[1] स्वादिष्ठयेति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाः पवमान सोमो गायत्री | (पवमान पारायण प्रथमोध्यायः) |
स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} इन्द्रा᳚य॒ पात॑वे सु॒तः ||{1/10}{9.1.1}{9.1.1.1}{6.7.16.1}{1, 724, 7691} स्वादि॑ष्ठया¦मदि॑ष्ठया¦पव॑स्व¦सो॒म॒¦धार॑या | इन्द्रा᳚य¦पात॑वे¦सु॒तः || |
र॒क्षो॒हा वि॒श्वच॑र्षणिर॒भि योनि॒मयो᳚हतम् |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} द्रुणा᳚ स॒धस्थ॒मास॑दत् ||{2/10}{9.1.2}{9.1.1.2}{6.7.16.2}{2, 724, 7692} र॒क्षः॒ऽहा¦वि॒श्वऽच॑र्षणिः¦अ॒भि¦योनि᳚म्¦अयः॑ऽहतम् | द्रुणा᳚¦स॒धऽस्थ᳚म्¦आ¦अ॒स॒द॒त् || |
व॒रि॒वो॒धात॑मो भव॒ मंहि॑ष्ठो वृत्र॒हन्त॑मः |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} पर्षि॒ राधो᳚ म॒घोना᳚म् ||{3/10}{9.1.3}{9.1.1.3}{6.7.16.3}{3, 724, 7693} व॒रि॒वः॒ऽधात॑मः¦भ॒व॒¦मंहि॑ष्ठः¦वृ॒त्र॒हन्ऽत॑मः | पर्षि॑¦राधः॑¦म॒घोना᳚म् || |
अ॒भ्य॑र्ष म॒हानां᳚ दे॒वानां᳚ वी॒तिमन्ध॑सा |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} अ॒भि वाज॑मु॒त श्रवः॑ ||{4/10}{9.1.4}{9.1.1.4}{6.7.16.4}{4, 724, 7694} अ॒भि¦अ॒र्ष॒¦म॒हाना᳚म्¦दे॒वाना᳚म्¦वी॒तिम्¦अन्ध॑सा | अ॒भि¦वाज᳚म्¦उ॒त¦श्रवः॑ || |
त्वामच्छा᳚ चरामसि॒ तदिदर्थं᳚ दि॒वेदि॑वे |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} इन्दो॒ त्वे न॑ आ॒शसः॑ ||{5/10}{9.1.5}{9.1.1.5}{6.7.16.5}{5, 724, 7695} त्वाम्¦अच्छ॑¦च॒रा॒म॒सि॒¦तत्¦इत्¦अर्थ᳚म्¦दि॒वेऽदि॑वे | इन्दो॒ इति॑¦त्वे इति॑¦नः॒¦आ॒ऽशसः॑ || |
पु॒नाति॑ ते परि॒स्रुतं॒ सोमं॒ सूर्य॑स्य दुहि॒ता |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} वारे᳚ण॒ शश्व॑ता॒ तना᳚ ||{6/10}{9.1.6}{9.1.1.6}{6.7.17.1}{6, 724, 7696} पु॒नाति॑¦ते॒¦प॒रि॒ऽस्रुत᳚म्¦सोम᳚म्¦सूर्य॑स्य¦दु॒हि॒ता | वारे᳚ण¦शश्व॑ता¦तना᳚ || |
तमी॒मण्वीः᳚ सम॒र्य आ गृ॒भ्णन्ति॒ योष॑णो॒ दश॑ |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} स्वसा᳚रः॒ पार्ये᳚ दि॒वि ||{7/10}{9.1.7}{9.1.1.7}{6.7.17.2}{7, 724, 7697} तम्¦ई॒म्¦अण्वीः᳚¦स॒ऽम॒र्ये¦आ¦गृ॒भ्णन्ति॑¦योष॑णः¦दश॑ | स्वसा᳚रः¦पार्ये᳚¦दि॒वि || |
तमीं᳚ हिन्वन्त्य॒ग्रुवो॒ धम᳚न्ति बाकु॒रं दृति᳚म् |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} त्रि॒धातु॑ वार॒णं मधु॑ ||{8/10}{9.1.8}{9.1.1.8}{6.7.17.3}{8, 724, 7698} तम्¦ई॒म्¦हि॒न्व॒न्ति॒¦अ॒ग्रुवः॑¦धम᳚न्ति¦बा॒कु॒रम्¦दृति᳚म् | त्रि॒ऽधातु॑¦वा॒र॒णम्¦मधु॑ || |
अ॒भी॒३॑(ई॒)ममघ्न्या᳚, उ॒त श्री॒णन्ति॑ धे॒नवः॒ शिशु᳚म् |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} सोम॒मिन्द्रा᳚य॒ पात॑वे ||{9/10}{9.1.9}{9.1.1.9}{6.7.17.4}{9, 724, 7699} अ॒भि¦इ॒मम्¦अघ्न्याः᳚¦उ॒त¦श्री॒णन्ति॑¦धे॒नवः॑¦शिशु᳚म् | सोम᳚म्¦इन्द्रा᳚य¦पात॑वे || |
अ॒स्येदिन्द्रो॒ मदे॒ष्वा विश्वा᳚ वृ॒त्राणि॑ जिघ्नते |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} शूरो᳚ म॒घा च॑ मंहते ||{10/10}{9.1.10}{9.1.1.10}{6.7.17.5}{10, 724, 7700} अ॒स्य¦इत्¦इन्द्रः॑¦मदे᳚षु¦आ¦विश्वा᳚¦वृ॒त्राणि॑¦जि॒घ्न॒ते॒ | शूरः॑¦म॒घा¦च॒¦मं॒ह॒ते॒ || |
[2] पवस्वेति दशर्चस्य सूक्तस्य काण्वोमेधातिथिः पवमानसोमोगायत्री | |
पव॑स्व देव॒वीरति॑ प॒वित्रं᳚ सोम॒ रंह्या᳚ |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} इन्द्र॑मिन्दो॒ वृषा वि॑श ||{1/10}{9.2.1}{9.1.2.1}{6.7.18.1}{11, 725, 7701} पव॑स्व¦दे॒व॒ऽवीः¦अति॑¦प॒वित्र᳚म्¦सो॒म॒¦रंह्या᳚ | इन्द्र᳚म्¦इ॒न्दो॒ इति॑¦वृषा᳚¦आ¦वि॒श॒ || |
आ व॑च्यस्व॒ महि॒ प्सरो॒ वृषे᳚न्दो द्यु॒म्नव॑त्तमः |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} आ योनिं᳚ धर्ण॒सिः स॑दः ||{2/10}{9.2.2}{9.1.2.2}{6.7.18.2}{12, 725, 7702} आ¦व॒च्य॒स्व॒¦महि॑¦प्सरः॑¦वृषा᳚¦इ॒न्दो॒ इति॑¦द्यु॒म्नव॑त्ऽतमः | आ¦योनि᳚म्¦ध॒र्ण॒सिः¦स॒दः॒ || |
अधु॑क्षत प्रि॒यं मधु॒ धारा᳚ सु॒तस्य॑ वे॒धसः॑ |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} अ॒पो व॑सिष्ट सु॒क्रतुः॑ ||{3/10}{9.2.3}{9.1.2.3}{6.7.18.3}{13, 725, 7703} अधु॑क्षत¦प्रि॒यम्¦मधु॑¦धारा᳚¦सु॒तस्य॑¦वे॒धसः॑ | अ॒पः¦व॒सि॒ष्ट॒¦सु॒ऽक्रतुः॑ || |
म॒हान्तं᳚ त्वा म॒हीरन्वापो᳚, अर्षन्ति॒ सिन्ध॑वः |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} यद्गोभि᳚र्वासयि॒ष्यसे᳚ ||{4/10}{9.2.4}{9.1.2.4}{6.7.18.4}{14, 725, 7704} म॒हान्त᳚म्¦त्वा॒¦म॒हीः¦अनु॑¦आपः॑¦अ॒र्ष॒न्ति॒¦सिन्ध॑वः | यत्¦गोभिः॑¦वा॒स॒यि॒ष्यसे᳚ || |
स॒मु॒द्रो, अ॒प्सु मा᳚मृजे विष्ट॒म्भो ध॒रुणो᳚ दि॒वः |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} सोमः॑ प॒वित्रे᳚, अस्म॒युः ||{5/10}{9.2.5}{9.1.2.5}{6.7.18.5}{15, 725, 7705} स॒मु॒द्रः¦अ॒प्ऽसु¦म॒मृ॒जे॒¦वि॒ष्ट॒म्भः¦ध॒रुणः॑¦दि॒वः | सोमः॑¦प॒वित्रे᳚¦अ॒स्म॒ऽयुः || |
अचि॑क्रद॒द्वृषा॒ हरि᳚र्म॒हान् मि॒त्रो न द॑र्श॒तः |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} सं सूर्ये᳚ण रोचते ||{6/10}{9.2.6}{9.1.2.6}{6.7.19.1}{16, 725, 7706} अचि॑क्रदत्¦वृषा᳚¦हरिः॑¦म॒हान्¦मि॒त्रः¦न¦द॒र्श॒तः | सम्¦सूर्ये᳚ण¦रो॒च॒ते॒ || |
गिर॑स्त इन्द॒ ओज॑सा मर्मृ॒ज्यन्ते᳚, अप॒स्युवः॑ |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} याभि॒र्मदा᳚य॒ शुम्भ॑से ||{7/10}{9.2.7}{9.1.2.7}{6.7.19.2}{17, 725, 7707} गिरः॑¦ते॒¦इ॒न्दो॒ इति॑¦ओज॑सा¦म॒र्मृ॒ज्यन्ते᳚¦अ॒प॒स्युवः॑ | याभिः॑¦मदा᳚य¦शुम्भ॑से || |
तं त्वा॒ मदा᳚य॒ घृष्व॑य उ लोककृ॒त्नुमी᳚महे |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} तव॒ प्रश॑स्तयो म॒हीः ||{8/10}{9.2.8}{9.1.2.8}{6.7.19.3}{18, 725, 7708} तम्¦त्वा॒¦मदा᳚य¦घृष्व॑ये¦ऊँ॒ इति॑¦लो॒क॒ऽकृ॒त्नुम्¦ई॒म॒हे॒ | तव॑¦प्रऽश॑स्तयः¦म॒हीः || |
अ॒स्मभ्य॑मिन्दविन्द्र॒युर्मध्वः॑ पवस्व॒ धार॑या |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} प॒र्जन्यो᳚ वृष्टि॒माँ, इ॑व ||{9/10}{9.2.9}{9.1.2.9}{6.7.19.4}{19, 725, 7709} अ॒स्मभ्य᳚म्¦इ॒न्दो॒ इति॑¦इ॒न्द्र॒ऽयुः¦मध्वः॑¦प॒व॒स्व॒¦धार॑या | प॒र्जन्यः॑¦वृ॒ष्टि॒मान्ऽइ᳚व || |
गो॒षा, इ᳚न्दो नृ॒षा, अ॑स्यश्व॒सा वा᳚ज॒सा, उ॒त |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} आ॒त्मा य॒ज्ञस्य॑ पू॒र्व्यः ||{10/10}{9.2.10}{9.1.2.10}{6.7.19.5}{20, 725, 7710} गो॒ऽसाः¦इ॒न्दो॒ इति॑¦नृ॒ऽसाः¦अ॒सि॒¦अ॒श्व॒ऽसाः¦वा॒ज॒ऽसाः¦उ॒त | आ॒त्मा¦य॒ज्ञस्य॑¦पू॒र्व्यः || |
[3] एषदेव इति दशर्चस्य सूक्तस्याजीगर्तिः शुनःशेपः सकृत्रिमोवैश्वामित्रोदेवरातः पवमान सोमो गायत्री । |
ए॒ष दे॒वो, अम॑र्त्यः पर्ण॒वीरि॑व दीयति |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} अ॒भि द्रोणा᳚न्या॒सद᳚म् ||{1/10}{9.3.1}{9.1.3.1}{6.7.20.1}{21, 726, 7711} ए॒षः¦दे॒वः¦अम॑र्त्यः¦प॒र्ण॒वीःऽइ᳚व¦दी॒य॒ति॒ | अ॒भि¦द्रोणा᳚नि¦आ॒ऽसद᳚म् || |
ए॒ष दे॒वो वि॒पा कृ॒तोऽति॒ ह्वरां᳚सि धावति |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} पव॑मानो॒, अदा᳚भ्यः ||{2/10}{9.3.2}{9.1.3.2}{6.7.20.2}{22, 726, 7712} ए॒षः¦दे॒वः¦वि॒पा¦कृ॒तः¦अति॑¦ह्वरां᳚सि¦धा॒व॒ति॒ | पव॑मानः¦अदा᳚भ्यः || |
ए॒ष दे॒वो वि॑प॒न्युभिः॒ पव॑मान ऋता॒युभिः॑ |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} हरि॒र्वाजा᳚य मृज्यते ||{3/10}{9.3.3}{9.1.3.3}{6.7.20.3}{23, 726, 7713} ए॒षः¦दे॒वः¦वि॒प॒न्युऽभिः॑¦पव॑मानः¦ऋ॒त॒युऽभिः॑ | हरिः॑¦वाजा᳚य¦मृ॒ज्य॒ते॒ || |
ए॒ष विश्वा᳚नि॒ वार्या॒ शूरो॒ यन्नि॑व॒ सत्व॑भिः |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} पव॑मानः सिषासति ||{4/10}{9.3.4}{9.1.3.4}{6.7.20.4}{24, 726, 7714} ए॒षः¦विश्वा᳚नि¦वार्या᳚¦शूरः॑¦यन्ऽइ᳚व¦सत्व॑ऽभिः | पव॑मानः¦सि॒सा॒स॒ति॒ || |
ए॒ष दे॒वो र॑थर्यति॒ पव॑मानो दशस्यति |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} आ॒विष्कृ॑णोति वग्व॒नुम् ||{5/10}{9.3.5}{9.1.3.5}{6.7.20.5}{25, 726, 7715} ए॒षः¦दे॒वः¦र॒थ॒र्य॒ति॒¦पव॑मानः¦द॒श॒स्य॒ति॒ | आ॒विः¦कृ॒णो॒ति॒¦व॒ग्व॒नुम् || |
ए॒ष विप्रै᳚र॒भिष्टु॑तो॒ऽपो दे॒वो वि गा᳚हते |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} दध॒द्रत्ना᳚नि दा॒शुषे᳚ ||{6/10}{9.3.6}{9.1.3.6}{6.7.21.1}{26, 726, 7716} ए॒षः¦विप्रैः᳚¦अ॒भिऽस्तु॑तः¦अ॒पः¦दे॒वः¦वि¦गा॒ह॒ते॒ | दध॑त्¦रत्ना᳚नि¦दा॒शुषे᳚ || |
ए॒ष दिवं॒ वि धा᳚वति ति॒रो रजां᳚सि॒ धार॑या |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} पव॑मानः॒ कनि॑क्रदत् ||{7/10}{9.3.7}{9.1.3.7}{6.7.21.2}{27, 726, 7717} ए॒षः¦दिव᳚म्¦वि¦धा॒व॒ति॒¦ति॒रः¦रजां᳚सि¦धार॑या | पव॑मानः¦कनि॑क्रदत् || |
ए॒ष दिवं॒ व्यास॑रत् ति॒रो रजां॒स्यस्पृ॑तः |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} पव॑मानः स्वध्व॒रः ||{8/10}{9.3.8}{9.1.3.8}{6.7.21.3}{28, 726, 7718} ए॒षः¦दिव᳚म्¦वि¦आ¦अ॒स॒र॒त्¦ति॒रः¦रजां᳚सि¦अस्पृ॑तः | पव॑मानः¦सु॒।आ॒ध्व॒रः || |
ए॒ष प्र॒त्नेन॒ जन्म॑ना दे॒वो दे॒वेभ्यः॑ सु॒तः |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} हरिः॑ प॒वित्रे᳚, अर्षति ||{9/10}{9.3.9}{9.1.3.9}{6.7.21.4}{29, 726, 7719} ए॒षः¦प्र॒त्नेन॑¦जन्म॑ना¦दे॒वः¦दे॒वेभ्यः॑¦सु॒तः | हरिः॑¦प॒वित्रे᳚¦अ॒र्ष॒ति॒ || |
ए॒ष उ॒ स्य पु॑रुव्र॒तो ज॑ज्ञा॒नो ज॒नय॒न्निषः॑ |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} धार॑या पवते सु॒तः ||{10/10}{9.3.10}{9.1.3.10}{6.7.21.5}{30, 726, 7720} ए॒षः¦ऊँ॒ इति॑¦स्यः¦पु॒रु॒ऽव्र॒तः¦ज॒ज्ञा॒नः¦ज॒नय॑न्¦इषः॑ | धार॑या¦प॒व॒ते॒¦सु॒तः || |
[4] सनाचेति दशर्चस्य सूक्तस्याङ्गिरसो हिरण्यस्तूपः पवमानसोमो गायत्री |
सना᳚ च सोम॒ जेषि॑ च॒ पव॑मान॒ महि॒ श्रवः॑ |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚ नो॒ वस्य॑सस्कृधि ||{1/10}{9.4.1}{9.1.4.1}{6.7.22.1}{31, 727, 7721} सन॑¦च॒¦सो॒म॒¦जेषि॑¦च॒¦पव॑मान¦महि॑¦श्रवः॑ | अथ॑¦नः॒¦वस्य॑सः¦कृ॒धि॒ || |
सना॒ ज्योतिः॒ सना॒ स्व१॑(अ॒)र्विश्वा᳚ च सोम॒ सौभ॑गा |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚ नो॒ वस्य॑सस्कृधि ||{2/10}{9.4.2}{9.1.4.2}{6.7.22.2}{32, 727, 7722} सन॑¦ज्योतिः॑¦सन॑¦स्वः॑¦विश्वा᳚¦च॒¦सो॒म॒¦सौभ॑गा | अथ॑¦नः॒¦वस्य॑सः¦कृ॒धि॒ || |
सना॒ दक्ष॑मु॒त क्रतु॒मप॑ सोम॒ मृधो᳚ जहि |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚ नो॒ वस्य॑सस्कृधि ||{3/10}{9.4.3}{9.1.4.3}{6.7.22.3}{33, 727, 7723} सना᳚¦दक्ष᳚म्¦उ॒त¦क्रतु᳚म्¦अप॑¦सो॒म॒¦मृधः॑¦ज॒हि॒ | अथ॑¦नः॒¦वस्य॑सः¦कृ॒धि॒ || |
पवी᳚तारः पुनी॒तन॒ सोम॒मिन्द्रा᳚य॒ पात॑वे |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚ नो॒ वस्य॑सस्कृधि ||{4/10}{9.4.4}{9.1.4.4}{6.7.22.4}{34, 727, 7724} पवि॑तारः¦पु॒नी॒तन॑¦सोम᳚म्¦इन्द्रा᳚य¦पात॑वे | अथ॑¦नः॒¦वस्य॑सः¦कृ॒धि॒ || |
त्वं सूर्ये᳚ न॒ आ भ॑ज॒ तव॒ क्रत्वा॒ तवो॒तिभिः॑ |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚ नो॒ वस्य॑सस्कृधि ||{5/10}{9.4.5}{9.1.4.5}{6.7.22.5}{35, 727, 7725} त्वम्¦सूर्ये᳚¦नः॒¦आ¦भ॒ज॒¦तव॑¦क्रत्वा᳚¦तव॑¦ऊ॒तिऽभिः॑ | अथ॑¦नः॒¦वस्य॑सः¦कृ॒धि॒ || |
तव॒ क्रत्वा॒ तवो॒तिभि॒र्ज्योक् प॑श्येम॒ सूर्य᳚म् |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚ नो॒ वस्य॑सस्कृधि ||{6/10}{9.4.6}{9.1.4.6}{6.7.23.1}{36, 727, 7726} तव॑¦क्रत्वा᳚¦तव॑¦ऊ॒तिऽभिः॑¦ज्योक्¦प॒श्ये॒म॒¦सूर्य᳚म् | अथ॑¦नः॒¦वस्य॑सः¦कृ॒धि॒ || |
अ॒भ्य॑र्ष स्वायुध॒ सोम॑ द्वि॒बर्ह॑सं र॒यिम् |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚ नो॒ वस्य॑सस्कृधि ||{7/10}{9.4.7}{9.1.4.7}{6.7.23.2}{37, 727, 7727} अ॒भि¦अ॒र्ष॒¦सु॒ऽआ॒यु॒ध॒¦सोम॑¦द्वि॒ऽबर्ह॑सम्¦र॒यिम् | अथ॑¦नः॒¦वस्य॑सः¦कृ॒धि॒ || |
अ॒भ्य१॑(अ॒)र्षान॑पच्युतो र॒यिं स॒मत्सु॑ सास॒हिः |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚ नो॒ वस्य॑सस्कृधि ||{8/10}{9.4.8}{9.1.4.8}{6.7.23.3}{38, 727, 7728} अ॒भि¦अ॒र्ष॒¦अन॑पऽच्युतः¦र॒यिम्¦स॒मत्ऽसु॑¦स॒स॒हिः | अथ॑¦नः॒¦वस्य॑सः¦कृ॒धि॒ || |
त्वां य॒ज्ञैर॑वीवृध॒न् पव॑मान॒ विध᳚र्मणि |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚ नो॒ वस्य॑सस्कृधि ||{9/10}{9.4.9}{9.1.4.9}{6.7.23.4}{39, 727, 7729} त्वाम्¦य॒ज्ञैः¦अ॒वी॒वृ॒ध॒न्¦पव॑मान¦विऽध᳚र्मणि | अथ॑¦नः॒¦वस्य॑सः¦कृ॒धि॒ || |
र॒यिं न॑श्चि॒त्रम॒श्विन॒मिन्दो᳚ वि॒श्वायु॒मा भ॑र |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚ नो॒ वस्य॑सस्कृधि ||{10/10}{9.4.10}{9.1.4.10}{6.7.23.5}{40, 727, 7730} र॒यिम्¦नः॒¦चि॒त्रम्¦अ॒श्विन᳚म्¦इन्दो॒ इति॑¦वि॒श्वऽआ᳚युम्¦आ¦भ॒र॒ | अथ॑¦नः॒¦वस्य॑सः¦कृ॒धि॒ || |
[5] समिद्धइत्येकादशर्चस्य सूक्तस्य काश्यपोसितः क्रमेणेध्मस्तनूनपादिळोबर्हिर्देवीर्द्वार उषासानक्ता दैव्यौहोतारौ तिस्रोदेव्यः सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिः स्वाहाकृतयोगायत्री अंत्याश्चतस्रोनुष्टुभः | ( इतआरभ्यविंशतिसूक्तेषुकाश्यपोदेवलोऽसितेन सहविकल्पते ) | |
समि॑द्धो वि॒श्वत॒स्पतिः॒ पव॑मानो॒ वि रा᳚जति |{काश्यपोसितः | इध्मः समिद्धोऽग्निर्वा | गायत्री} प्री॒णन् वृषा॒ कनि॑क्रदत् ||{1/11}{9.5.1}{9.1.5.1}{6.7.24.1}{41, 728, 7731} सम्ऽइ᳚द्धः¦वि॒श्वतः॑¦पतिः॑¦पव॑मानः¦वि¦रा॒ज॒ति॒ | प्री॒णन्¦वृषा᳚¦कनि॑क्रदत् || |
तनू॒नपा॒त् पव॑मानः॒ शृङ्गे॒ शिशा᳚नो, अर्षति |{काश्यपोसितः | तनूनपात् | गायत्री} अ॒न्तरि॑क्षेण॒ रार॑जत् ||{2/11}{9.5.2}{9.1.5.2}{6.7.24.2}{42, 728, 7732} तनू॒३॒॑ऽनपा᳚त्¦पव॑मानः¦शृङ्गे॒ इति॑¦शिशा᳚नः¦अ॒र्ष॒ति॒ | अ॒न्तरि॑क्षेण¦रार॑जत् || |
ई॒ळेन्यः॒ पव॑मानो र॒यिर्वि रा᳚जति द्यु॒मान् |{काश्यपोसितः | इळः | गायत्री} मधो॒र्धारा᳚भि॒रोज॑सा ||{3/11}{9.5.3}{9.1.5.3}{6.7.24.3}{43, 728, 7733} ई॒ळेन्यः॑¦पव॑मानः¦र॒यिः¦वि¦रा॒ज॒ति॒¦द्यु॒ऽमान् | मधोः᳚¦धारा᳚भिः¦ओज॑सा || |
ब॒र्हिः प्रा॒चीन॒मोज॑सा॒ पव॑मानः स्तृ॒णन् हरिः॑ |{काश्यपोसितः | बर्हिः | गायत्री} दे॒वेषु॑ दे॒व ई᳚यते ||{4/11}{9.5.4}{9.1.5.4}{6.7.24.4}{44, 728, 7734} ब॒र्हिः¦प्रा॒चीन᳚म्¦ओज॑सा¦पव॑मानः¦स्तृ॒णन्¦हरिः॑ | दे॒वेषु॑¦दे॒वः¦ई॒य॒ते॒ || |
उदातै᳚र्जिहते बृ॒हद् द्वारो᳚ दे॒वीर्हि॑र॒ण्ययीः᳚ |{काश्यपोसितः | देवीर्द्वारः (प्रचेतसावितिगुणः) | गायत्री} पव॑मानेन॒ सुष्टु॑ताः ||{5/11}{9.5.5}{9.1.5.5}{6.7.24.5}{45, 728, 7735} उत्¦आतैः᳚¦जि॒ह॒ते॒¦बृ॒हत्¦द्वारः॑¦दे॒वीः¦हि॒र॒ण्ययीः᳚ | पव॑मानेन¦सुऽस्तु॑ताः || |
सु॒शि॒ल्पे बृ॑ह॒ती म॒ही पव॑मानो वृषण्यति |{काश्यपोसितः | उषासानक्ता | गायत्री} नक्तो॒षासा॒ न द॑र्श॒ते ||{6/11}{9.5.6}{9.1.5.6}{6.7.25.1}{46, 728, 7736} सु॒शि॒ल्पे इति॑ सु॒ऽशि॒ल्पे¦बृ॒ह॒ती इति॑¦म॒ही इति॑¦पव॑मानः¦वृ॒ष॒ण्य॒ति॒ | नक्तो॒षसा᳚¦न¦द॒र्श॒ते इति॑ || |
उ॒भा दे॒वा नृ॒चक्ष॑सा॒ होता᳚रा॒ दैव्या᳚ हुवे |{काश्यपोसितः | दैव्यौ होतारौ प्रचेतसौ | गायत्री} पव॑मान॒ इन्द्रो॒ वृषा᳚ ||{7/11}{9.5.7}{9.1.5.7}{6.7.25.2}{47, 728, 7737} उ॒भा¦दे॒वा¦नृ॒ऽचक्ष॑सा¦होता᳚रा¦दैव्या᳚¦हु॒वे॒ | पव॑मानः¦इन्द्रः॑¦वृषा᳚ || |
भार॑ती॒ पव॑मानस्य॒ सर॑स्व॒तीळा᳚ म॒ही |{काश्यपोसितः | सरस्वतीळाभारत्यः | अनुष्टुप्} इ॒मं नो᳚ य॒ज्ञमा ग॑मन् ति॒स्रो दे॒वीः सु॒पेश॑सः ||{8/11}{9.5.8}{9.1.5.8}{6.7.25.3}{48, 728, 7738} भार॑ती¦पव॑मानस्य¦सर॑स्वती¦इळा᳚¦म॒ही | इ॒मम्¦नः॒¦य॒ज्ञम्¦आ¦ग॒म॒न्¦ति॒स्रः¦दे॒वीः¦सु॒ऽपेश॑सः || |
त्वष्टा᳚रमग्र॒जां गो॒पां पु॑रो॒यावा᳚न॒मा हु॑वे |{काश्यपोसितः | त्वष्टा | अनुष्टुप्} इन्दु॒रिन्द्रो॒ वृषा॒ हरिः॒ पव॑मानः प्र॒जाप॑तिः ||{9/11}{9.5.9}{9.1.5.9}{6.7.25.4}{49, 728, 7739} त्वष्टा᳚रम्¦अ॒ग्र॒ऽजाम्¦गो॒पाम्¦पु॒रः॒ऽयावा᳚नम्¦आ¦हु॒वे॒ | इन्दुः॑¦इन्द्रः॑¦वृषा᳚¦हरिः॑¦पव॑मानः¦प्र॒जाऽप॑तिः || |
वन॒स्पतिं᳚ पवमान॒ मध्वा॒ सम᳚ङ्ग्धि॒ धार॑या |{काश्यपोसितः | वनस्पतिः | अनुष्टुप्} स॒हस्र॑वल्शं॒ हरि॑तं॒ भ्राज॑मानं हिर॒ण्यय᳚म् ||{10/11}{9.5.10}{9.1.5.10}{6.7.25.5}{50, 728, 7740} वन॒स्पति᳚म्¦प॒व॒मा॒न॒¦मध्वा᳚¦सम्¦अ॒ङ्ग्धि॒¦धार॑या | स॒हस्र॑ऽवल्शम्¦हरि॑तम्¦भ्राज॑मानम्¦हि॒र॒ण्यय᳚म् || |
विश्वे᳚ देवाः॒ स्वाहा᳚कृतिं॒ पव॑मान॒स्या ग॑त |{काश्यपोसितः | स्वाहाकृतयः | अनुष्टुप्} वा॒युर्बृह॒स्पतिः॒ सूर्यो॒ऽग्निरिन्द्रः॑ स॒जोष॑सः ||{11/11}{9.5.11}{9.1.5.11}{6.7.25.6}{51, 728, 7741} विश्वे᳚¦दे॒वाः॒¦स्वाहा᳚ऽकृतिम्¦पव॑मानस्य¦आ¦ग॒त॒ | वा॒युः¦बृह॒स्पतिः॑¦सूर्यः॑¦अ॒ग्निः¦इन्द्रः॑¦स॒ऽजोष॑सः || |
[6] मंद्रयेति नवर्चस्य सूक्तस्य काश्यपोसितः पवमानसोमो गायत्री |
म॒न्द्रया᳚ सोम॒ धार॑या॒ वृषा᳚ पवस्व देव॒युः |{काश्यपोसितः | पवमानः सोमः | गायत्री} अव्यो॒ वारे᳚ष्वस्म॒युः ||{1/9}{9.6.1}{9.1.6.1}{6.7.26.1}{52, 729, 7742} म॒न्द्रया᳚¦सो॒म॒¦धार॑या¦वृषा᳚¦प॒व॒स्व॒¦दे॒व॒ऽयुः | अव्यः॑¦वारे᳚षु¦अ॒स्म॒ऽयुः || |
अ॒भि त्यं मद्यं॒ मद॒मिन्द॒विन्द्र॒ इति॑ क्षर |{काश्यपोसितः | पवमानः सोमः | गायत्री} अ॒भि वा॒जिनो॒, अर्व॑तः ||{2/9}{9.6.2}{9.1.6.2}{6.7.26.2}{53, 729, 7743} अ॒भि¦त्यम्¦मद्य᳚म्¦मद᳚म्¦इन्दो॒ इति॑¦इन्द्रः॑¦इति॑¦क्ष॒र॒ | अ॒भि¦वा॒जिनः॑¦अर्व॑तः || |
अ॒भि त्यं पू॒र्व्यं मदं᳚ सुवा॒नो, अ॑र्ष प॒वित्र॒ आ |{काश्यपोसितः | पवमानः सोमः | गायत्री} अ॒भि वाज॑मु॒त श्रवः॑ ||{3/9}{9.6.3}{9.1.6.3}{6.7.26.3}{54, 729, 7744} अ॒भि¦त्यम्¦पू॒र्व्यम्¦मद᳚म्¦सु॒वा॒नः¦अ॒र्ष॒¦प॒वित्रे᳚¦आ | अ॒भि¦वाज᳚म्¦उ॒त¦श्रवः॑ || |
अनु॑ द्र॒प्सास॒ इन्द॑व॒ आपो॒ न प्र॒वता᳚सरन् |{काश्यपोसितः | पवमानः सोमः | गायत्री} पु॒ना॒ना, इन्द्र॑माशत ||{4/9}{9.6.4}{9.1.6.4}{6.7.26.4}{55, 729, 7745} अनु॑¦द्र॒प्सासः॑¦इन्द॑वः¦आपः॑¦न¦प्र॒ऽवता᳚¦अ॒स॒र॒न् | पु॒ना॒नाः¦इन्द्र᳚म्¦आ॒श॒त॒ || |
यमत्य॑मिव वा॒जिनं᳚ मृ॒जन्ति॒ योष॑णो॒ दश॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} वने॒ क्रीळ᳚न्त॒मत्य॑विम् ||{5/9}{9.6.5}{9.1.6.5}{6.7.26.5}{56, 729, 7746} यम्¦अत्य᳚म्ऽइव¦वा॒जिन᳚म्¦मृ॒जन्ति॑¦योष॑णः¦दश॑ | वने᳚¦क्रीळ᳚न्तम्¦अति॑।आविम् || |
तं गोभि॒र्वृष॑णं॒ रसं॒ मदा᳚य दे॒ववी᳚तये |{काश्यपोसितः | पवमानः सोमः | गायत्री} सु॒तं भरा᳚य॒ सं सृ॑ज ||{6/9}{9.6.6}{9.1.6.6}{6.7.27.1}{57, 729, 7747} तम्¦गोभिः॑¦वृष॑णम्¦रस᳚म्¦मदा᳚य¦दे॒वऽवी᳚तये | सु॒तम्¦भरा᳚य¦सम्¦सृ॒ज॒ || |
दे॒वो दे॒वाय॒ धार॒येन्द्रा᳚य पवते सु॒तः |{काश्यपोसितः | पवमानः सोमः | गायत्री} पयो॒ यद॑स्य पी॒पय॑त् ||{7/9}{9.6.7}{9.1.6.7}{6.7.27.2}{58, 729, 7748} दे॒वः¦दे॒वाय॑¦धार॑या¦इन्द्रा᳚य¦प॒व॒ते॒¦सु॒तः | पयः॑¦यत्¦अ॒स्य॒¦पी॒पय॑त् || |
आ॒त्मा य॒ज्ञस्य॒ रंह्या᳚ सुष्वा॒णः प॑वते सु॒तः |{काश्यपोसितः | पवमानः सोमः | गायत्री} प्र॒त्नं नि पा᳚ति॒ काव्य᳚म् ||{8/9}{9.6.8}{9.1.6.8}{6.7.27.3}{59, 729, 7749} आ॒त्मा¦य॒ज्ञस्य॑¦रंह्या᳚¦सु॒स्वा॒णः¦प॒व॒ते॒¦सु॒तः | प्र॒त्नम्¦नि¦पा॒ति॒¦काव्य᳚म् || |
ए॒वा पु॑ना॒न इ᳚न्द्र॒युर्मदं᳚ मदिष्ठ वी॒तये᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} गुहा᳚ चिद्दधिषे॒ गिरः॑ ||{9/9}{9.6.9}{9.1.6.9}{6.7.27.4}{60, 729, 7750} ए॒व¦पु॒ना॒नः¦इ॒न्द्र॒ऽयुः¦मद᳚म्¦म॒दि॒ष्ठ॒¦वी॒तये᳚ | गुहा᳚¦चि॒त्¦द॒धि॒षे॒¦गिरः॑ || |
[7] असृग्रमिति नवर्चस्य सूक्तस्य काश्यपोऽसितः पवमान सोमो गायत्री | |
असृ॑ग्र॒मिन्द॑वः प॒था धर्म᳚न्नृ॒तस्य॑ सु॒श्रियः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} वि॒दा॒ना, अ॑स्य॒ योज॑नम् ||{1/9}{9.7.1}{9.1.7.1}{6.7.28.1}{61, 730, 7751} असृ॑ग्रम्¦इन्द॑वः¦प॒था¦धर्म॑न्¦ऋ॒तस्य॑¦सु॒ऽश्रियः॑ | वि॒दा॒नाः¦अ॒स्य॒¦योज॑नम् || |
प्र धारा॒ मध्वो᳚, अग्रि॒यो म॒हीर॒पो वि गा᳚हते |{काश्यपोसितः | पवमानः सोमः | गायत्री} ह॒विर्ह॒विष्षु॒ वन्द्यः॑ ||{2/9}{9.7.2}{9.1.7.2}{6.7.28.2}{62, 730, 7752} प्र¦धारा᳚¦मध्वः॑¦अ॒ग्रि॒यः¦म॒हीः¦अ॒पः¦वि¦गा॒ह॒ते॒ | ह॒विः¦ह॒विष्षु॑¦वन्द्यः॑ || |
प्र यु॒जो वा॒चो, अ॑ग्रि॒यो वृषाव॑ चक्रद॒द्वने᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} सद्मा॒भि स॒त्यो, अ॑ध्व॒रः ||{3/9}{9.7.3}{9.1.7.3}{6.7.28.3}{63, 730, 7753} प्र¦यु॒जः¦वा॒चः¦अ॒ग्रि॒यः¦वृषा᳚¦अव॑¦च॒क्र॒द॒त्¦वने᳚ | सद्म॑¦अ॒भि¦स॒त्यः¦अ॒ध्व॒रः || |
परि॒ यत् काव्या᳚ क॒विर्नृ॒म्णा वसा᳚नो॒, अर्ष॑ति |{काश्यपोसितः | पवमानः सोमः | गायत्री} स्व᳚र्वा॒जी सि॑षासति ||{4/9}{9.7.4}{9.1.7.4}{6.7.28.4}{64, 730, 7754} परि॑¦यत्¦काव्या᳚¦क॒विः¦नृ॒म्णा¦वसा᳚नः¦अर्ष॑ति | स्वः॑¦वा॒जी¦सि॒सा॒स॒ति॒ || |
पव॑मानो, अ॒भि स्पृधो॒ विशो॒ राजे᳚व सीदति |{काश्यपोसितः | पवमानः सोमः | गायत्री} यदी᳚मृ॒ण्वन्ति॑ वे॒धसः॑ ||{5/9}{9.7.5}{9.1.7.5}{6.7.28.5}{65, 730, 7755} पव॑मानः¦अ॒भि¦स्पृधः॑¦विशः॑¦राजा᳚ऽइव¦सी॒द॒ति॒ | यत्¦ई॒म्¦ऋ॒ण्वन्ति॑¦वे॒धसः॑ || |
अव्यो॒ वारे॒ परि॑ प्रि॒यो हरि॒र्वने᳚षु सीदति |{काश्यपोसितः | पवमानः सोमः | गायत्री} रे॒भो व॑नुष्यते म॒ती ||{6/9}{9.7.6}{9.1.7.6}{6.7.29.1}{66, 730, 7756} अव्यः॑¦वारे᳚¦परि॑¦प्रि॒यः¦हरिः॑¦वने᳚षु¦सी॒द॒ति॒ | रे॒भः¦व॒नु॒ष्य॒ते॒¦म॒ती || |
स वा॒युमिन्द्र॑म॒श्विना᳚ सा॒कं मदे᳚न गच्छति |{काश्यपोसितः | पवमानः सोमः | गायत्री} रणा॒ यो, अ॑स्य॒ धर्म॑भिः ||{7/9}{9.7.7}{9.1.7.7}{6.7.29.2}{67, 730, 7757} सः¦वा॒युम्¦इन्द्र᳚म्¦अ॒श्विना᳚¦सा॒कम्¦मदे᳚न¦ग॒च्छ॒ति॒ | रण॑¦यः¦अ॒स्य॒¦धर्म॑ऽभिः || |
आ मि॒त्रावरु॑णा॒ भगं॒ मध्वः॑ पवन्त ऊ॒र्मयः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} वि॒दा॒ना, अ॑स्य॒ शक्म॑भिः ||{8/9}{9.7.8}{9.1.7.8}{6.7.29.3}{68, 730, 7758} आ¦मि॒त्रावरु॑णा¦भग᳚म्¦मध्वः॑¦प॒व॒न्ते॒¦ऊ॒र्मयः॑ | वि॒दा॒नाः¦अ॒स्य॒¦शक्म॑ऽभिः || |
अ॒स्मभ्यं᳚ रोदसी र॒यिं मध्वो॒ वाज॑स्य सा॒तये᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} श्रवो॒ वसू᳚नि॒ सं जि॑तम् ||{9/9}{9.7.9}{9.1.7.9}{6.7.29.4}{69, 730, 7759} अ॒स्मभ्य᳚म्¦रो॒द॒सी॒ इति॑¦र॒यिम्¦मध्वः॑¦वाज॑स्य¦सा॒तये᳚ | श्रवः॑¦वसू᳚नि¦सम्¦जि॒त॒म् || |
[8] एतेसोमा इति नवर्चस्य सूक्तस्य काश्यपोसितः पवमानसोमो गायत्री | |
ए॒ते सोमा᳚, अ॒भि प्रि॒यमिन्द्र॑स्य॒ काम॑मक्षरन् |{काश्यपोसितः | पवमानः सोमः | गायत्री} वर्ध᳚न्तो, अस्य वी॒र्य᳚म् ||{1/9}{9.8.1}{9.1.8.1}{6.7.30.1}{70, 731, 7760} ए॒ते¦सोमाः᳚¦अ॒भि¦प्रि॒यम्¦इन्द्र॑स्य¦काम᳚म्¦अ॒क्ष॒र॒न् | वर्ध᳚न्तः¦अ॒स्य॒¦वी॒र्य᳚म् || |
पु॒ना॒नास॑श्चमू॒षदो॒ गच्छ᳚न्तो वा॒युम॒श्विना᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} ते नो᳚ धान्तु सु॒वीर्य᳚म् ||{2/9}{9.8.2}{9.1.8.2}{6.7.30.2}{71, 731, 7761} पु॒ना॒नासः॑¦च॒मू॒ऽसदः॑¦गच्छ᳚न्तः¦वा॒युम्¦अ॒श्विना᳚ | ते¦नः॒¦धा॒न्तु॒¦सु॒ऽवीर्य᳚म् || |
इन्द्र॑स्य सोम॒ राध॑से पुना॒नो हार्दि॑ चोदय |{काश्यपोसितः | पवमानः सोमः | गायत्री} ऋ॒तस्य॒ योनि॑मा॒सद᳚म् ||{3/9}{9.8.3}{9.1.8.3}{6.7.30.3}{72, 731, 7762} इन्द्र॑स्य¦सो॒म॒¦राध॑से¦पु॒ना॒नः¦हार्दि॑¦चो॒द॒य॒ | ऋ॒तस्य॑¦योनि᳚म्¦आ॒ऽसद᳚म् || |
मृ॒जन्ति॑ त्वा॒ दश॒ क्षिपो᳚ हि॒न्वन्ति॑ स॒प्त धी॒तयः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} अनु॒ विप्रा᳚, अमादिषुः ||{4/9}{9.8.4}{9.1.8.4}{6.7.30.4}{73, 731, 7763} मृ॒जन्ति॑¦त्वा॒¦दश॑¦क्षिपः॑¦हि॒न्वन्ति॑¦स॒प्त¦धी॒तयः॑ | अनु॑¦विप्राः᳚¦अ॒मा॒दि॒षुः॒ || |
दे॒वेभ्य॑स्त्वा॒ मदा᳚य॒ कं सृ॑जा॒नमति॑ मे॒ष्यः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} सं गोभि᳚र्वासयामसि ||{5/9}{9.8.5}{9.1.8.5}{6.7.30.5}{74, 731, 7764} दे॒वेभ्यः॑¦त्वा॒¦मदा᳚य¦कम्¦सृ॒जा॒नम्¦अति॑¦मे॒ष्यः॑ | सम्¦गोभिः॑¦वा॒स॒या॒म॒सि॒ || |
पु॒ना॒नः क॒लशे॒ष्वा वस्त्रा᳚ण्यरु॒षो हरिः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} परि॒ गव्या᳚न्यव्यत ||{6/9}{9.8.6}{9.1.8.6}{6.7.31.1}{75, 731, 7765} पु॒ना॒नः¦क॒लशे᳚षु¦आ¦वस्त्रा᳚णि¦अ॒रु॒षः¦हरिः॑ | परि॑¦गव्या᳚नि¦अ॒व्य॒त॒ || |
म॒घोन॒ आ प॑वस्व नो ज॒हि विश्वा॒, अप॒ द्विषः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} इन्दो॒ सखा᳚य॒मा वि॑श ||{7/9}{9.8.7}{9.1.8.7}{6.7.31.2}{76, 731, 7766} म॒घोनः॑¦आ¦प॒व॒स्व॒¦नः॒¦ज॒हि¦विश्वाः᳚¦अप॑¦द्विषः॑ | इन्दो॒ इति॑¦सखा᳚यम्¦आ¦वि॒श॒ || |
वृ॒ष्टिं दि॒वः परि॑ स्रव द्यु॒म्नं पृ॑थि॒व्या, अधि॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} सहो᳚ नः सोम पृ॒त्सु धाः᳚ ||{8/9}{9.8.8}{9.1.8.8}{6.7.31.3}{77, 731, 7767} वृ॒ष्टिम्¦दि॒वः¦परि॑¦स्र॒व॒¦द्यु॒म्नम्¦पृ॒थि॒व्याः¦अधि॑ | सहः॑¦नः॒¦सो॒म॒¦पृ॒त्ऽसु¦धाः॒ || |
नृ॒चक्ष॑सं त्वा व॒यमिन्द्र॑पीतं स्व॒र्विद᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री} भ॒क्षी॒महि॑ प्र॒जामिष᳚म् ||{9/9}{9.8.9}{9.1.8.9}{6.7.31.4}{78, 731, 7768} नृ॒ऽचक्ष॑सम्¦त्वा॒¦व॒यम्¦इन्द्र॑ऽपीतम्¦स्वः॒ऽविद᳚म् | भ॒क्षी॒महि॑¦प्र॒ऽजाम्¦इष᳚म् || |
[9] परिप्रियेति नवर्चस्य सूक्तस्य काश्यपोसितः पवमानसोमो गायत्री |
परि॑ प्रि॒या दि॒वः क॒विर्वयां᳚सि न॒प्त्यो᳚र्हि॒तः |{काश्यपोसितः | पवमानः सोमः | गायत्री} सु॒वा॒नो या᳚ति क॒विक्र॑तुः ||{1/9}{9.9.1}{9.1.9.1}{6.7.32.1}{79, 732, 7769} परि॑¦प्रि॒या¦दि॒वः¦क॒विः¦वयां᳚सि¦न॒प्त्योः᳚¦हि॒तः | सु॒वा॒नः¦या॒ति॒¦क॒विऽक्र॑तुः || |
प्रप्र॒ क्षया᳚य॒ पन्य॑से॒ जना᳚य॒ जुष्टो᳚, अ॒द्रुहे᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} वी॒त्य॑र्ष॒ चनि॑ष्ठया ||{2/9}{9.9.2}{9.1.9.2}{6.7.32.2}{80, 732, 7770} प्रऽप्र॑¦क्षया᳚य¦पन्य॑से¦जना᳚य¦जुष्टः॑¦अ॒द्रुहे᳚ | वी॒ती¦अ॒र्ष॒¦चनि॑ष्ठया || |
स सू॒नुर्मा॒तरा॒ शुचि॑र्जा॒तो जा॒ते, अ॑रोचयत् |{काश्यपोसितः | पवमानः सोमः | गायत्री} म॒हान् म॒ही, ऋ॑ता॒वृधा᳚ ||{3/9}{9.9.3}{9.1.9.3}{6.7.32.3}{81, 732, 7771} सः¦सू॒नुः¦मा॒तरा᳚¦शुचिः॑¦जा॒तः¦जा॒ते इति॑¦अ॒रो॒च॒य॒त् | म॒हान्¦म॒ही इति॑¦ऋ॒त॒ऽवृधा᳚ || |
स स॒प्त धी॒तिभि᳚र्हि॒तो न॒द्यो᳚, अजिन्वद॒द्रुहः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} या, एक॒मक्षि॑ वावृ॒धुः ||{4/9}{9.9.4}{9.1.9.4}{6.7.32.4}{82, 732, 7772} सः¦स॒प्त¦धी॒तिऽभिः॑¦हि॒तः¦न॒द्यः॑¦अ॒जि॒न्व॒त्¦अ॒द्रुहः॑ | याः¦एक᳚म्¦अक्षि॑¦व॒वृ॒धुः || |
ता, अ॒भि सन्त॒मस्तृ॑तं म॒हे युवा᳚न॒मा द॑धुः |{काश्यपोसितः | पवमानः सोमः | गायत्री} इन्दु॑मिन्द्र॒ तव᳚ व्र॒ते ||{5/9}{9.9.5}{9.1.9.5}{6.7.32.5}{83, 732, 7773} ताः¦अ॒भि¦सन्त᳚म्¦अस्तृ॑तम्¦म॒हे¦युवा᳚नम्¦आ¦द॒धुः॒ | इन्दु᳚म्¦इ॒न्द्र॒¦तव॑¦व्र॒ते || |
अ॒भि वह्नि॒रम॑र्त्यः स॒प्त प॑श्यति॒ वाव॑हिः |{काश्यपोसितः | पवमानः सोमः | गायत्री} क्रिवि॑र्दे॒वीर॑तर्पयत् ||{6/9}{9.9.6}{9.1.9.6}{6.7.33.1}{84, 732, 7774} अ॒भि¦वह्निः॑¦अम॑र्त्यः¦स॒प्त¦प॒श्य॒ति॒¦वाव॑हिः | क्रिविः॑¦दे॒वीः¦अ॒त॒र्प॒य॒त् || |
अवा॒ कल्पे᳚षु नः पुम॒स्तमां᳚सि सोम॒ योध्या᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} तानि॑ पुनान जङ्घनः ||{7/9}{9.9.7}{9.1.9.7}{6.7.33.2}{85, 732, 7775} अव॑¦कल्पे᳚षु¦नः॒¦पु॒मः॒¦तमां᳚सि¦सो॒म॒¦योध्या᳚ | तानि॑¦पु॒ना॒न॒¦ज॒ङ्घ॒नः॒ || |
नू नव्य॑से॒ नवी᳚यसे सू॒क्ताय॑ साधया प॒थः |{काश्यपोसितः | पवमानः सोमः | गायत्री} प्र॒त्न॒वद्रो᳚चया॒ रुचः॑ ||{8/9}{9.9.8}{9.1.9.8}{6.7.33.3}{86, 732, 7776} नु¦नव्य॑से¦नवी᳚यसे¦सु॒।औ॒क्ताय॑¦सा॒ध॒य॒¦प॒थः | प्र॒त्न॒ऽवत्¦रो॒च॒य॒¦रुचः॑ || |
पव॑मान॒ महि॒ श्रवो॒ गामश्वं᳚ रासि वी॒रव॑त् |{काश्यपोसितः | पवमानः सोमः | गायत्री} सना᳚ मे॒धां सना॒ स्वः॑ ||{9/9}{9.9.9}{9.1.9.9}{6.7.33.4}{87, 732, 7777} पव॑मान¦महि॑¦श्रवः॑¦गाम्¦अश्व᳚म्¦रा॒सि॒¦वी॒रऽव॑त् | सन॑¦मे॒धाम्¦सना᳚¦स्व१॒॑रिति॒ स्वः॑ || |
[10] प्रस्वानास इति नवर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री | |
प्र स्वा॒नासो॒ रथा᳚, इ॒वार्व᳚न्तो॒ न श्र॑व॒स्यवः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} सोमा᳚सो रा॒ये, अ॑क्रमुः ||{1/9}{9.10.1}{9.1.10.1}{6.7.34.1}{88, 733, 7778} प्र¦स्वा॒नासः॑¦रथाः᳚ऽइव¦अर्व᳚न्तः¦न¦श्र॒व॒स्यवः॑ | सोमा᳚सः¦रा॒ये¦अ॒क्र॒मुः॒ || |
हि॒न्वा॒नासो॒ रथा᳚, इव दधन्वि॒रे गभ॑स्त्योः |{काश्यपोसितः | पवमानः सोमः | गायत्री} भरा᳚सः का॒रिणा᳚मिव ||{2/9}{9.10.2}{9.1.10.2}{6.7.34.2}{89, 733, 7779} हि॒न्वा॒नासः॑¦रथाः᳚ऽइव¦द॒ध॒न्वि॒रे¦गभ॑स्त्योः | भरा᳚सः¦का॒रिणा᳚म्ऽइव || |
राजा᳚नो॒ न प्रश॑स्तिभिः॒ सोमा᳚सो॒ गोभि॑रञ्जते |{काश्यपोसितः | पवमानः सोमः | गायत्री} य॒ज्ञो न स॒प्त धा॒तृभिः॑ ||{3/9}{9.10.3}{9.1.10.3}{6.7.34.3}{90, 733, 7780} राजा᳚नः¦न¦प्रश॑स्तिऽभिः¦सोमा᳚सः¦गोभिः॑¦अं॒ज॒ते॒ | य॒ज्ञः¦न¦स॒प्त¦धा॒तृऽभिः॑ || |
परि॑ सुवा॒नास॒ इन्द॑वो॒ मदा᳚य ब॒र्हणा᳚ गि॒रा |{काश्यपोसितः | पवमानः सोमः | गायत्री} सु॒ता, अ॑र्षन्ति॒ धार॑या ||{4/9}{9.10.4}{9.1.10.4}{6.7.34.4}{91, 733, 7781} परि॑¦सु॒वा॒नासः॑¦इन्द॑वः¦मदा᳚य¦ब॒र्हणा᳚¦गि॒रा | सु॒ताः¦अ॒र्ष॒न्ति॒¦धार॑या || |
आ॒पा॒नासो᳚ वि॒वस्व॑तो॒ जन᳚न्त उ॒षसो॒ भग᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री} सूरा॒, अण्वं॒ वि त᳚न्वते ||{5/9}{9.10.5}{9.1.10.5}{6.7.34.5}{92, 733, 7782} आ॒पा॒नासः॑¦वि॒वस्व॑तः¦जन᳚न्तः¦उ॒षसः॑¦भग᳚म् | सूराः᳚¦अण्व᳚म्¦वि¦त॒न्व॒ते॒ || |
अप॒ द्वारा᳚ मती॒नां प्र॒त्ना, ऋ᳚ण्वन्ति का॒रवः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} वृष्णो॒ हर॑स आ॒यवः॑ ||{6/9}{9.10.6}{9.1.10.6}{6.7.35.1}{93, 733, 7783} अप॑¦द्वारा᳚¦म॒ती॒नाम्¦प्र॒त्नाः¦ऋ॒ण्व॒न्ति॒¦का॒रवः॑ | वृष्णः॑¦हर॑से¦आ॒यवः॑ || |
स॒मी॒ची॒नास॑ आसते॒ होता᳚रः स॒प्तजा᳚मयः |{काश्यपोसितः | पवमानः सोमः | गायत्री} प॒दमेक॑स्य॒ पिप्र॑तः ||{7/9}{9.10.7}{9.1.10.7}{6.7.35.2}{94, 733, 7784} स॒म्ऽई॒ची॒नासः॑¦आ॒स॒ते॒¦होता᳚रः¦स॒प्तऽजा᳚मयः | प॒दम्¦एक॑स्य¦पिप्र॑तः || |
नाभा॒ नाभिं᳚ न॒ आ द॑दे॒ चक्षु॑श्चि॒त् सूर्ये॒ सचा᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} क॒वेरप॑त्य॒मा दु॑हे ||{8/9}{9.10.8}{9.1.10.8}{6.7.35.3}{95, 733, 7785} नाभा᳚¦नाभि᳚म्¦नः॒¦आ¦द॒दे॒¦चक्षुः॑¦चि॒त्¦सूर्ये᳚¦सचा᳚ | क॒वेः¦अप॑त्यम्¦आ¦दु॒हे॒ || |
अ॒भि प्रि॒या दि॒वस्प॒दम॑ध्व॒र्युभि॒र्गुहा᳚ हि॒तम् |{काश्यपोसितः | पवमानः सोमः | गायत्री} सूरः॑ पश्यति॒ चक्ष॑सा ||{9/9}{9.10.9}{9.1.10.9}{6.7.35.4}{96, 733, 7786} अ॒भि¦प्रि॒या¦दि॒वः¦प॒दम्¦अ॒ध्व॒र्युऽभिः॑¦गुहा᳚¦हि॒तम् | सूरः॑¦प॒श्य॒ति॒¦चक्ष॑सा || |
[11] उपास्माइति नवर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री | |
उपा᳚स्मै गायता नरः॒ पव॑माना॒येन्द॑वे |{काश्यपोसितः | पवमानः सोमः | गायत्री} अ॒भि दे॒वाँ, इय॑क्षते ||{1/9}{9.11.1}{9.1.11.1}{6.7.36.1}{97, 734, 7787} उप॑¦अ॒स्मै॒¦गा॒य॒त॒¦न॒रः॒¦पव॑मानाय¦इन्द॑वे | अ॒भि¦दे॒वान्¦इय॑क्षते || |
अ॒भि ते॒ मधु॑ना॒ पयोऽथ᳚र्वाणो, अशिश्रयुः |{काश्यपोसितः | पवमानः सोमः | गायत्री} दे॒वं दे॒वाय॑ देव॒यु ||{2/9}{9.11.2}{9.1.11.2}{6.7.36.2}{98, 734, 7788} अ॒भि¦ते॒¦मधु॑ना¦पयः॑¦अथ᳚र्वाणः¦अ॒शि॒श्र॒युः॒ | दे॒वम्¦दे॒वाय॑¦दे॒व॒ऽयु || |
स नः॑ पवस्व॒ शं गवे॒ शं जना᳚य॒ शमर्व॑ते |{काश्यपोसितः | पवमानः सोमः | गायत्री} शं रा᳚ज॒न्नोष॑धीभ्यः ||{3/9}{9.11.3}{9.1.11.3}{6.7.36.3}{99, 734, 7789} सः¦नः॒¦प॒व॒स्व॒¦शम्¦गवे᳚¦शम्¦जना᳚य¦शम्¦अर्व॑ते | शम्¦रा॒ज॒न्¦ओष॑धीभ्यः || |
ब॒भ्रवे॒ नु स्वत॑वसेऽरु॒णाय॑ दिवि॒स्पृशे᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} सोमा᳚य गा॒थम॑र्चत ||{4/9}{9.11.4}{9.1.11.4}{6.7.36.4}{100, 734, 7790} ब॒भ्रवे᳚¦नु¦स्वऽत॑वसे¦अ॒रु॒णाय॑¦दि॒वि॒ऽस्पृशे᳚ | सोमा᳚य¦गा॒थम्¦अ॒र्च॒त॒ || |
हस्त॑च्युतेभि॒रद्रि॑भिः सु॒तं सोमं᳚ पुनीतन |{काश्यपोसितः | पवमानः सोमः | गायत्री} मधा॒वा धा᳚वता॒ मधु॑ ||{5/9}{9.11.5}{9.1.11.5}{6.7.36.5}{101, 734, 7791} हस्त॑ऽच्युतेभिः¦अद्रि॑ऽभिः¦सु॒तम्¦सोम᳚म्¦पु॒नी॒त॒न॒ | मधौ᳚¦आ¦धा॒व॒त॒¦मधु॑ || |
नम॒सेदुप॑ सीदत द॒ध्नेद॒भि श्री᳚णीतन |{काश्यपोसितः | पवमानः सोमः | गायत्री} इन्दु॒मिन्द्रे᳚ दधातन ||{6/9}{9.11.6}{9.1.11.6}{6.7.37.1}{102, 734, 7792} नम॑सा¦इत्¦उप॑¦सी॒द॒त॒¦द॒ध्ना¦इत्¦अ॒भि¦श्री॒णी॒त॒न॒ | इन्दु᳚म्¦इन्द्रे᳚¦द॒धा॒त॒न॒ || |
अ॒मि॒त्र॒हा विच॑र्षणिः॒ पव॑स्व सोम॒ शं गवे᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} दे॒वेभ्यो᳚, अनुकाम॒कृत् ||{7/9}{9.11.7}{9.1.11.7}{6.7.37.2}{103, 734, 7793} अ॒मि॒त्र॒ऽहा¦विऽच॑र्षणिः¦पव॑स्व¦सो॒म॒¦शम्¦गवे᳚ | दे॒वेभ्यः॑¦अ॒नु॒का॒म॒ऽकृत् || |
इन्द्रा᳚य सोम॒ पात॑वे॒ मदा᳚य॒ परि॑ षिच्यसे |{काश्यपोसितः | पवमानः सोमः | गायत्री} म॒न॒श्चिन्मन॑स॒स्पतिः॑ ||{8/9}{9.11.8}{9.1.11.8}{6.7.37.3}{104, 734, 7794} इन्द्रा᳚य¦सो॒म॒¦पात॑वे¦मदा᳚य¦परि॑¦सि॒च्य॒से॒ | म॒नः॒ऽचित्¦मन॑सः¦पतिः॑ || |
पव॑मान सु॒वीर्यं᳚ र॒यिं सो᳚म रिरीहि नः |{काश्यपोसितः | पवमानः सोमः | गायत्री} इन्द॒विन्द्रे᳚ण नो यु॒जा ||{9/9}{9.11.9}{9.1.11.9}{6.7.37.4}{105, 734, 7795} पव॑मान¦सु॒ऽवीर्य᳚म्¦र॒यिम्¦सो॒म॒¦रि॒री॒हि॒¦नः॒ | इन्दो॒ इति॑¦इन्द्रे᳚ण¦नः॒¦यु॒जा || |
[12] सोमाअसृग्रमिति नवर्चस्य सूक्तस्य काश्यपोसितःपवमान सोमो गायत्री | |
सोमा᳚, असृग्र॒मिन्द॑वः सु॒ता, ऋ॒तस्य॒ साद॑ने |{काश्यपोसितः | पवमानः सोमः | गायत्री} इन्द्रा᳚य॒ मधु॑मत्तमाः ||{1/9}{9.12.1}{9.1.12.1}{6.7.38.1}{106, 735, 7796} सोमाः᳚¦अ॒सृ॒ग्र॒म्¦इन्द॑वः¦सु॒ताः¦ऋ॒तस्य॑¦सद॑ने | इन्द्रा᳚य¦मधु॑मत्ऽतमाः || |
अ॒भि विप्रा᳚, अनूषत॒ गावो᳚ व॒त्सं न मा॒तरः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} इन्द्रं॒ सोम॑स्य पी॒तये᳚ ||{2/9}{9.12.2}{9.1.12.2}{6.7.38.2}{107, 735, 7797} अ॒भि¦विप्राः᳚¦अ॒नू॒ष॒त॒¦गावः॑¦व॒त्सम्¦न¦मा॒तरः॑ | इन्द्र᳚म्¦सोम॑स्य¦पी॒तये᳚ || |
म॒द॒च्युत् क्षे᳚ति॒ साद॑ने॒ सिन्धो᳚रू॒र्मा वि॑प॒श्चित् |{काश्यपोसितः | पवमानः सोमः | गायत्री} सोमो᳚ गौ॒री, अधि॑ श्रि॒तः ||{3/9}{9.12.3}{9.1.12.3}{6.7.38.3}{108, 735, 7798} म॒द॒ऽच्युत्¦क्षे॒ति॒¦सद॑ने¦सिन्धोः᳚¦ऊ॒र्मा¦वि॒पः॒ऽचित् | सोमः॑¦गौ॒री इति॑¦अधि॑¦श्रि॒तः || |
दि॒वो नाभा᳚ विचक्ष॒णोऽव्यो॒ वारे᳚ महीयते |{काश्यपोसितः | पवमानः सोमः | गायत्री} सोमो॒ यः सु॒क्रतुः॑ क॒विः ||{4/9}{9.12.4}{9.1.12.4}{6.7.38.4}{109, 735, 7799} दि॒वः¦नाभा᳚¦वि॒ऽच॒क्ष॒णः¦अव्यः॑¦वारे᳚¦म॒ही॒य॒ते॒ | सोमः॑¦यः¦सु॒ऽक्रतुः॑¦क॒विः || |
यः सोमः॑ क॒लशे॒ष्वाँ, अ॒न्तः प॒वित्र॒ आहि॑तः |{काश्यपोसितः | पवमानः सोमः | गायत्री} तमिन्दुः॒ परि॑ षस्वजे ||{5/9}{9.12.5}{9.1.12.5}{6.7.38.5}{110, 735, 7800} यः¦सोमः॑¦क॒लशे᳚षु¦आ¦अ॒न्तरिति॑¦प॒वित्रे᳚¦आऽहि॑तः | तम्¦इन्दुः॑¦परि॑¦स॒स्व॒जे॒ || |
प्र वाच॒मिन्दु॑रिष्यति समु॒द्रस्याधि॑ वि॒ष्टपि॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} जिन्व॒न् कोशं᳚ मधु॒श्चुत᳚म् ||{6/9}{9.12.6}{9.1.12.6}{6.7.39.1}{111, 735, 7801} प्र¦वाच᳚म्¦इन्दुः॑¦इ॒ष्य॒ति॒¦स॒मु॒द्रस्य॑¦अधि॑¦वि॒ष्टपि॑ | जिन्व॑न्¦कोश᳚म्¦म॒धु॒ऽश्चुत᳚म् || |
नित्य॑स्तोत्रो॒ वन॒स्पति॑र्धी॒नाम॒न्तः स॑ब॒र्दुघः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} हि॒न्वा॒नो मानु॑षा यु॒गा ||{7/9}{9.12.7}{9.1.12.7}{6.7.39.2}{112, 735, 7802} नित्य॑ऽस्तोत्रः¦वन॒स्पतिः॑¦धी॒नाम्¦अ॒न्तरिति॑¦स॒बः॒ऽदुघः॑ | हि॒न्वा॒नः¦मानु॑षा¦यु॒गा || |
अ॒भि प्रि॒या दि॒वस्प॒दा सोमो᳚ हिन्वा॒नो, अ॑र्षति |{काश्यपोसितः | पवमानः सोमः | गायत्री} विप्र॑स्य॒ धार॑या क॒विः ||{8/9}{9.12.8}{9.1.12.8}{6.7.39.3}{113, 735, 7803} अ॒भि¦प्रि॒या¦दि॒वः¦प॒दा¦सोमः॑¦हि॒न्वा॒नः¦अ॒र्ष॒ति॒ | विप्र॑स्य¦धार॑या¦क॒विः || |
आ प॑वमान धारय र॒यिं स॒हस्र॑वर्चसम् |{काश्यपोसितः | पवमानः सोमः | गायत्री} अ॒स्मे, इ᳚न्दो स्वा॒भुव᳚म् ||{9/9}{9.12.9}{9.1.12.9}{6.7.39.4}{114, 735, 7804} आ¦प॒व॒मा॒न॒¦धा॒र॒य॒¦र॒यिम्¦स॒हस्र॑ऽवर्चसम् | अ॒स्मे इति॑¦इ॒न्दो॒ इति॑¦सु॒ऽआ॒भुव᳚म् || |
[13] सोमः पुनानइति नवर्चस्य सूक्तस्य काश्यपोऽसितः पवमान सोमो गायत्री | (पवमान पारायण द्वितीयोध्यायः) |
सोमः॑ पुना॒नो, अ॑र्षति स॒हस्र॑धारो॒, अत्य॑विः |{काश्यपोसितः | पवमानः सोमः | गायत्री} वा॒योरिन्द्र॑स्य निष्कृ॒तम् ||{1/9}{9.13.1}{9.1.13.1}{6.8.1.1}{115, 736, 7805} सोमः॑¦पु॒ना॒नः¦अ॒र्ष॒ति॒¦स॒हस्र॑ऽधारः¦अति॑।आविः | वा॒योः¦इन्द्र॑स्य¦निः॒ऽकृ॒तम् || |
पव॑मानमवस्यवो॒ विप्र॑म॒भि प्र गा᳚यत |{काश्यपोसितः | पवमानः सोमः | गायत्री} सु॒ष्वा॒णं दे॒ववी᳚तये ||{2/9}{9.13.2}{9.1.13.2}{6.8.1.2}{116, 736, 7806} पव॑मानम्¦अ॒व॒स्य॒वः॒¦विप्र᳚म्¦अ॒भि¦प्र¦गा॒य॒त॒ | सु॒स्वा॒णम्¦दे॒वऽवी᳚तये || |
पव᳚न्ते॒ वाज॑सातये॒ सोमाः᳚ स॒हस्र॑पाजसः |{काश्यपोसितः | पवमानः सोमः | गायत्री} गृ॒णा॒ना दे॒ववी᳚तये ||{3/9}{9.13.3}{9.1.13.3}{6.8.1.3}{117, 736, 7807} पव᳚न्ते¦वाज॑ऽसातये¦सोमाः᳚¦स॒हस्र॑ऽपाजसः | गृ॒णा॒नाः¦दे॒वऽवी᳚तये || |
उ॒त नो॒ वाज॑सातये॒ पव॑स्व बृह॒तीरिषः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} द्यु॒मदि᳚न्दो सु॒वीर्य᳚म् ||{4/9}{9.13.4}{9.1.13.4}{6.8.1.4}{118, 736, 7808} उ॒त¦नः॒¦वाज॑ऽसातये¦पव॑स्व¦बृ॒ह॒तीः¦इषः॑ | द्यु॒ऽमत्¦इ॒न्दो॒ इति॑¦सु॒ऽवीर्य᳚म् || |
ते नः॑ सह॒स्रिणं᳚ र॒यिं पव᳚न्ता॒मा सु॒वीर्य᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री} सु॒वा॒ना दे॒वास॒ इन्द॑वः ||{5/9}{9.13.5}{9.1.13.5}{6.8.1.5}{119, 736, 7809} ते¦नः॒¦स॒ह॒स्रिण᳚म्¦र॒यिम्¦पव᳚न्ताम्¦आ¦सु॒ऽवीर्य᳚म् | सु॒वा॒नाः¦दे॒वासः॑¦इन्द॑वः || |
अत्या᳚ हिया॒ना न हे॒तृभि॒रसृ॑ग्रं॒ वाज॑सातये |{काश्यपोसितः | पवमानः सोमः | गायत्री} वि वार॒मव्य॑मा॒शवः॑ ||{6/9}{9.13.6}{9.1.13.6}{6.8.2.1}{120, 736, 7810} अत्याः᳚¦हि॒या॒नाः¦न¦हे॒तृऽभिः॑¦असृ॑ग्रम्¦वाज॑ऽसातये | वि¦वार᳚म्¦अव्य᳚म्¦आ॒शवः॑ || |
वा॒श्रा, अ॑र्ष॒न्तीन्द॑वो॒ऽभि व॒त्सं न धे॒नवः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} द॒ध॒न्वि॒रे गभ॑स्त्योः ||{7/9}{9.13.7}{9.1.13.7}{6.8.2.2}{121, 736, 7811} वा॒श्राः¦अ॒र्ष॒न्ति॒¦इन्द॑वः¦अ॒भि¦व॒त्सम्¦न¦धे॒नवः॑ | द॒ध॒न्वि॒रे¦गभ॑स्त्योः || |
जुष्ट॒ इन्द्रा᳚य मत्स॒रः पव॑मान॒ कनि॑क्रदत् |{काश्यपोसितः | पवमानः सोमः | गायत्री} विश्वा॒, अप॒ द्विषो᳚ जहि ||{8/9}{9.13.8}{9.1.13.8}{6.8.2.3}{122, 736, 7812} जुष्टः॑¦इन्द्रा᳚य¦म॒त्स॒रः¦पव॑मान¦कनि॑क्रदत् | विश्वाः᳚¦अप॑¦द्विषः॑¦ज॒हि॒ || |
अ॒प॒घ्नन्तो॒, अरा᳚व्णः॒ पव॑मानाः स्व॒र्दृशः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} योना᳚वृ॒तस्य॑ सीदत ||{9/9}{9.13.9}{9.1.13.9}{6.8.2.4}{123, 736, 7813} अ॒प॒ऽघ्नन्तः॑¦अरा᳚व्णः¦पव॑मानाः¦स्वः॒ऽदृशः॑ | योनौ᳚¦ऋ॒तस्य॑¦सी॒द॒त॒ || |
[14] परिप्रेत्यष्टर्चस्य सूक्तस्य काश्यपोसितः पवमानसोमो गायत्री | |
परि॒ प्रासि॑ष्यदत् क॒विः सिन्धो᳚रू॒र्मावधि॑ श्रि॒तः |{काश्यपोसितः | पवमानः सोमः | गायत्री} का॒रं बिभ्र॑त् पुरु॒स्पृह᳚म् ||{1/8}{9.14.1}{9.1.14.1}{6.8.3.1}{124, 737, 7814} परि॑¦प्र¦अ॒सि॒स्य॒द॒त्¦क॒विः¦सिन्धोः᳚¦ऊ॒र्मौ¦अधि॑¦श्रि॒तः | का॒रम्¦बिभ्र॑त्¦पु॒रु॒ऽस्पृह᳚म् || |
गि॒रा यदी॒ सब᳚न्धवः॒ पञ्च॒ व्राता᳚, अप॒स्यवः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} प॒रि॒ष्कृ॒ण्वन्ति॑ धर्ण॒सिम् ||{2/8}{9.14.2}{9.1.14.2}{6.8.3.2}{125, 737, 7815} गि॒रा¦यदि॑¦सऽब᳚न्धवः¦पंच॑¦व्राताः᳚¦अ॒प॒स्यवः॑ | प॒रि॒ऽकृ॒ण्वन्ति॑¦ध॒र्ण॒सिम् || |
आद॑स्य शु॒ष्मिणो॒ रसे॒ विश्वे᳚ दे॒वा, अ॑मत्सत |{काश्यपोसितः | पवमानः सोमः | गायत्री} यदी॒ गोभि᳚र्वसा॒यते᳚ ||{3/8}{9.14.3}{9.1.14.3}{6.8.3.3}{126, 737, 7816} आत्¦अ॒स्य॒¦शु॒ष्मिणः॑¦रसे᳚¦विश्वे᳚¦दे॒वाः¦अ॒म॒त्स॒त॒ | यदि॑¦गोभिः॑¦व॒सा॒यते᳚ || |
नि॒रि॒णा॒नो वि धा᳚वति॒ जह॒च्छर्या᳚णि॒ तान्वा᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} अत्रा॒ सं जि॑घ्रते यु॒जा ||{4/8}{9.14.4}{9.1.14.4}{6.8.3.4}{127, 737, 7817} नि॒ऽरि॒णा॒नः¦वि¦धा॒व॒ति॒¦जह॑त्¦शर्या᳚णि¦तान्वा᳚ | अत्र॑¦सम्¦जि॒घ्न॒ते॒¦यु॒जा || |
न॒प्तीभि॒र्यो वि॒वस्व॑तः शु॒भ्रो न मा᳚मृ॒जे युवा᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} गाः कृ᳚ण्वा॒नो न नि॒र्णिज᳚म् ||{5/8}{9.14.5}{9.1.14.5}{6.8.3.5}{128, 737, 7818} न॒प्तीभिः॑¦यः¦वि॒वस्व॑तः¦शु॒भ्रः¦न¦म॒मृ॒जे¦युवा᳚ | गाः¦कृ॒ण्वा॒नः¦न¦निः॒ऽनिज᳚म् || |
अति॑ श्रि॒ती ति॑र॒श्चता᳚ ग॒व्या जि॑गा॒त्यण्व्या᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} व॒ग्नुमि॑यर्ति॒ यं वि॒दे ||{6/8}{9.14.6}{9.1.14.6}{6.8.4.1}{129, 737, 7819} अति॑¦श्रि॒ती¦ति॒र॒श्चता᳚¦ग॒व्या¦जि॒गा॒ति॒¦अण्व्या᳚ | व॒ग्नुम्¦इ॒य॒र्ति॒¦यम्¦वि॒दे || |
अ॒भि क्षिपः॒ सम॑ग्मत म॒र्जय᳚न्तीरि॒षस्पति᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री} पृ॒ष्ठा गृ॑भ्णत वा॒जिनः॑ ||{7/8}{9.14.7}{9.1.14.7}{6.8.4.2}{130, 737, 7820} अ॒भि¦क्षिपः॑¦सम्¦अ॒ग्म॒त॒¦म॒र्जय᳚न्तीः¦इ॒षः¦पति᳚म् | पृ॒ष्ठा¦गृ॒भ्ण॒त॒¦वा॒जिनः॑ || |
परि॑ दि॒व्यानि॒ मर्मृ॑श॒द् विश्वा᳚नि सोम॒ पार्थि॑वा |{काश्यपोसितः | पवमानः सोमः | गायत्री} वसू᳚नि याह्यस्म॒युः ||{8/8}{9.14.8}{9.1.14.8}{6.8.4.3}{131, 737, 7821} परि॑¦दि॒व्यानि॑¦मर्मृ॑शत्¦विश्वा᳚नि¦सो॒म॒¦पार्थि॑वा | वसू᳚नि¦या॒हि॒¦अ॒स्म॒ऽयुः || |
[15] एषधियेत्यष्टर्चस्य सूक्तस्य काश्यपोसितः पवमानसोमोगायत्री | |
ए॒ष धि॒या या॒त्यण्व्या॒ शूरो॒ रथे᳚भिरा॒शुभिः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} गच्छ॒न्निन्द्र॑स्य निष्कृ॒तम् ||{1/8}{9.15.1}{9.1.15.1}{6.8.5.1}{132, 738, 7822} ए॒षः¦धि॒या¦या॒ति॒¦अण्व्या᳚¦शूरः॑¦रथे᳚भिः¦आ॒शुऽभिः॑ | गच्छ॑न्¦इन्द्र॑स्य¦निः॒ऽकृ॒तम् || |
ए॒ष पु॒रू धि॑यायते बृह॒ते दे॒वता᳚तये |{काश्यपोसितः | पवमानः सोमः | गायत्री} यत्रा॒मृता᳚स॒ आस॑ते ||{2/8}{9.15.2}{9.1.15.2}{6.8.5.2}{133, 738, 7823} ए॒षः¦पु॒रु¦धि॒या॒ऽय॒ते॒¦बृ॒ह॒ते¦दे॒वऽता᳚तये | यत्र॑¦अ॒मृता᳚सः¦आस॑ते || |
ए॒ष हि॒तो वि नी᳚यते॒ऽन्तः शु॒भ्राव॑ता प॒था |{काश्यपोसितः | पवमानः सोमः | गायत्री} यदी᳚ तु॒ञ्जन्ति॒ भूर्ण॑यः ||{3/8}{9.15.3}{9.1.15.3}{6.8.5.3}{134, 738, 7824} ए॒षः¦हि॒तः¦वि¦नी॒य॒ते॒¦अ॒न्तरिति॑¦शु॒भ्रऽव॑ता¦प॒था | यदि॑¦तुं॒जन्ति॑¦भूर्ण॑यः || |
ए॒ष शृङ्गा᳚णि॒ दोधु॑व॒च्छिशी᳚ते यू॒थ्यो॒३॑(ओ॒) वृषा᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} नृ॒म्णा दधा᳚न॒ ओज॑सा ||{4/8}{9.15.4}{9.1.15.4}{6.8.5.4}{135, 738, 7825} ए॒षः¦शृङ्गा᳚णि¦दोधु॑वत्¦शिशी᳚ते¦यू॒थ्यः॑¦वृषा᳚ | नृ॒म्णा¦दधा᳚नः¦ओज॑सा || |
ए॒ष रु॒क्मिभि॑रीयते वा॒जी शु॒भ्रेभि॑रं॒शुभिः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} पतिः॒ सिन्धू᳚नां॒ भव॑न् ||{5/8}{9.15.5}{9.1.15.5}{6.8.5.5}{136, 738, 7826} ए॒षः¦रु॒क्मिऽभिः॑¦ई॒य॒ते॒¦वा॒जी¦शु॒भ्रेभिः॑¦अं॒शुऽभिः॑ | पतिः॑¦सिन्धू᳚नाम्¦भव॑न् || |
ए॒ष वसू᳚नि पिब्द॒ना परु॑षा ययि॒वाँ, अति॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} अव॒ शादे᳚षु गच्छति ||{6/8}{9.15.6}{9.1.15.6}{6.8.5.6}{137, 738, 7827} ए॒षः¦वसू᳚नि¦पि॒ब्द॒ना¦परु॑षा¦य॒यि॒ऽवान्¦अति॑ | अव॑¦शादे᳚षु¦ग॒च्छ॒ति॒ || |
ए॒तं मृ॑जन्ति॒ मर्ज्य॒मुप॒ द्रोणे᳚ष्वा॒यवः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} प्र॒च॒क्रा॒णं म॒हीरिषः॑ ||{7/8}{9.15.7}{9.1.15.7}{6.8.5.7}{138, 738, 7828} ए॒तम्¦मृ॒ज॒न्ति॒¦मर्ज्य᳚म्¦उप॑¦द्रोणे᳚षु¦आ॒यवः॑ | प्र॒ऽच॒क्रा॒णम्¦म॒हीः¦इषः॑ || |
ए॒तमु॒ त्यं दश॒ क्षिपो᳚ मृ॒जन्ति॑ स॒प्त धी॒तयः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} स्वा॒यु॒धं म॒दिन्त॑मम् ||{8/8}{9.15.8}{9.1.15.8}{6.8.5.8}{139, 738, 7829} ए॒तम्¦ऊँ॒ इति॑¦त्यम्¦दश॑¦क्षिपः॑¦मृ॒जन्ति॑¦स॒प्त¦धी॒तयः॑ | सु॒ऽआ॒यु॒धम्¦म॒दिन्ऽत॑मम् || |
[16] प्रतेसोतारइत्यष्टर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री | |
प्र ते᳚ सो॒तार॑ ओ॒ण्यो॒३॑(ओ॒) रसं॒ मदा᳚य॒ घृष्व॑ये |{काश्यपोसितः | पवमानः सोमः | गायत्री} सर्गो॒ न त॒क्त्येत॑शः ||{1/8}{9.16.1}{9.1.16.1}{6.8.6.1}{140, 739, 7830} प्र¦ते॒¦सो॒तारः॑¦ओ॒ण्योः᳚¦रस᳚म्¦मदा᳚य¦घृष्व॑ये | सर्गः॑¦न¦त॒क्ति॒¦एत॑शः || |
क्रत्वा॒ दक्ष॑स्य र॒थ्य॑म॒पो वसा᳚न॒मन्ध॑सा |{काश्यपोसितः | पवमानः सोमः | गायत्री} गो॒षामण्वे᳚षु सश्चिम ||{2/8}{9.16.2}{9.1.16.2}{6.8.6.2}{141, 739, 7831} क्रत्वा᳚¦दक्ष॑स्य¦र॒थ्य᳚म्¦अ॒पः¦वसा᳚नम्¦अन्ध॑सा | गो॒ऽसाम्¦अण्वे᳚षु¦स॒श्चि॒म॒ || |
अन॑प्तम॒प्सु दु॒ष्टरं॒ सोमं᳚ प॒वित्र॒ आ सृ॑ज |{काश्यपोसितः | पवमानः सोमः | गायत्री} पु॒नी॒हीन्द्रा᳚य॒ पात॑वे ||{3/8}{9.16.3}{9.1.16.3}{6.8.6.3}{142, 739, 7832} अन॑प्तम्¦अ॒प्ऽसु¦दु॒स्तर᳚म्¦सोम᳚म्¦प॒वित्रे᳚¦आ¦सृ॒ज॒ | पु॒नी॒हि¦इन्द्रा᳚य¦पात॑वे || |
प्र पु॑ना॒नस्य॒ चेत॑सा॒ सोमः॑ प॒वित्रे᳚, अर्षति |{काश्यपोसितः | पवमानः सोमः | गायत्री} क्रत्वा᳚ स॒धस्थ॒मास॑दत् ||{4/8}{9.16.4}{9.1.16.4}{6.8.6.4}{143, 739, 7833} प्र¦पु॒ना॒नस्य॑¦चेत॑सा¦सोमः॑¦प॒वित्रे᳚¦अ॒र्ष॒ति॒ | क्रत्वा᳚¦स॒धऽस्थ᳚म्¦आ¦अ॒स॒द॒त् || |
प्र त्वा॒ नमो᳚भि॒रिन्द॑व॒ इन्द्र॒ सोमा᳚, असृक्षत |{काश्यपोसितः | पवमानः सोमः | गायत्री} म॒हे भरा᳚य का॒रिणः॑ ||{5/8}{9.16.5}{9.1.16.5}{6.8.6.5}{144, 739, 7834} प्र¦त्वा॒¦नमः॑ऽभिः¦इन्द॑वः¦इन्द्र॑¦सोमाः᳚¦अ॒सृ॒क्ष॒त॒ | म॒हे¦भरा᳚य¦का॒रिणः॑ || |
पु॒ना॒नो रू॒पे, अ॒व्यये॒ विश्वा॒, अर्ष᳚न्न॒भि श्रियः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} शूरो॒ न गोषु॑ तिष्ठति ||{6/8}{9.16.6}{9.1.16.6}{6.8.6.6}{145, 739, 7835} पु॒ना॒नः¦रू॒पे¦अ॒व्यव्ये᳚¦विश्वाः᳚¦अर्ष॑न्¦अ॒भि¦श्रियः॑ | शूरः॑¦न¦गोषु॑¦ति॒ष्ठ॒ति॒ || |
दि॒वो न सानु॑ पि॒प्युषी॒ धारा᳚ सु॒तस्य॑ वे॒धसः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} वृथा᳚ प॒वित्रे᳚, अर्षति ||{7/8}{9.16.7}{9.1.16.7}{6.8.6.7}{146, 739, 7836} दि॒वः¦न¦सानु॑¦पि॒प्युषी᳚¦धारा᳚¦सु॒तस्य॑¦वे॒धसः॑ | वृथा᳚¦प॒वित्रे᳚¦अ॒र्ष॒ति॒ || |
त्वं सो᳚म विप॒श्चितं॒ तना᳚ पुना॒न आ॒युषु॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} अव्यो॒ वारं॒ वि धा᳚वसि ||{8/8}{9.16.8}{9.1.16.8}{6.8.6.8}{147, 739, 7837} त्वम्¦सो॒म॒¦वि॒पः॒ऽचित᳚म्¦तना᳚¦पु॒ना॒नः¦आ॒युषु॑ | अव्यः॑¦वार᳚म्¦वि¦धा॒व॒सि॒ || |
[17] प्रनिम्नेनेवेत्य ष्टर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री | |
प्र नि॒म्नेने᳚व॒ सिन्ध॑वो॒ घ्नन्तो᳚ वृ॒त्राणि॒ भूर्ण॑यः |{काश्यपोसितः | पवमानः सोमः | गायत्री} सोमा᳚, असृग्रमा॒शवः॑ ||{1/8}{9.17.1}{9.1.17.1}{6.8.7.1}{148, 740, 7838} प्र¦नि॒मेन॑ऽइव¦सिन्ध॑वः¦घ्नन्तः॑¦वृ॒त्राणि॑¦भूर्ण॑यः | सोमाः᳚¦अ॒सृ॒ग्र॒म्¦आ॒शवः॑ || |
अ॒भि सु॑वा॒नास॒ इन्द॑वो वृ॒ष्टयः॑ पृथि॒वीमि॑व |{काश्यपोसितः | पवमानः सोमः | गायत्री} इन्द्रं॒ सोमा᳚सो, अक्षरन् ||{2/8}{9.17.2}{9.1.17.2}{6.8.7.2}{149, 740, 7839} अ॒भि¦सु॒वा॒नासः॑¦इन्द॑वः¦वृ॒ष्टयः॑¦पृ॒थि॒वीम्ऽइ᳚व | इन्द्र᳚म्¦सोमा᳚सः¦अ॒क्ष॒र॒न् || |
अत्यू᳚र्मिर्मत्स॒रो मदः॒ सोमः॑ प॒वित्रे᳚, अर्षति |{काश्यपोसितः | पवमानः सोमः | गायत्री} वि॒घ्नन् रक्षां᳚सि देव॒युः ||{3/8}{9.17.3}{9.1.17.3}{6.8.7.3}{150, 740, 7840} अति॑ऽऊर्मिः¦म॒त्स॒रः¦मदः॑¦सोमः॑¦प॒वित्रे᳚¦अ॒र्ष॒ति॒ | वि॒ऽघ्नन्¦रक्षां᳚सि¦दे॒व॒ऽयुः || |
आ क॒लशे᳚षु धावति प॒वित्रे॒ परि॑ षिच्यते |{काश्यपोसितः | पवमानः सोमः | गायत्री} उ॒क्थैर्य॒ज्ञेषु॑ वर्धते ||{4/8}{9.17.4}{9.1.17.4}{6.8.7.4}{151, 740, 7841} आ¦क॒लशे᳚षु¦धा॒व॒ति॒¦प॒वित्रे᳚¦परि॑¦सि॒च्य॒ते॒ | उ॒क्थैः¦य॒ज्ञेषु॑¦व॒र्ध॒ते॒ || |
अति॒ त्री सो᳚म रोच॒ना रोह॒न्न भ्रा᳚जसे॒ दिव᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री} इ॒ष्णन् त्सूर्यं॒ न चो᳚दयः ||{5/8}{9.17.5}{9.1.17.5}{6.8.7.5}{152, 740, 7842} अति॑¦त्री¦सो॒म॒¦रो॒च॒ना¦रोह॑न्¦न¦भ्रा॒ज॒से॒¦दिव᳚म् | इ॒ष्णन्¦सूर्य᳚म्¦न¦चो॒द॒यः॒ || |
अ॒भि विप्रा᳚, अनूषत मू॒र्धन् य॒ज्ञस्य॑ का॒रवः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} दधा᳚ना॒श्चक्ष॑सि प्रि॒यम् ||{6/8}{9.17.6}{9.1.17.6}{6.8.7.6}{153, 740, 7843} अ॒भि¦विप्राः᳚¦अ॒नू॒ष॒त॒¦मू॒र्धन्¦य॒ज्ञस्य॑¦का॒रवः॑ | दधा᳚नाः¦चक्ष॑सि¦प्रि॒यम् || |
तमु॑ त्वा वा॒जिनं॒ नरो᳚ धी॒भिर्विप्रा᳚, अव॒स्यवः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} मृ॒जन्ति॑ दे॒वता᳚तये ||{7/8}{9.17.7}{9.1.17.7}{6.8.7.7}{154, 740, 7844} तम्¦ऊँ॒ इति॑¦त्वा॒¦वा॒जिन᳚म्¦नरः॑¦धी॒भिः¦विप्राः᳚¦अ॒व॒स्यवः॑ | मृ॒जन्ति॑¦दे॒वऽता᳚तये || |
मधो॒र्धारा॒मनु॑ क्षर ती॒व्रः स॒धस्थ॒मास॑दः |{काश्यपोसितः | पवमानः सोमः | गायत्री} चारु᳚रृ॒ताय॑ पी॒तये᳚ ||{8/8}{9.17.8}{9.1.17.8}{6.8.7.8}{155, 740, 7845} मधोः᳚¦धारा᳚म्¦अनु॑¦क्ष॒र॒¦ती॒व्रः¦स॒धऽस्थ᳚म्¦आ¦अ॒स॒दः॒ | चारुः॑¦ऋ॒ताय॑¦पी॒तये᳚ || |
[18] परिसुवानइति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री | |
परि॑ सुवा॒नो गि॑रि॒ष्ठाः प॒वित्रे॒ सोमो᳚, अक्षाः |{काश्यपोसितः | पवमानः सोमः | गायत्री} मदे᳚षु सर्व॒धा, अ॑सि ||{1/7}{9.18.1}{9.1.18.1}{6.8.8.1}{156, 741, 7846} परि॑¦सु॒वा॒नः¦गि॒रि॒ऽस्थाः¦प॒वित्रे᳚¦सोमः॑¦अ॒क्षा॒रिति॑ | मदे᳚षु¦स॒र्व॒ऽधाः¦अ॒सि॒ || |
त्वं विप्र॒स्त्वं क॒विर्मधु॒ प्र जा॒तमन्ध॑सः |{काश्यपोसितः | पवमानः सोमः | गायत्री} मदे᳚षु सर्व॒धा, अ॑सि ||{2/7}{9.18.2}{9.1.18.2}{6.8.8.2}{157, 741, 7847} त्वम्¦विप्रः॑¦त्वम्¦क॒विः¦मधु॑¦प्र¦जा॒तम्¦अन्ध॑सः | मदे᳚षु¦स॒र्व॒ऽधाः¦अ॒सि॒ || |
तव॒ विश्वे᳚ स॒जोष॑सो दे॒वासः॑ पी॒तिमा᳚शत |{काश्यपोसितः | पवमानः सोमः | गायत्री} मदे᳚षु सर्व॒धा, अ॑सि ||{3/7}{9.18.3}{9.1.18.3}{6.8.8.3}{158, 741, 7848} तव॑¦विश्वे᳚¦स॒ऽजोष॑सः¦दे॒वासः॑¦पी॒तिम्¦आ॒श॒त॒ | मदे᳚षु¦स॒र्व॒ऽधाः¦अ॒सि॒ || |
आ यो विश्वा᳚नि॒ वार्या॒ वसू᳚नि॒ हस्त॑योर्द॒धे |{काश्यपोसितः | पवमानः सोमः | गायत्री} मदे᳚षु सर्व॒धा, अ॑सि ||{4/7}{9.18.4}{9.1.18.4}{6.8.8.4}{159, 741, 7849} आ¦यः¦विश्वा᳚नि¦वार्या᳚¦वसू᳚नि¦हस्त॑योः¦द॒धे | मदे᳚षु¦स॒र्व॒ऽधाः¦अ॒सि॒ || |
य इ॒मे रोद॑सी म॒ही सं मा॒तरे᳚व॒ दोह॑ते |{काश्यपोसितः | पवमानः सोमः | गायत्री} मदे᳚षु सर्व॒धा, अ॑सि ||{5/7}{9.18.5}{9.1.18.5}{6.8.8.5}{160, 741, 7850} यः¦इ॒मे इति॑¦रोद॑सी॒ इति॑¦म॒ही इति॑¦सम्¦मा॒तरा᳚ऽइव¦दोह॑ते | मदे᳚षु¦स॒र्व॒ऽधाः¦अ॒सि॒ || |
परि॒ यो रोद॑सी, उ॒भे स॒द्यो वाजे᳚भि॒रर्ष॑ति |{काश्यपोसितः | पवमानः सोमः | गायत्री} मदे᳚षु सर्व॒धा, अ॑सि ||{6/7}{9.18.6}{9.1.18.6}{6.8.8.6}{161, 741, 7851} परि॑¦यः¦रोद॑सी॒ इति॑¦उ॒भे इति॑¦स॒द्यः¦वाजे᳚भिः¦अर्ष॑ति | मदे᳚षु¦स॒र्व॒ऽधाः¦अ॒सि॒ || |
स शु॒ष्मी क॒लशे॒ष्वा पु॑ना॒नो, अ॑चिक्रदत् |{काश्यपोसितः | पवमानः सोमः | गायत्री} मदे᳚षु सर्व॒धा, अ॑सि ||{7/7}{9.18.7}{9.1.18.7}{6.8.8.7}{162, 741, 7852} सः¦शु॒ष्मी¦क॒लशे᳚षु¦आ¦पु॒ना॒नः¦अ॒चि॒क्र॒द॒त् | मदे᳚षु¦स॒र्व॒ऽधाः¦अ॒सि॒ || |
[19] यत्सोमेति सप्तर्चस्य सूक्तस्य काश्यपोसितःपवमा नसोमो गायत्री | |
यत् सो᳚म चि॒त्रमु॒क्थ्यं᳚ दि॒व्यं पार्थि॑वं॒ वसु॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} तन्नः॑ पुना॒न आ भ॑र ||{1/7}{9.19.1}{9.1.19.1}{6.8.9.1}{163, 742, 7853} यत्¦सो॒म॒¦चि॒त्रम्¦उ॒क्थ्य᳚म्¦दि॒व्यम्¦पार्थि॑वम्¦वसु॑ | तत्¦नः॒¦पु॒ना॒नः¦आ¦भ॒र॒ || |
यु॒वं हि स्थः स्व॑र्पती॒, इन्द्र॑श्च सोम॒ गोप॑ती |{काश्यपोसितः | पवमानः सोमः | गायत्री} ई॒शा॒ना पि॑प्यतं॒ धियः॑ ||{2/7}{9.19.2}{9.1.19.2}{6.8.9.2}{164, 742, 7854} यु॒वम्¦हि¦स्थः¦स्व॑र्पती॒ इति॒ स्वः॑ऽपती¦इन्द्रः॑¦च॒¦सो॒म॒¦गोप॑ती॒ इति॒ गोऽप॑ती | ई॒शा॒ना¦पि॒प्य॒त॒म्¦धियः॑ || |
वृषा᳚ पुना॒न आ॒युषु॑ स्त॒नय॒न्नधि॑ ब॒र्हिषि॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} हरिः॒ सन्योनि॒मास॑दत् ||{3/7}{9.19.3}{9.1.19.3}{6.8.9.3}{165, 742, 7855} वृषा᳚¦पु॒ना॒नः¦आ॒युषु॑¦स्त॒नय॑न्¦अधि॑¦ब॒र्हिषि॑ | हरिः॑¦सन्¦योनि᳚म्¦आ¦अ॒स॒द॒त् || |
अवा᳚वशन्त धी॒तयो᳚ वृष॒भस्याधि॒ रेत॑सि |{काश्यपोसितः | पवमानः सोमः | गायत्री} सू॒नोर्व॒त्सस्य॑ मा॒तरः॑ ||{4/7}{9.19.4}{9.1.19.4}{6.8.9.4}{166, 742, 7856} अवा᳚वशन्त¦धी॒तयः॑¦वृ॒ष॒भस्य॑¦अधि॑¦रेत॑सि | सू॒नोः¦व॒त्सस्य॑¦मा॒तरः॑ || |
कु॒विद् वृ॑ष॒ण्यन्ती᳚भ्यः पुना॒नो गर्भ॑मा॒दध॑त् |{काश्यपोसितः | पवमानः सोमः | गायत्री} याः शु॒क्रं दु॑ह॒ते पयः॑ ||{5/7}{9.19.5}{9.1.19.5}{6.8.9.5}{167, 742, 7857} कु॒वित्¦वृ॒ष॒ण्यन्ती᳚भ्यः¦पु॒ना॒नः¦गर्भ᳚म्¦आ॒ऽदध॑त् | याः¦शु॒क्रम्¦दु॒ह॒ते¦पयः॑ || |
उप॑ शिक्षापत॒स्थुषो᳚ भि॒यस॒मा धे᳚हि॒ शत्रु॑षु |{काश्यपोसितः | पवमानः सोमः | गायत्री} पव॑मान वि॒दा र॒यिम् ||{6/7}{9.19.6}{9.1.19.6}{6.8.9.6}{168, 742, 7858} उप॑¦शि॒क्ष॒¦अ॒प॒ऽत॒स्थुषः॑¦भि॒यस᳚म्¦आ¦धे॒हि॒¦शत्रु॑षु | पव॑मान¦वि॒दाः¦र॒यिम् || |
नि शत्रोः᳚ सोम॒ वृष्ण्यं॒ नि शुष्मं॒ नि वय॑स्तिर |{काश्यपोसितः | पवमानः सोमः | गायत्री} दू॒रे वा᳚ स॒तो, अन्ति॑ वा ||{7/7}{9.19.7}{9.1.19.7}{6.8.9.7}{169, 742, 7859} नि¦शत्रोः᳚¦सो॒म॒¦वृष्ण्य᳚म्¦नि¦शुष्म᳚म्¦नि¦वयः॑¦ति॒र॒ | दू॒रे¦वा॒¦स॒तः¦अन्ति॑¦वा॒ || |
[20] प्रकविरिति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री | |
प्र क॒विर्दे॒ववी᳚त॒येऽव्यो॒ वारे᳚भिरर्षति |{काश्यपोसितः | पवमानः सोमः | गायत्री} सा॒ह्वान् विश्वा᳚, अ॒भि स्पृधः॑ ||{1/7}{9.20.1}{9.1.20.1}{6.8.10.1}{170, 743, 7860} प्र¦क॒विः¦दे॒वऽवी᳚तये¦अव्यः॑¦वारे᳚भिः¦अ॒र्ष॒ति॒ | स॒ह्वान्¦विश्वाः᳚¦अ॒भि¦स्पृधः॑ || |
स हि ष्मा᳚ जरि॒तृभ्य॒ आ वाजं॒ गोम᳚न्त॒मिन्व॑ति |{काश्यपोसितः | पवमानः सोमः | गायत्री} पव॑मानः सह॒स्रिण᳚म् ||{2/7}{9.20.2}{9.1.20.2}{6.8.10.2}{171, 743, 7861} सः¦हि¦स्म॒¦ज॒रि॒तृऽभ्यः॑¦आ¦वाज᳚म्¦गोऽम᳚न्तम्¦इन्व॑ति | पव॑मानः¦स॒ह॒स्रिण᳚म् || |
परि॒ विश्वा᳚नि॒ चेत॑सा मृ॒शसे॒ पव॑से म॒ती |{काश्यपोसितः | पवमानः सोमः | गायत्री} स नः॑ सोम॒ श्रवो᳚ विदः ||{3/7}{9.20.3}{9.1.20.3}{6.8.10.3}{172, 743, 7862} परि॑¦विश्वा᳚नि¦चेत॑सा¦मृ॒शसे᳚¦पव॑से¦म॒ती | सः¦नः॒¦सो॒म॒¦श्रवः॑¦वि॒दः॒ || |
अ॒भ्य॑र्ष बृ॒हद् यशो᳚ म॒घव॑द्भ्यो ध्रु॒वं र॒यिम् |{काश्यपोसितः | पवमानः सोमः | गायत्री} इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{4/7}{9.20.4}{9.1.20.4}{6.8.10.4}{173, 743, 7863} अ॒भि¦अ॒र्ष॒¦बृ॒हत्¦यशः॑¦म॒घव॑त्ऽभ्यः¦ध्रु॒वम्¦र॒यिम् | इष᳚म्¦स्तो॒तृऽभ्यः॑¦आ¦भ॒र॒ || |
त्वं राजे᳚व सुव्र॒तो गिरः॑ सो॒मा वि॑वेशिथ |{काश्यपोसितः | पवमानः सोमः | गायत्री} पु॒ना॒नो व᳚ह्ने, अद्भुत ||{5/7}{9.20.5}{9.1.20.5}{6.8.10.5}{174, 743, 7864} त्वम्¦राजा᳚ऽइव¦सु॒ऽव्र॒तः¦गिरः॑¦सो॒म॒¦आ¦वि॒वे॒शि॒थ॒ | पु॒ना॒नः¦व॒ह्ने॒¦अ॒द्भु॒त॒ || |
स वह्नि॑र॒प्सु दु॒ष्टरो᳚ मृ॒ज्यमा᳚नो॒ गभ॑स्त्योः |{काश्यपोसितः | पवमानः सोमः | गायत्री} सोम॑श्च॒मूषु॑ सीदति ||{6/7}{9.20.6}{9.1.20.6}{6.8.10.6}{175, 743, 7865} सः¦वह्निः॑¦अ॒प्ऽसु¦दु॒स्तरः॑¦मृ॒ज्यमा᳚नः¦गभ॑स्त्योः | सोमः॑¦च॒मूषु॑¦सी॒द॒ति॒ || |
क्री॒ळुर्म॒खो न मं᳚ह॒युः प॒वित्रं᳚ सोम गच्छसि |{काश्यपोसितः | पवमानः सोमः | गायत्री} दध॑त् स्तो॒त्रे सु॒वीर्य᳚म् ||{7/7}{9.20.7}{9.1.20.7}{6.8.10.7}{176, 743, 7866} क्री॒ळुः¦म॒खः¦न¦मं॒ह॒युः¦प॒वित्र᳚म्¦सो॒म॒¦ग॒च्छ॒सि॒ | दध॑त्¦स्तो॒त्रे¦सु॒ऽवीर्य᳚म् || |
[21] एतेधावंतीति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री | |
ए॒ते धा᳚व॒न्तीन्द॑वः॒ सोमा॒, इन्द्रा᳚य॒ घृष्व॑यः |{काश्यपोसितः | पवमानः सोमः | गायत्री} म॒त्स॒रासः॑ स्व॒र्विदः॑ ||{1/7}{9.21.1}{9.1.21.1}{6.8.11.1}{177, 744, 7867} ए॒ते¦धा॒व॒न्ति॒¦इन्द॑वः¦सोमाः᳚¦इन्द्रा᳚य¦घृष्व॑यः | म॒त्स॒रासः॑¦स्वः॒ऽविदः॑ || |
प्र॒वृ॒ण्वन्तो᳚, अभि॒युजः॒ सुष्व॑ये वरिवो॒विदः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} स्व॒यं स्तो॒त्रे व॑य॒स्कृतः॑ ||{2/7}{9.21.2}{9.1.21.2}{6.8.11.2}{178, 744, 7868} प्र॒ऽवृ॒ण्वन्तः॑¦अ॒भि॒ऽयुजः॑¦सुस्व॑ये¦व॒रि॒वः॒ऽविदः॑ | स्व॒यम्¦स्तो॒त्रे¦व॒यः॒ऽकृतः॑ || |
वृथा॒ क्रीळ᳚न्त॒ इन्द॑वः स॒धस्थ॑म॒भ्येक॒मित् |{काश्यपोसितः | पवमानः सोमः | गायत्री} सिन्धो᳚रू॒र्मा व्य॑क्षरन् ||{3/7}{9.21.3}{9.1.21.3}{6.8.11.3}{179, 744, 7869} वृथा᳚¦क्रीळ᳚न्तः¦इन्द॑वः¦स॒धऽस्थ᳚म्¦अ॒भि¦एक᳚म्¦इत् | सिन्धोः᳚¦ऊ॒र्मा¦वि¦अ॒क्ष॒र॒न् || |
ए॒ते विश्वा᳚नि॒ वार्या॒ पव॑मानास आशत |{काश्यपोसितः | पवमानः सोमः | गायत्री} हि॒ता न सप्त॑यो॒ रथे᳚ ||{4/7}{9.21.4}{9.1.21.4}{6.8.11.4}{180, 744, 7870} ए॒ते¦विश्वा᳚नि¦वार्या᳚¦पव॑मानासः¦आ॒श॒त॒ | हि॒ताः¦न¦सप्त॑यः¦रथे᳚ || |
आस्मि᳚न् पि॒शङ्ग॑मिन्दवो॒ दधा᳚ता वे॒नमा॒दिशे᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} यो, अ॒स्मभ्य॒मरा᳚वा ||{5/7}{9.21.5}{9.1.21.5}{6.8.11.5}{181, 744, 7871} आ¦अ॒स्मि॒न्¦पि॒शङ्ग᳚म्¦इ॒न्द॒वः॒¦दधा᳚त¦वे॒नम्¦आ॒ऽदिशे᳚ | यः¦अ॒स्मभ्य᳚म्¦अरा᳚वा || |
ऋ॒भुर्न रथ्यं॒ नवं॒ दधा᳚ता॒ केत॑मा॒दिशे᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} शु॒क्राः प॑वध्व॒मर्ण॑सा ||{6/7}{9.21.6}{9.1.21.6}{6.8.11.6}{182, 744, 7872} ऋ॒भुः¦न¦रथ्य᳚म्¦नव᳚म्¦दधा᳚त¦केत᳚म्¦आ॒ऽदिशे᳚ | शु॒क्राः¦प॒व॒ध्व॒म्¦अर्ण॑सा || |
ए॒त उ॒ त्ये, अ॑वीवश॒न् काष्ठां᳚ वा॒जिनो᳚, अक्रत |{काश्यपोसितः | पवमानः सोमः | गायत्री} स॒तः प्रासा᳚विषुर्म॒तिम् ||{7/7}{9.21.7}{9.1.21.7}{6.8.11.7}{183, 744, 7873} ए॒ते¦ऊँ॒ इति॑¦त्ये¦अ॒वी॒व॒श॒न्¦काष्ठा᳚म्¦वा॒जिनः॑¦अ॒क्र॒त॒ | स॒तः¦प्र¦अ॒सा॒वि॒षुः॒¦म॒तिम् || |
[22] एतेसोमासइति सप्तर्चस्य सूक्तस्य काश्यपोसितःपवमानसोमोगायत्री | |
ए॒ते सोमा᳚स आ॒शवो॒ रथा᳚, इव॒ प्र वा॒जिनः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} सर्गाः᳚ सृ॒ष्टा, अ॑हेषत ||{1/7}{9.22.1}{9.1.22.1}{6.8.12.1}{184, 745, 7874} ए॒ते¦सोमा᳚सः¦आ॒शवः॑¦रथाः᳚ऽइव¦प्र¦वा॒जिनः॑ | सर्गाः᳚¦सृ॒ष्टाः¦अ॒हे॒ष॒त॒ || |
ए॒ते वाता᳚, इवो॒रवः॑ प॒र्जन्य॑स्येव वृ॒ष्टयः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} अ॒ग्नेरि॑व भ्र॒मा वृथा᳚ ||{2/7}{9.22.2}{9.1.22.2}{6.8.12.2}{185, 745, 7875} ए॒ते¦वाताः᳚ऽइव¦उ॒रवः॑¦प॒र्जन्य॑स्यऽइव¦वृ॒ष्टयः॑ | अ॒ग्नेःऽइ᳚व¦भ्र॒माः¦वृथा᳚ || |
ए॒ते पू॒ता वि॑प॒श्चितः॒ सोमा᳚सो॒ दध्या᳚शिरः |{काश्यपोसितः | पवमानः सोमः | गायत्री} वि॒पा व्या᳚नशु॒र्धियः॑ ||{3/7}{9.22.3}{9.1.22.3}{6.8.12.3}{186, 745, 7876} ए॒ते¦पू॒ताः¦वि॒पः॒ऽचितः॑¦सोमा᳚सः¦दधि॑ऽआशिरः | वि॒पा¦वि¦आ॒न॒शुः॒¦धियः॑ || |
ए॒ते मृ॒ष्टा, अम॑र्त्याः ससृ॒वांसो॒ न श॑श्रमुः |{काश्यपोसितः | पवमानः सोमः | गायत्री} इय॑क्षन्तः प॒थो रजः॑ ||{4/7}{9.22.4}{9.1.22.4}{6.8.12.4}{187, 745, 7877} ए॒ते¦मृ॒ष्टाः¦अम॑र्त्याः¦स॒सृ॒ऽवांसः॑¦न¦श॒श्र॒मुः॒ | इय॑क्षन्तः¦प॒थः¦रजः॑ || |
ए॒ते पृ॒ष्ठानि॒ रोद॑सोर्विप्र॒यन्तो॒ व्या᳚नशुः |{काश्यपोसितः | पवमानः सोमः | गायत्री} उ॒तेदमु॑त्त॒मं रजः॑ ||{5/7}{9.22.5}{9.1.22.5}{6.8.12.5}{188, 745, 7878} ए॒ते¦पृ॒ष्ठानि॑¦रोद॑सोः¦वि॒ऽप्र॒यन्तः॑¦वि¦आ॒न॒शुः॒ | उ॒त¦इ॒दम्¦उ॒त्ऽत॒मम्¦रजः॑ || |
तन्तुं᳚ तन्वा॒नमु॑त्त॒ममनु॑ प्र॒वत॑ आशत |{काश्यपोसितः | पवमानः सोमः | गायत्री} उ॒तेदमु॑त्त॒माय्य᳚म् ||{6/7}{9.22.6}{9.1.22.6}{6.8.12.6}{189, 745, 7879} तन्तु᳚म्¦त॒न्वा॒नम्¦उ॒त्ऽत॒मम्¦अनु॑¦प्र॒ऽवतः॑¦आ॒श॒त॒ | उ॒त¦इ॒दम्¦उ॒त्त॒माय्य᳚म् || |
त्वं सो᳚म प॒णिभ्य॒ आ वसु॒ गव्या᳚नि धारयः |{काश्यपोसितः | पवमानः सोमः | गायत्री} त॒तं तन्तु॑मचिक्रदः ||{7/7}{9.22.7}{9.1.22.7}{6.8.12.7}{190, 745, 7880} त्वम्¦सो॒म॒¦प॒णिऽभ्यः॑¦आ¦वसु॑¦गव्या᳚नि¦धा॒र॒यः॒ | त॒तम्¦तन्तु᳚म्¦अ॒चि॒क्र॒दः॒ || |
[23] सोमा असृग्रमिति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमोगायत्री | |
सोमा᳚, असृग्रमा॒शवो॒ मधो॒र्मद॑स्य॒ धार॑या |{काश्यपोसितः | पवमानः सोमः | गायत्री} अ॒भि विश्वा᳚नि॒ काव्या᳚ ||{1/7}{9.23.1}{9.1.23.1}{6.8.13.1}{191, 746, 7881} सोमाः᳚¦अ॒सृ॒ग्र॒म्¦आ॒शवः॑¦मधोः᳚¦मद॑स्य¦धार॑या | अ॒भि¦विश्वा᳚नि¦काव्या᳚ || |
अनु॑ प्र॒त्नास॑ आ॒यवः॑ प॒दं नवी᳚यो, अक्रमुः |{काश्यपोसितः | पवमानः सोमः | गायत्री} रु॒चे ज॑नन्त॒ सूर्य᳚म् ||{2/7}{9.23.2}{9.1.23.2}{6.8.13.2}{192, 746, 7882} अनु॑¦प्र॒त्नासः॑¦आ॒यवः॑¦प॒दम्¦नवी᳚यः¦अ॒क्र॒मुः॒ | रु॒चे¦ज॒न॒न्त॒¦सूर्य᳚म् || |
आ प॑वमान नो भरा॒र्यो, अदा᳚शुषो॒ गय᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री} कृ॒धि प्र॒जाव॑ती॒रिषः॑ ||{3/7}{9.23.3}{9.1.23.3}{6.8.13.3}{193, 746, 7883} आ¦प॒व॒मा॒न॒¦नः॒¦भ॒र॒¦अ॒र्यः¦अदा᳚शुषः¦गय᳚म् | कृ॒धि¦प्र॒जाऽव॑तीः¦इषः॑ || |
अ॒भि सोमा᳚स आ॒यवः॒ पव᳚न्ते॒ मद्यं॒ मद᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री} अ॒भि कोशं᳚ मधु॒श्चुत᳚म् ||{4/7}{9.23.4}{9.1.23.4}{6.8.13.4}{194, 746, 7884} अ॒भि¦सोमा᳚सः¦आ॒यवः॑¦पव᳚न्ते¦मद्य᳚म्¦मद᳚म् | अ॒भि¦कोश᳚म्¦म॒धु॒ऽश्चुत᳚म् || |
सोमो᳚, अर्षति धर्ण॒सिर्दधा᳚न इन्द्रि॒यं रस᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री} सु॒वीरो᳚, अभिशस्ति॒पाः ||{5/7}{9.23.5}{9.1.23.5}{6.8.13.5}{195, 746, 7885} सोमः॑¦अ॒र्ष॒ति॒¦ध॒र्ण॒सिः¦दधा᳚नः¦इ॒न्द्रि॒यम्¦रस᳚म् | सु॒ऽवीरः॑¦अ॒भि॒श॒स्ति॒ऽपाः || |
इन्द्रा᳚य सोम पवसे दे॒वेभ्यः॑ सध॒माद्यः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} इन्दो॒ वाजं᳚ सिषाससि ||{6/7}{9.23.6}{9.1.23.6}{6.8.13.6}{196, 746, 7886} इन्द्रा᳚य¦सो॒म॒¦प॒व॒से॒¦दे॒वेभ्यः॑¦स॒ध॒ऽमाद्यः॑ | इन्दो॒ इति॑¦वाज᳚म्¦सि॒सा॒स॒सि॒ || |
अ॒स्य पी॒त्वा मदा᳚ना॒मिन्द्रो᳚ वृ॒त्राण्य॑प्र॒ति |{काश्यपोसितः | पवमानः सोमः | गायत्री} ज॒घान॑ ज॒घन॑च्च॒ नु ||{7/7}{9.23.7}{9.1.23.7}{6.8.13.7}{197, 746, 7887} अ॒स्य¦पी॒त्वा¦मदा᳚नाम्¦इन्द्रः॑¦वृ॒त्राणि॑¦अ॒प्र॒ति | ज॒घान॑¦ज॒घन॑त्¦च॒¦नु || |
[24] प्रसोमासइति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री | |
प्र सोमा᳚सो, अधन्विषुः॒ पव॑मानास॒ इन्द॑वः |{काश्यपोसितः | पवमानः सोमः | गायत्री} श्री॒णा॒ना, अ॒प्सु मृ᳚ञ्जत ||{1/7}{9.24.1}{9.1.24.1}{6.8.14.1}{198, 747, 7888} प्र¦सोमा᳚सः¦अ॒ध॒न्वि॒षुः॒¦पव॑मानासः¦इन्द॑वः | श्री॒णा॒नाः¦अ॒प्ऽसु¦मृं॒ज॒त॒ || |
अ॒भि गावो᳚, अधन्विषु॒रापो॒ न प्र॒वता᳚ य॒तीः |{काश्यपोसितः | पवमानः सोमः | गायत्री} पु॒ना॒ना, इन्द्र॑माशत ||{2/7}{9.24.2}{9.1.24.2}{6.8.14.2}{199, 747, 7889} अ॒भि¦गावः॑¦अ॒ध॒न्वि॒षुः॒¦आपः॑¦न¦प्र॒ऽवता᳚¦य॒तीः | पु॒ना॒नाः¦इन्द्र᳚म्¦आ॒श॒त॒ || |
प्र प॑वमान धन्वसि॒ सोमेन्द्रा᳚य॒ पात॑वे |{काश्यपोसितः | पवमानः सोमः | गायत्री} नृभि᳚र्य॒तो वि नी᳚यसे ||{3/7}{9.24.3}{9.1.24.3}{6.8.14.3}{200, 747, 7890} प्र¦प॒व॒मा॒न॒¦ध॒न्व॒सि॒¦सोम॑¦इन्द्रा᳚य¦पात॑वे | नृऽभिः॑¦य॒तः¦वि¦नी॒य॒से॒ || |
त्वं सो᳚म नृ॒माद॑नः॒ पव॑स्व चर्षणी॒सहे᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} सस्नि॒र्यो, अ॑नु॒माद्यः॑ ||{4/7}{9.24.4}{9.1.24.4}{6.8.14.4}{201, 747, 7891} त्वम्¦सो॒म॒¦नृ॒ऽमाद॑नः¦पव॑स्व¦च॒र्ष॒णि॒ऽसहे᳚ | सस्निः॑¦यः¦अ॒नु॒ऽमाद्यः॑ || |
इन्दो॒ यदद्रि॑भिः सु॒तः प॒वित्रं᳚ परि॒धाव॑सि |{काश्यपोसितः | पवमानः सोमः | गायत्री} अर॒मिन्द्र॑स्य॒ धाम्ने᳚ ||{5/7}{9.24.5}{9.1.24.5}{6.8.14.5}{202, 747, 7892} इन्दो॒ इति॑¦यत्¦अद्रि॑ऽभिः¦सु॒तः¦प॒वित्र᳚म्¦प॒रि॒ऽधाव॑सि | अर᳚म्¦इन्द्र॑स्य¦धाम्ने᳚ || |
पव॑स्व वृत्रहन्तमो॒क्थेभि॑रनु॒माद्यः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} शुचिः॑ पाव॒को, अद्भु॑तः ||{6/7}{9.24.6}{9.1.24.6}{6.8.14.6}{203, 747, 7893} पव॑स्व¦वृ॒त्र॒ह॒न्ऽत॒म॒¦उ॒क्थेभिः॑¦अ॒नु॒ऽमाद्यः॑ | शुचिः॑¦पा॒व॒कः¦अद्भु॑तः || |
शुचिः॑ पाव॒क उ॑च्यते॒ सोमः॑ सु॒तस्य॒ मध्वः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} दे॒वा॒वीर॑घशंस॒हा ||{7/7}{9.24.7}{9.1.24.7}{6.8.14.7}{204, 747, 7894} शुचिः॑¦पा॒व॒कः¦उ॒च्य॒ते॒¦सोमः॑¦सु॒तस्य॑¦मध्वः॑ | दे॒व॒।आ॒वीः¦अ॒घ॒शं॒स॒ऽहा || |
[25] पवस्वेति षडृचस्य सूक्तस्यागस्त्योदृळ्हच्युतः पवमान सोमोगायत्री | |
पव॑स्व दक्ष॒साध॑नो दे॒वेभ्यः॑ पी॒तये᳚ हरे |{अगस्त्यो दृळहच्युतः | पवमानः सोमः | गायत्री} म॒रुद्भ्यो᳚ वा॒यवे॒ मदः॑ ||{1/6}{9.25.1}{9.2.1.1}{6.8.15.1}{205, 748, 7895} पव॑स्व¦द॒क्ष॒ऽसाध॑नः¦दे॒वेभ्यः॑¦पी॒तये᳚¦ह॒रे॒ | म॒रुत्ऽभ्यः॑¦वा॒यवे᳚¦मदः॑ || |
पव॑मान धि॒या हि॒तो॒३॑(ओ॒)ऽभि योनिं॒ कनि॑क्रदत् |{अगस्त्यो दृळहच्युतः | पवमानः सोमः | गायत्री} धर्म॑णा वा॒युमा वि॑श ||{2/6}{9.25.2}{9.2.1.2}{6.8.15.2}{206, 748, 7896} पव॑मान¦धि॒या¦हि॒तः¦अ॒भि¦योनि᳚म्¦कनि॑क्रदत् | धर्म॑णा¦वा॒युम्¦आ¦वि॒श॒ || |
सं दे॒वैः शो᳚भते॒ वृषा᳚ क॒विर्योना॒वधि॑ प्रि॒यः |{अगस्त्यो दृळहच्युतः | पवमानः सोमः | गायत्री} वृ॒त्र॒हा दे᳚व॒वीत॑मः ||{3/6}{9.25.3}{9.2.1.3}{6.8.15.3}{207, 748, 7897} सम्¦दे॒वैः¦शो॒भ॒ते॒¦वृषा᳚¦क॒विः¦योनौ᳚¦अधि॑¦प्रि॒यः | वृ॒त्र॒ऽहा¦दे॒व॒ऽवीत॑मः || |
विश्वा᳚ रू॒पाण्या᳚वि॒शन् पु॑ना॒नो या᳚ति हर्य॒तः |{अगस्त्यो दृळहच्युतः | पवमानः सोमः | गायत्री} यत्रा॒मृता᳚स॒ आस॑ते ||{4/6}{9.25.4}{9.2.1.4}{6.8.15.4}{208, 748, 7898} विश्वा᳚¦रू॒पाणि॑¦आ॒ऽवि॒शन्¦पु॒ना॒नः¦या॒ति॒¦ह॒र्य॒तः | यत्र॑¦अ॒मृता᳚सः¦आस॑ते || |
अ॒रु॒षो ज॒नय॒न् गिरः॒ सोमः॑ पवत आयु॒षक् |{अगस्त्यो दृळहच्युतः | पवमानः सोमः | गायत्री} इन्द्रं॒ गच्छ᳚न् क॒विक्र॑तुः ||{5/6}{9.25.5}{9.2.1.5}{6.8.15.5}{209, 748, 7899} अ॒रु॒षः¦ज॒नय॑न्¦गिरः॑¦सोमः॑¦प॒व॒ते॒¦आ॒यु॒षक् | इन्द्र᳚म्¦गच्छ॑न्¦क॒विऽक्र॑तुः || |
आ प॑वस्व मदिन्तम प॒वित्रं॒ धार॑या कवे |{अगस्त्यो दृळहच्युतः | पवमानः सोमः | गायत्री} अ॒र्कस्य॒ योनि॑मा॒सद᳚म् ||{6/6}{9.25.6}{9.2.1.6}{6.8.15.6}{210, 748, 7900} आ¦प॒व॒स्व॒¦म॒दि॒न्ऽत॒म॒¦प॒वित्र᳚म्¦धार॑या¦क॒वे॒ | अ॒र्कस्य॑¦योनि᳚म्¦आ॒ऽसद᳚म् || |
[26] तममृक्षंतेति षडृचस्य सूक्तस्य दार्डच्युतइध्मवाहः पवमान सोमोगायत्री | |
तम॑मृक्षन्त वा॒जिन॑मु॒पस्थे॒, अदि॑ते॒रधि॑ |{दार्डच्युतइध्मवाहः | पवमानः सोमः | गायत्री} विप्रा᳚सो॒, अण्व्या᳚ धि॒या ||{1/6}{9.26.1}{9.2.2.1}{6.8.16.1}{211, 749, 7901} तम्¦अ॒मृ॒क्ष॒न्त॒¦वा॒जिन᳚म्¦उ॒पऽस्थे᳚¦अदि॑तेः¦अधि॑ | विप्रा᳚सः¦अण्व्या᳚¦धि॒या || |
तं गावो᳚, अ॒भ्य॑नूषत स॒हस्र॑धार॒मक्षि॑तम् |{दार्डच्युतइध्मवाहः | पवमानः सोमः | गायत्री} इन्दुं᳚ ध॒र्तार॒मा दि॒वः ||{2/6}{9.26.2}{9.2.2.2}{6.8.16.2}{212, 749, 7902} तम्¦गावः॑¦अ॒भि¦अ॒नू॒ष॒त॒¦स॒हस्र॑ऽधारम्¦अक्षि॑तम् | इन्दु᳚म्¦ध॒र्तार᳚म्¦आ¦दि॒वः || |
तं वे॒धां मे॒धया᳚ह्य॒न् पव॑मान॒मधि॒ द्यवि॑ |{दार्डच्युतइध्मवाहः | पवमानः सोमः | गायत्री} ध॒र्ण॒सिं भूरि॑धायसम् ||{3/6}{9.26.3}{9.2.2.3}{6.8.16.3}{213, 749, 7903} तम्¦वे॒धाम्¦मे॒धया᳚¦अ॒ह्य॒न्¦पव॑मानम्¦अधि॑¦द्यवि॑ | ध॒र्ण॒सिम्¦भूरि॑ऽधायसम् || |
तम॑ह्यन् भु॒रिजो᳚र्धि॒या सं॒वसा᳚नं वि॒वस्व॑तः |{दार्डच्युतइध्मवाहः | पवमानः सोमः | गायत्री} पतिं᳚ वा॒चो, अदा᳚भ्यम् ||{4/6}{9.26.4}{9.2.2.4}{6.8.16.4}{214, 749, 7904} तम्¦अ॒ह्य॒न्¦भु॒रिजोः᳚¦धि॒या¦स॒म्ऽवसा᳚नम्¦वि॒वस्व॑तः | पति᳚म्¦वा॒चः¦अदा᳚भ्यम् || |
तं साना॒वधि॑ जा॒मयो॒ हरिं᳚ हिन्व॒न्त्यद्रि॑भिः |{दार्डच्युतइध्मवाहः | पवमानः सोमः | गायत्री} ह॒र्य॒तं भूरि॑चक्षसम् ||{5/6}{9.26.5}{9.2.2.5}{6.8.16.5}{215, 749, 7905} तम्¦सानौ᳚¦अधि॑¦जा॒मयः॑¦हरि᳚म्¦हि॒न्व॒न्ति॒¦अद्रि॑ऽभिः | ह॒र्य॒तम्¦भूरि॑ऽचक्षसम् || |
तं त्वा᳚ हिन्वन्ति वे॒धसः॒ पव॑मान गिरा॒वृध᳚म् |{दार्डच्युतइध्मवाहः | पवमानः सोमः | गायत्री} इन्द॒विन्द्रा᳚य मत्स॒रम् ||{6/6}{9.26.6}{9.2.2.6}{6.8.16.6}{216, 749, 7906} तम्¦त्वा॒¦हि॒न्व॒न्ति॒¦वे॒धसः॑¦पव॑मान¦गि॒रा॒ऽवृध᳚म् | इन्दो॒ इति॑¦इन्द्रा᳚य¦म॒त्स॒रम् || |
[27] एषकविरिति षडृचस्य सूक्तस्यांगिरसो नृमेधः पवमान सोमो गायत्री | |
ए॒ष क॒विर॒भिष्टु॑तः प॒वित्रे॒, अधि॑ तोशते |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} पु॒ना॒नो घ्नन्नप॒ स्रिधः॑ ||{1/6}{9.27.1}{9.2.3.1}{6.8.17.1}{217, 750, 7907} ए॒षः¦क॒विः¦अ॒भिऽस्तु॑तः¦प॒वित्रे᳚¦अधि॑¦तो॒श॒ते॒ | पु॒ना॒नः¦घ्नन्¦अप॑¦स्रिधः॑ || |
ए॒ष इन्द्रा᳚य वा॒यवे᳚ स्व॒र्जित् परि॑ षिच्यते |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} प॒वित्रे᳚ दक्ष॒साध॑नः ||{2/6}{9.27.2}{9.2.3.2}{6.8.17.2}{218, 750, 7908} ए॒षः¦इन्द्रा᳚य¦वा॒यवे᳚¦स्वः॒ऽजित्¦परि॑¦सि॒च्य॒ते॒ | प॒वित्रे᳚¦द॒क्ष॒ऽसाध॑नः || |
ए॒ष नृभि॒र्वि नी᳚यते दि॒वो मू॒र्धा वृषा᳚ सु॒तः |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} सोमो॒ वने᳚षु विश्व॒वित् ||{3/6}{9.27.3}{9.2.3.3}{6.8.17.3}{219, 750, 7909} ए॒षः¦नृऽभिः॑¦वि¦नी॒य॒ते॒¦दि॒वः¦मू॒र्धा¦वृषा᳚¦सु॒तः | सोमः॑¦वने᳚षु¦वि॒श्व॒ऽवित् || |
ए॒ष ग॒व्युर॑चिक्रद॒त् पव॑मानो हिरण्य॒युः |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} इन्दुः॑ सत्रा॒जिदस्तृ॑तः ||{4/6}{9.27.4}{9.2.3.4}{6.8.17.4}{220, 750, 7910} ए॒षः¦ग॒व्युः¦अ॒चि॒क्र॒द॒त्¦पव॑मानः¦हि॒र॒ण्य॒ऽयुः | इन्दुः॑¦स॒त्रा॒ऽजित्¦अस्तृ॑तः || |
ए॒ष सूर्ये᳚ण हासते॒ पव॑मानो॒, अधि॒ द्यवि॑ |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} प॒वित्रे᳚ मत्स॒रो मदः॑ ||{5/6}{9.27.5}{9.2.3.5}{6.8.17.5}{221, 750, 7911} ए॒षः¦सूर्ये᳚ण¦हा॒स॒ते॒¦पव॑मानः¦अधि॑¦द्यवि॑ | प॒वित्रे᳚¦म॒त्स॒रः¦मदः॑ || |
ए॒ष शु॒ष्म्य॑सिष्यदद॒न्तरि॑क्षे॒ वृषा॒ हरिः॑ |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} पु॒ना॒न इन्दु॒रिन्द्र॒मा ||{6/6}{9.27.6}{9.2.3.6}{6.8.17.6}{222, 750, 7912} ए॒षः¦शु॒ष्मी¦अ॒सि॒स्य॒द॒त्¦अ॒न्तरि॑क्षे¦वृषा᳚¦हरिः॑ | पु॒ना॒नः¦इन्दुः॑¦इन्द्र᳚म्¦आ || |
[28] एषवाजीति षडृचस्य सूक्तस्यांगिरसः प्रियमेधः पवमानसोमो गायत्री | |
ए॒ष वा॒जी हि॒तो नृभि᳚र्विश्व॒विन्मन॑स॒स्पतिः॑ |{आङ्गिरसः प्रियमेधः | पवमानः सोमः | गायत्री} अव्यो॒ वारं॒ वि धा᳚वति ||{1/6}{9.28.1}{9.2.4.1}{6.8.18.1}{223, 751, 7913} ए॒षः¦वा॒जी¦हि॒तः¦नृऽभिः॑¦वि॒श्व॒ऽवित्¦मन॑सः¦पतिः॑ | अव्यः॑¦वार᳚म्¦वि¦धा॒व॒ति॒ || |
ए॒ष प॒वित्रे᳚, अक्षर॒त् सोमो᳚ दे॒वेभ्यः॑ सु॒तः |{आङ्गिरसः प्रियमेधः | पवमानः सोमः | गायत्री} विश्वा॒ धामा᳚न्यावि॒शन् ||{2/6}{9.28.2}{9.2.4.2}{6.8.18.2}{224, 751, 7914} ए॒षः¦प॒वित्रे᳚¦अ॒क्ष॒र॒त्¦सोमः॑¦दे॒वेभ्यः॑¦सु॒तः | विश्वा᳚¦धामा᳚नि¦आ॒ऽवि॒शन् || |
ए॒ष दे॒वः शु॑भाय॒तेऽधि॒ योना॒वम॑र्त्यः |{आङ्गिरसः प्रियमेधः | पवमानः सोमः | गायत्री} वृ॒त्र॒हा दे᳚व॒वीत॑मः ||{3/6}{9.28.3}{9.2.4.3}{6.8.18.3}{225, 751, 7915} ए॒षः¦दे॒वः¦शु॒भा॒य॒ते॒¦अधि॑¦योनौ᳚¦अम॑र्त्यः | वृ॒त्र॒ऽहा¦दे॒व॒ऽवीत॑मः || |
ए॒ष वृषा॒ कनि॑क्रदद्द॒शभि॑र्जा॒मिभि᳚र्य॒तः |{आङ्गिरसः प्रियमेधः | पवमानः सोमः | गायत्री} अ॒भि द्रोणा᳚नि धावति ||{4/6}{9.28.4}{9.2.4.4}{6.8.18.4}{226, 751, 7916} ए॒षः¦वृषा᳚¦कनि॑क्रदत्¦द॒शऽभिः॑¦जा॒मिऽभिः॑¦य॒तः | अ॒भि¦द्रोणा᳚नि¦धा॒व॒ति॒ || |
ए॒ष सूर्य॑मरोचय॒त् पव॑मानो॒ विच॑र्षणिः |{आङ्गिरसः प्रियमेधः | पवमानः सोमः | गायत्री} विश्वा॒ धामा᳚नि विश्व॒वित् ||{5/6}{9.28.5}{9.2.4.5}{6.8.18.5}{227, 751, 7917} ए॒षः¦सूर्य᳚म्¦अ॒रो॒च॒य॒त्¦पव॑मानः¦विऽच॑र्षणिः | विश्वा᳚¦धामा᳚नि¦वि॒श्व॒ऽवित् || |
ए॒ष शु॒ष्म्यदा᳚भ्यः॒ सोमः॑ पुना॒नो, अ॑र्षति |{आङ्गिरसः प्रियमेधः | पवमानः सोमः | गायत्री} दे॒वा॒वीर॑घशंस॒हा ||{6/6}{9.28.6}{9.2.4.6}{6.8.18.6}{228, 751, 7918} ए॒षः¦शु॒ष्मी¦अदा᳚भ्यः¦सोमः॑¦पु॒ना॒नः¦अ॒र्ष॒ति॒ | दे॒व॒।आ॒वीः¦अ॒घ॒शं॒स॒ऽहा || |
[29] प्रास्यधाराइति षडृचस्य सूक्तस्यांगिरसोनृमेधः पवमान सोमो गायत्री |
प्रास्य॒ धारा᳚, अक्षर॒न् वृष्णः॑ सु॒तस्यौज॑सा |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} दे॒वाँ, अनु॑ प्र॒भूष॑तः ||{1/6}{9.29.1}{9.2.5.1}{6.8.19.1}{229, 752, 7919} प्र¦अ॒स्य॒¦धाराः᳚¦अ॒क्ष॒र॒न्¦वृष्णः॑¦सु॒तस्य॑¦ओज॑सा | दे॒वान्¦अनु॑¦प्र॒ऽभूष॑तः || |
सप्तिं᳚ मृजन्ति वे॒धसो᳚ गृ॒णन्तः॑ का॒रवो᳚ गि॒रा |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} ज्योति॑र्जज्ञा॒नमु॒क्थ्य᳚म् ||{2/6}{9.29.2}{9.2.5.2}{6.8.19.2}{230, 752, 7920} सप्ति᳚म्¦मृ॒ज॒न्ति॒¦वे॒धसः॑¦गृ॒णन्तः॑¦का॒रवः॑¦गि॒रा | ज्योतिः॑¦ज॒ज्ञा॒नम्¦उ॒क्थ्य᳚म् || |
सु॒षहा᳚ सोम॒ तानि॑ ते पुना॒नाय॑ प्रभूवसो |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} वर्धा᳚ समु॒द्रमु॒क्थ्य᳚म् ||{3/6}{9.29.3}{9.2.5.3}{6.8.19.3}{231, 752, 7921} सु॒ऽसहा᳚¦सो॒म॒¦तानि॑¦ते॒¦पु॒ना॒नाय॑¦प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो | वर्ध॑¦स॒मु॒द्रम्¦उ॒क्थ्य᳚म् || |
विश्वा॒ वसू᳚नि सं॒जय॒न् पव॑स्व सोम॒ धार॑या |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} इ॒नु द्वेषां᳚सि स॒ध्र्य॑क् ||{4/6}{9.29.4}{9.2.5.4}{6.8.19.4}{232, 752, 7922} विश्वा᳚¦वसू᳚नि¦स॒म्ऽजय॑न्¦पव॑स्व¦सो॒म॒¦धार॑या | इ॒नु¦द्वेषां᳚सि¦स॒ध्र्य॑क् || |
रक्षा॒ सु नो॒, अर॑रुषः स्व॒नात् स॑मस्य॒ कस्य॑ चित् |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} नि॒दो यत्र॑ मुमु॒च्महे᳚ ||{5/6}{9.29.5}{9.2.5.5}{6.8.19.5}{233, 752, 7923} रक्ष॑¦सु¦नः॒¦अर॑रुषः¦स्व॒नात्¦स॒मस्य॑¦कस्य॑¦चि॒त् | नि॒दः¦यत्र॑¦मु॒मु॒च्महे᳚ || |
एन्दो॒ पार्थि॑वं र॒यिं दि॒व्यं प॑वस्व॒ धार॑या |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} द्यु॒मन्तं॒ शुष्म॒मा भ॑र ||{6/6}{9.29.6}{9.2.5.6}{6.8.19.6}{234, 752, 7924} आ¦इ॒न्दो॒ इति॑¦पार्थि॑वम्¦र॒यिम्¦दि॒व्यम्¦प॒व॒स्व॒¦धार॑या | द्यु॒ऽमन्त᳚म्¦शुष्म᳚म्¦आ¦भ॒र॒ || |
[30] प्रधाराइति षडृचस्य सूक्तस्यांगिरसो बिंदुः पवमानसोमोगायत्री | |
प्र धारा᳚, अस्य शु॒ष्मिणो॒ वृथा᳚ प॒वित्रे᳚, अक्षरन् |{आङ्गिरसो बिंदुः | पवमानः सोमः | गायत्री} पु॒ना॒नो वाच॑मिष्यति ||{1/6}{9.30.1}{9.2.6.1}{6.8.20.1}{235, 753, 7925} प्र¦धाराः᳚¦अ॒स्य॒¦शु॒ष्मिणः॑¦वृथा᳚¦प॒वित्रे᳚¦अ॒क्ष॒र॒न् | पु॒ना॒नः¦वाच᳚म्¦इ॒ष्य॒ति॒ || |
इन्दु᳚र्हिया॒नः सो॒तृभि᳚र्मृ॒ज्यमा᳚नः॒ कनि॑क्रदत् |{आङ्गिरसो बिंदुः | पवमानः सोमः | गायत्री} इय॑र्ति व॒ग्नुमि᳚न्द्रि॒यम् ||{2/6}{9.30.2}{9.2.6.2}{6.8.20.2}{236, 753, 7926} इन्दुः॑¦हि॒या॒नः¦सो॒तृऽभिः॑¦मृ॒ज्यमा᳚नः¦कनि॑क्रदत् | इय॑र्ति¦व॒ग्नुम्¦इ॒न्द्रि॒यम् || |
आ नः॒ शुष्मं᳚ नृ॒षाह्यं᳚ वी॒रव᳚न्तं पुरु॒स्पृह᳚म् |{आङ्गिरसो बिंदुः | पवमानः सोमः | गायत्री} पव॑स्व सोम॒ धार॑या ||{3/6}{9.30.3}{9.2.6.3}{6.8.20.3}{237, 753, 7927} आ¦नः॒¦शुष्म᳚म्¦नृ॒ऽसह्य᳚म्¦वी॒रऽव᳚न्तम्¦पु॒रु॒ऽस्पृह᳚म् | पव॑स्व¦सो॒म॒¦धार॑या || |
प्र सोमो॒, अति॒ धार॑या॒ पव॑मानो, असिष्यदत् |{आङ्गिरसो बिंदुः | पवमानः सोमः | गायत्री} अ॒भि द्रोणा᳚न्या॒सद᳚म् ||{4/6}{9.30.4}{9.2.6.4}{6.8.20.4}{238, 753, 7928} प्र¦सोमः॑¦अति॑¦धार॑या¦पव॑मानः¦अ॒सि॒स्य॒द॒त् | अ॒भि¦द्रोणा᳚नि¦आ॒ऽसद᳚म् || |
अ॒प्सु त्वा॒ मधु॑मत्तमं॒ हरिं᳚ हिन्व॒न्त्यद्रि॑भिः |{आङ्गिरसो बिंदुः | पवमानः सोमः | गायत्री} इन्द॒विन्द्रा᳚य पी॒तये᳚ ||{5/6}{9.30.5}{9.2.6.5}{6.8.20.5}{239, 753, 7929} अ॒प्ऽसु¦त्वा॒¦मधु॑मत्ऽतमम्¦हरि᳚म्¦हि॒न्व॒न्ति॒¦अद्रि॑ऽभिः | इन्दो॒ इति॑¦इन्द्रा᳚य¦पी॒तये᳚ || |
सु॒नोता॒ मधु॑मत्तमं॒ सोम॒मिन्द्रा᳚य व॒ज्रिणे᳚ |{आङ्गिरसो बिंदुः | पवमानः सोमः | गायत्री} चारुं॒ शर्धा᳚य मत्स॒रम् ||{6/6}{9.30.6}{9.2.6.6}{6.8.20.6}{240, 753, 7930} सु॒नोत॑¦मधु॑मत्ऽतमम्¦सोम᳚म्¦इन्द्रा᳚य¦व॒ज्रिणे᳚ | चारु᳚म्¦शर्धा᳚य¦म॒त्स॒रम् || |
[31] प्रसोमासइति षडृचस्य सूक्तस्य राहूगणोगोतमःपवमान सोमोगायत्री | |
प्र सोमा᳚सः स्वा॒ध्य१॑(अः॒) पव॑मानासो, अक्रमुः |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} र॒यिं कृ᳚ण्वन्ति॒ चेत॑नम् ||{1/6}{9.31.1}{9.2.7.1}{6.8.21.1}{241, 754, 7931} प्र¦सोमा᳚सः¦सु॒ऽआ॒ध्यः॑¦पव॑मानासः¦अ॒क्र॒मुः॒ | र॒यिम्¦कृ॒ण्व॒न्ति॒¦चेत॑नम् || |
दि॒वस्पृ॑थि॒व्या, अधि॒ भवे᳚न्दो द्युम्न॒वर्ध॑नः |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} भवा॒ वाजा᳚नां॒ पतिः॑ ||{2/6}{9.31.2}{9.2.7.2}{6.8.21.2}{242, 754, 7932} दि॒वः¦पृ॒थि॒व्याः¦अधि॑¦भव॑¦इ॒न्दो॒ इति॑¦द्यु॒म्न॒ऽवर्ध॑नः | भव॑¦वाजा᳚नाम्¦पतिः॑ || |
तुभ्यं॒ वाता᳚, अभि॒प्रिय॒स्तुभ्य॑मर्षन्ति॒ सिन्ध॑वः |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} सोम॒ वर्ध᳚न्ति ते॒ महः॑ ||{3/6}{9.31.3}{9.2.7.3}{6.8.21.3}{243, 754, 7933} तुभ्य᳚म्¦वाताः᳚¦अ॒भि॒ऽप्रियः॑¦तुभ्य᳚म्¦अ॒र्ष॒न्ति॒¦सिन्ध॑वः | सोम॑¦वर्ध᳚न्ति¦ते॒¦महः॑ || |
आ प्या᳚यस्व॒ समे᳚तु ते वि॒श्वतः॑ सोम॒ वृष्ण्य᳚म् |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} भवा॒ वाज॑स्य संग॒थे ||{4/6}{9.31.4}{9.2.7.4}{6.8.21.4}{244, 754, 7934} आ¦प्या॒य॒स्व॒¦सम्¦ए॒तु॒¦ते॒¦वि॒श्वतः॑¦सो॒म॒¦वृष्ण्य᳚म् | भव॑¦वाज॑स्य¦स॒म्ऽग॒थे || |
तुभ्यं॒ गावो᳚ घृ॒तं पयो॒ बभ्रो᳚ दुदु॒ह्रे, अक्षि॑तम् |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} वर्षि॑ष्ठे॒, अधि॒ सान॑वि ||{5/6}{9.31.5}{9.2.7.5}{6.8.21.5}{245, 754, 7935} तुभ्य᳚म्¦गावः॑¦घृ॒तम्¦पयः॑¦बभ्रो॒ इति॑¦दु॒दु॒ह्रे¦अक्षि॑तम् | वर्षि॑ष्ठे¦अधि॑¦सान॑वि || |
स्वा॒यु॒धस्य॑ ते स॒तो भुव॑नस्य पते व॒यम् |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} इन्दो᳚ सखि॒त्वमु॑श्मसि ||{6/6}{9.31.6}{9.2.7.6}{6.8.21.6}{246, 754, 7936} सु॒ऽआ॒यु॒धस्य॑¦ते॒¦स॒तः¦भुव॑नस्य¦प॒ते॒¦व॒यम् | इन्दो॒ इति॑¦स॒खि॒ऽत्वम्¦उ॒श्म॒सि॒ || |
[32] प्रसोमासइति षडृचस्य सूक्तस्यात्रेयः श्यावाश्वः पवमान सोमो गायत्री |
प्र सोमा᳚सो मद॒च्युतः॒ श्रव॑से नो म॒घोनः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} सु॒ता वि॒दथे᳚, अक्रमुः ||{1/6}{9.32.1}{9.2.8.1}{6.8.22.1}{247, 755, 7937} प्र¦सोमा᳚सः¦म॒द॒ऽच्युतः॑¦श्रव॑से¦नः॒¦म॒घोनः॑ | सु॒ताः¦वि॒दथे᳚¦अ॒क्र॒मुः॒ || |
आदीं᳚ त्रि॒तस्य॒ योष॑णो॒ हरिं᳚ हिन्व॒न्त्यद्रि॑भिः |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} इन्दु॒मिन्द्रा᳚य पी॒तये᳚ ||{2/6}{9.32.2}{9.2.8.2}{6.8.22.2}{248, 755, 7938} आत्¦ई॒म्¦त्रि॒तस्य॑¦योष॑णः¦हरि᳚म्¦हि॒न्व॒न्ति॒¦अद्रि॑ऽभिः | इन्दु᳚म्¦इन्द्रा᳚य¦पी॒तये᳚ || |
आदीं᳚ हं॒सो यथा᳚ ग॒णं विश्व॑स्यावीवशन्म॒तिम् |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} अत्यो॒ न गोभि॑रज्यते ||{3/6}{9.32.3}{9.2.8.3}{6.8.22.3}{249, 755, 7939} आत्¦ई॒म्¦हं॒सः¦यथा᳚¦ग॒णम्¦विश्व॑स्य¦अ॒वी॒व॒श॒त्¦म॒तिम् | अत्यः॑¦न¦गोभिः॑¦अ॒ज्य॒ते॒ || |
उ॒भे सो᳚माव॒चाक॑शन् मृ॒गो न त॒क्तो, अ॑र्षसि |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} सीद᳚न्नृ॒तस्य॒ योनि॒मा ||{4/6}{9.32.4}{9.2.8.4}{6.8.22.4}{250, 755, 7940} उ॒भे इति॑¦सो॒म॒¦अ॒व॒ऽचाक॑शत्¦मृ॒गः¦न¦त॒क्तः¦अ॒र्ष॒सि॒ | सीद॑न्¦ऋ॒तस्य॑¦योनि᳚म्¦आ || |
अ॒भि गावो᳚, अनूषत॒ योषा᳚ जा॒रमि॑व प्रि॒यम् |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} अग᳚न्ना॒जिं यथा᳚ हि॒तम् ||{5/6}{9.32.5}{9.2.8.5}{6.8.22.5}{251, 755, 7941} अ॒भि¦गावः॑¦अ॒नू॒ष॒त॒¦योषा᳚¦जा॒रम्ऽइ᳚व¦प्रि॒यम् | अग॑न्¦आ॒जिम्¦यथा᳚¦हि॒तम् || |
अ॒स्मे धे᳚हि द्यु॒मद् यशो᳚ म॒घव॑द्भ्यश्च॒ मह्यं᳚ च |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} स॒निं मे॒धामु॒त श्रवः॑ ||{6/6}{9.32.6}{9.2.8.6}{6.8.22.6}{252, 755, 7942} अ॒स्मे इति॑¦धे॒हि॒¦द्यु॒ऽमत्¦यशः॑¦म॒घव॑त्ऽभ्यः¦च॒¦मह्य᳚म्¦च॒ | स॒निम्¦मे॒धाम्¦उ॒त¦श्रवः॑ || |
[33] प्रसोमासइति षडृचस्य सूक्तस्याप्त्यस्त्रितः पवमान सोमोगायत्री | |
प्र सोमा᳚सो विप॒श्चितो॒ऽपां न य᳚न्त्यू॒र्मयः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} वना᳚नि महि॒षा, इ॑व ||{1/6}{9.33.1}{9.2.9.1}{6.8.23.1}{253, 756, 7943} प्र¦सोमा᳚सः¦वि॒पः॒ऽचितः॑¦अ॒पाम्¦न¦य॒न्ति॒¦ऊ॒र्मयः॑ | वना᳚नि¦म॒हि॒षाःऽइ᳚व || |
अ॒भि द्रोणा᳚नि ब॒भ्रवः॑ शु॒क्रा, ऋ॒तस्य॒ धार॑या |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} वाजं॒ गोम᳚न्तमक्षरन् ||{2/6}{9.33.2}{9.2.9.2}{6.8.23.2}{254, 756, 7944} अ॒भि¦द्रोणा᳚नि¦ब॒भ्रवः॑¦शु॒क्राः¦ऋ॒तस्य॑¦धार॑या | वाज᳚म्¦गोऽम᳚न्तम्¦अ॒क्ष॒र॒न् || |
सु॒ता, इन्द्रा᳚य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} सोमा᳚, अर्षन्ति॒ विष्ण॑वे ||{3/6}{9.33.3}{9.2.9.3}{6.8.23.3}{255, 756, 7945} सु॒ताः¦इन्द्रा᳚य¦वा॒यवे᳚¦वरु॑णाय¦म॒रुत्ऽभ्यः॑ | सोमाः᳚¦अ॒र्ष॒न्ति॒¦विष्ण॑वे || |
ति॒स्रो वाच॒ उदी᳚रते॒ गावो᳚ मिमन्ति धे॒नवः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} हरि॑रेति॒ कनि॑क्रदत् ||{4/6}{9.33.4}{9.2.9.4}{6.8.23.4}{256, 756, 7946} ति॒स्रः¦वाचः॑¦उत्¦ई॒र॒ते॒¦गावः॑¦मि॒म॒न्ति॒¦धे॒नवः॑ | हरिः॑¦ए॒ति॒¦कनि॑क्रदत् || |
अ॒भि ब्रह्मी᳚रनूषत य॒ह्वीरृ॒तस्य॑ मा॒तरः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} म॒र्मृ॒ज्यन्ते᳚ दि॒वः शिशु᳚म् ||{5/6}{9.33.5}{9.2.9.5}{6.8.23.5}{257, 756, 7947} अ॒भि¦ब्रह्मीः᳚¦अ॒नू॒ष॒त॒¦य॒ह्वीः¦ऋ॒तस्य॑¦मा॒तरः॑ | म॒र्मृ॒ज्यन्ते᳚¦दि॒वः¦शिशु᳚म् || |
रा॒यः स॑मु॒द्राँश्च॒तुरो॒ऽस्मभ्यं᳚ सोम वि॒श्वतः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} आ प॑वस्व सह॒स्रिणः॑ ||{6/6}{9.33.6}{9.2.9.6}{6.8.23.6}{258, 756, 7948} रा॒यः¦स॒मु॒द्रान्¦च॒तुरः॑¦अ॒स्मभ्य᳚म्¦सो॒म॒¦वि॒श्वतः॑ | आ¦प॒व॒स्व॒¦स॒ह॒स्रिणः॑ || |
[34] प्रसुवानइति षडृचस्य सूक्तस्याप्त्यस्त्रितः पवमान सोमोगायत्री | |
प्र सु॑वा॒नो धार॑या॒ तनेन्दु᳚र्हिन्वा॒नो, अ॑र्षति |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} रु॒जद्दृ॒ळ्हा व्योज॑सा ||{1/6}{9.34.1}{9.2.10.1}{6.8.24.1}{259, 757, 7949} प्र¦सु॒वा॒नः¦धार॑या¦तना᳚¦इन्दुः॑¦हि॒न्वा॒नः¦अ॒र्ष॒ति॒ | रु॒जत्¦दृ॒ळ्हा¦वि¦ओज॑सा || |
सु॒त इन्द्रा᳚य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} सोमो᳚, अर्षति॒ विष्ण॑वे ||{2/6}{9.34.2}{9.2.10.2}{6.8.24.2}{260, 757, 7950} सु॒तः¦इन्द्रा᳚य¦वा॒यवे᳚¦वरु॑णाय¦म॒रुत्ऽभ्यः॑ | सोमः॑¦अ॒र्ष॒ति॒¦विष्ण॑वे || |
वृषा᳚णं॒ वृष॑भिर्य॒तं सु॒न्वन्ति॒ सोम॒मद्रि॑भिः |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} दु॒हन्ति॒ शक्म॑ना॒ पयः॑ ||{3/6}{9.34.3}{9.2.10.3}{6.8.24.3}{261, 757, 7951} वृषा᳚णम्¦वृष॑ऽभिः¦य॒तम्¦सु॒न्वन्ति॑¦सोम᳚म्¦अद्रि॑ऽभिः | दु॒हन्ति॑¦शक्म॑ना¦पयः॑ || |
भुव॑त् त्रि॒तस्य॒ मर्ज्यो॒ भुव॒दिन्द्रा᳚य मत्स॒रः |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} सं रू॒पैर॑ज्यते॒ हरिः॑ ||{4/6}{9.34.4}{9.2.10.4}{6.8.24.4}{262, 757, 7952} भुव॑त्¦त्रि॒तस्य॑¦मर्ज्यः॑¦भुव॑त्¦इन्द्रा᳚य¦म॒त्स॒रः | सम्¦रू॒पैः¦अ॒ज्य॒ते॒¦हरिः॑ || |
अ॒भीमृ॒तस्य॑ वि॒ष्टपं᳚ दुह॒ते पृश्नि॑मातरः |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} चारु॑ प्रि॒यत॑मं ह॒विः ||{5/6}{9.34.5}{9.2.10.5}{6.8.24.5}{263, 757, 7953} अ॒भि¦ई॒म्¦ऋ॒तस्य॑¦वि॒ष्टप᳚म्¦दु॒ह॒ते¦पृश्नि॑ऽमातरः | चारु॑¦प्रि॒यऽत॑मम्¦ह॒विः || |
समे᳚न॒मह्रु॑ता, इ॒मा गिरो᳚, अर्षन्ति स॒स्रुतः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} धे॒नूर्वा॒श्रो, अ॑वीवशत् ||{6/6}{9.34.6}{9.2.10.6}{6.8.24.6}{264, 757, 7954} सम्¦ए॒न॒म्¦अह्रु॑ताः¦इ॒माः¦गिरः॑¦अ॒र्ष॒न्ति॒¦स॒ऽस्रुतः॑ | धे॒नूः¦वा॒श्रः¦अ॒वी॒व॒श॒त् || |
[35] आनःपवस्वेति षडृचस्य सूक्तस्यांगिरसःप्रभूवसुः पवमानसोमोगायत्री | |
आ नः॑ पवस्व॒ धार॑या॒ पव॑मान र॒यिं पृ॒थुम् |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} यया॒ ज्योति᳚र्वि॒दासि॑ नः ||{1/6}{9.35.1}{9.2.11.1}{6.8.25.1}{265, 758, 7955} आ¦नः॒¦प॒व॒स्व॒¦धार॑या¦पव॑मान¦र॒यिम्¦पृ॒थुम् | यया᳚¦ज्योतिः॑¦वि॒दासि॑¦नः॒ || |
इन्दो᳚ समुद्रमीङ्खय॒ पव॑स्व विश्वमेजय |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} रा॒यो ध॒र्ता न॒ ओज॑सा ||{2/6}{9.35.2}{9.2.11.2}{6.8.25.2}{266, 758, 7956} इन्दो॒ इति॑¦स॒मु॒द्र॒म्ऽई॒ङ्ख॒य॒¦पव॑स्व¦वि॒श्व॒म्ऽए॒ज॒य॒ | रा॒यः¦ध॒र्ता¦नः॒¦ओज॑सा || |
त्वया᳚ वी॒रेण॑ वीरवो॒ऽभि ष्या᳚म पृतन्य॒तः |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} क्षरा᳚ णो, अ॒भि वार्य᳚म् ||{3/6}{9.35.3}{9.2.11.3}{6.8.25.3}{267, 758, 7957} त्वया᳚¦वी॒रेण॑¦वी॒र॒ऽवः॒¦अ॒भि¦स्या॒म॒¦पृ॒त॒न्य॒तः | क्षर॑¦नः॒¦अ॒भि¦वार्य᳚म् || |
प्र वाज॒मिन्दु॑रिष्यति॒ सिषा᳚सन् वाज॒सा, ऋषिः॑ |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} व्र॒ता वि॑दा॒न आयु॑धा ||{4/6}{9.35.4}{9.2.11.4}{6.8.25.4}{268, 758, 7958} प्र¦वाज᳚म्¦इन्दुः॑¦इ॒ष्य॒ति॒¦सिसा᳚सन्¦वा॒ज॒ऽसाः¦ऋषिः॑ | व्र॒ता¦वि॒दा॒नः¦आयु॑धा || |
तं गी॒र्भिर्वा᳚चमीङ्ख॒यं पु॑ना॒नं वा᳚सयामसि |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} सोमं॒ जन॑स्य॒ गोप॑तिम् ||{5/6}{9.35.5}{9.2.11.5}{6.8.25.5}{269, 758, 7959} तम्¦गीः॒ऽभिः¦वा॒च॒म्ऽई॒ङ्ख॒यम्¦पु॒ना॒नम्¦वा॒स॒या॒म॒सि॒ | सोम᳚म्¦जन॑स्य¦गोऽप॑तिम् || |
विश्वो॒ यस्य᳚ व्र॒ते जनो᳚ दा॒धार॒ धर्म॑ण॒स्पतेः᳚ |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} पु॒ना॒नस्य॑ प्र॒भूव॑सोः ||{6/6}{9.35.6}{9.2.11.6}{6.8.25.6}{270, 758, 7960} विश्वः॑¦यस्य॑¦व्र॒ते¦जनः॑¦दा॒धार॑¦धर्म॑णः¦पतेः᳚ | पु॒ना॒नस्य॑¦प्र॒भुऽव॑सोः || |
[36] असर्जीति षडृचस्य सूक्तस्यांगिरसः प्रभूवसुः पवमानसोमोगायत्री | |
अस॑र्जि॒ रथ्यो᳚ यथा प॒वित्रे᳚ च॒म्वोः᳚ सु॒तः |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} कार्ष्म᳚न् वा॒जी न्य॑क्रमीत् ||{1/6}{9.36.1}{9.2.12.1}{6.8.26.1}{271, 759, 7961} अस॑र्जि¦रथ्यः॑¦य॒था॒¦प॒वित्रे᳚¦च॒म्वोः᳚¦सु॒तः | कार्ष्म॑न्¦वा॒जी¦नि¦अ॒क्र॒मी॒त् || |
स वह्निः॑ सोम॒ जागृ॑विः॒ पव॑स्व देव॒वीरति॑ |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} अ॒भि कोशं᳚ मधु॒श्चुत᳚म् ||{2/6}{9.36.2}{9.2.12.2}{6.8.26.2}{272, 759, 7962} सः¦वह्निः॑¦सो॒म॒¦जागृ॑विः¦पव॑स्व¦दे॒व॒ऽवीः¦अति॑ | अ॒भि¦कोश᳚म्¦म॒धु॒ऽश्चुत᳚म् || |
स नो॒ ज्योतीं᳚षि पूर्व्य॒ पव॑मान॒ वि रो᳚चय |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} क्रत्वे॒ दक्षा᳚य नो हिनु ||{3/6}{9.36.3}{9.2.12.3}{6.8.26.3}{273, 759, 7963} सः¦नः॒¦ज्योतीं᳚षि¦पू॒र्व्य॒¦पव॑मान¦वि¦रो॒च॒य॒ | क्रत्वे᳚¦दक्षा᳚य¦नः॒¦हि॒नु॒ || |
शु॒म्भमा᳚न ऋता॒युभि᳚र्मृ॒ज्यमा᳚नो॒ गभ॑स्त्योः |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} पव॑ते॒ वारे᳚, अ॒व्यये᳚ ||{4/6}{9.36.4}{9.2.12.4}{6.8.26.4}{274, 759, 7964} शु॒म्भमा᳚नः¦ऋ॒त॒युऽभिः॑¦मृ॒ज्यमा᳚नः¦गभ॑स्त्योः | पव॑ते¦वारे᳚¦अ॒व्यये᳚ || |
स विश्वा᳚ दा॒शुषे॒ वसु॒ सोमो᳚ दि॒व्यानि॒ पार्थि॑वा |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} पव॑ता॒मान्तरि॑क्ष्या ||{5/6}{9.36.5}{9.2.12.5}{6.8.26.5}{275, 759, 7965} सः¦विश्वा᳚¦दा॒शुषे᳚¦वसु॑¦सोमः॑¦दि॒व्यानि॑¦पार्थि॑वा | पव॑ताम्¦आ¦अ॒न्तरि॑क्ष्या || |
आ दि॒वस्पृ॒ष्ठम॑श्व॒युर्ग᳚व्य॒युः सो᳚म रोहसि |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} वी॒र॒युः श॑वसस्पते ||{6/6}{9.36.6}{9.2.12.6}{6.8.26.6}{276, 759, 7966} आ¦दि॒वः¦पृ॒ष्ठम्¦अ॒श्व॒ऽयुः¦ग॒व्य॒ऽयुः¦सो॒म॒¦रो॒ह॒सि॒ | वी॒र॒ऽयुः¦श॒व॒सः॒¦प॒ते॒ || |
[37] ससुतइति षडृचस्यसूक्तस्यांगिरसोरहूगणः पवमान सोमो गायत्री | |
स सु॒तः पी॒तये॒ वृषा॒ सोमः॑ प॒वित्रे᳚, अर्षति |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} वि॒घ्नन् रक्षां᳚सि देव॒युः ||{1/6}{9.37.1}{9.2.13.1}{6.8.27.1}{277, 760, 7967} सः¦सु॒तः¦पी॒तये᳚¦वृषा᳚¦सोमः॑¦प॒वित्रे᳚¦अ॒र्ष॒ति॒ | वि॒ऽघ्नन्¦रक्षां᳚सि¦दे॒व॒ऽयुः || |
स प॒वित्रे᳚ विचक्ष॒णो हरि॑रर्षति धर्ण॒सिः |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} अ॒भि योनिं॒ कनि॑क्रदत् ||{2/6}{9.37.2}{9.2.13.2}{6.8.27.2}{278, 760, 7968} सः¦प॒वित्रे᳚¦वि॒ऽच॒क्ष॒णः¦हरिः॑¦अ॒र्ष॒ति॒¦ध॒र्ण॒सिः | अ॒भि¦योनि᳚म्¦कनि॑क्रदत् || |
स वा॒जी रो᳚च॒ना दि॒वः पव॑मानो॒ वि धा᳚वति |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} र॒क्षो॒हा वार॑म॒व्यय᳚म् ||{3/6}{9.37.3}{9.2.13.3}{6.8.27.3}{279, 760, 7969} सः¦वा॒जी¦रो॒च॒ना¦दि॒वः¦पव॑मानः¦वि¦धा॒व॒ति॒ | र॒क्षः॒ऽहा¦वार᳚म्¦अ॒व्यय᳚म् || |
स त्रि॒तस्याधि॒ सान॑वि॒ पव॑मानो, अरोचयत् |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} जा॒मिभिः॒ सूर्यं᳚ स॒ह ||{4/6}{9.37.4}{9.2.13.4}{6.8.27.4}{280, 760, 7970} सः¦त्रि॒तस्य॑¦अधि॑¦सान॑वि¦पव॑मानः¦अ॒रो॒च॒य॒त् | जा॒मिऽभिः॑¦सूर्य᳚म्¦स॒ह || |
स वृ॑त्र॒हा वृषा᳚ सु॒तो व॑रिवो॒विददा᳚भ्यः |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} सोमो॒ वाज॑मिवासरत् ||{5/6}{9.37.5}{9.2.13.5}{6.8.27.5}{281, 760, 7971} सः¦वृ॒त्र॒ऽहा¦वृषा᳚¦सु॒तः¦व॒रि॒वः॒ऽवित्¦अदा᳚भ्यः | सोमः॑¦वाज᳚म्ऽइव¦अ॒स॒र॒त् || |
स दे॒वः क॒विने᳚षि॒तो॒३॑(ओ॒)ऽभि द्रोणा᳚नि धावति |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} इन्दु॒रिन्द्रा᳚य मं॒हना᳚ ||{6/6}{9.37.6}{9.2.13.6}{6.8.27.6}{282, 760, 7972} सः¦दे॒वः¦क॒विना᳚¦इ॒षि॒तः¦अ॒भि¦द्रोणा᳚नि¦धा॒व॒ति॒ | इन्दुः॑¦इन्द्रा᳚य¦मं॒हना᳚ || |
[38] एषउस्यइति षडृचस्य सूक्तस्यांगिरसोरहूगणः पवमान सोमोगायत्री | |
ए॒ष उ॒ स्य वृषा॒ रथोऽव्यो॒ वारे᳚भिरर्षति |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} गच्छ॒न् वाजं᳚ सह॒स्रिण᳚म् ||{1/6}{9.38.1}{9.2.14.1}{6.8.28.1}{283, 761, 7973} ए॒षः¦ऊँ॒ इति॑¦स्यः¦वृषा᳚¦रथः॑¦अव्यः॑¦वारे᳚भिः¦अ॒र्ष॒ति॒ | गच्छ॑न्¦वाज᳚म्¦स॒ह॒स्रिण᳚म् || |
ए॒तं त्रि॒तस्य॒ योष॑णो॒ हरिं᳚ हिन्व॒न्त्यद्रि॑भिः |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} इन्दु॒मिन्द्रा᳚य पी॒तये᳚ ||{2/6}{9.38.2}{9.2.14.2}{6.8.28.2}{284, 761, 7974} ए॒तम्¦त्रि॒तस्य॑¦योष॑णः¦हरि᳚म्¦हि॒न्व॒न्ति॒¦अद्रि॑ऽभिः | इन्दु᳚म्¦इन्द्रा᳚य¦पी॒तये᳚ || |
ए॒तं त्यं ह॒रितो॒ दश॑ मर्मृ॒ज्यन्ते᳚, अप॒स्युवः॑ |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} याभि॒र्मदा᳚य॒ शुम्भ॑ते ||{3/6}{9.38.3}{9.2.14.3}{6.8.28.3}{285, 761, 7975} ए॒तम्¦त्यम्¦ह॒रितः॑¦दश॑¦म॒र्मृ॒ज्यन्ते᳚¦अ॒प॒स्युवः॑ | याभिः॑¦मदा᳚य¦शुम्भ॑ते || |
ए॒ष स्य मानु॑षी॒ष्वा श्ये॒नो न वि॒क्षु सी᳚दति |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} गच्छ᳚ञ्जा॒रो न यो॒षित᳚म् ||{4/6}{9.38.4}{9.2.14.4}{6.8.28.4}{286, 761, 7976} ए॒षः¦स्यः¦मानु॑षीषु¦आ¦श्ये॒नः¦न¦वि॒क्षु¦सी॒द॒ति॒ | गच्छ॑न्¦जा॒रः¦न¦यो॒षित᳚म् || |
ए॒ष स्य मद्यो॒ रसोऽव॑ चष्टे दि॒वः शिशुः॑ |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} य इन्दु॒र्वार॒मावि॑शत् ||{5/6}{9.38.5}{9.2.14.5}{6.8.28.5}{287, 761, 7977} ए॒षः¦स्यः¦मद्यः॑¦रसः॑¦अव॑¦च॒ष्टे॒¦दि॒वः¦शिशुः॑ | यः¦इन्दुः॑¦वार᳚म्¦आ¦अवि॑शत् || |
ए॒ष स्य पी॒तये᳚ सु॒तो हरि॑रर्षति धर्ण॒सिः |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} क्रन्द॒न् योनि॑म॒भि प्रि॒यम् ||{6/6}{9.38.6}{9.2.14.6}{6.8.28.6}{288, 761, 7978} ए॒षः¦स्यः¦पी॒तये᳚¦सु॒तः¦हरिः॑¦अ॒र्ष॒ति॒¦ध॒र्ण॒सिः | क्रन्द॑न्¦योनि᳚म्¦अ॒भि¦प्रि॒यम् || |
[39] आशुरर्षेति षडृचस्य सूक्तस्यांगिरसो बृहन्मतिः पवमानसोमोगायत्री | |
आ॒शुर॑र्ष बृहन्मते॒ परि॑ प्रि॒येण॒ धाम्ना᳚ |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} यत्र॑ दे॒वा, इति॒ ब्रव॑न् ||{1/6}{9.39.1}{9.2.15.1}{6.8.29.1}{289, 762, 7979} आ॒शुः¦अ॒र्ष॒¦बृ॒ह॒त्ऽम॒ते॒¦परि॑¦प्रि॒येण॑¦धाम्ना᳚ | यत्र॑¦दे॒वाः¦इति॑¦ब्रव॑न् || |
प॒रि॒ष्कृ॒ण्वन्ननि॑ष्कृतं॒ जना᳚य या॒तय॒न्निषः॑ |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} वृ॒ष्टिं दि॒वः परि॑ स्रव ||{2/6}{9.39.2}{9.2.15.2}{6.8.29.2}{290, 762, 7980} प॒रि॒ऽकृ॒ण्वन्¦अनिः॑ऽकृतम्¦जना᳚य¦या॒तय॑न्¦इषः॑ | वृ॒ष्टिम्¦दि॒वः¦परि॑¦स्र॒व॒ || |
सु॒त ए᳚ति प॒वित्र॒ आ त्विषिं॒ दधा᳚न॒ ओज॑सा |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} वि॒चक्षा᳚णो विरो॒चय॑न् ||{3/6}{9.39.3}{9.2.15.3}{6.8.29.3}{291, 762, 7981} सु॒तः¦ए॒ति॒¦प॒वित्रे᳚¦आ¦त्विषि᳚म्¦दधा᳚नः¦ओज॑सा | वि॒ऽचक्षा᳚णः¦वि॒ऽरो॒चय॑न् || |
अ॒यं स यो दि॒वस्परि॑ रघु॒यामा᳚ प॒वित्र॒ आ |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} सिन्धो᳚रू॒र्मा व्यक्ष॑रत् ||{4/6}{9.39.4}{9.2.15.4}{6.8.29.4}{292, 762, 7982} अ॒यम्¦सः¦यः¦दि॒वः¦परि॑¦र॒घु॒ऽयामा᳚¦प॒वित्रे᳚¦आ | सिन्धोः᳚¦ऊ॒र्मा¦वि¦अक्ष॑रत् || |
आ॒विवा᳚सन् परा॒वतो॒, अथो᳚, अर्वा॒वतः॑ सु॒तः |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} इन्द्रा᳚य सिच्यते॒ मधु॑ ||{5/6}{9.39.5}{9.2.15.5}{6.8.29.5}{293, 762, 7983} आ॒ऽविवा᳚सन्¦प॒रा॒ऽवतः॑¦अथो॒ इति॑¦अ॒र्वा॒ऽवतः॑¦सु॒तः | इन्द्रा᳚य¦सि॒च्य॒ते॒¦मधु॑ || |
स॒मी॒ची॒ना, अ॑नूषत॒ हरिं᳚ हिन्व॒न्त्यद्रि॑भिः |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} योना᳚वृ॒तस्य॑ सीदत ||{6/6}{9.39.6}{9.2.15.6}{6.8.29.6}{294, 762, 7984} स॒म्ऽई॒ची॒नाः¦अ॒नू॒ष॒त॒¦हरि᳚म्¦हि॒न्व॒न्ति॒¦अद्रि॑ऽभिः | योनौ᳚¦ऋ॒तस्य॑¦सी॒द॒त॒ || |
[40] पुनानइति षडृचस्य सूक्तस्यांगिरसो बृहन्मतिः पवमानसोमोगायत्री | |
पु॒ना॒नो, अ॑क्रमीद॒भि विश्वा॒ मृधो॒ विच॑र्षणिः |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} शु॒म्भन्ति॒ विप्रं᳚ धी॒तिभिः॑ ||{1/6}{9.40.1}{9.2.16.1}{6.8.30.1}{295, 763, 7985} पु॒ना॒नः¦अ॒क्र॒मी॒त्¦अ॒भि¦विश्वाः᳚¦मृधः॑¦विऽच॑र्षणिः | शु॒म्भन्ति॑¦विप्र᳚म्¦धी॒तिऽभिः॑ || |
आ योनि॑मरु॒णो रु॑ह॒द्गम॒दिन्द्रं॒ वृषा᳚ सु॒तः |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} ध्रु॒वे सद॑सि सीदति ||{2/6}{9.40.2}{9.2.16.2}{6.8.30.2}{296, 763, 7986} आ¦योनि᳚म्¦अ॒रु॒णः¦रु॒ह॒त्¦गम॑त्¦इन्द्र᳚म्¦वृषा᳚¦सु॒तः | ध्रु॒वे¦सद॑सि¦सी॒द॒ति॒ || |
नू नो᳚ र॒यिं म॒हामि᳚न्दो॒ऽस्मभ्यं᳚ सोम वि॒श्वतः॑ |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} आ प॑वस्व सह॒स्रिण᳚म् ||{3/6}{9.40.3}{9.2.16.3}{6.8.30.3}{297, 763, 7987} नु¦नः॒¦र॒यिम्¦म॒हाम्¦इ॒न्दो॒ इति॑¦अ॒स्मभ्य᳚म्¦सो॒म॒¦वि॒श्वतः॑ | आ¦प॒व॒स्व॒¦स॒ह॒स्रिण᳚म् || |
विश्वा᳚ सोम पवमान द्यु॒म्नानी᳚न्द॒वा भ॑र |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} वि॒दाः स॑ह॒स्रिणी॒रिषः॑ ||{4/6}{9.40.4}{9.2.16.4}{6.8.30.4}{298, 763, 7988} विश्वा᳚¦सो॒म॒¦प॒व॒मा॒न॒¦द्यु॒म्नानि॑¦इ॒न्दो॒ इति॑¦आ¦भ॒र॒ | वि॒दाः¦स॒ह॒स्रिणीः᳚¦इषः॑ || |
स नः॑ पुना॒न आ भ॑र र॒यिं स्तो॒त्रे सु॒वीर्य᳚म् |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} ज॒रि॒तुर्व॑र्धया॒ गिरः॑ ||{5/6}{9.40.5}{9.2.16.5}{6.8.30.5}{299, 763, 7989} सः¦नः॒¦पु॒ना॒नः¦आ¦भ॒र॒¦र॒यिम्¦स्तो॒त्रे¦सु॒ऽवीर्य᳚म् | ज॒रि॒तुः¦व॒र्ध॒य॒¦गिरः॑ || |
पु॒ना॒न इ᳚न्द॒वा भ॑र॒ सोम॑ द्वि॒बर्ह॑सं र॒यिम् |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} वृष᳚न्निन्दो न उ॒क्थ्य᳚म् ||{6/6}{9.40.6}{9.2.16.6}{6.8.30.6}{300, 763, 7990} पु॒ना॒नः¦इ॒न्दो॒ इति॑¦आ¦भ॒र॒¦सोम॑¦द्वि॒ऽबर्ह॑सम्¦र॒यिम् | वृष॑न्¦इ॒न्दो॒ इति॑¦नः॒¦उ॒क्थ्य᳚म् || |
[41] प्रयेगावइतिषडृचस्य सूक्तस्यकाण्वोमेध्यातिथिः पवमानसोमो गायत्री | |
प्र ये गावो॒ न भूर्ण॑यस्त्वे॒षा, अ॒यासो॒, अक्र॑मुः |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} घ्नन्तः॑ कृ॒ष्णामप॒ त्वच᳚म् ||{1/6}{9.41.1}{9.2.17.1}{6.8.31.1}{301, 764, 7991} प्र¦ये¦गावः॑¦न¦भूर्ण॑यः¦त्वे॒षाः¦अ॒यासः॑¦अक्र॑मुः | घ्नन्तः॑¦कृ॒ष्णाम्¦अप॑¦त्वच᳚म् || |
सु॒वि॒तस्य॑ मनाम॒हेऽति॒ सेतुं᳚ दुरा॒व्य᳚म् |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} सा॒ह्वांसो॒ दस्यु॑मव्र॒तम् ||{2/6}{9.41.2}{9.2.17.2}{6.8.31.2}{302, 764, 7992} सु॒वि॒तस्य॑¦म॒ना॒म॒हे॒¦अति॑¦सेतु᳚म्¦दुः॒ऽआ॒व्य᳚म् | स॒ह्वांसः॑¦दस्यु᳚म्¦अ॒व्र॒तम् || |
शृ॒ण्वे वृ॒ष्टेरि॑व स्व॒नः पव॑मानस्य शु॒ष्मिणः॑ |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} चर᳚न्ति वि॒द्युतो᳚ दि॒वि ||{3/6}{9.41.3}{9.2.17.3}{6.8.31.3}{303, 764, 7993} शृ॒ण्वे¦वृ॒ष्टेःऽइ᳚व¦स्व॒नः¦पव॑मानस्य¦शु॒ष्मिणः॑ | चर᳚न्ति¦वि॒ऽद्युतः॑¦दि॒वि || |
आ प॑वस्व म॒हीमिषं॒ गोम॑दिन्दो॒ हिर᳚ण्यवत् |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} अश्वा᳚व॒द् वाज॑वत् सु॒तः ||{4/6}{9.41.4}{9.2.17.4}{6.8.31.4}{304, 764, 7994} आ¦प॒व॒स्व॒¦म॒हीम्¦इष᳚म्¦गोऽम॑त्¦इ॒न्दो॒ इति॑¦हिर᳚ण्यऽवत् | अश्व॑ऽवत्¦वाज॑ऽवत्¦सु॒तः || |
स प॑वस्व विचर्षण॒ आ म॒ही रोद॑सी पृण |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} उ॒षाः सूर्यो॒ न र॒श्मिभिः॑ ||{5/6}{9.41.5}{9.2.17.5}{6.8.31.5}{305, 764, 7995} सः¦प॒व॒स्व॒¦वि॒ऽच॒र्ष॒णे॒¦आ¦मा॒ही इति॑¦रोद॑सी॒ इति॑¦पृ॒ण॒ | उ॒षाः¦सूर्यः॑¦न¦र॒श्मिऽभिः॑ || |
परि॑ णः शर्म॒यन्त्या॒ धार॑या सोम वि॒श्वतः॑ |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} सरा᳚ र॒सेव॑ वि॒ष्टप᳚म् ||{6/6}{9.41.6}{9.2.17.6}{6.8.31.6}{306, 764, 7996} परि॑¦नः॒¦श॒र्म॒ऽयन्त्या᳚¦धार॑या¦सो॒म॒¦वि॒श्वतः॑ | सर॑¦र॒साऽइ᳚व¦वि॒ष्टप᳚म् || |
[42] जनयन्नितिषडृचस्य सूक्तस्यकाण्वोमेध्यातिथिः पवमानसोमो गायत्री | |
ज॒नय᳚न् रोच॒ना दि॒वो ज॒नय᳚न्न॒प्सु सूर्य᳚म् |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} वसा᳚नो॒ गा, अ॒पो हरिः॑ ||{1/6}{9.42.1}{9.2.18.1}{6.8.32.1}{307, 765, 7997} ज॒नय॑न्¦रो॒च॒ना¦दि॒वः¦ज॒नय॑न्¦अ॒प्ऽसु¦सूर्य᳚म् | वसा᳚नः¦गाः¦अ॒पः¦हरिः॑ || |
ए॒ष प्र॒त्नेन॒ मन्म॑ना दे॒वो दे॒वेभ्य॒स्परि॑ |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} धार॑या पवते सु॒तः ||{2/6}{9.42.2}{9.2.18.2}{6.8.32.2}{308, 765, 7998} ए॒षः¦प्र॒त्नेन॑¦मन्म॑ना¦दे॒वः¦दे॒वेभ्यः॑¦परि॑ | धार॑या¦प॒व॒ते॒¦सु॒तः || |
वा॒वृ॒धा॒नाय॒ तूर्व॑ये॒ पव᳚न्ते॒ वाज॑सातये |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} सोमाः᳚ स॒हस्र॑पाजसः ||{3/6}{9.42.3}{9.2.18.3}{6.8.32.3}{309, 765, 7999} व॒वृ॒धा॒नाय॑¦तूर्व॑ये¦पव᳚न्ते¦वाज॑ऽसातये | सोमाः᳚¦स॒हस्र॑ऽपाजसः || |
दु॒हा॒नः प्र॒त्नमित् पयः॑ प॒वित्रे॒ परि॑ षिच्यते |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} क्रन्द᳚न् दे॒वाँ, अ॑जीजनत् ||{4/6}{9.42.4}{9.2.18.4}{6.8.32.4}{310, 765, 8000} दु॒हा॒नः¦प्र॒त्नम्¦इत्¦पयः॑¦प॒वित्रे᳚¦परि॑¦सि॒च्य॒ते॒ | क्रन्द॑न्¦दे॒वान्¦अ॒जी॒ज॒न॒त् || |
अ॒भि विश्वा᳚नि॒ वार्या॒भि दे॒वाँ, ऋ॑ता॒वृधः॑ |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} सोमः॑ पुना॒नो, अ॑र्षति ||{5/6}{9.42.5}{9.2.18.5}{6.8.32.5}{311, 765, 8001} अ॒भि¦विश्वा᳚नि¦वार्या᳚¦अ॒भि¦दे॒वान्¦ऋ॒त॒ऽवृधः॑ | सोमः॑¦पु॒ना॒नः¦अ॒र्ष॒ति॒ || |
गोम᳚न्नः सोम वी॒रव॒दश्वा᳚व॒द् वाज॑वत् सु॒तः |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} पव॑स्व बृह॒तीरिषः॑ ||{6/6}{9.42.6}{9.2.18.6}{6.8.32.6}{312, 765, 8002} गोऽम॑त्¦नः॒¦सो॒म॒¦वी॒रऽव॑त्¦अश्व॑ऽवत्¦वाज॑ऽवत्¦सु॒तः | पव॑स्व¦बृ॒ह॒तीः¦इषः॑ || |
[43] योअत्यइवेतिषडृचस्य सूक्तस्यकाण्वोमेध्यातिथिः पवमानसोमो गायत्री | |
यो, अत्य॑ इव मृ॒ज्यते॒ गोभि॒र्मदा᳚य हर्य॒तः |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} तं गी॒र्भिर्वा᳚सयामसि ||{1/6}{9.43.1}{9.2.19.1}{6.8.33.1}{313, 766, 8003} यः¦अत्यः॑ऽइव¦मृ॒ज्यते᳚¦गोभिः॑¦मदा᳚य¦ह॒र्य॒तः | तम्¦गीः॒ऽभिः¦वा॒स॒या॒म॒सि॒ || |
तं नो॒ विश्वा᳚, अव॒स्युवो॒ गिरः॑ शुम्भन्ति पू॒र्वथा᳚ |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} इन्दु॒मिन्द्रा᳚य पी॒तये᳚ ||{2/6}{9.43.2}{9.2.19.2}{6.8.33.2}{314, 766, 8004} तम्¦नः॒¦विश्वाः᳚¦अ॒व॒स्युवः॑¦गिरः॑¦शु॒म्भ॒न्ति॒¦पू॒र्वऽथा᳚ | इन्दु᳚म्¦इन्द्रा᳚य¦पी॒तये᳚ || |
पु॒ना॒नो या᳚ति हर्य॒तः सोमो᳚ गी॒र्भिः परि॑ष्कृतः |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} विप्र॑स्य॒ मेध्या᳚तिथेः ||{3/6}{9.43.3}{9.2.19.3}{6.8.33.3}{315, 766, 8005} पु॒ना॒नः¦या॒ति॒¦ह॒र्य॒तः¦सोमः॑¦गीः॒ऽभिः¦परि॑ऽकृतः | विप्र॑स्य¦मेध्य॑।आतिथेः || |
पव॑मान वि॒दा र॒यिम॒स्मभ्यं᳚ सोम सु॒श्रिय᳚म् |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} इन्दो᳚ स॒हस्र॑वर्चसम् ||{4/6}{9.43.4}{9.2.19.4}{6.8.33.4}{316, 766, 8006} पव॑मान¦वि॒दाः¦र॒यिम्¦अ॒स्मभ्य᳚म्¦सो॒म॒¦सु॒ऽश्रिय᳚म् | इन्दो॒ इति॑¦स॒हस्र॑ऽवर्चसम् || |
इन्दु॒रत्यो॒ न वा᳚ज॒सृत् कनि॑क्रन्ति प॒वित्र॒ आ |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} यदक्षा॒रति॑ देव॒युः ||{5/6}{9.43.5}{9.2.19.5}{6.8.33.5}{317, 766, 8007} इन्दुः॑¦अत्यः॑¦न¦वा॒ज॒ऽसृत्¦कनि॑क्रन्ति¦प॒वित्रे᳚¦आ | यत्¦अक्षाः᳚¦अति॑¦दे॒व॒ऽयुः || |
पव॑स्व॒ वाज॑सातये॒ विप्र॑स्य गृण॒तो वृ॒धे |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} सोम॒ रास्व॑ सु॒वीर्य᳚म् ||{6/6}{9.43.6}{9.2.19.6}{6.8.33.6}{318, 766, 8008} पव॑स्व¦वाज॑ऽसातये¦विप्र॑स्य¦गृ॒ण॒तः¦वृ॒धे | सोम॑¦रास्व॑¦सु॒ऽवीर्य᳚म् || |
[44] प्रणइंदविति षडृचस्य सूक्तस्यांगिरसोयास्यः पवमानसोमो गायत्री | (पवमान पारायण तृतीयोध्यायः) |
प्र ण॑ इन्दो म॒हे तन॑ ऊ॒र्मिं न बिभ्र॑दर्षसि |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} अ॒भि दे॒वाँ, अ॒यास्यः॑ ||{1/6}{9.44.1}{9.2.20.1}{7.1.1.1}{319, 767, 8009} प्र¦नः॒¦इ॒न्दो॒ इति॑¦म॒हे¦तने᳚¦ऊ॒र्मिम्¦न¦बिभ्र॑त्¦अ॒र्ष॒सि॒ | अ॒भि¦दे॒वान्¦अ॒यास्यः॑ || |
म॒ती जु॒ष्टो धि॒या हि॒तः सोमो᳚ हिन्वे परा॒वति॑ |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} विप्र॑स्य॒ धार॑या क॒विः ||{2/6}{9.44.2}{9.2.20.2}{7.1.1.2}{320, 767, 8010} म॒ती¦जु॒ष्टः¦धि॒या¦हि॒तः¦सोमः॑¦हि॒न्वे॒¦प॒रा॒ऽवति॑ | विप्र॑स्य¦धार॑या¦क॒विः || |
अ॒यं दे॒वेषु॒ जागृ॑विः सु॒त ए᳚ति प॒वित्र॒ आ |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} सोमो᳚ याति॒ विच॑र्षणिः ||{3/6}{9.44.3}{9.2.20.3}{7.1.1.3}{321, 767, 8011} अ॒यम्¦दे॒वेषु॑¦जागृ॑विः¦सु॒तः¦ए॒ति॒¦प॒वित्रे᳚¦आ | सोमः॑¦या॒ति॒¦विऽच॑र्षणिः || |
स नः॑ पवस्व वाज॒युश्च॑क्रा॒णश् चारु॑मध्व॒रम् |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} ब॒र्हिष्माँ॒, आ वि॑वासति ||{4/6}{9.44.4}{9.2.20.4}{7.1.1.4}{322, 767, 8012} सः¦नः॒¦प॒व॒स्व॒¦वा॒ज॒ऽयुः¦च॒क्रा॒णः¦चारु᳚म्¦अ॒ध्व॒रम् | ब॒र्हिष्मा᳚न्¦आ¦वि॒वा॒स॒ति॒ || |
स नो॒ भगा᳚य वा॒यवे॒ विप्र॑वीरः स॒दावृ॑धः |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} सोमो᳚ दे॒वेष्वा य॑मत् ||{5/6}{9.44.5}{9.2.20.5}{7.1.1.5}{323, 767, 8013} सः¦नः॒¦भगा᳚य¦वा॒यवे᳚¦विप्र॑ऽवीरः¦स॒दाऽवृ॑धः | सोमः॑¦दे॒वेषु॑¦आ¦य॒म॒त् || |
स नो᳚, अ॒द्य वसु॑त्तये क्रतु॒विद् गा᳚तु॒वित्त॑मः |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} वाजं᳚ जेषि॒ श्रवो᳚ बृ॒हत् ||{6/6}{9.44.6}{9.2.20.6}{7.1.1.6}{324, 767, 8014} सः¦नः॒¦अ॒द्य¦वसु॑त्तये¦क्र॒तु॒ऽवित्¦गा॒तु॒वित्ऽत॑मः | वाज᳚म्¦जे॒षि॒¦श्रवः॑¦बृ॒हत् || |
[45] स पवस्वेति षडृचस्य सूक्तस्यांगिरसोयास्यः पवमानसोमो गायत्री | |
स प॑वस्व॒ मदा᳚य॒ कं नृ॒चक्षा᳚ दे॒ववी᳚तये |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} इन्द॒विन्द्रा᳚य पी॒तये᳚ ||{1/6}{9.45.1}{9.2.21.1}{7.1.2.1}{325, 768, 8015} सः¦प॒व॒स्व॒¦मदा᳚य¦कम्¦नृ॒ऽचक्षाः᳚¦दे॒वऽवी᳚तये | इन्दो॒ इति॑¦इन्द्रा᳚य¦पी॒तये᳚ || |
स नो᳚, अर्षा॒भि दू॒त्य१॑(अं॒) त्वमिन्द्रा᳚य तोशसे |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} दे॒वान् त्सखि॑भ्य॒ आ वर᳚म् ||{2/6}{9.45.2}{9.2.21.2}{7.1.2.2}{326, 768, 8016} सः¦नः॒¦अ॒र्ष॒¦अ॒भि¦दू॒त्य᳚म्¦त्वम्¦इन्द्रा᳚य¦तो॒श॒से॒ | दे॒वान्¦सखि॑ऽभ्यः¦आ¦वर᳚म् || |
उ॒त त्वाम॑रु॒णं व॒यं गोभि॑रञ्ज्मो॒ मदा᳚य॒ कम् |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} वि नो᳚ रा॒ये दुरो᳚ वृधि ||{3/6}{9.45.3}{9.2.21.3}{7.1.2.3}{327, 768, 8017} उ॒त¦त्वाम्¦अ॒रु॒णम्¦व॒यम्¦गोभिः॑¦अं॒ज्मः॒¦मदा᳚य¦कम् | वि¦नः॒¦रा॒ये¦दुरः॑¦वृ॒धि॒ || |
अत्यू᳚ प॒वित्र॑मक्रमीद् वा॒जी धुरं॒ न याम॑नि |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} इन्दु॑र्दे॒वेषु॑ पत्यते ||{4/6}{9.45.4}{9.2.21.4}{7.1.2.4}{328, 768, 8018} अति॑¦ऊँ॒ इति॑¦प॒वित्र᳚म्¦अ॒क्र॒मी॒त्¦वा॒जी¦धुर᳚म्¦न¦याम॑नि | इन्दुः॑¦दे॒वेषु॑¦प॒त्य॒ते॒ || |
समी॒ सखा᳚यो, अस्वर॒न् वने॒ क्रीळ᳚न्त॒मत्य॑विम् |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} इन्दुं᳚ ना॒वा, अ॑नूषत ||{5/6}{9.45.5}{9.2.21.5}{7.1.2.5}{329, 768, 8019} सम्¦ई॒मिति॑¦सखा᳚यः¦अ॒स्व॒र॒न्¦वने᳚¦क्रीळ᳚न्तम्¦अति॑।आविम् | इन्दु᳚म्¦ना॒वाः¦अ॒नू॒ष॒त॒ || |
तया᳚ पवस्व॒ धार॑या॒ यया᳚ पी॒तो वि॒चक्ष॑से |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} इन्दो᳚ स्तो॒त्रे सु॒वीर्य᳚म् ||{6/6}{9.45.6}{9.2.21.6}{7.1.2.6}{330, 768, 8020} तया᳚¦प॒व॒स्व॒¦धार॑या¦यया᳚¦पी॒तः¦वि॒ऽचक्ष॑से | इन्दो॒ इति॑¦स्तो॒त्रे¦सु॒ऽवीर्य᳚म् || |
[46] असृग्रनिति षडृचस्य सूक्तस्यांगिरसोयास्यः पवमानसोमो गायत्री | |
असृ॑ग्रन् दे॒ववी᳚त॒येऽत्या᳚सः॒ कृत्व्या᳚, इव |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} क्षर᳚न्तः पर्वता॒वृधः॑ ||{1/6}{9.46.1}{9.2.22.1}{7.1.3.1}{331, 769, 8021} असृ॑ग्रन्¦दे॒वऽवी᳚तये¦अत्या᳚सः¦कृत्व्याः᳚ऽइव | क्षर᳚न्तः¦प॒र्व॒त॒ऽवृधः॑ || |
परि॑ष्कृतास॒ इन्द॑वो॒ योषे᳚व॒ पित्र्या᳚वती |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} वा॒युं सोमा᳚, असृक्षत ||{2/6}{9.46.2}{9.2.22.2}{7.1.3.2}{332, 769, 8022} परि॑ऽकृतासः¦इन्द॑वः¦योषा᳚ऽइव¦पित्र्य॑ऽवती | वा॒युम्¦सोमाः᳚¦अ॒सृ॒क्ष॒त॒ || |
ए॒ते सोमा᳚स॒ इन्द॑वः॒ प्रय॑स्वन्तश्च॒मू सु॒ताः |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} इन्द्रं᳚ वर्धन्ति॒ कर्म॑भिः ||{3/6}{9.46.3}{9.2.22.3}{7.1.3.3}{333, 769, 8023} ए॒ते¦सोमा᳚सः¦इन्द॑वः¦प्रय॑स्वन्तः¦च॒मू इति॑¦सु॒ताः | इन्द्र᳚म्¦व॒र्ध॒न्ति॒¦कर्म॑ऽभिः || |
आ धा᳚वता सुहस्त्यः शु॒क्रा गृ॑भ्णीत म॒न्थिना᳚ |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} गोभिः॑ श्रीणीत मत्स॒रम् ||{4/6}{9.46.4}{9.2.22.4}{7.1.3.4}{334, 769, 8024} आ¦धा॒व॒त॒¦सु॒ऽह॒स्त्यः॒¦शु॒क्रा¦गृ॒भ्णी॒त॒¦म॒न्थिना᳚ | गोभिः॑¦श्री॒णी॒त॒¦म॒त्स॒रम् || |
स प॑वस्व धनंजय प्रय॒न्ता राध॑सो म॒हः |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} अ॒स्मभ्यं᳚ सोम गातु॒वित् ||{5/6}{9.46.5}{9.2.22.5}{7.1.3.5}{335, 769, 8025} सः¦प॒व॒स्व॒¦ध॒न॒म्ऽज॒य॒¦प्र॒ऽय॒न्ता¦राध॑सः¦म॒हः | अ॒स्मभ्य᳚म्¦सो॒म॒¦गा॒तु॒ऽवित् || |
ए॒तं मृ॑जन्ति॒ मर्ज्यं॒ पव॑मानं॒ दश॒ क्षिपः॑ |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} इन्द्रा᳚य मत्स॒रं मद᳚म् ||{6/6}{9.46.6}{9.2.22.6}{7.1.3.6}{336, 769, 8026} ए॒तम्¦मृ॒ज॒न्ति॒¦मर्ज्य᳚म्¦पव॑मानम्¦दश॑¦क्षिपः॑ | इन्द्रा᳚य¦म॒त्स॒रम्¦मद᳚म् || |
[47] अयासोमइति पञ्चर्चस्य सूक्तस्य भार्गवःकविः पवमानसोमो गायत्री |
अ॒या सोमः॑ सुकृ॒त्यया᳚ म॒हश्चि॑द॒भ्य॑वर्धत |{भार्गवः कविः | पवमानः सोमः | गायत्री} म॒न्दा॒न उद् वृ॑षायते ||{1/5}{9.47.1}{9.2.23.1}{7.1.4.1}{337, 770, 8027} अ॒या¦सोमः॑¦सु॒ऽकृ॒त्यया᳚¦म॒हः¦चि॒त्¦अ॒भि¦अ॒व॒र्ध॒त॒ | म॒न्दा॒नः¦उत्¦वृ॒ष॒ऽय॒ते॒ || |
कृ॒तानीद॑स्य॒ कर्त्वा॒ चेत᳚न्ते दस्यु॒तर्ह॑णा |{भार्गवः कविः | पवमानः सोमः | गायत्री} ऋ॒णा च॑ धृ॒ष्णुश्च॑यते ||{2/5}{9.47.2}{9.2.23.2}{7.1.4.2}{338, 770, 8028} कृ॒तानि॑¦इत्¦अ॒स्य॒¦कर्त्वा᳚¦चेत᳚न्ते¦द॒स्यु॒ऽतर्ह॑णा | ऋ॒णा¦च॒¦धृ॒ष्णुः¦च॒य॒ते॒ || |
आत् सोम॑ इन्द्रि॒यो रसो॒ वज्रः॑ सहस्र॒सा भु॑वत् |{भार्गवः कविः | पवमानः सोमः | गायत्री} उ॒क्थं यद॑स्य॒ जाय॑ते ||{3/5}{9.47.3}{9.2.23.3}{7.1.4.3}{339, 770, 8029} आत्¦सोमः॑¦इ॒न्द्रि॒यः¦रसः॑¦वज्रः॑¦स॒ह॒स्र॒ऽसाः¦भु॒व॒त् | उ॒क्थम्¦यत्¦अ॒स्य॒¦जाय॑ते || |
स्व॒यं क॒विर्वि॑ध॒र्तरि॒ विप्रा᳚य॒ रत्न॑मिच्छति |{भार्गवः कविः | पवमानः सोमः | गायत्री} यदी᳚ मर्मृ॒ज्यते॒ धियः॑ ||{4/5}{9.47.4}{9.2.23.4}{7.1.4.4}{340, 770, 8030} स्व॒यम्¦क॒विः¦वि॒ऽध॒र्तरि॑¦विप्रा᳚य¦रत्न᳚म्¦इ॒च्छ॒ति॒ | यदि॑¦म॒र्मृ॒ज्यते᳚¦धियः॑ || |
सि॒षा॒सतू᳚ रयी॒णां वाजे॒ष्वर्व॑तामिव |{भार्गवः कविः | पवमानः सोमः | गायत्री} भरे᳚षु जि॒ग्युषा᳚मसि ||{5/5}{9.47.5}{9.2.23.5}{7.1.4.5}{341, 770, 8031} सि॒सा॒सतुः॑¦र॒यी॒णाम्¦वाजे᳚षु¦अर्व॑ताम्ऽइव | भरे᳚षु¦जि॒ग्युषा᳚म्¦अ॒सि॒ || |
[48] तंत्वेति पञ्चर्चस्य सूक्तस्य भार्गवःकविः पवमानसोमो गायत्री | |
तं त्वा᳚ नृ॒म्णानि॒ बिभ्र॑तं स॒धस्थे᳚षु म॒हो दि॒वः |{भार्गवः कविः | पवमानः सोमः | गायत्री} चारुं᳚ सुकृ॒त्यये᳚महे ||{1/5}{9.48.1}{9.2.24.1}{7.1.5.1}{342, 771, 8032} तम्¦त्वा॒¦नृ॒म्णानि॑¦विभ्र॑तम्¦स॒धऽस्थे᳚षु¦म॒हः¦दि॒वः | चारु᳚म्¦सु॒ऽकृ॒त्यया᳚¦ई॒म॒हे॒ || |
संवृ॑क्तधृष्णुमु॒क्थ्यं᳚ म॒हाम॑हिव्रतं॒ मद᳚म् |{भार्गवः कविः | पवमानः सोमः | गायत्री} श॒तं पुरो᳚ रुरु॒क्षणि᳚म् ||{2/5}{9.48.2}{9.2.24.2}{7.1.5.2}{343, 771, 8033} संवृ॑क्तऽधृष्णुम्¦उ॒क्थ्य᳚म्¦म॒हाऽम॑हिव्रतम्¦मद᳚म् | श॒तम्¦पुरः॑¦रु॒रु॒क्षणि᳚म् || |
अत॑स्त्वा र॒यिम॒भि राजा᳚नं सुक्रतो दि॒वः |{भार्गवः कविः | पवमानः सोमः | गायत्री} सु॒प॒र्णो, अ᳚व्य॒थिर्भ॑रत् ||{3/5}{9.48.3}{9.2.24.3}{7.1.5.3}{344, 771, 8034} अतः॑¦त्वा॒¦र॒यिम्¦अ॒भि¦राजा᳚नम्¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो¦दि॒वः | सु॒ऽप॒र्णः¦अ॒व्य॒थिः¦भ॒र॒त् || |
विश्व॑स्मा॒, इत् स्व॑र्दृ॒शे साधा᳚रणं रज॒स्तुर᳚म् |{भार्गवः कविः | पवमानः सोमः | गायत्री} गो॒पामृ॒तस्य॒ विर्भ॑रत् ||{4/5}{9.48.4}{9.2.24.4}{7.1.5.4}{345, 771, 8035} विश्व॑स्मै¦इत्¦स्वः॑¦दृ॒शे¦साधा᳚रणम्¦र॒जः॒ऽतुर᳚म् | गो॒पाम्¦ऋ॒तस्य॑¦विः¦भ॒र॒त् || |
अधा᳚ हिन्वा॒न इ᳚न्द्रि॒यं ज्यायो᳚ महि॒त्वमा᳚नशे |{भार्गवः कविः | पवमानः सोमः | गायत्री} अ॒भि॒ष्टि॒कृद् विच॑र्षणिः ||{5/5}{9.48.5}{9.2.24.5}{7.1.5.5}{346, 771, 8036} अध॑¦हि॒न्वा॒नः¦इ॒न्द्रि॒यम्¦ज्यायः॑¦म॒हि॒ऽत्वम्¦आ॒न॒शे॒ | अ॒भि॒ष्टि॒ऽकृत्¦विऽच॑र्षणिः || |
[49] पवस्वेति पञ्चर्चस्य सूक्तस्य भार्गवःकविः पवमानसोमो गायत्री | |
पव॑स्व वृ॒ष्टिमा सु नो॒ऽपामू॒र्मिं दि॒वस्परि॑ |{भार्गवः कविः | पवमानः सोमः | गायत्री} अ॒य॒क्ष्मा बृ॑ह॒तीरिषः॑ ||{1/5}{9.49.1}{9.2.25.1}{7.1.6.1}{347, 772, 8037} पव॑स्व¦वृ॒ष्टिम्¦आ¦सु¦नः॒¦अ॒पाम्¦ऊ॒र्मिम्¦दि॒वः¦परि॑ | अ॒य॒क्ष्माः¦बृ॒ह॒तीः¦इषः॑ || |
तया᳚ पवस्व॒ धार॑या॒ यया॒ गाव॑ इ॒हागम॑न् |{भार्गवः कविः | पवमानः सोमः | गायत्री} जन्या᳚स॒ उप॑ नो गृ॒हम् ||{2/5}{9.49.2}{9.2.25.2}{7.1.6.2}{348, 772, 8038} तया᳚¦प॒व॒स्व॒¦धार॑या¦यया᳚¦गावः॑¦इ॒ह¦आ॒ऽगम॑न् | जन्या᳚सः¦उप॑¦नः॒¦गृ॒हम् || |
घृ॒तं प॑वस्व॒ धार॑या य॒ज्ञेषु॑ देव॒वीत॑मः |{भार्गवः कविः | पवमानः सोमः | गायत्री} अ॒स्मभ्यं᳚ वृ॒ष्टिमा प॑व ||{3/5}{9.49.3}{9.2.25.3}{7.1.6.3}{349, 772, 8039} घृ॒तम्¦प॒व॒स्व॒¦धार॑या¦य॒ज्ञेषु॑¦दे॒व॒ऽवीत॑मः | अ॒स्मभ्य᳚म्¦वृ॒ष्टिम्¦आ¦प॒व॒ || |
स न॑ ऊ॒र्जे व्य१॑(अ॒)व्ययं᳚ प॒वित्रं᳚ धाव॒ धार॑या |{भार्गवः कविः | पवमानः सोमः | गायत्री} दे॒वासः॑ शृ॒णव॒न् हि क᳚म् ||{4/5}{9.49.4}{9.2.25.4}{7.1.6.4}{350, 772, 8040} सः¦नः॒¦ऊ॒र्जे¦वि¦अ॒व्यय᳚म्¦प॒वित्र᳚म्¦धा॒व॒¦धार॑या | दे॒वासः॑¦शृ॒णव॑न्¦हि¦क॒म् || |
पव॑मानो, असिष्यद॒द् रक्षां᳚स्यप॒जङ्घ॑नत् |{भार्गवः कविः | पवमानः सोमः | गायत्री} प्र॒त्न॒वद् रो॒चय॒न् रुचः॑ ||{5/5}{9.49.5}{9.2.25.5}{7.1.6.5}{351, 772, 8041} पव॑मानः¦अ॒सि॒स्य॒द॒त्¦रक्षां᳚सि¦अ॒प॒ऽजङ्घ॑नत् | प्र॒त्न॒ऽवत्¦रो॒चय॑न्¦रुचः॑ || |
[50] उत्तेशुष्मासइति पञ्चर्चस्य सूक्तस्यांगिरस उचथ्यः पवमान सोमोगायत्री | |
उत्ते॒ शुष्मा᳚स ईरते॒ सिन्धो᳚रू॒र्मेरि॑व स्व॒नः |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} वा॒णस्य॑ चोदया प॒विम् ||{1/5}{9.50.1}{9.2.26.1}{7.1.7.1}{352, 773, 8042} उत्¦ते॒¦शुष्मा᳚सः¦ई॒र॒ते॒¦सिन्धोः᳚¦ऊ॒र्मेःऽइ᳚व¦स्व॒नः | वा॒णस्य॑¦चो॒द॒य॒¦प॒विम् || |
प्र॒स॒वे त॒ उदी᳚रते ति॒स्रो वाचो᳚ मख॒स्युवः॑ |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} यदव्य॒ एषि॒ सान॑वि ||{2/5}{9.50.2}{9.2.26.2}{7.1.7.2}{353, 773, 8043} प्र॒ऽस॒वे¦ते॒¦उत्¦ई॒र॒ते॒¦ति॒स्रः¦वाचः॑¦म॒ख॒स्युवः॑ | यत्¦अव्ये᳚¦एषि॑¦सान॑वि || |
अव्यो॒ वारे॒ परि॑ प्रि॒यं हरिं᳚ हिन्व॒न्त्यद्रि॑भिः |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} पव॑मानं मधु॒श्चुत᳚म् ||{3/5}{9.50.3}{9.2.26.3}{7.1.7.3}{354, 773, 8044} अव्यः॑¦वारे᳚¦परि॑¦प्रि॒यम्¦हरि᳚म्¦हि॒न्व॒न्ति॒¦अद्रि॑ऽभिः | पव॑मानम्¦म॒धु॒ऽश्चुत᳚म् || |
आ प॑वस्व मदिन्तम प॒वित्रं॒ धार॑या कवे |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} अ॒र्कस्य॒ योनि॑मा॒सद᳚म् ||{4/5}{9.50.4}{9.2.26.4}{7.1.7.4}{355, 773, 8045} आ¦प॒व॒स्व॒¦म॒दि॒न्ऽत॒म॒¦प॒वित्र᳚म्¦धार॑या¦क॒वे॒ | अ॒र्कस्य॑¦योनि᳚म्¦आ॒ऽसद᳚म् || |
स प॑वस्व मदिन्तम॒ गोभि॑रञ्जा॒नो, अ॒क्तुभिः॑ |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} इन्द॒विन्द्रा᳚य पी॒तये᳚ ||{5/5}{9.50.5}{9.2.26.5}{7.1.7.5}{356, 773, 8046} सः¦प॒व॒स्व॒¦म॒दि॒न्ऽत॒म॒¦गोभिः॑¦अं॒जा॒नः¦अ॒क्तुऽभिः॑ | इन्दो॒ इति॑¦इन्द्रा᳚य¦पी॒तये᳚ || |
[51] अध्वर्यविति पञ्चर्चस्य सूक्तस्यांगिरस उचथ्यः पवमान सोमोगायत्री | |
अध्व᳚र्यो॒, अद्रि॑भिः सु॒तं सोमं᳚ प॒वित्र॒ आ सृ॑ज |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} पु॒नी॒हीन्द्रा᳚य॒ पात॑वे ||{1/5}{9.51.1}{9.2.27.1}{7.1.8.1}{357, 774, 8047} अध्व᳚र्यो॒ इति॑¦अद्रि॑ऽभिः¦सु॒तम्¦सोम᳚म्¦प॒वित्रे᳚¦आ¦सृ॒ज॒ | पु॒नी॒हि¦इन्द्रा᳚य¦पात॑वे || |
दि॒वः पी॒यूष॑मुत्त॒मं सोम॒मिन्द्रा᳚य व॒ज्रिणे᳚ |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} सु॒नोता॒ मधु॑मत्तमम् ||{2/5}{9.51.2}{9.2.27.2}{7.1.8.2}{358, 774, 8048} दि॒वः¦पी॒यूष᳚म्¦उ॒त्ऽत॒मम्¦सोम᳚म्¦इन्द्रा᳚य¦व॒ज्रिणे᳚ | सु॒नोत॑¦मधु॑मत्ऽतमम् || |
तव॒ त्य इ᳚न्दो॒, अन्ध॑सो दे॒वा मधो॒र्व्य॑श्नते |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} पव॑मानस्य म॒रुतः॑ ||{3/5}{9.51.3}{9.2.27.3}{7.1.8.3}{359, 774, 8049} तव॑¦त्ये¦इ॒न्दो॒ इति॑¦अन्ध॑सः¦दे॒वाः¦मधोः᳚¦वि¦अ॒श्न॒ते॒ | पव॑मानस्य¦म॒रुतः॑ || |
त्वं हि सो᳚म व॒र्धय᳚न् त्सु॒तो मदा᳚य॒ भूर्ण॑ये |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} वृष᳚न्त् स्तो॒तार॑मू॒तये᳚ ||{4/5}{9.51.4}{9.2.27.4}{7.1.8.4}{360, 774, 8050} त्वम्¦हि¦सो॒म॒¦व॒र्धय॑न्¦सु॒तः¦मदा᳚य¦भूर्ण॑ये | वृष॑न्¦स्तो॒तार᳚म्¦ऊ॒तये᳚ || |
अ॒भ्य॑र्ष विचक्षण प॒वित्रं॒ धार॑या सु॒तः |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} अ॒भि वाज॑मु॒त श्रवः॑ ||{5/5}{9.51.5}{9.2.27.5}{7.1.8.5}{361, 774, 8051} अ॒भि¦अ॒र्ष॒¦वि॒ऽच॒क्ष॒ण॒¦प॒वित्र᳚म्¦धार॑या¦सु॒तः | अ॒भि¦वाज᳚म्¦उ॒त¦श्रवः॑ || |
[52] परिद्युक्षइति पञ्चर्चस्य सूक्तस्यांगिरस उचथ्यः पवमान सोमोगायत्री | |
परि॑ द्यु॒क्षः स॒नद्र॑यि॒र्भर॒द्वाजं᳚ नो॒, अन्ध॑सा |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} सु॒वा॒नो, अ॑र्ष प॒वित्र॒ आ ||{1/5}{9.52.1}{9.2.28.1}{7.1.9.1}{362, 775, 8052} परि॑¦द्यु॒क्षः¦स॒नत्ऽर॑यिः¦भर॑त्¦वाज᳚म्¦नः॒¦अन्ध॑सा | सु॒वा॒नः¦अ॒र्ष॒¦प॒वित्रे᳚¦आ || |
तव॑ प्र॒त्नेभि॒रध्व॑भि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} स॒हस्र॑धारो या॒त्तना᳚ ||{2/5}{9.52.2}{9.2.28.2}{7.1.9.2}{363, 775, 8053} तव॑¦प्र॒त्नेभिः॑¦अध्व॑ऽभिः¦अव्यः॑¦वारे᳚¦परि॑¦प्रि॒यः | स॒हस्र॑ऽधारः¦या॒त्¦तना᳚ || |
च॒रुर्न यस्तमी᳚ङ्ख॒येन्दो॒ न दान॑मीङ्खय |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} व॒धैर्व॑धस्नवीङ्खय ||{3/5}{9.52.3}{9.2.28.3}{7.1.9.3}{364, 775, 8054} च॒रुः¦न¦यः¦तम्¦ई॒ङ्ख॒य॒¦इन्दो॒ इति॑¦न¦दान᳚म्¦ई॒ङ्ख॒य॒ | व॒धैः¦व॒ध॒स्नो॒ इति॑ वधऽस्नो¦ई॒ङ्ख॒य॒ || |
नि शुष्म॑मिन्दवेषां॒ पुरु॑हूत॒ जना᳚नाम् |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} यो, अ॒स्माँ, आ॒दिदे᳚शति ||{4/5}{9.52.4}{9.2.28.4}{7.1.9.4}{365, 775, 8055} नि¦शुष्म᳚म्¦इ॒न्दो॒ इति॑¦एषा᳚म्¦पुरु॑ऽहूत¦जना᳚नाम् | यः¦अ॒स्मान्¦आ॒ऽदिदे᳚शति || |
श॒तं न॑ इन्द ऊ॒तिभिः॑ स॒हस्रं᳚ वा॒ शुची᳚नाम् |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} पव॑स्व मंह॒यद्र॑यिः ||{5/5}{9.52.5}{9.2.28.5}{7.1.9.5}{366, 775, 8056} श॒तम्¦नः॒¦इ॒न्दो॒ इति॑¦ऊ॒तिऽभिः॑¦स॒हस्र᳚म्¦वा॒¦शुची᳚णाम् | पव॑स्व¦मं॒ह॒यत्ऽर॑यिः || |
[53] उत्तेशुष्मासइति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री | |
उत्ते॒ शुष्मा᳚सो, अस्थू॒ रक्षो᳚ भि॒न्दन्तो᳚, अद्रिवः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} नु॒दस्व॒ याः प॑रि॒स्पृधः॑ ||{1/4}{9.53.1}{9.2.29.1}{7.1.10.1}{367, 776, 8057} उत्¦ते॒¦शुष्मा᳚सः¦अ॒स्थुः॒¦रक्षः॑¦भि॒न्दन्तः॑¦अ॒द्रि॒ऽवः॒ | नु॒दस्व॑¦याः¦प॒रि॒ऽस्पृधः॑ || |
अ॒या नि॑ज॒घ्निरोज॑सा रथसं॒गे धने᳚ हि॒ते |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} स्तवा॒, अबि॑भ्युषा हृ॒दा ||{2/4}{9.53.2}{9.2.29.2}{7.1.10.2}{368, 776, 8058} अ॒या¦नि॒ऽज॒घ्निः¦ओज॑सा¦र॒थ॒ऽस॒ङ्गे¦धने᳚¦हि॒ते | स्तवै᳚¦अबि॑भ्युषा¦हृ॒दा || |
अस्य᳚ व्र॒तानि॒ नाधृषे॒ पव॑मानस्य दू॒ढ्या᳚ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} रु॒ज यस्त्वा᳚ पृत॒न्यति॑ ||{3/4}{9.53.3}{9.2.29.3}{7.1.10.3}{369, 776, 8059} अस्य॑¦व्र॒तानि॑¦न¦आ॒ऽधृषे᳚¦पव॑मानस्य¦दुः॒ऽध्या᳚ | रु॒ज¦यः¦त्वा॒¦पृ॒त॒न्यति॑ || |
तं हि᳚न्वन्ति मद॒च्युतं॒ हरिं᳚ न॒दीषु॑ वा॒जिन᳚म् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} इन्दु॒मिन्द्रा᳚य मत्स॒रम् ||{4/4}{9.53.4}{9.2.29.4}{7.1.10.4}{370, 776, 8060} तम्¦हि॒न्व॒न्ति॒¦म॒द॒ऽच्युत᳚म्¦हरि᳚म्¦न॒दीषु॑¦वा॒जिन᳚म् | इन्दु᳚म्¦इन्द्रा᳚य¦म॒त्स॒रम् || |
[54] अस्यप्रत्नामिति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री | |
अ॒स्य प्र॒त्नामनु॒ द्युतं᳚ शु॒क्रं दु॑दुह्रे॒, अह्र॑यः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} पयः॑ सहस्र॒सामृषि᳚म् ||{1/4}{9.54.1}{9.2.30.1}{7.1.11.1}{371, 777, 8061} अ॒स्य¦प्र॒त्नाम्¦अनु॑¦द्युत᳚म्¦शु॒क्रम्¦दु॒दु॒ह्रे॒¦अह्र॑यः | पयः॑¦स॒ह॒स्र॒ऽसाम्¦ऋषि᳚म् || |
अ॒यं सूर्य॑ इवोप॒दृग॒यं सरां᳚सि धावति |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} स॒प्त प्र॒वत॒ आ दिव᳚म् ||{2/4}{9.54.2}{9.2.30.2}{7.1.11.2}{372, 777, 8062} अ॒यम्¦सूर्यः॑ऽइव¦उ॒प॒ऽदृक्¦अ॒यम्¦सरां᳚सि¦धा॒व॒ति॒ | स॒प्त¦प्र॒ऽवतः॑¦आ¦दिव᳚म् || |
अ॒यं विश्वा᳚नि तिष्ठति पुना॒नो भुव॑नो॒परि॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} सोमो᳚ दे॒वो न सूर्यः॑ ||{3/4}{9.54.3}{9.2.30.3}{7.1.11.3}{373, 777, 8063} अ॒यम्¦विश्वा᳚नि¦ति॒ष्ठ॒ति॒¦पु॒ना॒नः¦भुव॑ना¦उ॒परि॑ | सोमः॑¦दे॒वः¦न¦सूर्यः॑ || |
परि॑ णो दे॒ववी᳚तये॒ वाजाँ᳚, अर्षसि॒ गोम॑तः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} पु॒ना॒न इ᳚न्दविन्द्र॒युः ||{4/4}{9.54.4}{9.2.30.4}{7.1.11.4}{374, 777, 8064} परि॑¦नः॒¦दे॒वऽवी᳚तये¦वाजा᳚न्¦अ॒र्ष॒सि॒¦गोऽम॑तः | पु॒ना॒नः¦इ॒न्दो॒ इति॑¦इ॒न्द्र॒ऽयुः || |
[55] यवंयवमिति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री | |
यवं᳚यवं नो॒, अन्ध॑सा पु॒ष्टम्पु॑ष्टं॒ परि॑ स्रव |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} सोम॒ विश्वा᳚ च॒ सौभ॑गा ||{1/4}{9.55.1}{9.2.31.1}{7.1.12.1}{375, 778, 8065} यव᳚म्ऽयवम्¦नः॒¦अन्ध॑सा¦पु॒ष्टम्ऽपु॑ष्टम्¦परि॑¦स्र॒व॒ | सोम॑¦विश्वा᳚¦च॒¦सौभ॑गा || |
इन्दो॒ यथा॒ तव॒ स्तवो॒ यथा᳚ ते जा॒तमन्ध॑सः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} नि ब॒र्हिषि॑ प्रि॒ये स॑दः ||{2/4}{9.55.2}{9.2.31.2}{7.1.12.2}{376, 778, 8066} इन्दो॒ इति॑¦यथा᳚¦तव॑¦स्तवः॑¦यथा᳚¦ते॒¦जा॒तम्¦अन्ध॑सः | नि¦ब॒र्हिषि॑¦प्रि॒ये¦स॒दः॒ || |
उ॒त नो᳚ गो॒विद॑श्व॒वित् पव॑स्व सो॒मान्ध॑सा |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} म॒क्षूत॑मेभि॒रह॑भिः ||{3/4}{9.55.3}{9.2.31.3}{7.1.12.3}{377, 778, 8067} उ॒त¦नः॒¦गो॒ऽवित्¦अ॒श्व॒ऽवित्¦पव॑स्व¦सो॒म॒¦अन्ध॑सा | म॒क्षुऽत॑मेभिः¦अह॑ऽभिः || |
यो जि॒नाति॒ न जीय॑ते॒ हन्ति॒ शत्रु॑म॒भीत्य॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} स प॑वस्व सहस्रजित् ||{4/4}{9.55.4}{9.2.31.4}{7.1.12.4}{378, 778, 8068} यः¦जि॒नाति॑¦न¦जीय॑ते¦हन्ति॑¦शत्रु᳚म्¦अ॒भि॒ऽइत्य॑ | सः¦प॒व॒स्व॒¦स॒ह॒स्र॒ऽजि॒त् || |
[56] परिसोमइति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री | |
परि॒ सोम॑ ऋ॒तं बृ॒हदा॒शुः प॒वित्रे᳚, अर्षति |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} वि॒घ्नन् रक्षां᳚सि देव॒युः ||{1/4}{9.56.1}{9.2.32.1}{7.1.13.1}{379, 779, 8069} परि॑¦सोमः॑¦ऋ॒तम्¦बृ॒हत्¦आ॒शुः¦प॒वित्रे᳚¦अ॒र्ष॒ति॒ | वि॒ऽघ्नन्¦रक्षां᳚सि¦दे॒व॒ऽयुः || |
यत् सोमो॒ वाज॒मर्ष॑ति श॒तं धारा᳚, अप॒स्युवः॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} इन्द्र॑स्य स॒ख्यमा᳚वि॒शन् ||{2/4}{9.56.2}{9.2.32.2}{7.1.13.2}{380, 779, 8070} यत्¦सोमः॑¦वाज᳚म्¦अर्ष॑ति¦श॒तम्¦धाराः᳚¦अ॒प॒स्युवः॑ | इन्द्र॑स्य¦स॒ख्यम्¦आ॒ऽवि॒शन् || |
अ॒भि त्वा॒ योष॑णो॒ दश॑ जा॒रं न क॒न्या᳚नूषत |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} मृ॒ज्यसे᳚ सोम सा॒तये᳚ ||{3/4}{9.56.3}{9.2.32.3}{7.1.13.3}{381, 779, 8071} अ॒भि¦त्वा॒¦योष॑णः¦दश॑¦जा॒रम्¦न¦क॒न्या᳚¦अ॒नू॒ष॒त॒ | मृ॒ज्यसे᳚¦सो॒म॒¦सा॒तये᳚ || |
त्वमिन्द्रा᳚य॒ विष्ण॑वे स्वा॒दुरि᳚न्दो॒ परि॑ स्रव |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} नॄन्त् स्तो॒तॄन् पा॒ह्यंह॑सः ||{4/4}{9.56.4}{9.2.32.4}{7.1.13.4}{382, 779, 8072} त्वम्¦इन्द्रा᳚य¦विष्ण॑वे¦स्वा॒दुः¦इ॒न्दो॒ इति॑¦परि॑¦स्र॒व॒ | नॄन्¦स्तो॒तॄन्¦पा॒हि॒¦अंह॑सः || |
[57] प्रतेधाराइति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री | |
प्र ते॒ धारा᳚, अस॒श्चतो᳚ दि॒वो न य᳚न्ति वृ॒ष्टयः॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} अच्छा॒ वाजं᳚ सह॒स्रिण᳚म् ||{1/4}{9.57.1}{9.2.33.1}{7.1.14.1}{383, 780, 8073} प्र¦ते॒¦धाराः᳚¦अ॒स॒श्चतः॑¦दि॒वः¦न¦य॒न्ति॒¦वृ॒ष्टयः॑ | अच्छ॑¦वाज᳚म्¦स॒ह॒स्रिण᳚म् || |
अ॒भि प्रि॒याणि॒ काव्या॒ विश्वा॒ चक्षा᳚णो, अर्षति |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} हरि॑स्तुञ्जा॒न आयु॑धा ||{2/4}{9.57.2}{9.2.33.2}{7.1.14.2}{384, 780, 8074} अ॒भि¦प्रि॒याणि॑¦काव्या᳚¦विश्वा᳚¦चक्षा᳚णः¦अ॒र्ष॒ति॒ | हरिः॑¦तुं॒जा॒नः¦आयु॑धा || |
स म᳚र्मृजा॒न आ॒युभि॒रिभो॒ राजे᳚व सुव्र॒तः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} श्ये॒नो न वंसु॑ षीदति ||{3/4}{9.57.3}{9.2.33.3}{7.1.14.3}{385, 780, 8075} सः¦म॒र्मृजा॒नः¦आ॒युऽभिः॑¦इभः॑¦राजा᳚ऽइव¦सु॒ऽव्र॒तः | श्ये॒नः¦न¦वंसु॑¦सी॒द॒ति॒ || |
स नो॒ विश्वा᳚ दि॒वो वसू॒तो पृ॑थि॒व्या, अधि॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} पु॒ना॒न इ᳚न्द॒वा भ॑र ||{4/4}{9.57.4}{9.2.33.4}{7.1.14.4}{386, 780, 8076} सः¦नः॒¦विश्वा᳚¦दि॒वः¦वसु॑¦उ॒तो इति॑¦पृ॒थि॒व्याः¦अधि॑ | पु॒नानः॑¦इ॒न्दो॒ इति॑¦आ¦भ॒र॒ || |
[58] तरत्समंदीति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री | |
तर॒त् स म॒न्दी धा᳚वति॒ धारा᳚ सु॒तस्यान्ध॑सः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} तर॒त् स म॒न्दी धा᳚वति ||{1/4}{9.58.1}{9.2.34.1}{7.1.15.1}{387, 781, 8077} तर॑त्¦सः¦म॒न्दी¦धा॒व॒ति॒¦धारा᳚¦सु॒तस्य॑¦अन्ध॑सः | तर॑त्¦सः¦म॒न्दी¦धा॒व॒ति॒ || |
उ॒स्रा वे᳚द॒ वसू᳚नां॒ मर्त॑स्य दे॒व्यव॑सः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} तर॒त् स म॒न्दी धा᳚वति ||{2/4}{9.58.2}{9.2.34.2}{7.1.15.2}{388, 781, 8078} उ॒स्रा¦वे॒द॒¦वसू᳚नाम्¦मर्त॑स्य¦दे॒वी¦अव॑सः | तर॑त्¦सः¦म॒न्दी¦धा॒व॒ति॒ || |
ध्व॒स्रयोः᳚ पुरु॒षन्त्यो॒रा स॒हस्रा᳚णि दद्महे |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} तर॒त् स म॒न्दी धा᳚वति ||{3/4}{9.58.3}{9.2.34.3}{7.1.15.3}{389, 781, 8079} ध्व॒स्रयोः᳚¦पु॒रु॒ऽसन्त्योः᳚¦आ¦स॒हस्रा᳚णि¦द॒द्म॒हे॒ | तर॑त्¦सः¦म॒न्दी¦धा॒व॒ति॒ || |
आ ययो᳚स्त्रिं॒शतं॒ तना᳚ स॒हस्रा᳚णि च॒ दद्म॑हे |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} तर॒त् स म॒न्दी धा᳚वति ||{4/4}{9.58.4}{9.2.34.4}{7.1.15.4}{390, 781, 8080} आ¦ययोः᳚¦त्रिं॒शत᳚म्¦तना᳚¦स॒हस्रा᳚णि¦च॒¦दद्म॑हे | तर॑त्¦सः¦म॒न्दी¦धा॒व॒ति॒ || |
[59] पवस्वेति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री | |
पव॑स्व गो॒जिद॑श्व॒जिद् वि॑श्व॒जित् सो᳚म रण्य॒जित् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} प्र॒जाव॒द् रत्न॒मा भ॑र ||{1/4}{9.59.1}{9.2.35.1}{7.1.16.1}{391, 782, 8081} पव॑स्व¦गो॒ऽजित्¦अ॒श्व॒ऽजित्¦वि॒श्व॒ऽजित्¦सो॒म॒¦र॒ण्य॒ऽजित् | प्र॒जाऽव॑त्¦रत्न᳚म्¦आ¦भ॒र॒ || |
पव॑स्वा॒द्भ्यो, अदा᳚भ्यः॒ पव॒स्वौष॑धीभ्यः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} पव॑स्व धि॒षणा᳚भ्यः ||{2/4}{9.59.2}{9.2.35.2}{7.1.16.2}{392, 782, 8082} पव॑स्व¦अ॒त्ऽभ्यः¦अदा᳚भ्यः¦पव॑स्व¦ओष॑धीभ्यः | पव॑स्व¦धि॒षणा᳚भ्यः || |
त्वं सो᳚म॒ पव॑मानो॒ विश्वा᳚नि दुरि॒ता त॑र |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} क॒विः सी᳚द॒ नि ब॒र्हिषि॑ ||{3/4}{9.59.3}{9.2.35.3}{7.1.16.3}{393, 782, 8083} त्वम्¦सो॒म॒¦पव॑मानः¦विश्वा᳚नि¦दुः॒ऽइ॒ता¦त॒र॒ | क॒विः¦सी॒द॒¦नि¦ब॒र्हिषि॑ || |
पव॑मान॒ स्व᳚र्विदो॒ जाय॑मानोऽभवो म॒हान् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} इन्दो॒ विश्वाँ᳚, अ॒भीद॑सि ||{4/4}{9.59.4}{9.2.35.4}{7.1.16.4}{394, 782, 8084} पव॑मान¦स्वः॑¦वि॒दः॒¦जाय॑मानः¦अ॒भ॒वः॒¦म॒हान् | इन्दो॒ इति॑¦विश्वा᳚न्¦अ॒भि¦इत्¦अ॒सि॒ || |
[60] प्रगायत्रेणेति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमान सोमोगायत्री तृतीयापुरउष्णिक् |
प्र गा᳚य॒त्रेण॑ गायत॒ पव॑मानं॒ विच॑र्षणिम् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} इन्दुं᳚ स॒हस्र॑चक्षसम् ||{1/4}{9.60.1}{9.2.36.1}{7.1.17.1}{395, 783, 8085} प्र¦गा॒य॒त्रेण॑¦गा॒य॒त॒¦पव॑मानम्¦विऽच॑र्षणिम् | इन्दु᳚म्¦स॒हस्र॑ऽचक्षसम् || |
तं त्वा᳚ स॒हस्र॑चक्षस॒मथो᳚ स॒हस्र॑भर्णसम् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} अति॒ वार॑मपाविषुः ||{2/4}{9.60.2}{9.2.36.2}{7.1.17.2}{396, 783, 8086} त्वम्¦त्वा॒¦स॒हस्र॑ऽचक्षसम्¦अथो॒ इति॑¦स॒हस्र॑ऽभर्णसम् | अति॑¦वार᳚म्¦अ॒पा॒वि॒षुः॒ || |
अति॒ वारा॒न् पव॑मानो, असिष्यदत् क॒लशाँ᳚, अ॒भि धा᳚वति |{काश्यपोवत्सारः | पवमानः सोमः | पुरउष्णिक्} इन्द्र॑स्य॒ हार्द्या᳚वि॒शन् ||{3/4}{9.60.3}{9.2.36.3}{7.1.17.3}{397, 783, 8087} अति॑¦वारा᳚न्¦पव॑मानः¦अ॒सि॒स्य॒द॒त्¦क॒लशा᳚न्¦अ॒भि¦धा॒व॒ति॒ | इन्द्र॑स्य¦हार्दि॑¦आ॒ऽवि॒शन् || |
इन्द्र॑स्य सोम॒ राध॑से॒ शं प॑वस्व विचर्षणे |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} प्र॒जाव॒द् रेत॒ आ भ॑र ||{4/4}{9.60.4}{9.2.36.4}{7.1.17.4}{398, 783, 8088} इन्द्र॑स्य¦सो॒म॒¦राध॑से¦शम्¦प॒व॒स्व॒¦वि॒ऽच॒र्ष॒णे॒ | प्र॒जाऽव॑त्¦रेतः॑¦आ¦भ॒र॒ || |
[61] अयावीतीति त्रिंशदृचस्य सूक्तस्यांगिरसोऽमहीयुः पवमान सोमो गायत्री | |
अ॒या वी॒ती परि॑ स्रव॒ यस्त॑ इन्दो॒ मदे॒ष्वा |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} अ॒वाह᳚न् नव॒तीर्नव॑ ||{1/30}{9.61.1}{9.3.1.1}{7.1.18.1}{399, 784, 8089} अ॒या¦वी॒ती¦परि॑¦स्र॒व॒¦यः¦ते॒¦इ॒न्दो॒ इति॑¦मदे᳚षु¦आ | अ॒व॒।आह॑न्¦न॒व॒तीः¦नव॑ || |
पुरः॑ स॒द्य इ॒त्थाधि॑ये॒ दिवो᳚दासाय॒ शम्ब॑रम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} अध॒ त्यं तु॒र्वशं॒ यदु᳚म् ||{2/30}{9.61.2}{9.3.1.2}{7.1.18.2}{400, 784, 8090} पुरः॑¦स॒द्यः¦इ॒त्थाऽधि॑ये¦दिवः॑ऽदासाय¦शम्ब॑रम् | अध॑¦त्यम्¦तु॒र्वश᳚म्¦यदु᳚म् || |
परि॑ णो॒, अश्व॑मश्व॒विद्गोम॑दिन्दो॒ हिर᳚ण्यवत् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} क्षरा᳚ सह॒स्रिणी॒रिषः॑ ||{3/30}{9.61.3}{9.3.1.3}{7.1.18.3}{401, 784, 8091} परि॑¦नः॒¦अश्व᳚म्¦अ॒श्व॒ऽवित्¦गोऽम॑त्¦इ॒न्दो॒ इति॑¦हिर᳚ण्यऽवत् | क्षर॑¦स॒ह॒स्रिणीः᳚¦इषः॑ || |
पव॑मानस्य ते व॒यं प॒वित्र॑मभ्युन्द॒तः |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} स॒खि॒त्वमा वृ॑णीमहे ||{4/30}{9.61.4}{9.3.1.4}{7.1.18.4}{402, 784, 8092} पव॑मानस्य¦ते॒¦व॒यम्¦प॒वित्र᳚म्¦अ॒भि॒।औ॒न्द॒तः | स॒खि॒ऽत्वम्¦आ¦वृ॒णी॒म॒हे॒ || |
ये ते᳚ प॒वित्र॑मू॒र्मयो᳚ऽभि॒क्षर᳚न्ति॒ धार॑या |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} तेभि᳚र्नः सोम मृळय ||{5/30}{9.61.5}{9.3.1.5}{7.1.18.5}{403, 784, 8093} ये¦ते॒¦प॒वित्र᳚म्¦ऊ॒र्मयः॑¦अ॒भि॒ऽक्षर᳚न्ति¦धार॑या | तेभिः॑¦नः॒¦सो॒म॒¦मृ॒ळ॒य॒ || |
स नः॑ पुना॒न आ भ॑र र॒यिं वी॒रव॑ती॒मिष᳚म् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} ईशा᳚नः सोम वि॒श्वतः॑ ||{6/30}{9.61.6}{9.3.1.6}{7.1.19.1}{404, 784, 8094} सः¦नः॒¦पु॒ना॒नः¦आ¦भ॒र॒¦र॒यिम्¦वी॒रऽव॑तीम्¦इष᳚म् | ईशा᳚नः¦सो॒म॒¦वि॒श्वतः॑ || |
ए॒तमु॒ त्यं दश॒ क्षिपो᳚ मृ॒जन्ति॒ सिन्धु॑मातरम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} समा᳚दि॒त्येभि॑रख्यत ||{7/30}{9.61.7}{9.3.1.7}{7.1.19.2}{405, 784, 8095} ए॒तम्¦ऊँ॒ इति॑¦त्यम्¦दश॑¦क्षिपः॑¦मृ॒जन्ति॑¦सिन्धु॑ऽमातरम् | सम्¦आ॒दि॒त्येभिः॑¦अ॒ख्य॒त॒ || |
समिन्द्रे᳚णो॒त वा॒युना᳚ सु॒त ए᳚ति प॒वित्र॒ आ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} सं सूर्य॑स्य र॒श्मिभिः॑ ||{8/30}{9.61.8}{9.3.1.8}{7.1.19.3}{406, 784, 8096} सम्¦इन्द्रे᳚ण¦उ॒त¦वा॒युना᳚¦सु॒तः¦ए॒ति॒¦प॒वित्रे᳚¦आ | सम्¦सूर्य॑स्य¦र॒श्मिऽभिः॑ || |
स नो॒ भगा᳚य वा॒यवे᳚ पू॒ष्णे प॑वस्व॒ मधु॑मान् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} चारु᳚र्मि॒त्रे वरु॑णे च ||{9/30}{9.61.9}{9.3.1.9}{7.1.19.4}{407, 784, 8097} सः¦नः॒¦भगा᳚य¦वा॒यवे᳚¦पू॒ष्णे¦प॒व॒स्व॒¦मधु॑ऽमान् | चारुः॑¦मि॒त्रे¦वरु॑णे¦च॒ || |
उ॒च्चा ते᳚ जा॒तमन्ध॑सो दि॒वि षद् भूम्या द॑दे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} उ॒ग्रं शर्म॒ महि॒ श्रवः॑ ||{10/30}{9.61.10}{9.3.1.10}{7.1.19.5}{408, 784, 8098} उ॒च्चा¦ते॒¦जा॒तम्¦अन्ध॑सः¦दि॒वि¦सत्¦भूमिः॑¦आ¦द॒दे॒ | उ॒ग्रम्¦शर्म॑¦महि॑¦श्रवः॑ || |
ए॒ना विश्वा᳚न्य॒र्य आ द्यु॒म्नानि॒ मानु॑षाणाम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} सिषा᳚सन्तो वनामहे ||{11/30}{9.61.11}{9.3.1.11}{7.1.20.1}{409, 784, 8099} ए॒ना¦विश्वा᳚नि¦अ॒र्यः¦आ¦द्यु॒म्नानि॑¦मानु॑षाणाम् | सिसा᳚सन्तः¦व॒ना॒म॒हे॒ || |
स न॒ इन्द्रा᳚य॒ यज्य॑वे॒ वरु॑णाय म॒रुद्भ्यः॑ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} व॒रि॒वो॒वित् परि॑ स्रव ||{12/30}{9.61.12}{9.3.1.12}{7.1.20.2}{410, 784, 8100} सः¦नः॒¦इन्द्रा᳚य¦यज्य॑वे¦वरु॑णाय¦म॒रुत्ऽभ्यः॑ | व॒रि॒वः॒ऽवित्¦परि॑¦स्र॒व॒ || |
उपो॒ षु जा॒तम॒प्तुरं॒ गोभि॑र्भ॒ङ्गं परि॑ष्कृतम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} इन्दुं᳚ दे॒वा, अ॑यासिषुः ||{13/30}{9.61.13}{9.3.1.13}{7.1.20.3}{411, 784, 8101} उपो॒ इति॑¦सु¦जा॒तम्¦अ॒प्ऽतुर᳚म्¦गोभिः॑¦भ॒ङ्गम्¦परि॑ऽकृतम् | इन्दु᳚म्¦दे॒वाः¦अ॒या॒सि॒षुः॒ || |
तमिद् व॑र्धन्तु नो॒ गिरो᳚ व॒त्सं सं॒शिश्व॑रीरिव |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} य इन्द्र॑स्य हृदं॒सनिः॑ ||{14/30}{9.61.14}{9.3.1.14}{7.1.20.4}{412, 784, 8102} तम्¦इत्¦व॒र्ध॒न्तु॒¦नः॒¦गिरः॑¦व॒त्सम्¦सं॒शिश्व॑रीःऽइव | यः¦इन्द्र॑स्य¦हृ॒द॒म्ऽसनिः॑ || |
अर्षा᳚ णः सोम॒ शं गवे᳚ धु॒क्षस्व॑ पि॒प्युषी॒मिष᳚म् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} वर्धा᳚ समु॒द्रमु॒क्थ्य᳚म् ||{15/30}{9.61.15}{9.3.1.15}{7.1.20.5}{413, 784, 8103} अर्ष॑¦नः॒¦सो॒म॒¦शम्¦गवे᳚¦धु॒क्षस्व॑¦पि॒प्युषी᳚म्¦इष᳚म् | वर्ध॑¦स॒मु॒द्रम्¦उ॒क्थ्य᳚म् || |
पव॑मानो, अजीजनद्दि॒वश्चि॒त्रं न त᳚न्य॒तुम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} ज्योति᳚र्वैश्वान॒रं बृ॒हत् ||{16/30}{9.61.16}{9.3.1.16}{7.1.21.1}{414, 784, 8104} पव॑मानः¦अ॒जी॒ज॒न॒त्¦दि॒वः¦चि॒त्रम्¦न¦त॒न्य॒तुम् | ज्योतिः॑¦वै॒श्वा॒न॒रम्¦बृ॒हत् || |
पव॑मानस्य ते॒ रसो॒ मदो᳚ राजन्नदुच्छु॒नः |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} वि वार॒मव्य॑मर्षति ||{17/30}{9.61.17}{9.3.1.17}{7.1.21.2}{415, 784, 8105} पव॑मानस्य¦ते॒¦रसः॑¦मदः॑¦रा॒ज॒न्¦अ॒दु॒च्छु॒नः | वि¦वार᳚म्¦अव्य᳚म्¦अ॒र्ष॒ति॒ || |
पव॑मान॒ रस॒स्तव॒ दक्षो॒ वि रा᳚जति द्यु॒मान् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} ज्योति॒र्विश्वं॒ स्व॑र्दृ॒शे ||{18/30}{9.61.18}{9.3.1.18}{7.1.21.3}{416, 784, 8106} पव॑मान¦रसः॑¦तव॑¦दक्षः॑¦वि¦रा॒ज॒ति॒¦द्यु॒ऽमान् | ज्योतिः॑¦विश्व᳚म्¦स्वः॑¦दृ॒शे || |
यस्ते॒ मदो॒ वरे᳚ण्य॒स्तेना᳚ पव॒स्वान्ध॑सा |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} दे॒वा॒वीर॑घशंस॒हा ||{19/30}{9.61.19}{9.3.1.19}{7.1.21.4}{417, 784, 8107} यः¦ते॒¦मदः॑¦वरे᳚ण्यः¦तेन॑¦प॒व॒स्व॒¦अन्ध॑सा | दे॒व॒।आ॒वीः¦अ॒घ॒शं॒स॒ऽहा || |
जघ्नि᳚र्वृ॒त्रम॑मि॒त्रियं॒ सस्नि॒र्वाजं᳚ दि॒वेदि॑वे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} गो॒षा, उ॑ अश्व॒सा, अ॑सि ||{20/30}{9.61.20}{9.3.1.20}{7.1.21.5}{418, 784, 8108} जघ्निः॑¦वृ॒त्रम्¦अ॒मि॒त्रिय᳚म्¦सस्निः॑¦वाज᳚म्¦दि॒वेऽदि॑वे | गो॒ऽसाः¦ऊँ॒ इति॑¦अ॒श्व॒ऽसाः¦अ॒सि॒ || |
सम्मि॑श्लो, अरु॒षो भ॑व सूप॒स्थाभि॒र्न धे॒नुभिः॑ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} सीद᳚ञ्छ्ये॒नो न योनि॒मा ||{21/30}{9.61.21}{9.3.1.21}{7.1.22.1}{419, 784, 8109} सम्ऽमि॑श्लः¦अ॒रु॒षः¦भ॒व॒¦सु॒।औ॒प॒स्थाभिः॑¦न¦धे॒नुऽभिः॑ | सीद॑न्¦श्ये॒नः¦न¦योनि᳚म्¦आ || |
स प॑वस्व॒ य आवि॒थेन्द्रं᳚ वृ॒त्राय॒ हन्त॑वे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} व॒व्रि॒वांसं᳚ म॒हीर॒पः ||{22/30}{9.61.22}{9.3.1.22}{7.1.22.2}{420, 784, 8110} सः¦प॒व॒स्व॒¦यः¦आवि॑थ¦इन्द्र᳚म्¦वृ॒त्राय॑¦हन्त॑वे | व॒व्रि॒ऽवांस᳚म्¦म॒हीः¦अ॒पः || |
सु॒वीरा᳚सो व॒यं धना॒ जये᳚म सोम मीढ्वः |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} पु॒ना॒नो व॑र्ध नो॒ गिरः॑ ||{23/30}{9.61.23}{9.3.1.23}{7.1.22.3}{421, 784, 8111} सु॒ऽवीरा᳚सः¦व॒यम्¦धना᳚¦जये᳚म¦सो॒म॒¦मी॒ढ्वः॒ | पु॒ना॒नः¦व॒र्ध॒¦नः॒¦गिरः॑ || |
त्वोता᳚स॒स्तवाव॑सा॒ स्याम॑ व॒न्वन्त॑ आ॒मुरः॑ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} सोम᳚ व्र॒तेषु॑ जागृहि ||{24/30}{9.61.24}{9.3.1.24}{7.1.22.4}{422, 784, 8112} त्वाऽऊ᳚तासः¦तव॑¦अव॑सा¦स्याम॑¦व॒न्वन्तः॑¦आ॒ऽमुरः॑ | सोम॑¦व्र॒तेषु॑¦जा॒गृ॒हि॒ || |
अ॒प॒घ्नन् प॑वते॒ मृधोऽप॒ सोमो॒, अरा᳚व्णः |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} गच्छ॒न्निन्द्र॑स्य निष्कृ॒तम् ||{25/30}{9.61.25}{9.3.1.25}{7.1.22.5}{423, 784, 8113} अ॒प॒ऽघ्नन्¦प॒व॒ते॒¦मृधः॑¦अप॑¦सोमः॑¦अरा᳚व्णः | गच्छ॑न्¦इन्द्र॑स्य¦निः॒ऽकृ॒तम् || |
म॒हो नो᳚ रा॒य आ भ॑र॒ पव॑मान ज॒ही मृधः॑ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} रास्वे᳚न्दो वी॒रव॒द् यशः॑ ||{26/30}{9.61.26}{9.3.1.26}{7.1.23.1}{424, 784, 8114} म॒हः¦नः॒¦रा॒यः¦आ¦भ॒र॒¦पव॑मान¦ज॒हि¦मृधः॑ | रास्व॑¦इ॒न्दो॒ इति॑¦वी॒रऽव॑त्¦यशः॑ || |
न त्वा᳚ श॒तं च॒न ह्रुतो॒ राधो॒ दित्स᳚न्त॒मा मि॑नन् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} यत् पु॑ना॒नो म॑ख॒स्यसे᳚ ||{27/30}{9.61.27}{9.3.1.27}{7.1.23.2}{425, 784, 8115} न¦त्वा॒¦श॒तम्¦च॒न¦हुतः॑¦राधः॑¦दित्स᳚न्तम्¦आ¦मि॒न॒न् | यत्¦पु॒ना॒नः¦म॒ख॒स्यसे᳚ || |
पव॑स्वेन्दो॒ वृषा᳚ सु॒तः कृ॒धी नो᳚ य॒शसो॒ जने᳚ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} विश्वा॒, अप॒ द्विषो᳚ जहि ||{28/30}{9.61.28}{9.3.1.28}{7.1.23.3}{426, 784, 8116} पव॑स्व¦इ॒न्दो॒ इति॑¦वृषा᳚¦सु॒तः¦कृ॒धि¦नः॒¦य॒शसः॑¦जने᳚ | विश्वाः᳚¦अप॑¦द्विषः॑¦ज॒हि॒ || |
अस्य॑ ते स॒ख्ये व॒यं तवे᳚न्दो द्यु॒म्न उ॑त्त॒मे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} सा॒स॒ह्याम॑ पृतन्य॒तः ||{29/30}{9.61.29}{9.3.1.29}{7.1.23.4}{427, 784, 8117} अस्य॑¦ते॒¦स॒ख्ये¦व॒यम्¦तव॑¦इ॒न्दो॒ इति॑¦द्यु॒म्ने¦उ॒त्ऽत॒मे | स॒स॒ह्याम॑¦पृ॒त॒न्य॒तः || |
या ते᳚ भी॒मान्यायु॑धा ति॒ग्मानि॒ सन्ति॒ धूर्व॑णे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} रक्षा᳚ समस्य नो नि॒दः ||{30/30}{9.61.30}{9.3.1.30}{7.1.23.5}{428, 784, 8118} या¦ते॒¦भी॒मानि॑¦आयु॑धा¦ति॒ग्मानि॑¦सन्ति॑¦धूर्व॑णे | रक्ष॑¦स॒म॒स्य॒¦नः॒¦नि॒दः || |
[62] एतेअसृग्रमिति त्रिंशदृचस्य सूक्तस्य भार्गवोजमदग्निः पवमानसोमो गायत्री | |
ए॒ते, अ॑सृग्र॒मिन्द॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} विश्वा᳚न्य॒भि सौभ॑गा ||{1/30}{9.62.1}{9.3.2.1}{7.1.24.1}{429, 785, 8119} ए॒ते¦अ॒सृ॒ग्र॒म्¦इन्द॑वः¦ति॒रः¦प॒वित्र᳚म्¦आ॒शवः॑ | विश्वा᳚नि¦अ॒भि¦सौभ॑गा || |
वि॒घ्नन्तो᳚ दुरि॒ता पु॒रु सु॒गा तो॒काय॑ वा॒जिनः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} तना᳚ कृ॒ण्वन्तो॒, अर्व॑ते ||{2/30}{9.62.2}{9.3.2.2}{7.1.24.2}{430, 785, 8120} वि॒ऽघ्नन्तः॑¦दुः॒ऽइ॒ता¦पु॒रु¦सु॒ऽगा¦तो॒काय॑¦वा॒जिनः॑ | तना᳚¦कृ॒ण्वन्तः॑¦अर्व॑ते || |
कृ॒ण्वन्तो॒ वरि॑वो॒ गवे॒ऽभ्य॑र्षन्ति सुष्टु॒तिम् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} इळा᳚म॒स्मभ्यं᳚ सं॒यत᳚म् ||{3/30}{9.62.3}{9.3.2.3}{7.1.24.3}{431, 785, 8121} कृ॒ण्वन्तः॑¦वरि॑वः¦गवे᳚¦अ॒भि¦अ॒र्ष॒न्ति॒¦सु॒ऽस्तु॒तिम् | इळा᳚म्¦अ॒स्मभ्य᳚म्¦स॒म्ऽयत᳚म् || |
असा᳚व्यं॒शुर्मदा᳚या॒ऽप्सु दक्षो᳚ गिरि॒ष्ठाः |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} श्ये॒नो न योनि॒मास॑दत् ||{4/30}{9.62.4}{9.3.2.4}{7.1.24.4}{432, 785, 8122} असा᳚वि¦अं॒शुः¦मदा᳚य¦अ॒प्ऽसु¦दक्षः॑¦गि॒रि॒ऽस्थाः | श्ये॒नः¦न¦योनि᳚म्¦आ¦अ॒स॒द॒त् || |
शु॒भ्रमन्धो᳚ दे॒ववा᳚तम॒प्सु धू॒तो नृभिः॑ सु॒तः |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} स्वद᳚न्ति॒ गावः॒ पयो᳚भिः ||{5/30}{9.62.5}{9.3.2.5}{7.1.24.5}{433, 785, 8123} शु॒भ्रम्¦अन्धः॑¦दे॒वऽवा᳚तम्¦अ॒प्ऽसु¦धू॒तः¦नृऽभिः॑¦सु॒तः | स्वद᳚न्ति¦गावः॑¦पयः॑ऽभिः || |
आदी॒मश्वं॒ न हेता॒रोऽशू᳚शुभन्न॒मृता᳚य |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} मध्वो॒ रसं᳚ सध॒मादे᳚ ||{6/30}{9.62.6}{9.3.2.6}{7.1.25.1}{434, 785, 8124} आत्¦ई॒म्¦अश्व᳚म्¦न¦हेता᳚रः¦अशू᳚शुभन्¦अ॒मृता᳚य | मध्वः॑¦रस᳚म्¦स॒ध॒ऽमादे᳚ || |
यास्ते॒ धारा᳚ मधु॒श्चुतोऽसृ॑ग्रमिन्द ऊ॒तये᳚ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} ताभिः॑ प॒वित्र॒मास॑दः ||{7/30}{9.62.7}{9.3.2.7}{7.1.25.2}{435, 785, 8125} याः¦ते॒¦धाराः᳚¦म॒धु॒ऽश्चुतः॑¦असृ॑ग्रम्¦इ॒न्दो॒ इति॑¦ऊ॒तये᳚ | ताभिः॑¦प॒वित्र᳚म्¦आ¦अ॒स॒दः॒ || |
सो, अ॒र्षेन्द्रा᳚य पी॒तये᳚ ति॒रो रोमा᳚ण्य॒व्यया᳚ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} सीद॒न् योना॒ वने॒ष्वा ||{8/30}{9.62.8}{9.3.2.8}{7.1.25.3}{436, 785, 8126} सः¦अ॒र्ष॒¦इन्द्रा᳚य¦पी॒तये᳚¦ति॒रः¦रोमा᳚णि¦अ॒व्यया᳚ | सीद॑न्¦योना᳚¦वने᳚षु¦आ || |
त्वमि᳚न्दो॒ परि॑ स्रव॒ स्वादि॑ष्ठो॒, अङ्गि॑रोभ्यः |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} व॒रि॒वो॒विद् घृ॒तं पयः॑ ||{9/30}{9.62.9}{9.3.2.9}{7.1.25.4}{437, 785, 8127} त्वम्¦इ॒न्दो॒ इति॑¦परि॑¦स्र॒व॒¦स्वादि॑ष्ठः¦अङ्गि॑रःऽभ्यः | व॒रि॒वः॒ऽवित्¦घृ॒तम्¦पयः॑ || |
अ॒यं विच॑र्षणिर्हि॒तः पव॑मानः॒ स चे᳚तति |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} हि॒न्वा॒न आप्यं᳚ बृ॒हत् ||{10/30}{9.62.10}{9.3.2.10}{7.1.25.5}{438, 785, 8128} अ॒यम्¦विऽच॑र्षणिः¦हि॒तः¦पव॑मानः¦सः¦चे॒त॒ति॒ | हि॒न्वा॒नः¦आप्य᳚म्¦बृ॒हत् || |
ए॒ष वृषा॒ वृष᳚व्रतः॒ पव॑मानो, अशस्ति॒हा |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} कर॒द् वसू᳚नि दा॒शुषे᳚ ||{11/30}{9.62.11}{9.3.2.11}{7.1.26.1}{439, 785, 8129} ए॒षः¦वृषा᳚¦वृष॑ऽव्रतः¦पव॑मानः¦अ॒श॒स्ति॒ऽहा | कर॑त्¦वसू᳚नि¦दा॒शुषे᳚ || |
आ प॑वस्व सह॒स्रिणं᳚ र॒यिं गोम᳚न्तम॒श्विन᳚म् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} पु॒रु॒श्च॒न्द्रं पु॑रु॒स्पृह᳚म् ||{12/30}{9.62.12}{9.3.2.12}{7.1.26.2}{440, 785, 8130} आ¦प॒व॒स्व॒¦स॒ह॒स्रिण᳚म्¦र॒यिम्¦गोऽम᳚न्तम्¦अ॒श्विन᳚म् | पु॒रु॒ऽच॒न्द्रम्¦पु॒रु॒ऽस्पृह᳚म् || |
ए॒ष स्य परि॑ षिच्यते मर्मृ॒ज्यमा᳚न आ॒युभिः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} उ॒रु॒गा॒यः क॒विक्र॑तुः ||{13/30}{9.62.13}{9.3.2.13}{7.1.26.3}{441, 785, 8131} ए॒षः¦स्यः¦परि॑¦सि॒च्य॒ते॒¦म॒र्मृ॒ज्यमा᳚नः¦आ॒युऽभिः॑ | उ॒रु॒ऽगा॒यः¦क॒विऽक्र॑तुः || |
स॒हस्रो᳚तिः श॒ताम॑घो वि॒मानो॒ रज॑सः क॒विः |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} इन्द्रा᳚य पवते॒ मदः॑ ||{14/30}{9.62.14}{9.3.2.14}{7.1.26.4}{442, 785, 8132} स॒हस्र॑ऽऊतिः¦श॒तऽम॑घः¦वि॒ऽमानः॑¦रज॑सः¦क॒विः | इन्द्रा᳚य¦प॒व॒ते॒¦मदः॑ || |
गि॒रा जा॒त इ॒ह स्तु॒त इन्दु॒रिन्द्रा᳚य धीयते |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} विर्योना᳚ वस॒तावि॑व ||{15/30}{9.62.15}{9.3.2.15}{7.1.26.5}{443, 785, 8133} गि॒रा¦जा॒तः¦इ॒ह¦स्तु॒तः¦इन्दुः॑¦इन्द्रा᳚य¦धी॒य॒ते॒ | विः¦योना᳚¦व॒स॒तौऽइ᳚व || |
पव॑मानः सु॒तो नृभिः॒ सोमो॒ वाज॑मिवासरत् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} च॒मूषु॒ शक्म॑ना॒सद᳚म् ||{16/30}{9.62.16}{9.3.2.16}{7.1.27.1}{444, 785, 8134} पव॑मानः¦सु॒तः¦नृऽभिः॑¦सोमः॑¦वाज᳚म्ऽइव¦अ॒स॒रत् | च॒मूषु॑¦शक्म॑ना¦आ॒ऽसद᳚म् || |
तं त्रि॑पृ॒ष्ठे त्रि॑वन्धु॒रे रथे᳚ युञ्जन्ति॒ यात॑वे |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} ऋषी᳚णां स॒प्त धी॒तिभिः॑ ||{17/30}{9.62.17}{9.3.2.17}{7.1.27.2}{445, 785, 8135} तम्¦त्रि॒ऽपृ॒ष्ठे¦त्रि॒ऽब॒न्धु॒रे¦रथे᳚¦युं॒ज॒न्ति॒¦यात॑वे | ऋषी᳚णाम्¦स॒प्त¦धी॒तिऽभिः॑ || |
तं सो᳚तारो धन॒स्पृत॑मा॒शुं वाजा᳚य॒ यात॑वे |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} हरिं᳚ हिनोत वा॒जिन᳚म् ||{18/30}{9.62.18}{9.3.2.18}{7.1.27.3}{446, 785, 8136} तम्¦सो॒ता॒रः॒¦ध॒न॒ऽस्पृत᳚म्¦आ॒शुम्¦वाजा᳚य¦यात॑वे | हरि᳚म्¦हि॒नो॒त॒¦वा॒जिन᳚म् || |
आ॒वि॒शन् क॒लशं᳚ सु॒तो विश्वा॒, अर्ष᳚न्न॒भि श्रियः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} शूरो॒ न गोषु॑ तिष्ठति ||{19/30}{9.62.19}{9.3.2.19}{7.1.27.4}{447, 785, 8137} आ॒ऽवि॒शन्¦क॒लश᳚म्¦सु॒तः¦विश्वाः᳚¦अर्ष॑न्¦अ॒भि¦श्रियः॑ | शूरः॑¦न¦गोषु॑¦ति॒ष्ठ॒ति॒ || |
आ त॑ इन्दो॒ मदा᳚य॒ कं पयो᳚ दुहन्त्या॒यवः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} दे॒वा दे॒वेभ्यो॒ मधु॑ ||{20/30}{9.62.20}{9.3.2.20}{7.1.27.5}{448, 785, 8138} आ¦ते॒¦इ॒न्दो॒ इति॑¦मदा᳚य¦कम्¦पयः॑¦दु॒ह॒न्ति॒¦आ॒यवः॑ | दे॒वाः¦दे॒वेभ्यः॑¦मधु॑ || |
आ नः॒ सोमं᳚ प॒वित्र॒ आ सृ॒जता॒ मधु॑मत्तमम् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} दे॒वेभ्यो᳚ देव॒श्रुत्त॑मम् ||{21/30}{9.62.21}{9.3.2.21}{7.1.28.1}{449, 785, 8139} आ¦नः॒¦सोम᳚म्¦प॒वित्रे᳚¦आ¦सृ॒जत॑¦मधु॑मत्ऽतमम् | दे॒वेभ्यः॑¦दे॒व॒श्रुत्ऽत॑मम् || |
ए॒ते सोमा᳚, असृक्षत गृणा॒नाः श्रव॑से म॒हे |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} म॒दिन्त॑मस्य॒ धार॑या ||{22/30}{9.62.22}{9.3.2.22}{7.1.28.2}{450, 785, 8140} ए॒ते¦सोमाः᳚¦अ॒सृ॒क्ष॒त॒¦गृ॒णा॒नाः¦श्रव॑से¦म॒हे | म॒दिन्ऽत॑मस्य¦धार॑या || |
अ॒भि गव्या᳚नि वी॒तये᳚ नृ॒म्णा पु॑ना॒नो, अ॑र्षसि |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} स॒नद्वा᳚जः॒ परि॑ स्रव ||{23/30}{9.62.23}{9.3.2.23}{7.1.28.3}{451, 785, 8141} अ॒भि¦गव्या᳚नि¦वी॒तये᳚¦नृ॒म्णा¦पु॒ना॒नः¦अ॒र्ष॒सि॒ | स॒नत्ऽवा᳚जः¦परि॑¦स्र॒व॒ || |
उ॒त नो॒ गोम॑ती॒रिषो॒ विश्वा᳚, अर्ष परि॒ष्टुभः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} गृ॒णा॒नो ज॒मद॑ग्निना ||{24/30}{9.62.24}{9.3.2.24}{7.1.28.4}{452, 785, 8142} उ॒त¦नः॒¦गोऽम॑तीः¦इषः॑¦विश्वाः᳚¦अ॒र्ष॒¦प॒रि॒ऽस्तुभः॑ | गृ॒णा॒नः¦ज॒मत्।आ॑ग्निना || |
पव॑स्व वा॒चो, अ॑ग्रि॒यः सोम॑ चि॒त्राभि॑रू॒तिभिः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} अ॒भि विश्वा᳚नि॒ काव्या᳚ ||{25/30}{9.62.25}{9.3.2.25}{7.1.28.5}{453, 785, 8143} पव॑स्व¦वा॒चः¦अ॒ग्रि॒यः¦सोम॑¦चि॒त्राभिः॑¦ऊ॒तिऽभिः॑ | अ॒भि¦विश्वा᳚नि¦काव्या᳚ || |
त्वं स॑मु॒द्रिया᳚, अ॒पो᳚ऽग्रि॒यो वाच॑ ई॒रय॑न् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} पव॑स्व विश्वमेजय ||{26/30}{9.62.26}{9.3.2.26}{7.1.29.1}{454, 785, 8144} त्वम्¦स॒मु॒द्रियाः᳚¦अ॒पः¦अ॒ग्रि॒यः¦वाचः॑¦ई॒रय॑न् | पव॑स्व¦वि॒श्व॒म्ऽए॒ज॒य॒ || |
तुभ्ये॒मा भुव॑ना कवे महि॒म्ने सो᳚म तस्थिरे |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} तुभ्य॑मर्षन्ति॒ सिन्ध॑वः ||{27/30}{9.62.27}{9.3.2.27}{7.1.29.2}{455, 785, 8145} तुभ्य॑¦इ॒मा¦भुव॑ना¦क॒वे॒¦म॒हि॒म्ने¦सो॒म॒¦त॒स्थि॒रे॒ | तुभ्य᳚म्¦अ॒र्ष॒न्ति॒¦सिन्ध॑वः || |
प्र ते᳚ दि॒वो न वृ॒ष्टयो॒ धारा᳚ यन्त्यस॒श्चतः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} अ॒भि शु॒क्रामु॑प॒स्तिर᳚म् ||{28/30}{9.62.28}{9.3.2.28}{7.1.29.3}{456, 785, 8146} प्र¦ते॒¦दि॒वः¦न¦वृ॒ष्टयः॑¦धाराः᳚¦य॒न्ति॒¦अ॒स॒श्चतः॑ | अ॒भि¦शु॒क्राम्¦उ॒प॒ऽस्तिर᳚म् || |
इन्द्रा॒येन्दुं᳚ पुनीतनो॒ग्रं दक्षा᳚य॒ साध॑नम् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} ई॒शा॒नं वी॒तिरा᳚धसम् ||{29/30}{9.62.29}{9.3.2.29}{7.1.29.4}{457, 785, 8147} इन्द्रा᳚य¦इन्दु᳚म्¦पु॒नी॒त॒न॒¦उ॒ग्रम्¦दक्षा᳚य¦साध॑नम् | ई॒शा॒नम्¦वी॒तिऽरा᳚धसम् || |
पव॑मान ऋ॒तः क॒विः सोमः॑ प॒वित्र॒मास॑दत् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} दध॑त् स्तो॒त्रे सु॒वीर्य᳚म् ||{30/30}{9.62.30}{9.3.2.30}{7.1.29.5}{458, 785, 8148} पव॑मानः¦ऋ॒तः¦क॒विः¦सोमः॑¦प॒वित्र᳚म्¦आ¦अ॒स॒द॒त् | दध॑त्¦स्तो॒त्रे¦सु॒ऽवीर्य᳚म् || |
[63] आपवस्वेति त्रिंशदृचस्य सूक्तस्य काश्यपोनिध्रुविः पवमान सोमो गायत्री | |
आ प॑वस्व सह॒स्रिणं᳚ र॒यिं सो᳚म सु॒वीर्य᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} अ॒स्मे श्रवां᳚सि धारय ||{1/30}{9.63.1}{9.3.3.1}{7.1.30.1}{459, 786, 8149} आ¦प॒व॒स्व॒¦स॒ह॒स्रिण᳚म्¦र॒यिम्¦सो॒म॒¦सु॒ऽवीर्य᳚म् | अ॒स्मे इति॑¦श्रवां᳚सि¦धा॒र॒य॒ || |
इष॒मूर्जं᳚ च पिन्वस॒ इन्द्रा᳚य मत्स॒रिन्त॑मः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} च॒मूष्वा नि षी᳚दसि ||{2/30}{9.63.2}{9.3.3.2}{7.1.30.2}{460, 786, 8150} इष᳚म्¦ऊर्ज᳚म्¦च॒¦पि॒न्व॒से॒¦इन्द्रा᳚य¦म॒त्स॒रिन्ऽत॑मः | च॒मूषु॑¦आ¦नि¦सी॒द॒सि॒ || |
सु॒त इन्द्रा᳚य॒ विष्ण॑वे॒ सोमः॑ क॒लशे᳚, अक्षरत् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} मधु॑माँ, अस्तु वा॒यवे᳚ ||{3/30}{9.63.3}{9.3.3.3}{7.1.30.3}{461, 786, 8151} सु॒तः¦इन्द्रा᳚य¦विष्ण॑वे¦सोमः॑¦क॒लशे᳚¦अ॒क्ष॒र॒त् | मधु॑ऽमान्¦अ॒स्तु॒¦वा॒यवे᳚ || |
ए॒ते, अ॑सृग्रमा॒शवोऽति॒ ह्वरां᳚सि ब॒भ्रवः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} सोमा᳚ ऋ॒तस्य॒ धार॑या ||{4/30}{9.63.4}{9.3.3.4}{7.1.30.4}{462, 786, 8152} ए॒ते¦अ॒सृ॒ग्र॒म्¦आ॒शवः॑¦अति॑¦ह्वरां᳚सि¦ब॒भ्रवः॑ | सोमाः᳚¦ऋ॒तस्य॑¦धार॑या || |
इन्द्रं॒ वर्ध᳚न्तो, अ॒प्तुरः॑ कृ॒ण्वन्तो॒ विश्व॒मार्य᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} अ॒प॒घ्नन्तो॒, अरा᳚व्णः ||{5/30}{9.63.5}{9.3.3.5}{7.1.30.5}{463, 786, 8153} इन्द्र᳚म्¦वर्ध᳚न्तः¦अ॒प्ऽतुरः॑¦कृ॒ण्वन्तः॑¦विश्व᳚म्¦आर्य᳚म् | अ॒प॒ऽघ्नन्तः॑¦अरा᳚व्णः || |
सु॒ता, अनु॒ स्वमा रजो॒ऽभ्य॑र्षन्ति ब॒भ्रवः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} इन्द्रं॒ गच्छ᳚न्त॒ इन्द॑वः ||{6/30}{9.63.6}{9.3.3.6}{7.1.31.1}{464, 786, 8154} सु॒ताः¦अनु॑¦स्वम्¦आ¦रजः॑¦अ॒भि¦अ॒र्ष॒न्ति॒¦ब॒भ्रवः॑ | इन्द्र᳚म्¦गच्छ᳚न्तः¦इन्द॑वः || |
अ॒या प॑वस्व॒ धार॑या॒ यया॒ सूर्य॒मरो᳚चयः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} हि॒न्वा॒नो मानु॑षीर॒पः ||{7/30}{9.63.7}{9.3.3.7}{7.1.31.2}{465, 786, 8155} अ॒या¦प॒व॒स्व॒¦धार॑या¦यया᳚¦सूर्य᳚म्¦अरो᳚चयः | हि॒न्वा॒नः¦मानु॑षीः¦अ॒पः || |
अयु॑क्त॒ सूर॒ एत॑शं॒ पव॑मानो म॒नावधि॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} अ॒न्तरि॑क्षेण॒ यात॑वे ||{8/30}{9.63.8}{9.3.3.8}{7.1.31.3}{466, 786, 8156} अयु॑क्त¦सूरः॑¦एत॑शम्¦पव॑मानः¦म॒नौ¦अधि॑ | अ॒न्तरि॑क्षेण¦यात॑वे || |
उ॒त त्या ह॒रितो॒ दश॒ सूरो᳚, अयुक्त॒ यात॑वे |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} इन्दु॒रिन्द्र॒ इति॑ ब्रु॒वन् ||{9/30}{9.63.9}{9.3.3.9}{7.1.31.4}{467, 786, 8157} उ॒त¦त्याः¦ह॒रितः॑¦दश॑¦सूरः॑¦अ॒यु॒क्त॒¦यात॑वे | इन्दुः॑¦इन्द्रः॑¦इति॑¦ब्रु॒वन् || |
परी॒तो वा॒यवे᳚ सु॒तं गिर॒ इन्द्रा᳚य मत्स॒रम् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} अव्यो॒ वारे᳚षु सिञ्चत ||{10/30}{9.63.10}{9.3.3.10}{7.1.31.5}{468, 786, 8158} परि॑¦इ॒तः¦वा॒यवे᳚¦सु॒तम्¦गिरः॑¦इन्द्रा᳚य¦म॒त्स॒रम् | अव्यः॑¦वारे᳚षु¦सिं॒च॒त॒ || |
पव॑मान वि॒दा र॒यिम॒स्मभ्यं᳚ सोम दु॒ष्टर᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} यो दू॒णाशो᳚ वनुष्य॒ता ||{11/30}{9.63.11}{9.3.3.11}{7.1.32.1}{469, 786, 8159} पव॑मान¦वि॒दाः¦र॒यिम्¦अ॒स्मभ्य᳚म्¦सो॒म॒¦दु॒स्तर᳚म् | यः¦दुः॒ऽनशः॑¦व॒नु॒ष्य॒ता || |
अ॒भ्य॑र्ष सह॒स्रिणं᳚ र॒यिं गोम᳚न्तम॒श्विन᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} अ॒भि वाज॑मु॒त श्रवः॑ ||{12/30}{9.63.12}{9.3.3.12}{7.1.32.2}{470, 786, 8160} अ॒भि¦अ॒र्ष॒¦स॒ह॒स्रिण᳚म्¦र॒यिम्¦गोऽम᳚न्तम्¦अ॒श्विन᳚म् | अ॒भि¦वाज᳚म्¦उ॒त¦श्रवः॑ || |
सोमो᳚ दे॒वो न सूर्योऽद्रि॑भिः पवते सु॒तः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} दधा᳚नः क॒लशे॒ रस᳚म् ||{13/30}{9.63.13}{9.3.3.13}{7.1.32.3}{471, 786, 8161} सोमः॑¦दे॒वः¦न¦सूर्यः॑¦अद्रि॑ऽभिः¦प॒व॒ते॒¦सु॒तः | दधा᳚नः¦क॒लशे᳚¦रस᳚म् || |
ए॒ते धामा॒न्यार्या᳚ शु॒क्रा, ऋ॒तस्य॒ धार॑या |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} वाजं॒ गोम᳚न्तमक्षरन् ||{14/30}{9.63.14}{9.3.3.14}{7.1.32.4}{472, 786, 8162} ए॒ते¦धामा᳚नि¦आर्या᳚¦शु॒क्राः¦ऋ॒तस्य॑¦धार॑या | वाज᳚म्¦गोऽम᳚न्तम्¦अ॒क्ष॒र॒न् || |
सु॒ता, इन्द्रा᳚य व॒ज्रिणे॒ सोमा᳚सो॒ दध्या᳚शिरः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} प॒वित्र॒मत्य॑क्षरन् ||{15/30}{9.63.15}{9.3.3.15}{7.1.32.5}{473, 786, 8163} सु॒ताः¦इन्द्रा᳚य¦व॒ज्रिणे᳚¦सोमा᳚सः¦दधि॑ऽआशिरः | प॒वित्र᳚म्¦अति॑¦अ॒क्ष॒र॒न् || |
प्र सो᳚म॒ मधु॑मत्तमो रा॒ये, अ॑र्ष प॒वित्र॒ आ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} मदो॒ यो दे᳚व॒वीत॑मः ||{16/30}{9.63.16}{9.3.3.16}{7.1.33.1}{474, 786, 8164} प्र¦सो॒म॒¦मधु॑मत्ऽतमः¦रा॒ये¦अ॒र्ष॒¦प॒वित्रे᳚¦आ | मदः॑¦यः¦दे॒व॒ऽवीत॑मः || |
तमी᳚ मृजन्त्या॒यवो॒ हरिं᳚ न॒दीषु॑ वा॒जिन᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} इन्दु॒मिन्द्रा᳚य मत्स॒रम् ||{17/30}{9.63.17}{9.3.3.17}{7.1.33.2}{475, 786, 8165} तम्¦ई॒मिति॑¦मृ॒ज॒न्ति॒¦आ॒यवः॑¦हरि᳚म्¦न॒दीषु॑¦वा॒जिन᳚म् | इन्दु᳚म्¦इन्द्रा᳚य¦म॒त्स॒रम् || |
आ प॑वस्व॒ हिर᳚ण्यव॒दश्वा᳚वत् सोम वी॒रव॑त् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} वाजं॒ गोम᳚न्त॒मा भ॑र ||{18/30}{9.63.18}{9.3.3.18}{7.1.33.3}{476, 786, 8166} आ¦प॒व॒स्व॒¦हिर᳚ण्यऽवत्¦अश्व॑ऽवत्¦सो॒म॒¦वी॒रऽव॑त् | वाज᳚म्¦गोऽम᳚न्तम्¦आ¦भ॒र॒ || |
परि॒ वाजे॒ न वा᳚ज॒युमव्यो॒ वारे᳚षु सिञ्चत |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} इन्द्रा᳚य॒ मधु॑मत्तमम् ||{19/30}{9.63.19}{9.3.3.19}{7.1.33.4}{477, 786, 8167} परि॑¦वाजे᳚¦न¦वा॒ज॒ऽयुम्¦अव्यः॑¦वारे᳚षु¦सिं॒च॒त॒ | इन्द्रा᳚य¦मधु॑मत्ऽतमम् || |
क॒विं मृ॑जन्ति॒ मर्ज्यं᳚ धी॒भिर्विप्रा᳚, अव॒स्यवः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} वृषा॒ कनि॑क्रदर्षति ||{20/30}{9.63.20}{9.3.3.20}{7.1.33.5}{478, 786, 8168} क॒विम्¦मृ॒ज॒न्ति॒¦मर्ज्य᳚म्¦धी॒भिः¦विप्राः᳚¦अ॒व॒स्यवः॑ | वृषा᳚¦कनि॑क्रत्¦अ॒र्ष॒ति॒ || |
वृष॑णं धी॒भिर॒प्तुरं॒ सोम॑मृ॒तस्य॒ धार॑या |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} म॒ती विप्राः॒ सम॑स्वरन् ||{21/30}{9.63.21}{9.3.3.21}{7.1.34.1}{479, 786, 8169} वृष॑णम्¦धी॒भिः¦अ॒प्ऽतुर᳚म्¦सोम᳚म्¦ऋ॒तस्य॑¦धार॑या | म॒ती¦विप्राः᳚¦सम्¦अ॒स्व॒र॒न् || |
पव॑स्व देवायु॒षगिन्द्रं᳚ गच्छतु ते॒ मदः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} वा॒युमा रो᳚ह॒ धर्म॑णा ||{22/30}{9.63.22}{9.3.3.22}{7.1.34.2}{480, 786, 8170} पव॑स्व¦दे॒व॒¦आ॒यु॒षक्¦इन्द्र᳚म्¦ग॒च्छ॒तु॒¦ते॒¦मदः॑ | वा॒युम्¦आ¦रो॒ह॒¦धर्म॑णा || |
पव॑मान॒ नि तो᳚शसे र॒यिं सो᳚म श्र॒वाय्य᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} प्रि॒यः स॑मु॒द्रमा वि॑श ||{23/30}{9.63.23}{9.3.3.23}{7.1.34.3}{481, 786, 8171} पव॑मान¦नि¦तो॒श॒से॒¦र॒यिम्¦सो॒म॒¦श्र॒वाय्य᳚म् | प्रि॒यः¦स॒मु॒द्रम्¦आ¦वि॒श॒ || |
अ॒प॒घ्नन् प॑वसे॒ मृधः॑ क्रतु॒वित् सो᳚म मत्स॒रः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} नु॒दस्वादे᳚वयुं॒ जन᳚म् ||{24/30}{9.63.24}{9.3.3.24}{7.1.34.4}{482, 786, 8172} अ॒प॒ऽघ्नन्¦प॒व॒से॒¦मृधः॑¦क्र॒तु॒ऽवित्¦सो॒म॒¦म॒त्स॒रः | नु॒दस्व॑¦अदे᳚वऽयुम्¦जन᳚म् || |
पव॑माना, असृक्षत॒ सोमाः᳚ शु॒क्रास॒ इन्द॑वः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} अ॒भि विश्वा᳚नि॒ काव्या᳚ ||{25/30}{9.63.25}{9.3.3.25}{7.1.34.5}{483, 786, 8173} पव॑मानाः¦अ॒सृ॒क्ष॒त॒¦सोमाः᳚¦शु॒क्रासः॑¦इन्द॑वः | अ॒भि¦विश्वा᳚नि¦काव्या᳚ || |
पव॑मानास आ॒शवः॑ शु॒भ्रा, अ॑सृग्र॒मिन्द॑वः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} घ्नन्तो॒ विश्वा॒, अप॒ द्विषः॑ ||{26/30}{9.63.26}{9.3.3.26}{7.1.35.1}{484, 786, 8174} पव॑मानासः¦आ॒शवः॑¦शु॒भ्राः¦अ॒सृ॒ग्र॒म्¦इन्द॑वः | घ्नन्तः॑¦विश्वाः᳚¦अप॑¦द्विषः॑ || |
पव॑माना दि॒वस्पर्य॒न्तरि॑क्षादसृक्षत |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} पृ॒थि॒व्या, अधि॒ सान॑वि ||{27/30}{9.63.27}{9.3.3.27}{7.1.35.2}{485, 786, 8175} पव॑मानाः¦दि॒वः¦परि॑¦अ॒न्तरि॑क्षात्¦अ॒सृ॒क्ष॒त॒ | पृ॒थि॒व्याः¦अधि॑¦सान॑वि || |
पु॒ना॒नः सो᳚म॒ धार॒येन्दो॒ विश्वा॒, अप॒ स्रिधः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} ज॒हि रक्षां᳚सि सुक्रतो ||{28/30}{9.63.28}{9.3.3.28}{7.1.35.3}{486, 786, 8176} पु॒ना॒नः¦सो॒म॒¦धार॑या¦इन्दो॒ इति॑¦विश्वाः᳚¦अप॑¦स्रिधः॑ | ज॒हि¦रक्षां᳚सि¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो || |
अ॒प॒घ्नन् त्सो᳚म र॒क्षसो॒ऽभ्य॑र्ष॒ कनि॑क्रदत् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ||{29/30}{9.63.29}{9.3.3.29}{7.1.35.4}{487, 786, 8177} अ॒प॒ऽघ्नन्¦सो॒म॒¦र॒क्षसः॑¦अ॒भि¦अ॒र्ष॒¦कनि॑क्रदत् | द्यु॒ऽमन्त᳚म्¦शुष्म᳚म्¦उ॒त्ऽत॒मम् || |
अ॒स्मे वसू᳚नि धारय॒ सोम॑ दि॒व्यानि॒ पार्थि॑वा |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} इन्दो॒ विश्वा᳚नि॒ वार्या᳚ ||{30/30}{9.63.30}{9.3.3.30}{7.1.35.5}{488, 786, 8178} अ॒स्मे इति॑¦वसू᳚नि¦धा॒र॒य॒¦सोम॑¦दि॒व्यानि॑¦पार्थि॑वा | इन्दो॒ इति॑¦विश्वा᳚नि¦वार्या᳚ || |
[64] वृषासोमेति त्रिंशदृचस्यसूक्तस्य मारीचः कश्यपः पवमानसोमोगायत्री | |
वृषा᳚ सोम द्यु॒माँ, अ॑सि॒ वृषा᳚ देव॒ वृष᳚व्रतः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} वृषा॒ धर्मा᳚णि दधिषे ||{1/30}{9.64.1}{9.3.4.1}{7.1.36.1}{489, 787, 8179} वृषा᳚¦सो॒म॒¦द्यु॒ऽमान्¦अ॒सि॒¦वृषा᳚¦दे॒व॒¦वृष॑ऽव्रतः | वृषा᳚¦धर्मा᳚णि¦द॒धि॒षे॒ || |
वृष्ण॑स्ते॒ वृष्ण्यं॒ शवो॒ वृषा॒ वनं॒ वृषा॒ मदः॑ |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} स॒त्यं वृ॑ष॒न् वृषेद॑सि ||{2/30}{9.64.2}{9.3.4.2}{7.1.36.2}{490, 787, 8180} वृष्णः॑¦ते॒¦वृष्ण्य᳚म्¦शवः॑¦वृषा᳚¦वन᳚म्¦वृषा᳚¦मदः॑ | स॒त्यम्¦वृ॒ष॒न्¦वृषा᳚¦इत्¦अ॒सि॒ || |
अश्वो॒ न च॑क्रदो॒ वृषा॒ सं गा, इ᳚न्दो॒ समर्व॑तः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} वि नो᳚ रा॒ये दुरो᳚ वृधि ||{3/30}{9.64.3}{9.3.4.3}{7.1.36.3}{491, 787, 8181} अश्वः॑¦न¦च॒क्र॒दः॒¦वृषा᳚¦सम्¦गाः¦इ॒न्दो॒ इति॑¦सम्¦अर्व॑तः | वि¦नः॒¦रा॒ये¦दुरः॑¦वृ॒धि॒ || |
असृ॑क्षत॒ प्र वा॒जिनो᳚ ग॒व्या सोमा᳚सो, अश्व॒या |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} शु॒क्रासो᳚ वीर॒याशवः॑ ||{4/30}{9.64.4}{9.3.4.4}{7.1.36.4}{492, 787, 8182} असृ॑क्षत¦प्र¦वा॒जिनः॑¦ग॒व्या¦सोमा᳚सः¦अ॒श्व॒ऽया | शु॒क्रासः॑¦वी॒र॒ऽया¦आ॒शवः॑ || |
शु॒म्भमा᳚ना, ऋता॒युभि᳚र्मृ॒ज्यमा᳚ना॒ गभ॑स्त्योः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} पव᳚न्ते॒ वारे᳚, अ॒व्यये᳚ ||{5/30}{9.64.5}{9.3.4.5}{7.1.36.5}{493, 787, 8183} शु॒म्भमा᳚नाः¦ऋ॒त॒युऽभिः॑¦मृ॒ज्यमा᳚नाः¦गभ॑स्त्योः | पव᳚न्ते¦वारे᳚¦अ॒व्यये᳚ || |
ते विश्वा᳚ दा॒शुषे॒ वसु॒ सोमा᳚ दि॒व्यानि॒ पार्थि॑वा |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} पव᳚न्ता॒मान्तरि॑क्ष्या ||{6/30}{9.64.6}{9.3.4.6}{7.1.37.1}{494, 787, 8184} ते¦विश्वा᳚¦दा॒शुषे᳚¦वसु॑¦सोमाः᳚¦दि॒व्यानि॑¦पार्थि॑वा | पव᳚न्ताम्¦आ¦अ॒न्तरि॑क्ष्या || |
पव॑मानस्य विश्ववि॒त् प्र ते॒ सर्गा᳚, असृक्षत |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} सूर्य॑स्येव॒ न र॒श्मयः॑ ||{7/30}{9.64.7}{9.3.4.7}{7.1.37.2}{495, 787, 8185} पव॑मानस्य¦वि॒श्व॒ऽवि॒त्¦प्र¦ते॒¦सर्गाः᳚¦अ॒सृ॒क्ष॒त॒ | सूर्य॑स्यऽइव¦न¦र॒श्मयः॑ || |
के॒तुं कृ॒ण्वन् दि॒वस्परि॒ विश्वा᳚ रू॒पाभ्य॑र्षसि |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} स॒मु॒द्रः सो᳚म पिन्वसे ||{8/30}{9.64.8}{9.3.4.8}{7.1.37.3}{496, 787, 8186} के॒तुम्¦कृ॒ण्वन्¦दि॒वः¦परि॑¦विश्वा᳚¦रू॒पा¦अ॒भि¦अ॒र्ष॒सि॒ | स॒मु॒द्रः¦सो॒म॒¦पि॒न्व॒से॒ || |
हि॒न्वा॒नो वाच॑मिष्यसि॒ पव॑मान॒ विध᳚र्मणि |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} अक्रा᳚न् दे॒वो न सूर्यः॑ ||{9/30}{9.64.9}{9.3.4.9}{7.1.37.4}{497, 787, 8187} हि॒न्वा॒नः¦वाच᳚म्¦इ॒ष्य॒सि॒¦पव॑मान¦विऽध᳚र्मणि | अक्रा᳚न्¦दे॒वः¦न¦सूर्यः॑ || |
इन्दुः॑ पविष्ट॒ चेत॑नः प्रि॒यः क॑वी॒नां म॒ती |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} सृ॒जदश्वं᳚ र॒थीरि॑व ||{10/30}{9.64.10}{9.3.4.10}{7.1.37.5}{498, 787, 8188} इन्दुः॑¦प॒वि॒ष्ट॒¦चेत॑नः¦प्रि॒यः¦क॒वी॒नाम्¦म॒ती | सृ॒जत्¦अश्व᳚म्¦र॒थीःऽइ᳚व || |
ऊ॒र्मिर्यस्ते᳚ प॒वित्र॒ आ दे᳚वा॒वीः प॒र्यक्ष॑रत् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} सीद᳚न्नृ॒तस्य॒ योनि॒मा ||{11/30}{9.64.11}{9.3.4.11}{7.1.38.1}{499, 787, 8189} ऊ॒र्मिः¦यः¦ते॒¦प॒वित्रे᳚¦आ¦द॒व॒।आ॒वीः¦प॒रि॒।आक्ष॑रत् | सीद॑न्¦ऋ॒तस्य॑¦योनि᳚म्¦आ || |
स नो᳚, अर्ष प॒वित्र॒ आ मदो॒ यो दे᳚व॒वीत॑मः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} इन्द॒विन्द्रा᳚य पी॒तये᳚ ||{12/30}{9.64.12}{9.3.4.12}{7.1.38.2}{500, 787, 8190} सः¦नः॒¦अ॒र्ष॒¦प॒वित्रे᳚¦आ¦मदः॑¦यः¦दे॒व॒ऽवीत॑मः | इन्दो॒ इति॑¦इन्द्रा᳚य¦पी॒तये᳚ || |
इ॒षे प॑वस्व॒ धार॑या मृ॒ज्यमा᳚नो मनी॒षिभिः॑ |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} इन्दो᳚ रु॒चाभि गा, इ॑हि ||{13/30}{9.64.13}{9.3.4.13}{7.1.38.3}{501, 787, 8191} इ॒षे¦प॒व॒स्व॒¦धार॑या¦मृ॒ज्यमा᳚नः¦म॒नी॒षिऽभिः॑ | इन्दो॒ इति॑¦रु॒चा¦अ॒भि¦गाः¦इ॒हि॒ || |
पु॒ना॒नो वरि॑वस्कृ॒ध्यूर्जं॒ जना᳚य गिर्वणः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} हरे᳚ सृजा॒न आ॒शिर᳚म् ||{14/30}{9.64.14}{9.3.4.14}{7.1.38.4}{502, 787, 8192} पु॒ना॒नः¦वरि॑वः¦कृ॒धि॒¦ऊर्ज᳚म्¦जना᳚य¦गि॒र्व॒णः॒ | हरे᳚¦सृ॒जा॒नः¦आ॒ऽशिर᳚म् || |
पु॒ना॒नो दे॒ववी᳚तय॒ इन्द्र॑स्य याहि निष्कृ॒तम् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} द्यु॒ता॒नो वा॒जिभि᳚र्य॒तः ||{15/30}{9.64.15}{9.3.4.15}{7.1.38.5}{503, 787, 8193} पु॒ना॒नः¦दे॒वऽवी᳚तये¦इन्द्र॑स्य¦या॒हि॒¦निः॒ऽकृ॒तम् | द्यु॒ता॒नः¦वा॒जिऽभिः॑¦य॒तः || |
प्र हि᳚न्वा॒नास॒ इन्द॒वोऽच्छा᳚ समु॒द्रमा॒शवः॑ |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} धि॒या जू॒ता, अ॑सृक्षत ||{16/30}{9.64.16}{9.3.4.16}{7.1.39.1}{504, 787, 8194} प्र¦हि॒न्वा॒नासः॑¦इन्द॑वः¦अच्छ॑¦स॒मु॒द्रम्¦आ॒शवः॑ | धि॒या¦जू॒ताः¦अ॒सृ॒क्ष॒त॒ || |
म॒र्मृ॒जा॒नास॑ आ॒यवो॒ वृथा᳚ समु॒द्रमिन्द॑वः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} अग्म᳚न्नृ॒तस्य॒ योनि॒मा ||{17/30}{9.64.17}{9.3.4.17}{7.1.39.2}{505, 787, 8195} म॒र्मृ॒जा॒नासः॑¦आ॒यवः॑¦वृथा᳚¦स॒मु॒द्रम्¦इन्द॑वः | अग्म॑न्¦ऋ॒तस्य॑¦योनि᳚म्¦आ || |
परि॑ णो याह्यस्म॒युर्विश्वा॒ वसू॒न्योज॑सा |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} पा॒हि नः॒ शर्म॑ वी॒रव॑त् ||{18/30}{9.64.18}{9.3.4.18}{7.1.39.3}{506, 787, 8196} परि॑¦नः॒¦या॒हि॒¦अ॒स्म॒ऽयुः¦विश्वा᳚¦वसू᳚नि¦ओज॑सा | पा॒हि¦नः॒¦शर्म॑¦वी॒रऽव॑त् || |
मिमा᳚ति॒ वह्नि॒रेत॑शः प॒दं यु॑जा॒न ऋक्व॑भिः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} प्र यत् स॑मु॒द्र आहि॑तः ||{19/30}{9.64.19}{9.3.4.19}{7.1.39.4}{507, 787, 8197} मिमा᳚ति¦वह्निः॑¦एत॑शः¦प॒दम्¦यु॒जा॒नः¦ऋक्व॑ऽभिः | प्र¦यत्¦स॒मु॒द्रे¦आऽहि॑तः || |
आ यद् योनिं᳚ हिर॒ण्यय॑मा॒शुरृ॒तस्य॒ सीद॑ति |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} जहा॒त्यप्र॑चेतसः ||{20/30}{9.64.20}{9.3.4.20}{7.1.39.5}{508, 787, 8198} आ¦यत्¦योनि᳚म्¦हि॒र॒ण्यय᳚म्¦आ॒शुः¦ऋ॒तस्य॑¦सीद॑ति | जहा᳚ति¦अप्र॑ऽचेतसः || |
अ॒भि वे॒ना, अ॑नूष॒तेय॑क्षन्ति॒ प्रचे᳚तसः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} मज्ज॒न्त्यवि॑चेतसः ||{21/30}{9.64.21}{9.3.4.21}{7.1.40.1}{509, 787, 8199} अ॒भि¦वे॒नाः¦अ॒नू॒ष॒त॒¦इय॑क्षन्ति¦प्रऽचे᳚तसः | मज्ज᳚न्ति¦अवि॑ऽचेतसः || |
इन्द्रा᳚येन्दो म॒रुत्व॑ते॒ पव॑स्व॒ मधु॑मत्तमः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} ऋ॒तस्य॒ योनि॑मा॒सद᳚म् ||{22/30}{9.64.22}{9.3.4.22}{7.1.40.2}{510, 787, 8200} इन्द्रा᳚य¦इ॒न्दो॒ इति॑¦म॒रुत्व॑ते¦पव॑स्व¦मधु॑मत्ऽतमः | ऋ॒तस्य॑¦योनि᳚म्¦आ॒ऽसद᳚म् || |
तं त्वा॒ विप्रा᳚ वचो॒विदः॒ परि॑ ष्कृण्वन्ति वे॒धसः॑ |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} सं त्वा᳚ मृजन्त्या॒यवः॑ ||{23/30}{9.64.23}{9.3.4.23}{7.1.40.3}{511, 787, 8201} तम्¦त्वा॒¦विप्राः᳚¦व॒चः॒ऽविदः॑¦परि॑¦कृ॒ण्व॒न्ति॒¦वे॒धसः॑ | सम्¦त्वा॒¦मृ॒ज॒न्ति॒¦आ॒यवः॑ || |
रसं᳚ ते मि॒त्रो, अ᳚र्य॒मा पिब᳚न्ति॒ वरु॑णः कवे |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} पव॑मानस्य म॒रुतः॑ ||{24/30}{9.64.24}{9.3.4.24}{7.1.40.4}{512, 787, 8202} रस᳚म्¦ते॒¦मि॒त्रः¦अ॒र्य॒मा¦पिब᳚न्ति¦वरु॑णः¦क॒वे॒ | पव॑मानस्य¦म॒रुतः॑ || |
त्वं सो᳚म विप॒श्चितं᳚ पुना॒नो वाच॑मिष्यसि |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} इन्दो᳚ स॒हस्र॑भर्णसम् ||{25/30}{9.64.25}{9.3.4.25}{7.1.40.5}{513, 787, 8203} त्वम्¦सो॒म॒¦वि॒पः॒ऽचित᳚म्¦पु॒ना॒नः¦वाच᳚म्¦इ॒ष्य॒सि॒ | इन्दो॒ इति॑¦स॒हस्र॑ऽभर्णसम् || |
उ॒तो स॒हस्र॑भर्णसं॒ वाचं᳚ सोम मख॒स्युव᳚म् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} पु॒ना॒न इ᳚न्द॒वा भ॑र ||{26/30}{9.64.26}{9.3.4.26}{7.1.41.1}{514, 787, 8204} उ॒तो इति॑¦स॒हस्र॑ऽभर्णसम्¦वाच᳚म्¦सो॒म॒¦म॒ख॒स्युव᳚म् | पु॒ना॒नः¦इ॒न्दो॒ इति॑¦आ¦भ॒र॒ || |
पु॒ना॒न इ᳚न्दवेषां॒ पुरु॑हूत॒ जना᳚नाम् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} प्रि॒यः स॑मु॒द्रमा वि॑श ||{27/30}{9.64.27}{9.3.4.27}{7.1.41.2}{515, 787, 8205} पु॒ना॒नः¦इ॒न्दो॒ इति॑¦ए॒षा॒म्¦पुरु॑ऽहूत¦जना᳚नाम् | प्रि॒यः¦स॒मु॒द्रम्¦आ¦वि॒श॒ || |
दवि॑द्युतत्या रु॒चा प॑रि॒ष्टोभ᳚न्त्या कृ॒पा |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} सोमाः᳚ शु॒क्रा गवा᳚शिरः ||{28/30}{9.64.28}{9.3.4.28}{7.1.41.3}{516, 787, 8206} दवि॑द्युतत्या¦रु॒चा¦प॒रि॒ऽस्तोभ᳚न्त्या¦कृ॒पा | सोमाः᳚¦शु॒क्राः¦गोऽआ᳚शिरः || |
हि॒न्वा॒नो हे॒तृभि᳚र्य॒त आ वाजं᳚ वा॒ज्य॑क्रमीत् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} सीद᳚न्तो व॒नुषो᳚ यथा ||{29/30}{9.64.29}{9.3.4.29}{7.1.41.4}{517, 787, 8207} हि॒न्वा॒नः¦हे॒तृऽभिः॑¦य॒तः¦आ¦वाज᳚म्¦वा॒जी¦अ॒क्र॒मी॒त् | सीद᳚न्तः¦व॒नुषः॑¦य॒था॒ || |
ऋ॒धक् सो᳚म स्व॒स्तये᳚ संजग्मा॒नो दि॒वः क॒विः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} पव॑स्व॒ सूर्यो᳚ दृ॒शे ||{30/30}{9.64.30}{9.3.4.30}{7.1.41.5}{518, 787, 8208} ऋ॒धक्¦सो॒म॒¦स्व॒स्तये᳚¦स॒म्ऽज॒ग्मा॒नः¦दि॒वः¦क॒विः | पव॑स्व¦सूर्यः॑¦दृ॒शे || |
[65] हिन्वन्तीति त्रिंशदृचस्य सूक्तस्य वारुणिर्भृगुः पवमानसोमोगायत्री | (अत्रभार्गवोजमदग्निः पाक्षिकः) (पवमान पारायण चतुर्थोध्यायः) |
हि॒न्वन्ति॒ सूर॒मुस्र॑यः॒ स्वसा᳚रो जा॒मय॒स्पति᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} म॒हामिन्दुं᳚ मही॒युवः॑ ||{1/30}{9.65.1}{9.3.5.1}{7.2.1.1}{519, 788, 8209} हि॒न्वन्ति॑¦सूर᳚म्¦उस्र॑यः¦स्वसा᳚रः¦जा॒मयः॑¦पति᳚म् | म॒हाम्¦इन्दु᳚म्¦म॒ही॒युवः॑ || |
पव॑मान रु॒चारु॑चा दे॒वो दे॒वेभ्य॒स्परि॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} विश्वा॒ वसू॒न्या वि॑श ||{2/30}{9.65.2}{9.3.5.2}{7.2.1.2}{520, 788, 8210} पव॑मान¦रु॒चाऽरु॑चा¦दे॒वः¦दे॒वेभ्यः॑¦परि॑ | विश्वा᳚¦वसू᳚नि¦आ¦वि॒श॒ || |
आ प॑वमान सुष्टु॒तिं वृ॒ष्टिं दे॒वेभ्यो॒ दुवः॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} इ॒षे प॑वस्व सं॒यत᳚म् ||{3/30}{9.65.3}{9.3.5.3}{7.2.1.3}{521, 788, 8211} आ¦प॒व॒मा॒न॒¦सु॒ऽस्तु॒तिम्¦वृ॒ष्टिम्¦दे॒वेभ्यः॑¦दुवः॑ | इ॒षे¦प॒व॒स्व॒¦स॒म्ऽयत᳚म् || |
वृषा॒ ह्यसि॑ भा॒नुना᳚ द्यु॒मन्तं᳚ त्वा हवामहे |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} पव॑मान स्वा॒ध्यः॑ ||{4/30}{9.65.4}{9.3.5.4}{7.2.1.4}{522, 788, 8212} वृषा᳚¦हि¦असि॑¦भा॒नुना᳚¦द्यु॒ऽमन्त᳚म्¦त्वा॒¦ह॒वा॒म॒हे॒ | पव॑मान¦सु॒ऽआ॒ध्यः॑ || |
आ प॑वस्व सु॒वीर्यं॒ मन्द॑मानः स्वायुध |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} इ॒हो ष्वि᳚न्द॒वा ग॑हि ||{5/30}{9.65.5}{9.3.5.5}{7.2.1.5}{523, 788, 8213} आ¦पा॒व॒स्व॒¦सु॒ऽवीर्य᳚म्¦मन्द॑मानः¦सु॒ऽआ॒यु॒ध॒ | इ॒हो इति॑¦सु¦इ॒न्दो॒ इति॑¦आ¦ग॒हि॒ || |
यद॒द्भिः प॑रिषि॒च्यसे᳚ मृ॒ज्यमा᳚नो॒ गभ॑स्त्योः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} द्रुणा᳚ स॒धस्थ॑मश्नुषे ||{6/30}{9.65.6}{9.3.5.6}{7.2.2.1}{524, 788, 8214} यत्¦अ॒त्ऽभिः¦प॒रि॒ऽसि॒च्यसे᳚¦मृ॒ज्यमा᳚नः¦गभ॑स्त्योः | द्रुणा᳚¦स॒धऽस्थ᳚म्¦अ॒श्नु॒षे॒ || |
प्र सोमा᳚य व्यश्व॒वत् पव॑मानाय गायत |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} म॒हे स॒हस्र॑चक्षसे ||{7/30}{9.65.7}{9.3.5.7}{7.2.2.2}{525, 788, 8215} प्र¦सोमा᳚य¦व्य॒श्व॒ऽवत्¦पव॑मानाय¦गा॒य॒त॒ | म॒हे¦स॒हस्र॑ऽचक्षसे || |
यस्य॒ वर्णं᳚ मधु॒श्चुतं॒ हरिं᳚ हि॒न्वन्त्यद्रि॑भिः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} इन्दु॒मिन्द्रा᳚य पी॒तये᳚ ||{8/30}{9.65.8}{9.3.5.8}{7.2.2.3}{526, 788, 8216} यस्य॑¦वर्ण᳚म्¦म॒धु॒ऽश्चुत᳚म्¦हरि᳚म्¦हि॒न्वन्ति॑¦अद्रि॑ऽभिः | इन्दु᳚म्¦इन्द्रा᳚य¦पी॒तये᳚ || |
तस्य॑ ते वा॒जिनो᳚ व॒यं विश्वा॒ धना᳚नि जि॒ग्युषः॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} स॒खि॒त्वमा वृ॑णीमहे ||{9/30}{9.65.9}{9.3.5.9}{7.2.2.4}{527, 788, 8217} तस्य॑¦ते॒¦वा॒जिनः॑¦व॒यम्¦विश्वा᳚¦धना᳚नि¦जि॒ग्युषः॑ | स॒खि॒ऽत्वम्¦आ¦वृ॒णी॒म॒हे॒ || |
वृषा᳚ पवस्व॒ धार॑या म॒रुत्व॑ते च मत्स॒रः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} विश्वा॒ दधा᳚न॒ ओज॑सा ||{10/30}{9.65.10}{9.3.5.10}{7.2.2.5}{528, 788, 8218} वृषा᳚¦प॒व॒स्व॒¦धार॑या¦म॒रुत्व॑ते¦च॒¦म॒त्स॒रः | विश्वा᳚¦दधा᳚नः¦ओज॑सा || |
तं त्वा᳚ ध॒र्तार॑मो॒ण्यो॒३॑(ओः॒) पव॑मान स्व॒र्दृश᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} हि॒न्वे वाजे᳚षु वा॒जिन᳚म् ||{11/30}{9.65.11}{9.3.5.11}{7.2.3.1}{529, 788, 8219} तम्¦त्वा॒¦ध॒र्तार᳚म्¦ओ॒ण्योः᳚¦पव॑मान¦स्वः॒ऽदृश᳚म् | हि॒न्वे¦वाजे᳚षु¦वा॒जिन᳚म् || |
अ॒या चि॒त्तो वि॒पानया॒ हरिः॑ पवस्व॒ धार॑या |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} युजं॒ वाजे᳚षु चोदय ||{12/30}{9.65.12}{9.3.5.12}{7.2.3.2}{530, 788, 8220} अ॒या¦चि॒त्तः¦वि॒पा¦अ॒नया᳚¦हरिः॑¦प॒व॒स्व॒¦धार॑या | युज᳚म्¦वाजे᳚षु¦चो॒द॒य॒ || |
आ न॑ इन्दो म॒हीमिषं॒ पव॑स्व वि॒श्वद॑र्शतः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} अ॒स्मभ्यं᳚ सोम गातु॒वित् ||{13/30}{9.65.13}{9.3.5.13}{7.2.3.3}{531, 788, 8221} आ¦नः॒¦इ॒न्दो॒ इति॑¦म॒हीम्¦इष᳚म्¦पव॑स्व¦वि॒श्वऽद॑र्शतः | अ॒स्मभ्य᳚म्¦सो॒म॒¦गा॒तु॒ऽवित् || |
आ क॒लशा᳚, अनूष॒तेन्दो॒ धारा᳚भि॒रोज॑सा |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} एन्द्र॑स्य पी॒तये᳚ विश ||{14/30}{9.65.14}{9.3.5.14}{7.2.3.4}{532, 788, 8222} आ¦क॒लशाः᳚¦अ॒नू॒ष॒त॒¦इन्दो॒ इति॑¦धारा᳚भिः¦ओज॑सा | आ¦इन्द्र॑स्य¦पी॒तये᳚¦वि॒श॒ || |
यस्य॑ ते॒ मद्यं॒ रसं᳚ ती॒व्रं दु॒हन्त्यद्रि॑भिः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} स प॑वस्वाभिमाति॒हा ||{15/30}{9.65.15}{9.3.5.15}{7.2.3.5}{533, 788, 8223} यस्य॑¦ते॒¦मद्य᳚म्¦रस᳚म्¦ती॒व्रम्¦दु॒हन्ति॑¦अद्रि॑ऽभिः | सः¦प॒व॒स्व॒¦अ॒भि॒मा॒ति॒ऽहा || |
राजा᳚ मे॒धाभि॑रीयते॒ पव॑मानो म॒नावधि॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} अ॒न्तरि॑क्षेण॒ यात॑वे ||{16/30}{9.65.16}{9.3.5.16}{7.2.4.1}{534, 788, 8224} राजा᳚¦मे॒धाभिः॑¦ई॒य॒ते॒¦पव॑मानः¦म॒नौ¦अधि॑ | अ॒न्तरि॑क्षेण¦यात॑वे || |
आ न॑ इन्दो शत॒ग्विनं॒ गवां॒ पोषं॒ स्वश्व्य᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} वहा॒ भग॑त्तिमू॒तये᳚ ||{17/30}{9.65.17}{9.3.5.17}{7.2.4.2}{535, 788, 8225} आ¦नः॒¦इ॒न्दो॒ इति॑¦श॒त॒ऽग्विन᳚म्¦गवा᳚म्¦पोष᳚म्¦सु॒।आश्व्य᳚म् | वह॑¦भग॑त्तिम्¦ऊ॒तये᳚ || |
आ नः॑ सोम॒ सहो॒ जुवो᳚ रू॒पं न वर्च॑से भर |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} सु॒ष्वा॒णो दे॒ववी᳚तये ||{18/30}{9.65.18}{9.3.5.18}{7.2.4.3}{536, 788, 8226} आ¦नः॒¦सो॒म॒¦सहः॑¦जुवः॑¦रू॒पम्¦न¦वर्च॑से¦भ॒र॒ | सु॒स्वा॒नः¦दे॒वऽवी᳚तये || |
अर्षा᳚ सोम द्यु॒मत्त॑मो॒ऽभि द्रोणा᳚नि॒ रोरु॑वत् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} सीद᳚ञ्छ्ये॒नो न योनि॒मा ||{19/30}{9.65.19}{9.3.5.19}{7.2.4.4}{537, 788, 8227} अर्ष॑¦सो॒म॒¦द्यु॒मत्ऽत॑मः¦अ॒भि¦द्रोणा᳚नि¦रोरु॑वत् | सीद॑न्¦श्ये॒नः¦न¦योनि᳚म्¦आ || |
अ॒प्सा, इन्द्रा᳚य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} सोमो᳚, अर्षति॒ विष्ण॑वे ||{20/30}{9.65.20}{9.3.5.20}{7.2.4.5}{538, 788, 8228} अ॒प्साः¦इन्द्रा᳚य¦वा॒यवे᳚¦वरु॑णाय¦म॒रुत्ऽभ्यः॑ | सोमः॑¦अ॒र्ष॒ति॒¦विष्ण॑वे || |
इषं᳚ तो॒काय॑ नो॒ दध॑द॒स्मभ्यं᳚ सोम वि॒श्वतः॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} आ प॑वस्व सह॒स्रिण᳚म् ||{21/30}{9.65.21}{9.3.5.21}{7.2.5.1}{539, 788, 8229} इष᳚म्¦तो॒काय॑¦नः॒¦दध॑त्¦अ॒स्मभ्य᳚म्¦सो॒म॒¦वि॒श्वतः॑ | आ¦प॒व॒स्व॒¦स॒ह॒स्रिण᳚म् || |
ये सोमा᳚सः परा॒वति॒ ये, अ᳚र्वा॒वति॑ सुन्वि॒रे |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} ये वा॒दः श᳚र्य॒णाव॑ति ||{22/30}{9.65.22}{9.3.5.22}{7.2.5.2}{540, 788, 8230} ये¦सोमा᳚सः¦प॒रा॒ऽवति॑¦ये¦अ॒र्वा॒ऽवति॑¦सु॒न्वि॒रे | ये¦वा॒¦अ॒दः¦श॒र्य॒णाऽव॑ति || |
य आ᳚र्जी॒केषु॒ कृत्व॑सु॒ ये मध्ये᳚ प॒स्त्या᳚नाम् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} ये वा॒ जने᳚षु प॒ञ्चसु॑ ||{23/30}{9.65.23}{9.3.5.23}{7.2.5.3}{541, 788, 8231} ये¦आ॒र्जी॒केषु॑¦कृत्व॑ऽसु¦ये¦मध्ये᳚¦प॒स्त्या᳚नाम् | ये¦वा॒¦जने᳚षु¦पं॒चऽसु॑ || |
ते नो᳚ वृ॒ष्टिं दि॒वस्परि॒ पव᳚न्ता॒मा सु॒वीर्य᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} सु॒वा॒ना दे॒वास॒ इन्द॑वः ||{24/30}{9.65.24}{9.3.5.24}{7.2.5.4}{542, 788, 8232} ते¦नः॒¦वृ॒ष्टिम्¦दि॒वः¦परि॑¦पव᳚न्ताम्¦आ¦सु॒ऽवीर्य᳚म् | सु॒वा॒नाः¦दे॒वासः॑¦इन्द॑वः || |
पव॑ते हर्य॒तो हरि॑र्गृणा॒नो ज॒मद॑ग्निना |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} हि॒न्वा॒नो गोरधि॑ त्व॒चि ||{25/30}{9.65.25}{9.3.5.25}{7.2.5.5}{543, 788, 8233} पव॑ते¦ह॒र्य॒तः¦हरिः॑¦गृ॒णा॒नः¦ज॒मत्।आ॑ग्निना | हि॒न्वा॒नः¦गोः¦अधि॑¦त्व॒चि || |
प्र शु॒क्रासो᳚ वयो॒जुवो᳚ हिन्वा॒नासो॒ न सप्त॑यः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} श्री॒णा॒ना, अ॒प्सु मृ᳚ञ्जत ||{26/30}{9.65.26}{9.3.5.26}{7.2.6.1}{544, 788, 8234} प्र¦शु॒क्रासः॑¦व॒यः॒ऽजुवः॑¦हि॒न्वा॒नासः॑¦न¦सप्त॑यः | श्री॒णा॒नाः¦अ॒प्ऽसु¦मृं॒ज॒त॒ || |
तं त्वा᳚ सु॒तेष्वा॒भुवो᳚ हिन्वि॒रे दे॒वता᳚तये |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} स प॑वस्वा॒नया᳚ रु॒चा ||{27/30}{9.65.27}{9.3.5.27}{7.2.6.2}{545, 788, 8235} तम्¦त्वा॒¦सु॒तेषु॑¦आ॒ऽभुवः॑¦हि॒न्वि॒रे¦दे॒वऽता᳚तये | सः¦प॒व॒स्व॒¦अ॒नया᳚¦रु॒चा || |
आ ते॒ दक्षं᳚ मयो॒भुवं॒ वह्नि॑म॒द्या वृ॑णीमहे |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} पान्त॒मा पु॑रु॒स्पृह᳚म् ||{28/30}{9.65.28}{9.3.5.28}{7.2.6.3}{546, 788, 8236} आ¦ते॒¦दक्ष᳚म्¦म॒यः॒ऽभुव᳚म्¦वह्नि᳚म्¦अ॒द्य¦वृ॒णी॒म॒हे॒ | पान्त᳚म्¦आ¦पु॒रु॒ऽस्पृह᳚म् || |
आ म॒न्द्रमा वरे᳚ण्य॒मा विप्र॒मा म॑नी॒षिण᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} पान्त॒मा पु॑रु॒स्पृह᳚म् ||{29/30}{9.65.29}{9.3.5.29}{7.2.6.4}{547, 788, 8237} आ¦म॒न्द्रम्¦आ¦वरे᳚ण्यम्¦आ¦विप्र᳚म्¦आ¦म॒नी॒षिण᳚म् | पान्त᳚म्¦आ¦पु॒रु॒ऽस्पृह᳚म् || |
आ र॒यिमा सु॑चे॒तुन॒मा सु॑क्रतो त॒नूष्वा |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} पान्त॒मा पु॑रु॒स्पृह᳚म् ||{30/30}{9.65.30}{9.3.5.30}{7.2.6.5}{548, 788, 8238} आ¦र॒यिम्¦आ¦सु॒ऽचे॒तुन᳚म्¦आ¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो¦त॒नूषु॑¦आ | पान्त᳚म्¦आ¦पु॒रु॒ऽस्पृह᳚म् || |
[66] पवस्वेति त्रिंशदृचस्य सूक्तस्य शतंवैखानसाः पवमानसोम एकोनविंश्यादितिसृणामग्निः पवमानोगायत्र्यष्टादश्यनुष्टुप् (शतं वैखानसाएतेस्वायंभुवाः अतएषांगोत्रंनास्तिएवमग्रेपिनारायणादयऊह्याः) | |
पव॑स्व विश्वचर्षणे॒ऽभि विश्वा᳚नि॒ काव्या᳚ |{शतं वैखानसाः | पवमानः सोमः | गायत्री} सखा॒ सखि॑भ्य॒ ईड्यः॑ ||{1/30}{9.66.1}{9.3.6.1}{7.2.7.1}{549, 789, 8239} पव॑स्व¦वि॒श्व॒ऽच॒र्ष॒णे॒¦अ॒भि¦विश्वा᳚नि¦काव्या᳚ | सखा᳚¦सखि॑ऽभ्यः¦ईड्यः॑ || |
ताभ्यां॒ विश्व॑स्य राजसि॒ ये प॑वमान॒ धाम॑नी |{शतं वैखानसाः | पवमानः सोमः | गायत्री} प्र॒ती॒ची सो᳚म त॒स्थतुः॑ ||{2/30}{9.66.2}{9.3.6.2}{7.2.7.2}{550, 789, 8240} ताभ्य᳚म्¦विश्व॑स्य¦रा॒ज॒सि॒¦ये इति॑¦प॒व॒मा॒न॒¦धाम॑नी॒ इति॑ | प्र॒ती॒ची इति॑¦सो॒म॒¦त॒स्थतुः॑ || |
परि॒ धामा᳚नि॒ यानि॑ ते॒ त्वं सो᳚मासि वि॒श्वतः॑ |{शतं वैखानसाः | पवमानः सोमः | गायत्री} पव॑मान ऋ॒तुभिः॑ कवे ||{3/30}{9.66.3}{9.3.6.3}{7.2.7.3}{551, 789, 8241} परि॑¦धामा᳚नि¦यानि॑¦ते॒¦त्वम्¦सो॒म॒¦अ॒सि॒¦वि॒श्वतः॑ | पव॑मान¦ऋ॒तुऽभिः॑¦क॒वे॒ || |
पव॑स्व ज॒नय॒न्निषो॒ऽभि विश्वा᳚नि॒ वार्या᳚ |{शतं वैखानसाः | पवमानः सोमः | गायत्री} सखा॒ सखि॑भ्य ऊ॒तये᳚ ||{4/30}{9.66.4}{9.3.6.4}{7.2.7.4}{552, 789, 8242} पव॑स्व¦ज॒नय॑न्¦इषः॑¦अ॒भि¦विश्वा᳚नि¦वार्या᳚ | सखा᳚¦सखि॑ऽभ्यः¦ऊ॒तये᳚ || |
तव॑ शु॒क्रासो᳚, अ॒र्चयो᳚ दि॒वस्पृ॒ष्ठे वि त᳚न्वते |{शतं वैखानसाः | पवमानः सोमः | गायत्री} प॒वित्रं᳚ सोम॒ धाम॑भिः ||{5/30}{9.66.5}{9.3.6.5}{7.2.7.5}{553, 789, 8243} तव॑¦शु॒क्रासः॑¦अ॒र्चयः॑¦दि॒वः¦पृ॒ष्ठे¦वि¦त॒न्व॒ते॒ | प॒वित्र᳚म्¦सो॒म॒¦धाम॑ऽभिः || |
तवे॒मे स॒प्त सिन्ध॑वः प्र॒शिषं᳚ सोम सिस्रते |{शतं वैखानसाः | पवमानः सोमः | गायत्री} तुभ्यं᳚ धावन्ति धे॒नवः॑ ||{6/30}{9.66.6}{9.3.6.6}{7.2.8.1}{554, 789, 8244} तव॑¦इ॒मे¦स॒प्त¦सिन्ध॑वः¦प्र॒ऽशिष᳚म्¦सो॒म॒¦सि॒स्र॒ते॒ | तुभ्य᳚म्¦धा॒व॒न्ति॒¦धे॒नवः॑ || |
प्र सो᳚म याहि॒ धार॑या सु॒त इन्द्रा᳚य मत्स॒रः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} दधा᳚नो॒, अक्षि॑ति॒ श्रवः॑ ||{7/30}{9.66.7}{9.3.6.7}{7.2.8.2}{555, 789, 8245} प्र¦सो॒म॒¦या॒हि॒¦धार॑या¦सु॒तः¦इन्द्रा᳚य¦म॒त्स॒रः | दधा᳚नः¦अक्षि॑ति¦श्रवः॑ || |
समु॑ त्वा धी॒भिर॑स्वरन् हिन्व॒तीः स॒प्त जा॒मयः॑ |{शतं वैखानसाः | पवमानः सोमः | गायत्री} विप्र॑मा॒जा वि॒वस्व॑तः ||{8/30}{9.66.8}{9.3.6.8}{7.2.8.3}{556, 789, 8246} सम्¦ऊँ॒ इति॑¦त्वा॒¦धी॒भिः¦अ॒स्व॒र॒न्¦हि॒न्व॒तीः¦स॒प्त¦जा॒मयः॑ | विप्र᳚म्¦आ॒जा¦वि॒वस्व॑तः || |
मृ॒जन्ति॑ त्वा॒ सम॒ग्रुवोऽव्ये᳚ जी॒रावधि॒ ष्वणि॑ |{शतं वैखानसाः | पवमानः सोमः | गायत्री} रे॒भो यद॒ज्यसे॒ वने᳚ ||{9/30}{9.66.9}{9.3.6.9}{7.2.8.4}{557, 789, 8247} मृ॒जन्ति॑¦त्वा॒¦सम्¦अ॒ग्रुवः॑¦अव्ये᳚¦जी॒रौ¦अधि॑¦स्वनि॑ | रे॒भः¦यत्¦अ॒ज्यसे᳚¦वने᳚ || |
पव॑मानस्य ते कवे॒ वाजि॒न् त्सर्गा᳚, असृक्षत |{शतं वैखानसाः | पवमानः सोमः | गायत्री} अर्व᳚न्तो॒ न श्र॑व॒स्यवः॑ ||{10/30}{9.66.10}{9.3.6.10}{7.2.8.5}{558, 789, 8248} पव॑मानस्य¦ते॒¦क॒वे॒¦वाजि॑न्¦सर्गाः᳚¦अ॒सृ॒क्ष॒त॒ | अर्व᳚न्तः¦न¦श्र॒व॒स्यवः॑ || |
अच्छा॒ कोशं᳚ मधु॒श्चुत॒मसृ॑ग्रं॒ वारे᳚, अ॒व्यये᳚ |{शतं वैखानसाः | पवमानः सोमः | गायत्री} अवा᳚वशन्त धी॒तयः॑ ||{11/30}{9.66.11}{9.3.6.11}{7.2.9.1}{559, 789, 8249} अच्छ॑¦कोश᳚म्¦म॒धु॒ऽश्चुत᳚म्¦असृ॑ग्रम्¦वारे᳚¦अ॒व्यये᳚ | अवा᳚वशन्त¦धी॒तयः॑ || |
अच्छा᳚ समु॒द्रमिन्द॒वोऽस्तं॒ गावो॒ न धे॒नवः॑ |{शतं वैखानसाः | पवमानः सोमः | गायत्री} अग्म᳚न्नृ॒तस्य॒ योनि॒मा ||{12/30}{9.66.12}{9.3.6.12}{7.2.9.2}{560, 789, 8250} अच्छ॑¦स॒मु॒द्रम्¦इन्द॑वः¦अस्त᳚म्¦गावः॑¦न¦धे॒नवः॑ | अग्म॑न्¦ऋ॒तस्य॑¦योनि᳚म्¦आ || |
प्र ण॑ इन्दो म॒हे रण॒ आपो᳚, अर्षन्ति॒ सिन्ध॑वः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} यद्गोभि᳚र्वासयि॒ष्यसे᳚ ||{13/30}{9.66.13}{9.3.6.13}{7.2.9.3}{561, 789, 8251} प्र¦नः॒¦इ॒न्दो॒ इति॑¦म॒हे¦रणे᳚¦आपः॑¦अ॒र्ष॒न्ति॒¦सिन्ध॑वः | यत्¦गोभिः॑¦वा॒स॒यि॒ष्यसे᳚ || |
अस्य॑ ते स॒ख्ये व॒यमिय॑क्षन्त॒स्त्वोत॑यः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} इन्दो᳚ सखि॒त्वमु॑श्मसि ||{14/30}{9.66.14}{9.3.6.14}{7.2.9.4}{562, 789, 8252} अस्य॑¦ते॒¦स॒ख्ये¦व॒यम्¦इय॑क्षन्तः¦त्वाऽऊ᳚तयः | इन्दो॒ इति॑¦स॒खि॒ऽत्वम्¦उ॒श्म॒सि॒ || |
आ प॑वस्व॒ गवि॑ष्टये म॒हे सो᳚म नृ॒चक्ष॑से |{शतं वैखानसाः | पवमानः सोमः | गायत्री} एन्द्र॑स्य ज॒ठरे᳚ विश ||{15/30}{9.66.15}{9.3.6.15}{7.2.9.5}{563, 789, 8253} आ¦प॒व॒स्व॒¦गोऽइ᳚ष्टये¦म॒हे¦सो॒म॒¦नृ॒ऽचक्ष॑से | आ¦इन्द्र॑स्य¦ज॒ठरे᳚¦वि॒श॒ || |
म॒हाँ, अ॑सि सोम॒ ज्येष्ठ॑ उ॒ग्राणा᳚मिन्द॒ ओजि॑ष्ठः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} युध्वा॒ सञ्छश्व॑ज्जिगेथ ||{16/30}{9.66.16}{9.3.6.16}{7.2.10.1}{564, 789, 8254} म॒हान्¦अ॒सि॒¦सो॒म॒¦ज्येष्ठः॑¦उ॒ग्राणा᳚म्¦इ॒न्दो॒ इति॑¦ओजि॑ष्ठः | युध्वा᳚¦सन्¦शश्व॑त्¦जि॒गे॒थ॒ || |
य उ॒ग्रेभ्य॑श्चि॒दोजी᳚या॒ञ्छूरे᳚भ्यश्चि॒च्छूर॑तरः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} भू॒रि॒दाभ्य॑श्चि॒न्मंही᳚यान् ||{17/30}{9.66.17}{9.3.6.17}{7.2.10.2}{565, 789, 8255} यः¦उ॒ग्रेभ्यः॑¦चि॒त्¦ओजी᳚यान्¦शूरे᳚भ्यः¦चि॒त्¦शूर॑ऽतरः | भू॒रि॒ऽदाभ्यः॑¦चि॒त्¦मंही᳚यान् || |
त्वं सो᳚म॒ सूर॒ एष॑स्तो॒कस्य॑ सा॒ता त॒नूना᳚म् |{शतं वैखानसाः | पवमानः सोमः | अनुष्टुप्} वृ॒णी॒महे᳚ स॒ख्याय॑ वृणी॒महे॒ युज्या᳚य ||{18/30}{9.66.18}{9.3.6.18}{7.2.10.3}{566, 789, 8256} त्वम्¦सो॒म॒¦सूरः॑¦आ¦इषः॑¦तो॒कस्य॑¦सा॒ता¦त॒नूना᳚म् | वृ॒णी॒महे᳚¦स॒ख्याय॑¦वृ॒णी॒महे᳚¦युज्या᳚य || |
अग्न॒ आयूं᳚षि पवस॒ आ सु॒वोर्ज॒मिषं᳚ च नः |{शतं वैखानसाः | पवमानोग्निः | गायत्री} आ॒रे बा᳚धस्व दु॒च्छुना᳚म् ||{19/30}{9.66.19}{9.3.6.19}{7.2.10.4}{567, 789, 8257} अग्ने᳚¦आयूं᳚षि¦प॒व॒से॒¦आ¦सु॒व॒¦ऊर्ज᳚म्¦इष᳚म्¦च॒¦नः॒ | आ॒रे¦बा॒ध॒स्व॒¦दु॒च्छुना᳚म् || |
अ॒ग्निरृषिः॒ पव॑मानः॒ पाञ्च॑जन्यः पु॒रोहि॑तः |{शतं वैखानसाः | पवमानोग्निः | गायत्री} तमी᳚महे महाग॒यम् ||{20/30}{9.66.20}{9.3.6.20}{7.2.10.5}{568, 789, 8258} अ॒ग्निः¦ऋषिः॑¦पव॑मानः¦पांच॑ऽजन्यः¦पु॒रःऽहि॑तः | तम्¦ई॒म॒हे॒¦म॒हा॒ऽग॒यम् || |
अग्ने॒ पव॑स्व॒ स्वपा᳚, अ॒स्मे वर्चः॑ सु॒वीर्य᳚म् |{शतं वैखानसाः | पवमानोग्निः | गायत्री} दध॑द्र॒यिं मयि॒ पोष᳚म् ||{21/30}{9.66.21}{9.3.6.21}{7.2.11.1}{569, 789, 8259} अग्ने᳚¦पव॑स्व¦सु॒।आपाः᳚¦अ॒स्मे इति॑¦वर्चः॑¦सु॒ऽवीर्य᳚म् | दध॑त्¦र॒यिम्¦मयि॑¦पोष᳚म् || |
पव॑मानो॒, अति॒ स्रिधो॒ऽभ्य॑र्षति सुष्टु॒तिम् |{शतं वैखानसाः | पवमानः सोमः | गायत्री} सूरो॒ न वि॒श्वद॑र्शतः ||{22/30}{9.66.22}{9.3.6.22}{7.2.11.2}{570, 789, 8260} पव॑मानः¦अति॑¦स्रिधः॑¦अ॒भि¦अ॒र्ष॒ति॒¦सु॒ऽस्तु॒तिम् | सूरः॑¦न¦वि॒श्वऽद॑र्शतः || |
स म᳚र्मृजा॒न आ॒युभिः॒ प्रय॑स्वा॒न् प्रय॑से हि॒तः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} इन्दु॒रत्यो᳚ विचक्ष॒णः ||{23/30}{9.66.23}{9.3.6.23}{7.2.11.3}{571, 789, 8261} सः¦म॒र्मृ॒जा॒नः¦आ॒युऽभिः॑¦प्रय॑स्वान्¦प्रय॑से¦हि॒तः | इन्दुः॑¦अत्यः॑¦वि॒ऽच॒क्ष॒णः || |
पव॑मान ऋ॒तं बृ॒हच्छु॒क्रं ज्योति॑रजीजनत् |{शतं वैखानसाः | पवमानः सोमः | गायत्री} कृ॒ष्णा तमां᳚सि॒ जङ्घ॑नत् ||{24/30}{9.66.24}{9.3.6.24}{7.2.11.4}{572, 789, 8262} पव॑मानः¦ऋ॒तम्¦बृ॒हत्¦शु॒क्रम्¦ज्योतिः॑¦अ॒जी॒ज॒न॒त् | कृ॒ष्णा¦तमां᳚सि¦जङ्घ॑नत् || |
पव॑मानस्य॒ जङ्घ्न॑तो॒ हरे᳚श्च॒न्द्रा, अ॑सृक्षत |{शतं वैखानसाः | पवमानः सोमः | गायत्री} जी॒रा, अ॑जि॒रशो᳚चिषः ||{25/30}{9.66.25}{9.3.6.25}{7.2.11.5}{573, 789, 8263} पव॑मानस्य¦जङ्घ्न॑तः¦हरेः᳚¦च॒न्द्राः¦अ॒सृ॒क्ष॒त॒ | जी॒राः¦अ॒जि॒रऽशो᳚चिषः || |
पव॑मानो र॒थीत॑मः शु॒भ्रेभिः॑ शु॒भ्रश॑स्तमः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} हरि॑श्चन्द्रो म॒रुद्ग॑णः ||{26/30}{9.66.26}{9.3.6.26}{7.2.12.1}{574, 789, 8264} पव॑मानः¦र॒थिऽत॑मः¦शु॒भ्रेभिः॑¦शु॒भ्रशः॑ऽतमः | हरि॑ऽचन्द्रः¦म॒रुत्ऽग॑णः || |
पव॑मानो॒ व्य॑श्नवद्र॒श्मिभि᳚र्वाज॒सात॑मः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} दध॑त् स्तो॒त्रे सु॒वीर्य᳚म् ||{27/30}{9.66.27}{9.3.6.27}{7.2.12.2}{575, 789, 8265} पव॑मानः¦वि¦अ॒श्न॒व॒त्¦र॒श्मिऽभिः॑¦वा॒ज॒ऽसात॑मः | दध॑त्¦स्तो॒त्रे¦सु॒ऽवीर्य᳚म् || |
प्र सु॑वा॒न इन्दु॑रक्षाः प॒वित्र॒मत्य॒व्यय᳚म् |{शतं वैखानसाः | पवमानः सोमः | गायत्री} पु॒ना॒न इन्दु॒रिन्द्र॒मा ||{28/30}{9.66.28}{9.3.6.28}{7.2.12.3}{576, 789, 8266} प्र¦सु॒वा॒नः¦इन्दुः॑¦अ॒क्षा॒रिति॑¦प॒वित्र᳚म्¦अति॑¦अ॒व्यय᳚म् | पु॒ना॒नः¦इन्दुः॑¦इन्द्र᳚म्¦आ || |
ए॒ष सोमो॒, अधि॑ त्व॒चि गवां᳚ क्रीळ॒त्यद्रि॑भिः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} इन्द्रं॒ मदा᳚य॒ जोहु॑वत् ||{29/30}{9.66.29}{9.3.6.29}{7.2.12.4}{577, 789, 8267} ए॒षः¦सोमः॑¦अधि॑¦त्व॒चि¦गवा᳚म्¦क्री॒ळ॒ति॒¦अद्रि॑ऽभिः | इन्द्र᳚म्¦मदा᳚य¦जोहु॑वत् || |
यस्य॑ ते द्यु॒म्नव॒त् पयः॒ पव॑मा॒नाभृ॑तं दि॒वः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} तेन॑ नो मृळ जी॒वसे᳚ ||{30/30}{9.66.30}{9.3.6.30}{7.2.12.5}{578, 789, 8268} यस्य॑¦ते॒¦द्यु॒म्नऽव॑त्¦पयः॑¦पव॑मान¦आऽभृ॑तम्¦दि॒वः | तेन॑¦नः॒¦मृ॒ळ॒¦जी॒वसे᳚ || |
[67] त्वंसोमासीति द्वात्रिंशदृचस्य सूक्तस्य आद्यानांसप्तानांतृचानांभरद्वाजकश्यपगोतमात्रिविश्वामित्र जमदग्निवसिष्ठा ऋषयः शिष्टानामांगिरसः पवित्रऋषिः (अत्रवसिष्ठोवापवित्रवसिष्ठौवेतिविपक्षौ) पवमानसोमोदेवता दशम्यादितिसृणांपूषावा यत्तेपवित्रमित्यादिपंचानामग्निः अंत्ययोर्द्वयोः पावमान्यधेतागायत्री षोडश्याद्यास्तिस्रोद्विपदागायत्र्यः त्रिंशीपुरउष्णिक् सप्तविंश्येकत्रिंशीद्वात्रिंश्योनुष्टुभः |( पंचविंश्यादितिसृणांक्रमात्सविताग्निसवितारौविश्वेदेवाइतिदेवताअग्निनासह विकल्पंते ) | |
त्वं सो᳚मासि धार॒युर्म॒न्द्र ओजि॑ष्ठो, अध्व॒रे |{भरद्वाजः | पवमानः सोमः | गायत्री} पव॑स्व मंह॒यद्र॑यिः ||{1/32}{9.67.1}{9.3.7.1}{7.2.13.1}{579, 790, 8269} त्वम्¦सो॒म॒¦अ॒सि॒¦धा॒र॒युः¦म॒न्द्रः¦ओजि॑ष्ठः¦अ॒ध्व॒रे | पव॑स्व¦मं॒ह॒यत्ऽर॑यिः || |
त्वं सु॒तो नृ॒माद॑नो दध॒न्वान् म॑त्स॒रिन्त॑मः |{भरद्वाजः | पवमानः सोमः | गायत्री} इन्द्रा᳚य सू॒रिरन्ध॑सा ||{2/32}{9.67.2}{9.3.7.2}{7.2.13.2}{580, 790, 8270} त्वम्¦सु॒तः¦नृ॒ऽमाद॑नः¦द॒ध॒न्वान्¦म॒त्स॒रिन्ऽत॑मः | इन्द्रा᳚य¦सू॒रिः¦अन्ध॑सा || |
त्वं सु॑ष्वा॒णो, अद्रि॑भिर॒भ्य॑र्ष॒ कनि॑क्रदत् |{भरद्वाजः | पवमानः सोमः | गायत्री} द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ||{3/32}{9.67.3}{9.3.7.3}{7.2.13.3}{581, 790, 8271} त्वम्¦सु॒स्वा॒नः¦अद्रि॑ऽभिः¦अ॒भि¦अ॒र्ष॒¦कनि॑क्रदत् | द्यु॒ऽमन्त᳚म्¦शुष्म᳚म्¦उ॒त्ऽत॒मम् || |
इन्दु᳚र्हिन्वा॒नो, अ॑र्षति ति॒रो वारा᳚ण्य॒व्यया᳚ |{कश्यपः | पवमानः सोमः | गायत्री} हरि॒र्वाज॑मचिक्रदत् ||{4/32}{9.67.4}{9.3.7.4}{7.2.13.4}{582, 790, 8272} इन्दुः॑¦हि॒न्वा॒नः¦अ॒र्ष॒ति॒¦ति॒रः¦वारा᳚णि¦अ॒व्यया᳚ | हरिः॑¦वाज᳚म्¦अ॒चि॒क्र॒द॒त् || |
इन्दो॒ व्यव्य॑मर्षसि॒ वि श्रवां᳚सि॒ वि सौभ॑गा |{कश्यपः | पवमानः सोमः | गायत्री} वि वाजा᳚न् त्सोम॒ गोम॑तः ||{5/32}{9.67.5}{9.3.7.5}{7.2.13.5}{583, 790, 8273} इन्दो॒ इति॑¦वि¦अव्य᳚म्¦अ॒र्ष॒सि॒¦वि¦श्रवां᳚सि¦वि¦सौभ॑गा | वि¦वाजा᳚न्¦सो॒म॒¦गोऽम॑तः || |
आ न॑ इन्दो शत॒ग्विनं᳚ र॒यिं गोम᳚न्तम॒श्विन᳚म् |{कश्यपः | पवमानः सोमः | गायत्री} भरा᳚ सोम सह॒स्रिण᳚म् ||{6/32}{9.67.6}{9.3.7.6}{7.2.14.1}{584, 790, 8274} आ¦नः॒¦इ॒न्दो॒ इति॑¦श॒त॒ऽग्विन᳚म्¦र॒यिम्¦गोऽम᳚न्तम्¦अ॒श्विन᳚म् | भर॑¦सो॒म॒¦स॒ह॒स्रिण᳚म् || |
पव॑मानास॒ इन्द॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ |{गोतमः | पवमानः सोमः | गायत्री} इन्द्रं॒ यामे᳚भिराशत ||{7/32}{9.67.7}{9.3.7.7}{7.2.14.2}{585, 790, 8275} पव॑मानासः¦इन्द॑वः¦ति॒रः¦प॒वित्र᳚म्¦आ॒शवः॑ | इन्द्र᳚म्¦यामे᳚भिः¦आ॒श॒त॒ || |
क॒कु॒हः सो॒म्यो रस॒ इन्दु॒रिन्द्रा᳚य पू॒र्व्यः |{गोतमः | पवमानः सोमः | गायत्री} आ॒युः प॑वत आ॒यवे᳚ ||{8/32}{9.67.8}{9.3.7.8}{7.2.14.3}{586, 790, 8276} क॒कु॒हः¦सो॒म्यः¦रसः॑¦इन्दुः॑¦इन्द्रा᳚य¦पू॒र्व्यः | आ॒युः¦प॒व॒ते॒¦आ॒यवे᳚ || |
हि॒न्वन्ति॒ सूर॒मुस्र॑यः॒ पव॑मानं मधु॒श्चुत᳚म् |{गोतमः | पवमानः सोमः | गायत्री} अ॒भि गि॒रा सम॑स्वरन् ||{9/32}{9.67.9}{9.3.7.9}{7.2.14.4}{587, 790, 8277} हि॒न्वन्ति॑¦सूर᳚म्¦उस्र॑यः¦पव॑मानम्¦म॒धु॒ऽश्चुत᳚म् | अ॒भि¦गि॒रा¦सम्¦अ॒स्व॒र॒न् || |
अ॒वि॒ता नो᳚, अ॒जाश्वः॑ पू॒षा याम॑नियामनि |{अत्रिः | पवमानः सोमः पूषा वा | गायत्री} आ भ॑क्षत् क॒न्या᳚सु नः ||{10/32}{9.67.10}{9.3.7.10}{7.2.14.5}{588, 790, 8278} अ॒वि॒ता¦नः॒¦अ॒ज।आ॑श्वः¦पू॒षा¦याम॑निऽयामनि | आ¦भ॒क्ष॒त्¦क॒न्या᳚सु¦नः॒ || |
अ॒यं सोमः॑ कप॒र्दिने᳚ घृ॒तं न प॑वते॒ मधु॑ |{अत्रिः | पवमानः सोमः पूषा वा | गायत्री} आ भ॑क्षत् क॒न्या᳚सु नः ||{11/32}{9.67.11}{9.3.7.11}{7.2.15.1}{589, 790, 8279} अ॒यम्¦सोमः॑¦क॒प॒र्दिने᳚¦घृ॒तम्¦न¦प॒व॒ते॒¦मधु॑ | आ¦भ॒क्ष॒त्¦क॒न्या᳚सु¦नः॒ || |
अ॒यं त॑ आघृणे सु॒तो घृ॒तं न प॑वते॒ शुचि॑ |{अत्रिः | पवमानः सोमः पूषा वा | गायत्री} आ भ॑क्षत् क॒न्या᳚सु नः ||{12/32}{9.67.12}{9.3.7.12}{7.2.15.2}{590, 790, 8280} अ॒यम्¦ते॒¦आ॒घृ॒णे॒¦सु॒तः¦घृ॒तम्¦न¦प॒व॒ते॒¦शुचि॑ | आ¦भ॒क्ष॒त्¦क॒न्या᳚सु¦नः॒ || |
वा॒चो ज॒न्तुः क॑वी॒नां पव॑स्व सोम॒ धार॑या |{विश्वामित्रः | पवमानः सोमः | गायत्री} दे॒वेषु॑ रत्न॒धा, अ॑सि ||{13/32}{9.67.13}{9.3.7.13}{7.2.15.3}{591, 790, 8281} वा॒चः¦ज॒न्तुः¦क॒वी॒नाम्¦पव॑स्व¦सो॒म॒¦धार॑या | दे॒वेषु॑¦र॒त्न॒ऽधाः¦अ॒सि॒ || |
आ क॒लशे᳚षु धावति श्ये॒नो वर्म॒ वि गा᳚हते |{विश्वामित्रः | पवमानः सोमः | गायत्री} अ॒भि द्रोणा॒ कनि॑क्रदत् ||{14/32}{9.67.14}{9.3.7.14}{7.2.15.4}{592, 790, 8282} आ¦क॒लशे᳚षु¦धा॒व॒ति॒¦श्ये॒नः¦वर्म॑¦वि¦गा॒ह॒ते॒ | अ॒भि¦द्रोणा᳚¦कनि॑क्रदत् || |
परि॒ प्र सो᳚म ते॒ रसोऽस॑र्जि क॒लशे᳚ सु॒तः |{विश्वामित्रः | पवमानः सोमः | गायत्री} श्ये॒नो न त॒क्तो, अ॑र्षति ||{15/32}{9.67.15}{9.3.7.15}{7.2.15.5}{593, 790, 8283} परि॑¦प्र¦सो॒म॒¦ते॒¦रसः॑¦अस॑र्जि¦क॒लशे᳚¦सु॒तः | श्ये॒नः¦न¦त॒क्तः¦अ॒र्ष॒ति॒ || |
पव॑स्व सोम म॒न्दय॒न्निन्द्रा᳚य॒ मधु॑मत्तमः ||{जमदग्निः | पवमानः सोमः | द्विपदा गायत्री}{16/32}{9.67.16}{9.3.7.16}{7.2.16.1}{594, 790, 8284} पव॑स्व¦सो॒म॒¦म॒न्दय॑न्¦इन्द्रा᳚य¦मधु॑मत्ऽतमः || |
असृ॑ग्रन् दे॒ववी᳚तये वाज॒यन्तो॒ रथा᳚, इव ||{जमदग्निः | पवमानः सोमः | द्विपदा गायत्री}{17/32}{9.67.17}{9.3.7.17}{7.2.16.2}{595, 790, 8285} असृ॑ग्रन्¦दे॒वऽवी᳚तये¦वा॒ज॒ऽयन्तः॑¦रथाः᳚ऽइव || |
ते सु॒तासो᳚ म॒दिन्त॑माः शु॒क्रा वा॒युम॑सृक्षत ||{जमदग्निः | पवमानः सोमः | द्विपदा गायत्री}{18/32}{9.67.18}{9.3.7.18}{7.2.16.3}{596, 790, 8286} ते¦सु॒तासः॑¦म॒दिन्ऽत॑माः¦शु॒क्राः¦वा॒युम्¦अ॒सृ॒क्ष॒त॒ || |
ग्राव्णा᳚ तु॒न्नो, अ॒भिष्टु॑तः प॒वित्रं᳚ सोम गच्छसि |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री} दध॑त् स्तो॒त्रे सु॒वीर्य᳚म् ||{19/32}{9.67.19}{9.3.7.19}{7.2.16.4}{597, 790, 8287} ग्राव्णा᳚¦तु॒न्नः¦अ॒भिऽस्तु॑तः¦प॒वित्र᳚म्¦सो॒म॒¦ग॒च्छ॒सि॒ | दध॑त्¦स्तो॒त्रे¦सु॒ऽवीर्य᳚म् || |
ए॒ष तु॒न्नो, अ॒भिष्टु॑तः प॒वित्र॒मति॑ गाहते |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री} र॒क्षो॒हा वार॑म॒व्यय᳚म् ||{20/32}{9.67.20}{9.3.7.20}{7.2.16.5}{598, 790, 8288} ए॒षः¦तु॒न्नः¦अ॒भिऽस्तु॑तः¦प॒वित्र᳚म्¦अति॑¦गा॒ह॒ते॒ | र॒क्षः॒ऽहा¦वार᳚म्¦अ॒व्यय᳚म् || |
यदन्ति॒ यच्च॑ दूर॒के भ॒यं वि॒न्दति॒ मामि॒ह |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री} पव॑मान॒ वि तज्ज॑हि ||{21/32}{9.67.21}{9.3.7.21}{7.2.17.1}{599, 790, 8289} यत्¦अन्ति॑¦यत्¦च॒¦दू॒र॒के¦भ॒यम्¦वि॒न्दति॑¦माम्¦इ॒ह | पव॑मान¦वि¦तत्¦ज॒हि॒ || |
पव॑मानः॒ सो, अ॒द्य नः॑ प॒वित्रे᳚ण॒ विच॑र्षणिः |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री} यः पो॒ता स पु॑नातु नः ||{22/32}{9.67.22}{9.3.7.22}{7.2.17.2}{600, 790, 8290} पव॑मानः¦सः¦अ॒द्य¦नः॒¦प॒वित्रे᳚ण¦विऽच॑र्षणिः | यः¦पो॒ता¦सः¦पु॒ना॒तु॒¦नः॒ || |
यत्ते᳚ प॒वित्र॑म॒र्चिष्यग्ने॒ वित॑तम॒न्तरा |{आंगिरसः पवित्रः | अग्निः | गायत्री} ब्रह्म॒ तेन॑ पुनीहि नः ||{23/32}{9.67.23}{9.3.7.23}{7.2.17.3}{601, 790, 8291} यत्¦ते॒¦प॒वित्र᳚म्¦अ॒र्चिषि॑¦अग्ने᳚¦विऽत॑तम्¦अ॒न्तः¦आ | ब्रह्म॑¦तेन॑¦पु॒नी॒हि॒¦नः॒ || |
यत्ते᳚ प॒वित्र॑मर्चि॒वदग्ने॒ तेन॑ पुनीहि नः |{आंगिरसः पवित्रः | अग्निः | गायत्री} ब्र॒ह्म॒स॒वैः पु॑नीहि नः ||{24/32}{9.67.24}{9.3.7.24}{7.2.17.4}{602, 790, 8292} यत्¦ते॒¦प॒वित्र᳚म्¦अ॒र्चि॒ऽवत्¦अग्ने᳚¦तेन॑¦पु॒नी॒हि॒¦नः॒ | ब्र॒ह्म॒ऽस॒वैः¦पु॒नी॒हि॒¦नः॒ || |
उ॒भाभ्यां᳚ देव सवितः प॒वित्रे᳚ण स॒वेन॑ च |{आंगिरसः पवित्रः | अग्निः | गायत्री} मां पु॑नीहि वि॒श्वतः॑ ||{25/32}{9.67.25}{9.3.7.25}{7.2.17.5}{603, 790, 8293} उ॒भाभ्या᳚म्¦दे॒व॒¦स॒वि॒त॒रिति॑¦प॒वित्रे᳚ण¦स॒वेन॑¦च॒ | माम्¦पु॒नी॒हि॒¦वि॒श्वतः॑ || |
त्रि॒भिष्ट्वं दे᳚व सवित॒र्वर्षि॑ष्ठैः सोम॒ धाम॑भिः |{आंगिरसः पवित्रः | अग्निः | गायत्री} अग्ने॒ दक्षैः᳚ पुनीहि नः ||{26/32}{9.67.26}{9.3.7.26}{7.2.18.1}{604, 790, 8294} त्रि॒ऽभिः¦त्वम्¦दे॒व॒¦स॒वि॒तः॒¦वर्षि॑ष्ठैः¦सो॒म॒¦धाम॑ऽभिः | अग्ने᳚¦दक्षैः᳚¦पु॒नी॒हि॒¦नः॒ || |
पु॒नन्तु॒ मां दे᳚वज॒नाः पु॒नन्तु॒ वस॑वो धि॒या |{आंगिरसः पवित्रः | अग्निः | अनुष्टुप्} विश्वे᳚ देवाः पुनी॒त मा॒ जात॑वेदः पुनी॒हि मा᳚ ||{27/32}{9.67.27}{9.3.7.27}{7.2.18.2}{605, 790, 8295} पु॒नन्तु॑¦माम्¦दे॒व॒ऽज॒नाः¦पु॒नन्तु॑¦वस॑वः¦धि॒या | विश्वे᳚¦दे॒वाः॒¦पु॒नी॒त¦मा॒¦जात॑ऽवेदः¦पु॒नी॒हि¦मा॒ || |
प्र प्या᳚यस्व॒ प्र स्य᳚न्दस्व॒ सोम॒ विश्वे᳚भिरं॒शुभिः॑ |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री} दे॒वेभ्य॑ उत्त॒मं ह॒विः ||{28/32}{9.67.28}{9.3.7.28}{7.2.18.3}{606, 790, 8296} प्र¦प्या॒य॒स्व॒¦प्र¦स्य॒न्द॒स्व॒¦सोम॑¦विश्वे᳚भिः¦अं॒शुऽभिः॑ | दे॒वेभ्यः॑¦उ॒त्ऽत॒मम्¦ह॒विः || |
उप॑ प्रि॒यं पनि॑प्नतं॒ युवा᳚नमाहुती॒वृध᳚म् |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री} अग᳚न्म॒ बिभ्र॑तो॒ नमः॑ ||{29/32}{9.67.29}{9.3.7.29}{7.2.18.4}{607, 790, 8297} उप॑¦प्रि॒यम्¦पनि॑प्नतम्¦युवा᳚नम्¦आ॒हु॒ति॒ऽवृध᳚म् | अग᳚न्म¦बिभ्र॑तः¦नमः॑ || |
अ॒लाय्य॑स्य पर॒शुर्न॑नाश॒ तमा प॑वस्व देव सोम |{आंगिरसः पवित्रः | पवमानः सोमः | पुर उष्णिक्} आ॒खुं चि॑दे॒व दे᳚व सोम ||{30/32}{9.67.30}{9.3.7.30}{7.2.18.5}{608, 790, 8298} अ॒लाय्य॑स्य¦प॒र॒शुः¦न॒ना॒श॒¦तम्¦आ¦प॒व॒स्व॒¦दे॒व॒¦सो॒म॒ | आ॒खुम्¦चि॒त्¦ए॒व¦दे॒व॒¦सो॒म॒ || |
यः पा᳚वमा॒नीर॒ध्येत्यृषि॑भिः॒ सम्भृ॑तं॒ रस᳚म् |{आंगिरसः पवित्रः | पावमान्य धेतः | अनुष्टुप्} सर्वं॒ स पू॒तम॑श्नाति स्वदि॒तं मा᳚त॒रिश्व॑ना ||{31/32}{9.67.31}{9.3.7.31}{7.2.18.6}{609, 790, 8299} यः¦पा॒व॒मा॒नीः¦अ॒धि॒ऽएति॑¦ऋषि॑ऽभिः¦सम्ऽभृ॑तम्¦रस᳚म् | सर्व॒म्¦सः¦पू॒तम्¦अ॒श्ना॒ति॒¦स्व॒दि॒तम्¦मा॒त॒रिश्व॑ना || |
पा॒व॒मा॒नीर्यो, अ॒ध्येत्यृषि॑भिः॒ सम्भृ॑तं॒ रस᳚म् |{आंगिरसः पवित्रः | पावमान्य धेतः | अनुष्टुप्} तस्मै॒ सर॑स्वती दुहे क्षी॒रं स॒र्पिर्मधू᳚द॒कम् ||{32/32}{9.67.32}{9.3.7.32}{7.2.18.7}{610, 790, 8300} पा॒व॒मा॒नीः¦यः¦अ॒धि॒ऽएति॑¦ऋषि॑ऽभिः॒¦सम्ऽभृ॑तम्¦रस᳚म् | तस्मै᳚¦सर॑स्वती¦दु॒हे॒¦क्षी॒रम्¦स॒र्पिः¦मधु॑¦उ॒द॒कम् || |
[68] प्रदेवमिति दशर्चस्य सूक्तस्य भालंदनो वत्सप्रिः पवमानसोमोजगत्यंत्यात्रिष्टुप् | |
प्र दे॒वमच्छा॒ मधु॑मन्त॒ इन्द॒वोऽसि॑ष्यदन्त॒ गाव॒ आ न धे॒नवः॑ |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} ब॒र्हि॒षदो᳚ वच॒नाव᳚न्त॒ ऊध॑भिः परि॒स्रुत॑मु॒स्रिया᳚ नि॒र्णिजं᳚ धिरे ||{1/10}{9.68.1}{9.4.1.1}{7.2.19.1}{611, 791, 8301} प्र¦दे॒वम्¦अच्छ॑¦मधु॑ऽमन्तः¦इन्द॑वः¦असि॑स्यदन्त¦गावः॑¦आ¦न¦धे॒नवः॑ | |
स रोरु॑वद॒भि पूर्वा᳚, अचिक्रददुपा॒रुहः॑ श्र॒थय᳚न् त्स्वादते॒ हरिः॑ |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} ति॒रः प॒वित्रं᳚ परि॒यन्नु॒रु ज्रयो॒ नि शर्या᳚णि दधते दे॒व आ वर᳚म् ||{2/10}{9.68.2}{9.4.1.2}{7.2.19.2}{612, 791, 8302} सः¦रोरु॑वत्¦अ॒भि¦पूर्वाः᳚¦अ॒चि॒क्र॒द॒त्¦उ॒प॒ऽआ॒रुहः॑¦श्र॒थय॑न्¦स्वा॒द॒ते॒¦हरिः॑ | |
वि यो म॒मे य॒म्या᳚ संय॒ती मदः॑ साकं॒वृधा॒ पय॑सा पिन्व॒दक्षि॑ता |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} म॒ही, अ॑पा॒रे रज॑सी वि॒वेवि॑ददभि॒व्रज॒न्नक्षि॑तं॒ पाज॒ आ द॑दे ||{3/10}{9.68.3}{9.4.1.3}{7.2.19.3}{613, 791, 8303} वि¦यः¦म॒मे¦य॒म्या᳚¦सं॒य॒ती इति॑ स॒म्ऽय॒ती¦मदः॑¦सा॒क॒म्ऽवृधा᳚¦पय॑सा¦पि॒न्व॒त्¦अक्षि॑ता | |
स मा॒तरा᳚ वि॒चर᳚न्वा॒जय᳚न्न॒पः प्र मेधि॑रः स्व॒धया᳚ पिन्वते प॒दम् |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} अं॒शुर्यवे᳚न पिपिशे य॒तो नृभिः॒ सं जा॒मिभि॒र्नस॑ते॒ रक्ष॑ते॒ शिरः॑ ||{4/10}{9.68.4}{9.4.1.4}{7.2.19.4}{614, 791, 8304} सः¦मा॒तरा᳚¦वि॒ऽचर॑न्¦वा॒जय॑न्¦अ॒पः¦प्र¦मेधि॑रः¦स्व॒धया᳚¦पि॒न्व॒ते॒¦प॒दम् | |
सं दक्षे᳚ण॒ मन॑सा जायते क॒विरृ॒तस्य॒ गर्भो॒ निहि॑तो य॒मा प॒रः |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} यूना᳚ ह॒ सन्ता᳚ प्रथ॒मं वि ज॑ज्ञतु॒र्गुहा᳚ हि॒तं जनि॑म॒ नेम॒मुद्य॑तम् ||{5/10}{9.68.5}{9.4.1.5}{7.2.19.5}{615, 791, 8305} सम्¦दक्षे᳚ण¦मन॑सा¦जा॒य॒ते॒¦क॒विः¦ऋ॒तस्य॑¦गर्भः॑¦निऽहि॑तः¦य॒मा¦प॒रः | |
म॒न्द्रस्य॑ रू॒पं वि॑विदुर्मनी॒षिणः॑ श्ये॒नो यदन्धो॒, अभ॑रत्परा॒वतः॑ |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} तं म॑र्जयन्त सु॒वृधं᳚ न॒दीष्वाँ, उ॒शन्त॑मं॒शुं प॑रि॒यन्त॑मृ॒ग्मिय᳚म् ||{6/10}{9.68.6}{9.4.1.6}{7.2.20.1}{616, 791, 8306} म॒न्द्रस्य॑¦रू॒पम्¦वि॒वि॒दुः॒¦म॒नी॒षिणः॑¦श्ये॒नः¦यत्¦अन्धः॑¦अभ॑रत्¦प॒रा॒ऽवतः॑ | |
त्वां मृ॑जन्ति॒ दश॒ योष॑णः सु॒तं सोम॒ ऋषि॑भिर्म॒तिभि॑र्धी॒तिभि᳚र्हि॒तम् |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} अव्यो॒ वारे᳚भिरु॒त दे॒वहू᳚तिभि॒र्नृभि᳚र्य॒तो वाज॒मा द॑र्षि सा॒तये᳚ ||{7/10}{9.68.7}{9.4.1.7}{7.2.20.2}{617, 791, 8307} त्वाम्¦मृ॒ज॒न्ति॒¦दश॑¦योष॑णः¦सु॒तम्¦सो॒म॒¦ऋषि॑ऽभिः¦म॒तिऽभिः॑¦धी॒तिऽभिः॑¦हि॒तम् | |
प॒रि॒प्र॒यन्तं᳚ व॒य्यं᳚ सुषं॒सदं॒ सोमं᳚ मनी॒षा, अ॒भ्य॑नूषत॒ स्तुभः॑ |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} यो धार॑या॒ मधु॑माँ, ऊ॒र्मिणा᳚ दि॒व इय॑र्ति॒ वाचं᳚ रयि॒षाळम॑र्त्यः ||{8/10}{9.68.8}{9.4.1.8}{7.2.20.3}{618, 791, 8308} प॒रि॒ऽप्र॒यन्त᳚म्¦व॒य्य᳚म्¦सु॒ऽसं॒सद᳚म्¦सोम᳚म्¦म॒नी॒षाः¦अ॒भि¦अ॒नू॒ष॒त॒¦स्तुभः॑ | |
अ॒यं दि॒व इ॑यर्ति॒ विश्व॒मा रजः॒ सोमः॑ पुना॒नः क॒लशे᳚षु सीदति |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} अ॒द्भिर्गोभि᳚र्मृज्यते॒, अद्रि॑भिः सु॒तः पु॑ना॒न इन्दु॒र्वरि॑वो विदत्प्रि॒यम् ||{9/10}{9.68.9}{9.4.1.9}{7.2.20.4}{619, 791, 8309} अ॒यम्¦दि॒वः¦इ॒य॒र्ति॒¦विश्व᳚म्¦आ¦रजः॑¦सोमः॑¦पु॒ना॒नः¦क॒लशे᳚षु¦सी॒द॒ति॒ | |
ए॒वा नः॑ सोम परिषि॒च्यमा᳚नो॒ वयो॒ दध॑च्चि॒त्रत॑मं पवस्व |{भालंदनो वत्सप्रिः | पवमानः सोमः | त्रिष्टुप्} अ॒द्वे॒षे द्यावा᳚पृथि॒वी हु॑वेम॒ देवा᳚ ध॒त्त र॒यिम॒स्मे सु॒वीर᳚म् ||{10/10}{9.68.10}{9.4.1.10}{7.2.20.5}{620, 791, 8310} ए॒व¦नः॒¦सो॒म॒¦प॒रि॒ऽसि॒च्यमा᳚नः¦वयः॑¦दध॑त्¦चि॒त्रऽत॑मम्¦प॒व॒स्व॒ | |
[69] इषुर्नेति दशर्चस्य सूक्तस्यांगिरसोहिरण्यस्तूपः पवमानसोमोजगत्यंत्येद्वेत्रिष्टुभौ | |
इषु॒र्न धन्व॒न् प्रति॑ धीयते म॒तिर्व॒त्सो न मा॒तुरुप॑ स॒र्ज्यूध॑नि |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} उ॒रुधा᳚रेव दुहे॒, अग्र॑ आय॒त्यस्य᳚ व्र॒तेष्वपि॒ सोम॑ इष्यते ||{1/10}{9.69.1}{9.4.2.1}{7.2.21.1}{621, 792, 8311} इषुः॑¦न¦धन्व॑न्¦प्रति॑¦धी॒य॒ते॒¦म॒तिः¦व॒त्सः¦न¦मा॒तुः¦उप॑¦स॒र्जि॒¦ऊर्ध॑नि | |
उपो᳚ म॒तिः पृ॒च्यते᳚ सि॒च्यते॒ मधु॑ म॒न्द्राज॑नी चोदते, अ॒न्तरा॒सनि॑ |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} पव॑मानः संत॒निः प्र॑घ्न॒तामि॑व॒ मधु॑मान्द्र॒प्सः परि॒ वार॑मर्षति ||{2/10}{9.69.2}{9.4.2.2}{7.2.21.2}{622, 792, 8312} उपो॒ इति॑¦म॒तिः¦पृ॒च्यते᳚¦सि॒च्यते᳚¦मधु॑¦म॒न्द्र॒।आज॑नी¦चो॒द॒ते॒¦अ॒न्तः¦आ॒सनि॑ | |
अव्ये᳚ वधू॒युः प॑वते॒ परि॑ त्व॒चि श्र॑थ्नी॒ते न॒प्तीरदि॑तेरृ॒तं य॒ते |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} हरि॑रक्रान्यज॒तः सं᳚य॒तो मदो᳚ नृ॒म्णा शिशा᳚नो महि॒षो न शो᳚भते ||{3/10}{9.69.3}{9.4.2.3}{7.2.21.3}{623, 792, 8313} अव्ये᳚¦व॒धू॒ऽयुः¦प॒व॒ते॒¦परि॑¦त्व॒चि¦श्र॒थ्नी॒ते¦न॒प्तीः¦अदि॑तेः¦ऋ॒तम्¦य॒ते | |
उ॒क्षा मि॑माति॒ प्रति॑ यन्ति धे॒नवो᳚ दे॒वस्य॑ दे॒वीरुप॑ यन्ति निष्कृ॒तम् |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} अत्य॑क्रमी॒दर्जु॑नं॒ वार॑म॒व्यय॒मत्कं॒ न नि॒क्तं परि॒ सोमो᳚, अव्यत ||{4/10}{9.69.4}{9.4.2.4}{7.2.21.4}{624, 792, 8314} उ॒क्षा¦मि॒मा॒ति॒¦प्रति॑¦य॒न्ति॒¦धे॒नवः॑¦दे॒वस्य॑¦दे॒वीः¦उप॑¦य॒न्ति॒¦निः॒ऽकृ॒तम् | |
अमृ॑क्तेन॒ रुश॑ता॒ वास॑सा॒ हरि॒रम॑र्त्यो निर्णिजा॒नः परि᳚ व्यत |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} दि॒वस्पृ॒ष्ठं ब॒र्हणा᳚ नि॒र्णिजे᳚ कृतोप॒स्तर॑णं च॒म्वो᳚र्नभ॒स्मय᳚म् ||{5/10}{9.69.5}{9.4.2.5}{7.2.21.5}{625, 792, 8315} अमृ॑क्तेन¦रुश॑ता¦वास॑सा¦हरिः॑¦अम॑र्त्यः¦निः॒ऽनि॒जा॒नः¦परि॑¦व्य॒त॒ | |
सूर्य॑स्येव र॒श्मयो᳚ द्रावयि॒त्नवो᳚ मत्स॒रासः॑ प्र॒सुपः॑ सा॒कमी᳚रते |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} तन्तुं᳚ त॒तं परि॒ सर्गा᳚स आ॒शवो॒ नेन्द्रा᳚दृ॒ते प॑वते॒ धाम॒ किं च॒न ||{6/10}{9.69.6}{9.4.2.6}{7.2.22.1}{626, 792, 8316} सूर्य॑स्यऽइव¦र॒श्मयः॑¦द्र॒व॒यि॒त्नवः॑¦म॒त्स॒रासः॑¦प्र॒ऽसुपः॑¦सा॒कम्¦ई॒र॒ते॒ | |
सिन्धो᳚रिव प्रव॒णे नि॒म्न आ॒शवो॒ वृष॑च्युता॒ मदा᳚सो गा॒तुमा᳚शत |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} शं नो᳚ निवे॒शे द्वि॒पदे॒ चतु॑ष्पदे॒ऽस्मे वाजाः᳚ सोम तिष्ठन्तु कृ॒ष्टयः॑ ||{7/10}{9.69.7}{9.4.2.7}{7.2.22.2}{627, 792, 8317} सिन्धोः᳚ऽइव¦प्र॒व॒णे¦नि॒म्ने¦आ॒शवः॑¦वृष॑ऽच्युताः¦मदा᳚सः¦गा॒तुम्¦आ॒श॒त॒ | |
आ नः॑ पवस्व॒ वसु॑म॒द्धिर᳚ण्यव॒दश्वा᳚व॒द्गोम॒द्यव॑मत्सु॒वीर्य᳚म् |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} यू॒यं हि सो᳚म पि॒तरो॒ मम॒ स्थन॑ दि॒वो मू॒र्धानः॒ प्रस्थि॑ता वय॒स्कृतः॑ ||{8/10}{9.69.8}{9.4.2.8}{7.2.22.3}{628, 792, 8318} आ¦नः॒¦प॒व॒स्व॒¦वसु॑ऽमत्¦हिर᳚ण्यऽवत्¦अश्व॑ऽवत्¦गोऽम॑त्¦यव॑ऽमत्¦सु॒ऽवीर्य᳚म् | |
ए॒ते सोमाः॒ पव॑मानास॒ इन्द्रं॒ रथा᳚, इव॒ प्र य॑युः सा॒तिमच्छ॑ |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | त्रिष्टुप्} सु॒ताः प॒वित्र॒मति॑ य॒न्त्यव्यं᳚ हि॒त्वी व॒व्रिं ह॒रितो᳚ वृ॒ष्टिमच्छ॑ ||{9/10}{9.69.9}{9.4.2.9}{7.2.22.4}{629, 792, 8319} ए॒ते¦सोमाः᳚¦पव॑मानासः¦इन्द्र᳚म्¦रथाः᳚ऽइव¦प्र¦य॒युः॒¦सा॒तिम्¦अच्छ॑ | |
इन्द॒विन्द्रा᳚य बृह॒ते प॑वस्व सुमृळी॒को, अ॑नव॒द्यो रि॒शादाः᳚ |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | त्रिष्टुप्} भरा᳚ च॒न्द्राणि॑ गृण॒ते वसू᳚नि दे॒वैर्द्या᳚वापृथिवी॒ प्राव॑तं नः ||{10/10}{9.69.10}{9.4.2.10}{7.2.22.5}{630, 792, 8320} इन्दो॒ इति॑¦इन्द्रा᳚य¦बृ॒ह॒ते¦प॒व॒स्व॒¦सु॒ऽमृ॒ळी॒कः¦अ॒न॒व॒द्यः¦रि॒शादाः᳚ | |
[70] त्रिरस्माइति दशर्चस्यक्तसूस्य वैश्वामित्रोरेणुः पवमानसोमोजगत्यंत्यात्रिष्टुप् | |
त्रिर॑स्मै स॒प्त धे॒नवो᳚ दुदुह्रे स॒त्यामा॒शिरं᳚ पू॒र्व्ये व्यो᳚मनि |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} च॒त्वार्य॒न्या भुव॑नानि नि॒र्णिजे॒ चारू᳚णि चक्रे॒ यदृ॒तैरव॑र्धत ||{1/10}{9.70.1}{9.4.3.1}{7.2.23.1}{631, 793, 8321} त्रिः¦अ॒स्मै॒¦स॒प्त¦धे॒नवः॑¦दु॒दु॒ह्रे॒¦स॒त्याम्¦आ॒ऽशिर᳚म्¦पू॒र्व्ये¦विऽओ᳚मनि | |
स भिक्ष॑माणो, अ॒मृत॑स्य॒ चारु॑ण उ॒भे द्यावा॒ काव्ये᳚ना॒ वि श॑श्रथे |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} तेजि॑ष्ठा, अ॒पो मं॒हना॒ परि᳚ व्यत॒ यदी᳚ दे॒वस्य॒ श्रव॑सा॒ सदो᳚ वि॒दुः ||{2/10}{9.70.2}{9.4.3.2}{7.2.23.2}{632, 793, 8322} सः¦भिक्ष॑माणः¦अ॒मृत॑स्य¦चारु॑णः¦उ॒भे इति॑¦द्यावा᳚¦काव्ये᳚न¦वि¦श॒श्र॒थे॒ | |
ते, अ॑स्य सन्तु के॒तवोऽमृ॑त्य॒वोऽदा᳚भ्यासो ज॒नुषी᳚, उ॒भे, अनु॑ |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} येभि᳚र्नृ॒म्णा च॑ दे॒व्या᳚ च पुन॒त आदिद्राजा᳚नं म॒नना᳚, अगृभ्णत ||{3/10}{9.70.3}{9.4.3.3}{7.2.23.3}{633, 793, 8323} ते¦अ॒स्य॒¦स॒न्तु॒¦के॒तवः॑¦अमृ॑त्यवः¦अदा᳚भ्यासः¦ज॒नुषी॒ इति॑¦उ॒भे इति॑¦अनु॑ | |
स मृ॒ज्यमा᳚नो द॒शभिः॑ सु॒कर्म॑भिः॒ प्र म॑ध्य॒मासु॑ मा॒तृषु॑ प्र॒मे सचा᳚ |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} व्र॒तानि॑ पा॒नो, अ॒मृत॑स्य॒ चारु॑ण उ॒भे नृ॒चक्षा॒, अनु॑ पश्यते॒ विशौ᳚ ||{4/10}{9.70.4}{9.4.3.4}{7.2.23.4}{634, 793, 8324} सः¦मृ॒ज्यमा᳚नः¦द॒शऽभिः॑¦सु॒कर्म॑ऽभिः¦प्र¦म॒ध्य॒मासु॑¦मा॒तृषु॑¦प्र॒ऽमे¦सचा᳚ | |
स म᳚र्मृजा॒न इ᳚न्द्रि॒याय॒ धाय॑स॒ ओभे, अ॒न्ता रोद॑सी हर्षते हि॒तः |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} वृषा॒ शुष्मे᳚ण बाधते॒ वि दु᳚र्म॒तीरा॒देदि॑शानः शर्य॒हेव॑ शु॒रुधः॑ ||{5/10}{9.70.5}{9.4.3.5}{7.2.23.5}{635, 793, 8325} सः¦म॒र्मृ॒जा॒नः¦इ॒न्द्रि॒याय॑¦धाय॑से¦आ¦उ॒भे इति॑¦अ॒न्तरिति॑¦रोद॑सी॒ इति॑¦ह॒र्ष॒ते॒¦हि॒तः | |
स मा॒तरा॒ न ददृ॑शान उ॒स्रियो॒ नान॑ददेति म॒रुता᳚मिव स्व॒नः |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} जा॒नन्नृ॒तं प्र॑थ॒मं यत्स्व᳚र्णरं॒ प्रश॑स्तये॒ कम॑वृणीत सु॒क्रतुः॑ ||{6/10}{9.70.6}{9.4.3.6}{7.2.24.1}{636, 793, 8326} सः¦मा॒तरा᳚¦न¦ददृ॑शानः¦उ॒स्रियः॑¦नान॑दत्¦ए॒ति॒¦म॒रुता᳚म्ऽइव¦स्व॒नः | |
रु॒वति॑ भी॒मो वृ॑ष॒भस्त॑वि॒ष्यया॒ शृङ्गे॒ शिशा᳚नो॒ हरि॑णी विचक्ष॒णः |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} आ योनिं॒ सोमः॒ सुकृ॑तं॒ नि षी᳚दति ग॒व्ययी॒ त्वग्भ॑वति नि॒र्णिग॒व्ययी᳚ ||{7/10}{9.70.7}{9.4.3.7}{7.2.24.2}{637, 793, 8327} रु॒वति॑¦भी॒मः¦वृ॒ष॒भः¦त॒वि॒ष्यया᳚¦शृङ्गे॒ इति॑¦शिशा᳚नः¦हरि॑णी॒ इति॑¦वि॒ऽच॒क्ष॒णः | |
शुचिः॑ पुना॒नस्त॒न्व॑मरे॒पस॒मव्ये॒ हरि॒र्न्य॑धाविष्ट॒ सान॑वि |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} जुष्टो᳚ मि॒त्राय॒ वरु॑णाय वा॒यवे᳚ त्रि॒धातु॒ मधु॑ क्रियते सु॒कर्म॑भिः ||{8/10}{9.70.8}{9.4.3.8}{7.2.24.3}{638, 793, 8328} शुचिः॑¦पु॒ना॒नः¦त॒न्व᳚म्¦अ॒रे॒पस᳚म्¦अव्ये᳚¦हरिः॑¦नि¦अ॒धा॒वि॒ष्ट॒¦सान॑वि | |
पव॑स्व सोम दे॒ववी᳚तये॒ वृषेन्द्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} पु॒रा नो᳚ बा॒धाद्दु॑रि॒ताति॑ पारय क्षेत्र॒विद्धि दिश॒ आहा᳚ विपृच्छ॒ते ||{9/10}{9.70.9}{9.4.3.9}{7.2.24.4}{639, 793, 8329} पव॑स्व¦सो॒म॒¦दे॒वऽवी᳚तये¦वृषा᳚¦इन्द्र॑स्य¦हार्दि॑¦सो॒म॒ऽधान᳚म्¦आ¦वि॒श॒ | |
हि॒तो न सप्ति॑र॒भि वाज॑म॒र्षेन्द्र॑स्येन्दो ज॒ठर॒मा प॑वस्व |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | त्रिष्टुप्} ना॒वा न सिन्धु॒मति॑ पर्षि वि॒द्वाञ्छूरो॒ न युध्य॒न्नव॑ नो नि॒दः स्पः॑ ||{10/10}{9.70.10}{9.4.3.10}{7.2.24.5}{640, 793, 8330} हि॒तः¦न¦सप्तिः॑¦अ॒भि¦वाज᳚म्¦अ॒र्ष॒¦इन्द्र॑स्य¦इ॒न्दो॒ इति॑¦ज॒ठर᳚म्¦आ¦प॒व॒स्व॒ | |
[71] आदक्षिणेति नवर्चस्य सूक्तस्य वैश्वामित्र ऋषभः पवमानसोमोजगत्यंत्यान्त्रिष्टुप् | |
आ दक्षि॑णा सृज्यते शु॒ष्म्या॒३॑(आ॒)सदं॒ वेति॑ द्रु॒हो र॒क्षसः॑ पाति॒ जागृ॑विः |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} हरि॑रोप॒शं कृ॑णुते॒ नभ॒स्पय॑ उप॒स्तिरे᳚ च॒म्वो॒३॑(ओ॒)र्ब्रह्म॑ नि॒र्णिजे᳚ ||{1/9}{9.71.1}{9.4.4.1}{7.2.25.1}{641, 794, 8331} आ¦दक्षि॑णा¦सृ॒ज्य॒ते॒¦शु॒ष्मी¦आ॒ऽसद᳚म्¦वेति॑¦द्रु॒हः¦र॒क्षसः॑¦पा॒ति॒¦जागृ॑विः | |
प्र कृ॑ष्टि॒हेव॑ शू॒ष ए᳚ति॒ रोरु॑वदसु॒र्य१॑(अं॒) वर्णं॒ नि रि॑णीते, अस्य॒ तम् |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} जहा᳚ति व॒व्रिं पि॒तुरे᳚ति निष्कृ॒तमु॑प॒प्रुतं᳚ कृणुते नि॒र्णिजं॒ तना᳚ ||{2/9}{9.71.2}{9.4.4.2}{7.2.25.2}{642, 794, 8332} प्र¦कृ॒ष्टि॒हाऽइ᳚व¦शू॒षः¦ए॒ति॒¦रोरु॑वत्¦अ॒सु॒र्य᳚म्¦वर्ण᳚म्¦नि¦रि॒णी॒ते॒¦अ॒स्य॒¦तम् | |
अद्रि॑भिः सु॒तः प॑वते॒ गभ॑स्त्योर्वृषा॒यते॒ नभ॑सा॒ वेप॑ते म॒ती |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} स मो᳚दते॒ नस॑ते॒ साध॑ते गि॒रा ने᳚नि॒क्ते, अ॒प्सु यज॑ते॒ परी᳚मणि ||{3/9}{9.71.3}{9.4.4.3}{7.2.25.3}{643, 794, 8333} अद्रि॑ऽभिः¦सु॒तः¦प॒व॒ते॒¦गभ॑स्त्योः¦वृ॒ष॒ऽयते᳚¦नभ॑सा¦वेप॑ते¦म॒ती | |
परि॑ द्यु॒क्षं सह॑सः पर्वता॒वृधं॒ मध्वः॑ सिञ्चन्ति ह॒र्म्यस्य॑ स॒क्षणि᳚म् |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} आ यस्मि॒न् गावः॑ सुहु॒ताद॒ ऊध॑नि मू॒र्धञ्छ्री॒णन्त्य॑ग्रि॒यं वरी᳚मभिः ||{4/9}{9.71.4}{9.4.4.4}{7.2.25.4}{644, 794, 8334} परि॑¦द्यु॒क्षम्¦सह॑सः¦प॒र्व॒त॒ऽवृध᳚म्¦मध्वः॑¦सिं॒च॒न्ति॒¦ह॒र्म्यस्य॑¦स॒क्षणि᳚म् | |
समी॒ रथं॒ न भु॒रिजो᳚रहेषत॒ दश॒ स्वसा᳚रो॒, अदि॑तेरु॒पस्थ॒ आ |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} जिगा॒दुप॑ ज्रयति॒ गोर॑पी॒च्यं᳚ प॒दं यद॑स्य म॒तुथा॒, अजी᳚जनन् ||{5/9}{9.71.5}{9.4.4.5}{7.2.25.5}{645, 794, 8335} सम्¦ई॒मिति॑¦रथ᳚म्¦न¦भु॒रिजोः᳚¦अ॒हे॒ष॒त॒¦दश॑¦स्वसा᳚रः¦अदि॑तेः¦उ॒पऽस्थे᳚¦आ | |
श्ये॒नो न योनिं॒ सद॑नं धि॒या कृ॒तं हि॑र॒ण्यय॑मा॒सदं᳚ दे॒व एष॑ति |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} ए रि॑णन्ति ब॒र्हिषि॑ प्रि॒यं गि॒राश्वो॒ न दे॒वाँ, अप्ये᳚ति य॒ज्ञियः॑ ||{6/9}{9.71.6}{9.4.4.6}{7.2.26.1}{646, 794, 8336} श्ये॒नः¦न¦योनि᳚म्¦सद॑नम्¦धि॒या¦कृ॒तम्¦हि॒र॒ण्यय᳚म्¦आ॒ऽसद᳚म्¦दे॒वः¦आ¦ई॒ष॒ति॒ | |
परा॒ व्य॑क्तो, अरु॒षो दि॒वः क॒विर्वृषा᳚ त्रिपृ॒ष्ठो, अ॑नविष्ट॒ गा, अ॒भि |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} स॒हस्र॑णीति॒र्यतिः॑ परा॒यती᳚ रे॒भो न पू॒र्वीरु॒षसो॒ वि रा᳚जति ||{7/9}{9.71.7}{9.4.4.7}{7.2.26.2}{647, 794, 8337} परा᳚¦वि।आ॑क्तः¦अ॒रु॒षः¦दि॒वः¦क॒विः¦वृषा᳚¦त्रि॒ऽपृ॒ष्ठः¦अ॒न॒वि॒ष्ट॒¦गाः¦अ॒भि | |
त्वे॒षं रू॒पं कृ॑णुते॒ वर्णो᳚, अस्य॒ स यत्राश॑य॒त्समृ॑ता॒ सेध॑ति स्रि॒धः |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} अ॒प्सा या᳚ति स्व॒धया॒ दैव्यं॒ जनं॒ सं सु॑ष्टु॒ती नस॑ते॒ सं गो,अ॑ग्रया ||{8/9}{9.71.8}{9.4.4.8}{7.2.26.3}{648, 794, 8338} त्वे॒षम्¦रू॒पम्¦कृ॒णु॒ते॒¦वर्णः॑¦अ॒स्य॒¦सः¦यत्र॑¦अश॑यत्¦सम्ऽऋ॑ता¦सेध॑ति¦स्रि॒धः | |
उ॒क्षेव॑ यू॒था प॑रि॒यन्न॑रावी॒दधि॒ त्विषी᳚रधित॒ सूर्य॑स्य |{वैश्वामित्र ऋषभः | पवमानः सोमः | त्रिष्टुप्} दि॒व्यः सु॑प॒र्णोऽव॑ चक्षत॒ क्षां सोमः॒ परि॒ क्रतु॑ना पश्यते॒ जाः ||{9/9}{9.71.9}{9.4.4.9}{7.2.26.4}{649, 794, 8339} उ॒क्षाऽइ᳚व¦यू॒था¦प॒रि॒ऽयन्¦अ॒रा॒वी॒त्¦अधि॑¦त्विषीः᳚¦अ॒धि॒त॒¦सूर्य॑स्य | |
[72] हरिंमृजंतीति नवर्चस्य सूक्तस्य आंगिरसोहरिमंतः पवमानसोमोजगती | |
हरिं᳚ मृजन्त्यरु॒षो न यु॑ज्यते॒ सं धे॒नुभिः॑ क॒लशे॒ सोमो᳚, अज्यते |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} उद्वाच॑मी॒रय॑ति हि॒न्वते᳚ म॒ती पु॑रुष्टु॒तस्य॒ कति॑ चित्परि॒प्रियः॑ ||{1/9}{9.72.1}{9.4.5.1}{7.2.27.1}{650, 795, 8340} हरि᳚म्¦मृ॒ज॒न्ति॒¦अ॒रु॒षः¦न¦यु॒ज्य॒ते॒¦सम्¦धे॒नुऽभिः॑¦क॒लशे᳚¦सोमः॑¦अ॒ज्य॒ते॒ | |
सा॒कं व॑दन्ति ब॒हवो᳚ मनी॒षिण॒ इन्द्र॑स्य॒ सोमं᳚ ज॒ठरे॒ यदा᳚दु॒हुः |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} यदी᳚ मृ॒जन्ति॒ सुग॑भस्तयो॒ नरः॒ सनी᳚ळाभिर्द॒शभिः॒ काम्यं॒ मधु॑ ||{2/9}{9.72.2}{9.4.5.2}{7.2.27.2}{651, 795, 8341} सा॒कम्¦व॒द॒न्ति॒¦ब॒हवः॑¦म॒नी॒षिणः॑¦इन्द्र॑स्य¦सोम᳚म्¦ज॒ठरे᳚¦यत्¦आ॒ऽदु॒हुः | |
अर॑ममाणो॒, अत्ये᳚ति॒ गा, अ॒भि सूर्य॑स्य प्रि॒यं दु॑हि॒तुस्ति॒रो रव᳚म् |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} अन्व॑स्मै॒ जोष॑मभरद्विनंगृ॒सः सं द्व॒यीभिः॒ स्वसृ॑भिः, क्षेति जा॒मिभिः॑ ||{3/9}{9.72.3}{9.4.5.3}{7.2.27.3}{652, 795, 8342} अर॑ममाणः¦अति॑¦ए॒ति॒¦गाः¦अ॒भि¦सूर्य॑स्य¦प्रि॒यम्¦दु॒हि॒तुः¦ति॒रः¦रव᳚म् | |
नृधू᳚तो॒, अद्रि॑षुतो ब॒र्हिषि॑ प्रि॒यः पति॒र्गवां᳚ प्र॒दिव॒ इन्दु᳚रृ॒त्वियः॑ |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} पुरं᳚धिवा॒न्मनु॑षो यज्ञ॒साध॑नः॒ शुचि॑र्धि॒या प॑वते॒ सोम॑ इन्द्र ते ||{4/9}{9.72.4}{9.4.5.4}{7.2.27.4}{653, 795, 8343} नृऽधू᳚तः¦अद्रि॑ऽसुतः¦ब॒र्हिषि॑¦प्रि॒यः¦पतिः॑¦गवा᳚म्¦प्र॒ऽदिवः॑¦इन्दुः॑¦ऋ॒त्वियः॑ | |
नृबा॒हुभ्यां᳚ चोदि॒तो धार॑या सु॒तो᳚ऽनुष्व॒धं प॑वते॒ सोम॑ इन्द्र ते |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} आप्राः॒ क्रतू॒न् त्सम॑जैरध्व॒रे म॒तीर्वेर्न द्रु॒षच्च॒म्वो॒३॑(ओ॒)रास॑द॒द्धरिः॑ ||{5/9}{9.72.5}{9.4.5.5}{7.2.27.5}{654, 795, 8344} नृबा॒हुऽभ्या᳚म्¦चो॒दि॒तः¦धार॑या¦सु॒तः¦अ॒नु॒ऽस्व॒धम्¦प॒व॒ते॒¦सोमः॑¦इ॒न्द्र॒¦ते॒ | |
अं॒शुं दु॑हन्ति स्त॒नय᳚न्त॒मक्षि॑तं क॒विं क॒वयो॒ऽपसो᳚ मनी॒षिणः॑ |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} समी॒ गावो᳚ म॒तयो᳚ यन्ति सं॒यत॑ ऋ॒तस्य॒ योना॒ सद॑ने पुन॒र्भुवः॑ ||{6/9}{9.72.6}{9.4.5.6}{7.2.28.1}{655, 795, 8345} अं॒शुम्¦दु॒ह॒न्ति॒¦स्त॒नय᳚न्तम्¦अक्षि॑तम्¦क॒विम्¦क॒वयः॑¦अ॒पसः॑¦म॒नी॒षिणः॑ | |
नाभा᳚ पृथि॒व्या ध॒रुणो᳚ म॒हो दि॒वो॒३॑(ओ॒)ऽपामू॒र्मौ सिन्धु॑ष्व॒न्तरु॑क्षि॒तः |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} इन्द्र॑स्य॒ वज्रो᳚ वृष॒भो वि॒भूव॑सुः॒ सोमो᳚ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ||{7/9}{9.72.7}{9.4.5.7}{7.2.28.2}{656, 795, 8346} नाभा᳚¦पृ॒थि॒व्याः¦ध॒रुणः॑¦म॒हः¦दि॒वः¦अ॒पाम्¦ऊ॒र्मौ¦सिन्धु॑षु¦अ॒न्तः¦उ॒क्षि॒तः | |
स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रजः॑ स्तो॒त्रे शिक्ष᳚न्नाधून्व॒ते च॑ सुक्रतो |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} मा नो॒ निर्भा॒ग्वसु॑नः सादन॒स्पृशो᳚ र॒यिं पि॒शङ्गं᳚ बहु॒लं व॑सीमहि ||{8/9}{9.72.8}{9.4.5.8}{7.2.28.3}{657, 795, 8347} सः¦तु¦प॒व॒स्व॒¦परि॑¦पार्थि॑वम्¦रजः॑¦स्तो॒त्रे¦शिक्ष॑न्¦आ॒ऽधू॒न्व॒ते¦च॒¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो | |
आ तू न॑ इन्दो श॒तदा॒त्वश्व्यं᳚ स॒हस्र॑दातु पशु॒मद्धिर᳚ण्यवत् |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} उप॑ मास्व बृह॒ती रे॒वती॒रिषोऽधि॑ स्तो॒त्रस्य॑ पवमान नो गहि ||{9/9}{9.72.9}{9.4.5.9}{7.2.28.4}{658, 795, 8348} आ¦तु¦नः॒¦इ॒न्दो॒ इति॑¦श॒तऽदा᳚तु¦अश्व्य᳚म्¦स॒हस्र॑ऽदातु¦प॒शु॒ऽमत्¦हिर᳚ण्यऽवत् | |
[73] स्रक्वेद्रप्सस्येति नवर्चस्य सूक्तस्यांगिरसः पवित्रः पवमान सोमो जगती | |
स्रक्वे᳚ द्र॒प्सस्य॒ धम॑तः॒ सम॑स्वरन्नृ॒तस्य॒ योना॒ सम॑रन्त॒ नाभ॑यः |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} त्रीन् त्स मू॒र्ध्नो, असु॑रश्चक्र आ॒रभे᳚ स॒त्यस्य॒ नावः॑ सु॒कृत॑मपीपरन् ||{1/9}{9.73.1}{9.4.6.1}{7.2.29.1}{659, 796, 8349} स्रक्वे᳚¦द्र॒प्सस्य॑¦धम॑तः¦सम्¦अ॒स्व॒र॒न्¦ऋ॒तस्य॑¦योना᳚¦सम्¦अ॒र॒न्त॒¦नाभ॑यः | |
स॒म्यक्स॒म्यञ्चो᳚ महि॒षा, अ॑हेषत॒ सिन्धो᳚रू॒र्मावधि॑ वे॒ना, अ॑वीविपन् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} मधो॒र्धारा᳚भिर्ज॒नय᳚न्तो, अ॒र्कमित्प्रि॒यामिन्द्र॑स्य त॒न्व॑मवीवृधन् ||{2/9}{9.73.2}{9.4.6.2}{7.2.29.2}{660, 796, 8350} स॒म्यक्¦स॒म्यंचः॑¦म॒हि॒षाः¦अ॒हे॒ष॒त॒¦सिन्धोः᳚¦ऊ॒र्मौ¦अधि॑¦वे॒नाः¦अ॒वी॒वि॒प॒न् | |
प॒वित्र॑वन्तः॒ परि॒ वाच॑मासते पि॒तैषां᳚ प्र॒त्नो, अ॒भि र॑क्षति व्र॒तम् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} म॒हः स॑मु॒द्रं वरु॑णस्ति॒रो द॑धे॒ धीरा॒, इच्छे᳚कुर्ध॒रुणे᳚ष्वा॒रभ᳚म् ||{3/9}{9.73.3}{9.4.6.3}{7.2.29.3}{661, 796, 8351} प॒वित्र॑ऽवन्तः¦परि॑¦वाच᳚म्¦आ॒स॒ते॒¦पि॒ता¦ए॒षा॒म्¦प्र॒त्नः¦अ॒भि¦र॒क्ष॒ति॒¦व्र॒तम् | |
स॒हस्र॑धा॒रेऽव॒ ते सम॑स्वरन्दि॒वो नाके॒ मधु॑जिह्वा, अस॒श्चतः॑ |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} अस्य॒ स्पशो॒ न नि मि॑षन्ति॒ भूर्ण॑यः प॒देप॑दे पा॒शिनः॑ सन्ति॒ सेत॑वः ||{4/9}{9.73.4}{9.4.6.4}{7.2.29.4}{662, 796, 8352} स॒हस्र॑ऽधारे¦अव॑¦ते¦सम्¦अ॒स्व॒र॒न्¦दि॒वः¦नाके᳚¦मधु॑ऽजिह्वाः¦अ॒स॒श्चतः॑ | |
पि॒तुर्मा॒तुरध्या ये स॒मस्व॑रन्नृ॒चा शोच᳚न्तः सं॒दह᳚न्तो, अव्र॒तान् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} इन्द्र॑द्विष्टा॒मप॑ धमन्ति मा॒यया॒ त्वच॒मसि॑क्नीं॒ भूम॑नो दि॒वस्परि॑ ||{5/9}{9.73.5}{9.4.6.5}{7.2.29.5}{663, 796, 8353} पि॒तुः¦मा॒तुः¦अधि॑¦आ¦ये¦स॒म्।आस्व॑रन्¦ऋ॒चा¦शोच᳚न्तः¦स॒म्ऽदह᳚न्तः¦अ॒व्र॒तान् | |
प्र॒त्नान्माना॒दध्या ये स॒मस्व॑र॒ञ्छ्लोक॑यन्त्रासो रभ॒सस्य॒ मन्त॑वः |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} अपा᳚न॒क्षासो᳚ बधि॒रा, अ॑हासत ऋ॒तस्य॒ पन्थां॒ न त॑रन्ति दु॒ष्कृतः॑ ||{6/9}{9.73.6}{9.4.6.6}{7.2.30.1}{664, 796, 8354} प्र॒त्नात्¦माना᳚त्¦अधि॑¦आ¦ये¦स॒म्।आस्व॑रन्¦श्लोक॑ऽयन्त्रासः¦र॒भ॒सस्य॑¦मन्त॑वः | |
स॒हस्र॑धारे॒ वित॑ते प॒वित्र॒ आ वाचं᳚ पुनन्ति क॒वयो᳚ मनी॒षिणः॑ |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} रु॒द्रास॑ एषामिषि॒रासो᳚, अ॒द्रुहः॒ स्पशः॒ स्वञ्चः॑ सु॒दृशो᳚ नृ॒चक्ष॑सः ||{7/9}{9.73.7}{9.4.6.7}{7.2.30.2}{665, 796, 8355} स॒हस्र॑ऽधारे¦विऽत॑ते¦प॒वित्रे᳚¦आ¦वाच᳚म्¦पु॒न॒न्ति॒¦क॒वयः॑¦म॒नी॒षिणः॑ | |
ऋ॒तस्य॑ गो॒पा न दभा᳚य सु॒क्रतु॒स्त्री ष प॒वित्रा᳚ हृ॒द्य१॑(अ॒)न्तरा द॑धे |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} वि॒द्वान् त्स विश्वा॒ भुव॑ना॒भि प॑श्य॒त्यवाजु॑ष्टान् विध्यति क॒र्ते, अ᳚व्र॒तान् ||{8/9}{9.73.8}{9.4.6.8}{7.2.30.3}{666, 796, 8356} ऋ॒तस्य॑¦गो॒पाः¦न¦दभा᳚य¦सु॒ऽक्रतुः॑¦त्री¦सः¦प॒वित्रा᳚¦हृ॒दि¦अ॒न्तः¦आ¦द॒धे॒ | |
ऋ॒तस्य॒ तन्तु॒र्वित॑तः प॒वित्र॒ आ जि॒ह्वाया॒, अग्रे॒ वरु॑णस्य मा॒यया᳚ |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} धीरा᳚श्चि॒त्तत्स॒मिन॑क्षन्त आश॒तात्रा᳚ क॒र्तमव॑ पदा॒त्यप्र॑भुः ||{9/9}{9.73.9}{9.4.6.9}{7.2.30.4}{667, 796, 8357} ऋ॒तस्य॑¦तन्तुः॑¦विऽत॑तः¦प॒वित्रे᳚¦आ¦जि॒ह्वायाः᳚¦अग्रे᳚¦वरु॑णस्य¦मा॒यया᳚ | |
[74] शिशुर्नेति नवर्चस्य सूक्तस्य दैर्घतमसः कक्षीवान्पवमान सोमोजगत्यष्टमीत्रिष्टुप् | |
शिशु॒र्न जा॒तोऽव॑ चक्रद॒द्वने॒ स्व१॑(अ॒)र्यद्वा॒ज्य॑रु॒षः सिषा᳚सति |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} दि॒वो रेत॑सा सचते पयो॒वृधा॒ तमी᳚महे सुम॒ती शर्म॑ स॒प्रथः॑ ||{1/9}{9.74.1}{9.4.7.1}{7.2.31.1}{668, 797, 8358} शिशुः॑¦न¦जा॒तः¦अव॑¦च॒क्र॒द॒त्¦वने᳚¦स्वः॑¦यत्¦वा॒जी¦अ॒रु॒षः¦सिसा᳚सति | |
दि॒वो यः स्क॒म्भो ध॒रुणः॒ स्वा᳚तत॒ आपू᳚र्णो, अं॒शुः प॒र्येति॑ वि॒श्वतः॑ |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} सेमे म॒ही रोद॑सी यक्षदा॒वृता᳚ समीची॒ने दा᳚धार॒ समिषः॑ क॒विः ||{2/9}{9.74.2}{9.4.7.2}{7.2.31.2}{669, 797, 8359} दि॒वः¦यः¦स्क॒म्भः¦ध॒रुणः॑¦सुऽआ᳚ततः¦आऽपू᳚र्णः¦अं॒शुः¦प॒रि॒ऽएति॑¦वि॒श्वतः॑ | |
महि॒ प्सरः॒ सुकृ॑तं सो॒म्यं मधू॒र्वी गव्यू᳚ति॒रदि॑तेरृ॒तं य॒ते |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} ईशे॒ यो वृ॒ष्टेरि॒त उ॒स्रियो॒ वृषा॒पां ने॒ता य इ॒तऊ᳚तिरृ॒ग्मियः॑ ||{3/9}{9.74.3}{9.4.7.3}{7.2.31.3}{670, 797, 8360} महि॑¦प्सरः॑¦सुऽकृ॑तम्¦सो॒म्यम्¦मधु॑¦उ॒र्वी¦गव्यू᳚तिः¦अदि॑तेः¦ऋ॒तम्¦य॒ते | |
आ॒त्म॒न्वन्नभो᳚ दुह्यते घृ॒तं पय॑ ऋ॒तस्य॒ नाभि॑र॒मृतं॒ वि जा᳚यते |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} स॒मी॒ची॒नाः सु॒दान॑वः प्रीणन्ति॒ तं नरो᳚ हि॒तमव॑ मेहन्ति॒ पेर॑वः ||{4/9}{9.74.4}{9.4.7.4}{7.2.31.4}{671, 797, 8361} आ॒त्म॒न्ऽवत्¦नभः॑¦दु॒ह्य॒ते॒¦घृ॒तम्¦पयः॑¦ऋ॒तस्य॑¦नाभिः॑¦अ॒मृत᳚म्¦वि¦जा॒य॒ते॒ | |
अरा᳚वीदं॒शुः सच॑मान ऊ॒र्मिणा᳚ देवा॒व्य१॑(अं॒) मनु॑षे पिन्वति॒ त्वच᳚म् |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} दधा᳚ति॒ गर्भ॒मदि॑तेरु॒पस्थ॒ आ येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ||{5/9}{9.74.5}{9.4.7.5}{7.2.31.5}{672, 797, 8362} अरा᳚वीत्¦अं॒शुः¦सच॑मानः¦ऊ॒र्मिणा᳚¦दे॒व॒।आ॒व्य᳚म्¦मनु॑षे¦पि॒न्व॒ति॒¦त्वच᳚म् | |
स॒हस्र॑धा॒रेऽव॒ ता, अ॑स॒श्चत॑स्तृ॒तीये᳚ सन्तु॒ रज॑सि प्र॒जाव॑तीः |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} चत॑स्रो॒ नाभो॒ निहि॑ता, अ॒वो दि॒वो ह॒विर्भ॑रन्त्य॒मृतं᳚ घृत॒श्चुतः॑ ||{6/9}{9.74.6}{9.4.7.6}{7.2.32.1}{673, 797, 8363} स॒हस्र॑ऽधारे¦अव॑¦ताः¦अ॒स॒श्चतः॑¦तृ॒तीये᳚¦स॒न्तु॒¦रज॑सि¦प्र॒जाऽव॑तीः | |
श्वे॒तं रू॒पं कृ॑णुते॒ यत्सिषा᳚सति॒ सोमो᳚ मी॒ढ्वाँ, असु॑रो वेद॒ भूम॑नः |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} धि॒या शमी᳚ सचते॒ सेम॒भि प्र॒वद्दि॒वस्कव᳚न्ध॒मव॑ दर्षदु॒द्रिण᳚म् ||{7/9}{9.74.7}{9.4.7.7}{7.2.32.2}{674, 797, 8364} श्वे॒तम्¦रू॒पम्¦कृ॒णु॒ते॒¦यत्¦सिसा᳚सति¦सोमः॑¦मी॒ढ्वान्¦असु॑रः¦वे॒द॒¦भूम॑नः | |
अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तं कार्ष्म॒न्ना वा॒ज्य॑क्रमीत्सस॒वान् |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | त्रिष्टुप्} आ हि᳚न् विरे॒ मन॑सा देव॒यन्तः॑ क॒क्षीव॑ते श॒तहि॑माय॒ गोना᳚म् ||{8/9}{9.74.8}{9.4.7.8}{7.2.32.3}{675, 797, 8365} अध॑¦श्वे॒तम्¦क॒लश᳚म्¦गोभिः॑¦अ॒क्तम्¦कार्ष्म॑न्¦आ¦वा॒जी¦अ॒क्र॒मी॒त्¦स॒स॒ऽवान् | |
अ॒द्भिः सो᳚म पपृचा॒नस्य॑ ते॒ रसोऽव्यो॒ वारं॒ वि प॑वमान धावति |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} स मृ॒ज्यमा᳚नः क॒विभि᳚र्मदिन्तम॒ स्वद॒स्वेन्द्रा᳚य पवमान पी॒तये᳚ ||{9/9}{9.74.9}{9.4.7.9}{7.2.32.4}{676, 797, 8366} अ॒त्ऽभिः¦सो॒म॒¦प॒पृ॒चा॒नस्य॑¦ते॒¦रसः॑¦अव्यः॑¦वार᳚म्¦वि¦प॒व॒मा॒न॒¦धा॒व॒ति॒ | |
[75] अभिप्रियाणीति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमानसोमोजगती | |
अ॒भि प्रि॒याणि॑ पवते॒ चनो᳚हितो॒ नामा᳚नि य॒ह्वो, अधि॒ येषु॒ वर्ध॑ते |{भार्गवः कविः | पवमानः सोमः | जगती} आ सूर्य॑स्य बृह॒तो बृ॒हन्नधि॒ रथं॒ विष्व᳚ञ्चमरुहद्विचक्ष॒णः ||{1/5}{9.75.1}{9.4.8.1}{7.2.33.1}{677, 798, 8367} अ॒भि¦प्रि॒याणि॑¦प॒व॒ते॒¦चनः॑ऽहितः¦नामा᳚नि¦य॒ह्वः¦अधि॑¦येषु॑¦वर्ध॑ते | |
ऋ॒तस्य॑ जि॒ह्वा प॑वते॒ मधु॑ प्रि॒यं व॒क्ता पति॑र्धि॒यो, अ॒स्या, अदा᳚भ्यः |{भार्गवः कविः | पवमानः सोमः | जगती} दधा᳚ति पु॒त्रः पि॒त्रोर॑पी॒च्य१॑(अं॒) नाम॑ तृ॒तीय॒मधि॑ रोच॒ने दि॒वः ||{2/5}{9.75.2}{9.4.8.2}{7.2.33.2}{678, 798, 8368} ऋ॒तस्य॑¦जि॒ह्वा¦प॒व॒ते॒¦मधु॑¦प्रि॒यम्¦व॒क्ता¦पतिः॑¦धि॒यः¦अ॒स्याः¦अदा᳚भ्यः | |
अव॑ द्युता॒नः क॒लशाँ᳚, अचिक्रद॒न्नृभि᳚र्येमा॒नः कोश॒ आ हि॑र॒ण्यये᳚ |{भार्गवः कविः | पवमानः सोमः | जगती} अ॒भीमृ॒तस्य॑ दो॒हना᳚, अनूष॒ताधि॑ त्रिपृ॒ष्ठ उ॒षसो॒ वि रा᳚जति ||{3/5}{9.75.3}{9.4.8.3}{7.2.33.3}{679, 798, 8369} अव॑¦द्यु॒ता॒नः¦क॒लशा᳚न्¦अ॒चि॒क्र॒द॒त्¦नृऽभिः॑¦ये॒मा॒नः¦कोशे᳚¦आ¦हि॒र॒ण्यये᳚ | |
अद्रि॑भिः सु॒तो म॒तिभि॒श्चनो᳚हितः प्ररो॒चय॒न् रोद॑सी मा॒तरा॒ शुचिः॑ |{भार्गवः कविः | पवमानः सोमः | जगती} रोमा॒ण्यव्या᳚ स॒मया॒ वि धा᳚वति॒ मधो॒र्धारा॒ पिन्व॑माना दि॒वेदि॑वे ||{4/5}{9.75.4}{9.4.8.4}{7.2.33.4}{680, 798, 8370} अद्रि॑ऽभिः¦सु॒तः¦म॒तिऽभिः॑¦चनः॑ऽहितः¦प्र॒ऽरो॒चय॑न्¦रोद॑सी॒ इति॑¦मा॒तरा᳚¦शुचिः॑ | |
परि॑ सोम॒ प्र ध᳚न्वा स्व॒स्तये॒ नृभिः॑ पुना॒नो, अ॒भि वा᳚सया॒शिर᳚म् |{भार्गवः कविः | पवमानः सोमः | जगती} ये ते॒ मदा᳚, आह॒नसो॒ विहा᳚यस॒स्तेभि॒रिन्द्रं᳚ चोदय॒ दात॑वे म॒घम् ||{5/5}{9.75.5}{9.4.8.5}{7.2.33.5}{681, 798, 8371} परि॑¦सो॒म॒¦प्र¦ध॒न्व॒¦स्व॒स्तये᳚¦नृऽभिः॑¦पु॒ना॒नः¦अ॒भि¦वा॒स॒य॒¦आ॒ऽशिर᳚म् | |
[76] धर्तेति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमानसोमोजगती | |
ध॒र्ता दि॒वः प॑वते॒ कृत्व्यो॒ रसो॒ दक्षो᳚ दे॒वाना᳚मनु॒माद्यो॒ नृभिः॑ |{भार्गवः कविः | पवमानः सोमः | जगती} हरिः॑ सृजा॒नो, अत्यो॒ न सत्व॑भि॒र्वृथा॒ पाजां᳚सि कृणुते न॒दीष्वा ||{1/5}{9.76.1}{9.4.9.1}{7.3.1.1}{682, 799, 8372} ध॒र्ता¦दि॒वः¦प॒व॒ते॒¦कृत्व्यः॑¦रसः॑¦दक्षः॑¦दे॒वाना᳚म्¦अ॒नु॒ऽमाद्यः॑¦नृऽभिः॑ | |
शूरो॒ न ध॑त्त॒ आयु॑धा॒ गभ॑स्त्योः॒ स्व१॑(अः॒) सिषा᳚सन् रथि॒रो गवि॑ष्टिषु |{भार्गवः कविः | पवमानः सोमः | जगती} इन्द्र॑स्य॒ शुष्म॑मी॒रय᳚न्नप॒स्युभि॒रिन्दु᳚र्हिन्वा॒नो, अ॑ज्यते मनी॒षिभिः॑ ||{2/5}{9.76.2}{9.4.9.2}{7.3.1.2}{683, 799, 8373} शूरः॑¦न¦ध॒त्ते॒¦आयु॑धा¦गभ॑स्त्योः¦स्व१॒॑रिति॒ स्वः॑¦सिसा᳚सन्¦र॒थि॒रः¦गोऽइ᳚ष्टिषु | |
इन्द्र॑स्य सोम॒ पव॑मान ऊ॒र्मिणा᳚ तवि॒ष्यमा᳚णो ज॒ठरे॒ष्वा वि॑श |{भार्गवः कविः | पवमानः सोमः | जगती} प्र णः॑ पिन्व वि॒द्युद॒भ्रेव॒ रोद॑सी धि॒या न वाजाँ॒, उप॑ मासि॒ शश्व॑तः ||{3/5}{9.76.3}{9.4.9.3}{7.3.1.3}{684, 799, 8374} इन्द्र॑स्य¦सो॒म॒¦पव॑मानः¦ऊ॒र्मिणा᳚¦त॒वि॒ष्यमा᳚णः¦ज॒ठरे᳚षु¦आ¦वि॒श॒ | |
विश्व॑स्य॒ राजा᳚ पवते स्व॒र्दृश॑ ऋ॒तस्य॑ धी॒तिमृ॑षि॒षाळ॑वीवशत् |{भार्गवः कविः | पवमानः सोमः | जगती} यः सूर्य॒स्यासि॑रेण मृ॒ज्यते᳚ पि॒ता म॑ती॒नामस॑मष्टकाव्यः ||{4/5}{9.76.4}{9.4.9.4}{7.3.1.4}{685, 799, 8375} विश्व॑स्य¦राजा᳚¦प॒व॒ते॒¦स्वः॒ऽदृशः॑¦ऋ॒तस्य॑¦धी॒तिम्¦ऋ॒षि॒षाट्¦अ॒वी॒व॒श॒त् | |
वृषे᳚व यू॒था परि॒ कोश॑मर्षस्य॒पामु॒पस्थे᳚ वृष॒भः कनि॑क्रदत् |{भार्गवः कविः | पवमानः सोमः | जगती} स इन्द्रा᳚य पवसे मत्स॒रिन्त॑मो॒ यथा॒ जेषा᳚म समि॒थे त्वोत॑यः ||{5/5}{9.76.5}{9.4.9.5}{7.3.1.5}{686, 799, 8376} वृषा᳚ऽइव¦यू॒था¦परि॑¦कोश᳚म्¦अ॒र्ष॒सि॒¦अ॒पाम्¦उ॒पऽस्थे᳚¦वृ॒ष॒भः¦कनि॑क्रदत् | |
[77] एषइति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमान सोमोजगती | |
ए॒ष प्र कोशे॒ मधु॑माँ, अचिक्रद॒दिन्द्र॑स्य॒ वज्रो॒ वपु॑षो॒ वपु॑ष्टरः |{भार्गवः कविः | पवमानः सोमः | जगती} अ॒भीमृ॒तस्य॑ सु॒दुघा᳚ घृत॒श्चुतो᳚ वा॒श्रा, अ॑र्षन्ति॒ पय॑सेव धे॒नवः॑ ||{1/5}{9.77.1}{9.4.10.1}{7.3.2.1}{687, 800, 8377} ए॒षः¦प्र¦कोशे᳚¦मधु॑ऽमान्¦अ॒चि॒क्र॒द॒त्¦इन्द्र॑स्य¦वज्रः॑¦वपु॑षः¦वपुः॑ऽतरः | |
स पू॒र्व्यः प॑वते॒ यं दि॒वस्परि॑ श्ये॒नो म॑था॒यदि॑षि॒तस्ति॒रो रजः॑ |{भार्गवः कविः | पवमानः सोमः | जगती} स मध्व॒ आ यु॑वते॒ वेवि॑जान॒ इत्कृ॒शानो॒रस्तु॒र्मन॒साह॑ बि॒भ्युषा᳚ ||{2/5}{9.77.2}{9.4.10.2}{7.3.2.2}{688, 800, 8378} सः¦पू॒र्व्यः¦प॒व॒ते॒¦यम्¦दि॒वः¦परि॑¦श्ये॒नः¦म॒था॒यत्¦इ॒षि॒तः¦ति॒रः¦रजः॑ | |
ते नः॒ पूर्वा᳚स॒ उप॑रास॒ इन्द॑वो म॒हे वाजा᳚य धन्वन्तु॒ गोम॑ते |{भार्गवः कविः | पवमानः सोमः | जगती} ई॒क्षे॒ण्या᳚सो, अ॒ह्यो॒३॑(ओ॒) न चार॑वो॒ ब्रह्म॑ब्रह्म॒ ये जु॑जु॒षुर्ह॒विर्ह॑विः ||{3/5}{9.77.3}{9.4.10.3}{7.3.2.3}{689, 800, 8379} ते¦नः॒¦पूर्वा᳚सः¦उप॑रासः¦इन्द॑वः¦म॒हे¦वाजा᳚य¦ध॒न्व॒न्तु॒¦गोऽम॑ते | |
अ॒यं नो᳚ वि॒द्वान् व॑नवद्वनुष्य॒त इन्दुः॑ स॒त्राचा॒ मन॑सा पुरुष्टु॒तः |{भार्गवः कविः | पवमानः सोमः | जगती} इ॒नस्य॒ यः सद॑ने॒ गर्भ॑माद॒धे गवा᳚मुरु॒ब्जम॒भ्यर्ष॑ति व्र॒जम् ||{4/5}{9.77.4}{9.4.10.4}{7.3.2.4}{690, 800, 8380} अ॒यम्¦नः॒¦वि॒द्वान्¦व॒न॒व॒त्¦व॒नु॒ष्य॒तः¦इन्दुः॑¦स॒त्राचा᳚¦मन॑सा¦पु॒रु॒ऽस्तु॒तः | |
चक्रि॑र्दि॒वः प॑वते॒ कृत्व्यो॒ रसो᳚ म॒हाँ, अद॑ब्धो॒ वरु॑णो हु॒रुग्य॒ते |{भार्गवः कविः | पवमानः सोमः | जगती} असा᳚वि मि॒त्रो वृ॒जने᳚षु य॒ज्ञियोऽत्यो॒ न यू॒थे वृ॑ष॒युः कनि॑क्रदत् ||{5/5}{9.77.5}{9.4.10.5}{7.3.2.5}{691, 800, 8381} चक्रिः॑¦दि॒वः¦प॒व॒ते॒¦कृत्व्यः॑¦रसः॑¦म॒हान्¦अद॑ब्धः¦वरु॑णः¦हु॒रुक्¦य॒ते | |
[78] प्रराजेति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमान सोमो जगती | |
प्र राजा॒ वाचं᳚ ज॒नय᳚न्नसिष्यदद॒पो वसा᳚नो, अ॒भि गा, इ॑यक्षति |{भार्गवः कविः | पवमानः सोमः | जगती} गृ॒भ्णाति॑ रि॒प्रमवि॑रस्य॒ तान्वा᳚ शु॒द्धो दे॒वाना॒मुप॑ याति निष्कृ॒तम् ||{1/5}{9.78.1}{9.4.11.1}{7.3.3.1}{692, 801, 8382} प्र¦राजा᳚¦वाच᳚म्¦ज॒नय॑न्¦अ॒सि॒स्य॒द॒त्¦अ॒पः¦वसा᳚नः¦अ॒भि¦गाः¦इ॒य॒क्ष॒ति॒ | |
इन्द्रा᳚य सोम॒ परि॑ षिच्यसे॒ नृभि᳚र्नृ॒चक्षा᳚, ऊ॒र्मिः क॒विर॑ज्यसे॒ वने᳚ |{भार्गवः कविः | पवमानः सोमः | जगती} पू॒र्वीर्हि ते᳚ स्रु॒तयः॒ सन्ति॒ यात॑वे स॒हस्र॒मश्वा॒ हर॑यश्चमू॒षदः॑ ||{2/5}{9.78.2}{9.4.11.2}{7.3.3.2}{693, 801, 8383} इन्द्रा᳚य¦सो॒म॒¦परि॑¦सि॒च्य॒से॒¦नृऽभिः॑¦नृ॒ऽचक्षाः᳚¦ऊ॒र्मिः¦क॒विः¦अ॒ज्य॒से॒¦वने᳚ | |
स॒मु॒द्रिया᳚, अप्स॒रसो᳚ मनी॒षिण॒मासी᳚ना, अ॒न्तर॒भि सोम॑मक्षरन् |{भार्गवः कविः | पवमानः सोमः | जगती} ता, ईं᳚ हिन्वन्ति ह॒र्म्यस्य॑ स॒क्षणिं॒ याच᳚न्ते सु॒म्नं पव॑मान॒मक्षि॑तम् ||{3/5}{9.78.3}{9.4.11.3}{7.3.3.3}{694, 801, 8384} स॒मु॒द्रियाः᳚¦अ॒प्स॒रसः॑¦म॒नी॒षिण᳚म्¦आसी᳚नाः¦अ॒न्तः¦अ॒भि¦सोम᳚म्¦अ॒क्ष॒र॒न् | |
गो॒जिन्नः॒ सोमो᳚ रथ॒जिद्धि॑रण्य॒जित्स्व॒र्जिद॒ब्जित्प॑वते सहस्र॒जित् |{भार्गवः कविः | पवमानः सोमः | जगती} यं दे॒वास॑श्चक्रि॒रे पी॒तये॒ मदं॒ स्वादि॑ष्ठं द्र॒प्सम॑रु॒णं म॑यो॒भुव᳚म् ||{4/5}{9.78.4}{9.4.11.4}{7.3.3.4}{695, 801, 8385} गो॒ऽजित्¦नः॒¦सोमः॑¦र॒थ॒ऽजित्¦हि॒र॒ण्य॒ऽजित्¦स्वः॒ऽजित्¦अ॒प्ऽजित्¦प॒व॒ते॒¦स॒ह॒स्र॒ऽजित् | |
ए॒तानि॑ सोम॒ पव॑मानो, अस्म॒युः स॒त्यानि॑ कृ॒ण्वन्द्रवि॑णान्यर्षसि |{भार्गवः कविः | पवमानः सोमः | जगती} ज॒हि शत्रु॑मन्ति॒के दू᳚र॒के च॒ य उ॒र्वीं गव्यू᳚ति॒मभ॑यं च नस्कृधि ||{5/5}{9.78.5}{9.4.11.5}{7.3.3.5}{696, 801, 8386} ए॒तानि॑¦सो॒म॒¦पव॑मानः¦अ॒स्म॒ऽयुः¦स॒त्यानि॑¦कृ॒ण्वन्¦द्रवि॑णानि¦अ॒र्ष॒सि॒ | |
[79] अचोदसइति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमानसोमोजगती | |
अ॒चो॒दसो᳚ नो धन्व॒न्त्विन्द॑वः॒ प्र सु॑वा॒नासो᳚ बृ॒हद्दि॑वेषु॒ हर॑यः |{भार्गवः कविः | पवमानः सोमः | जगती} वि च॒ नश᳚न्न इ॒षो, अरा᳚तयो॒ऽर्यो न॑शन्त॒ सनि॑षन्त नो॒ धियः॑ ||{1/5}{9.79.1}{9.4.12.1}{7.3.4.1}{697, 802, 8387} अ॒चो॒दसः॑¦नः॒¦ध॒न्व॒न्तु॒¦इन्द॑वः¦प्र¦सु॒वा॒नासः॑¦बृ॒हत्ऽदि॑वेषु¦हर॑यः | |
प्र णो᳚ धन्व॒न्त्विन्द॑वो मद॒च्युतो॒ धना᳚ वा॒ येभि॒रर्व॑तो जुनी॒मसि॑ |{भार्गवः कविः | पवमानः सोमः | जगती} ति॒रो मर्त॑स्य॒ कस्य॑ चि॒त्परि॑ह्वृतिं व॒यं धना᳚नि वि॒श्वधा᳚ भरेमहि ||{2/5}{9.79.2}{9.4.12.2}{7.3.4.2}{698, 802, 8388} प्र¦नः॒¦ध॒न्व॒न्तु॒¦इन्द॑वः¦म॒द॒ऽच्युतः॑¦धना᳚¦वा॒¦येभिः॑¦अर्व॑तः¦जु॒नी॒मसि॑ | |
उ॒त स्वस्या॒, अरा᳚त्या, अ॒रिर्हि ष उ॒तान्यस्या॒, अरा᳚त्या॒ वृको॒ हि षः |{भार्गवः कविः | पवमानः सोमः | जगती} धन्व॒न्न तृष्णा॒ सम॑रीत॒ ताँ, अ॒भि सोम॑ ज॒हि प॑वमान दुरा॒ध्यः॑ ||{3/5}{9.79.3}{9.4.12.3}{7.3.4.3}{699, 802, 8389} उ॒त¦स्वस्याः᳚¦अरा᳚त्याः¦अ॒रिः¦हि¦सः¦उ॒त¦अ॒न्यस्याः᳚¦अरा᳚त्याः¦वृकः॑¦हि¦सः | |
दि॒वि ते॒ नाभा᳚ पर॒मो य आ᳚द॒दे पृ॑थि॒व्यास्ते᳚ रुरुहुः॒ सान॑वि॒ क्षिपः॑ |{भार्गवः कविः | पवमानः सोमः | जगती} अद्र॑यस्त्वा बप्सति॒ गोरधि॑ त्व॒च्य१॑(अ॒)प्सु त्वा॒ हस्तै᳚र्दुदुहुर्मनी॒षिणः॑ ||{4/5}{9.79.4}{9.4.12.4}{7.3.4.4}{700, 802, 8390} दि॒वि¦ते॒¦नाभा᳚¦प॒र॒मः¦यः¦आ॒ऽद॒दे¦पृ॒थि॒व्याः¦ते॒¦रु॒रु॒हुः॒¦सान॑वि¦क्षिपः॑ | |
ए॒वा त॑ इन्दो सु॒भ्वं᳚ सु॒पेश॑सं॒ रसं᳚ तुञ्जन्ति प्रथ॒मा, अ॑भि॒श्रियः॑ |{भार्गवः कविः | पवमानः सोमः | जगती} निदं᳚निदं पवमान॒ नि ता᳚रिष आ॒विस्ते॒ शुष्मो᳚ भवतु प्रि॒यो मदः॑ ||{5/5}{9.79.5}{9.4.12.5}{7.3.4.5}{701, 802, 8391} ए॒व¦ते॒¦इ॒न्दो॒ इति॑¦सु॒ऽभ्व᳚म्¦सु॒ऽपेश॑सम्¦रस᳚म्¦तुं॒ज॒न्ति॒¦प्र॒थ॒माः¦अ॒भि॒ऽश्रियः॑ | |
[80] सोमस्येति पंचर्चस्य सूक्तस्य भारद्वाजो वसुः पवमान सोमोजगती | |
सोम॑स्य॒ धारा᳚ पवते नृ॒चक्ष॑स ऋ॒तेन॑ दे॒वान् ह॑वते दि॒वस्परि॑ |{भारद्वाजो वसुः | पवमानः सोमः | जगती} बृह॒स्पते᳚ र॒वथे᳚ना॒ वि दि॑द्युते समु॒द्रासो॒ न सव॑नानि विव्यचुः ||{1/5}{9.80.1}{9.4.13.1}{7.3.5.1}{702, 803, 8392} सोम॑स्य¦धारा᳚¦प॒व॒ते॒¦नृ॒ऽचक्ष॑सः¦ऋ॒तेन॑¦दे॒वान्¦ह॒व॒ते॒¦दि॒वः¦परि॑ | |
यं त्वा᳚ वाजिन्न॒घ्न्या, अ॒भ्यनू᳚ष॒तायो᳚हतं॒ योनि॒मा रो᳚हसि द्यु॒मान् |{भारद्वाजो वसुः | पवमानः सोमः | जगती} म॒घोना॒मायुः॑ प्रति॒रन्महि॒ श्रव॒ इन्द्रा᳚य सोम पवसे॒ वृषा॒ मदः॑ ||{2/5}{9.80.2}{9.4.13.2}{7.3.5.2}{703, 803, 8393} यम्¦त्वा॒¦वा॒जि॒न्¦अ॒घ्न्याः¦अ॒भि¦अनू᳚षत¦अयः॑ऽहतम्¦योनि᳚म्¦आ¦रो॒ह॒सि॒¦द्यु॒ऽमान् | |
एन्द्र॑स्य कु॒क्षा प॑वते म॒दिन्त॑म॒ ऊर्जं॒ वसा᳚नः॒ श्रव॑से सुम॒ङ्गलः॑ |{भारद्वाजो वसुः | पवमानः सोमः | जगती} प्र॒त्यङ्स विश्वा॒ भुव॑ना॒भि प॑प्रथे॒ क्रीळ॒न्हरि॒रत्यः॑ स्यन्दते॒ वृषा᳚ ||{3/5}{9.80.3}{9.4.13.3}{7.3.5.3}{704, 803, 8394} आ¦इन्द्र॑स्य¦कु॒क्षा¦प॒व॒ते॒¦म॒दिन्ऽत॑मः¦ऊर्ज᳚म्¦वसा᳚नः¦श्रव॑से¦सु॒ऽम॒ङ्गलः॑ | |
तं त्वा᳚ दे॒वेभ्यो॒ मधु॑मत्तमं॒ नरः॑ स॒हस्र॑धारं दुहते॒ दश॒ क्षिपः॑ |{भारद्वाजो वसुः | पवमानः सोमः | जगती} नृभिः॑ सोम॒ प्रच्यु॑तो॒ ग्राव॑भिः सु॒तो विश्वा᳚न्दे॒वाँ, आ प॑वस्वा सहस्रजित् ||{4/5}{9.80.4}{9.4.13.4}{7.3.5.4}{705, 803, 8395} तम्¦त्वा॒¦दे॒वेभ्यः॑¦मधु॑मत्ऽतमम्¦नरः॑¦स॒हस्र॑ऽधारम्¦दु॒ह॒ते॒¦दश॑¦क्षिपः॑ | |
तं त्वा᳚ ह॒स्तिनो॒ मधु॑मन्त॒मद्रि॑भिर्दु॒हन्त्य॒प्सु वृ॑ष॒भं दश॒ क्षिपः॑ |{भारद्वाजो वसुः | पवमानः सोमः | जगती} इन्द्रं᳚ सोम मा॒दय॒न्दैव्यं॒ जनं॒ सिन्धो᳚रिवो॒र्मिः पव॑मानो, अर्षसि ||{5/5}{9.80.5}{9.4.13.5}{7.3.5.5}{706, 803, 8396} तम्¦त्वा॒¦ह॒स्तिनः॑¦मधु॑ऽमन्तम्¦अद्रि॑ऽभिः¦दु॒हन्ति॑¦अ॒प्ऽसु¦वृ॒ष॒भम्¦दश॑¦क्षिपः॑ | |
[81] प्रसोमस्येति पंचर्चस्य सूक्तस्य भारद्वाजो वसुः पवमान सोमोजगत्यंत्यात्रिष्टुप् | |
प्र सोम॑स्य॒ पव॑मानस्यो॒र्मय॒ इन्द्र॑स्य यन्ति ज॒ठरं᳚ सु॒पेश॑सः |{भारद्वाजो वसुः | पवमानः सोमः | जगती} द॒ध्ना यदी॒मुन्नी᳚ता य॒शसा॒ गवां᳚ दा॒नाय॒ शूर॑मु॒दम᳚न्दिषुः सु॒ताः ||{1/5}{9.81.1}{9.4.14.1}{7.3.6.1}{707, 804, 8397} प्र¦सोम॑स्य¦पव॑मानस्य¦ऊ॒र्मयः॑¦इन्द्र॑स्य¦य॒न्ति॒¦ज॒ठर᳚म्¦सु॒ऽपेश॑सः | |
अच्छा॒ हि सोमः॑ क॒लशाँ॒, असि॑ष्यद॒दत्यो॒ न वोळ्हा᳚ र॒घुव॑र्तनि॒र्वृषा᳚ |{भारद्वाजो वसुः | पवमानः सोमः | जगती} अथा᳚ दे॒वाना᳚मु॒भय॑स्य॒ जन्म॑नो वि॒द्वाँ, अ॑श्नोत्य॒मुत॑ इ॒तश्च॒ यत् ||{2/5}{9.81.2}{9.4.14.2}{7.3.6.2}{708, 804, 8398} अच्छ॑¦हि¦सोमः॑¦क॒लशा᳚न्¦असि॑स्यदत्¦अत्यः॑¦न¦वोळ्हा᳚¦र॒घुऽव॑र्तनिः¦वृषा᳚ | |
आ नः॑ सोम॒ पव॑मानः किरा॒ वस्विन्दो॒ भव॑ म॒घवा॒ राध॑सो म॒हः |{भारद्वाजो वसुः | पवमानः सोमः | जगती} शिक्षा᳚ वयोधो॒ वस॑वे॒ सु चे॒तुना॒ मा नो॒ गय॑मा॒रे, अ॒स्मत्परा᳚ सिचः ||{3/5}{9.81.3}{9.4.14.3}{7.3.6.3}{709, 804, 8399} आ¦नः॒¦सो॒म॒¦पव॑मानः¦कि॒र॒¦वसु॑¦इन्दो॒ इति॑¦भव॑¦म॒घऽवा᳚¦राध॑सः¦म॒हः | |
आ नः॑ पू॒षा पव॑मानः सुरा॒तयो᳚ मि॒त्रो ग॑च्छन्तु॒ वरु॑णः स॒जोष॑सः |{भारद्वाजो वसुः | पवमानः सोमः | जगती} बृह॒स्पति᳚र्म॒रुतो᳚ वा॒युर॒श्विना॒ त्वष्टा᳚ सवि॒ता सु॒यमा॒ सर॑स्वती ||{4/5}{9.81.4}{9.4.14.4}{7.3.6.4}{710, 804, 8400} आ¦नः॒¦पू॒षा¦पव॑मानः¦सु॒ऽरा॒तयः॑¦मि॒त्रः¦ग॒च्छ॒न्तु॒¦वरु॑णः¦स॒ऽजोष॑सः | |
उ॒भे द्यावा᳚पृथि॒वी वि॑श्वमि॒न्वे, अ᳚र्य॒मा दे॒वो, अदि॑तिर्विधा॒ता |{भारद्वाजो वसुः | पवमानः सोमः | त्रिष्टुप्} भगो॒ नृशंस॑ उ॒र्व१॑(अ॒)न्तरि॑क्षं॒ विश्वे᳚ दे॒वाः पव॑मानं जुषन्त ||{5/5}{9.81.5}{9.4.14.5}{7.3.6.5}{711, 804, 8401} उ॒भे इति॑¦द्यावा᳚पृथि॒वी इति॑¦वि॒श्व॒म्ऽइ॒न्वे¦अ॒र्य॒मा¦दे॒वः¦अदि॑तिः¦वि॒ऽधा॒ता | |
[82] असावीति पंचर्चस्य सूक्तस्य भारद्वाजो वसुः पवमान सोमोजगत्यंत्यात्रिष्टुप् | |
असा᳚वि॒ सोमो᳚, अरु॒षो वृषा॒ हरी॒ राजे᳚व द॒स्मो, अ॒भि गा, अ॑चिक्रदत् |{भारद्वाजो वसुः | पवमानः सोमः | जगती} पु॒ना॒नो वारं॒ पर्ये᳚त्य॒व्ययं᳚ श्ये॒नो न योनिं᳚ घृ॒तव᳚न्तमा॒सद᳚म् ||{1/5}{9.82.1}{9.4.15.1}{7.3.7.1}{712, 805, 8402} असा᳚वि¦सोमः॑¦अ॒रु॒षः¦वृषा᳚¦हरिः॑¦राजा᳚ऽइव¦द॒स्मः¦अ॒भि¦गाः¦अ॒चि॒क्र॒द॒त् | |
क॒विर्वे᳚ध॒स्या पर्ये᳚षि॒ माहि॑न॒मत्यो॒ न मृ॒ष्टो, अ॒भि वाज॑मर्षसि |{भारद्वाजो वसुः | पवमानः सोमः | जगती} अ॒प॒सेध᳚न्दुरि॒ता सो᳚म मृळय घृ॒तं वसा᳚नः॒ परि॑ यासि नि॒र्णिज᳚म् ||{2/5}{9.82.2}{9.4.15.2}{7.3.7.2}{713, 805, 8403} क॒विः¦वे॒ध॒स्या¦परि॑¦ए॒षि॒¦माहि॑नम्¦अत्यः॑¦न¦मृ॒ष्टः¦अ॒भि¦वाज᳚म्¦अ॒र्ष॒सि॒ | |
प॒र्जन्यः॑ पि॒ता म॑हि॒षस्य॑ प॒र्णिनो॒ नाभा᳚ पृथि॒व्या गि॒रिषु॒ क्षयं᳚ दधे |{भारद्वाजो वसुः | पवमानः सोमः | जगती} स्वसा᳚र॒ आपो᳚, अ॒भि गा, उ॒तास॑र॒न् त्सं ग्राव॑भिर्नसते वी॒ते, अ॑ध्व॒रे ||{3/5}{9.82.3}{9.4.15.3}{7.3.7.3}{714, 805, 8404} प॒र्जन्यः॑¦पि॒ता¦म॒हि॒षस्य॑¦प॒र्णिनः॑¦नाभा᳚¦पृ॒थि॒व्याः¦गि॒रिषु॑¦क्षय᳚म्¦द॒धे॒ | |
जा॒येव॒ पत्या॒वधि॒ शेव॑ मंहसे॒ पज्रा᳚या गर्भ शृणु॒हि ब्रवी᳚मि ते |{भारद्वाजो वसुः | पवमानः सोमः | जगती} अ॒न्तर्वाणी᳚षु॒ प्र च॑रा॒ सु जी॒वसे᳚ऽनि॒न्द्यो वृ॒जने᳚ सोम जागृहि ||{4/5}{9.82.4}{9.4.15.4}{7.3.7.4}{715, 805, 8405} जा॒याऽइ᳚व¦पत्यौ᳚¦अधि॑¦शेव॑¦मं॒ह॒से॒¦पज्रा᳚याः¦ग॒र्भ॒¦शृ॒णु॒हि¦ब्रवी᳚मि¦ते॒ | |
यथा॒ पूर्वे᳚भ्यः शत॒सा, अमृ॑ध्रः सहस्र॒साः प॒र्यया॒ वाज॑मिन्दो |{भारद्वाजो वसुः | पवमानः सोमः | त्रिष्टुप्} ए॒वा प॑वस्व सुवि॒ताय॒ नव्य॑से॒ तव᳚ व्र॒तमन्वापः॑ सचन्ते ||{5/5}{9.82.5}{9.4.15.5}{7.3.7.5}{716, 805, 8406} यथा᳚¦पूर्वे᳚भ्यः¦श॒त॒ऽसाः¦अमृ॑ध्रः¦स॒ह॒स्र॒ऽसाः¦प॒रि॒।आयाः᳚¦वाज᳚म्¦इ॒न्दो॒ इति॑ | |
[83] पवित्रंतइति पंचर्चस्य सूक्तस्यांगिरसः पवित्रः पवमानसोमोजगती | |
प॒वित्रं᳚ ते॒ वित॑तं ब्रह्मणस्पते प्र॒भुर्गात्रा᳚णि॒ पर्ये᳚षि वि॒श्वतः॑ |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} अत॑प्ततनू॒र्न तदा॒मो, अ॑श्नुते शृ॒तास॒ इद्वह᳚न्त॒स्तत्समा᳚शत ||{1/5}{9.83.1}{9.4.16.1}{7.3.8.1}{717, 806, 8407} प॒वित्र᳚म्¦ते॒¦विऽत॑तम्¦ब्र॒ह्म॒णः॒¦प॒ते॒¦प्र॒ऽभुः¦गात्रा᳚णि¦परि॑¦ए॒षि॒¦वि॒श्वतः॑ | |
तपो᳚ष्प॒वित्रं॒ वित॑तं दि॒वस्प॒दे शोच᳚न्तो, अस्य॒ तन्त॑वो॒ व्य॑स्थिरन् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} अव᳚न्त्यस्य पवी॒तार॑मा॒शवो᳚ दि॒वस्पृ॒ष्ठमधि॑ तिष्ठन्ति॒ चेत॑सा ||{2/5}{9.83.2}{9.4.16.2}{7.3.8.2}{718, 806, 8408} तपोः᳚¦प॒वित्र᳚म्¦विऽत॑तम्¦दि॒वः¦प॒दे¦शोच᳚न्तः¦अ॒स्य॒¦तन्त॑वः¦वि¦अ॒स्थि॒र॒न् | |
अरू᳚रुचदु॒षसः॒ पृश्नि॑रग्रि॒य उ॒क्षा बि॑भर्ति॒ भुव॑नानि वाज॒युः |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} मा॒या॒विनो᳚ ममिरे, अस्य मा॒यया᳚ नृ॒चक्ष॑सः पि॒तरो॒ गर्भ॒मा द॑धुः ||{3/5}{9.83.3}{9.4.16.3}{7.3.8.3}{719, 806, 8409} अरू᳚रुचत्¦उ॒षसः॑¦पृश्निः॑¦अ॒ग्रि॒यः¦उ॒क्षा¦बि॒भ॒र्ति॒¦भुव॑नानि¦वा॒ज॒ऽयुः | |
ग॒न्ध॒र्व इ॒त्था प॒दम॑स्य रक्षति॒ पाति॑ दे॒वानां॒ जनि॑मा॒न्यद्भु॑तः |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} गृ॒भ्णाति॑ रि॒पुं नि॒धया᳚ नि॒धाप॑तिः सु॒कृत्त॑मा॒ मधु॑नो भ॒क्षमा᳚शत ||{4/5}{9.83.4}{9.4.16.4}{7.3.8.4}{720, 806, 8410} ग॒न्ध॒र्वः¦इ॒त्था¦प॒दम्¦अ॒स्य॒¦र॒क्ष॒ति॒¦पाति॑¦दे॒वाना᳚म्¦जनि॑मानि¦अद्भु॑तः | |
ह॒विर्ह॑विष्मो॒ महि॒ सद्म॒ दैव्यं॒ नभो॒ वसा᳚नः॒ परि॑ यास्यध्व॒रम् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} राजा᳚ प॒वित्र॑रथो॒ वाज॒मारु॑हः स॒हस्र॑भृष्टिर्जयसि॒ श्रवो᳚ बृ॒हत् ||{5/5}{9.83.5}{9.4.16.5}{7.3.8.5}{721, 806, 8411} ह॒विः¦ह॒वि॒ष्मः॒¦महि॑¦सद्म॑¦दैव्य᳚म्¦नभः॑¦वसा᳚नः¦परि॑¦या॒सि॒¦अ॒ध्व॒रम् | |
[84] पवस्वेति पंचर्चस्य सूक्तस्य वाच्यः प्रजापतिः पवमान सोमोजगती | |
पव॑स्व देव॒माद॑नो॒ विच॑र्षणिर॒प्सा, इन्द्रा᳚य॒ वरु॑णाय वा॒यवे᳚ |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती} कृ॒धी नो᳚, अ॒द्य वरि॑वः स्वस्ति॒मदु॑रुक्षि॒तौ गृ॑णीहि॒ दैव्यं॒ जन᳚म् ||{1/5}{9.84.1}{9.4.17.1}{7.3.9.1}{722, 807, 8412} पव॑स्व¦दे॒व॒ऽमाद॑नः¦विऽच॑र्षणिः¦अ॒प्साः¦इन्द्रा᳚य¦वरु॑णाय¦वा॒यवे᳚ | |
आ यस्त॒स्थौ भुव॑ना॒न्यम॑र्त्यो॒ विश्वा᳚नि॒ सोमः॒ परि॒ तान्य॑र्षति |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती} कृ॒ण्वन् त्सं॒चृतं᳚ वि॒चृत॑म॒भिष्ट॑य॒ इन्दुः॑ सिषक्त्यु॒षसं॒ न सूर्यः॑ ||{2/5}{9.84.2}{9.4.17.2}{7.3.9.2}{723, 807, 8413} आ¦यः¦त॒स्थौ¦भुव॑नानि¦अम॑र्त्यः¦विश्वा᳚नि¦सोमः॑¦परि॑¦तानि॑¦अ॒र्ष॒ति॒ | |
आ यो गोभिः॑ सृ॒ज्यत॒ ओष॑धी॒ष्वा दे॒वानां᳚ सु॒म्न इ॒षय॒न्नुपा᳚वसुः |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती} आ वि॒द्युता᳚ पवते॒ धार॑या सु॒त इन्द्रं॒ सोमो᳚ मा॒दय॒न्दैव्यं॒ जन᳚म् ||{3/5}{9.84.3}{9.4.17.3}{7.3.9.3}{724, 807, 8414} आ¦यः¦गोभिः॑¦सृ॒ज्यते᳚¦ओष॑धीषु¦आ¦दे॒वाना᳚म्¦सु॒म्ने¦इ॒षय॑न्¦उप॑ऽवसुः | |
ए॒ष स्य सोमः॑ पवते सहस्र॒जिद्धि᳚न्वा॒नो वाच॑मिषि॒रामु॑ष॒र्बुध᳚म् |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती} इन्दुः॑ समु॒द्रमुदि॑यर्ति वा॒युभि॒रेन्द्र॑स्य॒ हार्दि॑ क॒लशे᳚षु सीदति ||{4/5}{9.84.4}{9.4.17.4}{7.3.9.4}{725, 807, 8415} ए॒षः¦स्यः¦सोमः॑¦प॒व॒ते॒¦स॒ह॒स्र॒ऽजित्¦हि॒न्वा॒नः¦वाच᳚म्¦इ॒षि॒राम्¦उ॒षः॒ऽबुध᳚म् | |
अ॒भि त्यं गावः॒ पय॑सा पयो॒वृधं॒ सोमं᳚ श्रीणन्ति म॒तिभिः॑ स्व॒र्विद᳚म् |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती} ध॒नं॒ज॒यः प॑वते॒ कृत्व्यो॒ रसो॒ विप्रः॑ क॒विः काव्ये᳚ना॒ स्व॑र्चनाः ||{5/5}{9.84.5}{9.4.17.5}{7.3.9.5}{726, 807, 8416} अ॒भि¦त्यम्¦गावः॑¦पय॑सा¦प॒यः॒ऽवृध᳚म्¦सोम᳚म्¦श्री॒ण॒न्ति॒¦म॒तिऽभिः॑¦स्वः॒ऽविद᳚म् | |
[85] इंद्रायेति द्वादशर्चस्य सूक्तस्य भार्गवोवेनः पवमानसोमो जगत्यंत्येद्वेत्रिष्टुभौ | |
इन्द्रा᳚य सोम॒ सुषु॑तः॒ परि॑ स्र॒वापामी᳚वा भवतु॒ रक्ष॑सा स॒ह |{भार्गवो वेनः | पवमानः सोमः | जगती} मा ते॒ रस॑स्य मत्सत द्वया॒विनो॒ द्रवि॑णस्वन्त इ॒ह स॒न्त्विन्द॑वः ||{1/12}{9.85.1}{9.4.18.1}{7.3.10.1}{727, 808, 8417} इन्द्रा᳚य¦सो॒म॒¦सुऽसु॑तः¦परि॑¦स्र॒व॒¦अप॑¦अमी᳚वा¦भ॒व॒तु॒¦रक्ष॑सा¦स॒ह | |
अ॒स्मान् त्स॑म॒र्ये प॑वमान चोदय॒ दक्षो᳚ दे॒वाना॒मसि॒ हि प्रि॒यो मदः॑ |{भार्गवो वेनः | पवमानः सोमः | जगती} ज॒हि शत्रूँ᳚र॒भ्या भ᳚न्दनाय॒तः पिबे᳚न्द्र॒ सोम॒मव॑ नो॒ मृधो᳚ जहि ||{2/12}{9.85.2}{9.4.18.2}{7.3.10.2}{728, 808, 8418} अ॒स्मान्¦स॒ऽम॒र्ये¦प॒व॒मा॒न॒¦चो॒द॒य॒¦दक्षः॑¦दे॒वाना᳚म्¦असि॑¦हि¦प्रि॒यः¦मदः॑ | |
अद॑ब्ध इन्दो पवसे म॒दिन्त॑म आ॒त्मेन्द्र॑स्य भवसि धा॒सिरु॑त्त॒मः |{भार्गवो वेनः | पवमानः सोमः | जगती} अ॒भि स्व॑रन्ति ब॒हवो᳚ मनी॒षिणो॒ राजा᳚नम॒स्य भुव॑नस्य निंसते ||{3/12}{9.85.3}{9.4.18.3}{7.3.10.3}{729, 808, 8419} अद॑ब्धः¦इ॒न्दो॒ इति॑¦प॒व॒से॒¦म॒दिन्ऽत॑मः¦आ॒त्मा¦इन्द्र॑स्य¦भ॒व॒सि॒¦धा॒सिः¦उ॒त्ऽत॒मः | |
स॒हस्र॑णीथः श॒तधा᳚रो॒, अद्भु॑त॒ इन्द्रा॒येन्दुः॑ पवते॒ काम्यं॒ मधु॑ |{भार्गवो वेनः | पवमानः सोमः | जगती} जय॒न् क्षेत्र॑म॒भ्य॑र्षा॒ जय᳚न्न॒प उ॒रुं नो᳚ गा॒तुं कृ॑णु सोम मीढ्वः ||{4/12}{9.85.4}{9.4.18.4}{7.3.10.4}{730, 808, 8420} स॒हस्र॑ऽनीथः¦श॒तऽधा᳚रः¦अद्भु॑तः¦इन्द्रा᳚य¦इन्दुः॑¦प॒व॒ते॒¦काम्य᳚म्¦मधु॑ | |
कनि॑क्रदत्क॒लशे॒ गोभि॑रज्यसे॒ व्य१॑(अ॒)व्ययं᳚ स॒मया॒ वार॑मर्षसि |{भार्गवो वेनः | पवमानः सोमः | जगती} म॒र्मृ॒ज्यमा᳚नो॒, अत्यो॒ न सा᳚न॒सिरिन्द्र॑स्य सोम ज॒ठरे॒ सम॑क्षरः ||{5/12}{9.85.5}{9.4.18.5}{7.3.10.5}{731, 808, 8421} कनि॑क्रदत्¦क॒लशे᳚¦गोभिः॑¦अ॒ज्य॒से॒¦वि¦अ॒व्यय᳚म्¦स॒मया᳚¦वार᳚म्¦अ॒र्ष॒सि॒ | |
स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने स्वा॒दुरिन्द्रा᳚य सु॒हवी᳚तुनाम्ने |{भार्गवो वेनः | पवमानः सोमः | जगती} स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ बृह॒स्पत॑ये॒ मधु॑माँ॒, अदा᳚भ्यः ||{6/12}{9.85.6}{9.4.18.6}{7.3.11.1}{732, 808, 8422} स्वा॒दुः¦प॒व॒स्व॒¦दि॒व्याय॑¦जन्म॑ने¦स्वा॒दुः¦इन्द्रा᳚य¦सु॒हवी᳚तुऽनाम्ने | |
अत्यं᳚ मृजन्ति क॒लशे॒ दश॒ क्षिपः॒ प्र विप्रा᳚णां म॒तयो॒ वाच॑ ईरते |{भार्गवो वेनः | पवमानः सोमः | जगती} पव॑माना, अ॒भ्य॑र्षन्ति सुष्टु॒तिमेन्द्रं᳚ विशन्ति मदि॒रास॒ इन्द॑वः ||{7/12}{9.85.7}{9.4.18.7}{7.3.11.2}{733, 808, 8423} अत्य᳚म्¦मृ॒ज॒न्ति॒¦क॒लशे᳚¦दश॑¦क्षिपः॑¦प्र¦विप्रा᳚णाम्¦म॒तयः॑¦वाचः॑¦ई॒र॒ते॒ | |
पव॑मानो, अ॒भ्य॑र्षा सु॒वीर्य॑मु॒र्वीं गव्यू᳚तिं॒ महि॒ शर्म॑ स॒प्रथः॑ |{भार्गवो वेनः | पवमानः सोमः | जगती} माकि᳚र्नो, अ॒स्य परि॑षूतिरीश॒तेन्दो॒ जये᳚म॒ त्वया॒ धनं᳚धनम् ||{8/12}{9.85.8}{9.4.18.8}{7.3.11.3}{734, 808, 8424} पव॑मानः¦अ॒भि¦अ॒र्ष॒¦सु॒ऽवीर्य᳚म्¦उ॒र्वीम्¦गव्यू᳚तिम्¦महि॑¦शर्म॑¦स॒ऽप्रथः॑ | |
अधि॒ द्याम॑स्थाद्वृष॒भो वि॑चक्ष॒णोऽरू᳚रुच॒द्वि दि॒वो रो᳚च॒ना क॒विः |{भार्गवो वेनः | पवमानः सोमः | जगती} राजा᳚ प॒वित्र॒मत्ये᳚ति॒ रोरु॑वद्दि॒वः पी॒यूषं᳚ दुहते नृ॒चक्ष॑सः ||{9/12}{9.85.9}{9.4.18.9}{7.3.11.4}{735, 808, 8425} अधि॑¦द्याम्¦अ॒स्था॒त्¦वृ॒ष॒भः¦वि॒ऽच॒क्ष॒णः¦अरू᳚रुचत्¦वि¦दि॒वः¦रो॒च॒ना¦क॒विः | |
दि॒वो नाके॒ मधु॑जिह्वा, अस॒श्चतो᳚ वे॒ना दु॑हन्त्यु॒क्षणं᳚ गिरि॒ष्ठाम् |{भार्गवो वेनः | पवमानः सोमः | जगती} अ॒प्सु द्र॒प्सं वा᳚वृधा॒नं स॑मु॒द्र आ सिन्धो᳚रू॒र्मा मधु॑मन्तं प॒वित्र॒ आ ||{10/12}{9.85.10}{9.4.18.10}{7.3.11.5}{736, 808, 8426} दि॒वः¦नाके᳚¦मधु॑ऽजिह्वाः¦अ॒स॒श्चतः॑¦वे॒नाः¦दु॒ह॒न्ति॒¦उ॒क्षण᳚म्¦गि॒रि॒ऽस्थाम् | |
नाके᳚ सुप॒र्णमु॑पपप्ति॒वांसं॒ गिरो᳚ वे॒नाना᳚मकृपन्त पू॒र्वीः |{भार्गवो वेनः | पवमानः सोमः | त्रिष्टुप्} शिशुं᳚ रिहन्ति म॒तयः॒ पनि॑प्नतं हिर॒ण्ययं᳚ शकु॒नं क्षाम॑णि॒ स्थाम् ||{11/12}{9.85.11}{9.4.18.11}{7.3.11.6}{737, 808, 8427} नाके᳚¦सु॒ऽप॒र्णम्¦उ॒प॒प॒प्ति॒ऽवांस᳚म्¦गिरः॑¦वे॒नाना᳚म्¦अ॒कृ॒प॒न्त॒¦पू॒र्वीः | |
ऊ॒र्ध्वो ग᳚न्ध॒र्वो, अधि॒ नाके᳚, अस्था॒द्विश्वा᳚ रू॒पा प्र॑ति॒चक्षा᳚णो, अस्य |{भार्गवो वेनः | पवमानः सोमः | त्रिष्टुप्} भा॒नुः शु॒क्रेण॑ शो॒चिषा॒ व्य॑द्यौ॒त्प्रारू᳚रुच॒द्रोद॑सी मा॒तरा॒ शुचिः॑ ||{12/12}{9.85.12}{9.4.18.12}{7.3.11.7}{738, 808, 8428} ऊ॒र्ध्वः¦ग॒न्ध॒र्वः¦अधि॑¦नाके᳚¦अ॒स्था॒त्¦विश्वा᳚¦रू॒पा¦प्र॒ति॒ऽचक्षा᳚णः¦अ॒स्य॒ | |
[86] प्रतआशवइत्यष्टाचत्वारिंशदृचस्य सूक्तस्य आद्यानांदशानामकृष्टामाषाऋषयः एकादश्यादिदशानांसिकतानिवावरी एकविंश्यादिदशानां पृश्नियोजाः एकत्रिंश्यादिदशानामत्रेयः एकचत्वारिंश्यादिपंचानांभौमोत्रिः अत्यानांतिसृणां शौनकोगृत्समदः पवमान सोमोजगती | |
प्र त॑ आ॒शवः॑ पवमान धी॒जवो॒ मदा᳚, अर्षन्ति रघु॒जा, इ॑व॒ त्मना᳚ |{कृष्टामाषा | पवमानः सोमः | जगती} दि॒व्याः सु॑प॒र्णा मधु॑मन्त॒ इन्द॑वो म॒दिन्त॑मासः॒ परि॒ कोश॑मासते ||{1/48}{9.86.1}{9.5.1.1}{7.3.12.1}{739, 809, 8429} प्र¦ते॒¦आ॒शवः॑¦प॒व॒मा॒न॒¦धी॒ऽजवः॑¦मदाः᳚¦अ॒र्ष॒न्ति॒¦र॒घु॒जाःऽइ᳚व¦त्मना᳚ | |
प्र ते॒ मदा᳚सो मदि॒रास॑ आ॒शवोऽसृ॑क्षत॒ रथ्या᳚सो॒ यथा॒ पृथ॑क् |{कृष्टामाषा | पवमानः सोमः | जगती} धे॒नुर्न व॒त्सं पय॑सा॒भि व॒ज्रिण॒मिन्द्र॒मिन्द॑वो॒ मधु॑मन्त ऊ॒र्मयः॑ ||{2/48}{9.86.2}{9.5.1.2}{7.3.12.2}{740, 809, 8430} प्र¦ते॒¦मदा᳚सः¦म॒दि॒रासः॑¦आ॒शवः॑¦असृ॑क्षत¦रथ्या᳚सः¦यथा᳚¦पृथ॑क् | |
अत्यो॒ न हि॑या॒नो, अ॒भि वाज॑मर्ष स्व॒र्वित्कोशं᳚ दि॒वो, अद्रि॑मातरम् |{कृष्टामाषा | पवमानः सोमः | जगती} वृषा᳚ प॒वित्रे॒, अधि॒ सानो᳚, अ॒व्यये॒ सोमः॑ पुना॒न इ᳚न्द्रि॒याय॒ धाय॑से ||{3/48}{9.86.3}{9.5.1.3}{7.3.12.3}{741, 809, 8431} अत्यः॑¦न¦हि॒या॒नः¦अ॒भि¦वाज᳚म्¦अ॒र्ष॒¦स्वः॒ऽवित्¦कोश᳚म्¦दि॒वः¦अद्रि॑ऽमातरम् | |
प्र त॒ आश्वि॑नीः पवमान धी॒जुवो᳚ दि॒व्या, अ॑सृग्र॒न् पय॑सा॒ धरी᳚मणि |{कृष्टामाषा | पवमानः सोमः | जगती} प्रान्तरृष॑यः॒ स्थावि॑रीरसृक्षत॒ ये त्वा᳚ मृ॒जन्त्यृ॑षिषाण वे॒धसः॑ ||{4/48}{9.86.4}{9.5.1.4}{7.3.12.4}{742, 809, 8432} प्र¦ते॒¦आश्वि॑नीः¦प॒व॒मा॒न॒¦धी॒ऽजुवः॑¦दि॒व्याः¦अ॒सृ॒ग्र॒न्¦पय॑सा¦धरी᳚मणि | |
विश्वा॒ धामा᳚नि विश्वचक्ष॒ ऋभ्व॑सः प्र॒भोस्ते᳚ स॒तः परि॑ यन्ति के॒तवः॑ |{कृष्टामाषा | पवमानः सोमः | जगती} व्या॒न॒शिः प॑वसे सोम॒ धर्म॑भिः॒ पति॒र्विश्व॑स्य॒ भुव॑नस्य राजसि ||{5/48}{9.86.5}{9.5.1.5}{7.3.12.5}{743, 809, 8433} विश्वा᳚¦धामा᳚नि¦वि॒श्व॒ऽच॒क्षः॒¦ऋभ्व॑सः¦प्र॒ऽभोः¦ते॒¦स॒तः¦परि॑¦य॒न्ति॒¦के॒तवः॑ | |
उ॒भ॒यतः॒ पव॑मानस्य र॒श्मयो᳚ ध्रु॒वस्य॑ स॒तः परि॑ यन्ति के॒तवः॑ |{कृष्टामाषा | पवमानः सोमः | जगती} यदी᳚ प॒वित्रे॒, अधि॑ मृ॒ज्यते॒ हरिः॒ सत्ता॒ नि योना᳚ क॒लशे᳚षु सीदति ||{6/48}{9.86.6}{9.5.1.6}{7.3.13.1}{744, 809, 8434} उ॒भ॒यतः॑¦पव॑मानस्य¦र॒श्मयः॑¦ध्रु॒वस्य॑¦स॒तः¦परि॑¦य॒न्ति॒¦के॒तवः॑ | |
य॒ज्ञस्य॑ के॒तुः प॑वते स्वध्व॒रः सोमो᳚ दे॒वाना॒मुप॑ याति निष्कृ॒तम् |{कृष्टामाषा | पवमानः सोमः | जगती} स॒हस्र॑धारः॒ परि॒ कोश॑मर्षति॒ वृषा᳚ प॒वित्र॒मत्ये᳚ति॒ रोरु॑वत् ||{7/48}{9.86.7}{9.5.1.7}{7.3.13.2}{745, 809, 8435} य॒ज्ञस्य॑¦के॒तुः¦प॒व॒ते॒¦सु॒।आ॒ध्व॒रः¦सोमः॑¦दे॒वाना᳚म्¦उप॑¦या॒ति॒¦निः॒ऽकृ॒तम् | |
राजा᳚ समु॒द्रं न॒द्यो॒३॑(ओ॒) वि गा᳚हते॒ऽपामू॒र्मिं स॑चते॒ सिन्धु॑षु श्रि॒तः |{कृष्टामाषा | पवमानः सोमः | जगती} अध्य॑स्था॒त्सानु॒ पव॑मानो, अ॒व्ययं॒ नाभा᳚ पृथि॒व्या ध॒रुणो᳚ म॒हो दि॒वः ||{8/48}{9.86.8}{9.5.1.8}{7.3.13.3}{746, 809, 8436} राजा᳚¦स॒मु॒द्रम्¦न॒द्यः॑¦वि¦गा॒ह॒ते॒¦अ॒पाम्¦ऊ॒र्मिम्¦स॒च॒ते॒¦सिन्धु॑षु¦श्रि॒तः | |
दि॒वो न सानु॑ स्त॒नय᳚न्नचिक्रद॒द्द्यौश्च॒ यस्य॑ पृथि॒वी च॒ धर्म॑भिः |{कृष्टामाषा | पवमानः सोमः | जगती} इन्द्र॑स्य स॒ख्यं प॑वते वि॒वेवि॑द॒त्सोमः॑ पुना॒नः क॒लशे᳚षु सीदति ||{9/48}{9.86.9}{9.5.1.9}{7.3.13.4}{747, 809, 8437} दि॒वः¦न¦सानु॑¦स्त॒नय॑न्¦अ॒चि॒क्र॒द॒त्¦द्यौः¦च॒¦यस्य॑¦पृ॒थि॒वी¦च॒¦धर्म॑ऽभिः | |
ज्योति᳚र्य॒ज्ञस्य॑ पवते॒ मधु॑ प्रि॒यं पि॒ता दे॒वानां᳚ जनि॒ता वि॒भूव॑सुः |{कृष्टामाषा | पवमानः सोमः | जगती} दधा᳚ति॒ रत्नं᳚ स्व॒धयो᳚रपी॒च्यं᳚ म॒दिन्त॑मो मत्स॒र इ᳚न्द्रि॒यो रसः॑ ||{10/48}{9.86.10}{9.5.1.10}{7.3.13.5}{748, 809, 8438} ज्योतिः॑¦य॒ज्ञस्य॑¦प॒व॒ते॒¦मधु॑¦प्रि॒यम्¦पि॒ता¦दे॒वाना᳚म्¦ज॒नि॒ता¦वि॒भुऽव॑सुः | |
अ॒भि॒क्रन्द᳚न् क॒लशं᳚ वा॒ज्य॑र्षति॒ पति॑र्दि॒वः श॒तधा᳚रो विचक्ष॒णः |{सिकतानिवावरी | पवमानः सोमः | जगती} हरि᳚र्मि॒त्रस्य॒ सद॑नेषु सीदति मर्मृजा॒नोऽवि॑भिः॒ सिन्धु॑भि॒र्वृषा᳚ ||{11/48}{9.86.11}{9.5.1.11}{7.3.14.1}{749, 809, 8439} अ॒भि॒ऽक्रन्द॑न्¦क॒लश᳚म्¦वा॒जी¦अ॒र्ष॒ति॒¦पतिः॑¦दि॒वः¦श॒तऽधा᳚रः¦वि॒ऽच॒क्ष॒णः | |
अग्रे॒ सिन्धू᳚नां॒ पव॑मानो, अर्ष॒त्यग्रे᳚ वा॒चो, अ॑ग्रि॒यो गोषु॑ गच्छति |{सिकतानिवावरी | पवमानः सोमः | जगती} अग्रे॒ वाज॑स्य भजते महाध॒नं स्वा᳚यु॒धः सो॒तृभिः॑ पूयते॒ वृषा᳚ ||{12/48}{9.86.12}{9.5.1.12}{7.3.14.2}{750, 809, 8440} अग्रे᳚¦सिन्धू᳚नाम्¦पव॑मानः¦अ॒र्ष॒ति॒¦अग्रे᳚¦वा॒चः¦अ॒ग्रि॒यः¦गोषु॑¦ग॒च्छ॒ति॒ | |
अ॒यं म॒तवा᳚ञ्छकु॒नो यथा᳚ हि॒तोऽव्ये᳚ ससार॒ पव॑मान ऊ॒र्मिणा᳚ |{सिकतानिवावरी | पवमानः सोमः | जगती} तव॒ क्रत्वा॒ रोद॑सी, अन्त॒रा क॑वे॒ शुचि॑र्धि॒या प॑वते॒ सोम॑ इन्द्र ते ||{13/48}{9.86.13}{9.5.1.13}{7.3.14.3}{751, 809, 8441} अ॒यम्¦म॒तऽवा᳚न्¦श॒कु॒नः¦यथा᳚¦हि॒तः¦अव्ये᳚¦स॒सा॒र॒¦पव॑मानः¦ऊ॒र्मिणा᳚ | |
द्रा॒पिं वसा᳚नो यज॒तो दि॑वि॒स्पृश॑मन्तरिक्ष॒प्रा भुव॑ने॒ष्वर्पि॑तः |{सिकतानिवावरी | पवमानः सोमः | जगती} स्व॑र्जज्ञा॒नो नभ॑सा॒भ्य॑क्रमीत्प्र॒त्नम॑स्य पि॒तर॒मा वि॑वासति ||{14/48}{9.86.14}{9.5.1.14}{7.3.14.4}{752, 809, 8442} द्रा॒पिम्¦वसा᳚नः¦य॒ज॒तः¦दि॒वि॒ऽस्पृश᳚म्¦अ॒न्त॒रि॒क्ष॒ऽप्राः¦भुव॑नेषु¦अर्पि॑तः | |
सो, अ॑स्य वि॒शे महि॒ शर्म॑ यच्छति॒ यो, अ॑स्य॒ धाम॑ प्रथ॒मं व्या᳚न॒शे |{सिकतानिवावरी | पवमानः सोमः | जगती} प॒दं यद॑स्य पर॒मे व्यो᳚म॒न्यतो॒ विश्वा᳚, अ॒भि सं या᳚ति सं॒यतः॑ ||{15/48}{9.86.15}{9.5.1.15}{7.3.14.5}{753, 809, 8443} सः¦अ॒स्य॒¦वि॒शे¦महि॑¦शर्म॑¦य॒च्छ॒ति॒¦यः¦अ॒स्य॒¦धाम॑¦प्र॒थ॒मम्¦वि॒ऽआ॒न॒शे | |
प्रो, अ॑यासी॒दिन्दु॒रिन्द्र॑स्य निष्कृ॒तं सखा॒ सख्यु॒र्न प्र मि॑नाति सं॒गिर᳚म् |{सिकतानिवावरी | पवमानः सोमः | जगती} मर्य॑ इव युव॒तिभिः॒ सम॑र्षति॒ सोमः॑ क॒लशे᳚ श॒तया᳚म्ना प॒था ||{16/48}{9.86.16}{9.5.1.16}{7.3.15.1}{754, 809, 8444} प्रो इति॑¦अ॒या॒सी॒त्¦इन्दुः॑¦इन्द्र॑स्य¦निः॒ऽकृ॒तम्¦सखा᳚¦सख्युः॑¦न¦प्र¦मि॒ना॒ति॒¦स॒म्ऽगिर᳚म् | |
प्र वो॒ धियो᳚ मन्द्र॒युवो᳚ विप॒न्युवः॑ पन॒स्युवः॑ सं॒वस॑नेष्वक्रमुः |{सिकतानिवावरी | पवमानः सोमः | जगती} सोमं᳚ मनी॒षा, अ॒भ्य॑नूषत॒ स्तुभो॒ऽभि धे॒नवः॒ पय॑सेमशिश्रयुः ||{17/48}{9.86.17}{9.5.1.17}{7.3.15.2}{755, 809, 8445} प्र¦वः॒¦धियः॑¦म॒न्द्र॒ऽयुवः॑¦वि॒प॒न्युवः॑¦प॒न॒स्युवः॑¦स॒म्ऽवस॑नेषु¦अ॒क्र॒मुः॒ | |
आ नः॑ सोम सं॒यतं᳚ पि॒प्युषी॒मिष॒मिन्दो॒ पव॑स्व॒ पव॑मानो, अ॒स्रिध᳚म् |{सिकतानिवावरी | पवमानः सोमः | जगती} या नो॒ दोह॑ते॒ त्रिरह॒न्नस॑श्चुषी क्षु॒मद्वाज॑व॒न्मधु॑मत्सु॒वीर्य᳚म् ||{18/48}{9.86.18}{9.5.1.18}{7.3.15.3}{756, 809, 8446} आ¦नः॒¦सो॒म॒¦स॒म्ऽयत᳚म्¦पि॒प्युषी᳚म्¦इष᳚म्¦इन्दो॒ इति॑¦पव॑स्व¦पव॑मानः¦अ॒स्रिध᳚म् | |
वृषा᳚ मती॒नां प॑वते विचक्ष॒णः सोमो॒, अह्नः॑ प्रतरी॒तोषसो᳚ दि॒वः |{सिकतानिवावरी | पवमानः सोमः | जगती} क्रा॒णा सिन्धू᳚नां क॒लशाँ᳚, अवीवश॒दिन्द्र॑स्य॒ हार्द्या᳚वि॒शन्म॑नी॒षिभिः॑ ||{19/48}{9.86.19}{9.5.1.19}{7.3.15.4}{757, 809, 8447} वृषा᳚¦म॒ती॒नाम्¦प॒व॒ते॒¦वि॒ऽच॒क्ष॒णः¦सोमः॑¦अह्नः॑¦प्र॒ऽत॒री॒ता¦उ॒षसः॑¦दि॒वः | |
म॒नी॒षिभिः॑ पवते पू॒र्व्यः क॒विर्नृभि᳚र्य॒तः परि॒ कोशाँ᳚, अचिक्रदत् |{सिकतानिवावरी | पवमानः सोमः | जगती} त्रि॒तस्य॒ नाम॑ ज॒नय॒न्मधु॑ क्षर॒दिन्द्र॑स्य वा॒योः स॒ख्याय॒ कर्त॑वे ||{20/48}{9.86.20}{9.5.1.20}{7.3.15.5}{758, 809, 8448} म॒नी॒षिऽभिः॑¦प॒व॒ते॒¦पू॒र्व्यः¦क॒विः¦नृऽभिः॑¦य॒तः¦परि॑¦कोशा᳚न्¦अ॒चि॒क्र॒द॒त् | |
अ॒यं पु॑ना॒न उ॒षसो॒ वि रो᳚चयद॒यं सिन्धु॑भ्यो, अभवदु लोक॒कृत् |{पृश्नियोजाः | पवमानः सोमः | जगती} अ॒यं त्रिः स॒प्त दु॑दुहा॒न आ॒शिरं॒ सोमो᳚ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ||{21/48}{9.86.21}{9.5.1.21}{7.3.16.1}{759, 809, 8449} अ॒यम्¦पु॒ना॒नः¦उ॒षसः॑¦वि¦रो॒च॒य॒त्¦अ॒यम्¦सिन्धु॑ऽभ्यः¦अ॒भ॒व॒त्¦ऊँ॒ इति॑¦लो॒क॒ऽकृत् | |
पव॑स्व सोम दि॒व्येषु॒ धाम॑सु सृजा॒न इ᳚न्दो क॒लशे᳚ प॒वित्र॒ आ |{पृश्नियोजाः | पवमानः सोमः | जगती} सीद॒न्निन्द्र॑स्य ज॒ठरे॒ कनि॑क्रद॒न्नृभि᳚र्य॒तः सूर्य॒मारो᳚हयो दि॒वि ||{22/48}{9.86.22}{9.5.1.22}{7.3.16.2}{760, 809, 8450} पव॑स्व¦सो॒म॒¦दि॒व्येषु॑¦धाम॑ऽसु¦सृ॒जा॒नः¦इ॒न्दो॒ इति॑¦क॒लशे᳚¦प॒वित्रे᳚¦आ | |
अद्रि॑भिः सु॒तः प॑वसे प॒वित्र॒ आँ, इन्द॒विन्द्र॑स्य ज॒ठरे᳚ष्वावि॒शन् |{पृश्नियोजाः | पवमानः सोमः | जगती} त्वं नृ॒चक्षा᳚, अभवो विचक्षण॒ सोम॑ गो॒त्रमङ्गि॑रोभ्योऽवृणो॒रप॑ ||{23/48}{9.86.23}{9.5.1.23}{7.3.16.3}{761, 809, 8451} अद्रि॑ऽभिः¦सु॒तः¦प॒व॒से॒¦प॒वित्रे᳚¦आ¦इन्दो॒ इति॑¦इन्द्र॑स्य¦ज॒ठरे᳚षु¦आ॒ऽवि॒शन् | |
त्वां सो᳚म॒ पव॑मानं स्वा॒ध्योऽनु॒ विप्रा᳚सो, अमदन्नव॒स्यवः॑ |{पृश्नियोजाः | पवमानः सोमः | जगती} त्वां सु॑प॒र्ण आभ॑रद्दि॒वस्परीन्दो॒ विश्वा᳚भिर्म॒तिभिः॒ परि॑ष्कृतम् ||{24/48}{9.86.24}{9.5.1.24}{7.3.16.4}{762, 809, 8452} त्वाम्¦सो॒म॒¦पव॑मानम्¦सु॒ऽआ॒ध्यः॑¦अनु॑¦विप्रा᳚सः¦अ॒म॒द॒न्¦अ॒व॒स्यवः॑ | |
अव्ये᳚ पुना॒नं परि॒ वार॑ ऊ॒र्मिणा॒ हरिं᳚ नवन्ते, अ॒भि स॒प्त धे॒नवः॑ |{पृश्नियोजाः | पवमानः सोमः | जगती} अ॒पामु॒पस्थे॒, अध्या॒यवः॑ क॒विमृ॒तस्य॒ योना᳚ महि॒षा, अ॑हेषत ||{25/48}{9.86.25}{9.5.1.25}{7.3.16.5}{763, 809, 8453} अव्ये᳚¦पु॒ना॒नम्¦परि॑¦वारे᳚¦ऊ॒र्मिणा᳚¦हरि᳚म्¦न॒व॒न्ते॒¦अ॒भि¦स॒प्त¦धे॒नवः॑ | |
इन्दुः॑ पुना॒नो, अति॑ गाहते॒ मृधो॒ विश्वा᳚नि कृ॒ण्वन् त्सु॒पथा᳚नि॒ यज्य॑वे |{पृश्नियोजाः | पवमानः सोमः | जगती} गाः कृ᳚ण्वा॒नो नि॒र्णिजं᳚ हर्य॒तः क॒विरत्यो॒ न क्रीळ॒न् परि॒ वार॑मर्षति ||{26/48}{9.86.26}{9.5.1.26}{7.3.17.1}{764, 809, 8454} इन्दुः॑¦पु॒ना॒नः¦अति॑¦गा॒ह॒ते॒¦मृधः॑¦विश्वा᳚नि¦कृ॒ण्वन्¦सु॒ऽपथा᳚नि¦यज्य॑वे | |
अ॒स॒श्चतः॑ श॒तधा᳚रा, अभि॒श्रियो॒ हरिं᳚ नव॒न्तेऽव॒ ता, उ॑द॒न्युवः॑ |{पृश्नियोजाः | पवमानः सोमः | जगती} क्षिपो᳚ मृजन्ति॒ परि॒ गोभि॒रावृ॑तं तृ॒तीये᳚ पृ॒ष्ठे, अधि॑ रोच॒ने दि॒वः ||{27/48}{9.86.27}{9.5.1.27}{7.3.17.2}{765, 809, 8455} अ॒स॒श्चतः॑¦श॒तऽधा᳚राः¦अ॒भि॒ऽश्रियः॑¦हरि᳚म्¦न॒व॒न्ते¦अव॑¦ताः¦उ॒द॒न्युवः॑ | |
तवे॒माः प्र॒जा दि॒व्यस्य॒ रेत॑स॒स्त्वं विश्व॑स्य॒ भुव॑नस्य राजसि |{पृश्नियोजाः | पवमानः सोमः | जगती} अथे॒दं विश्वं᳚ पवमान ते॒ वशे॒ त्वमि᳚न्दो प्रथ॒मो धा᳚म॒धा, अ॑सि ||{28/48}{9.86.28}{9.5.1.28}{7.3.17.3}{766, 809, 8456} तव॑¦इ॒माः¦प्र॒ऽजाः¦दि॒व्यस्य॑¦रेत॑सः¦त्वम्¦विश्व॑स्य¦भुव॑नस्य¦रा॒ज॒सि॒ | |
त्वं स॑मु॒द्रो, अ॑सि विश्व॒वित्क॑वे॒ तवे॒माः पञ्च॑ प्र॒दिशो॒ विध᳚र्मणि |{पृश्नियोजाः | पवमानः सोमः | जगती} त्वं द्यां च॑ पृथि॒वीं चाति॑ जभ्रिषे॒ तव॒ ज्योतीं᳚षि पवमान॒ सूर्यः॑ ||{29/48}{9.86.29}{9.5.1.29}{7.3.17.4}{767, 809, 8457} त्वम्¦स॒मु॒द्रः¦अ॒सि॒¦वि॒श्व॒ऽवित्¦क॒वे॒¦तव॑¦इ॒माः¦पंच॑¦प्र॒ऽदिशः॑¦विऽध᳚र्मणि | |
त्वं प॒वित्रे॒ रज॑सो॒ विध᳚र्मणि दे॒वेभ्यः॑ सोम पवमान पूयसे |{पृश्नियोजाः | पवमानः सोमः | जगती} त्वामु॒शिजः॑ प्रथ॒मा, अ॑गृभ्णत॒ तुभ्ये॒मा विश्वा॒ भुव॑नानि येमिरे ||{30/48}{9.86.30}{9.5.1.30}{7.3.17.5}{768, 809, 8458} त्वम्¦प॒वित्रे᳚¦रज॑सः¦विऽध᳚र्मणि¦दे॒वेभ्यः॑¦सो॒म॒¦प॒व॒मा॒न॒¦पू॒य॒से॒ | |
प्र रे॒भ ए॒त्यति॒ वार॑म॒व्ययं॒ वृषा॒ वने॒ष्वव॑ चक्रद॒द्धरिः॑ |{अत्रेयः | पवमानः सोमः | जगती} सं धी॒तयो᳚ वावशा॒ना, अ॑नूषत॒ शिशुं᳚ रिहन्ति म॒तयः॒ पनि॑प्नतम् ||{31/48}{9.86.31}{9.5.1.31}{7.3.18.1}{769, 809, 8459} प्र¦रे॒भः¦ए॒ति॒¦अति॑¦वार᳚म्¦अ॒व्यय᳚म्¦वृषा᳚¦वने᳚षु¦अव॑¦च॒क्र॒द॒त्¦हरिः॑ | |
स सूर्य॑स्य र॒श्मिभिः॒ परि᳚ व्यत॒ तन्तुं᳚ तन्वा॒नस्त्रि॒वृतं॒ यथा᳚ वि॒दे |{अत्रेयः | पवमानः सोमः | जगती} नय᳚न्नृ॒तस्य॑ प्र॒शिषो॒ नवी᳚यसीः॒ पति॒र्जनी᳚ना॒मुप॑ याति निष्कृ॒तम् ||{32/48}{9.86.32}{9.5.1.32}{7.3.18.2}{770, 809, 8460} सः¦सूर्य॑स्य¦र॒श्मिऽभिः॑¦परि॑¦व्य॒त॒¦तन्तु᳚म्¦त॒न्वा॒नः¦त्रि॒ऽवृत᳚म्¦यथा᳚¦वि॒दे | |
राजा॒ सिन्धू᳚नां पवते॒ पति॑र्दि॒व ऋ॒तस्य॑ याति प॒थिभिः॒ कनि॑क्रदत् |{अत्रेयः | पवमानः सोमः | जगती} स॒हस्र॑धारः॒ परि॑ षिच्यते॒ हरिः॑ पुना॒नो वाचं᳚ ज॒नय॒न्नुपा᳚वसुः ||{33/48}{9.86.33}{9.5.1.33}{7.3.18.3}{771, 809, 8461} राजा᳚¦सिन्धू᳚नाम्¦प॒व॒ते॒¦पतिः॑¦दि॒वः¦ऋ॒तस्य॑¦या॒ति॒¦प॒थिऽभिः॑¦कनि॑क्रदत् | |
पव॑मान॒ मह्यर्णो॒ वि धा᳚वसि॒ सूरो॒ न चि॒त्रो, अव्य॑यानि॒ पव्य॑या |{अत्रेयः | पवमानः सोमः | जगती} गभ॑स्तिपूतो॒ नृभि॒रद्रि॑भिः सु॒तो म॒हे वाजा᳚य॒ धन्या᳚य धन्वसि ||{34/48}{9.86.34}{9.5.1.34}{7.3.18.4}{772, 809, 8462} पव॑मान¦महि॑¦अर्णः॑¦वि¦धा॒व॒सि॒¦सूरः॑¦न¦चि॒त्रः¦अव्य॑यानि¦पव्य॑या | |
इष॒मूर्जं᳚ पवमाना॒भ्य॑र्षसि श्ये॒नो न वंसु॑ क॒लशे᳚षु सीदसि |{अत्रेयः | पवमानः सोमः | जगती} इन्द्रा᳚य॒ मद्वा॒ मद्यो॒ मदः॑ सु॒तो दि॒वो वि॑ष्ट॒म्भ उ॑प॒मो वि॑चक्ष॒णः ||{35/48}{9.86.35}{9.5.1.35}{7.3.18.5}{773, 809, 8463} इष᳚म्¦ऊर्ज᳚म्¦प॒व॒मा॒न॒¦अ॒भि¦अ॒र्ष॒सि॒¦श्ये॒नः¦न¦वंसु॑¦क॒लशे᳚षु¦सी॒द॒सि॒ | |
स॒प्त स्वसा᳚रो, अ॒भि मा॒तरः॒ शिशुं॒ नवं᳚ जज्ञा॒नं जेन्यं᳚ विप॒श्चित᳚म् |{अत्रेयः | पवमानः सोमः | जगती} अ॒पां ग᳚न्ध॒र्वं दि॒व्यं नृ॒चक्ष॑सं॒ सोमं॒ विश्व॑स्य॒ भुव॑नस्य रा॒जसे᳚ ||{36/48}{9.86.36}{9.5.1.36}{7.3.19.1}{774, 809, 8464} स॒प्त¦स्वसा᳚रः¦अ॒भि¦मा॒तरः॑¦शिशु᳚म्¦नव᳚म्¦ज॒ज्ञा॒नम्¦जेन्य᳚म्¦वि॒पः॒ऽचित᳚म् | |
ई॒शा॒न इ॒मा भुव॑नानि॒ वीय॑से युजा॒न इ᳚न्दो ह॒रितः॑ सुप॒र्ण्यः॑ |{अत्रेयः | पवमानः सोमः | जगती} तास्ते᳚ क्षरन्तु॒ मधु॑मद् घृ॒तं पय॒स्तव᳚ व्र॒ते सो᳚म तिष्ठन्तु कृ॒ष्टयः॑ ||{37/48}{9.86.37}{9.5.1.37}{7.3.19.2}{775, 809, 8465} ई॒शा॒नः¦इ॒मा¦भुव॑नानि¦वि¦ई॒य॒से॒¦यु॒जा॒नः¦इ॒न्दो॒ इति॑¦ह॒रितः॑¦सु॒ऽप॒र्ण्यः॑ | |
त्वं नृ॒चक्षा᳚, असि सोम वि॒श्वतः॒ पव॑मान वृषभ॒ ता वि धा᳚वसि |{अत्रेयः | पवमानः सोमः | जगती} स नः॑ पवस्व॒ वसु॑म॒द्धिर᳚ण्यवद्व॒यं स्या᳚म॒ भुव॑नेषु जी॒वसे᳚ ||{38/48}{9.86.38}{9.5.1.38}{7.3.19.3}{776, 809, 8466} त्वम्¦नृ॒ऽचक्षाः᳚¦अ॒सि॒¦सो॒म॒¦वि॒श्वतः॑¦पव॑मान¦वृ॒ष॒भ॒¦ता¦वि¦धा॒व॒सि॒ | |
गो॒वित्प॑वस्व वसु॒विद्धि॑रण्य॒विद्रे᳚तो॒धा, इ᳚न्दो॒ भुव॑ने॒ष्वर्पि॑तः |{अत्रेयः | पवमानः सोमः | जगती} त्वं सु॒वीरो᳚, असि सोम विश्व॒वित्तं त्वा॒ विप्रा॒, उप॑ गि॒रेम आ᳚सते ||{39/48}{9.86.39}{9.5.1.39}{7.3.19.4}{777, 809, 8467} गो॒ऽवित्¦प॒व॒स्व॒¦व॒सु॒ऽवित्¦हि॒र॒ण्य॒ऽवित्¦रे॒तः॒ऽधाः¦इ॒न्दो॒ इति॑¦भुव॑नेषु¦अर्पि॑तः | |
उन्मध्व॑ ऊ॒र्मिर्व॒नना᳚, अतिष्ठिपद॒पो वसा᳚नो महि॒षो वि गा᳚हते |{अत्रेयः | पवमानः सोमः | जगती} राजा᳚ प॒वित्र॑रथो॒ वाज॒मारु॑हत्स॒हस्र॑भृष्टिर्जयति॒ श्रवो᳚ बृ॒हत् ||{40/48}{9.86.40}{9.5.1.40}{7.3.19.5}{778, 809, 8468} उत्¦मध्वः॑¦ऊ॒र्मिः¦व॒ननाः᳚¦अ॒ति॒स्थि॒प॒त्¦अ॒पः¦वसा᳚नः¦म॒हि॒षः¦वि¦गा॒ह॒ते॒ | |
स भ॒न्दना॒, उदि॑यर्ति प्र॒जाव॑तीर्वि॒श्वायु॒र्विश्वाः᳚ सु॒भरा॒, अह॑र्दिवि |{भौमोत्रिः | पवमानः सोमः | जगती} ब्रह्म॑ प्र॒जाव॑द्र॒यिमश्व॑पस्त्यं पी॒त इ᳚न्द॒विन्द्र॑म॒स्मभ्यं᳚ याचतात् ||{41/48}{9.86.41}{9.5.1.41}{7.3.20.1}{779, 809, 8469} सः¦भ॒न्दनाः᳚¦उत्¦इ॒य॒र्ति॒¦प्र॒जाऽव॑तीः¦वि॒श्वऽआ᳚युः¦विश्वाः᳚¦सु॒ऽभराः᳚¦अहः॑ऽदिवि | |
सो, अग्रे॒, अह्नां॒ हरि᳚र्हर्य॒तो मदः॒ प्र चेत॑सा चेतयते॒, अनु॒ द्युभिः॑ |{भौमोत्रिः | पवमानः सोमः | जगती} द्वा जना᳚ या॒तय᳚न्न॒न्तरी᳚यते॒ नरा᳚ च॒ शंसं॒ दैव्यं᳚ च ध॒र्तरि॑ ||{42/48}{9.86.42}{9.5.1.42}{7.3.20.2}{780, 809, 8470} सः¦अग्रे᳚¦अह्ना᳚म्¦हरिः॑¦ह॒र्य॒तः¦मदः॑¦प्र¦चेत॑सा¦चे॒त॒य॒ते॒¦अनु॑¦द्युऽभिः॑ | |
अ॒ञ्जते॒ व्य᳚ञ्जते॒ सम᳚ञ्जते॒ क्रतुं᳚ रिहन्ति॒ मधु॑ना॒भ्य᳚ञ्जते |{भौमोत्रिः | पवमानः सोमः | जगती} सिन्धो᳚रुच्छ्वा॒से प॒तय᳚न्तमु॒क्षणं᳚ हिरण्यपा॒वाः प॒शुमा᳚सु गृभ्णते ||{43/48}{9.86.43}{9.5.1.43}{7.3.20.3}{781, 809, 8471} अं॒जते᳚¦वि¦अं॒ज॒ते॒¦सम्¦अं॒ज॒ते॒¦क्रतु᳚म्¦रि॒ह॒न्ति॒¦मधु॑ना¦अ॒भि¦अं॒ज॒ते॒ | |
वि॒प॒श्चिते॒ पव॑मानाय गायत म॒ही न धारात्यन्धो᳚, अर्षति |{भौमोत्रिः | पवमानः सोमः | जगती} अहि॒र्न जू॒र्णामति॑ सर्पति॒ त्वच॒मत्यो॒ न क्रीळ᳚न्नसर॒द्वृषा॒ हरिः॑ ||{44/48}{9.86.44}{9.5.1.44}{7.3.20.4}{782, 809, 8472} वि॒पः॒ऽचिते᳚¦पव॑मानाय¦गा॒य॒त॒¦म॒ही¦न¦धारा᳚¦अति॑¦अन्धः॑¦अ॒र्ष॒ति॒ | |
अ॒ग्रे॒गो राजाप्य॑स्तविष्यते वि॒मानो॒, अह्नां॒ भुव॑ने॒ष्वर्पि॑तः |{भौमोत्रिः | पवमानः सोमः | जगती} हरि॑र्घृ॒तस्नुः॑ सु॒दृशी᳚को, अर्ण॒वो ज्यो॒तीर॑थः पवते रा॒य ओ॒क्यः॑ ||{45/48}{9.86.45}{9.5.1.45}{7.3.20.5}{783, 809, 8473} अ॒ग्रे॒ऽगः¦राजा᳚¦अप्यः॑¦त॒वि॒ष्य॒ते॒¦वि॒ऽमानः॑¦अह्ना᳚म्¦भुव॑नेषु¦अर्पि॑तः | |
अस॑र्जि स्क॒म्भो दि॒व उद्य॑तो॒ मदः॒ परि॑ त्रि॒धातु॒र्भुव॑नान्यर्षति |{शौनको गृत्समदः | पवमानः सोमः | जगती} अं॒शुं रि॑हन्ति म॒तयः॒ पनि॑प्नतं गि॒रा यदि॑ नि॒र्णिज॑मृ॒ग्मिणो᳚ य॒युः ||{46/48}{9.86.46}{9.5.1.46}{7.3.21.1}{784, 809, 8474} अस॑र्जि¦स्क॒म्भः¦दि॒वः¦उत्ऽय॑तः¦मदः॑¦परि॑¦त्रि॒ऽधातुः॑¦भुव॑नानि¦अ॒र्ष॒ति॒ | |
प्र ते॒ धारा॒, अत्यण्वा᳚नि मे॒ष्यः॑ पुना॒नस्य॑ सं॒यतो᳚ यन्ति॒ रंह॑यः |{शौनको गृत्समदः | पवमानः सोमः | जगती} यद्गोभि॑रिन्दो च॒म्वोः᳚ सम॒ज्यस॒ आ सु॑वा॒नः सो᳚म क॒लशे᳚षु सीदसि ||{47/48}{9.86.47}{9.5.1.47}{7.3.21.2}{785, 809, 8475} प्र¦ते॒¦धाराः᳚¦अति॑¦अण्वा᳚नि¦मे॒ष्यः॑¦पु॒ना॒नस्य॑¦स॒म्ऽयतः॑¦य॒न्ति॒¦रंह॑यः | |
पव॑स्व सोम क्रतु॒विन्न॑ उ॒क्थ्योऽव्यो॒ वारे॒ परि॑ धाव॒ मधु॑ प्रि॒यम् |{शौनको गृत्समदः | पवमानः सोमः | जगती} ज॒हि विश्वा᳚न् र॒क्षस॑ इन्दो, अ॒त्रिणो᳚ बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{48/48}{9.86.48}{9.5.1.48}{7.3.21.3}{786, 809, 8476} पव॑स्व¦सो॒म॒¦क्र॒तु॒ऽवित्¦नः॒¦उ॒क्थ्यः॑¦अव्यः॑¦वारे᳚¦परि॑¦धा॒व॒¦मधु॑¦प्रि॒यम् | |
[87] प्रतुद्रवेति नवर्चस्य सूक्तस्य काव्यउशना पवमानसोमस्त्रिष्टुप् | |
प्र तु द्र॑व॒ परि॒ कोशं॒ नि षी᳚द॒ नृभिः॑ पुना॒नो, अ॒भि वाज॑मर्ष |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} अश्वं॒ न त्वा᳚ वा॒जिनं᳚ म॒र्जय॒न्तोऽच्छा᳚ ब॒र्ही र॑श॒नाभि᳚र्नयन्ति ||{1/9}{9.87.1}{9.5.2.1}{7.3.22.1}{787, 810, 8477} प्र¦तु¦द्र॒व॒¦परि॑¦कोश᳚म्¦नि¦सी॒द॒¦नृऽभिः॑¦पु॒ना॒नः¦अ॒भि¦वाज᳚म्¦अ॒र्ष॒ | |
स्वा॒यु॒धः प॑वते दे॒व इन्दु॑रशस्ति॒हा वृ॒जनं॒ रक्ष॑माणः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} पि॒ता दे॒वानां᳚ जनि॒ता सु॒दक्षो᳚ विष्ट॒म्भो दि॒वो ध॒रुणः॑ पृथि॒व्याः ||{2/9}{9.87.2}{9.5.2.2}{7.3.22.2}{788, 810, 8478} सु॒ऽआ॒यु॒धः¦प॒व॒ते॒¦दे॒वः¦इन्दुः॑¦अ॒श॒स्ति॒ऽहा¦वृ॒जन᳚म्¦रक्ष॑माणः | |
ऋषि॒र्विप्रः॑ पुरए॒ता जना᳚नामृ॒भुर्धीर॑ उ॒शना॒ काव्ये᳚न |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} स चि॑द्विवेद॒ निहि॑तं॒ यदा᳚सामपी॒च्य१॑(अं॒) गुह्यं॒ नाम॒ गोना᳚म् ||{3/9}{9.87.3}{9.5.2.3}{7.3.22.3}{789, 810, 8479} ऋषिः॑¦विप्रः॑¦पु॒रः॒ऽए॒ता¦जना᳚नाम्¦ऋ॒भुः¦धीरः॑¦उ॒शना᳚¦काव्ये᳚न | |
ए॒ष स्य ते॒ मधु॑माँ, इन्द्र॒ सोमो॒ वृषा॒ वृष्णे॒ परि॑ प॒वित्रे᳚, अक्षाः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} स॒ह॒स्र॒साः श॑त॒सा भू᳚रि॒दावा᳚ शश्वत्त॒मं ब॒र्हिरा वा॒ज्य॑स्थात् ||{4/9}{9.87.4}{9.5.2.4}{7.3.22.4}{790, 810, 8480} ए॒षः¦स्यः¦ते॒¦मधु॑ऽमान्¦इ॒न्द्र॒¦सोमः॑¦वृषा᳚¦वृष्णे᳚¦परि॑¦प॒वित्रे᳚¦अ॒क्षा॒रिति॑ | |
ए॒ते सोमा᳚, अ॒भि ग॒व्या स॒हस्रा᳚ म॒हे वाजा᳚या॒मृता᳚य॒ श्रवां᳚सि |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} प॒वित्रे᳚भिः॒ पव॑माना, असृग्रञ्छ्रव॒स्यवो॒ न पृ॑त॒नाजो॒, अत्याः᳚ ||{5/9}{9.87.5}{9.5.2.5}{7.3.22.5}{791, 810, 8481} ए॒ते¦सोमाः᳚¦अ॒भि¦ग॒व्या¦स॒हस्रा᳚¦म॒हे¦वाजा᳚य¦अ॒मृता᳚य¦श्रवां᳚सि | |
परि॒ हि ष्मा᳚ पुरुहू॒तो जना᳚नां॒ विश्वास॑र॒द्भोज॑ना पू॒यमा᳚नः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} अथा भ॑र श्येनभृत॒ प्रयां᳚सि र॒यिं तुञ्जा᳚नो, अ॒भि वाज॑मर्ष ||{6/9}{9.87.6}{9.5.2.6}{7.3.23.1}{792, 810, 8482} परि॑¦हि¦स्म॒¦पु॒रु॒ऽहू॒तः¦जना᳚नाम्¦विश्वा᳚¦अस॑रत्¦भोज॑ना¦पू॒यमा᳚नः | |
ए॒ष सु॑वा॒नः परि॒ सोमः॑ प॒वित्रे॒ सर्गो॒ न सृ॒ष्टो, अ॑दधाव॒दर्वा᳚ |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} ति॒ग्मे शिशा᳚नो महि॒षो न शृङ्गे॒ गा ग॒व्यन्न॒भि शूरो॒ न सत्वा᳚ ||{7/9}{9.87.7}{9.5.2.7}{7.3.23.2}{793, 810, 8483} ए॒षः¦सु॒वा॒नः¦परि॑¦सोमः॑¦प॒वित्रे᳚¦सर्गः॑¦न¦सृ॒ष्टः¦अ॒द॒धा॒व॒त्¦अर्वा᳚ | |
ए॒षा य॑यौ पर॒माद॒न्तरद्रेः॒ कूचि॑त्स॒तीरू॒र्वे गा वि॑वेद |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} दि॒वो न वि॒द्युत् स्त॒नय᳚न्त्य॒भ्रैः सोम॑स्य ते पवत इन्द्र॒ धारा᳚ ||{8/9}{9.87.8}{9.5.2.8}{7.3.23.3}{794, 810, 8484} ए॒षा¦आ¦य॒यौ॒¦प॒र॒मात्¦अ॒न्तः¦अद्रेः᳚¦कूऽचि॑त्¦स॒तीः¦ऊ॒र्वे¦गाः¦वि॒वे॒द॒ | |
उ॒त स्म॑ रा॒शिं परि॑ यासि॒ गोना॒मिन्द्रे᳚ण सोम स॒रथं᳚ पुना॒नः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} पू॒र्वीरिषो᳚ बृह॒तीर्जी᳚रदानो॒ शिक्षा᳚ शचीव॒स्तव॒ ता, उ॑प॒ष्टुत् ||{9/9}{9.87.9}{9.5.2.9}{7.3.23.4}{795, 810, 8485} उ॒त¦स्म॒¦रा॒शिम्¦परि॑¦या॒सि॒¦गोना᳚म्¦इन्द्रे᳚ण¦सो॒म॒¦स॒ऽरथ᳚म्¦पु॒ना॒नः | |
[88] अयंसोमइत्यष्टर्चस्य सूक्तस्य काव्य उशना पवमानसोमस्त्रिष्टुप् | |
अ॒यं सोम॑ इन्द्र॒ तुभ्यं᳚ सुन्वे॒ तुभ्यं᳚ पवते॒ त्वम॑स्य पाहि |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} त्वं ह॒ यं च॑कृ॒षे त्वं व॑वृ॒ष इन्दुं॒ मदा᳚य॒ युज्या᳚य॒ सोम᳚म् ||{1/8}{9.88.1}{9.5.3.1}{7.3.24.1}{796, 811, 8486} अ॒यम्¦सोमः॑¦इ॒न्द्र॒¦तुभ्य᳚म्¦सु॒न्वे॒¦तुभ्य᳚म्¦प॒व॒ते॒¦त्वम्¦अ॒स्य॒¦पा॒हि॒ | |
स ईं॒ रथो॒ न भु॑रि॒षाळ॑योजि म॒हः पु॒रूणि॑ सा॒तये॒ वसू᳚नि |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} आदीं॒ विश्वा᳚ नहु॒ष्या᳚णि जा॒ता स्व॑र्षाता॒ वन॑ ऊ॒र्ध्वा न॑वन्त ||{2/8}{9.88.2}{9.5.3.2}{7.3.24.2}{797, 811, 8487} सः¦ई॒म्¦रथः॑¦न¦भु॒रि॒षाट्¦अ॒यो॒जि॒¦म॒हः¦पु॒रूणि॑¦सा॒तये᳚¦वसू᳚नि | |
वा॒युर्न यो नि॒युत्वाँ᳚, इ॒ष्टया᳚मा॒ नास॑त्येव॒ हव॒ आ शम्भ॑विष्ठः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} वि॒श्ववा᳚रो द्रविणो॒दा, इ॑व॒ त्मन् पू॒षेव॑ धी॒जव॑नोऽसि सोम ||{3/8}{9.88.3}{9.5.3.3}{7.3.24.3}{798, 811, 8488} वा॒युः¦न¦यः¦नि॒युत्वा᳚न्¦इ॒ष्टऽया᳚मा¦नास॑त्याऽइव¦हवे᳚¦आ¦शम्ऽभ॑विष्ठः | |
इन्द्रो॒ न यो म॒हा कर्मा᳚णि॒ चक्रि᳚र्ह॒न्ता वृ॒त्राणा᳚मसि सोम पू॒र्भित् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} पै॒द्वो न हि त्वमहि॑नाम्नां ह॒न्ता विश्व॑स्यासि सोम॒ दस्योः᳚ ||{4/8}{9.88.4}{9.5.3.4}{7.3.24.4}{799, 811, 8489} इन्द्रः॑¦न¦यः¦म॒हा¦कर्मा᳚णि¦चक्रिः॑¦ह॒न्ता¦वृ॒त्राणा᳚म्¦अ॒सि॒¦सो॒म॒¦पूः॒ऽभित् | |
अ॒ग्निर्न यो वन॒ आ सृ॒ज्यमा᳚नो॒ वृथा॒ पाजां᳚सि कृणुते न॒दीषु॑ |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} जनो॒ न युध्वा᳚ मह॒त उ॑प॒ब्दिरिय॑र्ति॒ सोमः॒ पव॑मान ऊ॒र्मिम् ||{5/8}{9.88.5}{9.5.3.5}{7.3.24.5}{800, 811, 8490} अ॒ग्निः¦न¦यः¦वने᳚¦आ¦सृ॒ज्यमा᳚नः¦वृथा᳚¦पाजां᳚सि¦कृ॒णु॒ते॒¦न॒दीषु॑ | |
ए॒ते सोमा॒, अति॒ वारा॒ण्यव्या᳚ दि॒व्या न कोशा᳚सो, अ॒भ्रव॑र्षाः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} वृथा᳚ समु॒द्रं सिन्ध॑वो॒ न नीचीः᳚ सु॒तासो᳚, अ॒भि क॒लशाँ᳚, असृग्रन् ||{6/8}{9.88.6}{9.5.3.6}{7.3.24.6}{801, 811, 8491} ए॒ते¦सोमाः᳚¦अति॑¦वारा᳚णि¦अव्या᳚¦दि॒व्याः¦न¦कोशा᳚सः¦अ॒भ्रऽव॑र्षाः | |
शु॒ष्मी शर्धो॒ न मारु॑तं पव॒स्वान॑भिशस्ता दि॒व्या यथा॒ विट् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} आपो॒ न म॒क्षू सु॑म॒तिर्भ॑वा नः स॒हस्रा᳚प्साः पृतना॒षाण्न य॒ज्ञः ||{7/8}{9.88.7}{9.5.3.7}{7.3.24.7}{802, 811, 8492} शु॒ष्मी¦शर्धः॑¦न¦मारु॑तम्¦प॒व॒स्व॒¦अन॑भिऽशस्ता¦दि॒व्या¦यथा᳚¦विट् | |
राज्ञो॒ नु ते॒ वरु॑णस्य व्र॒तानि॑ बृ॒हद्ग॑भी॒रं तव॑ सोम॒ धाम॑ |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} शुचि॒ष्ट्वम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो᳚, अर्य॒मेवा᳚सि सोम ||{8/8}{9.88.8}{9.5.3.8}{7.3.24.8}{803, 811, 8493} राज्ञः॑¦नु¦ते॒¦वरु॑णस्य¦व्र॒तानि॑¦बृ॒हत्¦ग॒भी॒रम्¦तव॑¦सो॒म॒¦धाम॑ | |
[89] प्रोस्यवह्निरिति सप्तर्चस्य सूक्तस्य काव्य उशना पवमानसोमस्त्रिष्टुप् | |
प्रो स्य वह्निः॑ प॒थ्या᳚भिरस्यान्दि॒वो न वृ॒ष्टिः पव॑मानो, अक्षाः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} स॒हस्र॑धारो, असद॒न्न्य१॑(अ॒)स्मे मा॒तुरु॒पस्थे॒ वन॒ आ च॒ सोमः॑ ||{1/7}{9.89.1}{9.5.4.1}{7.3.25.1}{804, 812, 8494} प्रो इति॑¦स्यः¦वह्निः॑¦प॒थ्या᳚भिः¦अ॒स्या॒न्¦दि॒वः¦न¦वृ॒ष्टिः¦पव॑मानः¦अ॒क्षा॒रिति॑ | |
राजा॒ सिन्धू᳚नामवसिष्ट॒ वास॑ ऋ॒तस्य॒ नाव॒मारु॑ह॒द्रजि॑ष्ठाम् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} अ॒प्सु द्र॒प्सो वा᳚वृधे श्ये॒नजू᳚तो दु॒ह ईं᳚ पि॒ता दु॒ह ईं᳚ पि॒तुर्जाम् ||{2/7}{9.89.2}{9.5.4.2}{7.3.25.2}{805, 812, 8495} राजा᳚¦सिन्धू᳚नाम्¦अ॒व॒सि॒ष्ट॒¦वासः॑¦ऋ॒तस्य॑¦नाव᳚म्¦आ¦अ॒रु॒ह॒त्¦रजि॑ष्ठाम् | |
सिं॒हं न॑सन्त॒ मध्वो᳚, अ॒यासं॒ हरि॑मरु॒षं दि॒वो, अ॒स्य पति᳚म् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} शूरो᳚ यु॒त्सु प्र॑थ॒मः पृ॑च्छते॒ गा, अस्य॒ चक्ष॑सा॒ परि॑ पात्यु॒क्षा ||{3/7}{9.89.3}{9.5.4.3}{7.3.25.3}{806, 812, 8496} सिं॒हम्¦न॒स॒न्त॒¦मध्वः॑¦अ॒यास᳚म्¦हरि᳚म्¦अ॒रु॒षम्¦दि॒वः¦अ॒स्य¦पति᳚म् | |
मधु॑पृष्ठं घो॒रम॒यास॒मश्वं॒ रथे᳚ युञ्जन्त्युरुच॒क्र ऋ॒ष्वम् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} स्वसा᳚र ईं जा॒मयो᳚ मर्जयन्ति॒ सना᳚भयो वा॒जिन॑मूर्जयन्ति ||{4/7}{9.89.4}{9.5.4.4}{7.3.25.4}{807, 812, 8497} मधु॑ऽपृष्ठम्¦घो॒रम्¦अ॒यास᳚म्¦अश्व᳚म्¦रथे᳚¦युं॒ज॒न्ति॒¦उ॒रु॒ऽच॒क्रे¦ऋ॒ष्वम् | |
चत॑स्र ईं घृत॒दुहः॑ सचन्ते समा॒ने, अ॒न्तर्ध॒रुणे॒ निष॑त्ताः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} ता, ई᳚मर्षन्ति॒ नम॑सा पुना॒नास्ता, ईं᳚ वि॒श्वतः॒ परि॑ षन्ति पू॒र्वीः ||{5/7}{9.89.5}{9.5.4.5}{7.3.25.5}{808, 812, 8498} चत॑स्रः¦ई॒म्¦घृ॒त॒ऽदुहः॑¦स॒च॒न्ते॒¦स॒मा॒ने¦अ॒न्तः¦ध॒रुणे᳚¦निऽस॑त्ताः | |
वि॒ष्ट॒म्भो दि॒वो ध॒रुणः॑ पृथि॒व्या विश्वा᳚, उ॒त क्षि॒तयो॒ हस्ते᳚, अस्य |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} अस॑त्त॒ उत्सो᳚ गृण॒ते नि॒युत्वा॒न्मध्वो᳚, अं॒शुः प॑वत इन्द्रि॒याय॑ ||{6/7}{9.89.6}{9.5.4.6}{7.3.25.6}{809, 812, 8499} वि॒ष्ट॒म्भः¦दि॒वः¦ध॒रुणः॑¦पृ॒थि॒व्याः¦विश्वाः᳚¦उ॒त¦क्षि॒तयः॑¦हस्ते᳚¦अ॒स्य॒ | |
व॒न्वन्नवा᳚तो, अ॒भि दे॒ववी᳚ति॒मिन्द्रा᳚य सोम वृत्र॒हा प॑वस्व |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} श॒ग्धि म॒हः पु॑रुश्च॒न्द्रस्य॑ रा॒यः सु॒वीर्य॑स्य॒ पत॑यः स्याम ||{7/7}{9.89.7}{9.5.4.7}{7.3.25.7}{810, 812, 8500} व॒न्वन्¦अवा᳚तः¦अ॒भि¦दे॒वऽवी᳚तिम्¦इन्द्रा᳚य¦सो॒म॒¦वृ॒त्र॒ऽहा¦प॒व॒स्व॒ | |
[90] प्रहिन्वानइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः पवमानसोमस्त्रिष्टुप् | |
प्र हि᳚न्वा॒नो ज॑नि॒ता रोद॑स्यो॒ रथो॒ न वाजं᳚ सनि॒ष्यन्न॑यासीत् |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} इन्द्रं॒ गच्छ॒न्नायु॑धा सं॒शिशा᳚नो॒ विश्वा॒ वसु॒ हस्त॑योरा॒दधा᳚नः ||{1/6}{9.90.1}{9.5.5.1}{7.3.26.1}{811, 813, 8501} प्र¦हि॒न्वा॒नः¦ज॒नि॒ता¦रोद॑स्योः¦रथः॑¦न¦वाज᳚म्¦स॒नि॒ष्यन्¦अ॒या॒सी॒त् | |
अ॒भि त्रि॑पृ॒ष्ठं वृष॑णं वयो॒धामा᳚ङ्गू॒षाणा᳚मवावशन्त॒ वाणीः᳚ |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} वना॒ वसा᳚नो॒ वरु॑णो॒ न सिन्धू॒न् वि र॑त्न॒धा द॑यते॒ वार्या᳚णि ||{2/6}{9.90.2}{9.5.5.2}{7.3.26.2}{812, 813, 8502} अ॒भि¦त्रि॒ऽपृ॒ष्ठम्¦वृष॑णम्¦व॒यः॒ऽधाम्¦आ॒ङ्गू॒षाणा᳚म्¦अ॒वा॒व॒श॒न्त॒¦वाणीः᳚ | |
शूर॑ग्रामः॒ सर्व॑वीरः॒ सहा᳚वा॒ञ्जेता᳚ पवस्व॒ सनि॑ता॒ धना᳚नि |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} ति॒ग्मायु॑धः, क्षि॒प्रध᳚न्वा स॒मत्स्वषा᳚ळ्हः सा॒ह्वान् पृत॑नासु॒ शत्रू॑न् ||{3/6}{9.90.3}{9.5.5.3}{7.3.26.3}{813, 813, 8503} शूर॑ऽग्रामः¦सर्व॑ऽवीरः¦सहा᳚वान्¦जेता᳚¦प॒व॒स्व॒¦सनि॑ता¦धना᳚नि | |
उ॒रुग᳚व्यूति॒रभ॑यानि कृ॒ण्वन् त्स॑मीची॒ने, आ प॑वस्वा॒ पुरं᳚धी |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} अ॒पः सिषा᳚सन्नु॒षसः॒ स्व१॑(अ॒)र्गाः सं चि॑क्रदो म॒हो, अ॒स्मभ्यं॒ वाजा॑न् ||{4/6}{9.90.4}{9.5.5.4}{7.3.26.4}{814, 813, 8504} उ॒रुऽग᳚व्यूतिः¦अभ॑यानि¦कृ॒ण्वन्¦स॒मी॒ची॒ने इति॑ स॒म्ऽई॒ची॒ने¦आ¦प॒व॒स्व॒¦पुरं᳚धी॒ इति॒ पुर᳚म्ऽधी | |
मत्सि॑ सोम॒ वरु॑णं॒ मत्सि॑ मि॒त्रं मत्सीन्द्र॑मिन्दो पवमान॒ विष्णु᳚म् |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} मत्सि॒ शर्धो॒ मारु॑तं॒ मत्सि॑ दे॒वान् मत्सि॑ म॒हामिन्द्र॑मिन्दो॒ मदा᳚य ||{5/6}{9.90.5}{9.5.5.5}{7.3.26.5}{815, 813, 8505} मत्सि॑¦सो॒म॒¦वरु॑णम्¦मत्सि॑¦मि॒त्रम्¦मत्सि॑¦इन्द्र᳚म्¦इ॒न्दो॒ इति॑¦प॒व॒मा॒न॒¦विष्णु᳚म् | |
ए॒वा राजे᳚व॒ क्रतु॑माँ॒, अमे᳚न॒ विश्वा॒ घनि॑घ्नद्दुरि॒ता प॑वस्व |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} इन्दो᳚ सू॒क्ताय॒ वच॑से॒ वयो᳚ धा यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/6}{9.90.6}{9.5.5.6}{7.3.26.6}{816, 813, 8506} ए॒व¦राजा᳚ऽइव¦क्रतु॑ऽमान्¦अमे᳚न¦विश्वा᳚¦घनि॑घ्नत्¦दुः॒ऽइ॒ता¦प॒व॒स्व॒ | |
[91] असर्जीति षडृचस्य सूक्तस्य मारीचः कश्यपः पवमानसोमस्त्रिष्टुप् | |
अस॑र्जि॒ वक्वा॒ रथ्ये॒ यथा॒जौ धि॒या म॒नोता᳚ प्रथ॒मो म॑नी॒षी |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} दश॒ स्वसा᳚रो॒, अधि॒ सानो॒, अव्येऽज᳚न्ति॒ वह्निं॒ सद॑ना॒न्यच्छ॑ ||{1/6}{9.91.1}{9.5.6.1}{7.4.1.1}{817, 814, 8507} अस॑र्जि¦वक्वा᳚¦रथ्ये᳚¦यथा᳚¦आ॒जौ¦धि॒या¦म॒नोता᳚¦प्र॒थ॒मः¦म॒नी॒षी | |
वी॒ती जन॑स्य दि॒व्यस्य॑ क॒व्यैरधि॑ सुवा॒नो न॑हु॒ष्ये᳚भि॒रिन्दुः॑ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} प्र यो नृभि॑र॒मृतो॒ मर्त्ये᳚भिर्मर्मृजा॒नोऽवि॑भि॒र्गोभि॑र॒द्भिः ||{2/6}{9.91.2}{9.5.6.2}{7.4.1.2}{818, 814, 8508} वी॒ती¦जन॑स्य¦दि॒व्यस्य॑¦क॒व्यैः¦अधि॑¦सु॒वा॒नः¦न॒हु॒ष्ये᳚भिः¦इन्दुः॑ | |
वृषा॒ वृष्णे॒ रोरु॑वदं॒शुर॑स्मै॒ पव॑मानो॒ रुश॑दीर्ते॒ पयो॒ गोः |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} स॒हस्र॒मृक्वा᳚ प॒थिभि᳚र्वचो॒विद॑ध्व॒स्मभिः॒ सूरो॒, अण्वं॒ वि या᳚ति ||{3/6}{9.91.3}{9.5.6.3}{7.4.1.3}{819, 814, 8509} वृषा᳚¦वृष्णे᳚¦रोरु॑वत्¦अं॒शुः¦अ॒स्मै॒¦पव॑मानः¦रुश॑त्¦ई॒र्ते॒¦पयः॑¦गोः | |
रु॒जा दृ॒ळ्हा चि॑द्र॒क्षसः॒ सदां᳚सि पुना॒न इ᳚न्द ऊर्णुहि॒ वि वाजा॑न् |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} वृ॒श्चोपरि॑ष्टात्तुज॒ता व॒धेन॒ ये, अन्ति॑ दू॒रादु॑पना॒यमे᳚षाम् ||{4/6}{9.91.4}{9.5.6.4}{7.4.1.4}{820, 814, 8510} रु॒ज¦दृ॒ळ्हा¦चि॒त्¦र॒क्षसः॑¦सदां᳚सि¦पु॒ना॒नः¦इ॒न्दो॒ इति॑¦ऊ॒र्णु॒हि॒¦वि¦वाजा॑न् | |
स प्र॑त्न॒वन्नव्य॑से विश्ववार सू॒क्ताय॑ प॒थः कृ॑णुहि॒ प्राचः॑ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} ये दुः॒षहा᳚सो व॒नुषा᳚ बृ॒हन्त॒स्ताँस्ते᳚, अश्याम पुरुकृत्पुरुक्षो ||{5/6}{9.91.5}{9.5.6.5}{7.4.1.5}{821, 814, 8511} सः¦प्र॒त्न॒ऽवत्¦नव्य॑से¦वि॒श्व॒ऽवा॒र॒¦सु॒।औ॒क्ताय॑¦प॒थः¦कृ॒णु॒हि॒¦प्राचः॑ | |
ए॒वा पु॑ना॒नो, अ॒पः स्व१॑(अ॒)र्गा, अ॒स्मभ्यं᳚ तो॒का तन॑यानि॒ भूरि॑ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} शं नः॒, क्षेत्र॑मु॒रु ज्योतीं᳚षि सोम॒ ज्योङ्नः॒ सूर्यं᳚ दृ॒शये᳚ रिरीहि ||{6/6}{9.91.6}{9.5.6.6}{7.4.1.6}{822, 814, 8512} ए॒व¦पु॒ना॒नः¦अ॒पः¦स्वः॑¦गाः¦अ॒स्मभ्य᳚म्¦तो॒का¦तन॑यानि¦भूरि॑ | |
[92] परिसुवानइति षडृचस्य सूक्तस्य मारीचः कश्यपः पवमानसोमस्त्रिष्टुप् | |
परि॑ सुवा॒नो हरि॑रं॒शुः प॒वित्रे॒ रथो॒ न स॑र्जि स॒नये᳚ हिया॒नः |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} आप॒च्छ्लोक॑मिन्द्रि॒यं पू॒यमा᳚नः॒ प्रति॑ दे॒वाँ, अ॑जुषत॒ प्रयो᳚भिः ||{1/6}{9.92.1}{9.5.7.1}{7.4.2.1}{823, 815, 8513} परि॑¦सु॒वा॒नः¦हरिः॑¦अं॒शुः¦प॒वित्रे᳚¦रथः॑¦न¦स॒र्जि॒¦स॒नये᳚¦हि॒या॒नः | |
अच्छा᳚ नृ॒चक्षा᳚, असरत्प॒वित्रे॒ नाम॒ दधा᳚नः क॒विर॑स्य॒ योनौ᳚ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} सीद॒न्होते᳚व॒ सद॑ने च॒मूषूपे᳚मग्म॒न्नृष॑यः स॒प्त विप्राः᳚ ||{2/6}{9.92.2}{9.5.7.2}{7.4.2.2}{824, 815, 8514} अच्छ॑¦नृ॒ऽचक्षाः᳚¦अ॒स॒र॒त्¦प॒वित्रे᳚¦नाम॑¦दधा᳚नः¦क॒विः¦अ॒स्य॒¦योनौ᳚ | |
प्र सु॑मे॒धा गा᳚तु॒विद्वि॒श्वदे᳚वः॒ सोमः॑ पुना॒नः सद॑ एति॒ नित्य᳚म् |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} भुव॒द्विश्वे᳚षु॒ काव्ये᳚षु॒ रन्तानु॒ जना᳚न्यतते॒ पञ्च॒ धीरः॑ ||{3/6}{9.92.3}{9.5.7.3}{7.4.2.3}{825, 815, 8515} प्र¦सु॒ऽमे॒धाः¦गा॒तु॒ऽवित्¦वि॒श्वऽदे᳚वः¦सोमः॑¦पु॒ना॒नः¦सदः॑¦ए॒ति॒¦नित्य᳚म् | |
तव॒ त्ये सो᳚म पवमान नि॒ण्ये विश्वे᳚ दे॒वास्त्रय॑ एकाद॒शासः॑ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} दश॑ स्व॒धाभि॒रधि॒ सानो॒, अव्ये᳚ मृ॒जन्ति॑ त्वा न॒द्यः॑ स॒प्त य॒ह्वीः ||{4/6}{9.92.4}{9.5.7.4}{7.4.2.4}{826, 815, 8516} तव॑¦त्ये¦सो॒म॒¦प॒व॒मा॒न॒¦नि॒ण्ये¦विश्वे᳚¦दे॒वाः¦त्रयः॑¦ए॒का॒द॒शासः॑ | |
तन्नु स॒त्यं पव॑मानस्यास्तु॒ यत्र॒ विश्वे᳚ का॒रवः॑ सं॒नस᳚न्त |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} ज्योति॒र्यदह्ने॒, अकृ॑णोदु लो॒कं प्राव॒न्मनुं॒ दस्य॑वे कर॒भीक᳚म् ||{5/6}{9.92.5}{9.5.7.5}{7.4.2.5}{827, 815, 8517} तत्¦नु¦स॒त्यम्¦पव॑मानस्य¦अ॒स्तु॒¦यत्र॑¦विश्वे᳚¦का॒रवः॑¦स॒म्ऽनस᳚न्त | |
परि॒ सद्मे᳚व पशु॒मान्ति॒ होता॒ राजा॒ न स॒त्यः समि॑तीरिया॒नः |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} सोमः॑ पुना॒नः क॒लशाँ᳚, अयासी॒त्सीद᳚न् मृ॒गो न म॑हि॒षो वने᳚षु ||{6/6}{9.92.6}{9.5.7.6}{7.4.2.6}{828, 815, 8518} परि॑¦सद्म॑ऽइव¦प॒शु॒ऽमन्ति॑¦होता᳚¦राजा᳚¦न¦स॒त्यः¦सम्ऽइ᳚तीः¦इ॒या॒नः | |
[93] साकमुक्षइति पंचर्चस्य सूक्तस्य गौतमो नोधाः पवमानसोमस्त्रिष्टुप् | |
सा॒क॒मुक्षो᳚ मर्जयन्त॒ स्वसा᳚रो॒ दश॒ धीर॑स्य धी॒तयो॒ धनु॑त्रीः |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्} हरिः॒ पर्य॑द्रव॒ज्जाः सूर्य॑स्य॒ द्रोणं᳚ ननक्षे॒, अत्यो॒ न वा॒जी ||{1/5}{9.93.1}{9.5.8.1}{7.4.3.1}{829, 816, 8519} सा॒क॒म्।औक्षः॑¦म॒र्ज॒य॒न्त॒¦स्वसा᳚रः¦दश॑¦धीर॑स्य¦धी॒तयः॑¦धनु॑त्रीः | |
सं मा॒तृभि॒र्न शिशु᳚र्वावशा॒नो वृषा᳚ दधन्वे पुरु॒वारो᳚, अ॒द्भिः |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्} मर्यो॒ न योषा᳚म॒भि नि॑ष्कृ॒तं यन् त्सं ग॑च्छते क॒लश॑ उ॒स्रिया᳚भिः ||{2/5}{9.93.2}{9.5.8.2}{7.4.3.2}{830, 816, 8520} सम्¦मा॒तृऽभिः॑¦न¦शिशुः॑¦वा॒व॒शा॒नः¦वृषा᳚¦द॒ध॒न्वे॒¦पु॒रु॒ऽवारः॑¦अ॒त्ऽभिः | |
उ॒त प्र पि॑प्य॒ ऊध॒रघ्न्या᳚या॒, इन्दु॒र्धारा᳚भिः सचते सुमे॒धाः |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्} मू॒र्धानं॒ गावः॒ पय॑सा च॒मूष्व॒भि श्री᳚णन्ति॒ वसु॑भि॒र्न नि॒क्तैः ||{3/5}{9.93.3}{9.5.8.3}{7.4.3.3}{831, 816, 8521} उ॒त¦प्र¦पि॒प्ये॒¦ऊधः॑¦अघ्न्या᳚याः¦इन्दुः॑¦धारा᳚भिः¦स॒च॒ते॒¦सु॒ऽमे॒धाः | |
स नो᳚ दे॒वेभिः॑ पवमान र॒देन्दो᳚ र॒यिम॒श्विनं᳚ वावशा॒नः |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्} र॒थि॒रा॒यता᳚मुश॒ती पुरं᳚धिरस्म॒द्र्य१॑(अ॒)गा दा॒वने॒ वसू᳚नाम् ||{4/5}{9.93.4}{9.5.8.4}{7.4.3.4}{832, 816, 8522} सः¦नः॒¦दे॒वेभिः॑¦प॒व॒मा॒न॒¦र॒द॒¦इन्दो॒ इति॑¦र॒यिम्¦अ॒श्विन᳚म्¦वा॒व॒शा॒नः | |
नू नो᳚ र॒यिमुप॑ मास्व नृ॒वन्तं᳚ पुना॒नो वा॒ताप्यं᳚ वि॒श्वश्च᳚न्द्रम् |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्} प्र व᳚न्दि॒तुरि᳚न्दो ता॒र्यायुः॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ||{5/5}{9.93.5}{9.5.8.5}{7.4.3.5}{833, 816, 8523} नु¦नः॒¦र॒यिम्¦उप॑¦मा॒स्व॒¦नृ॒ऽवन्त᳚म्¦पु॒ना॒नः¦वा॒ताप्य᳚म्¦वि॒श्वऽच᳚न्द्रम् | |
[94] अधियदिति पंचर्चस्य सूक्तस्य घौरः कण्वः पवमानसोमस्त्रिष्टुप् | |
अधि॒ यद॑स्मिन्वा॒जिनी᳚व॒ शुभः॒ स्पर्ध᳚न्ते॒ धियः॒ सूर्ये॒ न विशः॑ |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्} अ॒पो वृ॑णा॒नः प॑वते कवी॒यन्व्र॒जं न प॑शु॒वर्ध॑नाय॒ मन्म॑ ||{1/5}{9.94.1}{9.5.9.1}{7.4.4.1}{834, 817, 8524} अधि॑¦यत्¦अ॒स्मि॒न्¦वा॒जिनि॑ऽइव¦शुभः॑¦स्पर्ध᳚न्ते¦धियः॑¦सूर्ये᳚¦न¦विशः॑ | |
द्वि॒ता व्यू॒र्ण्वन्न॒मृत॑स्य॒ धाम॑ स्व॒र्विदे॒ भुव॑नानि प्रथन्त |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्} धियः॑ पिन्वा॒नाः स्वस॑रे॒ न गाव॑ ऋता॒यन्ती᳚र॒भि वा᳚वश्र॒ इन्दु᳚म् ||{2/5}{9.94.2}{9.5.9.2}{7.4.4.2}{835, 817, 8525} द्वि॒ता¦वि॒ऽऊ॒र्ण्वन्¦अ॒मृत॑स्य¦धाम॑¦स्वः॒ऽविदे᳚¦भुव॑नानि¦प्र॒थ॒न्त॒ | |
परि॒ यत्क॒विः काव्या॒ भर॑ते॒ शूरो॒ न रथो॒ भुव॑नानि॒ विश्वा᳚ |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्} दे॒वेषु॒ यशो॒ मर्ता᳚य॒ भूष॒न्दक्षा᳚य रा॒यः पु॑रु॒भूषु॒ नव्यः॑ ||{3/5}{9.94.3}{9.5.9.3}{7.4.4.3}{836, 817, 8526} परि॑¦यत्¦क॒विः¦काव्या᳚¦भर॑ते¦शूरः॑¦न¦रथः॑¦भुव॑नानि¦विश्वा᳚ | |
श्रि॒ये जा॒तः श्रि॒य आ निरि॑याय॒ श्रियं॒ वयो᳚ जरि॒तृभ्यो᳚ दधाति |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्} श्रियं॒ वसा᳚ना, अमृत॒त्वमा᳚य॒न् भव᳚न्ति स॒त्या स॑मि॒था मि॒तद्रौ᳚ ||{4/5}{9.94.4}{9.5.9.4}{7.4.4.4}{837, 817, 8527} श्रि॒ये¦जा॒तः¦श्रि॒ये¦आ¦निः¦इ॒या॒य॒¦श्रिय᳚म्¦वयः॑¦ज॒रि॒तृऽभ्यः॑¦द॒धा॒ति॒ | |
इष॒मूर्ज॑म॒भ्य१॑(अ॒)र्षाश्वं॒ गामु॒रु ज्योतिः॑ कृणुहि॒ मत्सि॑ दे॒वान् |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्} विश्वा᳚नि॒ हि सु॒षहा॒ तानि॒ तुभ्यं॒ पव॑मान॒ बाध॑से सोम॒ शत्रू॑न् ||{5/5}{9.94.5}{9.5.9.5}{7.4.4.5}{838, 817, 8528} इष᳚म्¦ऊर्ज᳚म्¦अ॒भि¦अ॒र्ष॒¦अश्व᳚म्¦गाम्¦उ॒रु¦ज्योतिः॑¦कृ॒णु॒हि॒¦मत्सि॑¦दे॒वान् | |
[95] कनिक्रंतीति पंचर्चस्य सूक्तस्य कण्वः प्रस्कण्वः पवमानसोमस्त्रिष्टुप् | |
कनि॑क्रन्ति॒ हरि॒रा सृ॒ज्यमा᳚नः॒ सीद॒न्वन॑स्य ज॒ठरे᳚ पुना॒नः |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्} नृभि᳚र्य॒तः कृ॑णुते नि॒र्णिजं॒ गा, अतो᳚ म॒तीर्ज॑नयत स्व॒धाभिः॑ ||{1/5}{9.95.1}{9.5.10.1}{7.4.5.1}{839, 818, 8529} कनि॑क्रन्ति¦हरिः॑¦आ¦सृ॒ज्यमा᳚नः¦सीद॑न्¦वन॑स्य¦ज॒ठरे᳚¦पु॒ना॒नः | |
हरिः॑ सृजा॒नः प॒थ्या᳚मृ॒तस्येय॑र्ति॒ वाच॑मरि॒तेव॒ नाव᳚म् |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्} दे॒वो दे॒वानां॒ गुह्या᳚नि॒ नामा॒विष्कृ॑णोति ब॒र्हिषि॑ प्र॒वाचे᳚ ||{2/5}{9.95.2}{9.5.10.2}{7.4.5.2}{840, 818, 8530} हरिः॑¦सृ॒जा॒नः¦प॒थ्या᳚म्¦ऋ॒तस्य॑¦इय॑र्ति¦वाच᳚म्¦अ॒रि॒ताऽइ᳚व¦नाव᳚म् | |
अ॒पामि॒वेदू॒र्मय॒स्तर्तु॑राणाः॒ प्र म॑नी॒षा, ई᳚रते॒ सोम॒मच्छ॑ |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्} न॒म॒स्यन्ती॒रुप॑ च॒ यन्ति॒ सं चा च॑ विशन्त्युश॒तीरु॒शन्त᳚म् ||{3/5}{9.95.3}{9.5.10.3}{7.4.5.3}{841, 818, 8531} अ॒पाम्ऽइ᳚व¦इत्¦ऊ॒र्मयः॑¦तर्तु॑राणाः¦प्र¦म॒नी॒षाः¦ई॒र॒ते॒¦सोम᳚म्¦अच्छ॑ | |
तं म᳚र्मृजा॒नं म॑हि॒षं न साना᳚वं॒शुं दु॑हन्त्यु॒क्षणं᳚ गिरि॒ष्ठाम् |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्} तं वा᳚वशा॒नं म॒तयः॑ सचन्ते त्रि॒तो बि॑भर्ति॒ वरु॑णं समु॒द्रे ||{4/5}{9.95.4}{9.5.10.4}{7.4.5.4}{842, 818, 8532} तम्¦म॒र्मृ॒जा॒नम्¦म॒हि॒षम्¦न¦सानौ᳚¦अं॒शुम्¦दु॒ह॒न्ति॒¦उ॒क्षण᳚म्¦गि॒रि॒ऽस्थाम् | |
इष्य॒न्वाच॑मुपव॒क्तेव॒ होतुः॑ पुना॒न इ᳚न्दो॒ वि ष्या᳚ मनी॒षाम् |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्} इन्द्र॑श्च॒ यत् क्षय॑थः॒ सौभ॑गाय सु॒वीर्य॑स्य॒ पत॑यः स्याम ||{5/5}{9.95.5}{9.5.10.5}{7.4.5.5}{843, 818, 8533} इष्य॑न्¦वाच᳚म्¦उ॒प॒व॒क्ताऽइ᳚व¦होतुः॑¦पु॒ना॒नः¦इ॒न्दो॒ इति॑¦वि¦स्य॒¦म॒नी॒षाम् | |
[96] प्रसेनानीरिति चतुर्विंशत्यृचस्य सूक्तस्य दैवोदासिः प्रतर्दनः पवमानसोमस्त्रिष्टुप् | |
प्र से᳚ना॒नीः शूरो॒, अग्रे॒ रथा᳚नां ग॒व्यन्ने᳚ति॒ हर्ष॑ते, अस्य॒ सेना᳚ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} भ॒द्रान् कृ॒ण्वन्नि᳚न्द्रह॒वान् त्सखि॑भ्य॒ आ सोमो॒ वस्त्रा᳚ रभ॒सानि॑ दत्ते ||{1/24}{9.96.1}{9.5.11.1}{7.4.6.1}{844, 819, 8534} प्र¦से॒ना॒ऽनीः¦शूरः॑¦अग्रे᳚¦रथा᳚नाम्¦ग॒व्यन्¦ए॒ति॒¦हर्ष॑ते¦अ॒स्य॒¦सेना᳚ | |
सम॑स्य॒ हरिं॒ हर॑यो मृजन्त्यश्वह॒यैरनि॑शितं॒ नमो᳚भिः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} आ ति॑ष्ठति॒ रथ॒मिन्द्र॑स्य॒ सखा᳚ वि॒द्वाँ, ए᳚ना सुम॒तिं या॒त्यच्छ॑ ||{2/24}{9.96.2}{9.5.11.2}{7.4.6.2}{845, 819, 8535} सम्¦अ॒स्य॒¦हरि᳚म्¦हर॑यः¦मृ॒ज॒न्ति॒¦अ॒श्व॒ऽह॒यैः¦अनि॑ऽशितम्¦नमः॑ऽभिः | |
स नो᳚ देव दे॒वता᳚ते पवस्व म॒हे सो᳚म॒ प्सर॑स इन्द्र॒पानः॑ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} कृ॒ण्वन्न॒पो व॒र्षय॒न्द्यामु॒तेमामु॒रोरा नो᳚ वरिवस्या पुना॒नः ||{3/24}{9.96.3}{9.5.11.3}{7.4.6.3}{846, 819, 8536} सः¦नः॒¦दे॒व॒¦दे॒वऽता᳚ते¦प॒व॒स्व॒¦म॒हे¦सो॒म॒¦प्सर॑से¦इ॒न्द्र॒ऽपानः॑ | |
अजी᳚त॒येऽह॑तये पवस्व स्व॒स्तये᳚ स॒र्वता᳚तये बृह॒ते |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} तदु॑शन्ति॒ विश्व॑ इ॒मे सखा᳚य॒स्तद॒हं व॑श्मि पवमान सोम ||{4/24}{9.96.4}{9.5.11.4}{7.4.6.4}{847, 819, 8537} अजी᳚तये¦अह॑तये¦प॒व॒स्व॒¦स्व॒स्तये᳚¦स॒र्वऽता᳚तये¦बृ॒ह॒ते | |
सोमः॑ पवते जनि॒ता म॑ती॒नां ज॑नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} ज॒नि॒ताग्नेर्ज॑नि॒ता सूर्य॑स्य जनि॒तेन्द्र॑स्य जनि॒तोत विष्णोः᳚ ||{5/24}{9.96.5}{9.5.11.5}{7.4.6.5}{848, 819, 8538} सोमः॑¦प॒व॒ते॒¦ज॒नि॒ता¦म॒ती॒नाम्¦ज॒नि॒ता¦दि॒वः¦ज॒नि॒ता¦पृ॒थि॒व्याः | |
ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒नामृषि॒र्विप्रा᳚णां महि॒षो मृ॒गाणा᳚म् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} श्ये॒नो गृध्रा᳚णां॒ स्वधि॑ति॒र्वना᳚नां॒ सोमः॑ प॒वित्र॒मत्ये᳚ति॒ रेभ॑न् ||{6/24}{9.96.6}{9.5.11.6}{7.4.7.1}{849, 819, 8539} ब्र॒ह्मा¦दे॒वाना᳚म्¦प॒द॒ऽवीः¦क॒वी॒नाम्¦ऋषिः॑¦विप्रा᳚णाम्¦म॒हि॒षः¦मृ॒गाणा᳚म् | |
प्रावी᳚विपद्वा॒च ऊ॒र्मिं न सिन्धु॒र्गिरः॒ सोमः॒ पव॑मानो मनी॒षाः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} अ॒न्तः पश्य᳚न् वृ॒जने॒माव॑रा॒ण्या ति॑ष्ठति वृष॒भो गोषु॑ जा॒नन् ||{7/24}{9.96.7}{9.5.11.7}{7.4.7.2}{850, 819, 8540} प्र¦अ॒वी॒वि॒प॒त्¦वा॒चः¦ऊ॒र्मिम्¦न¦सिन्धुः॑¦गिरः॑¦सोमः॑¦पव॑मानः¦म॒नी॒षाः | |
स म॑त्स॒रः पृ॒त्सु व॒न्वन्नवा᳚तः स॒हस्र॑रेता, अ॒भि वाज॑मर्ष |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} इन्द्रा᳚येन्दो॒ पव॑मानो मनी॒ष्य१॑(अं॒)शोरू॒र्मिमी᳚रय॒ गा, इ॑ष॒ण्यन् ||{8/24}{9.96.8}{9.5.11.8}{7.4.7.3}{851, 819, 8541} सः¦म॒त्स॒रः¦पृ॒त्ऽसु¦व॒न्वन्¦अवा᳚तः¦स॒हस्र॑ऽरेताः¦अ॒भि¦वाज᳚म्¦अ॒र्ष॒ | |
परि॑ प्रि॒यः क॒लशे᳚ दे॒ववा᳚त॒ इन्द्रा᳚य॒ सोमो॒ रण्यो॒ मदा᳚य |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} स॒हस्र॑धारः श॒तवा᳚ज॒ इन्दु᳚र्वा॒जी न सप्तिः॒ सम॑ना जिगाति ||{9/24}{9.96.9}{9.5.11.9}{7.4.7.4}{852, 819, 8542} परि॑¦प्रि॒यः¦क॒लशे᳚¦दे॒वऽवा᳚तः¦इन्द्रा᳚य¦सोमः॑¦रण्यः॑¦मदा᳚य | |
स पू॒र्व्यो व॑सु॒विज्जाय॑मानो मृजा॒नो, अ॒प्सु दु॑दुहा॒नो, अद्रौ᳚ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} अ॒भि॒श॒स्ति॒पा भुव॑नस्य॒ राजा᳚ वि॒दद्गा॒तुं ब्रह्म॑णे पू॒यमा᳚नः ||{10/24}{9.96.10}{9.5.11.10}{7.4.7.5}{853, 819, 8543} सः¦पू॒र्व्यः¦व॒सु॒ऽवित्¦जाय॑मानः¦मृ॒जा॒नः¦अ॒प्ऽसु¦दु॒दु॒हा॒नः¦अद्रौ᳚ | |
त्वया॒ हि नः॑ पि॒तरः॑ सोम॒ पूर्वे॒ कर्मा᳚णि च॒क्रुः प॑वमान॒ धीराः᳚ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} व॒न्वन्नवा᳚तः परि॒धीँरपो᳚र्णु वी॒रेभि॒रश्वै᳚र्म॒घवा᳚ भवा नः ||{11/24}{9.96.11}{9.5.11.11}{7.4.8.1}{854, 819, 8544} त्वया᳚¦हि¦नः॒¦पि॒तरः॑¦सो॒म॒¦पूर्वे᳚¦कर्मा᳚णि¦च॒क्रुः¦प॒व॒मा॒न॒¦धीराः᳚ | |
यथाप॑वथा॒ मन॑वे वयो॒धा, अ॑मित्र॒हा व॑रिवो॒विद्ध॒विष्मा॑न् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} ए॒वा प॑वस्व॒ द्रवि॑णं॒ दधा᳚न॒ इन्द्रे॒ सं ति॑ष्ठ ज॒नयायु॑धानि ||{12/24}{9.96.12}{9.5.11.12}{7.4.8.2}{855, 819, 8545} यथा᳚¦अप॑वथाः¦मन॑वे¦व॒यः॒ऽधाः¦अ॒मि॒त्र॒ऽहा¦व॒रि॒वः॒ऽवित्¦ह॒विष्मा॑न् | |
पव॑स्व सोम॒ मधु॑माँ, ऋ॒तावा॒पो वसा᳚नो॒, अधि॒ सानो॒, अव्ये᳚ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} अव॒ द्रोणा᳚नि घृ॒तवा᳚न्ति सीद म॒दिन्त॑मो मत्स॒र इ᳚न्द्र॒पानः॑ ||{13/24}{9.96.13}{9.5.11.13}{7.4.8.3}{856, 819, 8546} पव॑स्व¦सो॒म॒¦मधु॑ऽमान्¦ऋ॒तऽवा᳚¦अ॒पः¦वसा᳚नः¦अधि॑¦सानौ᳚¦अव्ये᳚ | |
वृ॒ष्टिं दि॒वः श॒तधा᳚रः पवस्व सहस्र॒सा वा᳚ज॒युर्दे॒ववी᳚तौ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} सं सिन्धु॑भिः क॒लशे᳚ वावशा॒नः समु॒स्रिया᳚भिः प्रति॒रन्न॒ आयुः॑ ||{14/24}{9.96.14}{9.5.11.14}{7.4.8.4}{857, 819, 8547} वृ॒ष्टिम्¦दि॒वः¦श॒तऽधा᳚रः¦प॒व॒स्व॒¦स॒ह॒स्र॒ऽसाः¦वा॒ज॒ऽयुः¦दे॒वऽवी᳚तौ | |
ए॒ष स्य सोमो᳚ म॒तिभिः॑ पुना॒नोऽत्यो॒ न वा॒जी तर॒तीदरा᳚तीः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} पयो॒ न दु॒ग्धमदि॑तेरिषि॒रमु॒र्वि॑व गा॒तुः सु॒यमो॒ न वोळ्हा᳚ ||{15/24}{9.96.15}{9.5.11.15}{7.4.8.5}{858, 819, 8548} ए॒षः¦स्यः¦सोमः॑¦म॒तिऽभिः॑¦पु॒ना॒नः¦अत्यः॑¦न¦वा॒जी¦तर॑ति¦इत्¦अरा᳚तीः | |
स्वा॒यु॒धः सो॒तृभिः॑ पू॒यमा᳚नो॒ऽभ्य॑र्ष॒ गुह्यं॒ चारु॒ नाम॑ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} अ॒भि वाजं॒ सप्ति॑रिव श्रव॒स्याभि वा॒युम॒भि गा दे᳚व सोम ||{16/24}{9.96.16}{9.5.11.16}{7.4.9.1}{859, 819, 8549} सु॒ऽआ॒यु॒धः¦सो॒तृऽभिः॑¦पू॒यमा᳚नः¦अ॒भि¦अ॒र्ष॒¦गुह्य᳚म्¦चारु॑¦नाम॑ | |
शिशुं᳚ जज्ञा॒नं ह᳚र्य॒तं मृ॑जन्ति शु॒म्भन्ति॒ वह्निं᳚ म॒रुतो᳚ ग॒णेन॑ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} क॒विर्गी॒र्भिः काव्ये᳚ना क॒विः सन् त्सोमः॑ प॒वित्र॒मत्ये᳚ति॒ रेभ॑न् ||{17/24}{9.96.17}{9.5.11.17}{7.4.9.2}{860, 819, 8550} शिशु᳚म्¦ज॒ज्ञा॒नम्¦ह॒र्य॒तम्¦मृ॒ज॒न्ति॒¦शु॒म्भन्ति॑¦वह्नि᳚म्¦म॒रुतः॑¦ग॒णेन॑ | |
ऋषि॑मना॒ य ऋ॑षि॒कृत्स्व॒र्षाः स॒हस्र॑णीथः पद॒वीः क॑वी॒नाम् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} तृ॒तीयं॒ धाम॑ महि॒षः सिषा᳚स॒न् त्सोमो᳚ वि॒राज॒मनु॑ राजति॒ ष्टुप् ||{18/24}{9.96.18}{9.5.11.18}{7.4.9.3}{861, 819, 8551} ऋषि॑ऽमनाः¦यः¦ऋ॒षि॒ऽकृत्¦स्वः॒ऽसाः¦स॒हस्र॑ऽनीथः¦प॒द॒ऽवीः¦क॒वी॒नाम् | |
च॒मू॒षच्छ्ये॒नः श॑कु॒नो वि॒भृत्वा᳚ गोवि॒न्दुर्द्र॒प्स आयु॑धानि॒ बिभ्र॑त् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} अ॒पामू॒र्मिं सच॑मानः समु॒द्रं तु॒रीयं॒ धाम॑ महि॒षो वि॑वक्ति ||{19/24}{9.96.19}{9.5.11.19}{7.4.9.4}{862, 819, 8552} च॒मू॒ऽसत्¦श्ये॒नः¦श॒कु॒नः¦वि॒ऽभृत्वा᳚¦गो॒ऽवि॒न्दुः¦द्र॒प्सः¦आयु॑धानि¦बिभ्र॑त् | |
मर्यो॒ न शु॒भ्रस्त॒न्वं᳚ मृजा॒नोऽत्यो॒ न सृत्वा᳚ स॒नये॒ धना᳚नाम् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} वृषे᳚व यू॒था परि॒ कोश॒मर्ष॒न् कनि॑क्रदच्च॒म्वो॒३॑(ओ॒)रा वि॑वेश ||{20/24}{9.96.20}{9.5.11.20}{7.4.9.5}{863, 819, 8553} मर्यः॑¦न¦शु॒भ्रः¦त॒न्व᳚म्¦मृ॒जा॒नः¦अत्यः॑¦न¦सृत्वा᳚¦स॒नये᳚¦धना᳚नाम् | |
पव॑स्वेन्दो॒ पव॑मानो॒ महो᳚भिः॒ कनि॑क्रद॒त्परि॒ वारा᳚ण्यर्ष |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} क्रीळ᳚ञ्च॒म्वो॒३॑(ओ॒)रा वि॑श पू॒यमा᳚न॒ इन्द्रं᳚ ते॒ रसो᳚ मदि॒रो म॑मत्तु ||{21/24}{9.96.21}{9.5.11.21}{7.4.10.1}{864, 819, 8554} पव॑स्व¦इ॒न्दो॒ इति॑¦पव॑मानः¦महः॑ऽभिः¦कनि॑क्रदत्¦परि॑¦वारा᳚णि¦अ॒र्ष॒ | |
प्रास्य॒ धारा᳚ बृह॒तीर॑सृग्रन्न॒क्तो गोभिः॑ क॒लशाँ॒, आ वि॑वेश |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} साम॑ कृ॒ण्वन् त्सा᳚म॒न्यो᳚ विप॒श्चित्क्रन्द᳚न्नेत्य॒भि सख्यु॒र्न जा॒मिम् ||{22/24}{9.96.22}{9.5.11.22}{7.4.10.2}{865, 819, 8555} प्र¦अ॒स्य॒¦धाराः᳚¦बृ॒ह॒तीः¦अ॒सृ॒ग्र॒न्¦अ॒क्तः¦गोभिः॑¦क॒लशा᳚न्¦आ¦वि॒वे॒श॒ | |
अ॒प॒घ्नन्ने᳚षि पवमान॒ शत्रू᳚न् प्रि॒यां न जा॒रो, अ॒भिगी᳚त॒ इन्दुः॑ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} सीद॒न्वने᳚षु शकु॒नो न पत्वा॒ सोमः॑ पुना॒नः क॒लशे᳚षु॒ सत्ता᳚ ||{23/24}{9.96.23}{9.5.11.23}{7.4.10.3}{866, 819, 8556} अ॒प॒ऽघ्नन्¦ए॒षि॒¦प॒व॒मा॒न॒¦शत्रू᳚न्¦प्रि॒याम्¦न¦जा॒रः¦अ॒भिऽगी᳚तः¦इन्दुः॑ | |
आ ते॒ रुचः॒ पव॑मानस्य सोम॒ योषे᳚व यन्ति सु॒दुघाः᳚ सुधा॒राः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} हरि॒रानी᳚तः पुरु॒वारो᳚, अ॒प्स्वचि॑क्रदत्क॒लशे᳚ देवयू॒नाम् ||{24/24}{9.96.24}{9.5.11.24}{7.4.10.4}{867, 819, 8557} आ¦ते॒¦रुचः॑¦पव॑मानस्य¦सो॒म॒¦योषा᳚ऽइव¦य॒न्ति॒¦सु॒ऽदुघाः᳚¦सु॒ऽधा॒राः | |
[97] अस्यप्रेपेत्यष्टपंचाशदृचस्य सूक्तस्याद्यानांतिसृणांमैत्रावरुणिर्वसिष्ठः चतुर्थ्यादितिसृणांवासिष्ठइंद्रप्रमतिः सप्तम्यादितिसृणांवासिष्ठोवृषगणः दशम्यादितिसृणांवासिष्टोमन्युः त्रयोदश्यादितिसृणां वासिष्ठ उपमन्युः षोडश्यादितिसृणांवासिष्ठोव्याघ्रपादः एकोनविंश्यादितिसृणां वासिष्ठःशक्तिः द्वाविंश्यादितिसृणां वासिष्ठःकर्णश्रुतः पंचविंश्यादितिसृणां वासिष्ठो मृळीकः अष्टविंश्यादितिसृणां वासिष्ठोवसुक्र एकत्रिंश्यादि चतुर्दशानां शाक्त्यः पराशरः पंचचत्वारिंश्यादिचतुर्दशानामांगिरसः कुत्स ऋषयः पवमानसोमस्त्रिष्टुप् | |
अ॒स्य प्रे॒षा हे॒मना᳚ पू॒यमा᳚नो दे॒वो दे॒वेभिः॒ सम॑पृक्त॒ रस᳚म् |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} सु॒तः प॒वित्रं॒ पर्ये᳚ति॒ रेभ᳚न्मि॒तेव॒ सद्म॑ पशु॒मान्ति॒ होता᳚ ||{1/58}{9.97.1}{9.6.1.1}{7.4.11.1}{868, 820, 8558} अ॒स्य¦प्रे॒षा¦हे॒मना᳚¦पू॒यमा᳚नः¦दे॒वः¦दे॒वेभिः॑¦सम्¦अ॒पृ॒क्त॒¦रस᳚म् | |
भ॒द्रा वस्त्रा᳚ सम॒न्या॒३॑(आ॒) वसा᳚नो म॒हान् क॒विर्नि॒वच॑नानि॒ शंस॑न् |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} आ व॑च्यस्व च॒म्वोः᳚ पू॒यमा᳚नो विचक्ष॒णो जागृ॑विर्दे॒ववी᳚तौ ||{2/58}{9.97.2}{9.6.1.2}{7.4.11.2}{869, 820, 8559} भ॒द्रा¦वस्त्रा᳚¦स॒म॒न्या᳚¦वसा᳚नः¦म॒हान्¦क॒विः¦नि॒ऽवच॑नानि¦शं॒स॒न् | |
समु॑ प्रि॒यो मृ॑ज्यते॒ सानो॒, अव्ये᳚ य॒शस्त॑रो य॒शसां॒ क्षैतो᳚, अ॒स्मे |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} अ॒भि स्व॑र॒ धन्वा᳚ पू॒यमा᳚नो यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{3/58}{9.97.3}{9.6.1.3}{7.4.11.3}{870, 820, 8560} सम्¦ऊँ॒ इति॑¦प्रि॒यः¦मृ॒ज्य॒ते॒¦सानौ᳚¦अव्ये᳚¦य॒शःऽत॑रः¦य॒शसा᳚म्¦क्षैतः॑¦अ॒स्मे इति॑ | |
प्र गा᳚यता॒भ्य॑र्चाम दे॒वान् त्सोमं᳚ हिनोत मह॒ते धना᳚य |{वासिष्ठइंद्रप्रमतिः | पवमानः सोमः | त्रिष्टुप्} स्वा॒दुः प॑वाते॒, अति॒ वार॒मव्य॒मा सी᳚दाति क॒लशं᳚ देव॒युर्नः॑ ||{4/58}{9.97.4}{9.6.1.4}{7.4.11.4}{871, 820, 8561} प्र¦गा॒य॒त॒¦अ॒भि¦अ॒र्चा॒म॒¦दे॒वान्¦सोम᳚म्¦हि॒नो॒त॒¦म॒ह॒ते¦धना᳚य | |
इन्दु॑र्दे॒वाना॒मुप॑ स॒ख्यमा॒यन् त्स॒हस्र॑धारः पवते॒ मदा᳚य |{वासिष्ठइंद्रप्रमतिः | पवमानः सोमः | त्रिष्टुप्} नृभिः॒ स्तवा᳚नो॒, अनु॒ धाम॒ पूर्व॒मग॒न्निन्द्रं᳚ मह॒ते सौभ॑गाय ||{5/58}{9.97.5}{9.6.1.5}{7.4.11.5}{872, 820, 8562} इन्दुः॑¦दे॒वाना᳚म्¦उप॑¦स॒ख्यम्¦आ॒ऽयन्¦स॒हस्र॑ऽधारः¦प॒व॒ते॒¦मदा᳚य | |
स्तो॒त्रे रा॒ये हरि॑रर्षा पुना॒न इन्द्रं॒ मदो᳚ गच्छतु ते॒ भरा᳚य |{वासिष्ठइंद्रप्रमतिः | पवमानः सोमः | त्रिष्टुप्} दे॒वैर्या᳚हि स॒रथं॒ राधो॒, अच्छा᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/58}{9.97.6}{9.6.1.6}{7.4.12.1}{873, 820, 8563} स्तो॒त्रे¦रा॒ये¦हरिः॑¦अ॒र्ष॒¦पु॒ना॒नः¦इन्द्र᳚म्¦मदः॑¦ग॒च्छ॒तु॒¦ते॒¦भरा᳚य | |
प्र काव्य॑मु॒शने᳚व ब्रुवा॒णो दे॒वो दे॒वानां॒ जनि॑मा विवक्ति |{वासिष्ठो वृषगणः | पवमानः सोमः | त्रिष्टुप्} महि᳚व्रतः॒ शुचि॑बन्धुः पाव॒कः प॒दा व॑रा॒हो, अ॒भ्ये᳚ति॒ रेभ॑न् ||{7/58}{9.97.7}{9.6.1.7}{7.4.12.2}{874, 820, 8564} प्र¦काव्य᳚म्¦उ॒शना᳚ऽइव¦ब्रु॒वा॒णः¦दे॒वः¦दे॒वाना᳚म्¦जनि॑म¦वि॒व॒क्ति॒ | |
प्र हं॒सास॑स्तृ॒पलं᳚ म॒न्युमच्छा॒मादस्तं॒ वृष॑गणा, अयासुः |{वासिष्ठो वृषगणः | पवमानः सोमः | त्रिष्टुप्} आ॒ङ्गू॒ष्य१॑(अं॒) पव॑मानं॒ सखा᳚यो दु॒र्मर्षं᳚ सा॒कं प्र व॑दन्ति वा॒णम् ||{8/58}{9.97.8}{9.6.1.8}{7.4.12.3}{875, 820, 8565} प्र¦हं॒सासः॑¦तृ॒पल᳚म्¦म॒न्युम्¦अच्छ॑¦अ॒मात्¦अस्त᳚म्¦वृष॑ऽगणाः¦अ॒या॒सुः॒ | |
स रं᳚हत उरुगा॒यस्य॑ जू॒तिं वृथा॒ क्रीळ᳚न्तं मिमते॒ न गावः॑ |{वासिष्ठो वृषगणः | पवमानः सोमः | त्रिष्टुप्} प॒री॒ण॒सं कृ॑णुते ति॒ग्मशृ᳚ङ्गो॒ दिवा॒ हरि॒र्ददृ॑शे॒ नक्त॑मृ॒ज्रः ||{9/58}{9.97.9}{9.6.1.9}{7.4.12.4}{876, 820, 8566} सः¦रं॒ह॒ते॒¦उ॒रु॒ऽगा॒यस्य॑¦जू॒तिम्¦वृथा᳚¦क्रीळ᳚न्तम्¦मि॒म॒ते॒¦न¦गावः॑ | |
इन्दु᳚र्वा॒जी प॑वते॒ गोन्यो᳚घा॒, इन्द्रे॒ सोमः॒ सह॒ इन्व॒न्मदा᳚य |{वासिष्टो मन्युः | पवमानः सोमः | त्रिष्टुप्} हन्ति॒ रक्षो॒ बाध॑ते॒ पर्यरा᳚ती॒र्वरि॑वः कृ॒ण्वन् वृ॒जन॑स्य॒ राजा᳚ ||{10/58}{9.97.10}{9.6.1.10}{7.4.12.5}{877, 820, 8567} इन्दुः॑¦वा॒जी¦प॒व॒ते॒¦गोऽन्यो᳚घाः¦इन्द्रे᳚¦सोमः॑¦सह॑¦इन्व॑न्¦मदा᳚य | |
अध॒ धार॑या॒ मध्वा᳚ पृचा॒नस्ति॒रो रोम॑ पवते॒, अद्रि॑दुग्धः |{वासिष्टो मन्युः | पवमानः सोमः | त्रिष्टुप्} इन्दु॒रिन्द्र॑स्य स॒ख्यं जु॑षा॒णो दे॒वो दे॒वस्य॑ मत्स॒रो मदा᳚य ||{11/58}{9.97.11}{9.6.1.11}{7.4.13.1}{878, 820, 8568} अध॑¦धार॑या¦मध्वा᳚¦पृ॒चा॒नः¦ति॒रः¦रोम॑¦प॒व॒ते॒¦अद्रि॑ऽदुग्धः | |
अ॒भि प्रि॒याणि॑ पवते पुना॒नो दे॒वो दे॒वान् त्स्वेन॒ रसे᳚न पृ॒ञ्चन् |{वासिष्टो मन्युः | पवमानः सोमः | त्रिष्टुप्} इन्दु॒र्धर्मा᳚ण्यृतु॒था वसा᳚नो॒ दश॒ क्षिपो᳚, अव्यत॒ सानो॒, अव्ये᳚ ||{12/58}{9.97.12}{9.6.1.12}{7.4.13.2}{879, 820, 8569} अ॒भि¦प्रि॒याणि॑¦प॒व॒ते॒¦पु॒ना॒नः¦दे॒वः¦दे॒वान्¦स्वेन॑¦रसे᳚न¦पृं॒चन् | |
वृषा॒ शोणो᳚, अभि॒कनि॑क्रद॒द्गा न॒दय᳚न्नेति पृथि॒वीमु॒त द्याम् |{वासिष्ठ उपमन्युः | पवमानः सोमः | त्रिष्टुप्} इन्द्र॑स्येव व॒ग्नुरा शृ᳚ण्व आ॒जौ प्र॑चे॒तय᳚न्नर्षति॒ वाच॒मेमाम् ||{13/58}{9.97.13}{9.6.1.13}{7.4.13.3}{880, 820, 8570} वृषा᳚¦शोणः॑¦अ॒भि॒ऽकनि॑क्रदत्¦गाः¦न॒दय॑न्¦ए॒ति॒¦पृ॒थि॒वीम्¦उ॒त¦द्याम् | |
र॒साय्यः॒ पय॑सा॒ पिन्व॑मान ई॒रय᳚न्नेषि॒ मधु॑मन्तमं॒शुम् |{वासिष्ठ उपमन्युः | पवमानः सोमः | त्रिष्टुप्} पव॑मानः संत॒निमे᳚षि कृ॒ण्वन्निन्द्रा᳚य सोम परिषि॒च्यमा᳚नः ||{14/58}{9.97.14}{9.6.1.14}{7.4.13.4}{881, 820, 8571} र॒साय्यः॑¦पय॑सा¦पिन्व॑मानः¦ई॒रय॑न्¦ए॒षि॒¦मधु॑ऽमन्तम्¦अं॒शुम् | |
ए॒वा प॑वस्व मदि॒रो मदा᳚योदग्रा॒भस्य॑ न॒मय᳚न्वध॒स्नैः |{वासिष्ठ उपमन्युः | पवमानः सोमः | त्रिष्टुप्} परि॒ वर्णं॒ भर॑माणो॒ रुश᳚न्तं ग॒व्युर्नो᳚, अर्ष॒ परि॑ सोम सि॒क्तः ||{15/58}{9.97.15}{9.6.1.15}{7.4.13.5}{882, 820, 8572} ए॒व¦प॒व॒स्व॒¦म॒दि॒रः¦मदा᳚य¦उ॒द॒ऽग्रा॒भस्य॑¦न॒मय॑न्¦व॒ध॒ऽस्नैः | |
जु॒ष्ट्वी न॑ इन्दो सु॒पथा᳚ सु॒गान्यु॒रौ प॑वस्व॒ वरि॑वांसि कृ॒ण्वन् |{वासिष्ठो व्याघ्रपादः | पवमानः सोमः | त्रिष्टुप्} घ॒नेव॒ विष्व॑ग्दुरि॒तानि॑ वि॒घ्नन्नधि॒ ष्णुना᳚ धन्व॒ सानो॒, अव्ये᳚ ||{16/58}{9.97.16}{9.6.1.16}{7.4.14.1}{883, 820, 8573} जु॒ष्ट्वी¦नः॒¦इ॒न्दो॒ इति॑¦सु॒ऽपथा᳚¦सु॒ऽगानि॑¦उ॒रौ¦प॒व॒स्व॒¦वरि॑वांसि¦कृ॒ण्वन् | |
वृ॒ष्टिं नो᳚, अर्ष दि॒व्यां जि॑ग॒त्नुमिळा᳚वतीं शं॒गयीं᳚ जी॒रदा᳚नुम् |{वासिष्ठो व्याघ्रपादः | पवमानः सोमः | त्रिष्टुप्} स्तुके᳚व वी॒ता ध᳚न्वा विचि॒न्वन् बन्धूँ᳚रि॒माँ, अव॑राँ, इन्दो वा॒यून् ||{17/58}{9.97.17}{9.6.1.17}{7.4.14.2}{884, 820, 8574} वृ॒ष्टिम्¦नः॒¦अ॒र्ष॒¦दि॒व्याम्¦जि॒ग॒त्नुम्¦इळा᳚ऽवतीम्¦श॒म्ऽगयी᳚म्¦जी॒रऽदा᳚नुम् | |
ग्र॒न्थिं न वि ष्य॑ ग्रथि॒तं पु॑ना॒न ऋ॒जुं च॑ गा॒तुं वृ॑जि॒नं च॑ सोम |{वासिष्ठो व्याघ्रपादः | पवमानः सोमः | त्रिष्टुप्} अत्यो॒ न क्र॑दो॒ हरि॒रा सृ॑जा॒नो मर्यो᳚ देव धन्व प॒स्त्या᳚वान् ||{18/58}{9.97.18}{9.6.1.18}{7.4.14.3}{885, 820, 8575} ग्र॒न्थिम्¦न¦वि¦स्य॒¦ग्र॒थि॒तम्¦पु॒ना॒नः¦ऋ॒जुम्¦च॒¦गा॒तुम्¦वृ॒जि॒नम्¦च॒¦सो॒म॒ | |
जुष्टो॒ मदा᳚य दे॒वता᳚त इन्दो॒ परि॒ ष्णुना᳚ धन्व॒ सानो॒, अव्ये᳚ |{वासिष्ठःशक्तिः | पवमानः सोमः | त्रिष्टुप्} स॒हस्र॑धारः सुर॒भिरद॑ब्धः॒ परि॑ स्रव॒ वाज॑सातौ नृ॒षह्ये᳚ ||{19/58}{9.97.19}{9.6.1.19}{7.4.14.4}{886, 820, 8576} जुष्टः॑¦मदा᳚य¦दे॒वऽता᳚ते¦इ॒न्दो॒ इति॑¦परि॑¦स्नुना᳚¦ध॒न्व॒¦सानौ᳚¦अव्ये᳚ | |
अ॒र॒श्मानो॒ ये᳚ऽर॒था, अयु॑क्ता॒, अत्या᳚सो॒ न स॑सृजा॒नास॑ आ॒जौ |{वासिष्ठःशक्तिः | पवमानः सोमः | त्रिष्टुप्} ए॒ते शु॒क्रासो᳚ धन्वन्ति॒ सोमा॒ देवा᳚स॒स्ताँ, उप॑ याता॒ पिब॑ध्यै ||{20/58}{9.97.20}{9.6.1.20}{7.4.14.5}{887, 820, 8577} अ॒र॒श्मानः॑¦ये¦अ॒र॒थाः¦अयु॑क्ताः¦अत्या᳚सः¦न¦स॒सृ॒जा॒नासः॑¦आ॒जौ | |
ए॒वा न॑ इन्दो, अ॒भि दे॒ववी᳚तिं॒ परि॑ स्रव॒ नभो॒, अर्ण॑श्च॒मूषु॑ |{वासिष्ठःशक्तिः | पवमानः सोमः | त्रिष्टुप्} सोमो᳚, अ॒स्मभ्यं॒ काम्यं᳚ बृ॒हन्तं᳚ र॒यिं द॑दातु वी॒रव᳚न्तमु॒ग्रम् ||{21/58}{9.97.21}{9.6.1.21}{7.4.15.1}{888, 820, 8578} ए॒व¦नः॒¦इ॒न्दो॒¦अ॒भि¦दे॒वऽवी᳚तिम्¦परि॑¦स्र॒व॒¦नभः॑¦अर्णः॑¦च॒मूषु॑ | |
तक्ष॒द्यदी॒ मन॑सो॒ वेन॑तो॒ वाग्ज्येष्ठ॑स्य वा॒ धर्म॑णि॒ क्षोरनी᳚के |{वासिष्ठःकर्णश्रुतः | पवमानः सोमः | त्रिष्टुप्} आदी᳚माय॒न्वर॒मा वा᳚वशा॒ना जुष्टं॒ पतिं᳚ क॒लशे॒ गाव॒ इन्दु᳚म् ||{22/58}{9.97.22}{9.6.1.22}{7.4.15.2}{889, 820, 8579} तक्ष॑त्¦यदि॑¦मन॑सः¦वेन॑तः¦वाक्¦ज्येष्ठ॑स्य¦वा॒¦धर्म॑णि¦क्षोः¦अनी᳚के | |
प्र दा᳚नु॒दो दि॒व्यो दा᳚नुपि॒न्व ऋ॒तमृ॒ताय॑ पवते सुमे॒धाः |{वासिष्ठःकर्णश्रुतः | पवमानः सोमः | त्रिष्टुप्} ध॒र्मा भु॑वद्वृज॒न्य॑स्य॒ राजा॒ प्र र॒श्मिभि॑र्द॒शभि॑र्भारि॒ भूम॑ ||{23/58}{9.97.23}{9.6.1.23}{7.4.15.3}{890, 820, 8580} प्र¦दा॒नु॒ऽदः¦दि॒व्यः¦दा॒नु॒ऽपि॒न्वः¦ऋ॒तम्¦ऋ॒ताय॑¦प॒व॒ते॒¦सु॒ऽमे॒धाः | |
प॒वित्रे᳚भिः॒ पव॑मानो नृ॒चक्षा॒ राजा᳚ दे॒वाना᳚मु॒त मर्त्या᳚नाम् |{वासिष्ठःकर्णश्रुतः | पवमानः सोमः | त्रिष्टुप्} द्वि॒ता भु॑वद्रयि॒पती᳚ रयी॒णामृ॒तं भ॑र॒त्सुभृ॑तं॒ चार्विन्दुः॑ ||{24/58}{9.97.24}{9.6.1.24}{7.4.15.4}{891, 820, 8581} प॒वित्रे᳚भिः¦पव॑मानः¦नृ॒ऽचक्षाः᳚¦राजा᳚¦दे॒वाना᳚म्¦उ॒त¦मर्त्या᳚नाम् | |
अर्वाँ᳚, इव॒ श्रव॑से सा॒तिमच्छेन्द्र॑स्य वा॒योर॒भि वी॒तिम॑र्ष |{वासिष्ठो मृळीकः | पवमानः सोमः | त्रिष्टुप्} स नः॑ स॒हस्रा᳚ बृह॒तीरिषो᳚ दा॒ भवा᳚ सोम द्रविणो॒वित्पु॑ना॒नः ||{25/58}{9.97.25}{9.6.1.25}{7.4.15.5}{892, 820, 8582} अर्वा᳚न्ऽइव¦श्रव॑से¦सा॒तिम्¦अच्छ॑¦इन्द्र॑स्य¦वा॒योः¦अ॒भि¦वी॒तिम्¦अ॒र्ष॒ | |
दे॒वा॒व्यो᳚ नः परिषि॒च्यमा᳚नाः॒, क्षयं᳚ सु॒वीरं᳚ धन्वन्तु॒ सोमाः᳚ |{वासिष्ठो मृळीकः | पवमानः सोमः | त्रिष्टुप्} आ॒य॒ज्यवः॑ सुम॒तिं वि॒श्ववा᳚रा॒ होता᳚रो॒ न दि॑वि॒यजो᳚ म॒न्द्रत॑माः ||{26/58}{9.97.26}{9.6.1.26}{7.4.16.1}{893, 820, 8583} दे॒व॒।आ॒व्यः॑¦नः॒¦प॒रि॒ऽसि॒च्यमा᳚नाः¦क्षय᳚म्¦सु॒ऽवीर᳚म्¦ध॒न्व॒न्तु॒¦सोमाः᳚ | |
ए॒वा दे᳚व दे॒वता᳚ते पवस्व म॒हे सो᳚म॒ प्सर॑से देव॒पानः॑ |{वासिष्ठो मृळीकः | पवमानः सोमः | त्रिष्टुप्} म॒हश्चि॒द्धि ष्मसि॑ हि॒ताः स॑म॒र्ये कृ॒धि सु॑ष्ठा॒ने रोद॑सी पुना॒नः ||{27/58}{9.97.27}{9.6.1.27}{7.4.16.2}{894, 820, 8584} ए॒व¦दे॒व॒¦दे॒वऽता᳚ते¦प॒व॒स्व॒¦म॒हे¦सो॒म॒¦प्सर॑से¦दे॒व॒ऽपानः॑ | |
अश्वो॒ नो क्र॑दो॒ वृष॑भिर्युजा॒नः सिं॒हो न भी॒मो मन॑सो॒ जवी᳚यान् |{वासिष्ठो वसुक्रः | पवमानः सोमः | त्रिष्टुप्} अ॒र्वा॒चीनैः᳚ प॒थिभि॒र्ये रजि॑ष्ठा॒, आ प॑वस्व सौमन॒सं न॑ इन्दो ||{28/58}{9.97.28}{9.6.1.28}{7.4.16.3}{895, 820, 8585} अश्वः॑¦न¦क्र॒दः॒¦वृष॑ऽभिः¦यु॒जा॒नः¦सिं॒हः¦न¦भी॒मः¦मन॑सः¦जवी᳚यान् | |
श॒तं धारा᳚ दे॒वजा᳚ता, असृग्रन् त्स॒हस्र॑मेनाः क॒वयो᳚ मृजन्ति |{वासिष्ठो वसुक्रः | पवमानः सोमः | त्रिष्टुप्} इन्दो᳚ स॒नित्रं᳚ दि॒व आ प॑वस्व पुरए॒तासि॑ मह॒तो धन॑स्य ||{29/58}{9.97.29}{9.6.1.29}{7.4.16.4}{896, 820, 8586} श॒तम्¦धाराः᳚¦दे॒वऽजा᳚ताः¦अ॒सृ॒ग्र॒न्¦स॒हस्र᳚म्¦ए॒नाः॒¦क॒वयः॑¦मृ॒ज॒न्ति॒ | |
दि॒वो न सर्गा᳚, अससृग्र॒मह्नां॒ राजा॒ न मि॒त्रं प्र मि॑नाति॒ धीरः॑ |{वासिष्ठो वसुक्रः | पवमानः सोमः | त्रिष्टुप्} पि॒तुर्न पु॒त्रः क्रतु॑भिर्यता॒न आ प॑वस्व वि॒शे, अ॒स्या, अजी᳚तिम् ||{30/58}{9.97.30}{9.6.1.30}{7.4.16.5}{897, 820, 8587} दि॒वः¦न¦सर्गाः᳚¦अ॒स॒सृ॒ग्र॒म्¦अह्ना᳚म्¦राजा᳚¦न¦मि॒त्रम्¦प्र¦मि॒ना॒ति॒¦धीरः॑ | |
प्र ते॒ धारा॒ मधु॑मतीरसृग्र॒न्वारा॒न्यत्पू॒तो, अ॒त्येष्यव्या॑न् |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} पव॑मान॒ पव॑से॒ धाम॒ गोनां᳚ जज्ञा॒नः सूर्य॑मपिन्वो, अ॒र्कैः ||{31/58}{9.97.31}{9.6.1.31}{7.4.17.1}{898, 820, 8588} प्र¦ते॒¦धाराः᳚¦मधु॑ऽमतीः¦अ॒सृ॒ग्र॒न्¦वारा᳚न्¦यत्¦पू॒तः¦अ॒ति॒ऽएषि॑¦अव्या॑न् | |
कनि॑क्रद॒दनु॒ पन्था᳚मृ॒तस्य॑ शु॒क्रो वि भा᳚स्य॒मृत॑स्य॒ धाम॑ |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} स इन्द्रा᳚य पवसे मत्स॒रवा᳚न्हिन्वा॒नो वाचं᳚ म॒तिभिः॑ कवी॒नाम् ||{32/58}{9.97.32}{9.6.1.32}{7.4.17.2}{899, 820, 8589} कनि॑क्रदत्¦अनु॑¦पन्था᳚म्¦ऋ॒तस्य॑¦शु॒क्रः¦वि¦भा॒सि॒¦अ॒मृत॑स्य¦धाम॑ | |
दि॒व्यः सु॑प॒र्णोऽव॑ चक्षि सोम॒ पिन्व॒न्धाराः॒ कर्म॑णा दे॒ववी᳚तौ |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} एन्दो᳚ विश क॒लशं᳚ सोम॒धानं॒ क्रन्द᳚न्निहि॒ सूर्य॒स्योप॑ र॒श्मिम् ||{33/58}{9.97.33}{9.6.1.33}{7.4.17.3}{900, 820, 8590} दि॒व्यः¦सु॒ऽप॒र्णः¦अव॑¦च॒क्षि॒¦सो॒म॒¦पिन्व॑न्¦धाराः᳚¦कर्म॑णा¦दे॒वऽवी᳚तौ | |
ति॒स्रो वाच॑ ईरयति॒ प्र वह्नि᳚रृ॒तस्य॑ धी॒तिं ब्रह्म॑णो मनी॒षाम् |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} गावो᳚ यन्ति॒ गोप॑तिं पृ॒च्छमा᳚नाः॒ सोमं᳚ यन्ति म॒तयो᳚ वावशा॒नाः ||{34/58}{9.97.34}{9.6.1.34}{7.4.17.4}{901, 820, 8591} ति॒स्रः¦वाचः॑¦ई॒र॒य॒ति॒¦प्र¦वह्निः॑¦ऋ॒तस्य॑¦धी॒तिम्¦ब्रह्म॑णः¦म॒नी॒षाम् | |
सोमं॒ गावो᳚ धे॒नवो᳚ वावशा॒नाः सोमं॒ विप्रा᳚ म॒तिभिः॑ पृ॒च्छमा᳚नाः |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} सोमः॑ सु॒तः पू᳚यते, अ॒ज्यमा᳚नः॒ सोमे᳚, अ॒र्कास्त्रि॒ष्टुभः॒ सं न॑वन्ते ||{35/58}{9.97.35}{9.6.1.35}{7.4.17.5}{902, 820, 8592} सोम᳚म्¦गावः॑¦धे॒नवः॑¦वा॒व॒शा॒नाः¦सोम᳚म्¦विप्राः᳚¦म॒तिऽभिः॑¦पृ॒च्छमा᳚नाः | |
ए॒वा नः॑ सोम परिषि॒च्यमा᳚न॒ आ प॑वस्व पू॒यमा᳚नः स्व॒स्ति |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} इन्द्र॒मा वि॑श बृह॒ता रवे᳚ण व॒र्धया॒ वाचं᳚ ज॒नया॒ पुरं᳚धिम् ||{36/58}{9.97.36}{9.6.1.36}{7.4.18.1}{903, 820, 8593} ए॒व¦नः॒¦सो॒म॒¦प॒रि॒ऽसि॒च्यमा᳚नः¦आ¦प॒व॒स्व॒¦पू॒यमा᳚नः¦स्व॒स्ति | |
आ जागृ॑वि॒र्विप्र॑ ऋ॒ता म॑ती॒नां सोमः॑ पुना॒नो, अ॑सदच्च॒मूषु॑ |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} सप᳚न्ति॒ यं मि॑थु॒नासो॒ निका᳚मा, अध्व॒र्यवो᳚ रथि॒रासः॑ सु॒हस्ताः᳚ ||{37/58}{9.97.37}{9.6.1.37}{7.4.18.2}{904, 820, 8594} आ¦जागृ॑विः¦विप्रः॑¦ऋ॒ता¦म॒ती॒नाम्¦सोमः॑¦पु॒ना॒नः¦अ॒स॒द॒त्¦च॒मूषु॑ | |
स पु॑ना॒न उप॒ सूरे॒ न धातोभे, अ॑प्रा॒ रोद॑सी॒ वि ष आ᳚वः |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} प्रि॒या चि॒द्यस्य॑ प्रिय॒सास॑ ऊ॒ती स तू धनं᳚ का॒रिणे॒ न प्र यं᳚सत् ||{38/58}{9.97.38}{9.6.1.38}{7.4.18.3}{905, 820, 8595} सः¦पु॒ना॒नः¦उप॑¦सूरे᳚¦न¦धाता᳚¦आ¦उ॒भे इति॑¦अ॒प्राः॒¦रोद॑सी॒ इति॑¦वि¦सः¦आ॒व॒रित्या᳚वः | |
स व॑र्धि॒ता वर्ध॑नः पू॒यमा᳚नः॒ सोमो᳚ मी॒ढ्वाँ, अ॒भि नो॒ ज्योति॑षावीत् |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} येना᳚ नः॒ पूर्वे᳚ पि॒तरः॑ पद॒ज्ञाः स्व॒र्विदो᳚, अ॒भि गा, अद्रि॑मु॒ष्णन् ||{39/58}{9.97.39}{9.6.1.39}{7.4.18.4}{906, 820, 8596} सः¦व॒र्धि॒ता¦वर्ध॑नः¦पू॒यमा᳚नः¦सोमः॑¦मी॒ढ्वान्¦अ॒भि¦नः॒¦ज्योति॑षा¦आ॒वी॒त् | |
अक्रा᳚न् त्समु॒द्रः प्र॑थ॒मे विध᳚र्मञ्ज॒नय᳚न् प्र॒जा भुव॑नस्य॒ राजा᳚ |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} वृषा᳚ प॒वित्रे॒, अधि॒ सानो॒, अव्ये᳚ बृ॒हत्सोमो᳚ वावृधे सुवा॒न इन्दुः॑ ||{40/58}{9.97.40}{9.6.1.40}{7.4.18.5}{907, 820, 8597} अक्रा᳚न्¦स॒मु॒द्रः¦प्र॒थ॒मे¦विऽध᳚र्मन्¦ज॒नय॑न्¦प्र॒ऽजाः¦भुव॑नस्य¦राजा᳚ | |
म॒हत्तत्सोमो᳚ महि॒षश्च॑कारा॒पां यद्गर्भोऽवृ॑णीत दे॒वान् |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} अद॑धा॒दिन्द्रे॒ पव॑मान॒ ओजोऽज॑नय॒त्सूर्ये॒ ज्योति॒रिन्दुः॑ ||{41/58}{9.97.41}{9.6.1.41}{7.4.19.1}{908, 820, 8598} म॒हत्¦तत्¦सोमः॑¦म॒हि॒षः¦च॒का॒र॒¦अ॒पाम्¦यत्¦गर्भः॑¦अवृ॑णीत¦दे॒वान् | |
मत्सि॑ वा॒युमि॒ष्टये॒ राध॑से च॒ मत्सि॑ मि॒त्रावरु॑णा पू॒यमा᳚नः |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} मत्सि॒ शर्धो॒ मारु॑तं॒ मत्सि॑ दे॒वान् मत्सि॒ द्यावा᳚पृथि॒वी दे᳚व सोम ||{42/58}{9.97.42}{9.6.1.42}{7.4.19.2}{909, 820, 8599} मत्सि॑¦वा॒युम्¦इ॒ष्टये᳚¦राध॑से¦च॒¦मत्सि॑¦मि॒त्रावरु॑णा¦पू॒यमा᳚नः | |
ऋ॒जुः प॑वस्व वृजि॒नस्य॑ ह॒न्तापामी᳚वां॒ बाध॑मानो॒ मृध॑श्च |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} अ॒भि॒श्री॒णन् पयः॒ पय॑सा॒भि गोना॒मिन्द्र॑स्य॒ त्वं तव॑ व॒यं सखा᳚यः ||{43/58}{9.97.43}{9.6.1.43}{7.4.19.3}{910, 820, 8600} ऋ॒जुः¦प॒व॒स्व॒¦वृ॒जि॒नस्य॑¦ह॒न्ता¦अप॑¦अमी᳚वाम्¦बाध॑मानः¦मृधः॑¦च॒ | |
मध्वः॒ सूदं᳚ पवस्व॒ वस्व॒ उत्सं᳚ वी॒रं च॑ न॒ आ प॑वस्वा॒ भगं᳚ च |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} स्वद॒स्वेन्द्रा᳚य॒ पव॑मान इन्दो र॒यिं च॑ न॒ आ प॑वस्वा समु॒द्रात् ||{44/58}{9.97.44}{9.6.1.44}{7.4.19.4}{911, 820, 8601} मध्वः॑¦सूद᳚म्¦प॒व॒स्व॒¦वस्वः॑¦उत्स᳚म्¦वी॒रम्¦च॒¦नः॒¦आ¦प॒व॒स्व॒¦भग᳚म्¦च॒ | |
सोमः॑ सु॒तो धार॒यात्यो॒ न हित्वा॒ सिन्धु॒र्न नि॒म्नम॒भि वा॒ज्य॑क्षाः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} आ योनिं॒ वन्य॑मसदत्पुना॒नः समिन्दु॒र्गोभि॑रसर॒त्सम॒द्भिः ||{45/58}{9.97.45}{9.6.1.45}{7.4.19.5}{912, 820, 8602} सोमः॑¦सु॒तः¦धार॑या¦अत्यः॑¦न¦हित्वा᳚¦सिन्धुः॑¦न¦नि॒म्नम्¦अ॒भि¦वा॒जी¦अ॒क्षा॒रिति॑ | |
ए॒ष स्य ते᳚ पवत इन्द्र॒ सोम॑श्च॒मूषु॒ धीर॑ उश॒ते तव॑स्वान् |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} स्व॑र्चक्षा रथि॒रः स॒त्यशु॑ष्मः॒ कामो॒ न यो दे᳚वय॒तामस॑र्जि ||{46/58}{9.97.46}{9.6.1.46}{7.4.20.1}{913, 820, 8603} ए॒षः¦स्यः¦ते॒¦प॒व॒ते॒¦इ॒न्द्र॒¦सोमः॑¦च॒मूषु॑¦धीरः॑¦उ॒श॒ते¦तव॑स्वान् | |
ए॒ष प्र॒त्नेन॒ वय॑सा पुना॒नस्ति॒रो वर्पां᳚सि दुहि॒तुर्दधा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} वसा᳚नः॒ शर्म॑ त्रि॒वरू᳚थम॒प्सु होते᳚व याति॒ सम॑नेषु॒ रेभ॑न् ||{47/58}{9.97.47}{9.6.1.47}{7.4.20.2}{914, 820, 8604} ए॒षः¦प्र॒त्नेन॑¦वय॑सा¦पु॒ना॒नः¦ति॒रः¦वर्पां᳚सि¦दु॒हि॒तुः¦दधा᳚नः | |
नू न॒स्त्वं र॑थि॒रो दे᳚व सोम॒ परि॑ स्रव च॒म्वोः᳚ पू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} अ॒प्सु स्वादि॑ष्ठो॒ मधु॑माँ, ऋ॒तावा᳚ दे॒वो न यः स॑वि॒ता स॒त्यम᳚न्मा ||{48/58}{9.97.48}{9.6.1.48}{7.4.20.3}{915, 820, 8605} नु¦नः॒¦त्वम्¦र॒थि॒रः¦दे॒व॒¦सो॒म॒¦परि॑¦स्र॒व॒¦च॒म्वोः᳚¦पू॒यमा᳚नः | |
अ॒भि वा॒युं वी॒त्य॑र्षा गृणा॒नो॒३॑(ओ॒)ऽभि मि॒त्रावरु॑णा पू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} अ॒भी नरं᳚ धी॒जव॑नं रथे॒ष्ठाम॒भीन्द्रं॒ वृष॑णं॒ वज्र॑बाहुम् ||{49/58}{9.97.49}{9.6.1.49}{7.4.20.4}{916, 820, 8606} अ॒भि¦वा॒युम्¦वी॒ती¦अ॒र्ष॒¦गृ॒णा॒नः¦अ॒भि¦मि॒त्रावरु॑णा¦पू॒यमा᳚नः | |
अ॒भि वस्त्रा᳚ सुवस॒नान्य॑र्षा॒भि धे॒नूः सु॒दुघाः᳚ पू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} अ॒भि च॒न्द्रा भर्त॑वे नो॒ हिर᳚ण्या॒भ्यश्वा᳚न् र॒थिनो᳚ देव सोम ||{50/58}{9.97.50}{9.6.1.50}{7.4.20.5}{917, 820, 8607} अ॒भि¦वस्त्रा᳚¦सु॒ऽव॒स॒नानि॑¦अ॒र्ष॒¦अ॒भि¦धे॒नूः¦सु॒ऽदुघाः᳚¦पू॒यमा᳚नः | |
अ॒भी नो᳚, अर्ष दि॒व्या वसू᳚न्य॒भि विश्वा॒ पार्थि॑वा पू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} अ॒भि येन॒ द्रवि॑णम॒श्नवा᳚मा॒भ्या᳚र्षे॒यं ज॑मदग्नि॒वन्नः॑ ||{51/58}{9.97.51}{9.6.1.51}{7.4.21.1}{918, 820, 8608} अ॒भि¦नः॒¦अ॒र्ष॒¦दि॒व्या¦वसू᳚नि¦अ॒भि¦विश्वा᳚¦पार्थि॑वा¦पू॒यमा᳚नः | |
अ॒या प॒वा प॑वस्वै॒ना वसू᳚नि माँश्च॒त्व इ᳚न्दो॒ सर॑सि॒ प्र ध᳚न्व |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} ब्र॒ध्नश्चि॒दत्र॒ वातो॒ न जू॒तः पु॑रु॒मेध॑श्चि॒त्तक॑वे॒ नरं᳚ दात् ||{52/58}{9.97.52}{9.6.1.52}{7.4.21.2}{919, 820, 8609} अ॒या¦प॒वा¦प॒व॒स्व॒¦ए॒ना¦वसू᳚नि¦माँ॒श्च॒त्वे¦इ॒न्दो॒ इति॑¦सर॑सि¦प्र¦ध॒न्व॒ | |
उ॒त न॑ ए॒ना प॑व॒या प॑व॒स्वाधि॑ श्रु॒ते श्र॒वाय्य॑स्य ती॒र्थे |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} ष॒ष्टिं स॒हस्रा᳚ नैगु॒तो वसू᳚नि वृ॒क्षं न प॒क्वं धू᳚नव॒द्रणा᳚य ||{53/58}{9.97.53}{9.6.1.53}{7.4.21.3}{920, 820, 8610} उ॒त¦नः॒¦ए॒ना¦प॒व॒या¦प॒व॒स्व॒¦अधि॑¦श्रु॒ते¦श्र॒वाय्य॑स्य¦ती॒र्थे | |
मही॒मे, अ॑स्य॒ वृष॒नाम॑ शू॒षे माँश्च॑त्वे वा॒ पृश॑ने वा॒ वध॑त्रे |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} अस्वा᳚पयन्नि॒गुतः॑ स्ने॒हय॒च्चापा॒मित्राँ॒, अपा॒चितो᳚, अचे॒तः ||{54/58}{9.97.54}{9.6.1.54}{7.4.21.4}{921, 820, 8611} महि॑¦इ॒मे इति॑¦अ॒स्य॒¦वृष॒नाम॑¦शू॒षे इति॑¦माँश्च॑त्वे¦वा॒¦पृश॑ने¦वा॒¦वध॑त्रे॒ इति॑ | |
सं त्री प॒वित्रा॒ वित॑तान्ये॒ष्यन्वेकं᳚ धावसि पू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} असि॒ भगो॒, असि॑ दा॒त्रस्य॑ दा॒तासि॑ म॒घवा᳚ म॒घव॑द्भ्य इन्दो ||{55/58}{9.97.55}{9.6.1.55}{7.4.21.5}{922, 820, 8612} सम्¦त्री¦प॒वित्रा᳚¦विऽत॑तानि¦ए॒षि॒¦अनु॑¦एक᳚म्¦धा॒व॒सि॒¦पू॒यमा᳚नः | |
ए॒ष वि॑श्व॒वित्प॑वते मनी॒षी सोमो॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा᳚ |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} द्र॒प्साँ, ई॒रय᳚न् वि॒दथे॒ष्विन्दु॒र्वि वार॒मव्यं᳚ स॒मयाति॑ याति ||{56/58}{9.97.56}{9.6.1.56}{7.4.22.1}{923, 820, 8613} ए॒षः¦वि॒श्व॒ऽवित्¦प॒व॒ते॒¦म॒नी॒षी¦सोमः॑¦विश्व॑स्य¦भुव॑नस्य¦राजा᳚ | |
इन्दुं᳚ रिहन्ति महि॒षा, अद॑ब्धाः प॒दे रे᳚भन्ति क॒वयो॒ न गृध्राः᳚ |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} हि॒न्वन्ति॒ धीरा᳚ द॒शभिः॒, क्षिपा᳚भिः॒ सम᳚ञ्जते रू॒पम॒पां रसे᳚न ||{57/58}{9.97.57}{9.6.1.57}{7.4.22.2}{924, 820, 8614} इन्दु᳚म्¦रि॒ह॒न्ति॒¦म॒हि॒षाः¦अद॑ब्धाः¦प॒दे¦रे॒भ॒न्ति॒¦क॒वयः॑¦न¦गृध्राः᳚ | |
त्वया᳚ व॒यं पव॑मानेन सोम॒ भरे᳚ कृ॒तं वि चि॑नुयाम॒ शश्व॑त् |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{58/58}{9.97.58}{9.6.1.58}{7.4.22.3}{925, 820, 8615} त्वया᳚¦व॒यम्¦पव॑मानेन¦सो॒म॒¦भरे᳚¦कृ॒तम्¦वि¦चि॒नु॒या॒म॒¦शश्व॑त् | |
[98] अभिनइति द्वादशर्चस्य सूक्तस्यांबरीषऋजिश्वानौ पवमानसोमोनुष्टुबेकादशीबृहती | |
अ॒भि नो᳚ वाज॒सात॑मं र॒यिम॑र्ष पुरु॒स्पृह᳚म् |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} इन्दो᳚ स॒हस्र॑भर्णसं तुविद्यु॒म्नं वि॑भ्वा॒सह᳚म् ||{1/12}{9.98.1}{9.6.2.1}{7.4.23.1}{926, 821, 8616} अ॒भि¦नः॒¦वा॒ज॒ऽसात॑मम्¦र॒यिम्¦अ॒र्ष॒¦पु॒रु॒ऽस्पृह᳚म् | इन्दो॒ इति॑¦स॒हस्र॑ऽभर्णसम्¦तु॒वि॒ऽद्यु॒म्नम्¦वि॒भ्व॒ऽसह᳚म् || |
परि॒ ष्य सु॑वा॒नो, अ॒व्ययं॒ रथे॒ न वर्मा᳚व्यत |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} इन्दु॑र॒भि द्रुणा᳚ हि॒तो हि॑या॒नो धारा᳚भिरक्षाः ||{2/12}{9.98.2}{9.6.2.2}{7.4.23.2}{927, 821, 8617} परि॑¦स्यः¦सु॒वा॒नः¦अ॒व्यय᳚म्¦रथे᳚¦न¦वर्म॑¦अ॒व्य॒त॒ | इन्दुः॑¦अ॒भि¦द्रुणा᳚¦हि॒तः¦हि॒या॒नः¦धारा᳚भिः¦अ॒क्षा॒रिति॑ || |
परि॒ ष्य सु॑वा॒नो, अ॑क्षा॒, इन्दु॒रव्ये॒ मद॑च्युतः |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} धारा॒ य ऊ॒र्ध्वो, अ॑ध्व॒रे भ्रा॒जा नैति॑ गव्य॒युः ||{3/12}{9.98.3}{9.6.2.3}{7.4.23.3}{928, 821, 8618} परि॑¦स्यः¦सु॒वा॒नः¦अ॒क्षा॒रिति॑¦इन्दुः॑¦अव्ये᳚¦मद॑ऽच्युतः | धारा᳚¦यः¦ऊ॒र्ध्वः¦अ॒ध्व॒रे¦भ्रा॒जा¦न¦एति॑¦ग॒व्य॒ऽयुः || |
स हि त्वं दे᳚व॒ शश्व॑ते॒ वसु॒ मर्ता᳚य दा॒शुषे᳚ |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} इन्दो᳚ सह॒स्रिणं᳚ र॒यिं श॒तात्मा᳚नं विवाससि ||{4/12}{9.98.4}{9.6.2.4}{7.4.23.4}{929, 821, 8619} सः¦हि¦त्वम्¦दे॒व॒¦शश्व॑ते¦वसु॑¦मर्ता᳚य¦दा॒शुषे᳚ | इन्दो॒ इति॑¦स॒ह॒स्रिण᳚म्¦र॒यिम्¦श॒तऽआ᳚त्मानम्¦वि॒वा॒स॒सि॒ || |
व॒यं ते᳚, अ॒स्य वृ॑त्रह॒न्वसो॒ वस्वः॑ पुरु॒स्पृहः॑ |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} नि नेदि॑ष्ठतमा, इ॒षः स्याम॑ सु॒म्नस्या᳚ध्रिगो ||{5/12}{9.98.5}{9.6.2.5}{7.4.23.5}{930, 821, 8620} व॒यम्¦ते॒¦अ॒स्य¦वृ॒त्र॒ऽह॒न्¦वसो॒ इति॑¦वस्वः॑¦पु॒रु॒ऽस्पृहः॑ | नि¦नेदि॑ष्ठऽतमाः¦इ॒षः¦स्याम॑¦सु॒म्नस्य॑¦अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो || |
द्विर्यं पञ्च॒ स्वय॑शसं॒ स्वसा᳚रो॒, अद्रि॑संहतम् |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} प्रि॒यमिन्द्र॑स्य॒ काम्यं᳚ प्रस्ना॒पय᳚न्त्यू॒र्मिण᳚म् ||{6/12}{9.98.6}{9.6.2.6}{7.4.23.6}{931, 821, 8621} द्विः¦यम्¦पंच॑¦स्वऽय॑शसम्¦स्वसा᳚रः¦अद्रि॑ऽसंहतम् | प्रि॒यम्¦इन्द्र॑स्य¦काम्य᳚म्¦प्र॒ऽस्ना॒पय᳚न्ति¦ऊ॒र्मिण᳚म् || |
परि॒ त्यं ह᳚र्य॒तं हरिं᳚ ब॒भ्रुं पु॑नन्ति॒ वारे᳚ण |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} यो दे॒वान् विश्वाँ॒, इत्परि॒ मदे᳚न स॒ह गच्छ॑ति ||{7/12}{9.98.7}{9.6.2.7}{7.4.24.1}{932, 821, 8622} परि॑¦त्यम्¦ह॒र्य॒तम्¦हरि᳚म्¦ब॒भ्रुम्¦पु॒न॒न्ति॒¦वारे᳚ण | यः¦दे॒वान्¦विश्वा᳚न्¦इत्¦परि॑¦मदे᳚न¦स॒ह¦गच्छ॑ति || |
अ॒स्य वो॒ ह्यव॑सा॒ पान्तो᳚ दक्ष॒साध॑नम् |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} यः सू॒रिषु॒ श्रवो᳚ बृ॒हद्द॒धे स्व१॑(अ॒)र्ण ह᳚र्य॒तः ||{8/12}{9.98.8}{9.6.2.8}{7.4.24.2}{933, 821, 8623} अ॒स्य¦वः॒¦हि¦अव॑सा¦पान्तः॑¦द॒क्ष॒ऽसाध॑नम् | यः¦सू॒रिषु॑¦श्रवः॑¦बृ॒हत्¦द॒धे¦स्वः॑¦न¦ह॒र्य॒तः || |
स वां᳚ य॒ज्ञेषु॑ मानवी॒, इन्दु॑र्जनिष्ट रोदसी |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} दे॒वो दे᳚वी गिरि॒ष्ठा, अस्रे᳚ध॒न्तं तु॑वि॒ष्वणि॑ ||{9/12}{9.98.9}{9.6.2.9}{7.4.24.3}{934, 821, 8624} सः¦वा॒म्¦य॒ज्ञेषु॑¦मा॒न॒वी॒ इति॑¦इन्दुः॑¦ज॒नि॒ष्ट॒¦रो॒द॒सी॒ इति॑ | दे॒वः¦दे॒वी॒ इति॑¦गि॒रि॒ऽस्थाः¦अस्रे᳚धन्¦तम्¦तु॒वि॒ऽस्वनि॑ || |
इन्द्रा᳚य सोम॒ पात॑वे वृत्र॒घ्ने परि॑ षिच्यसे |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} नरे᳚ च॒ दक्षि॑णावते दे॒वाय॑ सदना॒सदे᳚ ||{10/12}{9.98.10}{9.6.2.10}{7.4.24.4}{935, 821, 8625} इन्द्रा᳚य¦सो॒म॒¦पात॑वे¦वृ॒त्र॒ऽघ्ने¦परि॑¦सि॒च्य॒से॒ | नरे᳚¦च॒¦दक्षि॑णाऽवते¦दे॒वाय॑¦स॒द॒न॒ऽसदे᳚ || |
ते प्र॒त्नासो॒ व्यु॑ष्टिषु॒ सोमाः᳚ प॒वित्रे᳚, अक्षरन् |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | बृहती} अ॒प॒प्रोथ᳚न्तः सनु॒तर्हु॑र॒श्चितः॑ प्रा॒तस्ताँ, अप्र॑चेतसः ||{11/12}{9.98.11}{9.6.2.11}{7.4.24.5}{936, 821, 8626} ते¦प्र॒त्नासः॑¦वि।औ᳚ष्टिषु¦सोमाः᳚¦प॒वित्रे᳚¦अ॒क्ष॒र॒न् | |
तं स॑खायः पुरो॒रुचं᳚ यू॒यं व॒यं च॑ सू॒रयः॑ |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} अ॒श्याम॒ वाज॑गन्ध्यं स॒नेम॒ वाज॑पस्त्यम् ||{12/12}{9.98.12}{9.6.2.12}{7.4.24.6}{937, 821, 8627} तम्¦स॒खा॒यः॒¦पु॒रः॒ऽरुच᳚म्¦यू॒यम्¦व॒यम्¦च॒¦सू॒रयः॑ | अ॒श्याम॑¦वाज॑ऽगन्ध्यम्¦स॒नेम॑¦वाज॑ऽपस्त्यम् || |
[99] आहर्यतायेत्यष्टर्चस्य सूक्तस्य काश्यपौ रेभसूनु पवमानसोमोनुष्ठुबाद्याबृहती | |
आ ह᳚र्य॒ताय॑ धृ॒ष्णवे॒ धनु॑स्तन्वन्ति॒ पौंस्य᳚म् |{काश्यपौ रेभसूनु | पवमानः सोमः | बृहती} शु॒क्रां व॑य॒न्त्यसु॑राय नि॒र्णिजं᳚ वि॒पामग्रे᳚ मही॒युवः॑ ||{1/8}{9.99.1}{9.6.3.1}{7.4.25.1}{938, 822, 8628} आ¦ह॒र्य॒ताय॑¦धृ॒ष्णवे᳚¦धनुः॑¦त॒न्व॒न्ति॒¦पौंस्य᳚म् | |
अध॑ क्ष॒पा परि॑ष्कृतो॒ वाजाँ᳚, अ॒भि प्र गा᳚हते |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} यदी᳚ वि॒वस्व॑तो॒ धियो॒ हरिं᳚ हि॒न्वन्ति॒ यात॑वे ||{2/8}{9.99.2}{9.6.3.2}{7.4.25.2}{939, 822, 8629} अध॑¦क्ष॒पा¦परि॑ऽकृतः¦वाजा᳚न्¦अ॒भि¦प्र¦गा॒ह॒ते॒ | यदि॑¦वि॒वस्व॑तः¦धियः॑¦हरि᳚म्¦हि॒न्वन्ति॑¦यात॑वे || |
तम॑स्य मर्जयामसि॒ मदो॒ य इ᳚न्द्र॒पात॑मः |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} यं गाव॑ आ॒सभि॑र्द॒धुः पु॒रा नू॒नं च॑ सू॒रयः॑ ||{3/8}{9.99.3}{9.6.3.3}{7.4.25.3}{940, 822, 8630} तम्¦अ॒स्य॒¦म॒र्ज॒या॒म॒सि॒¦मदः॑¦यः¦इ॒न्द्र॒ऽपात॑मः | यम्¦गावः॑¦आ॒सऽभिः॑¦द॒धुः¦पु॒रा¦नू॒नम्¦च॒¦सू॒रयः॑ || |
तं गाथ॑या पुरा॒ण्या पु॑ना॒नम॒भ्य॑नूषत |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} उ॒तो कृ॑पन्त धी॒तयो᳚ दे॒वानां॒ नाम॒ बिभ्र॑तीः ||{4/8}{9.99.4}{9.6.3.4}{7.4.25.4}{941, 822, 8631} तम्¦गाथ॑या¦पु॒रा॒ण्या¦पु॒ना॒नम्¦अ॒भि¦अ॒नू॒ष॒त॒ | उ॒तो इति॑¦कृ॒प॒न्त॒¦धी॒तयः॑¦दे॒वाना᳚म्¦नाम॑¦बिभ्र॑तीः || |
तमु॒क्षमा᳚णम॒व्यये॒ वारे᳚ पुनन्ति धर्ण॒सिम् |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} दू॒तं न पू॒र्वचि॑त्तय॒ आ शा᳚सते मनी॒षिणः॑ ||{5/8}{9.99.5}{9.6.3.5}{7.4.25.5}{942, 822, 8632} तम्¦उ॒क्षमा᳚णम्¦अ॒व्यये᳚¦वारे᳚¦पु॒न॒न्ति॒¦ध॒र्ण॒सिम् | दू॒तम्¦न¦पू॒र्वऽचि॑त्तये¦आ¦शा॒स॒ते॒¦म॒नी॒षिणः॑ || |
स पु॑ना॒नो म॒दिन्त॑मः॒ सोम॑श्च॒मूषु॑ सीदति |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} प॒शौ न रेत॑ आ॒दध॒त्पति᳚र्वचस्यते धि॒यः ||{6/8}{9.99.6}{9.6.3.6}{7.4.26.1}{943, 822, 8633} सः¦पु॒ना॒नः¦म॒दिन्ऽत॑मः¦सोमः॑¦च॒मूषु॑¦सी॒द॒ति॒ | प॒शौ¦न¦रेतः॑¦आ॒ऽदध॑त्¦पतिः॑¦व॒च॒स्य॒ते॒¦धि॒यः || |
स मृ॑ज्यते सु॒कर्म॑भिर्दे॒वो दे॒वेभ्यः॑ सु॒तः |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} वि॒दे यदा᳚सु संद॒दिर्म॒हीर॒पो वि गा᳚हते ||{7/8}{9.99.7}{9.6.3.7}{7.4.26.2}{944, 822, 8634} सः¦मृ॒ज्य॒ते॒¦सु॒कर्म॑ऽभिः¦दे॒वः¦दे॒वेभ्यः॑¦सु॒तः | वि॒दे¦यत्¦आ॒सु॒¦स॒म्ऽद॒दिः¦म॒हीः¦अ॒पः¦वि¦गा॒ह॒ते॒ || |
सु॒त इ᳚न्दो प॒वित्र॒ आ नृभि᳚र्य॒तो वि नी᳚यसे |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} इन्द्रा᳚य मत्स॒रिन्त॑मश्च॒मूष्वा नि षी᳚दसि ||{8/8}{9.99.8}{9.6.3.8}{7.4.26.3}{945, 822, 8635} सु॒तः¦इ॒न्दो॒ इति॑¦प॒वित्रे᳚¦आ¦नृऽभिः॑¦य॒तः¦वि¦नी॒य॒से॒ | इन्द्रा᳚य¦म॒त्स॒रिन्ऽत॑मः¦च॒मूषु॑¦आ¦नि¦सी॒द॒सि॒ || |
[100] अभीनवंतइति नवर्चस्य सूक्तस्य काश्यपौ रेभसूनू पवमान सोमोनुष्टुप् | |
अ॒भी न॑वन्ते, अ॒द्रुहः॑ प्रि॒यमिन्द्र॑स्य॒ काम्य᳚म् |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} व॒त्सं न पूर्व॒ आयु॑नि जा॒तं रि॑हन्ति मा॒तरः॑ ||{1/9}{9.100.1}{9.6.4.1}{7.4.27.1}{946, 823, 8636} अ॒भि¦न॒व॒न्ते॒¦अ॒द्रुहः॑¦प्रि॒यम्¦इन्द्र॑स्य¦काम्य᳚म् | व॒त्सम्¦न¦पूर्वे᳚¦आयु॑नि¦जा॒तम्¦रि॒ह॒न्ति॒¦मा॒तरः॑ || |
पु॒ना॒न इ᳚न्द॒वा भ॑र॒ सोम॑ द्वि॒बर्ह॑सं र॒यिम् |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} त्वं वसू᳚नि पुष्यसि॒ विश्वा᳚नि दा॒शुषो᳚ गृ॒हे ||{2/9}{9.100.2}{9.6.4.2}{7.4.27.2}{947, 823, 8637} पु॒ना॒नः¦इ॒न्दो॒ इति॑¦आ¦भ॒र॒¦सोम॑¦द्वि॒ऽबर्ह॑सम्¦र॒यिम् | त्वम्¦वसू᳚नि¦पु॒ष्य॒सि॒¦विश्वा᳚नि¦दा॒शुषः॑¦गृ॒हे || |
त्वं धियं᳚ मनो॒युजं᳚ सृ॒जा वृ॒ष्टिं न त᳚न्य॒तुः |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} त्वं वसू᳚नि॒ पार्थि॑वा दि॒व्या च॑ सोम पुष्यसि ||{3/9}{9.100.3}{9.6.4.3}{7.4.27.3}{948, 823, 8638} त्वम्¦धिय᳚म्¦म॒नः॒ऽयुज᳚म्¦सृ॒ज¦वृ॒ष्टिम्¦न¦त॒न्य॒तुः | त्वम्¦वसू᳚नि¦पार्थि॑वा¦दि॒व्या¦च॒¦सो॒म॒¦पु॒ष्य॒सि॒ || |
परि॑ ते जि॒ग्युषो᳚ यथा॒ धारा᳚ सु॒तस्य॑ धावति |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} रंह॑माणा॒ व्य१॑(अ॒)व्ययं॒ वारं᳚ वा॒जीव॑ सान॒सिः ||{4/9}{9.100.4}{9.6.4.4}{7.4.27.4}{949, 823, 8639} परि॑¦ते॒¦जि॒ग्युषः॑¦य॒था॒¦धारा᳚¦सु॒तस्य॑¦धा॒व॒ति॒ | रंह॑माणा¦वि¦अ॒व्यय᳚म्¦वार᳚म्¦वा॒जीऽइ᳚व¦सा॒न॒सिः || |
क्रत्वे॒ दक्षा᳚य नः कवे॒ पव॑स्व सोम॒ धार॑या |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} इन्द्रा᳚य॒ पात॑वे सु॒तो मि॒त्राय॒ वरु॑णाय च ||{5/9}{9.100.5}{9.6.4.5}{7.4.27.5}{950, 823, 8640} क्रत्वे᳚¦दक्षा᳚य¦नः॒¦क॒वे॒¦पव॑स्व¦सो॒म॒¦धार॑या | इन्द्रा᳚य¦पात॑वे¦सु॒तः¦मि॒त्राय॑¦वरु॑णाय¦च॒ || |
पव॑स्व वाज॒सात॑मः प॒वित्रे॒ धार॑या सु॒तः |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} इन्द्रा᳚य सोम॒ विष्ण॑वे दे॒वेभ्यो॒ मधु॑मत्तमः ||{6/9}{9.100.6}{9.6.4.6}{7.4.28.1}{951, 823, 8641} पव॑स्व¦वा॒ज॒ऽसात॑मः¦प॒वित्रे᳚¦धार॑या¦सु॒तः | इन्द्रा᳚य¦सो॒म॒¦विष्ण॑वे¦दे॒वेभ्यः॑¦मधु॑मत्ऽतमः || |
त्वां रि॑हन्ति मा॒तरो॒ हरिं᳚ प॒वित्रे᳚, अ॒द्रुहः॑ |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} व॒त्सं जा॒तं न धे॒नवः॒ पव॑मान॒ विध᳚र्मणि ||{7/9}{9.100.7}{9.6.4.7}{7.4.28.2}{952, 823, 8642} त्वाम्¦रि॒ह॒न्ति॒¦मा॒तरः॑¦हरि᳚म्¦प॒वित्रे᳚¦अ॒द्रुहः॑ | व॒त्सम्¦जा॒तम्¦न¦धे॒नवः॑¦पव॑मान¦विऽध᳚र्मणि || |
पव॑मान॒ महि॒ श्रव॑श्चि॒त्रेभि᳚र्यासि र॒श्मिभिः॑ |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} शर्ध॒न्तमां᳚सि जिघ्नसे॒ विश्वा᳚नि दा॒शुषो᳚ गृ॒हे ||{8/9}{9.100.8}{9.6.4.8}{7.4.28.3}{953, 823, 8643} पव॑मान¦महि॑¦श्रवः॑¦चि॒त्रेभिः॑¦या॒सि॒¦र॒श्मिऽभिः॑ | शर्ध॑न्¦तमां᳚सि¦जि॒घ्न॒से॒¦विश्वा᳚नि¦दा॒शुषः॑¦गृ॒हे || |
त्वं द्यां च॑ महिव्रत पृथि॒वीं चाति॑ जभ्रिषे |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} प्रति॑ द्रा॒पिम॑मुञ्चथाः॒ पव॑मान महित्व॒ना ||{9/9}{9.100.9}{9.6.4.9}{7.4.28.4}{954, 823, 8644} त्वम्¦द्याम्¦च॒¦म॒हि॒ऽव्र॒त॒¦पृ॒थि॒वीम्¦च॒¦अति॑¦ज॒भ्रि॒षे॒ | प्रति॑¦द्रा॒पिम्¦अ॒मुं॒च॒थाः॒¦पव॑मान¦म॒हि॒ऽत्व॒ना || |
[101] पुरोजितीति षोळशर्चस्य सूक्तस्याद्यानांतिसृणांश्यावाश्विरंधीगुः चतुर्थ्यादितिसृणांनाहुषोययातिः सप्तम्यादितिसृणांमानवोनहुषः दशम्यादितिसृणांसांवरणोमनुः त्रयोदश्यादिचतसृणां वैश्वामित्रः प्रजापतिः पवमान सोमोनुष्टुप् द्वितीयातृतीये गायत्र्यौ | |
पु॒रोजि॑ती वो॒, अन्ध॑सः सु॒ताय॑ मादयि॒त्नवे᳚ |{श्यावाश्विरंधीगुः | पवमानः सोमः | अनुष्टुप्} अप॒ श्वानं᳚ श्नथिष्टन॒ सखा᳚यो दीर्घजि॒ह्व्य᳚म् ||{1/16}{9.101.1}{9.6.5.1}{7.5.1.1}{955, 824, 8645} पु॒रःऽजि॑ती¦वः॒¦अन्ध॑सः¦सु॒ताय॑¦मा॒द॒यि॒त्नवे᳚ | अप॑¦श्वान᳚म्¦श्न॒थि॒ष्ट॒न॒¦सखा᳚यः¦दी॒र्घ॒ऽजि॒ह्व्य᳚म् || |
यो धार॑या पाव॒कया᳚ परिप्र॒स्यन्द॑ते सु॒तः |{श्यावाश्विरंधीगुः | पवमानः सोमः | गायत्री} इन्दु॒रश्वो॒ न कृत्व्यः॑ ||{2/16}{9.101.2}{9.6.5.2}{7.5.1.2}{956, 824, 8646} यः¦धार॑या¦पा॒व॒कया᳚¦प॒रि॒ऽप्र॒स्यन्द॑ते¦सु॒तः | इन्दुः॑¦अश्वः॑¦न¦कृत्व्यः॑ || |
तं दु॒रोष॑म॒भी नरः॒ सोमं᳚ वि॒श्वाच्या᳚ धि॒या |{श्यावाश्विरंधीगुः | पवमानः सोमः | गायत्री} य॒ज्ञं हि᳚न्व॒न्त्यद्रि॑भिः ||{3/16}{9.101.3}{9.6.5.3}{7.5.1.3}{957, 824, 8647} तम्¦दु॒रोष᳚म्¦अ॒भि¦नरः॑¦सोम᳚म्¦वि॒श्वाच्या᳚¦धि॒या | य॒ज्ञम्¦हि॒न्व॒न्ति॒¦अद्रि॑ऽभिः || |
सु॒तासो॒ मधु॑मत्तमाः॒ सोमा॒, इन्द्रा᳚य म॒न्दिनः॑ |{नाहुषो ययातिः | पवमानः सोमः | अनुष्टुप्} प॒वित्र॑वन्तो, अक्षरन्दे॒वान् ग॑च्छन्तु वो॒ मदाः᳚ ||{4/16}{9.101.4}{9.6.5.4}{7.5.1.4}{958, 824, 8648} सु॒तासः॑¦मधु॑मत्ऽतमाः¦सोमाः᳚¦इन्द्रा᳚य¦म॒न्दिनः॑ | प॒वित्र॑ऽवन्तः¦अ॒क्ष॒र॒न्¦दे॒वान्¦ग॒च्छ॒न्तु॒¦वः॒¦मदाः᳚ || |
इन्दु॒रिन्द्रा᳚य पवत॒ इति॑ दे॒वासो᳚, अब्रुवन् |{नाहुषो ययातिः | पवमानः सोमः | अनुष्टुप्} वा॒चस्पति᳚र्मखस्यते॒ विश्व॒स्येशा᳚न॒ ओज॑सा ||{5/16}{9.101.5}{9.6.5.5}{7.5.1.5}{959, 824, 8649} इन्दुः॑¦इन्द्रा᳚य¦प॒व॒ते॒¦इति॑¦दे॒वासः॑¦अ॒ब्रु॒व॒न् | वा॒चः¦पतिः॑¦म॒ख॒स्य॒ते॒¦विश्व॑स्य¦ईशा᳚नः¦ओज॑सा || |
स॒हस्र॑धारः पवते समु॒द्रो वा᳚चमीङ्ख॒यः |{नाहुषो ययातिः | पवमानः सोमः | अनुष्टुप्} सोमः॒ पती᳚ रयी॒णां सखेन्द्र॑स्य दि॒वेदि॑वे ||{6/16}{9.101.6}{9.6.5.6}{7.5.2.1}{960, 824, 8650} स॒हस्र॑ऽधारः¦प॒व॒ते॒¦स॒मु॒द्रः¦वा॒च॒म्ऽई॒ङ्ख॒यः | सोमः॑¦पतिः॑¦र॒यी॒णाम्¦सखा᳚¦इन्द्र॑स्य¦दि॒वेऽदि॑वे || |
अ॒यं पू॒षा र॒यिर्भगः॒ सोमः॑ पुना॒नो, अ॑र्षति |{नहुषो मानवः | पवमानः सोमः | अनुष्टुप्} पति॒र्विश्व॑स्य॒ भूम॑नो॒ व्य॑ख्य॒द्रोद॑सी, उ॒भे ||{7/16}{9.101.7}{9.6.5.7}{7.5.2.2}{961, 824, 8651} अ॒यम्¦पू॒षा¦र॒यिः¦भगः॑¦सोमः॑¦पु॒ना॒नः¦अ॒र्ष॒ति॒ | पतिः॑¦विश्व॑स्य¦भूम॑नः¦वि¦अ॒ख्य॒त्¦रोद॑सी॒ इति॑¦उ॒भे इति॑ || |
समु॑ प्रि॒या, अ॑नूषत॒ गावो॒ मदा᳚य॒ घृष्व॑यः |{नहुषो मानवः | पवमानः सोमः | अनुष्टुप्} सोमा᳚सः कृण्वते प॒थः पव॑मानास॒ इन्द॑वः ||{8/16}{9.101.8}{9.6.5.8}{7.5.2.3}{962, 824, 8652} सम्¦ऊँ॒ इति॑¦प्रि॒याः¦अ॒नू॒ष॒त॒¦गावः॑¦मदा᳚य¦घृष्व॑यः | सोमा᳚सः¦कृ॒ण्व॒ते॒¦प॒थः¦पव॑मानासः¦इन्द॑वः || |
य ओजि॑ष्ठ॒स्तमा भ॑र॒ पव॑मान श्र॒वाय्य᳚म् |{नहुषो मानवः | पवमानः सोमः | अनुष्टुप्} यः पञ्च॑ चर्ष॒णीर॒भि र॒यिं येन॒ वना᳚महै ||{9/16}{9.101.9}{9.6.5.9}{7.5.2.4}{963, 824, 8653} यः¦ओजि॑ष्ठः¦तम्¦आ¦भ॒र॒¦पव॑मान¦श्र॒वाय्य᳚म् | यः¦पंच॑¦च॒र्ष॒णीः¦अ॒भि¦र॒यिम्¦येन॑¦वना᳚महै || |
सोमाः᳚ पवन्त॒ इन्द॑वो॒ऽस्मभ्यं᳚ गातु॒वित्त॑माः |{सांवरणो मनुः | पवमानः सोमः | अनुष्टुप्} मि॒त्राः सु॑वा॒ना, अ॑रे॒पसः॑ स्वा॒ध्यः॑ स्व॒र्विदः॑ ||{10/16}{9.101.10}{9.6.5.10}{7.5.2.5}{964, 824, 8654} सोमाः᳚¦प॒व॒न्ते॒¦इन्द॑वः¦अ॒स्मभ्य᳚म्¦गा॒तु॒वित्ऽत॑माः | मि॒त्राः¦सु॒वा॒नाः¦अ॒रे॒पसः॑¦सु॒ऽआ॒ध्यः॑¦स्वः॒ऽविदः॑ || |
सु॒ष्वा॒णासो॒ व्यद्रि॑भि॒श्चिता᳚ना॒ गोरधि॑ त्व॒चि |{सांवरणो मनुः | पवमानः सोमः | अनुष्टुप्} इष॑म॒स्मभ्य॑म॒भितः॒ सम॑स्वरन्वसु॒विदः॑ ||{11/16}{9.101.11}{9.6.5.11}{7.5.3.1}{965, 824, 8655} सु॒स्वा॒णासः॑¦वि¦अद्रि॑ऽभिः¦चिता᳚नाः¦गोः¦अधि॑¦त्व॒चि | इष᳚म्¦अ॒स्मभ्य᳚म्¦अ॒भितः॑¦सम्¦अ॒स्व॒र॒न्¦व॒सु॒ऽविदः॑ || |
ए॒ते पू॒ता वि॑प॒श्चितः॒ सोमा᳚सो॒ दध्या᳚शिरः |{सांवरणो मनुः | पवमानः सोमः | अनुष्टुप्} सूर्या᳚सो॒ न द॑र्श॒तासो᳚ जिग॒त्नवो᳚ ध्रु॒वा घृ॒ते ||{12/16}{9.101.12}{9.6.5.12}{7.5.3.2}{966, 824, 8656} ए॒ते¦पू॒ताः¦वि॒पः॒ऽचितः॑¦सोमा᳚सः¦दधि॑ऽआशिरः | सूर्या᳚सः¦न¦द॒र्श॒तासः॑¦जि॒ग॒त्नवः॑¦ध्रु॒वाः¦घृ॒ते || |
प्र सु᳚न्वा॒नस्यान्ध॑सो॒ मर्तो॒ न वृ॑त॒ तद्वचः॑ |{वैश्वामित्रो प्रजापतिः | पवमानः सोमः | अनुष्टुप्} अप॒ श्वान॑मरा॒धसं᳚ ह॒ता म॒खं न भृग॑वः ||{13/16}{9.101.13}{9.6.5.13}{7.5.3.3}{967, 824, 8657} प्र¦सु॒न्वा॒नस्य॑¦अन्ध॑सः¦मर्तः॑¦न¦वृ॒त॒¦तत्¦वचः॑ | अप॑¦श्वान᳚म्¦अ॒रा॒धस᳚म्¦ह॒त¦म॒खम्¦न¦भृग॑वः || |
आ जा॒मिरत्के᳚, अव्यत भु॒जे न पु॒त्र ओ॒ण्योः᳚ |{वैश्वामित्रो प्रजापतिः | पवमानः सोमः | अनुष्टुप्} सर॑ज्जा॒रो न योष॑णां व॒रो न योनि॑मा॒सद᳚म् ||{14/16}{9.101.14}{9.6.5.14}{7.5.3.4}{968, 824, 8658} आ¦जा॒मिः¦अत्के᳚¦अ॒व्य॒त॒¦भु॒जे¦न¦पु॒त्रः¦ओ॒ण्योः᳚ | सर॑त्¦जा॒रः¦न¦योष॑णाम्¦व॒रः¦न¦योनि᳚म्¦आ॒ऽसद᳚म् || |
स वी॒रो द॑क्ष॒साध॑नो॒ वि यस्त॒स्तम्भ॒ रोद॑सी |{वैश्वामित्रो प्रजापतिः | पवमानः सोमः | अनुष्टुप्} हरिः॑ प॒वित्रे᳚, अव्यत वे॒धा न योनि॑मा॒सद᳚म् ||{15/16}{9.101.15}{9.6.5.15}{7.5.3.5}{969, 824, 8659} सः¦वी॒रः¦द॒क्ष॒ऽसाध॑नः¦वि¦यः¦त॒स्तम्भ॑¦रोद॑सी॒ इति॑ | हरिः॑¦प॒वित्रे᳚¦अ॒व्य॒त॒¦वे॒धाः¦न¦योनि᳚म्¦आ॒ऽसद᳚म् || |
अव्यो॒ वारे᳚भिः पवते॒ सोमो॒ गव्ये॒, अधि॑ त्व॒चि |{वैश्वामित्रो प्रजापतिः | पवमानः सोमः | अनुष्टुप्} कनि॑क्रद॒द्वृषा॒ हरि॒रिन्द्र॑स्या॒भ्ये᳚ति निष्कृ॒तम् ||{16/16}{9.101.16}{9.6.5.16}{7.5.3.6}{970, 824, 8660} अव्यः॑¦वारे᳚भिः¦प॒व॒ते॒¦सोमः॑¦गव्ये᳚¦अधि॑¦त्व॒चि | कनि॑क्रदत्¦वृषा᳚¦हरिः॑¦इन्द्र॑स्य¦अ॒भि¦ए॒ति॒¦निः॒ऽकृ॒तम् || |
[102] क्राणाशिशुरित्यष्टर्चस्य सूक्तस्याप्त्यस्त्रितः पवमानसोमउष्णिक् | |
क्रा॒णा शिशु᳚र्म॒हीनां᳚ हि॒न्वन्नृ॒तस्य॒ दीधि॑तिम् |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} विश्वा॒ परि॑ प्रि॒या भु॑व॒दध॑ द्वि॒ता ||{1/8}{9.102.1}{9.6.6.1}{7.5.4.1}{971, 825, 8661} क्रा॒णा¦शिशुः॑¦म॒हीना᳚म्¦हि॒न्वन्¦ऋ॒तस्य॑¦दीधि॑तिम् | विश्वा᳚¦परि॑¦प्रि॒या¦भु॒व॒त्¦अध॑¦द्वि॒ता || |
उप॑ त्रि॒तस्य॑ पा॒ष्यो॒३॑(ओ॒)रभ॑क्त॒ यद्गुहा᳚ प॒दम् |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} य॒ज्ञस्य॑ स॒प्त धाम॑भि॒रध॑ प्रि॒यम् ||{2/8}{9.102.2}{9.6.6.2}{7.5.4.2}{972, 825, 8662} उप॑¦त्रि॒तस्य॑¦पा॒ष्योः᳚¦अभ॑क्त¦यत्¦गुहा᳚¦प॒दम् | य॒ज्ञस्य॑¦स॒प्त¦धाम॑ऽभिः¦अध॑¦प्रि॒यम् || |
त्रीणि॑ त्रि॒तस्य॒ धार॑या पृ॒ष्ठेष्वेर॑या र॒यिम् |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} मिमी᳚ते, अस्य॒ योज॑ना॒ वि सु॒क्रतुः॑ ||{3/8}{9.102.3}{9.6.6.3}{7.5.4.3}{973, 825, 8663} त्रीणि॑¦त्रि॒तस्य॑¦धार॑या¦पृ॒ष्ठेषु॑¦आ¦ई॒र॒य॒¦र॒यिम् | मिमी᳚ते¦अ॒स्य॒¦योज॑ना¦वि¦सु॒ऽक्रतुः॑ || |
ज॒ज्ञा॒नं स॒प्त मा॒तरो᳚ वे॒धाम॑शासत श्रि॒ये |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} अ॒यं ध्रु॒वो र॑यी॒णां चिके᳚त॒ यत् ||{4/8}{9.102.4}{9.6.6.4}{7.5.4.4}{974, 825, 8664} ज॒ज्ञा॒नम्¦स॒प्त¦मा॒तरः॑¦वे॒धाम्¦अ॒शा॒स॒त॒¦श्रि॒ये | अ॒यम्¦ध्रु॒वः¦र॒यी॒णाम्¦चिके᳚त¦यत् || |
अ॒स्य व्र॒ते स॒जोष॑सो॒ विश्वे᳚ दे॒वासो᳚, अ॒द्रुहः॑ |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} स्पा॒र्हा भ॑वन्ति॒ रन्त॑यो जु॒षन्त॒ यत् ||{5/8}{9.102.5}{9.6.6.5}{7.5.4.5}{975, 825, 8665} अ॒स्य¦व्र॒ते¦स॒ऽजोष॑सः¦विश्वे᳚¦दे॒वासः॑¦अ॒द्रुहः॑ | स्पा॒र्हाः¦भ॒व॒न्ति॒¦रन्त॑यः¦जु॒षन्त॑¦यत् || |
यमी॒ गर्भ॑मृता॒वृधो᳚ दृ॒शे चारु॒मजी᳚जनन् |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} क॒विं मंहि॑ष्ठमध्व॒रे पु॑रु॒स्पृह᳚म् ||{6/8}{9.102.6}{9.6.6.6}{7.5.5.1}{976, 825, 8666} यम्¦ई॒मिति॑¦गर्भ᳚म्¦ऋ॒त॒ऽवृधः॑¦दृ॒शे¦चारु᳚म्¦अजी᳚जनन् | क॒विम्¦मंहि॑ष्ठम्¦अ॒ध्व॒रे¦पु॒रु॒ऽस्पृह᳚म् || |
स॒मी॒ची॒ने, अ॒भि त्मना᳚ य॒ह्वी, ऋ॒तस्य॑ मा॒तरा᳚ |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} त॒न्वा॒ना य॒ज्ञमा᳚नु॒षग्यद᳚ञ्ज॒ते ||{7/8}{9.102.7}{9.6.6.7}{7.5.5.2}{977, 825, 8667} स॒मी॒ची॒ने इति॑ स॒म्ऽई॒ची॒ने¦अ॒भि¦त्मना᳚¦य॒ह्वी इति॑¦ऋ॒तस्य॑¦मा॒तरा᳚ | त॒न्वा॒नाः¦य॒ज्ञम्¦आ॒नु॒षक्¦यत्¦अं॒ज॒ते || |
क्रत्वा᳚ शु॒क्रेभि॑र॒क्षभि᳚रृ॒णोरप᳚ व्र॒जं दि॒वः |{आप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} हि॒न्वन्नृ॒तस्य॒ दीधि॑तिं॒ प्राध्व॒रे ||{8/8}{9.102.8}{9.6.6.8}{7.5.5.3}{978, 825, 8668} क्रत्वा᳚¦शु॒क्रेभिः॑¦अ॒क्षऽभिः॑¦ऋ॒णोः¦अप॑¦व्र॒जम्¦दि॒वः | हि॒न्वन्¦ऋ॒तस्य॑¦दीदि॑तिम्¦प्र¦अ॒ध्व॒रे || |
[103] प्रपुनानायेति षडृचस्य सूक्तस्याप्त्योद्वितः पवमानसोमउष्णिक् | |
प्र पु॑ना॒नाय॑ वे॒धसे॒ सोमा᳚य॒ वच॒ उद्य॑तम् |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्} भृ॒तिं न भ॑रा म॒तिभि॒र्जुजो᳚षते ||{1/6}{9.103.1}{9.6.7.1}{7.5.6.1}{979, 826, 8669} प्र¦पु॒ना॒नाय॑¦वे॒धसे᳚¦सोमा᳚य¦वचः॑¦उत्ऽय॑तम् | भृ॒तिम्¦न¦भ॒र॒¦म॒तिऽभिः॑¦जुजो᳚षते || |
परि॒ वारा᳚ण्य॒व्यया॒ गोभि॑रञ्जा॒नो, अ॑र्षति |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्} त्री ष॒धस्था᳚ पुना॒नः कृ॑णुते॒ हरिः॑ ||{2/6}{9.103.2}{9.6.7.2}{7.5.6.2}{980, 826, 8670} परि॑¦वारा᳚णि¦अ॒व्यया᳚¦गोभिः॑¦अं॒जा॒नः¦अ॒र्ष॒ति॒ | त्री¦स॒धऽस्था᳚¦पु॒ना॒नः¦कृ॒णु॒ते॒¦हरिः॑ || |
परि॒ कोशं᳚ मधु॒श्चुत॑म॒व्यये॒ वारे᳚, अर्षति |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्} अ॒भि वाणी॒रृषी᳚णां स॒प्त नू᳚षत ||{3/6}{9.103.3}{9.6.7.3}{7.5.6.3}{981, 826, 8671} परि॑¦कोश᳚म्¦म॒धु॒ऽश्चुत᳚म्¦अ॒व्यये᳚¦वारे᳚¦अ॒र्ष॒ति॒ | अ॒भि¦वाणीः᳚¦ऋषी᳚णाम्¦स॒प्त¦नू॒ष॒त॒ || |
परि॑ णे॒ता म॑ती॒नां वि॒श्वदे᳚वो॒, अदा᳚भ्यः |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्} सोमः॑ पुना॒नश्च॒म्वो᳚र्विश॒द्धरिः॑ ||{4/6}{9.103.4}{9.6.7.4}{7.5.6.4}{982, 826, 8672} परि॑¦ने॒ता¦म॒ती॒नाम्¦वि॒श्वऽदे᳚वः¦अदा᳚भ्यः | सोमः॑¦पु॒ना॒नः¦च॒म्वोः᳚¦वि॒श॒त्¦हरिः॑ || |
परि॒ दैवी॒रनु॑ स्व॒धा, इन्द्रे᳚ण याहि स॒रथ᳚म् |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्} पु॒ना॒नो वा॒घद्वा॒घद्भि॒रम॑र्त्यः ||{5/6}{9.103.5}{9.6.7.5}{7.5.6.5}{983, 826, 8673} परि॑¦दैवीः᳚¦अनु॑¦स्व॒धाः¦इन्द्रे᳚ण¦या॒हि॒¦स॒ऽरथ᳚म् | पु॒ना॒नः¦वा॒घत्¦वा॒घत्ऽभिः॑¦अम॑र्त्यः || |
परि॒ सप्ति॒र्न वा᳚ज॒युर्दे॒वो दे॒वेभ्यः॑ सु॒तः |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्} व्या॒न॒शिः पव॑मानो॒ वि धा᳚वति ||{6/6}{9.103.6}{9.6.7.6}{7.5.6.6}{984, 826, 8674} परि॑¦सप्तिः॑¦न¦वा॒ज॒ऽयुः¦दे॒वः¦दे॒वेभ्यः॑¦सु॒तः | वि॒ऽआ॒न॒शिः¦पव॑मानः¦वि¦धा॒व॒ति॒ || |
[104] सखायइति षडृचस्य सूक्तस्य काश्यपौपर्वतनारदौ पवमान सोमउष्णिक् (शिखंडिन्यावप्सरसौऋषिकेत्रपाक्षिकं किंचपर्वतनारदौकाण्वावपि) | |
सखा᳚य॒ आ नि षी᳚दत पुना॒नाय॒ प्र गा᳚यत |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्} शिशुं॒ न य॒ज्ञैः परि॑ भूषत श्रि॒ये ||{1/6}{9.104.1}{9.7.1.1}{7.5.7.1}{985, 827, 8675} सखा᳚यः¦आ¦नि¦सी॒द॒त॒¦पु॒ना॒नाय॑¦प्र¦गा॒य॒त॒ | शिशु᳚म्¦न¦य॒ज्ञैः¦परि॑¦भू॒ष॒त॒¦श्रि॒ये || |
समी᳚ व॒त्सं न मा॒तृभिः॑ सृ॒जता᳚ गय॒साध॑नम् |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्} दे॒वा॒व्य१॑(अं॒) मद॑म॒भि द्विश॑वसम् ||{2/6}{9.104.2}{9.7.1.2}{7.5.7.2}{986, 827, 8676} सम्¦ई॒मिति॑¦व॒त्सम्¦न¦मा॒तृऽभिः॑¦सृ॒जत॑¦ग॒य॒ऽसाध॑नम् | दे॒व॒।आ॒व्य᳚म्¦मद᳚म्¦अ॒भि¦द्विऽश॑वसम् || |
पु॒नाता᳚ दक्ष॒साध॑नं॒ यथा॒ शर्धा᳚य वी॒तये᳚ |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्} यथा᳚ मि॒त्राय॒ वरु॑णाय॒ शंत॑मः ||{3/6}{9.104.3}{9.7.1.3}{7.5.7.3}{987, 827, 8677} पु॒नात॑¦द॒क्ष॒ऽसाध॑नम्¦यथा᳚¦शर्धा᳚य¦वी॒तये᳚ | यथा᳚¦मि॒त्राय॑¦वरु॑णाय¦शम्ऽत॑मः || |
अ॒स्मभ्यं᳚ त्वा वसु॒विद॑म॒भि वाणी᳚रनूषत |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्} गोभि॑ष्टे॒ वर्ण॑म॒भि वा᳚सयामसि ||{4/6}{9.104.4}{9.7.1.4}{7.5.7.4}{988, 827, 8678} अ॒स्मभ्य᳚म्¦त्वा॒¦व॒सु॒ऽविद᳚म्¦अ॒भि¦वाणीः᳚¦अ॒नू॒ष॒त॒ | गोभिः॑¦ते॒¦वर्ण᳚म्¦अ॒भि¦वा॒स॒या॒म॒सि॒ || |
स नो᳚ मदानां पत॒ इन्दो᳚ दे॒वप्स॑रा, असि |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्} सखे᳚व॒ सख्ये᳚ गातु॒वित्त॑मो भव ||{5/6}{9.104.5}{9.7.1.5}{7.5.7.5}{989, 827, 8679} सः¦नः॒¦म॒दा॒ना॒म्¦प॒ते॒¦इन्दो॒ इति॑¦दे॒वऽप्स॑राः¦अ॒सि॒ | सखा᳚ऽइव¦सख्ये᳚¦गा॒तु॒वित्ऽत॑मः¦भ॒व॒ || |
सने᳚मि कृ॒ध्य१॑(अ॒)स्मदा र॒क्षसं॒ कं चि॑द॒त्रिण᳚म् |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्} अपादे᳚वं द्व॒युमंहो᳚ युयोधि नः ||{6/6}{9.104.6}{9.7.1.6}{7.5.7.6}{990, 827, 8680} सने᳚मि¦कृ॒धि¦अ॒स्मत्¦आ¦र॒क्षस᳚म्¦कम्¦चि॒त्¦अ॒त्रिण᳚म् | अप॑¦अदे᳚वम्¦द्व॒युम्¦अंहः॑¦यु॒यो॒धि॒¦नः॒ || |
[105] तंवइति षडृचस्य सूक्तस्य पर्वतनारदौ पवमानसोमउष्णिक् | |
तं वः॑ सखायो॒ मदा᳚य पुना॒नम॒भि गा᳚यत |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्} शिशुं॒ न य॒ज्ञैः स्व॑दयन्त गू॒र्तिभिः॑ ||{1/6}{9.105.1}{9.7.2.1}{7.5.8.1}{991, 828, 8681} तम्¦वः॒¦स॒खा॒यः॒¦मदा᳚य¦पु॒ना॒नम्¦अ॒भि¦गा॒य॒त॒ | शिशु᳚म्¦न¦य॒ज्ञैः¦स्व॒द॒य॒न्त॒¦गू॒र्तिऽभिः॑ || |
सं व॒त्स इ॑व मा॒तृभि॒रिन्दु᳚र्हिन्वा॒नो, अ॑ज्यते |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्} दे॒वा॒वीर्मदो᳚ म॒तिभिः॒ परि॑ष्कृतः ||{2/6}{9.105.2}{9.7.2.2}{7.5.8.2}{992, 828, 8682} सम्¦व॒त्सःऽइ᳚व¦मा॒तृऽभिः॑¦इन्दुः॑¦हि॒न्वा॒नः¦अ॒ज्य॒ते॒ | दे॒व॒।आ॒वीः¦मदः॑¦म॒तिऽभिः॑¦परि॑ऽकृतः || |
अ॒यं दक्षा᳚य॒ साध॑नो॒ऽयं शर्धा᳚य वी॒तये᳚ |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्} अ॒यं दे॒वेभ्यो॒ मधु॑मत्तमः सु॒तः ||{3/6}{9.105.3}{9.7.2.3}{7.5.8.3}{993, 828, 8683} अ॒यम्¦दक्षा᳚य¦साध॑नः¦अ॒यम्¦शर्धा᳚य¦वी॒तये᳚ | अ॒यम्¦दे॒वेभ्यः॑¦मधु॑मत्ऽतमः¦सु॒तः || |
गोम᳚न्न इन्दो॒, अश्व॑वत्सु॒तः सु॑दक्ष धन्व |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्} शुचिं᳚ ते॒ वर्ण॒मधि॒ गोषु॑ दीधरम् ||{4/6}{9.105.4}{9.7.2.4}{7.5.8.4}{994, 828, 8684} गोऽम॑त्¦नः॒¦इ॒न्दो॒ इति॑¦अश्व॑ऽवत्¦सु॒तः¦सु॒ऽद॒क्ष॒¦ध॒न्व॒ | शुचि᳚म्¦ते॒¦वर्ण᳚म्¦अधि॑¦गोषु॑¦दी॒ध॒र॒म् || |
स नो᳚ हरीणां पत॒ इन्दो᳚ दे॒वप्स॑रस्तमः |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्} सखे᳚व॒ सख्ये॒ नर्यो᳚ रु॒चे भ॑व ||{5/6}{9.105.5}{9.7.2.5}{7.5.8.5}{995, 828, 8685} सः¦नः॒¦ह॒री॒णा॒म्¦प॒ते॒¦इन्दो॒ इति॑¦दे॒वप्स॑रःऽतमः | सखा᳚ऽइव¦सख्ये᳚¦नर्यः॑¦रु॒चे¦भ॒व॒ || |
सने᳚मि॒ त्वम॒स्मदाँ, अदे᳚वं॒ कं चि॑द॒त्रिण᳚म् |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्} सा॒ह्वाँ, इ᳚न्दो॒ परि॒ बाधो॒, अप॑ द्व॒युम् ||{6/6}{9.105.6}{9.7.2.6}{7.5.8.6}{996, 828, 8686} सने᳚मि¦त्वम्¦अ॒स्मत्¦आ¦अदे᳚वम्¦कम्¦चि॒त्¦अ॒त्रिण᳚म् | सा॒ह्वान्¦इ॒न्दो॒ इति॑¦परि॑¦बाधः॑¦अप॑¦द्व॒युम् || |
[106] इंद्रमच्छेति चतुर्दशर्चस्यसूक्तस्याद्यानांतिसृणां चाक्षुषोग्निः चतुर्थ्यादितिसृणां मानवश्चक्षुः सप्तम्यादितिसृणामाप्सवोमनुः दशम्यादिपंचानां चाक्षुषोग्निः पवमान सोमउष्णिक् | |
इन्द्र॒मच्छ॑ सु॒ता, इ॒मे वृष॑णं यन्तु॒ हर॑यः |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} श्रु॒ष्टी जा॒तास॒ इन्द॑वः स्व॒र्विदः॑ ||{1/14}{9.106.1}{9.7.3.1}{7.5.9.1}{997, 829, 8687} इन्द्र᳚म्¦अच्छ॑¦सु॒ताः¦इ॒मे¦वृष॑णम्¦य॒न्तु॒¦हर॑यः | श्रु॒ष्टी¦जा॒तासः॑¦इन्द॑वः¦स्वः॒ऽविदः॑ || |
अ॒यं भरा᳚य सान॒सिरिन्द्रा᳚य पवते सु॒तः |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} सोमो॒ जैत्र॑स्य चेतति॒ यथा᳚ वि॒दे ||{2/14}{9.106.2}{9.7.3.2}{7.5.9.2}{998, 829, 8688} अ॒यम्¦भरा᳚य¦सा॒न॒सिः¦इन्द्रा᳚य¦प॒व॒ते॒¦सु॒तः | सोमः॑¦जैत्र॑स्य¦चे॒त॒ति॒¦यथा᳚¦वि॒दे || |
अ॒स्येदिन्द्रो॒ मदे॒ष्वा ग्रा॒भं गृ॑भ्णीत सान॒सिम् |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} वज्रं᳚ च॒ वृष॑णं भर॒त्सम॑प्सु॒जित् ||{3/14}{9.106.3}{9.7.3.3}{7.5.9.3}{999, 829, 8689} अ॒स्य¦इत्¦इन्द्रः॑¦मदे᳚षु¦आ¦ग्रा॒भम्¦गृ॒भ्णी॒त॒¦सा॒न॒सिम् | वज्र᳚म्¦च॒¦वृष॑णम्¦भ॒र॒त्¦सम्¦अ॒प्सु॒ऽजित् || |
प्र ध᳚न्वा सोम॒ जागृ॑वि॒रिन्द्रा᳚येन्दो॒ परि॑ स्रव |{मानवश्चक्षुः | पवमानः सोमः | उष्णिक्} द्यु॒मन्तं॒ शुष्म॒मा भ॑रा स्व॒र्विद᳚म् ||{4/14}{9.106.4}{9.7.3.4}{7.5.9.4}{1000, 829, 8690} प्र¦ध॒न्व॒¦सो॒म॒¦जागृ॑विः¦इन्द्रा᳚य¦इ॒न्दो॒ इति॑¦परि॑¦स्र॒व॒ | द्यु॒ऽमन्त᳚म्¦शुष्म᳚म्¦आ¦भ॒र॒¦स्वः॒ऽविद᳚म् || |
इन्द्रा᳚य॒ वृष॑णं॒ मदं॒ पव॑स्व वि॒श्वद॑र्शतः |{मानवश्चक्षुः | पवमानः सोमः | उष्णिक्} स॒हस्र॑यामा पथि॒कृद्वि॑चक्ष॒णः ||{5/14}{9.106.5}{9.7.3.5}{7.5.9.5}{1001, 829, 8691} इन्द्रा᳚य¦वृष॑णम्¦मद᳚म्¦पव॑स्व¦वि॒श्वऽद॑र्शतः | स॒हस्र॑ऽयामा¦प॒थि॒ऽकृत्¦वि॒ऽच॒क्ष॒णः || |
अ॒स्मभ्यं᳚ गातु॒वित्त॑मो दे॒वेभ्यो॒ मधु॑मत्तमः |{मानवश्चक्षुः | पवमानः सोमः | उष्णिक्} स॒हस्रं᳚ याहि प॒थिभिः॒ कनि॑क्रदत् ||{6/14}{9.106.6}{9.7.3.6}{7.5.10.1}{1002, 829, 8692} अ॒स्मभ्य᳚म्¦गा॒तु॒वित्ऽत॑मः¦दे॒वेभ्यः॑¦मधु॑मत्ऽतमः | स॒हस्र᳚म्¦या॒हि॒¦प॒थिऽभिः॑¦कनि॑क्रदत् || |
पव॑स्व दे॒ववी᳚तय॒ इन्दो॒ धारा᳚भि॒रोज॑सा |{अप्सवो मनुः | पवमानः सोमः | उष्णिक्} आ क॒लशं॒ मधु॑मान् त्सोम नः सदः ||{7/14}{9.106.7}{9.7.3.7}{7.5.10.2}{1003, 829, 8693} पव॑स्व¦दे॒वऽवी᳚तये¦इन्दो॒ इति॑¦धारा᳚भिः¦ओज॑सा | आ¦क॒लश᳚म्¦मधु॑ऽमान्¦सो॒म॒¦नः॒¦स॒दः॒ || |
तव॑ द्र॒प्सा, उ॑द॒प्रुत॒ इन्द्रं॒ मदा᳚य वावृधुः |{अप्सवो मनुः | पवमानः सोमः | उष्णिक्} त्वां दे॒वासो᳚, अ॒मृता᳚य॒ कं प॑पुः ||{8/14}{9.106.8}{9.7.3.8}{7.5.10.3}{1004, 829, 8694} तव॑¦द्र॒प्साः¦उ॒द॒ऽप्रुतः॑¦इन्द्र᳚म्¦मदा᳚य¦व॒वृ॒धुः॒ | त्वाम्¦दे॒वासः॑¦अ॒मृता᳚य¦कम्¦प॒पुः॒ || |
आ नः॑ सुतास इन्दवः पुना॒ना धा᳚वता र॒यिम् |{अप्सवो मनुः | पवमानः सोमः | उष्णिक्} वृ॒ष्टिद्या᳚वो रीत्यापः स्व॒र्विदः॑ ||{9/14}{9.106.9}{9.7.3.9}{7.5.10.4}{1005, 829, 8695} आ¦नः॒¦सु॒ता॒सः॒¦इ॒न्द॒वः॒¦पु॒ना॒नाः¦धा॒व॒त॒¦र॒यिम् | वृ॒ष्टिऽद्या᳚वः¦री॒ति॒ऽआ॒पः॒¦स्वः॒ऽविदः॑ || |
सोमः॑ पुना॒न ऊ॒र्मिणाव्यो॒ वारं॒ वि धा᳚वति |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} अग्रे᳚ वा॒चः पव॑मानः॒ कनि॑क्रदत् ||{10/14}{9.106.10}{9.7.3.10}{7.5.10.5}{1006, 829, 8696} सोमः॑¦पु॒ना॒नः¦ऊ॒र्मिणा᳚¦अव्यः॑¦वार᳚म्¦वि¦धा॒व॒ति॒ | अग्रे᳚¦वा॒चः¦पव॑मानः¦कनि॑क्रदत् || |
धी॒भिर्हि᳚न्वन्ति वा॒जिनं॒ वने॒ क्रीळ᳚न्त॒मत्य॑विम् |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} अ॒भि त्रि॑पृ॒ष्ठं म॒तयः॒ सम॑स्वरन् ||{11/14}{9.106.11}{9.7.3.11}{7.5.11.1}{1007, 829, 8697} धी॒भिः¦हि॒न्व॒न्ति॒¦वा॒जिन᳚म्¦वने᳚¦क्रीळ᳚न्तम्¦अति॑।आविम् | अ॒भि¦त्रि॒ऽपृ॒ष्ठम्¦म॒तयः॑¦सम्¦अ॒स्व॒र॒न् || |
अस॑र्जि क॒लशाँ᳚, अ॒भि मी॒ळ्हे सप्ति॒र्न वा᳚ज॒युः |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} पु॒ना॒नो वाचं᳚ ज॒नय᳚न्नसिष्यदत् ||{12/14}{9.106.12}{9.7.3.12}{7.5.11.2}{1008, 829, 8698} अस॑र्जि¦क॒लशा᳚न्¦अ॒भि¦मी॒ळ्हे¦सप्तिः॑¦न¦वा॒ज॒ऽयुः | पु॒ना॒नः¦वाच᳚म्¦ज॒नय॑न्¦अ॒सि॒स्य॒द॒त् || |
पव॑ते हर्य॒तो हरि॒रति॒ ह्वरां᳚सि॒ रंह्या᳚ |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} अ॒भ्यर्ष᳚न् त्स्तो॒तृभ्यो᳚ वी॒रव॒द्यशः॑ ||{13/14}{9.106.13}{9.7.3.13}{7.5.11.3}{1009, 829, 8699} पव॑ते¦ह॒र्य॒तः¦हरिः॑¦अति॑¦ह्वरां᳚सि¦रंह्या᳚ | अ॒भि॒।आर्ष॑न्¦स्तो॒तृऽभ्यः॑¦वी॒रऽव॑त्¦यशः॑ || |
अ॒या प॑वस्व देव॒युर्मधो॒र्धारा᳚, असृक्षत |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} रेभ᳚न् प॒वित्रं॒ पर्ये᳚षि वि॒श्वतः॑ ||{14/14}{9.106.14}{9.7.3.14}{7.5.11.4}{1010, 829, 8700} अ॒या¦प॒व॒स्व॒¦दे॒व॒ऽयुः¦मधोः᳚¦धाराः᳚¦अ॒सृ॒क्ष॒त॒ | रेभ॑न्¦प॒वित्र᳚म्¦परि॑¦ए॒षि॒¦वि॒श्वतः॑ || |
[107] परीतइति षड्विंशत्यृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाजो मारीचः कश्यपो राहूगणो गोतमोभौमोत्रिर्गाथिनो विश्वामित्रो भार्गवोजमदग्निः मैत्रावरुणिर्वसिष्ट ऋषयः पवमान सोमोदेवता आद्याचतुर्थीषष्ट्यष्टमी नवमीदशमी द्वादशी चतुर्दश्यः सप्तदश्यायश्चयुजः बृहत्यः द्वितीयापंचमी सप्तम्येकादशी त्रयोदशी पंचदश्योष्टादश्यादि युजश्चसतोबृहत्यः षोडशीचद्विपदाविराट् | |
परी॒तो षि᳚ञ्चता सु॒तं सोमो॒ य उ॑त्त॒मं ह॒विः |{सप्तर्षयः | पवमानः सोमः | बृहती} द॒ध॒न्वाँऽ यो नर्यो᳚, अ॒प्स्व१॑(अ॒)न्तरा सु॒षाव॒ सोम॒मद्रि॑भिः ||{1/26}{9.107.1}{9.7.4.1}{7.5.12.1}{1011, 830, 8701} परि॑¦इ॒तः¦सिं॒च॒त॒¦सु॒तम्¦सोमः॑¦यः¦उ॒त्ऽत॒मम्¦ह॒विः | |
नू॒नं पु॑ना॒नोऽवि॑भिः॒ परि॑ स्र॒वाद॑ब्धः सुर॒भिन्त॑रः |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} सु॒ते चि॑त् त्वा॒प्सु म॑दामो॒, अन्ध॑सा श्री॒णन्तो॒ गोभि॒रुत्त॑रम् ||{2/26}{9.107.2}{9.7.4.2}{7.5.12.2}{1012, 830, 8702} नू॒नम्¦पु॒ना॒नः¦अवि॑ऽभिः¦परि॑¦स्र॒व॒¦अद॑ब्धः¦सु॒र॒भिम्ऽत॑रः | |
परि॑ सुवा॒नश्चक्ष॑से देव॒माद॑नः॒ क्रतु॒रिन्दु᳚र्विचक्ष॒णः ||{सप्तर्षयः | पवमानः सोमः | बृहती}{3/26}{9.107.3}{9.7.4.3}{7.5.12.3}{1013, 830, 8703} |
पु॒ना॒नः सो᳚म॒ धार॑या॒पो वसा᳚नो, अर्षसि |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} आ र॑त्न॒धा योनि॑मृ॒तस्य॑ सीद॒स्युत्सो᳚ देव हिर॒ण्ययः॑ ||{4/26}{9.107.4}{9.7.4.4}{7.5.12.4}{1014, 830, 8704} पु॒ना॒नः¦सो॒म॒¦धार॑या¦अ॒पः¦वसा᳚नः¦अ॒र्ष॒सि॒ | |
दु॒हा॒न ऊध॑र्दि॒व्यं मधु॑ प्रि॒यं प्र॒त्नं स॒धस्थ॒मास॑दत् |{सप्तर्षयः | पवमानः सोमः | बृहती} आ॒पृच्छ्यं᳚ ध॒रुणं᳚ वा॒ज्य॑र्षति॒ नृभि॑र्धू॒तो वि॑चक्ष॒णः ||{5/26}{9.107.5}{9.7.4.5}{7.5.12.5}{1015, 830, 8705} दु॒हा॒नः¦ऊधः॑¦दि॒व्यम्¦मधु॑¦प्रि॒यम्¦प्र॒त्नम्¦स॒धऽस्थ᳚म्¦आ¦अ॒स॒द॒त् | |
पु॒ना॒नः सो᳚म॒ जागृ॑वि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} त्वं विप्रो᳚, अभ॒वोऽङ्गि॑रस्तमो॒ मध्वा᳚ य॒ज्ञं मि॑मिक्ष नः ||{6/26}{9.107.6}{9.7.4.6}{7.5.13.1}{1016, 830, 8706} पु॒ना॒नः¦सो॒म॒¦जागृ॑विः¦अव्यः॑¦वारे᳚¦परि॑¦प्रि॒यः | |
सोमो᳚ मी॒ढ्वान् प॑वते गातु॒वित्त॑म॒ ऋषि॒र्विप्रो᳚ विचक्ष॒णः |{सप्तर्षयः | पवमानः सोमः | बृहती} त्वं क॒विर॑भवो देव॒वीत॑म॒ आ सूर्यं᳚ रोहयो दि॒वि ||{7/26}{9.107.7}{9.7.4.7}{7.5.13.2}{1017, 830, 8707} सोमः॑¦मी॒ढ्वान्¦प॒व॒ते॒¦गा॒तु॒वित्ऽत॑मः¦ऋषिः॑¦विप्रः॑¦वि॒ऽच॒क्ष॒णः | |
सोम॑ उ षुवा॒णः सो॒तृभि॒रधि॒ ष्णुभि॒रवी᳚नाम् |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} अश्व॑येव ह॒रिता᳚ याति॒ धार॑या म॒न्द्रया᳚ याति॒ धार॑या ||{8/26}{9.107.8}{9.7.4.8}{7.5.13.3}{1018, 830, 8708} सोमः॑¦ऊँ॒ इति॑¦सु॒वा॒नः¦सो॒तृऽभिः॑¦अधि॑¦स्नुऽभिः॑¦अवी᳚नाम् | |
अ॒नू॒पे गोमा॒न् गोभि॑रक्षाः॒ सोमो᳚ दु॒ग्धाभि॑रक्षाः |{सप्तर्षयः | पवमानः सोमः | बृहती} स॒मु॒द्रं न सं॒वर॑णान्यग्मन्म॒न्दी मदा᳚य तोशते ||{9/26}{9.107.9}{9.7.4.9}{7.5.13.4}{1019, 830, 8709} अ॒नू॒पे¦गोऽमा᳚न्¦गोभिः॑¦अ॒क्षा॒रिति॑¦सोमः॑¦दु॒ग्धाभिः॑¦अ॒क्षा॒रिति॑ | |
आ सो᳚म सुवा॒नो, अद्रि॑भिस्ति॒रो वारा᳚ण्य॒व्यया᳚ |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} जनो॒ न पु॒रि च॒म्वो᳚र्विश॒द्धरिः॒ सदो॒ वने᳚षु दधिषे ||{10/26}{9.107.10}{9.7.4.10}{7.5.13.5}{1020, 830, 8710} आ¦सो॒म॒¦सु॒वा॒नः¦अद्रि॑ऽभिः¦ति॒रः¦वारा᳚णि¦अ॒व्यया᳚ | |
स मा᳚मृजे ति॒रो, अण्वा᳚नि मे॒ष्यो᳚ मी॒ळ्हे सप्ति॒र्न वा᳚ज॒युः |{सप्तर्षयः | पवमानः सोमः | बृहती} अ॒नु॒माद्यः॒ पव॑मानो मनी॒षिभिः॒ सोमो॒ विप्रे᳚भि॒रृक्व॑भिः ||{11/26}{9.107.11}{9.7.4.11}{7.5.14.1}{1021, 830, 8711} सः¦म॒मृ॒जे॒¦ति॒रः¦अण्वा᳚नि¦मे॒ष्यः॑¦मी॒ळ्हे¦सप्तिः॑¦न¦वा॒ज॒ऽयुः | |
प्र सो᳚म दे॒ववी᳚तये॒ सिन्धु॒र्न पि॑प्ये॒, अर्ण॑सा |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} अं॒शोः पय॑सा मदि॒रो न जागृ॑वि॒रच्छा॒ कोशं᳚ मधु॒श्चुत᳚म् ||{12/26}{9.107.12}{9.7.4.12}{7.5.14.2}{1022, 830, 8712} प्र¦सो॒म॒¦दे॒वऽवी᳚तये¦सिन्धुः॑¦न¦पि॒प्ये॒¦अर्ण॑सा | |
आ ह᳚र्य॒तो, अर्जु॑ने॒, अत्के᳚, अव्यत प्रि॒यः सू॒नुर्न मर्ज्यः॑ |{सप्तर्षयः | पवमानः सोमः | बृहती} तमीं᳚ हिन्वन्त्य॒पसो॒ यथा॒ रथं᳚ न॒दीष्वा गभ॑स्त्योः ||{13/26}{9.107.13}{9.7.4.13}{7.5.14.3}{1023, 830, 8713} आ¦ह॒र्य॒तः¦अर्जु॑ने¦अत्के᳚¦अ॒व्य॒त॒¦प्रि॒यः¦सू॒नुः¦न¦मर्ज्यः॑ | |
अ॒भि सोमा᳚स आ॒यवः॒ पव᳚न्ते॒ मद्यं॒ मद᳚म् |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} स॒मु॒द्रस्याधि॑ वि॒ष्टपि॑ मनी॒षिणो᳚ मत्स॒रासः॑ स्व॒र्विदः॑ ||{14/26}{9.107.14}{9.7.4.14}{7.5.14.4}{1024, 830, 8714} अ॒भि¦सोमा᳚सः¦आ॒यवः॑¦पव᳚न्ते¦मद्य᳚म्¦मद᳚म् | |
तर॑त्समु॒द्रं पव॑मान ऊ॒र्मिणा॒ राजा᳚ दे॒व ऋ॒तं बृ॒हत् |{सप्तर्षयः | पवमानः सोमः | बृहती} अर्ष᳚न्मि॒त्रस्य॒ वरु॑णस्य॒ धर्म॑णा॒ प्र हि᳚न्वा॒न ऋ॒तं बृ॒हत् ||{15/26}{9.107.15}{9.7.4.15}{7.5.14.5}{1025, 830, 8715} तर॑त्¦स॒मु॒द्रम्¦पव॑मानः¦ऊ॒र्मिणा᳚¦राजा᳚¦दे॒वः¦ऋ॒तम्¦बृ॒हत् | |
नृभि᳚र्येमा॒नो ह᳚र्य॒तो वि॑चक्ष॒णो राजा᳚ दे॒वः स॑मु॒द्रियः॑ ||{सप्तर्षयः | पवमानः सोमः | द्विपदाविराट्}{16/26}{9.107.16}{9.7.4.16}{7.5.15.1}{1026, 830, 8716} नृऽभिः॑¦ये॒मा॒नः¦ह॒र्य॒तः¦वि॒ऽच॒क्ष॒णः¦राजा᳚¦दे॒वः¦स॒मु॒द्रियः॑ || |
इन्द्रा᳚य पवते॒ मदः॒ सोमो᳚ म॒रुत्व॑ते सु॒तः |{सप्तर्षयः | पवमानः सोमः | बृहती} स॒हस्र॑धारो॒, अत्यव्य॑मर्षति॒ तमी᳚ मृजन्त्या॒यवः॑ ||{17/26}{9.107.17}{9.7.4.17}{7.5.15.2}{1027, 830, 8717} इन्द्रा᳚य¦प॒व॒ते॒¦मदः॑¦सोमः॑¦म॒रुत्व॑ते¦सु॒तः | |
पु॒ना॒नश्च॒मू ज॒नय᳚न्म॒तिं क॒विः सोमो᳚ दे॒वेषु॑ रण्यति |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} अ॒पो वसा᳚नः॒ परि॒ गोभि॒रुत्त॑रः॒ सीद॒न्वने᳚ष्वव्यत ||{18/26}{9.107.18}{9.7.4.18}{7.5.15.3}{1028, 830, 8718} पु॒ना॒नः¦च॒मू इति॑¦ज॒नय॑न्¦म॒तिम्¦क॒विः¦सोमः॑¦दे॒वेषु॑¦र॒ण्य॒ति॒ | |
तवा॒हं सो᳚म रारण स॒ख्य इ᳚न्दो दि॒वेदि॑वे |{सप्तर्षयः | पवमानः सोमः | बृहती} पु॒रूणि॑ बभ्रो॒ नि च॑रन्ति॒ मामव॑ परि॒धीँरति॒ ताँ, इ॑हि ||{19/26}{9.107.19}{9.7.4.19}{7.5.15.4}{1029, 830, 8719} तव॑¦अ॒हम्¦सो॒म॒¦र॒र॒ण॒¦स॒ख्ये¦इ॒न्दो॒ इति॑¦दि॒वेऽदि॑वे | |
उ॒ताहं नक्त॑मु॒त सो᳚म ते॒ दिवा᳚ स॒ख्याय॑ बभ्र॒ ऊध॑नि |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} घृ॒णा तप᳚न्त॒मति॒ सूर्यं᳚ प॒रः श॑कु॒ना, इ॑व पप्तिम ||{20/26}{9.107.20}{9.7.4.20}{7.5.15.5}{1030, 830, 8720} उ॒त¦अ॒हम्¦नक्त᳚म्¦उ॒त¦सो॒म॒¦ते॒¦दिवा᳚¦स॒ख्याय॑¦ब॒भ्रो॒ इति॑¦ऊध॑नि | |
मृ॒ज्यमा᳚नः सुहस्त्य समु॒द्रे वाच॑मिन्वसि |{सप्तर्षयः | पवमानः सोमः | बृहती} र॒यिं पि॒शङ्गं᳚ बहु॒लं पु॑रु॒स्पृहं॒ पव॑माना॒भ्य॑र्षसि ||{21/26}{9.107.21}{9.7.4.21}{7.5.16.1}{1031, 830, 8721} मृ॒ज्यमा᳚नः¦सु॒ऽह॒स्त्य॒¦स॒मु॒द्रे¦वाच᳚म्¦इ॒न्व॒सि॒ | |
मृ॒जा॒नो वारे॒ पव॑मानो, अ॒व्यये॒ वृषाव॑ चक्रदो॒ वने᳚ |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} दे॒वानां᳚ सोम पवमान निष्कृ॒तं गोभि॑रञ्जा॒नो, अ॑र्षसि ||{22/26}{9.107.22}{9.7.4.22}{7.5.16.2}{1032, 830, 8722} मृ॒जा॒नः¦वारे᳚¦पव॑मानः¦अ॒व्यये᳚¦वृषा᳚¦अव॑¦च॒क्र॒दः॒¦वने᳚ | |
पव॑स्व॒ वाज॑सातये॒ऽभि विश्वा᳚नि॒ काव्या᳚ |{सप्तर्षयः | पवमानः सोमः | बृहती} त्वं स॑मु॒द्रं प्र॑थ॒मो वि धा᳚रयो दे॒वेभ्यः॑ सोम मत्स॒रः ||{23/26}{9.107.23}{9.7.4.23}{7.5.16.3}{1033, 830, 8723} पव॑स्व¦वाज॑ऽसातये¦अ॒भि¦विश्वा᳚नि¦काव्या᳚ | |
स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रजो᳚ दि॒व्या च॑ सोम॒ धर्म॑भिः |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} त्वां विप्रा᳚सो म॒तिभि᳚र्विचक्षण शु॒भ्रं हि᳚न्वन्ति धी॒तिभिः॑ ||{24/26}{9.107.24}{9.7.4.24}{7.5.16.4}{1034, 830, 8724} सः¦तु¦प॒व॒स्व॒¦परि॑¦पार्थि॑वम्¦रजः॑¦दि॒व्या¦च॒¦सो॒म॒¦धर्म॑ऽभिः | |
पव॑माना, असृक्षत प॒वित्र॒मति॒ धार॑या |{सप्तर्षयः | पवमानः सोमः | बृहती} म॒रुत्व᳚न्तो मत्स॒रा, इ᳚न्द्रि॒या हया᳚ मे॒धाम॒भि प्रयां᳚सि च ||{25/26}{9.107.25}{9.7.4.25}{7.5.16.5}{1035, 830, 8725} पव॑मानाः¦अ॒सृ॒क्ष॒त॒¦प॒वित्र᳚म्¦अति॑¦धार॑या | |
अ॒पो वसा᳚नः॒ परि॒ कोश॑मर्ष॒तीन्दु᳚र्हिया॒नः सो॒तृभिः॑ |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} ज॒नय॒ञ्ज्योति᳚र्म॒न्दना᳚, अवीवश॒द्गाः कृ᳚ण्वा॒नो न नि॒र्णिज᳚म् ||{26/26}{9.107.26}{9.7.4.26}{7.5.16.6}{1036, 830, 8726} अ॒पः¦वसा᳚नः¦परि॑¦कोश᳚म्¦अ॒र्ष॒ति॒¦इन्दुः॑¦हि॒या॒नः¦सो॒तृऽभिः॑ | |
[108] पवस्वेति षोळशर्चस्य सूक्तस्याद्ययोर्द्वयोः शाक्तयोगौरिवीतिः तृतीयायावसिष्ठःशक्तिः चतुर्थ्यादिद्वयोरांगिरसउरुः षष्ठ्यादिद्वयोर्भारद्वाजऋजिश्वः अष्टम्यादिद्वयोरांगिरस ऊर्ध्वसद्मः दशम्यादिद्वयोरांगिरसः कृतयशः द्वादश्यादिद्वयोरृणंचयः चतुर्दश्यादितिसृणांवासिष्ठःशक्तिः इत्य ऋषयः पवमानसोमोदेवता अयुजः ककुभो युजःसतोबृहत्यः ससुन्वेय इति यवमध्यागायत्री | |
पव॑स्व॒ मधु॑मत्तम॒ इन्द्रा᳚य सोम क्रतु॒वित्त॑मो॒ मदः॑ |{शाक्तयोगौरिवीतिः | पवमानः सोमः | ककुभः} महि॑ द्यु॒क्षत॑मो॒ मदः॑ ||{1/16}{9.108.1}{9.7.5.1}{7.5.17.1}{1037, 831, 8727} पव॑स्व¦मधु॑मत्ऽतमः¦इन्द्रा᳚य¦सो॒म॒¦क्र॒तु॒वित्ऽत॑मः¦मदः॑ | महि॑¦द्यु॒क्षऽत॑मः¦मदः॑ || |
यस्य॑ ते पी॒त्वा वृ॑ष॒भो वृ॑षा॒यते॒ऽस्य पी॒ता स्व॒र्विदः॑ |{शाक्तयोगौरिवीतिः | पवमानः सोमः | सतोबृहती} स सु॒प्रके᳚तो, अ॒भ्य॑क्रमी॒दिषोऽच्छा॒ वाजं॒ नैत॑शः ||{2/16}{9.108.2}{9.7.5.2}{7.5.17.2}{1038, 831, 8728} यस्य॑¦ते॒¦पी॒त्वा¦वृ॒ष॒भः¦वृ॒ष॒ऽयते᳚¦अ॒स्य¦पी॒ता¦स्वः॒ऽविदः॑ | |
त्वं ह्य१॑(अ॒)ङ्ग दैव्या॒ पव॑मान॒ जनि॑मानि द्यु॒मत्त॑मः |{वसिष्ठःशक्तिः | पवमानः सोमः | ककुभः} अ॒मृ॒त॒त्वाय॑ घो॒षयः॑ ||{3/16}{9.108.3}{9.7.5.3}{7.5.17.3}{1039, 831, 8729} त्वम्¦हि¦अ॒ङ्ग¦दैव्या᳚¦पव॑मान¦जनि॑मानि¦द्यु॒मत्ऽत॑मः | अ॒मृ॒त॒ऽत्वाय॑¦घो॒षयः॑ || |
येना॒ नव॑ग्वो द॒ध्यङ्ङ॑पोर्णु॒ते येन॒ विप्रा᳚स आपि॒रे |{आङ्गिरस उरुः | पवमानः सोमः | सतोबृहती} दे॒वानां᳚ सु॒म्ने, अ॒मृत॑स्य॒ चारु॑णो॒ येन॒ श्रवां᳚स्यान॒शुः ||{4/16}{9.108.4}{9.7.5.4}{7.5.17.4}{1040, 831, 8730} येन॑¦नव॑ऽग्वः¦द॒ध्यङ्¦अ॒प॒ऽऊ॒र्णु॒ते¦येन॑¦विप्रा᳚सः¦आ॒पि॒रे | |
ए॒ष स्य धार॑या सु॒तोऽव्यो॒ वारे᳚भिः पवते म॒दिन्त॑मः |{आङ्गिरस उरुः | पवमानः सोमः | ककुभः} क्रीळ᳚न्नू॒र्मिर॒पामि॑व ||{5/16}{9.108.5}{9.7.5.5}{7.5.17.5}{1041, 831, 8731} ए॒षः¦स्यः¦धार॑या¦सु॒तः¦अव्यः॑¦वारे᳚भिः¦प॒व॒ते॒¦म॒दिन्ऽत॑मः | क्रीळ॑न्¦ऊ॒र्मिः¦अ॒पाम्ऽइ᳚व || |
य उ॒स्रिया॒, अप्या᳚, अ॒न्तरश्म॑नो॒ निर्गा, अकृ᳚न्त॒दोज॑सा |{भारद्वाजऋजिश्वः | पवमानः सोमः | सतोबृहती} अ॒भि व्र॒जं त॑त्निषे॒ गव्य॒मश्व्यं᳚ व॒र्मीव॑ धृष्ण॒वा रु॑ज ||{6/16}{9.108.6}{9.7.5.6}{7.5.18.1}{1042, 831, 8732} यः¦उ॒स्रियाः᳚¦अप्याः᳚¦अ॒न्तः¦अश्म॑नः¦निः¦गाः¦अकृ᳚न्तत्¦ओज॑सा | |
आ सो᳚ता॒ परि॑ षिञ्च॒ताश्वं॒ न स्तोम॑म॒प्तुरं᳚ रज॒स्तुर᳚म् |{भारद्वाजऋजिश्वः | पवमानः सोमः | ककुभः} व॒न॒क्र॒क्षमु॑द॒प्रुत᳚म् ||{7/16}{9.108.7}{9.7.5.7}{7.5.18.2}{1043, 831, 8733} आ¦सो॒त॒¦परि॑¦सिं॒च॒त॒¦अश्व᳚म्¦न¦स्तोम᳚म्¦अ॒प्ऽतुर᳚म्¦र॒जः॒ऽतुर᳚म् | व॒न॒ऽक्र॒क्षम्¦उ॒द॒ऽप्रुत᳚म् || |
स॒हस्र॑धारं वृष॒भं प॑यो॒वृधं᳚ प्रि॒यं दे॒वाय॒ जन्म॑ने |{आंगिरस ऊर्ध्वसद्मः | पवमानः सोमः | सतोबृहती} ऋ॒तेन॒ य ऋ॒तजा᳚तो विवावृ॒धे राजा᳚ दे॒व ऋ॒तं बृ॒हत् ||{8/16}{9.108.8}{9.7.5.8}{7.5.18.3}{1044, 831, 8734} स॒हस्र॑ऽधारम्¦वृ॒ष॒भम्¦प॒यः॒ऽवृध᳚म्¦प्रि॒यम्¦दे॒वाय॑¦जन्म॑ने | |
अ॒भि द्यु॒म्नं बृ॒हद्यश॒ इष॑स्पते दिदी॒हि दे᳚व देव॒युः |{आंगिरस ऊर्ध्वसद्मः | पवमानः सोमः | ककुभः} वि कोशं᳚ मध्य॒मं यु॑व ||{9/16}{9.108.9}{9.7.5.9}{7.5.18.4}{1045, 831, 8735} अ॒भि¦द्यु॒म्नम्¦बृ॒हत्¦यशः॑¦इषः॑¦प॒ते॒¦दि॒दी॒हि¦दे॒व॒¦दे॒व॒ऽयुः | वि¦कोश᳚म्¦म॒ध्य॒मम्¦यु॒व॒ || |
आ व॑च्यस्व सुदक्ष च॒म्वोः᳚ सु॒तो वि॒शां वह्नि॒र्न वि॒श्पतिः॑ |{आंगिरसः कृतयशः | पवमानः सोमः | सतोबृहती} वृ॒ष्टिं दि॒वः प॑वस्व री॒तिम॒पां जिन्वा॒ गवि॑ष्टये॒ धियः॑ ||{10/16}{9.108.10}{9.7.5.10}{7.5.18.5}{1046, 831, 8736} आ¦व॒च्य॒स्व॒¦सु॒ऽद॒क्ष॒¦च॒म्वोः᳚¦सु॒तः¦वि॒शाम्¦वह्निः॑¦न¦वि॒श्पतिः॑ | |
ए॒तमु॒ त्यं म॑द॒च्युतं᳚ स॒हस्र॑धारं वृष॒भं दिवो᳚ दुहुः |{आंगिरसः कृतयशः | पवमानः सोमः | ककुभः} विश्वा॒ वसू᳚नि॒ बिभ्र॑तम् ||{11/16}{9.108.11}{9.7.5.11}{7.5.19.1}{1047, 831, 8737} ए॒तम्¦ऊँ॒ इति॑¦त्यम्¦म॒द॒ऽच्युत᳚म्¦स॒हस्र॑ऽधारम्¦वृ॒ष॒भम्¦दिवः॑¦दु॒हुः॒ | विश्वा᳚¦वसू᳚नि¦बिभ्र॑तम् || |
वृषा॒ वि ज॑ज्ञे ज॒नय॒न्नम॑र्त्यः प्र॒तप॒ञ्ज्योति॑षा॒ तमः॑ |{ऋणंचयः | पवमानः सोमः | सतोबृहती} स सुष्टु॑तः क॒विभि᳚र्नि॒र्णिजं᳚ दधे त्रि॒धात्व॑स्य॒ दंस॑सा ||{12/16}{9.108.12}{9.7.5.12}{7.5.19.2}{1048, 831, 8738} वृषा᳚¦वि¦ज॒ज्ञे॒¦ज॒नय॑न्¦अम॑र्त्यः¦प्र॒ऽतप॑न्¦ज्योति॑षा¦तमः॑ | |
स सु᳚न्वे॒ यो वसू᳚नां॒ यो रा॒यामा᳚ने॒ता य इळा᳚नाम् |{ऋणंचयः | पवमानः सोमः | यवमध्यागायत्री} सोमो॒ यः सु॑क्षिती॒नाम् ||{13/16}{9.108.13}{9.7.5.13}{7.5.19.3}{1049, 831, 8739} सः¦सु॒न्वे॒¦यः¦वसू᳚नाम्¦यः¦रा॒याम्¦आ॒ऽने॒ता¦यः¦इळा᳚नाम् | सोमः॑¦यः¦सु॒ऽक्षि॒ती॒नाम् || |
यस्य॑ न॒ इन्द्रः॒ पिबा॒द्यस्य॑ म॒रुतो॒ यस्य॑ वार्य॒मणा॒ भगः॑ |{वसिष्ठःशक्तिः | पवमानः सोमः | सतोबृहती} आ येन॑ मि॒त्रावरु॑णा॒ करा᳚मह॒ एन्द्र॒मव॑से म॒हे ||{14/16}{9.108.14}{9.7.5.14}{7.5.19.4}{1050, 831, 8740} यस्य॑¦नः॒¦इन्द्रः॑¦पिबा᳚त्¦यस्य॑¦म॒रुतः॑¦यस्य॑¦वा॒¦अ॒र्य॒मणा᳚¦भगः॑ | |
इन्द्रा᳚य सोम॒ पात॑वे॒ नृभि᳚र्य॒तः स्वा᳚यु॒धो म॒दिन्त॑मः |{वसिष्ठःशक्तिः | पवमानः सोमः | ककुभः} पव॑स्व॒ मधु॑मत्तमः ||{15/16}{9.108.15}{9.7.5.15}{7.5.19.5}{1051, 831, 8741} इन्द्रा᳚य¦सो॒म॒¦पात॑वे¦नृऽभिः॑¦य॒तः¦सु॒ऽआ॒यु॒धः¦म॒दिन्ऽत॑मः | पव॑स्व¦मधु॑मत्ऽतमः || |
इन्द्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श समु॒द्रमि॑व॒ सिन्ध॑वः |{वसिष्ठःशक्तिः | पवमानः सोमः | सतोबृहती} जुष्टो᳚ मि॒त्राय॒ वरु॑णाय वा॒यवे᳚ दि॒वो वि॑ष्ट॒म्भ उ॑त्त॒मः ||{16/16}{9.108.16}{9.7.5.16}{7.5.19.6}{1052, 831, 8742} इन्द्र॑स्य¦हार्दि॑¦सो॒म॒ऽधान᳚म्¦आ¦वि॒श॒¦स॒मु॒द्रम्ऽइ᳚व¦सिन्ध॑वः | |
[109] परिप्रेतिद्वाविंशत्यृचस्य सूक्तस्यैश्वरयोधिष्ण्याग्नयः पवमान सोमोद्विपदा विराट् | |
परि॒ प्र ध॒न्वेन्द्रा᳚य सोम स्वा॒दुर्मि॒त्राय॑ पू॒ष्णे भगा᳚य ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{1/22}{9.109.1}{9.7.6.1}{7.5.20.1}{1053, 832, 8743} परि॑¦प्र¦ध॒न्व॒¦इन्द्रा᳚य¦सो॒म॒¦स्वा॒दुः¦मि॒त्राय॑¦पू॒ष्णे¦भगा᳚य || |
इन्द्र॑स्ते सोम सु॒तस्य॑ पेयाः॒ क्रत्वे॒ दक्षा᳚य॒ विश्वे᳚ च दे॒वाः ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{2/22}{9.109.2}{9.7.6.2}{7.5.20.2}{1054, 832, 8744} इन्द्रः॑¦ते॒¦सो॒म॒¦सु॒तस्य॑¦पे॒याः॒¦क्रत्वे᳚¦दक्षा᳚य¦विश्वे᳚¦च॒¦दे॒वाः || |
ए॒वामृता᳚य म॒हे क्षया᳚य॒ स शु॒क्रो, अ॑र्ष दि॒व्यः पी॒यूषः॑ ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{3/22}{9.109.3}{9.7.6.3}{7.5.20.3}{1055, 832, 8745} ए॒व¦अ॒मृता᳚य¦म॒हे¦क्षया᳚य¦सः¦शु॒क्रः¦अ॒र्ष॒¦दि॒व्यः¦पी॒यूषः॑ || |
पव॑स्व सोम म॒हान् त्स॑मु॒द्रः पि॒ता दे॒वानां॒ विश्वा॒भि धाम॑ ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{4/22}{9.109.4}{9.7.6.4}{7.5.20.4}{1056, 832, 8746} पव॑स्व¦सो॒म॒¦म॒हान्¦स॒मु॒द्रः¦पि॒ता¦दे॒वाना᳚म्¦विश्वा᳚¦अ॒भि¦धाम॑ || |
शु॒क्रः प॑वस्व दे॒वेभ्यः॑ सोम दि॒वे पृ॑थि॒व्यै शं च॑ प्र॒जायै᳚ ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{5/22}{9.109.5}{9.7.6.5}{7.5.20.5}{1057, 832, 8747} शु॒क्रः¦प॒व॒स्व॒¦दे॒वेभ्यः॑¦सो॒म॒¦दि॒वे¦पृ॒थि॒व्यै¦शम्¦च॒¦प्र॒ऽजायै᳚ || |
दि॒वो ध॒र्तासि॑ शु॒क्रः पी॒यूषः॑ स॒त्ये विध᳚र्मन्वा॒जी प॑वस्व ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{6/22}{9.109.6}{9.7.6.6}{7.5.20.6}{1058, 832, 8748} दि॒वः¦ध॒र्ता¦अ॒सि॒¦शु॒क्रः¦पी॒यूषः॑¦स॒त्ये¦विऽध᳚र्मन्¦वा॒जी¦प॒व॒स्व॒ || |
पव॑स्व सोम द्यु॒म्नी सु॑धा॒रो म॒हामवी᳚ना॒मनु॑ पू॒र्व्यः ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{7/22}{9.109.7}{9.7.6.7}{7.5.20.7}{1059, 832, 8749} पव॑स्व¦सो॒म॒¦द्यु॒म्नी¦सु॒ऽधा॒रः¦म॒हाम्¦अवी᳚नाम्¦अनु॑¦पू॒र्व्यः || |
नृभि᳚र्येमा॒नो ज॑ज्ञा॒नः पू॒तः, क्षर॒द्विश्वा᳚नि म॒न्द्रः स्व॒र्वित् ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{8/22}{9.109.8}{9.7.6.8}{7.5.20.8}{1060, 832, 8750} नृऽभिः॑¦ये॒मा॒नः¦ज॒ज्ञा॒नः¦पू॒तः¦क्षर॑त्¦विश्वा᳚नि¦म॒न्द्रः¦स्वः॒ऽवित् || |
इन्दुः॑ पुना॒नः प्र॒जामु॑रा॒णः कर॒द्विश्वा᳚नि॒ द्रवि॑णानि नः ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{9/22}{9.109.9}{9.7.6.9}{7.5.20.9}{1061, 832, 8751} इन्दुः॑¦पु॒ना॒नः¦प्र॒ऽजाम्¦उ॒रा॒णः¦क॒र॒त्¦विश्वा᳚नि¦द्रवि॑णानि¦नः॒ || |
पव॑स्व सोम॒ क्रत्वे॒ दक्षा॒याश्वो॒ न नि॒क्तो वा॒जी धना᳚य ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{10/22}{9.109.10}{9.7.6.10}{7.5.20.10}{1062, 832, 8752} पव॑स्व¦सो॒म॒¦क्रत्वे᳚¦दक्षा᳚य¦अश्वः॑¦न¦नि॒क्तः¦वा॒जी¦धना᳚य || |
तं ते᳚ सो॒तारो॒ रसं॒ मदा᳚य पु॒नन्ति॒ सोमं᳚ म॒हे द्यु॒म्नाय॑ ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{11/22}{9.109.11}{9.7.6.11}{7.5.21.1}{1063, 832, 8753} तम्¦ते॒¦सो॒तारः॑¦रस᳚म्¦मदा᳚य¦पु॒नन्ति॑¦सोम᳚म्¦म॒हे¦द्यु॒म्नाय॑ || |
शिशुं᳚ जज्ञा॒नं हरिं᳚ मृजन्ति प॒वित्रे॒ सोमं᳚ दे॒वेभ्य॒ इन्दु᳚म् ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{12/22}{9.109.12}{9.7.6.12}{7.5.21.2}{1064, 832, 8754} शिशु᳚म्¦ज॒ज्ञा॒नम्¦हरि᳚म्¦मृ॒ज॒न्ति॒¦प॒वित्रे᳚¦सोम᳚म्¦दे॒वेभ्यः॑¦इन्दु᳚म् || |
इन्दुः॑ पविष्ट॒ चारु॒र्मदा᳚या॒पामु॒पस्थे᳚ क॒विर्भगा᳚य ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{13/22}{9.109.13}{9.7.6.13}{7.5.21.3}{1065, 832, 8755} इन्दुः॑¦प॒वि॒ष्ट॒¦चारुः॑¦मदा᳚य¦अ॒पाम्¦उ॒पऽस्थे᳚¦क॒विः¦भगा᳚य || |
बिभ॑र्ति॒ चार्विन्द्र॑स्य॒ नाम॒ येन॒ विश्वा᳚नि वृ॒त्रा ज॒घान॑ ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{14/22}{9.109.14}{9.7.6.14}{7.5.21.4}{1066, 832, 8756} बिभ॑र्ति¦चारु॑¦इन्द्र॑स्य¦नाम॑¦येन॑¦विश्वा᳚नि¦वृ॒त्रा¦ज॒घान॑ || |
पिब᳚न्त्यस्य॒ विश्वे᳚ दे॒वासो॒ गोभिः॑ श्री॒तस्य॒ नृभिः॑ सु॒तस्य॑ ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{15/22}{9.109.15}{9.7.6.15}{7.5.21.5}{1067, 832, 8757} पिब᳚न्ति¦अ॒स्य॒¦विश्वे᳚¦दे॒वासः॑¦गोभिः॑¦श्री॒तस्य॑¦नृऽभिः॑¦सु॒तस्य॑ || |
प्र सु॑वा॒नो, अ॑क्षाः स॒हस्र॑धारस्ति॒रः प॒वित्रं॒ वि वार॒मव्य᳚म् ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{16/22}{9.109.16}{9.7.6.16}{7.5.21.6}{1068, 832, 8758} प्र¦सु॒वा॒नः¦अ॒क्षा॒रिति॑¦स॒हस्र॑ऽधारः¦ति॒रः¦प॒वित्र᳚म्¦वि¦वार᳚म्¦अव्य᳚म् || |
स वा॒ज्य॑क्षाः स॒हस्र॑रेता, अ॒द्भिर्मृ॑जा॒नो गोभिः॑ श्रीणा॒नः ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{17/22}{9.109.17}{9.7.6.17}{7.5.21.7}{1069, 832, 8759} सः¦वा॒जी¦अ॒क्षा॒रिति॑¦स॒हस्र॑ऽरेताः¦अ॒त्ऽभिः¦मृ॒जा॒नः¦गोभिः॑¦श्री॒णा॒नः || |
प्र सो᳚म या॒हीन्द्र॑स्य कु॒क्षा नृभि᳚र्येमा॒नो, अद्रि॑भिः सु॒तः ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{18/22}{9.109.18}{9.7.6.18}{7.5.21.8}{1070, 832, 8760} प्र¦सो॒म॒¦या॒हि॒¦इन्द्र॑स्य¦कु॒क्षा¦नृऽभिः॑¦ये॒मा॒नः¦अद्रि॑ऽभिः¦सु॒तः || |
अस॑र्जि वा॒जी ति॒रः प॒वित्र॒मिन्द्रा᳚य॒ सोमः॑ स॒हस्र॑धारः ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{19/22}{9.109.19}{9.7.6.19}{7.5.21.9}{1071, 832, 8761} अस॑र्जि¦वा॒जी¦ति॒रः¦प॒वित्र᳚म्¦इन्द्रा᳚य¦सोमः॑¦स॒हस्र॑ऽधारः || |
अ॒ञ्जन्त्ये᳚नं॒ मध्वो॒ रसे॒नेन्द्रा᳚य॒ वृष्ण॒ इन्दुं॒ मदा᳚य ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{20/22}{9.109.20}{9.7.6.20}{7.5.21.10}{1072, 832, 8762} अं॒जन्ति॑¦ए॒न॒म्¦मध्वः॑¦रसे᳚न¦इन्द्रा᳚य¦वृष्णे᳚¦इन्दु᳚म्¦मदा᳚य || |
दे॒वेभ्य॑स्त्वा॒ वृथा॒ पाज॑से॒ऽपो वसा᳚नं॒ हरिं᳚ मृजन्ति ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{21/22}{9.109.21}{9.7.6.21}{7.5.21.11}{1073, 832, 8763} दे॒वेभ्यः॑¦त्वा॒¦वृथा᳚¦पाज॑से¦अ॒पः¦वसा᳚नम्¦हरि᳚म्¦मृ॒ज॒न्ति॒ || |
इन्दु॒रिन्द्रा᳚य तोशते॒ नि तो᳚शते श्री॒णन्नु॒ग्रो रि॒णन्न॒पः ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{22/22}{9.109.22}{9.7.6.22}{7.5.21.12}{1074, 832, 8764} इन्दुः॑¦इन्द्रा᳚य¦तो॒श॒ते॒¦नि¦तो॒श॒ते॒¦श्री॒णन्¦उ॒ग्रः¦रि॒णन्¦अ॒पः || |
[110] पर्यूष्विति द्वादशर्चस्य सूक्तस्य त्र्यरुणत्रसदस्यू राजानौ पवमान सोमः आद्यास्तिस्रोनुष्टुभः पिपीलिकमध्याः चतुर्थ्यादिषळूर्ध्व बृहत्योंऽत्यास्तिस्रोविराजः | |
पर्यू॒ षु प्र ध᳚न्व॒ वाज॑सातये॒ परि॑ वृ॒त्राणि॑ स॒क्षणिः॑ |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | अनुष्टुप्} द्वि॒षस्त॒रध्या᳚ ऋण॒या न॑ ईयसे ||{1/12}{9.110.1}{9.7.7.1}{7.5.22.1}{1075, 833, 8765} परि॑¦ऊँ॒ इति॑¦सु¦प्र¦ध॒न्व॒¦वाज॑ऽसातये¦परि॑¦वृ॒त्राणि॑¦स॒क्षणिः॑ | द्वि॒षः¦त॒रध्यै᳚¦ऋ॒ण॒ऽयाः¦नः॒¦ई॒य॒से॒ || |
अनु॒ हि त्वा᳚ सु॒तं सो᳚म॒ मदा᳚मसि म॒हे स॑मर्य॒राज्ये᳚ |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | अनुष्टुप्} वाजाँ᳚, अ॒भि प॑वमान॒ प्र गा᳚हसे ||{2/12}{9.110.2}{9.7.7.2}{7.5.22.2}{1076, 833, 8766} अनु॑¦हि¦त्वा॒¦सु॒तम्¦सो॒म॒¦मदा᳚मसि¦म॒हे¦स॒म॒र्य॒ऽराज्ये᳚ | वाजा᳚न्¦अ॒भि¦प॒व॒मा॒न॒¦प्र¦गा॒ह॒से॒ || |
अजी᳚जनो॒ हि प॑वमान॒ सूर्यं᳚ वि॒धारे॒ शक्म॑ना॒ पयः॑ |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | अनुष्टुप्} गोजी᳚रया॒ रंह॑माणः॒ पुरं᳚ध्या ||{3/12}{9.110.3}{9.7.7.3}{7.5.22.3}{1077, 833, 8767} अजी᳚जनः¦हि¦प॒व॒मा॒न॒¦सूर्य᳚म्¦वि॒ऽधारे᳚¦शक्म॑ना¦पयः॑ | गोऽजी᳚रया¦रंह॑माणः¦पुर᳚न्ध्या || |
अजी᳚जनो, अमृत॒ मर्त्ये॒ष्वाँ, ऋ॒तस्य॒ धर्म᳚न्न॒मृत॑स्य॒ चारु॑णः |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती} सदा᳚सरो॒ वाज॒मच्छा॒ सनि॑ष्यदत् ||{4/12}{9.110.4}{9.7.7.4}{7.5.22.4}{1078, 833, 8768} अजी᳚जनः¦अ॒मृ॒त॒¦मर्त्ये᳚षु¦आ¦ऋ॒तस्य॑¦धर्म॑न्¦अ॒मृत॑स्य¦चारु॑णः | |
अ॒भ्य॑भि॒ हि श्रव॑सा त॒तर्दि॒थोत्सं॒ न कं चि॑ज्जन॒पान॒मक्षि॑तम् |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती} शर्या᳚भि॒र्न भर॑माणो॒ गभ॑स्त्योः ||{5/12}{9.110.5}{9.7.7.5}{7.5.22.5}{1079, 833, 8769} अ॒भि।आ॑भि¦हि¦श्रव॑सा¦त॒तर्दि॑थ¦उत्स᳚म्¦न¦कम्¦चि॒त्¦ज॒न॒ऽपान᳚म्¦अक्षि॑तम् | |
आदीं॒ के चि॒त्पश्य॑मानास॒ आप्यं᳚ वसु॒रुचो᳚ दि॒व्या, अ॒भ्य॑नूषत |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती} वारं॒ न दे॒वः स॑वि॒ता व्यू᳚र्णुते ||{6/12}{9.110.6}{9.7.7.6}{7.5.22.6}{1080, 833, 8770} आत्¦ई॒म्¦के¦चि॒त्¦पश्य॑मानासः¦आप्य᳚म्¦व॒सु॒ऽरुचः॑¦दि॒व्याः¦अ॒भि¦अ॒नू॒ष॒त॒ | |
त्वे सो᳚म प्रथ॒मा वृ॒क्तब᳚र्हिषो म॒हे वाजा᳚य॒ श्रव॑से॒ धियं᳚ दधुः |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती} स त्वं नो᳚ वीर वी॒र्या᳚य चोदय ||{7/12}{9.110.7}{9.7.7.7}{7.5.23.1}{1081, 833, 8771} त्वे इति॑¦सो॒म॒¦प्र॒थ॒माः¦वृ॒क्तऽब॑र्हिषः¦म॒हे¦वाजा᳚य¦श्रव॑से¦धिय᳚म्¦द॒धुः॒ | |
दि॒वः पी॒यूषं᳚ पू॒र्व्यं यदु॒क्थ्यं᳚ म॒हो गा॒हाद्दि॒व आ निर॑धुक्षत |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती} इन्द्र॑म॒भि जाय॑मानं॒ सम॑स्वरन् ||{8/12}{9.110.8}{9.7.7.8}{7.5.23.2}{1082, 833, 8772} दि॒वः¦पी॒यूष᳚म्¦पू॒र्व्यम्¦यत्¦उ॒क्थ्य᳚म्¦म॒हः¦गा॒हात्¦दि॒वः¦आ¦निः¦अ॒धु॒क्ष॒त॒ | |
अध॒ यदि॒मे प॑वमान॒ रोद॑सी, इ॒मा च॒ विश्वा॒ भुव॑ना॒भि म॒ज्मना᳚ |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती} यू॒थे न नि॒ष्ठा वृ॑ष॒भो वि ति॑ष्ठसे ||{9/12}{9.110.9}{9.7.7.9}{7.5.23.3}{1083, 833, 8773} अध॑¦यत्¦इ॒मे इति॑¦प॒व॒मा॒न॒¦रोद॑सी॒ इति॑¦इ॒मा¦च॒¦विश्वा᳚¦भुव॑ना¦अ॒भि¦म॒ज्मना᳚ | |
सोमः॑ पुना॒नो, अ॒व्यये॒ वारे॒ शिशु॒र्न क्रीळ॒न् पव॑मानो, अक्षाः |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | विराट्} स॒हस्र॑धारः श॒तवा᳚ज॒ इन्दुः॑ ||{10/12}{9.110.10}{9.7.7.10}{7.5.23.4}{1084, 833, 8774} सोमः॑¦पु॒ना॒नः¦अ॒व्यये᳚¦वारे᳚¦शिशुः॑¦न¦क्रीळ॑न्¦पव॑मानः¦अ॒क्षा॒रिति॑ | स॒हस्र॑ऽधारः¦श॒तऽवा᳚जः¦इन्दुः॑ || |
ए॒ष पु॑ना॒नो मधु॑माँ, ऋ॒तावेन्द्रा॒येन्दुः॑ पवते स्वा॒दुरू॒र्मिः |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | विराट्} वा॒ज॒सनि᳚र्वरिवो॒विद्व॑यो॒धाः ||{11/12}{9.110.11}{9.7.7.11}{7.5.23.5}{1085, 833, 8775} ए॒षः¦पु॒ना॒नः¦मधु॑ऽमान्¦ऋ॒तऽवा᳚¦इन्द्रा᳚य¦इन्दुः॑¦प॒व॒ते॒¦स्वा॒दुः¦ऊ॒र्मिः | वा॒ज॒ऽसनिः॑¦व॒रि॒वः॒ऽवित्¦व॒यः॒ऽधाः || |
स प॑वस्व॒ सह॑मानः पृत॒न्यून् त्सेध॒न् रक्षां॒स्यप॑ दु॒र्गहा᳚णि |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | विराट्} स्वा॒यु॒धः सा᳚स॒ह्वान् त्सो᳚म॒ शत्रू॑न् ||{12/12}{9.110.12}{9.7.7.12}{7.5.23.6}{1086, 833, 8776} सः¦प॒व॒स्व॒¦सह॑मानः¦पृ॒त॒न्यून्¦सेध॑न्¦रक्षां᳚सि¦अप॑¦दुः॒ऽगहा᳚णि | सु॒ऽआ॒यु॒धः¦स॒स॒ह्वान्¦सो॒म॒¦शत्रू॑न् || |
[111] अयारुचेति तृचस्य सूक्तस्य पारुच्छेपिरनानतः पवमान सोमोत्यष्टिः | |
अ॒या रु॒चा हरि᳚ण्या पुना॒नो विश्वा॒ द्वेषां᳚सि तरति स्व॒युग्व॑भिः॒ सूरो॒ न स्व॒युग्व॑भिः |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः} धारा᳚ सु॒तस्य॑ रोचते पुना॒नो, अ॑रु॒षो हरिः॑ |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः} विश्वा॒ यद्रू॒पा प॑रि॒यात्यृक्व॑भिः स॒प्तास्ये᳚भि॒रृक्व॑भिः ||{1/3}{9.111.1}{9.7.8.1}{7.5.24.1}{1087, 834, 8777} अ॒या¦रु॒चा¦हरि᳚ण्या¦पु॒ना॒नः¦विश्वा᳚¦द्वेषां᳚सि¦त॒र॒ति॒¦स्व॒युग्व॑ऽभिः¦सूरः॑¦न¦स्व॒युग्व॑ऽभिः | |
त्वं त्यत्प॑णी॒नां वि॑दो॒ वसु॒ सं मा॒तृभि᳚र्मर्जयसि॒ स्व आ दम॑ ऋ॒तस्य॑ धी॒तिभि॒र्दमे᳚ |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः} प॒रा॒वतो॒ न साम॒ तद्यत्रा॒ रण᳚न्ति धी॒तयः॑ |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः} त्रि॒धातु॑भि॒ररु॑षीभि॒र्वयो᳚ दधे॒ रोच॑मानो॒ वयो᳚ दधे ||{2/3}{9.111.2}{9.7.8.2}{7.5.24.2}{1088, 834, 8778} त्वम्¦त्यत्¦प॒णी॒नाम्¦वि॒दः॒¦वसु॑¦सम्¦मा॒तृऽभिः॑¦म॒र्ज॒य॒सि॒¦स्वे¦आ¦दमे᳚¦ऋ॒तस्य॑¦धी॒तिऽभिः॑¦दमे᳚ | |
पूर्वा॒मनु॑ प्र॒दिशं᳚ याति॒ चेकि॑त॒त्सं र॒श्मिभि᳚र्यतते दर्श॒तो रथो॒ दैव्यो᳚ दर्श॒तो रथः॑ |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः} अग्म᳚न्नु॒क्थानि॒ पौंस्येन्द्रं॒ जैत्रा᳚य हर्षयन् |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः} वज्र॑श्च॒ यद्भव॑थो॒, अन॑पच्युता स॒मत्स्वन॑पच्युता ||{3/3}{9.111.3}{9.7.8.3}{7.5.24.3}{1089, 834, 8779} पूर्वा᳚म्¦अनु॑¦प्र॒ऽदिश᳚म्¦या॒ति॒¦चेकि॑तत्¦सम्¦र॒श्मिऽभिः॑¦य॒त॒ते॒¦द॒र्श॒तः¦रथः॑¦दैव्यः॑¦द॒र्श॒तः¦रथः॑ | |
[112] नानानमिति चतुरृचस्य सूक्तस्यांगिरसः शिशुः पवमानसोमःपंक्तिः | |
ना॒ना॒नं वा, उ॑ नो॒ धियो॒ वि व्र॒तानि॒ जना᳚नाम् |{आंगिरसः शिशुः | पवमानः सोमः | पङ्क्तिः} तक्षा᳚ रि॒ष्टं रु॒तं भि॒षग्ब्र॒ह्मा सु॒न्वन्त॑मिच्छ॒तीन्द्रा᳚येन्दो॒ परि॑ स्रव ||{1/4}{9.112.1}{9.7.9.1}{7.5.25.1}{1090, 835, 8780} ना॒ना॒नम्¦वै¦ऊँ॒ इति॑¦नः॒¦धियः॑¦वि¦व्र॒तानि॑¦जना᳚नाम् | |
जर॑तीभि॒रोष॑धीभिः प॒र्णेभिः॑ शकु॒नाना᳚म् |{आंगिरसः शिशुः | पवमानः सोमः | पङ्क्तिः} का॒र्मा॒रो, अश्म॑भि॒र्द्युभि॒र्हिर᳚ण्यवन्तमिच्छ॒तीन्द्रा᳚येन्दो॒ परि॑ स्रव ||{2/4}{9.112.2}{9.7.9.2}{7.5.25.2}{1091, 835, 8781} जर॑तीभिः¦ओष॑धीभिः¦प॒र्णेभिः॑¦श॒कु॒नाना᳚म् | |
का॒रुर॒हं त॒तो भि॒षगु॑पलप्र॒क्षिणी᳚ न॒ना |{आंगिरसः शिशुः | पवमानः सोमः | पङ्क्तिः} नाना᳚धियो वसू॒यवोऽनु॒ गा, इ॑व तस्थि॒मेन्द्रा᳚येन्दो॒ परि॑ स्रव ||{3/4}{9.112.3}{9.7.9.3}{7.5.25.3}{1092, 835, 8782} का॒रुः¦अ॒हम्¦त॒तः¦भि॒षक्¦उ॒प॒ल॒ऽप्र॒क्षिणी᳚¦न॒ना | |
अश्वो॒ वोळ्हा᳚ सु॒खं रथं᳚ हस॒नामु॑पम॒न्त्रिणः॑ |{आंगिरसः शिशुः | पवमानः सोमः | पङ्क्तिः} शेपो॒ रोम᳚ण्वन्तौ भे॒दौ वारिन्म॒ण्डूक॑ इच्छ॒तीन्द्रा᳚येन्दो॒ परि॑ स्रव ||{4/4}{9.112.4}{9.7.9.4}{7.5.25.4}{1093, 835, 8783} अश्वः॑¦वोळ्हा᳚¦सु॒ऽखम्¦रथ᳚म्¦ह॒स॒नाम्¦उ॒प॒ऽम॒न्त्रिणः॑ | |
[113] शर्यणावतीत्येकादशर्चस्य सूक्तस्य मारीचः कश्यपः पवमानसोमः पंक्तिः | |
श॒र्य॒णाव॑ति॒ सोम॒मिन्द्रः॑ पिबतु वृत्र॒हा |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} बलं॒ दधा᳚न आ॒त्मनि॑ करि॒ष्यन्वी॒र्यं᳚ म॒हदिन्द्रा᳚येन्दो॒ परि॑ स्रव ||{1/11}{9.113.1}{9.7.10.1}{7.5.26.1}{1094, 836, 8784} श॒र्य॒णाऽव॑ति¦सोम᳚म्¦इन्द्रः॑¦पि॒ब॒तु॒¦वृ॒त्र॒ऽहा | |
आ प॑वस्व दिशां पत आर्जी॒कात्सो᳚म मीढ्वः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} ऋ॒त॒वा॒केन॑ स॒त्येन॑ श्र॒द्धया॒ तप॑सा सु॒त इन्द्रा᳚येन्दो॒ परि॑ स्रव ||{2/11}{9.113.2}{9.7.10.2}{7.5.26.2}{1095, 836, 8785} आ¦प॒व॒स्व॒¦दि॒शा॒म्¦प॒ते॒¦आ॒र्जी॒कात्¦सोम॑¦मीढ्वः॑ | |
प॒र्जन्य॑वृद्धं महि॒षं तं सूर्य॑स्य दुहि॒ताभ॑रत् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} तं ग᳚न्ध॒र्वाः प्रत्य॑गृभ्ण॒न्तं सोमे॒ रस॒माद॑धु॒रिन्द्रा᳚येन्दो॒ परि॑ स्रव ||{3/11}{9.113.3}{9.7.10.3}{7.5.26.3}{1096, 836, 8786} प॒र्जन्य॑ऽवृद्धम्¦म॒हि॒षम्¦तम्¦सूर्य॑स्य¦दु॒हि॒ता¦आ¦अ॒भ॒र॒त् | |
ऋ॒तं वद᳚न्नृतद्युम्न स॒त्यं वद᳚न् त्सत्यकर्मन् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} श्र॒द्धां वद᳚न् त्सोम राजन्धा॒त्रा सो᳚म॒ परि॑ष्कृत॒ इन्द्रा᳚येन्दो॒ परि॑ स्रव ||{4/11}{9.113.4}{9.7.10.4}{7.5.26.4}{1097, 836, 8787} ऋ॒तम्¦वद॑न्¦ऋ॒त॒ऽद्यु॒म्न॒¦स॒त्यम्¦वद॑न्¦स॒त्य॒ऽक॒र्म॒न् | |
स॒त्यमु॑ग्रस्य बृह॒तः सं स्र॑वन्ति संस्र॒वाः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} सं य᳚न्ति र॒सिनो॒ रसाः᳚ पुना॒नो ब्रह्म॑णा हर॒ इन्द्रा᳚येन्दो॒ परि॑ स्रव ||{5/11}{9.113.5}{9.7.10.5}{7.5.26.5}{1098, 836, 8788} स॒त्यम्।औ᳚ग्रस्य¦बृ॒ह॒तः¦सम्¦स्र॒व॒न्ति॒¦स॒म्ऽस्र॒वाः | |
यत्र॑ ब्र॒ह्मा प॑वमान छन्द॒स्या॒३॑(आं॒) वाचं॒ वद॑न् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} ग्राव्णा॒ सोमे᳚ मही॒यते॒ सोमे᳚नान॒न्दं ज॒नय॒न्निन्द्रा᳚येन्दो॒ परि॑ स्रव ||{6/11}{9.113.6}{9.7.10.6}{7.5.27.1}{1099, 836, 8789} यत्र॑¦ब्र॒ह्मा¦प॒व॒मा॒न॒¦छ॒न्द॒स्या᳚म्¦वाच᳚म्¦वद॑न् | |
यत्र॒ ज्योति॒रज॑स्रं॒ यस्मिँ᳚ल्लो॒के स्व᳚र्हि॒तम् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} तस्मि॒न्मां धे᳚हि पवमाना॒मृते᳚ लो॒के, अक्षि॑त॒ इन्द्रा᳚येन्दो॒ परि॑ स्रव ||{7/11}{9.113.7}{9.7.10.7}{7.5.27.2}{1100, 836, 8790} यत्र॑¦ज्योतिः॑¦अज॑स्रम्¦यस्मि॑न्¦लो॒के¦स्वः॑¦हि॒तम् | |
यत्र॒ राजा᳚ वैवस्व॒तो यत्रा᳚व॒रोध॑नं दि॒वः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} यत्रा॒मूर्य॒ह्वती॒राप॒स्तत्र॒ माम॒मृतं᳚ कृ॒धीन्द्रा᳚येन्दो॒ परि॑ स्रव ||{8/11}{9.113.8}{9.7.10.8}{7.5.27.3}{1101, 836, 8791} यत्र॑¦राजा᳚¦वै॒व॒स्व॒तः¦यत्र॑¦अ॒व॒ऽरोध॑नम्¦दि॒वः | |
यत्रा᳚नुका॒मं चर॑णं त्रिना॒के त्रि॑दि॒वे दि॒वः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} लो॒का यत्र॒ ज्योति॑ष्मन्त॒स्तत्र॒ माम॒मृतं᳚ कृ॒धीन्द्रा᳚येन्दो॒ परि॑ स्रव ||{9/11}{9.113.9}{9.7.10.9}{7.5.27.4}{1102, 836, 8792} यत्र॑¦अ॒नु॒ऽका॒मम्¦चर॑णम्¦त्रि॒ऽना॒के¦त्रि॒ऽदि॒वे¦दि॒वः | |
यत्र॒ कामा᳚ निका॒माश्च॒ यत्र॑ ब्र॒ध्नस्य॑ वि॒ष्टप᳚म् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} स्व॒धा च॒ यत्र॒ तृप्ति॑श्च॒ तत्र॒ माम॒मृतं᳚ कृ॒धीन्द्रा᳚येन्दो॒ परि॑ स्रव ||{10/11}{9.113.10}{9.7.10.10}{7.5.27.5}{1103, 836, 8793} यत्र॑¦कामाः᳚¦नि॒ऽका॒माः¦च॒¦यत्र॑¦ब्र॒ध्नस्य॑¦वि॒ष्टप᳚म् | |
यत्रा᳚न॒न्दाश्च॒ मोदा᳚श्च॒ मुदः॑ प्र॒मुद॒ आस॑ते |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} काम॑स्य॒ यत्रा॒प्ताः कामा॒स्तत्र॒ माम॒मृतं᳚ कृ॒धीन्द्रा᳚येन्दो॒ परि॑ स्रव ||{11/11}{9.113.11}{9.7.10.11}{7.5.27.6}{1104, 836, 8794} यत्र॑¦आ॒ऽन॒न्दाः¦च॒¦मोदाः᳚¦च॒¦मुदः॑¦प्र॒ऽमुदः॑¦आस॑ते | |
[114] यइंदोरिति चतुरृचस्य सूक्तस्य मारीचः कश्यपः पवमानसोमःपंक्तिः | |
य इन्दोः॒ पव॑मान॒स्यानु॒ धामा॒न्यक्र॑मीत् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} तमा᳚हुः सुप्र॒जा, इति॒ यस्ते᳚ सो॒मावि॑ध॒न्मन॒ इन्द्रा᳚येन्दो॒ परि॑ स्रव ||{1/4}{9.114.1}{9.7.11.1}{7.5.28.1}{1105, 837, 8795} यः¦इन्दोः᳚¦पव॑मानस्य¦अनु॑¦धामा᳚नि¦अक्र॑मीत् | |
ऋषे᳚ मन्त्र॒कृतां॒ स्तोमैः॒ कश्य॑पोद्व॒र्धय॒न् गिरः॑ |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} सोमं᳚ नमस्य॒ राजा᳚नं॒ यो ज॒ज्ञे वी॒रुधां॒ पति॒रिन्द्रा᳚येन्दो॒ परि॑ स्रव ||{2/4}{9.114.2}{9.7.11.2}{7.5.28.2}{1106, 837, 8796} ऋषे᳚¦म॒न्त्र॒ऽकृता᳚म्¦स्तोमैः᳚¦कश्य॑प¦उ॒त्ऽव॒र्धय॑न्¦गिरः॑ | |
स॒प्त दिशो॒ नाना᳚सूर्याः स॒प्त होता᳚र ऋ॒त्विजः॑ |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} दे॒वा, आ᳚दि॒त्या ये स॒प्त तेभिः॑ सोमा॒भि र॑क्ष न॒ इन्द्रा᳚येन्दो॒ परि॑ स्रव ||{3/4}{9.114.3}{9.7.11.3}{7.5.28.3}{1107, 837, 8797} स॒प्त¦दिशः॑¦नाना᳚ऽसूर्याः¦स॒प्त¦होता᳚रः¦ऋ॒त्विजः॑ | |
यत्ते᳚ राजञ्छृ॒तं ह॒विस्तेन॑ सोमा॒भि र॑क्ष नः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} अ॒रा॒ती॒वा मा न॑स्तारी॒न्मो च॑ नः॒ किं च॒नाम॑म॒दिन्द्रा᳚येन्दो॒ परि॑ स्रव ||{4/4}{9.114.4}{9.7.11.4}{7.5.28.4}{1108, 837, 8798} यत्¦ते॒¦रा॒ज॒न्¦शृ॒तम्¦ह॒विः¦तेन॑¦सो॒म॒¦अ॒भि¦र॒क्ष॒¦नः॒ | |