क‌म्¦उ॒त¦प्र॒ऽजाभ्यः॑¦अ॒वि॒दः॒¦म॒नी॒षा‌म् ||

[84] बळित्थेति तृचस्य सूक्तस्य भौमोत्रिःपृथिव्यनुष्टुप् |
बळि॒त्था पर्व॑तानां खि॒द्रं बि॑भर्षि पृथिवि |{भौमोत्रिः | पृथिवी | अनुष्टुप्}

प्र या भूमिं᳚ प्रवत्वति म॒ह्ना जि॒नोषि॑ महिनि ||{1/3}{5.84.1}{5.6.12.1}{4.4.29.1}{702, 438, 4343}

बट्¦इ॒त्था¦पर्व॑ताना‌म्¦खि॒द्र‌म्¦बि॒भ॒र्षि॒¦पृ॒थि॒वि॒ | प्र¦या¦भूमि᳚‌म्¦प्र॒व॒त्व॒ति॒¦म॒ह्ना¦जि॒नोषि॑¦म॒हि॒नि॒ ||

स्तोमा᳚सस्त्वा विचारिणि॒ प्रति॑ ष्टोभन्त्य॒क्तुभिः॑ |{भौमोत्रिः | पृथिवी | अनुष्टुप्}

प्र या वाजं॒ न हेष᳚न्तं पे॒रुमस्य॑स्यर्जुनि ||{2/3}{5.84.2}{5.6.12.2}{4.4.29.2}{703, 438, 4344}

स्तोमा᳚सः¦त्वा॒¦वि॒ऽचा॒रि॒णि॒¦प्रति॑¦स्तो॒भ॒न्ति॒¦अ॒क्तुऽभिः॑ | प्र¦या¦वाज᳚‌म्¦न¦हेष᳚न्त‌म्¦पे॒रु‌म्¦अस्य॑सि¦अ॒र्जु॒नि॒ ||

दृ॒ळ्हा चि॒द्‌ या वन॒स्पती᳚न् क्ष्म॒या दर्ध॒र्ष्योज॑सा |{भौमोत्रिः | पृथिवी | अनुष्टुप्}

यत्ते᳚, अ॒भ्रस्य॑ वि॒द्युतो᳚ दि॒वो वर्ष᳚न्ति वृ॒ष्टयः॑ ||{3/3}{5.84.3}{5.6.12.3}{4.4.29.3}{704, 438, 4345}

दृ॒ळ्हा¦चि॒त्¦या¦वन॒स्पती᳚न्¦क्ष्म॒या¦दर्ध॑र्षि¦ओज॑सा | यत्¦ते॒¦अ॒भ्रस्य॑¦वि॒ऽद्युतः॑¦दि॒वः¦वर्ष᳚न्ति¦वृ॒ष्टयः॑ ||

[85] प्रसम्राजइत्यष्टर्चस्य सूक्तस्य भौमोत्रिर्वरुणत्रिष्टुप् |
प्र स॒म्राजे᳚ बृ॒हद॑र्चा गभी॒रं ब्रह्म॑ प्रि॒यं वरु॑णाय श्रु॒ताय॑ |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

वि यो ज॒घान॑ शमि॒तेव॒ चर्मो᳚प॒स्तिरे᳚ पृथि॒वीं सूर्या᳚य ||{1/8}{5.85.1}{5.6.13.1}{4.4.30.1}{705, 439, 4346}

प्र¦स॒‌म्ऽराजे᳚¦बृ॒हत्¦अ॒र्च॒¦ग॒भी॒र‌म्¦ब्रह्म॑¦प्रि॒य‌म्¦वरु॑णाय¦श्रु॒ताय॑ |
वि¦यः¦ज॒घान॑¦श॒मि॒ताऽ‌इ᳚व¦चर्म॑¦उ॒प॒ऽस्तिरे᳚¦पृ॒थि॒वी‌म्¦सूर्या᳚य ||

वने᳚षु॒ व्य१॑(अ॒)न्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया᳚सु |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

हृ॒त्सु क्रतुं॒ वरु॑णो, अ॒प्स्व१॑(अ॒)ग्निं दि॒वि सूर्य॑मदधा॒त्‌ सोम॒मद्रौ᳚ ||{2/8}{5.85.2}{5.6.13.2}{4.4.30.2}{706, 439, 4347}

वने᳚षु¦वि¦अ॒न्तरि॑क्ष‌म्¦त॒ता॒न॒¦वाज᳚‌म्¦अर्व॑त्ऽसु¦पयः॑¦उ॒स्रिया᳚सु |
हृ॒त्ऽसु¦क्रतु᳚‌म्¦वरु॑णः¦अ॒प्ऽसु¦अ॒ग्नि‌म्¦दि॒वि¦सूर्य᳚‌म्¦अ॒द॒धा॒त्¦सोम᳚‌म्¦अद्रौ᳚ ||

नी॒चीन॑बारं॒ वरु॑णः॒ कव᳚न्धं॒ प्र स॑सर्ज॒ रोद॑सी, अ॒न्तरि॑क्षम् |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

तेन॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ यवं॒ न वृ॒ष्टिर्व्यु॑नत्ति॒ भूम॑ ||{3/8}{5.85.3}{5.6.13.3}{4.4.30.3}{707, 439, 4348}

नी॒चीन॑ऽबार‌म्¦वरु॑णः¦कव᳚न्ध‌म्¦प्र¦स॒स॒र्ज॒¦रोद॑सी॒ इति॑¦अ॒न्तरि॑क्ष‌म् |
तेन॑¦विश्व॑स्य¦भुव॑नस्य¦राजा᳚¦यव᳚‌म्¦न¦वृ॒ष्टिः¦वि¦उ॒न॒त्ति॒¦भूम॑ ||

उ॒नत्ति॒ भूमिं᳚ पृथि॒वीमु॒त द्यां य॒दा दु॒ग्धं वरु॑णो॒ वष्ट्यादित् |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

सम॒भ्रेण॑ वसत॒ पर्व॑तासस्तविषी॒यन्तः॑ श्रथयन्त वी॒राः ||{4/8}{5.85.4}{5.6.13.4}{4.4.30.4}{708, 439, 4349}

उ॒नत्ति॑¦भूमि᳚‌म्¦पृ॒थि॒वी‌म्¦उ॒त¦द्या‌म्¦य॒दा¦दु॒ग्ध‌म्¦वरु॑णः¦वष्टि॑¦आत्¦इत् |
स‌म्¦अ॒भ्रेण॑¦व॒स॒त॒¦पर्व॑तासः¦त॒वि॒षी॒ऽयन्तः॑¦श्र॒थ॒य॒न्त॒¦वी॒राः ||

इ॒मामू॒ ष्वा᳚सु॒रस्य॑ श्रु॒तस्य॑ म॒हीं मा॒यां वरु॑णस्य॒ प्र वो᳚चम् |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

माने᳚नेव तस्थि॒वाँ, अ॒न्तरि॑क्षे॒ वि यो म॒मे पृ॑थि॒वीं सूर्ये᳚ण ||{5/8}{5.85.5}{5.6.13.5}{4.4.30.5}{709, 439, 4350}

इ॒मा‌म्¦ऊँ॒ इति॑¦सु¦आ॒सु॒रस्य॑¦श्रु॒तस्य॑¦म॒ही‌म्¦मा॒या‌म्¦वरु॑णस्य¦प्र¦वो॒च॒‌म् |
माने᳚नऽ‌इव¦त॒स्थि॒ऽवान्¦अ॒न्तरि॑क्षे¦वि¦यः¦म॒मे¦पृ॒थि॒वी‌म्¦सूर्ये᳚ण ||

इ॒मामू॒ नु क॒वित॑मस्य मा॒यां म॒हीं दे॒वस्य॒ नकि॒रा द॑धर्ष |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

एकं॒ यदु॒द्ना न पृ॒णन्त्येनी᳚रासि॒ञ्चन्ती᳚र॒वन॑यः समु॒द्रम् ||{6/8}{5.85.6}{5.6.13.6}{4.4.31.1}{710, 439, 4351}

इ॒मा‌म्¦ऊँ॒ इति॑¦नु¦क॒विऽत॑मस्य¦मा॒या‌म्¦म॒ही‌म्¦दे॒वस्य॑¦नकिः॑¦आ¦द॒ध॒र्ष॒ |
एक᳚‌म्¦यत्¦उ॒द्ना¦न¦पृ॒णन्ति॑¦एनीः᳚¦आ॒ऽसिं॒चन्तीः᳚¦अ॒वन॑यः¦स॒मु॒द्र‌म् ||

अ॒र्य॒म्यं᳚ वरुण मि॒त्र्यं᳚ वा॒ सखा᳚यं वा॒ सद॒मिद्‌ भ्रात॑रं वा |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

वे॒शं वा॒ नित्यं᳚ वरु॒णार॑णं वा॒ यत्‌ सी॒माग॑श्चकृ॒मा शि॒श्रथ॒स्तत् ||{7/8}{5.85.7}{5.6.13.7}{4.4.31.2}{711, 439, 4352}

अ॒र्य॒म्य᳚‌म्¦व॒रु॒ण॒¦मि॒त्र्य᳚‌म्¦वा॒¦सखा᳚य‌म्¦वा॒¦सद᳚‌म्¦इत्¦भ्रात॑र‌म्¦वा॒ |
वे॒श‌म्¦वा॒¦नित्य᳚‌म्¦व॒रु॒ण॒¦अर॑ण‌म्¦वा॒¦यत्¦सी॒‌म्¦आगः॑¦च॒कृ॒म¦शि॒श्रथः॑¦तत् ||

कि॒त॒वासो॒ यद्‌ रि॑रि॒पुर्न दी॒वि यद्‌ वा᳚ घा स॒त्यमु॒त यन्न वि॒द्म |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

सर्वा॒ ता वि ष्य॑ शिथि॒रेव॑ दे॒वाऽधा᳚ ते स्याम वरुण प्रि॒यासः॑ ||{8/8}{5.85.8}{5.6.13.8}{4.4.31.3}{712, 439, 4353}

कि॒त॒वासः॑¦यत्¦रि॒रि॒पुः¦न¦दी॒वि¦यत्¦वा॒¦घ॒¦स॒त्य‌म्¦उ॒त¦यत्¦न¦वि॒द्म |
सर्वा᳚¦ता¦वि¦स्य॒¦शि॒थि॒राऽ‌इ᳚व¦दे॒व॒¦अध॑¦ते॒¦स्या॒म॒¦व॒रु॒ण॒¦प्रि॒यासः॑ ||

[86] इंद्राग्नीयमिति षडृचस्य सूक्तस्य भौमोत्रिरिंद्राग्न्यनुष्टुप् अंत्याविराट्‌पूर्वापंक्त्युत्तरावा |
इन्द्रा᳚ग्नी॒ यमव॑थ उ॒भा वाजे᳚षु॒ मर्त्य᳚म् |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्}

दृ॒ळ्हा चि॒त्‌ स प्र भे᳚दति द्यु॒म्ना वाणी᳚रिव त्रि॒तः ||{1/6}{5.86.1}{5.6.14.1}{4.4.32.1}{713, 440, 4354}

इन्द्रा᳚ग्नी॒ इति॑¦य‌म्¦अव॑थः¦उ॒भा¦वाजे᳚षु¦मर्त्य᳚‌म् | दृ॒ळ्हा¦चि॒त्¦सः¦प्र¦भे॒द॒ति॒¦द्यु॒म्ना¦वाणीः᳚ऽ‌इव¦त्रि॒तः ||

या पृत॑नासु दु॒ष्टरा॒ या वाजे᳚षु श्र॒वाय्या᳚ |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्}

या पञ्च॑ चर्ष॒णीर॒भी᳚न्द्रा॒ग्नी ता ह॑वामहे ||{2/6}{5.86.2}{5.6.14.2}{4.4.32.2}{714, 440, 4355}

या¦पृत॑नासु¦दु॒स्तरा᳚¦या¦वाजे᳚षु¦श्र॒वाय्या᳚ | या¦पंच॑¦च॒र्ष॒णीः¦अ॒भि¦इ॒न्द्रा॒ग्नी इति॑¦ता¦ह॒वा॒म॒हे॒ ||

तयो॒रिदम॑व॒च्छव॑स्ति॒ग्मा दि॒द्युन्म॒घोनोः᳚ |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्}

प्रति॒ द्रुणा॒ गभ॑स्त्यो॒र्गवां᳚ वृत्र॒घ्न एष॑ते ||{3/6}{5.86.3}{5.6.14.3}{4.4.32.3}{715, 440, 4356}

तयोः᳚¦इत्¦अम॑ऽवत्¦शवः॑¦ति॒ग्मा¦दि॒द्युत्¦म॒घोनोः᳚ | प्रति॑¦द्रुणा᳚¦गभ॑स्त्योः¦गवा᳚‌म्¦वृ॒त्र॒ऽघ्ने¦आ¦ई॒ष॒ते॒ ||

ता वा॒मेषे॒ रथा᳚नामिन्द्रा॒ग्नी ह॑वामहे |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्}

पती᳚ तु॒रस्य॒ राध॑सो वि॒द्वांसा॒ गिर्व॑णस्तमा ||{4/6}{5.86.4}{5.6.14.4}{4.4.32.4}{716, 440, 4357}

ता¦वा॒‌म्¦एषे᳚¦रथा᳚ना‌म्¦इ॒न्द्रा॒ग्नी इति॑¦ह॒वा॒म॒हे॒ | पती॒ इति॑¦तु॒रस्य॑¦राध॑सः¦वि॒द्वांसा᳚¦गिर्व॑णःऽतमा ||

ता वृ॒धन्ता॒वनु॒ द्यून् मर्ता᳚य दे॒वाव॒दभा᳚ |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्}

अर्ह᳚न्ता चित्‌ पु॒रो द॒धेंऽशे᳚व दे॒वावर्व॑ते ||{5/6}{5.86.5}{5.6.14.5}{4.4.32.5}{717, 440, 4358}

ता¦वृ॒धन्तौ᳚¦अनु॑¦द्यून्¦मर्ता᳚य¦दे॒वौ¦अ॒दभा᳚ | अर्ह᳚न्ता¦चि॒त्¦पु॒रः¦द॒धे॒¦अंशा᳚ऽ‌इव¦दे॒वौ¦अर्व॑ते ||

ए॒वेन्द्रा॒ग्निभ्या॒महा᳚वि ह॒व्यं शू॒ष्यं᳚ घृ॒तं न पू॒तमद्रि॑भिः |{भौमोत्रिः | इन्द्राग्नी | १/२:विराट् २/२:पङ्क्तिः}

ता सू॒रिषु॒ श्रवो᳚ बृ॒हद् र॒यिं गृ॒णत्सु॑ दिधृत॒मिषं᳚ गृ॒णत्सु॑ दिधृतम् ||{6/6}{5.86.6}{5.6.14.6}{4.4.32.6}{718, 440, 4359}

ए॒व¦इ॒न्द्रा॒ग्निऽभ्या᳚‌म्¦अहा᳚वि¦ह॒व्य‌म्¦शू॒ष्य᳚‌म्¦घृ॒त‌म्¦न¦पू॒त‌म्¦अद्रि॑ऽभिः | ता¦सू॒रिषु॑¦श्रवः॑¦बृ॒हत्¦र॒यि‌म्¦गृ॒णत्ऽसु॑¦दि॒धृ॒त॒‌म्¦इष᳚‌म्¦गृ॒णत्ऽसु॑¦दि॒धृ॒त॒‌म् ||

[87] प्रवोमहइति नवर्चस्य सूक्तस्यात्रेय एवयामरुन्मरुतोतिजगती |
प्र वो᳚ म॒हे म॒तयो᳚ यन्तु॒ विष्ण॑वे म॒रुत्व॑ते गिरि॒जा, ए᳚व॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

प्र शर्धा᳚य॒ प्रय॑ज्यवे सुखा॒दये᳚ त॒वसे᳚ भ॒न्ददि॑ष्टये॒ धुनि᳚व्रताय॒ शव॑से ||{1/9}{5.87.1}{5.6.15.1}{4.4.33.1}{719, 441, 4360}

प्र¦वः॒¦म॒हे¦म॒तयः॑¦य॒न्तु॒¦विष्ण॑वे¦म॒रुत्व॑ते¦गि॒रि॒ऽजाः¦ए॒व॒याम॑रुत् |
प्र¦शर्धा᳚य¦प्रऽय॑ज्यवे¦सु॒ऽखा॒दये᳚¦त॒वसे᳚¦भ॒न्दत्ऽ‌इ᳚ष्टये¦धुनि॑ऽव्रताय¦शव॑से ||

प्र ये जा॒ता म॑हि॒ना ये च॒ नु स्व॒यं प्र वि॒द्मना᳚ ब्रु॒वत॑ एव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

क्रत्वा॒ तद्‌ वो᳚ मरुतो॒ नाधृषे॒ शवो᳚ दा॒ना म॒ह्ना तदे᳚षा॒मधृ॑ष्टासो॒ नाद्र॑यः ||{2/9}{5.87.2}{5.6.15.2}{4.4.33.2}{720, 441, 4361}

प्र¦ये¦जा॒ताः¦म॒हि॒ना¦ये¦च॒¦नु¦स्व॒य‌म्¦प्र¦वि॒द्मना᳚¦ब्रु॒वते᳚¦ए॒व॒याम॑रुत् |
क्रत्वा᳚¦तत्¦वः॒¦म॒रु॒तः॒¦न¦आ॒ऽधृषे᳚¦शवः॑¦दा॒ना¦म॒ह्ना¦तत्¦ए॒षा॒‌म्¦अधृ॑ष्टासः¦न¦अद्र॑यः ||

प्र ये दि॒वो बृ॑ह॒तः शृ᳚ण्वि॒रे गि॒रा सु॒शुक्वा᳚नः सु॒भ्व॑ एव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

न येषा॒मिरी᳚ स॒धस्थ॒ ईष्ट॒ आँ, अ॒ग्नयो॒ न स्ववि॑द्युतः॒ प्र स्प॒न्द्रासो॒ धुनी᳚नाम् ||{3/9}{5.87.3}{5.6.15.3}{4.4.33.3}{721, 441, 4362}

प्र¦ये¦दि॒वः¦बृ॒ह॒तः¦शृ॒ण्वि॒रे¦गि॒रा¦सु॒ऽशुक्वा᳚नः¦सु॒ऽभ्वः॑¦ए॒व॒याम॑रुत् |
न¦येषा᳚‌म्¦इरी᳚¦स॒धऽस्थे᳚¦ईष्टे᳚¦आ¦अ॒ग्नयः॑¦न¦स्वऽवि॑द्युतः¦प्र¦स्प॒न्द्रासः॑¦धुनी᳚ना‌म् ||

स च॑क्रमे मह॒तो निरु॑रुक्र॒मः स॑मा॒नस्मा॒त्‌ सद॑स एव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

य॒दायु॑क्त॒ त्मना॒ स्वादधि॒ ष्णुभि॒र्विष्प॑र्धसो॒ विम॑हसो॒ जिगा᳚ति॒ शेवृ॑धो॒ नृभिः॑ ||{4/9}{5.87.4}{5.6.15.4}{4.4.33.4}{722, 441, 4363}

सः¦च॒क्र॒मे॒¦म॒ह॒तः¦निः¦उ॒रु॒ऽक्र॒मः¦स॒मा॒नस्मा᳚त्¦सद॑सः¦ए॒व॒याम॑रुत् |
य॒दा¦अयु॑क्त¦त्मना᳚¦स्वात्¦अधि॑¦स्नुऽभिः॑¦विऽस्प॑र्धसः¦विऽम॑हसः¦जिगा᳚ति¦शेऽवृ॑धः¦नृऽभिः॑ ||

स्व॒नो न वोऽम॑वान्‌ रेजय॒द्‌ वृषा᳚ त्वे॒षो य॒यिस्त॑वि॒ष ए᳚व॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

येना॒ सह᳚न्त ऋ॒ञ्जत॒ स्वरो᳚चिषः॒ स्थार॑श्मानो हिर॒ण्ययाः᳚ स्वायु॒धास॑ इ॒ष्मिणः॑ ||{5/9}{5.87.5}{5.6.15.5}{4.4.33.5}{723, 441, 4364}

स्व॒नः¦न¦वः॒¦अम॑ऽवान्¦रे॒ज॒य॒त्¦वृषा᳚¦त्वे॒षः¦य॒यिः¦त॒वि॒षः¦ए॒व॒याम॑रुत् |
येन॑¦सह᳚न्तः¦ऋं॒जत॑¦स्वऽरो᳚चिषः¦स्थाःऽर॑श्मानः¦हि॒र॒ण्ययाः᳚¦सु॒ऽआ॒यु॒धासः॑¦इ॒ष्मिणः॑ ||

अ॒पा॒रो वो᳚ महि॒मा वृ॑द्धशवसस्त्वे॒षं शवो᳚ऽवत्वेव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

स्थाता᳚रो॒ हि प्रसि॑तौ सं॒दृशि॒ स्थन॒ ते न॑ उरुष्यता नि॒दः शु॑शु॒क्वांसो॒ नाग्नयः॑ ||{6/9}{5.87.6}{5.6.15.6}{4.4.34.1}{724, 441, 4365}

अ॒पा॒रः¦वः॒¦म॒हि॒मा¦वृ॒द्ध॒ऽश॒व॒सः॒¦त्वे॒ष‌म्¦शवः॑¦अ॒व॒तु॒¦ए॒व॒याम॑रुत् |
स्थाता᳚रः¦हि¦प्रऽसि॑तौ¦स॒‌म्ऽदृशि॑¦स्थन॑¦ते¦नः॒¦उ॒रु॒ष्य॒त॒¦नि॒दः¦शु॒शु॒क्वांसः॑¦न¦अ॒ग्नयः॑ ||

ते रु॒द्रासः॒ सुम॑खा, अ॒ग्नयो᳚ यथा तुविद्यु॒म्ना, अ॑वन्त्वेव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

दी॒र्घं पृ॒थु प॑प्रथे॒ सद्म॒ पार्थि॑वं॒ येषा॒मज्मे॒ष्वा म॒हः शर्धां॒स्यद्भु॑तैनसाम् ||{7/9}{5.87.7}{5.6.15.7}{4.4.34.2}{725, 441, 4366}

ते¦रु॒द्रासः॑¦सुऽम॑खाः¦अ॒ग्नयः॑¦य॒था॒¦तु॒वि॒ऽद्यु॒म्नाः¦अ॒व॒न्तु॒¦ए॒व॒याम॑रुत् |
दी॒र्घ‌म्¦पृ॒थु¦प॒प्र॒थे॒¦सद्म॑¦पार्थि॑व‌म्¦येषा᳚‌म्¦अज्मे᳚षु¦आ¦म॒हः¦शर्धां᳚सि¦अद्भु॑तऽएनसा‌म् ||

अ॒द्वे॒षो नो᳚ मरुतो गा॒तुमेत॑न॒ श्रोता॒ हवं᳚ जरि॒तुरे᳚व॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

विष्णो᳚र्म॒हः स॑मन्यवो युयोतन॒ स्मद्‌ र॒थ्यो॒३॑(ओ॒) न दं॒सनाऽप॒ द्वेषां᳚सि सनु॒तः ||{8/9}{5.87.8}{5.6.15.8}{4.4.34.3}{726, 441, 4367}

अ॒द्वे॒षः¦नः॒¦म॒रु॒तः॒¦गा॒तु‌म्¦आ¦इ॒त॒न॒¦श्रोत॑¦हव᳚‌म्¦ज॒रि॒तुः¦ए॒व॒याम॑रुत् |
विष्णोः᳚¦म॒हः¦स॒ऽम॒न्य॒वः॒¦यु॒यो॒त॒न॒¦स्मत्¦र॒थ्यः॑¦न¦दं॒सना᳚¦अप॑¦द्वेषां᳚सि¦स॒नु॒तरिति॑ ||

गन्ता᳚ नो य॒ज्ञं य॑ज्ञियाः सु॒शमि॒ श्रोता॒ हव॑मर॒क्ष ए᳚व॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

ज्येष्ठा᳚सो॒ न पर्व॑तासो॒ व्यो᳚मनि यू॒यं तस्य॑ प्रचेतसः॒ स्यात॑ दु॒र्धर्त॑वो नि॒दः ||{9/9}{5.87.9}{5.6.15.9}{4.4.34.4}{727, 441, 4368}

गन्त॑¦नः॒¦य॒ज्ञ‌म्¦य॒ज्ञि॒याः॒¦सु॒ऽशमि॑¦श्रोत॑¦हव᳚‌म्¦अ॒र॒क्षः¦ए॒व॒याम॑रुत् |
ज्येष्ठा᳚सः¦न¦पर्व॑तासः¦विऽओ᳚मनि¦यू॒य‌म्¦तस्य॑¦प्र॒ऽचे॒त॒सः॒¦स्यात॑¦दुः॒ऽधर्त॑वः¦नि॒दः ||