[1] माचिदन्यदिति चतुस्त्रिंशदृचस्यसूक्तस्यआद्ययोर्द्वयोः काण्वः प्रगाथऋषिः शिष्टानांकाण्वौमेधातिथिमेध्यातिथीऋषी स्तुहिस्तुहीत्यादि चतसृणांप्लायोंगिरा संगऋषिः अंत्यायाआंगिरसीशश्वतीऋषिका इंद्रोदेवतास्तुहिस्तुहीत्यादिपंचानामासंगोदेवताबृहती द्वितीयासतोबृहती अंत्येद्वेत्रिष्टुभौ | (काण्वः प्रगाथइत्यत्रत्यः प्रगाथोवस्तुतोघौरः सन भ्रातुःकण्वस्यपुत्रतांगतइतीतिहासः श्रूयते) | |
मा चि॑द॒न्यद्वि शं᳚सत॒ सखा᳚यो॒ मा रि॑षण्यत |{प्रगाथो घौरः काण्वो वा | इन्द्रः | बृहती} इन्द्र॒मित् स्तो᳚ता॒ वृष॑णं॒ सचा᳚ सु॒ते मुहु॑रु॒क्था च॑ शंसत ||{1/34}{8.1.1}{8.1.1.1}{5.7.10.1}{1, 621, 5975} मा¦चि॒त्¦अ॒न्यत्¦वि¦शं॒स॒त॒¦सखा᳚यः¦मा¦रि॒ष॒ण्य॒त॒ | |
अ॒व॒क्र॒क्षिणं᳚ वृष॒भं य॑था॒जुरं॒ गां न च॑र्षणी॒सह᳚म् |{प्रगाथो घौरः काण्वो वा | इन्द्रः | सतोबृहती} वि॒द्वेष॑णं सं॒वन॑नोभयंक॒रं मंहि॑ष्ठमुभया॒विन᳚म् ||{2/34}{8.1.2}{8.1.1.2}{5.7.10.2}{2, 621, 5976} अ॒व॒ऽक्र॒क्षिण᳚म्¦वृ॒ष॒भम्¦य॒था॒¦अ॒जुर᳚म्¦गाम्¦न¦च॒र्ष॒णि॒ऽसह᳚म् | |
यच्चि॒द्धि त्वा॒ जना᳚, इ॒मे नाना॒ हव᳚न्त ऊ॒तये᳚ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} अ॒स्माकं॒ ब्रह्मे॒दमि᳚न्द्र भूतु॒ तेऽहा॒ विश्वा᳚ च॒ वर्ध॑नम् ||{3/34}{8.1.3}{8.1.1.3}{5.7.10.3}{3, 621, 5977} यत्¦चि॒त्¦हि¦त्वा॒¦जनाः᳚¦इ॒मे¦नाना᳚¦हव᳚न्ते¦ऊ॒तये᳚ | |
वि त॑र्तूर्यन्ते मघवन् विप॒श्चितो॒ऽर्यो विपो॒ जना᳚नाम् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | सतोबृहती} उप॑ क्रमस्व पुरु॒रूप॒मा भ॑र॒ वाजं॒ नेदि॑ष्ठमू॒तये᳚ ||{4/34}{8.1.4}{8.1.1.4}{5.7.10.4}{4, 621, 5978} वि¦त॒र्तू॒र्य॒न्ते॒¦म॒घ॒ऽव॒न्¦वि॒पः॒ऽचितः॑¦अ॒र्यः¦विपः॑¦जना᳚नाम् | |
म॒हे च॒न त्वाम॑द्रिवः॒ परा᳚ शु॒ल्काय॑ देयाम् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} न स॒हस्रा᳚य॒ नायुता᳚य वज्रिवो॒ न श॒ताय॑ शतामघ ||{5/34}{8.1.5}{8.1.1.5}{5.7.10.5}{5, 621, 5979} म॒हे¦च॒न¦त्वाम्¦अ॒द्रि॒ऽवः॒¦परा᳚¦शु॒ल्काय॑¦दे॒या॒म् | |
वस्याँ᳚, इन्द्रासि मे पि॒तुरु॒त भ्रातु॒रभु᳚ञ्जतः |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} मा॒ता च॑ मे छदयथः स॒मा व॑सो वसुत्व॒नाय॒ राध॑से ||{6/34}{8.1.6}{8.1.1.6}{5.7.11.1}{6, 621, 5980} वस्या᳚न्¦इ॒न्द्र॒¦अ॒सि॒¦मे॒¦पि॒तुः¦उ॒त¦भ्रातुः॑¦अभुं᳚जतः | |
क्वे᳚यथ॒ क्वेद॑सि पुरु॒त्रा चि॒द्धि ते॒ मनः॑ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} अल॑र्षि युध्म खजकृत्पुरंदर॒ प्र गा᳚य॒त्रा, अ॑गासिषुः ||{7/34}{8.1.7}{8.1.1.7}{5.7.11.2}{7, 621, 5981} क्व॑¦इ॒य॒थ॒¦क्व॑¦इत्¦अ॒सि॒¦पु॒रु॒ऽत्रा¦चि॒त्¦हि¦ते॒¦मनः॑ | |
प्रास्मै᳚ गाय॒त्रम॑र्चत वा॒वातु॒र्यः पु॑रंद॒रः |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} याभिः॑ का॒ण्वस्योप॑ ब॒र्हिरा॒सदं॒ यास॑द्व॒ज्री भि॒नत्पुरः॑ ||{8/34}{8.1.8}{8.1.1.8}{5.7.11.3}{8, 621, 5982} प्र¦अ॒स्मै॒¦गा॒य॒त्रम्¦अ॒र्च॒त॒¦व॒वातुः॑¦यः¦प॒र॒म्ऽद॒रः | |
ये ते॒ सन्ति॑ दश॒ग्विनः॑ श॒तिनो॒ ये स॑ह॒स्रिणः॑ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} अश्वा᳚सो॒ ये ते॒ वृष॑णो रघु॒द्रुव॒स्तेभि᳚र्न॒स्तूय॒मा ग॑हि ||{9/34}{8.1.9}{8.1.1.9}{5.7.11.4}{9, 621, 5983} ये¦ते॒¦सन्ति॑¦द॒श॒ऽग्विनः॑¦श॒तिनः॑¦ये¦स॒ह॒स्रिणः॑ | |
आ त्व१॑(अ॒)द्य स॑ब॒र्दुघां᳚ हु॒वे गा᳚य॒त्रवे᳚पसम् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} इन्द्रं᳚ धे॒नुं सु॒दुघा॒मन्या॒मिष॑मु॒रुधा᳚रामरं॒कृत᳚म् ||{10/34}{8.1.10}{8.1.1.10}{5.7.11.5}{10, 621, 5984} आ¦तु¦अ॒द्य¦स॒बः॒ऽदुघा᳚म्¦हु॒वे¦गा॒य॒त्रऽवे᳚पसम् | |
यत्तु॒दत्सूर॒ एत॑शं व॒ङ्कू वात॑स्य प॒र्णिना᳚ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} वह॒त्कुत्स॑मार्जुने॒यं श॒तक्र॑तुः॒, त्सर॑द्गन्ध॒र्वमस्तृ॑तम् ||{11/34}{8.1.11}{8.1.1.11}{5.7.12.1}{11, 621, 5985} यत्¦तु॒दत्¦सूरः॑¦एत॑शम्¦व॒ङ्कू इति॑¦वात॑स्य¦प॒र्णिना᳚ | |
य ऋ॒ते चि॑दभि॒श्रिषः॑ पु॒रा ज॒त्रुभ्य॑ आ॒तृदः॑ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} संधा᳚ता सं॒धिं म॒घवा᳚ पुरू॒वसु॒रिष्क॑र्ता॒ विह्रु॑तं॒ पुनः॑ ||{12/34}{8.1.12}{8.1.1.12}{5.7.12.2}{12, 621, 5986} यः¦ऋ॒ते¦चि॒त्¦अ॒भि॒ऽश्रिषः॑¦पु॒रा¦ज॒त्रुऽभ्यः॑¦आ॒ऽतृदः॑ | |
मा भू᳚म॒ निष्ट्या᳚, इ॒वेन्द्र॒ त्वदर॑णा, इव |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} वना᳚नि॒ न प्र॑जहि॒तान्य॑द्रिवो दु॒रोषा᳚सो, अमन्महि ||{13/34}{8.1.13}{8.1.1.13}{5.7.12.3}{13, 621, 5987} मा¦भू॒म॒¦निष्ट्याः᳚ऽइव¦इन्द्र॑¦त्वत्¦अर॑णाःऽइव | |
अम᳚न्म॒हीद॑ना॒शवो᳚ऽनु॒ग्रास॑श्च वृत्रहन् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} स॒कृत्सु ते᳚ मह॒ता शू᳚र॒ राध॑सा॒, अनु॒ स्तोमं᳚ मुदीमहि ||{14/34}{8.1.14}{8.1.1.14}{5.7.12.4}{14, 621, 5988} अम᳚न्महि¦इत्¦अ॒ना॒शवः॑¦अ॒नु॒ग्रासः॑¦च॒¦वृ॒त्र॒ऽह॒न् | |
यदि॒ स्तोमं॒ मम॒ श्रव॑द॒स्माक॒मिन्द्र॒मिन्द॑वः |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} ति॒रः प॒वित्रं᳚ ससृ॒वांस॑ आ॒शवो॒ मन्द᳚न्तु तुग्र्या॒वृधः॑ ||{15/34}{8.1.15}{8.1.1.15}{5.7.12.5}{15, 621, 5989} यदि॑¦स्तोम᳚म्¦मम॑¦श्रव॑त्¦अ॒स्माक᳚म्¦इन्द्र᳚म्¦इन्द॑वः | |
आ त्व१॑(अ॒)द्य स॒धस्तु॑तिं वा॒वातुः॒ सख्यु॒रा ग॑हि |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} उप॑स्तुतिर्म॒घोनां॒ प्र त्वा᳚व॒त्वधा᳚ ते वश्मि सुष्टु॒तिम् ||{16/34}{8.1.16}{8.1.1.16}{5.7.13.1}{16, 621, 5990} आ¦तु¦अ॒द्य¦स॒धऽस्तु॑तिम्¦व॒वातुः॑¦सख्युः॑¦आ¦ग॒हि॒ | |
सोता॒ हि सोम॒मद्रि॑भि॒रेमे᳚नम॒प्सु धा᳚वत |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} ग॒व्या वस्त्रे᳚व वा॒सय᳚न्त॒ इन्नरो॒ निर्धु॑क्षन्व॒क्षणा᳚भ्यः ||{17/34}{8.1.17}{8.1.1.17}{5.7.13.2}{17, 621, 5991} सोत॑¦हि¦सोम᳚म्¦अद्रि॑ऽभिः¦आ¦ई॒म्¦ए॒न॒म्¦अ॒प्ऽसु¦धा॒व॒त॒ | |
अध॒ ज्मो, अध॑ वा दि॒वो बृ॑ह॒तो रो᳚च॒नादधि॑ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} अ॒या व॑र्धस्व त॒न्वा᳚ गि॒रा ममा जा॒ता सु॑क्रतो पृण ||{18/34}{8.1.18}{8.1.1.18}{5.7.13.3}{18, 621, 5992} अध॑¦ज्मः¦अध॑¦वा॒¦दि॒वः¦बृ॒ह॒तः¦रो॒च॒नात्¦अधि॑ | |
इन्द्रा᳚य॒ सु म॒दिन्त॑मं॒ सोमं᳚ सोता॒ वरे᳚ण्यम् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} श॒क्र ए᳚णं पीपय॒द्विश्व॑या धि॒या हि᳚न्वा॒नं न वा᳚ज॒युम् ||{19/34}{8.1.19}{8.1.1.19}{5.7.13.4}{19, 621, 5993} इन्द्रा᳚य¦सु¦म॒दिन्ऽत॑मम्¦सोम᳚म्¦सो॒त॒¦वरे᳚ण्यम् | |
मा त्वा॒ सोम॑स्य॒ गल्द॑या॒ सदा॒ याच᳚न्न॒हं गि॒रा |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} भूर्णिं᳚ मृ॒गं न सव॑नेषु चुक्रुधं॒ क ईशा᳚नं॒ न या᳚चिषत् ||{20/34}{8.1.20}{8.1.1.20}{5.7.13.5}{20, 621, 5994} मा¦त्वा॒¦सोम॑स्य¦गल्द॑या¦सदा᳚¦याच॑न्¦अ॒हम्¦गि॒रा | |
मदे᳚नेषि॒तं मद॑मु॒ग्रमु॒ग्रेण॒ शव॑सा |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} विश्वे᳚षां तरु॒तारं᳚ मद॒च्युतं॒ मदे॒ हि ष्मा॒ ददा᳚ति नः ||{21/34}{8.1.21}{8.1.1.21}{5.7.14.1}{21, 621, 5995} मदे᳚न¦इ॒षि॒तम्¦मद᳚म्¦उ॒ग्रम्¦उ॒ग्रेण॑¦शव॑सा | |
शेवा᳚रे॒ वार्या᳚ पु॒रु दे॒वो मर्ता᳚य दा॒शुषे᳚ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} स सु᳚न्व॒ते च॑ स्तुव॒ते च॑ रासते वि॒श्वगू᳚र्तो, अरिष्टु॒तः ||{22/34}{8.1.22}{8.1.1.22}{5.7.14.2}{22, 621, 5996} शेवा᳚रे¦वार्या᳚¦पु॒रु¦दे॒वः¦मर्ता᳚य¦दा॒शुषे᳚ | |
एन्द्र॑ याहि॒ मत्स्व॑ चि॒त्रेण॑ देव॒ राध॑सा |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} सरो॒ न प्रा᳚स्यु॒दरं॒ सपी᳚तिभि॒रा सोमे᳚भिरु॒रु स्फि॒रम् ||{23/34}{8.1.23}{8.1.1.23}{5.7.14.3}{23, 621, 5997} आ¦इ॒न्द्र॒¦या॒हि॒¦मत्स्व॑¦चि॒त्रेण॑¦दे॒व॒¦राध॑सा | |
आ त्वा᳚ स॒हस्र॒मा श॒तं यु॒क्ता रथे᳚ हिर॒ण्यये᳚ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} ब्र॒ह्म॒युजो॒ हर॑य इन्द्र के॒शिनो॒ वह᳚न्तु॒ सोम॑पीतये ||{24/34}{8.1.24}{8.1.1.24}{5.7.14.4}{24, 621, 5998} आ¦त्वा॒¦स॒हस्र᳚म्¦आ¦श॒तम्¦यु॒क्ताः¦रथे᳚¦हि॒र॒ण्यये᳚ | |
आ त्वा॒ रथे᳚ हिर॒ण्यये॒ हरी᳚ म॒यूर॑शेप्या |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} शि॒ति॒पृ॒ष्ठा व॑हतां॒ मध्वो॒, अन्ध॑सो वि॒वक्ष॑णस्य पी॒तये᳚ ||{25/34}{8.1.25}{8.1.1.25}{5.7.14.5}{25, 621, 5999} आ¦त्वा॒¦रथे᳚¦हि॒र॒ण्यये᳚¦हरी॒ इति॑¦म॒यूर॑ऽशेप्या | |
पिबा॒ त्व१॑(अ॒)स्य गि᳚र्वणः सु॒तस्य॑ पूर्व॒पा, इ॑व |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} परि॑ष्कृतस्य र॒सिन॑ इ॒यमा᳚सु॒तिश्चारु॒र्मदा᳚य पत्यते ||{26/34}{8.1.26}{8.1.1.26}{5.7.15.1}{26, 621, 6000} पिब॑¦तु¦अ॒स्य¦गि॒र्व॒णः॒¦सु॒तस्य॑¦पू॒र्व॒पाःऽइ᳚व | |
य एको॒, अस्ति॑ दं॒सना᳚ म॒हाँ, उ॒ग्रो, अ॒भि व्र॒तैः |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} गम॒त्स शि॒प्री न स यो᳚ष॒दा ग॑म॒द्धवं॒ न परि॑ वर्जति ||{27/34}{8.1.27}{8.1.1.27}{5.7.15.2}{27, 621, 6001} यः¦एकः॑¦अस्ति॑¦दं॒सना᳚¦म॒हान्¦उ॒ग्रः¦अ॒भि¦व्र॒तैः | |
त्वं पुरं᳚ चरि॒ष्ण्वं᳚ व॒धैः शुष्ण॑स्य॒ सं पि॑णक् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} त्वं भा, अनु॑ चरो॒, अध॑ द्वि॒ता यदि᳚न्द्र॒ हव्यो॒ भुवः॑ ||{28/34}{8.1.28}{8.1.1.28}{5.7.15.3}{28, 621, 6002} त्वम्¦पुर᳚म्¦च॒रि॒ष्ण्व᳚म्¦व॒धैः¦शुष्ण॑स्य¦सम्¦पि॒ण॒क् | |
मम॑ त्वा॒ सूर॒ उदि॑ते॒ मम॑ म॒ध्यंदि॑ने दि॒वः |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} मम॑ प्रपि॒त्वे, अ॑पिशर्व॒रे व॑स॒वा स्तोमा᳚सो, अवृत्सत ||{29/34}{8.1.29}{8.1.1.29}{5.7.15.4}{29, 621, 6003} मम॑¦त्वा॒¦सूरे᳚¦उत्ऽइ᳚ते¦मम॑¦म॒ध्यंदि॑ने¦दि॒वः | |
स्तु॒हि स्तु॒हीदे॒ते घा᳚ ते॒ मंहि॑ष्ठासो म॒घोना᳚म् |{प्लायोगिआसङ्गः | आसंङ्गस्य दानस्तुतिः | बृहती} नि॒न्दि॒ताश्वः॑ प्रप॒थी प॑रम॒ज्या म॒घस्य॑ मेध्यातिथे ||{30/34}{8.1.30}{8.1.1.30}{5.7.15.5}{30, 621, 6004} स्तु॒हि¦स्तु॒हि¦इत्¦ए॒ते¦घ॒¦ते॒¦मंहि॑ष्ठासः¦म॒घोना᳚म् | |
आ यदश्वा॒न्वन᳚न्वतः श्र॒द्धया॒हं रथे᳚ रु॒हम् |{प्लायोगिआसङ्गः | आसंङ्गस्य दानस्तुतिः | बृहती} उ॒त वा॒मस्य॒ वसु॑नश्चिकेतति॒ यो, अस्ति॒ याद्वः॑ प॒शुः ||{31/34}{8.1.31}{8.1.1.31}{5.7.16.1}{31, 621, 6005} आ¦यत्¦अश्वा᳚न्¦वन॑न्ऽवतः¦श्र॒द्धया᳚¦अ॒हम्¦रथे᳚¦रु॒हम् | |
य ऋ॒ज्रा मह्यं᳚ माम॒हे स॒ह त्व॒चा हि॑र॒ण्यया᳚ |{प्लायोगिआसङ्गः | आसंङ्गस्य दानस्तुतिः | बृहती} ए॒ष विश्वा᳚न्य॒भ्य॑स्तु॒ सौभ॑गास॒ङ्गस्य॑ स्व॒नद्र॑थः ||{32/34}{8.1.32}{8.1.1.32}{5.7.16.2}{32, 621, 6006} यः¦ऋ॒ज्रा¦मह्य᳚म्¦म॒म॒हे¦स॒ह¦त्व॒चा¦हि॒र॒ण्यया᳚ | |
अध॒ प्लायो᳚गि॒रति॑ दासद॒न्याना᳚स॒ङ्गो, अ॑ग्ने द॒शभिः॑ स॒हस्रैः᳚ |{प्लायोगिआसङ्गः | आसंङ्गस्य दानस्तुतिः | त्रिष्टुप्} अधो॒क्षणो॒ दश॒ मह्यं॒ रुश᳚न्तो न॒ळा, इ॑व॒ सर॑सो॒ निर॑तिष्ठन् ||{33/34}{8.1.33}{8.1.1.33}{5.7.16.3}{33, 621, 6007} अध॑¦प्लायो᳚गिः¦अति॑¦दा॒स॒त्¦अ॒न्यान्¦आ॒ऽस॒ङ्गः¦अ॒ग्ने॒¦द॒शऽभिः॑¦स॒हस्रैः᳚ | |
अन्व॑स्य स्थू॒रं द॑दृशे पु॒रस्ता᳚दन॒स्थ ऊ॒रुर॑व॒रम्ब॑माणः |{आंगिरसीशश्वतीऋषिका | आसंङ्गः | त्रिष्टुप्} शश्व॑ती॒ नार्य॑भि॒चक्ष्या᳚ह॒ सुभ॑द्रमर्य॒ भोज॑नं बिभर्षि ||{34/34}{8.1.34}{8.1.1.34}{5.7.16.4}{34, 621, 6008} अनु॑¦अ॒स्य॒¦स्थू॒रम्¦द॒दृ॒शे॒¦पु॒रस्ता᳚त्¦अ॒न॒स्थः¦ऊ॒रुः¦अ॒व॒ऽरम्ब॑माणः | |
[2] इदंवसोसुतमिति द्विचत्वारिंशदृचस्य सूक्तस्य मेधातिथिरांगिरसः प्रियमेधश्चेत्युभावृषी अंत्ययोर्द्वयोःकाण्वोमेधातिथिरृषिरिंद्रः | अंत्ययोर्विभिन्दुर्गायत्री अष्टाविंश्यनुष्टुप् | (विभिदोर्दानस्तुतिः) | |
इ॒दं व॑सो सु॒तमन्धः॒ पिबा॒ सुपू᳚र्णमु॒दर᳚म् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} अना᳚भयिन् ररि॒मा ते᳚ ||{1/42}{8.2.1}{8.1.2.1}{5.7.17.1}{35, 622, 6009} इ॒दम्¦व॒सो॒ इति॑¦सु॒तम्¦अन्धः॑¦पिब॑¦सुऽपू᳚र्णम्¦उ॒दर᳚म् | अना᳚भयिन्¦र॒रि॒म¦ते॒ || |
नृभि॑र्धू॒तः सु॒तो, अश्नै॒रव्यो॒ वारैः॒ परि॑पूतः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} अश्वो॒ न नि॒क्तो न॒दीषु॑ ||{2/42}{8.2.2}{8.1.2.2}{5.7.17.2}{36, 622, 6010} नृऽभिः॑¦धू॒तः¦सु॒तः¦अश्नैः᳚¦अव्यः॑¦वारैः᳚¦परि॑ऽपूतः | अश्वः॑¦न¦नि॒क्तः¦न॒दीषु॑ || |
तं ते॒ यवं॒ यथा॒ गोभिः॑ स्वा॒दुम॑कर्म श्री॒णन्तः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} इन्द्र॑ त्वा॒स्मिन् त्स॑ध॒मादे᳚ ||{3/42}{8.2.3}{8.1.2.3}{5.7.17.3}{37, 622, 6011} तम्¦ते॒¦यव᳚म्¦यथा᳚¦गोभिः॑¦स्वा॒दुम्¦अ॒क॒र्म॒¦श्री॒णन्तः॑ | इन्द्र॑¦त्वा॒¦अ॒स्मिन्¦स॒ध॒ऽमादे᳚ || |
इन्द्र॒ इत्सो᳚म॒पा, एक॒ इन्द्रः॑ सुत॒पा वि॒श्वायुः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} अ॒न्तर्दे॒वान् मर्त्याँ᳚श्च ||{4/42}{8.2.4}{8.1.2.4}{5.7.17.4}{38, 622, 6012} इन्द्र॑¦इत्¦सो॒म॒ऽपाः¦एकः॑¦इन्द्रः॑¦सु॒त॒ऽपाः¦वि॒श्वऽआ᳚युः | अ॒न्तः¦दे॒वान्¦मर्त्या᳚न्¦च॒ || |
न यं शु॒क्रो न दुरा᳚शी॒र्न तृ॒प्रा, उ॑रु॒व्यच॑सम् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} अ॒प॒स्पृ॒ण्व॒ते सु॒हार्द᳚म् ||{5/42}{8.2.5}{8.1.2.5}{5.7.17.5}{39, 622, 6013} न¦यम्¦शु॒क्रः¦न¦दुःऽआ᳚शीः¦न¦तृ॒प्राः¦उ॒रु॒ऽव्यच॑सम् | अ॒प॒ऽस्पृ॒ण्व॒ते¦सु॒ऽहार्द᳚म् || |
गोभि॒र्यदी᳚म॒न्ये, अ॒स्मन् मृ॒गं न व्रा मृ॒गय᳚न्ते |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} अ॒भि॒त्सर᳚न्ति धे॒नुभिः॑ ||{6/42}{8.2.6}{8.1.2.6}{5.7.18.1}{40, 622, 6014} गोभिः॑¦यत्¦ई॒म्¦अ॒न्ये¦अ॒स्मत्¦मृ॒गम्¦न¦व्राः¦मृ॒गय᳚न्ते | अ॒भि॒ऽत्सर᳚न्ति¦धे॒नुऽभिः॑ || |
त्रय॒ इन्द्र॑स्य॒ सोमाः᳚ सु॒तासः॑ सन्तु दे॒वस्य॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} स्वे क्षये᳚ सुत॒पाव्नः॑ ||{7/42}{8.2.7}{8.1.2.7}{5.7.18.2}{41, 622, 6015} त्रयः॑¦इन्द्र॑स्य¦सोमाः᳚¦सु॒तासः॑¦स॒न्तु॒¦दे॒वस्य॑ | स्वे¦क्षये᳚¦सु॒त॒ऽपाव्नः॑ || |
त्रयः॒ कोशा᳚सः श्चोतन्ति ति॒स्रश्च॒म्व१॑(अः॒) सुपू᳚र्णाः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} स॒मा॒ने, अधि॒ भार्म॑न् ||{8/42}{8.2.8}{8.1.2.8}{5.7.18.3}{42, 622, 6016} त्रयः॑¦कोशा᳚सः¦श्चो॒त॒न्ति॒¦ति॒स्रः¦च॒म्वः॑¦सुऽपू᳚र्णाः | स॒मा॒ने¦अधि॑¦भार्म॑न् || |
शुचि॑रसि पुरुनिः॒ष्ठाः, क्षी॒रैर्म॑ध्य॒त आशी᳚र्तः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} द॒ध्ना मन्दि॑ष्ठः॒ शूर॑स्य ||{9/42}{8.2.9}{8.1.2.9}{5.7.18.4}{43, 622, 6017} शुचिः॑¦अ॒सि॒¦पु॒रु॒निः॒ऽस्थाः¦क्षी॒रैः¦म॒ध्य॒तः¦आऽशी᳚र्तः | द॒ध्ना¦मन्दि॑ष्ठः¦शूर॑स्य || |
इ॒मे त॑ इन्द्र॒ सोमा᳚स्ती॒व्रा, अ॒स्मे सु॒तासः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} शु॒क्रा, आ॒शिरं᳚ याचन्ते ||{10/42}{8.2.10}{8.1.2.10}{5.7.18.5}{44, 622, 6018} इ॒मे¦ते॒¦इ॒न्द्र॒¦सोमाः᳚¦ती॒व्राः¦अ॒स्मे इति॑¦सु॒तासः॑ | शु॒क्राः¦आ॒ऽशिर᳚म्¦या॒च॒न्ते॒ || |
ताँ, आ॒शिरं᳚ पुरो॒ळाश॒मिन्द्रे॒मं सोमं᳚ श्रीणीहि |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} रे॒वन्तं॒ हि त्वा᳚ शृ॒णोमि॑ ||{11/42}{8.2.11}{8.1.2.11}{5.7.19.1}{45, 622, 6019} तान्¦आ॒ऽशिर᳚म्¦पु॒रो॒ळाश᳚म्¦इन्द्र॑¦इ॒मम्¦सोम᳚म्¦श्री॒णी॒हि॒ | रे॒वन्त᳚म्¦हि¦त्वा॒¦शृ॒णोमि॑ || |
हृ॒त्सु पी॒तासो᳚ युध्यन्ते दु॒र्मदा᳚सो॒ न सुरा᳚याम् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} ऊध॒र्न न॒ग्ना ज॑रन्ते ||{12/42}{8.2.12}{8.1.2.12}{5.7.19.2}{46, 622, 6020} हृ॒त्ऽसु¦पी॒तासः॑¦यु॒ध्य॒न्ते॒¦दुः॒ऽमदा᳚सः¦न¦सुरा᳚याम् | ऊधः॑¦न¦न॒ग्नाः¦ज॒र॒न्ते॒ || |
रे॒वाँ, इद्रे॒वतः॑ स्तो॒ता स्यात् त्वाव॑तो म॒घोनः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} प्रेदु॑ हरिवः श्रु॒तस्य॑ ||{13/42}{8.2.13}{8.1.2.13}{5.7.19.3}{47, 622, 6021} रे॒वान्¦इत्¦रे॒वतः॑¦स्तो॒ता¦स्यात्¦त्वाऽव॑तः¦म॒घोनः॑ | प्र¦इत्¦ऊँ॒ इति॑¦ह॒रि॒ऽवः॒¦श्रु॒तस्य॑ || |
उ॒क्थं च॒न श॒स्यमा᳚न॒मगो᳚र॒रिरा चि॑केत |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} न गा᳚य॒त्रं गी॒यमा᳚नम् ||{14/42}{8.2.14}{8.1.2.14}{5.7.19.4}{48, 622, 6022} उ॒क्थम्¦च॒न¦श॒स्यमा᳚नम्¦अगोः᳚¦अ॒रिः¦आ¦चि॒के॒त॒ | न¦गा॒य॒त्रम्¦गी॒यमा᳚नम् || |
मा न॑ इन्द्र पीय॒त्नवे॒ मा शर्ध॑ते॒ परा᳚ दाः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} शिक्षा᳚ शचीवः॒ शची᳚भिः ||{15/42}{8.2.15}{8.1.2.15}{5.7.19.5}{49, 622, 6023} मा¦नः॒¦इ॒न्द्र॒¦पी॒य॒त्नवे᳚¦मा¦शर्ध॑ते¦परा᳚¦दाः॒ | शिक्ष॑¦श॒ची॒ऽवः॒¦शची᳚भिः || |
व॒यमु॑ त्वा त॒दिद॑र्था॒, इन्द्र॑ त्वा॒यन्तः॒ सखा᳚यः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} कण्वा᳚, उ॒क्थेभि॑र्जरन्ते ||{16/42}{8.2.16}{8.1.2.16}{5.7.20.1}{50, 622, 6024} व॒यम्¦ऊँ॒ इति॑¦त्वा॒¦त॒दित्।आ॑र्थाः¦इन्द्र॑¦त्वा॒ऽयन्तः॑¦सखा᳚यः | कण्वाः᳚¦उ॒क्थेभिः॑¦ज॒र॒न्ते॒ || |
न घे᳚म॒न्यदा प॑पन॒ वज्रि᳚न्न॒पसो॒ नवि॑ष्टौ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} तवेदु॒ स्तोमं᳚ चिकेत ||{17/42}{8.2.17}{8.1.2.17}{5.7.20.2}{51, 622, 6025} न¦घ॒¦ई॒म्¦अ॒न्यत्¦आ¦प॒प॒न॒¦वज्रि॑न्¦अ॒पसः॑¦नवि॑ष्टौ | तव॑¦इत्¦ऊँ॒ इति॑¦स्तोम᳚म्¦चि॒के॒त॒ || |
इ॒च्छन्ति॑ दे॒वाः सु॒न्वन्तं॒ न स्वप्ना᳚य स्पृहयन्ति |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | अनुष्टुप्} यन्ति॑ प्र॒माद॒मत᳚न्द्राः ||{18/42}{8.2.18}{8.1.2.18}{5.7.20.3}{52, 622, 6026} इ॒च्छन्ति॑¦दे॒वाः¦सु॒न्वन्त᳚म्¦न¦स्वप्ना᳚य¦स्पृ॒ह॒य॒न्ति॒ | यन्ति॑¦प्र॒ऽमाद᳚म्¦अत᳚न्द्राः || |
ओ षु प्र या᳚हि॒ वाजे᳚भि॒र्मा हृ॑णीथा, अ॒भ्य१॑(अ॒)स्मान् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} म॒हाँ, इ॑व॒ युव॑जानिः ||{19/42}{8.2.19}{8.1.2.19}{5.7.20.4}{53, 622, 6027} ओ इति॑¦सु¦प्र¦या॒हि॒¦वाजे᳚भिः¦मा¦हृ॒णी॒थाः॒¦अ॒भि¦अ॒स्मान् | म॒हान्ऽइ᳚व¦युव॑ऽजानिः || |
मो ष्व१॑(अ॒)द्य दु॒र्हणा᳚वान् त्सा॒यं क॑रदा॒रे, अ॒स्मत् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} अ॒श्री॒र इ॑व॒ जामा᳚ता ||{20/42}{8.2.20}{8.1.2.20}{5.7.20.5}{54, 622, 6028} मो इति॑¦सु¦अ॒द्य¦दुः॒ऽहना᳚वान्¦सा॒यम्¦क॒र॒त्¦आ॒रे¦अ॒स्मत् | अ॒श्री॒रःऽइ᳚व¦जामा᳚ता || |
वि॒द्मा ह्य॑स्य वी॒रस्य॑ भूरि॒दाव॑रीं सुम॒तिम् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} त्रि॒षु जा॒तस्य॒ मनां᳚सि ||{21/42}{8.2.21}{8.1.2.21}{5.7.21.1}{55, 622, 6029} वि॒द्म¦हि¦अ॒स्य॒¦वी॒रस्य॑¦भू॒रि॒ऽदावा᳚रीम्¦सु॒ऽम॒तिम् | त्रि॒षु¦जा॒तस्य॑¦मनां᳚सि || |
आ तू षि᳚ञ्च॒ कण्व॑मन्तं॒ न घा᳚ विद्म शवसा॒नात् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} य॒शस्त॑रं श॒तमू᳚तेः ||{22/42}{8.2.22}{8.1.2.22}{5.7.21.2}{56, 622, 6030} आ¦तु¦सिं॒च॒¦कण्व॑ऽमन्तम्¦न¦घ॒¦वि॒द्म॒¦श॒व॒सा॒नात् | य॒शःऽत॑रम्¦श॒तम्ऽऊ᳚तेः || |
ज्येष्ठे᳚न सोत॒रिन्द्रा᳚य॒ सोमं᳚ वी॒राय॑ श॒क्राय॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} भरा॒ पिब॒न्नर्या᳚य ||{23/42}{8.2.23}{8.1.2.23}{5.7.21.3}{57, 622, 6031} ज्येष्ठे᳚न¦सो॒तः॒¦इन्द्रा᳚य¦सोम᳚म्¦वी॒राय॑¦श॒क्राय॑ | भर॑¦पिब॑त्¦नर्या᳚य || |
यो वेदि॑ष्ठो, अव्य॒थिष्वश्वा᳚वन्तं जरि॒तृभ्यः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} वाजं᳚ स्तो॒तृभ्यो॒ गोम᳚न्तम् ||{24/42}{8.2.24}{8.1.2.24}{5.7.21.4}{58, 622, 6032} यः¦वेदि॑ष्ठः¦अ॒व्य॒थिषु॑¦अश्व॑ऽवन्तम्¦ज॒रि॒तृऽभ्यः॑ | वाज᳚म्¦स्तो॒तृऽभ्यः॑¦गोऽम᳚न्तम् || |
पन्य᳚म्पन्य॒मित्सो᳚तार॒ आ धा᳚वत॒ मद्या᳚य |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} सोमं᳚ वी॒राय॒ शूरा᳚य ||{25/42}{8.2.25}{8.1.2.25}{5.7.21.5}{59, 622, 6033} पन्य᳚म्ऽपन्यम्¦इत्¦सो॒ता॒रः॒¦आ¦धा॒व॒त॒¦मद्या᳚य | सोम᳚म्¦वी॒राय॑¦शूरा᳚य || |
पाता᳚ वृत्र॒हा सु॒तमा घा᳚ गम॒न्नारे, अ॒स्मत् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} नि य॑मते श॒तमू᳚तिः ||{26/42}{8.2.26}{8.1.2.26}{5.7.22.1}{60, 622, 6034} पाता᳚¦वृ॒त्र॒ऽहा¦सु॒तम्¦आ¦घ॒¦ग॒म॒त्¦न¦आ॒रे¦अ॒स्मत् | नि¦य॒म॒ते॒¦श॒तम्ऽऊ᳚तिः || |
एह हरी᳚ ब्रह्म॒युजा᳚ श॒ग्मा व॑क्षतः॒ सखा᳚यम् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} गी॒र्भिः श्रु॒तं गिर्व॑णसम् ||{27/42}{8.2.27}{8.1.2.27}{5.7.22.2}{61, 622, 6035} आ¦इ॒ह¦हरी॒ इति॑¦ब्र॒ह्म॒ऽयुजा᳚¦श॒ग्मा¦व॒क्ष॒तः॒¦सखा᳚यम् | गीः॒ऽभिः¦श्रु॒तम्¦गिर्व॑णसम् || |
स्वा॒दवः॒ सोमा॒, आ या᳚हि श्री॒ताः सोमा॒, आ या᳚हि |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} शिप्रि॒न्नृषी᳚वः॒ शची᳚वो॒ नायमच्छा᳚ सध॒माद᳚म् ||{28/42}{8.2.28}{8.1.2.28}{5.7.22.3}{62, 622, 6036} स्वा॒दवः॑¦सोमाः᳚¦आ¦या॒हि॒¦श्री॒ताः¦सोमाः᳚¦आ¦या॒हि॒ | शिप्रि॑न्¦ऋषि॑ऽवः¦शची᳚ऽवः¦न¦अ॒यम्¦अच्छ॑¦स॒ध॒ऽमाद᳚म् || |
स्तुत॑श्च॒ यास्त्वा॒ वर्ध᳚न्ति म॒हे राध॑से नृ॒म्णाय॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} इन्द्र॑ का॒रिणं᳚ वृ॒धन्तः॑ ||{29/42}{8.2.29}{8.1.2.29}{5.7.22.4}{63, 622, 6037} स्तुतः॑¦च॒¦याः¦त्वा॒¦वर्ध᳚न्ति¦म॒हे¦राध॑से¦नृ॒म्णाय॑ | इन्द्र॑¦का॒रिण᳚म्¦वृ॒धन्तः॑ || |
गिर॑श्च॒ यास्ते᳚ गिर्वाह उ॒क्था च॒ तुभ्यं॒ तानि॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} स॒त्रा द॑धि॒रे शवां᳚सि ||{30/42}{8.2.30}{8.1.2.30}{5.7.22.5}{64, 622, 6038} गिरः॑¦च॒¦याः¦ते॒¦गि॒र्वा॒हः॒¦उ॒क्था¦च॒¦तुभ्य᳚म्¦तानि॑ | स॒त्रा¦द॒धि॒रे¦शवां᳚सि || |
ए॒वेदे॒ष तु॑विकू॒र्मिर्वाजाँ॒, एको॒ वज्र॑हस्तः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} स॒नादमृ॑क्तो दयते ||{31/42}{8.2.31}{8.1.2.31}{5.7.23.1}{65, 622, 6039} ए॒व¦इत्¦ए॒षः¦तु॒वि॒ऽकू॒र्मिः¦वाजा᳚न्¦एकः॑¦वज्र॑ऽहस्तः | स॒नात्¦अमृ॑क्तः¦द॒य॒ते॒ || |
हन्ता᳚ वृ॒त्रं दक्षि॑णे॒नेन्द्रः॑ पु॒रू पु॑रुहू॒तः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} म॒हान्म॒हीभिः॒ शची᳚भिः ||{32/42}{8.2.32}{8.1.2.32}{5.7.23.2}{66, 622, 6040} हन्त॑¦वृ॒त्रम्¦दक्षि॑णेन¦इन्द्रः॑¦पु॒रु¦पु॒रु॒ऽहू॒तः | म॒हान्¦म॒हीभिः॑¦शची᳚भिः || |
यस्मि॒न् विश्वा᳚श्चर्ष॒णय॑ उ॒त च्यौ॒त्ना ज्रयां᳚सि च |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} अनु॒ घेन्म॒न्दी म॒घोनः॑ ||{33/42}{8.2.33}{8.1.2.33}{5.7.23.3}{67, 622, 6041} यस्मि॑न्¦विश्वाः᳚¦च॒र्ष॒णयः॑¦उ॒त¦च्यौ॒त्ना¦ज्रयां᳚सि¦च॒ | अनु॑¦घ॒¦इत्¦म॒न्दी¦म॒घोनः॑ || |
ए॒ष ए॒तानि॑ चका॒रेन्द्रो॒ विश्वा॒ योऽति॑ शृ॒ण्वे |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} वा॒ज॒दावा᳚ म॒घोना᳚म् ||{34/42}{8.2.34}{8.1.2.34}{5.7.23.4}{68, 622, 6042} ए॒षः¦ए॒तानि॑¦च॒का॒र॒¦इन्द्रः॑¦विश्वा᳚¦यः¦अति॑¦शृ॒ण्वे | वा॒ज॒ऽदावा᳚¦म॒घोना᳚म् || |
प्रभ॑र्ता॒ रथं᳚ ग॒व्यन्त॑मपा॒काच्चि॒द्यमव॑ति |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} इ॒नो वसु॒ स हि वोळ्हा᳚ ||{35/42}{8.2.35}{8.1.2.35}{5.7.23.5}{69, 622, 6043} प्रऽभ॑र्ता¦रथ᳚म्¦ग॒व्यन्त᳚म्¦अ॒पा॒कात्¦चि॒त्¦यम्¦अव॑ति | इ॒नः¦वसु॑¦सः¦हि¦वोळ्हा᳚ || |
सनि॑ता॒ विप्रो॒, अर्व॑द्भि॒र्हन्ता᳚ वृ॒त्रं नृभिः॒ शूरः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} स॒त्यो᳚ऽवि॒ता वि॒धन्त᳚म् ||{36/42}{8.2.36}{8.1.2.36}{5.7.24.1}{70, 622, 6044} सनि॑ता¦विप्रः॑¦अर्व॑त्ऽभिः¦हन्ता᳚¦वृ॒त्रम्¦नृऽभिः॑¦शूरः॑ | स॒त्यः¦अ॒वि॒ता¦वि॒धन्त᳚म् || |
यज॑ध्वैनं प्रियमेधा॒, इन्द्रं᳚ स॒त्राचा॒ मन॑सा |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} यो भूत्सोमैः᳚ स॒त्यम॑द्वा ||{37/42}{8.2.37}{8.1.2.37}{5.7.24.2}{71, 622, 6045} यज॑ध्व¦ए॒न॒म्¦प्रि॒य॒ऽमे॒धाः॒¦इन्द्र᳚म्¦स॒त्राचा᳚¦मन॑सा | यः¦भूत्¦सोमैः᳚¦स॒त्यऽम॑द्वा || |
गा॒थश्र॑वसं॒ सत्प॑तिं॒ श्रव॑स्कामं पुरु॒त्मान᳚म् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} कण्वा᳚सो गा॒त वा॒जिन᳚म् ||{38/42}{8.2.38}{8.1.2.38}{5.7.24.3}{72, 622, 6046} गा॒थऽश्र॑वसम्¦सत्ऽप॑तिम्¦श्रवः॑ऽकामम्¦पु॒रु॒ऽत्मान᳚म् | कण्वा᳚सः¦गा॒त¦वा॒जिन᳚म् || |
य ऋ॒ते चि॒द्गास्प॒देभ्यो॒ दात्सखा॒ नृभ्यः॒ शची᳚वान् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} ये, अ॑स्मि॒न् काम॒मश्रि॑यन् ||{39/42}{8.2.39}{8.1.2.39}{5.7.24.4}{73, 622, 6047} यः¦ऋ॒ते¦चि॒त्¦गाः¦प॒देभ्यः॑¦दात्¦सखा᳚¦नृऽभ्यः॑¦शची᳚ऽवान् | ये¦अ॒स्मि॒न्¦काम᳚म्¦अश्रि॑यन् || |
इ॒त्था धीव᳚न्तमद्रिवः का॒ण्वं मेध्या᳚तिथिम् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} मे॒षो भू॒तो॒३॑(ओ॒)ऽभि यन्नयः॑ ||{40/42}{8.2.40}{8.1.2.40}{5.7.24.5}{74, 622, 6048} इ॒त्था¦धीऽव᳚न्तम्¦अ॒द्रि॒ऽवः॒¦का॒ण्वम्¦मेध्य॑।आतिथिम् | मे॒षः¦भू॒तः¦अ॒भि¦यन्¦अयः॑ || |
शिक्षा᳚ विभिन्दो, अस्मै च॒त्वार्य॒युता॒ दद॑त् |{काण्वो मेधातिथिः | विभिन्दोर्दानस्तुतिः | गायत्री} अ॒ष्टा प॒रः स॒हस्रा᳚ ||{41/42}{8.2.41}{8.1.2.41}{5.7.24.6}{75, 622, 6049} शिक्ष॑¦वि॒भि॒न्दो॒ इति॑ विऽभिन्दो¦अ॒स्मै॒¦च॒त्वारि॑¦अ॒युता᳚¦दद॑त् | अ॒ष्ट¦प॒रः¦स॒हस्रा᳚ || |
उ॒त सु त्ये प॑यो॒वृधा᳚ मा॒की रण॑स्य न॒प्त्या᳚ |{काण्वो मेधातिथिः | विभिन्दोर्दानस्तुतिः | गायत्री} ज॒नि॒त्व॒नाय॑ मामहे ||{42/42}{8.2.42}{8.1.2.42}{5.7.24.7}{76, 622, 6050} उ॒त¦सु¦त्ये इति॑¦प॒यः॒ऽवृधा᳚¦मा॒की इति॑¦रण॑स्य¦न॒प्त्या᳚ | ज॒नि॒ऽत्व॒नाय॑¦म॒म॒हे॒ || |
[3] पिबासुतस्येति चतुर्विंशत्यृचस्य सूक्तस्य काण्वोमेध्यातिथिरिंद्रः अंत्यचतसृणांपाकस्थामा देवता प्रथमाद्येकोनविंश्यंता अयुजो बृहत्यः द्वितीयादिविंश्यंता युजः सतोबृहत्यः अंत्याश्चतस्रः क्रमेणानुष्टुब्गायत्र्यौबृहतीच | |
पिबा᳚ सु॒तस्य॑ र॒सिनो॒ मत्स्वा᳚ न इन्द्र॒ गोम॑तः |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} आ॒पिर्नो᳚ बोधि सध॒माद्यो᳚ वृ॒धे॒३॑(ए॒)ऽस्माँ, अ॑वन्तु ते॒ धियः॑ ||{1/24}{8.3.1}{8.1.3.1}{5.7.25.1}{77, 623, 6051} पिब॑¦सु॒तस्य॑¦र॒सिनः॑¦मत्स्व॑¦नः॒¦इ॒न्द्र॒¦गोऽम॑तः | |
भू॒याम॑ ते सुम॒तौ वा॒जिनो᳚ व॒यं मा नः॑ स्तर॒भिमा᳚तये |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} अ॒स्माञ्चि॒त्राभि॑रवताद॒भिष्टि॑भि॒रा नः॑ सु॒म्नेषु॑ यामय ||{2/24}{8.3.2}{8.1.3.2}{5.7.25.2}{78, 623, 6052} भू॒याम॑¦ते॒¦सु॒ऽम॒तौ¦वा॒जिनः॑¦व॒यम्¦मा¦नः॒¦स्तः॒¦अ॒भिऽमा᳚तये | |
इ॒मा, उ॑ त्वा पुरूवसो॒ गिरो᳚ वर्धन्तु॒ या मम॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} पा॒व॒कव᳚र्णाः॒ शुच॑यो विप॒श्चितो॒ऽभि स्तोमै᳚रनूषत ||{3/24}{8.3.3}{8.1.3.3}{5.7.25.3}{79, 623, 6053} इ॒माः¦ऊँ॒ इति॑¦त्वा॒¦पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो¦गिरः॑¦व॒र्ध॒न्तु॒¦याः¦मम॑ | |
अ॒यं स॒हस्र॒मृषि॑भिः॒ सह॑स्कृतः समु॒द्र इ॑व पप्रथे |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} स॒त्यः सो, अ॑स्य महि॒मा गृ॑णे॒ शवो᳚ य॒ज्ञेषु॑ विप्र॒राज्ये᳚ ||{4/24}{8.3.4}{8.1.3.4}{5.7.25.4}{80, 623, 6054} अ॒यम्¦स॒हस्र᳚म्¦ऋषि॑ऽभिः¦सहः॑ऽकृतः¦स॒मु॒द्रःऽइ᳚व¦प॒प्र॒थे॒ | |
इन्द्र॒मिद्दे॒वता᳚तय॒ इन्द्रं᳚ प्रय॒त्य॑ध्व॒रे |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} इन्द्रं᳚ समी॒के व॒निनो᳚ हवामह॒ इन्द्रं॒ धन॑स्य सा॒तये᳚ ||{5/24}{8.3.5}{8.1.3.5}{5.7.25.5}{81, 623, 6055} इन्द्र᳚म्¦इत्¦दे॒वऽता᳚तये¦इन्द्र᳚म्¦प्र॒ऽय॒ति¦अ॒ध्व॒रे | |
इन्द्रो᳚ म॒ह्ना रोद॑सी पप्रथ॒च्छव॒ इन्द्रः॒ सूर्य॑मरोचयत् |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} इन्द्रे᳚ ह॒ विश्वा॒ भुव॑नानि येमिर॒ इन्द्रे᳚ सुवा॒नास॒ इन्द॑वः ||{6/24}{8.3.6}{8.1.3.6}{5.7.26.1}{82, 623, 6056} इन्द्रः॑¦म॒ह्ना¦रोद॑सी॒ इति॑¦प॒प्र॒थ॒त्¦शवः॑¦इन्द्रः॑¦सूर्य᳚म्¦अ॒रो॒च॒य॒त् | |
अ॒भि त्वा᳚ पू॒र्वपी᳚तय॒ इन्द्र॒ स्तोमे᳚भिरा॒यवः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} स॒मी॒ची॒नास॑ ऋ॒भवः॒ सम॑स्वरन् रु॒द्रा गृ॑णन्त॒ पूर्व्य᳚म् ||{7/24}{8.3.7}{8.1.3.7}{5.7.26.2}{83, 623, 6057} अ॒भि¦त्वा॒¦पू॒र्वऽपी᳚तये¦इन्द्र॑¦स्तोमे᳚भिः¦आ॒यवः॑ | |
अ॒स्येदिन्द्रो᳚ वावृधे॒ वृष्ण्यं॒ शवो॒ मदे᳚ सु॒तस्य॒ विष्ण॑वि |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पू॒र्वथा᳚ ||{8/24}{8.3.8}{8.1.3.8}{5.7.26.3}{84, 623, 6058} अ॒स्य¦इत्¦इन्द्रः॑¦व॒वृ॒धे॒¦वृष्ण्य᳚म्¦शवः॑¦मदे᳚¦सु॒तस्य॑¦विष्ण॑वि | |
तत् त्वा᳚ यामि सु॒वीर्यं॒ तद् ब्रह्म॑ पू॒र्वचि॑त्तये |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} येना॒ यति॑भ्यो॒ भृग॑वे॒ धने᳚ हि॒ते येन॒ प्रस्क᳚ण्व॒मावि॑थ ||{9/24}{8.3.9}{8.1.3.9}{5.7.26.4}{85, 623, 6059} तत्¦त्व॒¦या॒मि॒¦सु॒ऽवीर्य᳚म्¦तत्¦ब्रह्म॑¦पू॒र्वऽचि॑त्तये | |
येना᳚ समु॒द्रमसृ॑जो म॒हीर॒पस्तदि᳚न्द्र॒ वृष्णि॑ ते॒ शवः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} स॒द्यः सो, अ॑स्य महि॒मा न सं॒नशे॒ यं क्षो॒णीर॑नुचक्र॒दे ||{10/24}{8.3.10}{8.1.3.10}{5.7.26.5}{86, 623, 6060} येन॑¦स॒मु॒द्रम्¦असृ॑जः¦म॒हीः¦अ॒पः¦तत्¦इ॒न्द्र॒¦वृष्णि॑¦ते॒¦शवः॑ | |
श॒ग्धी न॑ इन्द्र॒ यत् त्वा᳚ र॒यिं यामि॑ सु॒वीर्य᳚म् |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} श॒ग्धि वाजा᳚य प्रथ॒मं सिषा᳚सते श॒ग्धि स्तोमा᳚य पूर्व्य ||{11/24}{8.3.11}{8.1.3.11}{5.7.27.1}{87, 623, 6061} श॒ग्धि¦नः॒¦इ॒न्द्र॒¦यत्¦त्वा॒¦र॒यिम्¦यामि॑¦सु॒ऽवीर्य᳚म् | |
श॒ग्धी नो᳚, अ॒स्य यद्ध॑ पौ॒रमावि॑थ॒ धिय॑ इन्द्र॒ सिषा᳚सतः |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} श॒ग्धि यथा॒ रुश॑मं॒ श्याव॑कं॒ कृप॒मिन्द्र॒ प्रावः॒ स्व᳚र्णरम् ||{12/24}{8.3.12}{8.1.3.12}{5.7.27.2}{88, 623, 6062} श॒ग्धि¦नः॒¦अ॒स्य¦यत्¦ह॒¦पौ॒रम्¦आवि॑थ¦धियः॑¦इ॒न्द्र॒¦सिसा᳚सतः | |
कन्नव्यो᳚, अत॒सीनां᳚ तु॒रो गृ॑णीत॒ मर्त्यः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} न॒ही न्व॑स्य महि॒मान॑मिन्द्रि॒यं स्व॑र्गृ॒णन्त॑ आन॒शुः ||{13/24}{8.3.13}{8.1.3.13}{5.7.27.3}{89, 623, 6063} कत्¦नव्यः॑¦अ॒त॒सीना᳚म्¦तु॒रः¦गृ॒णी॒त॒¦मर्त्यः॑ | |
कदु॑ स्तु॒वन्त॑ ऋतयन्त दे॒वत॒ ऋषिः॒ को विप्र॑ ओहते |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} क॒दा हवं᳚ मघवन्निन्द्र सुन्व॒तः कदु॑ स्तुव॒त आ ग॑मः ||{14/24}{8.3.14}{8.1.3.14}{5.7.27.4}{90, 623, 6064} कत्¦ऊँ॒ इति॑¦स्तु॒वन्तः॑¦ऋ॒त॒ऽय॒न्त॒¦दे॒वता᳚¦ऋषिः॑¦कः¦विप्रः॑¦ओ॒ह॒ते॒ | |
उदु॒ त्ये मधु॑मत्तमा॒ गिरः॒ स्तोमा᳚स ईरते |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} स॒त्रा॒जितो᳚ धन॒सा, अक्षि॑तोतयो वाज॒यन्तो॒ रथा᳚, इव ||{15/24}{8.3.15}{8.1.3.15}{5.7.27.5}{91, 623, 6065} उत्¦ऊँ॒ इति॑¦त्ये¦मधु॑मत्ऽतमाः¦गिरः॑¦स्तोमा᳚सः¦ई॒र॒ते॒ | |
कण्वा᳚, इव॒ भृग॑वः॒ सूर्या᳚, इव॒ विश्व॒मिद्धी॒तमा᳚नशुः |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} इन्द्रं॒ स्तोमे᳚भिर्म॒हय᳚न्त आ॒यवः॑ प्रि॒यमे᳚धासो, अस्वरन् ||{16/24}{8.3.16}{8.1.3.16}{5.7.28.1}{92, 623, 6066} कण्वाः᳚ऽइव¦भृग॑वः¦सूर्याः᳚ऽइव¦विश्व᳚म्¦इत्¦धी॒तम्¦आ॒न॒शुः॒ | |
यु॒क्ष्वा हि वृ॑त्रहन्तम॒ हरी᳚, इन्द्र परा॒वतः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} अ॒र्वा॒ची॒नो म॑घव॒न् त्सोम॑पीतय उ॒ग्र ऋ॒ष्वेभि॒रा ग॑हि ||{17/24}{8.3.17}{8.1.3.17}{5.7.28.2}{93, 623, 6067} यु॒क्ष्व¦हि¦वृ॒त्र॒ह॒न्ऽत॒म॒¦हरी॒ इति॑¦इ॒न्द्र॒¦प॒रा॒ऽवतः॑ | |
इ॒मे हि ते᳚ का॒रवो᳚ वाव॒शुर्धि॒या विप्रा᳚सो मे॒धसा᳚तये |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} स त्वं नो᳚ मघवन्निन्द्र गिर्वणो वे॒नो न शृ॑णुधी॒ हव᳚म् ||{18/24}{8.3.18}{8.1.3.18}{5.7.28.3}{94, 623, 6068} इ॒मे¦हि¦ते॒¦का॒रवः॑¦वा॒व॒शुः¦धि॒या¦विप्रा᳚सः¦मे॒धऽसा᳚तये | |
निरि᳚न्द्र बृह॒तीभ्यो᳚ वृ॒त्रं धनु॑भ्यो, अस्फुरः |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} निरर्बु॑दस्य॒ मृग॑यस्य मा॒यिनो॒ निः पर्व॑तस्य॒ गा, आ᳚जः ||{19/24}{8.3.19}{8.1.3.19}{5.7.28.4}{95, 623, 6069} निः¦इ॒न्द्र॒¦बृ॒ह॒तीभ्यः॑¦वृ॒त्रम्¦धनु॑ऽभ्यः¦अ॒स्फु॒रः॒ | |
निर॒ग्नयो᳚ रुरुचु॒र्निरु॒ सूर्यो॒ निः सोम॑ इन्द्रि॒यो रसः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} निर॒न्तरि॑क्षादधमो म॒हामहिं᳚ कृ॒षे तदि᳚न्द्र॒ पौंस्य᳚म् ||{20/24}{8.3.20}{8.1.3.20}{5.7.28.5}{96, 623, 6070} निः¦अ॒ग्नयः॑¦रु॒रु॒चुः॒¦निः¦ऊँ॒ इति॑¦सूर्यः॑¦निः¦सोमः॑¦इ॒न्द्रि॒यः¦रसः॑ | |
यं मे॒ दुरिन्द्रो᳚ म॒रुतः॒ पाक॑स्थामा॒ कौर॑याणः |{काण्वो मेध्यातिथिः | पाकस्थामा देवता | अनुष्टुप्} विश्वे᳚षां॒ त्मना॒ शोभि॑ष्ठ॒मुपे᳚व दि॒वि धाव॑मानम् ||{21/24}{8.3.21}{8.1.3.21}{5.7.29.1}{97, 623, 6071} यम्¦मे॒¦दुः¦इन्द्रः॑¦म॒रुतः॑¦पाक॑ऽस्थामा¦कौर॑याणः | विश्वे᳚षाम्¦त्मना᳚¦शोभि॑ष्ठम्¦उप॑ऽइव¦दि॒वि¦धाव॑मानम् || |
रोहि॑तं मे॒ पाक॑स्थामा सु॒धुरं᳚ कक्ष्य॒प्राम् |{काण्वो मेध्यातिथिः | पाकस्थामा देवता | गायत्री} अदा᳚द्रा॒यो वि॒बोध॑नम् ||{22/24}{8.3.22}{8.1.3.22}{5.7.29.2}{98, 623, 6072} रोहि॑तम्¦मे॒¦पाक॑ऽस्थामा¦सु॒ऽधुर᳚म्¦क॒क्ष्य॒ऽप्राम् | अदा᳚त्¦रा॒यः¦वि॒ऽबोध॑नम् || |
यस्मा᳚, अ॒न्ये दश॒ प्रति॒ धुरं॒ वह᳚न्ति॒ वह्न॑यः |{काण्वो मेध्यातिथिः | पाकस्थामा देवता | गायत्री} अस्तं॒ वयो॒ न तुग्र्य᳚म् ||{23/24}{8.3.23}{8.1.3.23}{5.7.29.3}{99, 623, 6073} यस्मै᳚¦अ॒न्ये¦दश॑¦प्रति॑¦धुर᳚म्¦वह᳚न्ति¦वह्न॑यः | अस्त᳚म्¦वयः॑¦न¦तुग्र्य᳚म् || |
आ॒त्मा पि॒तुस्त॒नूर्वास॑ ओजो॒दा, अ॒भ्यञ्ज॑नम् |{काण्वो मेध्यातिथिः | पाकस्थामा देवता | बृहती} तु॒रीय॒मिद्रोहि॑तस्य॒ पाक॑स्थामानं भो॒जं दा॒तार॑मब्रवम् ||{24/24}{8.3.24}{8.1.3.24}{5.7.29.4}{100, 623, 6074} आ॒त्मा¦पि॒तुः¦त॒नूः¦वासः॑¦ओ॒जः॒ऽदाः¦अ॒भि॒।आंज॑नम् | |
[4] यदिंद्रेत्येकविंशत्यृचस्य सूक्तस्य काण्वो मेधातिथिरिंद्रः अंत्यतिसृणांकुरुंगः अयुजोबृहत्योयुजः सतोबृहत्यः अंत्यापुरउष्णिक् (प्रपूषणमित्यादिचतसृणांपूषादेवतावा ) | |
यदि᳚न्द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभिः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} सिमा᳚ पु॒रू नृषू᳚तो, अ॒स्यान॒वेऽसि॑ प्रशर्ध तु॒र्वशे᳚ ||{1/21}{8.4.1}{8.1.4.1}{5.7.30.1}{101, 624, 6075} यत्¦इ॒न्द्र॒¦प्राक्¦अपा᳚क्¦उद॑क्¦न्य॑क्¦वा॒¦हू॒यसे᳚¦नृऽभिः॑ | |
यद्वा॒ रुमे॒ रुश॑मे॒ श्याव॑के॒ कृप॒ इन्द्र॑ मा॒दय॑से॒ सचा᳚ |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} कण्वा᳚सस्त्वा॒ ब्रह्म॑भिः॒ स्तोम॑वाहस॒ इन्द्रा य॑च्छ॒न्त्या ग॑हि ||{2/21}{8.4.2}{8.1.4.2}{5.7.30.2}{102, 624, 6076} यत्¦वा॒¦रुमे᳚¦रुश॑मे¦श्याव॑के¦कृपे᳚¦इन्द्र॑¦मा॒दय॑से¦सचा᳚ | |
यथा᳚ गौ॒रो, अ॒पा कृ॒तं तृष्य॒न्नेत्यवेरि॑णम् |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} आ॒पि॒त्वे नः॑ प्रपि॒त्वे तूय॒मा ग॑हि॒ कण्वे᳚षु॒ सु सचा॒ पिब॑ ||{3/21}{8.4.3}{8.1.4.3}{5.7.30.3}{103, 624, 6077} यथा᳚¦गौ॒रः¦अ॒पा¦कृ॒तम्¦तृष्य॑न्¦एति॑¦अव॑¦इरि॑णम् | |
मन्द᳚न्तु त्वा मघवन्नि॒न्द्रेन्द॑वो राधो॒देया᳚य सुन्व॒ते |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} आ॒मुष्या॒ सोम॑मपिबश्च॒मू सु॒तं ज्येष्ठं॒ तद्द॑धिषे॒ सहः॑ ||{4/21}{8.4.4}{8.1.4.4}{5.7.30.4}{104, 624, 6078} मन्द᳚न्तु¦त्वा॒¦म॒घ॒ऽव॒न्¦इ॒न्द्र॒¦इन्द॑वः¦रा॒धः॒ऽदेया᳚य¦सु॒न्व॒ते | |
प्र च॑क्रे॒ सह॑सा॒ सहो᳚ ब॒भञ्ज॑ म॒न्युमोज॑सा |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} विश्वे᳚ त इन्द्र पृतना॒यवो᳚ यहो॒ नि वृ॒क्षा, इ॑व येमिरे ||{5/21}{8.4.5}{8.1.4.5}{5.7.30.5}{105, 624, 6079} प्र¦च॒क्रे॒¦सह॑सा¦सहः॑¦ब॒भंज॑¦म॒न्युम्¦ओज॑सा | |
स॒हस्रे᳚णेव सचते यवी॒युधा॒ यस्त॒ आन॒ळुप॑स्तुतिम् |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} पु॒त्रं प्रा᳚व॒र्गं कृ॑णुते सु॒वीर्ये᳚ दा॒श्नोति॒ नम॑उक्तिभिः ||{6/21}{8.4.6}{8.1.4.6}{5.7.31.1}{106, 624, 6080} स॒हस्रे᳚णऽइव¦स॒च॒ते॒¦य॒वि॒ऽयुधा᳚¦यः¦ते॒¦आन॑ट्¦उप॑ऽस्तुतिम् | |
मा भे᳚म॒ मा श्र॑मिष्मो॒ग्रस्य॑ स॒ख्ये तव॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} म॒हत्ते॒ वृष्णो᳚, अभि॒चक्ष्यं᳚ कृ॒तं पश्ये᳚म तु॒र्वशं॒ यदु᳚म् ||{7/21}{8.4.7}{8.1.4.7}{5.7.31.2}{107, 624, 6081} मा¦भे॒म॒¦मा¦श्र॒मि॒ष्म॒¦उ॒ग्रस्य॑¦स॒ख्ये¦तव॑ | |
स॒व्यामनु॑ स्फि॒ग्यं᳚ वावसे॒ वृषा॒ न दा॒नो, अ॑स्य रोषति |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} मध्वा॒ सम्पृ॑क्ताः सार॒घेण॑ धे॒नव॒स्तूय॒मेहि॒ द्रवा॒ पिब॑ ||{8/21}{8.4.8}{8.1.4.8}{5.7.31.3}{108, 624, 6082} स॒व्याम्¦अनु॑¦स्फि॒ग्य᳚म्¦व॒व॒से॒¦वृषा᳚¦न¦दा॒नः¦अ॒स्य॒¦रो॒ष॒ति॒ | |
अ॒श्वी र॒थी सु॑रू॒प इद्गोमाँ॒, इदि᳚न्द्र ते॒ सखा᳚ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} श्वा॒त्र॒भाजा॒ वय॑सा सचते॒ सदा᳚ च॒न्द्रो या᳚ति स॒भामुप॑ ||{9/21}{8.4.9}{8.1.4.9}{5.7.31.4}{109, 624, 6083} अ॒श्वी¦र॒थी¦सु॒ऽरू॒पः¦इत्¦गोऽमा᳚न्¦इत्¦इ॒न्द्र॒¦ते॒¦सखा᳚ | |
ऋश्यो॒ न तृष्य᳚न्नव॒पान॒मा ग॑हि॒ पिबा॒ सोमं॒ वशाँ॒, अनु॑ |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} नि॒मेघ॑मानो मघवन्दि॒वेदि॑व॒ ओजि॑ष्ठं दधिषे॒ सहः॑ ||{10/21}{8.4.10}{8.1.4.10}{5.7.31.5}{110, 624, 6084} ऋश्यः॑¦न¦तृष्य॑न्¦अ॒व॒ऽपान᳚म्¦आ¦ग॒हि॒¦पिब॑¦सोम᳚म्¦वशा᳚न्¦अनु॑ | |
अध्व᳚र्यो द्रा॒वया॒ त्वं सोम॒मिन्द्रः॑ पिपासति |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} उप॑ नू॒नं यु॑युजे॒ वृष॑णा॒ हरी॒, आ च॑ जगाम वृत्र॒हा ||{11/21}{8.4.11}{8.1.4.11}{5.7.32.1}{111, 624, 6085} अध्व᳚र्यो॒ इति॑¦द्र॒वय॑¦त्वम्¦सोम᳚म्¦इन्द्रः॑¦पि॒पा॒स॒ति॒ | |
स्व॒यं चि॒त्स म᳚न्यते॒ दाशु॑रि॒र्जनो॒ यत्रा॒ सोम॑स्य तृ॒म्पसि॑ |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} इ॒दं ते॒, अन्नं॒ युज्यं॒ समु॑क्षितं॒ तस्येहि॒ प्र द्र॑वा॒ पिब॑ ||{12/21}{8.4.12}{8.1.4.12}{5.7.32.2}{112, 624, 6086} स्व॒यम्¦चि॒त्¦सः¦म॒न्य॒ते॒¦दाशु॑रिः¦जनः॑¦यत्र॑¦सोम॑स्य¦तृ॒म्पसि॑ | |
र॒थे॒ष्ठाया᳚ध्वर्यवः॒ सोम॒मिन्द्रा᳚य सोतन |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} अधि॑ ब्र॒ध्नस्याद्र॑यो॒ वि च॑क्षते सु॒न्वन्तो᳚ दा॒श्व॑ध्वरम् ||{13/21}{8.4.13}{8.1.4.13}{5.7.32.3}{113, 624, 6087} र॒थे॒ऽस्थाय॑¦अ॒ध्व॒र्य॒वः॒¦सोम᳚म्¦इन्द्रा᳚य¦सो॒त॒न॒ | |
उप॑ ब्र॒ध्नं वा॒वाता॒ वृष॑णा॒ हरी॒, इन्द्र॑म॒पसु॑ वक्षतः |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} अ॒र्वाञ्चं᳚ त्वा॒ सप्त॑योऽध्वर॒श्रियो॒ वह᳚न्तु॒ सव॒नेदुप॑ ||{14/21}{8.4.14}{8.1.4.14}{5.7.32.4}{114, 624, 6088} उप॑¦ब्र॒ध्नम्¦व॒वाता᳚¦वृष॑णा¦हरी॒ इति॑¦इन्द्र᳚म्¦अ॒पऽसु॑¦व॒क्ष॒तः॒ | |
प्र पू॒षणं᳚ वृणीमहे॒ युज्या᳚य पुरू॒वसु᳚म् |{काण्वो मेध्यातिथिः | इन्द्रः पूषा वा | बृहती} स श॑क्र शिक्ष पुरुहूत नो धि॒या तुजे᳚ रा॒ये वि॑मोचन ||{15/21}{8.4.15}{8.1.4.15}{5.7.32.5}{115, 624, 6089} प्र¦पू॒षण᳚म्¦वृ॒णी॒म॒हे॒¦युज्या᳚य¦पु॒रु॒ऽवसु᳚म् | |
सं नः॑ शिशीहि भु॒रिजो᳚रिव क्षु॒रं रास्व॑ रा॒यो वि॑मोचन |{काण्वो मेध्यातिथिः | इन्द्रः पूषा वा | सतोबृहती} त्वे तन्नः॑ सु॒वेद॑मु॒स्रियं॒ वसु॒ यं त्वं हि॒नोषि॒ मर्त्य᳚म् ||{16/21}{8.4.16}{8.1.4.16}{5.7.33.1}{116, 624, 6090} सम्¦नः॒¦शि॒शी॒हि॒¦भु॒रिजोः᳚ऽइव¦क्षु॒रम्¦रास्व॑¦रा॒यः¦वि॒ऽमो॒च॒न॒ | |
वेमि॑ त्वा पूषन्नृ॒ञ्जसे॒ वेमि॒ स्तोत॑व आघृणे |{काण्वो मेध्यातिथिः | इन्द्रः पूषा वा | बृहती} न तस्य॑ वे॒म्यर॑णं॒ हि तद्व॑सो स्तु॒षे प॒ज्राय॒ साम्ने᳚ ||{17/21}{8.4.17}{8.1.4.17}{5.7.33.2}{117, 624, 6091} वेमि॑¦त्वा॒¦पू॒ष॒न्¦ऋं॒जसे᳚¦वेमि॑¦स्तोत॑वे¦आ॒घृ॒णे॒ | |
परा॒ गावो॒ यव॑सं॒ कच्चि॑दाघृणे॒ नित्यं॒ रेक्णो᳚, अमर्त्य |{काण्वो मेध्यातिथिः | इन्द्रः पूषा वा | सतोबृहती} अ॒स्माकं᳚ पूषन्नवि॒ता शि॒वो भ॑व॒ मंहि॑ष्ठो॒ वाज॑सातये ||{18/21}{8.4.18}{8.1.4.18}{5.7.33.3}{118, 624, 6092} परा᳚¦गावः॑¦यव॑सम्¦कत्¦चि॒त्¦आ॒घृ॒णे॒¦नित्य᳚म्¦रेक्णः॑¦अ॒म॒र्त्य॒ | |
स्थू॒रं राधः॑ श॒ताश्वं᳚ कुरु॒ङ्गस्य॒ दिवि॑ष्टिषु |{काण्वो मेध्यातिथिः | कुरुंगः | बृहती} राज्ञ॑स्त्वे॒षस्य॑ सु॒भग॑स्य रा॒तिषु॑ तु॒र्वशे᳚ष्वमन्महि ||{19/21}{8.4.19}{8.1.4.19}{5.7.33.4}{119, 624, 6093} स्थू॒रम्¦राधः॑¦श॒त।आ॑श्वम्¦कु॒रु॒ङ्गस्य॑¦दिवि॑ष्टिषु | |
धी॒भिः सा॒तानि॑ का॒ण्वस्य॑ वा॒जिनः॑ प्रि॒यमे᳚धैर॒भिद्यु॑भिः |{काण्वो मेध्यातिथिः | कुरुंगः | सतोबृहती} ष॒ष्टिं स॒हस्रानु॒ निर्म॑जामजे॒ निर्यू॒थानि॒ गवा॒मृषिः॑ ||{20/21}{8.4.20}{8.1.4.20}{5.7.33.5}{120, 624, 6094} धी॒भिः¦सा॒तानि॑¦का॒ण्वस्य॑¦वा॒जिनः॑¦प्रि॒यऽमे᳚धैः¦अ॒भिद्यु॑ऽभिः | |
वृ॒क्षाश्चि᳚न्मे, अभिपि॒त्वे, अ॑रारणुः |{काण्वो मेध्यातिथिः | कुरुंगः | पुर उष्णिक्} गां भ॑जन्त मे॒हनाश्वं᳚ भजन्त मे॒हना᳚ ||{21/21}{8.4.21}{8.1.4.21}{5.7.33.6}{121, 624, 6095} वृ॒क्षाः¦चि॒त्¦मे॒¦अ॒भि॒ऽपि॒त्वे¦अ॒र॒र॒णुः॒ | गाम्¦भ॒ज॒न्त॒¦मे॒हना᳚¦अश्व᳚म्¦भ॒ज॒न्त॒¦मे॒हना᳚ || |
[5] दूरादिहेवेत्येकोनचत्वारिंशदृचस्य सूक्तस्य काण्वोब्रह्मातिथिरश्विनौ यथाचिच्चैद्यः कशुरित्यादिसार्धद्वयोः कशुर्गायत्री अंत्यास्तिस्रः क्रमेणबृहत्यावनुष्टुप्च |
दू॒रादि॒हेव॒ यत्स॒त्य॑रु॒णप्सु॒रशि॑श्वितत् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} वि भा॒नुं वि॒श्वधा᳚तनत् ||{1/39}{8.5.1}{8.1.5.1}{5.8.1.1}{122, 625, 6096} दू॒रात्¦इ॒हऽइ᳚व¦यत्¦स॒ती¦अ॒रु॒णऽप्सुः॑¦अशि॑श्वितत् | वि¦भा॒नुम्¦वि॒श्वधा᳚¦अ॒त॒न॒त् || |
नृ॒वद्द॑स्रा मनो॒युजा॒ रथे᳚न पृथु॒पाज॑सा |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} सचे᳚थे, अश्विनो॒षस᳚म् ||{2/39}{8.5.2}{8.1.5.2}{5.8.1.2}{123, 625, 6097} नृ॒ऽवत्¦द॒स्रा॒¦म॒नः॒ऽयुजा᳚¦रथे᳚न¦पृ॒थु॒ऽपाज॑सा | सचे᳚थे॒ इति॑¦अ॒श्वि॒ना॒¦उ॒षस᳚म् || |
यु॒वाभ्यां᳚ वाजिनीवसू॒ प्रति॒ स्तोमा᳚, अदृक्षत |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} वाचं᳚ दू॒तो यथो᳚हिषे ||{3/39}{8.5.3}{8.1.5.3}{5.8.1.3}{124, 625, 6098} यु॒वाभ्या᳚म्¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू¦प्रति॑¦स्तोमाः᳚¦अ॒दृ॒क्ष॒त॒ | वाच᳚म्¦दू॒तः¦यथा᳚¦ओ॒हि॒षे॒ || |
पु॒रु॒प्रि॒या ण॑ ऊ॒तये᳚ पुरुम॒न्द्रा पु॑रू॒वसू᳚ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} स्तु॒षे कण्वा᳚सो, अ॒श्विना᳚ ||{4/39}{8.5.4}{8.1.5.4}{5.8.1.4}{125, 625, 6099} पु॒रु॒ऽप्रि॒या¦नः॒¦ऊ॒तये᳚¦पु॒रु॒ऽम॒न्द्रा¦पु॒रु॒वसू॒ इति॑ पु॒रु॒ऽवसू᳚ | स्तु॒षे¦कण्वा᳚सः¦अ॒श्विना᳚ || |
मंहि॑ष्ठा वाज॒सात॑मे॒षय᳚न्ता शु॒भस्पती᳚ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} गन्ता᳚रा दा॒शुषो᳚ गृ॒हम् ||{5/39}{8.5.5}{8.1.5.5}{5.8.1.5}{126, 625, 6100} मंहि॑ष्ठा¦वा॒ज॒ऽसात॑मा¦इ॒षय᳚न्ता¦शु॒भः¦पती॒ इति॑ | गन्ता᳚रा¦दा॒शुषः॑¦गृ॒हम् || |
ता सु॑दे॒वाय॑ दा॒शुषे᳚ सुमे॒धामवि॑तारिणीम् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} घृ॒तैर्गव्यू᳚तिमुक्षतम् ||{6/39}{8.5.6}{8.1.5.6}{5.8.2.1}{127, 625, 6101} ता¦सु॒ऽदे॒वाय॑¦दा॒शुषे᳚¦सु॒ऽमे॒धाम्¦अवि॑ऽतारिणीम् | घृ॒तैः¦गव्यू᳚तिम्¦उ॒क्ष॒त॒म् || |
आ नः॒ स्तोम॒मुप॑ द्र॒वत् तूयं᳚ श्ये॒नेभि॑रा॒शुभिः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} या॒तमश्वे᳚भिरश्विना ||{7/39}{8.5.7}{8.1.5.7}{5.8.2.2}{128, 625, 6102} आ¦नः॒¦स्तोम᳚म्¦उप॑¦द्र॒वत्¦तूय᳚म्¦श्ये॒नेभिः॑¦आ॒शुऽभिः॑ | या॒तम्¦अश्वे᳚भिः¦अ॒श्वि॒ना॒ || |
येभि॑स्ति॒स्रः प॑रा॒वतो᳚ दि॒वो विश्वा᳚नि रोच॒ना |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} त्रीँर॒क्तून् प॑रि॒दीय॑थः ||{8/39}{8.5.8}{8.1.5.8}{5.8.2.3}{129, 625, 6103} येभिः॑¦ति॒स्रः¦प॒रा॒ऽवतः॑¦दि॒वः¦विश्वा᳚नि¦रो॒च॒ना | त्रीन्¦अ॒क्तून्¦प॒रि॒ऽदीय॑थः || |
उ॒त नो॒ गोम॑ती॒रिष॑ उ॒त सा॒तीर॑हर्विदा |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} वि प॒थः सा॒तये᳚ सितम् ||{9/39}{8.5.9}{8.1.5.9}{5.8.2.4}{130, 625, 6104} उ॒त¦नः॒¦गोऽम॑तीः¦इषः॑¦उ॒त¦सा॒तीः¦अ॒हः॒ऽवि॒दा॒ | वि¦प॒थः¦सा॒तये᳚¦सि॒त॒म् || |
आ नो॒ गोम᳚न्तमश्विना सु॒वीरं᳚ सु॒रथं᳚ र॒यिम् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} वो॒ळ्हमश्वा᳚वती॒रिषः॑ ||{10/39}{8.5.10}{8.1.5.10}{5.8.2.5}{131, 625, 6105} आ¦नः॒¦गोऽम᳚न्तम्¦अ॒श्वि॒ना॒¦सु॒ऽवीर᳚म्¦सु॒ऽरथ᳚म्¦र॒यिम् | वो॒ळ्हम्¦अश्व॑ऽवतीः¦इषः॑ || |
वा॒वृ॒धा॒ना शु॑भस्पती दस्रा॒ हिर᳚ण्यवर्तनी |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} पिब॑तं सो॒म्यं मधु॑ ||{11/39}{8.5.11}{8.1.5.11}{5.8.3.1}{132, 625, 6106} व॒वृ॒धा॒ना¦शु॒भः॒¦प॒ती॒ इति॑¦दस्रा᳚¦हिर᳚ण्यवर्तनी॒ इति॒ हिर᳚ण्यऽवर्तनी | पिब॑तम्¦सो॒म्यम्¦मधु॑ || |
अ॒स्मभ्यं᳚ वाजिनीवसू म॒घव॑द्भ्यश्च स॒प्रथः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} छ॒र्दिर्य᳚न्त॒मदा᳚भ्यम् ||{12/39}{8.5.12}{8.1.5.12}{5.8.3.2}{133, 625, 6107} अ॒स्मभ्य᳚म्¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू¦म॒घव॑त्ऽभ्यः¦च॒¦स॒ऽप्रथः॑ | छ॒र्दिः¦य॒न्त॒म्¦अदा᳚भ्यम् || |
नि षु ब्रह्म॒ जना᳚नां॒ यावि॑ष्टं॒ तूय॒मा ग॑तम् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} मो ष्व१॑(अ॒)न्याँ, उपा᳚रतम् ||{13/39}{8.5.13}{8.1.5.13}{5.8.3.3}{134, 625, 6108} नि¦सु¦ब्रह्म॑¦जना᳚नाम्¦या¦अवि॑ष्टम्¦तूय᳚म्¦आ¦ग॒त॒म् | मो इति॑¦सु¦अ॒न्यान्¦उप॑¦अ॒र॒त॒म् || |
अ॒स्य पि॑बतमश्विना यु॒वं मद॑स्य॒ चारु॑णः |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} मध्वो᳚ रा॒तस्य॑ धिष्ण्या ||{14/39}{8.5.14}{8.1.5.14}{5.8.3.4}{135, 625, 6109} अ॒स्य¦पि॒ब॒त॒म्¦अ॒श्वि॒ना॒¦यु॒वम्¦मद॑स्य¦चारु॑णः | मध्वः॑¦रा॒तस्य॑¦धि॒ष्ण्या॒ || |
अ॒स्मे, आ व॑हतं र॒यिं श॒तव᳚न्तं सह॒स्रिण᳚म् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} पु॒रु॒क्षुं वि॒श्वधा᳚यसम् ||{15/39}{8.5.15}{8.1.5.15}{5.8.3.5}{136, 625, 6110} अ॒स्मे इति॑¦आ¦व॒ह॒त॒म्¦र॒यिम्¦श॒तऽव᳚न्तम्¦स॒ह॒स्रिण᳚म् | पु॒रु॒ऽक्षुम्¦वि॒श्वऽधा᳚यसम् || |
पु॒रु॒त्रा चि॒द्धि वां᳚ नरा वि॒ह्वय᳚न्ते मनी॒षिणः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} वा॒घद्भि॑रश्वि॒ना ग॑तम् ||{16/39}{8.5.16}{8.1.5.16}{5.8.4.1}{137, 625, 6111} पु॒रु॒ऽत्रा¦चि॒त्¦हि¦वा॒म्¦न॒रा॒¦वि॒ऽह्वय᳚न्ते¦म॒नी॒षिणः॑ | वा॒घत्ऽभिः॑¦अ॒श्वि॒ना॒¦आ¦ग॒त॒म् || |
जना᳚सो वृ॒क्तब᳚र्हिषो ह॒विष्म᳚न्तो, अरं॒कृतः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} यु॒वां ह॑वन्ते, अश्विना ||{17/39}{8.5.17}{8.1.5.17}{5.8.4.2}{138, 625, 6112} जना᳚सः¦वृ॒क्तऽब॑र्हिषः¦ह॒विष्म᳚न्तः¦अ॒र॒म्ऽकृतः॑ | यु॒वाम्¦ह॒व॒न्ते॒¦अ॒श्वि॒ना॒ || |
अ॒स्माक॑म॒द्य वा᳚म॒यं स्तोमो॒ वाहि॑ष्ठो॒, अन्त॑मः |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} यु॒वाभ्यां᳚ भूत्वश्विना ||{18/39}{8.5.18}{8.1.5.18}{5.8.4.3}{139, 625, 6113} अ॒स्माक᳚म्¦अ॒द्य¦वा॒म्¦अ॒यम्¦स्तोमः॑¦वाहि॑ष्ठः¦अन्त॑मः | यु॒वाभ्या᳚म्¦भू॒तु॒¦अ॒श्वि॒ना॒ || |
यो ह॑ वां॒ मधु॑नो॒ दृति॒राहि॑तो रथ॒चर्ष॑णे |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} ततः॑ पिबतमश्विना ||{19/39}{8.5.19}{8.1.5.19}{5.8.4.4}{140, 625, 6114} यः¦ह॒¦वा॒म्¦मधु॑नः¦दृतिः॑¦आऽहि॑तः¦र॒थ॒ऽचर्ष॑णे | ततः॑¦पि॒ब॒त॒म्¦अ॒श्वि॒ना॒ || |
तेन॑ नो वाजिनीवसू॒ पश्वे᳚ तो॒काय॒ शं गवे᳚ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} वह॑तं॒ पीव॑री॒रिषः॑ ||{20/39}{8.5.20}{8.1.5.20}{5.8.4.5}{141, 625, 6115} तेन॑¦नः॒¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू¦पश्वे᳚¦तो॒काय॑¦शम्¦गवे᳚ | वह॑तम्¦पीव॑रीः¦इषः॑ || |
उ॒त नो᳚ दि॒व्या, इष॑ उ॒त सिन्धूँ᳚रहर्विदा |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} अप॒ द्वारे᳚व वर्षथः ||{21/39}{8.5.21}{8.1.5.21}{5.8.5.1}{142, 625, 6116} उ॒त¦नः॒¦दि॒व्याः¦इषः॑¦उ॒त¦सिन्धू᳚न्¦अ॒हः॒ऽवि॒दा॒ | अप॑¦द्वारा᳚ऽइव¦व॒र्ष॒थः॒ || |
क॒दा वां᳚ तौ॒ग्र्यो वि॑धत्समु॒द्रे ज॑हि॒तो न॑रा |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} यद्वां॒ रथो॒ विभि॒ष्पता᳚त् ||{22/39}{8.5.22}{8.1.5.22}{5.8.5.2}{143, 625, 6117} क॒दा¦वा॒म्¦तौ॒ग्र्यः¦वि॒ध॒त्¦स॒मु॒द्रे¦ज॒हि॒तः¦न॒रा॒ | यत्¦वा॒म्¦रथः॑¦विऽभिः॑¦पता᳚त् || |
यु॒वं कण्वा᳚य नासत्या॒ ऋपि॑रिप्ताय ह॒र्म्ये |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} शश्व॑दू॒तीर्द॑शस्यथः ||{23/39}{8.5.23}{8.1.5.23}{5.8.5.3}{144, 625, 6118} यु॒वम्¦कण्वा᳚य¦ना॒स॒त्या॒¦अपि॑ऽरिप्ताय¦ह॒र्म्ये | शश्व॑त्¦ऊ॒तीः¦द॒श॒स्य॒थः॒ || |
ताभि॒रा या᳚तमू॒तिभि॒र्नव्य॑सीभिः सुश॒स्तिभिः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} यद्वां᳚ वृषण्वसू हु॒वे ||{24/39}{8.5.24}{8.1.5.24}{5.8.5.4}{145, 625, 6119} ताभिः॑¦आ¦या॒त॒म्¦ऊ॒तिऽभिः॑¦नव्य॑सीभिः¦सु॒श॒स्तिऽभिः॑ | यत्¦वा॒म्¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू¦हु॒वे || |
यथा᳚ चि॒त्कण्व॒माव॑तं प्रि॒यमे᳚धमुपस्तु॒तम् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} अत्रिं᳚ शि॒ञ्जार॑मश्विना ||{25/39}{8.5.25}{8.1.5.25}{5.8.5.5}{146, 625, 6120} यथा᳚¦चि॒त्¦कण्व᳚म्¦आव॑तम्¦प्रि॒यऽमे᳚धम्¦उ॒प॒ऽस्तु॒तम् | अत्रि᳚म्¦शिं॒जार᳚म्¦अ॒श्वि॒ना॒ || |
यथो॒त कृत्व्ये॒ धनें॒ऽशुं गोष्व॒गस्त्य᳚म् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} यथा॒ वाजे᳚षु॒ सोभ॑रिम् ||{26/39}{8.5.26}{8.1.5.26}{5.8.6.1}{147, 625, 6121} यथा᳚¦उ॒त¦कृत्व्ये᳚¦धने᳚¦अं॒शुम्¦गोषु॑¦अ॒गस्त्य᳚म् | यथा᳚¦वाजे᳚षु¦सोभ॑रिम् || |
ए॒ताव॑द्वां वृषण्वसू॒, अतो᳚ वा॒ भूयो᳚, अश्विना |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} गृ॒णन्तः॑ सु॒म्नमी᳚महे ||{27/39}{8.5.27}{8.1.5.27}{5.8.6.2}{148, 625, 6122} ए॒ताव॑त्¦वा॒म्¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू¦अतः॑¦वा॒¦भूयः॑¦अ॒श्वि॒ना॒ | गृ॒णन्तः॑¦सु॒म्नम्¦ई॒म॒हे॒ || |
रथं॒ हिर᳚ण्यवन्धुरं॒ हिर᳚ण्याभीशुमश्विना |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} आ हि स्थाथो᳚ दिवि॒स्पृश᳚म् ||{28/39}{8.5.28}{8.1.5.28}{5.8.6.3}{149, 625, 6123} रथ᳚म्¦हिर᳚ण्यऽवन्धुरम्¦हिर᳚ण्य।आभीशुम्¦अ॒श्वि॒ना॒ | आ¦हि¦स्थाथः॑¦दि॒वि॒ऽस्पृश᳚म् || |
हि॒र॒ण्ययी᳚ वां॒ रभि॑री॒षा, अक्षो᳚ हिर॒ण्ययः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} उ॒भा च॒क्रा हि॑र॒ण्यया᳚ ||{29/39}{8.5.29}{8.1.5.29}{5.8.6.4}{150, 625, 6124} हि॒र॒ण्ययी᳚म्¦वा॒म्¦रभिः॑¦ई॒षा¦अक्षः॑¦हि॒र॒ण्ययः॑ | उ॒भा¦च॒क्रा¦हि॒र॒ण्यया᳚ || |
तेन॑ नो वाजिनीवसू परा॒वत॑श्चि॒दा ग॑तम् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} उपे॒मां सु॑ष्टु॒तिं मम॑ ||{30/39}{8.5.30}{8.1.5.30}{5.8.6.5}{151, 625, 6125} तेन॑¦नः॒¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू¦प॒रा॒ऽवतः॑¦चि॒त्¦आ¦ग॒त॒म् | उप॑¦इ॒माम्¦सु॒ऽस्तु॒तिम्¦मम॑ || |
आ व॑हेथे परा॒कात्पू॒र्वीर॒श्नन्ता᳚वश्विना |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} इषो॒ दासी᳚रमर्त्या ||{31/39}{8.5.31}{8.1.5.31}{5.8.7.1}{152, 625, 6126} आ¦व॒हे॒थे॒ इति॑¦प॒रा॒कात्¦पू॒र्वीः¦अ॒श्नन्तौ᳚¦अ॒श्वि॒ना॒ | इषः॑¦दासीः᳚¦अ॒म॒र्त्या॒ || |
आ नो᳚ द्यु॒म्नैरा श्रवो᳚भि॒रा रा॒या या᳚तमश्विना |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} पुरु॑श्चन्द्रा॒ नास॑त्या ||{32/39}{8.5.32}{8.1.5.32}{5.8.7.2}{153, 625, 6127} आ¦नः॒¦द्यु॒म्नैः¦आ¦श्रवः॑ऽभिः¦आ¦रा॒या¦या॒त॒म्¦अ॒श्वि॒ना॒ | पुरु॑ऽचन्द्रा¦नास॑त्या || |
एह वां᳚ प्रुषि॒तप्स॑वो॒ वयो᳚ वहन्तु प॒र्णिनः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} अच्छा᳚ स्वध्व॒रं जन᳚म् ||{33/39}{8.5.33}{8.1.5.33}{5.8.7.3}{154, 625, 6128} आ¦इ॒ह¦वा॒म्¦प्रु॒षि॒तऽप्स॑वः¦वयः॑¦व॒ह॒न्तु॒¦प॒र्णिनः॑ | अच्छ॑¦सु॒।आ॒ध्व॒रम्¦जन᳚म् || |
रथं᳚ वा॒मनु॑गायसं॒ य इ॒षा वर्त॑ते स॒ह |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} न च॒क्रम॒भि बा᳚धते ||{34/39}{8.5.34}{8.1.5.34}{5.8.7.4}{155, 625, 6129} रथ᳚म्¦वा॒म्¦अनु॑ऽगायसम्¦यः¦इ॒षा¦वर्त॑ते¦स॒ह | न¦च॒क्रम्¦अ॒भि¦बा॒ध॒ते॒ || |
हि॒र॒ण्यये᳚न॒ रथे᳚न द्र॒वत्पा᳚णिभि॒रश्वैः᳚ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} धीज॑वना॒ नास॑त्या ||{35/39}{8.5.35}{8.1.5.35}{5.8.7.5}{156, 625, 6130} हि॒र॒ण्यये᳚न¦रथे᳚न¦द्र॒वत्पा᳚णिऽभिः¦अश्वैः᳚ | धीऽज॑वना¦नास॑त्या || |
यु॒वं मृ॒गं जा᳚गृ॒वांसं॒ स्वद॑थो वा वृषण्वसू |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} ता नः॑ पृङ्क्तमि॒षा र॒यिम् ||{36/39}{8.5.36}{8.1.5.36}{5.8.8.1}{157, 625, 6131} यु॒वम्¦मृ॒गम्¦जा॒गृ॒ऽवांस᳚म्¦स्वद॑थः¦वा॒¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू | ता¦नः॒¦पृ॒ङ्क्त॒म्¦इ॒षा¦र॒यिम् || |
ता मे᳚, अश्विना सनी॒नां वि॒द्यातं॒ नवा᳚नाम् |{काण्वो ब्रह्मातिथिः | १/२:चैद्यः कशुः | बृहती} यथा᳚ चिच्चै॒द्यः क॒शुः श॒तमुष्ट्रा᳚नां॒ दद॑त्स॒हस्रा॒ दश॒ गोना᳚म् ||{37/39}{8.5.37}{8.1.5.37}{5.8.8.2}{158, 625, 6132} ता¦मे॒¦अ॒श्वि॒ना॒¦स॒नी॒नाम्¦वि॒द्यात᳚म्¦नवा᳚नाम् | |
यो मे॒ हिर᳚ण्यसंदृशो॒ दश॒ राज्ञो॒, अमं᳚हत |{काण्वो ब्रह्मातिथिः | चैद्यः कशुः | बृहती} अ॒ध॒स्प॒दा, इच्चै॒द्यस्य॑ कृ॒ष्टय॑श्चर्म॒म्ना, अ॒भितो॒ जनाः᳚ ||{38/39}{8.5.38}{8.1.5.38}{5.8.8.3}{159, 625, 6133} यः¦मे॒¦हिर᳚ण्यऽसंदृशः¦दश॑¦राज्ञः॒¦अमं᳚हत | |
माकि॑रे॒ना प॒था गा॒द्येने॒मे यन्ति॑ चे॒दयः॑ |{काण्वो ब्रह्मातिथिः | चैद्यः कशुः | अनुष्टुप्} अ॒न्यो नेत्सू॒रिरोह॑ते भूरि॒दाव॑त्तरो॒ जनः॑ ||{39/39}{8.5.39}{8.1.5.39}{5.8.8.4}{160, 625, 6134} माकिः॑¦ए॒ना¦प॒था¦गा॒त्¦येन॑¦इ॒मे¦यन्ति॑¦चे॒दयः॑ | अ॒न्यः¦न¦इत्¦सू॒रिः¦ओह॑ते¦भू॒रि॒दाव॑त्ऽतरः¦जनः॑ || |
[6] महाँइंद्र इत्यष्टचत्वारिंशदृचस्य सूक्तस्य काण्वोवत्सइंद्रोंत्यतिसृणां तिरिंदिरोगायत्री | (पार्शव्यस्यदानस्तुतिः) | |
म॒हाँ, इन्द्रो॒ य ओज॑सा प॒र्जन्यो᳚ वृष्टि॒माँ, इ॑व |{काण्वो वत्सः | इन्द्रः | गायत्री} स्तोमै᳚र्व॒त्सस्य॑ वावृधे ||{1/48}{8.6.1}{8.2.1.1}{5.8.9.1}{161, 626, 6135} म॒हान्¦इन्द्रः॑¦यः¦ओज॑सा¦प॒र्जन्यः॑¦वृ॒ष्टि॒मान्ऽइ᳚व | स्तोमैः᳚¦व॒त्सस्य॑¦व॒वृ॒धे॒ || |
प्र॒जामृ॒तस्य॒ पिप्र॑तः॒ प्र यद्भर᳚न्त॒ वह्न॑यः |{काण्वो वत्सः | इन्द्रः | गायत्री} विप्रा᳚ ऋ॒तस्य॒ वाह॑सा ||{2/48}{8.6.2}{8.2.1.2}{5.8.9.2}{162, 626, 6136} प्र॒ऽजाम्¦ऋ॒तस्य॑¦पिप्र॑तः¦प्र¦यत्¦भर᳚न्त¦वह्न॑यः | विप्राः᳚¦ऋ॒तस्य॑¦वाह॑सा || |
कण्वा॒, इन्द्रं॒ यदक्र॑त॒ स्तोमै᳚र्य॒ज्ञस्य॒ साध॑नम् |{काण्वो वत्सः | इन्द्रः | गायत्री} जा॒मि ब्रु॑वत॒ आयु॑धम् ||{3/48}{8.6.3}{8.2.1.3}{5.8.9.3}{163, 626, 6137} कण्वाः᳚¦इन्द्र᳚म्¦यत्¦अक्र॑त¦स्तोमैः᳚¦य॒ज्ञस्य॑¦साध॑नम् | जा॒मि¦ब्रु॒व॒ते॒¦आयु॑धम् || |
सम॑स्य म॒न्यवे॒ विशो॒ विश्वा᳚ नमन्त कृ॒ष्टयः॑ |{काण्वो वत्सः | इन्द्रः | गायत्री} स॒मु॒द्राये᳚व॒ सिन्ध॑वः ||{4/48}{8.6.4}{8.2.1.4}{5.8.9.4}{164, 626, 6138} सम्¦अ॒स्य॒¦म॒न्यवे᳚¦विशः॑¦विश्वाः᳚¦न॒म॒न्त॒¦कृ॒ष्टयः॑ | स॒मु॒द्राय॑ऽइव¦सिन्ध॑वः || |
ओज॒स्तद॑स्य तित्विष उ॒भे यत्स॒मव॑र्तयत् |{काण्वो वत्सः | इन्द्रः | गायत्री} इन्द्र॒श्चर्मे᳚व॒ रोद॑सी ||{5/48}{8.6.5}{8.2.1.5}{5.8.9.5}{165, 626, 6139} ओजः॑¦तत्¦अ॒स्य॒¦ति॒त्वि॒षे॒¦उ॒भे इति॑¦यत्¦स॒म्।आव॑र्तयत् | इन्द्रः॑¦चर्म॑ऽइव¦रोद॑सी॒ इति॑ || |
वि चि॑द्वृ॒त्रस्य॒ दोध॑तो॒ वज्रे᳚ण श॒तप᳚र्वणा |{काण्वो वत्सः | इन्द्रः | गायत्री} शिरो᳚ बिभेद वृ॒ष्णिना᳚ ||{6/48}{8.6.6}{8.2.1.6}{5.8.10.1}{166, 626, 6140} वि¦चि॒त्¦वृ॒त्रस्य॑¦दोध॑तः¦वज्रे᳚ण¦श॒तऽप᳚र्वणा | शिरः॑¦बि॒भे॒द॒¦वृ॒ष्णिना᳚ || |
इ॒मा, अ॒भि प्र णो᳚नुमो वि॒पामग्रे᳚षु धी॒तयः॑ |{काण्वो वत्सः | इन्द्रः | गायत्री} अ॒ग्नेः शो॒चिर्न दि॒द्युतः॑ ||{7/48}{8.6.7}{8.2.1.7}{5.8.10.2}{167, 626, 6141} इ॒माः¦अ॒भि¦प्र¦नो॒नु॒मः॒¦वि॒पाम्¦अग्रे᳚षु¦धी॒तयः॑ | अ॒ग्नेः¦शो॒चिः¦न¦दि॒द्युतः॑ || |
गुहा᳚ स॒तीरुप॒ त्मना॒ प्र यच्छोच᳚न्त धी॒तयः॑ |{काण्वो वत्सः | इन्द्रः | गायत्री} कण्वा᳚ ऋ॒तस्य॒ धार॑या ||{8/48}{8.6.8}{8.2.1.8}{5.8.10.3}{168, 626, 6142} गुहा᳚¦स॒तीः¦उप॑¦त्मना᳚¦प्र¦यत्¦शोच᳚न्त¦धी॒तयः॑ | कण्वाः᳚¦ऋ॒तस्य॑¦धार॑या || |
प्र तमि᳚न्द्र नशीमहि र॒यिं गोम᳚न्तम॒श्विन᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री} प्र ब्रह्म॑ पू॒र्वचि॑त्तये ||{9/48}{8.6.9}{8.2.1.9}{5.8.10.4}{169, 626, 6143} प्र¦तम्¦इ॒न्द्र॒¦न॒शी॒म॒हि॒¦र॒यिम्¦गोऽम᳚न्तम्¦अ॒श्विन᳚म् | प्र¦ब्रह्म॑¦पू॒र्वऽचि॑त्तये || |
अ॒हमिद्धि पि॒तुष्परि॑ मे॒धामृ॒तस्य॑ ज॒ग्रभ॑ |{काण्वो वत्सः | इन्द्रः | गायत्री} अ॒हं सूर्य॑ इवाजनि ||{10/48}{8.6.10}{8.2.1.10}{5.8.10.5}{170, 626, 6144} अ॒हम्¦इत्¦हि¦पि॒तुः¦परि॑¦मे॒धाम्¦ऋ॒तस्य॑¦ज॒ग्रभ॑ | अ॒हम्¦सूर्यः॑ऽइव¦अ॒ज॒नि॒ || |
अ॒हं प्र॒त्नेन॒ मन्म॑ना॒ गिरः॑ शुम्भामि कण्व॒वत् |{काण्वो वत्सः | इन्द्रः | गायत्री} येनेन्द्रः॒ शुष्म॒मिद्द॒धे ||{11/48}{8.6.11}{8.2.1.11}{5.8.11.1}{171, 626, 6145} अ॒हम्¦प्र॒त्नेन॑¦मन्म॑ना¦गिरः॑¦शु॒म्भा॒मि॒¦क॒ण्व॒ऽवत् | येन॑¦इन्द्रः॑¦शुष्म᳚म्¦इत्¦द॒धे || |
ये त्वामि᳚न्द्र॒ न तु॑ष्टु॒वुरृष॑यो॒ ये च॑ तुष्टु॒वुः |{काण्वो वत्सः | इन्द्रः | गायत्री} ममेद्व॑र्धस्व॒ सुष्टु॑तः ||{12/48}{8.6.12}{8.2.1.12}{5.8.11.2}{172, 626, 6146} ये¦त्वाम्¦इ॒न्द्र॒¦न¦तु॒स्तु॒वुः¦ऋष॑यः¦ये¦च॒¦तु॒स्तु॒वुः | मम॑¦इत्¦व॒र्ध॒स्व॒¦सुऽस्तु॑तः || |
यद॑स्य म॒न्युरध्व॑नी॒द्वि वृ॒त्रं प᳚र्व॒शो रु॒जन् |{काण्वो वत्सः | इन्द्रः | गायत्री} अ॒पः स॑मु॒द्रमैर॑यत् ||{13/48}{8.6.13}{8.2.1.13}{5.8.11.3}{173, 626, 6147} यत्¦अ॒स्य॒¦म॒न्युः¦अध्व॑नीत्¦वि¦वृ॒त्रम्¦प॒र्व॒ऽशः¦रु॒जन् | अ॒पः¦स॒मु॒द्रम्¦ऐर॑यत् || |
नि शुष्ण॑ इन्द्र धर्ण॒सिं वज्रं᳚ जघन्थ॒ दस्य॑वि |{काण्वो वत्सः | इन्द्रः | गायत्री} वृषा॒ ह्यु॑ग्र शृण्वि॒षे ||{14/48}{8.6.14}{8.2.1.14}{5.8.11.4}{174, 626, 6148} नि¦शुष्णे᳚¦इ॒न्द्र॒¦ध॒र्ण॒सिम्¦वज्र᳚म्¦ज॒घ॒न्थ॒¦दस्य॑वि | वृषा᳚¦हि¦उ॒ग्र॒¦शृ॒ण्वि॒षे || |
न द्याव॒ इन्द्र॒मोज॑सा॒ नान्तरि॑क्षाणि व॒ज्रिण᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री} न वि᳚व्यचन्त॒ भूम॑यः ||{15/48}{8.6.15}{8.2.1.15}{5.8.11.5}{175, 626, 6149} न¦द्यावः॑¦इन्द्र᳚म्¦ओज॑सा¦न¦अ॒न्तरि॑क्षाणि¦व॒ज्रिण᳚म् | न¦वि॒व्य॒च॒न्त॒¦भूम॑यः || |
यस्त॑ इन्द्र म॒हीर॒पः स्त॑भू॒यमा᳚न॒ आश॑यत् |{काण्वो वत्सः | इन्द्रः | गायत्री} नि तं पद्या᳚सु शिश्नथः ||{16/48}{8.6.16}{8.2.1.16}{5.8.12.1}{176, 626, 6150} यः¦ते॒¦इ॒न्द्र॒¦म॒हीः¦अ॒पः¦स्त॒भु॒ऽयमा᳚नः¦आ¦अश॑यत् | नि¦तम्¦पद्या᳚सु¦शि॒श्न॒थः॒ || |
य इ॒मे रोद॑सी म॒ही स॑मी॒ची स॒मज॑ग्रभीत् |{काण्वो वत्सः | इन्द्रः | गायत्री} तमो᳚भिरिन्द्र॒ तं गु॑हः ||{17/48}{8.6.17}{8.2.1.17}{5.8.12.2}{177, 626, 6151} यः¦इ॒मे इति॑¦रोद॑सी॒ इति॑¦म॒ही इति॑¦स॒मी॒ची इति॑ स॒म्ऽई॒ची¦स॒म्।आज॑ग्रभीत् | तमः॑ऽभिः¦इ॒न्द्र॒¦तम्¦गु॒हः॒ || |
य इ᳚न्द्र॒ यत॑यस्त्वा॒ भृग॑वो॒ ये च॑ तुष्टु॒वुः |{काण्वो वत्सः | इन्द्रः | गायत्री} ममेदु॑ग्र श्रुधी॒ हव᳚म् ||{18/48}{8.6.18}{8.2.1.18}{5.8.12.3}{178, 626, 6152} ये¦इ॒न्द्र॒¦यत॑यः¦त्वा॒¦भृग॑वः¦ये¦च॒¦तु॒स्तु॒वुः | मम॑¦इत्¦उ॒ग्र॒¦श्रु॒धि॒¦हव᳚म् || |
इ॒मास्त॑ इन्द्र॒ पृश्न॑यो घृ॒तं दु॑हत आ॒शिर᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री} ए॒नामृ॒तस्य॑ पि॒प्युषीः᳚ ||{19/48}{8.6.19}{8.2.1.19}{5.8.12.4}{179, 626, 6153} इ॒माः¦ते॒¦इ॒न्द्र॒¦पृश्न॑यः¦घृ॒तम्¦दु॒ह॒ते॒¦आ॒ऽशिर᳚म् | ए॒नाम्¦ऋ॒तस्य॑¦पि॒प्युषीः᳚ || |
या, इ᳚न्द्र प्र॒स्व॑स्त्वा॒सा गर्भ॒मच॑क्रिरन् |{काण्वो वत्सः | इन्द्रः | गायत्री} परि॒ धर्मे᳚व॒ सूर्य᳚म् ||{20/48}{8.6.20}{8.2.1.20}{5.8.12.5}{180, 626, 6154} याः¦इ॒न्द्र॒¦प्र॒ऽस्वः॑¦त्वा॒¦आ॒सा¦गर्भ᳚म्¦अच॑क्रिरन् | परि॑¦धर्म॑ऽइव¦सूर्य᳚म् || |
त्वामिच्छ॑वसस्पते॒ कण्वा᳚, उ॒क्थेन॑ वावृधुः |{काण्वो वत्सः | इन्द्रः | गायत्री} त्वां सु॒तास॒ इन्द॑वः ||{21/48}{8.6.21}{8.2.1.21}{5.8.13.1}{181, 626, 6155} त्वाम्¦इत्¦श॒व॒सः॒¦प॒ते॒¦कण्वाः᳚¦उ॒क्थेन॑¦व॒वृ॒धुः॒ | त्वाम्¦सु॒तासः॑¦इन्द॑वः || |
तवेदि᳚न्द्र॒ प्रणी᳚तिषू॒त प्रश॑स्तिरद्रिवः |{काण्वो वत्सः | इन्द्रः | गायत्री} य॒ज्ञो वि॑तन्त॒साय्यः॑ ||{22/48}{8.6.22}{8.2.1.22}{5.8.13.2}{182, 626, 6156} तव॑¦इत्¦इ॒न्द्र॒¦प्रऽनी᳚तिषु¦उ॒त¦प्रऽश॑स्तिः¦अ॒द्रि॒ऽवः॒ | य॒ज्ञः¦वि॒त॒न्त॒साय्यः॑ || |
आ न॑ इन्द्र म॒हीमिषं॒ पुरं॒ न द॑र्षि॒ गोम॑तीम् |{काण्वो वत्सः | इन्द्रः | गायत्री} उ॒त प्र॒जां सु॒वीर्य᳚म् ||{23/48}{8.6.23}{8.2.1.23}{5.8.13.3}{183, 626, 6157} आ¦नः॒¦इ॒न्द्र॒¦म॒हीम्¦इष᳚म्¦पुर᳚म्¦न¦द॒र्षि॒¦गोऽम॑तीम् | उ॒त¦प्र॒ऽजाम्¦सु॒ऽवीर्य᳚म् || |
उ॒त त्यदा॒श्वश्व्यं॒ यदि᳚न्द्र॒ नाहु॑षी॒ष्वा |{काण्वो वत्सः | इन्द्रः | गायत्री} अग्रे᳚ वि॒क्षु प्र॒दीद॑यत् ||{24/48}{8.6.24}{8.2.1.24}{5.8.13.4}{184, 626, 6158} उ॒त¦त्यत्¦आ॒शु॒।आश्व्य᳚म्¦यत्¦इ॒न्द्र॒¦नाहु॑षीषु¦आ | अग्रे᳚¦वि॒क्षु¦प्र॒ऽदीद॑यत् || |
अ॒भि व्र॒जं न त॑त्निषे॒ सूर॑ उपा॒कच॑क्षसम् |{काण्वो वत्सः | इन्द्रः | गायत्री} यदि᳚न्द्र मृ॒ळया᳚सि नः ||{25/48}{8.6.25}{8.2.1.25}{5.8.13.5}{185, 626, 6159} अ॒भि¦व्र॒जम्¦न¦त॒त्नि॒षे॒¦सूरः॑¦उ॒पा॒कऽच॑क्षसम् | यत्¦इ॒न्द्र॒¦मृ॒ळया᳚सि¦नः॒ || |
यद॒ङ्ग त॑विषी॒यस॒ इन्द्र॑ प्र॒राज॑सि क्षि॒तीः |{काण्वो वत्सः | इन्द्रः | गायत्री} म॒हाँ, अ॑पा॒र ओज॑सा ||{26/48}{8.6.26}{8.2.1.26}{5.8.14.1}{186, 626, 6160} यत्¦अ॒ङ्ग¦त॒वि॒षी॒ऽयसे᳚¦इन्द्र॑¦प्र॒ऽराज॑सि¦क्षि॒तीः | म॒हान्¦अ॒पा॒रः¦ओज॑सा || |
तं त्वा᳚ ह॒विष्म॑ती॒र्विश॒ उप॑ ब्रुवत ऊ॒तये᳚ |{काण्वो वत्सः | इन्द्रः | गायत्री} उ॒रु॒ज्रय॑स॒मिन्दु॑भिः ||{27/48}{8.6.27}{8.2.1.27}{5.8.14.2}{187, 626, 6161} तम्¦त्वा॒¦ह॒विष्म॑तीः¦विशः॑¦उप॑¦ब्रु॒व॒ते॒¦ऊ॒तये᳚ | उ॒रु॒ऽज्रय॑सम्¦इन्दु॑ऽभिः || |
उ॒प॒ह्व॒रे गि॑री॒णां सं᳚ग॒थे च॑ न॒दीना᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री} धि॒या विप्रो᳚, अजायत ||{28/48}{8.6.28}{8.2.1.28}{5.8.14.3}{188, 626, 6162} उ॒प॒ऽह्व॒रे¦गि॒री॒णाम्¦स॒म्ऽग॒थे¦च॒¦न॒दीना᳚म् | धि॒या¦विप्रः॑¦अ॒जा॒य॒त॒ || |
अतः॑ समु॒द्रमु॒द्वत॑श्चिकि॒त्वाँ, अव॑ पश्यति |{काण्वो वत्सः | इन्द्रः | गायत्री} यतो᳚ विपा॒न एज॑ति ||{29/48}{8.6.29}{8.2.1.29}{5.8.14.4}{189, 626, 6163} अतः॑¦स॒मु॒द्रम्¦उ॒त्ऽवतः॑¦चि॒कि॒त्वान्¦अव॑¦प॒श्य॒ति॒ | यतः॑¦वि॒पा॒नः¦एज॑ति || |
आदित्प्र॒त्नस्य॒ रेत॑सो॒ ज्योति॑ष्पश्यन्ति वास॒रम् |{काण्वो वत्सः | इन्द्रः | गायत्री} प॒रो यदि॒ध्यते᳚ दि॒वा ||{30/48}{8.6.30}{8.2.1.30}{5.8.14.5}{190, 626, 6164} आत्¦इत्¦प्र॒त्नस्य॑¦रेत॑सः¦ज्योतिः॑¦प॒श्य॒न्ति॒¦वा॒स॒रम् | प॒रः¦यत्¦इ॒ध्यते᳚¦दि॒वा || |
कण्वा᳚स इन्द्र ते म॒तिं विश्वे᳚ वर्धन्ति॒ पौंस्य᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री} उ॒तो श॑विष्ठ॒ वृष्ण्य᳚म् ||{31/48}{8.6.31}{8.2.1.31}{5.8.15.1}{191, 626, 6165} कण्वा᳚सः¦इ॒न्द्र॒¦ते॒¦म॒तिम्¦विश्वे᳚¦व॒र्ध॒न्ति॒¦पौंस्य᳚म् | उ॒तो इति॑¦श॒वि॒ष्ठ॒¦वृष्ण्य᳚म् || |
इ॒मां म॑ इन्द्र सुष्टु॒तिं जु॒षस्व॒ प्र सु माम॑व |{काण्वो वत्सः | इन्द्रः | गायत्री} उ॒त प्र व॑र्धया म॒तिम् ||{32/48}{8.6.32}{8.2.1.32}{5.8.15.2}{192, 626, 6166} इ॒माम्¦मे॒¦इ॒न्द्र॒¦सु॒ऽस्तु॒तिम्¦जु॒षस्व॑¦प्र¦सु¦माम्¦अ॒व॒ | उ॒त¦प्र¦व॒र्ध॒य॒¦म॒तिम् || |
उ॒त ब्र᳚ह्म॒ण्या व॒यं तुभ्यं᳚ प्रवृद्ध वज्रिवः |{काण्वो वत्सः | इन्द्रः | गायत्री} विप्रा᳚, अतक्ष्म जी॒वसे᳚ ||{33/48}{8.6.33}{8.2.1.33}{5.8.15.3}{193, 626, 6167} उ॒त¦ब्र॒ह्म॒ण्या¦व॒यम्¦तुभ्य᳚म्¦प्र॒ऽवृ॒द्ध॒¦व॒ज्रि॒ऽवः॒ | विप्राः᳚¦अ॒त॒क्ष्म॒¦जी॒वसे᳚ || |
अ॒भि कण्वा᳚, अनूष॒तापो॒ न प्र॒वता᳚ य॒तीः |{काण्वो वत्सः | इन्द्रः | गायत्री} इन्द्रं॒ वन᳚न्वती म॒तिः ||{34/48}{8.6.34}{8.2.1.34}{5.8.15.4}{194, 626, 6168} अ॒भि¦कण्वाः᳚¦अ॒नू॒ष॒त॒¦आपः॑¦न¦प्र॒ऽवता᳚¦य॒तीः | इन्द्र᳚म्¦वन॑न्ऽवती¦म॒तिः || |
इन्द्र॑मु॒क्थानि॑ वावृधुः समु॒द्रमि॑व॒ सिन्ध॑वः |{काण्वो वत्सः | इन्द्रः | गायत्री} अनु॑त्तमन्युम॒जर᳚म् ||{35/48}{8.6.35}{8.2.1.35}{5.8.15.5}{195, 626, 6169} इन्द्र᳚म्¦उ॒क्थानि॑¦व॒वृ॒धुः॒¦स॒मु॒द्रम्ऽइ᳚व¦सिन्ध॑वः | अनु॑त्तऽमन्युम्¦अ॒जर᳚म् || |
आ नो᳚ याहि परा॒वतो॒ हरि॑भ्यां हर्य॒ताभ्या᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री} इ॒ममि᳚न्द्र सु॒तं पि॑ब ||{36/48}{8.6.36}{8.2.1.36}{5.8.16.1}{196, 626, 6170} आ¦नः॒¦या॒हि॒¦प॒रा॒ऽवतः॑¦हरि॑ऽभ्याम्¦ह॒र्य॒ताभ्या᳚म् | इ॒मम्¦इ॒न्द्र॒¦सु॒तम्¦पि॒ब॒ || |
त्वामिद्वृ॑त्रहन्तम॒ जना᳚सो वृ॒क्तब᳚र्हिषः |{काण्वो वत्सः | इन्द्रः | गायत्री} हव᳚न्ते॒ वाज॑सातये ||{37/48}{8.6.37}{8.2.1.37}{5.8.16.2}{197, 626, 6171} त्वाम्¦इत्¦वृ॒त्र॒ह॒न्ऽत॒म॒¦जना᳚सः¦वृ॒क्तऽब॑र्हिषः | हव᳚न्ते¦वाज॑ऽसातये || |
अनु॑ त्वा॒ रोद॑सी, उ॒भे च॒क्रं न व॒र्त्येत॑शम् |{काण्वो वत्सः | इन्द्रः | गायत्री} अनु॑ सुवा॒नास॒ इन्द॑वः ||{38/48}{8.6.38}{8.2.1.38}{5.8.16.3}{198, 626, 6172} अनु॑¦त्वा॒¦रोद॑सी॒ इति॑¦उ॒भे इति॑¦च॒क्रम्¦न¦व॒र्ति॒¦एत॑शम् | अनु॑¦सु॒वा॒नासः॑¦इन्द॑वः || |
मन्द॑स्वा॒ सु स्व᳚र्णर उ॒तेन्द्र॑ शर्य॒णाव॑ति |{काण्वो वत्सः | इन्द्रः | गायत्री} मत्स्वा॒ विव॑स्वतो म॒ती ||{39/48}{8.6.39}{8.2.1.39}{5.8.16.4}{199, 626, 6173} मन्द॑स्व¦सु¦स्वः॑ऽनरे¦उ॒त¦इ॒न्द्र॒¦श॒र्य॒णाऽव॑ति | मत्स्व॑¦विव॑स्वतः¦म॒ती || |
वा॒वृ॒धा॒न उप॒ द्यवि॒ वृषा᳚ व॒ज्र्य॑रोरवीत् |{काण्वो वत्सः | इन्द्रः | गायत्री} वृ॒त्र॒हा सो᳚म॒पात॑मः ||{40/48}{8.6.40}{8.2.1.40}{5.8.16.5}{200, 626, 6174} व॒वृ॒धा॒नः¦उप॑¦द्यवि॑¦वृषा᳚¦व॒ज्री¦अ॒रो॒र॒वी॒त् | वृ॒त्र॒ऽहा¦सो॒म॒ऽपात॑मः || |
ऋषि॒र्हि पू᳚र्व॒जा, अस्येक॒ ईशा᳚न॒ ओज॑सा |{काण्वो वत्सः | इन्द्रः | गायत्री} इन्द्र॑ चोष्कू॒यसे॒ वसु॑ ||{41/48}{8.6.41}{8.2.1.41}{5.8.17.1}{201, 626, 6175} ऋषिः॑¦हि¦पू॒र्व॒ऽजाः¦असि॑¦एकः॑¦ईशा᳚नः¦ओज॑सा | इन्द्र॑¦चो॒ष्कू॒यसे᳚¦वसु॑ || |
अ॒स्माकं᳚ त्वा सु॒ताँ, उप॑ वी॒तपृ॑ष्ठा, अ॒भि प्रयः॑ |{काण्वो वत्सः | इन्द्रः | गायत्री} श॒तं व॑हन्तु॒ हर॑यः ||{42/48}{8.6.42}{8.2.1.42}{5.8.17.2}{202, 626, 6176} अ॒स्माक᳚म्¦त्वा॒¦सु॒तान्¦उप॑¦वी॒तऽपृ॑ष्ठाः¦अ॒भि¦प्रयः॑ | श॒तम्¦व॒ह॒न्तु॒¦हर॑यः || |
इ॒मां सु पू॒र्व्यां धियं॒ मधो᳚र्घृ॒तस्य॑ पि॒प्युषी᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री} कण्वा᳚, उ॒क्थेन॑ वावृधुः ||{43/48}{8.6.43}{8.2.1.43}{5.8.17.3}{203, 626, 6177} इ॒माम्¦सु¦पू॒र्व्याम्¦धिय॒म्¦मधोः᳚¦घृ॒तस्य॑¦पि॒प्युषी᳚म् | कण्वाः᳚¦उ॒क्थेन॑¦व॒वृ॒धुः॒ || |
इन्द्र॒मिद्विम॑हीनां॒ मेधे᳚ वृणीत॒ मर्त्यः॑ |{काण्वो वत्सः | इन्द्रः | गायत्री} इन्द्रं᳚ सनि॒ष्युरू॒तये᳚ ||{44/48}{8.6.44}{8.2.1.44}{5.8.17.4}{204, 626, 6178} इन्द्र᳚म्¦इत्¦विऽम॑हीनाम्¦मेधे᳚¦वृ॒णी॒त॒¦मर्त्यः॑ | इन्द्र᳚म्¦स॒नि॒ष्युः¦ऊ॒तये᳚ || |
अ॒र्वाञ्चं᳚ त्वा पुरुष्टुत प्रि॒यमे᳚धस्तुता॒ हरी᳚ |{काण्वो वत्सः | इन्द्रः | गायत्री} सो॒म॒पेया᳚य वक्षतः ||{45/48}{8.6.45}{8.2.1.45}{5.8.17.5}{205, 626, 6179} अ॒र्वांच᳚म्¦त्वा॒¦पु॒रु॒ऽस्तु॒त॒¦प्रि॒यमे᳚धऽस्तुता¦हरी॒ इति॑ | सो॒म॒ऽपेया᳚य¦व॒क्ष॒तः॒ || |
श॒तम॒हं ति॒रिन्दि॑रे स॒हस्रं॒ पर्शा॒वा द॑दे |{काण्वो वत्सः | तिरिंदिरः | गायत्री} राधां᳚सि॒ याद्वा᳚नाम् ||{46/48}{8.6.46}{8.2.1.46}{5.8.17.6}{206, 626, 6180} श॒तम्¦अ॒हम्¦ति॒रिन्दि॑रे¦स॒हस्र᳚म्¦पर्शौ᳚¦आ¦द॒दे॒ | राधां᳚सि¦याद्वा᳚नाम् || |
त्रीणि॑ श॒तान्यर्व॑तां स॒हस्रा॒ दश॒ गोना᳚म् |{काण्वो वत्सः | तिरिंदिरः | गायत्री} द॒दुष्प॒ज्राय॒ साम्ने᳚ ||{47/48}{8.6.47}{8.2.1.47}{5.8.17.7}{207, 626, 6181} त्रीणि॑¦श॒तानि॑¦अर्व॑ताम्¦स॒हस्रा᳚¦दश॑¦गोना᳚म् | द॒दुः¦प॒ज्राय॑¦साम्ने᳚ || |
उदा᳚नट् ककु॒हो दिव॒मुष्ट्रा᳚ञ्चतु॒र्युजो॒ दद॑त् |{काण्वो वत्सः | तिरिंदिरः | गायत्री} श्रव॑सा॒ याद्वं॒ जन᳚म् ||{48/48}{8.6.48}{8.2.1.48}{5.8.17.8}{208, 626, 6182} उत्¦आ॒न॒ट्¦क॒कु॒हः¦दिव᳚म्¦उष्ट्रा᳚न्¦च॒तुः॒ऽयुजः॑¦दद॑त् | श्रव॑सा¦याद्व᳚म्¦जन᳚म् || |
[7] प्रयद्वइति षट्त्रिंशदृचस्य सूक्तस्य काण्वः पुनर्वत्सोमरुतोगायत्री | |
प्र यद्व॑स्त्रि॒ष्टुभ॒मिषं॒ मरु॑तो॒ विप्रो॒, अक्ष॑रत् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} वि पर्व॑तेषु राजथ ||{1/36}{8.7.1}{8.2.2.1}{5.8.18.1}{209, 627, 6183} प्र¦यत्¦वः॒¦त्रि॒ऽस्तुभ᳚म्¦इष᳚म्¦मरु॑तः¦विप्रः॑¦अक्ष॑रत् | वि¦पर्व॑तेषु¦रा॒ज॒थ॒ || |
यद॒ङ्ग त॑विषीयवो॒ यामं᳚ शुभ्रा॒, अचि॑ध्वम् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} नि पर्व॑ता, अहासत ||{2/36}{8.7.2}{8.2.2.2}{5.8.18.2}{210, 627, 6184} यत्¦अ॒ङ्ग¦त॒वि॒षी॒ऽय॒वः॒¦याम᳚म्¦शु॒भ्राः॒¦अचि॑ध्वम् | नि¦पर्व॑ताः¦अ॒हा॒स॒त॒ || |
उदी᳚रयन्त वा॒युभि᳚र्वा॒श्रासः॒ पृश्नि॑मातरः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} धु॒क्षन्त॑ पि॒प्युषी॒मिष᳚म् ||{3/36}{8.7.3}{8.2.2.3}{5.8.18.3}{211, 627, 6185} उत्¦ई॒र॒य॒न्त॒¦वा॒युऽभिः॑¦वा॒श्रासः॑¦पृश्नि॑ऽमातरः | धु॒क्षन्त॑¦पि॒प्युषी᳚म्¦इष᳚म् || |
वप᳚न्ति म॒रुतो॒ मिहं॒ प्र वे᳚पयन्ति॒ पर्व॑तान् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} यद्यामं॒ यान्ति॑ वा॒युभिः॑ ||{4/36}{8.7.4}{8.2.2.4}{5.8.18.4}{212, 627, 6186} वप᳚न्ति¦म॒रुतः॑¦मिह᳚म्¦प्र¦वे॒प॒य॒न्ति॒¦पर्व॑तान् | यत्¦याम᳚म्¦यान्ति॑¦वा॒युऽभिः॑ || |
नि यद्यामा᳚य वो गि॒रिर्नि सिन्ध॑वो॒ विध᳚र्मणे |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} म॒हे शुष्मा᳚य येमि॒रे ||{5/36}{8.7.5}{8.2.2.5}{5.8.18.5}{213, 627, 6187} नि¦यत्¦यामा᳚य¦वः॒¦गि॒रिः¦नि¦सिन्ध॑वः¦विऽध᳚र्मणे | म॒हे¦शुष्मा᳚य¦ये॒मि॒रे || |
यु॒ष्माँ, उ॒ नक्त॑मू॒तये᳚ यु॒ष्मान्दिवा᳚ हवामहे |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} यु॒ष्मान् प्र॑य॒त्य॑ध्व॒रे ||{6/36}{8.7.6}{8.2.2.6}{5.8.19.1}{214, 627, 6188} यु॒ष्मान्¦ऊँ॒ इति॑¦नक्त᳚म्¦ऊ॒तये᳚¦यु॒ष्मान्¦दिवा᳚¦ह॒वा॒म॒हे॒ | यु॒ष्मान्¦प्र॒ऽय॒ति¦अ॒ध्व॒रे || |
उदु॒ त्ये, अ॑रु॒णप्स॑वश्चि॒त्रा यामे᳚भिरीरते |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} वा॒श्रा, अधि॒ ष्णुना᳚ दि॒वः ||{7/36}{8.7.7}{8.2.2.7}{5.8.19.2}{215, 627, 6189} उत्¦ऊँ॒ इति॑¦त्ये¦अ॒रु॒णऽप्स॑वः¦चि॒त्राः¦यामे᳚भिः¦ई॒र॒ते॒ | वा॒श्राः¦अधि॑¦स्नुना᳚¦दि॒वः || |
सृ॒जन्ति॑ र॒श्मिमोज॑सा॒ पन्थां॒ सूर्या᳚य॒ यात॑वे |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} ते भा॒नुभि॒र्वि त॑स्थिरे ||{8/36}{8.7.8}{8.2.2.8}{5.8.19.3}{216, 627, 6190} सृ॒जन्ति॑¦र॒श्मिम्¦ओज॑सा¦पन्था᳚म्¦सूर्या᳚य¦यात॑वे | ते¦भा॒नुऽभिः॑¦वि¦त॒स्थि॒रे॒ || |
इ॒मां मे᳚ मरुतो॒ गिर॑मि॒मं स्तोम॑मृभुक्षणः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} इ॒मं मे᳚ वनता॒ हव᳚म् ||{9/36}{8.7.9}{8.2.2.9}{5.8.19.4}{217, 627, 6191} इ॒माम्¦मे॒¦म॒रु॒तः॒¦गिर᳚म्¦इ॒मम्¦स्तोम᳚म्¦ऋ॒भु॒क्ष॒णः॒ | इ॒मम्¦मे॒¦व॒न॒त॒¦हव᳚म् || |
त्रीणि॒ सरां᳚सि॒ पृश्न॑यो दुदु॒ह्रे व॒ज्रिणे॒ मधु॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} उत्सं॒ कव᳚न्धमु॒द्रिण᳚म् ||{10/36}{8.7.10}{8.2.2.10}{5.8.19.5}{218, 627, 6192} त्रीणि॑¦सरां᳚सि¦पृश्न॑यः¦दु॒दु॒ह्रे¦व॒ज्रिणे᳚¦मधु॑ | उत्स᳚म्¦कव᳚न्धम्¦उ॒द्रिण᳚म् || |
मरु॑तो॒ यद्ध॑ वो दि॒वः सु᳚म्ना॒यन्तो॒ हवा᳚महे |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} आ तू न॒ उप॑ गन्तन ||{11/36}{8.7.11}{8.2.2.11}{5.8.20.1}{219, 627, 6193} मरु॑तः¦यत्¦ह॒¦वः॒¦दि॒वः¦सु॒म्न॒ऽयन्तः॑¦हवा᳚महे | आ¦तु¦नः॒¦उप॑¦ग॒न्त॒न॒ || |
यू॒यं हि ष्ठा सु॑दानवो॒ रुद्रा᳚ ऋभुक्षणो॒ दमे᳚ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} उ॒त प्रचे᳚तसो॒ मदे᳚ ||{12/36}{8.7.12}{8.2.2.12}{5.8.20.2}{220, 627, 6194} यू॒यम्¦हि¦स्थ¦सु॒ऽदा॒न॒वः॒¦रुद्राः᳚¦ऋ॒भु॒क्ष॒णः॒¦दमे᳚ | उ॒त¦प्रऽचे᳚तसः¦मदे᳚ || |
आ नो᳚ र॒यिं म॑द॒च्युतं᳚ पुरु॒क्षुं वि॒श्वधा᳚यसम् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} इय॑र्ता मरुतो दि॒वः ||{13/36}{8.7.13}{8.2.2.13}{5.8.20.3}{221, 627, 6195} आ¦नः॒¦र॒यिम्¦म॒द॒ऽच्युत᳚म्¦पु॒रु॒ऽक्षुम्¦वि॒श्वऽधा᳚यसम् | इय॑र्त¦म॒रु॒तः॒¦दि॒वः || |
अधी᳚व॒ यद्गि॑री॒णां यामं᳚ शुभ्रा॒, अचि॑ध्वम् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} सु॒वा॒नैर्म᳚न्दध्व॒ इन्दु॑भिः ||{14/36}{8.7.14}{8.2.2.14}{5.8.20.4}{222, 627, 6196} अधि॑ऽइव¦यत्¦गि॒री॒णाम्¦याम᳚म्¦शु॒भ्राः॒¦अचि॑ध्वम् | सु॒वा॒नैः¦म॒न्द॒ध्वे॒¦इन्दु॑ऽभिः || |
ए॒ताव॑तश्चिदेषां सु॒म्नं भि॑क्षेत॒ मर्त्यः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} अदा᳚भ्यस्य॒ मन्म॑भिः ||{15/36}{8.7.15}{8.2.2.15}{5.8.20.5}{223, 627, 6197} ए॒ताव॑तः¦चि॒त्¦ए॒षा॒म्¦सु॒म्नम्¦भि॒क्षे॒त॒¦मर्त्यः॑ | अदा᳚भ्यस्य¦मन्म॑ऽभिः || |
ये द्र॒प्सा, इ॑व॒ रोद॑सी॒ धम॒न्त्यनु॑ वृ॒ष्टिभिः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} उत्सं᳚ दु॒हन्तो॒, अक्षि॑तम् ||{16/36}{8.7.16}{8.2.2.16}{5.8.21.1}{224, 627, 6198} ये¦द्र॒प्साःऽइ᳚व¦रोद॑सी॒ इति॑¦धम᳚न्ति¦अनु॑¦वृ॒ष्टिऽभिः॑ | उत्स᳚म्¦दु॒हन्तः॑¦अक्षि॑तम् || |
उदु॑ स्वा॒नेभि॑रीरत॒ उद्रथै॒रुदु॑ वा॒युभिः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} उत् स्तोमैः॒ पृश्नि॑मातरः ||{17/36}{8.7.17}{8.2.2.17}{5.8.21.2}{225, 627, 6199} उत्¦ऊँ॒ इति॑¦स्वा॒नेभिः॑¦ई॒र॒ते॒¦उत्¦रथैः᳚¦उत्¦ऊँ॒ इति॑¦वा॒युऽभिः॑ | उत्¦स्तोमैः᳚¦पृश्नि॑ऽमातरः || |
येना॒व तु॒र्वशं॒ यदुं॒ येन॒ कण्वं᳚ धन॒स्पृत᳚म् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} रा॒ये सु तस्य॑ धीमहि ||{18/36}{8.7.18}{8.2.2.18}{5.8.21.3}{226, 627, 6200} येन॑¦आ॒व¦तु॒र्वश᳚म्¦यदु᳚म्¦येन॑¦कण्व᳚म्¦ध॒न॒ऽस्पृत᳚म् | रा॒ये¦सु¦तस्य॑¦धी॒म॒हि॒ || |
इ॒मा, उ॑ वः सुदानवो घृ॒तं न पि॒प्युषी॒रिषः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} वर्धा᳚न् का॒ण्वस्य॒ मन्म॑भिः ||{19/36}{8.7.19}{8.2.2.19}{5.8.21.4}{227, 627, 6201} इ॒माः¦ऊँ॒ इति॑¦वः॒¦सु॒ऽदा॒न॒वः॒¦घृ॒तम्¦न¦पि॒प्युषीः᳚¦इषः॑ | वर्धा᳚न्¦का॒ण्वस्य॑¦मन्म॑ऽभिः || |
क्व॑ नू॒नं सु॑दानवो॒ मद॑था वृक्तबर्हिषः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} ब्र॒ह्मा को वः॑ सपर्यति ||{20/36}{8.7.20}{8.2.2.20}{5.8.21.5}{228, 627, 6202} क्व॑¦नू॒नम्¦सु॒ऽदा॒न॒वः॒¦मद॑थ¦वृ॒क्त॒ऽब॒र्हि॒षः॒ | ब्र॒ह्मा¦कः¦वः॒¦स॒प॒र्यति॒ || |
न॒हि ष्म॒ यद्ध॑ वः पु॒रा स्तोमे᳚भिर्वृक्तबर्हिषः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} शर्धाँ᳚, ऋ॒तस्य॒ जिन्व॑थ ||{21/36}{8.7.21}{8.2.2.21}{5.8.22.1}{229, 627, 6203} न॒हि¦स्म॒¦यत्¦ह॒¦वः॒¦पु॒रा¦स्तोमे᳚भिः¦वृ॒क्त॒ऽब॒र्हि॒षः॒ | शर्धा᳚न्¦ऋ॒तस्य॑¦जिन्व॑थ || |
समु॒ त्ये म॑ह॒तीर॒पः सं क्षो॒णी समु॒ सूर्य᳚म् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} सं वज्रं᳚ पर्व॒शो द॑धुः ||{22/36}{8.7.22}{8.2.2.22}{5.8.22.2}{230, 627, 6204} सम्¦ऊँ॒ इति॑¦त्ये¦म॒ह॒तीः¦अ॒पः¦सम्¦क्षो॒णी इति॑¦सम्¦ऊँ॒ इति॑¦सूर्य᳚म् | सम्¦वज्र᳚म्¦प॒र्व॒ऽशः¦द॒धुः॒ || |
वि वृ॒त्रं प᳚र्व॒शो य॑यु॒र्वि पर्व॑ताँ, अरा॒जिनः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} च॒क्रा॒णा वृष्णि॒ पौंस्य᳚म् ||{23/36}{8.7.23}{8.2.2.23}{5.8.22.3}{231, 627, 6205} वि¦वृ॒त्रम्¦प॒र्व॒ऽशः¦य॒युः॒¦वि¦पर्व॑तान्¦अ॒रा॒जिनः॑ | च॒क्रा॒णाः¦वृष्णि॑¦पौंस्य᳚म् || |
अनु॑ त्रि॒तस्य॒ युध्य॑तः॒ शुष्म॑मावन्नु॒त क्रतु᳚म् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} अन् विन्द्रं᳚ वृत्र॒तूर्ये᳚ ||{24/36}{8.7.24}{8.2.2.24}{5.8.22.4}{232, 627, 6206} अनु॑¦त्रि॒तस्य॑¦युध्य॑तः¦शुष्म᳚म्¦आ॒व॒न्¦उ॒त¦क्रतु᳚म् | अनु॑¦इन्द्र᳚म्¦वृ॒त्र॒ऽतूर्ये᳚ || |
वि॒द्युद्ध॑स्ता, अ॒भिद्य॑वः॒ शिप्राः᳚ शी॒र्षन्हि॑र॒ण्ययीः᳚ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} शु॒भ्रा व्य᳚ञ्जत श्रि॒ये ||{25/36}{8.7.25}{8.2.2.25}{5.8.22.5}{233, 627, 6207} वि॒द्युत्ऽह॑स्ताः¦अ॒भिऽद्य॑वः¦शिप्राः᳚¦शी॒र्षन्¦हि॒र॒ण्ययीः᳚ | शु॒भ्राः¦वि¦अं॒ज॒त॒¦श्रि॒ये || |
उ॒शना॒ यत्प॑रा॒वत॑ उ॒क्ष्णो रन्ध्र॒मया᳚तन |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} द्यौर्न च॑क्रदद्भि॒या ||{26/36}{8.7.26}{8.2.2.26}{5.8.23.1}{234, 627, 6208} उ॒शना᳚¦यत्¦प॒रा॒ऽवतः॑¦उ॒क्ष्णः¦रन्ध्र᳚म्¦अया᳚तन | द्यौः¦न¦च॒क्र॒द॒त्¦भि॒या || |
आ नो᳚ म॒खस्य॑ दा॒वनेऽश्वै॒र्हिर᳚ण्यपाणिभिः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} देवा᳚स॒ उप॑ गन्तन ||{27/36}{8.7.27}{8.2.2.27}{5.8.23.2}{235, 627, 6209} आ¦नः॒¦म॒खस्य॑¦दा॒वने᳚¦अश्वैः᳚¦हिर᳚ण्यपाणिऽभिः | देवा᳚सः¦उप॑¦ग॒न्त॒न॒ || |
यदे᳚षां॒ पृष॑ती॒ रथे॒ प्रष्टि॒र्वह॑ति॒ रोहि॑तः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} यान्ति॑ शु॒भ्रा रि॒णन्न॒पः ||{28/36}{8.7.28}{8.2.2.28}{5.8.23.3}{236, 627, 6210} यत्¦ए॒षा॒म्¦पृष॑तीः¦रथे᳚¦प्रष्टिः॑¦वह॑ति¦रोहि॑तः | यान्ति॑¦शु॒भ्राः¦रि॒णन्¦अ॒पः || |
सु॒षोमे᳚ शर्य॒णाव॑त्यार्जी॒के प॒स्त्या᳚वति |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} य॒युर्निच॑क्रया॒ नरः॑ ||{29/36}{8.7.29}{8.2.2.29}{5.8.23.4}{237, 627, 6211} सु॒ऽसोमे᳚¦श॒र्य॒णाऽव॑ति¦आ॒र्जी॒के¦प॒स्त्य॑ऽवति | य॒युः¦निऽच॑क्रया¦नरः॑ || |
क॒दा ग॑च्छाथ मरुत इ॒त्था विप्रं॒ हव॑मानम् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} मा॒र्डी॒केभि॒र्नाध॑मानम् ||{30/36}{8.7.30}{8.2.2.30}{5.8.23.5}{238, 627, 6212} क॒दा¦ग॒च्छा॒थ॒¦म॒रु॒तः॒¦इ॒त्था¦विप्र᳚म्¦हव॑मानम् | मा॒र्डी॒केभिः॑¦नाध॑मानम् || |
कद्ध॑ नू॒नं क॑धप्रियो॒ यदिन्द्र॒मज॑हातन |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} को वः॑ सखि॒त्व ओ᳚हते ||{31/36}{8.7.31}{8.2.2.31}{5.8.24.1}{239, 627, 6213} कत्¦ह॒¦नू॒नम्¦क॒ध॒ऽप्रि॒यः॒¦यत्¦इन्द्र᳚म्¦अज॑हातन | कः¦वः॒¦स॒खि॒ऽत्वे¦ओ॒ह॒ते॒ || |
स॒हो षु णो॒ वज्र॑हस्तैः॒ कण्वा᳚सो, अ॒ग्निं म॒रुद्भिः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} स्तु॒षे हिर᳚ण्यवाशीभिः ||{32/36}{8.7.32}{8.2.2.32}{5.8.24.2}{240, 627, 6214} स॒हो इति॑¦सु¦नः॒¦वज्र॑ऽहस्तैः¦कण्वा᳚सः¦अ॒ग्निम्¦म॒रुत्ऽभिः॑ | स्तु॒षे¦हिर᳚ण्यऽवाशीभिः || |
ओ षु वृष्णः॒ प्रय॑ज्यू॒ना नव्य॑से सुवि॒ताय॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} व॒वृ॒त्यां चि॒त्रवा᳚जान् ||{33/36}{8.7.33}{8.2.2.33}{5.8.24.3}{241, 627, 6215} ओ इति॑¦सु¦वृष्णः॑¦प्रऽय॑ज्यून्¦आ¦नव्य॑से¦सु॒वि॒ताय॑ | व॒वृ॒त्याम्¦चि॒त्रऽवा᳚जान् || |
गि॒रय॑श्चि॒न्नि जि॑हते॒ पर्शा᳚नासो॒ मन्य॑मानाः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} पर्व॑ताश्चि॒न्नि ये᳚मिरे ||{34/36}{8.7.34}{8.2.2.34}{5.8.24.4}{242, 627, 6216} गि॒रयः॑¦चि॒त्¦नि¦जि॒ह॒ते॒¦पर्शा᳚नासः¦मन्य॑मानाः | पर्व॑ताः¦चि॒त्¦नि¦ये॒मि॒रे॒ || |
आक्ष्ण॒यावा᳚नो वहन्त्य॒न्तरि॑क्षेण॒ पत॑तः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} धाता᳚रः स्तुव॒ते वयः॑ ||{35/36}{8.7.35}{8.2.2.35}{5.8.24.5}{243, 627, 6217} आ¦अ॒क्ष्ण॒ऽयावा᳚नः¦व॒ह॒न्ति॒¦अ॒न्तरि॑क्षेण¦पत॑तः | धाता᳚रः¦स्तु॒व॒ते¦वयः॑ || |
अ॒ग्निर्हि जानि॑ पू॒र्व्यश्छन्दो॒ न सूरो᳚, अ॒र्चिषा᳚ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} ते भा॒नुभि॒र्वि त॑स्थिरे ||{36/36}{8.7.36}{8.2.2.36}{5.8.24.6}{244, 627, 6218} अ॒ग्निः¦हि¦जनि॑¦पू॒र्व्यः¦छन्दः॑¦न¦सूरः॑¦अ॒र्चिषा᳚ | ते¦भा॒नुऽभिः॑¦वि¦त॒स्थि॒रे॒ || |
[8] आनोविश्वाभिरिति त्रयोविंशत्यृचस्य सूक्तस्य काण्वः सध्वंसोश्विनावनुष्टुप् | |
आ नो॒ विश्वा᳚भिरू॒तिभि॒रश्वि॑ना॒ गच्छ॑तं यु॒वम् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} दस्रा॒ हिर᳚ण्यवर्तनी॒ पिब॑तं सो॒म्यं मधु॑ ||{1/23}{8.8.1}{8.2.3.1}{5.8.25.1}{245, 628, 6219} आ¦नः॒¦विश्वा᳚भिः¦ऊ॒तिऽभिः॑¦अश्वि॑ना¦गच्छ॑तम्¦यु॒वम् | दस्रा᳚¦हिर᳚ण्यवर्तनी॒ इति॒ हिर᳚ण्यऽवर्तनी¦पिब॑तम्¦सो॒म्यम्¦मधु॑ || |
आ नू॒नं या᳚तमश्विना॒ रथे᳚न॒ सूर्य॑त्वचा |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} भुजी॒ हिर᳚ण्यपेशसा॒ कवी॒ गम्भी᳚रचेतसा ||{2/23}{8.8.2}{8.2.3.2}{5.8.25.2}{246, 628, 6220} आ¦नू॒नम्¦या॒त॒म्¦अ॒श्वि॒ना॒¦रथे᳚न¦सूर्य॑ऽत्वचा | भुजी॒ इति॑¦हिर᳚ण्यऽपेशसा¦कवी॒ इति॑¦गम्भी᳚रऽचेतसा || |
आ या᳚तं॒ नहु॑ष॒स्पर्यान्तरि॑क्षात्सुवृ॒क्तिभिः॑ |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} पिबा᳚थो, अश्विना॒ मधु॒ कण्वा᳚नां॒ सव॑ने सु॒तम् ||{3/23}{8.8.3}{8.2.3.3}{5.8.25.3}{247, 628, 6221} आ¦या॒त॒म्¦नहु॑षः¦परि॑¦आ¦अ॒न्तरि॑क्षात्¦सु॒वृ॒क्तिऽभिः॑ | पिबा᳚थः¦अ॒श्वि॒ना॒¦मधु॑¦कण्वा᳚नाम्¦सव॑ने¦सु॒तम् || |
आ नो᳚ यातं दि॒वस्पर्यान्तरि॑क्षादधप्रिया |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} पु॒त्रः कण्व॑स्य वामि॒ह सु॒षाव॑ सो॒म्यं मधु॑ ||{4/23}{8.8.4}{8.2.3.4}{5.8.25.4}{248, 628, 6222} आ¦नः॒¦या॒त॒म्¦दि॒वः¦परि॑¦आ¦अ॒न्तरि॑क्षात्¦अ॒ध॒ऽप्रि॒या॒ | पु॒त्रः¦कण्व॑स्य¦वा॒म्¦इ॒ह¦सु॒साव॑¦सो॒म्यम्¦मधु॑ || |
आ नो᳚ यात॒मुप॑श्रु॒त्यश्वि॑ना॒ सोम॑पीतये |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} स्वाहा॒ स्तोम॑स्य वर्धना॒ प्र क॑वी धी॒तिभि᳚र्नरा ||{5/23}{8.8.5}{8.2.3.5}{5.8.25.5}{249, 628, 6223} आ¦नः॒¦या॒त॒म्¦उप॑ऽश्रुति¦अश्वि॑ना¦सोम॑ऽपीतये | स्वाहा᳚¦स्तोम॑स्य¦व॒र्ध॒ना॒¦प्र¦क॒वी॒ इति॑¦धी॒तिऽभिः॑¦न॒रा॒ || |
यच्चि॒द्धि वां᳚ पु॒र ऋष॑यो जुहू॒रेऽव॑से नरा |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} आ या᳚तमश्वि॒ना ग॑त॒मुपे॒मां सु॑ष्टु॒तिं मम॑ ||{6/23}{8.8.6}{8.2.3.6}{5.8.26.1}{250, 628, 6224} यत्¦चि॒त्¦हि¦वा॒म्¦पु॒रा¦ऋष॑यः¦जु॒हू॒रे¦अव॑से¦न॒रा॒ | आ¦या॒त॒म्¦अ॒श्वि॒ना॒¦आ¦ग॒त॒म्¦उप॑¦इ॒माम्¦सु॒ऽस्तु॒तिम्¦मम॑ || |
दि॒वश्चि॑द्रोच॒नादध्या नो᳚ गन्तं स्वर्विदा |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} धी॒भिर्व॑त्सप्रचेतसा॒ स्तोमे᳚भिर्हवनश्रुता ||{7/23}{8.8.7}{8.2.3.7}{5.8.26.2}{251, 628, 6225} दि॒वः¦चि॒त्¦रो॒च॒नात्¦अधि॑¦आ¦नः॒¦ग॒न्त॒म्¦स्वः॒ऽवि॒दा॒ | धी॒भिः¦व॒त्स॒ऽप्र॒चे॒त॒सा॒¦स्तोमे᳚भिः¦ह॒व॒न॒ऽश्रु॒ता॒ || |
किम॒न्ये पर्या᳚सते॒ऽस्मत् स्तोमे᳚भिर॒श्विना᳚ |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} पु॒त्रः कण्व॑स्य वा॒मृषि॑र्गी॒र्भिर्व॒त्सो, अ॑वीवृधत् ||{8/23}{8.8.8}{8.2.3.8}{5.8.26.3}{252, 628, 6226} किम्¦अ॒न्ये¦परि॑¦आ॒स॒ते॒¦अ॒स्मत्¦स्तोमे᳚भिः¦अ॒श्विना᳚ | पु॒त्रः¦कण्व॑स्य¦वा॒म्¦ऋषिः॑¦गीः॒ऽभिः¦व॒त्सः¦अ॒वी॒वृ॒ध॒त् || |
आ वां॒ विप्र॑ इ॒हाव॒सेऽह्व॒त् स्तोमे᳚भिरश्विना |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} अरि॑प्रा॒ वृत्र॑हन्तमा॒ ता नो᳚ भूतं मयो॒भुवा᳚ ||{9/23}{8.8.9}{8.2.3.9}{5.8.26.4}{253, 628, 6227} आ¦वा॒म्¦विप्रः॑¦इ॒ह¦अव॑से¦अह्व॑त्¦स्तोमे᳚भिः¦अ॒श्वि॒ना॒ | अरि॑प्रा¦वृत्र॑हन्ऽतमा¦ता¦नः॒¦भू॒त॒म्¦म॒यः॒ऽभुवा᳚ || |
आ यद्वां॒ योष॑णा॒ रथ॒मति॑ष्ठद्वाजिनीवसू |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} विश्वा᳚न्यश्विना यु॒वं प्र धी॒तान्य॑गच्छतम् ||{10/23}{8.8.10}{8.2.3.10}{5.8.26.5}{254, 628, 6228} आ¦यत्¦वा॒म्¦योष॑णा¦रथ᳚म्¦अति॑ष्ठत्¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू | विश्वा᳚नि¦अ॒श्वि॒ना॒¦यु॒वम्¦प्र¦धी॒तानि॑¦अ॒ग॒च्छ॒त॒म् || |
अतः॑ स॒हस्र॑निर्णिजा॒ रथे॒ना या᳚तमश्विना |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} व॒त्सो वां॒ मधु॑म॒द्वचोऽशं᳚सीत्का॒व्यः क॒विः ||{11/23}{8.8.11}{8.2.3.11}{5.8.27.1}{255, 628, 6229} अतः॑¦स॒हस्र॑ऽनिर्निजा¦रथे᳚न¦आ¦या॒त॒म्¦अ॒श्वि॒ना॒ | व॒त्सः¦वा॒म्¦मधु॑ऽमत्¦वचः॑¦अशं᳚सीत्¦का॒व्यः¦क॒विः || |
पु॒रु॒म॒न्द्रा पु॑रू॒वसू᳚ मनो॒तरा᳚ रयी॒णाम् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} स्तोमं᳚ मे, अ॒श्विना᳚वि॒मम॒भि वह्नी᳚, अनूषाताम् ||{12/23}{8.8.12}{8.2.3.12}{5.8.27.2}{256, 628, 6230} पु॒रु॒ऽम॒न्द्रा¦पु॒रु॒वसू॒ इति॑ पु॒रु॒ऽवसू᳚¦म॒नो॒तरा᳚¦र॒यी॒णाम् | स्तोम᳚म्¦मे॒¦अ॒श्विनौ᳚¦इ॒मम्¦अ॒भि¦वह्नी॒ इति॑¦अ॒नू॒षा॒ता॒म् || |
आ नो॒ विश्वा᳚न्यश्विना ध॒त्तं राधां॒स्यह्र॑या |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} कृ॒तं न॑ ऋ॒त्विया᳚वतो॒ मा नो᳚ रीरधतं नि॒दे ||{13/23}{8.8.13}{8.2.3.13}{5.8.27.3}{257, 628, 6231} आ¦नः॒¦विश्वा᳚नि¦अ॒श्वि॒ना॒¦ध॒त्तम्¦राधां᳚सि¦अह्र॑या | कृ॒तम्¦नः॒¦ऋ॒त्विय॑ऽवतः¦मा¦नः॒¦री॒र॒ध॒त॒म्¦नि॒दे || |
यन्ना᳚सत्या परा॒वति॒ यद्वा॒ स्थो, अध्यम्ब॑रे |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} अतः॑ स॒हस्र॑निर्णिजा॒ रथे॒ना या᳚तमश्विना ||{14/23}{8.8.14}{8.2.3.14}{5.8.27.4}{258, 628, 6232} यत्¦ना॒स॒त्या॒¦प॒रा॒ऽवति॑¦यत्¦वा॒¦स्थः¦अधि॑¦अम्ब॑रे | अतः॑¦स॒हस्र॑ऽनिर्निजा¦रथे᳚न¦आ¦या॒त॒म्¦अ॒श्वि॒ना॒ || |
यो वां᳚ नासत्या॒वृषि॑र्गी॒र्भिर्व॒त्सो, अवी᳚वृधत् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} तस्मै᳚ स॒हस्र॑निर्णिज॒मिषं᳚ धत्तं घृत॒श्चुत᳚म् ||{15/23}{8.8.15}{8.2.3.15}{5.8.27.5}{259, 628, 6233} यः¦वा॒म्¦ना॒स॒त्यौ॒¦ऋषिः॑¦गीः॒ऽभिः¦व॒त्सः¦अवी᳚वृधत् | तस्मै᳚¦स॒हस्र॑ऽनिर्निजम्¦इष᳚म्¦ध॒त्त॒म्¦घृ॒त॒ऽश्चुत᳚म् || |
प्रास्मा॒, ऊर्जं᳚ घृत॒श्चुत॒मश्वि॑ना॒ यच्छ॑तं यु॒वम् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} यो वां᳚ सु॒म्नाय॑ तु॒ष्टव॑द्वसू॒याद्दा᳚नुनस्पती ||{16/23}{8.8.16}{8.2.3.16}{5.8.28.1}{260, 628, 6234} प्र¦अ॒स्मै॒¦ऊर्ज᳚म्¦घृ॒त॒ऽश्चुत᳚म्¦अश्वि॑ना¦यच्छ॑तम्¦यु॒वम् | यः¦वा॒म्¦सु॒म्नाय॑¦तु॒स्तव॑त्¦व॒सु॒ऽयात्¦दा॒नु॒नः॒¦प॒ती॒ इति॑ || |
आ नो᳚ गन्तं रिशादसे॒मं स्तोमं᳚ पुरुभुजा |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} कृ॒तं नः॑ सु॒श्रियो᳚ नरे॒मा दा᳚तम॒भिष्ट॑ये ||{17/23}{8.8.17}{8.2.3.17}{5.8.28.2}{261, 628, 6235} आ¦नः॒¦ग॒न्त॒म्¦रि॒शा॒द॒सा॒¦इ॒मम्¦स्तोम᳚म्¦पु॒रु॒ऽभु॒जा॒ | कृ॒तम्¦नः॒¦सु॒ऽश्रियः॑¦न॒रा॒¦इ॒मा¦दा॒त॒म्¦अ॒भिष्ट॑ये || |
आ वां॒ विश्वा᳚भिरू॒तिभिः॑ प्रि॒यमे᳚धा, अहूषत |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} राज᳚न्तावध्व॒राणा॒मश्वि॑ना॒ याम॑हूतिषु ||{18/23}{8.8.18}{8.2.3.18}{5.8.28.3}{262, 628, 6236} आ¦वा॒म्¦विश्वा᳚भिः¦ऊ॒तिऽभिः॑¦प्रि॒यऽमे᳚धाः¦अ॒हू॒ष॒त॒ | राज᳚न्तौ¦अ॒ध्व॒राणा᳚म्¦अश्वि॑ना¦याम॑ऽहूतिषु || |
आ नो᳚ गन्तं मयो॒भुवाश्वि॑ना श॒म्भुवा᳚ यु॒वम् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} यो वां᳚ विपन्यू धी॒तिभि॑र्गी॒र्भिर्व॒त्सो, अवी᳚वृधत् ||{19/23}{8.8.19}{8.2.3.19}{5.8.28.4}{263, 628, 6237} आ¦नः॒¦ग॒न्त॒म्¦म॒यः॒ऽभुवा᳚¦अश्वि॑ना¦श॒म्ऽभुवा᳚¦यु॒वम् | यः¦वा॒म्¦वि॒प॒न्यू॒ इति॑¦धी॒तिऽभिः॑¦गीः॒ऽभिः¦व॒त्सः¦अवी᳚वृधत् || |
याभिः॒ कण्वं॒ मेधा᳚तिथिं॒ याभि॒र्वशं॒ दश᳚व्रजम् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} याभि॒र्गोश᳚र्य॒माव॑तं॒ ताभि᳚र्नोऽवतं नरा ||{20/23}{8.8.20}{8.2.3.20}{5.8.28.5}{264, 628, 6238} याभिः॑¦कण्व᳚म्¦मेध॑।आतिथिम्¦याभिः॑¦वश᳚म्¦दश॑ऽव्रजम् | याभिः॑¦गोऽश᳚र्यम्¦आव॑तम्¦ताभिः॑¦नः॒¦अ॒व॒त॒म्¦न॒रा॒ || |
याभि᳚र्नरा त्र॒सद॑स्यु॒माव॑तं॒ कृत्व्ये॒ धने᳚ |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} ताभिः॒ ष्व१॑(अ॒)स्माँ, अ॑श्विना॒ प्राव॑तं॒ वाज॑सातये ||{21/23}{8.8.21}{8.2.3.21}{5.8.29.1}{265, 628, 6239} याभिः॑¦न॒रा॒¦त्र॒सद॑स्युम्¦आव॑तम्¦कृत्व्ये᳚¦धने᳚ | ताभिः॑¦सु¦अ॒स्मान्¦अ॒श्वि॒ना॒¦प्र¦अ॒व॒त॒म्¦वाज॑ऽसातये || |
प्र वां॒ स्तोमाः᳚ सुवृ॒क्तयो॒ गिरो᳚ वर्धन्त्वश्विना |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} पुरु॑त्रा॒ वृत्र॑हन्तमा॒ ता नो᳚ भूतं पुरु॒स्पृहा᳚ ||{22/23}{8.8.22}{8.2.3.22}{5.8.29.2}{266, 628, 6240} प्र¦वा॒म्¦स्तोमाः᳚¦सु॒ऽवृ॒क्तयः॑¦गिरः॑¦व॒र्ध॒न्तु॒¦अ॒श्वि॒ना॒ | पुरु॑ऽत्रा¦वृत्र॑हन्ऽतमा¦ता¦नः॒¦भू॒त॒म्¦पु॒रु॒ऽस्पृहा᳚ || |
त्रीणि॑ प॒दान्य॒श्विनो᳚रा॒विः सान्ति॒ गुहा᳚ प॒रः |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} क॒वी, ऋ॒तस्य॒ पत्म॑भिर॒र्वाग्जी॒वेभ्य॒स्परि॑ ||{23/23}{8.8.23}{8.2.3.23}{5.8.29.3}{267, 628, 6241} त्रीणि॑¦प॒दानि॑¦अ॒श्विनोः᳚¦आ॒विः¦सन्ति॑¦गुहा᳚¦प॒रः | क॒वी इति॑¦ऋ॒तस्य॑¦पत्म॑ऽभिः¦अ॒र्वाक्¦जी॒वेभ्यः॑¦परि॑ || |
[9] आनूनमित्येकविंशत्यृचस्य सूक्तस्य काण्वः शशकर्णोश्विनावनुष्टुप् आद्याचतुर्थी षष्ठीचतुर्दशी पंचदश्योबृहत्यः द्वितीयातृतीया विंश्येकविंश्योगायत्र्यः पंचमी ककुप् दशमीस्त्रिष्ठुबेकादशीविराड् द्वादशी जगती | |
आ नू॒नम॑श्विना यु॒वं व॒त्सस्य॑ गन्त॒मव॑से |{काण्वः शशकर्णः | अश्विनौ | बृहती} प्रास्मै᳚ यच्छतमवृ॒कं पृ॒थु च्छ॒र्दिर्यु॑यु॒तं या, अरा᳚तयः ||{1/21}{8.9.1}{8.2.4.1}{5.8.30.1}{268, 629, 6242} आ¦नू॒नम्¦अ॒श्वि॒ना॒¦यु॒वम्¦व॒त्सस्य॑¦ग॒न्त॒म्¦अव॑से | |
यद॒न्तरि॑क्षे॒ यद्दि॒वि यत्पञ्च॒ मानु॑षाँ॒, अनु॑ |{काण्वः शशकर्णः | अश्विनौ | गायत्री} नृ॒म्णं तद्ध॑त्तमश्विना ||{2/21}{8.9.2}{8.2.4.2}{5.8.30.2}{269, 629, 6243} यत्¦अ॒न्तरि॑क्षे¦यत्¦दि॒वि¦यत्¦पंच॑¦मानु॑षान्¦अनु॑ | नृ॒म्णम्¦तत्¦ध॒त्त॒म्¦अ॒श्वि॒ना॒ || |
ये वां॒ दंसां᳚स्यश्विना॒ विप्रा᳚सः परिमामृ॒शुः |{काण्वः शशकर्णः | अश्विनौ | गायत्री} ए॒वेत्का॒ण्वस्य॑ बोधतम् ||{3/21}{8.9.3}{8.2.4.3}{5.8.30.3}{270, 629, 6244} ये¦वा॒म्¦दंसां᳚सि¦अ॒श्वि॒ना॒¦विप्रा᳚सः¦प॒रि॒ऽम॒मृ॒शुः | ए॒व¦इत्¦का॒ण्वस्य॑¦बो॒ध॒त॒म् || |
अ॒यं वां᳚ घ॒र्मो, अ॑श्विना॒ स्तोमे᳚न॒ परि॑ षिच्यते |{काण्वः शशकर्णः | अश्विनौ | बृहती} अ॒यं सोमो॒ मधु॑मान्वाजिनीवसू॒ येन॑ वृ॒त्रं चिके᳚तथः ||{4/21}{8.9.4}{8.2.4.4}{5.8.30.4}{271, 629, 6245} अ॒यम्¦वा॒म्¦घ॒र्मः¦अ॒श्वि॒ना॒¦स्तोमे᳚न¦परि॑¦सि॒च्य॒ते॒ | |
यद॒प्सु यद्वन॒स्पतौ॒ यदोष॑धीषु पुरुदंससा कृ॒तम् |{काण्वः शशकर्णः | अश्विनौ | ककुप्} तेन॑ माविष्टमश्विना ||{5/21}{8.9.5}{8.2.4.5}{5.8.30.5}{272, 629, 6246} यत्¦अ॒प्ऽसु¦यत्¦वन॒स्पतौ᳚¦यत्¦ओष॑धीषु¦पु॒रु॒ऽदं॒स॒सा॒¦कृ॒तम् | तेन॑¦मा॒¦अ॒वि॒ष्ट॒म्¦अ॒श्वि॒ना॒ || |
यन्ना᳚सत्या भुर॒ण्यथो॒ यद्वा᳚ देव भिष॒ज्यथः॑ |{काण्वः शशकर्णः | अश्विनौ | बृहती} अ॒यं वां᳚ व॒त्सो म॒तिभि॒र्न वि᳚न्धते ह॒विष्म᳚न्तं॒ हि गच्छ॑थः ||{6/21}{8.9.6}{8.2.4.6}{5.8.31.1}{273, 629, 6247} यत्¦ना॒स॒त्या॒¦भु॒र॒ण्यथः॑¦यत्¦वा॒¦दे॒वा॒¦भि॒ष॒ज्यथः॑ | |
आ नू॒नम॒श्विनो॒रृषिः॒ स्तोमं᳚ चिकेत वा॒मया᳚ |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्} आ सोमं॒ मधु॑मत्तमं घ॒र्मं सि᳚ञ्चा॒दथ᳚र्वणि ||{7/21}{8.9.7}{8.2.4.7}{5.8.31.2}{274, 629, 6248} आ¦नू॒नम्¦अ॒श्विनोः᳚¦ऋषिः॑¦स्तोम᳚म्¦चि॒के॒त॒¦वा॒मया᳚ | आ¦सोम᳚म्¦मधु॑मत्ऽतमम्¦घ॒र्मम्¦सिं॒चा॒त्¦अथ᳚र्वणि || |
आ नू॒नं र॒घुव॑र्तनिं॒ रथं᳚ तिष्ठाथो, अश्विना |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्} आ वां॒ स्तोमा᳚, इ॒मे मम॒ नभो॒ न चु॑च्यवीरत ||{8/21}{8.9.8}{8.2.4.8}{5.8.31.3}{275, 629, 6249} आ¦नू॒नम्¦र॒घुऽव॑र्तनिम्¦रथ᳚म्¦ति॒ष्ठा॒थः॒¦अ॒श्वि॒ना॒ | आ¦वा॒म्¦स्तोमाः᳚¦इ॒मे¦मम॑¦नभः॑¦न¦चु॒च्य॒वी॒र॒त॒ || |
यद॒द्य वां᳚ नासत्यो॒क्थैरा᳚चुच्युवी॒महि॑ |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्} यद्वा॒ वाणी᳚भिरश्विने॒वेत्का॒ण्वस्य॑ बोधतम् ||{9/21}{8.9.9}{8.2.4.9}{5.8.31.4}{276, 629, 6250} यत्¦अ॒द्य¦वा॒म्¦ना॒स॒त्या॒¦उ॒क्थैः¦आ॒ऽचु॒च्यु॒वी॒महि॑ | यत्¦वा॒¦वाणी᳚भिः¦अ॒श्वि॒ना॒¦ए॒व¦इत्¦का॒ण्वस्य॑¦बो॒ध॒त॒म् || |
यद्वां᳚ क॒क्षीवाँ᳚, उ॒त यद् व्य॑श्व॒ ऋषि॒र्यद्वां᳚ दी॒र्घत॑मा जु॒हाव॑ |{काण्वः शशकर्णः | अश्विनौ | त्रिष्टुप्} पृथी॒ यद्वां᳚ वै॒न्यः साद॑नेष्वे॒वेदतो᳚, अश्विना चेतयेथाम् ||{10/21}{8.9.10}{8.2.4.10}{5.8.31.5}{277, 629, 6251} यत्¦वा॒म्¦क॒क्षीवा᳚न्¦उ॒त¦यत्¦वि।आ॑श्वः¦ऋषिः॑¦यत्¦वा॒म्¦दी॒र्घऽत॑माः¦जु॒हाव॑ | |
या॒तं छ॑र्दि॒ष्पा, उ॒त नः॑ पर॒स्पा भू॒तं ज॑ग॒त्पा, उ॒त न॑स्तनू॒पा |{काण्वः शशकर्णः | अश्विनौ | विराट्} व॒र्तिस्तो॒काय॒ तन॑याय यातम् ||{11/21}{8.9.11}{8.2.4.11}{5.8.32.1}{278, 629, 6252} या॒तम्¦छ॒र्दिः॒ऽपौ¦उ॒त¦नः॒¦प॒रः॒ऽपा¦भू॒तम्¦ज॒ग॒त्ऽपौ¦उ॒त¦नः॒¦त॒नू॒ऽपा | व॒र्तिः¦तो॒काय॑¦तन॑याय¦या॒त॒म् || |
यदिन्द्रे᳚ण स॒रथं᳚ या॒थो, अ॑श्विना॒ यद्वा᳚ वा॒युना॒ भव॑थः॒ समो᳚कसा |{काण्वः शशकर्णः | अश्विनौ | जगती} यदा᳚दि॒त्येभि᳚रृ॒भुभिः॑ स॒जोष॑सा॒ यद्वा॒ विष्णो᳚र्वि॒क्रम॑णेषु॒ तिष्ठ॑थः ||{12/21}{8.9.12}{8.2.4.12}{5.8.32.2}{279, 629, 6253} यत्¦इन्द्रे᳚ण¦स॒ऽरथ᳚म्¦या॒थः¦अ॒श्वि॒ना॒¦यत्¦वा॒¦वा॒युना᳚¦भव॑थः¦सम्ऽओ᳚कसा | |
यद॒द्याश्विना᳚व॒हं हु॒वेय॒ वाज॑सातये |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्} यत् पृ॒त्सु तु॒र्वणे॒ सह॒स्तच्छ्रेष्ठ॑म॒श्विनो॒रवः॑ ||{13/21}{8.9.13}{8.2.4.13}{5.8.32.3}{280, 629, 6254} यत्¦अ॒द्य¦अ॒श्विनौ᳚¦अ॒हम्¦हु॒वेय॑¦वाज॑ऽसातये | यत्¦पृ॒त्ऽसु¦तु॒र्वणे᳚¦सहः॑¦तत्¦श्रेष्ठ᳚म्¦अ॒श्विनोः᳚¦अवः॑ || |
आ नू॒नं या᳚तमश्विने॒मा ह॒व्यानि॑ वां हि॒ता |{काण्वः शशकर्णः | अश्विनौ | बृहती} इ॒मे सोमा᳚सो॒, अधि॑ तु॒र्वशे॒ यदा᳚वि॒मे कण्वे᳚षु वा॒मथ॑ ||{14/21}{8.9.14}{8.2.4.14}{5.8.32.4}{281, 629, 6255} आ¦नू॒नम्¦या॒त॒म्¦अ॒श्वि॒ना॒¦इ॒मा¦ह॒व्यानि॑¦वा॒म्¦हि॒ता | |
यन्ना᳚सत्या परा॒के, अ᳚र्वा॒के, अस्ति॑ भेष॒जम् |{काण्वः शशकर्णः | अश्विनौ | बृहती} तेन॑ नू॒नं वि॑म॒दाय॑ प्रचेतसा छ॒र्दिर्व॒त्साय॑ यच्छतम् ||{15/21}{8.9.15}{8.2.4.15}{5.8.32.5}{282, 629, 6256} यत्¦ना॒स॒त्या॒¦प॒रा॒के¦अ॒र्वा॒के¦अस्ति॑¦भे॒ष॒जम् | |
अभु॑त्स्यु॒ प्र दे॒व्या सा॒कं वा॒चाहम॒श्विनोः᳚ |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्} व्या᳚वर्दे॒व्या म॒तिं वि रा॒तिं मर्त्ये᳚भ्यः ||{16/21}{8.9.16}{8.2.4.16}{5.8.33.1}{283, 629, 6257} अभु॑त्सि¦ऊँ॒ इति॑¦प्र¦दे॒व्या¦सा॒कम्¦वा॒चा¦अ॒हम्¦अ॒श्विनोः᳚ | वि¦आ॒वः॒¦दे॒वि॒¦आ¦म॒तिम्¦वि¦रा॒तिम्¦मर्त्ये᳚भ्यः || |
प्र बो᳚धयोषो, अ॒श्विना॒ प्र दे᳚वि सूनृते महि |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्} प्र य॑ज्ञहोतरानु॒षक्प्र मदा᳚य॒ श्रवो᳚ बृ॒हत् ||{17/21}{8.9.17}{8.2.4.17}{5.8.33.2}{284, 629, 6258} प्र¦बो॒ध॒य॒¦उ॒षः॒¦अ॒श्विना᳚¦प्र¦दे॒वि॒¦सू॒नृ॒ते॒¦म॒हि॒ | प्र¦य॒ज्ञ॒ऽहो॒तः॒¦आ॒नु॒षक्¦प्र¦मदा᳚य¦श्रवः॑¦बृ॒हत् || |
यदु॑षो॒ यासि॑ भा॒नुना॒ सं सूर्ये᳚ण रोचसे |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्} आ हा॒यम॒श्विनो॒ रथो᳚ व॒र्तिर्या᳚ति नृ॒पाय्य᳚म् ||{18/21}{8.9.18}{8.2.4.18}{5.8.33.3}{285, 629, 6259} यत्¦उ॒षः॒¦यासि॑¦भा॒नुना᳚¦सम्¦सूर्ये᳚ण¦रो॒च॒से॒ | आ¦ह॒¦अ॒यम्¦अ॒श्विनोः᳚¦रथः॑¦व॒र्तिः¦या॒ति॒¦नृ॒ऽपाय्य᳚म् || |
यदापी᳚तासो, अं॒शवो॒ गावो॒ न दु॒ह्र ऊध॑भिः |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्} यद्वा॒ वाणी॒रनू᳚षत॒ प्र दे᳚व॒यन्तो᳚, अ॒श्विना᳚ ||{19/21}{8.9.19}{8.2.4.19}{5.8.33.4}{286, 629, 6260} यत्¦आऽपी᳚तासः¦अं॒शवः॑¦गावः॑¦न¦दु॒ह्रे¦ऊध॑ऽभिः | यत्¦वा॒¦वाणीः᳚¦अनू᳚षत¦प्र¦दे॒व॒ऽयन्तः॑¦अ॒श्विना᳚ || |
प्र द्यु॒म्नाय॒ प्र शव॑से॒ प्र नृ॒षाह्या᳚य॒ शर्म॑णे |{काण्वः शशकर्णः | अश्विनौ | गायत्री} प्र दक्षा᳚य प्रचेतसा ||{20/21}{8.9.20}{8.2.4.20}{5.8.33.5}{287, 629, 6261} प्र¦द्यु॒म्नाय॑¦प्र¦शव॑से¦प्र¦नृ॒ऽसह्या᳚य¦शर्म॑णे | प्र¦दक्षा᳚य¦प्र॒ऽचे॒त॒सा॒ || |
यन्नू॒नं धी॒भिर॑श्विना पि॒तुर्योना᳚ नि॒षीद॑थः |{काण्वः शशकर्णः | अश्विनौ | गायत्री} यद्वा᳚ सु॒म्नेभि॑रुक्थ्या ||{21/21}{8.9.21}{8.2.4.21}{5.8.33.6}{288, 629, 6262} यत्¦नू॒नम्¦धी॒भिः¦अ॒श्वि॒ना॒¦पि॒तुः¦योना᳚¦नि॒ऽसीद॑थः | यत्¦वा॒¦सु॒म्नेभिः॑¦उ॒क्थ्या॒ || |
[10] यत्स्थइति षडृचस्य सूक्तस्य काण्वः प्रगाथोश्विनौक्रमेण बृहतीमध्येज्योतिरनुष्टुबास्तारपंक्तिर्बृहतीसतोबृहत्यः | |
यत् स्थो दी॒र्घप्र॑सद्मनि॒ यद्वा॒दो रो᳚च॒ने दि॒वः |{काण्वः प्रगाथः | अश्विनौ | बृहति} यद्वा᳚ समु॒द्रे, अध्याकृ॑ते गृ॒हेऽत॒ आ या᳚तमश्विना ||{1/6}{8.10.1}{8.2.5.1}{5.8.34.1}{289, 630, 6263} यत्¦स्थः¦दी॒र्घऽप्र॑सद्मनि¦यत्¦वा॒¦अ॒दः¦रो॒च॒ने¦दि॒वः | |
यद्वा᳚ य॒ज्ञं मन॑वे सम्मिमि॒क्षथु॑रे॒वेत्का॒ण्वस्य॑ बोधतम् |{काण्वः प्रगाथः | अश्विनौ | मध्येज्योति} बृह॒स्पतिं॒ विश्वा᳚न्दे॒वाँ, अ॒हं हु॑व॒ इन्द्रा॒विष्णू᳚, अ॒श्विना᳚वाशु॒हेष॑सा ||{2/6}{8.10.2}{8.2.5.2}{5.8.34.2}{290, 630, 6264} यत्¦वा॒¦य॒ज्ञम्¦मन॑वे¦स॒म्ऽमि॒मि॒क्षथुः॑¦ए॒व¦इत्¦का॒ण्वस्य॑¦बो॒ध॒त॒म् | |
त्या न्व१॑(अ॒)श्विना᳚ हुवे सु॒दंस॑सा गृ॒भे कृ॒ता |{काण्वः प्रगाथः | अश्विनौ | अनुष्टुप्} ययो॒रस्ति॒ प्र णः॑ स॒ख्यं दे॒वेष्वध्याप्य᳚म् ||{3/6}{8.10.3}{8.2.5.3}{5.8.34.3}{291, 630, 6265} त्या¦नु¦अ॒श्विना᳚¦हु॒वे॒¦सु॒ऽदंस॑सा¦गृ॒भे¦कृ॒ता | ययोः᳚¦अस्ति॑¦प्र¦नः॒¦स॒ख्यम्¦दे॒वेषु॑¦अधि॑¦आप्य᳚म् || |
ययो॒रधि॒ प्र य॒ज्ञा, अ॑सू॒रे सन्ति॑ सू॒रयः॑ |{काण्वः प्रगाथः | अश्विनौ | आस्तारपंक्ति} ता य॒ज्ञस्या᳚ध्व॒रस्य॒ प्रचे᳚तसा स्व॒धाभि॒र्या पिब॑तः सो॒म्यं मधु॑ ||{4/6}{8.10.4}{8.2.5.4}{5.8.34.4}{292, 630, 6266} ययोः᳚¦अधि॑¦प्र¦य॒ज्ञाः¦अ॒सू॒रे¦सन्ति॑¦सू॒रयः॑ | |
यद॒द्याश्वि॑ना॒वपा॒ग्यत्प्राक्स्थो वा᳚जिनीवसू |{काण्वः प्रगाथः | अश्विनौ | बृहति} यद्द्रु॒ह्यव्यन॑वि तु॒र्वशे॒ यदौ᳚ हु॒वे वा॒मथ॒ मा ग॑तम् ||{5/6}{8.10.5}{8.2.5.5}{5.8.34.5}{293, 630, 6267} यत्¦अ॒द्य¦अ॒श्वि॒नौ॒¦अपा᳚क्¦यत्¦प्राक्¦स्थः¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू | |
यद॒न्तरि॑क्षे॒ पत॑थः पुरुभुजा॒ यद्वे॒मे रोद॑सी॒, अनु॑ |{काण्वः प्रगाथः | अश्विनौ | सतोबृहति} यद्वा᳚ स्व॒धाभि॑रधि॒तिष्ठ॑थो॒ रथ॒मत॒ आ या᳚तमश्विना ||{6/6}{8.10.6}{8.2.5.6}{5.8.34.6}{294, 630, 6268} यत्¦अ॒न्तरि॑क्षे¦पत॑थः¦पु॒रु॒ऽभु॒जा॒¦यत्¦वा॒¦इ॒मे इति॑¦रोद॑सी॒ इति॑¦अनु॑ | |
[11] त्वमग्नइति दशर्चस्य सूक्तस्य काण्वोवत्सोग्निर्गायत्री प्रथमाप्रतिष्ठा द्वितीयावर्धमानांत्यात्रिष्टुप् | |
त्वम॑ग्ने व्रत॒पा, अ॑सि दे॒व आ मर्त्ये॒ष्वा |{काण्वो वत्सः | अग्निः | प्रतिष्ठा गायत्री} त्वं य॒ज्ञेष्वीड्यः॑ ||{1/10}{8.11.1}{8.2.6.1}{5.8.35.1}{295, 631, 6269} त्वम्¦अ॒ग्ने॒¦व्र॒त॒ऽपाः¦अ॒सि॒¦दे॒वः¦आ¦मर्त्ये᳚षु¦आ | त्वम्¦य॒ज्ञेषु॑¦ईड्यः॑ || |
त्वम॑सि प्र॒शस्यो᳚ वि॒दथे᳚षु सहन्त्य |{काण्वो वत्सः | अग्निः | वर्धमाना गायत्री} अग्ने᳚ र॒थीर॑ध्व॒राणा᳚म् ||{2/10}{8.11.2}{8.2.6.2}{5.8.35.2}{296, 631, 6270} त्वम्¦अ॒सि॒¦प्र॒ऽशस्यः॑¦वि॒दथे᳚षु¦स॒ह॒न्त्य॒ | अग्ने᳚¦र॒थीः¦अ॒ध्व॒राणा᳚म् || |
स त्वम॒स्मदप॒ द्विषो᳚ युयो॒धि जा᳚तवेदः |{काण्वो वत्सः | अग्निः | गायत्री} अदे᳚वीरग्ने॒, अरा᳚तीः ||{3/10}{8.11.3}{8.2.6.3}{5.8.35.3}{297, 631, 6271} सः¦त्वम्¦अ॒स्मत्¦अप॑¦द्विषः॑¦यु॒यो॒धि¦जा॒त॒ऽवे॒दः॒ | अदे᳚वीः¦अ॒ग्ने॒¦अरा᳚तीः || |
अन्ति॑ चि॒त्सन्त॒मह॑ य॒ज्ञं मर्त॑स्य रि॒पोः |{काण्वो वत्सः | अग्निः | गायत्री} नोप॑ वेषि जातवेदः ||{4/10}{8.11.4}{8.2.6.4}{5.8.35.4}{298, 631, 6272} अन्ति॑¦चि॒त्¦सन्त᳚म्¦अह॑¦य॒ज्ञम्¦मर्त॑स्य¦रि॒पोः | न¦उप॑¦वे॒षि॒¦जा॒त॒ऽवे॒दः॒ || |
मर्ता॒, अम॑र्त्यस्य ते॒ भूरि॒ नाम॑ मनामहे |{काण्वो वत्सः | अग्निः | गायत्री} विप्रा᳚सो जा॒तवे᳚दसः ||{5/10}{8.11.5}{8.2.6.5}{5.8.35.5}{299, 631, 6273} मर्ताः᳚¦अम॑र्त्यस्य¦ते॒¦भूरि॑¦नाम॑¦म॒ना॒म॒हे॒ | विप्रा᳚सः¦जा॒तऽवे᳚दसः || |
विप्रं॒ विप्रा॒सोऽव॑से दे॒वं मर्ता᳚स ऊ॒तये᳚ |{काण्वो वत्सः | अग्निः | गायत्री} अ॒ग्निं गी॒र्भिर्ह॑वामहे ||{6/10}{8.11.6}{8.2.6.6}{5.8.36.1}{300, 631, 6274} विप्र᳚म्¦विप्रा᳚सः¦अव॑से¦दे॒वम्¦मर्ता᳚सः¦ऊ॒तये᳚ | अ॒ग्निम्¦गीः॒ऽभिः¦ह॒वा॒म॒हे॒ || |
आ ते᳚ व॒त्सो मनो᳚ यमत्पर॒माच्चि॑त्स॒धस्था᳚त् |{काण्वो वत्सः | अग्निः | गायत्री} अग्ने॒ त्वांका᳚मया गि॒रा ||{7/10}{8.11.7}{8.2.6.7}{5.8.36.2}{301, 631, 6275} आ¦ते॒¦व॒त्सः¦मनः॑¦य॒म॒त्¦प॒र॒मात्¦चि॒त्¦स॒धऽस्था᳚त् | अग्ने᳚¦त्वाम्ऽका᳚मया¦गि॒रा || |
पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒, अनु॑ प्र॒भुः |{काण्वो वत्सः | अग्निः | गायत्री} स॒मत्सु॑ त्वा हवामहे ||{8/10}{8.11.8}{8.2.6.8}{5.8.36.3}{302, 631, 6276} पु॒रु॒ऽत्रा¦हि¦स॒ऽदृङ्¦असि॑¦विशः॑¦विश्वाः᳚¦अनु॑¦प्र॒ऽभुः | स॒मत्ऽसु॑¦त्वा॒¦ह॒वा॒म॒हे॒ || |
स॒मत्स्व॒ग्निमव॑से वाज॒यन्तो᳚ हवामहे |{काण्वो वत्सः | अग्निः | गायत्री} वाजे᳚षु चि॒त्ररा᳚धसम् ||{9/10}{8.11.9}{8.2.6.9}{5.8.36.4}{303, 631, 6277} स॒मत्ऽसु॑¦अ॒ग्निम्¦अव॑से¦वा॒ज॒ऽयन्तः॑¦ह॒वा॒म॒हे॒ | वाजे᳚षु¦चि॒त्रऽरा᳚धसम् || |
प्र॒त्नो हि क॒मीड्यो᳚, अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑ |{काण्वो वत्सः | अग्निः | त्रिष्टुप्} स्वां चा᳚ग्ने त॒न्वं᳚ पि॒प्रय॑स्वा॒स्मभ्यं᳚ च॒ सौभ॑ग॒मा य॑जस्व ||{10/10}{8.11.10}{8.2.6.10}{5.8.36.5}{304, 631, 6278} प्र॒त्नः¦हि¦क॒म्¦ईड्यः॑¦अ॒ध्व॒रेषु॑¦स॒नात्¦च॒¦होता᳚¦नव्यः॑¦च॒¦सत्सि॑ | |
[12] यइंद्रेति त्रयस्त्रिंशदृचस्य सूक्तस्य काण्वः पर्वत इंद्र उष्णिक् | |
य इ᳚न्द्र सोम॒पात॑मो॒ मदः॑ शविष्ठ॒ चेत॑ति |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} येना॒ हंसि॒ न्य१॑(अ॒)त्रिणं॒ तमी᳚महे ||{1/33}{8.12.1}{8.2.7.1}{6.1.1.1}{305, 632, 6279} यः¦इ॒न्द्र॒¦सो॒म॒ऽपात॑मः¦मदः॑¦श॒वि॒ष्ठ॒¦चेत॑ति | येन॑¦हंसि॑¦नि¦अ॒त्रिण᳚म्¦तम्¦ई॒म॒हे॒ || |
येना॒ दश॑ग्व॒मध्रि॑गुं वे॒पय᳚न्तं॒ स्व᳚र्णरम् |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} येना᳚ समु॒द्रमावि॑था॒ तमी᳚महे ||{2/33}{8.12.2}{8.2.7.2}{6.1.1.2}{306, 632, 6280} येन॑¦दश॑ऽग्वम्¦अध्रि॑ऽगुम्¦वे॒पय᳚न्तम्¦स्वः॑ऽनरम् | येन॑¦स॒मु॒द्रम्¦आवि॑थ¦तम्¦ई॒म॒हे॒ || |
येन॒ सिन्धुं᳚ म॒हीर॒पो रथाँ᳚, इव प्रचो॒दयः॑ |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} पन्था᳚मृ॒तस्य॒ यात॑वे॒ तमी᳚महे ||{3/33}{8.12.3}{8.2.7.3}{6.1.1.3}{307, 632, 6281} येन॑¦सिन्धु᳚म्¦म॒हीः¦अ॒पः¦रथा᳚न्ऽइव¦प्र॒ऽचो॒दयः॑ | पन्था᳚म्¦ऋ॒तस्य॑¦यात॑वे¦तम्¦ई॒म॒हे॒ || |
इ॒मं स्तोम॑म॒भिष्ट॑ये घृ॒तं न पू॒तम॑द्रिवः |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} येना॒ नु स॒द्य ओज॑सा व॒वक्षि॑थ ||{4/33}{8.12.4}{8.2.7.4}{6.1.1.4}{308, 632, 6282} इ॒मम्¦स्तोम᳚म्¦अ॒भिष्ट॑ये¦घृ॒तम्¦न¦पू॒तम्¦अ॒द्रि॒ऽवः॒ | येन॑¦नु¦स॒द्यः¦ओज॑सा¦व॒वक्षि॑थ || |
इ॒मं जु॑षस्व गिर्वणः समु॒द्र इ॑व पिन्वते |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} इन्द्र॒ विश्वा᳚भिरू॒तिभि᳚र्व॒वक्षि॑थ ||{5/33}{8.12.5}{8.2.7.5}{6.1.1.5}{309, 632, 6283} इ॒मम्¦जु॒ष॒स्व॒¦गि॒र्व॒णः॒¦स॒मु॒द्रःऽइ᳚व¦पि॒न्व॒ते॒ | इन्द्र॑¦विश्वा᳚भिः¦ऊ॒तिऽभिः॑¦व॒वक्षि॑थ || |
यो नो᳚ दे॒वः प॑रा॒वतः॑ सखित्व॒नाय॑ माम॒हे |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} दि॒वो न वृ॒ष्टिं प्र॒थय᳚न्व॒वक्षि॑थ ||{6/33}{8.12.6}{8.2.7.6}{6.1.2.1}{310, 632, 6284} यः¦नः॒¦दे॒वः¦प॒रा॒ऽवतः॑¦स॒खि॒ऽत्व॒नाय॑¦म॒म॒हे | दि॒वः¦न¦वृ॒ष्टिम्¦प्र॒थय॑न्¦व॒वक्षि॑थ || |
व॒व॒क्षुर॑स्य के॒तवो᳚, उ॒त वज्रो॒ गभ॑स्त्योः |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} यत्सूर्यो॒ न रोद॑सी॒, अव॑र्धयत् ||{7/33}{8.12.7}{8.2.7.7}{6.1.2.2}{311, 632, 6285} व॒व॒क्षुः¦अ॒स्य॒¦के॒तवः॑¦उ॒त¦वज्रः॑¦गभ॑स्त्योः | यत्¦सूर्यः॑¦न¦रोद॑सी॒ इति॑¦अव॑र्धयत् || |
यदि॑ प्रवृद्ध सत्पते स॒हस्रं᳚ महि॒षाँ, अघः॑ |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} आदित्त॑ इन्द्रि॒यं महि॒ प्र वा᳚वृधे ||{8/33}{8.12.8}{8.2.7.8}{6.1.2.3}{312, 632, 6286} यदि॑¦प्र॒ऽवृ॒द्ध॒¦स॒त्ऽप॒ते॒¦स॒हस्र᳚म्¦म॒हि॒षान्¦अघः॑ | आत्¦इत्¦ते॒¦इ॒न्द्रि॒यम्¦महि॑¦प्र¦व॒वृ॒धे॒ || |
इन्द्रः॒ सूर्य॑स्य र॒श्मिभि॒र्न्य॑र्शसा॒नमो᳚षति |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} अ॒ग्निर्वने᳚व सास॒हिः प्र वा᳚वृधे ||{9/33}{8.12.9}{8.2.7.9}{6.1.2.4}{313, 632, 6287} इन्द्रः॑¦सूर्य॑स्य¦र॒श्मिऽभिः॑¦नि¦अ॒र्श॒सा॒नम्¦ओ॒ष॒ति॒ | अ॒ग्निः¦वना᳚ऽइव¦स॒स॒हिः¦प्र¦व॒वृ॒धे॒ || |
इ॒यं त॑ ऋ॒त्विया᳚वती धी॒तिरे᳚ति॒ नवी᳚यसी |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} स॒प॒र्यन्ती᳚ पुरुप्रि॒या मिमी᳚त॒ इत् ||{10/33}{8.12.10}{8.2.7.10}{6.1.2.5}{314, 632, 6288} इ॒यम्¦ते॒¦ऋ॒त्विय॑ऽवती¦धी॒तिः¦ए॒ति॒¦नवी᳚यसी | स॒प॒र्यन्ती᳚¦पु॒रु॒ऽप्रि॒या¦मिमी᳚ते¦इत् || |
गर्भो᳚ य॒ज्ञस्य॑ देव॒युः क्रतुं᳚ पुनीत आनु॒षक् |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} स्तोमै॒रिन्द्र॑स्य वावृधे॒ मिमी᳚त॒ इत् ||{11/33}{8.12.11}{8.2.7.11}{6.1.3.1}{315, 632, 6289} गर्भः॑¦य॒ज्ञस्य॑¦दे॒व॒ऽयुः¦क्रतु᳚म्¦पु॒नी॒ते॒¦आ॒नु॒षक् | स्तोमैः᳚¦इन्द्र॑स्य¦व॒वृ॒धे॒¦मिमी᳚ते¦इत् || |
स॒निर्मि॒त्रस्य॑ पप्रथ॒ इन्द्रः॒ सोम॑स्य पी॒तये᳚ |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} प्राची॒ वाशी᳚व सुन्व॒ते मिमी᳚त॒ इत् ||{12/33}{8.12.12}{8.2.7.12}{6.1.3.2}{316, 632, 6290} स॒निः¦मि॒त्रस्य॑¦प॒प्र॒थे॒¦इन्द्रः॑¦सोम॑स्य¦पी॒तये᳚ | प्राची᳚¦वाशी᳚ऽइव¦सु॒न्व॒ते¦मिमी᳚ते¦इत् || |
यं विप्रा᳚, उ॒क्थवा᳚हसोऽभिप्रम॒न्दुरा॒यवः॑ |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} घृ॒तं न पि॑प्य आ॒सन्यृ॒तस्य॒ यत् ||{13/33}{8.12.13}{8.2.7.13}{6.1.3.3}{317, 632, 6291} यम्¦विप्राः᳚¦उ॒क्थऽवा᳚हसः¦अ॒भि॒ऽप्र॒म॒न्दुः¦आ॒यवः॑ | घृ॒तम्¦न¦पि॒प्ये॒¦आ॒सनि॑¦ऋ॒तस्य॑¦यत् || |
उ॒त स्व॒राजे॒, अदि॑तिः॒ स्तोम॒मिन्द्रा᳚य जीजनत् |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} पु॒रु॒प्र॒श॒स्तमू॒तय॑ ऋ॒तस्य॒ यत् ||{14/33}{8.12.14}{8.2.7.14}{6.1.3.4}{318, 632, 6292} उ॒त¦स्व॒ऽराजे᳚¦अदि॑तिः¦स्तोम᳚म्¦इन्द्रा᳚य¦जी॒ज॒न॒त् | पु॒रु॒ऽप्र॒श॒स्तम्¦ऊ॒तये᳚¦ऋ॒तस्य॑¦यत् || |
अ॒भि वह्न॑य ऊ॒तयेऽनू᳚षत॒ प्रश॑स्तये |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} न दे᳚व॒ विव्र॑ता॒ हरी᳚ ऋ॒तस्य॒ यत् ||{15/33}{8.12.15}{8.2.7.15}{6.1.3.5}{319, 632, 6293} अ॒भि¦वह्न॑यः¦ऊ॒तये᳚¦अनू᳚षत¦प्रऽश॑स्तये | न¦दे॒व॒¦विऽव्र॑ता¦हरी॒ इति॑¦ऋ॒तस्य॑¦यत् || |
यत्सोम॑मिन्द्र॒ विष्ण॑वि॒ यद्वा᳚ घ त्रि॒त आ॒प्त्ये |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} यद्वा᳚ म॒रुत्सु॒ मन्द॑से॒ समिन्दु॑भिः ||{16/33}{8.12.16}{8.2.7.16}{6.1.4.1}{320, 632, 6294} यत्¦सोम᳚म्¦इ॒न्द्र॒¦विष्ण॑वि¦यत्¦वा॒¦घ॒¦त्रि॒ते¦आ॒प्त्ये | यत्¦वा॒¦म॒रुत्ऽसु॑¦मन्द॑से¦सम्¦इन्दु॑ऽभिः || |
यद्वा᳚ शक्र परा॒वति॑ समु॒द्रे, अधि॒ मन्द॑से |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} अ॒स्माक॒मित्सु॒ते र॑णा॒ समिन्दु॑भिः ||{17/33}{8.12.17}{8.2.7.17}{6.1.4.2}{321, 632, 6295} यत्¦वा॒¦श॒क्र॒¦प॒रा॒ऽवति॑¦स॒मु॒द्रे¦अधि॑¦मन्द॑से | अ॒स्माक᳚म्¦इत्¦सु॒ते¦र॒ण॒¦सम्¦इन्दु॑ऽभिः || |
यद्वासि॑ सुन्व॒तो वृ॒धो यज॑मानस्य सत्पते |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} उ॒क्थे वा॒ यस्य॒ रण्य॑सि॒ समिन्दु॑भिः ||{18/33}{8.12.18}{8.2.7.18}{6.1.4.3}{322, 632, 6296} यत्¦वा॒¦असि॑¦सु॒न्व॒तः¦वृ॒धः¦यज॑मानस्य¦स॒त्ऽप॒ते॒ | उ॒क्थे¦वा॒¦यस्य॑¦रण्य॑सि¦सम्¦इन्दु॑ऽभिः || |
दे॒वंदे᳚वं॒ वोऽव॑स॒ इन्द्र॑मिन्द्रं गृणी॒षणि॑ |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} अधा᳚ य॒ज्ञाय॑ तु॒र्वणे॒ व्या᳚नशुः ||{19/33}{8.12.19}{8.2.7.19}{6.1.4.4}{323, 632, 6297} दे॒वम्ऽदे᳚वम्¦वः॒¦अव॑से¦इन्द्र᳚म्ऽइन्द्रम्¦गृ॒णी॒षणि॑ | अध॑¦य॒ज्ञाय॑¦तु॒र्वणे᳚¦वि¦आ॒न॒शुः॒ || |
य॒ज्ञेभि᳚र्य॒ज्ञवा᳚हसं॒ सोमे᳚भिः सोम॒पात॑मम् |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} होत्रा᳚भि॒रिन्द्रं᳚ वावृधु॒र्व्या᳚नशुः ||{20/33}{8.12.20}{8.2.7.20}{6.1.4.5}{324, 632, 6298} य॒ज्ञेभिः॑¦य॒ज्ञऽवा᳚हसम्¦सोमे᳚भिः¦सो॒म॒ऽपात॑मम् | होत्रा᳚भिः¦इन्द्र᳚म्¦व॒वृ॒धुः॒¦वि¦आ॒न॒शुः॒ || |
म॒हीर॑स्य॒ प्रणी᳚तयः पू॒र्वीरु॒त प्रश॑स्तयः |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} विश्वा॒ वसू᳚नि दा॒शुषे॒ व्या᳚नशुः ||{21/33}{8.12.21}{8.2.7.21}{6.1.5.1}{325, 632, 6299} म॒हीः¦अ॒स्य॒¦प्रऽनी᳚तयः¦पू॒र्वीः¦उ॒त¦प्रऽश॑स्तयः | विश्वा᳚¦वसू᳚नि¦दा॒शुषे᳚¦वि¦आ॒न॒शुः॒ || |
इन्द्रं᳚ वृ॒त्राय॒ हन्त॑वे दे॒वासो᳚ दधिरे पु॒रः |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} इन्द्रं॒ वाणी᳚रनूषता॒ समोज॑से ||{22/33}{8.12.22}{8.2.7.22}{6.1.5.2}{326, 632, 6300} इन्द्र᳚म्¦वृ॒त्राय॑¦हन्त॑वे¦दे॒वासः॑¦द॒धि॒रे॒¦पु॒रः | इन्द्र᳚म्¦वाणीः᳚¦अ॒नू॒ष॒त॒¦सम्¦ओज॑से || |
म॒हान्तं᳚ महि॒ना व॒यं स्तोमे᳚भिर्हवन॒श्रुत᳚म् |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} अ॒र्कैर॒भि प्र णो᳚नुमः॒ समोज॑से ||{23/33}{8.12.23}{8.2.7.23}{6.1.5.3}{327, 632, 6301} म॒हान्त᳚म्¦म॒हि॒ना¦व॒यम्¦स्तोमे᳚भिः¦ह॒व॒न॒ऽश्रुत᳚म् | अ॒र्कैः¦अ॒भि¦प्र¦नो॒नु॒मः॒¦सम्¦ओज॑से || |
न यं वि॑वि॒क्तो रोद॑सी॒ नान्तरि॑क्षाणि व॒ज्रिण᳚म् |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} अमा॒दिद॑स्य तित्विषे॒ समोज॑सः ||{24/33}{8.12.24}{8.2.7.24}{6.1.5.4}{328, 632, 6302} न¦यम्¦वि॒वि॒क्तः¦रोद॑सी॒ इति॑¦न¦अ॒न्तरि॑क्षाणि¦व॒ज्रिण᳚म् | अमा᳚त्¦इत्¦अ॒स्य॒¦ति॒त्वि॒षे॒¦सम्¦ओज॑सः || |
यदि᳚न्द्र पृत॒नाज्ये᳚ दे॒वास्त्वा᳚ दधि॒रे पु॒रः |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} आदित्ते᳚ हर्य॒ता हरी᳚ ववक्षतुः ||{25/33}{8.12.25}{8.2.7.25}{6.1.5.5}{329, 632, 6303} यत्¦इ॒न्द्र॒¦पृ॒त॒नाज्ये᳚¦दे॒वाः¦त्वा॒¦द॒धि॒रे¦पु॒रः | आत्¦इत्¦ते॒¦ह॒र्य॒ता¦हरी॒ इति॑¦व॒व॒क्ष॒तुः॒ || |
य॒दा वृ॒त्रं न॑दी॒वृतं॒ शव॑सा वज्रि॒न्नव॑धीः |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} आदित्ते᳚ हर्य॒ता हरी᳚ ववक्षतुः ||{26/33}{8.12.26}{8.2.7.26}{6.1.6.1}{330, 632, 6304} य॒दा¦वृ॒त्रम्¦न॒दी॒ऽवृत᳚म्¦शव॑सा¦व॒ज्रि॒न्¦अव॑धीः | आत्¦इत्¦ते॒¦ह॒र्य॒ता¦हरी॒ इति॑¦व॒व॒क्ष॒तुः॒ || |
य॒दा ते॒ विष्णु॒रोज॑सा॒ त्रीणि॑ प॒दा वि॑चक्र॒मे |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} आदित्ते᳚ हर्य॒ता हरी᳚ ववक्षतुः ||{27/33}{8.12.27}{8.2.7.27}{6.1.6.2}{331, 632, 6305} य॒दा¦ते॒¦विष्णुः॑¦ओज॑सा¦त्रीणि॑¦प॒दा¦वि॒ऽच॒क्र॒मे | आत्¦इत्¦ते॒¦ह॒र्य॒ता¦हरी॒ इति॑¦व॒व॒क्ष॒तुः॒ || |
य॒दा ते᳚ हर्य॒ता हरी᳚ वावृ॒धाते᳚ दि॒वेदि॑वे |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ||{28/33}{8.12.28}{8.2.7.28}{6.1.6.3}{332, 632, 6306} य॒दा¦ते॒¦ह॒र्य॒ता¦हरी॒ इति॑¦व॒वृ॒धाते॒ इति॑¦दि॒वेऽदि॑वे | आत्¦इत्¦ते॒¦विश्वा᳚¦भुव॑नानि¦ये॒मि॒रे॒ || |
य॒दा ते॒ मारु॑ती॒र्विश॒स्तुभ्य॑मिन्द्र नियेमि॒रे |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ||{29/33}{8.12.29}{8.2.7.29}{6.1.6.4}{333, 632, 6307} य॒दा¦ते॒¦मारु॑तीः¦विशः॑¦तुभ्य᳚म्¦इ॒न्द्र॒¦नि॒ऽये॒मि॒रे | आत्¦इत्¦ते॒¦विश्वा᳚¦भुव॑नानि¦ये॒मि॒रे॒ || |
य॒दा सूर्य॑म॒मुं दि॒वि शु॒क्रं ज्योति॒रधा᳚रयः |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ||{30/33}{8.12.30}{8.2.7.30}{6.1.6.5}{334, 632, 6308} य॒दा¦सूर्य᳚म्¦अ॒मुम्¦दि॒वि¦शु॒क्रम्¦ज्योतिः॑¦अधा᳚रयः | आत्¦इत्¦ते॒¦विश्वा᳚¦भुव॑नानि¦ये॒मि॒रे॒ || |
इ॒मां त॑ इन्द्र सुष्टु॒तिं विप्र॑ इयर्ति धी॒तिभिः॑ |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} जा॒मिं प॒देव॒ पिप्र॑तीं॒ प्राध्व॒रे ||{31/33}{8.12.31}{8.2.7.31}{6.1.6.6}{335, 632, 6309} इ॒माम्¦ते॒¦इ॒न्द्र॒¦सु॒ऽस्तु॒तिम्¦विप्रः॑¦इ॒य॒र्ति॒¦धी॒तिऽभिः॑ | जा॒मिम्¦प॒दाऽइ᳚व¦पिप्र॑तीम्¦प्र¦अ॒ध्व॒रे || |
यद॑स्य॒ धाम॑नि प्रि॒ये स॑मीची॒नासो॒, अस्व॑रन् |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} नाभा᳚ य॒ज्ञस्य॑ दो॒हना॒ प्राध्व॒रे ||{32/33}{8.12.32}{8.2.7.32}{6.1.6.7}{336, 632, 6310} यत्¦अ॒स्य॒¦धाम॑नि¦प्रि॒ये¦स॒म्ऽई॒ची॒नासः॑¦अस्व॑रन् | नाभा᳚¦य॒ज्ञस्य॑¦दो॒हना᳚¦प्र¦अ॒ध्व॒रे || |
सु॒वीर्यं॒ स्वश्व्यं᳚ सु॒गव्य॑मिन्द्र दद्धि नः |{काण्वः पर्वतः | इन्द्रः | उष्णिक्} होते᳚व पू॒र्वचि॑त्तये॒ प्राध्व॒रे ||{33/33}{8.12.33}{8.2.7.33}{6.1.6.8}{337, 632, 6311} सु॒ऽवीर्य᳚म्¦सु॒।आश्व्य᳚म्¦सु॒ऽगव्य᳚म्¦इ॒न्द्र॒¦द॒द्धि॒¦नः॒ | होता᳚ऽइव¦पू॒र्वऽचि॑त्तये¦प्र¦अ॒ध्व॒रे || |
[13] इंद्रः सुतेष्विति त्रयस्त्रिंशदृचस्य सूक्तस्य काण्वोनारदइंद्रउष्णिक् | |
इन्द्रः॑ सु॒तेषु॒ सोमे᳚षु॒ क्रतुं᳚ पुनीत उ॒क्थ्य᳚म् |{काण्वो नारदः | इन्द्रः | उष्णिक्} वि॒दे वृ॒धस्य॒ दक्ष॑सो म॒हान्हि षः ||{1/33}{8.13.1}{8.3.1.1}{6.1.7.1}{338, 633, 6312} इन्द्रः॑¦सु॒तेषु॑¦सोमे᳚षु¦क्रतु᳚म्¦पु॒नी॒ते॒¦उ॒क्थ्य᳚म् | वि॒दे¦वृ॒धस्य॑¦दक्ष॑सः¦म॒हान्¦हि¦सः || |
स प्र॑थ॒मे व्यो᳚मनि दे॒वानां॒ सद॑ने वृ॒धः |{काण्वो नारदः | इन्द्रः | उष्णिक्} सु॒पा॒रः सु॒श्रव॑स्तमः॒ सम॑प्सु॒जित् ||{2/33}{8.13.2}{8.3.1.2}{6.1.7.2}{339, 633, 6313} सः¦प्र॒थ॒मे¦विऽओ᳚मनि¦दे॒वाना᳚म्¦सद॑ने¦वृ॒धः | सु॒ऽपा॒रः¦सु॒श्रवः॑ऽतमः¦सम्¦अ॒प्सु॒ऽजित् || |
तम॑ह्वे॒ वाज॑सातय॒ इन्द्रं॒ भरा᳚य शु॒ष्मिण᳚म् |{काण्वो नारदः | इन्द्रः | उष्णिक्} भवा᳚ नः सु॒म्ने, अन्त॑मः॒ सखा᳚ वृ॒धे ||{3/33}{8.13.3}{8.3.1.3}{6.1.7.3}{340, 633, 6314} तम्¦अ॒ह्वे॒¦वाज॑ऽसातये¦इन्द्र᳚म्¦भरा᳚य¦शु॒ष्मिण᳚म् | भव॑¦नः॒¦सु॒म्ने¦अन्त॑मः¦सखा᳚¦वृ॒धे || |
इ॒यं त॑ इन्द्र गिर्वणो रा॒तिः, क्ष॑रति सुन्व॒तः |{काण्वो नारदः | इन्द्रः | उष्णिक्} म॒न्दा॒नो, अ॒स्य ब॒र्हिषो॒ वि रा᳚जसि ||{4/33}{8.13.4}{8.3.1.4}{6.1.7.4}{341, 633, 6315} इ॒यम्¦ते॒¦इ॒न्द्र॒¦गि॒र्व॒णः॒¦रा॒तिः¦क्ष॒र॒ति॒¦सु॒न्व॒तः | म॒न्दा॒नः¦अ॒स्य¦ब॒र्हिषः॑¦वि¦रा॒ज॒सि॒ || |
नू॒नं तदि᳚न्द्र दद्धि नो॒ यत् त्वा᳚ सु॒न्वन्त॒ ईम॑हे |{काण्वो नारदः | इन्द्रः | उष्णिक्} र॒यिं न॑श्चि॒त्रमा भ॑रा स्व॒र्विद᳚म् ||{5/33}{8.13.5}{8.3.1.5}{6.1.7.5}{342, 633, 6316} नू॒नम्¦तत्¦इ॒न्द्र॒¦द॒द्धि॒¦नः॒¦यत्¦त्वा॒¦सु॒न्वन्तः॑¦ईम॑हे | र॒यिम्¦नः॒¦चि॒त्रम्¦आ¦भ॒र॒¦स्वः॒ऽविद᳚म् || |
स्तो॒ता यत्ते॒ विच॑र्षणिरतिप्रश॒र्धय॒द्गिरः॑ |{काण्वो नारदः | इन्द्रः | उष्णिक्} व॒या, इ॒वानु॑ रोहते जु॒षन्त॒ यत् ||{6/33}{8.13.6}{8.3.1.6}{6.1.8.1}{343, 633, 6317} स्तो॒ता¦यत्¦ते॒¦विऽच॑र्षणिः¦अ॒ति॒ऽप्र॒श॒र्धय॑त्¦गिरः॑ | व॒याःऽइ᳚व¦अनु॑¦रो॒ह॒ते॒¦जु॒षन्त॑¦यत् || |
प्र॒त्न॒वज्ज॑नया॒ गिरः॑ शृणु॒धी ज॑रि॒तुर्हव᳚म् |{काण्वो नारदः | इन्द्रः | उष्णिक्} मदे᳚मदे ववक्षिथा सु॒कृत्व॑ने ||{7/33}{8.13.7}{8.3.1.7}{6.1.8.2}{344, 633, 6318} प्र॒त्न॒ऽवत्¦ज॒न॒य॒¦गिरः॑¦शृ॒णु॒धि¦ज॒रि॒तुः¦हव᳚म् | मदे᳚ऽमदे¦व॒व॒क्षि॒थ॒¦सु॒ऽकृत्व॑ने || |
क्रीळ᳚न्त्यस्य सू॒नृता॒, आपो॒ न प्र॒वता᳚ य॒तीः |{काण्वो नारदः | इन्द्रः | उष्णिक्} अ॒या धि॒या य उ॒च्यते॒ पति॑र्दि॒वः ||{8/33}{8.13.8}{8.3.1.8}{6.1.8.3}{345, 633, 6319} क्रीळ᳚न्ति¦अ॒स्य॒¦सू॒नृताः᳚¦आपः॑¦न¦प्र॒ऽवता᳚¦य॒तीः | अ॒या¦धि॒या¦यः¦उ॒च्यते᳚¦पतिः॑¦दि॒वः || |
उ॒तो पति॒र्य उ॒च्यते᳚ कृष्टी॒नामेक॒ इद्व॒शी |{काण्वो नारदः | इन्द्रः | उष्णिक्} न॒मो॒वृ॒धैर॑व॒स्युभिः॑ सु॒ते र॑ण ||{9/33}{8.13.9}{8.3.1.9}{6.1.8.4}{346, 633, 6320} उ॒तो इति॑¦पतिः॑¦यः¦उ॒च्यते᳚¦कृ॒ष्टी॒नाम्¦एकः॑¦इत्¦व॒शी | न॒मः॒ऽवृ॒धैः¦अ॒व॒स्युऽभिः॑¦सु॒ते¦र॒ण॒ || |
स्तु॒हि श्रु॒तं वि॑प॒श्चितं॒ हरी॒ यस्य॑ प्रस॒क्षिणा᳚ |{काण्वो नारदः | इन्द्रः | उष्णिक्} गन्ता᳚रा दा॒शुषो᳚ गृ॒हं न॑म॒स्विनः॑ ||{10/33}{8.13.10}{8.3.1.10}{6.1.8.5}{347, 633, 6321} स्तु॒हि¦श्रु॒तम्¦वि॒पः॒ऽचित᳚म्¦हरी॒ इति॑¦यस्य॑¦प्र॒ऽस॒क्षिणा᳚ | गन्ता᳚रा¦दा॒शुषः॑¦गृ॒हम्¦न॒म॒स्विनः॑ || |
तू॒तु॒जा॒नो म॑हेम॒तेऽश्वे᳚भिः प्रुषि॒तप्सु॑भिः |{काण्वो नारदः | इन्द्रः | उष्णिक्} आ या᳚हि य॒ज्ञमा॒शुभिः॒ शमिद्धि ते᳚ ||{11/33}{8.13.11}{8.3.1.11}{6.1.9.1}{348, 633, 6322} तू॒तु॒जा॒नः¦म॒हे॒ऽम॒ते॒¦अश्वे᳚भिः¦प्रु॒षि॒तप्सु॑ऽभिः | आ¦या॒हि॒¦य॒ज्ञम्¦आ॒शुऽभिः॑¦शम्¦इत्¦हि¦ते॒ || |
इन्द्र॑ शविष्ठ सत्पते र॒यिं गृ॒णत्सु॑ धारय |{काण्वो नारदः | इन्द्रः | उष्णिक्} श्रवः॑ सू॒रिभ्यो᳚, अ॒मृतं᳚ वसुत्व॒नम् ||{12/33}{8.13.12}{8.3.1.12}{6.1.9.2}{349, 633, 6323} इन्द्र॑¦श॒वि॒ष्ठ॒¦स॒त्ऽप॒ते॒¦र॒यिम्¦गृ॒णत्ऽसु॑¦धा॒र॒य॒ | श्रवः॑¦सू॒रिऽभ्यः॑¦अ॒मृत᳚म्¦व॒सु॒ऽत्व॒नम् || |
हवे᳚ त्वा॒ सूर॒ उदि॑ते॒ हवे᳚ म॒ध्यंदि॑ने दि॒वः |{काण्वो नारदः | इन्द्रः | उष्णिक्} जु॒षा॒ण इ᳚न्द्र॒ सप्ति॑भिर्न॒ आ ग॑हि ||{13/33}{8.13.13}{8.3.1.13}{6.1.9.3}{350, 633, 6324} हवे᳚¦त्वा॒¦सूरे᳚¦उत्ऽइ᳚ते¦हवे᳚¦म॒ध्यंदि॑ने¦दि॒वः | जु॒षा॒णः¦इ॒न्द्र॒¦सप्ति॑ऽभिः¦नः॒¦आ¦ग॒हि॒ || |
आ तू ग॑हि॒ प्र तु द्र॑व॒ मत्स्वा᳚ सु॒तस्य॒ गोम॑तः |{काण्वो नारदः | इन्द्रः | उष्णिक्} तन्तुं᳚ तनुष्व पू॒र्व्यं यथा᳚ वि॒दे ||{14/33}{8.13.14}{8.3.1.14}{6.1.9.4}{351, 633, 6325} आ¦तु¦ग॒हि॒¦प्र¦तु¦द्र॒व॒¦मत्स्व॑¦सु॒तस्य॑¦गोऽम॑तः | तन्तु᳚म्¦त॒नु॒ष्व॒¦पू॒र्व्यम्¦यथा᳚¦वि॒दे || |
यच्छ॒क्रासि॑ परा॒वति॒ यद᳚र्वा॒वति॑ वृत्रहन् |{काण्वो नारदः | इन्द्रः | उष्णिक्} यद्वा᳚ समु॒द्रे, अन्ध॑सोऽवि॒तेद॑सि ||{15/33}{8.13.15}{8.3.1.15}{6.1.9.5}{352, 633, 6326} यत्¦श॒क्र॒¦असि॑¦प॒रा॒ऽवति॑¦यत्¦अ॒र्वा॒ऽवति॑¦वृ॒त्र॒ऽह॒न् | यत्¦वा॒¦स॒मु॒द्रे¦अन्ध॑सः¦अ॒वि॒ता¦इत्¦अ॒सि॒ || |
इन्द्रं᳚ वर्धन्तु नो॒ गिर॒ इन्द्रं᳚ सु॒तास॒ इन्द॑वः |{काण्वो नारदः | इन्द्रः | उष्णिक्} इन्द्रे᳚ ह॒विष्म॑ती॒र्विशो᳚, अराणिषुः ||{16/33}{8.13.16}{8.3.1.16}{6.1.10.1}{353, 633, 6327} इन्द्र᳚म्¦व॒र्ध॒न्तु॒¦नः॒¦गिरः॑¦इन्द्र᳚म्¦सु॒तासः॑¦इन्द॑वः | इन्द्रे᳚¦ह॒विष्म॑तीः¦विशः॑¦अ॒रा॒णि॒षुः॒ || |
तमिद्विप्रा᳚, अव॒स्यवः॑ प्र॒वत्व॑तीभिरू॒तिभिः॑ |{काण्वो नारदः | इन्द्रः | उष्णिक्} इन्द्रं᳚ क्षो॒णीर॑वर्धयन्व॒या, इ॑व ||{17/33}{8.13.17}{8.3.1.17}{6.1.10.2}{354, 633, 6328} तम्¦इत्¦विप्राः᳚¦अ॒व॒स्यवः॑¦प्र॒वत्व॑तीभिः¦ऊ॒तिऽभिः॑ | इन्द्र᳚म्¦क्षो॒णीः¦अ॒व॒र्ध॒य॒न्¦व॒याःऽइ᳚व || |
त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो᳚ य॒ज्ञम॑त्नत |{काण्वो नारदः | इन्द्रः | उष्णिक्} तमिद्व॑र्धन्तु नो॒ गिरः॑ स॒दावृ॑धम् ||{18/33}{8.13.18}{8.3.1.18}{6.1.10.3}{355, 633, 6329} त्रिऽक॑द्रुकेषु¦चेत॑नम्¦दे॒वासः॑¦य॒ज्ञम्¦अ॒त्न॒त॒ | तम्¦इत्¦व॒र्ध॒न्तु॒¦नः॒¦गिरः॑¦स॒दाऽवृ॑धम् || |
स्तो॒ता यत्ते॒, अनु᳚व्रत उ॒क्थान्यृ॑तु॒था द॒धे |{काण्वो नारदः | इन्द्रः | उष्णिक्} शुचिः॑ पाव॒क उ॑च्यते॒ सो, अद्भु॑तः ||{19/33}{8.13.19}{8.3.1.19}{6.1.10.4}{356, 633, 6330} स्तो॒ता¦यत्¦ते॒¦अनु॑ऽव्रतः¦उ॒क्थानि॑¦ऋ॒तु॒ऽथा¦द॒धे | शुचिः॑¦पा॒व॒कः¦उ॒च्य॒ते॒¦सः¦अद्भु॑तः || |
तदिद्रु॒द्रस्य॑ चेतति य॒ह्वं प्र॒त्नेषु॒ धाम॑सु |{काण्वो नारदः | इन्द्रः | उष्णिक्} मनो॒ यत्रा॒ वि तद्द॒धुर्विचे᳚तसः ||{20/33}{8.13.20}{8.3.1.20}{6.1.10.5}{357, 633, 6331} तत्¦इत्¦रु॒द्रस्य॑¦चे॒त॒ति॒¦य॒ह्वम्¦प्र॒त्नेषु॑¦धाम॑ऽसु | मनः॑¦यत्र॑¦वि¦तत्¦द॒धुः¦विऽचे᳚तसः || |
यदि॑ मे स॒ख्यमा॒वर॑ इ॒मस्य॑ पा॒ह्यन्ध॑सः |{काण्वो नारदः | इन्द्रः | उष्णिक्} येन॒ विश्वा॒, अति॒ द्विषो॒, अता᳚रिम ||{21/33}{8.13.21}{8.3.1.21}{6.1.11.1}{358, 633, 6332} यदि॑¦मे॒¦स॒ख्यम्¦आ॒ऽवरः॑¦इ॒मस्य॑¦पा॒हि॒¦अन्ध॑सः | येन॑¦विश्वाः᳚¦अति॑¦द्विषः॑¦अता᳚रिम || |
क॒दा त॑ इन्द्र गिर्वणः स्तो॒ता भ॑वाति॒ शंत॑मः |{काण्वो नारदः | इन्द्रः | उष्णिक्} क॒दा नो॒ गव्ये॒, अश्व्ये॒ वसौ᳚ दधः ||{22/33}{8.13.22}{8.3.1.22}{6.1.11.2}{359, 633, 6333} क॒दा¦ते॒¦इ॒न्द्र॒¦गि॒र्व॒णः॒¦स्तो॒ता¦भ॒वा॒ति॒¦शम्ऽत॑मः | क॒दा¦नः॒¦गव्ये᳚¦अश्व्ये᳚¦वसौ᳚¦द॒धः॒ || |
उ॒त ते॒ सुष्टु॑ता॒ हरी॒ वृष॑णा वहतो॒ रथ᳚म् |{काण्वो नारदः | इन्द्रः | उष्णिक्} अ॒जु॒र्यस्य॑ म॒दिन्त॑मं॒ यमीम॑हे ||{23/33}{8.13.23}{8.3.1.23}{6.1.11.3}{360, 633, 6334} उ॒त¦ते॒¦सुऽस्तु॑ता¦हरी॒ इति॑¦वृष॑णा¦व॒ह॒तः॒¦रथ᳚म् | अ॒जु॒र्यस्य॑¦म॒दिन्ऽत॑मम्¦यम्¦ईम॑हे || |
तमी᳚महे पुरुष्टु॒तं य॒ह्वं प्र॒त्नाभि॑रू॒तिभिः॑ |{काण्वो नारदः | इन्द्रः | उष्णिक्} नि ब॒र्हिषि॑ प्रि॒ये स॑द॒दध॑ द्वि॒ता ||{24/33}{8.13.24}{8.3.1.24}{6.1.11.4}{361, 633, 6335} तम्¦ई॒म॒हे॒¦पु॒रु॒ऽस्तु॒तम्¦य॒ह्वम्¦प्र॒त्नाभिः॑¦ऊ॒तिऽभिः॑ | नि¦ब॒र्हिषि॑¦प्रि॒ये¦स॒द॒त्¦अध॑¦द्वि॒ता || |
वर्ध॑स्वा॒ सु पु॑रुष्टुत॒ ऋषि॑ष्टुताभिरू॒तिभिः॑ |{काण्वो नारदः | इन्द्रः | उष्णिक्} धु॒क्षस्व॑ पि॒प्युषी॒मिष॒मवा᳚ च नः ||{25/33}{8.13.25}{8.3.1.25}{6.1.11.5}{362, 633, 6336} वर्ध॑स्व¦सु¦पु॒रु॒ऽस्तु॒त॒¦ऋषि॑ऽस्तुताभिः¦ऊ॒तिऽभिः॑ | धु॒क्षस्व॑¦पि॒प्युषी᳚म्¦इष᳚म्¦अव॑¦च॒¦नः॒ || |
इन्द्र॒ त्वम॑वि॒तेद॑सी॒त्था स्तु॑व॒तो, अ॑द्रिवः |{काण्वो नारदः | इन्द्रः | उष्णिक्} ऋ॒तादि॑यर्मि ते॒ धियं᳚ मनो॒युज᳚म् ||{26/33}{8.13.26}{8.3.1.26}{6.1.12.1}{363, 633, 6337} इन्द्र॑¦त्वम्¦अ॒वि॒ता¦इत्¦अ॒सि॒¦इ॒त्था¦स्तु॒व॒तः¦अ॒द्रि॒ऽवः॒ | ऋ॒तात्¦इ॒य॒र्मि॒¦ते॒¦धिय᳚म्¦म॒नः॒ऽयुज᳚म् || |
इ॒ह त्या स॑ध॒माद्या᳚ युजा॒नः सोम॑पीतये |{काण्वो नारदः | इन्द्रः | उष्णिक्} हरी᳚, इन्द्र प्र॒तद्व॑सू, अ॒भि स्व॑र ||{27/33}{8.13.27}{8.3.1.27}{6.1.12.2}{364, 633, 6338} इ॒ह¦त्या¦स॒ध॒ऽमाद्या᳚¦यु॒जा॒नः¦सोम॑ऽपीतये | हरी॒ इति॑¦इ॒न्द्र॒¦प्र॒तद्व॑सू॒ इति॑ प्र॒तत्ऽव॑सू¦अ॒भि¦स्व॒र॒ || |
अ॒भि स्व॑रन्तु॒ ये तव॑ रु॒द्रासः॑ सक्षत॒ श्रिय᳚म् |{काण्वो नारदः | इन्द्रः | उष्णिक्} उ॒तो म॒रुत्व॑ती॒र्विशो᳚, अ॒भि प्रयः॑ ||{28/33}{8.13.28}{8.3.1.28}{6.1.12.3}{365, 633, 6339} अ॒भि¦स्व॒र॒न्तु॒¦ये¦तव॑¦रु॒द्रासः॑¦स॒क्ष॒त॒¦श्रिय᳚म् | उ॒तो इति॑¦म॒रुत्व॑तीः¦विशः॑¦अ॒भि¦प्रयः॑ || |
इ॒मा, अ॑स्य॒ प्रतू᳚र्तयः प॒दं जु॑षन्त॒ यद्दि॒वि |{काण्वो नारदः | इन्द्रः | उष्णिक्} नाभा᳚ य॒ज्ञस्य॒ सं द॑धु॒र्यथा᳚ वि॒दे ||{29/33}{8.13.29}{8.3.1.29}{6.1.12.4}{366, 633, 6340} इ॒माः¦अ॒स्य॒¦प्रऽतू᳚र्तयः¦प॒दम्¦जु॒ष॒न्त॒¦यत्¦दि॒वि | नाभा᳚¦य॒ज्ञस्य॑¦सम्¦द॒धुः॒¦यथा᳚¦वि॒दे || |
अ॒यं दी॒र्घाय॒ चक्ष॑से॒ प्राचि॑ प्रय॒त्य॑ध्व॒रे |{काण्वो नारदः | इन्द्रः | उष्णिक्} मिमी᳚ते य॒ज्ञमा᳚नु॒षग्वि॒चक्ष्य॑ ||{30/33}{8.13.30}{8.3.1.30}{6.1.12.5}{367, 633, 6341} अ॒यम्¦दी॒र्घाय॑¦चक्ष॑से¦प्राचि॑¦प्र॒ऽय॒ति¦अ॒ध्व॒रे | मिमी᳚ते¦य॒ज्ञम्¦आ॒नु॒षक्¦वि॒ऽचक्ष्य॑ || |
वृषा॒यमि᳚न्द्र ते॒ रथ॑ उ॒तो ते॒ वृष॑णा॒ हरी᳚ |{काण्वो नारदः | इन्द्रः | उष्णिक्} वृषा॒ त्वं श॑तक्रतो॒ वृषा॒ हवः॑ ||{31/33}{8.13.31}{8.3.1.31}{6.1.13.1}{368, 633, 6342} वृषा᳚¦अ॒यम्¦इ॒न्द्र॒¦ते॒¦रथः॑¦उ॒तो इति॑¦ते॒¦वृष॑णा¦हरी॒ इति॑ | वृषा᳚¦त्वम्¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो¦वृषा᳚¦हवः॑ || |
वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो᳚, अ॒यं सु॒तः |{काण्वो नारदः | इन्द्रः | उष्णिक्} वृषा᳚ य॒ज्ञो यमिन्व॑सि॒ वृषा॒ हवः॑ ||{32/33}{8.13.32}{8.3.1.32}{6.1.13.2}{369, 633, 6343} वृषा᳚¦ग्रावा᳚¦वृषा᳚¦मदः॑¦वृषा᳚¦सोमः॑¦अ॒यम्¦सु॒तः | वृषा᳚¦य॒ज्ञः¦यम्¦इन्व॑सि¦वृषा᳚¦हवः॑ || |
वृषा᳚ त्वा॒ वृष॑णं हुवे॒ वज्रि᳚ञ्चि॒त्राभि॑रू॒तिभिः॑ |{काण्वो नारदः | इन्द्रः | उष्णिक्} वा॒वन्थ॒ हि प्रति॑ष्टुतिं॒ वृषा॒ हवः॑ ||{33/33}{8.13.33}{8.3.1.33}{6.1.13.3}{370, 633, 6344} वृषा᳚¦त्वा॒¦वृष॑णम्¦हु॒वे॒¦वज्रि॑न्¦चि॒त्राभिः॑¦ऊ॒तिऽभिः॑ | व॒वन्थ॑¦हि¦प्रति॑ऽस्तुतिम्¦वृषा᳚¦हवः॑ || |
[14] यदिंद्राहमिति पंचदशर्चस्य सूक्तस्य काण्वायनौगोषूक्त्यश्वसूक्तिनाविंद्रो गायत्री | |
यदि᳚न्द्रा॒हं यथा॒ त्वमीशी᳚य॒ वस्व॒ एक॒ इत् |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री} स्तो॒ता मे॒ गोष॑खा स्यात् ||{1/15}{8.14.1}{8.3.2.1}{6.1.14.1}{371, 634, 6345} यत्¦इ॒न्द्र॒¦अ॒हम्¦यथा᳚¦त्वम्¦ईशी᳚य¦वस्वः॑¦एकः॑¦इत् | स्तो॒ता¦मे॒¦गोऽस॑खा¦स्या॒त् || |
शिक्षे᳚यमस्मै॒ दित्से᳚यं॒ शची᳚पते मनी॒षिणे᳚ |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री} यद॒हं गोप॑तिः॒ स्याम् ||{2/15}{8.14.2}{8.3.2.2}{6.1.14.2}{372, 634, 6346} शिक्षे᳚यम्¦अ॒स्मै॒¦दित्से᳚यम्¦शची᳚ऽपते¦म॒नी॒षिणे᳚ | यत्¦अ॒हम्¦गोऽप॑तिः¦स्या॒म् || |
धे॒नुष्ट॑ इन्द्र सू॒नृता॒ यज॑मानाय सुन्व॒ते |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री} गामश्वं᳚ पि॒प्युषी᳚ दुहे ||{3/15}{8.14.3}{8.3.2.3}{6.1.14.3}{373, 634, 6347} धे॒नुः¦ते॒¦इ॒न्द्र॒¦सू॒नृता᳚¦यज॑मानाय¦सु॒न्व॒ते | गाम्¦अश्व᳚म्¦पि॒प्युषी᳚¦दु॒हे॒ || |
न ते᳚ व॒र्तास्ति॒ राध॑स॒ इन्द्र॑ दे॒वो न मर्त्यः॑ |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री} यद्दित्स॑सि स्तु॒तो म॒घम् ||{4/15}{8.14.4}{8.3.2.4}{6.1.14.4}{374, 634, 6348} न¦ते॒¦व॒र्ता¦अ॒स्ति॒¦राध॑सः¦इन्द्र॑¦दे॒वः¦न¦मर्त्यः॑ | यत्¦दित्स॑सि¦स्तु॒तः¦म॒घम् || |
य॒ज्ञ इन्द्र॑मवर्धय॒द्यद्भूमिं॒ व्यव॑र्तयत् |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री} च॒क्रा॒ण ओ᳚प॒शं दि॒वि ||{5/15}{8.14.5}{8.3.2.5}{6.1.14.5}{375, 634, 6349} य॒ज्ञः¦इन्द्र᳚म्¦अ॒व॒र्ध॒य॒त्¦यत्¦भूमि᳚म्¦वि¦अव॑र्तयत् | च॒क्रा॒णः¦ओ॒प॒शम्¦दि॒वि || |
वा॒वृ॒धा॒नस्य॑ ते व॒यं विश्वा॒ धना᳚नि जि॒ग्युषः॑ |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री} ऊ॒तिमि॒न्द्रा वृ॑णीमहे ||{6/15}{8.14.6}{8.3.2.6}{6.1.15.1}{376, 634, 6350} वा॒वृ॒धा॒नस्य॑¦ते॒¦व॒यम्¦विश्वा᳚¦धना᳚नि¦जि॒ग्युषः॑ | ऊ॒तिम्¦इ॒न्द्र॒¦आ¦वृ॒णी॒म॒हे॒ || |
व्य१॑(अ॒)न्तरि॑क्षमतिर॒न्मदे॒ सोम॑स्य रोच॒ना |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री} इन्द्रो॒ यदभि॑नद्व॒लम् ||{7/15}{8.14.7}{8.3.2.7}{6.1.15.2}{377, 634, 6351} वि¦अ॒न्तरि॑क्षम्¦अ॒ति॒र॒त्¦मदे᳚¦सोम॑स्य¦रो॒च॒ना | इन्द्रः॑¦यत्¦अभि॑नत्¦व॒लम् || |
उद्गा, आ᳚ज॒दङ्गि॑रोभ्य आ॒विष्कृ॒ण्वन् गुहा᳚ स॒तीः |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री} अ॒र्वाञ्चं᳚ नुनुदे व॒लम् ||{8/15}{8.14.8}{8.3.2.8}{6.1.15.3}{378, 634, 6352} उत्¦गाः¦आ॒ज॒त्¦अङ्गि॑रःऽभ्यः¦आ॒विः¦कृ॒ण्वन्¦गुहा᳚¦स॒तीः | अ॒र्वांच᳚म्¦नु॒नु॒दे॒¦व॒लम् || |
इन्द्रे᳚ण रोच॒ना दि॒वो दृ॒ळ्हानि॑ दृंहि॒तानि॑ च |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री} स्थि॒राणि॒ न प॑रा॒णुदे᳚ ||{9/15}{8.14.9}{8.3.2.9}{6.1.15.4}{379, 634, 6353} इन्द्रे᳚ण¦रो॒च॒ना¦दि॒वः¦दृ॒ळ्हानि॑¦दृं॒हि॒तानि॑¦च॒ | स्थि॒राणि॑¦न¦प॒रा॒ऽनुदे᳚ || |
अ॒पामू॒र्मिर्मद᳚न्निव॒ स्तोम॑ इन्द्राजिरायते |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री} वि ते॒ मदा᳚, अराजिषुः ||{10/15}{8.14.10}{8.3.2.10}{6.1.15.5}{380, 634, 6354} अ॒पाम्¦ऊ॒र्मिः¦मद॑न्ऽइव¦स्तोमः॑¦इ॒न्द्र॒¦अ॒जि॒र॒ऽय॒ते॒ | वि¦ते॒¦मदाः᳚¦अ॒रा॒जि॒षुः॒ || |
त्वं हि स्तो᳚म॒वर्ध॑न॒ इन्द्रास्यु॑क्थ॒वर्ध॑नः |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री} स्तो॒तॄ॒णामु॒त भ॑द्र॒कृत् ||{11/15}{8.14.11}{8.3.2.11}{6.1.16.1}{381, 634, 6355} त्वम्¦हि¦स्तो॒म॒ऽवर्ध॑नः¦इन्द्र॑¦असि॑¦उ॒क्थ॒ऽवर्ध॑नः | स्तो॒तॄ॒णाम्¦उ॒त¦भ॒द्र॒ऽकृत् || |
इन्द्र॒मित्के॒शिना॒ हरी᳚ सोम॒पेया᳚य वक्षतः |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री} उप॑ य॒ज्ञं सु॒राध॑सम् ||{12/15}{8.14.12}{8.3.2.12}{6.1.16.2}{382, 634, 6356} इन्द्र᳚म्¦इत्¦के॒शिना᳚¦हरी॒ इति॑¦सो॒म॒ऽपेया᳚य¦व॒क्ष॒तः॒ | उप॑¦य॒ज्ञम्¦सु॒ऽराध॑सम् || |
अ॒पां फेने᳚न॒ नमु॑चेः॒ शिर॑ इ॒न्द्रोद॑वर्तयः |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री} विश्वा॒ यदज॑यः॒ स्पृधः॑ ||{13/15}{8.14.13}{8.3.2.13}{6.1.16.3}{383, 634, 6357} अ॒पाम्¦फेने᳚न¦नमु॑चेः¦शिरः॑¦इ॒न्द्र॒¦उत्¦अ॒व॒र्त॒य्चः॒ | विश्वाः᳚¦यत्¦अज॑यः¦स्पृधः॑ || |
मा॒याभि॑रु॒त्सिसृ॑प्सत॒ इन्द्र॒ द्यामा॒रुरु॑क्षतः |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री} अव॒ दस्यूँ᳚रधूनुथाः ||{14/15}{8.14.14}{8.3.2.14}{6.1.16.4}{384, 634, 6358} मा॒याभिः॑¦उ॒त्ऽसिसृ॑प्सतः¦इन्द्र॑¦द्याम्¦आ॒ऽरुरु॑क्षतः | अव॑¦दस्यू᳚न्¦अ॒धू॒नु॒थाः॒ || |
अ॒सु॒न्वामि᳚न्द्र सं॒सदं॒ विषू᳚चीं॒ व्य॑नाशयः |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री} सो॒म॒पा, उत्त॑रो॒ भव॑न् ||{15/15}{8.14.15}{8.3.2.15}{6.1.16.5}{385, 634, 6359} अ॒सु॒न्वाम्¦इ॒न्द्र॒¦स॒म्ऽसद᳚म्¦विषू᳚चीम्¦वि¦अ॒ना॒श॒यः॒ | सो॒म॒ऽपाः¦उत्ऽत॑रः¦भव॑न् || |
[15] तम्वभीति त्रयोदशर्चस्य सूक्तस्य काण्वायनौ काण्वायनौगोषूक्त्यश्वसूक्तिनाविंद्रउष्णिक् | |
तम्व॒भि प्र गा᳚यत पुरुहू॒तं पु॑रुष्टु॒तम् |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | उष्णिक्} इन्द्रं᳚ गी॒र्भिस्त॑वि॒षमा वि॑वासत ||{1/13}{8.15.1}{8.3.3.1}{6.1.17.1}{386, 635, 6360} तम्¦ऊँ॒ इति॑¦अ॒भि¦प्र¦गा॒य॒त॒¦पु॒रु॒ऽहू॒तम्¦पु॒रु॒ऽस्तु॒तम् | इन्द्र᳚म्¦गीः॒ऽभिः¦त॒वि॒षम्¦आ¦वि॒वा॒स॒त॒ || |
यस्य॑ द्वि॒बर्ह॑सो बृ॒हत्सहो᳚ दा॒धार॒ रोद॑सी |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | उष्णिक्} गि॒रीँरज्राँ᳚, अ॒पः स्व᳚र्वृषत्व॒ना ||{2/13}{8.15.2}{8.3.3.2}{6.1.17.2}{387, 635, 6361} यस्य॑¦द्वि॒ऽबर्ह॑सः¦बृ॒हत्¦सहः॑¦दा॒धार॑¦रोद॑सी॒ इति॑ | गि॒रीन्¦अज्रा᳚न्¦अ॒पः¦स्वः॑¦वृ॒ष॒ऽत्व॒ना || |
स रा᳚जसि पुरुष्टुतँ॒, एको᳚ वृ॒त्राणि॑ जिघ्नसे |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | उष्णिक्} इन्द्र॒ जैत्रा᳚ श्रव॒स्या᳚ च॒ यन्त॑वे ||{3/13}{8.15.3}{8.3.3.3}{6.1.17.3}{388, 635, 6362} सः¦रा॒ज॒सि॒¦पु॒रु॒ऽस्तु॒त॒¦एकः॑¦वृ॒त्राणि॑¦जि॒घ्न॒से॒ | इन्द्र॑¦जैत्रा᳚¦श्र॒व॒स्या᳚¦च॒¦यन्त॑वे || |
तं ते॒ मदं᳚ गृणीमसि॒ वृष॑णं पृ॒त्सु सा᳚स॒हिम् |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | उष्णिक्} उ॒ लो॒क॒कृ॒त्नुम॑द्रिवो हरि॒श्रिय᳚म् ||{4/13}{8.15.4}{8.3.3.4}{6.1.17.4}{389, 635, 6363} तम्¦ते॒¦मद᳚म्¦गृ॒णी॒म॒सि॒¦वृष॑णम्¦पृ॒त्ऽसु¦स॒स॒हिम् | ऊँ॒ इति॑¦लो॒क॒ऽकृ॒त्नुम्¦अ॒द्रि॒ऽवः॒¦ह॒रि॒ऽश्रिय᳚म् || |
येन॒ ज्योतीं᳚ष्या॒यवे॒ मन॑वे च वि॒वेदि॑थ |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | उष्णिक्} म॒न्दा॒नो, अ॒स्य ब॒र्हिषो॒ वि रा᳚जसि ||{5/13}{8.15.5}{8.3.3.5}{6.1.17.5}{390, 635, 6364} येन॑¦ज्योतीं᳚षि¦आ॒यवे᳚¦मन॑वे¦च॒¦वि॒वेदि॑थ | म॒न्दा॒नः¦अ॒स्य¦ब॒र्हिषः॑¦वि¦रा॒ज॒सि॒ || |
तद॒द्या चि॑त्त उ॒क्थिनोऽनु॑ ष्टुवन्ति पू॒र्वथा᳚ |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | उष्णिक्} वृष॑पत्नीर॒पो ज॑या दि॒वेदि॑वे ||{6/13}{8.15.6}{8.3.3.6}{6.1.18.1}{391, 635, 6365} तत्¦अ॒द्य¦चि॒त्¦ते॒¦उ॒क्थिनः॑¦अनु॑¦स्तु॒व॒न्ति॒¦पू॒र्वऽथा᳚ | वृष॑ऽपत्नीः¦अ॒पः¦ज॒य॒¦दि॒वेऽदि॑वे || |
तव॒ त्यदि᳚न्द्रि॒यं बृ॒हत्तव॒ शुष्म॑मु॒त क्रतु᳚म् |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | उष्णिक्} वज्रं᳚ शिशाति धि॒षणा॒ वरे᳚ण्यम् ||{7/13}{8.15.7}{8.3.3.7}{6.1.18.2}{392, 635, 6366} तव॑¦त्यत्¦इ॒न्द्रि॒यम्¦बृ॒हत्¦तव॑¦शुष्म᳚म्¦उ॒त¦क्रतु᳚म् | वज्र᳚म्¦शि॒शा॒ति॒¦धि॒षणा᳚¦वरे᳚ण्यम् || |
तव॒ द्यौरि᳚न्द्र॒ पौंस्यं᳚ पृथि॒वी व॑र्धति॒ श्रवः॑ |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | उष्णिक्} त्वामापः॒ पर्व॑तासश्च हिन् विरे ||{8/13}{8.15.8}{8.3.3.8}{6.1.18.3}{393, 635, 6367} तव॑¦द्यौः¦इ॒न्द्र॒¦पौंस्य᳚म्¦पृ॒थि॒वी¦व॒र्ध॒ति॒¦श्रवः॑ | त्वाम्¦आपः॑¦पर्व॑तासः¦च॒¦हि॒न्वि॒रे॒ || |
त्वां विष्णु॑र्बृ॒हन् क्षयो᳚ मि॒त्रो गृ॑णाति॒ वरु॑णः |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | उष्णिक्} त्वां शर्धो᳚ मद॒त्यनु॒ मारु॑तम् ||{9/13}{8.15.9}{8.3.3.9}{6.1.18.4}{394, 635, 6368} त्वाम्¦विष्णुः॑¦बृ॒हन्¦क्षयः॑¦मि॒त्रः¦गृ॒णा॒ति॒¦वरु॑णः | त्वाम्¦शर्धः॑¦म॒द॒ति॒¦अनु॑¦मारु॑तम् || |
त्वं वृषा॒ जना᳚नां॒ मंहि॑ष्ठ इन्द्र जज्ञिषे |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | उष्णिक्} स॒त्रा विश्वा᳚ स्वप॒त्यानि॑ दधिषे ||{10/13}{8.15.10}{8.3.3.10}{6.1.18.5}{395, 635, 6369} त्वम्¦वृषा᳚¦जना᳚नाम्¦मंहि॑ष्ठः¦इ॒न्द्र॒¦ज॒ज्ञि॒षे॒ | स॒त्रा¦विश्वा᳚¦सु॒।आ॒प॒त्यानि॑¦द॒धि॒षे॒ || |
स॒त्रा त्वं पु॑रुष्टुतँ॒, एको᳚ वृ॒त्राणि॑ तोशसे |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | उष्णिक्} नान्य इन्द्रा॒त्कर॑णं॒ भूय॑ इन्वति ||{11/13}{8.15.11}{8.3.3.11}{6.1.19.1}{396, 635, 6370} स॒त्रा¦त्वम्¦पु॒रु॒ऽस्तु॒त॒¦एकः॑¦वृ॒त्राणि॑¦तो॒श॒से॒ | न¦अ॒न्यः¦इन्द्रा᳚त्¦कर॑णम्¦भूयः॑¦इ॒न्व॒ति॒ || |
यदि᳚न्द्र मन्म॒शस्त्वा॒ नाना॒ हव᳚न्त ऊ॒तये᳚ |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | उष्णिक्} अ॒स्माके᳚भि॒र्नृभि॒रत्रा॒ स्व॑र्जय ||{12/13}{8.15.12}{8.3.3.12}{6.1.19.2}{397, 635, 6371} यत्¦इ॒न्द्र॒¦म॒न्म॒ऽशः¦त्वा॒¦नाना᳚¦हव᳚न्ते¦ऊ॒तये᳚ | अ॒स्माके᳚भिः¦नृऽभिः॑¦अत्र॑¦स्वः॑¦ज॒य॒ || |
अरं॒ क्षया᳚य नो म॒हे विश्वा᳚ रू॒पाण्या᳚वि॒शन् |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | उष्णिक्} इन्द्रं॒ जैत्रा᳚य हर्षया॒ शची॒पति᳚म् ||{13/13}{8.15.13}{8.3.3.13}{6.1.19.3}{398, 635, 6372} अर॒म्¦क्षया᳚य¦नः॒¦म॒हे¦विश्वा᳚¦रू॒पाणि॑¦आ॒ऽवि॒शन् | इन्द्र᳚म्¦जैत्रा᳚य¦ह॒र्ष॒य॒¦शची॒३॒॑ऽपति᳚म् || |
[16] प्रसम्राजमिति द्वादशर्चस्य सूक्तस्य काण्वइरिंबिठिरिंद्रोगायत्री | |
प्र स॒म्राजं᳚ चर्षणी॒नामिन्द्रं᳚ स्तोता॒ नव्यं᳚ गी॒र्भिः |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री} नरं᳚ नृ॒षाहं॒ मंहि॑ष्ठम् ||{1/12}{8.16.1}{8.3.4.1}{6.1.20.1}{399, 636, 6373} प्र¦स॒म्ऽराज᳚म्¦च॒र्ष॒णी॒नाम्¦इन्द्र᳚म्¦स्तो॒ता॒¦नव्य᳚म्¦गीः॒ऽभिः | नर᳚म्¦नृ॒ऽसह᳚म्¦मंहि॑ष्ठम् || |
यस्मि᳚न्नु॒क्थानि॒ रण्य᳚न्ति॒ विश्वा᳚नि च श्रव॒स्या᳚ |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री} अ॒पामवो॒ न स॑मु॒द्रे ||{2/12}{8.16.2}{8.3.4.2}{6.1.20.2}{400, 636, 6374} यस्मि॑न्¦उ॒क्थानि॑¦रण्य᳚न्ति¦विश्वा᳚नि¦च॒¦श्र॒व॒स्या᳚ | अ॒पाम्¦अवः॑¦न¦स॒मु॒द्रे || |
तं सु॑ष्टु॒त्या वि॑वासे ज्येष्ठ॒राजं॒ भरे᳚ कृ॒त्नुम् |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री} म॒हो वा॒जिनं᳚ स॒निभ्यः॑ ||{3/12}{8.16.3}{8.3.4.3}{6.1.20.3}{401, 636, 6375} तम्¦सु॒ऽस्तु॒त्या¦आ¦वि॒वा॒से॒¦ज्ये॒ष्ठ॒ऽराज᳚म्¦भरे᳚¦कृ॒त्नुम् | म॒हः¦वा॒जिन᳚म्¦स॒निऽभ्यः॑ || |
यस्यानू᳚ना गभी॒रा मदा᳚, उ॒रव॒स्तरु॑त्राः |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री} ह॒र्षु॒मन्तः॒ शूर॑सातौ ||{4/12}{8.16.4}{8.3.4.4}{6.1.20.4}{402, 636, 6376} यस्य॑¦अनू᳚नाः¦ग॒भी॒राः¦मदाः᳚¦उ॒रवः॑¦तरु॑त्राः | ह॒र्षु॒ऽमन्तः॑¦शूर॑ऽसातौ || |
तमिद्धने᳚षु हि॒तेष्व॑धिवा॒काय॑ हवन्ते |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री} येषा॒मिन्द्र॒स्ते ज॑यन्ति ||{5/12}{8.16.5}{8.3.4.5}{6.1.20.5}{403, 636, 6377} तम्¦इत्¦धने᳚षु¦हि॒तेषु॑¦अ॒धि॒ऽवा॒काय॑¦ह॒व॒न्ते॒ | येषा᳚म्¦इन्द्रः॑¦ते॒¦ज॒य॒न्ति॒ || |
तमिच्च्यौ॒त्नैरार्य᳚न्ति॒ तं कृ॒तेभि॑श्चर्ष॒णयः॑ |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री} ए॒ष इन्द्रो᳚ वरिव॒स्कृत् ||{6/12}{8.16.6}{8.3.4.6}{6.1.20.6}{404, 636, 6378} तम्¦इत्¦च्यौ॒त्नैः¦आर्य᳚न्ति¦तम्¦कृ॒तेभिः॑¦च॒र्ष॒णयः॑ | ए॒षः¦इन्द्रः॑¦व॒रि॒वः॒ऽकृत् || |
इन्द्रो᳚ ब्र॒ह्मेन्द्र॒ ऋषि॒रिन्द्रः॑ पु॒रू पु॑रुहू॒तः |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री} म॒हान्म॒हीभिः॒ शची᳚भिः ||{7/12}{8.16.7}{8.3.4.7}{6.1.21.1}{405, 636, 6379} इन्द्रः॑¦ब्र॒ह्मा¦इन्द्रः॑¦ऋषिः॑¦इन्द्रः॑¦पु॒रु¦पु॒रु॒ऽहू॒तः | म॒हान्¦म॒हीभिः॑¦शची᳚भिः || |
स स्तोम्यः॒ स हव्यः॑ स॒त्यः सत्वा᳚ तुविकू॒र्मिः |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री} एक॑श्चि॒त्सन्न॒भिभू᳚तिः ||{8/12}{8.16.8}{8.3.4.8}{6.1.21.2}{406, 636, 6380} सः¦स्तोम्यः॑¦सः¦हव्यः॑¦स॒त्यः¦सत्वा᳚¦तु॒वि॒ऽकू॒र्मिः | एकः॑¦चि॒त्¦सन्¦अ॒भिऽभू᳚तिः || |
तम॒र्केभि॒स्तं साम॑भि॒स्तं गा᳚य॒त्रैश्च॑र्ष॒णयः॑ |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री} इन्द्रं᳚ वर्धन्ति क्षि॒तयः॑ ||{9/12}{8.16.9}{8.3.4.9}{6.1.21.3}{407, 636, 6381} तम्¦अ॒र्केभिः॑¦तम्¦साम॑ऽभिः¦तम्¦गा॒य॒त्रैः¦च॒र्ष॒णयः॑ | इन्द्र᳚म्¦व॒र्ध॒न्ति॒¦क्षि॒तयः॑ || |
प्र॒णे॒तारं॒ वस्यो॒, अच्छा॒ कर्ता᳚रं॒ ज्योतिः॑ स॒मत्सु॑ |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री} सा॒स॒ह्वांसं᳚ यु॒धामित्रा॑न् ||{10/12}{8.16.10}{8.3.4.10}{6.1.21.4}{408, 636, 6382} प्र॒ऽने॒तार᳚म्¦वस्यः॑¦अच्छ॑¦कर्ता᳚रम्¦ज्योतिः॑¦स॒मत्ऽसु॑ | स॒स॒ह्वांस᳚म्¦यु॒धा¦अ॒मित्रा॑न् || |
स नः॒ पप्रिः॑ पारयाति स्व॒स्ति ना॒वा पु॑रुहू॒तः |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री} इन्द्रो॒ विश्वा॒, अति॒ द्विषः॑ ||{11/12}{8.16.11}{8.3.4.11}{6.1.21.5}{409, 636, 6383} सः¦नः॒¦पप्रिः॑¦पा॒र॒या॒ति॒¦स्व॒स्ति¦ना॒वा¦पु॒रु॒ऽहू॒तः | इन्द्रः॑¦विश्वाः᳚¦अति॑¦द्विषः॑ || |
स त्वं न॑ इन्द्र॒ वाजे᳚भिर्दश॒स्या च॑ गातु॒या च॑ |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री} अच्छा᳚ च नः सु॒म्नं ने᳚षि ||{12/12}{8.16.12}{8.3.4.12}{6.1.21.6}{410, 636, 6384} सः¦त्वम्¦नः॒¦इ॒न्द्र॒¦वाजे᳚भिः¦द॒श॒स्य¦च॒¦गा॒तु॒ऽय¦च॒ | अच्छ॑¦च॒¦नः॒¦सु॒म्नम्¦ने॒षि॒ || |
[17] आयाहीति पंचदशर्चस्य सूक्तस्य काण्वइरिंबिठिरिंद्रोगायत्री अंत्येद्वेबृहतीसतोबृहत्यौ | त्वास्तोष्पतइत्यस्यावास्तोष्पतिर्देवतेतिशौनकः | (उपांत्यायाअर्धर्चेदेवोवास्तोष्पतिः स्तुतइति हितद्वाक्यम्) | |
आ या᳚हि सुषु॒मा हि त॒ इन्द्र॒ सोमं॒ पिबा᳚, इ॒मम् |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री} एदं ब॒र्हिः स॑दो॒ मम॑ ||{1/15}{8.17.1}{8.3.5.1}{6.1.22.1}{411, 637, 6385} आ¦या॒हि॒¦सु॒सु॒म¦हि¦ते॒¦इन्द्र॑¦सोम᳚म्¦पिब॑¦इ॒मम् | आ¦इ॒दम्¦ब॒र्हिः¦स॒दः॒¦मम॑ || |
आ त्वा᳚ ब्रह्म॒युजा॒ हरी॒ वह॑तामिन्द्र के॒शिना᳚ |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री} उप॒ ब्रह्मा᳚णि नः शृणु ||{2/15}{8.17.2}{8.3.5.2}{6.1.22.2}{412, 637, 6386} आ¦त्वा॒¦ब्र॒ह्म॒ऽयुजा᳚¦हरी॒ इति॑¦वह॑ताम्¦इ॒न्द्र॒¦के॒शिना᳚ | उप॑¦ब्रह्मा᳚णि¦नः॒¦शृ॒णु॒ || |
ब्र॒ह्माण॑स्त्वा व॒यं यु॒जा सो᳚म॒पामि᳚न्द्र सो॒मिनः॑ |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री} सु॒ताव᳚न्तो हवामहे ||{3/15}{8.17.3}{8.3.5.3}{6.1.22.3}{413, 637, 6387} ब्र॒ह्माणः॑¦त्वा॒¦व॒यम्¦यु॒जा¦सो॒म॒ऽपाम्¦इ॒न्द्र॒¦सो॒मिनः॑ | सु॒तऽव᳚न्तः¦ह॒वा॒म॒हे॒ || |
आ नो᳚ याहि सु॒ताव॑तो॒ऽस्माकं᳚ सुष्टु॒तीरुप॑ |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री} पिबा॒ सु शि॑प्रि॒न्नन्ध॑सः ||{4/15}{8.17.4}{8.3.5.4}{6.1.22.4}{414, 637, 6388} आ¦नः॒¦या॒हि॒¦सु॒तऽव॑तः¦अ॒स्माक᳚म्¦सु॒ऽस्तु॒तीः¦उप॑ | पिब॑¦सु¦शि॒प्रि॒न्¦अन्ध॑सः || |
आ ते᳚ सिञ्चामि कु॒क्ष्योरनु॒ गात्रा॒ वि धा᳚वतु |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री} गृ॒भा॒य जि॒ह्वया॒ मधु॑ ||{5/15}{8.17.5}{8.3.5.5}{6.1.22.5}{415, 637, 6389} आ¦ते॒¦सिं॒चा॒मि॒¦कु॒क्ष्योः¦अनु॑¦गात्रा᳚¦वि¦धा॒व॒तु॒ | गृ॒भा॒य¦जि॒ह्वया᳚¦मधु॑ || |
स्वा॒दुष्टे᳚, अस्तु सं॒सुदे॒ मधु॑मान्त॒न्वे॒३॑(ए॒) तव॑ |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री} सोमः॒ शम॑स्तु ते हृ॒दे ||{6/15}{8.17.6}{8.3.5.6}{6.1.23.1}{416, 637, 6390} स्वा॒दुः¦ते॒¦अ॒स्तु॒¦स॒म्ऽसुदे᳚¦मधु॑ऽमान्¦त॒न्वे᳚¦तव॑ | सोमः॑¦शम्¦अ॒स्तु॒¦ते॒¦हृ॒दे || |
अ॒यमु॑ त्वा विचर्षणे॒ जनी᳚रिवा॒भि संवृ॑तः |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री} प्र सोम॑ इन्द्र सर्पतु ||{7/15}{8.17.7}{8.3.5.7}{6.1.23.2}{417, 637, 6391} अ॒यम्¦ऊँ॒ इति॑¦त्वा॒¦वि॒ऽच॒र्ष॒णे॒¦जनीः᳚ऽइव¦अ॒भि¦सम्ऽवृ॑तः | प्र¦सोमः॑¦इ॒न्द्र॒¦स॒र्प॒तु॒ || |
तु॒वि॒ग्रीवो᳚ व॒पोद॑रः सुबा॒हुरन्ध॑सो॒ मदे᳚ |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री} इन्द्रो᳚ वृ॒त्राणि॑ जिघ्नते ||{8/15}{8.17.8}{8.3.5.8}{6.1.23.3}{418, 637, 6392} तु॒वि॒ऽग्रीवः॑¦व॒पा।औ᳚दरः¦सु॒ऽबा॒हुः¦अन्ध॑सः¦मदे᳚ | इन्द्रः॑¦वृ॒त्राणि॑¦जि॒घ्न॒ते॒ || |
इन्द्र॒ प्रेहि॑ पु॒रस्त्वं विश्व॒स्येशा᳚न॒ ओज॑सा |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री} वृ॒त्राणि॑ वृत्रहञ्जहि ||{9/15}{8.17.9}{8.3.5.9}{6.1.23.4}{419, 637, 6393} इन्द्र॑¦प्र¦इ॒हि॒¦पु॒रः¦त्वम्¦विश्व॑स्य¦ईशा᳚नः¦ओज॑सा | वृ॒त्राणि॑¦वृ॒त्र॒ऽह॒न्¦ज॒हि॒ || |
दी॒र्घस्ते᳚, अस्त्वङ्कु॒शो येना॒ वसु॑ प्र॒यच्छ॑सि |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री} यज॑मानाय सुन्व॒ते ||{10/15}{8.17.10}{8.3.5.10}{6.1.23.5}{420, 637, 6394} दी॒र्घः¦ते॒¦अ॒स्तु॒¦अ॒ङ्कु॒शः¦येन॑¦वसु॑¦प्र॒ऽयच्छ॑सि | यज॑मानाय¦सु॒न्व॒ते || |
अ॒यं त॑ इन्द्र॒ सोमो॒ निपू᳚तो॒, अधि॑ ब॒र्हिषि॑ |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री} एही᳚म॒स्य द्रवा॒ पिब॑ ||{11/15}{8.17.11}{8.3.5.11}{6.1.24.1}{421, 637, 6395} अ॒यम्¦ते॒¦इ॒न्द्र॒¦सोमः॑¦निऽपू᳚तः¦अधि॑¦ब॒र्हिषि॑ | आ¦इ॒हि॒¦ई॒म्¦अ॒स्य¦द्रव॑¦पिब॑ || |
शाचि॑गो॒ शाचि॑पूजना॒यं रणा᳚य ते सु॒तः |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री} आख॑ण्डल॒ प्र हू᳚यसे ||{12/15}{8.17.12}{8.3.5.12}{6.1.24.2}{422, 637, 6396} शाचि॑गो॒ इति॒ शाचि॑ऽगो¦शाचि॑ऽपूजन¦अ॒यम्¦रणा᳚य¦ते॒¦सु॒तः | आख॑ण्डल¦प्र¦हू॒य॒से॒ || |
यस्ते᳚ शृङ्गवृषो नपा॒त्प्रण॑पात्कुण्ड॒पाय्यः॑ |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री} न्य॑स्मिन्दध्र॒ आ मनः॑ ||{13/15}{8.17.13}{8.3.5.13}{6.1.24.3}{423, 637, 6397} यः¦ते॒¦शृ॒ङ्ग॒ऽवृ॒षः॒¦न॒पा॒त्¦प्रन॑पा॒दिति॒ प्रऽन॑पात्¦कु॒ण्ड॒ऽपाय्यः॑ | नि¦अ॒स्मि॒न्¦द॒ध्रे॒¦आ¦मनः॑ || |
वास्तो᳚ष्पते ध्रु॒वा स्थूणांस॑त्रं सो॒म्याना᳚म् |{काण्वः इरिम्बिठिः | वास्तोष्पतिर्देवते | बृहति} द्र॒प्सो भे॒त्ता पु॒रां शश्व॑तीना॒मिन्द्रो॒ मुनी᳚नां॒ सखा᳚ ||{14/15}{8.17.14}{8.3.5.14}{6.1.24.4}{424, 637, 6398} वास्तोः᳚¦प॒ते॒¦ध्रु॒वा¦स्थूणा᳚¦अंस॑त्रम्¦सो॒म्याना᳚म् | |
पृदा᳚कुसानुर्यज॒तो ग॒वेष॑ण॒ एकः॒ सन्न॒भि भूय॑सः |{काण्वः इरिम्बिठिः | इन्द्रः | सतोबृहति} भूर्णि॒मश्वं᳚ नयत्तु॒जा पु॒रो गृ॒भेन्द्रं॒ सोम॑स्य पी॒तये᳚ ||{15/15}{8.17.15}{8.3.5.15}{6.1.24.5}{425, 637, 6399} पृदा᳚कुऽसानुः¦य॒ज॒तः¦गो॒ऽएष॑णः¦एकः॑¦सन्¦अ॒भि¦भूय॑सः | |
[18] इदंहेति द्वाविंशत्यृचस्य सूक्तस्य काण्वइरिंबिठिरादित्याः चतुर्थषष्ठीसप्तमीनामदितिः अष्टम्याअश्विनौ नवम्याअग्निसूर्यानिला उष्णिक् | |
इ॒दं ह॑ नू॒नमे᳚षां सु॒म्नं भि॑क्षेत॒ मर्त्यः॑ |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्} आ॒दि॒त्याना॒मपू᳚र्व्यं॒ सवी᳚मनि ||{1/22}{8.18.1}{8.3.6.1}{6.1.25.1}{426, 638, 6400} इ॒दम्¦ह॒¦नू॒नम्¦ए॒षा॒म्¦सु॒म्नम्¦भि॒क्षे॒त॒¦मर्त्यः॑ | आ॒दि॒त्याना᳚म्¦अपू᳚र्व्यम्¦सवी᳚मनि || |
अ॒न॒र्वाणो॒ ह्ये᳚षां॒ पन्था᳚, आदि॒त्याना᳚म् |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्} अद॑ब्धाः॒ सन्ति॑ पा॒यवः॑ सुगे॒वृधः॑ ||{2/22}{8.18.2}{8.3.6.2}{6.1.25.2}{427, 638, 6401} अ॒न॒र्वाणः॑¦हि¦ए॒षा॒म्¦पन्था᳚¦आ॒दि॒त्याना᳚म् | अद॑ब्धाः¦सन्ति॑¦पा॒यवः॑¦सु॒गे॒ऽवृधः॑ || |
तत्सु नः॑ सवि॒ता भगो॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्} शर्म॑ यच्छन्तु स॒प्रथो॒ यदीम॑हे ||{3/22}{8.18.3}{8.3.6.3}{6.1.25.3}{428, 638, 6402} तत्¦सु¦नः॒¦स॒वि॒ता¦भगः॑¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा | शर्म॑¦य॒च्छ॒न्तु॒¦स॒ऽप्रथः॑¦यत्¦ईम॑हे || |
दे॒वेभि॑र्देव्यदि॒तेऽरि॑ष्टभर्म॒न्ना ग॑हि |{काण्वः इरिम्बिठिः | अदितिः | उष्णिक्} स्मत्सू॒रिभिः॑ पुरुप्रिये सु॒शर्म॑भिः ||{4/22}{8.18.4}{8.3.6.4}{6.1.25.4}{429, 638, 6403} दे॒वेभिः॑¦दे॒वि॒¦अ॒दि॒ते॒¦अरि॑ष्टऽभर्मन्¦आ¦ग॒हि॒ | स्मत्¦सू॒रिऽभिः॑¦पु॒रु॒ऽप्रि॒ये॒¦सु॒शर्म॑ऽभिः || |
ते हि पु॒त्रासो॒, अदि॑तेर्वि॒दुर्द्वेषां᳚सि॒ योत॑वे |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्} अं॒होश्चि॑दुरु॒चक्र॑योऽने॒हसः॑ ||{5/22}{8.18.5}{8.3.6.5}{6.1.25.5}{430, 638, 6404} ते¦हि¦पु॒त्रासः॑¦अदि॑तेः¦वि॒दुः¦द्वेषां᳚सि¦योत॑वे | अं॒होः¦चि॒त्¦उ॒रु॒ऽचक्र॑यः¦अ॒ने॒हसः॑ || |
अदि॑तिर्नो॒ दिवा᳚ प॒शुमदि॑ति॒र्नक्त॒मद्व॑याः |{काण्वः इरिम्बिठिः | अदितिः | उष्णिक्} अदि॑तिः पा॒त्वंह॑सः स॒दावृ॑धा ||{6/22}{8.18.6}{8.3.6.6}{6.1.26.1}{431, 638, 6405} अदि॑तिः¦नः॒¦दिवा᳚¦प॒शुम्¦अदि॑तिः¦नक्त᳚म्¦अद्व॑याः | अदि॑तिः¦पा॒तु॒¦अंह॑सः¦स॒दाऽवृ॑धा || |
उ॒त स्या नो॒ दिवा᳚ म॒तिरदि॑तिरू॒त्या ग॑मत् |{काण्वः इरिम्बिठिः | अदितिः | उष्णिक्} सा शंता᳚ति॒ मय॑स्कर॒दप॒ स्रिधः॑ ||{7/22}{8.18.7}{8.3.6.7}{6.1.26.2}{432, 638, 6406} उ॒त¦स्या¦नः॒¦दिवा᳚¦म॒तिः¦अदि॑तिः¦ऊ॒त्या¦आ¦ग॒म॒त् | सा¦शम्ऽता᳚ति¦मयः॑¦क॒र॒त्¦अप॑¦स्रिधः॑ || |
उ॒त त्या दैव्या᳚ भि॒षजा॒ शं नः॑ करतो, अ॒श्विना᳚ |{काण्वः इरिम्बिठिः | अश्विनौ | उष्णिक्} यु॒यु॒याता᳚मि॒तो रपो॒, अप॒ स्रिधः॑ ||{8/22}{8.18.8}{8.3.6.8}{6.1.26.3}{433, 638, 6407} उ॒त¦त्या¦दैव्या᳚¦भि॒षजा᳚¦शम्¦नः॒¦क॒र॒तः॒¦अ॒श्विना᳚ | यु॒यु॒याता᳚म्¦इ॒तः¦रपः॑¦अप॑¦स्रिधः॑ || |
शम॒ग्निर॒ग्निभिः॑ कर॒च्छं न॑स्तपतु॒ सूर्यः॑ |{काण्वः इरिम्बिठिः | अग्निसूर्यानिलाः | उष्णिक्} शं वातो᳚ वात्वर॒पा, अप॒ स्रिधः॑ ||{9/22}{8.18.9}{8.3.6.9}{6.1.26.4}{434, 638, 6408} शम्¦अ॒ग्निः¦अ॒ग्निऽभिः॑¦क॒र॒त्¦शम्¦नः॒¦त॒प॒तु॒¦सूर्यः॑ | शम्¦वातः॑¦वा॒तु॒¦अ॒र॒पाः¦अप॑¦स्रिधः॑ || |
अपामी᳚वा॒मप॒ स्रिध॒मप॑ सेधत दुर्म॒तिम् |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्} आदि॑त्यासो यु॒योत॑ना नो॒, अंह॑सः ||{10/22}{8.18.10}{8.3.6.10}{6.1.26.5}{435, 638, 6409} अप॑¦अमी᳚वाम्¦अप॑¦स्रिध᳚म्¦अप॑¦से॒ध॒त॒¦दुः॒ऽम॒तिम् | आदि॑त्यासः¦यु॒योत॑न¦नः॒¦अंह॑सः || |
यु॒योता॒ शरु॑म॒स्मदाँ, आदि॑त्यास उ॒ताम॑तिम् |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्} ऋध॒ग्द्वेषः॑ कृणुत विश्ववेदसः ||{11/22}{8.18.11}{8.3.6.11}{6.1.27.1}{436, 638, 6410} यु॒योत॑¦शरु᳚म्¦अ॒स्मत्¦आ¦आदि॑त्यासः¦उ॒त¦अम॑तिम् | ऋध॑क्¦द्वेषः॑¦कृ॒णु॒त॒¦वि॒श्व॒ऽवे॒द॒सः॒ || |
तत्सु नः॒ शर्म॑ यच्छ॒तादि॑त्या॒ यन्मुमो᳚चति |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्} एन॑स्वन्तं चि॒देन॑सः सुदानवः ||{12/22}{8.18.12}{8.3.6.12}{6.1.27.2}{437, 638, 6411} तत्¦सु¦नः॒¦शर्म॑¦य॒च्छ॒त॒¦आदि॑त्याः¦यत्¦मुमो᳚चति | एन॑स्वन्तम्¦चि॒त्¦एन॑सः¦सु॒ऽदा॒न॒वः॒ || |
यो नः॒ कश्चि॒द्रिरि॑क्षति रक्ष॒स्त्वेन॒ मर्त्यः॑ |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्} स्वैः ष एवै᳚ रिरिषीष्ट॒ युर्जनः॑ ||{13/22}{8.18.13}{8.3.6.13}{6.1.27.3}{438, 638, 6412} यः¦नः॒¦कः¦चि॒त्¦रिरि॑क्षति¦र॒क्षः॒ऽत्वेन॑¦मर्त्यः॑ | स्वैः¦सः¦एवैः᳚¦रि॒रि॒षी॒ष्ट॒¦युः¦जनः॑ || |
समित्तम॒घम॑श्नवद्दुः॒शंसं॒ मर्त्यं᳚ रि॒पुम् |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्} यो, अ॑स्म॒त्रा दु॒र्हणा᳚वाँ॒, उप॑ द्व॒युः ||{14/22}{8.18.14}{8.3.6.14}{6.1.27.4}{439, 638, 6413} सम्¦इत्¦तम्¦अ॒घम्¦अ॒श्न॒व॒त्¦दुः॒ऽशंस᳚म्¦मर्त्य᳚म्¦रि॒पुम् | यः¦अ॒स्म॒ऽत्रा¦दुः॒ऽहना᳚वान्¦उप॑¦द्व॒युः || |
पा॒क॒त्रा स्थ॑न देवा हृ॒त्सु जा᳚नीथ॒ मर्त्य᳚म् |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्} उप॑ द्व॒युं चाद्व॑युं च वसवः ||{15/22}{8.18.15}{8.3.6.15}{6.1.27.5}{440, 638, 6414} पा॒क॒ऽत्रा¦स्थ॒न॒¦दे॒वाः॒¦हृ॒त्ऽसु¦जा॒नी॒थ॒¦मर्त्य᳚म् | उप॑¦द्व॒युम्¦च॒¦अद्व॑युम्¦च॒¦व॒स॒वः॒ || |
आ शर्म॒ पर्व॑ताना॒मोतापां वृ॑णीमहे |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्} द्यावा᳚क्षामा॒रे, अ॒स्मद्रप॑स्कृतम् ||{16/22}{8.18.16}{8.3.6.16}{6.1.28.1}{441, 638, 6415} आ¦शर्म॑¦पर्व॑तानाम्¦आ¦उ॒त¦अ॒पाम्¦वृ॒णी॒म॒हे॒ | द्यावा᳚क्षामा¦आ॒रे¦अ॒स्मत्¦रपः॑¦कृ॒त॒म् || |
ते नो᳚ भ॒द्रेण॒ शर्म॑णा यु॒ष्माकं᳚ ना॒वा व॑सवः |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्} अति॒ विश्वा᳚नि दुरि॒ता पि॑पर्तन ||{17/22}{8.18.17}{8.3.6.17}{6.1.28.2}{442, 638, 6416} ते¦नः॒¦भ॒द्रेण॑¦शर्म॑णा¦यु॒ष्माक᳚म्¦ना॒वा¦व॒स॒वः॒ | अति॑¦विश्वा᳚नि¦दुः॒ऽइ॒ता¦पि॒प॒र्त॒न॒ || |
तु॒चे तना᳚य॒ तत्सु नो॒ द्राघी᳚य॒ आयु॑र्जी॒वसे᳚ |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्} आदि॑त्यासः सुमहसः कृ॒णोत॑न ||{18/22}{8.18.18}{8.3.6.18}{6.1.28.3}{443, 638, 6417} तु॒चे¦तना᳚य¦तत्¦सु¦नः॒¦द्राघी᳚यः¦आयुः॑¦जी॒वसे᳚ | आदि॑त्यासः¦सु॒ऽम॒ह॒सः॒¦कृ॒णोत॑न || |
य॒ज्ञो ही॒ळो वो॒, अन्त॑र॒ आदि॑त्या॒, अस्ति॑ मृ॒ळत॑ |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्} यु॒ष्मे, इद्वो॒, अपि॑ ष्मसि सजा॒त्ये᳚ ||{19/22}{8.18.19}{8.3.6.19}{6.1.28.4}{444, 638, 6418} य॒ज्ञः¦ही॒ळः¦वः॒¦अन्त॑रः¦आदि॑त्याः¦अस्ति॑¦मृ॒ळत॑ | यु॒ष्मे इति॑¦इत्¦वः॒¦अपि॑¦स्म॒सि॒¦स॒ऽजा॒त्ये᳚ || |
बृ॒हद्वरू᳚थं म॒रुतां᳚ दे॒वं त्रा॒तार॑म॒श्विना᳚ |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्} मि॒त्रमी᳚महे॒ वरु॑णं स्व॒स्तये᳚ ||{20/22}{8.18.20}{8.3.6.20}{6.1.28.5}{445, 638, 6419} बृ॒हत्¦वरू᳚थम्¦म॒रुता᳚म्¦दे॒वम्¦त्रा॒तर᳚म्¦अ॒श्विना᳚ | मि॒त्रम्¦ई॒म॒हे॒¦वरु॑णम्¦स्व॒स्तये᳚ || |
अ॒ने॒हो मि॑त्रार्यमन्नृ॒वद्व॑रुण॒ शंस्य᳚म् |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्} त्रि॒वरू᳚थं मरुतो यन्त नश्छ॒र्दिः ||{21/22}{8.18.21}{8.3.6.21}{6.1.28.6}{446, 638, 6420} अ॒ने॒हः¦मि॒त्र॒¦अ॒र्य॒म॒न्¦नृ॒ऽवत्¦व॒रु॒ण॒¦शंस्य᳚म् | त्रि॒ऽवरू᳚थम्¦म॒रु॒तः॒¦य॒न्त॒¦नः॒¦छ॒र्दिः || |
ये चि॒द्धि मृ॒त्युब᳚न्धव॒ आदि॑त्या॒ मन॑वः॒ स्मसि॑ |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्} प्र सू न॒ आयु॑र्जी॒वसे᳚ तिरेतन ||{22/22}{8.18.22}{8.3.6.22}{6.1.28.7}{447, 638, 6421} ये¦चि॒त्¦हि¦मृ॒त्युऽब᳚न्धवः¦आदि॑त्याः¦मन॑वः¦स्मसि॑ | प्र¦सु¦नः॒¦आयुः॑¦जी॒वसे᳚¦ति॒रे॒त॒न॒ || |
[19] तंगूर्धयेति सप्तत्रिंशदृचस्य सूक्तस्य काण्वः सोभरिरग्निः चतुस्त्रिंशीपंचत्रिंश्योरादित्या अंत्ययोर्द्वयोस्त्रसदस्युः प्रथमादिपंचविंश्यंताअयुजःककुभः द्वितीयादिषड्विश्यंतायुजः सतोबृहत्यः पितुर्नेतिसप्तविंशीद्विपदा अष्टाविंशीत्रिंशीद्वात्रिंशीषट्त्रिंश्यः ककुभः एकोनत्रिंश्येकत्रिंशीत्रयस्त्रिंशीपंचत्रिंश्यः सतोबृहत्यः चतुस्त्रिंश्युष्णिक् सप्तत्रिंशीपंक्तिः | |
तं गू᳚र्धया॒ स्व᳚र्णरं दे॒वासो᳚ दे॒वम॑र॒तिं द॑धन् विरे |{काण्वः सोभरिः | अग्निः | ककुभः} दे॒व॒त्रा ह॒व्यमोहि॑रे ||{1/37}{8.19.1}{8.3.7.1}{6.1.29.1}{448, 639, 6422} तम्¦गू॒र्ध॒य॒¦स्वः॑ऽनरम्¦दे॒वासः॑¦दे॒वम्¦अ॒र॒तिम्¦द॒ध॒न्वि॒रे॒ | दे॒व॒ऽत्रा¦ह॒व्यम्¦आ¦ऊ॒हि॒रे॒ || |
विभू᳚तरातिं विप्र चि॒त्रशो᳚चिषम॒ग्निमी᳚ळिष्व य॒न्तुर᳚म् |{काण्वः सोभरिः | अग्निः | सतोबृहती} अ॒स्य मेध॑स्य सो॒म्यस्य॑ सोभरे॒ प्रेम॑ध्व॒राय॒ पूर्व्य᳚म् ||{2/37}{8.19.2}{8.3.7.2}{6.1.29.2}{449, 639, 6423} विभू᳚तऽरातिम्¦वि॒प्र॒¦चि॒त्रऽशो᳚चिषम्¦अ॒ग्निम्¦ई॒ळि॒ष्व॒¦य॒न्तुर᳚म् | |
यजि॑ष्ठं त्वा ववृमहे दे॒वं दे᳚व॒त्रा होता᳚र॒मम॑र्त्यम् |{काण्वः सोभरिः | अग्निः | ककुभः} अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु᳚म् ||{3/37}{8.19.3}{8.3.7.3}{6.1.29.3}{450, 639, 6424} यजि॑ष्ठम्¦त्वा॒¦व॒वृ॒म॒हे॒¦दे॒वम्¦दे॒व॒ऽत्रा¦होता᳚रम्¦अम॑र्त्यम् | अ॒स्य¦य॒ज्ञस्य॑¦सु॒ऽक्रतु᳚म् || |
ऊ॒र्जो नपा᳚तं सु॒भगं᳚ सु॒दीदि॑तिम॒ग्निं श्रेष्ठ॑शोचिषम् |{काण्वः सोभरिः | अग्निः | सतोबृहती} स नो᳚ मि॒त्रस्य॒ वरु॑णस्य॒ सो, अ॒पामा सु॒म्नं य॑क्षते दि॒वि ||{4/37}{8.19.4}{8.3.7.4}{6.1.29.4}{451, 639, 6425} ऊ॒र्जः¦नपा᳚तम्¦सु॒ऽभग᳚म्¦सु॒ऽदीदि॑तिम्¦अ॒ग्निम्¦श्रेष्ठ॑ऽशोचिषम् | |
यः स॒मिधा॒ य आहु॑ती॒ यो वेदे᳚न द॒दाश॒ मर्तो᳚, अ॒ग्नये᳚ |{काण्वः सोभरिः | अग्निः | ककुभः} यो नम॑सा स्वध्व॒रः ||{5/37}{8.19.5}{8.3.7.5}{6.1.29.5}{452, 639, 6426} यः¦स॒म्ऽइधा᳚¦यः¦आऽहु॑ती¦यः¦वेदे᳚न¦द॒दाश॑¦मर्तः॑¦अ॒ग्नये᳚ | यः¦नम॑सा¦सु॒।आ॒ध्व॒रः || |
तस्येदर्व᳚न्तो रंहयन्त आ॒शव॒स्तस्य॑ द्यु॒म्नित॑मं॒ यशः॑ |{काण्वः सोभरिः | अग्निः | सतोबृहती} न तमंहो᳚ दे॒वकृ॑तं॒ कुत॑श्च॒न न मर्त्य॑कृतं नशत् ||{6/37}{8.19.6}{8.3.7.6}{6.1.30.1}{453, 639, 6427} तस्य॑¦इत्¦अर्व᳚न्तः¦रं॒ह॒य॒न्ते॒¦आ॒शवः॑¦तस्य॑¦द्यु॒म्निऽत॑मम्¦यशः॑ | |
स्व॒ग्नयो᳚ वो, अ॒ग्निभिः॒ स्याम॑ सूनो सहस ऊर्जां पते |{काण्वः सोभरिः | अग्निः | ककुभः} सु॒वीर॒स्त्वम॑स्म॒युः ||{7/37}{8.19.7}{8.3.7.7}{6.1.30.2}{454, 639, 6428} सु॒।आ॒ग्नयः॑¦वः॒¦अ॒ग्निऽभिः॑¦स्याम॑¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦ऊ॒र्जा॒म्¦प॒ते॒ | सु॒ऽवीरः॑¦त्वम्¦अ॒स्म॒ऽयुः || |
प्र॒शंस॑मानो॒, अति॑थि॒र्न मि॒त्रियो॒ऽग्नी रथो॒ न वेद्यः॑ |{काण्वः सोभरिः | अग्निः | सतोबृहती} त्वे क्षेमा᳚सो॒, अपि॑ सन्ति सा॒धव॒स्त्वं राजा᳚ रयी॒णाम् ||{8/37}{8.19.8}{8.3.7.8}{6.1.30.3}{455, 639, 6429} प्र॒ऽशंस॑मानः¦अति॑थिः¦न¦मि॒त्रियः॑¦अ॒ग्निः¦रथः॑¦न¦वेद्यः॑ | |
सो, अ॒द्धा दा॒श्व॑ध्व॒रोऽग्ने॒ मर्तः॑ सुभग॒ स प्र॒शंस्यः॑ |{काण्वः सोभरिः | अग्निः | ककुभः} स धी॒भिर॑स्तु॒ सनि॑ता ||{9/37}{8.19.9}{8.3.7.9}{6.1.30.4}{456, 639, 6430} सः¦अ॒द्धा¦दा॒शु।आ॑ध्वरः¦अग्ने᳚¦मर्तः॑¦सु॒ऽभ॒ग॒¦सः¦प्र॒ऽशंस्यः॑ | सः¦धी॒भिः¦अ॒स्तु॒¦सनि॑ता || |
यस्य॒ त्वमू॒र्ध्वो, अ॑ध्व॒राय॒ तिष्ठ॑सि क्ष॒यद्वी᳚रः॒ स सा᳚धते |{काण्वः सोभरिः | अग्निः | सतोबृहती} सो, अर्व॑द्भिः॒ सनि॑ता॒ स वि॑प॒न्युभिः॒ स शूरैः॒ सनि॑ता कृ॒तम् ||{10/37}{8.19.10}{8.3.7.10}{6.1.30.5}{457, 639, 6431} यस्य॑¦त्वम्¦ऊ॒र्ध्वः¦अ॒ध्व॒राय॑¦तिष्ठ॑सि¦क्ष॒यत्ऽवी᳚रः¦सः¦सा॒ध॒ते॒ | |
यस्या॒ग्निर्वपु॑र्गृ॒हे स्तोमं॒ चनो॒ दधी᳚त वि॒श्ववा᳚र्यः |{काण्वः सोभरिः | अग्निः | ककुभः} ह॒व्या वा॒ वेवि॑ष॒द्विषः॑ ||{11/37}{8.19.11}{8.3.7.11}{6.1.31.1}{458, 639, 6432} यस्य॑¦अ॒ग्निः¦वपुः॑¦गृ॒हे¦स्तोम᳚म्¦चनः॑¦दधी᳚त¦वि॒श्वऽवा᳚र्यः | ह॒व्या¦वा॒¦वेवि॑षत्¦विषः॑ || |
विप्र॑स्य वा स्तुव॒तः स॑हसो यहो म॒क्षूत॑मस्य रा॒तिषु॑ |{काण्वः सोभरिः | अग्निः | सतोबृहती} अ॒वोदे᳚वमु॒परि॑मर्त्यं कृधि॒ वसो᳚ विवि॒दुषो॒ वचः॑ ||{12/37}{8.19.12}{8.3.7.12}{6.1.31.2}{459, 639, 6433} विप्र॑स्य¦वा॒¦स्तु॒व॒तः¦स॒ह॒सः॒¦य॒हो॒ इति॑¦म॒क्षुऽत॑मस्य¦रा॒तिषु॑ | |
यो, अ॒ग्निं ह॒व्यदा᳚तिभि॒र्नमो᳚भिर्वा सु॒दक्ष॑मा॒विवा᳚सति |{काण्वः सोभरिः | अग्निः | ककुभः} गि॒रा वा᳚जि॒रशो᳚चिषम् ||{13/37}{8.19.13}{8.3.7.13}{6.1.31.3}{460, 639, 6434} यः¦अ॒ग्निम्¦ह॒व्यदा᳚तिऽभिः¦नमः॑ऽभिः¦वा॒¦सु॒ऽदक्ष᳚म्¦आ॒ऽविवा᳚सति | गि॒रा¦वा॒¦अ॒जि॒रऽशो᳚चिषम् || |
स॒मिधा॒ यो निशि॑ती॒ दाश॒ददि॑तिं॒ धाम॑भिरस्य॒ मर्त्यः॑ |{काण्वः सोभरिः | अग्निः | सतोबृहती} विश्वेत्स धी॒भिः सु॒भगो॒ जनाँ॒, अति॑ द्यु॒म्नैरु॒द्न इ॑व तारिषत् ||{14/37}{8.19.14}{8.3.7.14}{6.1.31.4}{461, 639, 6435} स॒म्ऽइधा᳚¦यः¦निऽशि॑ती¦दाश॑त्¦अदि॑तिम्¦धाम॑ऽभिः¦अ॒स्य॒¦मर्त्यः॑ | |
तद॑ग्ने द्यु॒म्नमा भ॑र॒ यत्सा॒सह॒त्सद॑ने॒ कं चि॑द॒त्रिण᳚म् |{काण्वः सोभरिः | अग्निः | ककुभः} म॒न्युं जन॑स्य दू॒ढ्यः॑ ||{15/37}{8.19.15}{8.3.7.15}{6.1.31.5}{462, 639, 6436} तत्¦अ॒ग्ने॒¦द्यु॒म्नम्¦आ¦भ॒र॒¦यत्¦स॒सह॑त्¦सद॑ने¦कम्¦चि॒त्¦अ॒त्रिण᳚म् | म॒न्युम्¦जन॑स्य¦दुः॒ऽध्यः॑ || |
येन॒ चष्टे॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा येन॒ नास॑त्या॒ भगः॑ |{काण्वः सोभरिः | अग्निः | सतोबृहती} व॒यं तत्ते॒ शव॑सा गातु॒वित्त॑मा॒, इन्द्र॑त्वोता विधेमहि ||{16/37}{8.19.16}{8.3.7.16}{6.1.32.1}{463, 639, 6437} येन॑¦चष्टे᳚¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा¦येन॑¦नास॑त्या¦भगः॑ | |
ते घेद॑ग्ने स्वा॒ध्यो॒३॑(ओ॒) ये त्वा᳚ विप्र निदधि॒रे नृ॒चक्ष॑सम् |{काण्वः सोभरिः | अग्निः | ककुभः} विप्रा᳚सो देव सु॒क्रतु᳚म् ||{17/37}{8.19.17}{8.3.7.17}{6.1.32.2}{464, 639, 6438} ते¦घ॒¦इत्¦अ॒ग्ने॒¦सु॒ऽआ॒ध्यः॑¦ये¦त्वा॒¦वि॒प्र॒¦नि॒ऽद॒धि॒रे¦नृ॒ऽचक्ष॑सम् | विप्रा᳚सः¦दे॒व॒¦सु॒ऽक्रतु᳚म् || |
त इद्वेदिं᳚ सुभग॒ त आहु॑तिं॒ ते सोतुं᳚ चक्रिरे दि॒वि |{काण्वः सोभरिः | अग्निः | सतोबृहती} त इद्वाजे᳚भिर्जिग्युर्म॒हद्धनं॒ ये त्वे कामं᳚ न्येरि॒रे ||{18/37}{8.19.18}{8.3.7.18}{6.1.32.3}{465, 639, 6439} ते¦इत्¦वेदि᳚म्¦सु॒ऽभ॒ग॒¦ते¦आऽहु॑तिम्¦ते¦सोतु᳚म्¦च॒क्रि॒रे॒¦दि॒वि | |
भ॒द्रो नो᳚, अ॒ग्निराहु॑तो भ॒द्रा रा॒तिः सु॑भग भ॒द्रो, अ॑ध्व॒रः |{काण्वः सोभरिः | अग्निः | ककुभः} भ॒द्रा, उ॒त प्रश॑स्तयः ||{19/37}{8.19.19}{8.3.7.19}{6.1.32.4}{466, 639, 6440} भ॒द्रः¦नः॒¦अ॒ग्निः¦आऽहु॑तः¦भ॒द्रा¦रा॒तिः¦सु॒ऽभ॒ग॒¦भ॒द्रः¦अ॒ध्व॒रः | भ॒द्राः¦उ॒त¦प्रऽश॑स्तयः || |
भ॒द्रं मनः॑ कृणुष्व वृत्र॒तूर्ये॒ येना᳚ स॒मत्सु॑ सा॒सहः॑ |{काण्वः सोभरिः | अग्निः | सतोबृहती} अव॑ स्थि॒रा त॑नुहि॒ भूरि॒ शर्ध॑तां व॒नेमा᳚ ते, अ॒भिष्टि॑भिः ||{20/37}{8.19.20}{8.3.7.20}{6.1.32.5}{467, 639, 6441} भ॒द्रम्¦मनः॑¦कृ॒णु॒ष्व॒¦वृ॒त्र॒ऽतूर्ये᳚¦येन॑¦स॒मत्ऽसु॑¦स॒सहः॑ | |
ईळे᳚ गि॒रा मनु᳚र्हितं॒ यं दे॒वा दू॒तम॑र॒तिं न्ये᳚रि॒रे |{काण्वः सोभरिः | अग्निः | ककुभः} यजि॑ष्ठं हव्य॒वाह॑नम् ||{21/37}{8.19.21}{8.3.7.21}{6.1.33.1}{468, 639, 6442} ईळे᳚¦गि॒रा¦मनुः॑ऽहितम्¦यम्¦दे॒वाः¦दू॒तम्¦अ॒र॒तिम्¦नि॒ऽए॒रि॒रे | यजि॑ष्ठम्¦ह॒व्य॒ऽवाह॑नम् || |
ति॒ग्मज᳚म्भाय॒ तरु॑णाय॒ राज॑ते॒ प्रयो᳚ गायस्य॒ग्नये᳚ |{काण्वः सोभरिः | अग्निः | सतोबृहती} यः पिं॒शते᳚ सू॒नृता᳚भिः सु॒वीर्य॑म॒ग्निर्घृ॒तेभि॒राहु॑तः ||{22/37}{8.19.22}{8.3.7.22}{6.1.33.2}{469, 639, 6443} ति॒ग्मऽज᳚म्भाय¦तरु॑णाय¦राज॑ते¦प्रयः॑¦गा॒य॒सि॒¦अ॒ग्नये᳚ | |
यदी᳚ घृ॒तेभि॒राहु॑तो॒ वाशी᳚म॒ग्निर्भर॑त॒ उच्चाव॑ च |{काण्वः सोभरिः | अग्निः | ककुभः} असु॑र इव नि॒र्णिज᳚म् ||{23/37}{8.19.23}{8.3.7.23}{6.1.33.3}{470, 639, 6444} यदि॑¦घृ॒तेभिः॑¦आऽहु॑तः¦वाशी᳚म्¦अ॒ग्निः¦भर॑ते¦उत्¦च॒¦अव॑¦च॒ | असु॑रःऽइव¦निः॒ऽनिज᳚म् || |
यो ह॒व्यान्यैर॑यता॒ मनु᳚र्हितो दे॒व आ॒सा सु॑ग॒न्धिना᳚ |{काण्वः सोभरिः | अग्निः | सतोबृहती} विवा᳚सते॒ वार्या᳚णि स्वध्व॒रो होता᳚ दे॒वो, अम॑र्त्यः ||{24/37}{8.19.24}{8.3.7.24}{6.1.33.4}{471, 639, 6445} यः¦ह॒व्यानि॑¦ऐर॑यत¦मनुः॑ऽहितः¦दे॒वः¦आ॒सा¦सु॒ऽग॒न्धिना᳚ | |
यद॑ग्ने॒ मर्त्य॒स्त्वं स्याम॒हं मि॑त्रमहो॒, अम॑र्त्यः |{काण्वः सोभरिः | अग्निः | ककुभः} सह॑सः सूनवाहुत ||{25/37}{8.19.25}{8.3.7.25}{6.1.33.5}{472, 639, 6446} यत्¦अ॒ग्ने॒¦मर्त्यः॑¦त्वम्¦स्याम्¦अ॒हम्¦मि॒त्र॒ऽम॒हः॒¦अम॑र्त्यः | सह॑सः¦सू॒नो॒ इति॑¦आ॒ऽहु॒त॒ || |
न त्वा᳚ रासीया॒भिश॑स्तये वसो॒ न पा᳚प॒त्वाय॑ सन्त्य |{काण्वः सोभरिः | अग्निः | सतोबृहती} न मे᳚ स्तो॒ताम॑ती॒वा न दुर्हि॑तः॒ स्याद॑ग्ने॒ न पा॒पया᳚ ||{26/37}{8.19.26}{8.3.7.26}{6.1.34.1}{473, 639, 6447} न¦त्वा॒¦रा॒सी॒य॒¦अ॒भिऽश॑स्तये¦व॒सो॒ इति॑¦न¦पा॒प॒ऽत्वाय॑¦स॒न्त्य॒ | |
पि॒तुर्न पु॒त्रः सुभृ॑तो दुरो॒ण आ दे॒वाँ, ए᳚तु॒ प्र णो᳚ ह॒विः ||{काण्वः सोभरिः | अग्निः | द्विपदा विराट्}{27/37}{8.19.27}{8.3.7.27}{6.1.34.2}{474, 639, 6448} पि॒तुः¦न¦पु॒त्रः¦सुऽभृ॑तः¦दु॒रो॒णे¦आ¦दे॒वान्¦ए॒तु॒¦प्र¦नः॒¦ह॒विः || |
तवा॒हम॑ग्न ऊ॒तिभि॒र्नेदि॑ष्ठाभिः सचेय॒ जोष॒मा व॑सो |{काण्वः सोभरिः | अग्निः | ककुभः} सदा᳚ दे॒वस्य॒ मर्त्यः॑ ||{28/37}{8.19.28}{8.3.7.28}{6.1.34.3}{475, 639, 6449} तव॑¦अ॒हम्¦अ॒ग्ने॒¦ऊ॒तिऽभिः॑¦नेदि॑ष्ठाभिः¦स॒चे॒य॒¦जोष᳚म्¦आ¦व॒सो॒ इति॑ | सदा᳚¦दे॒वस्य॑¦मर्त्यः॑ || |
तव॒ क्रत्वा᳚ सनेयं॒ तव॑ रा॒तिभि॒रग्ने॒ तव॒ प्रश॑स्तिभिः |{काण्वः सोभरिः | अग्निः | सतोबृहती} त्वामिदा᳚हुः॒ प्रम॑तिं वसो॒ ममाग्ने॒ हर्ष॑स्व॒ दात॑वे ||{29/37}{8.19.29}{8.3.7.29}{6.1.34.4}{476, 639, 6450} तव॑¦क्रत्वा᳚¦स॒ने॒य॒म्¦तव॑¦रा॒तिऽभिः॑¦अग्ने᳚¦तव॑¦प्रश॑स्तिऽभिः | |
प्र सो, अ॑ग्ने॒ तवो॒तिभिः॑ सु॒वीरा᳚भिस्तिरते॒ वाज॑भर्मभिः |{काण्वः सोभरिः | अग्निः | ककुभः} यस्य॒ त्वं स॒ख्यमा॒वरः॑ ||{30/37}{8.19.30}{8.3.7.30}{6.1.34.5}{477, 639, 6451} प्र¦सः¦अ॒ग्ने॒¦तव॑¦ऊ॒तिऽभिः॑¦सु॒ऽवीरा᳚भिः¦ति॒र॒ते॒¦वाज॑भर्मऽभिः | यस्य॑¦त्वम्¦स॒ख्यम्¦आ॒ऽवरः॑ || |
तव॑ द्र॒प्सो नील॑वान् वा॒श ऋ॒त्विय॒ इन्धा᳚नः सिष्ण॒वा द॑दे |{काण्वः सोभरिः | अग्निः | सतोबृहती} त्वं म॑ही॒नामु॒षसा᳚मसि प्रि॒यः, क्ष॒पो वस्तु॑षु राजसि ||{31/37}{8.19.31}{8.3.7.31}{6.1.35.1}{478, 639, 6452} तव॑¦द्र॒प्सः¦नील॑ऽवान्¦वा॒शः¦ऋ॒त्वियः॑¦इन्धा᳚नः¦सि॒ष्णो॒ इति॑¦आ¦द॒दे॒ | |
तमाग᳚न्म॒ सोभ॑रयः स॒हस्र॑मुष्कं स्वभि॒ष्टिमव॑से |{काण्वः सोभरिः | अग्निः | ककुभः} स॒म्राजं॒ त्रास॑दस्यवम् ||{32/37}{8.19.32}{8.3.7.32}{6.1.35.2}{479, 639, 6453} तम्¦आ¦अ॒ग॒न्म॒¦सोभ॑रयः¦स॒हस्र॑ऽमुष्कम्¦सु॒।आ॒भि॒ष्टिम्¦अव॑से | स॒म्ऽराज᳚म्¦त्रास॑दस्यवम् || |
यस्य॑ ते, अग्ने, अ॒न्ये, अ॒ग्नय॑ उप॒क्षितो᳚ व॒या, इ॑व |{काण्वः सोभरिः | अग्निः | सतोबृहती} विपो॒ न द्यु॒म्ना नि यु॑वे॒ जना᳚नां॒ तव॑ क्ष॒त्राणि॑ व॒र्धय॑न् ||{33/37}{8.19.33}{8.3.7.33}{6.1.35.3}{480, 639, 6454} यस्य॑¦ते॒¦अ॒ग्ने॒¦अ॒न्ये¦अ॒ग्नयः॑¦उ॒प॒ऽक्षितः॑¦व॒याःऽइ᳚व | |
यमा᳚दित्यासो, अद्रुहः पा॒रं नय॑थ॒ मर्त्य᳚म् |{काण्वः सोभरिः | आदित्याः | उष्णिक्} म॒घोनां॒ विश्वे᳚षां सुदानवः ||{34/37}{8.19.34}{8.3.7.34}{6.1.35.4}{481, 639, 6455} यम्¦आ॒दि॒त्या॒सः॒¦अ॒द्रु॒हः॒¦पा॒रम्¦नय॑थ¦मर्त्य᳚म् | म॒घोना᳚म्¦विश्वे᳚षाम्¦सु॒ऽदा॒न॒वः॒ || |
यू॒यं रा᳚जानः॒ कं चि॑च्चर्षणीसहः॒, क्षय᳚न्तं॒ मानु॑षाँ॒, अनु॑ |{काण्वः सोभरिः | आदित्याः | सतोबृहती} व॒यं ते वो॒ वरु॑ण॒ मित्रार्य॑म॒न् त्स्यामेदृ॒तस्य॑ र॒थ्यः॑ ||{35/37}{8.19.35}{8.3.7.35}{6.1.35.5}{482, 639, 6456} यू॒यम्¦रा॒जा॒नः॒¦कम्¦चि॒त्¦च॒र्ष॒णि॒ऽस॒हः॒¦क्षय᳚न्तम्¦मानु॑षान्¦अनु॑ | |
अदा᳚न्मे पौरुकु॒त्स्यः प᳚ञ्चा॒शतं᳚ त्र॒सद॑स्युर्व॒धूना᳚म् |{काण्वः सोभरिः | त्रसदस्योर्दानस्तुतिः | ककुभः} मंहि॑ष्ठो, अ॒र्यः सत्प॑तिः ||{36/37}{8.19.36}{8.3.7.36}{6.1.35.6}{483, 639, 6457} अदा᳚त्¦मे॒¦पौ॒रु॒ऽकु॒त्स्यः¦पं॒चा॒शत᳚म्¦त्र॒सद॑स्युः¦व॒धूना᳚म् | मंहि॑ष्ठः¦अ॒र्यः¦सत्ऽप॑तिः || |
उ॒त मे᳚ प्र॒यियो᳚र्व॒यियोः᳚ सु॒वास्त्वा॒, अधि॒ तुग्व॑नि |{काण्वः सोभरिः | त्रसदस्योर्दानस्तुतिः | पङ्क्तिः} ति॒सॄ॒णां स॑प्तती॒नां श्या॒वः प्र॑णे॒ता भु॑व॒द्वसु॒र्दिया᳚नां॒ पतिः॑ ||{37/37}{8.19.37}{8.3.7.37}{6.1.35.7}{484, 639, 6458} उ॒त¦मे॒¦प्र॒यियोः᳚¦व॒यियोः᳚¦सु॒ऽवास्त्वाः᳚¦अधि॑¦तुग्व॑नि | |
[20] आगंतेति षड्विंशत्यृचस्य सूक्तस्य काण्वः सोभरिर्मरुतः अयुजः ककुभो युजःसतोबृहत्यः | |
आ ग᳚न्ता॒ मा रि॑षण्यत॒ प्रस्था᳚वानो॒ माप॑ स्थाता समन्यवः |{काण्वः सोभरिः | मरुतः | ककुभः} स्थि॒रा चि᳚न्नमयिष्णवः ||{1/26}{8.20.1}{8.3.8.1}{6.1.36.1}{485, 640, 6459} आ¦ग॒न्त॒¦मा¦रि॒ष॒ण्य॒त॒¦प्रऽस्था᳚वानः¦मा¦अप॑¦स्था॒त॒¦स॒ऽम॒न्य॒वः॒ | स्थि॒रा¦चि॒त्¦न॒म॒यि॒ष्ण॒वः॒ || |
वी॒ळु॒प॒विभि᳚र्मरुत ऋभुक्षण॒ आ रु॑द्रासः सुदी॒तिभिः॑ |{काण्वः सोभरिः | मरुतः | सतोबृहती} इ॒षा नो᳚, अ॒द्या ग॑ता पुरुस्पृहो य॒ज्ञमा सो᳚भरी॒यवः॑ ||{2/26}{8.20.2}{8.3.8.2}{6.1.36.2}{486, 640, 6460} वी॒ळु॒प॒विऽभिः॑¦म॒रु॒तः॒¦ऋ॒भु॒क्ष॒णः॒¦आ¦रु॒द्रा॒सः॒¦सु॒दी॒तिऽभिः॑ | |
वि॒द्मा हि रु॒द्रिया᳚णां॒ शुष्म॑मु॒ग्रं म॒रुतां॒ शिमी᳚वताम् |{काण्वः सोभरिः | मरुतः | ककुभः} विष्णो᳚रे॒षस्य॑ मी॒ळ्हुषा᳚म् ||{3/26}{8.20.3}{8.3.8.3}{6.1.36.3}{487, 640, 6461} वि॒द्म¦हि¦रु॒द्रिया᳚णाम्¦शुष्म᳚म्¦उ॒ग्रम्¦म॒रुता᳚म्¦शिमी᳚ऽवताम् | विष्णोः᳚¦ए॒षस्य॑¦मी॒ळ्हुषा᳚म् || |
वि द्वी॒पानि॒ पाप॑त॒न्तिष्ठ॑द्दु॒च्छुनो॒भे यु॑जन्त॒ रोद॑सी |{काण्वः सोभरिः | मरुतः | सतोबृहती} प्र धन्वा᳚न्यैरत शुभ्रखादयो॒ यदेज॑थ स्वभानवः ||{4/26}{8.20.4}{8.3.8.4}{6.1.36.4}{488, 640, 6462} वि¦द्वी॒पानि॑¦पाप॑तन्¦तिष्ठ॑त्¦दु॒च्छुना᳚¦उ॒भे इति॑¦यु॒ज॒न्त॒¦रोद॑सी॒ इति॑ | |
अच्यु॑ता चिद्वो॒, अज्म॒न्ना नान॑दति॒ पर्व॑तासो॒ वन॒स्पतिः॑ |{काण्वः सोभरिः | मरुतः | ककुभः} भूमि॒र्यामे᳚षु रेजते ||{5/26}{8.20.5}{8.3.8.5}{6.1.36.5}{489, 640, 6463} अच्यु॑ता¦चि॒त्¦वः॒¦अज्म॑न्¦आ¦नान॑दति¦पर्व॑तासः¦वन॒स्पतिः॑ | भूमिः॑¦यामे᳚षु¦रे॒ज॒ते॒ || |
अमा᳚य वो मरुतो॒ यात॑वे॒ द्यौर्जिही᳚त॒ उत्त॑रा बृ॒हत् |{काण्वः सोभरिः | मरुतः | सतोबृहती} यत्रा॒ नरो॒ देदि॑शते त॒नूष्वा त्वक्षां᳚सि बा॒ह्वो᳚जसः ||{6/26}{8.20.6}{8.3.8.6}{6.1.37.1}{490, 640, 6464} अमा᳚य¦वः॒¦म॒रु॒तः॒¦यात॑वे¦द्यौः¦जिही᳚ते¦उत्ऽत॑रा¦बृ॒हत् | |
स्व॒धामनु॒ श्रियं॒ नरो॒ महि॑ त्वे॒षा, अम॑वन्तो॒ वृष॑प्सवः |{काण्वः सोभरिः | मरुतः | ककुभः} वह᳚न्ते॒, अह्रु॑तप्सवः ||{7/26}{8.20.7}{8.3.8.7}{6.1.37.2}{491, 640, 6465} स्व॒धाम्¦अनु॑¦श्रिय᳚म्¦नरः॑¦महि॑¦त्वे॒षाः¦अम॑ऽवन्तः¦वृष॑ऽप्सवः | वह᳚न्ते¦अह्रु॑तऽप्सवः || |
गोभि᳚र्वा॒णो, अ॑ज्यते॒ सोभ॑रीणां॒ रथे॒ कोशे᳚ हिर॒ण्यये᳚ |{काण्वः सोभरिः | मरुतः | सतोबृहती} गोब᳚न्धवः सुजा॒तास॑ इ॒षे भु॒जे म॒हान्तो᳚ नः॒ स्पर॑से॒ नु ||{8/26}{8.20.8}{8.3.8.8}{6.1.37.3}{492, 640, 6466} गोभिः॑¦वा॒णः¦अ॒ज्य॒ते॒¦सोभ॑रीणाम्¦रथे᳚¦कोशे᳚¦हि॒र॒ण्यये᳚ | |
प्रति॑ वो वृषदञ्जयो॒ वृष्णे॒ शर्धा᳚य॒ मारु॑ताय भरध्वम् |{काण्वः सोभरिः | मरुतः | ककुभः} ह॒व्या वृष॑प्रयाव्णे ||{9/26}{8.20.9}{8.3.8.9}{6.1.37.4}{493, 640, 6467} प्रति॑¦वः॒¦वृ॒ष॒त्।आं॒ज॒यः॒¦वृष्णे᳚¦शर्धा᳚य¦मारु॑ताय¦भ॒र॒ध्व॒म् | ह॒व्या¦वृष॑ऽप्रयाव्ने || |
वृ॒ष॒ण॒श्वेन॑ मरुतो॒ वृष॑प्सुना॒ रथे᳚न॒ वृष॑नाभिना |{काण्वः सोभरिः | मरुतः | सतोबृहती} आ श्ये॒नासो॒ न प॒क्षिणो॒ वृथा᳚ नरो ह॒व्या नो᳚ वी॒तये᳚ गत ||{10/26}{8.20.10}{8.3.8.10}{6.1.37.5}{494, 640, 6468} वृ॒ष॒ण॒श्वेन॑¦म॒रु॒तः॒¦वृष॑ऽप्सुना¦रथे᳚न¦वृष॑ऽनाभिना | |
स॒मा॒नम॒ञ्ज्ये᳚षां॒ वि भ्रा᳚जन्ते रु॒क्मासो॒, अधि॑ बा॒हुषु॑ |{काण्वः सोभरिः | मरुतः | ककुभः} दवि॑द्युतत्यृ॒ष्टयः॑ ||{11/26}{8.20.11}{8.3.8.11}{6.1.38.1}{495, 640, 6469} स॒मा॒नम्¦अं॒जि¦ए॒षा॒म्¦वि¦भ्रा॒ज॒न्ते॒¦रु॒क्मासः॑¦अधि॑¦बा॒हुषु॑ | दवि॑द्युतति¦ऋ॒ष्टयः॑ || |
त उ॒ग्रासो॒ वृष॑ण उ॒ग्रबा᳚हवो॒ नकि॑ष्ट॒नूषु॑ येतिरे |{काण्वः सोभरिः | मरुतः | सतोबृहती} स्थि॒रा धन्वा॒न्यायु॑धा॒ रथे᳚षु॒ वोऽनी᳚के॒ष्वधि॒ श्रियः॑ ||{12/26}{8.20.12}{8.3.8.12}{6.1.38.2}{496, 640, 6470} ते¦उ॒ग्रासः॑¦वृष॑णः¦उ॒ग्रऽबा᳚हवः¦नकिः॑¦त॒नूषु॑¦ये॒ति॒रे॒ | |
येषा॒मर्णो॒ न स॒प्रथो॒ नाम॑ त्वे॒षं शश्व॑ता॒मेक॒मिद्भु॒जे |{काण्वः सोभरिः | मरुतः | ककुभः} वयो॒ न पित्र्यं॒ सहः॑ ||{13/26}{8.20.13}{8.3.8.13}{6.1.38.3}{497, 640, 6471} येषा᳚म्¦अर्णः॑¦न¦स॒ऽप्रथः॑¦नाम॑¦त्वे॒षम्¦शश्व॑ताम्¦एक᳚म्¦इत्¦भु॒जे | वयः॑¦न¦पित्र्य᳚म्¦सहः॑ || |
तान्व᳚न्दस्व म॒रुत॒स्ताँ, उप॑ स्तुहि॒ तेषां॒ हि धुनी᳚नाम् |{काण्वः सोभरिः | मरुतः | सतोबृहती} अ॒राणां॒ न च॑र॒मस्तदे᳚षां दा॒ना म॒ह्ना तदे᳚षाम् ||{14/26}{8.20.14}{8.3.8.14}{6.1.38.4}{498, 640, 6472} तान्¦व॒न्द॒स्व॒¦म॒रुतः॑¦तान्¦उप॑¦स्तु॒हि॒¦तेषा᳚म्¦हि¦धुनी᳚नाम् | |
सु॒भगः॒ स व॑ ऊ॒तिष्वास॒ पूर्वा᳚सु मरुतो॒ व्यु॑ष्टिषु |{काण्वः सोभरिः | मरुतः | ककुभः} यो वा᳚ नू॒नमु॒तास॑ति ||{15/26}{8.20.15}{8.3.8.15}{6.1.38.5}{499, 640, 6473} सु॒ऽभगः॑¦सः¦वः॒¦ऊ॒तिषु॑¦आस॑¦पूर्वा᳚सु¦म॒रु॒तः॒¦वि।औ᳚ष्टिषु | यः¦वा॒¦नू॒नम्¦उ॒त¦अस॑ति || |
यस्य॑ वा यू॒यं प्रति॑ वा॒जिनो᳚ नर॒ आ ह॒व्या वी॒तये᳚ ग॒थ |{काण्वः सोभरिः | मरुतः | सतोबृहती} अ॒भि ष द्यु॒म्नैरु॒त वाज॑सातिभिः सु॒म्ना वो᳚ धूतयो नशत् ||{16/26}{8.20.16}{8.3.8.16}{6.1.39.1}{500, 640, 6474} यस्य॑¦वा॒¦यू॒यम्¦प्रति॑¦वा॒जिनः॑¦न॒रः॒¦आ¦ह॒व्या¦वी॒तये᳚¦ग॒थ | |
यथा᳚ रु॒द्रस्य॑ सू॒नवो᳚ दि॒वो वश॒न्त्यसु॑रस्य वे॒धसः॑ |{काण्वः सोभरिः | मरुतः | ककुभः} युवा᳚न॒स्तथेद॑सत् ||{17/26}{8.20.17}{8.3.8.17}{6.1.39.2}{501, 640, 6475} यथा᳚¦रु॒द्रस्य॑¦सू॒नवः॑¦दि॒वः¦वश᳚न्ति¦असु॑रस्य¦वे॒धसः॑ | युवा᳚नः¦तथा᳚¦इत्¦अ॒स॒त् || |
ये चार्ह᳚न्ति म॒रुतः॑ सु॒दान॑वः॒ स्मन्मी॒ळ्हुष॒श्चर᳚न्ति॒ ये |{काण्वः सोभरिः | मरुतः | सतोबृहती} अत॑श्चि॒दा न॒ उप॒ वस्य॑सा हृ॒दा युवा᳚न॒ आ व॑वृध्वम् ||{18/26}{8.20.18}{8.3.8.18}{6.1.39.3}{502, 640, 6476} ये¦च॒¦अर्ह᳚न्ति¦म॒रुतः॑¦सु॒ऽदान॑वः¦स्मत्¦मी॒ळ्हुषः॑¦चर᳚न्ति¦ये | |
यून॑ ऊ॒ षु नवि॑ष्ठया॒ वृष्णः॑ पाव॒काँ, अ॒भि सो᳚भरे गि॒रा |{काण्वः सोभरिः | मरुतः | ककुभः} गाय॒ गा, इ॑व॒ चर्कृ॑षत् ||{19/26}{8.20.19}{8.3.8.19}{6.1.39.4}{503, 640, 6477} यूनः॑¦ऊँ॒ इति॑¦सु¦नवि॑ष्ठया¦वृष्णः॑¦पा॒व॒कान्¦अ॒भि¦सो॒भ॒रे॒¦गि॒रा | गाय॑¦गाःऽइ᳚व¦चर्कृ॑षत् || |
सा॒हा ये सन्ति॑ मुष्टि॒हेव॒ हव्यो॒ विश्वा᳚सु पृ॒त्सु होतृ॑षु |{काण्वः सोभरिः | मरुतः | सतोबृहती} वृष्ण॑श्च॒न्द्रान्न सु॒श्रव॑स्तमान् गि॒रा वन्द॑स्व म॒रुतो॒, अह॑ ||{20/26}{8.20.20}{8.3.8.20}{6.1.39.5}{504, 640, 6478} स॒हाः¦ये¦सन्ति॑¦मु॒ष्टि॒हाऽइ᳚व¦हव्यः॑¦विश्वा᳚सु¦पृ॒त्ऽसु¦होतृ॑षु | |
गाव॑श्चिद्घा समन्यवः सजा॒त्ये᳚न मरुतः॒ सब᳚न्धवः |{काण्वः सोभरिः | मरुतः | ककुभः} रि॒ह॒ते क॒कुभो᳚ मि॒थः ||{21/26}{8.20.21}{8.3.8.21}{6.1.40.1}{505, 640, 6479} गावः॑¦चि॒त्¦घ॒¦स॒ऽम॒न्य॒वः॒¦स॒ऽजा॒त्ये᳚न¦म॒रु॒तः॒¦सऽब᳚न्धवः | रि॒ह॒ते¦क॒कुभः॑¦मि॒थः || |
मर्त॑श्चिद्वो नृतवो रुक्मवक्षस॒ उप॑ भ्रातृ॒त्वमाय॑ति |{काण्वः सोभरिः | मरुतः | सतोबृहती} अधि॑ नो गात मरुतः॒ सदा॒ हि व॑ आपि॒त्वमस्ति॒ निध्रु॑वि ||{22/26}{8.20.22}{8.3.8.22}{6.1.40.2}{506, 640, 6480} मर्तः॑¦चि॒त्¦वः॒¦नृ॒त॒वः॒¦रु॒क्म॒ऽव॒क्ष॒सः॒¦उप॑¦भ्रा॒तृ॒ऽत्वम्¦आ¦अ॒य॒ति॒ | |
मरु॑तो॒ मारु॑तस्य न॒ आ भे᳚ष॒जस्य॑ वहता सुदानवः |{काण्वः सोभरिः | मरुतः | ककुभः} यू॒यं स॑खायः सप्तयः ||{23/26}{8.20.23}{8.3.8.23}{6.1.40.3}{507, 640, 6481} मरु॑तः¦मारु॑तस्य¦नः॒¦आ¦भे॒ष॒जस्य॑¦व॒ह॒त॒¦सु॒ऽदा॒न॒वः॒ | यू॒यम्¦स॒खा॒यः॒¦स॒प्त॒यः॒ || |
याभिः॒ सिन्धु॒मव॑थ॒ याभि॒स्तूर्व॑थ॒ याभि॑र्दश॒स्यथा॒ क्रिवि᳚म् |{काण्वः सोभरिः | मरुतः | सतोबृहती} मयो᳚ नो भूतो॒तिभि᳚र्मयोभुवः शि॒वाभि॑रसचद्विषः ||{24/26}{8.20.24}{8.3.8.24}{6.1.40.4}{508, 640, 6482} याभिः॑¦सिन्धु᳚म्¦अव॑थ¦याभिः॑¦तूर्व॑थ¦याभिः॑¦द॒श॒स्यथ॑¦क्रिवि᳚म् | |
यत्सिन्धौ॒ यदसि॑क्न्यां॒ यत्स॑मु॒द्रेषु॑ मरुतः सुबर्हिषः |{काण्वः सोभरिः | मरुतः | ककुभः} यत्पर्व॑तेषु भेष॒जम् ||{25/26}{8.20.25}{8.3.8.25}{6.1.40.5}{509, 640, 6483} यत्¦सिन्धौ᳚¦यत्¦असि॑क्न्याम्¦यत्¦स॒मु॒द्रेषु॑¦म॒रु॒तः॒¦सु॒ऽब॒र्हि॒षः॒ | यत्¦पर्व॑तेषु¦भे॒ष॒जम् || |
विश्वं॒ पश्य᳚न्तो बिभृथा त॒नूष्वा तेना᳚ नो॒, अधि॑ वोचत |{काण्वः सोभरिः | मरुतः | सतोबृहती} क्ष॒मा रपो᳚ मरुत॒ आतु॑रस्य न॒ इष्क॑र्ता॒ विह्रु॑तं॒ पुनः॑ ||{26/26}{8.20.26}{8.3.8.26}{6.1.40.6}{510, 640, 6484} विश्व᳚म्¦पश्य᳚न्तः¦वि॒भृ॒थ॒¦त॒नूषु॑¦आ¦तेन॑¦नः॒¦अधि॑¦वो॒च॒त॒ | |
[21] वयमुत्वेत्यष्टादशर्चस्य सूक्तस्य काण्वः सोभरिरिंद्रोंत्ययोर्द्वयोश्चित्रः अयुजःककुभोयुजःसतोबृहृत्यः | |
व॒यमु॒ त्वाम॑पूर्व्य स्थू॒रं न कच्चि॒द्भर᳚न्तोऽव॒स्यवः॑ |{काण्वः सोभरिः | इन्द्रः | ककुभः} वाजे᳚ चि॒त्रं ह॑वामहे ||{1/18}{8.21.1}{8.4.1.1}{6.2.1.1}{511, 641, 6485} व॒यम्¦ऊँ॒ इति॑¦त्वाम्¦अ॒पू॒र्व्य॒¦स्थू॒रम्¦न¦कत्¦चि॒त्¦भर᳚न्तः¦अ॒व॒स्यवः॑ | वाजे᳚¦चि॒त्रम्¦ह॒वा॒म॒हे॒ || |
उप॑ त्वा॒ कर्म᳚न्नू॒तये॒ स नो॒ युवो॒ग्रश्च॑क्राम॒ यो धृ॒षत् |{काण्वः सोभरिः | इन्द्रः | सतोबृहती} त्वामिद्ध्य॑वि॒तारं᳚ ववृ॒महे॒ सखा᳚य इन्द्र सान॒सिम् ||{2/18}{8.21.2}{8.4.1.2}{6.2.1.2}{512, 641, 6486} उप॑¦त्वा॒¦कर्म॑न्¦ऊ॒तये᳚¦सः¦नः॒¦युवा᳚¦उ॒ग्रः¦च॒क्रा॒म॒¦यः¦धृ॒षत् | |
आ या᳚ही॒म इन्द॒वोऽश्व॑पते॒ गोप॑त॒ उर्व॑रापते |{काण्वः सोभरिः | इन्द्रः | ककुभः} सोमं᳚ सोमपते पिब ||{3/18}{8.21.3}{8.4.1.3}{6.2.1.3}{513, 641, 6487} आ¦या॒हि॒¦इ॒मे¦इन्द॑वः¦अश्व॑ऽपते¦गोऽप॑ते¦उर्व॑राऽपते | सोम᳚म्¦सो॒म॒ऽप॒ते॒¦पि॒ब॒ || |
व॒यं हि त्वा॒ बन्धु॑मन्तमब॒न्धवो॒ विप्रा᳚स इन्द्र येमि॒म |{काण्वः सोभरिः | इन्द्रः | सतोबृहती} या ते॒ धामा᳚नि वृषभ॒ तेभि॒रा ग॑हि॒ विश्वे᳚भिः॒ सोम॑पीतये ||{4/18}{8.21.4}{8.4.1.4}{6.2.1.4}{514, 641, 6488} व॒यम्¦हि¦त्वा॒¦बन्धु॑ऽमन्तम्¦अ॒ब॒न्धवः॑¦विप्रा᳚सः¦इ॒न्द्र॒¦ये॒मि॒म | |
सीद᳚न्तस्ते॒ वयो᳚ यथा॒ गोश्री᳚ते॒ मधौ᳚ मदि॒रे वि॒वक्ष॑णे |{काण्वः सोभरिः | इन्द्रः | ककुभः} अ॒भि त्वामि᳚न्द्र नोनुमः ||{5/18}{8.21.5}{8.4.1.5}{6.2.1.5}{515, 641, 6489} सीद᳚न्तः¦ते॒¦वयः॑¦य॒था॒¦गोऽश्री᳚ते¦मधौ᳚¦म॒दि॒रे¦वि॒वक्ष॑णे | अ॒भि¦त्वाम्¦इ॒न्द्र॒¦नो॒नु॒मः॒ || |
अच्छा᳚ च त्वै॒ना नम॑सा॒ वदा᳚मसि॒ किं मुहु॑श्चि॒द्वि दी᳚धयः |{काण्वः सोभरिः | इन्द्रः | सतोबृहती} सन्ति॒ कामा᳚सो हरिवो द॒दिष्ट्वं स्मो व॒यं सन्ति॑ नो॒ धियः॑ ||{6/18}{8.21.6}{8.4.1.6}{6.2.2.1}{516, 641, 6490} अच्छ॑¦च॒¦त्वा॒¦ए॒ना¦नम॑सा¦वदा᳚मसि¦किम्¦मुहुः॑¦चि॒त्¦वि¦दी॒ध॒यः॒ | |
नूत्ना॒, इदि᳚न्द्र ते व॒यमू॒ती, अ॑भूम न॒हि नू ते᳚, अद्रिवः |{काण्वः सोभरिः | इन्द्रः | ककुभः} वि॒द्मा पु॒रा परी᳚णसः ||{7/18}{8.21.7}{8.4.1.7}{6.2.2.2}{517, 641, 6491} नूत्नाः᳚¦इत्¦इ॒न्द्र॒¦ते॒¦व॒यम्¦ऊ॒ती¦अ॒भू॒म॒¦न॒हि¦नु¦ते॒¦अ॒द्रि॒ऽवः॒ | वि॒द्म¦पु॒रा¦परी᳚णसः || |
वि॒द्मा स॑खि॒त्वमु॒त शू᳚र भो॒ज्य१॑(अ॒)मा ते॒ ता व॑ज्रिन्नीमहे |{काण्वः सोभरिः | इन्द्रः | सतोबृहती} उ॒तो स॑मस्मि॒न्ना शि॑शीहि नो वसो॒ वाजे᳚ सुशिप्र॒ गोम॑ति ||{8/18}{8.21.8}{8.4.1.8}{6.2.2.3}{518, 641, 6492} वि॒द्म¦स॒खि॒ऽत्वम्¦उ॒त¦शू॒र॒¦भो॒ज्य᳚म्¦आ¦ते॒¦ता¦व॒ज्रि॒न्¦ई॒म॒हे॒ | |
यो न॑ इ॒दमि॑दं पु॒रा प्र वस्य॑ आनि॒नाय॒ तमु॑ वः स्तुषे |{काण्वः सोभरिः | इन्द्रः | ककुभः} सखा᳚य॒ इन्द्र॑मू॒तये᳚ ||{9/18}{8.21.9}{8.4.1.9}{6.2.2.4}{519, 641, 6493} यः¦नः॒¦इ॒दम्ऽइ᳚दम्¦पु॒रा¦प्र¦वस्यः॑¦आ॒ऽनि॒नाय॑¦तम्¦ऊँ॒ इति॑¦वः॒¦स्तु॒षे॒ | सखा᳚यः¦इन्द्र᳚म्¦ऊ॒तये᳚ || |
हर्य॑श्वं॒ सत्प॑तिं चर्षणी॒सहं॒ स हि ष्मा॒ यो, अम᳚न्दत |{काण्वः सोभरिः | इन्द्रः | सतोबृहती} आ तु नः॒ स व॑यति॒ गव्य॒मश्व्यं᳚ स्तो॒तृभ्यो᳚ म॒घवा᳚ श॒तम् ||{10/18}{8.21.10}{8.4.1.10}{6.2.2.5}{520, 641, 6494} हरि॑।आश्वम्¦सत्ऽप॑तिम्¦च॒र्ष॒णि॒ऽसह᳚म्¦सः¦हि¦स्म॒¦यः¦अम᳚न्दत | |
त्वया᳚ ह स्विद्यु॒जा व॒यं प्रति॑ श्व॒सन्तं᳚ वृषभ ब्रुवीमहि |{काण्वः सोभरिः | इन्द्रः | ककुभः} सं॒स्थे जन॑स्य॒ गोम॑तः ||{11/18}{8.21.11}{8.4.1.11}{6.2.3.1}{521, 641, 6495} त्वया᳚¦ह॒¦स्वि॒त्¦यु॒जा¦व॒यम्¦प्रति॑¦श्व॒सन्त᳚म्¦वृ॒ष॒भ॒¦ब्रु॒वी॒म॒हि॒ | स॒म्ऽस्थे¦जन॑स्य¦गोऽम॑तः || |
जये᳚म का॒रे पु॑रुहूत का॒रिणो॒ऽभि ति॑ष्ठेम दू॒ढ्यः॑ |{काण्वः सोभरिः | इन्द्रः | सतोबृहती} नृभि᳚र्वृ॒त्रं ह॒न्याम॑ शूशु॒याम॒ चावे᳚रिन्द्र॒ प्र णो॒ धियः॑ ||{12/18}{8.21.12}{8.4.1.12}{6.2.3.2}{522, 641, 6496} जये᳚म¦का॒रे¦पु॒रु॒ऽहू॒त॒¦का॒रिणः॑¦अ॒भि¦ति॒ष्ठे॒म॒¦दुः॒ऽध्यः॑ | |
अ॒भ्रा॒तृ॒व्यो, अ॒ना त्वमना᳚पिरिन्द्र ज॒नुषा᳚ स॒नाद॑सि |{काण्वः सोभरिः | इन्द्रः | ककुभः} यु॒धेदा᳚पि॒त्वमि॑च्छसे ||{13/18}{8.21.13}{8.4.1.13}{6.2.3.3}{523, 641, 6497} अ॒भ्रा॒तृ॒व्यः¦अ॒ना¦त्वम्¦अना᳚पिः¦इ॒न्द्र॒¦ज॒नुषा᳚¦स॒नात्¦अ॒सि॒ | यु॒धा¦इत्¦आ॒पि॒ऽत्वम्¦इ॒च्छ॒से॒ || |
नकी᳚ रे॒वन्तं᳚ स॒ख्याय॑ विन्दसे॒ पीय᳚न्ति ते सुरा॒श्वः॑ |{काण्वः सोभरिः | इन्द्रः | सतोबृहती} य॒दा कृ॒णोषि॑ नद॒नुं समू᳚ह॒स्यादित्पि॒तेव॑ हूयसे ||{14/18}{8.21.14}{8.4.1.14}{6.2.3.4}{524, 641, 6498} नकिः॑¦रे॒वन्त᳚म्¦स॒ख्याय॑¦वि॒न्द॒से॒¦पीय᳚न्ति¦ते॒¦सु॒रा॒श्वः॑ | |
मा ते᳚, अमा॒जुरो᳚ यथा मू॒रास॑ इन्द्र स॒ख्ये त्वाव॑तः |{काण्वः सोभरिः | इन्द्रः | ककुभः} नि ष॑दाम॒ सचा᳚ सु॒ते ||{15/18}{8.21.15}{8.4.1.15}{6.2.3.5}{525, 641, 6499} मा¦ते॒¦अ॒मा॒ऽजुरः॑¦य॒था॒¦मू॒रासः॑¦इ॒न्द्र॒¦स॒ख्ये¦त्वाऽव॑तः | नि¦स॒दा॒म॒¦सचा᳚¦सु॒ते || |
मा ते᳚ गोदत्र॒ निर॑राम॒ राध॑स॒ इन्द्र॒ मा ते᳚ गृहामहि |{काण्वः सोभरिः | इन्द्रः | सतोबृहती} दृ॒ळ्हा चि॑द॒र्यः प्र मृ॑शा॒भ्या भ॑र॒ न ते᳚ दा॒मान॑ आ॒दभे᳚ ||{16/18}{8.21.16}{8.4.1.16}{6.2.4.1}{526, 641, 6500} मा¦ते॒¦गो॒ऽद॒त्र॒¦निः¦अ॒रा॒म॒¦राध॑सः¦इन्द्र॑¦मा¦ते॒¦गृ॒हा॒म॒हि॒ | |
इन्द्रो᳚ वा॒ घेदिय᳚न्म॒घं सर॑स्वती वा सु॒भगा᳚ द॒दिर्वसु॑ |{काण्वः सोभरिः | चित्रस्य दानस्तुतिः | ककुभः} त्वं वा᳚ चित्र दा॒शुषे᳚ ||{17/18}{8.21.17}{8.4.1.17}{6.2.4.2}{527, 641, 6501} इन्द्रः॑¦वा॒¦घ॒¦इत्¦इय॑त्¦म॒घम्¦सर॑स्वती¦वा॒¦सु॒ऽभगा᳚¦द॒दिः¦वसु॑ | त्वम्¦वा॒¦चि॒त्र॒¦दा॒शुषे᳚ || |
चित्र॒ इद्राजा᳚ राज॒का, इद᳚न्य॒के य॒के सर॑स्वती॒मनु॑ |{काण्वः सोभरिः | चित्रस्य दानस्तुतिः | सतोबृहती} प॒र्जन्य॑ इव त॒तन॒द्धि वृ॒ष्ट्या स॒हस्र॑म॒युता॒ दद॑त् ||{18/18}{8.21.18}{8.4.1.18}{6.2.4.3}{528, 641, 6502} चित्रः॑¦इत्¦राजा᳚¦रा॒ज॒काः¦इत्¦अ॒न्य॒के¦य॒के¦सर॑स्वतीम्¦अनु॑ | |
[22] ओत्यमह्वइत्यष्टादशर्चस्य सूक्तस्य काण्वः सोभरिरश्विनौ प्रथमातृतीयापंचमीसप्तमीबृहत्यः द्वितीयाचतुर्थीषष्ठयः सतोबृहत्यः अष्टम्यनुष्टुप् नवमीत्रयोदशीपंचदशी सप्तदृश्यः ककुभः दशमीचतुर्दशीषोडश्यष्टादश्यः सतोबृहत्यः एकादशीद्वादश्यौ ककुम्मध्येज्योतिषी | |
ओ त्यम॑ह्व॒ आ रथ॑म॒द्या दंसि॑ष्ठमू॒तये᳚ |{काण्वः सोभरिः | अश्विनौ | बृहती} यम॑श्विना सुहवा रुद्रवर्तनी॒, आ सू॒र्यायै᳚ त॒स्थथुः॑ ||{1/18}{8.22.1}{8.4.2.1}{6.2.5.1}{529, 642, 6503} ओ इति॑¦त्यम्¦अ॒ह्वे॒¦आ¦रथ᳚म्¦अ॒द्य¦दंसि॑ष्ठम्¦ऊ॒तये᳚ | |
पू॒र्वा॒युषं᳚ सु॒हवं᳚ पुरु॒स्पृहं᳚ भु॒ज्युं वाजे᳚षु॒ पूर्व्य᳚म् |{काण्वः सोभरिः | अश्विनौ | सतोबृहती} स॒च॒नाव᳚न्तं सुम॒तिभिः॑ सोभरे॒ विद्वे᳚षसमने॒हस᳚म् ||{2/18}{8.22.2}{8.4.2.2}{6.2.5.2}{530, 642, 6504} पू॒र्व॒ऽआ॒पुष᳚म्¦सु॒ऽहव᳚म्¦पु॒रु॒ऽस्पृह᳚म्¦भु॒ज्युम्¦वाजे᳚षु¦पूर्व्य᳚म् | |
इ॒ह त्या पु॑रु॒भूत॑मा दे॒वा नमो᳚भिर॒श्विना᳚ |{काण्वः सोभरिः | अश्विनौ | बृहती} अ॒र्वा॒ची॒ना स्वव॑से करामहे॒ गन्ता᳚रा दा॒शुषो᳚ गृ॒हम् ||{3/18}{8.22.3}{8.4.2.3}{6.2.5.3}{531, 642, 6505} इ॒ह¦त्या¦पु॒रु॒ऽभूत॑मा¦दे॒वा¦नमः॑ऽभिः¦अ॒श्विना᳚ | |
यु॒वो रथ॑स्य॒ परि॑ च॒क्रमी᳚यत ई॒र्मान्यद्वा᳚मिषण्यति |{काण्वः सोभरिः | अश्विनौ | सतोबृहती} अ॒स्माँ, अच्छा᳚ सुम॒तिर्वां᳚ शुभस्पती॒, आ धे॒नुरि॑व धावतु ||{4/18}{8.22.4}{8.4.2.4}{6.2.5.4}{532, 642, 6506} यु॒वोः¦रथ॑स्य¦परि॑¦च॒क्रम्¦ई॒य॒ते॒¦ई॒र्मा¦अ॒न्यत्¦वा॒म्¦इ॒ष॒ण्य॒ति॒ | |
रथो॒ यो वां᳚ त्रिवन्धु॒रो हिर᳚ण्याभीशुरश्विना |{काण्वः सोभरिः | अश्विनौ | बृहती} परि॒ द्यावा᳚पृथि॒वी भूष॑ति श्रु॒तस्तेन॑ नास॒त्या ग॑तम् ||{5/18}{8.22.5}{8.4.2.5}{6.2.5.5}{533, 642, 6507} रथः॑¦यः¦वा॒म्¦त्रि॒ऽव॒न्धु॒रः¦हिर᳚ण्य।आभीशुः¦अ॒श्वि॒ना॒ | |
द॒श॒स्यन्ता॒ मन॑वे पू॒र्व्यं दि॒वि यवं॒ वृके᳚ण कर्षथः |{काण्वः सोभरिः | अश्विनौ | सतोबृहती} ता वा᳚म॒द्य सु॑म॒तिभिः॑ शुभस्पती॒, अश्वि॑ना॒ प्र स्तु॑वीमहि ||{6/18}{8.22.6}{8.4.2.6}{6.2.6.1}{534, 642, 6508} द॒श॒स्यन्ता᳚¦मन॑वे¦पू॒र्व्यम्¦दि॒वि¦यव᳚म्¦वृके᳚ण¦क॒र्ष॒थः॒ | |
उप॑ नो वाजिनीवसू या॒तमृ॒तस्य॑ प॒थिभिः॑ |{काण्वः सोभरिः | अश्विनौ | बृहती} येभि॑स्तृ॒क्षिं वृ॑षणा त्रासदस्य॒वं म॒हे क्ष॒त्राय॒ जिन्व॑थः ||{7/18}{8.22.7}{8.4.2.7}{6.2.6.2}{535, 642, 6509} उप॑¦नः॒¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू¦या॒तम्¦ऋ॒तस्य॑¦प॒थिऽभिः॑ | |
अ॒यं वा॒मद्रि॑भिः सु॒तः सोमो᳚ नरा वृषण्वसू |{काण्वः सोभरिः | अश्विनौ | अनुष्टुप्} आ या᳚तं॒ सोम॑पीतये॒ पिब॑तं दा॒शुषो᳚ गृ॒हे ||{8/18}{8.22.8}{8.4.2.8}{6.2.6.3}{536, 642, 6510} अ॒यम्¦वा॒म्¦अद्रि॑ऽभिः¦सु॒तः¦सोमः॑¦न॒रा॒¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू | आ¦या॒त॒म्¦सोम॑ऽपीतये¦पिब॑तम्¦दा॒शुषः॑¦गृ॒हे || |
आ हि रु॒हत॑मश्विना॒ रथे॒ कोशे᳚ हिर॒ण्यये᳚ वृषण्वसू |{काण्वः सोभरिः | अश्विनौ | ककुभः} यु॒ञ्जाथां॒ पीव॑री॒रिषः॑ ||{9/18}{8.22.9}{8.4.2.9}{6.2.6.4}{537, 642, 6511} आ¦हि¦रु॒हत᳚म्¦अ॒श्वि॒ना॒¦रथे᳚¦कोशे᳚¦हि॒र॒ण्यये᳚¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू | युं॒जाथा᳚म्¦पीव॑रीः¦इषः॑ || |
याभिः॑ प॒क्थमव॑थो॒ याभि॒रध्रि॑गुं॒ याभि॑र्ब॒भ्रुं विजो᳚षसम् |{काण्वः सोभरिः | अश्विनौ | सतोबृहती} ताभि᳚र्नो म॒क्षू तूय॑मश्वि॒ना ग॑तं भिष॒ज्यतं॒ यदातु॑रम् ||{10/18}{8.22.10}{8.4.2.10}{6.2.6.5}{538, 642, 6512} याभिः॑¦प॒क्थम्¦अव॑थः¦याभिः॑¦अध्रि॑ऽगुम्¦याभिः॑¦ब॒भ्रुम्¦विऽजो᳚षसम् | |
यदध्रि॑गावो॒, अध्रि॑गू, इ॒दा चि॒दह्नो᳚, अ॒श्विना॒ हवा᳚महे |{काण्वः सोभरिः | अश्विनौ | ककुभः} व॒यं गी॒र्भिर्वि॑प॒न्यवः॑ ||{11/18}{8.22.11}{8.4.2.11}{6.2.7.1}{539, 642, 6513} यत्¦अध्रि॑ऽगावः¦अध्रि॑गू॒ इत्यध्रि॑ऽगू¦इ॒दा¦चि॒त्¦अह्नः॑¦अ॒श्विना᳚¦हवा᳚महे | व॒यम्¦गीः॒ऽभिः¦वि॒प॒न्यवः॑ || |
ताभि॒रा या᳚तं वृष॒णोप॑ मे॒ हवं᳚ वि॒श्वप्सुं᳚ वि॒श्ववा᳚र्यम् |{काण्वः सोभरिः | अश्विनौ | मध्येज्योतिस्त्रिष्टुप्} इ॒षा मंहि॑ष्ठा पुरु॒भूत॑मा नरा॒ याभिः॒ क्रिविं᳚ वावृ॒धुस्ताभि॒रा ग॑तम् ||{12/18}{8.22.12}{8.4.2.12}{6.2.7.2}{540, 642, 6514} ताभिः॑¦आ¦या॒त॒म्¦वृ॒ष॒णा॒¦उप॑¦मे॒¦हव᳚म्¦वि॒श्वऽप्सु᳚म्¦वि॒श्वऽवा᳚र्यम् | |
तावि॒दा चि॒दहा᳚नां॒ ताव॒श्विना॒ वन्द॑मान॒ उप॑ ब्रुवे |{काण्वः सोभरिः | अश्विनौ | ककुभः} ता, उ॒ नमो᳚भिरीमहे ||{13/18}{8.22.13}{8.4.2.13}{6.2.7.3}{541, 642, 6515} तौ¦इ॒दा¦चि॒त्¦अहा᳚नाम्¦तौ¦अ॒श्विना᳚¦वन्द॑मानः¦उप॑¦ब्रु॒वे॒ | तौ¦ऊँ॒ इति॑¦नमः॑ऽभिः¦ई॒म॒हे॒ || |
ताविद्दो॒षा ता, उ॒षसि॑ शु॒भस्पती॒ ता याम᳚न् रु॒द्रव॑र्तनी |{काण्वः सोभरिः | अश्विनौ | सतोबृहती} मा नो॒ मर्ता᳚य रि॒पवे᳚ वाजिनीवसू प॒रो रु॑द्रा॒वति॑ ख्यतम् ||{14/18}{8.22.14}{8.4.2.14}{6.2.7.4}{542, 642, 6516} तौ¦इत्¦दो॒षा¦तौ¦उ॒षसि॑¦शु॒भः¦पती॒ इति॑¦ता¦याम॑न्¦रु॒द्रव॑र्तनी॒ इति॑ रु॒द्रऽव॑र्तनी | |
आ सुग्म्या᳚य॒ सुग्म्यं᳚ प्रा॒ता रथे᳚ना॒श्विना᳚ वा स॒क्षणी᳚ |{काण्वः सोभरिः | अश्विनौ | ककुभः} हु॒वे पि॒तेव॒ सोभ॑री ||{15/18}{8.22.15}{8.4.2.15}{6.2.7.5}{543, 642, 6517} आ¦सुग्म्या᳚य¦सुग्म्य᳚म्¦प्रा॒तरिति॑¦रथे᳚न¦अ॒श्विना᳚¦वा॒¦स॒क्षणी॒ इति॑ | हु॒वे¦पि॒ताऽइ᳚व¦सोभ॑री || |
मनो᳚जवसा वृषणा मदच्युता मक्षुंग॒माभि॑रू॒तिभिः॑ |{काण्वः सोभरिः | अश्विनौ | सतोबृहती} आ॒रात्ता᳚च्चिद्भूतम॒स्मे, अव॑से पू॒र्वीभिः॑ पुरुभोजसा ||{16/18}{8.22.16}{8.4.2.16}{6.2.8.1}{544, 642, 6518} मनः॑ऽजवसा¦वृ॒ष॒णा॒¦म॒द॒ऽच्यु॒ता॒¦म॒क्षु॒म्ऽग॒माभिः॑¦ऊ॒तिऽभिः॑ | |
आ नो॒, अश्वा᳚वदश्विना व॒र्तिर्या᳚सिष्टं मधुपातमा नरा |{काण्वः सोभरिः | अश्विनौ | उष्णिक्} गोम॑द्दस्रा॒ हिर᳚ण्यवत् ||{17/18}{8.22.17}{8.4.2.17}{6.2.8.2}{545, 642, 6519} आ¦नः॒¦अश्व॑ऽवत्¦अ॒श्वि॒ना॒¦व॒र्तिः¦या॒सि॒ष्ट॒म्¦म॒धु॒ऽपा॒त॒मा॒¦न॒रा॒ | गोऽम॑त्¦द॒स्रा॒¦हिर᳚ण्यऽवत् || |
सु॒प्रा॒व॒र्गं सु॒वीर्यं᳚ सु॒ष्ठु वार्य॒मना᳚धृष्टं रक्ष॒स्विना᳚ |{काण्वः सोभरिः | अश्विनौ | सतोबृहती} अ॒स्मिन्ना वा᳚मा॒याने᳚ वाजिनीवसू॒ विश्वा᳚ वा॒मानि॑ धीमहि ||{18/18}{8.22.18}{8.4.2.18}{6.2.8.3}{546, 642, 6520} सु॒ऽप्रा॒व॒र्गम्¦सु॒ऽवीर्य᳚म्¦सु॒ष्ठु¦वार्य᳚म्¦अना᳚धृष्टम्¦र॒क्ष॒स्विना᳚ | |
[23] ईळिष्वेति त्रिंशदृचस्य सूक्तस्य वैयश्वोविश्वमनाअग्निरुष्णिक् | |
ईळि॑ष्वा॒ हि प्र॑ती॒व्य१॑(अं॒) यज॑स्व जा॒तवे᳚दसम् |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} च॒रि॒ष्णुधू᳚म॒मगृ॑भीतशोचिषम् ||{1/30}{8.23.1}{8.4.3.1}{6.2.9.1}{547, 643, 6521} ईळि॑ष्व¦हि¦प्र॒ती॒व्य᳚म्¦यज॑स्व¦जा॒तऽवे᳚दसम् | च॒रि॒ष्णुऽधू᳚मम्¦अगृ॑भीतऽशोचिषम् || |
दा॒मानं᳚ विश्वचर्षणे॒ऽग्निं वि॑श्वमनो गि॒रा |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} उ॒त स्तु॑षे॒ विष्प॑र्धसो॒ रथा᳚नाम् ||{2/30}{8.23.2}{8.4.3.2}{6.2.9.2}{548, 643, 6522} दा॒मान᳚म्¦वि॒श्व॒ऽच॒र्ष॒णे॒¦अ॒ग्निम्¦वि॒श्व॒ऽम॒नः॒¦गि॒रा | उ॒त¦स्तु॒षे॒¦विऽस्प॑र्धसः¦रथा᳚नाम् || |
येषा᳚माबा॒ध ऋ॒ग्मिय॑ इ॒षः पृ॒क्षश्च॑ नि॒ग्रभे᳚ |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} उ॒प॒विदा॒ वह्नि᳚र्विन्दते॒ वसु॑ ||{3/30}{8.23.3}{8.4.3.3}{6.2.9.3}{549, 643, 6523} येषा᳚म्¦आ॒ऽबा॒धः¦ऋ॒ग्मियः॑¦इ॒षः¦पृ॒क्षः¦च॒¦नि॒ऽग्रभे᳚ | उ॒प॒ऽविदा᳚¦वह्निः॑¦वि॒न्द॒ते॒¦वसु॑ || |
उद॑स्य शो॒चिर॑स्थाद्दीदि॒युषो॒ व्य१॑(अ॒)जर᳚म् |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} तपु॑र्जम्भस्य सु॒द्युतो᳚ गण॒श्रियः॑ ||{4/30}{8.23.4}{8.4.3.4}{6.2.9.4}{550, 643, 6524} उत्¦अ॒स्य॒¦शो॒चिः¦अ॒स्था॒त्¦दी॒दि॒युषः॑¦वि¦अ॒जर᳚म् | तपुः॑ऽजम्भस्य¦सु॒ऽद्युतः॑¦ग॒ण॒ऽश्रियः॑ || |
उदु॑ तिष्ठ स्वध्वर॒ स्तवा᳚नो दे॒व्या कृ॒पा |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} अ॒भि॒ख्या भा॒सा बृ॑ह॒ता शु॑शु॒क्वनिः॑ ||{5/30}{8.23.5}{8.4.3.5}{6.2.9.5}{551, 643, 6525} उत्¦ऊँ॒ इति॑¦ति॒ष्ठ॒¦सु॒।आ॒ध्व॒र॒¦स्तवा᳚नः¦दे॒व्या¦कृ॒पा | अ॒भि॒ऽख्या¦भा॒सा¦बृ॒ह॒ता¦शु॒शु॒क्वनिः॑ || |
अग्ने᳚ या॒हि सु॑श॒स्तिभि᳚र्ह॒व्या जुह्वा᳚न आनु॒षक् |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} यथा᳚ दू॒तो ब॒भूथ॑ हव्य॒वाह॑नः ||{6/30}{8.23.6}{8.4.3.6}{6.2.10.1}{552, 643, 6526} अग्ने᳚¦या॒हि¦सु॒श॒स्तिऽभिः॑¦ह॒व्या¦जुह्वा᳚नः¦आ॒नु॒षक् | यथा᳚¦दू॒तः¦ब॒भूथ॑¦ह॒व्य॒ऽवाह॑नः || |
अ॒ग्निं वः॑ पू॒र्व्यं हु॑वे॒ होता᳚रं चर्षणी॒नाम् |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} तम॒या वा॒चा गृ॑णे॒ तमु॑ वः स्तुषे ||{7/30}{8.23.7}{8.4.3.7}{6.2.10.2}{553, 643, 6527} अ॒ग्निम्¦वः॒¦पू॒र्व्यम्¦हु॒वे॒¦होता᳚रम्¦च॒र्ष॒णी॒नाम् | तम्¦अ॒या¦वा॒चा¦गृ॒णे॒¦तम्¦ऊँ॒ इति॑¦वः॒¦स्तु॒षे॒ || |
य॒ज्ञेभि॒रद्भु॑तक्रतुं॒ यं कृ॒पा सू॒दय᳚न्त॒ इत् |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} मि॒त्रं न जने॒ सुधि॑तमृ॒ताव॑नि ||{8/30}{8.23.8}{8.4.3.8}{6.2.10.3}{554, 643, 6528} य॒ज्ञेभिः॑¦अद्भु॑तऽक्रतुम्¦यम्¦कृ॒पा¦सू॒दय᳚न्ते¦इत् | मि॒त्रम्¦न¦जने᳚¦सुऽधि॑तम्¦ऋ॒तऽव॑नि || |
ऋ॒तावा᳚नमृतायवो य॒ज्ञस्य॒ साध॑नं गि॒रा |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} उपो᳚, एनं जुजुषु॒र्नम॑सस्प॒दे ||{9/30}{8.23.9}{8.4.3.9}{6.2.10.4}{555, 643, 6529} ऋ॒तऽवा᳚नम्¦ऋ॒त॒ऽय॒वः॒¦य॒ज्ञस्य॑¦साध॑नम्¦गि॒रा | उपो॒ इति॑¦ए॒न॒म्¦जु॒जु॒षुः॒¦नम॑सः¦प॒दे || |
अच्छा᳚ नो॒, अङ्गि॑रस्तमं य॒ज्ञासो᳚ यन्तु सं॒यतः॑ |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} होता॒ यो, अस्ति॑ वि॒क्ष्वा य॒शस्त॑मः ||{10/30}{8.23.10}{8.4.3.10}{6.2.10.5}{556, 643, 6530} अच्छ॑¦नः॒¦अङ्गि॑रःऽतमम्¦य॒ज्ञासः॑¦य॒न्तु॒¦स॒म्ऽयतः॑ | होता᳚¦यः¦अस्ति॑¦वि॒क्षु¦आ¦य॒शःऽत॑मः || |
अग्ने॒ तव॒ त्ये, अ॑ज॒रेन्धा᳚नासो बृ॒हद्भाः |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} अश्वा᳚, इव॒ वृष॑णस्तविषी॒यवः॑ ||{11/30}{8.23.11}{8.4.3.11}{6.2.11.1}{557, 643, 6531} अग्ने᳚¦तव॑¦त्ये¦अ॒ज॒र॒¦इन्धा᳚नासः¦बृ॒हत्¦भाः | अश्वाः᳚ऽइव¦वृष॑णः¦त॒वि॒षी॒ऽयवः॑ || |
स त्वं न॑ ऊर्जां पते र॒यिं रा᳚स्व सु॒वीर्य᳚म् |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} प्राव॑ नस्तो॒के तन॑ये स॒मत्स्वा ||{12/30}{8.23.12}{8.4.3.12}{6.2.11.2}{558, 643, 6532} सः¦त्वम्¦नः॒¦ऊ॒र्जा॒म्¦प॒ते॒¦र॒यिम्¦रा॒स्व॒¦सु॒ऽवीर्य᳚म् | प्र¦अ॒व॒¦नः॒¦तो॒के¦तन॑ये¦स॒मत्ऽसु॑¦आ || |
यद्वा, उ॑ वि॒श्पतिः॑ शि॒तः सुप्री᳚तो॒ मनु॑षो वि॒शि |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} विश्वेद॒ग्निः प्रति॒ रक्षां᳚सि सेधति ||{13/30}{8.23.13}{8.4.3.13}{6.2.11.3}{559, 643, 6533} यत्¦वै¦ऊँ॒ इति॑¦वि॒श्पतिः॑¦शि॒तः¦सुऽप्री᳚तः¦मनु॑षः¦वि॒शि | विश्वा᳚¦इत्¦अ॒ग्निः¦प्रति॑¦रक्षां᳚सि¦से॒ध॒ति॒ || |
श्रु॒ष्ट्य॑ग्ने॒ नव॑स्य मे॒ स्तोम॑स्य वीर विश्पते |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} नि मा॒यिन॒स्तपु॑षा र॒क्षसो᳚ दह ||{14/30}{8.23.14}{8.4.3.14}{6.2.11.4}{560, 643, 6534} श्रु॒ष्टी¦अ॒ग्ने॒¦नव॑स्य¦मे॒¦स्तोम॑स्य¦वी॒र॒¦वि॒श्प॒ते॒ | नि¦मा॒यिनः॑¦तपु॑षा¦र॒क्षसः॑¦द॒ह॒ || |
न तस्य॑ मा॒यया᳚ च॒न रि॒पुरी᳚शीत॒ मर्त्यः॑ |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} यो, अ॒ग्नये᳚ द॒दाश॑ ह॒व्यदा᳚तिभिः ||{15/30}{8.23.15}{8.4.3.15}{6.2.11.5}{561, 643, 6535} न¦तस्य॑¦मा॒यया᳚¦च॒न¦रि॒पुः¦ई॒शी॒त॒¦मर्त्यः॑ | यः¦अ॒ग्नये᳚¦द॒दाश॑¦ह॒व्यदा᳚तिऽभिः || |
व्य॑श्वस्त्वा वसु॒विद॑मुक्ष॒ण्युर॑प्रीणा॒दृषिः॑ |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} म॒हो रा॒ये तमु॑ त्वा॒ समि॑धीमहि ||{16/30}{8.23.16}{8.4.3.16}{6.2.12.1}{562, 643, 6536} वि।आ॑श्वः¦त्वा॒¦व॒सु॒ऽविद᳚म्¦उ॒क्ष॒ण्युः¦अ॒प्री॒णा॒त्¦ऋषिः॑ | म॒हः¦रा॒ये¦तम्¦ऊँ॒ इति॑¦त्वा॒¦सम्¦इ॒धी॒म॒हि॒ || |
उ॒शना᳚ का॒व्यस्त्वा॒ नि होता᳚रमसादयत् |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} आ॒य॒जिं त्वा॒ मन॑वे जा॒तवे᳚दसम् ||{17/30}{8.23.17}{8.4.3.17}{6.2.12.2}{563, 643, 6537} उ॒शना᳚¦का॒व्यः¦त्वा॒¦नि¦होता᳚रम्¦अ॒सा॒द॒य॒त् | आ॒ऽय॒जिम्¦त्वा॒¦मन॑वे¦जा॒तऽवे᳚दसम् || |
विश्वे॒ हि त्वा᳚ स॒जोष॑सो दे॒वासो᳚ दू॒तमक्र॑त |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} श्रु॒ष्टी दे᳚व प्रथ॒मो य॒ज्ञियो᳚ भुवः ||{18/30}{8.23.18}{8.4.3.18}{6.2.12.3}{564, 643, 6538} विश्वे᳚¦हि¦त्वा॒¦स॒ऽजोष॑सः¦दे॒वासः॑¦दू॒तम्¦अक्र॑त | श्रु॒ष्टी¦दे॒व॒¦प्र॒थ॒मः¦य॒ज्ञियः॑¦भु॒वः॒ || |
इ॒मं घा᳚ वी॒रो, अ॒मृतं᳚ दू॒तं कृ᳚ण्वीत॒ मर्त्यः॑ |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} पा॒व॒कं कृ॒ष्णव॑र्तनिं॒ विहा᳚यसम् ||{19/30}{8.23.19}{8.4.3.19}{6.2.12.4}{565, 643, 6539} इ॒मम्¦घ॒¦वी॒रः¦अ॒मृत᳚म्¦दू॒तम्¦कृ॒ण्वी॒त॒¦मर्त्यः॑ | पा॒व॒कम्¦कृ॒ष्णऽव॑र्तनिम्¦विऽहा᳚यसम् || |
तं हु॑वेम य॒तस्रु॑चः सु॒भासं᳚ शु॒क्रशो᳚चिषम् |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} वि॒शाम॒ग्निम॒जरं᳚ प्र॒त्नमीड्य᳚म् ||{20/30}{8.23.20}{8.4.3.20}{6.2.12.5}{566, 643, 6540} तम्¦हु॒वे॒म॒¦य॒तऽस्रु॑चः¦सु॒ऽभास᳚म्¦शु॒क्रऽशो᳚चिषम् | वि॒शाम्¦अ॒ग्निम्¦अ॒जर᳚म्¦प्र॒त्नम्¦ईड्य᳚म् || |
यो, अ॑स्मै ह॒व्यदा᳚तिभि॒राहु॑तिं॒ मर्तोऽवि॑धत् |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} भूरि॒ पोषं॒ स ध॑त्ते वी॒रव॒द्यशः॑ ||{21/30}{8.23.21}{8.4.3.21}{6.2.13.1}{567, 643, 6541} यः¦अ॒स्मै॒¦ह॒व्यदा᳚तिऽभिः¦आऽहु॑तिम्¦मर्तः॑¦अवि॑धत् | भूरि॑¦पोष᳚म्¦सः¦ध॒त्ते॒¦वी॒रऽव॑त्¦यशः॑ || |
प्र॒थ॒मं जा॒तवे᳚दसम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यम् |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} प्रति॒ स्रुगे᳚ति॒ नम॑सा ह॒विष्म॑ती ||{22/30}{8.23.22}{8.4.3.22}{6.2.13.2}{568, 643, 6542} प्र॒थ॒मम्¦जा॒तऽवे᳚दसम्¦अ॒ग्निम्¦य॒ज्ञेषु॑¦पू॒र्व्यम् | प्रति॑¦स्रुक्¦ए॒ति॒¦नम॑सा¦ह॒विष्म॑ती || |
आभि᳚र्विधेमा॒ग्नये॒ ज्येष्ठा᳚भिर्व्यश्व॒वत् |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} मंहि॑ष्ठाभिर्म॒तिभिः॑ शु॒क्रशो᳚चिषे ||{23/30}{8.23.23}{8.4.3.23}{6.2.13.3}{569, 643, 6543} आभिः॑¦वि॒धे॒म॒¦अ॒ग्नये᳚¦ज्येष्ठा᳚भिः¦व्य॒श्व॒ऽवत् | मंहि॑ष्ठाभिः¦म॒तिऽभिः॑¦शु॒क्रऽशो᳚चिषे || |
नू॒नम॑र्च॒ विहा᳚यसे॒ स्तोमे᳚भिः स्थूरयूप॒वत् |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} ऋषे᳚ वैयश्व॒ दम्या᳚या॒ग्नये᳚ ||{24/30}{8.23.24}{8.4.3.24}{6.2.13.4}{570, 643, 6544} नू॒नम्¦अ॒र्च॒¦विऽहा᳚यसे¦स्तोमे᳚भिः¦स्थू॒र॒यू॒प॒ऽवत् | ऋषे᳚¦वै॒य॒श्व॒¦दम्या᳚य¦अ॒ग्नये᳚ || |
अति॑थिं॒ मानु॑षाणां सू॒नुं वन॒स्पती᳚नाम् |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} विप्रा᳚, अ॒ग्निमव॑से प्र॒त्नमी᳚ळते ||{25/30}{8.23.25}{8.4.3.25}{6.2.13.5}{571, 643, 6545} अति॑थिम्¦मानु॑षाणाम्¦सू॒नुम्¦वन॒स्पती᳚नाम् | विप्राः᳚¦अ॒ग्निम्¦अव॑से¦प्र॒त्नम्¦ई॒ळ॒ते॒ || |
म॒हो विश्वाँ᳚, अ॒भि ष॒तो॒३॑(ओ॒)ऽभि ह॒व्यानि॒ मानु॑षा |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} अग्ने॒ नि ष॑त्सि॒ नम॒साधि॑ ब॒र्हिषि॑ ||{26/30}{8.23.26}{8.4.3.26}{6.2.14.1}{572, 643, 6546} म॒हः¦विश्वा᳚न्¦अ॒भि¦स॒तः¦अ॒भि¦ह॒व्यानि॑¦मानु॑षा | अग्ने᳚¦नि¦स॒त्सि॒¦नम॑सा¦अधि॑¦ब॒र्हिषि॑ || |
वंस्वा᳚ नो॒ वार्या᳚ पु॒रु वंस्व॑ रा॒यः पु॑रु॒स्पृहः॑ |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} सु॒वीर्य॑स्य प्र॒जाव॑तो॒ यश॑स्वतः ||{27/30}{8.23.27}{8.4.3.27}{6.2.14.2}{573, 643, 6547} वंस्व॑¦नः॒¦वार्या᳚¦पु॒रु¦वंस्व॑¦रा॒यः¦पु॒रु॒ऽस्पृहः॑ | सु॒ऽवीर्य॑स्य¦प्र॒जाऽव॑तः¦यश॑स्वतः || |
त्वं व॑रो सु॒षाम्णेऽग्ने॒ जना᳚य चोदय |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} सदा᳚ वसो रा॒तिं य॑विष्ठ॒ शश्व॑ते ||{28/30}{8.23.28}{8.4.3.28}{6.2.14.3}{574, 643, 6548} त्वम्¦व॒रो॒ इति॑¦सु॒ऽसाम्ने᳚¦अग्ने᳚¦जना᳚य¦चो॒द॒य॒ | सदा᳚¦व॒सो॒ इति॑¦रा॒तिम्¦य॒वि॒ष्ठ॒¦शश्व॑ते || |
त्वं हि सु॑प्र॒तूरसि॒ त्वं नो॒ गोम॑ती॒रिषः॑ |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} म॒हो रा॒यः सा॒तिम॑ग्ने॒, अपा᳚ वृधि ||{29/30}{8.23.29}{8.4.3.29}{6.2.14.4}{575, 643, 6549} त्वम्¦हि¦सु॒ऽप्र॒तूः¦असि॑¦त्वम्¦नः॒¦गोऽम॑तीः¦इषः॑ | म॒हः¦रा॒यः¦सा॒तिम्¦अ॒ग्ने॒¦अप॑¦वृ॒धि॒ || |
अग्ने॒ त्वं य॒शा, अ॒स्या मि॒त्रावरु॑णा वह |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्} ऋ॒तावा᳚ना स॒म्राजा᳚ पू॒तद॑क्षसा ||{30/30}{8.23.30}{8.4.3.30}{6.2.14.5}{576, 643, 6550} अग्ने᳚¦त्वम्¦य॒शाः¦अ॒सि॒¦आ¦मि॒त्रावरु॑णा¦व॒ह॒ | ऋ॒तऽवा᳚ना¦स॒म्ऽराजा᳚¦पू॒तऽद॑क्षसा || |
[24] सखायइति त्रिंशदृचस्य सूक्तस्य वैयश्वो विश्वमनाइंद्रोंत्यतृचस्य वरुरुष्णिगंत्यानुष्टुप् (वरुः सौषाम्णोयंराजा) | |
सखा᳚य॒ आ शि॑षामहि॒ ब्रह्मेन्द्रा᳚य व॒ज्रिणे᳚ |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्} स्तु॒ष ऊ॒ षु वो॒ नृत॑माय धृ॒ष्णवे᳚ ||{1/30}{8.24.1}{8.4.4.1}{6.2.15.1}{577, 644, 6551} सखा᳚यः¦आ¦शि॒षा॒म॒हि॒¦ब्रह्म॑¦इन्द्रा᳚य¦व॒ज्रिणे᳚ | स्तु॒षे¦ऊँ॒ इति॑¦सु¦वः॒¦नृऽत॑माय¦धृ॒ष्णवे᳚ || |
शव॑सा॒ ह्यसि॑ श्रु॒तो वृ॑त्र॒हत्ये᳚न वृत्र॒हा |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्} म॒घैर्म॒घोनो॒, अति॑ शूर दाशसि ||{2/30}{8.24.2}{8.4.4.2}{6.2.15.2}{578, 644, 6552} शव॑सा¦हि¦असि॑¦श्रु॒तः¦वृ॒त्र॒ऽहत्ये᳚न¦वृ॒त्र॒ऽहा | म॒घैः¦म॒घोनः॑¦अति॑¦शू॒र॒¦दा॒श॒सि॒ || |
स नः॒ स्तवा᳚न॒ आ भ॑र र॒यिं चि॒त्रश्र॑वस्तमम् |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्} नि॒रे॒के चि॒द्यो ह॑रिवो॒ वसु॑र्द॒दिः ||{3/30}{8.24.3}{8.4.4.3}{6.2.15.3}{579, 644, 6553} सः¦नः॒¦स्तवा᳚नः¦आ¦भ॒र॒¦र॒यिम्¦चि॒त्रश्र॑वःऽतमम् | नि॒रे॒के¦चि॒त्¦यः¦ह॒रि॒ऽवः॒¦वसुः॑¦द॒दिः || |
आ नि॑रे॒कमु॒त प्रि॒यमिन्द्र॒ दर्षि॒ जना᳚नाम् |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्} धृ॒ष॒ता धृ॑ष्णो॒ स्तव॑मान॒ आ भ॑र ||{4/30}{8.24.4}{8.4.4.4}{6.2.15.4}{580, 644, 6554} आ¦नि॒रे॒कम्¦उ॒त¦प्रि॒यम्¦इन्द्र॑¦दर्षि॑¦जना᳚नाम् | धृ॒ष॒ता¦धृ॒ष्णो॒ इति॑¦स्तव॑मानः¦आ¦भ॒र॒ || |
न ते᳚ स॒व्यं न दक्षि॑णं॒ हस्तं᳚ वरन्त आ॒मुरः॑ |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्} न प॑रि॒बाधो᳚ हरिवो॒ गवि॑ष्टिषु ||{5/30}{8.24.5}{8.4.4.5}{6.2.15.5}{581, 644, 6555} न¦ते॒¦स॒व्यम्¦न¦दक्षि॑णम्¦हस्त᳚म्¦व॒र॒न्ते॒¦आ॒ऽमुरः॑ | न¦प॒रि॒ऽबाधः॑¦ह॒रि॒ऽवः॒¦गोऽइ᳚ष्टिषु || |
आ त्वा॒ गोभि॑रिव व्र॒जं गी॒र्भिरृ॑णोम्यद्रिवः |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्} आ स्मा॒ कामं᳚ जरि॒तुरा मनः॑ पृण ||{6/30}{8.24.6}{8.4.4.6}{6.2.16.1}{582, 644, 6556} आ¦त्वा॒¦गोभिः॑ऽइव¦व्र॒जम्¦गीः॒ऽभिः¦ऋ॒णो॒मि॒¦अ॒द्रि॒ऽवः॒ | आ¦स्म॒¦काम᳚म्¦ज॒रि॒तुः¦आ¦मनः॑¦पृ॒ण॒ || |
विश्वा᳚नि वि॒श्वम॑नसो धि॒या नो᳚ वृत्रहन्तम |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्} उग्र॑ प्रणेत॒रधि॒ षू व॑सो गहि ||{7/30}{8.24.7}{8.4.4.7}{6.2.16.2}{583, 644, 6557} विश्वा᳚नि¦वि॒श्वऽम॑नसः¦धि॒या¦नः॒¦वृ॒त्र॒ह॒न्ऽत॒म॒ | उग्र॑¦प्र॒ने॒त॒रिति॑ प्रऽनेतः¦अधि॑¦सु¦व॒सो॒ इति॑¦ग॒हि॒ || |
व॒यं ते᳚, अ॒स्य वृ॑त्रहन् वि॒द्याम॑ शूर॒ नव्य॑सः |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्} वसोः᳚ स्पा॒र्हस्य॑ पुरुहूत॒ राध॑सः ||{8/30}{8.24.8}{8.4.4.8}{6.2.16.3}{584, 644, 6558} व॒यम्¦ते॒¦अ॒स्य¦वृ॒त्र॒ऽह॒न्¦वि॒द्याम॑¦शू॒र॒¦नव्य॑सः | वसोः᳚¦स्पा॒र्हस्य॑¦पु॒रु॒ऽहू॒त॒¦राध॑सः || |
इन्द्र॒ यथा॒ ह्यस्ति॒ तेऽप॑रीतं नृतो॒ शवः॑ |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्} अमृ॑क्ता रा॒तिः पु॑रुहूत दा॒शुषे᳚ ||{9/30}{8.24.9}{8.4.4.9}{6.2.16.4}{585, 644, 6559} इन्द्र॑¦यथा᳚¦हि¦अस्ति॑¦ते॒¦अप॑रिऽइतम्¦नृ॒तो॒ इति॑¦शवः॑ | अमृ॑क्ता¦रा॒तिः¦पु॒रु॒ऽहू॒त॒¦दा॒शुषे᳚ || |
आ वृ॑षस्व महामह म॒हे नृ॑तम॒ राध॑से |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्} दृ॒ळ्हश्चि॑द्दृह्य मघवन्म॒घत्त॑ये ||{10/30}{8.24.10}{8.4.4.10}{6.2.16.5}{586, 644, 6560} आ¦वृ॒ष॒स्व॒¦म॒हा॒ऽम॒ह॒¦म॒हे¦नृ॒ऽत॒म॒¦राध॑से | दृ॒ळ्हः¦चि॒त्¦दृ॒ह्य॒¦म॒घ॒ऽव॒न्¦म॒घत्त॑ये || |
नू, अ॒न्यत्रा᳚ चिदद्रिव॒स्त्वन्नो᳚ जग्मुरा॒शसः॑ |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्} मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तिभिः॑ ||{11/30}{8.24.11}{8.4.4.11}{6.2.17.1}{587, 644, 6561} नु¦अ॒न्यत्र॑¦चि॒त्¦अ॒द्रि॒ऽवः॒¦त्वत्¦नः॒¦ज॒ग्मुः॒¦आ॒ऽशसः॑ | मघ॑ऽवन्¦श॒ग्धि¦तव॑¦तत्¦नः॒¦ऊ॒तिऽभिः॑ || |
न॒ह्य१॑(अ॒)ङ्ग नृ॑तो॒ त्वद॒न्यं वि॒न्दामि॒ राध॑से |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्} रा॒ये द्यु॒म्नाय॒ शव॑से च गिर्वणः ||{12/30}{8.24.12}{8.4.4.12}{6.2.17.2}{588, 644, 6562} न॒हि¦अ॒ङ्ग¦नृ॒तो॒ इति॑¦त्वत्¦अ॒न्यम्¦वि॒न्दामि॑¦राध॑से | रा॒ये¦द्यु॒म्नाय॑¦शव॑से¦च॒¦गि॒र्व॒णः॒ || |
एन्दु॒मिन्द्रा᳚य सिञ्चत॒ पिबा᳚ति सो॒म्यं मधु॑ |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्} प्र राध॑सा चोदयाते महित्व॒ना ||{13/30}{8.24.13}{8.4.4.13}{6.2.17.3}{589, 644, 6563} आ¦इन्दु᳚म्¦इन्द्रा᳚य¦सिं॒च॒त॒¦पिबा᳚ति¦सो॒म्यम्¦मधु॑ | प्र¦राध॑सा¦चो॒द॒या॒ते॒¦म॒हि॒ऽत्व॒ना || |
उपो॒ हरी᳚णां॒ पतिं॒ दक्षं᳚ पृ॒ञ्चन्त॑मब्रवम् |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्} नू॒नं श्रु॑धि स्तुव॒तो, अ॒श्व्यस्य॑ ||{14/30}{8.24.14}{8.4.4.14}{6.2.17.4}{590, 644, 6564} उपो॒ इति॑¦हरी᳚णाम्¦पति᳚म्¦दक्ष᳚म्¦पृं॒चन्त᳚म्¦अ॒ब्र॒व॒म् | नू॒नम्¦श्रु॒धि॒¦स्तु॒व॒तः¦अ॒श्व्यस्य॑ || |
न॒ह्य१॑(अ॒)ङ्ग पु॒रा च॒न ज॒ज्ञे वी॒रत॑र॒स्त्वत् |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्} नकी᳚ रा॒या नैवथा॒ न भ॒न्दना᳚ ||{15/30}{8.24.15}{8.4.4.15}{6.2.17.5}{591, 644, 6565} न॒हि¦अ॒ङ्ग¦पु॒रा¦च॒न¦ज॒ज्ञे¦वी॒रऽत॑रः¦त्वत् | नकिः॑¦रा॒या¦न¦ए॒वऽथा᳚¦न¦भ॒न्दना᳚ || |
एदु॒ मध्वो᳚ म॒दिन्त॑रं सि॒ञ्च वा᳚ध्वर्यो॒, अन्ध॑सः |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्} ए॒वा हि वी॒रः स्तव॑ते स॒दावृ॑धः ||{16/30}{8.24.16}{8.4.4.16}{6.2.18.1}{592, 644, 6566} आ¦इत्¦ऊँ॒ इति॑¦मध्वः॑¦म॒दिन्ऽत॑रम्¦सिं॒च¦वा॒¦अ॒ध्व॒र्यो॒ इति॑¦अन्ध॑सः | ए॒व¦हि¦वी॒रः¦स्तव॑ते¦स॒दाऽवृ॑धः || |
इन्द्र॑ स्थातर्हरीणां॒ नकि॑ष्टे पू॒र्व्यस्तु॑तिम् |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्} उदा᳚नंश॒ शव॑सा॒ न भ॒न्दना᳚ ||{17/30}{8.24.17}{8.4.4.17}{6.2.18.2}{593, 644, 6567} इन्द्र॑¦स्था॒तः॒¦ह॒री॒णा॒म्¦नकिः॑¦ते॒¦पू॒र्व्यऽस्तु॑तिम् | उत्¦आ॒नं॒श॒¦शव॑सा¦न¦भ॒न्दना᳚ || |
तं वो॒ वाजा᳚नां॒ पति॒महू᳚महि श्रव॒स्यवः॑ |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्} अप्रा᳚युभिर्य॒ज्ञेभि᳚र्वावृ॒धेन्य᳚म् ||{18/30}{8.24.18}{8.4.4.18}{6.2.18.3}{594, 644, 6568} तम्¦वः॒¦वाजा᳚नाम्¦पति᳚म्¦अहू᳚महि¦श्र॒व॒स्यवः॑ | अप्रा᳚युऽभिः¦य॒ज्ञेभिः॑¦व॒वृ॒धेन्य᳚म् || |
एतो॒ न् विन्द्रं॒ स्तवा᳚म॒ सखा᳚यः॒ स्तोम्यं॒ नर᳚म् |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्} कृ॒ष्टीर्यो विश्वा᳚, अ॒भ्यस्त्येक॒ इत् ||{19/30}{8.24.19}{8.4.4.19}{6.2.18.4}{595, 644, 6569} एतो॒ इति॑¦नु¦इन्द्र᳚म्¦स्तवा᳚म¦सखा᳚यः¦स्तोम्य᳚म्¦नर᳚म् | कृ॒ष्टीः¦यः¦विश्वाः᳚¦अ॒भि¦अस्ति॑¦एकः॑¦इत् || |
अगो᳚रुधाय ग॒विषे᳚ द्यु॒क्षाय॒ दस्म्यं॒ वचः॑ |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्} घृ॒तात्स्वादी᳚यो॒ मधु॑नश्च वोचत ||{20/30}{8.24.20}{8.4.4.20}{6.2.18.5}{596, 644, 6570} अगो᳚ऽरुधाय¦गो॒ऽइषे᳚¦द्यु॒क्षाय॑¦दस्म्य᳚म्¦वचः॑ | घृ॒तात्¦स्वादी᳚यः¦मधु॑नः¦च॒¦वो॒च॒त॒ || |
यस्यामि॑तानि वी॒र्या॒३॑(आ॒) न राधः॒ पर्ये᳚तवे |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्} ज्योति॒र्न विश्व॑म॒भ्यस्ति॒ दक्षि॑णा ||{21/30}{8.24.21}{8.4.4.21}{6.2.19.1}{597, 644, 6571} यस्य॑¦अमि॑तानि¦वी॒र्या᳚¦न¦राधः॑¦परि॑ऽएतवे | ज्योतिः॑¦न¦विश्व᳚म्¦अ॒भि¦अस्ति॑¦दक्षि॑णा || |
स्तु॒हीन्द्रं᳚ व्यश्व॒वदनू᳚र्मिं वा॒जिनं॒ यम᳚म् |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्} अ॒र्यो गयं॒ मंह॑मानं॒ वि दा॒शुषे᳚ ||{22/30}{8.24.22}{8.4.4.22}{6.2.19.2}{598, 644, 6572} स्तु॒हि¦इन्द्र᳚म्¦व्य॒श्व॒ऽवत्¦अनू᳚र्मिम्¦वा॒जिन᳚म्¦यम᳚म् | अ॒र्यः¦गय᳚म्¦मंह॑मानम्¦वि¦दा॒शुषे᳚ || |
ए॒वा नू॒नमुप॑ स्तुहि॒ वैय॑श्व दश॒मं नव᳚म् |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्} सुवि॑द्वांसं च॒र्कृत्यं᳚ च॒रणी᳚नाम् ||{23/30}{8.24.23}{8.4.4.23}{6.2.19.3}{599, 644, 6573} ए॒व¦नू॒नम्¦उप॑¦स्तु॒हि॒¦वैय॑श्व¦द॒श॒मम्¦नव᳚म् | सुऽवि॑द्वांसम्¦च॒र्कृत्य᳚म्¦च॒रणी᳚नाम् || |
वेत्था॒ हि निरृ॑तीनां॒ वज्र॑हस्त परि॒वृज᳚म् |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्} अह॑रहः शु॒न्ध्युः प॑रि॒पदा᳚मिव ||{24/30}{8.24.24}{8.4.4.24}{6.2.19.4}{600, 644, 6574} वेत्थ॑¦हि¦निःऽऋ॑तीनाम्¦वज्र॑ऽहस्त¦प॒रि॒ऽवृज᳚म् | अहः॑।आहः¦शु॒न्ध्युः¦प॒रि॒पदा᳚म्ऽइव || |
तदि॒न्द्राव॒ आ भ॑र॒ येना᳚ दंसिष्ठ॒ कृत्व॑ने |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्} द्वि॒ता कुत्सा᳚य शिश्नथो॒ नि चो᳚दय ||{25/30}{8.24.25}{8.4.4.25}{6.2.19.5}{601, 644, 6575} तत्¦इ॒न्द्र॒¦अवः॑¦आ¦भ॒र॒¦येन॑¦दं॒सि॒ष्ठ॒¦कृत्व॑ने | द्वि॒ता¦कुत्सा᳚य¦शि॒श्न॒थः॒¦नि¦चो॒द॒य॒ || |
तमु॑ त्वा नू॒नमी᳚महे॒ नव्यं᳚ दंसिष्ठ॒ सन्य॑से |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्} स त्वं नो॒ विश्वा᳚, अ॒भिमा᳚तीः स॒क्षणिः॑ ||{26/30}{8.24.26}{8.4.4.26}{6.2.20.1}{602, 644, 6576} तम्¦ऊँ॒ इति॑¦त्वा॒¦नू॒नम्¦ई॒म॒हे॒¦नव्य᳚म्¦दं॒सि॒ष्ठ॒¦सन्य॑से | सः¦त्वम्¦नः॒¦विश्वाः᳚¦अ॒भिऽमा᳚तीः¦स॒क्षणिः॑ || |
य ऋक्षा॒दंह॑सो मु॒चद्यो वार्या᳚त्स॒प्त सिन्धु॑षु |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्} वध॑र्दा॒सस्य॑ तुविनृम्ण नीनमः ||{27/30}{8.24.27}{8.4.4.27}{6.2.20.2}{603, 644, 6577} यः¦ऋक्षा᳚त्¦अंह॑सः¦मु॒चत्¦यः¦वा॒¦आर्या᳚त्¦स॒प्त¦सिन्धु॑षु | वधः॑¦दा॒सस्य॑¦तु॒वि॒ऽनृ॒म्ण॒¦नी॒न॒मः॒ || |
यथा᳚ वरो सु॒षाम्णे᳚ स॒निभ्य॒ आव॑हो र॒यिम् |{वैयश्वो विश्वमनाः | वरोः सौषाम्णस्य दानस्तुतिः | उष्णिक्} व्य॑श्वेभ्यः सुभगे वाजिनीवति ||{28/30}{8.24.28}{8.4.4.28}{6.2.20.3}{604, 644, 6578} यथा᳚¦व॒रो॒ इति॑¦सु॒ऽसाम्ने᳚¦स॒निऽभ्यः॑¦आ¦अव॑हः¦र॒यिम् | वि।आ॑श्वेभ्यः¦सु॒ऽभ॒गे॒¦वा॒जि॒नी॒ऽव॒ति॒ || |
आ ना॒र्यस्य॒ दक्षि॑णा॒ व्य॑श्वाँ, एतु सो॒मिनः॑ |{वैयश्वो विश्वमनाः | वरोः सौषाम्णस्य दानस्तुतिः | उष्णिक्} स्थू॒रं च॒ राधः॑ श॒तव॑त्स॒हस्र॑वत् ||{29/30}{8.24.29}{8.4.4.29}{6.2.20.4}{605, 644, 6579} आ¦ना॒र्यस्य॑¦दक्षि॑णा¦वि।आ॑श्वान्¦ए॒तु॒¦सो॒मिनः॑ | स्थू॒रम्¦च॒¦राधः॑¦श॒तऽव॑त्¦स॒हस्र॑ऽवत् || |
यत् त्वा᳚ पृ॒च्छादी᳚जा॒नः कु॑ह॒या कु॑हयाकृते |{वैयश्वो विश्वमनाः | वरोः सौषाम्णस्य दानस्तुतिः | अनुष्टुप्} ए॒षो, अप॑श्रितो व॒लो गो᳚म॒तीमव॑ तिष्ठति ||{30/30}{8.24.30}{8.4.4.30}{6.2.20.5}{606, 644, 6580} यत्¦त्वा॒¦पृ॒च्छात्¦ई॒जा॒नः¦कु॒ह॒या¦कु॒ह॒या॒ऽकृ॒ते॒ | ए॒षः¦अप॑ऽश्रितः¦व॒लः¦गो॒ऽम॒तीम्¦अव॑¦ति॒ष्ठ॒ति॒ || |
[25] तावांविश्वस्येति चतुर्विंशत्यृचस्य सूक्तस्य वैयश्वोविश्वमना मित्रावरुणौ दशम्यादितिसृणां विश्वेदेवाउष्णिक् उपांत्योष्णिग्गर्भा | |
ता वां॒ विश्व॑स्य गो॒पा दे॒वा दे॒वेषु॑ य॒ज्ञिया᳚ |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्} ऋ॒तावा᳚ना यजसे पू॒तद॑क्षसा ||{1/24}{8.25.1}{8.4.5.1}{6.2.21.1}{607, 645, 6581} ता¦वा॒म्¦विश्व॑स्य¦गो॒पा¦दे॒वा¦दे॒वेषु॑¦य॒ज्ञिया᳚ | ऋ॒तऽवा᳚ना¦य॒ज॒से॒¦पू॒तऽद॑क्षसा || |
मि॒त्रा तना॒ न र॒थ्या॒३॑(आ॒) वरु॑णो॒ यश्च॑ सु॒क्रतुः॑ |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्} स॒नात्सु॑जा॒ता तन॑या धृ॒तव्र॑ता ||{2/24}{8.25.2}{8.4.5.2}{6.2.21.2}{608, 645, 6582} मि॒त्रा¦तना᳚¦न¦र॒थ्या᳚¦वरु॑णः¦यः¦च॒¦सु॒ऽक्रतुः॑ | स॒नात्¦सु॒ऽजा॒ता¦तन॑या¦धृ॒तऽव्र॑ता || |
ता मा॒ता वि॒श्ववे᳚दसासु॒र्या᳚य॒ प्रम॑हसा |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्} म॒ही ज॑जा॒नादि॑तिरृ॒ताव॑री ||{3/24}{8.25.3}{8.4.5.3}{6.2.21.3}{609, 645, 6583} ता¦मा॒ता¦वि॒श्वऽवे᳚दसा¦अ॒सु॒र्या᳚य¦प्रऽम॑हसा | म॒ही¦ज॒जा॒न॒¦अदि॑तिः¦ऋ॒तऽव॑री || |
म॒हान्ता᳚ मि॒त्रावरु॑णा स॒म्राजा᳚ दे॒वावसु॑रा |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्} ऋ॒तावा᳚नावृ॒तमा घो᳚षतो बृ॒हत् ||{4/24}{8.25.4}{8.4.5.4}{6.2.21.4}{610, 645, 6584} म॒हान्ता᳚¦मि॒त्रावरु॑णा¦स॒म्ऽराजा᳚¦दे॒वौ¦असु॑रा | ऋ॒तऽवा᳚नौ¦ऋ॒तम्¦आ¦घो॒ष॒तः॒¦बृ॒हत् || |
नपा᳚ता॒ शव॑सो म॒हः सू॒नू दक्ष॑स्य सु॒क्रतू᳚ |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्} सृ॒प्रदा᳚नू, इ॒षो वास्त्वधि॑ क्षितः ||{5/24}{8.25.5}{8.4.5.5}{6.2.21.5}{611, 645, 6585} नपा᳚ता¦शव॑सः¦म॒हः¦सू॒नू इति॑¦दक्ष॑स्य¦सु॒क्रतू॒ इति॑ सु॒ऽक्रतू᳚ | सृ॒प्रदा᳚नू॒ इति॑ सृ॒प्रऽदा᳚नू¦इ॒षः¦वास्तु॑¦अधि॑¦क्षि॒तः॒ || |
सं या दानू᳚नि ये॒मथु॑र्दि॒व्याः पार्थि॑वी॒रिषः॑ |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्} नभ॑स्वती॒रा वां᳚ चरन्तु वृ॒ष्टयः॑ ||{6/24}{8.25.6}{8.4.5.6}{6.2.22.1}{612, 645, 6586} सम्¦या¦दानू᳚नि¦ये॒मथुः॑¦दि॒व्याः¦पार्थि॑वीः¦इषः॑ | नभ॑स्वतीः¦आ¦वा॒म्¦च॒र॒न्तु॒¦वृ॒ष्टयः॑ || |
अधि॒ या बृ॑ह॒तो दि॒वो॒३॑(ओ॒)ऽभि यू॒थेव॒ पश्य॑तः |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्} ऋ॒तावा᳚ना स॒म्राजा॒ नम॑से हि॒ता ||{7/24}{8.25.7}{8.4.5.7}{6.2.22.2}{613, 645, 6587} अधि॑¦या¦बृ॒ह॒तः¦दि॒वः¦अ॒भि¦यू॒थाऽइ᳚व¦पश्य॑तः | ऋ॒तऽवा᳚ना¦स॒म्ऽराजा᳚¦नम॑से¦हि॒ता || |
ऋ॒तावा᳚ना॒ नि षे᳚दतुः॒ साम्रा᳚ज्याय सु॒क्रतू᳚ |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्} धृ॒तव्र॑ता क्ष॒त्रिया᳚ क्ष॒त्रमा᳚शतुः ||{8/24}{8.25.8}{8.4.5.8}{6.2.22.3}{614, 645, 6588} ऋ॒तऽवा᳚ना¦नि¦से॒द॒तुः॒¦साम्ऽरा᳚ज्याय¦सु॒क्रतू॒ इति॑ सु॒ऽक्रतू᳚ | धृ॒तऽव्र॑ता¦क्ष॒त्रिया᳚¦क्ष॒त्रम्¦आ॒श॒तुः॒ || |
अ॒क्ष्णश्चि॑द्गातु॒वित्त॑रानुल्ब॒णेन॒ चक्ष॑सा |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्} नि चि᳚न्मि॒षन्ता᳚ निचि॒रा नि चि॑क्यतुः ||{9/24}{8.25.9}{8.4.5.9}{6.2.22.4}{615, 645, 6589} अ॒क्ष्णः¦चि॒त्¦गा॒तु॒वित्ऽत॑रा¦अ॒नु॒ल्ब॒णेन॑¦चक्ष॑सा | नि¦चि॒त्¦मि॒षन्ता᳚¦नि॒ऽचि॒रा¦नि¦चि॒क्य॒तुः॒ || |
उ॒त नो᳚ दे॒व्यदि॑तिरुरु॒ष्यतां॒ नास॑त्या |{वैयश्वो विश्वमनाः | विश्वदेवाः | उष्णिक्} उ॒रु॒ष्यन्तु॑ म॒रुतो᳚ वृ॒द्धश॑वसः ||{10/24}{8.25.10}{8.4.5.10}{6.2.22.5}{616, 645, 6590} उ॒त¦नः॒¦दे॒वी¦अदि॑तिः¦उ॒रु॒ष्यता᳚म्¦नास॑त्या | उ॒रु॒ष्यन्तु॑¦म॒रुतः॑¦वृ॒द्धऽश॑वसः || |
ते नो᳚ ना॒वमु॑रुष्यत॒ दिवा॒ नक्तं᳚ सुदानवः |{वैयश्वो विश्वमनाः | विश्वदेवाः | उष्णिक्} अरि॑ष्यन्तो॒ नि पा॒युभिः॑ सचेमहि ||{11/24}{8.25.11}{8.4.5.11}{6.2.23.1}{617, 645, 6591} ते¦नः॒¦ना॒वम्¦उ॒रु॒ष्य॒त॒¦दिवा᳚¦नक्त᳚म्¦सु॒ऽदा॒न॒वः॒ | अरि॑ष्यन्तः¦नि¦पा॒युऽभिः॑¦स॒चे॒म॒हि॒ || |
अघ्न॑ते॒ विष्ण॑वे व॒यमरि॑ष्यन्तः सु॒दान॑वे |{वैयश्वो विश्वमनाः | विश्वदेवाः | उष्णिक्} श्रु॒धि स्व॑यावन् त्सिन्धो पू॒र्वचि॑त्तये ||{12/24}{8.25.12}{8.4.5.12}{6.2.23.2}{618, 645, 6592} अघ्न॑ते¦विष्ण॑वे¦व॒यम्¦अरि॑ष्यन्तः¦सु॒ऽदान॑वे | श्रु॒धि¦स्व॒ऽया॒व॒न्¦सि॒न्धो॒ इति॑¦पू॒र्वऽचि॑त्तये || |
तद्वार्यं᳚ वृणीमहे॒ वरि॑ष्ठं गोप॒यत्य᳚म् |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्} मि॒त्रो यत्पान्ति॒ वरु॑णो॒ यद᳚र्य॒मा ||{13/24}{8.25.13}{8.4.5.13}{6.2.23.3}{619, 645, 6593} तत्¦वार्य᳚म्¦वृ॒णी॒म॒हे॒¦वरि॑ष्ठम्¦गो॒प॒यत्य᳚म् | मि॒त्रः¦यत्¦पान्ति॑¦वरु॑णः¦यत्¦अ॒र्य॒मा || |
उ॒त नः॒ सिन्धु॑र॒पां तन्म॒रुत॒स्तद॒श्विना᳚ |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्} इन्द्रो॒ विष्णु᳚र्मी॒ढ्वांसः॑ स॒जोष॑सः ||{14/24}{8.25.14}{8.4.5.14}{6.2.23.4}{620, 645, 6594} उ॒त¦नः॒¦सिन्धुः॑¦अ॒पाम्¦तत्¦म॒रुतः॑¦तत्¦अ॒श्विना᳚ | इन्द्रः॑¦विष्णुः॑¦मी॒ढ्वांसः॑¦स॒ऽजोष॑सः || |
ते हि ष्मा᳚ व॒नुषो॒ नरो॒ऽभिमा᳚तिं॒ कय॑स्य चित् |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्} ति॒ग्मं न क्षोदः॑ प्रति॒घ्नन्ति॒ भूर्ण॑यः ||{15/24}{8.25.15}{8.4.5.15}{6.2.23.5}{621, 645, 6595} ते¦हि¦स्म॒¦व॒नुषः॑¦नरः॑¦अ॒भिऽमा᳚तिम्¦कय॑स्य¦चि॒त् | ति॒ग्मम्¦न¦क्षोदः॑¦प्र॒ति॒ऽघ्नन्ति॑¦भूर्ण॑यः || |
अ॒यमेक॑ इ॒त्था पु॒रूरु च॑ष्टे॒ वि वि॒श्पतिः॑ |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्} तस्य᳚ व्र॒तान्यनु॑ वश्चरामसि ||{16/24}{8.25.16}{8.4.5.16}{6.2.24.1}{622, 645, 6596} अ॒यम्¦एकः॑¦इ॒त्था¦पु॒रु¦उ॒रु¦च॒ष्टे॒¦वि¦वि॒श्पतिः॑ | तस्य॑¦व्र॒तानि॑¦अनु॑¦वः॒¦च॒रा॒म॒सि॒ || |
अनु॒ पूर्वा᳚ण्यो॒क्या᳚ साम्रा॒ज्यस्य॑ सश्चिम |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्} मि॒त्रस्य᳚ व्र॒ता वरु॑णस्य दीर्घ॒श्रुत् ||{17/24}{8.25.17}{8.4.5.17}{6.2.24.2}{623, 645, 6597} अनु॑¦पूर्वा᳚णि¦ओ॒क्या᳚¦सा॒म्ऽरा॒ज्यस्य॑¦स॒श्चि॒म॒ | मि॒त्रस्य॑¦व्र॒ता¦वरु॑णस्य¦दी॒र्घ॒ऽश्रुत् || |
परि॒ यो र॒श्मिना᳚ दि॒वोऽन्ता᳚न्म॒मे पृ॑थि॒व्याः |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्} उ॒भे, आ प॑प्रौ॒ रोद॑सी महि॒त्वा ||{18/24}{8.25.18}{8.4.5.18}{6.2.24.3}{624, 645, 6598} परि॑¦यः¦र॒श्मिना᳚¦दि॒वः¦अन्ता᳚न्¦म॒मे¦पृ॒थि॒व्याः | उ॒भे इति॑¦आ¦प॒प्रौ॒¦रोद॑सी॒ इति॑¦म॒हि॒ऽत्वा || |
उदु॒ ष्य श॑र॒णे दि॒वो ज्योति॑रयंस्त॒ सूर्यः॑ |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्} अ॒ग्निर्न शु॒क्रः स॑मिधा॒न आहु॑तः ||{19/24}{8.25.19}{8.4.5.19}{6.2.24.4}{625, 645, 6599} उत्¦ऊँ॒ इति॑¦स्यः¦श॒र॒णे¦दि॒वः¦ज्योतिः॑¦अ॒यं॒स्त॒¦सूर्यः॑ | अ॒ग्निः¦न¦शु॒क्रः¦स॒म्ऽइ॒धा॒नः¦आऽहु॑तः || |
वचो᳚ दी॒र्घप्र॑सद्म॒नीशे॒ वाज॑स्य॒ गोम॑तः |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्} ईशे॒ हि पि॒त्वो᳚ऽवि॒षस्य॑ दा॒वने᳚ ||{20/24}{8.25.20}{8.4.5.20}{6.2.24.5}{626, 645, 6600} वचः॑¦दी॒र्घऽप्र॑सद्मनि¦ईशे᳚¦वाज॑स्य¦गोऽम॑तः | ईशे᳚¦हि¦पि॒त्वः¦अ॒वि॒षस्य॑¦दा॒वने᳚ || |
तत्सूर्यं॒ रोद॑सी, उ॒भे दो॒षा वस्तो॒रुप॑ ब्रुवे |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्} भो॒जेष्व॒स्माँ, अ॒भ्युच्च॑रा॒ सदा᳚ ||{21/24}{8.25.21}{8.4.5.21}{6.2.25.1}{627, 645, 6601} तत्¦सूर्य᳚म्¦रोद॑सी॒ इति॑¦उ॒भे इति॑¦दो॒षा¦वस्तोः᳚¦उप॑¦ब्रु॒वे॒ | भो॒जेषु॑¦अ॒स्मान्¦अ॒भि¦उत्¦च॒र॒¦सदा᳚ || |
ऋ॒ज्रमु॑क्ष॒ण्याय॑ने रज॒तं हर॑याणे |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्} रथं᳚ यु॒क्तम॑सनाम सु॒षाम॑णि ||{22/24}{8.25.22}{8.4.5.22}{6.2.25.2}{628, 645, 6602} ऋ॒ज्रम्¦उ॒क्ष॒ण्याय॑ने¦र॒ज॒तम्¦हर॑याणे | रथ᳚म्¦यु॒क्तम्¦अ॒स॒ना॒म॒¦सु॒ऽसाम॑नि || |
ता मे॒, अश्व्या᳚नां॒ हरी᳚णां नि॒तोश॑ना |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिग्गर्भा} उ॒तो नु कृत्व्या᳚नां नृ॒वाह॑सा ||{23/24}{8.25.23}{8.4.5.23}{6.2.25.3}{629, 645, 6603} ता¦मे॒¦अश्व्या᳚नाम्¦हरी᳚णाम्¦नि॒ऽतोश॑ना | उ॒तो इति॑¦नु¦कृत्व्या᳚नाम्¦नृ॒ऽवाह॑सा || |
स्मद॑भीशू॒ कशा᳚वन्ता॒ विप्रा॒ नवि॑ष्ठया म॒ती |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्} म॒हो वा॒जिना॒वर्व᳚न्ता॒ सचा᳚सनम् ||{24/24}{8.25.24}{8.4.5.24}{6.2.25.4}{630, 645, 6604} स्मद॑भीशू॒ इति॒ स्मत्।आ॑भीशू¦कशा᳚ऽवन्ता¦विप्रा᳚¦नवि॑ष्ठया¦म॒ती | म॒हः¦वा॒जिनौ᳚¦अर्व᳚न्ता¦सचा᳚¦अ॒स॒न॒म् || |
[26] युवोरुष्विति पंचविंशत्यृचस्य सूक्तस्यांगिरसोव्यश्वोश्विनावंत्यषण्णां वायुरुष्णिक् वाहिष्ठोवामित्यादिचतस्रो गायत्र्यः विंश्येकविंश्यंत्याअनुष्टुभः (व्यश्वोवेति सर्वानुक्रमोक्ता वपिशौनके नव्यश्वस्यैवमुख्यत्वद्योतनादुत्रव्यश्वेमुख्यत्वमादृतंतेनपाक्षिकोविश्वमनाः) | |
यु॒वोरु॒ षू रथं᳚ हुवे स॒धस्तु॑त्याय सू॒रिषु॑ |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्} अतू᳚र्तदक्षा वृषणा वृषण्वसू ||{1/25}{8.26.1}{8.4.6.1}{6.2.26.1}{631, 646, 6605} यु॒वोः¦ऊँ॒ इति॑¦सु¦रथ᳚म्¦हु॒वे॒¦स॒धऽस्तु॑त्याय¦सू॒रिषु॑ | अतू᳚र्तऽदक्षा¦वृ॒ष॒णा॒¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू || |
यु॒वं व॑रो सु॒षाम्णे᳚ म॒हे तने᳚ नासत्या |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्} अवो᳚भिर्याथो वृषणा वृषण्वसू ||{2/25}{8.26.2}{8.4.6.2}{6.2.26.2}{632, 646, 6606} यु॒वम्¦व॒रो॒ इति॑¦सु॒ऽसाम्ने᳚¦म॒हे¦तने᳚¦ना॒स॒त्या॒ | अवः॑ऽभिः¦या॒थः॒¦वृ॒ष॒णा॒¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू || |
ता वा᳚म॒द्य ह॑वामहे ह॒व्येभि᳚र्वाजिनीवसू |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्} पू॒र्वीरि॒ष इ॒षय᳚न्ता॒वति॑ क्ष॒पः ||{3/25}{8.26.3}{8.4.6.3}{6.2.26.3}{633, 646, 6607} ता¦वा॒म्¦अ॒द्य¦ह॒वा॒म॒हे॒¦ह॒व्येभिः॑¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू | पू॒र्वीः¦इ॒षः¦इ॒षय᳚न्तौ¦अति॑¦क्ष॒पः || |
आ वां॒ वाहि॑ष्ठो, अश्विना॒ रथो᳚ यातु श्रु॒तो न॑रा |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्} उप॒ स्तोमा᳚न्तु॒रस्य॑ दर्शथः श्रि॒ये ||{4/25}{8.26.4}{8.4.6.4}{6.2.26.4}{634, 646, 6608} आ¦वा॒म्¦वाहि॑ष्ठः¦अ॒श्वि॒ना॒¦रथः॑¦या॒तु॒¦श्रु॒तः¦न॒रा॒ | उप॑¦स्तोमा᳚न्¦तु॒रस्य॑¦द॒र्श॒थः॒¦श्रि॒ये || |
जु॒हु॒रा॒णा चि॑दश्वि॒ना म᳚न्येथां वृषण्वसू |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्} यु॒वं हि रु॑द्रा॒ पर्ष॑थो॒, अति॒ द्विषः॑ ||{5/25}{8.26.5}{8.4.6.5}{6.2.26.5}{635, 646, 6609} जु॒हु॒रा॒णा¦चि॒त्¦अ॒श्वि॒ना॒¦आ¦म॒न्ये॒था॒म्¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू | यु॒वम्¦हि¦रु॒द्रा॒¦पर्ष॑थः¦अति॑¦द्विषः॑ || |
द॒स्रा हि विश्व॑मानु॒षङ्म॒क्षूभिः॑ परि॒दीय॑थः |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्} धि॒यं॒जि॒न्वा मधु॑वर्णा शु॒भस्पती᳚ ||{6/25}{8.26.6}{8.4.6.6}{6.2.27.1}{636, 646, 6610} द॒स्रा¦हि¦विश्व᳚म्¦आ॒नु॒षक्¦म॒क्षुऽभिः॑¦प॒रि॒ऽदीय॑थः | धि॒य॒म्ऽजि॒न्वा¦मधु॑ऽवर्णा¦शु॒भः¦पती॒ इति॑ || |
उप॑ नो यातमश्विना रा॒या वि॑श्व॒पुषा᳚ स॒ह |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्} म॒घवा᳚ना सु॒वीरा॒वन॑पच्युता ||{7/25}{8.26.7}{8.4.6.7}{6.2.27.2}{637, 646, 6611} उप॑¦नः॒¦या॒त॒म्¦अ॒श्वि॒ना॒¦रा॒या¦वि॒श्व॒ऽपुषा᳚¦स॒ह | म॒घऽवा᳚ना¦सु॒ऽवीरौ᳚¦अन॑पऽच्युता || |
आ मे᳚, अ॒स्य प्र॑ती॒व्य१॑(अ॒)मिन्द्र॑नासत्या गतम् |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्} दे॒वा दे॒वेभि॑र॒द्य स॒चन॑स्तमा ||{8/25}{8.26.8}{8.4.6.8}{6.2.27.3}{638, 646, 6612} आ¦मे॒¦अ॒स्य¦प्र॒ती॒व्य᳚म्¦इन्द्र॑नासत्या¦ग॒त॒म् | दे॒वा¦दे॒वेभिः॑¦अ॒द्य¦स॒चनः॑ऽतमा || |
व॒यं हि वां॒ हवा᳚मह उक्ष॒ण्यन्तो᳚ व्यश्व॒वत् |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्} सु॒म॒तिभि॒रुप॑ विप्रावि॒हा ग॑तम् ||{9/25}{8.26.9}{8.4.6.9}{6.2.27.4}{639, 646, 6613} व॒यम्¦हि¦वा॒म्¦हवा᳚महे¦उ॒क्ष॒ण्यन्तः॑¦व्य॒श्व॒ऽवत् | सु॒म॒तिऽभिः॑¦उप॑¦वि॒प्रौ॒¦इ॒ह¦आ¦ग॒त॒म् || |
अ॒श्विना॒ स्वृ॑षे स्तुहि कु॒वित्ते॒ श्रव॑तो॒ हव᳚म् |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्} नेदी᳚यसः कूळयातः प॒णीँरु॒त ||{10/25}{8.26.10}{8.4.6.10}{6.2.27.5}{640, 646, 6614} अ॒श्विना᳚¦सु¦ऋ॒षे॒¦स्तु॒हि॒¦कु॒वित्¦ते॒¦श्रव॑तः¦हव᳚म् | नेदी᳚यसः¦कू॒ळ॒या॒तः॒¦प॒णीन्¦उ॒त || |
वै॒य॒श्वस्य॑ श्रुतं नरो॒तो मे᳚, अ॒स्य वे᳚दथः |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्} स॒जोष॑सा॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा ||{11/25}{8.26.11}{8.4.6.11}{6.2.28.1}{641, 646, 6615} वै॒य॒श्वस्य॑¦श्रु॒त॒म्¦न॒रा॒¦उ॒तो इति॑¦मे॒¦अ॒स्य¦वे॒द॒थः॒ | स॒ऽजोष॑सा¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा || |
यु॒वाद॑त्तस्य धिष्ण्या यु॒वानी᳚तस्य सू॒रिभिः॑ |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्} अह॑रहर्वृषण॒ मह्यं᳚ शिक्षतम् ||{12/25}{8.26.12}{8.4.6.12}{6.2.28.2}{642, 646, 6616} यु॒वाऽद॑त्तस्य¦धि॒ष्ण्या॒¦यु॒वाऽनी᳚तस्य¦सू॒रिऽभिः॑ | अहः॑।आहः¦वृ॒ष॒णा॒¦मह्य᳚म्¦शि॒क्ष॒त॒म् || |
यो वां᳚ य॒ज्ञेभि॒रावृ॒तोऽधि॑वस्त्रा व॒धूरि॑व |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्} स॒प॒र्यन्ता᳚ शु॒भे च॑क्राते, अ॒श्विना᳚ ||{13/25}{8.26.13}{8.4.6.13}{6.2.28.3}{643, 646, 6617} यः¦वा॒म्¦य॒ज्ञेभिः॑¦आऽवृ॑तः¦अधि॑ऽवस्त्रा¦व॒धूःऽइ᳚व | स॒प॒र्यन्ता᳚¦शु॒भे¦च॒क्रा॒ते॒ इति॑¦अ॒श्विना᳚ || |
यो वा᳚मुरु॒व्यच॑स्तमं॒ चिके᳚तति नृ॒पाय्य᳚म् |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्} व॒र्तिर॑श्विना॒ परि॑ यातमस्म॒यू ||{14/25}{8.26.14}{8.4.6.14}{6.2.28.4}{644, 646, 6618} यः¦वा॒म्¦उ॒रु॒व्यचः॑ऽतमम्¦चिके᳚तति¦नृ॒ऽपाय्य᳚म् | व॒र्तिः¦अ॒श्वि॒ना॒¦परि॑¦या॒त॒म्¦अ॒स्म॒यू इत्य॑स्म॒ऽयू || |
अ॒स्मभ्यं॒ सु वृ॑षण्वसू या॒तं व॒र्तिर्नृ॒पाय्य᳚म् |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्} वि॒षु॒द्रुहे᳚व य॒ज्ञमू᳚हथुर्गि॒रा ||{15/25}{8.26.15}{8.4.6.15}{6.2.28.5}{645, 646, 6619} अ॒स्मभ्य᳚म्¦सु¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू¦या॒तम्¦व॒र्तिः¦नृ॒ऽपाय्य᳚म् | वि॒षु॒द्रुहा᳚ऽइव¦य॒ज्ञम्¦ऊ॒ह॒थुः॒¦गि॒रा || |
वाहि॑ष्ठो वां॒ हवा᳚नां॒ स्तोमो᳚ दू॒तो हु॑वन्नरा |{आंगिरसोव्यश्वः | अश्विनौ | गायत्री} यु॒वाभ्यां᳚ भूत्वश्विना ||{16/25}{8.26.16}{8.4.6.16}{6.2.29.1}{646, 646, 6620} वाहि॑ष्ठः¦वा॒म्¦हवा᳚नाम्¦स्तोमः॑¦दू॒तः¦हु॒व॒त्¦न॒रा॒ | यु॒वाभ्या᳚म्¦भू॒तु॒¦अ॒श्वि॒ना॒ || |
यद॒दो दि॒वो, अ᳚र्ण॒व इ॒षो वा॒ मद॑थो गृ॒हे |{आंगिरसोव्यश्वः | अश्विनौ | गायत्री} श्रु॒तमिन्मे᳚, अमर्त्या ||{17/25}{8.26.17}{8.4.6.17}{6.2.29.2}{647, 646, 6621} यत्¦अ॒दः¦दि॒वः¦अ॒र्ण॒वे¦इ॒षः¦वा॒¦मद॑थः¦गृ॒हे | श्रु॒तम्¦इत्¦मे॒¦अ॒म॒र्त्या॒ || |
उ॒त स्या श्वे᳚त॒याव॑री॒ वाहि॑ष्ठा वां न॒दीना᳚म् |{आंगिरसोव्यश्वः | अश्विनौ | गायत्री} सिन्धु॒र्हिर᳚ण्यवर्तनिः ||{18/25}{8.26.18}{8.4.6.18}{6.2.29.3}{648, 646, 6622} उ॒त¦स्या¦श्वे॒त॒ऽयाव॑री¦वाहि॑ष्ठा¦वा॒म्¦न॒दीना᳚म् | सिन्धुः॑¦हिर᳚ण्यऽवर्तनिः || |
स्मदे॒तया᳚ सुकी॒र्त्याश्वि॑ना श्वे॒तया᳚ धि॒या |{आंगिरसोव्यश्वः | अश्विनौ | गायत्री} वहे᳚थे शुभ्रयावाना ||{19/25}{8.26.19}{8.4.6.19}{6.2.29.4}{649, 646, 6623} स्मत्¦ए॒तया᳚¦सु॒ऽकी॒र्त्या¦अश्वि॑ना¦श्वे॒तया᳚¦धि॒या | वहे᳚थे॒ इति॑¦शु॒भ्र॒ऽया॒वा॒ना॒ || |
यु॒क्ष्वा हि त्वं र॑था॒सहा᳚ यु॒वस्व॒ पोष्या᳚ वसो |{आंगिरसोव्यश्वः | वायुः | अनुष्टुप्} आन्नो᳚ वायो॒ मधु॑ पिबा॒स्माकं॒ सव॒ना ग॑हि ||{20/25}{8.26.20}{8.4.6.20}{6.2.29.5}{650, 646, 6624} यु॒क्ष्व¦हि¦त्वम्¦र॒थ॒ऽसहा᳚¦यु॒वस्व॑¦पोष्या᳚¦व॒सो॒ इति॑ | आत्¦नः॒¦वा॒यो॒ इति॑¦मधु॑¦पि॒ब॒¦अ॒स्माक᳚म्¦सव॑ना¦आ¦ग॒हि॒ || |
तव॑ वायवृतस्पते॒ त्वष्टु॑र्जामातरद्भुत |{आंगिरसोव्यश्वः | वायुः | गायत्री} अवां॒स्या वृ॑णीमहे ||{21/25}{8.26.21}{8.4.6.21}{6.2.30.1}{651, 646, 6625} तव॑¦वा॒यो॒ इति॑¦ऋ॒तः॒प॒ते॒¦त्वष्टुः॑¦जा॒मा॒तः॒¦अ॒द्भु॒त॒ | अवां᳚सि¦आ¦वृ॒णी॒म॒हे॒ || |
त्वष्टु॒र्जामा᳚तरं व॒यमीशा᳚नं रा॒य ई᳚महे |{आंगिरसोव्यश्वः | वायुः | उष्णिक्} सु॒ताव᳚न्तो वा॒युं द्यु॒म्ना जना᳚सः ||{22/25}{8.26.22}{8.4.6.22}{6.2.30.2}{652, 646, 6626} त्वष्टुः॑¦जामा᳚तरम्¦व॒यम्¦ईशा᳚नम्¦रा॒यः¦ई॒म॒हे॒ | सु॒तऽव᳚न्तः¦वा॒युम्¦द्यु॒म्ना¦जना᳚सः || |
वायो᳚ या॒हि शि॒वा दि॒वो वह॑स्वा॒ सु स्वश्व्य᳚म् |{आंगिरसोव्यश्वः | वायुः | उष्णिक्} वह॑स्व म॒हः पृ॑थु॒पक्ष॑सा॒ रथे᳚ ||{23/25}{8.26.23}{8.4.6.23}{6.2.30.3}{653, 646, 6627} वायो॒ इति॑¦या॒हि¦शि॒व॒¦आ¦दि॒वः¦वह॑स्व¦सु¦सु॒।आश्व्य᳚म् | वह॑स्व¦म॒हः¦पृ॒थु॒ऽपक्ष॑सा¦रथे᳚ || |
त्वां हि सु॒प्सर॑स्तमं नृ॒षद॑नेषु हू॒महे᳚ |{आंगिरसोव्यश्वः | वायुः | उष्णिक्} ग्रावा᳚णं॒ नाश्व॑पृष्ठं मं॒हना᳚ ||{24/25}{8.26.24}{8.4.6.24}{6.2.30.4}{654, 646, 6628} त्वाम्¦हि¦सु॒प्सरः॑ऽतमम्¦नृ॒ऽसद॑नेषु¦हू॒महे᳚ | ग्रावा᳚णम्¦न¦अश्व॑ऽपृष्ठम्¦मं॒हना᳚ || |
स त्वं नो᳚ देव॒ मन॑सा॒ वायो᳚ मन्दा॒नो, अ॑ग्रि॒यः |{आंगिरसोव्यश्वः | वायुः | गायत्री} कृ॒धि वाजाँ᳚, अ॒पो धियः॑ ||{25/25}{8.26.25}{8.4.6.25}{6.2.30.5}{655, 646, 6629} सः¦त्वम्¦नः॒¦दे॒व॒¦मन॑सा¦वायो॒ इति॑¦म॒न्दा॒नः¦अ॒ग्रि॒यः | कृ॒धि¦वाजा᳚न्¦अ॒पः¦धियः॑ || |
[27] अग्निरुक्थइति द्वाविंशत्यृचस्य सूक्तस्य वैवस्वतोमनुर्विश्वेदेवाः अयुजोबृहत्योयुजः सतोबृहत्यः | (अग्निरुक्थइत्यादिवैश्वदेवेषुचतुः सूक्तेषु आद्ययोरंत्येचसर्वेविश्वेदेवाएवनात्रभेदः) | |
अ॒ग्निरु॒क्थे पु॒रोहि॑तो॒ ग्रावा᳚णो ब॒र्हिर॑ध्व॒रे |{वैवस्वतोमनुः | विश्वदेवाः | बृहती} ऋ॒चा या᳚मि म॒रुतो॒ ब्रह्म॑ण॒स्पतिं᳚ दे॒वाँ, अवो॒ वरे᳚ण्यम् ||{1/22}{8.27.1}{8.4.7.1}{6.2.31.1}{656, 647, 6630} अ॒ग्निः¦उ॒क्थे¦पु॒रःऽहि॑तः¦ग्रावा᳚णः¦ब॒र्हिः¦अ॒ध्व॒रे | |
आ प॒शुं गा᳚सि पृथि॒वीं वन॒स्पती᳚नु॒षासा॒ नक्त॒मोष॑धीः |{वैवस्वतोमनुः | विश्वदेवाः | सतोबृहती} विश्वे᳚ च नो वसवो विश्ववेदसो धी॒नां भू᳚त प्रावि॒तारः॑ ||{2/22}{8.27.2}{8.4.7.2}{6.2.31.2}{657, 647, 6631} आ¦प॒शुम्¦गा॒सि॒¦पृ॒थि॒वीम्¦वन॒स्पती᳚न्¦उ॒षसा᳚¦नक्त᳚म्¦ओष॑धीः | |
प्र सू न॑ एत्वध्व॒रो॒३॑(ओ॒)ऽग्ना दे॒वेषु॑ पू॒र्व्यः |{वैवस्वतोमनुः | विश्वदेवाः | बृहती} आ॒दि॒त्येषु॒ प्र वरु॑णे धृ॒तव्र॑ते म॒रुत्सु॑ वि॒श्वभा᳚नुषु ||{3/22}{8.27.3}{8.4.7.3}{6.2.31.3}{658, 647, 6632} प्र¦सु¦नः॒¦ए॒तु॒¦अ॒ध्व॒रः¦अ॒ग्ना¦दे॒वेषु॑¦पू॒र्व्यः | |
विश्वे॒ हि ष्मा॒ मन॑वे वि॒श्ववे᳚दसो॒ भुव᳚न् वृ॒धे रि॒शाद॑सः |{वैवस्वतोमनुः | विश्वदेवाः | सतोबृहती} अरि॑ष्टेभिः पा॒युभि᳚र्विश्ववेदसो॒ यन्ता᳚ नोऽवृ॒कं छ॒र्दिः ||{4/22}{8.27.4}{8.4.7.4}{6.2.31.4}{659, 647, 6633} विश्वे᳚¦हि¦स्म॒¦मन॑वे¦वि॒श्वऽवे᳚दसः¦भुव॑न्¦वृ॒धे¦रि॒शाद॑सः | |
आ नो᳚, अ॒द्य सम॑नसो॒ गन्ता॒ विश्वे᳚ स॒जोष॑सः |{वैवस्वतोमनुः | विश्वदेवाः | बृहती} ऋ॒चा गि॒रा मरु॑तो॒ देव्यदि॑ते॒ सद॑ने॒ पस्त्ये᳚ महि ||{5/22}{8.27.5}{8.4.7.5}{6.2.31.5}{660, 647, 6634} आ¦नः॒¦अ॒द्य¦सऽम॑नसः¦गन्त॑¦विश्वे᳚¦स॒ऽजोष॑सः | |
अ॒भि प्रि॒या म॑रुतो॒ या वो॒, अश्व्या᳚ ह॒व्या मि॑त्र प्रया॒थन॑ |{वैवस्वतोमनुः | विश्वदेवाः | सतोबृहती} आ ब॒र्हिरिन्द्रो॒ वरु॑णस्तु॒रा नर॑ आदि॒त्यासः॑ सदन्तु नः ||{6/22}{8.27.6}{8.4.7.6}{6.2.32.1}{661, 647, 6635} अ॒भि¦प्रि॒या¦म॒रु॒तः॒¦या¦वः॒¦अश्व्या᳚¦ह॒व्या¦मि॒त्र॒¦प्र॒ऽया॒थन॑ | |
व॒यं वो᳚ वृ॒क्तब᳚र्हिषो हि॒तप्र॑यस आनु॒षक् |{वैवस्वतोमनुः | विश्वदेवाः | बृहती} सु॒तसो᳚मासो वरुण हवामहे मनु॒ष्वदि॒द्धाग्न॑यः ||{7/22}{8.27.7}{8.4.7.7}{6.2.32.2}{662, 647, 6636} व॒यम्¦वः॒¦वृ॒क्तऽब॑र्हिषः¦हि॒तऽप्र॑यसः¦आ॒नु॒षक् | |
आ प्र या᳚त॒ मरु॑तो॒ विष्णो॒, अश्वि॑ना॒ पूष॒न्माकी᳚नया धि॒या |{वैवस्वतोमनुः | विश्वदेवाः | सतोबृहती} इन्द्र॒ आ या᳚तु प्रथ॒मः स॑नि॒ष्युभि॒र्वृषा॒ यो वृ॑त्र॒हा गृ॒णे ||{8/22}{8.27.8}{8.4.7.8}{6.2.32.3}{663, 647, 6637} आ¦प्र¦या॒त॒¦मरु॑तः¦विष्णो॒ इति॑¦अश्वि॑ना¦पूष॑न्¦माकी᳚नया¦धि॒या | |
वि नो᳚ देवासो, अद्रु॒होऽच्छि॑द्रं॒ शर्म॑ यच्छत |{वैवस्वतोमनुः | विश्वदेवाः | बृहती} न यद्दू॒राद्व॑सवो॒ नू चि॒दन्ति॑तो॒ वरू᳚थमाद॒धर्ष॑ति ||{9/22}{8.27.9}{8.4.7.9}{6.2.32.4}{664, 647, 6638} वि¦नः॒¦दे॒वा॒सः॒¦अ॒द्रु॒हः॒¦अच्छि॑द्रम्¦शर्म॑¦य॒च्छ॒त॒ | |
अस्ति॒ हि वः॑ सजा॒त्यं᳚ रिशादसो॒ देवा᳚सो॒, अस्त्याप्य᳚म् |{वैवस्वतोमनुः | विश्वदेवाः | सतोबृहती} प्र णः॒ पूर्व॑स्मै सुवि॒ताय॑ वोचत म॒क्षू सु॒म्नाय॒ नव्य॑से ||{10/22}{8.27.10}{8.4.7.10}{6.2.32.5}{665, 647, 6639} अस्ति॑¦हि¦वः॒¦स॒ऽजा॒त्य᳚म्¦रि॒शा॒द॒सः॒¦देवा᳚सः¦अस्ति॑¦आप्य᳚म् | |
इ॒दा हि व॒ उप॑स्तुतिमि॒दा वा॒मस्य॑ भ॒क्तये᳚ |{वैवस्वतोमनुः | विश्वदेवाः | बृहती} उप॑ वो विश्ववेदसो नम॒स्युराँ, असृ॒क्ष्यन्या᳚मिव ||{11/22}{8.27.11}{8.4.7.11}{6.2.33.1}{666, 647, 6640} इ॒दा¦हि¦वः॒¦उप॑ऽस्तुतिम्¦इ॒दा¦वा॒मस्य॑¦भ॒क्तये᳚ | |
उदु॒ ष्य वः॑ सवि॒ता सु॑प्रणीत॒योऽस्था᳚दू॒र्ध्वो वरे᳚ण्यः |{वैवस्वतोमनुः | विश्वदेवाः | सतोबृहती} नि द्वि॒पाद॒श्चतु॑ष्पादो, अ॒र्थिनोऽवि॑श्रन् पतयि॒ष्णवः॑ ||{12/22}{8.27.12}{8.4.7.12}{6.2.33.2}{667, 647, 6641} उत्¦ऊँ॒ इति॑¦स्यः¦वः॒¦स॒वि॒ता¦सु॒ऽप्र॒नी॒त॒यः¦अस्था᳚त्¦ऊ॒र्ध्वः¦वरे᳚ण्यः | |
दे॒वंदे᳚वं॒ वोऽव॑से दे॒वंदे᳚वम॒भिष्ट॑ये |{वैवस्वतोमनुः | विश्वदेवाः | बृहती} दे॒वंदे᳚वं हुवेम॒ वाज॑सातये गृ॒णन्तो᳚ दे॒व्या धि॒या ||{13/22}{8.27.13}{8.4.7.13}{6.2.33.3}{668, 647, 6642} दे॒वम्ऽदे᳚वम्¦वः॒¦अव॑से¦दे॒वम्ऽदे᳚वम्¦अ॒भिष्ट॑ये | |
दे॒वासो॒ हि ष्मा॒ मन॑वे॒ सम᳚न्यवो॒ विश्वे᳚ सा॒कं सरा᳚तयः |{वैवस्वतोमनुः | विश्वदेवाः | सतोबृहती} ते नो᳚, अ॒द्य ते, अ॑प॒रं तु॒चे तु नो॒ भव᳚न्तु वरिवो॒विदः॑ ||{14/22}{8.27.14}{8.4.7.14}{6.2.33.4}{669, 647, 6643} दे॒वासः॑¦हि¦स्म॒¦मन॑वे¦सऽम᳚न्यवः¦विश्वे᳚¦सा॒कम्¦सऽरा᳚तयः | |
प्र वः॑ शंसाम्यद्रुहः सं॒स्थ उप॑स्तुतीनाम् |{वैवस्वतोमनुः | विश्वदेवाः | बृहती} न तं धू॒र्तिर्व॑रुण मित्र॒ मर्त्यं॒ यो वो॒ धाम॒भ्योऽवि॑धत् ||{15/22}{8.27.15}{8.4.7.15}{6.2.33.5}{670, 647, 6644} प्र¦वः॒¦शं॒सा॒मि॒¦अ॒द्रु॒हः॒¦स॒म्ऽस्थे¦उप॑ऽस्तुतीनाम् | |
प्र स क्षयं᳚ तिरते॒ वि म॒हीरिषो॒ यो वो॒ वरा᳚य॒ दाश॑ति |{वैवस्वतोमनुः | विश्वदेवाः | सतोबृहती} प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्पर्यरि॑ष्टः॒ सर्व॑ एधते ||{16/22}{8.27.16}{8.4.7.16}{6.2.33.6}{671, 647, 6645} प्र¦सः¦क्षय᳚म्¦ति॒र॒ते॒¦वि¦म॒हीः¦इषः॑¦यः¦वः॒¦वरा᳚य¦दाश॑ति | |
ऋ॒ते स वि᳚न्दते यु॒धः सु॒गेभि᳚र्या॒त्यध्व॑नः |{वैवस्वतोमनुः | विश्वदेवाः | बृहती} अ॒र्य॒मा मि॒त्रो वरु॑णः॒ सरा᳚तयो॒ यं त्राय᳚न्ते स॒जोष॑सः ||{17/22}{8.27.17}{8.4.7.17}{6.2.34.1}{672, 647, 6646} ऋ॒ते¦सः¦वि॒न्द॒ते॒¦यु॒धः¦सु॒ऽगेभिः॑¦या॒ति॒¦अध्व॑नः | |
अज्रे᳚ चिदस्मै कृणुथा॒ न्यञ्च॑नं दु॒र्गे चि॒दा सु॑सर॒णम् |{वैवस्वतोमनुः | विश्वदेवाः | सतोबृहती} ए॒षा चि॑दस्माद॒शनिः॑ प॒रो नु सास्रे᳚धन्ती॒ वि न॑श्यतु ||{18/22}{8.27.18}{8.4.7.18}{6.2.34.2}{673, 647, 6647} अज्रे᳚¦चि॒त्¦अ॒स्मै॒¦कृ॒णु॒थ॒¦नि॒।आंच॑नम्¦दुः॒ऽगे¦चि॒त्¦आ¦सु॒ऽस॒र॒णम् | |
यद॒द्य सूर्य॑ उद्य॒ति प्रिय॑क्षत्रा, ऋ॒तं द॒ध |{वैवस्वतोमनुः | विश्वदेवाः | बृहती} यन्नि॒म्रुचि॑ प्र॒बुधि॑ विश्ववेदसो॒ यद्वा᳚ म॒ध्यंदि॑ने दि॒वः ||{19/22}{8.27.19}{8.4.7.19}{6.2.34.3}{674, 647, 6648} यत्¦अ॒द्य¦सूर्ये᳚¦उ॒त्ऽय॒ति¦प्रिय॑ऽक्षत्राः¦ऋ॒तम्¦द॒ध | |
यद्वा᳚भिपि॒त्वे, अ॑सुरा, ऋ॒तं य॒ते छ॒र्दिर्ये॒म वि दा॒शुषे᳚ |{वैवस्वतोमनुः | विश्वदेवाः | सतोबृहती} व॒यं तद्वो᳚ वसवो विश्ववेदस॒ उप॑ स्थेयाम॒ मध्य॒ आ ||{20/22}{8.27.20}{8.4.7.20}{6.2.34.4}{675, 647, 6649} यत्¦वा॒¦अ॒भि॒ऽपि॒त्वे¦अ॒सु॒राः॒¦ऋ॒तम्¦य॒ते¦छ॒र्दिः¦ये॒म¦वि¦दा॒शुषे᳚ | |
यद॒द्य सूर॒ उदि॑ते॒ यन्म॒ध्यंदि॑न आ॒तुचि॑ |{वैवस्वतोमनुः | विश्वदेवाः | बृहती} वा॒मं ध॒त्थ मन॑वे विश्ववेदसो॒ जुह्वा᳚नाय॒ प्रचे᳚तसे ||{21/22}{8.27.21}{8.4.7.21}{6.2.34.5}{676, 647, 6650} यत्¦अ॒द्य¦सूरे᳚¦उत्ऽइ᳚ते¦यत्¦म॒ध्यंदि॑ने¦आ॒ऽतुचि॑ | |
व॒यं तद्वः॑ सम्राज॒ आ वृ॑णीमहे पु॒त्रो न ब॑हु॒पाय्य᳚म् |{वैवस्वतोमनुः | विश्वदेवाः | सतोबृहती} अ॒श्याम॒ तदा᳚दित्या॒ जुह्व॑तो ह॒विर्येन॒ वस्यो॒ऽनशा᳚महै ||{22/22}{8.27.22}{8.4.7.22}{6.2.34.6}{677, 647, 6651} व॒यम्¦तत्¦वः॒¦स॒म्ऽरा॒जः॒¦आ¦वृ॒णी॒म॒हे॒¦पु॒त्रः¦न¦ब॒हु॒ऽपाय्य᳚म् | |
[28] येत्रिंशतीति पंचर्चस्य सूक्तस्य वैवस्वतोमनुर्विश्वेदेवागायत्री चतुर्थीपुरउष्णिक् | |
ये त्रिं॒शति॒ त्रय॑स्प॒रो दे॒वासो᳚ ब॒र्हिरास॑दन् |{वैवस्वतोमनुः | विश्वदेवाः | गायत्री} वि॒दन्नह॑ द्वि॒तास॑नन् ||{1/5}{8.28.1}{8.4.8.1}{6.2.35.1}{678, 648, 6652} ये¦त्रिं॒शति॑¦त्रयः॑¦प॒रः¦दे॒वासः॑¦ब॒र्हिः¦आ¦अस॑दन् | वि॒दन्¦अह॑¦द्वि॒ता¦अ॒स॒न॒न् || |
वरु॑णो मि॒त्रो, अ᳚र्य॒मा स्मद्रा᳚तिषाचो, अ॒ग्नयः॑ |{वैवस्वतोमनुः | विश्वदेवाः | गायत्री} पत्नी᳚वन्तो॒ वष॑ट्कृताः ||{2/5}{8.28.2}{8.4.8.2}{6.2.35.2}{679, 648, 6653} वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा¦स्मद्रा᳚तिऽसाचः¦अ॒ग्नयः॑ | पत्नी᳚ऽवन्तः¦वष॑ट्ऽकृटाः || |
ते नो᳚ गो॒पा, अ॑पा॒च्यास्त उद॒क्त इ॒त्था न्य॑क् |{वैवस्वतोमनुः | विश्वदेवाः | गायत्री} पु॒रस्ता॒त्सर्व॑या वि॒शा ||{3/5}{8.28.3}{8.4.8.3}{6.2.35.3}{680, 648, 6654} ते¦नः॒¦गो॒पाः¦अ॒पा॒च्याः¦ते¦उद॑क्¦ते¦इ॒त्था¦न्य॑क् | पु॒रस्ता᳚त्¦सर्व॑या¦वि॒शा || |
यथा॒ वश᳚न्ति दे॒वास्तथेद॑स॒त्तदे᳚षां॒ नकि॒रा मि॑नत् |{वैवस्वतोमनुः | विश्वदेवाः | पुर उष्णिक्} अरा᳚वा च॒न मर्त्यः॑ ||{4/5}{8.28.4}{8.4.8.4}{6.2.35.4}{681, 648, 6655} यथा᳚¦वश᳚न्ति¦दे॒वाः¦तथा᳚¦इत्¦अ॒स॒त्¦तत्¦ए॒षा॒म्¦नकिः॑¦आ¦मि॒न॒त् | अरा᳚वा¦च॒न¦मर्त्यः॑ || |
स॒प्ता॒नां स॒प्त ऋ॒ष्टयः॑ स॒प्त द्यु॒म्नान्ये᳚षाम् |{वैवस्वतोमनुः | विश्वदेवाः | गायत्री} स॒प्तो, अधि॒ श्रियो᳚ धिरे ||{5/5}{8.28.5}{8.4.8.5}{6.2.35.5}{682, 648, 6656} स॒प्ता॒नाम्¦स॒प्त¦ऋ॒ष्टयः॑¦स॒प्त¦द्यु॒म्नानि॑¦ए॒षा॒म् | स॒प्तो इति॑¦अधि॑¦श्रियः॑¦धि॒रे॒ || |
[29] बभ्रुरेकइति दशर्चस्य सूक्तस्य वैवस्वतो मनुर्विश्वेदेवाद्विपदा विराट् | (भेदपक्षे - सोमः १ अग्निः १ त्वष्टा १ इंद्रः १ रुद्रः १ पूषा १ विष्णुः १ अश्विनौ १ मित्रावरुणौ १ अश्विनौ १ एवंदश । अस्मिन्मारीचः कश्यपर्षिः पाक्षिकः) | |
ब॒भ्रुरेको॒ विषु॑णः सू॒नरो॒ युवा॒ञ्ज्य᳚ङ्क्ते हिर॒ण्यय᳚म् ||{वैवस्वतोमनुः | विश्वदेवाः | द्विपदाविराट्}{1/10}{8.29.1}{8.4.9.1}{6.2.36.1}{683, 649, 6657} ब॒भ्रुः¦एकः॑¦विषु॑णः¦सू॒नरः॑¦युवा᳚¦अं॒जि¦अ॒ङ्क्ते॒¦हि॒र॒ण्यय᳚म् || |
योनि॒मेक॒ आ स॑साद॒ द्योत॑नो॒ऽन्तर्दे॒वेषु॒ मेधि॑रः ||{वैवस्वतोमनुः | विश्वदेवाः | द्विपदाविराट्}{2/10}{8.29.2}{8.4.9.2}{6.2.36.2}{684, 649, 6658} योनि᳚म्¦एकः॑¦आ¦स॒सा॒द॒¦द्योत॑नः¦अ॒न्तः¦दे॒वेषु॑¦मेधि॑रः || |
वाशी॒मेको᳚ बिभर्ति॒ हस्त॑ आय॒सीम॒न्तर्दे॒वेषु॒ निध्रु॑विः ||{वैवस्वतोमनुः | विश्वदेवाः | द्विपदाविराट्}{3/10}{8.29.3}{8.4.9.3}{6.2.36.3}{685, 649, 6659} वाशी᳚म्¦एकः॑¦बि॒भ॒र्ति॒¦हस्ते᳚¦आ॒य॒सीम्¦अ॒न्तः¦दे॒वेषु॑¦निऽध्रु॑विः || |
वज्र॒मेको᳚ बिभर्ति॒ हस्त॒ आहि॑तं॒ तेन॑ वृ॒त्राणि॑ जिघ्नते ||{वैवस्वतोमनुः | विश्वदेवाः | द्विपदाविराट्}{4/10}{8.29.4}{8.4.9.4}{6.2.36.4}{686, 649, 6660} वज्र᳚म्¦एकः॑¦बि॒भ॒र्ति॒¦हस्ते᳚¦आऽहि॑तम्¦तेन॑¦वृ॒त्राणि॑¦जि॒घ्न॒ते॒ || |
ति॒ग्ममेको᳚ बिभर्ति॒ हस्त॒ आयु॑धं॒ शुचि॑रु॒ग्रो जला᳚षभेषजः ||{वैवस्वतोमनुः | विश्वदेवाः | द्विपदाविराट्}{5/10}{8.29.5}{8.4.9.5}{6.2.36.5}{687, 649, 6661} ति॒ग्मम्¦एकः॑¦बि॒भ॒र्ति॒¦हस्ते᳚¦आयु॑धम्¦शुचिः॑¦उ॒ग्रः¦जला᳚षऽभेषजः || |
प॒थ एकः॑ पीपाय॒ तस्क॑रो यथाँ, ए॒ष वे᳚द निधी॒नाम् ||{वैवस्वतोमनुः | विश्वदेवाः | द्विपदाविराट्}{6/10}{8.29.6}{8.4.9.6}{6.2.36.6}{688, 649, 6662} प॒थः¦एकः॑¦पी॒पा॒य॒¦तस्क॑रः¦य॒था॒¦ए॒षः¦वे॒द॒¦नि॒ऽधी॒नाम् || |
त्रीण्येक॑ उरुगा॒यो वि च॑क्रमे॒ यत्र॑ दे॒वासो॒ मद᳚न्ति ||{वैवस्वतोमनुः | विश्वदेवाः | द्विपदाविराट्}{7/10}{8.29.7}{8.4.9.7}{6.2.36.7}{689, 649, 6663} त्रीणि॑¦एकः॑¦उ॒रु॒ऽगा॒यः¦वि¦च॒क्र॒मे॒¦यत्र॑¦दे॒वासः॑¦मद᳚न्ति || |
विभि॒र्द्वा च॑रत॒ एक॑या स॒ह प्र प्र॑वा॒सेव॑ वसतः ||{वैवस्वतोमनुः | विश्वदेवाः | द्विपदाविराट्}{8/10}{8.29.8}{8.4.9.8}{6.2.36.8}{690, 649, 6664} विऽभिः॑¦द्वा¦च॒र॒तः॒¦एक॑या¦स॒ह¦प्र¦प्र॒वा॒साऽइ᳚व¦व॒स॒तः॒ || |
सदो॒ द्वा च॑क्राते, उप॒मा दि॒वि स॒म्राजा᳚ स॒र्पिरा᳚सुती ||{वैवस्वतोमनुः | विश्वदेवाः | द्विपदाविराट्}{9/10}{8.29.9}{8.4.9.9}{6.2.36.9}{691, 649, 6665} सदः॑¦द्वा¦च॒क्रा॒ते॒ इति॑¦उ॒प॒ऽमा¦दि॒वि¦स॒म्ऽराजा᳚¦स॒र्पिरा᳚सुती॒ इति॑ स॒र्पिःऽआ᳚सुती || |
अर्च᳚न्त॒ एके॒ महि॒ साम॑ मन्वत॒ तेन॒ सूर्य॑मरोचयन् ||{वैवस्वतोमनुः | विश्वदेवाः | द्विपदाविराट्}{10/10}{8.29.10}{8.4.9.10}{6.2.36.10}{692, 649, 6666} अर्च᳚न्तः¦एके᳚¦महि॑¦साम॑¦म॒न्व॒त॒¦तेन॑¦सूर्य᳚म्¦अ॒रो॒च॒य॒न् || |
[30] नहिवैति चतुरृचस्य सूक्तस्य वैवस्वतोमनुर्विश्वेदेवागायत्री पुरउष्णिग्बृहत्यनुष्टुभः | |
न॒हि वो॒, अस्त्य॑र्भ॒को देवा᳚सो॒ न कु॑मार॒कः |{वैवस्वतोमनुः | विश्वदेवाः | गायत्री} विश्वे᳚ स॒तोम॑हान्त॒ इत् ||{1/4}{8.30.1}{8.4.10.1}{6.2.37.1}{693, 650, 6667} न॒हि¦वः॒¦अस्ति॑¦अ॒र्भ॒कः¦देवा᳚सः¦न¦कु॒मा॒र॒कः | विश्वे᳚¦स॒तःऽम॑हान्तः¦इत् || |
इति॑ स्तु॒तासो᳚, असथा रिशादसो॒ ये स्थ त्रय॑श्च त्रिं॒शच्च॑ |{वैवस्वतोमनुः | विश्वदेवाः | पुर उष्णिक्} मनो᳚र्देवा यज्ञियासः ||{2/4}{8.30.2}{8.4.10.2}{6.2.37.2}{694, 650, 6668} इति॑¦स्तु॒तासः॑¦अ॒स॒थ॒¦रि॒शा॒द॒सः॒¦ये¦स्थ¦त्रयः॑¦च॒¦त्रिं॒शत्¦च॒ | मनोः᳚¦दे॒वाः॒¦य॒ज्ञि॒या॒सः॒ || |
ते न॑स्त्राध्वं॒ ते᳚ऽवत॒ त उ॑ नो॒, अधि॑ वोचत |{वैवस्वतोमनुः | विश्वदेवाः | बृहती} मा नः॑ प॒थः पित्र्या᳚न्मान॒वादधि॑ दू॒रं नै᳚ष्ट परा॒वतः॑ ||{3/4}{8.30.3}{8.4.10.3}{6.2.37.3}{695, 650, 6669} ते¦नः॒¦त्रा॒ध्व॒म्¦ते॒¦अ॒व॒त॒¦ते¦ऊँ॒ इति॑¦नः॒¦अधि॑¦वो॒च॒त॒ | |
ये दे᳚वास इ॒ह स्थन॒ विश्वे᳚ वैश्वान॒रा, उ॒त |{वैवस्वतोमनुः | विश्वदेवाः | अनुष्टुप्} अ॒स्मभ्यं॒ शर्म॑ स॒प्रथो॒ गवेऽश्वा᳚य यच्छत ||{4/4}{8.30.4}{8.4.10.4}{6.2.37.4}{696, 650, 6670} ये¦दे॒वा॒सः॒¦इ॒ह¦स्थन॑¦विश्वे᳚¦वै॒श्वा॒न॒राः¦उ॒त | अ॒स्मभ्य᳚म्¦शर्म॑¦स॒ऽप्रथः॑¦गवे᳚¦अश्वा᳚य¦य॒च्छ॒त॒ || |
[31] योयजातीत्यष्टादशर्चस्य सूक्तस्य वैवस्वतोमनुः यज्ञोदेवतातृतीयादिद्वयोर्यजमानः पंचम्यादीनांदंपती दशम्यादिनवानांदंपत्याशिषोगायत्री नवमीचतुर्दश्यावनुष्टुभौ दशमीपादनिचृदंत्याश्चतस्रः पंक्त्यः (प्रथमयोर्द्वयोरिंद्रो देवतेति केचित् दशम्या यजमानपत्न्याशीः ततोद्वयोः पूषा ततएकस्यामित्रार्यमवरुणाः ततएकस्याअग्निः अंत्यचतस्रणां यजमानइति शौनकाद्यभिप्रायेणकेचिदाहुः) | |
यो यजा᳚ति॒ यजा᳚त॒ इत्सु॒नव॑च्च॒ पचा᳚ति च |{वैवस्वतोमनुः | यज्ञः यजमानश्च | गायत्री} ब्र॒ह्मेदिन्द्र॑स्य चाकनत् ||{1/18}{8.31.1}{8.5.1.1}{6.2.38.1}{697, 651, 6671} यः¦यजा᳚ति¦यजा᳚ते¦इत्¦सु॒नव॑त्¦च॒¦पचा᳚ति¦च॒ | ब्र॒ह्मा¦इत्¦इन्द्र॑स्य¦चा॒क॒न॒त् || |
पु॒रो॒ळाशं॒ यो, अ॑स्मै॒ सोमं॒ रर॑त आ॒शिर᳚म् |{वैवस्वतोमनुः | यज्ञः यजमानश्च | गायत्री} पादित्तं श॒क्रो, अंह॑सः ||{2/18}{8.31.2}{8.5.1.2}{6.2.38.2}{698, 651, 6672} पु॒रो॒ळाश᳚म्¦यः¦अ॒स्मै॒¦सोम᳚म्¦रर॑ते¦आ॒ऽशिर᳚म् | पात्¦इत्¦तम्¦श॒क्रः¦अंह॑सः || |
तस्य॑ द्यु॒माँ, अ॑स॒द्रथो᳚ दे॒वजू᳚तः॒ स शू᳚शुवत् |{वैवस्वतोमनुः | यज्ञः यजमानश्च | गायत्री} विश्वा᳚ व॒न्वन्न॑मि॒त्रिया᳚ ||{3/18}{8.31.3}{8.5.1.3}{6.2.38.3}{699, 651, 6673} तस्य॑¦द्यु॒ऽमान्¦अ॒स॒त्¦रथः॑¦दे॒वऽजू᳚तः¦सः¦शू॒शु॒व॒त् | विश्वा᳚¦व॒न्वन्¦अ॒मि॒त्रिया᳚ || |
अस्य॑ प्र॒जाव॑ती गृ॒हेऽस॑श्चन्ती दि॒वेदि॑वे |{वैवस्वतोमनुः | यज्ञः यजमानश्च | गायत्री} इळा᳚ धेनु॒मती᳚ दुहे ||{4/18}{8.31.4}{8.5.1.4}{6.2.38.4}{700, 651, 6674} अस्य॑¦प्र॒जाऽव॑ती¦गृ॒हे¦अस॑श्चन्ती¦दि॒वेऽदि॑वे | इळा᳚¦धे॒नु॒ऽमती᳚¦दु॒हे॒ || |
या दम्प॑ती॒ सम॑नसा सुनु॒त आ च॒ धाव॑तः |{वैवस्वतोमनुः | दम्पती | गायत्री} देवा᳚सो॒ नित्य॑या॒शिरा᳚ ||{5/18}{8.31.5}{8.5.1.5}{6.2.38.5}{701, 651, 6675} या¦दंप॑ती॒ इति॒ दम्ऽप॑ती¦सऽम॑नसा¦सु॒नु॒तः¦आ¦च॒¦धाव॑तः | देवा᳚सः¦नित्य॑या¦आ॒ऽशिरा᳚ || |
प्रति॑ प्राश॒व्याँ᳚, इतः स॒म्यञ्चा᳚ ब॒र्हिरा᳚शाते |{वैवस्वतोमनुः | दम्पती | गायत्री} न ता वाजे᳚षु वायतः ||{6/18}{8.31.6}{8.5.1.6}{6.2.39.1}{702, 651, 6676} प्रति॑¦प्रा॒श॒व्या᳚न्¦इ॒तः॒¦स॒म्यंचा᳚¦ब॒र्हिः¦आ॒शा॒ते॒ इति॑ | न¦ता¦वाजे᳚षु¦वा॒य॒तः॒ || |
न दे॒वाना॒मपि॑ ह्नुतः सुम॒तिं न जु॑गुक्षतः |{वैवस्वतोमनुः | दम्पती | गायत्री} श्रवो᳚ बृ॒हद्वि॑वासतः ||{7/18}{8.31.7}{8.5.1.7}{6.2.39.2}{703, 651, 6677} न¦दे॒वाना᳚म्¦अपि॑¦ह्नु॒तः¦सु॒ऽम॒तिम्¦न¦जु॒घु॒क्ष॒तः॒ | श्रवः॑¦बृ॒हत्¦वि॒वा॒स॒तः॒ || |
पु॒त्रिणा॒ ता कु॑मा॒रिणा॒ विश्व॒मायु॒र्व्य॑श्नुतः |{वैवस्वतोमनुः | दम्पती | गायत्री} उ॒भा हिर᳚ण्यपेशसा ||{8/18}{8.31.8}{8.5.1.8}{6.2.39.3}{704, 651, 6678} पु॒त्रिणा᳚¦ता¦कु॒मा॒रिणा᳚¦विश्व᳚म्¦आयुः॑¦वि¦अ॒श्नु॒तः॒ | उ॒भा¦हिर᳚ण्यऽपेशसा || |
वी॒तिहो᳚त्रा कृ॒तद्व॑सू दश॒स्यन्ता॒मृता᳚य॒ कम् |{वैवस्वतोमनुः | दम्पती | अनुष्टुप्} समूधो᳚ रोम॒शं ह॑तो दे॒वेषु॑ कृणुतो॒ दुवः॑ ||{9/18}{8.31.9}{8.5.1.9}{6.2.39.4}{705, 651, 6679} वी॒तिऽहो᳚त्रा¦कृ॒तद्व॑सू॒ इति॑ कृ॒तत्ऽव॑सू¦द॒श॒स्यन्ता᳚¦अ॒मृता᳚य¦कम् | सम्¦ऊधः॑¦रो॒म॒शम्¦ह॒तः॒¦दे॒वेषु॑¦कृ॒णु॒तः॒¦दुवः॑ || |
आ शर्म॒ पर्व॑तानां वृणी॒महे᳚ न॒दीना᳚म् |{वैवस्वतोमनुः | दम्पत्याशिषः | गायत्री} आ विष्णोः᳚ सचा॒भुवः॑ ||{10/18}{8.31.10}{8.5.1.10}{6.2.39.5}{706, 651, 6680} आ¦शर्म॑¦पर्व॑तानाम्¦वृ॒णी॒महे᳚¦न॒दीना᳚म् | आ¦विष्णोः᳚¦स॒चा॒ऽभुवः॑ || |
ऐतु॑ पू॒षा र॒यिर्भगः॑ स्व॒स्ति स᳚र्व॒धात॑मः |{वैवस्वतोमनुः | दम्पत्याशिषः | गायत्री} उ॒रुरध्वा᳚ स्व॒स्तये᳚ ||{11/18}{8.31.11}{8.5.1.11}{6.2.40.1}{707, 651, 6681} आ¦ए॒तु॒¦पू॒षा¦र॒यिः¦भगः॑¦स्व॒स्ति¦स॒र्व॒ऽधात॑मः | उ॒रुः¦अध्वा᳚¦स्व॒स्तये᳚ || |
अ॒रम॑तिरन॒र्वणो॒ विश्वो᳚ दे॒वस्य॒ मन॑सा |{वैवस्वतोमनुः | दम्पत्याशिषः | गायत्री} आ॒दि॒त्याना᳚मने॒ह इत् ||{12/18}{8.31.12}{8.5.1.12}{6.2.40.2}{708, 651, 6682} अ॒रम॑तिः¦अ॒न॒र्वणः॑¦विश्वः॑¦दे॒वस्य॑¦मन॑सा | आ॒दि॒त्याना᳚म्¦अ॒ने॒हः¦इत् || |
यथा᳚ नो मि॒त्रो, अ᳚र्य॒मा वरु॑णः॒ सन्ति॑ गो॒पाः |{वैवस्वतोमनुः | दम्पत्याशिषः | गायत्री} सु॒गा, ऋ॒तस्य॒ पन्थाः᳚ ||{13/18}{8.31.13}{8.5.1.13}{6.2.40.3}{709, 651, 6683} यथा᳚¦नः॒¦मि॒त्रः¦अ॒र्य॒मा¦वरु॑णः¦सन्ति॑¦गो॒पाः | सु॒ऽगाः¦ऋ॒तस्य॑¦पन्थाः᳚ || |
अ॒ग्निं वः॑ पू॒र्व्यं गि॒रा दे॒वमी᳚ळे॒ वसू᳚नाम् |{वैवस्वतोमनुः | दम्पत्याशिषः | अनुष्टुप्} स॒प॒र्यन्तः॑ पुरुप्रि॒यं मि॒त्रं न क्षे᳚त्र॒साध॑सम् ||{14/18}{8.31.14}{8.5.1.14}{6.2.40.4}{710, 651, 6684} अ॒ग्निम्¦वः॒¦पू॒र्व्यम्¦गि॒रा¦दे॒वम्¦ई॒ळे॒¦वसू᳚नाम् | स॒प॒र्यन्तः॑¦पु॒रु॒ऽप्रि॒यम्¦मि॒त्रम्¦न¦क्षे॒त्र॒ऽसाध॑सम् || |
म॒क्षू दे॒वव॑तो॒ रथः॒ शूरो᳚ वा पृ॒त्सु कासु॑ चित् |{वैवस्वतोमनुः | दम्पत्याशिषः | पङ्क्तिः} दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ||{15/18}{8.31.15}{8.5.1.15}{6.2.40.5}{711, 651, 6685} म॒क्षु¦दे॒वऽव॑तः¦रथः॑¦शूरः॑¦वा॒¦पृ॒त्ऽसु¦कासु॑¦चि॒त् | |
न य॑जमान रिष्यसि॒ न सु᳚न्वान॒ न दे᳚वयो |{वैवस्वतोमनुः | दम्पत्याशिषः | पङ्क्तिः} दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ||{16/18}{8.31.16}{8.5.1.16}{6.2.40.6}{712, 651, 6686} न¦य॒ज॒मा॒न॒¦रि॒ष्य॒सि॒¦न¦सु॒न्वा॒न॒¦न¦दे॒व॒यो॒ इति॑ देवऽयो | |
नकि॒ष्टं कर्म॑णा नश॒न्न प्र यो᳚ष॒न्न यो᳚षति |{वैवस्वतोमनुः | दम्पत्याशिषः | पङ्क्तिः} दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ||{17/18}{8.31.17}{8.5.1.17}{6.2.40.7}{713, 651, 6687} नकिः॑¦तम्¦कर्म॑णा¦न॒श॒त्¦न¦प्र¦यो॒ष॒त्¦न¦यो॒ष॒ति॒ | |
अस॒दत्र॑ सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्य᳚म् |{वैवस्वतोमनुः | दम्पत्याशिषः | पङ्क्तिः} दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ||{18/18}{8.31.18}{8.5.1.18}{6.2.40.8}{714, 651, 6688} अस॑त्¦अत्र॑¦सु॒ऽवीर्य᳚म्¦उ॒त¦त्यत्¦आ॒शु॒।आश्व्य᳚म् | |
[32] प्रकृतानीति त्रिंशदृचस्य सूक्तस्य काण्वोमेधातिथिरिंद्रोगायत्री | |
प्र कृ॒तान्यृ॑जी॒षिणः॒ कण्वा॒, इन्द्र॑स्य॒ गाथ॑या |{काण्वो मेधातिथि | इन्द्रः | गायत्री} मदे॒ सोम॑स्य वोचत ||{1/30}{8.32.1}{8.5.2.1}{6.3.1.1}{715, 652, 6689} प्र¦कृ॒तानि॑¦ऋ॒जी॒षिणः॑¦कण्वाः᳚¦इन्द्र॑स्य¦गाथ॑या | मदे᳚¦सोम॑स्य¦वो॒च॒त॒ || |
यः सृबि᳚न्द॒मन॑र्शनिं॒ पिप्रुं᳚ दा॒सम॑ही॒शुव᳚म् |{काण्वो मेधातिथि | इन्द्रः | गायत्री} वधी᳚दु॒ग्रो रि॒णन्न॒पः ||{2/30}{8.32.2}{8.5.2.2}{6.3.1.2}{716, 652, 6690} यः¦सृबि᳚न्दम्¦अन॑र्शनिम्¦पिप्रु᳚म्¦दा॒सम्¦अ॒ही॒शुव᳚म् | वधी᳚त्¦उ॒ग्रः¦रि॒णन्¦अ॒पः || |
न्यर्बु॑दस्य वि॒ष्टपं᳚ व॒र्ष्माणं᳚ बृह॒तस्ति॑र |{काण्वो मेधातिथि | इन्द्रः | गायत्री} कृ॒षे तदि᳚न्द्र॒ पौंस्य᳚म् ||{3/30}{8.32.3}{8.5.2.3}{6.3.1.3}{717, 652, 6691} नि¦अर्बु॑दस्य¦वि॒ष्टप᳚म्¦व॒र्ष्माण᳚म्¦बृ॒ह॒तः¦ति॒र॒ | कृ॒षे¦तत्¦इ॒न्द्र॒¦पौंस्य᳚म् || |
प्रति॑ श्रु॒ताय॑ वो धृ॒षत् तूर्णा᳚शं॒ न गि॒रेरधि॑ |{काण्वो मेधातिथि | इन्द्रः | गायत्री} हु॒वे सु॑शि॒प्रमू॒तये᳚ ||{4/30}{8.32.4}{8.5.2.4}{6.3.1.4}{718, 652, 6692} प्रति॑¦श्रु॒ताय॑¦वः॒¦धृ॒षत्¦तूर्णा᳚शम्¦न¦गि॒रेः¦अधि॑ | हु॒वे¦सु॒ऽशि॒प्रम्¦ऊ॒तये᳚ || |
स गोरश्व॑स्य॒ वि व्र॒जं म᳚न्दा॒नः सो॒म्येभ्यः॑ |{काण्वो मेधातिथि | इन्द्रः | गायत्री} पुरं॒ न शू᳚र दर्षसि ||{5/30}{8.32.5}{8.5.2.5}{6.3.1.5}{719, 652, 6693} सः¦गोः¦अश्व॑स्य¦वि¦व्र॒जम्¦म॒न्दा॒नः¦सो॒म्येभ्यः॑ | पुर᳚म्¦न¦शू॒र॒¦द॒र्ष॒सि॒ || |
यदि॑ मे रा॒रणः॑ सु॒त उ॒क्थे वा॒ दध॑से॒ चनः॑ |{काण्वो मेधातिथि | इन्द्रः | गायत्री} आ॒रादुप॑ स्व॒धा ग॑हि ||{6/30}{8.32.6}{8.5.2.6}{6.3.2.1}{720, 652, 6694} यदि॑¦मे॒¦र॒रणः॑¦सु॒ते¦उ॒क्थे¦वा॒¦दध॑से¦चनः॑ | आ॒रात्¦उप॑¦स्व॒धा¦आ¦ग॒हि॒ || |
व॒यं घा᳚ ते॒, अपि॑ ष्मसि स्तो॒तार॑ इन्द्र गिर्वणः |{काण्वो मेधातिथि | इन्द्रः | गायत्री} त्वं नो᳚ जिन्व सोमपाः ||{7/30}{8.32.7}{8.5.2.7}{6.3.2.2}{721, 652, 6695} व॒यम्¦घ॒¦ते॒¦अपि॑¦स्म॒सि॒¦स्तो॒तारः॑¦इ॒न्द्र॒¦गि॒र्व॒णः॒ | त्वम्¦नः॒¦जि॒न्व॒¦सो॒म॒ऽपाः॒ || |
उ॒त नः॑ पि॒तुमा भ॑र संररा॒णो, अवि॑क्षितम् |{काण्वो मेधातिथि | इन्द्रः | गायत्री} मघ॑व॒न् भूरि॑ ते॒ वसु॑ ||{8/30}{8.32.8}{8.5.2.8}{6.3.2.3}{722, 652, 6696} उ॒त¦नः॒¦पि॒तुम्¦आ¦भ॒र॒¦स॒म्ऽर॒रा॒णः¦अवि॑ऽक्षितम् | मघ॑ऽवन्¦भूरि॑¦ते॒¦वसु॑ || |
उ॒त नो॒ गोम॑तस्कृधि॒ हिर᳚ण्यवतो, अ॒श्विनः॑ |{काण्वो मेधातिथि | इन्द्रः | गायत्री} इळा᳚भिः॒ सं र॑भेमहि ||{9/30}{8.32.9}{8.5.2.9}{6.3.2.4}{723, 652, 6697} उ॒त¦नः॒¦गोऽम॑तः¦कृ॒धि॒¦हिर᳚ण्यऽवतः¦अ॒श्विनः॑ | इळा᳚भिः¦सम्¦र॒भे॒म॒हि॒ || |
बृ॒बदु॑क्थं हवामहे सृ॒प्रक॑रस्नमू॒तये᳚ |{काण्वो मेधातिथि | इन्द्रः | गायत्री} साधु॑ कृ॒ण्वन्त॒मव॑से ||{10/30}{8.32.10}{8.5.2.10}{6.3.2.5}{724, 652, 6698} बृ॒बत्।औ᳚क्थम्¦ह॒वा॒म॒हे॒¦सृ॒प्रऽक॑रस्नम्¦ऊ॒तये᳚ | साधु॑¦कृ॒ण्वन्त᳚म्¦अव॑से || |
यः सं॒स्थे चि॑च्छ॒तक्र॑तु॒रादीं᳚ कृ॒णोति॑ वृत्र॒हा |{काण्वो मेधातिथि | इन्द्रः | गायत्री} ज॒रि॒तृभ्यः॑ पुरू॒वसुः॑ ||{11/30}{8.32.11}{8.5.2.11}{6.3.3.1}{725, 652, 6699} यः¦स॒म्ऽस्थे¦चि॒त्¦श॒तऽक्र॑तुः¦आत्¦ई॒म्¦कृ॒णोति॑¦वृ॒त्र॒ऽहा | ज॒रि॒तृऽभ्यः॑¦पु॒रु॒ऽवसुः॑ || |
स नः॑ श॒क्रश्चि॒दा श॑क॒द्दान॑वाँ, अन्तराभ॒रः |{काण्वो मेधातिथि | इन्द्रः | गायत्री} इन्द्रो॒ विश्वा᳚भिरू॒तिभिः॑ ||{12/30}{8.32.12}{8.5.2.12}{6.3.3.2}{726, 652, 6700} सः¦नः॒¦श॒क्रः¦चि॒त्¦आ¦श॒क॒त्¦दान॑ऽवान्¦अ॒न्त॒र॒ऽआ॒भ॒रः | इन्द्रः॑¦विश्वा᳚भिः¦ऊ॒तिऽभिः॑ || |
यो रा॒यो॒३॑(ओ॒)ऽवनि᳚र्म॒हान् त्सु॑पा॒रः सु᳚न्व॒तः सखा᳚ |{काण्वो मेधातिथि | इन्द्रः | गायत्री} तमिन्द्र॑म॒भि गा᳚यत ||{13/30}{8.32.13}{8.5.2.13}{6.3.3.3}{727, 652, 6701} यः¦रा॒यः¦अ॒वनिः॑¦म॒हान्¦सु॒ऽपा॒रः¦सु॒न्व॒तः¦सखा᳚ | तम्¦इन्द्र᳚म्¦अ॒भि¦गा॒य॒त॒ || |
आ॒य॒न्तारं॒ महि॑ स्थि॒रं पृत॑नासु श्रवो॒जित᳚म् |{काण्वो मेधातिथि | इन्द्रः | गायत्री} भूरे॒रीशा᳚न॒मोज॑सा ||{14/30}{8.32.14}{8.5.2.14}{6.3.3.4}{728, 652, 6702} आ॒ऽय॒न्तार᳚म्¦महि॑¦स्थि॒रम्¦पृत॑नासु¦श्र॒वः॒ऽजित᳚म् | भूरेः᳚¦ईशा᳚नम्¦ओज॑सा || |
नकि॑रस्य॒ शची᳚नां निय॒न्ता सू॒नृता᳚नाम् |{काण्वो मेधातिथि | इन्द्रः | गायत्री} नकि᳚र्व॒क्ता न दा॒दिति॑ ||{15/30}{8.32.15}{8.5.2.15}{6.3.3.5}{729, 652, 6703} नकिः॑¦अ॒स्य॒¦शची᳚नाम्¦नि॒ऽय॒न्ता¦सू॒नृता᳚नाम् | नकिः॑¦व॒क्ता¦न¦दा॒त्¦इति॑ || |
न नू॒नं ब्र॒ह्मणा᳚मृ॒णं प्रा᳚शू॒नाम॑स्ति सुन्व॒ताम् |{काण्वो मेधातिथि | इन्द्रः | गायत्री} न सोमो᳚, अप्र॒ता प॑पे ||{16/30}{8.32.16}{8.5.2.16}{6.3.4.1}{730, 652, 6704} न¦नू॒नम्¦ब्र॒ह्मणा᳚म्¦ऋ॒णम्¦प्रा॒शू॒नाम्¦अ॒स्ति॒¦सु॒न्व॒ताम् | न¦सोमः॑¦अ॒प्र॒ता¦प॒पे॒ || |
पन्य॒ इदुप॑ गायत॒ पन्य॑ उ॒क्थानि॑ शंसत |{काण्वो मेधातिथि | इन्द्रः | गायत्री} ब्रह्मा᳚ कृणोत॒ पन्य॒ इत् ||{17/30}{8.32.17}{8.5.2.17}{6.3.4.2}{731, 652, 6705} पन्ये᳚¦इत्¦उप॑¦गा॒य॒त॒¦पन्ये᳚¦उ॒क्थानि॑¦शं॒स॒त॒ | ब्रह्म॑¦कृ॒णो॒त॒¦पन्ये᳚¦इत् || |
पन्य॒ आ द॑र्दिरच्छ॒ता स॒हस्रा᳚ वा॒ज्यवृ॑तः |{काण्वो मेधातिथि | इन्द्रः | गायत्री} इन्द्रो॒ यो यज्व॑नो वृ॒धः ||{18/30}{8.32.18}{8.5.2.18}{6.3.4.3}{732, 652, 6706} पन्यः॑¦आ¦द॒र्दि॒र॒त्¦श॒ता¦स॒हस्रा᳚¦वा॒जी¦अवृ॑तः | इन्द्रः॑¦यः¦यज्व॑नः¦वृ॒धः || |
वि षू च॑र स्व॒धा, अनु॑ कृष्टी॒नामन्वा॒हुवः॑ |{काण्वो मेधातिथि | इन्द्रः | गायत्री} इन्द्र॒ पिब॑ सु॒ताना᳚म् ||{19/30}{8.32.19}{8.5.2.19}{6.3.4.4}{733, 652, 6707} वि¦सु¦च॒र॒¦स्व॒धाः¦अनु॑¦कृ॒ष्टी॒नाम्¦अनु॑¦आ॒ऽहुवः॑ | इन्द्र॑¦पिब॑¦सु॒ताना᳚म् || |
पिब॒ स्वधै᳚नवानामु॒त यस्तुग्र्ये॒ सचा᳚ |{काण्वो मेधातिथि | इन्द्रः | गायत्री} उ॒तायमि᳚न्द्र॒ यस्तव॑ ||{20/30}{8.32.20}{8.5.2.20}{6.3.4.5}{734, 652, 6708} पिब॑¦स्वऽधै᳚नवानाम्¦उ॒त¦यः¦तुग्र्ये᳚¦सचा᳚ | उ॒त¦अ॒यम्¦इ॒न्द्र॒¦यः¦तव॑ || |
अती᳚हि मन्युषा॒विणं᳚ सुषु॒वांस॑मु॒पार॑णे |{काण्वो मेधातिथि | इन्द्रः | गायत्री} इ॒मं रा॒तं सु॒तं पि॑ब ||{21/30}{8.32.21}{8.5.2.21}{6.3.5.1}{735, 652, 6709} अति॑¦इ॒हि॒¦म॒न्यु॒ऽसा॒विन᳚म्¦सु॒सु॒ऽवांस᳚म्¦उ॒प॒।आर॑णे | इ॒मम्¦रा॒तम्¦सु॒तम्¦पि॒ब॒ || |
इ॒हि ति॒स्रः प॑रा॒वत॑ इ॒हि पञ्च॒ जनाँ॒, अति॑ |{काण्वो मेधातिथि | इन्द्रः | गायत्री} धेना᳚, इन्द्राव॒चाक॑शत् ||{22/30}{8.32.22}{8.5.2.22}{6.3.5.2}{736, 652, 6710} इ॒हि¦ति॒स्रः¦प॒रा॒ऽवतः॑¦इ॒हि¦पंच॑¦जना᳚न्¦अति॑ | धेनाः᳚¦इ॒न्द्र॒¦अ॒व॒ऽचाक॑शत् || |
सूर्यो᳚ र॒श्मिं यथा᳚ सृ॒जा त्वा᳚ यच्छन्तु मे॒ गिरः॑ |{काण्वो मेधातिथि | इन्द्रः | गायत्री} नि॒म्नमापो॒ न स॒ध्र्य॑क् ||{23/30}{8.32.23}{8.5.2.23}{6.3.5.3}{737, 652, 6711} सूर्यः॑¦र॒श्मिम्¦यथा᳚¦सृ॒ज॒¦आ¦त्वा॒¦य॒च्छ॒न्तु॒¦मे॒¦गिरः॑ | नि॒म्नम्¦आपः॑¦न¦स॒ध्र्य॑क् || |
अध्व᳚र्य॒वा तु हि षि॒ञ्च सोमं᳚ वी॒राय॑ शि॒प्रिणे᳚ |{काण्वो मेधातिथि | इन्द्रः | गायत्री} भरा᳚ सु॒तस्य॑ पी॒तये᳚ ||{24/30}{8.32.24}{8.5.2.24}{6.3.5.4}{738, 652, 6712} अध्व᳚र्यो॒ इति॑¦आ¦तु¦हि¦सिं॒च¦सोम᳚म्¦वी॒राय॑¦शि॒प्रिणे᳚ | भर॑¦सु॒तस्य॑¦पी॒तये᳚ || |
य उ॒द्नः फ॑लि॒गं भि॒नन्न्य१॑(अ॒)क्सिन्धूँ᳚र॒वासृ॑जत् |{काण्वो मेधातिथि | इन्द्रः | गायत्री} यो गोषु॑ प॒क्वं धा॒रय॑त् ||{25/30}{8.32.25}{8.5.2.25}{6.3.5.5}{739, 652, 6713} यः¦उ॒द्नः¦फ॒लि॒ऽगम्¦भि॒नत्¦न्य॑क्¦सिन्धू᳚न्¦अ॒व॒।आसृ॑जत् | यः¦गोषु॑¦प॒क्वम्¦धा॒रय॑त् || |
अह᳚न् वृ॒त्रमृची᳚षम और्णवा॒भम॑ही॒शुव᳚म् |{काण्वो मेधातिथि | इन्द्रः | गायत्री} हि॒मेना᳚विध्य॒दर्बु॑दम् ||{26/30}{8.32.26}{8.5.2.26}{6.3.6.1}{740, 652, 6714} अह॑न्¦वृ॒त्रम्¦ऋची᳚षमः¦औ॒र्ण॒ऽवा॒भम्¦अ॒ही॒शुव᳚म् | हि॒मेन॑¦अ॒वि॒ध्य॒त्¦अर्बु॑दम् || |
प्र व॑ उ॒ग्राय॑ नि॒ष्टुरेऽषा᳚ळ्हाय प्रस॒क्षिणे᳚ |{काण्वो मेधातिथि | इन्द्रः | गायत्री} दे॒वत्तं॒ ब्रह्म॑ गायत ||{27/30}{8.32.27}{8.5.2.27}{6.3.6.2}{741, 652, 6715} प्र¦वः॒¦उ॒ग्राय॑¦निः॒ऽतुरे᳚¦अषा᳚ळ्हाय¦प्र॒ऽस॒क्षिणे᳚ | दे॒वत्त᳚म्¦ब्रह्म॑¦गा॒य॒त॒ || |
यो विश्वा᳚न्य॒भि व्र॒ता सोम॑स्य॒ मदे॒, अन्ध॑सः |{काण्वो मेधातिथि | इन्द्रः | गायत्री} इन्द्रो᳚ दे॒वेषु॒ चेत॑ति ||{28/30}{8.32.28}{8.5.2.28}{6.3.6.3}{742, 652, 6716} यः¦विश्वा᳚नि¦अ॒भि¦व्र॒ता¦सोम॑स्य¦मदे᳚¦अन्ध॑सः | इन्द्रः॑¦दे॒वेषु॑¦चेत॑ति || |
इ॒ह त्या स॑ध॒माद्या॒ हरी॒ हिर᳚ण्यकेश्या |{काण्वो मेधातिथि | इन्द्रः | गायत्री} वो॒ळ्हाम॒भि प्रयो᳚ हि॒तम् ||{29/30}{8.32.29}{8.5.2.29}{6.3.6.4}{743, 652, 6717} इ॒ह¦त्या¦स॒ध॒ऽमाद्या᳚¦हरी॒ इति॑¦हिर᳚ण्यऽकेश्या | वो॒ळ्हाम्¦अ॒भि¦प्रयः॑¦हि॒तम् || |
अ॒र्वाञ्चं᳚ त्वा पुरुष्टुत प्रि॒यमे᳚धस्तुता॒ हरी᳚ |{काण्वो मेधातिथि | इन्द्रः | गायत्री} सो॒म॒पेया᳚य वक्षतः ||{30/30}{8.32.30}{8.5.2.30}{6.3.6.5}{744, 652, 6718} अ॒र्वांच᳚म्¦त्वा॒¦पु॒रु॒ऽस्तु॒त॒¦प्रि॒यमे᳚धऽस्तुता¦हरी॒ इति॑ | सो॒म॒ऽपेया᳚य¦व॒क्ष॒तः॒ || |
[33] वयंघेत्येकोनविंशत्यृचस्य सूक्तस्य काण्वोमेध्यातिथिरिंद्रो बृहती षोडश्याद्यास्तिस्रो गायत्र्योन्त्यानुष्टुप् | |
व॒यं घ॑ त्वा सु॒ताव᳚न्त॒ आपो॒ न वृ॒क्तब᳚र्हिषः |{काण्वो मेधातिथि | इन्द्रः | बृहती} प॒वित्र॑स्य प्र॒स्रव॑णेषु वृत्रह॒न् परि॑ स्तो॒तार॑ आसते ||{1/19}{8.33.1}{8.5.3.1}{6.3.7.1}{745, 653, 6719} व॒यम्¦घ॒¦त्वा॒¦सु॒तऽव᳚न्तः¦आपः॑¦न¦वृ॒क्तऽब॑र्हिषः | |
स्वर᳚न्ति त्वा सु॒ते नरो॒ वसो᳚ निरे॒क उ॒क्थिनः॑ |{काण्वो मेधातिथि | इन्द्रः | बृहती} क॒दा सु॒तं तृ॑षा॒ण ओक॒ आ ग॑म॒ इन्द्र॑ स्व॒ब्दीव॒ वंस॑गः ||{2/19}{8.33.2}{8.5.3.2}{6.3.7.2}{746, 653, 6720} स्वर᳚न्ति¦त्वा॒¦सु॒ते¦नरः॑¦वसो॒ इति॑¦नि॒रे॒के¦उ॒क्थिनः॑ | |
कण्वे᳚भिर्धृष्ण॒वा धृ॒षद्वाजं᳚ दर्षि सह॒स्रिण᳚म् |{काण्वो मेधातिथि | इन्द्रः | बृहती} पि॒शङ्ग॑रूपं मघवन् विचर्षणे म॒क्षू गोम᳚न्तमीमहे ||{3/19}{8.33.3}{8.5.3.3}{6.3.7.3}{747, 653, 6721} कण्वे᳚भिः¦धृ॒ष्णो॒ इति॑¦आ¦धृ॒षत्¦वाज᳚म्¦द॒र्षि॒¦स॒ह॒स्रिण᳚म् | |
पा॒हि गायान्ध॑सो॒ मद॒ इन्द्रा᳚य मेध्यातिथे |{काण्वो मेधातिथि | इन्द्रः | बृहती} यः सम्मि॑श्लो॒ हर्यो॒र्यः सु॒ते सचा᳚ व॒ज्री रथो᳚ हिर॒ण्ययः॑ ||{4/19}{8.33.4}{8.5.3.4}{6.3.7.4}{748, 653, 6722} पा॒हि¦गाय॑¦अन्ध॑सः¦मदे᳚¦इन्द्रा᳚य¦मे॒ध्य॒।आ॒ति॒थे॒ | |
यः सु॑ष॒व्यः सु॒दक्षि॑ण इ॒नो यः सु॒क्रतु॑र्गृ॒णे |{काण्वो मेधातिथि | इन्द्रः | बृहती} य आ᳚क॒रः स॒हस्रा॒ यः श॒ताम॑घ॒ इन्द्रो॒ यः पू॒र्भिदा᳚रि॒तः ||{5/19}{8.33.5}{8.5.3.5}{6.3.7.5}{749, 653, 6723} यः¦सु॒ऽस॒व्यः¦सु॒ऽदक्षि॑णः¦इ॒नः¦यः¦सु॒ऽक्रतुः॑¦गृ॒णे | |
यो धृ॑षि॒तो योऽवृ॑तो॒ यो, अस्ति॒ श्मश्रु॑षु श्रि॒तः |{काण्वो मेधातिथि | इन्द्रः | बृहती} विभू᳚तद्युम्न॒श्च्यव॑नः पुरुष्टु॒तः क्रत्वा॒ गौरि॑व शाकि॒नः ||{6/19}{8.33.6}{8.5.3.6}{6.3.8.1}{750, 653, 6724} यः¦धृ॒षि॒तः¦यः¦अवृ॑तः¦यः¦अस्ति॑¦श्मश्रु॑षु¦श्रि॒तः | |
क ईं᳚ वेद सु॒ते सचा॒ पिब᳚न्तं॒ कद्वयो᳚ दधे |{काण्वो मेधातिथि | इन्द्रः | बृहती} अ॒यं यः पुरो᳚ विभि॒नत् त्योज॑सा मन्दा॒नः शि॒प्र्यन्ध॑सः ||{7/19}{8.33.7}{8.5.3.7}{6.3.8.2}{751, 653, 6725} कः¦ई॒म्¦वे॒द॒¦सु॒ते¦सचा᳚¦पिब᳚न्तम्¦कत्¦वयः॑¦द॒धे॒ | |
दा॒ना मृ॒गो न वा᳚र॒णः पु॑रु॒त्रा च॒रथं᳚ दधे |{काण्वो मेधातिथि | इन्द्रः | बृहती} नकि॑ष्ट्वा॒ नि य॑म॒दा सु॒ते ग॑मो म॒हाँश्च॑र॒स्योज॑सा ||{8/19}{8.33.8}{8.5.3.8}{6.3.8.3}{752, 653, 6726} दा॒ना¦मृ॒गः¦न¦वा॒र॒णः¦पु॒रु॒ऽत्रा¦च॒रथ᳚म्¦द॒धे॒ | |
य उ॒ग्रः सन्ननि॑ष्टृतः स्थि॒रो रणा᳚य॒ संस्कृ॑तः |{काण्वो मेधातिथि | इन्द्रः | बृहती} यदि॑ स्तो॒तुर्म॒घवा᳚ शृ॒णव॒द्धवं॒ नेन्द्रो᳚ योष॒त्या ग॑मत् ||{9/19}{8.33.9}{8.5.3.9}{6.3.8.4}{753, 653, 6727} यः¦उ॒ग्रः¦सन्¦अनिः॑ऽस्तृतः¦स्थि॒रः¦रणा᳚य¦संस्कृ॑तः | |
स॒त्यमि॒त्था वृषेद॑सि॒ वृष॑जूति॒र्नोऽवृ॑तः |{काण्वो मेधातिथि | इन्द्रः | बृहती} वृषा॒ ह्यु॑ग्र शृण्वि॒षे प॑रा॒वति॒ वृषो᳚, अर्वा॒वति॑ श्रु॒तः ||{10/19}{8.33.10}{8.5.3.10}{6.3.8.5}{754, 653, 6728} स॒त्यम्¦इ॒त्था¦वृषा᳚¦इत्¦अ॒सि॒¦वृष॑ऽजूतिः¦नः॒¦अवृ॑तः | |
वृष॑णस्ते, अ॒भीश॑वो॒ वृषा॒ कशा᳚ हिर॒ण्ययी᳚ |{काण्वो मेधातिथि | इन्द्रः | बृहती} वृषा॒ रथो᳚ मघव॒न् वृष॑णा॒ हरी॒ वृषा॒ त्वं श॑तक्रतो ||{11/19}{8.33.11}{8.5.3.11}{6.3.9.1}{755, 653, 6729} वृष॑णः¦ते॒¦अ॒भीश॑वः¦वृषा᳚¦कशा᳚¦हि॒र॒ण्ययी᳚ | |
वृषा॒ सोता᳚ सुनोतु ते॒ वृष᳚न्नृजीपि॒न्ना भ॑र |{काण्वो मेधातिथि | इन्द्रः | बृहती} वृषा᳚ दधन्वे॒ वृष॑णं न॒दीष्वा तुभ्यं᳚ स्थातर्हरीणाम् ||{12/19}{8.33.12}{8.5.3.12}{6.3.9.2}{756, 653, 6730} वृषा᳚¦सोता᳚¦सु॒नो॒तु॒¦ते॒¦वृष॑न्¦ऋ॒जी॒पि॒न्¦आ¦भ॒र॒ | |
एन्द्र॑ याहि पी॒तये॒ मधु॑ शविष्ठ सो॒म्यम् |{काण्वो मेधातिथि | इन्द्रः | बृहती} नायमच्छा᳚ म॒घवा᳚ शृ॒णव॒द्गिरो॒ ब्रह्मो॒क्था च॑ सु॒क्रतुः॑ ||{13/19}{8.33.13}{8.5.3.13}{6.3.9.3}{757, 653, 6731} आ¦इ॒न्द्र॒¦या॒हि॒¦पी॒तये᳚¦मधु॑¦श॒वि॒ष्ठ॒¦सो॒म्यम् | |
वह᳚न्तु त्वा रथे॒ष्ठामा हर॑यो रथ॒युजः॑ |{काण्वो मेधातिथि | इन्द्रः | बृहती} ति॒रश्चि॑द॒र्यं सव॑नानि वृत्रहन्न॒न्येषां॒ या श॑तक्रतो ||{14/19}{8.33.14}{8.5.3.14}{6.3.9.4}{758, 653, 6732} वह᳚न्तु¦त्वा॒¦र॒थे॒ऽस्थाम्¦आ¦हर॑यः¦र॒थ॒ऽयुजः॑ | |
अ॒स्माक॑म॒द्यान्त॑मं॒ स्तोमं᳚ धिष्व महामह |{काण्वो मेधातिथि | इन्द्रः | बृहती} अ॒स्माकं᳚ ते॒ सव॑ना सन्तु॒ शंत॑मा॒ मदा᳚य द्युक्ष सोमपाः ||{15/19}{8.33.15}{8.5.3.15}{6.3.9.5}{759, 653, 6733} अ॒स्माक᳚म्¦अ॒द्य¦अन्त॑मम्¦स्तोम᳚म्¦धि॒ष्व॒¦म॒हा॒ऽम॒ह॒ | |
न॒हि षस्तव॒ नो मम॑ शा॒स्त्रे, अ॒न्यस्य॒ रण्य॑ति |{काण्वो मेधातिथि | इन्द्रः | गायत्री} यो, अ॒स्मान्वी॒र आन॑यत् ||{16/19}{8.33.16}{8.5.3.16}{6.3.10.1}{760, 653, 6734} न॒हि¦सः¦तव॑¦नो इति॑¦मम॑¦शा॒स्त्रे¦अ॒न्यस्य॑¦रण्य॑ति | यः¦अ॒स्मान्¦वी॒रः¦आ¦अन॑यत् || |
इन्द्र॑श्चिद्घा॒ तद॑ब्रवीत् स्त्रि॒या, अ॑शा॒स्यं मनः॑ |{काण्वो मेधातिथि | इन्द्रः | गायत्री} उ॒तो, अह॒ क्रतुं᳚ र॒घुम् ||{17/19}{8.33.17}{8.5.3.17}{6.3.10.2}{761, 653, 6735} इन्द्रः॑¦चि॒त्¦घ॒¦तत्¦अ॒ब्र॒वी॒त्¦स्त्रि॒याः¦अ॒शा॒स्यम्¦मनः॑ | उ॒तो इति॑¦अह॑¦क्रतु᳚म्¦र॒घुम् || |
सप्ती᳚ चिद्घा मद॒च्युता᳚ मिथु॒ना व॑हतो॒ रथ᳚म् |{काण्वो मेधातिथि | इन्द्रः | गायत्री} ए॒वेद्धूर्वृष्ण॒ उत्त॑रा ||{18/19}{8.33.18}{8.5.3.18}{6.3.10.3}{762, 653, 6736} सप्ती॒ इति॑¦चि॒त्¦घ॒¦म॒द॒ऽच्युता᳚¦मि॒थु॒ना¦व॒ह॒तः॒¦रथ᳚म् | ए॒व¦इत्¦धूः¦वृष्णः॑¦उत्ऽत॑रा || |
अ॒धः प॑श्यस्व॒ मोपरि॑ संत॒रां पा᳚द॒कौ ह॑र |{काण्वो मेधातिथि | इन्द्रः | अनुष्टुप्} मा ते᳚ कशप्ल॒कौ दृ॑श॒न् त्स्त्री हि ब्र॒ह्मा ब॒भूवि॑थ ||{19/19}{8.33.19}{8.5.3.19}{6.3.10.4}{763, 653, 6737} अ॒धः¦प॒श्य॒स्व॒¦मा¦उ॒परि॑¦स॒म्ऽत॒राम्¦पा॒द॒कौ¦ह॒र॒ | मा¦ते॒¦क॒श॒ऽप्ल॒कौ¦दृ॒श॒न्¦स्त्री¦हि¦ब्र॒ह्मा¦ब॒भूवि॑थ || |
[34] एंद्रयाहीत्यष्टादशर्चस्य सूक्तस्य काण्वोनीपातिथिरिंद्रः आयदिंद्रइत्यादितिसृणामांगिरसाः सहस्रवसुरोचिषऋषयइंद्रोऽनुष्टुबन्त्यास्तिस्रोगायत्र्यः | |
एन्द्र॑ याहि॒ हरि॑भि॒रुप॒ कण्व॑स्य सुष्टु॒तिम् |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्} दि॒वो, अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{1/18}{8.34.1}{8.5.4.1}{6.3.11.1}{764, 654, 6738} आ¦इ॒न्द्र॒¦या॒हि॒¦हरि॑ऽभिः¦उप॑¦कण्व॑स्य¦सु॒ऽस्तु॒तिम् | दि॒वः¦अ॒मुष्य॑¦शास॑तः¦दिव᳚म्¦य॒य¦दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो || |
आ त्वा॒ ग्रावा॒ वद᳚न्नि॒ह सो॒मी घोषे᳚ण यच्छतु |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्} दि॒वो, अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{2/18}{8.34.2}{8.5.4.2}{6.3.11.2}{765, 654, 6739} आ¦त्वा॒¦ग्रावा᳚¦वद॑न्¦इ॒ह¦सो॒मी¦घोषे᳚ण¦य॒च्छ॒तु॒ | दि॒वः¦अ॒मुष्य॑¦शास॑तः¦दिव᳚म्¦य॒य¦दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो || |
अत्रा॒ वि ने॒मिरे᳚षा॒मुरां॒ न धू᳚नुते॒ वृकः॑ |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्} दि॒वो, अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{3/18}{8.34.3}{8.5.4.3}{6.3.11.3}{766, 654, 6740} अत्र॑¦वि¦ने॒मिः¦ए॒षा॒म्¦उरा᳚म्¦न¦धू॒नु॒ते॒¦वृकः॑ | दि॒वः¦अ॒मुष्य॑¦शास॑तः¦दिव᳚म्¦य॒य¦दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो || |
आ त्वा॒ कण्वा᳚, इ॒हाव॑से॒ हव᳚न्ते॒ वाज॑सातये |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्} दि॒वो, अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{4/18}{8.34.4}{8.5.4.4}{6.3.11.4}{767, 654, 6741} आ¦त्वा॒¦कण्वाः᳚¦इ॒ह¦अव॑से¦हव᳚न्ते¦वाज॑ऽसातये | दि॒वः¦अ॒मुष्य॑¦शास॑तः¦दिव᳚म्¦य॒य¦दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो || |
दधा᳚मि ते सु॒तानां॒ वृष्णे॒ न पू᳚र्व॒पाय्य᳚म् |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्} दि॒वो, अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{5/18}{8.34.5}{8.5.4.5}{6.3.11.5}{768, 654, 6742} दधा᳚मि¦ते॒¦सु॒ताना᳚म्¦वृष्णे᳚¦न¦पू॒र्व॒ऽपाय्य᳚म् | दि॒वः¦अ॒मुष्य॑¦शास॑तः¦दिव᳚म्¦य॒य¦दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो || |
स्मत्पु॑रंधिर्न॒ आ ग॑हि वि॒श्वतो᳚धीर्न ऊ॒तये᳚ |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्} दि॒वो, अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{6/18}{8.34.6}{8.5.4.6}{6.3.12.1}{769, 654, 6743} स्मत्ऽपु॑रन्धिः¦नः॒¦आ¦ग॒हि॒¦वि॒श्वतः॑ऽधीः¦नः॒¦ऊ॒तये᳚ | दि॒वः¦अ॒मुष्य॑¦शास॑तः¦दिव᳚म्¦य॒य¦दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो || |
आ नो᳚ याहि महेमते॒ सह॑स्रोते॒ शता᳚मघ |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्} दि॒वो, अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{7/18}{8.34.7}{8.5.4.7}{6.3.12.2}{770, 654, 6744} आ¦नः॒¦या॒हि॒¦म॒हे॒ऽम॒ते॒¦सह॑स्रऽऊते¦शत॑ऽमघ | दि॒वः¦अ॒मुष्य॑¦शास॑तः¦दिव᳚म्¦य॒य¦दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो || |
आ त्वा॒ होता॒ मनु᳚र्हितो देव॒त्रा व॑क्ष॒दीड्यः॑ |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्} दि॒वो, अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{8/18}{8.34.8}{8.5.4.8}{6.3.12.3}{771, 654, 6745} आ¦त्वा॒¦होता᳚¦मनुः॑ऽहितः¦दे॒व॒ऽत्रा¦व॒क्ष॒त्¦ईड्यः॑ | दि॒वः¦अ॒मुष्य॑¦शास॑तः¦दिव᳚म्¦य॒य¦दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो || |
आ त्वा᳚ मद॒च्युता॒ हरी᳚ श्ये॒नं प॒क्षेव॑ वक्षतः |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्} दि॒वो, अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{9/18}{8.34.9}{8.5.4.9}{6.3.12.4}{772, 654, 6746} आ¦त्वा॒¦म॒द॒ऽच्युता᳚¦हरी॒ इति॑¦श्ये॒नम्¦प॒क्षाऽइ᳚व¦व॒क्ष॒तः॒ | दि॒वः¦अ॒मुष्य॑¦शास॑तः¦दिव᳚म्¦य॒य¦दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो || |
आ या᳚ह्य॒र्य आ परि॒ स्वाहा॒ सोम॑स्य पी॒तये᳚ |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्} दि॒वो, अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{10/18}{8.34.10}{8.5.4.10}{6.3.12.5}{773, 654, 6747} आ¦या॒हि॒¦अ॒र्यः¦आ¦परि॑¦स्वाहा᳚¦सोम॑स्य¦पी॒तये᳚ | दि॒वः¦अ॒मुष्य॑¦शास॑तः¦दिव᳚म्¦य॒य¦दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो || |
आ नो᳚ या॒ह्युप॑श्रुत्यु॒क्थेषु॑ रणया, इ॒ह |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्} दि॒वो, अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{11/18}{8.34.11}{8.5.4.11}{6.3.13.1}{774, 654, 6748} आ¦नः॒¦या॒हि॒¦उप॑ऽश्रुति¦उ॒क्थेषु॑¦र॒ण॒य॒¦इ॒ह | दि॒वः¦अ॒मुष्य॑¦शास॑तः¦दिव᳚म्¦य॒य¦दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो || |
सरू᳚पै॒रा सु नो᳚ गहि॒ सम्भृ॑तैः॒ सम्भृ॑ताश्वः |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्} दि॒वो, अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{12/18}{8.34.12}{8.5.4.12}{6.3.13.2}{775, 654, 6749} सऽरू᳚पैः¦आ¦सु¦नः॒¦ग॒हि॒¦सम्ऽभृ॑तैः¦संभृ॑त।आश्वः | दि॒वः¦अ॒मुष्य॑¦शास॑तः¦दिव᳚म्¦य॒य¦दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो || |
आ या᳚हि॒ पर्व॑तेभ्यः समु॒द्रस्याधि॑ वि॒ष्टपः॑ |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्} दि॒वो, अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{13/18}{8.34.13}{8.5.4.13}{6.3.13.3}{776, 654, 6750} आ¦या॒हि॒¦पर्व॑तेभ्यः¦स॒मु॒द्रस्य॑¦अधि॑¦वि॒ष्टपः॑ | दि॒वः¦अ॒मुष्य॑¦शास॑तः¦दिव᳚म्¦य॒य¦दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो || |
आ नो॒ गव्या॒न्यश्व्या᳚ स॒हस्रा᳚ शूर दर्दृहि |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्} दि॒वो, अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{14/18}{8.34.14}{8.5.4.14}{6.3.13.4}{777, 654, 6751} आ¦नः॒¦गव्या᳚नि¦अश्व्या᳚¦स॒हस्रा᳚¦शू॒र॒¦द॒र्दृ॒हि॒ | दि॒वः¦अ॒मुष्य॑¦शास॑तः¦दिव᳚म्¦य॒य¦दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो || |
आ नः॑ सहस्र॒शो भ॑रा॒युता᳚नि श॒तानि॑ च |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्} दि॒वो, अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{15/18}{8.34.15}{8.5.4.15}{6.3.13.5}{778, 654, 6752} आ¦नः॒¦स॒ह॒स्र॒ऽशः¦भ॒र॒¦अ॒युता᳚नि¦श॒तानि॑¦च॒ | दि॒वः¦अ॒मुष्य॑¦शास॑तः¦दिव᳚म्¦य॒य¦दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो || |
आ यदिन्द्र॑श्च॒ दद्व॑हे स॒हस्रं॒ वसु॑रोचिषः |{आंगिरसाः सहस्रवसुरोचिष | इन्द्रः | गायत्री} ओजि॑ष्ठ॒मश्व्यं᳚ प॒शुम् ||{16/18}{8.34.16}{8.5.4.16}{6.3.13.6}{779, 654, 6753} आ¦यत्¦इन्द्रः॑¦च॒¦दद्व॑हे॒ इति॑¦स॒हस्र᳚म्¦वसु॑ऽरोचिषः | ओजि॑ष्ठम्¦अश्व्य᳚म्¦प॒शुम् || |
य ऋ॒ज्रा वात॑रंहसोऽरु॒षासो᳚ रघु॒ष्यदः॑ |{आंगिरसाः सहस्रवसुरोचिष | इन्द्रः | गायत्री} भ्राज᳚न्ते॒ सूर्या᳚, इव ||{17/18}{8.34.17}{8.5.4.17}{6.3.13.7}{780, 654, 6754} ये¦ऋ॒ज्राः¦वात॑ऽरंहसः¦अ॒रु॒षासः॑¦र॒घु॒ऽस्यदः॑ | भ्राज᳚न्ते¦सूर्याः᳚ऽइव || |
पारा᳚वतस्य रा॒तिषु॑ द्र॒वच्च॑क्रेष्वा॒शुषु॑ |{आंगिरसाः सहस्रवसुरोचिष | इन्द्रः | गायत्री} तिष्ठं॒ वन॑स्य॒ मध्य॒ आ ||{18/18}{8.34.18}{8.5.4.18}{6.3.13.8}{781, 654, 6755} पारा᳚वतस्य¦रा॒तिषु॑¦द्र॒वत्ऽच॑क्रेषु¦आ॒शुषु॑ | तिष्ठ᳚म्¦वन॑स्य¦मध्ये᳚¦आ || |
[35] अग्निर्नेन्द्रेणेति चतुर्विंशत्यृचस्य सूक्तस्यात्रेयः श्यावाश्वोश्विनावुपरिष्टाज्ज्योतिरंत्यास्तिस्रः क्रमेणपंक्तिमहाबृहतीपंक्तयः | |
अ॒ग्निनेन्द्रे᳚ण॒ वरु॑णेन॒ विष्णु॑नादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा᳚ |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति} स॒जोष॑सा, उ॒षसा॒ सूर्ये᳚ण च॒ सोमं᳚ पिबतमश्विना ||{1/24}{8.35.1}{8.5.5.1}{6.3.14.1}{782, 655, 6756} अ॒ग्निना᳚¦इन्द्रे᳚ण¦वरु॑णेन¦विष्णु॑ना¦आ॒दि॒त्यैः¦रु॒द्रैः¦वसु॑ऽभिः¦स॒चा॒ऽभुवा᳚ | |
विश्वा᳚भिर्धी॒भिर्भुव॑नेन वाजिना दि॒वा पृ॑थि॒व्याद्रि॑भिः सचा॒भुवा᳚ |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति} स॒जोष॑सा, उ॒षसा॒ सूर्ये᳚ण च॒ सोमं᳚ पिबतमश्विना ||{2/24}{8.35.2}{8.5.5.2}{6.3.14.2}{783, 655, 6757} विश्वा᳚भिः¦धी॒भिः¦भुव॑नेन¦वा॒जि॒ना॒¦दि॒वा¦पृ॒थि॒व्या¦अद्रि॑ऽभिः¦स॒चा॒ऽभुवा᳚ | |
विश्वै᳚र्दे॒वैस्त्रि॒भिरे᳚काद॒शैरि॒हाद्भिर्म॒रुद्भि॒र्भृगु॑भिः सचा॒भुवा᳚ |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति} स॒जोष॑सा, उ॒षसा॒ सूर्ये᳚ण च॒ सोमं᳚ पिबतमश्विना ||{3/24}{8.35.3}{8.5.5.3}{6.3.14.3}{784, 655, 6758} विश्वैः᳚¦दे॒वैः¦त्रि॒ऽभिः¦ए॒का॒द॒शैः¦इ॒ह¦अ॒त्ऽभिः¦म॒रुत्ऽभिः॑¦भृगु॑ऽभिः¦स॒चा॒ऽभुवा᳚ | |
जु॒षेथां᳚ य॒ज्ञं बोध॑तं॒ हव॑स्य मे॒ विश्वे॒ह दे᳚वौ॒ सव॒नाव॑ गच्छतम् |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति} स॒जोष॑सा, उ॒षसा॒ सूर्ये᳚ण॒ चेषं᳚ नो वोळ्हमश्विना ||{4/24}{8.35.4}{8.5.5.4}{6.3.14.4}{785, 655, 6759} जु॒षेथा᳚म्¦य॒ज्ञम्¦बोध॑तम्¦हव॑स्य¦मे॒¦विश्वा᳚¦इ॒ह¦दे॒वौ॒¦सव॑ना¦अव॑¦ग॒च्छ॒त॒म् | |
स्तोमं᳚ जुषेथां युव॒शेव॑ क॒न्यनां॒ विश्वे॒ह दे᳚वौ॒ सव॒नाव॑ गच्छतम् |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति} स॒जोष॑सा, उ॒षसा॒ सूर्ये᳚ण॒ चेषं᳚ नो वोळ्हमश्विना ||{5/24}{8.35.5}{8.5.5.5}{6.3.14.5}{786, 655, 6760} स्तोम᳚म्¦जु॒षे॒था॒म्¦यु॒व॒शाऽइ᳚व¦क॒न्यना᳚म्¦विश्वा᳚¦इ॒ह¦दे॒वौ॒¦सव॑ना¦अव॑¦ग॒च्छ॒त॒म् | |
गिरो᳚ जुषेथामध्व॒रं जु॑षेथां॒ विश्वे॒ह दे᳚वौ॒ सव॒नाव॑ गच्छतम् |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति} स॒जोष॑सा, उ॒षसा॒ सूर्ये᳚ण॒ चेषं᳚ नो वोळ्हमश्विना ||{6/24}{8.35.6}{8.5.5.6}{6.3.14.6}{787, 655, 6761} गिरः॑¦जु॒षे॒था॒म्¦अ॒ध्व॒रम्¦जु॒षे॒था॒म्¦विश्वा᳚¦इ॒ह¦दे॒वौ॒¦सव॑ना¦अव॑¦ग॒च्छ॒त॒म् | |
हा॒रि॒द्र॒वेव॑ पतथो॒ वनेदुप॒ सोमं᳚ सु॒तं म॑हि॒षेवाव॑ गच्छथः |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति} स॒जोष॑सा, उ॒षसा॒ सूर्ये᳚ण च॒ त्रिर्व॒र्तिर्या᳚तमश्विना ||{7/24}{8.35.7}{8.5.5.7}{6.3.15.1}{788, 655, 6762} हा॒रि॒द्र॒वाऽइ᳚व¦प॒त॒थः॒¦वना᳚¦इत्¦उप॑¦सोम᳚म्¦सु॒तम्¦म॒हि॒षाऽइ᳚व¦अव॑¦ग॒च्छ॒थः॒ | |
हं॒सावि॑व पतथो, अध्व॒गावि॑व॒ सोमं᳚ सु॒तं म॑हि॒षेवाव॑ गच्छथः |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति} स॒जोष॑सा, उ॒षसा॒ सूर्ये᳚ण च॒ त्रिर्व॒र्तिर्या᳚तमश्विना ||{8/24}{8.35.8}{8.5.5.8}{6.3.15.2}{789, 655, 6763} हं॒सौऽइ᳚व¦प॒त॒थः॒¦अ॒ध्व॒गौऽइ᳚व¦सोम᳚म्¦सु॒तम्¦म॒हि॒षाऽइ᳚व¦अव॑¦ग॒च्छ॒थः॒ | |
श्ये॒नावि॑व पतथो ह॒व्यदा᳚तये॒ सोमं᳚ सु॒तं म॑हि॒षेवाव॑ गच्छथः |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति} स॒जोष॑सा, उ॒षसा॒ सूर्ये᳚ण च॒ त्रिर्व॒र्तिर्या᳚तमश्विना ||{9/24}{8.35.9}{8.5.5.9}{6.3.15.3}{790, 655, 6764} श्ये॒नौऽइ᳚व¦प॒त॒थः॒¦ह॒व्यऽदा᳚तये¦सोम᳚म्¦सु॒तम्¦म॒हि॒षाऽइ᳚व¦अव॑¦ग॒च्छ॒थः॒ | |
पिब॑तं च तृप्णु॒तं चा च॑ गच्छतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति} स॒जोष॑सा, उ॒षसा॒ सूर्ये᳚ण॒ चोर्जं᳚ नो धत्तमश्विना ||{10/24}{8.35.10}{8.5.5.10}{6.3.15.4}{791, 655, 6765} पिब॑तम्¦च॒¦तृ॒प्णु॒तम्¦च॒¦आ¦च॒¦ग॒च्छ॒त॒म्¦प्र॒ऽजाम्¦च॒¦ध॒त्तम्¦द्रवि॑णम्¦च॒¦ध॒त्त॒म् | |
जय॑तं च॒ प्र स्तु॑तं च॒ प्र चा᳚वतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति} स॒जोष॑सा, उ॒षसा॒ सूर्ये᳚ण॒ चोर्जं᳚ नो धत्तमश्विना ||{11/24}{8.35.11}{8.5.5.11}{6.3.15.5}{792, 655, 6766} जय॑तम्¦च॒¦प्र¦स्तु॒त॒म्¦च॒¦प्र¦च॒¦अ॒व॒त॒म्¦प्र॒ऽजाम्¦च॒¦ध॒त्तम्¦द्रवि॑णम्¦च॒¦ध॒त्त॒म् | |
ह॒तं च॒ शत्रू॒न्यत॑तं च मि॒त्रिणः॑ प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति} स॒जोष॑सा, उ॒षसा॒ सूर्ये᳚ण॒ चोर्जं᳚ नो धत्तमश्विना ||{12/24}{8.35.12}{8.5.5.12}{6.3.15.6}{793, 655, 6767} ह॒तम्¦च॒¦शत्रू᳚न्¦यत॑तम्¦च॒¦मि॒त्रिणः॑¦प्र॒ऽजाम्¦च॒¦ध॒त्तम्¦द्रवि॑णम्¦च॒¦ध॒त्त॒म् | |
मि॒त्रावरु॑णवन्ता, उ॒त धर्म॑वन्ता म॒रुत्व᳚न्ता जरि॒तुर्ग॑च्छथो॒ हव᳚म् |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति} स॒जोष॑सा, उ॒षसा॒ सूर्ये᳚ण चादि॒त्यैर्या᳚तमश्विना ||{13/24}{8.35.13}{8.5.5.13}{6.3.16.1}{794, 655, 6768} मि॒त्रावरु॑णऽवन्तौ¦उ॒त¦धर्म॑ऽवन्ता¦म॒रुत्व᳚न्ता¦ज॒रि॒तुः¦ग॒च्छ॒थः॒¦हव᳚म् | |
अङ्गि॑रस्वन्ता, उ॒त विष्णु॑वन्ता म॒रुत्व᳚न्ता जरि॒तुर्ग॑च्छथो॒ हव᳚म् |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति} स॒जोष॑सा, उ॒षसा॒ सूर्ये᳚ण चादि॒त्यैर्या᳚तमश्विना ||{14/24}{8.35.14}{8.5.5.14}{6.3.16.2}{795, 655, 6769} अङ्गि॑रस्वन्तौ¦उ॒त¦विष्णु॑ऽवन्ता¦म॒रुत्व᳚न्ता¦ज॒रि॒तुः¦ग॒च्छ॒थः॒¦हव᳚म् | |
ऋ॒भु॒मन्ता᳚ वृषणा॒ वाज॑वन्ता म॒रुत्व᳚न्ता जरि॒तुर्ग॑च्छथो॒ हव᳚म् |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति} स॒जोष॑सा, उ॒षसा॒ सूर्ये᳚ण चादि॒त्यैर्या᳚तमश्विना ||{15/24}{8.35.15}{8.5.5.15}{6.3.16.3}{796, 655, 6770} ऋ॒भु॒ऽमन्ता᳚¦वृ॒ष॒णा॒¦वाज॑ऽवन्ता¦म॒रुत्व᳚न्ता¦ज॒रि॒तुः¦ग॒च्छ॒थः॒¦हव᳚म् | |
ब्रह्म॑ जिन्वतमु॒त जि᳚न्वतं॒ धियो᳚ ह॒तं रक्षां᳚सि॒ सेध॑त॒ममी᳚वाः |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति} स॒जोष॑सा, उ॒षसा॒ सूर्ये᳚ण च॒ सोमं᳚ सुन्व॒तो, अ॑श्विना ||{16/24}{8.35.16}{8.5.5.16}{6.3.16.4}{797, 655, 6771} ब्रह्म॑¦जि॒न्व॒त॒म्¦उ॒त¦जि॒न्व॒त॒म्¦धियः॑¦ह॒तम्¦रक्षां᳚सि¦सेध॑तम्¦अमी᳚वाः | |
क्ष॒त्रं जि᳚न्वतमु॒त जि᳚न्वतं॒ नॄन्ह॒तं रक्षां᳚सि॒ सेध॑त॒ममी᳚वाः |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति} स॒जोष॑सा, उ॒षसा॒ सूर्ये᳚ण च॒ सोमं᳚ सुन्व॒तो, अ॑श्विना ||{17/24}{8.35.17}{8.5.5.17}{6.3.16.5}{798, 655, 6772} क्ष॒त्रम्¦जि॒न्व॒त॒म्¦उ॒त¦जि॒न्व॒त॒म्¦नॄन्¦ह॒तम्¦रक्षां᳚सि¦सेध॑तम्¦अमी᳚वाः | |
धे॒नूर्जि᳚न्वतमु॒त जि᳚न्वतं॒ विशो᳚ ह॒तं रक्षां᳚सि॒ सेध॑त॒ममी᳚वाः |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति} स॒जोष॑सा, उ॒षसा॒ सूर्ये᳚ण च॒ सोमं᳚ सुन्व॒तो, अ॑श्विना ||{18/24}{8.35.18}{8.5.5.18}{6.3.16.6}{799, 655, 6773} धे॒नूः¦जि॒न्व॒त॒म्¦उ॒त¦जि॒न्व॒त॒म्¦विशः॑¦ह॒तम्¦रक्षां᳚सि¦सेध॑तम्¦अमी᳚वाः | |
अत्रे᳚रिव शृणुतं पू॒र्व्यस्तु॑तिं श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति} स॒जोष॑सा, उ॒षसा॒ सूर्ये᳚ण॒ चाश्वि॑ना ति॒रो,अ᳚ह्न्यम् ||{19/24}{8.35.19}{8.5.5.19}{6.3.17.1}{800, 655, 6774} अत्रेः᳚ऽइव¦शृ॒णु॒त॒म्¦पू॒र्व्यऽस्तु॑तिम्¦श्या॒व।आ॑श्वस्य¦सु॒न्व॒तः¦म॒द॒ऽच्यु॒ता॒ | |
सर्गाँ᳚, इव सृजतं सुष्टु॒तीरुप॑ श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति} स॒जोष॑सा, उ॒षसा॒ सूर्ये᳚ण॒ चाश्वि॑ना ति॒रो,अ᳚ह्न्यम् ||{20/24}{8.35.20}{8.5.5.20}{6.3.17.2}{801, 655, 6775} सर्गा᳚न्ऽइव¦सृ॒ज॒त॒म्¦सु॒ऽस्तु॒तीः¦उप॑¦श्या॒व।आ॑श्वस्य¦सु॒न्व॒तः¦म॒द॒ऽच्यु॒ता॒ | |
र॒श्मीँरि॑व यच्छतमध्व॒राँ, उप॑ श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति} स॒जोष॑सा, उ॒षसा॒ सूर्ये᳚ण॒ चाश्वि॑ना ति॒रो,अ᳚ह्न्यम् ||{21/24}{8.35.21}{8.5.5.21}{6.3.17.3}{802, 655, 6776} र॒श्मीन्ऽइ᳚व¦य॒च्छ॒त॒म्¦अ॒ध्व॒रान्¦उप॑¦श्या॒व।आ॑श्वस्य¦सु॒न्व॒तः¦म॒द॒ऽच्यु॒ता॒ | |
अ॒र्वाग्रथं॒ नि य॑च्छतं॒ पिब॑तं सो॒म्यं मधु॑ |{आत्रेयः श्यावाश्वः | अश्विनौ | पङ्क्तिः} आ या᳚तमश्वि॒ना ग॑तमव॒स्युर्वा᳚म॒हं हु॑वे ध॒त्तं रत्ना᳚नि दा॒शुषे᳚ ||{22/24}{8.35.22}{8.5.5.22}{6.3.17.4}{803, 655, 6777} अ॒र्वाक्¦रथ᳚म्¦नि¦य॒च्छ॒त॒म्¦पिब॑तम्¦सो॒म्यम्¦मधु॑ | |
न॒मो॒वा॒के प्रस्थि॑ते, अध्व॒रे न॑रा वि॒वक्ष॑णस्य पी॒तये᳚ |{आत्रेयः श्यावाश्वः | अश्विनौ | महाबृहती} आ या᳚तमश्वि॒ना ग॑तमव॒स्युर्वा᳚म॒हं हु॑वे ध॒त्तं रत्ना᳚नि दा॒शुषे᳚ ||{23/24}{8.35.23}{8.5.5.23}{6.3.17.5}{804, 655, 6778} न॒मः॒ऽवा॒के¦प्रऽस्थि॑ते¦अ॒ध्व॒रे¦न॒रा॒¦वि॒वक्ष॑णस्य¦पी॒तये᳚ | |
स्वाहा᳚कृतस्य तृम्पतं सु॒तस्य॑ देवा॒वन्ध॑सः |{आत्रेयः श्यावाश्वः | अश्विनौ | पङ्क्तिः} आ या᳚तमश्वि॒ना ग॑तमव॒स्युर्वा᳚म॒हं हु॑वे ध॒त्तं रत्ना᳚नि दा॒शुषे᳚ ||{24/24}{8.35.24}{8.5.5.24}{6.3.17.6}{805, 655, 6779} स्वाहा᳚ऽकृतस्य¦तृ॒म्प॒त॒म्¦सु॒तस्य॑¦दे॒वौ॒¦अन्ध॑सः | |
[36] अवितासीति सप्तर्चस्य सूक्तस्यात्रेयः श्यावाश्वइंद्रः शक्वर्यंत्या महापंक्तिः | |
अ॒वि॒तासि॑ सुन्व॒तो वृ॒क्तब᳚र्हिषः॒ पिबा॒ सोमं॒ मदा᳚य॒ कं श॑तक्रतो |{आत्रेयः श्यावाश्वः | इन्द्रः | शक्वरी} यं ते᳚ भा॒गमधा᳚रय॒न् विश्वाः᳚ सेहा॒नः पृत॑ना, उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ᳚, इन्द्र सत्पते ||{1/7}{8.36.1}{8.5.6.1}{6.3.18.1}{806, 656, 6780} अ॒वि॒ता¦अ॒सि॒¦सु॒न्व॒तः¦वृ॒क्तऽब॑र्हिषः¦पिब॑¦सोम᳚म्¦मदा᳚य¦कम्¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | |
प्राव॑ स्तो॒तारं᳚ मघव॒न्नव॒ त्वां पिबा॒ सोमं॒ मदा᳚य॒ कं श॑तक्रतो |{आत्रेयः श्यावाश्वः | इन्द्रः | शक्वरी} यं ते᳚ भा॒गमधा᳚रय॒न् विश्वाः᳚ सेहा॒नः पृत॑ना, उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ᳚, इन्द्र सत्पते ||{2/7}{8.36.2}{8.5.6.2}{6.3.18.2}{807, 656, 6781} प्र¦अ॒व॒¦स्तो॒तार᳚म्¦म॒घ॒ऽव॒न्¦अव॑¦त्वाम्¦पिब॑¦सोम᳚म्¦मदा᳚य¦कम्¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | |
ऊ॒र्जा दे॒वाँ, अव॒स्योज॑सा॒ त्वां पिबा॒ सोमं॒ मदा᳚य॒ कं श॑तक्रतो |{आत्रेयः श्यावाश्वः | इन्द्रः | शक्वरी} यं ते᳚ भा॒गमधा᳚रय॒न् विश्वाः᳚ सेहा॒नः पृत॑ना, उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ᳚, इन्द्र सत्पते ||{3/7}{8.36.3}{8.5.6.3}{6.3.18.3}{808, 656, 6782} ऊ॒र्जा¦दे॒वान्¦अव॑सि¦ओज॑सा¦त्वाम्¦पिब॑¦सोम᳚म्¦मदा᳚य¦कम्¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | |
ज॒नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः पिबा॒ सोमं॒ मदा᳚य॒ कं श॑तक्रतो |{आत्रेयः श्यावाश्वः | इन्द्रः | शक्वरी} यं ते᳚ भा॒गमधा᳚रय॒न् विश्वाः᳚ सेहा॒नः पृत॑ना, उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ᳚, इन्द्र सत्पते ||{4/7}{8.36.4}{8.5.6.4}{6.3.18.4}{809, 656, 6783} ज॒नि॒ता¦दि॒वः¦ज॒नि॒ता¦पृ॒थि॒व्याः¦पिब॑¦सोम᳚म्¦मदा᳚य¦कम्¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | |
ज॒नि॒ताश्वा᳚नां जनि॒ता गवा᳚मसि॒ पिबा॒ सोमं॒ मदा᳚य॒ कं श॑तक्रतो |{आत्रेयः श्यावाश्वः | इन्द्रः | शक्वरी} यं ते᳚ भा॒गमधा᳚रय॒न् विश्वाः᳚ सेहा॒नः पृत॑ना, उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ᳚, इन्द्र सत्पते ||{5/7}{8.36.5}{8.5.6.5}{6.3.18.5}{810, 656, 6784} ज॒नि॒ता¦अश्वा᳚नाम्¦ज॒नि॒ता¦गवा᳚म्¦अ॒सि॒¦पिब॑¦सोम᳚म्¦मदा᳚य¦कम्¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | |
अत्री᳚णां॒ स्तोम॑मद्रिवो म॒हस्कृ॑धि॒ पिबा॒ सोमं॒ मदा᳚य॒ कं श॑तक्रतो |{आत्रेयः श्यावाश्वः | इन्द्रः | शक्वरी} यं ते᳚ भा॒गमधा᳚रय॒न् विश्वाः᳚ सेहा॒नः पृत॑ना, उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ᳚, इन्द्र सत्पते ||{6/7}{8.36.6}{8.5.6.6}{6.3.18.6}{811, 656, 6785} अत्री᳚णाम्¦स्तोम᳚म्¦अ॒द्रि॒ऽवः॒¦म॒हः¦कृ॒धि॒¦पिब॑¦सोम᳚म्¦मदा᳚य¦कम्¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | |
श्या॒वाश्व॑स्य सुन्व॒तस्तथा᳚ शृणु॒ यथाशृ॑णो॒रत्रेः॒ कर्मा᳚णि कृण्व॒तः |{आत्रेयः श्यावाश्वः | इन्द्रः | महापङ्क्तिः} प्र त्र॒सद॑स्युमाविथ॒ त्वमेक॒ इन्नृ॒षाह्य॒ इन्द्र॒ ब्रह्मा᳚णि व॒र्धय॑न् ||{7/7}{8.36.7}{8.5.6.7}{6.3.18.7}{812, 656, 6786} श्या॒व।आ॑श्वस्य¦सु॒न्व॒तः¦तथा᳚¦शृ॒णु॒¦यथा᳚¦अशृ॑णोः¦अत्रेः᳚¦कर्मा᳚णि¦कृ॒ण्व॒तः | |
[37] प्रेदमिति सप्तर्चस्य सूक्तस्यात्रेयः श्यावाश्वइंद्रोमहापंक्तिराद्यातिजगती | |
प्रेदं ब्रह्म॑ वृत्र॒तूर्ये᳚ष्वाविथ॒ प्र सु᳚न्व॒तः श॑चीपत॒ इन्द्र॒ विश्वा᳚भिरू॒तिभिः॑ |{आत्रेयः श्यावाश्वः | इन्द्रः | अतिजगती} माध्यं᳚दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ||{1/7}{8.37.1}{8.5.7.1}{6.3.19.1}{813, 657, 6787} प्र¦इ॒दम्¦ब्रह्म॑¦वृ॒त्र॒ऽतूर्ये᳚षु¦आ॒वि॒थ॒¦प्र¦सु॒न्व॒तः¦श॒ची॒ऽप॒ते॒¦इन्द्र॑¦विश्वा᳚भिः¦ऊ॒तिऽभिः॑ | |
से॒हा॒न उ॑ग्र॒ पृत॑ना, अ॒भि द्रुहः॑ शचीपत॒ इन्द्र॒ विश्वा᳚भिरू॒तिभिः॑ |{आत्रेयः श्यावाश्वः | इन्द्रः | महापङ्क्तिः} माध्यं᳚दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ||{2/7}{8.37.2}{8.5.7.2}{6.3.19.2}{814, 657, 6788} से॒हा॒नः¦उ॒ग्र॒¦पृत॑नाः¦अ॒भि¦द्रुहः॑¦श॒ची॒ऽप॒ते॒¦इन्द्र॑¦विश्वा᳚भिः¦ऊ॒तिऽभिः॑ | |
ए॒क॒राळ॒स्य भुव॑नस्य राजसि शचीपत॒ इन्द्र॒ विश्वा᳚भिरू॒तिभिः॑ |{आत्रेयः श्यावाश्वः | इन्द्रः | महापङ्क्तिः} माध्यं᳚दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ||{3/7}{8.37.3}{8.5.7.3}{6.3.19.3}{815, 657, 6789} ए॒क॒ऽराट्¦अ॒स्य¦भुव॑नस्य¦रा॒ज॒सि॒¦श॒ची॒ऽप॒ते॒¦इन्द्र॑¦विश्वा᳚भिः¦ऊ॒तिऽभिः॑ | |
स॒स्थावा᳚ना यवयसि॒ त्वमेक॒ इच्छ॑चीपत॒ इन्द्र॒ विश्वा᳚भिरू॒तिभिः॑ |{आत्रेयः श्यावाश्वः | इन्द्रः | महापङ्क्तिः} माध्यं᳚दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ||{4/7}{8.37.4}{8.5.7.4}{6.3.19.4}{816, 657, 6790} स॒ऽस्थावा᳚ना¦य॒व॒य॒सि॒¦त्वम्¦एकः॑¦इत्¦श॒ची॒ऽप॒ते॒¦इन्द्र॑¦विश्वा᳚भिः¦ऊ॒तिऽभिः॑ | |
क्षेम॑स्य च प्र॒युज॑श्च॒ त्वमी᳚शिषे शचीपत॒ इन्द्र॒ विश्वा᳚भिरू॒तिभिः॑ |{आत्रेयः श्यावाश्वः | इन्द्रः | महापङ्क्तिः} माध्यं᳚दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ||{5/7}{8.37.5}{8.5.7.5}{6.3.19.5}{817, 657, 6791} क्षेम॑स्य¦च॒¦प्र॒ऽयुजः॑¦च॒¦त्वम्¦ई॒शि॒षे॒¦श॒ची॒ऽप॒ते॒¦इन्द्र॑¦विश्वा᳚भिः¦ऊ॒तिऽभिः॑ | |
क्ष॒त्राय॑ त्व॒मव॑सि॒ न त्व॑माविथ शचीपत॒ इन्द्र॒ विश्वा᳚भिरू॒तिभिः॑ |{आत्रेयः श्यावाश्वः | इन्द्रः | महापङ्क्तिः} माध्यं᳚दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ||{6/7}{8.37.6}{8.5.7.6}{6.3.19.6}{818, 657, 6792} क्ष॒त्राय॑¦त्व॒म्¦अव॑सि¦न¦त्व॒म्¦आ॒वि॒थ॒¦श॒ची॒ऽप॒ते॒¦इन्द्र॑¦विश्वा᳚भिः¦ऊ॒तिऽभिः॑ | |
श्या॒वाश्व॑स्य॒ रेभ॑त॒स्तथा᳚ शृणु॒ यथाशृ॑णो॒रत्रेः॒ कर्मा᳚णि कृण्व॒तः |{आत्रेयः श्यावाश्वः | इन्द्रः | महापङ्क्तिः} प्र त्र॒सद॑स्युमाविथ॒ त्वमेक॒ इन्नृ॒षाह्य॒ इन्द्र॑ क्ष॒त्राणि॑ व॒र्धय॑न् ||{7/7}{8.37.7}{8.5.7.7}{6.3.19.7}{819, 657, 6793} श्या॒व।आ॑श्वस्य¦रेभ॑तः¦तथा᳚¦शृ॒णु॒¦यथा᳚¦अशृ॑णोः¦अत्रेः᳚¦कर्मा᳚णि¦कृ॒ण्व॒तः | |
[38] यज्ञस्येति दशर्चस्य सूक्तस्यात्रेयः श्यावाश्वइंद्राग्नीगायत्री | |
य॒ज्ञस्य॒ हि स्थ ऋ॒त्विजा॒ सस्नी॒ वाजे᳚षु॒ कर्म॑सु |{आत्रेयः श्यावाश्वः | इन्द्राग्नी | गायत्री} इन्द्रा᳚ग्नी॒ तस्य॑ बोधतम् ||{1/10}{8.38.1}{8.5.8.1}{6.3.20.1}{820, 658, 6794} य॒ज्ञस्य॑¦हि¦स्थः¦ऋ॒त्विजा᳚¦सस्नी॒ इति॑¦वाजे᳚षु¦कर्म॑ऽसु | इन्द्रा᳚ग्नी॒ इति॑¦तस्य॑¦बो॒ध॒त॒म् || |
तो॒शासा᳚ रथ॒यावा᳚ना वृत्र॒हणाप॑राजिता |{आत्रेयः श्यावाश्वः | इन्द्राग्नी | गायत्री} इन्द्रा᳚ग्नी॒ तस्य॑ बोधतम् ||{2/10}{8.38.2}{8.5.8.2}{6.3.20.2}{821, 658, 6795} तो॒षासा᳚¦र॒थ॒ऽयावा᳚ना¦वृ॒त्र॒ऽहना᳚¦अप॑राऽजिता | इन्द्रा᳚ग्नी॒ इति॑¦तस्य॑¦बो॒ध॒त॒म् || |
इ॒दं वां᳚ मदि॒रं मध्वधु॑क्ष॒न्नद्रि॑भि॒र्नरः॑ |{आत्रेयः श्यावाश्वः | इन्द्राग्नी | गायत्री} इन्द्रा᳚ग्नी॒ तस्य॑ बोधतम् ||{3/10}{8.38.3}{8.5.8.3}{6.3.20.3}{822, 658, 6796} इ॒दम्¦वा॒म्¦म॒दि॒रम्¦मधु॑¦अधु॑क्षन्¦अद्रि॑ऽभिः¦नरः॑ | इन्द्रा᳚ग्नी॒ इति॑¦तस्य॑¦बो॒ध॒त॒म् || |
जु॒षेथां᳚ य॒ज्ञमि॒ष्टये᳚ सु॒तं सोमं᳚ सधस्तुती |{आत्रेयः श्यावाश्वः | इन्द्राग्नी | गायत्री} इन्द्रा᳚ग्नी॒, आ ग॑तं नरा ||{4/10}{8.38.4}{8.5.8.4}{6.3.20.4}{823, 658, 6797} जु॒षेथा᳚म्¦य॒ज्ञम्¦इ॒ष्टये᳚¦सु॒तम्¦सोम᳚म्¦स॒ध॒स्तु॒ती॒ इति॑ सधऽस्तुती | इन्द्रा᳚ग्नी॒ इति॑¦आ¦ग॒त॒म्¦न॒रा॒ || |
इ॒मा जु॑षेथां॒ सव॑ना॒ येभि᳚र्ह॒व्यान्यू॒हथुः॑ |{आत्रेयः श्यावाश्वः | इन्द्राग्नी | गायत्री} इन्द्रा᳚ग्नी॒, आ ग॑तं नरा ||{5/10}{8.38.5}{8.5.8.5}{6.3.20.5}{824, 658, 6798} इ॒मा¦जु॒षे॒था॒म्¦सव॑ना¦येभिः॑¦ह॒व्यानि॑¦ऊ॒हथुः॑ | इन्द्रा᳚ग्नी॒ इति॑¦आ¦ग॒त॒म्¦न॒रा॒ || |
इ॒मां गा᳚य॒त्रव॑र्तनिं जु॒षेथां᳚ सुष्टु॒तिं मम॑ |{आत्रेयः श्यावाश्वः | इन्द्राग्नी | गायत्री} इन्द्रा᳚ग्नी॒, आ ग॑तं नरा ||{6/10}{8.38.6}{8.5.8.6}{6.3.20.6}{825, 658, 6799} इ॒माम्¦गा॒य॒त्रऽव॑र्तनिम्¦जु॒षेथा᳚म्¦सु॒ऽस्तु॒तिम्¦मम॑ | इन्द्रा᳚ग्नी॒ इति॑¦आ¦ग॒त॒म्¦न॒रा॒ || |
प्रा॒त॒र्याव॑भि॒रा ग॑तं दे॒वेभि॑र्जेन्यावसू |{आत्रेयः श्यावाश्वः | इन्द्राग्नी | गायत्री} इन्द्रा᳚ग्नी॒ सोम॑पीतये ||{7/10}{8.38.7}{8.5.8.7}{6.3.21.1}{826, 658, 6800} प्रा॒त॒र्याव॑ऽभिः¦आ¦ग॒त॒म्¦दे॒वेभिः॑¦जे॒न्या॒व॒सू॒ इति॑ | इन्द्रा᳚ग्नी॒ इति॑¦सोम॑ऽपीतये || |
श्या॒वाश्व॑स्य सुन्व॒तोऽत्री᳚णां शृणुतं॒ हव᳚म् |{आत्रेयः श्यावाश्वः | इन्द्राग्नी | गायत्री} इन्द्रा᳚ग्नी॒ सोम॑पीतये ||{8/10}{8.38.8}{8.5.8.8}{6.3.21.2}{827, 658, 6801} श्या॒व।आ॑श्वस्य¦सु॒न्व॒तः¦अत्री᳚णाम्¦शृ॒णु॒त॒म्¦हव᳚म् | इन्द्रा᳚ग्नी॒ इति॑¦सोम॑ऽपीतये || |
ए॒वा वा᳚मह्व ऊ॒तये॒ यथाहु॑वन्त॒ मेधि॑राः |{आत्रेयः श्यावाश्वः | इन्द्राग्नी | गायत्री} इन्द्रा᳚ग्नी॒ सोम॑पीतये ||{9/10}{8.38.9}{8.5.8.9}{6.3.21.3}{828, 658, 6802} ए॒व¦वा॒म्¦अ॒ह्वे॒¦ऊ॒तये᳚¦यथा᳚¦अहु॑वन्त¦मेधि॑राः | इन्द्रा᳚ग्नी॒ इति॑¦सोम॑ऽपीतये || |
आहं सर॑स्वतीवतोरिन्द्रा॒ग्न्योरवो᳚ वृणे |{आत्रेयः श्यावाश्वः | इन्द्राग्नी | गायत्री} याभ्यां᳚ गाय॒त्रमृ॒च्यते᳚ ||{10/10}{8.38.10}{8.5.8.10}{6.3.21.4}{829, 658, 6803} आ¦अ॒हम्¦सर॑स्वतीऽवतोः¦इ॒न्द्रा॒ग्न्योः¦अवः॑¦वृ॒णे॒ | याभ्या᳚म्¦गा॒य॒त्रम्¦ऋ॒च्यते᳚ || |
[39] अग्निमिति दशर्चस्य सूक्तस्य काण्वो नाभाकोग्निर्महापंक्तिः | |
अ॒ग्निम॑स्तोष्यृ॒ग्मिय॑म॒ग्निमी॒ळा य॒जध्यै᳚ |{काण्वो नाभाकः | अग्निः | महापङ्क्तिः} अ॒ग्निर्दे॒वाँ, अ॑नक्तु न उ॒भे हि वि॒दथे᳚ क॒विर॒न्तश्चर॑ति दू॒त्य१॑(अं॒) नभ᳚न्तामन्य॒के स॑मे ||{1/10}{8.39.1}{8.5.9.1}{6.3.22.1}{830, 659, 6804} अ॒ग्निम्¦अ॒स्तो॒षि॒¦ऋ॒ग्मिय᳚म्¦अ॒ग्निम्¦ई॒ळा¦य॒जध्यै᳚ | |
न्य॑ग्ने॒ नव्य॑सा॒ वच॑स्त॒नूषु॒ शंस॑मेषाम् |{काण्वो नाभाकः | अग्निः | महापङ्क्तिः} न्यरा᳚ती॒ ररा᳚व्णां॒ विश्वा᳚, अ॒र्यो, अरा᳚तीरि॒तो यु॑च्छन्त्वा॒मुरो॒ नभ᳚न्तामन्य॒के स॑मे ||{2/10}{8.39.2}{8.5.9.2}{6.3.22.2}{831, 659, 6805} नि¦अ॒ग्ने॒¦नव्य॑सा¦वचः॑¦त॒नूषु॑¦शंस᳚म्¦ए॒षा॒म् | |
अग्ने॒ मन्मा᳚नि॒ तुभ्यं॒ कं घृ॒तं न जु॑ह्व आ॒सनि॑ |{काण्वो नाभाकः | अग्निः | महापङ्क्तिः} स दे॒वेषु॒ प्र चि॑किद्धि॒ त्वं ह्यसि॑ पू॒र्व्यः शि॒वो दू॒तो वि॒वस्व॑तो॒ नभ᳚न्तामन्य॒के स॑मे ||{3/10}{8.39.3}{8.5.9.3}{6.3.22.3}{832, 659, 6806} अग्ने᳚¦मन्मा᳚नि¦तुभ्य᳚म्¦कम्¦घृ॒तम्¦न¦जु॒ह्वे॒¦आ॒सनि॑ | |
तत्त॑द॒ग्निर्वयो᳚ दधे॒ यथा᳚यथा कृप॒ण्यति॑ |{काण्वो नाभाकः | अग्निः | महापङ्क्तिः} ऊ॒र्जाहु॑ति॒र्वसू᳚नां॒ शं च॒ योश्च॒ मयो᳚ दधे॒ विश्व॑स्यै दे॒वहू᳚त्यै॒ नभ᳚न्तामन्य॒के स॑मे ||{4/10}{8.39.4}{8.5.9.4}{6.3.22.4}{833, 659, 6807} तत्ऽत॑त्¦अ॒ग्निः¦वयः॑¦द॒धे॒¦यथा᳚ऽयथा¦कृ॒प॒ण्यति॑ | |
स चि॑केत॒ सही᳚यसा॒ग्निश्चि॒त्रेण॒ कर्म॑णा |{काण्वो नाभाकः | अग्निः | महापङ्क्तिः} स होता॒ शश्व॑तीनां॒ दक्षि॑णाभिर॒भीवृ॑त इ॒नोति॑ च प्रती॒व्य१॑(अं॒) नभ᳚न्तामन्य॒के स॑मे ||{5/10}{8.39.5}{8.5.9.5}{6.3.22.5}{834, 659, 6808} सः¦चि॒के॒त॒¦सही᳚यसा¦अ॒ग्निः¦चि॒त्रेण॑¦कर्म॑णा | |
अ॒ग्निर्जा॒ता दे॒वाना᳚म॒ग्निर्वे᳚द॒ मर्ता᳚नामपी॒च्य᳚म् |{काण्वो नाभाकः | अग्निः | महापङ्क्तिः} अ॒ग्निः स द्र॑विणो॒दा, अ॒ग्निर्द्वारा॒ व्यू᳚र्णुते॒ स्वा᳚हुतो॒ नवी᳚यसा॒ नभ᳚न्तामन्य॒के स॑मे ||{6/10}{8.39.6}{8.5.9.6}{6.3.23.1}{835, 659, 6809} अ॒ग्निः¦जा॒ता¦दे॒वाना᳚म्¦अ॒ग्निः¦वे॒द॒¦मर्ता᳚नाम्¦अ॒पी॒च्य᳚म् | |
अ॒ग्निर्दे॒वेषु॒ संव॑सुः॒ स वि॒क्षु य॒ज्ञिया॒स्वा |{काण्वो नाभाकः | अग्निः | महापङ्क्तिः} स मु॒दा काव्या᳚ पु॒रु विश्वं॒ भूमे᳚व पुष्यति दे॒वो दे॒वेषु॑ य॒ज्ञियो॒ नभ᳚न्तामन्य॒के स॑मे ||{7/10}{8.39.7}{8.5.9.7}{6.3.23.2}{836, 659, 6810} अ॒ग्निः¦दे॒वेषु॑¦सम्ऽव॑सुः¦सः¦वि॒क्षु¦य॒ज्ञिया᳚सु¦आ | |
यो, अ॒ग्निः स॒प्तमा᳚नुषः श्रि॒तो विश्वे᳚षु॒ सिन्धु॑षु |{काण्वो नाभाकः | अग्निः | महापङ्क्तिः} तमाग᳚न्म त्रिप॒स्त्यं म᳚न्धा॒तुर्द॑स्यु॒हन्त॑मम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यं नभ᳚न्तामन्य॒के स॑मे ||{8/10}{8.39.8}{8.5.9.8}{6.3.23.3}{837, 659, 6811} यः¦अ॒ग्निः¦स॒प्तऽमा᳚नुषः¦श्रि॒तः¦विश्वे᳚षु¦सिन्धु॑षु | |
अ॒ग्निस्त्रीणि॑ त्रि॒धातू॒न्या क्षे᳚ति वि॒दथा᳚ क॒विः |{काण्वो नाभाकः | अग्निः | महापङ्क्तिः} स त्रीँरे᳚काद॒शाँ, इ॒ह यक्ष॑च्च पि॒प्रय॑च्च नो॒ विप्रो᳚ दू॒तः परि॑ष्कृतो॒ नभ᳚न्तामन्य॒के स॑मे ||{9/10}{8.39.9}{8.5.9.9}{6.3.23.4}{838, 659, 6812} अ॒ग्निः¦त्रीणि॑¦त्रि॒ऽधातू᳚नि¦आ¦क्षे॒ति॒¦वि॒दथा᳚¦क॒विः | |
त्वं नो᳚, अग्न आ॒युषु॒ त्वं दे॒वेषु॑ पूर्व्य॒ वस्व॒ एक॑ इरज्यसि |{काण्वो नाभाकः | अग्निः | महापङ्क्तिः} त्वामापः॑ परि॒स्रुतः॒ परि॑ यन्ति॒ स्वसे᳚तवो॒ नभ᳚न्तामन्य॒के स॑मे ||{10/10}{8.39.10}{8.5.9.10}{6.3.23.5}{839, 659, 6813} त्वम्¦नः॒¦अ॒ग्ने॒¦आ॒युषु॑¦त्वम्¦दे॒वेषु॑¦पू॒र्व्य॒¦वस्वः॑¦एकः॑¦इ॒र॒ज्य॒सि॒ | |
[40] इंद्राग्नीइति द्वादशर्चस्य सूक्तस्य काण्वोनाभाक इंद्राग्नी महापंक्तिर्द्वितीयाशक्वर्यंत्यात्रिष्टुप् | |
इन्द्रा᳚ग्नी यु॒वं सु नः॒ सह᳚न्ता॒ दास॑थो र॒यिम् |{काण्वो नाभाकः | इन्द्राग्नी | महापङ्क्तिः} येन॑ दृ॒ळ्हा स॒मत्स्वा वी॒ळु चि॑त्साहिषी॒मह्य॒ग्निर्वने᳚व॒ वात॒ इन्नभ᳚न्तामन्य॒के स॑मे ||{1/12}{8.40.1}{8.5.10.1}{6.3.24.1}{840, 660, 6814} इन्द्रा᳚ग्नी॒ इति॑¦यु॒वम्¦सु¦नः॒¦सह᳚न्ता¦दास॑थः¦र॒यिम् | |
न॒हि वां᳚ व॒व्रया᳚म॒हेऽथेन्द्र॒मिद्य॑जामहे॒ शवि॑ष्ठं नृ॒णां नर᳚म् |{काण्वो नाभाकः | इन्द्राग्नी | शक्वरी} स नः॑ क॒दा चि॒दर्व॑ता॒ गम॒दा वाज॑सातये॒ गम॒दा मे॒धसा᳚तये॒ नभ᳚न्तामन्य॒के स॑मे ||{2/12}{8.40.2}{8.5.10.2}{6.3.24.2}{841, 660, 6815} न॒हि¦वा॒म्¦व॒व्रया᳚महे¦अथ॑¦इन्द्र᳚म्¦इत्¦य॒जा॒म॒हे॒¦शवि॑ष्ठम्¦नृ॒णाम्¦नर᳚म् | |
ता हि मध्यं॒ भरा᳚णामिन्द्रा॒ग्नी, अ॑धिक्षि॒तः |{काण्वो नाभाकः | इन्द्राग्नी | महापङ्क्तिः} ता, उ॑ कवित्व॒ना क॒वी पृ॒च्छ्यमा᳚ना सखीय॒ते सं धी॒तम॑श्नुतं नरा॒ नभ᳚न्तामन्य॒के स॑मे ||{3/12}{8.40.3}{8.5.10.3}{6.3.24.3}{842, 660, 6816} ता¦हि¦मध्य᳚म्¦भरा᳚णाम्¦इ॒न्द्रा॒ग्नी इति॑¦अ॒धि॒ऽक्षि॒तः | |
अ॒भ्य॑र्च नभाक॒वदि᳚न्द्रा॒ग्नी य॒जसा᳚ गि॒रा |{काण्वो नाभाकः | इन्द्राग्नी | महापङ्क्तिः} ययो॒र्विश्व॑मि॒दं जग॑दि॒यं द्यौः पृ॑थि॒वी म॒ह्यु१॑(उ॒)पस्थे᳚ बिभृ॒तो वसु॒ नभ᳚न्तामन्य॒के स॑मे ||{4/12}{8.40.4}{8.5.10.4}{6.3.24.4}{843, 660, 6817} अ॒भि¦अ॒र्च॒¦न॒भा॒क॒ऽवत्¦इ॒न्द्रा॒ग्नी इति॑¦य॒जसा᳚¦गि॒रा | |
प्र ब्रह्मा᳚णि नभाक॒वदि᳚न्द्रा॒ग्निभ्या᳚मिरज्यत |{काण्वो नाभाकः | इन्द्राग्नी | महापङ्क्तिः} या स॒प्तबु॑ध्नमर्ण॒वं जि॒ह्मबा᳚रमपोर्णु॒त इन्द्र॒ ईशा᳚न॒ ओज॑सा॒ नभ᳚न्तामन्य॒के स॑मे ||{5/12}{8.40.5}{8.5.10.5}{6.3.24.5}{844, 660, 6818} प्र¦ब्रह्मा᳚णि¦न॒भा॒क॒ऽवत्¦इ॒न्द्रा॒ग्निऽभ्या᳚म्¦इ॒र॒ज्य॒त॒ | |
अपि॑ वृश्च पुराण॒वद्व्र॒तते᳚रिव गुष्पि॒तमोजो᳚ दा॒सस्य॑ दम्भय |{काण्वो नाभाकः | इन्द्राग्नी | महापङ्क्तिः} व॒यं तद॑स्य॒ सम्भृ॑तं॒ वस्विन्द्रे᳚ण॒ वि भ॑जेमहि॒ नभ᳚न्तामन्य॒के स॑मे ||{6/12}{8.40.6}{8.5.10.6}{6.3.24.6}{845, 660, 6819} अपि॑¦वृ॒श्च॒¦पु॒रा॒ण॒ऽवत्¦व्र॒ततेः᳚ऽइव¦गु॒ष्पि॒तम्¦ओजः॑¦दा॒सस्य॑¦द॒म्भ॒य॒ | |
यदि᳚न्द्रा॒ग्नी जना᳚, इ॒मे वि॒ह्वय᳚न्ते॒ तना᳚ गि॒रा |{काण्वो नाभाकः | इन्द्राग्नी | महापङ्क्तिः} अ॒स्माके᳚भि॒र्नृभि᳚र्व॒यं सा᳚स॒ह्याम॑ पृतन्य॒तो व॑नु॒याम॑ वनुष्य॒तो नभ᳚न्तामन्य॒के स॑मे ||{7/12}{8.40.7}{8.5.10.7}{6.3.25.1}{846, 660, 6820} यत्¦इ॒न्द्रा॒ग्नी इति॑¦जनाः᳚¦इ॒मे¦वि॒ऽह्वय᳚न्ते¦तना᳚¦गि॒रा | |
या नु श्वे॒ताव॒वो दि॒व उ॒च्चरा᳚त॒ उप॒ द्युभिः॑ |{काण्वो नाभाकः | इन्द्राग्नी | महापङ्क्तिः} इ॒न्द्रा॒ग्न्योरनु᳚ व्र॒तमुहा᳚ना यन्ति॒ सिन्ध॑वो॒ यान् त्सीं᳚ ब॒न्धादमु᳚ञ्चतां॒ नभ᳚न्तामन्य॒के स॑मे ||{8/12}{8.40.8}{8.5.10.8}{6.3.25.2}{847, 660, 6821} या¦नु¦श्वे॒तौ¦अ॒वः¦दि॒वः¦उ॒त्ऽचरा᳚तः¦उप॑¦द्युऽभिः॑ | |
पू॒र्वीष्ट॑ इ॒न्द्रोप॑मातयः पू॒र्वीरु॒त प्रश॑स्तयः॒ सूनो᳚ हि॒न्वस्य॑ हरिवः |{काण्वो नाभाकः | इन्द्राग्नी | महापङ्क्तिः} वस्वो᳚ वी॒रस्या॒पृचो॒ या नु साध᳚न्त नो॒ धियो॒ नभ᳚न्तामन्य॒के स॑मे ||{9/12}{8.40.9}{8.5.10.9}{6.3.25.3}{848, 660, 6822} पू॒र्वीः¦ते॒¦इ॒न्द्र॒¦उप॑ऽमातयः¦पू॒र्वीः¦उ॒त¦प्रऽश॑स्तयः¦सूनो॒ इति॑¦हि॒न्वस्य॑¦ह॒रि॒ऽवः॒ | |
तं शि॑शीता सुवृ॒क्तिभि॑स्त्वे॒षं सत्वा᳚नमृ॒ग्मिय᳚म् |{काण्वो नाभाकः | इन्द्राग्नी | महापङ्क्तिः} उ॒तो नु चि॒द्य ओज॑सा॒ शुष्ण॑स्या॒ण्डानि॒ भेद॑ति॒ जेष॒त्स्व᳚र्वतीर॒पो नभ᳚न्तामन्य॒के स॑मे ||{10/12}{8.40.10}{8.5.10.10}{6.3.25.4}{849, 660, 6823} तम्¦शि॒शी॒त॒¦सु॒वृ॒क्तिऽभिः॑¦त्वे॒षम्¦सत्वा᳚नम्¦ऋ॒ग्मिय᳚म् | |
तं शि॑शीता स्वध्व॒रं स॒त्यं सत्वा᳚नमृ॒त्विय᳚म् |{काण्वो नाभाकः | इन्द्राग्नी | महापङ्क्तिः} उ॒तो नु चि॒द्य ओह॑त आ॒ण्डा शुष्ण॑स्य॒ भेद॒त्यजैः॒ स्व᳚र्वतीर॒पो नभ᳚न्तामन्य॒के स॑मे ||{11/12}{8.40.11}{8.5.10.11}{6.3.25.5}{850, 660, 6824} तम्¦शि॒शी॒त॒¦सु॒।आ॒ध्व॒रम्¦स॒त्यम्¦सत्वा᳚नम्¦ऋ॒त्विय᳚म् | |
ए॒वेन्द्रा॒ग्निभ्यां᳚ पितृ॒वन्नवी᳚यो मन्धातृ॒वद᳚ङ्गिर॒स्वद॑वाचि |{काण्वो नाभाकः | इन्द्राग्नी | त्रिष्टुप्} त्रि॒धातु॑ना॒ शर्म॑णा पातम॒स्मान्व॒यं स्या᳚म॒ पत॑यो रयी॒णाम् ||{12/12}{8.40.12}{8.5.10.12}{6.3.25.6}{851, 660, 6825} ए॒व¦इ॒न्द्रा॒ग्निऽभ्या᳚म्¦पि॒तृ॒ऽवत्¦नवी᳚यः¦म॒न्धा॒तृ॒ऽवत्¦अ॒ङ्गि॒र॒स्वत्¦अ॒वा॒चि॒ | |
[41] अस्माऊष्विति दशर्चस्य सूक्तस्य काण्वोनाभाकोवरुणोमहापंक्तिः | |
अ॒स्मा, ऊ॒ षु प्रभू᳚तये॒ वरु॑णाय म॒रुद्भ्योऽर्चा᳚ वि॒दुष्ट॑रेभ्यः |{काण्वो नाभाकः | वरुणः | महापङ्क्तिः} यो धी॒ता मानु॑षाणां प॒श्वो गा, इ॑व॒ रक्ष॑ति॒ नभ᳚न्तामन्य॒के स॑मे ||{1/10}{8.41.1}{8.5.11.1}{6.3.26.1}{852, 661, 6826} अ॒स्मै¦ऊँ॒ इति॑¦सु¦प्रऽभू᳚तये¦वरु॑णाय¦म॒रुत्ऽभ्यः॑¦अर्च॑¦वि॒दुःऽत॑रेभ्यः | |
तमू॒ षु स॑म॒ना गि॒रा पि॑तॄ॒णां च॒ मन्म॑भिः |{काण्वो नाभाकः | वरुणः | महापङ्क्तिः} ना॒भा॒कस्य॒ प्रश॑स्तिभि॒र्यः सिन्धू᳚ना॒मुपो᳚द॒ये स॒प्तस्व॑सा॒ स म॑ध्य॒मो नभ᳚न्तामन्य॒के स॑मे ||{2/10}{8.41.2}{8.5.11.2}{6.3.26.2}{853, 661, 6827} तम्¦ऊँ॒ इति॑¦सु¦स॒म॒ना¦गि॒रा¦पि॒तॄ॒णाम्¦च॒¦मन्म॑ऽभिः | |
स क्षपः॒ परि॑ षस्वजे॒ न्यु१॑(उ॒)स्रो मा॒यया᳚ दधे॒ स विश्वं॒ परि॑ दर्श॒तः |{काण्वो नाभाकः | वरुणः | महापङ्क्तिः} तस्य॒ वेनी॒रनु᳚ व्र॒तमु॒षस्ति॒स्रो, अ॑वर्धय॒न्नभ᳚न्तामन्य॒के स॑मे ||{3/10}{8.41.3}{8.5.11.3}{6.3.26.3}{854, 661, 6828} सः¦क्षपः॑¦परि॑¦स॒स्व॒जे॒¦नि¦उ॒स्रः¦मा॒यया᳚¦द॒धे॒¦सः¦विश्व᳚म्¦परि॑¦द॒र्श॒तः | |
यः क॒कुभो᳚ निधार॒यः पृ॑थि॒व्यामधि॑ दर्श॒तः |{काण्वो नाभाकः | वरुणः | महापङ्क्तिः} स माता᳚ पू॒र्व्यं प॒दं तद्वरु॑णस्य॒ सप्त्यं॒ स हि गो॒पा, इ॒वेर्यो॒ नभ᳚न्तामन्य॒के स॑मे ||{4/10}{8.41.4}{8.5.11.4}{6.3.26.4}{855, 661, 6829} यः¦क॒कुभः॑¦नि॒ऽधा॒र॒यः¦पृ॒थि॒व्याम्¦अधि॑¦द॒र्श॒तः | |
यो ध॒र्ता भुव॑नानां॒ य उ॒स्राणा᳚मपी॒च्या॒३॑(आ॒) वेद॒ नामा᳚नि॒ गुह्या᳚ |{काण्वो नाभाकः | वरुणः | महापङ्क्तिः} स क॒विः काव्या᳚ पु॒रु रू॒पं द्यौरि॑व पुष्यति॒ नभ᳚न्तामन्य॒के स॑मे ||{5/10}{8.41.5}{8.5.11.5}{6.3.26.5}{856, 661, 6830} यः¦ध॒र्ता¦भुव॑नानाम्¦यः¦उ॒स्राणा᳚म्¦अ॒पी॒च्या᳚¦वेद॑¦नामा᳚नि¦गुह्या᳚ | |
यस्मि॒न् विश्वा᳚नि॒ काव्या᳚ च॒क्रे नाभि॑रिव श्रि॒ता |{काण्वो नाभाकः | वरुणः | महापङ्क्तिः} त्रि॒तं जू॒ती स॑पर्यत व्र॒जे गावो॒ न सं॒युजे᳚ यु॒जे, अश्वाँ᳚, अयुक्षत॒ नभ᳚न्तामन्य॒के स॑मे ||{6/10}{8.41.6}{8.5.11.6}{6.3.27.1}{857, 661, 6831} यस्मि॑न्¦विश्वा᳚नि¦काव्या᳚¦च॒क्रे¦नाभिः॑ऽइव¦श्रि॒ता | |
य आ॒स्वत्क॑ आ॒शये॒ विश्वा᳚ जा॒तान्ये᳚षाम् |{काण्वो नाभाकः | वरुणः | महापङ्क्तिः} परि॒ धामा᳚नि॒ मर्मृ॑श॒द्वरु॑णस्य पु॒रो गये॒ विश्वे᳚ दे॒वा, अनु᳚ व्र॒तं नभ᳚न्तामन्य॒के स॑मे ||{7/10}{8.41.7}{8.5.11.7}{6.3.27.2}{858, 661, 6832} यः¦आ॒सु॒¦अत्कः॑¦आ॒ऽशये᳚¦विश्वा᳚¦जा॒तानि॑¦ए॒षा॒म् | |
स स॑मु॒द्रो, अ॑पी॒च्य॑स्तु॒रो द्यामि॑व रोहति॒ नि यदा᳚सु॒ यजु॑र्द॒धे |{काण्वो नाभाकः | वरुणः | महापङ्क्तिः} स मा॒या, अ॒र्चिना᳚ प॒दास्तृ॑णा॒न्नाक॒मारु॑ह॒न्नभ᳚न्तामन्य॒के स॑मे ||{8/10}{8.41.8}{8.5.11.8}{6.3.27.3}{859, 661, 6833} सः¦स॒मु॒द्रः¦अ॒पी॒च्यः॑¦तु॒रः¦द्याम्ऽइ᳚व¦रो॒ह॒ति॒¦नि¦यत्¦आ॒सु॒¦यजुः॑¦द॒धे | |
यस्य॑ श्वे॒ता वि॑चक्ष॒णा ति॒स्रो भूमी᳚रधिक्षि॒तः |{काण्वो नाभाकः | वरुणः | महापङ्क्तिः} त्रिरुत्त॑राणि प॒प्रतु॒र्वरु॑णस्य ध्रु॒वं सदः॒ स स॑प्ता॒नामि॑रज्यति॒ नभ᳚न्तामन्य॒के स॑मे ||{9/10}{8.41.9}{8.5.11.9}{6.3.27.4}{860, 661, 6834} यस्य॑¦श्वे॒ता¦वि॒ऽच॒क्ष॒णा¦ति॒स्रः¦भूमीः᳚¦अ॒धि॒ऽक्षि॒तः | |
यः श्वे॒ताँ, अधि॑निर्णिजश्च॒क्रे कृ॒ष्णाँ, अनु᳚ व्र॒ता |{काण्वो नाभाकः | वरुणः | महापङ्क्तिः} स धाम॑ पू॒र्व्यं म॑मे॒ यः स्क॒म्भेन॒ वि रोद॑सी, अ॒जो न द्यामधा᳚रय॒न्नभ᳚न्तामन्य॒के स॑मे ||{10/10}{8.41.10}{8.5.11.10}{6.3.27.5}{861, 661, 6835} यः¦श्वे॒तान्¦अधि॑ऽनिर्निजः¦च॒क्रे¦कृ॒ष्णान्¦अनु॑¦व्र॒ता | |
[42] अस्तभ्नादिति षडृचस्य सूक्तस्य काण्वोनाभाकऋषिरंत्यानांतिसृणामात्रेयार्चनानाऋषिराद्यानांतिसृणां वरुणोंत्यानांतिसृणामश्विनौ आद्यास्तिस्रस्त्रिष्टुभोंत्यास्तिस्रोनुष्टुभः | |
अस्त॑भ्ना॒द्द्यामसु॑रो वि॒श्ववे᳚दा॒, अमि॑मीत वरि॒माणं᳚ पृथि॒व्याः |{काण्वो नाभाकः | वरुणः | त्रिष्टुप्} आसी᳚द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ||{1/6}{8.42.1}{8.5.12.1}{6.3.28.1}{862, 662, 6836} अस्त॑भ्नात्¦द्याम्¦असु॑रः¦वि॒श्वऽवे᳚दाः¦अमि॑मीत¦व॒रि॒माण᳚म्¦पृ॒थि॒व्याः | |
ए॒वा व᳚न्दस्व॒ वरु॑णं बृ॒हन्तं᳚ नम॒स्या धीर॑म॒मृत॑स्य गो॒पाम् |{काण्वो नाभाकः | वरुणः | त्रिष्टुप्} स नः॒ शर्म॑ त्रि॒वरू᳚थं॒ वि यं᳚सत्पा॒तं नो᳚ द्यावापृथिवी, उ॒पस्थे᳚ ||{2/6}{8.42.2}{8.5.12.2}{6.3.28.2}{863, 662, 6837} ए॒व¦व॒न्द॒स्व॒¦वरु॑णम्¦बृ॒हन्त᳚म्¦न॒म॒स्य¦धीर᳚म्¦अ॒मृत॑स्य¦गो॒पाम् | |
इ॒मां धियं॒ शिक्ष॑माणस्य देव॒ क्रतुं॒ दक्षं᳚ वरुण॒ सं शि॑शाधि |{काण्वो नाभाकः | वरुणः | त्रिष्टुप्} ययाति॒ विश्वा᳚ दुरि॒ता तरे᳚म सु॒तर्मा᳚ण॒मधि॒ नावं᳚ रुहेम ||{3/6}{8.42.3}{8.5.12.3}{6.3.28.3}{864, 662, 6838} इ॒माम्¦धिय᳚म्¦शिक्ष॑माणस्य¦दे॒व॒¦क्रतु᳚म्¦दक्ष᳚म्¦व॒रु॒ण॒¦सम्¦शि॒शा॒धि॒ | |
आ वां॒ ग्रावा᳚णो, अश्विना धी॒भिर्विप्रा᳚, अचुच्यवुः |{आत्रेयार्चनानाः | अश्विनौ | अनुष्टुप्} नास॑त्या॒ सोम॑पीतये॒ नभ᳚न्तामन्य॒के स॑मे ||{4/6}{8.42.4}{8.5.12.4}{6.3.28.4}{865, 662, 6839} आ¦वा॒म्¦ग्रावा᳚णः¦अ॒श्वि॒ना॒¦धी॒भिः¦विप्राः᳚¦अ॒चु॒च्य॒वुः॒ | नास॑त्या¦सोम॑ऽपीतये¦नभ᳚न्ताम्¦अ॒न्य॒के¦स॒मे॒ || |
यथा᳚ वा॒मत्रि॑रश्विना गी॒र्भिर्विप्रो॒, अजो᳚हवीत् |{आत्रेयार्चनानाः | अश्विनौ | अनुष्टुप्} नास॑त्या॒ सोम॑पीतये॒ नभ᳚न्तामन्य॒के स॑मे ||{5/6}{8.42.5}{8.5.12.5}{6.3.28.5}{866, 662, 6840} यथा᳚¦वा॒म्¦अत्रिः॑¦अ॒श्वि॒ना॒¦गीः॒ऽभिः¦विप्रः॑¦अजो᳚हवीत् | नास॑त्या¦सोम॑ऽपीतये¦नभ᳚न्ताम्¦अ॒न्य॒के¦स॒मे॒ || |
ए॒वा वा᳚मह्व ऊ॒तये॒ यथाहु॑वन्त॒ मेधि॑राः |{आत्रेयार्चनानाः | अश्विनौ | अनुष्टुप्} नास॑त्या॒ सोम॑पीतये॒ नभ᳚न्तामन्य॒के स॑मे ||{6/6}{8.42.6}{8.5.12.6}{6.3.28.6}{867, 662, 6841} ए॒व¦वा॒म्¦अ॒ह्वे॒¦ऊ॒तये᳚¦यथा᳚¦अहु॑वन्त¦मेधि॑राः | नास॑त्या¦सोम॑ऽपीतये¦नभ᳚न्ताम्¦अ॒न्य॒के¦स॒मे॒ || |
[43] इमेविप्रस्येति त्रयस्त्रिंशदृचस्य सूक्तस्यांगिरसोविरूपोग्निर्गायत्री | |
इ॒मे विप्र॑स्य वे॒धसो॒ऽग्नेरस्तृ॑तयज्वनः |{आङ्गिरसो विरूपः | अग्निः | गायत्री} गिरः॒ स्तोमा᳚स ईरते ||{1/33}{8.43.1}{8.6.1.1}{6.3.29.1}{868, 663, 6842} इ॒मे¦विप्र॑स्य¦वे॒धसः॑¦अ॒ग्नेः¦अस्तृ॑तऽयज्वनः | गिरः॑¦स्तोमा᳚सः¦ई॒र॒ते॒ || |
अस्मै᳚ ते प्रति॒हर्य॑ते॒ जात॑वेदो॒ विच॑र्षणे |{आङ्गिरसो विरूपः | अग्निः | गायत्री} अग्ने॒ जना᳚मि सुष्टु॒तिम् ||{2/33}{8.43.2}{8.6.1.2}{6.3.29.2}{869, 663, 6843} अस्मै᳚¦ते॒¦प्र॒ति॒ऽहर्य॑ते¦जात॑ऽवेदः¦विऽच॑र्षणे | अग्ने᳚¦जना᳚मि¦सु॒ऽस्तु॒तिम् || |
आ॒रो॒का, इ॑व॒ घेदह॑ ति॒ग्मा, अ॑ग्ने॒ तव॒ त्विषः॑ |{आङ्गिरसो विरूपः | अग्निः | गायत्री} द॒द्भिर्वना᳚नि बप्सति ||{3/33}{8.43.3}{8.6.1.3}{6.3.29.3}{870, 663, 6844} आ॒रो॒काःऽइ᳚व¦घ॒¦इत्¦अह॑¦ति॒ग्माः¦अ॒ग्ने॒¦तव॑¦त्विषः॑ | द॒त्ऽभिः¦वना᳚नि¦ब॒प्स॒ति॒ || |
हर॑यो धू॒मके᳚तवो॒ वात॑जूता॒, उप॒ द्यवि॑ |{आङ्गिरसो विरूपः | अग्निः | गायत्री} यत᳚न्ते॒ वृथ॑ग॒ग्नयः॑ ||{4/33}{8.43.4}{8.6.1.4}{6.3.29.4}{871, 663, 6845} हर॑यः¦धू॒मऽके᳚तवः¦वात॑ऽजूताः¦उप॑¦द्यवि॑ | यत᳚न्ते¦वृथ॑क्¦अ॒ग्नयः॑ || |
ए॒ते त्ये वृथ॑ग॒ग्नय॑ इ॒द्धासः॒ सम॑दृक्षत |{आङ्गिरसो विरूपः | अग्निः | गायत्री} उ॒षसा᳚मिव के॒तवः॑ ||{5/33}{8.43.5}{8.6.1.5}{6.3.29.5}{872, 663, 6846} ए॒ते¦त्ये¦वृथ॑क्¦अ॒ग्नयः॑¦इ॒द्धासः॑¦सम्¦अ॒दृ॒क्ष॒त॒ | उ॒षसा᳚म्ऽइव¦के॒तवः॑ || |
कृ॒ष्णा रजां᳚सि पत्सु॒तः प्र॒याणे᳚ जा॒तवे᳚दसः |{आङ्गिरसो विरूपः | अग्निः | गायत्री} अ॒ग्निर्यद्रोध॑ति॒ क्षमि॑ ||{6/33}{8.43.6}{8.6.1.6}{6.3.30.1}{873, 663, 6847} कृ॒ष्णा¦रजां᳚सि¦प॒त्सु॒तः¦प्र॒ऽयाणे᳚¦जा॒तऽवे᳚दसः | अ॒ग्निः¦यत्¦रोध॑ति¦क्षमि॑ || |
धा॒सिं कृ᳚ण्वा॒न ओष॑धी॒र्बप्स॑द॒ग्निर्न वा᳚यति |{आङ्गिरसो विरूपः | अग्निः | गायत्री} पुन॒र्यन्तरु॑णी॒रपि॑ ||{7/33}{8.43.7}{8.6.1.7}{6.3.30.2}{874, 663, 6848} धा॒सिम्¦कृ॒ण्वा॒नः¦ओष॑धीः¦बप्स॑त्¦अ॒ग्निः¦न¦वा॒य॒ति॒ | पुनः॑¦यन्¦तरु॑णीः¦अपि॑ || |
जि॒ह्वाभि॒रह॒ नन्न॑मद॒र्चिषा᳚ जञ्जणा॒भव॑न् |{आङ्गिरसो विरूपः | अग्निः | गायत्री} अ॒ग्निर्वने᳚षु रोचते ||{8/33}{8.43.8}{8.6.1.8}{6.3.30.3}{875, 663, 6849} जि॒ह्वाभिः॑¦अह॑¦नन्न॑मत्¦अ॒र्चिषा᳚¦जं॒ज॒णा॒ऽभव॑न् | अ॒ग्निः¦वने᳚षु¦रो॒च॒ते॒ || |
अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुध्यसे |{आङ्गिरसो विरूपः | अग्निः | गायत्री} गर्भे॒ सञ्जा᳚यसे॒ पुनः॑ ||{9/33}{8.43.9}{8.6.1.9}{6.3.30.4}{876, 663, 6850} अ॒प्ऽसु¦अ॒ग्ने॒¦सधिः॑¦तव॑¦सः¦ओष॑धीः¦अनु॑¦रु॒ध्य॒से॒ | गर्भे᳚¦सन्¦जा॒य॒से॒¦पुन॒रिति॑ || |
उद॑ग्ने॒ तव॒ तद् घृ॒ताद॒र्ची रो᳚चत॒ आहु॑तम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री} निंसा᳚नं जु॒ह्वो॒३॑(ओ॒) मुखे᳚ ||{10/33}{8.43.10}{8.6.1.10}{6.3.30.5}{877, 663, 6851} उत्¦अ॒ग्ने॒¦तव॑¦तत्¦घृ॒तात्¦अ॒र्चिः¦रो॒च॒ते॒¦आऽहु॑तम् | निंसा᳚नम्¦जु॒ह्वः॑¦मुखे᳚ || |
उ॒क्षान्ना᳚य व॒शान्ना᳚य॒ सोम॑पृष्ठाय वे॒धसे᳚ |{आङ्गिरसो विरूपः | अग्निः | गायत्री} स्तोमै᳚र्विधेमा॒ग्नये᳚ ||{11/33}{8.43.11}{8.6.1.11}{6.3.31.1}{878, 663, 6852} उ॒क्ष।आ᳚न्नाय¦व॒शा।आ᳚न्नाय¦सोम॑ऽपृष्ठाय¦वे॒धसे᳚ | स्तोमैः᳚¦वि॒धे॒म॒¦अ॒ग्नये᳚ || |
उ॒त त्वा॒ नम॑सा व॒यं होत॒र्वरे᳚ण्यक्रतो |{आङ्गिरसो विरूपः | अग्निः | गायत्री} अग्ने᳚ स॒मिद्भि॑रीमहे ||{12/33}{8.43.12}{8.6.1.12}{6.3.31.2}{879, 663, 6853} उ॒त¦त्वा॒¦नम॑सा¦व॒यम्¦होतः॑¦वरे᳚ण्यक्रतो॒ इति॒ वरे᳚ण्यऽक्रतो | अग्ने᳚¦स॒मित्ऽभिः॑¦ई॒म॒हे॒ || |
उ॒त त्वा᳚ भृगु॒वच्छु॑चे मनु॒ष्वद॑ग्न आहुत |{आङ्गिरसो विरूपः | अग्निः | गायत्री} अ॒ङ्गि॒र॒स्वद्ध॑वामहे ||{13/33}{8.43.13}{8.6.1.13}{6.3.31.3}{880, 663, 6854} उ॒त¦त्वा॒¦भृ॒गु॒ऽवत्¦शु॒चे॒¦म॒नु॒ष्वत्¦अ॒ग्ने॒¦आ॒ऽहु॒त॒ | अ॒ङ्गि॒र॒स्वत्¦ह॒वा॒म॒हे॒ || |
त्वं ह्य॑ग्ने, अ॒ग्निना॒ विप्रो॒ विप्रे᳚ण॒ सन् त्स॒ता |{आङ्गिरसो विरूपः | अग्निः | गायत्री} सखा॒ सख्या᳚ समि॒ध्यसे᳚ ||{14/33}{8.43.14}{8.6.1.14}{6.3.31.4}{881, 663, 6855} त्वम्¦हि¦अ॒ग्ने॒¦अ॒ग्निना᳚¦विप्रः॑¦विप्रे᳚ण¦सन्¦स॒ता | सखा᳚¦सख्या᳚¦स॒म्ऽइ॒ध्यसे᳚ || |
स त्वं विप्रा᳚य दा॒शुषे᳚ र॒यिं दे᳚हि सह॒स्रिण᳚म् |{आङ्गिरसो विरूपः | अग्निः | गायत्री} अग्ने᳚ वी॒रव॑ती॒मिष᳚म् ||{15/33}{8.43.15}{8.6.1.15}{6.3.31.5}{882, 663, 6856} सः¦त्वम्¦विप्रा᳚य¦दा॒शुषे᳚¦र॒यिम्¦दे॒हि॒¦स॒ह॒स्रिण᳚म् | अग्ने᳚¦वी॒रऽव॑तीम्¦इष᳚म् || |
अग्ने॒ भ्रातः॒ सह॑स्कृत॒ रोहि॑दश्व॒ शुचि᳚व्रत |{आङ्गिरसो विरूपः | अग्निः | गायत्री} इ॒मं स्तोमं᳚ जुषस्व मे ||{16/33}{8.43.16}{8.6.1.16}{6.3.32.1}{883, 663, 6857} अग्ने᳚¦भ्रा॒त॒रिति॑¦सहः॑ऽकृत¦रोहि॑त्।आश्व¦शुचि॑ऽव्रत | इ॒मम्¦स्तोम᳚म्¦जु॒ष॒स्व॒¦मे॒ || |
उ॒त त्वा᳚ग्ने॒ मम॒ स्तुतो᳚ वा॒श्राय॑ प्रति॒हर्य॑ते |{आङ्गिरसो विरूपः | अग्निः | गायत्री} गो॒ष्ठं गाव॑ इवाशत ||{17/33}{8.43.17}{8.6.1.17}{6.3.32.2}{884, 663, 6858} उ॒त¦त्वा॒¦अ॒ग्ने॒¦मम॑¦स्तुतः॑¦वा॒श्राय॑¦प्र॒ति॒ऽहर्य॑ते | गो॒ऽस्थम्¦गावः॑ऽइव¦आ॒श॒त॒ || |
तुभ्यं॒ ता, अ᳚ङ्गिरस्तम॒ विश्वाः᳚ सुक्षि॒तयः॒ पृथ॑क् |{आङ्गिरसो विरूपः | अग्निः | गायत्री} अग्ने॒ कामा᳚य येमिरे ||{18/33}{8.43.18}{8.6.1.18}{6.3.32.3}{885, 663, 6859} तुभ्य᳚म्¦ताः¦अ॒ङ्गि॒रः॒ऽत॒म॒¦विश्वाः᳚¦सु॒ऽक्षि॒तयः॑¦पृथ॑क् | अग्ने᳚¦कामा᳚य¦ये॒मि॒रे॒ || |
अ॒ग्निं धी॒भिर्म॑नी॒षिणो॒ मेधि॑रासो विप॒श्चितः॑ |{आङ्गिरसो विरूपः | अग्निः | गायत्री} अ॒द्म॒सद्या᳚य हिन् विरे ||{19/33}{8.43.19}{8.6.1.19}{6.3.32.4}{886, 663, 6860} अ॒ग्निम्¦धी॒भिः¦म॒नी॒षिणः॑¦मेधि॑रासः¦वि॒पः॒ऽचितः॑ | अ॒द्म॒ऽसद्या᳚य¦हि॒न्वि॒रे॒ || |
तं त्वामज्मे᳚षु वा॒जिनं᳚ तन्वा॒ना, अ॑ग्ने, अध्व॒रम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री} वह्निं॒ होता᳚रमीळते ||{20/33}{8.43.20}{8.6.1.20}{6.3.32.5}{887, 663, 6861} तम्¦त्वाम्¦अज्मे᳚षु¦वा॒जिन᳚म्¦त॒न्वा॒नाः¦अ॒ग्ने॒¦अ॒ध्व॒रम् | वह्नि᳚म्¦होता᳚रम्¦ई॒ळ॒ते॒ || |
पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒, अनु॑ प्र॒भुः |{आङ्गिरसो विरूपः | अग्निः | गायत्री} स॒मत्सु॑ त्वा हवामहे ||{21/33}{8.43.21}{8.6.1.21}{6.3.33.1}{888, 663, 6862} पु॒रु॒ऽत्रा¦हि¦स॒ऽदृङ्¦असि॑¦विशः॑¦विश्वाः᳚¦अनु॑¦प्र॒ऽभुः | स॒मत्ऽसु॑¦त्वा॒¦ह॒वा॒म॒हे॒ || |
तमी᳚ळिष्व॒ य आहु॑तो॒ऽग्निर्वि॒भ्राज॑ते घृ॒तैः |{आङ्गिरसो विरूपः | अग्निः | गायत्री} इ॒मं नः॑ शृणव॒द्धव᳚म् ||{22/33}{8.43.22}{8.6.1.22}{6.3.33.2}{889, 663, 6863} तम्¦ई॒ळि॒ष्व॒¦यः¦आऽहु॑तः¦अ॒ग्निः¦वि॒ऽभ्राज॑ते¦घृ॒तैः | इ॒मम्¦नः॒¦शृ॒ण॒व॒त्¦हव᳚म् || |
तं त्वा᳚ व॒यं ह॑वामहे शृ॒ण्वन्तं᳚ जा॒तवे᳚दसम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री} अग्ने॒ घ्नन्त॒मप॒ द्विषः॑ ||{23/33}{8.43.23}{8.6.1.23}{6.3.33.3}{890, 663, 6864} तम्¦त्वा॒¦व॒यम्¦ह॒वा॒म॒हे॒¦शृ॒ण्वन्त᳚म्¦जा॒तऽवे᳚दसम् | अग्ने᳚¦घ्नन्त᳚म्¦अप॑¦द्विषः॑ || |
वि॒शां राजा᳚न॒मद्भु॑त॒मध्य॑क्षं॒ धर्म॑णामि॒मम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री} अ॒ग्निमी᳚ळे॒ स उ॑ श्रवत् ||{24/33}{8.43.24}{8.6.1.24}{6.3.33.4}{891, 663, 6865} वि॒शाम्¦राजा᳚नम्¦अद्भु॑तम्¦अधि॑।आक्षम्¦धर्म॑णाम्¦इ॒मम् | अ॒ग्निम्¦ई॒ळे॒¦सः¦ऊँ॒ इति॑¦श्र॒व॒त् || |
अ॒ग्निं वि॒श्वायु॑वेपसं॒ मर्यं॒ न वा॒जिनं᳚ हि॒तम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री} सप्तिं॒ न वा᳚जयामसि ||{25/33}{8.43.25}{8.6.1.25}{6.3.33.5}{892, 663, 6866} अ॒ग्निम्¦वि॒श्वायु॑ऽवेपसम्¦मर्य᳚म्¦न¦वा॒जिन᳚म्¦हि॒तम् | सप्ति᳚म्¦न¦वा॒ज॒या॒म॒सि॒ || |
घ्नन् मृ॒ध्राण्यप॒ द्विषो॒ दह॒न् रक्षां᳚सि वि॒श्वहा᳚ |{आङ्गिरसो विरूपः | अग्निः | गायत्री} अग्ने᳚ ति॒ग्मेन॑ दीदिहि ||{26/33}{8.43.26}{8.6.1.26}{6.3.34.1}{893, 663, 6867} घ्नन्¦मृ॒ध्राणि॑¦अप॑¦द्विषः॑¦दह॑न्¦रक्षां᳚सि¦वि॒श्वहा᳚ | अग्ने᳚¦ति॒ग्मेन॑¦दी॒दि॒हि॒ || |
यं त्वा॒ जना᳚स इन्ध॒ते म॑नु॒ष्वद᳚ङ्गिरस्तम |{आङ्गिरसो विरूपः | अग्निः | गायत्री} अग्ने॒ स बो᳚धि मे॒ वचः॑ ||{27/33}{8.43.27}{8.6.1.27}{6.3.34.2}{894, 663, 6868} यम्¦त्वा॒¦जना᳚सः¦इ॒न्ध॒ते¦म॒नु॒ष्वत्¦अ॒ङ्गि॒रः॒ऽत॒म॒ | अग्ने᳚¦सः¦बो॒धि॒¦मे॒¦वचः॑ || |
यद॑ग्ने दिवि॒जा, अस्य॑प्सु॒जा वा᳚ सहस्कृत |{आङ्गिरसो विरूपः | अग्निः | गायत्री} तं त्वा᳚ गी॒र्भिर्ह॑वामहे ||{28/33}{8.43.28}{8.6.1.28}{6.3.34.3}{895, 663, 6869} यत्¦अ॒ग्ने॒¦दि॒वि॒ऽजाः¦असि॑¦अ॒प्सु॒ऽजाः¦वा॒¦स॒हः॒ऽकृ॒त॒ | तम्¦त्वा॒¦गीः॒ऽभिः¦ह॒वा॒म॒हे॒ || |
तुभ्यं॒ घेत्ते जना᳚, इ॒मे विश्वाः᳚ सुक्षि॒तयः॒ पृथ॑क् |{आङ्गिरसो विरूपः | अग्निः | गायत्री} धा॒सिं हि᳚न्व॒न्त्यत्त॑वे ||{29/33}{8.43.29}{8.6.1.29}{6.3.34.4}{896, 663, 6870} तुभ्य᳚म्¦घ॒¦इत्¦ते¦जनाः᳚¦इ॒मे¦विश्वाः᳚¦सु॒ऽक्षि॒तयः॑¦पृथ॑क् | धा॒सिम्¦हि॒न्व॒न्ति॒¦अत्त॑वे || |
ते घेद॑ग्ने स्वा॒ध्योऽहा॒ विश्वा᳚ नृ॒चक्ष॑सः |{आङ्गिरसो विरूपः | अग्निः | गायत्री} तर᳚न्तः स्याम दु॒र्गहा᳚ ||{30/33}{8.43.30}{8.6.1.30}{6.3.34.5}{897, 663, 6871} ते¦घ॒¦इत्¦अ॒ग्ने॒¦सु॒ऽआ॒ध्यः¦अहा᳚¦विश्वा᳚¦नृ॒ऽचक्ष॑सः | तर᳚न्तः¦स्या॒म॒¦दुः॒ऽगहा᳚ || |
अ॒ग्निं म॒न्द्रं पु॑रुप्रि॒यं शी॒रं पा᳚व॒कशो᳚चिषम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री} हृ॒द्भिर्म॒न्द्रेभि॑रीमहे ||{31/33}{8.43.31}{8.6.1.31}{6.3.35.1}{898, 663, 6872} अ॒ग्निम्¦म॒न्द्रम्¦पु॒रु॒ऽप्रि॒यम्¦शी॒रम्¦पा॒व॒कऽशो᳚चिषम् | हृ॒त्ऽभिः¦म॒न्द्रेभिः॑¦ई॒म॒हे॒ || |
स त्वम॑ग्ने वि॒भाव॑सुः सृ॒जन् त्सूर्यो॒ न र॒श्मिभिः॑ |{आङ्गिरसो विरूपः | अग्निः | गायत्री} शर्ध॒न्तमां᳚सि जिघ्नसे ||{32/33}{8.43.32}{8.6.1.32}{6.3.35.2}{899, 663, 6873} सः¦त्वम्¦अ॒ग्ने॒¦वि॒भाऽव॑सुः¦सृ॒जन्¦सूर्यः॑¦न¦र॒श्मिऽभिः॑ | शर्ध॑न्¦तमां᳚सि¦जि॒घ्न॒से॒ || |
तत्ते᳚ सहस्व ईमहे दा॒त्रं यन्नोप॒दस्य॑ति |{आङ्गिरसो विरूपः | अग्निः | गायत्री} त्वद॑ग्ने॒ वार्यं॒ वसु॑ ||{33/33}{8.43.33}{8.6.1.33}{6.3.35.3}{900, 663, 6874} तत्¦ते॒¦स॒ह॒स्वः॒¦ई॒म॒हे॒¦दा॒त्रम्¦यत्¦न¦उ॒प॒ऽदस्य॑ति | त्वत्¦अ॒ग्ने॒¦वार्य᳚म्¦वसु॑ || |
[44] समिधाग्निमिति त्रिंशदृचस्य सूक्तस्यांगिरसो विरूपोग्निर्गायत्री | |
स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो᳚धय॒ताति॑थिम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री} आस्मि॑न्ह॒व्या जु॑होतन ||{1/30}{8.44.1}{8.6.2.1}{6.3.36.1}{901, 664, 6875} स॒म्ऽइधा᳚¦अ॒ग्निम्¦दु॒व॒स्य॒त॒¦घृ॒तैः¦बो॒ध॒य॒त॒¦अति॑थिम् | आ¦अ॒स्मि॒न्¦ह॒व्या¦जु॒हो॒त॒न॒ || |
अग्ने॒ स्तोमं᳚ जुषस्व मे॒ वर्ध॑स्वा॒नेन॒ मन्म॑ना |{आङ्गिरसो विरूपः | अग्निः | गायत्री} प्रति॑ सू॒क्तानि॑ हर्य नः ||{2/30}{8.44.2}{8.6.2.2}{6.3.36.2}{902, 664, 6876} अग्ने᳚¦स्तोम᳚म्¦जु॒ष॒स्व॒¦मे॒¦वर्ध॑स्व¦अ॒नेन॑¦मन्म॑ना | प्रति॑¦सु॒।औ॒क्तानि॑¦ह॒र्य॒¦नः॒ || |
अ॒ग्निं दू॒तं पु॒रो द॑धे हव्य॒वाह॒मुप॑ ब्रुवे |{आङ्गिरसो विरूपः | अग्निः | गायत्री} दे॒वाँ, आ सा᳚दयादि॒ह ||{3/30}{8.44.3}{8.6.2.3}{6.3.36.3}{903, 664, 6877} अ॒ग्निम्¦दू॒तम्¦पु॒रः¦द॒धे॒¦ह॒व्य॒ऽवाह᳚म्¦उप॑¦ब्रु॒वे॒ | दे॒वान्¦आ¦सा॒द॒या॒त्¦इ॒ह || |
उत्ते᳚ बृ॒हन्तो᳚, अ॒र्चयः॑ समिधा॒नस्य॑ दीदिवः |{आङ्गिरसो विरूपः | अग्निः | गायत्री} अग्ने᳚ शु॒क्रास॑ ईरते ||{4/30}{8.44.4}{8.6.2.4}{6.3.36.4}{904, 664, 6878} उत्¦ते॒¦बृ॒हन्तः॑¦अ॒र्चयः॑¦स॒म्ऽइ॒धा॒नस्य॑¦दी॒दि॒ऽवः॒ | अग्ने᳚¦शु॒क्रासः॑¦ई॒र॒ते॒ || |
उप॑ त्वा जु॒ह्वो॒३॑(ओ॒) मम॑ घृ॒ताची᳚र्यन्तु हर्यत |{आङ्गिरसो विरूपः | अग्निः | गायत्री} अग्ने᳚ ह॒व्या जु॑षस्व नः ||{5/30}{8.44.5}{8.6.2.5}{6.3.36.5}{905, 664, 6879} उप॑¦त्वा॒¦जु॒ह्वः॑¦मम॑¦घृ॒ताचीः᳚¦य॒न्तु॒¦ह॒र्य॒त॒ | अग्ने᳚¦ह॒व्या¦जु॒ष॒स्व॒¦नः॒ || |
म॒न्द्रं होता᳚रमृ॒त्विजं᳚ चि॒त्रभा᳚नुं वि॒भाव॑सुम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री} अ॒ग्निमी᳚ळे॒ स उ॑ श्रवत् ||{6/30}{8.44.6}{8.6.2.6}{6.3.37.1}{906, 664, 6880} म॒न्द्रम्¦होता᳚रम्¦ऋ॒त्विज᳚म्¦चि॒त्रऽभा᳚नुम्¦वि॒भाऽव॑सुम् | अ॒ग्निम्¦ई॒ळे॒¦सः¦ऊँ॒ इति॑¦श्र॒व॒त् || |
प्र॒त्नं होता᳚र॒मीड्यं॒ जुष्ट॑म॒ग्निं क॒विक्र॑तुम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री} अ॒ध्व॒राणा᳚मभि॒श्रिय᳚म् ||{7/30}{8.44.7}{8.6.2.7}{6.3.37.2}{907, 664, 6881} प्र॒त्नम्¦होता᳚रम्¦ईड्य᳚म्¦जुष्ट᳚म्¦अ॒ग्निम्¦क॒विऽक्र॑तुम् | अ॒ध्व॒राणा᳚म्¦अ॒भि॒ऽश्रिय᳚म् || |
जु॒षा॒णो, अ᳚ङ्गिरस्तमे॒मा ह॒व्यान्या᳚नु॒षक् |{आङ्गिरसो विरूपः | अग्निः | गायत्री} अग्ने᳚ य॒ज्ञं न॑य ऋतु॒था ||{8/30}{8.44.8}{8.6.2.8}{6.3.37.3}{908, 664, 6882} जु॒षा॒णः¦अ॒ङ्गि॒रः॒ऽत॒म॒¦इ॒मा¦ह॒व्यानि॑¦आ॒नु॒षक् | अग्ने᳚¦य॒ज्ञम्¦न॒य॒¦ऋ॒तु॒ऽथा || |
स॒मि॒धा॒न उ॑ सन्त्य॒ शुक्र॑शोच इ॒हा व॑ह |{आङ्गिरसो विरूपः | अग्निः | गायत्री} चि॒कि॒त्वान् दैव्यं॒ जन᳚म् ||{9/30}{8.44.9}{8.6.2.9}{6.3.37.4}{909, 664, 6883} स॒म्ऽइ॒धा॒नः¦ऊँ॒ इति॑¦स॒न्त्य॒¦शुक्र॑ऽशोचे¦इ॒ह¦आ¦व॒ह॒ | चि॒कि॒त्वान्¦दैव्य᳚म्¦जन᳚म् || |
विप्रं॒ होता᳚रम॒द्रुहं᳚ धू॒मके᳚तुं वि॒भाव॑सुम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री} य॒ज्ञानां᳚ के॒तुमी᳚महे ||{10/30}{8.44.10}{8.6.2.10}{6.3.37.5}{910, 664, 6884} विप्र᳚म्¦होता᳚रम्¦अ॒द्रुह᳚म्¦धू॒मऽके᳚तुम्¦वि॒भाऽव॑सुम् | य॒ज्ञाना᳚म्¦के॒तुम्¦ई॒म॒हे॒ || |
अग्ने॒ नि पा᳚हि न॒स्त्वं प्रति॑ ष्म देव॒ रीष॑तः |{आङ्गिरसो विरूपः | अग्निः | गायत्री} भि॒न्धि द्वेषः॑ सहस्कृत ||{11/30}{8.44.11}{8.6.2.11}{6.3.38.1}{911, 664, 6885} अग्ने᳚¦नि¦पा॒हि॒¦नः॒¦त्वम्¦प्रति॑¦स्म॒¦दे॒व॒¦रिष॑तः | भि॒न्धि¦द्वेषः॑¦स॒हः॒ऽकृ॒त॒ || |
अ॒ग्निः प्र॒त्नेन॒ मन्म॑ना॒ शुम्भा᳚नस्त॒न्व१॑(अं॒) स्वाम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री} क॒विर्विप्रे᳚ण वावृधे ||{12/30}{8.44.12}{8.6.2.12}{6.3.38.2}{912, 664, 6886} अ॒ग्निः¦प्र॒त्नेन॑¦मन्म॑ना¦शुम्भा᳚नः¦त॒न्व᳚म्¦स्वाम् | क॒विः¦विप्रे᳚ण¦व॒वृ॒धे॒ || |
ऊ॒र्जो नपा᳚त॒मा हु॑वे॒ऽग्निं पा᳚व॒कशो᳚चिषम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री} अ॒स्मिन् य॒ज्ञे स्व॑ध्व॒रे ||{13/30}{8.44.13}{8.6.2.13}{6.3.38.3}{913, 664, 6887} ऊ॒र्जः¦नपा᳚तम्¦आ¦हु॒वे॒¦अ॒ग्निम्¦पा॒व॒कऽशो᳚चिषम् | अ॒स्मिन्¦य॒ज्ञे¦सु॒।आ॒ध्व॒रे || |
स नो᳚ मित्रमह॒स्त्वमग्ने᳚ शु॒क्रेण॑ शो॒चिषा᳚ |{आङ्गिरसो विरूपः | अग्निः | गायत्री} दे॒वैरा स॑त्सि ब॒र्हिषि॑ ||{14/30}{8.44.14}{8.6.2.14}{6.3.38.4}{914, 664, 6888} सः¦नः॒¦मि॒त्र॒ऽम॒हः॒¦त्वम्¦अग्ने᳚¦शु॒क्रेण॑¦शो॒चिषा᳚ | दे॒वैः¦आ¦स॒त्सि॒¦ब॒र्हिषि॑ || |
यो, अ॒ग्निं त॒न्वो॒३॑(ओ॒) दमे᳚ दे॒वं मर्तः॑ सप॒र्यति॑ |{आङ्गिरसो विरूपः | अग्निः | गायत्री} तस्मा॒, इद्दी᳚दय॒द्वसु॑ ||{15/30}{8.44.15}{8.6.2.15}{6.3.38.5}{915, 664, 6889} यः¦अ॒ग्निम्¦त॒न्वः॑¦दमे᳚¦दे॒वम्¦मर्तः॑¦स॒प॒र्यति॑ | तस्मै᳚¦इत्¦दी॒द॒य॒त्¦वसु॑ || |
अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या, अ॒यम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री} अ॒पां रेतां᳚सि जिन्वति ||{16/30}{8.44.16}{8.6.2.16}{6.3.39.1}{916, 664, 6890} अ॒ग्निः¦मू॒र्धा¦दि॒वः¦क॒कुत्¦पतिः॑¦पृ॒थि॒व्याः¦अ॒यम् | अ॒पाम्¦रेतां᳚सि¦जि॒न्व॒ति॒ || |
उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राज᳚न्त ईरते |{आङ्गिरसो विरूपः | अग्निः | गायत्री} तव॒ ज्योतीं᳚ष्य॒र्चयः॑ ||{17/30}{8.44.17}{8.6.2.17}{6.3.39.2}{917, 664, 6891} उत्¦अ॒ग्ने॒¦शुच॑यः¦तव॑¦शु॒क्राः¦भ्राज᳚न्तः¦ई॒र॒ते॒ | तव॑¦ज्योतीं᳚षि¦अ॒र्चयः॑ || |
ईशि॑षे॒ वार्य॑स्य॒ हि दा॒त्रस्या᳚ग्ने॒ स्व॑र्पतिः |{आङ्गिरसो विरूपः | अग्निः | गायत्री} स्तो॒ता स्यां॒ तव॒ शर्म॑णि ||{18/30}{8.44.18}{8.6.2.18}{6.3.39.3}{918, 664, 6892} ईशि॑षे¦वार्य॑स्य¦हि¦दा॒त्रस्य॑¦अ॒ग्ने॒¦स्वः॑ऽपतिः | स्तो॒ता¦स्या॒म्¦तव॑¦शर्म॑णि || |
त्वाम॑ग्ने मनी॒षिण॒स्त्वां हि᳚न्वन्ति॒ चित्ति॑भिः |{आङ्गिरसो विरूपः | अग्निः | गायत्री} त्वां व॑र्धन्तु नो॒ गिरः॑ ||{19/30}{8.44.19}{8.6.2.19}{6.3.39.4}{919, 664, 6893} त्वाम्¦अ॒ग्ने॒¦म॒नी॒षिणः॑¦त्वाम्¦हि॒न्व॒न्ति॒¦चित्ति॑ऽभिः | त्वाम्¦व॒र्ध॒न्तु॒¦नः॒¦गिरः॑ || |
अद॑ब्धस्य स्व॒धाव॑तो दू॒तस्य॒ रेभ॑तः॒ सदा᳚ |{आङ्गिरसो विरूपः | अग्निः | गायत्री} अ॒ग्नेः स॒ख्यं वृ॑णीमहे ||{20/30}{8.44.20}{8.6.2.20}{6.3.39.5}{920, 664, 6894} अद॑ब्धस्य¦स्व॒धाऽव॑तः¦दू॒तस्य॑¦रेभ॑तः¦सदा᳚ | अ॒ग्नेः¦स॒ख्यम्¦वृ॒णी॒म॒हे॒ || |
अ॒ग्निः शुचि᳚व्रततमः॒ शुचि॒र्विप्रः॒ शुचिः॑ क॒विः |{आङ्गिरसो विरूपः | अग्निः | गायत्री} शुची᳚ रोचत॒ आहु॑तः ||{21/30}{8.44.21}{8.6.2.21}{6.3.40.1}{921, 664, 6895} अ॒ग्निः¦शुचि᳚व्रतऽतमः¦शुचिः॑¦विप्रः॑¦शुचिः॑¦क॒विः | शुचिः॑¦रो॒च॒ते॒¦आऽहु॑तः || |
उ॒त त्वा᳚ धी॒तयो॒ मम॒ गिरो᳚ वर्धन्तु वि॒श्वहा᳚ |{आङ्गिरसो विरूपः | अग्निः | गायत्री} अग्ने᳚ स॒ख्यस्य॑ बोधि नः ||{22/30}{8.44.22}{8.6.2.22}{6.3.40.2}{922, 664, 6896} उ॒त¦त्वा॒¦धी॒तयः॑¦मम॑¦गिरः॑¦वृ॒ध॒न्तु॒¦वि॒स्वहा᳚ | अग्ने᳚¦स॒ख्यस्य॑¦बो॒धि॒¦नः॒ || |
यद॑ग्ने॒ स्याम॒हं त्वं त्वं वा᳚ घा॒ स्या, अ॒हम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री} स्युष्टे᳚ स॒त्या, इ॒हाशिषः॑ ||{23/30}{8.44.23}{8.6.2.23}{6.3.40.3}{923, 664, 6897} यत्¦अ॒ग्ने॒¦स्या॒म्¦अ॒हम्¦त्वम्¦त्वम्¦वा॒¦घ॒¦स्याः¦अ॒हम् | स्युः¦ते॒¦स॒त्याः¦इ॒ह¦आ॒ऽशिषः॑ || |
वसु॒र्वसु॑पति॒र्हि क॒मस्य॑ग्ने वि॒भाव॑सुः |{आङ्गिरसो विरूपः | अग्निः | गायत्री} स्याम॑ ते सुम॒तावपि॑ ||{24/30}{8.44.24}{8.6.2.24}{6.3.40.4}{924, 664, 6898} वसुः॑¦वसु॑ऽपतिः¦हि¦क॒म्¦असि॑¦अ॒ग्ने॒¦वि॒भाऽव॑सुः | स्याम॑¦ते॒¦सु॒ऽम॒तौ¦अपि॑ || |
अग्ने᳚ धृ॒तव्र॑ताय ते समु॒द्राये᳚व॒ सिन्ध॑वः |{आङ्गिरसो विरूपः | अग्निः | गायत्री} गिरो᳚ वा॒श्रास॑ ईरते ||{25/30}{8.44.25}{8.6.2.25}{6.3.40.5}{925, 664, 6899} अग्ने᳚¦धृ॒तऽव्र॑ताय¦ते॒¦स॒मु॒द्राय॑ऽइव¦सिन्ध॑वः | गिरः॑¦वा॒श्रासः॑¦ई॒र॒ते॒ || |
युवा᳚नं वि॒श्पतिं᳚ क॒विं वि॒श्वादं᳚ पुरु॒वेप॑सम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री} अ॒ग्निं शु᳚म्भामि॒ मन्म॑भिः ||{26/30}{8.44.26}{8.6.2.26}{6.3.41.1}{926, 664, 6900} युवा᳚नम्¦वि॒श्पति᳚म्¦क॒विम्¦वि॒श्व॒।आद᳚म्¦पु॒रु॒ऽवेप॑सम् | अ॒ग्निम्¦शु॒म्भा॒मि॒¦मन्म॑ऽभिः || |
य॒ज्ञानां᳚ र॒थ्ये᳚ व॒यं ति॒ग्मज᳚म्भाय वी॒ळवे᳚ |{आङ्गिरसो विरूपः | अग्निः | गायत्री} स्तोमै᳚रिषेमा॒ग्नये᳚ ||{27/30}{8.44.27}{8.6.2.27}{6.3.41.2}{927, 664, 6901} य॒ज्ञाना᳚म्¦र॒थ्ये᳚¦व॒यम्¦ति॒ग्मऽज᳚म्भाय¦वी॒ळवे᳚ | स्तोमैः᳚¦इ॒षे॒म॒¦अ॒ग्नये᳚ || |
अ॒यम॑ग्ने॒ त्वे, अपि॑ जरि॒ता भू᳚तु सन्त्य |{आङ्गिरसो विरूपः | अग्निः | गायत्री} तस्मै᳚ पावक मृळय ||{28/30}{8.44.28}{8.6.2.28}{6.3.41.3}{928, 664, 6902} अ॒यम्¦अ॒ग्ने॒¦त्वे इति॑¦अपि॑¦ज॒रि॒ता¦भू॒तु॒¦स॒न्त्य॒ | तस्मै᳚¦पा॒व॒क॒¦मृ॒ळ॒य॒ || |
धीरो॒ ह्यस्य॑द्म॒सद्विप्रो॒ न जागृ॑विः॒ सदा᳚ |{आङ्गिरसो विरूपः | अग्निः | गायत्री} अग्ने᳚ दी॒दय॑सि॒ द्यवि॑ ||{29/30}{8.44.29}{8.6.2.29}{6.3.41.4}{929, 664, 6903} धीरः॑¦हि¦असि॑¦अ॒द्म॒ऽसत्¦विप्रः॑¦न¦जागृ॑विः¦सदा᳚ | अग्ने᳚¦दी॒दय॑सि¦द्यवि॑ || |
पु॒राग्ने᳚ दुरि॒तेभ्यः॑ पु॒रा मृ॒ध्रेभ्यः॑ कवे |{आङ्गिरसो विरूपः | अग्निः | गायत्री} प्र ण॒ आयु᳚र्वसो तिर ||{30/30}{8.44.30}{8.6.2.30}{6.3.41.5}{930, 664, 6904} पु॒रा¦अ॒ग्ने॒¦दुः॒ऽइ॒तेभ्यः॑¦पु॒रा¦मृ॒ध्रेभ्यः॑¦क॒वे॒ | प्र¦नः॒¦आयुः॑¦व॒सो॒ इति॑¦ति॒र॒ || |
[45] आघायइति द्विचत्वारिंशदृचस्य सूक्तस्य काण्वस्त्रिशोकइंद्र आद्याया अग्नींद्रागायत्री | |
आ घा॒ ये, अ॒ग्निमि᳚न्ध॒ते स्तृ॒णन्ति॑ ब॒र्हिरा᳚नु॒षक् |{काण्वः त्रिशोकः | अग्नींद्रौ | गायत्री} येषा॒मिन्द्रो॒ युवा॒ सखा᳚ ||{1/42}{8.45.1}{8.6.3.1}{6.3.42.1}{931, 665, 6905} आ¦घ॒¦ये¦अ॒ग्निम्¦इ॒न्ध॒ते¦स्तृ॒णन्ति॑¦ब॒र्हिः¦आ॒नु॒ष॒क् | येषा᳚म्¦इन्द्रः॑¦युवा᳚¦सखा᳚ || |
बृ॒हन्निदि॒ध्म ए᳚षां॒ भूरि॑ श॒स्तं पृ॒थुः स्वरुः॑ |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} येषा॒मिन्द्रो॒ युवा॒ सखा᳚ ||{2/42}{8.45.2}{8.6.3.2}{6.3.42.2}{932, 665, 6906} बृ॒हन्¦इत्¦इ॒ध्मः¦ए॒षा॒म्¦भूरि॑¦श॒स्तम्¦पृ॒थुः¦स्वरुः॑ | येषा᳚म्¦इन्द्रः॑¦युवा᳚¦सखा᳚ || |
अयु॑द्ध॒ इद्यु॒धा वृतं॒ शूर॒ आज॑ति॒ सत्व॑भिः |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} येषा॒मिन्द्रो॒ युवा॒ सखा᳚ ||{3/42}{8.45.3}{8.6.3.3}{6.3.42.3}{933, 665, 6907} अयु॑द्धः¦इत्¦यु॒धा¦वृत᳚म्¦शूरः॑¦आ¦अ॒ज॒ति॒¦सत्व॑ऽभिः | येषा᳚म्¦इन्द्रः॑¦युवा᳚¦सखा᳚ || |
आ बु॒न्दं वृ॑त्र॒हा द॑दे जा॒तः पृ॑च्छ॒द्वि मा॒तर᳚म् |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} क उ॒ग्राः के ह॑ शृण्विरे ||{4/42}{8.45.4}{8.6.3.4}{6.3.42.4}{934, 665, 6908} आ¦बु॒न्दम्¦वृ॒त्र॒ऽहा¦द॒दे॒¦जा॒तः¦पृ॒च्छ॒त्¦वि¦मा॒तर᳚म् | के¦उ॒ग्राः¦के¦ह॒¦शृ॒ण्वि॒रे॒ || |
प्रति॑ त्वा शव॒सी व॑दद्गि॒रावप्सो॒ न यो᳚धिषत् |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} यस्ते᳚ शत्रु॒त्वमा᳚च॒के ||{5/42}{8.45.5}{8.6.3.5}{6.3.42.5}{935, 665, 6909} प्रति॑¦त्वा॒¦श॒व॒सी¦व॒द॒त्¦गि॒रौ¦अप्सः॑¦न¦यो॒धि॒ष॒त् | यः¦ते॒¦श॒त्रु॒ऽत्वम्¦आ॒ऽच॒के || |
उ॒त त्वं म॑घवञ्छृणु॒ यस्ते॒ वष्टि॑ व॒वक्षि॒ तत् |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} यद्वी॒ळया᳚सि वी॒ळु तत् ||{6/42}{8.45.6}{8.6.3.6}{6.3.43.1}{936, 665, 6910} उ॒त¦त्वम्¦म॒घ॒ऽव॒न्¦शृ॒णु॒¦यः¦ते॒¦वष्टि॑¦व॒वक्षि॑¦तत् | यत्¦वी॒ळया᳚सि¦वी॒ळु¦तत् || |
यदा॒जिं यात्या᳚जि॒कृदिन्द्रः॑ स्वश्व॒युरुप॑ |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} र॒थीत॑मो र॒थीना᳚म् ||{7/42}{8.45.7}{8.6.3.7}{6.3.43.2}{937, 665, 6911} यत्¦आ॒जिम्¦याति॑¦आ॒जि॒ऽकृत्¦इन्द्रः॑¦स्व॒श्व॒ऽयुः¦उप॑ | र॒थिऽत॑मः¦र॒थीना᳚म् || |
वि षु विश्वा᳚, अभि॒युजो॒ वज्रि॒न् विष्व॒ग्यथा᳚ वृह |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} भवा᳚ नः सु॒श्रव॑स्तमः ||{8/42}{8.45.8}{8.6.3.8}{6.3.43.3}{938, 665, 6912} वि¦सु¦विश्वाः᳚¦अ॒भि॒ऽयुजः॑¦वज्रि॑न्¦विष्व॑क्¦यथा᳚¦वृ॒ह॒ | भव॑¦नः॒¦सु॒श्रवः॑ऽतमः || |
अ॒स्माकं॒ सु रथं᳚ पु॒र इन्द्रः॑ कृणोतु सा॒तये᳚ |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} न यं धूर्व᳚न्ति धू॒र्तयः॑ ||{9/42}{8.45.9}{8.6.3.9}{6.3.43.4}{939, 665, 6913} अ॒स्माक᳚म्¦सु¦रथ᳚म्¦पु॒रः¦इन्द्रः॑¦कृ॒णो॒तु॒¦सा॒तये᳚ | न¦यम्¦धूर्व᳚न्ति¦धू॒र्तयः॑ || |
वृ॒ज्याम॑ ते॒ परि॒ द्विषोऽरं᳚ ते शक्र दा॒वने᳚ |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} ग॒मेमेदि᳚न्द्र॒ गोम॑तः ||{10/42}{8.45.10}{8.6.3.10}{6.3.43.5}{940, 665, 6914} वृ॒ज्याम॑¦ते॒¦परि॑¦द्विषः॑¦अर᳚म्¦ते॒¦श॒क्र॒¦दा॒वने᳚ | ग॒मेम॑¦इत्¦इ॒न्द्र॒¦गोऽम॑तः || |
शनै᳚श्चि॒द्यन्तो᳚, अद्रि॒वोऽश्वा᳚वन्तः शत॒ग्विनः॑ |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} वि॒वक्ष॑णा, अने॒हसः॑ ||{11/42}{8.45.11}{8.6.3.11}{6.3.44.1}{941, 665, 6915} शनैः᳚¦चि॒त्¦यन्तः॑¦अ॒द्रि॒ऽवः॒¦अश्व॑ऽवन्तः¦श॒त॒ऽग्विनः॑ | वि॒वक्ष॑णाः¦अ॒ने॒हसः॑ || |
ऊ॒र्ध्वा हि ते᳚ दि॒वेदि॑वे स॒हस्रा᳚ सू॒नृता᳚ श॒ता |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} ज॒रि॒तृभ्यो᳚ वि॒मंह॑ते ||{12/42}{8.45.12}{8.6.3.12}{6.3.44.2}{942, 665, 6916} ऊ॒र्ध्वा¦हि¦ते॒¦दि॒वेऽदि॑वे¦स॒हस्रा᳚¦सू॒नृता᳚¦श॒ता | ज॒रि॒तृऽभ्यः॑¦वि॒ऽमंह॑ते || |
वि॒द्मा हि त्वा᳚ धनंज॒यमिन्द्र॑ दृ॒ळ्हा चि॑दारु॒जम् |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} आ॒दा॒रिणं॒ यथा॒ गय᳚म् ||{13/42}{8.45.13}{8.6.3.13}{6.3.44.3}{943, 665, 6917} वि॒द्म¦हि¦त्वा॒¦ध॒न॒म्ऽज॒यम्¦इन्द्र॑¦दृ॒ळ्हा¦चि॒त्¦आ॒ऽरु॒जम् | आ॒दा॒रिण᳚म्¦यथा᳚¦गय᳚म् || |
क॒कु॒हं चि॑त् त्वा कवे॒ मन्द᳚न्तु धृष्ण॒विन्द॑वः |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} आ त्वा᳚ प॒णिं यदीम॑हे ||{14/42}{8.45.14}{8.6.3.14}{6.3.44.4}{944, 665, 6918} क॒कु॒हम्¦चि॒त्¦त्वा॒¦क॒वे॒¦मन्द᳚न्तु¦धृ॒ष्णो॒ इति॑¦इन्द॑वः | आ¦त्वा॒¦प॒णिम्¦यत्¦ईम॑हे || |
यस्ते᳚ रे॒वाँ, अदा᳚शुरिः प्रम॒मर्ष॑ म॒घत्त॑ये |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} तस्य॑ नो॒ वेद॒ आ भ॑र ||{15/42}{8.45.15}{8.6.3.15}{6.3.44.5}{945, 665, 6919} यः¦ते॒¦रे॒वान्¦अदा᳚शुरिः¦प्र॒ऽम॒मर्ष॑¦म॒घत्त॑ये | तस्य॑¦नः॒¦वेदः॑¦आ¦भ॒र॒ || |
इ॒म उ॑ त्वा॒ वि च॑क्षते॒ सखा᳚य इन्द्र सो॒मिनः॑ |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} पु॒ष्टाव᳚न्तो॒ यथा᳚ प॒शुम् ||{16/42}{8.45.16}{8.6.3.16}{6.3.45.1}{946, 665, 6920} इ॒मे¦ऊँ॒ इति॑¦त्वा॒¦वि¦च॒क्ष॒ते॒¦सखा᳚यः¦इ॒न्द्र॒¦सो॒मिनः॑ | पु॒ष्टऽव᳚न्तः¦यथा᳚¦प॒शुम् || |
उ॒त त्वाब॑धिरं व॒यं श्रुत्क᳚र्णं॒ सन्त॑मू॒तये᳚ |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} दू॒रादि॒ह ह॑वामहे ||{17/42}{8.45.17}{8.6.3.17}{6.3.45.2}{947, 665, 6921} उ॒त¦त्वा॒¦अब॑धिरम्¦व॒यम्¦श्रुत्ऽक᳚र्णम्¦सन्त᳚म्¦ऊ॒तये᳚ | दू॒रात्¦इ॒ह¦ह॒वा॒म॒हे॒ || |
यच्छु॑श्रू॒या, इ॒मं हवं᳚ दु॒र्मर्षं᳚ चक्रिया, उ॒त |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} भवे᳚रा॒पिर्नो॒, अन्त॑मः ||{18/42}{8.45.18}{8.6.3.18}{6.3.45.3}{948, 665, 6922} यत्¦शु॒श्रू॒याः¦इ॒मम्¦हव᳚म्¦दुः॒ऽमर्ष᳚म्¦च॒क्रि॒याः॒¦उ॒त | भवेः᳚¦आ॒पिः¦नः॒¦अन्त॑मः || |
यच्चि॒द्धि ते॒, अपि॒ व्यथि॑र्जग॒न्वांसो॒, अम᳚न्महि |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} गो॒दा, इदि᳚न्द्र बोधि नः ||{19/42}{8.45.19}{8.6.3.19}{6.3.45.4}{949, 665, 6923} यत्¦चि॒त्¦हि¦ते॒¦अपि॑¦व्यथिः॑¦ज॒ग॒न्वांसः॑¦अम᳚न्महि | गो॒ऽदाः¦इत्¦इ॒न्द्र॒¦बो॒धि॒¦नः॒ || |
आ त्वा᳚ र॒म्भं न जिव्र॑यो रर॒भ्मा श॑वसस्पते |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} उ॒श्मसि॑ त्वा स॒धस्थ॒ आ ||{20/42}{8.45.20}{8.6.3.20}{6.3.45.5}{950, 665, 6924} आ¦त्वा॒¦र॒म्भम्¦न¦जिव्र॑यः¦र॒र॒भ्म¦श॒व॒सः॒¦प॒ते॒ | उ॒श्मसि॑¦त्वा॒¦स॒धऽस्थे᳚¦आ || |
स्तो॒त्रमिन्द्रा᳚य गायत पुरुनृ॒म्णाय॒ सत्व॑ने |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} नकि॒र्यं वृ᳚ण्व॒ते यु॒धि ||{21/42}{8.45.21}{8.6.3.21}{6.3.46.1}{951, 665, 6925} स्तो॒त्रम्¦इन्द्रा᳚य¦गा॒य॒त॒¦पु॒रु॒ऽनृ॒म्णाय॑¦सत्व॑ने | नकिः॑¦यम्¦वृ॒ण्व॒ते¦यु॒धि || |
अ॒भि त्वा᳚ वृषभा सु॒ते सु॒तं सृ॑जामि पी॒तये᳚ |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} तृ॒म्पा व्य॑श्नुही॒ मद᳚म् ||{22/42}{8.45.22}{8.6.3.22}{6.3.46.2}{952, 665, 6926} अ॒भि¦त्वा॒¦वृ॒ष॒भ॒¦सु॒ते¦सु॒तम्¦सृ॒जा॒मि॒¦पी॒तये᳚ | तृ॒म्प¦वि¦अ॒श्नु॒हि॒¦मद᳚म् || |
मा त्वा᳚ मू॒रा, अ॑वि॒ष्यवो॒ मोप॒हस्वा᳚न॒ आ द॑भन् |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} माकीं᳚ ब्रह्म॒द्विषो᳚ वनः ||{23/42}{8.45.23}{8.6.3.23}{6.3.46.3}{953, 665, 6927} मा¦त्वा॒¦मू॒राः¦अ॒वि॒ष्यवः॑¦मा¦उ॒प॒ऽहस्वा᳚नः¦आ¦द॒भ॒न् | माकी᳚म्¦ब्र॒ह्म॒ऽद्विषः॑¦व॒नः॒ || |
इ॒ह त्वा॒ गोप॑रीणसा म॒हे म᳚न्दन्तु॒ राध॑से |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} सरो᳚ गौ॒रो यथा᳚ पिब ||{24/42}{8.45.24}{8.6.3.24}{6.3.46.4}{954, 665, 6928} इ॒ह¦त्वा॒¦गोऽप॑रीणसा¦म॒हे¦म॒न्द॒न्तु॒¦राध॑से | सरः॑¦गौ॒रः¦यथा᳚¦पि॒ब॒ || |
या वृ॑त्र॒हा प॑रा॒वति॒ सना॒ नवा᳚ च चुच्यु॒वे |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} ता सं॒सत्सु॒ प्र वो᳚चत ||{25/42}{8.45.25}{8.6.3.25}{6.3.46.5}{955, 665, 6929} या¦वृ॒त्र॒ऽहा¦प॒रा॒ऽवति॑¦सना᳚¦नवा᳚¦च॒¦चु॒च्यु॒वे | ता¦सं॒सत्ऽसु॑¦प्र¦वो॒च॒त॒ || |
अपि॑बत्क॒द्रुवः॑ सु॒तमिन्द्रः॑ स॒हस्र॑बाह्वे |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} अत्रा᳚देदिष्ट॒ पौंस्य᳚म् ||{26/42}{8.45.26}{8.6.3.26}{6.3.47.1}{956, 665, 6930} अपि॑बत्¦क॒द्रुवः॑¦सु॒तम्¦इन्द्रः॑¦स॒हस्र॑ऽबाह्वे | अत्र॑¦अ॒दे॒दि॒ष्ट॒¦पौंस्य᳚म् || |
स॒त्यं तत्तु॒र्वशे॒ यदौ॒ विदा᳚नो, अह्नवा॒य्यम् |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} व्या᳚नट् तु॒र्वणे॒ शमि॑ ||{27/42}{8.45.27}{8.6.3.27}{6.3.47.2}{957, 665, 6931} स॒त्यम्¦तत्¦तु॒र्वशे᳚¦यदौ᳚¦विदा᳚नः¦अ॒ह्न॒वा॒य्यम् | वि¦आ॒न॒ट्¦तु॒र्वणे᳚¦शमि॑ || |
त॒रणिं᳚ वो॒ जना᳚नां त्र॒दं वाज॑स्य॒ गोम॑तः |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} स॒मा॒नमु॒ प्र शं᳚सिषम् ||{28/42}{8.45.28}{8.6.3.28}{6.3.47.3}{958, 665, 6932} त॒रणि᳚म्¦वः॒¦जना᳚नाम्¦त्र॒दम्¦वाज॑स्य¦गोऽम॑तः | स॒मा॒नम्¦ऊँ॒ इति॑¦प्र¦शं॒सि॒ष॒म् || |
ऋ॒भु॒क्षणं॒ न वर्त॑व उ॒क्थेषु॑ तुग्र्या॒वृध᳚म् |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} इन्द्रं॒ सोमे॒ सचा᳚ सु॒ते ||{29/42}{8.45.29}{8.6.3.29}{6.3.47.4}{959, 665, 6933} ऋ॒भु॒क्षण᳚म्¦न¦वर्त॑वे¦उ॒क्थेषु॑¦तु॒ग्र्य॒ऽवृध᳚म् | इन्द्र᳚म्¦सोमे᳚¦सचा᳚¦सु॒ते || |
यः कृ॒न्तदिद्वि यो॒न्यं त्रि॒शोका᳚य गि॒रिं पृ॒थुम् |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} गोभ्यो᳚ गा॒तुं निरे᳚तवे ||{30/42}{8.45.30}{8.6.3.30}{6.3.47.5}{960, 665, 6934} यः¦कृ॒न्तत्¦इत्¦वि¦यो॒न्यम्¦त्रि॒ऽशोका᳚य¦गि॒रिम्¦पृ॒थुम् | गोऽभ्यः॑¦गा॒तुम्¦निःऽए᳚तवे || |
यद्द॑धि॒षे म॑न॒स्यसि॑ मन्दा॒नः प्रेदिय॑क्षसि |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} मा तत्क॑रिन्द्र मृ॒ळय॑ ||{31/42}{8.45.31}{8.6.3.31}{6.3.48.1}{961, 665, 6935} यत्¦द॒धि॒षे¦म॒न॒स्यसि॑¦म॒न्दा॒नः¦प्र¦इत्¦इय॑क्षसि | मा¦तत्¦कः॒¦इ॒न्द्र॒¦मृ॒ळय॑ || |
द॒भ्रं चि॒द्धि त्वाव॑तः कृ॒तं शृ॒ण्वे, अधि॒ क्षमि॑ |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} जिगा᳚त्विन्द्र ते॒ मनः॑ ||{32/42}{8.45.32}{8.6.3.32}{6.3.48.2}{962, 665, 6936} द॒भ्रम्¦चि॒त्¦हि¦त्वाऽव॑तः¦कृ॒तम्¦शृ॒ण्वे¦अधि॑¦क्षमि॑ | जिगा᳚तु¦इ॒न्द्र॒¦ते॒¦मनः॑ || |
तवेदु॒ ताः सु॑की॒र्तयोऽस᳚न्नु॒त प्रश॑स्तयः |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} यदि᳚न्द्र मृ॒ळया᳚सि नः ||{33/42}{8.45.33}{8.6.3.33}{6.3.48.3}{963, 665, 6937} तव॑¦इत्¦ऊँ॒ इति॑¦ताः¦सु॒ऽकी॒र्तयः॑¦अस॑न्¦उ॒त¦प्रऽश॑स्तयः | यत्¦इ॒न्द्र॒¦मृ॒ळया᳚सि¦नः॒ || |
मा न॒ एक॑स्मि॒न्नाग॑सि॒ मा द्वयो᳚रु॒त त्रि॒षु |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} वधी॒र्मा शू᳚र॒ भूरि॑षु ||{34/42}{8.45.34}{8.6.3.34}{6.3.48.4}{964, 665, 6938} मा¦नः॒¦एक॑स्मिन्¦आग॑सि¦मा¦द्वयोः᳚¦उ॒त¦त्रि॒षु | वधीः᳚¦मा¦शू॒र॒¦भूरि॑षु || |
बि॒भया॒ हि त्वाव॑त उ॒ग्राद॑भिप्रभ॒ङ्गिणः॑ |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} द॒स्माद॒हमृ॑ती॒षहः॑ ||{35/42}{8.45.35}{8.6.3.35}{6.3.48.5}{965, 665, 6939} बि॒भय॑¦हि¦त्वाऽव॑तः¦उ॒ग्रात्¦अ॒भि॒ऽप्र॒भ॒ङ्गिनः॑ | द॒स्मात्¦अ॒हम्¦ऋ॒ति॒ऽसहः॑ || |
मा सख्युः॒ शून॒मा वि॑दे॒ मा पु॒त्रस्य॑ प्रभूवसो |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} आ॒वृत्व॑द्भूतु ते॒ मनः॑ ||{36/42}{8.45.36}{8.6.3.36}{6.3.49.1}{966, 665, 6940} मा¦सख्युः॑¦शून᳚म्¦आ¦वि॒दे॒¦मा¦पु॒त्रस्य॑¦प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो | आ॒ऽवृत्व॑त्¦भू॒तु॒¦ते॒¦मनः॑ || |
को नु म᳚र्या॒, अमि॑थितः॒ सखा॒ सखा᳚यमब्रवीत् |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} ज॒हा को, अ॒स्मदी᳚षते ||{37/42}{8.45.37}{8.6.3.37}{6.3.49.2}{967, 665, 6941} कः¦नु¦म॒र्याः॒¦अमि॑थितः¦सखा᳚¦सखा᳚यम्¦अ॒ब्र॒वी॒त् | ज॒हा¦कः¦अ॒स्मत्¦ई॒ष॒ते॒ || |
ए॒वारे᳚ वृषभा सु॒तेऽसि᳚न्व॒न् भूर्या᳚वयः |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} श्व॒घ्नीव॑ नि॒वता॒ चर॑न् ||{38/42}{8.45.38}{8.6.3.38}{6.3.49.3}{968, 665, 6942} ए॒वारे᳚¦वृ॒ष॒भ॒¦सु॒ते¦असि᳚न्वन्¦भूरि॑¦आ॒व॒यः॒ | श्व॒घ्नीऽइ᳚व¦नि॒ऽवता᳚¦चर॑न् || |
आ त॑ ए॒ता व॑चो॒युजा॒ हरी᳚ गृभ्णे सु॒मद्र॑था |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} यदीं᳚ ब्र॒ह्मभ्य॒ इद्ददः॑ ||{39/42}{8.45.39}{8.6.3.39}{6.3.49.4}{969, 665, 6943} आ¦ते॒¦ए॒ता¦व॒चः॒ऽयुजा᳚¦हरी॒ इति॑¦गृ॒भ्णे॒¦स॒मत्ऽर॑था | यत्¦ई॒म्¦ब्र॒ह्मऽभ्यः॑¦इत्¦ददः॑ || |
भि॒न्धि विश्वा॒, अप॒ द्विषः॒ परि॒ बाधो᳚ ज॒ही मृधः॑ |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} वसु॑ स्पा॒र्हं तदा भ॑र ||{40/42}{8.45.40}{8.6.3.40}{6.3.49.5}{970, 665, 6944} भि॒न्धि¦विश्वाः᳚¦अप॑¦द्विषः॑¦परि॑¦बाधः॑¦ज॒हि¦मृधः॑ | वसु॑¦स्पा॒र्हम्¦तत्¦आ¦भ॒र॒ || |
यद्वी॒ळावि᳚न्द्र॒ यत् स्थि॒रे यत्पर्शा᳚ने॒ परा᳚भृतम् |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} वसु॑ स्पा॒र्हं तदा भ॑र ||{41/42}{8.45.41}{8.6.3.41}{6.3.49.6}{971, 665, 6945} यत्¦वी॒ळौ¦इ॒न्द्र॒¦यत्¦स्थि॒रे¦यत्¦पर्शा᳚ने¦परा᳚ऽभृतम् | वसु॑¦स्पा॒र्हम्¦तत्¦आ¦भ॒र॒ || |
यस्य॑ ते वि॒श्वमा᳚नुषो॒ भूरे᳚र्द॒त्तस्य॒ वेद॑ति |{काण्वः त्रिशोकः | इन्द्रः | गायत्री} वसु॑ स्पा॒र्हं तदा भ॑र ||{42/42}{8.45.42}{8.6.3.42}{6.3.49.7}{972, 665, 6946} यस्य॑¦ते॒¦वि॒श्वऽमा᳚नुषः¦भूरेः᳚¦द॒त्तस्य॑¦वेद॑ति | वसु॑¦स्पा॒र्हम्¦तत्¦आ¦भ॒र॒ || |
[46] त्वावतइति त्रयस्त्रिंशदृचस्य सूक्तस्याश्व्योवशऋषिः पृथुश्रवादेवता आद्यानांविंशत्यृचामिंद्रोदेवता आनोवायवित्यादिचतसृणां शतंदासइत्यस्याश्चवायुर्देवता आद्यापादनिचृत् द्वितीयादितिस्रोगायत्र्यः पंचम्याद्याः क्रमेण ककुब्गायत्री बृहत्यनुष्टुप् सतोबृहती गायत्री बृहती विपरीतद्विपदागायत्री बृहती पिपीलिकमध्य ककुम्न्यं कुशिरा विराड्जगत्युपरिष्टाद्बृहतबृहती विषमपदाबृहती पंक्तिसंस्तारपंक्ति गायत्री पंक्ति बृहती सतोबृहती बृहती सतोबृहती गायत्री द्विपदविराड् उष्णिक् पंक्ति गायत्र्यः | (पृथुश्रवाः कानीतोराजातस्यदानस्तुतिः) | |
त्वाव॑तः पुरूवसो व॒यमि᳚न्द्र प्रणेतः |{आश्व्योवशः | इन्द्रः | गायत्री} स्मसि॑ स्थातर्हरीणाम् ||{1/33}{8.46.1}{8.6.4.1}{6.4.1.1}{973, 666, 6947} त्वाऽव॑तः¦पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो¦व॒यम्¦इ॒न्द्र॒¦प्र॒ने॒त॒रिति॑ प्रऽनेतः | स्मसि॑¦स्था॒तः॒¦ह॒री॒णा॒म् || |
त्वां हि स॒त्यम॑द्रिवो वि॒द्म दा॒तार॑मि॒षाम् |{आश्व्योवशः | इन्द्रः | गायत्री} वि॒द्म दा॒तारं᳚ रयी॒णाम् ||{2/33}{8.46.2}{8.6.4.2}{6.4.1.2}{974, 666, 6948} त्वाम्¦हि¦स॒त्यम्¦अ॒द्रि॒ऽवः॒¦वि॒द्म¦दा॒तार᳚म्¦इ॒षाम् | वि॒द्म¦दा॒तार᳚म्¦र॒यी॒णाम् || |
आ यस्य॑ ते महि॒मानं॒ शत॑मूते॒ शत॑क्रतो |{आश्व्योवशः | इन्द्रः | गायत्री} गी॒र्भिर्गृ॒णन्ति॑ का॒रवः॑ ||{3/33}{8.46.3}{8.6.4.3}{6.4.1.3}{975, 666, 6949} आ¦यस्य॑¦ते॒¦म॒हि॒मान᳚म्¦शत᳚म्ऽऊते¦शत॑क्रतो॒ इति॒ शत॑ऽक्रतो | गीः॒ऽभिः¦गृ॒णन्ति॑¦का॒रवः॑ || |
सु॒नी॒थो घा॒ स मर्त्यो॒ यं म॒रुतो॒ यम᳚र्य॒मा |{आश्व्योवशः | इन्द्रः | गायत्री} मि॒त्रः पान्त्य॒द्रुहः॑ ||{4/33}{8.46.4}{8.6.4.4}{6.4.1.4}{976, 666, 6950} सु॒ऽनी॒थः¦घ॒¦सः¦मर्त्यः॑¦यम्¦म॒रुतः॑¦यम्¦अ॒र्य॒मा | मि॒त्रः¦पान्ति॑¦अ॒द्रुहः॑ || |
दधा᳚नो॒ गोम॒दश्व॑वत्सु॒वीर्य॑मादि॒त्यजू᳚त एधते |{आश्व्योवशः | इन्द्रः | ककुभः} सदा᳚ रा॒या पु॑रु॒स्पृहा᳚ ||{5/33}{8.46.5}{8.6.4.5}{6.4.1.5}{977, 666, 6951} दधा᳚नः¦गोऽम॑त्¦अश्व॑ऽवत्¦सु॒ऽवीर्य᳚म्¦आ॒दि॒त्यऽजू᳚तः¦ए॒ध॒ते॒ | सदा᳚¦रा॒या¦पु॒रु॒ऽस्पृहा᳚ || |
तमिन्द्रं॒ दान॑मीमहे शवसा॒नमभी᳚र्वम् |{आश्व्योवशः | इन्द्रः | गायत्री} ईशा᳚नं रा॒य ई᳚महे ||{6/33}{8.46.6}{8.6.4.6}{6.4.2.1}{978, 666, 6952} तम्¦इन्द्र᳚म्¦दान᳚म्¦ई॒म॒हे¦श॒व॒सा॒नम्¦अभी᳚र्वम् | ईशा᳚नम्¦रा॒यः¦ई॒म॒हे॒ || |
तस्मि॒न्हि सन्त्यू॒तयो॒ विश्वा॒, अभी᳚रवः॒ सचा᳚ |{आश्व्योवशः | इन्द्रः | बृहती} तमा व॑हन्तु॒ सप्त॑यः पुरू॒वसुं॒ मदा᳚य॒ हर॑यः सु॒तम् ||{7/33}{8.46.7}{8.6.4.7}{6.4.2.2}{979, 666, 6953} तस्मि॑न्¦हि¦सन्ति॑¦ऊ॒तयः॑¦विश्वाः᳚¦अभी᳚रवः¦सचा᳚ | |
यस्ते॒ मदो॒ वरे᳚ण्यो॒ य इ᳚न्द्र वृत्र॒हन्त॑मः |{आश्व्योवशः | इन्द्रः | अनुष्टुप्} य आ᳚द॒दिः स्व१॑(अ॒)र्नृभि॒र्यः पृत॑नासु दु॒ष्टरः॑ ||{8/33}{8.46.8}{8.6.4.8}{6.4.2.3}{980, 666, 6954} यः¦ते॒¦मदः॑¦वरे᳚ण्यः¦यः¦इ॒न्द्र॒¦वृ॒त्र॒हन्ऽत॑मः | यः¦आ॒ऽद॒दिः¦स्वः॑¦नृऽभिः॑¦यः¦पृत॑नासु¦दु॒स्तरः॑ || |
यो दु॒ष्टरो᳚ विश्ववार श्र॒वाय्यो॒ वाजे॒ष्वस्ति॑ तरु॒ता |{आश्व्योवशः | इन्द्रः | सतोबृहती} स नः॑ शविष्ठ॒ सव॒ना व॑सो गहि ग॒मेम॒ गोम॑ति व्र॒जे ||{9/33}{8.46.9}{8.6.4.9}{6.4.2.4}{981, 666, 6955} यः¦दु॒स्तरः॑¦वि॒श्व॒ऽवा॒र॒¦श्र॒वाय्यः॑¦वाजे᳚षु¦अस्ति॑¦त॒रु॒ता | |
ग॒व्यो षु णो॒ यथा᳚ पु॒राश्व॒योत र॑थ॒या |{आश्व्योवशः | इन्द्रः | गायत्री} व॒रि॒व॒स्य म॑हामह ||{10/33}{8.46.10}{8.6.4.10}{6.4.2.5}{982, 666, 6956} ग॒व्यो इति॑¦सु¦नः॒¦यथा᳚¦पु॒रा¦अ॒श्व॒ऽया¦उ॒त¦र॒थ॒ऽया | व॒रि॒व॒स्य¦म॒हा॒ऽम॒ह॒ || |
न॒हि ते᳚ शूर॒ राध॒सोऽन्तं᳚ वि॒न्दामि॑ स॒त्रा |{आश्व्योवशः | इन्द्रः | बृहती} द॒श॒स्या नो᳚ मघव॒न्नू चि॑दद्रिवो॒ धियो॒ वाजे᳚भिराविथ ||{11/33}{8.46.11}{8.6.4.11}{6.4.3.1}{983, 666, 6957} न॒हि¦ते॒¦शू॒र॒¦राध॑सः¦अन्त᳚म्¦वि॒न्दामि॑¦स॒त्रा | |
य ऋ॒ष्वः श्रा᳚व॒यत्स॑खा॒ विश्वेत्स वे᳚द॒ जनि॑मा पुरुष्टु॒तः |{आश्व्योवशः | इन्द्रः | विपरीत बृहती} तं विश्वे॒ मानु॑षा यु॒गेन्द्रं᳚ हवन्ते तवि॒षं य॒तस्रु॑चः ||{12/33}{8.46.12}{8.6.4.12}{6.4.3.2}{984, 666, 6958} यः¦ऋ॒ष्वः¦श्र॒व॒यत्ऽस॑खा¦विश्वा᳚¦इत्¦सः¦वे॒द॒¦जनि॑म¦पु॒रु॒ऽस्तु॒तः | |
स नो॒ वाजे᳚ष्ववि॒ता पु॑रू॒वसुः॑ पुरःस्था॒ता म॒घवा᳚ वृत्र॒हा भु॑वत् ||{आश्व्योवशः | इन्द्रः | द्विपदा जगती}{13/33}{8.46.13}{8.6.4.13}{6.4.3.3}{985, 666, 6959} |
अ॒भि वो᳚ वी॒रमन्ध॑सो॒ मदे᳚षु गाय गि॒रा म॒हा विचे᳚तसम् |{आश्व्योवशः | इन्द्रः | बृहती पिपीलिकमध्य} इन्द्रं॒ नाम॒ श्रुत्यं᳚ शा॒किनं॒ वचो॒ यथा᳚ ||{14/33}{8.46.14}{8.6.4.14}{6.4.3.4}{986, 666, 6960} अ॒भि¦वः॒¦वी॒रम्¦अन्ध॑सः¦मदे᳚षु¦गा॒य॒¦गि॒रा¦म॒हा¦विऽचे᳚तसम् | |
द॒दी रेक्ण॑स्त॒न्वे᳚ द॒दिर्वसु॑ द॒दिर्वाजे᳚षु पुरुहूत वा॒जिन᳚म् |{आश्व्योवशः | इन्द्रः | ककुम्न्यंकुशिरा} नू॒नमथ॑ ||{15/33}{8.46.15}{8.6.4.15}{6.4.3.5}{987, 666, 6961} द॒दिः¦रेक्णः॑¦त॒न्वे᳚¦द॒दिः¦वसु॑¦द॒दिः¦वाजे᳚षु¦पु॒रु॒ऽहू॒त॒¦वा॒जिन᳚म् | नू॒नम्¦अथ॑ || |
विश्वे᳚षामिर॒ज्यन्तं॒ वसू᳚नां सास॒ह्वांसं᳚ चिद॒स्य वर्प॑सः |{आश्व्योवशः | इन्द्रः | विराट्} कृ॒प॒य॒तो नू॒नमत्यथ॑ ||{16/33}{8.46.16}{8.6.4.16}{6.4.4.1}{988, 666, 6962} विश्वे᳚षाम्¦इ॒र॒ज्यन्त᳚म्¦वसू᳚नाम्¦स॒स॒ह्वांस᳚म्¦चि॒त्¦अ॒स्य¦वर्प॑सः | कृ॒प॒ऽय॒तः¦नू॒नम्¦अति॑¦अथ॑ || |
म॒हः सु वो॒, अर॑मिषे॒ स्तवा᳚महे मी॒ळ्हुषे᳚, अरंग॒माय॒ जग्म॑ये |{आश्व्योवशः | इन्द्रः | जगती} य॒ज्ञेभि॑र्गी॒र्भिर्वि॒श्वम॑नुषां म॒रुता᳚मियक्षसि॒ गाये᳚ त्वा॒ नम॑सा गि॒रा ||{17/33}{8.46.17}{8.6.4.17}{6.4.4.2}{989, 666, 6963} म॒हः¦सु¦वः॒¦अर᳚म्¦इ॒षे॒¦स्तवा᳚महे¦मी॒ळ्हुषे᳚¦अ॒र॒म्ऽग॒माय॑¦जग्म॑ये | |
ये पा॒तय᳚न्ते॒, अज्म॑भिर्गिरी॒णां स्नुभि॑रेषाम् |{आश्व्योवशः | इन्द्रः | उपरिष्टाद् बृहती} य॒ज्ञं म॑हि॒ष्वणी᳚नां सु॒म्नं तु॑वि॒ष्वणी᳚नां॒ प्राध्व॒रे ||{18/33}{8.46.18}{8.6.4.18}{6.4.4.3}{990, 666, 6964} ये¦पा॒तय᳚न्ते¦अज्म॑ऽभिः¦गि॒री॒णाम्¦स्नुऽभिः॑¦ए॒षा॒म् | |
प्र॒भ॒ङ्गं दु᳚र्मती॒नामिन्द्र॑ शवि॒ष्ठा भ॑र |{आश्व्योवशः | इन्द्रः | बृहती} र॒यिम॒स्मभ्यं॒ युज्यं᳚ चोदयन्मते॒ ज्येष्ठं᳚ चोदयन्मते ||{19/33}{8.46.19}{8.6.4.19}{6.4.4.4}{991, 666, 6965} प्र॒ऽभ॒ङ्गम्¦दुः॒ऽम॒ती॒नाम्¦इन्द्र॑¦श॒वि॒ष्ठ॒¦आ¦भ॒र॒ | |
सनि॑तः॒ सुस॑नित॒रुग्र॒ चित्र॒ चेति॑ष्ठ॒ सूनृ॑त |{आश्व्योवशः | इन्द्रः | विषमपदाबृहती} प्रा॒सहा᳚ सम्रा॒ट्सहु॑रिं॒ सह᳚न्तं भु॒ज्युं वाजे᳚षु॒ पूर्व्य᳚म् ||{20/33}{8.46.20}{8.6.4.20}{6.4.4.5}{992, 666, 6966} सनि॑त॒रिति॑¦सुऽस॑नितः¦उग्र॑¦चित्र॑¦चेति॑ष्ठ¦सूनृ॑त | |
आ स ए᳚तु॒ य ईव॒दाँ, अदे᳚वः पू॒र्तमा᳚द॒दे |{आश्व्योवश शतंदासश्च | पृथुश्रवादेवता | पङ्क्तिः} यथा᳚ चि॒द्वशो᳚, अ॒श्व्यः पृ॑थु॒श्रव॑सि कानी॒ते॒३॑(ए॒)ऽस्या व्युष्या᳚द॒दे ||{21/33}{8.46.21}{8.6.4.21}{6.4.5.1}{993, 666, 6967} आ¦सः¦ए॒तु॒¦यः¦ईव॑त्¦आ¦अदे᳚वः¦पू॒र्तम्¦आ॒ऽद॒दे | |
ष॒ष्टिं स॒हस्राश्व्य॑स्या॒युता᳚सन॒मुष्ट्रा᳚नां विंश॒तिं श॒ता |{आश्व्योवश शतंदासश्च | पृथुश्रवादेवता | संस्तार पङ्क्तिः} दश॒ श्यावी᳚नां श॒ता दश॒ त्र्य॑रुषीणां॒ दश॒ गवां᳚ स॒हस्रा᳚ ||{22/33}{8.46.22}{8.6.4.22}{6.4.5.2}{994, 666, 6968} ष॒ष्टिम्¦स॒हस्रा᳚¦अश्व्य॑स्य¦अ॒युता᳚¦अ॒स॒न॒म्¦उष्ट्रा᳚नाम्¦विं॒श॒तिम्¦श॒ता | |
दश॑ श्या॒वा, ऋ॒धद्र॑यो वी॒तवा᳚रास आ॒शवः॑ |{आश्व्योवश शतंदासश्च | पृथुश्रवादेवता | पङ्क्तिः} म॒थ्रा ने॒मिं नि वा᳚वृतुः ||{23/33}{8.46.23}{8.6.4.23}{6.4.5.3}{995, 666, 6969} दश॑¦श्या॒वाः¦ऋ॒धत्ऽर॑यः¦वी॒तऽवा᳚रासः¦आ॒शवः॑ | |
दाना᳚सः पृथु॒श्रव॑सः कानी॒तस्य॑ सु॒राध॑सः |{आश्व्योवशः | पृथुश्रवादेवता | पङ्क्तिः} रथं᳚ हिर॒ण्ययं॒ दद॒न्मंहि॑ष्ठः सू॒रिर॑भू॒द्वर्षि॑ष्ठमकृत॒ श्रवः॑ ||{24/33}{8.46.24}{8.6.4.24}{6.4.5.4}{996, 666, 6970} दाना᳚सः¦पृ॒थु॒ऽश्रव॑सः¦का॒नी॒तस्य॑¦सु॒ऽराध॑सः | |
आ नो᳚ वायो म॒हे तने᳚ या॒हि म॒खाय॒ पाज॑से |{आश्व्योवशः | वायुः | बृहती} व॒यं हि ते᳚ चकृ॒मा भूरि॑ दा॒वने᳚ स॒द्यश्चि॒न्महि॑ दा॒वने᳚ ||{25/33}{8.46.25}{8.6.4.25}{6.4.5.5}{997, 666, 6971} आ¦नः॒¦वा॒यो॒ इति॑¦म॒हे¦तने᳚¦या॒हि¦म॒खाय॑¦पाज॑से | |
यो, अश्वे᳚भि॒र्वह॑ते॒ वस्त॑ उ॒स्रास्त्रिः स॒प्त स॑प्तती॒नाम् |{आश्व्योवशः | वायुः | सतो बृहती} ए॒भिः सोमे᳚भिः सोम॒सुद्भिः॑ सोमपा दा॒नाय॑ शुक्रपूतपाः ||{26/33}{8.46.26}{8.6.4.26}{6.4.6.1}{998, 666, 6972} यः¦अश्वे᳚भिः¦वह॑ते¦वस्ते᳚¦उ॒स्राः¦त्रिः¦स॒प्त¦स॒प्त॒ती॒नाम् | |
यो म॑ इ॒मं चि॑दु॒ त्मनाम᳚न्दच्चि॒त्रं दा॒वने᳚ |{आश्व्योवशः | वायुः | बृहती} अ॒र॒ट्वे, अक्षे॒ नहु॑षे सु॒कृत्व॑नि सु॒कृत्त॑राय सु॒क्रतुः॑ ||{27/33}{8.46.27}{8.6.4.27}{6.4.6.2}{999, 666, 6973} यः¦मे॒¦इ॒मम्¦चि॒त्¦ऊँ॒ इति॑¦त्मना᳚¦अम᳚न्दत्¦चि॒त्रम्¦दा॒वने᳚ | |
उ॒च॒थ्ये॒३॑(ए॒) वपु॑षि॒ यः स्व॒राळु॒त वा᳚यो घृत॒स्नाः |{आश्व्योवशः | वायुः | सतो बृहती} अश्वे᳚षितं॒ रजे᳚षितं॒ शुने᳚षितं॒ प्राज्म॒ तदि॒दं नु तत् ||{28/33}{8.46.28}{8.6.4.28}{6.4.6.3}{1000, 666, 6974} उ॒च॒थ्ये᳚¦वपु॑षि¦यः¦स्व॒ऽराट्¦उ॒त¦वा॒यो॒ इति॑¦घृ॒त॒ऽस्नाः | |
अध॑ प्रि॒यमि॑षि॒राय॑ ष॒ष्टिं स॒हस्रा᳚सनम् |{आश्व्योवशः | इन्द्रः | गायत्री} अश्वा᳚ना॒मिन्न वृष्णा᳚म् ||{29/33}{8.46.29}{8.6.4.29}{6.4.6.4}{1001, 666, 6975} अध॑¦प्रि॒यम्¦इ॒षि॒राय॑¦ष॒ष्टिम्¦स॒हस्रा᳚¦अ॒स॒न॒म् | अश्वा᳚नाम्¦इत्¦न¦वृष्णा᳚म् || |
गावो॒ न यू॒थमुप॑ यन्ति॒ वध्र॑य॒ उप॒ मा य᳚न्ति॒ वध्र॑यः ||{आश्व्योवशः | इन्द्रः | द्विपदा विराट्}{30/33}{8.46.30}{8.6.4.30}{6.4.6.5}{1002, 666, 6976} गावः॑¦न¦यू॒थम्¦उप॑¦य॒न्ति॒¦वध्र॑यः¦उप॑¦मा॒¦आ¦य॒न्ति॒¦वध्र॑यः || |
अध॒ यच्चार॑थे ग॒णे श॒तमुष्ट्राँ॒, अचि॑क्रदत् |{आश्व्योवशः | इन्द्रः | उषिक्} अध॒ श्वित्ने᳚षु विंश॒तिं श॒ता ||{31/33}{8.46.31}{8.6.4.31}{6.4.6.6}{1003, 666, 6977} अध॑¦यत्¦चार॑थे¦ग॒णे¦श॒तम्¦उष्ट्रा᳚न्¦अचि॑क्रदत् | |
श॒तं दा॒से ब॑ल्बू॒थे विप्र॒स्तरु॑क्ष॒ आ द॑दे |{आश्व्योवशः | वायुः | पङ्क्तिः} ते ते᳚ वायवि॒मे जना॒ मद॒न्तीन्द्र॑गोपा॒ मद᳚न्ति दे॒वगो᳚पाः ||{32/33}{8.46.32}{8.6.4.32}{6.4.6.7}{1004, 666, 6978} श॒तम्¦दा॒से¦ब॒ल्बू॒थे¦विप्रः॑¦तरु॑क्षे¦आ¦द॒दे॒ | |
अध॒ स्या योष॑णा म॒ही प्र॑ती॒ची वश॑म॒श्व्यम् |{आश्व्योवशः | इन्द्रः | गायत्री} अधि॑रुक्मा॒ वि नी᳚यते ||{33/33}{8.46.33}{8.6.4.33}{6.4.6.8}{1005, 666, 6979} अध॑¦स्या¦योष॑णा¦म॒ही¦प्र॒ती॒ची¦वश᳚म्¦अ॒श्व्यम् | अधि॑ऽरुक्मा¦वि¦नी॒य॒ते॒ || |
[47] महिवइत्यष्टादशर्चस्य सूक्तस्याप्त्यस्त्रित आदित्या अंत्यपंचानामादित्योषसो महापंक्तिः | (अंत्याः पंचदु:स्वप्नघ्न्यः) | |
महि॑ वो मह॒तामवो॒ वरु॑ण॒ मित्र॑ दा॒शुषे᳚ |{अप्त्यस्त्रितः | आदित्याः | महापङ्क्तिः} यमा᳚दित्या, अ॒भि द्रु॒हो रक्ष॑था॒ नेम॒घं न॑शदने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{1/18}{8.47.1}{8.6.5.1}{6.4.7.1}{1006, 667, 6980} महि॑¦वः॒¦म॒ह॒ताम्¦अवः॑¦वरु॑ण¦मित्र॑¦दा॒शुषे᳚ | |
वि॒दा दे᳚वा, अ॒घाना॒मादि॑त्यासो, अ॒पाकृ॑तिम् |{अप्त्यस्त्रितः | आदित्याः | महापङ्क्तिः} प॒क्षा वयो॒ यथो॒परि॒ व्य१॑(अ॒)स्मे शर्म॑ यच्छताने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{2/18}{8.47.2}{8.6.5.2}{6.4.7.2}{1007, 667, 6981} वि॒द¦दे॒वाः॒¦अ॒घाना᳚म्¦आदि॑त्यासः¦अ॒प॒ऽआकृ॑तिम् | |
व्य१॑(अ॒)स्मे, अधि॒ शर्म॒ तत् प॒क्षा वयो॒ न य᳚न्तन |{अप्त्यस्त्रितः | आदित्याः | महापङ्क्तिः} विश्वा᳚नि विश्ववेदसो वरू॒थ्या᳚ मनामहेऽने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{3/18}{8.47.3}{8.6.5.3}{6.4.7.3}{1008, 667, 6982} वि¦अ॒स्मे इति॑¦अधि॑¦शर्म॑¦तत्¦प॒क्षा¦वयः॑¦न¦य॒न्त॒न॒ | |
यस्मा॒, अरा᳚सत॒ क्षयं᳚ जी॒वातुं᳚ च॒ प्रचे᳚तसः |{अप्त्यस्त्रितः | आदित्याः | महापङ्क्तिः} मनो॒र्विश्व॑स्य॒ घेदि॒म आ᳚दि॒त्या रा॒य ई᳚शतेऽने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{4/18}{8.47.4}{8.6.5.4}{6.4.7.4}{1009, 667, 6983} यस्मै᳚¦अरा᳚सत¦क्षय᳚म्¦जी॒वातु᳚म्¦च॒¦प्रऽचे᳚तसः | |
परि॑ णो वृणजन्न॒घा दु॒र्गाणि॑ र॒थ्यो᳚ यथा |{अप्त्यस्त्रितः | आदित्याः | महापङ्क्तिः} स्यामेदिन्द्र॑स्य॒ शर्म᳚ण्यादि॒त्याना᳚मु॒ताव॑स्यने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{5/18}{8.47.5}{8.6.5.5}{6.4.7.5}{1010, 667, 6984} परि॑¦नः॒¦वृ॒ण॒ज॒न्¦अ॒घा¦दुः॒ऽगानि॑¦र॒थ्यः॑¦य॒था॒ | |
प॒रि॒ह्वृ॒तेद॒ना जनो᳚ यु॒ष्माद॑त्तस्य वायति |{अप्त्यस्त्रितः | आदित्याः | महापङ्क्तिः} देवा॒, अद॑भ्रमाश वो॒ यमा᳚दित्या॒, अहे᳚तनाने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{6/18}{8.47.6}{8.6.5.6}{6.4.8.1}{1011, 667, 6985} प॒रि॒ऽह्वृ॒ता¦इत्¦अ॒ना¦जनः॑¦यु॒ष्माऽद॑त्तस्य¦वा॒य॒ति॒ | |
न तं ति॒ग्मं च॒न त्यजो॒ न द्रा᳚सद॒भि तं गु॒रु |{अप्त्यस्त्रितः | आदित्याः | महापङ्क्तिः} यस्मा᳚, उ॒ शर्म॑ स॒प्रथ॒ आदि॑त्यासो॒, अरा᳚ध्वमने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{7/18}{8.47.7}{8.6.5.7}{6.4.8.2}{1012, 667, 6986} न¦तम्¦ति॒ग्मम्¦च॒न¦त्यजः॑¦न¦द्रा॒स॒त्¦अ॒भि¦तम्¦गु॒रु | |
यु॒ष्मे दे᳚वा॒, अपि॑ ष्मसि॒ युध्य᳚न्त इव॒ वर्म॑सु |{अप्त्यस्त्रितः | आदित्याः | महापङ्क्तिः} यू॒यं म॒हो न॒ एन॑सो यू॒यमर्भा᳚दुरुष्यताने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{8/18}{8.47.8}{8.6.5.8}{6.4.8.3}{1013, 667, 6987} यु॒ष्मे इति॑¦दे॒वाः॒¦अपि॑¦स्म॒सि॒¦युध्य᳚न्तःऽइव¦वर्म॑ऽसु | |
अदि॑तिर्न उरुष्य॒त्वदि॑तिः॒ शर्म॑ यच्छतु |{अप्त्यस्त्रितः | आदित्याः | महापङ्क्तिः} मा॒ता मि॒त्रस्य॑ रे॒वतो᳚ऽर्य॒म्णो वरु॑णस्य चाने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{9/18}{8.47.9}{8.6.5.9}{6.4.8.4}{1014, 667, 6988} अदि॑तिः¦नः॒¦उ॒रु॒ष्य॒तु॒¦अदि॑तिः¦शर्म॑¦य॒च्छ॒तु॒ | |
यद्दे᳚वाः॒ शर्म॑ शर॒णं यद्भ॒द्रं यद॑नातु॒रम् |{अप्त्यस्त्रितः | आदित्याः | महापङ्क्तिः} त्रि॒धातु॒ यद्व॑रू॒थ्य१॑(अं॒) तद॒स्मासु॒ वि य᳚न्तनाने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{10/18}{8.47.10}{8.6.5.10}{6.4.8.5}{1015, 667, 6989} यत्¦दे॒वाः॒¦शर्म॑¦श॒र॒णम्¦यत्¦भ॒द्रम्¦यत्¦अ॒ना॒तु॒रम् | |
आदि॑त्या॒, अव॒ हि ख्यताधि॒ कूला᳚दिव॒ स्पशः॑ |{अप्त्यस्त्रितः | आदित्याः | महापङ्क्तिः} सु॒ती॒र्थमर्व॑तो य॒थानु॑ नो नेषथा सु॒गम॑ने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{11/18}{8.47.11}{8.6.5.11}{6.4.9.1}{1016, 667, 6990} आदि॑त्याः¦अव॑¦हि¦ख्यत॑¦अधि॑¦कूला᳚त्ऽइव¦स्पशः॑ | |
नेह भ॒द्रं र॑क्ष॒स्विने॒ नाव॒यै नोप॒या, उ॒त |{अप्त्यस्त्रितः | आदित्याः | महापङ्क्तिः} गवे᳚ च भ॒द्रं धे॒नवे᳚ वी॒राय॑ च श्रवस्य॒ते᳚ऽने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{12/18}{8.47.12}{8.6.5.12}{6.4.9.2}{1017, 667, 6991} न¦इ॒ह¦भ॒द्रम्¦र॒क्ष॒स्विने᳚¦न¦अ॒व॒ऽयै¦न¦उ॒प॒ऽयै¦उ॒त | |
यदा॒विर्यद॑पी॒च्य१॑(अं॒) देवा᳚सो॒, अस्ति॑ दुष्कृ॒तम् |{अप्त्यस्त्रितः | आदित्याः | महापङ्क्तिः} त्रि॒ते तद्विश्व॑मा॒प्त्य आ॒रे, अ॒स्मद्द॑धातनाने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{13/18}{8.47.13}{8.6.5.13}{6.4.9.3}{1018, 667, 6992} यत्¦आ॒विः¦यत्¦अ॒पी॒च्य᳚म्¦देवा᳚सः¦अस्ति॑¦दुः॒ऽकृ॒तम् | |
यच्च॒ गोषु॑ दु॒ष्ष्वप्न्यं॒ यच्चा॒स्मे दु॑हितर्दिवः |{अप्त्यस्त्रितः | आदित्या उषाश्च | महापङ्क्तिः} त्रि॒ताय॒ तद्वि॑भावर्या॒प्त्याय॒ परा᳚ वहाने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{14/18}{8.47.14}{8.6.5.14}{6.4.9.4}{1019, 667, 6993} यत्¦च॒¦गोषु॑¦दुः॒ऽस्वप्न्य᳚म्¦यत्¦च॒¦अ॒स्मे इति॑¦दु॒हि॒तः॒¦दि॒वः॒ | |
नि॒ष्कं वा᳚ घा कृ॒णव॑ते॒ स्रजं᳚ वा दुहितर्दिवः |{अप्त्यस्त्रितः | आदित्या उषाश्च | महापङ्क्तिः} त्रि॒ते दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒प्त्ये परि॑ दद्मस्यने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{15/18}{8.47.15}{8.6.5.15}{6.4.9.5}{1020, 667, 6994} नि॒ष्कम्¦वा॒¦घ॒¦कृ॒णव॑ते¦स्रज᳚म्¦वा॒¦दु॒हि॒तः॒¦दि॒वः॒ | |
तद᳚न्नाय॒ तद॑पसे॒ तं भा॒गमु॑पसे॒दुषे᳚ |{अप्त्यस्त्रितः | आदित्या उषाश्च | महापङ्क्तिः} त्रि॒ताय॑ च द्वि॒ताय॒ चोषो᳚ दु॒ष्ष्वप्न्यं᳚ वहाने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{16/18}{8.47.16}{8.6.5.16}{6.4.10.1}{1021, 667, 6995} तत्।आ᳚न्नाय¦तत्।आ॑पसे¦तम्¦भा॒गम्¦उ॒प॒ऽसे॒दुषे᳚ | |
यथा᳚ क॒लां यथा᳚ श॒फं यथ॑ ऋ॒णं सं॒नया᳚मसि |{अप्त्यस्त्रितः | आदित्या उषाश्च | महापङ्क्तिः} ए॒वा दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒प्त्ये सं न॑यामस्यने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{17/18}{8.47.17}{8.6.5.17}{6.4.10.2}{1022, 667, 6996} यथा᳚¦क॒लाम्¦यथा᳚¦श॒फम्¦यथा᳚¦ऋ॒णम्¦स॒म्ऽनया᳚मसि | |
अजै᳚ष्मा॒द्यास॑नाम॒ चाभू॒माना᳚गसो व॒यम् |{अप्त्यस्त्रितः | आदित्या उषाश्च | महापङ्क्तिः} उषो॒ यस्मा᳚द्दु॒ष्ष्वप्न्या॒दभै॒ष्माप॒ तदु॑च्छत्वने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{18/18}{8.47.18}{8.6.5.18}{6.4.10.3}{1023, 667, 6997} अजै᳚ष्म¦अ॒द्य¦अस॑नाम¦च॒¦अभू᳚म¦अना᳚गसः¦व॒यम् | |
[48] स्वादोरिति पंचदशर्चस्य सूक्तस्य काण्वः प्रगाथः सोमस्त्रिष्टुप् पंचमी जगती | |
स्वा॒दोर॑भक्षि॒ वय॑सः सुमे॒धाः स्वा॒ध्यो᳚ वरिवो॒वित्त॑रस्य |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्} विश्वे॒ यं दे॒वा, उ॒त मर्त्या᳚सो॒ मधु॑ ब्रु॒वन्तो᳚, अ॒भि सं॒चर᳚न्ति ||{1/15}{8.48.1}{8.6.6.1}{6.4.11.1}{1024, 668, 6998} स्वा॒दोः¦अ॒भ॒क्षि॒¦वय॑सः¦सु॒ऽमे॒धाः¦सु॒ऽआ॒ध्यः॑¦व॒रि॒वो॒वित्ऽत॑रस्य | |
अ॒न्तश्च॒ प्रागा॒, अदि॑तिर्भवास्यवया॒ता हर॑सो॒ दैव्य॑स्य |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्} इन्द॒विन्द्र॑स्य स॒ख्यं जु॑षा॒णः श्रौष्टी᳚व॒ धुर॒मनु॑ रा॒य ऋ॑ध्याः ||{2/15}{8.48.2}{8.6.6.2}{6.4.11.2}{1025, 668, 6999} अ॒न्तरिति॑¦च॒¦प्र¦अगाः᳚¦अदि॑तिः¦भ॒वा॒सि॒¦अ॒व॒ऽया॒ता¦हर॑सः¦दैव्य॑स्य | |
अपा᳚म॒ सोम॑म॒मृता᳚, अभू॒माग᳚न्म॒ ज्योति॒रवि॑दाम दे॒वान् |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्} किं नू॒नम॒स्मान् कृ॑णव॒दरा᳚तिः॒ किमु॑ धू॒र्तिर॑मृत॒ मर्त्य॑स्य ||{3/15}{8.48.3}{8.6.6.3}{6.4.11.3}{1026, 668, 7000} अपा᳚म¦सोम᳚म्¦अ॒मृताः᳚¦अ॒भू॒म॒¦अग᳚न्म¦ज्योतिः॑¦अवि॑दाम¦दे॒वान् | |
शं नो᳚ भव हृ॒द आ पी॒त इ᳚न्दो पि॒तेव॑ सोम सू॒नवे᳚ सु॒शेवः॑ |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्} सखे᳚व॒ सख्य॑ उरुशंस॒ धीरः॒ प्र ण॒ आयु॑र्जी॒वसे᳚ सोम तारीः ||{4/15}{8.48.4}{8.6.6.4}{6.4.11.4}{1027, 668, 7001} शम्¦नः॒¦भ॒व॒¦हृ॒दे¦आ¦पी॒तः¦इ॒न्दो॒ इति॑¦पि॒ताऽइ᳚व¦सो॒म॒¦सू॒नवे᳚¦सु॒ऽशेवः॑ | |
इ॒मे मा᳚ पी॒ता य॒शस॑ उरु॒ष्यवो॒ रथं॒ न गावः॒ सम॑नाह॒ पर्व॑सु |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्} ते मा᳚ रक्षन्तु वि॒स्रस॑श्च॒रित्रा᳚दु॒त मा॒ स्रामा᳚द्यवय॒न्त्विन्द॑वः ||{5/15}{8.48.5}{8.6.6.5}{6.4.11.5}{1028, 668, 7002} इ॒मे¦मा॒¦पी॒ताः¦य॒शसः॑¦उ॒रु॒ष्यवः॑¦रथ᳚म्¦न¦गावः॑¦सम्¦अ॒ना॒ह॒¦पर्व॑ऽसु | |
अ॒ग्निं न मा᳚ मथि॒तं सं दि॑दीपः॒ प्र च॑क्षय कृणु॒हि वस्य॑सो नः |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्} अथा॒ हि ते॒ मद॒ आ सो᳚म॒ मन्ये᳚ रे॒वाँ, इ॑व॒ प्र च॑रा पु॒ष्टिमच्छ॑ ||{6/15}{8.48.6}{8.6.6.6}{6.4.12.1}{1029, 668, 7003} अ॒ग्निम्¦न¦मा॒¦म॒थि॒तम्¦सम्¦दि॒दी॒पः॒¦प्र¦च॒क्ष॒य॒¦कृ॒णु॒हि¦वस्य॑सः¦नः॒ | |
इ॒षि॒रेण॑ ते॒ मन॑सा सु॒तस्य॑ भक्षी॒महि॒ पित्र्य॑स्येव रा॒यः |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्} सोम॑ राज॒न् प्र ण॒ आयूं᳚षि तारी॒रहा᳚नीव॒ सूर्यो᳚ वास॒राणि॑ ||{7/15}{8.48.7}{8.6.6.7}{6.4.12.2}{1030, 668, 7004} इ॒षि॒रेण॑¦ते॒¦मन॑सा¦सु॒तस्य॑¦भ॒क्षी॒महि॑¦पित्र्य॑स्यऽइव¦रा॒यः | |
सोम॑ राजन् मृ॒ळया᳚ नः स्व॒स्ति तव॑ स्मसि व्र॒त्या॒३॑(आ॒)स्तस्य॑ विद्धि |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्} अल॑र्ति॒ दक्ष॑ उ॒त म॒न्युरि᳚न्दो॒ मा नो᳚, अ॒र्यो, अ॑नुका॒मं परा᳚ दाः ||{8/15}{8.48.8}{8.6.6.8}{6.4.12.3}{1031, 668, 7005} सोम॑¦रा॒ज॒न्¦मृ॒ळय॑¦नः॒¦स्व॒स्ति¦तव॑¦स्म॒सि॒¦व्र॒त्याः᳚¦तस्य॑¦वि॒द्धि॒ | |
त्वं हि न॑स्त॒न्वः॑ सोम गो॒पा गात्रे᳚गात्रे निष॒सत्था᳚ नृ॒चक्षाः᳚ |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्} यत्ते᳚ व॒यं प्र॑मि॒नाम᳚ व्र॒तानि॒ स नो᳚ मृळ सुष॒खा दे᳚व॒ वस्यः॑ ||{9/15}{8.48.9}{8.6.6.9}{6.4.12.4}{1032, 668, 7006} त्वम्¦हि¦नः॒¦त॒न्वः॑¦सो॒म॒¦गो॒पाः¦गात्रे᳚ऽगात्रे¦नि॒ऽस॒सत्थ॑¦नृ॒ऽचक्षाः᳚ | |
ऋ॒दू॒दरे᳚ण॒ सख्या᳚ सचेय॒ यो मा॒ न रिष्ये᳚द्धर्यश्व पी॒तः |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्} अ॒यं यः सोमो॒ न्यधा᳚य्य॒स्मे तस्मा॒, इन्द्रं᳚ प्र॒तिर॑मे॒म्यायुः॑ ||{10/15}{8.48.10}{8.6.6.10}{6.4.12.5}{1033, 668, 7007} ऋ॒दू॒दरे᳚ण¦सख्या᳚¦स॒चे॒य॒¦यः¦मा॒¦न¦रिष्ये᳚त्¦ह॒रि॒।आ॒श्व॒¦पी॒तः | |
अप॒ त्या, अ॑स्थु॒रनि॑रा॒, अमी᳚वा॒ निर॑त्रस॒न्तमि॑षीची॒रभै᳚षुः |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्} आ सोमो᳚, अ॒स्माँ, अ॑रुह॒द्विहा᳚या॒, अग᳚न्म॒ यत्र॑ प्रति॒रन्त॒ आयुः॑ ||{11/15}{8.48.11}{8.6.6.11}{6.4.13.1}{1034, 668, 7008} अप॑¦त्याः¦अ॒स्थुः॒¦अनि॑राः¦अमी᳚वाः¦निः¦अ॒त्र॒स॒न्¦तमि॑षीचीः¦अभै᳚षुः | |
यो न॒ इन्दुः॑ पितरो हृ॒त्सु पी॒तोऽम॑र्त्यो॒ मर्त्याँ᳚, आवि॒वेश॑ |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्} तस्मै॒ सोमा᳚य ह॒विषा᳚ विधेम मृळी॒के, अ॑स्य सुम॒तौ स्या᳚म ||{12/15}{8.48.12}{8.6.6.12}{6.4.13.2}{1035, 668, 7009} यः¦नः॒¦इन्दुः॑¦पि॒त॒रः॒¦हृ॒त्ऽसु¦पी॒तः¦अम॑र्त्यः¦मर्त्या᳚न्¦आ॒ऽवि॒वेश॑ | |
त्वं सो᳚म पि॒तृभिः॑ संविदा॒नोऽनु॒ द्यावा᳚पृथि॒वी, आ त॑तन्थ |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्} तस्मै᳚ त इन्दो ह॒विषा᳚ विधेम व॒यं स्या᳚म॒ पत॑यो रयी॒णाम् ||{13/15}{8.48.13}{8.6.6.13}{6.4.13.3}{1036, 668, 7010} त्वम्¦सो॒म॒¦पि॒तृऽभिः॑¦स॒म्ऽवि॒दा॒नः¦अनु॑¦द्यावा᳚पृथि॒वी इति॑¦आ¦त॒त॒न्थ॒ | |
त्राता᳚रो देवा॒, अधि॑ वोचता नो॒ मा नो᳚ नि॒द्रा, ई᳚शत॒ मोत जल्पिः॑ |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्} व॒यं सोम॑स्य वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा᳚सो वि॒दथ॒मा व॑देम ||{14/15}{8.48.14}{8.6.6.14}{6.4.13.4}{1037, 668, 7011} त्राता᳚रः¦दे॒वाः॒¦अधि॑¦वो॒च॒त॒¦नः॒¦मा¦नः॒¦नि॒ऽद्रा¦ई॒श॒त॒¦मा¦उ॒त¦जल्पिः॑ | |
त्वं नः॑ सोम वि॒श्वतो᳚ वयो॒धास्त्वं स्व॒र्विदा वि॑शा नृ॒चक्षाः᳚ |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्} त्वं न॑ इन्द ऊ॒तिभिः॑ स॒जोषाः᳚ पा॒हि प॒श्चाता᳚दु॒त वा᳚ पु॒रस्ता᳚त् ||{15/15}{8.48.15}{8.6.6.15}{6.4.13.5}{1038, 668, 7012} त्वम्¦नः॒¦सो॒म॒¦वि॒श्वतः॑¦व॒यः॒ऽधाः¦त्वम्¦स्वः॒ऽवित्¦आ¦वि॒श॒¦नृ॒ऽचक्षाः᳚ | |
[49] अभिप्रेति दशर्चस्य सूक्तस्य काण्वःप्रस्कण्व इंद्रः अयुजोबृहत्योयुजः सतोबृहत्यः | |
अ॒भि प्र वः॑ सु॒राध॑स॒मिन्द्र॑मर्च॒ यथा᳚ वि॒दे |{काण्वः प्रस्कण्वः | इन्द्रः | बृहती} यो ज॑रि॒तृभ्यो᳚ म॒घवा᳚ पुरू॒वसुः॑ स॒हस्रे᳚णेव॒ शिक्ष॑ति ||{1/10}{8.49.1}{8.6.7.1}{6.4.14.1}{1039, 669, 7013} अ॒भि¦प्र¦वः॒¦सु॒ऽराध॑सम्¦इन्द्र᳚म्¦अ॒र्च॒¦यथा᳚¦वि॒दे | |
श॒तानी᳚केव॒ प्र जि॑गाति धृष्णु॒या हन्ति॑ वृ॒त्राणि॑ दा॒शुषे᳚ |{काण्वः प्रस्कण्वः | इन्द्रः | सतोबृहती} गि॒रेरि॑व॒ प्र रसा᳚, अस्य पिन् विरे॒ दत्रा᳚णि पुरु॒भोज॑सः ||{2/10}{8.49.2}{8.6.7.2}{6.4.14.2}{1040, 669, 7014} श॒तानी᳚काऽइव¦प्र¦जि॒गा॒ति॒¦धृ॒ष्णु॒ऽया¦हन्ति॑¦वृ॒त्राणि॑¦दा॒शुषे᳚ | |
आ त्वा᳚ सु॒तास॒ इन्द॑वो॒ मदा॒ य इ᳚न्द्र गिर्वणः |{काण्वः प्रस्कण्वः | इन्द्रः | बृहती} आपो॒ न व॑ज्रि॒न्नन्वो॒क्य१॑(अं॒) सरः॑ पृ॒णन्ति॑ शूर॒ राध॑से ||{3/10}{8.49.3}{8.6.7.3}{6.4.14.3}{1041, 669, 7015} आ¦त्वा॒¦सु॒तासः॑¦इन्द॑वः¦मदाः᳚¦ये¦इ॒न्द्र॒¦गि॒र्व॒णः॒ | |
अ॒ने॒हसं᳚ प्र॒तर॑णं वि॒वक्ष॑णं॒ मध्वः॒ स्वादि॑ष्ठमीं पिब |{काण्वः प्रस्कण्वः | इन्द्रः | सतोबृहती} आ यथा᳚ मन्दसा॒नः कि॒रासि॑ नः॒ प्र क्षु॒द्रेव॒ त्मना᳚ धृ॒षत् ||{4/10}{8.49.4}{8.6.7.4}{6.4.14.4}{1042, 669, 7016} अ॒ने॒हस᳚म्¦प्र॒ऽतर॑णम्¦वि॒वक्ष॑णम्¦मध्वः॑¦स्वादि॑ष्ठम्¦ई॒म्¦पि॒ब॒ | |
आ नः॒ स्तोम॒मुप॑ द्र॒वद्धि॑या॒नो, अश्वो॒ न सोतृ॑भिः |{काण्वः प्रस्कण्वः | इन्द्रः | बृहती} यं ते᳚ स्वधावन् त्स्व॒दय᳚न्ति धे॒नव॒ इन्द्र॒ कण्वे᳚षु रा॒तयः॑ ||{5/10}{8.49.5}{8.6.7.5}{6.4.14.5}{1043, 669, 7017} आ¦नः॒¦स्तोम᳚म्¦उप॑¦द्र॒वत्¦हि॒या॒नः¦अश्वः॑¦न¦सोतृ॑ऽभिः | |
उ॒ग्रं न वी॒रं नम॒सोप॑ सेदिम॒ विभू᳚ति॒मक्षि॑तावसुम् |{काण्वः प्रस्कण्वः | इन्द्रः | सतोबृहती} उ॒द्रीव॑ वज्रिन्नव॒तो न सि᳚ञ्च॒ते क्षर᳚न्तीन्द्र धी॒तयः॑ ||{6/10}{8.49.6}{8.6.7.6}{6.4.15.1}{1044, 669, 7018} उ॒ग्रम्¦न¦वी॒रम्¦नम॑सा¦उप॑¦से॒दि॒म॒¦विऽभू᳚तिम्¦अक्षि॑तऽवसुम् | |
यद्ध॑ नू॒नं यद्वा᳚ य॒ज्ञे यद्वा᳚ पृथि॒व्यामधि॑ |{काण्वः प्रस्कण्वः | इन्द्रः | बृहती} अतो᳚ नो य॒ज्ञमा॒शुभि᳚र्महेमत उ॒ग्र उ॒ग्रेभि॒रा ग॑हि ||{7/10}{8.49.7}{8.6.7.7}{6.4.15.2}{1045, 669, 7019} यत्¦ह॒¦नू॒नम्¦यत्¦वा॒¦य॒ज्ञे¦यत्¦वा॒¦पृ॒थि॒व्याम्¦अधि॑ | |
अ॒जि॒रासो॒ हर॑यो॒ ये त॑ आ॒शवो॒ वाता᳚, इव प्रस॒क्षिणः॑ |{काण्वः प्रस्कण्वः | इन्द्रः | सतोबृहती} येभि॒रप॑त्यं॒ मनु॑षः प॒रीय॑से॒ येभि॒र्विश्वं॒ स्व॑र्दृ॒शे ||{8/10}{8.49.8}{8.6.7.8}{6.4.15.3}{1046, 669, 7020} अ॒जि॒रासः॑¦हर॑यः¦ये¦ते॒¦आ॒शवः॑¦वाताः᳚ऽइव¦प्र॒ऽस॒क्षिणः॑ | |
ए॒ताव॑तस्त ईमह॒ इन्द्र॑ सु॒म्नस्य॒ गोम॑तः |{काण्वः प्रस्कण्वः | इन्द्रः | बृहती} यथा॒ प्रावो᳚ मघव॒न्मेध्या᳚तिथिं॒ यथा॒ नीपा᳚तिथिं॒ धने᳚ ||{9/10}{8.49.9}{8.6.7.9}{6.4.15.4}{1047, 669, 7021} ए॒ताव॑तः¦ते॒¦ई॒म॒हे॒¦इन्द्र॑¦सु॒म्नस्य॑¦गोऽम॑तः | |
यथा॒ कण्वे᳚ मघवन्त्र॒सद॑स्यवि॒ यथा᳚ प॒क्थे दश᳚व्रजे |{काण्वः प्रस्कण्वः | इन्द्रः | सतोबृहती} यथा॒ गोश᳚र्ये॒, अस॑नोरृ॒जिश्व॒नीन्द्र॒ गोम॒द्धिर᳚ण्यवत् ||{10/10}{8.49.10}{8.6.7.10}{6.4.15.5}{1048, 669, 7022} यथा᳚¦कण्वे᳚¦म॒घ॒ऽव॒न्¦त्र॒सद॑स्यवि¦यथा᳚¦प॒क्थे¦दश॑ऽव्रजे | |
[50] प्रसुश्रुतमिति दशर्चस्य सूक्तस्य पुष्टिगुरिंद्रः अयुजो बृहत्योयुजः सतोबृहत्यः | |
प्र सु श्रु॒तं सु॒राध॑स॒मर्चा᳚ श॒क्रम॒भिष्ट॑ये |{पुष्टिगुः | इन्द्रः | बृहती} यः सु᳚न्व॒ते स्तु॑व॒ते काम्यं॒ वसु॑ स॒हस्रे᳚णेव॒ मंह॑ते ||{1/10}{8.50.1}{8.6.8.1}{6.4.16.1}{1049, 670, 7023} प्र¦सु¦श्रु॒तम्¦सु॒ऽराध॑सम्¦अर्च॑¦श॒क्रम्¦अ॒भिष्ट॑ये | |
श॒तानी᳚का हे॒तयो᳚, अस्य दु॒ष्टरा॒, इन्द्र॑स्य स॒मिषो᳚ म॒हीः |{पुष्टिगुः | इन्द्रः | सतोबृहती} गि॒रिर्न भु॒ज्मा म॒घव॑त्सु पिन्वते॒ यदीं᳚ सु॒ता, अम᳚न्दिषुः ||{2/10}{8.50.2}{8.6.8.2}{6.4.16.2}{1050, 670, 7024} श॒त।आ॑नीकाः¦हे॒तयः॑¦अ॒स्य॒¦दु॒स्तराः᳚¦इन्द्र॑स्य¦स॒म्ऽइषः॑¦म॒हीः | |
यदीं᳚ सु॒तास॒ इन्द॑वो॒ऽभि प्रि॒यमम᳚न्दिषुः |{पुष्टिगुः | इन्द्रः | बृहती} आपो॒ न धा᳚यि॒ सव॑नं म॒ आ व॑सो॒ दुघा᳚, इ॒वोप॑ दा॒शुषे᳚ ||{3/10}{8.50.3}{8.6.8.3}{6.4.16.3}{1051, 670, 7025} यत्¦ई॒म्¦सु॒तासः॑¦इन्द॑वः¦अ॒भि¦प्रि॒यम्¦अम᳚न्दिषुः | |
अ॒ने॒हसं᳚ वो॒ हव॑मानमू॒तये॒ मध्वः॑, क्षरन्ति धी॒तयः॑ |{पुष्टिगुः | इन्द्रः | सतोबृहती} आ त्वा᳚ वसो॒ हव॑मानास॒ इन्द॑व॒ उप॑ स्तो॒त्रेषु॑ दधिरे ||{4/10}{8.50.4}{8.6.8.4}{6.4.16.4}{1052, 670, 7026} अ॒ने॒हस᳚म्¦वः॒¦हव॑मानम्¦ऊ॒तये᳚¦मध्वः॑¦क्ष॒र॒न्ति॒¦धी॒तयः॑ | |
आ नः॒ सोमे᳚ स्वध्व॒र इ॑या॒नो, अत्यो॒ न तो᳚शते |{पुष्टिगुः | इन्द्रः | बृहती} यं ते᳚ स्वदाव॒न् त्स्वद᳚न्ति गू॒र्तयः॑ पौ॒रे छ᳚न्दयसे॒ हव᳚म् ||{5/10}{8.50.5}{8.6.8.5}{6.4.16.5}{1053, 670, 7027} आ¦नः॒¦सोमे᳚¦सु॒।आ॒ध्व॒रे¦इ॒या॒नः¦अत्यः॑¦न¦तो॒श॒ते॒ | |
प्र वी॒रमु॒ग्रं विवि॑चिं धन॒स्पृतं॒ विभू᳚तिं॒ राध॑सो म॒हः |{पुष्टिगुः | इन्द्रः | सतोबृहती} उ॒द्रीव॑ वज्रिन्नव॒तो व॑सुत्व॒ना सदा᳚ पीपेथ दा॒शुषे᳚ ||{6/10}{8.50.6}{8.6.8.6}{6.4.17.1}{1054, 670, 7028} प्र¦वी॒रम्¦उ॒ग्रम्¦विवि॑चिम्¦ध॒न॒ऽस्पृत᳚म्¦विऽभू᳚तिम्¦राध॑सः¦म॒हः | |
यद्ध॑ नू॒नं प॑रा॒वति॒ यद्वा᳚ पृथि॒व्यां दि॒वि |{पुष्टिगुः | इन्द्रः | बृहती} यु॒जा॒न इ᳚न्द्र॒ हरि॑भिर्महेमत ऋ॒ष्व ऋ॒ष्वेभि॒रा ग॑हि ||{7/10}{8.50.7}{8.6.8.7}{6.4.17.2}{1055, 670, 7029} यत्¦ह॒¦नू॒नम्¦प॒रा॒ऽवति॑¦यत्¦वा॒¦पृ॒थि॒व्याम्¦दि॒वि | |
र॒थि॒रासो॒ हर॑यो॒ ये ते᳚, अ॒स्रिध॒ ओजो॒ वात॑स्य॒ पिप्र॑ति |{पुष्टिगुः | इन्द्रः | सतोबृहती} येभि॒र्नि दस्युं॒ मनु॑षो नि॒घोष॑यो॒ येभिः॒ स्वः॑ प॒रीय॑से ||{8/10}{8.50.8}{8.6.8.8}{6.4.17.3}{1056, 670, 7030} र॒थि॒रासः॑¦हर॑यः¦ये¦ते॒¦अ॒स्रिधः॑¦ओजः॑¦वात॑स्य¦पिप्र॑ति | |
ए॒ताव॑तस्ते वसो वि॒द्याम॑ शूर॒ नव्य॑सः |{पुष्टिगुः | इन्द्रः | बृहती} यथा॒ प्राव॒ एत॑शं॒ कृत्व्ये॒ धने॒ यथा॒ वशं॒ दश᳚व्रजे ||{9/10}{8.50.9}{8.6.8.9}{6.4.17.4}{1057, 670, 7031} ए॒ताव॑तः¦ते॒¦व॒सो॒ इति॑¦वि॒द्याम॑¦शू॒र॒¦नव्य॑सः | |
यथा॒ कण्वे᳚ मघव॒न्मेधे᳚, अध्व॒रे दी॒र्घनी᳚थे॒ दमू᳚नसि |{पुष्टिगुः | इन्द्रः | सतोबृहती} यथा॒ गोश᳚र्ये॒, असि॑षासो, अद्रिवो॒ मयि॑ गो॒त्रं ह॑रि॒श्रिय᳚म् ||{10/10}{8.50.10}{8.6.8.10}{6.4.17.5}{1058, 670, 7032} यथा᳚¦कण्वे᳚¦म॒घ॒ऽव॒न्¦मेधे᳚¦अ॒ध्व॒रे¦दी॒र्घऽनी᳚थे¦दमू᳚नसि | |
[51] यथामनाविति दशर्चस्य सूक्तस्य श्रुष्टिगुरिंद्रः अयुजोबृहत्योयुजः सतोबृहत्यः | |
यथा॒ मनौ॒ सांव॑रणौ॒ सोम॑मि॒न्द्रापि॑बः सु॒तम् |{श्रुष्टिगुः | इन्द्रः | बृहती} नीपा᳚तिथौ मघव॒न्मेध्या᳚तिथौ॒ पुष्टि॑गौ॒ श्रुष्टि॑गौ॒ सचा᳚ ||{1/10}{8.51.1}{8.6.9.1}{6.4.18.1}{1059, 671, 7033} यथा᳚¦मनौ᳚¦साम्ऽव॑रणौ¦सोम᳚म्¦इ॒न्द्र॒¦अपि॑बः¦सु॒तम् | |
पा॒र्ष॒द्वा॒णः प्रस्क᳚ण्वं॒ सम॑सादय॒च्छया᳚नं॒ जिव्रि॒मुद्धि॑तम् |{श्रुष्टिगुः | इन्द्रः | सतोबृहती} स॒हस्रा᳚ण्यसिषास॒द्गवा॒मृषि॒स्त्वोतो॒ दस्य॑वे॒ वृकः॑ ||{2/10}{8.51.2}{8.6.9.2}{6.4.18.2}{1060, 671, 7034} पा॒र्ष॒द्वा॒णः¦प्रस्क᳚ण्वम्¦सम्¦अ॒सा॒द॒य॒त्¦शया᳚नम्¦जिव्रि᳚म्¦उद्धि॑तम् | |
य उ॒क्थेभि॒र्न वि॒न्धते᳚ चि॒किद्य ऋ॑षि॒चोद॑नः |{श्रुष्टिगुः | इन्द्रः | बृहती} इन्द्रं॒ तमच्छा᳚ वद॒ नव्य॑स्या म॒त्यरि॑ष्यन्तं॒ न भोज॑से ||{3/10}{8.51.3}{8.6.9.3}{6.4.18.3}{1061, 671, 7035} यः¦उ॒क्थेभिः॑¦न¦वि॒न्धते᳚¦चि॒कित्¦यः¦ऋ॒षि॒ऽचोद॑नः | |
यस्मा᳚, अ॒र्कं स॒प्तशी᳚र्षाणमानृ॒चुस्त्रि॒धातु॑मुत्त॒मे प॒दे |{श्रुष्टिगुः | इन्द्रः | सतोबृहती} स त्वि१॑(इ॒)मा विश्वा॒ भुव॑नानि चिक्रद॒दादिज्ज॑निष्ट॒ पौंस्य᳚म् ||{4/10}{8.51.4}{8.6.9.4}{6.4.18.4}{1062, 671, 7036} यस्मै᳚¦अ॒र्कम्¦स॒प्तऽशी᳚र्षाणम्¦आ॒नृ॒चुः¦त्रि॒ऽधातु᳚म्¦उ॒त्ऽत॒मे¦प॒दे | |
यो नो᳚ दा॒ता वसू᳚ना॒मिन्द्रं॒ तं हू᳚महे व॒यम् |{श्रुष्टिगुः | इन्द्रः | बृहती} वि॒द्मा ह्य॑स्य सुम॒तिं नवी᳚यसीं ग॒मेम॒ गोम॑ति व्र॒जे ||{5/10}{8.51.5}{8.6.9.5}{6.4.18.5}{1063, 671, 7037} यः¦नः॒¦दा॒ता¦वसू᳚नाम्¦इन्द्र᳚म्¦तम्¦हू॒म॒हे॒¦व॒यम् | |
यस्मै॒ त्वं व॑सो दा॒नाय॒ शिक्ष॑सि॒ स रा॒यस्पोष॑मश्नुते |{श्रुष्टिगुः | इन्द्रः | सतोबृहती} तं त्वा᳚ व॒यं म॑घवन्निन्द्र गिर्वणः सु॒ताव᳚न्तो हवामहे ||{6/10}{8.51.6}{8.6.9.6}{6.4.19.1}{1064, 671, 7038} यस्मै᳚¦त्वम्¦व॒सो॒ इति॑¦दा॒नाय॑¦शिक्ष॑सि¦सः¦रा॒यः¦पोष᳚म्¦अ॒श्नु॒ते॒ | |
क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे᳚ |{श्रुष्टिगुः | इन्द्रः | बृहती} उपो॒पेन्नु म॑घव॒न् भूय॒ इन्नु ते॒ दानं᳚ दे॒वस्य॑ पृच्यते ||{7/10}{8.51.7}{8.6.9.7}{6.4.19.2}{1065, 671, 7039} क॒दा¦च॒न¦स्त॒रीः¦अ॒सि॒¦न¦इ॒न्द्र॒¦स॒श्च॒सि॒¦दा॒शुषे᳚ | |
प्र यो न॑न॒क्षे, अ॒भ्योज॑सा॒ क्रिविं᳚ व॒धैः शुष्णं᳚ निघो॒षय॑न् |{श्रुष्टिगुः | इन्द्रः | सतोबृहती} य॒देदस्त᳚म्भीत्प्र॒थय᳚न्न॒मूं दिव॒मादिज्ज॑निष्ट॒ पार्थि॑वः ||{8/10}{8.51.8}{8.6.9.8}{6.4.19.3}{1066, 671, 7040} प्र¦यः¦न॒न॒क्षे¦अ॒भि¦ओज॑सा¦क्रिवि᳚म्¦व॒धैः¦शुष्ण᳚म्¦नि॒ऽघो॒षय॑न् | |
यस्या॒यं विश्व॒ आर्यो॒ दासः॑ शेवधि॒पा, अ॒रिः |{श्रुष्टिगुः | इन्द्रः | बृहती} ति॒रश्चि॑द॒र्ये रुश॑मे॒ परी᳚रवि॒ तुभ्येत्सो, अ॑ज्यते र॒यिः ||{9/10}{8.51.9}{8.6.9.9}{6.4.19.4}{1067, 671, 7041} यस्य॑¦अ॒यम्¦विश्वः॑¦आर्यः॑¦दासः॑¦शे॒व॒धि॒ऽपाः¦अ॒रिः | |
तु॒र॒ण्यवो॒ मधु॑मन्तं घृत॒श्चुतं॒ विप्रा᳚सो, अ॒र्कमा᳚नृचुः |{श्रुष्टिगुः | इन्द्रः | सतोबृहती} अ॒स्मे र॒यिः प॑प्रथे॒ वृष्ण्यं॒ शवो॒ऽस्मे सु॑वा॒नास॒ इन्द॑वः ||{10/10}{8.51.10}{8.6.9.10}{6.4.19.5}{1068, 671, 7042} तु॒र॒ण्यवः॑¦मधु॑ऽमन्तम्¦घृ॒त॒ऽश्चुत᳚म्¦विप्रा᳚सः¦अ॒र्कम्¦आ॒नृ॒चुः॒ | |
[52] यथामनाविति दशर्चस्य सूक्तस्यायुरिंद्रः अयुजोबृहत्योयुजः सतोबृहत्यः | |
यथा॒ मनौ॒ विव॑स्वति॒ सोमं᳚ श॒क्रापि॑बः सु॒तम् |{आयुः | इन्द्रः | बृहती} यथा᳚ त्रि॒ते छन्द॑ इन्द्र॒ जुजो᳚षस्या॒यौ मा᳚दयसे॒ सचा᳚ ||{1/10}{8.52.1}{8.6.10.1}{6.4.20.1}{1069, 672, 7043} यथा᳚¦मनौ᳚¦विव॑स्वति¦सोम᳚म्¦श॒क्र॒¦अपि॑बः¦सु॒तम् | |
पृष॑ध्रे॒ मेध्ये᳚ मात॒रिश्व॒नीन्द्र॑ सुवा॒ने, अम᳚न्दथाः |{आयुः | इन्द्रः | सतोबृहती} यथा॒ सोमं॒ दश॑शिप्रे॒ दशो᳚ण्ये॒ स्यूम॑रश्मा॒वृजू᳚नसि ||{2/10}{8.52.2}{8.6.10.2}{6.4.20.2}{1070, 672, 7044} पृष॑ध्रे¦मेध्ये᳚¦मा॒त॒रिश्व॑नि¦इन्द्र॑¦सु॒वा॒ने¦अम᳚न्दथाः | |
य उ॒क्था केव॑ला द॒धे यः सोमं᳚ धृषि॒तापि॑बत् |{आयुः | इन्द्रः | बृहती} यस्मै॒ विष्णु॒स्त्रीणि॑ प॒दा वि॑चक्र॒म उप॑ मि॒त्रस्य॒ धर्म॑भिः ||{3/10}{8.52.3}{8.6.10.3}{6.4.20.3}{1071, 672, 7045} यः¦उ॒क्था¦केव॑ला¦द॒धे¦यः¦सोम᳚म्¦धृ॒षि॒ता¦अपि॑बत् | |
यस्य॒ त्वमि᳚न्द्र॒ स्तोमे᳚षु चा॒कनो॒ वाजे᳚ वाजिञ्छतक्रतो |{आयुः | इन्द्रः | सतोबृहती} तं त्वा᳚ व॒यं सु॒दुघा᳚मिव गो॒दुहो᳚ जुहू॒मसि॑ श्रव॒स्यवः॑ ||{4/10}{8.52.4}{8.6.10.4}{6.4.20.4}{1072, 672, 7046} यस्य॑¦त्वम्¦इ॒न्द्र॒¦स्तोमे᳚षु¦चा॒कनः॑¦वाजे᳚¦वा॒जि॒न्¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | |
यो नो᳚ दा॒ता स नः॑ पि॒ता म॒हाँ, उ॒ग्र ई᳚शान॒कृत् |{आयुः | इन्द्रः | बृहती} अया᳚मन्नु॒ग्रो म॒घवा᳚ पुरू॒वसु॒र्गोरश्व॑स्य॒ प्र दा᳚तु नः ||{5/10}{8.52.5}{8.6.10.5}{6.4.20.5}{1073, 672, 7047} यः¦नः॒¦दा॒ता¦सः¦नः॒¦पि॒ता¦म॒हान्¦उ॒ग्रः¦ई॒शा॒न॒ऽकृत् | |
यस्मै॒ त्वं व॑सो दा॒नाय॒ मंह॑से॒ स रा॒यस्पोष॑मिन्वति |{आयुः | इन्द्रः | सतोबृहती} व॒सू॒यवो॒ वसु॑पतिं श॒तक्र॑तुं॒ स्तोमै॒रिन्द्रं᳚ हवामहे ||{6/10}{8.52.6}{8.6.10.6}{6.4.21.1}{1074, 672, 7048} यस्मै᳚¦त्वम्¦व॒सो॒ इति॑¦दा॒नाय॑¦मंह॑से¦सः¦रा॒यः¦पोष᳚म्¦इ॒न्व॒ति॒ | |
क॒दा च॒न प्र यु॑च्छस्यु॒भे नि पा᳚सि॒ जन्म॑नी |{आयुः | इन्द्रः | बृहती} तुरी᳚यादित्य॒ हव॑नं त इन्द्रि॒यमा त॑स्थाव॒मृतं᳚ दि॒वि ||{7/10}{8.52.7}{8.6.10.7}{6.4.21.2}{1075, 672, 7049} क॒दा¦च॒न¦प्र¦यु॒च्छ॒सि॒¦उ॒भे इति॑¦नि¦पा॒सि॒¦जन्म॑नी॒ इति॑ | |
यस्मै॒ त्वं म॑घवन्निन्द्र गिर्वणः॒ शिक्षो॒ शिक्ष॑सि दा॒शुषे᳚ |{आयुः | इन्द्रः | सतोबृहती} अ॒स्माकं॒ गिर॑ उ॒त सु॑ष्टु॒तिं व॑सो कण्व॒वच्छृ॑णुधी॒ हव᳚म् ||{8/10}{8.52.8}{8.6.10.8}{6.4.21.3}{1076, 672, 7050} यस्मै᳚¦त्वम्¦म॒घ॒ऽव॒न्¦इ॒न्द्र॒¦गि॒र्व॒णः॒¦शिक्षो॒ इति॑¦शिक्ष॑सि¦दा॒शुषे᳚ | |
अस्ता᳚वि॒ मन्म॑ पू॒र्व्यं ब्रह्मेन्द्रा᳚य वोचत |{आयुः | इन्द्रः | बृहती} पू॒र्वीरृ॒तस्य॑ बृह॒तीर॑नूषत स्तो॒तुर्मे॒धा, अ॑सृक्षत ||{9/10}{8.52.9}{8.6.10.9}{6.4.21.4}{1077, 672, 7051} अस्ता᳚वि¦मन्म॑¦पू॒र्व्यम्¦ब्रह्म॑¦इन्द्रा᳚य¦वो॒च॒त॒ | |
समिन्द्रो॒ रायो᳚ बृह॒तीर॑धूनुत॒ सं क्षो॒णी समु॒ सूर्य᳚म् |{आयुः | इन्द्रः | सतोबृहती} सं शु॒क्रासः॒ शुच॑यः॒ सं गवा᳚शिरः॒ सोमा॒, इन्द्र॑ममन्दिषुः ||{10/10}{8.52.10}{8.6.10.10}{6.4.21.5}{1078, 672, 7052} सम्¦इन्द्रः॑¦रायः॑¦बृ॒ह॒तीः¦अ॒धू॒नु॒त॒¦सम्¦क्षो॒णी इति॑¦सम्¦ऊँ॒ इति॑¦सूर्य᳚म् | |
[53] उपमंत्वेत्यष्टर्चस्य सूक्तस्य मेध्य इंद्रः अयुजो बृहत्योयुजः सतोबृहत्यः | |
उ॒प॒मं त्वा᳚ म॒घोनां॒ ज्येष्ठं᳚ च वृष॒भाणा᳚म् |{मेध्यः | इन्द्रः | बृहती} पू॒र्भित्त॑मं मघवन्निन्द्र गो॒विद॒मीशा᳚नं रा॒य ई᳚महे ||{1/8}{8.53.1}{8.6.11.1}{6.4.22.1}{1079, 673, 7053} उ॒प॒ऽमम्¦त्वा॒¦म॒घोना᳚म्¦ज्येष्ठ᳚म्¦च॒¦वृ॒ष॒भाणा᳚म् | |
य आ॒युं कुत्स॑मतिथि॒ग्वमर्द॑यो वावृधा॒नो दि॒वेदि॑वे |{मेध्यः | इन्द्रः | सतोबृहती} तं त्वा᳚ व॒यं हर्य॑श्वं श॒तक्र॑तुं वाज॒यन्तो᳚ हवामहे ||{2/8}{8.53.2}{8.6.11.2}{6.4.22.2}{1080, 673, 7054} यः¦आ॒युम्¦कुत्स᳚म्¦अ॒ति॒थि॒ऽग्वम्¦अर्द॑यः¦व॒वृ॒धा॒नः¦दि॒वेऽदि॑वे | |
आ नो॒ विश्वे᳚षां॒ रसं॒ मध्वः॑ सिञ्च॒न्त्वद्र॑यः |{मेध्यः | इन्द्रः | बृहती} ये प॑रा॒वति॑ सुन् वि॒रे जने॒ष्वा ये, अ᳚र्वा॒वतीन्द॑वः ||{3/8}{8.53.3}{8.6.11.3}{6.4.22.3}{1081, 673, 7055} आ¦नः॒¦विश्वे᳚षाम्¦रस᳚म्¦मध्वः॑¦सिं॒च॒न्तु॒¦अद्र॑यः | |
विश्वा॒ द्वेषां᳚सि ज॒हि चाव॒ चा कृ॑धि॒ विश्वे᳚ सन्व॒न्त्वा वसु॑ |{मेध्यः | इन्द्रः | सतोबृहती} शीष्टे᳚षु चित्ते मदि॒रासो᳚, अं॒शवो॒ यत्रा॒ सोम॑स्य तृ॒म्पसि॑ ||{4/8}{8.53.4}{8.6.11.4}{6.4.22.4}{1082, 673, 7056} विश्वा᳚¦द्वेषां᳚सि¦ज॒हि¦च॒¦अव॑¦च॒¦आ¦कृ॒धि॒¦विश्वे᳚¦स॒न्व॒न्तु॒¦आ¦वसु॑ | |
इन्द्र॒ नेदी᳚य॒ एदि॑हि मि॒तमे᳚धाभिरू॒तिभिः॑ |{मेध्यः | इन्द्रः | बृहती} आ शं᳚तम॒ शंत॑माभिर॒भिष्टि॑भि॒रा स्वा᳚पे स्वा॒पिभिः॑ ||{5/8}{8.53.5}{8.6.11.5}{6.4.23.1}{1083, 673, 7057} इन्द्र॑¦नेदी᳚यः¦आ¦इत्¦इ॒हि॒¦मि॒तऽमे᳚धाभिः¦ऊ॒तिऽभिः॑ | |
आ॒जि॒तुरं॒ सत्प॑तिं वि॒श्वच॑र्षणिं कृ॒धि प्र॒जास्वाभ॑गम् |{मेध्यः | इन्द्रः | सतोबृहती} प्र सू ति॑रा॒ शची᳚भि॒र्ये त॑ उ॒क्थिनः॒ क्रतुं᳚ पुन॒त आ᳚नु॒षक् ||{6/8}{8.53.6}{8.6.11.6}{6.4.23.2}{1084, 673, 7058} आ॒जि॒ऽतुर᳚म्¦सत्ऽप॑तिम्¦वि॒श्वऽच॑र्षणिम्¦कृ॒धि¦प्र॒ऽजासु॑¦आऽभ॑गम् | |
यस्ते॒ साधि॒ष्ठोऽव॑से॒ ते स्या᳚म॒ भरे᳚षु ते |{मेध्यः | इन्द्रः | बृहती} व॒यं होत्रा᳚भिरु॒त दे॒वहू᳚तिभिः सस॒वांसो᳚ मनामहे ||{7/8}{8.53.7}{8.6.11.7}{6.4.23.3}{1085, 673, 7059} यः¦ते॒¦साधि॑ष्ठः¦अव॑से¦ते¦स्या॒म॒¦भरे᳚षु¦ते॒ | |
अ॒हं हि ते᳚ हरिवो॒ ब्रह्म॑ वाज॒युरा॒जिं यामि॒ सदो॒तिभिः॑ |{मेध्यः | इन्द्रः | सतोबृहती} त्वामिदे॒व तममे॒ सम॑श्व॒युर्ग॒व्युरग्रे᳚ मथी॒नाम् ||{8/8}{8.53.8}{8.6.11.8}{6.4.23.4}{1086, 673, 7060} अ॒हम्¦हि¦ते॒¦ह॒रि॒ऽवः॒¦ब्रह्म॑¦वा॒ज॒ऽयुः¦आ॒जिम्¦यामि॑¦सदा᳚¦ऊ॒तिऽभिः॑ | |
[54] एतत्तइत्यष्टर्चस्य सूक्तस्य मातरिश्वानइंद्रस्तृतीयाचतुर्थ्योर्विश्वेदेवाः अयुजोबृहत्योयुजः सतोबृहत्यः | |
ए॒तत्त॑ इन्द्र वी॒र्यं᳚ गी॒र्भिर्गृ॒णन्ति॑ का॒रवः॑ |{मातरिश्वानः | इन्द्रः | बृहती} ते स्तोभ᳚न्त॒ ऊर्ज॑मावन् घृत॒श्चुतं᳚ पौ॒रासो᳚ नक्षन्धी॒तिभिः॑ ||{1/8}{8.54.1}{8.6.12.1}{6.4.24.1}{1087, 674, 7061} ए॒तत्¦ते॒¦इ॒न्द्र॒¦वी॒र्य᳚म्¦गीः॒ऽभिः¦गृ॒णन्ति॑¦का॒रवः॑ | |
नक्ष᳚न्त॒ इन्द्र॒मव॑से सुकृ॒त्यया॒ येषां᳚ सु॒तेषु॒ मन्द॑से |{मातरिश्वानः | इन्द्रः | सतोबृहती} यथा᳚ संव॒र्ते, अम॑दो॒ यथा᳚ कृ॒श ए॒वास्मे, इ᳚न्द्र मत्स्व ||{2/8}{8.54.2}{8.6.12.2}{6.4.24.2}{1088, 674, 7062} नक्ष᳚न्ते¦इन्द्र᳚म्¦अव॑से¦सु॒ऽकृ॒त्यया᳚¦येषा᳚म्¦सु॒तेषु॑¦मन्द॑से | |
आ नो॒ विश्वे᳚ स॒जोष॑सो॒ देवा᳚सो॒ गन्त॒नोप॑ नः |{मातरिश्वानः | विश्वदेवाः | बृहती} वस॑वो रु॒द्रा, अव॑से न॒ आ ग॑मञ्छृ॒ण्वन्तु॑ म॒रुतो॒ हव᳚म् ||{3/8}{8.54.3}{8.6.12.3}{6.4.24.3}{1089, 674, 7063} आ¦नः॒¦विश्वे᳚¦स॒ऽजोष॑सः¦देवा᳚सः¦गन्त॑न¦उप॑¦नः॒ | |
पू॒षा विष्णु॒र्हव॑नं मे॒ सर॑स्व॒त्यव᳚न्तु स॒प्त सिन्ध॑वः |{मातरिश्वानः | विश्वदेवाः | सतोबृहती} आपो॒ वातः॒ पर्व॑तासो॒ वन॒स्पतिः॑ शृ॒णोतु॑ पृथि॒वी हव᳚म् ||{4/8}{8.54.4}{8.6.12.4}{6.4.24.4}{1090, 674, 7064} पू॒षा¦विष्णुः॑¦हव॑नम्¦मे॒¦सर॑स्वती¦अव᳚न्तु¦स॒प्त¦सिन्ध॑वः | |
यदि᳚न्द्र॒ राधो॒, अस्ति॑ ते॒ माघो᳚नं मघवत्तम |{मातरिश्वानः | इन्द्रः | बृहती} तेन॑ नो बोधि सध॒माद्यो᳚ वृ॒धे भगो᳚ दा॒नाय॑ वृत्रहन् ||{5/8}{8.54.5}{8.6.12.5}{6.4.25.1}{1091, 674, 7065} यत्¦इ॒न्द्र॒¦राधः॑¦अस्ति॑¦ते॒¦माघो᳚नम्¦म॒घ॒व॒त्ऽत॒म॒ | |
आजि॑पते नृपते॒ त्वमिद्धि नो॒ वाज॒ आ व॑क्षि सुक्रतो |{मातरिश्वानः | इन्द्रः | सतोबृहती} वी॒ती होत्रा᳚भिरु॒त दे॒ववी᳚तिभिः सस॒वांसो॒ वि शृ᳚ण्विरे ||{6/8}{8.54.6}{8.6.12.6}{6.4.25.2}{1092, 674, 7066} आजि॑ऽपते¦नृ॒ऽप॒ते॒¦त्वम्¦इत्¦हि¦नः॒¦वाजे᳚¦आ¦व॒क्षि॒¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो | |
सन्ति॒ ह्य१॑(अ॒)र्य आ॒शिष॒ इन्द्र॒ आयु॒र्जना᳚नाम् |{मातरिश्वानः | इन्द्रः | बृहती} अ॒स्मान्न॑क्षस्व मघव॒न्नुपाव॑से धु॒क्षस्व॑ पि॒प्युषी॒मिष᳚म् ||{7/8}{8.54.7}{8.6.12.7}{6.4.25.3}{1093, 674, 7067} सन्ति॑¦हि¦अ॒र्ये¦आ॒ऽशिषः॑¦इन्द्रे᳚¦आयुः॑¦जना᳚नाम् | |
व॒यं त॑ इन्द्र॒ स्तोमे᳚भिर्विधेम॒ त्वम॒स्माकं᳚ शतक्रतो |{मातरिश्वानः | इन्द्रः | सतोबृहती} महि॑ स्थू॒रं श॑श॒यं राधो॒, अह्र॑यं॒ प्रस्क᳚ण्वाय॒ नि तो᳚शय ||{8/8}{8.54.8}{8.6.12.8}{6.4.25.4}{1094, 674, 7068} व॒यम्¦ते॒¦इ॒न्द्र॒¦स्तोमे᳚भिः¦वि॒धे॒म॒¦त्वम्¦अ॒स्माक᳚म्¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | |
[55] भूरीदिति पंचर्चस्य सूक्तस्य कृशइंद्रोगायत्री तृतीयापंचम्यावनुष्टुभौ | |
भूरीदिन्द्र॑स्य वी॒र्य१॑(अं॒) व्यख्य॑म॒भ्याय॑ति |{कृशः | इन्द्रः | गायत्री} राध॑स्ते दस्यवे वृक ||{1/5}{8.55.1}{8.6.13.1}{6.4.26.1}{1095, 675, 7069} भूरि॑¦इत्¦इन्द्र॑स्य¦वी॒र्य᳚म्¦वि¦अख्य᳚म्¦अ॒भि¦आ¦अ॒य॒ति॒ | राधः॑¦ते॒¦द॒स्य॒वे॒¦वृ॒क॒ || |
श॒तं श्वे॒तास॑ उ॒क्षणो᳚ दि॒वि तारो॒ न रो᳚चन्ते |{कृशः | इन्द्रः | गायत्री} म॒ह्ना दिवं॒ न त॑स्तभुः ||{2/5}{8.55.2}{8.6.13.2}{6.4.26.2}{1096, 675, 7070} श॒तम्¦श्वे॒तासः॑¦उ॒क्षणः॑¦दि॒वि¦तारः॑¦न¦रो॒च॒न्ते॒ | म॒ह्ना¦दिव᳚म्¦न¦त॒स्त॒भुः॒ || |
श॒तं वे॒णूञ्छ॒तं शुनः॑ श॒तं चर्मा᳚णि म्ला॒तानि॑ |{कृशः | इन्द्रः | अनुष्टुप्} श॒तं मे᳚ बल्बजस्तु॒का, अरु॑षीणां॒ चतुः॑शतम् ||{3/5}{8.55.3}{8.6.13.3}{6.4.26.3}{1097, 675, 7071} श॒तम्¦वे॒णून्¦श॒तम्¦शुनः॑¦श॒तम्¦चर्मा᳚णि¦म्ला॒तानि॑ | श॒तम्¦मे॒¦ब॒ल्ब॒ज॒ऽस्तु॒काः¦अरु॑षीणाम्¦चतुः॑ऽशतम् || |
सु॒दे॒वाः स्थ॑ काण्वायना॒ वयो᳚वयो विच॒रन्तः॑ |{कृशः | इन्द्रः | गायत्री} अश्वा᳚सो॒ न च᳚ङ्क्रमत ||{4/5}{8.55.4}{8.6.13.4}{6.4.26.4}{1098, 675, 7072} सु॒ऽदे॒वाः¦स्थ॒¦का॒ण्वा॒य॒नाः॒¦वयः॑ऽवयः¦वि॒ऽच॒रन्तः॑ | अश्वा᳚सः¦न¦च॒ङ्क्र॒म॒त॒ || |
आदित्सा॒प्तस्य॑ चर्किर॒न्नानू᳚नस्य॒ महि॒ श्रवः॑ |{कृशः | इन्द्रः | अनुष्टुप्} श्यावी᳚रतिध्व॒सन् प॒थश्चक्षु॑षा च॒न सं॒नशे᳚ ||{5/5}{8.55.5}{8.6.13.5}{6.4.26.5}{1099, 675, 7073} आत्¦इत्¦सा॒प्तस्य॑¦च॒र्कि॒र॒न्¦न¦अनू᳚नस्य¦महि॑¦श्रवः॑ | श्यावीः᳚¦अ॒ति॒ऽध्व॒सन्¦प॒थः¦चक्षु॑षा¦च॒न¦स॒म्ऽनशे᳚ || |
[56] प्रतितइति पंचर्चस्य सूक्तस्य पृषध्रइंद्रोंत्याया अग्निसूर्यौगायत्र्यंत्यापंक्तिः | |
प्रति॑ ते दस्यवे वृक॒ राधो᳚, अद॒र्श्यह्र॑यम् |{पृषध्रः | इन्द्रः | गायत्री} द्यौर्न प्र॑थि॒ना शवः॑ ||{1/5}{8.56.1}{8.6.14.1}{6.4.27.1}{1100, 676, 7074} प्रति॑¦ते॒¦द॒स्य॒वे॒¦वृ॒क॒¦राधः॑¦अ॒द॒र्शि॒¦अह्र॑यम् | द्यौः¦न¦प्र॒थि॒ना¦शवः॑ || |
दश॒ मह्यं᳚ पौतक्र॒तः स॒हस्रा॒ दस्य॑वे॒ वृकः॑ |{पृषध्रः | इन्द्रः | गायत्री} नित्या᳚द्रा॒यो, अ॑मंहत ||{2/5}{8.56.2}{8.6.14.2}{6.4.27.2}{1101, 676, 7075} दश॑¦मह्य᳚म्¦पौ॒त॒ऽक्र॒तः¦स॒हस्रा᳚¦दस्य॑वे¦वृकः॑ | नित्या᳚त्¦रा॒यः¦अ॒मं॒ह॒त॒ || |
श॒तं मे᳚ गर्द॒भानां᳚ श॒तमूर्णा᳚वतीनाम् |{पृषध्रः | इन्द्रः | गायत्री} श॒तं दा॒साँ, अति॒ स्रजः॑ ||{3/5}{8.56.3}{8.6.14.3}{6.4.27.3}{1102, 676, 7076} श॒तम्¦मे॒¦ग॒र्द॒भाना᳚म्¦श॒तम्¦ऊर्णा᳚ऽवतीनाम् | श॒तम्¦दा॒सान्¦अति॑¦स्रजः॑ || |
तत्रो॒, अपि॒ प्राणी᳚यत पू॒तक्र॑तायै॒ व्य॑क्ता |{पृषध्रः | इन्द्रः | गायत्री} अश्वा᳚ना॒मिन्न यू॒थ्या᳚म् ||{4/5}{8.56.4}{8.6.14.4}{6.4.27.4}{1103, 676, 7077} तत्रो॒ इति॑¦अपि॑¦प्र¦अ॒नी॒य॒त॒¦पू॒तऽक्र॑तायै¦वि।आ॑क्ता | अश्वा᳚नाम्¦इत्¦न¦यू॒थ्या᳚म् || |
अचे᳚त्य॒ग्निश्चि॑कि॒तुर्ह᳚व्य॒वाट्स सु॒मद्र॑थः |{पृषध्रः | अग्निसूर्यौ | पङ्क्तिः} अ॒ग्निः शु॒क्रेण॑ शो॒चिषा᳚ बृ॒हत्सूरो᳚, अरोचत दि॒वि सूर्यो᳚, अरोचत ||{5/5}{8.56.5}{8.6.14.5}{6.4.27.5}{1104, 676, 7078} अचे᳚ति¦अ॒ग्निः¦चि॒कि॒तुः¦ह॒व्य॒ऽवाट्¦सः¦सु॒मत्ऽर॑थः | |
[57] युवंदेवेति चतुरृचस्य सूक्तस्य मेध्योश्विनौत्रिष्टुप् | |
यु॒वं दे᳚वा॒ क्रतु॑ना पू॒र्व्येण॑ यु॒क्ता रथे᳚न तवि॒षं य॑जत्रा |{मेध्यः | अश्विनौ | त्रिष्टुप्} आग॑च्छतं नासत्या॒ शची᳚भिरि॒दं तृ॒तीयं॒ सव॑नं पिबाथः ||{1/4}{8.57.1}{8.6.15.1}{6.4.28.1}{1105, 677, 7079} यु॒वम्¦दे॒वा॒¦क्रतु॑ना¦पू॒र्व्येण॑¦यु॒क्ता¦रथे᳚न¦त॒वि॒षम्¦य॒ज॒त्रा॒ | |
यु॒वां दे॒वास्त्रय॑ एकाद॒शासः॑ स॒त्याः स॒त्यस्य॑ ददृशे पु॒रस्ता᳚त् |{मेध्यः | अश्विनौ | त्रिष्टुप्} अ॒स्माकं᳚ य॒ज्ञं सव॑नं जुषा॒णा पा॒तं सोम॑मश्विना॒ दीद्य॑ग्नी ||{2/4}{8.57.2}{8.6.15.2}{6.4.28.2}{1106, 677, 7080} यु॒वाम्¦दे॒वाः¦त्रयः॑¦ए॒का॒द॒शासः॑¦स॒त्याः¦स॒त्यस्य॑¦द॒दृ॒शे॒¦पु॒रस्ता᳚त् | |
प॒नाय्यं॒ तद॑श्विना कृ॒तं वां᳚ वृष॒भो दि॒वो रज॑सः पृथि॒व्याः |{मेध्यः | अश्विनौ | त्रिष्टुप्} स॒हस्रं॒ शंसा᳚, उ॒त ये गवि॑ष्टौ॒ सर्वाँ॒, इत्ताँ, उप॑ याता॒ पिब॑ध्यै ||{3/4}{8.57.3}{8.6.15.3}{6.4.28.3}{1107, 677, 7081} प॒नाय्य᳚म्¦तत्¦अ॒श्वि॒ना॒¦कृ॒तम्¦वा॒म्¦वृ॒ष॒भः¦दि॒वः¦रज॑सः¦पृ॒थि॒व्याः | |
अ॒यं वां᳚ भा॒गो निहि॑तो यजत्रे॒मा गिरो᳚ नास॒त्योप॑ यातम् |{मेध्यः | अश्विनौ | त्रिष्टुप्} पिब॑तं॒ सोमं॒ मधु॑मन्तम॒स्मे प्र दा॒श्वांस॑मवतं॒ शची᳚भिः ||{4/4}{8.57.4}{8.6.15.4}{6.4.28.4}{1108, 677, 7082} अ॒यम्¦वा॒म्¦भा॒गः¦निऽहि॑तः¦य॒ज॒त्रा॒¦इ॒माः¦गिरः॑¦ना॒स॒त्या॒¦उप॑¦या॒त॒म् | |
[58] यमृत्विजइति तृचस्य सूक्तस्य मेध्योविश्वेदेवास्त्रिष्टुप् (आद्यायाऋत्विजोदेवतावा) | |
यमृ॒त्विजो᳚ बहु॒धा क॒ल्पय᳚न्तः॒ सचे᳚तसो य॒ज्ञमि॒मं वह᳚न्ति |{मेध्यः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्} यो, अ॑नूचा॒नो ब्रा᳚ह्म॒णो यु॒क्त आ᳚सी॒त्का स्वि॒त्तत्र॒ यज॑मानस्य सं॒वित् ||{1/3}{8.58.1}{8.6.16.1}{6.4.29.1}{1109, 678, 7083} यम्¦ऋ॒त्विजः॑¦ब॒हु॒धा¦क॒ल्पय᳚न्तः¦सऽचे᳚तसः¦य॒ज्ञम्¦इ॒मम्¦वह᳚न्ति | |
एक॑ ए॒वाग्निर्ब॑हु॒धा समि॑द्ध॒ एकः॒ सूर्यो॒ विश्व॒मनु॒ प्रभू᳚तः |{मेध्यः | विश्वदेवाः | त्रिष्टुप्} एकै॒वोषाः सर्व॑मि॒दं वि भा॒त्येकं॒ वा, इ॒दं वि ब॑भूव॒ सर्व᳚म् ||{2/3}{8.58.2}{8.6.16.2}{6.4.29.2}{1110, 678, 7084} एकः॑¦ए॒व¦अ॒ग्निः¦ब॒हु॒धा¦सम्ऽइ᳚द्धः¦एकः॑¦सूर्यः॑¦विश्व᳚म्¦अनु॑¦प्रऽभू᳚तः | |
ज्योति॑ष्मन्तं केतु॒मन्तं᳚ त्रिच॒क्रं सु॒खं रथं᳚ सु॒षदं॒ भूरि॑वारम् |{मेध्यः | विश्वदेवाः | त्रिष्टुप्} चि॒त्राम॑घा॒ यस्य॒ योगे᳚ऽधिजज्ञे॒ तं वां᳚ हु॒वे, अति॑ रिक्तं॒ पिब॑ध्यै ||{3/3}{8.58.3}{8.6.16.3}{6.4.29.3}{1111, 678, 7085} ज्योति॑ष्मन्तम्¦के॒तु॒ऽमन्त᳚म्¦त्रि॒ऽच॒क्रम्¦सु॒ऽखम्¦रथ᳚म्¦सु॒ऽसद᳚म्¦भूरि॑ऽवारम् | |
[59] इमानिवामिति सप्तर्चस्य सूक्तस्य सुपर्णइंद्रावरुणौजगती | |
इ॒मानि॑ वां भाग॒धेया᳚नि सिस्रत॒ इन्द्रा᳚वरुणा॒ प्र म॒हे सु॒तेषु॑ वाम् |{सुपर्णः | इन्द्रावरुणौ | जगती} य॒ज्ञेय॑ज्ञे ह॒ सव॑ना भुर॒ण्यथो॒ यत्सु᳚न्व॒ते यज॑मानाय॒ शिक्ष॑थः ||{1/7}{8.59.1}{8.6.17.1}{6.4.30.1}{1112, 679, 7086} इ॒मानि॑¦वा॒म्¦भा॒ग॒ऽधेया᳚नि¦सि॒स्र॒ते॒¦इन्द्रा᳚वरुणा¦प्र¦म॒हे¦सु॒तेषु॑¦वा॒म् | |
नि॒ष्षिध्व॑री॒रोष॑धी॒राप॑ आस्ता॒मिन्द्रा᳚वरुणा महि॒मान॒माश॑त |{सुपर्णः | इन्द्रावरुणौ | जगती} या सिस्र॑तू॒ रज॑सः पा॒रे, अध्व॑नो॒ ययोः॒ शत्रु॒र्नकि॒रादे᳚व॒ ओह॑ते ||{2/7}{8.59.2}{8.6.17.2}{6.4.30.2}{1113, 679, 7087} निः॒ऽसिध्व॑रीः¦ओष॑धीः¦आपः॑¦आ॒स्ता॒म्¦इन्द्रा᳚वरुणा¦म॒हि॒मान᳚म्¦आ॒श॒त॒ | |
स॒त्यं तदि᳚न्द्रावरुणा कृ॒शस्य॑ वां॒ मध्व॑ ऊ॒र्मिं दु॑हते स॒प्त वाणीः᳚ |{सुपर्णः | इन्द्रावरुणौ | जगती} ताभि॑र्दा॒श्वांस॑मवतं शुभस्पती॒ यो वा॒मद॑ब्धो, अ॒भि पाति॒ चित्ति॑भिः ||{3/7}{8.59.3}{8.6.17.3}{6.4.30.3}{1114, 679, 7088} स॒त्यम्¦तत्¦इ॒न्द्रा॒व॒रु॒णा॒¦कृ॒शस्य॑¦वा॒म्¦मध्वः॑¦ऊ॒र्मिम्¦दु॒ह॒ते॒¦स॒प्त¦वाणीः᳚ | |
घृ॒त॒प्रुषः॒ सौम्या᳚ जी॒रदा᳚नवः स॒प्त स्वसा᳚रः॒ सद॑न ऋ॒तस्य॑ |{सुपर्णः | इन्द्रावरुणौ | जगती} या ह॑ वामिन्द्रावरुणा घृत॒श्चुत॒स्ताभि॑र्धत्तं॒ यज॑मानाय शिक्षतम् ||{4/7}{8.59.4}{8.6.17.4}{6.4.30.4}{1115, 679, 7089} घृ॒त॒ऽप्रुषः॑¦सौम्याः᳚¦जी॒रऽदा᳚नवः¦स॒प्त¦स्वसा᳚रः¦सद॑ने¦ऋ॒तस्य॑ | |
अवो᳚चाम मह॒ते सौभ॑गाय स॒त्यं त्वे॒षाभ्यां᳚ महि॒मान॑मिन्द्रि॒यम् |{सुपर्णः | इन्द्रावरुणौ | जगती} अ॒स्मान् त्स्वि᳚न्द्रावरुणा घृत॒श्चुत॒स्त्रिभिः॑ सा॒प्तेभि॑रवतं शुभस्पती ||{5/7}{8.59.5}{8.6.17.5}{6.4.31.1}{1116, 679, 7090} अवो᳚चाम¦म॒ह॒ते¦सौभ॑गाय¦स॒त्यम्¦त्वे॒षाभ्या᳚म्¦म॒हि॒मान᳚म्¦इ॒न्द्रि॒यम् | |
इन्द्रा᳚वरुणा॒ यदृ॒षिभ्यो᳚ मनी॒षां वा॒चो म॒तिं श्रु॒तम॑दत्त॒मग्रे᳚ |{सुपर्णः | इन्द्रावरुणौ | जगती} यानि॒ स्थाना᳚न्यसृजन्त॒ धीरा᳚ य॒ज्ञं त᳚न्वा॒नास्तप॑सा॒भ्य॑पश्यम् ||{6/7}{8.59.6}{8.6.17.6}{6.4.31.2}{1117, 679, 7091} इन्द्रा᳚वरुणा¦यत्¦ऋ॒षिऽभ्यः॑¦म॒नी॒षाम्¦वा॒चः¦म॒तिम्¦श्रु॒तम्¦अ॒द॒त्त॒म्¦अग्रे᳚ | |
इन्द्रा᳚वरुणा सौमन॒समदृ॑प्तं रा॒यस्पोषं॒ यज॑मानेषु धत्तम् |{सुपर्णः | इन्द्रावरुणौ | जगती} प्र॒जां पु॒ष्टिं भू᳚तिम॒स्मासु॑ धत्तं दीर्घायु॒त्वाय॒ प्र ति॑रतं न॒ आयुः॑ ||{7/7}{8.59.7}{8.6.17.7}{6.4.31.3}{1118, 679, 7092} इन्द्रा᳚वरुणा¦सौ॒म॒न॒सम्¦अदृ॑प्तम्¦रा॒यः¦पोष᳚म्¦यज॑मानेषु¦ध॒त्त॒म् | |
[60] अग्नआयाहीति विंशत्यृचस्य सूक्तस्य प्रागाथोभर्गोग्निः अयुजोबृहत्योयुजःसतोबृहत्यः | |
अग्न॒ आ या᳚ह्य॒ग्निभि॒र्होता᳚रं त्वा वृणीमहे |{प्रागाथो भर्गः | अग्निः | बृहती} आ त्वाम॑नक्तु॒ प्रय॑ता ह॒विष्म॑ती॒ यजि॑ष्ठं ब॒र्हिरा॒सदे᳚ ||{1/20}{8.60.1}{8.7.1.1}{6.4.32.1}{1119, 680, 7093} अग्ने᳚¦आ¦या॒हि॒¦अ॒ग्निऽभिः॑¦होता᳚रम्¦त्वा॒¦वृ॒णी॒म॒हे॒ | |
अच्छा॒ हि त्वा᳚ सहसः सूनो, अङ्गिरः॒ स्रुच॒श्चर᳚न्त्यध्व॒रे |{प्रागाथो भर्गः | अग्निः | सतोबृहती} ऊ॒र्जो नपा᳚तं घृ॒तके᳚शमीमहे॒ऽग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ||{2/20}{8.60.2}{8.7.1.2}{6.4.32.2}{1120, 680, 7094} अच्छ॑¦हि¦त्वा॒¦स॒ह॒सः॒¦सू॒नो॒ इति॑¦अ॒ङ्गि॒रः॒¦स्रुचः॑¦चर᳚न्ति¦अ॒ध्व॒रे | |
अग्ने᳚ क॒विर्वे॒धा, अ॑सि॒ होता᳚ पावक॒ यक्ष्यः॑ |{प्रागाथो भर्गः | अग्निः | बृहती} म॒न्द्रो यजि॑ष्ठो, अध्व॒रेष्वीड्यो॒ विप्रे᳚भिः शुक्र॒ मन्म॑भिः ||{3/20}{8.60.3}{8.7.1.3}{6.4.32.3}{1121, 680, 7095} अग्ने᳚¦क॒विः¦वे॒धाः¦अ॒सि॒¦होता᳚¦पा॒व॒क॒¦यक्ष्यः॑ | |
अद्रो᳚घ॒मा व॑होश॒तो य॑विष्ठ्य दे॒वाँ, अ॑जस्र वी॒तये᳚ |{प्रागाथो भर्गः | अग्निः | सतोबृहती} अ॒भि प्रयां᳚सि॒ सुधि॒ता व॑सो गहि॒ मन्द॑स्व धी॒तिभि᳚र्हि॒तः ||{4/20}{8.60.4}{8.7.1.4}{6.4.32.4}{1122, 680, 7096} अद्रो᳚घम्¦आ¦व॒ह॒¦उ॒श॒तः¦य॒वि॒ष्ठ्य॒¦दे॒वान्¦अ॒ज॒स्र॒¦वी॒तये᳚ | |
त्वमित्स॒प्रथा᳚, अ॒स्यग्ने᳚ त्रातरृ॒तस्क॒विः |{प्रागाथो भर्गः | अग्निः | बृहती} त्वां विप्रा᳚सः समिधान दीदिव॒ आ वि॑वासन्ति वे॒धसः॑ ||{5/20}{8.60.5}{8.7.1.5}{6.4.32.5}{1123, 680, 7097} त्वम्¦इत्¦स॒ऽप्रथाः᳚¦अ॒सि॒¦अग्ने᳚¦त्रा॒तः॒¦ऋ॒तः¦क॒विः | |
शोचा᳚ शोचिष्ठ दीदि॒हि वि॒शे मयो॒ रास्व॑ स्तो॒त्रे म॒हाँ, अ॑सि |{प्रागाथो भर्गः | अग्निः | सतोबृहती} दे॒वानां॒ शर्म॒न्मम॑ सन्तु सू॒रयः॑ शत्रू॒षाहः॑ स्व॒ग्नयः॑ ||{6/20}{8.60.6}{8.7.1.6}{6.4.33.1}{1124, 680, 7098} शोच॑¦शो॒चि॒ष्ठ॒¦दी॒दि॒हि¦वि॒शे¦मयः॑¦रास्व॑¦स्तो॒त्रे¦म॒हान्¦अ॒सि॒ | |
यथा᳚ चिद्वृ॒द्धम॑त॒समग्ने᳚ सं॒जूर्व॑सि॒ क्षमि॑ |{प्रागाथो भर्गः | अग्निः | बृहती} ए॒वा द॑ह मित्रमहो॒ यो, अ॑स्म॒ध्रुग्दु॒र्मन्मा॒ कश्च॒ वेन॑ति ||{7/20}{8.60.7}{8.7.1.7}{6.4.33.2}{1125, 680, 7099} यथा᳚¦चि॒त्¦वृ॒द्धम्¦अ॒त॒सम्¦अग्ने᳚¦स॒म्ऽजूर्व॑सि¦क्षमि॑ | |
मा नो॒ मर्ता᳚य रि॒पवे᳚ रक्ष॒स्विने॒ माघशं᳚साय रीरधः |{प्रागाथो भर्गः | अग्निः | सतोबृहती} अस्रे᳚धद्भिस्त॒रणि॑भिर्यविष्ठ्य शि॒वेभिः॑ पाहि पा॒युभिः॑ ||{8/20}{8.60.8}{8.7.1.8}{6.4.33.3}{1126, 680, 7100} मा¦नः॒¦मर्ता᳚य¦रि॒पवे᳚¦र॒क्ष॒स्विने᳚¦मा¦अ॒घऽशं᳚साय¦री॒र॒धः॒ | |
पा॒हि नो᳚, अग्न॒ एक॑या पा॒ह्यु१॑(उ॒)त द्वि॒तीय॑या |{प्रागाथो भर्गः | अग्निः | बृहती} पा॒हि गी॒र्भिस्ति॒सृभि॑रूर्जां पते पा॒हि च॑त॒सृभि᳚र्वसो ||{9/20}{8.60.9}{8.7.1.9}{6.4.33.4}{1127, 680, 7101} पा॒हि¦नः॒¦अ॒ग्ने॒¦एक॑या¦पा॒हि¦उ॒त¦द्वि॒तीय॑या | |
पा॒हि विश्व॑स्माद्र॒क्षसो॒, अरा᳚व्णः॒ प्र स्म॒ वाजे᳚षु नोऽव |{प्रागाथो भर्गः | अग्निः | सतोबृहती} त्वामिद्धि नेदि॑ष्ठं दे॒वता᳚तय आ॒पिं नक्षा᳚महे वृ॒धे ||{10/20}{8.60.10}{8.7.1.10}{6.4.33.5}{1128, 680, 7102} पा॒हि¦विश्व॑स्मात्¦र॒क्षसः॑¦अरा᳚व्णः¦प्र¦स्म॒¦वाजे᳚षु¦नः॒¦अ॒व॒ | |
आ नो᳚, अग्ने वयो॒वृधं᳚ र॒यिं पा᳚वक॒ शंस्य᳚म् |{प्रागाथो भर्गः | अग्निः | बृहती} रास्वा᳚ च न उपमाते पुरु॒स्पृहं॒ सुनी᳚ती॒ स्वय॑शस्तरम् ||{11/20}{8.60.11}{8.7.1.11}{6.4.34.1}{1129, 680, 7103} आ¦नः॒¦अ॒ग्ने॒¦व॒यः॒ऽवृध᳚म्¦र॒यिम्¦पा॒व॒क॒¦शंस्य᳚म् | |
येन॒ वंसा᳚म॒ पृत॑नासु॒ शर्ध॑त॒स्तर᳚न्तो, अ॒र्य आ॒दिशः॑ |{प्रागाथो भर्गः | अग्निः | सतोबृहती} स त्वं नो᳚ वर्ध॒ प्रय॑सा शचीवसो॒ जिन्वा॒ धियो᳚ वसु॒विदः॑ ||{12/20}{8.60.12}{8.7.1.12}{6.4.34.2}{1130, 680, 7104} येन॑¦वंसा᳚म¦पृत॑नासु¦शर्ध॑तः¦तर᳚न्तः¦अ॒र्यः¦आ॒ऽदिशः॑ | |
शिशा᳚नो वृष॒भो य॑था॒ग्निः शृङ्गे॒ दवि॑ध्वत् |{प्रागाथो भर्गः | अग्निः | बृहती} ति॒ग्मा, अ॑स्य॒ हन॑वो॒ न प्र॑ति॒धृषे᳚ सु॒जम्भः॒ सह॑सो य॒हुः ||{13/20}{8.60.13}{8.7.1.13}{6.4.34.3}{1131, 680, 7105} शिशा᳚नः¦वृ॒ष॒भः¦य॒था॒¦अ॒ग्निः¦शृङ्गे॒ इति॑¦दवि॑ध्वत् | |
न॒हि ते᳚, अग्ने वृषभ प्रति॒धृषे॒ जम्भा᳚सो॒ यद्वि॒तिष्ठ॑से |{प्रागाथो भर्गः | अग्निः | सतोबृहती} स त्वं नो᳚ होतः॒ सुहु॑तं ह॒विष्कृ॑धि॒ वंस्वा᳚ नो॒ वार्या᳚ पु॒रु ||{14/20}{8.60.14}{8.7.1.14}{6.4.34.4}{1132, 680, 7106} न॒हि¦ते॒¦अ॒ग्ने॒¦वृ॒ष॒भ॒¦प्र॒ति॒ऽधृषे᳚¦जम्भा᳚सः¦यत्¦वि॒ऽतिष्ठ॑से | |
शेषे॒ वने᳚षु मा॒त्रोः सं त्वा॒ मर्ता᳚स इन्धते |{प्रागाथो भर्गः | अग्निः | बृहती} अत᳚न्द्रो ह॒व्या व॑हसि हवि॒ष्कृत॒ आदिद्दे॒वेषु॑ राजसि ||{15/20}{8.60.15}{8.7.1.15}{6.4.34.5}{1133, 680, 7107} शेषे᳚¦वने᳚षु¦मा॒त्रोः¦सम्¦त्वा॒¦मर्ता᳚सः¦इ॒न्ध॒ते॒ | |
स॒प्त होता᳚र॒स्तमिदी᳚ळते॒ त्वाग्ने᳚ सु॒त्यज॒मह्र॑यम् |{प्रागाथो भर्गः | अग्निः | सतोबृहती} भि॒नत्स्यद्रिं॒ तप॑सा॒ वि शो॒चिषा॒ प्राग्ने᳚ तिष्ठ॒ जनाँ॒, अति॑ ||{16/20}{8.60.16}{8.7.1.16}{6.4.35.1}{1134, 680, 7108} स॒प्त¦होता᳚रः¦तम्¦इत्¦ई॒ळ॒ते॒¦त्वा॒¦अग्ने᳚¦सु॒ऽत्यज᳚म्¦अह्र॑यम् | |
अ॒ग्निम॑ग्निं वो॒, अध्रि॑गुं हु॒वेम॑ वृ॒क्तब᳚र्हिषः |{प्रागाथो भर्गः | अग्निः | बृहती} अ॒ग्निं हि॒तप्र॑यसः शश्व॒तीष्वा होता᳚रं चर्षणी॒नाम् ||{17/20}{8.60.17}{8.7.1.17}{6.4.35.2}{1135, 680, 7109} अ॒ग्निम्।आ॑ग्निम्¦वः॒¦अध्रि॑ऽगुम्¦हु॒वेम॑¦वृ॒क्तऽब॑र्हिषः | |
केते᳚न॒ शर्म᳚न् त्सचते सुषा॒मण्यग्ने॒ तुभ्यं᳚ चिकि॒त्वना᳚ |{प्रागाथो भर्गः | अग्निः | सतोबृहती} इ॒ष॒ण्यया᳚ नः पुरु॒रूप॒मा भ॑र॒ वाजं॒ नेदि॑ष्ठमू॒तये᳚ ||{18/20}{8.60.18}{8.7.1.18}{6.4.35.3}{1136, 680, 7110} केते᳚न¦शर्म॑न्¦स॒च॒ते॒¦सु॒ऽसा॒मनि॑¦अग्ने᳚¦तुभ्य᳚म्¦चि॒कि॒त्वना᳚ | |
अग्ने॒ जरि॑तर्वि॒श्पति॑स्तेपा॒नो दे᳚व र॒क्षसः॑ |{प्रागाथो भर्गः | अग्निः | बृहती} अप्रो᳚षिवान् गृ॒हप॑तिर्म॒हाँ, अ॑सि दि॒वस्पा॒युर्दु॑रोण॒युः ||{19/20}{8.60.19}{8.7.1.19}{6.4.35.4}{1137, 680, 7111} अग्ने᳚¦जरि॑तः¦वि॒श्पतिः॑¦ते॒पा॒नः¦दे॒व॒¦र॒क्षसः॑ | |
मा नो॒ रक्ष॒ आ वे᳚शीदाघृणीवसो॒ मा या॒तुर्या᳚तु॒माव॑ताम् |{प्रागाथो भर्गः | अग्निः | सतोबृहती} प॒रो॒ग॒व्यू॒त्यनि॑रा॒मप॒ क्षुध॒मग्ने॒ सेध॑ रक्ष॒स्विनः॑ ||{20/20}{8.60.20}{8.7.1.20}{6.4.35.5}{1138, 680, 7112} मा¦नः॒¦रक्षः॑¦आ¦वे॒शी॒त्¦आ॒घृ॒णि॒व॒सो॒ इत्या᳚घृणिऽवसो¦मा¦या॒तुः¦या॒तु॒ऽमाव॑ताम् | |
[61] उभयमित्यष्टादशर्चस्य सूक्तस्य प्रागाथोभर्गइंद्रः अयुजो बृहत्योयुजः सतोबृहत्यः | |
उ॒भयं᳚ शृ॒णव॑च्च न॒ इन्द्रो᳚, अ॒र्वागि॒दं वचः॑ |{प्रागाथो भर्गः | इन्द्रः | बृहती} स॒त्राच्या᳚ म॒घवा॒ सोम॑पीतये धि॒या शवि॑ष्ठ॒ आ ग॑मत् ||{1/18}{8.61.1}{8.7.2.1}{6.4.36.1}{1139, 681, 7113} उ॒भय᳚म्¦शृ॒णव॑त्¦च॒¦नः॒¦इन्द्रः॑¦अ॒र्वाक्¦इ॒दम्¦वचः॑ | |
तं हि स्व॒राजं᳚ वृष॒भं तमोज॑से धि॒षणे᳚ निष्टत॒क्षतुः॑ |{प्रागाथो भर्गः | इन्द्रः | सतोबृहती} उ॒तोप॒मानां᳚ प्रथ॒मो नि षी᳚दसि॒ सोम॑कामं॒ हि ते॒ मनः॑ ||{2/18}{8.61.2}{8.7.2.2}{6.4.36.2}{1140, 681, 7114} तम्¦हि¦स्व॒ऽराज᳚म्¦वृ॒ष॒भम्¦तम्¦ओज॑से¦धि॒षणे॒ इति॑¦निः॒ऽत॒त॒क्षतुः॑ | |
आ वृ॑षस्व पुरूवसो सु॒तस्ये॒न्द्रान्ध॑सः |{प्रागाथो भर्गः | इन्द्रः | बृहती} वि॒द्मा हि त्वा᳚ हरिवः पृ॒त्सु सा᳚स॒हिमधृ॑ष्टं चिद्दधृ॒ष्वणि᳚म् ||{3/18}{8.61.3}{8.7.2.3}{6.4.36.3}{1141, 681, 7115} आ¦वृ॒ष॒स्व॒¦पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो¦सु॒तस्य॑¦इ॒न्द्र॒¦अन्ध॑सः | |
अप्रा᳚मिसत्य मघव॒न्तथेद॑स॒दिन्द्र॒ क्रत्वा॒ यथा॒ वशः॑ |{प्रागाथो भर्गः | इन्द्रः | सतोबृहती} स॒नेम॒ वाजं॒ तव॑ शिप्रि॒न्नव॑सा म॒क्षू चि॒द्यन्तो᳚, अद्रिवः ||{4/18}{8.61.4}{8.7.2.4}{6.4.36.4}{1142, 681, 7116} अप्रा᳚मिऽसत्य¦म॒घ॒ऽव॒न्¦तथा᳚¦इत्¦अ॒स॒त्¦इन्द्र॑¦क्रत्वा᳚¦यथा᳚¦वशः॑ | |
श॒ग्ध्यू॒३॑(ऊ॒) षु श॑चीपत॒ इन्द्र॒ विश्वा᳚भिरू॒तिभिः॑ |{प्रागाथो भर्गः | इन्द्रः | बृहती} भगं॒ न हि त्वा᳚ य॒शसं᳚ वसु॒विद॒मनु॑ शूर॒ चरा᳚मसि ||{5/18}{8.61.5}{8.7.2.5}{6.4.36.5}{1143, 681, 7117} श॒ग्धि¦ऊँ॒ इति॑¦सु¦श॒ची॒ऽप॒ते॒¦इन्द्र॑¦विश्वा᳚भिः¦ऊ॒तिऽभिः॑ | |
पौ॒रो, अश्व॑स्य पुरु॒कृद्गवा᳚म॒स्युत्सो᳚ देव हिर॒ण्ययः॑ |{प्रागाथो भर्गः | इन्द्रः | सतोबृहती} नकि॒र्हि दानं᳚ परि॒मर्धि॑ष॒त् त्वे यद्य॒द्यामि॒ तदा भ॑र ||{6/18}{8.61.6}{8.7.2.6}{6.4.37.1}{1144, 681, 7118} पौ॒रः¦अश्व॑स्य¦पु॒रु॒ऽकृत्¦गवा᳚म्¦अ॒सि॒¦उत्सः॑¦दे॒व॒¦हि॒र॒ण्ययः॑ | |
त्वं ह्येहि॒ चेर॑वे वि॒दा भगं॒ वसु॑त्तये |{प्रागाथो भर्गः | इन्द्रः | बृहती} उद्वा᳚वृषस्व मघव॒न् गवि॑ष्टय॒ उदि॒न्द्राश्व॑मिष्टये ||{7/18}{8.61.7}{8.7.2.7}{6.4.37.2}{1145, 681, 7119} त्वम्¦हि¦आ¦इ॒हि॒¦चेर॑वे¦वि॒दाः¦भग᳚म्¦वसु॑त्तये | |
त्वं पु॒रू स॒हस्रा᳚णि श॒तानि॑ च यू॒था दा॒नाय॑ मंहसे |{प्रागाथो भर्गः | इन्द्रः | सतोबृहती} आ पु॑रंद॒रं च॑कृम॒ विप्र॑वचस॒ इन्द्रं॒ गाय॒न्तोऽव॑से ||{8/18}{8.61.8}{8.7.2.8}{6.4.37.3}{1146, 681, 7120} त्वम्¦पु॒रु¦स॒हस्रा᳚णि¦श॒तानि॑¦च॒¦यू॒था¦दा॒नाय॑¦मं॒ह॒से॒ | |
अ॒वि॒प्रो वा॒ यदवि॑ध॒द्विप्रो᳚ वेन्द्र ते॒ वचः॑ |{प्रागाथो भर्गः | इन्द्रः | बृहती} स प्र म॑मन्दत् त्वा॒या श॑तक्रतो॒ प्राचा᳚मन्यो॒, अहं᳚सन ||{9/18}{8.61.9}{8.7.2.9}{6.4.37.4}{1147, 681, 7121} अ॒वि॒प्रः¦वा॒¦यत्¦अवि॑धत्¦विप्रः॑¦वा॒¦इ॒न्द्र॒¦ते॒¦वचः॑ | |
उ॒ग्रबा᳚हुर्म्रक्ष॒कृत्वा᳚ पुरंद॒रो यदि॑ मे शृ॒णव॒द्धव᳚म् |{प्रागाथो भर्गः | इन्द्रः | सतोबृहती} व॒सू॒यवो॒ वसु॑पतिं श॒तक्र॑तुं॒ स्तोमै॒रिन्द्रं᳚ हवामहे ||{10/18}{8.61.10}{8.7.2.10}{6.4.37.5}{1148, 681, 7122} उ॒ग्रऽबा᳚हुः¦म्र॒क्ष॒ऽकृत्वा᳚¦पु॒र॒म्ऽद॒रः¦यदि॑¦मे॒¦शृ॒णव॑त्¦हव᳚म् | |
न पा॒पासो᳚ मनामहे॒ नारा᳚यासो॒ न जळ्ह॑वः |{प्रागाथो भर्गः | इन्द्रः | बृहती} यदिन्न्विन्द्रं॒ वृष॑णं॒ सचा᳚ सु॒ते सखा᳚यं कृ॒णवा᳚महै ||{11/18}{8.61.11}{8.7.2.11}{6.4.38.1}{1149, 681, 7123} न¦पा॒पासः॑¦म॒ना॒म॒हे॒¦न¦अरा᳚यासः¦न¦जळ्ह॑वः | |
उ॒ग्रं यु॑युज्म॒ पृत॑नासु सास॒हिमृ॒णका᳚ति॒मदा᳚भ्यम् |{प्रागाथो भर्गः | इन्द्रः | सतोबृहती} वेदा᳚ भृ॒मं चि॒त्सनि॑ता र॒थीत॑मो वा॒जिनं॒ यमिदू॒ नश॑त् ||{12/18}{8.61.12}{8.7.2.12}{6.4.38.2}{1150, 681, 7124} उ॒ग्रम्¦यु॒यु॒ज्म॒¦पृत॑नासु¦स॒स॒हिम्¦ऋ॒णऽका᳚तिम्¦अदा᳚भ्यम् | |
यत॑ इन्द्र॒ भया᳚महे॒ ततो᳚ नो॒, अभ॑यं कृधि |{प्रागाथो भर्गः | इन्द्रः | बृहती} मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तिभि॒र्वि द्विषो॒ वि मृधो᳚ जहि ||{13/18}{8.61.13}{8.7.2.13}{6.4.38.3}{1151, 681, 7125} यतः॑¦इ॒न्द्र॒¦भया᳚महे¦ततः॑¦नः॒¦अभ॑यम्¦कृ॒धि॒ | |
त्वं हि रा᳚धस्पते॒ राध॑सो म॒हः, क्षय॒स्यासि॑ विध॒तः |{प्रागाथो भर्गः | इन्द्रः | सतोबृहती} तं त्वा᳚ व॒यं म॑घवन्निन्द्र गिर्वणः सु॒ताव᳚न्तो हवामहे ||{14/18}{8.61.14}{8.7.2.14}{6.4.38.4}{1152, 681, 7126} त्वम्¦हि¦रा॒धः॒ऽप॒ते॒¦राध॑सः¦म॒हः¦क्षय॑स्य¦असि॑¦वि॒ध॒तः | |
इन्द्रः॒ स्पळु॒त वृ॑त्र॒हा प॑र॒स्पा नो॒ वरे᳚ण्यः |{प्रागाथो भर्गः | इन्द्रः | बृहती} स नो᳚ रक्षिषच्चर॒मं स म॑ध्य॒मं स प॒श्चात्पा᳚तु नः पु॒रः ||{15/18}{8.61.15}{8.7.2.15}{6.4.38.5}{1153, 681, 7127} इन्द्रः॑¦स्पट्¦उ॒त¦वृ॒त्र॒ऽहा¦प॒रः॒ऽपाः¦नः॒¦वरे᳚ण्यः | |
त्वं नः॑ प॒श्चाद॑ध॒रादु॑त्त॒रात्पु॒र इन्द्र॒ नि पा᳚हि वि॒श्वतः॑ |{प्रागाथो भर्गः | इन्द्रः | सतोबृहती} आ॒रे, अ॒स्मत्कृ॑णुहि॒ दैव्यं᳚ भ॒यमा॒रे हे॒तीरदे᳚वीः ||{16/18}{8.61.16}{8.7.2.16}{6.4.39.1}{1154, 681, 7128} त्वम्¦नः॒¦प॒श्चात्¦अ॒ध॒रात्¦उ॒त्त॒रात्¦पु॒रः¦इन्द्र॑¦नि¦पा॒हि॒¦वि॒श्वतः॑ | |
अ॒द्याद्या॒ श्वःश्व॒ इन्द्र॒ त्रास्व॑ प॒रे च॑ नः |{प्रागाथो भर्गः | इन्द्रः | बृहती} विश्वा᳚ च नो जरि॒तॄन् त्स॑त्पते॒, अहा॒ दिवा॒ नक्तं᳚ च रक्षिषः ||{17/18}{8.61.17}{8.7.2.17}{6.4.39.2}{1155, 681, 7129} अ॒द्य।आ॑द्य¦श्वःऽश्वः॑¦इन्द्र॑स्¦त्रास्व॑¦प॒रे¦च॒¦नः॒ | |
प्र॒भ॒ङ्गी शूरो᳚ म॒घवा᳚ तु॒वीम॑घः॒ सम्मि॑श्लो वि॒र्या᳚य॒ कम् |{प्रागाथो भर्गः | इन्द्रः | सतोबृहती} उ॒भा ते᳚ बा॒हू वृष॑णा शतक्रतो॒ नि या वज्रं᳚ मिमि॒क्षतुः॑ ||{18/18}{8.61.18}{8.7.2.18}{6.4.39.3}{1156, 681, 7130} प्र॒ऽभ॒ङ्गी¦शूरः॑¦म॒घऽवा᳚¦तु॒विऽम॑घः¦सम्ऽमि॑श्लः¦वी॒र्या᳚य¦कम् | |
[62] प्रोअस्माइति द्वादशर्चस्य सूक्तस्य काण्वःप्रगाथइंद्रः पंक्तिः सप्तम्याद्यास्तिस्रो बृहत्यः | |
प्रो, अ॑स्मा॒, उप॑स्तुतिं॒ भर॑ता॒ यज्जुजो᳚षति |{काण्वः प्रगाथः | इन्द्रः | पङ्क्तिः} उ॒क्थैरिन्द्र॑स्य॒ माहि॑नं॒ वयो᳚ वर्धन्ति सो॒मिनो᳚ भ॒द्रा, इन्द्र॑स्य रा॒तयः॑ ||{1/12}{8.62.1}{8.7.3.1}{6.4.40.1}{1157, 682, 7131} प्रो इति॑¦अ॒स्मै॒¦उप॑ऽस्तुतिम्¦भर॑त¦यत्¦जुजो᳚षति | |
अ॒यु॒जो, अस॑मो॒ नृभि॒रेकः॑ कृ॒ष्टीर॒यास्यः॑ |{काण्वः प्रगाथः | इन्द्रः | पङ्क्तिः} पू॒र्वीरति॒ प्र वा᳚वृधे॒ विश्वा᳚ जा॒तान्योज॑सा भ॒द्रा, इन्द्र॑स्य रा॒तयः॑ ||{2/12}{8.62.2}{8.7.3.2}{6.4.40.2}{1158, 682, 7132} अ॒यु॒जः¦अस॑मः¦नृऽभिः॑¦एकः॑¦कृ॒ष्टीः¦अ॒यास्यः॑ | |
अहि॑तेन चि॒दर्व॑ता जी॒रदा᳚नुः सिषासति |{काण्वः प्रगाथः | इन्द्रः | पङ्क्तिः} प्र॒वाच्य॑मिन्द्र॒ तत्तव॑ वी॒र्या᳚णि करिष्य॒तो भ॒द्रा, इन्द्र॑स्य रा॒तयः॑ ||{3/12}{8.62.3}{8.7.3.3}{6.4.40.3}{1159, 682, 7133} अहि॑तेन¦चि॒त्¦अर्व॑ता¦जी॒रऽदा᳚नुः¦सि॒सा॒स॒ति॒ | |
आ या᳚हि कृ॒णवा᳚म त॒ इन्द्र॒ ब्रह्मा᳚णि॒ वर्ध॑ना |{काण्वः प्रगाथः | इन्द्रः | पङ्क्तिः} येभिः॑ शविष्ठ चा॒कनो᳚ भ॒द्रमि॒ह श्र॑वस्य॒ते भ॒द्रा, इन्द्र॑स्य रा॒तयः॑ ||{4/12}{8.62.4}{8.7.3.4}{6.4.40.4}{1160, 682, 7134} आ¦या॒हि॒¦कृ॒णवा᳚म¦ते॒¦इन्द्र॑¦ब्रह्मा᳚णि¦वर्ध॑ना | |
धृ॒ष॒तश्चि॑द्धृ॒षन्मनः॑ कृ॒णोषी᳚न्द्र॒ यत् त्वम् |{काण्वः प्रगाथः | इन्द्रः | पङ्क्तिः} ती॒व्रैः सोमैः᳚ सपर्य॒तो नमो᳚भिः प्रति॒भूष॑तो भ॒द्रा, इन्द्र॑स्य रा॒तयः॑ ||{5/12}{8.62.5}{8.7.3.5}{6.4.40.5}{1161, 682, 7135} धृ॒ष॒तः¦चि॒त्¦धृ॒षत्¦मनः॑¦कृ॒णोषि॑¦इ॒न्द्र॒¦यत्¦त्वम् | |
अव॑ चष्ट॒ ऋची᳚षमोऽव॒ताँ, इ॑व॒ मानु॑षः |{काण्वः प्रगाथः | इन्द्रः | पङ्क्तिः} जु॒ष्ट्वी दक्ष॑स्य सो॒मिनः॒ सखा᳚यं कृणुते॒ युजं᳚ भ॒द्रा, इन्द्र॑स्य रा॒तयः॑ ||{6/12}{8.62.6}{8.7.3.6}{6.4.40.6}{1162, 682, 7136} अव॑¦च॒ष्टे॒¦ऋची᳚षमः¦अ॒व॒तान्ऽइ᳚व¦मानु॑षः | |
विश्वे᳚ त इन्द्र वी॒र्यं᳚ दे॒वा, अनु॒ क्रतुं᳚ ददुः |{काण्वः प्रगाथः | इन्द्रः | बृहती} भुवो॒ विश्व॑स्य॒ गोप॑तिः पुरुष्टुत भ॒द्रा, इन्द्र॑स्य रा॒तयः॑ ||{7/12}{8.62.7}{8.7.3.7}{6.4.41.1}{1163, 682, 7137} विश्वे᳚¦ते॒¦इ॒न्द्र॒¦वी॒र्य᳚म्¦दे॒वाः¦अनु॑¦क्रतु᳚म्¦द॒दुः॒ | |
गृ॒णे तदि᳚न्द्र ते॒ शव॑ उप॒मं दे॒वता᳚तये |{काण्वः प्रगाथः | इन्द्रः | बृहती} यद्धंसि॑ वृ॒त्रमोज॑सा शचीपते भ॒द्रा, इन्द्र॑स्य रा॒तयः॑ ||{8/12}{8.62.8}{8.7.3.8}{6.4.41.2}{1164, 682, 7138} गृ॒णे¦तत्¦इ॒न्द्र॒¦ते॒¦शवः॑¦उ॒प॒ऽमम्¦दे॒वऽता᳚तये | |
सम॑नेव वपुष्य॒तः कृ॒णव॒न्मानु॑षा यु॒गा |{काण्वः प्रगाथः | इन्द्रः | बृहती} वि॒दे तदिन्द्र॒श्चेत॑न॒मध॑ श्रु॒तो भ॒द्रा, इन्द्र॑स्य रा॒तयः॑ ||{9/12}{8.62.9}{8.7.3.9}{6.4.41.3}{1165, 682, 7139} सम॑नाऽइव¦व॒पु॒ष्य॒तः¦कृ॒णव॑त्¦मानु॑षा¦यु॒गा | |
उज्जा॒तमि᳚न्द्र ते॒ शव॒ उत् त्वामुत्तव॒ क्रतु᳚म् |{काण्वः प्रगाथः | इन्द्रः | पङ्क्तिः} भूरि॑गो॒ भूरि॑ वावृधु॒र्मघ॑व॒न्तव॒ शर्म॑णि भ॒द्रा, इन्द्र॑स्य रा॒तयः॑ ||{10/12}{8.62.10}{8.7.3.10}{6.4.41.4}{1166, 682, 7140} उत्¦जा॒तम्¦इ॒न्द्र॒¦ते॒¦शवः॑¦उत्¦त्वाम्¦उत्¦तव॑¦क्रतु᳚म् | |
अ॒हं च॒ त्वं च॑ वृत्रह॒न् त्सं यु॑ज्याव स॒निभ्य॒ आ |{काण्वः प्रगाथः | इन्द्रः | पङ्क्तिः} अ॒रा॒ती॒वा चि॑दद्रि॒वोऽनु॑ नौ शूर मंसते भ॒द्रा, इन्द्र॑स्य रा॒तयः॑ ||{11/12}{8.62.11}{8.7.3.11}{6.4.41.5}{1167, 682, 7141} अ॒हम्¦च॒¦त्वम्¦च॒¦वृ॒त्र॒ऽह॒न्¦सम्¦यु॒ज्या॒व॒¦स॒निऽभ्यः॑¦आ | |
स॒त्यमिद्वा, उ॒ तं व॒यमिन्द्रं᳚ स्तवाम॒ नानृ॑तम् |{काण्वः प्रगाथः | इन्द्रः | पङ्क्तिः} म॒हाँ, असु᳚न्वतो व॒धो भूरि॒ ज्योतीं᳚षि सुन्व॒तो भ॒द्रा, इन्द्र॑स्य रा॒तयः॑ ||{12/12}{8.62.12}{8.7.3.12}{6.4.41.6}{1168, 682, 7142} स॒त्यम्¦इत्¦वै¦ऊँ॒ इति॑¦तम्¦व॒यम्¦इन्द्र᳚म्¦स्त॒वा॒म॒¦न¦अनृ॑तम् | |
[63] सपूर्व्यइति द्वादशर्चस्य सूक्तस्य काण्वः प्रगाथइंद्रोत्यायादेवागायत्री आद्या चतुर्थीपंचमीसप्तम्योनुष्टुभः अंत्यात्रिष्टुप् | |
स पू॒र्व्यो म॒हानां᳚ वे॒नः क्रतु॑भिरानजे |{काण्वः प्रगाथः | इन्द्रः | अनुष्टुप्} यस्य॒ द्वारा॒ मनु॑ष्पि॒ता दे॒वेषु॒ धिय॑ आन॒जे ||{1/12}{8.63.1}{8.7.4.1}{6.4.42.1}{1169, 683, 7143} सः¦पू॒र्व्यः¦म॒हाना᳚म्¦वे॒नः¦क्रतु॑ऽभिः¦आ॒न॒जे॒ | यस्य॑¦द्वारा᳚¦मनुः॑¦पि॒ता¦दे॒वेषु॑¦धियः॑¦आ॒न॒जे || |
दि॒वो मानं॒ नोत्स॑द॒न् त्सोम॑पृष्ठासो॒, अद्र॑यः |{काण्वः प्रगाथः | इन्द्रः | गायत्री} उ॒क्था ब्रह्म॑ च॒ शंस्या᳚ ||{2/12}{8.63.2}{8.7.4.2}{6.4.42.2}{1170, 683, 7144} दि॒वः¦मान᳚म्¦न¦उत्¦स॒द॒न्¦सोम॑ऽपृष्ठासः¦अद्र॑यः | उ॒क्था¦ब्रह्म॑¦च॒¦शंस्या᳚ || |
स वि॒द्वाँ, अङ्गि॑रोभ्य॒ इन्द्रो॒ गा, अ॑वृणो॒दप॑ |{काण्वः प्रगाथः | इन्द्रः | गायत्री} स्तु॒षे तद॑स्य॒ पौंस्य᳚म् ||{3/12}{8.63.3}{8.7.4.3}{6.4.42.3}{1171, 683, 7145} सः¦वि॒द्वान्¦अङ्गि॑रःऽभ्यः¦इन्द्रः॑¦गाः¦अ॒वृ॒णो॒त्¦अप॑ | स्तु॒षे¦तत्¦अ॒स्य॒¦पौंस्य᳚म् || |
स प्र॒त्नथा᳚ कविवृ॒ध इन्द्रो᳚ वा॒कस्य॑ व॒क्षणिः॑ |{काण्वः प्रगाथः | इन्द्रः | अनुष्टुप्} शि॒वो, अ॒र्कस्य॒ होम᳚न्यस्म॒त्रा ग॒न्त्वव॑से ||{4/12}{8.63.4}{8.7.4.4}{6.4.42.4}{1172, 683, 7146} सः¦प्र॒त्नऽथा᳚¦क॒वि॒ऽवृ॒धः¦इन्द्रः॑¦वा॒कस्य॑¦व॒क्षणिः॑ | शि॒वः¦अ॒र्कस्य॑¦होम॑नि¦अ॒स्म॒ऽत्रा¦ग॒न्तु॒¦अव॑से || |
आदू॒ नु ते॒, अनु॒ क्रतुं॒ स्वाहा॒ वर॑स्य॒ यज्य॑वः |{काण्वः प्रगाथः | इन्द्रः | अनुष्टुप्} श्वा॒त्रम॒र्का, अ॑नूष॒तेन्द्र॑ गो॒त्रस्य॑ दा॒वने᳚ ||{5/12}{8.63.5}{8.7.4.5}{6.4.42.5}{1173, 683, 7147} आत्¦ऊँ॒ इति॑¦नु¦ते॒¦अनु॑¦क्रतु᳚म्¦स्वाहा᳚¦वर॑स्य¦यज्य॑वः | श्वा॒त्रम्¦अ॒र्काः¦अ॒नू॒ष॒त॒¦इन्द्र॑¦गो॒त्रस्य॑¦दा॒वने᳚ || |
इन्द्रे॒ विश्वा᳚नि वी॒र्या᳚ कृ॒तानि॒ कर्त्वा᳚नि च |{काण्वः प्रगाथः | इन्द्रः | गायत्री} यम॒र्का, अ॑ध्व॒रं वि॒दुः ||{6/12}{8.63.6}{8.7.4.6}{6.4.42.6}{1174, 683, 7148} इन्द्रे᳚¦विश्वा᳚नि¦वी॒र्या᳚¦कृ॒तानि॑¦कर्त्वा᳚नि¦च॒ | यम्¦अ॒र्काः¦अ॒ध्व॒रम्¦वि॒दुः || |
यत्पाञ्च॑जन्यया वि॒शेन्द्रे॒ घोषा॒, असृ॑क्षत |{काण्वः प्रगाथः | इन्द्रः | अनुष्टुप्} अस्तृ॑णाद्ब॒र्हणा᳚ वि॒पो॒३॑(ओ॒)ऽर्यो मान॑स्य॒ स क्षयः॑ ||{7/12}{8.63.7}{8.7.4.7}{6.4.43.1}{1175, 683, 7149} यत्¦पांच॑ऽजन्यया¦वि॒शा¦इन्द्रे᳚¦घोषाः᳚¦असृ॑क्षत | अस्तृ॑णात्¦ब॒र्हणा᳚¦वि॒पः¦अ॒र्यः¦मान॑स्य¦सः¦क्षयः॑ || |
इ॒यमु॑ ते॒, अनु॑ष्टुतिश्चकृ॒षे तानि॒ पौंस्या᳚ |{काण्वः प्रगाथः | इन्द्रः | गायत्री} प्राव॑श्च॒क्रस्य॑ वर्त॒निम् ||{8/12}{8.63.8}{8.7.4.8}{6.4.43.2}{1176, 683, 7150} इ॒यम्¦ऊँ॒ इति॑¦ते॒¦अनु॑ऽस्तुतिः¦च॒कृ॒षे¦तानि॑¦पौंस्या᳚ | प्र¦आ॒वः॒¦च॒क्रस्य॑¦व॒र्त॒निम् || |
अ॒स्य वृष्णो॒ व्योद॑न उ॒रु क्र॑मिष्ट जी॒वसे᳚ |{काण्वः प्रगाथः | इन्द्रः | गायत्री} यवं॒ न प॒श्व आ द॑दे ||{9/12}{8.63.9}{8.7.4.9}{6.4.43.3}{1177, 683, 7151} अ॒स्य¦वृष्णः॑¦वि॒ऽओद॑ने¦उ॒रु¦क्र॒मि॒ष्ट॒¦जी॒वसे᳚ | यव᳚म्¦न¦प॒श्वः¦आ¦द॒दे॒ || |
तद्दधा᳚ना, अव॒स्यवो᳚ यु॒ष्माभि॒र्दक्ष॑पितरः |{काण्वः प्रगाथः | इन्द्रः | गायत्री} स्याम॑ म॒रुत्व॑तो वृ॒धे ||{10/12}{8.63.10}{8.7.4.10}{6.4.43.4}{1178, 683, 7152} तत्¦दधा᳚नाः¦अ॒व॒स्यवः॑¦यु॒ष्माभिः॑¦दक्ष॑ऽपितरः | स्याम॑¦म॒रुत्व॑तः¦वृ॒धे || |
बळृ॒त्विया᳚य॒ धाम्न॒ ऋक्व॑भिः शूर नोनुमः |{काण्वः प्रगाथः | इन्द्रः | गायत्री} जेषा᳚मेन्द्र॒ त्वया᳚ यु॒जा ||{11/12}{8.63.11}{8.7.4.11}{6.4.43.5}{1179, 683, 7153} बट्¦ऋ॒त्विया᳚य¦धाम्ने᳚¦ऋक्व॑ऽभिः¦शू॒र॒¦नो॒नु॒मः॒ | जेषा᳚म¦इ॒न्द्र॒¦त्वया᳚¦यु॒जा || |
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः᳚ |{काण्वः प्रगाथः | देवाः | त्रिष्टुप्} यः शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा, अ॒स्माँ, अ॑वन्तु दे॒वाः ||{12/12}{8.63.12}{8.7.4.12}{6.4.43.6}{1180, 683, 7154} अ॒स्मे इति॑¦रु॒द्राः¦मे॒हना᳚¦पर्व॑तासः¦वृ॒त्र॒ऽहत्ये᳚¦भर॑ऽहूतौ¦स॒ऽजोषाः᳚ | |
[64] उत्त्वामंदत्विति द्वादशर्चस्य सूक्तस्य काण्वःप्रगाथइंद्रोगायत्री | |
उत् त्वा᳚ मन्दन्तु॒ स्तोमाः᳚ कृणु॒ष्व राधो᳚, अद्रिवः |{काण्वः प्रगाथः | इन्द्रः | गायत्री} अव॑ ब्रह्म॒द्विषो᳚ जहि ||{1/12}{8.64.1}{8.7.5.1}{6.4.44.1}{1181, 684, 7155} उत्¦त्वा॒¦म॒न्द॒न्तु॒¦स्तोमाः᳚¦कृ॒णु॒ष्व¦राधः॑¦अ॒द्रि॒ऽवः॒ | अव॑¦ब्र॒ह्म॒ऽद्विषः॑¦ज॒हि॒ || |
प॒दा प॒णीँर॑रा॒धसो॒ नि बा᳚धस्व म॒हाँ, अ॑सि |{काण्वः प्रगाथः | इन्द्रः | गायत्री} न॒हि त्वा॒ कश्च॒न प्रति॑ ||{2/12}{8.64.2}{8.7.5.2}{6.4.44.2}{1182, 684, 7156} प॒दा¦प॒णीन्¦अ॒रा॒धसः॑¦नि¦बा॒ध॒स्व॒¦म॒हान्¦अ॒सि॒ | न॒हि¦त्वा॒¦कः¦च॒न¦प्रति॑ || |
त्वमी᳚शिषे सु॒ताना॒मिन्द्र॒ त्वमसु॑तानाम् |{काण्वः प्रगाथः | इन्द्रः | गायत्री} त्वं राजा॒ जना᳚नाम् ||{3/12}{8.64.3}{8.7.5.3}{6.4.44.3}{1183, 684, 7157} त्वम्¦ई॒शि॒षे॒¦सु॒ताना᳚म्¦इ॒न्द्र॒¦त्वम्¦असु॑तानाम् | त्वम्¦राजा᳚¦जना᳚नाम् || |
एहि॒ प्रेहि॒ क्षयो᳚ दि॒व्या॒३॑(आ॒)घोष᳚ञ्चर्षणी॒नाम् |{काण्वः प्रगाथः | इन्द्रः | गायत्री} ओभे पृ॑णासि॒ रोद॑सी ||{4/12}{8.64.4}{8.7.5.4}{6.4.44.4}{1184, 684, 7158} आ¦इ॒हि॒¦प्र¦इ॒हि॒¦क्षयः॑¦दि॒वि¦आ॒ऽघोष॑न्¦च॒र्ष॒णी॒णाम् | आ¦उ॒भे इति॑¦पृ॒णा॒सि॒¦रोद॑सी॒ इति॑ || |
त्यं चि॒त्पर्व॑तं गि॒रिं श॒तव᳚न्तं सह॒स्रिण᳚म् |{काण्वः प्रगाथः | इन्द्रः | गायत्री} वि स्तो॒तृभ्यो᳚ रुरोजिथ ||{5/12}{8.64.5}{8.7.5.5}{6.4.44.5}{1185, 684, 7159} त्यम्¦चि॒त्¦पर्व॑तम्¦गि॒रिम्¦श॒तऽव᳚न्तम्¦स॒ह॒स्रिण᳚म् | वि¦स्तो॒तृऽभ्यः॑¦रु॒रो॒जि॒थ॒ || |
व॒यमु॑ त्वा॒ दिवा᳚ सु॒ते व॒यं नक्तं᳚ हवामहे |{काण्वः प्रगाथः | इन्द्रः | गायत्री} अ॒स्माकं॒ काम॒मा पृ॑ण ||{6/12}{8.64.6}{8.7.5.6}{6.4.44.6}{1186, 684, 7160} व॒यम्¦ऊँ॒ इति॑¦त्वा॒¦दिवा᳚¦सु॒ते¦व॒यम्¦नक्त᳚म्¦ह॒वा॒म॒हे॒ | अ॒स्माक᳚म्¦काम᳚म्¦आ¦पृ॒ण॒ || |
क्व१॑(अ॒) स्य वृ॑ष॒भो युवा᳚ तुवि॒ग्रीवो॒, अना᳚नतः |{काण्वः प्रगाथः | इन्द्रः | गायत्री} ब्र॒ह्मा कस्तं स॑पर्यति ||{7/12}{8.64.7}{8.7.5.7}{6.4.45.1}{1187, 684, 7161} क्व॑¦स्यः¦वृ॒ष॒भः¦युवा᳚¦तु॒वि॒ऽग्रीवः॑¦अना᳚नतः | ब्र॒ह्मा¦कः¦तम्¦स॒प॒र्य॒ति॒ || |
कस्य॑ स्वि॒त्सव॑नं॒ वृषा᳚ जुजु॒ष्वाँ, अव॑ गच्छति |{काण्वः प्रगाथः | इन्द्रः | गायत्री} इन्द्रं॒ क उ॑ स्वि॒दा च॑के ||{8/12}{8.64.8}{8.7.5.8}{6.4.45.2}{1188, 684, 7162} कस्य॑¦स्वि॒त्¦सव॑नम्¦वृषा᳚¦जु॒जु॒ष्वान्¦अव॑¦ग॒च्छ॒ति॒ | इन्द्र᳚म्¦कः¦ऊँ॒ इति॑¦स्वि॒त्¦आ¦च॒के॒ || |
कं ते᳚ दा॒ना, अ॑सक्षत॒ वृत्र॑ह॒न् कं सु॒वीर्या᳚ |{काण्वः प्रगाथः | इन्द्रः | गायत्री} उ॒क्थे क उ॑ स्वि॒दन्त॑मः ||{9/12}{8.64.9}{8.7.5.9}{6.4.45.3}{1189, 684, 7163} कम्¦ते॒¦दा॒नाः¦अ॒स॒क्ष॒त॒¦वृत्र॑ऽहन्¦कम्¦सु॒ऽवीर्या᳚ | उ॒क्थे¦कः¦ऊँ॒ इति॑¦स्वि॒त्¦अन्त॑मः || |
अ॒यं ते॒ मानु॑षे॒ जने॒ सोमः॑ पू॒रुषु॑ सूयते |{काण्वः प्रगाथः | इन्द्रः | गायत्री} तस्येहि॒ प्र द्र॑वा॒ पिब॑ ||{10/12}{8.64.10}{8.7.5.10}{6.4.45.4}{1190, 684, 7164} अ॒यम्¦ते॒¦मानु॑षे¦जने᳚¦सोमः॑¦पू॒रुषु॑¦सू॒य॒ते॒ | तस्य॑¦आ¦इ॒हि॒¦प्र¦द्र॒व॒¦पिब॑ || |
अ॒यं ते᳚ शर्य॒णाव॑ति सु॒षोमा᳚या॒मधि॑ प्रि॒यः |{काण्वः प्रगाथः | इन्द्रः | गायत्री} आ॒र्जी॒कीये᳚ म॒दिन्त॑मः ||{11/12}{8.64.11}{8.7.5.11}{6.4.45.5}{1191, 684, 7165} अ॒यम्¦ते॒¦श॒र्य॒णाऽव॑ति¦सु॒ऽसोमा᳚याम्¦अधि॑¦प्रि॒यः | आ॒र्जी॒कीये᳚¦म॒दिन्ऽत॑मः || |
तम॒द्य राध॑से म॒हे चारुं॒ मदा᳚य॒ घृष्व॑ये |{काण्वः प्रगाथः | इन्द्रः | गायत्री} एही᳚मिन्द्र॒ द्रवा॒ पिब॑ ||{12/12}{8.64.12}{8.7.5.12}{6.4.45.6}{1192, 684, 7166} तम्¦अ॒द्य¦राध॑से¦म॒हे¦चारु᳚म्¦मदा᳚य¦घृष्व॑ये | आ¦इ॒हि॒¦ई॒म्¦इ॒न्द्र॒¦द्रव॑¦पिब॑ || |
[65] यदिंद्रेति द्वादशर्चस्य सूक्तस्य काण्वःप्रगाथइंद्रोगायत्री | |
यदि᳚न्द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभिः॑ |{काण्वः प्रगाथः | इन्द्रः | गायत्री} आ या᳚हि॒ तूय॑मा॒शुभिः॑ ||{1/12}{8.65.1}{8.7.6.1}{6.4.46.1}{1193, 685, 7167} यत्¦इ॒न्द्र॒¦प्राक्¦अपा᳚क्¦उद॑क्¦न्य॑क्¦वा॒¦हू॒यसे᳚¦नृऽभिः॑ | आ¦या॒हि॒¦तूय᳚म्¦आ॒शुऽभिः॑ || |
यद्वा᳚ प्र॒स्रव॑णे दि॒वो मा॒दया᳚से॒ स्व᳚र्णरे |{काण्वः प्रगाथः | इन्द्रः | गायत्री} यद्वा᳚ समु॒द्रे, अन्ध॑सः ||{2/12}{8.65.2}{8.7.6.2}{6.4.46.2}{1194, 685, 7168} यत्¦वा॒¦प्र॒ऽस्रव॑णे¦दि॒वः¦मा॒दया᳚से¦स्वः॑ऽनरे | यत्¦वा॒¦स॒मु॒द्रे¦अन्ध॑सः || |
आ त्वा᳚ गी॒र्भिर्म॒हामु॒रुं हु॒वे गामि॑व॒ भोज॑से |{काण्वः प्रगाथः | इन्द्रः | गायत्री} इन्द्र॒ सोम॑स्य पी॒तये᳚ ||{3/12}{8.65.3}{8.7.6.3}{6.4.46.3}{1195, 685, 7169} आ¦त्वा॒¦गीः॒ऽभिः¦म॒हाम्¦उ॒रुम्¦हु॒वे¦गाम्ऽइ᳚व¦भोज॑से | इन्द्र॑¦सोम॑स्य¦पी॒तये᳚ || |
आ त॑ इन्द्र महि॒मानं॒ हर॑यो देव ते॒ महः॑ |{काण्वः प्रगाथः | इन्द्रः | गायत्री} रथे᳚ वहन्तु॒ बिभ्र॑तः ||{4/12}{8.65.4}{8.7.6.4}{6.4.46.4}{1196, 685, 7170} आ¦ते॒¦इ॒न्द्र॒¦म॒हि॒मान᳚म्¦हर॑यः¦दे॒व॒¦ते॒¦महः॑ | रथे᳚¦व॒ह॒न्तु॒¦बिभ्र॑तः || |
इन्द्र॑ गृणी॒ष उ॑ स्तु॒षे म॒हाँ, उ॒ग्र ई᳚शान॒कृत् |{काण्वः प्रगाथः | इन्द्रः | गायत्री} एहि॑ नः सु॒तं पिब॑ ||{5/12}{8.65.5}{8.7.6.5}{6.4.46.5}{1197, 685, 7171} इन्द्र॑¦गृ॒णी॒षे¦ऊँ॒ इति॑¦स्तु॒षे¦म॒हान्¦उ॒ग्रः¦ई॒शा॒न॒ऽकृत् | आ¦इ॒हि॒¦नः॒¦सु॒तम्¦पिब॑ || |
सु॒ताव᳚न्तस्त्वा व॒यं प्रय॑स्वन्तो हवामहे |{काण्वः प्रगाथः | इन्द्रः | गायत्री} इ॒दं नो᳚ ब॒र्हिरा॒सदे᳚ ||{6/12}{8.65.6}{8.7.6.6}{6.4.46.6}{1198, 685, 7172} सु॒तऽव᳚न्तः¦त्वा॒¦व॒यम्¦प्रय॑स्वन्तः¦ह॒वा॒म॒हे॒ | इ॒दम्¦नः॒¦ब॒र्हिः¦आ॒ऽसदे᳚ || |
यच्चि॒द्धि शश्व॑ता॒मसीन्द्र॒ साधा᳚रण॒स्त्वम् |{काण्वः प्रगाथः | इन्द्रः | गायत्री} तं त्वा᳚ व॒यं ह॑वामहे ||{7/12}{8.65.7}{8.7.6.7}{6.4.47.1}{1199, 685, 7173} यत्¦चि॒त्¦हि¦शश्व॑ताम्¦असि॑¦इन्द्र॑¦साधा᳚रणः¦त्वम् | तम्¦त्वा॒¦व॒यम्¦ह॒वा॒म॒हे॒ || |
इ॒दं ते᳚ सो॒म्यं मध्वधु॑क्ष॒न्नद्रि॑भि॒र्नरः॑ |{काण्वः प्रगाथः | इन्द्रः | गायत्री} जु॒षा॒ण इ᳚न्द्र॒ तत् पि॑ब ||{8/12}{8.65.8}{8.7.6.8}{6.4.47.2}{1200, 685, 7174} इ॒दम्¦ते॒¦सो॒म्यम्¦मधु॑¦अधु॑क्षन्¦अद्रि॑ऽभिः¦नरः॑ | जु॒षा॒णः¦इ॒न्द्र॒¦तत्¦पि॒ब॒ || |
विश्वाँ᳚, अ॒र्यो वि॑प॒श्चितोऽति॑ ख्य॒स्तूय॒मा ग॑हि |{काण्वः प्रगाथः | इन्द्रः | गायत्री} अ॒स्मे धे᳚हि॒ श्रवो᳚ बृ॒हत् ||{9/12}{8.65.9}{8.7.6.9}{6.4.47.3}{1201, 685, 7175} विश्वा᳚न्¦अ॒र्यः¦वि॒पः॒ऽचितः॑¦अति॑¦ख्यः॒¦तूय᳚म्¦आ¦ग॒हि॒ | अ॒स्मे इति॑¦धे॒हि॒¦श्रवः॑¦बृ॒हत् || |
दा॒ता मे॒ पृष॑तीनां॒ राजा᳚ हिरण्य॒वीना᳚म् |{काण्वः प्रगाथः | इन्द्रः | गायत्री} मा दे᳚वा म॒घवा᳚ रिषत् ||{10/12}{8.65.10}{8.7.6.10}{6.4.47.4}{1202, 685, 7176} दा॒ता¦मे॒¦पृष॑तीनाम्¦राजा᳚¦हि॒र॒ण्य॒ऽवीना᳚म् | मा¦दे॒वाः॒¦म॒घऽवा᳚¦रि॒ष॒त् || |
स॒हस्रे॒ पृष॑तीना॒मधि॑ श्च॒न्द्रं बृ॒हत् पृ॒थु |{काण्वः प्रगाथः | इन्द्रः | गायत्री} शु॒क्रं हिर᳚ण्य॒मा द॑दे ||{11/12}{8.65.11}{8.7.6.11}{6.4.47.5}{1203, 685, 7177} स॒हस्रे᳚¦पृष॑तीनाम्¦अधि॑¦च॒न्द्रम्¦बृ॒हत्¦पृ॒थु | शु॒क्रम्¦हिर᳚ण्यम्¦आ¦द॒दे॒ || |
नपा᳚तो दु॒र्गह॑स्य मे स॒हस्रे᳚ण सु॒राध॑सः |{काण्वः प्रगाथः | इन्द्रः | गायत्री} श्रवो᳚ दे॒वेष्व॑क्रत ||{12/12}{8.65.12}{8.7.6.12}{6.4.47.6}{1204, 685, 7178} नपा᳚तः¦दुः॒ऽगह॑स्य¦मे॒¦स॒हस्रे᳚ण¦सु॒ऽराध॑सः | श्रवः॑¦दे॒वेषु॑¦अ॒क्र॒त॒ || |
[66] तरोभिरिति पंचदशर्चस्य सूक्तस्य प्रागाथः कलिरिंद्रः प्रथमादित्रयोदश्यंताअयुजोवृहत्यः द्वितीयादियुजःसतोबृहत्योंत्यानुष्टुप् | |
तरो᳚भिर्वो वि॒दद्व॑सु॒मिन्द्रं᳚ स॒बाध॑ ऊ॒तये᳚ |{प्रगाथः कलिः | इन्द्रः | बृहती} बृ॒हद्गाय᳚न्तः सु॒तसो᳚मे, अध्व॒रे हु॒वे भरं॒ न का॒रिण᳚म् ||{1/15}{8.66.1}{8.7.7.1}{6.4.48.1}{1205, 686, 7179} तरः॑ऽभिः¦वः॒¦वि॒दत्ऽव॑सुम्¦इन्द्र᳚म्¦स॒ऽबाधः॑¦ऊ॒तये᳚ | |
न यं दु॒ध्रा वर᳚न्ते॒ न स्थि॒रा मुरो॒ मदे᳚ सुशि॒प्रमन्ध॑सः |{प्रगाथः कलिः | इन्द्रः | सतोबृहती} य आ॒दृत्या᳚ शशमा॒नाय॑ सुन्व॒ते दाता᳚ जरि॒त्र उ॒क्थ्य᳚म् ||{2/15}{8.66.2}{8.7.7.2}{6.4.48.2}{1206, 686, 7180} न¦यम्¦दु॒ध्राः¦वर᳚न्ते¦न¦स्थि॒राः¦मुरः॑¦मदे᳚¦सु॒ऽशि॒प्रम्¦अन्ध॑सः | |
यः श॒क्रो मृ॒क्षो, अश्व्यो॒ यो वा॒ कीजो᳚ हिर॒ण्ययः॑ |{प्रगाथः कलिः | इन्द्रः | बृहती} स ऊ॒र्वस्य॑ रेजय॒त्यपा᳚वृति॒मिन्द्रो॒ गव्य॑स्य वृत्र॒हा ||{3/15}{8.66.3}{8.7.7.3}{6.4.48.3}{1207, 686, 7181} यः¦श॒क्रः¦मृ॒क्षः¦अश्व्यः॑¦यः¦वा॒¦कीजः॑¦हि॒र॒ण्ययः॑ | |
निखा᳚तं चि॒द्यः पु॑रुसम्भृ॒तं वसूदिद्वप॑ति दा॒शुषे᳚ |{प्रगाथः कलिः | इन्द्रः | सतोबृहती} व॒ज्री सु॑शि॒प्रो हर्य॑श्व॒ इत्क॑र॒दिन्द्रः॒ क्रत्वा॒ यथा॒ वश॑त् ||{4/15}{8.66.4}{8.7.7.4}{6.4.48.4}{1208, 686, 7182} निऽखा᳚तम्¦चि॒त्¦यः¦पु॒रु॒ऽसं॒भृ॒तम्¦वसु॑¦उत्¦इत्¦वप॑ति¦दा॒शुषे᳚ | |
यद्वा॒वन्थ॑ पुरुष्टुत पु॒रा चि॑च्छूर नृ॒णाम् |{प्रगाथः कलिः | इन्द्रः | बृहती} व॒यं तत्त॑ इन्द्र॒ सं भ॑रामसि य॒ज्ञमु॒क्थं तु॒रं वचः॑ ||{5/15}{8.66.5}{8.7.7.5}{6.4.48.5}{1209, 686, 7183} यत्¦व॒वन्थ॑¦पु॒रु॒ऽस्तु॒त॒¦पु॒रा¦चि॒त्¦शू॒र॒¦नृ॒णाम् | |
सचा॒ सोमे᳚षु पुरुहूत वज्रिवो॒ मदा᳚य द्युक्ष सोमपाः |{प्रगाथः कलिः | इन्द्रः | सतोबृहती} त्वमिद्धि ब्र᳚ह्म॒कृते॒ काम्यं॒ वसु॒ देष्ठः॑ सुन्व॒ते भुवः॑ ||{6/15}{8.66.6}{8.7.7.6}{6.4.49.1}{1210, 686, 7184} सचा᳚¦सोमे᳚षु¦पु॒रु॒ऽहू॒त॒¦व॒ज्रि॒ऽवः॒¦मदा᳚य¦द्यु॒क्ष॒¦सो॒म॒ऽपाः॒ | |
व॒यमे᳚नमि॒दा ह्योऽपी᳚पेमे॒ह व॒ज्रिण᳚म् |{प्रगाथः कलिः | इन्द्रः | बृहती} तस्मा᳚, उ अ॒द्य स॑म॒ना सु॒तं भ॒रा नू॒नं भू᳚षत श्रु॒ते ||{7/15}{8.66.7}{8.7.7.7}{6.4.49.2}{1211, 686, 7185} व॒यम्¦ए॒न॒म्¦इ॒दा¦ह्यः¦अपी᳚पेम¦इ॒ह¦व॒ज्रिण᳚म् | |
वृक॑श्चिदस्य वार॒ण उ॑रा॒मथि॒रा व॒युने᳚षु भूषति |{प्रगाथः कलिः | इन्द्रः | सतोबृहती} सेमं नः॒ स्तोमं᳚ जुजुषा॒ण आ ग॒हीन्द्र॒ प्र चि॒त्रया᳚ धि॒या ||{8/15}{8.66.8}{8.7.7.8}{6.4.49.3}{1212, 686, 7186} वृकः॑¦चि॒त्¦अ॒स्य॒¦वा॒र॒णः¦उ॒रा॒ऽमथिः॑¦आ¦व॒युने᳚षु¦भू॒ष॒ति॒ | |
कदू॒ न्व१॑(अ॒)स्याकृ॑त॒मिन्द्र॑स्यास्ति॒ पौंस्य᳚म् |{प्रगाथः कलिः | इन्द्रः | बृहती} केनो॒ नु कं॒ श्रोम॑तेन॒ न शु॑श्रुवे ज॒नुषः॒ परि॑ वृत्र॒हा ||{9/15}{8.66.9}{8.7.7.9}{6.4.49.4}{1213, 686, 7187} कत्¦ऊँ॒ इति॑¦नु¦अ॒स्य॒¦अकृ॑तम्¦इन्द्र॑स्य¦अ॒स्ति॒¦पौंस्य᳚म् | |
कदू᳚ म॒हीरधृ॑ष्टा, अस्य॒ तवि॑षीः॒ कदु॑ वृत्र॒घ्नो, अस्तृ॑तम् |{प्रगाथः कलिः | इन्द्रः | सतोबृहती} इन्द्रो॒ विश्वा᳚न् बेक॒नाटाँ᳚, अह॒र्दृश॑ उ॒त क्रत्वा᳚ प॒णीँर॒भि ||{10/15}{8.66.10}{8.7.7.10}{6.4.49.5}{1214, 686, 7188} कत्¦ऊँ॒ इति॑¦म॒हीः¦अधृ॑ष्टाः¦अ॒स्य॒¦तवि॑षीः¦कत्¦ऊँ॒ इति॑¦वृ॒त्र॒ऽघ्नः¦अस्तृ॑तम् | |
व॒यं घा᳚ ते॒, अपू॒र्व्येन्द्र॒ ब्रह्मा᳚णि वृत्रहन् |{प्रगाथः कलिः | इन्द्रः | बृहती} पु॒रू॒तमा᳚सः पुरुहूत वज्रिवो भृ॒तिं न प्र भ॑रामसि ||{11/15}{8.66.11}{8.7.7.11}{6.4.50.1}{1215, 686, 7189} व॒यम्¦घ॒¦ते॒¦अपू᳚र्व्या¦इन्द्र॑¦ब्रह्मा᳚णि¦वृ॒त्र॒ऽह॒न् | |
पू॒र्वीश्चि॒द्धि त्वे तु॑विकूर्मिन्ना॒शसो॒ हव᳚न्त इन्द्रो॒तयः॑ |{प्रगाथः कलिः | इन्द्रः | सतोबृहती} ति॒रश्चि॑द॒र्यः सव॒ना व॑सो गहि॒ शवि॑ष्ठ श्रु॒धि मे॒ हव᳚म् ||{12/15}{8.66.12}{8.7.7.12}{6.4.50.2}{1216, 686, 7190} पू॒र्वीः¦चि॒त्¦हि¦त्वे इति॑¦तु॒वि॒ऽकू॒र्मि॒न्¦आ॒ऽशसः॑¦हव᳚न्ते¦इ॒न्द्र॒¦ऊ॒तयः॑ | |
व॒यं घा᳚ ते॒ त्वे, इद्विन्द्र॒ विप्रा॒, अपि॑ ष्मसि |{प्रगाथः कलिः | इन्द्रः | बृहती} न॒हि त्वद॒न्यः पु॑रुहूत॒ कश्च॒न मघ॑व॒न्नस्ति॑ मर्डि॒ता ||{13/15}{8.66.13}{8.7.7.13}{6.4.50.3}{1217, 686, 7191} व॒यम्¦घ॒¦ते॒¦त्वे इति॑¦इत्¦ऊँ॒ इति॑¦इन्द्र॑¦विप्राः᳚¦अपि॑¦स्म॒सि॒ | |
त्वं नो᳚, अ॒स्या, अम॑तेरु॒त क्षु॒धो॒३॑(ओ॒)ऽभिश॑स्ते॒रव॑ स्पृधि |{प्रगाथः कलिः | इन्द्रः | सतोबृहती} त्वं न॑ ऊ॒ती तव॑ चि॒त्रया᳚ धि॒या शिक्षा᳚ शचिष्ठ गातु॒वित् ||{14/15}{8.66.14}{8.7.7.14}{6.4.50.4}{1218, 686, 7192} त्वम्¦नः॒¦अ॒स्याः¦अम॑तेः¦उ॒त¦क्षु॒धः¦अ॒भिऽश॑स्तेः¦अव॑¦स्पृ॒धि॒ | |
सोम॒ इद्वः॑ सु॒तो, अ॑स्तु॒ कल॑यो॒ मा बि॑भीतन |{प्रगाथः कलिः | इन्द्रः | अनुष्टुप्} अपेदे॒ष ध्व॒स्माय॑ति स्व॒यं घै॒षो, अपा᳚यति ||{15/15}{8.66.15}{8.7.7.15}{6.4.50.5}{1219, 686, 7193} सोमः॑¦इत्¦वः॒¦सु॒तः¦अ॒स्तु॒¦कल॑यः¦मा¦बि॒भी॒त॒न॒ | अप॑¦इत्¦ए॒षः¦ध्व॒स्मा¦अ॒य॒ति॒¦स्व॒यम्¦घ॒¦ए॒षः¦अप॑¦अ॒य॒ति॒ || |
[67] त्यान्न्वित्येकविंशत्यृचस्य सूक्तस्य सांमदोमत्स्य आदित्या दशम्यादितिसृणामदितिर्गायत्री (मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाऋष) | |
त्यान्नु क्ष॒त्रियाँ॒, अव॑ आदि॒त्यान्या᳚चिषामहे |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री} सु॒मृ॒ळी॒काँ, अ॒भिष्ट॑ये ||{1/21}{8.67.1}{8.7.8.1}{6.4.51.1}{1220, 687, 7194} त्यान्¦नु¦क्ष॒त्रिया᳚न्¦अवः॑¦आ॒दि॒त्यान्¦या॒चि॒षा॒म॒हे॒ | सु॒ऽमृ॒ळी॒कान्¦अ॒भिष्ट॑ये || |
मि॒त्रो नो॒, अत्यं᳚ह॒तिं वरु॑णः पर्षदर्य॒मा |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री} आ॒दि॒त्यासो॒ यथा᳚ वि॒दुः ||{2/21}{8.67.2}{8.7.8.2}{6.4.51.2}{1221, 687, 7195} मि॒त्रः¦नः॒¦अति॑¦अं॒ह॒तिम्¦वरु॑णः¦प॒र्ष॒त्¦अ॒र्य॒मा | आ॒दि॒त्यासः॑¦यथा᳚¦वि॒दुः || |
तेषां॒ हि चि॒त्रमु॒क्थ्य१॑(अं॒) वरू᳚थ॒मस्ति॑ दा॒शुषे᳚ |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री} आ॒दि॒त्याना᳚मरं॒कृते᳚ ||{3/21}{8.67.3}{8.7.8.3}{6.4.51.3}{1222, 687, 7196} तेषा᳚म्¦हि¦चि॒त्रम्¦उ॒क्थ्य᳚म्¦वरू᳚थम्¦अस्ति॑¦दा॒शुषे᳚ | आ॒दि॒त्याना᳚म्¦अ॒र॒म्ऽकृते᳚ || |
महि॑ वो मह॒तामवो॒ वरु॑ण॒ मित्रार्य॑मन् |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री} अवां॒स्या वृ॑णीमहे ||{4/21}{8.67.4}{8.7.8.4}{6.4.51.4}{1223, 687, 7197} महि॑¦वः॒¦म॒ह॒ताम्¦अवः॑¦वरु॑ण¦मित्र॑¦अर्य॑मन् | अवां᳚सि¦आ¦वृ॒णी॒म॒हे॒ || |
जी॒वान्नो᳚, अ॒भि धे᳚त॒नादि॑त्यासः पु॒रा हथा᳚त् |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री} कद्ध॑ स्थ हवनश्रुतः ||{5/21}{8.67.5}{8.7.8.5}{6.4.51.5}{1224, 687, 7198} जी॒वान्¦नः॒¦अ॒भि¦धे॒त॒न॒¦आदि॑त्यासः¦पु॒रा¦हथा᳚त् | कत्¦ह॒¦स्थ॒¦ह॒व॒न॒ऽश्रु॒तः॒ || |
यद्वः॑ श्रा॒न्ताय॑ सुन्व॒ते वरू᳚थ॒मस्ति॒ यच्छ॒र्दिः |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री} तेना᳚ नो॒, अधि॑ वोचत ||{6/21}{8.67.6}{8.7.8.6}{6.4.52.1}{1225, 687, 7199} यत्¦वः॒¦श्रा॒न्ताय॑¦सु॒न्व॒ते¦वरू᳚थम्¦अस्ति॑¦यत्¦छ॒र्दिः | तेन॑¦नः॒¦अधि॑¦वो॒च॒त॒ || |
अस्ति॑ देवा, अं॒होरु॒र्वस्ति॒ रत्न॒मना᳚गसः |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री} आदि॑त्या॒, अद्भु॑तैनसः ||{7/21}{8.67.7}{8.7.8.7}{6.4.52.2}{1226, 687, 7200} अस्ति॑¦दे॒वाः॒¦अं॒होः¦उ॒रु¦अस्ति॑¦रत्न᳚म्¦अना᳚गसः | आदि॑त्याः¦अद्भु॑तऽएनसः || |
मा नः॒ सेतुः॑ सिषेद॒यं म॒हे वृ॑णक्तु न॒स्परि॑ |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री} इन्द्र॒ इद्धि श्रु॒तो व॒शी ||{8/21}{8.67.8}{8.7.8.8}{6.4.52.3}{1227, 687, 7201} मा¦नः॒¦सेतुः॑¦सि॒से॒त्¦अ॒यम्¦म॒हे¦वृ॒ण॒क्तु॒¦नः॒¦परि॑ | इन्द्रः॑¦इत्¦हि¦श्रु॒तः¦व॒शी || |
मा नो᳚ मृ॒चा रि॑पू॒णां वृ॑जि॒नाना᳚मविष्यवः |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री} देवा᳚, अ॒भि प्र मृ॑क्षत ||{9/21}{8.67.9}{8.7.8.9}{6.4.52.4}{1228, 687, 7202} मा¦नः॒¦मृ॒चा¦रि॒पू॒णाम्¦वृ॒जि॒नाना᳚म्¦अ॒वि॒ष्य॒वः॒ | देवाः᳚¦अ॒भि¦प्र¦मृ॒क्ष॒त॒ || |
उ॒त त्वाम॑दिते मह्य॒हं दे॒व्युप॑ ब्रुवे |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदितिः | गायत्री} सु॒मृ॒ळी॒काम॒भिष्ट॑ये ||{10/21}{8.67.10}{8.7.8.10}{6.4.52.5}{1229, 687, 7203} उ॒त¦त्वाम्¦अ॒दि॒ते॒¦म॒हि॒¦अ॒हम्¦दे॒वि॒¦उप॑¦ब्रु॒वे॒ | सु॒ऽमृ॒ळी॒काम्¦अ॒भिष्ट॑ये || |
पर्षि॑ दी॒ने ग॑भी॒र आँ, उग्र॑पुत्रे॒ जिघां᳚सतः |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदितिः | गायत्री} माकि॑स्तो॒कस्य॑ नो रिषत् ||{11/21}{8.67.11}{8.7.8.11}{6.4.53.1}{1230, 687, 7204} पर्षि॑¦दी॒ने¦ग॒भी॒रे¦आ¦उग्र॑ऽपुत्रे¦जिघां᳚सतः | माकिः॑¦तो॒कस्य॑¦नः॒¦रि॒ष॒त् || |
अ॒ने॒हो न॑ उरुव्रज॒ उरू᳚चि॒ वि प्रस॑र्तवे |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदितिः | गायत्री} कृ॒धि तो॒काय॑ जी॒वसे᳚ ||{12/21}{8.67.12}{8.7.8.12}{6.4.53.2}{1231, 687, 7205} अ॒ने॒हः¦नः॒¦उ॒रु॒ऽव्र॒जे॒¦उरू᳚चि¦वि¦प्रऽस॑र्तवे | कृ॒धि¦तो॒काय॑¦जी॒वसे᳚ || |
ये मू॒र्धानः॑, क्षिती॒नामद॑ब्धासः॒ स्वय॑शसः |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री} व्र॒ता रक्ष᳚न्ते, अ॒द्रुहः॑ ||{13/21}{8.67.13}{8.7.8.13}{6.4.53.3}{1232, 687, 7206} ये¦मू॒र्धानः॑¦क्षि॒ती॒नाम्¦अद॑ब्धासः¦स्वऽय॑शसः | व्र॒ता¦रक्ष᳚न्ते¦अ॒द्रुहः॑ || |
ते न॑ आ॒स्नो वृका᳚णा॒मादि॑त्यासो मु॒मोच॑त |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री} स्ते॒नं ब॒द्धमि॑वादिते ||{14/21}{8.67.14}{8.7.8.14}{6.4.53.4}{1233, 687, 7207} ते¦नः॒¦आ॒स्नः¦वृका᳚णाम्¦आदि॑त्यासः¦मु॒मोच॑त | स्ते॒नम्¦ब॒द्धम्ऽइ᳚व¦अ॒दि॒ते॒ || |
अपो॒ षु ण॑ इ॒यं शरु॒रादि॑त्या॒, अप॑ दुर्म॒तिः |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री} अ॒स्मदे॒त्वज॑घ्नुषी ||{15/21}{8.67.15}{8.7.8.15}{6.4.53.5}{1234, 687, 7208} अपो॒ इति॑¦सु¦नः॒¦इ॒यम्¦शरुः॑¦आदि॑त्याः¦अप॑¦दुः॒ऽम॒तिः | अ॒स्मत्¦ए॒तु॒¦अज॑घ्नुषी || |
शश्व॒द्धि वः॑ सुदानव॒ आदि॑त्या, ऊ॒तिभि᳚र्व॒यम् |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री} पु॒रा नू॒नं बु॑भु॒ज्महे᳚ ||{16/21}{8.67.16}{8.7.8.16}{6.4.54.1}{1235, 687, 7209} शश्व॑त्¦हि¦वः॒¦सु॒ऽदा॒न॒वः॒¦आदि॑त्याः¦ऊ॒तिऽभिः॑¦व॒यम् | पु॒रा¦नू॒नम्¦बु॒भु॒ज्महे᳚ || |
शश्व᳚न्तं॒ हि प्र॑चेतसः प्रति॒यन्तं᳚ चि॒देन॑सः |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री} देवाः᳚ कृणु॒थ जी॒वसे᳚ ||{17/21}{8.67.17}{8.7.8.17}{6.4.54.2}{1236, 687, 7210} शश्व᳚न्तम्¦हि¦प्र॒ऽचे॒त॒सः॒¦प्र॒ति॒ऽयन्त᳚म्¦चि॒त्¦एन॑सः | देवाः᳚¦कृ॒णु॒थ¦जी॒वसे᳚ || |
तत्सु नो॒ नव्यं॒ सन्य॑स॒ आदि॑त्या॒ यन्मुमो᳚चति |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री} ब॒न्धाद्ब॒द्धमि॑वादिते ||{18/21}{8.67.18}{8.7.8.18}{6.4.54.3}{1237, 687, 7211} तत्¦सु¦नः॒¦नव्य᳚म्¦सन्य॑से¦आदि॑त्याः¦यत्¦मुमो᳚चति | ब॒न्धात्¦ब॒द्धम्ऽइ᳚व¦अ॒दि॒ते॒ || |
नास्माक॑मस्ति॒ तत्तर॒ आदि॑त्यासो, अति॒ष्कदे᳚ |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री} यू॒यम॒स्मभ्यं᳚ मृळत ||{19/21}{8.67.19}{8.7.8.19}{6.4.54.4}{1238, 687, 7212} न¦अ॒स्माक᳚म्¦अ॒स्ति॒¦तत्¦तरः॑¦आदि॑त्यासः¦अ॒ति॒ऽस्कदे᳚ | यू॒यम्¦अ॒स्मभ्य᳚म्¦मृ॒ळ॒त॒ || |
मा नो᳚ हे॒तिर्वि॒वस्व॑त॒ आदि॑त्याः कृ॒त्रिमा॒ शरुः॑ |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री} पु॒रा नु ज॒रसो᳚ वधीत् ||{20/21}{8.67.20}{8.7.8.20}{6.4.54.5}{1239, 687, 7213} मा¦नः॒¦हे॒तिः¦वि॒वस्व॑तः¦आदि॑त्याः¦कृ॒त्रिमा᳚¦शरुः॑ | पु॒रा¦नु¦ज॒रसः॑¦व॒धी॒त् || |
वि षु द्वेषो॒ व्यं᳚ह॒तिमादि॑त्यासो॒ वि संहि॑तम् |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री} विष्व॒ग्वि वृ॑हता॒ रपः॑ ||{21/21}{8.67.21}{8.7.8.21}{6.4.54.6}{1240, 687, 7214} वि¦सु¦द्वेषः॑¦वि¦अं॒ह॒तिम्¦आदि॑त्यासः¦वि¦सम्ऽहि॑तम् | विष्व॑क्¦वि¦वृ॒ह॒त॒¦रपः॑ || |
[68] आत्वेत्येकोनविंशत्यृचस्य सूक्तस्यांगिरसः प्रियमेधइंद्रश्चतुर्दश्यादिषण्णामृक्षाश्वमेधौगायत्री आद्याचतुर्थी सप्तमीदम्योनुष्टुभः | |
आ त्वा॒ रथं॒ यथो॒तये᳚ सु॒म्नाय॑ वर्तयामसि |{आङ्गिरसः प्रियमेधः | इन्द्रः | अनुष्टुप्} तु॒वि॒कू॒र्मिमृ॑ती॒षह॒मिन्द्र॒ शवि॑ष्ठ॒ सत्प॑ते ||{1/19}{8.68.1}{8.7.9.1}{6.5.1.1}{1241, 688, 7215} आ¦त्वा॒¦रथ᳚म्¦यथा᳚¦ऊ॒तये᳚¦सु॒म्नाय॑¦व॒र्त॒या॒म॒सि॒ | तु॒वि॒ऽकू॒र्मिम्¦ऋ॒ति॒ऽसह᳚म्¦इन्द्र॑¦शवि॑ष्ठ¦सत्ऽप॑ते || |
तुवि॑शुष्म॒ तुवि॑क्रतो॒ शची᳚वो॒ विश्व॑या मते |{आङ्गिरसः प्रियमेधः | इन्द्रः | गायत्री} आ प॑प्राथ महित्व॒ना ||{2/19}{8.68.2}{8.7.9.2}{6.5.1.2}{1242, 688, 7216} तुवि॑ऽशुष्म¦तुवि॑क्रतो॒ इति॒ तुवि॑ऽक्रतो¦शची᳚ऽवः¦विश्व॑या¦म॒ते॒ | आ¦प॒प्रा॒थ॒¦म॒हि॒ऽत्व॒ना || |
यस्य॑ ते महि॒ना म॒हः परि॑ ज्मा॒यन्त॑मी॒यतुः॑ |{आङ्गिरसः प्रियमेधः | इन्द्रः | गायत्री} हस्ता॒ वज्रं᳚ हिर॒ण्यय᳚म् ||{3/19}{8.68.3}{8.7.9.3}{6.5.1.3}{1243, 688, 7217} यस्य॑¦ते॒¦म॒हि॒ना¦म॒हः¦परि॑¦ज्मा॒यन्त᳚म्¦ई॒यतुः॑ | हस्ता᳚¦वज्र᳚म्¦हि॒र॒ण्यय᳚म् || |
वि॒श्वान॑रस्य व॒स्पति॒मना᳚नतस्य॒ शव॑सः |{आङ्गिरसः प्रियमेधः | इन्द्रः | अनुष्टुप्} एवै᳚श्च चर्षणी॒नामू॒ती हु॑वे॒ रथा᳚नाम् ||{4/19}{8.68.4}{8.7.9.4}{6.5.1.4}{1244, 688, 7218} वि॒श्वान॑रस्य¦वः॒¦पति᳚म्¦अना᳚नतस्य¦शव॑सः | एवैः᳚¦च॒¦च॒र्ष॒णी॒नाम्¦ऊ॒ती¦हु॒वे॒¦रथा᳚नाम् || |
अ॒भिष्ट॑ये स॒दावृ॑धं॒ स्व᳚र्मीळ्हेषु॒ यं नरः॑ |{आङ्गिरसः प्रियमेधः | इन्द्रः | गायत्री} नाना॒ हव᳚न्त ऊ॒तये᳚ ||{5/19}{8.68.5}{8.7.9.5}{6.5.1.5}{1245, 688, 7219} अ॒भिष्ट॑ये¦स॒दाऽवृ॑धम्¦स्वः॑ऽमीळ्हेषु¦यम्¦नरः॑ | नाना᳚¦हव᳚न्ते¦ऊ॒तये᳚ || |
प॒रोमा᳚त्र॒मृची᳚षम॒मिन्द्र॑मु॒ग्रं सु॒राध॑सम् |{आङ्गिरसः प्रियमेधः | इन्द्रः | गायत्री} ईशा᳚नं चि॒द्वसू᳚नाम् ||{6/19}{8.68.6}{8.7.9.6}{6.5.2.1}{1246, 688, 7220} प॒रःऽमा᳚त्रम्¦ऋची᳚षमम्¦इन्द्र᳚म्¦उ॒ग्रम्¦सु॒ऽराध॑सम् | ईशा᳚नम्¦चि॒त्¦वसू᳚नाम् || |
तंत॒मिद्राध॑से म॒ह इन्द्रं᳚ चोदामि पी॒तये᳚ |{आङ्गिरसः प्रियमेधः | इन्द्रः | अनुष्टुप्} यः पू॒र्व्यामनु॑ष्टुति॒मीशे᳚ कृष्टी॒नां नृ॒तुः ||{7/19}{8.68.7}{8.7.9.7}{6.5.2.2}{1247, 688, 7221} तम्ऽत᳚म्¦इत्¦राध॑से¦म॒हे¦इन्द्र᳚म्¦चो॒दा॒मि॒¦पी॒तये᳚ | यः¦पू॒र्व्याम्¦अनु॑ऽस्तुतिम्¦ईशे᳚¦कृ॒ष्टी॒नाम्¦नृ॒तुः || |
न यस्य॑ ते शवसान स॒ख्यमा॒नंश॒ मर्त्यः॑ |{आङ्गिरसः प्रियमेधः | इन्द्रः | गायत्री} नकिः॒ शवां᳚सि ते नशत् ||{8/19}{8.68.8}{8.7.9.8}{6.5.2.3}{1248, 688, 7222} न¦यस्य॑¦ते॒¦श॒व॒सा॒न॒¦स॒ख्यम्¦आ॒नंश॑¦मर्त्यः॑ | नकिः॑¦शवां᳚सि¦ते॒¦न॒श॒त् || |
त्वोता᳚स॒स्त्वा यु॒जाप्सु सूर्ये᳚ म॒हद्धन᳚म् |{आङ्गिरसः प्रियमेधः | इन्द्रः | गायत्री} जये᳚म पृ॒त्सु व॑ज्रिवः ||{9/19}{8.68.9}{8.7.9.9}{6.5.2.4}{1249, 688, 7223} त्वाऽऊ᳚तासः¦त्वा¦यु॒जा¦अ॒प्ऽसु¦सूर्ये᳚¦म॒हत्¦धन᳚म् | जये᳚म¦पृ॒त्ऽसु¦व॒ज्रि॒ऽवः॒ || |
तं त्वा᳚ य॒ज्ञेभि॑रीमहे॒ तं गी॒र्भिर्गि᳚र्वणस्तम |{आङ्गिरसः प्रियमेधः | इन्द्रः | अनुष्टुप्} इन्द्र॒ यथा᳚ चि॒दावि॑थ॒ वाजे᳚षु पुरु॒माय्य᳚म् ||{10/19}{8.68.10}{8.7.9.10}{6.5.2.5}{1250, 688, 7224} तम्¦त्वा॒¦य॒ज्ञेभिः॑¦ई॒म॒हे॒¦तम्¦गीः॒ऽभिः¦गि॒र्व॒णः॒ऽत॒म॒ | इन्द्र॑¦यथा᳚¦चि॒त्¦आवि॑थ¦वाजे᳚षु¦पु॒रु॒ऽमाय्य᳚म् || |
यस्य॑ ते स्वा॒दु स॒ख्यं स्वा॒द्वी प्रणी᳚तिरद्रिवः |{आङ्गिरसः प्रियमेधः | इन्द्रः | गायत्री} य॒ज्ञो वि॑तन्त॒साय्यः॑ ||{11/19}{8.68.11}{8.7.9.11}{6.5.3.1}{1251, 688, 7225} यस्य॑¦ते॒¦स्वा॒दु¦स॒ख्यम्¦स्वा॒द्वी¦प्रऽनी᳚तिः¦अ॒द्रि॒ऽवः॒ | य॒ज्ञः¦वि॒त॒न्त॒साय्यः॑ || |
उ॒रु ण॑स्त॒न्वे॒३॑(ए॒) तन॑ उ॒रु क्षया᳚य नस्कृधि |{आङ्गिरसः प्रियमेधः | इन्द्रः | गायत्री} उ॒रु णो᳚ यन्धि जी॒वसे᳚ ||{12/19}{8.68.12}{8.7.9.12}{6.5.3.2}{1252, 688, 7226} उ॒रु¦नः॒¦त॒न्वे᳚¦तने᳚¦उ॒रु¦क्षया᳚य¦नः॒¦कृ॒धि॒ | उ॒रु¦नः॒¦य॒न्धि॒¦जी॒वसे᳚ || |
उ॒रुं नृभ्य॑ उ॒रुं गव॑ उ॒रुं रथा᳚य॒ पन्था᳚म् |{आङ्गिरसः प्रियमेधः | इन्द्रः | गायत्री} दे॒ववी᳚तिं मनामहे ||{13/19}{8.68.13}{8.7.9.13}{6.5.3.3}{1253, 688, 7227} उ॒रुम्¦नृऽभ्यः॑¦उ॒रुम्¦गवे᳚¦उ॒रुम्¦रथा᳚य¦पन्था᳚म् | दे॒वऽवी᳚तिम्¦म॒ना॒म॒हे॒ || |
उप॑ मा॒ षड्द्वाद्वा॒ नरः॒ सोम॑स्य॒ हर्ष्या᳚ |{आङ्गिरसः प्रियमेधः | ऋक्षाश्वमेधः | गायत्री} तिष्ठ᳚न्ति स्वादुरा॒तयः॑ ||{14/19}{8.68.14}{8.7.9.14}{6.5.3.4}{1254, 688, 7228} उप॑¦मा॒¦षट्¦द्वाऽद्वा᳚¦नरः॑¦सोम॑स्य¦हर्ष्या᳚ | तिष्ठ᳚न्ति¦स्वा॒दु॒ऽरा॒तयः॑ || |
ऋ॒ज्रावि᳚न्द्रो॒त आ द॑दे॒ हरी॒ ऋक्ष॑स्य सू॒नवि॑ |{आङ्गिरसः प्रियमेधः | ऋक्षाश्वमेधः | गायत्री} आ॒श्व॒मे॒धस्य॒ रोहि॑ता ||{15/19}{8.68.15}{8.7.9.15}{6.5.3.5}{1255, 688, 7229} ऋ॒ज्रौ¦इ॒न्द्रो॒ते¦आ¦द॒दे॒¦हरी॒ इति॑¦ऋक्ष॑स्य¦सू॒नवि॑ | आ॒श्व॒ऽमे॒धस्य॑¦रोहि॑ता || |
सु॒रथाँ᳚, आतिथि॒ग्वे स्व॑भी॒शूँरा॒र्क्षे |{आङ्गिरसः प्रियमेधः | ऋक्षाश्वमेधः | गायत्री} आ॒श्व॒मे॒धे सु॒पेश॑सः ||{16/19}{8.68.16}{8.7.9.16}{6.5.4.1}{1256, 688, 7230} सु॒ऽरथा᳚न्¦आ॒ति॒थि॒ऽग्वे¦सु॒।आ॒भी॒शून्¦आ॒र्क्षे | आ॒श्व॒ऽमे॒धे¦सु॒ऽपेश॑सः || |
षळश्वाँ᳚, आतिथि॒ग्व इ᳚न्द्रो॒ते व॒धूम॑तः |{आङ्गिरसः प्रियमेधः | ऋक्षाश्वमेधः | गायत्री} सचा᳚ पू॒तक्र॑तौ सनम् ||{17/19}{8.68.17}{8.7.9.17}{6.5.4.2}{1257, 688, 7231} षट्¦अश्वा᳚न्¦आ॒ति॒थि॒ऽग्वे¦इ॒न्द्रो॒ते¦व॒धूऽम॑तः | सचा᳚¦पू॒तऽक्र॑तौ¦स॒न॒म् || |
ऐषु॑ चेत॒द्वृष᳚ण्वत्य॒न्तरृ॒ज्रेष्वरु॑षी |{आङ्गिरसः प्रियमेधः | ऋक्षाश्वमेधः | गायत्री} स्व॒भी॒शुः कशा᳚वती ||{18/19}{8.68.18}{8.7.9.18}{6.5.4.3}{1258, 688, 7232} आ¦एषु॑¦चे॒त॒त्¦वृष॑ण्ऽवती¦अ॒न्तः¦ऋ॒ज्रेषु॑¦अरु॑षी | सु॒।आ॒भी॒शुः¦कशा᳚ऽवती || |
न यु॒ष्मे वा᳚जबन्धवो निनि॒त्सुश्च॒न मर्त्यः॑ |{आङ्गिरसः प्रियमेधः | ऋक्षाश्वमेधः | गायत्री} अ॒व॒द्यमधि॑ दीधरत् ||{19/19}{8.68.19}{8.7.9.19}{6.5.4.4}{1259, 688, 7233} न¦यु॒ष्मे इति॑¦वा॒ज॒ऽब॒न्ध॒वः॒¦नि॒नि॒त्सुः¦च॒न¦मर्त्यः॑ | अ॒व॒द्यम्¦अधि॑¦दी॒ध॒र॒त् || |
[69] प्रप्रवइत्यष्टादशर्चस्य सूक्तस्यांगिरसः प्रियमेधइंद्रः अपादिंद्रइत्यस्यविश्वेदेववरुणादेवताः सुदेवइत्यस्यवरुणोनुष्टुप् द्वितीयोष्णिक् चतुर्थ्याद्यास्तिस्रोगायत्र्यः एकादशीषोळश्यौपंक्ती अंत्येद्वेबृहत्यौ | |
प्रप्र॑ वस्त्रि॒ष्टुभ॒मिषं᳚ म॒न्दद्वी᳚रा॒येन्द॑वे |{आङ्गिरसः प्रियमेधः | इन्द्रः | अनुष्टुप्} धि॒या वो᳚ मे॒धसा᳚तये॒ पुरं॒ध्या वि॑वासति ||{1/18}{8.69.1}{8.7.10.1}{6.5.5.1}{1260, 689, 7234} प्रऽप्र॑¦वः॒¦त्रि॒ऽस्तुभ᳚म्¦इष᳚म्¦म॒न्दत्ऽवी᳚राय¦इन्द॑वे | धि॒या¦वः॒¦मे॒धऽसा᳚तये¦पु॒र॒म्ऽध्या¦आ¦वि॒वा॒स॒ति॒ || |
न॒दं व॒ ओद॑तीनां न॒दं योयु॑वतीनाम् |{आङ्गिरसः प्रियमेधः | इन्द्रः | उष्णिक्} पतिं᳚ वो॒, अघ्न्या᳚नां धेनू॒नामि॑षुध्यसि ||{2/18}{8.69.2}{8.7.10.2}{6.5.5.2}{1261, 689, 7235} न॒दम्¦वः॒¦ओद॑तीनाम्¦न॒दम्¦योयु॑वतीनाम् | पति᳚म्¦वः॒¦अघ्न्या᳚नाम्¦धे॒नू॒नाम्¦इ॒षु॒ध्य॒सि॒ || |
ता, अ॑स्य॒ सूद॑दोहसः॒ सोमं᳚ श्रीणन्ति॒ पृश्न॑यः |{आङ्गिरसः प्रियमेधः | इन्द्रः | अनुष्टुप्} जन्म᳚न्दे॒वानां॒ विश॑स्त्रि॒ष्वा रो᳚च॒ने दि॒वः ||{3/18}{8.69.3}{8.7.10.3}{6.5.5.3}{1262, 689, 7236} ताः¦अ॒स्य॒¦सूद॑ऽदोहसः¦सोम᳚म्¦श्री॒ण॒न्ति॒¦पृश्न॑यः | जन्म॑न्¦दे॒वाना᳚म्¦विशः॑¦त्रि॒षु¦आ¦रो॒च॒ने¦दि॒वः || |
अ॒भि प्र गोप॑तिं गि॒रेन्द्र॑मर्च॒ यथा᳚ वि॒दे |{आङ्गिरसः प्रियमेधः | इन्द्रः | गायत्री} सू॒नुं स॒त्यस्य॒ सत्प॑तिम् ||{4/18}{8.69.4}{8.7.10.4}{6.5.5.4}{1263, 689, 7237} अ॒भि¦प्र¦गोऽप॑तिम्¦गि॒रा¦इन्द्र᳚म्¦अ॒र्च॒¦यथा᳚¦वि॒दे | सू॒नुम्¦स॒त्यस्य॑¦सत्ऽप॑तिम् || |
आ हर॑यः ससृज्रि॒रेऽरु॑षी॒रधि॑ ब॒र्हिषि॑ |{आङ्गिरसः प्रियमेधः | इन्द्रः | गायत्री} यत्रा॒भि सं॒नवा᳚महे ||{5/18}{8.69.5}{8.7.10.5}{6.5.5.5}{1264, 689, 7238} आ¦हर॑यः¦स॒सृ॒ज्रि॒रे॒¦अरु॑षीः¦अधि॑¦ब॒र्हिषि॑ | यत्र॑¦अ॒भि¦स॒म्ऽनवा᳚महे || |
इन्द्रा᳚य॒ गाव॑ आ॒शिरं᳚ दुदु॒ह्रे व॒ज्रिणे॒ मधु॑ |{आङ्गिरसः प्रियमेधः | इन्द्रः | गायत्री} यत्सी᳚मुपह्व॒रे वि॒दत् ||{6/18}{8.69.6}{8.7.10.6}{6.5.6.1}{1265, 689, 7239} इन्द्रा᳚य¦गावः॑¦आ॒ऽशिर᳚म्¦दु॒दु॒ह्रे¦व॒ज्रिणे᳚¦मधु॑ | यत्¦सी॒म्¦उ॒प॒ऽह्व॒रे¦वि॒दत् || |
उद्यद्ब्र॒ध्नस्य॑ वि॒ष्टपं᳚ गृ॒हमिन्द्र॑श्च॒ गन्व॑हि |{आङ्गिरसः प्रियमेधः | इन्द्रः | अनुष्टुप्} मध्वः॑ पी॒त्वा स॑चेवहि॒ त्रिः स॒प्त सख्युः॑ प॒दे ||{7/18}{8.69.7}{8.7.10.7}{6.5.6.2}{1266, 689, 7240} उत्¦यत्¦ब्र॒ध्नस्य॑¦वि॒ष्टप᳚म्¦गृ॒हम्¦इन्द्रः॑¦च॒¦गन्व॑हि | मध्वः॑¦पी॒त्वा¦स॒चे॒व॒हि॒¦त्रिः¦स॒प्त¦सख्युः॑¦प॒दे || |
अर्च॑त॒ प्रार्च॑त॒ प्रिय॑मेधासो॒, अर्च॑त |{आङ्गिरसः प्रियमेधः | इन्द्रः | अनुष्टुप्} अर्च᳚न्तु पुत्र॒का, उ॒त पुरं॒ न धृ॒ष्ण्व॑र्चत ||{8/18}{8.69.8}{8.7.10.8}{6.5.6.3}{1267, 689, 7241} अर्च॑त¦प्र¦अ॒र्च॒त॒¦प्रिय॑ऽमेधासः¦अर्च॑त | अर्च᳚न्तु¦पु॒त्र॒काः¦उ॒त¦पुर᳚म्¦न¦धृ॒ष्णु¦अ॒र्च॒त॒ || |
अव॑ स्वराति॒ गर्ग॑रो गो॒धा परि॑ सनिष्वणत् |{आङ्गिरसः प्रियमेधः | इन्द्रः | अनुष्टुप्} पिङ्गा॒ परि॑ चनिष्कद॒दिन्द्रा᳚य॒ ब्रह्मोद्य॑तम् ||{9/18}{8.69.9}{8.7.10.9}{6.5.6.4}{1268, 689, 7242} अव॑¦स्व॒रा॒ति॒¦गर्ग॑रः¦गो॒धा¦परि॑¦स॒नि॒स्व॒न॒त् | पिङ्गा᳚¦परि॑¦च॒नि॒स्क॒द॒त्¦इन्द्रा᳚य¦ब्रह्म॑¦उत्ऽय॑तम् || |
आ यत्पत᳚न्त्ये॒न्यः॑ सु॒दुघा॒, अन॑पस्फुरः |{आङ्गिरसः प्रियमेधः | इन्द्रः | अनुष्टुप्} अ॒प॒स्फुरं᳚ गृभायत॒ सोम॒मिन्द्रा᳚य॒ पात॑वे ||{10/18}{8.69.10}{8.7.10.10}{6.5.6.5}{1269, 689, 7243} आ¦यत्¦पत᳚न्ति¦ए॒न्यः॑¦सु॒ऽदुघाः᳚¦अन॑पऽस्फुरः | अ॒प॒ऽस्फुर᳚म्¦गृ॒भा॒य॒त॒¦सोम᳚म्¦इन्द्रा᳚य¦पात॑वे || |
अपा॒दिन्द्रो॒, अपा᳚द॒ग्निर्विश्वे᳚ दे॒वा, अ॑मत्सत |{आङ्गिरसः प्रियमेधः | १/२:विश्वेदेवाः २/२:वरुणः | पङ्क्तिः} वरु॑ण॒ इदि॒ह क्ष॑य॒त्तमापो᳚, अ॒भ्य॑नूषत व॒त्सं सं॒शिश्व॑रीरिव ||{11/18}{8.69.11}{8.7.10.11}{6.5.7.1}{1270, 689, 7244} अपा᳚त्¦इन्द्रः॑¦अपा᳚त्¦अ॒ग्निः¦विश्वे᳚¦दे॒वाः¦अ॒म॒त्स॒त॒ | |
सु॒दे॒वो, अ॑सि वरुण॒ यस्य॑ ते स॒प्त सिन्ध॑वः |{आङ्गिरसः प्रियमेधः | वरुणः | अनुष्टुप्} अ॒नु॒क्षर᳚न्ति का॒कुदं᳚ सू॒र्म्यं᳚ सुषि॒रामि॑व ||{12/18}{8.69.12}{8.7.10.12}{6.5.7.2}{1271, 689, 7245} सु॒ऽदे॒वः¦अ॒सि॒¦व॒रु॒ण॒¦यस्य॑¦ते॒¦स॒प्त¦सिन्ध॑वः | अ॒नु॒ऽक्षर᳚न्ति¦का॒कुद᳚म्¦सू॒र्म्य᳚म्¦सु॒षि॒राम्ऽइ᳚व || |
यो व्यतीँ॒रफा᳚णय॒त्सुयु॑क्ताँ॒, उप॑ दा॒शुषे᳚ |{आङ्गिरसः प्रियमेधः | इन्द्रः | अनुष्टुप्} त॒क्वो ने॒ता तदिद्वपु॑रुप॒मा यो, अमु॑च्यत ||{13/18}{8.69.13}{8.7.10.13}{6.5.7.3}{1272, 689, 7246} यः¦व्यती᳚न्¦अफा᳚णयत्¦सुऽयु॑क्तान्¦उप॑¦दा॒शुषे᳚ | त॒क्वः¦ने॒ता¦तत्¦इत्¦वपुः॑¦उ॒प॒ऽमा¦यः¦अमु॑च्यत || |
अतीदु॑ श॒क्र ओ᳚हत॒ इन्द्रो॒ विश्वा॒, अति॒ द्विषः॑ |{आङ्गिरसः प्रियमेधः | इन्द्रः | अनुष्टुप्} भि॒नत्क॒नीन॑ ओद॒नं प॒च्यमा᳚नं प॒रो गि॒रा ||{14/18}{8.69.14}{8.7.10.14}{6.5.7.4}{1273, 689, 7247} अति॑¦इत्¦ऊँ॒ इति॑¦श॒क्रः¦ओ॒ह॒ते॒¦इन्द्रः॑¦विश्वाः᳚¦अति॑¦द्विषः॑ | भि॒नत्¦क॒नीनः॑¦ओ॒द॒नम्¦प॒च्यमा᳚नम्¦प॒रः¦गि॒रा || |
अ॒र्भ॒को न कु॑मार॒कोऽधि॑ तिष्ठ॒न्नवं॒ रथ᳚म् |{आङ्गिरसः प्रियमेधः | इन्द्रः | अनुष्टुप्} स प॑क्षन्महि॒षं मृ॒गं पि॒त्रे मा॒त्रे वि॑भु॒क्रतु᳚म् ||{15/18}{8.69.15}{8.7.10.15}{6.5.7.5}{1274, 689, 7248} अ॒र्भ॒कः¦न¦कु॒मा॒र॒कः¦अधि॑¦ति॒ष्ठ॒त्¦नव᳚म्¦रथ᳚म् | सः¦प॒क्ष॒त्¦म॒हि॒षम्¦मृ॒गम्¦पि॒त्रे¦मा॒त्रे¦वि॒भु॒ऽक्रतु᳚म् || |
आ तू सु॑शिप्र दम्पते॒ रथं᳚ तिष्ठा हिर॒ण्यय᳚म् |{आङ्गिरसः प्रियमेधः | इन्द्रः | पङ्क्तिः} अध॑ द्यु॒क्षं स॑चेवहि स॒हस्र॑पादमरु॒षं स्व॑स्ति॒गाम॑ने॒हस᳚म् ||{16/18}{8.69.16}{8.7.10.16}{6.5.7.6}{1275, 689, 7249} आ¦तु¦सु॒ऽशि॒प्र॒¦द॒म्ऽप॒ते॒¦रथ᳚म्¦ति॒ष्ठ॒¦हि॒र॒ण्यय᳚म् | |
तं घे᳚मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते |{आङ्गिरसः प्रियमेधः | इन्द्रः | बृहती} अर्थं᳚ चिदस्य॒ सुधि॑तं॒ यदेत॑व आव॒र्तय᳚न्ति दा॒वने᳚ ||{17/18}{8.69.17}{8.7.10.17}{6.5.7.7}{1276, 689, 7250} तम्¦घ॒¦ई॒म्¦इ॒त्था¦न॒म॒स्विनः॑¦उप॑¦स्व॒ऽराज᳚म्¦आ॒स॒ते॒ | |
अनु॑ प्र॒त्नस्यौक॑सः प्रि॒यमे᳚धास एषाम् |{आङ्गिरसः प्रियमेधः | इन्द्रः | बृहती} पूर्वा॒मनु॒ प्रय॑तिं वृ॒क्तब᳚र्हिषो हि॒तप्र॑यस आशत ||{18/18}{8.69.18}{8.7.10.18}{6.5.7.8}{1277, 689, 7251} अनु॑¦प्र॒त्नस्य॑¦ओक॑सः¦प्रि॒यऽमे᳚धासः¦ए॒षा॒म् | |
[70] योराजेति पंचदशर्चस्य सूक्तस्यांगिरसः पुरुहन्मेंद्रो बृहती द्वितीयाचतुर्थीषष्ट्यः सतोबृहत्यः त्रयोदश्युष्णिक् चतुर्दश्यनुष्टुबंत्या पुरउष्णिक् | |
यो राजा᳚ चर्षणी॒नां याता॒ रथे᳚भि॒रध्रि॑गुः |{पुरुहन्मा | इन्द्रः | बृहती} विश्वा᳚सां तरु॒ता पृत॑नानां॒ ज्येष्ठो॒ यो वृ॑त्र॒हा गृ॒णे ||{1/15}{8.70.1}{8.8.1.1}{6.5.8.1}{1278, 690, 7252} यः¦राजा᳚¦च॒र्ष॒णी॒नाम्¦याता᳚¦रथे᳚भिः¦अध्रि॑ऽगुः | |
इन्द्रं॒ तं शु᳚म्भ पुरुहन्म॒न्नव॑से॒ यस्य॑ द्वि॒ता वि॑ध॒र्तरि॑ |{पुरुहन्मा | इन्द्रः | सतोबृहती} हस्ता᳚य॒ वज्रः॒ प्रति॑ धायि दर्श॒तो म॒हो दि॒वे न सूर्यः॑ ||{2/15}{8.70.2}{8.8.1.2}{6.5.8.2}{1279, 690, 7253} इन्द्र᳚म्¦तम्¦शु॒म्भ॒¦पु॒रु॒ऽह॒न्म॒न्¦अव॑से¦यस्य॑¦द्वि॒ता¦वि॒ऽध॒र्तरि॑ | |
नकि॒ष्टं कर्म॑णा नश॒द्यश्च॒कार॑ स॒दावृ॑धम् |{पुरुहन्मा | इन्द्रः | बृहती} इन्द्रं॒ न य॒ज्ञैर्वि॒श्वगू᳚र्त॒मृभ्व॑स॒मधृ॑ष्टं धृ॒ष्ण्वो᳚जसम् ||{3/15}{8.70.3}{8.8.1.3}{6.5.8.3}{1280, 690, 7254} नकिः॑¦तम्¦कर्म॑णा¦न॒श॒त्¦यः¦च॒कार॑¦स॒दाऽवृ॑धम् | |
अषा᳚ळ्हमु॒ग्रं पृत॑नासु सास॒हिं यस्मि᳚न्म॒हीरु॑रु॒ज्रयः॑ |{पुरुहन्मा | इन्द्रः | सतोबृहती} सं धे॒नवो॒ जाय॑माने, अनोनवु॒र्द्यावः॒, क्षामो᳚, अनोनवुः ||{4/15}{8.70.4}{8.8.1.4}{6.5.8.4}{1281, 690, 7255} अषा᳚ळ्हम्¦उ॒ग्रम्¦पृत॑नासु¦स॒स॒हिम्¦यस्मि॑न्¦म॒हीः¦उ॒रु॒ऽज्रयः॑ | |
यद्द्याव॑ इन्द्र ते श॒तं श॒तं भूमी᳚रु॒त स्युः |{पुरुहन्मा | इन्द्रः | बृहती} न त्वा᳚ वज्रिन् त्स॒हस्रं॒ सूर्या॒, अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ||{5/15}{8.70.5}{8.8.1.5}{6.5.8.5}{1282, 690, 7256} यत्¦द्यावः॑¦इ॒न्द्र॒¦ते॒¦श॒तम्¦श॒तम्¦भूमीः᳚¦उ॒त¦स्युरिति॒ स्युः | |
आ प॑प्राथ महि॒ना वृष्ण्या᳚ वृष॒न् विश्वा᳚ शविष्ठ॒ शव॑सा |{पुरुहन्मा | इन्द्रः | सतोबृहती} अ॒स्माँ, अ॑व मघव॒न् गोम॑ति व्र॒जे वज्रि᳚ञ्चि॒त्राभि॑रू॒तिभिः॑ ||{6/15}{8.70.6}{8.8.1.6}{6.5.9.1}{1283, 690, 7257} आ¦प॒प्रा॒थ॒¦म॒हि॒ना¦वृष्ण्या᳚¦वृ॒ष॒न्¦विश्वा᳚¦श॒वि॒ष्ठ॒¦शव॑सा | |
न सी॒मदे᳚व आप॒दिषं᳚ दीर्घायो॒ मर्त्यः॑ |{पुरुहन्मा | इन्द्रः | बृहती} एत॑ग्वा चि॒द्य एत॑शा यु॒योज॑ते॒ हरी॒, इन्द्रो᳚ यु॒योज॑ते ||{7/15}{8.70.7}{8.8.1.7}{6.5.9.2}{1284, 690, 7258} न¦सी॒म्¦अदे᳚वः¦आ॒प॒त्¦इष᳚म्¦दी॒र्घा॒यो॒ इति॑ दीर्घऽआयो¦मर्त्यः॑ | |
तं वो᳚ म॒हो म॒हाय्य॒मिन्द्रं᳚ दा॒नाय॑ स॒क्षणि᳚म् |{पुरुहन्मा | इन्द्रः | बृहती} यो गा॒धेषु॒ य आर॑णेषु॒ हव्यो॒ वाजे॒ष्वस्ति॒ हव्यः॑ ||{8/15}{8.70.8}{8.8.1.8}{6.5.9.3}{1285, 690, 7259} तम्¦वः॒¦म॒हः¦म॒हाय्य᳚म्¦इन्द्र᳚म्¦दा॒नाय॑¦स॒क्षणि᳚म् | |
उदू॒ षु णो᳚ वसो म॒हे मृ॒शस्व॑ शूर॒ राध॑से |{पुरुहन्मा | इन्द्रः | बृहती} उदू॒ षु म॒ह्यै म॑घवन्म॒घत्त॑य॒ उदि᳚न्द्र॒ श्रव॑से म॒हे ||{9/15}{8.70.9}{8.8.1.9}{6.5.9.4}{1286, 690, 7260} उत्¦ऊँ॒ इति॑¦सु¦नः॒¦व॒सो॒ इति॑¦म॒हे¦मृ॒शस्व॑¦शू॒र॒¦राध॑से | |
त्वं न॑ इन्द्र ऋत॒युस्त्वा॒निदो॒ नि तृ᳚म्पसि |{पुरुहन्मा | इन्द्रः | बृहती} मध्ये᳚ वसिष्व तुविनृम्णो॒र्वोर्नि दा॒सं शि॑श्नथो॒ हथैः᳚ ||{10/15}{8.70.10}{8.8.1.10}{6.5.9.5}{1287, 690, 7261} त्वम्¦नः॒¦इ॒न्द्र॒¦ऋ॒त॒ऽयुः¦त्वा॒ऽनिदः॑¦नि¦तृ॒म्प॒सि॒ | |
अ॒न्यव्र॑त॒ममा᳚नुष॒मय॑ज्वान॒मदे᳚वयुम् |{पुरुहन्मा | इन्द्रः | बृहती} अव॒ स्वः सखा᳚ दुधुवीत॒ पर्व॑तः सु॒घ्नाय॒ दस्युं॒ पर्व॑तः ||{11/15}{8.70.11}{8.8.1.11}{6.5.10.1}{1288, 690, 7262} अ॒न्यऽव्र॑तम्¦अमा᳚नुषम्¦अय॑ज्वानम्¦अदे᳚वऽयुम् | |
त्वं न॑ इन्द्रासां॒ हस्ते᳚ शविष्ठ दा॒वने᳚ |{पुरुहन्मा | इन्द्रः | बृहती} धा॒नानां॒ न सं गृ॑भायास्म॒युर्द्विः सं गृ॑भायास्म॒युः ||{12/15}{8.70.12}{8.8.1.12}{6.5.10.2}{1289, 690, 7263} त्वम्¦नः॒¦इ॒न्द्र॒¦आ॒सा॒म्¦हस्ते᳚¦श॒वि॒ष्ठ॒¦दा॒वने᳚ | |
सखा᳚यः॒ क्रतु॑मिच्छत क॒था रा᳚धाम श॒रस्य॑ |{पुरुहन्मा | इन्द्रः | उष्णिक्} उप॑स्तुतिं भो॒जः सू॒रिर्यो, अह्र॑यः ||{13/15}{8.70.13}{8.8.1.13}{6.5.10.3}{1290, 690, 7264} सखा᳚यः¦क्रतु᳚म्¦इ॒च्छ॒त॒¦क॒था¦रा॒धा॒म॒¦श॒रस्य॑ | उप॑ऽस्तुतिम्¦भो॒जः¦सू॒रिः¦यः¦अह्र॑यः || |
भूरि॑भिः समह॒ ऋषि॑भिर्ब॒र्हिष्म॑द्भिः स्तविष्यसे |{पुरुहन्मा | इन्द्रः | अनुष्टुप्} यदि॒त्थमेक॑मेक॒मिच्छर॑ व॒त्सान् प॑रा॒ददः॑ ||{14/15}{8.70.14}{8.8.1.14}{6.5.10.4}{1291, 690, 7265} भूरि॑ऽभिः¦स॒म॒ह॒¦ऋषि॑ऽभिः¦ब॒र्हिष्म॑त्ऽभिः¦स्त॒वि॒ष्य॒से॒ | यत्¦इ॒त्थम्¦एक᳚म्ऽएकम्¦इत्¦शर॑¦व॒त्सान्¦प॒रा॒ऽददः॑ || |
क॒र्ण॒गृह्या᳚ म॒घवा᳚ शौरदे॒व्यो व॒त्सं न॑स्त्रि॒भ्य आन॑यत् |{पुरुहन्मा | इन्द्रः | पुर उष्णिक्} अ॒जां सू॒रिर्न धात॑वे ||{15/15}{8.70.15}{8.8.1.15}{6.5.10.5}{1292, 690, 7266} क॒र्ण॒ऽगृह्य॑¦म॒घऽवा᳚¦शौ॒र॒ऽदे॒व्यः¦व॒त्सम्¦नः॒¦त्रि॒ऽभ्यः¦आ¦अ॒न॒य॒त् | अ॒जाम्¦सू॒रिः¦न¦धात॑वे || |
[71] त्वंनोअग्नइति पंचदशर्चस्य सूक्तस्य सुदीतिपुरुमीळ्हावाग्निर्गायत्री दशमीद्वादशीचतुर्दश्योबृहत्यः एकादशीत्रयोदशीपंचदश्यः सतोबृहत्यः | (अत्रसुदीतिपुरुमीळ्हयोरन्यतरोवाऋषिः) | |
त्वं नो᳚, अग्ने॒ महो᳚भिः पा॒हि विश्व॑स्या॒, अरा᳚तेः |{सुदीतिपुरुमीळ्हौ | अग्निः | गायत्री} उ॒त द्वि॒षो मर्त्य॑स्य ||{1/15}{8.71.1}{8.8.2.1}{6.5.11.1}{1293, 691, 7267} त्वम्¦नः॒¦अ॒ग्ने॒¦महः॑ऽभिः¦पा॒हि¦विश्व॑स्याः¦अरा᳚तेः | उ॒त¦द्वि॒षः¦मर्त्य॑स्य || |
न॒हि म॒न्युः पौरु॑षेय॒ ईशे॒ हि वः॑ प्रियजात |{सुदीतिपुरुमीळ्हौ | अग्निः | गायत्री} त्वमिद॑सि॒ क्षपा᳚वान् ||{2/15}{8.71.2}{8.8.2.2}{6.5.11.2}{1294, 691, 7268} न॒हि¦म॒न्युः¦पौरु॑षेयः¦ईशे᳚¦हि¦वः॒¦प्रि॒य॒ऽजा॒त॒ | त्वम्¦इत्¦अ॒सि॒¦क्षपा᳚ऽवान् || |
स नो॒ विश्वे᳚भिर्दे॒वेभि॒रूर्जो᳚ नपा॒द्भद्र॑शोचे |{सुदीतिपुरुमीळ्हौ | अग्निः | गायत्री} र॒यिं दे᳚हि वि॒श्ववा᳚रम् ||{3/15}{8.71.3}{8.8.2.3}{6.5.11.3}{1295, 691, 7269} सः¦नः॒¦विश्वे᳚भिः¦दे॒वेभिः॑¦ऊर्जः॑¦नपा᳚त्¦भद्र॑ऽशोचे | र॒यिम्¦दे॒हि॒¦वि॒श्वऽवा᳚रम् || |
न तम॑ग्ने॒, अरा᳚तयो॒ मर्तं᳚ युवन्त रा॒यः |{सुदीतिपुरुमीळ्हौ | अग्निः | गायत्री} यं त्राय॑से दा॒श्वांस᳚म् ||{4/15}{8.71.4}{8.8.2.4}{6.5.11.4}{1296, 691, 7270} न¦तम्¦अ॒ग्ने॒¦अरा᳚तयः¦मर्त᳚म्¦यु॒व॒न्त॒¦रा॒यः | यम्¦त्राय॑से¦दा॒श्वांस᳚म् || |
यं त्वं वि॑प्र मे॒धसा᳚ता॒वग्ने᳚ हि॒नोषि॒ धना᳚य |{सुदीतिपुरुमीळ्हौ | अग्निः | गायत्री} स तवो॒ती गोषु॒ गन्ता᳚ ||{5/15}{8.71.5}{8.8.2.5}{6.5.11.5}{1297, 691, 7271} यम्¦त्वम्¦वि॒प्र॒¦मे॒धऽसा᳚तौ¦अग्ने᳚¦हि॒नोषि॑¦धना᳚य | सः¦तव॑¦ऊ॒ती¦गोषु॑¦गन्ता᳚ || |
त्वं र॒यिं पु॑रु॒वीर॒मग्ने᳚ दा॒शुषे॒ मर्ता᳚य |{सुदीतिपुरुमीळ्हौ | अग्निः | गायत्री} प्र णो᳚ नय॒ वस्यो॒, अच्छ॑ ||{6/15}{8.71.6}{8.8.2.6}{6.5.12.1}{1298, 691, 7272} त्वम्¦र॒यिम्¦पु॒रु॒ऽवीर᳚म्¦अग्ने᳚¦दा॒शुषे᳚¦मर्ता᳚य | प्र¦नः॒¦न॒य॒¦वस्यः॑¦अच्छ॑ || |
उ॒रु॒ष्या णो॒ मा परा᳚ दा, अघाय॒ते जा᳚तवेदः |{सुदीतिपुरुमीळ्हौ | अग्निः | गायत्री} दु॒रा॒ध्ये॒३॑(ए॒) मर्ता᳚य ||{7/15}{8.71.7}{8.8.2.7}{6.5.12.2}{1299, 691, 7273} उ॒रु॒ष्य¦नः॒¦मा¦परा᳚¦दाः॒¦अ॒घ॒ऽय॒ते¦जा॒त॒ऽवे॒दः॒ | दुः॒ऽआ॒ध्ये᳚¦मर्ता᳚य || |
अग्ने॒ माकि॑ष्टे दे॒वस्य॑ रा॒तिमदे᳚वो युयोत |{सुदीतिपुरुमीळ्हौ | अग्निः | गायत्री} त्वमी᳚शिषे॒ वसू᳚नाम् ||{8/15}{8.71.8}{8.8.2.8}{6.5.12.3}{1300, 691, 7274} अग्ने᳚¦माकिः॑¦ते॒¦दे॒वस्य॑¦रा॒तिम्¦अदे᳚वः¦यु॒यो॒त॒ | त्वम्¦ई॒शि॒षे॒¦वसू᳚नाम् || |
स नो॒ वस्व॒ उप॑ मा॒स्यूर्जो᳚ नपा॒न्माहि॑नस्य |{सुदीतिपुरुमीळ्हौ | अग्निः | गायत्री} सखे᳚ वसो जरि॒तृभ्यः॑ ||{9/15}{8.71.9}{8.8.2.9}{6.5.12.4}{1301, 691, 7275} सः¦नः॒¦वस्वः॑¦उप॑¦मा॒सि॒¦ऊर्जः॑¦नपा᳚त्¦माहि॑नस्य | सखे᳚¦व॒सो॒ इति॑¦ज॒रि॒तृऽभ्यः॑ || |
अच्छा᳚ नः शी॒रशो᳚चिषं॒ गिरो᳚ यन्तु दर्श॒तम् |{सुदीतिपुरुमीळ्हौ | अग्निः | बृहती} अच्छा᳚ य॒ज्ञासो॒ नम॑सा पुरू॒वसुं᳚ पुरुप्रश॒स्तमू॒तये᳚ ||{10/15}{8.71.10}{8.8.2.10}{6.5.12.5}{1302, 691, 7276} अच्छ॑¦नः॒¦शी॒रऽशो᳚चिषम्¦गिरः॑¦य॒न्तु॒¦द॒र्श॒तम् | |
अ॒ग्निं सू॒नुं सह॑सो जा॒तवे᳚दसं दा॒नाय॒ वार्या᳚णाम् |{सुदीतिपुरुमीळ्हौ | अग्निः | सतोबृहती} द्वि॒ता यो भूद॒मृतो॒ मर्त्ये॒ष्वा होता᳚ म॒न्द्रत॑मो वि॒शि ||{11/15}{8.71.11}{8.8.2.11}{6.5.13.1}{1303, 691, 7277} अ॒ग्निम्¦सू॒नुम्¦सह॑सः¦जा॒तऽवे᳚दसम्¦दा॒नाय॑¦वार्या᳚णाम् | |
अ॒ग्निं वो᳚ देवय॒ज्यया॒ग्निं प्र॑य॒त्य॑ध्व॒रे |{सुदीतिपुरुमीळ्हौ | अग्निः | बृहती} अ॒ग्निं धी॒षु प्र॑थ॒मम॒ग्निमर्व॑त्य॒ग्निं क्षैत्रा᳚य॒ साध॑से ||{12/15}{8.71.12}{8.8.2.12}{6.5.13.2}{1304, 691, 7278} अ॒ग्निम्¦वः॒¦दे॒व॒ऽय॒ज्यया᳚¦अ॒ग्निम्¦प्र॒ऽय॒ति¦अ॒ध्व॒रे | |
अ॒ग्निरि॒षां स॒ख्ये द॑दातु न॒ ईशे॒ यो वार्या᳚णाम् |{सुदीतिपुरुमीळ्हौ | अग्निः | सतोबृहती} अ॒ग्निं तो॒के तन॑ये॒ शश्व॑दीमहे॒ वसुं॒ सन्तं᳚ तनू॒पाम् ||{13/15}{8.71.13}{8.8.2.13}{6.5.13.3}{1305, 691, 7279} अ॒ग्निः¦इ॒षाम्¦स॒ख्ये¦द॒दा॒तु॒¦नः॒¦ईशे᳚¦यः¦वार्या᳚णाम् | |
अ॒ग्निमी᳚ळि॒ष्वाव॑से॒ गाथा᳚भिः शी॒रशो᳚चिषम् |{सुदीतिपुरुमीळ्हौ | अग्निः | बृहती} अ॒ग्निं रा॒ये पु॑रुमीळ्ह श्रु॒तं नरो॒ऽग्निं सु॑दी॒तये᳚ छ॒र्दिः ||{14/15}{8.71.14}{8.8.2.14}{6.5.13.4}{1306, 691, 7280} अ॒ग्निम्¦ई॒ळि॒ष्व॒¦अव॑से¦गाथा᳚भिः¦शी॒रऽशो᳚चिषम् | |
अ॒ग्निं द्वेषो॒ योत॒वै नो᳚ गृणीमस्य॒ग्निं शं योश्च॒ दात॑वे |{सुदीतिपुरुमीळ्हौ | अग्निः | सतोबृहती} विश्वा᳚सु वि॒क्ष्व॑वि॒तेव॒ हव्यो॒ भुव॒द्वस्तु᳚रृषू॒णाम् ||{15/15}{8.71.15}{8.8.2.15}{6.5.13.5}{1307, 691, 7281} अ॒ग्निम्¦द्वेषः॑¦योत॒वै¦नः॒¦गृ॒णी॒म॒सि॒¦अ॒ग्निम्¦शम्¦योः¦च॒¦दात॑वे | |
[72] हरिरित्यष्टादशर्चस्य सूक्तस्य प्रागाथोहर्यतोग्निर्गायत्री | (हविषांस्तुतिर्वादेवता) |
ह॒विष्कृ॑णुध्व॒मा ग॑मदध्व॒र्युर्व॑नते॒ पुनः॑ |{प्रागाथो हर्यतः | अग्निः | गायत्री} वि॒द्वाँ, अ॑स्य प्र॒शास॑नम् ||{1/18}{8.72.1}{8.8.3.1}{6.5.14.1}{1308, 692, 7282} ह॒विः¦कृ॒णु॒ध्व॒म्¦आ¦ग॒म॒त्¦अ॒ध्व॒र्युः¦व॒न॒ते॒¦पुन॒रिति॑ | वि॒द्वान्¦अ॒स्य॒¦प्र॒ऽशास॑नम् || |
नि ति॒ग्मम॒भ्य१॑(अं॒)शुं सीद॒द्धोता᳚ म॒नावधि॑ |{प्रागाथो हर्यतः | अग्निः | गायत्री} जु॒षा॒णो, अ॑स्य स॒ख्यम् ||{2/18}{8.72.2}{8.8.3.2}{6.5.14.2}{1309, 692, 7283} नि¦ति॒ग्मम्¦अ॒भि¦अं॒शुम्¦सीद॑त्¦होता᳚¦म॒नौ¦अधि॑ | जु॒षा॒णः¦अ॒स्य॒¦स॒ख्यम् || |
अ॒न्तरि॑च्छन्ति॒ तं जने᳚ रु॒द्रं प॒रो म॑नी॒षया᳚ |{प्रागाथो हर्यतः | अग्निः | गायत्री} गृ॒भ्णन्ति॑ जि॒ह्वया᳚ स॒सम् ||{3/18}{8.72.3}{8.8.3.3}{6.5.14.3}{1310, 692, 7284} अ॒न्तः¦इ॒च्छ॒न्ति॒¦तम्¦जने᳚¦रु॒द्रम्¦प॒रः¦म॒नी॒षया᳚ | गृ॒भ्णन्ति॑¦जि॒ह्वया᳚¦स॒सम् || |
जा॒म्य॑तीतपे॒ धनु᳚र्वयो॒धा, अ॑रुह॒द्वन᳚म् |{प्रागाथो हर्यतः | अग्निः | गायत्री} दृ॒षदं᳚ जि॒ह्वयाव॑धीत् ||{4/18}{8.72.4}{8.8.3.4}{6.5.14.4}{1311, 692, 7285} जा॒मि¦अ॒ती॒त॒पे॒¦धनुः॑¦व॒यः॒ऽधाः¦अ॒रु॒ह॒त्¦वन᳚म् | दृ॒षद᳚म्¦जि॒ह्वया᳚¦आ¦अ॒व॒धी॒त् || |
चर᳚न्व॒त्सो रुश᳚न्नि॒ह नि॑दा॒तारं॒ न वि᳚न्दते |{प्रागाथो हर्यतः | अग्निः | गायत्री} वेति॒ स्तोत॑व अ॒म्ब्य᳚म् ||{5/18}{8.72.5}{8.8.3.5}{6.5.14.5}{1312, 692, 7286} चर॑न्¦व॒त्सः¦रुश॑न्¦इ॒ह¦नि॒ऽदा॒तार᳚म्¦न¦वि॒न्द॒ते॒ | वेति॑¦स्तोत॑वे¦अ॒म्ब्य᳚म् || |
उ॒तो न्व॑स्य॒ यन्म॒हदश्वा᳚व॒द्योज॑नं बृ॒हद् |{प्रागाथो हर्यतः | अग्निः | गायत्री} दा॒मा रथ॑स्य॒ ददृ॑शे ||{6/18}{8.72.6}{8.8.3.6}{6.5.15.1}{1313, 692, 7287} उ॒तो इति॑¦नु¦अ॒स्य॒¦यत्¦म॒हत्¦अश्व॑ऽवत्¦योज॑नम्¦बृ॒हत् | दा॒मा¦रथ॑स्य¦ददृ॑शे || |
दु॒हन्ति॑ स॒प्तैका॒मुप॒ द्वा पञ्च॑ सृजतः |{प्रागाथो हर्यतः | अग्निः | गायत्री} ती॒र्थे सिन्धो॒रधि॑ स्व॒रे ||{7/18}{8.72.7}{8.8.3.7}{6.5.15.2}{1314, 692, 7288} दु॒हन्ति॑¦स॒प्त¦एका᳚म्¦उप॑¦द्वा¦पंच॑¦सृ॒ज॒तः॒ | ती॒र्थे¦सिन्धोः᳚¦अधि॑¦स्व॒रे || |
आ द॒शभि᳚र्वि॒वस्व॑त॒ इन्द्रः॒ कोश॑मचुच्यवीत् |{प्रागाथो हर्यतः | अग्निः | गायत्री} खेद॑या त्रि॒वृता᳚ दि॒वः ||{8/18}{8.72.8}{8.8.3.8}{6.5.15.3}{1315, 692, 7289} आ¦द॒शऽभिः॑¦वि॒वस्व॑तः¦इन्द्रः॑¦कोश᳚म्¦अ॒चु॒च्य॒वी॒त् | खेद॑या¦त्रि॒ऽवृता᳚¦दि॒वः || |
परि॑ त्रि॒धातु॑रध्व॒रं जू॒र्णिरे᳚ति॒ नवी᳚यसी |{प्रागाथो हर्यतः | अग्निः | गायत्री} मध्वा॒ होता᳚रो, अञ्जते ||{9/18}{8.72.9}{8.8.3.9}{6.5.15.4}{1316, 692, 7290} परि॑¦त्रि॒ऽधातुः॑¦अ॒ध्व॒रम्¦जू॒र्णिः¦ए॒ति॒¦नवी᳚यसी | मध्वा᳚¦होता᳚रः¦अं॒ज॒ते॒ || |
सि॒ञ्चन्ति॒ नम॑साव॒तमु॒च्चाच॑क्रं॒ परि॑ज्मानम् |{प्रागाथो हर्यतः | अग्निः | गायत्री} नी॒चीन॑बार॒मक्षि॑तम् ||{10/18}{8.72.10}{8.8.3.10}{6.5.15.5}{1317, 692, 7291} सिं॒चन्ति॑¦नम॑सा¦अ॒व॒तम्¦उ॒च्चाऽच॑क्रम्¦परि॑ऽज्मानम् | नी॒चीन॑ऽबारम्¦अक्षि॑तम् || |
अ॒भ्यार॒मिदद्र॑यो॒ निषि॑क्तं॒ पुष्क॑रे॒ मधु॑ |{प्रागाथो हर्यतः | अग्निः | गायत्री} अ॒व॒तस्य॑ वि॒सर्ज॑ने ||{11/18}{8.72.11}{8.8.3.11}{6.5.16.1}{1318, 692, 7292} अ॒भि॒ऽआर᳚म्¦इत्¦अद्र॑यः¦निऽसि॑क्तम्¦पुष्क॑रे¦मधु॑ | अ॒व॒तस्य॑¦वि॒ऽसर्ज॑ने || |
गाव॒ उपा᳚वताव॒तं म॒ही य॒ज्ञस्य॑ र॒प्सुदा᳚ |{प्रागाथो हर्यतः | अग्निः | गायत्री} उ॒भा कर्णा᳚ हिर॒ण्यया᳚ ||{12/18}{8.72.12}{8.8.3.12}{6.5.16.2}{1319, 692, 7293} गावः॑¦उप॑¦अ॒व॒त॒¦अ॒व॒तम्¦म॒ही इति॑¦य॒ज्ञस्य॑¦र॒प्सुदा᳚ | उ॒भा¦कर्णा᳚¦हि॒र॒ण्यया᳚ || |
आ सु॒ते सि᳚ञ्चत॒ श्रियं॒ रोद॑स्योरभि॒श्रिय᳚म् |{प्रागाथो हर्यतः | अग्निः | गायत्री} र॒सा द॑धीत वृष॒भम् ||{13/18}{8.72.13}{8.8.3.13}{6.5.16.3}{1320, 692, 7294} आ¦सु॒ते¦सिं॒च॒त॒¦श्रिय᳚म्¦रोद॑स्योः¦अ॒भि॒ऽश्रिय᳚म् | र॒सा¦द॒धी॒त॒¦वृ॒ष॒भम् || |
ते जा᳚नत॒ स्वमो॒क्य१॑(अं॒) सं व॒त्सासो॒ न मा॒तृभिः॑ |{प्रागाथो हर्यतः | अग्निः | गायत्री} मि॒थो न॑सन्त जा॒मिभिः॑ ||{14/18}{8.72.14}{8.8.3.14}{6.5.16.4}{1321, 692, 7295} ते¦जा॒न॒त॒¦स्वम्¦ओ॒क्य᳚म्¦सम्¦व॒त्सासः॑¦न¦मा॒तृऽभिः॑ | मि॒थः¦न॒स॒न्त॒¦जा॒मिऽभिः॑ || |
उप॒ स्रक्वे᳚षु॒ बप्स॑तः कृण्व॒ते ध॒रुणं᳚ दि॒वि |{प्रागाथो हर्यतः | अग्निः | गायत्री} इन्द्रे᳚, अ॒ग्ना नमः॒ स्वः॑ ||{15/18}{8.72.15}{8.8.3.15}{6.5.16.5}{1322, 692, 7296} उप॑¦स्रक्वे᳚षु¦बप्स॑तः¦कृ॒ण्व॒ते¦ध॒रुण᳚म्¦दि॒वि | इन्द्रे᳚¦अ॒ग्ना¦नमः॑¦स्व१॒॑रिति॒ स्वः॑ || |
अधु॑क्षत्पि॒प्युषी॒मिष॒मूर्जं᳚ स॒प्तप॑दीम॒रिः |{प्रागाथो हर्यतः | अग्निः | गायत्री} सूर्य॑स्य स॒प्त र॒श्मिभिः॑ ||{16/18}{8.72.16}{8.8.3.16}{6.5.17.1}{1323, 692, 7297} अधु॑क्षत्¦पि॒प्युषी᳚म्¦इष᳚म्¦ऊर्ज᳚म्¦स॒प्तऽप॑दीम्¦अ॒रिः | सूर्य॑स्य¦स॒प्त¦र॒श्मिऽभिः॑ || |
सोम॑स्य मित्रावरु॒णोदि॑ता॒ सूर॒ आ द॑दे |{प्रागाथो हर्यतः | अग्निः | गायत्री} तदातु॑रस्य भेष॒जम् ||{17/18}{8.72.17}{8.8.3.17}{6.5.17.2}{1324, 692, 7298} सोम॑स्य¦मि॒त्रा॒व॒रु॒णा॒¦उत्ऽइ᳚ता¦सूरे᳚¦आ¦द॒दे॒ | तत्¦आतु॑रस्य¦भे॒ष॒जम् || |
उ॒तो न्व॑स्य॒ यत्प॒दं ह᳚र्य॒तस्य॑ निधा॒न्य᳚म् |{प्रागाथो हर्यतः | अग्निः | गायत्री} परि॒ द्यां जि॒ह्वया᳚तनत् ||{18/18}{8.72.18}{8.8.3.18}{6.5.17.3}{1325, 692, 7299} उ॒तो इति॑¦नु¦अ॒स्य॒¦यत्¦प॒दम्¦ह॒र्य॒तस्य॑¦नि॒ऽधा॒न्य᳚म् | परि॑¦द्याम्¦जि॒ह्वया᳚¦अ॒त॒न॒त् || |
[73] उदीराथामित्यष्टादशर्चस्य सूक्तस्यात्रेयोगोपवनोश्विनौगायत्री | ( सप्तवध्निर्वाऋषिः) |
उदी᳚राथामृताय॒ते यु॒ञ्जाथा᳚मश्विना॒ रथ᳚म् |{आत्रेयो गोपवनः | अश्विनौ | गायत्री} अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{1/18}{8.73.1}{8.8.4.1}{6.5.18.1}{1326, 693, 7300} उत्¦ई॒रा॒था॒म्¦ऋ॒त॒ऽय॒ते¦युं॒जाथा᳚म्¦अ॒श्वि॒ना॒¦रथ᳚म् | अन्ति॑¦सत्¦भू॒तु॒¦वा॒म्¦अवः॑ || |
नि॒मिष॑श्चि॒ज्जवी᳚यसा॒ रथे॒ना या᳚तमश्विना |{आत्रेयो गोपवनः | अश्विनौ | गायत्री} अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{2/18}{8.73.2}{8.8.4.2}{6.5.18.2}{1327, 693, 7301} नि॒ऽमिषः॑¦चि॒त्¦जवी᳚यसा¦रथे᳚न¦आ¦या॒त॒म्¦अ॒श्वि॒ना॒ | अन्ति॑¦सत्¦भू॒तु॒¦वा॒म्¦अवः॑ || |
उप॑ स्तृणीत॒मत्र॑ये हि॒मेन॑ घ॒र्मम॑श्विना |{आत्रेयो गोपवनः | अश्विनौ | गायत्री} अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{3/18}{8.73.3}{8.8.4.3}{6.5.18.3}{1328, 693, 7302} उप॑¦स्तृ॒णी॒त॒म्¦अत्र॑ये¦हि॒मेन॑¦घ॒र्मम्¦अ॒श्वि॒ना॒ | अन्ति॑¦सत्¦भू॒तु॒¦वा॒म्¦अवः॑ || |
कुह॑ स्थः॒ कुह॑ जग्मथुः॒ कुह॑ श्ये॒नेव॑ पेतथुः |{आत्रेयो गोपवनः | अश्विनौ | गायत्री} अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{4/18}{8.73.4}{8.8.4.4}{6.5.18.4}{1329, 693, 7303} कुह॑¦स्थः॒¦कुह॑¦ज॒ग्म॒थुः॒¦कुह॑¦श्ये॒नाऽइ᳚व¦पे॒त॒थुः॒ | अन्ति॑¦सत्¦भू॒तु॒¦वा॒म्¦अवः॑ || |
यद॒द्य कर्हि॒ कर्हि॑ चिच्छुश्रू॒यात॑मि॒मं हव᳚म् |{आत्रेयो गोपवनः | अश्विनौ | गायत्री} अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{5/18}{8.73.5}{8.8.4.5}{6.5.18.5}{1330, 693, 7304} यत्¦अ॒द्य¦कर्हि॑¦कर्हि॑¦चि॒त्¦शु॒श्रू॒यात᳚म्¦इ॒मम्¦हव᳚म् | अन्ति॑¦सत्¦भू॒तु॒¦वा॒म्¦अवः॑ || |
अ॒श्विना᳚ याम॒हूत॑मा॒ नेदि॑ष्ठं या॒म्याप्य᳚म् |{आत्रेयो गोपवनः | अश्विनौ | गायत्री} अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{6/18}{8.73.6}{8.8.4.6}{6.5.19.1}{1331, 693, 7305} अ॒श्विना᳚¦या॒म॒ऽहूत॑मा¦नेदि॑ष्ठम्¦या॒मि॒¦आप्य᳚म् | अन्ति॑¦सत्¦भू॒तु॒¦वा॒म्¦अवः॑ || |
अव᳚न्त॒मत्र॑ये गृ॒हं कृ॑णु॒तं यु॒वम॑श्विना |{आत्रेयो गोपवनः | अश्विनौ | गायत्री} अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{7/18}{8.73.7}{8.8.4.7}{6.5.19.2}{1332, 693, 7306} अव᳚न्तम्¦अत्र॑ये¦गृ॒हम्¦कृ॒णु॒तम्¦यु॒वम्¦अ॒श्वि॒ना॒ | अन्ति॑¦सत्¦भू॒तु॒¦वा॒म्¦अवः॑ || |
वरे᳚थे, अ॒ग्निमा॒तपो॒ वद॑ते व॒ल्ग्वत्र॑ये |{आत्रेयो गोपवनः | अश्विनौ | गायत्री} अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{8/18}{8.73.8}{8.8.4.8}{6.5.19.3}{1333, 693, 7307} वरे᳚थे॒ इति॑¦अ॒ग्निम्¦आ॒ऽतपः॑¦वद॑ते¦व॒ल्गु¦अत्र॑ये | अन्ति॑¦सत्¦भू॒तु॒¦वा॒म्¦अवः॑ || |
प्र स॒प्तव॑ध्रिरा॒शसा॒ धारा᳚म॒ग्नेर॑शायत |{आत्रेयो गोपवनः | अश्विनौ | गायत्री} अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{9/18}{8.73.9}{8.8.4.9}{6.5.19.4}{1334, 693, 7308} प्र¦स॒प्तऽव॑ध्रिः¦आ॒ऽशसा᳚¦धारा᳚म्¦अ॒ग्नेः¦अ॒शा॒य॒त॒ | अन्ति॑¦सत्¦भू॒तु॒¦वा॒म्¦अवः॑ || |
इ॒हा ग॑तं वृषण्वसू शृणु॒तं म॑ इ॒मं हव᳚म् |{आत्रेयो गोपवनः | अश्विनौ | गायत्री} अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{10/18}{8.73.10}{8.8.4.10}{6.5.19.5}{1335, 693, 7309} इ॒ह¦आ¦ग॒त॒म्¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू¦शृ॒णु॒तम्¦मे॒¦इ॒मम्¦हव᳚म् | अन्ति॑¦सत्¦भू॒तु॒¦वा॒म्¦अवः॑ || |
किमि॒दं वां᳚ पुराण॒वज्जर॑तोरिव शस्यते |{आत्रेयो गोपवनः | अश्विनौ | गायत्री} अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{11/18}{8.73.11}{8.8.4.11}{6.5.20.1}{1336, 693, 7310} किम्¦इ॒दम्¦वा॒म्¦पु॒रा॒ण॒ऽवत्¦जर॑तोःऽइव¦श॒स्य॒ते॒ | अन्ति॑¦सत्¦भू॒तु॒¦वा॒म्¦अवः॑ || |
स॒मा॒नं वां᳚ सजा॒त्यं᳚ समा॒नो बन्धु॑रश्विना |{आत्रेयो गोपवनः | अश्विनौ | गायत्री} अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{12/18}{8.73.12}{8.8.4.12}{6.5.20.2}{1337, 693, 7311} स॒मा॒नम्¦वा॒म्¦स॒ऽजा॒त्य᳚म्¦स॒मा॒नः¦बन्धुः॑¦अ॒श्वि॒ना॒ | अन्ति॑¦सत्¦भू॒तु॒¦वा॒म्¦अवः॑ || |
यो वां॒ रजां᳚स्यश्विना॒ रथो᳚ वि॒याति॒ रोद॑सी |{आत्रेयो गोपवनः | अश्विनौ | गायत्री} अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{13/18}{8.73.13}{8.8.4.13}{6.5.20.3}{1338, 693, 7312} यः¦वा॒म्¦रजां᳚सि¦अ॒श्वि॒ना॒¦रथः॑¦वि॒ऽयाति॑¦रोद॑सी॒ इति॑ | अन्ति॑¦सत्¦भू॒तु॒¦वा॒म्¦अवः॑ || |
आ नो॒ गव्ये᳚भि॒रश्व्यैः᳚ स॒हस्रै॒रुप॑ गच्छतम् |{आत्रेयो गोपवनः | अश्विनौ | गायत्री} अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{14/18}{8.73.14}{8.8.4.14}{6.5.20.4}{1339, 693, 7313} आ¦नः॒¦गव्ये᳚भिः¦अश्व्यैः᳚¦स॒हस्रैः᳚¦उप॑¦ग॒च्छ॒त॒म् | अन्ति॑¦सत्¦भू॒तु॒¦वा॒म्¦अवः॑ || |
मा नो॒ गव्ये᳚भि॒रश्व्यैः᳚ स॒हस्रे᳚भि॒रति॑ ख्यतम् |{आत्रेयो गोपवनः | अश्विनौ | गायत्री} अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{15/18}{8.73.15}{8.8.4.15}{6.5.20.5}{1340, 693, 7314} मा¦नः॒¦गव्ये᳚भिः¦अश्व्यैः᳚¦स॒हस्रे᳚भिः¦अति॑¦ख्य॒त॒म् | अन्ति॑¦सत्¦भू॒तु॒¦वा॒म्¦अवः॑ || |
अ॒रु॒णप्सु॑रु॒षा, अ॑भू॒दक॒र्ज्योति᳚रृ॒ताव॑री |{आत्रेयो गोपवनः | अश्विनौ | गायत्री} अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{16/18}{8.73.16}{8.8.4.16}{6.5.20.6}{1341, 693, 7315} अ॒रु॒णऽप्सुः॑¦उ॒षाः¦अ॒भू॒त्¦अकः॑¦ज्योतिः॑¦ऋ॒तऽव॑री | अन्ति॑¦सत्¦भू॒तु॒¦वा॒म्¦अवः॑ || |
अ॒श्विना॒ सु वि॒चाक॑शद्वृ॒क्षं प॑रशु॒माँ, इ॑व |{आत्रेयो गोपवनः | अश्विनौ | गायत्री} अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{17/18}{8.73.17}{8.8.4.17}{6.5.20.7}{1342, 693, 7316} अ॒श्विना᳚¦सु¦वि॒ऽचाक॑शत्¦वृ॒क्षम्¦प॒र॒शु॒मान्ऽइ᳚व | अन्ति॑¦सत्¦भू॒तु॒¦वा॒म्¦अवः॑ || |
पुरं॒ न धृ॑ष्ण॒वा रु॑ज कृ॒ष्णया᳚ बाधि॒तो वि॒शा |{आत्रेयो गोपवनः | अश्विनौ | गायत्री} अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{18/18}{8.73.18}{8.8.4.18}{6.5.20.8}{1343, 693, 7317} पुर᳚म्¦न¦धृ॒ष्णो॒ इति॑¦आ¦रु॒ज॒¦कृ॒ष्णया᳚¦बा॒धि॒तः¦वि॒शा | अन्ति॑¦सत्¦भू॒तु॒¦वा॒म्¦अवः॑ || |
[74] विशोविशइति पंचदशर्चस्य सूक्तस्यात्रेयोगोपवनोग्निरंत्यतिसृणां श्रुतर्वागायत्री आद्याचतुर्थीसप्तमीदशम्यस्त्रयोदश्यादितिस्रश्चानुष्टुभः | |
वि॒शोवि॑शो वो॒, अति॑थिं वाज॒यन्तः॑ पुरुप्रि॒यम् |{आत्रेयो गोपवनः | अग्निः | अनुष्टुप्} अ॒ग्निं वो॒ दुर्यं॒ वचः॑ स्तु॒षे शू॒षस्य॒ मन्म॑भिः ||{1/15}{8.74.1}{8.8.5.1}{6.5.21.1}{1344, 694, 7318} वि॒शःऽवि॑शः¦वः॒¦अति॑थिम्¦वा॒ज॒ऽयन्तः॑¦पु॒रु॒ऽप्रि॒यम् | अ॒ग्निम्¦वः॒¦दुर्य᳚म्¦वचः॑¦स्तु॒षे¦शू॒षस्य॑¦मन्म॑ऽभिः || |
यं जना᳚सो ह॒विष्म᳚न्तो मि॒त्रं न स॒र्पिरा᳚सुतिम् |{आत्रेयो गोपवनः | अग्निः | गायत्री} प्र॒शंस᳚न्ति॒ प्रश॑स्तिभिः ||{2/15}{8.74.2}{8.8.5.2}{6.5.21.2}{1345, 694, 7319} यम्¦जना᳚सः¦ह॒विष्म᳚न्तः¦मि॒त्रम्¦न¦स॒र्पिःऽआ᳚सुतिम् | प्र॒ऽशंस᳚न्ति¦प्रश॑स्तिऽभिः || |
पन्यां᳚सं जा॒तवे᳚दसं॒ यो दे॒वता॒त्युद्य॑ता |{आत्रेयो गोपवनः | अग्निः | गायत्री} ह॒व्यान्यैर॑यद्दि॒वि ||{3/15}{8.74.3}{8.8.5.3}{6.5.21.3}{1346, 694, 7320} पन्यां᳚सम्¦जा॒तऽवे᳚दसम्¦यः¦दे॒वऽता᳚ति¦उत्ऽय॑ता | ह॒व्यानि॑¦ऐर॑यत्¦दि॒वि || |
आग᳚न्म वृत्र॒हन्त॑मं॒ ज्येष्ठ॑म॒ग्निमान॑वम् |{आत्रेयो गोपवनः | अग्निः | अनुष्टुप्} यस्य॑ श्रु॒तर्वा᳚ बृ॒हन्ना॒र्क्षो, अनी᳚क॒ एध॑ते ||{4/15}{8.74.4}{8.8.5.4}{6.5.21.4}{1347, 694, 7321} आ¦अ॒ग॒न्म॒¦वृ॒त्र॒हन्ऽत॑मम्¦ज्येष्ठ᳚म्¦अ॒ग्निम्¦आन॑वम् | यस्य॑¦श्रु॒तर्वा᳚¦बृ॒हन्¦आ॒र्क्षः¦अनी᳚के¦एध॑ते || |
अ॒मृतं᳚ जा॒तवे᳚दसं ति॒रस्तमां᳚सि दर्श॒तम् |{आत्रेयो गोपवनः | अग्निः | गायत्री} घृ॒ताह॑वन॒मीड्य᳚म् ||{5/15}{8.74.5}{8.8.5.5}{6.5.21.5}{1348, 694, 7322} अ॒मृत᳚म्¦जा॒तऽवे᳚दसम्¦ति॒रः¦तमां᳚सि¦द॒र्श॒तम् | घृ॒तऽआ᳚हवनम्¦ईड्य᳚म् || |
स॒बाधो॒ यं जना᳚, इ॒मे॒३॑(ए॒)ऽग्निं ह॒व्येभि॒रीळ॑ते |{आत्रेयो गोपवनः | अग्निः | गायत्री} जुह्वा᳚नासो य॒तस्रु॑चः ||{6/15}{8.74.6}{8.8.5.6}{6.5.22.1}{1349, 694, 7323} स॒ऽबाधः॑¦यम्¦जनाः᳚¦इ॒मे¦अ॒ग्निम्¦ह॒व्येभिः॑¦ईळ॑ते | जुह्वा᳚नासः¦य॒तऽस्रु॑चः || |
इ॒यं ते॒ नव्य॑सी म॒तिरग्ने॒, अधा᳚य्य॒स्मदा |{आत्रेयो गोपवनः | अग्निः | अनुष्टुप्} मन्द्र॒ सुजा᳚त॒ सुक्र॒तोऽमू᳚र॒ दस्माति॑थे ||{7/15}{8.74.7}{8.8.5.7}{6.5.22.2}{1350, 694, 7324} इ॒यम्¦ते॒¦नव्य॑सी¦म॒तिः¦अग्ने᳚¦अधा᳚यि¦अ॒स्मत्¦आ | मन्द्र॑¦सुऽजा᳚त¦सुक्र॑तो॒ इति॒ सुऽक्र॑तो¦अमू᳚र¦दस्म॑¦अति॑थे || |
सा ते᳚, अग्ने॒ शंत॑मा॒ चनि॑ष्ठा भवतु प्रि॒या |{आत्रेयो गोपवनः | अग्निः | गायत्री} तया᳚ वर्धस्व॒ सुष्टु॑तः ||{8/15}{8.74.8}{8.8.5.8}{6.5.22.3}{1351, 694, 7325} सा¦ते॒¦अ॒ग्ने॒¦शम्ऽत॑मा¦चनि॑ष्ठा¦भ॒व॒तु॒¦प्रि॒या | तया᳚¦व॒र्ध॒स्व॒¦सुऽस्तु॑तः || |
सा द्यु॒म्नैर्द्यु॒म्निनी᳚ बृ॒हदुपो᳚प॒ श्रव॑सि॒ श्रवः॑ |{आत्रेयो गोपवनः | अग्निः | गायत्री} दधी᳚त वृत्र॒तूर्ये᳚ ||{9/15}{8.74.9}{8.8.5.9}{6.5.22.4}{1352, 694, 7326} सा¦द्यु॒म्नैः¦द्यु॒म्निनी᳚¦बृ॒हत्¦उप॑।औप¦श्रव॑सि¦श्रवः॑ | दधी᳚त¦वृ॒त्र॒ऽतूर्ये᳚ || |
अश्व॒मिद्गां र॑थ॒प्रां त्वे॒षमिन्द्रं॒ न सत्प॑तिम् |{आत्रेयो गोपवनः | अग्निः | अनुष्टुप्} यस्य॒ श्रवां᳚सि॒ तूर्व॑थ॒ पन्य᳚म्पन्यं च कृ॒ष्टयः॑ ||{10/15}{8.74.10}{8.8.5.10}{6.5.22.5}{1353, 694, 7327} अश्व᳚म्¦इत्¦गाम्¦र॒थ॒ऽप्राम्¦त्वे॒षम्¦इन्द्र᳚म्¦न¦सत्ऽप॑तिम् | यस्य॑¦श्रवां᳚सि¦तूर्व॑थ¦पन्य᳚म्ऽपन्यम्¦च॒¦कृ॒ष्टयः॑ || |
यं त्वा᳚ गो॒पव॑नो गि॒रा चनि॑ष्ठदग्ने, अङ्गिरः |{आत्रेयो गोपवनः | अग्निः | गायत्री} स पा᳚वक श्रुधी॒ हव᳚म् ||{11/15}{8.74.11}{8.8.5.11}{6.5.23.1}{1354, 694, 7328} यम्¦त्वा॒¦गो॒पव॑नः¦गि॒रा¦चनि॑ष्ठत्¦अ॒ग्ने॒¦अ॒ङ्गि॒रः॒ | सः¦पा॒व॒क॒¦श्रु॒धि॒¦हव᳚म् || |
यं त्वा॒ जना᳚स॒ ईळ॑ते स॒बाधो॒ वाज॑सातये |{आत्रेयो गोपवनः | अग्निः | गायत्री} स बो᳚धि वृत्र॒तूर्ये᳚ ||{12/15}{8.74.12}{8.8.5.12}{6.5.23.2}{1355, 694, 7329} यम्¦त्वा॒¦जना᳚सः¦ईळ॑ते¦स॒ऽबाधः॑¦वाज॑ऽसातये | सः¦बो॒धि॒¦वृ॒त्र॒ऽतूर्ये᳚ || |
अ॒हं हु॑वा॒न आ॒र्क्षे श्रु॒तर्व॑णि मद॒च्युति॑ |{आत्रेयो गोपवनः | श्रुतर्वाः | अनुष्टुप्} शर्धां᳚सीव स्तुका॒विनां᳚ मृ॒क्षा शी॒र्षा च॑तु॒र्णाम् ||{13/15}{8.74.13}{8.8.5.13}{6.5.23.3}{1356, 694, 7330} अ॒हम्¦हु॒वा॒नः¦आ॒र्क्षे¦श्रु॒तर्व॑णि¦म॒द॒ऽच्युति॑ | शर्धां᳚सिऽइव¦स्तु॒का॒ऽविना᳚म्¦मृ॒क्षा¦शी॒र्षा¦च॒तु॒र्णाम् || |
मां च॒त्वार॑ आ॒शवः॒ शवि॑ष्ठस्य द्रवि॒त्नवः॑ |{आत्रेयो गोपवनः | श्रुतर्वाः | अनुष्टुप्} सु॒रथा᳚सो, अ॒भि प्रयो॒ वक्ष॒न्वयो॒ न तुग्र्य᳚म् ||{14/15}{8.74.14}{8.8.5.14}{6.5.23.4}{1357, 694, 7331} माम्¦च॒त्वारः॑¦आ॒शवः॑¦शवि॑ष्ठस्य¦द्र॒वि॒त्नवः॑ | सु॒ऽरथा᳚सः¦अ॒भि¦प्रयः॑¦वक्ष॑न्¦वयः॑¦न¦तुग्र्य᳚म् || |
स॒त्यमित् त्वा᳚ महेनदि॒ परु॒ष्ण्यव॑ देदिशम् |{आत्रेयो गोपवनः | श्रुतर्वाः | अनुष्टुप्} नेमा᳚पो, अश्व॒दात॑रः॒ शवि॑ष्ठादस्ति॒ मर्त्यः॑ ||{15/15}{8.74.15}{8.8.5.15}{6.5.23.5}{1358, 694, 7332} स॒त्यम्¦इत्¦त्वा॒¦म॒हे॒ऽन॒दि॒¦परु॑ष्णि¦अव॑¦दे॒दि॒श॒म् | न¦ई॒म्¦आ॒पः॒¦अ॒श्व॒ऽदात॑रः¦शवि॑ष्ठात्¦अ॒स्ति॒¦मर्त्यः॑ || |
[75] युक्ष्वाहीति षोळशर्चस्य सूक्तस्यांगिरसो विरूपोग्निर्गायत्री | |
यु॒क्ष्वा हि दे᳚व॒हूत॑माँ॒, अश्वाँ᳚, अग्ने र॒थीरि॑व |{आङ्गिरसो विरूपः | अग्निः | गायत्री} नि होता᳚ पू॒र्व्यः स॑दः ||{1/16}{8.75.1}{8.8.6.1}{6.5.24.1}{1359, 695, 7333} यु॒क्ष्व¦हि¦दे॒व॒ऽहूत॑मान्¦अश्वा᳚न्¦अ॒ग्ने॒¦र॒थीःऽइ᳚व | नि¦होता᳚¦पू॒र्व्यः¦स॒दः॒ || |
उ॒त नो᳚ देव दे॒वाँ, अच्छा᳚ वोचो वि॒दुष्ट॑रः |{आङ्गिरसो विरूपः | अग्निः | गायत्री} श्रद्विश्वा॒ वार्या᳚ कृधि ||{2/16}{8.75.2}{8.8.6.2}{6.5.24.2}{1360, 695, 7334} उ॒त¦नः॒¦दे॒व॒¦दे॒वान्¦अच्छ॑¦वो॒चः॒¦वि॒दुःऽत॑रः | श्रत्¦विश्वा᳚¦वार्या᳚¦कृ॒धि॒ || |
त्वं ह॒ यद्य॑विष्ठ्य॒ सह॑सः सूनवाहुत |{आङ्गिरसो विरूपः | अग्निः | गायत्री} ऋ॒तावा᳚ य॒ज्ञियो॒ भुवः॑ ||{3/16}{8.75.3}{8.8.6.3}{6.5.24.3}{1361, 695, 7335} त्वम्¦ह॒¦यत्¦य॒वि॒ष्ठ्य॒¦सह॑सः¦सू॒नो॒ इति॑¦आ॒ऽहु॒त॒ | ऋ॒तऽवा᳚¦य॒ज्ञियः॑¦भुवः॑ || |
अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पतिः॑ |{आङ्गिरसो विरूपः | अग्निः | गायत्री} मू॒र्धा क॒वी र॑यी॒णाम् ||{4/16}{8.75.4}{8.8.6.4}{6.5.24.4}{1362, 695, 7336} अ॒यम्¦अ॒ग्निः¦स॒ह॒स्रिणः॑¦वाज॑स्य¦श॒तिनः॑¦पतिः॑ | मू॒र्धा¦क॒विः¦र॒यी॒णाम् || |
तं ने॒मिमृ॒भवो᳚ य॒था न॑मस्व॒ सहू᳚तिभिः |{आङ्गिरसो विरूपः | अग्निः | गायत्री} नेदी᳚यो य॒ज्ञम᳚ङ्गिरः ||{5/16}{8.75.5}{8.8.6.5}{6.5.24.5}{1363, 695, 7337} तम्¦ने॒मिम्¦ऋ॒भवः॑¦य॒था॒¦आ¦न॒म॒स्व॒¦सहू᳚तिऽभिः | नेदी᳚यः¦य॒ज्ञम्¦अ॒ङ्गि॒रः॒ || |
तस्मै᳚ नू॒नम॒भिद्य॑वे वा॒चा वि॑रूप॒ नित्य॑या |{आङ्गिरसो विरूपः | अग्निः | गायत्री} वृष्णे᳚ चोदस्व सुष्टु॒तिम् ||{6/16}{8.75.6}{8.8.6.6}{6.5.25.1}{1364, 695, 7338} तस्मै᳚¦नू॒नम्¦अ॒भिऽद्य॑वे¦वा॒चा¦वि॒ऽरू॒प॒¦नित्य॑या | वृष्णे᳚¦चो॒द॒स्व॒¦सु॒ऽस्तु॒तिम् || |
कमु॑ ष्विदस्य॒ सेन॑या॒ग्नेरपा᳚कचक्षसः |{आङ्गिरसो विरूपः | अग्निः | गायत्री} प॒णिं गोषु॑ स्तरामहे ||{7/16}{8.75.7}{8.8.6.7}{6.5.25.2}{1365, 695, 7339} कम्¦ऊँ॒ इति॑¦स्वि॒त्¦अ॒स्य॒¦सेन॑या¦अ॒ग्नेः¦अपा᳚कऽचक्षसः | प॒णिम्¦गोषु॑¦स्त॒रा॒म॒हे॒ || |
मा नो᳚ दे॒वानां॒ विशः॑ प्रस्ना॒तीरि॑वो॒स्राः |{आङ्गिरसो विरूपः | अग्निः | गायत्री} कृ॒शं न हा᳚सु॒रघ्न्याः᳚ ||{8/16}{8.75.8}{8.8.6.8}{6.5.25.3}{1366, 695, 7340} मा¦नः॒¦दे॒वाना᳚म्¦विशः॑¦प्र॒स्ना॒तीःऽइ᳚व¦उ॒स्राः | कृ॒शम्¦न¦हा॒सुः॒¦अघ्न्याः᳚ || |
मा नः॑ समस्य दू॒ढ्य१॑(अः॒) परि॑द्वेषसो, अंह॒तिः |{आङ्गिरसो विरूपः | अग्निः | गायत्री} ऊ॒र्मिर्न नाव॒मा व॑धीत् ||{9/16}{8.75.9}{8.8.6.9}{6.5.25.4}{1367, 695, 7341} मा¦नः॒¦स॒म॒स्य॒¦दुः॒ऽध्यः॑¦परि॑ऽद्वेषसः¦अं॒ह॒तिः | ऊ॒र्मिः¦न¦नाव᳚म्¦आ¦व॒धी॒त् || |
नम॑स्ते, अग्न॒ ओज॑से गृ॒णन्ति॑ देव कृ॒ष्टयः॑ |{आङ्गिरसो विरूपः | अग्निः | गायत्री} अमै᳚र॒मित्र॑मर्दय ||{10/16}{8.75.10}{8.8.6.10}{6.5.25.5}{1368, 695, 7342} नमः॑¦ते॒¦अ॒ग्ने॒¦ओज॑से¦गृ॒णन्ति॑¦दे॒व॒¦कृ॒ष्टयः॑ | अमैः᳚¦अ॒मित्र᳚म्¦अ॒र्द॒य॒ || |
कु॒वित्सु नो॒ गवि॑ष्ट॒येऽग्ने᳚ सं॒वेषि॑षो र॒यिम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री} उरु॑कृदु॒रु ण॑स्कृधि ||{11/16}{8.75.11}{8.8.6.11}{6.5.26.1}{1369, 695, 7343} कु॒वित्¦सु¦नः॒¦गोऽइ᳚ष्टये¦अग्ने᳚¦स॒म्ऽवेषि॑षः¦र॒यिम् | उरु॑ऽकृत्¦उ॒रु¦नः॒¦कृ॒धि॒ || |
मा नो᳚, अ॒स्मिन्म॑हाध॒ने परा᳚ वर्ग्भार॒भृद्य॑था |{आङ्गिरसो विरूपः | अग्निः | गायत्री} सं॒वर्गं॒ सं र॒यिं ज॑य ||{12/16}{8.75.12}{8.8.6.12}{6.5.26.2}{1370, 695, 7344} मा¦नः॒¦अ॒स्मिन्¦म॒हा॒ऽध॒ने¦परा᳚¦वर्क्¦भा॒र॒ऽभृत्¦य॒था॒ | स॒म्ऽवर्ग᳚म्¦सम्¦र॒यिम्¦ज॒य॒ || |
अ॒न्यम॒स्मद्भि॒या, इ॒यमग्ने॒ सिष॑क्तु दु॒च्छुना᳚ |{आङ्गिरसो विरूपः | अग्निः | गायत्री} वर्धा᳚ नो॒, अम॑व॒च्छवः॑ ||{13/16}{8.75.13}{8.8.6.13}{6.5.26.3}{1371, 695, 7345} अ॒न्यम्¦अ॒स्मत्¦भि॒यै¦इ॒यम्¦अग्ने᳚¦सिस॑क्तु¦दु॒च्छुना᳚ | वर्ध॑¦नः॒¦अम॑ऽवत्¦शवः॑ || |
यस्याजु॑षन्नम॒स्विनः॒ शमी॒मदु᳚र्मखस्य वा |{आङ्गिरसो विरूपः | अग्निः | गायत्री} तं घेद॒ग्निर्वृ॒धाव॑ति ||{14/16}{8.75.14}{8.8.6.14}{6.5.26.4}{1372, 695, 7346} यस्य॑¦अजु॑षत्¦न॒म॒स्विनः॑¦शमी᳚म्¦अदुः॑ऽमखस्य¦वा॒ | तम्¦घ॒¦इत्¦अ॒ग्निः¦वृ॒धा¦अ॒व॒ति॒ || |
पर॑स्या॒, अधि॑ सं॒वतोऽव॑राँ, अ॒भ्या त॑र |{आङ्गिरसो विरूपः | अग्निः | गायत्री} यत्रा॒हमस्मि॒ ताँ, अ॑व ||{15/16}{8.75.15}{8.8.6.15}{6.5.26.5}{1373, 695, 7347} पर॑स्याः¦अधि॑¦स॒म्ऽवतः॑¦अव॑रान्¦अ॒भि¦आ¦त॒र॒ | यत्र॑¦अ॒हम्¦अस्मि॑¦तान्¦अ॒व॒ || |
वि॒द्मा हि ते᳚ पु॒रा व॒यमग्ने᳚ पि॒तुर्यथाव॑सः |{आङ्गिरसो विरूपः | अग्निः | गायत्री} अधा᳚ ते सु॒म्नमी᳚महे ||{16/16}{8.75.16}{8.8.6.16}{6.5.26.6}{1374, 695, 7348} वि॒द्म¦हि¦ते॒¦पु॒रा¦व॒यम्¦अग्ने᳚¦पि॒तुः¦यथा᳚¦अव॑सः | अध॑¦ते॒¦सु॒म्नम्¦ई॒म॒हे॒ || |
[76] इमंन्विति द्वादशर्चस्य सूक्तस्य काण्वः कुरुसुतिरिंद्रोगायत्री | |
इ॒मं नु मा॒यिनं᳚ हुव॒ इन्द्र॒मीशा᳚न॒मोज॑सा |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} म॒रुत्व᳚न्तं॒ न वृ॒ञ्जसे᳚ ||{1/12}{8.76.1}{8.8.7.1}{6.5.27.1}{1375, 696, 7349} इ॒मम्¦नु¦मा॒यिन᳚म्¦हु॒वे॒¦इन्द्र᳚म्¦ईशा᳚नम्¦ओज॑सा | म॒रुत्व᳚न्तम्¦न¦वृं॒जसे᳚ || |
अ॒यमिन्द्रो᳚ म॒रुत्स॑खा॒ वि वृ॒त्रस्या᳚भिन॒च्छिरः॑ |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} वज्रे᳚ण श॒तप᳚र्वणा ||{2/12}{8.76.2}{8.8.7.2}{6.5.27.2}{1376, 696, 7350} अ॒यम्¦इन्द्रः॑¦म॒रुत्ऽस॑खा¦वि¦वृ॒त्रस्य॑¦अ॒भि॒न॒त्¦शिरः॑ | वज्रे᳚ण¦श॒तऽप᳚र्वणा || |
वा॒वृ॒धा॒नो म॒रुत्स॒खेन्द्रो॒ वि वृ॒त्रमै᳚रयत् |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} सृ॒जन् त्स॑मु॒द्रिया᳚, अ॒पः ||{3/12}{8.76.3}{8.8.7.3}{6.5.27.3}{1377, 696, 7351} व॒वृ॒धा॒नः¦म॒रुत्ऽस॑खा¦इन्द्रः॑¦वि¦वृ॒त्रम्¦ऐ॒र॒य॒त् | सृ॒जन्¦स॒मु॒द्रियाः᳚¦अ॒पः || |
अ॒यं ह॒ येन॒ वा, इ॒दं स्व᳚र्म॒रुत्व॑ता जि॒तम् |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} इन्द्रे᳚ण॒ सोम॑पीतये ||{4/12}{8.76.4}{8.8.7.4}{6.5.27.4}{1378, 696, 7352} अ॒यम्¦ह॒¦येन॑¦वै¦इ॒दम्¦स्वः॑¦म॒रुत्व॑ता¦जि॒तम् | इन्द्रे᳚ण¦सोम॑ऽपीतये || |
म॒रुत्व᳚न्तमृजी॒षिण॒मोज॑स्वन्तं विर॒प्शिन᳚म् |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} इन्द्रं᳚ गी॒र्भिर्ह॑वामहे ||{5/12}{8.76.5}{8.8.7.5}{6.5.27.5}{1379, 696, 7353} म॒रुत्व᳚न्तम्¦ऋ॒जी॒षिण᳚म्¦ओज॑स्वन्तम्¦वि॒ऽर॒प्शिन᳚म् | इन्द्र᳚म्¦गीः॒ऽभिः¦ह॒वा॒म॒हे॒ || |
इन्द्रं᳚ प्र॒त्नेन॒ मन्म॑ना म॒रुत्व᳚न्तं हवामहे |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} अ॒स्य सोम॑स्य पी॒तये᳚ ||{6/12}{8.76.6}{8.8.7.6}{6.5.27.6}{1380, 696, 7354} इन्द्र᳚म्¦प्र॒त्नेन॑¦मन्म॑ना¦म॒रुत्व᳚न्तम्¦ह॒वा॒म॒हे॒ | अ॒स्य¦सोम॑स्य¦पी॒तये᳚ || |
म॒रुत्वाँ᳚, इन्द्र मीढ्वः॒ पिबा॒ सोमं᳚ शतक्रतो |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} अ॒स्मिन् य॒ज्ञे पु॑रुष्टुत ||{7/12}{8.76.7}{8.8.7.7}{6.5.28.1}{1381, 696, 7355} म॒रुत्वा᳚न्¦इ॒न्द्र॒¦मी॒ढ्वः॒¦पिब॑¦सोम᳚म्¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | अ॒स्मिन्¦य॒ज्ञे¦पु॒रु॒ऽस्तु॒त॒ || |
तुभ्येदि᳚न्द्र म॒रुत्व॑ते सु॒ताः सोमा᳚सो, अद्रिवः |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} हृ॒दा हू᳚यन्त उ॒क्थिनः॑ ||{8/12}{8.76.8}{8.8.7.8}{6.5.28.2}{1382, 696, 7356} तुभ्य॑¦इत्¦इ॒न्द्र॒¦म॒रुत्व॑ते¦सु॒ताः¦सोमा᳚सः¦अ॒द्रि॒ऽवः॒ | हृ॒दा¦हू॒य॒न्ते॒¦उ॒क्थिनः॑ || |
पिबेदि᳚न्द्र म॒रुत्स॑खा सु॒तं सोमं॒ दिवि॑ष्टिषु |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} वज्रं॒ शिशा᳚न॒ ओज॑सा ||{9/12}{8.76.9}{8.8.7.9}{6.5.28.3}{1383, 696, 7357} पिब॑¦इत्¦इ॒न्द्र॒¦म॒रुत्ऽस॑खा¦सु॒तम्¦सोम᳚म्¦दिवि॑ष्टिषु | वज्र᳚म्¦शिशा᳚नः¦ओज॑सा || |
उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे᳚, अवेपयः |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} सोम॑मिन्द्र च॒मू सु॒तम् ||{10/12}{8.76.10}{8.8.7.10}{6.5.28.4}{1384, 696, 7358} उ॒त्ऽतिष्ठ॑न्¦ओज॑सा¦स॒ह¦पी॒त्वी¦शिप्रे॒ इति॑¦अ॒वे॒प॒यः॒ | सोम᳚म्¦इ॒न्द्र॒¦च॒मू इति॑¦सु॒तम् || |
अनु॑ त्वा॒ रोद॑सी, उ॒भे क्रक्ष॑माणमकृपेताम् |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} इन्द्र॒ यद्द॑स्यु॒हाभ॑वः ||{11/12}{8.76.11}{8.8.7.11}{6.5.28.5}{1385, 696, 7359} अनु॑¦त्वा॒¦रोद॑सी॒ इति॑¦उ॒भे इति॑¦क्रक्ष॑माणम्¦अ॒कृ॒पे॒ता॒म् | इन्द्र॑¦यत्¦द॒स्यु॒ऽहा¦अभ॑वः || |
वाच॑म॒ष्टाप॑दीम॒हं नव॑स्रक्तिमृत॒स्पृश᳚म् |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} इन्द्रा॒त्परि॑ त॒न्वं᳚ ममे ||{12/12}{8.76.12}{8.8.7.12}{6.5.28.6}{1386, 696, 7360} वाच᳚म्¦अ॒ष्टाऽप॑दीम्¦अ॒हम्¦नव॑ऽस्रक्तिम्¦ऋ॒त॒ऽस्पृश᳚म् | इन्द्रा᳚त्¦परि॑¦त॒न्व᳚म्¦म॒मे॒ || |
[77] जज्ञानइत्येकादशर्चस्य सूक्तस्य काण्वः कुरुसुतिरिंद्रोगायत्री अंत्येद्वेबृहती सतोबृहत्यौ | |
ज॒ज्ञा॒नो नु श॒तक्र॑तु॒र्वि पृ॑च्छ॒दिति॑ मा॒तर᳚म् |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} क उ॒ग्राः के ह॑ शृण्विरे ||{1/11}{8.77.1}{8.8.8.1}{6.5.29.1}{1387, 697, 7361} ज॒ज्ञा॒नः¦नु¦श॒तऽक्र॑तुः¦वि¦पृ॒च्छ॒त्¦इति॑¦मा॒तर᳚म् | के¦उ॒ग्राः¦के¦ह॒¦शृ॒ण्वि॒रे॒ || |
आदीं᳚ शव॒स्य॑ब्रवीदौर्णवा॒भम॑ही॒शुव᳚म् |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} ते पु॑त्र सन्तु नि॒ष्टुरः॑ ||{2/11}{8.77.2}{8.8.8.2}{6.5.29.2}{1388, 697, 7362} आत्¦ई॒म्¦श॒व॒सी¦अ॒ब्र॒वी॒त्¦औ॒र्ण॒ऽवा॒भम्¦अ॒ही॒शुव᳚म् | ते¦पु॒त्र॒¦स॒न्तु॒¦निः॒ऽतुरः॑ || |
समित्तान् वृ॑त्र॒हाखि॑द॒त्खे, अ॒राँ, इ॑व॒ खेद॑या |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} प्रवृ॑द्धो दस्यु॒हाभ॑वत् ||{3/11}{8.77.3}{8.8.8.3}{6.5.29.3}{1389, 697, 7363} सम्¦इत्¦तान्¦वृ॒त्र॒ऽहा¦अ॒खि॒द॒त्¦खे¦अ॒रान्ऽइ᳚व¦खेद॑या | प्रऽवृ॑द्धः¦द॒स्यु॒ऽहा¦अ॒भ॒व॒त् || |
एक॑या प्रति॒धापि॑बत्सा॒कं सरां᳚सि त्रिं॒शत᳚म् |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} इन्द्रः॒ सोम॑स्य काणु॒का ||{4/11}{8.77.4}{8.8.8.4}{6.5.29.4}{1390, 697, 7364} एक॑या¦प्र॒ति॒ऽधा¦अ॒पि॒ब॒त्¦सा॒कम्¦सरां᳚सि¦त्रिं॒शत᳚म् | इन्द्रः॑¦सोम॑स्य¦का॒णु॒का || |
अ॒भि ग᳚न्ध॒र्वम॑तृणदबु॒ध्नेषु॒ रज॒स्स्वा |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} इन्द्रो᳚ ब्र॒ह्मभ्य॒ इद्वृ॒धे ||{5/11}{8.77.5}{8.8.8.5}{6.5.29.5}{1391, 697, 7365} अ॒भि¦ग॒न्ध॒र्वम्¦अ॒तृ॒ण॒त्¦अ॒बु॒ध्नेषु॑¦रजः॑ऽसु¦आ | इन्द्रः॑¦ब्र॒ह्मऽभ्यः॑¦इत्¦वृ॒धे || |
निरा᳚विध्यद्गि॒रिभ्य॒ आ धा॒रय॑त्प॒क्वमो᳚द॒नम् |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} इन्द्रो᳚ बु॒न्दं स्वा᳚ततम् ||{6/11}{8.77.6}{8.8.8.6}{6.5.30.1}{1392, 697, 7366} निः¦अ॒वि॒ध्य॒त्¦गि॒रिऽभ्यः॑¦आ¦धा॒रय॑त्¦प॒क्वम्¦ओ॒द॒नम् | इन्द्रः॑¦बु॒न्दम्¦सुऽआ᳚ततम् || |
श॒तब्र॑ध्न॒ इषु॒स्तव॑ स॒हस्र॑पर्ण॒ एक॒ इत् |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} यमि᳚न्द्र चकृ॒षे युज᳚म् ||{7/11}{8.77.7}{8.8.8.7}{6.5.30.2}{1393, 697, 7367} श॒तऽब्र॑ध्नः¦इषुः॑¦तव॑¦स॒हस्र॑ऽपर्णः¦एकः॑¦इत् | यम्¦इ॒न्द्र॒¦च॒कृ॒षे¦युज᳚म् || |
तेन॑ स्तो॒तृभ्य॒ आ भ॑र॒ नृभ्यो॒ नारि॑भ्यो॒, अत्त॑वे |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} स॒द्यो जा॒त ऋ॑भुष्ठिर ||{8/11}{8.77.8}{8.8.8.8}{6.5.30.3}{1394, 697, 7368} तेन॑¦स्तो॒तृऽभ्यः॑¦आ¦भ॒र॒¦नृऽभ्यः॑¦नारि॑ऽभ्यः¦अत्त॑वे | स॒द्यः¦जा॒तः¦ऋ॒भु॒ऽस्थि॒र॒ || |
ए॒ता च्यौ॒त्नानि॑ ते कृ॒ता वर्षि॑ष्ठानि॒ परी᳚णसा |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} हृ॒दा वी॒ड्व॑धारयः ||{9/11}{8.77.9}{8.8.8.9}{6.5.30.4}{1395, 697, 7369} ए॒ता¦च्यौ॒त्नानि॑¦ते॒¦कृ॒ता¦वर्षि॑ष्ठानि¦परी᳚णसा | हृ॒दा¦वी॒ळु¦अ॒धा॒र॒यः॒ || |
विश्वेत्ता विष्णु॒राभ॑रदुरुक्र॒मस्त्वेषि॑तः |{काण्वः कुरुसुतिः | इन्द्रः | बृहती} श॒तं म॑हि॒षान् क्षी᳚रपा॒कमो᳚द॒नं व॑रा॒हमिन्द्र॑ एमु॒षम् ||{10/11}{8.77.10}{8.8.8.10}{6.5.30.5}{1396, 697, 7370} विश्वा᳚¦इत्¦ता¦विष्णुः॑¦आ¦अ॒भ॒र॒त्¦उ॒रु॒ऽक्र॒मः¦त्वाऽइ᳚षितः | |
तु॒वि॒क्षं ते॒ सुकृ॑तं सू॒मयं॒ धनुः॑ सा॒धुर्बु॒न्दो हि॑र॒ण्ययः॑ |{काण्वः कुरुसुतिः | इन्द्रः | सतोबृहती} उ॒भा ते᳚ बा॒हू रण्या॒ सुसं᳚स्कृत ऋदू॒पे चि॑दृदू॒वृधा᳚ ||{11/11}{8.77.11}{8.8.8.11}{6.5.30.6}{1397, 697, 7371} तु॒वि॒ऽक्षम्¦ते॒¦सुऽकृ॑तम्¦सु॒ऽमय᳚म्¦धनुः॑¦सा॒धुः¦बु॒न्दः¦हि॒र॒ण्ययः॑ | |
[78] पुरोळाशमिति दशर्चस्य सूक्तस्य काण्वःकुरुसुतिरिंद्रोगायत्र्यंत्या बृहती | |
पु॒रो॒ळाशं᳚ नो॒, अन्ध॑स॒ इन्द्र॑ स॒हस्र॒मा भ॑र |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} श॒ता च॑ शूर॒ गोना᳚म् ||{1/10}{8.78.1}{8.8.9.1}{6.5.31.1}{1398, 698, 7372} पु॒रो॒ळाश᳚म्¦नः॒¦अन्ध॑सः¦इन्द्र॑¦स॒हस्र᳚म्¦आ¦भ॒र॒ | श॒ता¦च॒¦शू॒र॒¦गोना᳚म् || |
आ नो᳚ भर॒ व्यञ्ज॑नं॒ गामश्व॑म॒भ्यञ्ज॑नम् |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} सचा᳚ म॒ना हि॑र॒ण्यया᳚ ||{2/10}{8.78.2}{8.8.9.2}{6.5.31.2}{1399, 698, 7373} आ¦नः॒¦भ॒र॒¦वि॒।आंज॑नम्¦गाम्¦अश्व᳚म्¦अ॒भि॒।आंज॑नम् | सचा᳚¦म॒ना¦हि॒र॒ण्यया᳚ || |
उ॒त नः॑ कर्ण॒शोभ॑ना पु॒रूणि॑ धृष्ण॒वा भ॑र |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} त्वं हि शृ᳚ण्वि॒षे व॑सो ||{3/10}{8.78.3}{8.8.9.3}{6.5.31.3}{1400, 698, 7374} उ॒त¦नः॒¦क॒र्ण॒ऽशोभ॑ना¦पु॒रूणि॑¦धृ॒ष्णो॒ इति॑¦आ¦भ॒र॒ | त्वम्¦हि¦शृ॒ण्वि॒षे¦व॒सो॒ इति॑ || |
नकीं᳚ वृधी॒क इ᳚न्द्र ते॒ न सु॒षा न सु॒दा, उ॒त |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} नान्यस्त्वच्छू᳚र वा॒घतः॑ ||{4/10}{8.78.4}{8.8.9.4}{6.5.31.4}{1401, 698, 7375} नकी᳚म्¦वृ॒धी॒कः¦इ॒न्द्र॒¦ते॒¦न¦सु॒ऽसाः¦न¦सु॒ऽदाः¦उ॒त | न¦अ॒न्यः¦त्वत्¦शू॒र॒¦वा॒घतः॑ || |
नकी॒मिन्द्रो॒ निक॑र्तवे॒ न श॒क्रः परि॑शक्तवे |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} विश्वं᳚ शृणोति॒ पश्य॑ति ||{5/10}{8.78.5}{8.8.9.5}{6.5.31.5}{1402, 698, 7376} नकी᳚म्¦इन्द्रः॑¦निऽक॑र्तवे¦न¦श॒क्रः¦परि॑ऽशक्तवे | विश्व᳚म्¦शृ॒णो॒ति॒¦पश्य॑ति || |
स म॒न्युं मर्त्या᳚ना॒मद॑ब्धो॒ नि चि॑कीषते |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} पु॒रा नि॒दश्चि॑कीषते ||{6/10}{8.78.6}{8.8.9.6}{6.5.32.1}{1403, 698, 7377} सः¦म॒न्युम्¦मर्त्या᳚नाम्¦अद॑ब्धः¦नि¦चि॒की॒ष॒ते॒ | पु॒रा¦नि॒दः¦चि॒की॒ष॒ते॒ || |
क्रत्व॒ इत्पू॒र्णमु॒दरं᳚ तु॒रस्या᳚स्ति विध॒तः |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} वृ॒त्र॒घ्नः सो᳚म॒पाव्नः॑ ||{7/10}{8.78.7}{8.8.9.7}{6.5.32.2}{1404, 698, 7378} क्रत्वः॑¦इत्¦पू॒र्णम्¦उ॒दर᳚म्¦तु॒रस्य॑¦अ॒स्ति॒¦वि॒ध॒तः | वृ॒त्र॒ऽघ्नः¦सो॒म॒ऽपाव्नः॑ || |
त्वे वसू᳚नि॒ संग॑ता॒ विश्वा᳚ च सोम॒ सौभ॑गा |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} सु॒दात्वप॑रिह्वृता ||{8/10}{8.78.8}{8.8.9.8}{6.5.32.3}{1405, 698, 7379} त्वे इति॑¦वसू᳚नि¦सम्ऽग॑ता¦विश्वा᳚¦च॒¦सो॒म॒¦सौभ॑गा | सु॒ऽदातु॑¦अप॑रिऽह्वृता || |
त्वामिद्य॑व॒युर्मम॒ कामो᳚ ग॒व्युर्हि॑रण्य॒युः |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री} त्वाम॑श्व॒युरेष॑ते ||{9/10}{8.78.9}{8.8.9.9}{6.5.32.4}{1406, 698, 7380} त्वाम्¦इत्¦य॒व॒ऽयुः¦मम॑¦कामः॑¦ग॒व्युः¦हि॒र॒ण्य॒ऽयुः | त्वाम्¦अ॒श्व॒ऽयुः¦आ¦ई॒ष॒ते॒ || |
तवेदि᳚न्द्रा॒हमा॒शसा॒ हस्ते॒ दात्रं᳚ च॒ना द॑दे |{काण्वः कुरुसुतिः | इन्द्रः | बृहती} दि॒नस्य॑ वा मघव॒न् त्सम्भृ॑तस्य वा पू॒र्धि यव॑स्य का॒शिना᳚ ||{10/10}{8.78.10}{8.8.9.10}{6.5.32.5}{1407, 698, 7381} तव॑¦इत्¦इ॒न्द्र॒¦अ॒हम्¦आ॒ऽशसा᳚¦हस्ते᳚¦दात्र᳚म्¦च॒न¦आ¦द॒दे॒ | |
[79] अयंकृत्नुरिति नवर्चस्य सूक्तस्य कृत्नुर्भार्गवः सोमोगायत्र्यंत्यानुष्टुप् | |
अ॒यं कृ॒त्नुरगृ॑भीतो विश्व॒जिदु॒द्भिदित्सोमः॑ |{कृत्नुर्भार्गवः | सोमः | गायत्री} ऋषि॒र्विप्रः॒ काव्ये᳚न ||{1/9}{8.79.1}{8.8.10.1}{6.5.33.1}{1408, 699, 7382} अ॒यम्¦कृ॒त्नुः¦अगृ॑भीतः¦वि॒श्व॒ऽजित्¦उ॒त्ऽभित्¦इत्¦सोमः॑ | ऋषिः॑¦विप्रः॑¦काव्ये᳚न || |
अ॒भ्यू᳚र्णोति॒ यन्न॒ग्नं भि॒षक्ति॒ विश्वं॒ यत्तु॒रम् |{कृत्नुर्भार्गवः | सोमः | गायत्री} प्रेम॒न्धः ख्य॒न्निः श्रो॒णो भू᳚त् ||{2/9}{8.79.2}{8.8.10.2}{6.5.33.2}{1409, 699, 7383} अ॒भि¦ऊ॒र्णो॒ति॒¦यत्¦न॒ग्नम्¦भि॒षक्ति॑¦विश्व᳚म्¦यत्¦तु॒रम् | प्र¦ई॒म्¦अ॒न्धः¦ख्य॒त्¦निः¦श्रो॒णः¦भू॒त् || |
त्वं सो᳚म तनू॒कृद्भ्यो॒ द्वेषो᳚भ्यो॒ऽन्यकृ॑तेभ्यः |{कृत्नुर्भार्गवः | सोमः | गायत्री} उ॒रु य॒न्तासि॒ वरू᳚थम् ||{3/9}{8.79.3}{8.8.10.3}{6.5.33.3}{1410, 699, 7384} त्वम्¦सो॒म॒¦त॒नू॒कृत्ऽभ्यः॑¦द्वेषः॑ऽभ्यः¦अ॒न्यऽकृ॑तेभ्यः | उ॒रु¦य॒न्ता¦अ॒सि॒¦वरू᳚थम् || |
त्वं चि॒त्ती तव॒ दक्षै᳚र्दि॒व आ पृ॑थि॒व्या, ऋ॑जीषिन् |{कृत्नुर्भार्गवः | सोमः | गायत्री} यावी᳚र॒घस्य॑ चि॒द्द्वेषः॑ ||{4/9}{8.79.4}{8.8.10.4}{6.5.33.4}{1411, 699, 7385} त्वम्¦चि॒त्ती¦तव॑¦दक्षैः᳚¦दि॒वः¦आ¦पृ॒थि॒व्याः¦ऋ॒जी॒षि॒न् | यावीः᳚¦अ॒घस्य॑¦चि॒त्¦द्वेषः॑ || |
अ॒र्थिनो॒ यन्ति॒ चेदर्थं॒ गच्छा॒निद्द॒दुषो᳚ रा॒तिम् |{कृत्नुर्भार्गवः | सोमः | गायत्री} व॒वृ॒ज्युस्तृष्य॑तः॒ काम᳚म् ||{5/9}{8.79.5}{8.8.10.5}{6.5.33.5}{1412, 699, 7386} अ॒र्थिनः॑¦यन्ति॑¦च॒¦इत्¦अर्थ᳚म्¦गच्छा᳚न्¦इत्¦द॒दुषः॑¦रा॒तिम् | व॒वृ॒ज्युः¦तृष्य॑तः¦काम᳚म् || |
वि॒दद्यत्पू॒र्व्यं न॒ष्टमुदी᳚मृता॒युमी᳚रयत् |{कृत्नुर्भार्गवः | सोमः | गायत्री} प्रेमायु॑स्तारी॒दती᳚र्णम् ||{6/9}{8.79.6}{8.8.10.6}{6.5.34.1}{1413, 699, 7387} वि॒दत्¦यत्¦पू॒र्व्यम्¦न॒ष्टम्¦उत्¦ई॒म्¦ऋ॒त॒ऽयुम्¦ई॒र॒य॒त् | प्र¦ई॒म्¦आयुः॑¦ता॒री॒त्¦अती᳚र्णम् || |
सु॒शेवो᳚ नो मृळ॒याकु॒रदृ॑प्तक्रतुरवा॒तः |{कृत्नुर्भार्गवः | सोमः | गायत्री} भवा᳚ नः सोम॒ शं हृ॒दे ||{7/9}{8.79.7}{8.8.10.7}{6.5.34.2}{1414, 699, 7388} सु॒ऽशेवः॑¦नः॒¦मृ॒ळ॒याकुः॑¦अदृ॑प्तऽक्रतुः¦अ॒वा॒तः | भव॑¦नः॒¦सो॒म॒¦शम्¦हृ॒दे || |
मा नः॑ सोम॒ सं वी᳚विजो॒ मा वि बी᳚भिषथा राजन् |{कृत्नुर्भार्गवः | सोमः | गायत्री} मा नो॒ हार्दि॑ त्वि॒षा व॑धीः ||{8/9}{8.79.8}{8.8.10.8}{6.5.34.3}{1415, 699, 7389} मा¦नः॒¦सो॒म॒¦सम्¦वी॒वि॒जः॒¦मा¦वि¦बी॒भि॒ष॒थाः॒¦रा॒ज॒न् | मा¦नः॒¦हार्दि॑¦त्वि॒षा¦व॒धीः॒ || |
अव॒ यत्स्वे स॒धस्थे᳚ दे॒वानां᳚ दुर्म॒तीरीक्षे᳚ |{कृत्नुर्भार्गवः | सोमः | अनुष्टुप्} राज॒न्नप॒ द्विषः॑ सेध॒ मीढ्वो॒, अप॒ स्रिधः॑ सेध ||{9/9}{8.79.9}{8.8.10.9}{6.5.34.4}{1416, 699, 7390} अव॑¦यत्¦स्वे¦स॒धऽस्थे᳚¦दे॒वाना᳚म्¦दुः॒ऽम॒तीः¦ईक्षे᳚ | राज॑न्¦अप॑¦द्विषः॑¦से॒ध॒¦मीढ्वः॑¦अप॑¦स्रिधः॑¦से॒ध॒ || |
[80] नह्यान्यमिति दशर्चस्य सूक्तस्य नौधस एकद्यूरिंद्रोंत्यायादेवागायत्र्यंत्यात्रिष्टुप् | |
न॒ह्य१॑(अ॒)न्यं ब॒ळाक॑रं मर्डि॒तारं᳚ शतक्रतो |{नौधस एकद्यूः | इन्द्रः | गायत्री} त्वं न॑ इन्द्र मृळय ||{1/10}{8.80.1}{8.8.11.1}{6.5.35.1}{1417, 700, 7391} न॒हि¦अ॒न्यम्¦ब॒ळा¦अक॑रम्¦म॒र्डि॒तार᳚म्¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | त्वम्¦नः॒¦इ॒न्द्र॒¦मृ॒ळ॒य॒ || |
यो नः॒ शश्व॑त्पु॒रावि॒थामृ॑ध्रो॒ वाज॑सातये |{नौधस एकद्यूः | इन्द्रः | गायत्री} स त्वं न॑ इन्द्र मृळय ||{2/10}{8.80.2}{8.8.11.2}{6.5.35.2}{1418, 700, 7392} यः¦नः॒¦शश्व॑त्¦पु॒रा¦आवि॑थ¦अमृ॑ध्रः¦वाज॑ऽसातये | सः¦त्वम्¦नः॒¦इ॒न्द्र॒¦मृ॒ळ॒य॒ || |
किम॒ङ्ग र॑ध्र॒चोद॑नः सुन्वा॒नस्या᳚वि॒तेद॑सि |{नौधस एकद्यूः | इन्द्रः | गायत्री} कु॒वित्स्वि᳚न्द्र णः॒ शकः॑ ||{3/10}{8.80.3}{8.8.11.3}{6.5.35.3}{1419, 700, 7393} किम्¦अ॒ङ्ग¦र॒ध्र॒ऽचोद॑नः¦सु॒न्वा॒नस्य॑¦अ॒वि॒ता¦इत्¦अ॒सि॒ | कु॒वित्¦सु¦इ॒न्द्र॒¦नः॒¦शकः॑ || |
इन्द्र॒ प्र णो॒ रथ॑मव प॒श्चाच्चि॒त्सन्त॑मद्रिवः |{नौधस एकद्यूः | इन्द्रः | गायत्री} पु॒रस्ता᳚देनं मे कृधि ||{4/10}{8.80.4}{8.8.11.4}{6.5.35.4}{1420, 700, 7394} इन्द्र॑¦प्र¦नः॒¦रथ᳚म्¦अ॒व॒¦प॒श्चात्¦चि॒त्¦सन्त᳚म्¦अ॒द्रि॒ऽवः॒ | पु॒रस्ता᳚त्¦ए॒न॒म्¦मे॒¦कृ॒धि॒ || |
हन्तो॒ नु किमा᳚ससे प्रथ॒मं नो॒ रथं᳚ कृधि |{नौधस एकद्यूः | इन्द्रः | गायत्री} उ॒प॒मं वा᳚ज॒यु श्रवः॑ ||{5/10}{8.80.5}{8.8.11.5}{6.5.35.5}{1421, 700, 7395} हन्तो॒ इति॑¦नु¦किम्¦आ॒स॒से॒¦प्र॒थ॒मम्¦नः॒¦रथ᳚म्¦कृ॒धि॒ | उ॒प॒ऽमम्¦वा॒ज॒ऽयु¦श्रवः॑ || |
अवा᳚ नो वाज॒युं रथं᳚ सु॒करं᳚ ते॒ किमित्परि॑ |{नौधस एकद्यूः | इन्द्रः | गायत्री} अ॒स्मान् त्सु जि॒ग्युष॑स्कृधि ||{6/10}{8.80.6}{8.8.11.6}{6.5.36.1}{1422, 700, 7396} अव॑¦नः॒¦वा॒ज॒ऽयुम्¦रथ᳚म्¦सु॒ऽकर᳚म्¦ते॒¦किम्¦इत्¦परि॑ | अ॒स्मान्¦सु¦जि॒ग्युषः॑¦कृ॒धि॒ || |
इन्द्र॒ दृह्य॑स्व॒ पूर॑सि भ॒द्रा त॑ एति निष्कृ॒तम् |{नौधस एकद्यूः | इन्द्रः | गायत्री} इ॒यं धीरृ॒त्विया᳚वती ||{7/10}{8.80.7}{8.8.11.7}{6.5.36.2}{1423, 700, 7397} इन्द्र॑¦दृह्य॑स्व¦पूः¦अ॒सि॒¦भ॒द्रा¦ते॒¦ए॒ति॒¦निः॒ऽकृ॒तम् | इ॒यम्¦धीः¦ऋ॒त्विय॑ऽवती || |
मा सी᳚मव॒द्य आ भा᳚गु॒र्वी काष्ठा᳚ हि॒तं धन᳚म् |{नौधस एकद्यूः | इन्द्रः | गायत्री} अ॒पावृ॑क्ता, अर॒त्नयः॑ ||{8/10}{8.80.8}{8.8.11.8}{6.5.36.3}{1424, 700, 7398} मा¦सी॒म्¦अ॒व॒द्ये¦आ¦भा॒क्¦उ॒र्वी¦काष्ठा᳚¦हि॒तम्¦धन᳚म् | अ॒प॒ऽआवृ॑क्ताः¦अ॒र॒त्नयः॑ || |
तु॒रीयं॒ नाम॑ य॒ज्ञियं᳚ य॒दा कर॒स्तदु॑श्मसि |{नौधस एकद्यूः | इन्द्रः | गायत्री} आदित्पति᳚र्न ओहसे ||{9/10}{8.80.9}{8.8.11.9}{6.5.36.4}{1425, 700, 7399} तु॒रीय᳚म्¦नाम॑¦य॒ज्ञिय᳚म्¦य॒दा¦करः॑¦तत्¦उ॒श्म॒सि॒ | आत्¦इत्¦पतिः॑¦नः॒¦ओ॒ह॒से॒ || |
अवी᳚वृधद्वो, अमृता॒, अम᳚न्दीदेक॒द्यूर्दे᳚वा, उ॒त याश्च॑ देवीः |{नौधस एकद्यूः | देवाः | त्रिष्टुप्} तस्मा᳚, उ॒ राधः॑ कृणुत प्रश॒स्तं प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ||{10/10}{8.80.10}{8.8.11.10}{6.5.36.5}{1426, 700, 7400} अवी᳚वृधत्¦वः॒¦अ॒मृ॒ताः॒¦अम᳚न्दीत्¦ए॒क॒ऽद्यूः¦दे॒वाः॒¦उ॒त¦याः¦च॒¦दे॒वीः॒ | |
[81] आतूनइति नवर्चस्य सूक्तस्य काण्वः कुसीदींद्रो गायत्री | |
आ तू न॑ इन्द्र क्षु॒मन्तं᳚ चि॒त्रं ग्रा॒भं सं गृ॑भाय |{काण्वः कुसीदीः | इन्द्रः | गायत्री} म॒हा॒ह॒स्ती दक्षि॑णेन ||{1/9}{8.81.1}{8.9.1.1}{6.5.37.1}{1427, 701, 7401} आ¦तु¦नः॒¦इ॒न्द्र॒¦क्षु॒ऽमन्त᳚म्¦चि॒त्रम्¦ग्रा॒भम्¦सम्¦गृ॒भा॒य॒ | म॒हा॒ऽह॒स्ती¦दक्षि॑णेन || |
वि॒द्मा हि त्वा᳚ तुविकू॒र्मिं तु॒विदे᳚ष्णं तु॒वीम॑घम् |{काण्वः कुसीदीः | इन्द्रः | गायत्री} तु॒वि॒मा॒त्रमवो᳚भिः ||{2/9}{8.81.2}{8.9.1.2}{6.5.37.2}{1428, 701, 7402} वि॒द्म¦हि¦त्वा॒¦तु॒वि॒ऽकू॒र्मिम्¦तु॒विऽदे᳚ष्णम्¦तु॒वीऽम॑घम् | तु॒वि॒ऽमा॒त्रम्¦अवः॑ऽभिः || |
न॒हि त्वा᳚ शूर दे॒वा न मर्ता᳚सो॒ दित्स᳚न्तम् |{काण्वः कुसीदीः | इन्द्रः | गायत्री} भी॒मं न गां वा॒रय᳚न्ते ||{3/9}{8.81.3}{8.9.1.3}{6.5.37.3}{1429, 701, 7403} न॒हि¦त्वा॒¦शू॒र॒¦दे॒वाः¦न¦मर्ता᳚सः¦दित्स᳚न्तम् | भी॒मम्¦न¦गाम्¦वा॒रय᳚न्ते || |
एतो॒ न्विन्द्रं॒ स्तवा॒मेशा᳚नं॒ वस्वः॑ स्व॒राज᳚म् |{काण्वः कुसीदीः | इन्द्रः | गायत्री} न राध॑सा मर्धिषन्नः ||{4/9}{8.81.4}{8.9.1.4}{6.5.37.4}{1430, 701, 7404} आ¦इ॒त॒¦ऊँ॒ इति॑¦नु¦इन्द्र᳚म्¦स्तवा᳚म¦ईशा᳚नम्¦वस्वः॑¦स्व॒ऽराज᳚म् | न¦राध॑सा¦म॒र्धि॒ष॒त्¦नः॒ || |
प्र स्तो᳚ष॒दुप॑ गासिष॒च्छ्रव॒त् साम॑ गी॒यमा᳚नम् |{काण्वः कुसीदीः | इन्द्रः | गायत्री} अ॒भि राध॑सा जुगुरत् ||{5/9}{8.81.5}{8.9.1.5}{6.5.37.5}{1431, 701, 7405} प्र¦स्तो॒ष॒त्¦उप॑¦गा॒सि॒ष॒त्¦श्रव॑त्¦साम॑¦गी॒यमा᳚नम् | अ॒भि¦राध॑सा¦जु॒गु॒र॒त् || |
आ नो᳚ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श |{काण्वः कुसीदीः | इन्द्रः | गायत्री} इन्द्र॒ मा नो॒ वसो॒र्निर्भा᳚क् ||{6/9}{8.81.6}{8.9.1.6}{6.5.38.1}{1432, 701, 7406} आ¦नः॒¦भ॒र॒¦दक्षि॑णेन¦अ॒भि¦स॒व्येन॑¦प्र¦मृ॒श॒ | इन्द्र॑¦मा¦नः॒¦वसोः᳚¦निः¦भा॒क् || |
उप॑ क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना᳚नाम् |{काण्वः कुसीदीः | इन्द्रः | गायत्री} अदा᳚शूष्टरस्य॒ वेदः॑ ||{7/9}{8.81.7}{8.9.1.7}{6.5.38.2}{1433, 701, 7407} उप॑¦क्र॒म॒स्व॒¦आ¦भ॒र॒¦धृ॒ष॒ता¦धृ॒ष्णो॒ इति॑¦जना᳚नाम् | अदा᳚शूःऽतरस्य¦वेदः॑ || |
इन्द्र॒ य उ॒ नु ते॒, अस्ति॒ वाजो॒ विप्रे᳚भिः॒ सनि॑त्वः |{काण्वः कुसीदीः | इन्द्रः | गायत्री} अ॒स्माभिः॒ सु तं स॑नुहि ||{8/9}{8.81.8}{8.9.1.8}{6.5.38.3}{1434, 701, 7408} इन्द्र॑¦यः¦ऊँ॒ इति॑¦नु¦ते॒¦अस्ति॑¦वाजः॑¦विप्रे᳚भिः¦सनि॑त्वः | अ॒स्माभिः॑¦सु¦तम्¦स॒नु॒हि॒ || |
स॒द्यो॒जुव॑स्ते॒ वाजा᳚, अ॒स्मभ्यं᳚ वि॒श्वश्च᳚न्द्राः |{काण्वः कुसीदीः | इन्द्रः | गायत्री} वशै᳚श्च म॒क्षू ज॑रन्ते ||{9/9}{8.81.9}{8.9.1.9}{6.5.38.4}{1435, 701, 7409} स॒द्यः॒ऽजुवः॑¦ते॒¦वाजाः᳚¦अ॒स्मभ्य᳚म्¦वि॒श्वऽच᳚न्द्राः | वशैः᳚¦च॒¦म॒क्षु¦ज॒र॒न्ते॒ || |
[82] आप्रद्रवइति नवर्चस्य सूक्तस्य काण्वः कुसीदींद्रो गायत्री | |
आ प्र द्र॑व परा॒वतो᳚ऽर्वा॒वत॑श्च वृत्रहन् |{काण्वः कुसीदीः | इन्द्रः | गायत्री} मध्वः॒ प्रति॒ प्रभ᳚र्मणि ||{1/9}{8.82.1}{8.9.2.1}{6.6.1.1}{1436, 702, 7410} आ¦प्र¦द्र॒व॒¦प॒रा॒ऽवतः॑¦अ॒र्वा॒ऽवतः॑¦च॒¦वृ॒त्र॒ऽह॒न् | मध्वः॑¦प्रति॑¦प्रऽभ᳚र्मणि || |
ती॒व्राः सोमा᳚स॒ आ ग॑हि सु॒तासो᳚ मादयि॒ष्णवः॑ |{काण्वः कुसीदीः | इन्द्रः | गायत्री} पिबा᳚ द॒धृग्यथो᳚चि॒षे ||{2/9}{8.82.2}{8.9.2.2}{6.6.1.2}{1437, 702, 7411} ती॒व्राः¦सोमा᳚सः¦आ¦ग॒हि॒¦सु॒तासः॑¦मा॒द॒यि॒ष्णवः॑ | पिब॑¦द॒धृक्¦यथा᳚¦ओ॒चि॒षे || |
इ॒षा म᳚न्द॒स्वादु॒ तेऽरं॒ वरा᳚य म॒न्यवे᳚ |{काण्वः कुसीदीः | इन्द्रः | गायत्री} भुव॑त्त इन्द्र॒ शं हृ॒दे ||{3/9}{8.82.3}{8.9.2.3}{6.6.1.3}{1438, 702, 7412} इ॒षा¦म॒न्द॒स्व॒¦आत्¦ऊँ॒ इति॑¦ते॒¦अर᳚म्¦वरा᳚य¦म॒न्यवे᳚ | भुव॑त्¦ते॒¦इ॒न्द्र॒¦शम्¦हृ॒दे || |
आ त्व॑शत्र॒वा ग॑हि॒ न्यु१॑(उ॒)क्थानि॑ च हूयसे |{काण्वः कुसीदीः | इन्द्रः | गायत्री} उ॒प॒मे रो᳚च॒ने दि॒वः ||{4/9}{8.82.4}{8.9.2.4}{6.6.1.4}{1439, 702, 7413} आ¦तु¦अ॒श॒त्रो॒ इति॑¦आ¦ग॒हि॒¦नि¦उ॒क्थानि॑¦च॒¦हू॒य॒से॒ | उ॒प॒ऽमे¦रो॒च॒ने¦दि॒वः || |
तुभ्या॒यमद्रि॑भिः सु॒तो गोभिः॑ श्री॒तो मदा᳚य॒ कम् |{काण्वः कुसीदीः | इन्द्रः | गायत्री} प्र सोम॑ इन्द्र हूयते ||{5/9}{8.82.5}{8.9.2.5}{6.6.1.5}{1440, 702, 7414} तुभ्य॑¦अ॒यम्¦अद्रि॑ऽभिः¦सु॒तः¦गोभिः॑¦श्री॒तः¦मदा᳚य¦कम् | प्र¦सोमः॑¦इ॒न्द्र॒¦हू॒य॒ते॒ || |
इन्द्र॑ श्रु॒धि सु मे॒ हव॑म॒स्मे सु॒तस्य॒ गोम॑तः |{काण्वः कुसीदीः | इन्द्रः | गायत्री} वि पी॒तिं तृ॒प्तिम॑श्नुहि ||{6/9}{8.82.6}{8.9.2.6}{6.6.2.1}{1441, 702, 7415} इन्द्र॑¦श्रु॒धि¦सु¦मे॒¦हव᳚म्¦अ॒स्मे इति॑¦सु॒तस्य॑¦गोऽम॑तः | वि¦पी॒तिम्¦तृ॒प्तिम्¦अ॒श्नु॒हि॒ || |
य इ᳚न्द्र चम॒सेष्वा सोम॑श्च॒मूषु॑ ते सु॒तः |{काण्वः कुसीदीः | इन्द्रः | गायत्री} पिबेद॑स्य॒ त्वमी᳚शिषे ||{7/9}{8.82.7}{8.9.2.7}{6.6.2.2}{1442, 702, 7416} यः¦इ॒न्द्र॒¦च॒म॒सेषु॑¦आ¦सोमः॑¦च॒मूषु॑¦ते॒¦सु॒तः | पिब॑¦इत्¦अ॒स्य॒¦त्वम्¦ई॒शि॒षे॒ || |
यो, अ॒प्सु च॒न्द्रमा᳚, इव॒ सोम॑श्च॒मूषु॒ ददृ॑शे |{काण्वः कुसीदीः | इन्द्रः | गायत्री} पिबेद॑स्य॒ त्वमी᳚शिषे ||{8/9}{8.82.8}{8.9.2.8}{6.6.2.3}{1443, 702, 7417} यः¦अ॒प्ऽसु¦च॒न्द्रमाः᳚ऽइव¦सोमः॑¦च॒मूषु॑¦ददृ॑शे | पिब॑¦इत्¦अ॒स्य॒¦त्वम्¦ई॒शि॒षे॒ || |
यं ते᳚ श्ये॒नः प॒दाभ॑रत्ति॒रो रजां॒स्यस्पृ॑तम् |{काण्वः कुसीदीः | इन्द्रः | गायत्री} पिबेद॑स्य॒ त्वमी᳚शिषे ||{9/9}{8.82.9}{8.9.2.9}{6.6.2.4}{1444, 702, 7418} यम्¦ते॒¦श्ये॒नः¦प॒दा¦आ¦अभ॑रत्¦ति॒रः¦रजां᳚सि¦अस्पृ॑तम् | पिब॑¦इत्¦अ॒स्य॒¦त्वम्¦ई॒शि॒षे॒ || |
[83] देवानामिति नवर्चस्य सूक्तस्य काण्वः कुसीदीविश्वेदेवा गायत्री | (भेदपक्षे - विश्वेदेवाः ३ अर्यमवरुणौ १ विश्वेदेवाः ५ एवं ९) | |
दे॒वाना॒मिदवो᳚ म॒हत्तदा वृ॑णीमहे व॒यम् |{काण्वः कुसीदीः | विश्वदेवाः | गायत्री} वृष्णा᳚म॒स्मभ्य॑मू॒तये᳚ ||{1/9}{8.83.1}{8.9.3.1}{6.6.3.1}{1445, 703, 7419} दे॒वाना᳚म्¦इत्¦अवः॑¦म॒हत्¦तत्¦आ¦वृ॒णी॒म॒हे॒¦व॒यम् | वृष्णा᳚म्¦अ॒स्मभ्य᳚म्¦ऊ॒तये᳚ || |
ते नः॑ सन्तु॒ युजः॒ सदा॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{काण्वः कुसीदीः | विश्वदेवाः | गायत्री} वृ॒धास॑श्च॒ प्रचे᳚तसः ||{2/9}{8.83.2}{8.9.3.2}{6.6.3.2}{1446, 703, 7420} ते¦नः॒¦स॒न्तु॒¦युजः॑¦सदा᳚¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा | वृ॒धासः॑¦च॒¦प्रऽचे᳚तसः || |
अति॑ नो विष्पि॒ता पु॒रु नौ॒भिर॒पो न प॑र्षथ |{काण्वः कुसीदीः | विश्वदेवाः | गायत्री} यू॒यमृ॒तस्य॑ रथ्यः ||{3/9}{8.83.3}{8.9.3.3}{6.6.3.3}{1447, 703, 7421} अति॑¦नः॒¦वि॒ष्पि॒ता¦पु॒रु¦नौ॒भिः¦अ॒पः¦न¦प॒र्ष॒थ॒ | यू॒यम्¦ऋ॒तस्य॑¦र॒थ्यः॒ || |
वा॒मं नो᳚, अस्त्वर्यमन्वा॒मं व॑रुण॒ शंस्य᳚म् |{काण्वः कुसीदीः | विश्वदेवाः | गायत्री} वा॒मं ह्या᳚वृणी॒महे᳚ ||{4/9}{8.83.4}{8.9.3.4}{6.6.3.4}{1448, 703, 7422} वा॒मम्¦नः॒¦अ॒स्तु॒¦अ॒र्य॒म॒न्¦वा॒मम्¦व॒रु॒ण॒¦शंस्य᳚म् | वा॒मम्¦हि¦आ॒ऽवृ॒णी॒महे᳚ || |
वा॒मस्य॒ हि प्र॑चेतस॒ ईशा᳚नाशो रिशादसः |{काण्वः कुसीदीः | विश्वदेवाः | गायत्री} नेमा᳚दित्या, अ॒घस्य॒ यत् ||{5/9}{8.83.5}{8.9.3.5}{6.6.3.5}{1449, 703, 7423} वा॒मस्य॑¦हि¦प्र॒ऽचे॒त॒सः॒¦ईशा᳚नासः¦रि॒शा॒द॒सः॒ | न¦ई॒म्¦आ॒दि॒त्याः॒¦अ॒घस्य॑¦यत् || |
व॒यमिद्वः॑ सुदानवः, क्षि॒यन्तो॒ यान्तो॒, अध्व॒न्ना |{काण्वः कुसीदीः | विश्वदेवाः | गायत्री} देवा᳚ वृ॒धाय॑ हूमहे ||{6/9}{8.83.6}{8.9.3.6}{6.6.4.1}{1450, 703, 7424} व॒यम्¦इत्¦वः॒¦सु॒ऽदा॒न॒वः॒¦क्षि॒यन्तः॑¦यान्तः॑¦अध्व॑न्¦आ | देवाः᳚¦वृ॒धाय॑¦हू॒म॒हे॒ || |
अधि॑ न इन्द्रैषां॒ विष्णो᳚ सजा॒त्या᳚नाम् |{काण्वः कुसीदीः | विश्वदेवाः | गायत्री} इ॒ता मरु॑तो॒, अश्वि॑ना ||{7/9}{8.83.7}{8.9.3.7}{6.6.4.2}{1451, 703, 7425} अधि॑¦नः॒¦इ॒न्द्र॒¦ए॒षा॒म्¦विष्णो॒ इति॑¦स॒ऽजा॒त्या᳚नाम् | इ॒त¦मरु॑तः¦अश्वि॑ना || |
प्र भ्रा᳚तृ॒त्वं सु॑दान॒वोऽध॑ द्वि॒ता स॑मा॒न्या |{काण्वः कुसीदीः | विश्वदेवाः | गायत्री} मा॒तुर्गर्भे᳚ भरामहे ||{8/9}{8.83.8}{8.9.3.8}{6.6.4.3}{1452, 703, 7426} प्र¦भ्रा॒तृ॒ऽत्वम्¦सु॒ऽदा॒न॒वः॒¦अध॑¦द्वि॒ता¦स॒मा॒न्या | मा॒तुः¦गर्भे᳚¦भ॒रा॒म॒हे॒ || |
यू॒यं हि ष्ठा सु॑दानव॒ इन्द्र॑ज्येष्ठा, अ॒भिद्य॑वः |{काण्वः कुसीदीः | विश्वदेवाः | गायत्री} अधा᳚ चिद्व उ॒त ब्रु॑वे ||{9/9}{8.83.9}{8.9.3.9}{6.6.4.4}{1453, 703, 7427} यू॒यम्¦हि¦स्थ¦सु॒ऽदा॒न॒वः॒¦इन्द्र॑ऽज्येष्ठाः¦अ॒भिऽद्य॑वः | अध॑¦चि॒त्¦वः॒¦उ॒त¦ब्रु॒वे॒ || |
[84] प्रेष्ठंवइति नवर्चस्य सूक्तस्य काव्य उशनाअग्निर्गायत्री | |
प्रेष्ठं᳚ वो॒, अति॑थिं स्तु॒षे मि॒त्रमि॑व प्रि॒यम् |{काव्य उशनाः | अग्निः | गायत्री} अ॒ग्निं रथं॒ न वेद्य᳚म् ||{1/9}{8.84.1}{8.9.4.1}{6.6.5.1}{1454, 704, 7428} प्रेष्ठ᳚म्¦वः॒¦अति॑थिम्¦स्तु॒षे¦मि॒त्रम्ऽइ᳚व¦प्रि॒यम् | अ॒ग्निम्¦रथ᳚म्¦न¦वेद्य᳚म् || |
क॒विमि॑व॒ प्रचे᳚तसं॒ यं दे॒वासो॒, अध॑ द्वि॒ता |{काव्य उशनाः | अग्निः | गायत्री} नि मर्त्ये᳚ष्वाद॒धुः ||{2/9}{8.84.2}{8.9.4.2}{6.6.5.2}{1455, 704, 7429} क॒विम्ऽइ᳚व¦प्रऽचे᳚तसम्¦यम्¦दे॒वासः॑¦अध॑¦द्वि॒ता | नि¦मर्त्ये᳚षु¦आ॒ऽद॒धुः || |
त्वं य॑विष्ठ दा॒शुषो॒ नॄँः पा᳚हि शृणु॒धी गिरः॑ |{काव्य उशनाः | अग्निः | गायत्री} रक्षा᳚ तो॒कमु॒त त्मना᳚ ||{3/9}{8.84.3}{8.9.4.3}{6.6.5.3}{1456, 704, 7430} त्वम्¦य॒वि॒ष्ठ॒¦दा॒शुषः॑¦नॄन्¦पा॒हि॒¦शृ॒णु॒धि¦गिरः॑ | रक्ष॑¦तो॒कम्¦उ॒त¦त्मना᳚ || |
कया᳚ ते, अग्ने, अङ्गिर॒ ऊर्जो᳚ नपा॒दुप॑स्तुतिम् |{काव्य उशनाः | अग्निः | गायत्री} वरा᳚य देव म॒न्यवे᳚ ||{4/9}{8.84.4}{8.9.4.4}{6.6.5.4}{1457, 704, 7431} कया᳚¦ते॒¦अ॒ग्ने॒¦अ॒ङ्गि॒रः॒¦ऊर्जः॑¦नपा᳚त्¦उप॑ऽस्तुतिम् | वरा᳚य¦दे॒व॒¦म॒न्यवे᳚ || |
दाशे᳚म॒ कस्य॒ मन॑सा य॒ज्ञस्य॑ सहसो यहो |{काव्य उशनाः | अग्निः | गायत्री} कदु॑ वोच इ॒दं नमः॑ ||{5/9}{8.84.5}{8.9.4.5}{6.6.5.5}{1458, 704, 7432} दाशे᳚म¦कस्य॑¦मन॑सा¦य॒ज्ञस्य॑¦स॒ह॒सः॒¦य॒हो॒ इति॑ | कत्¦ऊँ॒ इति॑¦वो॒चे॒¦इ॒दम्¦नमः॑ || |
अधा॒ त्वं हि न॒स्करो॒ विश्वा᳚, अ॒स्मभ्यं᳚ सुक्षि॒तीः |{काव्य उशनाः | अग्निः | गायत्री} वाज॑द्रविणसो॒ गिरः॑ ||{6/9}{8.84.6}{8.9.4.6}{6.6.6.1}{1459, 704, 7433} अध॑¦त्वम्¦हि¦नः॒¦करः॑¦विश्वाः᳚¦अ॒स्मभ्य᳚म्¦सु॒ऽक्षि॒तीः | वाज॑ऽद्रविणसः¦गिरः॑ || |
कस्य॑ नू॒नं परी᳚णसो॒ धियो᳚ जिन्वसि दम्पते |{काव्य उशनाः | अग्निः | गायत्री} गोषा᳚ता॒ यस्य॑ ते॒ गिरः॑ ||{7/9}{8.84.7}{8.9.4.7}{6.6.6.2}{1460, 704, 7434} कस्य॑¦नू॒नम्¦परी᳚णसः¦धियः॑¦जि॒न्व॒सि॒¦द॒म्ऽप॒ते॒ | गोऽसा᳚ता¦यस्य॑¦ते॒¦गिरः॑ || |
तं म॑र्जयन्त सु॒क्रतुं᳚ पुरो॒यावा᳚नमा॒जिषु॑ |{काव्य उशनाः | अग्निः | गायत्री} स्वेषु॒ क्षये᳚षु वा॒जिन᳚म् ||{8/9}{8.84.8}{8.9.4.8}{6.6.6.3}{1461, 704, 7435} तम्¦म॒र्ज॒य॒न्त॒¦सु॒ऽक्रतु᳚म्¦पु॒रः॒ऽयावा᳚नम्¦आ॒जिषु॑ | स्वेषु॑¦क्षये᳚षु¦वा॒जिन᳚म् || |
क्षेति॒ क्षेमे᳚भिः सा॒धुभि॒र्नकि॒र्यं घ्नन्ति॒ हन्ति॒ यः |{काव्य उशनाः | अग्निः | गायत्री} अग्ने᳚ सु॒वीर॑ एधते ||{9/9}{8.84.9}{8.9.4.9}{6.6.6.4}{1462, 704, 7436} क्षेति॑¦क्षेमे᳚भिः¦सा॒धुऽभिः॑¦नकिः॑¦यम्¦घ्नन्ति॑¦हन्ति॑¦यः | अग्ने᳚¦सु॒ऽवीरः॑¦ए॒ध॒ते॒ || |
[85] आमेहवमिति नवर्चस्य सूक्तस्यांगिरसः कृष्णोश्विनौ गायत्री | |
आ मे॒ हवं᳚ नास॒त्याश्वि॑ना॒ गच्छ॑तं यु॒वम् |{आङ्गिरसः कृष्णः | अश्विनौ | गायत्री} मध्वः॒ सोम॑स्य पी॒तये᳚ ||{1/9}{8.85.1}{8.9.5.1}{6.6.7.1}{1463, 705, 7437} आ¦मे॒¦हव᳚म्¦ना॒स॒त्या॒¦अश्वि॑ना¦गच्छ॑तम्¦यु॒वम् | मध्वः॑¦सोम॑स्य¦पी॒तये᳚ || |
इ॒मं मे॒ स्तोम॑मश्विने॒मं मे᳚ शृणुतं॒ हव᳚म् |{आङ्गिरसः कृष्णः | अश्विनौ | गायत्री} मध्वः॒ सोम॑स्य पी॒तये᳚ ||{2/9}{8.85.2}{8.9.5.2}{6.6.7.2}{1464, 705, 7438} इ॒मम्¦मे॒¦स्तोम᳚म्¦अ॒श्वि॒ना॒¦इ॒मम्¦मे॒¦शृ॒णु॒त॒म्¦हव᳚म् | मध्वः॑¦सोम॑स्य¦पी॒तये᳚ || |
अ॒यं वां॒ कृष्णो᳚, अश्विना॒ हव॑ते वाजिनीवसू |{आङ्गिरसः कृष्णः | अश्विनौ | गायत्री} मध्वः॒ सोम॑स्य पी॒तये᳚ ||{3/9}{8.85.3}{8.9.5.3}{6.6.7.3}{1465, 705, 7439} अ॒यम्¦वा॒म्¦कृष्णः॑¦अ॒श्वि॒ना॒¦हव॑ते¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू | मध्वः॑¦सोम॑स्य¦पी॒तये᳚ || |
शृ॒णु॒तं ज॑रि॒तुर्हवं॒ कृष्ण॑स्य स्तुव॒तो न॑रा |{आङ्गिरसः कृष्णः | अश्विनौ | गायत्री} मध्वः॒ सोम॑स्य पी॒तये᳚ ||{4/9}{8.85.4}{8.9.5.4}{6.6.7.4}{1466, 705, 7440} शृ॒णु॒तम्¦ज॒रि॒तुः¦हव᳚म्¦कृष्ण॑स्य¦स्तु॒व॒तः¦न॒रा॒ | मध्वः॑¦सोम॑स्य¦पी॒तये᳚ || |
छ॒र्दिर्य᳚न्त॒मदा᳚भ्यं॒ विप्रा᳚य स्तुव॒ते न॑रा |{आङ्गिरसः कृष्णः | अश्विनौ | गायत्री} मध्वः॒ सोम॑स्य पी॒तये᳚ ||{5/9}{8.85.5}{8.9.5.5}{6.6.7.5}{1467, 705, 7441} छ॒र्दिः¦य॒न्त॒म्¦अदा᳚भ्यम्¦विप्रा᳚य¦स्तु॒व॒ते¦न॒रा॒ | मध्वः॑¦सोम॑स्य¦पी॒तये᳚ || |
गच्छ॑तं दा॒शुषो᳚ गृ॒हमि॒त्था स्तु॑व॒तो, अ॑श्विना |{आङ्गिरसः कृष्णः | अश्विनौ | गायत्री} मध्वः॒ सोम॑स्य पी॒तये᳚ ||{6/9}{8.85.6}{8.9.5.6}{6.6.8.1}{1468, 705, 7442} गच्छ॑तम्¦दा॒शुषः॑¦गृ॒हम्¦इ॒त्था¦स्तु॒व॒तः¦अ॒श्वि॒ना॒ | मध्वः॑¦सोम॑स्य¦पी॒तये᳚ || |
यु॒ञ्जाथां॒ रास॑भं॒ रथे᳚ वी॒ड्व᳚ङ्गे वृषण्वसू |{आङ्गिरसः कृष्णः | अश्विनौ | गायत्री} मध्वः॒ सोम॑स्य पी॒तये᳚ ||{7/9}{8.85.7}{8.9.5.7}{6.6.8.2}{1469, 705, 7443} युं॒जाथा᳚म्¦रास॑भम्¦रथे᳚¦वी॒ळु।आ᳚ङ्गे¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू | मध्वः॑¦सोम॑स्य¦पी॒तये᳚ || |
त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॒ रथे॒ना या᳚तमश्विना |{आङ्गिरसः कृष्णः | अश्विनौ | गायत्री} मध्वः॒ सोम॑स्य पी॒तये᳚ ||{8/9}{8.85.8}{8.9.5.8}{6.6.8.3}{1470, 705, 7444} त्रि॒ऽव॒न्धु॒रेण॑¦त्रि॒ऽवृता᳚¦रथे᳚न¦आ¦या॒त॒म्¦अ॒श्वि॒ना॒ | मध्वः॑¦सोम॑स्य¦पी॒तये᳚ || |
नू मे॒ गिरो᳚ नास॒त्याश्वि॑ना॒ प्राव॑तं यु॒वम् |{आङ्गिरसः कृष्णः | अश्विनौ | गायत्री} मध्वः॒ सोम॑स्य पी॒तये᳚ ||{9/9}{8.85.9}{8.9.5.9}{6.6.8.4}{1471, 705, 7445} नु¦मे॒¦गिरः॑¦ना॒स॒त्या॒¦अश्वि॑ना¦प्र¦अ॒व॒त॒म्¦यु॒वम् | मध्वः॑¦सोम॑स्य¦पी॒तये᳚ || |
[86] उभाहीति पंचर्चस्य सूक्तस्यांगिरसः कृष्णोश्विनौजगती | (अत्रकाणिर्विश्वकऋषिः पाक्षिकः) |
उ॒भा हि द॒स्रा भि॒षजा᳚ मयो॒भुवो॒भा दक्ष॑स्य॒ वच॑सो बभू॒वथुः॑ |{आङ्गिरसः कृष्णः | अश्विनौ | जगती} ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ᳚ष्टं स॒ख्या मु॒मोच॑तम् ||{1/5}{8.86.1}{8.9.6.1}{6.6.9.1}{1472, 706, 7446} उ॒भा¦हि¦द॒स्रा¦भि॒षजा᳚¦म॒यः॒ऽभुवा᳚¦उ॒भा¦दक्ष॑स्य¦वच॑सः¦ब॒भू॒वथुः॑ | |
क॒था नू॒नं वां॒ विम॑ना॒, उप॑ स्तवद्यु॒वं धियं᳚ ददथु॒र्वस्य॑इष्टये |{आङ्गिरसः कृष्णः | अश्विनौ | जगती} ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ᳚ष्टं स॒ख्या मु॒मोच॑तम् ||{2/5}{8.86.2}{8.9.6.2}{6.6.9.2}{1473, 706, 7447} क॒था¦नू॒नम्¦वा॒म्¦विऽम॑नाः¦उप॑¦स्त॒व॒त्¦यु॒वम्¦धिय᳚म्¦द॒द॒थुः॒¦वस्यः॑ऽइष्टये | |
यु॒वं हि ष्मा᳚ पुरुभुजे॒ममे᳚ध॒तुं वि॑ष्णा॒प्वे᳚ द॒दथु॒र्वस्य॑इष्टये |{आङ्गिरसः कृष्णः | अश्विनौ | जगती} ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ᳚ष्टं स॒ख्या मु॒मोच॑तम् ||{3/5}{8.86.3}{8.9.6.3}{6.6.9.3}{1474, 706, 7448} यु॒वम्¦हि¦स्म॒¦पु॒रु॒ऽभु॒जा॒¦इ॒मम्¦ए॒ध॒तुम्¦वि॒ष्णा॒प्वे᳚¦द॒दथुः॑¦वस्यः॑ऽइष्टये | |
उ॒त त्यं वी॒रं ध॑न॒सामृ॑जी॒षिणं᳚ दू॒रे चि॒त्सन्त॒मव॑से हवामहे |{आङ्गिरसः कृष्णः | अश्विनौ | जगती} यस्य॒ स्वादि॑ष्ठा सुम॒तिः पि॒तुर्य॑था॒ मा नो॒ वि यौ᳚ष्टं स॒ख्या मु॒मोच॑तम् ||{4/5}{8.86.4}{8.9.6.4}{6.6.9.4}{1475, 706, 7449} उ॒त¦त्यम्¦वी॒रम्¦ध॒न॒ऽसाम्¦ऋ॒जी॒षिण᳚म्¦दू॒रे¦चि॒त्¦सन्त᳚म्¦अव॑से¦ह॒वा॒म॒हे॒ | |
ऋ॒तेन॑ दे॒वः स॑वि॒ता श॑मायत ऋ॒तस्य॒ शृङ्ग॑मुर्वि॒या वि प॑प्रथे |{आङ्गिरसः कृष्णः | अश्विनौ | जगती} ऋ॒तं सा᳚साह॒ महि॑ चित् पृतन्य॒तो मा नो॒ वि यौ᳚ष्टं स॒ख्या मु॒मोच॑तम् ||{5/5}{8.86.5}{8.9.6.5}{6.6.9.5}{1476, 706, 7450} ऋ॒तेन॑¦दे॒वः¦स॒वि॒ता¦श॒म्ऽआ॒य॒ते॒¦ऋ॒तस्य॑¦शृङ्ग᳚म्¦उ॒र्वि॒या¦वि¦प॒प्र॒थे॒ | |
[87] द्युम्नीवामिति षडृचस्य सूक्तस्यांगिरसः कृष्णोश्विनौअयुजोबृहत्योयुजः सतोबृहत्यः | ( अत्रवासिष्ठोद्युम्नीकआंगिरसः प्रियमेधश्चेत्युभावृषीवैकल्पिकौ) | |
द्यु॒म्नी वां॒ स्तोमो᳚, अश्विना॒ क्रिवि॒र्न सेक॒ आ ग॑तम् |{आङ्गिरसः कृष्णः | अश्विनौ | बृहती} मध्वः॑ सु॒तस्य॒ स दि॒वि प्रि॒यो न॑रा पा॒तं गौ॒रावि॒वेरि॑णे ||{1/6}{8.87.1}{8.9.7.1}{6.6.10.1}{1477, 707, 7451} द्यु॒म्नी¦वा॒म्¦स्तोमः॑¦अ॒श्वि॒ना॒¦क्रिविः॑¦न¦सेके᳚¦आ¦ग॒त॒म् | |
पिब॑तं घ॒र्मं मधु॑मन्तमश्वि॒ना ब॒र्हिः सी᳚दतं नरा |{आङ्गिरसः कृष्णः | अश्विनौ | सतोबृहती} ता म᳚न्दसा॒ना मनु॑षो दुरो॒ण आ नि पा᳚तं॒ वेद॑सा॒ वयः॑ ||{2/6}{8.87.2}{8.9.7.2}{6.6.10.2}{1478, 707, 7452} पिब॑तम्¦घ॒र्मम्¦मधु॑ऽमन्तम्¦अ॒श्वि॒ना॒¦आ¦ब॒र्हिः¦सी॒द॒त॒म्¦न॒रा॒ | |
आ वां॒ विश्वा᳚भिरू॒तिभिः॑ प्रि॒यमे᳚धा, अहूषत |{आङ्गिरसः कृष्णः | अश्विनौ | बृहती} ता व॒र्तिर्या᳚त॒मुप॑ वृ॒क्तब᳚र्हिषो॒ जुष्टं᳚ य॒ज्ञं दिवि॑ष्टिषु ||{3/6}{8.87.3}{8.9.7.3}{6.6.10.3}{1479, 707, 7453} आ¦वा॒म्¦विश्वा᳚भिः¦ऊ॒तिऽभिः॑¦प्रि॒यऽमे᳚धाः¦अ॒हू॒ष॒त॒ | |
पिब॑तं॒ सोमं॒ मधु॑मन्तमश्वि॒ना ब॒र्हिः सी᳚दतं सु॒मत् |{आङ्गिरसः कृष्णः | अश्विनौ | सतोबृहती} ता वा᳚वृधा॒ना, उप॑ सुष्टु॒तिं दि॒वो ग॒न्तं गौ॒रावि॒वेरि॑णम् ||{4/6}{8.87.4}{8.9.7.4}{6.6.10.4}{1480, 707, 7454} पिब॑तम्¦सोम᳚म्¦मधु॑ऽमन्तम्¦अ॒श्वि॒ना॒¦आ¦ब॒र्हिः¦सी॒द॒त॒म्¦सु॒ऽमत् | |
आ नू॒नं या᳚तमश्वि॒नाश्वे᳚भिः प्रुषि॒तप्सु॑भिः |{आङ्गिरसः कृष्णः | अश्विनौ | बृहती} दस्रा॒ हिर᳚ण्यवर्तनी शुभस्पती पा॒तं सोम॑मृतावृधा ||{5/6}{8.87.5}{8.9.7.5}{6.6.10.5}{1481, 707, 7455} आ¦नू॒नम्¦या॒त॒म्¦अ॒श्वि॒ना॒¦अश्वे᳚भिः¦प्रु॒षि॒तप्सु॑ऽभिः | |
व॒यं हि वां॒ हवा᳚महे विप॒न्यवो॒ विप्रा᳚सो॒ वाज॑सातये |{आङ्गिरसः कृष्णः | अश्विनौ | सतोबृहती} ता व॒ल्गू द॒स्रा पु॑रु॒दंस॑सा धि॒याश्वि॑ना श्रु॒ष्ट्या ग॑तम् ||{6/6}{8.87.6}{8.9.7.6}{6.6.10.6}{1482, 707, 7456} व॒यम्¦हि¦वा॒म्¦हवा᳚महे¦वि॒प॒न्यवः॑¦विप्रा᳚सः¦वाज॑ऽसातये | |
[88] तंवोदस्ममिति षडृचस्य सूक्तस्य गौतमोनोधाइंद्रः अयुजोबृहत्योयुजःसतोबृहत्यः | |
तं वो᳚ द॒स्ममृ॑ती॒षहं॒ वसो᳚र्मन्दा॒नमन्ध॑सः |{गौतमो नोधा | इन्द्रः | बृहती} अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इन्द्रं᳚ गी॒र्भिर्न॑वामहे ||{1/6}{8.88.1}{8.9.8.1}{6.6.11.1}{1483, 708, 7457} तम्¦वः॒¦द॒स्मम्¦ऋ॒ति॒ऽसह᳚म्¦वसोः᳚¦म॒न्दा॒नम्¦अन्ध॑सः | |
द्यु॒क्षं सु॒दानुं॒ तवि॑षीभि॒रावृ॑तं गि॒रिं न पु॑रु॒भोज॑सम् |{गौतमो नोधा | इन्द्रः | सतोबृहती} क्षु॒मन्तं॒ वाजं᳚ श॒तिनं᳚ सह॒स्रिणं᳚ म॒क्षू गोम᳚न्तमीमहे ||{2/6}{8.88.2}{8.9.8.2}{6.6.11.2}{1484, 708, 7458} द्यु॒क्षम्¦सु॒ऽदानु᳚म्¦तवि॑षीभिः¦आऽवृ॑तम्¦गि॒रिम्¦न¦पु॒रु॒ऽभोज॑सम् | |
न त्वा᳚ बृ॒हन्तो॒, अद्र॑यो॒ वर᳚न्त इन्द्र वी॒ळवः॑ |{गौतमो नोधा | इन्द्रः | बृहती} यद्दित्स॑सि स्तुव॒ते माव॑ते॒ वसु॒ नकि॒ष्टदा मि॑नाति ते ||{3/6}{8.88.3}{8.9.8.3}{6.6.11.3}{1485, 708, 7459} न¦त्वा॒¦बृ॒हन्तः॑¦अद्र॑यः¦वर᳚न्ते¦इ॒न्द्र॒¦वी॒ळवः॑ | |
योद्धा᳚सि॒ क्रत्वा॒ शव॑सो॒त दं॒सना॒ विश्वा᳚ जा॒ताभि म॒ज्मना᳚ |{गौतमो नोधा | इन्द्रः | सतोबृहती} आ त्वा॒यम॒र्क ऊ॒तये᳚ ववर्तति॒ यं गोत॑मा॒, अजी᳚जनन् ||{4/6}{8.88.4}{8.9.8.4}{6.6.11.4}{1486, 708, 7460} योद्धा᳚¦अ॒सि॒¦क्रत्वा᳚¦शव॑सा¦उ॒त¦दं॒सना᳚¦विश्वा᳚¦जा॒ता¦अ॒भि¦म॒ज्मना᳚ | |
प्र हि रि॑रि॒क्ष ओज॑सा दि॒वो, अन्ते᳚भ्य॒स्परि॑ |{गौतमो नोधा | इन्द्रः | बृहती} न त्वा᳚ विव्याच॒ रज॑ इन्द्र॒ पार्थि॑व॒मनु॑ स्व॒धां व॑वक्षिथ ||{5/6}{8.88.5}{8.9.8.5}{6.6.11.5}{1487, 708, 7461} प्र¦हि¦रि॒रि॒क्षे¦ओज॑सा¦दि॒वः¦अन्ते᳚भ्यः¦परि॑ | |
नकिः॒ परि॑ष्टिर्मघवन्म॒घस्य॑ ते॒ यद्दा॒शुषे᳚ दश॒स्यसि॑ |{गौतमो नोधा | इन्द्रः | सतोबृहती} अ॒स्माकं᳚ बोध्यु॒चथ॑स्य चोदि॒ता मंहि॑ष्ठो॒ वाज॑सातये ||{6/6}{8.88.6}{8.9.8.6}{6.6.11.6}{1488, 708, 7462} नकिः॑¦परि॑ष्टिः¦म॒घ॒ऽव॒न्¦म॒घस्य॑¦ते॒¦यत्¦दा॒शुषे᳚¦द॒श॒स्यसि॑ | |
[89] बृहदिंद्रायेति सप्तर्चस्य सूक्तस्यांगिरसौ नृमेधपुरुमेधाविंद्रो बृहती द्वितीयाचतुर्थ्यौसतोबृहत्यौ पंचमीषष्ठ्यावनुष्टुभौ | |
बृ॒हदिन्द्रा᳚य गायत॒ मरु॑तो वृत्र॒हन्त॑मम् |{आङ्गिरसौ नृमधपुरुमेधः | इन्द्रः | बृहती} येन॒ ज्योति॒रज॑नयन्नृता॒वृधो᳚ दे॒वं दे॒वाय॒ जागृ॑वि ||{1/7}{8.89.1}{8.9.9.1}{6.6.12.1}{1489, 709, 7463} बृ॒हत्¦इन्द्रा᳚य¦गा॒य॒त॒¦मरु॑तः¦वृ॒त्र॒हम्ऽत॑मम् | |
अपा᳚धमद॒भिश॑स्तीरशस्ति॒हाथेन्द्रो᳚ द्यु॒म्न्याभ॑वत् |{आङ्गिरसौ नृमधपुरुमेधः | इन्द्रः | सतोबृहती} दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे॒ बृह॑द्भानो॒ मरु॑द्गण ||{2/7}{8.89.2}{8.9.9.2}{6.6.12.2}{1490, 709, 7464} अप॑¦अ॒ध॒म॒त्¦अ॒भिऽश॑स्तीः¦अ॒श॒स्ति॒ऽहा¦अथ॑¦इन्द्रः॑¦द्यु॒म्नी¦आ¦अ॒भ॒व॒त् | |
प्र व॒ इन्द्रा᳚य बृह॒ते मरु॑तो॒ ब्रह्मा᳚र्चत |{आङ्गिरसौ नृमधपुरुमेधः | इन्द्रः | बृहती} वृ॒त्रं ह॑नति वृत्र॒हा श॒तक्र॑तु॒र्वज्रे᳚ण श॒तप᳚र्वणा ||{3/7}{8.89.3}{8.9.9.3}{6.6.12.3}{1491, 709, 7465} प्र¦वः॒¦इन्द्रा᳚य¦बृ॒ह॒ते¦मरु॑तः¦ब्रह्म॑¦अ॒र्च॒त॒ | |
अ॒भि प्र भ॑र धृष॒ता धृ॑षन्मनः॒ श्रव॑श्चित्ते, असद्बृ॒हत् |{आङ्गिरसौ नृमधपुरुमेधः | इन्द्रः | सतोबृहती} अर्ष॒न्त्वापो॒ जव॑सा॒ वि मा॒तरो॒ हनो᳚ वृ॒त्रं जया॒ स्वः॑ ||{4/7}{8.89.4}{8.9.9.4}{6.6.12.4}{1492, 709, 7466} अ॒भि¦प्र¦भ॒र॒¦धृ॒ष॒ता¦धृ॒ष॒त्ऽम॒नः॒¦श्रवः॑¦चि॒त्¦ते॒¦अ॒स॒त्¦बृ॒हत् | |
यज्जाय॑था, अपूर्व्य॒ मघ॑वन् वृत्र॒हत्या᳚य |{आङ्गिरसौ नृमधपुरुमेधः | इन्द्रः | अनुष्टुप्} तत् पृ॑थि॒वीम॑प्रथय॒स्तद॑स्तभ्ना, उ॒त द्याम् ||{5/7}{8.89.5}{8.9.9.5}{6.6.12.5}{1493, 709, 7467} यत्¦जाय॑थाः¦अ॒पू॒र्व्य॒¦मघ॑ऽवन्¦वृ॒त्र॒ऽहत्या᳚य | तत्¦पृ॒थि॒वीम्¦अ॒प्र॒थ॒यः॒¦तत्¦अ॒स्त॒भ्नाः॒¦उ॒त¦द्याम् || |
तत्ते᳚ य॒ज्ञो, अ॑जायत॒ तद॒र्क उ॒त हस्कृ॑तिः |{आङ्गिरसौ नृमधपुरुमेधः | इन्द्रः | अनुष्टुप्} तद्विश्व॑मभि॒भूर॑सि॒ यज्जा॒तं यच्च॒ जन्त्व᳚म् ||{6/7}{8.89.6}{8.9.9.6}{6.6.12.6}{1494, 709, 7468} तत्¦ते॒¦य॒ज्ञः¦अ॒जा॒य॒त॒¦तत्¦अ॒र्कः¦उ॒त¦हस्कृ॑तिः | तत्¦विश्व᳚म्¦अ॒भि॒ऽभूः¦अ॒सि॒¦यत्¦जा॒तम्¦यत्¦च॒¦जन्त्व᳚म् || |
आ॒मासु॑ प॒क्वमैर॑य॒ आ सूर्यं᳚ रोहयो दि॒वि |{आङ्गिरसौ नृमधपुरुमेधः | इन्द्रः | बृहती} घ॒र्मं न साम᳚न् तपता सुवृ॒क्तिभि॒र्जुष्टं॒ गिर्व॑णसे बृ॒हत् ||{7/7}{8.89.7}{8.9.9.7}{6.6.12.7}{1495, 709, 7469} आ॒मासु॑¦प॒क्वम्¦ऐर॑यः¦आ¦सूर्य᳚म्¦रो॒ह॒यः॒¦दि॒वि | |
[90] आनोविश्वास्थिति षडृचस्य सूक्तस्यांगिरसौ नृमेधपुरुमेधाविंद्रः अयुजोबृहत्योयुजःसतोबृहत्यः | |
आ नो॒ विश्वा᳚सु॒ हव्य॒ इन्द्रः॑ स॒मत्सु॑ भूषतु |{आङ्गिरसौ नृमधपुरुमेधः | इन्द्रः | बृहती} उप॒ ब्रह्मा᳚णि॒ सव॑नानि वृत्र॒हा प॑रम॒ज्या, ऋची᳚षमः ||{1/6}{8.90.1}{8.9.10.1}{6.6.13.1}{1496, 710, 7470} आ¦नः॒¦विश्वा᳚सु¦हव्यः॑¦इन्द्रः॑¦स॒मत्ऽसु॑¦भू॒ष॒तु॒ | |
त्वं दा॒ता प्र॑थ॒मो राध॑साम॒स्यसि॑ स॒त्य ई᳚शान॒कृत् |{आङ्गिरसौ नृमधपुरुमेधः | इन्द्रः | सतोबृहती} तु॒वि॒द्यु॒म्नस्य॒ युज्या वृ॑णीमहे पु॒त्रस्य॒ शव॑सो म॒हः ||{2/6}{8.90.2}{8.9.10.2}{6.6.13.2}{1497, 710, 7471} त्वम्¦दा॒ता¦प्र॒थ॒मः¦राध॑साम्¦अ॒सि॒¦असि॑¦स॒त्यः¦ई॒शा॒न॒ऽकृत् | |
ब्रह्मा᳚ त इन्द्र गिर्वणः क्रि॒यन्ते॒, अन॑तिद्भुता |{आङ्गिरसौ नृमधपुरुमेधः | इन्द्रः | बृहती} इ॒मा जु॑षस्व हर्यश्व॒ योज॒नेन्द्र॒ या ते॒, अम᳚न्महि ||{3/6}{8.90.3}{8.9.10.3}{6.6.13.3}{1498, 710, 7472} ब्रह्म॑¦ते॒¦इ॒न्द्र॒¦गि॒र्व॒णः॒¦क्रि॒यन्ते᳚¦अन॑तिद्भुता | |
त्वं हि स॒त्यो म॑घव॒न्नना᳚नतो वृ॒त्रा भूरि॑ न्यृ॒ञ्जसे᳚ |{आङ्गिरसौ नृमधपुरुमेधः | इन्द्रः | सतोबृहती} स त्वं श॑विष्ठ वज्रहस्त दा॒शुषे॒ऽर्वाञ्चं᳚ र॒यिमा कृ॑धि ||{4/6}{8.90.4}{8.9.10.4}{6.6.13.4}{1499, 710, 7473} त्वम्¦हि¦स॒त्यः¦म॒घ॒ऽव॒न्¦अना᳚नतः¦वृ॒त्रा¦भूरि॑¦नि॒ऽऋं॒जसे᳚ | |
त्वमि᳚न्द्र य॒शा, अ॑स्यृजी॒षी श॑वसस्पते |{आङ्गिरसौ नृमधपुरुमेधः | इन्द्रः | बृहती} त्वं वृ॒त्राणि॑ हंस्यप्र॒तीन्येक॒ इदनु॑त्ता चर्षणी॒धृता᳚ ||{5/6}{8.90.5}{8.9.10.5}{6.6.13.5}{1500, 710, 7474} त्वम्¦इ॒न्द्र॒¦य॒शाः¦अ॒सि॒¦ऋ॒जी॒षी¦श॒व॒सः॒¦प॒ते॒ | |
तमु॑ त्वा नू॒नम॑सुर॒ प्रचे᳚तसं॒ राधो᳚ भा॒गमि॑वेमहे |{आङ्गिरसौ नृमधपुरुमेधः | इन्द्रः | सतोबृहती} म॒हीव॒ कृत्तिः॑ शर॒णा त॑ इन्द्र॒ प्र ते᳚ सु॒म्ना नो᳚, अश्नवन् ||{6/6}{8.90.6}{8.9.10.6}{6.6.13.6}{1501, 710, 7475} तम्¦ऊँ॒ इति॑¦त्वा॒¦नू॒नम्¦अ॒सु॒र॒¦प्रऽचे᳚तसम्¦राधः॑¦भा॒गम्ऽइ᳚व¦ई॒म॒हे॒ | |
[91] कन्यावारिति सप्तर्चस्य सूक्तस्यात्रेय्यपालेंद्रोनुष्टुबाद्येद्वेपंक्ती | |
क॒न्या॒३॑(आ॒) वार॑वाय॒ती सोम॒मपि॑ स्रु॒तावि॑दत् |{आत्रेय्यपालः | इन्द्रः | पङ्क्तिः} अस्तं॒ भर᳚न्त्यब्रवी॒दिन्द्रा᳚य सुनवै त्वा श॒क्राय॑ सुनवै त्वा ||{1/7}{8.91.1}{8.9.11.1}{6.6.14.1}{1502, 711, 7476} क॒न्या᳚¦वाः¦अ॒व॒ऽय॒ती¦सोम᳚म्¦अपि॑¦स्रु॒ता¦अ॒वि॒द॒त् | |
अ॒सौ य एषि॑ वीर॒को गृ॒हंगृ॑हं वि॒चाक॑शद् |{आत्रेय्यपालः | इन्द्रः | पङ्क्तिः} इ॒मं जम्भ॑सुतं पिब धा॒नाव᳚न्तं कर॒म्भिण॑मपू॒पव᳚न्तमु॒क्थिन᳚म् ||{2/7}{8.91.2}{8.9.11.2}{6.6.14.2}{1503, 711, 7477} अ॒सौ¦यः¦एषि॑¦वी॒र॒कः¦गृ॒हम्ऽगृ॑हम्¦वि॒ऽचाक॑शत् | |
आ च॒न त्वा᳚ चिकित्सा॒मोऽधि॑ च॒न त्वा॒ नेम॑सि |{आत्रेय्यपालः | इन्द्रः | अनुष्टुप्} शनै᳚रिव शन॒कैरि॒वेन्द्रा᳚येन्दो॒ परि॑ स्रव ||{3/7}{8.91.3}{8.9.11.3}{6.6.14.3}{1504, 711, 7478} आ¦च॒न¦त्वा॒¦चि॒कि॒त्सा॒मः॒¦अधि॑¦च॒न¦त्वा॒¦न¦इ॒म॒सि॒ | शनैः᳚ऽइव¦श॒न॒कैःऽइ᳚व¦इन्द्रा᳚य¦इ॒न्दो॒ इति॑¦परि॑¦स्र॒व॒ || |
कु॒विच्छक॑त्कु॒वित्कर॑त्कु॒विन्नो॒ वस्य॑स॒स्कर॑त् |{आत्रेय्यपालः | इन्द्रः | अनुष्टुप्} कु॒वित्प॑ति॒द्विषो᳚ य॒तीरिन्द्रे᳚ण सं॒गमा᳚महै ||{4/7}{8.91.4}{8.9.11.4}{6.6.14.4}{1505, 711, 7479} कु॒वित्¦शक॑त्¦कु॒वित्¦कर॑त्¦कु॒वित्¦नः॒¦वस्य॑सः¦कर॑त् | कु॒वित्¦प॒ति॒ऽद्विषः॑¦य॒तीः¦इन्द्रे᳚ण¦स॒म्ऽगमा᳚महै || |
इ॒मानि॒ त्रीणि॑ वि॒ष्टपा॒ तानी᳚न्द्र॒ वि रो᳚हय |{आत्रेय्यपालः | इन्द्रः | अनुष्टुप्} शिर॑स्त॒तस्यो॒र्वरा॒मादि॒दं म॒ उपो॒दरे᳚ ||{5/7}{8.91.5}{8.9.11.5}{6.6.14.5}{1506, 711, 7480} इ॒मानि॑¦त्रीणि॑¦वि॒ष्टपा᳚¦तानि॑¦इ॒न्द्र॒¦वि¦रो॒ह॒य॒ | शिरः॑¦त॒तस्य॑¦उ॒र्वरा᳚म्¦आत्¦इ॒दम्¦मे॒¦उप॑¦उ॒दरे᳚ || |
अ॒सौ च॒ या न॑ उ॒र्वरादि॒मां त॒न्व१॑(अं॒) मम॑ |{आत्रेय्यपालः | इन्द्रः | अनुष्टुप्} अथो᳚ त॒तस्य॒ यच्छिरः॒ सर्वा॒ ता रो᳚म॒शा कृ॑धि ||{6/7}{8.91.6}{8.9.11.6}{6.6.14.6}{1507, 711, 7481} अ॒सौ¦च॒¦या¦नः॒¦उ॒र्वरा᳚¦आत्¦इ॒माम्¦त॒न्व᳚म्¦मम॑ | अथो॒ इति॑¦त॒तस्य॑¦यत्¦शिरः॑¦सर्वा᳚¦ता¦रो॒म॒शा¦कृ॒धि॒ || |
खे रथ॑स्य॒ खेऽन॑सः॒ खे यु॒गस्य॑ शतक्रतो |{आत्रेय्यपालः | इन्द्रः | अनुष्टुप्} अ॒पा॒लामि᳚न्द्र॒ त्रिष्पू॒त्व्यकृ॑णोः॒ सूर्य॑त्वचम् ||{7/7}{8.91.7}{8.9.11.7}{6.6.14.7}{1508, 711, 7482} खे¦रथ॑स्य¦खे¦अन॑सः¦खे¦यु॒गस्य॑¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | अ॒पा॒लाम्¦इ॒न्द्र॒¦त्रिः¦पू॒त्वी¦अकृ॑णोः¦सूर्य॑ऽत्वचम् || |
[92] पांतमिति त्रयस्त्रिंशदृचस्य सूक्तस्यांगिरसः श्रुतकक्ष इंद्रोगायत्र्याद्यानुष्टुप् (सुकक्षोवाऋषिः ) | |
पान्त॒मा वो॒, अन्ध॑स॒ इन्द्र॑म॒भि प्र गा᳚यत |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | अनुष्टुप्} वि॒श्वा॒साहं᳚ श॒तक्र॑तुं॒ मंहि॑ष्ठं चर्षणी॒नाम् ||{1/33}{8.92.1}{8.9.12.1}{6.6.15.1}{1509, 712, 7483} पान्त᳚म्¦आ¦वः॒¦अन्ध॑सः¦इन्द्र᳚म्¦अ॒भि¦प्र¦गा॒य॒त॒ | वि॒श्व॒ऽसह᳚म्¦श॒तऽक्र॑तुम्¦मंहि॑ष्ठम्¦च॒र्ष॒णी॒नाम् || |
पु॒रु॒हू॒तं पु॑रुष्टु॒तं गा᳚था॒न्य१॑(अं॒) सन॑श्रुतम् |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} इन्द्र॒ इति॑ ब्रवीतन ||{2/33}{8.92.2}{8.9.12.2}{6.6.15.2}{1510, 712, 7484} पु॒रु॒ऽहू॒तम्¦पु॒रु॒ऽस्तु॒तम्¦गा॒था॒न्य᳚म्¦सन॑ऽश्रुतम् | इन्द्रः॑¦इति॑¦ब्र॒वी॒त॒न॒ || |
इन्द्र॒ इन्नो᳚ म॒हानां᳚ दा॒ता वाजा᳚नां नृ॒तुः |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} म॒हाँ, अ॑भि॒ज्ञ्वा य॑मत् ||{3/33}{8.92.3}{8.9.12.3}{6.6.15.3}{1511, 712, 7485} इन्द्रः॑¦इत्¦नः॒¦म॒हाना᳚म्¦दा॒ता¦वाजा᳚नाम्¦नृ॒तुः | म॒हान्¦अ॒भि॒ऽज्ञु¦आ¦य॒म॒त् || |
अपा᳚दु शि॒प्र्यन्ध॑सः सु॒दक्ष॑स्य प्रहो॒षिणः॑ |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} इन्दो॒रिन्द्रो॒ यवा᳚शिरः ||{4/33}{8.92.4}{8.9.12.4}{6.6.15.4}{1512, 712, 7486} अपा᳚त्¦ऊँ॒ इति॑¦शि॒प्री¦अन्ध॑सः¦सु॒ऽदक्ष॑स्य¦प्र॒ऽहो॒षिणः॑ | इन्दोः᳚¦इन्द्रः॑¦यव॑ऽआशिरः || |
तम्व॒भि प्रार्च॒तेन्द्रं॒ सोम॑स्य पी॒तये᳚ |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} तदिद्ध्य॑स्य॒ वर्ध॑नम् ||{5/33}{8.92.5}{8.9.12.5}{6.6.15.5}{1513, 712, 7487} तम्¦ऊँ॒ इति॑¦अ॒भि¦प्र¦अ॒र्च॒त॒¦इन्द्र᳚म्¦सोम॑स्य¦पी॒तये᳚ | तत्¦इत्¦हि¦अ॒स्य॒¦वर्ध॑नम् || |
अ॒स्य पी॒त्वा मदा᳚नां दे॒वो दे॒वस्यौज॑सा |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} विश्वा॒भि भुव॑ना भुवत् ||{6/33}{8.92.6}{8.9.12.6}{6.6.16.1}{1514, 712, 7488} अ॒स्य¦पी॒त्वा¦मदा᳚नाम्¦दे॒वः¦दे॒वस्य॑¦ओज॑सा | विश्वा᳚¦अ॒भि¦भुव॑ना¦भु॒व॒त् || |
त्यमु॑ वः सत्रा॒साहं॒ विश्वा᳚सु गी॒र्ष्वाय॑तम् |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} आ च्या᳚वयस्यू॒तये᳚ ||{7/33}{8.92.7}{8.9.12.7}{6.6.16.2}{1515, 712, 7489} त्यम्¦ऊँ॒ इति॑¦वः॒¦स॒त्रा॒ऽसह᳚म्¦विश्वा᳚सु¦गी॒र्षु¦आऽय॑तम् | आ¦च्य॒व॒य॒सि॒¦ऊ॒तये᳚ || |
यु॒ध्मं सन्त॑मन॒र्वाणं᳚ सोम॒पामन॑पच्युतम् |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} नर॑मवा॒र्यक्र॑तुम् ||{8/33}{8.92.8}{8.9.12.8}{6.6.16.3}{1516, 712, 7490} यु॒ध्मम्¦सन्त᳚म्¦अ॒न॒र्वाण᳚म्¦सो॒म॒ऽपाम्¦अन॑पऽच्युतम् | नर᳚म्¦अ॒वा॒र्यऽक्र॑तुम् || |
शिक्षा᳚ ण इन्द्र रा॒य आ पु॒रु वि॒द्वाँ, ऋ॑चीषम |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} अवा᳚ नः॒ पार्ये॒ धने᳚ ||{9/33}{8.92.9}{8.9.12.9}{6.6.16.4}{1517, 712, 7491} शिक्ष॑¦नः॒¦इ॒न्द्र॒¦रा॒यः¦आ¦पु॒रु¦वि॒द्वान्¦ऋ॒ची॒ष॒म॒ | अव॑¦नः॒¦पार्ये᳚¦धने᳚ || |
अत॑श्चिदिन्द्र ण॒ उपा या᳚हि श॒तवा᳚जया |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} इ॒षा स॒हस्र॑वाजया ||{10/33}{8.92.10}{8.9.12.10}{6.6.16.5}{1518, 712, 7492} अतः॑¦चि॒त्¦इ॒न्द्र॒¦नः॒¦उप॑¦आ¦या॒हि॒¦श॒तऽवा᳚जया | इ॒षा¦स॒हस्र॑ऽवाजया || |
अया᳚म॒ धीव॑तो॒ धियोऽर्व॑द्भिः शक्र गोदरे |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} जये᳚म पृ॒त्सु व॑ज्रिवः ||{11/33}{8.92.11}{8.9.12.11}{6.6.17.1}{1519, 712, 7493} अया᳚म¦धीऽव॑तः¦धियः॑¦अर्व॑त्ऽभिः¦श॒क्र॒¦गो॒ऽद॒रे॒ | जये᳚म¦पृ॒त्ऽसु¦व॒ज्रि॒ऽवः॒ || |
व॒यमु॑ त्वा शतक्रतो॒ गावो॒ न यव॑से॒ष्वा |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} उ॒क्थेषु॑ रणयामसि ||{12/33}{8.92.12}{8.9.12.12}{6.6.17.2}{1520, 712, 7494} व॒यम्¦ऊँ॒ इति॑¦त्वा॒¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो¦गावः॑¦न¦यव॑सेषु¦आ | उ॒क्थेषु॑¦र॒ण॒या॒म॒सि॒ || |
विश्वा॒ हि म॑र्त्यत्व॒नानु॑का॒मा श॑तक्रतो |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} अग᳚न्म वज्रिन्ना॒शसः॑ ||{13/33}{8.92.13}{8.9.12.13}{6.6.17.3}{1521, 712, 7495} विश्वा᳚¦हि¦म॒र्त्य॒ऽत्व॒ना¦अ॒नु॒ऽका॒मा¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | अग᳚न्म¦व॒ज्रि॒न्¦आ॒ऽशसः॑ || |
त्वे सु पु॑त्र शव॒सोऽवृ॑त्र॒न् काम॑कातयः |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} न त्वामि॒न्द्राति॑ रिच्यते ||{14/33}{8.92.14}{8.9.12.14}{6.6.17.4}{1522, 712, 7496} त्वे इति॑¦सु¦पु॒त्र॒¦श॒व॒सः॒¦अवृ॑त्रन्¦काम॑ऽकातयः | न¦त्वाम्¦इ॒न्द्र॒¦अति॑¦रि॒च्य॒ते॒ || |
स नो᳚ वृष॒न् त्सनि॑ष्ठया॒ सं घो॒रया᳚ द्रवि॒त्न्वा |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} धि॒यावि॑ड्ढि॒ पुरं᳚ध्या ||{15/33}{8.92.15}{8.9.12.15}{6.6.17.5}{1523, 712, 7497} सः¦नः॒¦वृ॒ष॒न्¦सनि॑ष्ठया¦सम्¦घो॒रया᳚¦द्र॒वि॒त्न्वा | धि॒या¦अ॒वि॒ड्ढि॒¦पुर᳚म्ऽध्या || |
यस्ते᳚ नू॒नं श॑तक्रत॒विन्द्र॑ द्यु॒म्नित॑मो॒ मदः॑ |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} तेन॑ नू॒नं मदे᳚ मदेः ||{16/33}{8.92.16}{8.9.12.16}{6.6.18.1}{1524, 712, 7498} यः¦ते॒¦नू॒नम्¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो¦इन्द्र॑¦द्यु॒म्निऽत॑मः¦मदः॑ | तेन॑¦नू॒नम्¦मदे᳚¦म॒दे॒रिति॑ मदेः || |
यस्ते᳚ चि॒त्रश्र॑वस्तमो॒ य इ᳚न्द्र वृत्र॒हन्त॑मः |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} य ओ᳚जो॒दात॑मो॒ मदः॑ ||{17/33}{8.92.17}{8.9.12.17}{6.6.18.2}{1525, 712, 7499} यः¦ते॒¦चि॒त्रश्र॑वःऽतमः¦यः¦इ॒न्द्र॒¦वृ॒त्र॒हन्ऽत॑मः | यः¦ओ॒जः॒ऽदात॑मः¦मदः॑ || |
वि॒द्मा हि यस्ते᳚, अद्रिव॒स्त्वाद॑त्तः सत्य सोमपाः |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} विश्वा᳚सु दस्म कृ॒ष्टिषु॑ ||{18/33}{8.92.18}{8.9.12.18}{6.6.18.3}{1526, 712, 7500} वि॒द्म¦हि¦यः¦ते॒¦अ॒द्रि॒ऽवः॒¦त्वाऽद॑त्तः¦स॒त्य॒¦सो॒म॒ऽपाः॒ | विश्वा᳚सु¦द॒स्म॒¦कृ॒ष्टिषु॑ || |
इन्द्रा᳚य॒ मद्व॑ने सु॒तं परि॑ ष्टोभन्तु नो॒ गिरः॑ |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} अ॒र्कम॑र्चन्तु का॒रवः॑ ||{19/33}{8.92.19}{8.9.12.19}{6.6.18.4}{1527, 712, 7501} इन्द्रा᳚य¦मद्व॑ने¦सु॒तम्¦परि॑¦स्तो॒भ॒न्तु॒¦नः॒¦गिरः॑ | अ॒र्कम्¦अ॒र्च॒न्तु॒¦का॒रवः॑ || |
यस्मि॒न् विश्वा॒, अधि॒ श्रियो॒ रण᳚न्ति स॒प्त सं॒सदः॑ |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} इन्द्रं᳚ सु॒ते ह॑वामहे ||{20/33}{8.92.20}{8.9.12.20}{6.6.18.5}{1528, 712, 7502} यस्मि॑न्¦विश्वाः᳚¦अधि॑¦श्रियः॑¦रण᳚न्ति¦स॒प्त¦स॒म्ऽसदः॑ | इन्द्र᳚म्¦सु॒ते¦ह॒वा॒म॒हे॒ || |
त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो᳚ य॒ज्ञम॑त्नत |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} तमिद्व॑र्धन्तु नो॒ गिरः॑ ||{21/33}{8.92.21}{8.9.12.21}{6.6.19.1}{1529, 712, 7503} त्रिऽक॑द्रुकेषु¦चेत॑नम्¦दे॒वासः॑¦य॒ज्ञम्¦अ॒त्न॒त॒ | तम्¦इत्¦व॒र्ध॒न्तु॒¦नः॒¦गिरः॑ || |
आ त्वा᳚ विश॒न्त्विन्द॑वः समु॒द्रमि॑व॒ सिन्ध॑वः |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} न त्वामि॒न्द्राति॑ रिच्यते ||{22/33}{8.92.22}{8.9.12.22}{6.6.19.2}{1530, 712, 7504} आ¦त्वा॒¦वि॒श॒न्तु॒¦इन्द॑वः¦स॒मु॒द्रम्ऽइ᳚व¦सिन्ध॑वः | न¦त्वाम्¦इ॒न्द्र॒¦अति॑¦रि॒च्य॒ते॒ || |
वि॒व्यक्थ॑ महि॒ना वृ॑षन् भ॒क्षं सोम॑स्य जागृवे |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} य इ᳚न्द्र ज॒ठरे᳚षु ते ||{23/33}{8.92.23}{8.9.12.23}{6.6.19.3}{1531, 712, 7505} वि॒व्यक्थ॑¦म॒हि॒ना¦वृ॒ष॒न्¦भ॒क्षम्¦सोम॑स्य¦जा॒गृ॒वे॒ | यः¦इ॒न्द्र॒¦ज॒ठरे᳚षु¦ते॒ || |
अरं᳚ त इन्द्र कु॒क्षये॒ सोमो᳚ भवतु वृत्रहन् |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} अरं॒ धाम॑भ्य॒ इन्द॑वः ||{24/33}{8.92.24}{8.9.12.24}{6.6.19.4}{1532, 712, 7506} अर᳚म्¦ते॒¦इ॒न्द्र॒¦कु॒क्षये᳚¦सोमः॑¦भ॒व॒तु॒¦वृ॒त्र॒ऽह॒न् | अर᳚म्¦धाम॑ऽभ्यः¦इन्द॑वः || |
अर॒मश्वा᳚य गायति श्रु॒तक॑क्षो॒, अरं॒ गवे᳚ |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} अर॒मिन्द्र॑स्य॒ धाम्ने᳚ ||{25/33}{8.92.25}{8.9.12.25}{6.6.19.5}{1533, 712, 7507} अर᳚म्¦अश्वा᳚य¦गा॒य॒ति॒¦श्रु॒तऽक॑क्षः¦अर᳚म्¦गवे᳚ | अर᳚म्¦इन्द्र॑स्य¦धाम्ने᳚ || |
अरं॒ हि ष्म॑ सु॒तेषु॑ णः॒ सोमे᳚ष्विन्द्र॒ भूष॑सि |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} अरं᳚ ते शक्र दा॒वने᳚ ||{26/33}{8.92.26}{8.9.12.26}{6.6.19.6}{1534, 712, 7508} अर᳚म्¦हि¦स्म॒¦सु॒तेषु॑¦नः॒¦सोमे᳚षु¦इ॒न्द्र॒¦भूष॑सि | अर᳚म्¦ते॒¦श॒क्र॒¦दा॒वने᳚ || |
प॒रा॒कात्ता᳚च्चिदद्रिव॒स्त्वां न॑क्षन्त नो॒ गिरः॑ |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} अरं᳚ गमाम ते व॒यम् ||{27/33}{8.92.27}{8.9.12.27}{6.6.20.1}{1535, 712, 7509} प॒रा॒कात्ता᳚त्¦चि॒त्¦अ॒द्रि॒ऽवः॒¦त्वाम्¦न॒क्ष॒न्त॒¦नः॒¦गिरः॑ | अर᳚म्¦ग॒मा॒म॒¦ते॒¦व॒यम् || |
ए॒वा ह्यसि॑ वीर॒युरे॒वा शूर॑ उ॒त स्थि॒रः |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} ए॒वा ते॒ राध्यं॒ मनः॑ ||{28/33}{8.92.28}{8.9.12.28}{6.6.20.2}{1536, 712, 7510} ए॒व¦हि¦असि॑¦वी॒र॒ऽयुः¦ए॒व¦शूरः॑¦उ॒त¦स्थि॒रः | ए॒व¦ते॒¦राध्य᳚म्¦मनः॑ || |
ए॒वा रा॒तिस्तु॑वीमघ॒ विश्वे᳚भिर्धायि धा॒तृभिः॑ |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} अधा᳚ चिदिन्द्र मे॒ सचा᳚ ||{29/33}{8.92.29}{8.9.12.29}{6.6.20.3}{1537, 712, 7511} ए॒व¦रा॒तिः¦तु॒वि॒ऽम॒घ॒¦विश्वे᳚भिः¦धा॒यि॒¦धा॒तृऽभिः॑ | अध॑¦चि॒त्¦इ॒न्द्र॒¦मे॒¦सचा᳚ || |
मो षु ब्र॒ह्मेव॑ तन्द्र॒युर्भुवो᳚ वाजानां पते |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} मत्स्वा᳚ सु॒तस्य॒ गोम॑तः ||{30/33}{8.92.30}{8.9.12.30}{6.6.20.4}{1538, 712, 7512} मो इति॑¦सु¦ब्र॒ह्माऽइ᳚व¦त॒न्द्र॒युः¦भुवः॑¦वा॒जा॒ना॒म्¦प॒ते॒ | मत्स्व॑¦सु॒तस्य॑¦गोऽम॑तः || |
मा न॑ इन्द्रा॒भ्या॒३॑(आ॒)दिशः॒ सूरो᳚, अ॒क्तुष्वा य॑मन् |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} त्वा यु॒जा व॑नेम॒ तत् ||{31/33}{8.92.31}{8.9.12.31}{6.6.20.5}{1539, 712, 7513} मा¦नः॒¦इ॒न्द्र॒¦अ॒भि¦आ॒ऽदिशः॑¦सूरः॑¦अ॒क्तुषु॑¦आ¦य॒म॒न् | त्वा¦यु॒जा¦व॒ने॒म॒¦तत् || |
त्वयेदि᳚न्द्र यु॒जा व॒यं प्रति॑ ब्रुवीमहि॒ स्पृधः॑ |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} त्वम॒स्माकं॒ तव॑ स्मसि ||{32/33}{8.92.32}{8.9.12.32}{6.6.20.6}{1540, 712, 7514} त्वया᳚¦इत्¦इ॒न्द्र॒¦यु॒जा¦व॒यम्¦प्रति॑¦ब्रु॒वी॒म॒हि॒¦स्पृधः॑ | त्वम्¦अ॒स्माक᳚म्¦तव॑¦स्म॒सि॒ || |
त्वामिद्धि त्वा॒यवो᳚ऽनु॒नोनु॑वत॒श्चरा॑न् |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री} सखा᳚य इन्द्र का॒रवः॑ ||{33/33}{8.92.33}{8.9.12.33}{6.6.20.7}{1541, 712, 7515} त्वाम्¦इत्¦हि¦त्वा॒ऽयवः॑¦अ॒नु॒ऽनोनु॑वतः¦चरा॑न् | सखा᳚यः¦इ॒न्द्र॒¦का॒रवः॑ || |
[93] उद्घेदभीति चतुस्त्रिंशदृचस्य सूक्तस्यांगिरसः सुकक्ष इंद्रोंत्याया इंद्रर्भवो गायत्री | |
उद्घेद॒भि श्रु॒ताम॑घं वृष॒भं नर्या᳚पसम् |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} अस्ता᳚रमेषि सूर्य ||{1/34}{8.93.1}{8.9.13.1}{6.6.21.1}{1542, 713, 7516} उत्¦घ॒¦इत्¦अ॒भि¦श्रु॒तऽम॑घम्¦वृ॒ष॒भम्¦नर्य॑।आपसम् | अस्ता᳚रम्¦ए॒षि॒¦सू॒र्य॒ || |
नव॒ यो न॑व॒तिं पुरो᳚ बि॒भेद॑ बा॒ह्वो᳚जसा |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} अहिं᳚ च वृत्र॒हाव॑धीत् ||{2/34}{8.93.2}{8.9.13.2}{6.6.21.2}{1543, 713, 7517} नव॑¦यः¦न॒व॒तिम्¦पुरः॑¦बि॒भेद॑¦बा॒हुऽओ᳚जसा | अहि᳚म्¦च॒¦वृ॒त्र॒ऽहा¦अ॒व॒धी॒त् || |
स न॒ इन्द्रः॑ शि॒वः सखाश्वा᳚व॒द्गोम॒द्यव॑मत् |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} उ॒रुधा᳚रेव दोहते ||{3/34}{8.93.3}{8.9.13.3}{6.6.21.3}{1544, 713, 7518} सः¦नः॒¦इन्द्रः॑¦शि॒वः¦सखा᳚¦अश्व॑ऽवत्¦गोऽम॑त्¦यव॑ऽमत् | उ॒रुधा᳚राऽइव¦दो॒ह॒ते॒ || |
यद॒द्य कच्च॑ वृत्रहन्नु॒दगा᳚, अ॒भि सू᳚र्य |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} सर्वं॒ तदि᳚न्द्र ते॒ वशे᳚ ||{4/34}{8.93.4}{8.9.13.4}{6.6.21.4}{1545, 713, 7519} यत्¦अ॒द्य¦कत्¦च॒¦वृ॒त्र॒ऽह॒न्¦उ॒त्।आगाः᳚¦अ॒भि¦सू॒र्य॒ | सर्व᳚म्¦तत्¦इ॒न्द्र॒¦ते॒¦वशे᳚ || |
यद्वा᳚ प्रवृद्ध सत्पते॒ न म॑रा॒, इति॒ मन्य॑से |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} उ॒तो तत्स॒त्यमित्तव॑ ||{5/34}{8.93.5}{8.9.13.5}{6.6.21.5}{1546, 713, 7520} यत्¦वा॒¦प्र॒ऽवृ॒द्ध॒¦स॒त्ऽप॒ते॒¦न¦म॒रै॒¦इति॑¦मन्य॑से | उ॒तो इति॑¦तत्¦स॒त्यम्¦इत्¦तव॑ || |
ये सोमा᳚सः परा॒वति॒ ये, अ᳚र्वा॒वति॑ सुन् वि॒रे |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} सर्वाँ॒स्ताँ, इ᳚न्द्र गच्छसि ||{6/34}{8.93.6}{8.9.13.6}{6.6.22.1}{1547, 713, 7521} ये¦सोमा᳚सः¦प॒रा॒ऽवति॑¦ये¦अ॒र्वा॒ऽवति॑¦सु॒न्वि॒रे | सर्वा᳚न्¦तान्¦इ॒न्द्र॒¦ग॒च्छ॒सि॒ || |
तमिन्द्रं᳚ वाजयामसि म॒हे वृ॒त्राय॒ हन्त॑वे |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} स वृषा᳚ वृष॒भो भु॑वत् ||{7/34}{8.93.7}{8.9.13.7}{6.6.22.2}{1548, 713, 7522} तम्¦इन्द्र᳚म्¦वा॒ज॒या॒म॒सि॒¦म॒हे¦वृ॒त्राय॑¦हन्त॑वे | सः¦वृषा᳚¦वृ॒ष॒भः¦भु॒व॒त् || |
इन्द्रः॒ स दाम॑ने कृ॒त ओजि॑ष्ठः॒ स मदे᳚ हि॒तः |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} द्यु॒म्नी श्लो॒की स सो॒म्यः ||{8/34}{8.93.8}{8.9.13.8}{6.6.22.3}{1549, 713, 7523} इन्द्रः॑¦सः¦दाम॑ने¦कृ॒तः¦ओजि॑ष्ठः¦सः¦मदे᳚¦हि॒तः | द्यु॒म्नी¦श्लो॒की¦सः¦सो॒म्यः || |
गि॒रा वज्रो॒ न सम्भृ॑तः॒ सब॑लो॒, अन॑पच्युतः |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} व॒व॒क्ष ऋ॒ष्वो, अस्तृ॑तः ||{9/34}{8.93.9}{8.9.13.9}{6.6.22.4}{1550, 713, 7524} गि॒रा¦वज्रः॑¦न¦सम्ऽभृ॑तः¦सऽब॑लः¦अन॑पऽच्युतः | व॒व॒क्षे¦ऋ॒ष्वः¦अस्तृ॑तः || |
दु॒र्गे चि᳚न्नः सु॒गं कृ॑धि गृणा॒न इ᳚न्द्र गिर्वणः |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} त्वं च॑ मघव॒न्वशः॑ ||{10/34}{8.93.10}{8.9.13.10}{6.6.22.5}{1551, 713, 7525} दुः॒ऽगे¦चि॒त्¦नः॒¦सु॒ऽगम्¦कृ॒धि॒¦गृ॒णा॒नः¦इ॒न्द्र॒¦गि॒र्व॒णः॒ | त्वम्¦च॒¦म॒घ॒ऽव॒न्¦वशः॑ || |
यस्य॑ ते॒ नू चि॑दा॒दिशं॒ न मि॒नन्ति॑ स्व॒राज्य᳚म् |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} न दे॒वो नाध्रि॑गु॒र्जनः॑ ||{11/34}{8.93.11}{8.9.13.11}{6.6.23.1}{1552, 713, 7526} यस्य॑¦ते॒¦नु¦चि॒त्¦आ॒ऽदिश᳚म्¦न¦मि॒नन्ति॑¦स्व॒ऽराज्य᳚म् | न¦दे॒वः¦न¦अध्रि॑ऽगुः¦जनः॑ || |
अधा᳚ ते॒, अप्र॑तिष्कुतं दे॒वी शुष्मं᳚ सपर्यतः |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} उ॒भे सु॑शिप्र॒ रोद॑सी ||{12/34}{8.93.12}{8.9.13.12}{6.6.23.2}{1553, 713, 7527} अध॑¦ते॒¦अप्र॑तिऽस्कुतम्¦दे॒वी इति॑¦शुष्म᳚म्¦स॒प॒र्य॒तः॒ | उ॒भे इति॑¦सु॒ऽशि॒प्र॒¦रोद॑सी॒ इति॑ || |
त्वमे॒तद॑धारयः कृ॒ष्णासु॒ रोहि॑णीषु च |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} परु॑ष्णीषु॒ रुश॒त्पयः॑ ||{13/34}{8.93.13}{8.9.13.13}{6.6.23.3}{1554, 713, 7528} त्वम्¦ए॒तत्¦अ॒धा॒र॒यः॒¦कृ॒ष्णासु॑¦रोहि॑णीषु¦च॒ | परु॑ष्णीषु¦रुश॑त्¦पयः॑ || |
वि यदहे॒रध॑ त्वि॒षो विश्वे᳚ दे॒वासो॒, अक्र॑मुः |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} वि॒दन् मृ॒गस्य॒ ताँ, अमः॑ ||{14/34}{8.93.14}{8.9.13.14}{6.6.23.4}{1555, 713, 7529} वि¦यत्¦अहेः᳚¦अध॑¦त्वि॒षः¦विश्वे᳚¦दे॒वासः॑¦अक्र॑मुः | वि॒दत्¦मृ॒गस्य॑¦तान्¦अमः॑ || |
आदु॑ मे निव॒रो भु॑वद्वृत्र॒हादि॑ष्ट॒ पौंस्य᳚म् |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} अजा᳚तशत्रु॒रस्तृ॑तः ||{15/34}{8.93.15}{8.9.13.15}{6.6.23.5}{1556, 713, 7530} आत्¦ऊँ॒ इति॑¦मे॒¦नि॒ऽव॒रः¦भु॒व॒त्¦वृ॒त्र॒ऽहा¦अ॒दि॒ष्ट॒¦पौंस्य᳚म् | अजा᳚तऽशत्रुः¦अस्तृ॑तः || |
श्रु॒तं वो᳚ वृत्र॒हन्त॑मं॒ प्र शर्धं᳚ चर्षणी॒नाम् |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} आ शु॑षे॒ राध॑से म॒हे ||{16/34}{8.93.16}{8.9.13.16}{6.6.24.1}{1557, 713, 7531} श्रु॒तम्¦वः॒¦वृ॒त्र॒हन्ऽत॑मम्¦प्र¦शर्ध᳚म्¦च॒र्ष॒णी॒नाम् | आ¦शु॒षे॒¦राध॑से¦म॒हे || |
अ॒या धि॒या च॑ गव्य॒या पुरु॑णाम॒न् पुरु॑ष्टुत |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} यत्सोमे᳚सोम॒ आभ॑वः ||{17/34}{8.93.17}{8.9.13.17}{6.6.24.2}{1558, 713, 7532} अ॒या¦धि॒या¦च॒¦ग॒व्य॒ऽया¦पुरु॑ऽनामन्¦पुरु॑ऽस्तुत | यत्¦सोमे᳚ऽसोमे¦आ¦अभ॑वः || |
बो॒धिन्म॑ना॒, इद॑स्तु नो वृत्र॒हा भूर्या᳚सुतिः |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} शृ॒णोतु॑ श॒क्र आ॒शिष᳚म् ||{18/34}{8.93.18}{8.9.13.18}{6.6.24.3}{1559, 713, 7533} बो॒धित्ऽम॑नाः¦इत्¦अ॒स्तु॒¦नः॒¦वृ॒त्र॒ऽहा¦भूरि॑ऽआसुतिः | शृ॒णोतु॑¦शु॒क्रः¦आ॒ऽशिष᳚म् || |
कया॒ त्वं न॑ ऊ॒त्याभि प्र म᳚न्दसे वृषन् |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} कया᳚ स्तो॒तृभ्य॒ आ भ॑र ||{19/34}{8.93.19}{8.9.13.19}{6.6.24.4}{1560, 713, 7534} कया᳚¦त्वम्¦नः॒¦ऊ॒त्या¦अ॒भि¦प्र¦म॒न्द॒से॒¦वृ॒ष॒न् | कया᳚¦स्तो॒तृऽभ्यः॑¦आ¦भ॒र॒ || |
कस्य॒ वृषा᳚ सु॒ते सचा᳚ नि॒युत्वा᳚न् वृष॒भो र॑णत् |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} वृ॒त्र॒हा सोम॑पीतये ||{20/34}{8.93.20}{8.9.13.20}{6.6.24.5}{1561, 713, 7535} कस्य॑¦वृषा᳚¦सु॒ते¦सचा᳚¦नि॒युत्वा᳚न्¦वृ॒ष॒भः¦र॒ण॒त् | वृ॒त्र॒ऽहा¦सोम॑ऽपीतये || |
अ॒भी षु ण॒स्त्वं र॒यिं म᳚न्दसा॒नः स॑ह॒स्रिण᳚म् |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} प्र॒य॒न्ता बो᳚धि दा॒शुषे᳚ ||{21/34}{8.93.21}{8.9.13.21}{6.6.25.1}{1562, 713, 7536} अ॒भि¦सु¦नः॒¦त्वम्¦र॒यिम्¦म॒न्द॒सा॒नः¦स॒ह॒स्रिण᳚म् | प्र॒ऽय॒न्ता¦बो॒धि॒¦दा॒शुषे᳚ || |
पत्नी᳚वन्तः सु॒ता, इ॒म उ॒शन्तो᳚ यन्ति वी॒तये᳚ |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} अ॒पां जग्मि᳚र्निचुम्पु॒णः ||{22/34}{8.93.22}{8.9.13.22}{6.6.25.2}{1563, 713, 7537} पत्नी᳚ऽवन्तः¦सु॒ताः¦इ॒मे¦उ॒शन्तः॑¦य॒न्ति॒¦वी॒तये᳚ | अ॒पाम्¦जग्मिः॑¦नि॒ऽचु॒म्पु॒णः || |
इ॒ष्टा होत्रा᳚, असृक्ष॒तेन्द्रं᳚ वृ॒धासो᳚, अध्व॒रे |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} अच्छा᳚वभृ॒थमोज॑सा ||{23/34}{8.93.23}{8.9.13.23}{6.6.25.3}{1564, 713, 7538} इ॒ष्टाः¦होत्राः᳚¦अ॒सृ॒क्ष॒त॒¦इन्द्र᳚म्¦वृ॒धासः॑¦अ॒ध्व॒रे | अच्छ॑¦अ॒व॒ऽभृ॒थम्¦ओज॑सा || |
इ॒ह त्या स॑ध॒माद्या॒ हरी॒ हिर᳚ण्यकेश्या |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} वो॒ळ्हाम॒भि प्रयो᳚ हि॒तम् ||{24/34}{8.93.24}{8.9.13.24}{6.6.25.4}{1565, 713, 7539} इ॒ह¦त्या¦स॒ध॒ऽमाद्या᳚¦हरी॒ इति॑¦हिर᳚ण्यऽकेश्या | वो॒ळ्हाम्¦अ॒भि¦प्रयः॑¦हि॒तम् || |
तुभ्यं॒ सोमाः᳚ सु॒ता, इ॒मे स्ती॒र्णं ब॒र्हिर्वि॑भावसो |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} स्तो॒तृभ्य॒ इन्द्र॒मा व॑ह ||{25/34}{8.93.25}{8.9.13.25}{6.6.25.5}{1566, 713, 7540} तुभ्य᳚म्¦सोमाः᳚¦सु॒ताः¦इ॒मे¦स्ती॒र्णम्¦ब॒र्हिः¦वि॒भा॒व॒सो॒ इति॑ विभाऽवसो | स्तो॒तृऽभ्यः॑¦इन्द्र᳚म्¦आ¦व॒ह॒ || |
आ ते॒ दक्षं॒ वि रो᳚च॒ना दध॒द्रत्ना॒ वि दा॒शुषे᳚ |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} स्तो॒तृभ्य॒ इन्द्र॑मर्चत ||{26/34}{8.93.26}{8.9.13.26}{6.6.26.1}{1567, 713, 7541} आ¦ते॒¦दक्ष᳚म्¦वि¦रो॒च॒ना¦द॒ध॒त्¦रत्ना᳚¦वि¦दा॒शुषे᳚ | स्तो॒तृऽभ्यः॑¦इन्द्र᳚म्¦अ॒र्च॒त॒ || |
आ ते᳚ दधामीन्द्रि॒यमु॒क्था विश्वा᳚ शतक्रतो |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} स्तो॒तृभ्य॑ इन्द्र मृळय ||{27/34}{8.93.27}{8.9.13.27}{6.6.26.2}{1568, 713, 7542} आ¦ते॒¦द॒धा॒मि॒¦इ॒न्द्रि॒यम्¦उ॒क्था¦विश्वा᳚¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | स्तो॒तृऽभ्यः॑¦इ॒न्द्र॒¦मृ॒ळ॒य॒ || |
भ॒द्रम्भ॑द्रं न॒ आ भ॒रेष॒मूर्जं᳚ शतक्रतो |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} यदि᳚न्द्र मृ॒ळया᳚सि नः ||{28/34}{8.93.28}{8.9.13.28}{6.6.26.3}{1569, 713, 7543} भ॒द्रम्ऽभ॑द्रम्¦नः॒¦आ¦भ॒र॒¦इष᳚म्¦ऊर्ज᳚म्¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | यत्¦इ॒न्द्र॒¦मृ॒ळया᳚सि¦नः॒ || |
स नो॒ विश्वा॒न्या भ॑र सुवि॒तानि॑ शतक्रतो |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} यदि᳚न्द्र मृ॒ळया᳚सि नः ||{29/34}{8.93.29}{8.9.13.29}{6.6.26.4}{1570, 713, 7544} सः¦नः॒¦विश्वा᳚नि¦आ¦भ॒र॒¦सु॒वि॒तानि॑¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | यत्¦इ॒न्द्र॒¦मृ॒ळया᳚सि¦नः॒ || |
त्वामिद्वृ॑त्रहन्तम सु॒ताव᳚न्तो हवामहे |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} यदि᳚न्द्र मृ॒ळया᳚सि नः ||{30/34}{8.93.30}{8.9.13.30}{6.6.26.5}{1571, 713, 7545} त्वाम्¦इत्¦वृ॒त्र॒ह॒न्ऽत॒म॒¦सु॒तऽव᳚न्तः¦ह॒वा॒म॒हे॒ | यत्¦इ॒न्द्र॒¦मृ॒ळया᳚सि¦नः॒ || |
उप॑ नो॒ हरि॑भिः सु॒तं या॒हि म॑दानां पते |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} उप॑ नो॒ हरि॑भिः सु॒तम् ||{31/34}{8.93.31}{8.9.13.31}{6.6.27.1}{1572, 713, 7546} उप॑¦नः॒¦हरि॑ऽभिः¦सु॒तम्¦या॒हि¦म॒दा॒ना॒म्¦प॒ते॒ | उप॑¦नः॒¦हरि॑ऽभिः¦सु॒तम् || |
द्वि॒ता यो वृ॑त्र॒हन्त॑मो वि॒द इन्द्रः॑ श॒तक्र॑तुः |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} उप॑ नो॒ हरि॑भिः सु॒तम् ||{32/34}{8.93.32}{8.9.13.32}{6.6.27.2}{1573, 713, 7547} द्वि॒ता¦यः¦वृ॒त्र॒हन्ऽत॑मः¦वि॒दे¦इन्द्रः॑¦श॒तऽक्र॑तुः | उप॑¦नः॒¦हरि॑ऽभिः¦सु॒तम् || |
त्वं हि वृ॑त्रहन्नेषां पा॒ता सोमा᳚ना॒मसि॑ |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री} उप॑ नो॒ हरि॑भिः सु॒तम् ||{33/34}{8.93.33}{8.9.13.33}{6.6.27.3}{1574, 713, 7548} त्वम्¦हि¦वृ॒त्र॒ऽह॒न्¦ए॒षा॒म्¦पा॒ता¦सोमा᳚नाम्¦असि॑ | उप॑¦नः॒¦हरि॑ऽभिः¦सु॒तम् || |
इन्द्र॑ इ॒षे द॑दातु न ऋभु॒क्षण॑मृ॒भुं र॒यिम् |{आङ्गिरसः सुकक्ष | इन्द्र ऋभवश्च | गायत्री} वा॒जी द॑दातु वा॒जिन᳚म् ||{34/34}{8.93.34}{8.9.13.34}{6.6.27.4}{1575, 713, 7549} इन्द्रः॑¦इ॒षे¦द॒दा॒तु॒¦नः॒¦ऋ॒भु॒क्षण᳚म्¦ऋ॒भुम्¦र॒यिम् | वा॒जी¦द॒दा॒तु॒¦वा॒जिन᳚म् || |
[94] गौर्धयतीति द्वादशर्चस्य सूक्तस्यांगिरसोबिंदुर्मरुतोगायत्री (पूतदक्षोवाऋषिः) | |
गौर्ध॑यति म॒रुतां᳚ श्रव॒स्युर्मा॒ता म॒घोना᳚म् |{आङ्गिरसो बिन्दुः | मरुतः | गायत्री} यु॒क्ता वह्नी॒ रथा᳚नाम् ||{1/12}{8.94.1}{8.10.1.1}{6.6.28.1}{1576, 714, 7550} गौः¦ध॒य॒ति॒¦म॒रुता᳚म्¦श्र॒व॒स्युः¦मा॒ता¦म॒घोना᳚म् | यु॒क्ता¦वह्निः॑¦रथा᳚नाम् || |
यस्या᳚ दे॒वा, उ॒पस्थे᳚ व्र॒ता विश्वे᳚ धा॒रय᳚न्ते |{आङ्गिरसो बिन्दुः | मरुतः | गायत्री} सूर्या॒मासा᳚ दृ॒शे कम् ||{2/12}{8.94.2}{8.10.1.2}{6.6.28.2}{1577, 714, 7551} यस्याः᳚¦दे॒वाः¦उ॒पऽस्थे᳚¦व्र॒ता¦विश्वे᳚¦धा॒रय᳚न्ते | सूर्या॒मासा᳚¦दृ॒शे¦कम् || |
तत्सु नो॒ विश्वे᳚, अ॒र्य आ सदा᳚ गृणन्ति का॒रवः॑ |{आङ्गिरसो बिन्दुः | मरुतः | गायत्री} म॒रुतः॒ सोम॑पीतये ||{3/12}{8.94.3}{8.10.1.3}{6.6.28.3}{1578, 714, 7552} तत्¦सु¦नः॒¦विश्वे᳚¦अ॒र्यः¦आ¦सदा᳚¦गृ॒ण॒न्ति॒¦का॒रवः॑ | म॒रुतः॑¦सोम॑ऽपीतये || |
अस्ति॒ सोमो᳚, अ॒यं सु॒तः पिब᳚न्त्यस्य म॒रुतः॑ |{आङ्गिरसो बिन्दुः | मरुतः | गायत्री} उ॒त स्व॒राजो᳚, अ॒श्विना᳚ ||{4/12}{8.94.4}{8.10.1.4}{6.6.28.4}{1579, 714, 7553} अस्ति॑¦सोमः॑¦अ॒यम्¦सु॒तः¦पिब᳚न्ति¦अ॒स्य॒¦म॒रुतः॑ | उ॒त¦स्व॒ऽराजः॑¦अ॒श्विना᳚ || |
पिब᳚न्ति मि॒त्रो, अ᳚र्य॒मा तना᳚ पू॒तस्य॒ वरु॑णः |{आङ्गिरसो बिन्दुः | मरुतः | गायत्री} त्रि॒ष॒ध॒स्थस्य॒ जाव॑तः ||{5/12}{8.94.5}{8.10.1.5}{6.6.28.5}{1580, 714, 7554} पिब᳚न्ति¦मि॒त्रः¦अ॒र्य॒मा¦तना᳚¦पू॒तस्य॑¦वरु॑णः | त्रि॒ऽस॒ध॒स्थस्य॑¦जाऽव॑तः || |
उ॒तो न्व॑स्य॒ जोष॒माँ, इन्द्रः॑ सु॒तस्य॒ गोम॑तः |{आङ्गिरसो बिन्दुः | मरुतः | गायत्री} प्रा॒तर्होते᳚व मत्सति ||{6/12}{8.94.6}{8.10.1.6}{6.6.28.6}{1581, 714, 7555} उ॒तो इति॑¦नु¦अ॒स्य॒¦जोष᳚म्¦आ¦इन्द्रः॑¦सु॒तस्य॑¦गोऽम॑तः | प्रा॒तः¦होता᳚ऽइव¦म॒त्स॒ति॒ || |
कद॑त्विषन्त सू॒रय॑स्ति॒र आप॑ इव॒ स्रिधः॑ |{आङ्गिरसो बिन्दुः | मरुतः | गायत्री} अर्ष᳚न्ति पू॒तद॑क्षसः ||{7/12}{8.94.7}{8.10.1.7}{6.6.29.1}{1582, 714, 7556} कत्¦अ॒त्वि॒ष॒न्त॒¦सू॒रयः॑¦ति॒रः¦आपः॑ऽइव¦स्रिधः॑ | अर्ष᳚न्ति¦पू॒तऽद॑क्षसः || |
कद्वो᳚, अ॒द्य म॒हानां᳚ दे॒वाना॒मवो᳚ वृणे |{आङ्गिरसो बिन्दुः | मरुतः | गायत्री} त्मना᳚ च द॒स्मव॑र्चसाम् ||{8/12}{8.94.8}{8.10.1.8}{6.6.29.2}{1583, 714, 7557} कत्¦वः॒¦अ॒द्य¦म॒हाना᳚म्¦दे॒वाना᳚म्¦अवः॑¦वृ॒णे॒ | त्मना᳚¦च॒¦द॒स्मऽव॑र्चसाम् || |
आ ये विश्वा॒ पार्थि॑वानि प॒प्रथ᳚न् रोच॒ना दि॒वः |{आङ्गिरसो बिन्दुः | मरुतः | गायत्री} म॒रुतः॒ सोम॑पीतये ||{9/12}{8.94.9}{8.10.1.9}{6.6.29.3}{1584, 714, 7558} आ¦ये¦विश्वा᳚¦पार्थि॑वानि¦प॒प्रथ॑न्¦रो॒च॒ना¦दि॒वः | म॒रुतः॑¦सोम॑ऽपीतये || |
त्यान्नु पू॒तद॑क्षसो दि॒वो वो᳚ मरुतो हुवे |{आङ्गिरसो बिन्दुः | मरुतः | गायत्री} अ॒स्य सोम॑स्य पी॒तये᳚ ||{10/12}{8.94.10}{8.10.1.10}{6.6.29.4}{1585, 714, 7559} त्यान्¦नु¦पू॒तऽद॑क्षसः¦दि॒वः¦वः॒¦म॒रु॒तः॒¦हु॒वे॒ | अ॒स्य¦सोम॑स्य¦पी॒तये᳚ || |
त्यान्नु ये वि रोद॑सी तस्त॒भुर्म॒रुतो᳚ हुवे |{आङ्गिरसो बिन्दुः | मरुतः | गायत्री} अ॒स्य सोम॑स्य पी॒तये᳚ ||{11/12}{8.94.11}{8.10.1.11}{6.6.29.5}{1586, 714, 7560} त्यान्¦नु¦ये¦वि¦रोद॑सी॒ इति॑¦त॒स्त॒भुः¦म॒रुतः॑¦हु॒वे॒ | अ॒स्य¦सोम॑स्य¦पी॒तये᳚ || |
त्यं नु मारु॑तं ग॒णं गि॑रि॒ष्ठां वृष॑णं हुवे |{आङ्गिरसो बिन्दुः | मरुतः | गायत्री} अ॒स्य सोम॑स्य पी॒तये᳚ ||{12/12}{8.94.12}{8.10.1.12}{6.6.29.6}{1587, 714, 7561} त्यम्¦नु¦मारु॑तम्¦ग॒णम्¦गि॒रि॒ऽस्थाम्¦वृष॑णम्¦हु॒वे॒ | अ॒स्य¦सोम॑स्य¦पी॒तये᳚ || |
[95] आत्वागिरइति नवर्चस्य सूक्तस्याङ्गिरसस्तिरश्चीरिंद्रोनुष्टुप् | |
आ त्वा॒ गिरो᳚ र॒थीरि॒वास्थुः॑ सु॒तेषु॑ गिर्वणः |{आङ्गिरसो नृमेधः | इन्द्रः | अनुष्टुप्} अ॒भि त्वा॒ सम॑नूष॒तेन्द्र॑ व॒त्सं न मा॒तरः॑ ||{1/9}{8.95.1}{8.10.2.1}{6.6.30.1}{1588, 715, 7562} आ¦त्वा॒¦गिरः॑¦र॒थीःऽइ᳚व¦अस्थुः॑¦सु॒तेषु॑¦गि॒र्व॒णः॒ | अ॒भि¦त्वा॒¦सम्¦अ॒नू॒ष॒त॒¦इन्द्र॑¦व॒त्सम्¦न¦मा॒तरः॑ || |
आ त्वा᳚ शु॒क्रा, अ॑चुच्यवुः सु॒तास॑ इन्द्र गिर्वणः |{आङ्गिरसो नृमेधः | इन्द्रः | अनुष्टुप्} पिबा॒ त्व१॑(अ॒)स्यान्ध॑स॒ इन्द्र॒ विश्वा᳚सु ते हि॒तम् ||{2/9}{8.95.2}{8.10.2.2}{6.6.30.2}{1589, 715, 7563} आ¦त्वा॒¦शु॒क्राः¦अ॒चु॒च्य॒वुः॒¦सु॒तासः॑¦इ॒न्द्र॒¦गि॒र्व॒णः॒ | पिब॑¦तु¦अ॒स्य¦अन्ध॑सः¦इन्द्र॑¦विश्वा᳚सु¦ते॒¦हि॒तम् || |
पिबा॒ सोमं॒ मदा᳚य॒ कमिन्द्र॑ श्ये॒नाभृ॑तं सु॒तम् |{आङ्गिरसो नृमेधः | इन्द्रः | अनुष्टुप्} त्वं हि शश्व॑तीनां॒ पती॒ राजा᳚ वि॒शामसि॑ ||{3/9}{8.95.3}{8.10.2.3}{6.6.30.3}{1590, 715, 7564} पिब॑¦सोम᳚म्¦मदा᳚य¦कम्¦इन्द्र॑¦श्ये॒नऽआ᳚भृतम्¦सु॒तम् | त्वम्¦हि¦शश्व॑तीनाम्¦पतिः॑¦राजा᳚¦वि॒शाम्¦असि॑ || |
श्रु॒धी हवं᳚ तिर॒श्च्या, इन्द्र॒ यस्त्वा᳚ सप॒र्यति॑ |{आङ्गिरसो नृमेधः | इन्द्रः | अनुष्टुप्} सु॒वीर्य॑स्य॒ गोम॑तो रा॒यस्पू᳚र्धि म॒हाँ, अ॑सि ||{4/9}{8.95.4}{8.10.2.4}{6.6.30.4}{1591, 715, 7565} श्रु॒धि¦हव᳚म्¦ति॒र॒श्च्याः¦इन्द्र॑¦यः¦त्वा॒¦स॒प॒र्यति॑ | सु॒ऽवीर्य॑स्य¦गोऽम॑तः¦रा॒यः¦पू॒र्धि॒¦म॒हान्¦अ॒सि॒ || |
इन्द्र॒ यस्ते॒ नवी᳚यसीं॒ गिरं᳚ म॒न्द्रामजी᳚जनत् |{आङ्गिरसो नृमेधः | इन्द्रः | अनुष्टुप्} चि॒कि॒त्विन्म॑नसं॒ धियं᳚ प्र॒त्नामृ॒तस्य॑ पि॒प्युषी᳚म् ||{5/9}{8.95.5}{8.10.2.5}{6.6.30.5}{1592, 715, 7566} इन्द्र॑¦यः¦ते॒¦नवी᳚यसीम्¦गिर᳚म्¦म॒न्द्राम्¦अजी᳚जनत् | चि॒कि॒त्वित्ऽम॑नसम्¦धिय᳚म्¦प्र॒त्नाम्¦ऋ॒तस्य॑¦पि॒प्युषी᳚म् || |
तमु॑ ष्टवाम॒ यं गिर॒ इन्द्र॑मु॒क्थानि॑ वावृ॒धुः |{आङ्गिरसो नृमेधः | इन्द्रः | अनुष्टुप्} पु॒रूण्य॑स्य॒ पौंस्या॒ सिषा᳚सन्तो वनामहे ||{6/9}{8.95.6}{8.10.2.6}{6.6.31.1}{1593, 715, 7567} तम्¦ऊँ॒ इति॑¦स्त॒वा॒म॒¦यम्¦गिरः॑¦इन्द्र᳚म्¦उ॒क्थानि॑¦व॒वृ॒धुः | पु॒रूणि॑¦अ॒स्य॒¦पौंस्या᳚¦सिसा᳚सन्तः¦व॒ना॒म॒हे॒ || |
एतो॒ न् विन्द्रं॒ स्तवा᳚म शु॒द्धं शु॒द्धेन॒ साम्ना᳚ |{आङ्गिरसो नृमेधः | इन्द्रः | अनुष्टुप्} शु॒द्धैरु॒क्थैर्वा᳚वृ॒ध्वांसं᳚ शु॒द्ध आ॒शीर्वा᳚न्ममत्तु ||{7/9}{8.95.7}{8.10.2.7}{6.6.31.2}{1594, 715, 7568} एतो॒ इति॑¦नु¦इन्द्र᳚म्¦स्तवा᳚म¦शु॒द्धम्¦शु॒द्धेन॑¦साम्ना᳚ | शु॒द्धैः¦उ॒क्थैः¦व॒वृ॒ध्वांस᳚म्¦शु॒द्धः¦आ॒शीःऽवा᳚न्¦म॒म॒त्तु॒ || |
इन्द्र॑ शु॒द्धो न॒ आ ग॑हि शु॒द्धः शु॒द्धाभि॑रू॒तिभिः॑ |{आङ्गिरसो नृमेधः | इन्द्रः | अनुष्टुप्} शु॒द्धो र॒यिं नि धा᳚रय शु॒द्धो म॑मद्धि सो॒म्यः ||{8/9}{8.95.8}{8.10.2.8}{6.6.31.3}{1595, 715, 7569} इन्द्र॑¦शु॒द्धः¦नः॒¦आ¦ग॒हि॒¦शु॒द्धः¦शु॒द्धाभिः॑¦ऊ॒तिऽभिः॑ | शु॒द्धः¦र॒यिम्¦नि¦धा॒र॒य॒¦शु॒द्धः¦म॒म॒द्धि॒¦सो॒म्यः || |
इन्द्र॑ शु॒द्धो हि नो᳚ र॒यिं शु॒द्धो रत्ना᳚नि दा॒शुषे᳚ |{आङ्गिरसो नृमेधः | इन्द्रः | अनुष्टुप्} शु॒द्धो वृ॒त्राणि॑ जिघ्नसे शु॒द्धो वाजं᳚ सिषाससि ||{9/9}{8.95.9}{8.10.2.9}{6.6.31.4}{1596, 715, 7570} इन्द्र॑¦शु॒द्धः¦हि¦नः॒¦र॒यिम्¦शु॒द्धः¦रत्ना᳚नि¦दा॒शुषे᳚ | शु॒द्धः¦वृ॒त्राणि॑¦जि॒घ्न॒से॒¦शु॒द्धः¦वाज᳚म्¦सि॒सा॒स॒सि॒ || |
[96] अस्माइत्येकविंशत्यृचस्य सूक्तस्याङ्गिरसस्तिरश्चीरिंद्रश्चतुर्दश्याइंद्रामरुतः पंचदश्याइंद्राबृहस्पतीत्रिष्टुप् चतुर्थीविराट् (द्युतानोवाऋषिः) | |
अ॒स्मा, उ॒षास॒ आति॑रन्त॒ याम॒मिन्द्रा᳚य॒ नक्त॒मूर्म्याः᳚ सु॒वाचः॑ |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्} अ॒स्मा, आपो᳚ मा॒तरः॑ स॒प्त त॑स्थु॒र्नृभ्य॒स्तरा᳚य॒ सिन्ध॑वः सुपा॒राः ||{1/21}{8.96.1}{8.10.3.1}{6.6.32.1}{1597, 716, 7571} अ॒स्मै¦उ॒षसः॑¦आ¦अ॒ति॒र॒न्त॒¦याम᳚म्¦इन्द्रा᳚य¦नक्त᳚म्¦ऊर्म्याः᳚¦सु॒ऽवाचः॑ | |
अति॑विद्धा विथु॒रेणा᳚ चि॒दस्त्रा॒ त्रिः स॒प्त सानु॒ संहि॑ता गिरी॒णाम् |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्} न तद्दे॒वो न मर्त्य॑स्तुतुर्या॒द्यानि॒ प्रवृ॑द्धो वृष॒भश्च॒कार॑ ||{2/21}{8.96.2}{8.10.3.2}{6.6.32.2}{1598, 716, 7572} अति॑ऽविद्धा¦वि॒थु॒रेण॑¦चि॒त्¦अस्रा᳚¦त्रिः¦स॒प्त¦सानु॑¦सम्ऽहि॑ता¦गि॒री॒णाम् | |
इन्द्र॑स्य॒ वज्र॑ आय॒सो निमि॑श्ल॒ इन्द्र॑स्य बा॒ह्वोर्भूयि॑ष्ठ॒मोजः॑ |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्} शी॒र्षन्निन्द्र॑स्य॒ क्रत॑वो निरे॒क आ॒सन्नेष᳚न्त॒ श्रुत्या᳚, उपा॒के ||{3/21}{8.96.3}{8.10.3.3}{6.6.32.3}{1599, 716, 7573} इन्द्र॑स्य¦वज्रः॑¦आ॒य॒सः¦निऽमि॑श्लः¦इन्द्र॑स्य¦बा॒ह्वोः¦भूयि॑ष्ठम्¦ओजः॑ | |
मन्ये᳚ त्वा य॒ज्ञियं᳚ य॒ज्ञिया᳚नां॒ मन्ये᳚ त्वा॒ च्यव॑न॒मच्यु॑तानाम् |{आङ्गिरसो नृमेधः | इन्द्रः | विराट्} मन्ये᳚ त्वा॒ सत्व॑नामिन्द्र के॒तुं मन्ये᳚ त्वा वृष॒भं च॑र्षणी॒नाम् ||{4/21}{8.96.4}{8.10.3.4}{6.6.32.4}{1600, 716, 7574} मन्ये᳚¦त्वा॒¦य॒ज्ञिय᳚म्¦य॒ज्ञिया᳚नाम्¦मन्ये᳚¦त्वा॒¦च्यव॑नम्¦अच्यु॑तानाम् | मन्ये᳚¦त्वा॒¦सत्व॑नाम्¦इ॒न्द्र॒¦के॒तुम्¦मन्ये᳚¦त्वा॒¦वृ॒ष॒भम्¦च॒र्ष॒णी॒नाम् || |
आ यद्वज्रं᳚ बा॒ह्वोरि᳚न्द्र॒ धत्से᳚ मद॒च्युत॒मह॑ये॒ हन्त॒वा, उ॑ |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्} प्र पर्व॑ता॒, अन॑वन्त॒ प्र गावः॒ प्र ब्र॒ह्माणो᳚, अभि॒नक्ष᳚न्त॒ इन्द्र᳚म् ||{5/21}{8.96.5}{8.10.3.5}{6.6.32.5}{1601, 716, 7575} आ¦यत्¦वज्र᳚म्¦बा॒ह्वोः¦इ॒न्द्र॒¦धत्से᳚¦म॒द॒ऽच्युत᳚म्¦अह॑ये¦हन्त॒वै¦ऊँ॒ इति॑ | |
तमु॑ ष्टवाम॒ य इ॒मा ज॒जान॒ विश्वा᳚ जा॒तान्यव॑राण्यस्मात् |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्} इन्द्रे᳚ण मि॒त्रं दि॑धिषेम गी॒र्भिरुपो॒ नमो᳚भिर्वृष॒भं वि॑शेम ||{6/21}{8.96.6}{8.10.3.6}{6.6.33.1}{1602, 716, 7576} तम्¦ऊँ॒ इति॑¦स्त॒वा॒म॒¦यः¦इ॒मा¦ज॒जान॑¦विश्वा᳚¦जा॒तानि॑¦अव॑राणि¦अ॒स्मा॒त् | |
वृ॒त्रस्य॑ त्वा श्व॒सथा॒दीष॑माणा॒ विश्वे᳚ दे॒वा, अ॑जहु॒र्ये सखा᳚यः |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्} म॒रुद्भि॑रिन्द्र स॒ख्यं ते᳚, अ॒स्त्वथे॒मा विश्वाः॒ पृत॑ना जयासि ||{7/21}{8.96.7}{8.10.3.7}{6.6.33.2}{1603, 716, 7577} वृ॒त्रस्य॑¦त्वा॒¦श्व॒सथा᳚त्¦ईष॑माणाः¦विश्वे᳚¦दे॒वाः¦अ॒ज॒हुः॒¦ये¦सखा᳚यः | |
त्रिः ष॒ष्टिस्त्वा᳚ म॒रुतो᳚ वावृधा॒ना, उ॒स्रा, इ॑व रा॒शयो᳚ य॒ज्ञिया᳚सः |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्} उप॒ त्वेमः॑ कृ॒धि नो᳚ भाग॒धेयं॒ शुष्मं᳚ त ए॒ना ह॒विषा᳚ विधेम ||{8/21}{8.96.8}{8.10.3.8}{6.6.33.3}{1604, 716, 7578} त्रिः¦ष॒ष्टिः¦त्वा॒¦म॒रुतः॑¦व॒वृ॒धा॒नाः¦उ॒स्राःऽइ᳚व¦रा॒शयः॑¦य॒ज्ञिया᳚सः | |
ति॒ग्ममायु॑धं म॒रुता॒मनी᳚कं॒ कस्त॑ इन्द्र॒ प्रति॒ वज्रं᳚ दधर्ष |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्} अ॒ना॒यु॒धासो॒, असु॑रा, अदे॒वाश्च॒क्रेण॒ ताँ, अप॑ वप ऋजीषिन् ||{9/21}{8.96.9}{8.10.3.9}{6.6.33.4}{1605, 716, 7579} ति॒ग्मम्¦आयु॑धम्¦म॒रुता᳚म्¦अनी᳚कम्¦कः¦ते॒¦इ॒न्द्र॒¦प्रति॑¦वज्र᳚म्¦द॒ध॒र्ष॒ | |
म॒ह उ॒ग्राय॑ त॒वसे᳚ सुवृ॒क्तिं प्रेर॑य शि॒वत॑माय प॒श्वः |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्} गिर्वा᳚हसे॒ गिर॒ इन्द्रा᳚य पू॒र्वीर्धे॒हि त॒न्वे᳚ कु॒विद॒ङ्ग वेद॑त् ||{10/21}{8.96.10}{8.10.3.10}{6.6.33.5}{1606, 716, 7580} म॒हे¦उ॒ग्राय॑¦त॒वसे᳚¦सु॒ऽवृ॒क्तिम्¦प्र¦ई॒र॒य॒¦शि॒वऽत॑माय¦प॒श्वः | |
उ॒क्थवा᳚हसे वि॒भ्वे᳚ मनी॒षां द्रुणा॒ न पा॒रमी᳚रया न॒दीना᳚म् |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्} नि स्पृ॑श धि॒या त॒न् वि॑ श्रु॒तस्य॒ जुष्ट॑तरस्य कु॒विद॒ङ्ग वेद॑त् ||{11/21}{8.96.11}{8.10.3.11}{6.6.34.1}{1607, 716, 7581} उ॒क्थऽवा᳚हसे¦वि॒ऽभ्वे᳚¦म॒नी॒षाम्¦द्रुणा᳚¦न¦पा॒रम्¦ई॒र॒य॒¦न॒दीना᳚म् | |
तद्वि॑विड्ढि॒ यत्त॒ इन्द्रो॒ जुजो᳚षत् स्तु॒हि सु॑ष्टु॒तिं नम॒सा वि॑वास |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्} उप॑ भूष जरित॒र्मा रु॑वण्यः श्रा॒वया॒ वाचं᳚ कु॒विद॒ङ्ग वेद॑त् ||{12/21}{8.96.12}{8.10.3.12}{6.6.34.2}{1608, 716, 7582} तत्¦वि॒वि॒ड्ढि॒¦यत्¦ते॒¦इन्द्रः॑¦जुजो᳚षत्¦स्तु॒हि¦सु॒ऽस्तु॒तिम्¦नम॑सा¦आ¦वि॒वा॒स॒ | |
अव॑ द्र॒प्सो, अं᳚शु॒मती᳚मतिष्ठदिया॒नः कृ॒ष्णो द॒शभिः॑ स॒हस्रैः᳚ |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्} आव॒त्तमिन्द्रः॒ शच्या॒ धम᳚न्त॒मप॒ स्नेहि॑तीर्नृ॒मणा᳚, अधत्त ||{13/21}{8.96.13}{8.10.3.13}{6.6.34.3}{1609, 716, 7583} अव॑¦द्र॒प्सः¦अं॒शु॒ऽमती᳚म्¦अ॒ति॒ष्ठ॒त्¦इ॒या॒नः¦कृ॒ष्णः¦द॒शऽभिः॑¦स॒हस्रैः᳚ | |
द्र॒प्सम॑पश्यं॒ विषु॑णे॒ चर᳚न्तमुपह्व॒रे न॒द्यो᳚, अंशु॒मत्याः᳚ |{आङ्गिरसो नृमेधः | इन्द्रः, मरुतः | त्रिष्टुप्} नभो॒ न कृ॒ष्णम॑वतस्थि॒वांस॒मिष्या᳚मि वो वृषणो॒ युध्य॑ता॒जौ ||{14/21}{8.96.14}{8.10.3.14}{6.6.34.4}{1610, 716, 7584} द्र॒प्सम्¦अ॒प॒श्य॒म्¦विषु॑णे¦चर᳚न्तम्¦उ॒प॒ऽह्व॒रे¦न॒द्यः॑¦अं॒शु॒ऽमत्याः᳚ | |
अध॑ द्र॒प्सो, अं᳚शु॒मत्या᳚, उ॒पस्थेऽधा᳚रयत्त॒न्वं᳚ तित्विषा॒णः |{आङ्गिरसो नृमेधः | इंद्राबृहस्पती | त्रिष्टुप्} विशो॒, अदे᳚वीर॒भ्या॒३॑(आ॒)चर᳚न्ती॒र्बृह॒स्पति॑ना यु॒जेन्द्रः॑ ससाहे ||{15/21}{8.96.15}{8.10.3.15}{6.6.34.5}{1611, 716, 7585} अध॑¦द्र॒प्सः¦अं॒शु॒ऽमत्याः᳚¦उ॒पऽस्थे᳚¦अधा᳚रयत्¦त॒न्व᳚म्¦ति॒त्वि॒षा॒णः | |
त्वं ह॒ त्यत्स॒प्तभ्यो॒ जाय॑मानोऽश॒त्रुभ्यो᳚, अभवः॒ शत्रु॑रिन्द्र |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्} गू॒ळ्हे द्यावा᳚पृथि॒वी, अन्व॑विन्दो विभु॒मद्भ्यो॒ भुव॑नेभ्यो॒ रणं᳚ धाः ||{16/21}{8.96.16}{8.10.3.16}{6.6.35.1}{1612, 716, 7586} त्वम्¦ह॒¦त्यत्¦स॒प्तऽभ्यः॑¦जाय॑मानः¦अ॒श॒त्रुऽभ्यः॑¦अ॒भ॒वः॒¦शत्रुः॑¦इ॒न्द्र॒ | |
त्वं ह॒ त्यद॑प्रतिमा॒नमोजो॒ वज्रे᳚ण वज्रिन्धृषि॒तो ज॑घन्थ |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्} त्वं शुष्ण॒स्यावा᳚तिरो॒ वध॑त्रै॒स्त्वं गा, इ᳚न्द्र॒ शच्येद॑विन्दः ||{17/21}{8.96.17}{8.10.3.17}{6.6.35.2}{1613, 716, 7587} त्वम्¦ह॒¦त्यत्¦अ॒प्र॒ति॒ऽमा॒नम्¦ओजः॑¦वज्रे᳚ण¦व॒ज्रि॒न्¦धृ॒षि॒तः¦ज॒घ॒न्थ॒ | |
त्वं ह॒ त्यद्वृ॑षभ चर्षणी॒नां घ॒नो वृ॒त्राणां᳚ तवि॒षो ब॑भूथ |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्} त्वं सिन्धूँ᳚रसृजस्तस्तभा॒नान्त्वम॒पो, अ॑जयो दा॒सप॑त्नीः ||{18/21}{8.96.18}{8.10.3.18}{6.6.35.3}{1614, 716, 7588} त्वम्¦ह॒¦त्यत्¦वृ॒ष॒भ॒¦च॒र्ष॒णी॒नाम्¦घ॒नः¦वृ॒त्राणा᳚म्¦त॒वि॒षः¦ब॒भू॒थ॒ | |
स सु॒क्रतू॒ रणि॑ता॒ यः सु॒तेष्वनु॑त्तमन्यु॒र्यो, अहे᳚व रे॒वान् |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्} य एक॒ इन्नर्यपां᳚सि॒ कर्ता॒ स वृ॑त्र॒हा प्रतीद॒न्यमा᳚हुः ||{19/21}{8.96.19}{8.10.3.19}{6.6.35.4}{1615, 716, 7589} सः¦सु॒ऽक्रतुः॑¦रणि॑ता¦यः¦सु॒तेषु॑¦अनु॑त्तऽमन्युः¦यः¦अहा᳚ऽइव¦रे॒वान् | |
स वृ॑त्र॒हेन्द्र॑श्चर्षणी॒धृत्तं सु॑ष्टु॒त्या हव्यं᳚ हुवेम |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्} स प्रा᳚वि॒ता म॒घवा᳚ नोऽधिव॒क्ता स वाज॑स्य श्रव॒स्य॑स्य दा॒ता ||{20/21}{8.96.20}{8.10.3.20}{6.6.35.5}{1616, 716, 7590} सः¦वृ॒त्र॒ऽहा¦इन्द्रः॑¦च॒र्ष॒णि॒ऽधृत्¦तम्¦सु॒ऽस्तु॒त्या¦हव्य᳚म्¦हु॒वे॒म॒ | |
स वृ॑त्र॒हेन्द्र॑ ऋभु॒क्षाः स॒द्यो ज॑ज्ञा॒नो हव्यो᳚ बभूव |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्} कृ॒ण्वन्नपां᳚सि॒ नर्या᳚ पु॒रूणि॒ सोमो॒ न पी॒तो हव्यः॒ सखि॑भ्यः ||{21/21}{8.96.21}{8.10.3.21}{6.6.35.6}{1617, 716, 7591} सः¦वृ॒त्र॒ऽहा¦इन्द्रः॑¦ऋ॒भु॒क्षाः¦स॒द्यः¦ज॒ज्ञा॒नः¦हव्यः॑¦ब॒भू॒व॒ | |
[97] याइंद्रेति पंचदशर्चस्य सूक्तस्य काश्यपोरेभइंद्रो बृहती दशम्याद्याः क्रमेणातिजगत्युपरिष्टाद्बृहत्योजगतीत्रिष्टुप्जगत्यः | |
या, इ᳚न्द्र॒ भुज॒ आभ॑रः॒ स्व᳚र्वाँ॒, असु॑रेभ्यः |{काश्यपो रेभः | इन्द्रः | बृहती} स्तो॒तार॒मिन्म॑घवन्नस्य वर्धय॒ ये च॒ त्वे वृ॒क्तब᳚र्हिषः ||{1/15}{8.97.1}{8.10.4.1}{6.6.36.1}{1618, 717, 7592} याः¦इ॒न्द्र॒¦भुजः॑¦आ¦अभ॑रः¦स्वः॑ऽवान्¦असु॑रेभ्यः | |
यमि᳚न्द्र दधि॒षे त्वमश्वं॒ गां भा॒गमव्य॑यम् |{काश्यपो रेभः | इन्द्रः | बृहती} यज॑माने सुन्व॒ति दक्षि॑णावति॒ तस्मि॒न्तं धे᳚हि॒ मा प॒णौ ||{2/15}{8.97.2}{8.10.4.2}{6.6.36.2}{1619, 717, 7593} यम्¦इ॒न्द्र॒¦द॒धि॒षे¦त्वम्¦अश्व᳚म्¦गाम्¦भा॒गम्¦अव्य॑यम् | |
य इ᳚न्द्र॒ सस्त्य᳚व्र॒तो᳚ऽनु॒ष्वाप॒मदे᳚वयुः |{काश्यपो रेभः | इन्द्रः | बृहती} स्वैः ष एवै᳚र्मुमुर॒त्पोष्यं᳚ र॒यिं स॑नु॒तर्धे᳚हि॒ तं ततः॑ ||{3/15}{8.97.3}{8.10.4.3}{6.6.36.3}{1620, 717, 7594} यः¦इ॒न्द्र॒¦सस्ति॑¦अ॒व्र॒तः¦अ॒नु॒ऽस्वाप᳚म्¦अदे᳚वऽयुः | |
यच्छ॒क्रासि॑ परा॒वति॒ यद᳚र्वा॒वति॑ वृत्रहन् |{काश्यपो रेभः | इन्द्रः | बृहती} अत॑स्त्वा गी॒र्भिर्द्यु॒गदि᳚न्द्र के॒शिभिः॑ सु॒तावाँ॒, आ वि॑वासति ||{4/15}{8.97.4}{8.10.4.4}{6.6.36.4}{1621, 717, 7595} यत्¦श॒क्र॒¦असि॑¦प॒रा॒ऽवति॑¦यत्¦अ॒र्वा॒ऽवति॑¦वृ॒त्र॒ऽह॒न् | |
यद्वासि॑ रोच॒ने दि॒वः स॑मु॒द्रस्याधि॑ वि॒ष्टपि॑ |{काश्यपो रेभः | इन्द्रः | बृहती} यत्पार्थि॑वे॒ सद॑ने वृत्रहन्तम॒ यद॒न्तरि॑क्ष॒ आ ग॑हि ||{5/15}{8.97.5}{8.10.4.5}{6.6.36.5}{1622, 717, 7596} यत्¦वा॒¦असि॑¦रो॒च॒ने¦दि॒वः¦स॒मु॒द्रस्य॑¦अधि॑¦वि॒ष्टपि॑ | |
स नः॒ सोमे᳚षु सोमपाः सु॒तेषु॑ शवसस्पते |{काश्यपो रेभः | इन्द्रः | बृहती} मा॒दय॑स्व॒ राध॑सा सू॒नृता᳚व॒तेन्द्र॑ रा॒या परी᳚णसा ||{6/15}{8.97.6}{8.10.4.6}{6.6.37.1}{1623, 717, 7597} सः¦नः॒¦सोमे᳚षु¦सो॒म॒ऽपाः॒¦सु॒तेषु॑¦श॒व॒सः॒¦प॒ते॒ | |
मा न॑ इन्द्र॒ परा᳚ वृण॒ग्भवा᳚ नः सध॒माद्यः॑ |{काश्यपो रेभः | इन्द्रः | अनुष्टुप्} त्वं न॑ ऊ॒ती त्वमिन्न॒ आप्यं॒ मा न॑ इन्द्र॒ परा᳚ वृणक् ||{7/15}{8.97.7}{8.10.4.7}{6.6.37.2}{1624, 717, 7598} मा¦नः॒¦इ॒न्द्र॒¦परा᳚¦वृ॒ण॒क्¦भव॑¦नः॒¦स॒ध॒ऽमाद्यः॑ | त्वम्¦नः॒¦ऊ॒ती¦त्वम्¦इत्¦नः॒¦आप्य᳚म्¦मा¦नः॒¦इ॒न्द्र॒¦परा᳚¦वृ॒ण॒क् || |
अ॒स्मे, इ᳚न्द्र॒ सचा᳚ सु॒ते नि ष॑दा पी॒तये॒ मधु॑ |{काश्यपो रेभः | इन्द्रः | बृहती} कृ॒धी ज॑रि॒त्रे म॑घव॒न्नवो᳚ म॒हद॒स्मे, इ᳚न्द्र॒ सचा᳚ सु॒ते ||{8/15}{8.97.8}{8.10.4.8}{6.6.37.3}{1625, 717, 7599} अ॒स्मे इति॑¦इ॒न्द्र॒¦सचा᳚¦सु॒ते¦नि¦स॒द॒¦पी॒तये᳚¦मधु॑ | |
न त्वा᳚ दे॒वास॑ आशत॒ न मर्त्या᳚सो, अद्रिवः |{काश्यपो रेभः | इन्द्रः | बृहती} विश्वा᳚ जा॒तानि॒ शव॑साभि॒भूर॑सि॒ न त्वा᳚ दे॒वास॑ आशत ||{9/15}{8.97.9}{8.10.4.9}{6.6.37.4}{1626, 717, 7600} न¦त्वा॒¦दे॒वासः॑¦आ॒श॒त॒¦न¦मर्त्या᳚सः¦अ॒द्रि॒ऽवः॒ | |
विश्वाः॒ पृत॑ना, अभि॒भूत॑रं॒ नरं᳚ स॒जूस्त॑तक्षु॒रिन्द्रं᳚ जज॒नुश्च॑ रा॒जसे᳚ |{काश्यपो रेभः | इन्द्रः | जगती} क्रत्वा॒ वरि॑ष्ठं॒ वर॑ आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठं त॒वसं᳚ तर॒स्विन᳚म् ||{10/15}{8.97.10}{8.10.4.10}{6.6.37.5}{1627, 717, 7601} विश्वाः᳚¦पृत॑नाः¦अ॒भि॒ऽभूत॑रम्¦नर᳚म्¦स॒ऽजूः¦त॒त॒क्षुः॒¦इन्द्र᳚म्¦ज॒ज॒नुः¦च॒¦रा॒जसे᳚ | |
समीं᳚ रे॒भासो᳚, अस्वर॒न्निन्द्रं॒ सोम॑स्य पी॒तये᳚ |{काश्यपो रेभः | इन्द्रः | उपरिष्टाद्बृहती} स्व॑र्पतिं॒ यदीं᳚ वृ॒धे धृ॒तव्र॑तो॒ ह्योज॑सा॒ समू॒तिभिः॑ ||{11/15}{8.97.11}{8.10.4.11}{6.6.38.1}{1628, 717, 7602} सम्¦ई॒म्¦रे॒भासः॑¦अ॒स्व॒र॒न्¦इन्द्र᳚म्¦सोम॑स्य¦पी॒तये᳚ | |
ने॒मिं न॑मन्ति॒ चक्ष॑सा मे॒षं विप्रा᳚, अभि॒स्वरा᳚ |{काश्यपो रेभः | इन्द्रः | उपरिष्टाद्बृहती} सु॒दी॒तयो᳚ वो, अ॒द्रुहोऽपि॒ कर्णे᳚ तर॒स्विनः॒ समृक्व॑भिः ||{12/15}{8.97.12}{8.10.4.12}{6.6.38.2}{1629, 717, 7603} ने॒मिम्¦न॒म॒न्ति॒¦चक्ष॑सा¦मे॒षम्¦विप्राः᳚¦अ॒भि॒ऽस्वरा᳚ | |
तमिन्द्रं᳚ जोहवीमि म॒घवा᳚नमु॒ग्रं स॒त्रा दधा᳚न॒मप्र॑तिष्कुतं॒ शवां᳚सि |{काश्यपो रेभः | इन्द्रः | जगती} मंहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो᳚ व॒वर्त॑द्रा॒ये नो॒ विश्वा᳚ सु॒पथा᳚ कृणोतु व॒ज्री ||{13/15}{8.97.13}{8.10.4.13}{6.6.38.3}{1630, 717, 7604} तम्¦इन्द्र᳚म्¦जो॒ह॒वी॒मि॒¦म॒घऽवा᳚नम्¦उ॒ग्रम्¦स॒त्रा¦दधा᳚नम्¦अप्र॑तिऽस्कुतम्¦शवां᳚सि | |
त्वं पुर॑ इन्द्र चि॒किदे᳚ना॒ व्योज॑सा शविष्ठ शक्र नाश॒यध्यै᳚ |{काश्यपो रेभः | इन्द्रः | त्रिष्टुप्} त्वद्विश्वा᳚नि॒ भुव॑नानि वज्रि॒न्द्यावा᳚ रेजेते पृथि॒वी च॑ भी॒षा ||{14/15}{8.97.14}{8.10.4.14}{6.6.38.4}{1631, 717, 7605} त्वम्¦पुरः॑¦इ॒न्द्र॒¦चि॒कित्¦ए॒नाः॒¦वि¦ओज॑सा¦श॒वि॒ष्ठ॒¦श॒क्र॒¦ना॒श॒यध्यै᳚ | |
तन्म॑ ऋ॒तमि᳚न्द्र शूर चित्र पात्व॒पो न व॑ज्रिन्दुरि॒ताति॑ पर्षि॒ भूरि॑ |{काश्यपो रेभः | इन्द्रः | जगती} क॒दा न॑ इन्द्र रा॒य आ द॑शस्येर्वि॒श्वप्स्न्य॑स्य स्पृह॒याय्य॑स्य राजन् ||{15/15}{8.97.15}{8.10.4.15}{6.6.38.5}{1632, 717, 7606} तत्¦मा॒¦ऋ॒तम्¦इ॒न्द्र॒¦शू॒र॒¦चि॒त्र॒¦पा॒तु॒¦अ॒पः¦न¦व॒ज्रि॒न्¦दुः॒ऽइ॒ता¦अति॑¦प॒र्षि॒¦भूरि॑ | |
[98] इंद्रायसामेति द्वादशर्चस्यसूक्तस्यांगिरसोनृमेधइंद्र उष्णिक् सप्तमीदशम्येकादश्यः ककुभो नवम्यंत्येपुरउष्णिहौ | |
इन्द्रा᳚य॒ साम॑ गायत॒ विप्रा᳚य बृह॒ते बृ॒हत् |{आङ्गिरसो नृमेधः | इन्द्रः | उष्णिक्} ध॒र्म॒कृते᳚ विप॒श्चिते᳚ पन॒स्यवे᳚ ||{1/12}{8.98.1}{8.10.5.1}{6.7.1.1}{1633, 718, 7607} इन्द्रा᳚य¦साम॑¦गा॒य॒त॒¦विप्रा᳚य¦बृ॒ह॒ते¦बृ॒हत् | ध॒र्म॒ऽकृते᳚¦वि॒पः॒ऽचिते᳚¦प॒न॒स्यवे᳚ || |
त्वमि᳚न्द्राभि॒भूर॑सि॒ त्वं सूर्य॑मरोचयः |{आङ्गिरसो नृमेधः | इन्द्रः | उष्णिक्} वि॒श्वक᳚र्मा वि॒श्वदे᳚वो म॒हाँ, अ॑सि ||{2/12}{8.98.2}{8.10.5.2}{6.7.1.2}{1634, 718, 7608} त्वम्¦इ॒न्द्र॒¦अ॒भि॒ऽभूः¦अ॒सि॒¦त्वम्¦सूर्य᳚म्¦अ॒रो॒च॒यः॒ | वि॒श्वऽक᳚र्मा¦वि॒श्वऽदे᳚वः¦म॒हान्¦अ॒सि॒ || |
वि॒भ्राज॒ञ्ज्योति॑षा॒ स्व१॑(अ॒)रग॑च्छो रोच॒नं दि॒वः |{आङ्गिरसो नृमेधः | इन्द्रः | उष्निक्} दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे ||{3/12}{8.98.3}{8.10.5.3}{6.7.1.3}{1635, 718, 7609} वि॒ऽभ्राज॑न्¦ज्योति॑षा¦स्वः॑¦अग॑च्छः¦रो॒च॒नम्¦दि॒वः | |
एन्द्र॑ नो गधि प्रि॒यः स॑त्रा॒जिदगो᳚ह्यः |{आङ्गिरसो नृमेधः | इन्द्रः | उष्णिक्} गि॒रिर्न वि॒श्वत॑स्पृ॒थुः पति॑र्दि॒वः ||{4/12}{8.98.4}{8.10.5.4}{6.7.1.4}{1636, 718, 7610} आ¦इ॒न्द्र॒¦नः॒¦ग॒धि॒¦प्रि॒यः¦स॒त्रा॒ऽजित्¦अगो᳚ह्यः | गि॒रिः¦न¦वि॒श्वतः॑¦पृ॒थुः¦पतिः॑¦दि॒वः || |
अ॒भि हि स॑त्य सोमपा, उ॒भे ब॒भूथ॒ रोद॑सी |{आङ्गिरसो नृमेधः | इन्द्रः | उष्णिक्} इन्द्रासि॑ सुन्व॒तो वृ॒धः पति॑र्दि॒वः ||{5/12}{8.98.5}{8.10.5.5}{6.7.1.5}{1637, 718, 7611} अ॒भि¦हि¦स॒त्य॒¦सो॒म॒ऽपाः॒¦उ॒भे इति॑¦ब॒भूथ॑¦रोद॑सी॒ इति॑ | इन्द्र॑¦असि॑¦सु॒न्व॒तः¦वृ॒धः¦पतिः॑¦दि॒वः || |
त्वं हि शश्व॑तीना॒मिन्द्र॑ द॒र्ता पु॒रामसि॑ |{आङ्गिरसो नृमेधः | इन्द्रः | उष्णिक्} ह॒न्ता दस्यो॒र्मनो᳚र्वृ॒धः पति॑र्दि॒वः ||{6/12}{8.98.6}{8.10.5.6}{6.7.1.6}{1638, 718, 7612} त्वम्¦हि¦शश्व॑तीनाम्¦इन्द्र॑¦द॒र्ता¦पु॒राम्¦असि॑ | ह॒न्ता¦दस्योः᳚¦मनोः᳚¦वृ॒धः¦पतिः॑¦दि॒वः || |
अधा॒ ही᳚न्द्र गिर्वण॒ उप॑ त्वा॒ कामा᳚न्म॒हः स॑सृ॒ज्महे᳚ |{आङ्गिरसो नृमेधः | इन्द्रः | ककुभः} उ॒देव॒ यन्त॑ उ॒दभिः॑ ||{7/12}{8.98.7}{8.10.5.7}{6.7.2.1}{1639, 718, 7613} अध॑¦हि¦इ॒न्द्र॒¦गि॒र्व॒णः॒¦उप॑¦त्वा॒¦कामा᳚न्¦म॒हः¦स॒सृ॒ज्महे᳚ | उ॒दाऽइ᳚व¦यन्तः॑¦उ॒दऽभिः॑ || |
वार्ण त्वा᳚ य॒व्याभि॒र्वर्ध᳚न्ति शूर॒ ब्रह्मा᳚णि |{आङ्गिरसो नृमेधः | इन्द्रः | उष्निक्} वा॒वृ॒ध्वांसं᳚ चिदद्रिवो दि॒वेदि॑वे ||{8/12}{8.98.8}{8.10.5.8}{6.7.2.2}{1640, 718, 7614} वाः¦न¦त्वा॒¦य॒व्याभिः॑¦वर्ध᳚न्ति¦शू॒र॒¦ब्रह्मा᳚णि | |
यु॒ञ्जन्ति॒ हरी᳚, इषि॒रस्य॒ गाथ॑यो॒रौ रथ॑ उ॒रुयु॑गे |{आङ्गिरसो नृमेधः | इन्द्रः | पुर उष्णिक्} इ॒न्द्र॒वाहा᳚ वचो॒युजा᳚ ||{9/12}{8.98.9}{8.10.5.9}{6.7.2.3}{1641, 718, 7615} युं॒जन्ति॑¦हरी॒ इति॑¦इ॒षि॒रस्य॑¦गाथ॑या¦उ॒रौ¦रथे᳚¦उ॒रुऽयु॑गे | इ॒न्द्र॒ऽवाहा᳚¦व॒चः॒ऽयुजा᳚ || |
त्वं न॑ इ॒न्द्रा भ॑रँ॒, ओजो᳚ नृ॒म्णं श॑तक्रतो विचर्षणे |{आङ्गिरसो नृमेधः | इन्द्रः | ककुभः} आ वी॒रं पृ॑तना॒षह᳚म् ||{10/12}{8.98.10}{8.10.5.10}{6.7.2.4}{1642, 718, 7616} त्वम्¦नः॒¦इ॒न्द्र॒¦आ¦भ॒र॒¦ओजः॑¦नृ॒म्णम्¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो¦वि॒ऽच॒र्ष॒णे॒ | आ¦वी॒रम्¦पृ॒त॒ना॒ऽसह᳚म् || |
त्वं हि नः॑ पि॒ता व॑सो॒ त्वं मा॒ता श॑तक्रतो ब॒भूवि॑थ |{आङ्गिरसो नृमेधः | इन्द्रः | ककुभः} अधा᳚ ते सु॒म्नमी᳚महे ||{11/12}{8.98.11}{8.10.5.11}{6.7.2.5}{1643, 718, 7617} त्वम्¦हि¦नः॒¦पि॒ता¦व॒सो॒ इति॑¦त्वम्¦मा॒ता¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो¦ब॒भूवि॑थ | अध॑¦ते॒¦सु॒म्नम्¦ई॒म॒हे॒ || |
त्वां शु॑ष्मिन् पुरुहूत वाज॒यन्त॒मुप॑ ब्रुवे शतक्रतो |{आङ्गिरसो नृमेधः | इन्द्रः | पुर उष्निक्} स नो᳚ रास्व सु॒वीर्य᳚म् ||{12/12}{8.98.12}{8.10.5.12}{6.7.2.6}{1644, 718, 7618} त्वाम्¦शु॒ष्मि॒न्¦पु॒रु॒ऽहू॒त॒¦वा॒ज॒ऽयन्त᳚म्¦उप॑¦ब्रु॒वे॒¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | |
[99] त्वामिदेत्यष्टर्चस्य सूक्तस्यांगिरसोनृमेधइंद्रः अयुजोबृहत्योयुजः सतोबृहत्यः | |
त्वामि॒दा ह्यो नरोऽपी᳚प्यन्वज्रि॒न् भूर्ण॑यः |{आङ्गिरसो नृमेधः | इन्द्रः | बृहती} स इ᳚न्द्र॒ स्तोम॑वाहसामि॒ह श्रु॒ध्युप॒ स्वस॑र॒मा ग॑हि ||{1/8}{8.99.1}{8.10.6.1}{6.7.3.1}{1645, 719, 7619} त्वाम्¦इ॒दा¦ह्यः¦नरः॑¦अपी᳚प्यन्¦व॒ज्रि॒न्¦भूर्ण॑यः | |
मत्स्वा᳚ सुशिप्र हरिव॒स्तदी᳚महे॒ त्वे, आ भू᳚षन्ति वे॒धसः॑ |{आङ्गिरसो नृमेधः | इन्द्रः | सतोबृहती} तव॒ श्रवां᳚स्युप॒मान्यु॒क्थ्या᳚ सु॒तेष्वि᳚न्द्र गिर्वणः ||{2/8}{8.99.2}{8.10.6.2}{6.7.3.2}{1646, 719, 7620} मत्स्व॑¦सु॒ऽशि॒प्र॒¦ह॒रि॒ऽवः॒¦तत्¦ई॒म॒हे॒¦त्वे इति॑¦आ¦भू॒ष॒न्ति॒¦वे॒धसः॑ | |
श्राय᳚न्त इव॒ सूर्यं॒ विश्वेदिन्द्र॑स्य भक्षत |{आङ्गिरसो नृमेधः | इन्द्रः | बृहती} वसू᳚नि जा॒ते जन॑मान॒ ओज॑सा॒ प्रति॑ भा॒गं न दी᳚धिम ||{3/8}{8.99.3}{8.10.6.3}{6.7.3.3}{1647, 719, 7621} श्राय᳚न्तःऽइव¦सूर्य᳚म्¦विश्वा᳚¦इत्¦इन्द्र॑स्य¦भ॒क्ष॒त॒ | |
अन॑र्शरातिं वसु॒दामुप॑ स्तुहि भ॒द्रा, इन्द्र॑स्य रा॒तयः॑ |{आङ्गिरसो नृमेधः | इन्द्रः | सतोबृहती} सो, अ॑स्य॒ कामं᳚ विध॒तो न रो᳚षति॒ मनो᳚ दा॒नाय॑ चो॒दय॑न् ||{4/8}{8.99.4}{8.10.6.4}{6.7.3.4}{1648, 719, 7622} अन॑र्शऽरातिम्¦व॒सु॒ऽदाम्¦उप॑¦स्तु॒हि॒¦भ॒द्राः¦इन्द्र॑स्य¦रा॒तयः॑ | |
त्वमि᳚न्द्र॒ प्रतू᳚र्तिष्व॒भि विश्वा᳚, असि॒ स्पृधः॑ |{आङ्गिरसो नृमेधः | इन्द्रः | बृहती} अ॒श॒स्ति॒हा ज॑नि॒ता वि॑श्व॒तूर॑सि॒ त्वं तू᳚र्य तरुष्य॒तः ||{5/8}{8.99.5}{8.10.6.5}{6.7.3.5}{1649, 719, 7623} त्वम्¦इ॒न्द्र॒¦प्रऽतू᳚र्तिषु¦अ॒भि¦विश्वाः᳚¦अ॒सि॒¦स्पृधः॑ | |
अनु॑ ते॒ शुष्मं᳚ तु॒रय᳚न्तमीयतुः, क्षो॒णी शिशुं॒ न मा॒तरा᳚ |{आङ्गिरसो नृमेधः | इन्द्रः | सतोबृहती} विश्वा᳚स्ते॒ स्पृधः॑ श्नथयन्त म॒न्यवे᳚ वृ॒त्रं यदि᳚न्द्र॒ तूर्व॑सि ||{6/8}{8.99.6}{8.10.6.6}{6.7.3.6}{1650, 719, 7624} अनु॑¦ते॒¦शुष्म᳚म्¦तु॒रय᳚न्तम्¦ई॒य॒तुः॒¦क्षो॒णी इति॑¦शिशु᳚म्¦न¦मा॒तरा᳚ | |
इ॒त ऊ॒ती वो᳚, अ॒जरं᳚ प्रहे॒तार॒मप्र॑हितम् |{आङ्गिरसो नृमेधः | इन्द्रः | बृहती} आ॒शुं जेता᳚रं॒ हेता᳚रं र॒थीत॑म॒मतू᳚र्तं तुग्र्या॒वृध᳚म् ||{7/8}{8.99.7}{8.10.6.7}{6.7.3.7}{1651, 719, 7625} इ॒तः¦ऊ॒ती¦वः॒¦अ॒जर᳚म्¦प्र॒ऽहे॒तार᳚म्¦अप्र॑ऽहितम् | |
इ॒ष्क॒र्तार॒मनि॑ष्कृतं॒ सह॑स्कृतं श॒तमू᳚तिं श॒तक्र॑तुम् |{आङ्गिरसो नृमेधः | इन्द्रः | सतोबृहती} स॒मा॒नमिन्द्र॒मव॑से हवामहे॒ वस॑वानं वसू॒जुव᳚म् ||{8/8}{8.99.8}{8.10.6.8}{6.7.3.8}{1652, 719, 7626} इ॒ष्क॒र्तार᳚म्¦अनिः॑ऽकृतम्¦सहः॑ऽकृतम्¦श॒तम्ऽऊ᳚तिम्¦श॒तऽक्र॑तुम् | |
[100] अयंतइति द्वादशर्चस्य सूक्तस्य भार्गवोनेमऋषिः अयंतइतिद्वयोरिंद्रऋषिः इंद्रोदेवतामनोजवाइत्यस्याः सुपर्णोदेवता समुद्रेइत्यस्यावज्रं यद्वाग्वदंती तिद्वयोर्वाग्देवतात्रिष्टुप् षष्ठीजगती सप्तम्याद्यास्तिस्रोनुष्टुभः | |
अ॒यं त॑ एमि त॒न्वा᳚ पु॒रस्ता॒द्विश्वे᳚ दे॒वा, अ॒भि मा᳚ यन्ति प॒श्चात् |{भार्गवो नेमः | इन्द्रः | त्रिष्टुप्} य॒दा मह्यं॒ दीध॑रो भा॒गमि॒न्द्रादिन्मया᳚ कृणवो वी॒र्या᳚णि ||{1/12}{8.100.1}{8.10.7.1}{6.7.4.1}{1653, 720, 7627} अ॒यम्¦ते॒¦ए॒मि॒¦त॒न्वा᳚¦पु॒रस्ता᳚त्¦विश्वे᳚¦दे॒वाः¦अ॒भि¦मा॒¦य॒न्ति॒¦प॒श्चात् | |
दधा᳚मि ते॒ मधु॑नो भ॒क्षमग्रे᳚ हि॒तस्ते᳚ भा॒गः सु॒तो, अ॑स्तु॒ सोमः॑ |{भार्गवो नेमः | इन्द्रः | त्रिष्टुप्} अस॑श्च॒ त्वं द॑क्षिण॒तः सखा॒ मेऽधा᳚ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ ||{2/12}{8.100.2}{8.10.7.2}{6.7.4.2}{1654, 720, 7628} दधा᳚मि¦ते॒¦मधु॑नः¦भ॒क्षम्¦अग्रे᳚¦हि॒तः¦ते॒¦भा॒गः¦सु॒तः¦अ॒स्तु॒¦सोमः॑ | |
प्र सु स्तोमं᳚ भरत वाज॒यन्त॒ इन्द्रा᳚य स॒त्यं यदि॑ स॒त्यमस्ति॑ |{भार्गवो नेमः | इन्द्रः | त्रिष्टुप्} नेन्द्रो᳚, अ॒स्तीति॒ नेम॑ उ त्व आह॒ क ईं᳚ ददर्श॒ कम॒भि ष्ट॑वाम ||{3/12}{8.100.3}{8.10.7.3}{6.7.4.3}{1655, 720, 7629} प्र¦सु¦स्तोम᳚म्¦भ॒र॒त॒¦वा॒ज॒ऽयन्तः॑¦इन्द्रा᳚य¦स॒त्यम्¦यदि॑¦स॒त्यम्¦अस्ति॑ | |
अ॒यम॑स्मि जरितः॒ पश्य॑ मे॒ह विश्वा᳚ जा॒तान्य॒भ्य॑स्मि म॒ह्ना |{इन्द्रः | इन्द्रः | त्रिष्टुप्} ऋ॒तस्य॑ मा प्र॒दिशो᳚ वर्धयन्त्यादर्दि॒रो भुव॑ना दर्दरीमि ||{4/12}{8.100.4}{8.10.7.4}{6.7.4.4}{1656, 720, 7630} अ॒यम्¦अ॒स्मि॒¦ज॒रि॒त॒रिति॑¦पश्य॑¦मा॒¦इ॒ह¦विश्वा᳚¦जा॒तानि॑¦अ॒भि¦अ॒स्मि॒¦म॒ह्ना | |
आ यन्मा᳚ वे॒ना, अरु॑हन्नृ॒तस्यँ॒, एक॒मासी᳚नं हर्य॒तस्य॑ पृ॒ष्ठे |{इन्द्रः | इन्द्रः | त्रिष्टुप्} मन॑श्चिन्मे हृ॒द आ प्रत्य॑वोच॒दचि॑क्रद॒ञ्छिशु॑मन्तः॒ सखा᳚यः ||{5/12}{8.100.5}{8.10.7.5}{6.7.4.5}{1657, 720, 7631} आ¦यत्¦मा॒¦वे॒नाः¦अरु॑हन्¦ऋ॒तस्य॑¦एक᳚म्¦आसी᳚नम्¦ह॒र्य॒तस्य॑¦पृ॒ष्ठे | |
विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॒ या च॒कर्थ॑ मघवन्निन्द्र सुन्व॒ते |{भार्गवो नेमः | सुपर्णः | जगती} पारा᳚वतं॒ यत्पु॑रुसम्भृ॒तं वस्व॒पावृ॑णोः शर॒भाय॒ ऋषि॑बन्धवे ||{6/12}{8.100.6}{8.10.7.6}{6.7.4.6}{1658, 720, 7632} विश्वा᳚¦इत्¦ता¦ते॒¦सव॑नेषु¦प्र॒ऽवाच्या᳚¦या¦च॒कर्थ॑¦म॒घ॒ऽव॒न्¦इ॒न्द्र॒¦सु॒न्व॒ते | |
प्र नू॒नं धा᳚वता॒ पृथ॒ङ्नेह यो वो॒, अवा᳚वरीत् |{भार्गवो नेमः | इन्द्रः | अनुष्टुप्} नि षीं᳚ वृ॒त्रस्य॒ मर्म॑णि॒ वज्र॒मिन्द्रो᳚, अपीपतत् ||{7/12}{8.100.7}{8.10.7.7}{6.7.5.1}{1659, 720, 7633} प्र¦नू॒नम्¦धा॒व॒त॒¦पृथ॑क्¦न¦इ॒ह¦यः¦वः॒¦अवा᳚वरीत् | नि¦सी॒म्¦वृ॒त्रस्य॑¦मर्म॑णि¦वज्र᳚म्¦इन्द्रः॑¦अ॒पी॒प॒त॒त् || |
मनो᳚जवा॒, अय॑मान आय॒सीम॑तर॒त्पुर᳚म् |{भार्गवो नेमः | इन्द्रः | अनुष्टुप्} दिवं᳚ सुप॒र्णो ग॒त्वाय॒ सोमं᳚ व॒ज्रिण॒ आभ॑रत् ||{8/12}{8.100.8}{8.10.7.8}{6.7.5.2}{1660, 720, 7634} मनः॑ऽजवाः¦अय॑मानः¦आ॒य॒सीम्¦अ॒त॒र॒त्¦पुर᳚म् | दिव᳚म्¦सु॒ऽप॒र्णः¦ग॒त्वाय॑¦सोम᳚म्¦व॒ज्रिणे᳚¦आ¦अ॒भ॒र॒त् || |
स॒मु॒द्रे, अ॒न्तः श॑यत उ॒द्ना वज्रो᳚, अ॒भीवृ॑तः |{भार्गवो नेमः | वज्रो वा | अनुष्टुप्} भर᳚न्त्यस्मै सं॒यतः॑ पु॒रःप्र॑स्रवणा ब॒लिम् ||{9/12}{8.100.9}{8.10.7.9}{6.7.5.3}{1661, 720, 7635} स॒मु॒द्रे¦अ॒न्तरिति॑¦श॒य॒ते॒¦उ॒द्ना¦वज्रः॑¦अ॒भिऽवृ॑तः | भर᳚न्ति¦अ॒स्मै॒¦स॒म्ऽयतः॑¦पु॒रःऽप्र॑स्रवणाः¦ब॒लिम् || |
यद्वाग्वद᳚न्त्यविचेत॒नानि॒ राष्ट्री᳚ दे॒वानां᳚ निष॒साद॑ म॒न्द्रा |{भार्गवो नेमः | वाक् | त्रिष्टुप्} चत॑स्र॒ ऊर्जं᳚ दुदुहे॒ पयां᳚सि॒ क्व॑ स्विदस्याः पर॒मं ज॑गाम ||{10/12}{8.100.10}{8.10.7.10}{6.7.5.4}{1662, 720, 7636} यत्¦वाक्¦वद᳚न्ती¦अ॒वि॒ऽचे॒त॒नानि॑¦राष्ट्री᳚¦दे॒वाना᳚म्¦नि॒ऽस॒साद॑¦म॒न्द्रा | |
दे॒वीं वाच॑मजनयन्त दे॒वास्तां वि॒श्वरू᳚पाः प॒शवो᳚ वदन्ति |{भार्गवो नेमः | वाक् | त्रिष्टुप्} सा नो᳚ म॒न्द्रेष॒मूर्जं॒ दुहा᳚ना धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ||{11/12}{8.100.11}{8.10.7.11}{6.7.5.5}{1663, 720, 7637} दे॒वीम्¦वाच᳚म्¦अ॒ज॒न॒य॒न्त॒¦दे॒वाः¦ताम्¦वि॒श्वऽरू᳚पाः¦प॒शवः॑¦व॒द॒न्ति॒ | |
सखे᳚ विष्णो वित॒रं वि क्र॑मस्व॒ द्यौर्दे॒हि लो॒कं वज्रा᳚य वि॒ष्कभे᳚ |{भार्गवो नेमः | इन्द्रः | त्रिष्टुप्} हना᳚व वृ॒त्रं रि॒णचा᳚व॒ सिन्धू॒निन्द्र॑स्य यन्तु प्रस॒वे विसृ॑ष्टाः ||{12/12}{8.100.12}{8.10.7.12}{6.7.5.6}{1664, 720, 7638} सखे᳚¦वि॒ष्णो॒ इति॑¦वि॒ऽत॒रम्¦वि¦क्र॒म॒स्व॒¦द्यौः¦दे॒हि¦लो॒कम्¦वज्रा᳚य¦वि॒ऽस्कभे᳚ | |
[101] ऋधगित्थेति षोळशर्चस्य सूक्तस्य भार्गवोजमदग्निरृषिर्मित्रावरुणौदेवते पंचम्यामित्रावरुणादित्यादेवताः षष्ठ्या आदित्याः सप्तम्यष्टम्योरश्विनौ नवमीदशम्योर्वायुरेकादशीद्वादश्योः सूर्यस्त्रयोदश्या उषाश्चतुर्दश्याः पवमानस्ततोद्वयोर्गौर्बृहती द्वितीयाचतुर्थी षष्ठ्यष्ठम्यः सतोबृहत्यः तृतीयागायत्र्यंत्यास्तिस्रत्रिष्टुभः |
ऋध॑गि॒त्था स मर्त्यः॑ शश॒मे दे॒वता᳚तये |{भार्गवो जमदग्निः | मित्रावरुणौ | बृहती} यो नू॒नं मि॒त्रावरु॑णाव॒भिष्ट॑य आच॒क्रे ह॒व्यदा᳚तये ||{1/16}{8.101.1}{8.10.8.1}{6.7.6.1}{1665, 721, 7639} ऋध॑क्¦इ॒त्था¦सः¦मर्त्यः॑¦श॒श॒मे¦दे॒वऽता᳚तये | |
वर्षि॑ष्ठक्षत्रा, उरु॒चक्ष॑सा॒ नरा॒ राजा᳚ना दीर्घ॒श्रुत्त॑मा |{भार्गवो जमदग्निः | मित्रावरुणौ | सतोबृहती} ता बा॒हुता॒ न दं॒सना᳚ रथर्यतः सा॒कं सूर्य॑स्य र॒श्मिभिः॑ ||{2/16}{8.101.2}{8.10.8.2}{6.7.6.2}{1666, 721, 7640} वर्षि॑ष्ठऽक्षत्रौ¦उ॒रु॒ऽचक्ष॑सा¦नरा᳚¦राजा᳚ना¦दी॒र्घ॒श्रुत्ऽत॑मा | |
प्र यो वां᳚ मित्रावरुणाजि॒रो दू॒तो, अद्र॑वत् |{भार्गवो जमदग्निः | मित्रावरुणौ | गायत्री} अयः॑शीर्षा॒ मदे᳚रघुः ||{3/16}{8.101.3}{8.10.8.3}{6.7.6.3}{1667, 721, 7641} प्र¦यः¦वा॒म्¦मि॒त्रा॒व॒रु॒णा॒¦अ॒जि॒रः¦दू॒तः¦अद्र॑वत् | अयः॑ऽशीर्षा¦मदे᳚ऽरघुः || |
न यः स॒म्पृच्छे॒ न पुन॒र्हवी᳚तवे॒ न सं᳚वा॒दाय॒ रम॑ते |{भार्गवो जमदग्निः | मित्रावरुणौ | सतोबृहती} तस्मा᳚न्नो, अ॒द्य समृ॑तेरुरुष्यतं बा॒हुभ्यां᳚ न उरुष्यतम् ||{4/16}{8.101.4}{8.10.8.4}{6.7.6.4}{1668, 721, 7642} न¦यः¦स॒म्ऽपृच्छे᳚¦न¦पुनः॑¦हवी᳚तवे¦न¦स॒म्ऽवा॒दाय॑¦रम॑ते | |
प्र मि॒त्राय॒ प्रार्य॒म्णे स॑च॒थ्य॑मृतावसो |{भार्गवो जमदग्निः | मित्रावरुणौ, आदित्याः | बृहती} व॒रू॒थ्य१॑(अं॒) वरु॑णे॒ छन्द्यं॒ वचः॑ स्तो॒त्रं राज॑सु गायत ||{5/16}{8.101.5}{8.10.8.5}{6.7.6.5}{1669, 721, 7643} प्र¦मि॒त्राय॑¦प्र¦अ॒र्य॒म्णे¦स॒च॒थ्य᳚म्¦ऋ॒त॒व॒सो॒ इत्यृ॑तऽवसो | |
ते हि᳚न् विरे, अरु॒णं जेन्यं॒ वस्वेकं᳚ पु॒त्रं ति॑सॄ॒णाम् |{भार्गवो जमदग्निः | आदित्याः | सतोबृहती} ते धामा᳚न्य॒मृता॒ मर्त्या᳚ना॒मद॑ब्धा, अ॒भि च॑क्षते ||{6/16}{8.101.6}{8.10.8.6}{6.7.7.1}{1670, 721, 7644} ते¦हि॒न्वि॒रे॒¦अ॒रु॒णम्¦जेन्य᳚म्¦वसु॑¦एक᳚म्¦पु॒त्रम्¦ति॒सॄ॒णाम् | |
आ मे॒ वचां॒स्युद्य॑ता द्यु॒मत्त॑मानि॒ कर्त्वा᳚ |{भार्गवो जमदग्निः | अश्विनौ | बृहती} उ॒भा या᳚तं नासत्या स॒जोष॑सा॒ प्रति॑ ह॒व्यानि॑ वी॒तये᳚ ||{7/16}{8.101.7}{8.10.8.7}{6.7.7.2}{1671, 721, 7645} आ¦मे॒¦वचां᳚सि¦उत्ऽय॑ता¦द्यु॒मत्ऽत॑मानि¦कर्त्वा᳚ | |
रा॒तिं यद्वा᳚मर॒क्षसं॒ हवा᳚महे यु॒वाभ्यां᳚ वाजिनीवसू |{भार्गवो जमदग्निः | अश्विनौ | सतोबृहती} प्राचीं॒ होत्रां᳚ प्रति॒रन्ता᳚वितं नरा गृणा॒ना ज॒मद॑ग्निना ||{8/16}{8.101.8}{8.10.8.8}{6.7.7.3}{1672, 721, 7646} रा॒तिम्¦यत्¦वा॒म्¦अ॒र॒क्षस᳚म्¦हवा᳚महे¦यु॒वाभ्या᳚म्¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू | |
आ नो᳚ य॒ज्ञं दि॑वि॒स्पृशं॒ वायो᳚ या॒हि सु॒मन्म॑भिः |{भार्गवो जमदग्निः | वायुः | बृहती} अ॒न्तः प॒वित्र॑ उ॒परि॑ श्रीणा॒नो॒३॑(ओ॒)ऽयं शु॒क्रो, अ॑यामि ते ||{9/16}{8.101.9}{8.10.8.9}{6.7.7.4}{1673, 721, 7647} आ¦नः॒¦य॒ज्ञम्¦दि॒वि॒ऽस्पृश᳚म्¦वायो॒ इति॑¦या॒हि¦सु॒मन्म॑ऽभिः | |
वेत्य॑ध्व॒र्युः प॒थिभी॒ रजि॑ष्ठैः॒ प्रति॑ ह॒व्यानि॑ वी॒तये᳚ |{भार्गवो जमदग्निः | वायुः | सतोबृहती} अधा᳚ नियुत्व उ॒भय॑स्य नः पिब॒ शुचिं॒ सोमं॒ गवा᳚शिरम् ||{10/16}{8.101.10}{8.10.8.10}{6.7.7.5}{1674, 721, 7648} वेति॑¦अ॒ध्व॒र्युः¦प॒थिऽभिः॑¦रजि॑ष्ठैः¦प्रति॑¦ह॒व्यानि॑¦वी॒तये᳚ | |
बण्म॒हाँ, अ॑सि सूर्य॒ बळा᳚दित्य म॒हाँ, अ॑सि |{भार्गवो जमदग्निः | सूर्यः | बृहती} म॒हस्ते᳚ स॒तो म॑हि॒मा प॑नस्यते॒ऽद्धा दे᳚व म॒हाँ, अ॑सि ||{11/16}{8.101.11}{8.10.8.11}{6.7.8.1}{1675, 721, 7649} बट्¦म॒हान्¦अ॒सि॒¦सू॒र्य॒¦बट्¦आ॒दि॒त्य॒¦म॒हान्¦अ॒सि॒ | |
बट् सू᳚र्य॒ श्रव॑सा म॒हाँ, अ॑सि स॒त्रा दे᳚व म॒हाँ, अ॑सि |{भार्गवो जमदग्निः | सूर्यः | सतोबृहती} म॒ह्ना दे॒वाना᳚मसु॒र्यः॑ पु॒रोहि॑तो वि॒भु ज्योति॒रदा᳚भ्यम् ||{12/16}{8.101.12}{8.10.8.12}{6.7.8.2}{1676, 721, 7650} बट्¦सू॒र्य॒¦श्रव॑सा¦म॒हान्¦अ॒सि॒¦स॒त्रा¦दे॒व॒¦म॒हान्¦अ॒सि॒ | |
इ॒यं या नीच्य॒र्किणी᳚ रू॒पा रोहि᳚ण्या कृ॒ता |{भार्गवो जमदग्निः | उषाः सूर्यप्रभा वा | बृहती} चि॒त्रेव॒ प्रत्य॑दर्श्याय॒त्य१॑(अ॒)न्तर्द॒शसु॑ बा॒हुषु॑ ||{13/16}{8.101.13}{8.10.8.13}{6.7.8.3}{1677, 721, 7651} इ॒यम्¦या¦नीची᳚¦अ॒र्किणी᳚¦रू॒पा¦रोहि᳚ण्या¦कृ॒ता | |
प्र॒जा ह॑ ति॒स्रो, अ॒त्याय॑मीयु॒र्न्य१॑(अ॒)न्या, अ॒र्कम॒भितो᳚ विविश्रे |{भार्गवो जमदग्निः | पवमानः | त्रिष्टुप्} बृ॒हद्ध॑ तस्थौ॒ भुव॑नेष्व॒न्तः पव॑मानो ह॒रित॒ आ वि॑वेश ||{14/16}{8.101.14}{8.10.8.14}{6.7.8.4}{1678, 721, 7652} प्र॒ऽजाः¦ह॒¦ति॒स्रः¦अ॒ति॒ऽआय᳚म्¦ई॒युः॒¦नि¦अ॒न्याः¦अ॒र्कम्¦अ॒भितः॑¦वि॒वि॒श्रे॒ | |
मा॒ता रु॒द्राणां᳚ दुहि॒ता वसू᳚नां॒ स्वसा᳚दि॒त्याना᳚म॒मृत॑स्य॒ नाभिः॑ |{भार्गवो जमदग्निः | गौः | त्रिष्टुप्} प्र नु वो᳚चं चिकि॒तुषे॒ जना᳚य॒ मा गामना᳚गा॒मदि॑तिं वधिष्ट ||{15/16}{8.101.15}{8.10.8.15}{6.7.8.5}{1679, 721, 7653} मा॒ता¦रु॒द्राणा᳚म्¦दु॒हि॒ता¦वसू᳚नाम्¦स्वसा᳚¦आ॒दि॒त्याना᳚म्¦अ॒मृत॑स्य¦नाभिः॑ | |
व॒चो॒विदं॒ वाच॑मुदी॒रय᳚न्तीं॒ विश्वा᳚भिर्धी॒भिरु॑प॒तिष्ठ॑मानाम् |{भार्गवो जमदग्निः | गौः | त्रिष्टुप्} दे॒वीं दे॒वेभ्यः॒ पर्ये॒युषीं॒ गामा मा᳚वृक्त॒ मर्त्यो᳚ द॒भ्रचे᳚ताः ||{16/16}{8.101.16}{8.10.8.16}{6.7.8.6}{1680, 721, 7654} व॒चः॒ऽविद᳚म्¦वाच᳚म्¦उ॒त्ऽई॒रय᳚न्तीम्¦विश्वा᳚भिः¦धी॒भिः¦उ॒प॒ऽतिष्ठ॑मानाम् | |
[102] त्वमग्नइति द्वाविंशत्यृचस्य सूक्तस्य भार्गवःप्रयोगोग्निर्गायत्री | (अस्मिन्सूक्तेएतऋषयोविकल्प्यंते - बार्हस्पत्योग्निः पावकः यद्वासहसः पुत्रौगृहपतियविष्ठौ अनयोरन्यतरोवा ) | |
त्वम॑ग्ने बृ॒हद्वयो॒ दधा᳚सि देव दा॒शुषे᳚ |{भार्गवः प्रयोगः | अग्निः | गायत्री} क॒विर्गृ॒हप॑ति॒र्युवा᳚ ||{1/22}{8.102.1}{8.10.9.1}{6.7.9.1}{1681, 722, 7655} त्वम्¦अ॒ग्ने॒¦बृ॒हत्¦वयः॑¦दधा᳚सि¦दे॒व॒¦दा॒शुषे᳚ | क॒विः¦गृ॒हऽप॑तिः¦युवा᳚ || |
स न॒ ईळा᳚नया स॒ह दे॒वाँ, अ॑ग्ने दुव॒स्युवा᳚ |{भार्गवः प्रयोगः | अग्निः | गायत्री} चि॒किद्वि॑भान॒वा व॑ह ||{2/22}{8.102.2}{8.10.9.2}{6.7.9.2}{1682, 722, 7656} सः¦नः॒¦ईळा᳚नया¦स॒ह¦दे॒वान्¦अ॒ग्ने॒¦दु॒व॒स्युवा᳚ | चि॒कित्¦वि॒भा॒नो॒ इति॑ विऽभानो¦आ¦व॒ह॒ || |
त्वया᳚ ह स्विद्यु॒जा व॒यं चोदि॑ष्ठेन यविष्ठ्य |{भार्गवः प्रयोगः | अग्निः | गायत्री} अ॒भि ष्मो॒ वाज॑सातये ||{3/22}{8.102.3}{8.10.9.3}{6.7.9.3}{1683, 722, 7657} त्वया᳚¦ह॒¦स्वि॒त्¦यु॒जा¦व॒यम्¦चोदि॑ष्ठेन¦य॒वि॒ष्ठ्य॒ | अ॒भि¦स्मः॒¦वाज॑ऽसातये || |
औ॒र्व॒भृ॒गु॒वच्छुचि॑मप्नवान॒वदा हु॑वे |{भार्गवः प्रयोगः | अग्निः | गायत्री} अ॒ग्निं स॑मु॒द्रवा᳚ससम् ||{4/22}{8.102.4}{8.10.9.4}{6.7.9.4}{1684, 722, 7658} औ॒र्व॒भृ॒गु॒ऽवत्¦शुचि᳚म्¦अ॒प्न॒वा॒न॒ऽवत्¦आ¦हु॒वे॒ | अ॒ग्निम्¦स॒मु॒द्रऽवा᳚ससम् || |
हु॒वे वात॑स्वनं क॒विं प॒र्जन्य॑क्रन्द्यं॒ सहः॑ |{भार्गवः प्रयोगः | अग्निः | गायत्री} अ॒ग्निं स॑मु॒द्रवा᳚ससम् ||{5/22}{8.102.5}{8.10.9.5}{6.7.9.5}{1685, 722, 7659} हु॒वे¦वात॑ऽस्वनम्¦क॒विम्¦प॒र्जन्य॑ऽक्रन्द्यम्¦सहः॑ | अ॒ग्निम्¦स॒मु॒द्रऽवा᳚ससम् || |
आ स॒वं स॑वि॒तुर्य॑था॒ भग॑स्येव भु॒जिं हु॑वे |{भार्गवः प्रयोगः | अग्निः | गायत्री} अ॒ग्निं स॑मु॒द्रवा᳚ससम् ||{6/22}{8.102.6}{8.10.9.6}{6.7.10.1}{1686, 722, 7660} आ¦स॒वम्¦स॒वि॒तुः¦य॒था॒¦भग॑स्यऽइव¦भु॒जिम्¦हु॒वे॒ | अ॒ग्निम्¦स॒मु॒द्रऽवा᳚ससम् || |
अ॒ग्निं वो᳚ वृ॒धन्त॑मध्व॒राणां᳚ पुरू॒तम᳚म् |{भार्गवः प्रयोगः | अग्निः | गायत्री} अच्छा॒ नप्त्रे॒ सह॑स्वते ||{7/22}{8.102.7}{8.10.9.7}{6.7.10.2}{1687, 722, 7661} अ॒ग्निम्¦वः॒¦वृ॒धन्त᳚म्¦अ॒ध्व॒राणा᳚म्¦पु॒रु॒ऽतम᳚म् | अच्छ॑¦नप्त्रे᳚¦सह॑स्वते || |
अ॒यं यथा᳚ न आ॒भुव॒त् त्वष्टा᳚ रू॒पेव॒ तक्ष्या᳚ |{भार्गवः प्रयोगः | अग्निः | गायत्री} अ॒स्य क्रत्वा॒ यश॑स्वतः ||{8/22}{8.102.8}{8.10.9.8}{6.7.10.3}{1688, 722, 7662} अ॒यम्¦यथा᳚¦नः॒¦आ॒ऽभुव॑त्¦त्वष्टा᳚¦रू॒पाऽइ᳚व¦तक्ष्या᳚ | अ॒स्य¦क्रत्वा᳚¦यश॑स्वतः || |
अ॒यं विश्वा᳚, अ॒भि श्रियो॒ऽग्निर्दे॒वेषु॑ पत्यते |{भार्गवः प्रयोगः | अग्निः | गायत्री} आ वाजै॒रुप॑ नो गमत् ||{9/22}{8.102.9}{8.10.9.9}{6.7.10.4}{1689, 722, 7663} अ॒यम्¦विश्वाः᳚¦अ॒भि¦श्रियः॑¦अ॒ग्निः¦दे॒वेषु॑¦प॒त्य॒ते॒ | आ¦वाजैः᳚¦उप॑¦नः॒¦ग॒म॒त् || |
विश्वे᳚षामि॒ह स्तु॑हि॒ होतॄ᳚णां य॒शस्त॑मम् |{भार्गवः प्रयोगः | अग्निः | गायत्री} अ॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ||{10/22}{8.102.10}{8.10.9.10}{6.7.10.5}{1690, 722, 7664} विश्वे᳚षाम्¦इ॒ह¦स्तु॒हि॒¦होतॄ᳚णाम्¦य॒शःऽत॑मम् | अ॒ग्निम्¦य॒ज्ञेषु॑¦पू॒र्व्यम् || |
शी॒रं पा᳚व॒कशो᳚चिषं॒ ज्येष्ठो॒ यो दमे॒ष्वा |{भार्गवः प्रयोगः | अग्निः | गायत्री} दी॒दाय॑ दीर्घ॒श्रुत्त॑मः ||{11/22}{8.102.11}{8.10.9.11}{6.7.11.1}{1691, 722, 7665} शी॒रम्¦पा॒व॒कऽशो᳚चिषम्¦ज्येष्ठः॑¦यः¦दमे᳚षु¦आ | दी॒दाय॑¦दी॒र्घ॒श्रुत्ऽत॑मः || |
तमर्व᳚न्तं॒ न सा᳚न॒सिं गृ॑णी॒हि वि॑प्र शु॒ष्मिण᳚म् |{भार्गवः प्रयोगः | अग्निः | गायत्री} मि॒त्रं न या᳚त॒यज्ज॑नम् ||{12/22}{8.102.12}{8.10.9.12}{6.7.11.2}{1692, 722, 7666} तम्¦अर्व᳚न्तम्¦न¦सा॒न॒सिम्¦गृ॒णी॒हि¦वि॒प्र॒¦शु॒ष्मिण᳚म् | मि॒त्रम्¦न¦या॒त॒यत्ऽज॑नम् || |
उप॑ त्वा जा॒मयो॒ गिरो॒ देदि॑शतीर्हवि॒ष्कृतः॑ |{भार्गवः प्रयोगः | अग्निः | गायत्री} वा॒योरनी᳚के, अस्थिरन् ||{13/22}{8.102.13}{8.10.9.13}{6.7.11.3}{1693, 722, 7667} उप॑¦त्वा॒¦जा॒मयः॑¦गिरः॑¦देदि॑शतीः¦ह॒विः॒ऽकृतः॑ | वा॒योः¦अनी᳚के¦अ॒स्थि॒र॒न् || |
यस्य॑ त्रि॒धात्ववृ॑तं ब॒र्हिस्त॒स्थावसं᳚दिनम् |{भार्गवः प्रयोगः | अग्निः | गायत्री} आप॑श्चि॒न्नि द॑धा प॒दम् ||{14/22}{8.102.14}{8.10.9.14}{6.7.11.4}{1694, 722, 7668} यस्य॑¦त्रि॒ऽधातु॑¦अवृ॑तम्¦ब॒र्हिः¦त॒स्थौ¦अस᳚म्ऽदिनम् | आपः॑¦चि॒त्¦नि¦द॒ध॒¦प॒दम् || |
प॒दं दे॒वस्य॑ मी॒ळ्हुषोऽना᳚धृष्टाभिरू॒तिभिः॑ |{भार्गवः प्रयोगः | अग्निः | गायत्री} भ॒द्रा सूर्य॑ इवोप॒दृक् ||{15/22}{8.102.15}{8.10.9.15}{6.7.11.5}{1695, 722, 7669} प॒दम्¦दे॒वस्य॑¦मी॒ळ्हुषः॑¦अना᳚धृष्टाभिः¦ऊ॒तिऽभिः॑ | भ॒द्रा¦सूर्यः॑ऽइव¦उ॒प॒ऽदृक् || |
अग्ने᳚ घृ॒तस्य॑ धी॒तिभि॑स्तेपा॒नो दे᳚व शो॒चिषा᳚ |{भार्गवः प्रयोगः | अग्निः | गायत्री} आ दे॒वान् व॑क्षि॒ यक्षि॑ च ||{16/22}{8.102.16}{8.10.9.16}{6.7.12.1}{1696, 722, 7670} अग्ने᳚¦घृ॒तस्य॑¦धी॒तिऽभिः॑¦ते॒पा॒नः¦दे॒व॒¦शो॒चिषा᳚ | आ¦दे॒वान्¦व॒क्षि॒¦यक्षि॑¦च॒ || |
तं त्वा᳚जनन्त मा॒तरः॑ क॒विं दे॒वासो᳚, अङ्गिरः |{भार्गवः प्रयोगः | अग्निः | गायत्री} ह॒व्य॒वाह॒मम॑र्त्यम् ||{17/22}{8.102.17}{8.10.9.17}{6.7.12.2}{1697, 722, 7671} तम्¦त्वा॒¦अ॒ज॒न॒न्त॒¦मा॒तरः॑¦क॒विम्¦दे॒वासः॑¦अ॒ङ्गि॒रः॒ | ह॒व्य॒ऽवाह᳚म्¦अम॑र्त्यम् || |
प्रचे᳚तसं त्वा क॒वेऽग्ने᳚ दू॒तं वरे᳚ण्यम् |{भार्गवः प्रयोगः | अग्निः | गायत्री} ह॒व्य॒वाहं॒ नि षे᳚दिरे ||{18/22}{8.102.18}{8.10.9.18}{6.7.12.3}{1698, 722, 7672} प्रऽचे᳚तसम्¦त्वा॒¦क॒वे॒¦अग्ने᳚¦दू॒तम्¦वरे᳚ण्यम् | ह॒व्य॒ऽवाह᳚म्¦नि¦से॒दि॒रे॒ || |
न॒हि मे॒, अस्त्यघ्न्या॒ न स्वधि॑ति॒र्वन᳚न्वति |{भार्गवः प्रयोगः | अग्निः | गायत्री} अथै᳚ता॒दृग्भ॑रामि ते ||{19/22}{8.102.19}{8.10.9.19}{6.7.12.4}{1699, 722, 7673} न॒हि¦मे॒¦अस्ति॑¦अघ्न्या᳚¦न¦स्वऽधि॑तिः¦वन॑न्ऽवति | अथ॑¦ए॒ता॒दृक्¦भ॒रा॒मि॒¦ते॒ || |
यद॑ग्ने॒ कानि॒ कानि॑ चि॒दा ते॒ दारू᳚णि द॒ध्मसि॑ |{भार्गवः प्रयोगः | अग्निः | गायत्री} ता जु॑षस्व यविष्ठ्य ||{20/22}{8.102.20}{8.10.9.20}{6.7.12.5}{1700, 722, 7674} यत्¦अ॒ग्ने॒¦कानि॑¦कानि॑¦चि॒त्¦आ¦ते॒¦दारू᳚णि¦द॒ध्मसि॑ | ता¦जु॒ष॒स्व॒¦य॒वि॒ष्ठ्य॒ || |
यदत् त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो, अ॑ति॒सर्प॑ति |{भार्गवः प्रयोगः | अग्निः | गायत्री} सर्वं॒ तद॑स्तु ते घृ॒तम् ||{21/22}{8.102.21}{8.10.9.21}{6.7.12.6}{1701, 722, 7675} यत्¦अत्ति॑¦उ॒प॒ऽजिह्वि॑का¦यत्¦व॒म्रः¦अ॒ति॒ऽसर्प॑ति | सर्व᳚म्¦तत्¦अ॒स्तु॒¦ते॒¦घृ॒तम् || |
अ॒ग्निमिन्धा᳚नो॒ मन॑सा॒ धियं᳚ सचेत॒ मर्त्यः॑ |{भार्गवः प्रयोगः | अग्निः | गायत्री} अ॒ग्निमी᳚धे वि॒वस्व॑भिः ||{22/22}{8.102.22}{8.10.9.22}{6.7.12.7}{1702, 722, 7676} अ॒ग्निम्¦इन्धा᳚नः¦मन॑सा¦धिय᳚म्¦स॒चे॒त॒¦मर्त्यः॑ | अ॒ग्निम्¦ई॒धे॒¦वि॒वस्व॑ऽभिः || |
[103] अदर्शीति चतुर्दशर्चस्य सूक्तस्य काण्वः सोभरिरग्निरंत्याया अग्नामरुतोबृहती पंचमीविराड्रूपा सप्तम्याद्ययुजःसतोबृहत्योऽष्टम्यादियुजः क्रमेणककुब्हसीयसीककुबनुष्टुभः | |
अद॑र्शि गातु॒वित्त॑मो॒ यस्मि᳚न्व्र॒तान्या᳚द॒धुः |{काण्वः सोभरिः | अग्निः | बृहती} उपो॒ षु जा॒तमार्य॑स्य॒ वर्ध॑नम॒ग्निं न॑क्षन्त नो॒ गिरः॑ ||{1/14}{8.103.1}{8.10.10.1}{6.7.13.1}{1703, 723, 7677} अद॑र्शि¦गा॒तु॒वित्ऽत॑मः¦यस्मि॑न्¦व्र॒तानि॑¦आ॒ऽद॒धुः | |
प्र दैवो᳚दासो, अ॒ग्निर्दे॒वाँ, अच्छा॒ न म॒ज्मना᳚ |{काण्वः सोभरिः | अग्निः | बृहती} अनु॑ मा॒तरं᳚ पृथि॒वीं वि वा᳚वृते त॒स्थौ नाक॑स्य॒ सान॑वि ||{2/14}{8.103.2}{8.10.10.2}{6.7.13.2}{1704, 723, 7678} प्र¦दैवः॑ऽदासः¦अ॒ग्निः¦दे॒वान्¦अच्छ॑¦न¦म॒ज्मना᳚ | |
यस्मा॒द्रेज᳚न्त कृ॒ष्टय॑श्च॒र्कृत्या᳚नि कृण्व॒तः |{काण्वः सोभरिः | अग्निः | बृहती} स॒ह॒स्र॒सां मे॒धसा᳚ताविव॒ त्मना॒ग्निं धी॒भिः स॑पर्यत ||{3/14}{8.103.3}{8.10.10.3}{6.7.13.3}{1705, 723, 7679} यस्मा᳚त्¦रेज᳚न्त¦कृ॒ष्टयः॑¦च॒र्कृत्या᳚नि¦कृ॒ण्व॒तः | |
प्र यं रा॒ये निनी᳚षसि॒ मर्तो॒ यस्ते᳚ वसो॒ दाश॑त् |{काण्वः सोभरिः | अग्निः | बृहती} स वी॒रं ध॑त्ते, अग्न उक्थशं॒सिनं॒ त्मना᳚ सहस्रपो॒षिण᳚म् ||{4/14}{8.103.4}{8.10.10.4}{6.7.13.4}{1706, 723, 7680} प्र¦यम्¦रा॒ये¦निनी᳚षसि¦मर्तः॑¦यः¦ते॒¦व॒सो॒ इति॑¦दाश॑त् | |
स दृ॒ळ्हे चि॑द॒भि तृ॑णत्ति॒ वाज॒मर्व॑ता॒ स ध॑त्ते॒, अक्षि॑ति॒ श्रवः॑ |{काण्वः सोभरिः | अग्निः | विराड्रूपा} त्वे दे᳚व॒त्रा सदा᳚ पुरूवसो॒ विश्वा᳚ वा॒मानि॑ धीमहि ||{5/14}{8.103.5}{8.10.10.5}{6.7.13.5}{1707, 723, 7681} सः¦दृ॒ळ्हे¦चि॒त्¦अ॒भि¦तृ॒ण॒त्ति॒¦वाज᳚म्¦अर्व॑ता¦सः¦ध॒त्ते॒¦अक्षि॑ति¦श्रवः॑ | |
यो विश्वा॒ दय॑ते॒ वसु॒ होता᳚ म॒न्द्रो जना᳚नाम् |{काण्वः सोभरिः | अग्निः | बृहती} मधो॒र्न पात्रा᳚ प्रथ॒मान्य॑स्मै॒ प्र स्तोमा᳚ यन्त्य॒ग्नये᳚ ||{6/14}{8.103.6}{8.10.10.6}{6.7.14.1}{1708, 723, 7682} यः¦विश्वा᳚¦दय॑ते¦वसु॑¦होता᳚¦म॒न्द्रः¦जना᳚नाम् | |
अश्वं॒ न गी॒र्भी र॒थ्यं᳚ सु॒दान॑वो मर्मृ॒ज्यन्ते᳚ देव॒यवः॑ |{काण्वः सोभरिः | अग्निः | सतोबृहती} उ॒भे तो॒के तन॑ये दस्म विश्पते॒ पर्षि॒ राधो᳚ म॒घोना᳚म् ||{7/14}{8.103.7}{8.10.10.7}{6.7.14.2}{1709, 723, 7683} अश्व᳚म्¦न¦गीः॒ऽभिः¦र॒थ्य᳚म्¦सु॒ऽदान॑वः¦म॒र्मृ॒ज्यन्ते᳚¦दे॒व॒ऽयवः॑ | |
प्र मंहि॑ष्ठाय गायत ऋ॒ताव्ने᳚ बृह॒ते शु॒क्रशो᳚चिषे |{काण्वः सोभरिः | अग्निः | ककुभः} उप॑स्तुतासो, अ॒ग्नये᳚ ||{8/14}{8.103.8}{8.10.10.8}{6.7.14.3}{1710, 723, 7684} प्र¦मंहि॑ष्ठाय¦गा॒य॒त॒¦ऋ॒तऽव्ने᳚¦बृ॒ह॒ते¦शु॒क्रऽशो᳚चिषे | उप॑ऽस्तुतासः¦अ॒ग्नये᳚ || |
आ वं᳚सते म॒घवा᳚ वी॒रव॒द्यशः॒ समि॑द्धो द्यु॒म्न्याहु॑तः |{काण्वः सोभरिः | अग्निः | सतोबृहती} कु॒विन्नो᳚, अस्य सुम॒तिर्नवी᳚य॒स्यच्छा॒ वाजे᳚भिरा॒गम॑त् ||{9/14}{8.103.9}{8.10.10.9}{6.7.14.4}{1711, 723, 7685} आ¦वं॒स॒ते॒¦म॒घऽवा᳚¦वी॒रऽव॑त्¦यशः॑¦सम्ऽइ᳚द्धः¦द्यु॒म्नी¦आऽहु॑तः | |
प्रेष्ठ॑मु प्रि॒याणां᳚ स्तु॒ह्या᳚सा॒वाति॑थिम् |{काण्वः सोभरिः | अग्निः | ह्रसीयसी गायत्री} अ॒ग्निं रथा᳚नां॒ यम᳚म् ||{10/14}{8.103.10}{8.10.10.10}{6.7.14.5}{1712, 723, 7686} प्रेष्ठ᳚म्¦ऊँ॒ इति॑¦प्रि॒याणा᳚म्¦स्तु॒हि¦आ॒ऽसा॒व॒¦अति॑थिम् | अ॒ग्निम्¦रथा᳚नाम्¦यम᳚म् || |
उदि॑ता॒ यो निदि॑ता॒ वेदि॑ता॒ वस्वा य॒ज्ञियो᳚ व॒वर्त॑ति |{काण्वः सोभरिः | अग्निः | सतोबृहती} दु॒ष्टरा॒ यस्य॑ प्रव॒णे नोर्मयो᳚ धि॒या वाजं॒ सिषा᳚सतः ||{11/14}{8.103.11}{8.10.10.11}{6.7.15.1}{1713, 723, 7687} उत्ऽइ᳚ता¦यः¦निऽदि॑ता¦वेदि॑ता¦वसु॑¦आ¦य॒ज्ञियः॑¦व॒वर्त॑ति | |
मा नो᳚ हृणीता॒मति॑थि॒र्वसु॑र॒ग्निः पु॑रुप्रश॒स्त ए॒षः |{काण्वः सोभरिः | अग्निः | ककुभः} यः सु॒होता᳚ स्वध्व॒रः ||{12/14}{8.103.12}{8.10.10.12}{6.7.15.2}{1714, 723, 7688} मा¦नः॒¦हृ॒णी॒ता॒म्¦अति॑थिः¦वसुः॑¦अ॒ग्निः¦पु॒रु॒ऽप्र॒श॒स्तः¦ए॒षः | यः¦सु॒ऽहोता᳚¦सु॒।आ॒ध्व॒रः || |
मो ते रि॑ष॒न्ये, अच्छो᳚क्तिभिर्व॒सोऽग्ने॒ केभि॑श्चि॒देवैः᳚ |{काण्वः सोभरिः | अग्निः | सतोबृहती} की॒रिश्चि॒द्धि त्वामीट्टे᳚ दू॒त्या᳚य रा॒तह᳚व्यः स्वध्व॒रः ||{13/14}{8.103.13}{8.10.10.13}{6.7.15.3}{1715, 723, 7689} मो इति॑¦ते¦रि॒ष॒न्¦ये¦अच्छो᳚क्तिऽभिः¦व॒सो॒ इति॑¦अग्ने᳚¦केभिः॑¦चि॒त्¦एवैः᳚ | |
आग्ने᳚ याहि म॒रुत्स॑खा रु॒द्रेभिः॒ सोम॑पीतये |{काण्वः सोभरिः | अग्नामरुतः | अनुष्टुप्} सोभ᳚र्या॒, उप॑ सुष्टु॒तिं मा॒दय॑स्व॒ स्व᳚र्णरे ||{14/14}{8.103.14}{8.10.10.14}{6.7.15.4}{1716, 723, 7690} आ¦अ॒ग्ने॒¦या॒हि॒¦म॒रुत्ऽस॑खा¦रु॒द्रेभिः॑¦सोम॑ऽपीतये | सोभ᳚र्याः¦उप॑¦सु॒ऽस्तु॒तिम्¦मा॒दय॑स्व¦स्वः॑ऽनरे || |