|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||

|| ऋग्वेद संहिता (मंडल: 06) ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
Mantra classification is following this convention{मंडल,सूक्त,मंत्र}{मंडल,अनुवाक,सूक्त,मंत्र}{अष्टक,अध्याय,वर्ग,मंत्र}{मंडल मन्त्र संख्या,ऋक्संहित सूक्त संख्या,ऋक्संहित मन्त्र संख्या}
[Last updated on: 03-Apr-2025]

[1] त्वंह्यग्नइति त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |
त्वं ह्य॑ग्ने प्रथ॒मो म॒नोता॒ऽस्या धि॒यो, अभ॑वो दस्म॒ होता᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

त्वं सीं᳚ वृषन्नकृणोर्दु॒ष्टरी᳚तु॒ सहो॒ विश्व॑स्मै॒ सह॑से॒ सह॑ध्यै ||{1/13}{6.1.1}{6.1.1.1}{4.4.35.1}{1, 442, 4369}

अधा॒ होता॒ न्य॑सीदो॒ यजी᳚यानि॒ळस्प॒द इ॒षय॒न्नीड्यः॒ सन् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

तं त्वा॒ नरः॑ प्रथ॒मं दे᳚व॒यन्तो᳚ म॒हो रा॒ये चि॒तय᳚न्तो॒, अनु॑ ग्मन् ||{2/13}{6.1.2}{6.1.1.2}{4.4.35.2}{2, 442, 4370}

वृ॒तेव॒ यन्तं᳚ ब॒हुभि᳚र्वस॒व्यै॒३॑(ऐ॒)स्त्वे र॒यिं जा᳚गृ॒वांसो॒, अनु॑ ग्मन् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

रुश᳚न्तम॒ग्निं द॑र्श॒तं बृ॒हन्तं᳚ व॒पाव᳚न्तं वि॒श्वहा᳚ दीदि॒वांस᳚म् ||{3/13}{6.1.3}{6.1.1.3}{4.4.35.3}{3, 442, 4371}

प॒दं दे॒वस्य॒ नम॑सा॒ व्यन्तः॑ श्रव॒स्यवः॒ श्रव॑ आप॒न्नमृ॑क्तम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

नामा᳚नि चिद्‌ दधिरे य॒ज्ञिया᳚नि भ॒द्रायां᳚ ते रणयन्त॒ संदृ॑ष्टौ ||{4/13}{6.1.4}{6.1.1.4}{4.4.35.4}{4, 442, 4372}

त्वां व॑र्धन्ति क्षि॒तयः॑ पृथि॒व्यां त्वां राय॑ उ॒भया᳚सो॒ जना᳚नाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

त्वं त्रा॒ता त॑रणे॒ चेत्यो᳚ भूः पि॒ता मा॒ता सद॒मिन्मानु॑षाणाम् ||{5/13}{6.1.5}{6.1.1.5}{4.4.35.5}{5, 442, 4373}

स॒प॒र्येण्यः॒ स प्रि॒यो वि॒क्ष्व१॑(अ॒)ग्निर्होता᳚ म॒न्द्रो नि ष॑सादा॒ यजी᳚यान् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

तं त्वा᳚ व॒यं दम॒ आ दी᳚दि॒वांस॒मुप॑ ज्ञु॒बाधो॒ नम॑सा सदेम ||{6/13}{6.1.6}{6.1.1.6}{4.4.36.1}{6, 442, 4374}

तं त्वा᳚ व॒यं सु॒ध्यो॒३॑(ओ॒) नव्य॑मग्ने सुम्ना॒यव॑ ईमहे देव॒यन्तः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

त्वं विशो᳚, अनयो॒ दीद्या᳚नो दि॒वो, अ॑ग्ने बृह॒ता रो᳚च॒नेन॑ ||{7/13}{6.1.7}{6.1.1.7}{4.4.36.2}{7, 442, 4375}

वि॒शां क॒विं वि॒श्पतिं॒ शश्व॑तीनां नि॒तोश॑नं वृष॒भं च॑र्षणी॒नाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

प्रेती᳚षणिमि॒षय᳚न्तं पाव॒कं राज᳚न्तम॒ग्निं य॑ज॒तं र॑यी॒णाम् ||{8/13}{6.1.8}{6.1.1.8}{4.4.36.3}{8, 442, 4376}

सो, अ॑ग्न ईजे शश॒मे च॒ मर्तो॒ यस्त॒ आन॑ट्‌ स॒मिधा᳚ ह॒व्यदा᳚तिम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

य आहु॑तिं॒ परि॒ वेदा॒ नमो᳚भि॒र्विश्वेत्‌ स वा॒मा द॑धते॒ त्वोतः॑ ||{9/13}{6.1.9}{6.1.1.9}{4.4.36.4}{9, 442, 4377}

अ॒स्मा, उ॑ ते॒ महि॑ म॒हे वि॑धेम॒ नमो᳚भिरग्ने स॒मिधो॒त ह॒व्यैः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

वेदी᳚ सूनो सहसो गी॒र्भिरु॒क्थैरा ते᳚ भ॒द्रायां᳚ सुम॒तौ य॑तेम ||{10/13}{6.1.10}{6.1.1.10}{4.4.36.5}{10, 442, 4378}

आ यस्त॒तन्थ॒ रोद॑सी॒ वि भा॒सा श्रवो᳚भिश्च श्रव॒स्य१॑(अ॒)स्तरु॑त्रः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

बृ॒हद्भि॒र्वाजैः॒ स्थवि॑रेभिर॒स्मे रे॒वद्भि॑रग्ने वित॒रं वि भा᳚हि ||{11/13}{6.1.11}{6.1.1.11}{4.4.36.6}{11, 442, 4379}

नृ॒वद्‌ व॑सो॒ सद॒मिद्धे᳚ह्य॒स्मे भूरि॑ तो॒काय॒ तन॑याय प॒श्वः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

पू॒र्वीरिषो᳚ बृह॒तीरा॒रे,अ॑घा, अ॒स्मे भ॒द्रा सौ᳚श्रव॒सानि॑ सन्तु ||{12/13}{6.1.12}{6.1.1.12}{4.4.36.7}{12, 442, 4380}

पु॒रूण्य॑ग्ने पुरु॒धा त्वा॒या वसू᳚नि राजन्‌ व॒सुता᳚ ते, अश्याम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

पु॒रूणि॒ हि त्वे पु॑रुवार॒ सन्त्यग्ने॒ वसु॑ विध॒ते राज॑नि॒ त्वे ||{13/13}{6.1.13}{6.1.1.13}{4.4.36.8}{13, 442, 4381}

[2] त्वंहिक्षैतवदित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निरनुष्टुबंत्याशक्वरी |
त्वं हि क्षैत॑व॒द्‌ यशो ऽग्ने᳚ मि॒त्रो न पत्य॑से |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

त्वं वि॑चर्षणे॒ श्रवो॒ वसो᳚ पु॒ष्टिं न पु॑ष्यसि ||{1/11}{6.2.1}{6.1.2.1}{4.5.1.1}{14, 443, 4382}

त्वां हि ष्मा᳚ चर्ष॒णयो᳚ य॒ज्ञेभि॑र्गी॒र्भिरीळ॑ते |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

त्वां वा॒जी या᳚त्यवृ॒को र॑ज॒स्तूर्वि॒श्वच॑र्षणिः ||{2/11}{6.2.2}{6.1.2.2}{4.5.1.2}{15, 443, 4383}

स॒जोष॑स्त्वा दि॒वो नरो᳚ य॒ज्ञस्य॑ के॒तुमि᳚न्धते |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

यद्ध॒ स्य मानु॑षो॒ जनः॑ सुम्ना॒युर्जु॒ह्वे, अ॑ध्व॒रे ||{3/11}{6.2.3}{6.1.2.3}{4.5.1.3}{16, 443, 4384}

ऋध॒द्‌ यस्ते᳚ सु॒दान॑वे धि॒या मर्तः॑ श॒शम॑ते |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

ऊ॒ती ष बृ॑ह॒तो दि॒वो द्वि॒षो, अंहो॒ न त॑रति ||{4/11}{6.2.4}{6.1.2.4}{4.5.1.4}{17, 443, 4385}

स॒मिधा॒ यस्त॒ आहु॑तिं॒ निशि॑तिं॒ मर्त्यो॒ नश॑त् |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

व॒याव᳚न्तं॒ स पु॑ष्यति॒ क्षय॑मग्ने श॒तायु॑षम् ||{5/11}{6.2.5}{6.1.2.5}{4.5.1.5}{18, 443, 4386}

त्वे॒षस्ते᳚ धू॒म ऋ᳚ण्वति दि॒वि षञ्छु॒क्र आत॑तः |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

सूरो॒ न हि द्यु॒ता त्वं कृ॒पा पा᳚वक॒ रोच॑से ||{6/11}{6.2.6}{6.1.2.6}{4.5.2.1}{19, 443, 4387}

अधा॒ हि वि॒क्ष्वीड्यो ऽसि॑ प्रि॒यो नो॒, अति॑थिः |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

र॒ण्वः पु॒री᳚व॒ जूर्यः॑ सू॒नुर्न त्र॑य॒याय्यः॑ ||{7/11}{6.2.7}{6.1.2.7}{4.5.2.2}{20, 443, 4388}

क्रत्वा॒ हि द्रोणे᳚, अ॒ज्यसे ऽग्ने᳚ वा॒जी न कृत्व्यः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

परि॑ज्मेव स्व॒धा गयो ऽत्यो॒ न ह्वा॒र्यः शिशुः॑ ||{8/11}{6.2.8}{6.1.2.8}{4.5.2.3}{21, 443, 4389}

त्वं त्या चि॒दच्यु॒ता ऽग्ने᳚ प॒शुर्न यव॑से |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

धामा᳚ ह॒ यत्‌ ते᳚, अजर॒ वना᳚ वृ॒श्चन्ति॒ शिक्व॑सः ||{9/11}{6.2.9}{6.1.2.9}{4.5.2.4}{22, 443, 4390}

वेषि॒ ह्य॑ध्वरीय॒तामग्ने॒ होता॒ दमे᳚ वि॒शाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

स॒मृधो᳚ विश्पते कृणु जु॒षस्व॑ ह॒व्यम᳚ङ्गिरः ||{10/11}{6.2.10}{6.1.2.10}{4.5.2.5}{23, 443, 4391}

अच्छा᳚ नो मित्रमहो देव दे॒वानग्ने॒ वोचः॑ सुम॒तिं रोद॑स्योः |{बार्हस्पत्यो भरद्वाजः | अग्निः | शक्वरी}

वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄन् द्वि॒षो, अंहां᳚सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ||{11/11}{6.2.11}{6.1.2.11}{4.5.2.6}{24, 443, 4392}

[3] अग्नेसक्षेषदित्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |
अग्ने॒ स क्षे᳚षदृत॒पा, ऋ॑ते॒जा, उ॒रु ज्योति᳚र्नशते देव॒युष्टे᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

यं त्वं मि॒त्रेण॒ वरु॑णः स॒जोषा॒ देव॒ पासि॒ त्यज॑सा॒ मर्त॒मंहः॑ ||{1/8}{6.3.1}{6.1.3.1}{4.5.3.1}{25, 444, 4393}

ई॒जे य॒ज्ञेभिः॑ शश॒मे शमी᳚भिरृ॒धद्वा᳚राया॒ग्नये᳚ ददाश |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

ए॒वा च॒न तं य॒शसा॒मजु॑ष्टि॒र्नांहो॒ मर्तं᳚ नशते॒ न प्रदृ॑प्तिः ||{2/8}{6.3.2}{6.1.3.2}{4.5.3.2}{26, 444, 4394}

सूरो॒ न यस्य॑ दृश॒तिर॑रे॒पा भी॒मा यदेति॑ शुच॒तस्त॒ आ धीः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

हेष॑स्वतः शु॒रुधो॒ नायम॒क्तोः कुत्रा᳚ चिद्‌ र॒ण्वो व॑स॒तिर्व॑ने॒जाः ||{3/8}{6.3.3}{6.1.3.3}{4.5.3.3}{27, 444, 4395}

ति॒ग्मं चि॒देम॒ महि॒ वर्पो᳚, अस्य॒ भस॒दश्वो॒ न य॑मसा॒न आ॒सा |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

वि॒जेह॑मानः पर॒शुर्न जि॒ह्वां द्र॒विर्न द्रा᳚वयति॒ दारु॒ धक्ष॑त् ||{4/8}{6.3.4}{6.1.3.4}{4.5.3.4}{28, 444, 4396}

स इदस्ते᳚व॒ प्रति॑ धादसि॒ष्यञ्छिशी᳚त॒ तेजोऽय॑सो॒ न धारा᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

चि॒त्रध्र॑जतिरर॒तिर्यो, अ॒क्तोर्वेर्न द्रु॒षद्वा᳚ रघु॒पत्म॑जंहाः ||{5/8}{6.3.5}{6.1.3.5}{4.5.3.5}{29, 444, 4397}

स ईं᳚ रे॒भो न प्रति॑ वस्त उ॒स्राः शो॒चिषा᳚ रारपीति मि॒त्रम॑हाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

नक्तं॒ य ई᳚मरु॒षो यो दिवा॒ नॄनम॑र्त्यो, अरु॒षो यो दिवा॒ नॄन् ||{6/8}{6.3.6}{6.1.3.6}{4.5.4.1}{30, 444, 4398}

दि॒वो न यस्य॑ विध॒तो नवी᳚नो॒द् वृषा᳚ रु॒क्ष ओष॑धीषु नूनोत् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

घृणा॒ न यो ध्रज॑सा॒ पत्म॑ना॒ यन्ना रोद॑सी॒ वसु॑ना॒ दं सु॒पत्नी᳚ ||{7/8}{6.3.7}{6.1.3.7}{4.5.4.2}{31, 444, 4399}

धायो᳚भिर्वा॒ यो युज्ये᳚भिर॒र्कैर्वि॒द्युन्न द॑विद्यो॒त्‌ स्वेभिः॒ शुष्मैः᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

शर्धो᳚ वा॒ यो म॒रुतां᳚ त॒तक्ष॑ ऋ॒भुर्न त्वे॒षो र॑भसा॒नो, अ॑द्यौत् ||{8/8}{6.3.8}{6.1.3.8}{4.5.4.3}{32, 444, 4400}

[4] यथाहोतरित्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |
यथा᳚ होत॒र्मनु॑षो दे॒वता᳚ता य॒ज्ञेभिः॑ सूनो सहसो॒ यजा᳚सि |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

ए॒वा नो᳚, अ॒द्य स॑म॒ना स॑मा॒नानु॒शन्न॑ग्न उश॒तो य॑क्षि दे॒वान् ||{1/8}{6.4.1}{6.1.4.1}{4.5.5.1}{33, 445, 4401}

स नो᳚ वि॒भावा᳚ च॒क्षणि॒र्न वस्तो᳚र॒ग्निर्व॒न्दारु॒ वेद्य॒श्चनो᳚ धात् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

वि॒श्वायु॒र्यो, अ॒मृतो॒ मर्त्ये᳚षूष॒र्भुद्‌ भूदति॑थिर्जा॒तवे᳚दाः ||{2/8}{6.4.2}{6.1.4.2}{4.5.5.2}{34, 445, 4402}

द्यावो॒ न यस्य॑ प॒नय॒न्त्यभ्वं॒ भासां᳚सि वस्ते॒ सूर्यो॒ न शु॒क्रः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

वि य इ॒नोत्य॒जरः॑ पाव॒को ऽश्न॑स्य चिच्छिश्नथत्‌ पू॒र्व्याणि॑ ||{3/8}{6.4.3}{6.1.4.3}{4.5.5.3}{35, 445, 4403}

व॒द्मा हि सू᳚नो॒, अस्य॑द्म॒सद्वा᳚ च॒क्रे, अ॒ग्निर्ज॒नुषाज्मान्न᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

स त्वं न॑ ऊर्जसन॒ ऊर्जं᳚ धा॒ राजे᳚व जेरवृ॒के क्षे᳚ष्य॒न्तः ||{4/8}{6.4.4}{6.1.4.4}{4.5.5.4}{36, 445, 4404}

निति॑क्ति॒ यो वा᳚र॒णमन्न॒मत्ति॑ वा॒युर्न राष्ट्र्यत्ये᳚त्य॒क्तून् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुपि}

तु॒र्याम॒ यस्त॑ आ॒दिशा॒मरा᳚ती॒रत्यो॒ न ह्रुतः॒ पत॑तः परि॒ह्रुत् ||{5/8}{6.4.5}{6.1.4.5}{4.5.5.5}{37, 445, 4405}

आ सूर्यो॒ न भा᳚नु॒मद्भि॑र॒र्कैरग्ने᳚ त॒तन्थ॒ रोद॑सी॒ वि भा॒सा |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

चि॒त्रो न॑य॒त्‌ परि॒ तमां᳚स्य॒क्तः शो॒चिषा॒ पत्म᳚न्नौशि॒जो न दीय॑न् ||{6/8}{6.4.6}{6.1.4.6}{4.5.6.1}{38, 445, 4406}

त्वां हि म॒न्द्रत॑ममर्कशो॒कैर्व॑वृ॒महे॒ महि॑ नः॒ श्रोष्य॑ग्ने |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

इन्द्रं॒ न त्वा॒ शव॑सा दे॒वता᳚ वा॒युं पृ॑णन्ति॒ राध॑सा॒ नृत॑माः ||{7/8}{6.4.7}{6.1.4.7}{4.5.6.2}{39, 445, 4407}

नू नो᳚, अग्नेऽवृ॒केभिः॑ स्व॒स्ति वेषि॑ रा॒यः प॒थिभिः॒ पर्ष्यंहः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

ता सू॒रिभ्यो᳚ गृण॒ते रा᳚सि सु॒म्नं मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{8/8}{6.4.8}{6.1.4.8}{4.5.6.3}{40, 445, 4408}

[5] हुवेवइति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |
हु॒वे वः॑ सू॒नुं सह॑सो॒ युवा᳚न॒मद्रो᳚घवाचं म॒तिभि॒र्यवि॑ष्ठम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

य इन्व॑ति॒ द्रवि॑णानि॒ प्रचे᳚ता वि॒श्ववा᳚राणि पुरु॒वारो᳚, अ॒ध्रुक् ||{1/7}{6.5.1}{6.1.5.1}{4.5.7.1}{41, 446, 4409}

त्वे वसू᳚नि पुर्वणीक होतर्दो॒षा वस्तो॒रेरि॑रे य॒ज्ञिया᳚सः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

क्षामे᳚व॒ विश्वा॒ भुव॑नानि॒ यस्मि॒न् त्सं सौभ॑गानि दधि॒रे पा᳚व॒के ||{2/7}{6.5.2}{6.1.5.2}{4.5.7.2}{42, 446, 4410}

त्वं वि॒क्षु प्र॒दिवः॑ सीद आ॒सु क्रत्वा᳚ र॒थीर॑भवो॒ वार्या᳚णाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अत॑ इनोषि विध॒ते चि॑कित्वो॒ व्या᳚नु॒षग्जा᳚तवेदो॒ वसू᳚नि ||{3/7}{6.5.3}{6.1.5.3}{4.5.7.3}{43, 446, 4411}

यो नः॒ सनु॑त्यो, अभि॒दास॑दग्ने॒ यो, अन्त॑रो मित्रमहो वनु॒ष्यात् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

तम॒जरे᳚भि॒र्वृष॑भि॒स्तव॒ स्वैस्तपा᳚ तपिष्ठ॒ तप॑सा॒ तप॑स्वान् ||{4/7}{6.5.4}{6.1.5.4}{4.5.7.4}{44, 446, 4412}

यस्ते᳚ य॒ज्ञेन॑ स॒मिधा॒ य उ॒क्थैर॒र्केभिः॑ सूनो सहसो॒ ददा᳚शत् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

स मर्त्ये᳚ष्वमृत॒ प्रचे᳚ता रा॒या द्यु॒म्नेन॒ श्रव॑सा॒ वि भा᳚ति ||{5/7}{6.5.5}{6.1.5.5}{4.5.7.5}{45, 446, 4413}

स तत्‌ कृ॑धीषि॒तस्तूय॑मग्ने॒ स्पृधो᳚ बाधस्व॒ सह॑सा॒ सह॑स्वान् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

यच्छ॒स्यसे॒ द्युभि॑र॒क्तो वचो᳚भि॒स्तज्जु॑षस्व जरि॒तुर्घोषि॒ मन्म॑ ||{6/7}{6.5.6}{6.1.5.6}{4.5.7.6}{46, 446, 4414}

अ॒श्याम॒ तं काम॑मग्ने॒ तवो॒ती, अ॒श्याम॑ र॒यिं र॑यिवः सु॒वीर᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अ॒श्याम॒ वाज॑म॒भि वा॒जय᳚न्तो॒ऽश्याम॑ द्यु॒म्नम॑जरा॒जरं᳚ ते ||{7/7}{6.5.7}{6.1.5.7}{4.5.7.7}{47, 446, 4415}

[6] प्रनव्यसेति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |
प्र नव्य॑सा॒ सह॑सः सू॒नुमच्छा᳚ य॒ज्ञेन॑ गा॒तुमव॑ इ॒च्छमा᳚नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

वृ॒श्चद्व॑नं कृ॒ष्णया᳚मं॒ रुश᳚न्तं वी॒ती होता᳚रं दि॒व्यं जि॑गाति ||{1/7}{6.6.1}{6.1.6.1}{4.5.8.1}{48, 447, 4416}

स श्वि॑ता॒नस्त᳚न्य॒तू रो᳚चन॒स्था, अ॒जरे᳚भि॒र्नान॑दद्भि॒र्यवि॑ष्ठः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

यः पा᳚व॒कः पु॑रु॒तमः॑ पु॒रूणि॑ पृ॒थून्य॒ग्निर॑नु॒याति॒ भर्व॑न् ||{2/7}{6.6.2}{6.1.6.2}{4.5.8.2}{49, 447, 4417}

वि ते॒ विष्व॒ग्वात॑जूतासो, अग्ने॒ भामा᳚सः शुचे॒ शुच॑यश्चरन्ति |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

तु॒वि॒म्र॒क्षासो᳚ दि॒व्या नव॑ग्वा॒ वना᳚ वनन्ति धृष॒ता रु॒जन्तः॑ ||{3/7}{6.6.3}{6.1.6.3}{4.5.8.3}{50, 447, 4418}

ये ते᳚ शु॒क्रासः॒ शुच॑यः शुचिष्मः॒, क्षां वप᳚न्ति॒ विषि॑तासो॒, अश्वाः᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अध॑ भ्र॒मस्त॑ उर्वि॒या वि भा᳚ति या॒तय॑मानो॒, अधि॒ सानु॒ पृश्नेः᳚ ||{4/7}{6.6.4}{6.1.6.4}{4.5.8.4}{51, 447, 4419}

अध॑ जि॒ह्वा पा᳚पतीति॒ प्र वृष्णो᳚ गोषु॒युधो॒ नाशनिः॑ सृजा॒ना |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

शूर॑स्येव॒ प्रसि॑तिः, क्षा॒तिर॒ग्नेर्दु॒र्वर्तु॑र्भी॒मो द॑यते॒ वना᳚नि ||{5/7}{6.6.5}{6.1.6.5}{4.5.8.5}{52, 447, 4420}

आ भा॒नुना॒ पार्थि॑वानि॒ ज्रयां᳚सि म॒हस्तो॒दस्य॑ धृष॒ता त॑तन्थ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

स बा᳚ध॒स्वाप॑ भ॒या सहो᳚भिः॒ स्पृधो᳚ वनु॒ष्यन्‌ व॒नुषो॒ नि जू᳚र्व ||{6/7}{6.6.6}{6.1.6.6}{4.5.8.6}{53, 447, 4421}

स चि॑त्र चि॒त्रं चि॒तय᳚न्तम॒स्मे चित्र॑क्षत्र चि॒त्रत॑मं वयो॒धाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

च॒न्द्रं र॒यिं पु॑रु॒वीरं᳚ बृ॒हन्तं॒ चन्द्र॑ च॒न्द्राभि॑र्गृण॒ते यु॑वस्व ||{7/7}{6.6.7}{6.1.6.7}{4.5.8.7}{54, 447, 4422}

[7] मूर्धाननिति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोवैश्वानरस्त्रिष्टुबंत्येद्वेजगत्यौ |
मू॒र्धानं᳚ दि॒वो, अ॑र॒तिं पृ॑थि॒व्या वै᳚श्वान॒रमृ॒त आ जा॒तम॒ग्निम् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

क॒विं स॒म्राज॒मति॑थिं॒ जना᳚नामा॒सन्ना पात्रं᳚ जनयन्त दे॒वाः ||{1/7}{6.7.1}{6.1.7.1}{4.5.9.1}{55, 448, 4423}

नाभिं᳚ य॒ज्ञानां॒ सद॑नं रयी॒णां म॒हामा᳚हा॒वम॒भि सं न॑वन्त |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

वै॒श्वा॒न॒रं र॒थ्य॑मध्व॒राणां᳚ य॒ज्ञस्य॑ के॒तुं ज॑नयन्त दे॒वाः ||{2/7}{6.7.2}{6.1.7.2}{4.5.9.2}{56, 448, 4424}

त्वद्‌ विप्रो᳚ जायते वा॒ज्य॑ग्ने॒ त्वद्‌ वी॒रासो᳚, अभिमाति॒षाहः॑ |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

वैश्वा᳚नर॒ त्वम॒स्मासु॑ धेहि॒ वसू᳚नि राजन्‌ त्स्पृह॒याय्या᳚णि ||{3/7}{6.7.3}{6.1.7.3}{4.5.9.3}{57, 448, 4425}

त्वां विश्वे᳚, अमृत॒ जाय॑मानं॒ शिशुं॒ न दे॒वा, अ॒भि सं न॑वन्ते |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

तव॒ क्रतु॑भिरमृत॒त्वमा᳚य॒न् वैश्वा᳚नर॒ यत्‌ पि॒त्रोरदी᳚देः ||{4/7}{6.7.4}{6.1.7.4}{4.5.9.4}{58, 448, 4426}

वैश्वा᳚नर॒ तव॒ तानि᳚ व्र॒तानि॑ म॒हान्य॑ग्ने॒ नकि॒रा द॑धर्ष |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

यज्जाय॑मानः पि॒त्रोरु॒पस्थे ऽवि᳚न्दः के॒तुं व॒युने॒ष्वह्ना᳚म् ||{5/7}{6.7.5}{6.1.7.5}{4.5.9.5}{59, 448, 4427}

वै॒श्वा॒न॒रस्य॒ विमि॑तानि॒ चक्ष॑सा॒ सानू᳚नि दि॒वो, अ॒मृत॑स्य के॒तुना᳚ |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

तस्येदु॒ विश्वा॒ भुव॒नाधि॑ मू॒र्धनि॑ व॒या, इ॑व रुरुहुः स॒प्त वि॒स्रुहः॑ ||{6/7}{6.7.6}{6.1.7.6}{4.5.9.6}{60, 448, 4428}

वि यो रजां॒स्यमि॑मीत सु॒क्रतु᳚र्वैश्वान॒रो वि दि॒वो रो᳚च॒ना क॒विः |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

परि॒ यो विश्वा॒ भुव॑नानि पप्र॒थे ऽद॑ब्धो गो॒पा, अ॒मृत॑स्य रक्षि॒ता ||{7/7}{6.7.7}{6.1.7.7}{4.5.9.7}{61, 448, 4429}

[8] पृक्षस्येति सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजोवैश्वानरोग्निर्जगत्यंत्यात्रिष्टुप् |
पृ॒क्षस्य॒ वृष्णो᳚, अरु॒षस्य॒ नू सहः॒ प्र नु वो᳚चं वि॒दथा᳚ जा॒तवे᳚दसः |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

वै॒श्वा॒न॒राय॑ म॒तिर्नव्य॑सी॒ शुचिः॒ सोम॑ इव पवते॒ चारु॑र॒ग्नये᳚ ||{1/7}{6.8.1}{6.1.8.1}{4.5.10.1}{62, 449, 4430}

स जाय॑मानः पर॒मे व्यो᳚मनि व्र॒तान्य॒ग्निर्व्र॑त॒पा, अ॑रक्षत |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

व्य१॑(अ॒)न्तरि॑क्षममिमीत सु॒क्रतु᳚र्वैश्वान॒रो म॑हि॒ना नाक॑मस्पृशत् ||{2/7}{6.8.2}{6.1.8.2}{4.5.10.2}{63, 449, 4431}

व्य॑स्तभ्ना॒द्‌ रोद॑सी मि॒त्रो, अद्भु॑तो ऽन्त॒र्वाव॑दकृणो॒ज्ज्योति॑षा॒ तमः॑ |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

वि चर्म॑णीव धि॒षणे᳚, अवर्तयद् वैश्वान॒रो विश्व॑मधत्त॒ वृष्ण्य᳚म् ||{3/7}{6.8.3}{6.1.8.3}{4.5.10.3}{64, 449, 4432}

अ॒पामु॒पस्थे᳚ महि॒षा, अ॑गृभ्णत॒ विशो॒ राजा᳚न॒मुप॑ तस्थुरृ॒ग्मिय᳚म् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

आ दू॒तो, अ॒ग्निम॑भरद्‌ वि॒वस्व॑तो वैश्वान॒रं मा᳚त॒रिश्वा᳚ परा॒वतः॑ ||{4/7}{6.8.4}{6.1.8.4}{4.5.10.4}{65, 449, 4433}

यु॒गेयु॑गे विद॒थ्यं᳚ गृ॒णद्भ्यो ऽग्ने᳚ र॒यिं य॒शसं᳚ धेहि॒ नव्य॑सीम् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

प॒व्येव॑ राजन्न॒घशं᳚समजर नी॒चा नि वृ॑श्च व॒निनं॒ न तेज॑सा ||{5/7}{6.8.5}{6.1.8.5}{4.5.10.5}{66, 449, 4434}

अ॒स्माक॑मग्ने म॒घव॑त्सु धार॒याऽना᳚मि क्ष॒त्रम॒जरं᳚ सु॒वीर्य᳚म् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

व॒यं ज॑येम श॒तिनं᳚ सह॒स्रिणं॒ वैश्वा᳚नर॒ वाज॑मग्ने॒ तवो॒तिभिः॑ ||{6/7}{6.8.6}{6.1.8.6}{4.5.10.6}{67, 449, 4435}

अद॑ब्धेभि॒स्तव॑ गो॒पाभि॑रिष्टे॒ ऽस्माकं᳚ पाहि त्रिषधस्थ सू॒रीन् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

रक्षा᳚ च नो द॒दुषां॒ शर्धो᳚, अग्ने॒ वैश्वा᳚नर॒ प्र च॑ तारीः॒ स्तवा᳚नः ||{7/7}{6.8.7}{6.1.8.7}{4.5.10.7}{68, 449, 4436}

[9] अहश्चकृष्णमिति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोवैश्वानरोग्निस्त्रिष्टुप् |
अह॑श्च कृ॒ष्णमह॒रर्जु॑नं च॒ वि व॑र्तेते॒ रज॑सी वे॒द्याभिः॑ |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

वै॒श्वा॒न॒रो जाय॑मानो॒ न राजा ऽवा᳚तिर॒ज्ज्योति॑षा॒ग्निस्तमां᳚सि ||{1/7}{6.9.1}{6.1.9.1}{4.5.11.1}{69, 450, 4437}

नाहं तन्तुं॒ न वि जा᳚ना॒म्योतुं॒ न यं वय᳚न्ति सम॒रेऽत॑मानाः |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

कस्य॑ स्वित्‌ पु॒त्र इ॒ह वक्त्वा᳚नि प॒रो व॑दा॒त्यव॑रेण पि॒त्रा ||{2/7}{6.9.2}{6.1.9.2}{4.5.11.2}{70, 450, 4438}

स इत्‌ तन्तुं॒ स वि जा᳚ना॒त्योतुं॒ स वक्त्वा᳚न्यृतु॒था व॑दाति |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

य ईं॒ चिके᳚तद॒मृत॑स्य गो॒पा, अ॒वश्चर᳚न्‌ प॒रो, अ॒न्येन॒ पश्य॑न् ||{3/7}{6.9.3}{6.1.9.3}{4.5.11.3}{71, 450, 4439}

अ॒यं होता᳚ प्रथ॒मः पश्य॑ते॒ममि॒दं ज्योति॑र॒मृतं॒ मर्त्ये᳚षु |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

अ॒यं स ज॑ज्ञे ध्रु॒व आ निष॒त्तो ऽम॑र्त्यस्त॒न्वा॒३॑(आ॒) वर्ध॑मानः ||{4/7}{6.9.4}{6.1.9.4}{4.5.11.4}{72, 450, 4440}

ध्रु॒वं ज्योति॒र्निहि॑तं दृ॒शये॒ कं मनो॒ जवि॑ष्ठं प॒तय॑त्स्व॒न्तः |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

विश्वे᳚ दे॒वाः सम॑नसः॒ सके᳚ता॒, एकं॒ क्रतु॑म॒भि वि य᳚न्ति सा॒धु ||{5/7}{6.9.5}{6.1.9.5}{4.5.11.5}{73, 450, 4441}

वि मे॒ कर्णा᳚ पतयतो॒ वि चक्षु॒र्वी॒३॑(ई॒)दं ज्योति॒र्हृद॑य॒ आहि॑तं॒ यत् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

वि मे॒ मन॑श्चरति दू॒रआ᳚धीः॒ किं स्वि॑द्‌ व॒क्ष्यामि॒ किमु॒ नू म॑निष्ये ||{6/7}{6.9.6}{6.1.9.6}{4.5.11.6}{74, 450, 4442}

विश्वे᳚ दे॒वा, अ॑नमस्यन्‌ भिया॒नास्त्वाम॑ग्ने॒ तम॑सि तस्थि॒वांस᳚म् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

वै॒श्वा॒न॒रो᳚ऽवतू॒तये॒ नो ऽम॑र्त्योऽवतू॒तये᳚ नः ||{7/7}{6.9.7}{6.1.9.7}{4.5.11.7}{75, 450, 4443}

[10] पुरोवइति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजग्निस्त्रिष्टुबंत्याद्विपदाविराट् |
पु॒रो वो᳚ म॒न्द्रं दि॒व्यं सु॑वृ॒क्तिं प्र॑य॒ति य॒ज्ञे, अ॒ग्निम॑ध्व॒रे द॑धिध्वम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

पु॒र उ॒क्थेभिः॒ स हि नो᳚ वि॒भावा᳚ स्वध्व॒रा क॑रति जा॒तवे᳚दाः ||{1/7}{6.10.1}{6.1.10.1}{4.5.12.1}{76, 451, 4444}

तमु॑ द्युमः पुर्वणीक होत॒रग्ने᳚, अ॒ग्निभि॒र्मनु॑ष इधा॒नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

स्तोमं॒ यम॑स्मै म॒मते᳚व शू॒षं घृ॒तं न शुचि॑ म॒तयः॑ पवन्ते ||{2/7}{6.10.2}{6.1.10.2}{4.5.12.2}{77, 451, 4445}

पी॒पाय॒ स श्रव॑सा॒ मर्त्ये᳚षु॒ यो, अ॒ग्नये᳚ द॒दाश॒ विप्र॑ उ॒क्थैः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

चि॒त्राभि॒स्तमू॒तिभि॑श्चि॒त्रशो᳚चिर्व्र॒जस्य॑ सा॒ता गोम॑तो दधाति ||{3/7}{6.10.3}{6.1.10.3}{4.5.12.3}{78, 451, 4446}

आ यः प॒प्रौ जाय॑मान उ॒र्वी दू᳚रे॒दृशा᳚ भा॒सा कृ॒ष्णाध्वा᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अध॑ ब॒हु चि॒त्‌ तम॒ ऊर्म्या᳚यास्ति॒रः शो॒चिषा᳚ ददृशे पाव॒कः ||{4/7}{6.10.4}{6.1.10.4}{4.5.12.4}{79, 451, 4447}

नू न॑श्चि॒त्रं पु॑रु॒वाजा᳚भिरू॒ती, अग्ने᳚ र॒यिं म॒घव॑द्भ्यश्च धेहि |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

ये राध॑सा॒ श्रव॑सा॒ चात्य॒न्यान् त्सु॒वीर्ये᳚भिश्चा॒भि सन्ति॒ जना॑न् ||{5/7}{6.10.5}{6.1.10.5}{4.5.12.5}{80, 451, 4448}

इ॒मं य॒ज्ञं चनो᳚ धा, अग्न उ॒शन् यं त॑ आसा॒नो जु॑हु॒ते ह॒विष्मा॑न् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

भ॒रद्वा᳚जेषु दधिषे सुवृ॒क्तिमवी॒र्वाज॑स्य॒ गध्य॑स्य सा॒तौ ||{6/7}{6.10.6}{6.1.10.6}{4.5.12.6}{81, 451, 4449}

वि द्वेषां᳚सीनु॒हि व॒र्धयेळां॒ मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{बार्हस्पत्यो भरद्वाजः | अग्निः | द्विपदाविराट्}{7/7}{6.10.7}{6.1.10.7}{4.5.12.7}{82, 451, 4450}
[11] यजस्वहोतरिति षडृचस्य सूक्तस्यबार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |
यज॑स्व होतरिषि॒तो यजी᳚या॒नग्ने॒ बाधो᳚ म॒रुतां॒ न प्रयु॑क्ति |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

आ नो᳚ मि॒त्रावरु॑णा॒ नास॑त्या॒ द्यावा᳚ हो॒त्राय॑ पृथि॒वी व॑वृत्याः ||{1/6}{6.11.1}{6.1.11.1}{4.5.13.1}{83, 452, 4451}

त्वं होता᳚ म॒न्द्रत॑मो नो, अ॒ध्रुग॒न्तर्दे॒वो वि॒दथा॒ मर्त्ये᳚षु |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

पा॒व॒कया᳚ जु॒ह्वा॒३॑(आ॒) वह्नि॑रा॒सा ऽग्ने॒ यज॑स्व त॒न्व१॑(अं॒) तव॒ स्वाम् ||{2/6}{6.11.2}{6.1.11.2}{4.5.13.2}{84, 452, 4452}

धन्या᳚ चि॒द्धि त्वे धि॒षणा॒ वष्टि॒ प्र दे॒वाञ्जन्म॑ गृण॒ते यज॑ध्यै |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

वेपि॑ष्ठो॒, अङ्गि॑रसां॒ यद्ध॒ विप्रो॒ मधु॑ च्छ॒न्दो भन॑ति रे॒भ इ॒ष्टौ ||{3/6}{6.11.3}{6.1.11.3}{4.5.13.3}{85, 452, 4453}

अदि॑द्युत॒त्‌ स्वपा᳚को वि॒भावा ऽग्ने॒ यज॑स्व॒ रोद॑सी, उरू॒ची |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

आ॒युं न यं नम॑सा रा॒तह᳚व्या, अ॒ञ्जन्ति॑ सुप्र॒यसं॒ पञ्च॒ जनाः᳚ ||{4/6}{6.11.4}{6.1.11.4}{4.5.13.4}{86, 452, 4454}

वृ॒ञ्जे ह॒ यन्नम॑सा ब॒र्हिर॒ग्नावया᳚मि॒ स्रुग्घृ॒तव॑ती सुवृ॒क्तिः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अम्य॑क्षि॒ सद्म॒ सद॑ने पृथि॒व्या, अश्रा᳚यि य॒ज्ञः सूर्ये॒ न चक्षुः॑ ||{5/6}{6.11.5}{6.1.11.5}{4.5.13.5}{87, 452, 4455}

द॒श॒स्या नः॑ पुर्वणीक होतर्दे॒वेभि॑रग्ने, अ॒ग्निभि॑रिधा॒नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

रा॒यः सू᳚नो सहसो वावसा॒ना, अति॑ स्रसेम वृ॒जनं॒ नांहः॑ ||{6/6}{6.11.6}{6.1.11.6}{4.5.13.6}{88, 452, 4456}

[12] मध्येहोतेति षडृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाजोऽग्निस्त्रिष्टुप् |
मध्ये॒ होता᳚ दुरो॒णे ब॒र्हिषो॒ राळ॒ग्निस्तो॒दस्य॒ रोद॑सी॒ यज॑ध्यै |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अ॒यं स सू॒नुः सह॑स ऋ॒तावा᳚ दू॒रात्‌ सूर्यो॒ न शो॒चिषा᳚ ततान ||{1/6}{6.12.1}{6.1.12.1}{4.5.14.1}{89, 453, 4457}

आ यस्मि॒न्‌ त्वे स्वपा᳚के यजत्र॒ यक्ष॑द्‌ राजन्‌ त्स॒र्वता᳚तेव॒ नु द्यौः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

त्रि॒ष॒धस्थ॑स्तत॒रुषो॒ न जंहो᳚ ह॒व्या म॒घानि॒ मानु॑षा॒ यज॑ध्यै ||{2/6}{6.12.2}{6.1.12.2}{4.5.14.2}{90, 453, 4458}

तेजि॑ष्ठा॒ यस्या᳚र॒तिर्व॑ने॒राट् तो॒दो, अध्व॒न्‌ न वृ॑धसा॒नो, अ॑द्यौत् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अ॒द्रो॒घो न द्र॑वि॒ता चे᳚तति॒ त्मन्नम॑र्त्योऽव॒र्त्र ओष॑धीषु ||{3/6}{6.12.3}{6.1.12.3}{4.5.14.3}{91, 453, 4459}

सास्माके᳚भिरे॒तरी॒ न शू॒षैर॒ग्निः ष्ट॑वे॒ दम॒ आ जा॒तवे᳚दाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

द्र्व᳚न्नो व॒न्वन्‌ क्रत्वा॒ नार्वो॒स्रः पि॒तेव॑ जार॒यायि॑ य॒ज्ञैः ||{4/6}{6.12.4}{6.1.12.4}{4.5.14.4}{92, 453, 4460}

अध॑ स्मास्य पनयन्ति॒ भासो॒ वृथा॒ यत्‌ तक्ष॑दनु॒याति॑ पृ॒थ्वीम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

स॒द्यो यः स्य॒न्द्रो विषि॑तो॒ धवी᳚यानृ॒णो न ता॒युरति॒ धन्वा᳚ राट् ||{5/6}{6.12.5}{6.1.12.5}{4.5.14.5}{93, 453, 4461}

स त्वं नो᳚, अर्व॒न्‌ निदा᳚या॒ विश्वे᳚भिरग्ने, अ॒ग्निभि॑रिधा॒नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

वेषि॑ रा॒यो वि या᳚सि दु॒च्छुना॒ मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{6/6}{6.12.6}{6.1.12.6}{4.5.14.6}{94, 453, 4462}

[13] त्वद्विश्वेति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |
त्वद्‌ विश्वा᳚ सुभग॒ सौभ॑गा॒न्यग्ने॒ वि य᳚न्ति व॒निनो॒ न व॒याः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

श्रु॒ष्टी र॒यिर्वाजो᳚ वृत्र॒तूर्ये᳚ दि॒वो वृ॒ष्टिरीड्यो᳚ री॒तिर॒पाम् ||{1/6}{6.13.1}{6.1.13.1}{4.5.15.1}{95, 454, 4463}

त्वं भगो᳚ न॒ आ हि रत्न॑मि॒षे परि॑ज्मेव क्षयसि द॒स्मव॑र्चाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अग्ने᳚ मि॒त्रो न बृ॑ह॒त ऋ॒तस्याऽसि॑ क्ष॒त्ता वा॒मस्य॑ देव॒ भूरेः᳚ ||{2/6}{6.13.2}{6.1.13.2}{4.5.15.2}{96, 454, 4464}

स सत्प॑तिः॒ शव॑सा हन्ति वृ॒त्रमग्ने॒ विप्रो॒ वि प॒णेर्भ॑र्ति॒ वाज᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

यं त्वं प्र॑चेत ऋतजात रा॒या स॒जोषा॒ नप्त्रा॒पां हि॒नोषि॑ ||{3/6}{6.13.3}{6.1.13.3}{4.5.15.3}{97, 454, 4465}

यस्ते᳚ सूनो सहसो गी॒र्भिरु॒क्थैर्य॒ज्ञैर्मर्तो॒ निशि॑तिं वे॒द्यान॑ट् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

विश्वं॒ स दे᳚व॒ प्रति॒ वार॑मग्ने ध॒त्ते धा॒न्य१॑(अं॒) पत्य॑ते वस॒व्यैः᳚ ||{4/6}{6.13.4}{6.1.13.4}{4.5.15.4}{98, 454, 4466}

ता नृभ्य॒ आ सौ᳚श्रव॒सा सु॒वीरा ऽग्ने᳚ सूनो सहसः पु॒ष्यसे᳚ धाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

कृ॒णोषि॒ यच्छव॑सा॒ भूरि॑ प॒श्वो वयो॒ वृका᳚या॒रये॒ जसु॑रये ||{5/6}{6.13.5}{6.1.13.5}{4.5.15.5}{99, 454, 4467}

व॒द्मा सू᳚नो सहसो नो॒ विहा᳚या॒, अग्ने᳚ तो॒कं तन॑यं वा॒जि नो᳚ दाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

विश्वा᳚भिर्गी॒र्भिर॒भि पू॒र्तिम॑श्यां॒ मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{6/6}{6.13.6}{6.1.13.6}{4.5.15.6}{100, 454, 4468}

[14] अग्नायइति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निरनुष्टुबन्त्याशक्वरी |
अ॒ग्ना यो मर्त्यो॒ दुवो॒ धियं᳚ जु॒जोष॑ धी॒तिभिः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

भस॒न्नु ष प्र पू॒र्व्य इषं᳚ वुरी॒ताव॑से ||{1/6}{6.14.1}{6.1.14.1}{4.5.16.1}{101, 455, 4469}

अ॒ग्निरिद्धि प्रचे᳚ता, अ॒ग्निर्वे॒धस्त॑म॒ ऋषिः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

अ॒ग्निं होता᳚रमीळते य॒ज्ञेषु॒ मनु॑षो॒ विशः॑ ||{2/6}{6.14.2}{6.1.14.2}{4.5.16.2}{102, 455, 4470}

नाना॒ ह्य१॑(अ॒)ग्नेऽव॑से॒ स्पर्ध᳚न्ते॒ रायो᳚, अ॒र्यः |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

तूर्व᳚न्तो॒ दस्यु॑मा॒यवो᳚ व्र॒तैः सीक्ष᳚न्तो, अव्र॒तम् ||{3/6}{6.14.3}{6.1.14.3}{4.5.16.3}{103, 455, 4471}

अ॒ग्निर॒प्सामृ॑ती॒षहं᳚ वी॒रं द॑दाति॒ सत्प॑तिम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

यस्य॒ त्रस᳚न्ति॒ शव॑सः सं॒चक्षि॒ शत्र॑वो भि॒या ||{4/6}{6.14.4}{6.1.14.4}{4.5.16.4}{104, 455, 4472}

अ॒ग्निर्हि वि॒द्मना᳚ नि॒दो दे॒वो मर्त॑मुरु॒ष्यति॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

स॒हावा॒ यस्यावृ॑तो र॒यिर्वाजे॒ष्ववृ॑तः ||{5/6}{6.14.5}{6.1.14.5}{4.5.16.5}{105, 455, 4473}

अच्छा᳚ नो मित्रमहो देव दे॒वानग्ने॒ वोचः॑ सुम॒तिं रोद॑स्योः |{बार्हस्पत्यो भरद्वाजः | अग्निः | शक्वरी}

वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄन् द्वि॒षो, अंहां᳚सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ||{6/6}{6.14.6}{6.1.14.6}{4.5.16.6}{106, 455, 4474}

[15] इममूष्वित्येकोनविंशत्यृचस्य सूक्तस्यांगिरसोवीतहव्यो (भरद्वाजोवा) ग्निर्जगती तृतीयापंचदृश्यौशक्वर्यौ षष्ट्यतिशक्वरी सप्तदश्यनुष्टुप् अष्टादशीबृहती दशम्याद्याः पंचषोडश्येकोनविंशीचत्रिष्टुभः |
इ॒ममू॒ षु वो॒, अति॑थिमुष॒र्बुधं॒ विश्वा᳚सां वि॒शां पति॑मृञ्जसे गि॒रा |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती}

वेतीद्दि॒वो ज॒नुषा॒ कच्चि॒दा शुचि॒र्ज्योक्चि॑दत्ति॒ गर्भो॒ यदच्यु॑तम् ||{1/19}{6.15.1}{6.1.15.1}{4.5.17.1}{107, 456, 4475}

मि॒त्रं न यं सुधि॑तं॒ भृग॑वो द॒धुर्वन॒स्पता॒वीड्य॑मू॒र्ध्वशो᳚चिषम् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती}

स त्वं सुप्री᳚तो वी॒तह᳚व्ये, अद्भुत॒ प्रश॑स्तिभिर्महयसे दि॒वेदि॑वे ||{2/19}{6.15.2}{6.1.15.2}{4.5.17.2}{108, 456, 4476}

स त्वं दक्ष॑स्यावृ॒को वृ॒धो भू᳚र॒र्यः पर॒स्यान्त॑रस्य॒ तरु॑षः |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | शक्वरी}

रा॒यः सू᳚नो सहसो॒ मर्त्ये॒ष्वा छ॒र्दिर्य॑च्छ वी॒तह᳚व्याय स॒प्रथो᳚ भ॒रद्वा᳚जाय स॒प्रथः॑ ||{3/19}{6.15.3}{6.1.15.3}{4.5.17.3}{109, 456, 4477}

द्यु॒ता॒नं वो॒, अति॑थिं॒ स्व᳚र्णरम॒ग्निं होता᳚रं॒ मनु॑षः स्वध्व॒रम् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती}

विप्रं॒ न द्यु॒क्षव॑चसं सुवृ॒क्तिभि᳚र्हव्य॒वाह॑मर॒तिं दे॒वमृ᳚ञ्जसे ||{4/19}{6.15.4}{6.1.15.4}{4.5.17.4}{110, 456, 4478}

पा॒व॒कया॒ यश्चि॒तय᳚न्त्या कृ॒पा क्षाम᳚न्‌ रुरु॒च उ॒षसो॒ न भा॒नुना᳚ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती}

तूर्व॒न्न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे न त॑तृषा॒णो, अ॒जरः॑ ||{5/19}{6.15.5}{6.1.15.5}{4.5.17.5}{111, 456, 4479}

अ॒ग्निम॑ग्निं वः स॒मिधा᳚ दुवस्यत प्रि॒यम्प्रि॑यं वो॒, अति॑थिं गृणी॒षणि॑ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | अतिशक्वरी}

उप॑ वो गी॒र्भिर॒मृतं᳚ विवासत दे॒वो दे॒वेषु॒ वन॑ते॒ हि वार्यं᳚ दे॒वो दे॒वेषु॒ वन॑ते॒ हि नो॒ दुवः॑ ||{6/19}{6.15.6}{6.1.15.6}{4.5.18.1}{112, 456, 4480}

समि॑द्धम॒ग्निं स॒मिधा᳚ गि॒रा गृ॑णे॒ शुचिं᳚ पाव॒कं पु॒रो, अ॑ध्व॒रे ध्रु॒वम् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती}

विप्रं॒ होता᳚रं पुरु॒वार॑म॒द्रुहं᳚ क॒विं सु॒म्नैरी᳚महे जा॒तवे᳚दसम् ||{7/19}{6.15.7}{6.1.15.7}{4.5.18.2}{113, 456, 4481}

त्वां दू॒तम॑ग्ने, अ॒मृतं᳚ यु॒गेयु॑गे हव्य॒वाहं᳚ दधिरे पा॒युमीड्य᳚म् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती}

दे॒वास॑श्च॒ मर्ता᳚सश्च॒ जागृ॑विं वि॒भुं वि॒श्पतिं॒ नम॑सा॒ नि षे᳚दिरे ||{8/19}{6.15.8}{6.1.15.8}{4.5.18.3}{114, 456, 4482}

वि॒भूष᳚न्नग्न उ॒भयाँ॒, अनु᳚ व्र॒ता दू॒तो दे॒वानां॒ रज॑सी॒ समी᳚यसे |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती}

यत्ते᳚ धी॒तिं सु॑म॒तिमा᳚वृणी॒महेऽध॑ स्मा नस्त्रि॒वरू᳚थः शि॒वो भ॑व ||{9/19}{6.15.9}{6.1.15.9}{4.5.18.4}{115, 456, 4483}

तं सु॒प्रती᳚कं सु॒दृशं॒ स्वञ्च॒मवि॑द्वांसो वि॒दुष्ट॑रं सपेम |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्}

स य॑क्ष॒द्विश्वा᳚ व॒युना᳚नि वि॒द्वान्‌ प्र ह॒व्यम॒ग्निर॒मृते᳚षु वोचत् ||{10/19}{6.15.10}{6.1.15.10}{4.5.18.5}{116, 456, 4484}

तम॑ग्ने पास्यु॒त तं पि॑पर्षि॒ यस्त॒ आन॑ट् क॒वये᳚ शूर धी॒तिम् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्}

य॒ज्ञस्य॑ वा॒ निशि॑तिं॒ वोदि॑तिं वा॒ तमित्‌ पृ॑णक्षि॒ शव॑सो॒त रा॒या ||{11/19}{6.15.11}{6.1.15.11}{4.5.19.1}{117, 456, 4485}

त्वम॑ग्ने वनुष्य॒तो नि पा᳚हि॒ त्वमु॑ नः सहसावन्नव॒द्यात् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्}

सं त्वा᳚ ध्वस्म॒न्वद॒भ्ये᳚तु॒ पाथः॒ सं र॒यिः स्पृ॑ह॒याय्यः॑ सह॒स्री ||{12/19}{6.15.12}{6.1.15.12}{4.5.19.2}{118, 456, 4486}

अ॒ग्निर्होता᳚ गृ॒हप॑तिः॒ स राजा॒ विश्वा᳚ वेद॒ जनि॑मा जा॒तवे᳚दाः |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्}

दे॒वाना᳚मु॒त यो मर्त्या᳚नां॒ यजि॑ष्ठः॒ स प्र य॑जतामृ॒तावा᳚ ||{13/19}{6.15.13}{6.1.15.13}{4.5.19.3}{119, 456, 4487}

अग्ने॒ यद॒द्य वि॒शो, अ॑ध्वरस्य होतः॒ पाव॑कशोचे॒ वेष्ट्वं हि यज्वा᳚ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्}

ऋ॒ता य॑जासि महि॒ना वि यद्भूर्ह॒व्या व॑ह यविष्ठ॒ या ते᳚, अ॒द्य ||{14/19}{6.15.14}{6.1.15.14}{4.5.19.4}{120, 456, 4488}

अ॒भि प्रयां᳚सि॒ सुधि॑तानि॒ हि ख्यो नि त्वा᳚ दधीत॒ रोद॑सी॒ यज॑ध्यै |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | शक्वरी}

अवा᳚ नो मघव॒न्वाज॑साता॒वग्ने॒ विश्वा᳚नि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ||{15/19}{6.15.15}{6.1.15.15}{4.5.19.5}{121, 456, 4489}

अग्ने॒ विश्वे᳚भिः स्वनीक दे॒वैरूर्णा᳚वन्तं प्रथ॒मः सी᳚द॒ योनि᳚म् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्}

कु॒ला॒यिनं᳚ घृ॒तव᳚न्तं सवि॒त्रे य॒ज्ञं न॑य॒ यज॑मानाय सा॒धु ||{16/19}{6.15.16}{6.1.15.16}{4.5.20.1}{122, 456, 4490}

इ॒ममु॒ त्यम॑थर्व॒वद॒ग्निं म᳚न्थन्ति वे॒धसः॑ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | अनुष्टुप्}

यम᳚ङ्कू॒यन्त॒मान॑य॒न्नमू᳚रं श्या॒व्या᳚भ्यः ||{17/19}{6.15.17}{6.1.15.17}{4.5.20.2}{123, 456, 4491}

जनि॑ष्वा दे॒ववी᳚तये स॒र्वता᳚ता स्व॒स्तये᳚ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | बृहती}

आ दे॒वान्‌ व॑क्ष्य॒मृताँ᳚, ऋता॒वृधो᳚ य॒ज्ञं दे॒वेषु॑ पिस्पृशः ||{18/19}{6.15.18}{6.1.15.18}{4.5.20.3}{124, 456, 4492}

व॒यमु॑ त्वा गृहपते जनाना॒मग्ने॒, अक᳚र्म स॒मिधा᳚ बृ॒हन्त᳚म् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्}

अ॒स्थू॒रि नो॒ गार्ह॑पत्यानि सन्तु ति॒ग्मेन॑ न॒स्तेज॑सा॒ सं शि॑शाधि ||{19/19}{6.15.19}{6.1.15.19}{4.5.20.4}{125, 456, 4493}

[16] त्वमग्नेयज्ञानामित्यष्टाचत्वारिंशदृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोग्निर्गायत्री आद्याषष्ठ्यौवर्धमाने सप्तविंश्यनुष्टुप् षट्‌चत्वारिंशीत्रिष्टुप् अंत्येद्वेअनुष्टुभौ |
त्वम॑ग्ने य॒ज्ञानां॒ होता॒ विश्वे᳚षां हि॒तः |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री}

दे॒वेभि॒र्मानु॑षे॒ जने᳚ ||{1/48}{6.16.1}{6.2.1.1}{4.5.21.1}{126, 457, 4494}

स नो᳚ म॒न्द्राभि॑रध्व॒रे जि॒ह्वाभि᳚र्यजा म॒हः |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री}

आ दे॒वान्‌ व॑क्षि॒ यक्षि॑ च ||{2/48}{6.16.2}{6.2.1.2}{4.5.21.2}{127, 457, 4495}

वेत्था॒ हि वे᳚धो॒, अध्व॑नः प॒थश्च॑ दे॒वाञ्ज॑सा |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री}

अग्ने᳚ य॒ज्ञेषु॑ सुक्रतो ||{3/48}{6.16.3}{6.2.1.3}{4.5.21.3}{128, 457, 4496}

त्वामी᳚ळे॒, अध॑ द्वि॒ता भ॑र॒तो वा॒जिभिः॑ शु॒नम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री}

ई॒जे य॒ज्ञेषु॑ य॒ज्ञिय᳚म् ||{4/48}{6.16.4}{6.2.1.4}{4.5.21.4}{129, 457, 4497}

त्वमि॒मा वार्या᳚ पु॒रु दिवो᳚दासाय सुन्व॒ते |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री}

भ॒रद्वा᳚जाय दा॒शुषे᳚ ||{5/48}{6.16.5}{6.2.1.5}{4.5.21.5}{130, 457, 4498}

त्वं दू॒तो, अम॑र्त्य॒ आ व॑हा॒ दैव्यं॒ जन᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री}

शृ॒ण्वन्‌ विप्र॑स्य सुष्टु॒तिम् ||{6/48}{6.16.6}{6.2.1.6}{4.5.22.1}{131, 457, 4499}

त्वाम॑ग्ने स्वा॒ध्यो॒३॑(ओ॒) मर्ता᳚सो दे॒ववी᳚तये |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

य॒ज्ञेषु॑ दे॒वमी᳚ळते ||{7/48}{6.16.7}{6.2.1.7}{4.5.22.2}{132, 457, 4500}

तव॒ प्र य॑क्षि सं॒दृश॑मु॒त क्रतुं᳚ सु॒दान॑वः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

विश्वे᳚ जुषन्त का॒मिनः॑ ||{8/48}{6.16.8}{6.2.1.8}{4.5.22.3}{133, 457, 4501}

त्वं होता॒ मनु᳚र्हितो॒ वह्नि॑रा॒सा वि॒दुष्ट॑रः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अग्ने॒ यक्षि॑ दि॒वो विशः॑ ||{9/48}{6.16.9}{6.2.1.9}{4.5.22.4}{134, 457, 4502}

अग्न॒ आ या᳚हि वी॒तये᳚ गृणा॒नो ह॒व्यदा᳚तये |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

नि होता᳚ सत्सि ब॒र्हिषि॑ ||{10/48}{6.16.10}{6.2.1.10}{4.5.22.5}{135, 457, 4503}

तं त्वा᳚ स॒मिद्भि॑रङ्गिरो घृ॒तेन॑ वर्धयामसि |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

बृ॒हच्छो᳚चा यविष्ठ्य ||{11/48}{6.16.11}{6.2.1.11}{4.5.23.1}{136, 457, 4504}

स नः॑ पृ॒थु श्र॒वाय्य॒मच्छा᳚ देव विवाससि |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

बृ॒हद॑ग्ने सु॒वीर्य᳚म् ||{12/48}{6.16.12}{6.2.1.12}{4.5.23.2}{137, 457, 4505}

त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ᳚र्वा॒ निर॑मन्थत |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ||{13/48}{6.16.13}{6.2.1.13}{4.5.23.3}{138, 457, 4506}

तमु॑ त्वा द॒ध्यङ्ङृषिः॑ पु॒त्र ई᳚धे॒, अथ᳚र्वणः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

वृ॒त्र॒हणं᳚ पुरंद॒रम् ||{14/48}{6.16.14}{6.2.1.14}{4.5.23.4}{139, 457, 4507}

तमु॑ त्वा पा॒थ्यो वृषा॒ समी᳚धे दस्यु॒हन्त॑मम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

ध॒नं॒ज॒यं रणे᳚रणे ||{15/48}{6.16.15}{6.2.1.15}{4.5.23.5}{140, 457, 4508}

एह्यू॒ षु ब्रवा᳚णि॒ तेऽग्न॑ इ॒त्थेत॑रा॒ गिरः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

ए॒भिर्व॑र्धास॒ इन्दु॑भिः ||{16/48}{6.16.16}{6.2.1.16}{4.5.24.1}{141, 457, 4509}

यत्र॒ क्व॑ च ते॒ मनो॒ दक्षं᳚ दधस॒ उत्त॑रम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

तत्रा॒ सदः॑ कृणवसे ||{17/48}{6.16.17}{6.2.1.17}{4.5.24.2}{142, 457, 4510}

न॒हि ते᳚ पू॒र्तम॑क्षि॒पद्भुव᳚न्नेमानां वसो |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अथा॒ दुवो᳚ वनवसे ||{18/48}{6.16.18}{6.2.1.18}{4.5.24.3}{143, 457, 4511}

आग्निर॑गामि॒ भार॑तो वृत्र॒हा पु॑रु॒चेत॑नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

दिवो᳚दासस्य॒ सत्प॑तिः ||{19/48}{6.16.19}{6.2.1.19}{4.5.24.4}{144, 457, 4512}

स हि विश्वाति॒ पार्थि॑वा र॒यिं दाश᳚न्महित्व॒ना |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

व॒न्वन्नवा᳚तो॒, अस्तृ॑तः ||{20/48}{6.16.20}{6.2.1.20}{4.5.24.5}{145, 457, 4513}

स प्र॑त्न॒वन्नवी᳚य॒साग्ने᳚ द्यु॒म्नेन॑ सं॒यता᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

बृ॒हत्त॑तन्थ भा॒नुना᳚ ||{21/48}{6.16.21}{6.2.1.21}{4.5.25.1}{146, 457, 4514}

प्र वः॑ सखायो, अ॒ग्नये॒ स्तोमं᳚ य॒ज्ञं च॑ धृष्णु॒या |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अर्च॒ गाय॑ च वे॒धसे᳚ ||{22/48}{6.16.22}{6.2.1.22}{4.5.25.2}{147, 457, 4515}

स हि यो मानु॑षा यु॒गा सीद॒द्धोता᳚ क॒विक्र॑तुः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

दू॒तश्च॑ हव्य॒वाह॑नः ||{23/48}{6.16.23}{6.2.1.23}{4.5.25.3}{148, 457, 4516}

ता राजा᳚ना॒ शुचि᳚व्रतादि॒त्यान्मारु॑तं ग॒णम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

वसो॒ यक्षी॒ह रोद॑सी ||{24/48}{6.16.24}{6.2.1.24}{4.5.25.4}{149, 457, 4517}

वस्वी᳚ ते, अग्ने॒ संदृ॑ष्टिरिषय॒ते मर्त्या᳚य |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

ऊर्जो᳚ नपाद॒मृत॑स्य ||{25/48}{6.16.25}{6.2.1.25}{4.5.25.5}{150, 457, 4518}

क्रत्वा॒ दा, अ॑स्तु॒ श्रेष्ठो॒ऽद्य त्वा᳚ व॒न्वन्‌ त्सु॒रेक्णाः᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

मर्त॑ आनाश सुवृ॒क्तिम् ||{26/48}{6.16.26}{6.2.1.26}{4.5.26.1}{151, 457, 4519}

ते ते᳚, अग्ने॒ त्वोता᳚, इ॒षय᳚न्तो॒ विश्व॒मायुः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

तर᳚न्तो, अ॒र्यो, अरा᳚तीर्व॒न्वन्तो᳚, अ॒र्यो, अरा᳚तीः ||{27/48}{6.16.27}{6.2.1.27}{4.5.26.2}{152, 457, 4520}

अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यास॒द्विश्वं॒ न्य१॑(अ॒)त्रिण᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अ॒ग्निर्नो᳚ वनते र॒यिम् ||{28/48}{6.16.28}{6.2.1.28}{4.5.26.3}{153, 457, 4521}

सु॒वीरं᳚ र॒यिमा भ॑र॒ जात॑वेदो॒ विच॑र्षणे |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

ज॒हि रक्षां᳚सि सुक्रतो ||{29/48}{6.16.29}{6.2.1.29}{4.5.26.4}{154, 457, 4522}

त्वं नः॑ पा॒ह्यंह॑सो॒ जात॑वेदो, अघाय॒तः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

रक्षा᳚ णो ब्रह्मणस्कवे ||{30/48}{6.16.30}{6.2.1.30}{4.5.26.5}{155, 457, 4523}

यो नो᳚, अग्ने दु॒रेव॒ आ मर्तो᳚ व॒धाय॒ दाश॑ति |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

तस्मा᳚न्नः पा॒ह्यंह॑सः ||{31/48}{6.16.31}{6.2.1.31}{4.5.27.1}{156, 457, 4524}

त्वं तं दे᳚व जि॒ह्वया॒ परि॑ बाधस्व दु॒ष्कृत᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

मर्तो॒ यो नो॒ जिघां᳚सति ||{32/48}{6.16.32}{6.2.1.32}{4.5.27.2}{157, 457, 4525}

भ॒रद्वा᳚जाय स॒प्रथः॒ शर्म॑ यच्छ सहन्त्य |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अग्ने॒ वरे᳚ण्यं॒ वसु॑ ||{33/48}{6.16.33}{6.2.1.33}{4.5.27.3}{158, 457, 4526}

अ॒ग्निर्वृ॒त्राणि॑ जङ्घनद्द्रविण॒स्युर्वि॑प॒न्यया᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

समि॑द्धः शु॒क्र आहु॑तः ||{34/48}{6.16.34}{6.2.1.34}{4.5.27.4}{159, 457, 4527}

गर्भे᳚ मा॒तुः पि॒तुष्पि॒ता वि॑दिद्युता॒नो, अ॒क्षरे᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

सीद᳚न्नृ॒तस्य॒ योनि॒मा ||{35/48}{6.16.35}{6.2.1.35}{4.5.27.5}{160, 457, 4528}

ब्रह्म॑ प्र॒जाव॒दा भ॑र॒ जात॑वेदो॒ विच॑र्षणे |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अग्ने॒ यद्दी॒दय॑द्दि॒वि ||{36/48}{6.16.36}{6.2.1.36}{4.5.28.1}{161, 457, 4529}

उप॑ त्वा र॒ण्वसं᳚दृशं॒ प्रय॑स्वन्तः सहस्कृत |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अग्ने᳚ ससृ॒ज्महे॒ गिरः॑ ||{37/48}{6.16.37}{6.2.1.37}{4.5.28.2}{162, 457, 4530}

उप॑ च्छा॒यामि॑व॒ घृणे॒रग᳚न्म॒ शर्म॑ ते व॒यम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अग्ने॒ हिर᳚ण्यसंदृशः ||{38/48}{6.16.38}{6.2.1.38}{4.5.28.3}{163, 457, 4531}

य उ॒ग्र इ॑व शर्य॒हा ति॒ग्मशृ᳚ङ्गो॒ न वंस॑गः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अग्ने॒ पुरो᳚ रु॒रोजि॑थ ||{39/48}{6.16.39}{6.2.1.39}{4.5.28.4}{164, 457, 4532}

आ यं हस्ते॒ न खा॒दिनं॒ शिशुं᳚ जा॒तं न बिभ्र॑ति |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

वि॒शाम॒ग्निं स्व॑ध्व॒रम् ||{40/48}{6.16.40}{6.2.1.40}{4.5.28.5}{165, 457, 4533}

प्र दे॒वं दे॒ववी᳚तये॒ भर॑ता वसु॒वित्त॑मम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

आ स्वे योनौ॒ नि षी᳚दतु ||{41/48}{6.16.41}{6.2.1.41}{4.5.29.1}{166, 457, 4534}

आ जा॒तं जा॒तवे᳚दसि प्रि॒यं शि॑शी॒ताति॑थिम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

स्यो॒न आ गृ॒हप॑तिम् ||{42/48}{6.16.42}{6.2.1.42}{4.5.29.2}{167, 457, 4535}

अग्ने᳚ यु॒क्ष्वा हि ये तवाश्वा᳚सो देव सा॒धवः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अरं॒ वह᳚न्ति म॒न्यवे᳚ ||{43/48}{6.16.43}{6.2.1.43}{4.5.29.3}{168, 457, 4536}

अच्छा᳚ नो या॒ह्या व॑हा॒भि प्रयां᳚सि वी॒तये᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

आ दे॒वान्‌ त्सोम॑पीतये ||{44/48}{6.16.44}{6.2.1.44}{4.5.29.4}{169, 457, 4537}

उद॑ग्ने भारत द्यु॒मदज॑स्रेण॒ दवि॑द्युतत् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

शोचा॒ वि भा᳚ह्यजर ||{45/48}{6.16.45}{6.2.1.45}{4.5.29.5}{170, 457, 4538}

वी॒ती यो दे॒वं मर्तो᳚ दुव॒स्येद॒ग्निमी᳚ळीताध्व॒रे ह॒विष्मा॑न् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

होता᳚रं सत्य॒यजं॒ रोद॑स्योरुत्ता॒नह॑स्तो॒ नम॒सा वि॑वासेत् ||{46/48}{6.16.46}{6.2.1.46}{4.5.30.1}{171, 457, 4539}

आ ते᳚, अग्न ऋ॒चा ह॒विर्हृ॒दा त॒ष्टं भ॑रामसि |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

ते ते᳚ भवन्तू॒क्षण॑ ऋष॒भासो᳚ व॒शा, उ॒त ||{47/48}{6.16.47}{6.2.1.47}{4.5.30.2}{172, 457, 4540}

अ॒ग्निं दे॒वासो᳚, अग्रि॒यमि॒न्धते᳚ वृत्र॒हन्त॑मम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

येना॒ वसू॒न्याभृ॑ता तृ॒ळ्हा रक्षां᳚सि वा॒जिना᳚ ||{48/48}{6.16.48}{6.2.1.48}{4.5.30.3}{173, 457, 4541}

[17] पिबासोममिति पंचदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजइंद्रत्रिष्टुंबंत्याद्विपदात्रिष्टुप् |
पिबा॒ सोम॑म॒भि यमु॑ग्र॒ तर्द॑ ऊ॒र्वं गव्यं॒ महि॑ गृणा॒न इ᳚न्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वि यो धृ॑ष्णो॒ वधि॑षो वज्रहस्त॒ विश्वा᳚ वृ॒त्रम॑मि॒त्रिया॒ शवो᳚भिः ||{1/15}{6.17.1}{6.2.2.1}{4.6.1.1}{174, 458, 4542}

स ईं᳚ पाहि॒ य ऋ॑जी॒षी तरु॑त्रो॒ यः शिप्र॑वान्‌ वृष॒भो यो म॑ती॒नाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यो गो᳚त्र॒भिद्व॑ज्र॒भृद्यो ह॑रि॒ष्ठाः स इ᳚न्द्र चि॒त्राँ, अ॒भि तृ᳚न्धि॒ वाजा॑न् ||{2/15}{6.17.2}{6.2.2.2}{4.6.1.2}{175, 458, 4543}

ए॒वा पा᳚हि प्र॒त्नथा॒ मन्द॑तु त्वा श्रु॒धि ब्रह्म॑ वावृ॒धस्वो॒त गी॒र्भिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

आ॒विः सूर्यं᳚ कृणु॒हि पी᳚पि॒हीषो᳚ ज॒हि शत्रूँ᳚र॒भि गा, इ᳚न्द्र तृन्धि ||{3/15}{6.17.3}{6.2.2.3}{4.6.1.3}{176, 458, 4544}

ते त्वा॒ मदा᳚ बृ॒हदि᳚न्द्र स्वधाव इ॒मे पी॒ता, उ॑क्षयन्त द्यु॒मन्त᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

म॒हामनू᳚नं त॒वसं॒ विभू᳚तिं मत्स॒रासो᳚ जर्हृषन्त प्र॒साह᳚म् ||{4/15}{6.17.4}{6.2.2.4}{4.6.1.4}{177, 458, 4545}

येभिः॒ सूर्य॑मु॒षसं᳚ मन्दसा॒नोऽवा᳚स॒योऽप॑ दृ॒ळ्हानि॒ दर्द्र॑त् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

म॒हामद्रिं॒ परि॒ गा, इ᳚न्द्र॒ सन्तं᳚ नु॒त्था, अच्यु॑तं॒ सद॑स॒स्परि॒ स्वात् ||{5/15}{6.17.5}{6.2.2.5}{4.6.1.5}{178, 458, 4546}

तव॒ क्रत्वा॒ तव॒ तद्दं॒सना᳚भिरा॒मासु॑ प॒क्वं शच्या॒ नि दी᳚धः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

और्णो॒र्दुर॑ उ॒स्रिया᳚भ्यो॒ वि दृ॒ळ्होदू॒र्वाद्गा, अ॑सृजो॒, अङ्गि॑रस्वान् ||{6/15}{6.17.6}{6.2.2.6}{4.6.2.1}{179, 458, 4547}

प॒प्राथ॒ क्षां महि॒ दंसो॒ व्यु१॑(उ॒)र्वीमुप॒ द्यामृ॒ष्वो बृ॒हदि᳚न्द्र स्तभायः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अधा᳚रयो॒ रोद॑सी दे॒वपु॑त्रे प्र॒त्ने मा॒तरा᳚ य॒ह्वी, ऋ॒तस्य॑ ||{7/15}{6.17.7}{6.2.2.7}{4.6.2.2}{180, 458, 4548}

अध॑ त्वा॒ विश्वे᳚ पु॒र इ᳚न्द्र दे॒वा, एकं᳚ त॒वसं᳚ दधिरे॒ भरा᳚य |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अदे᳚वो॒ यद॒भ्यौहि॑ष्ट दे॒वान्‌ त्स्व॑र्षाता वृणत॒ इन्द्र॒मत्र॑ ||{8/15}{6.17.8}{6.2.2.8}{4.6.2.3}{181, 458, 4549}

अध॒ द्यौश्चि॑त्ते॒, अप॒ सा नु वज्रा᳚द्द्वि॒तान॑मद्भि॒यसा॒ स्वस्य॑ म॒न्योः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अहिं॒ यदिन्द्रो᳚, अ॒भ्योह॑सानं॒ नि चि॑द्वि॒श्वायुः॑ श॒यथे᳚ ज॒घान॑ ||{9/15}{6.17.9}{6.2.2.9}{4.6.2.4}{182, 458, 4550}

अध॒ त्वष्टा᳚ ते म॒ह उ॑ग्र॒ वज्रं᳚ स॒हस्र॑भृष्टिं ववृतच्छ॒ताश्रि᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

निका᳚मम॒रम॑णसं॒ येन॒ नव᳚न्त॒महिं॒ सं पि॑णगृजीषिन् ||{10/15}{6.17.10}{6.2.2.10}{4.6.2.5}{183, 458, 4551}

वर्धा॒न्यं विश्वे᳚ म॒रुतः॑ स॒जोषाः॒ पच॑च्छ॒तं म॑हि॒षाँ, इ᳚न्द्र॒ तुभ्य᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

पू॒षा विष्णु॒स्त्रीणि॒ सरां᳚सि धावन्‌ वृत्र॒हणं᳚ मदि॒रमं॒शुम॑स्मै ||{11/15}{6.17.11}{6.2.2.11}{4.6.3.1}{184, 458, 4552}

आ क्षोदो॒ महि॑ वृ॒तं न॒दीनां॒ परि॑ष्ठितमसृज ऊ॒र्मिम॒पाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तासा॒मनु॑ प्र॒वत॑ इन्द्र॒ पन्थां॒ प्रार्द॑यो॒ नीची᳚र॒पसः॑ समु॒द्रम् ||{12/15}{6.17.12}{6.2.2.12}{4.6.3.2}{185, 458, 4553}

ए॒वा ता विश्वा᳚ चकृ॒वांस॒मिन्द्रं᳚ म॒हामु॒ग्रम॑जु॒र्यं स॑हो॒दाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

सु॒वीरं᳚ त्वा स्वायु॒धं सु॒वज्र॒मा ब्रह्म॒ नव्य॒मव॑से ववृत्यात् ||{13/15}{6.17.13}{6.2.2.13}{4.6.3.3}{186, 458, 4554}

स नो॒ वाजा᳚य॒ श्रव॑स इ॒षे च॑ रा॒ये धे᳚हि द्यु॒मत॑ इन्द्र॒ विप्रा॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

भ॒रद्वा᳚जे नृ॒वत॑ इन्द्र सू॒रीन्दि॒वि च॑ स्मैधि॒ पार्ये᳚ न इन्द्र ||{14/15}{6.17.14}{6.2.2.14}{4.6.3.4}{187, 458, 4555}

अ॒या वाजं᳚ दे॒वहि॑तं सनेम॒ मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{बार्हस्पत्यो भरद्वाजः | इन्द्रः | द्विपदात्रिष्टुप्}{15/15}{6.17.15}{6.2.2.15}{4.6.3.5}{188, 458, 4556}
[18] तमुष्नुहीति पंचदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |
तमु॑ ष्टुहि॒ यो, अ॒भिभू᳚त्योजा व॒न्वन्नवा᳚तः पुरुहू॒त इन्द्रः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अषा᳚ळ्हमु॒ग्रं सह॑मानमा॒भिर्गी॒र्भिर्व॑र्ध वृष॒भं च॑र्षणी॒नाम् ||{1/15}{6.18.1}{6.2.3.1}{4.6.4.1}{189, 459, 4557}

स यु॒ध्मः सत्वा᳚ खज॒कृत्स॒मद्वा᳚ तुविम्र॒क्षो न॑दनु॒माँ, ऋ॑जी॒षी |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

बृ॒हद्रे᳚णु॒श्च्यव॑नो॒ मानु॑षीणा॒मेकः॑ कृष्टी॒नाम॑भवत्स॒हावा᳚ ||{2/15}{6.18.2}{6.2.3.2}{4.6.4.2}{190, 459, 4558}

त्वं ह॒ नु त्यद॑दमायो॒ दस्यूँ॒रेकः॑ कृ॒ष्टीर॑वनो॒रार्या᳚य |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अस्ति॑ स्वि॒न्नु वी॒र्य१॑(अं॒) तत्त॑ इन्द्र॒ न स्वि॑दस्ति॒ तदृ॑तु॒था वि वो᳚चः ||{3/15}{6.18.3}{6.2.3.3}{4.6.4.3}{191, 459, 4559}

सदिद्धि ते᳚ तुविजा॒तस्य॒ मन्ये॒ सहः॑ सहिष्ठ तुर॒तस्तु॒रस्य॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

उ॒ग्रमु॒ग्रस्य॑ त॒वस॒स्तवी॒योऽर॑ध्रस्य रध्र॒तुरो᳚ बभूव ||{4/15}{6.18.4}{6.2.3.4}{4.6.4.4}{192, 459, 4560}

तन्नः॑ प्र॒त्नं स॒ख्यम॑स्तु यु॒ष्मे, इ॒त्था वद॑द्भिर्व॒लमङ्गि॑रोभिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

हन्न॑च्युतच्युद्दस्मे॒षय᳚न्तमृ॒णोः पुरो॒ वि दुरो᳚, अस्य॒ विश्वाः᳚ ||{5/15}{6.18.5}{6.2.3.5}{4.6.4.5}{193, 459, 4561}

स हि धी॒भिर्हव्यो॒, अस्त्यु॒ग्र ई᳚शान॒कृन्म॑ह॒ति वृ॑त्र॒तूर्ये᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

स तो॒कसा᳚ता॒ तन॑ये॒ स व॒ज्री वि॑तन्त॒साय्यो᳚, अभवत्स॒मत्सु॑ ||{6/15}{6.18.6}{6.2.3.6}{4.6.5.1}{194, 459, 4562}

स म॒ज्मना॒ जनि॑म॒ मानु॑षाणा॒मम॑र्त्येन॒ नाम्नाति॒ प्र स॑र्स्रे |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

स द्यु॒म्नेन॒ स शव॑सो॒त रा॒या स वी॒र्ये᳚ण॒ नृत॑मः॒ समो᳚काः ||{7/15}{6.18.7}{6.2.3.7}{4.6.5.2}{195, 459, 4563}

स यो न मु॒हे न मिथू॒ जनो॒ भूत्सु॒मन्तु॑नामा॒ चुमु॑रिं॒ धुनिं᳚ च |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वृ॒णक्पिप्रुं॒ शम्ब॑रं॒ शुष्ण॒मिन्द्रः॑ पु॒रां च्यौ॒त्नाय॑ श॒यथा᳚य॒ नू चि॑त् ||{8/15}{6.18.8}{6.2.3.8}{4.6.5.3}{196, 459, 4564}

उ॒दाव॑ता॒ त्वक्ष॑सा॒ पन्य॑सा च वृत्र॒हत्या᳚य॒ रथ॑मिन्द्र तिष्ठ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

धि॒ष्व वज्रं॒ हस्त॒ आ द॑क्षिण॒त्राभि प्र म᳚न्द पुरुदत्र मा॒याः ||{9/15}{6.18.9}{6.2.3.9}{4.6.5.4}{197, 459, 4565}

अ॒ग्निर्न शुष्कं॒ वन॑मिन्द्र हे॒ती रक्षो॒ नि ध॑क्ष्य॒शनि॒र्न भी॒मा |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ग॒म्भी॒रय॑ ऋ॒ष्वया॒ यो रु॒रोजाध्वा᳚नयद्दुरि॒ता द॒म्भय॑च्च ||{10/15}{6.18.10}{6.2.3.10}{4.6.5.5}{198, 459, 4566}

आ स॒हस्रं᳚ प॒थिभि॑रिन्द्र रा॒या तुवि॑द्युम्न तुवि॒वाजे᳚भिर॒र्वाक् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

या॒हि सू᳚नो सहसो॒ यस्य॒ नू चि॒ददे᳚व॒ ईशे᳚ पुरुहूत॒ योतोः᳚ ||{11/15}{6.18.11}{6.2.3.11}{4.6.6.1}{199, 459, 4567}

प्र तु॑विद्यु॒म्नस्य॒ स्थवि॑रस्य॒ घृष्वे᳚र्दि॒वो र॑रप्शे महि॒मा पृ॑थि॒व्याः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

नास्य॒ शत्रु॒र्न प्र॑ति॒मान॑मस्ति॒ न प्र॑ति॒ष्ठिः पु॑रुमा॒यस्य॒ सह्योः᳚ ||{12/15}{6.18.12}{6.2.3.12}{4.6.6.2}{200, 459, 4568}

प्र तत्ते᳚, अ॒द्या कर॑णं कृ॒तं भू॒त्कुत्सं॒ यदा॒युम॑तिथि॒ग्वम॑स्मै |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

पु॒रू स॒हस्रा॒ नि शि॑शा, अ॒भि क्षामुत्‌ तूर्व॑याणं धृष॒ता नि॑नेथ ||{13/15}{6.18.13}{6.2.3.13}{4.6.6.3}{201, 459, 4569}

अनु॒ त्वाहि॑घ्ने॒, अध॑ देव दे॒वा मद॒न्‌ विश्वे᳚ क॒वित॑मं कवी॒नाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

करो॒ यत्र॒ वरि॑वो बाधि॒ताय॑ दि॒वे जना᳚य त॒न्वे᳚ गृणा॒नः ||{14/15}{6.18.14}{6.2.3.14}{4.6.6.4}{202, 459, 4570}

अनु॒ द्यावा᳚पृथि॒वी तत्त॒ ओजोऽम॑र्त्या जिहत इन्द्र दे॒वाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

कृ॒ष्वा कृ॑त्नो॒, अकृ॑तं॒ यत्ते॒, अस्त्यु॒क्थं नवी᳚यो जनयस्व य॒ज्ञैः ||{15/15}{6.18.15}{6.2.3.15}{4.6.6.5}{203, 459, 4571}

[19] महाँइंद्रइति त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |
म॒हाँ, इन्द्रो᳚ नृ॒वदा च॑र्षणि॒प्रा, उ॒त द्वि॒बर्हा᳚, अमि॒नः सहो᳚भिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अ॒स्म॒द्र्य॑ग्वावृधे वी॒र्या᳚यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत् ||{1/13}{6.19.1}{6.2.4.1}{4.6.7.1}{204, 460, 4572}

इन्द्र॑मे॒व धि॒षणा᳚ सा॒तये᳚ धाद्बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा᳚नम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अषा᳚ळ्हेन॒ शव॑सा शूशु॒वांसं᳚ स॒द्यश्चि॒द्यो वा᳚वृ॒धे, असा᳚मि ||{2/13}{6.19.2}{6.2.4.2}{4.6.7.2}{205, 460, 4573}

पृ॒थू क॒रस्ना᳚ बहु॒ला गभ॑स्ती, अस्म॒द्र्य१॑(अ॒)क्सं मि॑मीहि॒ श्रवां᳚सि |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यू॒थेव॑ प॒श्वः प॑शु॒पा दमू᳚ना, अ॒स्माँ, इ᳚न्द्रा॒भ्या व॑वृत्स्वा॒जौ ||{3/13}{6.19.3}{6.2.4.3}{4.6.7.3}{206, 460, 4574}

तं व॒ इन्द्रं᳚ च॒तिन॑मस्य शा॒कैरि॒ह नू॒नं वा᳚ज॒यन्तो᳚ हुवेम |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यथा᳚ चि॒त्पूर्वे᳚ जरि॒तार॑ आ॒सुरने᳚द्या, अनव॒द्या, अरि॑ष्टाः ||{4/13}{6.19.4}{6.2.4.4}{4.6.7.4}{207, 460, 4575}

धृ॒तव्र॑तो धन॒दाः सोम॑वृद्धः॒ स हि वा॒मस्य॒ वसु॑नः पुरु॒क्षुः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

सं ज॑ग्मिरे प॒थ्या॒३॑(आ॒) रायो᳚, अस्मिन्‌ त्समु॒द्रे न सिन्ध॑वो॒ याद॑मानाः ||{5/13}{6.19.5}{6.2.4.5}{4.6.7.5}{208, 460, 4576}

शवि॑ष्ठं न॒ आ भ॑र शूर॒ शव॒ ओजि॑ष्ठ॒मोजो᳚, अभिभूत उ॒ग्रम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

विश्वा᳚ द्यु॒म्ना वृष्ण्या॒ मानु॑षाणाम॒स्मभ्यं᳚ दा हरिवो माद॒यध्यै᳚ ||{6/13}{6.19.6}{6.2.4.6}{4.6.8.1}{209, 460, 4577}

यस्ते॒ मदः॑ पृतना॒षाळमृ॑ध्र॒ इन्द्र॒ तं न॒ आ भ॑र शूशु॒वांस᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

येन॑ तो॒कस्य॒ तन॑यस्य सा॒तौ मं᳚सी॒महि॑ जिगी॒वांस॒स्त्वोताः᳚ ||{7/13}{6.19.7}{6.2.4.7}{4.6.8.2}{210, 460, 4578}

आ नो᳚ भर॒ वृष॑णं॒ शुष्म॑मिन्द्र धन॒स्पृतं᳚ शूशु॒वांसं᳚ सु॒दक्ष᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

येन॒ वंसा᳚म॒ पृत॑नासु॒ शत्रू॒न्तवो॒तिभि॑रु॒त जा॒मीँरजा᳚मीन् ||{8/13}{6.19.8}{6.2.4.8}{4.6.8.3}{211, 460, 4579}

आ ते॒ शुष्मो᳚ वृष॒भ ए᳚तु प॒श्चादोत्त॒राद॑ध॒रादा पु॒रस्ता᳚त् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

आ वि॒श्वतो᳚, अ॒भि समे᳚त्व॒र्वाङिन्द्र॑ द्यु॒म्नं स्व᳚र्वद्धेह्य॒स्मे ||{9/13}{6.19.9}{6.2.4.9}{4.6.8.4}{212, 460, 4580}

नृ॒वत्त॑ इन्द्र॒ नृत॑माभिरू॒ती वं᳚सी॒महि॑ वा॒मं श्रोम॑तेभिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ईक्षे॒ हि वस्व॑ उ॒भय॑स्य राज॒न्धा रत्नं॒ महि॑ स्थू॒रं बृ॒हन्त᳚म् ||{10/13}{6.19.10}{6.2.4.10}{4.6.8.5}{213, 460, 4581}

म॒रुत्व᳚न्तं वृष॒भं वा᳚वृधा॒नमक॑वारिं दि॒व्यं शा॒समिन्द्र᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ||{11/13}{6.19.11}{6.2.4.11}{4.6.8.6}{214, 460, 4582}

जनं᳚ वज्रि॒न्महि॑ चि॒न्मन्य॑मानमे॒भ्यो नृभ्यो᳚ रन्धया॒ येष्वस्मि॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अधा॒ हि त्वा᳚ पृथि॒व्यां शूर॑सातौ॒ हवा᳚महे॒ तन॑ये॒ गोष्व॒प्सु ||{12/13}{6.19.12}{6.2.4.12}{4.6.8.7}{215, 460, 4583}

व॒यं त॑ ए॒भिः पु॑रुहूत स॒ख्यैः शत्रोः᳚शत्रो॒रुत्त॑र॒ इत्स्या᳚म |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

घ्नन्तो᳚ वृ॒त्राण्यु॒भया᳚नि शूर रा॒या म॑देम बृह॒ता त्वोताः᳚ ||{13/13}{6.19.13}{6.2.4.13}{4.6.8.8}{216, 460, 4584}

[20] द्यौर्नयइति त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप्‌सप्तमीविराट्पंक्तिः |
द्यौर्न य इ᳚न्द्रा॒भि भूमा॒र्यस्त॒स्थौ र॒यिः शव॑सा पृ॒त्सु जना॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तं नः॑ स॒हस्र॑भरमुर्वरा॒सां द॒द्धि सू᳚नो सहसो वृत्र॒तुर᳚म् ||{1/13}{6.20.1}{6.2.5.1}{4.6.9.1}{217, 461, 4585}

दि॒वो न तुभ्य॒मन्‌ वि᳚न्द्र स॒त्रासु॒र्यं᳚ दे॒वेभि॑र्धायि॒ विश्व᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अहिं॒ यद्वृ॒त्रम॒पो व᳚व्रि॒वांसं॒ हन्नृ॑जीषि॒न्‌ विष्णु॑ना सचा॒नः ||{2/13}{6.20.2}{6.2.5.2}{4.6.9.2}{218, 461, 4586}

तूर्व॒न्नोजी᳚यान्त॒वस॒स्तवी᳚यान्‌ कृ॒तब्र॒ह्मेन्द्रो᳚ वृ॒द्धम॑हाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

राजा᳚भव॒न्मधु॑नः सो॒म्यस्य॒ विश्वा᳚सां॒ यत्पु॒रां द॒र्त्नुमाव॑त् ||{3/13}{6.20.3}{6.2.5.3}{4.6.9.3}{219, 461, 4587}

श॒तैर॑पद्रन्‌ प॒णय॑ इ॒न्द्रात्र॒ दशो᳚णये क॒वये॒ऽर्कसा᳚तौ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

व॒धैः शुष्ण॑स्या॒शुष॑स्य मा॒याः पि॒त्वो नारि॑रेची॒त्किं च॒न प्र ||{4/13}{6.20.4}{6.2.5.4}{4.6.9.4}{220, 461, 4588}

म॒हो द्रु॒हो, अप॑ वि॒श्वायु॑ धायि॒ वज्र॑स्य॒ यत्पत॑ने॒ पादि॒ शुष्णः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

उ॒रु ष स॒रथं॒ सार॑थये क॒रिन्द्रः॒ कुत्सा᳚य॒ सूर्य॑स्य सा॒तौ ||{5/13}{6.20.5}{6.2.5.5}{4.6.9.5}{221, 461, 4589}

प्र श्ये॒नो न म॑दि॒रमं॒शुम॑स्मै॒ शिरो᳚ दा॒सस्य॒ नमु॑चेर्मथा॒यन् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

प्राव॒न्नमीं᳚ सा॒प्यं स॒सन्तं᳚ पृ॒णग्रा॒या समि॒षा सं स्व॒स्ति ||{6/13}{6.20.6}{6.2.5.6}{4.6.10.1}{222, 461, 4590}

वि पिप्रो॒रहि॑मायस्य दृ॒ळ्हाः पुरो᳚ वज्रि॒ञ्छव॑सा॒ न द॑र्दः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | पङ्क्तिः}

सुदा᳚म॒न्तद्रेक्णो᳚, अप्रमृ॒ष्यमृ॒जिश्व॑ने दा॒त्रं दा॒शुषे᳚ दाः ||{7/13}{6.20.7}{6.2.5.7}{4.6.10.2}{223, 461, 4591}

स वे᳚त॒सुं दश॑मायं॒ दशो᳚णिं॒ तूतु॑जि॒मिन्द्रः॑ स्वभि॒ष्टिसु᳚म्नः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

आ तुग्रं॒ शश्व॒दिभं॒ द्योत॑नाय मा॒तुर्न सी॒मुप॑ सृजा, इ॒यध्यै᳚ ||{8/13}{6.20.8}{6.2.5.8}{4.6.10.3}{224, 461, 4592}

स ईं॒ स्पृधो᳚ वनते॒, अप्र॑तीतो॒ बिभ्र॒द्वज्रं᳚ वृत्र॒हणं॒ गभ॑स्तौ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तिष्ठ॒द्धरी॒, अध्यस्ते᳚व॒ गर्ते᳚ वचो॒युजा᳚ वहत॒ इन्द्र॑मृ॒ष्वम् ||{9/13}{6.20.9}{6.2.5.9}{4.6.10.4}{225, 461, 4593}

स॒नेम॒ तेऽव॑सा॒ नव्य॑ इन्द्र॒ प्र पू॒रवः॑ स्तवन्त ए॒ना य॒ज्ञैः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

स॒प्त यत्पुरः॒ शर्म॒ शार॑दी॒र्दर्द्धन्दासीः᳚ पुरु॒कुत्सा᳚य॒ शिक्ष॑न् ||{10/13}{6.20.10}{6.2.5.10}{4.6.10.5}{226, 461, 4594}

त्वं वृ॒ध इ᳚न्द्र पू॒र्व्यो भू᳚र्वरिव॒स्यन्नु॒शने᳚ का॒व्याय॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

परा॒ नव॑वास्त्वमनु॒देयं᳚ म॒हे पि॒त्रे द॑दाथ॒ स्वं नपा᳚तम् ||{11/13}{6.20.11}{6.2.5.11}{4.6.10.6}{227, 461, 4595}

त्वं धुनि॑रिन्द्र॒ धुनि॑मतीरृ॒णोर॒पः सी॒रा न स्रव᳚न्तीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

प्र यत्स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया᳚ तु॒र्वशं॒ यदुं᳚ स्व॒स्ति ||{12/13}{6.20.12}{6.2.5.12}{4.6.10.7}{228, 461, 4596}

तव॑ ह॒ त्यदि᳚न्द्र॒ विश्व॑मा॒जौ स॒स्तो धुनी॒चुमु॑री॒ या ह॒ सिष्व॑प् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

दी॒दय॒दित्तुभ्यं॒ सोमे᳚भिः सु॒न्वन्द॒भीति॑रि॒ध्मभृ॑तिः प॒क्थ्य१॑(अ॒)र्कैः ||{13/13}{6.20.13}{6.2.5.13}{4.6.10.8}{229, 461, 4597}

[21] इमाउत्वेति द्वादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रो नवम्येकादश्योर्विश्वेदेवास्त्रिष्टुप् |
इ॒मा, उ॑ त्वा पुरु॒तम॑स्य का॒रोर्हव्यं᳚ वीर॒ हव्या᳚ हवन्ते |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

धियो᳚ रथे॒ष्ठाम॒जरं॒ नवी᳚यो र॒यिर्विभू᳚तिरीयते वच॒स्या ||{1/12}{6.21.1}{6.2.6.1}{4.6.11.1}{230, 462, 4598}

तमु॑ स्तुष॒ इन्द्रं॒ यो विदा᳚नो॒ गिर्वा᳚हसं गी॒र्भिर्य॒ज्ञवृ॑द्धम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यस्य॒ दिव॒मति॑ म॒ह्ना पृ॑थि॒व्याः पु॑रुमा॒यस्य॑ रिरि॒चे म॑हि॒त्वम् ||{2/12}{6.21.2}{6.2.6.2}{4.6.11.2}{231, 462, 4599}

स इत्तमो᳚ऽवयु॒नं त॑त॒न्वत्सूर्ये᳚ण व॒युन॑वच्चकार |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

क॒दा ते॒ मर्ता᳚, अ॒मृत॑स्य॒ धामेय॑क्षन्तो॒ न मि॑नन्ति स्वधावः ||{3/12}{6.21.3}{6.2.6.3}{4.6.11.3}{232, 462, 4600}

यस्ता च॒कार॒ स कुह॑ स्वि॒दिन्द्रः॒ कमा जनं᳚ चरति॒ कासु॑ वि॒क्षु |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

कस्ते᳚ य॒ज्ञो मन॑से॒ शं वरा᳚य॒ को, अ॒र्क इ᳚न्द्र कत॒मः स होता᳚ ||{4/12}{6.21.4}{6.2.6.4}{4.6.11.4}{233, 462, 4601}

इ॒दा हि ते॒ वेवि॑षतः पुरा॒जाः प्र॒त्नास॑ आ॒सुः पु॑रुकृ॒त्सखा᳚यः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ये म॑ध्य॒मास॑ उ॒त नूत॑नास उ॒ताव॒मस्य॑ पुरुहूत बोधि ||{5/12}{6.21.5}{6.2.6.5}{4.6.11.5}{234, 462, 4602}

तं पृ॒च्छन्तोऽव॑रासः॒ परा᳚णि प्र॒त्ना त॑ इन्द्र॒ श्रुत्यानु॑ येमुः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अर्चा᳚मसि वीर ब्रह्मवाहो॒ यादे॒व वि॒द्म तात्‌ त्वा᳚ म॒हान्त᳚म् ||{6/12}{6.21.6}{6.2.6.6}{4.6.12.1}{235, 462, 4603}

अ॒भि त्वा॒ पाजो᳚ र॒क्षसो॒ वि त॑स्थे॒ महि॑ जज्ञा॒नम॒भि तत्सु ति॑ष्ठ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तव॑ प्र॒त्नेन॒ युज्ये᳚न॒ सख्या॒ वज्रे᳚ण धृष्णो॒, अप॒ ता नु॑दस्व ||{7/12}{6.21.7}{6.2.6.7}{4.6.12.2}{236, 462, 4604}

स तु श्रु॑धीन्द्र॒ नूत॑नस्य ब्रह्मण्य॒तो वी᳚र कारुधायः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वं ह्या॒३॑(आ॒)पिः प्र॒दिवि॑ पितॄ॒णां शश्व॑द्ब॒भूथ॑ सु॒हव॒ एष्टौ᳚ ||{8/12}{6.21.8}{6.2.6.8}{4.6.12.3}{237, 462, 4605}

प्रोतये॒ वरु॑णं मि॒त्रमिन्द्रं᳚ म॒रुतः॑ कृ॒ष्वाव॑से नो, अ॒द्य |{बार्हस्पत्यो भरद्वाजः | विश्वेदेवाः | त्रिष्टुप्}

प्र पू॒षणं॒ विष्णु॑म॒ग्निं पुरं᳚धिं सवि॒तार॒मोष॑धीः॒ पर्व॑ताँश्च ||{9/12}{6.21.9}{6.2.6.9}{4.6.12.4}{238, 462, 4606}

इ॒म उ॑ त्वा पुरुशाक प्रयज्यो जरि॒तारो᳚, अ॒भ्य॑र्चन्त्य॒र्कैः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

श्रु॒धी हव॒मा हु॑व॒तो हु॑वा॒नो न त्वावाँ᳚, अ॒न्यो, अ॑मृत॒ त्वद॑स्ति ||{10/12}{6.21.10}{6.2.6.10}{4.6.12.5}{239, 462, 4607}

नू म॒ आ वाच॒मुप॑ याहि वि॒द्वान्‌ विश्वे᳚भिः सूनो सहसो॒ यज॑त्रैः |{बार्हस्पत्यो भरद्वाजः | विश्वेदेवाः | त्रिष्टुप्}

ये, अ॑ग्निजि॒ह्वा, ऋ॑त॒साप॑ आ॒सुर्ये मनुं᳚ च॒क्रुरुप॑रं॒ दसा᳚य ||{11/12}{6.21.11}{6.2.6.11}{4.6.12.6}{240, 462, 4608}

स नो᳚ बोधि पुरए॒ता सु॒गेषू॒त दु॒र्गेषु॑ पथि॒कृद्विदा᳚नः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ये, अश्र॑मास उ॒रवो॒ वहि॑ष्ठा॒स्तेभि᳚र्न इन्द्रा॒भि व॑क्षि॒ वाज᳚म् ||{12/12}{6.21.12}{6.2.6.12}{4.6.12.7}{241, 462, 4609}

[22] यएकइदित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |
य एक॒ इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒ तं गी॒र्भिर॒भ्य॑र्च आ॒भिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यः पत्य॑ते वृष॒भो वृष्ण्या᳚वान्‌ त्स॒त्यः सत्वा᳚ पुरुमा॒यः सह॑स्वान् ||{1/11}{6.22.1}{6.2.7.1}{4.6.13.1}{242, 463, 4610}

तमु॑ नः॒ पूर्वे᳚ पि॒तरो॒ नव॑ग्वाः स॒प्त विप्रा᳚सो, अ॒भि वा॒जय᳚न्तः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

न॒क्ष॒द्दा॒भं ततु॑रिं पर्वते॒ष्ठामद्रो᳚घवाचं म॒तिभिः॒ शवि॑ष्ठम् ||{2/11}{6.22.2}{6.2.7.2}{4.6.13.2}{243, 463, 4611}

तमी᳚मह॒ इन्द्र॑मस्य रा॒यः पु॑रु॒वीर॑स्य नृ॒वतः॑ पुरु॒क्षोः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यो, अस्कृ॑धोयुर॒जरः॒ स्व᳚र्वा॒न्तमा भ॑र हरिवो माद॒यध्यै᳚ ||{3/11}{6.22.3}{6.2.7.3}{4.6.13.3}{244, 463, 4612}

तन्नो॒ वि वो᳚चो॒ यदि॑ ते पु॒रा चि॑ज्जरि॒तार॑ आन॒शुः सु॒म्नमि᳚न्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

कस्ते᳚ भा॒गः किं वयो᳚ दुध्र खिद्वः॒ पुरु॑हूत पुरूवसोऽसुर॒घ्नः ||{4/11}{6.22.4}{6.2.7.4}{4.6.13.4}{245, 463, 4613}

तं पृ॒च्छन्ती॒ वज्र॑हस्तं रथे॒ष्ठामिन्द्रं॒ वेपी॒ वक्व॑री॒ यस्य॒ नू गीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तु॒वि॒ग्रा॒भं तु॑विकू॒र्मिं र॑भो॒दां गा॒तुमि॑षे॒ नक्ष॑ते॒ तुम्र॒मच्छ॑ ||{5/11}{6.22.5}{6.2.7.5}{4.6.13.5}{246, 463, 4614}

अ॒या ह॒ त्यं मा॒यया᳚ वावृधा॒नं म॑नो॒जुवा᳚ स्वतवः॒ पर्व॑तेन |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अच्यु॑ता चिद्वीळि॒ता स्वो᳚जो रु॒जो वि दृ॒ळ्हा धृ॑ष॒ता वि॑रप्शिन् ||{6/11}{6.22.6}{6.2.7.6}{4.6.14.1}{247, 463, 4615}

तं वो᳚ धि॒या नव्य॑स्या॒ शवि॑ष्ठं प्र॒त्नं प्र॑त्न॒वत्प॑रितंस॒यध्यै᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

स नो᳚ वक्षदनिमा॒नः सु॒वह्मेन्द्रो॒ विश्वा॒न्यति॑ दु॒र्गहा᳚णि ||{7/11}{6.22.7}{6.2.7.7}{4.6.14.2}{248, 463, 4616}

आ जना᳚य॒ द्रुह्व॑णे॒ पार्थि॑वानि दि॒व्यानि॑ दीपयो॒ऽन्तरि॑क्षा |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तपा᳚ वृषन्‌ वि॒श्वतः॑ शो॒चिषा॒ तान्‌ ब्र᳚ह्म॒द्विषे᳚ शोचय॒ क्षाम॒पश्च॑ ||{8/11}{6.22.8}{6.2.7.8}{4.6.14.3}{249, 463, 4617}

भुवो॒ जन॑स्य दि॒व्यस्य॒ राजा॒ पार्थि॑वस्य॒ जग॑तस्त्वेषसंदृक् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

धि॒ष्व वज्रं॒ दक्षि॑ण इन्द्र॒ हस्ते॒ विश्वा᳚, अजुर्य दयसे॒ वि मा॒याः ||{9/11}{6.22.9}{6.2.7.9}{4.6.14.4}{250, 463, 4618}

आ सं॒यत॑मिन्द्र णः स्व॒स्तिं श॑त्रु॒तूर्या᳚य बृह॒तीममृ॑ध्राम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यया॒ दासा॒न्यार्या᳚णि वृ॒त्रा करो᳚ वज्रिन्‌ त्सु॒तुका॒ नाहु॑षाणि ||{10/11}{6.22.10}{6.2.7.10}{4.6.14.5}{251, 463, 4619}

स नो᳚ नि॒युद्भिः॑ पुरुहूत वेधो वि॒श्ववा᳚राभि॒रा ग॑हि प्रयज्यो |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

न या, अदे᳚वो॒ वर॑ते॒ न दे॒व आभि᳚र्याहि॒ तूय॒मा म॑द्र्य॒द्रिक् ||{11/11}{6.22.11}{6.2.7.11}{4.6.14.6}{252, 463, 4620}

[23] सुतइदिति दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |
सु॒त इत्‌ त्वं निमि॑श्ल इन्द्र॒ सोमे॒ स्तोमे॒ ब्रह्म॑णि श॒स्यमा᳚न उ॒क्थे |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यद्वा᳚ यु॒क्ताभ्यां᳚ मघव॒न्हरि॑भ्यां॒ बिभ्र॒द्वज्रं᳚ बा॒ह्वोरि᳚न्द्र॒ यासि॑ ||{1/10}{6.23.1}{6.2.8.1}{4.6.15.1}{253, 464, 4621}

यद्वा᳚ दि॒वि पार्ये॒ सुष्वि॑मिन्द्र वृत्र॒हत्येऽव॑सि॒ शूर॑सातौ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यद्वा॒ दक्ष॑स्य बि॒भ्युषो॒, अबि॑भ्य॒दर᳚न्धयः॒ शर्ध॑त इन्द्र॒ दस्यू॑न् ||{2/10}{6.23.2}{6.2.8.2}{4.6.15.2}{254, 464, 4622}

पाता᳚ सु॒तमिन्द्रो᳚, अस्तु॒ सोमं᳚ प्रणे॒नीरु॒ग्रो ज॑रि॒तार॑मू॒ती |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

कर्ता᳚ वी॒राय॒ सुष्व॑य उ लो॒कं दाता॒ वसु॑ स्तुव॒ते की॒रये᳚ चित् ||{3/10}{6.23.3}{6.2.8.3}{4.6.15.3}{255, 464, 4623}

गन्तेया᳚न्ति॒ सव॑ना॒ हरि॑भ्यां ब॒भ्रिर्वज्रं᳚ प॒पिः सोमं᳚ द॒दिर्गाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

कर्ता᳚ वी॒रं नर्यं॒ सर्व॑वीरं॒ श्रोता॒ हवं᳚ गृण॒तः स्तोम॑वाहाः ||{4/10}{6.23.4}{6.2.8.4}{4.6.15.4}{256, 464, 4624}

अस्मै᳚ व॒यं यद्वा॒वान॒ तद्वि॑विष्म॒ इन्द्रा᳚य॒ यो नः॑ प्र॒दिवो॒, अप॒स्कः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

सु॒ते सोमे᳚ स्तु॒मसि॒ शंस॑दु॒क्थेन्द्रा᳚य॒ ब्रह्म॒ वर्ध॑नं॒ यथास॑त् ||{5/10}{6.23.5}{6.2.8.5}{4.6.15.5}{257, 464, 4625}

ब्रह्मा᳚णि॒ हि च॑कृ॒षे वर्ध॑नानि॒ ताव॑त्त इन्द्र म॒तिभि᳚र्विविष्मः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

सु॒ते सोमे᳚ सुतपाः॒ शंत॑मानि॒ रान्द्र्या᳚ क्रियास्म॒ वक्ष॑णानि य॒ज्ञैः ||{6/10}{6.23.6}{6.2.8.6}{4.6.16.1}{258, 464, 4626}

स नो᳚ बोधि पुरो॒ळाशं॒ ररा᳚णः॒ पिबा॒ तु सोमं॒ गो,ऋ॑जीकमिन्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

एदं ब॒र्हिर्यज॑मानस्य सीदो॒रुं कृ॑धि त्वाय॒त उ॑ लो॒कम् ||{7/10}{6.23.7}{6.2.8.7}{4.6.16.2}{259, 464, 4627}

स म᳚न्दस्वा॒ ह्यनु॒ जोष॑मुग्र॒ प्र त्वा᳚ य॒ज्ञास॑ इ॒मे, अ॑श्नुवन्तु |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

प्रेमे हवा᳚सः पुरुहू॒तम॒स्मे, आ त्वे॒यं धीरव॑स इन्द्र यम्याः ||{8/10}{6.23.8}{6.2.8.8}{4.6.16.3}{260, 464, 4628}

तं वः॑ सखायः॒ सं यथा᳚ सु॒तेषु॒ सोमे᳚भिरीं पृणता भो॒जमिन्द्र᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

कु॒वित्तस्मा॒, अस॑ति नो॒ भरा᳚य॒ न सुष्वि॒मिन्द्रोऽव॑से मृधाति ||{9/10}{6.23.9}{6.2.8.9}{4.6.16.4}{261, 464, 4629}

ए॒वेदिन्द्रः॑ सु॒ते, अ॑स्तावि॒ सोमे᳚ भ॒रद्वा᳚जेषु॒ क्षय॒दिन्म॒घोनः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अस॒द्यथा᳚ जरि॒त्र उ॒त सू॒रिरिन्द्रो᳚ रा॒यो वि॒श्ववा᳚रस्य दा॒ता ||{10/10}{6.23.10}{6.2.8.10}{4.6.16.5}{262, 464, 4630}

[24] वृषामदइति दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रत्रिष्टुप् |
वृषा॒ मद॒ इन्द्रे॒ श्लोक॑ उ॒क्था सचा॒ सोमे᳚षु सुत॒पा, ऋ॑जी॒षी |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अ॒र्च॒त्र्यो᳚ म॒घवा॒ नृभ्य॑ उ॒क्थैर्द्यु॒क्षो राजा᳚ गि॒रामक्षि॑तोतिः ||{1/10}{6.24.1}{6.3.1.1}{4.6.17.1}{263, 465, 4631}

ततु॑रिर्वी॒रो नर्यो॒ विचे᳚ताः॒ श्रोता॒ हवं᳚ गृण॒त उ॒र्व्यू᳚तिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वसुः॒ शंसो᳚ न॒रां का॒रुधा᳚या वा॒जी स्तु॒तो वि॒दथे᳚ दाति॒ वाज᳚म् ||{2/10}{6.24.2}{6.3.1.2}{4.6.17.2}{264, 465, 4632}

अक्षो॒ न च॒क्र्योः᳚ शूर बृ॒हन्‌ प्र ते᳚ म॒ह्ना रि॑रिचे॒ रोद॑स्योः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वृ॒क्षस्य॒ नु ते᳚ पुरुहूत व॒या व्यू॒३॑(ऊ॒)तयो᳚ रुरुहुरिन्द्र पू॒र्वीः ||{3/10}{6.24.3}{6.3.1.3}{4.6.17.3}{265, 465, 4633}

शची᳚वतस्ते पुरुशाक॒ शाका॒ गवा᳚मिव स्रु॒तयः॑ सं॒चर॑णीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

व॒त्सानां॒ न त॒न्तय॑स्त इन्द्र॒ दाम᳚न्वन्तो, अदा॒मानः॑ सुदामन् ||{4/10}{6.24.4}{6.3.1.4}{4.6.17.4}{266, 465, 4634}

अ॒न्यद॒द्य कर्व॑रम॒न्यदु॒ श्वोऽस॑च्च॒ सन्मुहु॑राच॒क्रिरिन्द्रः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

मि॒त्रो नो॒, अत्र॒ वरु॑णश्च पू॒षार्यो वश॑स्य पर्ये॒तास्ति॑ ||{5/10}{6.24.5}{6.3.1.5}{4.6.17.5}{267, 465, 4635}

वि त्वदापो॒ न पर्व॑तस्य पृ॒ष्ठादु॒क्थेभि॑रिन्द्रानयन्त य॒ज्ञैः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तं त्वा॒भिः सु॑ष्टु॒तिभि᳚र्वा॒जय᳚न्त आ॒जिं न ज॑ग्मुर्गिर्वाहो॒, अश्वाः᳚ ||{6/10}{6.24.6}{6.3.1.6}{4.6.18.1}{268, 465, 4636}

न यं जर᳚न्ति श॒रदो॒ न मासा॒ न द्याव॒ इन्द्र॑मवक॒र्शय᳚न्ति |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वृ॒द्धस्य॑ चिद्वर्धतामस्य त॒नूः स्तोमे᳚भिरु॒क्थैश्च॑ श॒स्यमा᳚ना ||{7/10}{6.24.7}{6.3.1.7}{4.6.18.2}{269, 465, 4637}

न वी॒ळवे॒ नम॑ते॒ न स्थि॒राय॒ न शर्ध॑ते॒ दस्यु॑जूताय स्त॒वान् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अज्रा॒, इन्द्र॑स्य गि॒रय॑श्चिदृ॒ष्वा ग᳚म्भी॒रे चि॑द्भवति गा॒धम॑स्मै ||{8/10}{6.24.8}{6.3.1.8}{4.6.18.3}{270, 465, 4638}

ग॒म्भी॒रेण॑ न उ॒रुणा᳚मत्रि॒न्‌ प्रेषो य᳚न्धि सुतपाव॒न्वाजा॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

स्था, ऊ॒ षु ऊ॒र्ध्व ऊ॒ती, अरि॑षण्यन्न॒क्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाम् ||{9/10}{6.24.9}{6.3.1.9}{4.6.18.4}{271, 465, 4639}

सच॑स्व ना॒यमव॑से, अ॒भीक॑ इ॒तो वा॒ तमि᳚न्द्र पाहि रि॒षः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अ॒मा चै᳚न॒मर᳚ण्ये पाहि रि॒षो मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{10/10}{6.24.10}{6.3.1.10}{4.6.18.5}{272, 465, 4640}

[25] यातऊतिरिति नवर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |
या त॑ ऊ॒तिर॑व॒मा या प॑र॒मा या म॑ध्य॒मेन्द्र॑ शुष्मि॒न्नस्ति॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ताभि॑रू॒ षु वृ॑त्र॒हत्ये᳚ऽवीर्न ए॒भिश्च॒ वाजै᳚र्म॒हान्न॑ उग्र ||{1/9}{6.25.1}{6.3.2.1}{4.6.19.1}{273, 466, 4641}

आभिः॒ स्पृधो᳚ मिथ॒तीररि॑षण्यन्न॒मित्र॑स्य व्यथया म॒न्युमि᳚न्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

आभि॒र्विश्वा᳚, अभि॒युजो॒ विषू᳚ची॒रार्या᳚य॒ विशोऽव॑ तारी॒र्दासीः᳚ ||{2/9}{6.25.2}{6.3.2.2}{4.6.19.2}{274, 466, 4642}

इन्द्र॑ जा॒मय॑ उ॒त येऽजा᳚मयोऽर्वाची॒नासो᳚ व॒नुषो᳚ युयु॒ज्रे |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वमे᳚षां विथु॒रा शवां᳚सि ज॒हि वृष्ण्या᳚नि कृणु॒ही परा᳚चः ||{3/9}{6.25.3}{6.3.2.3}{4.6.19.3}{275, 466, 4643}

शूरो᳚ वा॒ शूरं᳚ वनते॒ शरी᳚रैस्तनू॒रुचा॒ तरु॑षि॒ यत्कृ॒ण्वैते᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तो॒के वा॒ गोषु॒ तन॑ये॒ यद॒प्सु वि क्रन्द॑सी, उ॒र्वरा᳚सु॒ ब्रवै᳚ते ||{4/9}{6.25.4}{6.3.2.4}{4.6.19.4}{276, 466, 4644}

न॒हि त्वा॒ शूरो॒ न तु॒रो न धृ॒ष्णुर्न त्वा᳚ यो॒धो मन्य॑मानो यु॒योध॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒ नकि॑ष्ट्वा॒ प्रत्य॑स्त्येषां॒ विश्वा᳚ जा॒तान्य॒भ्य॑सि॒ तानि॑ ||{5/9}{6.25.5}{6.3.2.5}{4.6.19.5}{277, 466, 4645}

स प॑त्यत उ॒भयो᳚र्नृ॒म्णम॒योर्यदी᳚ वे॒धसः॑ समि॒थे हव᳚न्ते |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वृ॒त्रे वा᳚ म॒हो नृ॒वति॒ क्षये᳚ वा॒ व्यच॑स्वन्ता॒ यदि॑ वितन्त॒सैते᳚ ||{6/9}{6.25.6}{6.3.2.6}{4.6.20.1}{278, 466, 4646}

अध॑ स्मा ते चर्ष॒णयो॒ यदेजा॒निन्द्र॑ त्रा॒तोत भ॑वा वरू॒ता |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अ॒स्माका᳚सो॒ ये नृत॑मासो, अ॒र्य इन्द्र॑ सू॒रयो᳚ दधि॒रे पु॒रो नः॑ ||{7/9}{6.25.7}{6.3.2.7}{4.6.20.2}{279, 466, 4647}

अनु॑ ते दायि म॒ह इ᳚न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अनु॑ क्ष॒त्रमनु॒ सहो᳚ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये᳚ ||{8/9}{6.25.8}{6.3.2.8}{4.6.20.3}{280, 466, 4648}

ए॒वा नः॒ स्पृधः॒ सम॑जा स॒मत्स्विन्द्र॑ रार॒न्धि मि॑थ॒तीरदे᳚वीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो᳚ भ॒रद्वा᳚जा, उ॒त त॑ इन्द्र नू॒नम् ||{9/9}{6.25.9}{6.3.2.9}{4.6.20.4}{281, 466, 4649}

[26] श्रुधीनइत्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |
श्रु॒धी न॑ इन्द्र॒ ह्वया᳚मसि त्वा म॒हो वाज॑स्य सा॒तौ वा᳚वृषा॒णाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

सं यद्विशोऽय᳚न्त॒ शूर॑साता, उ॒ग्रं नोऽवः॒ पार्ये॒, अह᳚न्दाः ||{1/8}{6.26.1}{6.3.3.1}{4.6.21.1}{282, 467, 4650}

त्वां वा॒जी ह॑वते वाजिने॒यो म॒हो वाज॑स्य॒ गध्य॑स्य सा॒तौ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वां वृ॒त्रेष्वि᳚न्द्र॒ सत्प॑तिं॒ तरु॑त्रं॒ त्वां च॑ष्टे मुष्टि॒हा गोषु॒ युध्य॑न् ||{2/8}{6.26.2}{6.3.3.2}{4.6.21.2}{283, 467, 4651}

त्वं क॒विं चो᳚दयो॒ऽर्कसा᳚तौ॒ त्वं कुत्सा᳚य॒ शुष्णं᳚ दा॒शुषे᳚ वर्क् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वं शिरो᳚, अम॒र्मणः॒ परा᳚हन्नतिथि॒ग्वाय॒ शंस्यं᳚ करि॒ष्यन् ||{3/8}{6.26.3}{6.3.3.3}{4.6.21.3}{284, 467, 4652}

त्वं रथं॒ प्र भ॑रो यो॒धमृ॒ष्वमावो॒ युध्य᳚न्तं वृष॒भं दश॑द्युम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वं तुग्रं᳚ वेत॒सवे॒ सचा᳚ह॒न्त्वं तुजिं᳚ गृ॒णन्त॑मिन्द्र तूतोः ||{4/8}{6.26.4}{6.3.3.4}{4.6.21.4}{285, 467, 4653}

त्वं तदु॒क्थमि᳚न्द्र ब॒र्हणा᳚ कः॒ प्र यच्छ॒ता स॒हस्रा᳚ शूर॒ दर्षि॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अव॑ गि॒रेर्दासं॒ शम्ब॑रं ह॒न्‌ प्रावो॒ दिवो᳚दासं चि॒त्राभि॑रू॒ती ||{5/8}{6.26.5}{6.3.3.5}{4.6.21.5}{286, 467, 4654}

त्वं श्र॒द्धाभि᳚र्मन्दसा॒नः सोमै᳚र्द॒भीत॑ये॒ चुमु॑रिमिन्द्र सिष्वप् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वं र॒जिं पिठी᳚नसे दश॒स्यन्ष॒ष्टिं स॒हस्रा॒ शच्या॒ सचा᳚हन् ||{6/8}{6.26.6}{6.3.3.6}{4.6.22.1}{287, 467, 4655}

अ॒हं च॒न तत्सू॒रिभि॑रानश्यां॒ तव॒ ज्याय॑ इन्द्र सु॒म्नमोजः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वया॒ यत्‌ स्तव᳚न्ते सधवीर वी॒रास्त्रि॒वरू᳚थेन॒ नहु॑षा शविष्ठ ||{7/8}{6.26.7}{6.3.3.7}{4.6.22.2}{288, 467, 4656}

व॒यं ते᳚, अ॒स्यामि᳚न्द्र द्यु॒म्नहू᳚तौ॒ सखा᳚यः स्याम महिन॒ प्रेष्ठाः᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

प्रात॑र्दनिः, क्षत्र॒श्रीर॑स्तु॒ श्रेष्ठो᳚ घ॒ने वृ॒त्राणां᳚ स॒नये॒ धना᳚नाम् ||{8/8}{6.26.8}{6.3.3.8}{4.6.22.3}{289, 467, 4657}

[27] किमस्यमदइत्यष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजरंद्र अंत्यायाश्चायमानोराजात्रिष्टुप् (चायमानस्यराज्ञोदानस्तुतिः) |
किम॑स्य॒ मदे॒ किम्व॑स्य पी॒ताविन्द्रः॒ किम॑स्य स॒ख्ये च॑कार |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

रणा᳚ वा॒ ये नि॒षदि॒ किं ते, अ॑स्य पु॒रा वि॑विद्रे॒ किमु॒ नूत॑नासः ||{1/8}{6.27.1}{6.3.4.1}{4.6.23.1}{290, 468, 4658}

सद॑स्य॒ मदे॒ सद्व॑स्य पी॒ताविन्द्रः॒ सद॑स्य स॒ख्ये च॑कार |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

रणा᳚ वा॒ ये नि॒षदि॒ सत्ते, अ॑स्य पु॒रा वि॑विद्रे॒ सदु॒ नूत॑नासः ||{2/8}{6.27.2}{6.3.4.2}{4.6.23.2}{291, 468, 4659}

न॒हि नु ते᳚ महि॒मनः॑ समस्य॒ न म॑घवन्मघव॒त्‌ त्वस्य॑ वि॒द्म |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

न राध॑सोराधसो॒ नूत॑न॒स्येन्द्र॒ नकि॑र्ददृश इन्द्रि॒यं ते᳚ ||{3/8}{6.27.3}{6.3.4.3}{4.6.23.3}{292, 468, 4660}

ए॒तत्‌ त्यत्त॑ इन्द्रि॒यम॑चेति॒ येनाव॑धीर्व॒रशि॑खस्य॒ शेषः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वज्र॑स्य॒ यत्ते॒ निह॑तस्य॒ शुष्मा᳚त्स्व॒नाच्चि॑दिन्द्र पर॒मो द॒दार॑ ||{4/8}{6.27.4}{6.3.4.4}{4.6.23.4}{293, 468, 4661}

वधी॒दिन्द्रो᳚ व॒रशि॑खस्य॒ शेषो᳚ऽभ्याव॒र्तिने᳚ चायमा॒नाय॒ शिक्ष॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वृ॒चीव॑तो॒ यद्ध॑रियू॒पीया᳚यां॒ हन्‌ पूर्वे॒, अर्धे᳚ भि॒यसाप॑रो॒ दर्त् ||{5/8}{6.27.5}{6.3.4.5}{4.6.23.5}{294, 468, 4662}

त्रिं॒शच्छ॑तं व॒र्मिण॑ इन्द्र सा॒कं य॒व्याव॑त्यां पुरुहूत श्रव॒स्या |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वृ॒चीव᳚न्तः॒ शर॑वे॒ पत्य॑मानाः॒ पात्रा᳚ भिन्दा॒ना न्य॒र्थान्या᳚यन् ||{6/8}{6.27.6}{6.3.4.6}{4.6.24.1}{295, 468, 4663}

यस्य॒ गावा᳚वरु॒षा सू᳚यव॒स्यू, अ॒न्तरू॒ षु चर॑तो॒ रेरि॑हाणा |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

स सृञ्ज॑याय तु॒र्वशं॒ परा᳚दाद्वृ॒चीव॑तो दैववा॒ताय॒ शिक्ष॑न् ||{7/8}{6.27.7}{6.3.4.7}{4.6.24.2}{296, 468, 4664}

द्व॒याँ, अ॑ग्ने र॒थिनो᳚ विंश॒तिं गा व॒धूम॑तो म॒घवा॒ मह्यं᳚ स॒म्राट् |{बार्हस्पत्यो भरद्वाजः | चायमानोराजा | त्रिष्टुप्}

अ॒भ्या॒व॒र्ती चा᳚यमा॒नो द॑दाति दू॒णाशे॒यं दक्षि॑णा पार्थ॒वाना᳚म् ||{8/8}{6.27.8}{6.3.4.8}{4.6.24.3}{297, 468, 4665}

[28] आगावइत्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोगौस्त्रिष्टुप् (द्वितीयाया इंद्रश्चांत्यपादस्यच) द्वितीयाध्यास्तिस्रोजगत्योंत्यानुष्टुप् |
आ गावो᳚, अग्मन्नु॒त भ॒द्रम॑क्र॒न् त्सीद᳚न्तु गो॒ष्ठे र॒णय᳚न्त्व॒स्मे |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्}

प्र॒जाव॑तीः पुरु॒रूपा᳚, इ॒ह स्यु॒रिन्द्रा᳚य पू॒र्वीरु॒षसो॒ दुहा᳚नाः ||{1/8}{6.28.1}{6.3.5.1}{4.6.25.1}{298, 469, 4666}

इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिक्ष॒त्युपेद्‌ द॑दाति॒ न स्वं मु॑षायति |{बार्हस्पत्यो भरद्वाजः | गाव इन्द्रो वा | जगती}

भूयो᳚भूयो र॒यिमिद॑स्य व॒र्धय॒न्नभि᳚न्ने खि॒ल्ये नि द॑धाति देव॒युम् ||{2/8}{6.28.2}{6.3.5.2}{4.6.25.2}{299, 469, 4667}

न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रो॒ नासा᳚मामि॒त्रो व्यथि॒रा द॑धर्षति |{बार्हस्पत्यो भरद्वाजः | गावः | जगती}

दे॒वाँश्च॒ याभि॒र्यज॑ते॒ ददा᳚ति च॒ ज्योगित्ताभिः॑ सचते॒ गोप॑तिः स॒ह ||{3/8}{6.28.3}{6.3.5.3}{4.6.25.3}{300, 469, 4668}

न ता, अर्वा᳚ रे॒णुक॑काटो, अश्नुते॒ न सं᳚स्कृत॒त्रमुप॑ यन्ति॒ ता, अ॒भि |{बार्हस्पत्यो भरद्वाजः | गावः | जगती}

उ॒रु॒गा॒यमभ॑यं॒ तस्य॒ ता, अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ||{4/8}{6.28.4}{6.3.5.4}{4.6.25.4}{301, 469, 4669}

गावो॒ भगो॒ गाव॒ इन्द्रो᳚ मे, अच्छा॒न् गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्}

इ॒मा या गावः॒ स ज॑नास॒ इन्द्र॑ इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्र᳚म् ||{5/8}{6.28.5}{6.3.5.5}{4.6.25.5}{302, 469, 4670}

यू॒यं गा᳚वो मेदयथा कृ॒शं चि॑दश्री॒रं चि॑त्‌ कृणुथा सु॒प्रती᳚कम् |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्}

भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचो बृ॒हद्‌ वो॒ वय॑ उच्यते स॒भासु॑ ||{6/8}{6.28.6}{6.3.5.6}{4.6.25.6}{303, 469, 4671}

प्र॒जाव॑तीः सू॒यव॑सं रि॒शन्तीः᳚ शु॒द्धा, अ॒पः सु॑प्रपा॒णे पिब᳚न्तीः |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्}

मा वः॑ स्ते॒न ई᳚शत॒ माघशं᳚सः॒ परि॑ वो हे॒ती रु॒द्रस्य॑ वृज्याः ||{7/8}{6.28.7}{6.3.5.7}{4.6.25.7}{304, 469, 4672}

उपे॒दमु॑प॒पर्च॑नमा॒सु गोषूप॑ पृच्यताम् |{बार्हस्पत्यो भरद्वाजः | गाव इन्द्रो वा | अनुष्टुप्}

उप॑ ऋष॒भस्य॒ रेत॒स्युपे᳚न्द्र॒ तव॑ वी॒र्ये᳚ ||{8/8}{6.28.8}{6.3.5.8}{4.6.25.8}{305, 469, 4673}

[29] इंद्रंवइति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |
इन्द्रं᳚ वो॒ नरः॑ स॒ख्याय॑ सेपुर्म॒हो यन्तः॑ सुम॒तये᳚ चका॒नाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

म॒हो हि दा॒ता वज्र॑हस्तो॒, अस्ति॑ म॒हामु॑ र॒ण्वमव॑से यजध्वम् ||{1/6}{6.29.1}{6.3.6.1}{4.7.1.1}{306, 470, 4674}

आ यस्मि॒न्हस्ते॒ नर्या᳚ मिमि॒क्षुरा रथे᳚ हिर॒ण्यये᳚ रथे॒ष्ठाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

आ र॒श्मयो॒ गभ॑स्त्योः स्थू॒रयो॒राध्व॒न्नश्वा᳚सो॒ वृष॑णो युजा॒नाः ||{2/6}{6.29.2}{6.3.6.2}{4.7.1.2}{307, 470, 4675}

श्रि॒ये ते॒ पादा॒ दुव॒ आ मि॑मिक्षुर्धृ॒ष्णुर्व॒ज्री शव॑सा॒ दक्षि॑णावान् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वसा᳚नो॒, अत्कं᳚ सुर॒भिं दृ॒शे कं स्व१॑(अ॒)र्ण नृ॑तविषि॒रो ब॑भूथ ||{3/6}{6.29.3}{6.3.6.3}{4.7.1.3}{308, 470, 4676}

स सोम॒ आमि॑श्लतमः सु॒तो भू॒द्यस्मि᳚न्‌ प॒क्तिः प॒च्यते॒ सन्ति॑ धा॒नाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

इन्द्रं॒ नरः॑ स्तु॒वन्तो᳚ ब्रह्मका॒रा, उ॒क्था शंस᳚न्तो दे॒ववा᳚ततमाः ||{4/6}{6.29.4}{6.3.6.4}{4.7.1.4}{309, 470, 4677}

न ते॒, अन्तः॒ शव॑सो धाय्य॒स्य वि तु बा᳚बधे॒ रोद॑सी महि॒त्वा |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

आ ता सू॒रिः पृ॑णति॒ तूतु॑जानो यू॒थेवा॒प्सु स॒मीज॑मान ऊ॒ती ||{5/6}{6.29.5}{6.3.6.5}{4.7.1.5}{310, 470, 4678}

ए॒वेदिन्द्रः॑ सु॒हव॑ ऋ॒ष्वो, अ॑स्तू॒ती, अनू᳚ती हिरिशि॒प्रः सत्वा᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ए॒वा हि जा॒तो, अस॑मात्योजाः पु॒रू च॑ वृ॒त्रा ह॑नति॒ नि दस्यू॑न् ||{6/6}{6.29.6}{6.3.6.6}{4.7.1.6}{311, 470, 4679}

[30] भूयइति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |
भूय॒ इद्वा᳚वृधे वी॒र्या᳚यँ॒, एको᳚, अजु॒र्यो द॑यते॒ वसू᳚नि |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

प्र रि॑रिचे दि॒व इन्द्रः॑ पृथि॒व्या, अ॒र्धमिद॑स्य॒ प्रति॒ रोद॑सी, उ॒भे ||{1/5}{6.30.1}{6.3.7.1}{4.7.2.1}{312, 471, 4680}

अधा᳚ मन्ये बृ॒हद॑सु॒र्य॑मस्य॒ यानि॑ दा॒धार॒ नकि॒रा मि॑नाति |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

दि॒वेदि॑वे॒ सूर्यो᳚ दर्श॒तो भू॒द्वि सद्मा᳚न्युर्वि॒या सु॒क्रतु॑र्धात् ||{2/5}{6.30.2}{6.3.7.2}{4.7.2.2}{313, 471, 4681}

अ॒द्या चि॒न्नू चि॒त्तदपो᳚ न॒दीनां॒ यदा᳚भ्यो॒, अर॑दो गा॒तुमि᳚न्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

नि पर्व॑ता, अद्म॒सदो॒ न से᳚दु॒स्त्वया᳚ दृ॒ळ्हानि॑ सुक्रतो॒ रजां᳚सि ||{3/5}{6.30.3}{6.3.7.3}{4.7.2.3}{314, 471, 4682}

स॒त्यमित्तन्न त्वावाँ᳚, अ॒न्यो, अ॒स्तीन्द्र॑ दे॒वो न मर्त्यो॒ ज्याया॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अह॒न्नहिं᳚ परि॒शया᳚न॒मर्णोऽवा᳚सृजो, अ॒पो, अच्छा᳚ समु॒द्रम् ||{4/5}{6.30.4}{6.3.7.4}{4.7.2.4}{315, 471, 4683}

त्वम॒पो वि दुरो॒ विषू᳚ची॒रिन्द्र॑ दृ॒ळ्हम॑रुजः॒ पर्व॑तस्य |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

राजा᳚भवो॒ जग॑तश्चर्षणी॒नां सा॒कं सूर्यं᳚ ज॒नय॒न्द्यामु॒षास᳚म् ||{5/5}{6.30.5}{6.3.7.5}{4.7.2.5}{316, 471, 4684}

[31] अभूरेकइति पंचर्चस्य सूक्तस्य भारद्वाजः सुहोत्रइंद्रस्त्रिष्टुप् चतुर्थीशक्वरी (सुहोत्रः शुनहोत्रोनरो गर्गऋजिश्वाइत्येते ऋषयोबृहस्पतेः पौत्राउतदौष्षंतेर्भरतस्य पौत्रा इति विषयेइतिहासः श्रूयते) |
अभू॒रेको᳚ रयिपते रयी॒णामा हस्त॑योरधिथा, इन्द्र कृ॒ष्टीः |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

वि तो॒के, अ॒प्सु तन॑ये च॒ सूरेऽवो᳚चन्त चर्ष॒णयो॒ विवा᳚चः ||{1/5}{6.31.1}{6.3.8.1}{4.7.3.1}{317, 472, 4685}

त्वद्भि॒येन्द्र॒ पार्थि॑वानि॒ विश्वाच्यु॑ता चिच्च्यावयन्ते॒ रजां᳚सि |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

द्यावा॒क्षामा॒ पर्व॑तासो॒ वना᳚नि॒ विश्वं᳚ दृ॒ळ्हं भ॑यते॒, अज्म॒न्ना ते᳚ ||{2/5}{6.31.2}{6.3.8.2}{4.7.3.2}{318, 472, 4686}

त्वं कुत्से᳚ना॒भि शुष्ण॑मिन्द्रा॒शुषं᳚ युध्य॒ कुय॑वं॒ गवि॑ष्टौ |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

दश॑ प्रपि॒त्वे, अध॒ सूर्य॑स्य मुषा॒यश्च॒क्रमवि॑वे॒ रपां᳚सि ||{3/5}{6.31.3}{6.3.8.3}{4.7.3.3}{319, 472, 4687}

त्वं श॒तान्यव॒ शम्ब॑रस्य॒ पुरो᳚ जघन्थाप्र॒तीनि॒ दस्योः᳚ |{भारद्वाजः सुहोत्रः | इन्द्रः | शक्वरी}

अशि॑क्षो॒ यत्र॒ शच्या᳚ शचीवो॒ दिवो᳚दासाय सुन्व॒ते सु॑तक्रे भ॒रद्वा᳚जाय गृण॒ते वसू᳚नि ||{4/5}{6.31.4}{6.3.8.4}{4.7.3.4}{320, 472, 4688}

स स॑त्यसत्वन्मह॒ते रणा᳚य॒ रथ॒मा ति॑ष्ठ तुविनृम्ण भी॒मम् |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

या॒हि प्र॑पथि॒न्नव॒सोप॑ म॒द्रिक्प्र च॑ श्रुत श्रावय चर्ष॒णिभ्यः॑ ||{5/5}{6.31.5}{6.3.8.5}{4.7.3.5}{321, 472, 4689}

[32] अपूर्व्येति पंचर्चस्य सूक्तस्य भारद्वाजः सुहोत्रइंद्रस्त्रिष्टुप् |
अपू᳚र्व्या पुरु॒तमा᳚न्यस्मै म॒हे वी॒राय॑ त॒वसे᳚ तु॒राय॑ |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

वि॒र॒प्शिने᳚ व॒ज्रिणे॒ शंत॑मानि॒ वचां᳚स्या॒सा स्थवि॑राय तक्षम् ||{1/5}{6.32.1}{6.3.9.1}{4.7.4.1}{322, 473, 4690}

स मा॒तरा॒ सूर्ये᳚णा कवी॒नामवा᳚सयद्रु॒जदद्रिं᳚ गृणा॒नः |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

स्वा॒धीभि॒रृक्व॑भिर्वावशा॒न उदु॒स्रिया᳚णामसृजन्नि॒दान᳚म् ||{2/5}{6.32.2}{6.3.9.2}{4.7.4.2}{323, 473, 4691}

स वह्नि॑भि॒रृक्व॑भि॒र्गोषु॒ शश्व᳚न्मि॒तज्ञु॑भिः पुरु॒कृत्वा᳚ जिगाय |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

पुरः॑ पुरो॒हा सखि॑भिः सखी॒यन्दृ॒ळ्हा रु॑रोज क॒विभिः॑ क॒विः सन् ||{3/5}{6.32.3}{6.3.9.3}{4.7.4.3}{324, 473, 4692}

स नी॒व्या᳚भिर्जरि॒तार॒मच्छा᳚ म॒हो वाजे᳚भिर्म॒हद्भि॑श्च॒ शुष्मैः᳚ |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

पु॒रु॒वीरा᳚भिर्वृषभ क्षिती॒नामा गि᳚र्वणः सुवि॒ताय॒ प्र या᳚हि ||{4/5}{6.32.4}{6.3.9.4}{4.7.4.4}{325, 473, 4693}

स सर्गे᳚ण॒ शव॑सा त॒क्तो, अत्यै᳚र॒प इन्द्रो᳚ दक्षिण॒तस्तु॑रा॒षाट् |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

इ॒त्था सृ॑जा॒ना, अन॑पावृ॒दर्थं᳚ दि॒वेदि॑वे विविषुरप्रमृ॒ष्यम् ||{5/5}{6.32.5}{6.3.9.5}{4.7.4.5}{326, 473, 4694}

[33] यओजिष्ठइति पंचर्चस्य सूक्तस्य भारद्वाजः शुनहोत्र इंद्रस्त्रिष्टुप् |
य ओजि॑ष्ठ इन्द्र॒ तं सु नो᳚ दा॒ मदो᳚ वृषन्‌ त्स्वभि॒ष्टिर्दास्वा॑न् |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

सौव॑श्व्यं॒ यो व॒नव॒त्स्वश्वो᳚ वृ॒त्रा स॒मत्सु॑ सा॒सह॑द॒मित्रा॑न् ||{1/5}{6.33.1}{6.3.10.1}{4.7.5.1}{327, 474, 4695}

त्वां ही॒३॑(ई॒)न्द्राव॑से॒ विवा᳚चो॒ हव᳚न्ते चर्ष॒णयः॒ शूर॑सातौ |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

त्वं विप्रे᳚भि॒र्वि प॒णीँर॑शाय॒स्त्वोत॒ इत्सनि॑ता॒ वाज॒मर्वा᳚ ||{2/5}{6.33.2}{6.3.10.2}{4.7.5.2}{328, 474, 4696}

त्वं ताँ, इ᳚न्द्रो॒भयाँ᳚, अ॒मित्रा॒न्दासा᳚ वृ॒त्राण्यार्या᳚ च शूर |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

वधी॒र्वने᳚व॒ सुधि॑तेभि॒रत्कै॒रा पृ॒त्सु द॑र्षि नृ॒णां नृ॑तम ||{3/5}{6.33.3}{6.3.10.3}{4.7.5.3}{329, 474, 4697}

स त्वं न॑ इ॒न्द्राक॑वाभिरू॒ती सखा᳚ वि॒श्वायु॑रवि॒ता वृ॒धे भूः᳚ |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

स्व॑र्षाता॒ यद्ध्वया᳚मसि त्वा॒ युध्य᳚न्तो ने॒मधि॑ता पृ॒त्सु शू᳚र ||{4/5}{6.33.4}{6.3.10.4}{4.7.5.4}{330, 474, 4698}

नू॒नं न॑ इन्द्राप॒राय॑ च स्या॒ भवा᳚ मृळी॒क उ॒त नो᳚, अ॒भिष्टौ᳚ |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

इ॒त्था गृ॒णन्तो᳚ म॒हिन॑स्य॒ शर्म᳚न्दि॒वि ष्या᳚म॒ पार्ये᳚ गो॒षत॑माः ||{5/5}{6.33.5}{6.3.10.5}{4.7.5.5}{331, 474, 4699}

[34] संचत्वइति पंचर्चस्य सूक्तस्य भारद्वाजः शुनहोत्र-इंद्रस्त्रिष्टुप् |
सं च॒ त्वे ज॒ग्मुर्गिर॑ इन्द्र पू॒र्वीर्वि च॒ त्वद्य᳚न्ति वि॒भ्वो᳚ मनी॒षाः |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

पु॒रा नू॒नं च॑ स्तु॒तय॒ ऋषी᳚णां पस्पृ॒ध्र इन्द्रे॒, अध्यु॑क्था॒र्का ||{1/5}{6.34.1}{6.3.11.1}{4.7.6.1}{332, 475, 4700}

पु॒रु॒हू॒तो यः पु॑रुगू॒र्त ऋभ्वाँ॒, एकः॑ पुरुप्रश॒स्तो, अस्ति॑ य॒ज्ञैः |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

रथो॒ न म॒हे शव॑से युजा॒नो॒३॑(ओ॒)ऽस्माभि॒रिन्द्रो᳚, अनु॒माद्यो᳚ भूत् ||{2/5}{6.34.2}{6.3.11.2}{4.7.6.2}{333, 475, 4701}

न यं हिंस᳚न्ति धी॒तयो॒ न वाणी॒रिन्द्रं॒ नक्ष॒न्तीद॒भि व॒र्धय᳚न्तीः |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

यदि॑ स्तो॒तारः॑ श॒तं यत्स॒हस्रं᳚ गृ॒णन्ति॒ गिर्व॑णसं॒ शं तद॑स्मै ||{3/5}{6.34.3}{6.3.11.3}{4.7.6.3}{334, 475, 4702}

अस्मा᳚, ए॒तद्दि॒व्य१॑(अ॒)र्चेव॑ मा॒सा मि॑मि॒क्ष इन्द्रे॒ न्य॑यामि॒ सोमः॑ |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

जनं॒ न धन्व᳚न्न॒भि सं यदापः॑ स॒त्रा वा᳚वृधु॒र्हव॑नानि य॒ज्ञैः ||{4/5}{6.34.4}{6.3.11.4}{4.7.6.4}{335, 475, 4703}

अस्मा᳚, ए॒तन्मह्या᳚ङ्गू॒षम॑स्मा॒, इन्द्रा᳚य स्तो॒त्रं म॒तिभि॑रवाचि |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

अस॒द्यथा᳚ मह॒ति वृ॑त्र॒तूर्य॒ इन्द्रो᳚ वि॒श्वायु॑रवि॒ता वृ॒धश्च॑ ||{5/5}{6.34.5}{6.3.11.5}{4.7.6.5}{336, 475, 4704}

[35] कदाभुवन्निति पंचर्चस्य सूक्तस्य भारद्वाजोनर इंद्रस्त्रिष्टुप् |
क॒दा भु॑व॒न्‌ रथ॑क्षयाणि॒ ब्रह्म॑ क॒दा स्तो॒त्रे स॑हस्रपो॒ष्यं᳚ दाः |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

क॒दा स्तोमं᳚ वासयोऽस्य रा॒या क॒दा धियः॑ करसि॒ वाज॑रत्नाः ||{1/5}{6.35.1}{6.3.12.1}{4.7.7.1}{337, 476, 4705}

कर्हि॑ स्वि॒त्तदि᳚न्द्र॒ यन्नृभि॒र्नॄन्वी॒रैर्वी॒रान्नी॒ळया᳚से॒ जया॒जीन् |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

त्रि॒धातु॒ गा, अधि॑ जयासि॒ गोष्विन्द्र॑ द्यु॒म्नं स्व᳚र्वद्धेह्य॒स्मे ||{2/5}{6.35.2}{6.3.12.2}{4.7.7.2}{338, 476, 4706}

कर्हि॑ स्वि॒त्तदि᳚न्द्र॒ यज्ज॑रि॒त्रे वि॒श्वप्सु॒ ब्रह्म॑ कृ॒णवः॑ शविष्ठ |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

क॒दा धियो॒ न नि॒युतो᳚ युवासे क॒दा गोम॑घा॒ हव॑नानि गच्छाः ||{3/5}{6.35.3}{6.3.12.3}{4.7.7.3}{339, 476, 4707}

स गोम॑घा जरि॒त्रे, अश्व॑श्चन्द्रा॒ वाज॑श्रवसो॒, अधि॑ धेहि॒ पृक्षः॑ |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

पी॒पि॒हीषः॑ सु॒दुघा᳚मिन्द्र धे॒नुं भ॒रद्वा᳚जेषु सु॒रुचो᳚ रुरुच्याः ||{4/5}{6.35.4}{6.3.12.4}{4.7.7.4}{340, 476, 4708}

तमा नू॒नं वृ॒जन॑म॒न्यथा᳚ चि॒च्छूरो॒ यच्छ॑क्र॒ वि दुरो᳚ गृणी॒षे |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

मा निर॑रं शुक्र॒दुघ॑स्य धे॒नोरा᳚ङ्गिर॒सान्‌ ब्रह्म॑णा विप्र जिन्व ||{5/5}{6.35.5}{6.3.12.5}{4.7.7.5}{341, 476, 4709}

[36] सत्रामदासइति पंचर्चस्य सूक्तस्य भारद्वाजोनरइंद्रस्त्रिष्टुप् |
स॒त्रा मदा᳚स॒स्तव॑ वि॒श्वज᳚न्याः स॒त्रा रायोऽध॒ ये पार्थि॑वासः |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

स॒त्रा वाजा᳚नामभवो विभ॒क्ता यद्दे॒वेषु॑ धा॒रय॑था, असु॒र्य᳚म् ||{1/5}{6.36.1}{6.3.13.1}{4.7.8.1}{342, 477, 4710}

अनु॒ प्र ये᳚जे॒ जन॒ ओजो᳚, अस्य स॒त्रा द॑धिरे॒, अनु॑ वी॒र्या᳚य |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

स्यू॒म॒गृभे॒ दुध॒येऽर्व॑ते च॒ क्रतुं᳚ वृञ्ज॒न्त्यपि॑ वृत्र॒हत्ये᳚ ||{2/5}{6.36.2}{6.3.13.2}{4.7.8.2}{343, 477, 4711}

तं स॒ध्रीची᳚रू॒तयो॒ वृष्ण्या᳚नि॒ पौंस्या᳚नि नि॒युतः॑ सश्चु॒रिन्द्र᳚म् |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

स॒मु॒द्रं न सिन्ध॑व उ॒क्थशु॑ष्मा, उरु॒व्यच॑सं॒ गिर॒ आ वि॑शन्ति ||{3/5}{6.36.3}{6.3.13.3}{4.7.8.3}{344, 477, 4712}

स रा॒यस्खामुप॑ सृजा गृणा॒नः पु॑रुश्च॒न्द्रस्य॒ त्वमि᳚न्द्र॒ वस्वः॑ |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

पति॑र्बभू॒थास॑मो॒ जना᳚ना॒मेको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा᳚ ||{4/5}{6.36.4}{6.3.13.4}{4.7.8.4}{345, 477, 4713}

स तु श्रु॑धि॒ श्रुत्या॒ यो दु॑वो॒युर्द्यौर्न भूमा॒भि रायो᳚, अ॒र्यः |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

असो॒ यथा᳚ नः॒ शव॑सा चका॒नो यु॒गेयु॑गे॒ वय॑सा॒ चेकि॑तानः ||{5/5}{6.36.5}{6.3.13.5}{4.7.8.5}{346, 477, 4714}

[37] अर्वाग्रथमिति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजः इंद्रस्त्रिष्टुप् |
अ॒र्वाग्रथं᳚ वि॒श्ववा᳚रं त उ॒ग्रेन्द्र॑ यु॒क्तासो॒ हर॑यो वहन्तु |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

की॒रिश्चि॒द्धि त्वा॒ हव॑ते॒ स्व᳚र्वानृधी॒महि॑ सध॒माद॑स्ते, अ॒द्य ||{1/5}{6.37.1}{6.3.14.1}{4.7.9.1}{347, 478, 4715}

प्रो द्रोणे॒ हर॑यः॒ कर्मा᳚ग्मन्‌ पुना॒नास॒ ऋज्य᳚न्तो, अभूवन् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

इन्द्रो᳚ नो, अ॒स्य पू॒र्व्यः प॑पीयाद्द्यु॒क्षो मद॑स्य सो॒म्यस्य॒ राजा᳚ ||{2/5}{6.37.2}{6.3.14.2}{4.7.9.2}{348, 478, 4716}

आ॒स॒स्रा॒णासः॑ शवसा॒नमच्छेन्द्रं᳚ सुच॒क्रे र॒थ्या᳚सो॒, अश्वाः᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अ॒भि श्रव॒ ऋज्य᳚न्तो वहेयु॒र्नू चि॒न्नु वा॒योर॒मृतं॒ वि द॑स्येत् ||{3/5}{6.37.3}{6.3.14.3}{4.7.9.3}{349, 478, 4717}

वरि॑ष्ठो, अस्य॒ दक्षि॑णामिय॒र्तीन्द्रो᳚ म॒घोनां᳚ तुविकू॒र्मित॑मः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यया᳚ वज्रिवः परि॒यास्यंहो᳚ म॒घा च॑ धृष्णो॒ दय॑से॒ वि सू॒रीन् ||{4/5}{6.37.4}{6.3.14.4}{4.7.9.4}{350, 478, 4718}

इन्द्रो॒ वाज॑स्य॒ स्थवि॑रस्य दा॒तेन्द्रो᳚ गी॒र्भिर्व॑र्धतां वृ॒द्धम॑हाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

इन्द्रो᳚ वृ॒त्रं हनि॑ष्ठो, अस्तु॒ सत्वा ता सू॒रिः पृ॑णति॒ तूतु॑जानः ||{5/5}{6.37.5}{6.3.14.5}{4.7.9.5}{351, 478, 4719}

[38] अपादितइति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |
अपा᳚दि॒त उदु॑ नश्चि॒त्रत॑मो म॒हीं भ॑र्षद्द्यु॒मती॒मिन्द्र॑हूतिम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

पन्य॑सीं धी॒तिं दैव्य॑स्य॒ याम॒ञ्जन॑स्य रा॒तिं व॑नते सु॒दानुः॑ ||{1/5}{6.38.1}{6.3.15.1}{4.7.10.1}{352, 479, 4720}

दू॒राच्चि॒दा व॑सतो, अस्य॒ कर्णा॒ घोषा॒दिन्द्र॑स्य तन्यति ब्रुवा॒णः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

एयमे᳚नं दे॒वहू᳚तिर्ववृत्यान्म॒द्र्य१॑(अ॒)गिन्द्र॑मि॒यमृ॒च्यमा᳚ना ||{2/5}{6.38.2}{6.3.15.2}{4.7.10.2}{353, 479, 4721}

तं वो᳚ धि॒या प॑र॒मया᳚ पुरा॒जाम॒जर॒मिन्द्र॑म॒भ्य॑नूष्य॒र्कैः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ब्रह्मा᳚ च॒ गिरो᳚ दधि॒रे सम॑स्मिन्म॒हाँश्च॒ स्तोमो॒, अधि॑ वर्ध॒दिन्द्रे᳚ ||{3/5}{6.38.3}{6.3.15.3}{4.7.10.3}{354, 479, 4722}

वर्धा॒द्यं य॒ज्ञ उ॒त सोम॒ इन्द्रं॒ वर्धा॒द्ब्रह्म॒ गिर॑ उ॒क्था च॒ मन्म॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वर्धाहै᳚नमु॒षसो॒ याम᳚न्न॒क्तोर्वर्धा॒न्मासाः᳚ श॒रदो॒ द्याव॒ इन्द्र᳚म् ||{4/5}{6.38.4}{6.3.15.4}{4.7.10.4}{355, 479, 4723}

ए॒वा ज॑ज्ञा॒नं सह॑से॒, असा᳚मि वावृधा॒नं राध॑से च श्रु॒ताय॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

म॒हामु॒ग्रमव॑से विप्र नू॒नमा वि॑वासेम वृत्र॒तूर्ये᳚षु ||{5/5}{6.38.5}{6.3.15.5}{4.7.10.5}{356, 479, 4724}

[39] मंद्रस्य कवेरितिपंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |
म॒न्द्रस्य॑ क॒वेर्दि॒व्यस्य॒ वह्ने॒र्विप्र॑मन्मनो वच॒नस्य॒ मध्वः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अपा᳚ न॒स्तस्य॑ सच॒नस्य॑ दे॒वेषो᳚ युवस्व गृण॒ते गो,अ॑ग्राः ||{1/5}{6.39.1}{6.3.16.1}{4.7.11.1}{357, 480, 4725}

अ॒यमु॑शा॒नः पर्यद्रि॑मु॒स्रा, ऋ॒तधी᳚तिभिरृत॒युग्यु॑जा॒नः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

रु॒जदरु॑ग्णं॒ वि व॒लस्य॒ सानुं᳚ प॒णीँर्वचो᳚भिर॒भि यो᳚ध॒दिन्द्रः॑ ||{2/5}{6.39.2}{6.3.16.2}{4.7.11.2}{358, 480, 4726}

अ॒यं द्यो᳚तयद॒द्युतो॒ व्य१॑(अ॒)क्तून्दो॒षा वस्तोः᳚ श॒रद॒ इन्दु॑रिन्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

इ॒मं के॒तुम॑दधु॒र्नू चि॒दह्नां॒ शुचि॑जन्मन उ॒षस॑श्चकार ||{3/5}{6.39.3}{6.3.16.3}{4.7.11.3}{359, 480, 4727}

अ॒यं रो᳚चयद॒रुचो᳚ रुचा॒नो॒३॑(ओ॒)ऽयं वा᳚सय॒द्व्यृ१॑(ऋ॒)तेन॑ पू॒र्वीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अ॒यमी᳚यत ऋत॒युग्भि॒रश्वैः᳚ स्व॒र्विदा॒ नाभि॑ना चर्षणि॒प्राः ||{4/5}{6.39.4}{6.3.16.4}{4.7.11.4}{360, 480, 4728}

नू गृ॑णा॒नो गृ॑ण॒ते प्र॑त्न राज॒न्निषः॑ पिन्व वसु॒देया᳚य पू॒र्वीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अ॒प ओष॑धीरवि॒षा वना᳚नि॒ गा, अर्व॑तो॒ नॄनृ॒चसे᳚ रिरीहि ||{5/5}{6.39.5}{6.3.16.5}{4.7.11.5}{361, 480, 4729}

[40] इंद्रपिबेति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |
इन्द्र॒ पिब॒ तुभ्यं᳚ सु॒तो मदा॒याव॑ स्य॒ हरी॒ वि मु॑चा॒ सखा᳚या |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

उ॒त प्र गा᳚य ग॒ण आ नि॒षद्याथा᳚ य॒ज्ञाय॑ गृण॒ते वयो᳚ धाः ||{1/5}{6.40.1}{6.3.17.1}{4.7.12.1}{362, 481, 4730}

अस्य॑ पिब॒ यस्य॑ जज्ञा॒न इ᳚न्द्र॒ मदा᳚य॒ क्रत्वे॒, अपि॑बो विरप्शिन् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तमु॑ ते॒ गावो॒ नर॒ आपो॒, अद्रि॒रिन्दुं॒ सम॑ह्यन्‌ पी॒तये॒ सम॑स्मै ||{2/5}{6.40.2}{6.3.17.2}{4.7.12.2}{363, 481, 4731}

समि॑द्धे, अ॒ग्नौ सु॒त इ᳚न्द्र॒ सोम॒ आ त्वा᳚ वहन्तु॒ हर॑यो॒ वहि॑ष्ठाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वा॒य॒ता मन॑सा जोहवी॒मीन्द्रा या᳚हि सुवि॒ताय॑ म॒हे नः॑ ||{3/5}{6.40.3}{6.3.17.3}{4.7.12.3}{364, 481, 4732}

आ या᳚हि॒ शश्व॑दुश॒ता य॑या॒थेन्द्र॑ म॒हा मन॑सा सोम॒पेय᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

उप॒ ब्रह्मा᳚णि शृणव इ॒मा नोऽथा᳚ ते य॒ज्ञस्त॒न्वे॒३॑(ए॒) वयो᳚ धात् ||{4/5}{6.40.4}{6.3.17.4}{4.7.12.4}{365, 481, 4733}

यदि᳚न्द्र दि॒वि पार्ये॒ यदृध॒ग्यद्वा॒ स्वे सद॑ने॒ यत्र॒ वासि॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अतो᳚ नो य॒ज्ञमव॑से नि॒युत्वा᳚न्‌ त्स॒जोषाः᳚ पाहि गिर्वणो म॒रुद्भिः॑ ||{5/5}{6.40.5}{6.3.17.5}{4.7.12.5}{366, 481, 4734}

[41] अहेळमानइति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |
अहे᳚ळमान॒ उप॑ याहि य॒ज्ञं तुभ्यं᳚ पवन्त॒ इन्द॑वः सु॒तासः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

गावो॒ न व॑ज्रि॒न्‌ त्स्वमोको॒, अच्छेन्द्रा ग॑हि प्रथ॒मो य॒ज्ञिया᳚नाम् ||{1/5}{6.41.1}{6.3.18.1}{4.7.13.1}{367, 482, 4735}

या ते᳚ का॒कुत्सुकृ॑ता॒ या वरि॑ष्ठा॒ यया॒ शश्व॒त्पिब॑सि॒ मध्व॑ ऊ॒र्मिम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तया᳚ पाहि॒ प्र ते᳚, अध्व॒र्युर॑स्था॒त्सं ते॒ वज्रो᳚ वर्ततामिन्द्र ग॒व्युः ||{2/5}{6.41.2}{6.3.18.2}{4.7.13.2}{368, 482, 4736}

ए॒ष द्र॒प्सो वृ॑ष॒भो वि॒श्वरू᳚प॒ इन्द्रा᳚य॒ वृष्णे॒ सम॑कारि॒ सोमः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ए॒तं पि॑ब हरिवः स्थातरुग्र॒ यस्येशि॑षे प्र॒दिवि॒ यस्ते॒, अन्न᳚म् ||{3/5}{6.41.3}{6.3.18.3}{4.7.13.3}{369, 482, 4737}

सु॒तः सोमो॒, असु॑तादिन्द्र॒ वस्या᳚न॒यं श्रेया᳚ञ्चिकि॒तुषे॒ रणा᳚य |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ए॒तं ति॑तिर्व॒ उप॑ याहि य॒ज्ञं तेन॒ विश्वा॒स्तवि॑षी॒रा पृ॑णस्व ||{4/5}{6.41.4}{6.3.18.4}{4.7.13.4}{370, 482, 4738}

ह्वया᳚मसि॒ त्वेन्द्र॑ याह्य॒र्वाङरं᳚ ते॒ सोम॑स्त॒न्वे᳚ भवाति |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

शत॑क्रतो मा॒दय॑स्वा सु॒तेषु॒ प्रास्माँ, अ॑व॒ पृत॑नासु॒ प्र वि॒क्षु ||{5/5}{6.41.5}{6.3.18.5}{4.7.13.5}{371, 482, 4739}

[42] प्रत्यस्मा इति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रोनुष्टुबंत्याबृहती |
प्रत्य॑स्मै॒ पिपी᳚षते॒ विश्वा᳚नि वि॒दुषे᳚ भर |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | अनुष्टुप्}

अ॒रं॒ग॒माय॒ जग्म॒येऽप॑श्चाद्दघ्वने॒ नरे᳚ ||{1/4}{6.42.1}{6.3.19.1}{4.7.14.1}{372, 483, 4740}

एमे᳚नं प्र॒त्येत॑न॒ सोमे᳚भिः सोम॒पात॑मम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | अनुष्टुप्}

अम॑त्रेभिरृजी॒षिण॒मिन्द्रं᳚ सु॒तेभि॒रिन्दु॑भिः ||{2/4}{6.42.2}{6.3.19.2}{4.7.14.2}{373, 483, 4741}

यदी᳚ सु॒तेभि॒रिन्दु॑भिः॒ सोमे᳚भिः प्रति॒भूष॑थ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | अनुष्टुप्}

वेदा॒ विश्व॑स्य॒ मेधि॑रो धृ॒षत्तंत॒मिदेष॑ते ||{3/4}{6.42.3}{6.3.19.3}{4.7.14.3}{374, 483, 4742}

अ॒स्मा,अ॑स्मा॒, इदन्ध॒सोऽध्व᳚र्यो॒ प्र भ॑रा सु॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | बृहती}

कु॒वित्स॑मस्य॒ जेन्य॑स्य॒ शर्ध॑तो॒ऽभिश॑स्तेरव॒स्पर॑त् ||{4/4}{6.42.4}{6.3.19.4}{4.7.14.4}{375, 483, 4743}

[43] यस्यत्यदिति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रउष्णिक् |
यस्य॒ त्यच्छम्ब॑रं॒ मदे॒ दिवो᳚दासाय र॒न्धयः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | उष्णिक्}

अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ||{1/4}{6.43.1}{6.3.20.1}{4.7.15.1}{376, 484, 4744}

यस्य॑ तीव्र॒सुतं॒ मदं॒ मध्य॒मन्तं᳚ च॒ रक्ष॑से |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | उष्णिक्}

अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ||{2/4}{6.43.2}{6.3.20.2}{4.7.15.2}{377, 484, 4745}

यस्य॒ गा, अ॒न्तरश्म॑नो॒ मदे᳚ दृ॒ळ्हा, अ॒वासृ॑जः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | उष्णिक्}

अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ||{3/4}{6.43.3}{6.3.20.3}{4.7.15.3}{378, 484, 4746}

यस्य॑ मन्दा॒नो, अन्ध॑सो॒ माघो᳚नं दधि॒षे शवः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | उष्णिक्}

अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ||{4/4}{6.43.4}{6.3.20.4}{4.7.15.4}{379, 484, 4747}

[44] योरयिवइति चतुर्विंशत्यृचस्य सूक्तस्य बार्हस्पत्यः शंयुरिंद्रस्त्रिष्टुबाद्याः षढनुष्टुभः सप्तम्यादितिस्रो विराट्‌पंक्त्यः | (तिसृष्वष्टम्येवविराट्‌ सप्तमीनवम्यौतु त्रिष्टुभाविति केचित्) |
यो र॑यिवो र॒यिंत॑मो॒ यो द्यु॒म्नैर्द्यु॒म्नव॑त्तमः |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्}

सोमः॑ सु॒तः स इ᳚न्द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ||{1/24}{6.44.1}{6.4.1.1}{4.7.16.1}{380, 485, 4748}

यः श॒ग्मस्तु॑विशग्म ते रा॒यो दा॒मा म॑ती॒नाम् |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्}

सोमः॑ सु॒तः स इ᳚न्द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ||{2/24}{6.44.2}{6.4.1.2}{4.7.16.2}{381, 485, 4749}

येन॑ वृ॒द्धो न शव॑सा तु॒रो न स्वाभि॑रू॒तिभिः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्}

सोमः॑ सु॒तः स इ᳚न्द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ||{3/24}{6.44.3}{6.4.1.3}{4.7.16.3}{382, 485, 4750}

त्यमु॑ वो॒, अप्र॑हणं गृणी॒षे शव॑स॒स्पति᳚म् |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्}

इन्द्रं᳚ विश्वा॒साहं॒ नरं॒ मंहि॑ष्ठं वि॒श्वच॑र्षणिम् ||{4/24}{6.44.4}{6.4.1.4}{4.7.16.4}{383, 485, 4751}

यं व॒र्धय॒न्तीद्गिरः॒ पतिं᳚ तु॒रस्य॒ राध॑सः |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्}

तमिन्न्व॑स्य॒ रोद॑सी दे॒वी शुष्मं᳚ सपर्यतः ||{5/24}{6.44.5}{6.4.1.5}{4.7.16.5}{384, 485, 4752}

तद्व॑ उ॒क्थस्य॑ ब॒र्हणेन्द्रा᳚योपस्तृणी॒षणि॑ |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्}

विपो॒ न यस्यो॒तयो॒ वि यद्रोह᳚न्ति स॒क्षितः॑ ||{6/24}{6.44.6}{6.4.1.6}{4.7.17.1}{385, 485, 4753}

अवि॑द॒द्दक्षं᳚ मि॒त्रो नवी᳚यान्‌ पपा॒नो दे॒वेभ्यो॒ वस्यो᳚, अचैत् |{बार्हस्पत्यः शंयः | इन्द्रः | पङ्क्तिः}

स॒स॒वान्‌ त्स्तौ॒लाभि॑र्धौ॒तरी᳚भिरुरु॒ष्या पा॒युर॑भव॒त्सखि॑भ्यः ||{7/24}{6.44.7}{6.4.1.7}{4.7.17.2}{386, 485, 4754}

ऋ॒तस्य॑ प॒थि वे॒धा, अ॑पायि श्रि॒ये मनां᳚सि दे॒वासो᳚, अक्रन् |{बार्हस्पत्यः शंयः | इन्द्रः | पङ्क्तिः}

दधा᳚नो॒ नाम॑ म॒हो वचो᳚भि॒र्वपु॑र्दृ॒शये᳚ वे॒न्यो व्या᳚वः ||{8/24}{6.44.8}{6.4.1.8}{4.7.17.3}{387, 485, 4755}

द्यु॒मत्त॑मं॒ दक्षं᳚ धेह्य॒स्मे सेधा॒ जना᳚नां पू॒र्वीररा᳚तीः |{बार्हस्पत्यः शंयः | इन्द्रः | पङ्क्तिः}

वर्षी᳚यो॒ वयः॑ कृणुहि॒ शची᳚भि॒र्धन॑स्य सा॒ताव॒स्माँ, अ॑विड्ढि ||{9/24}{6.44.9}{6.4.1.9}{4.7.17.4}{388, 485, 4756}

इन्द्र॒ तुभ्य॒मिन्म॑घवन्नभूम व॒यं दा॒त्रे ह॑रिवो॒ मा वि वे᳚नः |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

नकि॑रा॒पिर्द॑दृशे मर्त्य॒त्रा किम॒ङ्ग र॑ध्र॒चोद॑नं त्वाहुः ||{10/24}{6.44.10}{6.4.1.10}{4.7.17.5}{389, 485, 4757}

मा जस्व॑ने वृषभ नो ररीथा॒ मा ते᳚ रे॒वतः॑ स॒ख्ये रि॑षाम |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

पू॒र्वीष्ट॑ इन्द्र नि॒ष्षिधो॒ जने᳚षु ज॒ह्यसु॑ष्वी॒न्‌ प्र वृ॒हापृ॑णतः ||{11/24}{6.44.11}{6.4.1.11}{4.7.18.1}{390, 485, 4758}

उद॒भ्राणी᳚व स्त॒नय᳚न्निय॒र्तीन्द्रो॒ राधां॒स्यश्व्या᳚नि॒ गव्या᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

त्वम॑सि प्र॒दिवः॑ का॒रुधा᳚या॒ मा त्वा᳚दा॒मान॒ आ द॑भन्म॒घोनः॑ ||{12/24}{6.44.12}{6.4.1.12}{4.7.18.2}{391, 485, 4759}

अध्व᳚र्यो वीर॒ प्र म॒हे सु॒ताना॒मिन्द्रा᳚य भर॒ स ह्य॑स्य॒ राजा᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

यः पू॒र्व्याभि॑रु॒त नूत॑नाभिर्गी॒र्भिर्वा᳚वृ॒धे गृ॑ण॒तामृषी᳚णाम् ||{13/24}{6.44.13}{6.4.1.13}{4.7.18.3}{392, 485, 4760}

अ॒स्य मदे᳚ पु॒रु वर्पां᳚सि वि॒द्वानिन्द्रो᳚ वृ॒त्राण्य॑प्र॒ती ज॑घान |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

तमु॒ प्र हो᳚षि॒ मधु॑मन्तमस्मै॒ सोमं᳚ वी॒राय॑ शि॒प्रिणे॒ पिब॑ध्यै ||{14/24}{6.44.14}{6.4.1.14}{4.7.18.4}{393, 485, 4761}

पाता᳚ सु॒तमिन्द्रो᳚, अस्तु॒ सोमं॒ हन्ता᳚ वृ॒त्रं वज्रे᳚ण मन्दसा॒नः |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

गन्ता᳚ य॒ज्ञं प॑रा॒वत॑श्चि॒दच्छा॒ वसु॑र्धी॒नाम॑वि॒ता का॒रुधा᳚याः ||{15/24}{6.44.15}{6.4.1.15}{4.7.18.5}{394, 485, 4762}

इ॒दं त्यत्पात्र॑मिन्द्र॒पान॒मिन्द्र॑स्य प्रि॒यम॒मृत॑मपायि |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

मत्स॒द्यथा᳚ सौमन॒साय॑ दे॒वं व्य१॑(अ॒)स्मद्द्वेषो᳚ यु॒यव॒द्‌ व्यंहः॑ ||{16/24}{6.44.16}{6.4.1.16}{4.7.19.1}{395, 485, 4763}

ए॒ना म᳚न्दा॒नो ज॒हि शू᳚र॒ शत्रू᳚ञ्जा॒मिमजा᳚मिं मघवन्न॒मित्रा॑न् |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

अ॒भि॒षे॒णाँ, अ॒भ्या॒३॑(आ॒)देदि॑शाना॒न्‌ परा᳚च इन्द्र॒ प्र मृ॑णा ज॒ही च॑ ||{17/24}{6.44.17}{6.4.1.17}{4.7.19.2}{396, 485, 4764}

आ॒सु ष्मा᳚ णो मघवन्निन्द्र पृ॒त्स्व१॑(अ॒)स्मभ्यं॒ महि॒ वरि॑वः सु॒गं कः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

अ॒पां तो॒कस्य॒ तन॑यस्य जे॒ष इन्द्र॑ सू॒रीन्‌ कृ॑णु॒हि स्मा᳚ नो, अ॒र्धम् ||{18/24}{6.44.18}{6.4.1.18}{4.7.19.3}{397, 485, 4765}

आ त्वा॒ हर॑यो॒ वृष॑णो युजा॒ना वृष॑रथासो॒ वृष॑रश्म॒योऽत्याः᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

अ॒स्म॒त्राञ्चो॒ वृष॑णो वज्र॒वाहो॒ वृष्णे॒ मदा᳚य सु॒युजो᳚ वहन्तु ||{19/24}{6.44.19}{6.4.1.19}{4.7.19.4}{398, 485, 4766}

आ ते᳚ वृष॒न्‌ वृष॑णो॒ द्रोण॑मस्थुर्घृत॒प्रुषो॒ नोर्मयो॒ मद᳚न्तः |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒ प्र तुभ्यं॒ वृष॑भिः सु॒तानां॒ वृष्णे᳚ भरन्ति वृष॒भाय॒ सोम᳚म् ||{20/24}{6.44.20}{6.4.1.20}{4.7.19.5}{399, 485, 4767}

वृषा᳚सि दि॒वो वृ॑ष॒भः पृ॑थि॒व्या वृषा॒ सिन्धू᳚नां वृष॒भः स्तिया᳚नाम् |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

वृष्णे᳚ त॒ इन्दु᳚र्वृषभ पीपाय स्वा॒दू रसो᳚ मधु॒पेयो॒ वरा᳚य ||{21/24}{6.44.21}{6.4.1.21}{4.7.20.1}{400, 485, 4768}

अ॒यं दे॒वः सह॑सा॒ जाय॑मान॒ इन्द्रे᳚ण यु॒जा प॒णिम॑स्तभायत् |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

अ॒यं स्वस्य॑ पि॒तुरायु॑धा॒नीन्दु॑रमुष्णा॒दशि॑वस्य मा॒याः ||{22/24}{6.44.22}{6.4.1.22}{4.7.20.2}{401, 485, 4769}

अ॒यम॑कृणोदु॒षसः॑ सु॒पत्नी᳚र॒यं सूर्ये᳚, अदधा॒ज्ज्योति॑र॒न्तः |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

अ॒यं त्रि॒धातु॑ दि॒वि रो᳚च॒नेषु॑ त्रि॒तेषु॑ विन्दद॒मृतं॒ निगू᳚ळ्हम् ||{23/24}{6.44.23}{6.4.1.23}{4.7.20.3}{402, 485, 4770}

अ॒यं द्यावा᳚पृथि॒वी वि ष्क॑भायद॒यं रथ॑मयुनक्स॒प्तर॑श्मिम् |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

अ॒यं गोषु॒ शच्या᳚ प॒क्वम॒न्तः सोमो᳚ दाधार॒ दश॑यन्त्र॒मुत्स᳚म् ||{24/24}{6.44.24}{6.4.1.24}{4.7.20.4}{403, 485, 4771}

[45] यआनयदिति त्रयस्त्रिंशदृचस्य सूक्तस्य बार्हस्पत्यः शंयुरिंद्रोंत्यतृचस्यबृबुस्तक्षा गायत्री एकोनत्रिंश्यतिनिचृद् एकत्रिंशीपादनिचृदंत्यानुष्टुप् |
य आन॑यत्परा॒वतः॒ सुनी᳚ती तु॒र्वशं॒ यदु᳚म् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

इन्द्रः॒ स नो॒ युवा॒ सखा᳚ ||{1/33}{6.45.1}{6.4.2.1}{4.7.21.1}{404, 486, 4772}

अ॒वि॒प्रे चि॒द्वयो॒ दध॑दना॒शुना᳚ चि॒दर्व॑ता |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

इन्द्रो॒ जेता᳚ हि॒तं धन᳚म् ||{2/33}{6.45.2}{6.4.2.2}{4.7.21.2}{405, 486, 4773}

म॒हीर॑स्य॒ प्रणी᳚तयः पू॒र्वीरु॒त प्रश॑स्तयः |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

नास्य॑ क्षीयन्त ऊ॒तयः॑ ||{3/33}{6.45.3}{6.4.2.3}{4.7.21.3}{406, 486, 4774}

सखा᳚यो॒ ब्रह्म॑वाह॒सेऽर्च॑त॒ प्र च॑ गायत |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

स हि नः॒ प्रम॑तिर्म॒ही ||{4/33}{6.45.4}{6.4.2.4}{4.7.21.4}{407, 486, 4775}

त्वमेक॑स्य वृत्रहन्नवि॒ता द्वयो᳚रसि |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

उ॒तेदृशे॒ यथा᳚ व॒यम् ||{5/33}{6.45.5}{6.4.2.5}{4.7.21.5}{408, 486, 4776}

नय॒सीद्वति॒ द्विषः॑ कृ॒णोष्यु॑क्थशं॒सिनः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

नृभिः॑ सु॒वीर॑ उच्यसे ||{6/33}{6.45.6}{6.4.2.6}{4.7.22.1}{409, 486, 4777}

ब्र॒ह्माणं॒ ब्रह्म॑वाहसं गी॒र्भिः सखा᳚यमृ॒ग्मिय᳚म् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

गां न दो॒हसे᳚ हुवे ||{7/33}{6.45.7}{6.4.2.7}{4.7.22.2}{410, 486, 4778}

यस्य॒ विश्वा᳚नि॒ हस्त॑योरू॒चुर्वसू᳚नि॒ नि द्वि॒ता |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

वी॒रस्य॑ पृतना॒षहः॑ ||{8/33}{6.45.8}{6.4.2.8}{4.7.22.3}{411, 486, 4779}

वि दृ॒ळ्हानि॑ चिदद्रिवो॒ जना᳚नां शचीपते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

वृ॒ह मा॒या, अ॑नानत ||{9/33}{6.45.9}{6.4.2.9}{4.7.22.4}{412, 486, 4780}

तमु॑ त्वा सत्य सोमपा॒, इन्द्र॑ वाजानां पते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

अहू᳚महि श्रव॒स्यवः॑ ||{10/33}{6.45.10}{6.4.2.10}{4.7.22.5}{413, 486, 4781}

तमु॑ त्वा॒ यः पु॒रासि॑थ॒ यो वा᳚ नू॒नं हि॒ते धने᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

हव्यः॒ स श्रु॑धी॒ हव᳚म् ||{11/33}{6.45.11}{6.4.2.11}{4.7.23.1}{414, 486, 4782}

धी॒भिरर्व॑द्भि॒रर्व॑तो॒ वाजाँ᳚, इन्द्र श्र॒वाय्या॑न् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

त्वया᳚ जेष्म हि॒तं धन᳚म् ||{12/33}{6.45.12}{6.4.2.12}{4.7.23.2}{415, 486, 4783}

अभू᳚रु वीर गिर्वणो म॒हाँ, इ᳚न्द्र॒ धने᳚ हि॒ते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

भरे᳚ वितन्त॒साय्यः॑ ||{13/33}{6.45.13}{6.4.2.13}{4.7.23.3}{416, 486, 4784}

या त॑ ऊ॒तिर॑मित्रहन्म॒क्षूज॑वस्त॒मास॑ति |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

तया᳚ नो हिनुही॒ रथ᳚म् ||{14/33}{6.45.14}{6.4.2.14}{4.7.23.4}{417, 486, 4785}

स रथे᳚न र॒थीत॑मो॒ऽस्माके᳚नाभि॒युग्व॑ना |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

जेषि॑ जिष्णो हि॒तं धन᳚म् ||{15/33}{6.45.15}{6.4.2.15}{4.7.23.5}{418, 486, 4786}

य एक॒ इत्तमु॑ ष्टुहि कृष्टी॒नां विच॑र्षणिः |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

पति॑र्ज॒ज्ञे वृष॑क्रतुः ||{16/33}{6.45.16}{6.4.2.16}{4.7.24.1}{419, 486, 4787}

यो गृ॑ण॒तामिदासि॑था॒पिरू॒ती शि॒वः सखा᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

स त्वं न॑ इन्द्र मृळय ||{17/33}{6.45.17}{6.4.2.17}{4.7.24.2}{420, 486, 4788}

धि॒ष्व वज्रं॒ गभ॑स्त्यो रक्षो॒हत्या᳚य वज्रिवः |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

सा॒स॒ही॒ष्ठा, अ॒भि स्पृधः॑ ||{18/33}{6.45.18}{6.4.2.18}{4.7.24.3}{421, 486, 4789}

प्र॒त्नं र॑यी॒णां युजं॒ सखा᳚यं कीरि॒चोद॑नम् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

ब्रह्म॑वाहस्तमं हुवे ||{19/33}{6.45.19}{6.4.2.19}{4.7.24.4}{422, 486, 4790}

स हि विश्वा᳚नि॒ पार्थि॑वाँ॒, एको॒ वसू᳚नि॒ पत्य॑ते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

गिर्व॑णस्तमो॒, अध्रि॑गुः ||{20/33}{6.45.20}{6.4.2.20}{4.7.24.5}{423, 486, 4791}

स नो᳚ नि॒युद्भि॒रा पृ॑ण॒ कामं॒ वाजे᳚भिर॒श्विभिः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

गोम॑द्भिर्गोपते धृ॒षत् ||{21/33}{6.45.21}{6.4.2.21}{4.7.25.1}{424, 486, 4792}

तद्वो᳚ गाय सु॒ते सचा᳚ पुरुहू॒ताय॒ सत्व॑ने |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

शं यद्गवे॒ न शा॒किने᳚ ||{22/33}{6.45.22}{6.4.2.22}{4.7.25.2}{425, 486, 4793}

न घा॒ वसु॒र्नि य॑मते दा॒नं वाज॑स्य॒ गोम॑तः |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

यत्सी॒मुप॒ श्रव॒द्गिरः॑ ||{23/33}{6.45.23}{6.4.2.23}{4.7.25.3}{426, 486, 4794}

कु॒वित्स॑स्य॒ प्र हि व्र॒जं गोम᳚न्तं दस्यु॒हा गम॑त् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

शची᳚भि॒रप॑ नो वरत् ||{24/33}{6.45.24}{6.4.2.24}{4.7.25.4}{427, 486, 4795}

इ॒मा, उ॑ त्वा शतक्रतो॒ऽभि प्र णो᳚नुवु॒र्गिरः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

इन्द्र॑ व॒त्सं न मा॒तरः॑ ||{25/33}{6.45.25}{6.4.2.25}{4.7.25.5}{428, 486, 4796}

दू॒णाशं᳚ स॒ख्यं तव॒ गौर॑सि वीर गव्य॒ते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

अश्वो᳚, अश्वाय॒ते भ॑व ||{26/33}{6.45.26}{6.4.2.26}{4.7.26.1}{429, 486, 4797}

स म᳚न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वा᳚ म॒हे |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

न स्तो॒तारं᳚ नि॒दे क॑रः ||{27/33}{6.45.27}{6.4.2.27}{4.7.26.2}{430, 486, 4798}

इ॒मा, उ॑ त्वा सु॒तेसु॑ते॒ नक्ष᳚न्ते गिर्वणो॒ गिरः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

व॒त्सं गावो॒ न धे॒नवः॑ ||{28/33}{6.45.28}{6.4.2.28}{4.7.26.3}{431, 486, 4799}

पु॒रू॒तमं᳚ पुरू॒णां स्तो᳚तॄ॒णां विवा᳚चि |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

वाजे᳚भिर्वाजय॒ताम् ||{29/33}{6.45.29}{6.4.2.29}{4.7.26.4}{432, 486, 4800}

अ॒स्माक॑मिन्द्र भूतु ते॒ स्तोमो॒ वाहि॑ष्ठो॒, अन्त॑मः |{बार्हस्पत्यः शंयः | बृबुस्तक्षा | गायत्री}

अ॒स्मान्‌ रा॒ये म॒हे हि॑नु ||{30/33}{6.45.30}{6.4.2.30}{4.7.26.5}{433, 486, 4801}

अधि॑ बृ॒बुः प॑णी॒नां वर्षि॑ष्ठे मू॒र्धन्न॑स्थात् |{बार्हस्पत्यः शंयः | बृबुस्तक्षा | गायत्री}

उ॒रुः कक्षो॒ न गा॒ङ्ग्यः ||{31/33}{6.45.31}{6.4.2.31}{4.7.26.6}{434, 486, 4802}

यस्य॑ वा॒योरि॑व द्र॒वद्भ॒द्रा रा॒तिः स॑ह॒स्रिणी᳚ |{बार्हस्पत्यः शंयः | बृबुस्तक्षा | गायत्री}

स॒द्यो दा॒नाय॒ मंह॑ते ||{32/33}{6.45.32}{6.4.2.32}{4.7.26.7}{435, 486, 4803}

तत्सु नो॒ विश्वे᳚, अ॒र्य आ सदा᳚ गृणन्ति का॒रवः॑ |{बार्हस्पत्यः शंयः | बृबुस्तक्षा | अनुष्टुप्}

बृ॒बुं स॑हस्र॒दात॑मं सू॒रिं स॑हस्र॒सात॑मम् ||{33/33}{6.45.33}{6.4.2.33}{4.7.26.8}{436, 486, 4804}

[46] त्वामिद्धीति चतुर्दशर्चस्य सूक्तस्य बार्हस्पत्यः शंयुरिंद्रः अयुजोबृहत्यः युजःसतोबृहत्यः |
त्वामिद्धि हवा᳚महे सा॒ता वाज॑स्य का॒रवः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती}

त्वां वृ॒त्रेष्वि᳚न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः ||{1/14}{6.46.1}{6.4.3.1}{4.7.27.1}{437, 487, 4805}

स त्वं न॑श्चित्र वज्रहस्त धृष्णु॒या म॒हः स्त॑वा॒नो, अ॑द्रिवः |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती}

गामश्वं᳚ र॒थ्य॑मिन्द्र॒ सं कि॑र स॒त्रा वाजं॒ न जि॒ग्युषे᳚ ||{2/14}{6.46.2}{6.4.3.2}{4.7.27.2}{438, 487, 4806}

यः स॑त्रा॒हा विच॑र्षणि॒रिन्द्रं॒ तं हू᳚महे व॒यम् |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती}

सह॑स्रमुष्क॒ तुवि॑नृम्ण॒ सत्प॑ते॒ भवा᳚ स॒मत्सु॑ नो वृ॒धे ||{3/14}{6.46.3}{6.4.3.3}{4.7.27.3}{439, 487, 4807}

बाध॑से॒ जना᳚न्‌ वृष॒भेव॑ म॒न्युना॒ घृषौ᳚ मी॒ळ्ह ऋ॑चीषम |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती}

अ॒स्माकं᳚ बोध्यवि॒ता म॑हाध॒ने त॒नूष्व॒प्सु सूर्ये᳚ ||{4/14}{6.46.4}{6.4.3.4}{4.7.27.4}{440, 487, 4808}

इन्द्र॒ ज्येष्ठं᳚ न॒ आ भ॑रँ॒, ओजि॑ष्ठं॒ पपु॑रि॒ श्रवः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती}

येने॒मे चि॑त्र वज्रहस्त॒ रोद॑सी॒, ओभे सु॑शिप्र॒ प्राः ||{5/14}{6.46.5}{6.4.3.5}{4.7.27.5}{441, 487, 4809}

त्वामु॒ग्रमव॑से चर्षणी॒सहं॒ राज᳚न्दे॒वेषु॑ हूमहे |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती}

विश्वा॒ सु नो᳚ विथु॒रा पि॑ब्द॒ना व॑सो॒ऽमित्रा᳚न्‌ त्सु॒षहा᳚न्‌ कृधि ||{6/14}{6.46.6}{6.4.3.6}{4.7.28.1}{442, 487, 4810}

यदि᳚न्द्र॒ नाहु॑षी॒ष्वाँ, ओजो᳚ नृ॒म्णं च॑ कृ॒ष्टिषु॑ |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती}

यद्वा॒ पञ्च॑ क्षिती॒नां द्यु॒म्नमा भ॑र स॒त्रा विश्वा᳚नि॒ पौंस्या᳚ ||{7/14}{6.46.7}{6.4.3.7}{4.7.28.2}{443, 487, 4811}

यद्वा᳚ तृ॒क्षौ म॑घवन्द्रु॒ह्यावा जने॒ यत्पू॒रौ कच्च॒ वृष्ण्य᳚म् |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती}

अ॒स्मभ्यं॒ तद्रि॑रीहि॒ सं नृ॒षाह्ये॒ऽमित्रा᳚न्‌ पृ॒त्सु तु॒र्वणे᳚ ||{8/14}{6.46.8}{6.4.3.8}{4.7.28.3}{444, 487, 4812}

इन्द्र॑ त्रि॒धातु॑ शर॒णं त्रि॒वरू᳚थं स्वस्ति॒मत् |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती}

छ॒र्दिर्य॑च्छ म॒घव॑द्भ्यश्च॒ मह्यं᳚ च या॒वया᳚ दि॒द्युमे᳚भ्यः ||{9/14}{6.46.9}{6.4.3.9}{4.7.28.4}{445, 487, 4813}

ये ग᳚व्य॒ता मन॑सा॒ शत्रु॑माद॒भुर॑भिप्र॒घ्नन्ति॑ धृष्णु॒या |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती}

अध॑ स्मा नो मघवन्निन्द्र गिर्वणस्तनू॒पा, अन्त॑मो भव ||{10/14}{6.46.10}{6.4.3.10}{4.7.28.5}{446, 487, 4814}

अध॑ स्मा नो वृ॒धे भ॒वेन्द्र॑ ना॒यम॑वा यु॒धि |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती}

यद॒न्तरि॑क्षे प॒तय᳚न्ति प॒र्णिनो᳚ दि॒द्यव॑स्ति॒ग्ममू᳚र्धानः ||{11/14}{6.46.11}{6.4.3.11}{4.7.29.1}{447, 487, 4815}

यत्र॒ शूरा᳚सस्त॒न्वो᳚ वितन्व॒ते प्रि॒या शर्म॑ पितॄ॒णाम् |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती}

अध॑ स्मा यच्छ त॒न्वे॒३॑(ए॒) तने᳚ च छ॒र्दिर॒चित्तं᳚ या॒वय॒ द्वेषः॑ ||{12/14}{6.46.12}{6.4.3.12}{4.7.29.2}{448, 487, 4816}

यदि᳚न्द्र॒ सर्गे॒, अर्व॑तश्चो॒दया᳚से महाध॒ने |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती}

अ॒स॒म॒ने, अध्व॑नि वृजि॒ने प॒थि श्ये॒नाँ, इ॑व श्रवस्य॒तः ||{13/14}{6.46.13}{6.4.3.13}{4.7.29.3}{449, 487, 4817}

सिन्धूँ᳚रिव प्रव॒ण आ᳚शु॒या य॒तो यदि॒ क्लोश॒मनु॒ ष्वणि॑ |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती}

आ ये वयो॒ न वर्वृ॑त॒त्यामि॑षि गृभी॒ता बा॒ह्वोर्गवि॑ ||{14/14}{6.46.14}{6.4.3.14}{4.7.29.4}{450, 487, 4818}

[47] स्वादुष्किलायमित्येक त्रिंशदृचस्य सूक्तस्य भारद्वाजोगर्गइंद्रः आद्यानांपंचानां सोमोऽगव्यूतीत्यस्यादेवभूमींद्राः प्रस्तोकइत्यादिचतसृणां प्रस्तोकोवनस्पतइत्यादितिसृणां रथउपश्वासयेतिद्वयोर्दुंदुभिः आमूरजइत्यस्यादुंदुभींद्रौत्रिष्टुप् एकोनविंशीबृहती त्रयोविंश्यनुष्टुप् चतुर्विंशीगायत्री पंचविंशीद्विपदा सप्तविंशीजगती |
स्वा॒दुष्किला॒यं मधु॑माँ, उ॒तायं ती॒व्रः किला॒यं रस॑वाँ, उ॒तायम् |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्}

उ॒तो न्व१॑(अ॒)स्य प॑पि॒वांस॒मिन्द्रं॒ न कश्च॒न स॑हत आह॒वेषु॑ ||{1/31}{6.47.1}{6.4.4.1}{4.7.30.1}{451, 488, 4819}

अ॒यं स्वा॒दुरि॒ह मदि॑ष्ठ आस॒ यस्येन्द्रो᳚ वृत्र॒हत्ये᳚ म॒माद॑ |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्}

पु॒रूणि॒ यश्च्यौ॒त्ना शम्ब॑रस्य॒ वि न॑व॒तिं नव॑ च दे॒ह्यो॒३॑(ओ॒) हन् ||{2/31}{6.47.2}{6.4.4.2}{4.7.30.2}{452, 488, 4820}

अ॒यं मे᳚ पी॒त उदि॑यर्ति॒ वाच॑म॒यं म॑नी॒षामु॑श॒तीम॑जीगः |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्}

अ॒यं षळु॒र्वीर॑मिमीत॒ धीरो॒ न याभ्यो॒ भुव॑नं॒ कच्च॒नारे ||{3/31}{6.47.3}{6.4.4.3}{4.7.30.3}{453, 488, 4821}

अ॒यं स यो व॑रि॒माणं᳚ पृथि॒व्या व॒र्ष्माणं᳚ दि॒वो, अकृ॑णोद॒यं सः |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्}

अ॒यं पी॒यूषं᳚ ति॒सृषु॑ प्र॒वत्सु॒ सोमो᳚ दाधारो॒र्व१॑(अ॒)न्तरि॑क्षम् ||{4/31}{6.47.4}{6.4.4.4}{4.7.30.4}{454, 488, 4822}

अ॒यं वि॑दच्चित्र॒दृशी᳚क॒मर्णः॑ शु॒क्रस॑द्मनामु॒षसा॒मनी᳚के |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्}

अ॒यं म॒हान्म॑ह॒ता स्कम्भ॑ने॒नोद्द्याम॑स्तभ्नाद्वृष॒भो म॒रुत्वा॑न् ||{5/31}{6.47.5}{6.4.4.5}{4.7.30.5}{455, 488, 4823}

धृ॒षत्पि॑ब क॒लशे॒ सोम॑मिन्द्र वृत्र॒हा शू᳚र सम॒रे वसू᳚नाम् |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

माध्यं᳚दिने॒ सव॑न॒ आ वृ॑षस्व रयि॒स्थानो᳚ र॒यिम॒स्मासु॑ धेहि ||{6/31}{6.47.6}{6.4.4.6}{4.7.31.1}{456, 488, 4824}

इन्द्र॒ प्र णः॑ पुरए॒तेव॑ पश्य॒ प्र नो᳚ नय प्रत॒रं वस्यो॒, अच्छ॑ |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

भवा᳚ सुपा॒रो, अ॑तिपार॒यो नो॒ भवा॒ सुनी᳚तिरु॒त वा॒मनी᳚तिः ||{7/31}{6.47.7}{6.4.4.7}{4.7.31.2}{457, 488, 4825}

उ॒रुं नो᳚ लो॒कमनु॑ नेषि वि॒द्वान्‌ त्स्व᳚र्व॒ज्ज्योति॒रभ॑यं स्व॒स्ति |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

ऋ॒ष्वा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू, उप॑ स्थेयाम शर॒णा बृ॒हन्ता᳚ ||{8/31}{6.47.8}{6.4.4.8}{4.7.31.3}{458, 488, 4826}

वरि॑ष्ठे न इन्द्र व॒न्धुरे᳚ धा॒ वहि॑ष्ठयोः शताव॒न्नश्व॑यो॒रा |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

इष॒मा व॑क्षी॒षां वर्षि॑ष्ठां॒ मा न॑स्तारीन्मघव॒न्‌ रायो᳚, अ॒र्यः ||{9/31}{6.47.9}{6.4.4.9}{4.7.31.4}{459, 488, 4827}

इन्द्र॑ मृ॒ळ मह्यं᳚ जी॒वातु॑मिच्छ चो॒दय॒ धिय॒मय॑सो॒ न धारा᳚म् |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

यत्किं चा॒हं त्वा॒युरि॒दं वदा᳚मि॒ तज्जु॑षस्व कृ॒धि मा᳚ दे॒वव᳚न्तम् ||{10/31}{6.47.10}{6.4.4.10}{4.7.31.5}{460, 488, 4828}

त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒ हवे᳚हवे सु॒हवं॒ शूर॒मिन्द्र᳚म् |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

ह्वया᳚मि श॒क्रं पु॑रुहू॒तमिन्द्रं᳚ स्व॒स्ति नो᳚ म॒घवा᳚ धा॒त्विन्द्रः॑ ||{11/31}{6.47.11}{6.4.4.11}{4.7.32.1}{461, 488, 4829}

इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒, अवो᳚भिः सुमृळी॒को भ॑वतु वि॒श्ववे᳚दाः |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

बाध॑तां॒ द्वेषो॒, अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ||{12/31}{6.47.12}{6.4.4.12}{4.7.32.2}{462, 488, 4830}

तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ᳚मन॒से स्या᳚म |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

स सु॒त्रामा॒ स्ववाँ॒, इन्द्रो᳚, अ॒स्मे, आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु ||{13/31}{6.47.13}{6.4.4.13}{4.7.32.3}{463, 488, 4831}

अव॒ त्वे, इ᳚न्द्र प्र॒वतो॒ नोर्मिर्गिरो॒ ब्रह्मा᳚णि नि॒युतो᳚ धवन्ते |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

उ॒रू न राधः॒ सव॑ना पु॒रूण्य॒पो गा व॑ज्रिन्युवसे॒ समिन्दू॑न् ||{14/31}{6.47.14}{6.4.4.14}{4.7.32.4}{464, 488, 4832}

क ईं᳚ स्तव॒त्कः पृ॑णा॒त्को य॑जाते॒ यदु॒ग्रमिन्म॒घवा᳚ वि॒श्वहावे᳚त् |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

पादा᳚विव प्र॒हर᳚न्न॒न्यम᳚न्यं कृ॒णोति॒ पूर्व॒मप॑रं॒ शची᳚भिः ||{15/31}{6.47.15}{6.4.4.15}{4.7.32.5}{465, 488, 4833}

शृ॒ण्वे वी॒र उ॒ग्रमु॑ग्रं दमा॒यन्न॒न्यम᳚न्यमतिनेनी॒यमा᳚नः |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

ए॒ध॒मा॒न॒द्विळु॒भय॑स्य॒ राजा᳚ चोष्कू॒यते॒ विश॒ इन्द्रो᳚ मनु॒ष्या॑न् ||{16/31}{6.47.16}{6.4.4.16}{4.7.33.1}{466, 488, 4834}

परा॒ पूर्वे᳚षां स॒ख्या वृ॑णक्ति वि॒तर्तु॑राणो॒, अप॑रेभिरेति |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

अना᳚नुभूतीरवधून्वा॒नः पू॒र्वीरिन्द्रः॑ श॒रद॑स्तर्तरीति ||{17/31}{6.47.17}{6.4.4.17}{4.7.33.2}{467, 488, 4835}

रू॒पंरू᳚पं॒ प्रति॑रूपो बभूव॒ तद॑स्य रू॒पं प्र॑ति॒चक्ष॑णाय |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

इन्द्रो᳚ मा॒याभिः॑ पुरु॒रूप॑ ईयते यु॒क्ता ह्य॑स्य॒ हर॑यः श॒ता दश॑ ||{18/31}{6.47.18}{6.4.4.18}{4.7.33.3}{468, 488, 4836}

यु॒जा॒नो ह॒रिता॒ रथे॒ भूरि॒ त्वष्टे॒ह रा᳚जति |{भारद्वाजो गर्गः | इन्द्रः | बृहती}

को वि॒श्वाहा᳚ द्विष॒तः पक्ष॑ आसत उ॒तासी᳚नेषु सू॒रिषु॑ ||{19/31}{6.47.19}{6.4.4.19}{4.7.33.4}{469, 488, 4837}

अ॒ग॒व्यू॒ति क्षेत्र॒माग᳚न्म देवा, उ॒र्वी स॒ती भूमि॑रंहूर॒णाभू᳚त् |{भारद्वाजो गर्गः | १/४:देवाः २/४:भूमिः २/४:बृहस्पतिः ४/४:इन्द्रः | त्रिष्टुप्}

बृह॑स्पते॒ प्र चि॑कित्सा॒ गवि॑ष्टावि॒त्था स॒ते ज॑रि॒त्र इ᳚न्द्र॒ पन्था᳚म् ||{20/31}{6.47.20}{6.4.4.20}{4.7.33.5}{470, 488, 4838}

दि॒वेदि॑वे स॒दृशी᳚र॒न्यमर्धं᳚ कृ॒ष्णा, अ॑सेध॒दप॒ सद्म॑नो॒ जाः |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

अह᳚न्दा॒सा वृ॑ष॒भो व॑स्न॒यन्तो॒दव्र॑जे व॒र्चिनं॒ शम्ब॑रं च ||{21/31}{6.47.21}{6.4.4.21}{4.7.34.1}{471, 488, 4839}

प्र॒स्तो॒क इन्नु राध॑सस्त इन्द्र॒ दश॒ कोश॑यी॒र्दश॑ वा॒जिनो᳚ऽदात् |{भारद्वाजो गर्गः | प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः | त्रिष्टुप्}

दिवो᳚दासादतिथि॒ग्वस्य॒ राधः॑ शाम्ब॒रं वसु॒ प्रत्य॑ग्रभीष्म ||{22/31}{6.47.22}{6.4.4.22}{4.7.34.2}{472, 488, 4840}

दशाश्वा॒न्दश॒ कोशा॒न्दश॒ वस्त्राधि॑भोजना |{भारद्वाजो गर्गः | प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः | अनुष्टुप्}

दशो᳚ हिरण्यपि॒ण्डान्दिवो᳚दासादसानिषम् ||{23/31}{6.47.23}{6.4.4.23}{4.7.34.3}{473, 488, 4841}

दश॒ रथा॒न्‌ प्रष्टि॑मतः श॒तं गा, अथ᳚र्वभ्यः |{भारद्वाजो गर्गः | प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः | गायत्री}

अ॒श्व॒थः पा॒यवे᳚ऽदात् ||{24/31}{6.47.24}{6.4.4.24}{4.7.34.4}{474, 488, 4842}

महि॒ राधो᳚ वि॒श्वज᳚न्यं॒ दधा᳚नान्‌ भ॒रद्वा᳚जान्‌ त्सार्ञ्ज॒यो, अ॒भ्य॑यष्ट ||{भारद्वाजो गर्गः | प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः | द्विपदा त्रिष्टुप्}{25/31}{6.47.25}{6.4.4.25}{4.7.34.5}{475, 488, 4843}
वन॑स्पते वी॒ड्व᳚ङ्गो॒ हि भू॒या, अ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीरः॑ |{भारद्वाजो गर्गः | रथः | त्रिष्टुप्}

गोभिः॒ संन॑द्धो, असि वी॒ळय॑स्वास्था॒ता ते᳚ जयतु॒ जेत्वा᳚नि ||{26/31}{6.47.26}{6.4.4.26}{4.7.35.1}{476, 488, 4844}

दि॒वस्पृ॑थि॒व्याः पर्योज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्यः॒ पर्याभृ॑तं॒ सहः॑ |{भारद्वाजो गर्गः | रथः | जगती}

अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्रं᳚ ह॒विषा॒ रथं᳚ यज ||{27/31}{6.47.27}{6.4.4.27}{4.7.35.2}{477, 488, 4845}

इन्द्र॑स्य॒ वज्रो᳚ म॒रुता॒मनी᳚कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑ |{भारद्वाजो गर्गः | रथः | त्रिष्टुप्}

सेमां नो᳚ ह॒व्यदा᳚तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ||{28/31}{6.47.28}{6.4.4.28}{4.7.35.3}{478, 488, 4846}

उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते᳚ मनुतां॒ विष्ठि॑तं॒ जग॑त् |{भारद्वाजो गर्गः | दुन्दुभिः | त्रिष्टुप्}

स दु᳚न्दुभे स॒जूरिन्द्रे᳚ण दे॒वैर्दू॒राद्दवी᳚यो॒, अप॑ सेध॒ शत्रू॑न् ||{29/31}{6.47.29}{6.4.4.29}{4.7.35.4}{479, 488, 4847}

आ क्र᳚न्दय॒ बल॒मोजो᳚ न॒ आ धा॒ निः ष्ट॑निहि दुरि॒ता बाध॑मानः |{भारद्वाजो गर्गः | दुन्दुभिः | त्रिष्टुप्}

अप॑ प्रोथ दुन्दुभे दु॒च्छुना᳚, इ॒त इन्द्र॑स्य मु॒ष्टिर॑सि वी॒ळय॑स्व ||{30/31}{6.47.30}{6.4.4.30}{4.7.35.5}{480, 488, 4848}

आमूर॑ज प्र॒त्याव॑र्तये॒माः के᳚तु॒मद्दु᳚न्दु॒भिर्वा᳚वदीति |{भारद्वाजो गर्गः | १/२:दुन्दुभिः २/२:इन्द्रः | त्रिष्टुप्}

समश्व॑पर्णा॒श्चर᳚न्ति नो॒ नरो॒ऽस्माक॑मिन्द्र र॒थिनो᳚ जयन्तु ||{31/31}{6.47.31}{6.4.4.31}{4.7.35.6}{481, 488, 4849}

[48] यज्ञायज्ञावइति द्वाविंशत्यृचस्य सूक्तस्य बार्हस्पत्यःशंयुस्तृणपाणिः आद्यानांदशानामग्निरेकादश्यादिपंचानांमरुतस्ततश्चतुर्णां पूषाततस्तृचस्यमरुतः (त्रयोदश्यादितिसृणाम् इंद्रार्यमपूषविष्ण्वाद्यालिंगोक्तदेवतावा अंत्ययोर्द्यावाभूमीवापृश्निर्वा) आद्याबृहती द्वितीयासतोबृहती तृतीयाबृहती चतुर्थीसतोबृहती पंचमी बृहती षष्ठीमहासतोबृहती सप्तमीमहाबृहती अष्टमीमहासतोबृहती नवमीबृहती दशमीसतोबृहती एकादशीककुप् द्वादशीसतोबृहती त्रयोदशीपुर उष्णिक् चतुर्दशीबृहती पंचदश्यतिजगती षोडशीककुप् सप्तदशीसतोबृहती अष्टादशीपुरउष्णिक् एकोनविंशीविंशीबृहती एकविंशीमहाबृहती यवमध्याद्वाविंश्यनुष्टुप् | (पृष्निसूक्तमिदं) |
य॒ज्ञाय॑ज्ञा वो, अ॒ग्नये᳚ गि॒रागि॑रा च॒ दक्ष॑से |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | बृहती}

प्रप्र॑ व॒यम॒मृतं᳚ जा॒तवे᳚दसं प्रि॒यं मि॒त्रं न शं᳚सिषम् ||{1/22}{6.48.1}{6.4.5.1}{4.8.1.1}{482, 489, 4850}

ऊ॒र्जो नपा᳚तं॒ स हि॒नायम॑स्म॒युर्दाशे᳚म ह॒व्यदा᳚तये |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | सतोबृहती}

भुव॒द्वाजे᳚ष्ववि॒ता भुव॑द्वृ॒ध उ॒त त्रा॒ता त॒नूना᳚म् ||{2/22}{6.48.2}{6.4.5.2}{4.8.1.2}{483, 489, 4851}

वृषा॒ ह्य॑ग्ने, अ॒जरो᳚ म॒हान्‌ वि॒भास्य॒र्चिषा᳚ |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | बृहती}

अज॑स्रेण शो॒चिषा॒ शोशु॑चच्छुचे सुदी॒तिभिः॒ सु दी᳚दिहि ||{3/22}{6.48.3}{6.4.5.3}{4.8.1.3}{484, 489, 4852}

म॒हो दे॒वान्‌ यज॑सि॒ यक्ष्या᳚नु॒षक्तव॒ क्रत्वो॒त दं॒सना᳚ |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | सतोबृहती}

अ॒र्वाचः॑ सीं कृणुह्य॒ग्नेऽव॑से॒ रास्व॒ वाजो॒त वं᳚स्व ||{4/22}{6.48.4}{6.4.5.4}{4.8.1.4}{485, 489, 4853}

यमापो॒, अद्र॑यो॒ वना॒ गर्भ॑मृ॒तस्य॒ पिप्र॑ति |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | बृहती}

सह॑सा॒ यो म॑थि॒तो जाय॑ते॒ नृभिः॑ पृथि॒व्या, अधि॒ सान॑वि ||{5/22}{6.48.5}{6.4.5.5}{4.8.1.5}{486, 489, 4854}

आ यः प॒प्रौ भा॒नुना॒ रोद॑सी, उ॒भे धू॒मेन॑ धावते दि॒वि |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | महा सतोबृहती}

ति॒रस्तमो᳚ ददृश॒ ऊर्म्या॒स्वा श्या॒वास्व॑रु॒षो वृषा श्या॒वा, अ॑रु॒षो वृषा᳚ ||{6/22}{6.48.6}{6.4.5.6}{4.8.2.1}{487, 489, 4855}

बृ॒हद्भि॑रग्ने, अ॒र्चिभिः॑ शु॒क्रेण॑ देव शो॒चिषा᳚ |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | महा बृहती}

भ॒रद्वा᳚जे समिधा॒नो य॑विष्ठ्य रे॒वन्नः॑ शुक्र दीदिहि द्यु॒मत्पा᳚वक दीदिहि ||{7/22}{6.48.7}{6.4.5.7}{4.8.2.2}{488, 489, 4856}

विश्वा᳚सां गृ॒हप॑तिर्वि॒शाम॑सि॒ त्वम॑ग्ने॒ मानु॑षीणाम् |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | महा सतोबृहती}

श॒तं पू॒र्भिर्य॑विष्ठ पा॒ह्यंह॑सः समे॒द्धारं᳚ श॒तं हिमाः᳚ स्तो॒तृभ्यो॒ ये च॒ दद॑ति ||{8/22}{6.48.8}{6.4.5.8}{4.8.2.3}{489, 489, 4857}

त्वं न॑श्चि॒त्र ऊ॒त्या वसो॒ राधां᳚सि चोदय |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | बृहती}

अ॒स्य रा॒यस्त्वम॑ग्ने र॒थीर॑सि वि॒दा गा॒धं तु॒चे तु नः॑ ||{9/22}{6.48.9}{6.4.5.9}{4.8.2.4}{490, 489, 4858}

पर्षि॑ तो॒कं तन॑यं प॒र्तृभि॒ष्ट्वमद॑ब्धै॒रप्र॑युत्वभिः |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | सतोबृहती}

अग्ने॒ हेळां᳚सि॒ दैव्या᳚ युयोधि॒ नोऽदे᳚वानि॒ ह्वरां᳚सि च ||{10/22}{6.48.10}{6.4.5.10}{4.8.2.5}{491, 489, 4859}

आ स॑खायः सब॒र्दुघां᳚ धे॒नुम॑जध्व॒मुप॒ नव्य॑सा॒ वचः॑ |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | ककुप्}

सृ॒जध्व॒मन॑पस्फुराम् ||{11/22}{6.48.11}{6.4.5.11}{4.8.3.1}{492, 489, 4860}

या शर्धा᳚य॒ मारु॑ताय॒ स्वभा᳚नवे॒ श्रवोऽमृ॑त्यु॒ धुक्ष॑त |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | सतोबृहती}

या मृ॑ळी॒के म॒रुतां᳚ तु॒राणां॒ या सु॒म्नैरे᳚व॒याव॑री ||{12/22}{6.48.12}{6.4.5.12}{4.8.3.2}{493, 489, 4861}

भ॒रद्वा᳚जा॒याव॑ धुक्षत द्वि॒ता |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | पुर उष्णिक्}

धे॒नुं च॑ वि॒श्वदो᳚हस॒मिषं᳚ च वि॒श्वभो᳚जसम् ||{13/22}{6.48.13}{6.4.5.13}{4.8.3.3}{494, 489, 4862}

तं व॒ इन्द्रं॒ न सु॒क्रतुं॒ वरु॑णमिव मा॒यिन᳚म् |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | बृहती}

अ॒र्य॒मणं॒ न म॒न्द्रं सृ॒प्रभो᳚जसं॒ विष्णुं॒ न स्तु॑ष आ॒दिशे᳚ ||{14/22}{6.48.14}{6.4.5.14}{4.8.3.4}{495, 489, 4863}

त्वे॒षं शर्धो॒ न मारु॑तं तुवि॒ष्वण्य॑न॒र्वाणं᳚ पू॒षणं॒ सं यथा᳚ श॒ता |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | अतिजगती}

सं स॒हस्रा॒ कारि॑षच्चर्ष॒णिभ्य॒ आँ, आ॒विर्गू॒ळ्हा वसू᳚ करत्सु॒वेदा᳚ नो॒ वसू᳚ करत् ||{15/22}{6.48.15}{6.4.5.15}{4.8.3.5}{496, 489, 4864}

आ मा᳚ पूष॒न्नुप॑ द्रव॒ शंसि॑षं॒ नु ते᳚, अपिक॒र्ण आ᳚घृणे |{बार्हस्पत्यः शंयुस्तृणपाणिः | पूषा | ककुप्}

अ॒घा, अ॒र्यो, अरा᳚तयः ||{16/22}{6.48.16}{6.4.5.16}{4.8.3.6}{497, 489, 4865}

मा का᳚क॒म्बीर॒मुद्वृ॑हो॒ वन॒स्पति॒मश॑स्ती॒र्वि हि नीन॑शः |{बार्हस्पत्यः शंयुस्तृणपाणिः | पूषा | सतोबृहती}

मोत सूरो॒, अह॑ ए॒वा च॒न ग्री॒वा, आ॒दध॑ते॒ वेः ||{17/22}{6.48.17}{6.4.5.17}{4.8.4.1}{498, 489, 4866}

दृते᳚रिव तेऽवृ॒कम॑स्तु स॒ख्यम् |{बार्हस्पत्यः शंयुस्तृणपाणिः | पूषा | पुर उष्णिक्}

अच्छि॑द्रस्य दध॒न्वतः॒ सुपू᳚र्णस्य दध॒न्वतः॑ ||{18/22}{6.48.18}{6.4.5.18}{4.8.4.2}{499, 489, 4867}

प॒रो हि मर्त्यै॒रसि॑ स॒मो दे॒वैरु॒त श्रि॒या |{बार्हस्पत्यः शंयुस्तृणपाणिः | पूषा | बृहती}

अ॒भि ख्यः॑ पूष॒न्‌ पृत॑नासु न॒स्त्वमवा᳚ नू॒नं यथा᳚ पु॒रा ||{19/22}{6.48.19}{6.4.5.19}{4.8.4.3}{500, 489, 4868}

वा॒मी वा॒मस्य॑ धूतयः॒ प्रणी᳚तिरस्तु सू॒नृता᳚ |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | बृहती}

दे॒वस्य॑ वा मरुतो॒ मर्त्य॑स्य वेजा॒नस्य॑ प्रयज्यवः ||{20/22}{6.48.20}{6.4.5.20}{4.8.4.4}{501, 489, 4869}

स॒द्यश्चि॒द्यस्य॑ चर्कृ॒तिः परि॒ द्यां दे॒वो नैति॒ सूर्यः॑ |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | महा बृहती यवमध्या}

त्वे॒षं शवो᳚ दधिरे॒ नाम॑ य॒ज्ञियं᳚ म॒रुतो᳚ वृत्र॒हं शवो॒ ज्येष्ठं᳚ वृत्र॒हं शवः॑ ||{21/22}{6.48.21}{6.4.5.21}{4.8.4.5}{502, 489, 4870}

स॒कृद्ध॒ द्यौर॑जायत स॒कृद्भूमि॑रजायत |{बार्हस्पत्यः शंयुस्तृणपाणिः | द्यावाभूमीवापृश्निर्वा | अनुष्टुप्}

पृश्न्या᳚ दु॒ग्धं स॒कृत्पय॒स्तद॒न्यो नानु॑ जायते ||{22/22}{6.48.22}{6.4.5.22}{4.8.4.6}{503, 489, 4871}

[49] स्तुषेजनमिति पंचदशर्चस्य सूक्तस्य भारद्वाजऋजिश्वा विश्वेदेवास्त्रिष्टुबंत्याशक्वरी | (इतश्चत्वारिवैश्व | भेदपक्षे - विश्वेदेवाः १ | अग्निः १ अहोरात्रे १ वायुः १ अश्विनौ १ विश्वेदेवाः १ सरस्वती १ पूषा १ अग्नित्वष्टारौ १ रुद्रः १ मरुतः २ विष्णुः १ विश्वेदेवाः २ एवं १५) |
स्तु॒षे जनं᳚ सुव्र॒तं नव्य॑सीभिर्गी॒र्भिर्मि॒त्रावरु॑णा सुम्न॒यन्ता᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

त आ ग॑मन्तु॒ त इ॒ह श्रु॑वन्तु सुक्ष॒त्रासो॒ वरु॑णो मि॒त्रो, अ॒ग्निः ||{1/15}{6.49.1}{6.4.6.1}{4.8.5.1}{504, 490, 4872}

वि॒शोवि॑श॒ ईड्य॑मध्व॒रेष्वदृ॑प्तक्रतुमर॒तिं यु॑व॒त्योः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

दि॒वः शिशुं॒ सह॑सः सू॒नुम॒ग्निं य॒ज्ञस्य॑ के॒तुम॑रु॒षं यज॑ध्यै ||{2/15}{6.49.2}{6.4.6.2}{4.8.5.2}{505, 490, 4873}

अ॒रु॒षस्य॑ दुहि॒तरा॒ विरू᳚पे॒ स्तृभि॑र॒न्या पि॑पि॒शे सूरो᳚, अ॒न्या |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

मि॒थ॒स्तुरा᳚ वि॒चर᳚न्ती पाव॒के मन्म॑ श्रु॒तं न॑क्षत ऋ॒च्यमा᳚ने ||{3/15}{6.49.3}{6.4.6.3}{4.8.5.3}{506, 490, 4874}

प्र वा॒युमच्छा᳚ बृह॒ती म॑नी॒षा बृ॒हद्र॑यिं वि॒श्ववा᳚रं रथ॒प्राम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

द्यु॒तद्या᳚मा नि॒युतः॒ पत्य॑मानः क॒विः क॒विमि॑यक्षसि प्रयज्यो ||{4/15}{6.49.4}{6.4.6.4}{4.8.5.4}{507, 490, 4875}

स मे॒ वपु॑श्छदयद॒श्विनो॒र्यो रथो᳚ वि॒रुक्मा॒न्मन॑सा युजा॒नः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

येन॑ नरा नासत्येष॒यध्यै᳚ व॒र्तिर्या॒थस्तन॑याय॒ त्मने᳚ च ||{5/15}{6.49.5}{6.4.6.5}{4.8.5.5}{508, 490, 4876}

पर्ज᳚न्यवाता वृषभा पृथि॒व्याः पुरी᳚षाणि जिन्वत॒मप्या᳚नि |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

सत्य॑श्रुतः कवयो॒ यस्य॑ गी॒र्भिर्जग॑तः स्थात॒र्जग॒दा कृ॑णुध्वम् ||{6/15}{6.49.6}{6.4.6.6}{4.8.6.1}{509, 490, 4877}

पावी᳚रवी क॒न्या᳚ चि॒त्रायुः॒ सर॑स्वती वी॒रप॑त्नी॒ धियं᳚ धात् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ग्नाभि॒रच्छि॑द्रं शर॒णं स॒जोषा᳚ दुरा॒धर्षं᳚ गृण॒ते शर्म॑ यंसत् ||{7/15}{6.49.7}{6.4.6.7}{4.8.6.2}{510, 490, 4878}

प॒थस्प॑थः॒ परि॑पतिं वच॒स्या कामे᳚न कृ॒तो, अ॒भ्या᳚नळ॒र्कम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

स नो᳚ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धियं᳚धियं सीषधाति॒ प्र पू॒षा ||{8/15}{6.49.8}{6.4.6.8}{4.8.6.3}{511, 490, 4879}

प्र॒थ॒म॒भाजं᳚ य॒शसं᳚ वयो॒धां सु॑पा॒णिं दे॒वं सु॒गभ॑स्ति॒मृभ्व᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

होता᳚ यक्षद्यज॒तं प॒स्त्या᳚नाम॒ग्निस्त्वष्टा᳚रं सु॒हवं᳚ वि॒भावा᳚ ||{9/15}{6.49.9}{6.4.6.9}{4.8.6.4}{512, 490, 4880}

भुव॑नस्य पि॒तरं᳚ गी॒र्भिरा॒भी रु॒द्रं दिवा᳚ व॒र्धया᳚ रु॒द्रम॒क्तौ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

बृ॒हन्त॑मृ॒ष्वम॒जरं᳚ सुषु॒म्नमृध॑ग्घुवेम क॒विने᳚षि॒तासः॑ ||{10/15}{6.49.10}{6.4.6.10}{4.8.6.5}{513, 490, 4881}

आ यु॑वानः कवयो यज्ञियासो॒ मरु॑तो ग॒न्त गृ॑ण॒तो व॑र॒स्याम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

अ॒चि॒त्रं चि॒द्धि जिन्व॑था वृ॒धन्त॑ इ॒त्था नक्ष᳚न्तो नरो, अङ्गिर॒स्वत् ||{11/15}{6.49.11}{6.4.6.11}{4.8.7.1}{514, 490, 4882}

प्र वी॒राय॒ प्र त॒वसे᳚ तु॒रायाजा᳚ यू॒थेव॑ पशु॒रक्षि॒रस्त᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

स पि॑स्पृशति त॒न्‌ वि॑ श्रु॒तस्य॒ स्तृभि॒र्न नाकं᳚ वच॒नस्य॒ विपः॑ ||{12/15}{6.49.12}{6.4.6.12}{4.8.7.2}{515, 490, 4883}

यो रजां᳚सि विम॒मे पार्थि॑वानि॒ त्रिश्चि॒द्विष्णु॒र्मन॑वे बाधि॒ताय॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

तस्य॑ ते॒ शर्म᳚न्नुपद॒द्यमा᳚ने रा॒या म॑देम त॒न्वा॒३॑(आ॒) तना᳚ च ||{13/15}{6.49.13}{6.4.6.13}{4.8.7.3}{516, 490, 4884}

तन्नोऽहि॑र्बु॒ध्न्यो᳚, अ॒द्भिर॒र्कैस्तत्‌ पर्व॑त॒स्तत्स॑वि॒ता चनो᳚ धात् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

तदोष॑धीभिर॒भि रा᳚ति॒षाचो॒ भगः॒ पुरं᳚धिर्जिन्वतु॒ प्र रा॒ये ||{14/15}{6.49.14}{6.4.6.14}{4.8.7.4}{517, 490, 4885}

नु नो᳚ र॒यिं र॒थ्यं᳚ चर्षणि॒प्रां पु॑रु॒वीरं᳚ म॒ह ऋ॒तस्य॑ गो॒पाम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | शक्वरी}

क्षयं᳚ दाता॒जरं॒ येन॒ जना॒न्‌ त्स्पृधो॒, अदे᳚वीर॒भि च॒ क्रमा᳚म॒ विश॒ आदे᳚वीर॒भ्य१॑(अ॒)श्नवा᳚म ||{15/15}{6.49.15}{6.4.6.15}{4.8.7.5}{518, 490, 4886}

[50] हुवेवइति पंचदशर्चस्य सूक्तस्य भारद्वाजऋजिश्वाविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे –विश्वे। १ सूर्यः १ द्यावापृथिवी १ मरुतः २ इंद्रः १ अपः १ सविता १ अग्निः १ अश्विनौ १ विश्वे० ५ एवं १५) |
हु॒वे वो᳚ दे॒वीमदि॑तिं॒ नमो᳚भिर्मृळी॒काय॒ वरु॑णं मि॒त्रम॒ग्निम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

अ॒भि॒क्ष॒दाम᳚र्य॒मणं᳚ सु॒शेवं᳚ त्रा॒तॄन्दे॒वान्‌ त्स॑वि॒तारं॒ भगं᳚ च ||{1/15}{6.50.1}{6.5.1.1}{4.8.8.1}{519, 491, 4887}

सु॒ज्योति॑षः सूर्य॒ दक्ष॑पितॄननागा॒स्त्वे सु॑महो वीहि दे॒वान् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

द्वि॒जन्मा᳚नो॒ य ऋ॑त॒सापः॑ स॒त्याः स्व᳚र्वन्तो यज॒ता, अ॑ग्निजि॒ह्वाः ||{2/15}{6.50.2}{6.5.1.2}{4.8.8.2}{520, 491, 4888}

उ॒त द्या᳚वापृथिवी क्ष॒त्रमु॒रु बृ॒हद्रो᳚दसी शर॒णं सु॑षुम्ने |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

म॒हस्क॑रथो॒ वरि॑वो॒ यथा᳚ नो॒ऽस्मे क्षया᳚य धिषणे, अने॒हः ||{3/15}{6.50.3}{6.5.1.3}{4.8.8.3}{521, 491, 4889}

आ नो᳚ रु॒द्रस्य॑ सू॒नवो᳚ नमन्ताम॒द्या हू॒तासो॒ वस॒वोऽधृ॑ष्टाः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

यदी॒मर्भे᳚ मह॒ति वा᳚ हि॒तासो᳚ बा॒धे म॒रुतो॒, अह्वा᳚म दे॒वान् ||{4/15}{6.50.4}{6.5.1.4}{4.8.8.4}{522, 491, 4890}

मि॒म्यक्ष॒ येषु॑ रोद॒सी नु दे॒वी सिष॑क्ति पू॒षा, अ॑भ्यर्ध॒यज्वा᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

श्रु॒त्वा हवं᳚ मरुतो॒ यद्ध॑ या॒थ भूमा᳚ रेजन्ते॒, अध्व॑नि॒ प्रवि॑क्ते ||{5/15}{6.50.5}{6.5.1.5}{4.8.8.5}{523, 491, 4891}

अ॒भि त्यं वी॒रं गिर्व॑णसम॒र्चेन्द्रं॒ ब्रह्म॑णा जरित॒र्नवे᳚न |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

श्रव॒दिद्धव॒मुप॑ च॒ स्तवा᳚नो॒ रास॒द्वाजाँ॒, उप॑ म॒हो गृ॑णा॒नः ||{6/15}{6.50.6}{6.5.1.6}{4.8.9.1}{524, 491, 4892}

ओ॒मान॑मापो मानुषी॒रमृ॑क्तं॒ धात॑ तो॒काय॒ तन॑याय॒ शं योः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

यू॒यं हि ष्ठा भि॒षजो᳚ मा॒तृत॑मा॒ विश्व॑स्य स्था॒तुर्जग॑तो॒ जनि॑त्रीः ||{7/15}{6.50.7}{6.5.1.7}{4.8.9.2}{525, 491, 4893}

आ नो᳚ दे॒वः स॑वि॒ता त्राय॑माणो॒ हिर᳚ण्यपाणिर्यज॒तो ज॑गम्यात् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

यो दत्र॑वाँ, उ॒षसो॒ न प्रती᳚कं व्यूर्णु॒ते दा॒शुषे॒ वार्या᳚णि ||{8/15}{6.50.8}{6.5.1.8}{4.8.9.3}{526, 491, 4894}

उ॒त त्वं सू᳚नो सहसो नो, अ॒द्या दे॒वाँ, अ॒स्मिन्न॑ध्व॒रे व॑वृत्याः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

स्याम॒हं ते॒ सद॒मिद्रा॒तौ तव॑ स्याम॒ग्नेऽव॑सा सु॒वीरः॑ ||{9/15}{6.50.9}{6.5.1.9}{4.8.9.4}{527, 491, 4895}

उ॒त त्या मे॒ हव॒मा ज॑ग्म्यातं॒ नास॑त्या धी॒भिर्यु॒वम॒ङ्ग वि॑प्रा |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

अत्रिं॒ न म॒हस्तम॑सोऽमुमुक्तं॒ तूर्व॑तं नरा दुरि॒ताद॒भीके᳚ ||{10/15}{6.50.10}{6.5.1.10}{4.8.9.5}{528, 491, 4896}

ते नो᳚ रा॒यो द्यु॒मतो॒ वाज॑वतो दा॒तारो᳚ भूत नृ॒वतः॑ पुरु॒क्षोः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

द॒श॒स्यन्तो᳚ दि॒व्याः पार्थि॑वासो॒ गोजा᳚ता॒, अप्या᳚ मृ॒ळता᳚ च देवाः ||{11/15}{6.50.11}{6.5.1.11}{4.8.10.1}{529, 491, 4897}

ते नो᳚ रु॒द्रः सर॑स्वती स॒जोषा᳚ मी॒ळ्हुष्म᳚न्तो॒ विष्णु᳚र्मृळन्तु वा॒युः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ऋ॒भु॒क्षा वाजो॒ दैव्यो᳚ विधा॒ता प॒र्जन्या॒वाता᳚ पिप्यता॒मिषं᳚ नः ||{12/15}{6.50.12}{6.5.1.12}{4.8.10.2}{530, 491, 4898}

उ॒त स्य दे॒वः स॑वि॒ता भगो᳚ नो॒ऽपां नपा᳚दवतु॒ दानु॒ पप्रिः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

त्वष्टा᳚ दे॒वेभि॒र्जनि॑भिः स॒जोषा॒ द्यौर्दे॒वेभिः॑ पृथि॒वी स॑मु॒द्रैः ||{13/15}{6.50.13}{6.5.1.13}{4.8.10.3}{531, 491, 4899}

उ॒त नोऽहि॑र्बु॒ध्न्यः॑ शृणोत्व॒ज एक॑पात्‌ पृथि॒वी स॑मु॒द्रः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

विश्वे᳚ दे॒वा, ऋ॑ता॒वृधो᳚ हुवा॒नाः स्तु॒ता मन्त्राः᳚ कविश॒स्ता, अ॑वन्तु ||{14/15}{6.50.14}{6.5.1.14}{4.8.10.4}{532, 491, 4900}

ए॒वा नपा᳚तो॒ मम॒ तस्य॑ धी॒भिर्भ॒रद्वा᳚जा, अ॒भ्य॑र्चन्त्य॒र्कैः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ग्ना हु॒तासो॒ वस॒वोऽधृ॑ष्टा॒ विश्वे᳚ स्तु॒तासो᳚ भूता यजत्राः ||{15/15}{6.50.15}{6.5.1.15}{4.8.10.5}{533, 491, 4901}

[51] उदुत्यदिति षोळशर्चस्य सूक्तस्य भारद्वाजऋजिश्वा विश्वेदेवातिष्टुप्‌ त्रयोदश्याद्यास्तिस्राउष्णिहोन्त्यानुष्टुप् | (भेदपक्षे- सूर्य : २ विश्वेदेवाः १० अग्निः १ सोमः १ विश्वेदेवाः २ एवं १६) |
उदु॒ त्यच्चक्षु॒र्महि॑ मि॒त्रयो॒राँ, एति॑ प्रि॒यं वरु॑णयो॒रद॑ब्धम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ऋ॒तस्य॒ शुचि॑ दर्श॒तमनी᳚कं रु॒क्मो न दि॒व उदि॑ता॒ व्य॑द्यौत् ||{1/16}{6.51.1}{6.5.2.1}{4.8.11.1}{534, 492, 4902}

वेद॒ यस्त्रीणि॑ वि॒दथा᳚न्येषां दे॒वानां॒ जन्म॑ सनु॒तरा च॒ विप्रः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ऋ॒जु मर्ते᳚षु वृजि॒ना च॒ पश्य᳚न्न॒भि च॑ष्टे॒ सूरो᳚, अ॒र्य एवा॑न् ||{2/16}{6.51.2}{6.5.2.2}{4.8.11.2}{535, 492, 4903}

स्तु॒ष उ॑ वो म॒ह ऋ॒तस्य॑ गो॒पानदि॑तिं मि॒त्रं वरु॑णं सुजा॒तान् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

अ॒र्य॒मणं॒ भग॒मद॑ब्धधीती॒नच्छा᳚ वोचे सध॒न्यः॑ पाव॒कान् ||{3/16}{6.51.3}{6.5.2.3}{4.8.11.3}{536, 492, 4904}

रि॒शाद॑सः॒ सत्प॑तीँ॒रद॑ब्धान्म॒हो राज्ञः॑ सुवस॒नस्य॑ दा॒तॄन् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

यूनः॑ सुक्ष॒त्रान्‌ क्षय॑तो दि॒वो नॄना᳚दि॒त्यान्या॒म्यदि॑तिं दुवो॒यु ||{4/16}{6.51.4}{6.5.2.4}{4.8.11.4}{537, 492, 4905}

द्यौ॒३॑(औ॒)ष्पितः॒ पृथि॑वि॒ मात॒रध्रु॒गग्ने᳚ भ्रातर्वसवो मृ॒ळता᳚ नः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

विश्व॑ आदित्या, अदिते स॒जोषा᳚, अ॒स्मभ्यं॒ शर्म॑ बहु॒लं वि य᳚न्त ||{5/16}{6.51.5}{6.5.2.5}{4.8.11.5}{538, 492, 4906}

मा नो॒ वृका᳚य वृ॒क्ये᳚ समस्मा, अघाय॒ते री᳚रधता यजत्राः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

यू॒यं हि ष्ठा र॒थ्यो᳚ नस्त॒नूनां᳚ यू॒यं दक्ष॑स्य॒ वच॑सो बभू॒व ||{6/16}{6.51.6}{6.5.2.6}{4.8.12.1}{539, 492, 4907}

मा व॒ एनो᳚, अ॒न्यकृ॑तं भुजेम॒ मा तत्क᳚र्म वसवो॒ यच्चय॑ध्वे |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

विश्व॑स्य॒ हि क्षय॑थ विश्वदेवाः स्व॒यं रि॒पुस्त॒न्वं᳚ रीरिषीष्ट ||{7/16}{6.51.7}{6.5.2.7}{4.8.12.2}{540, 492, 4908}

नम॒ इदु॒ग्रं नम॒ आ वि॑वासे॒ नमो᳚ दाधार पृथि॒वीमु॒त द्याम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

नमो᳚ दे॒वेभ्यो॒ नम॑ ईश एषां कृ॒तं चि॒देनो॒ नम॒सा वि॑वासे ||{8/16}{6.51.8}{6.5.2.8}{4.8.12.3}{541, 492, 4909}

ऋ॒तस्य॑ वो र॒थ्यः॑ पू॒तद॑क्षानृ॒तस्य॑ पस्त्य॒सदो॒, अद॑ब्धान् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ताँ, आ नमो᳚भिरुरु॒चक्ष॑सो॒ नॄन्‌ विश्वा᳚न्व॒ आ न॑मे म॒हो य॑जत्राः ||{9/16}{6.51.9}{6.5.2.9}{4.8.12.4}{542, 492, 4910}

ते हि श्रेष्ठ॑वर्चस॒स्त उ॑ नस्ति॒रो विश्वा᳚नि दुरि॒ता नय᳚न्ति |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

सु॒क्ष॒त्रासो॒ वरु॑णो मि॒त्रो, अ॒ग्निरृ॒तधी᳚तयो वक्म॒राज॑सत्याः ||{10/16}{6.51.10}{6.5.2.10}{4.8.12.5}{543, 492, 4911}

ते न॒ इन्द्रः॑ पृथि॒वी क्षाम॑ वर्धन्‌ पू॒षा भगो॒, अदि॑तिः॒ पञ्च॒ जनाः᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

सु॒शर्मा᳚णः॒ स्वव॑सः सुनी॒था भव᳚न्तु नः सुत्रा॒त्रासः॑ सुगो॒पाः ||{11/16}{6.51.11}{6.5.2.11}{4.8.13.1}{544, 492, 4912}

नू स॒द्मानं᳚ दि॒व्यं नंशि॑ देवा॒ भार॑द्वाजः सुम॒तिं या᳚ति॒ होता᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

आ॒सा॒नेभि॒र्यज॑मानो मि॒येधै᳚र्दे॒वानां॒ जन्म॑ वसू॒युर्व॑वन्द ||{12/16}{6.51.12}{6.5.2.12}{4.8.13.2}{545, 492, 4913}

अप॒ त्यं वृ॑जि॒नं रि॒पुं स्ते॒नम॑ग्ने दुरा॒ध्य᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | उष्णिक्}

द॒वि॒ष्ठम॑स्य सत्पते कृ॒धी सु॒गम् ||{13/16}{6.51.13}{6.5.2.13}{4.8.13.3}{546, 492, 4914}

ग्रावा᳚णः सोम नो॒ हि कं᳚ सखित्व॒नाय॑ वाव॒शुः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | उष्णिक्}

ज॒ही न्य१॑(अ॒)त्रिणं᳚ प॒णिं वृको॒ हि षः ||{14/16}{6.51.14}{6.5.2.14}{4.8.13.4}{547, 492, 4915}

यू॒यं हि ष्ठा सु॑दानव॒ इन्द्र॑ज्येष्ठा, अ॒भिद्य॑वः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | उष्णिक्}

कर्ता᳚ नो॒, अध्व॒न्ना सु॒गं गो॒पा, अ॒मा ||{15/16}{6.51.15}{6.5.2.15}{4.8.13.5}{548, 492, 4916}

अपि॒ पन्था᳚मगन्महि स्वस्ति॒गाम॑ने॒हस᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | अनुष्टुप्}

येन॒ विश्वाः॒ परि॒ द्विषो᳚ वृ॒णक्ति॑ वि॒न्दते॒ वसु॑ ||{16/16}{6.51.16}{6.5.2.16}{4.8.13.6}{549, 492, 4917}

[52] नतद्दिवेति सप्तदशर्चस्य सूक्तस्य भारद्वाजऋजिश्व विश्वेदेवास्त्रिष्टुप्‌सप्तम्याद्याःषट्‌गायत्र्यश्चतुर्दशी जगती | (भेदपक्षे-विश्वेदेवाः २ सोमः १ विश्वे ८ अग्निः १ विश्वे ३ अग्निपर्जन्यौ १ विश्वे १ एवं १७) |
न तद्दि॒वा न पृ॑थि॒व्यानु॑ मन्ये॒ न य॒ज्ञेन॒ नोत शमी᳚भिरा॒भिः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

उ॒ब्जन्तु॒ तं सु॒भ्व१॑(अः॒) पर्व॑तासो॒ नि ही᳚यतामतिया॒जस्य॑ य॒ष्टा ||{1/17}{6.52.1}{6.5.3.1}{4.8.14.1}{550, 493, 4918}

अति॑ वा॒ यो म॑रुतो॒ मन्य॑ते नो॒ ब्रह्म॑ वा॒ यः क्रि॒यमा᳚णं॒ निनि॑त्सात् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

तपूं᳚षि॒ तस्मै᳚ वृजि॒नानि॑ सन्तु ब्रह्म॒द्विष॑म॒भि तं शो᳚चतु॒ द्यौः ||{2/17}{6.52.2}{6.5.3.2}{4.8.14.2}{551, 493, 4919}

किम॒ङ्ग त्वा॒ ब्रह्म॑णः सोम गो॒पां किम॒ङ्ग त्वा᳚हुरभिशस्ति॒पां नः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

किम॒ङ्ग नः॑ पश्यसि नि॒द्यमा᳚नान्‌ ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ||{3/17}{6.52.3}{6.5.3.3}{4.8.14.3}{552, 493, 4920}

अव᳚न्तु॒ मामु॒षसो॒ जाय॑माना॒, अव᳚न्तु मा॒ सिन्ध॑वः॒ पिन्व॑मानाः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

अव᳚न्तु मा॒ पर्व॑तासो ध्रु॒वासोऽव᳚न्तु मा पि॒तरो᳚ दे॒वहू᳚तौ ||{4/17}{6.52.4}{6.5.3.4}{4.8.14.4}{553, 493, 4921}

वि॒श्व॒दानीं᳚ सु॒मन॑सः स्याम॒ पश्ये᳚म॒ नु सूर्य॑मु॒च्चर᳚न्तम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

तथा᳚ कर॒द्वसु॑पति॒र्वसू᳚नां दे॒वाँ, ओहा॒नोऽव॒साग॑मिष्ठः ||{5/17}{6.52.5}{6.5.3.5}{4.8.14.5}{554, 493, 4922}

इन्द्रो॒ नेदि॑ष्ठ॒मव॒साग॑मिष्ठः॒ सर॑स्वती॒ सिन्धु॑भिः॒ पिन्व॑माना |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

प॒र्जन्यो᳚ न॒ ओष॑धीभिर्मयो॒भुर॒ग्निः सु॒शंसः॑ सु॒हवः॑ पि॒तेव॑ ||{6/17}{6.52.6}{6.5.3.6}{4.8.15.1}{555, 493, 4923}

विश्वे᳚ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मं हव᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री}

एदं ब॒र्हिर्नि षी᳚दत ||{7/17}{6.52.7}{6.5.3.7}{4.8.15.2}{556, 493, 4924}

यो वो᳚ देवा घृ॒तस्नु॑ना ह॒व्येन॑ प्रति॒भूष॑ति |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री}

तं विश्व॒ उप॑ गच्छथ ||{8/17}{6.52.8}{6.5.3.8}{4.8.15.3}{557, 493, 4925}

उप॑ नः सू॒नवो॒ गिरः॑ शृ॒ण्वन्त्व॒मृत॑स्य॒ ये |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री}

सु॒मृ॒ळी॒का भ॑वन्तु नः ||{9/17}{6.52.9}{6.5.3.9}{4.8.15.4}{558, 493, 4926}

विश्वे᳚ दे॒वा, ऋ॑ता॒वृध॑ ऋ॒तुभि᳚र्हवन॒श्रुतः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री}

जु॒षन्तां॒ युज्यं॒ पयः॑ ||{10/17}{6.52.10}{6.5.3.10}{4.8.15.5}{559, 493, 4927}

स्तो॒त्रमिन्द्रो᳚ म॒रुद्ग॑ण॒स्त्वष्टृ॑मान्मि॒त्रो, अ᳚र्य॒मा |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री}

इ॒मा ह॒व्या जु॑षन्त नः ||{11/17}{6.52.11}{6.5.3.11}{4.8.16.1}{560, 493, 4928}

इ॒मं नो᳚, अग्ने, अध्व॒रं होत᳚र्वयुन॒शो य॑ज |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री}

चि॒कि॒त्वान्‌ दैव्यं॒ जन᳚म् ||{12/17}{6.52.12}{6.5.3.12}{4.8.16.2}{561, 493, 4929}

विश्वे᳚ देवाः शृणु॒तेमं हवं᳚ मे॒ ये, अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ये, अ॑ग्निजि॒ह्वा, उ॒त वा॒ यज॑त्रा, आ॒सद्या॒स्मिन्‌ ब॒र्हिषि॑ मादयध्वम् ||{13/17}{6.52.13}{6.5.3.13}{4.8.16.3}{562, 493, 4930}

विश्वे᳚ दे॒वा मम॑ शृण्वन्तु य॒ज्ञिया᳚, उ॒भे रोद॑सी, अ॒पां नपा᳚च्च॒ मन्म॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | जगती}

मा वो॒ वचां᳚सि परि॒चक्ष्या᳚णि वोचं सु॒म्नेष्विद्वो॒, अन्त॑मा मदेम ||{14/17}{6.52.14}{6.5.3.14}{4.8.16.4}{563, 493, 4931}

ये के च॒ ज्मा म॒हिनो॒, अहि॑माया दि॒वो ज॑ज्ञि॒रे, अ॒पां स॒धस्थे᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ते, अ॒स्मभ्य॑मि॒षये॒ विश्व॒मायुः॒, क्षप॑ उ॒स्रा व॑रिवस्यन्तु दे॒वाः ||{15/17}{6.52.15}{6.5.3.15}{4.8.16.5}{564, 493, 4932}

अग्नी᳚पर्जन्या॒वव॑तं॒ धियं᳚ मे॒ऽस्मिन्हवे᳚ सुहवा सुष्टु॒तिं नः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

इळा᳚म॒न्यो ज॒नय॒द्गर्भ॑म॒न्यः प्र॒जाव॑ती॒रिष॒ आ ध॑त्तम॒स्मे ||{16/17}{6.52.16}{6.5.3.16}{4.8.16.6}{565, 493, 4933}

स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने, अ॒ग्नौ सू॒क्तेन॑ म॒हा नम॒सा वि॑वासे |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

अ॒स्मिन्नो᳚, अ॒द्य वि॒दथे᳚ यजत्रा॒ विश्वे᳚ देवा ह॒विषि॑ मादयध्वम् ||{17/17}{6.52.17}{6.5.3.17}{4.8.16.7}{566, 493, 4934}

[53] वयमुत्वेति दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजः पूषा गायत्री अष्टम्यनुष्टुप् |
व॒यमु॑ त्वा पथस्पते॒ रथं॒ न वाज॑सातये |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

धि॒ये पू᳚षन्नयुज्महि ||{1/10}{6.53.1}{6.5.4.1}{4.8.17.1}{567, 494, 4935}

अ॒भि नो॒ नर्यं॒ वसु॑ वी॒रं प्रय॑तदक्षिणम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

वा॒मं गृ॒हप॑तिं नय ||{2/10}{6.53.2}{6.5.4.2}{4.8.17.2}{568, 494, 4936}

अदि॑त्सन्तं चिदाघृणे॒ पूष॒न्दाना᳚य चोदय |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

प॒णेश्चि॒द्वि म्र॑दा॒ मनः॑ ||{3/10}{6.53.3}{6.5.4.3}{4.8.17.3}{569, 494, 4937}

वि प॒थो वाज॑सातये चिनु॒हि वि मृधो᳚ जहि |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

साध᳚न्तामुग्र नो॒ धियः॑ ||{4/10}{6.53.4}{6.5.4.4}{4.8.17.4}{570, 494, 4938}

परि॑ तृन्धि पणी॒नामार॑या॒ हृद॑या कवे |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

अथे᳚म॒स्मभ्यं᳚ रन्धय ||{5/10}{6.53.5}{6.5.4.5}{4.8.17.5}{571, 494, 4939}

वि पू᳚ष॒न्नार॑या तुद प॒णेरि॑च्छ हृ॒दि प्रि॒यम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

अथे᳚म॒स्मभ्यं᳚ रन्धय ||{6/10}{6.53.6}{6.5.4.6}{4.8.18.1}{572, 494, 4940}

आ रि॑ख किकि॒रा कृ॑णु पणी॒नां हृद॑या कवे |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

अथे᳚म॒स्मभ्यं᳚ रन्धय ||{7/10}{6.53.7}{6.5.4.7}{4.8.18.2}{573, 494, 4941}

यां पू᳚षन्‌ ब्रह्म॒चोद॑नी॒मारां॒ बिभ॑र्ष्याघृणे |{बार्हस्पत्यो भरद्वाजः | पूषा | अनुष्टुप्}

तया᳚ समस्य॒ हृद॑य॒मा रि॑ख किकि॒रा कृ॑णु ||{8/10}{6.53.8}{6.5.4.8}{4.8.18.3}{574, 494, 4942}

या ते॒, अष्ट्रा॒ गो,ओ᳚प॒शाघृ॑णे पशु॒साध॑नी |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

तस्या᳚स्ते सु॒म्नमी᳚महे ||{9/10}{6.53.9}{6.5.4.9}{4.8.18.4}{575, 494, 4943}

उ॒त नो᳚ गो॒षणिं॒ धिय॑मश्व॒सां वा᳚ज॒सामु॒त |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

नृ॒वत्कृ॑णुहि वी॒तये᳚ ||{10/10}{6.53.10}{6.5.4.10}{4.8.18.5}{576, 494, 4944}

[54] संपूषन्निति दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजः पूषागायत्री |
सं पू᳚षन्‌ वि॒दुषा᳚ नय॒ यो, अञ्ज॑सानु॒शास॑ति |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

य ए॒वेदमिति॒ ब्रव॑त् ||{1/10}{6.54.1}{6.5.5.1}{4.8.19.1}{577, 495, 4945}

समु॑ पू॒ष्णा ग॑मेमहि॒ यो गृ॒हाँ, अ॑भि॒शास॑ति |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

इ॒म ए॒वेति॑ च॒ ब्रव॑त् ||{2/10}{6.54.2}{6.5.5.2}{4.8.19.2}{578, 495, 4946}

पू॒ष्णश्च॒क्रं न रि॑ष्यति॒ न कोशोऽव॑ पद्यते |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

नो, अ॑स्य व्यथते प॒विः ||{3/10}{6.54.3}{6.5.5.3}{4.8.19.3}{579, 495, 4947}

यो, अ॑स्मै ह॒विषावि॑ध॒न्न तं पू॒षापि॑ मृष्यते |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

प्र॒थ॒मो वि᳚न्दते॒ वसु॑ ||{4/10}{6.54.4}{6.5.5.4}{4.8.19.4}{580, 495, 4948}

पू॒षा गा, अन्वे᳚तु नः पू॒षा र॑क्ष॒त्वर्व॑तः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

पू॒षा वाजं᳚ सनोतु नः ||{5/10}{6.54.5}{6.5.5.5}{4.8.19.5}{581, 495, 4949}

पूष॒न्ननु॒ प्र गा, इ॑हि॒ यज॑मानस्य सुन्व॒तः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

अ॒स्माकं᳚ स्तुव॒तामु॒त ||{6/10}{6.54.6}{6.5.5.6}{4.8.20.1}{582, 495, 4950}

माकि᳚र्नेश॒न्माकीं᳚ रिष॒न्माकीं॒ सं शा᳚रि॒ केव॑टे |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

अथारि॑ष्टाभि॒रा ग॑हि ||{7/10}{6.54.7}{6.5.5.7}{4.8.20.2}{583, 495, 4951}

शृ॒ण्वन्तं᳚ पू॒षणं᳚ व॒यमिर्य॒मन॑ष्टवेदसम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

ईशा᳚नं रा॒य ई᳚महे ||{8/10}{6.54.8}{6.5.5.8}{4.8.20.3}{584, 495, 4952}

पूष॒न्तव᳚ व्र॒ते व॒यं न रि॑ष्येम॒ कदा᳚ च॒न |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

स्तो॒तार॑स्त इ॒ह स्म॑सि ||{9/10}{6.54.9}{6.5.5.9}{4.8.20.4}{585, 495, 4953}

परि॑ पू॒षा प॒रस्ता॒द्धस्तं᳚ दधातु॒ दक्षि॑णम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

पुन᳚र्नो न॒ष्टमाज॑तु ||{10/10}{6.54.10}{6.5.5.10}{4.8.20.5}{586, 495, 4954}

[55] एहिवामिति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजः पूषागायत्री |
एहि॒ वां वि॑मुचो नपा॒दाघृ॑णे॒ सं स॑चावहै |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

र॒थीरृ॒तस्य॑ नो भव ||{1/6}{6.55.1}{6.5.6.1}{4.8.21.1}{587, 496, 4955}

र॒थीत॑मं कप॒र्दिन॒मीशा᳚नं॒ राध॑सो म॒हः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

रा॒यः सखा᳚यमीमहे ||{2/6}{6.55.2}{6.5.6.2}{4.8.21.2}{588, 496, 4956}

रा॒यो धारा᳚स्याघृणे॒ वसो᳚ रा॒शिर॑जाश्व |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

धीव॑तोधीवतः॒ सखा᳚ ||{3/6}{6.55.3}{6.5.6.3}{4.8.21.3}{589, 496, 4957}

पू॒षणं॒ न्व१॑(अ॒)जाश्व॒मुप॑ स्तोषाम वा॒जिन᳚म् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

स्वसु॒र्यो जा॒र उ॒च्यते᳚ ||{4/6}{6.55.4}{6.5.6.4}{4.8.21.4}{590, 496, 4958}

मा॒तुर्दि॑धि॒षुम॑ब्रवं॒ स्वसु॑र्जा॒रः शृ॑णोतु नः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

भ्रातेन्द्र॑स्य॒ सखा॒ मम॑ ||{5/6}{6.55.5}{6.5.6.5}{4.8.21.5}{591, 496, 4959}

आजासः॑ पू॒षणं॒ रथे᳚ निशृ॒म्भास्ते ज॑न॒श्रिय᳚म् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

दे॒वं व॑हन्तु॒ बिभ्र॑तः ||{6/6}{6.55.6}{6.5.6.6}{4.8.21.6}{592, 496, 4960}

[56] यएनमिति षडृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाजः पूषागायत्री अंत्यानुष्टुप् |
य ए᳚नमा॒दिदे᳚शति कर॒म्भादिति॑ पू॒षण᳚म् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

न तेन॑ दे॒व आ॒दिशे᳚ ||{1/6}{6.56.1}{6.5.7.1}{4.8.22.1}{593, 497, 4961}

उ॒त घा॒ स र॒थीत॑मः॒ सख्या॒ सत्प॑तिर्यु॒जा |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

इन्द्रो᳚ वृ॒त्राणि॑ जिघ्नते ||{2/6}{6.56.2}{6.5.7.2}{4.8.22.2}{594, 497, 4962}

उ॒तादः प॑रु॒षे गवि॒ सूर॑श्च॒क्रं हि॑र॒ण्यय᳚म् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

न्यै᳚रयद्र॒थीत॑मः ||{3/6}{6.56.3}{6.5.7.3}{4.8.22.3}{595, 497, 4963}

यद॒द्य त्वा᳚ पुरुष्टुत॒ ब्रवा᳚म दस्र मन्तुमः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

तत्सु नो॒ मन्म॑ साधय ||{4/6}{6.56.4}{6.5.7.4}{4.8.22.4}{596, 497, 4964}

इ॒मं च॑ नो ग॒वेष॑णं सा॒तये᳚ सीषधो ग॒णम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

आ॒रात्पू᳚षन्नसि श्रु॒तः ||{5/6}{6.56.5}{6.5.7.5}{4.8.22.5}{597, 497, 4965}

आ ते᳚ स्व॒स्तिमी᳚मह आ॒रे,अ॑घा॒मुपा᳚वसुम् |{बार्हस्पत्यो भरद्वाजः | पूषा | अनुष्टुप्}

अ॒द्या च॑ स॒र्वता᳚तये॒ श्वश्च॑ स॒र्वता᳚तये ||{6/6}{6.56.6}{6.5.7.6}{4.8.22.6}{598, 497, 4966}

[57] इंद्रान्विति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रापूषणौगायत्री |
इन्द्रा॒ नु पू॒षणा᳚ व॒यं स॒ख्याय॑ स्व॒स्तये᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री}

हु॒वेम॒ वाज॑सातये ||{1/6}{6.57.1}{6.5.8.1}{4.8.23.1}{599, 498, 4967}

सोम॑म॒न्य उपा᳚सद॒त्पात॑वे च॒म्वोः᳚ सु॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री}

क॒र॒म्भम॒न्य इ॑च्छति ||{2/6}{6.57.2}{6.5.8.2}{4.8.23.2}{600, 498, 4968}

अ॒जा, अ॒न्यस्य॒ वह्न॑यो॒ हरी᳚, अ॒न्यस्य॒ सम्भृ॑ता |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री}

ताभ्यां᳚ वृ॒त्राणि॑ जिघ्नते ||{3/6}{6.57.3}{6.5.8.3}{4.8.23.3}{601, 498, 4969}

यदिन्द्रो॒, अन॑य॒द्रितो᳚ म॒हीर॒पो वृष᳚न्तमः |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री}

तत्र॑ पू॒षाभ॑व॒त्सचा᳚ ||{4/6}{6.57.4}{6.5.8.4}{4.8.23.4}{602, 498, 4970}

तां पू॒ष्णः सु॑म॒तिं व॒यं वृ॒क्षस्य॒ प्र व॒यामि॑व |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री}

इन्द्र॑स्य॒ चा र॑भामहे ||{5/6}{6.57.5}{6.5.8.5}{4.8.23.5}{603, 498, 4971}

उत्पू॒षणं᳚ युवामहे॒ऽभीशूँ᳚रिव॒ सार॑थिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री}

म॒ह्या, इन्द्रं᳚ स्व॒स्तये᳚ ||{6/6}{6.57.6}{6.5.8.6}{4.8.23.6}{604, 498, 4972}

[58] शुक्रंतइति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजः पूषात्रिष्टुप् द्वितीयाजगती |
शु॒क्रं ते᳚, अ॒न्यद्‌ य॑ज॒तं ते᳚, अ॒न्यद् विषु॑रूपे॒, अह॑नी॒ द्यौरि॑वासि |{बार्हस्पत्यो भरद्वाजः | पूषा | त्रिष्टुप्}

विश्वा॒ हि मा॒या, अव॑सि स्वधावो भ॒द्रा ते᳚ पूषन्नि॒ह रा॒तिर॑स्तु ||{1/4}{6.58.1}{6.5.9.1}{4.8.24.1}{605, 499, 4973}

अ॒जाश्वः॑ पशु॒पा वाज॑पस्त्यो धियंजि॒न्वो भुव॑ने॒ विश्वे॒, अर्पि॑तः |{बार्हस्पत्यो भरद्वाजः | पूषा | जगती}

अष्ट्रां᳚ पू॒षा शि॑थि॒रामु॒द्वरी᳚वृजत्सं॒चक्षा᳚णो॒ भुव॑ना दे॒व ई᳚यते ||{2/4}{6.58.2}{6.5.9.2}{4.8.24.2}{606, 499, 4974}

यास्ते᳚ पूष॒न्नावो᳚, अ॒न्तः स॑मु॒द्रे हि॑र॒ण्ययी᳚र॒न्तरि॑क्षे॒ चर᳚न्ति |{बार्हस्पत्यो भरद्वाजः | पूषा | त्रिष्टुप्}

ताभि᳚र्यासि दू॒त्यां सूर्य॑स्य॒ कामे᳚न कृत॒ श्रव॑ इ॒च्छमा᳚नः ||{3/4}{6.58.3}{6.5.9.3}{4.8.24.3}{607, 499, 4975}

पू॒षा सु॒बन्धु॑र्दि॒व आ पृ॑थि॒व्या, इ॒ळस्पति᳚र्म॒घवा᳚ द॒स्मव॑र्चाः |{बार्हस्पत्यो भरद्वाजः | पूषा | त्रिष्टुप्}

यं दे॒वासो॒, अद॑दुः सू॒र्यायै॒ कामे᳚न कृ॒तं त॒वसं॒ स्वञ्च᳚म् ||{4/4}{6.58.4}{6.5.9.4}{4.8.24.4}{608, 499, 4976}

[59] प्रनुवोचेति दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज इंद्राग्नी बृहती अंत्याश्चतस्रोनुष्टुभः |
प्र नु वो᳚चा सु॒तेषु॑ वां वी॒र्या॒३॑(आ॒) यानि॑ च॒क्रथुः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती}

ह॒तासो᳚ वां पि॒तरो᳚ दे॒वश॑त्रव॒ इन्द्रा᳚ग्नी॒ जीव॑थो यु॒वम् ||{1/10}{6.59.1}{6.5.10.1}{4.8.25.1}{609, 500, 4977}

बळि॒त्था म॑हि॒मा वा॒मिन्द्रा᳚ग्नी॒ पनि॑ष्ठ॒ आ |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती}

स॒मा॒नो वां᳚ जनि॒ता भ्रात॑रा यु॒वं य॒मावि॒हेह॑मातरा ||{2/10}{6.59.2}{6.5.10.2}{4.8.25.2}{610, 500, 4978}

ओ॒कि॒वांसा᳚ सु॒ते सचाँ॒, अश्वा॒ सप्ती᳚, इ॒वाद॑ने |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती}

इन्द्रा॒ न्व१॑(अ॒)ग्नी, अव॑से॒ह व॒ज्रिणा᳚ व॒यं दे॒वा ह॑वामहे ||{3/10}{6.59.3}{6.5.10.3}{4.8.25.3}{611, 500, 4979}

य इ᳚न्द्राग्नी सु॒तेषु॑ वां॒ स्तव॒त्तेष्वृ॑तावृधा |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती}

जो॒ष॒वा॒कं वद॑तः पज्रहोषिणा॒ न दे᳚वा भ॒सथ॑श्च॒न ||{4/10}{6.59.4}{6.5.10.4}{4.8.25.4}{612, 500, 4980}

इन्द्रा᳚ग्नी॒ को, अ॒स्य वां॒ देवौ॒ मर्त॑श्चिकेतति |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती}

विषू᳚चो॒, अश्वा᳚न्युयुजा॒न ई᳚यत॒ एकः॑ समा॒न आ रथे᳚ ||{5/10}{6.59.5}{6.5.10.5}{4.8.25.5}{613, 500, 4981}

इन्द्रा᳚ग्नी, अ॒पादि॒यं पूर्वागा᳚त्प॒द्वती᳚भ्यः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती}

हि॒त्वी शिरो᳚ जि॒ह्वया॒ वाव॑द॒च्चर॑त्त्रिं॒शत्प॒दा न्य॑क्रमीत् ||{6/10}{6.59.6}{6.5.10.6}{4.8.26.1}{614, 500, 4982}

इन्द्रा᳚ग्नी॒, आ हि त᳚न्व॒ते नरो॒ धन्वा᳚नि बा॒ह्वोः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्}

मा नो᳚, अ॒स्मिन्म॑हाध॒ने परा᳚ वर्क्तं॒ गवि॑ष्टिषु ||{7/10}{6.59.7}{6.5.10.7}{4.8.26.2}{615, 500, 4983}

इन्द्रा᳚ग्नी॒ तप᳚न्ति मा॒घा, अ॒र्यो, अरा᳚तयः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्}

अप॒ द्वेषां॒स्या कृ॑तं युयु॒तं सूर्या॒दधि॑ ||{8/10}{6.59.8}{6.5.10.8}{4.8.26.3}{616, 500, 4984}

इन्द्रा᳚ग्नी यु॒वोरपि॒ वसु॑ दि॒व्यानि॒ पार्थि॑वा |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्}

आ न॑ इ॒ह प्र य॑च्छतं र॒यिं वि॒श्वायु॑पोषसम् ||{9/10}{6.59.9}{6.5.10.9}{4.8.26.4}{617, 500, 4985}

इन्द्रा᳚ग्नी, उक्थवाहसा॒ स्तोमे᳚भिर्हवनश्रुता |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्}

विश्वा᳚भिर्गी॒र्भिरा ग॑तम॒स्य सोम॑स्य पी॒तये᳚ ||{10/10}{6.59.10}{6.5.10.10}{4.8.26.5}{618, 500, 4986}

[60] श्नथद्वृत्रमिति पंचदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्राग्नीगायत्री आद्यास्तिस्रस्त्रयोदशीचत्रिष्टुभः चतुर्दशीबृहत्यंत्यानुष्टुप् |
श्नथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो, अ॒ग्नी सहु॑री सप॒र्यात् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | त्रिष्टुप्}

इ॒र॒ज्यन्ता᳚ वस॒व्य॑स्य॒ भूरेः॒ सह॑स्तमा॒ सह॑सा वाज॒यन्ता᳚ ||{1/15}{6.60.1}{6.5.11.1}{4.8.27.1}{619, 501, 4987}

ता यो᳚धिष्टम॒भि गा, इ᳚न्द्र नू॒नम॒पः स्व॑रु॒षसो᳚, अग्न ऊ॒ळ्हाः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | त्रिष्टुप्}

दिशः॒ स्व॑रु॒षस॑ इन्द्र चि॒त्रा, अ॒पो गा, अ॑ग्ने युवसे नि॒युत्वा॑न् ||{2/15}{6.60.2}{6.5.11.2}{4.8.27.2}{620, 501, 4988}

आ वृ॑त्रहणा वृत्र॒हभिः॒ शुष्मै॒रिन्द्र॑ या॒तं नमो᳚भिरग्ने, अ॒र्वाक् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | त्रिष्टुप्}

यु॒वं राधो᳚भि॒रक॑वेभिरि॒न्द्राग्ने᳚, अ॒स्मे भ॑वतमुत्त॒मेभिः॑ ||{3/15}{6.60.3}{6.5.11.3}{4.8.27.3}{621, 501, 4989}

ता हु॑वे॒ ययो᳚रि॒दं प॒प्ने विश्वं᳚ पु॒रा कृ॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

इ॒न्द्रा॒ग्नी न म॑र्धतः ||{4/15}{6.60.4}{6.5.11.4}{4.8.27.4}{622, 501, 4990}

उ॒ग्रा वि॑घ॒निना॒ मृध॑ इन्द्रा॒ग्नी ह॑वामहे |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

ता नो᳚ मृळात ई॒दृशे᳚ ||{5/15}{6.60.5}{6.5.11.5}{4.8.27.5}{623, 501, 4991}

ह॒तो वृ॒त्राण्यार्या᳚ ह॒तो दासा᳚नि॒ सत्प॑ती |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

ह॒तो विश्वा॒, अप॒ द्विषः॑ ||{6/15}{6.60.6}{6.5.11.6}{4.8.28.1}{624, 501, 4992}

इन्द्रा᳚ग्नी यु॒वामि॒मे॒३॑(ए॒)ऽभि स्तोमा᳚, अनूषत |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

पिब॑तं शम्भुवा सु॒तम् ||{7/15}{6.60.7}{6.5.11.7}{4.8.28.2}{625, 501, 4993}

या वां॒ सन्ति॑ पुरु॒स्पृहो᳚ नि॒युतो᳚ दा॒शुषे᳚ नरा |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

इन्द्रा᳚ग्नी॒ ताभि॒रा ग॑तम् ||{8/15}{6.60.8}{6.5.11.8}{4.8.28.3}{626, 501, 4994}

ताभि॒रा ग॑च्छतं न॒रोपे॒दं सव॑नं सु॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

इन्द्रा᳚ग्नी॒ सोम॑पीतये ||{9/15}{6.60.9}{6.5.11.9}{4.8.28.4}{627, 501, 4995}

तमी᳚ळिष्व॒ यो, अ॒र्चिषा॒ वना॒ विश्वा᳚ परि॒ष्वज॑त् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

कृ॒ष्णा कृ॒णोति॑ जि॒ह्वया᳚ ||{10/15}{6.60.10}{6.5.11.10}{4.8.28.5}{628, 501, 4996}

य इ॒द्ध आ॒विवा᳚सति सु॒म्नमिन्द्र॑स्य॒ मर्त्यः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

द्यु॒म्नाय॑ सु॒तरा᳚, अ॒पः ||{11/15}{6.60.11}{6.5.11.11}{4.8.29.1}{629, 501, 4997}

ता नो॒ वाज॑वती॒रिष॑ आ॒शून्‌ पि॑पृत॒मर्व॑तः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

इन्द्र॑म॒ग्निं च॒ वोळ्ह॑वे ||{12/15}{6.60.12}{6.5.11.12}{4.8.29.2}{630, 501, 4998}

उ॒भा वा᳚मिन्द्राग्नी, आहु॒वध्या᳚, उ॒भा राध॑सः स॒ह मा᳚द॒यध्यै᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | त्रिष्टुप्}

उ॒भा दा॒तारा᳚वि॒षां र॑यी॒णामु॒भा वाज॑स्य सा॒तये᳚ हुवे वाम् ||{13/15}{6.60.13}{6.5.11.13}{4.8.29.3}{631, 501, 4999}

आ नो॒ गव्ये᳚भि॒रश्व्यै᳚र्वस॒व्यै॒३॑(ऐ॒)रुप॑ गच्छतम् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती}

सखा᳚यौ दे॒वौ स॒ख्याय॑ श॒म्भुवे᳚न्द्रा॒ग्नी ता ह॑वामहे ||{14/15}{6.60.14}{6.5.11.14}{4.8.29.4}{632, 501, 5000}

इन्द्रा᳚ग्नी शृणु॒तं हवं॒ यज॑मानस्य सुन्व॒तः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्}

वी॒तं ह॒व्यान्या ग॑तं॒ पिब॑तं सो॒म्यं मधु॑ ||{15/15}{6.60.15}{6.5.11.15}{4.8.29.5}{633, 501, 5001}

[61] इयमददादिति चतुर्दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजः सरस्वतीगायत्री आद्यास्तिस्रत्रयोदशीचजगत्योंत्यात्रिष्टुप् |
इ॒यम॑ददाद्‌ रभ॒समृ॑ण॒च्युतं॒ दिवो᳚दासं वध्र्य॒श्वाय॑ दा॒शुषे᳚ |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती}

या शश्व᳚न्तमाच॒खादा᳚व॒सं प॒णिं ता ते᳚ दा॒त्राणि॑ तवि॒षा स॑रस्वति ||{1/14}{6.61.1}{6.5.12.1}{4.8.30.1}{634, 502, 5002}

इ॒यं शुष्मे᳚भिर्बिस॒खा, इ॑वारुज॒त् सानु॑ गिरी॒णां त॑वि॒षेभि॑रू॒र्मिभिः॑ |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती}

पा॒रा॒व॒त॒घ्नीमव॑से सुवृ॒क्तिभिः॒ सर॑स्वती॒मा वि॑वासेम धी॒तिभिः॑ ||{2/14}{6.61.2}{6.5.12.2}{4.8.30.2}{635, 502, 5003}

सर॑स्वति देव॒निदो॒ नि ब᳚र्हय प्र॒जां विश्व॑स्य॒ बृस॑यस्य मा॒यिनः॑ |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती}

उ॒त क्षि॒तिभ्यो॒ऽवनी᳚रविन्दो वि॒षमे᳚भ्यो, अस्रवो वाजिनीवति ||{3/14}{6.61.3}{6.5.12.3}{4.8.30.3}{636, 502, 5004}

प्र णो᳚ दे॒वी सर॑स्वती॒ वाजे᳚भिर्वा॒जिनी᳚वती |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

धी॒नाम॑वि॒त्र्य॑वतु ||{4/14}{6.61.4}{6.5.12.4}{4.8.30.4}{637, 502, 5005}

यस्त्वा᳚ देवि सरस्वत्युपब्रू॒ते धने᳚ हि॒ते |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

इन्द्रं॒ न वृ॑त्र॒तूर्ये᳚ ||{5/14}{6.61.5}{6.5.12.5}{4.8.30.5}{638, 502, 5006}

त्वं दे᳚वि सरस्व॒त्यवा॒ वाजे᳚षु वाजिनि |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

रदा᳚ पू॒षेव॑ नः स॒निम् ||{6/14}{6.61.6}{6.5.12.6}{4.8.31.1}{639, 502, 5007}

उ॒त स्या नः॒ सर॑स्वती घो॒रा हिर᳚ण्यवर्तनिः |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

वृ॒त्र॒घ्नी व॑ष्टि सुष्टु॒तिम् ||{7/14}{6.61.7}{6.5.12.7}{4.8.31.2}{640, 502, 5008}

यस्या᳚, अन॒न्तो, अह्रु॑तस्त्वे॒षश्च॑रि॒ष्णुर᳚र्ण॒वः |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

अम॒श्चर॑ति॒ रोरु॑वत् ||{8/14}{6.61.8}{6.5.12.8}{4.8.31.3}{641, 502, 5009}

सा नो॒ विश्वा॒, अति॒ द्विषः॒ स्वसॄ᳚र॒न्या, ऋ॒ताव॑री |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

अत॒न्नहे᳚व॒ सूर्यः॑ ||{9/14}{6.61.9}{6.5.12.9}{4.8.31.4}{642, 502, 5010}

उ॒त नः॑ प्रि॒या प्रि॒यासु॑ स॒प्तस्व॑सा॒ सुजु॑ष्टा |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

सर॑स्वती॒ स्तोम्या᳚ भूत् ||{10/14}{6.61.10}{6.5.12.10}{4.8.31.5}{643, 502, 5011}

आ॒प॒प्रुषी॒ पार्थि॑वान्यु॒रु रजो᳚, अ॒न्तरि॑क्षम् |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

सर॑स्वती नि॒दस्पा᳚तु ||{11/14}{6.61.11}{6.5.12.11}{4.8.32.1}{644, 502, 5012}

त्रि॒ष॒धस्था᳚ स॒प्तधा᳚तुः॒ पञ्च॑ जा॒ता व॒र्धय᳚न्ती |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

वाजे᳚वाजे॒ हव्या᳚ भूत् ||{12/14}{6.61.12}{6.5.12.12}{4.8.32.2}{645, 502, 5013}

प्र या म॑हि॒म्ना म॒हिना᳚सु॒ चेकि॑ते द्यु॒म्नेभि॑र॒न्या, अ॒पसा᳚म॒पस्त॑मा |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती}

रथ॑ इव बृह॒ती वि॒भ्वने᳚ कृ॒तोप॒स्तुत्या᳚ चिकि॒तुषा॒ सर॑स्वती ||{13/14}{6.61.13}{6.5.12.13}{4.8.32.3}{646, 502, 5014}

सर॑स्वत्य॒भि नो᳚ नेषि॒ वस्यो॒ माप॑ स्फरीः॒ पय॑सा॒ मा न॒ आ ध॑क् |{बार्हस्पत्यो भरद्वाजः | सरस्वती | त्रिष्टुप्}

जु॒षस्व॑ नः स॒ख्या वे॒श्या᳚ च॒ मा त्वत्‌ क्षेत्रा॒ण्यर॑णानि गन्म ||{14/14}{6.61.14}{6.5.12.14}{4.8.32.4}{647, 502, 5015}

[62] स्तुषेनरेत्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोश्विनौत्रिष्टुप् |
स्तु॒षे नरा᳚ दि॒वो, अ॒स्य प्र॒सन्ता॒श्विना᳚ हुवे॒ जर॑माणो, अ॒र्कैः |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

या स॒द्य उ॒स्रा व्युषि॒ ज्मो, अन्ता॒न्युयू᳚षतः॒ पर्यु॒रू वरां᳚सि ||{1/11}{6.62.1}{6.6.1.1}{5.1.1.1}{648, 503, 5016}

ता य॒ज्ञमा शुचि॑भिश्चक्रमा॒णा रथ॑स्य भा॒नुं रु॑रुचू॒ रजो᳚भिः |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

पु॒रू वरां॒स्यमि॑ता॒ मिमा᳚ना॒पो धन्वा॒न्यति॑ याथो॒, अज्रा॑न् ||{2/11}{6.62.2}{6.6.1.2}{5.1.1.2}{649, 503, 5017}

ता ह॒ त्यद्व॒र्तिर्यदर॑ध्रमुग्रे॒त्था धिय॑ ऊहथुः॒ शश्व॒दश्वैः᳚ |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

मनो᳚जवेभिरिषि॒रैः श॒यध्यै॒ परि॒ व्यथि॑र्दा॒शुषो॒ मर्त्य॑स्य ||{3/11}{6.62.3}{6.6.1.3}{5.1.1.3}{650, 503, 5018}

ता नव्य॑सो॒ जर॑माणस्य॒ मन्मोप॑ भूषतो युयुजा॒नस॑प्ती |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

शुभं॒ पृक्ष॒मिष॒मूर्जं॒ वह᳚न्ता॒ होता᳚ यक्षत्प्र॒त्नो, अ॒ध्रुग्युवा᳚ना ||{4/11}{6.62.4}{6.6.1.4}{5.1.1.4}{651, 503, 5019}

ता व॒ल्गू द॒स्रा पु॑रु॒शाक॑तमा प्र॒त्ना नव्य॑सा॒ वच॒सा वि॑वासे |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

या शंस॑ते स्तुव॒ते शम्भ॑विष्ठा बभू॒वतु॑र्गृण॒ते चि॒त्ररा᳚ती ||{5/11}{6.62.5}{6.6.1.5}{5.1.1.5}{652, 503, 5020}

ता भु॒ज्युं विभि॑र॒द्भ्यः स॑मु॒द्रात्तुग्र॑स्य सू॒नुमू᳚हथू॒ रजो᳚भिः |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

अ॒रे॒णुभि॒र्योज॑नेभिर्भु॒जन्ता᳚ पत॒त्रिभि॒रर्ण॑सो॒ निरु॒पस्था᳚त् ||{6/11}{6.62.6}{6.6.1.6}{5.1.2.1}{653, 503, 5021}

वि ज॒युषा᳚ रथ्या यात॒मद्रिं᳚ श्रु॒तं हवं᳚ वृषणा वध्रिम॒त्याः |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

द॒श॒स्यन्ता᳚ श॒यवे᳚ पिप्यथु॒र्गामिति॑ च्यवाना सुम॒तिं भु॑रण्यू ||{7/11}{6.62.7}{6.6.1.7}{5.1.2.2}{654, 503, 5022}

यद्रो᳚दसी प्र॒दिवो॒, अस्ति॒ भूमा॒ हेळो᳚ दे॒वाना᳚मु॒त म॑र्त्य॒त्रा |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

तदा᳚दित्या वसवो रुद्रियासो रक्षो॒युजे॒ तपु॑र॒घं द॑धात ||{8/11}{6.62.8}{6.6.1.8}{5.1.2.3}{655, 503, 5023}

य ईं॒ राजा᳚नावृतु॒था वि॒दध॒द्रज॑सो मि॒त्रो वरु॑ण॒श्चिके᳚तत् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

ग॒म्भी॒राय॒ रक्ष॑से हे॒तिम॑स्य॒ द्रोघा᳚य चि॒द्वच॑स॒ आन॑वाय ||{9/11}{6.62.9}{6.6.1.9}{5.1.2.4}{656, 503, 5024}

अन्त॑रैश्च॒क्रैस्तन॑याय व॒र्तिर्द्यु॒मता या᳚तं नृ॒वता॒ रथे᳚न |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

सनु॑त्येन॒ त्यज॑सा॒ मर्त्य॑स्य वनुष्य॒तामपि॑ शी॒र्षा व॑वृक्तम् ||{10/11}{6.62.10}{6.6.1.10}{5.1.2.5}{657, 503, 5025}

आ प॑र॒माभि॑रु॒त म॑ध्य॒माभि᳚र्नि॒युद्भि᳚र्यातमव॒माभि॑र॒र्वाक् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

दृ॒ळ्हस्य॑ चि॒द्गोम॑तो॒ वि व्र॒जस्य॒ दुरो᳚ वर्तं गृण॒ते चि॑त्रराती ||{11/11}{6.62.11}{6.6.1.11}{5.1.2.6}{658, 503, 5026}

[63] कत्येत्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोश्विनौस्त्रिष्टुबन्त्याविराळैकपदा |
क्व१॑(अ॒) त्या व॒ल्गू पु॑रुहू॒ताद्य दू॒तो न स्तोमो᳚ऽविद॒न्नम॑स्वान् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

आ यो, अ॒र्वाङ्नास॑त्या व॒वर्त॒ प्रेष्ठा॒ ह्यस॑थो, अस्य॒ मन्म॑न् ||{1/11}{6.63.1}{6.6.2.1}{5.1.3.1}{659, 504, 5027}

अरं᳚ मे गन्तं॒ हव॑नाया॒स्मै गृ॑णा॒ना यथा॒ पिबा᳚थो॒, अन्धः॑ |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

परि॑ ह॒ त्यद्व॒र्तिर्या᳚थो रि॒षो न यत्परो॒ नान्त॑रस्तुतु॒र्यात् ||{2/11}{6.63.2}{6.6.2.2}{5.1.3.2}{660, 504, 5028}

अका᳚रि वा॒मन्ध॑सो॒ वरी᳚म॒न्नस्ता᳚रि ब॒र्हिः सु॑प्राय॒णत॑मम् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

उ॒त्ता॒नह॑स्तो युव॒युर्व॑व॒न्दा वां॒ नक्ष᳚न्तो॒, अद्र॑य आञ्जन् ||{3/11}{6.63.3}{6.6.2.3}{5.1.3.3}{661, 504, 5029}

ऊ॒र्ध्वो वा᳚म॒ग्निर॑ध्व॒रेष्व॑स्था॒त्प्र रा॒तिरे᳚ति जू॒र्णिनी᳚ घृ॒ताची᳚ |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

प्र होता᳚ गू॒र्तम॑ना, उरा॒णोऽयु॑क्त॒ यो नास॑त्या॒ हवी᳚मन् ||{4/11}{6.63.4}{6.6.2.4}{5.1.3.4}{662, 504, 5030}

अधि॑ श्रि॒ये दु॑हि॒ता सूर्य॑स्य॒ रथं᳚ तस्थौ पुरुभुजा श॒तोति᳚म् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

प्र मा॒याभि᳚र्मायिना भूत॒मत्र॒ नरा᳚ नृतू॒ जनि॑मन्‌ य॒ज्ञिया᳚नाम् ||{5/11}{6.63.5}{6.6.2.5}{5.1.3.5}{663, 504, 5031}

यु॒वं श्री॒भिर्द॑र्श॒ताभि॑रा॒भिः शु॒भे पु॒ष्टिमू᳚हथुः सू॒र्यायाः᳚ |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

प्र वां॒ वयो॒ वपु॒षेऽनु॑ पप्त॒न्नक्ष॒द्वाणी॒ सुष्टु॑ता धिष्ण्या वाम् ||{6/11}{6.63.6}{6.6.2.6}{5.1.4.1}{664, 504, 5032}

आ वां॒ वयोऽश्वा᳚सो॒ वहि॑ष्ठा, अ॒भि प्रयो᳚ नासत्या वहन्तु |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

प्र वां॒ रथो॒ मनो᳚जवा, असर्जी॒षः पृ॒क्ष इ॒षिधो॒, अनु॑ पू॒र्वीः ||{7/11}{6.63.7}{6.6.2.7}{5.1.4.2}{665, 504, 5033}

पु॒रु हि वां᳚ पुरुभुजा दे॒ष्णं धे॒नुं न॒ इषं᳚ पिन्वत॒मस॑क्राम् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

स्तुत॑श्च वां माध्वी सुष्टु॒तिश्च॒ रसा᳚श्च॒ ये वा॒मनु॑ रा॒तिमग्म॑न् ||{8/11}{6.63.8}{6.6.2.8}{5.1.4.3}{666, 504, 5034}

उ॒त म॑ ऋ॒ज्रे पुर॑यस्य र॒घ्वी सु॑मी॒ळ्हे श॒तं पे᳚रु॒के च॑ प॒क्वा |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

शा॒ण्डो दा᳚द्धिर॒णिनः॒ स्मद्दि॑ष्टी॒न्दश॑ व॒शासो᳚, अभि॒षाच॑ ऋ॒ष्वान् ||{9/11}{6.63.9}{6.6.2.9}{5.1.4.4}{667, 504, 5035}

सं वां᳚ श॒ता ना᳚सत्या स॒हस्राश्वा᳚नां पुरु॒पन्था᳚ गि॒रे दा᳚त् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

भ॒रद्वा᳚जाय वीर॒ नू गि॒रे दा᳚द्ध॒ता रक्षां᳚सि पुरुदंससा स्युः ||{10/11}{6.63.10}{6.6.2.10}{5.1.4.5}{668, 504, 5036}

आ वां᳚ सु॒म्ने वरि॑मन्‌ त्सू॒रिभिः॑ ष्याम् ||{बार्हस्पत्यो भरद्वाजः | अश्विनौ | एकपदाविराट्}{11/11}{6.63.11}{6.6.2.11}{5.1.4.6}{669, 504, 5037}
[64] उदुश्रियइतिषडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजउषास्त्रिष्टुप् |
उदु॑ श्रि॒य उ॒षसो॒ रोच॑माना॒, अस्थु॑र॒पां नोर्मयो॒ रुश᳚न्तः |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

कृ॒णोति॒ विश्वा᳚ सु॒पथा᳚ सु॒गान्यभू᳚दु॒ वस्वी॒ दक्षि॑णा म॒घोनी᳚ ||{1/6}{6.64.1}{6.6.3.1}{5.1.5.1}{670, 505, 5038}

भ॒द्रा द॑दृक्ष उर्वि॒या वि भा॒स्युत्ते᳚ शो॒चिर्भा॒नवो॒ द्याम॑पप्तन् |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

आ॒विर्वक्षः॑ कृणुषे शु॒म्भमा॒नोषो᳚ देवि॒ रोच॑माना॒ महो᳚भिः ||{2/6}{6.64.2}{6.6.3.2}{5.1.5.2}{671, 505, 5039}

वह᳚न्ति सीमरु॒णासो॒ रुश᳚न्तो॒ गावः॑ सु॒भगा᳚मुर्वि॒या प्र॑था॒नाम् |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

अपे᳚जते॒ शूरो॒, अस्ते᳚व॒ शत्रू॒न्‌ बाध॑ते॒ तमो᳚, अजि॒रो न वोळ्हा᳚ ||{3/6}{6.64.3}{6.6.3.3}{5.1.5.3}{672, 505, 5040}

सु॒गोत ते᳚ सु॒पथा॒ पर्व॑तेष्ववा॒ते, अ॒पस्त॑रसि स्वभानो |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

सा न॒ आ व॑ह पृथुयामन्नृष्वे र॒यिं दि॑वो दुहितरिष॒यध्यै᳚ ||{4/6}{6.64.4}{6.6.3.4}{5.1.5.4}{673, 505, 5041}

सा व॑ह॒ योक्षभि॒रवा॒तोषो॒ वरं॒ वह॑सि॒ जोष॒मनु॑ |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

त्वं दि॑वो दुहित॒र्या ह॑ दे॒वी पू॒र्वहू᳚तौ मं॒हना᳚ दर्श॒ता भूः᳚ ||{5/6}{6.64.5}{6.6.3.5}{5.1.5.5}{674, 505, 5042}

उत्ते॒ वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒ ये पि॑तु॒भाजो॒ व्यु॑ष्टौ |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

अ॒मा स॒ते व॑हसि॒ भूरि॑ वा॒ममुषो᳚ देवि दा॒शुषे॒ मर्त्या᳚य ||{6/6}{6.64.6}{6.6.3.6}{5.1.5.6}{675, 505, 5043}

[65] एषास्येति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजउषास्त्रिष्टुप् |
ए॒षा स्या नो᳚ दुहि॒ता दि॑वो॒जाः, क्षि॒तीरु॒च्छन्ती॒ मानु॑षीरजीगः |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

या भा॒नुना॒ रुश॑ता रा॒म्यास्वज्ञा᳚यि ति॒रस्तम॑सश्चिद॒क्तून् ||{1/6}{6.65.1}{6.6.4.1}{5.1.6.1}{676, 506, 5044}

वि तद्य॑युररुण॒युग्भि॒रश्वै᳚श्चि॒त्रं भा᳚न्त्यु॒षस॑श्च॒न्द्रर॑थाः |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

अग्रं᳚ य॒ज्ञस्य॑ बृह॒तो नय᳚न्ती॒र्वि ता बा᳚धन्ते॒ तम॒ ऊर्म्या᳚याः ||{2/6}{6.65.2}{6.6.4.2}{5.1.6.2}{677, 506, 5045}

श्रवो॒ वाज॒मिष॒मूर्जं॒ वह᳚न्ती॒र्नि दा॒शुष॑ उषसो॒ मर्त्या᳚य |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

म॒घोनी᳚र्वी॒रव॒त्पत्य॑माना॒, अवो᳚ धात विध॒ते रत्न॑म॒द्य ||{3/6}{6.65.3}{6.6.4.3}{5.1.6.3}{678, 506, 5046}

इ॒दा हि वो᳚ विध॒ते रत्न॒मस्ती॒दा वी॒राय॑ दा॒शुष॑ उषासः |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

इ॒दा विप्रा᳚य॒ जर॑ते॒ यदु॒क्था नि ष्म॒ माव॑ते वहथा पु॒रा चि॑त् ||{4/6}{6.65.4}{6.6.4.4}{5.1.6.4}{679, 506, 5047}

इ॒दा हि त॑ उषो, अद्रिसानो गो॒त्रा गवा॒मङ्गि॑रसो गृ॒णन्ति॑ |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

व्य१॑(अ॒)र्केण॑ बिभिदु॒र्ब्रह्म॑णा च स॒त्या नृ॒णाम॑भवद्दे॒वहू᳚तिः ||{5/6}{6.65.5}{6.6.4.5}{5.1.6.5}{680, 506, 5048}

उ॒च्छा दि॑वो दुहितः प्रत्न॒वन्नो᳚ भरद्वाज॒वद्वि॑ध॒ते म॑घोनि |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

सु॒वीरं᳚ र॒यिं गृ॑ण॒ते रि॑रीह्युरुगा॒यमधि॑ धेहि॒ श्रवो᳚ नः ||{6/6}{6.65.6}{6.6.4.6}{5.1.6.6}{681, 506, 5049}

[66] वपुर्न्वित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजो मरुतस्त्रिष्टुप् |
वपु॒र्नु तच्चि॑कि॒तुषे᳚ चिदस्तु समा॒नं नाम॑ धे॒नु पत्य॑मानम् |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

मर्ते᳚ष्व॒न्यद्दो॒हसे᳚ पी॒पाय॑ स॒कृच्छु॒क्रं दु॑दुहे॒ पृश्नि॒रूधः॑ ||{1/11}{6.66.1}{6.6.5.1}{5.1.7.1}{682, 507, 5050}

ये, अ॒ग्नयो॒ न शोशु॑चन्निधा॒ना द्विर्यत्त्रिर्म॒रुतो᳚ वावृ॒धन्त॑ |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

अ॒रे॒णवो᳚ हिर॒ण्यया᳚स एषां सा॒कं नृ॒म्णैः पौंस्ये᳚भिश्च भूवन् ||{2/11}{6.66.2}{6.6.5.2}{5.1.7.2}{683, 507, 5051}

रु॒द्रस्य॒ ये मी॒ळ्हुषः॒ सन्ति॑ पु॒त्रा याँश्चो॒ नु दाधृ॑वि॒र्भर॑ध्यै |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

वि॒दे हि मा॒ता म॒हो म॒ही षा सेत्‌ पृश्निः॑ सु॒भ्वे॒३॑(ए॒) गर्भ॒माधा᳚त् ||{3/11}{6.66.3}{6.6.5.3}{5.1.7.3}{684, 507, 5052}

न य ईष᳚न्ते ज॒नुषोऽया॒ न्व१॑(अ॒)न्तः सन्तो᳚ऽव॒द्यानि॑ पुना॒नाः |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

निर्यद्दु॒ह्रे शुच॒योऽनु॒ जोष॒मनु॑ श्रि॒या त॒न्व॑मु॒क्षमा᳚णाः ||{4/11}{6.66.4}{6.6.5.4}{5.1.7.4}{685, 507, 5053}

म॒क्षू न येषु॑ दो॒हसे᳚ चिद॒या, आ नाम॑ धृ॒ष्णु मारु॑तं॒ दधा᳚नाः |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

न ये स्तौ॒ना, अ॒यासो᳚ म॒ह्ना नू चि॑त्सु॒दानु॒रव॑ यासदु॒ग्रान् ||{5/11}{6.66.5}{6.6.5.5}{5.1.7.5}{686, 507, 5054}

त इदु॒ग्राः शव॑सा धृ॒ष्णुषे᳚णा, उ॒भे यु॑जन्त॒ रोद॑सी सु॒मेके᳚ |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

अध॑ स्मैषु रोद॒सी स्वशो᳚चि॒राम॑वत्सु तस्थौ॒ न रोकः॑ ||{6/11}{6.66.6}{6.6.5.6}{5.1.8.1}{687, 507, 5055}

अ॒ने॒नो वो᳚ मरुतो॒ यामो᳚, अस्त्वन॒श्वश्चि॒द्यमज॒त्यर॑थीः |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

अ॒न॒व॒सो, अ॑नभी॒शू र॑ज॒स्तूर्वि रोद॑सी प॒थ्या᳚ याति॒ साध॑न् ||{7/11}{6.66.7}{6.6.5.7}{5.1.8.2}{688, 507, 5056}

नास्य॑ व॒र्ता न त॑रु॒ता न्व॑स्ति॒ मरु॑तो॒ यमव॑थ॒ वाज॑सातौ |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

तो॒के वा॒ गोषु॒ तन॑ये॒ यम॒प्सु स व्र॒जं दर्ता॒ पार्ये॒, अध॒ द्योः ||{8/11}{6.66.8}{6.6.5.8}{5.1.8.3}{689, 507, 5057}

प्र चि॒त्रम॒र्कं गृ॑ण॒ते तु॒राय॒ मारु॑ताय॒ स्वत॑वसे भरध्वम् |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

ये सहां᳚सि॒ सह॑सा॒ सह᳚न्ते॒ रेज॑ते, अग्ने पृथि॒वी म॒खेभ्यः॑ ||{9/11}{6.66.9}{6.6.5.9}{5.1.8.4}{690, 507, 5058}

त्विषी᳚मन्तो, अध्व॒रस्ये᳚व दि॒द्युत्तृ॑षु॒च्यव॑सो जु॒ह्वो॒३॑(ओ॒) नाग्नेः |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

अ॒र्चत्र॑यो॒ धुन॑यो॒ न वी॒रा भ्राज॑ज्जन्मानो म॒रुतो॒, अधृ॑ष्टाः ||{10/11}{6.66.10}{6.6.5.10}{5.1.8.5}{691, 507, 5059}

तं वृ॒धन्तं॒ मारु॑तं॒ भ्राज॑दृष्टिं रु॒द्रस्य॑ सू॒नुं ह॒वसा वि॑वासे |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

दि॒वः शर्धा᳚य॒ शुच॑यो मनी॒षा गि॒रयो॒ नाप॑ उ॒ग्रा, अ॑स्पृध्रन् ||{11/11}{6.66.11}{6.6.5.11}{5.1.8.6}{692, 507, 5060}

[67] विश्वेषामित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजो मित्रावरुणौत्रिष्टुप् |
विश्वे᳚षां वः स॒तां ज्येष्ठ॑तमा गी॒र्भिर्मि॒त्रावरु॑णा वावृ॒धध्यै᳚ |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

सं या र॒श्मेव॑ य॒मतु॒र्यमि॑ष्ठा॒ द्वा जनाँ॒, अस॑मा बा॒हुभिः॒ स्वैः ||{1/11}{6.67.1}{6.6.6.1}{5.1.9.1}{693, 508, 5061}

इ॒यं मद्वां॒ प्र स्तृ॑णीते मनी॒षोप॑ प्रि॒या नम॑सा ब॒र्हिरच्छ॑ |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

य॒न्तं नो᳚ मित्रावरुणा॒वधृ॑ष्टं छ॒र्दिर्यद्वां᳚ वरू॒थ्यं᳚ सुदानू ||{2/11}{6.67.2}{6.6.6.2}{5.1.9.2}{694, 508, 5062}

आ या᳚तं मित्रावरुणा सुश॒स्त्युप॑ प्रि॒या नम॑सा हू॒यमा᳚ना |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

सं याव॑प्नः॒स्थो, अ॒पसे᳚व॒ जना᳚ञ्छ्रुधीय॒तश्चि॑द्यतथो महि॒त्वा ||{3/11}{6.67.3}{6.6.6.3}{5.1.9.3}{695, 508, 5063}

अश्वा॒ न या वा॒जिना᳚ पू॒तब᳚न्धू, ऋ॒ता यद्गर्भ॒मदि॑ति॒र्भर॑ध्यै |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

प्र या महि॑ म॒हान्ता॒ जाय॑माना घो॒रा मर्ता᳚य रि॒पवे॒ नि दी᳚धः ||{4/11}{6.67.4}{6.6.6.4}{5.1.9.4}{696, 508, 5064}

विश्वे॒ यद्वां᳚ मं॒हना॒ मन्द॑मानाः, क्ष॒त्रं दे॒वासो॒, अद॑धुः स॒जोषाः᳚ |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

परि॒ यद्भू॒थो रोद॑सी चिदु॒र्वी सन्ति॒ स्पशो॒, अद॑ब्धासो॒, अमू᳚राः ||{5/11}{6.67.5}{6.6.6.5}{5.1.9.5}{697, 508, 5065}

ता हि क्ष॒त्रं धा॒रये᳚थे॒, अनु॒ द्यून्दृं॒हेथे॒ सानु॑मुप॒मादि॑व॒ द्योः |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

दृ॒ळ्हो नक्ष॑त्र उ॒त वि॒श्वदे᳚वो॒ भूमि॒माता॒न्द्यां धा॒सिना॒योः ||{6/11}{6.67.6}{6.6.6.6}{5.1.10.1}{698, 508, 5066}

ता वि॒ग्रं धै᳚थे ज॒ठरं᳚ पृ॒णध्या॒, आ यत्सद्म॒ सभृ॑तयः पृ॒णन्ति॑ |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

न मृ॑ष्यन्ते युव॒तयोऽवा᳚ता॒ वि यत्पयो᳚ विश्वजिन्वा॒ भर᳚न्ते ||{7/11}{6.67.7}{6.6.6.7}{5.1.10.2}{699, 508, 5067}

ता जि॒ह्वया॒ सद॒मेदं सु॑मे॒धा, आ यद्वां᳚ स॒त्यो, अ॑र॒तिरृ॒ते भूत् |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

तद्वां᳚ महि॒त्वं घृ॑तान्नावस्तु यु॒वं दा॒शुषे॒ वि च॑यिष्ट॒मंहः॑ ||{8/11}{6.67.8}{6.6.6.8}{5.1.10.3}{700, 508, 5068}

प्र यद्वां᳚ मित्रावरुणा स्पू॒र्धन्‌ प्रि॒या धाम॑ यु॒वधि॑ता मि॒नन्ति॑ |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

न ये दे॒वास॒ ओह॑सा॒ न मर्ता॒, अय॑ज्ञसाचो॒, अप्यो॒ न पु॒त्राः ||{9/11}{6.67.9}{6.6.6.9}{5.1.10.4}{701, 508, 5069}

वि यद्वाचं᳚ की॒स्तासो॒ भर᳚न्ते॒ शंस᳚न्ति॒ के चि᳚न्नि॒विदो᳚ मना॒नाः |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

आद्वां᳚ ब्रवाम स॒त्यान्यु॒क्था नकि॑र्दे॒वेभि᳚र्यतथो महि॒त्वा ||{10/11}{6.67.10}{6.6.6.10}{5.1.10.5}{702, 508, 5070}

अ॒वोरि॒त्था वां᳚ छ॒र्दिषो᳚, अ॒भिष्टौ᳚ यु॒वोर्मि॑त्रावरुणा॒वस्कृ॑धोयु |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

अनु॒ यद्गावः॑ स्फु॒रानृ॑जि॒प्यं धृ॒ष्णुं यद्रणे॒ वृष॑णं यु॒नज॑न् ||{11/11}{6.67.11}{6.6.6.11}{5.1.10.6}{703, 508, 5071}

[68] श्रुष्ठीवामित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रावरुणौत्रिष्टुप् नवमीदशम्यौजगत्यौ |
श्रु॒ष्टी वां᳚ य॒ज्ञ उद्य॑तः स॒जोषा᳚ मनु॒ष्वद्वृ॒क्तब᳚र्हिषो॒ यज॑ध्यै |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्}

आ य इन्द्रा॒वरु॑णावि॒षे, अ॒द्य म॒हे सु॒म्नाय॑ म॒ह आ᳚व॒वर्त॑त् ||{1/11}{6.68.1}{6.6.7.1}{5.1.11.1}{704, 509, 5072}

ता हि श्रेष्ठा᳚ दे॒वता᳚ता तु॒जा शूरा᳚णां॒ शवि॑ष्ठा॒ ता हि भू॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्}

म॒घोनां॒ मंहि॑ष्ठा तुवि॒शुष्म॑ ऋ॒तेन॑ वृत्र॒तुरा॒ सर्व॑सेना ||{2/11}{6.68.2}{6.6.7.2}{5.1.11.2}{705, 509, 5073}

ता गृ॑णीहि नम॒स्ये᳚भिः शू॒षैः सु॒म्नेभि॒रिन्द्रा॒वरु॑णा चका॒ना |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्}

वज्रे᳚णा॒न्यः शव॑सा॒ हन्ति॑ वृ॒त्रं सिष॑क्त्य॒न्यो वृ॒जने᳚षु॒ विप्रः॑ ||{3/11}{6.68.3}{6.6.7.3}{5.1.11.3}{706, 509, 5074}

ग्नाश्च॒ यन्नर॑श्च वावृ॒धन्त॒ विश्वे᳚ दे॒वासो᳚ न॒रां स्वगू᳚र्ताः |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्}

प्रैभ्य॑ इन्द्रावरुणा महि॒त्वा द्यौश्च॑ पृथिवि भूतमु॒र्वी ||{4/11}{6.68.4}{6.6.7.4}{5.1.11.4}{707, 509, 5075}

स इत्सु॒दानुः॒ स्ववाँ᳚, ऋ॒तावेन्द्रा॒ यो वां᳚ वरुण॒ दाश॑ति॒ त्मन् |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्}

इ॒षा स द्वि॒षस्त॑रे॒द्दास्वा॒न्वंस॑द्र॒यिं र॑यि॒वत॑श्च॒ जना॑न् ||{5/11}{6.68.5}{6.6.7.5}{5.1.11.5}{708, 509, 5076}

यं यु॒वं दा॒श्व॑ध्वराय देवा र॒यिं ध॒त्थो वसु॑मन्तं पुरु॒क्षुम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्}

अ॒स्मे स इ᳚न्द्रावरुणा॒वपि॑ ष्या॒त्प्र यो भ॒नक्ति॑ व॒नुषा॒मश॑स्तीः ||{6/11}{6.68.6}{6.6.7.6}{5.1.12.1}{709, 509, 5077}

उ॒त नः॑ सुत्रा॒त्रो दे॒वगो᳚पाः सू॒रिभ्य॑ इन्द्रावरुणा र॒यिः ष्या᳚त् |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्}

येषां॒ शुष्मः॒ पृत॑नासु सा॒ह्वान्‌ प्र स॒द्यो द्यु॒म्ना ति॒रते॒ ततु॑रिः ||{7/11}{6.68.7}{6.6.7.7}{5.1.12.2}{710, 509, 5078}

नू न॑ इन्द्रावरुणा गृणा॒ना पृ॒ङ्क्तं र॒यिं सौ᳚श्रव॒साय॑ देवा |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्}

इ॒त्था गृ॒णन्तो᳚ म॒हिन॑स्य॒ शर्धो॒ऽपो न ना॒वा दु॑रि॒ता त॑रेम ||{8/11}{6.68.8}{6.6.7.8}{5.1.12.3}{711, 509, 5079}

प्र स॒म्राजे᳚ बृह॒ते मन्म॒ नु प्रि॒यमर्च॑ दे॒वाय॒ वरु॑णाय स॒प्रथः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | जगती}

अ॒यं य उ॒र्वी म॑हि॒ना महि᳚व्रतः॒ क्रत्वा᳚ वि॒भात्य॒जरो॒ न शो॒चिषा᳚ ||{9/11}{6.68.9}{6.6.7.9}{5.1.12.4}{712, 509, 5080}

इन्द्रा᳚वरुणा सुतपावि॒मं सु॒तं सोमं᳚ पिबतं॒ मद्यं᳚ धृतव्रता |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | जगती}

यु॒वो रथो᳚, अध्व॒रं दे॒ववी᳚तये॒ प्रति॒ स्वस॑र॒मुप॑ याति पी॒तये᳚ ||{10/11}{6.68.10}{6.6.7.10}{5.1.12.5}{713, 509, 5081}

इन्द्रा᳚वरुणा॒ मधु॑मत्तमस्य॒ वृष्णः॒ सोम॑स्य वृष॒णा वृ॑षेथाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्}

इ॒दं वा॒मन्धः॒ परि॑षिक्तम॒स्मे, आ॒सद्या॒स्मिन्‌ ब॒र्हिषि॑ मादयेथाम् ||{11/11}{6.68.11}{6.6.7.11}{5.1.12.6}{714, 509, 5082}

[69] संवामित्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्राविष्णूत्रिष्टुप् |
सं वां॒ कर्म॑णा॒ समि॒षा हि॑नो॒मीन्द्रा᳚विष्णू॒, अप॑सस्पा॒रे, अ॒स्य |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्}

जु॒षेथां᳚ य॒ज्ञं द्रवि॑णं च धत्त॒मरि॑ष्टैर्नः प॒थिभिः॑ पा॒रय᳚न्ता ||{1/8}{6.69.1}{6.6.8.1}{5.1.13.1}{715, 510, 5083}

या विश्वा᳚सां जनि॒तारा᳚ मती॒नामिन्द्रा॒विष्णू᳚ क॒लशा᳚ सोम॒धाना᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्}

प्र वां॒ गिरः॑ श॒स्यमा᳚ना, अवन्तु॒ प्र स्तोमा᳚सो गी॒यमा᳚नासो, अ॒र्कैः ||{2/8}{6.69.2}{6.6.8.2}{5.1.13.2}{716, 510, 5084}

इन्द्रा᳚विष्णू मदपती मदाना॒मा सोमं᳚ यातं॒ द्रवि॑णो॒ दधा᳚ना |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्}

सं वा᳚मञ्जन्‌ त्व॒क्तुभि᳚र्मती॒नां सं स्तोमा᳚सः श॒स्यमा᳚नास उ॒क्थैः ||{3/8}{6.69.3}{6.6.8.3}{5.1.13.3}{717, 510, 5085}

आ वा॒मश्वा᳚सो, अभिमाति॒षाह॒ इन्द्रा᳚विष्णू सध॒मादो᳚ वहन्तु |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्}

जु॒षेथां॒ विश्वा॒ हव॑ना मती॒नामुप॒ ब्रह्मा᳚णि शृणुतं॒ गिरो᳚ मे ||{4/8}{6.69.4}{6.6.8.4}{5.1.13.4}{718, 510, 5086}

इन्द्रा᳚विष्णू॒ तत्‌ प॑न॒याय्यं᳚ वां॒ सोम॑स्य॒ मद॑ उ॒रु च॑क्रमाथे |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्}

अकृ॑णुतम॒न्तरि॑क्षं॒ वरी॒योऽप्र॑थतं जी॒वसे᳚ नो॒ रजां᳚सि ||{5/8}{6.69.5}{6.6.8.5}{5.1.13.5}{719, 510, 5087}

इन्द्रा᳚विष्णू ह॒विषा᳚ वावृधा॒नाग्रा᳚द्वाना॒ नम॑सा रातहव्या |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्}

घृता᳚सुती॒ द्रवि॑णं धत्तम॒स्मे स॑मु॒द्रः स्थः॑ क॒लशः॑ सोम॒धानः॑ ||{6/8}{6.69.6}{6.6.8.6}{5.1.13.6}{720, 510, 5088}

इन्द्रा᳚विष्णू॒ पिब॑तं॒ मध्वो᳚, अ॒स्य सोम॑स्य दस्रा ज॒ठरं᳚ पृणेथाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्}

आ वा॒मन्धां᳚सि मदि॒राण्य॑ग्म॒न्नुप॒ ब्रह्मा᳚णि शृणुतं॒ हवं᳚ मे ||{7/8}{6.69.7}{6.6.8.7}{5.1.13.7}{721, 510, 5089}

उ॒भा जि॑ग्यथु॒र्न परा᳚ जयेथे॒ न परा᳚ जिग्ये कत॒रश्च॒नैनोः᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्}

इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै᳚रयेथाम् ||{8/8}{6.69.8}{6.6.8.8}{5.1.13.8}{722, 510, 5090}

[70] घृतवतीइति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोद्यावापृथिव्यौजगती |
घृ॒तव॑ती॒ भुव॑नानामभि॒श्रियो॒र्वी पृ॒थ्वी म॑धु॒दुघे᳚ सु॒पेश॑सा |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती}

द्यावा᳚पृथि॒वी वरु॑णस्य॒ धर्म॑णा॒ विष्क॑भिते, अ॒जरे॒ भूरि॑रेतसा ||{1/6}{6.70.1}{6.6.9.1}{5.1.14.1}{723, 511, 5091}

अस॑श्चन्ती॒ भूरि॑धारे॒ पय॑स्वती घृ॒तं दु॑हाते सु॒कृते॒ शुचि᳚व्रते |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती}

राज᳚न्ती, अ॒स्य भुव॑नस्य रोदसी, अ॒स्मे रेतः॑ सिञ्चतं॒ यन्मनु᳚र्हितम् ||{2/6}{6.70.2}{6.6.9.2}{5.1.14.2}{724, 511, 5092}

यो वा᳚मृ॒जवे॒ क्रम॑णाय रोदसी॒ मर्तो᳚ द॒दाश॑ धिषणे॒ स सा᳚धति |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती}

प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ यु॒वोः सि॒क्ता विषु॑रूपाणि॒ सव्र॑ता ||{3/6}{6.70.3}{6.6.9.3}{5.1.14.3}{725, 511, 5093}

घृ॒तेन॒ द्यावा᳚पृथि॒वी, अ॒भीवृ॑ते घृत॒श्रिया᳚ घृत॒पृचा᳚ घृता॒वृधा᳚ |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती}

उ॒र्वी पृ॒थ्वी हो᳚तृ॒वूर्ये᳚ पु॒रोहि॑ते॒ ते, इद्विप्रा᳚, ईळते सु॒म्नमि॒ष्टये᳚ ||{4/6}{6.70.4}{6.6.9.4}{5.1.14.4}{726, 511, 5094}

मधु॑ नो॒ द्यावा᳚पृथि॒वी मि॑मिक्षतां मधु॒श्चुता᳚ मधु॒दुघे॒ मधु᳚व्रते |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती}

दधा᳚ने य॒ज्ञं द्रवि॑णं च दे॒वता॒ महि॒ श्रवो॒ वाज॑म॒स्मे सु॒वीर्य᳚म् ||{5/6}{6.70.5}{6.6.9.5}{5.1.14.5}{727, 511, 5095}

ऊर्जं᳚ नो॒ द्यौश्च॑ पृथि॒वी च॑ पिन्वतां पि॒ता मा॒ता वि॑श्व॒विदा᳚ सु॒दंस॑सा |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती}

सं॒र॒रा॒णे रोद॑सी वि॒श्वश᳚म्भुवा स॒निं वाजं᳚ र॒यिम॒स्मे समि᳚न्वताम् ||{6/6}{6.70.6}{6.6.9.6}{5.1.14.6}{728, 511, 5096}

[71] उदुष्येति षडृचस्य सूक्तस्त्य बार्हस्पत्यो भरद्वाजःसविताजगती अंत्यास्तिस्रस्त्रिष्टुभः |
उदु॒ ष्य दे॒वः स॑वि॒ता हि॑र॒ण्यया᳚ बा॒हू, अ॑यंस्त॒ सव॑नाय सु॒क्रतुः॑ |{बार्हस्पत्यो भरद्वाजः | सविता | जगती}

घृ॒तेन॑ पा॒णी, अ॒भि प्रु॑ष्णुते म॒खो युवा᳚ सु॒दक्षो॒ रज॑सो॒ विध᳚र्मणि ||{1/6}{6.71.1}{6.6.10.1}{5.1.15.1}{729, 512, 5097}

दे॒वस्य॑ व॒यं स॑वि॒तुः सवी᳚मनि॒ श्रेष्ठे᳚ स्याम॒ वसु॑नश्च दा॒वने᳚ |{बार्हस्पत्यो भरद्वाजः | सविता | जगती}

यो विश्व॑स्य द्वि॒पदो॒ यश्चतु॑ष्पदो नि॒वेश॑ने प्रस॒वे चासि॒ भूम॑नः ||{2/6}{6.71.2}{6.6.10.2}{5.1.15.2}{730, 512, 5098}

अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वं शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गय᳚म् |{बार्हस्पत्यो भरद्वाजः | सविता | जगती}

हिर᳚ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि᳚र्नो, अ॒घशं᳚स ईशत ||{3/6}{6.71.3}{6.6.10.3}{5.1.15.3}{731, 512, 5099}

उदु॒ ष्य दे॒वः स॑वि॒ता दमू᳚ना॒ हिर᳚ण्यपाणिः प्रतिदो॒षम॑स्थात् |{बार्हस्पत्यो भरद्वाजः | सविता | त्रिष्टुप्}

अयो᳚हनुर्यज॒तो म॒न्द्रजि॑ह्व॒ आ दा॒शुषे᳚ सुवति॒ भूरि॑ वा॒मम् ||{4/6}{6.71.4}{6.6.10.4}{5.1.15.4}{732, 512, 5100}

उदू᳚, अयाँ, उपव॒क्तेव॑ बा॒हू हि॑र॒ण्यया᳚ सवि॒ता सु॒प्रती᳚का |{बार्हस्पत्यो भरद्वाजः | सविता | त्रिष्टुप्}

दि॒वो रोहां᳚स्यरुहत्‌ पृथि॒व्या, अरी᳚रमत्प॒तय॒त्कच्चि॒दभ्व᳚म् ||{5/6}{6.71.5}{6.6.10.5}{5.1.15.5}{733, 512, 5101}

वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्यं᳚ सावीः |{बार्हस्पत्यो भरद्वाजः | सविता | त्रिष्टुप्}

वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे᳚र॒या धि॒या वा᳚म॒भाजः॑ स्याम ||{6/6}{6.71.6}{6.6.10.6}{5.1.15.6}{734, 512, 5102}

[72] इंद्रासोमेति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रासोमौत्रिष्टुप् |
इन्द्रा᳚सोमा॒ महि॒ तद्वां᳚ महि॒त्वं यु॒वं म॒हानि॑ प्रथ॒मानि॑ चक्रथुः |{बार्हस्पत्यो भरद्वाजः | इन्द्रासोमौ | त्रिष्टुप्}

यु॒वं सूर्यं᳚ विवि॒दथु᳚र्यु॒वं स्व१॑(अ॒)र्विश्वा॒ तमां᳚स्यहतं नि॒दश्च॑ ||{1/5}{6.72.1}{6.6.11.1}{5.1.16.1}{735, 513, 5103}

इन्द्रा᳚सोमा वा॒सय॑थ उ॒षास॒मुत्सूर्यं᳚ नयथो॒ ज्योति॑षा स॒ह |{बार्हस्पत्यो भरद्वाजः | इन्द्रासोमौ | त्रिष्टुप्}

उप॒ द्यां स्क॒म्भथुः॒ स्कम्भ॑ने॒नाप्र॑थतं पृथि॒वीं मा॒तरं॒ वि ||{2/5}{6.72.2}{6.6.11.2}{5.1.16.2}{736, 513, 5104}

इन्द्रा᳚सोमा॒वहि॑म॒पः प॑रि॒ष्ठां ह॒थो वृ॒त्रमनु॑ वां॒ द्यौर॑मन्यत |{बार्हस्पत्यो भरद्वाजः | इन्द्रासोमौ | त्रिष्टुप्}

प्रार्णां᳚स्यैरयतं न॒दीना॒मा स॑मु॒द्राणि॑ पप्रथुः पु॒रूणि॑ ||{3/5}{6.72.3}{6.6.11.3}{5.1.16.3}{737, 513, 5105}

इन्द्रा᳚सोमा प॒क्वमा॒मास्व॒न्तर्नि गवा॒मिद्द॑धथुर्व॒क्षणा᳚सु |{बार्हस्पत्यो भरद्वाजः | इन्द्रासोमौ | त्रिष्टुप्}

ज॒गृ॒भथु॒रन॑पिनद्धमासु॒ रुश॑च्चि॒त्रासु॒ जग॑तीष्व॒न्तः ||{4/5}{6.72.4}{6.6.11.4}{5.1.16.4}{738, 513, 5106}

इन्द्रा᳚सोमा यु॒वम॒ङ्ग तरु॑त्रमपत्य॒साचं॒ श्रुत्यं᳚ रराथे |{बार्हस्पत्यो भरद्वाजः | इन्द्रासोमौ | त्रिष्टुप्}

यु॒वं शुष्मं॒ नर्यं᳚ चर्ष॒णिभ्यः॒ सं वि᳚व्यथुः पृतना॒षाह॑मुग्रा ||{5/5}{6.72.5}{6.6.11.5}{5.1.16.5}{739, 513, 5107}

[73] योअद्रिभिदिति तृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोबृहस्पतिस्त्रिष्टुप् |
यो, अ॑द्रि॒भित्प्र॑थम॒जा, ऋ॒तावा॒ बृह॒स्पति॑राङ्गिर॒सो ह॒विष्मा॑न् |{बार्हस्पत्यो भरद्वाजः | बृहस्पतिः | त्रिष्टुप्}

द्वि॒बर्ह॑ज्मा प्राघर्म॒सत्पि॒ता न॒ आ रोद॑सी वृष॒भो रो᳚रवीति ||{1/3}{6.73.1}{6.6.12.1}{5.1.17.1}{740, 514, 5108}

जना᳚य चि॒द्य ईव॑त उ लो॒कं बृह॒स्पति॑र्दे॒वहू᳚तौ च॒कार॑ |{बार्हस्पत्यो भरद्वाजः | बृहस्पतिः | त्रिष्टुप्}

घ्नन्‌ वृ॒त्राणि॒ वि पुरो᳚ दर्दरीति॒ जय॒ञ्छत्रूँ᳚र॒मित्रा᳚न्‌ पृ॒त्सु साह॑न् ||{2/3}{6.73.2}{6.6.12.2}{5.1.17.2}{741, 514, 5109}

बृह॒स्पतिः॒ सम॑जय॒द्वसू᳚नि म॒हो व्र॒जान्‌ गोम॑तो दे॒व ए॒षः |{बार्हस्पत्यो भरद्वाजः | बृहस्पतिः | त्रिष्टुप्}

अ॒पः सिषा᳚स॒न्‌ त्स्व१॑(अ॒)रप्र॑तीतो॒ बृह॒स्पति॒र्हन्त्य॒मित्र॑म॒र्कैः ||{3/3}{6.73.3}{6.6.12.3}{5.1.17.3}{742, 514, 5110}

[74] सोमारुद्रेति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजः सोमारुद्रौत्रिष्टुप् |
सोमा᳚रुद्रा धा॒रये᳚थामसु॒र्य१॑(अं॒) प्र वा᳚मि॒ष्टयोऽर॑मश्नुवन्तु |{बार्हस्पत्यो भरद्वाजः | सोमारुद्रौ | त्रिष्टुप्}

दमे᳚दमे स॒प्त रत्ना॒ दधा᳚ना॒ शं नो᳚ भूतं द्वि॒पदे॒ शं चतु॑ष्पदे ||{1/4}{6.74.1}{6.6.13.1}{5.1.18.1}{743, 515, 5111}

सोमा᳚रुद्रा॒ वि वृ॑हतं॒ विषू᳚ची॒ममी᳚वा॒ या नो॒ गय॑मावि॒वेश॑ |{बार्हस्पत्यो भरद्वाजः | सोमारुद्रौ | त्रिष्टुप्}

आ॒रे बा᳚धेथां॒ निरृ॑तिं परा॒चैर॒स्मे भ॒द्रा सौ᳚श्रव॒सानि॑ सन्तु ||{2/4}{6.74.2}{6.6.13.2}{5.1.18.2}{744, 515, 5112}

सोमा᳚रुद्रा यु॒वमे॒तान्य॒स्मे विश्वा᳚ त॒नूषु॑ भेष॒जानि॑ धत्तम् |{बार्हस्पत्यो भरद्वाजः | सोमारुद्रौ | त्रिष्टुप्}

अव॑ स्यतं मु॒ञ्चतं॒ यन्नो॒, अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो᳚, अ॒स्मत् ||{3/4}{6.74.3}{6.6.13.3}{5.1.18.3}{745, 515, 5113}

ति॒ग्मायु॑धौ ति॒ग्महे᳚ती सु॒शेवौ॒ सोमा᳚रुद्रावि॒ह सु मृ॑ळतं नः |{बार्हस्पत्यो भरद्वाजः | सोमारुद्रौ | त्रिष्टुप्}

प्र नो᳚ मुञ्चतं॒ वरु॑णस्य॒ पाशा᳚द् गोपा॒यतं᳚ नः सुमन॒स्यमा᳚ना ||{4/4}{6.74.4}{6.6.13.4}{5.1.18.4}{746, 515, 5114}

[75] जीमूतस्येवेत्येकोनविंशत्यृचस्य सूक्तस्य भारद्वाजः पायुः आद्यानांनवानांक्रमेण वर्मधनुर्ज्या धनुष्कोटीषुधिः सारथी रश्मयोऽश्वारथोरथगोपाः दशम्याब्राह्मणपितृसोमपृथिवीपूषाणः एकादश्यादिद्वयोरिषवः त्रयोदश्याः प्रतोदः चतुर्दश्याहस्तत्राणं पंचदशीषोडश्योरिषवः सप्तदश्यायुद्धभूमिकवच ब्रह्मणस्पत्यदित्यः अष्टादश्यावर्मसोमवरुणाः अंत्यायादेवब्रह्माणित्रिष्टुप् | षष्ठीदशम्यौजगत्यौ द्वादशीत्रयोदशीपंचदशीषोळश्यंत्यानुष्टुभः सप्तदशीपंक्तिः |(त्रयोदश्याः प्रतोदइत्यत्राश्वोदेवतेतिकेचित् | चतुर्दश्याहस्तघ्नमित्यत्रहस्तत्राणं चतुर्दश्यामितिशौनकोक्तेर्हस्तत्राणमेवयुक्तं | पराः पंक्त्यादयोलिंगोक्तदेवता इत्येवमनुक्रमण्यांसत्यामंत्ययोर्द्वयोर्विश्वेदेवा इति केचिन्मन्यंतेबहुदैवतत्वात् | पंचदश्यादिद्वयोर्विषाक्तमुखबाण इतिशौनकः)|
जी॒मूत॑स्येव भवति॒ प्रती᳚कं॒ यद्व॒र्मी याति॑ स॒मदा᳚मु॒पस्थे᳚ |{भारद्वाजः पायुः | वर्म | त्रिष्टुप्}

अना᳚विद्धया त॒न्वा᳚ जय॒ त्वं स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ||{1/19}{6.75.1}{6.6.14.1}{5.1.19.1}{747, 516, 5115}

धन्व॑ना॒ गा धन्व॑ना॒जिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो᳚ जयेम |{भारद्वाजः पायुः | धनुः | त्रिष्टुप्}

धनुः॒ शत्रो᳚रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वाः᳚ प्र॒दिशो᳚ जयेम ||{2/19}{6.75.2}{6.6.14.2}{5.1.19.2}{748, 516, 5116}

व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्णं᳚ प्रि॒यं सखा᳚यं परिषस्वजा॒ना |{भारद्वाजः पायुः | ज्या | त्रिष्टुप्}

योषे᳚व शिङ्क्ते॒ वित॒ताधि॒ धन्व॒ञ्ज्या, इ॒यं सम॑ने पा॒रय᳚न्ती ||{3/19}{6.75.3}{6.6.14.3}{5.1.19.3}{749, 516, 5117}

ते, आ॒चर᳚न्ती॒ सम॑नेव॒ योषा᳚ मा॒तेव॑ पु॒त्रं बि॑भृतामु॒पस्थे᳚ |{भारद्वाजः पायुः | धनुष्कोटिः | त्रिष्टुप्}

अप॒ शत्रू᳚न्‌ विध्यतां संविदा॒ने, आर्त्नी᳚, इ॒मे वि॑ष्फु॒रन्ती᳚, अ॒मित्रा॑न् ||{4/19}{6.75.4}{6.6.14.4}{5.1.19.4}{750, 516, 5118}

ब॒ह्वी॒नां पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णोति॒ सम॑नाव॒गत्य॑ |{भारद्वाजः पायुः | इषुधिः | त्रिष्टुप्}

इ॒षु॒धिः सङ्काः॒ पृत॑नाश्च॒ सर्वाः᳚ पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू᳚तः ||{5/19}{6.75.5}{6.6.14.5}{5.1.19.5}{751, 516, 5119}

रथे॒ तिष्ठ᳚न्नयति वा॒जिनः॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः |{भारद्वाजः पायुः | सारथिः, रश्मयः | जगती}

अ॒भीशू᳚नां महि॒मानं᳚ पनायत॒ मनः॑ प॒श्चादनु॑ यच्छन्ति र॒श्मयः॑ ||{6/19}{6.75.6}{6.6.14.6}{5.1.20.1}{752, 516, 5120}

ती॒व्रान्‌ घोषा᳚न्‌ कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे᳚भिः स॒ह वा॒जय᳚न्तः |{भारद्वाजः पायुः | अश्वाः | त्रिष्टुप्}

अ॒व॒क्राम᳚न्तः॒ प्रप॑दैर॒मित्रा᳚न्‌ क्षि॒णन्ति॒ शत्रूँ॒रन॑पव्ययन्तः ||{7/19}{6.75.7}{6.6.14.7}{5.1.20.2}{753, 516, 5121}

र॒थ॒वाह॑नं ह॒विर॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तमस्य॒ वर्म॑ |{भारद्वाजः पायुः | रथः | त्रिष्टुप्}

तत्रा॒ रथ॒मुप॑ श॒ग्मं स॑देम वि॒श्वाहा᳚ व॒यं सु॑मन॒स्यमा᳚नाः ||{8/19}{6.75.8}{6.6.14.8}{5.1.20.3}{754, 516, 5122}

स्वा॒दु॒षं॒सदः॑ पि॒तरो᳚ वयो॒धाः कृ॑च्छ्रे॒श्रितः॒ शक्ती᳚वन्तो गभी॒राः |{भारद्वाजः पायुः | रथगोपाः | त्रिष्टुप्}

चि॒त्रसे᳚ना॒, इषु॑बला॒, अमृ॑ध्राः स॒तोवी᳚रा, उ॒रवो᳚ व्रातसा॒हाः ||{9/19}{6.75.9}{6.6.14.9}{5.1.20.4}{755, 516, 5123}

ब्राह्म॑णासः॒ पित॑रः॒ सोम्या᳚सः शि॒वे नो॒ द्यावा᳚पृथि॒वी, अ॑ने॒हसा᳚ |{भारद्वाजः पायुः | ब्राह्मणपितृसोमपृथिवीपूषाणः | जगती}

पू॒षा नः॑ पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि᳚र्नो, अ॒घशं᳚स ईशत ||{10/19}{6.75.10}{6.6.14.10}{5.1.20.5}{756, 516, 5124}

सु॒प॒र्णं व॑स्ते मृ॒गो, अ॑स्या॒ दन्तो॒ गोभिः॒ संन॑द्धा पतति॒ प्रसू᳚ता |{भारद्वाजः पायुः | इषवः | त्रिष्टुप्}

यत्रा॒ नरः॒ सं च॒ वि च॒ द्रव᳚न्ति॒ तत्रा॒स्मभ्य॒मिष॑वः॒ शर्म॑ यंसन् ||{11/19}{6.75.11}{6.6.14.11}{5.1.21.1}{757, 516, 5125}

ऋजी᳚ते॒ परि॑ वृङ्धि॒ नोऽश्मा᳚ भवतु नस्त॒नूः |{भारद्वाजः पायुः | इषवः | अनुष्टुप्}

सोमो॒, अधि॑ ब्रवीतु॒ नोऽदि॑तिः॒ शर्म॑ यच्छतु ||{12/19}{6.75.12}{6.6.14.12}{5.1.21.2}{758, 516, 5126}

आ ज᳚ङ्घन्ति॒ सान्वे᳚षां ज॒घनाँ॒, उप॑ जिघ्नते |{भारद्वाजः पायुः | प्रतोदः | अनुष्टुप्}

अश्वा᳚जनि॒ प्रचे᳚त॒सोऽश्वा᳚न्‌ त्स॒मत्सु॑ चोदय ||{13/19}{6.75.13}{6.6.14.13}{5.1.21.3}{759, 516, 5127}

अहि॑रिव भो॒गैः पर्ये᳚ति बा॒हुं ज्याया᳚ हे॒तिं प॑रि॒बाध॑मानः |{भारद्वाजः पायुः | हस्तत्राणः | त्रिष्टुप्}

ह॒स्त॒घ्नो विश्वा᳚ व॒युना᳚नि वि॒द्वान् पुमा॒न्‌ पुमां᳚सं॒ परि॑ पातु वि॒श्वतः॑ ||{14/19}{6.75.14}{6.6.14.14}{5.1.21.4}{760, 516, 5128}

आला᳚क्ता॒ या रुरु॑शी॒र्ष्ण्यथो॒ यस्या॒, अयो॒ मुख᳚म् |{भारद्वाजः पायुः | इषवः | अनुष्टुप्}

इ॒दं प॒र्जन्य॑रेतस॒ इष्वै᳚ दे॒व्यै बृ॒हन्नमः॑ ||{15/19}{6.75.15}{6.6.14.15}{5.1.21.5}{761, 516, 5129}

अव॑सृष्टा॒ परा᳚ पत॒ शर᳚व्ये॒ ब्रह्म॑संशिते |{भारद्वाजः पायुः | इषवः | अनुष्टुप्}

गच्छा॒मित्रा॒न्‌ प्र प॑द्यस्व॒ मामीषां॒ कं च॒नोच्छि॑षः ||{16/19}{6.75.16}{6.6.14.16}{5.1.22.1}{762, 516, 5130}

यत्र॑ बा॒णाः स॒म्पत᳚न्ति कुमा॒रा वि॑शि॒खा, इ॑व |{भारद्वाजः पायुः | युद्धभूमिकवच ब्रह्मणस्पत्यदित्यः | पङ्क्तिः}

तत्रा᳚ नो॒ ब्रह्म॑ण॒स्पति॒रदि॑तिः॒ शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ||{17/19}{6.75.17}{6.6.14.17}{5.1.22.2}{763, 516, 5131}

मर्मा᳚णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्ताम् |{भारद्वाजः पायुः | वर्मसोमवरुणाः | त्रिष्टुप्}

उ॒रोर्वरी᳚यो॒ वरु॑णस्ते कृणोतु॒ जय᳚न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ||{18/19}{6.75.18}{6.6.14.18}{5.1.22.3}{764, 516, 5132}

यो नः॒ स्वो, अर॑णो॒ यश्च॒ निष्ट्यो॒ जिघां᳚सति |{भारद्वाजः पायुः | एवब्रह्माणि | अनुष्टुप्}

दे॒वास्तं सर्वे᳚ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम् ||{19/19}{6.75.19}{6.6.14.19}{5.1.22.4}{765, 516, 5133}