[1] त्वंह्यग्नइति त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् | |
त्वं ह्य॑ग्ने प्रथ॒मो म॒नोता॒ऽस्या धि॒यो, अभ॑वो दस्म॒ होता᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} त्वं सीं᳚ वृषन्नकृणोर्दु॒ष्टरी᳚तु॒ सहो॒ विश्व॑स्मै॒ सह॑से॒ सह॑ध्यै ||{1/13}{6.1.1}{6.1.1.1}{4.4.35.1}{1, 442, 4369} त्वम्¦हि¦अ॒ग्ने॒¦प्र॒थ॒मः¦म॒नोता᳚¦अ॒स्याः¦धि॒यः¦अभ॑वः¦दस्म॑¦होता᳚ | |
अधा॒ होता॒ न्य॑सीदो॒ यजी᳚यानि॒ळस्प॒द इ॒षय॒न्नीड्यः॒ सन् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} तं त्वा॒ नरः॑ प्रथ॒मं दे᳚व॒यन्तो᳚ म॒हो रा॒ये चि॒तय᳚न्तो॒, अनु॑ ग्मन् ||{2/13}{6.1.2}{6.1.1.2}{4.4.35.2}{2, 442, 4370} अध॑¦होता᳚¦नि¦अ॒सी॒दः॒¦यजी᳚यान्¦इ॒ळः¦प॒दे¦इ॒षय॑न्¦ईड्यः॑¦सन् | |
वृ॒तेव॒ यन्तं᳚ ब॒हुभि᳚र्वस॒व्यै॒३॑(ऐ॒)स्त्वे र॒यिं जा᳚गृ॒वांसो॒, अनु॑ ग्मन् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} रुश᳚न्तम॒ग्निं द॑र्श॒तं बृ॒हन्तं᳚ व॒पाव᳚न्तं वि॒श्वहा᳚ दीदि॒वांस᳚म् ||{3/13}{6.1.3}{6.1.1.3}{4.4.35.3}{3, 442, 4371} वृ॒ताऽइ᳚व¦यन्त᳚म्¦ब॒हुऽभिः॑¦व॒स॒व्यैः᳚¦त्वे इति॑¦र॒यिम्¦जा॒गृ॒ऽवांसः॑¦अनु॑¦ग्म॒न् | |
प॒दं दे॒वस्य॒ नम॑सा॒ व्यन्तः॑ श्रव॒स्यवः॒ श्रव॑ आप॒न्नमृ॑क्तम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} नामा᳚नि चिद् दधिरे य॒ज्ञिया᳚नि भ॒द्रायां᳚ ते रणयन्त॒ संदृ॑ष्टौ ||{4/13}{6.1.4}{6.1.1.4}{4.4.35.4}{4, 442, 4372} प॒दम्¦दे॒वस्य॑¦नम॑सा¦व्यन्तः॑¦श्र॒व॒स्यवः॑¦श्रवः॑¦आ॒प॒न्¦अमृ॑क्तम् | |
त्वां व॑र्धन्ति क्षि॒तयः॑ पृथि॒व्यां त्वां राय॑ उ॒भया᳚सो॒ जना᳚नाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} त्वं त्रा॒ता त॑रणे॒ चेत्यो᳚ भूः पि॒ता मा॒ता सद॒मिन्मानु॑षाणाम् ||{5/13}{6.1.5}{6.1.1.5}{4.4.35.5}{5, 442, 4373} त्वाम्¦व॒र्ध॒न्ति॒¦क्षि॒तयः॑¦पृ॒थि॒व्याम्¦त्वाम्¦रायः॑¦उ॒भया᳚सः¦जना᳚नाम् | |
स॒प॒र्येण्यः॒ स प्रि॒यो वि॒क्ष्व१॑(अ॒)ग्निर्होता᳚ म॒न्द्रो नि ष॑सादा॒ यजी᳚यान् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} तं त्वा᳚ व॒यं दम॒ आ दी᳚दि॒वांस॒मुप॑ ज्ञु॒बाधो॒ नम॑सा सदेम ||{6/13}{6.1.6}{6.1.1.6}{4.4.36.1}{6, 442, 4374} स॒प॒र्येण्यः॑¦सः¦प्रि॒यः¦वि॒क्षु¦अ॒ग्निः¦होता᳚¦म॒न्द्रः¦नि¦सि॒सा॒द॒¦यजी᳚यान् | |
तं त्वा᳚ व॒यं सु॒ध्यो॒३॑(ओ॒) नव्य॑मग्ने सुम्ना॒यव॑ ईमहे देव॒यन्तः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} त्वं विशो᳚, अनयो॒ दीद्या᳚नो दि॒वो, अ॑ग्ने बृह॒ता रो᳚च॒नेन॑ ||{7/13}{6.1.7}{6.1.1.7}{4.4.36.2}{7, 442, 4375} त्वम्¦त्वा॒¦व॒यम्¦सु॒ऽध्यः॑¦नव्य᳚म्¦अ॒ग्ने॒¦सु॒म्न॒ऽयवः॑¦ई॒म॒हे॒¦दे॒व॒ऽयन्तः॑ | |
वि॒शां क॒विं वि॒श्पतिं॒ शश्व॑तीनां नि॒तोश॑नं वृष॒भं च॑र्षणी॒नाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} प्रेती᳚षणिमि॒षय᳚न्तं पाव॒कं राज᳚न्तम॒ग्निं य॑ज॒तं र॑यी॒णाम् ||{8/13}{6.1.8}{6.1.1.8}{4.4.36.3}{8, 442, 4376} वि॒शाम्¦क॒विम्¦वि॒श्पति᳚म्¦शश्व॑तीनाम्¦नि॒ऽतोश॑नम्¦वृ॒ष॒भम्¦च॒र्ष॒णी॒नाम् | |
सो, अ॑ग्न ईजे शश॒मे च॒ मर्तो॒ यस्त॒ आन॑ट् स॒मिधा᳚ ह॒व्यदा᳚तिम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} य आहु॑तिं॒ परि॒ वेदा॒ नमो᳚भि॒र्विश्वेत् स वा॒मा द॑धते॒ त्वोतः॑ ||{9/13}{6.1.9}{6.1.1.9}{4.4.36.4}{9, 442, 4377} सः¦अ॒ग्ने॒¦ई॒जे॒¦श॒श॒मे¦च॒¦मर्तः॑¦यः¦ते॒¦आन॑ट्¦स॒म्ऽइधा᳚¦ह॒व्यऽदा᳚तिम् | |
अ॒स्मा, उ॑ ते॒ महि॑ म॒हे वि॑धेम॒ नमो᳚भिरग्ने स॒मिधो॒त ह॒व्यैः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} वेदी᳚ सूनो सहसो गी॒र्भिरु॒क्थैरा ते᳚ भ॒द्रायां᳚ सुम॒तौ य॑तेम ||{10/13}{6.1.10}{6.1.1.10}{4.4.36.5}{10, 442, 4378} अ॒स्मै¦ऊँ॒ इति॑¦ते॒¦महि॑¦म॒हे¦वि॒धे॒म॒¦नमः॑ऽभिः¦अ॒ग्ने॒¦स॒म्ऽइधा᳚¦उ॒त¦ह॒व्यैः | |
आ यस्त॒तन्थ॒ रोद॑सी॒ वि भा॒सा श्रवो᳚भिश्च श्रव॒स्य१॑(अ॒)स्तरु॑त्रः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} बृ॒हद्भि॒र्वाजैः॒ स्थवि॑रेभिर॒स्मे रे॒वद्भि॑रग्ने वित॒रं वि भा᳚हि ||{11/13}{6.1.11}{6.1.1.11}{4.4.36.6}{11, 442, 4379} आ¦यः¦त॒तन्थ॑¦रोद॑सी॒ इति॑¦वि¦भा॒सा¦श्रवः॑ऽभिः¦च॒¦श्र॒व॒स्यः॑¦तरु॑त्रः | |
नृ॒वद् व॑सो॒ सद॒मिद्धे᳚ह्य॒स्मे भूरि॑ तो॒काय॒ तन॑याय प॒श्वः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} पू॒र्वीरिषो᳚ बृह॒तीरा॒रे,अ॑घा, अ॒स्मे भ॒द्रा सौ᳚श्रव॒सानि॑ सन्तु ||{12/13}{6.1.12}{6.1.1.12}{4.4.36.7}{12, 442, 4380} नृ॒ऽवत्¦व॒सो॒ इति॑¦सद᳚म्¦इत्¦धे॒हि॒¦अ॒स्मे इति॑¦भूरि॑¦तो॒काय॑¦तन॑याय¦प॒श्वः | |
पु॒रूण्य॑ग्ने पुरु॒धा त्वा॒या वसू᳚नि राजन् व॒सुता᳚ ते, अश्याम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} पु॒रूणि॒ हि त्वे पु॑रुवार॒ सन्त्यग्ने॒ वसु॑ विध॒ते राज॑नि॒ त्वे ||{13/13}{6.1.13}{6.1.1.13}{4.4.36.8}{13, 442, 4381} पु॒रूणि॑¦अ॒ग्ने॒¦पु॒रु॒धा¦त्वा॒ऽया¦वसू᳚नि¦रा॒ज॒न्¦व॒सुता᳚¦ते॒¦अ॒श्या॒म् | |
[2] त्वंहिक्षैतवदित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निरनुष्टुबंत्याशक्वरी | |
त्वं हि क्षैत॑व॒द् यशो ऽग्ने᳚ मि॒त्रो न पत्य॑से |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} त्वं वि॑चर्षणे॒ श्रवो॒ वसो᳚ पु॒ष्टिं न पु॑ष्यसि ||{1/11}{6.2.1}{6.1.2.1}{4.5.1.1}{14, 443, 4382} त्वम्¦हि¦क्षैत॑ऽवत्¦यशः॑¦अग्ने᳚¦मि॒त्रः¦न¦पत्य॑से | त्वम्¦वि॒ऽच॒र्ष॒णे॒¦श्रवः॑¦वसो॒ इति॑¦पु॒ष्टिम्¦न¦पु॒ष्य॒सि॒ || |
त्वां हि ष्मा᳚ चर्ष॒णयो᳚ य॒ज्ञेभि॑र्गी॒र्भिरीळ॑ते |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} त्वां वा॒जी या᳚त्यवृ॒को र॑ज॒स्तूर्वि॒श्वच॑र्षणिः ||{2/11}{6.2.2}{6.1.2.2}{4.5.1.2}{15, 443, 4383} त्वाम्¦हि¦स्म॒¦च॒र्ष॒णयः॑¦य॒ज्ञेभिः॑¦गीः॒ऽभिः¦ईळ॑ते | त्वाम्¦वा॒जी¦या॒ति॒¦अ॒वृ॒कः¦र॒जः॒ऽतूः¦वि॒श्वऽच॑र्षणिः || |
स॒जोष॑स्त्वा दि॒वो नरो᳚ य॒ज्ञस्य॑ के॒तुमि᳚न्धते |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} यद्ध॒ स्य मानु॑षो॒ जनः॑ सुम्ना॒युर्जु॒ह्वे, अ॑ध्व॒रे ||{3/11}{6.2.3}{6.1.2.3}{4.5.1.3}{16, 443, 4384} स॒ऽजोषः॑¦त्वा॒¦दि॒वः¦नरः॑¦य॒ज्ञस्य॑¦के॒तुम्¦इ॒न्ध॒ते॒ | यत्¦ह॒¦स्यः¦मानु॑षः¦जनः॑¦सु॒म्न॒ऽयुः¦जु॒ह्वे¦अ॒ध्व॒रे || |
ऋध॒द् यस्ते᳚ सु॒दान॑वे धि॒या मर्तः॑ श॒शम॑ते |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} ऊ॒ती ष बृ॑ह॒तो दि॒वो द्वि॒षो, अंहो॒ न त॑रति ||{4/11}{6.2.4}{6.1.2.4}{4.5.1.4}{17, 443, 4385} ऋध॑त्¦यः¦ते॒¦सु॒ऽदान॑वे¦धि॒या¦मर्तः॑¦श॒शम॑ते | ऊ॒ती¦सः¦बृ॒ह॒तः¦दि॒वः¦द्वि॒षः¦अंहः॑¦न¦त॒र॒ति॒ || |
स॒मिधा॒ यस्त॒ आहु॑तिं॒ निशि॑तिं॒ मर्त्यो॒ नश॑त् |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} व॒याव᳚न्तं॒ स पु॑ष्यति॒ क्षय॑मग्ने श॒तायु॑षम् ||{5/11}{6.2.5}{6.1.2.5}{4.5.1.5}{18, 443, 4386} स॒म्ऽइधा᳚¦यः¦ते॒¦आऽहु॑तिम्¦निऽशि॑तिम्¦मर्त्यः॑¦नश॑त् | व॒याऽव᳚न्तम्¦सः¦पु॒ष्य॒ति॒¦क्षय᳚म्¦अ॒ग्ने॒¦श॒तऽआ᳚युषम् || |
त्वे॒षस्ते᳚ धू॒म ऋ᳚ण्वति दि॒वि षञ्छु॒क्र आत॑तः |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} सूरो॒ न हि द्यु॒ता त्वं कृ॒पा पा᳚वक॒ रोच॑से ||{6/11}{6.2.6}{6.1.2.6}{4.5.2.1}{19, 443, 4387} त्वे॒षः¦ते॒¦धू॒मः¦ऋ॒ण्व॒ति॒¦दि॒वि¦सन्¦शु॒क्रः¦आऽत॑तः | सूरः॑¦न¦हि¦द्यु॒ता¦त्वम्¦कृ॒पा¦पा॒व॒क॒¦रोच॑से || |
अधा॒ हि वि॒क्ष्वीड्यो ऽसि॑ प्रि॒यो नो॒, अति॑थिः |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} र॒ण्वः पु॒री᳚व॒ जूर्यः॑ सू॒नुर्न त्र॑य॒याय्यः॑ ||{7/11}{6.2.7}{6.1.2.7}{4.5.2.2}{20, 443, 4388} अध॑¦हि¦वि॒क्षु¦ईड्यः॑¦असि॑¦प्रि॒यः¦नः॒¦अति॑थिः | र॒ण्वः¦पु॒रिऽइ᳚व¦जूर्यः॑¦सू॒नुः¦न¦त्र॒य॒याय्यः॑ || |
क्रत्वा॒ हि द्रोणे᳚, अ॒ज्यसे ऽग्ने᳚ वा॒जी न कृत्व्यः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} परि॑ज्मेव स्व॒धा गयो ऽत्यो॒ न ह्वा॒र्यः शिशुः॑ ||{8/11}{6.2.8}{6.1.2.8}{4.5.2.3}{21, 443, 4389} क्रत्वा᳚¦हि¦द्रोणे᳚¦अ॒ज्यसे᳚¦अग्ने᳚¦वा॒जी¦न¦कृत्व्यः॑ | परि॑ज्माऽइव¦स्व॒धा¦गयः॑¦अत्यः॑¦न¦ह्वा॒र्यः¦शिशुः॑ || |
त्वं त्या चि॒दच्यु॒ता ऽग्ने᳚ प॒शुर्न यव॑से |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} धामा᳚ ह॒ यत् ते᳚, अजर॒ वना᳚ वृ॒श्चन्ति॒ शिक्व॑सः ||{9/11}{6.2.9}{6.1.2.9}{4.5.2.4}{22, 443, 4390} त्वम्¦त्या¦चि॒त्¦अच्यु॑ता¦अग्ने᳚¦प॒शुः¦न¦यव॑से | धाम॑¦ह॒¦यत्¦ते॒¦अ॒ज॒र॒¦वना᳚¦वृ॒श्चन्ति॑¦शिक्व॑सः || |
वेषि॒ ह्य॑ध्वरीय॒तामग्ने॒ होता॒ दमे᳚ वि॒शाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} स॒मृधो᳚ विश्पते कृणु जु॒षस्व॑ ह॒व्यम᳚ङ्गिरः ||{10/11}{6.2.10}{6.1.2.10}{4.5.2.5}{23, 443, 4391} वेषि॑¦हि¦अ॒ध्व॒रि॒ऽय॒ताम्¦अग्ने᳚¦होता᳚¦दमे᳚¦वि॒शाम् | स॒म्ऽऋधः॑¦वि॒श्प॒ते॒¦कृ॒णु॒¦जु॒षस्व॑¦ह॒व्यम्¦अ॒ङ्गि॒रः॒ || |
अच्छा᳚ नो मित्रमहो देव दे॒वानग्ने॒ वोचः॑ सुम॒तिं रोद॑स्योः |{बार्हस्पत्यो भरद्वाजः | अग्निः | शक्वरी} वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄन् द्वि॒षो, अंहां᳚सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ||{11/11}{6.2.11}{6.1.2.11}{4.5.2.6}{24, 443, 4392} अच्छ॑¦नः॒¦मि॒त्र॒ऽम॒हः॒¦दे॒व॒¦दे॒वान्¦अग्ने᳚¦वोचः॑¦सु॒ऽम॒तिम्¦रोद॑स्योः | |
[3] अग्नेसक्षेषदित्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् | |
अग्ने॒ स क्षे᳚षदृत॒पा, ऋ॑ते॒जा, उ॒रु ज्योति᳚र्नशते देव॒युष्टे᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} यं त्वं मि॒त्रेण॒ वरु॑णः स॒जोषा॒ देव॒ पासि॒ त्यज॑सा॒ मर्त॒मंहः॑ ||{1/8}{6.3.1}{6.1.3.1}{4.5.3.1}{25, 444, 4393} अग्ने᳚¦सः¦क्षे॒ष॒त्¦ऋ॒त॒ऽपाः¦ऋ॒ते॒ऽजाः¦उ॒रु¦ज्योतिः॑¦न॒श॒ते॒¦दे॒व॒ऽयुः¦ते॒ | |
ई॒जे य॒ज्ञेभिः॑ शश॒मे शमी᳚भिरृ॒धद्वा᳚राया॒ग्नये᳚ ददाश |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} ए॒वा च॒न तं य॒शसा॒मजु॑ष्टि॒र्नांहो॒ मर्तं᳚ नशते॒ न प्रदृ॑प्तिः ||{2/8}{6.3.2}{6.1.3.2}{4.5.3.2}{26, 444, 4394} ई॒जे¦य॒ज्ञेभिः॑¦श॒श॒मे¦शमी᳚भिः¦ऋ॒धत्ऽवा᳚राय¦अ॒ग्नये᳚¦द॒दा॒श॒ | |
सूरो॒ न यस्य॑ दृश॒तिर॑रे॒पा भी॒मा यदेति॑ शुच॒तस्त॒ आ धीः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} हेष॑स्वतः शु॒रुधो॒ नायम॒क्तोः कुत्रा᳚ चिद् र॒ण्वो व॑स॒तिर्व॑ने॒जाः ||{3/8}{6.3.3}{6.1.3.3}{4.5.3.3}{27, 444, 4395} सूरः॑¦न¦यस्य॑¦दृ॒श॒तिः¦अ॒रे॒पाः¦भी॒मा¦यत्¦एति॑¦शु॒च॒तः¦ते॒¦आ¦धीः | |
ति॒ग्मं चि॒देम॒ महि॒ वर्पो᳚, अस्य॒ भस॒दश्वो॒ न य॑मसा॒न आ॒सा |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} वि॒जेह॑मानः पर॒शुर्न जि॒ह्वां द्र॒विर्न द्रा᳚वयति॒ दारु॒ धक्ष॑त् ||{4/8}{6.3.4}{6.1.3.4}{4.5.3.4}{28, 444, 4396} ति॒ग्मम्¦चि॒त्¦एम॑¦महि॑¦वर्पः॑¦अ॒स्य॒¦भस॑त्¦अश्वः॑¦न¦य॒म॒सा॒न¦आ॒सा | |
स इदस्ते᳚व॒ प्रति॑ धादसि॒ष्यञ्छिशी᳚त॒ तेजोऽय॑सो॒ न धारा᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} चि॒त्रध्र॑जतिरर॒तिर्यो, अ॒क्तोर्वेर्न द्रु॒षद्वा᳚ रघु॒पत्म॑जंहाः ||{5/8}{6.3.5}{6.1.3.5}{4.5.3.5}{29, 444, 4397} सः¦इत्¦अस्ता᳚ऽइव¦प्रति॑¦धा॒त्¦अ॒सि॒ष्यन्¦शिशी᳚त¦तेजः॑¦अय॑सः¦न¦धारा᳚म् | |
स ईं᳚ रे॒भो न प्रति॑ वस्त उ॒स्राः शो॒चिषा᳚ रारपीति मि॒त्रम॑हाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} नक्तं॒ य ई᳚मरु॒षो यो दिवा॒ नॄनम॑र्त्यो, अरु॒षो यो दिवा॒ नॄन् ||{6/8}{6.3.6}{6.1.3.6}{4.5.4.1}{30, 444, 4398} सः¦ई॒म्¦रे॒भः¦न¦प्रति॑¦व॒स्ते॒¦उ॒स्राः¦शो॒चिषा᳚¦र॒र॒पी॒ति॒¦मि॒त्रऽम॑हाः | |
दि॒वो न यस्य॑ विध॒तो नवी᳚नो॒द् वृषा᳚ रु॒क्ष ओष॑धीषु नूनोत् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} घृणा॒ न यो ध्रज॑सा॒ पत्म॑ना॒ यन्ना रोद॑सी॒ वसु॑ना॒ दं सु॒पत्नी᳚ ||{7/8}{6.3.7}{6.1.3.7}{4.5.4.2}{31, 444, 4399} दि॒वः¦न¦यस्य॑¦वि॒ध॒तः¦नवी᳚नोत्¦वृषा᳚¦रु॒क्षः¦ओष॑धीषु¦नू॒नो॒त् | |
धायो᳚भिर्वा॒ यो युज्ये᳚भिर॒र्कैर्वि॒द्युन्न द॑विद्यो॒त् स्वेभिः॒ शुष्मैः᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} शर्धो᳚ वा॒ यो म॒रुतां᳚ त॒तक्ष॑ ऋ॒भुर्न त्वे॒षो र॑भसा॒नो, अ॑द्यौत् ||{8/8}{6.3.8}{6.1.3.8}{4.5.4.3}{32, 444, 4400} धायः॑ऽभिः¦वा॒¦यः¦युज्ये᳚भिः¦अ॒र्कैः¦वि॒ऽद्युत्¦न¦द॒वि॒द्यो॒त्¦स्वेभिः॑¦शुष्मैः᳚ | |
[4] यथाहोतरित्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् | |
यथा᳚ होत॒र्मनु॑षो दे॒वता᳚ता य॒ज्ञेभिः॑ सूनो सहसो॒ यजा᳚सि |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} ए॒वा नो᳚, अ॒द्य स॑म॒ना स॑मा॒नानु॒शन्न॑ग्न उश॒तो य॑क्षि दे॒वान् ||{1/8}{6.4.1}{6.1.4.1}{4.5.5.1}{33, 445, 4401} यथा᳚¦हो॒तः॒¦मनु॑षः¦दे॒वऽता᳚ता¦य॒ज्ञेभिः॑¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦यजा᳚सि | |
स नो᳚ वि॒भावा᳚ च॒क्षणि॒र्न वस्तो᳚र॒ग्निर्व॒न्दारु॒ वेद्य॒श्चनो᳚ धात् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} वि॒श्वायु॒र्यो, अ॒मृतो॒ मर्त्ये᳚षूष॒र्भुद् भूदति॑थिर्जा॒तवे᳚दाः ||{2/8}{6.4.2}{6.1.4.2}{4.5.5.2}{34, 445, 4402} सः¦नः॒¦वि॒भाऽवा᳚¦च॒क्षणिः॑¦न¦वस्तोः᳚¦अ॒ग्निः¦व॒न्दारु॑¦वेद्यः॑¦चनः॑¦धा॒त् | |
द्यावो॒ न यस्य॑ प॒नय॒न्त्यभ्वं॒ भासां᳚सि वस्ते॒ सूर्यो॒ न शु॒क्रः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} वि य इ॒नोत्य॒जरः॑ पाव॒को ऽश्न॑स्य चिच्छिश्नथत् पू॒र्व्याणि॑ ||{3/8}{6.4.3}{6.1.4.3}{4.5.5.3}{35, 445, 4403} द्यावः॑¦न¦यस्य॑¦प॒नय᳚न्ति¦अभ्व᳚म्¦भासां᳚सि¦व॒स्ते॒¦सूर्यः॑¦न¦शु॒क्रः | |
व॒द्मा हि सू᳚नो॒, अस्य॑द्म॒सद्वा᳚ च॒क्रे, अ॒ग्निर्ज॒नुषाज्मान्न᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} स त्वं न॑ ऊर्जसन॒ ऊर्जं᳚ धा॒ राजे᳚व जेरवृ॒के क्षे᳚ष्य॒न्तः ||{4/8}{6.4.4}{6.1.4.4}{4.5.5.4}{36, 445, 4404} व॒द्मा¦हि¦सू॒नो॒ इति॑¦असि॑¦अ॒द्म॒ऽसद्वा᳚¦च॒क्रे¦अ॒ग्निः¦ज॒नुषा᳚¦अज्म॑¦अन्न᳚म् | |
निति॑क्ति॒ यो वा᳚र॒णमन्न॒मत्ति॑ वा॒युर्न राष्ट्र्यत्ये᳚त्य॒क्तून् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुपि} तु॒र्याम॒ यस्त॑ आ॒दिशा॒मरा᳚ती॒रत्यो॒ न ह्रुतः॒ पत॑तः परि॒ह्रुत् ||{5/8}{6.4.5}{6.1.4.5}{4.5.5.5}{37, 445, 4405} निऽति॑क्ति¦यः¦वा॒र॒णम्¦अन्न᳚म्¦अत्ति॑¦वा॒युः¦न¦राष्ट्री᳚¦अति॑¦ए॒ति॒¦अ॒क्तून् | |
आ सूर्यो॒ न भा᳚नु॒मद्भि॑र॒र्कैरग्ने᳚ त॒तन्थ॒ रोद॑सी॒ वि भा॒सा |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} चि॒त्रो न॑य॒त् परि॒ तमां᳚स्य॒क्तः शो॒चिषा॒ पत्म᳚न्नौशि॒जो न दीय॑न् ||{6/8}{6.4.6}{6.1.4.6}{4.5.6.1}{38, 445, 4406} आ¦सूर्यः॑¦न¦भा॒नु॒मत्ऽभिः॑¦अ॒र्कैः¦अग्ने᳚¦त॒तन्थ॑¦रोद॑सी॒ इति॑¦वि¦भा॒सा | |
त्वां हि म॒न्द्रत॑ममर्कशो॒कैर्व॑वृ॒महे॒ महि॑ नः॒ श्रोष्य॑ग्ने |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} इन्द्रं॒ न त्वा॒ शव॑सा दे॒वता᳚ वा॒युं पृ॑णन्ति॒ राध॑सा॒ नृत॑माः ||{7/8}{6.4.7}{6.1.4.7}{4.5.6.2}{39, 445, 4407} त्वाम्¦हि¦म॒न्द्रऽत॑मम्¦अ॒र्क॒ऽशो॒कैः¦व॒वृ॒महे᳚¦महि॑¦नः॒¦श्रोषि॑¦अ॒ग्ने॒ | |
नू नो᳚, अग्नेऽवृ॒केभिः॑ स्व॒स्ति वेषि॑ रा॒यः प॒थिभिः॒ पर्ष्यंहः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} ता सू॒रिभ्यो᳚ गृण॒ते रा᳚सि सु॒म्नं मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{8/8}{6.4.8}{6.1.4.8}{4.5.6.3}{40, 445, 4408} नु¦नः॒¦अ॒ग्ने॒¦अ॒वृ॒केभिः॑¦स्व॒स्ति¦वेषि॑¦रा॒यः¦प॒थिऽभिः॑¦पर्षि॑¦अंहः॑ | |
[5] हुवेवइति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् | |
हु॒वे वः॑ सू॒नुं सह॑सो॒ युवा᳚न॒मद्रो᳚घवाचं म॒तिभि॒र्यवि॑ष्ठम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} य इन्व॑ति॒ द्रवि॑णानि॒ प्रचे᳚ता वि॒श्ववा᳚राणि पुरु॒वारो᳚, अ॒ध्रुक् ||{1/7}{6.5.1}{6.1.5.1}{4.5.7.1}{41, 446, 4409} हु॒वे¦वः॒¦सू॒नुम्¦सह॑सः¦युवा᳚नम्¦अद्रो᳚घऽवाचम्¦म॒तिऽभिः॑¦यवि॑ष्ठम् | |
त्वे वसू᳚नि पुर्वणीक होतर्दो॒षा वस्तो॒रेरि॑रे य॒ज्ञिया᳚सः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} क्षामे᳚व॒ विश्वा॒ भुव॑नानि॒ यस्मि॒न् त्सं सौभ॑गानि दधि॒रे पा᳚व॒के ||{2/7}{6.5.2}{6.1.5.2}{4.5.7.2}{42, 446, 4410} त्वे इति॑¦वसू᳚नि¦पु॒रु॒।आ॒णी॒क॒¦हो॒तः॒¦दो॒षा¦वस्तोः᳚¦आ¦ई॒रि॒रे॒¦य॒ज्ञिया᳚सः | |
त्वं वि॒क्षु प्र॒दिवः॑ सीद आ॒सु क्रत्वा᳚ र॒थीर॑भवो॒ वार्या᳚णाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} अत॑ इनोषि विध॒ते चि॑कित्वो॒ व्या᳚नु॒षग्जा᳚तवेदो॒ वसू᳚नि ||{3/7}{6.5.3}{6.1.5.3}{4.5.7.3}{43, 446, 4411} त्वम्¦वि॒क्षु¦प्र॒ऽदिवः॑¦सी॒दः॒¦आ॒सु¦क्रत्वा᳚¦र॒थीः¦अ॒भ॒वः॒¦वार्या᳚णाम् | |
यो नः॒ सनु॑त्यो, अभि॒दास॑दग्ने॒ यो, अन्त॑रो मित्रमहो वनु॒ष्यात् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} तम॒जरे᳚भि॒र्वृष॑भि॒स्तव॒ स्वैस्तपा᳚ तपिष्ठ॒ तप॑सा॒ तप॑स्वान् ||{4/7}{6.5.4}{6.1.5.4}{4.5.7.4}{44, 446, 4412} यः¦नः॒¦सनु॑त्यः¦अ॒भि॒ऽदास॑त्¦अ॒ग्ने॒¦यः¦अन्त॑रः¦मि॒त्र॒ऽम॒हः॒¦व॒नु॒ष्यात् | |
यस्ते᳚ य॒ज्ञेन॑ स॒मिधा॒ य उ॒क्थैर॒र्केभिः॑ सूनो सहसो॒ ददा᳚शत् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} स मर्त्ये᳚ष्वमृत॒ प्रचे᳚ता रा॒या द्यु॒म्नेन॒ श्रव॑सा॒ वि भा᳚ति ||{5/7}{6.5.5}{6.1.5.5}{4.5.7.5}{45, 446, 4413} यः¦ते॒¦य॒ज्ञेन॑¦स॒म्ऽइधा᳚¦यः¦उ॒क्थैः¦अ॒र्केभिः॑¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦ददा᳚शत् | |
स तत् कृ॑धीषि॒तस्तूय॑मग्ने॒ स्पृधो᳚ बाधस्व॒ सह॑सा॒ सह॑स्वान् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} यच्छ॒स्यसे॒ द्युभि॑र॒क्तो वचो᳚भि॒स्तज्जु॑षस्व जरि॒तुर्घोषि॒ मन्म॑ ||{6/7}{6.5.6}{6.1.5.6}{4.5.7.6}{46, 446, 4414} सः¦तत्¦कृ॒धि॒¦इ॒षि॒तः¦तूय᳚म्¦अ॒ग्ने॒¦स्पृधः॑¦बा॒ध॒स्व॒¦सह॑सा¦सह॑स्वान् | |
अ॒श्याम॒ तं काम॑मग्ने॒ तवो॒ती, अ॒श्याम॑ र॒यिं र॑यिवः सु॒वीर᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} अ॒श्याम॒ वाज॑म॒भि वा॒जय᳚न्तो॒ऽश्याम॑ द्यु॒म्नम॑जरा॒जरं᳚ ते ||{7/7}{6.5.7}{6.1.5.7}{4.5.7.7}{47, 446, 4415} अ॒श्याम॑¦तम्¦काम᳚म्¦अ॒ग्ने॒¦तव॑¦ऊ॒ती¦अ॒श्याम॑¦र॒यिम्¦र॒यि॒ऽवः॒¦सु॒ऽवीर᳚म् | |
[6] प्रनव्यसेति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् | |
प्र नव्य॑सा॒ सह॑सः सू॒नुमच्छा᳚ य॒ज्ञेन॑ गा॒तुमव॑ इ॒च्छमा᳚नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} वृ॒श्चद्व॑नं कृ॒ष्णया᳚मं॒ रुश᳚न्तं वी॒ती होता᳚रं दि॒व्यं जि॑गाति ||{1/7}{6.6.1}{6.1.6.1}{4.5.8.1}{48, 447, 4416} प्र¦नव्य॑सा¦सह॑सः¦सू॒नुम्¦अच्छ॑¦य॒ज्ञेन॑¦गा॒तुम्¦अवः॑¦इ॒च्छमा᳚नः | |
स श्वि॑ता॒नस्त᳚न्य॒तू रो᳚चन॒स्था, अ॒जरे᳚भि॒र्नान॑दद्भि॒र्यवि॑ष्ठः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} यः पा᳚व॒कः पु॑रु॒तमः॑ पु॒रूणि॑ पृ॒थून्य॒ग्निर॑नु॒याति॒ भर्व॑न् ||{2/7}{6.6.2}{6.1.6.2}{4.5.8.2}{49, 447, 4417} सः¦श्वि॒ता॒नः¦ता॒न्य॒तुः¦रो॒च॒न॒ऽस्थाः¦अ॒जरे᳚भिः¦नान॑दत्ऽभिः¦यवि॑ष्ठः | |
वि ते॒ विष्व॒ग्वात॑जूतासो, अग्ने॒ भामा᳚सः शुचे॒ शुच॑यश्चरन्ति |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} तु॒वि॒म्र॒क्षासो᳚ दि॒व्या नव॑ग्वा॒ वना᳚ वनन्ति धृष॒ता रु॒जन्तः॑ ||{3/7}{6.6.3}{6.1.6.3}{4.5.8.3}{50, 447, 4418} वि¦ते॒¦विष्व॑क्¦वात॑ऽजूतासः¦अ॒ग्ने॒¦भामा᳚सः¦शु॒चे॒¦शुच॑यः¦च॒र॒न्ति॒ | |
ये ते᳚ शु॒क्रासः॒ शुच॑यः शुचिष्मः॒, क्षां वप᳚न्ति॒ विषि॑तासो॒, अश्वाः᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} अध॑ भ्र॒मस्त॑ उर्वि॒या वि भा᳚ति या॒तय॑मानो॒, अधि॒ सानु॒ पृश्नेः᳚ ||{4/7}{6.6.4}{6.1.6.4}{4.5.8.4}{51, 447, 4419} ये¦ते॒¦शु॒क्रासः॑¦शुच॑यः¦शु॒चि॒ष्मः॒¦क्षाम्¦वप᳚न्ति¦विऽसि॑तासः¦अश्वाः᳚ | |
अध॑ जि॒ह्वा पा᳚पतीति॒ प्र वृष्णो᳚ गोषु॒युधो॒ नाशनिः॑ सृजा॒ना |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} शूर॑स्येव॒ प्रसि॑तिः, क्षा॒तिर॒ग्नेर्दु॒र्वर्तु॑र्भी॒मो द॑यते॒ वना᳚नि ||{5/7}{6.6.5}{6.1.6.5}{4.5.8.5}{52, 447, 4420} अध॑¦जि॒ह्वा¦पा॒प॒ती॒ति॒¦प्र¦वृष्णः॑¦गो॒षु॒ऽयुधः॑¦न¦अ॒शनिः॑¦सृ॒जा॒ना | |
आ भा॒नुना॒ पार्थि॑वानि॒ ज्रयां᳚सि म॒हस्तो॒दस्य॑ धृष॒ता त॑तन्थ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} स बा᳚ध॒स्वाप॑ भ॒या सहो᳚भिः॒ स्पृधो᳚ वनु॒ष्यन् व॒नुषो॒ नि जू᳚र्व ||{6/7}{6.6.6}{6.1.6.6}{4.5.8.6}{53, 447, 4421} आ¦भा॒नुना᳚¦पार्थि॑वानि¦ज्रयां᳚सि¦म॒हः¦तो॒दस्य॑¦धृ॒ष॒ता¦त॒त॒न्थ॒ | |
स चि॑त्र चि॒त्रं चि॒तय᳚न्तम॒स्मे चित्र॑क्षत्र चि॒त्रत॑मं वयो॒धाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} च॒न्द्रं र॒यिं पु॑रु॒वीरं᳚ बृ॒हन्तं॒ चन्द्र॑ च॒न्द्राभि॑र्गृण॒ते यु॑वस्व ||{7/7}{6.6.7}{6.1.6.7}{4.5.8.7}{54, 447, 4422} सः¦चि॒त्र॒¦चि॒त्रम्¦चि॒तय᳚न्तम्¦अ॒स्मे इति॑¦चित्र॑ऽक्षत्र¦चि॒त्रऽत॑मम्¦व॒यः॒ऽधाम् | |
[7] मूर्धाननिति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोवैश्वानरस्त्रिष्टुबंत्येद्वेजगत्यौ | |
मू॒र्धानं᳚ दि॒वो, अ॑र॒तिं पृ॑थि॒व्या वै᳚श्वान॒रमृ॒त आ जा॒तम॒ग्निम् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} क॒विं स॒म्राज॒मति॑थिं॒ जना᳚नामा॒सन्ना पात्रं᳚ जनयन्त दे॒वाः ||{1/7}{6.7.1}{6.1.7.1}{4.5.9.1}{55, 448, 4423} मू॒र्धान᳚म्¦दि॒वः¦अ॒र॒तिम्¦पृ॒थि॒व्याः¦वै॒श्वा॒न॒रम्¦ऋ॒ते¦आ¦जा॒तम्¦अ॒ग्निम् | |
नाभिं᳚ य॒ज्ञानां॒ सद॑नं रयी॒णां म॒हामा᳚हा॒वम॒भि सं न॑वन्त |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} वै॒श्वा॒न॒रं र॒थ्य॑मध्व॒राणां᳚ य॒ज्ञस्य॑ के॒तुं ज॑नयन्त दे॒वाः ||{2/7}{6.7.2}{6.1.7.2}{4.5.9.2}{56, 448, 4424} नाभि᳚म्¦य॒ज्ञाना᳚म्¦सद॑नम्¦र॒यी॒णाम्¦म॒हाम्¦आ॒ऽहा॒वम्¦अ॒भि¦सम्¦न॒व॒न्त॒ | |
त्वद् विप्रो᳚ जायते वा॒ज्य॑ग्ने॒ त्वद् वी॒रासो᳚, अभिमाति॒षाहः॑ |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} वैश्वा᳚नर॒ त्वम॒स्मासु॑ धेहि॒ वसू᳚नि राजन् त्स्पृह॒याय्या᳚णि ||{3/7}{6.7.3}{6.1.7.3}{4.5.9.3}{57, 448, 4425} त्वत्¦विप्रः॑¦जा॒य॒ते॒¦वा॒जी¦अ॒ग्ने॒¦त्वत्¦वी॒रासः॑¦अ॒भि॒मा॒ति॒ऽसहः॑ | |
त्वां विश्वे᳚, अमृत॒ जाय॑मानं॒ शिशुं॒ न दे॒वा, अ॒भि सं न॑वन्ते |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} तव॒ क्रतु॑भिरमृत॒त्वमा᳚य॒न् वैश्वा᳚नर॒ यत् पि॒त्रोरदी᳚देः ||{4/7}{6.7.4}{6.1.7.4}{4.5.9.4}{58, 448, 4426} त्वाम्¦विश्वे᳚¦अ॒मृ॒त॒¦जाय॑मानम्¦शिशु᳚म्¦न¦दे॒वाः¦अ॒भि¦सम्¦न॒व॒न्ते॒ | |
वैश्वा᳚नर॒ तव॒ तानि᳚ व्र॒तानि॑ म॒हान्य॑ग्ने॒ नकि॒रा द॑धर्ष |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} यज्जाय॑मानः पि॒त्रोरु॒पस्थे ऽवि᳚न्दः के॒तुं व॒युने॒ष्वह्ना᳚म् ||{5/7}{6.7.5}{6.1.7.5}{4.5.9.5}{59, 448, 4427} वैश्वा᳚नर¦तव॑¦तानि॑¦व्र॒तानि॑¦म॒हानि॑¦अ॒ग्ने॒¦नकिः॑¦आ¦द॒ध॒र्ष॒ | |
वै॒श्वा॒न॒रस्य॒ विमि॑तानि॒ चक्ष॑सा॒ सानू᳚नि दि॒वो, अ॒मृत॑स्य के॒तुना᳚ |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती} तस्येदु॒ विश्वा॒ भुव॒नाधि॑ मू॒र्धनि॑ व॒या, इ॑व रुरुहुः स॒प्त वि॒स्रुहः॑ ||{6/7}{6.7.6}{6.1.7.6}{4.5.9.6}{60, 448, 4428} वै॒श्वा॒न॒रस्य॑¦विऽमि॑तानि¦चक्ष॑सा¦सानू᳚नि¦दि॒वः¦अ॒मृत॑स्य¦के॒तुना᳚ | |
वि यो रजां॒स्यमि॑मीत सु॒क्रतु᳚र्वैश्वान॒रो वि दि॒वो रो᳚च॒ना क॒विः |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती} परि॒ यो विश्वा॒ भुव॑नानि पप्र॒थे ऽद॑ब्धो गो॒पा, अ॒मृत॑स्य रक्षि॒ता ||{7/7}{6.7.7}{6.1.7.7}{4.5.9.7}{61, 448, 4429} वि¦यः¦रजां᳚सि¦अमि॑मीत¦सु॒ऽक्रतुः॑¦वै॒श्वा॒न॒रः¦वि¦दि॒वः¦रो॒च॒ना¦क॒विः | |
[8] पृक्षस्येति सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजोवैश्वानरोग्निर्जगत्यंत्यात्रिष्टुप् | |
पृ॒क्षस्य॒ वृष्णो᳚, अरु॒षस्य॒ नू सहः॒ प्र नु वो᳚चं वि॒दथा᳚ जा॒तवे᳚दसः |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती} वै॒श्वा॒न॒राय॑ म॒तिर्नव्य॑सी॒ शुचिः॒ सोम॑ इव पवते॒ चारु॑र॒ग्नये᳚ ||{1/7}{6.8.1}{6.1.8.1}{4.5.10.1}{62, 449, 4430} पृ॒क्षस्य॑¦वृष्णः॑¦अ॒रु॒षस्य॑¦नु¦सहः॑¦प्र¦नु¦वो॒च॒म्¦वि॒दथा᳚¦जा॒तऽवे᳚दसः | |
स जाय॑मानः पर॒मे व्यो᳚मनि व्र॒तान्य॒ग्निर्व्र॑त॒पा, अ॑रक्षत |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती} व्य१॑(अ॒)न्तरि॑क्षममिमीत सु॒क्रतु᳚र्वैश्वान॒रो म॑हि॒ना नाक॑मस्पृशत् ||{2/7}{6.8.2}{6.1.8.2}{4.5.10.2}{63, 449, 4431} सः¦जाय॑मानः¦प॒र॒मे¦विऽओ᳚मनि¦व्र॒तानि॑¦अ॒ग्निः¦व्र॒त॒ऽपाः¦अ॒र॒क्ष॒त॒ | |
व्य॑स्तभ्ना॒द् रोद॑सी मि॒त्रो, अद्भु॑तो ऽन्त॒र्वाव॑दकृणो॒ज्ज्योति॑षा॒ तमः॑ |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती} वि चर्म॑णीव धि॒षणे᳚, अवर्तयद् वैश्वान॒रो विश्व॑मधत्त॒ वृष्ण्य᳚म् ||{3/7}{6.8.3}{6.1.8.3}{4.5.10.3}{64, 449, 4432} वि¦अ॒स्त॒भ्ना॒त्¦रोद॑सी॒ इति॑¦मि॒त्रः¦अद्भु॑तः¦अ॒न्तः॒ऽवाव॑त्¦अ॒कृ॒णो॒त्¦ज्योति॑षा¦तमः॑ | |
अ॒पामु॒पस्थे᳚ महि॒षा, अ॑गृभ्णत॒ विशो॒ राजा᳚न॒मुप॑ तस्थुरृ॒ग्मिय᳚म् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती} आ दू॒तो, अ॒ग्निम॑भरद् वि॒वस्व॑तो वैश्वान॒रं मा᳚त॒रिश्वा᳚ परा॒वतः॑ ||{4/7}{6.8.4}{6.1.8.4}{4.5.10.4}{65, 449, 4433} अ॒पाम्¦उ॒पऽस्थे᳚¦म॒हि॒षाः¦अ॒गृ॒भ्ण॒त॒¦विशः॑¦राजा᳚नम्¦उप॑¦त॒स्थुः॒¦ऋ॒ग्मिय᳚म् | |
यु॒गेयु॑गे विद॒थ्यं᳚ गृ॒णद्भ्यो ऽग्ने᳚ र॒यिं य॒शसं᳚ धेहि॒ नव्य॑सीम् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती} प॒व्येव॑ राजन्न॒घशं᳚समजर नी॒चा नि वृ॑श्च व॒निनं॒ न तेज॑सा ||{5/7}{6.8.5}{6.1.8.5}{4.5.10.5}{66, 449, 4434} यु॒गेऽयु॑गे¦वि॒द॒थ्य᳚म्¦गृ॒णत्ऽभ्यः॑¦अग्ने᳚¦र॒यिम्¦य॒शस᳚म्¦धे॒हि॒¦नव्य॑सीम् | |
अ॒स्माक॑मग्ने म॒घव॑त्सु धार॒याऽना᳚मि क्ष॒त्रम॒जरं᳚ सु॒वीर्य᳚म् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती} व॒यं ज॑येम श॒तिनं᳚ सह॒स्रिणं॒ वैश्वा᳚नर॒ वाज॑मग्ने॒ तवो॒तिभिः॑ ||{6/7}{6.8.6}{6.1.8.6}{4.5.10.6}{67, 449, 4435} अ॒स्माक᳚म्¦अ॒ग्ने॒¦म॒घव॑त्ऽसु¦धा॒र॒य॒¦अना᳚मि¦क्ष॒त्रम्¦अ॒जर᳚म्¦सु॒ऽवीर्य᳚म् | |
अद॑ब्धेभि॒स्तव॑ गो॒पाभि॑रिष्टे॒ ऽस्माकं᳚ पाहि त्रिषधस्थ सू॒रीन् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} रक्षा᳚ च नो द॒दुषां॒ शर्धो᳚, अग्ने॒ वैश्वा᳚नर॒ प्र च॑ तारीः॒ स्तवा᳚नः ||{7/7}{6.8.7}{6.1.8.7}{4.5.10.7}{68, 449, 4436} अद॑ब्धेभिः¦तव॑¦गो॒पाभिः॑¦इ॒ष्टे॒¦अ॒स्माक᳚म्¦पा॒हि॒¦त्रि॒ऽस॒ध॒स्थ॒¦सू॒रीन् | |
[9] अहश्चकृष्णमिति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोवैश्वानरोग्निस्त्रिष्टुप् | |
अह॑श्च कृ॒ष्णमह॒रर्जु॑नं च॒ वि व॑र्तेते॒ रज॑सी वे॒द्याभिः॑ |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} वै॒श्वा॒न॒रो जाय॑मानो॒ न राजा ऽवा᳚तिर॒ज्ज्योति॑षा॒ग्निस्तमां᳚सि ||{1/7}{6.9.1}{6.1.9.1}{4.5.11.1}{69, 450, 4437} अहः॑¦च॒¦कृ॒ष्णम्¦अहः॑¦अर्जु॑नम्¦च॒¦वि¦व॒र्ते॒ते॒ इति॑¦रज॑सी॒ इति॑¦वे॒द्याभिः॑ | |
नाहं तन्तुं॒ न वि जा᳚ना॒म्योतुं॒ न यं वय᳚न्ति सम॒रेऽत॑मानाः |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} कस्य॑ स्वित् पु॒त्र इ॒ह वक्त्वा᳚नि प॒रो व॑दा॒त्यव॑रेण पि॒त्रा ||{2/7}{6.9.2}{6.1.9.2}{4.5.11.2}{70, 450, 4438} न¦अ॒हम्¦तन्तु᳚म्¦न¦वि¦जा॒ना॒मि॒¦ओतु᳚म्¦न¦यम्¦वय᳚न्ति¦स॒म्।आ॒रे¦अत॑मानाः | |
स इत् तन्तुं॒ स वि जा᳚ना॒त्योतुं॒ स वक्त्वा᳚न्यृतु॒था व॑दाति |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} य ईं॒ चिके᳚तद॒मृत॑स्य गो॒पा, अ॒वश्चर᳚न् प॒रो, अ॒न्येन॒ पश्य॑न् ||{3/7}{6.9.3}{6.1.9.3}{4.5.11.3}{71, 450, 4439} सः¦इत्¦तन्तु᳚म्¦सः¦वि¦जा॒ना॒ति॒¦ओतु᳚म्¦सः¦वक्त्वा᳚नि¦ऋ॒तु॒ऽथा¦व॒दा॒ति॒ | |
अ॒यं होता᳚ प्रथ॒मः पश्य॑ते॒ममि॒दं ज्योति॑र॒मृतं॒ मर्त्ये᳚षु |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} अ॒यं स ज॑ज्ञे ध्रु॒व आ निष॒त्तो ऽम॑र्त्यस्त॒न्वा॒३॑(आ॒) वर्ध॑मानः ||{4/7}{6.9.4}{6.1.9.4}{4.5.11.4}{72, 450, 4440} अ॒यम्¦होता᳚¦प्र॒थ॒मः¦पश्य॑त¦इ॒मम्¦इ॒दम्¦ज्योतिः॑¦अ॒मृत᳚म्¦मर्त्ये᳚षु | |
ध्रु॒वं ज्योति॒र्निहि॑तं दृ॒शये॒ कं मनो॒ जवि॑ष्ठं प॒तय॑त्स्व॒न्तः |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} विश्वे᳚ दे॒वाः सम॑नसः॒ सके᳚ता॒, एकं॒ क्रतु॑म॒भि वि य᳚न्ति सा॒धु ||{5/7}{6.9.5}{6.1.9.5}{4.5.11.5}{73, 450, 4441} ध्रु॒वम्¦ज्योतिः॑¦निऽहि॑तम्¦दृ॒शये᳚¦कम्¦मनः॑¦जवि॑ष्ठम्¦प॒तय॑त्ऽसु¦अ॒न्तरिति॑ | |
वि मे॒ कर्णा᳚ पतयतो॒ वि चक्षु॒र्वी॒३॑(ई॒)दं ज्योति॒र्हृद॑य॒ आहि॑तं॒ यत् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} वि मे॒ मन॑श्चरति दू॒रआ᳚धीः॒ किं स्वि॑द् व॒क्ष्यामि॒ किमु॒ नू म॑निष्ये ||{6/7}{6.9.6}{6.1.9.6}{4.5.11.6}{74, 450, 4442} वि¦मे॒¦कर्णा᳚¦प॒त॒य॒तः॒¦वि¦चक्षुः॑¦वि¦इ॒दम्¦ज्योतिः॑¦हृद॑ये¦आऽहि॑तम्¦यत् | |
विश्वे᳚ दे॒वा, अ॑नमस्यन् भिया॒नास्त्वाम॑ग्ने॒ तम॑सि तस्थि॒वांस᳚म् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} वै॒श्वा॒न॒रो᳚ऽवतू॒तये॒ नो ऽम॑र्त्योऽवतू॒तये᳚ नः ||{7/7}{6.9.7}{6.1.9.7}{4.5.11.7}{75, 450, 4443} विश्वे᳚¦दे॒वाः¦अ॒न॒म॒स्य॒न्¦भि॒या॒नाः¦त्वाम्¦अ॒ग्ने॒¦तम॑सि¦त॒स्थि॒ऽवांस᳚म् | |
[10] पुरोवइति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजग्निस्त्रिष्टुबंत्याद्विपदाविराट् | |
पु॒रो वो᳚ म॒न्द्रं दि॒व्यं सु॑वृ॒क्तिं प्र॑य॒ति य॒ज्ञे, अ॒ग्निम॑ध्व॒रे द॑धिध्वम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} पु॒र उ॒क्थेभिः॒ स हि नो᳚ वि॒भावा᳚ स्वध्व॒रा क॑रति जा॒तवे᳚दाः ||{1/7}{6.10.1}{6.1.10.1}{4.5.12.1}{76, 451, 4444} पु॒रः¦वः॒¦म॒न्द्रम्¦दि॒व्यम्¦सु॒ऽवृ॒क्तिम्¦प्र॒ऽय॒ति¦य॒ज्ञे¦अ॒ग्निम्¦अ॒ध्व॒रे¦द॒धि॒ध्व॒म् | |
तमु॑ द्युमः पुर्वणीक होत॒रग्ने᳚, अ॒ग्निभि॒र्मनु॑ष इधा॒नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} स्तोमं॒ यम॑स्मै म॒मते᳚व शू॒षं घृ॒तं न शुचि॑ म॒तयः॑ पवन्ते ||{2/7}{6.10.2}{6.1.10.2}{4.5.12.2}{77, 451, 4445} तम्¦ऊँ॒ इति॑¦द्यु॒ऽमः॒¦पु॒रु॒।आ॒नी॒क॒¦हो॒तः॒¦अग्ने᳚¦अ॒ग्निऽभिः॑¦मनु॑षः¦इ॒धा॒नः | |
पी॒पाय॒ स श्रव॑सा॒ मर्त्ये᳚षु॒ यो, अ॒ग्नये᳚ द॒दाश॒ विप्र॑ उ॒क्थैः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} चि॒त्राभि॒स्तमू॒तिभि॑श्चि॒त्रशो᳚चिर्व्र॒जस्य॑ सा॒ता गोम॑तो दधाति ||{3/7}{6.10.3}{6.1.10.3}{4.5.12.3}{78, 451, 4446} पी॒पाय॑¦सः¦श्रव॑सा¦मर्त्ये᳚षु¦यः¦अ॒ग्नये᳚¦द॒दाश॑¦विप्रः॑¦उ॒क्थैः | |
आ यः प॒प्रौ जाय॑मान उ॒र्वी दू᳚रे॒दृशा᳚ भा॒सा कृ॒ष्णाध्वा᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} अध॑ ब॒हु चि॒त् तम॒ ऊर्म्या᳚यास्ति॒रः शो॒चिषा᳚ ददृशे पाव॒कः ||{4/7}{6.10.4}{6.1.10.4}{4.5.12.4}{79, 451, 4447} आ¦यः¦प॒प्रौ¦जाय॑मानः¦उ॒र्वी इति॑¦दू॒रे॒ऽदृशा᳚¦भा॒सा¦कृ॒ष्ण।आ॑ध्वा | |
नू न॑श्चि॒त्रं पु॑रु॒वाजा᳚भिरू॒ती, अग्ने᳚ र॒यिं म॒घव॑द्भ्यश्च धेहि |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} ये राध॑सा॒ श्रव॑सा॒ चात्य॒न्यान् त्सु॒वीर्ये᳚भिश्चा॒भि सन्ति॒ जना॑न् ||{5/7}{6.10.5}{6.1.10.5}{4.5.12.5}{80, 451, 4448} नु¦नः॒¦चि॒त्रम्¦पु॒रु॒ऽवाजा᳚भिः¦ऊ॒ती¦अग्ने᳚¦र॒यिम्¦म॒घव॑त्ऽभ्यः¦च॒¦धे॒हि॒ | |
इ॒मं य॒ज्ञं चनो᳚ धा, अग्न उ॒शन् यं त॑ आसा॒नो जु॑हु॒ते ह॒विष्मा॑न् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} भ॒रद्वा᳚जेषु दधिषे सुवृ॒क्तिमवी॒र्वाज॑स्य॒ गध्य॑स्य सा॒तौ ||{6/7}{6.10.6}{6.1.10.6}{4.5.12.6}{81, 451, 4449} इ॒मम्¦य॒ज्ञम्¦चनः॑¦धाः॒¦अ॒ग्ने॒¦उ॒शन्¦यम्¦ते॒¦आ॒सा॒नः¦जु॒हु॒ते¦ह॒विष्मा॑न् | |
वि द्वेषां᳚सीनु॒हि व॒र्धयेळां॒ मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{बार्हस्पत्यो भरद्वाजः | अग्निः | द्विपदाविराट्}{7/7}{6.10.7}{6.1.10.7}{4.5.12.7}{82, 451, 4450} वि¦द्वेषां᳚सि¦इ॒नु॒हि¦व॒र्धय॑¦इळा᳚म्¦मदे᳚म¦श॒तऽहि॑माः¦सु॒ऽवीराः᳚ || |
[11] यजस्वहोतरिति षडृचस्य सूक्तस्यबार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् | |
यज॑स्व होतरिषि॒तो यजी᳚या॒नग्ने॒ बाधो᳚ म॒रुतां॒ न प्रयु॑क्ति |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} आ नो᳚ मि॒त्रावरु॑णा॒ नास॑त्या॒ द्यावा᳚ हो॒त्राय॑ पृथि॒वी व॑वृत्याः ||{1/6}{6.11.1}{6.1.11.1}{4.5.13.1}{83, 452, 4451} यज॑स्व¦हो॒तः॒¦इ॒षि॒तः¦यजी᳚यान्¦अग्ने᳚¦बाधः॑¦म॒रुता᳚म्¦न¦प्रऽयु॑क्ति | |
त्वं होता᳚ म॒न्द्रत॑मो नो, अ॒ध्रुग॒न्तर्दे॒वो वि॒दथा॒ मर्त्ये᳚षु |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} पा॒व॒कया᳚ जु॒ह्वा॒३॑(आ॒) वह्नि॑रा॒सा ऽग्ने॒ यज॑स्व त॒न्व१॑(अं॒) तव॒ स्वाम् ||{2/6}{6.11.2}{6.1.11.2}{4.5.13.2}{84, 452, 4452} त्वम्¦होता᳚¦म॒न्द्रऽत॑मः¦नः॒¦अ॒ध्रुक्¦अ॒न्तः¦दे॒वः¦वि॒दथा᳚¦मर्त्ये᳚षु | |
धन्या᳚ चि॒द्धि त्वे धि॒षणा॒ वष्टि॒ प्र दे॒वाञ्जन्म॑ गृण॒ते यज॑ध्यै |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} वेपि॑ष्ठो॒, अङ्गि॑रसां॒ यद्ध॒ विप्रो॒ मधु॑ च्छ॒न्दो भन॑ति रे॒भ इ॒ष्टौ ||{3/6}{6.11.3}{6.1.11.3}{4.5.13.3}{85, 452, 4453} धन्या᳚¦चि॒त्¦हि¦त्वे इति॑¦धि॒षणा᳚¦वष्टि॑¦प्र¦दे॒वान्¦जन्म॑¦गृ॒ण॒ते¦यज॑ध्यै | |
अदि॑द्युत॒त् स्वपा᳚को वि॒भावा ऽग्ने॒ यज॑स्व॒ रोद॑सी, उरू॒ची |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} आ॒युं न यं नम॑सा रा॒तह᳚व्या, अ॒ञ्जन्ति॑ सुप्र॒यसं॒ पञ्च॒ जनाः᳚ ||{4/6}{6.11.4}{6.1.11.4}{4.5.13.4}{86, 452, 4454} अदि॑द्युतत्¦सु¦अपा᳚कः¦वि॒ऽभावा᳚¦अग्ने᳚¦यज॑स्व¦रोद॑सी॒ इति॑¦उ॒रू॒ची इति॑ | |
वृ॒ञ्जे ह॒ यन्नम॑सा ब॒र्हिर॒ग्नावया᳚मि॒ स्रुग्घृ॒तव॑ती सुवृ॒क्तिः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} अम्य॑क्षि॒ सद्म॒ सद॑ने पृथि॒व्या, अश्रा᳚यि य॒ज्ञः सूर्ये॒ न चक्षुः॑ ||{5/6}{6.11.5}{6.1.11.5}{4.5.13.5}{87, 452, 4455} वृं॒जे¦ह॒¦यत्¦नम॑सा¦ब॒र्हिः¦अ॒ग्नौ¦अया᳚मि¦स्रुक्¦घृ॒तऽव॑ती¦सु॒ऽवृ॒क्तिः | |
द॒श॒स्या नः॑ पुर्वणीक होतर्दे॒वेभि॑रग्ने, अ॒ग्निभि॑रिधा॒नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} रा॒यः सू᳚नो सहसो वावसा॒ना, अति॑ स्रसेम वृ॒जनं॒ नांहः॑ ||{6/6}{6.11.6}{6.1.11.6}{4.5.13.6}{88, 452, 4456} द॒श॒स्य¦नः॒¦पु॒रु॒।आ॒णी॒क॒¦हो॒तः॒¦दे॒वेभिः॑¦अ॒ग्ने॒¦अ॒ग्निऽभिः॑¦इ॒धा॒नः | |
[12] मध्येहोतेति षडृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाजोऽग्निस्त्रिष्टुप् | |
मध्ये॒ होता᳚ दुरो॒णे ब॒र्हिषो॒ राळ॒ग्निस्तो॒दस्य॒ रोद॑सी॒ यज॑ध्यै |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} अ॒यं स सू॒नुः सह॑स ऋ॒तावा᳚ दू॒रात् सूर्यो॒ न शो॒चिषा᳚ ततान ||{1/6}{6.12.1}{6.1.12.1}{4.5.14.1}{89, 453, 4457} मध्ये᳚¦होता᳚¦दु॒रो॒णे¦ब॒र्हिषः॑¦राट्¦अ॒ग्निः¦तो॒दस्य॑¦रोद॑सी॒ इति॑¦यज॑ध्यै | |
आ यस्मि॒न् त्वे स्वपा᳚के यजत्र॒ यक्ष॑द् राजन् त्स॒र्वता᳚तेव॒ नु द्यौः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} त्रि॒ष॒धस्थ॑स्तत॒रुषो॒ न जंहो᳚ ह॒व्या म॒घानि॒ मानु॑षा॒ यज॑ध्यै ||{2/6}{6.12.2}{6.1.12.2}{4.5.14.2}{90, 453, 4458} आ¦यस्मि॑न्¦त्वे इति॑¦सु¦अपा᳚के¦य॒ज॒त्र॒¦यक्ष॑त्¦रा॒ज॒न्¦स॒र्वता᳚ताऽइव¦नु¦द्यौः | |
तेजि॑ष्ठा॒ यस्या᳚र॒तिर्व॑ने॒राट् तो॒दो, अध्व॒न् न वृ॑धसा॒नो, अ॑द्यौत् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} अ॒द्रो॒घो न द्र॑वि॒ता चे᳚तति॒ त्मन्नम॑र्त्योऽव॒र्त्र ओष॑धीषु ||{3/6}{6.12.3}{6.1.12.3}{4.5.14.3}{91, 453, 4459} तेजि॑ष्ठा¦यस्य॑¦अ॒र॒तिः¦व॒ने॒ऽराट्¦तो॒दः¦अध्व॑न्¦न¦वृ॒ध॒सा॒नः¦अ॒द्यौ॒त् | |
सास्माके᳚भिरे॒तरी॒ न शू॒षैर॒ग्निः ष्ट॑वे॒ दम॒ आ जा॒तवे᳚दाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} द्र्व᳚न्नो व॒न्वन् क्रत्वा॒ नार्वो॒स्रः पि॒तेव॑ जार॒यायि॑ य॒ज्ञैः ||{4/6}{6.12.4}{6.1.12.4}{4.5.14.4}{92, 453, 4460} सः¦अ॒स्माके᳚भिः¦ए॒तरि॑¦न¦शू॒षैः¦अ॒ग्निः¦स्त॒वे॒¦दमे᳚¦आ¦जा॒तऽवे᳚दाः | |
अध॑ स्मास्य पनयन्ति॒ भासो॒ वृथा॒ यत् तक्ष॑दनु॒याति॑ पृ॒थ्वीम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} स॒द्यो यः स्प॒न्द्रो विषि॑तो॒ धवी᳚यानृ॒णो न ता॒युरति॒ धन्वा᳚ राट् ||{5/6}{6.12.5}{6.1.12.5}{4.5.14.5}{93, 453, 4461} अध॑¦स्म॒¦अ॒स्य॒¦प॒न॒य॒न्ति॒¦भासः॑¦वृथा᳚¦यत्¦तक्ष॑त्¦अ॒नु॒ऽयाति॑¦पृ॒थ्वीम् | |
स त्वं नो᳚, अर्व॒न् निदा᳚या॒ विश्वे᳚भिरग्ने, अ॒ग्निभि॑रिधा॒नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} वेषि॑ रा॒यो वि या᳚सि दु॒च्छुना॒ मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{6/6}{6.12.6}{6.1.12.6}{4.5.14.6}{94, 453, 4462} सः¦त्वम्¦नः॒¦अ॒र्व॒न्¦निदा᳚याः¦विश्वे᳚भिः¦अ॒ग्ने॒¦अ॒ग्निऽभिः॑¦इ॒धा॒नः | |
[13] त्वद्विश्वेति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् | |
त्वद् विश्वा᳚ सुभग॒ सौभ॑गा॒न्यग्ने॒ वि य᳚न्ति व॒निनो॒ न व॒याः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} श्रु॒ष्टी र॒यिर्वाजो᳚ वृत्र॒तूर्ये᳚ दि॒वो वृ॒ष्टिरीड्यो᳚ री॒तिर॒पाम् ||{1/6}{6.13.1}{6.1.13.1}{4.5.15.1}{95, 454, 4463} त्वत्¦विश्वा᳚¦सु॒ऽभ॒ग॒¦सौभ॑गानि¦अग्ने᳚¦वि¦य॒न्ति॒¦व॒निनः॑¦न¦व॒याः | |
त्वं भगो᳚ न॒ आ हि रत्न॑मि॒षे परि॑ज्मेव क्षयसि द॒स्मव॑र्चाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} अग्ने᳚ मि॒त्रो न बृ॑ह॒त ऋ॒तस्याऽसि॑ क्ष॒त्ता वा॒मस्य॑ देव॒ भूरेः᳚ ||{2/6}{6.13.2}{6.1.13.2}{4.5.15.2}{96, 454, 4464} त्वम्¦भगः॑¦नः॒¦आ¦हि¦रत्न᳚म्¦इ॒षे¦परि॑ज्माऽइव¦क्ष॒य॒सि॒¦द॒स्मऽव॑र्चाः | |
स सत्प॑तिः॒ शव॑सा हन्ति वृ॒त्रमग्ने॒ विप्रो॒ वि प॒णेर्भ॑र्ति॒ वाज᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} यं त्वं प्र॑चेत ऋतजात रा॒या स॒जोषा॒ नप्त्रा॒पां हि॒नोषि॑ ||{3/6}{6.13.3}{6.1.13.3}{4.5.15.3}{97, 454, 4465} सः¦सत्ऽप॑तिः¦शव॑सा¦ह॒न्ति॒¦वृ॒त्रम्¦अग्ने᳚¦विप्रः॑¦वि¦प॒णेः¦भ॒र्ति॒¦वाज᳚म् | |
यस्ते᳚ सूनो सहसो गी॒र्भिरु॒क्थैर्य॒ज्ञैर्मर्तो॒ निशि॑तिं वे॒द्यान॑ट् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} विश्वं॒ स दे᳚व॒ प्रति॒ वार॑मग्ने ध॒त्ते धा॒न्य१॑(अं॒) पत्य॑ते वस॒व्यैः᳚ ||{4/6}{6.13.4}{6.1.13.4}{4.5.15.4}{98, 454, 4466} यः¦ते॒¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦गीः॒ऽभिः¦उ॒क्थैः¦य॒ज्ञैः¦मर्तः॑¦निऽशि॑तिम्¦वे॒द्या¦आन॑ट् | |
ता नृभ्य॒ आ सौ᳚श्रव॒सा सु॒वीरा ऽग्ने᳚ सूनो सहसः पु॒ष्यसे᳚ धाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} कृ॒णोषि॒ यच्छव॑सा॒ भूरि॑ प॒श्वो वयो॒ वृका᳚या॒रये॒ जसु॑रये ||{5/6}{6.13.5}{6.1.13.5}{4.5.15.5}{99, 454, 4467} ता¦नृऽभ्यः॑¦आ¦सौ॒श्र॒व॒सा¦सु॒ऽवीरा᳚¦अग्ने᳚¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦पु॒ष्यसे᳚¦धाः॒ | |
व॒द्मा सू᳚नो सहसो नो॒ विहा᳚या॒, अग्ने᳚ तो॒कं तन॑यं वा॒जि नो᳚ दाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} विश्वा᳚भिर्गी॒र्भिर॒भि पू॒र्तिम॑श्यां॒ मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{6/6}{6.13.6}{6.1.13.6}{4.5.15.6}{100, 454, 4468} व॒द्मा¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦नः॒¦विऽहा᳚याः¦अग्ने᳚¦तो॒कम्¦तन॑यम्¦वा॒जि¦नः॒¦दाः॒ | |
[14] अग्नायइति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निरनुष्टुबन्त्याशक्वरी | |
अ॒ग्ना यो मर्त्यो॒ दुवो॒ धियं᳚ जु॒जोष॑ धी॒तिभिः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} भस॒न्नु ष प्र पू॒र्व्य इषं᳚ वुरी॒ताव॑से ||{1/6}{6.14.1}{6.1.14.1}{4.5.16.1}{101, 455, 4469} अ॒ग्ना¦यः¦मर्त्यः॑¦दुवः॑¦धिय᳚म्¦जु॒जोष॑¦धी॒तिऽभिः॑ | भस॑त्¦नु¦सः¦प्र¦पू॒र्व्यः¦इष᳚म्¦वु॒री॒त॒¦अव॑से || |
अ॒ग्निरिद्धि प्रचे᳚ता, अ॒ग्निर्वे॒धस्त॑म॒ ऋषिः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} अ॒ग्निं होता᳚रमीळते य॒ज्ञेषु॒ मनु॑षो॒ विशः॑ ||{2/6}{6.14.2}{6.1.14.2}{4.5.16.2}{102, 455, 4470} अ॒ग्निः¦इत्¦हि¦प्रऽचे᳚ताः¦अ॒ग्निः¦वे॒धःऽत॑मः¦ऋषिः॑ | अ॒ग्निम्¦होता᳚रम्¦ई॒ळ॒ते॒¦य॒ज्ञेषु॑¦मनु॑षः¦विशः॑ || |
नाना॒ ह्य१॑(अ॒)ग्नेऽव॑से॒ स्पर्ध᳚न्ते॒ रायो᳚, अ॒र्यः |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} तूर्व᳚न्तो॒ दस्यु॑मा॒यवो᳚ व्र॒तैः सीक्ष᳚न्तो, अव्र॒तम् ||{3/6}{6.14.3}{6.1.14.3}{4.5.16.3}{103, 455, 4471} नाना᳚¦हि¦अ॒ग्ने॒¦अव॑से¦स्पर्ध᳚न्ते¦रायः॑¦अ॒र्यः | तूर्व᳚न्तः¦दस्यु᳚म्¦आ॒यवः॑¦व्र॒तैः¦सीक्ष᳚न्तः¦अ॒व्र॒तम् || |
अ॒ग्निर॒प्सामृ॑ती॒षहं᳚ वी॒रं द॑दाति॒ सत्प॑तिम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} यस्य॒ त्रस᳚न्ति॒ शव॑सः सं॒चक्षि॒ शत्र॑वो भि॒या ||{4/6}{6.14.4}{6.1.14.4}{4.5.16.4}{104, 455, 4472} अ॒ग्निः¦अ॒प्साम्¦ऋ॒ति॒ऽसह᳚म्¦वी॒रम्¦द॒दा॒ति॒¦सत्ऽप॑तिम् | यस्य॑¦त्रस᳚न्ति¦शव॑सः¦स॒म्ऽचक्षि॑¦शत्र॑वः¦भि॒या || |
अ॒ग्निर्हि वि॒द्मना᳚ नि॒दो दे॒वो मर्त॑मुरु॒ष्यति॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} स॒हावा॒ यस्यावृ॑तो र॒यिर्वाजे॒ष्ववृ॑तः ||{5/6}{6.14.5}{6.1.14.5}{4.5.16.5}{105, 455, 4473} अ॒ग्निः¦हि¦वि॒द्मना᳚¦नि॒दः¦दे॒वः¦मर्त᳚म्¦उ॒रु॒ष्यति॑ | स॒हऽवा᳚¦यस्य॑¦अवृ॑तः¦र॒यिः¦वाजे᳚षु¦अवृ॑तः || |
अच्छा᳚ नो मित्रमहो देव दे॒वानग्ने॒ वोचः॑ सुम॒तिं रोद॑स्योः |{बार्हस्पत्यो भरद्वाजः | अग्निः | शक्वरी} वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄन् द्वि॒षो, अंहां᳚सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ||{6/6}{6.14.6}{6.1.14.6}{4.5.16.6}{106, 455, 4474} अच्छ॑¦नः॒¦मि॒त्र॒ऽम॒हः॒¦दे॒व॒¦दे॒वान्¦अग्ने᳚¦वोचः॑¦सु॒ऽम॒तिम्¦रोद॑स्योः | |
[15] इममूष्वित्येकोनविंशत्यृचस्य सूक्तस्यांगिरसोवीतहव्यो (भरद्वाजोवा) ग्निर्जगती तृतीयापंचदृश्यौशक्वर्यौ षष्ट्यतिशक्वरी सप्तदश्यनुष्टुप् अष्टादशीबृहती दशम्याद्याः पंचषोडश्येकोनविंशीचत्रिष्टुभः | |
इ॒ममू॒ षु वो॒, अति॑थिमुष॒र्बुधं॒ विश्वा᳚सां वि॒शां पति॑मृञ्जसे गि॒रा |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती} वेतीद् दि॒वो ज॒नुषा॒ कच्चि॒दा शुचि॒र्ज्योक् चि॑दत्ति॒ गर्भो॒ यदच्यु॑तम् ||{1/19}{6.15.1}{6.1.15.1}{4.5.17.1}{107, 456, 4475} इ॒मम्¦ऊँ॒ इति॑¦सु¦वः॒¦अति॑थिम्¦उ॒षः॒ऽबुध᳚म्¦विश्वा᳚साम्¦वि॒शाम्¦पति᳚म्¦ऋं॒ज॒से॒¦गि॒रा | |
मि॒त्रं न यं सुधि॑तं॒ भृग॑वो द॒धुर्वन॒स्पता॒वीड्य॑मू॒र्ध्वशो᳚चिषम् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती} स त्वं सुप्री᳚तो वी॒तह᳚व्ये, अद्भुत॒ प्रश॑स्तिभिर्महयसे दि॒वेदि॑वे ||{2/19}{6.15.2}{6.1.15.2}{4.5.17.2}{108, 456, 4476} मि॒त्रम्¦न¦यम्¦सुऽधि॑तम्¦भृग॑वः¦द॒धुः¦वन॒स्पतौ᳚¦ईड्य᳚म्¦ऊ॒र्ध्वऽशो᳚चिषम् | |
स त्वं दक्ष॑स्यावृ॒को वृ॒धो भू᳚र॒र्यः पर॒स्यान्त॑रस्य॒ तरु॑षः |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | शक्वरी} रा॒यः सू᳚नो सहसो॒ मर्त्ये॒ष्वा छ॒र्दिर्य॑च्छ वी॒तह᳚व्याय स॒प्रथो᳚ भ॒रद्वा᳚जाय स॒प्रथः॑ ||{3/19}{6.15.3}{6.1.15.3}{4.5.17.3}{109, 456, 4477} सः¦त्वम्¦दक्ष॑स्य¦अ॒वृ॒कः¦वृ॒धः¦भूः॒¦अ॒र्यः¦पर॑स्य¦अन्त॑रस्य¦तरु॑षः | |
द्यु॒ता॒नं वो॒, अति॑थिं॒ स्व᳚र्णरम॒ग्निं होता᳚रं॒ मनु॑षः स्वध्व॒रम् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती} विप्रं॒ न द्यु॒क्षव॑चसं सुवृ॒क्तिभि᳚र्हव्य॒वाह॑मर॒तिं दे॒वमृ᳚ञ्जसे ||{4/19}{6.15.4}{6.1.15.4}{4.5.17.4}{110, 456, 4478} द्यु॒ता॒नम्¦वः॒¦अति॑थिम्¦स्वः॑ऽनरम्¦अ॒ग्निम्¦होता᳚रम्¦मनु॑षः¦सु॒।आ॒ध्व॒रम् | |
पा॒व॒कया॒ यश्चि॒तय᳚न्त्या कृ॒पा क्षाम᳚न् रुरु॒च उ॒षसो॒ न भा॒नुना᳚ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती} तूर्व॒न् न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे न त॑तृषा॒णो, अ॒जरः॑ ||{5/19}{6.15.5}{6.1.15.5}{4.5.17.5}{111, 456, 4479} पा॒व॒कया᳚¦यः¦चि॒तय᳚न्त्या¦कृ॒पा¦क्षाम॑न्¦रु॒रु॒चे¦उ॒षसः॑¦न¦भा॒नुना᳚ | |
अ॒ग्निम॑ग्निं वः स॒मिधा᳚ दुवस्यत प्रि॒यम्प्रि॑यं वो॒, अति॑थिं गृणी॒षणि॑ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | अतिशक्वरी} उप॑ वो गी॒र्भिर॒मृतं᳚ विवासत दे॒वो दे॒वेषु॒ वन॑ते॒ हि वार्यं᳚ दे॒वो दे॒वेषु॒ वन॑ते॒ हि नो॒ दुवः॑ ||{6/19}{6.15.6}{6.1.15.6}{4.5.18.1}{112, 456, 4480} अ॒ग्निम्।आ॑ग्निम्¦वः॒¦स॒म्ऽइधा᳚¦दु॒व॒स्य॒त॒¦प्रि॒यम्ऽप्रि॑यम्¦वः॒¦अति॑थिम्¦गृ॒णी॒षणि॑ | |
समि॑द्धम॒ग्निं स॒मिधा᳚ गि॒रा गृ॑णे॒ शुचिं᳚ पाव॒कं पु॒रो, अ॑ध्व॒रे ध्रु॒वम् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती} विप्रं॒ होता᳚रं पुरु॒वार॑म॒द्रुहं᳚ क॒विं सु॒म्नैरी᳚महे जा॒तवे᳚दसम् ||{7/19}{6.15.7}{6.1.15.7}{4.5.18.2}{113, 456, 4481} सम्ऽइ᳚द्धम्¦अ॒ग्निम्¦स॒म्ऽइधा᳚¦गि॒रा¦गृ॒णे॒¦शुचि᳚म्¦पा॒व॒कम्¦पु॒रः¦अ॒ध्व॒रे¦ध्रु॒वम् | |
त्वां दू॒तम॑ग्ने, अ॒मृतं᳚ यु॒गेयु॑गे हव्य॒वाहं᳚ दधिरे पा॒युमीड्य᳚म् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती} दे॒वास॑श्च॒ मर्ता᳚सश्च॒ जागृ॑विं वि॒भुं वि॒श्पतिं॒ नम॑सा॒ नि षे᳚दिरे ||{8/19}{6.15.8}{6.1.15.8}{4.5.18.3}{114, 456, 4482} त्वाम्¦दू॒तम्¦अ॒ग्ने॒¦अ॒मृत᳚म्¦यु॒गेऽयु॑गे¦ह॒व्य॒ऽवाह᳚म्¦द॒धि॒रे॒¦पा॒युम्¦ईड्य᳚म् | |
वि॒भूष᳚न्नग्न उ॒भयाँ॒, अनु᳚ व्र॒ता दू॒तो दे॒वानां॒ रज॑सी॒ समी᳚यसे |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती} यत् ते᳚ धी॒तिं सु॑म॒तिमा᳚वृणी॒महे ऽध॑ स्मा नस्त्रि॒वरू᳚थः शि॒वो भ॑व ||{9/19}{6.15.9}{6.1.15.9}{4.5.18.4}{115, 456, 4483} वि॒ऽभूष॑न्¦अ॒ग्ने॒¦उ॒भया॒न्¦अनु॑¦व्र॒ता¦दू॒तः¦दे॒वाना᳚म्¦रज॑सी॒ इति॑¦सम्¦ई॒य॒से॒ | |
तं सु॒प्रती᳚कं सु॒दृशं॒ स्वञ्च॒मवि॑द्वांसो वि॒दुष्ट॑रं सपेम |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्} स य॑क्ष॒द् विश्वा᳚ व॒युना᳚नि वि॒द्वान् प्र ह॒व्यम॒ग्निर॒मृते᳚षु वोचत् ||{10/19}{6.15.10}{6.1.15.10}{4.5.18.5}{116, 456, 4484} तम्¦सु॒ऽप्रती᳚कम्¦सु॒ऽदृश᳚म्¦सु॒।आंच᳚म्¦अवि॑द्वांसः¦वि॒दुःऽत॑रम्¦स॒पे॒म॒ | |
तम॑ग्ने पास्यु॒त तं पि॑पर्षि॒ यस्त॒ आन॑ट् क॒वये᳚ शूर धी॒तिम् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्} य॒ज्ञस्य॑ वा॒ निशि॑तिं॒ वोदि॑तिं वा॒ तमित् पृ॑णक्षि॒ शव॑सो॒त रा॒या ||{11/19}{6.15.11}{6.1.15.11}{4.5.19.1}{117, 456, 4485} तम्¦अ॒ग्ने॒¦पा॒सि॒¦उ॒त¦तम्¦पि॒प॒र्षि॒¦यः¦ते॒¦आन॑ट्¦क॒वये᳚¦शू॒र॒¦धी॒तिम् | |
त्वम॑ग्ने वनुष्य॒तो नि पा᳚हि॒ त्वमु॑ नः सहसावन्नव॒द्यात् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्} सं त्वा᳚ ध्वस्म॒न्वद॒भ्ये᳚तु॒ पाथः॒ सं र॒यिः स्पृ॑ह॒याय्यः॑ सह॒स्री ||{12/19}{6.15.12}{6.1.15.12}{4.5.19.2}{118, 456, 4486} त्वम्¦अ॒ग्ने॒¦व॒नु॒ष्य॒तः¦नि¦पा॒हि॒¦त्वम्¦ऊँ॒ इति॑¦नः॒¦स॒ह॒सा॒ऽव॒न्¦अ॒व॒द्यात् | |
अ॒ग्निर्होता᳚ गृ॒हप॑तिः॒ स राजा॒ विश्वा᳚ वेद॒ जनि॑मा जा॒तवे᳚दाः |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्} दे॒वाना᳚मु॒त यो मर्त्या᳚नां॒ यजि॑ष्ठः॒ स प्र य॑जतामृ॒तावा᳚ ||{13/19}{6.15.13}{6.1.15.13}{4.5.19.3}{119, 456, 4487} अ॒ग्निः¦होता᳚¦गृ॒हऽप॑तिः¦सः¦राजा᳚¦विश्वा᳚¦वे॒द॒¦जनि॑म¦जा॒तऽवे᳚दाः | |
अग्ने॒ यद॒द्य वि॒शो, अ॑ध्वरस्य होतः॒ पाव॑कशोचे॒ वेष्ट्वं हि यज्वा᳚ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्} ऋ॒ता य॑जासि महि॒ना वि यद् भूर्ह॒व्या व॑ह यविष्ठ॒ या ते᳚, अ॒द्य ||{14/19}{6.15.14}{6.1.15.14}{4.5.19.4}{120, 456, 4488} अग्ने᳚¦यत्¦अ॒द्य¦वि॒शः¦अ॒ध्व॒र॒स्य॒¦हो॒त॒रिति॑¦पाव॑कऽशोचे¦वेः¦त्वम्¦हि¦यज्वा᳚ | |
अ॒भि प्रयां᳚सि॒ सुधि॑तानि॒ हि ख्यो नि त्वा᳚ दधीत॒ रोद॑सी॒ यज॑ध्यै |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | शक्वरी} अवा᳚ नो मघव॒न् वाज॑साता॒वग्ने॒ विश्वा᳚नि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ||{15/19}{6.15.15}{6.1.15.15}{4.5.19.5}{121, 456, 4489} अ॒भि¦प्रयां᳚सि¦सुऽधि॑तानि¦हि¦ख्यः¦नि¦त्वा॒¦द॒धी॒त॒¦रोद॑सी॒ इति॑¦यज॑ध्यै | |
अग्ने॒ विश्वे᳚भिः स्वनीक दे॒वैरूर्णा᳚वन्तं प्रथ॒मः सी᳚द॒ योनि᳚म् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्} कु॒ला॒यिनं᳚ घृ॒तव᳚न्तं सवि॒त्रे य॒ज्ञं न॑य॒ यज॑मानाय सा॒धु ||{16/19}{6.15.16}{6.1.15.16}{4.5.20.1}{122, 456, 4490} अग्ने᳚¦विश्वे᳚भिः¦सु॒।आ॒नी॒क॒¦दे॒वैः¦ऊर्णा᳚ऽवन्तम्¦प्र॒थ॒मः¦सी॒द॒¦योनि᳚म् | |
इ॒ममु॒ त्यम॑थर्व॒वद॒ग्निं म᳚न्थन्ति वे॒धसः॑ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | अनुष्टुप्} यम᳚ङ्कू॒यन्त॒मान॑य॒न्नमू᳚रं श्या॒व्या᳚भ्यः ||{17/19}{6.15.17}{6.1.15.17}{4.5.20.2}{123, 456, 4491} इ॒मम्¦ऊँ॒ इति॑¦त्यम्¦अ॒थ॒र्व॒ऽवत्¦अ॒ग्निम्¦म॒न्थ॒न्ति॒¦वे॒धसः॑ | यम्¦अ॒ङ्कु॒ऽयन्त᳚म्¦आ¦अन॑यन्¦अमू᳚रम्¦श्या॒व्या᳚भ्यः || |
जनि॑ष्वा दे॒ववी᳚तये स॒र्वता᳚ता स्व॒स्तये᳚ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | बृहती} आ दे॒वान् व॑क्ष्य॒मृताँ᳚, ऋता॒वृधो᳚ य॒ज्ञं दे॒वेषु॑ पिस्पृशः ||{18/19}{6.15.18}{6.1.15.18}{4.5.20.3}{124, 456, 4492} जनि॑ष्व¦दे॒वऽवी᳚तये¦स॒र्वऽता᳚ता¦स्व॒स्तये᳚ | |
व॒यमु॑ त्वा गृहपते जनाना॒मग्ने॒, अक᳚र्म स॒मिधा᳚ बृ॒हन्त᳚म् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्} अ॒स्थू॒रि नो॒ गार्ह॑पत्यानि सन्तु ति॒ग्मेन॑ न॒स्तेज॑सा॒ सं शि॑शाधि ||{19/19}{6.15.19}{6.1.15.19}{4.5.20.4}{125, 456, 4493} व॒यम्¦ऊँ॒ इति॑¦त्वा॒¦गृ॒ह॒ऽप॒ते॒¦ज॒ना॒ना॒म्¦अग्ने᳚¦अक᳚र्म¦स॒म्ऽइधा᳚¦बृ॒हन्त᳚म् | |
[16] त्वमग्नेयज्ञानामित्यष्टाचत्वारिंशदृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोग्निर्गायत्री आद्याषष्ठ्यौवर्धमाने सप्तविंश्यनुष्टुप् षट्चत्वारिंशीत्रिष्टुप् अंत्येद्वेअनुष्टुभौ | |
त्वम॑ग्ने य॒ज्ञानां॒ होता॒ विश्वे᳚षां हि॒तः |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री} दे॒वेभि॒र्मानु॑षे॒ जने᳚ ||{1/48}{6.16.1}{6.2.1.1}{4.5.21.1}{126, 457, 4494} त्वम्¦अ॒ग्ने॒¦य॒ज्ञाना᳚म्¦होता᳚¦विश्वे᳚षाम्¦हि॒तः | दे॒वेभिः॑¦मानु॑षे¦जने᳚ || |
स नो᳚ म॒न्द्राभि॑रध्व॒रे जि॒ह्वाभि᳚र्यजा म॒हः |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री} आ दे॒वान् व॑क्षि॒ यक्षि॑ च ||{2/48}{6.16.2}{6.2.1.2}{4.5.21.2}{127, 457, 4495} सः¦नः॒¦म॒न्द्राभिः॑¦अ॒ध्व॒रे¦जि॒ह्वाभिः॑¦य॒ज॒¦म॒हः | आ¦दे॒वान्¦व॒क्षि॒¦यक्षि॑¦च॒ || |
वेत्था॒ हि वे᳚धो॒, अध्व॑नः प॒थश्च॑ दे॒वाञ्ज॑सा |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री} अग्ने᳚ य॒ज्ञेषु॑ सुक्रतो ||{3/48}{6.16.3}{6.2.1.3}{4.5.21.3}{128, 457, 4496} वेत्थ॑¦हि¦वे॒धः॒¦अध्व॑नः¦प॒थः¦चे॒¦दे॒व॒¦अंज॑सा | अग्ने᳚¦य॒ज्ञेषु॑¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो || |
त्वामी᳚ळे॒, अध॑ द्वि॒ता भ॑र॒तो वा॒जिभिः॑ शु॒नम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री} ई॒जे य॒ज्ञेषु॑ य॒ज्ञिय᳚म् ||{4/48}{6.16.4}{6.2.1.4}{4.5.21.4}{129, 457, 4497} त्वाम्¦ई॒ळे॒¦अध॑¦द्वि॒ता¦भ॒र॒तः¦वा॒जिऽभिः॑¦शु॒नम् | ई॒जे¦य॒ज्ञेषु॑¦य॒ज्ञिय᳚म् || |
त्वमि॒मा वार्या᳚ पु॒रु दिवो᳚दासाय सुन्व॒ते |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री} भ॒रद्वा᳚जाय दा॒शुषे᳚ ||{5/48}{6.16.5}{6.2.1.5}{4.5.21.5}{130, 457, 4498} त्वम्¦इ॒मा¦वार्या᳚¦पु॒रु¦दिवः॑ऽदासाय¦सु॒न्व॒ते | भ॒रत्ऽवा᳚जाय¦दा॒शुषे᳚ || |
त्वं दू॒तो, अम॑र्त्य॒ आ व॑हा॒ दैव्यं॒ जन᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री} शृ॒ण्वन् विप्र॑स्य सुष्टु॒तिम् ||{6/48}{6.16.6}{6.2.1.6}{4.5.22.1}{131, 457, 4499} त्वम्¦दू॒तः¦अम॑र्त्यः¦आ¦व॒ह॒¦दैव्य᳚म्¦जन᳚म् | शृ॒ण्वन्¦विप्र॑स्य¦सु॒ऽस्तु॒तिम् || |
त्वाम॑ग्ने स्वा॒ध्यो॒३॑(ओ॒) मर्ता᳚सो दे॒ववी᳚तये |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} य॒ज्ञेषु॑ दे॒वमी᳚ळते ||{7/48}{6.16.7}{6.2.1.7}{4.5.22.2}{132, 457, 4500} त्वाम्¦अ॒ग्ने॒¦सु॒ऽआ॒ध्यः॑¦मर्ता᳚सः¦दे॒वऽवी᳚तये | य॒ज्ञेषु॑¦दे॒वम्¦ई॒ळ॒ते॒ || |
तव॒ प्र य॑क्षि सं॒दृश॑मु॒त क्रतुं᳚ सु॒दान॑वः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} विश्वे᳚ जुषन्त का॒मिनः॑ ||{8/48}{6.16.8}{6.2.1.8}{4.5.22.3}{133, 457, 4501} तव॑¦प्र¦य॒क्षि॒¦स॒म्ऽदृश᳚म्¦उ॒त¦क्रतु᳚म्¦सु॒ऽदान॑वः | विश्वे᳚¦जु॒ष॒न्त॒¦का॒मिनः॑ || |
त्वं होता॒ मनु᳚र्हितो॒ वह्नि॑रा॒सा वि॒दुष्ट॑रः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अग्ने॒ यक्षि॑ दि॒वो विशः॑ ||{9/48}{6.16.9}{6.2.1.9}{4.5.22.4}{134, 457, 4502} त्वम्¦होता᳚¦मनुः॑ऽहितः¦वह्निः॑¦आ॒सा¦वि॒दुःऽत॑रः | अग्ने᳚¦यक्षि॑¦दि॒वः¦विशः॑ || |
अग्न॒ आ या᳚हि वी॒तये᳚ गृणा॒नो ह॒व्यदा᳚तये |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} नि होता᳚ सत्सि ब॒र्हिषि॑ ||{10/48}{6.16.10}{6.2.1.10}{4.5.22.5}{135, 457, 4503} अग्ने᳚¦आ¦या॒हि॒¦वी॒तये᳚¦गृ॒णा॒नः¦ह॒व्यऽदा᳚तये | नि¦होता᳚¦स॒त्सि॒¦ब॒र्हिषि॑ || |
तं त्वा᳚ स॒मिद्भि॑रङ्गिरो घृ॒तेन॑ वर्धयामसि |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} बृ॒हच्छो᳚चा यविष्ठ्य ||{11/48}{6.16.11}{6.2.1.11}{4.5.23.1}{136, 457, 4504} तम्¦त्वा॒¦स॒मित्ऽभिः॑¦अ॒ङ्गि॒रः॒¦घृ॒तेन॑¦व॒र्ध॒या॒म॒सि॒ | बृ॒हत्¦शो॒च॒¦य॒वि॒ष्ठ्य॒ || |
स नः॑ पृ॒थु श्र॒वाय्य॒मच्छा᳚ देव विवाससि |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} बृ॒हद॑ग्ने सु॒वीर्य᳚म् ||{12/48}{6.16.12}{6.2.1.12}{4.5.23.2}{137, 457, 4505} सः¦नः॒¦पृ॒थु¦श्र॒वाय्य᳚म्¦अच्छ॑¦दे॒व॒¦वि॒वा॒स॒सि॒ | बृ॒हत्¦अ॒ग्ने॒¦सु॒ऽवीर्य᳚म् || |
त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ᳚र्वा॒ निर॑मन्थत |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ||{13/48}{6.16.13}{6.2.1.13}{4.5.23.3}{138, 457, 4506} त्वाम्¦अ॒ग्ने॒¦पुष्क॑रात्¦अधि॑¦अथ᳚र्वा¦निः¦अ॒म॒न्थ॒त॒ | मू॒र्ध्नः¦विश्व॑स्य¦वा॒घतः॑ || |
तमु॑ त्वा द॒ध्यङ्ङृषिः॑ पु॒त्र ई᳚धे॒, अथ᳚र्वणः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} वृ॒त्र॒हणं᳚ पुरंद॒रम् ||{14/48}{6.16.14}{6.2.1.14}{4.5.23.4}{139, 457, 4507} तम्¦ऊँ॒ इति॑¦त्वा॒¦द॒ध्यङ्¦ऋषिः॑¦पु॒त्रः¦ई॒धे॒¦अथ᳚र्वणः | वृ॒त्र॒ऽहन᳚म्¦पु॒र॒म्ऽद॒रम् || |
तमु॑ त्वा पा॒थ्यो वृषा॒ समी᳚धे दस्यु॒हन्त॑मम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} ध॒नं॒ज॒यं रणे᳚रणे ||{15/48}{6.16.15}{6.2.1.15}{4.5.23.5}{140, 457, 4508} तम्¦ऊँ॒ इति॑¦त्वा॒¦पा॒थ्यः¦वृषा᳚¦सम्¦ई॒धे॒¦द॒स्यु॒हन्ऽत॑मम् | ध॒न॒म्ऽज॒यम्¦रणे᳚ऽरणे || |
एह्यू॒ षु ब्रवा᳚णि॒ ते ऽग्न॑ इ॒त्थेत॑रा॒ गिरः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} ए॒भिर्व॑र्धास॒ इन्दु॑भिः ||{16/48}{6.16.16}{6.2.1.16}{4.5.24.1}{141, 457, 4509} आ¦इ॒हि॒¦ऊँ॒ इति॑¦सु¦ब्रवा᳚णि¦ते॒¦अग्ने᳚¦इ॒त्था¦इत॑राः¦गिरः॑ | ए॒भिः¦व॒र्धा॒से॒¦इन्दु॑ऽभिः || |
यत्र॒ क्व॑ च ते॒ मनो॒ दक्षं᳚ दधस॒ उत्त॑रम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} तत्रा॒ सदः॑ कृणवसे ||{17/48}{6.16.17}{6.2.1.17}{4.5.24.2}{142, 457, 4510} यत्र॑¦क्व॑¦च॒¦ते॒¦मनः॑¦दक्ष᳚म्¦द॒ध॒से॒¦उत्ऽत॑रम् | तत्र॑¦सदः॑¦कृ॒ण॒व॒से॒ || |
न॒हि ते᳚ पू॒र्तम॑क्षि॒पद् भुव᳚न्नेमानां वसो |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अथा॒ दुवो᳚ वनवसे ||{18/48}{6.16.18}{6.2.1.18}{4.5.24.3}{143, 457, 4511} न॒हि¦ते॒¦पू॒रम्¦अ॒क्षि॒ऽपत्¦भुव॑त्¦ने॒मा॒ना॒म्¦व॒सो॒ इति॑ | अथ॑¦दुवः॑¦व॒न॒व॒से॒ || |
आग्निर॑गामि॒ भार॑तो वृत्र॒हा पु॑रु॒चेत॑नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} दिवो᳚दासस्य॒ सत्प॑तिः ||{19/48}{6.16.19}{6.2.1.19}{4.5.24.4}{144, 457, 4512} आ¦अ॒ग्निः¦अ॒गा॒मि॒¦भार॑तः¦वृ॒त्र॒ऽहा¦पु॒रु॒ऽचेत॑नः | दिवः॑ऽदासस्य¦सत्ऽप॑तिः || |
स हि विश्वाति॒ पार्थि॑वा र॒यिं दाश᳚न्महित्व॒ना |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} व॒न्वन्नवा᳚तो॒, अस्तृ॑तः ||{20/48}{6.16.20}{6.2.1.20}{4.5.24.5}{145, 457, 4513} सः¦हि¦विश्वा᳚¦अति॑¦पार्थि॑वा¦र॒यिम्¦दाश॑त्¦म॒हि॒ऽत्व॒ना | व॒न्वन्¦अवा᳚तः¦अस्तृ॑तः || |
स प्र॑त्न॒वन्नवी᳚य॒सा ऽग्ने᳚ द्यु॒म्नेन॑ सं॒यता᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} बृ॒हत् त॑तन्थ भा॒नुना᳚ ||{21/48}{6.16.21}{6.2.1.21}{4.5.25.1}{146, 457, 4514} सः¦प्र॒त्न॒ऽवत्¦नवी᳚यसा¦अग्ने᳚¦द्यु॒म्नेन॑¦स॒म्ऽयता᳚ | बृ॒हत्¦त॒त॒न्थ॒¦भा॒नुना᳚ || |
प्र वः॑ सखायो, अ॒ग्नये॒ स्तोमं᳚ य॒ज्ञं च॑ धृष्णु॒या |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अर्च॒ गाय॑ च वे॒धसे᳚ ||{22/48}{6.16.22}{6.2.1.22}{4.5.25.2}{147, 457, 4515} प्र¦वः॒¦स॒खा॒यः॒¦अ॒ग्नये᳚¦स्तोम᳚म्¦य॒ज्ञम्¦च॒¦धृ॒ष्णु॒ऽया | अर्च॑¦गाय॑¦च॒¦वे॒धसे᳚ || |
स हि यो मानु॑षा यु॒गा सीद॒द्धोता᳚ क॒विक्र॑तुः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} दू॒तश्च॑ हव्य॒वाह॑नः ||{23/48}{6.16.23}{6.2.1.23}{4.5.25.3}{148, 457, 4516} सः¦हि¦यः¦मानु॑षा¦यु॒गा¦सीद॑त्¦होता᳚¦क॒विऽक्र॑तुः | दू॒तः¦च॒¦ह॒व्य॒ऽवाह॑नः || |
ता राजा᳚ना॒ शुचि᳚व्रता ऽऽदि॒त्यान् मारु॑तं ग॒णम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} वसो॒ यक्षी॒ह रोद॑सी ||{24/48}{6.16.24}{6.2.1.24}{4.5.25.4}{149, 457, 4517} ता¦राजा᳚ना¦शुचि॑ऽव्रता¦आ॒दि॒त्यान्¦मारु॑तम्¦ग॒णम् | वसो॒ इति॑¦यक्षि॑¦इ॒ह¦रोद॑सी॒ इति॑ || |
वस्वी᳚ ते, अग्ने॒ संदृ॑ष्टिरिषय॒ते मर्त्या᳚य |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} ऊर्जो᳚ नपाद॒मृत॑स्य ||{25/48}{6.16.25}{6.2.1.25}{4.5.25.5}{150, 457, 4518} वस्वी᳚¦ते॒¦अ॒ग्ने॒¦सम्ऽदृ॑ष्टिः¦इ॒ष॒ऽय॒ते¦मर्त्या᳚य | ऊर्जः॑¦न॒पा॒त्¦अ॒मृत॑स्य || |
क्रत्वा॒ दा, अ॑स्तु॒ श्रेष्ठो॒ ऽद्य त्वा᳚ व॒न्वन् त्सु॒रेक्णाः᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} मर्त॑ आनाश सुवृ॒क्तिम् ||{26/48}{6.16.26}{6.2.1.26}{4.5.26.1}{151, 457, 4519} क्रत्वा᳚¦दाः¦अ॒स्तु॒¦श्रेष्ठः॑¦अ॒द्य¦त्वा॒¦व॒न्वन्¦सु॒ऽरेक्णाः᳚ | मर्तः॑¦आ॒ना॒श॒¦सु॒ऽवृ॒क्तिम् || |
ते ते᳚, अग्ने॒ त्वोता᳚, इ॒षय᳚न्तो॒ विश्व॒मायुः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} तर᳚न्तो, अ॒र्यो, अरा᳚तीर्व॒न्वन्तो᳚, अ॒र्यो, अरा᳚तीः ||{27/48}{6.16.27}{6.2.1.27}{4.5.26.2}{152, 457, 4520} ते¦ते॒¦अ॒ग्ने॒¦त्वाऽऊ᳚ताः¦इ॒षय᳚न्तः¦विश्व᳚म्¦आयुः॑ | तर᳚न्तः¦अ॒र्यः¦अरा᳚तीः¦व॒न्वन्तः॑¦अ॒र्यः¦अरा᳚तीः || |
अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यास॒द् विश्वं॒ न्य१॑(अ॒)त्रिण᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अ॒ग्निर्नो᳚ वनते र॒यिम् ||{28/48}{6.16.28}{6.2.1.28}{4.5.26.3}{153, 457, 4521} अ॒ग्निः¦ति॒ग्मेन॑¦शो॒चिषा᳚¦यास॑त्¦विश्व᳚म्¦नि¦अ॒त्रिण᳚म् | अ॒ग्निः¦नः॒¦व॒न॒ते॒¦र॒यिम् || |
सु॒वीरं᳚ र॒यिमा भ॑र॒ जात॑वेदो॒ विच॑र्षणे |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} ज॒हि रक्षां᳚सि सुक्रतो ||{29/48}{6.16.29}{6.2.1.29}{4.5.26.4}{154, 457, 4522} सु॒ऽवीर᳚म्¦र॒यिम्¦आ¦भ॒र॒¦जात॑ऽवेदः¦विऽच॑र्षणे | ज॒हि¦रक्षां᳚सि¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो || |
त्वं नः॑ पा॒ह्यंह॑सो॒ जात॑वेदो, अघाय॒तः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} रक्षा᳚ णो ब्रह्मणस्कवे ||{30/48}{6.16.30}{6.2.1.30}{4.5.26.5}{155, 457, 4523} त्वम्¦नः॒¦पा॒हि॒¦अंह॑सः¦जात॑ऽवेदः¦अ॒घ॒ऽय॒तः | रक्ष॑¦नः॒¦ब्र॒ह्म॒णः॒¦क॒वे॒ || |
यो नो᳚, अग्ने दु॒रेव॒ आ मर्तो᳚ व॒धाय॒ दाश॑ति |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} तस्मा᳚न्नः पा॒ह्यंह॑सः ||{31/48}{6.16.31}{6.2.1.31}{4.5.27.1}{156, 457, 4524} यः¦नः॒¦अ॒ग्ने॒¦दुः॒ऽएवः॑¦आ¦मर्तः॑¦व॒धाय॑¦दाश॑ति | तस्मा᳚त्¦नः॒¦पा॒हि॒¦अंह॑सः || |
त्वं तं दे᳚व जि॒ह्वया॒ परि॑ बाधस्व दु॒ष्कृत᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} मर्तो॒ यो नो॒ जिघां᳚सति ||{32/48}{6.16.32}{6.2.1.32}{4.5.27.2}{157, 457, 4525} त्वम्¦तम्¦दे॒व॒¦जि॒ह्वया᳚¦परि॑¦बा॒ध॒स्व॒¦दुः॒ऽकृत᳚म् | मर्तः॑¦यः¦नः॒¦जिघां᳚सति || |
भ॒रद्वा᳚जाय स॒प्रथः॒ शर्म॑ यच्छ सहन्त्य |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अग्ने॒ वरे᳚ण्यं॒ वसु॑ ||{33/48}{6.16.33}{6.2.1.33}{4.5.27.3}{158, 457, 4526} भ॒रत्ऽवा᳚जाय¦स॒ऽप्रथः॑¦शर्म॑¦य॒च्छ॒¦स॒ह॒न्त्य॒ | अग्ने᳚¦वरे᳚ण्यम्¦वसु॑ || |
अ॒ग्निर्वृ॒त्राणि॑ जङ्घनद् द्रविण॒स्युर्वि॑प॒न्यया᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} समि॑द्धः शु॒क्र आहु॑तः ||{34/48}{6.16.34}{6.2.1.34}{4.5.27.4}{159, 457, 4527} अ॒ग्निः¦वृ॒त्राणि॑¦ज॒ङ्घ॒न॒त्¦द्र॒वि॒ण॒स्युः¦वि॒प॒न्यया᳚ | सम्ऽइ᳚द्धः¦शु॒क्रः¦आऽहु॑तः || |
गर्भे᳚ मा॒तुः पि॒तुष्पि॒ता वि॑दिद्युता॒नो, अ॒क्षरे᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} सीद᳚न्नृ॒तस्य॒ योनि॒मा ||{35/48}{6.16.35}{6.2.1.35}{4.5.27.5}{160, 457, 4528} गर्भे᳚¦मा॒तुः¦पि॒तुः¦पि॒ता¦वि॒ऽदि॒द्यु॒ता॒नः¦अ॒क्षरे᳚ | सीद॑न्¦ऋ॒तस्य॑¦योनि᳚म्¦आ || |
ब्रह्म॑ प्र॒जाव॒दा भ॑र॒ जात॑वेदो॒ विच॑र्षणे |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अग्ने॒ यद् दी॒दय॑द् दि॒वि ||{36/48}{6.16.36}{6.2.1.36}{4.5.28.1}{161, 457, 4529} ब्रह्म॑¦प्र॒जाऽव॑त्¦आ¦भ॒र॒¦जात॑ऽवेदः¦विऽच॑र्षणे | अग्ने᳚¦यत्¦दी॒दय॑त्¦दि॒वि || |
उप॑ त्वा र॒ण्वसं᳚दृशं॒ प्रय॑स्वन्तः सहस्कृत |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अग्ने᳚ ससृ॒ज्महे॒ गिरः॑ ||{37/48}{6.16.37}{6.2.1.37}{4.5.28.2}{162, 457, 4530} उप॑¦त्वा॒¦र॒ण्वऽसं᳚दृशम्¦प्रय॑स्वन्तः¦स॒हः॒ऽकृ॒त॒ | अग्ने᳚¦स॒सृ॒ज्महे᳚¦गिरः॑ || |
उप॑ च्छा॒यामि॑व॒ घृणे॒रग᳚न्म॒ शर्म॑ ते व॒यम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अग्ने॒ हिर᳚ण्यसंदृशः ||{38/48}{6.16.38}{6.2.1.38}{4.5.28.3}{163, 457, 4531} उप॑¦छा॒याम्ऽइ᳚व¦घृणेः᳚¦अग᳚न्म¦शर्म॑¦ते॒¦व॒यम् | अग्ने᳚¦हिर᳚ण्यऽसंदृशः || |
य उ॒ग्र इ॑व शर्य॒हा ति॒ग्मशृ᳚ङ्गो॒ न वंस॑गः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अग्ने॒ पुरो᳚ रु॒रोजि॑थ ||{39/48}{6.16.39}{6.2.1.39}{4.5.28.4}{164, 457, 4532} यः¦उ॒ग्रःऽइ᳚व¦श॒र्य॒ऽहा¦ति॒ग्मऽशृ᳚ङ्गः¦न¦वंस॑गः | अग्ने᳚¦पुरः॑¦रु॒रोजि॑थ || |
आ यं हस्ते॒ न खा॒दिनं॒ शिशुं᳚ जा॒तं न बिभ्र॑ति |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} वि॒शाम॒ग्निं स्व॑ध्व॒रम् ||{40/48}{6.16.40}{6.2.1.40}{4.5.28.5}{165, 457, 4533} आ¦यम्¦हस्ते᳚¦न¦खा॒दिन᳚म्¦शिशु᳚म्¦जा॒तम्¦न¦बिभ्र॑ति | वि॒शाम्¦अ॒ग्निम्¦सु॒।आ॒ध्व॒रम् || |
प्र दे॒वं दे॒ववी᳚तये॒ भर॑ता वसु॒वित्त॑मम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} आ स्वे योनौ॒ नि षी᳚दतु ||{41/48}{6.16.41}{6.2.1.41}{4.5.29.1}{166, 457, 4534} प्र¦दे॒वम्¦दे॒वऽवी᳚तये¦भर॑त¦व॒सु॒वित्ऽत॑मम् | आ¦स्वे¦योनौ᳚¦नि¦सी॒द॒तु॒ || |
आ जा॒तं जा॒तवे᳚दसि प्रि॒यं शि॑शी॒ताति॑थिम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} स्यो॒न आ गृ॒हप॑तिम् ||{42/48}{6.16.42}{6.2.1.42}{4.5.29.2}{167, 457, 4535} आ¦जा॒तम्¦जा॒तऽवे᳚दसि¦प्रि॒यम्¦शि॒शी॒त॒¦अति॑थिम् | स्यो॒ने¦आ¦गृ॒हऽप॑तिम् || |
अग्ने᳚ यु॒क्ष्वा हि ये तवा ऽश्वा᳚सो देव सा॒धवः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अरं॒ वह᳚न्ति म॒न्यवे᳚ ||{43/48}{6.16.43}{6.2.1.43}{4.5.29.3}{168, 457, 4536} अग्ने᳚¦यु॒क्ष्व¦हि¦ये¦तव॑¦अश्वा᳚सः¦दे॒व॒¦सा॒धवः॑ | अर᳚म्¦वह᳚न्ति¦म॒न्यवे᳚ || |
अच्छा᳚ नो या॒ह्या व॑हा॒अभि प्रयां᳚सि वी॒तये᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} आ दे॒वान् त्सोम॑पीतये ||{44/48}{6.16.44}{6.2.1.44}{4.5.29.4}{169, 457, 4537} अच्छ॑¦नः॒¦या॒हि॒¦आ¦व॒ह॒¦अ॒भि¦प्रयां᳚सि¦वी॒तये᳚ | आ¦दे॒वान्¦सोम॑ऽपीतये || |
उद॑ग्ने भारत द्यु॒मदज॑स्रेण॒ दवि॑द्युतत् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} शोचा॒ वि भा᳚ह्यजर ||{45/48}{6.16.45}{6.2.1.45}{4.5.29.5}{170, 457, 4538} उत्¦अ॒ग्ने॒¦भा॒र॒त॒¦द्यु॒ऽमत्¦अज॑स्रेण¦दवि॑द्युतत् | शोच॑¦वि¦भा॒हि॒¦अ॒ज॒र॒ || |
वी॒ती यो दे॒वं मर्तो᳚ दुव॒स्येद॒ग्निमी᳚ळीताध्व॒रे ह॒विष्मा॑न् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} होता᳚रं सत्य॒यजं॒ रोद॑स्योरुत्ता॒नह॑स्तो॒ नम॒सा वि॑वासेत् ||{46/48}{6.16.46}{6.2.1.46}{4.5.30.1}{171, 457, 4539} वी॒ती¦यः¦दे॒वम्¦मर्तः॑¦दु॒व॒स्येत्¦अ॒ग्निम्¦ई॒ळी॒त॒¦अ॒ध्व॒रे¦ह॒विष्मा॑न् | |
आ ते᳚, अग्न ऋ॒चा ह॒विर्हृ॒दा त॒ष्टं भ॑रामसि |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} ते ते᳚ भवन्तू॒क्षण॑ ऋष॒भासो᳚ व॒शा, उ॒त ||{47/48}{6.16.47}{6.2.1.47}{4.5.30.2}{172, 457, 4540} आ¦ते॒¦अ॒ग्ने॒¦ऋ॒चा¦ह॒विः¦हृ॒दा¦त॒ष्टम्¦भ॒रा॒म॒सि॒ | ते¦ते॒¦भ॒व॒न्तु॒¦उ॒क्षणः॑¦ऋ॒ष॒भासः॑¦व॒शाः¦उ॒त || |
अ॒ग्निं दे॒वासो᳚, अग्रि॒यमि॒न्धते᳚ वृत्र॒हन्त॑मम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} येना॒ वसू॒न्याभृ॑ता तृ॒ळ्हा रक्षां᳚सि वा॒जिना᳚ ||{48/48}{6.16.48}{6.2.1.48}{4.5.30.3}{173, 457, 4541} अ॒ग्निम्¦दे॒वासः॑¦अ॒ग्रि॒यम्¦इ॒न्धते᳚¦वृ॒त्र॒हन्ऽत॑मम् | येन॑¦वसू᳚नि¦आऽभृ॑ता¦तृ॒ळ्हा¦रक्षां᳚सि¦वा॒जिना᳚ || |
[17] पिबासोममिति पंचदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजइंद्रत्रिष्टुंबंत्याद्विपदात्रिष्टुप् | |
पिबा॒ सोम॑म॒भि यमु॑ग्र॒ तर्द॑ ऊ॒र्वं गव्यं॒ महि॑ गृणा॒न इ᳚न्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वि यो धृ॑ष्णो॒ वधि॑षो वज्रहस्त॒ विश्वा᳚ वृ॒त्रम॑मि॒त्रिया॒ शवो᳚भिः ||{1/15}{6.17.1}{6.2.2.1}{4.6.1.1}{174, 458, 4542} पिब॑¦सोम᳚म्¦अ॒भि¦यम्¦उ॒ग्र॒¦तर्दः॑¦ऊ॒र्वम्¦गव्य᳚म्¦महि॑¦गृ॒णा॒नः¦इ॒न्द्र॒ | |
स ईं᳚ पाहि॒ य ऋ॑जी॒षी तरु॑त्रो॒ यः शिप्र॑वान् वृष॒भो यो म॑ती॒नाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यो गो᳚त्र॒भिद् व॑ज्र॒भृद् यो ह॑रि॒ष्ठाः स इ᳚न्द्र चि॒त्राँ, अ॒भि तृ᳚न्धि॒ वाजा॑न् ||{2/15}{6.17.2}{6.2.2.2}{4.6.1.2}{175, 458, 4543} सः¦ई॒म्¦पा॒हि॒¦यः¦ऋ॒जी॒षी¦तरु॑त्रः¦यः¦शिप्र॑ऽवान्¦वृ॒ष॒भः¦यः¦म॒ती॒नाम् | |
ए॒वा पा᳚हि प्र॒त्नथा॒ मन्द॑तु त्वा श्रु॒धि ब्रह्म॑ वावृ॒धस्वो॒त गी॒र्भिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} आ॒विः सूर्यं᳚ कृणु॒हि पी᳚पि॒हीषो᳚ ज॒हि शत्रूँ᳚र॒भि गा, इ᳚न्द्र तृन्धि ||{3/15}{6.17.3}{6.2.2.3}{4.6.1.3}{176, 458, 4544} ए॒व¦पा॒हि॒¦प्र॒त्नऽथा᳚¦मन्द॑तु¦त्वा॒¦श्रु॒धि¦ब्रह्म॑¦व॒वृ॒धस्व॑¦उ॒त¦गीः॒ऽभिः | |
ते त्वा॒ मदा᳚ बृ॒हदि᳚न्द्र स्वधाव इ॒मे पी॒ता, उ॑क्षयन्त द्यु॒मन्त᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} म॒हामनू᳚नं त॒वसं॒ विभू᳚तिं मत्स॒रासो᳚ जर्हृषन्त प्र॒साह᳚म् ||{4/15}{6.17.4}{6.2.2.4}{4.6.1.4}{177, 458, 4545} ते¦त्वा॒¦मदाः᳚¦बृ॒हत्¦इ॒न्द्र॒¦स्व॒धा॒ऽवः॒¦इ॒मे¦पी॒ताः¦उ॒क्ष॒य॒न्त॒¦द्यु॒ऽमन्त᳚म् | |
येभिः॒ सूर्य॑मु॒षसं᳚ मन्दसा॒नो ऽवा᳚स॒योऽप॑ दृ॒ळ्हानि॒ दर्द्र॑त् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} म॒हामद्रिं॒ परि॒ गा, इ᳚न्द्र॒ सन्तं᳚ नु॒त्था, अच्यु॑तं॒ सद॑स॒स्परि॒ स्वात् ||{5/15}{6.17.5}{6.2.2.5}{4.6.1.5}{178, 458, 4546} येभिः॑¦सूर्य᳚म्¦उ॒षस᳚म्¦म॒न्द॒सा॒नः¦अवा᳚सयः¦अप॑¦दृ॒ळ्हानि॑¦दर्द्र॑त् | |
तव॒ क्रत्वा॒ तव॒ तद् दं॒सना᳚भिरा॒मासु॑ प॒क्वं शच्या॒ नि दी᳚धः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} और्णो॒र्दुर॑ उ॒स्रिया᳚भ्यो॒ वि दृ॒ळ्होदू॒र्वाद् गा, अ॑सृजो॒, अङ्गि॑रस्वान् ||{6/15}{6.17.6}{6.2.2.6}{4.6.2.1}{179, 458, 4547} तव॑¦क्रत्वा᳚¦तव॑¦तत्¦दं॒सना᳚भिः¦आ॒मासु॑¦प॒क्वम्¦शच्या᳚¦नि¦दी॒ध॒रिति॑ दीधः | |
प॒प्राथ॒ क्षां महि॒ दंसो॒ व्यु१॑(उ॒)र्वीमुप॒ द्यामृ॒ष्वो बृ॒हदि᳚न्द्र स्तभायः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अधा᳚रयो॒ रोद॑सी दे॒वपु॑त्रे प्र॒त्ने मा॒तरा᳚ य॒ह्वी, ऋ॒तस्य॑ ||{7/15}{6.17.7}{6.2.2.7}{4.6.2.2}{180, 458, 4548} प॒प्राथ॑¦क्षाम्¦महि॑¦दंसः॑¦वि¦उ॒र्वीम्¦उप॑¦द्याम्¦ऋ॒ष्वः¦बृ॒हत्¦इ॒न्द्र॒¦स्त॒भा॒यः॒ | |
अध॑ त्वा॒ विश्वे᳚ पु॒र इ᳚न्द्र दे॒वा, एकं᳚ त॒वसं᳚ दधिरे॒ भरा᳚य |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अदे᳚वो॒ यद॒भ्यौहि॑ष्ट दे॒वान् त्स्व॑र्षाता वृणत॒ इन्द्र॒मत्र॑ ||{8/15}{6.17.8}{6.2.2.8}{4.6.2.3}{181, 458, 4549} अध॑¦त्वा॒¦विश्वे᳚¦पु॒रः¦इ॒न्द्र॒¦दे॒वाः¦एक᳚म्¦त॒वस᳚म्¦द॒धि॒रे॒¦भरा᳚य | |
अध॒ द्यौश्चि॑त् ते॒, अप॒ सा नु वज्रा᳚द् द्वि॒तान॑मद् भि॒यसा॒ स्वस्य॑ म॒न्योः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अहिं॒ यदिन्द्रो᳚, अ॒भ्योह॑सानं॒ नि चि॑द् वि॒श्वायुः॑ श॒यथे᳚ ज॒घान॑ ||{9/15}{6.17.9}{6.2.2.9}{4.6.2.4}{182, 458, 4550} अध॑¦द्यौः¦चि॒त्¦ते॒¦अप॑¦सा¦नु¦वज्रा᳚त्¦द्वि॒ता¦अ॒न॒म॒त्¦भि॒यसा᳚¦स्वस्य॑¦म॒न्योः | |
अध॒ त्वष्टा᳚ ते म॒ह उ॑ग्र॒ वज्रं᳚ स॒हस्र॑भृष्टिं ववृतच्छ॒ताश्रि᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} निका᳚मम॒रम॑णसं॒ येन॒ नव᳚न्त॒महिं॒ सं पि॑णगृजीषिन् ||{10/15}{6.17.10}{6.2.2.10}{4.6.2.5}{183, 458, 4551} अध॑¦त्वष्टा᳚¦ते॒¦म॒हः¦उ॒ग्र॒¦वज्र᳚म्¦स॒हस्र॑ऽभृष्टिम्¦व॒वृ॒त॒त्¦श॒त।आ॑श्रिम् | |
वर्धा॒न् यं विश्वे᳚ म॒रुतः॑ स॒जोषाः॒ पच॑च्छ॒तं म॑हि॒षाँ, इ᳚न्द्र॒ तुभ्य᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} पू॒षा विष्णु॒स्त्रीणि॒ सरां᳚सि धावन् वृत्र॒हणं᳚ मदि॒रमं॒शुम॑स्मै ||{11/15}{6.17.11}{6.2.2.11}{4.6.3.1}{184, 458, 4552} वर्धा᳚न्¦यम्¦विश्वे᳚¦म॒रुतः॑¦स॒ऽजोषाः᳚¦पच॑त्¦श॒तम्¦म॒हि॒षान्¦इ॒न्द्र॒¦तुभ्य᳚म् | |
आ क्षोदो॒ महि॑ वृ॒तं न॒दीनां॒ परि॑ष्ठितमसृज ऊ॒र्मिम॒पाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तासा॒मनु॑ प्र॒वत॑ इन्द्र॒ पन्थां॒ प्रार्द॑यो॒ नीची᳚र॒पसः॑ समु॒द्रम् ||{12/15}{6.17.12}{6.2.2.12}{4.6.3.2}{185, 458, 4553} आ¦क्षोदः॑¦महि॑¦वृ॒तम्¦न॒दीना᳚म्¦परि॑ऽस्थितम्¦अ॒सृ॒जः॒¦ऊ॒र्मिम्¦अ॒पाम् | |
ए॒वा ता विश्वा᳚ चकृ॒वांस॒मिन्द्रं᳚ म॒हामु॒ग्रम॑जु॒र्यं स॑हो॒दाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} सु॒वीरं᳚ त्वा स्वायु॒धं सु॒वज्र॒मा ब्रह्म॒ नव्य॒मव॑से ववृत्यात् ||{13/15}{6.17.13}{6.2.2.13}{4.6.3.3}{186, 458, 4554} ए॒व¦ता¦विश्वा᳚¦च॒कृ॒ऽवांस᳚म्¦इन्द्र᳚म्¦म॒हाम्¦उ॒ग्रम्¦अ॒जु॒र्यम्¦स॒हः॒ऽदाम् | |
स नो॒ वाजा᳚य॒ श्रव॑स इ॒षे च॑ रा॒ये धे᳚हि द्यु॒मत॑ इन्द्र॒ विप्रा॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} भ॒रद्वा᳚जे नृ॒वत॑ इन्द्र सू॒रीन् दि॒वि च॑ स्मैधि॒ पार्ये᳚ न इन्द्र ||{14/15}{6.17.14}{6.2.2.14}{4.6.3.4}{187, 458, 4555} सः¦नः॒¦वाजा᳚य¦श्रव॑से¦इ॒षे¦च॒¦रा॒ये¦धे॒हि॒¦द्यु॒ऽमतः॑¦इ॒न्द्र॒¦विप्रा॑न् | |
अ॒या वाजं᳚ दे॒वहि॑तं सनेम॒ मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{बार्हस्पत्यो भरद्वाजः | इन्द्रः | द्विपदात्रिष्टुप्}{15/15}{6.17.15}{6.2.2.15}{4.6.3.5}{188, 458, 4556} |
[18] तमुष्नुहीति पंचदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् | |
तमु॑ ष्टुहि॒ यो, अ॒भिभू᳚त्योजा व॒न्वन्नवा᳚तः पुरुहू॒त इन्द्रः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अषा᳚ळ्हमु॒ग्रं सह॑मानमा॒भिर्गी॒र्भिर्व॑र्ध वृष॒भं च॑र्षणी॒नाम् ||{1/15}{6.18.1}{6.2.3.1}{4.6.4.1}{189, 459, 4557} तम्¦ऊँ॒ इति॑¦स्तु॒हि॒¦यः¦अ॒भिभू᳚तिऽओजाः¦व॒न्वन्¦अवा᳚तः¦पु॒रु॒ऽहू॒तः¦इन्द्रः॑ | |
स यु॒ध्मः सत्वा᳚ खज॒कृत् स॒मद्वा᳚ तुविम्र॒क्षो न॑दनु॒माँ, ऋ॑जी॒षी |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} बृ॒हद्रे᳚णु॒श्च्यव॑नो॒ मानु॑षीणा॒मेकः॑ कृष्टी॒नाम॑भवत् स॒हावा᳚ ||{2/15}{6.18.2}{6.2.3.2}{4.6.4.2}{190, 459, 4558} सः¦यु॒ध्मः¦सत्वा᳚¦ख॒ज॒ऽकृत्¦स॒मत्ऽवा᳚¦तु॒वि॒ऽम्र॒क्षः¦न॒द॒नु॒ऽमान्¦ऋ॒जी॒षी | |
त्वं ह॒ नु त्यद॑दमायो॒ दस्यूँ॒रेकः॑ कृ॒ष्टीर॑वनो॒रार्या᳚य |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अस्ति॑ स्वि॒न्नु वी॒र्य१॑(अं॒) तत् त॑ इन्द्र॒ न स्वि॑दस्ति॒ तदृ॑तु॒था वि वो᳚चः ||{3/15}{6.18.3}{6.2.3.3}{4.6.4.3}{191, 459, 4559} त्वम्¦ह॒¦नु¦त्यत्¦अ॒द॒म॒यः॒¦दस्यू᳚न्¦एकः॑¦कृ॒ष्टीः¦अ॒व॒नोः॒¦आर्या᳚य | |
सदिद्धि ते᳚ तुविजा॒तस्य॒ मन्ये॒ सहः॑ सहिष्ठ तुर॒तस्तु॒रस्य॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} उ॒ग्रमु॒ग्रस्य॑ त॒वस॒स्तवी॒यो ऽर॑ध्रस्य रध्र॒तुरो᳚ बभूव ||{4/15}{6.18.4}{6.2.3.4}{4.6.4.4}{192, 459, 4560} सत्¦इत्¦हि¦ते॒¦तु॒वि॒ऽजा॒तस्य॑¦मन्ये᳚¦सहः॑¦स॒हि॒ष्ठ॒¦तु॒र॒तः¦तु॒रस्य॑ | |
तन्नः॑ प्र॒त्नं स॒ख्यम॑स्तु यु॒ष्मे, इ॒त्था वद॑द्भिर्व॒लमङ्गि॑रोभिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} हन्न॑च्युतच्युद् दस्मे॒षय᳚न्तमृ॒णोः पुरो॒ वि दुरो᳚, अस्य॒ विश्वाः᳚ ||{5/15}{6.18.5}{6.2.3.5}{4.6.4.5}{193, 459, 4561} तत्¦नः॒¦प्र॒त्नम्¦स॒ख्यम्¦अ॒स्तु॒¦यु॒ष्मे इति॑¦इ॒त्था¦वद॑त्ऽभिः¦व॒लम्¦अङ्गि॑रःऽभिः | |
स हि धी॒भिर्हव्यो॒, अस्त्यु॒ग्र ई᳚शान॒कृन्म॑ह॒ति वृ॑त्र॒तूर्ये᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} स तो॒कसा᳚ता॒ तन॑ये॒ स व॒ज्री वि॑तन्त॒साय्यो᳚, अभवत् स॒मत्सु॑ ||{6/15}{6.18.6}{6.2.3.6}{4.6.5.1}{194, 459, 4562} सः¦हि¦धी॒भिः¦हव्यः॑¦अस्ति॑¦उ॒ग्रः¦ई॒शा॒न॒ऽकृत्¦म॒ह॒ति¦वृ॒त्र॒ऽतूर्ये᳚ | |
स म॒ज्मना॒ जनि॑म॒ मानु॑षाणा॒मम॑र्त्येन॒ नाम्नाति॒ प्र स॑र्स्रे |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} स द्यु॒म्नेन॒ स शव॑सो॒त रा॒या स वी॒र्ये᳚ण॒ नृत॑मः॒ समो᳚काः ||{7/15}{6.18.7}{6.2.3.7}{4.6.5.2}{195, 459, 4563} सः¦म॒ज्मना᳚¦जनि॑म¦मानु॑षाणाम्¦अम॑र्त्येन¦नाम्ना᳚¦अति॑¦प्र¦स॒र्स्रे॒ | |
स यो न मु॒हे न मिथू॒ जनो॒ भूत् सु॒मन्तु॑नामा॒ चुमु॑रिं॒ धुनिं᳚ च |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वृ॒णक् पिप्रुं॒ शम्ब॑रं॒ शुष्ण॒मिन्द्रः॑ पु॒रां च्यौ॒त्नाय॑ श॒यथा᳚य॒ नू चि॑त् ||{8/15}{6.18.8}{6.2.3.8}{4.6.5.3}{196, 459, 4564} सः¦यः¦न¦मु॒हे¦न¦मिथु॑¦जनः॑¦भूत्¦सु॒मन्तु॑ऽनामा¦चुमु॑रिम्¦धुनि᳚म्¦च॒ | |
उ॒दाव॑ता॒ त्वक्ष॑सा॒ पन्य॑सा च वृत्र॒हत्या᳚य॒ रथ॑मिन्द्र तिष्ठ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} धि॒ष्व वज्रं॒ हस्त॒ आ द॑क्षिण॒त्रा ऽभि प्र म᳚न्द पुरुदत्र मा॒याः ||{9/15}{6.18.9}{6.2.3.9}{4.6.5.4}{197, 459, 4565} उ॒त्।आव॑ता¦त्वक्ष॑सा¦पन्य॑सा¦च॒¦वृ॒त्र॒ऽहत्या᳚य¦रथ᳚म्¦इ॒न्द्र॒¦ति॒ष्ठ॒ | |
अ॒ग्निर्न शुष्कं॒ वन॑मिन्द्र हे॒ती रक्षो॒ नि ध॑क्ष्य॒शनि॒र्न भी॒मा |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} ग॒म्भी॒रय॑ ऋ॒ष्वया॒ यो रु॒रोजाध्वा᳚नयद् दुरि॒ता द॒म्भय॑च्च ||{10/15}{6.18.10}{6.2.3.10}{4.6.5.5}{198, 459, 4566} अ॒ग्निः¦न¦शुष्क᳚म्¦वन᳚म्¦इ॒न्द्र॒¦हे॒ती¦रक्षः॑¦नि¦ध॒क्षि॒¦अ॒शनिः॑¦न¦भी॒मा | |
आ स॒हस्रं᳚ प॒थिभि॑रिन्द्र रा॒या तुवि॑द्युम्न तुवि॒वाजे᳚भिर॒र्वाक् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} या॒हि सू᳚नो सहसो॒ यस्य॒ नू चि॒ददे᳚व॒ ईशे᳚ पुरुहूत॒ योतोः᳚ ||{11/15}{6.18.11}{6.2.3.11}{4.6.6.1}{199, 459, 4567} आ¦स॒हस्र᳚म्¦प॒थिऽभिः॑¦इ॒न्द्र॒¦रा॒या¦तुवि॑ऽद्युम्न¦तु॒वि॒ऽवाजे᳚भिः¦अ॒र्वाक् | |
प्र तु॑विद्यु॒म्नस्य॒ स्थवि॑रस्य॒ घृष्वे᳚र्दि॒वो र॑रप्शे महि॒मा पृ॑थि॒व्याः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} नास्य॒ शत्रु॒र्न प्र॑ति॒मान॑मस्ति॒ न प्र॑ति॒ष्ठिः पु॑रुमा॒यस्य॒ सह्योः᳚ ||{12/15}{6.18.12}{6.2.3.12}{4.6.6.2}{200, 459, 4568} प्र¦तु॒वि॒ऽद्यु॒म्नस्य॑¦स्थवि॑रस्य¦घृष्वेः᳚¦दि॒वः¦र॒र॒प्शे॒¦म॒हि॒मा¦पृ॒थि॒व्याः | |
प्र तत् ते᳚, अ॒द्या कर॑णं कृ॒तं भू॒त् कुत्सं॒ यदा॒युम॑तिथि॒ग्वम॑स्मै |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} पु॒रू स॒हस्रा॒ नि शि॑शा, अ॒भि क्षामुत् तूर्व॑याणं धृष॒ता नि॑नेथ ||{13/15}{6.18.13}{6.2.3.13}{4.6.6.3}{201, 459, 4569} प्र¦तत्¦ते॒¦अ॒द्य¦कर॑णम्¦कृ॒तम्¦भू॒त्¦कुत्स᳚म्¦यत्¦आ॒युम्¦अ॒ति॒थि॒ऽग्वम्¦अ॒स्मै॒ | |
अनु॒ त्वाहि॑घ्ने॒, अध॑ देव दे॒वा मद॒न् विश्वे᳚ क॒वित॑मं कवी॒नाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} करो॒ यत्र॒ वरि॑वो बाधि॒ताय॑ दि॒वे जना᳚य त॒न्वे᳚ गृणा॒नः ||{14/15}{6.18.14}{6.2.3.14}{4.6.6.4}{202, 459, 4570} अनु॑¦त्वा॒¦अहि॑ऽघ्ने¦अध॑¦दे॒व॒¦दे॒वाः¦मद॑न्¦विश्वे᳚¦क॒विऽत॑मम्¦क॒वी॒नाम् | |
अनु॒ द्यावा᳚पृथि॒वी तत् त॒ ओजो ऽम॑र्त्या जिहत इन्द्र दे॒वाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} कृ॒ष्वा कृ॑त्नो॒, अकृ॑तं॒ यत् ते॒, अस्त्यु॒क्थं नवी᳚यो जनयस्व य॒ज्ञैः ||{15/15}{6.18.15}{6.2.3.15}{4.6.6.5}{203, 459, 4571} अनु॑¦द्यावा᳚पृथि॒वी इति॑¦तत्¦ते॒¦ओजः॑¦अम॑र्त्याः¦जि॒ह॒ते॒¦इ॒न्द्र॒¦दे॒वाः | |
[19] महाँइंद्रइति त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् | |
म॒हाँ, इन्द्रो᳚ नृ॒वदा च॑र्षणि॒प्रा, उ॒त द्वि॒बर्हा᳚, अमि॒नः सहो᳚भिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अ॒स्म॒द्र्य॑ग्वावृधे वी॒र्या᳚यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत् ||{1/13}{6.19.1}{6.2.4.1}{4.6.7.1}{204, 460, 4572} म॒हान्¦इन्द्रः॑¦नृ॒ऽवत्¦आ¦च॒र्ष॒णि॒ऽप्राः¦उ॒त¦द्वि॒ऽबर्हाः᳚¦अ॒मि॒नः¦सहः॑ऽभिः | |
इन्द्र॑मे॒व धि॒षणा᳚ सा॒तये᳚ धाद् बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा᳚नम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अषा᳚ळ्हेन॒ शव॑सा शूशु॒वांसं᳚ स॒द्यश्चि॒द् यो वा᳚वृ॒धे, असा᳚मि ||{2/13}{6.19.2}{6.2.4.2}{4.6.7.2}{205, 460, 4573} इन्द्र᳚म्¦ए॒व¦धि॒षणा᳚¦सा॒तये᳚¦धा॒त्¦बृ॒हन्त᳚म्¦ऋ॒ष्वम्¦अ॒जर᳚म्¦युवा᳚नम् | |
पृ॒थू क॒रस्ना᳚ बहु॒ला गभ॑स्ती, अस्म॒द्र्य१॑(अ॒)क् सं मि॑मीहि॒ श्रवां᳚सि |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यू॒थेव॑ प॒श्वः प॑शु॒पा दमू᳚ना, अ॒स्माँ, इ᳚न्द्रा॒भ्या व॑वृत्स्वा॒जौ ||{3/13}{6.19.3}{6.2.4.3}{4.6.7.3}{206, 460, 4574} पृ॒थू इति॑¦क॒रस्ना᳚¦ब॒हु॒ला¦गभ॑स्ती॒ इति॑¦अ॒स्म॒द्र्य॑क्¦सम्¦मि॒मी॒हि॒¦श्रवां᳚सि | |
तं व॒ इन्द्रं᳚ च॒तिन॑मस्य शा॒कैरि॒ह नू॒नं वा᳚ज॒यन्तो᳚ हुवेम |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यथा᳚ चि॒त् पूर्वे᳚ जरि॒तार॑ आ॒सुरने᳚द्या, अनव॒द्या, अरि॑ष्टाः ||{4/13}{6.19.4}{6.2.4.4}{4.6.7.4}{207, 460, 4575} तम्¦वः॒¦इन्द्र᳚म्¦च॒तिन᳚म्¦अ॒स्य॒¦शा॒कैः¦इ॒ह¦नू॒नम्¦वा॒ज॒ऽयन्तः॑¦हु॒वे॒म॒ | |
धृ॒तव्र॑तो धन॒दाः सोम॑वृद्धः॒ स हि वा॒मस्य॒ वसु॑नः पुरु॒क्षुः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} सं ज॑ग्मिरे प॒थ्या॒३॑(आ॒) रायो᳚, अस्मिन् त्समु॒द्रे न सिन्ध॑वो॒ याद॑मानाः ||{5/13}{6.19.5}{6.2.4.5}{4.6.7.5}{208, 460, 4576} धृ॒तऽव्र॑तः¦ध॒न॒ऽदाः¦सोम॑ऽवृद्धः¦सः¦हि¦वा॒मस्य॑¦वसु॑नः¦पु॒रु॒ऽक्षुः | |
शवि॑ष्ठं न॒ आ भ॑र शूर॒ शव॒ ओजि॑ष्ठ॒मोजो᳚, अभिभूत उ॒ग्रम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} विश्वा᳚ द्यु॒म्ना वृष्ण्या॒ मानु॑षाणाम॒स्मभ्यं᳚ दा हरिवो माद॒यध्यै᳚ ||{6/13}{6.19.6}{6.2.4.6}{4.6.8.1}{209, 460, 4577} शवि॑ष्ठम्¦नः॒¦आ¦भ॒र॒¦शू॒र॒¦शवः॑¦ओजि॑ष्ठम्¦ओजः॑¦अ॒भि॒ऽभू॒ते॒¦उ॒ग्रम् | |
यस्ते॒ मदः॑ पृतना॒षाळमृ॑ध्र॒ इन्द्र॒ तं न॒ आ भ॑र शूशु॒वांस᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} येन॑ तो॒कस्य॒ तन॑यस्य सा॒तौ मं᳚सी॒महि॑ जिगी॒वांस॒स्त्वोताः᳚ ||{7/13}{6.19.7}{6.2.4.7}{4.6.8.2}{210, 460, 4578} यः¦ते॒¦मदः॑¦पृ॒त॒ना॒षाट्¦अमृ॑ध्रः¦इन्द्र॑¦तम्¦नः॒¦आ¦भ॒र॒¦शू॒शु॒ऽवांस᳚म् | |
आ नो᳚ भर॒ वृष॑णं॒ शुष्म॑मिन्द्र धन॒स्पृतं᳚ शूशु॒वांसं᳚ सु॒दक्ष᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} येन॒ वंसा᳚म॒ पृत॑नासु॒ शत्रू॒न् तवो॒तिभि॑रु॒त जा॒मीँरजा᳚मीन् ||{8/13}{6.19.8}{6.2.4.8}{4.6.8.3}{211, 460, 4579} आ¦नः॒¦भ॒र॒¦वृष॑णम्¦शुष्म᳚म्¦इ॒न्द्र॒¦ध॒न॒ऽस्पृत᳚म्¦शू॒शु॒ऽवांस᳚म्¦सु॒ऽदक्ष᳚म् | |
आ ते॒ शुष्मो᳚ वृष॒भ ए᳚तु प॒श्चादोत्त॒राद॑ध॒रादा पु॒रस्ता᳚त् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} आ वि॒श्वतो᳚, अ॒भि समे᳚त्व॒र्वाङिन्द्र॑ द्यु॒म्नं स्व᳚र्वद्धेह्य॒स्मे ||{9/13}{6.19.9}{6.2.4.9}{4.6.8.4}{212, 460, 4580} आ¦ते॒¦शुष्मः॑¦वृ॒ष॒भः¦ए॒तु॒¦प॒श्चात्¦आ¦उ॒त्त॒रात्¦अ॒ध॒रात्¦आ¦पु॒रस्ता᳚त् | |
नृ॒वत् त॑ इन्द्र॒ नृत॑माभिरू॒ती वं᳚सी॒महि॑ वा॒मं श्रोम॑तेभिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} ईक्षे॒ हि वस्व॑ उ॒भय॑स्य राज॒न् धा रत्नं॒ महि॑ स्थू॒रं बृ॒हन्त᳚म् ||{10/13}{6.19.10}{6.2.4.10}{4.6.8.5}{213, 460, 4581} नृ॒ऽवत्¦ते॒¦इ॒न्द्र॒¦नृऽत॑माभिः¦ऊ॒ती¦वं॒सी॒महि॑¦वा॒मम्¦श्रोम॑तेभिः | |
म॒रुत्व᳚न्तं वृष॒भं वा᳚वृधा॒नमक॑वारिं दि॒व्यं शा॒समिन्द्र᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ||{11/13}{6.19.11}{6.2.4.11}{4.6.8.6}{214, 460, 4582} म॒रुत्व᳚न्तम्¦वृ॒ष॒भम्¦व॒वृ॒धा॒नम्¦अक॑व।आरिम्¦दि॒व्यम्¦शा॒सम्¦इन्द्र᳚म् | |
जनं᳚ वज्रि॒न् महि॑ चि॒न्मन्य॑मानमे॒भ्यो नृभ्यो᳚ रन्धया॒ येष्वस्मि॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अधा॒ हि त्वा᳚ पृथि॒व्यां शूर॑सातौ॒ हवा᳚महे॒ तन॑ये॒ गोष्व॒प्सु ||{12/13}{6.19.12}{6.2.4.12}{4.6.8.7}{215, 460, 4583} जन᳚म्¦व॒ज्रि॒न्¦महि॑¦चि॒त्¦मन्य॑मानम्¦ए॒भ्यः¦नृऽभ्यः॑¦र॒न्ध॒य॒¦येषु॑¦अस्मि॑ | |
व॒यं त॑ ए॒भिः पु॑रुहूत स॒ख्यैः शत्रोः᳚शत्रो॒रुत्त॑र॒ इत् स्या᳚म |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} घ्नन्तो᳚ वृ॒त्राण्यु॒भया᳚नि शूर रा॒या म॑देम बृह॒ता त्वोताः᳚ ||{13/13}{6.19.13}{6.2.4.13}{4.6.8.8}{216, 460, 4584} व॒यम्¦ते॒¦ए॒भिः¦पु॒रु॒ऽहू॒त॒¦स॒ख्यैः¦शत्रोः᳚ऽशत्रोः¦उत्ऽत॑रे¦इत्¦स्या॒म॒ | |
[20] द्यौर्नयइति त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप्सप्तमीविराट्पंक्तिः | |
द्यौर्न य इ᳚न्द्रा॒भि भूमा॒र्यस्त॒स्थौ र॒यिः शव॑सा पृ॒त्सु जना॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तं नः॑ स॒हस्र॑भरमुर्वरा॒सां द॒द्धि सू᳚नो सहसो वृत्र॒तुर᳚म् ||{1/13}{6.20.1}{6.2.5.1}{4.6.9.1}{217, 461, 4585} द्यौः¦न¦यः¦इ॒न्द्र॒¦अ॒भि¦भूम॑¦अ॒र्यः¦त॒स्थौ¦र॒यिः¦शव॑सा¦पृ॒त्ऽसु¦जना॑न् | |
दि॒वो न तुभ्य॒मन् वि᳚न्द्र स॒त्रा ऽसु॒र्यं᳚ दे॒वेभि॑र्धायि॒ विश्व᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अहिं॒ यद् वृ॒त्रम॒पो व᳚व्रि॒वांसं॒ हन्नृ॑जीषि॒न् विष्णु॑ना सचा॒नः ||{2/13}{6.20.2}{6.2.5.2}{4.6.9.2}{218, 461, 4586} दि॒वः¦न¦तुभ्य᳚म्¦अनु॑¦इ॒न्द्र॒¦स॒त्रा¦अ॒सु॒र्य᳚म्¦दे॒वेभिः॑¦धा॒यि॒¦विश्व᳚म् | |
तूर्व॒न्नोजी᳚यान् त॒वस॒स्तवी᳚यान् कृ॒तब्र॒ह्मेन्द्रो᳚ वृ॒द्धम॑हाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} राजा᳚भव॒न्मधु॑नः सो॒म्यस्य॒ विश्वा᳚सां॒ यत् पु॒रां द॒र्त्नुमाव॑त् ||{3/13}{6.20.3}{6.2.5.3}{4.6.9.3}{219, 461, 4587} तूर्व॑न्¦ओजी᳚यान्¦त॒वसः॑¦तवी᳚यान्¦कृ॒तऽब्र᳚ह्मा¦इन्द्रः॑¦वृ॒द्धऽम॑हाः | |
श॒तैर॑पद्रन् प॒णय॑ इ॒न्द्रात्र॒ दशो᳚णये क॒वये॒ऽर्कसा᳚तौ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} व॒धैः शुष्ण॑स्या॒शुष॑स्य मा॒याः पि॒त्वो नारि॑रेची॒त् किं च॒न प्र ||{4/13}{6.20.4}{6.2.5.4}{4.6.9.4}{220, 461, 4588} श॒तैः¦अ॒प॒द्र॒न्¦प॒णयः॑¦इ॒न्द्र॒¦अत्र॑¦दश॑ऽओणये¦क॒वये᳚¦अ॒र्कऽसा᳚तौ | |
म॒हो द्रु॒हो, अप॑ वि॒श्वायु॑ धायि॒ वज्र॑स्य॒ यत् पत॑ने॒ पादि॒ शुष्णः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} उ॒रु ष स॒रथं॒ सार॑थये क॒रिन्द्रः॒ कुत्सा᳚य॒ सूर्य॑स्य सा॒तौ ||{5/13}{6.20.5}{6.2.5.5}{4.6.9.5}{221, 461, 4589} म॒हः¦द्रु॒हः¦अप॑¦वि॒श्वऽआ᳚यु¦धा॒यि॒¦वज्र॑स्य¦यत्¦पत॑ने¦पादि॑¦शुष्णः॑ | |
प्र श्ये॒नो न म॑दि॒रमं॒शुम॑स्मै॒ शिरो᳚ दा॒सस्य॒ नमु॑चेर्मथा॒यन् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} प्राव॒न्नमीं᳚ सा॒प्यं स॒सन्तं᳚ पृ॒णग्रा॒या समि॒षा सं स्व॒स्ति ||{6/13}{6.20.6}{6.2.5.6}{4.6.10.1}{222, 461, 4590} प्र¦श्ये॒नः¦न¦म॒दि॒रम्¦अं॒शुम्¦अ॒स्मै॒¦शिरः॑¦दा॒सस्य॑¦नमु॑चेः¦म॒था॒यन् | |
वि पिप्रो॒रहि॑मायस्य दृ॒ळ्हाः पुरो᳚ वज्रि॒ञ्छव॑सा॒ न द॑र्दः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | पङ्क्तिः} सुदा᳚म॒न् तद् रेक्णो᳚, अप्रमृ॒ष्यमृ॒जिश्व॑ने दा॒त्रं दा॒शुषे᳚ दाः ||{7/13}{6.20.7}{6.2.5.7}{4.6.10.2}{223, 461, 4591} वि¦पिप्रोः᳚¦अहि॑ऽमायस्य¦दृ॒ळ्हाः¦पुरः॑¦व॒ज्रि॒न्¦शव॑सा¦न¦द॒र्द॒रिति॑ दर्दः | |
स वे᳚त॒सुं दश॑मायं॒ दशो᳚णिं॒ तूतु॑जि॒मिन्द्रः॑ स्वभि॒ष्टिसु᳚म्नः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} आ तुग्रं॒ शश्व॒दिभं॒ द्योत॑नाय मा॒तुर्न सी॒मुप॑ सृजा, इ॒यध्यै᳚ ||{8/13}{6.20.8}{6.2.5.8}{4.6.10.3}{224, 461, 4592} सः¦वे॒त॒सुम्¦दश॑ऽमायम्¦दश॑ऽओणिम्¦तूतु॑जिम्¦इन्द्रः॑¦स्व॒भि॒ष्टिऽसु᳚म्नः | |
स ईं॒ स्पृधो᳚ वनते॒, अप्र॑तीतो॒ बिभ्र॒द् वज्रं᳚ वृत्र॒हणं॒ गभ॑स्तौ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तिष्ठ॒द्धरी॒, अध्यस्ते᳚व॒ गर्ते᳚ वचो॒युजा᳚ वहत॒ इन्द्र॑मृ॒ष्वम् ||{9/13}{6.20.9}{6.2.5.9}{4.6.10.4}{225, 461, 4593} सः¦ई॒म्¦स्पृधः॑¦व॒न॒ते॒¦अप्र॑तिऽइतः¦बिभ्र॑त्¦वज्र᳚म्¦वृ॒त्र॒ऽहन᳚म्¦गभ॑स्तौ | |
स॒नेम॒ तेऽव॑सा॒ नव्य॑ इन्द्र॒ प्र पू॒रवः॑ स्तवन्त ए॒ना य॒ज्ञैः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} स॒प्त यत् पुरः॒ शर्म॒ शार॑दी॒र्दर्द्धन्दासीः᳚ पुरु॒कुत्सा᳚य॒ शिक्ष॑न् ||{10/13}{6.20.10}{6.2.5.10}{4.6.10.5}{226, 461, 4594} स॒नेम॑¦ते॒¦अव॑सा¦नव्यः॑¦इ॒न्द्र॒¦प्र¦पू॒रवः॑¦स्त॒व॒न्ते॒¦ए॒ना¦य॒ज्ञैः | |
त्वं वृ॒ध इ᳚न्द्र पू॒र्व्यो भू᳚र्वरिव॒स्यन्नु॒शने᳚ का॒व्याय॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} परा॒ नव॑वास्त्वमनु॒देयं᳚ म॒हे पि॒त्रे द॑दाथ॒ स्वं नपा᳚तम् ||{11/13}{6.20.11}{6.2.5.11}{4.6.10.6}{227, 461, 4595} त्वम्¦वृ॒धः¦इ॒न्द्र॒¦पू॒र्व्यः¦भूः॒¦व॒रि॒व॒स्यन्¦उ॒शने᳚¦का॒व्याय॑ | |
त्वं धुनि॑रिन्द्र॒ धुनि॑मतीरृ॒णोर॒पः सी॒रा न स्रव᳚न्तीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} प्र यत् स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया᳚ तु॒र्वशं॒ यदुं᳚ स्व॒स्ति ||{12/13}{6.20.12}{6.2.5.12}{4.6.10.7}{228, 461, 4596} त्वम्¦धुनिः॑¦इ॒न्द्र॒¦धुनि॑ऽमतीः¦ऋ॒णोः¦अ॒पः¦सी॒राः¦न¦स्रव᳚न्तीः | |
तव॑ ह॒ त्यदि᳚न्द्र॒ विश्व॑मा॒जौ स॒स्तो धुनी॒चुमु॑री॒ या ह॒ सिष्व॑प् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} दी॒दय॒दित् तुभ्यं॒ सोमे᳚भिः सु॒न्वन् द॒भीति॑रि॒ध्मभृ॑तिः प॒क्थ्य१॑(अ॒)र्कैः ||{13/13}{6.20.13}{6.2.5.13}{4.6.10.8}{229, 461, 4597} तव॑¦ह॒¦त्यत्¦इ॒न्द्र॒¦विश्व᳚म्¦आ॒जौ¦स॒स्तः¦धुनी॒चुमु॑री॒ इति॑¦या¦ह॒¦सिस्व॑प् | |
[21] इमाउत्वेति द्वादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रो नवम्येकादश्योर्विश्वेदेवास्त्रिष्टुप् | |
इ॒मा, उ॑ त्वा पुरु॒तम॑स्य का॒रोर्हव्यं᳚ वीर॒ हव्या᳚ हवन्ते |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} धियो᳚ रथे॒ष्ठाम॒जरं॒ नवी᳚यो र॒यिर्विभू᳚तिरीयते वच॒स्या ||{1/12}{6.21.1}{6.2.6.1}{4.6.11.1}{230, 462, 4598} इ॒माः¦ऊँ॒ इति॑¦त्वा॒¦पु॒रु॒ऽतम॑स्य¦का॒रोः¦हव्य᳚म्¦वी॒र॒¦हव्याः᳚¦ह॒व॒न्ते॒ | |
तमु॑ स्तुष॒ इन्द्रं॒ यो विदा᳚नो॒ गिर्वा᳚हसं गी॒र्भिर्य॒ज्ञवृ॑द्धम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यस्य॒ दिव॒मति॑ म॒ह्ना पृ॑थि॒व्याः पु॑रुमा॒यस्य॑ रिरि॒चे म॑हि॒त्वम् ||{2/12}{6.21.2}{6.2.6.2}{4.6.11.2}{231, 462, 4599} तम्¦ऊँ॒ इति॑¦स्तु॒षे॒¦इन्द्र᳚म्¦यः¦विदा᳚नः¦गिर्वा᳚हसम्¦गीः॒ऽभिः¦य॒ज्ञऽवृ॑द्धम् | |
स इत् तमो᳚ऽवयु॒नं त॑त॒न्वत् सूर्ये᳚ण व॒युन॑वच्चकार |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} क॒दा ते॒ मर्ता᳚, अ॒मृत॑स्य॒ धामेय॑क्षन्तो॒ न मि॑नन्ति स्वधावः ||{3/12}{6.21.3}{6.2.6.3}{4.6.11.3}{232, 462, 4600} सः¦इत्¦तमः॑¦अ॒व॒यु॒नम्¦त॒त॒न्वत्¦सूर्ये᳚ण¦व॒युन॑ऽवत्¦च॒का॒र॒ | |
यस्ता च॒कार॒ स कुह॑ स्वि॒दिन्द्रः॒ कमा जनं᳚ चरति॒ कासु॑ वि॒क्षु |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} कस्ते᳚ य॒ज्ञो मन॑से॒ शं वरा᳚य॒ को, अ॒र्क इ᳚न्द्र कत॒मः स होता᳚ ||{4/12}{6.21.4}{6.2.6.4}{4.6.11.4}{233, 462, 4601} यः¦ता¦च॒कार॑¦सः¦कुह॑¦स्वि॒त्¦इन्द्रः॑¦कम्¦आ¦जन᳚म्¦च॒र॒ति॒¦कासु॑¦वि॒क्षु | |
इ॒दा हि ते॒ वेवि॑षतः पुरा॒जाः प्र॒त्नास॑ आ॒सुः पु॑रुकृ॒त् सखा᳚यः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} ये म॑ध्य॒मास॑ उ॒त नूत॑नास उ॒ताव॒मस्य॑ पुरुहूत बोधि ||{5/12}{6.21.5}{6.2.6.5}{4.6.11.5}{234, 462, 4602} इ॒दा¦हि¦ते॒¦वेवि॑षतः¦पु॒रा॒ऽजाः¦प्र॒त्नासः॑¦आ॒सुः¦पु॒रु॒ऽकृ॒त्¦सखा᳚यः | |
तं पृ॒च्छन्तोऽव॑रासः॒ परा᳚णि प्र॒त्ना त॑ इन्द्र॒ श्रुत्यानु॑ येमुः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अर्चा᳚मसि वीर ब्रह्मवाहो॒ यादे॒व वि॒द्म तात् त्वा᳚ म॒हान्त᳚म् ||{6/12}{6.21.6}{6.2.6.6}{4.6.12.1}{235, 462, 4603} तम्¦पृ॒च्छन्तः॑¦अव॑रासः¦परा᳚णि¦प्र॒त्ना¦ते॒¦इ॒न्द्र॒¦श्रुत्या᳚¦अनु॑¦ये॒मुः॒ | |
अ॒भि त्वा॒ पाजो᳚ र॒क्षसो॒ वि त॑स्थे॒ महि॑ जज्ञा॒नम॒भि तत्सु ति॑ष्ठ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तव॑ प्र॒त्नेन॒ युज्ये᳚न॒ सख्या॒ वज्रे᳚ण धृष्णो॒, अप॒ ता नु॑दस्व ||{7/12}{6.21.7}{6.2.6.7}{4.6.12.2}{236, 462, 4604} अ॒भि¦त्वा॒¦पाजः॑¦र॒क्षसः॑¦वि¦त॒स्थे॒¦महि॑¦ज॒ज्ञा॒नम्¦अ॒भि¦तत्¦सु¦ति॒ष्ठ॒ | |
स तु श्रु॑धीन्द्र॒ नूत॑नस्य ब्रह्मण्य॒तो वी᳚र कारुधायः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} त्वं ह्या॒३॑(आ॒)पिः प्र॒दिवि॑ पितॄ॒णां शश्व॑द् ब॒भूथ॑ सु॒हव॒ एष्टौ᳚ ||{8/12}{6.21.8}{6.2.6.8}{4.6.12.3}{237, 462, 4605} सः¦तु¦श्रु॒धि॒¦इ॒न्द्र॒¦नूत॑नस्य¦ब्र॒ह्म॒ण्य॒तः¦वी॒र॒¦का॒रु॒ऽधा॒यः॒ | |
प्रोतये॒ वरु॑णं मि॒त्रमिन्द्रं᳚ म॒रुतः॑ कृ॒ष्वाव॑से नो, अ॒द्य |{बार्हस्पत्यो भरद्वाजः | विश्वेदेवाः | त्रिष्टुप्} प्र पू॒षणं॒ विष्णु॑म॒ग्निं पुरं᳚धिं सवि॒तार॒मोष॑धीः॒ पर्व॑ताँश्च ||{9/12}{6.21.9}{6.2.6.9}{4.6.12.4}{238, 462, 4606} प्र¦ऊ॒तये᳚¦वरु॑णम्¦मि॒त्रम्¦इन्द्र᳚म्¦म॒रुतः॑¦कृ॒ष्व॒¦अव॑से¦नः॒¦अ॒द्य | |
इ॒म उ॑ त्वा पुरुशाक प्रयज्यो जरि॒तारो᳚, अ॒भ्य॑र्चन्त्य॒र्कैः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} श्रु॒धी हव॒मा हु॑व॒तो हु॑वा॒नो न त्वावाँ᳚, अ॒न्यो, अ॑मृत॒ त्वद॑स्ति ||{10/12}{6.21.10}{6.2.6.10}{4.6.12.5}{239, 462, 4607} इ॒मे¦ऊँ॒ इति॑¦त्वा॒¦पु॒रु॒ऽशा॒क॒¦प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो¦ज॒रि॒तारः॑¦अ॒भि¦अ॒र्च॒न्ति॒¦अ॒र्कैः | |
नू म॒ आ वाच॒मुप॑ याहि वि॒द्वान् विश्वे᳚भिः सूनो सहसो॒ यज॑त्रैः |{बार्हस्पत्यो भरद्वाजः | विश्वेदेवाः | त्रिष्टुप्} ये, अ॑ग्निजि॒ह्वा, ऋ॑त॒साप॑ आ॒सुर्ये मनुं᳚ च॒क्रुरुप॑रं॒ दसा᳚य ||{11/12}{6.21.11}{6.2.6.11}{4.6.12.6}{240, 462, 4608} नु¦मे॒¦आ¦वाच᳚म्¦उप॑¦या॒हि॒¦वि॒द्वान्¦विश्वे᳚भिः¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦यज॑त्रैः | |
स नो᳚ बोधि पुरए॒ता सु॒गेषू॒त दु॒र्गेषु॑ पथि॒कृद् विदा᳚नः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} ये, अश्र॑मास उ॒रवो॒ वहि॑ष्ठा॒स्तेभि᳚र्न इन्द्रा॒भि व॑क्षि॒ वाज᳚म् ||{12/12}{6.21.12}{6.2.6.12}{4.6.12.7}{241, 462, 4609} सः¦नः॒¦बो॒धि॒¦पु॒रः॒ऽए॒ता¦सु॒ऽगेषु॑¦उ॒त¦दुः॒ऽगेषु॑¦प॒थि॒ऽकृत्¦विदा᳚नः | |
[22] यएकइदित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् | |
य एक॒ इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒ तं गी॒र्भिर॒भ्य॑र्च आ॒भिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यः पत्य॑ते वृष॒भो वृष्ण्या᳚वान् त्स॒त्यः सत्वा᳚ पुरुमा॒यः सह॑स्वान् ||{1/11}{6.22.1}{6.2.7.1}{4.6.13.1}{242, 463, 4610} यः¦एकः॑¦इत्¦हव्यः॑¦च॒र्ष॒णी॒नाम्¦इन्द्र᳚म्¦तम्¦गीः॒ऽभिः¦अ॒भि¦अ॒र्चे॒¦आ॒भिः | |
तमु॑ नः॒ पूर्वे᳚ पि॒तरो॒ नव॑ग्वाः स॒प्त विप्रा᳚सो, अ॒भि वा॒जय᳚न्तः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} न॒क्ष॒द्दा॒भं ततु॑रिं पर्वते॒ष्ठामद्रो᳚घवाचं म॒तिभिः॒ शवि॑ष्ठम् ||{2/11}{6.22.2}{6.2.7.2}{4.6.13.2}{243, 463, 4611} तम्¦ऊँ॒ इति॑¦नः॒¦पूर्वे᳚¦पि॒तरः॑¦नव॑ऽग्वाः¦स॒प्त¦विप्रा᳚सः¦अ॒भि¦वा॒जय᳚न्तः | |
तमी᳚मह॒ इन्द्र॑मस्य रा॒यः पु॑रु॒वीर॑स्य नृ॒वतः॑ पुरु॒क्षोः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यो, अस्कृ॑धोयुर॒जरः॒ स्व᳚र्वा॒न् तमा भ॑र हरिवो माद॒यध्यै᳚ ||{3/11}{6.22.3}{6.2.7.3}{4.6.13.3}{244, 463, 4612} तम्¦ई॒म॒हे॒¦इन्द्र᳚म्¦अ॒स्य॒¦रा॒यः¦पु॒रु॒ऽवीर॑स्य¦नृ॒ऽवतः॑¦पु॒रु॒ऽक्षोः | |
तन्नो॒ वि वो᳚चो॒ यदि॑ ते पु॒रा चि॑ज्जरि॒तार॑ आन॒शुः सु॒म्नमि᳚न्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} कस्ते᳚ भा॒गः किं वयो᳚ दुध्र खिद्वः॒ पुरु॑हूत पुरूवसोऽसुर॒घ्नः ||{4/11}{6.22.4}{6.2.7.4}{4.6.13.4}{245, 463, 4613} तत्¦नः॒¦वि¦वो॒चः॒¦यदि॑¦ते॒¦पु॒रा¦चि॒त्¦ज॒रि॒तारः॑¦आ॒न॒शुः¦सु॒म्नम्¦इ॒न्द्र॒ | |
तं पृ॒च्छन्ती॒ वज्र॑हस्तं रथे॒ष्ठामिन्द्रं॒ वेपी॒ वक्व॑री॒ यस्य॒ नू गीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तु॒वि॒ग्रा॒भं तु॑विकू॒र्मिं र॑भो॒दां गा॒तुमि॑षे॒ नक्ष॑ते॒ तुम्र॒मच्छ॑ ||{5/11}{6.22.5}{6.2.7.5}{4.6.13.5}{246, 463, 4614} तम्¦पृ॒च्छन्ती᳚¦वज्र॑ऽहस्तम्¦र॒थे॒ऽस्थाम्¦इन्द्र᳚म्¦वेपी᳚¦वक्व॑री¦यस्य॑¦नु¦गीः | |
अ॒या ह॒ त्यं मा॒यया᳚ वावृधा॒नं म॑नो॒जुवा᳚ स्वतवः॒ पर्व॑तेन |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अच्यु॑ता चिद् वीळि॒ता स्वो᳚जो रु॒जो वि दृ॒ळ्हा धृ॑ष॒ता वि॑रप्शिन् ||{6/11}{6.22.6}{6.2.7.6}{4.6.14.1}{247, 463, 4615} अ॒या¦ह॒¦त्यम्¦मा॒यया᳚¦व॒वृ॒धा॒नम्¦म॒नः॒ऽजुवा᳚¦स्व॒ऽत॒वः॒¦पर्व॑तेन | |
तं वो᳚ धि॒या नव्य॑स्या॒ शवि॑ष्ठं प्र॒त्नं प्र॑त्न॒वत् प॑रितंस॒यध्यै᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} स नो᳚ वक्षदनिमा॒नः सु॒वह्मेन्द्रो॒ विश्वा॒न्यति॑ दु॒र्गहा᳚णि ||{7/11}{6.22.7}{6.2.7.7}{4.6.14.2}{248, 463, 4616} तम्¦वः॒¦धि॒या¦नव्य॑स्या¦शवि॑ष्ठम्¦प्र॒त्नम्¦प्र॒त्न॒ऽवत्¦प॒रि॒ऽतं॒स॒यध्यै᳚ | |
आ जना᳚य॒ द्रुह्व॑णे॒ पार्थि॑वानि दि॒व्यानि॑ दीपयो॒ऽन्तरि॑क्षा |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तपा᳚ वृषन् वि॒श्वतः॑ शो॒चिषा॒ तान् ब्र᳚ह्म॒द्विषे᳚ शोचय॒ क्षाम॒पश्च॑ ||{8/11}{6.22.8}{6.2.7.8}{4.6.14.3}{249, 463, 4617} आ¦जना᳚य¦द्रुह्व॑णे¦पार्थि॑वानि¦दि॒व्यानि॑¦दी॒प॒यः॒¦अ॒न्तरि॑क्षा | |
भुवो॒ जन॑स्य दि॒व्यस्य॒ राजा॒ पार्थि॑वस्य॒ जग॑तस्त्वेषसंदृक् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} धि॒ष्व वज्रं॒ दक्षि॑ण इन्द्र॒ हस्ते॒ विश्वा᳚, अजुर्य दयसे॒ वि मा॒याः ||{9/11}{6.22.9}{6.2.7.9}{4.6.14.4}{250, 463, 4618} भुवः॑¦जन॑स्य¦दि॒व्यस्य॑¦राजा᳚¦पार्थि॑वस्य¦जग॑तः¦त्वे॒ष॒ऽसं॒दृ॒क् | |
आ सं॒यत॑मिन्द्र णः स्व॒स्तिं श॑त्रु॒तूर्या᳚य बृह॒तीममृ॑ध्राम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यया॒ दासा॒न्यार्या᳚णि वृ॒त्रा करो᳚ वज्रिन् त्सु॒तुका॒ नाहु॑षाणि ||{10/11}{6.22.10}{6.2.7.10}{4.6.14.5}{251, 463, 4619} आ¦स॒म्ऽयत᳚म्¦इ॒न्द्र॒¦नः॒¦स्व॒स्तिम्¦श॒त्रु॒ऽतूर्या᳚य¦बृ॒ह॒तीम्¦अमृ॑ध्राम् | |
स नो᳚ नि॒युद्भिः॑ पुरुहूत वेधो वि॒श्ववा᳚राभि॒रा ग॑हि प्रयज्यो |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} न या, अदे᳚वो॒ वर॑ते॒ न दे॒व आभि᳚र्याहि॒ तूय॒मा म॑द्र्य॒द्रिक् ||{11/11}{6.22.11}{6.2.7.11}{4.6.14.6}{252, 463, 4620} सः¦नः॒¦नि॒युत्ऽभिः॑¦पु॒रु॒ऽहू॒त॒¦वे॒धः॒¦वि॒श्वऽवा᳚राभिः¦आ¦ग॒हि॒¦प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो | |
[23] सुतइदिति दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् | |
सु॒त इत् त्वं निमि॑श्ल इन्द्र॒ सोमे॒ स्तोमे॒ ब्रह्म॑णि श॒स्यमा᳚न उ॒क्थे |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यद् वा᳚ यु॒क्ताभ्यां᳚ मघव॒न् हरि॑भ्यां॒ बिभ्र॒द् वज्रं᳚ बा॒ह्वोरि᳚न्द्र॒ यासि॑ ||{1/10}{6.23.1}{6.2.8.1}{4.6.15.1}{253, 464, 4621} सु॒ते¦इत्¦त्वम्¦निऽमि॑श्लः¦इ॒न्द्र॒¦सोमे᳚¦स्तोमे᳚¦ब्रह्म॑णि¦श॒स्यमा᳚ने¦उ॒क्थे | |
यद् वा᳚ दि॒वि पार्ये॒ सुष्वि॑मिन्द्र वृत्र॒हत्येऽव॑सि॒ शूर॑सातौ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यद् वा॒ दक्ष॑स्य बि॒भ्युषो॒, अबि॑भ्य॒दर᳚न्धयः॒ शर्ध॑त इन्द्र॒ दस्यू॑न् ||{2/10}{6.23.2}{6.2.8.2}{4.6.15.2}{254, 464, 4622} यत्¦वा॒¦दि॒वि¦पार्ये᳚¦सुस्वि᳚म्¦इ॒न्द्र॒¦वृ॒त्र॒ऽहत्ये᳚¦अव॑सि¦शूर॑ऽसातौ | |
पाता᳚ सु॒तमिन्द्रो᳚, अस्तु॒ सोमं᳚ प्रणे॒नीरु॒ग्रो ज॑रि॒तार॑मू॒ती |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} कर्ता᳚ वी॒राय॒ सुष्व॑य उ लो॒कं दाता॒ वसु॑ स्तुव॒ते की॒रये᳚ चित् ||{3/10}{6.23.3}{6.2.8.3}{4.6.15.3}{255, 464, 4623} पाता᳚¦सु॒तम्¦इन्द्रः॑¦अ॒स्तु॒¦सोम᳚म्¦प्र॒ऽने॒नीः¦उ॒ग्रः¦ज॒रि॒तार᳚म्¦ऊ॒ती | |
गन्तेया᳚न्ति॒ सव॑ना॒ हरि॑भ्यां ब॒भ्रिर्वज्रं᳚ प॒पिः सोमं᳚ द॒दिर्गाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} कर्ता᳚ वी॒रं नर्यं॒ सर्व॑वीरं॒ श्रोता॒ हवं᳚ गृण॒तः स्तोम॑वाहाः ||{4/10}{6.23.4}{6.2.8.4}{4.6.15.4}{256, 464, 4624} गन्ता᳚¦इय᳚न्ति¦सव॑ना¦हरि॑ऽभ्याम्¦ब॒भ्रिः¦वज्र᳚म्¦प॒पिः¦सोम᳚म्¦द॒दिः¦गाः | |
अस्मै᳚ व॒यं यद् वा॒वान॒ तद् वि॑विष्म॒ इन्द्रा᳚य॒ यो नः॑ प्र॒दिवो॒, अप॒स्कः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} सु॒ते सोमे᳚ स्तु॒मसि॒ शंस॑दु॒क्थेन्द्रा᳚य॒ ब्रह्म॒ वर्ध॑नं॒ यथास॑त् ||{5/10}{6.23.5}{6.2.8.5}{4.6.15.5}{257, 464, 4625} अस्मै᳚¦व॒यम्¦यत्¦व॒वान॑¦तत्¦वि॒वि॒ष्मः॒¦इन्द्रा᳚य¦यः¦नः॒¦प्र॒ऽदिवः॑¦अपः॑¦करिति॑ कः | |
ब्रह्मा᳚णि॒ हि च॑कृ॒षे वर्ध॑नानि॒ ताव॑त् त इन्द्र म॒तिभि᳚र्विविष्मः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} सु॒ते सोमे᳚ सुतपाः॒ शंत॑मानि॒ रान्द्र्या᳚ क्रियास्म॒ वक्ष॑णानि य॒ज्ञैः ||{6/10}{6.23.6}{6.2.8.6}{4.6.16.1}{258, 464, 4626} ब्रह्मा᳚णि¦हि¦च॒कृ॒षे¦वर्ध॑नानि¦ताव॑त्¦ते॒¦इ॒न्द्र॒¦म॒तिऽभिः॑¦वि॒वि॒ष्मः॒ | |
स नो᳚ बोधि पुरो॒ळाशं॒ ररा᳚णः॒ पिबा॒ तु सोमं॒ गो,ऋ॑जीकमिन्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} एदं ब॒र्हिर्यज॑मानस्य सीदो॒रुं कृ॑धि त्वाय॒त उ॑ लो॒कम् ||{7/10}{6.23.7}{6.2.8.7}{4.6.16.2}{259, 464, 4627} सः¦नः॒¦बो॒धि॒¦पु॒रो॒ळाश᳚म्¦ररा᳚णः¦पिब॑¦तु¦सोम᳚म्¦गोऽऋ॑जीकम्¦इ॒न्द्र॒ | |
स म᳚न्दस्वा॒ ह्यनु॒ जोष॑मुग्र॒ प्र त्वा᳚ य॒ज्ञास॑ इ॒मे, अ॑श्नुवन्तु |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} प्रेमे हवा᳚सः पुरुहू॒तम॒स्मे, आ त्वे॒यं धीरव॑स इन्द्र यम्याः ||{8/10}{6.23.8}{6.2.8.8}{4.6.16.3}{260, 464, 4628} सः¦म॒न्द॒स्व॒¦हि¦अनु॑¦जोष᳚म्¦उ॒ग्र॒¦प्र¦त्वा॒¦य॒ज्ञासः॑¦इ॒मे¦अ॒श्नु॒व॒न्तु॒ | |
तं वः॑ सखायः॒ सं यथा᳚ सु॒तेषु॒ सोमे᳚भिरीं पृणता भो॒जमिन्द्र᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} कु॒वित् तस्मा॒, अस॑ति नो॒ भरा᳚य॒ न सुष्वि॒मिन्द्रोऽव॑से मृधाति ||{9/10}{6.23.9}{6.2.8.9}{4.6.16.4}{261, 464, 4629} तम्¦वः॒¦स॒खा॒यः॒¦सम्¦यथा᳚¦सु॒तेषु॑¦सोमे᳚भिः¦ई॒म्¦पृ॒ण॒त॒¦भो॒जम्¦इन्द्र᳚म् | |
ए॒वेदिन्द्रः॑ सु॒ते, अ॑स्तावि॒ सोमे᳚ भ॒रद्वा᳚जेषु॒ क्षय॒दिन्म॒घोनः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अस॒द् यथा᳚ जरि॒त्र उ॒त सू॒रिरिन्द्रो᳚ रा॒यो वि॒श्ववा᳚रस्य दा॒ता ||{10/10}{6.23.10}{6.2.8.10}{4.6.16.5}{262, 464, 4630} ए॒व¦इत्¦इन्द्रः॑¦सु॒ते¦अ॒स्ता॒वि॒¦सोमे᳚¦भ॒रत्ऽवा᳚जेषु¦क्षय॑त्¦इत्¦म॒घोनः॑ | |
[24] वृषामदइति दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रत्रिष्टुप् | |
वृषा॒ मद॒ इन्द्रे॒ श्लोक॑ उ॒क्था सचा॒ सोमे᳚षु सुत॒पा, ऋ॑जी॒षी |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अ॒र्च॒त्र्यो᳚ म॒घवा॒ नृभ्य॑ उ॒क्थैर्द्यु॒क्षो राजा᳚ गि॒रामक्षि॑तोतिः ||{1/10}{6.24.1}{6.3.1.1}{4.6.17.1}{263, 465, 4631} वृषा᳚¦मदः॑¦इन्द्रे᳚¦श्लोकः॑¦उ॒क्था¦सचा᳚¦सोमे᳚षु¦सु॒त॒ऽपाः¦ऋ॒जी॒षी | |
ततु॑रिर्वी॒रो नर्यो॒ विचे᳚ताः॒ श्रोता॒ हवं᳚ गृण॒त उ॒र्व्यू᳚तिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वसुः॒ शंसो᳚ न॒रां का॒रुधा᳚या वा॒जी स्तु॒तो वि॒दथे᳚ दाति॒ वाज᳚म् ||{2/10}{6.24.2}{6.3.1.2}{4.6.17.2}{264, 465, 4632} ततु॑रिः¦वी॒रः¦नर्यः॑¦विऽचे᳚ताः¦श्रोता᳚¦हव᳚म्¦गृ॒ण॒तः¦उ॒र्विऽऊ᳚तिः | |
अक्षो॒ न च॒क्र्योः᳚ शूर बृ॒हन् प्र ते᳚ म॒ह्ना रि॑रिचे॒ रोद॑स्योः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वृ॒क्षस्य॒ नु ते᳚ पुरुहूत व॒या व्यू॒३॑(ऊ॒)तयो᳚ रुरुहुरिन्द्र पू॒र्वीः ||{3/10}{6.24.3}{6.3.1.3}{4.6.17.3}{265, 465, 4633} अक्षः॑¦न¦च॒क्र्योः᳚¦शू॒र॒¦बृ॒हन्¦प्र¦ते॒¦म॒ह्ना¦रि॒रि॒चे॒¦रोद॑स्योः | |
शची᳚वतस्ते पुरुशाक॒ शाका॒ गवा᳚मिव स्रु॒तयः॑ सं॒चर॑णीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} व॒त्सानां॒ न त॒न्तय॑स्त इन्द्र॒ दाम᳚न्वन्तो, अदा॒मानः॑ सुदामन् ||{4/10}{6.24.4}{6.3.1.4}{4.6.17.4}{266, 465, 4634} शची᳚ऽवतः¦ते॒¦पु॒रु॒ऽशा॒क॒¦शाकाः᳚¦गवा᳚म्ऽइव¦स्रु॒तयः॑¦स॒म्ऽचर॑णीः | |
अ॒न्यद॒द्य कर्व॑रम॒न्यदु॒ श्वो ऽस॑च्च॒ सन्मुहु॑राच॒क्रिरिन्द्रः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} मि॒त्रो नो॒, अत्र॒ वरु॑णश्च पू॒षा र्यो वश॑स्य पर्ये॒तास्ति॑ ||{5/10}{6.24.5}{6.3.1.5}{4.6.17.5}{267, 465, 4635} अ॒न्यत्¦अ॒द्य¦कर्व॑रम्¦अ॒न्यत्¦ऊँ॒ इति॑¦श्वः¦अस॑त्¦च॒¦सत्¦मुहुः॑¦आ॒ऽच॒क्रिः¦इन्द्रः॑ | |
वि त्वदापो॒ न पर्व॑तस्य पृ॒ष्ठादु॒क्थेभि॑रिन्द्रानयन्त य॒ज्ञैः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तं त्वा॒भिः सु॑ष्टु॒तिभि᳚र्वा॒जय᳚न्त आ॒जिं न ज॑ग्मुर्गिर्वाहो॒, अश्वाः᳚ ||{6/10}{6.24.6}{6.3.1.6}{4.6.18.1}{268, 465, 4636} वि¦त्वत्¦आपः॑¦न¦पर्व॑तस्य¦पृ॒ष्ठात्¦उ॒क्थेभिः॑¦इ॒न्द्र॒¦अ॒न॒य॒न्त॒¦य॒ज्ञैः | |
न यं जर᳚न्ति श॒रदो॒ न मासा॒ न द्याव॒ इन्द्र॑मवक॒र्शय᳚न्ति |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वृ॒द्धस्य॑ चिद् वर्धतामस्य त॒नूः स्तोमे᳚भिरु॒क्थैश्च॑ श॒स्यमा᳚ना ||{7/10}{6.24.7}{6.3.1.7}{4.6.18.2}{269, 465, 4637} न¦यम्¦जर᳚न्ति¦श॒रदः॑¦न¦मासाः᳚¦न¦द्यावः॑¦इन्द्र᳚म्¦अ॒व॒ऽक॒र्शय᳚न्ति | |
न वी॒ळवे॒ नम॑ते॒ न स्थि॒राय॒ न शर्ध॑ते॒ दस्यु॑जूताय स्त॒वान् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अज्रा॒, इन्द्र॑स्य गि॒रय॑श्चिदृ॒ष्वा ग᳚म्भी॒रे चि॑द् भवति गा॒धम॑स्मै ||{8/10}{6.24.8}{6.3.1.8}{4.6.18.3}{270, 465, 4638} न¦वी॒ळवे᳚¦नम॑ते¦न¦स्थि॒राय॑¦न¦शर्ध॑ते¦दस्यु॑ऽजूताय¦स्त॒वान् | |
ग॒म्भी॒रेण॑ न उ॒रुणा᳚मत्रि॒न् प्रेषो य᳚न्धि सुतपाव॒न् वाजा॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} स्था, ऊ॒ षु ऊ॒र्ध्व ऊ॒ती, अरि॑षण्यन्न॒क्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाम् ||{9/10}{6.24.9}{6.3.1.9}{4.6.18.4}{271, 465, 4639} ग॒म्भी॒रेण॑¦नः॒¦उ॒रुणा᳚¦अ॒म॒त्रि॒न्¦प्र¦इ॒षः¦य॒न्धि॒¦सु॒त॒ऽपा॒व॒न्¦वाजा॑न् | |
सच॑स्व ना॒यमव॑से, अ॒भीक॑ इ॒तो वा॒ तमि᳚न्द्र पाहि रि॒षः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अ॒मा चै᳚न॒मर᳚ण्ये पाहि रि॒षो मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{10/10}{6.24.10}{6.3.1.10}{4.6.18.5}{272, 465, 4640} सच॑स्व¦ना॒यम्¦अव॑से¦अ॒भीके᳚¦इ॒तः¦वा॒¦तम्¦इ॒न्द्र॒¦पा॒हि॒¦रि॒षः | |
[25] यातऊतिरिति नवर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् | |
या त॑ ऊ॒तिर॑व॒मा या प॑र॒मा या म॑ध्य॒मेन्द्र॑ शुष्मि॒न्नस्ति॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} ताभि॑रू॒ षु वृ॑त्र॒हत्ये᳚ऽवीर्न ए॒भिश्च॒ वाजै᳚र्म॒हान्न॑ उग्र ||{1/9}{6.25.1}{6.3.2.1}{4.6.19.1}{273, 466, 4641} या¦ते॒¦ऊ॒तिः¦अ॒व॒मा¦या¦प॒र॒मा¦या¦म॒ध्य॒मा¦इ॒न्द्र॒¦शु॒ष्मि॒न्¦अस्ति॑ | |
आभिः॒ स्पृधो᳚ मिथ॒तीररि॑षण्यन्न॒मित्र॑स्य व्यथया म॒न्युमि᳚न्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} आभि॒र्विश्वा᳚, अभि॒युजो॒ विषू᳚ची॒रार्या᳚य॒ विशोऽव॑ तारी॒र्दासीः᳚ ||{2/9}{6.25.2}{6.3.2.2}{4.6.19.2}{274, 466, 4642} आभिः॑¦स्पृधः॑¦मि॒थ॒तीः¦अरि॑षण्यन्¦अ॒मित्र॑स्य¦व्य॒थ॒य॒¦म॒न्युम्¦इ॒न्द्र॒ | |
इन्द्र॑ जा॒मय॑ उ॒त येऽजा᳚मयोऽर्वाची॒नासो᳚ व॒नुषो᳚ युयु॒ज्रे |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} त्वमे᳚षां विथु॒रा शवां᳚सि ज॒हि वृष्ण्या᳚नि कृणु॒ही परा᳚चः ||{3/9}{6.25.3}{6.3.2.3}{4.6.19.3}{275, 466, 4643} इन्द्र॑¦जा॒मयः॑¦उ॒त¦ये¦अजा᳚मयः¦अ॒र्वा॒ची॒नासः॑¦व॒नुषः॑¦यु॒यु॒ज्रे | |
शूरो᳚ वा॒ शूरं᳚ वनते॒ शरी᳚रैस्तनू॒रुचा॒ तरु॑षि॒ यत्कृ॒ण्वैते᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तो॒के वा॒ गोषु॒ तन॑ये॒ यद॒प्सु वि क्रन्द॑सी, उ॒र्वरा᳚सु॒ ब्रवै᳚ते ||{4/9}{6.25.4}{6.3.2.4}{4.6.19.4}{276, 466, 4644} शूरः॑¦वा॒¦शूर᳚म्¦व॒न॒ते॒¦शरी᳚रैः¦त॒नू॒ऽरुचा᳚¦तरु॑षि¦यत्¦कृ॒ण्वैते॒ इति॑ | |
न॒हि त्वा॒ शूरो॒ न तु॒रो न धृ॒ष्णुर्न त्वा᳚ यो॒धो मन्य॑मानो यु॒योध॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} इन्द्र॒ नकि॑ष्ट्वा॒ प्रत्य॑स्त्येषां॒ विश्वा᳚ जा॒तान्य॒भ्य॑सि॒ तानि॑ ||{5/9}{6.25.5}{6.3.2.5}{4.6.19.5}{277, 466, 4645} न॒हि¦त्वा॒¦शूरः॑¦न¦तु॒रः¦न¦धृ॒ष्णुः¦न¦त्वा॒¦यो॒धः¦मन्य॑मानः¦यु॒योध॑ | |
स प॑त्यत उ॒भयो᳚र्नृ॒म्णम॒योर्यदी᳚ वे॒धसः॑ समि॒थे हव᳚न्ते |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वृ॒त्रे वा᳚ म॒हो नृ॒वति॒ क्षये᳚ वा॒ व्यच॑स्वन्ता॒ यदि॑ वितन्त॒सैते᳚ ||{6/9}{6.25.6}{6.3.2.6}{4.6.20.1}{278, 466, 4646} सः¦प॒त्य॒ते॒¦उ॒भयोः᳚¦नृ॒म्णम्¦अ॒योः¦यदि॑¦वे॒धसः॑¦स॒म्ऽइ॒थे¦हव᳚न्ते | |
अध॑ स्मा ते चर्ष॒णयो॒ यदेजा॒निन्द्र॑ त्रा॒तोत भ॑वा वरू॒ता |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अ॒स्माका᳚सो॒ ये नृत॑मासो, अ॒र्य इन्द्र॑ सू॒रयो᳚ दधि॒रे पु॒रो नः॑ ||{7/9}{6.25.7}{6.3.2.7}{4.6.20.2}{279, 466, 4647} अध॑¦स्म॒¦ते॒¦च॒र्ष॒णयः॑¦यत्¦एजा᳚न्¦इन्द्र॑¦त्रा॒ता¦उ॒त¦भ॒व॒¦व॒रू॒ता | |
अनु॑ ते दायि म॒ह इ᳚न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अनु॑ क्ष॒त्रमनु॒ सहो᳚ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये᳚ ||{8/9}{6.25.8}{6.3.2.8}{4.6.20.3}{280, 466, 4648} अनु॑¦ते॒¦दा॒यि॒¦म॒हे¦इ॒न्द्रि॒याय॑¦स॒त्रा¦ते॒¦विश्व᳚म्¦अनु॑¦वृ॒त्र॒ऽहत्ये᳚ | |
ए॒वा नः॒ स्पृधः॒ सम॑जा स॒मत्स्विन्द्र॑ रार॒न्धि मि॑थ॒तीरदे᳚वीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो᳚ भ॒रद्वा᳚जा, उ॒त त॑ इन्द्र नू॒नम् ||{9/9}{6.25.9}{6.3.2.9}{4.6.20.4}{281, 466, 4649} ए॒व¦नः॒¦स्पृधः॑¦सम्¦अ॒ज॒¦स॒मत्ऽसु॑¦इन्द्र॑¦र॒र॒न्धि¦मि॒थ॒तीः¦अदे᳚वीः | |
[26] श्रुधीनइत्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् | |
श्रु॒धी न॑ इन्द्र॒ ह्वया᳚मसि त्वा म॒हो वाज॑स्य सा॒तौ वा᳚वृषा॒णाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} सं यद्विशोऽय᳚न्त॒ शूर॑साता, उ॒ग्रं नोऽवः॒ पार्ये॒, अह᳚न्दाः ||{1/8}{6.26.1}{6.3.3.1}{4.6.21.1}{282, 467, 4650} श्रु॒धि¦नः॒¦इ॒न्द्र॒¦ह्वया᳚मसि¦त्वा॒¦म॒हः¦वाज॑स्य¦सा॒तौ¦व॒वृ॒षा॒णाः | |
त्वां वा॒जी ह॑वते वाजिने॒यो म॒हो वाज॑स्य॒ गध्य॑स्य सा॒तौ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} त्वां वृ॒त्रेष्वि᳚न्द्र॒ सत्प॑तिं॒ तरु॑त्रं॒ त्वां च॑ष्टे मुष्टि॒हा गोषु॒ युध्य॑न् ||{2/8}{6.26.2}{6.3.3.2}{4.6.21.2}{283, 467, 4651} त्वाम्¦वा॒जी¦ह॒व॒ते॒¦वा॒जि॒ने॒यः¦म॒हः¦वाज॑स्य¦गध्य॑स्य¦सा॒तौ | |
त्वं क॒विं चो᳚दयो॒ऽर्कसा᳚तौ॒ त्वं कुत्सा᳚य॒ शुष्णं᳚ दा॒शुषे᳚ वर्क् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} त्वं शिरो᳚, अम॒र्मणः॒ परा᳚हन्नतिथि॒ग्वाय॒ शंस्यं᳚ करि॒ष्यन् ||{3/8}{6.26.3}{6.3.3.3}{4.6.21.3}{284, 467, 4652} त्वम्¦क॒विम्¦चो॒द॒यः॒¦अ॒र्कऽसा᳚तौ¦त्वम्¦कुत्सा᳚य¦शुष्ण᳚म्¦दा॒शुषे᳚¦व॒र्क् | |
त्वं रथं॒ प्र भ॑रो यो॒धमृ॒ष्वमावो॒ युध्य᳚न्तं वृष॒भं दश॑द्युम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} त्वं तुग्रं᳚ वेत॒सवे॒ सचा᳚ह॒न्त्वं तुजिं᳚ गृ॒णन्त॑मिन्द्र तूतोः ||{4/8}{6.26.4}{6.3.3.4}{4.6.21.4}{285, 467, 4653} त्वम्¦रथ᳚म्¦प्र¦भ॒रः॒¦यो॒धम्¦ऋ॒ष्वम्¦आवः॑¦युध्य᳚न्तम्¦वृ॒ष॒भम्¦दश॑ऽद्युम् | |
त्वं तदु॒क्थमि᳚न्द्र ब॒र्हणा᳚ कः॒ प्र यच्छ॒ता स॒हस्रा᳚ शूर॒ दर्षि॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अव॑ गि॒रेर्दासं॒ शम्ब॑रं ह॒न् प्रावो॒ दिवो᳚दासं चि॒त्राभि॑रू॒ती ||{5/8}{6.26.5}{6.3.3.5}{4.6.21.5}{286, 467, 4654} त्वम्¦तत्¦उ॒क्थम्¦इ॒न्द्र॒¦ब॒र्हणा᳚¦क॒रिति॑ कः¦प्र¦य॒त्¦श॒ता¦स॒हस्रा᳚¦शू॒र॒¦दर्षि॑ | |
त्वं श्र॒द्धाभि᳚र्मन्दसा॒नः सोमै᳚र्द॒भीत॑ये॒ चुमु॑रिमिन्द्र सिष्वप् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} त्वं र॒जिं पिठी᳚नसे दश॒स्यन्ष॒ष्टिं स॒हस्रा॒ शच्या॒ सचा᳚हन् ||{6/8}{6.26.6}{6.3.3.6}{4.6.22.1}{287, 467, 4655} त्वम्¦श्र॒द्धाभिः॑¦म॒न्द॒सा॒नः¦सोमैः᳚¦द॒भीत॑ये¦चुमु॑रिम्¦इ॒न्द्र॒¦सि॒स्व॒प् | |
अ॒हं च॒न तत्सू॒रिभि॑रानश्यां॒ तव॒ ज्याय॑ इन्द्र सु॒म्नमोजः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} त्वया॒ यत् स्तव᳚न्ते सधवीर वी॒रास्त्रि॒वरू᳚थेन॒ नहु॑षा शविष्ठ ||{7/8}{6.26.7}{6.3.3.7}{4.6.22.2}{288, 467, 4656} अ॒हम्¦च॒न¦तत्¦सू॒रिऽभिः॑¦आ॒न॒श्या॒म्¦तव॑¦ज्यायः॑¦इ॒न्द्र॒¦सु॒म्नम्¦ओजः॑ | |
व॒यं ते᳚, अ॒स्यामि᳚न्द्र द्यु॒म्नहू᳚तौ॒ सखा᳚यः स्याम महिन॒ प्रेष्ठाः᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} प्रात॑र्दनिः, क्षत्र॒श्रीर॑स्तु॒ श्रेष्ठो᳚ घ॒ने वृ॒त्राणां᳚ स॒नये॒ धना᳚नाम् ||{8/8}{6.26.8}{6.3.3.8}{4.6.22.3}{289, 467, 4657} व॒यम्¦ते॒¦अ॒स्याम्¦इ॒न्द्र॒¦द्यु॒म्नऽहू᳚तौ¦सखा᳚यः¦स्या॒म॒¦म॒हि॒न॒¦प्रेष्ठाः᳚ | |
[27] किमस्यमदइत्यष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजरंद्र अंत्यायाश्चायमानोराजात्रिष्टुप् (चायमानस्यराज्ञोदानस्तुतिः) | |
किम॑स्य॒ मदे॒ किम्व॑स्य पी॒ताविन्द्रः॒ किम॑स्य स॒ख्ये च॑कार |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} रणा᳚ वा॒ ये नि॒षदि॒ किं ते, अ॑स्य पु॒रा वि॑विद्रे॒ किमु॒ नूत॑नासः ||{1/8}{6.27.1}{6.3.4.1}{4.6.23.1}{290, 468, 4658} किम्¦अ॒स्य॒¦मदे᳚¦किम्¦ऊँ॒ इति॑¦अ॒स्य॒¦पी॒तौ¦इन्द्रः॑¦किम्¦अ॒स्य॒¦स॒ख्ये¦च॒का॒र॒ | |
सद॑स्य॒ मदे॒ सद्व॑स्य पी॒ताविन्द्रः॒ सद॑स्य स॒ख्ये च॑कार |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} रणा᳚ वा॒ ये नि॒षदि॒ सत्ते, अ॑स्य पु॒रा वि॑विद्रे॒ सदु॒ नूत॑नासः ||{2/8}{6.27.2}{6.3.4.2}{4.6.23.2}{291, 468, 4659} सत्¦अ॒स्य॒¦मदे᳚¦सत्¦ऊँ॒ इति॑¦अ॒स्य॒¦पी॒तौ¦इन्द्रः॑¦सत्¦अ॒स्य॒¦स॒ख्ये¦च॒का॒र॒ | |
न॒हि नु ते᳚ महि॒मनः॑ समस्य॒ न म॑घवन्मघव॒त् त्वस्य॑ वि॒द्म |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} न राध॑सोराधसो॒ नूत॑न॒स्येन्द्र॒ नकि॑र्ददृश इन्द्रि॒यं ते᳚ ||{3/8}{6.27.3}{6.3.4.3}{4.6.23.3}{292, 468, 4660} न॒हि¦नु¦ते॒¦म॒हि॒मनः॑¦स॒म॒स्य॒¦न¦म॒घ॒ऽव॒न्¦म॒घ॒व॒त्ऽत्वस्य॑¦वि॒द्म | |
ए॒तत् त्यत्त॑ इन्द्रि॒यम॑चेति॒ येनाव॑धीर्व॒रशि॑खस्य॒ शेषः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वज्र॑स्य॒ यत्ते॒ निह॑तस्य॒ शुष्मा᳚त्स्व॒नाच्चि॑दिन्द्र पर॒मो द॒दार॑ ||{4/8}{6.27.4}{6.3.4.4}{4.6.23.4}{293, 468, 4661} ए॒तत्¦त्यत्¦ते॒¦इ॒न्द्रि॒यम्¦अ॒चे॒ति॒¦येन॑¦अव॑धीः¦व॒रऽशि॑खस्य¦शेषः॑ | |
वधी॒दिन्द्रो᳚ व॒रशि॑खस्य॒ शेषो᳚ऽभ्याव॒र्तिने᳚ चायमा॒नाय॒ शिक्ष॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वृ॒चीव॑तो॒ यद्ध॑रियू॒पीया᳚यां॒ हन् पूर्वे॒, अर्धे᳚ भि॒यसाप॑रो॒ दर्त् ||{5/8}{6.27.5}{6.3.4.5}{4.6.23.5}{294, 468, 4662} वधी᳚त्¦इन्द्रः॑¦व॒रऽशि॑खस्य¦शेषः॑¦अ॒भि॒ऽआ॒व॒र्तिने᳚¦चा॒य॒मा॒नाय॑¦शिक्ष॑न् | |
त्रिं॒शच्छ॑तं व॒र्मिण॑ इन्द्र सा॒कं य॒व्याव॑त्यां पुरुहूत श्रव॒स्या |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वृ॒चीव᳚न्तः॒ शर॑वे॒ पत्य॑मानाः॒ पात्रा᳚ भिन्दा॒ना न्य॒र्थान्या᳚यन् ||{6/8}{6.27.6}{6.3.4.6}{4.6.24.1}{295, 468, 4663} त्रिं॒शत्ऽश॑तम्¦व॒र्मिणः॑¦इ॒न्द्र॒¦सा॒कम्¦य॒व्याऽव॑त्याम्¦पु॒रु॒ऽहू॒त॒¦श्र॒व॒स्या | |
यस्य॒ गावा᳚वरु॒षा सू᳚यव॒स्यू, अ॒न्तरू॒ षु चर॑तो॒ रेरि॑हाणा |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} स सृञ्ज॑याय तु॒र्वशं॒ परा᳚दाद्वृ॒चीव॑तो दैववा॒ताय॒ शिक्ष॑न् ||{7/8}{6.27.7}{6.3.4.7}{4.6.24.2}{296, 468, 4664} यस्य॑¦गावौ᳚¦अ॒रु॒षा¦सु॒य॒व॒स्यू इति॑ सु॒ऽय॒व॒स्यू¦अ॒न्तः¦ऊँ॒ इति॑¦सु¦चर॑तः¦रेरि॑हाणा | |
द्व॒याँ, अ॑ग्ने र॒थिनो᳚ विंश॒तिं गा व॒धूम॑तो म॒घवा॒ मह्यं᳚ स॒म्राट् |{बार्हस्पत्यो भरद्वाजः | चायमानोराजा | त्रिष्टुप्} अ॒भ्या॒व॒र्ती चा᳚यमा॒नो द॑दाति दू॒णाशे॒यं दक्षि॑णा पार्थ॒वाना᳚म् ||{8/8}{6.27.8}{6.3.4.8}{4.6.24.3}{297, 468, 4665} द्व॒यान्¦अ॒ग्ने॒¦र॒थिनः॑¦विं॒श॒तिम्¦गाः¦व॒धूऽम॑तः¦म॒घऽवा᳚¦मह्य᳚म्¦स॒म्ऽराट् | |
[28] आगावइत्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोगौस्त्रिष्टुप् (द्वितीयाया इंद्रश्चांत्यपादस्यच) द्वितीयाध्यास्तिस्रोजगत्योंत्यानुष्टुप् | |
आ गावो᳚, अग्मन्नु॒त भ॒द्रम॑क्र॒न् त्सीद᳚न्तु गो॒ष्ठे र॒णय᳚न्त्व॒स्मे |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्} प्र॒जाव॑तीः पुरु॒रूपा᳚, इ॒ह स्यु॒रिन्द्रा᳚य पू॒र्वीरु॒षसो॒ दुहा᳚नाः ||{1/8}{6.28.1}{6.3.5.1}{4.6.25.1}{298, 469, 4666} आ¦गावः॑¦अ॒ग्म॒न्¦उ॒त¦भ॒द्रम्¦अ॒क्र॒न्¦सीद᳚न्तु¦गो॒ऽस्थे¦र॒णय᳚न्तु¦अ॒स्मे इति॑ | |
इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिक्ष॒त्युपेद् द॑दाति॒ न स्वं मु॑षायति |{बार्हस्पत्यो भरद्वाजः | गाव इन्द्रो वा | जगती} भूयो᳚भूयो र॒यिमिद॑स्य व॒र्धय॒न्नभि᳚न्ने खि॒ल्ये नि द॑धाति देव॒युम् ||{2/8}{6.28.2}{6.3.5.2}{4.6.25.2}{299, 469, 4667} इन्द्रः॑¦यज्व॑ने¦पृ॒ण॒ते¦च॒¦शि॒क्ष॒ति॒¦उप॑¦इत्¦द॒दा॒ति॒¦न¦स्वम्¦मु॒षा॒य॒ति॒ | |
न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रो॒ नासा᳚मामि॒त्रो व्यथि॒रा द॑धर्षति |{बार्हस्पत्यो भरद्वाजः | गावः | जगती} दे॒वाँश्च॒ याभि॒र्यज॑ते॒ ददा᳚ति च॒ ज्योगित्ताभिः॑ सचते॒ गोप॑तिः स॒ह ||{3/8}{6.28.3}{6.3.5.3}{4.6.25.3}{300, 469, 4668} न¦ताः¦न॒श॒न्ति॒¦न¦द॒भा॒ति॒¦तस्क॑रः¦न¦आ॒सा॒म्¦आ॒मि॒त्रः¦व्यथिः॑¦आ¦द॒ध॒र्ष॒ति॒ | |
न ता, अर्वा᳚ रे॒णुक॑काटो, अश्नुते॒ न सं᳚स्कृत॒त्रमुप॑ यन्ति॒ ता, अ॒भि |{बार्हस्पत्यो भरद्वाजः | गावः | जगती} उ॒रु॒गा॒यमभ॑यं॒ तस्य॒ ता, अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ||{4/8}{6.28.4}{6.3.5.4}{4.6.25.4}{301, 469, 4669} न¦ताः¦अर्वा᳚¦रे॒णुऽक॑काटः¦अ॒श्नु॒ते॒¦न¦सं॒स्कृ॒त॒ऽत्रम्¦उप॑¦य॒न्ति॒¦ताः¦अ॒भि | |
गावो॒ भगो॒ गाव॒ इन्द्रो᳚ मे, अच्छा॒न् गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्} इ॒मा या गावः॒ स ज॑नास॒ इन्द्र॑ इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्र᳚म् ||{5/8}{6.28.5}{6.3.5.5}{4.6.25.5}{302, 469, 4670} गावः॑¦भगः॑¦गावः॑¦इन्द्रः॑¦मे॒¦अ॒च्छा॒न्¦गावः॑¦सोम॑स्य¦प्र॒थ॒मस्य॑¦भ॒क्षः | |
यू॒यं गा᳚वो मेदयथा कृ॒शं चि॑दश्री॒रं चि॑त् कृणुथा सु॒प्रती᳚कम् |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्} भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचो बृ॒हद् वो॒ वय॑ उच्यते स॒भासु॑ ||{6/8}{6.28.6}{6.3.5.6}{4.6.25.6}{303, 469, 4671} यू॒यम्¦गा॒वः॒¦मे॒द॒य॒थ॒¦कृ॒शम्¦चि॒त्¦अ॒श्री॒रम्¦चि॒त्¦कृ॒णु॒थ॒¦सु॒ऽप्रती᳚कम् | |
प्र॒जाव॑तीः सू॒यव॑सं रि॒शन्तीः᳚ शु॒द्धा, अ॒पः सु॑प्रपा॒णे पिब᳚न्तीः |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्} मा वः॑ स्ते॒न ई᳚शत॒ माघशं᳚सः॒ परि॑ वो हे॒ती रु॒द्रस्य॑ वृज्याः ||{7/8}{6.28.7}{6.3.5.7}{4.6.25.7}{304, 469, 4672} प्र॒जाऽव॑तीः¦सु॒ऽयव॑सम्¦रि॒शन्तीः᳚¦शु॒द्धाः¦अ॒पः¦सु॒ऽप्र॒पा॒ने¦पिब᳚न्तीः | |
उपे॒दमु॑प॒पर्च॑नमा॒सु गोषूप॑ पृच्यताम् |{बार्हस्पत्यो भरद्वाजः | गाव इन्द्रो वा | अनुष्टुप्} उप॑ ऋष॒भस्य॒ रेत॒स्युपे᳚न्द्र॒ तव॑ वी॒र्ये᳚ ||{8/8}{6.28.8}{6.3.5.8}{4.6.25.8}{305, 469, 4673} उप॑¦इ॒दम्¦उ॒प॒ऽपर्च॑नम्¦आ॒सु¦गोषु॑¦उप॑¦पृ॒च्य॒ता॒म् | उप॑¦ऋ॒ष॒भस्य॑¦रेत॑सि¦उप॑¦इ॒न्द्र॒¦तव॑¦वी॒र्ये᳚ || |
[29] इंद्रंवइति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् | |
इन्द्रं᳚ वो॒ नरः॑ स॒ख्याय॑ सेपुर्म॒हो यन्तः॑ सुम॒तये᳚ चका॒नाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} म॒हो हि दा॒ता वज्र॑हस्तो॒, अस्ति॑ म॒हामु॑ र॒ण्वमव॑से यजध्वम् ||{1/6}{6.29.1}{6.3.6.1}{4.7.1.1}{306, 470, 4674} इन्द्र᳚म्¦वः॒¦नरः॑¦स॒ख्याय॑¦से॒पुः॒¦म॒हः¦यन्तः॑¦सु॒ऽम॒तये᳚¦च॒का॒नाः | |
आ यस्मि॒न्हस्ते॒ नर्या᳚ मिमि॒क्षुरा रथे᳚ हिर॒ण्यये᳚ रथे॒ष्ठाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} आ र॒श्मयो॒ गभ॑स्त्योः स्थू॒रयो॒राध्व॒न्नश्वा᳚सो॒ वृष॑णो युजा॒नाः ||{2/6}{6.29.2}{6.3.6.2}{4.7.1.2}{307, 470, 4675} आ¦यस्मि॑न्¦हस्ते᳚¦नर्याः᳚¦मि॒मि॒क्षुः¦आ¦रथे᳚¦हि॒र॒ण्यये᳚¦र॒थे॒ऽस्थाः | |
श्रि॒ये ते॒ पादा॒ दुव॒ आ मि॑मिक्षुर्धृ॒ष्णुर्व॒ज्री शव॑सा॒ दक्षि॑णावान् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वसा᳚नो॒, अत्कं᳚ सुर॒भिं दृ॒शे कं स्व१॑(अ॒)र्ण नृ॑तविषि॒रो ब॑भूथ ||{3/6}{6.29.3}{6.3.6.3}{4.7.1.3}{308, 470, 4676} श्रि॒ये¦ते॒¦पादा᳚¦दुवः॑¦आ¦मि॒मि॒क्षुः॒¦धृ॒ष्णुः¦व॒ज्री¦शव॑सा¦दक्षि॑णऽवान् | |
स सोम॒ आमि॑श्लतमः सु॒तो भू॒द्यस्मि᳚न् प॒क्तिः प॒च्यते॒ सन्ति॑ धा॒नाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} इन्द्रं॒ नरः॑ स्तु॒वन्तो᳚ ब्रह्मका॒रा, उ॒क्था शंस᳚न्तो दे॒ववा᳚ततमाः ||{4/6}{6.29.4}{6.3.6.4}{4.7.1.4}{309, 470, 4677} सः¦सोमः॑¦आमि॑श्लऽतमः¦सु॒तः¦भू॒त्¦यस्मि॑न्¦प॒क्तिः¦प॒च्यते᳚¦सन्ति॑¦धा॒नाः | |
न ते॒, अन्तः॒ शव॑सो धाय्य॒स्य वि तु बा᳚बधे॒ रोद॑सी महि॒त्वा |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} आ ता सू॒रिः पृ॑णति॒ तूतु॑जानो यू॒थेवा॒प्सु स॒मीज॑मान ऊ॒ती ||{5/6}{6.29.5}{6.3.6.5}{4.7.1.5}{310, 470, 4678} न¦ते॒¦अन्तः॑¦शव॑सः¦धा॒यि॒¦अ॒स्य¦वि¦तु¦बा॒ब॒धे॒¦रोद॑सी॒ इति॑¦म॒हि॒ऽत्वा | |
ए॒वेदिन्द्रः॑ सु॒हव॑ ऋ॒ष्वो, अ॑स्तू॒ती, अनू᳚ती हिरिशि॒प्रः सत्वा᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} ए॒वा हि जा॒तो, अस॑मात्योजाः पु॒रू च॑ वृ॒त्रा ह॑नति॒ नि दस्यू॑न् ||{6/6}{6.29.6}{6.3.6.6}{4.7.1.6}{311, 470, 4679} ए॒व¦इत्¦इन्द्रः॑¦सु॒ऽहवः॑¦ऋ॒ष्वः¦अ॒स्तु॒¦ऊ॒ती¦अनू᳚ती¦हि॒रि॒ऽशि॒प्रः¦सत्वा᳚ | |
[30] भूयइति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् | |
भूय॒ इद्वा᳚वृधे वी॒र्या᳚यँ॒, एको᳚, अजु॒र्यो द॑यते॒ वसू᳚नि |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} प्र रि॑रिचे दि॒व इन्द्रः॑ पृथि॒व्या, अ॒र्धमिद॑स्य॒ प्रति॒ रोद॑सी, उ॒भे ||{1/5}{6.30.1}{6.3.7.1}{4.7.2.1}{312, 471, 4680} भूयः॑¦इत्¦व॒वृ॒धे॒¦वी॒र्या᳚य¦एकः॑¦अ॒जु॒र्यः¦द॒य॒ते॒¦वसू᳚नि | |
अधा᳚ मन्ये बृ॒हद॑सु॒र्य॑मस्य॒ यानि॑ दा॒धार॒ नकि॒रा मि॑नाति |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} दि॒वेदि॑वे॒ सूर्यो᳚ दर्श॒तो भू॒द्वि सद्मा᳚न्युर्वि॒या सु॒क्रतु॑र्धात् ||{2/5}{6.30.2}{6.3.7.2}{4.7.2.2}{313, 471, 4681} अध॑¦म॒न्ये॒¦बृ॒हत्¦अ॒सु॒र्य᳚म्¦अ॒स्य॒¦यानि॑¦दा॒धार॑¦नकिः॑¦आ¦मि॒ना॒ति॒ | |
अ॒द्या चि॒न्नू चि॒त्तदपो᳚ न॒दीनां॒ यदा᳚भ्यो॒, अर॑दो गा॒तुमि᳚न्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} नि पर्व॑ता, अद्म॒सदो॒ न से᳚दु॒स्त्वया᳚ दृ॒ळ्हानि॑ सुक्रतो॒ रजां᳚सि ||{3/5}{6.30.3}{6.3.7.3}{4.7.2.3}{314, 471, 4682} अ॒द्य¦चि॒त्¦नु¦चि॒त्¦तत्¦अपः॑¦न॒दीना᳚म्¦यत्¦आ॒भ्यः॒¦अर॑दः¦गा॒तुम्¦इ॒न्द्र॒ | |
स॒त्यमित्तन्न त्वावाँ᳚, अ॒न्यो, अ॒स्तीन्द्र॑ दे॒वो न मर्त्यो॒ ज्याया॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अह॒न्नहिं᳚ परि॒शया᳚न॒मर्णोऽवा᳚सृजो, अ॒पो, अच्छा᳚ समु॒द्रम् ||{4/5}{6.30.4}{6.3.7.4}{4.7.2.4}{315, 471, 4683} स॒त्यम्¦इत्¦तत्¦न¦त्वाऽवा᳚न्¦अ॒न्यः¦अ॒स्ति॒¦इन्द्र॑¦दे॒वः¦न¦मर्त्यः॑¦ज्याया॑न् | |
त्वम॒पो वि दुरो॒ विषू᳚ची॒रिन्द्र॑ दृ॒ळ्हम॑रुजः॒ पर्व॑तस्य |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} राजा᳚भवो॒ जग॑तश्चर्षणी॒नां सा॒कं सूर्यं᳚ ज॒नय॒न्द्यामु॒षास᳚म् ||{5/5}{6.30.5}{6.3.7.5}{4.7.2.5}{316, 471, 4684} त्वम्¦अ॒पः¦वि¦दुरः॑¦विषू᳚चीः¦इन्द्र॑¦दृ॒ळ्हम्¦अ॒रु॒जः॒¦पर्व॑तस्य | |
[31] अभूरेकइति पंचर्चस्य सूक्तस्य भारद्वाजः सुहोत्रइंद्रस्त्रिष्टुप् चतुर्थीशक्वरी (सुहोत्रः शुनहोत्रोनरो गर्गऋजिश्वाइत्येते ऋषयोबृहस्पतेः पौत्राउतदौष्षंतेर्भरतस्य पौत्रा इति विषयेइतिहासः श्रूयते) | |
अभू॒रेको᳚ रयिपते रयी॒णामा हस्त॑योरधिथा, इन्द्र कृ॒ष्टीः |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्} वि तो॒के, अ॒प्सु तन॑ये च॒ सूरेऽवो᳚चन्त चर्ष॒णयो॒ विवा᳚चः ||{1/5}{6.31.1}{6.3.8.1}{4.7.3.1}{317, 472, 4685} अभूः᳚¦एकः॑¦र॒यि॒ऽप॒ते॒¦र॒यी॒णाम्¦आ¦हस्त॑योः¦अ॒धि॒थाः॒¦इ॒न्द्र॒¦कृ॒ष्टीः | |
त्वद्भि॒येन्द्र॒ पार्थि॑वानि॒ विश्वाच्यु॑ता चिच्च्यावयन्ते॒ रजां᳚सि |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्} द्यावा॒क्षामा॒ पर्व॑तासो॒ वना᳚नि॒ विश्वं᳚ दृ॒ळ्हं भ॑यते॒, अज्म॒न्ना ते᳚ ||{2/5}{6.31.2}{6.3.8.2}{4.7.3.2}{318, 472, 4686} त्वत्¦भि॒या¦इ॒न्द्र॒¦पार्थि॑वानि¦विश्वा᳚¦अच्यु॑ता¦चि॒त्¦च्य॒व॒य॒न्ते॒¦रजां᳚सि | |
त्वं कुत्से᳚ना॒भि शुष्ण॑मिन्द्रा॒शुषं᳚ युध्य॒ कुय॑वं॒ गवि॑ष्टौ |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्} दश॑ प्रपि॒त्वे, अध॒ सूर्य॑स्य मुषा॒यश्च॒क्रमवि॑वे॒ रपां᳚सि ||{3/5}{6.31.3}{6.3.8.3}{4.7.3.3}{319, 472, 4687} त्वम्¦कुत्से᳚न¦अ॒भि¦शुष्ण᳚म्¦इ॒न्द्र॒¦अ॒शुष᳚म्¦यु॒ध्य॒¦कुय॑वम्¦गोऽइ᳚ष्टौ | |
त्वं श॒तान्यव॒ शम्ब॑रस्य॒ पुरो᳚ जघन्थाप्र॒तीनि॒ दस्योः᳚ |{भारद्वाजः सुहोत्रः | इन्द्रः | शक्वरी} अशि॑क्षो॒ यत्र॒ शच्या᳚ शचीवो॒ दिवो᳚दासाय सुन्व॒ते सु॑तक्रे भ॒रद्वा᳚जाय गृण॒ते वसू᳚नि ||{4/5}{6.31.4}{6.3.8.4}{4.7.3.4}{320, 472, 4688} त्वम्¦श॒तानि॑¦अव॑¦शम्ब॑रस्य¦पुरः॑¦ज॒घ॒न्थ॒¦अ॒प्र॒तीनि॑¦दस्योः᳚ | |
स स॑त्यसत्वन्मह॒ते रणा᳚य॒ रथ॒मा ति॑ष्ठ तुविनृम्ण भी॒मम् |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्} या॒हि प्र॑पथि॒न्नव॒सोप॑ म॒द्रिक्प्र च॑ श्रुत श्रावय चर्ष॒णिभ्यः॑ ||{5/5}{6.31.5}{6.3.8.5}{4.7.3.5}{321, 472, 4689} सः¦स॒त्य॒ऽस॒त्व॒न्¦म॒ह॒ते¦रणा᳚य¦रथ᳚म्¦आ¦ति॒ष्ठ॒¦तु॒वि॒ऽनृ॒म्ण॒¦भी॒मम् | |
[32] अपूर्व्येति पंचर्चस्य सूक्तस्य भारद्वाजः सुहोत्रइंद्रस्त्रिष्टुप् | |
अपू᳚र्व्या पुरु॒तमा᳚न्यस्मै म॒हे वी॒राय॑ त॒वसे᳚ तु॒राय॑ |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्} वि॒र॒प्शिने᳚ व॒ज्रिणे॒ शंत॑मानि॒ वचां᳚स्या॒सा स्थवि॑राय तक्षम् ||{1/5}{6.32.1}{6.3.9.1}{4.7.4.1}{322, 473, 4690} अपू᳚र्व्या¦पु॒रु॒ऽतमा᳚नि¦अ॒स्मै॒¦म॒हे¦वी॒राय॑¦त॒वसे᳚¦तु॒राय॑ | |
स मा॒तरा॒ सूर्ये᳚णा कवी॒नामवा᳚सयद्रु॒जदद्रिं᳚ गृणा॒नः |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्} स्वा॒धीभि॒रृक्व॑भिर्वावशा॒न उदु॒स्रिया᳚णामसृजन्नि॒दान᳚म् ||{2/5}{6.32.2}{6.3.9.2}{4.7.4.2}{323, 473, 4691} सः¦मा॒तरा᳚¦सूर्ये᳚ण¦क॒वी॒नाम्¦अवा᳚सयत्¦रु॒जत्¦अद्रि᳚म्¦गृ॒णा॒नः | |
स वह्नि॑भि॒रृक्व॑भि॒र्गोषु॒ शश्व᳚न्मि॒तज्ञु॑भिः पुरु॒कृत्वा᳚ जिगाय |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्} पुरः॑ पुरो॒हा सखि॑भिः सखी॒यन्दृ॒ळ्हा रु॑रोज क॒विभिः॑ क॒विः सन् ||{3/5}{6.32.3}{6.3.9.3}{4.7.4.3}{324, 473, 4692} सः¦वह्नि॑ऽभिः¦ऋक्व॑ऽभिः¦गोषु॑¦शश्व॑त्¦मि॒तज्ञु॑ऽभिः¦पु॒रु॒ऽकृत्वा᳚¦जि॒गा॒य॒ | |
स नी॒व्या᳚भिर्जरि॒तार॒मच्छा᳚ म॒हो वाजे᳚भिर्म॒हद्भि॑श्च॒ शुष्मैः᳚ |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्} पु॒रु॒वीरा᳚भिर्वृषभ क्षिती॒नामा गि᳚र्वणः सुवि॒ताय॒ प्र या᳚हि ||{4/5}{6.32.4}{6.3.9.4}{4.7.4.4}{325, 473, 4693} सः¦नी॒व्या᳚भिः¦ज॒रि॒तार᳚म्¦अच्छ॑¦म॒हः¦वाजे᳚भिः¦म॒हत्ऽभिः॑¦च॒¦शुष्मैः᳚ | |
स सर्गे᳚ण॒ शव॑सा त॒क्तो, अत्यै᳚र॒प इन्द्रो᳚ दक्षिण॒तस्तु॑रा॒षाट् |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्} इ॒त्था सृ॑जा॒ना, अन॑पावृ॒दर्थं᳚ दि॒वेदि॑वे विविषुरप्रमृ॒ष्यम् ||{5/5}{6.32.5}{6.3.9.5}{4.7.4.5}{326, 473, 4694} सः¦सर्गे᳚ण¦शव॑सा¦त॒क्तः¦अत्यैः᳚¦अ॒पः¦इन्द्रः॑¦द॒क्षि॒ण॒तः¦तु॒रा॒षाट् | |
[33] यओजिष्ठइति पंचर्चस्य सूक्तस्य भारद्वाजः शुनहोत्र इंद्रस्त्रिष्टुप् | |
य ओजि॑ष्ठ इन्द्र॒ तं सु नो᳚ दा॒ मदो᳚ वृषन् त्स्वभि॒ष्टिर्दास्वा॑न् |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} सौव॑श्व्यं॒ यो व॒नव॒त्स्वश्वो᳚ वृ॒त्रा स॒मत्सु॑ सा॒सह॑द॒मित्रा॑न् ||{1/5}{6.33.1}{6.3.10.1}{4.7.5.1}{327, 474, 4695} यः¦ओजि॑ष्ठः¦इ॒न्द्र॒¦तम्¦सु¦नः॒¦दाः॒¦मदः॑¦वृ॒ष॒न्¦सु॒।आ॒भि॒ष्टिः¦दास्वा॑न् | |
त्वां ही॒३॑(ई॒)न्द्राव॑से॒ विवा᳚चो॒ हव᳚न्ते चर्ष॒णयः॒ शूर॑सातौ |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} त्वं विप्रे᳚भि॒र्वि प॒णीँर॑शाय॒स्त्वोत॒ इत्सनि॑ता॒ वाज॒मर्वा᳚ ||{2/5}{6.33.2}{6.3.10.2}{4.7.5.2}{328, 474, 4696} त्वाम्¦हि¦इ॒न्द्र॒¦अव॑से¦विऽवा᳚चः¦हव᳚न्ते¦च॒र्ष॒णयः॑¦शूर॑ऽसातौ | |
त्वं ताँ, इ᳚न्द्रो॒भयाँ᳚, अ॒मित्रा॒न्दासा᳚ वृ॒त्राण्यार्या᳚ च शूर |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} वधी॒र्वने᳚व॒ सुधि॑तेभि॒रत्कै॒रा पृ॒त्सु द॑र्षि नृ॒णां नृ॑तम ||{3/5}{6.33.3}{6.3.10.3}{4.7.5.3}{329, 474, 4697} त्वम्¦तान्¦इ॒न्द्र॒¦उ॒भया᳚न्¦अ॒मित्रा᳚न्¦दासा᳚¦वृ॒त्राणि॑¦आर्या᳚¦च॒¦शू॒र॒ | |
स त्वं न॑ इ॒न्द्राक॑वाभिरू॒ती सखा᳚ वि॒श्वायु॑रवि॒ता वृ॒धे भूः᳚ |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} स्व॑र्षाता॒ यद्ध्वया᳚मसि त्वा॒ युध्य᳚न्तो ने॒मधि॑ता पृ॒त्सु शू᳚र ||{4/5}{6.33.4}{6.3.10.4}{4.7.5.4}{330, 474, 4698} सः¦त्वम्¦नः॒¦इ॒न्द्र॒¦अक॑वाभिः¦ऊ॒ती¦सखा᳚¦वि॒श्वऽआ᳚युः¦अ॒वि॒ता¦वृ॒धे¦भूः॒ | |
नू॒नं न॑ इन्द्राप॒राय॑ च स्या॒ भवा᳚ मृळी॒क उ॒त नो᳚, अ॒भिष्टौ᳚ |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} इ॒त्था गृ॒णन्तो᳚ म॒हिन॑स्य॒ शर्म᳚न्दि॒वि ष्या᳚म॒ पार्ये᳚ गो॒षत॑माः ||{5/5}{6.33.5}{6.3.10.5}{4.7.5.5}{331, 474, 4699} नू॒नम्¦नः॒¦इ॒न्द्र॒¦अ॒प॒राय॑¦च॒¦स्याः॒¦भव॑¦मृ॒ळी॒कः¦उ॒त¦नः॒¦अ॒भिष्टौ᳚ | |
[34] संचत्वइति पंचर्चस्य सूक्तस्य भारद्वाजः शुनहोत्र-इंद्रस्त्रिष्टुप् | |
सं च॒ त्वे ज॒ग्मुर्गिर॑ इन्द्र पू॒र्वीर्वि च॒ त्वद्य᳚न्ति वि॒भ्वो᳚ मनी॒षाः |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} पु॒रा नू॒नं च॑ स्तु॒तय॒ ऋषी᳚णां पस्पृ॒ध्र इन्द्रे॒, अध्यु॑क्था॒र्का ||{1/5}{6.34.1}{6.3.11.1}{4.7.6.1}{332, 475, 4700} सम्¦च॒¦त्वे इति॑¦ज॒ग्मुः¦गिरः॑¦इ॒न्द्र॒¦पू॒र्वीः¦वि¦च॒¦त्वत्¦य॒न्ति॒¦वि॒ऽभ्वः॑¦म॒नी॒षाः | |
पु॒रु॒हू॒तो यः पु॑रुगू॒र्त ऋभ्वाँ॒, एकः॑ पुरुप्रश॒स्तो, अस्ति॑ य॒ज्ञैः |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} रथो॒ न म॒हे शव॑से युजा॒नो॒३॑(ओ॒)ऽस्माभि॒रिन्द्रो᳚, अनु॒माद्यो᳚ भूत् ||{2/5}{6.34.2}{6.3.11.2}{4.7.6.2}{333, 475, 4701} पु॒रु॒ऽहू॒तः¦यः¦पु॒रु॒ऽगू॒र्तः¦ऋभ्वा᳚¦एकः॑¦पु॒रु॒ऽप्र॒श॒स्तः¦अस्ति॑¦य॒ज्ञैः | |
न यं हिंस᳚न्ति धी॒तयो॒ न वाणी॒रिन्द्रं॒ नक्ष॒न्तीद॒भि व॒र्धय᳚न्तीः |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} यदि॑ स्तो॒तारः॑ श॒तं यत्स॒हस्रं᳚ गृ॒णन्ति॒ गिर्व॑णसं॒ शं तद॑स्मै ||{3/5}{6.34.3}{6.3.11.3}{4.7.6.3}{334, 475, 4702} न¦यम्¦हिंस᳚न्ति¦धी॒तयः॑¦न¦वाणीः᳚¦इन्द्र᳚म्¦नक्ष᳚न्ति¦इत्¦अ॒भि¦व॒र्धय᳚न्तीः | |
अस्मा᳚, ए॒तद्दि॒व्य१॑(अ॒)र्चेव॑ मा॒सा मि॑मि॒क्ष इन्द्रे॒ न्य॑यामि॒ सोमः॑ |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} जनं॒ न धन्व᳚न्न॒भि सं यदापः॑ स॒त्रा वा᳚वृधु॒र्हव॑नानि य॒ज्ञैः ||{4/5}{6.34.4}{6.3.11.4}{4.7.6.4}{335, 475, 4703} अस्मै᳚¦ए॒तत्¦दि॒वि¦अ॒र्चाऽइ᳚व¦मा॒सा¦मि॒मि॒क्षः¦इन्द्रे᳚¦नि¦अ॒या॒मि॒¦सोमः॑ | |
अस्मा᳚, ए॒तन्मह्या᳚ङ्गू॒षम॑स्मा॒, इन्द्रा᳚य स्तो॒त्रं म॒तिभि॑रवाचि |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} अस॒द्यथा᳚ मह॒ति वृ॑त्र॒तूर्य॒ इन्द्रो᳚ वि॒श्वायु॑रवि॒ता वृ॒धश्च॑ ||{5/5}{6.34.5}{6.3.11.5}{4.7.6.5}{336, 475, 4704} अस्मै᳚¦ए॒तत्¦महि॑¦आ॒ङ्गू॒षम्¦अ॒स्मै॒¦इन्द्रा᳚य¦स्तो॒त्रम्¦म॒तिऽभिः॑¦अ॒वा॒चि॒ | |
[35] कदाभुवन्निति पंचर्चस्य सूक्तस्य भारद्वाजोनर इंद्रस्त्रिष्टुप् | |
क॒दा भु॑व॒न् रथ॑क्षयाणि॒ ब्रह्म॑ क॒दा स्तो॒त्रे स॑हस्रपो॒ष्यं᳚ दाः |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} क॒दा स्तोमं᳚ वासयोऽस्य रा॒या क॒दा धियः॑ करसि॒ वाज॑रत्नाः ||{1/5}{6.35.1}{6.3.12.1}{4.7.7.1}{337, 476, 4705} क॒दा¦भु॒व॒न्¦रथ॑ऽक्षयाणि¦ब्रह्म॑¦क॒दा¦स्तो॒त्रे¦स॒ह॒स्र॒ऽपो॒ष्य᳚म्¦दाः॒ | |
कर्हि॑ स्वि॒त्तदि᳚न्द्र॒ यन्नृभि॒र्नॄन्वी॒रैर्वी॒रान्नी॒ळया᳚से॒ जया॒जीन् |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} त्रि॒धातु॒ गा, अधि॑ जयासि॒ गोष्विन्द्र॑ द्यु॒म्नं स्व᳚र्वद्धेह्य॒स्मे ||{2/5}{6.35.2}{6.3.12.2}{4.7.7.2}{338, 476, 4706} कर्हि॑¦स्वि॒त्¦तत्¦इ॒न्द्र॒¦यत्¦नृऽभिः॑¦नॄन्¦वी॒रैः¦वी॒रान्¦नी॒ळया᳚से¦जय॑¦आ॒जीन् | |
कर्हि॑ स्वि॒त्तदि᳚न्द्र॒ यज्ज॑रि॒त्रे वि॒श्वप्सु॒ ब्रह्म॑ कृ॒णवः॑ शविष्ठ |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} क॒दा धियो॒ न नि॒युतो᳚ युवासे क॒दा गोम॑घा॒ हव॑नानि गच्छाः ||{3/5}{6.35.3}{6.3.12.3}{4.7.7.3}{339, 476, 4707} कर्हि॑¦स्वि॒त्¦तत्¦इ॒न्द्र॒¦यत्¦ज॒रि॒त्रे¦वि॒श्वऽप्सु॑¦ब्रह्म॑¦कृ॒णवः॑¦श॒वि॒ष्ठ॒ | |
स गोम॑घा जरि॒त्रे, अश्व॑श्चन्द्रा॒ वाज॑श्रवसो॒, अधि॑ धेहि॒ पृक्षः॑ |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} पी॒पि॒हीषः॑ सु॒दुघा᳚मिन्द्र धे॒नुं भ॒रद्वा᳚जेषु सु॒रुचो᳚ रुरुच्याः ||{4/5}{6.35.4}{6.3.12.4}{4.7.7.4}{340, 476, 4708} सः¦गोऽम॑घाः¦ज॒रि॒त्रे¦अश्व॑ऽचन्द्राः¦वाज॑ऽश्रवसः¦अधि॑¦धे॒हि॒¦पृक्षः॑ | |
तमा नू॒नं वृ॒जन॑म॒न्यथा᳚ चि॒च्छूरो॒ यच्छ॑क्र॒ वि दुरो᳚ गृणी॒षे |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} मा निर॑रं शुक्र॒दुघ॑स्य धे॒नोरा᳚ङ्गिर॒सान् ब्रह्म॑णा विप्र जिन्व ||{5/5}{6.35.5}{6.3.12.5}{4.7.7.5}{341, 476, 4709} तम्¦आ¦नू॒नम्¦वृ॒जन᳚म्¦अ॒न्यथा᳚¦चि॒त्¦शूरः॑¦यत्¦श॒क्र॒¦वि¦दुरः॑¦गृ॒णी॒षे | |
[36] सत्रामदासइति पंचर्चस्य सूक्तस्य भारद्वाजोनरइंद्रस्त्रिष्टुप् | |
स॒त्रा मदा᳚स॒स्तव॑ वि॒श्वज᳚न्याः स॒त्रा रायोऽध॒ ये पार्थि॑वासः |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} स॒त्रा वाजा᳚नामभवो विभ॒क्ता यद्दे॒वेषु॑ धा॒रय॑था, असु॒र्य᳚म् ||{1/5}{6.36.1}{6.3.13.1}{4.7.8.1}{342, 477, 4710} स॒त्रा¦मदा᳚सः¦तव॑¦वि॒श्वऽज᳚न्याः¦स॒त्रा¦रायः॑¦अध॑¦ये¦पार्थि॑वासः | |
अनु॒ प्र ये᳚जे॒ जन॒ ओजो᳚, अस्य स॒त्रा द॑धिरे॒, अनु॑ वी॒र्या᳚य |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} स्यू॒म॒गृभे॒ दुध॒येऽर्व॑ते च॒ क्रतुं᳚ वृञ्ज॒न्त्यपि॑ वृत्र॒हत्ये᳚ ||{2/5}{6.36.2}{6.3.13.2}{4.7.8.2}{343, 477, 4711} अनु॑¦प्र¦ये॒जे॒¦जनः॑¦ओजः॑¦अ॒स्य॒¦स॒त्रा¦द॒धि॒रे॒¦अनु॑¦वी॒र्या᳚य | |
तं स॒ध्रीची᳚रू॒तयो॒ वृष्ण्या᳚नि॒ पौंस्या᳚नि नि॒युतः॑ सश्चु॒रिन्द्र᳚म् |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} स॒मु॒द्रं न सिन्ध॑व उ॒क्थशु॑ष्मा, उरु॒व्यच॑सं॒ गिर॒ आ वि॑शन्ति ||{3/5}{6.36.3}{6.3.13.3}{4.7.8.3}{344, 477, 4712} तम्¦स॒ध्रीचीः᳚¦ऊ॒तयः॑¦वृष्ण्या᳚नि¦पौंस्या᳚नि¦नि॒ऽयुतः॑¦स॒श्चु॒ः॑¦इन्द्र᳚म् | |
स रा॒यस्खामुप॑ सृजा गृणा॒नः पु॑रुश्च॒न्द्रस्य॒ त्वमि᳚न्द्र॒ वस्वः॑ |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} पति॑र्बभू॒थास॑मो॒ जना᳚ना॒मेको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा᳚ ||{4/5}{6.36.4}{6.3.13.4}{4.7.8.4}{345, 477, 4713} सः¦रा॒यः¦खाम्¦उप॑¦सृ॒ज॒¦गृ॒णा॒नः¦पु॒रु॒ऽच॒न्द्रस्य॑¦त्वम्¦इ॒न्द्र॒¦वस्वः॑ | |
स तु श्रु॑धि॒ श्रुत्या॒ यो दु॑वो॒युर्द्यौर्न भूमा॒भि रायो᳚, अ॒र्यः |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} असो॒ यथा᳚ नः॒ शव॑सा चका॒नो यु॒गेयु॑गे॒ वय॑सा॒ चेकि॑तानः ||{5/5}{6.36.5}{6.3.13.5}{4.7.8.5}{346, 477, 4714} सः¦तु¦श्रु॒धि॒¦श्रुत्या᳚¦यः¦दु॒वः॒ऽयुः¦द्यौः¦न¦भूम॑¦अ॒भि¦रायः॑¦अ॒र्यः | |
[37] अर्वाग्रथमिति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजः इंद्रस्त्रिष्टुप् | |
अ॒र्वाग्रथं᳚ वि॒श्ववा᳚रं त उ॒ग्रेन्द्र॑ यु॒क्तासो॒ हर॑यो वहन्तु |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} की॒रिश्चि॒द्धि त्वा॒ हव॑ते॒ स्व᳚र्वानृधी॒महि॑ सध॒माद॑स्ते, अ॒द्य ||{1/5}{6.37.1}{6.3.14.1}{4.7.9.1}{347, 478, 4715} अ॒र्वाक्¦रथ᳚म्¦वि॒श्वऽवा᳚रम्¦ते॒¦उ॒ग्र॒¦इन्द्र॑¦यु॒क्तासः॑¦हर॑यः¦व॒ह॒न्तु॒ | |
प्रो द्रोणे॒ हर॑यः॒ कर्मा᳚ग्मन् पुना॒नास॒ ऋज्य᳚न्तो, अभूवन् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} इन्द्रो᳚ नो, अ॒स्य पू॒र्व्यः प॑पीयाद्द्यु॒क्षो मद॑स्य सो॒म्यस्य॒ राजा᳚ ||{2/5}{6.37.2}{6.3.14.2}{4.7.9.2}{348, 478, 4716} प्रो इति॑¦द्रोणे᳚¦हर॑यः¦कर्म॑¦अ॒ग्म॒न्¦पु॒ना॒नासः॑¦ऋज्य᳚न्तः¦अ॒भू॒व॒न् | |
आ॒स॒स्रा॒णासः॑ शवसा॒नमच्छेन्द्रं᳚ सुच॒क्रे र॒थ्या᳚सो॒, अश्वाः᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अ॒भि श्रव॒ ऋज्य᳚न्तो वहेयु॒र्नू चि॒न्नु वा॒योर॒मृतं॒ वि द॑स्येत् ||{3/5}{6.37.3}{6.3.14.3}{4.7.9.3}{349, 478, 4717} आ॒ऽस॒स्रा॒णासः॑¦श॒व॒सा॒नम्¦अच्छ॑¦इन्द्र᳚म्¦सु॒ऽच॒क्रे¦र॒थ्या᳚सः¦अश्वाः᳚ | |
वरि॑ष्ठो, अस्य॒ दक्षि॑णामिय॒र्तीन्द्रो᳚ म॒घोनां᳚ तुविकू॒र्मित॑मः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यया᳚ वज्रिवः परि॒यास्यंहो᳚ म॒घा च॑ धृष्णो॒ दय॑से॒ वि सू॒रीन् ||{4/5}{6.37.4}{6.3.14.4}{4.7.9.4}{350, 478, 4718} वरि॑ष्ठः¦अ॒स्य॒¦दक्षि॑णाम्¦इ॒य॒र्ति॒¦इन्द्रः॑¦म॒घोना᳚म्¦तु॒वि॒कू॒र्मिऽत॑मः | |
इन्द्रो॒ वाज॑स्य॒ स्थवि॑रस्य दा॒तेन्द्रो᳚ गी॒र्भिर्व॑र्धतां वृ॒द्धम॑हाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} इन्द्रो᳚ वृ॒त्रं हनि॑ष्ठो, अस्तु॒ सत्वा ता सू॒रिः पृ॑णति॒ तूतु॑जानः ||{5/5}{6.37.5}{6.3.14.5}{4.7.9.5}{351, 478, 4719} इन्द्रः॑¦वाज॑स्य¦स्थवि॑रस्य¦दा॒ता¦इन्द्रः॑¦गीः॒ऽभिः¦व॒र्ध॒ता॒म्¦वृ॒द्धऽम॑हाः | |
[38] अपादितइति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् | |
अपा᳚दि॒त उदु॑ नश्चि॒त्रत॑मो म॒हीं भ॑र्षद्द्यु॒मती॒मिन्द्र॑हूतिम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} पन्य॑सीं धी॒तिं दैव्य॑स्य॒ याम॒ञ्जन॑स्य रा॒तिं व॑नते सु॒दानुः॑ ||{1/5}{6.38.1}{6.3.15.1}{4.7.10.1}{352, 479, 4720} अपा᳚त्¦इ॒तः¦उत्¦ऊँ॒ इति॑¦नः॒¦चि॒त्रऽत॑मः¦म॒हीम्¦भ॒र्ष॒त्¦द्यु॒ऽमती᳚म्¦इन्द्र॑ऽहूतिम् | |
दू॒राच्चि॒दा व॑सतो, अस्य॒ कर्णा॒ घोषा॒दिन्द्र॑स्य तन्यति ब्रुवा॒णः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} एयमे᳚नं दे॒वहू᳚तिर्ववृत्यान्म॒द्र्य१॑(अ॒)गिन्द्र॑मि॒यमृ॒च्यमा᳚ना ||{2/5}{6.38.2}{6.3.15.2}{4.7.10.2}{353, 479, 4721} दू॒रात्¦चि॒त्¦आ¦व॒स॒तः॒¦अ॒स्य॒¦कर्णा᳚¦घोषा᳚त्¦इन्द्र॑स्य¦त॒न्य॒ति॒¦ब्रु॒वा॒णः | |
तं वो᳚ धि॒या प॑र॒मया᳚ पुरा॒जाम॒जर॒मिन्द्र॑म॒भ्य॑नूष्य॒र्कैः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} ब्रह्मा᳚ च॒ गिरो᳚ दधि॒रे सम॑स्मिन्म॒हाँश्च॒ स्तोमो॒, अधि॑ वर्ध॒दिन्द्रे᳚ ||{3/5}{6.38.3}{6.3.15.3}{4.7.10.3}{354, 479, 4722} तम्¦वः॒¦धि॒या¦प॒र॒मया᳚¦पु॒रा॒ऽजाम्¦अ॒जर᳚म्¦इन्द्र᳚म्¦अ॒भि¦अ॒नू॒षि॒¦अ॒र्कैः | |
वर्धा॒द्यं य॒ज्ञ उ॒त सोम॒ इन्द्रं॒ वर्धा॒द्ब्रह्म॒ गिर॑ उ॒क्था च॒ मन्म॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वर्धाहै᳚नमु॒षसो॒ याम᳚न्न॒क्तोर्वर्धा॒न्मासाः᳚ श॒रदो॒ द्याव॒ इन्द्र᳚म् ||{4/5}{6.38.4}{6.3.15.4}{4.7.10.4}{355, 479, 4723} वर्धा᳚त्¦यम्¦य॒ज्ञः¦उ॒त¦सोमः॑¦इन्द्र᳚म्¦वर्धा᳚त्¦ब्रह्म॑¦गिरः॑¦उ॒क्था¦च॒¦मन्म॑ | |
ए॒वा ज॑ज्ञा॒नं सह॑से॒, असा᳚मि वावृधा॒नं राध॑से च श्रु॒ताय॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} म॒हामु॒ग्रमव॑से विप्र नू॒नमा वि॑वासेम वृत्र॒तूर्ये᳚षु ||{5/5}{6.38.5}{6.3.15.5}{4.7.10.5}{356, 479, 4724} ए॒व¦ज॒ज्ञा॒नम्¦सह॑से¦असा᳚मि¦व॒वृ॒धा॒नम्¦राध॑से¦च॒¦श्रु॒ताय॑ | |
[39] मंद्रस्य कवेरितिपंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् | |
म॒न्द्रस्य॑ क॒वेर्दि॒व्यस्य॒ वह्ने॒र्विप्र॑मन्मनो वच॒नस्य॒ मध्वः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अपा᳚ न॒स्तस्य॑ सच॒नस्य॑ दे॒वेषो᳚ युवस्व गृण॒ते गो,अ॑ग्राः ||{1/5}{6.39.1}{6.3.16.1}{4.7.11.1}{357, 480, 4725} म॒न्द्रस्य॑¦क॒वेः¦दि॒व्यस्य॑¦वह्नेः᳚¦विप्र॑ऽमन्मनः¦व॒च॒नस्य॑¦मध्वः॑ | |
अ॒यमु॑शा॒नः पर्यद्रि॑मु॒स्रा, ऋ॒तधी᳚तिभिरृत॒युग्यु॑जा॒नः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} रु॒जदरु॑ग्णं॒ वि व॒लस्य॒ सानुं᳚ प॒णीँर्वचो᳚भिर॒भि यो᳚ध॒दिन्द्रः॑ ||{2/5}{6.39.2}{6.3.16.2}{4.7.11.2}{358, 480, 4726} अ॒यम्¦उ॒शा॒नः¦परि॑¦अद्रि᳚म्¦उ॒स्राः¦ऋ॒तधी᳚तिऽभिः¦ऋ॒त॒ऽयुक्¦यु॒जा॒नः | |
अ॒यं द्यो᳚तयद॒द्युतो॒ व्य१॑(अ॒)क्तून्दो॒षा वस्तोः᳚ श॒रद॒ इन्दु॑रिन्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} इ॒मं के॒तुम॑दधु॒र्नू चि॒दह्नां॒ शुचि॑जन्मन उ॒षस॑श्चकार ||{3/5}{6.39.3}{6.3.16.3}{4.7.11.3}{359, 480, 4727} अ॒यम्¦द्यो॒त॒य॒त्¦अ॒द्युतः॑¦वि¦अ॒क्तून्¦दो॒षा¦वस्तोः᳚¦श॒रदः॑¦इन्दुः॑¦इ॒न्द्र॒ | |
अ॒यं रो᳚चयद॒रुचो᳚ रुचा॒नो॒३॑(ओ॒)ऽयं वा᳚सय॒द्व्यृ१॑(ऋ॒)तेन॑ पू॒र्वीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अ॒यमी᳚यत ऋत॒युग्भि॒रश्वैः᳚ स्व॒र्विदा॒ नाभि॑ना चर्षणि॒प्राः ||{4/5}{6.39.4}{6.3.16.4}{4.7.11.4}{360, 480, 4728} अ॒यम्¦रो॒च॒य॒त्¦अ॒रुचः॑¦रु॒चा॒नः¦अ॒यम्¦वा॒स॒य॒त्¦वि¦ऋ॒तेन॑¦पू॒र्वीः | |
नू गृ॑णा॒नो गृ॑ण॒ते प्र॑त्न राज॒न्निषः॑ पिन्व वसु॒देया᳚य पू॒र्वीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अ॒प ओष॑धीरवि॒षा वना᳚नि॒ गा, अर्व॑तो॒ नॄनृ॒चसे᳚ रिरीहि ||{5/5}{6.39.5}{6.3.16.5}{4.7.11.5}{361, 480, 4729} नु¦गृ॒णा॒नः¦गृ॒ण॒ते¦प्र॒त्न॒¦रा॒ज॒न्¦इषः॑¦पि॒न्व॒¦व॒सु॒ऽदेया᳚य¦पू॒र्वीः | |
[40] इंद्रपिबेति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् | |
इन्द्र॒ पिब॒ तुभ्यं᳚ सु॒तो मदा॒याव॑ स्य॒ हरी॒ वि मु॑चा॒ सखा᳚या |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} उ॒त प्र गा᳚य ग॒ण आ नि॒षद्याथा᳚ य॒ज्ञाय॑ गृण॒ते वयो᳚ धाः ||{1/5}{6.40.1}{6.3.17.1}{4.7.12.1}{362, 481, 4730} इन्द्र॑¦पिब॑¦तुभ्य᳚म्¦सु॒तः¦मदा᳚य¦अव॑¦स्य॒¦हरी॒ इति॑¦वि¦मु॒च॒¦सखा᳚या | |
अस्य॑ पिब॒ यस्य॑ जज्ञा॒न इ᳚न्द्र॒ मदा᳚य॒ क्रत्वे॒, अपि॑बो विरप्शिन् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तमु॑ ते॒ गावो॒ नर॒ आपो॒, अद्रि॒रिन्दुं॒ सम॑ह्यन् पी॒तये॒ सम॑स्मै ||{2/5}{6.40.2}{6.3.17.2}{4.7.12.2}{363, 481, 4731} अस्य॑¦पि॒ब॒¦यस्य॑¦ज॒ज्ञा॒नः¦इ॒न्द्र॒¦मदा᳚य¦क्रत्वे᳚¦अपि॑बः¦वि॒ऽर॒प्शि॒न् | |
समि॑द्धे, अ॒ग्नौ सु॒त इ᳚न्द्र॒ सोम॒ आ त्वा᳚ वहन्तु॒ हर॑यो॒ वहि॑ष्ठाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} त्वा॒य॒ता मन॑सा जोहवी॒मीन्द्रा या᳚हि सुवि॒ताय॑ म॒हे नः॑ ||{3/5}{6.40.3}{6.3.17.3}{4.7.12.3}{364, 481, 4732} सम्ऽइ᳚द्धे¦अ॒ग्नौ¦सु॒ते¦इ॒न्द्र॒¦सोमे᳚¦आ¦त्वा॒¦व॒ह॒न्तु॒¦हर॑यः¦वहि॑ष्ठाः | |
आ या᳚हि॒ शश्व॑दुश॒ता य॑या॒थेन्द्र॑ म॒हा मन॑सा सोम॒पेय᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} उप॒ ब्रह्मा᳚णि शृणव इ॒मा नोऽथा᳚ ते य॒ज्ञस्त॒न्वे॒३॑(ए॒) वयो᳚ धात् ||{4/5}{6.40.4}{6.3.17.4}{4.7.12.4}{365, 481, 4733} आ¦या॒हि॒¦शश्व॑त्¦उ॒श॒ता¦य॒या॒थ॒¦इन्द्र॑¦म॒हा¦मन॑सा¦सो॒म॒ऽपेय᳚म् | |
यदि᳚न्द्र दि॒वि पार्ये॒ यदृध॒ग्यद्वा॒ स्वे सद॑ने॒ यत्र॒ वासि॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अतो᳚ नो य॒ज्ञमव॑से नि॒युत्वा᳚न् त्स॒जोषाः᳚ पाहि गिर्वणो म॒रुद्भिः॑ ||{5/5}{6.40.5}{6.3.17.5}{4.7.12.5}{366, 481, 4734} यत्¦इ॒न्द्र॒¦दि॒वि¦पार्ये᳚¦यत्¦ऋध॑क्¦यत्¦वा॒¦स्वे¦सद॑ने¦यत्र॑¦वा॒¦असि॑ | |
[41] अहेळमानइति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् | |
अहे᳚ळमान॒ उप॑ याहि य॒ज्ञं तुभ्यं᳚ पवन्त॒ इन्द॑वः सु॒तासः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} गावो॒ न व॑ज्रि॒न् त्स्वमोको॒, अच्छेन्द्रा ग॑हि प्रथ॒मो य॒ज्ञिया᳚नाम् ||{1/5}{6.41.1}{6.3.18.1}{4.7.13.1}{367, 482, 4735} अहे᳚ळमानः¦उप॑¦या॒हि॒¦य॒ज्ञम्¦तुभ्य᳚म्¦प॒व॒न्ते॒¦इन्द॑वः¦सु॒तासः॑ | |
या ते᳚ का॒कुत्सुकृ॑ता॒ या वरि॑ष्ठा॒ यया॒ शश्व॒त्पिब॑सि॒ मध्व॑ ऊ॒र्मिम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तया᳚ पाहि॒ प्र ते᳚, अध्व॒र्युर॑स्था॒त्सं ते॒ वज्रो᳚ वर्ततामिन्द्र ग॒व्युः ||{2/5}{6.41.2}{6.3.18.2}{4.7.13.2}{368, 482, 4736} या¦ते॒¦का॒कुत्¦सुऽकृ॑ता¦या¦वरि॑ष्ठा¦यया᳚¦शश्व॑त्¦पिब॑सि¦मध्वः॑¦ऊ॒र्मिम् | |
ए॒ष द्र॒प्सो वृ॑ष॒भो वि॒श्वरू᳚प॒ इन्द्रा᳚य॒ वृष्णे॒ सम॑कारि॒ सोमः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} ए॒तं पि॑ब हरिवः स्थातरुग्र॒ यस्येशि॑षे प्र॒दिवि॒ यस्ते॒, अन्न᳚म् ||{3/5}{6.41.3}{6.3.18.3}{4.7.13.3}{369, 482, 4737} ए॒षः¦द्र॒प्सः¦वृ॒ष॒भः¦वि॒श्वऽरू᳚पः¦इन्द्रा᳚य¦वृष्णे᳚¦सम्¦अ॒का॒रि॒¦सोमः॑ | |
सु॒तः सोमो॒, असु॑तादिन्द्र॒ वस्या᳚न॒यं श्रेया᳚ञ्चिकि॒तुषे॒ रणा᳚य |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} ए॒तं ति॑तिर्व॒ उप॑ याहि य॒ज्ञं तेन॒ विश्वा॒स्तवि॑षी॒रा पृ॑णस्व ||{4/5}{6.41.4}{6.3.18.4}{4.7.13.4}{370, 482, 4738} सु॒तः¦सोमः॑¦असु॑तात्¦इ॒न्द्र॒¦वस्या᳚न्¦अ॒यम्¦श्रेया᳚न्¦चि॒कि॒तुषे᳚¦रणा᳚य | |
ह्वया᳚मसि॒ त्वेन्द्र॑ याह्य॒र्वाङरं᳚ ते॒ सोम॑स्त॒न्वे᳚ भवाति |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} शत॑क्रतो मा॒दय॑स्वा सु॒तेषु॒ प्रास्माँ, अ॑व॒ पृत॑नासु॒ प्र वि॒क्षु ||{5/5}{6.41.5}{6.3.18.5}{4.7.13.5}{371, 482, 4739} ह्वया᳚मसि¦त्वा॒¦आ¦इ॒न्द्र॒¦या॒हि॒¦अ॒र्वाङ्¦अर᳚म्¦ते॒¦सोमः॑¦त॒न्वे᳚¦भ॒वा॒ति॒ | |
[42] प्रत्यस्मा इति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रोनुष्टुबंत्याबृहती | |
प्रत्य॑स्मै॒ पिपी᳚षते॒ विश्वा᳚नि वि॒दुषे᳚ भर |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | अनुष्टुप्} अ॒रं॒ग॒माय॒ जग्म॒येऽप॑श्चाद्दघ्वने॒ नरे᳚ ||{1/4}{6.42.1}{6.3.19.1}{4.7.14.1}{372, 483, 4740} प्रति॑¦अ॒स्मै॒¦पिपी᳚षते¦विश्वा᳚नि¦वि॒दुषे᳚¦भ॒र॒ | अ॒र॒म्ऽग॒माय॑¦जग्म॑ये¦अप॑श्चात्ऽदघ्वने¦नरे᳚ || |
एमे᳚नं प्र॒त्येत॑न॒ सोमे᳚भिः सोम॒पात॑मम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | अनुष्टुप्} अम॑त्रेभिरृजी॒षिण॒मिन्द्रं᳚ सु॒तेभि॒रिन्दु॑भिः ||{2/4}{6.42.2}{6.3.19.2}{4.7.14.2}{373, 483, 4741} आ¦ई॒म्¦ए॒न॒म्¦प्र॒ति॒ऽएत॑न¦सोमे᳚भिः¦सो॒म॒ऽपात॑मम् | अम॑त्रेभिः¦ऋ॒जी॒षिण᳚म्¦इन्द्र᳚म्¦सु॒तेभिः॑¦इन्दु॑ऽभिः || |
यदी᳚ सु॒तेभि॒रिन्दु॑भिः॒ सोमे᳚भिः प्रति॒भूष॑थ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | अनुष्टुप्} वेदा॒ विश्व॑स्य॒ मेधि॑रो धृ॒षत्तंत॒मिदेष॑ते ||{3/4}{6.42.3}{6.3.19.3}{4.7.14.3}{374, 483, 4742} यदि॑¦सु॒तेभिः॑¦इन्दु॑ऽभिः¦सोमे᳚भिः¦प्र॒ति॒ऽभूष॑थ | वेद॑¦विश्व॑स्य¦मेधि॑रः¦धृ॒षत्¦तम्ऽत᳚म्¦इत्¦आ¦ई॒ष॒ते॒ || |
अ॒स्मा,अ॑स्मा॒, इदन्ध॒सोऽध्व᳚र्यो॒ प्र भ॑रा सु॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | बृहती} कु॒वित्स॑मस्य॒ जेन्य॑स्य॒ शर्ध॑तो॒ऽभिश॑स्तेरव॒स्पर॑त् ||{4/4}{6.42.4}{6.3.19.4}{4.7.14.4}{375, 483, 4743} अ॒स्मै।आ॑स्मै¦इत्¦अन्ध॑सः¦अध्व᳚र्यो॒ इति॑¦प्र¦भ॒र॒¦सु॒तम् | |
[43] यस्यत्यदिति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रउष्णिक् | |
यस्य॒ त्यच्छम्ब॑रं॒ मदे॒ दिवो᳚दासाय र॒न्धयः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | उष्णिक्} अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ||{1/4}{6.43.1}{6.3.20.1}{4.7.15.1}{376, 484, 4744} यस्य॑¦त्यत्¦शम्ब॑रम्¦मदे᳚¦दिवः॑ऽदासाय¦र॒न्धयः॑ | अ॒यम्¦सः¦सोमः॑¦इ॒न्द्र॒¦ते॒¦सु॒तः¦पिब॑ || |
यस्य॑ तीव्र॒सुतं॒ मदं॒ मध्य॒मन्तं᳚ च॒ रक्ष॑से |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | उष्णिक्} अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ||{2/4}{6.43.2}{6.3.20.2}{4.7.15.2}{377, 484, 4745} यस्य॑¦ती॒व्र॒ऽसुत᳚म्¦मद᳚म्¦मध्य᳚म्¦अन्त᳚म्¦च॒¦रक्ष॑से | अ॒यम्¦सः¦सोमः॑¦इ॒न्द्र॒¦ते॒¦सु॒तः¦पिब॑ || |
यस्य॒ गा, अ॒न्तरश्म॑नो॒ मदे᳚ दृ॒ळ्हा, अ॒वासृ॑जः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | उष्णिक्} अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ||{3/4}{6.43.3}{6.3.20.3}{4.7.15.3}{378, 484, 4746} यस्य॑¦गाः¦अ॒न्तः¦अश्म॑नः¦मदे᳚¦दृ॒ळ्हाः¦अ॒व॒।आसृ॑जः | अ॒यम्¦सः¦सोमः॑¦इ॒न्द्र॒¦ते॒¦सु॒तः¦पिब॑ || |
यस्य॑ मन्दा॒नो, अन्ध॑सो॒ माघो᳚नं दधि॒षे शवः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | उष्णिक्} अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ||{4/4}{6.43.4}{6.3.20.4}{4.7.15.4}{379, 484, 4747} यस्य॑¦म॒न्दा॒नः¦अन्ध॑सः¦माघो᳚नम्¦द॒धि॒षे¦शवः॑ | अ॒यम्¦सः¦सोमः॑¦इ॒न्द्र॒¦ते॒¦सु॒तः¦पिब॑ || |
[44] योरयिवइति चतुर्विंशत्यृचस्य सूक्तस्य बार्हस्पत्यः शंयुरिंद्रस्त्रिष्टुबाद्याः षढनुष्टुभः सप्तम्यादितिस्रो विराट्पंक्त्यः | (तिसृष्वष्टम्येवविराट् सप्तमीनवम्यौतु त्रिष्टुभाविति केचित्) | |
यो र॑यिवो र॒यिंत॑मो॒ यो द्यु॒म्नैर्द्यु॒म्नव॑त्तमः |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्} सोमः॑ सु॒तः स इ᳚न्द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ||{1/24}{6.44.1}{6.4.1.1}{4.7.16.1}{380, 485, 4748} यः¦र॒यि॒ऽवः॒¦र॒यिम्ऽत॑मः¦यः¦द्यु॒म्नैः¦द्यु॒म्नव॑त्ऽतमः | सोमः॑¦सु॒तः¦सः¦इ॒न्द्र॒¦ते॒¦अस्ति॑¦स्व॒धा॒ऽप॒ते॒¦मदः॑ || |
यः श॒ग्मस्तु॑विशग्म ते रा॒यो दा॒मा म॑ती॒नाम् |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्} सोमः॑ सु॒तः स इ᳚न्द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ||{2/24}{6.44.2}{6.4.1.2}{4.7.16.2}{381, 485, 4749} यः¦श॒ग्मः¦तु॒वि॒ऽश॒ग्म॒¦ते॒¦रा॒यः¦दा॒मा¦म॒ती॒नाम् | सोमः॑¦सु॒तः¦सः¦इ॒न्द्र॒¦ते॒¦अस्ति॑¦स्व॒धा॒ऽप॒ते॒¦मदः॑ || |
येन॑ वृ॒द्धो न शव॑सा तु॒रो न स्वाभि॑रू॒तिभिः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्} सोमः॑ सु॒तः स इ᳚न्द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ||{3/24}{6.44.3}{6.4.1.3}{4.7.16.3}{382, 485, 4750} येन॑¦वृ॒द्धः¦न¦शव॑सा¦तु॒रः¦न¦स्वाभिः॑¦ऊ॒तिऽभिः॑ | सोमः॑¦सु॒तः¦सः¦इ॒न्द्र॒¦ते॒¦अस्ति॑¦स्व॒धा॒ऽप॒ते॒¦मदः॑ || |
त्यमु॑ वो॒, अप्र॑हणं गृणी॒षे शव॑स॒स्पति᳚म् |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्} इन्द्रं᳚ विश्वा॒साहं॒ नरं॒ मंहि॑ष्ठं वि॒श्वच॑र्षणिम् ||{4/24}{6.44.4}{6.4.1.4}{4.7.16.4}{383, 485, 4751} त्यम्¦ऊँ॒ इति॑¦वः॒¦अप्र॑ऽहनम्¦गृ॒णी॒षे¦शव॑सः¦पति᳚म् | इन्द्र᳚म्¦वि॒श्व॒ऽसह᳚म्¦नर᳚म्¦मंहि॑ष्ठम्¦वि॒श्वऽच॑र्षणिम् || |
यं व॒र्धय॒न्तीद्गिरः॒ पतिं᳚ तु॒रस्य॒ राध॑सः |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्} तमिन्न्व॑स्य॒ रोद॑सी दे॒वी शुष्मं᳚ सपर्यतः ||{5/24}{6.44.5}{6.4.1.5}{4.7.16.5}{384, 485, 4752} यम्¦व॒र्धय᳚न्ति¦इत्¦गिरः॑¦पति᳚म्¦तु॒रस्य॑¦राध॑सः | तम्¦इत्¦नु¦अ॒स्य॒¦रोद॑सी॒ इति॑¦दे॒वी इति॑¦शुष्म᳚म्¦स॒प॒र्य॒तः॒ || |
तद्व॑ उ॒क्थस्य॑ ब॒र्हणेन्द्रा᳚योपस्तृणी॒षणि॑ |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्} विपो॒ न यस्यो॒तयो॒ वि यद्रोह᳚न्ति स॒क्षितः॑ ||{6/24}{6.44.6}{6.4.1.6}{4.7.17.1}{385, 485, 4753} तत्¦वः॒¦उ॒क्थस्य॑¦ब॒र्हणा᳚¦इन्द्रा᳚य¦उ॒प॒ऽस्तृ॒णी॒षणि॑ | विपः॑¦न¦यस्य॑¦ऊ॒तयः॑¦वि¦यत्¦रोह᳚न्ति¦स॒ऽक्षितः॑ || |
अवि॑द॒द्दक्षं᳚ मि॒त्रो नवी᳚यान् पपा॒नो दे॒वेभ्यो॒ वस्यो᳚, अचैत् |{बार्हस्पत्यः शंयः | इन्द्रः | पङ्क्तिः} स॒स॒वान् त्स्तौ॒लाभि॑र्धौ॒तरी᳚भिरुरु॒ष्या पा॒युर॑भव॒त्सखि॑भ्यः ||{7/24}{6.44.7}{6.4.1.7}{4.7.17.2}{386, 485, 4754} अवि॑दत्¦दक्ष᳚म्¦मि॒त्रः¦नवी᳚यान्¦प॒पा॒नः¦दे॒वेभ्यः॑¦वस्यः॑¦अ॒चै॒त् | |
ऋ॒तस्य॑ प॒थि वे॒धा, अ॑पायि श्रि॒ये मनां᳚सि दे॒वासो᳚, अक्रन् |{बार्हस्पत्यः शंयः | इन्द्रः | पङ्क्तिः} दधा᳚नो॒ नाम॑ म॒हो वचो᳚भि॒र्वपु॑र्दृ॒शये᳚ वे॒न्यो व्या᳚वः ||{8/24}{6.44.8}{6.4.1.8}{4.7.17.3}{387, 485, 4755} ऋ॒तस्य॑¦प॒थि¦वे॒धाः¦अ॒पा॒यि॒¦श्रि॒ये¦मनां᳚सि¦दे॒वासः॑¦अ॒क्र॒न् | |
द्यु॒मत्त॑मं॒ दक्षं᳚ धेह्य॒स्मे सेधा॒ जना᳚नां पू॒र्वीररा᳚तीः |{बार्हस्पत्यः शंयः | इन्द्रः | पङ्क्तिः} वर्षी᳚यो॒ वयः॑ कृणुहि॒ शची᳚भि॒र्धन॑स्य सा॒ताव॒स्माँ, अ॑विड्ढि ||{9/24}{6.44.9}{6.4.1.9}{4.7.17.4}{388, 485, 4756} द्यु॒मत्ऽत॑मम्¦दक्ष᳚म्¦धे॒हि॒¦अ॒स्मे इति॑¦सेध॑¦जना᳚नाम्¦पू॒र्वीः¦अरा᳚तीः | |
इन्द्र॒ तुभ्य॒मिन्म॑घवन्नभूम व॒यं दा॒त्रे ह॑रिवो॒ मा वि वे᳚नः |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} नकि॑रा॒पिर्द॑दृशे मर्त्य॒त्रा किम॒ङ्ग र॑ध्र॒चोद॑नं त्वाहुः ||{10/24}{6.44.10}{6.4.1.10}{4.7.17.5}{389, 485, 4757} इन्द्र॑¦तुभ्य᳚म्¦इत्¦म॒घ॒ऽव॒न्¦अ॒भू॒म॒¦व॒यम्¦दा॒त्रे¦ह॒रि॒ऽवः॒¦मा¦वि¦वे॒नः॒ | |
मा जस्व॑ने वृषभ नो ररीथा॒ मा ते᳚ रे॒वतः॑ स॒ख्ये रि॑षाम |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} पू॒र्वीष्ट॑ इन्द्र नि॒ष्षिधो॒ जने᳚षु ज॒ह्यसु॑ष्वी॒न् प्र वृ॒हापृ॑णतः ||{11/24}{6.44.11}{6.4.1.11}{4.7.18.1}{390, 485, 4758} मा¦जस्व॑ने¦वृ॒ष॒भ॒¦नः॒¦र॒री॒थाः॒¦मा¦ते॒¦रे॒वतः॑¦स॒ख्ये¦रि॒षा॒म॒ | |
उद॒भ्राणी᳚व स्त॒नय᳚न्निय॒र्तीन्द्रो॒ राधां॒स्यश्व्या᳚नि॒ गव्या᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} त्वम॑सि प्र॒दिवः॑ का॒रुधा᳚या॒ मा त्वा᳚दा॒मान॒ आ द॑भन्म॒घोनः॑ ||{12/24}{6.44.12}{6.4.1.12}{4.7.18.2}{391, 485, 4759} उत्¦अ॒भ्राणि॑ऽइव¦स्त॒नय॑न्¦इ॒य॒र्ति॒¦इन्द्रः॑¦राधां᳚सि¦अश्व्या᳚नि¦गव्या᳚ | |
अध्व᳚र्यो वीर॒ प्र म॒हे सु॒ताना॒मिन्द्रा᳚य भर॒ स ह्य॑स्य॒ राजा᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} यः पू॒र्व्याभि॑रु॒त नूत॑नाभिर्गी॒र्भिर्वा᳚वृ॒धे गृ॑ण॒तामृषी᳚णाम् ||{13/24}{6.44.13}{6.4.1.13}{4.7.18.3}{392, 485, 4760} अध्व᳚र्यो॒ इति॑¦वी॒र॒¦प्र¦म॒हे¦सु॒ताना᳚म्¦इन्द्रा᳚य¦भ॒र॒¦सः¦हि¦अ॒स्य॒¦राजा᳚ | |
अ॒स्य मदे᳚ पु॒रु वर्पां᳚सि वि॒द्वानिन्द्रो᳚ वृ॒त्राण्य॑प्र॒ती ज॑घान |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} तमु॒ प्र हो᳚षि॒ मधु॑मन्तमस्मै॒ सोमं᳚ वी॒राय॑ शि॒प्रिणे॒ पिब॑ध्यै ||{14/24}{6.44.14}{6.4.1.14}{4.7.18.4}{393, 485, 4761} अ॒स्य¦मदे᳚¦पु॒रु¦वर्पां᳚सि¦वि॒द्वान्¦इन्द्रः॑¦वृ॒त्राणि॑¦अ॒प्र॒ति¦ज॒घा॒न॒ | |
पाता᳚ सु॒तमिन्द्रो᳚, अस्तु॒ सोमं॒ हन्ता᳚ वृ॒त्रं वज्रे᳚ण मन्दसा॒नः |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} गन्ता᳚ य॒ज्ञं प॑रा॒वत॑श्चि॒दच्छा॒ वसु॑र्धी॒नाम॑वि॒ता का॒रुधा᳚याः ||{15/24}{6.44.15}{6.4.1.15}{4.7.18.5}{394, 485, 4762} पाता᳚¦सु॒तम्¦इन्द्रः॑¦अ॒स्तु॒¦सोम᳚म्¦हन्ता᳚¦वृ॒त्रम्¦वज्रे᳚ण¦म॒न्द॒सा॒नः | |
इ॒दं त्यत्पात्र॑मिन्द्र॒पान॒मिन्द्र॑स्य प्रि॒यम॒मृत॑मपायि |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} मत्स॒द्यथा᳚ सौमन॒साय॑ दे॒वं व्य१॑(अ॒)स्मद्द्वेषो᳚ यु॒यव॒द् व्यंहः॑ ||{16/24}{6.44.16}{6.4.1.16}{4.7.19.1}{395, 485, 4763} इ॒दम्¦त्यत्¦पात्र᳚म्¦इ॒न्द्र॒ऽपान᳚म्¦इन्द्र॑स्य¦प्रि॒यम्¦अ॒मृत᳚म्¦अ॒पा॒यि॒ | |
ए॒ना म᳚न्दा॒नो ज॒हि शू᳚र॒ शत्रू᳚ञ्जा॒मिमजा᳚मिं मघवन्न॒मित्रा॑न् |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} अ॒भि॒षे॒णाँ, अ॒भ्या॒३॑(आ॒)देदि॑शाना॒न् परा᳚च इन्द्र॒ प्र मृ॑णा ज॒ही च॑ ||{17/24}{6.44.17}{6.4.1.17}{4.7.19.2}{396, 485, 4764} ए॒ना¦म॒न्दा॒नः¦ज॒हि¦शू॒र॒¦शत्रू᳚न्¦जा॒मिम्¦अजा᳚मिम्¦म॒घ॒ऽव॒न्¦अ॒मित्रा॑न् | |
आ॒सु ष्मा᳚ णो मघवन्निन्द्र पृ॒त्स्व१॑(अ॒)स्मभ्यं॒ महि॒ वरि॑वः सु॒गं कः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} अ॒पां तो॒कस्य॒ तन॑यस्य जे॒ष इन्द्र॑ सू॒रीन् कृ॑णु॒हि स्मा᳚ नो, अ॒र्धम् ||{18/24}{6.44.18}{6.4.1.18}{4.7.19.3}{397, 485, 4765} आ॒सु¦स्म॒¦नः॒¦म॒घ॒ऽव॒न्¦इ॒न्द्र॒¦पृ॒त्ऽसु¦अ॒स्मभ्य᳚म्¦महि॑¦वरि॑वः¦सु॒ऽगम्¦क॒रिति॑ कः | |
आ त्वा॒ हर॑यो॒ वृष॑णो युजा॒ना वृष॑रथासो॒ वृष॑रश्म॒योऽत्याः᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} अ॒स्म॒त्राञ्चो॒ वृष॑णो वज्र॒वाहो॒ वृष्णे॒ मदा᳚य सु॒युजो᳚ वहन्तु ||{19/24}{6.44.19}{6.4.1.19}{4.7.19.4}{398, 485, 4766} आ¦त्वा॒¦हर॑यः¦वृष॑णः¦यु॒जा॒नाः¦वृष॑ऽरथासः¦वृष॑ऽरश्मयः¦अत्याः᳚ | |
आ ते᳚ वृष॒न् वृष॑णो॒ द्रोण॑मस्थुर्घृत॒प्रुषो॒ नोर्मयो॒ मद᳚न्तः |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} इन्द्र॒ प्र तुभ्यं॒ वृष॑भिः सु॒तानां॒ वृष्णे᳚ भरन्ति वृष॒भाय॒ सोम᳚म् ||{20/24}{6.44.20}{6.4.1.20}{4.7.19.5}{399, 485, 4767} आ¦ते॒¦वृ॒ष॒न्¦वृष॑णः¦द्रोण᳚म्¦अ॒स्थुः॒¦घृ॒त॒ऽप्रुषः॑¦न¦ऊ॒र्मयः॑¦मद᳚न्तः | |
वृषा᳚सि दि॒वो वृ॑ष॒भः पृ॑थि॒व्या वृषा॒ सिन्धू᳚नां वृष॒भः स्तिया᳚नाम् |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} वृष्णे᳚ त॒ इन्दु᳚र्वृषभ पीपाय स्वा॒दू रसो᳚ मधु॒पेयो॒ वरा᳚य ||{21/24}{6.44.21}{6.4.1.21}{4.7.20.1}{400, 485, 4768} वृषा᳚¦अ॒सि॒¦दि॒वः¦वृ॒ष॒भः¦पृ॒थि॒व्याः¦वृषा᳚¦सिन्धू᳚नाम्¦वृ॒ष॒भः¦स्तिया᳚नाम् | |
अ॒यं दे॒वः सह॑सा॒ जाय॑मान॒ इन्द्रे᳚ण यु॒जा प॒णिम॑स्तभायत् |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} अ॒यं स्वस्य॑ पि॒तुरायु॑धा॒नीन्दु॑रमुष्णा॒दशि॑वस्य मा॒याः ||{22/24}{6.44.22}{6.4.1.22}{4.7.20.2}{401, 485, 4769} अ॒यम्¦दे॒वः¦सह॑सा¦जाय॑मानः¦इन्द्रे᳚ण¦यु॒जा¦प॒णिम्¦अ॒स्त॒भा॒य॒त् | |
अ॒यम॑कृणोदु॒षसः॑ सु॒पत्नी᳚र॒यं सूर्ये᳚, अदधा॒ज्ज्योति॑र॒न्तः |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} अ॒यं त्रि॒धातु॑ दि॒वि रो᳚च॒नेषु॑ त्रि॒तेषु॑ विन्दद॒मृतं॒ निगू᳚ळ्हम् ||{23/24}{6.44.23}{6.4.1.23}{4.7.20.3}{402, 485, 4770} अ॒यम्¦अ॒कृ॒णो॒त्¦उ॒षसः॑¦सु॒ऽपत्नीः᳚¦अ॒यम्¦सूर्ये᳚¦अ॒द॒धा॒त्¦ज्योतिः॑¦अ॒न्तरिति॑ | |
अ॒यं द्यावा᳚पृथि॒वी वि ष्क॑भायद॒यं रथ॑मयुनक्स॒प्तर॑श्मिम् |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} अ॒यं गोषु॒ शच्या᳚ प॒क्वम॒न्तः सोमो᳚ दाधार॒ दश॑यन्त्र॒मुत्स᳚म् ||{24/24}{6.44.24}{6.4.1.24}{4.7.20.4}{403, 485, 4771} अ॒यम्¦द्यावा᳚पृथि॒वी इति॑¦वि¦स्क॒भा॒य॒त्¦अ॒यम्¦रथ᳚म्¦अ॒यु॒न॒क्¦स॒प्तऽर॑श्मिम् | |
[45] यआनयदिति त्रयस्त्रिंशदृचस्य सूक्तस्य बार्हस्पत्यः शंयुरिंद्रोंत्यतृचस्यबृबुस्तक्षा गायत्री एकोनत्रिंश्यतिनिचृद् एकत्रिंशीपादनिचृदंत्यानुष्टुप् | |
य आन॑यत्परा॒वतः॒ सुनी᳚ती तु॒र्वशं॒ यदु᳚म् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} इन्द्रः॒ स नो॒ युवा॒ सखा᳚ ||{1/33}{6.45.1}{6.4.2.1}{4.7.21.1}{404, 486, 4772} यः¦आ¦अन॑यत्¦प॒रा॒ऽवतः॑¦सुऽनी᳚ती¦तु॒र्वश᳚म्¦यदु᳚म् | इन्द्रः॑¦सः¦नः॒¦युवा᳚¦सखा᳚ || |
अ॒वि॒प्रे चि॒द्वयो॒ दध॑दना॒शुना᳚ चि॒दर्व॑ता |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} इन्द्रो॒ जेता᳚ हि॒तं धन᳚म् ||{2/33}{6.45.2}{6.4.2.2}{4.7.21.2}{405, 486, 4773} अ॒वि॒प्रे¦चि॒त्¦वयः॑¦दध॑त्¦अ॒ना॒शुना᳚¦चि॒त्¦अर्व॑ता | इन्द्रः॑¦जेता᳚¦हि॒तम्¦धन᳚म् || |
म॒हीर॑स्य॒ प्रणी᳚तयः पू॒र्वीरु॒त प्रश॑स्तयः |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} नास्य॑ क्षीयन्त ऊ॒तयः॑ ||{3/33}{6.45.3}{6.4.2.3}{4.7.21.3}{406, 486, 4774} म॒हीः¦अ॒स्य॒¦प्रऽनी᳚तयः¦पू॒र्वीः¦उ॒त¦प्रऽश॑स्तयः | न¦अ॒स्य॒¦क्षी॒य॒न्ते॒¦ऊ॒तयः॑ || |
सखा᳚यो॒ ब्रह्म॑वाह॒सेऽर्च॑त॒ प्र च॑ गायत |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} स हि नः॒ प्रम॑तिर्म॒ही ||{4/33}{6.45.4}{6.4.2.4}{4.7.21.4}{407, 486, 4775} सखा᳚यः¦ब्रह्म॑ऽवाहसे¦अर्च॑त¦प्र¦च॒¦गा॒य॒त॒ | सः¦हि¦नः॒¦प्रऽम॑तिः¦म॒ही || |
त्वमेक॑स्य वृत्रहन्नवि॒ता द्वयो᳚रसि |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} उ॒तेदृशे॒ यथा᳚ व॒यम् ||{5/33}{6.45.5}{6.4.2.5}{4.7.21.5}{408, 486, 4776} त्वम्¦एक॑स्य¦वृ॒त्र॒ऽह॒न्¦अ॒वि॒ता¦द्वयोः᳚¦अ॒सि॒ | उ॒त¦ई॒दृशे᳚¦यथा᳚¦व॒यम् || |
नय॒सीद्वति॒ द्विषः॑ कृ॒णोष्यु॑क्थशं॒सिनः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} नृभिः॑ सु॒वीर॑ उच्यसे ||{6/33}{6.45.6}{6.4.2.6}{4.7.22.1}{409, 486, 4777} नय॑सि¦इत्¦ऊँ॒ इति॑¦अति॑¦द्विषः॑¦कृ॒णोषि॑¦उ॒क्थ॒ऽशं॒सिनः॑ | नृऽभिः॑¦सु॒ऽवीरः॑¦उ॒च्य॒से॒ || |
ब्र॒ह्माणं॒ ब्रह्म॑वाहसं गी॒र्भिः सखा᳚यमृ॒ग्मिय᳚म् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} गां न दो॒हसे᳚ हुवे ||{7/33}{6.45.7}{6.4.2.7}{4.7.22.2}{410, 486, 4778} ब्र॒ह्माण᳚म्¦ब्रह्म॑ऽवाहसम्¦गीः॒ऽभिः¦सखा᳚यम्¦ऋ॒ग्मिय᳚म् | गाम्¦न¦दो॒हसे᳚¦हु॒वे॒ || |
यस्य॒ विश्वा᳚नि॒ हस्त॑योरू॒चुर्वसू᳚नि॒ नि द्वि॒ता |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} वी॒रस्य॑ पृतना॒षहः॑ ||{8/33}{6.45.8}{6.4.2.8}{4.7.22.3}{411, 486, 4779} यस्य॑¦विश्वा᳚नि¦हस्त॑योः¦ऊ॒चुः¦वसू᳚नि¦नि¦द्वि॒ता | वी॒रस्य॑¦पृ॒त॒ना॒ऽसहः॑ || |
वि दृ॒ळ्हानि॑ चिदद्रिवो॒ जना᳚नां शचीपते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} वृ॒ह मा॒या, अ॑नानत ||{9/33}{6.45.9}{6.4.2.9}{4.7.22.4}{412, 486, 4780} वि¦दृ॒ळ्हानि॑¦चि॒त्¦अ॒द्रि॒ऽवः॒¦जना᳚नाम्¦श॒ची॒ऽप॒ते॒ | वृ॒ह¦मा॒याः¦अ॒ना॒न॒त॒ || |
तमु॑ त्वा सत्य सोमपा॒, इन्द्र॑ वाजानां पते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} अहू᳚महि श्रव॒स्यवः॑ ||{10/33}{6.45.10}{6.4.2.10}{4.7.22.5}{413, 486, 4781} तम्¦ऊँ॒ इति॑¦त्वा॒¦स॒त्य॒¦सो॒म॒ऽपाः॒¦इन्द्र॑¦वा॒जा॒ना॒म्¦प॒ते॒ | अहू᳚महि¦श्र॒व॒स्यवः॑ || |
तमु॑ त्वा॒ यः पु॒रासि॑थ॒ यो वा᳚ नू॒नं हि॒ते धने᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} हव्यः॒ स श्रु॑धी॒ हव᳚म् ||{11/33}{6.45.11}{6.4.2.11}{4.7.23.1}{414, 486, 4782} तम्¦ऊँ॒ इति॑¦त्वा॒¦यः¦पु॒रा¦आसि॑थ¦यः¦वा॒¦नू॒नम्¦हि॒ते¦धने᳚ | हव्यः॑¦सः¦श्रु॒धि॒¦हव᳚म् || |
धी॒भिरर्व॑द्भि॒रर्व॑तो॒ वाजाँ᳚, इन्द्र श्र॒वाय्या॑न् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} त्वया᳚ जेष्म हि॒तं धन᳚म् ||{12/33}{6.45.12}{6.4.2.12}{4.7.23.2}{415, 486, 4783} धी॒भिः¦अर्व॑त्ऽभिः¦अर्व॑तः¦वाजा᳚न्¦इ॒न्द्र॒¦श्र॒वाय्या॑न् | त्वया᳚¦जे॒ष्म॒¦हि॒तम्¦धन᳚म् || |
अभू᳚रु वीर गिर्वणो म॒हाँ, इ᳚न्द्र॒ धने᳚ हि॒ते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} भरे᳚ वितन्त॒साय्यः॑ ||{13/33}{6.45.13}{6.4.2.13}{4.7.23.3}{416, 486, 4784} अभूः᳚¦ऊँ॒ इति॑¦वी॒र॒¦गि॒र्व॒णः॒¦म॒हान्¦इ॒न्द्र॒¦धने᳚¦हि॒ते | भरे᳚¦वि॒त॒न्त॒साय्यः॑ || |
या त॑ ऊ॒तिर॑मित्रहन्म॒क्षूज॑वस्त॒मास॑ति |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} तया᳚ नो हिनुही॒ रथ᳚म् ||{14/33}{6.45.14}{6.4.2.14}{4.7.23.4}{417, 486, 4785} या¦ते॒¦ऊ॒तिः¦अ॒मि॒त्र॒ऽह॒न्¦म॒क्षुज॑वःऽतमा¦अस॑ति | तया᳚¦नः॒¦हि॒नु॒हि॒¦रथ᳚म् || |
स रथे᳚न र॒थीत॑मो॒ऽस्माके᳚नाभि॒युग्व॑ना |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} जेषि॑ जिष्णो हि॒तं धन᳚म् ||{15/33}{6.45.15}{6.4.2.15}{4.7.23.5}{418, 486, 4786} सः¦रथे᳚न¦र॒थिऽत॑मः¦अ॒स्माके᳚न¦अ॒भि॒ऽयुग्व॑ना | जेषि॑¦जि॒ष्णो॒ इति॑¦हि॒तम्¦धन᳚म् || |
य एक॒ इत्तमु॑ ष्टुहि कृष्टी॒नां विच॑र्षणिः |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} पति॑र्ज॒ज्ञे वृष॑क्रतुः ||{16/33}{6.45.16}{6.4.2.16}{4.7.24.1}{419, 486, 4787} यः¦एकः॑¦इत्¦तम्¦ऊँ॒ इति॑¦स्तु॒हि॒¦कृ॒ष्टी॒नाम्¦विऽच॑र्षणिः | पतिः॑¦ज॒ज्ञे¦वृष॑ऽक्रतुः || |
यो गृ॑ण॒तामिदासि॑था॒पिरू॒ती शि॒वः सखा᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} स त्वं न॑ इन्द्र मृळय ||{17/33}{6.45.17}{6.4.2.17}{4.7.24.2}{420, 486, 4788} यः¦गृ॒ण॒ताम्¦इत्¦आसि॑थ¦आ॒पिः¦ऊ॒ती¦शि॒वः¦सखा᳚ | सः¦त्वम्¦नः॒¦इ॒न्द्र॒¦मृ॒ळ॒य॒ || |
धि॒ष्व वज्रं॒ गभ॑स्त्यो रक्षो॒हत्या᳚य वज्रिवः |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} सा॒स॒ही॒ष्ठा, अ॒भि स्पृधः॑ ||{18/33}{6.45.18}{6.4.2.18}{4.7.24.3}{421, 486, 4789} धि॒ष्व¦वज्र᳚म्¦गभ॑स्त्योः¦र॒क्षः॒ऽहत्या᳚य¦व॒ज्रि॒ऽवः॒ | स॒स॒ही॒ष्ठाः¦अ॒भि¦स्पृधः॑ || |
प्र॒त्नं र॑यी॒णां युजं॒ सखा᳚यं कीरि॒चोद॑नम् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} ब्रह्म॑वाहस्तमं हुवे ||{19/33}{6.45.19}{6.4.2.19}{4.7.24.4}{422, 486, 4790} प्र॒त्नम्¦र॒यी॒णाम्¦युज᳚म्¦सखा᳚यम्¦की॒रि॒ऽचोद॑नम् | ब्रह्म॑वाहःऽतमम्¦हु॒वे॒ || |
स हि विश्वा᳚नि॒ पार्थि॑वाँ॒, एको॒ वसू᳚नि॒ पत्य॑ते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} गिर्व॑णस्तमो॒, अध्रि॑गुः ||{20/33}{6.45.20}{6.4.2.20}{4.7.24.5}{423, 486, 4791} सः¦हि¦विश्वा᳚नि¦पार्थि॑वा¦एकः॑¦वसू᳚नि¦पत्य॑ते | गिर्व॑णःऽतमः¦अध्रि॑ऽगुः || |
स नो᳚ नि॒युद्भि॒रा पृ॑ण॒ कामं॒ वाजे᳚भिर॒श्विभिः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} गोम॑द्भिर्गोपते धृ॒षत् ||{21/33}{6.45.21}{6.4.2.21}{4.7.25.1}{424, 486, 4792} सः¦नः॒¦नि॒युत्ऽभिः॑¦आ¦पृ॒ण॒¦काम᳚म्¦वाजे᳚भिः¦अ॒श्विऽभिः॑ | गोम॑त्ऽभिः¦गो॒ऽप॒ते॒¦धृ॒षत् || |
तद्वो᳚ गाय सु॒ते सचा᳚ पुरुहू॒ताय॒ सत्व॑ने |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} शं यद्गवे॒ न शा॒किने᳚ ||{22/33}{6.45.22}{6.4.2.22}{4.7.25.2}{425, 486, 4793} तत्¦वः॒¦गा॒य॒¦सु॒ते¦सचा᳚¦पु॒रु॒ऽहू॒ताय॑¦सत्व॑ने | शम्¦यत्¦गवे᳚¦न¦शा॒किने᳚ || |
न घा॒ वसु॒र्नि य॑मते दा॒नं वाज॑स्य॒ गोम॑तः |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} यत्सी॒मुप॒ श्रव॒द्गिरः॑ ||{23/33}{6.45.23}{6.4.2.23}{4.7.25.3}{426, 486, 4794} न¦घ॒¦वसुः॑¦नि¦य॒म॒ते॒¦दा॒नम्¦वाज॑स्य¦गोऽम॑तः | यत्¦सी॒म्¦उप॑¦श्र॒व॒त्¦गिरः॑ || |
कु॒वित्स॑स्य॒ प्र हि व्र॒जं गोम᳚न्तं दस्यु॒हा गम॑त् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} शची᳚भि॒रप॑ नो वरत् ||{24/33}{6.45.24}{6.4.2.24}{4.7.25.4}{427, 486, 4795} कु॒वित्ऽस॑स्य¦प्र¦हि¦व्र॒जम्¦गोऽम᳚न्तम्¦द॒स्यु॒ऽहा¦गम॑त् | शची᳚भिः¦अप॑¦नः॒¦व॒र॒त् || |
इ॒मा, उ॑ त्वा शतक्रतो॒ऽभि प्र णो᳚नुवु॒र्गिरः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} इन्द्र॑ व॒त्सं न मा॒तरः॑ ||{25/33}{6.45.25}{6.4.2.25}{4.7.25.5}{428, 486, 4796} इ॒माः¦ऊँ॒ इति॑¦त्वा॒¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो¦अ॒भि¦प्र¦नो॒नु॒वुः॒¦गिरः॑ | इन्द्र॑¦व॒त्सम्¦न¦मा॒तरः॑ || |
दू॒णाशं᳚ स॒ख्यं तव॒ गौर॑सि वीर गव्य॒ते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} अश्वो᳚, अश्वाय॒ते भ॑व ||{26/33}{6.45.26}{6.4.2.26}{4.7.26.1}{429, 486, 4797} दुः॒ऽनश᳚म्¦स॒ख्यम्¦तव॑¦गौः¦अ॒सि॒¦वी॒र॒¦ग॒व्य॒ते | अश्वः॑¦अ॒श्व॒ऽय॒ते¦भ॒व॒ || |
स म᳚न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वा᳚ म॒हे |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} न स्तो॒तारं᳚ नि॒दे क॑रः ||{27/33}{6.45.27}{6.4.2.27}{4.7.26.2}{430, 486, 4798} सः¦म॒न्द॒स्व॒¦हि¦अन्ध॑सः¦राध॑से¦त॒न्वा᳚¦म॒हे | न¦स्तो॒तार᳚म्¦नि॒दे¦क॒रः॒ || |
इ॒मा, उ॑ त्वा सु॒तेसु॑ते॒ नक्ष᳚न्ते गिर्वणो॒ गिरः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} व॒त्सं गावो॒ न धे॒नवः॑ ||{28/33}{6.45.28}{6.4.2.28}{4.7.26.3}{431, 486, 4799} इ॒माः¦ऊँ॒ इति॑¦त्वा॒¦सु॒तेऽसु॑ते¦नक्ष᳚न्ते¦गि॒र्व॒णः॒¦गिरः॑ | व॒त्सम्¦गावः॑¦न¦धे॒नवः॑ || |
पु॒रू॒तमं᳚ पुरू॒णां स्तो᳚तॄ॒णां विवा᳚चि |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} वाजे᳚भिर्वाजय॒ताम् ||{29/33}{6.45.29}{6.4.2.29}{4.7.26.4}{432, 486, 4800} पु॒रु॒ऽतम᳚म्¦पु॒रू॒णाम्¦स्तो॒तॄ॒णाम्¦विऽवा᳚चि | वाजे᳚भिः¦वा॒ज॒ऽय॒ताम् || |
अ॒स्माक॑मिन्द्र भूतु ते॒ स्तोमो॒ वाहि॑ष्ठो॒, अन्त॑मः |{बार्हस्पत्यः शंयः | बृबुस्तक्षा | गायत्री} अ॒स्मान् रा॒ये म॒हे हि॑नु ||{30/33}{6.45.30}{6.4.2.30}{4.7.26.5}{433, 486, 4801} अ॒स्माक᳚म्¦इ॒न्द्र॒¦भू॒तु॒¦ते॒¦स्तोमः॑¦वाहि॑ष्ठः¦अन्त॑मः | अ॒स्मान्¦रा॒ये¦म॒हे¦हि॒नु॒ || |
अधि॑ बृ॒बुः प॑णी॒नां वर्षि॑ष्ठे मू॒र्धन्न॑स्थात् |{बार्हस्पत्यः शंयः | बृबुस्तक्षा | गायत्री} उ॒रुः कक्षो॒ न गा॒ङ्ग्यः ||{31/33}{6.45.31}{6.4.2.31}{4.7.26.6}{434, 486, 4802} अधि॑¦बृ॒बुः¦प॒णी॒नाम्¦वर्षि॑ष्ठे¦मू॒र्धन्¦अ॒स्था॒त् | उ॒रुः¦कक्षः॑¦न¦गा॒ङ्ग्यः || |
यस्य॑ वा॒योरि॑व द्र॒वद्भ॒द्रा रा॒तिः स॑ह॒स्रिणी᳚ |{बार्हस्पत्यः शंयः | बृबुस्तक्षा | गायत्री} स॒द्यो दा॒नाय॒ मंह॑ते ||{32/33}{6.45.32}{6.4.2.32}{4.7.26.7}{435, 486, 4803} यस्य॑¦वा॒योःऽइ᳚व¦द्र॒वत्¦भ॒द्रा¦रा॒तिः¦स॒ह॒स्रिणी᳚ | स॒द्यः¦दा॒नाय॑¦मंह॑ते || |
तत्सु नो॒ विश्वे᳚, अ॒र्य आ सदा᳚ गृणन्ति का॒रवः॑ |{बार्हस्पत्यः शंयः | बृबुस्तक्षा | अनुष्टुप्} बृ॒बुं स॑हस्र॒दात॑मं सू॒रिं स॑हस्र॒सात॑मम् ||{33/33}{6.45.33}{6.4.2.33}{4.7.26.8}{436, 486, 4804} तत्¦सु¦नः॒¦विश्वे᳚¦अ॒र्यः¦आ¦सदा᳚¦गृ॒ण॒न्ति॒¦का॒रवः॑ | बृ॒बुम्¦स॒ह॒स्र॒ऽदात॑मम्¦सू॒रिम्¦स॒ह॒स्र॒ऽसात॑मम् || |
[46] त्वामिद्धीति चतुर्दशर्चस्य सूक्तस्य बार्हस्पत्यः शंयुरिंद्रः अयुजोबृहत्यः युजःसतोबृहत्यः | |
त्वामिद्धि हवा᳚महे सा॒ता वाज॑स्य का॒रवः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती} त्वां वृ॒त्रेष्वि᳚न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः ||{1/14}{6.46.1}{6.4.3.1}{4.7.27.1}{437, 487, 4805} त्वाम्¦इत्¦हि¦हवा᳚महे¦सा॒ता¦वाज॑स्य¦का॒रवः॑ | |
स त्वं न॑श्चित्र वज्रहस्त धृष्णु॒या म॒हः स्त॑वा॒नो, अ॑द्रिवः |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती} गामश्वं᳚ र॒थ्य॑मिन्द्र॒ सं कि॑र स॒त्रा वाजं॒ न जि॒ग्युषे᳚ ||{2/14}{6.46.2}{6.4.3.2}{4.7.27.2}{438, 487, 4806} सः¦त्वम्¦नः॒¦चि॒त्र॒¦व॒ज्र॒ऽह॒स्त॒¦धृ॒ष्णु॒ऽया¦म॒हः¦स्त॒वा॒नः¦अ॒द्रि॒ऽवः॒ | |
यः स॑त्रा॒हा विच॑र्षणि॒रिन्द्रं॒ तं हू᳚महे व॒यम् |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती} सह॑स्रमुष्क॒ तुवि॑नृम्ण॒ सत्प॑ते॒ भवा᳚ स॒मत्सु॑ नो वृ॒धे ||{3/14}{6.46.3}{6.4.3.3}{4.7.27.3}{439, 487, 4807} यः¦स॒त्रा॒ऽहा¦विऽच॑र्षणिः¦इन्द्र᳚म्¦तम्¦हू॒म॒हे॒¦व॒यम् | |
बाध॑से॒ जना᳚न् वृष॒भेव॑ म॒न्युना॒ घृषौ᳚ मी॒ळ्ह ऋ॑चीषम |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती} अ॒स्माकं᳚ बोध्यवि॒ता म॑हाध॒ने त॒नूष्व॒प्सु सूर्ये᳚ ||{4/14}{6.46.4}{6.4.3.4}{4.7.27.4}{440, 487, 4808} बाध॑से¦जना᳚न्¦वृ॒ष॒भाऽइ᳚व¦म॒न्युना᳚¦घृषौ᳚¦मी॒ळ्हे¦ऋ॒ची॒ष॒म॒ | |
इन्द्र॒ ज्येष्ठं᳚ न॒ आ भ॑रँ॒, ओजि॑ष्ठं॒ पपु॑रि॒ श्रवः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती} येने॒मे चि॑त्र वज्रहस्त॒ रोद॑सी॒, ओभे सु॑शिप्र॒ प्राः ||{5/14}{6.46.5}{6.4.3.5}{4.7.27.5}{441, 487, 4809} इन्द्र॑¦ज्येष्ठ᳚म्¦नः॒¦आ¦भ॒र॒¦ओजि॑ष्ठम्¦पपु॑रि¦श्रवः॑ | |
त्वामु॒ग्रमव॑से चर्षणी॒सहं॒ राज᳚न्दे॒वेषु॑ हूमहे |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती} विश्वा॒ सु नो᳚ विथु॒रा पि॑ब्द॒ना व॑सो॒ऽमित्रा᳚न् त्सु॒षहा᳚न् कृधि ||{6/14}{6.46.6}{6.4.3.6}{4.7.28.1}{442, 487, 4810} त्वाम्¦उ॒ग्रम्¦अव॑से¦च॒र्ष॒णि॒ऽसह᳚म्¦राज॑न्¦दे॒वेषु॑¦हू॒म॒हे॒ | |
यदि᳚न्द्र॒ नाहु॑षी॒ष्वाँ, ओजो᳚ नृ॒म्णं च॑ कृ॒ष्टिषु॑ |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती} यद्वा॒ पञ्च॑ क्षिती॒नां द्यु॒म्नमा भ॑र स॒त्रा विश्वा᳚नि॒ पौंस्या᳚ ||{7/14}{6.46.7}{6.4.3.7}{4.7.28.2}{443, 487, 4811} यत्¦इ॒न्द्र॒¦नाहु॑षीषु¦आ¦ओजः॑¦नृ॒म्णम्¦च॒¦कृ॒ष्टिषु॑ | |
यद्वा᳚ तृ॒क्षौ म॑घवन्द्रु॒ह्यावा जने॒ यत्पू॒रौ कच्च॒ वृष्ण्य᳚म् |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती} अ॒स्मभ्यं॒ तद्रि॑रीहि॒ सं नृ॒षाह्ये॒ऽमित्रा᳚न् पृ॒त्सु तु॒र्वणे᳚ ||{8/14}{6.46.8}{6.4.3.8}{4.7.28.3}{444, 487, 4812} यत्¦वा॒¦तृ॒क्षौ¦म॒घ॒ऽव॒न्¦द्रु॒ह्यौ¦आ¦जने᳚¦यत्¦पू॒रौ¦कत्¦च॒¦वृष्ण्य᳚म् | |
इन्द्र॑ त्रि॒धातु॑ शर॒णं त्रि॒वरू᳚थं स्वस्ति॒मत् |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती} छ॒र्दिर्य॑च्छ म॒घव॑द्भ्यश्च॒ मह्यं᳚ च या॒वया᳚ दि॒द्युमे᳚भ्यः ||{9/14}{6.46.9}{6.4.3.9}{4.7.28.4}{445, 487, 4813} इन्द्र॑¦त्रि॒ऽधातु॑¦श॒र॒णम्¦त्रि॒ऽवरू᳚थम्¦स्व॒स्ति॒ऽमत् | |
ये ग᳚व्य॒ता मन॑सा॒ शत्रु॑माद॒भुर॑भिप्र॒घ्नन्ति॑ धृष्णु॒या |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती} अध॑ स्मा नो मघवन्निन्द्र गिर्वणस्तनू॒पा, अन्त॑मो भव ||{10/14}{6.46.10}{6.4.3.10}{4.7.28.5}{446, 487, 4814} ये¦ग॒व्य॒ता¦मन॑सा¦शत्रु᳚म्¦आ॒ऽद॒भुः¦अ॒भि॒ऽप्र॒घ्नन्ति॑¦धृ॒ष्णु॒ऽया | |
अध॑ स्मा नो वृ॒धे भ॒वेन्द्र॑ ना॒यम॑वा यु॒धि |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती} यद॒न्तरि॑क्षे प॒तय᳚न्ति प॒र्णिनो᳚ दि॒द्यव॑स्ति॒ग्ममू᳚र्धानः ||{11/14}{6.46.11}{6.4.3.11}{4.7.29.1}{447, 487, 4815} अध॑¦स्म॒¦नः॒¦वृ॒धे¦भ॒व॒¦इन्द्र॑¦ना॒यम्¦अ॒व॒¦यु॒धि | |
यत्र॒ शूरा᳚सस्त॒न्वो᳚ वितन्व॒ते प्रि॒या शर्म॑ पितॄ॒णाम् |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती} अध॑ स्मा यच्छ त॒न्वे॒३॑(ए॒) तने᳚ च छ॒र्दिर॒चित्तं᳚ या॒वय॒ द्वेषः॑ ||{12/14}{6.46.12}{6.4.3.12}{4.7.29.2}{448, 487, 4816} यत्र॑¦शूरा᳚सः¦त॒न्वः॑¦वि॒ऽत॒न्व॒ते¦प्रि॒या¦शर्म॑¦पि॒तॄ॒णाम् | |
यदि᳚न्द्र॒ सर्गे॒, अर्व॑तश्चो॒दया᳚से महाध॒ने |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती} अ॒स॒म॒ने, अध्व॑नि वृजि॒ने प॒थि श्ये॒नाँ, इ॑व श्रवस्य॒तः ||{13/14}{6.46.13}{6.4.3.13}{4.7.29.3}{449, 487, 4817} यत्¦इ॒न्द्र॒¦सर्गे᳚¦अर्व॑तः¦चो॒दया᳚से¦म॒हा॒ऽध॒ने | |
सिन्धूँ᳚रिव प्रव॒ण आ᳚शु॒या य॒तो यदि॒ क्लोश॒मनु॒ ष्वणि॑ |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती} आ ये वयो॒ न वर्वृ॑त॒त्यामि॑षि गृभी॒ता बा॒ह्वोर्गवि॑ ||{14/14}{6.46.14}{6.4.3.14}{4.7.29.4}{450, 487, 4818} सिन्धू᳚न्ऽइव¦प्र॒व॒णे¦आ॒शु॒ऽया¦य॒तः¦यदि॑¦क्लोश᳚म्¦अनु॑¦स्वनि॑ | |
[47] स्वादुष्किलायमित्येक त्रिंशदृचस्य सूक्तस्य भारद्वाजोगर्गइंद्रः आद्यानांपंचानां सोमोऽगव्यूतीत्यस्यादेवभूमींद्राः प्रस्तोकइत्यादिचतसृणां प्रस्तोकोवनस्पतइत्यादितिसृणां रथउपश्वासयेतिद्वयोर्दुंदुभिः आमूरजइत्यस्यादुंदुभींद्रौत्रिष्टुप् एकोनविंशीबृहती त्रयोविंश्यनुष्टुप् चतुर्विंशीगायत्री पंचविंशीद्विपदा सप्तविंशीजगती | |
स्वा॒दुष्किला॒यं मधु॑माँ, उ॒तायं ती॒व्रः किला॒यं रस॑वाँ, उ॒तायम् |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्} उ॒तो न्व१॑(अ॒)स्य प॑पि॒वांस॒मिन्द्रं॒ न कश्च॒न स॑हत आह॒वेषु॑ ||{1/31}{6.47.1}{6.4.4.1}{4.7.30.1}{451, 488, 4819} स्वा॒दुः¦किल॑¦अ॒यम्¦मधु॑ऽमान्¦उ॒त¦अ॒यम्¦ती॒व्रः¦किल॑¦अ॒यम्¦रस॑ऽवान्¦उ॒त¦अ॒यम् | |
अ॒यं स्वा॒दुरि॒ह मदि॑ष्ठ आस॒ यस्येन्द्रो᳚ वृत्र॒हत्ये᳚ म॒माद॑ |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्} पु॒रूणि॒ यश्च्यौ॒त्ना शम्ब॑रस्य॒ वि न॑व॒तिं नव॑ च दे॒ह्यो॒३॑(ओ॒) हन् ||{2/31}{6.47.2}{6.4.4.2}{4.7.30.2}{452, 488, 4820} अ॒यम्¦स्वा॒दुः¦इ॒ह¦मदि॑ष्ठः¦आ॒स॒¦यस्य॑¦इन्द्रः॑¦वृ॒त्र॒ऽहत्ये᳚¦म॒माद॑ | |
अ॒यं मे᳚ पी॒त उदि॑यर्ति॒ वाच॑म॒यं म॑नी॒षामु॑श॒तीम॑जीगः |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्} अ॒यं षळु॒र्वीर॑मिमीत॒ धीरो॒ न याभ्यो॒ भुव॑नं॒ कच्च॒नारे ||{3/31}{6.47.3}{6.4.4.3}{4.7.30.3}{453, 488, 4821} अ॒यम्¦मे॒¦पी॒तः¦उत्¦इ॒य॒र्ति॒¦वाच᳚म्¦अ॒यम्¦म॒नी॒षाम्¦उ॒श॒तीम्¦अ॒जी॒ग॒रिति॑ | |
अ॒यं स यो व॑रि॒माणं᳚ पृथि॒व्या व॒र्ष्माणं᳚ दि॒वो, अकृ॑णोद॒यं सः |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्} अ॒यं पी॒यूषं᳚ ति॒सृषु॑ प्र॒वत्सु॒ सोमो᳚ दाधारो॒र्व१॑(अ॒)न्तरि॑क्षम् ||{4/31}{6.47.4}{6.4.4.4}{4.7.30.4}{454, 488, 4822} अ॒यम्¦सः¦यः¦व॒रि॒माण᳚म्¦पृ॒थि॒व्याः¦व॒र्ष्माण᳚म्¦दि॒वः¦अकृ॑णोत्¦अ॒यम्¦सः | |
अ॒यं वि॑दच्चित्र॒दृशी᳚क॒मर्णः॑ शु॒क्रस॑द्मनामु॒षसा॒मनी᳚के |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्} अ॒यं म॒हान्म॑ह॒ता स्कम्भ॑ने॒नोद्द्याम॑स्तभ्नाद्वृष॒भो म॒रुत्वा॑न् ||{5/31}{6.47.5}{6.4.4.5}{4.7.30.5}{455, 488, 4823} अ॒यम्¦वि॒द॒त्¦चि॒त्र॒ऽदृशी᳚कम्¦अर्णः॑¦शु॒क्रऽस॑द्मनाम्¦उ॒षसा᳚म्¦अनी᳚के | |
धृ॒षत्पि॑ब क॒लशे॒ सोम॑मिन्द्र वृत्र॒हा शू᳚र सम॒रे वसू᳚नाम् |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} माध्यं᳚दिने॒ सव॑न॒ आ वृ॑षस्व रयि॒स्थानो᳚ र॒यिम॒स्मासु॑ धेहि ||{6/31}{6.47.6}{6.4.4.6}{4.7.31.1}{456, 488, 4824} धृ॒षत्¦पि॒ब॒¦क॒लशे᳚¦सोम᳚म्¦इ॒न्द्र॒¦वृ॒त्र॒ऽहा¦शू॒र॒¦स॒म्।आ॒रे¦वसू᳚नाम् | |
इन्द्र॒ प्र णः॑ पुरए॒तेव॑ पश्य॒ प्र नो᳚ नय प्रत॒रं वस्यो॒, अच्छ॑ |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} भवा᳚ सुपा॒रो, अ॑तिपार॒यो नो॒ भवा॒ सुनी᳚तिरु॒त वा॒मनी᳚तिः ||{7/31}{6.47.7}{6.4.4.7}{4.7.31.2}{457, 488, 4825} इन्द्र॑¦प्र¦नः॒¦पु॒र॒ए॒ताऽइ᳚व¦प॒श्य॒¦प्र¦नः॒¦न॒य॒¦प्र॒ऽत॒रम्¦वस्यः॑¦अच्छ॑ | |
उ॒रुं नो᳚ लो॒कमनु॑ नेषि वि॒द्वान् त्स्व᳚र्व॒ज्ज्योति॒रभ॑यं स्व॒स्ति |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} ऋ॒ष्वा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू, उप॑ स्थेयाम शर॒णा बृ॒हन्ता᳚ ||{8/31}{6.47.8}{6.4.4.8}{4.7.31.3}{458, 488, 4826} उ॒रुम्¦नः॒¦लो॒कम्¦अनु॑¦ने॒षि॒¦वि॒द्वान्¦स्वः॑ऽवत्¦ज्योतिः॑¦अभ॑यम्¦स्व॒स्ति | |
वरि॑ष्ठे न इन्द्र व॒न्धुरे᳚ धा॒ वहि॑ष्ठयोः शताव॒न्नश्व॑यो॒रा |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} इष॒मा व॑क्षी॒षां वर्षि॑ष्ठां॒ मा न॑स्तारीन्मघव॒न् रायो᳚, अ॒र्यः ||{9/31}{6.47.9}{6.4.4.9}{4.7.31.4}{459, 488, 4827} वरि॑ष्ठे¦नः॒¦इ॒न्द्र॒¦व॒न्धुरे᳚¦धाः॒¦वहि॑ष्ठयोः¦श॒त॒ऽव॒न्¦अश्व॑योः¦आ | |
इन्द्र॑ मृ॒ळ मह्यं᳚ जी॒वातु॑मिच्छ चो॒दय॒ धिय॒मय॑सो॒ न धारा᳚म् |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} यत्किं चा॒हं त्वा॒युरि॒दं वदा᳚मि॒ तज्जु॑षस्व कृ॒धि मा᳚ दे॒वव᳚न्तम् ||{10/31}{6.47.10}{6.4.4.10}{4.7.31.5}{460, 488, 4828} इन्द्र॑¦मृ॒ळ¦मह्य᳚म्¦जी॒वातु᳚म्¦इ॒च्छ॒¦चो॒दय॑¦धिय᳚म्¦अय॑सः¦न¦धारा᳚म् | |
त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒ हवे᳚हवे सु॒हवं॒ शूर॒मिन्द्र᳚म् |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} ह्वया᳚मि श॒क्रं पु॑रुहू॒तमिन्द्रं᳚ स्व॒स्ति नो᳚ म॒घवा᳚ धा॒त्विन्द्रः॑ ||{11/31}{6.47.11}{6.4.4.11}{4.7.32.1}{461, 488, 4829} त्रा॒तार᳚म्¦इन्द्र᳚म्¦अ॒वि॒तार᳚म्¦इन्द्र᳚म्¦हवे᳚ऽहवे¦सु॒ऽहव᳚म्¦शूर᳚म्¦इन्द्र᳚म् | |
इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒, अवो᳚भिः सुमृळी॒को भ॑वतु वि॒श्ववे᳚दाः |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} बाध॑तां॒ द्वेषो॒, अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ||{12/31}{6.47.12}{6.4.4.12}{4.7.32.2}{462, 488, 4830} इन्द्रः॑¦सु॒ऽत्रामा᳚¦स्वऽवा᳚न्¦अवः॑ऽभिः¦सु॒ऽमृ॒ळी॒कः¦भ॒व॒तु॒¦वि॒श्वऽवे᳚दाः | |
तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ᳚मन॒से स्या᳚म |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} स सु॒त्रामा॒ स्ववाँ॒, इन्द्रो᳚, अ॒स्मे, आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु ||{13/31}{6.47.13}{6.4.4.13}{4.7.32.3}{463, 488, 4831} तस्य॑¦व॒यम्¦सु॒ऽम॒तौ¦य॒ज्ञिय॑स्य¦अपि॑¦भ॒द्रे¦सौ॒म॒न॒से¦स्या॒म॒ | |
अव॒ त्वे, इ᳚न्द्र प्र॒वतो॒ नोर्मिर्गिरो॒ ब्रह्मा᳚णि नि॒युतो᳚ धवन्ते |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} उ॒रू न राधः॒ सव॑ना पु॒रूण्य॒पो गा व॑ज्रिन्युवसे॒ समिन्दू॑न् ||{14/31}{6.47.14}{6.4.4.14}{4.7.32.4}{464, 488, 4832} अव॑¦त्वे इति॑¦इ॒न्द्र॒¦प्र॒ऽवतः॑¦न¦ऊ॒र्मिः¦गिरः॑¦ब्रह्मा᳚णि¦नि॒ऽयुतः॑¦ध॒व॒न्ते॒ | |
क ईं᳚ स्तव॒त्कः पृ॑णा॒त्को य॑जाते॒ यदु॒ग्रमिन्म॒घवा᳚ वि॒श्वहावे᳚त् |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} पादा᳚विव प्र॒हर᳚न्न॒न्यम᳚न्यं कृ॒णोति॒ पूर्व॒मप॑रं॒ शची᳚भिः ||{15/31}{6.47.15}{6.4.4.15}{4.7.32.5}{465, 488, 4833} कः¦ई॒म्¦स्त॒व॒त्¦कः¦पृ॒णा॒त्¦कः¦य॒जा॒ते॒¦यत्¦उ॒ग्रम्¦इत्¦म॒घऽवा᳚¦वि॒श्वहा᳚¦अवे᳚त् | |
शृ॒ण्वे वी॒र उ॒ग्रमु॑ग्रं दमा॒यन्न॒न्यम᳚न्यमतिनेनी॒यमा᳚नः |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} ए॒ध॒मा॒न॒द्विळु॒भय॑स्य॒ राजा᳚ चोष्कू॒यते॒ विश॒ इन्द्रो᳚ मनु॒ष्या॑न् ||{16/31}{6.47.16}{6.4.4.16}{4.7.33.1}{466, 488, 4834} शृ॒ण्वे¦वी॒रः¦उ॒ग्रम्।औ᳚ग्रम्¦द॒म॒ऽयन्¦अ॒न्यम्।आ᳚न्यम्¦अ॒ति॒ऽने॒नी॒यमा᳚नः | |
परा॒ पूर्वे᳚षां स॒ख्या वृ॑णक्ति वि॒तर्तु॑राणो॒, अप॑रेभिरेति |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} अना᳚नुभूतीरवधून्वा॒नः पू॒र्वीरिन्द्रः॑ श॒रद॑स्तर्तरीति ||{17/31}{6.47.17}{6.4.4.17}{4.7.33.2}{467, 488, 4835} परा᳚¦पूर्वे᳚षाम्¦स॒ख्या¦वृ॒ण॒क्ति॒¦वि॒ऽतर्तु॑राणः¦अप॑रेभिः¦ए॒ति॒ | |
रू॒पंरू᳚पं॒ प्रति॑रूपो बभूव॒ तद॑स्य रू॒पं प्र॑ति॒चक्ष॑णाय |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} इन्द्रो᳚ मा॒याभिः॑ पुरु॒रूप॑ ईयते यु॒क्ता ह्य॑स्य॒ हर॑यः श॒ता दश॑ ||{18/31}{6.47.18}{6.4.4.18}{4.7.33.3}{468, 488, 4836} रू॒पम्ऽरू᳚पम्¦प्रति॑ऽरूपः¦ब॒भू॒व॒¦तत्¦अ॒स्य॒¦रू॒पम्¦प्र॒ति॒ऽचक्ष॑णाय | |
यु॒जा॒नो ह॒रिता॒ रथे॒ भूरि॒ त्वष्टे॒ह रा᳚जति |{भारद्वाजो गर्गः | इन्द्रः | बृहती} को वि॒श्वाहा᳚ द्विष॒तः पक्ष॑ आसत उ॒तासी᳚नेषु सू॒रिषु॑ ||{19/31}{6.47.19}{6.4.4.19}{4.7.33.4}{469, 488, 4837} यु॒जा॒नः¦ह॒रिता᳚¦रथे᳚¦भूरि॑¦त्वष्टा᳚¦इ॒ह¦रा॒ज॒ति॒ | |
अ॒ग॒व्यू॒ति क्षेत्र॒माग᳚न्म देवा, उ॒र्वी स॒ती भूमि॑रंहूर॒णाभू᳚त् |{भारद्वाजो गर्गः | १/४:देवाः २/४:भूमिः २/४:बृहस्पतिः ४/४:इन्द्रः | त्रिष्टुप्} बृह॑स्पते॒ प्र चि॑कित्सा॒ गवि॑ष्टावि॒त्था स॒ते ज॑रि॒त्र इ᳚न्द्र॒ पन्था᳚म् ||{20/31}{6.47.20}{6.4.4.20}{4.7.33.5}{470, 488, 4838} अ॒ग॒व्यू॒ति¦क्षेत्र᳚म्¦आ¦अ॒ग॒न्म॒¦दे॒वाः॒¦उ॒र्वी¦स॒ती¦भूमिः॑¦अं॒हू॒र॒णा¦अ॒भू॒त् | |
दि॒वेदि॑वे स॒दृशी᳚र॒न्यमर्धं᳚ कृ॒ष्णा, अ॑सेध॒दप॒ सद्म॑नो॒ जाः |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} अह᳚न्दा॒सा वृ॑ष॒भो व॑स्न॒यन्तो॒दव्र॑जे व॒र्चिनं॒ शम्ब॑रं च ||{21/31}{6.47.21}{6.4.4.21}{4.7.34.1}{471, 488, 4839} दि॒वेऽदि॑वे¦स॒ऽदृशीः᳚¦अ॒न्यम्¦अर्ध᳚म्¦कृ॒ष्णाः¦अ॒से॒ध॒त्¦अप॑¦सद्म॑नः¦जाः | |
प्र॒स्तो॒क इन्नु राध॑सस्त इन्द्र॒ दश॒ कोश॑यी॒र्दश॑ वा॒जिनो᳚ऽदात् |{भारद्वाजो गर्गः | प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः | त्रिष्टुप्} दिवो᳚दासादतिथि॒ग्वस्य॒ राधः॑ शाम्ब॒रं वसु॒ प्रत्य॑ग्रभीष्म ||{22/31}{6.47.22}{6.4.4.22}{4.7.34.2}{472, 488, 4840} प्र॒ऽस्तो॒कः¦इत्¦नु¦राध॑सः¦ते॒¦इ॒न्द्र॒¦दश॑¦कोश॑यीः¦दश॑¦वा॒जिनः॑¦अ॒दा॒त् | |
दशाश्वा॒न्दश॒ कोशा॒न्दश॒ वस्त्राधि॑भोजना |{भारद्वाजो गर्गः | प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः | अनुष्टुप्} दशो᳚ हिरण्यपि॒ण्डान्दिवो᳚दासादसानिषम् ||{23/31}{6.47.23}{6.4.4.23}{4.7.34.3}{473, 488, 4841} दश॑¦अश्वा᳚न्¦दश॑¦कोशा᳚न्¦दश॑¦वस्त्रा᳚¦अधि॑ऽभोजना | दशो॒ इति॑¦हि॒र॒ण्य॒ऽपि॒ण्डान्¦दिवः॑ऽदासात्¦अ॒सा॒नि॒ष॒म् || |
दश॒ रथा॒न् प्रष्टि॑मतः श॒तं गा, अथ᳚र्वभ्यः |{भारद्वाजो गर्गः | प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः | गायत्री} अ॒श्व॒थः पा॒यवे᳚ऽदात् ||{24/31}{6.47.24}{6.4.4.24}{4.7.34.4}{474, 488, 4842} दश॑¦रथा᳚न्¦प्रष्टि॑ऽमतः¦श॒तम्¦गाः¦अथ᳚र्वऽभ्यः | अ॒श्व॒थः¦पा॒यवे᳚¦अ॒दा॒त् || |
महि॒ राधो᳚ वि॒श्वज᳚न्यं॒ दधा᳚नान् भ॒रद्वा᳚जान् त्सार्ञ्ज॒यो, अ॒भ्य॑यष्ट ||{भारद्वाजो गर्गः | प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः | द्विपदा त्रिष्टुप्}{25/31}{6.47.25}{6.4.4.25}{4.7.34.5}{475, 488, 4843} |
वन॑स्पते वी॒ड्व᳚ङ्गो॒ हि भू॒या, अ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीरः॑ |{भारद्वाजो गर्गः | रथः | त्रिष्टुप्} गोभिः॒ संन॑द्धो, असि वी॒ळय॑स्वास्था॒ता ते᳚ जयतु॒ जेत्वा᳚नि ||{26/31}{6.47.26}{6.4.4.26}{4.7.35.1}{476, 488, 4844} वन॑स्पते¦वी॒ळु।आ᳚ङ्गः¦हि¦भू॒याः¦अ॒स्मत्ऽस॑खा¦प्र॒ऽतर॑णः¦सु॒ऽवीरः॑ | |
दि॒वस्पृ॑थि॒व्याः पर्योज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्यः॒ पर्याभृ॑तं॒ सहः॑ |{भारद्वाजो गर्गः | रथः | जगती} अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्रं᳚ ह॒विषा॒ रथं᳚ यज ||{27/31}{6.47.27}{6.4.4.27}{4.7.35.2}{477, 488, 4845} दि॒वः¦पृ॒थि॒व्याः¦परि॑¦ओजः॑¦उत्ऽभृ॑तम्¦वन॒स्पति॑ऽभ्यः¦परि॑¦आऽभृ॑तम्¦सहः॑ | |
इन्द्र॑स्य॒ वज्रो᳚ म॒रुता॒मनी᳚कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑ |{भारद्वाजो गर्गः | रथः | त्रिष्टुप्} सेमां नो᳚ ह॒व्यदा᳚तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ||{28/31}{6.47.28}{6.4.4.28}{4.7.35.3}{478, 488, 4846} इन्द्र॑स्य¦वज्रः॑¦म॒रुता᳚म्¦अनी᳚कम्¦मि॒त्रस्य॑¦गर्भः॑¦वरु॑णस्य¦नाभिः॑ | |
उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते᳚ मनुतां॒ विष्ठि॑तं॒ जग॑त् |{भारद्वाजो गर्गः | दुन्दुभिः | त्रिष्टुप्} स दु᳚न्दुभे स॒जूरिन्द्रे᳚ण दे॒वैर्दू॒राद्दवी᳚यो॒, अप॑ सेध॒ शत्रू॑न् ||{29/31}{6.47.29}{6.4.4.29}{4.7.35.4}{479, 488, 4847} उप॑¦श्वा॒स॒य॒¦पृ॒थि॒वीम्¦उ॒त¦द्याम्¦पु॒रु॒ऽत्रा¦ते॒¦म॒नु॒ता॒म्¦विऽस्थि॑तम्¦जग॑त् | |
आ क्र᳚न्दय॒ बल॒मोजो᳚ न॒ आ धा॒ निः ष्ट॑निहि दुरि॒ता बाध॑मानः |{भारद्वाजो गर्गः | दुन्दुभिः | त्रिष्टुप्} अप॑ प्रोथ दुन्दुभे दु॒च्छुना᳚, इ॒त इन्द्र॑स्य मु॒ष्टिर॑सि वी॒ळय॑स्व ||{30/31}{6.47.30}{6.4.4.30}{4.7.35.5}{480, 488, 4848} आ¦क्र॒न्द॒य॒¦बल᳚म्¦ओजः॑¦नः॒¦आ¦धाः॒¦निः¦स्त॒नि॒हि॒¦दुः॒ऽइ॒ता¦बाध॑मानः | |
आमूर॑ज प्र॒त्याव॑र्तये॒माः के᳚तु॒मद्दु᳚न्दु॒भिर्वा᳚वदीति |{भारद्वाजो गर्गः | १/२:दुन्दुभिः २/२:इन्द्रः | त्रिष्टुप्} समश्व॑पर्णा॒श्चर᳚न्ति नो॒ नरो॒ऽस्माक॑मिन्द्र र॒थिनो᳚ जयन्तु ||{31/31}{6.47.31}{6.4.4.31}{4.7.35.6}{481, 488, 4849} आ¦अ॒मूः¦अ॒ज॒¦प्र॒ति॒ऽआव॑र्तय¦इ॒माः¦के॒तु॒ऽमत्¦दु॒न्दु॒भिः¦वा॒व॒दी॒ति॒ | |
[48] यज्ञायज्ञावइति द्वाविंशत्यृचस्य सूक्तस्य बार्हस्पत्यःशंयुस्तृणपाणिः आद्यानांदशानामग्निरेकादश्यादिपंचानांमरुतस्ततश्चतुर्णां पूषाततस्तृचस्यमरुतः (त्रयोदश्यादितिसृणाम् इंद्रार्यमपूषविष्ण्वाद्यालिंगोक्तदेवतावा अंत्ययोर्द्यावाभूमीवापृश्निर्वा) आद्याबृहती द्वितीयासतोबृहती तृतीयाबृहती चतुर्थीसतोबृहती पंचमी बृहती षष्ठीमहासतोबृहती सप्तमीमहाबृहती अष्टमीमहासतोबृहती नवमीबृहती दशमीसतोबृहती एकादशीककुप् द्वादशीसतोबृहती त्रयोदशीपुर उष्णिक् चतुर्दशीबृहती पंचदश्यतिजगती षोडशीककुप् सप्तदशीसतोबृहती अष्टादशीपुरउष्णिक् एकोनविंशीविंशीबृहती एकविंशीमहाबृहती यवमध्याद्वाविंश्यनुष्टुप् | (पृष्निसूक्तमिदं) | |
य॒ज्ञाय॑ज्ञा वो, अ॒ग्नये᳚ गि॒रागि॑रा च॒ दक्ष॑से |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | बृहती} प्रप्र॑ व॒यम॒मृतं᳚ जा॒तवे᳚दसं प्रि॒यं मि॒त्रं न शं᳚सिषम् ||{1/22}{6.48.1}{6.4.5.1}{4.8.1.1}{482, 489, 4850} य॒ज्ञाऽय॑ज्ञा¦वः॒¦अ॒ग्नये᳚¦गि॒राऽगि॑रा¦च॒¦दक्ष॑से | |
ऊ॒र्जो नपा᳚तं॒ स हि॒नायम॑स्म॒युर्दाशे᳚म ह॒व्यदा᳚तये |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | सतोबृहती} भुव॒द्वाजे᳚ष्ववि॒ता भुव॑द्वृ॒ध उ॒त त्रा॒ता त॒नूना᳚म् ||{2/22}{6.48.2}{6.4.5.2}{4.8.1.2}{483, 489, 4851} ऊ॒र्जः¦नपा᳚तम्¦सः¦हि॒न¦अ॒यम्¦अ॒स्म॒ऽयुः¦दाशे᳚म¦ह॒व्यऽदा᳚तये | |
वृषा॒ ह्य॑ग्ने, अ॒जरो᳚ म॒हान् वि॒भास्य॒र्चिषा᳚ |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | बृहती} अज॑स्रेण शो॒चिषा॒ शोशु॑चच्छुचे सुदी॒तिभिः॒ सु दी᳚दिहि ||{3/22}{6.48.3}{6.4.5.3}{4.8.1.3}{484, 489, 4852} वृषा᳚¦हि¦अ॒ग्ने॒¦अ॒जरः॑¦म॒हान्¦वि॒ऽभासि॑¦अ॒र्चिषा᳚ | |
म॒हो दे॒वान् यज॑सि॒ यक्ष्या᳚नु॒षक्तव॒ क्रत्वो॒त दं॒सना᳚ |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | सतोबृहती} अ॒र्वाचः॑ सीं कृणुह्य॒ग्नेऽव॑से॒ रास्व॒ वाजो॒त वं᳚स्व ||{4/22}{6.48.4}{6.4.5.4}{4.8.1.4}{485, 489, 4853} म॒हः¦दे॒वान्¦यज॑सि¦यक्षि॑¦आ॒नु॒षक्¦तव॑¦क्रत्वा᳚¦उ॒त¦दं॒सना᳚ | |
यमापो॒, अद्र॑यो॒ वना॒ गर्भ॑मृ॒तस्य॒ पिप्र॑ति |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | बृहती} सह॑सा॒ यो म॑थि॒तो जाय॑ते॒ नृभिः॑ पृथि॒व्या, अधि॒ सान॑वि ||{5/22}{6.48.5}{6.4.5.5}{4.8.1.5}{486, 489, 4854} यम्¦आपः॑¦अद्र॑यः¦वना᳚¦गर्भ᳚म्¦ऋ॒तस्य॑¦पिप्र॑ति | |
आ यः प॒प्रौ भा॒नुना॒ रोद॑सी, उ॒भे धू॒मेन॑ धावते दि॒वि |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | महा सतोबृहती} ति॒रस्तमो᳚ ददृश॒ ऊर्म्या॒स्वा श्या॒वास्व॑रु॒षो वृषा श्या॒वा, अ॑रु॒षो वृषा᳚ ||{6/22}{6.48.6}{6.4.5.6}{4.8.2.1}{487, 489, 4855} आ¦यः¦प॒प्रौ¦भा॒नुना᳚¦रोद॑सी॒ इति॑¦उ॒भे इति॑¦धू॒मेन॑¦धा॒व॒ते॒¦दि॒वि | |
बृ॒हद्भि॑रग्ने, अ॒र्चिभिः॑ शु॒क्रेण॑ देव शो॒चिषा᳚ |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | महा बृहती} भ॒रद्वा᳚जे समिधा॒नो य॑विष्ठ्य रे॒वन्नः॑ शुक्र दीदिहि द्यु॒मत्पा᳚वक दीदिहि ||{7/22}{6.48.7}{6.4.5.7}{4.8.2.2}{488, 489, 4856} बृ॒हत्ऽभिः॑¦अ॒ग्ने॒¦अ॒र्चिऽभिः॑¦शु॒क्रेण॑¦दे॒व॒¦शो॒चिषा᳚ | |
विश्वा᳚सां गृ॒हप॑तिर्वि॒शाम॑सि॒ त्वम॑ग्ने॒ मानु॑षीणाम् |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | महा सतोबृहती} श॒तं पू॒र्भिर्य॑विष्ठ पा॒ह्यंह॑सः समे॒द्धारं᳚ श॒तं हिमाः᳚ स्तो॒तृभ्यो॒ ये च॒ दद॑ति ||{8/22}{6.48.8}{6.4.5.8}{4.8.2.3}{489, 489, 4857} विश्वा᳚साम्¦गृ॒हऽप॑तिः¦वि॒शाम्¦अ॒सि॒¦त्वम्¦अ॒ग्ने॒¦मानु॑षीणाम् | |
त्वं न॑श्चि॒त्र ऊ॒त्या वसो॒ राधां᳚सि चोदय |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | बृहती} अ॒स्य रा॒यस्त्वम॑ग्ने र॒थीर॑सि वि॒दा गा॒धं तु॒चे तु नः॑ ||{9/22}{6.48.9}{6.4.5.9}{4.8.2.4}{490, 489, 4858} त्वम्¦नः॒¦चि॒त्रः¦ऊ॒त्या¦वसो॒ इति॑¦राधां᳚सि¦चो॒द॒य॒ | |
पर्षि॑ तो॒कं तन॑यं प॒र्तृभि॒ष्ट्वमद॑ब्धै॒रप्र॑युत्वभिः |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | सतोबृहती} अग्ने॒ हेळां᳚सि॒ दैव्या᳚ युयोधि॒ नोऽदे᳚वानि॒ ह्वरां᳚सि च ||{10/22}{6.48.10}{6.4.5.10}{4.8.2.5}{491, 489, 4859} पर्षि॑¦तो॒कम्¦तन॑यम्¦प॒र्तृऽभिः॑¦त्वम्¦अद॑ब्धैः¦अप्र॑युत्वऽभिः | |
आ स॑खायः सब॒र्दुघां᳚ धे॒नुम॑जध्व॒मुप॒ नव्य॑सा॒ वचः॑ |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | ककुप्} सृ॒जध्व॒मन॑पस्फुराम् ||{11/22}{6.48.11}{6.4.5.11}{4.8.3.1}{492, 489, 4860} आ¦स॒खा॒यः॒¦स॒बः॒ऽदुघा᳚म्¦धे॒नुम्¦अ॒ज॒ध्व॒म्¦उप॑¦नव्य॑सा¦वचः॑ | सृ॒जध्व᳚म्¦अन॑पऽस्फुराम् || |
या शर्धा᳚य॒ मारु॑ताय॒ स्वभा᳚नवे॒ श्रवोऽमृ॑त्यु॒ धुक्ष॑त |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | सतोबृहती} या मृ॑ळी॒के म॒रुतां᳚ तु॒राणां॒ या सु॒म्नैरे᳚व॒याव॑री ||{12/22}{6.48.12}{6.4.5.12}{4.8.3.2}{493, 489, 4861} या¦शर्धा᳚य¦मारु॑ताय¦स्वऽभा᳚नवे¦श्रवः॑¦अमृ॑त्यु¦धुक्ष॑त | |
भ॒रद्वा᳚जा॒याव॑ धुक्षत द्वि॒ता |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | पुर उष्णिक्} धे॒नुं च॑ वि॒श्वदो᳚हस॒मिषं᳚ च वि॒श्वभो᳚जसम् ||{13/22}{6.48.13}{6.4.5.13}{4.8.3.3}{494, 489, 4862} भ॒रत्ऽवा᳚जाय¦अव॑¦धु॒क्ष॒त॒¦द्वि॒ता | धे॒नुम्¦च॒¦वि॒श्वऽदो᳚हसम्¦इष᳚म्¦च॒¦वि॒श्वऽभो᳚जसम् || |
तं व॒ इन्द्रं॒ न सु॒क्रतुं॒ वरु॑णमिव मा॒यिन᳚म् |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | बृहती} अ॒र्य॒मणं॒ न म॒न्द्रं सृ॒प्रभो᳚जसं॒ विष्णुं॒ न स्तु॑ष आ॒दिशे᳚ ||{14/22}{6.48.14}{6.4.5.14}{4.8.3.4}{495, 489, 4863} तम्¦वः॒¦इन्द्र᳚म्¦न¦सु॒ऽक्रतु᳚म्¦वरु॑णम्ऽइव¦मा॒यिन᳚म् | |
त्वे॒षं शर्धो॒ न मारु॑तं तुवि॒ष्वण्य॑न॒र्वाणं᳚ पू॒षणं॒ सं यथा᳚ श॒ता |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | अतिजगती} सं स॒हस्रा॒ कारि॑षच्चर्ष॒णिभ्य॒ आँ, आ॒विर्गू॒ळ्हा वसू᳚ करत्सु॒वेदा᳚ नो॒ वसू᳚ करत् ||{15/22}{6.48.15}{6.4.5.15}{4.8.3.5}{496, 489, 4864} त्वे॒षम्¦शर्धः॑¦न¦मारु॑तम्¦तु॒वि॒ऽस्वणि॑¦अ॒न॒र्वाण᳚म्¦पू॒षण᳚म्¦सम्¦यथा᳚¦श॒ता | |
आ मा᳚ पूष॒न्नुप॑ द्रव॒ शंसि॑षं॒ नु ते᳚, अपिक॒र्ण आ᳚घृणे |{बार्हस्पत्यः शंयुस्तृणपाणिः | पूषा | ककुप्} अ॒घा, अ॒र्यो, अरा᳚तयः ||{16/22}{6.48.16}{6.4.5.16}{4.8.3.6}{497, 489, 4865} आ¦मा॒¦पू॒ष॒न्¦उप॑¦द्र॒व॒¦शंसि॑षम्¦नु¦ते॒¦अ॒पि॒ऽक॒र्णे¦आ॒घृ॒णे॒ | अ॒घाः¦अ॒र्यः¦अरा᳚तयः || |
मा का᳚क॒म्बीर॒मुद्वृ॑हो॒ वन॒स्पति॒मश॑स्ती॒र्वि हि नीन॑शः |{बार्हस्पत्यः शंयुस्तृणपाणिः | पूषा | सतोबृहती} मोत सूरो॒, अह॑ ए॒वा च॒न ग्री॒वा, आ॒दध॑ते॒ वेः ||{17/22}{6.48.17}{6.4.5.17}{4.8.4.1}{498, 489, 4866} मा¦का॒क॒म्बीर᳚म्¦उत्¦वृ॒हः॒¦वन॒स्पति᳚म्¦अश॑स्तीः¦वि¦हि¦नीन॑शः | |
दृते᳚रिव तेऽवृ॒कम॑स्तु स॒ख्यम् |{बार्हस्पत्यः शंयुस्तृणपाणिः | पूषा | पुर उष्णिक्} अच्छि॑द्रस्य दध॒न्वतः॒ सुपू᳚र्णस्य दध॒न्वतः॑ ||{18/22}{6.48.18}{6.4.5.18}{4.8.4.2}{499, 489, 4867} दृतेः᳚ऽइव¦ते॒¦अ॒वृ॒कम्¦अ॒स्तु॒¦स॒ख्यम् | अच्छि॑द्रस्य¦द॒ध॒न्ऽवतः॑¦सुऽपू᳚र्णस्य¦द॒ध॒न्ऽवतः॑ || |
प॒रो हि मर्त्यै॒रसि॑ स॒मो दे॒वैरु॒त श्रि॒या |{बार्हस्पत्यः शंयुस्तृणपाणिः | पूषा | बृहती} अ॒भि ख्यः॑ पूष॒न् पृत॑नासु न॒स्त्वमवा᳚ नू॒नं यथा᳚ पु॒रा ||{19/22}{6.48.19}{6.4.5.19}{4.8.4.3}{500, 489, 4868} प॒रः¦हि¦मर्त्यैः᳚¦असि॑¦स॒मः¦दे॒वैः¦उ॒त¦श्रि॒या | |
वा॒मी वा॒मस्य॑ धूतयः॒ प्रणी᳚तिरस्तु सू॒नृता᳚ |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | बृहती} दे॒वस्य॑ वा मरुतो॒ मर्त्य॑स्य वेजा॒नस्य॑ प्रयज्यवः ||{20/22}{6.48.20}{6.4.5.20}{4.8.4.4}{501, 489, 4869} वा॒मी¦वा॒मस्य॑¦धू॒त॒यः॒¦प्रऽनी᳚तिः¦अ॒स्तु॒¦सू॒नृता᳚ | |
स॒द्यश्चि॒द्यस्य॑ चर्कृ॒तिः परि॒ द्यां दे॒वो नैति॒ सूर्यः॑ |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | महा बृहती यवमध्या} त्वे॒षं शवो᳚ दधिरे॒ नाम॑ य॒ज्ञियं᳚ म॒रुतो᳚ वृत्र॒हं शवो॒ ज्येष्ठं᳚ वृत्र॒हं शवः॑ ||{21/22}{6.48.21}{6.4.5.21}{4.8.4.5}{502, 489, 4870} स॒द्यः¦चि॒त्¦यस्य॑¦च॒र्कृ॒तिः¦परि॑¦द्याम्¦दे॒वः¦न¦एति॑¦सूर्यः॑ | |
स॒कृद्ध॒ द्यौर॑जायत स॒कृद्भूमि॑रजायत |{बार्हस्पत्यः शंयुस्तृणपाणिः | द्यावाभूमीवापृश्निर्वा | अनुष्टुप्} पृश्न्या᳚ दु॒ग्धं स॒कृत्पय॒स्तद॒न्यो नानु॑ जायते ||{22/22}{6.48.22}{6.4.5.22}{4.8.4.6}{503, 489, 4871} स॒कृत्¦ह॒¦द्यौः¦अ॒जा॒य॒त॒¦स॒कृत्¦भूमिः॑¦अ॒जा॒य॒त॒ | पृश्न्याः᳚¦दु॒ग्धम्¦स॒कृत्¦पयः॑¦तत्¦अ॒न्यः¦न¦अनु॑¦जा॒य॒ते॒ || |
[49] स्तुषेजनमिति पंचदशर्चस्य सूक्तस्य भारद्वाजऋजिश्वा विश्वेदेवास्त्रिष्टुबंत्याशक्वरी | (इतश्चत्वारिवैश्व | भेदपक्षे - विश्वेदेवाः १ | अग्निः १ अहोरात्रे १ वायुः १ अश्विनौ १ विश्वेदेवाः १ सरस्वती १ पूषा १ अग्नित्वष्टारौ १ रुद्रः १ मरुतः २ विष्णुः १ विश्वेदेवाः २ एवं १५) | |
स्तु॒षे जनं᳚ सुव्र॒तं नव्य॑सीभिर्गी॒र्भिर्मि॒त्रावरु॑णा सुम्न॒यन्ता᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} त आ ग॑मन्तु॒ त इ॒ह श्रु॑वन्तु सुक्ष॒त्रासो॒ वरु॑णो मि॒त्रो, अ॒ग्निः ||{1/15}{6.49.1}{6.4.6.1}{4.8.5.1}{504, 490, 4872} स्तु॒षे¦जन᳚म्¦सु॒ऽव्र॒तम्¦नव्य॑सीभिः¦गीः॒ऽभिः¦मि॒त्रावरु॑णा¦सु॒म्न॒ऽयन्ता᳚ | |
वि॒शोवि॑श॒ ईड्य॑मध्व॒रेष्वदृ॑प्तक्रतुमर॒तिं यु॑व॒त्योः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} दि॒वः शिशुं॒ सह॑सः सू॒नुम॒ग्निं य॒ज्ञस्य॑ के॒तुम॑रु॒षं यज॑ध्यै ||{2/15}{6.49.2}{6.4.6.2}{4.8.5.2}{505, 490, 4873} वि॒शःऽवि॑शः¦ईड्य᳚म्¦अ॒ध्व॒रेषु॑¦अदृ॑प्तऽक्रतुम्¦अ॒र॒तिम्¦यु॒व॒त्योः | |
अ॒रु॒षस्य॑ दुहि॒तरा॒ विरू᳚पे॒ स्तृभि॑र॒न्या पि॑पि॒शे सूरो᳚, अ॒न्या |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} मि॒थ॒स्तुरा᳚ वि॒चर᳚न्ती पाव॒के मन्म॑ श्रु॒तं न॑क्षत ऋ॒च्यमा᳚ने ||{3/15}{6.49.3}{6.4.6.3}{4.8.5.3}{506, 490, 4874} अ॒रु॒षस्य॑¦दु॒हि॒तरा᳚¦विरू᳚पे॒ इति॒ विऽरू᳚पे¦स्तृऽभिः॑¦अ॒न्या¦पि॒पि॒शे¦सूरः॑¦अ॒न्या | |
प्र वा॒युमच्छा᳚ बृह॒ती म॑नी॒षा बृ॒हद्र॑यिं वि॒श्ववा᳚रं रथ॒प्राम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} द्यु॒तद्या᳚मा नि॒युतः॒ पत्य॑मानः क॒विः क॒विमि॑यक्षसि प्रयज्यो ||{4/15}{6.49.4}{6.4.6.4}{4.8.5.4}{507, 490, 4875} प्र¦वा॒युम्¦अच्छ॑¦बृ॒ह॒ती¦म॒नी॒षा¦बृ॒हत्ऽर॑यिम्¦वि॒श्वऽवा᳚रम्¦र॒थ॒ऽप्राम् | |
स मे॒ वपु॑श्छदयद॒श्विनो॒र्यो रथो᳚ वि॒रुक्मा॒न्मन॑सा युजा॒नः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} येन॑ नरा नासत्येष॒यध्यै᳚ व॒र्तिर्या॒थस्तन॑याय॒ त्मने᳚ च ||{5/15}{6.49.5}{6.4.6.5}{4.8.5.5}{508, 490, 4876} सः¦मे॒¦वपुः॑¦छ॒द॒य॒त्¦अ॒श्विनोः᳚¦यः¦रथः॑¦वि॒रुक्मा᳚न्¦मन॑सा¦यु॒जा॒नः | |
पर्ज᳚न्यवाता वृषभा पृथि॒व्याः पुरी᳚षाणि जिन्वत॒मप्या᳚नि |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} सत्य॑श्रुतः कवयो॒ यस्य॑ गी॒र्भिर्जग॑तः स्थात॒र्जग॒दा कृ॑णुध्वम् ||{6/15}{6.49.6}{6.4.6.6}{4.8.6.1}{509, 490, 4877} पर्ज᳚न्यवाता¦वृ॒ष॒भा॒¦पृ॒थि॒व्याः¦पुरी᳚षाणि¦जि॒न्व॒त॒म्¦अप्या᳚नि | |
पावी᳚रवी क॒न्या᳚ चि॒त्रायुः॒ सर॑स्वती वी॒रप॑त्नी॒ धियं᳚ धात् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} ग्नाभि॒रच्छि॑द्रं शर॒णं स॒जोषा᳚ दुरा॒धर्षं᳚ गृण॒ते शर्म॑ यंसत् ||{7/15}{6.49.7}{6.4.6.7}{4.8.6.2}{510, 490, 4878} पावी᳚रवी¦क॒न्या᳚¦चि॒त्रऽआ᳚युः¦सर॑स्वती¦वी॒रऽप॑त्नी¦धिय᳚म्¦धा॒त् | |
प॒थस्प॑थः॒ परि॑पतिं वच॒स्या कामे᳚न कृ॒तो, अ॒भ्या᳚नळ॒र्कम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} स नो᳚ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धियं᳚धियं सीषधाति॒ प्र पू॒षा ||{8/15}{6.49.8}{6.4.6.8}{4.8.6.3}{511, 490, 4879} प॒थःऽप॑थः¦परि॑ऽपतिम्¦व॒च॒स्या¦कामे᳚न¦कृ॒तः¦अ॒भि¦आ॒न॒ट्¦अ॒र्कम् | |
प्र॒थ॒म॒भाजं᳚ य॒शसं᳚ वयो॒धां सु॑पा॒णिं दे॒वं सु॒गभ॑स्ति॒मृभ्व᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} होता᳚ यक्षद्यज॒तं प॒स्त्या᳚नाम॒ग्निस्त्वष्टा᳚रं सु॒हवं᳚ वि॒भावा᳚ ||{9/15}{6.49.9}{6.4.6.9}{4.8.6.4}{512, 490, 4880} प्र॒थ॒म॒ऽभाज᳚म्¦य॒शस᳚म्¦व॒यः॒ऽधाम्¦सु॒ऽपा॒णिम्¦दे॒वम्¦सु॒ऽगभ॑स्तिम्¦ऋभ्व᳚म् | |
भुव॑नस्य पि॒तरं᳚ गी॒र्भिरा॒भी रु॒द्रं दिवा᳚ व॒र्धया᳚ रु॒द्रम॒क्तौ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} बृ॒हन्त॑मृ॒ष्वम॒जरं᳚ सुषु॒म्नमृध॑ग्घुवेम क॒विने᳚षि॒तासः॑ ||{10/15}{6.49.10}{6.4.6.10}{4.8.6.5}{513, 490, 4881} भुव॑नस्य¦पि॒तर᳚म्¦गीः॒ऽभिः¦आ॒भिः¦रु॒द्रम्¦दिवा᳚¦व॒र्धय॑¦रु॒द्रम्¦अ॒क्तौ | |
आ यु॑वानः कवयो यज्ञियासो॒ मरु॑तो ग॒न्त गृ॑ण॒तो व॑र॒स्याम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} अ॒चि॒त्रं चि॒द्धि जिन्व॑था वृ॒धन्त॑ इ॒त्था नक्ष᳚न्तो नरो, अङ्गिर॒स्वत् ||{11/15}{6.49.11}{6.4.6.11}{4.8.7.1}{514, 490, 4882} आ¦यु॒वा॒नः॒¦क॒व॒यः॒¦य॒ज्ञि॒या॒सः॒¦मरु॑तः¦ग॒न्त¦गृ॒ण॒तः¦व॒र॒स्याम् | |
प्र वी॒राय॒ प्र त॒वसे᳚ तु॒रायाजा᳚ यू॒थेव॑ पशु॒रक्षि॒रस्त᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} स पि॑स्पृशति त॒न् वि॑ श्रु॒तस्य॒ स्तृभि॒र्न नाकं᳚ वच॒नस्य॒ विपः॑ ||{12/15}{6.49.12}{6.4.6.12}{4.8.7.2}{515, 490, 4883} प्र¦वी॒राय॑¦प्र¦त॒वसे᳚¦तु॒राय॑¦अज॑¦यू॒थाऽइ᳚व¦प॒शु॒ऽरक्षिः॑¦अस्त᳚म् | |
यो रजां᳚सि विम॒मे पार्थि॑वानि॒ त्रिश्चि॒द्विष्णु॒र्मन॑वे बाधि॒ताय॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} तस्य॑ ते॒ शर्म᳚न्नुपद॒द्यमा᳚ने रा॒या म॑देम त॒न्वा॒३॑(आ॒) तना᳚ च ||{13/15}{6.49.13}{6.4.6.13}{4.8.7.3}{516, 490, 4884} यः¦रजां᳚सि¦वि॒ऽम॒मे¦पार्थि॑वानि¦त्रिः¦चि॒त्¦विष्णुः॑¦मन॑वे¦बा॒धि॒ताय॑ | |
तन्नोऽहि॑र्बु॒ध्न्यो᳚, अ॒द्भिर॒र्कैस्तत् पर्व॑त॒स्तत्स॑वि॒ता चनो᳚ धात् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} तदोष॑धीभिर॒भि रा᳚ति॒षाचो॒ भगः॒ पुरं᳚धिर्जिन्वतु॒ प्र रा॒ये ||{14/15}{6.49.14}{6.4.6.14}{4.8.7.4}{517, 490, 4885} तत्¦नः॒¦अहिः॑¦बु॒ध्न्यः॑¦अ॒त्ऽभिः¦अ॒र्कैः¦तत्¦पर्व॑तः¦तत्¦स॒वि॒ता¦चनः॑¦धा॒त् | |
नु नो᳚ र॒यिं र॒थ्यं᳚ चर्षणि॒प्रां पु॑रु॒वीरं᳚ म॒ह ऋ॒तस्य॑ गो॒पाम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | शक्वरी} क्षयं᳚ दाता॒जरं॒ येन॒ जना॒न् त्स्पृधो॒, अदे᳚वीर॒भि च॒ क्रमा᳚म॒ विश॒ आदे᳚वीर॒भ्य१॑(अ॒)श्नवा᳚म ||{15/15}{6.49.15}{6.4.6.15}{4.8.7.5}{518, 490, 4886} नु¦नः॒¦र॒यिम्¦र॒थ्य᳚म्¦च॒र्ष॒णि॒ऽप्राम्¦पु॒रु॒ऽवीर᳚म्¦म॒हः¦ऋ॒तस्य॑¦गो॒पाम् | |
[50] हुवेवइति पंचदशर्चस्य सूक्तस्य भारद्वाजऋजिश्वाविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे –विश्वे। १ सूर्यः १ द्यावापृथिवी १ मरुतः २ इंद्रः १ अपः १ सविता १ अग्निः १ अश्विनौ १ विश्वे० ५ एवं १५) | |
हु॒वे वो᳚ दे॒वीमदि॑तिं॒ नमो᳚भिर्मृळी॒काय॒ वरु॑णं मि॒त्रम॒ग्निम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} अ॒भि॒क्ष॒दाम᳚र्य॒मणं᳚ सु॒शेवं᳚ त्रा॒तॄन्दे॒वान् त्स॑वि॒तारं॒ भगं᳚ च ||{1/15}{6.50.1}{6.5.1.1}{4.8.8.1}{519, 491, 4887} हु॒वे¦वः॒¦दे॒वीम्¦अदि॑तिम्¦नमः॑ऽभिः¦मृ॒ळी॒काय॑¦वरु॑णम्¦मि॒त्रम्¦अ॒ग्निम् | |
सु॒ज्योति॑षः सूर्य॒ दक्ष॑पितॄननागा॒स्त्वे सु॑महो वीहि दे॒वान् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} द्वि॒जन्मा᳚नो॒ य ऋ॑त॒सापः॑ स॒त्याः स्व᳚र्वन्तो यज॒ता, अ॑ग्निजि॒ह्वाः ||{2/15}{6.50.2}{6.5.1.2}{4.8.8.2}{520, 491, 4888} सु॒ऽज्योति॑षः¦सू॒र्य॒¦दक्ष॑ऽपितॄन्¦अ॒ना॒गाः॒ऽत्वे¦सु॒ऽम॒हः॒¦वी॒हि॒¦दे॒वान् | |
उ॒त द्या᳚वापृथिवी क्ष॒त्रमु॒रु बृ॒हद्रो᳚दसी शर॒णं सु॑षुम्ने |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} म॒हस्क॑रथो॒ वरि॑वो॒ यथा᳚ नो॒ऽस्मे क्षया᳚य धिषणे, अने॒हः ||{3/15}{6.50.3}{6.5.1.3}{4.8.8.3}{521, 491, 4889} उ॒त¦द्या॒वा॒पृ॒थि॒वी॒ इति॑¦क्ष॒त्रम्¦उ॒रु¦बृ॒हत्¦रो॒द॒सी॒ इति॑¦श॒र॒णम्¦सु॒सु॒म्ने॒ इति॑ सुऽसुम्ने | |
आ नो᳚ रु॒द्रस्य॑ सू॒नवो᳚ नमन्ताम॒द्या हू॒तासो॒ वस॒वोऽधृ॑ष्टाः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} यदी॒मर्भे᳚ मह॒ति वा᳚ हि॒तासो᳚ बा॒धे म॒रुतो॒, अह्वा᳚म दे॒वान् ||{4/15}{6.50.4}{6.5.1.4}{4.8.8.4}{522, 491, 4890} आ¦नः॒¦रु॒द्रस्य॑¦सू॒नवः॑¦न॒म॒न्ता॒म्¦अ॒द्य¦हू॒तासः॑¦वस॑वः¦अधृ॑ष्टाः | |
मि॒म्यक्ष॒ येषु॑ रोद॒सी नु दे॒वी सिष॑क्ति पू॒षा, अ॑भ्यर्ध॒यज्वा᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} श्रु॒त्वा हवं᳚ मरुतो॒ यद्ध॑ या॒थ भूमा᳚ रेजन्ते॒, अध्व॑नि॒ प्रवि॑क्ते ||{5/15}{6.50.5}{6.5.1.5}{4.8.8.5}{523, 491, 4891} मि॒म्यक्ष॑¦येषु॑¦रो॒द॒सी¦नु¦दे॒वी¦सिस॑क्ति¦पू॒षा¦अ॒भ्य॒र्ध॒ऽयज्वा᳚ | |
अ॒भि त्यं वी॒रं गिर्व॑णसम॒र्चेन्द्रं॒ ब्रह्म॑णा जरित॒र्नवे᳚न |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} श्रव॒दिद्धव॒मुप॑ च॒ स्तवा᳚नो॒ रास॒द्वाजाँ॒, उप॑ म॒हो गृ॑णा॒नः ||{6/15}{6.50.6}{6.5.1.6}{4.8.9.1}{524, 491, 4892} अ॒भि¦त्यम्¦वी॒रम्¦गिर्व॑णसम्¦अ॒र्च॒¦इन्द्र᳚म्¦ब्रह्म॑णा¦ज॒रि॒तः॒¦नवे᳚न | |
ओ॒मान॑मापो मानुषी॒रमृ॑क्तं॒ धात॑ तो॒काय॒ तन॑याय॒ शं योः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} यू॒यं हि ष्ठा भि॒षजो᳚ मा॒तृत॑मा॒ विश्व॑स्य स्था॒तुर्जग॑तो॒ जनि॑त्रीः ||{7/15}{6.50.7}{6.5.1.7}{4.8.9.2}{525, 491, 4893} ओ॒मान᳚म्¦आ॒पः॒¦मा॒नु॒षीः॒¦अमृ॑क्तम्¦धात॑¦तो॒काय॑¦तन॑याय¦शम्¦योः | |
आ नो᳚ दे॒वः स॑वि॒ता त्राय॑माणो॒ हिर᳚ण्यपाणिर्यज॒तो ज॑गम्यात् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} यो दत्र॑वाँ, उ॒षसो॒ न प्रती᳚कं व्यूर्णु॒ते दा॒शुषे॒ वार्या᳚णि ||{8/15}{6.50.8}{6.5.1.8}{4.8.9.3}{526, 491, 4894} आ¦नः॒¦दे॒वः¦स॒वि॒ता¦त्राय॑माणः¦हिर᳚ण्यऽपाणिः¦य॒ज॒तः¦ज॒ग॒म्या॒त् | |
उ॒त त्वं सू᳚नो सहसो नो, अ॒द्या दे॒वाँ, अ॒स्मिन्न॑ध्व॒रे व॑वृत्याः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} स्याम॒हं ते॒ सद॒मिद्रा॒तौ तव॑ स्याम॒ग्नेऽव॑सा सु॒वीरः॑ ||{9/15}{6.50.9}{6.5.1.9}{4.8.9.4}{527, 491, 4895} उ॒त¦त्वम्¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦नः॒¦अ॒द्य¦आ¦दे॒वान्¦अ॒स्मिन्¦अ॒ध्व॒रे¦व॒वृ॒त्याः॒ | |
उ॒त त्या मे॒ हव॒मा ज॑ग्म्यातं॒ नास॑त्या धी॒भिर्यु॒वम॒ङ्ग वि॑प्रा |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} अत्रिं॒ न म॒हस्तम॑सोऽमुमुक्तं॒ तूर्व॑तं नरा दुरि॒ताद॒भीके᳚ ||{10/15}{6.50.10}{6.5.1.10}{4.8.9.5}{528, 491, 4896} उ॒त¦त्या¦मे॒¦हव᳚म्¦आ¦ज॒ग्म्या॒त॒म्¦नास॑त्या¦धी॒भिः¦यु॒वम्¦अ॒ङ्ग¦वि॒प्रा॒ | |
ते नो᳚ रा॒यो द्यु॒मतो॒ वाज॑वतो दा॒तारो᳚ भूत नृ॒वतः॑ पुरु॒क्षोः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} द॒श॒स्यन्तो᳚ दि॒व्याः पार्थि॑वासो॒ गोजा᳚ता॒, अप्या᳚ मृ॒ळता᳚ च देवाः ||{11/15}{6.50.11}{6.5.1.11}{4.8.10.1}{529, 491, 4897} ते¦नः॒¦रा॒यः¦द्यु॒ऽमतः॑¦वाज॑ऽवतः¦दा॒तारः॑¦भू॒त॒¦नृ॒ऽवतः॑¦पु॒रु॒ऽक्षोः | |
ते नो᳚ रु॒द्रः सर॑स्वती स॒जोषा᳚ मी॒ळ्हुष्म᳚न्तो॒ विष्णु᳚र्मृळन्तु वा॒युः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} ऋ॒भु॒क्षा वाजो॒ दैव्यो᳚ विधा॒ता प॒र्जन्या॒वाता᳚ पिप्यता॒मिषं᳚ नः ||{12/15}{6.50.12}{6.5.1.12}{4.8.10.2}{530, 491, 4898} ते¦नः॒¦रु॒द्रः¦सर॑स्वती¦स॒ऽजोषाः᳚¦मी॒ळ्हुष्म᳚न्तः¦विष्णुः॑¦मृ॒ळ॒न्तु॒¦वा॒युः | |
उ॒त स्य दे॒वः स॑वि॒ता भगो᳚ नो॒ऽपां नपा᳚दवतु॒ दानु॒ पप्रिः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} त्वष्टा᳚ दे॒वेभि॒र्जनि॑भिः स॒जोषा॒ द्यौर्दे॒वेभिः॑ पृथि॒वी स॑मु॒द्रैः ||{13/15}{6.50.13}{6.5.1.13}{4.8.10.3}{531, 491, 4899} उ॒त¦स्यः¦दे॒वः¦स॒वि॒ता¦भगः॑¦नः॒¦अ॒पाम्¦नपा᳚त्¦अ॒व॒तु॒¦दानु॑¦पप्रिः॑ | |
उ॒त नोऽहि॑र्बु॒ध्न्यः॑ शृणोत्व॒ज एक॑पात् पृथि॒वी स॑मु॒द्रः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} विश्वे᳚ दे॒वा, ऋ॑ता॒वृधो᳚ हुवा॒नाः स्तु॒ता मन्त्राः᳚ कविश॒स्ता, अ॑वन्तु ||{14/15}{6.50.14}{6.5.1.14}{4.8.10.4}{532, 491, 4900} उ॒त¦नः॒¦अहिः॑¦बु॒ध्न्यः॑¦शृ॒णो॒तु॒¦अ॒जः¦एक॑ऽपात्¦पृ॒थि॒वी¦स॒मु॒द्रः | |
ए॒वा नपा᳚तो॒ मम॒ तस्य॑ धी॒भिर्भ॒रद्वा᳚जा, अ॒भ्य॑र्चन्त्य॒र्कैः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} ग्ना हु॒तासो॒ वस॒वोऽधृ॑ष्टा॒ विश्वे᳚ स्तु॒तासो᳚ भूता यजत्राः ||{15/15}{6.50.15}{6.5.1.15}{4.8.10.5}{533, 491, 4901} ए॒व¦नपा᳚तः¦मम॑¦तस्य॑¦धी॒भिः¦भ॒रत्ऽवा᳚जाः¦अ॒भि¦अ॒र्च॒न्ति॒¦अ॒र्कैः | |
[51] उदुत्यदिति षोळशर्चस्य सूक्तस्य भारद्वाजऋजिश्वा विश्वेदेवातिष्टुप् त्रयोदश्याद्यास्तिस्राउष्णिहोन्त्यानुष्टुप् | (भेदपक्षे- सूर्य : २ विश्वेदेवाः १० अग्निः १ सोमः १ विश्वेदेवाः २ एवं १६) | |
उदु॒ त्यच्चक्षु॒र्महि॑ मि॒त्रयो॒राँ, एति॑ प्रि॒यं वरु॑णयो॒रद॑ब्धम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} ऋ॒तस्य॒ शुचि॑ दर्श॒तमनी᳚कं रु॒क्मो न दि॒व उदि॑ता॒ व्य॑द्यौत् ||{1/16}{6.51.1}{6.5.2.1}{4.8.11.1}{534, 492, 4902} उत्¦ऊँ॒ इति॑¦त्यत्¦चक्षुः॑¦महि॑¦मि॒त्रयोः᳚¦आ¦एति॑¦प्रि॒यम्¦वरु॑णयोः¦अद॑ब्धम् | |
वेद॒ यस्त्रीणि॑ वि॒दथा᳚न्येषां दे॒वानां॒ जन्म॑ सनु॒तरा च॒ विप्रः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} ऋ॒जु मर्ते᳚षु वृजि॒ना च॒ पश्य᳚न्न॒भि च॑ष्टे॒ सूरो᳚, अ॒र्य एवा॑न् ||{2/16}{6.51.2}{6.5.2.2}{4.8.11.2}{535, 492, 4903} वेद॑¦यः¦त्रीणि॑¦वि॒दथा᳚नि¦ए॒षा॒म्¦दे॒वाना᳚म्¦जन्म॑¦स॒नु॒तः¦आ¦च॒¦विप्रः॑ | |
स्तु॒ष उ॑ वो म॒ह ऋ॒तस्य॑ गो॒पानदि॑तिं मि॒त्रं वरु॑णं सुजा॒तान् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} अ॒र्य॒मणं॒ भग॒मद॑ब्धधीती॒नच्छा᳚ वोचे सध॒न्यः॑ पाव॒कान् ||{3/16}{6.51.3}{6.5.2.3}{4.8.11.3}{536, 492, 4904} स्तु॒षे¦ऊँ॒ इति॑¦वः॒¦म॒हः¦ऋ॒तस्य॑¦गो॒पान्¦अदि॑तिम्¦मि॒त्रम्¦वरु॑णम्¦सु॒ऽजा॒तान् | |
रि॒शाद॑सः॒ सत्प॑तीँ॒रद॑ब्धान्म॒हो राज्ञः॑ सुवस॒नस्य॑ दा॒तॄन् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} यूनः॑ सुक्ष॒त्रान् क्षय॑तो दि॒वो नॄना᳚दि॒त्यान्या॒म्यदि॑तिं दुवो॒यु ||{4/16}{6.51.4}{6.5.2.4}{4.8.11.4}{537, 492, 4905} रि॒शाद॑सः¦सत्ऽप॑तीन्¦अद॑ब्धान्¦म॒हः¦राज्ञः॑¦सु॒ऽव॒स॒नस्य॑¦दा॒तॄन् | |
द्यौ॒३॑(औ॒)ष्पितः॒ पृथि॑वि॒ मात॒रध्रु॒गग्ने᳚ भ्रातर्वसवो मृ॒ळता᳚ नः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} विश्व॑ आदित्या, अदिते स॒जोषा᳚, अ॒स्मभ्यं॒ शर्म॑ बहु॒लं वि य᳚न्त ||{5/16}{6.51.5}{6.5.2.5}{4.8.11.5}{538, 492, 4906} द्यौः᳚¦पित॒रिति॑¦पृ॒थि॑वि¦मातः॑¦अध्रु॑क्¦अग्ने᳚¦भ्रा॒तः॒¦व॒स॒वः॒¦मृ॒ळत॑¦नः॒ | |
मा नो॒ वृका᳚य वृ॒क्ये᳚ समस्मा, अघाय॒ते री᳚रधता यजत्राः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} यू॒यं हि ष्ठा र॒थ्यो᳚ नस्त॒नूनां᳚ यू॒यं दक्ष॑स्य॒ वच॑सो बभू॒व ||{6/16}{6.51.6}{6.5.2.6}{4.8.12.1}{539, 492, 4907} मा¦नः॒¦वृका᳚य¦वृ॒क्ये᳚¦स॒म॒स्मै॒¦अ॒घ॒ऽय॒ते¦री॒र॒ध॒त॒¦य॒ज॒त्राः॒ | |
मा व॒ एनो᳚, अ॒न्यकृ॑तं भुजेम॒ मा तत्क᳚र्म वसवो॒ यच्चय॑ध्वे |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} विश्व॑स्य॒ हि क्षय॑थ विश्वदेवाः स्व॒यं रि॒पुस्त॒न्वं᳚ रीरिषीष्ट ||{7/16}{6.51.7}{6.5.2.7}{4.8.12.2}{540, 492, 4908} मा¦वः॒¦एनः॑¦अ॒न्यऽकृ॑तम्¦भु॒जे॒म॒¦मा¦तत्¦क॒र्म॒¦व॒स॒वः॒¦यत्¦चय॑ध्वे | |
नम॒ इदु॒ग्रं नम॒ आ वि॑वासे॒ नमो᳚ दाधार पृथि॒वीमु॒त द्याम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} नमो᳚ दे॒वेभ्यो॒ नम॑ ईश एषां कृ॒तं चि॒देनो॒ नम॒सा वि॑वासे ||{8/16}{6.51.8}{6.5.2.8}{4.8.12.3}{541, 492, 4909} नमः॑¦इत्¦उ॒ग्रम्¦नमः॑¦आ¦वि॒वा॒से॒¦नमः॑¦दा॒धा॒र॒¦पृ॒थि॒वीम्¦उ॒त¦द्याम् | |
ऋ॒तस्य॑ वो र॒थ्यः॑ पू॒तद॑क्षानृ॒तस्य॑ पस्त्य॒सदो॒, अद॑ब्धान् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} ताँ, आ नमो᳚भिरुरु॒चक्ष॑सो॒ नॄन् विश्वा᳚न्व॒ आ न॑मे म॒हो य॑जत्राः ||{9/16}{6.51.9}{6.5.2.9}{4.8.12.4}{542, 492, 4910} ऋ॒तस्य॑¦वः॒¦र॒थ्यः॑¦पू॒तऽद॑क्षान्¦ऋ॒तस्य॑¦प॒स्त्य॒ऽसदः॑¦अद॑ब्धान् | |
ते हि श्रेष्ठ॑वर्चस॒स्त उ॑ नस्ति॒रो विश्वा᳚नि दुरि॒ता नय᳚न्ति |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} सु॒क्ष॒त्रासो॒ वरु॑णो मि॒त्रो, अ॒ग्निरृ॒तधी᳚तयो वक्म॒राज॑सत्याः ||{10/16}{6.51.10}{6.5.2.10}{4.8.12.5}{543, 492, 4911} ते¦हि¦श्रेष्ठ॑ऽवर्चसः¦ते¦ऊँ॒ इति॑¦नः॒¦ति॒रः¦विश्वा᳚नि¦दुः॒ऽइ॒ता¦नय᳚न्ति | |
ते न॒ इन्द्रः॑ पृथि॒वी क्षाम॑ वर्धन् पू॒षा भगो॒, अदि॑तिः॒ पञ्च॒ जनाः᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} सु॒शर्मा᳚णः॒ स्वव॑सः सुनी॒था भव᳚न्तु नः सुत्रा॒त्रासः॑ सुगो॒पाः ||{11/16}{6.51.11}{6.5.2.11}{4.8.13.1}{544, 492, 4912} ते¦नः॒¦इन्द्रः॑¦पृ॒थि॒वी¦क्षाम॑¦व॒र्ध॒न्¦पू॒षा¦भगः॑¦अदि॑तिः¦पंच॑¦जनाः᳚ | |
नू स॒द्मानं᳚ दि॒व्यं नंशि॑ देवा॒ भार॑द्वाजः सुम॒तिं या᳚ति॒ होता᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} आ॒सा॒नेभि॒र्यज॑मानो मि॒येधै᳚र्दे॒वानां॒ जन्म॑ वसू॒युर्व॑वन्द ||{12/16}{6.51.12}{6.5.2.12}{4.8.13.2}{545, 492, 4913} नु¦स॒द्मान᳚म्¦दि॒व्यम्¦नंशि॑¦दे॒वाः॒¦भार॑त्ऽवाजः¦सु॒ऽम॒तिम्¦या॒ति॒¦होता᳚ | |
अप॒ त्यं वृ॑जि॒नं रि॒पुं स्ते॒नम॑ग्ने दुरा॒ध्य᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | उष्णिक्} द॒वि॒ष्ठम॑स्य सत्पते कृ॒धी सु॒गम् ||{13/16}{6.51.13}{6.5.2.13}{4.8.13.3}{546, 492, 4914} अप॑¦त्यम्¦वृ॒जि॒नम्¦रि॒पुम्¦स्ते॒नम्¦अ॒ग्ने॒¦दुः॒ऽआ॒ध्य᳚म् | द॒वि॒ष्ठम्¦अ॒स्य॒¦स॒त्ऽप॒ते॒¦कृ॒धि¦सु॒ऽगम् || |
ग्रावा᳚णः सोम नो॒ हि कं᳚ सखित्व॒नाय॑ वाव॒शुः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | उष्णिक्} ज॒ही न्य१॑(अ॒)त्रिणं᳚ प॒णिं वृको॒ हि षः ||{14/16}{6.51.14}{6.5.2.14}{4.8.13.4}{547, 492, 4915} ग्रावा᳚णः¦सो॒म॒¦नः॒¦हि¦क॒म्¦स॒खि॒ऽत्व॒नाय॑¦वा॒व॒शुः | ज॒हि¦नि¦अ॒त्रिण᳚म्¦प॒णिम्¦वृकः॑¦हि¦सः || |
यू॒यं हि ष्ठा सु॑दानव॒ इन्द्र॑ज्येष्ठा, अ॒भिद्य॑वः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | उष्णिक्} कर्ता᳚ नो॒, अध्व॒न्ना सु॒गं गो॒पा, अ॒मा ||{15/16}{6.51.15}{6.5.2.15}{4.8.13.5}{548, 492, 4916} यू॒यम्¦हि¦स्थ¦सु॒ऽदा॒न॒वः॒¦इन्द्र॑ऽज्येष्ठाः¦अ॒भिऽद्य॑वः | कर्त॑¦नः॒¦अध्व॑न्¦आ¦सु॒ऽगम्¦गो॒पाः¦अ॒मा || |
अपि॒ पन्था᳚मगन्महि स्वस्ति॒गाम॑ने॒हस᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | अनुष्टुप्} येन॒ विश्वाः॒ परि॒ द्विषो᳚ वृ॒णक्ति॑ वि॒न्दते॒ वसु॑ ||{16/16}{6.51.16}{6.5.2.16}{4.8.13.6}{549, 492, 4917} अपि॑¦पन्था᳚म्¦अ॒ग॒न्म॒हि॒¦स्व॒स्ति॒ऽगाम्¦अ॒ने॒हस᳚म् | येन॑¦विश्वाः᳚¦परि॑¦द्विषः॑¦वृ॒णक्ति॑¦वि॒न्दते᳚¦वसु॑ || |
[52] नतद्दिवेति सप्तदशर्चस्य सूक्तस्य भारद्वाजऋजिश्व विश्वेदेवास्त्रिष्टुप्सप्तम्याद्याःषट्गायत्र्यश्चतुर्दशी जगती | (भेदपक्षे-विश्वेदेवाः २ सोमः १ विश्वे ८ अग्निः १ विश्वे ३ अग्निपर्जन्यौ १ विश्वे १ एवं १७) | |
न तद्दि॒वा न पृ॑थि॒व्यानु॑ मन्ये॒ न य॒ज्ञेन॒ नोत शमी᳚भिरा॒भिः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} उ॒ब्जन्तु॒ तं सु॒भ्व१॑(अः॒) पर्व॑तासो॒ नि ही᳚यतामतिया॒जस्य॑ य॒ष्टा ||{1/17}{6.52.1}{6.5.3.1}{4.8.14.1}{550, 493, 4918} न¦तत्¦दि॒वा¦न¦पृ॒थि॒व्या¦अनु॑¦म॒न्ये॒¦न¦य॒ज्ञेन॑¦न¦उ॒त¦शमी᳚भिः¦आ॒भिः | |
अति॑ वा॒ यो म॑रुतो॒ मन्य॑ते नो॒ ब्रह्म॑ वा॒ यः क्रि॒यमा᳚णं॒ निनि॑त्सात् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} तपूं᳚षि॒ तस्मै᳚ वृजि॒नानि॑ सन्तु ब्रह्म॒द्विष॑म॒भि तं शो᳚चतु॒ द्यौः ||{2/17}{6.52.2}{6.5.3.2}{4.8.14.2}{551, 493, 4919} अति॑¦वा॒¦यः¦म॒रु॒तः॒¦मन्य॑ते¦नः॒¦ब्रह्म॑¦वा॒¦यः¦क्रि॒यमा᳚णम्¦निनि॑त्सात् | |
किम॒ङ्ग त्वा॒ ब्रह्म॑णः सोम गो॒पां किम॒ङ्ग त्वा᳚हुरभिशस्ति॒पां नः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} किम॒ङ्ग नः॑ पश्यसि नि॒द्यमा᳚नान् ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ||{3/17}{6.52.3}{6.5.3.3}{4.8.14.3}{552, 493, 4920} किम्¦अ॒ङ्ग¦त्वा॒¦ब्रह्म॑णः¦सो॒म॒¦गो॒पाम्¦किम्¦अ॒ङ्ग¦त्वा॒¦आ॒हुः॒¦अ॒भि॒श॒स्ति॒ऽपाम्¦नः॒ | |
अव᳚न्तु॒ मामु॒षसो॒ जाय॑माना॒, अव᳚न्तु मा॒ सिन्ध॑वः॒ पिन्व॑मानाः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} अव᳚न्तु मा॒ पर्व॑तासो ध्रु॒वासोऽव᳚न्तु मा पि॒तरो᳚ दे॒वहू᳚तौ ||{4/17}{6.52.4}{6.5.3.4}{4.8.14.4}{553, 493, 4921} अव᳚न्तु¦माम्¦उ॒षसः॑¦जाय॑मानाः¦अव᳚न्तु¦मा॒¦सिन्ध॑वः¦पिन्व॑मानाः | |
वि॒श्व॒दानीं᳚ सु॒मन॑सः स्याम॒ पश्ये᳚म॒ नु सूर्य॑मु॒च्चर᳚न्तम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} तथा᳚ कर॒द्वसु॑पति॒र्वसू᳚नां दे॒वाँ, ओहा॒नोऽव॒साग॑मिष्ठः ||{5/17}{6.52.5}{6.5.3.5}{4.8.14.5}{554, 493, 4922} वि॒श्व॒ऽदानी᳚म्¦सु॒ऽमन॑सः¦स्या॒म॒¦पश्ये᳚म¦नु¦सूर्य᳚म्¦उ॒त्ऽचर᳚न्तम् | |
इन्द्रो॒ नेदि॑ष्ठ॒मव॒साग॑मिष्ठः॒ सर॑स्वती॒ सिन्धु॑भिः॒ पिन्व॑माना |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} प॒र्जन्यो᳚ न॒ ओष॑धीभिर्मयो॒भुर॒ग्निः सु॒शंसः॑ सु॒हवः॑ पि॒तेव॑ ||{6/17}{6.52.6}{6.5.3.6}{4.8.15.1}{555, 493, 4923} इन्द्रः॑¦नेदि॑ष्ठम्¦अव॑सा¦आऽग॑मिष्ठः¦सर॑स्वती¦सिन्धु॑ऽभिः¦पिन्व॑माना | |
विश्वे᳚ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मं हव᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री} एदं ब॒र्हिर्नि षी᳚दत ||{7/17}{6.52.7}{6.5.3.7}{4.8.15.2}{556, 493, 4924} विश्वे᳚¦दे॒वा॒सः॒¦आ¦ग॒त॒¦शृ॒णु॒त¦मे॒¦इ॒मम्¦हव᳚म् | आ¦इ॒दम्¦ब॒र्हिः¦नि¦सी॒द॒त॒ || |
यो वो᳚ देवा घृ॒तस्नु॑ना ह॒व्येन॑ प्रति॒भूष॑ति |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री} तं विश्व॒ उप॑ गच्छथ ||{8/17}{6.52.8}{6.5.3.8}{4.8.15.3}{557, 493, 4925} यः¦वः॒¦दे॒वाः॒¦घृ॒तऽस्नु॑ना¦ह॒व्येन॑¦प्र॒ति॒ऽभूष॑ति | तम्¦विश्वे᳚¦उप॑¦ग॒च्छ॒थ॒ || |
उप॑ नः सू॒नवो॒ गिरः॑ शृ॒ण्वन्त्व॒मृत॑स्य॒ ये |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री} सु॒मृ॒ळी॒का भ॑वन्तु नः ||{9/17}{6.52.9}{6.5.3.9}{4.8.15.4}{558, 493, 4926} उप॑¦नः॒¦सू॒नवः॑¦गिरः॑¦शृ॒ण्वन्तु॑¦अ॒मृत॑स्य¦ये | सु॒ऽमृ॒ळी॒काः¦भ॒व॒न्तु॒¦नः॒ || |
विश्वे᳚ दे॒वा, ऋ॑ता॒वृध॑ ऋ॒तुभि᳚र्हवन॒श्रुतः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री} जु॒षन्तां॒ युज्यं॒ पयः॑ ||{10/17}{6.52.10}{6.5.3.10}{4.8.15.5}{559, 493, 4927} विश्वे᳚¦दे॒वाः¦ऋ॒त॒ऽवृधः॑¦ऋ॒तुऽभिः॑¦ह॒व॒न॒ऽश्रुतः॑ | जु॒षन्ता᳚म्¦युज्य᳚म्¦पयः॑ || |
स्तो॒त्रमिन्द्रो᳚ म॒रुद्ग॑ण॒स्त्वष्टृ॑मान्मि॒त्रो, अ᳚र्य॒मा |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री} इ॒मा ह॒व्या जु॑षन्त नः ||{11/17}{6.52.11}{6.5.3.11}{4.8.16.1}{560, 493, 4928} स्तो॒त्रम्¦इन्द्रः॑¦म॒रुत्ऽग॑णः¦त्वष्टृ॑ऽमान्¦मि॒त्रः¦अ॒र्य॒मा | इ॒मा¦ह॒व्या¦जु॒ष॒न्त॒¦नः॒ || |
इ॒मं नो᳚, अग्ने, अध्व॒रं होत᳚र्वयुन॒शो य॑ज |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री} चि॒कि॒त्वान् दैव्यं॒ जन᳚म् ||{12/17}{6.52.12}{6.5.3.12}{4.8.16.2}{561, 493, 4929} इ॒मम्¦नः॒¦अ॒ग्ने॒¦अ॒ध्व॒रम्¦होतः॑¦व॒यु॒न॒ऽशः¦य॒ज॒ | चि॒कि॒त्वान्¦दैव्य᳚म्¦जन᳚म् || |
विश्वे᳚ देवाः शृणु॒तेमं हवं᳚ मे॒ ये, अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} ये, अ॑ग्निजि॒ह्वा, उ॒त वा॒ यज॑त्रा, आ॒सद्या॒स्मिन् ब॒र्हिषि॑ मादयध्वम् ||{13/17}{6.52.13}{6.5.3.13}{4.8.16.3}{562, 493, 4930} विश्वे᳚¦दे॒वाः॒¦शृ॒णु॒त¦इ॒मम्¦हव᳚म्¦मे॒¦ये¦अ॒न्तरि॑क्षे¦ये¦उप॑¦द्यवि॑¦स्थ | |
विश्वे᳚ दे॒वा मम॑ शृण्वन्तु य॒ज्ञिया᳚, उ॒भे रोद॑सी, अ॒पां नपा᳚च्च॒ मन्म॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | जगती} मा वो॒ वचां᳚सि परि॒चक्ष्या᳚णि वोचं सु॒म्नेष्विद्वो॒, अन्त॑मा मदेम ||{14/17}{6.52.14}{6.5.3.14}{4.8.16.4}{563, 493, 4931} विश्वे᳚¦दे॒वाः¦मम॑¦शृ॒ण्व॒न्तु॒¦य॒ज्ञियाः᳚¦उ॒भे इति॑¦रोद॑सी॒ इति॑¦अ॒पाम्¦नपा᳚त्¦च॒¦मन्म॑ | |
ये के च॒ ज्मा म॒हिनो॒, अहि॑माया दि॒वो ज॑ज्ञि॒रे, अ॒पां स॒धस्थे᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} ते, अ॒स्मभ्य॑मि॒षये॒ विश्व॒मायुः॒, क्षप॑ उ॒स्रा व॑रिवस्यन्तु दे॒वाः ||{15/17}{6.52.15}{6.5.3.15}{4.8.16.5}{564, 493, 4932} ये¦के¦च॒¦ज्मा¦म॒हिनः॑¦अहि॑ऽमायाः¦दि॒वः¦ज॒ज्ञि॒रे¦अ॒पाम्¦स॒धऽस्थे᳚ | |
अग्नी᳚पर्जन्या॒वव॑तं॒ धियं᳚ मे॒ऽस्मिन्हवे᳚ सुहवा सुष्टु॒तिं नः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} इळा᳚म॒न्यो ज॒नय॒द्गर्भ॑म॒न्यः प्र॒जाव॑ती॒रिष॒ आ ध॑त्तम॒स्मे ||{16/17}{6.52.16}{6.5.3.16}{4.8.16.6}{565, 493, 4933} अग्नी᳚पर्जन्यौ¦अव॑तम्¦धिय᳚म्¦मे॒¦अ॒स्मिन्¦हवे᳚¦सु॒ऽह॒वा॒¦सु॒ऽस्तु॒तिम्¦नः॒ | |
स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने, अ॒ग्नौ सू॒क्तेन॑ म॒हा नम॒सा वि॑वासे |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} अ॒स्मिन्नो᳚, अ॒द्य वि॒दथे᳚ यजत्रा॒ विश्वे᳚ देवा ह॒विषि॑ मादयध्वम् ||{17/17}{6.52.17}{6.5.3.17}{4.8.16.7}{566, 493, 4934} स्ती॒र्णे¦ब॒र्हिषि॑¦स॒म्ऽइ॒धा॒ने¦अ॒ग्नौ¦सु॒।औ॒क्तेन॑¦म॒हा¦नम॑सा¦आ¦वि॒वा॒से॒ | |
[53] वयमुत्वेति दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजः पूषा गायत्री अष्टम्यनुष्टुप् | |
व॒यमु॑ त्वा पथस्पते॒ रथं॒ न वाज॑सातये |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} धि॒ये पू᳚षन्नयुज्महि ||{1/10}{6.53.1}{6.5.4.1}{4.8.17.1}{567, 494, 4935} व॒यम्¦ऊँ॒ इति॑¦त्वा॒¦प॒थः॒¦प॒ते॒¦रथ᳚म्¦न¦वाज॑ऽसातये | धि॒ये¦पू॒ष॒न्¦अ॒यु॒ज्म॒हि॒ || |
अ॒भि नो॒ नर्यं॒ वसु॑ वी॒रं प्रय॑तदक्षिणम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} वा॒मं गृ॒हप॑तिं नय ||{2/10}{6.53.2}{6.5.4.2}{4.8.17.2}{568, 494, 4936} अ॒भि¦नः॒¦नर्य᳚म्¦वसु॑¦वी॒रम्¦प्रय॑तऽदक्षिणम् | वा॒मम्¦गृ॒हऽप॑तिम्¦न॒य॒ || |
अदि॑त्सन्तं चिदाघृणे॒ पूष॒न्दाना᳚य चोदय |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} प॒णेश्चि॒द्वि म्र॑दा॒ मनः॑ ||{3/10}{6.53.3}{6.5.4.3}{4.8.17.3}{569, 494, 4937} अदि॑त्सन्तम्¦चि॒त्¦आ॒घृ॒णे॒¦पूष॑न्¦दाना᳚य¦चो॒द॒य॒ | प॒णेः¦चि॒त्¦वि¦म्र॒द॒¦मनः॑ || |
वि प॒थो वाज॑सातये चिनु॒हि वि मृधो᳚ जहि |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} साध᳚न्तामुग्र नो॒ धियः॑ ||{4/10}{6.53.4}{6.5.4.4}{4.8.17.4}{570, 494, 4938} वि¦प॒थः¦वाज॑ऽसातये¦चि॒नु॒हि¦वि¦मृधः॑¦ज॒हि॒ | साध᳚न्ताम्¦उ॒ग्र॒¦नः॒¦धियः॑ || |
परि॑ तृन्धि पणी॒नामार॑या॒ हृद॑या कवे |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} अथे᳚म॒स्मभ्यं᳚ रन्धय ||{5/10}{6.53.5}{6.5.4.5}{4.8.17.5}{571, 494, 4939} परि॑¦तृ॒न्धि॒¦प॒णी॒नाम्¦आर॑या¦हृद॑या¦क॒वे॒ | अथ॑¦ई॒म्¦अ॒स्मभ्य᳚म्¦र॒न्ध॒य॒ || |
वि पू᳚ष॒न्नार॑या तुद प॒णेरि॑च्छ हृ॒दि प्रि॒यम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} अथे᳚म॒स्मभ्यं᳚ रन्धय ||{6/10}{6.53.6}{6.5.4.6}{4.8.18.1}{572, 494, 4940} वि¦पू॒ष॒न्¦आर॑या¦तु॒द॒¦प॒णेः¦इ॒च्छ॒¦हृ॒दि¦प्रि॒यम् | अथ॑¦ई॒म्¦अ॒स्मभ्य᳚म्¦र॒न्ध॒य॒ || |
आ रि॑ख किकि॒रा कृ॑णु पणी॒नां हृद॑या कवे |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} अथे᳚म॒स्मभ्यं᳚ रन्धय ||{7/10}{6.53.7}{6.5.4.7}{4.8.18.2}{573, 494, 4941} आ¦रि॒ख॒¦कि॒कि॒रा¦कृ॒णु॒¦प॒णी॒नाम्¦हृद॑या¦क॒वे॒ | अथ॑¦ई॒म्¦अ॒स्मभ्य᳚म्¦र॒न्ध॒य॒ || |
यां पू᳚षन् ब्रह्म॒चोद॑नी॒मारां॒ बिभ॑र्ष्याघृणे |{बार्हस्पत्यो भरद्वाजः | पूषा | अनुष्टुप्} तया᳚ समस्य॒ हृद॑य॒मा रि॑ख किकि॒रा कृ॑णु ||{8/10}{6.53.8}{6.5.4.8}{4.8.18.3}{574, 494, 4942} याम्¦पू॒ष॒न्¦ब्र॒ह्म॒ऽचोद॑नीम्¦आरा᳚म्¦बिभ॑र्षि¦आ॒घृ॒णे॒ | तया᳚¦स॒म॒स्य॒¦हृद॑यम्¦आ¦रि॒ख॒¦कि॒कि॒रा¦कृ॒णु॒ || |
या ते॒, अष्ट्रा॒ गो,ओ᳚प॒शाघृ॑णे पशु॒साध॑नी |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} तस्या᳚स्ते सु॒म्नमी᳚महे ||{9/10}{6.53.9}{6.5.4.9}{4.8.18.4}{575, 494, 4943} या¦ते॒¦अष्ट्रा᳚¦गोऽओ᳚पशा¦आघृ॑णे¦प॒शु॒ऽसाध॑नी | तस्याः᳚¦ते॒¦सु॒म्नम्¦ई॒म॒हे॒ || |
उ॒त नो᳚ गो॒षणिं॒ धिय॑मश्व॒सां वा᳚ज॒सामु॒त |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} नृ॒वत्कृ॑णुहि वी॒तये᳚ ||{10/10}{6.53.10}{6.5.4.10}{4.8.18.5}{576, 494, 4944} उ॒त¦नः॒¦गो॒ऽसनि᳚म्¦धिय᳚म्¦अ॒श्व॒साम्¦वा॒ज॒ऽसाम्¦उ॒त | नृ॒ऽवत्¦कृ॒णु॒हि॒¦वी॒तये᳚ || |
[54] संपूषन्निति दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजः पूषागायत्री | |
सं पू᳚षन् वि॒दुषा᳚ नय॒ यो, अञ्ज॑सानु॒शास॑ति |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} य ए॒वेदमिति॒ ब्रव॑त् ||{1/10}{6.54.1}{6.5.5.1}{4.8.19.1}{577, 495, 4945} सम्¦पू॒ष॒न्¦वि॒दुषा᳚¦न॒य॒¦यः¦अंज॑सा¦अ॒नु॒ऽशास॑ति | यः¦ए॒व¦इ॒दम्¦इति॑¦ब्रव॑त् || |
समु॑ पू॒ष्णा ग॑मेमहि॒ यो गृ॒हाँ, अ॑भि॒शास॑ति |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} इ॒म ए॒वेति॑ च॒ ब्रव॑त् ||{2/10}{6.54.2}{6.5.5.2}{4.8.19.2}{578, 495, 4946} सम्¦ऊँ॒ इति॑¦पू॒ष्णा¦ग॒मे॒म॒हि॒¦यः¦गृ॒हान्¦अ॒भि॒ऽशास॑ति | इ॒मे¦ए॒व¦इति॑¦च॒¦ब्रव॑त् || |
पू॒ष्णश्च॒क्रं न रि॑ष्यति॒ न कोशोऽव॑ पद्यते |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} नो, अ॑स्य व्यथते प॒विः ||{3/10}{6.54.3}{6.5.5.3}{4.8.19.3}{579, 495, 4947} पू॒ष्णः¦च॒क्रम्¦न¦रि॒ष्य॒ति॒¦न¦कोशः॑¦अव॑¦प॒द्य॒ते॒ | नो इति॑¦अ॒स्य॒¦व्य॒थ॒ते॒¦प॒विः || |
यो, अ॑स्मै ह॒विषावि॑ध॒न्न तं पू॒षापि॑ मृष्यते |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} प्र॒थ॒मो वि᳚न्दते॒ वसु॑ ||{4/10}{6.54.4}{6.5.5.4}{4.8.19.4}{580, 495, 4948} यः¦अ॒स्मै॒¦ह॒विषा᳚¦अवि॑धत्¦न¦तम्¦पू॒षा¦अपि॑¦मृ॒ष्य॒ते॒ | प्र॒थ॒मः¦वि॒न्द॒ते॒¦वसु॑ || |
पू॒षा गा, अन्वे᳚तु नः पू॒षा र॑क्ष॒त्वर्व॑तः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} पू॒षा वाजं᳚ सनोतु नः ||{5/10}{6.54.5}{6.5.5.5}{4.8.19.5}{581, 495, 4949} पू॒षा¦गाः¦अनु॑¦ए॒तु॒¦नः॒¦पू॒षा¦र॒क्ष॒तु॒¦अर्व॑तः | पू॒षा¦वाज᳚म्¦स॒नो॒तु॒¦नः॒ || |
पूष॒न्ननु॒ प्र गा, इ॑हि॒ यज॑मानस्य सुन्व॒तः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} अ॒स्माकं᳚ स्तुव॒तामु॒त ||{6/10}{6.54.6}{6.5.5.6}{4.8.20.1}{582, 495, 4950} पूष॑न्¦अनु॑¦प्र¦गाः¦इ॒हि॒¦यज॑मानस्य¦सु॒न्व॒तः | अ॒स्माक᳚म्¦स्तु॒व॒ताम्¦उ॒त || |
माकि᳚र्नेश॒न्माकीं᳚ रिष॒न्माकीं॒ सं शा᳚रि॒ केव॑टे |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} अथारि॑ष्टाभि॒रा ग॑हि ||{7/10}{6.54.7}{6.5.5.7}{4.8.20.2}{583, 495, 4951} माकिः॑¦नेश॑त्¦माकी᳚म्¦रिष॑त्¦माकी᳚म्¦सम्¦शा॒रि॒¦केव॑टे | अथ॑¦अरि॑ष्टाभिः¦आ¦गा॒हि॒ || |
शृ॒ण्वन्तं᳚ पू॒षणं᳚ व॒यमिर्य॒मन॑ष्टवेदसम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} ईशा᳚नं रा॒य ई᳚महे ||{8/10}{6.54.8}{6.5.5.8}{4.8.20.3}{584, 495, 4952} शृ॒ण्वन्त᳚म्¦पू॒षण᳚म्¦व॒यम्¦इर्य᳚म्¦अन॑ष्टऽवेदसम् | ईशा᳚नम्¦रा॒यः¦ई॒म॒हे॒ || |
पूष॒न्तव᳚ व्र॒ते व॒यं न रि॑ष्येम॒ कदा᳚ च॒न |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} स्तो॒तार॑स्त इ॒ह स्म॑सि ||{9/10}{6.54.9}{6.5.5.9}{4.8.20.4}{585, 495, 4953} पूष॑न्¦तव॑¦व्र॒ते¦व॒यम्¦न¦रि॒ष्ये॒म॒¦कदा᳚¦च॒न | स्तो॒तारः॑¦ते॒¦इ॒ह¦स्म॒सि॒ || |
परि॑ पू॒षा प॒रस्ता॒द्धस्तं᳚ दधातु॒ दक्षि॑णम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} पुन᳚र्नो न॒ष्टमाज॑तु ||{10/10}{6.54.10}{6.5.5.10}{4.8.20.5}{586, 495, 4954} परि॑¦पू॒षा¦प॒रस्ता᳚त्¦हस्त᳚म्¦द॒धा॒तु॒¦दक्षि॑णम् | पुनः॑¦नः॒¦न॒ष्टम्¦आ¦अ॒ज॒तु॒ || |
[55] एहिवामिति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजः पूषागायत्री | |
एहि॒ वां वि॑मुचो नपा॒दाघृ॑णे॒ सं स॑चावहै |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} र॒थीरृ॒तस्य॑ नो भव ||{1/6}{6.55.1}{6.5.6.1}{4.8.21.1}{587, 496, 4955} आ¦इ॒हि॒¦वाम्¦वि॒ऽमु॒चः॒¦न॒पा॒त्¦आघृ॑णे¦सम्¦स॒चा॒व॒है॒ | र॒थीः¦ऋ॒तस्य॑¦नः॒¦भ॒व॒ || |
र॒थीत॑मं कप॒र्दिन॒मीशा᳚नं॒ राध॑सो म॒हः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} रा॒यः सखा᳚यमीमहे ||{2/6}{6.55.2}{6.5.6.2}{4.8.21.2}{588, 496, 4956} र॒थिऽत॑मम्¦क॒प॒र्दिन᳚म्¦ईशा᳚नम्¦राध॑सः¦म॒हः | रा॒यः¦सखा᳚यम्¦ई॒म॒हे॒ || |
रा॒यो धारा᳚स्याघृणे॒ वसो᳚ रा॒शिर॑जाश्व |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} धीव॑तोधीवतः॒ सखा᳚ ||{3/6}{6.55.3}{6.5.6.3}{4.8.21.3}{589, 496, 4957} रा॒यः¦धारा᳚¦अ॒सि॒¦आ॒घृ॒णे॒¦वसोः᳚¦रा॒शिः¦अ॒ज॒।आ॒श्व॒ | धीव॑तःऽधीवतः¦सखा᳚ || |
पू॒षणं॒ न्व१॑(अ॒)जाश्व॒मुप॑ स्तोषाम वा॒जिन᳚म् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} स्वसु॒र्यो जा॒र उ॒च्यते᳚ ||{4/6}{6.55.4}{6.5.6.4}{4.8.21.4}{590, 496, 4958} पू॒षण᳚म्¦नु¦अ॒ज।आ॑श्वम्¦उप॑¦स्तो॒षा॒म॒¦वा॒जिन᳚म् | स्वसुः॑¦यः¦जा॒रः¦उ॒च्यते᳚ || |
मा॒तुर्दि॑धि॒षुम॑ब्रवं॒ स्वसु॑र्जा॒रः शृ॑णोतु नः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} भ्रातेन्द्र॑स्य॒ सखा॒ मम॑ ||{5/6}{6.55.5}{6.5.6.5}{4.8.21.5}{591, 496, 4959} मा॒तुः¦दि॒धि॒षुम्¦अ॒ब्र॒व॒म्¦स्वसुः॑¦जा॒रः¦शृ॒णो॒तु॒¦नः॒ | भ्राता᳚¦इन्द्र॑स्य¦सखा᳚¦मम॑ || |
आजासः॑ पू॒षणं॒ रथे᳚ निशृ॒म्भास्ते ज॑न॒श्रिय᳚म् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} दे॒वं व॑हन्तु॒ बिभ्र॑तः ||{6/6}{6.55.6}{6.5.6.6}{4.8.21.6}{592, 496, 4960} आ¦अ॒जासः॑¦पू॒षण᳚म्¦रथे᳚¦नि॒ऽशृ॒म्भाः¦ते¦ज॒न॒ऽश्रिय᳚म् | दे॒वम्¦व॒ह॒न्तु॒¦बिभ्र॑तः || |
[56] यएनमिति षडृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाजः पूषागायत्री अंत्यानुष्टुप् | |
य ए᳚नमा॒दिदे᳚शति कर॒म्भादिति॑ पू॒षण᳚म् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} न तेन॑ दे॒व आ॒दिशे᳚ ||{1/6}{6.56.1}{6.5.7.1}{4.8.22.1}{593, 497, 4961} यः¦ए॒न॒म्¦आ॒ऽदिदे᳚शति¦क॒र॒म्भ॒।आत्¦इति॑¦पू॒षण᳚म् | न¦तेन॑¦दे॒वः¦आ॒ऽदिशे᳚ || |
उ॒त घा॒ स र॒थीत॑मः॒ सख्या॒ सत्प॑तिर्यु॒जा |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} इन्द्रो᳚ वृ॒त्राणि॑ जिघ्नते ||{2/6}{6.56.2}{6.5.7.2}{4.8.22.2}{594, 497, 4962} उ॒त¦घ॒¦सः¦र॒थिऽत॑मः¦सख्या᳚¦सत्ऽप॑तिः¦यु॒जा | इन्द्रः॑¦वृ॒त्राणि॑¦जि॒घ्न॒ते॒ || |
उ॒तादः प॑रु॒षे गवि॒ सूर॑श्च॒क्रं हि॑र॒ण्यय᳚म् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} न्यै᳚रयद्र॒थीत॑मः ||{3/6}{6.56.3}{6.5.7.3}{4.8.22.3}{595, 497, 4963} उ॒त¦अ॒दः¦प॒रु॒षे¦गवि॑¦सूरः॑¦च॒क्रम्¦हि॒र॒ण्यय᳚म् | नि¦ऐ॒र॒य॒त्¦र॒थिऽत॑मः || |
यद॒द्य त्वा᳚ पुरुष्टुत॒ ब्रवा᳚म दस्र मन्तुमः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} तत्सु नो॒ मन्म॑ साधय ||{4/6}{6.56.4}{6.5.7.4}{4.8.22.4}{596, 497, 4964} यत्¦अ॒द्य¦त्वा॒¦पु॒रु॒ऽस्तु॒त॒¦ब्रवा᳚म¦द॒स्र॒¦म॒न्तु॒ऽमः॒ | तत्¦सु¦नः॒¦मन्म॑¦सा॒ध॒य॒ || |
इ॒मं च॑ नो ग॒वेष॑णं सा॒तये᳚ सीषधो ग॒णम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} आ॒रात्पू᳚षन्नसि श्रु॒तः ||{5/6}{6.56.5}{6.5.7.5}{4.8.22.5}{597, 497, 4965} इ॒मम्¦च॒¦नः॒¦गो॒ऽएष॑णम्¦सा॒तये᳚¦सी॒स॒धः॒¦ग॒णम् | आ॒रात्¦पू॒ष॒न्¦अ॒सि॒¦श्रु॒तः || |
आ ते᳚ स्व॒स्तिमी᳚मह आ॒रे,अ॑घा॒मुपा᳚वसुम् |{बार्हस्पत्यो भरद्वाजः | पूषा | अनुष्टुप्} अ॒द्या च॑ स॒र्वता᳚तये॒ श्वश्च॑ स॒र्वता᳚तये ||{6/6}{6.56.6}{6.5.7.6}{4.8.22.6}{598, 497, 4966} आ¦ते॒¦स्व॒स्तिम्¦ई॒म॒हे॒¦आ॒रे।आ॑घाम्¦उप॑ऽवसुम् | अ॒द्य¦च॒¦स॒र्वऽता᳚तये¦श्वः¦च॒¦स॒र्वऽता᳚तये || |
[57] इंद्रान्विति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रापूषणौगायत्री | |
इन्द्रा॒ नु पू॒षणा᳚ व॒यं स॒ख्याय॑ स्व॒स्तये᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री} हु॒वेम॒ वाज॑सातये ||{1/6}{6.57.1}{6.5.8.1}{4.8.23.1}{599, 498, 4967} इन्द्रा᳚¦नु¦पू॒षणा᳚¦व॒यम्¦स॒ख्याय॑¦स्व॒स्तये᳚ | हु॒वेम॑¦वाज॑ऽसातये || |
सोम॑म॒न्य उपा᳚सद॒त्पात॑वे च॒म्वोः᳚ सु॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री} क॒र॒म्भम॒न्य इ॑च्छति ||{2/6}{6.57.2}{6.5.8.2}{4.8.23.2}{600, 498, 4968} सोम᳚म्¦अ॒न्यः¦उप॑¦अ॒स॒द॒त्¦पात॑वे¦च॒म्वोः᳚¦सु॒तम् | क॒र॒म्भम्¦अ॒न्यः¦इ॒च्छ॒ति॒ || |
अ॒जा, अ॒न्यस्य॒ वह्न॑यो॒ हरी᳚, अ॒न्यस्य॒ सम्भृ॑ता |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री} ताभ्यां᳚ वृ॒त्राणि॑ जिघ्नते ||{3/6}{6.57.3}{6.5.8.3}{4.8.23.3}{601, 498, 4969} अ॒जाः¦अ॒न्यस्य॑¦वह्न॑यः¦हरी॒ इति॑¦अ॒न्यस्य॑¦सम्ऽभृ॑ता | ताभ्या᳚म्¦वृ॒त्राणि॑¦जि॒घ्न॒ते॒ || |
यदिन्द्रो॒, अन॑य॒द्रितो᳚ म॒हीर॒पो वृष᳚न्तमः |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री} तत्र॑ पू॒षाभ॑व॒त्सचा᳚ ||{4/6}{6.57.4}{6.5.8.4}{4.8.23.4}{602, 498, 4970} यत्¦इन्द्रः॑¦अन॑यत्¦रितः॑¦म॒हीः¦अ॒पः¦वृष॑न्ऽतमः | तत्र॑¦पू॒षा¦अ॒भ॒व॒त्¦सचा᳚ || |
तां पू॒ष्णः सु॑म॒तिं व॒यं वृ॒क्षस्य॒ प्र व॒यामि॑व |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री} इन्द्र॑स्य॒ चा र॑भामहे ||{5/6}{6.57.5}{6.5.8.5}{4.8.23.5}{603, 498, 4971} ताम्¦पू॒ष्णः¦सु॒ऽम॒तिम्¦व॒यम्¦वृ॒क्षस्य॑¦प्र¦व॒याम्ऽइ᳚व | इन्द्र॑स्य¦च॒¦आ¦र॒भा॒म॒हे॒ || |
उत्पू॒षणं᳚ युवामहे॒ऽभीशूँ᳚रिव॒ सार॑थिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री} म॒ह्या, इन्द्रं᳚ स्व॒स्तये᳚ ||{6/6}{6.57.6}{6.5.8.6}{4.8.23.6}{604, 498, 4972} उत्¦पू॒षण᳚म्¦यु॒वा॒म॒हे॒¦अ॒भीशू᳚न्ऽइव¦सार॑थिः | म॒ह्यै¦इन्द्र᳚म्¦स्व॒स्तये᳚ || |
[58] शुक्रंतइति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजः पूषात्रिष्टुप् द्वितीयाजगती | |
शु॒क्रं ते᳚, अ॒न्यद् य॑ज॒तं ते᳚, अ॒न्यद् विषु॑रूपे॒, अह॑नी॒ द्यौरि॑वासि |{बार्हस्पत्यो भरद्वाजः | पूषा | त्रिष्टुप्} विश्वा॒ हि मा॒या, अव॑सि स्वधावो भ॒द्रा ते᳚ पूषन्नि॒ह रा॒तिर॑स्तु ||{1/4}{6.58.1}{6.5.9.1}{4.8.24.1}{605, 499, 4973} शु॒क्रम्¦ते॒¦अ॒न्यत्¦य॒ज॒तम्¦ते॒¦अ॒न्यत्¦विषु॑रूपे॒ इति॒ विषु॑ऽरूपे¦अह॑नी॒ इति॑¦द्यौःऽइ᳚व¦अ॒सि॒ | |
अ॒जाश्वः॑ पशु॒पा वाज॑पस्त्यो धियंजि॒न्वो भुव॑ने॒ विश्वे॒, अर्पि॑तः |{बार्हस्पत्यो भरद्वाजः | पूषा | जगती} अष्ट्रां᳚ पू॒षा शि॑थि॒रामु॒द्वरी᳚वृजत्सं॒चक्षा᳚णो॒ भुव॑ना दे॒व ई᳚यते ||{2/4}{6.58.2}{6.5.9.2}{4.8.24.2}{606, 499, 4974} अ॒ज।आ॑श्वः¦प॒शु॒ऽपाः¦वाज॑ऽपस्त्यः¦धि॒य॒म्ऽजि॒न्वः¦भुव॑ने¦विश्वे᳚¦अर्पि॑तः | |
यास्ते᳚ पूष॒न्नावो᳚, अ॒न्तः स॑मु॒द्रे हि॑र॒ण्ययी᳚र॒न्तरि॑क्षे॒ चर᳚न्ति |{बार्हस्पत्यो भरद्वाजः | पूषा | त्रिष्टुप्} ताभि᳚र्यासि दू॒त्यां सूर्य॑स्य॒ कामे᳚न कृत॒ श्रव॑ इ॒च्छमा᳚नः ||{3/4}{6.58.3}{6.5.9.3}{4.8.24.3}{607, 499, 4975} याः¦ते॒¦पू॒ष॒न्¦नावः॑¦अ॒न्तरिति॑¦स॒मु॒द्रे¦हि॒र॒ण्ययीः᳚¦अ॒न्तरि॑क्षे¦चर᳚न्ति | |
पू॒षा सु॒बन्धु॑र्दि॒व आ पृ॑थि॒व्या, इ॒ळस्पति᳚र्म॒घवा᳚ द॒स्मव॑र्चाः |{बार्हस्पत्यो भरद्वाजः | पूषा | त्रिष्टुप्} यं दे॒वासो॒, अद॑दुः सू॒र्यायै॒ कामे᳚न कृ॒तं त॒वसं॒ स्वञ्च᳚म् ||{4/4}{6.58.4}{6.5.9.4}{4.8.24.4}{608, 499, 4976} पू॒षा¦सु॒ऽबन्धुः॑¦दि॒वः¦आ¦पृ॒थि॒व्याः¦इ॒ळः¦पतिः॑¦म॒घऽवा᳚¦द॒स्मऽव॑र्चाः | |
[59] प्रनुवोचेति दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज इंद्राग्नी बृहती अंत्याश्चतस्रोनुष्टुभः | |
प्र नु वो᳚चा सु॒तेषु॑ वां वी॒र्या॒३॑(आ॒) यानि॑ च॒क्रथुः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती} ह॒तासो᳚ वां पि॒तरो᳚ दे॒वश॑त्रव॒ इन्द्रा᳚ग्नी॒ जीव॑थो यु॒वम् ||{1/10}{6.59.1}{6.5.10.1}{4.8.25.1}{609, 500, 4977} प्र¦नु¦वो॒च॒¦सु॒तेषु॑¦वा॒म्¦वी॒र्या᳚¦यानि॑¦च॒क्रथुः॑ | |
बळि॒त्था म॑हि॒मा वा॒मिन्द्रा᳚ग्नी॒ पनि॑ष्ठ॒ आ |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती} स॒मा॒नो वां᳚ जनि॒ता भ्रात॑रा यु॒वं य॒मावि॒हेह॑मातरा ||{2/10}{6.59.2}{6.5.10.2}{4.8.25.2}{610, 500, 4978} बट्¦इ॒त्था¦म॒हि॒मा¦वा॒म्¦इन्द्रा᳚ग्नी॒ इति॑¦पनि॑ष्ठः¦आ | |
ओ॒कि॒वांसा᳚ सु॒ते सचाँ॒, अश्वा॒ सप्ती᳚, इ॒वाद॑ने |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती} इन्द्रा॒ न्व१॑(अ॒)ग्नी, अव॑से॒ह व॒ज्रिणा᳚ व॒यं दे॒वा ह॑वामहे ||{3/10}{6.59.3}{6.5.10.3}{4.8.25.3}{611, 500, 4979} ओ॒कि॒ऽवांसा᳚¦सु॒ते¦सचा᳚¦अश्वा᳚¦सप्ती᳚ इ॒वेति॒ सप्ती᳚ऽइव¦आद॑ने | |
य इ᳚न्द्राग्नी सु॒तेषु॑ वां॒ स्तव॒त्तेष्वृ॑तावृधा |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती} जो॒ष॒वा॒कं वद॑तः पज्रहोषिणा॒ न दे᳚वा भ॒सथ॑श्च॒न ||{4/10}{6.59.4}{6.5.10.4}{4.8.25.4}{612, 500, 4980} यः¦इ॒न्द्रा॒ग्नी॒ इति॑¦सु॒तेषु॑¦वा॒म्¦स्तव॑त्¦तेषु॑¦ऋ॒त॒ऽवृ॒धा॒ | |
इन्द्रा᳚ग्नी॒ को, अ॒स्य वां॒ देवौ॒ मर्त॑श्चिकेतति |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती} विषू᳚चो॒, अश्वा᳚न्युयुजा॒न ई᳚यत॒ एकः॑ समा॒न आ रथे᳚ ||{5/10}{6.59.5}{6.5.10.5}{4.8.25.5}{613, 500, 4981} इन्द्रा᳚ग्नी॒ इति॑¦कः¦अ॒स्य¦वा॒म्¦देवौ᳚¦मर्तः॑¦चि॒के॒त॒ति॒ | |
इन्द्रा᳚ग्नी, अ॒पादि॒यं पूर्वागा᳚त्प॒द्वती᳚भ्यः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती} हि॒त्वी शिरो᳚ जि॒ह्वया॒ वाव॑द॒च्चर॑त्त्रिं॒शत्प॒दा न्य॑क्रमीत् ||{6/10}{6.59.6}{6.5.10.6}{4.8.26.1}{614, 500, 4982} इन्द्रा᳚ग्नी॒ इति॑¦अ॒पात्¦इ॒यम्¦पूर्वा᳚¦आ¦अ॒गा॒त्¦प॒त्ऽवती᳚भ्यः | |
इन्द्रा᳚ग्नी॒, आ हि त᳚न्व॒ते नरो॒ धन्वा᳚नि बा॒ह्वोः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्} मा नो᳚, अ॒स्मिन्म॑हाध॒ने परा᳚ वर्क्तं॒ गवि॑ष्टिषु ||{7/10}{6.59.7}{6.5.10.7}{4.8.26.2}{615, 500, 4983} इन्द्रा᳚ग्नी॒ इति॑¦आ¦हि¦त॒न्व॒ते¦नरः॑¦धन्वा᳚नि¦बा॒ह्वोः | मा¦नः॒¦अ॒स्मिन्¦म॒हा॒ऽध॒ने¦परा᳚¦व॒र्क्त॒म्¦गोऽइ᳚ष्टिषु || |
इन्द्रा᳚ग्नी॒ तप᳚न्ति मा॒घा, अ॒र्यो, अरा᳚तयः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्} अप॒ द्वेषां॒स्या कृ॑तं युयु॒तं सूर्या॒दधि॑ ||{8/10}{6.59.8}{6.5.10.8}{4.8.26.3}{616, 500, 4984} इन्द्रा᳚ग्नी॒ इति॑¦तप᳚न्ति¦मा॒¦अ॒घाः¦अ॒र्यः¦अरा᳚तयः | अप॑¦द्वेषां᳚सि¦आ¦कृ॒त॒म्¦यु॒यु॒तम्¦सूर्या᳚त्¦अधि॑ || |
इन्द्रा᳚ग्नी यु॒वोरपि॒ वसु॑ दि॒व्यानि॒ पार्थि॑वा |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्} आ न॑ इ॒ह प्र य॑च्छतं र॒यिं वि॒श्वायु॑पोषसम् ||{9/10}{6.59.9}{6.5.10.9}{4.8.26.4}{617, 500, 4985} इन्द्रा᳚ग्नी॒ इति॑¦यु॒वोः¦अपि॑¦वसु॑¦दि॒व्यानि॑¦पार्थि॑वा | आ¦नः॒¦इ॒ह¦प्र¦य॒च्छ॒त॒म्¦र॒यिम्¦वि॒श्वायु॑ऽपोषसम् || |
इन्द्रा᳚ग्नी, उक्थवाहसा॒ स्तोमे᳚भिर्हवनश्रुता |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्} विश्वा᳚भिर्गी॒र्भिरा ग॑तम॒स्य सोम॑स्य पी॒तये᳚ ||{10/10}{6.59.10}{6.5.10.10}{4.8.26.5}{618, 500, 4986} इन्द्रा᳚ग्नी॒ इति॑¦उ॒क्थ॒ऽवा॒ह॒सा॒¦स्तोमे᳚भिः¦ह॒व॒न॒ऽश्रु॒ता॒ | विश्वा᳚भिः¦गीः॒ऽभिः¦आ¦ग॒त॒म्¦अ॒स्य¦सोम॑स्य¦पी॒तये᳚ || |
[60] श्नथद्वृत्रमिति पंचदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्राग्नीगायत्री आद्यास्तिस्रस्त्रयोदशीचत्रिष्टुभः चतुर्दशीबृहत्यंत्यानुष्टुप् | |
श्नथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो, अ॒ग्नी सहु॑री सप॒र्यात् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | त्रिष्टुप्} इ॒र॒ज्यन्ता᳚ वस॒व्य॑स्य॒ भूरेः॒ सह॑स्तमा॒ सह॑सा वाज॒यन्ता᳚ ||{1/15}{6.60.1}{6.5.11.1}{4.8.27.1}{619, 501, 4987} श्नथ॑त्¦वृ॒त्रम्¦उ॒त¦स॒नो॒ति॒¦वाज᳚म्¦इन्द्रा᳚¦यः¦अ॒ग्नी इति॑¦सहु॑री॒ इति॑¦स॒प॒र्यात् | |
ता यो᳚धिष्टम॒भि गा, इ᳚न्द्र नू॒नम॒पः स्व॑रु॒षसो᳚, अग्न ऊ॒ळ्हाः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | त्रिष्टुप्} दिशः॒ स्व॑रु॒षस॑ इन्द्र चि॒त्रा, अ॒पो गा, अ॑ग्ने युवसे नि॒युत्वा॑न् ||{2/15}{6.60.2}{6.5.11.2}{4.8.27.2}{620, 501, 4988} ता¦यो॒धि॒ष्ट॒म्¦अ॒भि¦गाः¦इ॒न्द्र॒¦नू॒नम्¦अ॒पः¦स्वः॑¦उ॒षसः॑¦अ॒ग्ने॒¦ऊ॒ळ्हाः | |
आ वृ॑त्रहणा वृत्र॒हभिः॒ शुष्मै॒रिन्द्र॑ या॒तं नमो᳚भिरग्ने, अ॒र्वाक् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | त्रिष्टुप्} यु॒वं राधो᳚भि॒रक॑वेभिरि॒न्द्राग्ने᳚, अ॒स्मे भ॑वतमुत्त॒मेभिः॑ ||{3/15}{6.60.3}{6.5.11.3}{4.8.27.3}{621, 501, 4989} आ¦वृ॒त्र॒ऽह॒ना॒¦वृ॒त्र॒हऽभिः॑¦शुष्मैः᳚¦इन्द्र॑¦या॒तम्¦नमः॑ऽभिः¦अ॒ग्ने॒¦अ॒र्वाक् | |
ता हु॑वे॒ ययो᳚रि॒दं प॒प्ने विश्वं᳚ पु॒रा कृ॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री} इ॒न्द्रा॒ग्नी न म॑र्धतः ||{4/15}{6.60.4}{6.5.11.4}{4.8.27.4}{622, 501, 4990} ता¦हु॒वे॒¦ययोः᳚¦इ॒दम्¦प॒प्ने¦विश्व᳚म्¦पु॒रा¦कृ॒तम् | इ॒न्द्रा॒ग्नी इति॑¦न¦म॒र्ध॒तः॒ || |
उ॒ग्रा वि॑घ॒निना॒ मृध॑ इन्द्रा॒ग्नी ह॑वामहे |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री} ता नो᳚ मृळात ई॒दृशे᳚ ||{5/15}{6.60.5}{6.5.11.5}{4.8.27.5}{623, 501, 4991} उ॒ग्रा¦वि॒ऽघ॒निना᳚¦मृधः॑¦इ॒न्द्रा॒ग्नी इति॑¦ह॒वा॒म॒हे॒ | ता¦नः॒¦मृ॒ळा॒तः॒¦ई॒दृशे᳚ || |
ह॒तो वृ॒त्राण्यार्या᳚ ह॒तो दासा᳚नि॒ सत्प॑ती |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री} ह॒तो विश्वा॒, अप॒ द्विषः॑ ||{6/15}{6.60.6}{6.5.11.6}{4.8.28.1}{624, 501, 4992} ह॒तः¦वृ॒त्राणि॑¦आर्या᳚¦ह॒तः¦दासा᳚नि¦सत्प॑ती॒ इति॒ सत्ऽप॑ती | ह॒तः¦विश्वाः᳚¦अप॑¦द्विषः॑ || |
इन्द्रा᳚ग्नी यु॒वामि॒मे॒३॑(ए॒)ऽभि स्तोमा᳚, अनूषत |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री} पिब॑तं शम्भुवा सु॒तम् ||{7/15}{6.60.7}{6.5.11.7}{4.8.28.2}{625, 501, 4993} इन्द्रा᳚ग्नी॒ इति॑¦यु॒वाम्¦इ॒मे¦अ॒भि¦स्तोमाः᳚¦अ॒नू॒ष॒त॒ | पिब॑तम्¦श॒म्ऽभु॒वा॒¦सु॒तम् || |
या वां॒ सन्ति॑ पुरु॒स्पृहो᳚ नि॒युतो᳚ दा॒शुषे᳚ नरा |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री} इन्द्रा᳚ग्नी॒ ताभि॒रा ग॑तम् ||{8/15}{6.60.8}{6.5.11.8}{4.8.28.3}{626, 501, 4994} याः¦वा॒म्¦सन्ति॑¦पु॒रु॒ऽस्पृहः॑¦नि॒ऽयुतः॑¦दा॒शुषे᳚¦न॒रा॒ | इन्द्रा᳚ग्नी॒ इति॑¦ताभिः॑¦आ¦ग॒त॒म् || |
ताभि॒रा ग॑च्छतं न॒रोपे॒दं सव॑नं सु॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री} इन्द्रा᳚ग्नी॒ सोम॑पीतये ||{9/15}{6.60.9}{6.5.11.9}{4.8.28.4}{627, 501, 4995} ताभिः॑¦आ¦ग॒च्छ॒त॒म्¦न॒रा॒¦उप॑¦इ॒दम्¦सव॑नम्¦सु॒तम् | इन्द्रा᳚ग्नी॒ इति॑¦सोम॑ऽपीतये || |
तमी᳚ळिष्व॒ यो, अ॒र्चिषा॒ वना॒ विश्वा᳚ परि॒ष्वज॑त् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री} कृ॒ष्णा कृ॒णोति॑ जि॒ह्वया᳚ ||{10/15}{6.60.10}{6.5.11.10}{4.8.28.5}{628, 501, 4996} तम्¦ई॒ळि॒ष्व॒¦यः¦अ॒र्चिषा᳚¦वना᳚¦विश्वा᳚¦प॒रि॒ऽस्वज॑त् | कृ॒ष्णा¦कृ॒णोति॑¦जि॒ह्वया᳚ || |
य इ॒द्ध आ॒विवा᳚सति सु॒म्नमिन्द्र॑स्य॒ मर्त्यः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री} द्यु॒म्नाय॑ सु॒तरा᳚, अ॒पः ||{11/15}{6.60.11}{6.5.11.11}{4.8.29.1}{629, 501, 4997} यः¦इ॒द्धे¦आ॒ऽविवा᳚सति¦सु॒म्नम्¦इन्द्र॑स्य¦मर्त्यः॑ | द्यु॒म्नाय॑¦सु॒ऽतराः᳚¦अ॒पः || |
ता नो॒ वाज॑वती॒रिष॑ आ॒शून् पि॑पृत॒मर्व॑तः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री} इन्द्र॑म॒ग्निं च॒ वोळ्ह॑वे ||{12/15}{6.60.12}{6.5.11.12}{4.8.29.2}{630, 501, 4998} ता¦नः॒¦वाज॑ऽवतीः¦इषः॑¦आ॒शून्¦पि॒पृ॒त॒म्¦अर्व॑तः | इन्द्र᳚म्¦अ॒ग्निम्¦च॒¦वोळ्ह॑वे || |
उ॒भा वा᳚मिन्द्राग्नी, आहु॒वध्या᳚, उ॒भा राध॑सः स॒ह मा᳚द॒यध्यै᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | त्रिष्टुप्} उ॒भा दा॒तारा᳚वि॒षां र॑यी॒णामु॒भा वाज॑स्य सा॒तये᳚ हुवे वाम् ||{13/15}{6.60.13}{6.5.11.13}{4.8.29.3}{631, 501, 4999} उ॒भा¦वा॒म्¦इ॒न्द्रा॒ग्नी॒ इति॑¦आ॒ऽहु॒वध्यै᳚¦उ॒भा¦राध॑सः¦स॒ह¦मा॒द॒यध्यै᳚ | |
आ नो॒ गव्ये᳚भि॒रश्व्यै᳚र्वस॒व्यै॒३॑(ऐ॒)रुप॑ गच्छतम् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती} सखा᳚यौ दे॒वौ स॒ख्याय॑ श॒म्भुवे᳚न्द्रा॒ग्नी ता ह॑वामहे ||{14/15}{6.60.14}{6.5.11.14}{4.8.29.4}{632, 501, 5000} आ¦नः॒¦गव्ये᳚भिः¦अश्व्यैः᳚¦व॒स॒व्यैः᳚¦उप॑¦ग॒च्छ॒त॒म् | |
इन्द्रा᳚ग्नी शृणु॒तं हवं॒ यज॑मानस्य सुन्व॒तः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्} वी॒तं ह॒व्यान्या ग॑तं॒ पिब॑तं सो॒म्यं मधु॑ ||{15/15}{6.60.15}{6.5.11.15}{4.8.29.5}{633, 501, 5001} इन्द्रा᳚ग्नी॒ इति॑¦शृ॒णु॒तम्¦हव᳚म्¦यज॑मानस्य¦सु॒न्व॒तः | वी॒तम्¦ह॒व्यानि॑¦आ¦ग॒त॒म्¦पिब॑तम्¦सो॒म्यम्¦मधु॑ || |
[61] इयमददादिति चतुर्दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजः सरस्वतीगायत्री आद्यास्तिस्रत्रयोदशीचजगत्योंत्यात्रिष्टुप् | |
इ॒यम॑ददाद् रभ॒समृ॑ण॒च्युतं॒ दिवो᳚दासं वध्र्य॒श्वाय॑ दा॒शुषे᳚ |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती} या शश्व᳚न्तमाच॒खादा᳚व॒सं प॒णिं ता ते᳚ दा॒त्राणि॑ तवि॒षा स॑रस्वति ||{1/14}{6.61.1}{6.5.12.1}{4.8.30.1}{634, 502, 5002} इ॒यम्¦अ॒द॒दा॒त्¦र॒भ॒सम्¦ऋ॒ण॒ऽच्युत᳚म्¦दिवः॑ऽदासम्¦व॒ध्रि॒।आ॒श्वाय॑¦दा॒शुषे᳚ | |
इ॒यं शुष्मे᳚भिर्बिस॒खा, इ॑वारुज॒त् सानु॑ गिरी॒णां त॑वि॒षेभि॑रू॒र्मिभिः॑ |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती} पा॒रा॒व॒त॒घ्नीमव॑से सुवृ॒क्तिभिः॒ सर॑स्वती॒मा वि॑वासेम धी॒तिभिः॑ ||{2/14}{6.61.2}{6.5.12.2}{4.8.30.2}{635, 502, 5003} इ॒यम्¦शुष्मे᳚भिः¦बि॒स॒खाःऽइ᳚व¦अ॒रु॒ज॒त्¦सानु॑¦गि॒री॒णाम्¦त॒वि॒षेभिः॑¦ऊ॒र्मिऽभिः॑ | |
सर॑स्वति देव॒निदो॒ नि ब᳚र्हय प्र॒जां विश्व॑स्य॒ बृस॑यस्य मा॒यिनः॑ |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती} उ॒त क्षि॒तिभ्यो॒ऽवनी᳚रविन्दो वि॒षमे᳚भ्यो, अस्रवो वाजिनीवति ||{3/14}{6.61.3}{6.5.12.3}{4.8.30.3}{636, 502, 5004} सर॑स्वति¦दे॒व॒ऽनिदः॑¦नि¦ब॒र्ह॒य॒¦प्र॒ऽजाम्¦विश्व॑स्य¦बृस॑यस्य¦मा॒यिनः॑ | |
प्र णो᳚ दे॒वी सर॑स्वती॒ वाजे᳚भिर्वा॒जिनी᳚वती |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री} धी॒नाम॑वि॒त्र्य॑वतु ||{4/14}{6.61.4}{6.5.12.4}{4.8.30.4}{637, 502, 5005} प्र¦नः॒¦दे॒वी¦सर॑स्वती¦वाजे᳚भिः¦वा॒जिनी᳚ऽवती | धी॒नाम्¦अ॒वि॒त्री¦अ॒व॒तु॒ || |
यस्त्वा᳚ देवि सरस्वत्युपब्रू॒ते धने᳚ हि॒ते |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री} इन्द्रं॒ न वृ॑त्र॒तूर्ये᳚ ||{5/14}{6.61.5}{6.5.12.5}{4.8.30.5}{638, 502, 5006} यः¦त्वा॒¦दे॒वि॒¦स॒र॒स्व॒ति॒¦उ॒प॒ऽब्रू॒ते¦धने᳚¦हि॒ते | इन्द्र᳚म्¦न¦वृ॒त्र॒ऽतूर्ये᳚ || |
त्वं दे᳚वि सरस्व॒त्यवा॒ वाजे᳚षु वाजिनि |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री} रदा᳚ पू॒षेव॑ नः स॒निम् ||{6/14}{6.61.6}{6.5.12.6}{4.8.31.1}{639, 502, 5007} त्वम्¦दे॒वि॒¦स॒र॒स्व॒ति॒¦अव॑¦वाजे᳚षु¦वा॒जि॒नि॒ | रद॑¦पू॒षाऽइ᳚व¦नः॒¦स॒निम् || |
उ॒त स्या नः॒ सर॑स्वती घो॒रा हिर᳚ण्यवर्तनिः |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री} वृ॒त्र॒घ्नी व॑ष्टि सुष्टु॒तिम् ||{7/14}{6.61.7}{6.5.12.7}{4.8.31.2}{640, 502, 5008} उ॒त¦स्या¦नः॒¦सर॑स्वती¦घो॒रा¦हिर᳚ण्यऽवर्तनिः | वृ॒त्र॒ऽघ्नी¦व॒ष्टि॒¦सु॒ऽस्तु॒तिम् || |
यस्या᳚, अन॒न्तो, अह्रु॑तस्त्वे॒षश्च॑रि॒ष्णुर᳚र्ण॒वः |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री} अम॒श्चर॑ति॒ रोरु॑वत् ||{8/14}{6.61.8}{6.5.12.8}{4.8.31.3}{641, 502, 5009} यस्याः᳚¦अ॒न॒न्तः¦अह्रु॑तः¦त्वे॒षः¦च॒रि॒ष्णुः¦अ॒र्ण॒वः | अमः॑¦चर॑ति¦रोरु॑वत् || |
सा नो॒ विश्वा॒, अति॒ द्विषः॒ स्वसॄ᳚र॒न्या, ऋ॒ताव॑री |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री} अत॒न्नहे᳚व॒ सूर्यः॑ ||{9/14}{6.61.9}{6.5.12.9}{4.8.31.4}{642, 502, 5010} सा¦नः॒¦विश्वाः᳚¦अति॑¦द्विषः॑¦स्वसॄः᳚¦अ॒न्याः¦ऋ॒तऽव॑री | अत॑न्¦अहा᳚ऽइव¦सूर्यः॑ || |
उ॒त नः॑ प्रि॒या प्रि॒यासु॑ स॒प्तस्व॑सा॒ सुजु॑ष्टा |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री} सर॑स्वती॒ स्तोम्या᳚ भूत् ||{10/14}{6.61.10}{6.5.12.10}{4.8.31.5}{643, 502, 5011} उ॒त¦नः॒¦प्रि॒या¦प्रि॒यासु॑¦स॒प्तऽस्व॑सा¦सुऽजु॑ष्टा | सर॑स्वती¦स्तोम्या᳚¦भू॒त् || |
आ॒प॒प्रुषी॒ पार्थि॑वान्यु॒रु रजो᳚, अ॒न्तरि॑क्षम् |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री} सर॑स्वती नि॒दस्पा᳚तु ||{11/14}{6.61.11}{6.5.12.11}{4.8.32.1}{644, 502, 5012} आ॒ऽप॒प्रुषी᳚¦पार्थि॑वानि¦उ॒रु¦रजः॑¦अ॒न्तरि॑क्षम् | सर॑स्वती¦नि॒दः¦पा॒तु॒ || |
त्रि॒ष॒धस्था᳚ स॒प्तधा᳚तुः॒ पञ्च॑ जा॒ता व॒र्धय᳚न्ती |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री} वाजे᳚वाजे॒ हव्या᳚ भूत् ||{12/14}{6.61.12}{6.5.12.12}{4.8.32.2}{645, 502, 5013} त्रि॒ऽस॒धस्था᳚¦स॒प्तऽधा᳚तुः¦पंच॑¦जा॒ता¦व॒र्धय᳚न्ती | वाजे᳚ऽवाजे¦हव्या᳚¦भू॒त् || |
प्र या म॑हि॒म्ना म॒हिना᳚सु॒ चेकि॑ते द्यु॒म्नेभि॑र॒न्या, अ॒पसा᳚म॒पस्त॑मा |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती} रथ॑ इव बृह॒ती वि॒भ्वने᳚ कृ॒तोप॒स्तुत्या᳚ चिकि॒तुषा॒ सर॑स्वती ||{13/14}{6.61.13}{6.5.12.13}{4.8.32.3}{646, 502, 5014} प्र¦या¦म॒हि॒म्ना¦म॒हिना᳚¦आ॒सु॒¦चेकि॑ते¦द्यु॒म्नेभिः॑¦अ॒न्याः¦अ॒पसा᳚म्¦अ॒पःऽत॑मा | |
सर॑स्वत्य॒भि नो᳚ नेषि॒ वस्यो॒ माप॑ स्फरीः॒ पय॑सा॒ मा न॒ आ ध॑क् |{बार्हस्पत्यो भरद्वाजः | सरस्वती | त्रिष्टुप्} जु॒षस्व॑ नः स॒ख्या वे॒श्या᳚ च॒ मा त्वत् क्षेत्रा॒ण्यर॑णानि गन्म ||{14/14}{6.61.14}{6.5.12.14}{4.8.32.4}{647, 502, 5015} सर॑स्वति¦अ॒भि¦नः॒¦ने॒षि॒¦वस्यः॑¦मा¦अप॑¦स्फ॒रीः॒¦पय॑सा¦मा¦नः॒¦आ¦ध॒क् | |
[62] स्तुषेनरेत्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोश्विनौत्रिष्टुप् | |
स्तु॒षे नरा᳚ दि॒वो, अ॒स्य प्र॒सन्ता॒श्विना᳚ हुवे॒ जर॑माणो, अ॒र्कैः |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} या स॒द्य उ॒स्रा व्युषि॒ ज्मो, अन्ता॒न्युयू᳚षतः॒ पर्यु॒रू वरां᳚सि ||{1/11}{6.62.1}{6.6.1.1}{5.1.1.1}{648, 503, 5016} स्तु॒षे¦नरा᳚¦दि॒वः¦अ॒स्य¦प्र॒ऽसन्ता᳚¦अ॒श्विना᳚¦हु॒वे॒¦जर॑माणः¦अ॒र्कैः | |
ता य॒ज्ञमा शुचि॑भिश्चक्रमा॒णा रथ॑स्य भा॒नुं रु॑रुचू॒ रजो᳚भिः |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} पु॒रू वरां॒स्यमि॑ता॒ मिमा᳚ना॒पो धन्वा॒न्यति॑ याथो॒, अज्रा॑न् ||{2/11}{6.62.2}{6.6.1.2}{5.1.1.2}{649, 503, 5017} ता¦य॒ज्ञम्¦आ¦शुचि॑ऽभिः¦च॒क्र॒मा॒णा¦रथ॑स्य¦भा॒नुम्¦रु॒रु॒चुः॒¦रजः॑ऽभिः | |
ता ह॒ त्यद्व॒र्तिर्यदर॑ध्रमुग्रे॒त्था धिय॑ ऊहथुः॒ शश्व॒दश्वैः᳚ |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} मनो᳚जवेभिरिषि॒रैः श॒यध्यै॒ परि॒ व्यथि॑र्दा॒शुषो॒ मर्त्य॑स्य ||{3/11}{6.62.3}{6.6.1.3}{5.1.1.3}{650, 503, 5018} ता¦ह॒¦त्यत्¦व॒र्तिः¦यत्¦अर॑ध्रम्¦उ॒ग्रा॒¦इ॒त्था¦धियः॑¦ऊ॒ह॒थुः॒¦शश्व॑त्¦अश्वैः᳚ | |
ता नव्य॑सो॒ जर॑माणस्य॒ मन्मोप॑ भूषतो युयुजा॒नस॑प्ती |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} शुभं॒ पृक्ष॒मिष॒मूर्जं॒ वह᳚न्ता॒ होता᳚ यक्षत्प्र॒त्नो, अ॒ध्रुग्युवा᳚ना ||{4/11}{6.62.4}{6.6.1.4}{5.1.1.4}{651, 503, 5019} ता¦नव्य॑सः¦जर॑माणस्य¦मन्म॑¦उप॑¦भू॒ष॒तः॒¦यु॒यु॒जा॒नस॑प्ती॒ इति॑ यु॒यु॒जा॒नऽस॑प्ती | |
ता व॒ल्गू द॒स्रा पु॑रु॒शाक॑तमा प्र॒त्ना नव्य॑सा॒ वच॒सा वि॑वासे |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} या शंस॑ते स्तुव॒ते शम्भ॑विष्ठा बभू॒वतु॑र्गृण॒ते चि॒त्ररा᳚ती ||{5/11}{6.62.5}{6.6.1.5}{5.1.1.5}{652, 503, 5020} ता¦व॒ल्गू इति॑¦द॒स्रा¦पु॒रु॒शाक॑ऽतमा¦प्र॒त्ना¦नव्य॑सा¦वच॑सा¦आ¦वि॒वा॒से॒ | |
ता भु॒ज्युं विभि॑र॒द्भ्यः स॑मु॒द्रात्तुग्र॑स्य सू॒नुमू᳚हथू॒ रजो᳚भिः |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} अ॒रे॒णुभि॒र्योज॑नेभिर्भु॒जन्ता᳚ पत॒त्रिभि॒रर्ण॑सो॒ निरु॒पस्था᳚त् ||{6/11}{6.62.6}{6.6.1.6}{5.1.2.1}{653, 503, 5021} ता¦भु॒ज्युम्¦विऽभिः॑¦अ॒त्ऽभ्यः¦स॒मु॒द्रात्¦तुग्र॑स्य¦सू॒नुम्¦ऊ॒ह॒थुः॒¦रजः॑ऽभिः | |
वि ज॒युषा᳚ रथ्या यात॒मद्रिं᳚ श्रु॒तं हवं᳚ वृषणा वध्रिम॒त्याः |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} द॒श॒स्यन्ता᳚ श॒यवे᳚ पिप्यथु॒र्गामिति॑ च्यवाना सुम॒तिं भु॑रण्यू ||{7/11}{6.62.7}{6.6.1.7}{5.1.2.2}{654, 503, 5022} वि¦ज॒युषा᳚¦र॒थ्या॒¦या॒त॒म्¦अद्रि᳚म्¦श्रु॒तम्¦हव᳚म्¦वृ॒ष॒णा॒¦व॒ध्रि॒ऽम॒त्याः | |
यद्रो᳚दसी प्र॒दिवो॒, अस्ति॒ भूमा॒ हेळो᳚ दे॒वाना᳚मु॒त म॑र्त्य॒त्रा |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} तदा᳚दित्या वसवो रुद्रियासो रक्षो॒युजे॒ तपु॑र॒घं द॑धात ||{8/11}{6.62.8}{6.6.1.8}{5.1.2.3}{655, 503, 5023} यत्¦रो॒द॒सी॒ इति॑¦प्र॒ऽदिवः॑¦अस्ति॑¦भूम॑¦हेळः॑¦दे॒वाना᳚म्¦उ॒त¦म॒र्त्य॒ऽत्रा | |
य ईं॒ राजा᳚नावृतु॒था वि॒दध॒द्रज॑सो मि॒त्रो वरु॑ण॒श्चिके᳚तत् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} ग॒म्भी॒राय॒ रक्ष॑से हे॒तिम॑स्य॒ द्रोघा᳚य चि॒द्वच॑स॒ आन॑वाय ||{9/11}{6.62.9}{6.6.1.9}{5.1.2.4}{656, 503, 5024} यः¦ई॒म्¦राजा᳚नौ¦ऋ॒तु॒ऽथा¦वि॒ऽदध॑त्¦रज॑सः¦मि॒त्रः¦वरु॑णः¦चिके᳚तत् | |
अन्त॑रैश्च॒क्रैस्तन॑याय व॒र्तिर्द्यु॒मता या᳚तं नृ॒वता॒ रथे᳚न |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} सनु॑त्येन॒ त्यज॑सा॒ मर्त्य॑स्य वनुष्य॒तामपि॑ शी॒र्षा व॑वृक्तम् ||{10/11}{6.62.10}{6.6.1.10}{5.1.2.5}{657, 503, 5025} अन्त॑रैः¦च॒क्रैः¦तन॑याय¦व॒र्तिः¦द्यु॒ऽमता᳚¦आ¦या॒त॒म्¦नृ॒ऽवता᳚¦रथे᳚न | |
आ प॑र॒माभि॑रु॒त म॑ध्य॒माभि᳚र्नि॒युद्भि᳚र्यातमव॒माभि॑र॒र्वाक् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} दृ॒ळ्हस्य॑ चि॒द्गोम॑तो॒ वि व्र॒जस्य॒ दुरो᳚ वर्तं गृण॒ते चि॑त्रराती ||{11/11}{6.62.11}{6.6.1.11}{5.1.2.6}{658, 503, 5026} आ¦प॒र॒माभिः॑¦उ॒त¦म॒ध्य॒माभिः॑¦नि॒युत्ऽभिः॑¦या॒त॒म्¦अ॒व॒माभिः॑¦अ॒र्वाक् | |
[63] कत्येत्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोश्विनौस्त्रिष्टुबन्त्याविराळैकपदा | |
क्व१॑(अ॒) त्या व॒ल्गू पु॑रुहू॒ताद्य दू॒तो न स्तोमो᳚ऽविद॒न्नम॑स्वान् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} आ यो, अ॒र्वाङ्नास॑त्या व॒वर्त॒ प्रेष्ठा॒ ह्यस॑थो, अस्य॒ मन्म॑न् ||{1/11}{6.63.1}{6.6.2.1}{5.1.3.1}{659, 504, 5027} क्व॑¦त्या¦व॒ल्गू इति॑¦पु॒रु॒ऽहू॒ता¦अ॒द्य¦दू॒तः¦न¦स्तोमः॑¦अ॒वि॒द॒त्¦नम॑स्वान् | |
अरं᳚ मे गन्तं॒ हव॑नाया॒स्मै गृ॑णा॒ना यथा॒ पिबा᳚थो॒, अन्धः॑ |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} परि॑ ह॒ त्यद्व॒र्तिर्या᳚थो रि॒षो न यत्परो॒ नान्त॑रस्तुतु॒र्यात् ||{2/11}{6.63.2}{6.6.2.2}{5.1.3.2}{660, 504, 5028} अर᳚म्¦मे॒¦ग॒न्त॒म्¦हव॑नाय¦अ॒स्मै¦गृ॒णा॒ना¦यथा᳚¦पिबा᳚थः¦अन्धः॑ | |
अका᳚रि वा॒मन्ध॑सो॒ वरी᳚म॒न्नस्ता᳚रि ब॒र्हिः सु॑प्राय॒णत॑मम् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} उ॒त्ता॒नह॑स्तो युव॒युर्व॑व॒न्दा वां॒ नक्ष᳚न्तो॒, अद्र॑य आञ्जन् ||{3/11}{6.63.3}{6.6.2.3}{5.1.3.3}{661, 504, 5029} अका᳚रि¦वा॒म्¦अन्ध॑सः¦वरी᳚मन्¦अस्ता᳚रि¦ब॒र्हिः¦सु॒प्र॒।आ॒य॒नत॑मम् | |
ऊ॒र्ध्वो वा᳚म॒ग्निर॑ध्व॒रेष्व॑स्था॒त्प्र रा॒तिरे᳚ति जू॒र्णिनी᳚ घृ॒ताची᳚ |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} प्र होता᳚ गू॒र्तम॑ना, उरा॒णोऽयु॑क्त॒ यो नास॑त्या॒ हवी᳚मन् ||{4/11}{6.63.4}{6.6.2.4}{5.1.3.4}{662, 504, 5030} ऊ॒र्ध्वः¦वा॒म्¦अ॒ग्निः¦अ॒ध्व॒रेषु॑¦अ॒स्था॒त्¦प्र¦रा॒तिः¦ए॒ति॒¦जू॒र्णिनी᳚¦घृ॒ताची᳚ | |
अधि॑ श्रि॒ये दु॑हि॒ता सूर्य॑स्य॒ रथं᳚ तस्थौ पुरुभुजा श॒तोति᳚म् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} प्र मा॒याभि᳚र्मायिना भूत॒मत्र॒ नरा᳚ नृतू॒ जनि॑मन् य॒ज्ञिया᳚नाम् ||{5/11}{6.63.5}{6.6.2.5}{5.1.3.5}{663, 504, 5031} अधि॑¦श्रि॒ये¦दु॒हि॒ता¦सूर्य॑स्य¦रथ᳚म्¦त॒स्थौ॒¦पु॒रु॒ऽभु॒जा॒¦श॒तऽऊ᳚तिम् | |
यु॒वं श्री॒भिर्द॑र्श॒ताभि॑रा॒भिः शु॒भे पु॒ष्टिमू᳚हथुः सू॒र्यायाः᳚ |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} प्र वां॒ वयो॒ वपु॒षेऽनु॑ पप्त॒न्नक्ष॒द्वाणी॒ सुष्टु॑ता धिष्ण्या वाम् ||{6/11}{6.63.6}{6.6.2.6}{5.1.4.1}{664, 504, 5032} यु॒वम्¦श्री॒भिः¦द॒र्श॒ताभिः॑¦आ॒भिः¦शु॒भे¦पु॒ष्टिम्¦ऊ॒ह॒थुः॒¦सू॒र्यायाः᳚ | |
आ वां॒ वयोऽश्वा᳚सो॒ वहि॑ष्ठा, अ॒भि प्रयो᳚ नासत्या वहन्तु |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} प्र वां॒ रथो॒ मनो᳚जवा, असर्जी॒षः पृ॒क्ष इ॒षिधो॒, अनु॑ पू॒र्वीः ||{7/11}{6.63.7}{6.6.2.7}{5.1.4.2}{665, 504, 5033} आ¦वा॒म्¦वयः॑¦अश्वा᳚सः¦वहि॑ष्ठाः¦अ॒भि¦प्रयः॑¦ना॒स॒त्या॒¦व॒ह॒न्तु॒ | |
पु॒रु हि वां᳚ पुरुभुजा दे॒ष्णं धे॒नुं न॒ इषं᳚ पिन्वत॒मस॑क्राम् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} स्तुत॑श्च वां माध्वी सुष्टु॒तिश्च॒ रसा᳚श्च॒ ये वा॒मनु॑ रा॒तिमग्म॑न् ||{8/11}{6.63.8}{6.6.2.8}{5.1.4.3}{666, 504, 5034} पु॒रु¦हि¦वा॒म्¦पु॒रु॒ऽभु॒जा॒¦दे॒ष्णम्¦धे॒नुम्¦नः॒¦इष᳚म्¦पि॒न्व॒त॒म्¦अस॑क्राम् | |
उ॒त म॑ ऋ॒ज्रे पुर॑यस्य र॒घ्वी सु॑मी॒ळ्हे श॒तं पे᳚रु॒के च॑ प॒क्वा |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} शा॒ण्डो दा᳚द्धिर॒णिनः॒ स्मद्दि॑ष्टी॒न्दश॑ व॒शासो᳚, अभि॒षाच॑ ऋ॒ष्वान् ||{9/11}{6.63.9}{6.6.2.9}{5.1.4.4}{667, 504, 5035} उ॒त¦मे॒¦ऋ॒ज्रे इति॑¦पुर॑यस्य¦र॒घ्वी इति॑¦सु॒ऽमी॒ळ्हे¦श॒तम्¦पे॒रु॒के¦च॒¦प॒क्वा | |
सं वां᳚ श॒ता ना᳚सत्या स॒हस्राश्वा᳚नां पुरु॒पन्था᳚ गि॒रे दा᳚त् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} भ॒रद्वा᳚जाय वीर॒ नू गि॒रे दा᳚द्ध॒ता रक्षां᳚सि पुरुदंससा स्युः ||{10/11}{6.63.10}{6.6.2.10}{5.1.4.5}{668, 504, 5036} सम्¦वा॒म्¦श॒ता¦ना॒स॒त्या॒¦स॒हस्रा᳚¦अश्वा᳚नाम्¦पु॒रु॒ऽपन्थाः᳚¦गि॒रे¦दा॒त् | |
आ वां᳚ सु॒म्ने वरि॑मन् त्सू॒रिभिः॑ ष्याम् ||{बार्हस्पत्यो भरद्वाजः | अश्विनौ | एकपदाविराट्}{11/11}{6.63.11}{6.6.2.11}{5.1.4.6}{669, 504, 5037} आ¦वा॒म्¦सु॒म्ने¦वरि॑मन्¦सू॒रिऽभिः॑¦स्या॒म् || |
[64] उदुश्रियइतिषडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजउषास्त्रिष्टुप् | |
उदु॑ श्रि॒य उ॒षसो॒ रोच॑माना॒, अस्थु॑र॒पां नोर्मयो॒ रुश᳚न्तः |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्} कृ॒णोति॒ विश्वा᳚ सु॒पथा᳚ सु॒गान्यभू᳚दु॒ वस्वी॒ दक्षि॑णा म॒घोनी᳚ ||{1/6}{6.64.1}{6.6.3.1}{5.1.5.1}{670, 505, 5038} उत्¦ऊँ॒ इति॑¦श्रि॒ये¦उ॒षसः॑¦रोच॑मानाः¦अस्थुः॑¦अ॒पाम्¦न¦ऊ॒र्मयः॑¦रुश᳚न्तः | |
भ॒द्रा द॑दृक्ष उर्वि॒या वि भा॒स्युत्ते᳚ शो॒चिर्भा॒नवो॒ द्याम॑पप्तन् |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्} आ॒विर्वक्षः॑ कृणुषे शु॒म्भमा॒नोषो᳚ देवि॒ रोच॑माना॒ महो᳚भिः ||{2/6}{6.64.2}{6.6.3.2}{5.1.5.2}{671, 505, 5039} भ॒द्रा¦द॒दृ॒क्षे॒¦उ॒र्वि॒या¦वि¦भा॒सि॒¦उत्¦ते॒¦शो॒चिः¦भा॒नवः॑¦द्याम्¦अ॒प॒प्त॒न् | |
वह᳚न्ति सीमरु॒णासो॒ रुश᳚न्तो॒ गावः॑ सु॒भगा᳚मुर्वि॒या प्र॑था॒नाम् |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्} अपे᳚जते॒ शूरो॒, अस्ते᳚व॒ शत्रू॒न् बाध॑ते॒ तमो᳚, अजि॒रो न वोळ्हा᳚ ||{3/6}{6.64.3}{6.6.3.3}{5.1.5.3}{672, 505, 5040} वह᳚न्ति¦सी॒म्¦अ॒रु॒णासः॑¦रुश᳚न्तः¦गावः॑¦सु॒ऽभगा᳚म्¦उ॒र्वि॒या¦प्र॒था॒नाम् | |
सु॒गोत ते᳚ सु॒पथा॒ पर्व॑तेष्ववा॒ते, अ॒पस्त॑रसि स्वभानो |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्} सा न॒ आ व॑ह पृथुयामन्नृष्वे र॒यिं दि॑वो दुहितरिष॒यध्यै᳚ ||{4/6}{6.64.4}{6.6.3.4}{5.1.5.4}{673, 505, 5041} सु॒ऽगा¦उ॒त¦ते॒¦सु॒ऽपथा᳚¦पर्व॑तेषु¦अ॒वा॒ते¦अ॒पः¦त॒र॒सि॒¦स्व॒भा॒नो॒ इति॑ स्वऽभानो | |
सा व॑ह॒ योक्षभि॒रवा॒तोषो॒ वरं॒ वह॑सि॒ जोष॒मनु॑ |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्} त्वं दि॑वो दुहित॒र्या ह॑ दे॒वी पू॒र्वहू᳚तौ मं॒हना᳚ दर्श॒ता भूः᳚ ||{5/6}{6.64.5}{6.6.3.5}{5.1.5.5}{674, 505, 5042} सा¦आ¦व॒ह॒¦या¦उ॒क्षऽभिः॑¦अवा᳚ता¦उषः॑¦वर᳚म्¦वह॑सि¦जोष᳚म्¦अनु॑ | |
उत्ते॒ वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒ ये पि॑तु॒भाजो॒ व्यु॑ष्टौ |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्} अ॒मा स॒ते व॑हसि॒ भूरि॑ वा॒ममुषो᳚ देवि दा॒शुषे॒ मर्त्या᳚य ||{6/6}{6.64.6}{6.6.3.6}{5.1.5.6}{675, 505, 5043} उत्¦ते॒¦वयः॑¦चि॒त्¦व॒स॒तेः¦अ॒प॒प्त॒न्¦नरः॑¦च॒¦ये¦पि॒तु॒ऽभाजः॑¦वि।औ᳚ष्टौ | |
[65] एषास्येति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजउषास्त्रिष्टुप् | |
ए॒षा स्या नो᳚ दुहि॒ता दि॑वो॒जाः, क्षि॒तीरु॒च्छन्ती॒ मानु॑षीरजीगः |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्} या भा॒नुना॒ रुश॑ता रा॒म्यास्वज्ञा᳚यि ति॒रस्तम॑सश्चिद॒क्तून् ||{1/6}{6.65.1}{6.6.4.1}{5.1.6.1}{676, 506, 5044} ए॒षा¦स्या¦नः॒¦दु॒हि॒ता¦दि॒वः॒ऽजाः¦क्षि॒तीः¦उ॒च्छन्ती᳚¦मानु॑षीः¦अ॒जी॒ग॒रिति॑ | |
वि तद्य॑युररुण॒युग्भि॒रश्वै᳚श्चि॒त्रं भा᳚न्त्यु॒षस॑श्च॒न्द्रर॑थाः |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्} अग्रं᳚ य॒ज्ञस्य॑ बृह॒तो नय᳚न्ती॒र्वि ता बा᳚धन्ते॒ तम॒ ऊर्म्या᳚याः ||{2/6}{6.65.2}{6.6.4.2}{5.1.6.2}{677, 506, 5045} वि¦तत्¦य॒युः॒¦अ॒रु॒ण॒युक्ऽभिः॑¦अश्वैः᳚¦चि॒त्रम्¦भा॒न्ति॒¦उ॒षसः॑¦च॒न्द्रऽर॑थाः | |
श्रवो॒ वाज॒मिष॒मूर्जं॒ वह᳚न्ती॒र्नि दा॒शुष॑ उषसो॒ मर्त्या᳚य |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्} म॒घोनी᳚र्वी॒रव॒त्पत्य॑माना॒, अवो᳚ धात विध॒ते रत्न॑म॒द्य ||{3/6}{6.65.3}{6.6.4.3}{5.1.6.3}{678, 506, 5046} श्रवः॑¦वाज᳚म्¦इष᳚म्¦ऊर्ज᳚म्¦वह᳚न्तीः¦नि¦दा॒शुषे᳚¦उ॒ष॒सः॒¦मर्त्या᳚य | |
इ॒दा हि वो᳚ विध॒ते रत्न॒मस्ती॒दा वी॒राय॑ दा॒शुष॑ उषासः |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्} इ॒दा विप्रा᳚य॒ जर॑ते॒ यदु॒क्था नि ष्म॒ माव॑ते वहथा पु॒रा चि॑त् ||{4/6}{6.65.4}{6.6.4.4}{5.1.6.4}{679, 506, 5047} इ॒दा¦हि¦वः॒¦वि॒ध॒ते¦रत्न᳚म्¦अस्ति॑¦इ॒दा¦वी॒राय॑¦दा॒शुषे᳚¦उ॒ष॒सः॒ | |
इ॒दा हि त॑ उषो, अद्रिसानो गो॒त्रा गवा॒मङ्गि॑रसो गृ॒णन्ति॑ |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्} व्य१॑(अ॒)र्केण॑ बिभिदु॒र्ब्रह्म॑णा च स॒त्या नृ॒णाम॑भवद्दे॒वहू᳚तिः ||{5/6}{6.65.5}{6.6.4.5}{5.1.6.5}{680, 506, 5048} इ॒दा¦हि¦ते॒¦उ॒षः॒¦अ॒द्रि॒सा॒नो॒ इत्य॑द्रिऽसानो¦गो॒त्रा¦गवा᳚म्¦अङ्गि॑रसः¦गृ॒णन्ति॑ | |
उ॒च्छा दि॑वो दुहितः प्रत्न॒वन्नो᳚ भरद्वाज॒वद्वि॑ध॒ते म॑घोनि |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्} सु॒वीरं᳚ र॒यिं गृ॑ण॒ते रि॑रीह्युरुगा॒यमधि॑ धेहि॒ श्रवो᳚ नः ||{6/6}{6.65.6}{6.6.4.6}{5.1.6.6}{681, 506, 5049} उ॒च्छ¦दि॒वः॒¦दु॒हि॒त॒रिति॑¦प्र॒त्न॒ऽवत्¦नः॒¦भ॒र॒द्वा॒ज॒ऽवत्¦वि॒ध॒ते¦म॒घो॒नि॒ | |
[66] वपुर्न्वित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजो मरुतस्त्रिष्टुप् | |
वपु॒र्नु तच्चि॑कि॒तुषे᳚ चिदस्तु समा॒नं नाम॑ धे॒नु पत्य॑मानम् |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्} मर्ते᳚ष्व॒न्यद्दो॒हसे᳚ पी॒पाय॑ स॒कृच्छु॒क्रं दु॑दुहे॒ पृश्नि॒रूधः॑ ||{1/11}{6.66.1}{6.6.5.1}{5.1.7.1}{682, 507, 5050} वपुः॑¦नु¦तत्¦चि॒कि॒तुषे᳚¦चि॒त्¦अ॒स्तु॒¦स॒मा॒नम्¦नाम॑¦धे॒नु¦पत्य॑मानम् | |
ये, अ॒ग्नयो॒ न शोशु॑चन्निधा॒ना द्विर्यत्त्रिर्म॒रुतो᳚ वावृ॒धन्त॑ |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्} अ॒रे॒णवो᳚ हिर॒ण्यया᳚स एषां सा॒कं नृ॒म्णैः पौंस्ये᳚भिश्च भूवन् ||{2/11}{6.66.2}{6.6.5.2}{5.1.7.2}{683, 507, 5051} ये¦अ॒ग्नयः॑¦न¦शोशु॑चन्¦इ॒धा॒नाः¦द्विः¦यत्¦त्रिः¦म॒रुतः॑¦व॒वृ॒धन्त॑ | |
रु॒द्रस्य॒ ये मी॒ळ्हुषः॒ सन्ति॑ पु॒त्रा याँश्चो॒ नु दाधृ॑वि॒र्भर॑ध्यै |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्} वि॒दे हि मा॒ता म॒हो म॒ही षा सेत् पृश्निः॑ सु॒भ्वे॒३॑(ए॒) गर्भ॒माधा᳚त् ||{3/11}{6.66.3}{6.6.5.3}{5.1.7.3}{684, 507, 5052} रु॒द्रस्य॑¦ये¦मी॒ळ्हुषः॑¦सन्ति॑¦पु॒त्राः¦यान्¦चो॒ इति॑¦नु¦दाधृ॑विः¦भर॑ध्यै | |
न य ईष᳚न्ते ज॒नुषोऽया॒ न्व१॑(अ॒)न्तः सन्तो᳚ऽव॒द्यानि॑ पुना॒नाः |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्} निर्यद्दु॒ह्रे शुच॒योऽनु॒ जोष॒मनु॑ श्रि॒या त॒न्व॑मु॒क्षमा᳚णाः ||{4/11}{6.66.4}{6.6.5.4}{5.1.7.4}{685, 507, 5053} न¦ये¦ईष᳚न्ते¦ज॒नुषः॑¦अया᳚¦नु¦अ॒न्तरिति॑¦सन्तः॑¦अ॒व॒द्यानि॑¦पु॒ना॒नाः | |
म॒क्षू न येषु॑ दो॒हसे᳚ चिद॒या, आ नाम॑ धृ॒ष्णु मारु॑तं॒ दधा᳚नाः |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्} न ये स्तौ॒ना, अ॒यासो᳚ म॒ह्ना नू चि॑त्सु॒दानु॒रव॑ यासदु॒ग्रान् ||{5/11}{6.66.5}{6.6.5.5}{5.1.7.5}{686, 507, 5054} म॒क्षु¦न¦येषु॑¦दो॒हसे᳚¦चि॒त्¦अ॒याः¦आ¦नाम॑¦धृ॒ष्णु¦मारु॑तम्¦दधा᳚नाः | |
त इदु॒ग्राः शव॑सा धृ॒ष्णुषे᳚णा, उ॒भे यु॑जन्त॒ रोद॑सी सु॒मेके᳚ |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्} अध॑ स्मैषु रोद॒सी स्वशो᳚चि॒राम॑वत्सु तस्थौ॒ न रोकः॑ ||{6/11}{6.66.6}{6.6.5.6}{5.1.8.1}{687, 507, 5055} ते¦इत्¦उ॒ग्राः¦शव॑सा¦धृ॒ष्णुऽसे᳚नाः¦उ॒भे इति॑¦यु॒ज॒न्त॒¦रोद॑सी॒ इति॑¦सु॒मेके॒ इति॑ सु॒ऽमेके᳚ | |
अ॒ने॒नो वो᳚ मरुतो॒ यामो᳚, अस्त्वन॒श्वश्चि॒द्यमज॒त्यर॑थीः |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्} अ॒न॒व॒सो, अ॑नभी॒शू र॑ज॒स्तूर्वि रोद॑सी प॒थ्या᳚ याति॒ साध॑न् ||{7/11}{6.66.7}{6.6.5.7}{5.1.8.2}{688, 507, 5056} अ॒ने॒नः¦वः॒¦म॒रु॒तः॒¦यामः॑¦अ॒स्तु॒¦अ॒न॒श्वः¦चि॒त्¦यम्¦अज॑ति¦अर॑थीः | |
नास्य॑ व॒र्ता न त॑रु॒ता न्व॑स्ति॒ मरु॑तो॒ यमव॑थ॒ वाज॑सातौ |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्} तो॒के वा॒ गोषु॒ तन॑ये॒ यम॒प्सु स व्र॒जं दर्ता॒ पार्ये॒, अध॒ द्योः ||{8/11}{6.66.8}{6.6.5.8}{5.1.8.3}{689, 507, 5057} न¦अ॒स्य॒¦व॒र्ता¦न¦त॒रु॒ता¦नु¦अ॒स्ति॒¦मरु॑तः¦यम्¦अव॑थ¦वाज॑ऽसातौ | |
प्र चि॒त्रम॒र्कं गृ॑ण॒ते तु॒राय॒ मारु॑ताय॒ स्वत॑वसे भरध्वम् |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्} ये सहां᳚सि॒ सह॑सा॒ सह᳚न्ते॒ रेज॑ते, अग्ने पृथि॒वी म॒खेभ्यः॑ ||{9/11}{6.66.9}{6.6.5.9}{5.1.8.4}{690, 507, 5058} प्र¦चि॒त्रम्¦अ॒र्कम्¦गृ॒ण॒ते¦तु॒राय॑¦मारु॑ताय¦स्वऽत॑वसे¦भ॒र॒ध्व॒म् | |
त्विषी᳚मन्तो, अध्व॒रस्ये᳚व दि॒द्युत्तृ॑षु॒च्यव॑सो जु॒ह्वो॒३॑(ओ॒) नाग्नेः |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्} अ॒र्चत्र॑यो॒ धुन॑यो॒ न वी॒रा भ्राज॑ज्जन्मानो म॒रुतो॒, अधृ॑ष्टाः ||{10/11}{6.66.10}{6.6.5.10}{5.1.8.5}{691, 507, 5059} त्विषि॑ऽमन्तः¦अ॒ध्व॒रस्य॑ऽइव¦दि॒द्युत्¦तृ॒षु॒ऽच्यव॑सः¦जु॒ह्वः॑¦न¦अ॒ग्नेः | |
तं वृ॒धन्तं॒ मारु॑तं॒ भ्राज॑दृष्टिं रु॒द्रस्य॑ सू॒नुं ह॒वसा वि॑वासे |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्} दि॒वः शर्धा᳚य॒ शुच॑यो मनी॒षा गि॒रयो॒ नाप॑ उ॒ग्रा, अ॑स्पृध्रन् ||{11/11}{6.66.11}{6.6.5.11}{5.1.8.6}{692, 507, 5060} तम्¦वृ॒धन्त᳚म्¦मारु॑तम्¦भ्राज॑त्ऽऋष्टिम्¦रु॒द्रस्य॑¦सू॒नुम्¦ह॒वसा᳚¦आ¦वि॒वा॒से॒ | |
[67] विश्वेषामित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजो मित्रावरुणौत्रिष्टुप् | |
विश्वे᳚षां वः स॒तां ज्येष्ठ॑तमा गी॒र्भिर्मि॒त्रावरु॑णा वावृ॒धध्यै᳚ |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्} सं या र॒श्मेव॑ य॒मतु॒र्यमि॑ष्ठा॒ द्वा जनाँ॒, अस॑मा बा॒हुभिः॒ स्वैः ||{1/11}{6.67.1}{6.6.6.1}{5.1.9.1}{693, 508, 5061} विश्वे᳚षाम्¦वः॒¦स॒ताम्¦ज्येष्ठ॑ऽतमा¦गीः॒ऽभिः¦मि॒त्रावरु॑णा¦व॒वृ॒धध्यै᳚ | |
इ॒यं मद्वां॒ प्र स्तृ॑णीते मनी॒षोप॑ प्रि॒या नम॑सा ब॒र्हिरच्छ॑ |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्} य॒न्तं नो᳚ मित्रावरुणा॒वधृ॑ष्टं छ॒र्दिर्यद्वां᳚ वरू॒थ्यं᳚ सुदानू ||{2/11}{6.67.2}{6.6.6.2}{5.1.9.2}{694, 508, 5062} इ॒यम्¦मत्¦वा॒म्¦प्र¦स्तृ॒णी॒ते॒¦म॒नी॒षा¦उप॑¦प्रि॒या¦नम॑सा¦ब॒र्हिः¦अच्छ॑ | |
आ या᳚तं मित्रावरुणा सुश॒स्त्युप॑ प्रि॒या नम॑सा हू॒यमा᳚ना |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्} सं याव॑प्नः॒स्थो, अ॒पसे᳚व॒ जना᳚ञ्छ्रुधीय॒तश्चि॑द्यतथो महि॒त्वा ||{3/11}{6.67.3}{6.6.6.3}{5.1.9.3}{695, 508, 5063} आ¦या॒त॒म्¦मि॒त्रा॒व॒रु॒णा॒¦सु॒ऽश॒स्ति¦उप॑¦प्रि॒या¦नम॑सा¦हू॒यमा᳚ना | |
अश्वा॒ न या वा॒जिना᳚ पू॒तब᳚न्धू, ऋ॒ता यद्गर्भ॒मदि॑ति॒र्भर॑ध्यै |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्} प्र या महि॑ म॒हान्ता॒ जाय॑माना घो॒रा मर्ता᳚य रि॒पवे॒ नि दी᳚धः ||{4/11}{6.67.4}{6.6.6.4}{5.1.9.4}{696, 508, 5064} अश्वा᳚¦न¦या¦वा॒जिना᳚¦पू॒तब᳚न्धू॒ इति॑ पू॒तऽब᳚न्धू¦ऋ॒ता¦यत्¦गर्भ᳚म्¦अदि॑तिः¦भर॑ध्यै | |
विश्वे॒ यद्वां᳚ मं॒हना॒ मन्द॑मानाः, क्ष॒त्रं दे॒वासो॒, अद॑धुः स॒जोषाः᳚ |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्} परि॒ यद्भू॒थो रोद॑सी चिदु॒र्वी सन्ति॒ स्पशो॒, अद॑ब्धासो॒, अमू᳚राः ||{5/11}{6.67.5}{6.6.6.5}{5.1.9.5}{697, 508, 5065} विश्वे᳚¦यत्¦वा॒म्¦मं॒हना᳚¦मन्द॑मानाः¦क्ष॒त्रम्¦दे॒वासः॑¦अद॑धुः¦स॒ऽजोषाः᳚ | |
ता हि क्ष॒त्रं धा॒रये᳚थे॒, अनु॒ द्यून्दृं॒हेथे॒ सानु॑मुप॒मादि॑व॒ द्योः |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्} दृ॒ळ्हो नक्ष॑त्र उ॒त वि॒श्वदे᳚वो॒ भूमि॒माता॒न्द्यां धा॒सिना॒योः ||{6/11}{6.67.6}{6.6.6.6}{5.1.10.1}{698, 508, 5066} ता¦हि¦क्ष॒त्रम्¦धा॒रये᳚थे॒ इति॑¦अनु॑¦द्यून्¦दृं॒हेथे॒ इति॑¦सानु᳚म्¦उ॒प॒मात्ऽइ᳚व¦द्योः | |
ता वि॒ग्रं धै᳚थे ज॒ठरं᳚ पृ॒णध्या॒, आ यत्सद्म॒ सभृ॑तयः पृ॒णन्ति॑ |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्} न मृ॑ष्यन्ते युव॒तयोऽवा᳚ता॒ वि यत्पयो᳚ विश्वजिन्वा॒ भर᳚न्ते ||{7/11}{6.67.7}{6.6.6.7}{5.1.10.2}{699, 508, 5067} ता¦वि॒ग्रम्¦धै॒थे॒ इति॑¦ज॒ठर᳚म्¦पृ॒णध्यै᳚¦आ¦यत्¦सद्म॑¦सऽभृ॑तयः¦पृ॒णन्ति॑ | |
ता जि॒ह्वया॒ सद॒मेदं सु॑मे॒धा, आ यद्वां᳚ स॒त्यो, अ॑र॒तिरृ॒ते भूत् |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्} तद्वां᳚ महि॒त्वं घृ॑तान्नावस्तु यु॒वं दा॒शुषे॒ वि च॑यिष्ट॒मंहः॑ ||{8/11}{6.67.8}{6.6.6.8}{5.1.10.3}{700, 508, 5068} ता¦जि॒ह्वया᳚¦सद᳚म्¦आ¦इ॒दम्¦सु॒ऽमे॒धाः¦आ¦यत्¦वा॒म्¦स॒त्यः¦अ॒र॒तिः¦ऋ॒ते¦भूत् | |
प्र यद्वां᳚ मित्रावरुणा स्पू॒र्धन् प्रि॒या धाम॑ यु॒वधि॑ता मि॒नन्ति॑ |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्} न ये दे॒वास॒ ओह॑सा॒ न मर्ता॒, अय॑ज्ञसाचो॒, अप्यो॒ न पु॒त्राः ||{9/11}{6.67.9}{6.6.6.9}{5.1.10.4}{701, 508, 5069} प्र¦यत्¦वा॒म्¦मि॒त्रा॒व॒रु॒णा॒¦स्पू॒र्धन्¦प्रि॒या¦धाम॑¦यु॒वऽधि॑ता¦मि॒नन्ति॑ | |
वि यद्वाचं᳚ की॒स्तासो॒ भर᳚न्ते॒ शंस᳚न्ति॒ के चि᳚न्नि॒विदो᳚ मना॒नाः |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्} आद्वां᳚ ब्रवाम स॒त्यान्यु॒क्था नकि॑र्दे॒वेभि᳚र्यतथो महि॒त्वा ||{10/11}{6.67.10}{6.6.6.10}{5.1.10.5}{702, 508, 5070} वि¦यत्¦वाच᳚म्¦की॒स्तासः॑¦भर᳚न्ते¦शंस᳚न्ति¦के¦चि॒त्¦नि॒ऽविदः॑¦म॒ना॒नाः | |
अ॒वोरि॒त्था वां᳚ छ॒र्दिषो᳚, अ॒भिष्टौ᳚ यु॒वोर्मि॑त्रावरुणा॒वस्कृ॑धोयु |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्} अनु॒ यद्गावः॑ स्फु॒रानृ॑जि॒प्यं धृ॒ष्णुं यद्रणे॒ वृष॑णं यु॒नज॑न् ||{11/11}{6.67.11}{6.6.6.11}{5.1.10.6}{703, 508, 5071} अ॒वोः¦इ॒त्था¦वा॒म्¦छ॒र्दिषः॑¦अ॒भिष्टौ᳚¦यु॒वोः¦मि॒त्रा॒व॒रु॒णौ¦अस्कृ॑धोयु | |
[68] श्रुष्ठीवामित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रावरुणौत्रिष्टुप् नवमीदशम्यौजगत्यौ | |
श्रु॒ष्टी वां᳚ य॒ज्ञ उद्य॑तः स॒जोषा᳚ मनु॒ष्वद्वृ॒क्तब᳚र्हिषो॒ यज॑ध्यै |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्} आ य इन्द्रा॒वरु॑णावि॒षे, अ॒द्य म॒हे सु॒म्नाय॑ म॒ह आ᳚व॒वर्त॑त् ||{1/11}{6.68.1}{6.6.7.1}{5.1.11.1}{704, 509, 5072} श्रु॒ष्टी¦वा॒म्¦य॒ज्ञः¦उत्ऽय॑तः¦स॒ऽजोषाः᳚¦म॒नु॒ष्वत्¦वृ॒क्तऽब॑र्हिषः¦यज॑ध्यै | |
ता हि श्रेष्ठा᳚ दे॒वता᳚ता तु॒जा शूरा᳚णां॒ शवि॑ष्ठा॒ ता हि भू॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्} म॒घोनां॒ मंहि॑ष्ठा तुवि॒शुष्म॑ ऋ॒तेन॑ वृत्र॒तुरा॒ सर्व॑सेना ||{2/11}{6.68.2}{6.6.7.2}{5.1.11.2}{705, 509, 5073} ता¦हि¦श्रेष्ठा᳚¦दे॒वऽता᳚ता¦तु॒जा¦शूरा᳚णाम्¦शवि॑ष्ठा¦ता¦हि¦भू॒तम् | |
ता गृ॑णीहि नम॒स्ये᳚भिः शू॒षैः सु॒म्नेभि॒रिन्द्रा॒वरु॑णा चका॒ना |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्} वज्रे᳚णा॒न्यः शव॑सा॒ हन्ति॑ वृ॒त्रं सिष॑क्त्य॒न्यो वृ॒जने᳚षु॒ विप्रः॑ ||{3/11}{6.68.3}{6.6.7.3}{5.1.11.3}{706, 509, 5074} ता¦गृ॒णी॒हि॒¦न॒म॒स्ये᳚भिः¦शू॒षैः¦सु॒म्नेभिः॑¦इन्द्रा॒वरु॑णा¦च॒का॒ना | |
ग्नाश्च॒ यन्नर॑श्च वावृ॒धन्त॒ विश्वे᳚ दे॒वासो᳚ न॒रां स्वगू᳚र्ताः |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्} प्रैभ्य॑ इन्द्रावरुणा महि॒त्वा द्यौश्च॑ पृथिवि भूतमु॒र्वी ||{4/11}{6.68.4}{6.6.7.4}{5.1.11.4}{707, 509, 5075} ग्नाः¦च॒¦यत्¦नरः॑¦च॒¦व॒वृ॒धन्त॑¦विश्वे᳚¦दे॒वासः॑¦न॒राम्¦स्वऽगू᳚र्ताः | |
स इत्सु॒दानुः॒ स्ववाँ᳚, ऋ॒तावेन्द्रा॒ यो वां᳚ वरुण॒ दाश॑ति॒ त्मन् |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्} इ॒षा स द्वि॒षस्त॑रे॒द्दास्वा॒न्वंस॑द्र॒यिं र॑यि॒वत॑श्च॒ जना॑न् ||{5/11}{6.68.5}{6.6.7.5}{5.1.11.5}{708, 509, 5076} सः¦इत्¦सु॒ऽदानुः॑¦स्वऽवा᳚न्¦ऋ॒तऽवा᳚¦इन्द्रा᳚¦यः¦वा॒म्¦व॒रु॒णा॒¦दाश॑ति¦त्मन् | |
यं यु॒वं दा॒श्व॑ध्वराय देवा र॒यिं ध॒त्थो वसु॑मन्तं पुरु॒क्षुम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्} अ॒स्मे स इ᳚न्द्रावरुणा॒वपि॑ ष्या॒त्प्र यो भ॒नक्ति॑ व॒नुषा॒मश॑स्तीः ||{6/11}{6.68.6}{6.6.7.6}{5.1.12.1}{709, 509, 5077} यम्¦यु॒वम्¦दा॒शु।आ॑ध्वराय¦दे॒वा॒¦र॒यिम्¦ध॒त्थः¦वसु॑ऽमन्तम्¦पु॒रु॒ऽक्षुम् | |
उ॒त नः॑ सुत्रा॒त्रो दे॒वगो᳚पाः सू॒रिभ्य॑ इन्द्रावरुणा र॒यिः ष्या᳚त् |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्} येषां॒ शुष्मः॒ पृत॑नासु सा॒ह्वान् प्र स॒द्यो द्यु॒म्ना ति॒रते॒ ततु॑रिः ||{7/11}{6.68.7}{6.6.7.7}{5.1.12.2}{710, 509, 5078} उ॒त¦नः॒¦सु॒ऽत्रा॒त्रः¦दे॒वऽगो᳚पाः¦सू॒रिऽभ्यः॑¦इ॒न्द्रा॒व॒रु॒णा॒¦र॒यिः¦स्या॒त् | |
नू न॑ इन्द्रावरुणा गृणा॒ना पृ॒ङ्क्तं र॒यिं सौ᳚श्रव॒साय॑ देवा |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्} इ॒त्था गृ॒णन्तो᳚ म॒हिन॑स्य॒ शर्धो॒ऽपो न ना॒वा दु॑रि॒ता त॑रेम ||{8/11}{6.68.8}{6.6.7.8}{5.1.12.3}{711, 509, 5079} नु¦नः॒¦इ॒न्द्रा॒व॒रु॒णा॒¦गृ॒णा॒ना¦पृ॒ङ्क्तम्¦र॒यिम्¦सौ॒श्र॒व॒साय॑¦दे॒वा॒ | |
प्र स॒म्राजे᳚ बृह॒ते मन्म॒ नु प्रि॒यमर्च॑ दे॒वाय॒ वरु॑णाय स॒प्रथः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | जगती} अ॒यं य उ॒र्वी म॑हि॒ना महि᳚व्रतः॒ क्रत्वा᳚ वि॒भात्य॒जरो॒ न शो॒चिषा᳚ ||{9/11}{6.68.9}{6.6.7.9}{5.1.12.4}{712, 509, 5080} प्र¦स॒म्ऽराजे᳚¦बृ॒ह॒ते¦मन्म॑¦नु¦प्रि॒यम्¦अर्च॑¦दे॒वाय॑¦वरु॑णाय¦स॒ऽप्रथः॑ | |
इन्द्रा᳚वरुणा सुतपावि॒मं सु॒तं सोमं᳚ पिबतं॒ मद्यं᳚ धृतव्रता |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | जगती} यु॒वो रथो᳚, अध्व॒रं दे॒ववी᳚तये॒ प्रति॒ स्वस॑र॒मुप॑ याति पी॒तये᳚ ||{10/11}{6.68.10}{6.6.7.10}{5.1.12.5}{713, 509, 5081} इन्द्रा᳚वरुणा¦सु॒त॒ऽपौ॒¦इ॒मम्¦सु॒तम्¦सोम᳚म्¦पि॒ब॒त॒म्¦मद्य᳚म्¦धृ॒त॒ऽव्र॒ता॒ | |
इन्द्रा᳚वरुणा॒ मधु॑मत्तमस्य॒ वृष्णः॒ सोम॑स्य वृष॒णा वृ॑षेथाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्} इ॒दं वा॒मन्धः॒ परि॑षिक्तम॒स्मे, आ॒सद्या॒स्मिन् ब॒र्हिषि॑ मादयेथाम् ||{11/11}{6.68.11}{6.6.7.11}{5.1.12.6}{714, 509, 5082} इन्द्रा᳚वरुणा¦मधु॑मत्ऽतमस्य¦वृष्णः॑¦सोम॑स्य¦वृ॒ष॒णा॒¦आ¦वृ॒षे॒था॒म् | |
[69] संवामित्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्राविष्णूत्रिष्टुप् | |
सं वां॒ कर्म॑णा॒ समि॒षा हि॑नो॒मीन्द्रा᳚विष्णू॒, अप॑सस्पा॒रे, अ॒स्य |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} जु॒षेथां᳚ य॒ज्ञं द्रवि॑णं च धत्त॒मरि॑ष्टैर्नः प॒थिभिः॑ पा॒रय᳚न्ता ||{1/8}{6.69.1}{6.6.8.1}{5.1.13.1}{715, 510, 5083} सम्¦वा॒म्¦कर्म॑णा¦सम्¦इ॒षा¦हि॒नो॒मि॒¦इन्द्रा᳚विष्णू॒ इति॑¦अप॑सः¦पा॒रे¦अ॒स्य | |
या विश्वा᳚सां जनि॒तारा᳚ मती॒नामिन्द्रा॒विष्णू᳚ क॒लशा᳚ सोम॒धाना᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} प्र वां॒ गिरः॑ श॒स्यमा᳚ना, अवन्तु॒ प्र स्तोमा᳚सो गी॒यमा᳚नासो, अ॒र्कैः ||{2/8}{6.69.2}{6.6.8.2}{5.1.13.2}{716, 510, 5084} या¦विश्वा᳚साम्¦ज॒नि॒तारा᳚¦म॒ती॒नाम्¦इन्द्रा॒विष्णू॒ इति॑¦क॒लशा᳚¦सो॒म॒ऽधाना᳚ | |
इन्द्रा᳚विष्णू मदपती मदाना॒मा सोमं᳚ यातं॒ द्रवि॑णो॒ दधा᳚ना |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} सं वा᳚मञ्जन् त्व॒क्तुभि᳚र्मती॒नां सं स्तोमा᳚सः श॒स्यमा᳚नास उ॒क्थैः ||{3/8}{6.69.3}{6.6.8.3}{5.1.13.3}{717, 510, 5085} इन्द्रा᳚विष्णू॒ इति॑¦म॒द॒प॒ती॒ इति॑ मदऽपती¦म॒दा॒ना॒म्¦आ¦सोम᳚म्¦या॒त॒म्¦द्रवि॑णो॒ इति॑¦दधा᳚ना | |
आ वा॒मश्वा᳚सो, अभिमाति॒षाह॒ इन्द्रा᳚विष्णू सध॒मादो᳚ वहन्तु |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} जु॒षेथां॒ विश्वा॒ हव॑ना मती॒नामुप॒ ब्रह्मा᳚णि शृणुतं॒ गिरो᳚ मे ||{4/8}{6.69.4}{6.6.8.4}{5.1.13.4}{718, 510, 5086} आ¦वा॒म्¦अश्वा᳚सः¦अ॒भि॒मा॒ति॒ऽसहः॑¦इन्द्रा᳚विष्णू॒ इति॑¦स॒ध॒ऽमादः॑¦व॒ह॒न्तु॒ | |
इन्द्रा᳚विष्णू॒ तत् प॑न॒याय्यं᳚ वां॒ सोम॑स्य॒ मद॑ उ॒रु च॑क्रमाथे |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} अकृ॑णुतम॒न्तरि॑क्षं॒ वरी॒योऽप्र॑थतं जी॒वसे᳚ नो॒ रजां᳚सि ||{5/8}{6.69.5}{6.6.8.5}{5.1.13.5}{719, 510, 5087} इन्द्रा᳚विष्णू॒ इति॑¦तत्¦प॒न॒याय्य᳚म्¦वा॒म्¦सोम॑स्य¦मदे᳚¦उ॒रु¦च॒क्र॒मा॒थे॒ इति॑ | |
इन्द्रा᳚विष्णू ह॒विषा᳚ वावृधा॒नाग्रा᳚द्वाना॒ नम॑सा रातहव्या |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} घृता᳚सुती॒ द्रवि॑णं धत्तम॒स्मे स॑मु॒द्रः स्थः॑ क॒लशः॑ सोम॒धानः॑ ||{6/8}{6.69.6}{6.6.8.6}{5.1.13.6}{720, 510, 5088} इन्द्रा᳚विष्णू॒ इति॑¦ह॒विषा᳚¦व॒वृ॒धा॒ना¦अग्र॑।आद्वाना¦नम॑सा¦रा॒त॒ऽह॒व्या॒ | |
इन्द्रा᳚विष्णू॒ पिब॑तं॒ मध्वो᳚, अ॒स्य सोम॑स्य दस्रा ज॒ठरं᳚ पृणेथाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} आ वा॒मन्धां᳚सि मदि॒राण्य॑ग्म॒न्नुप॒ ब्रह्मा᳚णि शृणुतं॒ हवं᳚ मे ||{7/8}{6.69.7}{6.6.8.7}{5.1.13.7}{721, 510, 5089} इन्द्रा᳚विष्णू॒ इति॑¦पिब॑तम्¦मध्वः॑¦अ॒स्य¦सोम॑स्य¦द॒स्रा॒¦ज॒ठर᳚म्¦पृ॒णे॒था॒म् | |
उ॒भा जि॑ग्यथु॒र्न परा᳚ जयेथे॒ न परा᳚ जिग्ये कत॒रश्च॒नैनोः᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै᳚रयेथाम् ||{8/8}{6.69.8}{6.6.8.8}{5.1.13.8}{722, 510, 5090} उ॒भा¦जि॒ग्य॒थुः॒¦न¦परा᳚¦ज॒ये॒थे॒ इति॑¦न¦परा᳚¦जि॒ग्ये॒¦क॒त॒रः¦च॒न¦ए॒नोः॒ | |
[70] घृतवतीइति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोद्यावापृथिव्यौजगती | |
घृ॒तव॑ती॒ भुव॑नानामभि॒श्रियो॒र्वी पृ॒थ्वी म॑धु॒दुघे᳚ सु॒पेश॑सा |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती} द्यावा᳚पृथि॒वी वरु॑णस्य॒ धर्म॑णा॒ विष्क॑भिते, अ॒जरे॒ भूरि॑रेतसा ||{1/6}{6.70.1}{6.6.9.1}{5.1.14.1}{723, 511, 5091} घृ॒तव॑ती॒ इति॑ घृ॒तऽव॑ती¦भुव॑नानाम्¦अ॒भि॒ऽश्रिया᳚¦उ॒र्वी इति॑¦पृ॒थ्वी इति॑¦म॒धु॒दुघे॒ इति॑ म॒धु॒ऽदुघे᳚¦सु॒ऽपेश॑सा | |
अस॑श्चन्ती॒ भूरि॑धारे॒ पय॑स्वती घृ॒तं दु॑हाते सु॒कृते॒ शुचि᳚व्रते |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती} राज᳚न्ती, अ॒स्य भुव॑नस्य रोदसी, अ॒स्मे रेतः॑ सिञ्चतं॒ यन्मनु᳚र्हितम् ||{2/6}{6.70.2}{6.6.9.2}{5.1.14.2}{724, 511, 5092} अस॑श्चन्ती॒ इति॑¦भूरि॑धारे॒ इति॒ भूरि॑ऽधारे¦पय॑स्वती॒ इति॑¦घृ॒तम्¦दु॒हा॒ते॒ इति॑¦सु॒ऽकृते᳚¦शुचि᳚व्रते॒ इति॒ शुचि॑ऽव्रते | |
यो वा᳚मृ॒जवे॒ क्रम॑णाय रोदसी॒ मर्तो᳚ द॒दाश॑ धिषणे॒ स सा᳚धति |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती} प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ यु॒वोः सि॒क्ता विषु॑रूपाणि॒ सव्र॑ता ||{3/6}{6.70.3}{6.6.9.3}{5.1.14.3}{725, 511, 5093} यः¦वा॒म्¦ऋ॒जवे᳚¦क्रम॑णाय¦रो॒द॒सी॒ इति॑¦मर्तः॑¦द॒दाश॑¦धि॒ष॒णे॒ इति॑¦सः¦सा॒ध॒ति॒ | |
घृ॒तेन॒ द्यावा᳚पृथि॒वी, अ॒भीवृ॑ते घृत॒श्रिया᳚ घृत॒पृचा᳚ घृता॒वृधा᳚ |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती} उ॒र्वी पृ॒थ्वी हो᳚तृ॒वूर्ये᳚ पु॒रोहि॑ते॒ ते, इद्विप्रा᳚, ईळते सु॒म्नमि॒ष्टये᳚ ||{4/6}{6.70.4}{6.6.9.4}{5.1.14.4}{726, 511, 5094} घृ॒तेन॑¦द्यावा᳚पृथि॒वी इति॑¦अ॒भिवृ॑ते॒ इत्य॒भिऽवृ॑ते¦घृ॒त॒ऽश्रिया᳚¦घृ॒त॒ऽपृचा᳚¦घृ॒त॒ऽवृधा᳚ | |
मधु॑ नो॒ द्यावा᳚पृथि॒वी मि॑मिक्षतां मधु॒श्चुता᳚ मधु॒दुघे॒ मधु᳚व्रते |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती} दधा᳚ने य॒ज्ञं द्रवि॑णं च दे॒वता॒ महि॒ श्रवो॒ वाज॑म॒स्मे सु॒वीर्य᳚म् ||{5/6}{6.70.5}{6.6.9.5}{5.1.14.5}{727, 511, 5095} मधु॑¦नः॒¦द्यावा᳚पृथि॒वी इति॑¦मि॒मि॒क्ष॒ता॒म्¦म॒धु॒ऽश्चुता᳚¦म॒धु॒दुघे॒ इति॑ म॒धु॒ऽदुघे᳚¦मधु᳚व्रते॒ इति॒ मधु॑ऽव्रते | |
ऊर्जं᳚ नो॒ द्यौश्च॑ पृथि॒वी च॑ पिन्वतां पि॒ता मा॒ता वि॑श्व॒विदा᳚ सु॒दंस॑सा |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती} सं॒र॒रा॒णे रोद॑सी वि॒श्वश᳚म्भुवा स॒निं वाजं᳚ र॒यिम॒स्मे समि᳚न्वताम् ||{6/6}{6.70.6}{6.6.9.6}{5.1.14.6}{728, 511, 5096} ऊर्ज᳚म्¦नः॒¦द्यौः¦च॒¦पृ॒थि॒वी¦च॒¦पि॒न्व॒ता॒म्¦पि॒ता¦मा॒ता¦वि॒श्व॒ऽविदा᳚¦सु॒ऽदंस॑सा | |
[71] उदुष्येति षडृचस्य सूक्तस्त्य बार्हस्पत्यो भरद्वाजःसविताजगती अंत्यास्तिस्रस्त्रिष्टुभः | |
उदु॒ ष्य दे॒वः स॑वि॒ता हि॑र॒ण्यया᳚ बा॒हू, अ॑यंस्त॒ सव॑नाय सु॒क्रतुः॑ |{बार्हस्पत्यो भरद्वाजः | सविता | जगती} घृ॒तेन॑ पा॒णी, अ॒भि प्रु॑ष्णुते म॒खो युवा᳚ सु॒दक्षो॒ रज॑सो॒ विध᳚र्मणि ||{1/6}{6.71.1}{6.6.10.1}{5.1.15.1}{729, 512, 5097} उत्¦ऊँ॒ इति॑¦स्यः¦दे॒वः¦स॒वि॒ता¦हि॒र॒ण्यया᳚¦बा॒हू इति॑¦अ॒यं॒स्त॒¦सव॑नाय¦सु॒ऽक्रतुः॑ | |
दे॒वस्य॑ व॒यं स॑वि॒तुः सवी᳚मनि॒ श्रेष्ठे᳚ स्याम॒ वसु॑नश्च दा॒वने᳚ |{बार्हस्पत्यो भरद्वाजः | सविता | जगती} यो विश्व॑स्य द्वि॒पदो॒ यश्चतु॑ष्पदो नि॒वेश॑ने प्रस॒वे चासि॒ भूम॑नः ||{2/6}{6.71.2}{6.6.10.2}{5.1.15.2}{730, 512, 5098} दे॒वस्य॑¦व॒यम्¦स॒वि॒तुः¦सवी᳚मनि¦श्रेष्ठे᳚¦स्या॒म॒¦वसु॑नः¦च॒¦दा॒वने᳚ | |
अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वं शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गय᳚म् |{बार्हस्पत्यो भरद्वाजः | सविता | जगती} हिर᳚ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि᳚र्नो, अ॒घशं᳚स ईशत ||{3/6}{6.71.3}{6.6.10.3}{5.1.15.3}{731, 512, 5099} अद॑ब्धेभिः¦स॒वि॒त॒रिति॑¦पा॒युऽभिः॑¦त्वम्¦शि॒वेभिः॑¦अ॒द्य¦परि॑¦पा॒हि॒¦नः॒¦गय᳚म् | |
उदु॒ ष्य दे॒वः स॑वि॒ता दमू᳚ना॒ हिर᳚ण्यपाणिः प्रतिदो॒षम॑स्थात् |{बार्हस्पत्यो भरद्वाजः | सविता | त्रिष्टुप्} अयो᳚हनुर्यज॒तो म॒न्द्रजि॑ह्व॒ आ दा॒शुषे᳚ सुवति॒ भूरि॑ वा॒मम् ||{4/6}{6.71.4}{6.6.10.4}{5.1.15.4}{732, 512, 5100} उत्¦ऊँ॒ इति॑¦स्यः¦दे॒वः¦स॒वि॒ता¦दमू᳚नाः¦हिर᳚ण्यऽपाणिः¦प्र॒ति॒ऽदो॒षम्¦अ॒स्था॒त् | |
उदू᳚, अयाँ, उपव॒क्तेव॑ बा॒हू हि॑र॒ण्यया᳚ सवि॒ता सु॒प्रती᳚का |{बार्हस्पत्यो भरद्वाजः | सविता | त्रिष्टुप्} दि॒वो रोहां᳚स्यरुहत् पृथि॒व्या, अरी᳚रमत्प॒तय॒त्कच्चि॒दभ्व᳚म् ||{5/6}{6.71.5}{6.6.10.5}{5.1.15.5}{733, 512, 5101} उत्¦ऊँ॒ इति॑¦अ॒या॒न्¦उ॒प॒व॒क्ताऽइ᳚व¦बा॒हू इति॑¦हि॒र॒न्यया᳚¦स॒वि॒ता¦सु॒ऽप्रती᳚का | |
वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्यं᳚ सावीः |{बार्हस्पत्यो भरद्वाजः | सविता | त्रिष्टुप्} वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे᳚र॒या धि॒या वा᳚म॒भाजः॑ स्याम ||{6/6}{6.71.6}{6.6.10.6}{5.1.15.6}{734, 512, 5102} वा॒मम्¦अ॒द्य¦स॒वि॒तः॒¦वा॒मम्¦ऊँ॒ इति॑¦श्वः¦दि॒वेऽदि॑वे¦वा॒मम्¦अ॒स्मभ्य᳚म्¦सा॒वीः॒ | |
[72] इंद्रासोमेति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रासोमौत्रिष्टुप् | |
इन्द्रा᳚सोमा॒ महि॒ तद्वां᳚ महि॒त्वं यु॒वं म॒हानि॑ प्रथ॒मानि॑ चक्रथुः |{बार्हस्पत्यो भरद्वाजः | इन्द्रासोमौ | त्रिष्टुप्} यु॒वं सूर्यं᳚ विवि॒दथु᳚र्यु॒वं स्व१॑(अ॒)र्विश्वा॒ तमां᳚स्यहतं नि॒दश्च॑ ||{1/5}{6.72.1}{6.6.11.1}{5.1.16.1}{735, 513, 5103} इन्द्रा᳚सोमा¦महि॑¦तत्¦वा॒म्¦म॒हि॒ऽत्वम्¦यु॒वम्¦म॒हानि॑¦प्र॒थ॒मानि॑¦च॒क्र॒थुः॒ | |
इन्द्रा᳚सोमा वा॒सय॑थ उ॒षास॒मुत्सूर्यं᳚ नयथो॒ ज्योति॑षा स॒ह |{बार्हस्पत्यो भरद्वाजः | इन्द्रासोमौ | त्रिष्टुप्} उप॒ द्यां स्क॒म्भथुः॒ स्कम्भ॑ने॒नाप्र॑थतं पृथि॒वीं मा॒तरं॒ वि ||{2/5}{6.72.2}{6.6.11.2}{5.1.16.2}{736, 513, 5104} इन्द्रा᳚सोमा¦वा॒सय॑थः¦उ॒षस᳚म्¦उत्¦सूर्य᳚म्¦न॒य॒थः॒¦ज्योति॑षा¦स॒ह | |
इन्द्रा᳚सोमा॒वहि॑म॒पः प॑रि॒ष्ठां ह॒थो वृ॒त्रमनु॑ वां॒ द्यौर॑मन्यत |{बार्हस्पत्यो भरद्वाजः | इन्द्रासोमौ | त्रिष्टुप्} प्रार्णां᳚स्यैरयतं न॒दीना॒मा स॑मु॒द्राणि॑ पप्रथुः पु॒रूणि॑ ||{3/5}{6.72.3}{6.6.11.3}{5.1.16.3}{737, 513, 5105} इन्द्रा᳚सोमौ¦अहि᳚म्¦अ॒पः¦प॒रि॒ऽस्थाम्¦ह॒थः¦वृ॒त्रम्¦अनु॑¦वा॒म्¦द्यौः¦अ॒म॒न्य॒त॒ | |
इन्द्रा᳚सोमा प॒क्वमा॒मास्व॒न्तर्नि गवा॒मिद्द॑धथुर्व॒क्षणा᳚सु |{बार्हस्पत्यो भरद्वाजः | इन्द्रासोमौ | त्रिष्टुप्} ज॒गृ॒भथु॒रन॑पिनद्धमासु॒ रुश॑च्चि॒त्रासु॒ जग॑तीष्व॒न्तः ||{4/5}{6.72.4}{6.6.11.4}{5.1.16.4}{738, 513, 5106} इन्द्रा᳚सोमा¦प॒क्वम्¦आ॒मासु॑¦अ॒न्तः¦नि¦गवा᳚म्¦इत्¦द॒ध॒थुः॒¦व॒क्षणा᳚सु | |
इन्द्रा᳚सोमा यु॒वम॒ङ्ग तरु॑त्रमपत्य॒साचं॒ श्रुत्यं᳚ रराथे |{बार्हस्पत्यो भरद्वाजः | इन्द्रासोमौ | त्रिष्टुप्} यु॒वं शुष्मं॒ नर्यं᳚ चर्ष॒णिभ्यः॒ सं वि᳚व्यथुः पृतना॒षाह॑मुग्रा ||{5/5}{6.72.5}{6.6.11.5}{5.1.16.5}{739, 513, 5107} इन्द्रा᳚सोमा¦यु॒वम्¦अ॒ङ्ग¦तरु॑त्रम्¦अ॒प॒त्य॒ऽसाच᳚म्¦श्रुत्य᳚म्¦र॒रा॒थे॒ इति॑ | |
[73] योअद्रिभिदिति तृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोबृहस्पतिस्त्रिष्टुप् | |
यो, अ॑द्रि॒भित्प्र॑थम॒जा, ऋ॒तावा॒ बृह॒स्पति॑राङ्गिर॒सो ह॒विष्मा॑न् |{बार्हस्पत्यो भरद्वाजः | बृहस्पतिः | त्रिष्टुप्} द्वि॒बर्ह॑ज्मा प्राघर्म॒सत्पि॒ता न॒ आ रोद॑सी वृष॒भो रो᳚रवीति ||{1/3}{6.73.1}{6.6.12.1}{5.1.17.1}{740, 514, 5108} यः¦अ॒द्रि॒ऽभित्¦प्र॒थ॒म॒ऽजाः¦ऋ॒तऽवा᳚¦बृह॒स्पतिः॑¦आ॒ङ्गि॒र॒सः¦ह॒विष्मा॑न् | |
जना᳚य चि॒द्य ईव॑त उ लो॒कं बृह॒स्पति॑र्दे॒वहू᳚तौ च॒कार॑ |{बार्हस्पत्यो भरद्वाजः | बृहस्पतिः | त्रिष्टुप्} घ्नन् वृ॒त्राणि॒ वि पुरो᳚ दर्दरीति॒ जय॒ञ्छत्रूँ᳚र॒मित्रा᳚न् पृ॒त्सु साह॑न् ||{2/3}{6.73.2}{6.6.12.2}{5.1.17.2}{741, 514, 5109} जना᳚य¦चि॒त्¦यः¦ईव॑ते¦ऊँ॒ इति॑¦लो॒कम्¦बृह॒स्पतिः॑¦दे॒वऽहू᳚तौ¦च॒कार॑ | |
बृह॒स्पतिः॒ सम॑जय॒द्वसू᳚नि म॒हो व्र॒जान् गोम॑तो दे॒व ए॒षः |{बार्हस्पत्यो भरद्वाजः | बृहस्पतिः | त्रिष्टुप्} अ॒पः सिषा᳚स॒न् त्स्व१॑(अ॒)रप्र॑तीतो॒ बृह॒स्पति॒र्हन्त्य॒मित्र॑म॒र्कैः ||{3/3}{6.73.3}{6.6.12.3}{5.1.17.3}{742, 514, 5110} बृह॒स्पतिः॑¦सम्¦अ॒ज॒य॒त्¦वसू᳚नि¦म॒हः¦व्र॒जान्¦गोऽम॑तः¦दे॒वः¦ए॒षः | |
[74] सोमारुद्रेति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजः सोमारुद्रौत्रिष्टुप् | |
सोमा᳚रुद्रा धा॒रये᳚थामसु॒र्य१॑(अं॒) प्र वा᳚मि॒ष्टयोऽर॑मश्नुवन्तु |{बार्हस्पत्यो भरद्वाजः | सोमारुद्रौ | त्रिष्टुप्} दमे᳚दमे स॒प्त रत्ना॒ दधा᳚ना॒ शं नो᳚ भूतं द्वि॒पदे॒ शं चतु॑ष्पदे ||{1/4}{6.74.1}{6.6.13.1}{5.1.18.1}{743, 515, 5111} सोमा᳚रुद्रा¦धा॒रये᳚थाम्¦अ॒सु॒र्य᳚म्¦प्र¦वा॒म्¦इ॒ष्टयः॑¦अर᳚म्¦अ॒श्नु॒व॒न्तु॒ | |
सोमा᳚रुद्रा॒ वि वृ॑हतं॒ विषू᳚ची॒ममी᳚वा॒ या नो॒ गय॑मावि॒वेश॑ |{बार्हस्पत्यो भरद्वाजः | सोमारुद्रौ | त्रिष्टुप्} आ॒रे बा᳚धेथां॒ निरृ॑तिं परा॒चैर॒स्मे भ॒द्रा सौ᳚श्रव॒सानि॑ सन्तु ||{2/4}{6.74.2}{6.6.13.2}{5.1.18.2}{744, 515, 5112} सोमा᳚रुद्रा¦वि¦वृ॒ह॒त॒म्¦विषू᳚चीम्¦अमी᳚वा¦या¦नः॒¦गय᳚म्¦आ॒ऽवि॒वेश॑ | |
सोमा᳚रुद्रा यु॒वमे॒तान्य॒स्मे विश्वा᳚ त॒नूषु॑ भेष॒जानि॑ धत्तम् |{बार्हस्पत्यो भरद्वाजः | सोमारुद्रौ | त्रिष्टुप्} अव॑ स्यतं मु॒ञ्चतं॒ यन्नो॒, अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो᳚, अ॒स्मत् ||{3/4}{6.74.3}{6.6.13.3}{5.1.18.3}{745, 515, 5113} सोमा᳚रुद्रा¦यु॒वम्¦ए॒तानि॑¦अ॒स्मे इति॑¦विश्वा᳚¦त॒नूषु॑¦भे॒ष॒जानि॑¦ध॒त्त॒म् | |
ति॒ग्मायु॑धौ ति॒ग्महे᳚ती सु॒शेवौ॒ सोमा᳚रुद्रावि॒ह सु मृ॑ळतं नः |{बार्हस्पत्यो भरद्वाजः | सोमारुद्रौ | त्रिष्टुप्} प्र नो᳚ मुञ्चतं॒ वरु॑णस्य॒ पाशा᳚द् गोपा॒यतं᳚ नः सुमन॒स्यमा᳚ना ||{4/4}{6.74.4}{6.6.13.4}{5.1.18.4}{746, 515, 5114} ति॒ग्मऽआ᳚युधौ¦ति॒ग्महे᳚ती॒ इति॑ ति॒ग्मऽहे᳚ती¦सु॒ऽशेवौ᳚¦सोमा᳚रुद्रा¦इ॒ह¦सु¦मृ॒ळ॒त॒म्¦नः॒ | |
[75] जीमूतस्येवेत्येकोनविंशत्यृचस्य सूक्तस्य भारद्वाजः पायुः आद्यानांनवानांक्रमेण वर्मधनुर्ज्या धनुष्कोटीषुधिः सारथी रश्मयोऽश्वारथोरथगोपाः दशम्याब्राह्मणपितृसोमपृथिवीपूषाणः एकादश्यादिद्वयोरिषवः त्रयोदश्याः प्रतोदः चतुर्दश्याहस्तत्राणं पंचदशीषोडश्योरिषवः सप्तदश्यायुद्धभूमिकवच ब्रह्मणस्पत्यदित्यः अष्टादश्यावर्मसोमवरुणाः अंत्यायादेवब्रह्माणित्रिष्टुप् | षष्ठीदशम्यौजगत्यौ द्वादशीत्रयोदशीपंचदशीषोळश्यंत्यानुष्टुभः सप्तदशीपंक्तिः |(त्रयोदश्याः प्रतोदइत्यत्राश्वोदेवतेतिकेचित् | चतुर्दश्याहस्तघ्नमित्यत्रहस्तत्राणं चतुर्दश्यामितिशौनकोक्तेर्हस्तत्राणमेवयुक्तं | पराः पंक्त्यादयोलिंगोक्तदेवता इत्येवमनुक्रमण्यांसत्यामंत्ययोर्द्वयोर्विश्वेदेवा इति केचिन्मन्यंतेबहुदैवतत्वात् | पंचदश्यादिद्वयोर्विषाक्तमुखबाण इतिशौनकः)| |
जी॒मूत॑स्येव भवति॒ प्रती᳚कं॒ यद्व॒र्मी याति॑ स॒मदा᳚मु॒पस्थे᳚ |{भारद्वाजः पायुः | वर्म | त्रिष्टुप्} अना᳚विद्धया त॒न्वा᳚ जय॒ त्वं स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ||{1/19}{6.75.1}{6.6.14.1}{5.1.19.1}{747, 516, 5115} जी॒मूत॑स्यऽइव¦भ॒व॒ति॒¦प्रती᳚कम्¦यत्¦व॒र्मी¦याति॑¦स॒ऽमदा᳚म्¦उ॒पऽस्थे᳚ | |
धन्व॑ना॒ गा धन्व॑ना॒जिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो᳚ जयेम |{भारद्वाजः पायुः | धनुः | त्रिष्टुप्} धनुः॒ शत्रो᳚रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वाः᳚ प्र॒दिशो᳚ जयेम ||{2/19}{6.75.2}{6.6.14.2}{5.1.19.2}{748, 516, 5116} धन्व॑ना¦गाः¦धन्व॑ना¦आ॒जिम्¦ज॒ये॒म॒¦धन्व॑ना¦ती॒व्राः¦स॒ऽमदः॑¦ज॒ये॒म॒ | |
व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्णं᳚ प्रि॒यं सखा᳚यं परिषस्वजा॒ना |{भारद्वाजः पायुः | ज्या | त्रिष्टुप्} योषे᳚व शिङ्क्ते॒ वित॒ताधि॒ धन्व॒ञ्ज्या, इ॒यं सम॑ने पा॒रय᳚न्ती ||{3/19}{6.75.3}{6.6.14.3}{5.1.19.3}{749, 516, 5117} व॒क्ष्यन्ती᳚ऽइव¦इत्¦आ¦ग॒नी॒ग॒न्ति॒¦कर्ण᳚म्¦प्रि॒यम्¦सखा᳚यम्¦प॒रि॒ऽस॒स्व॒जा॒ना | |
ते, आ॒चर᳚न्ती॒ सम॑नेव॒ योषा᳚ मा॒तेव॑ पु॒त्रं बि॑भृतामु॒पस्थे᳚ |{भारद्वाजः पायुः | धनुष्कोटिः | त्रिष्टुप्} अप॒ शत्रू᳚न् विध्यतां संविदा॒ने, आर्त्नी᳚, इ॒मे वि॑ष्फु॒रन्ती᳚, अ॒मित्रा॑न् ||{4/19}{6.75.4}{6.6.14.4}{5.1.19.4}{750, 516, 5118} ते इति॑¦आ॒चर᳚न्ती॒ इत्या॒ऽचर᳚न्ती¦सम॑नाऽइव¦योषा᳚¦मा॒ताऽइ᳚व¦पु॒त्रम्¦बि॒भृ॒ता॒म्¦उ॒पऽस्थे᳚ | |
ब॒ह्वी॒नां पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णोति॒ सम॑नाव॒गत्य॑ |{भारद्वाजः पायुः | इषुधिः | त्रिष्टुप्} इ॒षु॒धिः सङ्काः॒ पृत॑नाश्च॒ सर्वाः᳚ पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू᳚तः ||{5/19}{6.75.5}{6.6.14.5}{5.1.19.5}{751, 516, 5119} ब॒ह्वी॒नाम्¦पि॒ता¦ब॒हुः¦अ॒स्य॒¦पु॒त्रः¦चि॒श्चा¦कृ॒णो॒ति॒¦सम॑ना¦अ॒व॒ऽगत्य॑ | |
रथे॒ तिष्ठ᳚न्नयति वा॒जिनः॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः |{भारद्वाजः पायुः | सारथिः, रश्मयः | जगती} अ॒भीशू᳚नां महि॒मानं᳚ पनायत॒ मनः॑ प॒श्चादनु॑ यच्छन्ति र॒श्मयः॑ ||{6/19}{6.75.6}{6.6.14.6}{5.1.20.1}{752, 516, 5120} रथे᳚¦तिष्ठ॑न्¦न॒य॒ति॒¦वा॒जिनः॑¦पु॒रः¦यत्र॑ऽयत्र¦का॒मय॑ते¦सु॒ऽसा॒र॒थिः | |
ती॒व्रान् घोषा᳚न् कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे᳚भिः स॒ह वा॒जय᳚न्तः |{भारद्वाजः पायुः | अश्वाः | त्रिष्टुप्} अ॒व॒क्राम᳚न्तः॒ प्रप॑दैर॒मित्रा᳚न् क्षि॒णन्ति॒ शत्रूँ॒रन॑पव्ययन्तः ||{7/19}{6.75.7}{6.6.14.7}{5.1.20.2}{753, 516, 5121} ती॒व्रान्¦घोषा᳚न्¦कृ॒ण्व॒ते॒¦वृष॑ऽपाणयः¦अश्वाः᳚¦रथे᳚भिः¦स॒ह¦वा॒जय᳚न्तः | |
र॒थ॒वाह॑नं ह॒विर॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तमस्य॒ वर्म॑ |{भारद्वाजः पायुः | रथः | त्रिष्टुप्} तत्रा॒ रथ॒मुप॑ श॒ग्मं स॑देम वि॒श्वाहा᳚ व॒यं सु॑मन॒स्यमा᳚नाः ||{8/19}{6.75.8}{6.6.14.8}{5.1.20.3}{754, 516, 5122} र॒थ॒ऽवाह॑नम्¦ह॒विः¦अ॒स्य॒¦नाम॑¦यत्र॑¦आयु॑धम्¦निऽहि॑तम्¦अ॒स्य॒¦वर्म॑ | |
स्वा॒दु॒षं॒सदः॑ पि॒तरो᳚ वयो॒धाः कृ॑च्छ्रे॒श्रितः॒ शक्ती᳚वन्तो गभी॒राः |{भारद्वाजः पायुः | रथगोपाः | त्रिष्टुप्} चि॒त्रसे᳚ना॒, इषु॑बला॒, अमृ॑ध्राः स॒तोवी᳚रा, उ॒रवो᳚ व्रातसा॒हाः ||{9/19}{6.75.9}{6.6.14.9}{5.1.20.4}{755, 516, 5123} स्वा॒दु॒ऽसं॒सदः॑¦पि॒तरः॑¦व॒यः॒ऽधाः¦कृ॒च्छ्र॒ऽश्रितः॑¦शक्ति॑ऽवन्तः¦ग॒भी॒राः | |
ब्राह्म॑णासः॒ पित॑रः॒ सोम्या᳚सः शि॒वे नो॒ द्यावा᳚पृथि॒वी, अ॑ने॒हसा᳚ |{भारद्वाजः पायुः | ब्राह्मणपितृसोमपृथिवीपूषाणः | जगती} पू॒षा नः॑ पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि᳚र्नो, अ॒घशं᳚स ईशत ||{10/19}{6.75.10}{6.6.14.10}{5.1.20.5}{756, 516, 5124} ब्राह्म॑णासः¦पित॑रः¦सोम्या᳚सः¦शि॒वे इति॑¦नः॒¦द्यावा᳚पृथि॒वी इति॑¦अ॒ने॒हसा᳚ | |
सु॒प॒र्णं व॑स्ते मृ॒गो, अ॑स्या॒ दन्तो॒ गोभिः॒ संन॑द्धा पतति॒ प्रसू᳚ता |{भारद्वाजः पायुः | इषवः | त्रिष्टुप्} यत्रा॒ नरः॒ सं च॒ वि च॒ द्रव᳚न्ति॒ तत्रा॒स्मभ्य॒मिष॑वः॒ शर्म॑ यंसन् ||{11/19}{6.75.11}{6.6.14.11}{5.1.21.1}{757, 516, 5125} सु॒ऽप॒र्णम्¦व॒स्ते॒¦मृ॒गः¦अ॒स्याः॒¦दन्तः॑¦गोभिः॑¦सम्ऽन॑द्धा¦प॒त॒ति॒¦प्रऽसू᳚ता | |
ऋजी᳚ते॒ परि॑ वृङ्धि॒ नोऽश्मा᳚ भवतु नस्त॒नूः |{भारद्वाजः पायुः | इषवः | अनुष्टुप्} सोमो॒, अधि॑ ब्रवीतु॒ नोऽदि॑तिः॒ शर्म॑ यच्छतु ||{12/19}{6.75.12}{6.6.14.12}{5.1.21.2}{758, 516, 5126} ऋजी᳚ते¦परि॑¦वृ॒ङ्धि॒¦नः॒¦अश्मा᳚¦भ॒व॒तु॒¦नः॒¦त॒नूः | सोमः॑¦अधि॑¦ब्र॒वी॒तु॒¦नः॒¦अदि॑तिः¦शर्म॑¦य॒च्छ॒तु॒ || |
आ ज᳚ङ्घन्ति॒ सान्वे᳚षां ज॒घनाँ॒, उप॑ जिघ्नते |{भारद्वाजः पायुः | प्रतोदः | अनुष्टुप्} अश्वा᳚जनि॒ प्रचे᳚त॒सोऽश्वा᳚न् त्स॒मत्सु॑ चोदय ||{13/19}{6.75.13}{6.6.14.13}{5.1.21.3}{759, 516, 5127} आ¦ज॒ङ्घ॒न्ति॒¦सानु॑¦ए॒षा॒म्¦ज॒घना᳚न्¦उप॑¦जि॒घ्न॒ते॒ | अश्व॑।आजनि¦प्रऽचे᳚तसः¦अश्वा᳚न्¦स॒मत्ऽसु॑¦चो॒द॒य॒ || |
अहि॑रिव भो॒गैः पर्ये᳚ति बा॒हुं ज्याया᳚ हे॒तिं प॑रि॒बाध॑मानः |{भारद्वाजः पायुः | हस्तत्राणः | त्रिष्टुप्} ह॒स्त॒घ्नो विश्वा᳚ व॒युना᳚नि वि॒द्वान् पुमा॒न् पुमां᳚सं॒ परि॑ पातु वि॒श्वतः॑ ||{14/19}{6.75.14}{6.6.14.14}{5.1.21.4}{760, 516, 5128} अहिः॑ऽइव¦भो॒गैः¦परि॑¦ए॒ति॒¦बा॒हुम्¦ज्यायाः᳚¦हे॒तिम्¦प॒रि॒ऽबाध॑मानः | |
आला᳚क्ता॒ या रुरु॑शी॒र्ष्ण्यथो॒ यस्या॒, अयो॒ मुख᳚म् |{भारद्वाजः पायुः | इषवः | अनुष्टुप्} इ॒दं प॒र्जन्य॑रेतस॒ इष्वै᳚ दे॒व्यै बृ॒हन्नमः॑ ||{15/19}{6.75.15}{6.6.14.15}{5.1.21.5}{761, 516, 5129} आल॑।आक्ता¦या¦रुरु॑ऽशीर्ष्णी¦अथो॒ इति॑¦यस्याः᳚¦अयः॑¦मुख᳚म् | इ॒दम्¦प॒र्जन्य॑ऽरेतसे¦इष्वै᳚¦दे॒व्यै¦बृ॒हत्¦नमः॑ || |
अव॑सृष्टा॒ परा᳚ पत॒ शर᳚व्ये॒ ब्रह्म॑संशिते |{भारद्वाजः पायुः | इषवः | अनुष्टुप्} गच्छा॒मित्रा॒न् प्र प॑द्यस्व॒ मामीषां॒ कं च॒नोच्छि॑षः ||{16/19}{6.75.16}{6.6.14.16}{5.1.22.1}{762, 516, 5130} अव॑ऽसृष्टा¦परा᳚¦प॒त॒¦शर᳚व्ये¦ब्रह्म॑ऽसंशिते | गच्छ॑¦अ॒मित्रा᳚न्¦प्र¦प॒द्य॒स्व॒¦मा¦अ॒मीषा᳚म्¦कम्¦च॒न¦उत्¦शि॒षः॒ || |
यत्र॑ बा॒णाः स॒म्पत᳚न्ति कुमा॒रा वि॑शि॒खा, इ॑व |{भारद्वाजः पायुः | युद्धभूमिकवच ब्रह्मणस्पत्यदित्यः | पङ्क्तिः} तत्रा᳚ नो॒ ब्रह्म॑ण॒स्पति॒रदि॑तिः॒ शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ||{17/19}{6.75.17}{6.6.14.17}{5.1.22.2}{763, 516, 5131} यत्र॑¦बा॒णाः¦स॒म्ऽपत᳚न्ति¦कु॒मा॒राः¦वि॒शि॒खाःऽइ᳚व | |
मर्मा᳚णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्ताम् |{भारद्वाजः पायुः | वर्मसोमवरुणाः | त्रिष्टुप्} उ॒रोर्वरी᳚यो॒ वरु॑णस्ते कृणोतु॒ जय᳚न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ||{18/19}{6.75.18}{6.6.14.18}{5.1.22.3}{764, 516, 5132} मर्मा᳚णि¦ते॒¦वर्म॑णा¦छा॒द॒या॒मि॒¦सोमः॑¦त्वा॒¦राजा᳚¦अ॒मृते᳚न¦अनु॑¦व॒स्ता॒म् | |
यो नः॒ स्वो, अर॑णो॒ यश्च॒ निष्ट्यो॒ जिघां᳚सति |{भारद्वाजः पायुः | एवब्रह्माणि | अनुष्टुप्} दे॒वास्तं सर्वे᳚ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम् ||{19/19}{6.75.19}{6.6.14.19}{5.1.22.4}{765, 516, 5133} यः¦नः॒¦स्वः¦अर॑णः¦यः¦च॒¦निष्ट्यः॑¦जिघां᳚सति | दे॒वाः¦तम्¦सर्वे᳚¦धू॒र्व॒न्तु॒¦ब्रह्म॑¦वर्म॑¦मम॑¦अन्त॑रम् || |