|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||

|| ऋग्वेद संहिता (मंडल: 10) ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
Mantra classification is following this convention{मंडल,सूक्त,मंत्र}{मंडल,अनुवाक,सूक्त,मंत्र}{अष्टक,अध्याय,वर्ग,मंत्र}{मंडल मन्त्र संख्या,ऋक्संहित सूक्त संख्या,ऋक्संहित मन्त्र संख्या}
[Last updated on: 03-Jun-2025]

[1] अग्नेबृहन्निति सप्तर्चस्य सूक्तस्याप्त्यस्त्रितोग्निस्त्रिष्टुप् |
अग्रे᳚ बृ॒हन्नु॒षसा᳚मू॒र्ध्वो, अ॑स्थान्निर्जग॒न्वान्‌ तम॑सो॒ ज्योति॒षागा᳚त् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ जा॒तो विश्वा॒ सद्मा᳚न्यप्राः ||{1/7}{10.1.1}{10.1.1.1}{7.5.29.1}{1, 838, 8799}

अग्रे᳚¦बृ॒हन्¦उ॒षसा᳚‌म्¦ऊ॒र्ध्वः¦अ॒स्था॒त्¦निः॒ऽज॒ग॒न्वान्¦तम॑सः¦ज्योति॑षा¦आ¦अ॒गा॒त् |
अ॒ग्निः¦भा॒नुना᳚¦रुश॑ता¦सु॒।आङ्गः॑¦आ¦जा॒तः¦विश्वा᳚¦सद्मा᳚नि¦अ॒प्राः॒ ||

स जा॒तो गर्भो᳚, असि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

चि॒त्रः शिशुः॒ परि॒ तमां᳚स्य॒क्तून्‌ प्र मा॒तृभ्यो॒, अधि॒ कनि॑क्रदद्गाः ||{2/7}{10.1.2}{10.1.1.2}{7.5.29.2}{2, 838, 8800}

सः¦जा॒तः¦गर्भः॑¦अ॒सि॒¦रोद॑स्योः¦अग्ने᳚¦चारुः॑¦विऽभृ॑तः¦ओष॑धीषु |
चि॒त्रः¦शिशुः॑¦परि॑¦तमां᳚सि¦अ॒क्तून्¦प्र¦मा॒तृऽभ्यः॑¦अधि॑¦कनि॑क्रदत्¦गाः॒ ||

विष्णु॑रि॒त्था प॑र॒मम॑स्य वि॒द्वाञ्जा॒तो बृ॒हन्न॒भि पा᳚ति तृ॒तीय᳚म् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

आ॒सा यद॑स्य॒ पयो॒, अक्र॑त॒ स्वं सचे᳚तसो, अ॒भ्य॑र्च॒न्त्यत्र॑ ||{3/7}{10.1.3}{10.1.1.3}{7.5.29.3}{3, 838, 8801}

विष्णुः॑¦इ॒त्था¦प॒र॒म‌म्¦अ॒स्य॒¦वि॒द्वान्¦जा॒तः¦बृ॒हन्¦अ॒भि¦पा॒ति॒¦तृ॒तीय᳚‌म् |
आ॒सा¦यत्¦अ॒स्य॒¦पयः॑¦अक्र॑त¦स्व‌म्¦सऽचे᳚तसः¦अ॒भि¦अ॒र्च॒न्ति॒¦अत्र॑ ||

अत॑ उ त्वा पितु॒भृतो॒ जनि॑त्रीरन्ना॒वृधं॒ प्रति॑ चर॒न्त्यन्नैः᳚ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

ता, ईं॒ प्रत्ये᳚षि॒ पुन॑र॒न्यरू᳚पा॒, असि॒ त्वं वि॒क्षु मानु॑षीषु॒ होता᳚ ||{4/7}{10.1.4}{10.1.1.4}{7.5.29.4}{4, 838, 8802}

अतः॑¦ऊँ॒ इति॑¦त्वा॒¦पि॒तु॒ऽभृतः॑¦जनि॑त्रीः¦अ॒न्न॒ऽवृध᳚‌म्¦प्रति॑¦च॒र॒न्ति॒¦अन्नैः᳚ |
ताः¦ई॒‌म्¦प्रति॑¦ए॒षि॒¦पुनः॑¦अ॒न्यऽरू᳚पाः¦असि॑¦त्व‌म्¦वि॒क्षु¦मानु॑षीषु¦होता᳚ ||

होता᳚रं चि॒त्रर॑थमध्व॒रस्य॑ य॒ज्ञस्य॑यज्ञस्य के॒तुं रुश᳚न्तम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

प्रत्य॑र्धिं दे॒वस्य॑देवस्य म॒ह्ना श्रि॒या त्व१॑(अ॒)ग्निमति॑थिं॒ जना᳚नाम् ||{5/7}{10.1.5}{10.1.1.5}{7.5.29.5}{5, 838, 8803}

होता᳚र‌म्¦चि॒त्रऽर॑थ‌म्¦अ॒ध्व॒रस्य॑¦य॒ज्ञस्य॑ऽयज्ञस्य¦के॒तु‌म्¦रुश᳚न्त‌म् |
प्रति॑।आर्धि‌म्¦दे॒वस्य॑ऽदेवस्य¦म॒ह्ना¦श्रि॒या¦त्व‌म्¦अ॒ग्नि‌म्¦अति॑थि‌म्¦जना᳚ना‌म् ||

स तु वस्त्रा॒ण्यध॒ पेश॑नानि॒ वसा᳚नो, अ॒ग्निर्नाभा᳚ पृथि॒व्याः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒रु॒षो जा॒तः प॒द इळा᳚याः पु॒रोहि॑तो राजन्यक्षी॒ह दे॒वान् ||{6/7}{10.1.6}{10.1.1.6}{7.5.29.6}{6, 838, 8804}

सः¦तु¦वस्त्रा᳚णि¦अध॑¦पेश॑नानि¦वसा᳚नः¦अ॒ग्निः¦नाभा᳚¦पृ॒थि॒व्याः |
अ॒रु॒षः¦जा॒तः¦प॒दे¦इळा᳚याः¦पु॒रःऽहि॑तः¦रा॒ज॒न्¦य॒क्षि॒¦इ॒ह¦दे॒वान् ||

आ हि द्यावा᳚पृथि॒वी, अ॑ग्न उ॒भे सदा᳚ पु॒त्रो न मा॒तरा᳚ त॒तन्थ॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

प्र या॒ह्यच्छो᳚श॒तो य॑वि॒ष्ठाथा व॑ह सहस्ये॒ह दे॒वान् ||{7/7}{10.1.7}{10.1.1.7}{7.5.29.7}{7, 838, 8805}

आ¦हि¦द्यावा᳚पृथि॒वी इति॑¦अ॒ग्ने॒¦उ॒भे इति॑¦सदा᳚¦पु॒त्रः¦न¦मा॒तरा᳚¦त॒तन्थ॑ |
प्र¦या॒हि॒¦अच्छ॑¦उ॒श॒तः¦य॒वि॒ष्ठ॒¦अथ॑¦आ¦व॒ह॒¦स॒ह॒स्य॒¦इ॒ह¦दे॒वान् ||

[2] पिप्रीहीति सप्तर्चस्य सूक्तस्याप्त्यस्त्रितोग्निस्त्रिष्टुप् | (१ नात्रस्वाहाकारः किंतुमंत्रांत एव हविः प्रक्षेपः)|
पि॒प्री॒हि दे॒वाँ, उ॑श॒तो य॑विष्ठ वि॒द्वाँ, ऋ॒तूँरृ॑तुपते यजे॒ह |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

ये दैव्या᳚ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वं होतॄ᳚णाम॒स्याय॑जिष्ठः ||{1/7}{10.2.1}{10.1.2.1}{7.5.30.1}{8, 839, 8806}

पि॒प्री॒हि¦दे॒वान्¦उ॒श॒तः¦य॒वि॒ष्ठ॒¦वि॒द्वान्¦ऋ॒तून्¦ऋ॒तु॒ऽप॒ते॒¦य॒ज॒¦इ॒ह |
ये¦दैव्याः᳚¦ऋ॒त्विजः॑¦तेभिः॑¦अ॒ग्ने॒¦त्व‌म्¦होतॄ᳚णा‌म्¦अ॒सि॒¦आऽय॑जिष्ठः ||

वेषि॑ हो॒त्रमु॒त पो॒त्रं जना᳚नां मन्धा॒तासि॑ द्रविणो॒दा, ऋ॒तावा᳚ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

स्वाहा᳚ व॒यं कृ॒णवा᳚मा ह॒वींषि॑ दे॒वो दे॒वान्‌ य॑जत्व॒ग्निरर्ह॑न् ||{2/7}{10.2.2}{10.1.2.2}{7.5.30.2}{9, 839, 8807}

वेषि॑¦हो॒त्र‌म्¦उ॒त¦पो॒त्र‌म्¦जना᳚ना‌म्¦म॒न्धा॒ता¦अ॒सि॒¦द्र॒वि॒णः॒ऽदाः¦ऋ॒तऽवा᳚ |
स्वाहा᳚¦व॒य‌म्¦कृ॒णवा᳚म¦ह॒वींषि॑¦दे॒वः¦दे॒वान्¦य॒ज॒तु॒¦अ॒ग्निः¦अर्ह॑न् ||

आ दे॒वाना॒मपि॒ पन्था᳚मगन्म॒ यच्छ॒क्नवा᳚म॒ तदनु॒ प्रवो᳚ळ्हुम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒ग्निर्वि॒द्वान्‌ त्स य॑जा॒त्सेदु॒ होता॒ सो, अ॑ध्व॒रान्‌ त्स ऋ॒तून्‌ क॑ल्पयाति ||{3/7}{10.2.3}{10.1.2.3}{7.5.30.3}{10, 839, 8808}

आ¦दे॒वाना᳚‌म्¦अपि॑¦पन्था᳚‌म्¦अ॒ग॒न्म॒¦यत्¦श॒क्नवा᳚म¦तत्¦अनु॑¦प्रऽवो᳚ळ्हु‌म् |
अ॒ग्निः¦वि॒द्वान्¦सः¦य॒ज॒त्¦सः¦इत्¦ऊँ॒ इति॑¦होता᳚¦सः¦अ॒ध्व॒रान्¦सः¦ऋ॒तून्¦क॒ल्प॒या॒ति॒ ||

यद्वो᳚ व॒यं प्र॑मि॒नाम᳚ व्र॒तानि॑ वि॒दुषां᳚ देवा॒, अवि॑दुष्टरासः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒ग्निष्टद्विश्व॒मा पृ॑णाति वि॒द्वान्‌ येभि॑र्दे॒वाँ, ऋ॒तुभिः॑ क॒ल्पया᳚ति ||{4/7}{10.2.4}{10.1.2.4}{7.5.30.4}{11, 839, 8809}

तत्¦वः॒¦व॒य‌म्¦प्र॒ऽमि॒नाम॑¦व्र॒तानि॑¦वि॒दुषा᳚‌म्¦दे॒वाः॒¦अवि॑दुःऽतरासः |
अ॒ग्निः¦तत्¦विश्व᳚‌म्¦आ¦पृ॒णा॒ति॒¦वि॒द्वान्¦येभिः॑¦दे॒वान्¦ऋ॒तुऽभिः॑¦क॒ल्पया᳚ति ||

यत्पा᳚क॒त्रा मन॑सा दी॒नद॑क्षा॒ न य॒ज्ञस्य॑ मन्व॒ते मर्त्या᳚सः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒ग्निष्टद्धोता᳚ क्रतु॒विद्वि॑जा॒नन्यजि॑ष्ठो दे॒वाँ, ऋ॑तु॒शो य॑जाति ||{5/7}{10.2.5}{10.1.2.5}{7.5.30.5}{12, 839, 8810}

यत्¦पा॒क॒ऽत्रा¦मन॑सा¦दी॒नऽद॑क्षाः¦न¦य॒ज्ञस्य॑¦म॒न्व॒ते¦मर्त्या᳚सः |
अ॒ग्निः¦तत्¦होता᳚¦क्र॒तु॒ऽवित्¦वि॒ऽजा॒नन्¦यजि॑ष्ठः¦दे॒वान्¦ऋ॒तु॒ऽशः¦य॒जा॒ति॒ ||

विश्वे᳚षां॒ ह्य॑ध्व॒राणा॒मनी᳚कं चि॒त्रं के॒तुं जनि॑ता त्वा ज॒जान॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

स आ य॑जस्व नृ॒वती॒रनु॒ क्षाः स्पा॒र्हा, इषः॑, क्षु॒मती᳚र्वि॒श्वज᳚न्याः ||{6/7}{10.2.6}{10.1.2.6}{7.5.30.6}{13, 839, 8811}

विश्वे᳚षा‌म्¦हि¦अ॒ध्व॒राणा᳚‌म्¦अनी᳚क‌म्¦चि॒त्र‌म्¦के॒तु‌म्¦जनि॑ता¦त्वा॒¦ज॒जान॑ |
सः¦आ¦य॒ज॒स्व॒¦नृ॒ऽवतीः᳚¦अनु॑¦क्षाः¦स्पा॒र्हाः¦इषः॑¦क्षु॒ऽमतीः᳚¦वि॒स्वऽज᳚न्याः ||

यं त्वा॒ द्यावा᳚पृथि॒वी यं त्वाप॒स्त्वष्टा॒ यं त्वा᳚ सु॒जनि॑मा ज॒जान॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

पन्था॒मनु॑ प्रवि॒द्वान्‌ पि॑तृ॒याणं᳚ द्यु॒मद॑ग्ने समिधा॒नो वि भा᳚हि ||{7/7}{10.2.7}{10.1.2.7}{7.5.30.7}{14, 839, 8812}

य‌म्¦त्वा॒¦द्यावा᳚पृथि॒वी इति॑¦य‌म्¦त्वा॒¦आपः॑¦त्वष्टा᳚¦य‌म्¦त्वा॒¦सु॒ऽजमि॑मा¦ज॒जान॑ |
पन्था᳚‌म्¦अनु॑¦प्र॒ऽवि॒द्वान्¦पि॒तृ॒ऽयान᳚‌म्¦द्यु॒ऽमत्¦अ॒ग्ने॒¦स॒‌म्ऽ‌इ॒धा॒नः¦वि¦भा॒हि॒ ||

[3] इनोराजन्निति सप्तर्चस्य सूक्तस्याप्त्यस्त्रितोग्निस्त्रिष्टुप् |
इ॒नो रा᳚जन्नर॒तिः समि॑द्धो॒ रौद्रो॒ दक्षा᳚य सुषु॒माँ, अ॑दर्शि |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

चि॒किद्वि भा᳚ति भा॒सा बृ॑ह॒तासि॑क्नीमेति॒ रुश॑तीम॒पाज॑न् ||{1/7}{10.3.1}{10.1.3.1}{7.5.31.1}{15, 840, 8813}

इ॒नः¦रा॒ज॒न्¦अ॒र॒तिः¦स‌म्ऽ‌इ᳚द्धः¦रौद्रः॑¦दक्षा᳚य¦सु॒सु॒ऽमान्¦अ॒द॒र्शि॒ |
चि॒कित्¦वि¦भा॒ति॒¦भा॒सा¦बृ॒ह॒ता¦असि॑क्नी‌म्¦ए॒ति॒¦रुश॑ती‌म्¦अ॒प॒।आज॑न् ||

कृ॒ष्णां यदेनी᳚म॒भि वर्प॑सा॒ भूज्ज॒नय॒न्योषां᳚ बृह॒तः पि॒तुर्जाम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

ऊ॒र्ध्वं भा॒नुं सूर्य॑स्य स्तभा॒यन्दि॒वो वसु॑भिरर॒तिर्वि भा᳚ति ||{2/7}{10.3.2}{10.1.3.2}{7.5.31.2}{16, 840, 8814}

कृ॒ष्णा‌म्¦यत्¦एनी᳚‌म्¦अ॒भि¦वर्प॑सा¦भूत्¦ज॒नय॑न्¦योषा᳚‌म्¦बृ॒ह॒तः¦पि॒तुः¦जा‌म् |
ऊ॒र्ध्व‌म्¦भा॒नु‌म्¦सूर्य॑स्य¦स्त॒भा॒यन्¦दि॒वः¦वसु॑ऽभिः¦अ॒र॒तिः¦वि¦भा॒ति॒ ||

भ॒द्रो भ॒द्रया॒ सच॑मान॒ आगा॒त्स्वसा᳚रं जा॒रो, अ॒भ्ये᳚ति प॒श्चात् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

सु॒प्र॒के॒तैर्द्युभि॑र॒ग्निर्वि॒तिष्ठ॒न्‌ रुश॑द्भि॒र्वर्णै᳚र॒भि रा॒मम॑स्थात् ||{3/7}{10.3.3}{10.1.3.3}{7.5.31.3}{17, 840, 8815}

भ॒द्रः¦भ॒द्रया᳚¦सच॑मानः¦आ¦अ॒गा॒त्¦स्वसा᳚र‌म्¦जा॒रः¦अ॒भि¦ए॒ति॒¦प॒श्चात् |
सु॒ऽप्र॒के॒तैः¦द्युऽभिः॑¦अ॒ग्निः¦वि॒ऽतिष्ठ॑न्¦रुश॑त्ऽभिः¦वर्णैः᳚¦अ॒भि¦रा॒म‌म्¦अ॒स्था॒त् ||

अ॒स्य यामा᳚सो बृह॒तो न व॒ग्नूनिन्धा᳚ना, अ॒ग्नेः सख्युः॑ शि॒वस्य॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

ईड्य॑स्य॒ वृष्णो᳚ बृह॒तः स्वासो॒ भामा᳚सो॒ याम᳚न्न॒क्तव॑श्चिकित्रे ||{4/7}{10.3.4}{10.1.3.4}{7.5.31.4}{18, 840, 8816}

अ॒स्य¦यामा᳚सः¦बृ॒ह॒तः¦न¦व॒ग्नून्¦इन्धा᳚नाः¦अ॒ग्नेः¦सख्युः॑¦शि॒वस्य॑ |
ईड्य॑स्य¦वृष्णः॑¦बृ॒ह॒तः¦सु॒ऽआसः॑¦भामा᳚सः¦याम॑न्¦अ॒क्तवः॑¦चि॒कि॒त्रे॒ ||

स्व॒ना न यस्य॒ भामा᳚सः॒ पव᳚न्ते॒ रोच॑मानस्य बृह॒तः सु॒दिवः॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

ज्येष्ठे᳚भि॒र्यस्तेजि॑ष्ठैः क्रीळु॒मद्भि॒र्वर्षि॑ष्ठेभिर्भा॒नुभि॒र्नक्ष॑ति॒ द्याम् ||{5/7}{10.3.5}{10.1.3.5}{7.5.31.5}{19, 840, 8817}

स्व॒नाः¦न¦यस्य॑¦भामा᳚सः¦पव᳚न्ते¦रोच॑मानस्य¦बृ॒ह॒तः¦सु॒ऽदिवः॑ |
ज्येष्ठे᳚भिः¦यः¦तेजि॑ष्ठैः¦क्री॒ळु॒मत्ऽभिः॑¦वर्षि॑ष्ठेभिः¦भा॒नुऽभिः॑¦नक्ष॑ति¦द्या‌म् ||

अ॒स्य शुष्मा᳚सो ददृशा॒नप॑वे॒र्जेह॑मानस्य स्वनयन्नि॒युद्भिः॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

प्र॒त्नेभि॒र्यो रुश॑द्भिर्दे॒वत॑मो॒ वि रेभ॑द्भिरर॒तिर्भाति॒ विभ्वा᳚ ||{6/7}{10.3.6}{10.1.3.6}{7.5.31.6}{20, 840, 8818}

अ॒स्य¦शुष्मा᳚सः¦द॒दृ॒शा॒नऽप॑वेः¦जेह॑मानस्य¦स्व॒न॒य॒न्¦नि॒युत्ऽभिः॑ |
प्र॒त्नेभिः॑¦यः¦रुश॑त्ऽभिः¦दे॒वऽत॑मः¦वि¦रेभ॑त्ऽभिः¦अ॒र॒तिः¦भाति॑¦विऽभ्वा᳚ ||

स आ व॑क्षि॒ महि॑ न॒ आ च॑ सत्सि दि॒वस्पृ॑थि॒व्योर॑र॒तिर्यु॑व॒त्योः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒ग्निः सु॒तुकः॑ सु॒तुके᳚भि॒रश्वै॒ रभ॑स्वद्भी॒ रभ॑स्वाँ॒, एह ग᳚म्याः ||{7/7}{10.3.7}{10.1.3.7}{7.5.31.7}{21, 840, 8819}

सः¦आ¦व॒क्षि॒¦महि॑¦नः॒¦आ¦च॒¦स॒त्सि॒¦दि॒वःपृ॑थि॒व्योः¦अ॒र॒तिः¦यु॒व॒त्योः |
अ॒ग्निः¦सु॒ऽतुकः॑¦सु॒त्।औके᳚भिः¦अश्वैः᳚¦रभ॑स्वत्ऽभिः¦रभ॑स्वान्¦आ¦इ॒ह¦ग॒म्याः॒ ||

[4] प्रतइति सप्तर्चस्य सूक्तस्याप्त्यस्त्रितोग्निस्त्रिष्टुप् |
प्र ते᳚ यक्षि॒ प्र त॑ इयर्मि॒ मन्म॒ भुवो॒ यथा॒ वन्द्यो᳚ नो॒ हवे᳚षु |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

धन्व᳚न्निव प्र॒पा, अ॑सि॒ त्वम॑ग्न इय॒क्षवे᳚ पू॒रवे᳚ प्रत्न राजन् ||{1/7}{10.4.1}{10.1.4.1}{7.5.32.1}{22, 841, 8820}

प्र¦ते॒¦य॒क्षि॒¦प्र¦ते॒¦इ॒य॒र्मि॒¦मन्म॑¦भुवः॑¦यथा᳚¦वन्द्यः॑¦नः॒¦हवे᳚षु |
धन्व॑न्ऽ‌इव¦प्र॒ऽपा¦अ॒सि॒¦त्व‌म्¦अ॒ग्ने॒¦इ॒य॒क्षवे᳚¦पू॒रवे᳚¦प्र॒त्न॒¦रा॒ज॒न् ||

यं त्वा॒ जना᳚सो, अ॒भि सं॒चर᳚न्ति॒ गाव॑ उ॒ष्णमि॑व व्र॒जं य॑विष्ठ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

दू॒तो दे॒वाना᳚मसि॒ मर्त्या᳚नाम॒न्तर्म॒हाँश्च॑रसि रोच॒नेन॑ ||{2/7}{10.4.2}{10.1.4.2}{7.5.32.2}{23, 841, 8821}

य‌म्¦त्वा॒¦जना᳚सः¦अ॒भि¦स॒‌म्ऽचर᳚न्ति¦गावः॑¦उ॒ष्ण‌म्ऽ‌इ᳚व¦व्र॒ज‌म्¦य॒वि॒ष्ठ॒ |
दू॒तः¦दे॒वाना᳚‌म्¦अ॒सि॒¦मर्त्या᳚ना‌म्¦अ॒न्तः¦म॒हान्¦च॒र॒सि॒¦रो॒च॒नेन॑ ||

शिशुं॒ न त्वा॒ जेन्यं᳚ व॒र्धय᳚न्ती मा॒ता बि॑भर्ति सचन॒स्यमा᳚ना |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

धनो॒रधि॑ प्र॒वता᳚ यासि॒ हर्य॒ञ्जिगी᳚षसे प॒शुरि॒वाव॑सृष्टः ||{3/7}{10.4.3}{10.1.4.3}{7.5.32.3}{24, 841, 8822}

शिशु᳚‌म्¦न¦त्वा॒¦जेन्य᳚‌म्¦व॒र्धय᳚न्ती¦मा॒ता¦बि॒भ॒र्ति॒¦स॒च॒न॒स्यमा᳚ना |
धनोः᳚¦अधि॑¦प्र॒ऽवता᳚¦या॒सि॒¦हर्य॑न्¦जिगी᳚षसे¦प॒शुःऽ‌इ᳚व¦अव॑ऽसृष्टः ||

मू॒रा, अ॑मूर॒ न व॒यं चि॑कित्वो महि॒त्वम॑ग्ने॒ त्वम॒ङ्ग वि॑त्से |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

शये᳚ व॒व्रिश्चर॑ति जि॒ह्वया॒दन्‌ रे᳚रि॒ह्यते᳚ युव॒तिं वि॒श्पतिः॒ सन् ||{4/7}{10.4.4}{10.1.4.4}{7.5.32.4}{25, 841, 8823}

मू॒राः¦अ॒मू॒र॒¦न¦व॒य‌म्¦चि॒कि॒त्वः॒¦म॒हि॒ऽत्व‌म्¦अ॒ग्ने॒¦त्व‌म्¦अ॒ङ्ग¦वि॒त्से॒ |
शये᳚¦व॒व्रिः¦चर॑ति¦जि॒ह्वया᳚¦अ॒दन्¦रे॒रि॒ह्यते᳚¦यु॒व॒ति‌म्¦वि॒श्पतिः॑¦सन् ||

कूचि॑ज्जायते॒ सन॑यासु॒ नव्यो॒ वने᳚ तस्थौ पलि॒तो धू॒मके᳚तुः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒स्ना॒तापो᳚ वृष॒भो न प्र वे᳚ति॒ सचे᳚तसो॒ यं प्र॒णय᳚न्त॒ मर्ताः᳚ ||{5/7}{10.4.5}{10.1.4.5}{7.5.32.5}{26, 841, 8824}

कूऽचि॑त्¦जा॒य॒ते॒¦सन॑यासु¦नव्यः॑¦वने᳚¦त॒स्थौ॒¦प॒लि॒तः¦धू॒मऽके᳚तुः |
अ॒स्ना॒ता¦आपः॑¦वृ॒ष॒भः¦न¦प्र¦वे॒ति॒¦सऽचे᳚तसः¦य‌म्¦प्र॒ऽनय᳚न्त¦मर्ताः᳚ ||

त॒नू॒त्यजे᳚व॒ तस्क॑रा वन॒र्गू र॑श॒नाभि॑र्द॒शभि॑र॒भ्य॑धीताम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

इ॒यं ते᳚, अग्ने॒ नव्य॑सी मनी॒षा यु॒क्ष्वा रथं॒ न शु॒चय॑द्भि॒रङ्गैः᳚ ||{6/7}{10.4.6}{10.1.4.6}{7.5.32.6}{27, 841, 8825}

त॒नू॒त्यजा᳚ऽ‌इव¦तस्क॑रा¦व॒न॒र्गू इति॑¦र॒श॒नाभिः॑¦द॒शऽभिः॑¦अ॒भि¦अ॒धी॒ता॒‌म् |
इ॒य‌म्¦ते॒¦अ॒ग्ने॒¦नव्य॑सी¦म॒नी॒षा¦यु॒क्ष्व¦रथ᳚‌म्¦न¦शु॒चय॑त्ऽभिः¦अङ्गैः᳚ ||

ब्रह्म॑ च ते जातवेदो॒ नम॑श्चे॒यं च॒ गीः सद॒मिद्वर्ध॑नी भूत् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

रक्षा᳚ णो, अग्ने॒ तन॑यानि तो॒का रक्षो॒त न॑स्त॒न्वो॒३॑(ओ॒) अप्र॑युच्छन् ||{7/7}{10.4.7}{10.1.4.7}{7.5.32.7}{28, 841, 8826}

ब्रह्म॑¦च॒¦ते॒¦जा॒त॒ऽवे॒दः॒¦नमः॑¦च॒¦इ॒य‌म्¦च॒¦गीः¦सद᳚‌म्¦इत्¦वर्ध॑नी¦भू॒त् |
रक्ष॑¦नः॒¦अ॒ग्ने॒¦तन॑यानि¦तो॒का¦रक्ष॑¦उ॒त¦नः॒¦त॒न्वः॑¦अप्र॑ऽयुच्छन् ||

[5] एकःसमुद्रइति सप्तर्चस्य सूक्तस्यात्यस्त्रितोग्नित्रिष्टुप् |
एकः॑ समु॒द्रो ध॒रुणो᳚ रयी॒णाम॒स्मद्धृ॒दो भूरि॑जन्मा॒ वि च॑ष्टे |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

सिष॒क्त्यूध᳚र्नि॒ण्योरु॒पस्थ॒ उत्स॑स्य॒ मध्ये॒ निहि॑तं प॒दं वेः ||{1/7}{10.5.1}{10.1.5.1}{7.5.33.1}{29, 842, 8827}

एकः॑¦स॒मु॒द्रः¦ध॒रुणः॑¦र॒यी॒णा‌म्¦अ॒स्मत्¦हृ॒दः¦भूरि॑ऽजन्मा¦वि¦च॒ष्टे॒ |
सिस॑क्ति¦ऊधः॑¦नि॒ण्योः¦उ॒पऽस्थे᳚¦उत्स॑स्य¦मध्ये᳚¦निऽहि॑त‌म्¦प॒द‌म्¦वेरिति॒ वेः ||

स॒मा॒नं नी॒ळं वृष॑णो॒ वसा᳚नाः॒ सं ज॑ग्मिरे महि॒षा, अर्व॑तीभिः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

ऋ॒तस्य॑ प॒दं क॒वयो॒ नि पा᳚न्ति॒ गुहा॒ नामा᳚नि दधिरे॒ परा᳚णि ||{2/7}{10.5.2}{10.1.5.2}{7.5.33.2}{30, 842, 8828}

स॒मा॒न‌म्¦नी॒ळ‌म्¦वृष॑णः¦वसा᳚नाः¦स‌म्¦ज॒ग्मि॒रे॒¦म॒हि॒षाः¦अर्व॑तीभिः |
ऋ॒तस्य॑¦प॒द‌म्¦क॒वयः॑¦नि¦पा॒न्ति॒¦गुहा᳚¦नामा᳚नि¦द॒धि॒रे॒¦परा᳚णि ||

ऋ॒ता॒यिनी᳚ मा॒यिनी॒ सं द॑धाते मि॒त्वा शिशुं᳚ जज्ञतुर्व॒र्धय᳚न्ती |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

विश्व॑स्य॒ नाभिं॒ चर॑तो ध्रु॒वस्य॑ क॒वेश्चि॒त्तन्तुं॒ मन॑सा वि॒यन्तः॑ ||{3/7}{10.5.3}{10.1.5.3}{7.5.33.3}{31, 842, 8829}

ऋ॒त॒यिनी॒ इत्यृ॑त॒ऽयिनी᳚¦मा॒यिनी॒ इति॑¦स‌म्¦द॒धा॒ते॒ इति॑¦मि॒त्वा¦शिशु᳚‌म्¦ज॒ज्ञ॒तुः॒¦व॒र्धय᳚न्ती॒ इति॑ |
विश्व॑स्य¦नाभि᳚‌म्¦चर॑तः¦ध्रु॒वस्य॑¦क॒वेः¦चि॒त्¦तन्तु᳚‌म्¦मन॑सा¦वि॒ऽयन्तः॑ ||

ऋ॒तस्य॒ हि व॑र्त॒नयः॒ सुजा᳚त॒मिषो॒ वाजा᳚य प्र॒दिवः॒ सच᳚न्ते |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒धी॒वा॒सं रोद॑सी वावसा॒ने घृ॒तैरन्नै᳚र्वावृधाते॒ मधू᳚नाम् ||{4/7}{10.5.4}{10.1.5.4}{7.5.33.4}{32, 842, 8830}

ऋ॒तस्य॑¦हि¦व॒र्त॒नयः॑¦सुऽजा᳚त‌म्¦इषः॑¦वाजा᳚य¦प्र॒ऽदिवः॑¦सच᳚न्ते |
अ॒धी॒वा॒स‌म्¦रोद॑सी॒ इति॑¦व॒व॒सा॒ने इति॑¦घृ॒तैः¦अन्नैः᳚¦व॒वृ॒धा॒ते॒ इति॑¦मधू᳚ना‌म् ||

स॒प्त स्वसॄ॒ररु॑षीर्वावशा॒नो वि॒द्वान्‌ मध्व॒ उज्ज॑भारा दृ॒शे कम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒न्तर्ये᳚मे, अ॒न्तरि॑क्षे पुरा॒जा, इ॒च्छन्व॒व्रिम॑विदत्पूष॒णस्य॑ ||{5/7}{10.5.5}{10.1.5.5}{7.5.33.5}{33, 842, 8831}

स॒प्त¦स्वसॄः᳚¦अरु॑षीः¦वा॒व॒शा॒नः¦वि॒द्वान्¦मध्वः॑¦उत्¦ज॒भा॒र॒¦दृ॒शे¦क‌म् |
अ॒न्तः¦ये॒मे॒¦अ॒न्तरि॑क्षे¦पु॒रा॒ऽजाः¦इ॒च्छन्¦व॒व्रि‌म्¦अ॒वि॒द॒त्¦पू॒ष॒णस्य॑ ||

स॒प्त म॒र्यादाः᳚ क॒वय॑स्ततक्षु॒स्तासा॒मेका॒मिद॒भ्यं᳚हु॒रो गा᳚त् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

आ॒योर्ह॑ स्क॒म्भ उ॑प॒मस्य॑ नी॒ळे प॒थां वि॑स॒र्गे ध॒रुणे᳚षु तस्थौ ||{6/7}{10.5.6}{10.1.5.6}{7.5.33.6}{34, 842, 8832}

स॒प्त¦म॒र्यादाः᳚¦क॒वयः॑¦त॒त॒क्षुः॒¦तासा᳚‌म्¦एका᳚‌म्¦इत्¦अ॒भि¦अं॒हु॒रः¦गा॒त् |
आ॒योः¦ह॒¦स्क॒म्भः¦उ॒प॒ऽमस्य॑¦नी॒ळे¦प॒था‌म्¦वि॒ऽस॒र्गे¦ध॒रुणे᳚षु¦त॒स्थौ॒ ||

अस॑च्च॒ सच्च॑ पर॒मे व्यो᳚म॒न्दक्ष॑स्य॒ जन्म॒न्नदि॑तेरु॒पस्थे᳚ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒ग्निर्ह॑ नः प्रथम॒जा, ऋ॒तस्य॒ पूर्व॒ आयु॑नि वृष॒भश्च॑ धे॒नुः ||{7/7}{10.5.7}{10.1.5.7}{7.5.33.7}{35, 842, 8833}

अस॑त्¦च॒¦स॒त्¦च॒¦प॒र॒मे¦विऽओ᳚मन्¦दक्ष॑स्य¦जन्म॑न्¦अदि॑तेः¦उ॒पऽस्थे᳚ |
अ॒ग्निः¦ह॒¦नः॒¦प्र॒थ॒म॒ऽजाः¦ऋ॒तस्य॑¦पूर्वे᳚¦आयु॑नि¦वृ॒ष॒भः¦च॒¦धे॒नुः ||

[6] अयंसइति सप्तर्चस्य सूक्तस्यात्यस्त्रितोग्नित्रिष्टुप् |
अ॒यं स यस्य॒ शर्म॒न्नवो᳚भिर॒ग्नेरेध॑ते जरि॒ताभिष्टौ᳚ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

ज्येष्ठे᳚भि॒र्यो भा॒नुभि᳚रृषू॒णां प॒र्येति॒ परि॑वीतो वि॒भावा᳚ ||{1/7}{10.6.1}{10.1.6.1}{7.6.1.1}{36, 843, 8834}

अ॒य‌म्¦सः¦यस्य॑¦शर्म॑न्¦अवः॑ऽभिः¦अ॒ग्नेः¦एध॑ते¦ज॒रि॒ता¦अ॒भिष्टौ᳚ |
ज्येष्ठे᳚भिः¦यः¦भा॒नुऽभिः॑¦ऋ॒षू॒णा‌म्¦प॒रि॒ऽएति॑¦परि॑ऽवीतः¦वि॒भाऽवा᳚ ||

यो भा॒नुभि᳚र्वि॒भावा᳚ वि॒भात्य॒ग्निर्दे॒वेभि᳚रृ॒तावाज॑स्रः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

आ यो वि॒वाय॑ स॒ख्या सखि॒भ्योऽप॑रिह्वृतो॒, अत्यो॒ न सप्तिः॑ ||{2/7}{10.6.2}{10.1.6.2}{7.6.1.2}{37, 843, 8835}

यः¦भा॒नुऽभिः॑¦वि॒भाऽवा᳚¦वि॒ऽभाति॑¦अ॒ग्निः¦दे॒वेभिः॑¦ऋ॒तऽवा᳚¦अज॑स्रः |
आ¦यः¦वि॒वाय॑¦स॒ख्या¦सखि॑ऽभ्यः¦अप॑रिऽह्वृतः¦अत्यः॑¦न¦सप्तिः॑ ||

ईशे॒ यो विश्व॑स्या दे॒ववी᳚ते॒रीशे᳚ वि॒श्वायु॑रु॒षसो॒ व्यु॑ष्टौ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

आ यस्मि᳚न्म॒ना ह॒वींष्य॒ग्नावरि॑ष्टरथः स्क॒भ्नाति॑ शू॒षैः ||{3/7}{10.6.3}{10.1.6.3}{7.6.1.3}{38, 843, 8836}

ईशे᳚¦यः¦विश्व॑स्याः¦दे॒वऽवी᳚तेः¦ईशे᳚¦वि॒श्वऽआ᳚युः¦उ॒षसः॑¦वि।औ᳚ष्टौ |
आ¦यस्मि॑न्¦म॒ना¦ह॒वींषि॑¦अ॒ग्नौ¦अरि॑ष्टऽरथः¦स्क॒भ्नाति॑¦शू॒षैः ||

शू॒षेभि᳚र्वृ॒धो जु॑षा॒णो, अ॒र्कैर्दे॒वाँ, अच्छा᳚ रघु॒पत्वा᳚ जिगाति |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

म॒न्द्रो होता॒ स जु॒ह्वा॒३॑(आ॒) यजि॑ष्ठः॒ सम्मि॑श्लो, अ॒ग्निरा जि॑घर्ति दे॒वान् ||{4/7}{10.6.4}{10.1.6.4}{7.6.1.4}{39, 843, 8837}

शू॒षेभिः॑¦वृ॒धः¦जु॒षा॒णः¦अ॒र्कैः¦दे॒वान्¦अच्छ॑¦र॒घु॒ऽपत्वा᳚¦ज॒गा॒ति॒ |
म॒न्द्रः¦होता᳚¦सः¦जु॒ह्वा᳚¦यजि॑ष्ठः¦स‌म्ऽमि॑श्लः¦अ॒ग्निः¦आ¦जि॒घ॒र्ति॒¦दे॒वान् ||

तमु॒स्रामिन्द्रं॒ न रेज॑मानम॒ग्निं गी॒र्भिर्नमो᳚भि॒रा कृ॑णुध्वम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

आ यं विप्रा᳚सो म॒तिभि॑र्गृ॒णन्ति॑ जा॒तवे᳚दसं जु॒ह्वं᳚ स॒हाना᳚म् ||{5/7}{10.6.5}{10.1.6.5}{7.6.1.5}{40, 843, 8838}

त‌म्¦उ॒स्रा‌म्¦इन्द्र᳚‌म्¦न¦रेज॑मान‌म्¦अ॒ग्नि‌म्¦गीः॒ऽभिः¦नमः॑ऽभिः¦आ¦कृ॒णु॒ध्व॒‌म् |
आ¦य‌म्¦विप्रा᳚सः¦म॒तिऽभिः॑¦गृ॒णन्ति॑¦जा॒तऽवे᳚दस‌म्¦जु॒ह्व᳚‌म्¦स॒हाना᳚‌म् ||

सं यस्मि॒न्‌ विश्वा॒ वसू᳚नि ज॒ग्मुर्वाजे॒ नाश्वाः॒ सप्ती᳚वन्त॒ एवैः᳚ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒स्मे, ऊ॒तीरिन्द्र॑वाततमा, अर्वाची॒ना, अ॑ग्न॒ आ कृ॑णुष्व ||{6/7}{10.6.6}{10.1.6.6}{7.6.1.6}{41, 843, 8839}

स‌म्¦यस्मि॑न्¦विश्वा᳚¦वसू᳚नि¦ज॒ग्मुः¦वाजे᳚¦न¦अश्वाः᳚¦सप्ति॑ऽवन्तः¦एवैः᳚ |
अ॒स्मे इति॑¦ऊ॒तीः¦इन्द्र॑वातऽतमाः¦अ॒र्वा॒ची॒नाः¦अ॒ग्ने॒¦आ¦कृ॒णु॒ष्व॒ ||

अधा॒ ह्य॑ग्ने म॒ह्ना नि॒षद्या᳚ स॒द्यो ज॑ज्ञा॒नो हव्यो᳚ ब॒भूथ॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

तं ते᳚ दे॒वासो॒, अनु॒ केत॑माय॒न्नधा᳚वर्धन्त प्रथ॒मास॒ ऊमाः᳚ ||{7/7}{10.6.7}{10.1.6.7}{7.6.1.7}{42, 843, 8840}

अध॑¦हि¦अ॒ग्ने॒¦म॒ह्ना¦नि॒ऽसद्य॑¦स॒द्यः¦ज॒ज्ञा॒नः¦हव्यः॑¦ब॒भूथ॑ |
त‌म्¦ते॒¦दे॒वासः॑¦अनु॑¦केत᳚‌म्¦आ॒य॒न्¦अध॑¦अ॒व॒र्ध॒न्त॒¦प्र॒थ॒मासः॑¦ऊमाः᳚ ||

[7] स्वस्तिनइति सप्तर्चस्य सूक्तस्यात्यस्त्रितोग्नित्रिष्टुप् |
स्व॒स्ति नो᳚ दि॒वो, अ॑ग्ने पृथि॒व्या वि॒श्वायु॑र्धेहि य॒जथा᳚य देव |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

सचे᳚महि॒ तव॑ दस्म प्रके॒तैरु॑रु॒ष्या ण॑ उ॒रुभि॑र्देव॒ शंसैः᳚ ||{1/7}{10.7.1}{10.1.7.1}{7.6.2.1}{43, 844, 8841}

स्व॒स्ति¦नः॒¦दि॒वः¦अ॒ग्ने॒¦पृ॒थि॒व्याः¦वि॒श्वऽआ᳚युः¦धे॒हि॒¦य॒जथा᳚य¦दे॒व॒ |
सचे᳚महि¦तव॑¦द॒स्म॒¦प्र॒ऽके॒तैः¦उ॒रु॒ष्य¦नः॒¦उ॒रुऽभिः॑¦दे॒व॒¦शंसैः᳚ ||

इ॒मा, अ॑ग्ने म॒तय॒स्तुभ्यं᳚ जा॒ता गोभि॒रश्वै᳚र॒भि गृ॑णन्ति॒ राधः॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

य॒दा ते॒ मर्तो॒, अनु॒ भोग॒मान॒ड्वसो॒ दधा᳚नो म॒तिभिः॑ सुजात ||{2/7}{10.7.2}{10.1.7.2}{7.6.2.2}{44, 844, 8842}

इ॒माः¦अ॒ग्ने॒¦म॒तयः॑¦तुभ्य᳚‌म्¦जा॒ताः¦गोभिः॑¦अश्वैः᳚¦अ॒भि¦गृ॒ण॒न्ति॒¦राधः॑ |
य॒दा¦ते॒¦मर्तः॑¦अनु॑¦भोग᳚‌म्¦आन॑ट्¦वसो॒ इति॑¦दधा᳚नः¦म॒तिऽभिः॑¦सु॒ऽजा॒त॒ ||

अ॒ग्निं म᳚न्ये पि॒तर॑म॒ग्निमा॒पिम॒ग्निं भ्रात॑रं॒ सद॒मित्सखा᳚यम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒ग्नेरनी᳚कं बृह॒तः स॑पर्यं दि॒वि शु॒क्रं य॑ज॒तं सूर्य॑स्य ||{3/7}{10.7.3}{10.1.7.3}{7.6.2.3}{45, 844, 8843}

अ॒ग्नि‌म्¦म॒न्ये॒¦पि॒तर᳚‌म्¦अ॒ग्नि‌म्¦आ॒पि‌म्¦अ॒ग्नि‌म्¦भ्रात॑र‌म्¦सद᳚‌म्¦इत्¦सखा᳚य‌म् |
अ॒ग्नेः¦अनी᳚क‌म्¦बृ॒ह॒तः¦स॒प॒र्य॒‌म्¦दि॒वि¦शु॒क्र‌म्¦य॒ज॒त‌म्¦सूर्य॑स्य ||

सि॒ध्रा, अ॑ग्ने॒ धियो᳚, अ॒स्मे सनु॑त्री॒र्यं त्राय॑से॒ दम॒ आ नित्य॑होता |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

ऋ॒तावा॒ स रो॒हिद॑श्वः पुरु॒क्षुर्द्युभि॑रस्मा॒, अह॑भिर्वा॒मम॑स्तु ||{4/7}{10.7.4}{10.1.7.4}{7.6.2.4}{46, 844, 8844}

सि॒ध्राः¦अ॒ग्ने॒¦धियः॑¦अ॒स्मे इति॑¦सनु॑त्रीः¦य‌म्¦त्राय॑से¦दमे᳚¦आ¦नित्य॑ऽहोता |
ऋ॒तऽवा᳚¦सः¦रो॒हित्।आ॑श्वः¦पु॒रु॒ऽक्षुः¦द्युऽभिः॑¦अ॒स्मै॒¦अह॑ऽभिः¦वा॒म‌म्¦अ॒स्तु॒ ||

द्युभि᳚र्हि॒तं मि॒त्रमि॑व प्र॒योगं᳚ प्र॒त्नमृ॒त्विज॑मध्व॒रस्य॑ जा॒रम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

बा॒हुभ्या᳚म॒ग्निमा॒यवो᳚ऽजनन्त वि॒क्षु होता᳚रं॒ न्य॑सादयन्त ||{5/7}{10.7.5}{10.1.7.5}{7.6.2.5}{47, 844, 8845}

द्युऽभिः॑¦हि॒त‌म्¦मि॒त्र‌म्ऽ‌इ᳚व¦प्र॒ऽयोग᳚‌म्¦प्र॒त्न‌म्¦ऋ॒त्विज᳚‌म्¦अ॒ध्व॒रस्य॑¦जा॒र‌म् |
बा॒हुऽभ्या᳚‌म्¦अ॒ग्नि‌म्¦आ॒यवः॑¦अ॒ज॒न॒न्त॒¦वि॒क्षु¦होता᳚र‌म्¦नि¦अ॒सा॒द॒य॒न्त॒ ||

स्व॒यं य॑जस्व दि॒वि दे᳚व दे॒वान्‌ किं ते॒ पाकः॑ कृणव॒दप्र॑चेताः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

यथाय॑ज ऋ॒तुभि॑र्देव दे॒वाने॒वा य॑जस्व त॒न्वं᳚ सुजात ||{6/7}{10.7.6}{10.1.7.6}{7.6.2.6}{48, 844, 8846}

स्व॒य‌म्¦य॒ज॒स्व॒¦दि॒वि¦दे॒व॒¦दे॒वान्¦कि‌म्¦ते॒¦पाकः॑¦कृ॒ण॒व॒त्¦अप्र॑ऽचेताः |
यथा᳚¦अय॑जः¦ऋ॒तुऽभिः॑¦दे॒व॒¦दे॒वान्¦ए॒व¦य॒ज॒स्व॒¦त॒न्व᳚‌म्¦सु॒ऽजा॒त॒ ||

भवा᳚ नो, अग्नेऽवि॒तोत गो॒पा भवा᳚ वय॒स्कृदु॒त नो᳚ वयो॒धाः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

रास्वा᳚ च नः सुमहो ह॒व्यदा᳚तिं॒ त्रास्वो॒त न॑स्त॒न्वो॒३॑(ओ॒) अप्र॑युच्छन् ||{7/7}{10.7.7}{10.1.7.7}{7.6.2.7}{49, 844, 8847}

भव॑¦नः॒¦अ॒ग्ने॒¦अ॒वि॒ता¦उ॒त¦गो॒पाः¦भव॑¦व॒यः॒ऽकृत्¦उ॒त¦नः॒¦व॒यः॒ऽधाः |
रास्व॑¦च॒¦नः॒¦सु॒ऽम॒हः¦ह॒व्यऽदा᳚ति‌म्¦त्रास्व॑¦उ॒त¦नः॒¦त॒न्वः॑¦अप्र॑ऽयुच्छन् ||

[8] प्रकेतुनेति नवर्चस्य सूक्तस्यत्वाष्ट्रस्त्रिशिराअग्निः अंत्यतृचस्येंद्रस्त्रिष्टुप् |
प्र के॒तुना᳚ बृह॒ता या᳚त्य॒ग्निरा रोद॑सी वृष॒भो रो᳚रवीति |{त्वाष्ट्रस्त्रिशिरः | अग्निः | त्रिष्टुप्}

दि॒वश्चि॒दन्ताँ᳚, उप॒माँ, उदा᳚नळ॒पामु॒पस्थे᳚ महि॒षो व॑वर्ध ||{1/9}{10.8.1}{10.1.8.1}{7.6.3.1}{50, 845, 8848}

प्र¦के॒तुना᳚¦बृ॒ह॒ता¦या॒ति॒¦अ॒ग्निः¦आ¦रोद॑सी॒ इति॑¦वृ॒ष॒भः¦रो॒र॒वी॒ति॒ |
दि॒वः¦चि॒त्¦अन्ता᳚न्¦उ॒प॒ऽमान्¦उत्¦आ॒न॒ट्¦अ॒पा‌म्¦उ॒पऽस्थे᳚¦म॒हि॒षः¦व॒व॒र्ध॒ ||

मु॒मोद॒ गर्भो᳚ वृष॒भः क॒कुद्मा᳚नस्रे॒मा व॒त्सः शिमी᳚वाँ, अरावीत् |{त्वाष्ट्रस्त्रिशिरः | अग्निः | त्रिष्टुप्}

स दे॒वता॒त्युद्य॑तानि कृ॒ण्वन्‌ त्स्वेषु॒ क्षये᳚षु प्रथ॒मो जि॑गाति ||{2/9}{10.8.2}{10.1.8.2}{7.6.3.2}{51, 845, 8849}

मु॒मोद॑¦गर्भः॑¦वृ॒ष॒भः¦क॒कुत्ऽमा᳚न्¦अ॒स्रे॒मा¦व॒त्सः¦शिमी᳚ऽवान्¦अ॒रा॒वी॒त् |
सः¦दे॒वऽता᳚ति¦उत्ऽय॑तानि¦कृ॒ण्वन्¦स्वेषु॑¦क्षये᳚षु¦प्र॒थ॒मः¦जि॒गा॒ति॒ ||

आ यो मू॒र्धानं᳚ पि॒त्रोरर॑ब्ध॒ न्य॑ध्व॒रे द॑धिरे॒ सूरो॒, अर्णः॑ |{त्वाष्ट्रस्त्रिशिरः | अग्निः | त्रिष्टुप्}

अस्य॒ पत्म॒न्नरु॑षी॒रश्व॑बुध्ना, ऋ॒तस्य॒ योनौ᳚ त॒न्वो᳚ जुषन्त ||{3/9}{10.8.3}{10.1.8.3}{7.6.3.3}{52, 845, 8850}

आ¦यः¦मू॒र्धान᳚‌म्¦पि॒त्रोः¦अर॑ब्ध¦नि¦अ॒ध्व॒रे¦द॒धि॒रे॒¦सूरः॑¦अर्णः॑ |
अस्य॑¦पत्म॑न्¦अरु॑षीः¦अश्व॑ऽबुध्नाः¦ऋ॒तस्य॑¦योनौ᳚¦त॒न्वः॑¦जु॒ष॒न्त॒ ||

उ॒षौ᳚षो॒ हि व॑सो॒, अग्र॒मेषि॒ त्वं य॒मयो᳚रभवो वि॒भावा᳚ |{त्वाष्ट्रस्त्रिशिरः | अग्निः | त्रिष्टुप्}

ऋ॒ताय॑ स॒प्त द॑धिषे प॒दानि॑ ज॒नय᳚न्मि॒त्रं त॒न्वे॒३॑(ए॒) स्वायै᳚ ||{4/9}{10.8.4}{10.1.8.4}{7.6.3.4}{53, 845, 8851}

उ॒षः।औ᳚षः¦हि¦व॒सो॒ इति॑¦अग्र᳚‌म्¦एषि॑¦त्व‌म्¦य॒मयोः᳚¦अ॒भ॒वः॒¦वि॒भाऽवा᳚ |
ऋ॒ताय॑¦स॒प्त¦द॒धि॒षे॒¦प॒दानि॑¦ज॒नय॑न्¦मि॒त्र‌म्¦त॒न्वे᳚¦स्वायै᳚ ||

भुव॒श्चक्षु᳚र्म॒ह ऋ॒तस्य॑ गो॒पा भुवो॒ वरु॑णो॒ यदृ॒ताय॒ वेषि॑ |{त्वाष्ट्रस्त्रिशिरः | अग्निः | त्रिष्टुप्}

भुवो᳚, अ॒पां नपा᳚ज्जातवेदो॒ भुवो᳚ दू॒तो यस्य॑ ह॒व्यं जुजो᳚षः ||{5/9}{10.8.5}{10.1.8.5}{7.6.3.5}{54, 845, 8852}

भुवः॑¦चक्षुः॑¦म॒हः¦ऋ॒तस्य॑¦गो॒पाः¦भुवः॑¦वरु॑णः¦यत्¦ऋ॒ताय॑¦वेषि॑ |
भुवः॑¦अ॒पा‌म्¦नपा᳚त्¦जा॒त॒ऽवे॒दः॒¦भुवः॑¦दू॒तः¦यस्य॑¦ह॒व्य‌म्¦जुजो᳚षः ||

भुवो᳚ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा᳚ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑ |{त्वाष्ट्रस्त्रिशिरः | अग्निः | त्रिष्टुप्}

दि॒वि मू॒र्धानं᳚ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह᳚म् ||{6/9}{10.8.6}{10.1.8.6}{7.6.4.1}{55, 845, 8853}

भुवः॑¦य॒ज्ञस्य॑¦रज॑सः¦च॒¦ने॒ता¦यत्र॑¦नि॒युत्ऽभिः॑¦सच॑से¦शि॒वाभिः॑ |
दि॒वि¦मू॒र्धान᳚‌म्¦द॒धि॒षे॒¦स्वः॒ऽसा‌म्¦जि॒ह्वा‌म्¦अ॒ग्ने॒¦च॒कृ॒षे॒¦ह॒व्य॒ऽवाह᳚‌म् ||

अ॒स्य त्रि॒तः क्रतु॑ना व॒व्रे, अ॒न्तरि॒च्छन्धी॒तिं पि॒तुरेवैः॒ पर॑स्य |{त्वाष्ट्रस्त्रिशिरः | इन्द्रः | त्रिष्टुप्}

स॒च॒स्यमा᳚नः पि॒त्रोरु॒पस्थे᳚ जा॒मि ब्रु॑वा॒ण आयु॑धानि वेति ||{7/9}{10.8.7}{10.1.8.7}{7.6.4.2}{56, 845, 8854}

अ॒स्य¦त्रि॒तः¦क्रतु॑ना¦व॒व्रे¦अ॒न्तः¦इ॒च्छन्¦धी॒ति‌म्¦पि॒तुः¦एवैः᳚¦पर॑स्य |
स॒च॒स्यमा᳚नः¦पि॒त्रोः¦उ॒पऽस्थे᳚¦जा॒मि¦ब्रु॒वा॒णः¦आयु॑धानि¦वे॒ति॒ ||

स पित्र्या॒ण्यायु॑धानि वि॒द्वानिन्द्रे᳚षित आ॒प्त्यो, अ॒भ्य॑युध्यत् |{त्वाष्ट्रस्त्रिशिरः | इन्द्रः | त्रिष्टुप्}

त्रि॒शी॒र्षाणं᳚ स॒प्तर॑श्मिं जघ॒न्वान्‌ त्वा॒ष्ट्रस्य॑ चि॒न्निः स॑सृजे त्रि॒तो गाः ||{8/9}{10.8.8}{10.1.8.8}{7.6.4.3}{57, 845, 8855}

सः¦पित्र्या᳚णि¦आयु॑धानि¦वि॒द्वान्¦इन्द्र॑ऽ‌इषितः¦आ॒प्त्यः¦अ॒भि¦अ॒यु॒ध्य॒त् |
त्रि॒ऽशी॒र्षाण᳚‌म्¦स॒प्तऽर॑श्मि‌म्¦ज॒घ॒न्वान्¦त्वा॒ष्ट्रस्य॑¦चि॒त्¦निः¦स॒सृ॒जे॒¦त्रि॒तः¦गाः ||

भूरीदिन्द्र॑ उ॒दिन॑क्षन्त॒मोजोऽवा᳚भिन॒त्सत्प॑ति॒र्मन्य॑मानम् |{त्वाष्ट्रस्त्रिशिरः | इन्द्रः | त्रिष्टुप्}

त्वा॒ष्ट्रस्य॑ चिद्वि॒श्वरू᳚पस्य॒ गोना᳚माचक्रा॒णस्त्रीणि॑ शी॒र्षा परा᳚ वर्क् ||{9/9}{10.8.9}{10.1.8.9}{7.6.4.4}{58, 845, 8856}

भूरि॑¦इत्¦इन्द्रः॑¦उ॒त्ऽ‌इन॑क्षन्त‌म्¦ओजः॑¦अव॑¦अ॒भि॒न॒त्¦सत्ऽप॑तिः¦मन्य॑मान‌म् |
त्वा॒ष्ट्रस्य॑¦चि॒त्¦वि॒श्वऽरू᳚पस्य¦गोना᳚‌म्¦आ॒ऽच॒क्रा॒णः¦त्रीणि॑¦शी॒र्षा¦परा᳚¦व॒र्गिति॑ वर्क् ||

[9] आपोहिष्ठेति नवर्चस्य सूक्तस्य आंबरीषः सिंधुद्वीप आपो गायत्री पंचमीवर्धमाना सप्तमीप्रतिष्ठांत्येद्वेअनुष्टुभौ | आपोहिसिंधुद्वीपोवांबरीष इत्येवमनुक्रमण्यां सिंधुद्वीपस्य पाक्षिकत्व स्वीकारे पूर्वोक्तस्त्रिशिराः प्राप्नोतितथापि प्रयोक्तृभिः सिंधुद्वीप एवाद्रियते |
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री}

म॒हे रणा᳚य॒ चक्ष॑से ||{1/9}{10.9.1}{10.1.9.1}{7.6.5.1}{59, 846, 8857}

आपः॑¦हि¦स्थ¦म॒यः॒ऽभुवः॑¦ताः¦नः॒¦ऊ॒र्जे¦द॒धा॒त॒न॒ | म॒हे¦रणा᳚य¦चक्ष॑से ||

यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री}

उ॒श॒तीरि॑व मा॒तरः॑ ||{2/9}{10.9.2}{10.1.9.2}{7.6.5.2}{60, 846, 8858}

यः¦वः॒¦शि॒वऽत॑मः¦रसः॑¦तस्य॑¦भा॒ज॒य॒त॒¦इ॒ह¦नः॒ | उ॒श॒तीःऽ‌इ᳚व¦मा॒तरः॑ ||

तस्मा॒, अरं᳚ गमाम वो॒ यस्य॒ क्षया᳚य॒ जिन्व॑थ |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री}

आपो᳚ ज॒नय॑था च नः ||{3/9}{10.9.3}{10.1.9.3}{7.6.5.3}{61, 846, 8859}

तस्मै᳚¦अर᳚‌म्¦ग॒मा॒म॒¦वः॒¦यस्य॑¦क्षया᳚य¦जिन्व॑थ | आपः॑¦ज॒नय॑थ¦च॒¦नः॒ ||

शं नो᳚ दे॒वीर॒भिष्ट॑य॒ आपो᳚ भवन्तु पी॒तये᳚ |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री}

शं योर॒भि स्र॑वन्तु नः ||{4/9}{10.9.4}{10.1.9.4}{7.6.5.4}{62, 846, 8860}

श‌म्¦नः॒¦दे॒वीः¦अ॒भिष्ट॑ये¦आपः॑¦भ॒व॒न्तु॒¦पी॒तये᳚ | श‌म्¦योः¦अ॒भि¦स्र॒व॒न्तु॒¦नः॒ ||

ईशा᳚ना॒ वार्या᳚णां॒ क्षय᳚न्तीश्चर्षणी॒नाम् |{आंबरीषः सिंधुद्वीपः | आपः | वर्धमाना गायत्री}

अ॒पो या᳚चामि भेष॒जम् ||{5/9}{10.9.5}{10.1.9.5}{7.6.5.5}{63, 846, 8861}

ईशा᳚नाः¦वार्या᳚णा‌म्¦क्षय᳚न्तीः¦च॒र्ष॒णी॒ना‌म् | अ॒पः¦या॒चा॒मि॒¦भे॒ष॒ज‌म् ||

अ॒प्सु मे॒ सोमो᳚, अब्रवीद॒न्तर्विश्वा᳚नि भेष॒जा |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री}

अ॒ग्निं च॑ वि॒श्वश᳚म्भुवम् ||{6/9}{10.9.6}{10.1.9.6}{7.6.5.6}{64, 846, 8862}

अ॒प्ऽसु¦मे॒¦सोमः॑¦अ॒ब्र॒वी॒त्¦अ॒न्तः¦विश्वा᳚नि¦भे॒ष॒जा | अ॒ग्नि‌म्¦च॒¦वि॒श्वऽश᳚म्भुव‌म् ||

आपः॑ पृणी॒त भे᳚ष॒जं वरू᳚थं त॒न्वे॒३॑(ए॒) मम॑ |{आंबरीषः सिंधुद्वीपः | आपः | प्रतिष्ठागायत्री}

ज्योक्‌ च॒ सूर्यं᳚ दृ॒शे ||{7/9}{10.9.7}{10.1.9.7}{7.6.5.7}{65, 846, 8863}

आपः॑¦पृ॒णी॒त¦भे॒ष॒ज‌म्¦वरू᳚थ‌म्¦त॒न्वे᳚¦मम॑ | ज्योक्¦च॒¦सूर्य᳚‌म्¦दृ॒शे ||

इ॒दमा᳚पः॒ प्र व॑हत॒ यत्‌ किं च॑ दुरि॒तं मयि॑ |{आंबरीषः सिंधुद्वीपः | आपः | अनुष्टुप्}

यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा᳚ शे॒प उ॒तानृ॑तम् ||{8/9}{10.9.8}{10.1.9.8}{7.6.5.8}{66, 846, 8864}

इ॒द‌म्¦आ॒पः॒¦प्र¦व॒ह॒त॒¦यत्¦कि‌म्¦च॒¦दुः॒ऽ‌इ॒त‌म्¦मयि॑ | यत्¦वा॒¦अ॒ह‌म्¦अ॒भि॒ऽदु॒द्रोह॑¦यत्¦वा॒¦शे॒पे¦उ॒त¦अनृ॑त‌म् ||

आपो᳚, अ॒द्यान्व॑चारिषं॒ रसे᳚न॒ सम॑गस्महि |{आंबरीषः सिंधुद्वीपः | आपः | अनुष्टुप्}

पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ||{9/9}{10.9.9}{10.1.9.9}{7.6.5.9}{67, 846, 8865}

आपः॑¦अ॒द्य¦अनु॑¦अ॒चा॒रि॒ष॒‌म्¦रसे᳚न¦स‌म्¦अ॒ग॒स्म॒हि॒ | पय॑स्वान्¦अ॒ग्ने॒¦आ¦ग॒हि॒¦त‌म्¦मा॒¦स‌म्¦सृ॒ज॒¦वर्च॑सा ||

[10] ओचिदिति चतुर्दशर्चस्य सूक्तस्य नवमी वर्ज्यानामयुजां षष्ठ्याश्च वैवस्वतीयमी ऋषिका यमोदेवता षष्ठीवर्ज्यानांयुजां नवम्याश्च वैवस्वतोयमीत्रिष्टुप् |
ओ चि॒त्सखा᳚यं स॒ख्या व॑वृत्यां ति॒रः पु॒रू चि॑दर्ण॒वं ज॑ग॒न्वान् |{वैवस्वती यमी | यमः | त्रिष्टुप्}

पि॒तुर्नपा᳚त॒मा द॑धीत वे॒धा, अधि॒ क्षमि॑ प्रत॒रं दीध्या᳚नः ||{1/14}{10.10.1}{10.1.10.1}{7.6.6.1}{68, 847, 8866}

ओ इति॑¦चि॒त्¦सखा᳚य‌म्¦स॒ख्या¦व॒वृ॒त्या॒‌म्¦ति॒रः¦पु॒रु¦चि॒त्¦अ॒र्ण॒व‌म्¦ज॒ग॒न्वान् |
पि॒तुः¦नपा᳚त‌म्¦आ¦द॒धी॒त॒¦वे॒धाः¦अधि॑¦क्षमि॑¦प्र॒ऽत॒र‌म्¦दीध्या᳚नः ||

न ते॒ सखा᳚ स॒ख्यं व॑ष्ट्ये॒तत्सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा᳚ति |{यमः | वैवस्वती यमी | त्रिष्टुप्}

म॒हस्पु॒त्रासो॒, असु॑रस्य वी॒रा दि॒वो ध॒र्तार॑ उर्वि॒या परि॑ ख्यन् ||{2/14}{10.10.2}{10.1.10.2}{7.6.6.2}{69, 847, 8867}

न¦ते॒¦सखा᳚¦स॒ख्य‌म्¦व॒ष्टि॒¦ए॒तत्¦सऽल॑क्ष्मा¦यत्¦विषु॑ऽरूपा¦भवा᳚ति |
म॒हः¦पु॒त्रासः॑¦असु॑रस्य¦वी॒राः¦दि॒वः¦ध॒र्तारः॑¦उ॒र्वि॒या¦परि॑¦ख्य॒न् ||

उ॒शन्ति॑ घा॒ ते, अ॒मृता᳚स ए॒तदेक॑स्य चित्‌ त्य॒जसं॒ मर्त्य॑स्य |{वैवस्वती यमी | यमः | त्रिष्टुप्}

नि ते॒ मनो॒ मन॑सि धाय्य॒स्मे जन्युः॒ पति॑स्त॒न्व१॑(अ॒)मा वि॑विश्याः ||{3/14}{10.10.3}{10.1.10.3}{7.6.6.3}{70, 847, 8868}

उ॒शन्ति॑¦घ॒¦ते¦अ॒मृता᳚सः¦ए॒तत्¦एक॑स्य¦चि॒त्¦त्य॒जस᳚‌म्¦मर्त्य॑स्य |
नि¦ते॒¦मनः॑¦मन॑सि¦धा॒यि॒¦अ॒स्मे इति॑¦जन्युः॑¦पतिः॑¦त॒न्व᳚‌म्¦आ¦वि॒वि॒श्याः॒ ||

न यत्पु॒रा च॑कृ॒मा कद्ध॑ नू॒नमृ॒ता वद᳚न्तो॒, अनृ॑तं रपेम |{यमः | वैवस्वती यमी | त्रिष्टुप्}

ग॒न्ध॒र्वो, अ॒प्स्वप्या᳚ च॒ योषा॒ सा नो॒ नाभिः॑ पर॒मं जा॒मि तन्नौ᳚ ||{4/14}{10.10.4}{10.1.10.4}{7.6.6.4}{71, 847, 8869}

न¦यत्¦पु॒रा¦च॒कृ॒म॒¦कत्¦ह॒¦नू॒न‌म्¦ऋ॒ता¦वद᳚न्तः¦अनृ॑त‌म्¦र॒पे॒म॒ |
ग॒न्ध॒र्वः¦अ॒प्ऽसु¦अप्या᳚¦च॒¦योषा᳚¦सा¦नः॒¦नाभिः॑¦प॒र॒म‌म्¦जा॒मि¦तत्¦नौ॒ ||

गर्भे॒ नु नौ᳚ जनि॒ता दम्प॑ती कर्दे॒वस्त्वष्टा᳚ सवि॒ता वि॒श्वरू᳚पः |{वैवस्वती यमी | यमः | त्रिष्टुप्}

नकि॑रस्य॒ प्र मि॑नन्ति व्र॒तानि॒ वेद॑ नाव॒स्य पृ॑थि॒वी, उ॒त द्यौः ||{5/14}{10.10.5}{10.1.10.5}{7.6.6.5}{72, 847, 8870}

गर्भे᳚¦नु¦नौ॒¦ज॒नि॒ता¦दंप॑ती॒ इति॒ द‌म्ऽप॑ती¦कः॒¦दे॒वः¦त्वष्टा᳚¦स॒वि॒ता¦वि॒श्वऽरू᳚पः |
नकिः॑¦अ॒स्य॒¦प्र¦मि॒न॒न्ति॒¦व्र॒तानि॑¦वेद॑¦नौ॒¦अ॒स्य¦पृ॒थि॒वी¦उ॒त¦द्यौः ||

को, अ॒स्य वे᳚द प्रथ॒मस्याह्नः॒ क ईं᳚ ददर्श॒ क इ॒ह प्र वो᳚चत् |{वैवस्वती यमी | यमः | त्रिष्टुप्}

बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ कदु॑ ब्रव आहनो॒ वीच्या॒ नॄन् ||{6/14}{10.10.6}{10.1.10.6}{7.6.7.1}{73, 847, 8871}

कः¦अ॒स्य¦वे॒द॒¦प्र॒थ॒मस्य॑¦अह्नः॑¦कः¦ई॒‌म्¦द॒द॒र्श॒¦कः¦इ॒ह¦प्र¦वो॒च॒त् |
बृ॒हत्¦मि॒त्रस्य॑¦वरु॑णस्य¦धाम॑¦कत्¦ऊँ॒ इति॑¦ब्र॒वः॒¦आ॒ह॒नः॒¦वीच्या᳚¦नॄन् ||

य॒मस्य॑ मा य॒म्य१॑(अं॒) काम॒ आग᳚न्‌ त्समा॒ने योनौ᳚ सह॒शेय्या᳚य |{वैवस्वती यमी | यमः | त्रिष्टुप्}

जा॒येव॒ पत्ये᳚ त॒न्वं᳚ रिरिच्यां॒ वि चि॑द्वृहेव॒ रथ्ये᳚व च॒क्रा ||{7/14}{10.10.7}{10.1.10.7}{7.6.7.2}{74, 847, 8872}

य॒मस्य॑¦मा॒¦य॒म्य᳚‌म्¦कामः॑¦आ¦अ॒ग॒न्¦स॒मा॒ने¦योनौ᳚¦स॒ह॒ऽशेय्या᳚य |
जा॒याऽ‌इ᳚व¦पत्ये᳚¦त॒न्व᳚‌म्¦रि॒रि॒च्या॒‌म्¦वि¦चि॒त्¦वृ॒हे॒व॒¦रथ्या᳚ऽ‌इव¦च॒क्रा ||

न ति॑ष्ठन्ति॒ न नि मि॑षन्त्ये॒ते दे॒वानां॒ स्पश॑ इ॒ह ये चर᳚न्ति |{यमः | वैवस्वती यमी | त्रिष्टुप्}

अ॒न्येन॒ मदा᳚हनो याहि॒ तूयं॒ तेन॒ वि वृ॑ह॒ रथ्ये᳚व च॒क्रा ||{8/14}{10.10.8}{10.1.10.8}{7.6.7.3}{75, 847, 8873}

न¦ति॒ष्ठ॒न्ति॒¦न¦नि¦मि॒ष॒न्ति॒¦ए॒ते¦दे॒वाना᳚‌म्¦स्पशः॑¦इ॒ह¦ये¦चर᳚न्ति |
अ॒न्येन॑¦मत्¦आ॒ह॒नः॒¦या॒हि॒¦तूय᳚‌म्¦तेन॑¦वि¦वृ॒हे॒व॒¦रथ्या᳚ऽ‌इव¦च॒क्रा ||

रात्री᳚भिरस्मा॒, अह॑भिर्दशस्ये॒त्सूर्य॑स्य॒ चक्षु॒र्मुहु॒रुन्मि॑मीयात् |{यमः | वैवस्वती यमी | त्रिष्टुप्}

दि॒वा पृ॑थि॒व्या मि॑थु॒ना सब᳚न्धू य॒मीर्य॒मस्य॑ बिभृया॒दजा᳚मि ||{9/14}{10.10.9}{10.1.10.9}{7.6.7.4}{76, 847, 8874}

रात्री᳚भिः¦अ॒स्मै॒¦अह॑ऽभिः¦द॒श॒स्ये॒त्¦सूर्य॑स्य¦चक्षुः॑¦मुहुः॑¦उत्¦मि॒मी॒या॒त् |
दि॒वा¦पृ॒थि॒व्या¦मि॒थु॒ना¦सब᳚न्धू॒ इति॒ सऽब᳚न्धू¦य॒मीः¦य॒मस्य॑¦बि॒भृ॒या॒त्¦अजा᳚मि ||

आ घा॒ ता ग॑च्छा॒नुत्त॑रा यु॒गानि॒ यत्र॑ जा॒मयः॑ कृ॒णव॒न्नजा᳚मि |{यमः | वैवस्वती यमी | त्रिष्टुप्}

उप॑ बर्बृहि वृष॒भाय॑ बा॒हुम॒न्यमि॑च्छस्व सुभगे॒ पतिं॒ मत् ||{10/14}{10.10.10}{10.1.10.10}{7.6.7.5}{77, 847, 8875}

आ¦घ॒¦ता¦ग॒च्छा॒न्¦उत्ऽत॑रा¦यु॒गानि॑¦यत्र॑¦जा॒मयः॑¦कृ॒णव॑न्¦अजा᳚मि |
उप॑¦बर्बृ॑हि¦वृ॒ष॒भाय॑¦बा॒हु‌म्¦अ॒न्य‌म्¦इ॒च्छ॒स्व॒¦सु॒ऽभ॒गे॒¦पति᳚‌म्¦मत् ||

किं भ्राता᳚स॒द्यद॑ना॒थं भवा᳚ति॒ किमु॒ स्वसा॒ यन्निरृ॑तिर्नि॒गच्छा᳚त् |{वैवस्वती यमी | यमः | त्रिष्टुप्}

काम॑मूता ब॒ह्वे॒३॑(ए॒)तद्र॑पामि त॒न्वा᳚ मे त॒न्व१॑(अं॒) सं पि॑पृग्धि ||{11/14}{10.10.11}{10.1.10.11}{7.6.8.1}{78, 847, 8876}

कि‌म्¦भ्राता᳚¦अ॒स॒त्¦यत्¦अ॒ना॒थ‌म्¦भवा᳚ति¦कि‌म्¦ऊँ॒ इति॑¦स्वसा᳚¦यत्¦निःऽऋ॑तिः¦नि॒ऽगच्छा᳚त् |
काम॑ऽमूता¦ब॒हु¦ए॒तत्¦र॒पा॒मि॒¦त॒न्वा᳚¦मे॒¦त॒न्व᳚‌म्¦स‌म्¦पि॒पृ॒ग्धि॒ ||

न वा, उ॑ ते त॒न्वा᳚ त॒न्व१॑(अं॒) सं प॑पृच्यां पा॒पमा᳚हु॒र्यः स्वसा᳚रं नि॒गच्छा᳚त् |{यमः | वैवस्वती यमी | त्रिष्टुप्}

अ॒न्येन॒ मत्प्र॒मुदः॑ कल्पयस्व॒ न ते॒ भ्राता᳚ सुभगे वष्ट्ये॒तत् ||{12/14}{10.10.12}{10.1.10.12}{7.6.8.2}{79, 847, 8877}

न¦वै¦ऊँ॒ इति॑¦ते॒¦त॒न्वा᳚¦त॒न्व᳚‌म्¦स‌म्¦प॒पृ॒च्या॒‌म्¦पा॒प‌म्¦आ॒हुः॒¦यः¦स्वसा᳚र‌म्¦नि॒ऽगच्छा᳚त् |
अ॒न्येन॑¦मत्¦प्र॒ऽमुदः॑¦क॒ल्प॒य॒स्व॒¦न¦ते॒¦भ्राता᳚¦सु॒ऽभ॒गे॒¦व॒ष्टि॒¦ए॒तत् ||

ब॒तो ब॑तासि यम॒ नैव ते॒ मनो॒ हृद॑यं चाविदाम |{वैवस्वती यमी | यमः | त्रिष्टुप्}

अ॒न्या किल॒ त्वां क॒क्ष्ये᳚व यु॒क्तं परि॑ ष्वजाते॒ लिबु॑जेव वृ॒क्षम् ||{13/14}{10.10.13}{10.1.10.13}{7.6.8.3}{80, 847, 8878}

ब॒तः¦ब॒त॒¦अ॒सि॒¦य॒म॒¦न¦ए॒व¦ते॒¦मनः॑¦हृद॑य‌म्¦च॒¦अ॒वि॒दा॒म॒ |
अ॒न्या¦किल॑¦त्वा‌म्¦क॒क्ष्या᳚ऽ‌इव¦यु॒क्त‌म्¦परि॑¦स्व॒जा॒ते॒¦लिबु॑जाऽ‌इव¦वृ॒क्ष‌म् ||

अ॒न्यमू॒ षु त्वं य᳚म्य॒न्य उ॒ त्वां परि॑ ष्वजाते॒ लिबु॑जेव वृ॒क्षम् |{यमः | वैवस्वती यमी | त्रिष्टुप्}

तस्य॑ वा॒ त्वं मन॑ इ॒च्छा स वा॒ तवाधा᳚ कृणुष्व सं॒विदं॒ सुभ॑द्राम् ||{14/14}{10.10.14}{10.1.10.14}{7.6.8.4}{81, 847, 8879}

अ॒न्य‌म्¦ऊँ॒ इति॑¦सु¦त्व‌म्¦य॒मि॒¦अ॒न्यः¦ऊँ॒ इति॑¦त्वा‌म्¦परि॑¦स्व॒जा॒ते॒¦लिबु॑जाऽ‌इव¦वृ॒क्ष‌म् |
तस्य॑¦वा॒¦त्व‌म्¦मनः॑¦इ॒च्छा¦सः¦वा॒¦तव॑¦अध॑¦कृ॒णु॒ष्व॒¦स॒‌म्ऽविद᳚‌म्¦सुऽभ॑द्रा‌म् ||

[11] वृषावृष्ण इति नवर्चस्य सूक्तस्यांगिर्हविर्धानोऽग्निर्जगती अंत्यास्तिस्रत्रिष्टुभः |
वृषा॒ वृष्णे᳚ दुदुहे॒ दोह॑सा दि॒वः पयां᳚सि य॒ह्वो, अदि॑ते॒रदा᳚भ्यः |{आङ्गिर्हविर्धानः | अग्निः | जगती}

विश्वं॒ स वे᳚द॒ वरु॑णो॒ यथा᳚ धि॒या स य॒ज्ञियो᳚ यजतु य॒ज्ञियाँ᳚, ऋ॒तून् ||{1/9}{10.11.1}{10.1.11.1}{7.6.9.1}{82, 848, 8880}

वृषा᳚¦वृष्णे᳚¦दु॒दु॒हे॒¦दोह॑सा¦दि॒वः¦पयां᳚सि¦य॒ह्वः¦अदि॑तेः¦अदा᳚भ्यः |
विश्व᳚‌म्¦सः¦वे॒द॒¦वरु॑णः¦यथा᳚¦धि॒या¦सः¦य॒ज्ञियः॑¦य॒ज॒तु॒¦य॒ज्ञिया᳚न्¦ऋ॒तून् ||

रप॑द्गन्ध॒र्वीरप्या᳚ च॒ योष॑णा न॒दस्य॑ ना॒दे परि॑ पातु मे॒ मनः॑ |{आङ्गिर्हविर्धानः | अग्निः | जगती}

इ॒ष्टस्य॒ मध्ये॒, अदि॑ति॒र्नि धा᳚तु नो॒ भ्राता᳚ नो ज्ये॒ष्ठः प्र॑थ॒मो वि वो᳚चति ||{2/9}{10.11.2}{10.1.11.2}{7.6.9.2}{83, 848, 8881}

रप॑त्¦ग॒न्ध॒र्वीः¦अप्या᳚¦च॒¦योष॑णा¦न॒दस्य॑¦ना॒दे¦परि॑¦पा॒तु॒¦मे॒¦मनः॑ |
इ॒ष्टस्य॑¦मध्ये᳚¦अदि॑तिः¦नि¦धा॒तु॒¦नः॒¦भ्राता᳚¦नः॒¦ज्ये॒ष्ठः¦प्र॒थ॒मः¦वि¦वो॒च॒ति॒ ||

सो चि॒न्नु भ॒द्रा क्षु॒मती॒ यश॑स्वत्यु॒षा, उ॑वास॒ मन॑वे॒ स्व᳚र्वती |{आङ्गिर्हविर्धानः | अग्निः | जगती}

यदी᳚मु॒शन्त॑मुश॒तामनु॒ क्रतु॑म॒ग्निं होता᳚रं वि॒दथा᳚य॒ जीज॑नन् ||{3/9}{10.11.3}{10.1.11.3}{7.6.9.3}{84, 848, 8882}

सो इति॑¦चि॒त्¦नु¦भ॒द्रा¦क्षु॒ऽमती᳚¦यश॑स्वती¦उ॒षाः¦उ॒वा॒स॒¦मन॑वे¦स्वः॑ऽवती |
यत्¦ई॒‌म्¦उ॒शन्त᳚‌म्¦उ॒श॒ता‌म्¦अनु॑¦ऋतु᳚‌म्¦अ॒ग्नि‌म्¦होता᳚र‌म्¦वि॒दथा᳚य¦जीज॑नन् ||

अध॒ त्यं द्र॒प्सं वि॒भ्वं᳚ विचक्ष॒णं विराभ॑रदिषि॒तः श्ये॒नो, अ॑ध्व॒रे |{आङ्गिर्हविर्धानः | अग्निः | जगती}

यदी॒ विशो᳚ वृ॒णते᳚ द॒स्ममार्या᳚, अ॒ग्निं होता᳚र॒मध॒ धीर॑जायत ||{4/9}{10.11.4}{10.1.11.4}{7.6.9.4}{85, 848, 8883}

अध॑¦त्य‌म्¦द्र॒प्स‌म्¦वि॒भ्व᳚‌म्¦वि॒ऽच॒क्ष॒ण‌म्¦विः¦आ¦अ॒भ॒र॒त्¦इ॒षि॒तः¦श्ये॒नः¦अ॒ध्व॒रे |
यदि॑¦विशः॑¦वृ॒णते᳚¦द॒स्म‌म्¦आर्याः᳚¦अ॒ग्नि‌म्¦होता᳚र‌म्¦अध॑¦धीः¦अ॒जा॒य॒त॒ ||

सदा᳚सि र॒ण्वो यव॑सेव॒ पुष्य॑ते॒ होत्रा᳚भिरग्ने॒ मनु॑षः स्वध्व॒रः |{आङ्गिर्हविर्धानः | अग्निः | जगती}

विप्र॑स्य वा॒ यच्छ॑शमा॒न उ॒क्थ्य१॑(अं॒) वाजं᳚ सस॒वाँ, उ॑प॒यासि॒ भूरि॑भिः ||{5/9}{10.11.5}{10.1.11.5}{7.6.9.5}{86, 848, 8884}

सदा᳚¦अ॒सि॒¦र॒ण्वः¦यव॑साऽ‌इव¦पुष्य॑ते¦होत्रा᳚भिः¦अ॒ग्ने॒¦मनु॑षः¦सु॒।आ॒ध्व॒रः |
विप्र॑स्य¦वा॒¦यत्¦श॒श॒मा॒नः¦उ॒क्थ्य᳚‌म्¦वाज᳚‌म्¦स॒स॒ऽवान्¦उ॒प॒ऽयासि॑¦भूरि॑ऽभिः ||

उदी᳚रय पि॒तरा᳚ जा॒र आ भग॒मिय॑क्षति हर्य॒तो हृ॒त्त इ॑ष्यति |{आङ्गिर्हविर्धानः | अग्निः | जगती}

विव॑क्ति॒ वह्निः॑ स्वप॒स्यते᳚ म॒खस्त॑वि॒ष्यते॒, असु॑रो॒ वेप॑ते म॒ती ||{6/9}{10.11.6}{10.1.11.6}{7.6.10.1}{87, 848, 8885}

उत्¦ई॒र॒य॒¦पि॒तरा᳚¦जा॒रः¦आ¦भग᳚‌म्¦इय॑क्षति¦ह॒र्य॒तः¦हृ॒त्तः¦इ॒ष्य॒ति॒ |
विव॑क्ति¦वह्निः॑¦सु॒।आ॒प॒स्यते᳚¦म॒खः¦त॒वि॒ष्यते᳚¦असु॑रः¦वेप॑ते¦म॒ती ||

यस्ते᳚, अग्ने सुम॒तिं मर्तो॒, अक्ष॒त्सह॑सः सूनो॒, अति॒ स प्र शृ᳚ण्वे |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

इषं॒ दधा᳚नो॒ वह॑मानो॒, अश्वै॒रा स द्यु॒माँ, अम॑वान्‌ भूषति॒ द्यून् ||{7/9}{10.11.7}{10.1.11.7}{7.6.10.2}{88, 848, 8886}

यः¦ते॒¦अ॒ग्ने॒¦सु॒ऽम॒ति‌म्¦मर्तः॑¦अक्ष॑त्¦सह॑सः¦सू॒नो॒ इति॑¦अति॑¦सः¦प्र¦शृ॒ण्वे॒ |
इष᳚‌म्¦दधा᳚नः¦वह॑मानः¦अश्वैः᳚¦आ¦सः¦द्यु॒ऽमान्¦अम॑ऽवान्¦भू॒ष॒ति॒¦द्यून् ||

यद॑ग्न ए॒षा समि॑ति॒र्भवा᳚ति दे॒वी दे॒वेषु॑ यज॒ता य॑जत्र |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

रत्ना᳚ च॒ यद्वि॒भजा᳚सि स्वधावो भा॒गं नो॒, अत्र॒ वसु॑मन्तं वीतात् ||{8/9}{10.11.8}{10.1.11.8}{7.6.10.3}{89, 848, 8887}

यत्¦अ॒ग्ने॒¦ए॒षा¦स‌म्ऽ‌इ᳚तिः¦भवा᳚ति¦दे॒वी¦दे॒वेषु॑¦य॒ज॒ता¦य॒ज॒त्र॒ |
रत्ना᳚¦च॒¦यत्¦वि॒ऽभजा᳚सि¦स्व॒धा॒ऽवः॒¦भा॒ग‌म्¦नः॒¦अत्र॑¦वसु॑ऽमन्त‌म्¦वी॒ता॒त् ||

श्रु॒धी नो᳚, अग्ने॒ सद॑ने स॒धस्थे᳚ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुम् |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

आ नो᳚ वह॒ रोद॑सी दे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्याः᳚ ||{9/9}{10.11.9}{10.1.11.9}{7.6.10.4}{90, 848, 8888}

श्रु॒धि¦नः॒¦अ॒ग्ने॒¦सद॑ने¦स॒धऽस्थे᳚¦यु॒क्ष्व¦रथ᳚‌म्¦अ॒मृत॑स्य¦द्र॒वि॒त्नु‌म् |
आ¦नः॒¦व॒ह॒¦रोद॑सी॒ इति॑¦दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे¦माकिः॑¦दे॒वाना᳚‌म्¦अप॑¦भूः॒¦इ॒ह¦स्याः॒ ||

[12] द्यावाहेति नवर्चस्य सूक्तस्यहविर्धानोग्निस्त्रिष्टुप् |
द्यावा᳚ ह॒ क्षामा᳚ प्रथ॒मे, ऋ॒तेना᳚भिश्रा॒वे भ॑वतः सत्य॒वाचा᳚ |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

दे॒वो यन्मर्ता᳚न्य॒जथा᳚य कृ॒ण्वन्‌ त्सीद॒द्धोता᳚ प्र॒त्यङ्स्वमसुं॒ यन् ||{1/9}{10.12.1}{10.1.12.1}{7.6.11.1}{91, 849, 8889}

द्यावा᳚¦ह॒¦क्षामा᳚¦प्र॒थ॒मे इति॑¦ऋ॒तेन॑¦अ॒भि॒ऽश्रा॒वे¦भ॒व॒तः॒¦स॒त्य॒ऽवाचा᳚ |
दे॒वः¦यत्¦मर्ता᳚न्¦य॒जथा᳚य¦कृ॒ण्वन्¦सीद॑त्¦होता᳚¦प्र॒त्यङ्¦स्व‌म्¦असु᳚‌म्¦यन् ||

दे॒वो दे॒वान्‌ प॑रि॒भूरृ॒तेन॒ वहा᳚ नो ह॒व्यं प्र॑थ॒मश्चि॑कि॒त्वान् |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

धू॒मके᳚तुः स॒मिधा॒ भा,ऋ॑जीको म॒न्द्रो होता॒ नित्यो᳚ वा॒चा यजी᳚यान् ||{2/9}{10.12.2}{10.1.12.2}{7.6.11.2}{92, 849, 8890}

दे॒वः¦दे॒वान्¦प॒रि॒ऽभूः¦ऋ॒तेन॑¦वह॑¦नः॒¦ह॒व्य‌म्¦प्र॒थ॒मः¦चि॒कि॒त्वान् |
धू॒मऽके᳚तुः¦स॒‌म्ऽ‌इधा᳚¦भाःऽऋ॑जीकः¦म॒न्द्रः¦होता᳚¦नित्यः॑¦वा॒चा¦यजी᳚यान् ||

स्वावृ॑ग्दे॒वस्या॒मृतं॒ यदी॒ गोरतो᳚ जा॒तासो᳚ धारयन्त उ॒र्वी |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

विश्वे᳚ दे॒वा, अनु॒ तत्ते॒ यजु॑र्गुर्दु॒हे यदेनी᳚ दि॒व्यं घृ॒तं वाः ||{3/9}{10.12.3}{10.1.12.3}{7.6.11.3}{93, 849, 8891}

स्वावृ॑क्¦दे॒वस्य॑¦अ॒मृत᳚‌म्¦यदि॑¦गोः¦अतः॑¦जा॒तासः॑¦धा॒र॒य॒न्ते॒¦उ॒र्वी इति॑ |
विश्वे᳚¦दे॒वाः¦अनु॑¦तत्¦ते॒¦यजुः॑¦गुः॒¦दु॒हे¦यत्¦एनी᳚¦दि॒व्य‌म्¦घृ॒त‌म्¦वारिति॒ वाः ||

अर्चा᳚मि वां॒ वर्धा॒यापो᳚ घृतस्नू॒ द्यावा᳚भूमी शृणु॒तं रो᳚दसी मे |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

अहा॒ यद्द्यावोऽसु॑नीति॒मय॒न्मध्वा᳚ नो॒, अत्र॑ पि॒तरा᳚ शिशीताम् ||{4/9}{10.12.4}{10.1.12.4}{7.6.11.4}{94, 849, 8892}

अर्चा᳚मि¦वा॒‌म्¦वर्धा᳚य¦अपः॑¦घृ॒त॒स्नू॒ इति॑ घृतऽस्नू¦द्यावा᳚भूमी॒ इति॑¦शृ॒णु॒त‌म्¦रो॒द॒सी॒ इति॑¦मे॒ |
अहा᳚¦यत्¦द्यावः॑¦असु॑ऽनीति‌म्¦अय॑न्¦मध्वा᳚¦नः॒¦अत्र॑¦पि॒तरा᳚¦शि॒शी॒ता॒‌म् ||

किं स्वि᳚न्नो॒ राजा᳚ जगृहे॒ कद॒स्याति᳚ व्र॒तं च॑कृमा॒ को वि वे᳚द |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

मि॒त्रश्चि॒द्धि ष्मा᳚ जुहुरा॒णो दे॒वाञ्छ्लोको॒ न या॒तामपि॒ वाजो॒, अस्ति॑ ||{5/9}{10.12.5}{10.1.12.5}{7.6.11.5}{95, 849, 8893}

कि‌म्¦स्वि॒त्¦नः॒¦राजा᳚¦ज॒गृ॒हे॒¦कत्¦अ॒स्य॒¦अति॑¦व्र॒त‌म्¦च॒कृ॒म॒¦कः¦वि¦वे॒द॒ |
मि॒त्रः¦चि॒त्¦हि¦स्म॒¦जु॒हु॒रा॒णः¦दे॒वान्¦श्लोकः॑¦न¦या॒ता‌म्¦अपि॑¦वाजः॑¦अस्ति॑ ||

दु॒र्मन्त्वत्रा॒मृत॑स्य॒ नाम॒ सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा᳚ति |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

य॒मस्य॒ यो म॒नव॑ते सु॒मन्त्वग्ने॒ तमृ॑ष्व पा॒ह्यप्र॑युच्छन् ||{6/9}{10.12.6}{10.1.12.6}{7.6.12.1}{96, 849, 8894}

दुः॒ऽमन्तु॑¦अत्र॑¦अ॒मृत॑स्य¦नाम॑¦सऽल॑क्ष्मा¦यत्¦विषु॑ऽरूपा¦भवा᳚ति |
य॒मस्य॑¦यः¦म॒नव॑ते¦सु॒ऽमन्तु॑¦अग्ने᳚¦त‌म्¦ऋ॒ष्व॒¦पा॒हि॒¦अप्र॑ऽयुच्छन् ||

यस्मि᳚न्दे॒वा वि॒दथे᳚ मा॒दय᳚न्ते वि॒वस्व॑तः॒ सद॑ने धा॒रय᳚न्ते |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

सूर्ये॒ ज्योति॒रद॑धुर्मा॒स्य१॑(अ॒)क्तून्‌ परि॑ द्योत॒निं च॑रतो॒, अज॑स्रा ||{7/9}{10.12.7}{10.1.12.7}{7.6.12.2}{97, 849, 8895}

यस्मि॑न्¦दे॒वाः¦वि॒दथे᳚¦मा॒दय᳚न्ते¦वि॒वस्व॑तः¦सद॑ने¦धा॒रय᳚न्ते |
सूर्ये᳚¦ज्योतिः॑¦अद॑धुः¦मा॒सि¦अ॒क्तून्¦परि॑¦द्यो॒त॒नि‌म्¦च॒र॒तः॒¦अज॑स्रा ||

यस्मि᳚न्दे॒वा मन्म॑नि सं॒चर᳚न्त्यपी॒च्ये॒३॑(ए॒) न व॒यम॑स्य विद्म |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

मि॒त्रो नो॒, अत्रादि॑ति॒रना᳚गान्‌ त्सवि॒ता दे॒वो वरु॑णाय वोचत् ||{8/9}{10.12.8}{10.1.12.8}{7.6.12.3}{98, 849, 8896}

यस्मि॑न्¦दे॒वाः¦मन्म॑नि¦स॒‌म्ऽचर᳚न्ति¦अ॒पी॒च्ये᳚¦न¦व॒य‌म्¦अ॒स्य॒¦वि॒द्म॒ |
मि॒त्रः¦नः॒¦अत्र॑¦अदि॑तिः¦अना᳚गान्¦स॒वि॒ता¦दे॒वः¦वरु॑णाय¦वो॒च॒त् ||

श्रु॒धी नो᳚, अग्ने॒ सद॑ने स॒धस्थे᳚ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुम् |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

आ नो᳚ वह॒ रोद॑सी दे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्याः᳚ ||{9/9}{10.12.9}{10.1.12.9}{7.6.12.4}{99, 849, 8897}

श्रु॒धि¦नः॒¦अ॒ग्ने॒¦सद॑ने¦स॒धऽस्थे᳚¦यु॒क्ष्व¦रथ᳚‌म्¦अ॒मृत॑स्य¦द्र॒वि॒त्नु‌म् |
आ¦नः॒¦व॒ह॒¦रोद॑सी॒ इति॑¦दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे¦माकिः॑¦दे॒वाना᳚‌म्¦अप॑¦भूः॒¦इ॒ह¦स्याः॒ ||

[13] युजेवामिति पंचर्चस्य सूक्तस्यादित्योविवस्वान्हविर्धानस्त्रिष्टुबंत्याजगती |
यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो᳚भि॒र्वि श्लोक॑ एतु प॒थ्ये᳚व सू॒रेः |{आदित्यो विवस्वानः | हविर्धानः | त्रिष्टुप्}

शृ॒ण्वन्तु॒ विश्वे᳚, अ॒मृत॑स्य पु॒त्रा, आ ये धामा᳚नि दि॒व्यानि॑ त॒स्थुः ||{1/5}{10.13.1}{10.1.13.1}{7.6.13.1}{100, 850, 8898}

यु॒जे¦वा॒‌म्¦ब्रह्म॑¦पू॒र्व्य‌म्¦नमः॑ऽभिः¦वि¦श्लोकः॑¦ए॒तु॒¦प॒थ्या᳚ऽ‌इव¦सू॒रेः |
शृ॒ण्वन्तु॑¦विश्वे᳚¦अ॒मृत॑स्य¦पु॒त्राः¦आ¦ये¦धामा᳚नि¦दि॒व्यानि॑¦त॒स्थुः ||

य॒मे, इ॑व॒ यत॑माने॒ यदैतं॒ प्र वां᳚ भर॒न्मानु॑षा देव॒यन्तः॑ |{आदित्यो विवस्वानः | हविर्धानः | त्रिष्टुप्}

आ सी᳚दतं॒ स्वमु॑ लो॒कं विदा᳚ने स्वास॒स्थे भ॑वत॒मिन्द॑वे नः ||{2/5}{10.13.2}{10.1.13.2}{7.6.13.2}{101, 850, 8899}

य॒मे इ॒वेति॑ य॒मेऽ‌इ᳚व¦यत॑माने॒ इति॑¦यत्¦ऐत᳚‌म्¦प्र¦वा॒‌म्¦भ॒र॒न्¦मानु॑षाः¦दे॒व॒ऽयन्तः॑ |
आ¦सी॒द॒त॒‌म्¦स्व‌म्¦ऊँ॒ इति॑¦लो॒क‌म्¦विदा᳚ने॒ इति॑¦स्वा॒स॒स्थे इति॑ सु॒ऽआ॒स॒स्थे¦भ॒व॒त॒‌म्¦इन्द॑वे¦नः॒ ||

पञ्च॑ प॒दानि॑ रु॒पो, अन्व॑रोहं॒ चतु॑ष्पदी॒मन्वे᳚मि व्र॒तेन॑ |{आदित्यो विवस्वानः | हविर्धानः | त्रिष्टुप्}

अ॒क्षरे᳚ण॒ प्रति॑ मिम ए॒तामृ॒तस्य॒ नाभा॒वधि॒ सं पु॑नामि ||{3/5}{10.13.3}{10.1.13.3}{7.6.13.3}{102, 850, 8900}

पंच॑¦प॒दानि॑¦रु॒पः¦अनु॑¦अ॒रो॒ह॒‌म्¦चतुः॑ऽपदी‌म्¦अनु॑¦ए॒मि॒¦व्र॒तेन॑ |
अ॒क्षरे᳚ण¦प्रति॑¦मि॒मे॒¦ए॒ता‌म्¦ऋ॒तस्य॑¦नाभौ᳚¦अधि॑¦स‌म्¦पु॒ना॒मि॒ ||

दे॒वेभ्यः॒ कम॑वृणीत मृ॒त्युं प्र॒जायै॒ कम॒मृतं॒ नावृ॑णीत |{आदित्यो विवस्वानः | हविर्धानः | त्रिष्टुप्}

बृह॒स्पतिं᳚ य॒ज्ञम॑कृण्वत॒ ऋषिं᳚ प्रि॒यां य॒मस्त॒न्व१॑(अं॒) प्रारि॑रेचीत् ||{4/5}{10.13.4}{10.1.13.4}{7.6.13.4}{103, 850, 8901}

दे॒वेभ्यः॑¦क‌म्¦अ॒वृ॒णी॒त॒¦मृ॒त्यु‌म्¦प्र॒ऽजायै᳚¦क‌म्¦अ॒मृत᳚‌म्¦न¦अ॒वृ॒णी॒त॒ |
बृह॒स्पति᳚‌म्¦य॒ज्ञ‌म्¦अ॒कृ॒ण्व॒त॒¦ऋषि᳚‌म्¦प्रि॒या‌म्¦य॒मः¦त॒न्व᳚‌म्¦प्र¦अ॒रि॒रे॒ची॒त् ||

स॒प्त क्ष॑रन्ति॒ शिश॑वे म॒रुत्व॑ते पि॒त्रे पु॒त्रासो॒, अप्य॑वीवतन्नृ॒तम् |{आदित्यो विवस्वानः | हविर्धानः | जगती}

उ॒भे, इद॑स्यो॒भय॑स्य राजत उ॒भे य॑तेते, उ॒भय॑स्य पुष्यतः ||{5/5}{10.13.5}{10.1.13.5}{7.6.13.5}{104, 850, 8902}

स॒प्त¦क्ष॒र॒न्ति॒¦शिश॑वे¦म॒रुत्व॑ते¦पि॒त्रे¦पु॒त्रासः॑¦अपि॑¦अ॒वी॒व॒त॒न्¦ऋ॒त‌म् |
उ॒भे इति॑¦इत्¦अ॒स्य॒¦उ॒भय॑स्य¦रा॒ज॒तः॒¦उ॒भे इति॑¦य॒ते॒ते॒ इति॑¦उ॒भय॑स्य¦पु॒ष्य॒तः॒ ||

[14] परेयिवांसमिति षोळशर्चस्य सूक्तस्य वैवस्वतोयमऋषिः यमोदेवता षष्ठ्यांगिरःपित्रथर्वभृगुसोमाः दशम्यादितिसृणांश्वानौ त्रिष्टुप् त्रयोदशीचतुर्दशीषोडश्योनुष्टुभः पंचदशीबृहती ( प्रेहिप्रेहीत्यादितिसृणां पितृदेवतावैकल्पिकी ) |
प॒रे॒यि॒वांसं᳚ प्र॒वतो᳚ म॒हीरनु॑ ब॒हुभ्यः॒ पन्था᳚मनुपस्पशा॒नम् |{वैवस्वतो यमः | यमः | त्रिष्टुप्}

वै॒व॒स्व॒तं सं॒गम॑नं॒ जना᳚नां य॒मं राजा᳚नं ह॒विषा᳚ दुवस्य ||{1/16}{10.14.1}{10.1.14.1}{7.6.14.1}{105, 851, 8903}

प॒रे॒यि॒ऽवांस᳚‌म्¦प्र॒ऽवतः॑¦म॒हीः¦अनु॑¦ब॒हुऽभ्यः॑¦पन्था᳚‌म्¦अ॒नु॒ऽप॒स्प॒शा॒न‌म् |
वै॒व॒स्व॒त‌म्¦स॒‌म्ऽगम॑न‌म्¦जना᳚ना‌म्¦य॒म‌म्¦राजा᳚न‌म्¦ह॒विषा᳚¦दु॒व॒स्य॒ ||

य॒मो नो᳚ गा॒तुं प्र॑थ॒मो वि॑वेद॒ नैषा गव्यू᳚ति॒रप॑भर्त॒वा, उ॑ |{वैवस्वतो यमः | यमः | त्रिष्टुप्}

यत्रा᳚ नः॒ पूर्वे᳚ पि॒तरः॑ परे॒युरे॒ना ज॑ज्ञा॒नाः प॒थ्या॒३॑(आ॒) अनु॒ स्वाः ||{2/16}{10.14.2}{10.1.14.2}{7.6.14.2}{106, 851, 8904}

य॒मः¦नः॒¦गा॒तु‌म्¦प्र॒थ॒मः¦वि॒वे॒द॒¦न¦ए॒षा¦गव्यू᳚तिः¦अप॑ऽभ॒र्त॒वै¦ऊँ॒ इति॑ |
यत्र॑¦नः॒¦पूर्वे᳚¦पि॒तरः॑¦प॒रा॒ऽई॒युः¦ए॒ना¦ज॒ज्ञा॒नाः¦प॒थ्याः᳚¦अनु॑¦स्वाः ||

मात॑ली क॒व्यैर्य॒मो, अङ्गि॑रोभि॒र्बृह॒स्पति॒रृक्व॑भिर्वावृधा॒नः |{वैवस्वतो यमः | यमः | त्रिष्टुप्}

याँश्च॑ दे॒वा वा᳚वृ॒धुर्ये च॑ दे॒वान्‌ त्स्वाहा॒न्ये स्व॒धया॒न्ये म॑दन्ति ||{3/16}{10.14.3}{10.1.14.3}{7.6.14.3}{107, 851, 8905}

मात॑ली¦क॒व्यैः¦य॒मः¦अङ्गि॑रःऽभिः¦बृह॒स्पतिः॑¦ऋक्व॑ऽभिः¦व॒वृ॒धा॒नः |
यान्¦च॒¦दे॒वाः¦व॒वृ॒धुः¦ये¦च॒¦दे॒वान्¦स्वाहा᳚¦अ॒न्ये¦स्व॒धया᳚¦अ॒न्ये¦म॒द॒न्ति॒ ||

इ॒मं य॑म प्रस्त॒रमा हि सीदाङ्गि॑रोभिः पि॒तृभिः॑ संविदा॒नः |{वैवस्वतो यमः | यमः | त्रिष्टुप्}

आ त्वा॒ मन्त्राः᳚ कविश॒स्ता व॑हन्त्वे॒ना रा᳚जन्ह॒विषा᳚ मादयस्व ||{4/16}{10.14.4}{10.1.14.4}{7.6.14.4}{108, 851, 8906}

इ॒म‌म्¦य॒म॒¦प्र॒ऽस्त॒र‌म्¦आ¦हि¦सीद॑¦अङ्गि॑रःऽभिः¦पि॒तृऽभिः॑¦स॒‌म्ऽवि॒दा॒नः |
आ¦त्वा॒¦मन्त्राः᳚¦क॒वि॒ऽश॒स्ताः¦व॒ह॒न्तु॒¦ए॒ना¦रा॒ज॒न्¦ह॒विषा᳚¦मा॒द॒य॒स्व॒ ||

अङ्गि॑रोभि॒रा ग॑हि य॒ज्ञिये᳚भि॒र्यम॑ वैरू॒पैरि॒ह मा᳚दयस्व |{वैवस्वतो यमः | यमः | त्रिष्टुप्}

विव॑स्वन्तं हुवे॒ यः पि॒ता ते॒ऽस्मिन्‌ य॒ज्ञे ब॒र्हिष्या नि॒षद्य॑ ||{5/16}{10.14.5}{10.1.14.5}{7.6.14.5}{109, 851, 8907}

अङ्गि॑रःऽभिः¦आ¦ग॒हि॒¦य॒ज्ञिये᳚भिः¦यम॑¦वै॒रू॒पैः¦इ॒ह¦मा॒द॒य॒स्व॒ |
विव॑स्वन्त‌म्¦हु॒वे॒¦यः¦पि॒ता¦ते॒¦अ॒स्मिन्¦य॒ज्ञे¦ब॒र्हिषि॑¦आ¦नि॒ऽसद्य॑ ||

अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒, अथ᳚र्वाणो॒ भृग॑वः सो॒म्यासः॑ |{वैवस्वतो यमः | आंगिरःपित्रथर्वभृगुःसोमाः | त्रिष्टुप्}

तेषां᳚ व॒यं सु॑म॒तौ य॒ज्ञिया᳚ना॒मपि॑ भ॒द्रे सौ᳚मन॒से स्या᳚म ||{6/16}{10.14.6}{10.1.14.6}{7.6.15.1}{110, 851, 8908}

अङ्गि॑रसः¦नः॒¦पि॒तरः॑¦नव॑ऽग्वाः¦अथ᳚र्वाणः¦भृग॑वः¦सो॒म्यासः॑ |
तेषा᳚‌म्¦व॒य‌म्¦सु॒ऽम॒तौ¦य॒ज्ञिया᳚ना‌म्¦अपि॑¦भ॒द्रे¦सौ॒म॒न॒से¦स्या॒म॒ ||

प्रेहि॒ प्रेहि॑ प॒थिभिः॑ पू॒र्व्येभि॒र्यत्रा᳚ नः॒ पूर्वे᳚ पि॒तरः॑ परे॒युः |{वैवस्वतो यमः | पितृदेवता | त्रिष्टुप्}

उ॒भा राजा᳚ना स्व॒धया॒ मद᳚न्ता य॒मं प॑श्यासि॒ वरु॑णं च दे॒वम् ||{7/16}{10.14.7}{10.1.14.7}{7.6.15.2}{111, 851, 8909}

प्र¦इ॒हि॒¦प्र¦इ॒हि॒¦प॒थिऽभिः॑¦पू॒र्व्येभिः॑¦यत्र॑¦नः॒¦पूर्वे᳚¦पि॒तरः॑¦प॒रा॒ऽई॒युः |
उ॒भा¦राजा᳚ना¦स्व॒धया᳚¦मद᳚न्ता¦य॒म‌म्¦प॒श्या॒सि॒¦वरु॑ण‌म्¦च॒¦दे॒व‌म् ||

सं ग॑च्छस्व पि॒तृभिः॒ सं य॒मेने᳚ष्टापू॒र्तेन॑ पर॒मे व्यो᳚मन् |{वैवस्वतो यमः | पितृदेवता | त्रिष्टुप्}

हि॒त्वाया᳚व॒द्यं पुन॒रस्त॒मेहि॒ सं ग॑च्छस्व त॒न्वा᳚ सु॒वर्चाः᳚ ||{8/16}{10.14.8}{10.1.14.8}{7.6.15.3}{112, 851, 8910}

स‌म्¦ग॒च्छ॒स्व॒¦पि॒तृऽभिः॑¦स‌म्¦य॒मेन॑¦इ॒ष्टा॒पू॒र्तेन॑¦प॒र॒मे¦विऽओ᳚मन् |
हि॒त्वाय॑¦अ॒व॒द्य‌म्¦पुनः॑¦अस्त᳚‌म्¦आ¦इ॒हि॒¦स‌म्¦ग॒च्छ॒स्व॒¦त॒न्वा᳚¦सु॒ऽवर्चाः᳚ ||

अपे᳚त॒ वी᳚त॒ वि च॑ सर्प॒तातो॒ऽस्मा, ए॒तं पि॒तरो᳚ लो॒कम॑क्रन् |{वैवस्वतो यमः | पितृदेवता | त्रिष्टुप्}

अहो᳚भिर॒द्भिर॒क्तुभि॒र्व्य॑क्तं य॒मो द॑दात्यव॒सान॑मस्मै ||{9/16}{10.14.9}{10.1.14.9}{7.6.15.4}{113, 851, 8911}

अप॑¦इ॒त॒¦वि¦इ॒त॒¦वि¦च॒¦स॒र्प॒त॒¦अतः॑¦अ॒स्मै¦ए॒त‌म्¦पि॒तरः॑¦लो॒क‌म्¦अ॒क्र॒न् |
अहः॑ऽभिः¦अ॒त्ऽभिः¦अ॒क्तुऽभिः॑¦वि।आ॑क्त‌म्¦य॒मः¦द॒दा॒ति॒¦अ॒व॒ऽसान᳚‌म्¦अ॒स्मै॒ ||

अति॑ द्रव सारमे॒यौ श्वानौ᳚ चतुर॒क्षौ श॒बलौ᳚ सा॒धुना᳚ प॒था |{वैवस्वतो यमः | श्वानौ | त्रिष्टुप्}

अथा᳚ पि॒तॄन्‌ त्सु॑वि॒दत्राँ॒, उपे᳚हि य॒मेन॒ ये स॑ध॒मादं॒ मद᳚न्ति ||{10/16}{10.14.10}{10.1.14.10}{7.6.15.5}{114, 851, 8912}

अति॑¦द्र॒व॒¦सा॒र॒मे॒यौ¦श्वानौ᳚¦च॒तुः॒।आ॒क्षौ¦श॒बलौ᳚¦सा॒धुना᳚¦प॒था |
अथ॑¦पि॒तॄन्¦सु॒ऽवि॒दत्रा᳚न्¦उप॑¦इ॒हि॒¦य॒मेन॑¦ये¦स॒ध॒ऽमाद᳚‌म्¦मद᳚न्ति ||

यौ ते॒ श्वानौ᳚ यम रक्षि॒तारौ᳚ चतुर॒क्षौ प॑थि॒रक्षी᳚ नृ॒चक्ष॑सौ |{वैवस्वतो यमः | श्वानौ | त्रिष्टुप्}

ताभ्या᳚मेनं॒ परि॑ देहि राजन्‌ त्स्व॒स्ति चा᳚स्मा, अनमी॒वं च॑ धेहि ||{11/16}{10.14.11}{10.1.14.11}{7.6.16.1}{115, 851, 8913}

यौ¦ते॒¦श्वानौ᳚¦य॒म॒¦र॒क्षि॒तारौ᳚¦च॒तुः॒।आ॒क्षौ¦प॒थि॒रक्षी॒ इति॑ प॒थि॒ऽरक्षी᳚¦नृ॒ऽचक्ष॑सौ |
ताभ्या᳚‌म्¦ए॒न॒‌म्¦परि॑¦दे॒हि॒¦रा॒ज॒न्¦स्व॒स्ति¦च॒¦अ॒स्मै॒¦अ॒न॒मी॒व‌म्¦च॒¦धे॒हि॒ ||

उ॒रू॒ण॒साव॑सु॒तृपा᳚, उदुम्ब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ जनाँ॒, अनु॑ |{वैवस्वतो यमः | श्वानौ | त्रिष्टुप्}

ताव॒स्मभ्यं᳚ दृ॒शये॒ सूर्या᳚य॒ पुन॑र्दाता॒मसु॑म॒द्येह भ॒द्रम् ||{12/16}{10.14.12}{10.1.14.12}{7.6.16.2}{116, 851, 8914}

उ॒रु॒ऽन॒सौ¦अ॒सु॒ऽतृपौ᳚¦उ॒दु॒म्ब॒लौ¦य॒मस्य॑¦दू॒तौ¦च॒र॒तः॒¦जना᳚न्¦अनु॑ |
तौ¦अ॒स्मभ्य᳚‌म्¦दृ॒शये᳚¦सूर्या᳚य¦पुनः॑¦दा॒ता॒‌म्¦असु᳚‌म्¦अ॒द्य¦इ॒ह¦भ॒द्र‌म् ||

य॒माय॒ सोमं᳚ सुनुत य॒माय॑ जुहुता ह॒विः |{वैवस्वतो यमः | यमः | अनुष्टुप्}

य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू᳚तो॒, अरं᳚कृतः ||{13/16}{10.14.13}{10.1.14.13}{7.6.16.3}{117, 851, 8915}

य॒माय॑¦सोम᳚‌म्¦सु॒नु॒त॒¦य॒माय॑¦जु॒हु॒त॒¦ह॒विः | य॒म‌म्¦ह॒¦य॒ज्ञः¦ग॒च्छ॒ति॒¦अ॒ग्निऽदू᳚तः¦अर᳚‌म्ऽकृतः ||

य॒माय॑ घृ॒तव॑द्ध॒विर्जु॒होत॒ प्र च॑ तिष्ठत |{वैवस्वतो यमः | यमः | अनुष्टुप्}

स नो᳚ दे॒वेष्वा य॑मद्दी॒र्घमायुः॒ प्र जी॒वसे᳚ ||{14/16}{10.14.14}{10.1.14.14}{7.6.16.4}{118, 851, 8916}

य॒माय॑¦घृ॒तऽव॑त्¦ह॒विः¦जु॒होत॑¦प्र¦च॒¦ति॒ष्ठ॒त॒ | सः¦नः॒¦दे॒वेषु॑¦आ¦य॒म॒त्¦दी॒र्घ‌म्¦आयुः॑¦प्र¦जी॒वसे᳚ ||

य॒माय॒ मधु॑मत्तमं॒ राज्ञे᳚ ह॒व्यं जु॑होतन |{वैवस्वतो यमः | यमः | बृहती}

इ॒दं नम॒ ऋषि॑भ्यः पूर्व॒जेभ्यः॒ पूर्वे᳚भ्यः पथि॒कृद्भ्यः॑ ||{15/16}{10.14.15}{10.1.14.15}{7.6.16.5}{119, 851, 8917}

य॒माय॑¦मधु॑मत्ऽतम‌म्¦राज्ञे᳚¦ह॒व्य‌म्¦जु॒हो॒त॒न॒ |
इ॒द‌म्¦नमः॑¦ऋषि॑ऽभ्यः¦पू॒र्व॒ऽजेभ्यः॑¦पूर्वे᳚भ्यः¦प॒थि॒कृत्ऽभ्यः॑ ||

त्रिक॑द्रुकेभिः पतति॒ षळु॒र्वीरेक॒मिद्बृ॒हत् |{वैवस्वतो यमः | यमः | अनुष्टुप्}

त्रि॒ष्टुब्गा᳚य॒त्री छन्दां᳚सि॒ सर्वा॒ ता य॒म आहि॑ता ||{16/16}{10.14.16}{10.1.14.16}{7.6.16.6}{120, 851, 8918}

त्रिऽक॑द्रुकेभिः¦प॒त॒ति॒¦षट्¦उ॒र्वीः¦एक᳚‌म्¦इत्¦बृ॒हत् | त्रि॒ऽस्तुप्¦गा॒य॒त्री¦छन्दां᳚सि¦सर्वा᳚¦ता¦य॒मे¦आऽहि॑ता ||

[15] उदीरतामिति चतुर्दशर्चस्य सूक्तस्य यामायनः शंखः पितरस्त्रिष्टुप् एकादशीजगती |
उदी᳚रता॒मव॑र॒ उत्परा᳚स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ |{यामायनः शंखः | पितरः | त्रिष्टुप्}

असुं॒ य ई॒युर॑वृ॒का, ऋ॑त॒ज्ञास्ते नो᳚ऽवन्तु पि॒तरो॒ हवे᳚षु ||{1/14}{10.15.1}{10.1.15.1}{7.6.17.1}{121, 852, 8919}

उत्¦ई॒र॒ता॒‌म्¦अव॑रे¦उत्¦परा᳚सः¦उत्¦म॒ध्य॒माः¦पि॒तरः॑¦सो॒म्यासः॑ |
असु᳚‌म्¦ये¦ई॒युः¦अ॒वृ॒काः¦ऋ॒त॒ऽज्ञाः¦ते¦नः॒¦अ॒व॒न्तु॒¦पि॒तरः॑¦हवे᳚षु ||

इ॒दं पि॒तृभ्यो॒ नमो᳚, अस्त्व॒द्य ये पूर्वा᳚सो॒ य उप॑रास ई॒युः |{यामायनः शंखः | पितरः | त्रिष्टुप्}

ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा᳚ नू॒नं सु॑वृ॒जना᳚सु वि॒क्षु ||{2/14}{10.15.2}{10.1.15.2}{7.6.17.2}{122, 852, 8920}

इ॒द‌म्¦पि॒तृऽभ्यः॑¦नमः॑¦अ॒स्तु॒¦अ॒द्य¦ये¦पूर्वा᳚सः¦ये¦उप॑रासः¦ई॒युः |
ये¦पार्थि॑वे¦रज॑सि¦आ¦निऽस॑त्ताः¦ये¦वा॒¦नू॒न‌म्¦सु॒ऽवृ॒जना᳚सु¦वि॒क्षु ||

आहं पि॒तॄन्‌ त्सु॑वि॒दत्राँ᳚, अवित्सि॒ नपा᳚तं च वि॒क्रम॑णं च॒ विष्णोः᳚ |{यामायनः शंखः | पितरः | त्रिष्टुप्}

ब॒र्हि॒षदो॒ ये स्व॒धया᳚ सु॒तस्य॒ भज᳚न्त पि॒त्वस्त इ॒हाग॑मिष्ठाः ||{3/14}{10.15.3}{10.1.15.3}{7.6.17.3}{123, 852, 8921}

आ¦अ॒ह‌म्¦पि॒तॄन्¦सु॒ऽवि॒दत्रा᳚न्¦अ॒वि॒त्सि॒¦नपा᳚त‌म्¦च॒¦वि॒ऽक्रम॑ण‌म्¦च॒¦विष्णोः᳚ |
ब॒र्हि॒ऽसदः॑¦ये¦स्व॒धया᳚¦सु॒तस्य॑¦भज᳚न्त¦पि॒त्वः¦ते¦इ॒ह¦आऽग॑मिष्ठाः ||

बर्हि॑षदः पितर ऊ॒त्य१॑(अ॒)र्वागि॒मा वो᳚ ह॒व्या च॑कृमा जु॒षध्व᳚म् |{यामायनः शंखः | पितरः | त्रिष्टुप्}

त आ ग॒ताव॑सा॒ शंत॑मे॒नाथा᳚ नः॒ शं योर॑र॒पो द॑धात ||{4/14}{10.15.4}{10.1.15.4}{7.6.17.4}{124, 852, 8922}

बर्हि॑ऽसदः¦पि॒त॒रः॒¦ऊ॒ती¦अ॒र्वाक्¦इ॒मा¦वः॒¦ह॒व्या¦च॒कृ॒म॒¦जु॒षध्व᳚‌म् |
ते¦आ¦ग॒त॒¦अव॑सा¦श‌म्ऽत॑मेन¦अथ॑¦नः॒¦श‌म्¦योः¦अ॒र॒पः¦द॒धा॒त॒ ||

उप॑हूताः पि॒तरः॑ सो॒म्यासो᳚ बर्हि॒ष्ये᳚षु नि॒धिषु॑ प्रि॒येषु॑ |{यामायनः शंखः | पितरः | त्रिष्टुप्}

त आ ग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते᳚ऽवन्त्व॒स्मान् ||{5/14}{10.15.5}{10.1.15.5}{7.6.17.5}{125, 852, 8923}

उप॑ऽहूताः¦पि॒तरः॑¦सो॒म्यासः॑¦ब॒र्हि॒ष्ये᳚षु¦नि॒ऽधिषु॑¦प्रि॒येषु॑ |
ते¦आ¦ग॒म॒न्तु॒¦ते¦इ॒ह¦श्रि॒व॒न्तु॒¦अधि॑¦ब्रु॒व॒न्तु॒¦ते¦अ॒व॒न्तु॒¦अ॒स्मान् ||

आच्या॒ जानु॑ दक्षिण॒तो नि॒षद्ये॒मं य॒ज्ञम॒भि गृ॑णीत॒ विश्वे᳚ |{यामायनः शंखः | पितरः | त्रिष्टुप्}

मा हिं᳚सिष्ट पितरः॒ केन॑ चिन्नो॒ यद्व॒ आगः॑ पुरु॒षता॒ करा᳚म ||{6/14}{10.15.6}{10.1.15.6}{7.6.18.1}{126, 852, 8924}

आ॒।आच्य॑¦जानु॑¦द॒क्षि॒ण॒तः¦नि॒ऽसद्य॑¦इ॒म‌म्¦य॒ज्ञ‌म्¦अ॒भि¦गृ॒णी॒त॒¦विश्वे᳚ |
मा¦हिं॒सि॒ष्ट॒¦पि॒त॒रः॒¦केन॑¦चि॒त्¦नः॒¦यत्¦वः॒¦आगः॑¦पु॒रु॒षता᳚¦करा᳚म ||

आसी᳚नासो, अरु॒णीना᳚मु॒पस्थे᳚ र॒यिं ध॑त्त दा॒शुषे॒ मर्त्या᳚य |{यामायनः शंखः | पितरः | त्रिष्टुप्}

पु॒त्रेभ्यः॑ पितर॒स्तस्य॒ वस्वः॒ प्र य॑च्छत॒ त इ॒होर्जं᳚ दधात ||{7/14}{10.15.7}{10.1.15.7}{7.6.18.2}{127, 852, 8925}

आसी᳚नासः¦अ॒रु॒णीना᳚‌म्¦उ॒पऽस्थे᳚¦र॒यि‌म्¦ध॒त्त॒¦दा॒शुषे᳚¦मर्त्या᳚य |
पु॒त्रेभ्यः॑¦पि॒त॒रः॒¦तस्य॑¦वस्वः॑¦प्र¦य॒च्छ॒त॒¦ते¦इ॒ह¦ऊर्ज᳚‌म्¦द॒धा॒त॒ ||

ये नः॒ पूर्वे᳚ पि॒तरः॑ सो॒म्यासो᳚ऽनूहि॒रे सो᳚मपी॒थं वसि॑ष्ठाः |{यामायनः शंखः | पितरः | त्रिष्टुप्}

तेभि᳚र्य॒मः सं᳚ररा॒णो ह॒वींष्यु॒शन्नु॒शद्भिः॑ प्रतिका॒मम॑त्तु ||{8/14}{10.15.8}{10.1.15.8}{7.6.18.3}{128, 852, 8926}

ये¦नः॒¦पूर्वे᳚¦पि॒तरः॑¦सो॒म्यासः॑¦अ॒नु॒ऽऊ॒हि॒रे¦सो॒म॒ऽपी॒थ‌म्¦वसि॑ष्ठाः |
तेभिः॑¦य॒मः¦स॒‌म्ऽर॒रा॒णः¦ह॒वींषि॑¦उ॒शन्¦ए॒शत्ऽभिः॑¦प्र॒ति॒ऽका॒म‌म्¦अ॒त्तु॒ ||

ये ता᳚तृ॒षुर्दे᳚व॒त्रा जेह॑माना होत्रा॒विदः॒ स्तोम॑तष्टासो, अ॒र्कैः |{यामायनः शंखः | पितरः | त्रिष्टुप्}

आग्ने᳚ याहि सुवि॒दत्रे᳚भिर॒र्वाङ्स॒त्यैः क॒व्यैः पि॒तृभि॑र्घर्म॒सद्भिः॑ ||{9/14}{10.15.9}{10.1.15.9}{7.6.18.4}{129, 852, 8927}

ये¦त॒तृ॒षुः¦दे॒व॒त्रा¦जेह॑मानाः¦हो॒त्रा॒ऽविदः॑¦स्तोम॑ऽतष्टासः¦अ॒र्कैः |
आ¦अ॒ग्ने॒¦या॒हि॒¦सु॒ऽवि॒दत्रे᳚भिः¦अ॒र्वाङ्¦स॒त्यैः¦क॒व्यैः¦पि॒तृऽभिः॑¦घ॒र्म॒सत्ऽभिः॑ ||

ये स॒त्यासो᳚ हवि॒रदो᳚ हवि॒ष्पा, इन्द्रे᳚ण दे॒वैः स॒रथं॒ दधा᳚नाः |{यामायनः शंखः | पितरः | त्रिष्टुप्}

आग्ने᳚ याहि स॒हस्रं᳚ देवव॒न्दैः परैः॒ पूर्वैः᳚ पि॒तृभि॑र्घर्म॒सद्भिः॑ ||{10/14}{10.15.10}{10.1.15.10}{7.6.18.5}{130, 852, 8928}

ये¦स॒त्यासः॑¦ह॒विः॒।आदः॑¦ह॒विः॒ऽपाः¦इन्द्रे᳚ण¦दे॒वैः¦स॒ऽरथ᳚‌म्¦दधा᳚नाः |
आ¦अ॒ग्ने॒¦या॒हि॒¦स॒हस्र᳚‌म्¦दे॒व॒ऽव॒न्दैः¦परैः᳚¦पूर्वैः᳚¦पि॒तृऽभिः॑¦घ॒र्म॒सत्ऽभिः॑ ||

अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः |{यामायनः शंखः | पितरः | जगती}

अ॒त्ता ह॒वींषि॒ प्रय॑तानि ब॒र्हिष्यथा᳚ र॒यिं सर्व॑वीरं दधातन ||{11/14}{10.15.11}{10.1.15.11}{7.6.19.1}{131, 852, 8929}

अग्नि॑ऽस्वात्ताः¦पि॒त॒रः॒¦आ¦इ॒ह¦ग॒च्छ॒त॒¦सदः॑ऽसदः¦स॒द॒त॒¦सु॒ऽप्र॒नी॒त॒यः॒ |
अ॒त्त¦ह॒वींषि॑¦प्रऽय॑तानि¦ब॒र्हिषि॑¦अथ॑¦र॒यि‌म्¦सर्व॑ऽवीर‌म्¦द॒धा॒त॒न॒ ||

त्वम॑ग्न ईळि॒तो जा᳚तवे॒दोऽवा᳚ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वी |{यामायनः शंखः | पितरः | त्रिष्टुप्}

प्रादाः᳚ पि॒तृभ्यः॑ स्व॒धया॒ ते, अ॑क्षन्न॒द्धि त्वं दे᳚व॒ प्रय॑ता ह॒वींषि॑ ||{12/14}{10.15.12}{10.1.15.12}{7.6.19.2}{132, 852, 8930}

त्व‌म्¦अ॒ग्ने॒¦ई॒ळि॒तः¦जा॒त॒ऽवे॒दः॒¦अवा᳚ट्¦ह॒व्यानि॑¦सु॒र॒भीणि॑¦कृ॒त्वी |
प्र¦अ॒दाः॒¦पि॒तृऽभ्यः॑¦स्व॒धया᳚¦ते¦अ॒क्ष॒न्¦अ॒द्धि¦त्व‌म्¦दे॒व॒¦प्रऽय॑ता¦ह॒वींषि॑ ||

ये चे॒ह पि॒तरो॒ ये च॒ नेह याँश्च॑ वि॒द्म याँ, उ॑ च॒ न प्र॑वि॒द्म |{यामायनः शंखः | पितरः | त्रिष्टुप्}

त्वं वे᳚त्थ॒ यति॒ ते जा᳚तवेदः स्व॒धाभि᳚र्य॒ज्ञं सुकृ॑तं जुषस्व ||{13/14}{10.15.13}{10.1.15.13}{7.6.19.3}{133, 852, 8931}

ये¦च॒¦इ॒ह¦पि॒तरः॑¦ये¦च॒¦न¦इ॒ह¦यान्¦च॒¦वि॒द्म¦यान्¦ऊँ॒ इति॑¦च॒¦न¦प्र॒ऽवि॒द्म |
त्व‌म्¦वे॒त्थ॒¦यति॑¦ते¦जा॒त॒ऽवे॒दः॒¦स्व॒धाभिः॑¦य॒ज्ञ‌म्¦सुऽकृ॑त‌म्¦जु॒ष॒स्व॒ ||

ये, अ॑ग्निद॒ग्धा ये, अन॑ग्निदग्धा॒ मध्ये᳚ दि॒वः स्व॒धया᳚ मा॒दय᳚न्ते |{यामायनः शंखः | पितरः | त्रिष्टुप्}

तेभिः॑ स्व॒राळसु॑नीतिमे॒तां य॑थाव॒शं त॒न्वं᳚ कल्पयस्व ||{14/14}{10.15.14}{10.1.15.14}{7.6.19.4}{134, 852, 8932}

ये¦अ॒ग्नि॒ऽद॒ग्धाः¦ये¦अन॑ग्निऽदग्धाः¦मध्ये᳚¦दि॒वः¦स्व॒धया᳚¦मा॒दय᳚न्ते |
तेभिः॑¦स्व॒ऽराट्¦असु॑ऽनीति‌म्¦ए॒ता‌म्¦य॒था॒ऽव॒श‌म्¦त॒न्व᳚‌म्¦क॒ल्प॒य॒स्व॒ ||

[16] मैनमिति चतुर्दशर्चस्य सूक्तस्य यामायनोदमनोग्निस्त्रिष्टुबंत्याञ्चतस्रोनुष्टुभः |
मैन॑मग्ने॒ वि द॑हो॒ माभि शो᳚चो॒ मास्य॒ त्वचं᳚ चिक्षिपो॒ मा शरी᳚रम् |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

य॒दा शृ॒तं कृ॒णवो᳚ जातवे॒दोऽथे᳚मेनं॒ प्र हि॑णुतात्पि॒तृभ्यः॑ ||{1/14}{10.16.1}{10.1.16.1}{7.6.20.1}{135, 853, 8933}

मा¦ए॒न॒‌म्¦अ॒ग्ने॒¦वि¦द॒हः॒¦मा¦अ॒भि¦शो॒चः॒¦मा¦अ॒स्य॒¦त्वच᳚‌म्¦चि॒क्षि॒पः॒¦मा¦शरी᳚र‌म् |
य॒दा¦शृ॒त‌म्¦कृ॒णवः॑¦जा॒त॒ऽवे॒दः॒¦अथ॑¦ई॒‌म्¦ए॒न॒‌म्¦प्र¦हि॒णु॒ता॒त्¦पि॒तृऽभ्यः॑ ||

शृ॒तं य॒दा कर॑सि जातवे॒दोऽथे᳚मेनं॒ परि॑ दत्तात्पि॒तृभ्यः॑ |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

य॒दा गच्छा॒त्यसु॑नीतिमे॒तामथा᳚ दे॒वानां᳚ वश॒नीर्भ॑वाति ||{2/14}{10.16.2}{10.1.16.2}{7.6.20.2}{136, 853, 8934}

शृ॒त‌म्¦य॒दा¦कर॑सि¦जा॒त॒ऽवे॒दः॒¦अथ॑¦ई॒‌म्¦ए॒न॒‌म्¦परि॑¦द॒त्ता॒त्¦पि॒तृऽभ्यः॑ |
य॒दा¦गच्छा᳚ति¦असु॑ऽनीति‌म्¦ए॒ता‌म्¦अथ॑¦दे॒वाना᳚‌म्¦व॒श॒ऽनीः¦भ॒वा॒ति॒ ||

सूर्यं॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्यां च॑ गच्छ पृथि॒वीं च॒ धर्म॑णा |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

अ॒पो वा᳚ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी᳚रैः ||{3/14}{10.16.3}{10.1.16.3}{7.6.20.3}{137, 853, 8935}

सूर्य᳚‌म्¦चक्षुः॑¦ग॒च्छ॒तु॒¦वात᳚‌म्¦आ॒त्मा¦द्या‌म्¦च॒¦ग॒च्छ॒¦पृ॒थि॒वी‌म्¦च॒¦धर्म॑णा |
अ॒पः¦वा॒¦ग॒च्छ॒¦यदि॑¦तत्र॑¦ते॒¦हि॒त‌म्¦ओष॑धीषु¦प्रति॑¦ति॒ष्ठ॒¦शरी᳚रैः ||

अ॒जो भा॒गस्तप॑सा॒ तं त॑पस्व॒ तं ते᳚ शो॒चिस्त॑पतु॒ तं ते᳚, अ॒र्चिः |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

यास्ते᳚ शि॒वास्त॒न्वो᳚ जातवेद॒स्ताभि᳚र्वहैनं सु॒कृता᳚मु लो॒कम् ||{4/14}{10.16.4}{10.1.16.4}{7.6.20.4}{138, 853, 8936}

अ॒जः¦भा॒गः¦तप॑सा॒¦त‌म्¦त॒प॒स्व॒¦त‌म्¦ते॒¦शो॒चिः¦त॒प॒तु॒¦त‌म्¦ते॒¦अ॒र्चिः |
याः¦ते॒¦शि॒वाः¦त॒न्वः॑¦जा॒त॒ऽवे॒दः॒¦ताभिः॑¦व॒ह॒¦ए॒न॒‌म्¦सु॒ऽकृता᳚‌म्¦ऊँ॒ इति॑¦लो॒क‌म् ||

अव॑ सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धाभिः॑ |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

आयु॒र्वसा᳚न॒ उप॑ वेतु॒ शेषः॒ सं ग॑च्छतां त॒न्वा᳚ जातवेदः ||{5/14}{10.16.5}{10.1.16.5}{7.6.20.5}{139, 853, 8937}

अव॑¦सृ॒ज॒¦पुनः॑¦अ॒ग्ने॒¦पि॒तृऽभ्यः॑¦यः¦ते॒¦आऽहु॑तः¦चर॑ति¦स्व॒धाभिः॑ |
आयुः॑¦वसा᳚नः¦उप॑¦वे॒तु॒¦शेषः॑¦स‌म्¦ग॒च्छ॒ता॒‌म्¦त॒न्वा᳚¦जा॒त॒ऽवे॒दः॒ ||

यत्ते᳚ कृ॒ष्णः श॑कु॒न आ᳚तु॒तोद॑ पिपी॒लः स॒र्प उ॒त वा॒ श्वाप॑दः |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

अ॒ग्निष्टद्वि॒श्वाद॑ग॒दं कृ॑णोतु॒ सोम॑श्च॒ यो ब्रा᳚ह्म॒णाँ, आ᳚वि॒वेश॑ ||{6/14}{10.16.6}{10.1.16.6}{7.6.21.1}{140, 853, 8938}

यत्¦ते॒¦कृ॒ष्णः¦श॒कु॒नः¦आ॒ऽतु॒तोद॑¦पि॒पी॒लः¦स॒र्पः¦उ॒त¦वा॒¦श्वाप॑दः |
अ॒ग्निः¦तत्¦वि॒श्व॒।आत्¦अ॒ग॒द‌म्¦कृ॒णो॒तु॒¦सोमः॑¦च॒¦यः¦ब्रा॒ह्म॒णान्¦आ॒ऽवि॒वेश॑ ||

अ॒ग्नेर्वर्म॒ परि॒ गोभि᳚र्व्ययस्व॒ सं प्रोर्णु॑ष्व॒ पीव॑सा॒ मेद॑सा च |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

नेत्‌ त्वा᳚ धृ॒ष्णुर्हर॑सा॒ जर्हृ॑षाणो द॒धृग्वि॑ध॒क्ष्यन्‌ प᳚र्य॒ङ्खया᳚ते ||{7/14}{10.16.7}{10.1.16.7}{7.6.21.2}{141, 853, 8939}

अ॒ग्नेः¦वर्म॑¦परि॑¦गोभिः॑¦व्य॒य॒स्व॒¦स‌म्¦प्र¦ऊ॒णु॒ष्व॒¦पीव॑सा¦मेद॑सा¦च॒ |
न¦इत्¦त्वा॒¦धृ॒ष्णुः¦हर॑सा¦जर्हृ॑षाणः¦द॒धृक्¦वि॒ऽध॒क्ष्यन्¦प॒रि॒।आ॒ङ्खया᳚ते ||

इ॒मम॑ग्ने चम॒सं मा वि जि॑ह्वरः प्रि॒यो दे॒वाना᳚मु॒त सो॒म्याना᳚म् |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

ए॒ष यश्च॑म॒सो दे᳚व॒पान॒स्तस्मि᳚न्दे॒वा, अ॒मृता᳚ मादयन्ते ||{8/14}{10.16.8}{10.1.16.8}{7.6.21.3}{142, 853, 8940}

इ॒म‌म्¦अ॒ग्ने॒¦च॒म॒स‌म्¦मा¦वि¦जि॒ह्व॒रः॒¦प्रि॒यः¦दे॒वाना᳚‌म्¦उ॒त¦सो॒म्याना᳚‌म् |
ए॒षः¦यः¦च॒म॒सः¦दे॒व॒ऽपानः॑¦तस्मि॑न्¦दे॒वाः¦अ॒मृताः᳚¦मा॒द॒य॒न्ते॒ ||

क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॒मरा᳚ज्ञो गच्छतु रिप्रवा॒हः |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

इ॒हैवायमित॑रो जा॒तवे᳚दा दे॒वेभ्यो᳚ ह॒व्यं व॑हतु प्रजा॒नन् ||{9/14}{10.16.9}{10.1.16.9}{7.6.21.4}{143, 853, 8941}

क्र॒व्य॒।आद᳚‌म्¦अ॒ग्नि‌म्¦प्र¦हि॒णो॒मि॒¦दू॒र‌म्¦य॒मऽरा᳚ज्ञः¦ग॒च्छ॒तु॒¦रि॒प्र॒ऽवा॒हः |
इ॒ह¦ए॒व¦अ॒य‌म्¦इत॑रः¦जा॒तऽवे᳚दाः¦दे॒वेभ्यः॑¦ह॒व्य‌म्¦व॒ह॒तु॒¦प्र॒ऽजा॒नन् ||

यो, अ॒ग्निः क्र॒व्यात्प्र॑वि॒वेश॑ वो गृ॒हमि॒मं पश्य॒न्नित॑रं जा॒तवे᳚दसम् |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

तं ह॑रामि पितृय॒ज्ञाय॑ दे॒वं स घ॒र्ममि᳚न्वात्पर॒मे स॒धस्थे᳚ ||{10/14}{10.16.10}{10.1.16.10}{7.6.21.5}{144, 853, 8942}

यः¦अ॒ग्निः¦क्र॒व्य॒।आत्¦प्र॒ऽवि॒वेश॑¦वः॒¦गृ॒ह‌म्¦इ॒म‌म्¦पश्य॑न्¦इत॑र‌म्¦जा॒तऽवे᳚दस‌म् |
त‌म्¦ह॒रा॒मि॒¦पि॒तृ॒ऽय॒ज्ञाय॑¦दे॒व‌म्¦सः¦घ॒र्म‌म्¦इ॒न्वा॒त्¦प॒र॒मे¦स॒धऽस्थे᳚ ||

यो, अ॒ग्निः क्र᳚व्य॒वाह॑नः पि॒तॄन्यक्ष॑दृता॒वृधः॑ |{यामायनो दमनः | अग्निः | अनुष्टुप्}

प्रेदु॑ ह॒व्यानि॑ वोचति दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ ||{11/14}{10.16.11}{10.1.16.11}{7.6.22.1}{145, 853, 8943}

यः¦अ॒ग्निः¦क्र॒व्य॒ऽवाह॑नः¦पि॒तॄन्¦यक्ष॑त्¦ऋ॒त॒ऽवृधः॑ | प्र¦इत्¦ऊँ॒ इति॑¦ह॒व्यानि॑¦वो॒च॒ति॒¦दे॒वेभ्यः॑¦च॒¦पि॒तृऽभ्यः॑¦आ ||

उ॒शन्त॑स्त्वा॒ नि धी᳚मह्यु॒शन्तः॒ समि॑धीमहि |{यामायनो दमनः | अग्निः | अनुष्टुप्}

उ॒शन्नु॑श॒त आ व॑ह पि॒तॄन्ह॒विषे॒, अत्त॑वे ||{12/14}{10.16.12}{10.1.16.12}{7.6.22.2}{146, 853, 8944}

उ॒शन्तः॑¦त्वा॒¦नि¦धी॒म॒हि॒¦उ॒शन्तः॑¦स‌म्¦इ॒धी॒म॒हि॒ | उ॒शन्¦उ॒श॒तः¦आ¦व॒ह॒¦पि॒तॄन्¦ह॒विषे᳚¦अत्त॑वे ||

यं त्वम॑ग्ने स॒मद॑ह॒स्तमु॒ निर्वा᳚पया॒ पुनः॑ |{यामायनो दमनः | अग्निः | अनुष्टुप्}

कि॒याम्ब्वत्र॑ रोहतु पाकदू॒र्वा व्य॑ल्कशा ||{13/14}{10.16.13}{10.1.16.13}{7.6.22.3}{147, 853, 8945}

य‌म्¦त्व‌म्¦अ॒ग्ने॒¦स॒‌म्।आद॑हः¦त‌म्¦ऊँ॒ इति॑¦निः¦वा॒प॒य॒¦पुन॒रिति॑ | कि॒याम्बु॑¦अत्र॑¦रो॒ह॒तु॒¦पा॒क॒ऽदू॒र्वा¦वि।आ॑ल्कशा ||

शीति॑के॒ शीति॑कावति॒ ह्लादि॑के॒ ह्लादि॑कावति |{यामायनो दमनः | अग्निः | अनुष्टुप्}

म॒ण्डू॒क्या॒३॑(आ॒) सु सं ग॑म इ॒मं स्व१॑(अ॒)ग्निं ह॑र्षय ||{14/14}{10.16.14}{10.1.16.14}{7.6.22.4}{148, 853, 8946}

शीति॑के¦शीति॑काऽवति¦ह्लादि॑के¦ह्लादि॑काऽवति | म॒ण्डू॒क्या᳚¦सु¦स‌म्¦ग॒मः॒¦इ॒म‌म्¦सु¦अ॒ग्नि‌म्¦ह॒र्ष॒य॒ ||

[17] त्वष्टादुहित्र इति चतुर्दशर्चस्य सूक्तस्य यामायनोवेदश्रवाऋषिः आद्ययोर्द्वयोः सरण्यूदेवता ततश्चतसृणांपूषा ततस्तिसृणांसरस्वती ततःपंचानामापस्त्रिष्टुप् अंत्येद्वेअनुष्टुभौ (द्रप्सश्चस्कन्देति तिसृणां सोमोदेवतावाउपांत्यापुरस्ताद्बृहतीवेतिच) |
त्वष्टा᳚ दुहि॒त्रे व॑ह॒तुं कृ॑णो॒तीती॒दं विश्वं॒ भुव॑नं॒ समे᳚ति |{यामायनो वेदश्रवाः | सरण्यूः | त्रिष्टुप्}

य॒मस्य॑ मा॒ता प᳚र्यु॒ह्यमा᳚ना म॒हो जा॒या विव॑स्वतो ननाश ||{1/14}{10.17.1}{10.2.1.1}{7.6.23.1}{149, 854, 8947}

त्वष्टा᳚¦दु॒हि॒त्रे¦व॒ह॒तु‌म्¦कृ॒णो॒ति॒¦इति॑¦इ॒द‌म्¦विश्व᳚‌म्¦भुव॑न‌म्¦स‌म्¦ए॒ति॒ |
य॒मस्य॑¦मा॒ता¦प॒रि॒।औ॒ह्यमा᳚ना¦म॒हः¦जा॒या¦विव॑वस्वतः¦न॒ना॒श॒ ||

अपा᳚गूहन्न॒मृतां॒ मर्त्ये᳚भ्यः कृ॒त्वी सव᳚र्णामददु॒र्विव॑स्वते |{यामायनो वेदश्रवाः | सरण्यूः | त्रिष्टुप्}

उ॒ताश्विना᳚वभर॒द्यत्तदासी॒दज॑हादु॒ द्वा मि॑थु॒ना स॑र॒ण्यूः ||{2/14}{10.17.2}{10.2.1.2}{7.6.23.2}{150, 854, 8948}

अप॑¦अ॒गू॒ह॒न्¦अ॒मृता᳚‌म्¦मर्त्ये᳚भ्यः¦कृ॒त्वी¦सऽव᳚र्णा‌म्¦अ॒द॒दुः॒¦विव॑स्वते |
उ॒त¦अ॒श्विनौ᳚¦अ॒भ॒र॒त्¦यत्¦तत्¦आसी᳚त्¦अज॑हात्¦ऊँ॒ इति॑¦द्वा¦मि॒थु॒ना¦स॒र॒ण्यूः ||

पू॒षा त्वे॒तश्च्या᳚वयतु॒ प्र वि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः |{यामायनो वेदश्रवाः | पूषा | त्रिष्टुप्}

स त्वै॒तेभ्यः॒ परि॑ ददत्पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्यः॑ सुविद॒त्रिये᳚भ्यः ||{3/14}{10.17.3}{10.2.1.3}{7.6.23.3}{151, 854, 8949}

पू॒षा¦त्वा॒¦इ॒तः¦च्य॒व॒य॒तु॒¦प्र¦वि॒द्वान्¦अन॑ष्टऽपशुः¦भुव॑नस्य¦गो॒पाः |
सः¦त्वा॒¦ए॒तेभ्यः॑¦परि॑¦द॒द॒त्¦पि॒तृऽभ्यः॑¦अ॒ग्निः¦दे॒वेभ्यः॑¦सु॒ऽवि॒द॒त्रिये᳚भ्यः ||

आयु᳚र्वि॒श्वायुः॒ परि॑ पासति त्वा पू॒षा त्वा᳚ पातु॒ प्रप॑थे पु॒रस्ता᳚त् |{यामायनो वेदश्रवाः | पूषा | त्रिष्टुप्}

यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ||{4/14}{10.17.4}{10.2.1.4}{7.6.23.4}{152, 854, 8950}

आयुः॑¦वि॒श्वऽआ᳚युः¦परि॑¦पा॒स॒ति॒¦त्वा॒¦पू॒षा¦त्वा॒¦पा॒तु॒¦प्रऽप॑थे¦पु॒रस्ता᳚त् |
यत्र॑¦आस॑ते¦सु॒ऽकृतः॑¦यत्र॑¦ते¦य॒युः¦तत्र॑¦त्वा॒¦दे॒वः¦स॒वि॒ता¦द॒धा॒तु॒ ||

पू॒षेमा, आशा॒, अनु॑ वेद॒ सर्वाः॒ सो, अ॒स्माँ, अभ॑यतमेन नेषत् |{यामायनो वेदश्रवाः | पूषा | त्रिष्टुप्}

स्व॒स्ति॒दा, आघृ॑णिः॒ सर्व॑वी॒रोऽप्र॑युच्छन्‌ पु॒र ए᳚तु प्रजा॒नन् ||{5/14}{10.17.5}{10.2.1.5}{7.6.23.5}{153, 854, 8951}

पू॒षा¦इ॒माः¦आशाः᳚¦अनु॑¦वे॒द॒¦सर्वाः᳚¦सः¦अ॒स्मान्¦अभ॑यऽतमेन¦ने॒ष॒त् |
स्व॒स्ति॒ऽदाः¦आघृ॑णिः¦सर्व॑ऽवीरः¦अप्र॑ऽयुच्छन्¦पु॒रः¦ए॒तु॒¦प्र॒ऽजा॒नन् ||

प्रप॑थे प॒थाम॑जनिष्ट पू॒षा प्रप॑थे दि॒वः प्रप॑थे पृथि॒व्याः |{यामायनो वेदश्रवाः | पूषा | त्रिष्टुप्}

उ॒भे, अ॒भि प्रि॒यत॑मे स॒धस्थे॒, आ च॒ परा᳚ च चरति प्रजा॒नन् ||{6/14}{10.17.6}{10.2.1.6}{7.6.24.1}{154, 854, 8952}

प्रऽप॑थे¦प॒था‌म्¦अ॒ज॒नि॒ष्ट॒¦पू॒षा¦प्रऽप॑थे¦दि॒वः¦प्रऽप॑थे¦पृ॒थि॒व्याः |
उ॒भे इति॑¦अ॒भि¦प्रि॒यत॑मे॒ इति॑ प्रि॒यऽत॑मे¦स॒धस्थे॒ इति॑ स॒धऽस्थे᳚¦आ¦च॒¦परा᳚¦च॒¦च॒र॒ति॒¦प्र॒ऽजा॒नन् ||

सर॑स्वतीं देव॒यन्तो᳚ हवन्ते॒ सर॑स्वतीमध्व॒रे ता॒यमा᳚ने |{यामायनो वेदश्रवाः | सरस्वती | त्रिष्टुप्}

सर॑स्वतीं सु॒कृतो᳚, अह्वयन्त॒ सर॑स्वती दा॒शुषे॒ वार्यं᳚ दात् ||{7/14}{10.17.7}{10.2.1.7}{7.6.24.2}{155, 854, 8953}

सर॑स्वती‌म्¦दे॒व॒ऽयन्तः॑¦ह॒व॒न्ते॒¦सर॑स्वती‌म्¦अ॒ध्व॒रे¦ता॒यमा᳚ने |
सर॑स्वती‌म्¦सु॒ऽकृतः॑¦अ॒ह्व॒य॒न्त॒¦सर॑स्वती¦दा॒शुषे᳚¦वार्य᳚‌म्¦दा॒त् ||

सर॑स्वति॒ या स॒रथं᳚ य॒याथ॑ स्व॒धाभि॑र्देवि पि॒तृभि॒र्मद᳚न्ती |{यामायनो वेदश्रवाः | सरस्वती | त्रिष्टुप्}

आ॒सद्या॒स्मिन्‌ ब॒र्हिषि॑ मादयस्वानमी॒वा, इष॒ आ धे᳚ह्य॒स्मे ||{8/14}{10.17.8}{10.2.1.8}{7.6.24.3}{156, 854, 8954}

सर॑स्वति¦या¦स॒ऽरथ᳚‌म्¦य॒याथ॑¦स्व॒धाभिः॑¦दे॒वि॒¦पि॒तृऽभिः॑¦मद᳚न्ती |
आ॒ऽसद्य॑¦अ॒स्मिन्¦ब॒र्हिषि॑¦मा॒द॒य॒स्व॒¦अ॒न॒मी॒वाः¦इषः॑¦आ¦धे॒हि॒¦अ॒स्मे इति॑ ||

सर॑स्वतीं॒ यां पि॒तरो॒ हव᳚न्ते दक्षि॒णा य॒ज्ञम॑भि॒नक्ष॑माणाः |{यामायनो वेदश्रवाः | सरस्वती | त्रिष्टुप्}

स॒ह॒स्रा॒र्घमि॒ळो, अत्र॑ भा॒गं रा॒यस्पोषं॒ यज॑मानेषु धेहि ||{9/14}{10.17.9}{10.2.1.9}{7.6.24.4}{157, 854, 8955}

सर॑स्वती‌म्¦या‌म्¦पि॒तरः॑¦हव᳚न्ते¦द॒क्षि॒णा¦य॒ज्ञ‌म्¦अ॒भि॒ऽनक्ष॑माणाः |
स॒ह॒स्र॒।आ॒र्घ‌म्¦इ॒ळः¦अत्र॑¦भा॒ग‌म्¦रा॒यः¦पोष᳚‌म्¦यज॑मानेषु¦धे॒हि॒ ||

आपो᳚, अ॒स्मान्मा॒तरः॑ शुन्धयन्तु घृ॒तेन॑ नो घृत॒प्वः॑ पुनन्तु |{यामायनो वेदश्रवाः | आपः | त्रिष्टुप्}

विश्वं॒ हि रि॒प्रं प्र॒वह᳚न्ति दे॒वीरुदिदा᳚भ्यः॒ शुचि॒रा पू॒त ए᳚मि ||{10/14}{10.17.10}{10.2.1.10}{7.6.24.5}{158, 854, 8956}

आपः॑¦अ॒स्मान्¦मा॒तरः॑¦शु॒न्ध॒य॒न्तु॒¦घृ॒तेन॑¦नः॒¦घृ॒त॒ऽप्वः॑¦पु॒न॒न्तु॒ |
विश्व᳚‌म्¦हि¦रि॒प्र‌म्¦प्र॒ऽवह᳚न्ति¦दे॒वीः¦उत्¦इत्¦आ॒भ्यः॒¦शुचिः॑¦आ¦पू॒तः¦ए॒मि॒ ||

द्र॒प्सश्च॑स्कन्द प्रथ॒माँ, अनु॒ द्यूनि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ |{यामायनो वेदश्रवाः | आपः सोमो वा | त्रिष्टुप्}

स॒मा॒नं योनि॒मनु॑ सं॒चर᳚न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः᳚ ||{11/14}{10.17.11}{10.2.1.11}{7.6.25.1}{159, 854, 8957}

द्र॒प्सः¦च॒स्क॒न्द॒¦प्र॒थ॒मा‌म्¦अनु॑¦द्यून्¦इ॒म‌म्¦च॒¦योनि᳚‌म्¦अनु॑¦यः¦च॒¦पूर्वः॑ |
स॒मा॒न‌म्¦योनि᳚‌म्¦अनु॑¦स॒‌म्ऽचर᳚न्त‌म्¦द्र॒प्स‌म्¦जु॒हो॒मि॒¦अनु॑¦स॒प्त¦होत्राः᳚ ||

यस्ते᳚ द्र॒प्सः स्कन्द॑ति॒ यस्ते᳚, अं॒शुर्बा॒हुच्यु॑तो धि॒षणा᳚या, उ॒पस्था᳚त् |{यामायनो वेदश्रवाः | आपः सोमो वा | त्रिष्टुप्}

अ॒ध्व॒र्योर्वा॒ परि॑ वा॒ यः प॒वित्रा॒त्तं ते᳚ जुहोमि॒ मन॑सा॒ वष॑ट्कृतम् ||{12/14}{10.17.12}{10.2.1.12}{7.6.25.2}{160, 854, 8958}

यः¦ते॒¦द्र॒प्सः¦स्कन्द॑ति¦यः¦ते॒¦अं॒शुः¦बा॒हुऽच्यु॑तः¦धि॒षणा᳚याः¦उ॒पऽस्था᳚त् |
अ॒ध्व॒र्योः¦वा॒¦परि॑¦वा॒¦यः¦प॒वित्रा᳚त्¦त‌म्¦ते॒¦जु॒हो॒मि॒¦मन॑सा¦वष॑ट्ऽकृत‌म् ||

यस्ते᳚ द्र॒प्सः स्क॒न्नो यस्ते᳚, अं॒शुर॒वश्च॒ यः प॒रः स्रु॒चा |{यामायनो वेदश्रवाः | आपः सोमो वा | पुरस्ताद्‌बृहती}

अ॒यं दे॒वो बृह॒स्पतिः॒ सं तं सि᳚ञ्चतु॒ राध॑से ||{13/14}{10.17.13}{10.2.1.13}{7.6.25.3}{161, 854, 8959}

यः¦ते॒¦द्र॒प्सः¦स्क॒न्नः¦यः¦ते॒¦अं॒शुः¦अ॒वः¦च॒¦यः¦प॒रः¦स्रु॒चा |
अ॒य‌म्¦दे॒वः¦बृह॒स्पतिः॑¦स‌म्¦त‌म्¦सिं॒च॒तु॒¦राध॑से ||

पय॑स्वती॒रोष॑धयः॒ पय॑स्वन्माम॒कं वचः॑ |{यामायनो वेदश्रवाः | आपः | अनुष्टुप्}

अ॒पां पय॑स्व॒दित्पय॒स्तेन॑ मा स॒ह शु᳚न्धत ||{14/14}{10.17.14}{10.2.1.14}{7.6.25.4}{162, 854, 8960}

पय॑स्वतीः¦ओष॑धयः¦पय॑स्वत्¦मा॒म॒क‌म्¦वचः॑ | अ॒पा‌म्¦पय॑स्वत्¦इत्¦पयः॑¦तेन॑¦मा॒¦स॒ह¦शु॒न्ध॒त॒ ||

[18] परंमृत्योइति चतुर्दशर्चस्य सूक्तस्य यामायनः संकुसुकः आद्यानांचतसृणांमृत्युः पंचम्याधाता षष्ठ्यास्त्वष्टा शिष्टानां पितृमेधास्त्रिष्टुप् एकादशीप्रस्तारपंक्तिः त्रयोदशीजगत्यंत्येनुष्टुभौ (अंत्यायाः प्रजापतिर्वादेवता) |
परं᳚ मृत्यो॒, अनु॒ परे᳚हि॒ पन्थां॒ यस्ते॒ स्व इत॑रो देव॒याना᳚त् |{यामायनः संकुसुकः | मृत्युः | त्रिष्टुप्}

चक्षु॑ष्मते शृण्व॒ते ते᳚ ब्रवीमि॒ मा नः॑ प्र॒जां री᳚रिषो॒ मोत वी॒रान् ||{1/14}{10.18.1}{10.2.2.1}{7.6.26.1}{163, 855, 8961}

पर᳚‌म्¦मृ॒त्यो॒ इति॑¦अनु॑¦परा᳚¦इ॒हि॒¦पन्था᳚‌म्¦यः¦ते॒¦स्वः¦इत॑रः¦दे॒व॒ऽयाना᳚त् |
चक्षु॑ष्मते¦शृ॒ण्व॒ते¦ते॒¦ब्र॒वी॒मि॒¦मा¦नः॒¦प्र॒ऽजा‌म्¦रि॒रि॒षः॒¦मा¦उ॒त¦वी॒रान् ||

मृ॒त्योः प॒दं यो॒पय᳚न्तो॒ यदैत॒ द्राघी᳚य॒ आयुः॑ प्रत॒रं दधा᳚नाः |{यामायनः संकुसुकः | मृत्युः | त्रिष्टुप्}

आ॒प्याय॑मानाः प्र॒जया॒ धने᳚न शु॒द्धाः पू॒ता भ॑वत यज्ञियासः ||{2/14}{10.18.2}{10.2.2.2}{7.6.26.2}{164, 855, 8962}

मृ॒त्योः¦प॒द‌म्¦यो॒पय᳚न्तः¦यत्¦ऐत॑¦द्राघी᳚यः¦आयुः॑¦प्र॒ऽत॒र‌म्¦दधा᳚नाः |
आ॒प्याय॑मानाः¦प्र॒ऽजया᳚¦धने᳚न¦शु॒द्धाः¦पू॒ताः¦भ॒व॒त॒¦य॒ज्ञि॒या॒सः॒ ||

इ॒मे जी॒वा वि मृ॒तैराव॑वृत्र॒न्नभू᳚द्भ॒द्रा दे॒वहू᳚तिर्नो, अ॒द्य |{यामायनः संकुसुकः | मृत्युः | त्रिष्टुप्}

प्राञ्चो᳚, अगाम नृ॒तये॒ हसा᳚य॒ द्राघी᳚य॒ आयुः॑ प्रत॒रं दधा᳚नाः ||{3/14}{10.18.3}{10.2.2.3}{7.6.26.3}{165, 855, 8963}

इ॒मे¦जी॒वाः¦वि¦मृ॒तैः¦आ¦अ॒व॒वृ॒त्र॒न्¦अभू᳚त्¦भ॒द्रा¦दे॒वऽहू᳚तिः¦नः॒¦अ॒द्य |
प्रांचः॑¦अ॒गा॒म॒¦नृ॒तये᳚¦हसा᳚य¦द्राघी᳚यः¦आयुः॑¦प्र॒ऽत॒र‌म्¦दधा᳚नाः ||

इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒, अर्थ॑मे॒तम् |{यामायनः संकुसुकः | मृत्युः | त्रिष्टुप्}

श॒तं जी᳚वन्तु श॒रदः॑ पुरू॒चीर॒न्तर्मृ॒त्युं द॑धतां॒ पर्व॑तेन ||{4/14}{10.18.4}{10.2.2.4}{7.6.26.4}{166, 855, 8964}

इ॒म‌म्¦जी॒वेभ्यः॑¦प॒रि॒ऽधि‌म्¦दा॒धा॒मि॒¦मा¦ए॒षा॒‌म्¦नु¦गा॒त्¦अप॑रः¦अर्थ᳚‌म्¦ए॒त‌म् |
श॒त‌म्¦जी॒व॒न्तु॒¦श॒रदः॑¦पु॒रू॒चीः¦अ॒न्तः¦मृ॒त्यु‌म्¦द॒ध॒ता॒‌म्¦पर्व॑तेन ||

यथाहा᳚न्यनुपू॒र्वं भव᳚न्ति॒ यथ॑ ऋ॒तव॑ ऋ॒तुभि॒र्यन्ति॑ सा॒धु |{यामायनः संकुसुकः | धाता | त्रिष्टुप्}

यथा॒ न पूर्व॒मप॑रो॒ जहा᳚त्ये॒वा धा᳚त॒रायूं᳚षि कल्पयैषाम् ||{5/14}{10.18.5}{10.2.2.5}{7.6.26.5}{167, 855, 8965}

यथा᳚¦अहा᳚नि¦अ॒नु॒ऽपू॒र्व‌म्¦भव᳚न्ति¦यथा᳚¦ऋ॒तवः॑¦ऋ॒तुऽभिः॑¦य॒न्ति¦सा॒धु |
यथा᳚¦न¦पूर्व᳚‌म्¦अप॑रः¦जहा᳚ति¦ए॒व¦धा॒तः॒¦आयूं᳚षि¦क॒ल्प॒य॒¦ए॒षा‌म् ||

आ रो᳚ह॒तायु॑र्ज॒रसं᳚ वृणा॒ना, अ॑नुपू॒र्वं यत॑माना॒ यति॒ ष्ठ |{यामायनः संकुसुकः | त्वष्टा | त्रिष्टुप्}

इ॒ह त्वष्टा᳚ सु॒जनि॑मा स॒जोषा᳚ दी॒र्घमायुः॑ करति जी॒वसे᳚ वः ||{6/14}{10.18.6}{10.2.2.6}{7.6.27.1}{168, 855, 8966}

आ¦र॒ह॒त॒¦आयुः॑¦ज॒रस᳚‌म्¦वृ॒णा॒नाः¦अ॒नु॒ऽपू॒र्व‌म्¦यत॑मानाः¦यति॑¦स्थ |
इ॒ह¦त्वष्टा᳚¦सु॒ऽजनि॑मा¦स॒ऽजोषाः᳚¦दी॒र्घ‌म्¦आयुः॑¦क॒र॒ति॒¦जी॒वसे᳚¦वः॒ ||

इ॒मा नारी᳚रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सं वि॑शन्तु |{यामायनः संकुसुकः | पितृमेधः | त्रिष्टुप्}

अ॒न॒श्रवो᳚ऽनमी॒वाः सु॒रत्ना॒, आ रो᳚हन्तु॒ जन॑यो॒ योनि॒मग्रे᳚ ||{7/14}{10.18.7}{10.2.2.7}{7.6.27.2}{169, 855, 8967}

इ॒माः¦नारीः᳚¦अ॒वि॒ध॒वाः¦सु॒ऽपत्नीः᳚¦आ॒।आंज॑नेन¦स॒र्पिषा᳚¦स‌म्¦वि॒श॒न्तु॒ |
अ॒न॒श्रवः॑¦अ॒न॒मी॒वाः¦सु॒ऽरत्नाः᳚¦आ¦रो॒ह॒न्तु॒¦जन॑यः¦योनि᳚‌म्¦अग्रे᳚ ||

उदी᳚र्ष्व नार्य॒भि जी᳚वलो॒कं ग॒तासु॑मे॒तमुप॑ शेष॒ एहि॑ |{यामायनः संकुसुकः | पितृमेधः | त्रिष्टुप्}

ह॒स्त॒ग्रा॒भस्य॑ दिधि॒षोस्तवे॒दं पत्यु॑र्जनि॒त्वम॒भि सं ब॑भूथ ||{8/14}{10.18.8}{10.2.2.8}{7.6.27.3}{170, 855, 8968}

उत्¦ई॒र्ष्व॒¦ना॒रि॒¦अ॒भि¦जी॒व॒ऽलो॒क‌म्¦ग॒त।आ॑सु‌म्¦ए॒त‌म्¦उप॑¦शे॒षे॒¦आ¦इ॒हि॒ |
ह॒स्त॒ऽग्रा॒भस्य॑¦दि॒धि॒षोः¦तव॑¦इ॒द‌म्¦पत्युः॑¦ज॒नि॒ऽत्व‌म्¦अ॒भि¦स‌म्¦ब॒भू॒थ॒ ||

धनु॒र्हस्ता᳚दा॒ददा᳚नो मृ॒तस्या॒स्मे क्ष॒त्राय॒ वर्च॑से॒ बला᳚य |{यामायनः संकुसुकः | पितृमेधः | त्रिष्टुप्}

अत्रै॒व त्वमि॒ह व॒यं सु॒वीरा॒ विश्वाः॒ स्पृधो᳚, अ॒भिमा᳚तीर्जयेम ||{9/14}{10.18.9}{10.2.2.9}{7.6.27.4}{171, 855, 8969}

धनुः॑¦हस्ता᳚त्¦आ॒ऽददा᳚नः¦मृ॒तस्य॑¦अ॒स्मे इति॑¦क्ष॒त्राय॑¦वर्च॑से¦बला᳚य |
अत्र॑¦ए॒व¦त्व‌म्¦इ॒ह¦व॒य‌म्¦सु॒ऽवीराः᳚¦विश्वाः᳚¦स्पृधः॑¦अ॒भिऽमा᳚तीः¦ज॒ये॒म॒ ||

उप॑ सर्प मा॒तरं॒ भूमि॑मे॒तामु॑रु॒व्यच॑सं पृथि॒वीं सु॒शेवा᳚म् |{यामायनः संकुसुकः | पितृमेधः | त्रिष्टुप्}

ऊर्ण᳚म्रदा युव॒तिर्दक्षि॑णावत ए॒षा त्वा᳚ पातु॒ निरृ॑तेरु॒पस्था᳚त् ||{10/14}{10.18.10}{10.2.2.10}{7.6.27.5}{172, 855, 8970}

उप॑¦स॒र्प॒¦मा॒तर᳚‌म्¦भूमि᳚‌म्¦ए॒ता‌म्¦उ॒रु॒ऽव्यच॑स‌म्¦पृ॒थि॒वी‌म्¦सु॒ऽशेवा᳚‌म् |
ऊर्ण॑ऽम्रदाः¦यु॒व॒तिः¦दक्षि॑णाऽवते¦ए॒षा¦त्वा॒¦पा॒तु॒¦निःऽऋ॑तेः¦उ॒पऽस्था᳚त् ||

उच्छ्व᳚ञ्चस्व पृथिवि॒ मा नि बा᳚धथाः सूपाय॒नास्मै᳚ भव सूपवञ्च॒ना |{यामायनः संकुसुकः | पितृमेधः | प्रस्तार पङ्क्तिः}

मा॒ता पु॒त्रं यथा᳚ सि॒चाभ्ये᳚नं भूम ऊर्णुहि ||{11/14}{10.18.11}{10.2.2.11}{7.6.28.1}{173, 855, 8971}

उत्¦श्वं॒च॒स्व॒¦पृ॒थि॒वि॒¦मा¦नि¦बा॒ध॒थाः॒¦सु॒।औ॒पा॒य॒ना¦अ॒स्मै॒¦भ॒व॒¦सु॒।औ॒प॒वं॒च॒ना |
मा॒ता¦पु॒त्र‌म्¦यथा᳚¦सि॒चा¦अ॒भि¦ए॒न॒‌म्¦भू॒मे॒¦ऊ॒र्णु॒हि॒ ||

उ॒च्छ्वञ्च॑माना पृथि॒वी सु ति॑ष्ठतु स॒हस्रं॒ मित॒ उप॒ हि श्रय᳚न्ताम् |{यामायनः संकुसुकः | पितृमेधः | त्रिष्टुप्}

ते गृ॒हासो᳚ घृत॒श्चुतो᳚ भवन्तु वि॒श्वाहा᳚स्मै शर॒णाः स॒न्त्वत्र॑ ||{12/14}{10.18.12}{10.2.2.12}{7.6.28.2}{174, 855, 8972}

उ॒त्ऽश्वंच॑माना¦पृ॒थि॒वी¦सु¦ति॒ष्ठ॒तु॒¦स॒हस्र᳚‌म्¦मितः॑¦उप॑¦हि¦श्रय᳚न्ता‌म् |
ते¦गृ॒हासः॑¦घृ॒त॒ऽश्चुतः॑¦भ॒व॒न्तु॒¦वि॒श्वाहा᳚¦अ॒स्मै॒¦श॒र॒णाः¦स॒न्तु॒¦अत्र॑ ||

उत्ते᳚ स्तभ्नामि पृथि॒वीं त्वत्परी॒मं लो॒गं नि॒दध॒न्मो, अ॒हं रि॑षम् |{यामायनः संकुसुकः | पितृमेधः | जगती}

ए॒तां स्थूणां᳚ पि॒तरो᳚ धारयन्तु॒ तेऽत्रा᳚ य॒मः साद॑ना ते मिनोतु ||{13/14}{10.18.13}{10.2.2.13}{7.6.28.3}{175, 855, 8973}

उत्¦ते॒¦स्त॒भ्ना॒मि॒¦पृ॒थि॒वी‌म्¦त्वत्¦परि॑¦इ॒म‌म्¦लो॒ग‌म्¦नि॒ऽदध॑त्¦मो इति॑¦अ॒ह‌म्¦रि॒ष॒‌म् |
ए॒ता‌म्¦स्थूणा᳚‌म्¦पि॒तरः॑¦धा॒र॒य॒न्तु॒¦ते॒¦अत्र॑¦य॒मः¦सद॑ना¦ते॒¦मि॒नो॒तु॒ ||

प्र॒ती॒चीने॒ मामह॒नीष्वाः᳚ प॒र्णमि॒वा द॑धुः |{यामायनः संकुसुकः | पितृमेधः प्रजापतिर्वा | अनुष्टुप्}

प्र॒तीचीं᳚ जग्रभा॒ वाच॒मश्वं᳚ रश॒नया᳚ यथा ||{14/14}{10.18.14}{10.2.2.14}{7.6.28.4}{176, 855, 8974}

प्र॒ती॒चीने᳚¦मा‌म्¦अह॑नि¦इष्वाः᳚¦प॒र्ण‌म्ऽ‌इ᳚व¦आ¦द॒धुः॒ | प्र॒तीची᳚‌म्¦ज॒ग्र॒भ॒¦वाच᳚‌म्¦अश्व᳚‌म्¦र॒श॒नया᳚¦य॒था॒ ||

[19] निवर्तध्वमित्यष्टर्चस्य सूक्तस्य यामायनोमथितऋषिः आपोदेवताः आद्यायाअग्नीषोमा अनुष्टुप् षष्ठीगायत्री | (अत्रसूक्ते वारुणिर्भृगुर्भार्गवश्च यवनश्चेमौ पाक्षिकावृषीगौर्वादेवता) |
नि व॑र्तध्वं॒ मानु॑ गाता॒स्मान्‌ त्सि॑षक्त रेवतीः |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा, अग्नीसोमौ | अनुष्टुप्}

अग्नी᳚षोमा पुनर्वसू, अ॒स्मे धा᳚रयतं र॒यिम् ||{1/8}{10.19.1}{10.2.3.1}{7.7.1.1}{177, 856, 8975}

नि¦व॒र्त॒ध्व॒‌म्¦मा¦अनु॑¦गा॒त॒¦अ॒स्मान्¦सि॒स॒क्त॒¦रे॒व॒तीः॒ | अग्नी᳚षोमा¦पु॒न॒र्व॒सू॒ इति॑ पुनःऽवसू¦अ॒स्मे इति॑¦धा॒र॒य॒त॒‌म्¦र॒यि‌म् ||

पुन॑रेना॒ नि व॑र्तय॒ पुन॑रेना॒ न्या कु॑रु |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा | अनुष्टुप्}

इन्द्र॑ एणा॒ नि य॑च्छत्व॒ग्निरे᳚ना, उ॒पाज॑तु ||{2/8}{10.19.2}{10.2.3.2}{7.7.1.2}{178, 856, 8976}

पुनः॑¦ए॒नाः॒¦नि¦व॒र्त॒य॒¦पुनः॑¦ए॒नाः॒¦नि¦आ¦कु॒रु॒ | इन्द्र॑¦ए॒नाः॒¦नि¦य॒च्छ॒तु॒¦अ॒ग्निः¦ए॒नाः॒¦उ॒प॒ऽआज॑तु ||

पुन॑रे॒ता नि व॑र्तन्ताम॒स्मिन्‌ पु॑ष्यन्तु॒ गोप॑तौ |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा | अनुष्टुप्}

इ॒हैवाग्ने॒ नि धा᳚रये॒ह ति॑ष्ठतु॒ या र॒यिः ||{3/8}{10.19.3}{10.2.3.3}{7.7.1.3}{179, 856, 8977}

पुनः॑¦ए॒ताः¦नि¦व॒र्त॒न्ता॒‌म्¦अ॒स्मिन्¦पु॒ष्य॒न्तु॒¦गोऽप॑तौ | इ॒ह¦ए॒व¦अ॒ग्ने॒¦नि¦धा॒र॒य॒¦इ॒ह¦ति॒ष्ठ॒तु॒¦या¦र॒यिः ||

यन्नि॒यानं॒ न्यय॑नं सं॒ज्ञानं॒ यत्प॒राय॑णम् |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा | अनुष्टुप्}

आ॒वर्त॑नं नि॒वर्त॑नं॒ यो गो॒पा, अपि॒ तं हु॑वे ||{4/8}{10.19.4}{10.2.3.4}{7.7.1.4}{180, 856, 8978}

यत्¦नि॒ऽयान᳚‌म्¦नि॒।आय॑न‌म्¦स॒‌म्ऽज्ञान᳚‌म्¦यत्¦प॒रा॒।आय॑न‌म् | आ॒ऽवर्त॑न‌म्¦नि॒ऽवर्त॑न‌म्¦यः¦गो॒पाः¦अपि॑¦त‌म्¦हु॒वे॒ ||

य उ॒दान॒ड्व्यय॑नं॒ य उ॒दान॑ट् प॒राय॑णम् |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा | अनुष्टुप्}

आ॒वर्त॑नं नि॒वर्त॑न॒मपि॑ गो॒पा नि व॑र्तताम् ||{5/8}{10.19.5}{10.2.3.5}{7.7.1.5}{181, 856, 8979}

यः¦उ॒त्ऽआन॑ट्¦वि॒।आय॑न‌म्¦यः¦उ॒त्ऽआन॑ट्¦प॒रा॒।आय॑न‌म् | आ॒ऽवर्त॑न‌म्¦नि॒ऽवर्त॑न‌म्¦अपि॑¦गो॒पाः¦नि¦व॒र्त॒ता॒‌म् ||

आ नि॑वर्त॒ नि व॑र्तय॒ पुन᳚र्न इन्द्र॒ गा दे᳚हि |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा | गायत्री}

जी॒वाभि॑र्भुनजामहै ||{6/8}{10.19.6}{10.2.3.6}{7.7.1.6}{182, 856, 8980}

आ¦नि॒ऽव॒र्त॒¦नि¦व॒र्त॒य॒¦पुनः॑¦नः॒¦इ॒न्द्र॒¦गाः¦दे॒हि॒ | जी॒वाभिः॑¦भु॒न॒जा॒म॒है॒ ||

परि॑ वो वि॒श्वतो᳚ दध ऊ॒र्जा घृ॒तेन॒ पय॑सा |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा | अनुष्टुप्}

ये दे॒वाः के च॑ य॒ज्ञिया॒स्ते र॒य्या सं सृ॑जन्तु नः ||{7/8}{10.19.7}{10.2.3.7}{7.7.1.7}{183, 856, 8981}

परि॑¦वः॒¦वि॒श्वतः॑¦द॒धे॒¦ऊ॒र्जा¦घृ॒तेन॑¦पय॑सा | ये¦दे॒वाः¦के¦च॒¦य॒ज्ञियाः᳚¦ते¦र॒य्या¦स‌म्¦सृ॒ज॒न्तु॒¦नः॒ ||

आ नि॑वर्तन वर्तय॒ नि नि॑वर्तन वर्तय |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा | अनुष्टुप्}

भूम्या॒श्चत॑स्रः प्र॒दिश॒स्ताभ्य॑ एना॒ नि व॑र्तय ||{8/8}{10.19.8}{10.2.3.8}{7.7.1.8}{184, 856, 8982}

आ¦नि॒ऽव॒र्त॒न॒¦व॒र्त॒य॒¦नि¦नि॒ऽव॒र्त॒न॒¦व॒र्त॒य॒ | भूम्याः᳚¦चत॑स्रः¦प्र॒ऽदिशः॑¦ताभ्यः॑¦ए॒नाः॒¦नि¦व॒र्त॒य॒ ||

[20] भद्रमिति दशर्चस्य सूक्तस्यैंद्रो विमदोग्निर्गायत्री आद्यैकपदाविराट् द्वितीयानुष्टुबंत्येविराट् त्रिष्टुभौ (भद्रंनःप्रभृति सप्तसूक्तेषु य एंद्रोविमदः सप्राजापत्योर्वैकल्पिकः किंचवासुक्रोवसुकृद्वा) |
भ॒द्रं नो॒, अपि॑ वातय॒ मनः॑ ||{ऐंद्रो विमदः | अग्निः | एकपदा विराट्}{1/10}{10.20.1}{10.2.4.1}{7.7.2.1}{185, 857, 8983}

भ॒द्र‌म्¦नः॒¦अपि॑¦वा॒त॒य॒¦मनः॑ ||

अ॒ग्निमी᳚ळे भु॒जां यवि॑ष्ठं शा॒सा मि॒त्रं दु॒र्धरी᳚तुम् |{ऐंद्रो विमदः | अग्निः | अनुष्टुप्}

यस्य॒ धर्म॒न्‌ त्स्व१॑(अ॒)रेनीः᳚ सप॒र्यन्ति॑ मा॒तुरूधः॑ ||{2/10}{10.20.2}{10.2.4.2}{7.7.2.2}{186, 857, 8984}

अ॒ग्नि‌म्¦ई॒ळे॒¦भु॒जा‌म्¦यवि॑ष्ठ‌म्¦शा॒सा¦मि॒त्र‌म्¦दुः॒ऽधरी᳚तु‌म् | यस्य॑¦धर्म॑न्¦स्वः॑¦एनीः᳚¦स॒प॒र्यन्ति॑¦मा॒तुः¦ऊधः॑ ||

यमा॒सा कृ॒पनी᳚ळं भा॒साके᳚तुं व॒र्धय᳚न्ति |{ऐंद्रो विमदः | अग्निः | गायत्री}

भ्राज॑ते॒ श्रेणि॑दन् ||{3/10}{10.20.3}{10.2.4.3}{7.7.2.3}{187, 857, 8985}

य‌म्¦आ॒साः¦कृ॒पऽनी᳚ळ‌म्¦भा॒साऽके᳚तु‌म्¦व॒र्धय᳚न्ति | भ्राज॑ते¦श्रेणि॑ऽदन् ||

अ॒र्यो वि॒शां गा॒तुरे᳚ति॒ प्र यदान॑ड्दि॒वो, अन्ता॑न् |{ऐंद्रो विमदः | अग्निः | गायत्री}

क॒विर॒भ्रं दीद्या᳚नः ||{4/10}{10.20.4}{10.2.4.4}{7.7.2.4}{188, 857, 8986}

अ॒र्यः¦वि॒शा‌म्¦गा॒तुः¦ए॒ति॒¦प्र¦यत्¦आन॑ट्¦दि॒वः¦अन्ता॑न् | क॒विः¦अ॒भ्र‌म्¦दीद्या᳚नः ||

जु॒षद्ध॒व्या मानु॑षस्यो॒र्ध्वस्त॑स्था॒वृभ्वा᳚ य॒ज्ञे |{ऐंद्रो विमदः | अग्निः | गायत्री}

मि॒न्वन्‌ त्सद्म॑ पु॒र ए᳚ति ||{5/10}{10.20.5}{10.2.4.5}{7.7.2.5}{189, 857, 8987}

जु॒षत्¦ह॒व्या¦मानु॑षस्य¦ऊ॒र्ध्वः¦त॒स्थौ॒¦ऋभ्वा᳚¦य॒ज्ञे | मि॒न्वन्¦सद्म॑¦पु॒रः¦ए॒ति॒ ||

स हि क्षेमो᳚ ह॒विर्य॒ज्ञः श्रु॒ष्टीद॑स्य गा॒तुरे᳚ति |{ऐंद्रो विमदः | अग्निः | गायत्री}

अ॒ग्निं दे॒वा वाशी᳚मन्तम् ||{6/10}{10.20.6}{10.2.4.6}{7.7.2.6}{190, 857, 8988}

सः¦हि¦क्षेमः॑¦ह॒विः¦य॒ज्ञः¦श्रु॒ष्टी¦इत्¦अ॒स्य॒¦गा॒तुः¦ए॒ति॒ | अ॒ग्नि‌म्¦दे॒वाः¦वाशी᳚ऽमन्त‌म् ||

य॒ज्ञा॒साहं॒ दुव॑ इषे॒ऽग्निं पूर्व॑स्य॒ शेव॑स्य |{ऐंद्रो विमदः | अग्निः | गायत्री}

अद्रेः᳚ सू॒नुमा॒युमा᳚हुः ||{7/10}{10.20.7}{10.2.4.7}{7.7.3.1}{191, 857, 8989}

य॒ज्ञ॒ऽसह᳚‌म्¦दुवः॑¦इ॒षे॒¦अ॒ग्नि‌म्¦पूर्व॑स्य¦शेव॑स्य | अद्रेः᳚¦सू॒नु‌म्¦आ॒यु‌म्¦आ॒हुः॒ ||

नरो॒ ये के चा॒स्मदा विश्वेत्ते वा॒म आ स्युः॑ |{ऐंद्रो विमदः | अग्निः | गायत्री}

अ॒ग्निं ह॒विषा॒ वर्ध᳚न्तः ||{8/10}{10.20.8}{10.2.4.8}{7.7.3.2}{192, 857, 8990}

नरः॑¦ये¦के¦च॒¦अ॒स्मत्¦आ¦विश्वा᳚¦इत्¦ते¦वा॒मे¦आ¦स्यु॒रिति॑ स्युः | अ॒ग्नि‌म्¦ह॒विषा᳚¦वर्ध᳚न्तः ||

कृ॒ष्णः श्वे॒तो᳚ऽरु॒षो यामो᳚, अस्य ब्र॒ध्न ऋ॒ज्र उ॒त शोणो॒ यश॑स्वान् |{ऐंद्रो विमदः | अग्निः | विराट्}

हिर᳚ण्यरूपं॒ जनि॑ता जजान ||{9/10}{10.20.9}{10.2.4.9}{7.7.3.3}{193, 857, 8991}

कृ॒ष्णः¦श्वे॒तः¦अ॒रु॒षः¦यामः॑¦अ॒स्य॒¦ब्र॒ध्नः¦ऋ॒ज्रः¦उ॒त¦शोणः॑¦यश॑स्वान् | हिर᳚ण्यऽरूप‌म्¦जनि॑ता¦ज॒जा॒न॒ ||

ए॒वा ते᳚, अग्ने विम॒दो म॑नी॒षामूर्जो᳚ नपाद॒मृते᳚भिः स॒जोषाः᳚ |{ऐंद्रो विमदः | अग्निः | त्रिष्टुप्}

गिर॒ आ व॑क्षत्सुम॒तीरि॑या॒न इष॒मूर्जं᳚ सुक्षि॒तिं विश्व॒माभाः᳚ ||{10/10}{10.20.10}{10.2.4.10}{7.7.3.4}{194, 857, 8992}

ए॒व¦ते॒¦अ॒ग्ने॒¦वि॒ऽम॒दः¦म॒नी॒षा‌म्¦ऊर्जः॑¦न॒पा॒त्¦अ॒मृते᳚भिः¦स॒ऽजोषाः᳚ |
गिरः॑¦आ¦व॒क्ष॒त्¦सु॒ऽम॒तीः¦इ॒या॒नः¦इष᳚‌म्¦ऊर्ज᳚‌म्¦सु॒ऽक्षि॒ति‌म्¦विश्व᳚‌म्¦आ¦अ॒भा॒रित्य॑भाः ||

[21] आग्निंनेत्यष्टर्चस्य सूक्तस्यैंद्रो विमदोग्निरास्तारपंक्तिः |
आग्निं न स्ववृ॑क्तिभि॒र्होता᳚रं त्वा वृणीमहे |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः}

य॒ज्ञाय॑ स्ती॒र्णब᳚र्हिषे॒ वि वो॒ मदे᳚ शी॒रं पा᳚व॒कशो᳚चिषं॒ विव॑क्षसे ||{1/8}{10.21.1}{10.2.5.1}{7.7.4.1}{195, 858, 8993}

आ¦अ॒ग्नि‌म्¦न¦स्ववृ॑क्तिऽभिः¦होता᳚र‌म्¦त्वा॒¦वृ॒णी॒म॒हे॒ |
य॒ज्ञाय॑¦स्ती॒र्णऽब॑र्हिषे¦वि¦वः॒¦मदे᳚¦शी॒र‌म्¦पा॒व॒कऽशो᳚चिष‌म्¦विव॑क्षसे ||

त्वामु॒ ते स्वा॒भुवः॑ शु॒म्भन्त्यश्व॑राधसः |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः}

वेति॒ त्वामु॑प॒सेच॑नी॒ वि वो॒ मद॒ ऋजी᳚तिरग्न॒ आहु॑ति॒र्विव॑क्षसे ||{2/8}{10.21.2}{10.2.5.2}{7.7.4.2}{196, 858, 8994}

त्वा‌म्¦ऊँ॒ इति॑¦ते¦सु॒ऽआ॒भुवः॑¦शु॒म्भन्ति॑¦अश्व॑ऽराधसः |
वेति॑¦त्वा‌म्¦उ॒प॒ऽसेच॑नी¦वि¦वः॒¦मदे᳚¦ऋजी᳚तिः¦अ॒ग्ने॒¦आऽहु॑तिः¦विव॑क्षसे ||

त्वे ध॒र्माण॑ आसते जु॒हूभिः॑ सिञ्च॒तीरि॑व |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः}

कृ॒ष्णा रू॒पाण्यर्जु॑ना॒ वि वो॒ मदे॒ विश्वा॒, अधि॒ श्रियो᳚ धिषे॒ विव॑क्षसे ||{3/8}{10.21.3}{10.2.5.3}{7.7.4.3}{197, 858, 8995}

त्वे इति॑¦ध॒र्माणः॑¦आ॒स॒ते॒¦जु॒हूभिः॑¦सिं॒च॒तीःऽ‌इ᳚व |
कृ॒ष्णा¦रू॒पाणि॑¦अर्जु॑ना¦वि¦वः॒¦मदे᳚¦विश्वाः᳚¦अधि॑¦श्रियः॑¦धि॒षे॒¦विव॑क्षसे ||

यम॑ग्ने॒ मन्य॑से र॒यिं सह॑सावन्नमर्त्य |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः}

तमा नो॒ वाज॑सातये॒ वि वो॒ मदे᳚ य॒ज्ञेषु॑ चि॒त्रमा भ॑रा॒ विव॑क्षसे ||{4/8}{10.21.4}{10.2.5.4}{7.7.4.4}{198, 858, 8996}

य‌म्¦अ॒ग्ने॒¦मन्य॑से¦र॒यि‌म्¦सह॑साऽवन्¦अ॒म॒र्त्य॒ |
त‌म्¦आ¦नः॒¦वाज॑ऽसातये¦वि¦वः॒¦मदे᳚¦य॒ज्ञेषु॑¦चि॒त्र‌म्¦आ¦भ॒र॒¦विव॑क्षसे ||

अ॒ग्निर्जा॒तो, अथ᳚र्वणा वि॒दद्विश्वा᳚नि॒ काव्या᳚ |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः}

भुव॑द्दू॒तो वि॒वस्व॑तो॒ वि वो॒ मदे᳚ प्रि॒यो य॒मस्य॒ काम्यो॒ विव॑क्षसे ||{5/8}{10.21.5}{10.2.5.5}{7.7.4.5}{199, 858, 8997}

अ॒ग्निः¦जा॒तः¦अथ᳚र्वणा¦वि॒दत्¦विश्वा᳚नि¦काव्या᳚ |
भुव॑त्¦दू॒तः¦वि॒वस्व॑तः¦वि¦वः॒¦मदे᳚¦प्रि॒यः¦य॒मस्य॑¦काम्यः॑¦विव॑क्षसे ||

त्वां य॒ज्ञेष्वी᳚ळ॒तेऽग्ने᳚ प्रय॒त्य॑ध्व॒रे |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः}

त्वं वसू᳚नि॒ काम्या॒ वि वो॒ मदे॒ विश्वा᳚ दधासि दा॒शुषे॒ विव॑क्षसे ||{6/8}{10.21.6}{10.2.5.6}{7.7.5.1}{200, 858, 8998}

त्वा‌म्¦य॒ज्ञेषु॑¦ई॒ळ॒ते॒¦अग्ने᳚¦प्र॒ऽय॒ति¦अ॒ध्व॒रे |
त्व‌म्¦वसू᳚नि¦काम्या᳚¦वि¦वः॒¦मदे᳚¦विश्वा᳚¦द॒धा॒सि॒¦दा॒शुषे᳚¦विव॑क्षसे ||

त्वां य॒ज्ञेष्वृ॒त्विजं॒ चारु॑मग्ने॒ नि षे᳚दिरे |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः}

घृ॒तप्र॑तीकं॒ मनु॑षो॒ वि वो॒ मदे᳚ शु॒क्रं चेति॑ष्ठम॒क्षभि॒र्विव॑क्षसे ||{7/8}{10.21.7}{10.2.5.7}{7.7.5.2}{201, 858, 8999}

त्वा‌म्¦य॒ज्ञेषु॑¦ऋ॒त्विज᳚‌म्¦चारु᳚‌म्¦अ॒ग्ने॒¦नि¦से॒दि॒रे॒ |
घृ॒तऽप्र॑तीक‌म्¦मनु॑षः¦वि¦वः॒¦मदे᳚¦शु॒क‌म्¦चेति॑ष्ठ‌म्¦अ॒क्षऽभिः॑¦विव॑क्षसे ||

अग्ने᳚ शु॒क्रेण॑ शो॒चिषो॒रु प्र॑थयसे बृ॒हत् |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः}

अ॒भि॒क्रन्द᳚न्‌ वृषायसे॒ वि वो॒ मदे॒ गर्भं᳚ दधासि जा॒मिषु॒ विव॑क्षसे ||{8/8}{10.21.8}{10.2.5.8}{7.7.5.3}{202, 858, 9000}

अग्ने᳚¦शु॒क्रेण॑¦शो॒चिषा᳚¦उ॒रु¦प्र॒थ॒य॒से॒¦बृ॒हत् |
अ॒भि॒ऽक्रन्द॑न्¦वृ॒ष॒ऽय॒से॒¦वि¦वः॒¦मदे᳚¦गर्भ᳚‌म्¦द॒धा॒सि॒¦जा॒मिषु॑¦विव॑क्षसे ||

[22] कुहश्रुतइति पंचदशर्चस्य सूक्तस्यैंद्रोविमदइंद्रः पुरस्ताद्बहती पंचमी सप्तमी नवम्योनुष्टुभोंत्यात्रिष्टुप् |
कुह॑ श्रु॒त इन्द्रः॒ कस्मि᳚न्न॒द्य जने᳚ मि॒त्रो न श्रू᳚यते |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

ऋषी᳚णां वा॒ यः, क्षये॒ गुहा᳚ वा॒ चर्कृ॑षे गि॒रा ||{1/15}{10.22.1}{10.2.6.1}{7.7.6.1}{203, 859, 9001}

कुह॑¦श्रु॒तः¦इन्द्रः॑¦कस्मि॑न्¦अ॒द्य¦जने᳚¦मि॒त्रः¦न¦श्रू॒य॒ते॒ |
ऋषी᳚णा‌म्¦वा॒¦यः¦क्षये᳚¦गुहा᳚¦वा॒¦चर्कृ॑षे¦गि॒रा ||

इ॒ह श्रु॒त इन्द्रो᳚, अ॒स्मे, अ॒द्य स्तवे᳚ व॒ज्र्यृची᳚षमः |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

मि॒त्रो न यो जने॒ष्वा यश॑श्च॒क्रे, असा॒म्या ||{2/15}{10.22.2}{10.2.6.2}{7.7.6.2}{204, 859, 9002}

इ॒ह¦श्रु॒तः¦इन्द्रः॑¦अ॒स्मे इति॑¦अ॒द्य¦स्तवे᳚¦व॒ज्री¦ऋची᳚षमः |
मि॒त्रः¦न¦यः¦जने᳚षु¦आ¦यशः॑¦च॒क्रे¦असा᳚मि¦आ ||

म॒हो यस्पतिः॒ शव॑सो॒, असा॒म्या म॒हो नृ॒म्णस्य॑ तूतु॒जिः |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

भ॒र्ता वज्र॑स्य धृ॒ष्णोः पि॒ता पु॒त्रमि॑व प्रि॒यम् ||{3/15}{10.22.3}{10.2.6.3}{7.7.6.3}{205, 859, 9003}

म॒हः¦यः¦पतिः॑¦शव॑सः¦असा᳚मि¦आ¦म॒हः¦नृ॒म्णस्य॑¦तू॒तु॒जिः |
भ॒र्ता¦वज्र॑स्य¦धृ॒ष्णोः¦पि॒ता¦पु॒त्र‌म्ऽ‌इ᳚व¦प्रि॒य‌म् ||

यु॒जा॒नो, अश्वा॒ वात॑स्य॒ धुनी᳚ दे॒वो दे॒वस्य॑ वज्रिवः |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

स्यन्ता᳚ प॒था वि॒रुक्म॑ता सृजा॒नः स्तो॒ष्यध्व॑नः ||{4/15}{10.22.4}{10.2.6.4}{7.7.6.4}{206, 859, 9004}

यु॒जा॒नः¦अश्वा᳚¦वात॑स्य¦धुनी॒ इति॑¦दे॒वः¦दे॒वस्य॑¦व॒ज्रि॒ऽवः॒ |
स्यन्ता᳚¦प॒था¦वि॒रुक्म॑ता¦सृ॒जा॒नः¦स्तो॒षि॒¦अध्व॑नः ||

त्वं त्या चि॒द्वात॒स्याश्वागा᳚ ऋ॒ज्रा त्मना॒ वह॑ध्यै |{ऐंद्रो विमदः | इन्द्रः | अनुष्टुप्}

ययो᳚र्दे॒वो न मर्त्यो᳚ य॒न्ता नकि᳚र्वि॒दाय्यः॑ ||{5/15}{10.22.5}{10.2.6.5}{7.7.6.5}{207, 859, 9005}

त्व‌म्¦त्या¦चि॒त्¦वात॑स्य¦अश्वा᳚¦आ¦अ॒गाः॒¦ऋ॒ज्रा¦त्मना᳚¦वह॑ध्यै | ययोः᳚¦दे॒वः¦न¦मर्त्यः॑¦य॒न्ता¦नकिः॑¦वि॒दाय्यः॑ ||

अध॒ ग्मन्तो॒शना᳚ पृच्छते वां॒ कद॑र्था न॒ आ गृ॒हम् |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

आ ज॑ग्मथुः परा॒काद्दि॒वश्च॒ ग्मश्च॒ मर्त्य᳚म् ||{6/15}{10.22.6}{10.2.6.6}{7.7.7.1}{208, 859, 9006}

अध॑¦ग्मन्ता᳚¦उ॒शना᳚¦पृ॒च्छ॒ते॒¦वा॒‌म्¦कत्।आ॑र्था¦नः॒¦आ¦गृ॒ह‌म् |
आ¦ज॒ग्म॒थुः॒¦प॒रा॒कात्¦दि॒वः¦च॒¦ग्मः¦च॒¦मर्त्य᳚‌म् ||

आ न॑ इन्द्र पृक्षसे॒ऽस्माकं॒ ब्रह्मोद्य॑तम् |{ऐंद्रो विमदः | इन्द्रः | अनुष्टुप्}

तत्‌ त्वा᳚ याचाम॒हेऽवः॒ शुष्णं॒ यद्धन्नमा᳚नुषम् ||{7/15}{10.22.7}{10.2.6.7}{7.7.7.2}{209, 859, 9007}

आ¦नः॒¦इ॒न्द्र॒¦पृ॒क्ष॒से॒¦अ॒स्माक᳚‌म्¦ब्रह्म॑¦उत्ऽय॑त‌म् | तत्¦त्वा॒¦या॒चा॒म॒हे॒¦अवः॑¦शुष्ण᳚‌म्¦यत्¦हन्¦अमा᳚नुष‌म् ||

अ॒क॒र्मा दस्यु॑र॒भि नो᳚, अम॒न्तुर॒न्यव्र॑तो॒, अमा᳚नुषः |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

त्वं तस्या᳚मित्रह॒न्वध॑र्दा॒सस्य॑ दम्भय ||{8/15}{10.22.8}{10.2.6.8}{7.7.7.3}{210, 859, 9008}

अ॒क॒र्मा¦दसुः॑¦अ॒भि¦नः॒¦अ॒म॒न्तुः¦अ॒न्यऽव्र॑तः¦अमा᳚नुषः |
त्व‌म्¦तस्य॑¦अ॒मि॒त्र॒ऽह॒न्¦वधः॑¦दा॒सस्य॑¦द॒म्भ॒य॒ ||

त्वं न॑ इन्द्र शूर॒ शूरै᳚रु॒त त्वोता᳚सो ब॒र्हणा᳚ |{ऐंद्रो विमदः | इन्द्रः | अनुष्टुप्}

पु॒रु॒त्रा ते॒ वि पू॒र्तयो॒ नव᳚न्त क्षो॒णयो᳚ यथा ||{9/15}{10.22.9}{10.2.6.9}{7.7.7.4}{211, 859, 9009}

त्व‌म्¦नः॒¦इ॒न्द्र॒¦शू॒र॒¦शूरैः᳚¦उ॒त¦त्वाऽऊ᳚तासः¦ब॒र्हना᳚ | पु॒रु॒ऽत्रा¦ते॒¦वि¦पू॒र्तयः॑¦नव᳚न्त¦क्षो॒णयः॑¦य॒था॒ ||

त्वं तान्‌ वृ॑त्र॒हत्ये᳚ चोदयो॒ नॄन्‌ का᳚र्पा॒णे शू᳚र वज्रिवः |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

गुहा॒ यदी᳚ कवी॒नां वि॒शां नक्ष॑त्रशवसाम् ||{10/15}{10.22.10}{10.2.6.10}{7.7.7.5}{212, 859, 9010}

त्व‌म्¦तान्¦वृ॒त्र॒ऽहत्ये᳚¦चो॒दय॒ः॒¦नॄन्¦का॒र्पा॒णे¦शू॒र॒¦व॒ज्रि॒ऽवः॒ |
गुहा᳚¦यदि॑¦क॒वी॒ना‌म्¦वि॒शा‌म्¦नक्ष॑त्रऽशवसा‌म् ||

म॒क्षू ता त॑ इन्द्र दा॒नाप्न॑स आक्षा॒णे शू᳚र वज्रिवः |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

यद्ध॒ शुष्ण॑स्य द॒म्भयो᳚ जा॒तं विश्वं᳚ स॒याव॑भिः ||{11/15}{10.22.11}{10.2.6.11}{7.7.8.1}{213, 859, 9011}

म॒क्षु¦ता¦ते॒¦इ॒न्द्र॒¦दा॒न।आ॑प्नसः¦आ॒क्षा॒णे¦शू॒र॒¦व॒ज्रि॒ऽवः॒ |
यत्¦ह॒¦शुष्ण॑स्य¦द॒म्भयः॑¦जा॒त‌म्¦विश्व᳚‌म्¦स॒याव॑ऽभिः ||

माकु॒ध्र्य॑गिन्द्र शूर॒ वस्वी᳚र॒स्मे भू᳚वन्न॒भिष्ट॑यः |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

व॒यंव॑यं त आसां सु॒म्ने स्या᳚म वज्रिवः ||{12/15}{10.22.12}{10.2.6.12}{7.7.8.2}{214, 859, 9012}

मा¦अ॒कु॒ध्र्य॑क्¦इ॒न्द्र॒¦शू॒र॒¦वस्वीः᳚¦अ॒स्मे इति॑¦भू॒व॒न्¦अ॒भिष्ट॑यः |
व॒य‌म्ऽव॑य‌म्¦ते॒¦आ॒सा॒‌म्¦सु॒म्ने¦स्या॒म॒¦व॒ज्रि॒ऽवः॒ ||

अ॒स्मे ता त॑ इन्द्र सन्तु स॒त्याहिं᳚सन्तीरुप॒स्पृशः॑ |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

वि॒द्याम॒ यासां॒ भुजो᳚ धेनू॒नां न व॑ज्रिवः ||{13/15}{10.22.13}{10.2.6.13}{7.7.8.3}{215, 859, 9013}

अ॒स्मे इति॑¦ता¦ते॒¦इ॒न्द्र॒¦स॒न्तु॒¦स॒त्या¦अहिं᳚सन्तीः¦उ॒प॒ऽस्पृषः॑ |
वि॒द्याम॑¦यासा᳚‌म्¦भुजः॑¦धे॒नू॒ना‌म्¦न¦व॒ज्रि॒ऽवः॒ ||

अ॒ह॒स्ता यद॒पदी॒ वर्ध॑त॒ क्षाः शची᳚भिर्वे॒द्याना᳚म् |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

शुष्णं॒ परि॑ प्रदक्षि॒णिद्वि॒श्वाय॑वे॒ नि शि॑श्नथः ||{14/15}{10.22.14}{10.2.6.14}{7.7.8.4}{216, 859, 9014}

अ॒ह॒स्ता¦यत्¦अ॒पदी᳚¦वर्ध॑त¦क्षाः¦शची᳚भिः¦वे॒द्याना᳚‌म् |
शुष्ण᳚‌म्¦परि॑¦प्र॒ऽद॒क्षि॒णित्¦वि॒श्वऽआ᳚यवे¦नि¦शि॒श्न॒थः॒ ||

पिबा᳚पि॒बेदि᳚न्द्र शूर॒ सोमं॒ मा रि॑षण्यो वसवान॒ वसुः॒ सन् |{ऐंद्रो विमदः | इन्द्रः | त्रिष्टुप्}

उ॒त त्रा᳚यस्व गृण॒तो म॒घोनो᳚ म॒हश्च॑ रा॒यो रे॒वत॑स्कृधी नः ||{15/15}{10.22.15}{10.2.6.15}{7.7.8.5}{217, 859, 9015}

पिब॑ऽपिब¦इत्¦इ॒न्द्र॒¦शू॒र॒¦सोम᳚‌म्¦मा¦रि॒ष॒ण्यः॒¦व॒स॒वा॒न॒¦वसुः॑¦सन् |
उ॒त¦त्रा॒य॒स्व॒¦गृ॒ण॒तः¦म॒घोनः॑¦म॒हः¦च॒¦रा॒यः¦रे॒वतः॑¦कृ॒धि॒¦नः॒ ||

[23] यजामहइति सप्तर्चस्य सूक्तस्यैंद्रो विमदइंद्रोजगत्याद्यांत्येत्रिष्टुभौ पंचम्यभिसारिणी |
यजा᳚मह॒ इन्द्रं॒ वज्र॑दक्षिणं॒ हरी᳚णां र॒थ्य१॑(अं॒) विव्र॑तानाम् |{ऐंद्रो विमदः | इन्द्रः | त्रिष्टुप्}

प्र श्मश्रु॒ दोधु॑वदू॒र्ध्वथा᳚ भू॒द्वि सेना᳚भि॒र्दय॑मानो॒ वि राध॑सा ||{1/7}{10.23.1}{10.2.7.1}{7.7.9.1}{218, 860, 9016}

यजा᳚महे¦इन्द्र᳚‌म्¦वज्र॑ऽदक्षिण‌म्¦हरी᳚ना‌म्¦र॒थ्य᳚‌म्¦विऽव्र॑ताना‌म् |
प्र¦श्मश्रु॑¦दोधु॑वत्¦ऊ॒र्ध्वऽथा᳚¦भू॒त्¦वि¦सेना᳚भिः¦दय॑मानः¦वि¦राध॑सा ||

हरी॒ न्व॑स्य॒ या वने᳚ वि॒दे वस्विन्द्रो᳚ म॒घैर्म॒घवा᳚ वृत्र॒हा भु॑वत् |{ऐंद्रो विमदः | इन्द्रः | जगती}

ऋ॒भुर्वाज॑ ऋभु॒क्षाः प॑त्यते॒ शवोऽव॑ क्ष्णौमि॒ दास॑स्य॒ नाम॑ चित् ||{2/7}{10.23.2}{10.2.7.2}{7.7.9.2}{219, 860, 9017}

हरी॒ इति॑¦नु¦अ॒स्य॒¦या¦वने᳚¦वि॒दे¦वसु॑¦इन्द्रः॑¦म॒घैः¦म॒घऽवा᳚¦वृ॒त्र॒ऽहा¦भु॒व॒त् |
ऋ॒भुः¦वाजः॑¦ऋ॒भु॒क्षाः¦प॒त्य॒ते॒¦शवः॑¦अव॑¦क्ष्णौ॒मि॒¦दास॑स्य¦नाम॑¦चि॒त् ||

य॒दा वज्रं॒ हिर᳚ण्य॒मिदथा॒ रथं॒ हरी॒ यम॑स्य॒ वह॑तो॒ वि सू॒रिभिः॑ |{ऐंद्रो विमदः | इन्द्रः | जगती}

आ ति॑ष्ठति म॒घवा॒ सन॑श्रुत॒ इन्द्रो॒ वाज॑स्य दी॒र्घश्र॑वस॒स्पतिः॑ ||{3/7}{10.23.3}{10.2.7.3}{7.7.9.3}{220, 860, 9018}

य॒दा¦वज्र᳚‌म्¦हिर᳚ण्य‌म्¦इत्¦अथ॑¦रथ᳚‌म्¦हरी॒ इति॑¦य‌म्¦अ॒स्य॒¦वह॑तः¦वि¦सू॒रिऽभिः॑ |
आ¦ति॒ष्ठ॒ति॒¦म॒घऽवा᳚¦सन॑ऽश्रुतः¦इन्द्रः॑¦वाज॑स्य¦दी॒र्घऽश्र॑वसः¦पतिः॑ ||

सो चि॒न्नु वृ॒ष्टिर्यू॒थ्या॒३॑(आ॒) स्वा सचाँ॒, इन्द्रः॒ श्मश्रू᳚णि॒ हरि॑ता॒भि प्रु॑ष्णुते |{ऐंद्रो विमदः | इन्द्रः | जगती}

अव॑ वेति सु॒क्षयं᳚ सु॒ते मधूदिद्धू᳚नोति॒ वातो॒ यथा॒ वन᳚म् ||{4/7}{10.23.4}{10.2.7.4}{7.7.9.4}{221, 860, 9019}

सो इति॑¦चि॒त्¦नु¦वृ॒ष्टिः¦यू॒थ्या᳚¦स्वा¦सचा᳚¦इन्द्रः॑¦श्मश्रू᳚णि¦हरि॑ता¦अ॒भि¦प्रु॒ष्णु॒ते॒ |
अव॑¦वे॒ति॒¦सु॒ऽक्षय᳚‌म्¦सु॒ते¦मधु॑¦उत्¦इत्¦धू॒नो॒ति॒¦वातः॑¦यथा᳚¦वन᳚‌म् ||

यो वा॒चा विवा᳚चो मृ॒ध्रवा᳚चः पु॒रू स॒हस्राशि॑वा ज॒घान॑ |{ऐंद्रो विमदः | इन्द्रः | अभिसारिणी}

तत्त॒दिद॑स्य॒ पौंस्यं᳚ गृणीमसि पि॒तेव॒ यस्तवि॑षीं वावृ॒धे शवः॑ ||{5/7}{10.23.5}{10.2.7.5}{7.7.9.5}{222, 860, 9020}

यः¦वा॒चा¦विऽवा᳚चः¦मृ॒ध्रऽवा᳚चः¦पु॒रु¦स॒हस्रा᳚¦असि॑वा¦ज॒घान॑ |
तत्ऽत॑त्¦इत्¦अ॒स्य॒¦पौंस्य᳚‌म्¦गृ॒णी॒म॒सि॒¦पि॒ताऽ‌इ᳚व¦यः¦तवि॑षी‌म्¦व॒वृ॒धे¦शवः॑ ||

स्तोमं᳚ त इन्द्र विम॒दा, अ॑जीजन॒न्नपू᳚र्व्यं पुरु॒तमं᳚ सु॒दान॑वे |{ऐंद्रो विमदः | इन्द्रः | जगती}

वि॒द्मा ह्य॑स्य॒ भोज॑नमि॒नस्य॒ यदा प॒शुं न गो॒पाः क॑रामहे ||{6/7}{10.23.6}{10.2.7.6}{7.7.9.6}{223, 860, 9021}

स्तोम᳚‌म्¦ते॒¦इ॒न्द्र॒¦वि॒ऽम॒दाः¦अ॒जी॒ज॒न॒न्¦अपू᳚र्व्य‌म्¦पु॒रु॒ऽतम᳚‌म्¦सु॒ऽदान॑वे |
वि॒द्म¦हि¦अ॒स्य॒¦भोज॑न‌म्¦इ॒नस्य॑¦यत्¦आ¦प॒शु‌म्¦न¦गो॒पाः¦क॒रा॒म॒हे॒ ||

माकि᳚र्न ए॒ना स॒ख्या वि यौ᳚षु॒स्तव॑ चेन्द्र विम॒दस्य॑ च॒ ऋषेः᳚ |{ऐंद्रो विमदः | इन्द्रः | त्रिष्टुप्}

वि॒द्मा हि ते॒ प्रम॑तिं देव जामि॒वद॒स्मे ते᳚ सन्तु स॒ख्या शि॒वानि॑ ||{7/7}{10.23.7}{10.2.7.7}{7.7.9.7}{224, 860, 9022}

माकिः॑¦नः॒¦ए॒ना¦स॒ख्या¦वि¦यौ॒षुः॒¦तव॑¦च॒¦इ॒न्द्र॒¦वि॒ऽम॒दस्य॑¦च॒¦ऋषेः᳚ |
वि॒द्म¦हि¦ते॒¦प्रऽम॑ति‌म्¦दे॒व॒¦जा॒मि॒ऽवत्¦अ॒स्मे इति॑¦ते॒¦स॒न्तु॒¦स॒ख्या¦शि॒वानि॑ ||

[24] इंद्रसोममिति षडृचस्य सूक्तस्यैंद्रो विमदइंद्रोंत्यस्तिसृणामश्विनावास्तारपंक्तिः अंत्यास्तिस्रोनुष्टुभः |
इन्द्र॒ सोम॑मि॒मं पि॑ब॒ मधु॑मन्तं च॒मू सु॒तम् |{ऐंद्रो विमदः | इन्द्रः | आस्तारपङ्क्ति}

अ॒स्मे र॒यिं नि धा᳚रय॒ वि वो॒ मदे᳚ सह॒स्रिणं᳚ पुरूवसो॒ विव॑क्षसे ||{1/6}{10.24.1}{10.2.8.1}{7.7.10.1}{225, 861, 9023}

इन्द्र॑¦सोम᳚‌म्¦इ॒म‌म्¦पि॒ब॒¦मधु॑ऽमन्त‌म्¦च॒मू इति॑¦सु॒त‌म् |
अ॒स्मे इति॑¦र॒यि‌म्¦नि¦धा॒र॒य॒¦वि¦वः॒¦मदे᳚¦स॒ह॒स्रिण᳚‌म्¦पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो¦विव॑क्षसे ||

त्वां य॒ज्ञेभि॑रु॒क्थैरुप॑ ह॒व्येभि॑रीमहे |{ऐंद्रो विमदः | इन्द्रः | आस्तारपङ्क्ति}

शची᳚पते शचीनां॒ वि वो॒ मदे॒ श्रेष्ठं᳚ नो धेहि॒ वार्यं॒ विव॑क्षसे ||{2/6}{10.24.2}{10.2.8.2}{7.7.10.2}{226, 861, 9024}

त्वा‌म्¦य॒ज्ञेभिः॑¦उ॒क्थैः¦उप॑¦ह॒व्येभिः॑¦ई॒म॒हे॒ |
शची᳚ऽपते¦श॒ची॒न॒‌म्¦वि¦वः॒¦मदे᳚¦श्रेष्ठ᳚‌म्¦नः॒¦धे॒हि॒¦वार्य᳚‌म्¦विव॑क्षसे ||

यस्पति॒र्वार्या᳚णा॒मसि॑ र॒ध्रस्य॑ चोदि॒ता |{ऐंद्रो विमदः | इन्द्रः | आस्तारपङ्क्ति}

इन्द्र॑ स्तोतॄ॒णाम॑वि॒ता वि वो॒ मदे᳚ द्वि॒षो नः॑ पा॒ह्यंह॑सो॒ विव॑क्षसे ||{3/6}{10.24.3}{10.2.8.3}{7.7.10.3}{227, 861, 9025}

यः¦पति᳚‌म्¦वार्या᳚णा‌म्¦असि॑¦र॒ध्रस्य॑¦चो॒दि॒ता |
इन्द्र॑¦स्तो॒तॄ॒णा‌म्¦अ॒वि॒ता¦वि¦वः॒¦मदे᳚¦द्वि॒षः¦नः॒¦पा॒हि॒¦अंह॑सः¦विव॑क्षसे ||

यु॒वं श॑क्रा माया॒विना᳚ समी॒ची निर॑मन्थतम् |{ऐंद्रो विमदः | अश्विनौ | अनुष्टुप्}

वि॒म॒देन॒ यदी᳚ळि॒ता नास॑त्या नि॒रम᳚न्थतम् ||{4/6}{10.24.4}{10.2.8.4}{7.7.10.4}{228, 861, 9026}

यु॒व‌म्¦श॒क्रा॒¦मा॒या॒ऽविना᳚¦स॒मी॒ची इति॑ स॒‌म्ऽई॒ची¦निः¦अ॒म॒न्थ॒त॒‌म् | वि॒ऽम॒देन॑¦यत्¦ई॒ळि॒ता¦नास॑त्या¦निः॒।आम᳚न्थत‌म् ||

विश्वे᳚ दे॒वा, अ॑कृपन्त समी॒च्योर्नि॒ष्पत᳚न्त्योः |{ऐंद्रो विमदः | अश्विनौ | अनुष्टुप्}

नास॑त्यावब्रुवन्दे॒वाः पुन॒रा व॑हता॒दिति॑ ||{5/6}{10.24.5}{10.2.8.5}{7.7.10.5}{229, 861, 9027}

विश्वे᳚¦दे॒वाः¦अ॒कृ॒प॒न्त॒¦स॒‌म्ऽई॒च्योः¦निः॒ऽपत᳚न्त्योः | नास॑त्यौ¦अ॒ब्रु॒व॒न्¦दे॒वाः¦पुनः॑¦आ¦व॒ह॒ता॒त्¦इति॑ ||

मधु॑मन्मे प॒राय॑णं॒ मधु॑म॒त्पुन॒राय॑नम् |{ऐंद्रो विमदः | अश्विनौ | अनुष्टुप्}

ता नो᳚ देवा दे॒वत॑या यु॒वं मधु॑मतस्कृतम् ||{6/6}{10.24.6}{10.2.8.6}{7.7.10.6}{230, 861, 9028}

मधु॑ऽमत्¦मे॒¦प॒रा॒।आय॑ण‌म्¦मधु॑ऽमत्¦पुनः॑¦आ॒।आय॑न‌म् | ता¦नः॒¦दे॒वा॒¦दे॒वत॑या¦यु॒व‌म्¦मधु॑ऽमतः¦कृ॒त॒‌म् ||

[25] भद्रमित्येकादशर्चस्य सूक्तस्यैंद्रोविमदः सोमआस्तारपंक्तिः |
भ॒द्रं नो॒, अपि॑ वातय॒ मनो॒ दक्ष॑मु॒त क्रतु᳚म् |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

अधा᳚ ते स॒ख्ये, अन्ध॑सो॒ वि वो॒ मदे॒ रण॒न्‌ गावो॒ न यव॑से॒ विव॑क्षसे ||{1/11}{10.25.1}{10.2.9.1}{7.7.11.1}{231, 862, 9029}

भ॒द्र‌म्¦नः॒¦अपि॑¦वा॒त॒य॒¦मनः॑¦दक्ष᳚‌म्¦उ॒त¦क्रतु᳚‌म् |
अध॑¦ते॒¦स॒ख्ये¦अन्ध॑सः¦वि¦वः॒¦मदे᳚¦रण॑न्¦गावः॑¦न¦यव॑से¦विव॑क्षसे ||

हृ॒दि॒स्पृश॑स्त आसते॒ विश्वे᳚षु सोम॒ धाम॑सु |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

अधा॒ कामा᳚, इ॒मे मम॒ वि वो॒ मदे॒ वि ति॑ष्ठन्ते वसू॒यवो॒ विव॑क्षसे ||{2/11}{10.25.2}{10.2.9.2}{7.7.11.2}{232, 862, 9030}

हृ॒दि॒ऽस्पृशः॑¦ते॒¦आ॒स॒ते॒¦विश्वे᳚षु¦सो॒म॒¦धाम॑ऽसु |
अध॑¦कामाः᳚¦इ॒मे¦मम॑¦वि¦वः॒¦मदे᳚¦वि¦ति॒ष्ठ॒न्ते॒¦व॒सु॒ऽयवः॑¦विव॑क्षसे ||

उ॒त व्र॒तानि॑ सोम ते॒ प्राहं मि॑नामि पा॒क्या᳚ |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

अधा᳚ पि॒तेव॑ सू॒नवे॒ वि वो॒ मदे᳚ मृ॒ळा नो᳚, अ॒भि चि॑द्व॒धाद्विव॑क्षसे ||{3/11}{10.25.3}{10.2.9.3}{7.7.11.3}{233, 862, 9031}

उ॒त¦व्र॒तानि॑¦सो॒म॒¦ते॒¦प्र¦अ॒ह‌म्¦मि॒ना॒मि॒¦पा॒क्या᳚ |
अध॑¦पि॒ताऽ‌इ᳚व¦सू॒नवे᳚¦वि¦वः॒¦मदे᳚¦मृ॒ळ¦नः॒¦अ॒भि¦चि॒त्¦व॒धात्¦विव॑क्षसे ||

समु॒ प्र य᳚न्ति धी॒तयः॒ सर्गा᳚सोऽव॒ताँ, इ॑व |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

क्रतुं᳚ नः सोम जी॒वसे॒ वि वो॒ मदे᳚ धा॒रया᳚ चम॒साँ, इ॑व॒ विव॑क्षसे ||{4/11}{10.25.4}{10.2.9.4}{7.7.11.4}{234, 862, 9032}

स‌म्¦ऊँ॒ इति॑¦प्र¦य॒न्ति॒¦धी॒तयः॑¦सर्गा᳚सः¦अ॒व॒तान्ऽ‌इ᳚व |
क्रतु᳚‌म्¦नः॒¦सो॒म॒¦जी॒वसे᳚¦वि¦वः॒¦मदे᳚¦धा॒रय॑¦च॒म॒सान्ऽ‌इ᳚व¦विव॑क्षसे ||

तव॒ त्ये सो᳚म॒ शक्ति॑भि॒र्निका᳚मासो॒ व्यृ᳚ण्विरे |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

गृत्स॑स्य॒ धीरा᳚स्त॒वसो॒ वि वो॒ मदे᳚ व्र॒जं गोम᳚न्तम॒श्विनं॒ विव॑क्षसे ||{5/11}{10.25.5}{10.2.9.5}{7.7.11.5}{235, 862, 9033}

तव॑¦त्ये¦सो॒म॒¦शक्ति॑ऽभिः¦निऽका᳚मासः¦वि¦ऋ॒ण्वि॒रे॒ |
गृत्स॑स्य¦धीराः᳚¦त॒वसः॑¦वि¦वः॒¦मदे᳚¦व्र॒ज‌म्¦गोऽम᳚न्त‌म्¦अ॒श्विन᳚‌म्¦विव॑क्षसे ||

प॒शुं नः॑ सोम रक्षसि पुरु॒त्रा विष्ठि॑तं॒ जग॑त् |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

स॒माकृ॑णोषि जी॒वसे॒ वि वो॒ मदे॒ विश्वा᳚ स॒म्पश्य॒न्‌ भुव॑ना॒ विव॑क्षसे ||{6/11}{10.25.6}{10.2.9.6}{7.7.12.1}{236, 862, 9034}

प॒शु‌म्¦नः॒¦सो॒म॒¦र॒क्ष॒सि॒¦पु॒रु॒ऽत्रा¦विऽस्थि॑त‌म्¦जग॑त् |
स॒‌म्ऽआकृ॑णोषि¦जी॒वसे᳚¦वि¦वः॒¦मदे᳚¦विश्वा᳚¦स॒‌म्ऽपश्य॑न्¦भुव॑ना¦विव॑क्षसे ||

त्वं नः॑ सोम वि॒श्वतो᳚ गो॒पा, अदा᳚भ्यो भव |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

सेध॑ राज॒न्नप॒ स्रिधो॒ वि वो॒ मदे॒ मा नो᳚ दुः॒शंस॑ ईशता॒ विव॑क्षसे ||{7/11}{10.25.7}{10.2.9.7}{7.7.12.2}{237, 862, 9035}

त्व‌म्¦नः॒¦सो॒म॒¦वि॒श्वतः॑¦गो॒पाः¦अदा᳚भ्यः¦भ॒व॒ |
सेध॑¦रा॒ज॒न्¦अप॑¦स्रिधः॑¦वि¦वः॒¦मदे᳚¦मा¦नः॒¦दुः॒ऽशंसः॑¦ई॒श॒त॒¦विव॑क्षसे ||

त्वं नः॑ सोम सु॒क्रतु᳚र्वयो॒धेया᳚य जागृहि |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

क्षे॒त्र॒वित्त॑रो॒ मनु॑षो॒ वि वो॒ मदे᳚ द्रु॒हो नः॑ पा॒ह्यंह॑सो॒ विव॑क्षसे ||{8/11}{10.25.8}{10.2.9.8}{7.7.12.3}{238, 862, 9036}

त्व‌म्¦नः॒¦सो॒म॒¦सु॒ऽक्रतुः॑¦व॒यः॒ऽधेया᳚य¦जा॒गृ॒हि॒ |
क्षे॒त्र॒वित्ऽत॑रः¦मनु॑षः¦वि¦वः॒¦मदे᳚¦द्रु॒हः¦नः॒¦पा॒हि॒¦अंह॑सः¦विव॑क्षसे ||

त्वं नो᳚ वृत्रहन्त॒मेन्द्र॑स्येन्दो शि॒वः सखा᳚ |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

यत्सीं॒ हव᳚न्ते समि॒थे वि वो॒ मदे॒ युध्य॑मानास्तो॒कसा᳚तौ॒ विव॑क्षसे ||{9/11}{10.25.9}{10.2.9.9}{7.7.12.4}{239, 862, 9037}

त्व‌म्¦नः॒¦वृ॒त्र॒ह॒न्ऽत॒म॒¦इन्द्र॑स्य¦इ॒न्दो॒ इति॑¦शि॒वः¦सखा᳚ |
यत्¦सी॒‌म्¦हव᳚न्ते¦स॒‌म्ऽ‌इ॒थे¦वि¦वः॒¦मदे᳚¦युध्य॑मानाः¦तो॒कऽसा᳚तौ¦विव॑क्षसे ||

अ॒यं घ॒ स तु॒रो मद॒ इन्द्र॑स्य वर्धत प्रि॒यः |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

अ॒यं क॒क्षीव॑तो म॒हो वि वो॒ मदे᳚ म॒तिं विप्र॑स्य वर्धय॒द्विव॑क्षसे ||{10/11}{10.25.10}{10.2.9.10}{7.7.12.5}{240, 862, 9038}

अ॒य‌म्¦घ॒¦सः¦तु॒रः¦मदः॑¦इन्द्र॑स्य¦व॒र्ध॒त॒¦प्रि॒यः |
अ॒य‌म्¦क॒क्षीव॑तः¦म॒हः¦वि¦वः॒¦मदे᳚¦म॒ति‌म्¦विप्र॑स्य¦व॒र्ध॒य॒त्¦विव॑क्षसे ||

अ॒यं विप्रा᳚य दा॒शुषे॒ वाजाँ᳚, इयर्ति॒ गोम॑तः |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

अ॒यं स॒प्तभ्य॒ आ वरं॒ वि वो॒ मदे॒ प्रान्धं श्रो॒णं च॑ तारिष॒द्विव॑क्षसे ||{11/11}{10.25.11}{10.2.9.11}{7.7.12.6}{241, 862, 9039}

अ॒य‌म्¦विप्रा᳚य¦दा॒शुषे᳚¦वाजा᳚न्¦इ॒य॒र्ति॒¦गोऽम॑तः |
अ॒य‌म्¦स॒प्तऽभ्यः॑¦आ¦वर᳚‌म्¦वि¦वः॒¦मदे᳚¦प्र¦अ॒न्ध‌म्¦श्रो॒ण‌म्¦च॒¦ता॒रि॒ष॒त्¦विव॑क्षसे ||

[26] प्रह्यच्छेति नवर्चस्य सूक्तस्यैंद्रो विमदः पूषानुष्टुप् आद्याचतुर्थ्यावुष्णिहौ |
प्र ह्यच्छा᳚ मनी॒षा स्पा॒र्हा यन्ति॑ नि॒युतः॑ |{ऐंद्रो विमदः | पूषा | उष्णिक्}

प्र द॒स्रा नि॒युद्र॑थः पू॒षा, अ॑विष्टु॒ माहि॑नः ||{1/9}{10.26.1}{10.2.10.1}{7.7.13.1}{242, 863, 9040}

प्र¦हि¦अच्छ॑¦म॒नी॒षाः¦स्पा॒र्हाः¦यन्ति॑¦नि॒ऽयुतः॑ | प्र¦द॒स्रा¦नि॒युत्ऽर॑थः¦पू॒षा¦अ॒वि॒ष्टु॒¦माहि॑नः ||

यस्य॒ त्यन्म॑हि॒त्वं वा॒ताप्य॑म॒यं जनः॑ |{ऐंद्रो विमदः | पूषा | अनुष्टुप्}

विप्र॒ आ वं᳚सद्धी॒तिभि॒श्चिके᳚त सुष्टुती॒नाम् ||{2/9}{10.26.2}{10.2.10.2}{7.7.13.2}{243, 863, 9041}

यस्य॑¦त्यत्¦म॒हि॒ऽत्व‌म्¦वा॒ताप्य᳚‌म्¦अ॒य‌म्¦जनः॑ | विप्रः॑¦आ¦वं॒स॒त्¦धी॒तिऽभिः॑¦चिके᳚त¦सु॒ऽस्तु॒ती॒ना‌म् ||

स वे᳚द सुष्टुती॒नामिन्दु॒र्न पू॒षा वृषा᳚ |{ऐंद्रो विमदः | पूषा | अनुष्टुप्}

अ॒भि प्सुरः॑ प्रुषायति व्र॒जं न॒ आ प्रु॑षायति ||{3/9}{10.26.3}{10.2.10.3}{7.7.13.3}{244, 863, 9042}

सः¦वे॒द॒¦सु॒ऽस्तु॒ती॒ना‌म्¦इन्दुः॑¦न¦पू॒षा¦वृषा᳚ | अ॒भि¦प्सुरः॑¦प्रु॒षा॒य॒ति॒¦व्र॒ज‌म्¦नः॒¦आ¦प्रु॒षा॒य॒ति॒ ||

मं॒सी॒महि॑ त्वा व॒यम॒स्माकं᳚ देव पूषन् |{ऐंद्रो विमदः | पूषा | उष्णिक्}

म॒ती॒नां च॒ साध॑नं॒ विप्रा᳚णां चाध॒वम् ||{4/9}{10.26.4}{10.2.10.4}{7.7.13.4}{245, 863, 9043}

मं॒सी॒महि॑¦त्वा॒¦व॒य‌म्¦अ॒स्माक᳚‌म्¦दे॒व॒¦पू॒ष॒न् | म॒ती॒ना‌म्¦च॒¦साध॑न‌म्¦विप्रा᳚णा‌म्¦च॒¦आ॒ऽध॒व‌म् ||

प्रत्य॑र्धिर्य॒ज्ञाना᳚मश्वह॒यो रथा᳚नाम् |{ऐंद्रो विमदः | पूषा | अनुष्टुप्}

ऋषिः॒ स यो मनु᳚र्हितो॒ विप्र॑स्य यावयत्स॒खः ||{5/9}{10.26.5}{10.2.10.5}{7.7.13.5}{246, 863, 9044}

प्रति॑।आर्धिः¦य॒ज्ञाना᳚‌म्¦अ॒श्व॒ऽह॒यः¦रथा᳚ना‌म् | ऋषिः॑¦सः¦यः¦मनुः॑ऽहितः¦विप्र॑स्य¦य॒व॒य॒त्ऽस॒खः ||

आ॒धीष॑माणायाः॒ पतिः॑ शु॒चाया᳚श्च शु॒चस्य॑ च |{ऐंद्रो विमदः | पूषा | अनुष्टुप्}

वा॒सो॒वा॒योऽवी᳚ना॒मा वासां᳚सि॒ मर्मृ॑जत् ||{6/9}{10.26.6}{10.2.10.6}{7.7.14.1}{247, 863, 9045}

आ॒ऽधीष॑माणायाः¦पतिः॑¦शु॒चायाः᳚¦च॒¦शु॒चस्य॑¦च॒ | वा॒सः॒ऽवा॒यः¦अवी᳚ना‌म्¦आ¦वासां᳚सि¦मर्मृ॑जत् ||

इ॒नो वाजा᳚नां॒ पति॑रि॒नः पु॑ष्टी॒नां सखा᳚ |{ऐंद्रो विमदः | पूषा | अनुष्टुप्}

प्र श्मश्रु॑ हर्य॒तो दू᳚धो॒द्वि वृथा॒ यो, अदा᳚भ्यः ||{7/9}{10.26.7}{10.2.10.7}{7.7.14.2}{248, 863, 9046}

इ॒नः¦वाजा᳚ना‌म्¦पतिः॑¦इ॒नः¦पु॒ष्टी॒ना‌म्¦सखा᳚ | प्र¦श्मश्रु॑¦ह॒र्य॒तः¦दू॒धो॒त्¦वि¦वृथा᳚¦यः¦अदा᳚भ्यः ||

आ ते॒ रथ॑स्य पूषन्न॒जा धुरं᳚ ववृत्युः |{ऐंद्रो विमदः | पूषा | अनुष्टुप्}

विश्व॑स्या॒र्थिनः॒ सखा᳚ सनो॒जा, अन॑पच्युतः ||{8/9}{10.26.8}{10.2.10.8}{7.7.14.3}{249, 863, 9047}

आ¦ते॒¦रथ॑स्य¦पू॒ष॒न्¦अ॒जाः¦धुर᳚‌म्¦व॒वृ॒त्युः॒ | विश्व॑स्य¦अ॒र्थिनः॑¦सखा᳚¦स॒नः॒ऽजाः¦अन॑पऽच्युतः ||

अ॒स्माक॑मू॒र्जा रथं᳚ पू॒षा, अ॑विष्टु॒ माहि॑नः |{ऐंद्रो विमदः | पूषा | अनुष्टुप्}

भुव॒द्वाजा᳚नां वृ॒ध इ॒मं नः॑ शृणव॒द्धव᳚म् ||{9/9}{10.26.9}{10.2.10.9}{7.7.14.4}{250, 863, 9048}

अ॒स्माक᳚‌म्¦ऊ॒र्जा¦रथ᳚‌म्¦पू॒षा¦अ॒वि॒ष्टु॒¦माहि॑नः | भुव॑त्¦वाजा᳚ना‌म्¦वृ॒धः¦इ॒म‌म्¦नः॒¦शृ॒ण॒व॒त्¦हव᳚‌म् ||

[27] असत्स्विति चतुर्विंशत्यृचस्य सूक्तस्यैंद्रोवसुक्रइंद्रस्त्रिष्टुप् |
अस॒त्सु मे᳚ जरितः॒ साभि॑वे॒गो यत्सु᳚न्व॒ते यज॑मानाय॒ शिक्ष᳚म् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

अना᳚शीर्दाम॒हम॑स्मि प्रह॒न्ता स॑त्य॒ध्वृतं᳚ वृजिना॒यन्त॑मा॒भुम् ||{1/24}{10.27.1}{10.2.11.1}{7.7.15.1}{251, 864, 9049}

अस॑त्¦सु¦मे॒¦ज॒रि॒त॒रिति॑¦सः¦अ॒भि॒ऽवे॒गः¦यत्¦सु॒न्व॒ते¦यज॑मानाय¦शिक्ष᳚‌म् |
अना᳚शीःऽदा‌म्¦अ॒ह‌म्¦अ॒स्मि॒¦प्र॒ऽह॒न्ता¦स॒त्य॒ऽध्वृत᳚‌म्¦वृ॒जि॒न॒ऽयन्त᳚‌म्¦आ॒भु‌म् ||

यदीद॒हं यु॒धये᳚ सं॒नया॒न्यदे᳚वयून्त॒न्वा॒३॑(आ॒) शूशु॑जानान् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

अ॒मा ते॒ तुम्रं᳚ वृष॒भं प॑चानि ती॒व्रं सु॒तं प᳚ञ्चद॒शं नि षि᳚ञ्चम् ||{2/24}{10.27.2}{10.2.11.2}{7.7.15.2}{252, 864, 9050}

यदि॑¦इत्¦अ॒ह‌म्¦यु॒धये᳚¦स॒‌म्ऽनया᳚नि¦अदे᳚वऽयून्¦त॒न्वा᳚¦शूशु॑जानान् |
अ॒मा¦ते॒¦तुम्र᳚‌म्¦वृ॒ष॒भ‌म्¦प॒चा॒नि॒¦ती॒व्र‌म्¦सु॒त‌म्¦पं॒च॒ऽद॒श‌म्¦नि¦सिं॒च॒‌म् ||

नाहं तं वे᳚द॒ य इति॒ ब्रवी॒त्यदे᳚वयून्‌ त्स॒मर॑णे जघ॒न्वान् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

य॒दावाख्य॑त्स॒मर॑ण॒मृघा᳚व॒दादिद्ध॑ मे वृष॒भा प्र ब्रु॑वन्ति ||{3/24}{10.27.3}{10.2.11.3}{7.7.15.3}{253, 864, 9051}

न¦अ॒ह‌म्¦त‌म्¦वे॒द॒¦यः¦इति॑¦ब्रवी᳚ति¦अदे᳚वऽयून्¦स॒‌म्।आर॑णे¦ज॒घ॒न्वान् |
य॒दा¦अ॒व॒।आख्य॑त्¦स॒‌म्।आर॑ण‌म्¦ऋघा᳚वत्¦आत्¦इत्¦ह॒¦मे॒¦वृ॒ष॒भा¦प्र¦ब्रु॒व॒न्ति॒ ||

यदज्ञा᳚तेषु वृ॒जने॒ष्वासं॒ विश्वे᳚ स॒तो म॒घवा᳚नो म आसन् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

जि॒नामि॒ वेत्‌ क्षेम॒ आ सन्त॑मा॒भुं प्र तं क्षि॑णां॒ पर्व॑ते पाद॒गृह्य॑ ||{4/24}{10.27.4}{10.2.11.4}{7.7.15.4}{254, 864, 9052}

यत्¦अज्ञा᳚तेषु¦वृ॒जने᳚षु¦आस᳚‌म्¦विश्वे᳚¦स॒तः¦म॒घऽवा᳚नः¦मे॒¦आ॒स॒न् |
जि॒नामि॑¦वा॒¦इत्¦क्षेमे᳚¦आ¦सन्त᳚‌म्¦आ॒भु‌म्¦प्र¦त‌म्¦क्षि॒णा॒‌म्¦पर्व॑ते¦पा॒द॒ऽगृह्य॑ ||

न वा, उ॒ मां वृ॒जने᳚ वारयन्ते॒ न पर्व॑तासो॒ यद॒हं म॑न॒स्ये |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

मम॑ स्व॒नात्कृ॑धु॒कर्णो᳚ भयात ए॒वेदनु॒ द्यून्‌ कि॒रणः॒ समे᳚जात् ||{5/24}{10.27.5}{10.2.11.5}{7.7.15.5}{255, 864, 9053}

न¦वै¦ऊँ॒ इति॑¦मा‌म्¦वृ॒जने᳚¦वा॒र॒य॒न्ते॒¦न¦पर्व॑तासः¦यत्¦अ॒ह‌म्¦म॒न॒स्ये |
मम॑¦स्व॒नात्¦कृ॒धु॒ऽकर्णः॑¦भ॒या॒ते॒¦ए॒व¦इत्¦अनु॑¦द्यून्¦कि॒रणः॑¦स‌म्¦ए॒जा॒त् ||

दर्श॒न्न्वत्र॑ शृत॒पाँ, अ॑नि॒न्द्रान्‌ बा᳚हु॒क्षदः॒ शर॑वे॒ पत्य॑मानान् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

घृषुं᳚ वा॒ ये नि॑नि॒दुः सखा᳚य॒मध्यू॒ न्वे᳚षु प॒वयो᳚ ववृत्युः ||{6/24}{10.27.6}{10.2.11.6}{7.7.16.1}{256, 864, 9054}

दर्श॑न्¦नु¦अत्र॑¦शृ॒त॒ऽपान्¦अ॒नि॒न्द्रान्¦बा॒हु॒ऽक्षदः॑¦शर॑वे¦पत्य॑मानान् |
घृषु᳚‌म्¦वा॒¦ये¦नि॒नि॒दुः¦सखा᳚य‌म्¦अधि॑¦ऊँ॒ इति॑¦नु¦ए॒षु॒¦प॒वयः॑¦व॒वृ॒त्युः॒ ||

अभू॒र्वौक्षी॒र्व्यु१॑(उ॒) आयु॑रान॒ड्दर्ष॒न्नु पूर्वो॒, अप॑रो॒ नु द॑र्षत् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

द्वे प॒वस्ते॒ परि॒ तं न भू᳚तो॒ यो, अ॒स्य पा॒रे रज॑सो वि॒वेष॑ ||{7/24}{10.27.7}{10.2.11.7}{7.7.16.2}{257, 864, 9055}

अभूः᳚¦ऊँ॒ इति॑¦औक्षीः᳚¦वि¦ऊँ॒ इति॑¦आयुः॑¦आ॒न॒ट्¦दर्ष॑त्¦नु¦पूर्वः॑¦अप॑रः¦नु¦द॒र्ष॒त् |
द्वे इति॑¦प॒वस्ते॒ इति॑¦परि॑¦त‌म्¦न¦भू॒तः॒¦यः¦अ॒स्य¦पा॒रे¦रज॑सः¦वि॒वेष॑ ||

गावो॒ यवं॒ प्रयु॑ता, अ॒र्यो, अ॑क्ष॒न्ता, अ॑पश्यं स॒हगो᳚पा॒श्चर᳚न्तीः |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

हवा॒, इद॒र्यो, अ॒भितः॒ समा᳚य॒न्‌ किय॑दासु॒ स्वप॑तिश्छन्दयाते ||{8/24}{10.27.8}{10.2.11.8}{7.7.16.3}{258, 864, 9056}

गाव॑¦यव᳚‌म्¦प्रऽयु॑ताः¦अ॒र्यः¦अ॒क्ष॒न्¦ताः¦अ॒प॒श्य॒‌म्¦स॒हऽगो᳚पाः¦चर᳚न्तीः |
हवाः᳚¦इत्¦अ॒र्यः¦अ॒भितः॑¦स‌म्¦आ॒य॒न्¦किय॑त्¦आ॒सु॒¦स्वऽप॑तिः¦छ॒न्द॒या॒ते॒ ||

सं यद्वयं᳚ यव॒सादो॒ जना᳚नाम॒हं य॒वाद॑ उ॒र्वज्रे᳚, अ॒न्तः |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

अत्रा᳚ यु॒क्तो᳚ऽवसा॒तार॑मिच्छा॒दथो॒, अयु॑क्तं युनजद्वव॒न्वान् ||{9/24}{10.27.9}{10.2.11.9}{7.7.16.4}{259, 864, 9057}

स‌म्¦यत्¦वय᳚‌म्¦य॒व॒स॒।आदः॑¦जना᳚ना‌म्¦अ॒ह‌म्¦य॒व॒।आदः॑¦उ॒रु॒।आज्रे᳚¦अ॒न्तरिति॑ |
अत्र॑¦यु॒क्तः¦अ॒व॒ऽसा॒तार᳚‌म्¦इ॒च्छा॒त्¦अथो॒ इति॑¦अयु॑क्त‌म्¦यु॒न॒ज॒त्¦व॒व॒न्वान् ||

अत्रेदु॑ मे मंससे स॒त्यमु॒क्तं द्वि॒पाच्च॒ यच्चतु॑ष्पात्संसृ॒जानि॑ |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

स्त्री॒भिर्यो, अत्र॒ वृष॑णं पृत॒न्यादयु॑द्धो, अस्य॒ वि भ॑जानि॒ वेदः॑ ||{10/24}{10.27.10}{10.2.11.10}{7.7.16.5}{260, 864, 9058}

अत्र॑¦इत्¦ऊँ॒ इति॑¦मे॒¦मं॒स॒से॒¦स॒त्य‌म्¦उ॒क्त‌म्¦द्वि॒ऽपात्¦च॒¦यत्¦चतुः॑ऽपात्¦स॒‌म्ऽसृ॒जानि॑ |
स्त्री॒ऽभिः¦यः¦अत्र॑¦वृष॑ण‌म्¦पृ॒त॒न्यात्¦अयु॑द्धः¦अ॒स्य॒¦वि¦भ॒जा॒नि॒¦वेदः॑ ||

यस्या᳚न॒क्षा दु॑हि॒ता जात्वास॒ कस्तां वि॒द्वाँ, अ॒भि म᳚न्याते, अ॒न्धाम् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

क॒त॒रो मे॒निं प्रति॒ तं मु॑चाते॒ य ईं॒ वहा᳚ते॒ य ईं᳚ वा वरे॒यात् ||{11/24}{10.27.11}{10.2.11.11}{7.7.17.1}{261, 864, 9059}

यस्य॑¦अ॒न॒क्षा¦दु॒हि॒ता¦जातु॑¦आस॑¦कः¦ता‌म्¦वि॒द्वान्¦अ॒भि¦म॒न्या॒ते॒¦अ॒न्धा‌म् |
क॒त॒रः¦मे॒नि‌म्¦प्रति॑¦त‌म्¦मु॒चा॒ते॒¦यः¦ई॒‌म्¦वहा᳚ते¦यः¦ई॒‌म्¦वा॒¦व॒रे॒ऽयात् ||

किय॑ती॒ योषा᳚ मर्य॒तो व॑धू॒योः परि॑प्रीता॒ पन्य॑सा॒ वार्ये᳚ण |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

भ॒द्रा व॒धूर्भ॑वति॒ यत्सु॒पेशाः᳚ स्व॒यं सा मि॒त्रं व॑नुते॒ जने᳚ चित् ||{12/24}{10.27.12}{10.2.11.12}{7.7.17.2}{262, 864, 9060}

किय॑ती¦योषा᳚¦म॒र्य॒तः¦व॒धू॒ऽयोः¦परि॑ऽप्रीता¦पन्य॑सा¦वार्ये᳚ण |
भ॒द्रा¦व॒धूः¦भ॒व॒ति॒¦यत्¦सु॒ऽपेशाः᳚¦स्व॒य‌म्¦सा¦मि॒त्र‌म्¦व॒नु॒ते॒¦जने᳚¦चि॒त् ||

प॒त्तो ज॑गार प्र॒त्यञ्च॑मत्ति शी॒र्ष्णा शिरः॒ प्रति॑ दधौ॒ वरू᳚थम् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

आसी᳚न ऊ॒र्ध्वामु॒पसि॑ क्षिणाति॒ न्य᳚ङ्ङुत्ता॒नामन्वे᳚ति॒ भूमि᳚म् ||{13/24}{10.27.13}{10.2.11.13}{7.7.17.3}{263, 864, 9061}

प॒त्तः¦ज॒गा॒र॒¦प्र॒त्यंच᳚‌म्¦अ॒त्ति॒¦शी॒र्ष्णा¦शिरः॑¦प्रति॑¦द॒धौ॒¦वरू᳚थ‌म् |
आसी᳚नः¦ऊ॒र्ध्वा‌म्¦उ॒पसि॑¦क्षि॒णा॒ति॒¦न्य॒ङ्¦उ॒त्ता॒ना‌म्¦अनु॑¦ए॒ति॒¦भूमि᳚‌म् ||

बृ॒हन्न॑च्छा॒यो, अ॑पला॒शो, अर्वा᳚ त॒स्थौ मा॒ता विषि॑तो, अत्ति॒ गर्भः॑ |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

अ॒न्यस्या᳚ व॒त्सं रि॑ह॒ती मि॑माय॒ कया᳚ भु॒वा नि द॑धे धे॒नुरूधः॑ ||{14/24}{10.27.14}{10.2.11.14}{7.7.17.4}{264, 864, 9062}

बृ॒हन्¦अ॒च्छा॒यः¦अ॒प॒ला॒शः¦अर्वा᳚¦त॒स्थौ¦मा॒ता¦विऽसि॑तः¦अ॒त्ति॒¦गर्भः॑ |
अ॒न्यस्याः᳚¦व॒त्स‌म्¦रि॒ह॒ती¦मि॒मा॒य॒¦कया᳚¦भु॒वा¦नि¦द॒धे॒¦धे॒नुः¦ऊधः॑ ||

स॒प्त वी॒रासो᳚, अध॒रादुदा᳚यन्न॒ष्टोत्त॒रात्ता॒त्सम॑जग्मिर॒न्ते |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

नव॑ प॒श्चाता᳚त्‌ स्थिवि॒मन्त॑ आय॒न्दश॒ प्राक्सानु॒ वि ति॑र॒न्त्यश्नः॑ ||{15/24}{10.27.15}{10.2.11.15}{7.7.17.5}{265, 864, 9063}

स॒प्त¦वी॒रासः॑¦अ॒ध॒रात्¦उत्¦आ॒य॒न्¦अ॒ष्ट¦उ॒त्त॒रात्ता᳚त्¦स‌म्¦अ॒ज॒ग्मि॒र॒न्¦ते |
नव॑¦प॒श्चाता᳚त्¦स्थि॒वि॒ऽमन्तः॑¦आ॒य॒न्¦दश॑¦प्राक्¦सानु॑¦वि¦ति॒र॒न्ति॒¦अश्नः॑ ||

द॒शा॒नामेकं᳚ कपि॒लं स॑मा॒नं तं हि᳚न्वन्ति॒ क्रत॑वे॒ पार्या᳚य |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

गर्भं᳚ मा॒ता सुधि॑तं व॒क्षणा॒स्ववे᳚नन्तं तु॒षय᳚न्ती बिभर्ति ||{16/24}{10.27.16}{10.2.11.16}{7.7.18.1}{266, 864, 9064}

द॒शा॒ना‌म्¦एक᳚‌म्¦क॒पि॒ल‌म्¦स॒मा॒न‌म्¦त‌म्¦हि॒न्व॒न्ति॒¦क्रत॑वे¦पार्या᳚य |
गर्भ᳚‌म्¦मा॒ता¦सुऽधि॑त‌म्¦व॒क्षणा᳚सु¦अवे᳚नन्त‌म्¦तु॒षय᳚न्ती¦बि॒भ॒र्ति॒ ||

पीवा᳚नं मे॒षम॑पचन्त वी॒रा न्यु॑प्ता, अ॒क्षा, अनु॑ दी॒व आ᳚सन् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

द्वा धनुं᳚ बृह॒तीम॒प्स्व१॑(अ॒)न्तः प॒वित्र॑वन्ता चरतः पु॒नन्ता᳚ ||{17/24}{10.27.17}{10.2.11.17}{7.7.18.2}{267, 864, 9065}

पीवा᳚न‌म्¦मे॒ष‌म्¦अ॒प॒च॒न्त॒¦वी॒राः¦नि।औ᳚प्ताः¦अ॒क्षाः¦अनु॑¦दी॒वे¦आ॒स॒न् |
द्वा¦धनु᳚‌म्¦बृ॒ह॒ती‌म्¦अ॒प्ऽसु¦अ॒न्तरिति॑¦प॒वित्र॑ऽवन्ता¦च॒र॒तः॒¦पु॒नन्ता᳚ ||

वि क्रो᳚श॒नासो॒ विष्व᳚ञ्च आय॒न्‌ पचा᳚ति॒ नेमो᳚ न॒हि पक्ष॑द॒र्धः |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

अ॒यं मे᳚ दे॒वः स॑वि॒ता तदा᳚ह॒ द्र्व᳚न्न॒ इद्व॑नवत्स॒र्पिर᳚न्नः ||{18/24}{10.27.18}{10.2.11.18}{7.7.18.3}{268, 864, 9066}

वि¦क्रो॒श॒नासः॑¦विष्वं᳚चः¦आ॒य॒न्¦पचा᳚ति¦नेमः॑¦न॒हि¦पक्ष॑त्¦अ॒र्धः |
अ॒य‌म्¦मे॒¦दे॒वः¦स॒वि॒ता¦तत्¦आ॒ह॒¦द्रु।आ᳚न्नः¦इत्¦व॒न॒व॒त्¦स॒र्पिः।आ᳚न्नः ||

अप॑श्यं॒ ग्रामं॒ वह॑मानमा॒राद॑च॒क्रया᳚ स्व॒धया॒ वर्त॑मानम् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

सिष॑क्त्य॒र्यः प्र यु॒गा जना᳚नां स॒द्यः शि॒श्ना प्र॑मिना॒नो नवी᳚यान् ||{19/24}{10.27.19}{10.2.11.19}{7.7.18.4}{269, 864, 9067}

अप॑श्य‌म्¦ग्राम᳚‌म्¦वह॑मान‌म्¦आ॒रात्¦अ॒च॒क्रया᳚¦स्व॒धया᳚¦वर्त॑मान‌म् |
सिस॑क्ति¦अ॒र्यः¦प्र¦यु॒गा¦जना᳚ना‌म्¦स॒द्यः¦शि॒श्ना¦प्र॒ऽमि॒ना॒नः¦नवी᳚यान् ||

ए॒तौ मे॒ गावौ᳚ प्रम॒रस्य॑ यु॒क्तौ मो षु प्र से᳚धी॒र्मुहु॒रिन्म॑मन्धि |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

आप॑श्चिदस्य॒ वि न॑श॒न्त्यर्थं॒ सूर॑श्च म॒र्क उप॑रो बभू॒वान् ||{20/24}{10.27.20}{10.2.11.20}{7.7.18.5}{270, 864, 9068}

ए॒तौ¦मे॒¦गावौ᳚¦प्र॒ऽम॒रस्य॑¦यु॒क्तौ¦मो इति॑¦सु¦प्र¦से॒धीः॒¦मुहुः॑¦इत्¦म॒म॒न्धि॒ |
आपः॑¦चि॒त्¦अ॒स्य॒¦वि¦न॒श॒न्ति॒¦अर्थ᳚‌म्¦सूरः॑¦च॒¦म॒र्कः¦उप॑रः¦ब॒भू॒वान् ||

अ॒यं यो वज्रः॑ पुरु॒धा विवृ॑त्तो॒ऽवः सूर्य॑स्य बृह॒तः पुरी᳚षात् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

श्रव॒ इदे॒ना प॒रो, अ॒न्यद॑स्ति॒ तद᳚व्य॒थी ज॑रि॒माण॑स्तरन्ति ||{21/24}{10.27.21}{10.2.11.21}{7.7.19.1}{271, 864, 9069}

अ॒य‌म्¦यः¦वज्रः॑¦पु॒रु॒धा¦विऽवृ॑त्तः¦अ॒वः¦सूर्य॑स्य¦बृ॒ह॒तः¦पुरी᳚षात् |
श्रवः॑¦इत्¦ए॒ना¦प॒रः¦अ॒न्यत्¦अ॒स्ति॒¦तत्¦अ॒व्य॒थी¦ज॒रि॒माणः॑¦त॒र॒न्ति॒ ||

वृ॒क्षेवृ॑क्षे॒ निय॑ता मीमय॒द्गौस्ततो॒ वयः॒ प्र प॑तान्‌ पूरु॒षादः॑ |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

अथे॒दं विश्वं॒ भुव॑नं भयात॒ इन्द्रा᳚य सु॒न्वदृष॑ये च॒ शिक्ष॑त् ||{22/24}{10.27.22}{10.2.11.22}{7.7.19.2}{272, 864, 9070}

वृ॒क्षेऽवृ॑क्षे¦निऽय॑ता¦मी॒म॒य॒त्¦गौः¦ततः॑¦वयः॑¦प्र¦प॒ता॒न्¦पु॒रु॒ष॒।आदः॑ |
अथ॑¦इ॒द‌म्¦विश्व᳚‌म्¦भुव॑न‌म्¦भ॒या॒ते॒¦इन्द्रा᳚य¦सु॒न्वत्¦ऋष॑ये¦च॒¦शिक्ष॑त् ||

दे॒वानां॒ माने᳚ प्रथ॒मा, अ॑तिष्ठन्‌ कृ॒न्तत्रा᳚देषा॒मुप॑रा॒, उदा᳚यन् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

त्रय॑स्तपन्ति पृथि॒वीम॑नू॒पा द्वा बृबू᳚कं वहतः॒ पुरी᳚षम् ||{23/24}{10.27.23}{10.2.11.23}{7.7.19.3}{273, 864, 9071}

दे॒वाना᳚‌म्¦माने᳚¦प्र॒थ॒माः¦अ॒ति॒ष्ठ॒न्¦कृ॒न्तत्रा᳚त्¦ए॒षा॒‌म्¦उप॑राः¦उत्¦आ॒य॒न् |
त्रयः॑¦त॒प॒न्ति॒¦पृ॒थि॒वी‌म्¦अ॒नू॒पाः¦द्वा¦बृबू᳚क‌म्¦व॒ह॒तः॒¦पुरी᳚ष‌म् ||

सा ते᳚ जी॒वातु॑रु॒त तस्य॑ विद्धि॒ मा स्मै᳚ता॒दृगप॑ गूहः सम॒र्ये |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

आ॒विः स्वः॑ कृणु॒ते गूह॑ते बु॒सं स पा॒दुर॑स्य नि॒र्णिजो॒ न मु॑च्यते ||{24/24}{10.27.24}{10.2.11.24}{7.7.19.4}{274, 864, 9072}

सा¦ते॒¦जी॒वातुः॑¦उ॒त¦तस्य॑¦वि॒द्धि॒¦मा¦स्म॒¦ए॒ता॒दृक्¦अप॑¦गू॒हः॒¦स॒म॒र्ये |
आ॒विः¦स्व१॒॑रिति॒ स्वः॑¦कृ॒णु॒ते¦गूह॑ते¦बु॒स‌म्¦सः¦पा॒दुः¦अ॒स्य॒¦निः॒ऽनिजः॑¦न¦मु॒च्य॒ते॒ ||

[28] विश्वेहीति द्वादशर्चस्य सूक्तस्य आद्यायाइंद्रस्नुषाऋषिका द्वितीयादिचतुर्थीवर्जानां युजामिंद्रऋषिः चतुर्थीसहितानामयुजांवसुक्रऋषिः चतुर्थीवर्ज्यानांयुजांवसुक्रोदेवता शिष्टानामिंद्रस्त्रिष्टुप् | (अत्रसूक्तेप्रथमर्चींद्रस्नुषार्षत्वे विकल्पं शौनकोमन्यते तत्‌पक्षे तत्रवसुक्रोविज्ञेयः) |
विश्वो॒ ह्य१॑(अ॒)न्यो, अ॒रिरा᳚ज॒गाम॒ ममेदह॒ श्वशु॑रो॒ ना ज॑गाम |{इन्द्रस्नुषाः | इन्द्रः | त्रिष्टुप्}

ज॒क्षी॒याद्धा॒ना, उ॒त सोमं᳚ पपीया॒त्स्वा᳚शितः॒ पुन॒रस्तं᳚ जगायात् ||{1/12}{10.28.1}{10.2.12.1}{7.7.20.1}{275, 865, 9073}

विश्वः॑¦हि¦अ॒न्यः¦अ॒रिः¦आ॒ज॒गाम॑¦मम॑¦इत्¦अह॑¦श्वशु॑रः¦न¦आ¦ज॒गा॒म॒ |
ज॒क्षी॒यात्¦धा॒नाः¦उ॒त¦सोम᳚‌म्¦प॒पी॒या॒त्¦सुऽआ᳚शितः¦पुनः॑¦अस्त᳚‌म्¦ज॒गा॒या॒त् ||

स रोरु॑वद्वृष॒भस्ति॒ग्मशृ᳚ङ्गो॒ वर्ष्म᳚न्तस्थौ॒ वरि॑म॒न्ना पृ॑थि॒व्याः |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

विश्वे᳚ष्वेनं वृ॒जने᳚षु पामि॒ यो मे᳚ कु॒क्षी सु॒तसो᳚मः पृ॒णाति॑ ||{2/12}{10.28.2}{10.2.12.2}{7.7.20.2}{276, 865, 9074}

सः¦रोरु॑वत्¦वृ॒ष॒भः¦ति॒ग्मऽशृ᳚ङ्गः¦वर्ष्म॑न्¦त॒स्थौ॒¦वरि॑मन्¦आ¦पृ॒थि॒व्याः |
विश्वे᳚षु¦ए॒न॒‌म्¦वृ॒जने᳚षु¦पा॒मि॒¦यः¦मे॒¦कु॒क्षी इति॑¦सु॒तऽसो᳚मः¦पृ॒णाति॑ ||

अद्रि॑णा ते म॒न्दिन॑ इन्द्र॒ तूया᳚न्‌ त्सु॒न्वन्ति॒ सोमा॒न्‌ पिब॑सि॒ त्वमे᳚षाम् |{इन्द्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

पच᳚न्ति ते वृष॒भाँ, अत्सि॒ तेषां᳚ पृ॒क्षेण॒ यन्म॑घवन्हू॒यमा᳚नः ||{3/12}{10.28.3}{10.2.12.3}{7.7.20.3}{277, 865, 9075}

अद्रि॑णा¦ते॒¦म॒न्दिनः॑¦इ॒न्द्र॒¦तूया᳚न्¦सु॒न्वन्ति॑¦सोमा᳚न्¦पिब॑सि¦त्व‌म्¦ए॒षा॒‌म् |
पच᳚न्ति¦ते॒¦वृ॒ष॒भान्¦अत्सि॑¦तेषा᳚‌म्¦पृ॒क्षेण॑¦यत्¦म॒घ॒ऽव॒न्¦हू॒यमा᳚नः ||

इ॒दं सु मे᳚ जरित॒रा चि॑किद्धि प्रती॒पं शापं᳚ न॒द्यो᳚ वहन्ति |{इन्द्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

लो॒पा॒शः सिं॒हं प्र॒त्यञ्च॑मत्साः क्रो॒ष्टा व॑रा॒हं निर॑तक्त॒ कक्षा᳚त् ||{4/12}{10.28.4}{10.2.12.4}{7.7.20.4}{278, 865, 9076}

इ॒द‌म्¦सु¦मे॒¦ज॒रि॒तः॒¦आ¦चि॒कि॒द्धि॒¦प्र॒ति॒ऽई॒प‌म्¦शाप᳚‌म्¦न॒द्यः॑¦व॒ह॒न्ति॒ |
लो॒पा॒शः¦सिं॒ह‌म्¦प्र॒त्यंच᳚‌म्¦अ॒त्सा॒रिति॑¦क्रो॒ष्टा¦व॒रा॒ह‌म्¦निः¦अ॒त॒क्त॒¦कक्षा᳚त् ||

क॒था त॑ ए॒तद॒हमा चि॑केतं॒ गृत्स॑स्य॒ पाक॑स्त॒वसो᳚ मनी॒षाम् |{इन्द्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

त्वं नो᳚ वि॒द्वाँ, ऋ॑तु॒था वि वो᳚चो॒ यमर्धं᳚ ते मघवन्‌ क्षे॒म्या धूः ||{5/12}{10.28.5}{10.2.12.5}{7.7.20.5}{279, 865, 9077}

क॒था¦ते॒¦ए॒तत्¦अ॒ह‌म्¦आ¦चि॒के॒त॒‌म्¦गृत्स॑स्य¦पाकः॑¦त॒वसः॑¦म॒नी॒षा‌म् |
त्व‌म्¦नः॒¦वि॒द्वान्¦ऋ॒तु॒ऽथा¦वि¦वो॒चः॒¦य‌म्¦अर्ध᳚‌म्¦ते॒¦म॒घ॒ऽव॒न्¦क्षे॒म्या¦धूः ||

ए॒वा हि मां त॒वसं᳚ व॒र्धय᳚न्ति दि॒वश्चि᳚न्मे बृह॒त उत्त॑रा॒ धूः |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

पु॒रू स॒हस्रा॒ नि शि॑शामि सा॒कम॑श॒त्रुं हि मा॒ जनि॑ता ज॒जान॑ ||{6/12}{10.28.6}{10.2.12.6}{7.7.20.6}{280, 865, 9078}

ए॒व¦हि¦मा‌म्¦त॒वस᳚‌म्¦व॒र्धय᳚न्ति¦दि॒वः¦चि॒त्¦मे॒¦बृ॒ह॒तः¦उत्ऽत॑रा¦धूः |
पु॒रु¦स॒हस्रा᳚¦नि¦शि॒शा॒मि॒¦सा॒क‌म्¦अ॒श॒त्रु‌म्¦हि¦मा॒¦जनि॑ता¦ज॒जान॑ ||

ए॒वा हि मां त॒वसं᳚ ज॒ज्ञुरु॒ग्रं कर्म᳚न्‌ कर्म॒न्‌ वृष॑णमिन्द्र दे॒वाः |{इन्द्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

वधीं᳚ वृ॒त्रं वज्रे᳚ण मन्दसा॒नोऽप᳚ व्र॒जं म॑हि॒ना दा॒शुषे᳚ वम् ||{7/12}{10.28.7}{10.2.12.7}{7.7.21.1}{281, 865, 9079}

ए॒व¦हि¦मा‌म्¦त॒वस᳚‌म्¦ज॒ज्ञुः¦उ॒ग्र‌म्¦कर्म॑न्ऽकर्मन्¦वृष॑ण‌म्¦इ॒न्द्र॒¦दे॒वाः |
वधी᳚‌म्¦वृ॒त्र‌म्¦वज्रे᳚ण¦म॒न्द॒सा॒नः¦अप॑¦व्र॒ज‌म्¦म॒हि॒ना¦दा॒शुषे᳚¦व॒‌म् ||

दे॒वास॑ आयन्‌ पर॒शूँर॑बिभ्र॒न्वना᳚ वृ॒श्चन्तो᳚, अ॒भि वि॒ड्भिरा᳚यन् |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

नि सु॒द्र्व१॑(अं॒) दध॑तो व॒क्षणा᳚सु॒ यत्रा॒ कृपी᳚ट॒मनु॒ तद्द॑हन्ति ||{8/12}{10.28.8}{10.2.12.8}{7.7.21.2}{282, 865, 9080}

दे॒वासः॑¦आ॒य॒न्¦प॒र॒शून्¦अ॒बि॒भ्र॒न्¦वना᳚¦वृ॒श्चन्तः॑¦अ॒भि¦वि॒ट्ऽभिः¦आ॒य॒न् |
नि¦सु॒ऽद्र्व᳚‌म्¦दध॑तः¦व॒क्षणा᳚सु¦यत्र॑¦कृपी᳚ट‌म्¦अनु॑¦तत्¦द॒ह॒न्ति॒ ||

श॒शः, क्षु॒रं प्र॒त्यञ्चं᳚ जगा॒राद्रिं᳚ लो॒गेन॒ व्य॑भेदमा॒रात् |{इन्द्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

बृ॒हन्तं᳚ चिदृह॒ते र᳚न्धयानि॒ वय॑द्व॒त्सो वृ॑ष॒भं शूशु॑वानः ||{9/12}{10.28.9}{10.2.12.9}{7.7.21.3}{283, 865, 9081}

श॒शः¦क्षु॒र‌म्¦प्र॒त्यंच᳚‌म्¦ज॒गा॒र॒¦अद्रि᳚‌म्¦लो॒गेन॑¦वि¦अ॒भे॒द॒‌म्¦आ॒रात् |
बृ॒हन्त᳚‌म्¦चि॒त्¦ऋ॒ह॒ते¦र॒न्ध॒या॒नि॒¦वय॑त्¦व॒त्सः¦वृ॒ष॒भ‌म्¦शूशु॑वानः ||

सु॒प॒र्ण इ॒त्था न॒खमा सि॑षा॒याव॑रुद्धः परि॒पदं॒ न सिं॒हः |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

नि॒रु॒द्धश्चि᳚न्महि॒षस्त॒र्ष्यावा᳚न्‌ गो॒धा तस्मा᳚, अ॒यथं᳚ कर्षदे॒तत् ||{10/12}{10.28.10}{10.2.12.10}{7.7.21.4}{284, 865, 9082}

सु॒ऽप॒र्णः¦इ॒त्था¦न॒ख‌म्¦आ¦सि॒सा॒य॒¦अव॑ऽरुद्धः¦प॒रि॒ऽपद᳚‌म्¦न¦सिं॒हः |
नि॒ऽरु॒द्धः¦चि॒त्¦म॒हि॒षः¦त॒र्ष्याऽवा᳚न्¦गो॒धा¦तस्मै᳚¦अ॒यथ᳚‌म्¦क॒र्ष॒त्¦ए॒तत् ||

तेभ्यो᳚ गो॒धा, अ॒यथं᳚ कर्षदे॒तद्ये ब्र॒ह्मणः॑ प्रति॒पीय॒न्त्यन्नैः᳚ |{इन्द्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

सि॒म उ॒क्ष्णो᳚ऽवसृ॒ष्टाँ, अ॑दन्ति स्व॒यं बला᳚नि त॒न्वः॑ शृणा॒नाः ||{11/12}{10.28.11}{10.2.12.11}{7.7.21.5}{285, 865, 9083}

तेभ्यः॑¦गो॒धाः¦अ॒यथ᳚‌म्¦क॒र्ष॒त्¦ए॒तत्¦ये¦ब्र॒ह्मणः॑¦प्र॒ति॒ऽपीय᳚न्ति¦अन्नैः᳚ |
सि॒मः¦उ॒क्ष्णः¦अ॒व॒ऽसृ॒ष्टान्¦अ॒द॒न्ति॒¦स्व॒य‌म्¦बला᳚नि¦त॒न्वः॑¦शृ॒णा॒नाः ||

ए॒ते शमी᳚भिः सु॒शमी᳚, अभूव॒न्ये हि᳚न्‌ वि॒रे त॒न्व१॑(अः॒) सोम॑ उ॒क्थैः |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

नृ॒वद्वद॒न्नुप॑ नो माहि॒ वाजा᳚न्दि॒वि श्रवो᳚ दधिषे॒ नाम॑ वी॒रः ||{12/12}{10.28.12}{10.2.12.12}{7.7.21.6}{286, 865, 9084}

ए॒ते¦शमी᳚भिः¦सु॒ऽशमी᳚¦अ॒भू॒व॒न्¦ये¦हि॒न्वि॒रे¦त॒न्वः॑¦सोमे᳚¦उ॒क्थैः |
नृ॒ऽवत्¦वद॑न्¦उप॑¦नः॒¦मा॒हि॒¦वाजा᳚न्¦दि॒वि¦श्रवः॑¦द॒धि॒षे॒¦नाम॑¦वी॒रः ||

[29] वनेनेत्यष्टर्चस्य सूक्तस्यैंद्रोवसुक्रइंद्रस्त्रिष्टुप् |
वने॒ न वा॒ यो न्य॑धायि चा॒कञ्छुचि᳚र्वां॒ स्तोमो᳚ भुरणावजीगः |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

यस्येदिन्द्रः॑ पुरु॒दिने᳚षु॒ होता᳚ नृ॒णां नर्यो॒ नृत॑मः, क्ष॒पावा॑न् ||{1/8}{10.29.1}{10.2.13.1}{7.7.22.1}{287, 866, 9085}

वने᳚¦न¦वा॒¦यः¦नि¦अ॒धा॒यि॒¦चा॒कन्¦शुचिः॑¦वा॒‌म्¦स्तोमः॑¦भु॒र॒णौ॒¦अ॒जी॒ग॒रिति॑ |
यस्य॑¦इत्¦इन्द्रः॑¦पु॒रु॒ऽदिने᳚षु¦होता᳚¦नृ॒णा‌म्¦नर्यः॑¦नृऽत॑मः¦क्ष॒पाऽवा॑न् ||

प्र ते᳚, अ॒स्या, उ॒षसः॒ प्राप॑रस्या नृ॒तौ स्या᳚म॒ नृत॑मस्य नृ॒णाम् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

अनु॑ त्रि॒शोकः॑ श॒तमाव॑ह॒न्नॄन्‌ कुत्से᳚न॒ रथो॒ यो, अस॑त्सस॒वान् ||{2/8}{10.29.2}{10.2.13.2}{7.7.22.2}{288, 866, 9086}

प्र¦ते॒¦अ॒स्याः¦उ॒षसः॑¦प्र¦अप॑रस्याः¦नृ॒तौ¦स्या॒म॒¦नृऽत॑मस्य¦नृ॒णा‌म् |
अनु॑¦त्रि॒ऽशोकः॑¦श॒त‌म्¦आ¦अ॒व॒ह॒न्¦नॄन्¦कुत्से᳚न¦रथः॑¦यः¦अस॑त्¦स॒स॒ऽवान् ||

कस्ते॒ मद॑ इन्द्र॒ रन्त्यो᳚ भू॒द्दुरो॒ गिरो᳚, अ॒भ्यु१॑(उ॒)ग्रो वि धा᳚व |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

कद्वाहो᳚, अ॒र्वागुप॑ मा मनी॒षा, आ त्वा᳚ शक्यामुप॒मं राधो॒, अन्नैः᳚ ||{3/8}{10.29.3}{10.2.13.3}{7.7.22.3}{289, 866, 9087}

कः¦ते॒¦मदः॑¦इ॒न्द्र॒¦रन्त्यः॑¦भू॒त्¦दुरः॑¦गिरः॑¦अ॒भि¦उ॒ग्रः¦वि¦धा॒व॒ |
कत्¦वाहः॑¦अ॒र्वाक्¦उप॑¦मा॒¦म॒नी॒षा¦आ¦त्वा॒¦श॒क्या॒‌म्¦उ॒प॒ऽम‌म्¦राधः॑¦अन्नैः᳚ ||

कदु॑ द्यु॒म्नमि᳚न्द्र॒ त्वाव॑तो॒ नॄन्‌ कया᳚ धि॒या क॑रसे॒ कन्न॒ आग॑न् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

मि॒त्रो न स॒त्य उ॑रुगाय भृ॒त्या, अन्ने᳚ समस्य॒ यदस᳚न्मनी॒षाः ||{4/8}{10.29.4}{10.2.13.4}{7.7.22.4}{290, 866, 9088}

कत्¦ऊँ॒ इति॑¦द्यु॒म्न‌म्¦इ॒न्द्र॒¦त्वाऽव॑तः¦नॄन्¦कया᳚¦धि॒या¦क॒र॒से॒¦कत्¦नः॒¦आ¦अ॒ग॒न् |
मि॒त्रः¦न¦स॒त्यः¦उ॒रु॒ऽगा॒य॒¦भृ॒त्यै¦अन्ने᳚¦स॒म॒स्य॒¦यत्¦अस॑न्¦म॒नी॒षाः ||

प्रेर॑य॒ सूरो॒, अर्थं॒ न पा॒रं ये, अ॑स्य॒ कामं᳚ जनि॒धा, इ॑व॒ ग्मन् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

गिर॑श्च॒ ये ते᳚ तुविजात पू॒र्वीर्नर॑ इन्द्र प्रति॒शिक्ष॒न्त्यन्नैः᳚ ||{5/8}{10.29.5}{10.2.13.5}{7.7.22.5}{291, 866, 9089}

प्र¦ई॒र॒य॒¦सूरः॑¦अर्थ᳚‌म्¦न¦पा॒र‌म्¦ये¦अ॒स्य॒¦काम᳚‌म्¦ज॒नि॒धाःऽ‌इ᳚व¦ग्मन् |
गिरः॑¦च॒¦ये¦ते॒¦तु॒वि॒ऽजा॒त॒¦पू॒र्वीः¦नरः॑¦इ॒न्द्र॒¦प्र॒ति॒ऽशिक्ष᳚न्ति¦अन्नैः᳚ ||

मात्रे॒ नु ते॒ सुमि॑ते, इन्द्र पू॒र्वी द्यौर्म॒ज्मना᳚ पृथि॒वी काव्ये᳚न |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

वरा᳚य ते घृ॒तव᳚न्तः सु॒तासः॒ स्वाद्म᳚न्‌ भवन्तु पी॒तये॒ मधू᳚नि ||{6/8}{10.29.6}{10.2.13.6}{7.7.23.1}{292, 866, 9090}

मात्रे॒ इति॑¦नु¦ते॒¦सुमि॑ते॒ इति॒ सुऽमि॑ते¦इ॒न्द्र॒¦पू॒र्वी इति॑¦द्यौः¦म॒ज्मना᳚¦पृ॒थि॒वी¦काव्ये᳚न |
वरा᳚य¦ते॒¦घृ॒तऽव᳚न्तः¦सु॒तासः॑¦स्वाद्म॑न्¦भ॒व॒न्तु॒¦पी॒तये᳚¦मधू᳚नि ||

आ मध्वो᳚, अस्मा, असिच॒न्नम॑त्र॒मिन्द्रा᳚य पू॒र्णं स हि स॒त्यरा᳚धाः |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

स वा᳚वृधे॒ वरि॑म॒न्ना पृ॑थि॒व्या, अ॒भि क्रत्वा॒ नर्यः॒ पौंस्यै᳚श्च ||{7/8}{10.29.7}{10.2.13.7}{7.7.23.2}{293, 866, 9091}

आ¦मध्वः॑¦अ॒स्मै॒¦अ॒सि॒च॒न्¦अम॑त्र‌म्¦इन्द्रा᳚य¦पू॒र्ण‌म्¦सः¦हि¦स॒त्यऽरा᳚धाः |
सः¦व॒वृ॒धे॒¦वरि॑मन्¦आ¦पृ॒थि॒व्याः¦अ॒भि¦क्रत्वा᳚¦नर्यः॑¦पौंस्यैः᳚¦च॒ ||

व्या᳚न॒ळिन्द्रः॒ पृत॑नाः॒ स्वोजा॒, आस्मै᳚ यतन्ते स॒ख्याय॑ पू॒र्वीः |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

आ स्मा॒ रथं॒ न पृत॑नासु तिष्ठ॒ यं भ॒द्रया᳚ सुम॒त्या चो॒दया᳚से ||{8/8}{10.29.8}{10.2.13.8}{7.7.23.3}{294, 866, 9092}

वि¦आ॒न॒ट्¦इन्द्रः॑¦पृत॑नाः¦सु॒ऽओजाः᳚¦आ¦अ॒स्मै॒¦य॒त॒न्ते॒¦स॒ख्याय॑¦पू॒र्वीः |
आ¦स्म॒¦रथ᳚‌म्¦न¦पृत॑नासु¦ति॒ष्ठ॒¦य‌म्¦भ॒द्रया᳚¦सु॒ऽम॒त्या¦चो॒दया᳚से ||

[30] प्रदेवत्रेति पंचदशर्चस्य सूक्तस्यैलूषः कवषआपस्त्रिष्टुप् |
प्र दे᳚व॒त्रा ब्रह्म॑णे गा॒तुरे᳚त्व॒पो, अच्छा॒ मन॑सो॒ न प्रयु॑क्ति |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

म॒हीं मि॒त्रस्य॒ वरु॑णस्य धा॒सिं पृ॑थु॒ज्रय॑से रीरधा सुवृ॒क्तिम् ||{1/15}{10.30.1}{10.3.1.1}{7.7.24.1}{295, 867, 9093}

प्र¦दे॒व॒ऽत्रा¦ब्रह्म॑णे¦गा॒तुः¦ए॒तु॒¦अ॒पः¦अच्छ॑¦मन॑सः¦न¦प्रऽयु॑क्ति |
म॒ही‌म्¦मि॒त्रस्य॑¦वरु॑णस्य¦धा॒सि‌म्¦पृ॒थु॒ऽज्रय॑से¦री॒र॒ध॒¦सु॒ऽवृ॒क्ति‌म् ||

अध्व᳚र्यवो ह॒विष्म᳚न्तो॒ हि भू॒ताच्छा॒प इ॑तोश॒तीरु॑शन्तः |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

अव॒ याश्चष्टे᳚, अरु॒णः सु॑प॒र्णस्तमास्य॑ध्वमू॒र्मिम॒द्या सु॑हस्ताः ||{2/15}{10.30.2}{10.3.1.2}{7.7.24.2}{296, 867, 9094}

अध्व᳚र्यवः¦ह॒विष्म᳚न्तः¦हि¦भू॒त¦अच्छ॑¦अ॒पः¦इ॒त॒¦उ॒श॒तीः¦उ॒श॒न्तः॒ |
अव॑¦याः¦चष्टे᳚¦अ॒रु॒णः¦सु॒ऽप॒र्णः¦त‌म्¦आ¦अ॒स्य॒ध्व॒‌म्¦ऊ॒र्मि‌म्¦अ॒द्य¦सु॒ऽह॒स्ताः॒ ||

अध्व᳚र्यवो॒ऽप इ॑ता समु॒द्रम॒पां नपा᳚तं ह॒विषा᳚ यजध्वम् |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

स वो᳚ दददू॒र्मिम॒द्या सुपू᳚तं॒ तस्मै॒ सोमं॒ मधु॑मन्तं सुनोत ||{3/15}{10.30.3}{10.3.1.3}{7.7.24.3}{297, 867, 9095}

अध्व᳚र्यवः¦अ॒पः¦इ॒त॒¦स॒मु॒द्र‌म्¦अ॒पा‌म्¦नपा᳚त‌म्¦ह॒विषा᳚¦य॒ज॒ध्व॒‌म् |
सः¦वः॒¦द॒द॒त्¦ऊ॒र्मि‌म्¦अ॒द्य¦सुऽपू᳚त‌म्¦तस्मै᳚¦सोम᳚‌म्¦मधु॑ऽमन्त‌म्¦सु॒नो॒त॒ ||

यो, अ॑नि॒ध्मो दीद॑यद॒प्स्व१॑(अ॒)न्तर्यं विप्रा᳚स॒ ईळ॑ते, अध्व॒रेषु॑ |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

अपां᳚ नपा॒न्मधु॑मतीर॒पो दा॒ याभि॒रिन्द्रो᳚ वावृ॒धे वी॒र्या᳚य ||{4/15}{10.30.4}{10.3.1.4}{7.7.24.4}{298, 867, 9096}

यः¦अ॒नि॒ध्मः¦दीद॑यत्¦अ॒प्ऽसु¦अ॒न्तः¦य‌म्¦विप्रा᳚सः¦ईळ॑ते¦अ॒ध्व॒रेषु॑ |
अपा᳚‌म्¦न॒पा॒त्¦मधु॑ऽमतीः¦अ॒पः¦दाः॒¦याभिः॑¦इन्द्रः॑¦व॒वृ॒धे¦वी॒र्या᳚य ||

याभिः॒ सोमो॒ मोद॑ते॒ हर्ष॑ते च कल्या॒णीभि᳚र्युव॒तिभि॒र्न मर्यः॑ |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

ता, अ॑ध्वर्यो, अ॒पो, अच्छा॒ परे᳚हि॒ यदा᳚सि॒ञ्चा, ओष॑धीभिः पुनीतात् ||{5/15}{10.30.5}{10.3.1.5}{7.7.24.5}{299, 867, 9097}

याभिः॑¦सोमः॑¦मोद॑ते¦हर्ष॑ते¦च॒¦क॒ल्या॒णीभिः॑¦यु॒व॒तिऽभिः॑¦न¦मर्यः॑ |
ताः¦अ॒ध्व॒र्यो॒ इति॑¦अ॒पः¦अच्छ॑¦परा᳚¦इ॒हि॒¦यत्¦आ॒ऽसिं॒चाः¦ओष॑धीभिः¦पु॒नी॒ता॒त् ||

ए॒वेद्यूने᳚ युव॒तयो᳚ नमन्त॒ यदी᳚मु॒शन्नु॑श॒तीरेत्यच्छ॑ |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

सं जा᳚नते॒ मन॑सा॒ सं चि॑कित्रेऽध्व॒र्यवो᳚ धि॒षणाप॑श्च दे॒वीः ||{6/15}{10.30.6}{10.3.1.6}{7.7.25.1}{300, 867, 9098}

ए॒व¦इत्¦यूने᳚¦यु॒व॒तयः॑¦न॒म॒न्त॒¦यत्¦ई॒‌म्¦उ॒शन्¦उ॒ष॒तीः¦एति॑¦अच्छ॑ |
स‌म्¦जा॒न॒ते॒¦मन॑सा¦स‌म्¦चि॒कि॒त्रे॒¦अ॒ध्व॒र्यवः॑¦धि॒षणा᳚¦आपः॑¦च॒¦दे॒वीः ||

यो वो᳚ वृ॒ताभ्यो॒, अकृ॑णोदु लो॒कं यो वो᳚ म॒ह्या, अ॒भिश॑स्ते॒रमु᳚ञ्चत् |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

तस्मा॒, इन्द्रा᳚य॒ मधु॑मन्तमू॒र्मिं दे᳚व॒माद॑नं॒ प्र हि॑णोतनापः ||{7/15}{10.30.7}{10.3.1.7}{7.7.25.2}{301, 867, 9099}

यः¦वः॒¦वृ॒ताभ्यः॑¦अकृ॑णोत्¦ऊँ॒ इति॑¦लो॒क‌म्¦यः¦वः॒¦म॒ह्याः¦अ॒भिऽश॑स्तेः¦अमुं᳚चत् |
तस्मै᳚¦इन्द्रा᳚य¦मधु॑ऽमन्त‌म्¦ऊ॒र्मि‌म्¦दे॒व॒ऽमाद॑न‌म्¦प्र¦हि॒णो॒त॒न॒¦आ॒पः ||

प्रास्मै᳚ हिनोत॒ मधु॑मन्तमू॒र्मिं गर्भो॒ यो वः॑ सिन्धवो॒ मध्व॒ उत्सः॑ |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

घृ॒तपृ॑ष्ठ॒मीड्य॑मध्व॒रेष्वापो᳚ रेवतीः शृणु॒ता हवं᳚ मे ||{8/15}{10.30.8}{10.3.1.8}{7.7.25.3}{302, 867, 9100}

प्र¦अ॒स्मै॒¦हि॒नो॒त॒¦मधु॑ऽमन्त‌म्¦ऊ॒र्मि‌म्¦गर्भः॑¦यः¦वः॒¦सि॒न्ध॒वः॒¦मध्वः॑¦उत्सः॑ |
घृ॒तऽपृ॑ष्ठ‌म्¦ईड्य᳚‌म्¦अ॒ध्व॒रेषु॑¦आपः॑¦रे॒व॒तीः॒¦शृ॒णु॒त¦हव᳚‌म्¦मे॒ ||

तं सि᳚न्धवो मत्स॒रमि᳚न्द्र॒पान॑मू॒र्मिं प्र हे᳚त॒ य उ॒भे, इय॑र्ति |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

म॒द॒च्युत॑मौशा॒नं न॑भो॒जां परि॑ त्रि॒तन्तुं᳚ वि॒चर᳚न्त॒मुत्स᳚म् ||{9/15}{10.30.9}{10.3.1.9}{7.7.25.4}{303, 867, 9101}

त‌म्¦सि॒न्ध॒वः॒¦म॒त्स॒र‌म्¦इ॒न्द्र॒ऽपान᳚‌म्¦ऊ॒र्मि‌म्¦प्र¦हे॒त॒¦यः¦उ॒भे इति॑¦इय॑र्ति |
म॒द॒ऽच्युत᳚‌म्¦औ॒शा॒न‌म्¦न॒भः॒ऽजा‌म्¦परि॑¦त्रि॒ऽतन्तु᳚‌म्¦वि॒ऽचर᳚न्त‌म्¦उत्स᳚‌म् ||

आ॒वर्वृ॑तती॒रध॒ नु द्वि॒धारा᳚ गोषु॒युधो॒ न नि॑य॒वं चर᳚न्तीः |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

ऋषे॒ जनि॑त्री॒र्भुव॑नस्य॒ पत्नी᳚र॒पो व᳚न्दस्व स॒वृधः॒ सयो᳚नीः ||{10/15}{10.30.10}{10.3.1.10}{7.7.25.5}{304, 867, 9102}

आ॒ऽवर्वृ॑ततीः¦अध॑¦नु¦द्वि॒ऽधाराः᳚¦गो॒षु॒ऽयुधः॑¦न¦नि॒ऽय॒व‌म्¦चर᳚न्तीः |
ऋषे᳚¦जनि॑त्रीः¦भुव॑नस्य¦पत्नीः᳚¦अ॒पः¦व॒न्द॒स्व॒¦स॒ऽवृधः॑¦सऽयो᳚नीः ||

हि॒नोता᳚ नो, अध्व॒रं दे᳚वय॒ज्या हि॒नोत॒ ब्रह्म॑ स॒नये॒ धना᳚नाम् |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

ऋ॒तस्य॒ योगे॒ वि ष्य॑ध्व॒मूधः॑ श्रुष्टी॒वरी᳚र्भूतना॒स्मभ्य॑मापः ||{11/15}{10.30.11}{10.3.1.11}{7.7.26.1}{305, 867, 9103}

हि॒नोत॑¦नः॒¦अ॒ध्व॒र‌म्¦दे॒व॒ऽय॒ज्या¦हि॒नोत॑¦ब्रह्म॑¦स॒नये᳚¦धना᳚ना‌म् |
ऋ॒तस्य॑¦योगे᳚¦वि¦स्य॒ध्व॒‌म्¦ऊधः॑¦श्रु॒ष्टी॒ऽवरीः᳚¦भू॒त॒न॒¦अ॒स्मभ्य᳚‌म्¦आ॒पः॒ ||

आपो᳚ रेवतीः॒, क्षय॑था॒ हि वस्वः॒ क्रतुं᳚ च भ॒द्रं बि॑भृ॒थामृतं᳚ च |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

रा॒यश्च॒ स्थ स्व॑प॒त्यस्य॒ पत्नीः॒ सर॑स्वती॒ तद्गृ॑ण॒ते वयो᳚ धात् ||{12/15}{10.30.12}{10.3.1.12}{7.7.26.2}{306, 867, 9104}

आ॒पः¦रे॒व॒तीः॒¦क्षय॑थ¦हि¦वस्वः॑¦क्रतु᳚‌म्¦च॒¦भ॒द्र‌म्¦बि॒भृ॒था‌म्¦ऋत᳚‌म्¦च॒ |
रा॒यः¦च॒¦स्थ¦सु॒।आ॒प॒त्यस्य॑¦पत्नीः᳚¦सर॑स्वती¦तत्¦गृ॒ण॒ते¦वयः॑¦धा॒त् ||

प्रति॒ यदापो॒, अदृ॑श्रमाय॒तीर्घृ॒तं पयां᳚सि॒ बिभ्र॑ती॒र्मधू᳚नि |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

अ॒ध्व॒र्युभि॒र्मन॑सा संविदा॒ना, इन्द्रा᳚य॒ सोमं॒ सुषु॑तं॒ भर᳚न्तीः ||{13/15}{10.30.13}{10.3.1.13}{7.7.26.3}{307, 867, 9105}

प्रति॑¦यत्¦आपः॑¦अदृ॑श्र‌म्¦आ॒ऽय॒तीः¦घृ॒त‌म्¦पयां᳚सि¦बिभ्र॑तीः¦मधू᳚नि |
अ॒ध्व॒र्युऽभिः॑¦मन॑सा¦स॒‌म्ऽवि॒दा॒नाः¦इन्द्रा᳚य¦सोम᳚‌म्¦सुऽसु॑त‌म्¦भर᳚न्तीः ||

एमा, अ॑ग्मन्‌ रे॒वती᳚र्जी॒वध᳚न्या॒, अध्व᳚र्यवः सा॒दय॑ता सखायः |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

नि ब॒र्हिषि॑ धत्तन सोम्यासो॒ऽपां नप्त्रा᳚ संविदा॒नास॑ एनाः ||{14/15}{10.30.14}{10.3.1.14}{7.7.26.4}{308, 867, 9106}

आ¦इ॒माः¦अ॒ग्म॒न्¦रे॒वतीः᳚¦जी॒वऽध᳚न्याः¦अध्व᳚र्यवः¦सा॒दय॑त¦स॒खा॒यः॒ |
नि¦ब॒र्हिषि॑¦ध॒त्त॒न॒¦सो॒म्या॒सः॒¦अ॒पा‌म्¦नप्त्रा᳚¦स॒‌म्ऽवि॒दा॒नासः॑¦ए॒नाः॒ ||

आग्म॒न्नाप॑ उश॒तीर्ब॒र्हिरेदं न्य॑ध्व॒रे, अ॑सदन्देव॒यन्तीः᳚ |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

अध्व᳚र्यवः सुनु॒तेन्द्रा᳚य॒ सोम॒मभू᳚दु वः सु॒शका᳚ देवय॒ज्या ||{15/15}{10.30.15}{10.3.1.15}{7.7.26.5}{309, 867, 9107}

आ¦अ॒ग्म॒न्¦आपः॑¦उ॒श॒तीः¦ब॒र्हिः¦आ¦इ॒द‌म्¦नि¦अ॒ध्व॒रे¦अ॒स॒द॒न्¦दे॒व॒ऽयन्तीः᳚ |
अध्व᳚र्यवः¦सु॒नु॒त¦इन्द्रा᳚य¦सोम᳚‌म्¦अभू᳚त्¦ऊँ॒ इति॑¦वः॒¦सु॒ऽशका᳚¦दे॒व॒ऽय॒ज्या ||

[31] आनोदेवानामित्येकादशर्चस्य सूक्तस्यैलूषःकवषो विश्वेदेवात्रिष्टुप् (भेदपक्षे- विश्वेदेवाः ९ अश्वत्थगर्भाशमी १ उषोग्नी १ एवं ११) |
आ नो᳚ दे॒वाना॒मुप॑ वेतु॒ शंसो॒ विश्वे᳚भिस्तु॒रैरव॑से॒ यज॑त्रः |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

तेभि᳚र्व॒यं सु॑ष॒खायो᳚ भवेम॒ तर᳚न्तो॒ विश्वा᳚ दुरि॒ता स्या᳚म ||{1/11}{10.31.1}{10.3.2.1}{7.7.27.1}{310, 868, 9108}

आ¦नः॒¦दे॒वाना᳚‌म्¦उप॑¦वे॒तु॒¦शंसः॑¦विश्वे᳚भिः¦तु॒रैः¦अव॑से¦यज॑त्रः |
तेभिः॑¦व॒य‌म्¦सु॒ऽस॒खायः॑¦भ॒वे॒म॒¦तर᳚न्तः¦विश्वा᳚¦दुः॒ऽ‌इ॒ता¦स्या॒म॒ ||

परि॑ चि॒न्मर्तो॒ द्रवि॑णं ममन्यादृ॒तस्य॑ प॒था नम॒सा वि॑वासेत् |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

उ॒त स्वेन॒ क्रतु॑ना॒ सं व॑देत॒ श्रेयां᳚सं॒ दक्षं॒ मन॑सा जगृभ्यात् ||{2/11}{10.31.2}{10.3.2.2}{7.7.27.2}{311, 868, 9109}

परि॑¦चि॒त्¦मर्तः॑¦द्रवि॑ण‌म्¦म॒म॒न्या॒त्¦ऋ॒तस्य॑¦प॒था¦नम॑सा¦आ¦वि॒वा॒से॒त् |
उ॒त¦स्वेन॑¦क्रतु॑ना¦स‌म्¦व॒दे॒त॒¦श्रेयां᳚स‌म्¦दक्ष᳚‌म्¦मन॑सा¦ज॒गृ॒भ्या॒त् ||

अधा᳚यि धी॒तिरस॑सृग्र॒मंशा᳚स्ती॒र्थे न द॒स्ममुप॑ य॒न्त्यूमाः᳚ |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

अ॒भ्या᳚नश्म सुवि॒तस्य॑ शू॒षं नवे᳚दसो, अ॒मृता᳚नामभूम ||{3/11}{10.31.3}{10.3.2.3}{7.7.27.3}{312, 868, 9110}

अधा᳚यि¦धी॒तिः¦अस॑सृग्र‌म्¦अंशाः᳚¦ती॒र्थे¦न¦द॒स्म‌म्¦उप॑¦य॒न्ति॒¦ऊमाः᳚ |
अ॒भि¦आ॒न॒श्म॒¦सु॒वि॒तस्य॑¦शू॒ष‌म्¦नवे᳚दसः¦अ॒मृता᳚ना‌म्¦अ॒भू॒म॒ ||

नित्य॑श्चाकन्या॒त्स्वप॑ति॒र्दमू᳚ना॒ यस्मा᳚, उ दे॒वः स॑वि॒ता ज॒जान॑ |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

भगो᳚ वा॒ गोभि॑रर्य॒मेम॑नज्या॒त्सो, अ॑स्मै॒ चारु॑श्छदयदु॒त स्या᳚त् ||{4/11}{10.31.4}{10.3.2.4}{7.7.27.4}{313, 868, 9111}

नित्यः॑¦चा॒क॒न्या॒त्¦स्वऽप॑तिः¦दमू᳚नाः¦यस्मै᳚¦ऊँ॒ इति॑¦दे॒वः¦स॒वि॒ता¦ज॒जान॑ |
भगः॑¦वा॒¦गोभिः॑¦अ॒र्य॒मा¦ई॒‌म्¦अ॒न॒ज्या॒त्¦सः¦अ॒स्मै॒¦चारुः॑¦छ॒द॒य॒त्¦उ॒त¦स्या॒त् ||

इ॒यं सा भू᳚या, उ॒षसा᳚मिव॒ क्षा यद्ध॑ क्षु॒मन्तः॒ शव॑सा स॒माय॑न् |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

अ॒स्य स्तु॒तिं ज॑रि॒तुर्भिक्ष॑माणा॒, आ नः॑ श॒ग्मास॒ उप॑ यन्तु॒ वाजाः᳚ ||{5/11}{10.31.5}{10.3.2.5}{7.7.27.5}{314, 868, 9112}

इ॒य‌म्¦सा¦भू॒याः॒¦उ॒षसा᳚‌म्ऽ‌इव¦क्षाः¦यत्¦ह॒¦क्षु॒ऽमन्तः॑¦शव॑सा¦स॒‌म्ऽआय॑न् |
अ॒स्य¦स्तु॒ति‌म्¦ज॒रि॒तुः¦भिक्ष॑माणाः¦आ¦नः॒¦श॒ग्मासः॑¦उप॑¦य॒न्तु॒¦वाजाः᳚ ||

अ॒स्येदे॒षा सु॑म॒तिः प॑प्रथा॒नाभ॑वत्पू॒र्व्या भूम॑ना॒ गौः |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

अ॒स्य सनी᳚ळा॒, असु॑रस्य॒ योनौ᳚ समा॒न आ भर॑णे॒ बिभ्र॑माणाः ||{6/11}{10.31.6}{10.3.2.6}{7.7.28.1}{315, 868, 9113}

अ॒स्य¦इत्¦ए॒षा¦सु॒ऽम॒तिः¦प॒प्र॒था॒ना¦अभ॑वत्¦पू॒र्व्या¦भूम॑ना¦गौः |
अ॒स्य¦सऽनी᳚ळाः¦असु॑रस्य¦योनौ᳚¦स॒मा॒ने¦आ¦भर॑णे¦बिभ्र॑माणाः ||

किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ᳚स॒ यतो॒ द्यावा᳚पृथि॒वी नि॑ष्टत॒क्षुः |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

सं॒त॒स्था॒ने, अ॒जरे᳚, इ॒तऊ᳚ती॒, अहा᳚नि पू॒र्वीरु॒षसो᳚ जरन्त ||{7/11}{10.31.7}{10.3.2.7}{7.7.28.2}{316, 868, 9114}

कि‌म्¦स्वि॒त्¦वन᳚‌म्¦कः¦ऊँ॒ इति॑¦सः¦वृ॒क्षः¦आ॒स॒¦यतः॑¦द्यावा᳚पृथि॒वी इति॑¦निः॒ऽत॒त॒क्षुः |
सं॒त॒स्था॒ने इति॑ स॒‌म्ऽत॒स्था॒ने¦अ॒जरे॒ इति॑¦इ॒तऊ᳚ती॒ इती॒तःऽऊ᳚ती¦अहा᳚नि¦पू॒र्वीः¦उ॒षसः॑¦ज॒र॒न्त॒ ||

नैताव॑दे॒ना प॒रो, अ॒न्यद॑स्त्यु॒क्षा स द्यावा᳚पृथि॒वी बि॑भर्ति |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

त्वचं᳚ प॒वित्रं᳚ कृणुत स्व॒धावा॒न्यदीं॒ सूर्यं॒ न ह॒रितो॒ वह᳚न्ति ||{8/11}{10.31.8}{10.3.2.8}{7.7.28.3}{317, 868, 9115}

न¦ए॒ताव॑त्¦ए॒ना¦प॒रः¦अ॒न्यत्¦अ॒स्ति॒¦उ॒क्षा¦सः¦द्यावा᳚पृथि॒वी इति॑¦बि॒भ॒र्ति॒ |
त्वच᳚‌म्¦प॒वित्र᳚‌म्¦कृ॒णु॒त॒¦स्व॒धाऽवा᳚न्¦यत्¦ई॒‌म्¦सूर्य᳚‌म्¦न¦ह॒रितः॑¦वह᳚न्ति ||

स्ते॒गो न क्षामत्ये᳚ति पृ॒थ्वीं मिहं॒ न वातो॒ वि ह॑ वाति॒ भूम॑ |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

मि॒त्रो यत्र॒ वरु॑णो, अ॒ज्यमा᳚नो॒ऽग्निर्वने॒ न व्यसृ॑ष्ट॒ शोक᳚म् ||{9/11}{10.31.9}{10.3.2.9}{7.7.28.4}{318, 868, 9116}

स्ते॒गः¦न¦क्ष‌म्¦अति॑¦ए॒ति॒¦पृ॒थ्वी‌म्¦मिह᳚‌म्¦न¦वातः॑¦वि¦ह॒¦वाति॑¦भूम॑ |
मि॒त्रः¦यत्र॑¦वरु॑णः¦अ॒ज्यमा᳚नः¦अ॒ग्निः¦वने᳚¦न¦वि¦असृ॑ष्ट¦शोक᳚‌म् ||

स्त॒रीर्यत्सूत॑ स॒द्यो, अ॒ज्यमा᳚ना॒ व्यथि॑रव्य॒थीः कृ॑णुत॒ स्वगो᳚पा |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

पु॒त्रो यत्पूर्वः॑ पि॒त्रोर्जनि॑ष्ट श॒म्यां गौर्ज॑गार॒ यद्ध॑ पृ॒च्छान् ||{10/11}{10.31.10}{10.3.2.10}{7.7.28.5}{319, 868, 9117}

स्त॒रीः¦यत्¦सूत॑¦स॒द्यः¦अ॒ज्यमा᳚ना¦व्यथिः॑¦अ॒व्य॒थीः¦कृ॒णु॒त॒¦स्वऽगो᳚पा |
पु॒त्रः¦यत्¦पूर्वः॑¦पि॒त्रोः¦जनि॑ष्ट¦श॒म्या‌म्¦गौः¦ज॒गा॒र॒¦यत्¦ह॒¦पृ॒च्छान् ||

उ॒त कण्वं᳚ नृ॒षदः॑ पु॒त्रमा᳚हुरु॒त श्या॒वो धन॒माद॑त्त वा॒जी |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

प्र कृ॒ष्णाय॒ रुश॑दपिन्व॒तोध᳚रृ॒तमत्र॒ नकि॑रस्मा, अपीपेत् ||{11/11}{10.31.11}{10.3.2.11}{7.7.28.6}{320, 868, 9118}

उ॒त¦कण्व᳚‌म्¦नृ॒ऽसदः॑¦पु॒त्र‌म्¦आ॒हुः॒¦उ॒त¦श्या॒वः¦धन᳚‌म्¦आ¦अ॒द॒त्त॒¦वा॒जी |
प्र¦कृ॒ष्णाय॑¦रुश॑त्¦अ॒पि॒न्व॒त॒¦ऊधः॑¦ऋ॒त‌म्¦अत्र॑¦नकिः॑¦अ॒स्मै॒¦अ॒पी॒पे॒त् ||

[32] प्रसुग्मंतेति नवर्चस्य सूक्तस्यैलूषः कवषइंद्रोजगती अंत्याश्चतस्रस्त्रिष्टुभः |
प्र सु ग्मन्ता᳚ धियसा॒नस्य॑ स॒क्षणि॑ व॒रेभि᳚र्व॒राँ, अ॒भि षु प्र॒सीद॑तः |{ऐलूषः कवषः | इन्द्रः | जगती}

अ॒स्माक॒मिन्द्र॑ उ॒भयं᳚ जुजोषति॒ यत्सो॒म्यस्यान्ध॑सो॒ बुबो᳚धति ||{1/9}{10.32.1}{10.3.3.1}{7.7.29.1}{321, 869, 9119}

प्र¦सु¦ग्मन्ता᳚¦धि॒य॒सा॒नस्य॑¦स॒क्षणि॑¦व॒रेभिः॑¦व॒रान्¦अ॒भि¦सु¦प्र॒ऽसीद॑तः |
अ॒स्माक᳚‌म्¦इन्द्रः॑¦उ॒भय᳚‌म्¦जु॒जो॒ष॒ति॒¦यत्¦सो॒म्यस्य॑¦अन्ध॑सः¦बुबो᳚धति ||

वी᳚न्द्र यासि दि॒व्यानि॑ रोच॒ना वि पार्थि॑वानि॒ रज॑सा पुरुष्टुत |{ऐलूषः कवषः | इन्द्रः | जगती}

ये त्वा॒ वह᳚न्ति॒ मुहु॑रध्व॒राँ, उप॒ ते सु व᳚न्वन्तु वग्व॒नाँ, अ॑रा॒धसः॑ ||{2/9}{10.32.2}{10.3.3.2}{7.7.29.2}{322, 869, 9120}

वि¦इ॒न्द्र॒¦या॒सि॒¦दि॒व्यानि॑¦रो॒च॒ना¦वि¦पार्थि॑वानि¦रज॑सा¦पु॒रु॒ऽस्तु॒त॒ |
ये¦त्वा॒¦वह᳚न्ति¦मुहुः॑¦अ॒ध्व॒रान्¦उप॑¦ते¦सु¦व॒न्व॒न्तु॒¦व॒ग्व॒नान्¦अ॒रा॒धसः॑ ||

तदिन्मे᳚ छन्‌ त्स॒द्वपु॑षो॒ वपु॑ष्टरं पु॒त्रो यज्जानं᳚ पि॒त्रोर॒धीय॑ति |{ऐलूषः कवषः | इन्द्रः | जगती}

जा॒या पतिं᳚ वहति व॒ग्नुना᳚ सु॒मत्पुं॒स इद्भ॒द्रो व॑ह॒तुः परि॑ष्कृतः ||{3/9}{10.32.3}{10.3.3.3}{7.7.29.3}{323, 869, 9121}

तत्¦इत्¦मे॒¦छ॒न्त्स॒त्¦वपु॑षः¦वपुः॑ऽतर‌म्¦पु॒त्रः¦यत्¦जान᳚‌म्¦पि॒त्रोः¦अ॒धि॒ऽ‌इय॑ति |
जा॒या¦पति᳚‌म्¦व॒ह॒ति॒¦व॒नुना᳚¦सु॒ऽमत्¦पुं॒सः¦इत्¦भ॒द्रः¦व॒ह॒तुः¦परि॑ऽकृतः ||

तदित्स॒धस्थ॑म॒भि चारु॑ दीधय॒ गावो॒ यच्छास᳚न्वह॒तुं न धे॒नवः॑ |{ऐलूषः कवषः | इन्द्रः | जगती}

मा॒ता यन्मन्तु᳚र्यू॒थस्य॑ पू॒र्व्याभि वा॒णस्य॑ स॒प्तधा᳚तु॒रिज्जनः॑ ||{4/9}{10.32.4}{10.3.3.4}{7.7.29.4}{324, 869, 9122}

तत्¦इत्¦स॒धऽस्थ᳚‌म्¦अ॒भि¦चारु॑¦दी॒ध॒य॒¦गावः॑¦यत्¦शास॑न्¦व॒ह॒तु‌म्¦न¦धे॒नवः॑ |
मा॒ता¦यत्¦मन्तुः॑¦यू॒थस्य॑¦पू॒र्व्या¦अ॒भि¦वा॒णस्य॑¦स॒प्तऽधा᳚तुः¦इत्¦जनः॑ ||

प्र वोऽच्छा᳚ रिरिचे देव॒युष्प॒दमेको᳚ रु॒द्रेभि᳚र्याति तु॒र्वणिः॑ |{ऐलूषः कवषः | इन्द्रः | जगती}

ज॒रा वा॒ येष्व॒मृते᳚षु दा॒वने॒ परि॑ व॒ ऊमे᳚भ्यः सिञ्चता॒ मधु॑ ||{5/9}{10.32.5}{10.3.3.5}{7.7.29.5}{325, 869, 9123}

प्र¦वः॒¦अच्छ॑¦रि॒रि॒चे॒¦दे॒व॒ऽयुः¦प॒द‌म्¦एकः॑¦रु॒द्रेभिः॑¦या॒ति॒¦तु॒र्वणिः॑ |
ज॒रा¦वा॒¦येषु॑¦अ॒मृते᳚षु¦दा॒वने᳚¦परि॑¦वः॒¦ऊमे᳚भ्यः¦सिं॒च॒त॒¦मधु॑ ||

नि॒धी॒यमा᳚न॒मप॑गूळ्हम॒प्सु प्र मे᳚ दे॒वानां᳚ व्रत॒पा, उ॑वाच |{ऐलूषः कवषः | इन्द्रः | त्रिष्टुप्}

इन्द्रो᳚ वि॒द्वाँ, अनु॒ हि त्वा᳚ च॒चक्ष॒ तेना॒हम॑ग्ने॒, अनु॑शिष्ट॒ आगा᳚म् ||{6/9}{10.32.6}{10.3.3.6}{7.7.30.1}{326, 869, 9124}

नि॒ऽधी॒यमा᳚न‌म्¦अप॑ऽगूळ्ह‌म्¦अ॒प्ऽसु¦प्र¦मे॒¦दे॒वाना᳚‌म्¦व्र॒त॒ऽपाः¦उ॒वा॒च॒ |
इन्द्रः॑¦वि॒द्वान्¦अनु॑¦हि¦त्वा॒¦च॒चक्ष॑¦तेन॑¦अ॒ह‌म्¦अ॒ग्ने॒¦अनु॑ऽशिष्टः¦आ¦अ॒गा॒‌म् ||

अक्षे᳚त्रवित्‌ क्षेत्र॒विदं॒ ह्यप्रा॒ट्स प्रैति॑ क्षेत्र॒विदानु॑शिष्टः |{ऐलूषः कवषः | इन्द्रः | त्रिष्टुप्}

ए॒तद्वै भ॒द्रम॑नु॒शास॑नस्यो॒त स्रु॒तिं वि᳚न्दत्यञ्ज॒सीना᳚म् ||{7/9}{10.32.7}{10.3.3.7}{7.7.30.2}{327, 869, 9125}

अक्षे᳚त्रऽवित्¦क्षे॒त्र॒ऽविद᳚‌म्¦हि¦अप्रा᳚ट्¦सः¦प्र¦ए॒ति॒¦क्षे॒त्र॒ऽविदा᳚¦अनु॑ऽशिष्टः |
ए॒तत्¦वै॒¦भ॒द्र‌म्¦अ॒नु॒ऽशास॑नस्य¦उ॒त¦स्रु॒ति‌म्¦वि॒न्द॒ति॒¦अं॒ज॒सीना᳚‌म् ||

अ॒द्येदु॒ प्राणी॒दम॑मन्नि॒माहापी᳚वृतो, अधयन्मा॒तुरूधः॑ |{ऐलूषः कवषः | इन्द्रः | त्रिष्टुप्}

एमे᳚नमाप जरि॒मा युवा᳚न॒महे᳚ळ॒न्वसुः॑ सु॒मना᳚ बभूव ||{8/9}{10.32.8}{10.3.3.8}{7.7.30.3}{328, 869, 9126}

अ॒द्य¦इत्¦ऊँ॒ इति॑¦प्र¦आ॒णी॒त्¦अम॑मन्¦इ॒मा¦अहा᳚¦अपि॑ऽवृतः¦अ॒ध॒य॒त्¦मा॒तुः¦ऊधः॑ |
आ¦ई॒‌म्¦ए॒न॒‌म्¦आ॒प॒¦ज॒रि॒मा¦युवा᳚न‌म्¦अहे᳚ळन्¦वसुः॑¦सु॒ऽमनाः᳚¦ब॒भू॒व॒ ||

ए॒तानि॑ भ॒द्रा क॑लश क्रियाम॒ कुरु॑श्रवण॒ दद॑तो म॒घानि॑ |{ऐलूषः कवषः | इन्द्रः | त्रिष्टुप्}

दा॒न इद्वो᳚ मघवानः॒ सो, अ॑स्त्व॒यं च॒ सोमो᳚ हृ॒दि यं बिभ᳚र्मि ||{9/9}{10.32.9}{10.3.3.9}{7.7.30.4}{329, 869, 9127}

ए॒तानि॑¦भ॒द्रा¦क॒ल॒श॒¦क्रि॒या॒म॒¦कुरु॑ऽश्रवण¦दद॑तः¦म॒घानि॑ |
दा॒नः¦इत्¦वः॒¦म॒घ॒ऽवा॒नः॒¦सः¦अ॒स्तु॒¦अ॒य‌म्¦च॒¦सोमः॑¦हृ॒दि¦य‌म्¦बिभ᳚र्मि ||

[33] प्रमायुयुज्रइति नवर्चस्य सूक्तस्यैलूषःकवषऋषिः आद्याया विश्वेदेवाः ततोद्वयोरिंद्रः चतुर्थीपंचम्योः कुरुश्रवणः षष्ठ्यदादिचतसृणामुपश्र वा आद्यात्रिष्टुप् द्वितीयाबृहती तृतीया सतोबृहती शेषाः षड्‌गायत्र्यः |
प्र मा᳚ युयुज्रे प्र॒युजो॒ जना᳚नां॒ वहा᳚मि स्म पू॒षण॒मन्त॑रेण |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

विश्वे᳚ दे॒वासो॒, अध॒ माम॑रक्षन्दुः॒शासु॒रागा॒दिति॒ घोष॑ आसीत् ||{1/9}{10.33.1}{10.3.4.1}{7.8.1.1}{330, 870, 9128}

प्र¦मा॒¦यु॒यु॒ज्रे॒¦प्र॒ऽयुजः॑¦जना᳚ना‌म्¦वहा᳚मि¦स्म॒¦पू॒षण᳚‌म्¦अन्त॑रेण |
विश्वे᳚¦दे॒वासः॑¦अध॑¦मा‌म्¦अ॒र॒क्ष॒न्¦दुः॒ऽशासुः॑¦आ¦अ॒गा॒त्¦इति॑¦घोषः॑¦आ॒सी॒त् ||

सं मा᳚ तपन्त्य॒भितः॑ स॒पत्नी᳚रिव॒ पर्श॑वः |{ऐलूषः कवषः | इंद्रः | बृहती}

नि बा᳚धते॒, अम॑तिर्न॒ग्नता॒ जसु॒र्वेर्न वे᳚वीयते म॒तिः ||{2/9}{10.33.2}{10.3.4.2}{7.8.1.2}{331, 870, 9129}

स‌म्¦मा॒¦त॒प॒न्ति॒¦अ॒भितः॑¦स॒पत्नीः᳚ऽ‌इव¦पर्श॑वः |
नि¦बा॒ध॒ते॒¦अम॑तिः¦न॒ग्नता᳚¦जसुः॑¦वेः¦न¦वे॒वी॒य॒ते॒¦म॒तिः ||

मूषो॒ न शि॒श्ना व्य॑दन्ति मा॒ध्यः॑ स्तो॒तारं᳚ ते शतक्रतो |{ऐलूषः कवषः | इंद्रः | सतोबृहती}

स॒कृत्सु नो᳚ मघवन्निन्द्र मृळ॒याधा᳚ पि॒तेव॑ नो भव ||{3/9}{10.33.3}{10.3.4.3}{7.8.1.3}{332, 870, 9130}

मूषः॑¦न¦शि॒श्ना¦वि¦अ॒द॒न्ति॒¦मा॒¦आ॒ऽध्यः॑¦स्तो॒तार᳚‌म्¦ते॒¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो |
स॒कृत्¦सु¦नः॒¦म॒घ॒ऽव॒न्¦इ॒न्द्र॒¦मृ॒ळ॒य॒¦अध॑¦पि॒ताऽ‌इ᳚व¦नः॒¦भ॒व॒ ||

कु॒रु॒श्रव॑णमावृणि॒ राजा᳚नं॒ त्रास॑दस्यवम् |{ऐलूषः कवषः | कुरुश्रवणः | गायत्री}

मंहि॑ष्ठं वा॒घता॒मृषिः॑ ||{4/9}{10.33.4}{10.3.4.4}{7.8.1.4}{333, 870, 9131}

कु॒रु॒ऽश्रव॑ण‌म्¦अ॒वृ॒णि॒¦राजा᳚न‌म्¦त्रास॑दस्यव‌म् | मंहि॑ष्ठ‌म्¦वा॒घता᳚‌म्¦ऋषिः॑ ||

यस्य॑ मा ह॒रितो॒ रथे᳚ ति॒स्रो वह᳚न्ति साधु॒या |{ऐलूषः कवषः | कुरुश्रवणः | गायत्री}

स्तवै᳚ स॒हस्र॑दक्षिणे ||{5/9}{10.33.5}{10.3.4.5}{7.8.1.5}{334, 870, 9132}

यस्य॑¦मा॒¦ह॒रितः॑¦रथे᳚¦ति॒स्रः¦वह᳚न्ति¦सा॒धु॒ऽया | स्तवै᳚¦स॒हस्र॑ऽदक्षिणे ||

यस्य॒ प्रस्वा᳚दसो॒ गिर॑ उप॒मश्र॑वसः पि॒तुः |{ऐलूषः कवषः | उपश्र वा | गायत्री}

क्षेत्रं॒ न र॒ण्वमू॒चुषे᳚ ||{6/9}{10.33.6}{10.3.4.6}{7.8.2.1}{335, 870, 9133}

यस्य॑¦प्रऽस्वा᳚दसः¦गिरः॑¦उ॒प॒मऽश्र॑वसः¦पि॒तुः | क्षेत्र᳚‌म्¦न¦र॒ण्व‌म्¦ऊ॒चुषे᳚ ||

अधि॑ पुत्रोपमश्रवो॒ नपा᳚न्मित्रातिथेरिहि |{ऐलूषः कवषः | उपश्र वा | गायत्री}

पि॒तुष्टे᳚, अस्मि वन्दि॒ता ||{7/9}{10.33.7}{10.3.4.7}{7.8.2.2}{336, 870, 9134}

अधि॑¦पु॒त्र॒¦उ॒प॒म॒ऽश्र॒वः॒¦नपा᳚त्¦मि॒त्र॒।आ॒ति॒थेः॒¦इ॒हि॒ | पि॒तुः¦ते॒¦अ॒स्मि॒¦व॒न्दि॒ता ||

यदीशी᳚या॒मृता᳚नामु॒त वा॒ मर्त्या᳚नाम् |{ऐलूषः कवषः | उपश्र वा | गायत्री}

जीवे॒दिन्म॒घवा॒ मम॑ ||{8/9}{10.33.8}{10.3.4.8}{7.8.2.3}{337, 870, 9135}

यत्¦ईशी᳚य¦अ॒मृता᳚ना‌म्¦उ॒त¦वा॒¦मर्त्या᳚ना‌म् | जीवे᳚त्¦इ॒त्¦म॒घऽवा᳚¦मम॑ ||

न दे॒वाना॒मति᳚ व्र॒तं श॒तात्मा᳚ च॒न जी᳚वति |{ऐलूषः कवषः | उपश्र वा | गायत्री}

तथा᳚ यु॒जा वि वा᳚वृते ||{9/9}{10.33.9}{10.3.4.9}{7.8.2.4}{338, 870, 9136}

न¦दे॒वाना᳚‌म्¦अति॑¦व्र॒त‌म्¦श॒तऽआ᳚त्मा¦च॒न¦जी॒व॒ति॒ | तथा᳚¦यु॒जा¦वि¦व॒वृ॒ते॒ ||

[34] प्रावेपाइति चतुर्दशर्चस्य सूक्तस्य मौजवानक्ष ऋषिः आद्या सप्तमी नवमीद्वादशीनामक्षादेवताः त्रयोदश्याः कृषिः शिष्टानामक्षनिंदा देवता त्रिष्टुप् सप्तमी जगती |
प्रा॒वे॒पा मा᳚ बृह॒तो मा᳚दयन्ति प्रवाते॒जा, इरि॑णे॒ वर्वृ॑तानाः |{मौजवानक्षः | अक्षादेवताः | त्रिष्टुप्}

सोम॑स्येव मौजव॒तस्य॑ भ॒क्षो वि॒भीद॑को॒ जागृ॑वि॒र्मह्य॑मच्छान् ||{1/14}{10.34.1}{10.3.5.1}{7.8.3.1}{339, 871, 9137}

प्रा॒वे॒पाः¦मा॒¦बृ॒ह॒तः¦मा॒द॒य॒न्ति॒¦प्र॒वा॒ते॒ऽजाः¦इरि॑णे¦वर्वृ॑तानाः |
सोम॑स्यऽ‌इव¦मौ॒ज॒ऽव॒तस्य॑¦भ॒क्षः¦वि॒ऽभीद॑कः¦जागृ॑विः¦मह्य᳚‌म्¦अ॒च्छा॒न् ||

न मा᳚ मिमेथ॒ न जि॑हीळ ए॒षा शि॒वा सखि॑भ्य उ॒त मह्य॑मासीत् |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्}

अ॒क्षस्या॒हमे᳚कप॒रस्य॑ हे॒तोरनु᳚व्रता॒मप॑ जा॒याम॑रोधम् ||{2/14}{10.34.2}{10.3.5.2}{7.8.3.2}{340, 871, 9138}

न¦मा॒¦मि॒मे॒थ॒¦न¦जि॒ही॒ळे॒¦ए॒षा¦शि॒वा¦सखि॑ऽभ्यः¦उ॒त¦मह्य᳚‌म्¦आ॒सी॒त् |
अ॒क्षस्य॑¦अ॒ह‌म्¦ए॒क॒ऽप॒रस्य॑¦हे॒तोः¦अनु॑ऽव्रता‌म्¦अप॑¦जा॒या‌म्¦अ॒रो॒ध॒‌म् ||

द्वेष्टि॑ श्व॒श्रूरप॑ जा॒या रु॑णद्धि॒ न ना᳚थि॒तो वि᳚न्दते मर्डि॒तार᳚म् |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्}

अश्व॑स्येव॒ जर॑तो॒ वस्न्य॑स्य॒ नाहं वि᳚न्दामि कित॒वस्य॒ भोग᳚म् ||{3/14}{10.34.3}{10.3.5.3}{7.8.3.3}{341, 871, 9139}

द्वेष्टि॑¦श्व॒श्रूः¦अप॑¦जा॒या¦रु॒ण॒द्धि॒¦न¦ना॒थि॒तः¦वि॒न्द॒ते॒¦म॒र्डि॒तार᳚‌म् |
अश्व॑स्यऽ‌इव¦जर॑तः¦वस्न्य॑स्य¦न¦अ॒ह‌म्¦वि॒न्दा॒मि॒¦कि॒त॒वस्य॑¦भोग᳚‌म् ||

अ॒न्ये जा॒यां परि॑ मृशन्त्यस्य॒ यस्यागृ॑ध॒द्वेद॑ने वा॒ज्य१॑(अ॒)क्षः |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्}

पि॒ता मा॒ता भ्रात॑र एनमाहु॒र्न जा᳚नीमो॒ नय॑ता ब॒द्धमे॒तम् ||{4/14}{10.34.4}{10.3.5.4}{7.8.3.4}{342, 871, 9140}

अ॒न्ये¦जा॒या‌म्¦परि॑¦मृ॒श॒न्ति॒¦अ॒स्य॒¦यस्य॑¦अगृ॑धत्¦वेद॑ने¦वा॒जी¦अ॒क्षः |
पि॒ता¦मा॒ता¦भ्रात॑रः¦ए॒न॒‌म्¦आ॒हुः॒¦न¦जा॒नी॒मः॒¦नय॑त¦ब॒द्ध‌म्¦ए॒त‌म् ||

यदा॒दीध्ये॒ न द॑विषाण्येभिः परा॒यद्भ्योऽव॑ हीये॒ सखि॑भ्यः |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्}

न्यु॑प्ताश्च ब॒भ्रवो॒ वाच॒मक्र॑तँ॒, एमीदे᳚षां निष्कृ॒तं जा॒रिणी᳚व ||{5/14}{10.34.5}{10.3.5.5}{7.8.3.5}{343, 871, 9141}

यत्¦आ॒ऽदी॒ध्ये॒¦न¦द॒वि॒षा॒णि॒¦ए॒भिः॒¦प॒रा॒यत्ऽभ्यः॑¦अव॑¦हीये᳚¦सखि॑ऽभ्यः |
नि।औ᳚प्ताः¦च॒¦ब॒भ्रवः॑¦वाच᳚‌म्¦अक्र॑त¦एमि॑¦इत्¦ए॒षा॒‌म्¦निः॒ऽकृ॒त‌म्¦जा॒रिणी᳚ऽ‌इव ||

स॒भामे᳚ति कित॒वः पृ॒च्छमा᳚नो जे॒ष्यामीति॑ त॒न्वा॒३॑(आ॒) शूशु॑जानः |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्}

अ॒क्षासो᳚, अस्य॒ वि ति॑रन्ति॒ कामं᳚ प्रति॒दीव्ने॒ दध॑त॒ आ कृ॒तानि॑ ||{6/14}{10.34.6}{10.3.5.6}{7.8.4.1}{344, 871, 9142}

स॒भा‌म्¦ए॒ति॒¦कि॒त॒वः¦पृ॒च्छमा᳚नः¦जे॒ष्यामि॑¦इति॑¦त॒न्वा᳚¦शूशु॑जानः |
अ॒क्षासः॑¦अ॒स्य॒¦वि¦ति॒र॒न्ति॒¦काम᳚‌म्¦प्र॒ति॒ऽदीव्ने᳚¦दध॑तः¦आ¦कृ॒तानि॑ ||

अ॒क्षास॒ इद᳚ङ्कु॒शिनो᳚ नितो॒दिनो᳚ नि॒कृत्वा᳚न॒स्तप॑नास्तापयि॒ष्णवः॑ |{मौजवानक्षः | अक्षादेवताः | जगती}

कु॒मा॒रदे᳚ष्णा॒ जय॑तः पुन॒र्हणो॒ मध्वा॒ सम्पृ॑क्ताः कित॒वस्य॑ ब॒र्हणा᳚ ||{7/14}{10.34.7}{10.3.5.7}{7.8.4.2}{345, 871, 9143}

अ॒क्षासः॑¦इत्¦अ॒ङ्कु॒शिनः॑¦नि॒ऽतो॒दिनः॑¦नि॒ऽकृत्वा᳚नः¦तप॑नाः¦ता॒प॒यि॒ष्णवः॑ |
कु॒मा॒रऽदे᳚ष्णाः¦जय॑तः¦पु॒नः॒ऽहनः॑¦मध्वा᳚¦स‌म्ऽपृ॑क्ताः¦कि॒त॒वस्य॑¦ब॒र्हणा᳚ ||

त्रि॒प॒ञ्चा॒शः क्री᳚ळति॒ व्रात॑ एषां दे॒व इ॑व सवि॒ता स॒त्यध᳚र्मा |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्}

उ॒ग्रस्य॑ चिन्म॒न्यवे॒ ना न॑मन्ते॒ राजा᳚ चिदेभ्यो॒ नम॒ इत्कृ॑णोति ||{8/14}{10.34.8}{10.3.5.8}{7.8.4.3}{346, 871, 9144}

त्रि॒ऽपं॒चा॒शः¦क्री॒ळ॒ति॒¦व्रातः॑¦ए॒षा॒‌म्¦दे॒वःऽ‌इ᳚व¦स॒वि॒ता¦स॒त्यऽध᳚र्मा |
उ॒ग्रस्य॑¦चि॒त्¦म॒न्यवे᳚¦न¦न॒म॒न्ते॒¦राजा᳚¦चि॒त्¦ए॒भ्यः॒¦नमः॑¦इत्¦कृ॒णो॒ति॒ ||

नी॒चा व॑र्तन्त उ॒परि॑ स्फुरन्त्यह॒स्तासो॒ हस्त॑वन्तं सहन्ते |{मौजवानक्षः | अक्षादेवताः | त्रिष्टुप्}

दि॒व्या, अङ्गा᳚रा॒, इरि॑णे॒ न्यु॑प्ताः शी॒ताः सन्तो॒ हृद॑यं॒ निर्द॑हन्ति ||{9/14}{10.34.9}{10.3.5.9}{7.8.4.4}{347, 871, 9145}

नी॒चाः¦व॒र्त॒न्ते॒¦उ॒परि॑¦स्फु॒र॒न्ति॒¦अ॒ह॒स्तासः॑¦हस्त॑ऽवन्त‌म्¦स॒ह॒न्ते॒ |
दि॒व्याः¦अङ्गा᳚राः¦इरि॑णे¦नि।औ᳚प्ताः¦शी॒ताः¦सन्तः॑¦हृद॑य‌म्¦निः¦द॒ह॒न्ति॒ ||

जा॒या त॑प्यते कित॒वस्य॑ ही॒ना मा॒ता पु॒त्रस्य॒ चर॑तः॒ क्व॑ स्वित् |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्}

ऋ॒णा॒वा बिभ्य॒द्धन॑मि॒च्छमा᳚नो॒ऽन्येषा॒मस्त॒मुप॒ नक्त॑मेति ||{10/14}{10.34.10}{10.3.5.10}{7.8.4.5}{348, 871, 9146}

जा॒या¦त॒प्य॒ते॒¦कि॒त॒वस्य॑¦ही॒ना¦मा॒ता¦पु॒त्रस्य॑¦चर॑तः¦क्व॑¦स्वि॒त् |
ऋ॒ण॒ऽवा¦बि॒भ्य॒त्¦धन᳚‌म्¦इ॒च्छमा᳚नः¦अ॒न्येषा᳚‌म्¦अस्त᳚‌म्¦उप॑¦नक्त᳚‌म्¦ए॒ति॒ ||

स्त्रियं᳚ दृ॒ष्ट्वाय॑ कित॒वं त॑तापा॒न्येषां᳚ जा॒यां सुकृ॑तं च॒ योनि᳚म् |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्}

पू॒र्वा॒ह्णे, अश्वा᳚न्युयु॒जे हि ब॒भ्रून्‌ त्सो, अ॒ग्नेरन्ते᳚ वृष॒लः प॑पाद ||{11/14}{10.34.11}{10.3.5.11}{7.8.5.1}{349, 871, 9147}

स्त्रिय᳚‌म्¦दृ॒ष्ट्वाय॑¦कि॒त॒व‌म्¦त॒ता॒प॒¦अ॒न्येषा᳚‌म्¦जा॒या‌म्¦सुऽकृ॑त‌म्¦च॒¦योनि᳚‌म् |
पू॒र्वा॒ह्णे¦अश्वा᳚न्¦यु॒यु॒जे¦हि¦ब॒भ्रून्¦सः¦अ॒ग्नेः¦अन्ते᳚¦वृ॒ष॒लः¦प॒पा॒द॒ ||

यो वः॑ सेना॒नीर्म॑ह॒तो ग॒णस्य॒ राजा॒ व्रात॑स्य प्रथ॒मो ब॒भूव॑ |{मौजवानक्षः | अक्षादेवताः | त्रिष्टुप्}

तस्मै᳚ कृणोमि॒ न धना᳚ रुणध्मि॒ दशा॒हं प्राची॒स्तदृ॒तं व॑दामि ||{12/14}{10.34.12}{10.3.5.12}{7.8.5.2}{350, 871, 9148}

यः¦वः॒¦से॒ना॒ऽनीः¦म॒ह॒तः¦ग॒णस्य॑¦राजा᳚¦व्रात॑स्य¦प्र॒थ॒मः¦ब॒भूव॑ |
तस्मै᳚¦कृ॒णो॒मि॒¦न¦धना᳚¦रु॒ण॒ध्मि॒¦दश॑¦अ॒ह‌म्¦प्राचीः᳚¦तत्¦ऋ॒त‌म्¦व॒दा॒मि॒ ||

अ॒क्षैर्मा दी᳚व्यः कृ॒षिमित्कृ॑षस्व वि॒त्ते र॑मस्व ब॒हु मन्य॑मानः |{मौजवानक्षः | कृषिः | त्रिष्टुप्}

तत्र॒ गावः॑ कितव॒ तत्र॑ जा॒या तन्मे॒ वि च॑ष्टे सवि॒तायम॒र्यः ||{13/14}{10.34.13}{10.3.5.13}{7.8.5.3}{351, 871, 9149}

अ॒क्षैः¦मा¦दी॒व्य॒ह्¦कृ॒षि‌म्¦इत्¦कृ॒ष॒स्व॒¦वि॒त्ते¦र॒म॒स्व॒¦ब॒हु¦मन्य॑मानः |
तत्त्र॑¦गावः॑¦कि॒त॒व॒¦तत्र॑¦जा॒या¦तत्¦मे॒¦वि¦च॒ष्टे॒¦स॒वि॒ता¦अ॒य‌म्¦अ॒र्यः ||

मि॒त्रं कृ॑णुध्वं॒ खलु॑ मृ॒ळता᳚ नो॒ मा नो᳚ घो॒रेण॑ चरता॒भि धृ॒ष्णु |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्}

नि वो॒ नु म॒न्युर्वि॑शता॒मरा᳚तिर॒न्यो ब॑भ्रू॒णां प्रसि॑तौ॒ न्व॑स्तु ||{14/14}{10.34.14}{10.3.5.14}{7.8.5.4}{352, 871, 9150}

मि॒त्र‌म्¦कृ॒णु॒ध्व॒‌म्¦खलु॑¦मृ॒ळत॑¦नः॒¦मा¦नः॒¦घो॒रेण॑¦च॒र॒त॒¦अ॒भि¦धृ॒ष्णु |
नि¦वः॒¦नु¦म॒न्युः¦वि॒श॒ता॒‌म्¦अरा᳚तिः¦अ॒न्यः¦ब॒भ्रू॒णा‌म्¦प्रऽसि॑तौ¦नु¦अ॒स्तु॒ ||

[35] अबुध्रमिति चतुर्दशर्चस्य सूक्तस्य धानाकोलुशोविश्वेदेवाजगत्यंत्येद्वेत्रिष्टुभौ (भेद - विश्वेदेवाः ३ उषसोग्निः २ विश्वेदेवाः ९ एवं १४) |
अबु॑ध्रमु॒ त्य इन्द्र॑वन्तो, अ॒ग्नयो॒ ज्योति॒र्भर᳚न्त उ॒षसो॒ व्यु॑ष्टिषु |{धानाकोलुशः | विश्वदेवाः | जगती}

म॒ही द्यावा᳚पृथि॒वी चे᳚तता॒मपो॒ऽद्या दे॒वाना॒मव॒ आ वृ॑णीमहे ||{1/14}{10.35.1}{10.3.6.1}{7.8.6.1}{353, 872, 9151}

अबु॑ध्र‌म्¦ऊँ॒ इति॑¦त्ये¦इन्द्र॑ऽवन्तः¦अ॒ग्नयः॑¦ज्योतिः॑¦भर᳚न्तः¦उ॒षसः॑¦वि।औ᳚ष्टिषु |
म॒ही इति॑¦द्यावा᳚पृथि॒वी इति॑¦चे॒त॒ता॒‌म्¦अपः॑¦अ॒द्य¦दे॒वाना᳚‌म्¦अवः॑¦आ¦वृ॒णी॒म॒हे॒ ||

दि॒वस्पृ॑थि॒व्योरव॒ आ वृ॑णीमहे मा॒तॄन्‌ त्सिन्धू॒न्‌ पर्व॑ताञ्छर्य॒णाव॑तः |{धानाकोलुशः | विश्वदेवाः | जगती}

अ॒ना॒गा॒स्त्वं सूर्य॑मु॒षास॑मीमहे भ॒द्रं सोमः॑ सुवा॒नो, अ॒द्या कृ॑णोतु नः ||{2/14}{10.35.2}{10.3.6.2}{7.8.6.2}{354, 872, 9152}

दि॒वःपृ॑थि॒व्योः¦अवः॑¦आ¦वृ॒णी॒म॒हे॒¦मा॒तॄन्¦सिन्धू᳚न्¦पर्व॑तान्¦श॒र्य॒णाऽव॑तः |
अ॒ना॒गाः॒ऽत्व‌म्¦सूर्य᳚‌म्¦उ॒षस᳚‌म्¦ई॒म॒हे॒¦भ॒द्र‌म्¦सोमः॑¦सु॒वा॒नः¦अ॒द्य¦कृ॒णो॒तु॒¦नः॒ ||

द्यावा᳚ नो, अ॒द्य पृ॑थि॒वी, अना᳚गसो म॒ही त्रा᳚येतां सुवि॒ताय॑ मा॒तरा᳚ |{धानाकोलुशः | विश्वदेवाः | जगती}

उ॒षा, उ॒च्छन्त्यप॑ बाधताम॒घं स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{3/14}{10.35.3}{10.3.6.3}{7.8.6.3}{355, 872, 9153}

द्यावा᳚¦नः॒¦अ॒द्य¦पृ॒थि॒वी इति॑¦अना᳚गसः¦म॒ही इति॑¦त्रा॒ये॒ता॒‌म्¦सु॒वि॒ताय॑¦मा॒तरा᳚ |
उ॒षाः¦उ॒च्छन्ती᳚¦अप॑¦बा॒ध॒ता॒‌म्¦अ॒घ‌म्¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

इ॒यं न॑ उ॒स्रा प्र॑थ॒मा सु॑दे॒व्यं᳚ रे॒वत्स॒निभ्यो᳚ रे॒वती॒ व्यु॑च्छतु |{धानाकोलुशः | विश्वदेवाः | जगती}

आ॒रे म॒न्युं दु᳚र्वि॒दत्र॑स्य धीमहि स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{4/14}{10.35.4}{10.3.6.4}{7.8.6.4}{356, 872, 9154}

इ॒य‌म्¦नः॒¦उ॒स्रा¦प्र॒थ॒मा¦सु॒ऽदे॒व्य᳚‌म्¦रे॒वत्¦स॒निऽभ्यः॑¦रे॒वती᳚¦वि¦उ॒च्छ॒तु॒ |
आ॒रे¦म॒न्यु‌म्¦दुः॒ऽवि॒दत्र॑स्य¦धी॒म॒हि॒¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

प्र याः सिस्र॑ते॒ सूर्य॑स्य र॒श्मिभि॒र्ज्योति॒र्भर᳚न्तीरु॒षसो॒ व्यु॑ष्टिषु |{धानाकोलुशः | विश्वदेवाः | जगती}

भ॒द्रा नो᳚, अ॒द्य श्रव॑से॒ व्यु॑च्छत स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{5/14}{10.35.5}{10.3.6.5}{7.8.6.5}{357, 872, 9155}

प्र¦याः¦सिस्र॑ते¦सूर्य॑स्य¦र॒श्मिऽभिः॑¦ज्योतिः॑¦भर᳚न्तीः¦उ॒षसः॑¦वि।औ᳚ष्टिषु |
भ॒द्राः¦नः॒¦अ॒द्य¦श्रव॑से¦वि¦उ॒च्छ॒त॒¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

अ॒न॒मी॒वा, उ॒षस॒ आ च॑रन्तु न॒ उद॒ग्नयो᳚ जिहतां॒ ज्योति॑षा बृ॒हत् |{धानाकोलुशः | विश्वदेवाः | जगती}

आयु॑क्षाताम॒श्विना॒ तूतु॑जिं॒ रथं᳚ स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{6/14}{10.35.6}{10.3.6.6}{7.8.7.1}{358, 872, 9156}

अ॒न॒मी॒वाः¦उ॒षसः॑¦आ¦च॒र॒न्तु॒¦नः॒¦उत्¦अ॒ग्नयः॑¦जि॒ह॒ता॒‌म्¦ज्योति॑षा¦बृ॒हत् |
अयु॑क्षाता‌म्¦अ॒श्विना᳚¦तूतु॑जि‌म्¦रथ᳚‌म्¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

श्रेष्ठं᳚ नो, अ॒द्य स॑वित॒र्वरे᳚ण्यं भा॒गमा सु॑व॒ स हि र॑त्न॒धा, असि॑ |{धानाकोलुशः | विश्वदेवाः | जगती}

रा॒यो जनि॑त्रीं धि॒षणा॒मुप॑ ब्रुवे स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{7/14}{10.35.7}{10.3.6.7}{7.8.7.2}{359, 872, 9157}

श्रेष्ठ᳚‌म्¦नः॒¦अ॒द्य¦स॒वि॒तः॒¦वरे᳚ण्य‌म्¦भा॒ग‌म्¦आ¦सु॒व॒¦सः¦हि¦र॒त्न॒ऽधाः¦असि॑ |
रा॒यः¦जनि॑त्रीन्¦धि॒षणा᳚‌म्¦उप॑¦ब्रु॒वे॒¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

पिप॑र्तु मा॒ तदृ॒तस्य॑ प्र॒वाच॑नं दे॒वानां॒ यन्म॑नु॒ष्या॒३॑(आ॒) अम᳚न्महि |{धानाकोलुशः | विश्वदेवाः | जगती}

विश्वा॒, इदु॒स्राः स्पळुदे᳚ति॒ सूर्यः॑ स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{8/14}{10.35.8}{10.3.6.8}{7.8.7.3}{360, 872, 9158}

पिप॑र्तु¦मा॒¦तत्¦ऋ॒तस्य॑¦प्र॒ऽवाच॑न‌म्¦दे॒वाना᳚‌म्¦यत्¦म॒नु॒ष्याः᳚¦अम᳚न्महि |
विश्वाः᳚¦इत्¦उ॒स्राः¦स्पट्¦उत्¦ए॒ति॒¦सूर्यः॑¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

अ॒द्वे॒षो, अ॒द्य ब॒र्हिषः॒ स्तरी᳚मणि॒ ग्राव्णां॒ योगे॒ मन्म॑नः॒ साध॑ ईमहे |{धानाकोलुशः | विश्वदेवाः | जगती}

आ॒दि॒त्यानां॒ शर्म॑णि॒ स्था भु॑रण्यसि स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{9/14}{10.35.9}{10.3.6.9}{7.8.7.4}{361, 872, 9159}

अ॒द्वे॒षः¦अ॒द्य¦ब॒र्हिषः॑¦स्तरी᳚मणि¦ग्राव्णा᳚‌म्¦योगे᳚¦मन्म॑नः¦साधे᳚¦ई॒म॒हे॒ |
आ॒दि॒त्याना᳚‌म्¦शर्म॑णि¦स्थाः¦भु॒र॒ण्य॒सि॒¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

आ नो᳚ ब॒र्हिः स॑ध॒मादे᳚ बृ॒हद्दि॒वि दे॒वाँ, ई᳚ळे सा॒दया᳚ स॒प्त होतॄ॑न् |{धानाकोलुशः | विश्वदेवाः | जगती}

इन्द्रं᳚ मि॒त्रं वरु॑णं सा॒तये॒ भगं᳚ स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{10/14}{10.35.10}{10.3.6.10}{7.8.7.5}{362, 872, 9160}

आ¦नः॒¦ब॒र्हिः¦स॒ध॒ऽमादे᳚¦बृ॒हत्¦दि॒वि¦दे॒वान्¦ई॒ळे॒¦सा॒दय॑¦स॒प्त¦होतॄ॑न् |
इन्द्र᳚‌म्¦मि॒त्र‌म्¦वरु॑ण‌म्¦सा॒तये᳚¦भग᳚‌म्¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

त आ᳚दित्या॒, आ ग॑ता स॒र्वता᳚तये वृ॒धे नो᳚ य॒ज्ञम॑वता सजोषसः |{धानाकोलुशः | विश्वदेवाः | जगती}

बृह॒स्पतिं᳚ पू॒षण॑म॒श्विना॒ भगं᳚ स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{11/14}{10.35.11}{10.3.6.11}{7.8.8.1}{363, 872, 9161}

ते¦आ॒दि॒त्याः॒¦आ¦ग॒त॒¦स॒र्वता᳚तये¦वृ॒धे¦नः॒¦य॒ज्ञ‌म्¦अ॒व॒त॒¦स॒ऽजो॒ष॒सः॒ |
बृह॒स्पति᳚‌म्¦पू॒षण᳚‌म्¦अ॒श्विना᳚¦भग᳚‌म्¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

तन्नो᳚ देवा यच्छत सुप्रवाच॒नं छ॒र्दिरा᳚दित्याः सु॒भरं᳚ नृ॒पाय्य᳚म् |{धानाकोलुशः | विश्वदेवाः | जगती}

पश्वे᳚ तो॒काय॒ तन॑याय जी॒वसे᳚ स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{12/14}{10.35.12}{10.3.6.12}{7.8.8.2}{364, 872, 9162}

तत्¦नः॒¦दे॒वाः॒¦य॒च्छ॒त॒¦सु॒ऽप्र॒वा॒च॒न‌म्¦छ॒र्दिः¦आ॒दि॒त्याः॒¦सु॒ऽभर᳚‌म्¦नृ॒ऽपाय्य᳚‌म् |
पश्वे᳚¦तो॒काय॑¦तन॑याय¦जी॒वसे᳚¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

विश्वे᳚, अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे᳚ भवन्त्व॒ग्नयः॒ समि॑द्धाः |{धानाकोलुशः | विश्वदेवाः | त्रिष्टुप्}

विश्वे᳚ नो दे॒वा, अव॒सा ग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो᳚, अ॒स्मे ||{13/14}{10.35.13}{10.3.6.13}{7.8.8.3}{365, 872, 9163}

विश्वे᳚¦अ॒द्य¦म॒रुतः॑¦विश्वे᳚¦ऊ॒ती¦विश्वे᳚¦भ॒व॒न्तु॒¦अ॒ग्नयः॑¦स‌म्ऽ‌इ᳚द्धाः |
विश्वे᳚¦नः॒¦दे॒वाः¦अ॒व॒सा¦आ¦ग॒म॒न्तु॒¦विश्व᳚‌म्¦अ॒स्तु॒¦द्रवि॑ण‌म्¦वाजः॑¦अ॒स्मे इति॑ ||

यं दे᳚वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं त्राय॑ध्वे॒ यं पि॑पृ॒थात्यंहः॑ |{धानाकोलुशः | विश्वदेवाः | त्रिष्टुप्}

यो वो᳚ गोपी॒थे न भ॒यस्य॒ वेद॒ ते स्या᳚म दे॒ववी᳚तये तुरासः ||{14/14}{10.35.14}{10.3.6.14}{7.8.8.4}{366, 872, 9164}

य‌म्¦दे॒वा॒सः॒¦अव॑थ¦वाज॑ऽसातौ¦य‌म्¦त्राय॑ध्वे¦य‌म्¦पि॒पृ॒थ¦अति॑¦अंहः॑ |
यः¦वः॒¦गो॒ऽपी॒थे¦न¦भ॒यस्य॑¦वेद॑¦ते¦स्या॒म॒¦दे॒वऽवी᳚तये¦तु॒रा॒सः॒ ||

[36] उषासानक्तेति चतुर्दशर्चस्य सूक्तस्य धानाकोलुशोविश्वेदेवाजगत्यंत्येद्वे त्रिष्टुभौ (भेदपक्षे - विश्वेदेवाः १३ सविता १ एवं १४) |
उ॒षासा॒नक्ता᳚ बृह॒ती सु॒पेश॑सा॒ द्यावा॒क्षामा॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{धानाकोलुशः | विश्वदेवाः | जगती}

इन्द्रं᳚ हुवे म॒रुतः॒ पर्व॑ताँ, अ॒प आ᳚दि॒त्यान्द्यावा᳚पृथि॒वी, अ॒पः स्वः॑ ||{1/14}{10.36.1}{10.3.7.1}{7.8.9.1}{367, 873, 9165}

उ॒षसा॒नक्ता᳚¦बृ॒ह॒ती इति॑¦सु॒ऽपेश॑सा¦द्यावा॒क्षामा᳚¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा |
इन्द्र᳚‌म्¦हु॒वे॒¦म॒रुतः॑¦पर्व॑तान्¦अ॒पः¦आ॒दि॒त्यान्¦द्यावा᳚पृथि॒वी इति॑¦अ॒पः¦स्व१॒॑रिति॒ स्वः॑ ||

द्यौश्च॑ नः पृथि॒वी च॒ प्रचे᳚तस ऋ॒ताव॑री रक्षता॒मंह॑सो रि॒षः |{धानाकोलुशः | विश्वदेवाः | जगती}

मा दु᳚र्वि॒दत्रा॒ निरृ॑तिर्न ईशत॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{2/14}{10.36.2}{10.3.7.2}{7.8.9.2}{368, 873, 9166}

द्यौः¦च॒¦नः॒¦पृ॒थि॒वी¦च॒¦प्रऽचे᳚तसा¦ऋ॒तव॑री॒ इत्यृ॒तऽव॑री¦र॒क्ष॒ता॒‌म्¦अंह॑सः¦रि॒षः |
मा¦दुः॒ऽवि॒दत्रा᳚¦निःऽऋ॑तिः¦नः॒¦ई॒श॒त॒¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

विश्व॑स्मान्नो॒, अदि॑तिः पा॒त्वंह॑सो मा॒ता मि॒त्रस्य॒ वरु॑णस्य रे॒वतः॑ |{धानाकोलुशः | विश्वदेवाः | जगती}

स्व᳚र्व॒ज्ज्योति॑रवृ॒कं न॑शीमहि॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{3/14}{10.36.3}{10.3.7.3}{7.8.9.3}{369, 873, 9167}

विश्व॑स्मात्¦नः॒¦अदि॑तिः¦पा॒तु॒¦अंह॑सः¦मा॒ता¦मि॒त्रस्य॑¦वरु॑णस्य¦रे॒वतः॑ |
स्वः॑ऽवत्¦ज्योतिः॑¦अ॒वृ॒क‌म्¦न॒शी॒म॒हि॒¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

ग्रावा॒ वद॒न्नप॒ रक्षां᳚सि सेधतु दु॒ष्ष्वप्न्यं॒ निरृ॑तिं॒ विश्व॑म॒त्रिण᳚म् |{धानाकोलुशः | विश्वदेवाः | जगती}

आ॒दि॒त्यं शर्म॑ म॒रुता᳚मशीमहि॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{4/14}{10.36.4}{10.3.7.4}{7.8.9.4}{370, 873, 9168}

ग्रावा᳚¦वद॑न्¦अप॑¦रक्षां᳚सि¦से॒ध॒तु॒¦दुः॒ऽस्वप्न्य᳚‌म्¦निःऽऋ॑ति‌म्¦विश्व᳚‌म्¦अ॒त्रिण᳚‌म् |
आ॒दि॒त्य‌म्¦शर्म॑¦म॒रुता᳚‌म्¦अ॒शी॒म॒हि॒¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

एन्द्रो᳚ ब॒र्हिः सीद॑तु॒ पिन्व॑ता॒मिळा॒ बृह॒स्पतिः॒ साम॑भिरृ॒क्वो, अ॑र्चतु |{धानाकोलुशः | विश्वदेवाः | जगती}

सु॒प्र॒के॒तं जी॒वसे॒ मन्म॑ धीमहि॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{5/14}{10.36.5}{10.3.7.5}{7.8.9.5}{371, 873, 9169}

आ¦इन्द्रः॑¦ब॒र्हिः¦सीद॑तु¦पिन्व॑ता‌म्¦इळा᳚¦बृह॒स्पतिः॑¦साम॑ऽभिः¦ऋ॒क्वः¦अ॒र्च॒तु॒ |
सु॒ऽप्र॒के॒त‌म्¦जी॒वसे᳚¦मन्म॑¦धी॒म॒हि॒¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

दि॒वि॒स्पृशं᳚ य॒ज्ञम॒स्माक॑मश्विना जी॒राध्व॑रं कृणुतं सु॒म्नमि॒ष्टये᳚ |{धानाकोलुशः | विश्वदेवाः | जगती}

प्रा॒चीन॑रश्मि॒माहु॑तं घृ॒तेन॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{6/14}{10.36.6}{10.3.7.6}{7.8.10.1}{372, 873, 9170}

दि॒वि॒ऽस्पृश᳚‌म्¦य॒ज्ञ‌म्¦अ॒स्माक᳚‌म्¦अ॒श्वि॒ना॒¦जी॒र।आ॑ध्वर‌म्¦कृ॒णु॒त॒‌म्¦सु॒म्न‌म्¦इ॒ष्टये᳚ |
प्रा॒चीन॑ऽरश्मि‌म्¦आऽहु॑त‌म्¦घृ॒तेन॑¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

उप॑ ह्वये सु॒हवं॒ मारु॑तं ग॒णं पा᳚व॒कमृ॒ष्वं स॒ख्याय॑ श॒म्भुव᳚म् |{धानाकोलुशः | विश्वदेवाः | जगती}

रा॒यस्पोषं᳚ सौश्रव॒साय॑ धीमहि॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{7/14}{10.36.7}{10.3.7.7}{7.8.10.2}{373, 873, 9171}

उप॑¦ह्व॒ये॒¦सु॒ऽहव᳚‌म्¦मारु॑त‌म्¦ग॒ण‌म्¦पा॒व॒क‌म्¦ऋ॒ष्व‌म्¦स॒ख्याय॑¦श॒‌म्ऽभुव᳚‌म् |
रा॒यः¦पोष᳚‌म्¦सौ॒श्र॒व॒साय॑¦धी॒म॒हि॒¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

अ॒पां पेरुं᳚ जी॒वध᳚न्यं भरामहे देवा॒व्यं᳚ सु॒हव॑मध्वर॒श्रिय᳚म् |{धानाकोलुशः | विश्वदेवाः | जगती}

सु॒र॒श्मिं सोम॑मिन्द्रि॒यं य॑मीमहि॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{8/14}{10.36.8}{10.3.7.8}{7.8.10.3}{374, 873, 9172}

अ॒पा‌म्¦पेरु᳚‌म्¦जी॒वऽध᳚न्य‌म्¦भ॒रा॒म॒हे॒¦दे॒व॒।आ॒व्य᳚‌म्¦सु॒ऽहव᳚‌म्¦अ॒ध्व॒र॒ऽश्रिय᳚‌म् |
सु॒ऽर॒श्मि‌म्¦सोम᳚‌म्¦इ॒न्द्रि॒य‌म्¦य॒मी॒म॒हि॒¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

स॒नेम॒ तत्सु॑स॒निता᳚ स॒नित्व॑भिर्व॒यं जी॒वा जी॒वपु॑त्रा॒, अना᳚गसः |{धानाकोलुशः | विश्वदेवाः | जगती}

ब्र॒ह्म॒द्विषो॒ विष्व॒गेनो᳚ भरेरत॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{9/14}{10.36.9}{10.3.7.9}{7.8.10.4}{375, 873, 9173}

स॒नेम॑¦तत्¦सु॒ऽस॒निता᳚¦स॒नित्व॑ऽभिः¦व॒य‌म्¦जी॒वाः¦जी॒वऽपु॑त्राः¦अना᳚गसः |
ब्र॒ह्म॒ऽद्विषः॑¦विष्व॑क्¦एनः॑¦भ॒रे॒र॒त॒¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

ये स्था मनो᳚र्य॒ज्ञिया॒स्ते शृ॑णोतन॒ यद्वो᳚ देवा॒, ईम॑हे॒ तद्द॑दातन |{धानाकोलुशः | विश्वदेवाः | जगती}

जैत्रं॒ क्रतुं᳚ रयि॒मद्वी॒रव॒द्यश॒स्तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{10/14}{10.36.10}{10.3.7.10}{7.8.10.5}{376, 873, 9174}

ये¦स्थाः¦मनोः᳚¦य॒ज्ञियाः᳚¦ते¦शृ॒णो॒त॒न॒¦यत्¦वः॒¦दे॒वाः॒¦ईम॑हे¦तत्¦द॒दा॒त॒न॒ |
जैत्र᳚‌म्¦क्रतु᳚‌म्¦र॒यि॒मत्¦वी॒रऽव॑त्¦यशः॑¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

म॒हद॒द्य म॑ह॒तामा वृ॑णीम॒हेऽवो᳚ दे॒वानां᳚ बृह॒ताम॑न॒र्वणा᳚म् |{धानाकोलुशः | विश्वदेवाः | जगती}

यथा॒ वसु॑ वी॒रजा᳚तं॒ नशा᳚महै॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{11/14}{10.36.11}{10.3.7.11}{7.8.11.1}{377, 873, 9175}

म॒हत्¦अ॒द्य¦म॒ह॒ता‌म्¦आ¦वृ॒णी॒म॒हे॒¦अवः॑¦दे॒वाना᳚‌म्¦बृ॒ह॒ता‌म्¦अ॒न॒र्वणा᳚‌म् |
यथा᳚¦वसु॑¦वी॒रऽजा᳚त‌म्¦नशा᳚महै¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

म॒हो, अ॒ग्नेः स॑मिधा॒नस्य॒ शर्म॒ण्यना᳚गा मि॒त्रे वरु॑णे स्व॒स्तये᳚ |{धानाकोलुशः | विश्वदेवाः | जगती}

श्रेष्ठे᳚ स्याम सवि॒तुः सवी᳚मनि॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{12/14}{10.36.12}{10.3.7.12}{7.8.11.2}{378, 873, 9176}

म॒हः¦अ॒ग्नेः¦स॒‌म्ऽ‌इ॒धा॒नस्य॑¦शर्म॑णि¦अना᳚गाः¦मि॒त्रे¦वरु॑णे¦स्व॒स्तये᳚ |
श्रेष्ठे᳚¦स्या॒म॒¦स॒वि॒तुः¦सवी᳚मनि¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

ये स॑वि॒तुः स॒त्यस॑वस्य॒ विश्वे᳚ मि॒त्रस्य᳚ व्र॒ते वरु॑णस्य दे॒वाः |{धानाकोलुशः | विश्वदेवाः | त्रिष्टुप्}

ते सौभ॑गं वी॒रव॒द्गोम॒दप्नो॒ दधा᳚तन॒ द्रवि॑णं चि॒त्रम॒स्मे ||{13/14}{10.36.13}{10.3.7.13}{7.8.11.3}{379, 873, 9177}

ये¦स॒वि॒तुः¦स॒त्यऽस॑वस्य¦विश्वे᳚¦मि॒त्रस्य॑¦व्र॒ते¦वरु॑णस्य¦दे॒वाः |
ते¦सौभ॑ग‌म्¦वी॒रऽव॑त्¦गोऽम॑त्¦अप्नः॑¦दधा᳚तन¦द्रवि॑ण‌म्¦चि॒त्र‌म्¦अ॒स्मे इति॑ ||

स॒वि॒ता प॒श्चाता᳚त्सवि॒ता पु॒रस्ता᳚त्सवि॒तोत्त॒रात्ता᳚त्सवि॒ताध॒रात्ता᳚त् |{धानाकोलुशः | विश्वदेवाः | त्रिष्टुप्}

स॒वि॒ता नः॑ सुवतु स॒र्वता᳚तिं सवि॒ता नो᳚ रासतां दी॒र्घमायुः॑ ||{14/14}{10.36.14}{10.3.7.14}{7.8.11.4}{380, 873, 9178}

स॒वि॒ता¦प॒श्चाता᳚त्¦स॒वि॒ता¦पु॒रस्ता᳚त्¦स॒वि॒ता¦उ॒त्त॒रात्ता᳚त्¦स॒वि॒ता¦अ॒ध॒रात्ता᳚त् |
स॒वि॒ता¦नः॒¦सु॒व॒तु॒¦स॒र्वऽता᳚ति‌म्¦स॒वि॒ता¦नः॒¦रा॒स॒ता॒‌म्¦दी॒र्घ‌म्¦आयुः॑ ||

[37] नमोमित्रस्येति द्वादशर्चस्य सूक्तस्य सौर्योभितपाः सूर्योजगती दशमी त्रिष्टुप् |
नमो᳚ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तं स॑पर्यत |{सौर्योभितपाः | सूर्यः | जगती}

दू॒रे॒दृशे᳚ दे॒वजा᳚ताय के॒तवे᳚ दि॒वस्पु॒त्राय॒ सूर्या᳚य शंसत ||{1/12}{10.37.1}{10.3.8.1}{7.8.12.1}{381, 874, 9179}

नमः॑¦मि॒त्रस्य॑¦वरु॑णस्य¦चक्ष॑से¦म॒हः¦दे॒वाय॑¦तत्¦ऋ॒त‌म्¦स॒प॒र्य॒त॒ |
दू॒रे॒ऽदृशे᳚¦दे॒वऽजा᳚ताय¦के॒तवे᳚¦दि॒वः¦पु॒त्राय॑¦सूर्या᳚य¦शं॒स॒त॒ ||

सा मा᳚ स॒त्योक्तिः॒ परि॑ पातु वि॒श्वतो॒ द्यावा᳚ च॒ यत्र॑ त॒तन॒न्नहा᳚नि च |{सौर्योभितपाः | सूर्यः | जगती}

विश्व॑म॒न्यन्नि वि॑शते॒ यदेज॑ति वि॒श्वाहापो᳚ वि॒श्वाहोदे᳚ति॒ सूर्यः॑ ||{2/12}{10.37.2}{10.3.8.2}{7.8.12.2}{382, 874, 9180}

सा¦मा॒¦स॒त्य।औ᳚क्तिः¦परि॑¦पा॒तु॒¦वि॒श्वतः॑¦द्यावा᳚¦च॒¦यत्र॑¦त॒तन॑न्¦अहा᳚नि¦च॒ |
विश्व᳚‌म्¦अ॒न्यत्¦नि¦वि॒श॒ते॒¦यत्¦एज॑ति¦वि॒श्वाहा᳚¦आपः॑¦वि॒श्वाहा᳚¦उत्¦ए॒ति॒¦सूर्यः॑ ||

न ते॒, अदे᳚वः प्र॒दिवो॒ नि वा᳚सते॒ यदे᳚त॒शेभिः॑ पत॒रै र॑थ॒र्यसि॑ |{सौर्योभितपाः | सूर्यः | जगती}

प्रा॒चीन॑म॒न्यदनु॑ वर्तते॒ रज॒ उद॒न्येन॒ ज्योति॑षा यासि सूर्य ||{3/12}{10.37.3}{10.3.8.3}{7.8.12.3}{383, 874, 9181}

न¦ते॒¦अदे᳚वः¦प्र॒ऽदिवः॑¦नि¦वा॒स॒ते॒¦यत्¦ए॒त॒शेभिः॑¦प॒त॒रैः¦र॒थ॒र्यसि॑ |
प्रा॒चीन᳚‌म्¦अ॒न्यत्¦अनु॑¦व॒र्त॒ते॒¦रजः॑¦उत्¦अ॒न्येन॑¦ज्योति॑षा¦या॒सि॒¦सू॒र्य॒ ||

येन॑ सूर्य॒ ज्योति॑षा॒ बाध॑से॒ तमो॒ जग॑च्च॒ विश्व॑मुदि॒यर्षि॑ भा॒नुना᳚ |{सौर्योभितपाः | सूर्यः | जगती}

तेना॒स्मद्विश्वा॒मनि॑रा॒मना᳚हुति॒मपामी᳚वा॒मप॑ दु॒ष्ष्वप्न्यं᳚ सुव ||{4/12}{10.37.4}{10.3.8.4}{7.8.12.4}{384, 874, 9182}

येन॑¦सू॒र्य॒¦ज्योति॑षा¦बाध॑से¦तमः॑¦जग॑त्¦च॒¦विश्व᳚‌म्¦उ॒त्ऽ‌इ॒यर्षि॑¦भा॒नुना᳚ |
तेन॑¦अ॒स्मत्¦विश्वा᳚‌म्¦अनि॑रा‌म्¦अना᳚हुति‌म्¦अप॑¦अमी᳚वा‌म्¦अप॑¦दुः॒ऽस्वप्न्य᳚‌म्¦सु॒व॒ ||

विश्व॑स्य॒ हि प्रेषि॑तो॒ रक्ष॑सि व्र॒तमहे᳚ळयन्नु॒च्चर॑सि स्व॒धा, अनु॑ |{सौर्योभितपाः | सूर्यः | जगती}

यद॒द्य त्वा᳚ सूर्योप॒ब्रवा᳚महै॒ तं नो᳚ दे॒वा, अनु॑ मंसीरत॒ क्रतु᳚म् ||{5/12}{10.37.5}{10.3.8.5}{7.8.12.5}{385, 874, 9183}

विश्व॑स्य¦हि¦प्रऽ‌इ᳚षितः¦रक्ष॑सि¦व्र॒त‌म्¦अहे᳚ळयन्¦उ॒त्ऽचर॑सि¦स्व॒धाः¦अनु॑ |
यत्¦अ॒द्य¦त्वा॒¦सू॒र्य॒¦उ॒प॒ऽब्रवा᳚महै¦त‌म्¦नः॒¦दे॒वाः¦अनु॑¦मं॒सी॒र॒त॒¦क्रतु᳚‌म् ||

तं नो॒ द्यावा᳚पृथि॒वी तन्न॒ आप॒ इन्द्रः॑ शृण्वन्तु म॒रुतो॒ हवं॒ वचः॑ |{सौर्योभितपाः | सूर्यः | जगती}

मा शूने᳚ भूम॒ सूर्य॑स्य सं॒दृशि॑ भ॒द्रं जीव᳚न्तो जर॒णाम॑शीमहि ||{6/12}{10.37.6}{10.3.8.6}{7.8.12.6}{386, 874, 9184}

त‌म्¦नः॒¦द्यावा᳚पृथि॒वी इति॑¦तत्¦नः॒¦आपः॑¦इन्द्रः॑¦शृ॒ण्व॒न्तु॒¦म॒रुतः॑¦हव᳚‌म्¦वचः॑ |
मा¦शूने᳚¦भू॒म॒¦सूर्य॑स्य¦स॒‌म्ऽदृशि॑¦भ॒द्र‌म्¦जीव᳚न्तः¦ज॒र॒णा‌म्¦अ॒शी॒म॒हि॒ ||

वि॒श्वाहा᳚ त्वा सु॒मन॑सः सु॒चक्ष॑सः प्र॒जाव᳚न्तो, अनमी॒वा, अना᳚गसः |{सौर्योभितपाः | सूर्यः | जगती}

उ॒द्यन्तं᳚ त्वा मित्रमहो दि॒वेदि॑वे॒ ज्योग्जी॒वाः प्रति॑ पश्येम सूर्य ||{7/12}{10.37.7}{10.3.8.7}{7.8.13.1}{387, 874, 9185}

वि॒श्वाहा᳚¦त्वा॒¦सु॒ऽमन॑सः¦सु॒ऽचक्ष॑सः¦प्र॒जाऽव᳚न्तः¦अ॒न॒मी॒वाः¦अना᳚गसः |
उ॒त्ऽयन्त᳚‌म्¦त्वा॒¦मि॒त्र॒ऽम॒हः॒¦दि॒वेऽदि॑वे¦ज्योक्¦जी॒वाः¦प्रति॑¦प॒श्ये॒म॒¦सू॒र्य॒ ||

महि॒ ज्योति॒र्बिभ्र॑तं त्वा विचक्षण॒ भास्व᳚न्तं॒ चक्षु॑षेचक्षुषे॒ मयः॑ |{सौर्योभितपाः | सूर्यः | जगती}

आ॒रोह᳚न्तं बृह॒तः पाज॑स॒स्परि॑ व॒यं जी॒वाः प्रति॑ पश्येम सूर्य ||{8/12}{10.37.8}{10.3.8.8}{7.8.13.2}{388, 874, 9186}

महि॑¦ज्योतिः॑¦बिभ्र॑त‌म्¦त्वा॒¦वि॒ऽच॒क्ष॒ण॒¦भास्व᳚न्त‌म्¦चक्षु॑षेऽचक्षुषे¦मयः॑ |
आ॒ऽरोह᳚न्त‌म्¦बृ॒ह॒तः¦पाज॑सः¦परि॑¦व॒य‌म्¦जी॒वाः¦प्रति॑¦प॒श्ये॒म॒¦सू॒र्य॒ ||

यस्य॑ ते॒ विश्वा॒ भुव॑नानि के॒तुना॒ प्र चेर॑ते॒ नि च॑ वि॒शन्ते᳚, अ॒क्तुभिः॑ |{सौर्योभितपाः | सूर्यः | जगती}

अ॒ना॒गा॒स्त्वेन॑ हरिकेश सू॒र्याह्ना᳚ह्ना नो॒ वस्य॑सावस्य॒सोदि॑हि ||{9/12}{10.37.9}{10.3.8.9}{7.8.13.3}{389, 874, 9187}

यस्य॑¦ते॒¦विश्वा᳚¦भुव॑नानि¦के॒तुना᳚¦प्र¦च॒¦ईर॑ते¦नि¦च॒¦वि॒शन्ते᳚¦अ॒क्तुऽभिः॑ |
अ॒ना॒गाः॒ऽत्वेन॑¦ह॒रि॒ऽके॒श॒¦सू॒र्य॒¦अह्ना᳚।आह्ना¦नः॒¦वस्य॑साऽवस्यसा¦उत्¦इ॒हि॒ ||

शं नो᳚ भव॒ चक्ष॑सा॒ शं नो॒, अह्ना॒ शं भा॒नुना॒ शं हि॒मा शं घृ॒णेन॑ |{सौर्योभितपाः | सूर्यः | त्रिष्टुप्}

यथा॒ शमध्व॒ञ्छमस॑द्दुरो॒णे तत्‌ सू᳚र्य॒ द्रवि॑णं धेहि चि॒त्रम् ||{10/12}{10.37.10}{10.3.8.10}{7.8.13.4}{390, 874, 9188}

श‌म्¦नः॒¦भ॒व॒¦चक्ष॑सा¦स‌म्¦नः॒¦अह्ना᳚¦श‌म्¦भा॒नुना᳚¦श‌म्¦हि॒माः¦श‌म्¦घृ॒णेन॑ |
यथा᳚¦श‌म्¦अध्व॑न्¦श‌म्¦अस॑त्¦दु॒रो॒णे¦तत्¦सू॒र्य॒¦द्रवि॑ण‌म्¦धे॒हि॒¦चि॒त्र‌म् ||

अ॒स्माकं᳚ देवा, उ॒भया᳚य॒ जन्म॑ने॒ शर्म॑ यच्छत द्वि॒पदे॒ चतु॑ष्पदे |{सौर्योभितपाः | सूर्यः | जगती}

अ॒दत्‌ पिब॑दू॒र्जय॑मान॒माशि॑तं॒ तद॒स्मे शं योर॑र॒पो द॑धातन ||{11/12}{10.37.11}{10.3.8.11}{7.8.13.5}{391, 874, 9189}

अ॒स्माक᳚‌म्¦दे॒वाः॒¦उ॒भया᳚य¦जन्म॑ने¦शर्म॑¦य॒च्छ॒त॒¦द्वि॒ऽपदे᳚¦चतुः॑ऽपदे |
अ॒दत्¦पिब॑त्¦ऊ॒र्जय॑मान‌म्¦आशि॑त‌म्¦तत्¦अ॒स्मे इति॑¦श‌म्¦योः¦अ॒र॒पः¦द॒धा॒त॒न॒ ||

यद्वो᳚ देवाश्चकृ॒म जि॒ह्वया᳚ गु॒रु मन॑सो वा॒ प्रयु॑ती देव॒हेळ॑नम् |{सौर्योभितपाः | सूर्यः | जगती}

अरा᳚वा॒ यो नो᳚, अ॒भि दु॑च्छुना॒यते॒ तस्मि॒न्‌ तदेनो᳚ वसवो॒ नि धे᳚तन ||{12/12}{10.37.12}{10.3.8.12}{7.8.13.6}{392, 874, 9190}

यत्¦वः॒¦दे॒वाः॒¦च॒कृ॒म¦जि॒ह्वया᳚¦गु॒रु¦मन॑सः¦वा॒¦प्रऽयु॑ती¦दे॒व॒ऽहेळ॑न‌म् |
अरा᳚वा¦यः¦नः॒¦अ॒भि¦दु॒च्छु॒न॒ऽयते᳚¦तस्मि॑न्¦तत्¦एनः॑¦व॒स॒वः॒¦नि¦धे॒त॒न॒ ||

[38] अस्मिन्नइति पंचर्चस्य सूक्तस्य मुष्कवानिंद्रइंद्रोजगती |
अ॒स्मिन्न॑ इन्द्र पृत्सु॒तौ यश॑स्वति॒ शिमी᳚वति॒ क्रन्द॑सि॒ प्राव॑ सा॒तये᳚ |{मुष्कवानिंद्रः | इन्द्रः | जगती}

यत्र॒ गोषा᳚ता धृषि॒तेषु॑ खा॒दिषु॒ विष्व॒क्पत᳚न्ति दि॒द्यवो᳚ नृ॒षाह्ये᳚ ||{1/5}{10.38.1}{10.3.9.1}{7.8.14.1}{393, 875, 9191}

अ॒स्मिन्¦नः॒¦इ॒न्द्र॒¦पृ॒त्सु॒तौ¦यश॑स्वति¦शिमी᳚ऽवति¦क्रन्द॑सि¦प्र¦अ॒व॒¦सा॒तये᳚ |
यत्र॑¦गोऽसा᳚ता¦धृ॒षि॒तेषु॑¦खा॒दिषु॑¦विष्व॑क्¦पत᳚न्ति¦दि॒द्यवः॑¦नृ॒ऽसह्ये᳚ ||

स नः॑, क्षु॒मन्तं॒ सद॑ने॒ व्यू᳚र्णुहि॒ गो,अ᳚र्णसं र॒यिमि᳚न्द्र श्र॒वाय्य᳚म् |{मुष्कवानिंद्रः | इन्द्रः | जगती}

स्याम॑ ते॒ जय॑तः शक्र मे॒दिनो॒ यथा᳚ व॒यमु॒श्मसि॒ तद्व॑सो कृधि ||{2/5}{10.38.2}{10.3.9.2}{7.8.14.2}{394, 875, 9192}

सः¦नः॒¦क्षु॒ऽमन्त᳚‌म्¦सद॑ने¦वि¦ऊ॒र्णु॒हि॒¦गो।आ᳚र्णस‌म्¦र॒यि‌म्¦इ॒न्द्र॒¦श्र॒वाय्य᳚‌म् |
स्याम॑¦ते॒¦जय॑तः¦श॒क्र॒¦मे॒दिनः॑¦यथा᳚¦व॒य‌म्¦उ॒श्मसि॑¦तत्¦व॒सो॒ इति॑¦कृ॒धि॒ ||

यो नो॒ दास॒ आर्यो᳚ वा पुरुष्टु॒तादे᳚व इन्द्र यु॒धये॒ चिके᳚तति |{मुष्कवानिंद्रः | इन्द्रः | जगती}

अ॒स्माभि॑ष्टे सु॒षहाः᳚ सन्तु॒ शत्र॑व॒स्त्वया᳚ व॒यं तान्व॑नुयाम संग॒मे ||{3/5}{10.38.3}{10.3.9.3}{7.8.14.3}{395, 875, 9193}

यः¦नः॒¦दासः॑¦आर्यः॑¦वा॒¦पु॒रु॒ऽस्तु॒त¦अदे᳚वः¦इ॒न्द्र॒¦यु॒धये᳚¦चिके᳚तति |
अ॒स्माभिः॑¦ते॒¦सु॒ऽसहाः᳚¦स॒न्तु॒¦शत्र॑वः¦त्वया᳚¦व॒य‌म्¦तान्¦व॒नु॒या॒म॒¦स॒‌म्ऽग॒मे ||

यो द॒भ्रेभि॒र्हव्यो॒ यश्च॒ भूरि॑भि॒र्यो, अ॒भीके᳚ वरिवो॒विन्नृ॒षाह्ये᳚ |{मुष्कवानिंद्रः | इन्द्रः | जगती}

तं वि॑खा॒दे सस्नि॑म॒द्य श्रु॒तं नर॑म॒र्वाञ्च॒मिन्द्र॒मव॑से करामहे ||{4/5}{10.38.4}{10.3.9.4}{7.8.14.4}{396, 875, 9194}

यः¦द॒भ्रेभिः॑¦हव्यः॑¦यः¦च॒¦भूरि॑ऽभिः¦यः¦अ॒भीके᳚¦व॒रि॒वः॒ऽवित्¦नृ॒ऽसह्ये᳚ |
त‌म्¦वि॒ऽखा॒दे¦सस्नि᳚‌म्¦अ॒द्य¦श्रु॒त‌म्¦नर᳚‌म्¦अ॒र्वांच᳚‌म्¦इन्द्र᳚‌म्¦अव॑से¦क॒रा॒म॒हे॒ ||

स्व॒वृजं॒ हि त्वाम॒हमि᳚न्द्र शु॒श्रवा᳚नानु॒दं वृ॑षभ रध्र॒चोद॑नम् |{मुष्कवानिंद्रः | इन्द्रः | जगती}

प्र मु᳚ञ्चस्व॒ परि॒ कुत्सा᳚दि॒हा ग॑हि॒ किमु॒ त्वावा᳚न्मु॒ष्कयो᳚र्ब॒द्ध आ᳚सते ||{5/5}{10.38.5}{10.3.9.5}{7.8.14.5}{397, 875, 9195}

स्व॒ऽवृज᳚‌म्¦हि¦त्वा‌म्¦अ॒ह‌म्¦इ॒न्द्र॒¦शु॒श्रव॑¦अ॒न॒नु॒ऽद‌म्¦वृ॒ष॒भ॒¦र॒ध्र॒ऽचोद॑न‌म् |
प्र¦मुं॒च॒स्व॒¦परि॑¦कुत्सा᳚त्¦इ॒ह¦आ¦ग॒हि॒¦कि‌म्¦ऊँ॒ इति॑¦त्वाऽवा᳚न्¦मु॒ष्कयोः᳚¦ब॒द्धः¦आ॒स॒ते॒ ||

[39] योवामिति चतुर्दशर्चस्य सूक्तस्य काक्षीवतीघोषाश्विनौ जगत्यंत्यात्रिष्टुप् |
यो वां॒ परि॑ज्मा सु॒वृद॑श्विना॒ रथो᳚ दो॒षामु॒षासो॒ हव्यो᳚ ह॒विष्म॑ता |{काक्षीवती घोषा | अश्विनौ | जगती}

श॒श्व॒त्त॒मास॒स्तमु॑ वामि॒दं व॒यं पि॒तुर्न नाम॑ सु॒हवं᳚ हवामहे ||{1/14}{10.39.1}{10.3.10.1}{7.8.15.1}{398, 876, 9196}

यः¦वा॒‌म्¦परि॑ऽज्मा¦सु॒ऽवृत्¦अ॒श्वि॒ना॒¦रथः॑¦दो॒षा‌म्¦उ॒षसः॑¦हव्यः॑¦ह॒विष्म॑ता |
श॒श्व॒त्ऽत॒मासः॑¦त‌म्¦ऊँ॒ इति॑¦वा॒‌म्¦इ॒द‌म्¦व॒य‌म्¦पि॒तुः¦न¦नाम॑¦सु॒ऽहव᳚‌म्¦ह॒वा॒म॒हे॒ ||

चो॒दय॑तं सू॒नृताः॒ पिन्व॑तं॒ धिय॒ उत्पुरं᳚धीरीरयतं॒ तदु॑श्मसि |{काक्षीवती घोषा | अश्विनौ | जगती}

य॒शसं᳚ भा॒गं कृ॑णुतं नो, अश्विना॒ सोमं॒ न चारुं᳚ म॒घव॑त्सु नस्कृतम् ||{2/14}{10.39.2}{10.3.10.2}{7.8.15.2}{399, 876, 9197}

चो॒दय॑त‌म्¦सू॒नृताः᳚¦पिन्व॑त‌म्¦धियः॑¦उत्¦पुर᳚‌म्ऽधीः¦ई॒र॒य॒त॒‌म्¦तत्¦उ॒श्म॒सि॒ |
य॒शस᳚‌म्¦भा॒ग‌म्¦कृ॒णु॒त॒‌म्¦नः॒¦अ॒श्वि॒ना॒¦सोम᳚‌म्¦न¦चारु᳚‌म्¦म॒घव॑त्ऽसु¦नः॒¦कृ॒त॒‌म् ||

अ॒मा॒जुर॑श्चिद्भवथो यु॒वं भगो᳚ऽना॒शोश्चि॑दवि॒तारा᳚प॒मस्य॑ चित् |{काक्षीवती घोषा | अश्विनौ | जगती}

अ॒न्धस्य॑ चिन्नासत्या कृ॒शस्य॑ चिद्यु॒वामिदा᳚हुर्भि॒षजा᳚ रु॒तस्य॑ चित् ||{3/14}{10.39.3}{10.3.10.3}{7.8.15.3}{400, 876, 9198}

अ॒मा॒ऽजुरः॑¦चि॒त्¦भ॒व॒थः॒¦यु॒व‌म्¦भगः॑¦अ॒ना॒शोः¦चि॒त्¦अ॒वि॒तारा᳚¦अ॒प॒मस्य॑¦चि॒त् |
अ॒न्धस्य॑¦चि॒त्¦ना॒स॒त्या॒¦कृ॒शस्य॑¦चि॒त्¦यु॒वा‌म्¦इत्¦आ॒हुः॒¦भि॒षजा᳚¦रु॒तस्य॑¦चि॒त् ||

यु॒वं च्यवा᳚नं स॒नयं॒ यथा॒ रथं॒ पुन॒र्युवा᳚नं च॒रथा᳚य तक्षथुः |{काक्षीवती घोषा | अश्विनौ | जगती}

निष्टौ॒ग्र्यमू᳚हथुर॒द्भ्यस्परि॒ विश्वेत्ता वां॒ सव॑नेषु प्र॒वाच्या᳚ ||{4/14}{10.39.4}{10.3.10.4}{7.8.15.4}{401, 876, 9199}

यु॒व‌म्¦च्यवा᳚न‌म्¦स॒नय᳚‌म्¦यथा᳚¦रथ᳚‌म्¦पुनः॑¦युवा᳚न‌म्¦च॒रथा᳚य¦त॒क्ष॒थुः॒ |
निः¦तौ॒ग्र्य‌म्¦ऊ॒ह॒थुः॒¦अ॒त्ऽभ्यः¦परि॑¦विश्वा᳚¦इत्¦ता¦वा॒‌म्¦सव॑नेषु¦प्र॒ऽवाच्या᳚ ||

पु॒रा॒णा वां᳚ वी॒र्या॒३॑(आ॒) प्र ब्र॑वा॒ जनेऽथो᳚ हासथुर्भि॒षजा᳚ मयो॒भुवा᳚ |{काक्षीवती घोषा | अश्विनौ | जगती}

ता वां॒ नु नव्या॒वव॑से करामहे॒ऽयं ना᳚सत्या॒ श्रद॒रिर्यथा॒ दध॑त् ||{5/14}{10.39.5}{10.3.10.5}{7.8.15.5}{402, 876, 9200}

पु॒रा॒णा¦वा॒‌म्¦वी॒र्या᳚¦प्र¦ब्र॒व॒¦जने᳚¦अथो॒ इति॑¦ह॒¦आ॒स॒थुः॒¦भि॒षजा᳚¦म॒यः॒ऽभुवा᳚ |
ता¦वा॒‌म्¦नु¦नव्यौ᳚¦अव॑से¦क॒रा॒म॒हे॒¦अ॒य‌म्¦ना॒स॒त्या॒¦श्रत्¦अ॒रिः¦यथा᳚¦दध॑त् ||

इ॒यं वा᳚मह्वे शृणु॒तं मे᳚, अश्विना पु॒त्राये᳚व पि॒तरा॒ मह्यं᳚ शिक्षतम् |{काक्षीवती घोषा | अश्विनौ | जगती}

अना᳚पि॒रज्ञा᳚, असजा॒त्याम॑तिः पु॒रा तस्या᳚, अ॒भिश॑स्ते॒रव॑ स्पृतम् ||{6/14}{10.39.6}{10.3.10.6}{7.8.16.1}{403, 876, 9201}

इ॒य‌म्¦वा॒‌म्¦अ॒ह्वे॒¦शृ॒णु॒त‌म्¦मे॒¦अ॒श्वि॒ना॒¦पु॒त्राय॑ऽ‌इव¦पि॒तरा᳚¦मह्य᳚‌म्¦शि॒क्ष॒त॒‌म् |
अना᳚पिः¦अज्ञाः᳚¦अ॒स॒जा॒त्या¦अम॑तिः¦पु॒रा¦तस्याः᳚¦अ॒भिऽश॑स्तेः¦अव॑¦स्पृ॒त॒‌म् ||

यु॒वं रथे᳚न विम॒दाय॑ शु॒न्ध्युवं॒ न्यू᳚हथुः पुरुमि॒त्रस्य॒ योष॑णाम् |{काक्षीवती घोषा | अश्विनौ | जगती}

यु॒वं हवं᳚ वध्रिम॒त्या, अ॑गच्छतं यु॒वं सुषु॑तिं चक्रथुः॒ पुरं᳚धये ||{7/14}{10.39.7}{10.3.10.7}{7.8.16.2}{404, 876, 9202}

यु॒व‌म्¦रथे᳚न¦वि॒ऽम॒दाय॑¦शु॒न्ध्युव᳚‌म्¦नि¦ऊ॒ह॒थुः॒¦पु॒रु॒ऽमि॒त्रस्य॑¦योष॑ण‌म् |
यु॒व‌म्¦हव᳚‌म्¦व॒ध्रि॒ऽम॒त्याः¦अ॒ग॒च्छ॒त॒‌म्¦यु॒व‌म्¦सुऽसु॑ति‌म्¦च॒क्र॒थुः॒¦पुर᳚‌म्ऽधये ||

यु॒वं विप्र॑स्य जर॒णामु॑पे॒युषः॒ पुनः॑ क॒लेर॑कृणुतं॒ युव॒द्वयः॑ |{काक्षीवती घोषा | अश्विनौ | जगती}

यु॒वं वन्द॑नमृश्य॒दादुदू᳚पथुर्यु॒वं स॒द्यो वि॒श्पला॒मेत॑वे कृथः ||{8/14}{10.39.8}{10.3.10.8}{7.8.16.3}{405, 876, 9203}

यु॒व‌म्¦विप्र॑स्य¦ज॒र॒णा‌म्¦उ॒प॒ऽई॒युषः॑¦पुन॒रिति॑¦क॒लेः¦अ॒कृ॒णु॒त॒‌म्¦यु॒व॒त्¦वयः॑ |
यु॒व‌म्¦वन्द॑न‌म्¦ऋ॒श्य॒ऽदात्¦उत्¦ऊ॒प॒थुः॒¦यु॒व‌म्¦स॒द्यः¦वि॒श्पला᳚‌म्¦एत॑वे¦कृ॒थः॒ ||

यु॒वं ह॑ रे॒भं वृ॑षणा॒ गुहा᳚ हि॒तमुदै᳚रयतं ममृ॒वांस॑मश्विना |{काक्षीवती घोषा | अश्विनौ | जगती}

यु॒वमृ॒बीस॑मु॒त त॒प्तमत्र॑य॒ ओम᳚न्वन्तं चक्रथुः स॒प्तव॑ध्रये ||{9/14}{10.39.9}{10.3.10.9}{7.8.16.4}{406, 876, 9204}

यु॒व‌म्¦ह॒¦रे॒भ‌म्¦वृ॒ष॒णा॒¦गुहा᳚¦हि॒त‌म्¦उत्¦ऐ॒र॒य॒त॒‌म्¦म॒मृ॒ऽवांस᳚‌म्¦अ॒श्वि॒ना॒ |
यु॒व‌म्¦ऋ॒बीस᳚‌म्¦उ॒त¦त॒प्त‌म्¦अत्र॑ये¦ओम॑न्ऽवन्त‌म्¦च॒क्र॒थुः॒¦स॒प्तऽव॑ध्रये ||

यु॒वं श्वे॒तं पे॒दवे᳚ऽश्वि॒नाश्वं᳚ न॒वभि॒र्वाजै᳚र्नव॒ती च॑ वा॒जिन᳚म् |{काक्षीवती घोषा | अश्विनौ | जगती}

च॒र्कृत्यं᳚ ददथुर्द्राव॒यत्स॑खं॒ भगं॒ न नृभ्यो॒ हव्यं᳚ मयो॒भुव᳚म् ||{10/14}{10.39.10}{10.3.10.10}{7.8.16.5}{407, 876, 9205}

यु॒व‌म्¦श्वे॒त‌म्¦पे॒दवे᳚¦अ॒श्वि॒ना॒¦अश्व᳚‌म्¦न॒वऽभिः॑¦वाजैः᳚¦न॒व॒ती¦च॒¦वा॒जिन᳚‌म् |
च॒र्कृत्य᳚‌म्¦द॒द॒थुः॒¦द्र॒व॒यत्ऽस॑ख‌म्¦भग᳚‌म्¦न¦नृऽभ्यः॑¦हव्य᳚‌म्¦म॒यः॒ऽभुव᳚‌म् ||

न तं रा᳚जानावदिते॒ कुत॑श्च॒न नांहो᳚, अश्नोति दुरि॒तं नकि॑र्भ॒यम् |{काक्षीवती घोषा | अश्विनौ | जगती}

यम॑श्विना सुहवा रुद्रवर्तनी पुरोर॒थं कृ॑णु॒थः पत्न्या᳚ स॒ह ||{11/14}{10.39.11}{10.3.10.11}{7.8.17.1}{408, 876, 9206}

न¦त‌म्¦रा॒जा॒नौ॒¦अ॒दि॒ते॒¦कुतः॑¦च॒न¦न¦अंहः॑¦अ॒श्नो॒ति॒¦दुः॒ऽ‌इ॒त‌म्¦नकिः॑¦भ॒य‌म् |
य‌म्¦अ॒श्वि॒ना॒¦सु॒ऽह॒वा॒¦रु॒द्र॒व॒र्त॒नी॒ इति॑ रुद्रऽवर्तनी¦पु॒रः॒ऽर॒थ‌म्¦कृ॒णु॒थः¦पत्न्या᳚¦स॒ह ||

आ तेन॑ यातं॒ मन॑सो॒ जवी᳚यसा॒ रथं॒ यं वा᳚मृ॒भव॑श्च॒क्रुर॑श्विना |{काक्षीवती घोषा | अश्विनौ | जगती}

यस्य॒ योगे᳚ दुहि॒ता जाय॑ते दि॒व उ॒भे, अह॑नी सु॒दिने᳚ वि॒वस्व॑तः ||{12/14}{10.39.12}{10.3.10.12}{7.8.17.2}{409, 876, 9207}

आ¦तेन॑¦या॒त॒‌म्¦मन॑सः¦जवी᳚यसा¦रथ᳚‌म्¦य‌म्¦वा॒‌म्¦ऋ॒भवः॑¦च॒क्रुः¦अ॒श्वि॒ना॒ |
यस्य॑¦योगे᳚¦दु॒हि॒ता¦जाय॑ते¦दि॒वः¦उ॒भे इति॑¦अह॑नी॒ इति॑¦सु॒दिने॒ इति॑ सु॒ऽदिने᳚¦वि॒वस्व॑तः ||

ता व॒र्तिर्या᳚तं ज॒युषा॒ वि पर्व॑त॒मपि᳚न्वतं श॒यवे᳚ धे॒नुम॑श्विना |{काक्षीवती घोषा | अश्विनौ | जगती}

वृक॑स्य चि॒द्वर्ति॑काम॒न्तरा॒स्या᳚द्यु॒वं शची᳚भिर्ग्रसि॒ताम॑मुञ्चतम् ||{13/14}{10.39.13}{10.3.10.13}{7.8.17.3}{410, 876, 9208}

ता¦व॒र्तिः¦या॒त॒‌म्¦ज॒युषा᳚¦वि¦पर्व॑त‌म्¦अपि᳚न्वत‌म्¦श॒यवे᳚¦धे॒नु‌म्¦अ॒श्वि॒ना॒ |
वृक॑स्य¦चि॒त्¦वरि॑का‌म्¦अ॒न्तः¦आ॒स्या᳚त्¦यु॒व‌म्¦शची᳚भिः¦ग्र॒सि॒ता‌म्¦अ॒मुं॒च॒त॒‌म् ||

ए॒तं वां॒ स्तोम॑मश्विनावक॒र्मात॑क्षाम॒ भृग॑वो॒ न रथ᳚म् |{काक्षीवती घोषा | अश्विनौ | त्रिष्टुप्}

न्य॑मृक्षाम॒ योष॑णां॒ न मर्ये॒ नित्यं॒ न सू॒नुं तन॑यं॒ दधा᳚नाः ||{14/14}{10.39.14}{10.3.10.14}{7.8.17.4}{411, 876, 9209}

ए॒त‌म्¦वा॒‌म्¦स्तोम᳚‌म्¦अ॒श्वि॒नौ॒¦अ॒क॒र्म॒¦अत॑क्षाम¦भृग॑वः¦न¦रथ᳚‌म् |
नि¦अ॒मृ॒क्षा॒म॒¦योष॑णा‌म्¦न¦मर्ये᳚¦नित्य᳚‌म्¦न¦सू॒नु‌म्¦तन॑य‌म्¦दधा᳚नाः ||

[40] रथंयांतमिति चतुर्दशर्चस्य सूक्तस्य काक्षीवतीघोषाश्विनौजगती |
रथं॒ यान्तं॒ कुह॒ को ह॑ वां नरा॒ प्रति॑ द्यु॒मन्तं᳚ सुवि॒ताय॑ भूषति |{काक्षीवती घोषा | अश्विनौ | जगती}

प्रा॒त॒र्यावा᳚णं वि॒भ्वं᳚ वि॒शेवि॑शे॒ वस्तो᳚र्वस्तो॒र्वह॑मानं धि॒या शमि॑ ||{1/14}{10.40.1}{10.3.11.1}{7.8.18.1}{412, 877, 9210}

रथ᳚‌म्¦यान्त᳚‌म्¦कुह॑¦कः¦ह॒¦वा॒‌म्¦न॒रा॒¦प्रति॑¦द्यु॒ऽमन्त᳚‌म्¦सु॒ऽवि॒ताय॑¦भू॒ष॒ति॒ |
प्रा॒तः॒ऽयावा᳚ण‌म्¦वि॒ऽभ्व᳚‌म्¦वि॒शेऽवि॑शे¦वस्तोः᳚ऽवस्तोः¦वह॑मान‌म्¦धि॒या¦शमि॑ ||

कुह॑ स्विद्दो॒षा कुह॒ वस्तो᳚र॒श्विना॒ कुहा᳚भिपि॒त्वं क॑रतः॒ कुहो᳚षतुः |{काक्षीवती घोषा | अश्विनौ | जगती}

को वां᳚ शयु॒त्रा वि॒धवे᳚व दे॒वरं॒ मर्यं॒ न योषा᳚ कृणुते स॒धस्थ॒ आ ||{2/14}{10.40.2}{10.3.11.2}{7.8.18.2}{413, 877, 9211}

कुह॑¦स्वि॒त्¦दो॒षा¦कुह॑¦वस्तोः᳚¦अ॒श्विना᳚¦कुह॑¦अ॒भि॒ऽपि॒त्व‌म्¦क॒र॒तः॒¦कुह॑¦ऊ॒ष॒तुः॒ |
कः¦वा॒‌म्¦श॒यु॒ऽत्रा¦वि॒धवा᳚ऽ‌इव¦दे॒वर᳚‌म्¦मर्य᳚‌म्¦न¦योषा᳚¦कृ॒णु॒ते॒¦स॒धऽस्थे᳚¦आ ||

प्रा॒तर्ज॑रेथे जर॒णेव॒ काप॑या॒ वस्तो᳚र्वस्तोर्यज॒ता ग॑च्छथो गृ॒हम् |{काक्षीवती घोषा | अश्विनौ | जगती}

कस्य॑ ध्व॒स्रा भ॑वथः॒ कस्य॑ वा नरा राजपु॒त्रेव॒ सव॒नाव॑ गच्छथः ||{3/14}{10.40.3}{10.3.11.3}{7.8.18.3}{414, 877, 9212}

प्रा॒तः¦ज॒रे॒थे॒ इति॑¦ज॒र॒णाऽ‌इ᳚व¦काप॑या¦वस्तोः᳚ऽवस्तोः¦य॒ज॒ता¦ग॒च्छ॒थः॒¦गृ॒ह‌म् |
कस्य॑¦ध्व॒स्रा¦भ॒व॒थः॒¦कस्य॑¦वा॒¦न॒रा॒¦रा॒ज॒ऽपु॒त्राऽ‌इ᳚व¦सव॑ना¦अव॑¦ग॒च्छ॒थः॒ ||

यु॒वां मृ॒गेव॑ वार॒णा मृ॑ग॒ण्यवो᳚ दो॒षा वस्तो᳚र्ह॒विषा॒ नि ह्व॑यामहे |{काक्षीवती घोषा | अश्विनौ | जगती}

यु॒वं होत्रा᳚मृतु॒था जुह्व॑ते न॒रेषं॒ जना᳚य वहथः शुभस्पती ||{4/14}{10.40.4}{10.3.11.4}{7.8.18.4}{415, 877, 9213}

यु॒वा‌म्¦मृ॒गाऽ‌इ᳚व¦वा॒र॒णा¦मृ॒ग॒ण्यवः॑¦दो॒षा¦वस्तोः᳚¦ह॒विषा᳚¦नि¦ह्व॒या॒म॒हे॒ |
यु॒व‌म्¦होत्रा᳚‌म्¦ऋ॒तु॒ऽथा¦जुह्व॑ते¦न॒रा॒¦इष᳚‌म्¦जना᳚य¦व॒ह॒थः॒¦शु॒भः॒¦प॒ती॒ इति॑ ||

यु॒वां ह॒ घोषा॒ पर्य॑श्विना य॒ती राज्ञ॑ ऊचे दुहि॒ता पृ॒च्छे वां᳚ नरा |{काक्षीवती घोषा | अश्विनौ | जगती}

भू॒तं मे॒, अह्न॑ उ॒त भू᳚तम॒क्तवेऽश्वा᳚वते र॒थिने᳚ शक्त॒मर्व॑ते ||{5/14}{10.40.5}{10.3.11.5}{7.8.18.5}{416, 877, 9214}

यु॒वा‌म्¦ह॒¦घोषा᳚¦परि॑¦अ॒श्वि॒ना॒¦य॒ती¦राज्ञः॑¦ऊ॒चे॒¦दु॒हि॒ता¦पृ॒च्छे¦वा॒‌म्¦न॒रा॒ |
भू॒त‌म्¦मे॒¦अह्ने᳚¦उ॒त¦भू॒त॒‌म्¦अ॒क्तवे᳚¦अश्व॑ऽवते¦र॒थिने᳚¦शक्त᳚‌म्¦अर्व॑ते ||

यु॒वं क॒वी ष्ठः॒ पर्य॑श्विना॒ रथं॒ विशो॒ न कुत्सो᳚ जरि॒तुर्न॑शायथः |{काक्षीवती घोषा | अश्विनौ | जगती}

यु॒वोर्ह॒ मक्षा॒ पर्य॑श्विना॒ मध्वा॒सा भ॑रत निष्कृ॒तं न योष॑णा ||{6/14}{10.40.6}{10.3.11.6}{7.8.19.1}{417, 877, 9215}

यु॒व‌म्¦क॒वी इति॑¦स्थः॒¦परि॑¦अ॒श्वि॒ना॒¦रथ᳚‌म्¦विशः॑¦न¦कुत्सः॑¦ज॒रि॒तुः¦न॒शा॒य॒थः॒ |
यु॒वोः¦ह॒¦मक्षा᳚¦परि॑¦अ॒श्वि॒ना॒¦मधु॑¦आ॒सा¦भ॒र॒त॒¦निः॒ऽकृ॒त‌म्¦न¦योष॑णा ||

यु॒वं ह॑ भु॒ज्युं यु॒वम॑श्विना॒ वशं᳚ यु॒वं शि॒ञ्जार॑मु॒शना॒मुपा᳚रथुः |{काक्षीवती घोषा | अश्विनौ | जगती}

यु॒वो ररा᳚वा॒ परि॑ स॒ख्यमा᳚सते यु॒वोर॒हमव॑सा सु॒म्नमा च॑के ||{7/14}{10.40.7}{10.3.11.7}{7.8.19.2}{418, 877, 9216}

यु॒व‌म्¦ह॒¦भु॒ज्यु‌म्¦यु॒व‌म्¦अ॒श्वि॒ना॒¦वश᳚‌म्¦यु॒व‌म्¦शिं॒जार᳚‌म्¦उ॒शना᳚‌म्¦उप॑¦आ॒र॒थुः॒ |
यु॒वोः¦ररा᳚वा¦परि॑¦स॒ख्य‌म्¦आ॒स॒ते॒¦यु॒वोः¦अ॒ह‌म्¦अव॑सा¦सु॒म्न‌म्¦आ¦च॒के॒ ||

यु॒वं ह॑ कृ॒शं यु॒वम॑श्विना श॒युं यु॒वं वि॒धन्तं᳚ वि॒धवा᳚मुरुष्यथः |{काक्षीवती घोषा | अश्विनौ | जगती}

यु॒वं स॒निभ्यः॑ स्त॒नय᳚न्तमश्वि॒नाप᳚ व्र॒जमू᳚र्णुथः स॒प्तास्य᳚म् ||{8/14}{10.40.8}{10.3.11.8}{7.8.19.3}{419, 877, 9217}

यु॒व‌म्¦ह॒¦कृ॒श‌म्¦यु॒व‌म्¦अ॒श्वि॒ना॒¦श॒यु‌म्¦यु॒व‌म्¦वि॒धन्त᳚‌म्¦वि॒धवा᳚‌म्¦उ॒रु॒ष्य॒थः॒ |
यु॒व‌म्¦स॒निऽभ्यः॑¦स्त॒नय᳚न्त‌म्¦अ॒श्वि॒ना॒¦अप॑¦व्र॒ज‌म्¦ऊ॒र्णु॒थः॒¦स॒प्तऽआ᳚स्य‌म् ||

जनि॑ष्ट॒ योषा᳚ प॒तय॑त्कनीन॒को वि चारु॑हन्वी॒रुधो᳚ दं॒सना॒, अनु॑ |{काक्षीवती घोषा | अश्विनौ | जगती}

आस्मै᳚ रीयन्ते निव॒नेव॒ सिन्ध॑वो॒ऽस्मा, अह्ने᳚ भवति॒ तत्‌ प॑तित्व॒नम् ||{9/14}{10.40.9}{10.3.11.9}{7.8.19.4}{420, 877, 9218}

जनि॑ष्ठ¦योषा᳚¦प॒तय॑त्¦क॒नी॒न॒कः¦वि¦च॒¦अरु॑हन्¦वी॒रुधः॑¦दं॒सनाः᳚¦अनु॑ |
आ¦अ॒स्मै॒¦री॒य॒न्ते॒¦नि॒व॒नाऽ‌इ᳚व¦सिन्ध॑वः¦अ॒स्मै¦अह्ने᳚¦भ॒व॒ति॒¦तत्¦प॒ति॒ऽत्व॒न‌म् ||

जी॒वं रु॑दन्ति॒ वि म॑यन्ते, अध्व॒रे दी॒र्घामनु॒ प्रसि॑तिं दीधियु॒र्नरः॑ |{काक्षीवती घोषा | अश्विनौ | जगती}

वा॒मं पि॒तृभ्यो॒ य इ॒दं स॑मेरि॒रे मयः॒ पति॑भ्यो॒ जन॑यः परि॒ष्वजे᳚ ||{10/14}{10.40.10}{10.3.11.10}{7.8.19.5}{421, 877, 9219}

जी॒व‌म्¦रु॒द॒न्ति॒¦वि¦म॒य॒न्ते॒¦अ॒ध्व॒रे¦दी॒र्घा‌म्¦अनु॑¦प्रऽसि॑ति‌म्¦दी॒धि॒युः॒¦नरः॑ |
वा॒म‌म्¦पि॒तृऽभ्यः॑¦ये¦इ॒द‌म्¦स॒‌म्ऽए॒रि॒रे¦मयः॑¦पति॑ऽभ्यः¦जन॑यः¦प॒रि॒ऽस्वजे᳚ ||

न तस्य॑ विद्म॒ तदु॒ षु प्र वो᳚चत॒ युवा᳚ ह॒ यद्यु॑व॒त्याः, क्षेति॒ योनि॑षु |{काक्षीवती घोषा | अश्विनौ | जगती}

प्रि॒योस्रि॑यस्य वृष॒भस्य॑ रे॒तिनो᳚ गृ॒हं ग॑मेमाश्विना॒ तदु॑श्मसि ||{11/14}{10.40.11}{10.3.11.11}{7.8.20.1}{422, 877, 9220}

न¦तस्य॑¦वि॒द्म॒¦तत्¦ऊँ॒ इति॑¦सु¦प्र¦वो॒च॒त॒¦युवा᳚¦ह॒¦यत्¦यु॒व॒त्याः¦क्षेति॑¦योनि॑षु |
प्रि॒य।औ᳚स्रियस्य¦वृ॒ष॒भस्य॑¦रे॒तिनः॑¦गृ॒ह‌म्¦ग॒मे॒म॒¦अ॒श्वि॒ना॒¦तत्¦उ॒श्म॒सि॒ ||

आ वा᳚मगन्‌ त्सुम॒तिर्वा᳚जिनीवसू॒ न्य॑श्विना हृ॒त्सु कामा᳚, अयंसत |{काक्षीवती घोषा | अश्विनौ | जगती}

अभू᳚तं गो॒पा मि॑थु॒ना शु॑भस्पती प्रि॒या, अ᳚र्य॒म्णो दुर्याँ᳚, अशीमहि ||{12/14}{10.40.12}{10.3.11.12}{7.8.20.2}{423, 877, 9221}

आ¦वा॒‌म्¦अ॒ग॒न्¦सु॒ऽम॒तिः¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू¦नि¦अ॒श्वि॒ना॒¦हृ॒त्ऽसु¦कामाः᳚¦अ॒यं॒स॒त॒ |
अभू᳚त‌म्¦गो॒पा¦मि॒थु॒ना¦शु॒भः॒¦प॒ती॒ इति॑¦प्रि॒याः¦अ॒र्य॒म्णः¦दुर्या᳚न्¦अ॒शी॒म॒हि॒ ||

ता म᳚न्दसा॒ना मनु॑षो दुरो॒ण आ ध॒त्तं र॒यिं स॒हवी᳚रं वच॒स्यवे᳚ |{काक्षीवती घोषा | अश्विनौ | जगती}

कृ॒तं ती॒र्थं सु॑प्रपा॒णं शु॑भस्पती स्था॒णुं प॑थे॒ष्ठामप॑ दुर्म॒तिं ह॑तम् ||{13/14}{10.40.13}{10.3.11.13}{7.8.20.3}{424, 877, 9222}

ता¦म॒न्द॒सा॒ना¦मनु॑षः¦दु॒रो॒णे¦आ¦ध॒त्त‌म्¦र॒यि‌म्¦स॒हऽवी᳚र‌म्¦व॒च॒स्यवे᳚ |
कृ॒त‌म्¦ती॒र्थ‌म्¦सु॒ऽप्र॒पा॒न‌म्¦शु॒भः॒¦प॒ती॒ इति॑¦स्था॒णु‌म्¦प॒थे॒ऽस्था‌म्¦अप॑¦दुः॒ऽम॒ति‌म्¦ह॒त॒‌म् ||

क्व॑ स्विद॒द्य क॑त॒मास्व॒श्विना᳚ वि॒क्षु द॒स्रा मा᳚दयेते शु॒भस्पती᳚ |{काक्षीवती घोषा | अश्विनौ | जगती}

क ईं॒ नि ये᳚मे कत॒मस्य॑ जग्मतु॒र्विप्र॑स्य वा॒ यज॑मानस्य वा गृ॒हम् ||{14/14}{10.40.14}{10.3.11.14}{7.8.20.4}{425, 877, 9223}

क्व॑¦स्वि॒त्¦अ॒द्य¦क॒त॒मासु॑¦अ॒श्विना᳚¦वि॒क्षु¦द॒स्रा¦मा॒द॒ये॒ते॒ इति॑¦शु॒भः¦पती॒ इति॑ |
कः¦ई॒‌म्¦नि¦ये॒मे॒¦क॒त॒मस्य॑¦ज॒ग्म॒तुः॒¦विप्र॑स्य¦वा॒¦यज॑मानस्य¦वा॒¦गृ॒ह‌म् ||

[41] समानमिति तृचस्य सूक्तस्य घौषेयः सुहस्त्योश्विनौजगती |
स॒मा॒नमु॒ त्यं पु॑रुहू॒तमु॒क्थ्य१॑(अं॒) रथं᳚ त्रिच॒क्रं सव॑ना॒ गनि॑ग्मतम् |{घौषेयः सुहस्त्यः | अश्विनौ | जगती}

परि॑ज्मानं विद॒थ्यं᳚ सुवृ॒क्तिभि᳚र्व॒यं व्यु॑ष्टा, उ॒षसो᳚ हवामहे ||{1/3}{10.41.1}{10.3.12.1}{7.8.21.1}{426, 878, 9224}

स॒मा॒न‌म्¦ऊँ॒ इति॑¦त्य‌म्¦पु॒रु॒ऽहू॒त‌म्¦उ॒क्थ्य᳚‌म्¦रथ᳚‌म्¦त्रि॒ऽच॒क्र‌म्¦सव॑ना¦गनि॑ग्मत‌म् |
परि॑ऽज्मान‌म्¦वि॒द॒थ्य᳚‌म्¦सु॒वृ॒क्तिऽभिः॑¦व॒य‌म्¦वि।औ᳚ष्टौ¦उ॒षसः॑¦ह॒वा॒म॒हे॒ ||

प्रा॒त॒र्युजं᳚ नास॒त्याधि॑ तिष्ठथः प्रात॒र्यावा᳚णं मधु॒वाह॑नं॒ रथ᳚म् |{घौषेयः सुहस्त्यः | अश्विनौ | जगती}

विशो॒ येन॒ गच्छ॑थो॒ यज्व॑रीर्नरा की॒रेश्चि॑द्‌ य॒ज्ञं होतृ॑मन्तमश्विना ||{2/3}{10.41.2}{10.3.12.2}{7.8.21.2}{427, 878, 9225}

प्रा॒तः॒ऽयुज᳚‌म्¦ना॒स॒त्या॒¦अधि॑¦ति॒ष्ठ॒थः॒¦प्रा॒तः॒ऽयावा᳚न‌म्¦म॒धु॒ऽवाह॑न‌म्¦रथ᳚‌म् |
विशः॑¦येन॑¦गच्छ॑तः¦यज्व॑रीः¦न॒रा॒¦की॒रेः¦चि॒त्¦य॒ज्ञ‌म्¦होतृ॑ऽमन्त‌म्¦अ॒श्वि॒ना॒ ||

अ॒ध्व॒र्युं वा॒ मधु॑पाणिं सु॒हस्त्य॑म॒ग्निधं᳚ वा धृ॒तद॑क्षं॒ दमू᳚नसम् |{घौषेयः सुहस्त्यः | अश्विनौ | जगती}

विप्र॑स्य वा॒ यत्सव॑नानि॒ गच्छ॒थोऽत॒ आ या᳚तं मधु॒पेय॑मश्विना ||{3/3}{10.41.3}{10.3.12.3}{7.8.21.3}{428, 878, 9226}

अ॒ध्व॒र्यु‌म्¦वा॒¦मधु॑ऽपाणि‌म्¦सु॒ऽहस्त्य᳚‌म्¦अ॒ग्निध᳚‌म्¦वा॒¦धृ॒तऽद॑क्ष‌म्¦दमू᳚नस‌म् |
विप्र॑स्य¦वा॒¦यत्¦सव॑नानि¦गच्छ॑थः¦अतः॑¦आ¦या॒त॒‌म्¦म॒धु॒ऽपेय᳚‌म्¦अ॒श्वि॒न्चा ||

[42] अस्तेवेत्येकादशर्चस्य सूक्तस्यांगिरसः कृष्णइंद्रस्त्रिष्टुप् |
अस्ते᳚व॒ सु प्र॑त॒रं लाय॒मस्य॒न्‌ भूष᳚न्निव॒ प्र भ॑रा॒ स्तोम॑मस्मै |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

वा॒चा वि॑प्रास्तरत॒ वाच॑म॒र्यो नि रा᳚मय जरितः॒ सोम॒ इन्द्र᳚म् ||{1/11}{10.42.1}{10.3.13.1}{7.8.22.1}{429, 879, 9227}

अस्ता᳚ऽ‌इव¦सु¦प्र॒ऽत॒र‌म्¦लाय᳚‌म्¦अस्य॑न्¦भूष॑न्ऽ‌इव¦प्र¦भ॒र॒¦स्तोम᳚‌म्¦अ॒स्मै॒ |
वा॒चा¦वि॒प्राः॒¦त॒र॒त॒¦वाच᳚‌म्¦अ॒र्यः¦नि¦र॒म॒य॒¦ज॒रि॒त॒रिति॑¦सोमे᳚¦इन्द्र᳚‌म् ||

दोहे᳚न॒ गामुप॑ शिक्षा॒ सखा᳚यं॒ प्र बो᳚धय जरितर्जा॒रमिन्द्र᳚म् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

कोशं॒ न पू॒र्णं वसु॑ना॒ न्यृ॑ष्ट॒मा च्या᳚वय मघ॒देया᳚य॒ शूर᳚म् ||{2/11}{10.42.2}{10.3.13.2}{7.8.22.2}{430, 879, 9228}

दोहे᳚न¦गा‌म्¦उप॑¦शि॒क्ष॒¦सखा᳚य‌म्¦प्र¦बो॒ध॒य॒¦ज॒रि॒तः॒¦जा॒र‌म्¦इन्द्र᳚‌म् |
कोश᳚‌म्¦न¦पू॒र्ण‌म्¦वसु॑ना¦निऽऋ॑ष्ट‌म्¦आ¦च्य॒व॒य॒¦म॒घ॒ऽदेया᳚य¦शूर᳚‌म् ||

किम॒ङ्ग त्वा᳚ मघवन्‌ भो॒जमा᳚हुः शिशी॒हि मा᳚ शिश॒यं त्वा᳚ शृणोमि |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

अप्न॑स्वती॒ मम॒ धीर॑स्तु शक्र वसु॒विदं॒ भग॑मि॒न्द्रा भ॑रा नः ||{3/11}{10.42.3}{10.3.13.3}{7.8.22.3}{431, 879, 9229}

कि‌म्¦अ॒ङ्ग¦त्वा॒¦म॒घ॒ऽव॒न्¦भो॒ज‌म्¦आ॒हुः॒¦शि॒शी॒हि¦मा॒¦शि॒श॒य‌म्¦त्वा॒¦शृ॒णो॒मि॒ |
अप्न॑स्वती¦मम॑¦धीः¦अ॒स्तु॒¦श॒क्र॒¦व॒सु॒ऽविद᳚‌म्¦भग᳚‌म्¦इ॒न्द्र॒¦आ¦भ॒र॒¦नः॒ ||

त्वां जना᳚ ममस॒त्येष्वि᳚न्द्र संतस्था॒ना वि ह्व॑यन्ते समी॒के |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

अत्रा॒ युजं᳚ कृणुते॒ यो ह॒विष्मा॒न्नासु᳚न्वता स॒ख्यं व॑ष्टि॒ शूरः॑ ||{4/11}{10.42.4}{10.3.13.4}{7.8.22.4}{432, 879, 9230}

त्वा‌म्¦जनाः᳚¦म॒म॒ऽस॒त्येषु॑¦इ॒न्द्र॒¦स॒‌म्ऽत॒स्था॒नाः¦वि¦ह्व॒य॒न्ते॒¦स॒‌म्ऽई॒के |
अत्र॑¦युज᳚‌म्¦कृ॒णु॒ते॒¦यः¦ह॒विष्मा᳚न्¦न¦असु᳚न्वता¦स॒ख्य‌म्¦व॒ष्टि॒¦शूरः॑ ||

धनं॒ न स्य॒न्द्रं ब॑हु॒लं यो, अ॑स्मै ती॒व्रान्‌ त्सोमाँ᳚, आसु॒नोति॒ प्रय॑स्वान् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

तस्मै॒ शत्रू᳚न्‌ त्सु॒तुका᳚न्‌ प्रा॒तरह्नो॒ नि स्वष्ट्रा᳚न्यु॒वति॒ हन्ति॑ वृ॒त्रम् ||{5/11}{10.42.5}{10.3.13.5}{7.8.22.5}{433, 879, 9231}

धन᳚‌म्¦न¦स्प॒न्द्र‌म्¦ब॒हु॒ल‌म्¦यः¦अ॒स्मै॒¦ती॒व्रान्¦सोमा᳚न्¦आ॒ऽसु॒नोति॑¦प्रय॑स्वान् |
तस्मै᳚¦शत्रू᳚न्¦सु॒ऽतुका᳚न्¦प्रा॒तः¦अह्नः॑¦नि¦सु॒।आष्ट्रा᳚न्¦यु॒वति॑¦हन्ति॑¦वृ॒त्र‌म् ||

यस्मि᳚न्व॒यं द॑धि॒मा शंस॒मिन्द्रे॒ यः शि॒श्राय॑ म॒घवा॒ काम॑म॒स्मे |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

आ॒राच्चि॒त्सन्‌ भ॑यतामस्य॒ शत्रु॒र्न्य॑स्मै द्यु॒म्ना जन्या᳚ नमन्ताम् ||{6/11}{10.42.6}{10.3.13.6}{7.8.23.1}{434, 879, 9232}

यस्मि॑न्¦व॒य‌म्¦द॒धि॒म¦शंस᳚‌म्¦इन्द्रे᳚¦यः¦शि॒श्राय॑¦म॒घऽवा᳚¦काम᳚‌म्¦अ॒स्मे इति॑ |
आ॒रात्¦चि॒त्¦सन्¦भ॒य॒ता॒‌म्¦अ॒स्य॒¦शत्रुः॑¦नि¦अ॒स्मै॒¦द्यु॒म्ना¦जन्या᳚¦न॒म॒न्ता॒‌म् ||

आ॒राच्छत्रु॒मप॑ बाधस्व दू॒रमु॒ग्रो यः शम्बः॑ पुरुहूत॒ तेन॑ |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

अ॒स्मे धे᳚हि॒ यव॑म॒द्गोम॑दिन्द्र कृ॒धी धियं᳚ जरि॒त्रे वाज॑रत्नाम् ||{7/11}{10.42.7}{10.3.13.7}{7.8.23.2}{435, 879, 9233}

आ॒रात्¦शत्रु᳚‌म्¦अप॑¦बा॒ध॒स्व॒¦दू॒र‌म्¦उ॒ग्रः¦यः¦शम्बः॑¦पु॒रु॒ऽहू॒त॒¦तेन॑ |
अ॒स्मे इति॑¦धे॒हि॒¦यव॑ऽमत्¦गोऽम॑त्¦इ॒न्द्र॒¦कृ॒धि¦धिय᳚‌म्¦ज॒रि॒त्रे¦वाज॑ऽरत्ना‌म् ||

प्र यम॒न्तर्वृ॑षस॒वासो॒, अग्म᳚न्ती॒व्राः सोमा᳚ बहु॒लान्ता᳚स॒ इन्द्र᳚म् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

नाह॑ दा॒मानं᳚ म॒घवा॒ नि यं᳚स॒न्नि सु᳚न्व॒ते व॑हति॒ भूरि॑ वा॒मम् ||{8/11}{10.42.8}{10.3.13.8}{7.8.23.3}{436, 879, 9234}

प्र¦य‌म्¦अ॒न्तः¦वृ॒ष॒ऽस॒वासः॑¦अग्म॑न्¦ती॒व्राः¦सोमाः᳚¦ब॒हु॒ल।आ᳚न्तासः¦इन्द्र᳚‌म् |
न¦अह॑¦दा॒मान᳚‌म्¦म॒घऽवा᳚¦नि¦यं॒स॒त्¦नि¦सु॒न्व॒ते¦व॒ह॒ति॒¦भूरि॑¦वा॒म‌म् ||

उ॒त प्र॒हाम॑ति॒दीव्या᳚ जयाति कृ॒तं यच्छ्व॒घ्नी वि॑चि॒नोति॑ का॒ले |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

यो दे॒वका᳚मो॒ न धना᳚ रुणद्धि॒ समित्तं रा॒या सृ॑जति स्व॒धावा॑न् ||{9/11}{10.42.9}{10.3.13.9}{7.8.23.4}{437, 879, 9235}

उ॒त¦प्र॒ऽहा‌म्¦अ॒ति॒ऽदीव्य॑¦ज॒या॒ति॒¦कृ॒त‌म्¦यत्¦श्व॒ऽघ्नी¦वि॒ऽचि॒नोति॑¦का॒ले |
यः¦दे॒वऽका᳚मः¦न¦धना᳚¦रु॒ण॒द्धि॒¦स‌म्¦इत्¦त‌म्¦रा॒या¦सृ॒ज॒ति॒¦स्व॒धाऽवा॑न् ||

गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे᳚न॒ क्षुधं᳚ पुरुहूत॒ विश्वा᳚म् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

व॒यं राज॑भिः प्रथ॒मा धना᳚न्य॒स्माके᳚न वृ॒जने᳚ना जयेम ||{10/11}{10.42.10}{10.3.13.10}{7.8.23.5}{438, 879, 9236}

गोभिः॑¦त॒रे॒म॒¦अम॑ति‌म्¦दुः॒ऽएवा᳚‌म्¦यवे᳚न¦क्षुध᳚‌म्¦पु॒रु॒ऽहू॒त॒¦विश्वा᳚‌म् |
व॒य‌म्¦राज॑ऽभिः¦प्र॒थ॒माः¦धना᳚नि¦अ॒स्माके᳚न¦वृ॒जने᳚न¦ज॒ये॒म॒ ||

बृह॒स्पति᳚र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

इन्द्रः॑ पु॒रस्ता᳚दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ||{11/11}{10.42.11}{10.3.13.11}{7.8.23.6}{439, 879, 9237}

बृ॒हस्पतिः॑¦नः॒¦परि॑¦पा॒तु॒¦प॒श्चात्¦उ॒त¦उत्ऽत॑रस्मात्¦अध॑रात्¦अ॒घ॒ऽयोः |
इन्द्रः॑¦पु॒रस्ता᳚त्¦उ॒त¦म॒ध्य॒तः¦नः॒¦सखा᳚¦सखि॑ऽभ्यः¦वरि॑ऽवः¦कृ॒णो॒तु॒ ||

[43] अच्छामइत्येकादशर्चस्य सूक्तस्यांगिरसः कृष्णइंद्रोजगत्यंत्येद्वेत्रिष्टुभौ |
अच्छा᳚ म॒ इन्द्रं᳚ म॒तयः॑ स्व॒र्विदः॑ स॒ध्रीची॒र्विश्वा᳚, उश॒तीर॑नूषत |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

परि॑ ष्वजन्ते॒ जन॑यो॒ यथा॒ पतिं॒ मर्यं॒ न शु॒न्ध्युं म॒घवा᳚नमू॒तये᳚ ||{1/11}{10.43.1}{10.4.1.1}{7.8.24.1}{440, 880, 9238}

अच्छ॑¦मे॒¦इन्द्र᳚‌म्¦म॒तयः॑¦स्वः॒ऽविदः॑¦स॒ध्रीचीः᳚¦विश्वाः᳚¦उ॒श॒तीः¦अ॒नू॒ष॒त॒ |
परि॑¦स्व॒ज॒न्ते॒¦जन॑यः¦यथा᳚¦पति᳚‌म्¦मर्य᳚‌म्¦न¦शु॒न्ध्यु‌म्¦म॒घऽवा᳚न‌म्¦ऊ॒तये᳚ ||

न घा᳚ त्व॒द्रिगप॑ वेति मे॒ मन॒स्त्वे, इत्कामं᳚ पुरुहूत शिश्रय |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

राजे᳚व दस्म॒ नि ष॒दोऽधि॑ ब॒र्हिष्य॒स्मिन्‌ त्सु सोमे᳚ऽव॒पान॑मस्तु ते ||{2/11}{10.43.2}{10.4.1.2}{7.8.24.2}{441, 880, 9239}

न¦घ॒¦त्व॒द्रिक्¦अप॑¦वे॒ति॒¦मे॒¦मनः॑¦त्वे इति॑¦इत्¦काम᳚‌म्¦पु॒रु॒ऽहू॒त॒¦शि॒श्र॒य॒ |
राजा᳚ऽ‌इव¦द॒स्म॒¦नि¦स॒दः॒¦अधि॑¦ब॒र्हिषि॑¦अ॒स्मिन्¦सु¦सोमे᳚¦अ॒व॒ऽपान᳚‌म्¦अ॒स्तु॒¦ते॒ ||

वि॒षू॒वृदिन्द्रो॒, अम॑तेरु॒त क्षु॒धः स इद्रा॒यो म॒घवा॒ वस्व॑ ईशते |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

तस्येदि॒मे प्र॑व॒णे स॒प्त सिन्ध॑वो॒ वयो᳚ वर्धन्ति वृष॒भस्य॑ शु॒ष्मिणः॑ ||{3/11}{10.43.3}{10.4.1.3}{7.8.24.3}{442, 880, 9240}

वि॒षु॒ऽवृत्¦इन्द्रः॑¦अम॑तेः¦उ॒त्¦क्षु॒धः¦सः¦इत्¦रा॒यः¦म॒घऽवा᳚¦वस्वः॑¦ई॒श॒ते॒ |
तस्य॑¦इत्¦इ॒मे¦प्र॒व॒णे¦स॒प्त¦सिन्ध॑वः¦वयः॑¦व॒र्ध॒न्ति॒¦वृ॒ष॒भस्य॑¦शु॒ष्मिणः॑ ||

वयो॒ न वृ॒क्षं सु॑पला॒शमास॑द॒न्‌ त्सोमा᳚स॒ इन्द्रं᳚ म॒न्दिन॑श्चमू॒षदः॑ |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

प्रैषा॒मनी᳚कं॒ शव॑सा॒ दवि॑द्युतद्वि॒दत्स्व१॑(अ॒)र्मन॑वे॒ ज्योति॒रार्य᳚म् ||{4/11}{10.43.4}{10.4.1.4}{7.8.24.4}{443, 880, 9241}

वयः॑¦न¦वृ॒क्ष‌म्¦सु॒ऽप॒ला॒श‌म्¦आ¦अ॒स॒द॒न्¦सोमा᳚सः¦इन्द्र᳚‌म्¦म॒न्दिनः॑¦च॒मू॒ऽसदः॑ |
प्र¦ए॒षा॒‌म्¦अनी᳚क‌म्¦शव॑सा¦दवि॑द्युतत्¦वि॒दत्¦स्वः॑¦मन॑वे¦ज्योतिः॑¦आर्य᳚‌म् ||

कृ॒तं न श्व॒घ्नी वि चि॑नोति॒ देव॑ने सं॒वर्गं॒ यन्म॒घवा॒ सूर्यं॒ जय॑त् |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

न तत्ते᳚, अ॒न्यो, अनु॑ वी॒र्यं᳚ शक॒न्न पु॑रा॒णो म॑घव॒न्नोत नूत॑नः ||{5/11}{10.43.5}{10.4.1.5}{7.8.24.5}{444, 880, 9242}

कृ॒त‌म्¦न¦श्व॒ऽघ्नी¦वि¦चि॒नो॒ति॒¦देव॑ने¦स॒‌म्ऽवर्ग᳚‌म्¦यत्¦म॒घऽवा᳚¦सूर्य᳚‌म्¦जय॑त् |
न¦तत्¦ते॒¦अ॒न्यः¦अनु॑¦वी॒र्य᳚‌म्¦श॒क॒त्¦न¦पु॒रा॒णः¦म॒घ॒ऽव॒न्¦न¦उ॒त¦नूत॑नः ||

विशं᳚विशं म॒घवा॒ पर्य॑शायत॒ जना᳚नां॒ धेना᳚, अव॒चाक॑श॒द्वृषा᳚ |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

यस्याह॑ श॒क्रः सव॑नेषु॒ रण्य॑ति॒ स ती॒व्रैः सोमैः᳚ सहते पृतन्य॒तः ||{6/11}{10.43.6}{10.4.1.6}{7.8.25.1}{445, 880, 9243}

विश᳚‌म्ऽविश‌म्¦म॒घऽवा᳚¦परि॑¦अ॒शा॒य॒त॒¦जना᳚ना‌म्¦धेनाः᳚¦अ॒व॒ऽचाक॑शत्¦वृषा᳚ |
यस्य॑¦अह॑¦श॒क्रः¦सव॑नेषु¦रण्य॑ति¦सः¦ती॒व्रैः¦सोमैः᳚¦स॒ह॒ते॒¦पृ॒त॒न्य॒तः ||

आपो॒ न सिन्धु॑म॒भि यत्स॒मक्ष॑र॒न्‌ त्सोमा᳚स॒ इन्द्रं᳚ कु॒ल्या, इ॑व ह्र॒दम् |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

वर्ध᳚न्ति॒ विप्रा॒ महो᳚, अस्य॒ साद॑ने॒ यवं॒ न वृ॒ष्टिर्दि॒व्येन॒ दानु॑ना ||{7/11}{10.43.7}{10.4.1.7}{7.8.25.2}{446, 880, 9244}

आपः॑¦न¦सिन्धु᳚‌म्¦अ॒भि¦यत्¦स॒‌म्।आक्ष॑रन्¦सोमा᳚सः¦इन्द्र᳚‌म्¦कु॒ल्याःऽ‌इ᳚व¦ह्र॒द‌म् |
वर्ध᳚न्ति¦विप्राः᳚¦महः॑¦अ॒स्य॒¦साद॑ने¦यव᳚‌म्¦न¦वृ॒ष्टिः¦दि॒व्येन॑¦दानु॑ना ||

वृषा॒ न क्रु॒द्धः प॑तय॒द्रज॒स्स्वा यो, अ॒र्यप॑त्नी॒रकृ॑णोदि॒मा, अ॒पः |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

स सु᳚न्व॒ते म॒घवा᳚ जी॒रदा᳚न॒वेऽवि᳚न्द॒ज्ज्योति॒र्मन॑वे ह॒विष्म॑ते ||{8/11}{10.43.8}{10.4.1.8}{7.8.25.3}{447, 880, 9245}

वृषा᳚¦न¦क्रु॒द्धः¦प॒त॒य॒त्¦रजः॑ऽसु¦आ¦यः¦अ॒र्यऽप॑त्नीः¦अकृ॑णोत्¦इ॒माः¦अ॒पः |
सः¦सु॒न्व॒ते¦म॒घऽवा᳚¦जी॒रऽदा᳚नवे¦अवि᳚न्दत्¦ज्योतिः॑¦मन॑वे¦ह॒विष्म॑ते ||

उज्जा᳚यतां पर॒शुर्ज्योति॑षा स॒ह भू॒या, ऋ॒तस्य॑ सु॒दुघा᳚ पुराण॒वत् |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

वि रो᳚चतामरु॒षो भा॒नुना॒ शुचिः॒ स्व१॑(अ॒)र्ण शु॒क्रं शु॑शुचीत॒ सत्प॑तिः ||{9/11}{10.43.9}{10.4.1.9}{7.8.25.4}{448, 880, 9246}

उत्¦जा॒य॒ता॒‌म्¦प॒र॒शुः¦ज्योति॑षा¦स॒ह¦भू॒याः¦ऋ॒तस्य॑¦सु॒ऽदुघा᳚¦पु॒रा॒ण॒ऽवत् |
वि¦रो॒च॒ता॒‌म्¦अ॒रु॒षः¦भा॒नुना᳚¦शुचिः॑¦स्वः॒¦न¦शु॒क्र‌म्¦शु॒शु॒ची॒त॒¦सत्ऽप॑तिः ||

गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे᳚न॒ क्षुधं᳚ पुरुहूत॒ विश्वा᳚म् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

व॒यं राज॑भिः प्रथ॒मा धना᳚न्य॒स्माके᳚न वृ॒जने᳚ना जयेम ||{10/11}{10.43.10}{10.4.1.10}{7.8.25.5}{449, 880, 9247}

गोभिः॑¦त॒रे॒म॒¦अम॑ति‌म्¦दुः॒ऽएवा᳚‌म्¦यवे᳚न¦क्षुध᳚‌म्¦पु॒रु॒ऽहू॒त॒¦विश्वा᳚‌म् |
व॒य‌म्¦राज॑ऽभिः¦प्र॒थ॒माः¦धना᳚नि¦अ॒स्माके᳚न¦वृ॒जने᳚न¦ज॒ये॒म॒ ||

बृह॒स्पति᳚र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

इन्द्रः॑ पु॒रस्ता᳚दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ||{11/11}{10.43.11}{10.4.1.11}{7.8.25.6}{450, 880, 9248}

बृ॒हस्पतिः॑¦नः॒¦परि॑¦पा॒तु॒¦प॒श्चात्¦उ॒त¦उत्ऽत॑रस्मात्¦अध॑रात्¦अ॒घ॒ऽयोः |
इन्द्रः॑¦पु॒रस्ता᳚त्¦उ॒त¦म॒ध्य॒तः¦नः॒¦सखा᳚¦सखि॑ऽभ्यः¦वरि॑ऽवः¦कृ॒णो॒तु॒ ||

[44] आयात्वित्येकादशर्चस्य सूक्तस्यांगिरसः कृष्णइंद्रोजगती आद्यास्तिस्रोंत्येद्वेचत्रिष्टुभः |
आ या॒त्विन्द्रः॒ स्वप॑ति॒र्मदा᳚य॒ यो धर्म॑णा तूतुजा॒नस्तुवि॑ष्मान् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

प्र॒त्व॒क्षा॒णो, अति॒ विश्वा॒ सहां᳚स्यपा॒रेण॑ मह॒ता वृष्ण्ये᳚न ||{1/11}{10.44.1}{10.4.2.1}{7.8.26.1}{451, 881, 9249}

आ¦या॒तु॒¦इन्द्रः॑¦स्वऽप॑तिः¦मदा᳚य¦यः¦धर्म॑णा¦तू॒तु॒जा॒नः¦तुवि॑ष्मान् |
प्र॒ऽत्व॒क्षा॒णः¦अति॑¦विश्वा᳚¦सहां᳚सि¦अ॒पा॒रेण॑¦म॒ह॒ता¦वृष्ण्ये᳚न ||

सु॒ष्ठामा॒ रथः॑ सु॒यमा॒ हरी᳚ ते मि॒म्यक्ष॒ वज्रो᳚ नृपते॒ गभ॑स्तौ |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

शीभं᳚ राजन्‌ त्सु॒पथा या᳚ह्य॒र्वाङ्वर्धा᳚म ते प॒पुषो॒ वृष्ण्या᳚नि ||{2/11}{10.44.2}{10.4.2.2}{7.8.26.2}{452, 881, 9250}

सु॒ऽस्थामा᳚¦रथः॑¦सु॒ऽयमा᳚¦हरी॒ इति॑¦ते॒¦मि॒म्यक्ष॑¦वज्रः॑¦नृ॒ऽप॒ते॒¦गभ॑स्तौ |
शीभ᳚‌म्¦रा॒ज॒न्¦सु॒ऽपथा᳚¦आ¦या॒हि॒¦अ॒र्वाङ्¦वर्धा᳚म¦ते॒¦प॒पुषः॑¦वृष्ण्या᳚नि ||

एन्द्र॒वाहो᳚ नृ॒पतिं॒ वज्र॑बाहुमु॒ग्रमु॒ग्रास॑स्तवि॒षास॑ एनम् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

प्रत्व॑क्षसं वृष॒भं स॒त्यशु॑ष्म॒मेम॑स्म॒त्रा स॑ध॒मादो᳚ वहन्तु ||{3/11}{10.44.3}{10.4.2.3}{7.8.26.3}{453, 881, 9251}

आ¦इ॒न्द्र॒ऽवाहः॑¦नृ॒ऽपति᳚‌म्¦वज्र॑ऽबाहु‌म्¦उ॒ग्र‌म्¦उ॒ग्रासः॑¦त॒वि॒षासः॑¦ए॒न॒‌म् |
प्रऽत्व॑क्षस‌म्¦वृ॒ष॒भ‌म्¦स॒त्यऽशु॑ष्म‌म्¦आ¦ई॒‌म्¦अ॒स्म॒ऽत्रा¦स॒ध॒ऽमादः॑¦व॒ह॒न्तु॒ ||

ए॒वा पतिं᳚ द्रोण॒साचं॒ सचे᳚तसमू॒र्जः स्क॒म्भं ध॒रुण॒ आ वृ॑षायसे |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

ओजः॑ कृष्व॒ सं गृ॑भाय॒ त्वे, अप्यसो॒ यथा᳚ केनि॒पाना᳚मि॒नो वृ॒धे ||{4/11}{10.44.4}{10.4.2.4}{7.8.26.4}{454, 881, 9252}

ए॒व¦पति᳚‌म्¦द्रो॒ण॒ऽसाच᳚‌म्¦सऽचे᳚तस‌म्¦ऊ॒र्जः¦स्क॒म्भ‌म्¦ध॒रुणे᳚¦आ¦वृ॒ष॒ऽय॒से॒ |
ओजः॑¦कृ॒ष्व॒¦स‌म्¦गृ॒भा॒य॒¦त्वे इति॑¦अपि॑¦असः॑¦यथा᳚¦के॒ऽनि॒पाना᳚‌म्¦इ॒नः¦वृ॒धे ||

गम᳚न्न॒स्मे वसू॒न्या हि शंसि॑षं स्वा॒शिषं॒ भर॒मा या᳚हि सो॒मिनः॑ |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

त्वमी᳚शिषे॒ सास्मिन्ना स॑त्सि ब॒र्हिष्य॑नाधृ॒ष्या तव॒ पात्रा᳚णि॒ धर्म॑णा ||{5/11}{10.44.5}{10.4.2.5}{7.8.26.5}{455, 881, 9253}

गम॑न्¦अ॒स्मे इति॑¦वसू᳚नि¦आ¦हि¦शंसि॑ष‌म्¦सु॒ऽआ॒शिष᳚‌म्¦भर᳚‌म्¦आ¦या॒हि॒¦सो॒मिनः॑ |
त्व‌म्¦ई॒शि॒षे॒¦सः¦अ॒स्मिन्¦आ¦स॒त्सि॒¦ब॒र्हिषि॑¦अ॒ना॒धृ॒ष्या¦तव॑¦पात्रा᳚णि¦धर्म॑णा ||

पृथ॒क्प्राय᳚न्‌ प्रथ॒मा दे॒वहू᳚त॒योऽकृ᳚ण्वत श्रव॒स्या᳚नि दु॒ष्टरा᳚ |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

न ये शे॒कुर्य॒ज्ञियां॒ नाव॑मा॒रुह॑मी॒र्मैव ते न्य॑विशन्त॒ केप॑यः ||{6/11}{10.44.6}{10.4.2.6}{7.8.27.1}{456, 881, 9254}

पृथ॑क्¦प्र¦आ॒य॒न्¦प्र॒थ॒माः¦दे॒वऽहू᳚तयः¦अकृ᳚ण्वत¦श्र॒व॒स्या᳚नि¦दु॒स्तरा᳚ |
न¦ये¦शे॒कुः¦य॒ज्ञिया᳚‌म्¦नाव᳚‌म्¦आ॒ऽरुह᳚‌म्¦ई॒र्मा¦ए॒व¦ते¦नि¦अ॒वि॒श॒न्त॒¦केप॑यः ||

ए॒वैवापा॒गप॑रे सन्तु दू॒ढ्योऽश्वा॒ येषां᳚ दु॒र्युज॑ आयुयु॒ज्रे |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

इ॒त्था ये प्रागुप॑रे॒ सन्ति॑ दा॒वने᳚ पु॒रूणि॒ यत्र॑ व॒युना᳚नि॒ भोज॑ना ||{7/11}{10.44.7}{10.4.2.7}{7.8.27.2}{457, 881, 9255}

ए॒व¦ए॒व¦अपा᳚क्¦अप॑रे¦स॒न्तु॒¦दुः॒ऽध्यः॑¦अश्वाः᳚¦येषा᳚‌म्¦दुः॒ऽयुजः॑¦आ॒ऽयु॒यु॒ज्रे |
इ॒त्था¦ये¦प्राक्¦उप॑रे¦सन्ति॑¦दा॒वने᳚¦पु॒रूणि॑¦यत्र॑¦व॒युना᳚नि¦भोज॑ना ||

गि॒रीँरज्रा॒न्‌ रेज॑मानाँ, अधारय॒द्द्यौः क्र᳚न्दद॒न्तरि॑क्षाणि कोपयत् |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

स॒मी॒ची॒ने धि॒षणे॒ वि ष्क॑भायति॒ वृष्णः॑ पी॒त्वा मद॑ उ॒क्थानि॑ शंसति ||{8/11}{10.44.8}{10.4.2.8}{7.8.27.3}{458, 881, 9256}

गि॒रीन्¦अज्रा᳚न्¦रेज॑मानान्¦अ॒धा॒र॒य॒त्¦द्यौः¦क्र॒न्द॒त्¦अ॒न्तरि॑क्षाणि¦को॒प॒य॒त् |
स॒मी॒ची॒ने इति॑ स॒‌म्ऽई॒ची॒ने¦धि॒षणे॒ इति॑¦वि¦स्क॒भा॒य॒ति॒¦वृष्णः॑¦पी॒त्वा¦मदे᳚¦उ॒क्थानि॑¦शं॒स॒ति॒ ||

इ॒मं बि॑भर्मि॒ सुकृ॑तं ते, अङ्कु॒शं येना᳚रु॒जासि॑ मघवञ्छफा॒रुजः॑ |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

अ॒स्मिन्‌ त्सु ते॒ सव॑ने, अस्त्वो॒क्यं᳚ सु॒त इ॒ष्टौ म॑घवन्‌ बो॒ध्याभ॑गः ||{9/11}{10.44.9}{10.4.2.9}{7.8.27.4}{459, 881, 9257}

इ॒म‌म्¦बि॒भ॒र्मि॒¦सुऽकृ॑त‌म्¦ते॒¦अ॒ङ्कु॒श‌म्¦येन॑¦आ॒ऽरु॒जासि॑¦म॒घ॒ऽव॒न्¦श॒फ॒ऽआ॒रुजः॑ |
अ॒स्मिन्¦सु¦ते॒¦सव॑ने¦अ॒स्तु॒¦ओ॒क्य᳚‌म्¦सु॒ते¦इ॒ष्टौ¦म॒घ॒ऽव॒न्¦बो॒धि॒¦आऽभ॑गः ||

गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे᳚न॒ क्षुधं᳚ पुरुहूत॒ विश्वा᳚म् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

व॒यं राज॑भिः प्रथ॒मा धना᳚न्य॒स्माके᳚न वृ॒जने᳚ना जयेम ||{10/11}{10.44.10}{10.4.2.10}{7.8.27.5}{460, 881, 9258}

गोभिः॑¦त॒रे॒म॒¦अम॑ति‌म्¦दुः॒ऽएवा᳚‌म्¦यवे᳚न¦क्षुध᳚‌म्¦पु॒रु॒ऽहू॒त॒¦विश्वा᳚‌म् |
व॒य‌म्¦राज॑ऽभिः¦प्र॒थ॒माः¦धना᳚नि¦अ॒स्माके᳚न¦वृ॒जने᳚न¦ज॒ये॒म॒ ||

बृह॒स्पति᳚र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

इन्द्रः॑ पु॒रस्ता᳚दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ||{11/11}{10.44.11}{10.4.2.11}{7.8.27.6}{461, 881, 9259}

बृ॒हस्पतिः॑¦नः॒¦परि॑¦पा॒तु॒¦प॒श्चात्¦उ॒त¦उत्ऽत॑रस्मात्¦अध॑रात्¦अ॒घ॒ऽयोः |
इन्द्रः॑¦पु॒रस्ता᳚त्¦उ॒त¦म॒ध्य॒तः¦नः॒¦सखा᳚¦सखि॑ऽभ्यः¦वरि॑ऽवः¦कृ॒णो॒तु॒ ||

[45] दिवस्परीति द्वादशर्चस्य सूक्तस्य भालंदनो वत्सप्रिरग्निस्त्रिष्टुप् |
दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे, अ॒ग्निर॒स्मद्द्वि॒तीयं॒ परि॑ जा॒तवे᳚दाः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

तृ॒तीय॑म॒प्सु नृ॒मणा॒, अज॑स्र॒मिन्धा᳚न एनं जरते स्वा॒धीः ||{1/12}{10.45.1}{10.4.3.1}{7.8.28.1}{462, 882, 9260}

दि॒वः¦परि॑¦प्र॒थ॒म‌म्¦ज॒ज्ञे॒¦अ॒ग्निः¦अ॒स्मत्¦द्वि॒तीय᳚‌म्¦परि॑¦जा॒तऽवे᳚दाः |
तृ॒तीय᳚‌म्¦अ॒प्ऽसु¦नृ॒ऽमनाः᳚¦अज॑स्र‌म्¦इन्धा᳚नः¦ए॒न॒‌म्¦ज॒र॒ते॒¦सु॒ऽआ॒धीः ||

वि॒द्मा ते᳚, अग्ने त्रे॒धा त्र॒याणि॑ वि॒द्मा ते॒ धाम॒ विभृ॑ता पुरु॒त्रा |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्वि॒द्मा तमुत्सं॒ यत॑ आज॒गन्थ॑ ||{2/12}{10.45.2}{10.4.3.2}{7.8.28.2}{463, 882, 9261}

वि॒द्म¦ते॒¦अ॒ग्ने॒¦त्रे॒धा¦त्र॒याणि॑¦वि॒द्म¦ते॒¦धाम॑¦विऽभृ॑ता¦पु॒रु॒ऽत्रा |
वि॒द्म¦ते॒¦नाम॑¦प॒र॒म‌म्¦गुहा᳚¦यत्¦वि॒द्म¦त‌म्¦उत्स᳚‌म्¦यतः॑¦आ॒ऽज॒गन्थ॑ ||

स॒मु॒द्रे त्वा᳚ नृ॒मणा᳚, अ॒प्स्व१॑(अ॒)न्तर्नृ॒चक्षा᳚, ईधे दि॒वो, अ॑ग्न॒ ऊध॑न् |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

तृ॒तीये᳚ त्वा॒ रज॑सि तस्थि॒वांस॑म॒पामु॒पस्थे᳚ महि॒षा, अ॑वर्धन् ||{3/12}{10.45.3}{10.4.3.3}{7.8.28.3}{464, 882, 9262}

स॒मु॒द्रे¦त्वा॒¦नृ॒ऽमनाः᳚¦अ॒प्ऽसु¦अ॒न्तः¦नृ॒ऽचक्षाः᳚¦ई॒धे॒¦दि॒वः¦अ॒ग्ने॒¦ऊध॑न् |
तृ॒तीये᳚¦त्वा॒¦रज॑सि¦त॒स्थि॒ऽवांस᳚‌म्¦अ॒पा‌म्¦उ॒पऽस्थे᳚¦म॒हि॒षाः¦अ॒व॒र्ध॒न् ||

अक्र᳚न्दद॒ग्निः स्त॒नय᳚न्निव॒ द्यौः, क्षामा॒ रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन् |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो, अख्य॒दा रोद॑सी भा॒नुना᳚ भात्य॒न्तः ||{4/12}{10.45.4}{10.4.3.4}{7.8.28.4}{465, 882, 9263}

अक्र᳚न्दत्¦अ॒ग्निः¦स्त॒नय॑न्ऽ‌इव¦द्यौः¦क्षाम॑¦रेरि॑हत्¦वी॒रुधः॑¦स॒‌म्।आं॒जन् |
स॒द्यः¦ज॒ज्ञा॒नः¦वि¦हि¦ई॒‌म्¦इ॒द्धः¦अख्य॑त्¦आ¦रोद॑सी॒ इति॑¦भा॒नुना᳚¦भा॒ति॒¦अ॒न्तरिति॑ ||

श्री॒णामु॑दा॒रो ध॒रुणो᳚ रयी॒णां म॑नी॒षाणां॒ प्रार्प॑णः॒ सोम॑गोपाः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

वसुः॑ सू॒नुः सह॑सो, अ॒प्सु राजा॒ वि भा॒त्यग्र॑ उ॒षसा᳚मिधा॒नः ||{5/12}{10.45.5}{10.4.3.5}{7.8.28.5}{466, 882, 9264}

श्री॒णा‌म्¦उ॒त्ऽआ॒रः¦ध॒रुणः॑¦र॒यी॒णा‌म्¦म॒नी॒षाणा᳚‌म्¦प्र॒।आर्प॑णः¦सोम॑ऽगोपाः |
वसुः॑¦सू॒नुः¦सह॑सः¦अ॒प्ऽसु¦राजा᳚¦वि¦भा॒ति॒¦अग्रे᳚¦उ॒षसा᳚‌म्¦इ॒धा॒नः ||

विश्व॑स्य के॒तुर्भुव॑नस्य॒ गर्भ॒ आ रोद॑सी, अपृणा॒ज्जाय॑मानः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

वी॒ळुं चि॒दद्रि॑मभिनत्परा॒यञ्जना॒ यद॒ग्निमय॑जन्त॒ पञ्च॑ ||{6/12}{10.45.6}{10.4.3.6}{7.8.28.6}{467, 882, 9265}

विश्व॑स्य¦के॒तुः¦भुव॑नस्य¦गर्भः॑¦आ¦रोद॑सी॒ इति॑¦अ॒पृ॒णा॒त्¦जाय॑मानः |
वी॒ळु‌म्¦चि॒त्¦अद्रि᳚‌म्¦अ॒भि॒न॒त्¦प॒रा॒ऽयन्¦जनाः᳚¦यत्¦अ॒ग्नि‌म्¦अय॑जन्त¦पंच॑ ||

उ॒शिक्‌ पा᳚व॒को, अ॑र॒तिः सु॑मे॒धा मर्ते᳚ष्व॒ग्निर॒मृतो॒ नि धा᳚यि |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

इय॑र्ति धू॒मम॑रु॒षं भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षन् ||{7/12}{10.45.7}{10.4.3.7}{7.8.29.1}{468, 882, 9266}

उ॒शिक्¦पा॒व॒कः¦अ॒र॒तिः¦सु॒ऽमे॒धाः¦मर्ते᳚षु¦अ॒ग्निः¦अ॒मृतः॑¦नि¦धा॒यि॒ |
इय॑र्ति¦धू॒म‌म्¦अ॒रु॒ष‌म्¦भरि॑भ्रत्¦उत्¦शु॒क्रेण॑¦शो॒चिषा᳚¦द्या‌म्¦इन॑क्षन् ||

दृ॒शा॒नो रु॒क्म उ᳚र्वि॒या व्य॑द्यौद्दु॒र्मर्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

अ॒ग्निर॒मृतो᳚, अभव॒द्वयो᳚भि॒र्यदे᳚नं॒ द्यौर्ज॒नय॑त्सु॒रेताः᳚ ||{8/12}{10.45.8}{10.4.3.8}{7.8.29.2}{469, 882, 9267}

दृ॒शा॒नः¦रु॒क्मः¦उ॒र्वि॒या¦वि¦अ॒द्यौ॒त्¦दुः॒ऽमर्ष᳚‌म्¦आयुः॑¦श्रि॒ये¦रु॒चा॒नः |
अ॒ग्निः¦अ॒मृतः॑¦अ॒भ॒व॒त्¦वयः॑ऽभिः¦यत्¦ए॒न॒‌म्¦द्यौः¦ज॒नय॑त्¦सु॒ऽरेताः᳚ ||

यस्ते᳚, अ॒द्य कृ॒णव॑द्भद्रशोचेऽपू॒पं दे᳚व घृ॒तव᳚न्तमग्ने |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

प्र तं न॑य प्रत॒रं वस्यो॒, अच्छा॒भि सु॒म्नं दे॒वभ॑क्तं यविष्ठ ||{9/12}{10.45.9}{10.4.3.9}{7.8.29.3}{470, 882, 9268}

यः¦ते॒¦अ॒द्य¦कृ॒णव॑त्¦भ॒द्र॒ऽशो॒चे॒¦अ॒पू॒प‌म्¦दे॒व॒¦घृ॒तऽव᳚न्त‌म्¦अ॒ग्ने॒ |
प्र¦त‌म्¦न॒य॒¦प्र॒ऽत॒र‌म्¦वस्यः॑¦अच्छ॑¦अ॒भि¦सु॒म्न‌म्¦दे॒वऽभ॑क्त‌म्¦य॒वि॒ष्ठ॒ ||

आ तं भ॑ज सौश्रव॒सेष्व॑ग्न उ॒क्थौ᳚क्थ॒ आ भ॑ज श॒स्यमा᳚ने |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

प्रि॒यः सूर्ये᳚ प्रि॒यो, अ॒ग्ना भ॑वा॒त्युज्जा॒तेन॑ भि॒नद॒दुज्जनि॑त्वैः ||{10/12}{10.45.10}{10.4.3.10}{7.8.29.4}{471, 882, 9269}

आ¦त‌म्¦भ॒ज॒¦सौ॒श्र॒व॒सेषु॑¦अ॒ग्ने॒¦उ॒क्थे।औ᳚क्थे¦आ¦भ॒ज॒¦श॒स्यमा᳚ने |
प्रि॒यः¦सूर्ये᳚¦प्रि॒यः¦अ॒ग्ना¦भ॒वा॒ति॒¦उत्¦जा॒तेन॑¦भि॒नद॑त्¦उत्¦जनि॑ऽत्वैः ||

त्वाम॑ग्ने॒ यज॑माना॒, अनु॒ द्यून्‌ विश्वा॒ वसु॑ दधिरे॒ वार्या᳚णि |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

त्वया᳚ स॒ह द्रवि॑णमि॒च्छमा᳚ना व्र॒जं गोम᳚न्तमु॒शिजो॒ वि व᳚व्रुः ||{11/12}{10.45.11}{10.4.3.11}{7.8.29.5}{472, 882, 9270}

त्वा‌म्¦अ॒ग्ने॒¦यज॑मानाः¦अनु॑¦द्यून्¦विश्वा᳚¦वसु॑¦द॒धि॒रे॒¦वार्या᳚णि |
त्वया᳚¦स॒ह¦द्रवि॑ण‌म्¦इ॒च्छमा᳚नाः¦व्र॒ज‌म्¦गोऽम᳚न्त‌म्¦उ॒शिजः॑¦वि¦व॒व्रुः॒ ||

अस्ता᳚व्य॒ग्निर्न॒रां सु॒शेवो᳚ वैश्वान॒र ऋषि॑भिः॒ सोम॑गोपाः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

अ॒द्वे॒षे द्यावा᳚पृथि॒वी हु॑वेम॒ देवा᳚ ध॒त्त र॒यिम॒स्मे सु॒वीर᳚म् ||{12/12}{10.45.12}{10.4.3.12}{7.8.29.6}{473, 882, 9271}

अस्ता᳚वि¦अ॒ग्निः¦न॒रा‌म्¦सु॒ऽशेवः॑¦वै॒श्वा॒न॒रः¦ऋषि॑ऽभिः¦सोम॑ऽगोपाः |
अ॒द्वे॒षे¦द्यावा᳚पृथि॒वी इति॑¦हु॒वे॒म॒¦देवाः᳚¦ध॒त्त¦र॒यि‌म्¦अ॒स्मे इति॑¦सु॒ऽवीर᳚‌म् ||

[46] प्रहोतेति दशर्चस्य सूक्तस्य भालंदनो वत्सप्रिरग्निस्त्रिष्टुप् |
प्र होता᳚ जा॒तो म॒हान्न॑भो॒विन्नृ॒षद्वा᳚ सीदद॒पामु॒पस्थे᳚ |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

दधि॒र्यो धायि॒ स ते॒ वयां᳚सि य॒न्ता वसू᳚नि विध॒ते त॑नू॒पाः ||{1/10}{10.46.1}{10.4.4.1}{8.1.1.1}{474, 883, 9272}

प्र¦होता᳚¦जा॒तः¦म॒हान्¦न॒भः॒ऽवित्¦नृ॒ऽसद्वा᳚¦सी॒द॒त्¦अ॒पा‌म्¦उ॒पऽस्थे᳚ |
दधिः॑¦यः¦धायि॑¦सः¦ते॒¦वयां᳚सि¦य॒न्ता¦वसू᳚नि¦वि॒ध॒ते¦त॒नू॒ऽपाः ||

इ॒मं वि॒धन्तो᳚, अ॒पां स॒धस्थे᳚ प॒शुं न न॒ष्टं प॒दैरनु॑ ग्मन् |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

गुहा॒ चत᳚न्तमु॒शिजो॒ नमो᳚भिरि॒च्छन्तो॒ धीरा॒ भृग॑वोऽविन्दन् ||{2/10}{10.46.2}{10.4.4.2}{8.1.1.2}{475, 883, 9273}

इ॒म‌म्¦वि॒धन्तः॑¦अ॒पा‌म्¦स॒धऽस्थे᳚¦प॒शु‌म्¦न¦न॒ष्ट‌म्¦प॒दैः¦अनु॑¦ग्म॒न् |
गुहा᳚¦चत᳚न्त‌म्¦उ॒शिजः॑¦नमः॑ऽभिः¦इ॒च्छन्तः॑¦धीराः᳚¦भृग॑वः¦अ॒वि॒न्द॒न् ||

इ॒मं त्रि॒तो भूर्य॑विन्ददि॒च्छन्वै᳚भूव॒सो मू॒र्धन्यघ्न्या᳚याः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

स शेवृ॑धो जा॒त आ ह॒र्म्येषु॒ नाभि॒र्युवा᳚ भवति रोच॒नस्य॑ ||{3/10}{10.46.3}{10.4.4.3}{8.1.1.3}{476, 883, 9274}

इ॒म‌म्¦त्रि॒तः¦भूरि॑¦अ॒वि॒न्द॒त्¦इ॒च्छन्¦वै॒भु॒ऽव॒सः¦मू॒र्धनि॑¦अघ्न्या᳚याः |
सः¦शेवृ॑धः¦जा॒तः¦आ¦ह॒र्म्येषु॑¦नाभिः॑¦युवा᳚¦भ॒व॒ति॒¦रो॒च॒नस्य॑ ||

म॒न्द्रं होता᳚रमु॒शिजो॒ नमो᳚भिः॒ प्राञ्चं᳚ य॒ज्ञं ने॒तार॑मध्व॒राणा᳚म् |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

वि॒शाम॑कृण्वन्नर॒तिं पा᳚व॒कं ह᳚व्य॒वाहं॒ दध॑तो॒ मानु॑षेषु ||{4/10}{10.46.4}{10.4.4.4}{8.1.1.4}{477, 883, 9275}

म॒न्द्र‌म्¦होता᳚र‌म्¦उ॒शिजः॑¦नमः॑ऽभिः¦प्रांच᳚‌म्¦य॒ज्ञ‌म्¦ने॒तार᳚‌म्¦अ॒ध्व॒राणा᳚‌म् |
वि॒शा‌म्¦अ॒कृ॒ण्व॒न्¦अ॒र॒ति‌म्¦पा॒व॒क‌म्¦ह॒व्य॒ऽवाह᳚‌म्¦दध॑तः¦मानु॑षेषु ||

प्र भू॒र्जय᳚न्तं म॒हां वि॑पो॒धां मू॒रा, अमू᳚रं पु॒रां द॒र्माण᳚म् |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

नय᳚न्तो॒ गर्भं᳚ व॒नां धियं᳚ धु॒र्हिरि॑श्मश्रुं॒ नार्वा᳚णं॒ धन॑र्चम् ||{5/10}{10.46.5}{10.4.4.5}{8.1.1.5}{478, 883, 9276}

प्र¦भूः॒¦जय᳚न्त‌म्¦म॒हान्¦वि॒पः॒ऽधा‌म्¦मू॒राः¦अमू᳚र‌म्¦पु॒रा‌म्¦द॒र्माण᳚‌म् |
नय᳚न्तः¦गर्भ᳚‌म्¦व॒ना‌म्¦धिय᳚‌म्¦धुः॒¦हिरि॑ऽश्मश्रु‌म्¦न¦अर्वा᳚ण‌म्¦धन॑।आर्च‌म् ||

नि प॒स्त्या᳚सु त्रि॒तः स्त॑भू॒यन्‌ परि॑वीतो॒ योनौ᳚ सीदद॒न्तः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

अतः॑ सं॒गृभ्या᳚ वि॒शां दमू᳚ना॒ विध᳚र्मणाय॒न्त्रैरी᳚यते॒ नॄन् ||{6/10}{10.46.6}{10.4.4.6}{8.1.2.1}{479, 883, 9277}

नि¦प॒स्त्या᳚सु¦त्रि॒तः¦स्त॒भु॒ऽयन्¦परि॑ऽवीतः¦योनौ᳚¦सी॒द॒त्¦अ॒न्तरिति॑ |
अतः॑¦स॒‌म्ऽगृभ्य॑¦वि॒शा‌म्¦दमू᳚नाः¦विऽध᳚र्मणा¦अ॒य॒न्त्रैः¦ई॒य॒ते॒¦नॄन् ||

अ॒स्याजरा᳚सो द॒माम॒रित्रा᳚, अ॒र्चद्धू᳚मासो, अ॒ग्नयः॑ पाव॒काः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

श्वि॒ती॒चयः॑ श्वा॒त्रासो᳚ भुर॒ण्यवो᳚ वन॒र्षदो᳚ वा॒यवो॒ न सोमाः᳚ ||{7/10}{10.46.7}{10.4.4.7}{8.1.2.2}{480, 883, 9278}

अ॒स्य¦अ॒जरा᳚सः¦द॒मा‌म्¦अ॒रित्राः᳚¦अ॒र्चत्ऽधू᳚मासः¦अ॒ग्नयः॑¦पा॒व॒काः |
श्वि॒ती॒चयः॑¦श्वा॒त्रासः॑¦भु॒र॒ण्यवः॑¦व॒न॒ऽसदः॑¦वा॒यवः॑¦न¦सोमाः᳚ ||

प्र जि॒ह्वया᳚ भरते॒ वेपो᳚, अ॒ग्निः प्र व॒युना᳚नि॒ चेत॑सा पृथि॒व्याः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

तमा॒यवः॑ शु॒चय᳚न्तं पाव॒कं म॒न्द्रं होता᳚रं दधिरे॒ यजि॑ष्ठम् ||{8/10}{10.46.8}{10.4.4.8}{8.1.2.3}{481, 883, 9279}

प्र¦जि॒ह्वया᳚¦भ॒र॒ते॒¦वेपः॑¦अ॒ग्निः¦प्र¦व॒युना᳚नि¦चेत॑सा¦पृ॒थि॒व्याः |
त‌म्¦आ॒यवः॑¦शु॒चय᳚न्त‌म्¦पा॒व॒क‌म्¦म॒न्द्र‌म्¦होता᳚र‌म्¦द॒धि॒रे॒¦यजि॑ष्ठ‌म् ||

द्यावा॒ यम॒ग्निं पृ॑थि॒वी जनि॑ष्टा॒माप॒स्त्वष्टा॒ भृग॑वो॒ यं सहो᳚भिः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

ई॒ळेन्यं᳚ प्रथ॒मं मा᳚त॒रिश्वा᳚ दे॒वास्त॑तक्षु॒र्मन॑वे॒ यज॑त्रम् ||{9/10}{10.46.9}{10.4.4.9}{8.1.2.4}{482, 883, 9280}

द्यावा᳚¦य‌म्¦अ॒ग्नि‌म्¦पृ॒थि॒वी इति॑¦जनि॑ष्टा‌म्¦आपः॑¦त्वष्टा᳚¦भृग॑वः¦य‌म्¦सहः॑ऽभिः |
ई॒ळेन्य᳚‌म्¦प्र॒थ॒म‌म्¦मा॒त॒रिश्वा᳚¦दे॒वाः¦त॒त॒क्षुः॒¦मन॑वे¦यज॑त्र‌म् ||

यं त्वा᳚ दे॒वा द॑धि॒रे ह᳚व्य॒वाहं᳚ पुरु॒स्पृहो॒ मानु॑षासो॒ यज॑त्रम् |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

स याम᳚न्नग्ने स्तुव॒ते वयो᳚ धाः॒ प्र दे᳚व॒यन्य॒शसः॒ सं हि पू॒र्वीः ||{10/10}{10.46.10}{10.4.4.10}{8.1.2.5}{483, 883, 9281}

य‌म्¦त्वा॒¦दे॒वाः¦द॒धि॒रे¦ह॒व्य॒ऽवाह᳚‌म्¦पु॒रु॒ऽस्पृहः॑¦मानु॑षासः¦यज॑त्र‌म् |
सः¦याम॑न्¦अ॒ग्ने॒¦स्तु॒व॒ते¦वयः॑¦धाः॒¦प्र¦दे॒व॒ऽयन्¦य॒शसः॑¦स‌म्¦हि¦पू॒र्वीः ||

[47] जगृ‌भ्मेत्यष्टर्चस्य सूक्तस्य सप्तगुर्वैकुंठइंद्रत्रिष्टुप् |
ज॒गृ॒भ्मा ते॒ दक्षि॑णमिन्द्र॒ हस्तं᳚ वसू॒यवो᳚ वसुपते॒ वसू᳚नाम् |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना᳚म॒स्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{1/8}{10.47.1}{10.4.5.1}{8.1.3.1}{484, 884, 9282}

ज॒गृ॒भ्म¦ते॒¦दक्षि॑ण‌म्¦इ॒न्द्र॒¦हस्त᳚‌म्¦व॒सु॒ऽयवः॑¦व॒सु॒ऽप॒ते॒¦वसू᳚ना‌म् |
वि॒द्म¦हि¦त्वा॒¦गोऽप॑ति‌म्¦शू॒र॒¦गोना᳚‌म्¦अ॒स्मभ्य᳚‌म्¦चि॒त्र‌म्¦वृष॑ण‌म्¦र॒यि‌म्¦दाः॒ ||

स्वा॒यु॒धं स्वव॑सं सुनी॒थं चतुः॑समुद्रं ध॒रुणं᳚ रयी॒णाम् |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

च॒र्कृत्यं॒ शंस्यं॒ भूरि॑वारम॒स्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{2/8}{10.47.2}{10.4.5.2}{8.1.3.2}{485, 884, 9283}

सु॒ऽआ॒यु॒ध‌म्¦सु॒।आव॑स‌म्¦सु॒ऽनी॒थ‌म्¦चतुः॑ऽसमुद्र‌म्¦ध॒रुण᳚‌म्¦र॒यी॒णा‌म् |
च॒र्कृत्य᳚‌म्¦शंस्य᳚‌म्¦भूरि॑ऽवार‌म्¦अ॒स्मभ्य᳚‌म्¦चि॒त्र‌म्¦वृष॑ण‌म्¦र॒यि‌म्¦दाः॒ ||

सु॒ब्रह्मा᳚णं दे॒वव᳚न्तं बृ॒हन्त॑मु॒रुं ग॑भी॒रं पृ॒थुबु॑ध्नमिन्द्र |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

श्रु॒तऋ॑षिमु॒ग्रम॑भिमाति॒षाह॑म॒स्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{3/8}{10.47.3}{10.4.5.3}{8.1.3.3}{486, 884, 9284}

सु॒ऽब्रह्मा᳚ण‌म्¦दे॒वऽव᳚न्त‌म्¦बृ॒हन्त᳚‌म्¦उ॒रु‌म्¦ग॒भी॒र‌म्¦पृ॒थुऽबु॑ध्न‌म्¦इ॒न्द्र॒ |
श्रु॒तऽऋ॑षि‌म्¦उ॒ग्र‌म्¦अ॒भि॒मा॒ति॒ऽसह᳚‌म्¦अ॒स्मभ्य᳚‌म्¦चि॒त्र‌म्¦वृष॑ण‌म्¦र॒यि‌म्¦दाः॒ ||

स॒नद्वा᳚जं॒ विप्र॑वीरं॒ तरु॑त्रं धन॒स्पृतं᳚ शूशु॒वांसं᳚ सु॒दक्ष᳚म् |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

द॒स्यु॒हनं᳚ पू॒र्भिद॑मिन्द्र स॒त्यम॒स्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{4/8}{10.47.4}{10.4.5.4}{8.1.3.4}{487, 884, 9285}

स॒नत्ऽवा᳚ज‌म्¦विप्र॑ऽवीर‌म्¦तरु॑त्र‌म्¦ध॒न॒ऽस्पृत᳚‌म्¦शू॒शु॒ऽवांस᳚‌म्¦सु॒ऽदक्ष᳚‌म् |
द॒स्यु॒हन᳚‌म्¦पूः॒ऽभिद᳚‌म्¦इ॒न्द्र॒¦स॒त्य‌म्¦अ॒स्मभ्य᳚‌म्¦चि॒त्र‌म्¦वृष॑ण‌म्¦र॒यि‌म्¦दाः॒ ||

अश्वा᳚वन्तं र॒थिनं᳚ वी॒रव᳚न्तं सह॒स्रिणं᳚ श॒तिनं॒ वाज॑मिन्द्र |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

भ॒द्रव्रा᳚तं॒ विप्र॑वीरं स्व॒र्षाम॒स्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{5/8}{10.47.5}{10.4.5.5}{8.1.3.5}{488, 884, 9286}

अश्व॑ऽवन्त‌म्¦र॒थिन᳚‌म्¦वी॒रऽव᳚न्त‌म्¦स॒ह॒स्रिण᳚‌म्¦श॒तिन᳚‌म्¦वाज᳚‌म्¦इ॒न्द्र॒ |
भ॒द्रऽव्रा᳚त‌म्¦विप्र॑ऽवीर‌म्¦स्वः॒ऽसा‌म्¦अ॒स्मभ्य᳚‌म्¦चि॒त्र‌म्¦वृष॑ण‌म्¦र॒यि‌म्¦दाः॒ ||

प्र स॒प्तगु॑मृ॒तधी᳚तिं सुमे॒धां बृह॒स्पतिं᳚ म॒तिरच्छा᳚ जिगाति |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

य आ᳚ङ्गिर॒सो नम॑सोप॒सद्यो॒ऽस्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{6/8}{10.47.6}{10.4.5.6}{8.1.4.1}{489, 884, 9287}

प्र¦स॒प्तऽगु᳚‌म्¦ऋ॒तऽधी᳚ति‌म्¦सु॒ऽमे॒धा‌म्¦बृ॒ह॒स्पति᳚‌म्¦म॒तिः¦अच्छ॑¦जि॒गा॒ति॒ |
यः¦आ॒ङ्गि॒र॒सः¦नम॑सा¦उ॒प॒ऽसद्यः॑¦अ॒स्मभ्य᳚‌म्¦चि॒त्र‌म्¦वृष॑ण‌म्¦र॒यि‌म्¦दाः॒ ||

वनी᳚वानो॒ मम॑ दू॒तास॒ इन्द्रं॒ स्तोमा᳚श्चरन्ति सुम॒तीरि॑या॒नाः |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

हृ॒दि॒स्पृशो॒ मन॑सा व॒च्यमा᳚ना, अ॒स्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{7/8}{10.47.7}{10.4.5.7}{8.1.4.2}{490, 884, 9288}

वनी᳚वानः¦मम॑¦दू॒तासः॑¦इन्द्र᳚‌म्¦सोमाः᳚¦च॒र॒न्ति॒¦सु॒ऽम॒तीः¦इ॒या॒नाः |
हृ॒दि॒ऽस्पृशः॑¦मन॑सा¦व॒च्यमा᳚नाः¦अ॒स्मभ्य᳚‌म्¦चि॒त्र‌म्¦वृष॑ण‌म्¦र॒यि‌म्¦दाः॒ ||

यत्‌ त्वा॒ यामि॑ द॒द्धि तन्न॑ इन्द्र बृ॒हन्तं॒ क्षय॒मस॑मं॒ जना᳚नाम् |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

अ॒भि तद्द्यावा᳚पृथि॒वी गृ॑णीताम॒स्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{8/8}{10.47.8}{10.4.5.8}{8.1.4.3}{491, 884, 9289}

यत्¦त्वा॒¦यामि॑¦द॒द्धि¦तत्¦नः॒¦इ॒न्द्र॒¦बृ॒हन्त᳚‌म्¦क्षय᳚‌म्¦अस॑म‌म्¦जना᳚ना‌म् |
अ॒भि¦तत्¦द्यावा᳚पृथि॒वी इति॑¦गृ॒णी॒ता॒‌म्¦अ॒स्मभ्य᳚‌म्¦चि॒त्र‌म्¦वृष॑ण‌म्¦र॒यि‌म्¦दाः॒ ||

[48] अहंभुवमित्येकादशर्चस्य सूक्तस्य वैकुंठइंद्रो वैकुंठइंद्रो जगती सप्तमीदशम्येकादश्यस्त्रिष्टुभः |
अ॒हं भु॑वं॒ वसु॑नः पू॒र्व्यस्पति॑र॒हं धना᳚नि॒ सं ज॑यामि॒ शश्व॑तः |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

मां ह॑वन्ते पि॒तरं॒ न ज॒न्तवो॒ऽहं दा॒शुषे॒ वि भ॑जामि॒ भोज॑नम् ||{1/11}{10.48.1}{10.4.6.1}{8.1.5.1}{492, 885, 9290}

अ॒ह‌म्¦भु॒व॒‌म्¦वसु॑नः¦पू॒र्व्यः¦पतिः॑¦अ॒ह‌म्¦धना᳚नि¦स‌म्¦ज॒जा॒मि॒¦शश्व॑तः |
मा‌म्¦ह॒व॒न्ते॒¦पि॒तर᳚‌म्¦न¦ज॒न्तवः॑¦अ॒ह‌म्¦दा॒शुषे᳚¦वि¦भ॒जा॒मि॒¦भोज॑न‌म् ||

अ॒हमिन्द्रो॒ रोधो॒ वक्षो॒, अथ᳚र्वणस्त्रि॒ताय॒ गा, अ॑जनय॒महे॒रधि॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

अ॒हं दस्यु॑भ्यः॒ परि॑ नृ॒म्णमा द॑दे गो॒त्रा शिक्ष᳚न्दधी॒चे मा᳚त॒रिश्व॑ने ||{2/11}{10.48.2}{10.4.6.2}{8.1.5.2}{493, 885, 9291}

अ॒ह‌म्¦इन्द्रः॑¦रोधः॑¦वक्षः॑¦अथ᳚र्वणः¦त्रि॒तायः॑¦गाः¦अ॒ज॒न॒य॒‌म्¦अहेः᳚¦अधि॑ |
अ॒ह‌म्¦दस्यु॑ऽभ्यः¦परि॑¦नृ॒म्ण‌म्¦आ¦द॒दे॒¦गो॒त्रा¦शिक्ष॑न्¦द॒धी॒चे¦मा॒त॒रिश्व॑ने ||

मह्यं॒ त्वष्टा॒ वज्र॑मतक्षदाय॒सं मयि॑ दे॒वासो᳚ऽवृज॒न्नपि॒ क्रतु᳚म् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

ममानी᳚कं॒ सूर्य॑स्येव दु॒ष्टरं॒ मामार्य᳚न्ति कृ॒तेन॒ कर्त्वे᳚न च ||{3/11}{10.48.3}{10.4.6.3}{8.1.5.3}{494, 885, 9292}

मह्य᳚‌म्¦त्वष्टा᳚¦वज्र᳚‌म्¦अ॒त॒क्ष॒त्¦आ॒य॒स‌म्¦मयि॑¦दे॒वासः॑¦अ॒वृ॒ज॒न्¦अपि॑¦क्रतु᳚‌म् |
मम॑¦अनी᳚क‌म्¦सूर्य॑स्यऽ‌इव¦दु॒स्तर᳚‌म्¦मा‌म्¦आर्य᳚न्ति¦कृ॒तेन॑¦कर्त्वे᳚न¦च॒ ||

अ॒हमे॒तं ग॒व्यय॒मश्व्यं᳚ प॒शुं पु॑री॒षिणं॒ साय॑केना हिर॒ण्यय᳚म् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

पु॒रू स॒हस्रा॒ नि शि॑शामि दा॒शुषे॒ यन्मा॒ सोमा᳚स उ॒क्थिनो॒, अम᳚न्दिषुः ||{4/11}{10.48.4}{10.4.6.4}{8.1.5.4}{495, 885, 9293}

अ॒ह‌म्¦ए॒त‌म्¦ग॒व्यय᳚‌म्¦अश्व्य᳚‌म्¦प॒शु‌म्¦पु॒री॒षिण᳚‌म्¦साय॑केन¦हि॒र॒ण्यय᳚‌म् |
पु॒रु¦स॒हस्रा᳚¦नि¦शि॒शा॒मि॒¦दा॒शुषे᳚¦यत्¦मा॒¦सोमा᳚सः¦उ॒क्थिनः॑¦अम᳚न्दिषुः ||

अ॒हमिन्द्रो॒ न परा᳚ जिग्य॒ इद्धनं॒ न मृ॒त्यवेऽव॑ तस्थे॒ कदा᳚ च॒न |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

सोम॒मिन्मा᳚ सु॒न्वन्तो᳚ याचता॒ वसु॒ न मे᳚ पूरवः स॒ख्ये रि॑षाथन ||{5/11}{10.48.5}{10.4.6.5}{8.1.5.5}{496, 885, 9294}

अ॒ह‌म्¦इन्द्रः॑¦न¦परा᳚¦जि॒ग्ये॒¦इत्¦धन᳚‌म्¦न¦मृ॒त्यवे᳚¦अव॑¦त॒स्थे॒¦कदा᳚¦च॒न |
सोम᳚‌म्¦इत्¦मा॒¦सु॒न्वन्तः॑¦या॒च॒त॒¦वसु॑¦न¦मे॒¦पू॒र॒वः॒¦स॒ख्ये¦रि॒षा॒थ॒न॒ ||

अ॒हमे॒ताञ्छाश्व॑सतो॒ द्वाद्वेन्द्रं॒ ये वज्रं᳚ यु॒धयेऽकृ᳚ण्वत |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

आ॒ह्वय॑मानाँ॒, अव॒ हन्म॑नाहनं दृ॒ळ्हा वद॒न्नन॑मस्युर्नम॒स्विनः॑ ||{6/11}{10.48.6}{10.4.6.6}{8.1.6.1}{497, 885, 9295}

अ॒ह‌म्¦ए॒तान्¦शाश्व॑सतः¦द्वाऽद्वा᳚¦इन्द्र᳚‌म्¦ये¦वज्र᳚‌म्¦यु॒धये᳚¦अकृ᳚ण्वत |
आ॒ऽह्वय॑मानान्¦अव॑¦हन्म॑ना¦अ॒ह॒न॒‌म्¦दृ॒ळ्हा¦वद॑न्¦अन॑मस्युः¦न॒म॒स्विनः॑ ||

अ॒भी॒३॑(ई॒)दमेक॒मेको᳚, अस्मि नि॒ष्षाळ॒भी द्वा किमु॒ त्रयः॑ करन्ति |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्}

खले॒ न प॒र्षान्‌ प्रति॑ हन्मि॒ भूरि॒ किं मा᳚ निन्दन्ति॒ शत्र॑वोऽनि॒न्द्राः ||{7/11}{10.48.7}{10.4.6.7}{8.1.6.2}{498, 885, 9296}

अ॒भि¦इ॒द‌म्¦एक᳚‌म्¦एकः॑¦अ॒स्मि॒¦नि॒ष्षाट्¦अ॒भि¦द्वा¦कि‌म्¦ऊँ॒ इति॑¦त्रयः॑¦क॒र॒न्ति॒ |
खले᳚¦न¦प॒र्षान्¦प्रति॑¦ह॒न्मि॒¦भूरि॑¦कि‌म्¦मा॒¦नि॒न्द॒न्ति॒¦शत्र॑वः¦अ॒नि॒न्द्राः ||

अ॒हं गु॒ङ्गुभ्यो᳚, अतिथि॒ग्वमिष्क॑र॒मिषं॒ न वृ॑त्र॒तुरं᳚ वि॒क्षु धा᳚रयम् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

यत्प᳚र्णय॒घ्न उ॒त वा᳚ करञ्ज॒हे प्राहं म॒हे वृ॑त्र॒हत्ये॒, अशु॑श्रवि ||{8/11}{10.48.8}{10.4.6.8}{8.1.6.3}{499, 885, 9297}

अ॒ह‌म्¦गु॒ङ्गुऽभ्यः॑¦अ॒ति॒थि॒ऽग्व‌म्¦इष्क॑र‌म्¦इष᳚‌म्¦न¦वृ॒त्र॒ऽतुर᳚‌म्¦वि॒क्षु¦धा॒र॒य॒‌म् |
यत्¦प॒र्ण॒य॒ऽघ्ने¦उ॒त¦वा॒¦क॒रं॒ज॒ऽहे¦प्र¦अ॒ह‌म्¦म॒हे¦वृ॒त्र॒ऽहत्ये᳚¦अशु॑श्रवि ||

प्र मे॒ नमी᳚ सा॒प्य इ॒षे भु॒जे भू॒द्गवा॒मेषे᳚ स॒ख्या कृ॑णुत द्वि॒ता |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

दि॒द्युं यद॑स्य समि॒थेषु॑ मं॒हय॒मादिदे᳚नं॒ शंस्य॑मु॒क्थ्यं᳚ करम् ||{9/11}{10.48.9}{10.4.6.9}{8.1.6.4}{500, 885, 9298}

प्र¦मे॒¦नमी᳚¦सा॒प्यः¦इ॒षे¦भु॒जे¦भू॒त्¦गवा᳚‌म्¦एषे᳚¦स॒ख्या¦कृ॒णु॒त॒¦द्वि॒ता |
दि॒द्यु‌म्¦यत्¦अ॒स्य॒¦स॒मि॒थेषु॑¦मं॒हय᳚‌म्¦आत्¦इत्¦ए॒न॒‌म्¦शंस्य᳚‌म्¦उ॒क्थ्य᳚‌म्¦क॒र॒‌म् ||

प्र नेम॑स्मिन्ददृशे॒ सोमो᳚, अ॒न्तर्गो॒पा नेम॑मा॒विर॒स्था कृ॑णोति |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्}

स ति॒ग्मशृ᳚ङ्गं वृष॒भं युयु॑त्सन्द्रु॒हस्त॑स्थौ बहु॒ले ब॒द्धो, अ॒न्तः ||{10/11}{10.48.10}{10.4.6.10}{8.1.6.5}{501, 885, 9299}

प्र¦नेम॑स्मिन्¦द॒दृ॒शे॒¦सोमः॑¦अ॒न्तः¦गो॒पाः¦नेम᳚‌म्¦आ॒विः¦अ॒स्था¦कृ॒णो॒ति॒ |
सः¦ति॒ग्मऽशृ᳚ङ्ग‌म्¦वृ॒ष॒भ‌म्¦युयु॑त्सन्¦द्रु॒हः¦त॒स्थौ॒¦ब॒हु॒ले¦ब॒द्धः¦अ॒न्तरिति॑ ||

आ॒दि॒त्यानां॒ वसू᳚नां रु॒द्रिया᳚णां दे॒वो दे॒वानां॒ न मि॑नामि॒ धाम॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्}

ते मा᳚ भ॒द्राय॒ शव॑से ततक्षु॒रप॑राजित॒मस्तृ॑त॒मषा᳚ळ्हम् ||{11/11}{10.48.11}{10.4.6.11}{8.1.6.6}{502, 885, 9300}

आ॒दि॒त्याना᳚‌म्¦वसू᳚ना‌म्¦रु॒द्रिया᳚णा‌म्¦दे॒वः¦दे॒वाना᳚‌म्¦न¦मि॒ना॒मि॒¦धाम॑ |
ते¦मा॒¦भ॒द्राय॑¦शव॑से¦त॒त॒क्षुः॒¦अप॑राऽजित‌म्¦अस्तृ॑त‌म्¦अषा᳚ळ्ह‌म् ||

[49] अहंदामित्येकादशर्चस्य सूक्तस्य वैकुंठ इंद्रो वैकुंठइंद्रो जगती द्वितीयांत्येत्रिष्टुभौ |
अ॒हं दां᳚ गृण॒ते पूर्व्यं॒ वस्व॒हं ब्रह्म॑ कृणवं॒ मह्यं॒ वर्ध॑नम् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

अ॒हं भु॑वं॒ यज॑मानस्य चोदि॒ताय॑ज्वनः साक्षि॒ विश्व॑स्मि॒न्‌ भरे᳚ ||{1/11}{10.49.1}{10.4.7.1}{8.1.7.1}{503, 886, 9301}

अ॒ह‌म्¦दा॒‌म्¦गृ॒ण॒ते¦पूर्व्य᳚‌म्¦वसु॑¦अ॒ह‌म्¦ब्रह्म॑¦कृ॒ण॒व॒‌म्¦मह्य᳚‌म्¦वर्ध॑न‌म् |
अ॒ह‌म्¦भु॒व॒‌म्¦यज॑मानस्य¦चो॒दि॒ता¦अय॑ज्वनः¦सा॒क्षि॒¦विश्व॑स्मिन्¦भरे᳚ ||

मां धु॒रिन्द्रं॒ नाम॑ दे॒वता᳚ दि॒वश्च॒ ग्मश्चा॒पां च॑ ज॒न्तवः॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्}

अ॒हं हरी॒ वृष॑णा॒ विव्र॑ता र॒घू, अ॒हं वज्रं॒ शव॑से धृ॒ष्ण्वा द॑दे ||{2/11}{10.49.2}{10.4.7.2}{8.1.7.2}{504, 886, 9302}

मा‌म्¦धुः॒¦इन्द्र᳚‌म्¦नाम॑¦दे॒वता᳚¦दि॒वः¦च॒¦ग्मः¦च॒¦अ॒पा‌म्¦च॒¦ज॒न्तवः॑ |
अ॒ह‌म्¦हरी॒ इति॑¦वृष॑णा¦विऽव्र॑ता¦र॒घू इति॑¦अ॒ह‌म्¦वज्र᳚‌म्¦शव॑से¦धृ॒ष्णु¦आ¦द॒दे॒ ||

अ॒हमत्कं᳚ क॒वये᳚ शिश्नथं॒ हथै᳚र॒हं कुत्स॑मावमा॒भिरू॒तिभिः॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

अ॒हं शुष्ण॑स्य॒ श्नथि॑ता॒ वध᳚र्यमं॒ न यो र॒र आर्यं॒ नाम॒ दस्य॑वे ||{3/11}{10.49.3}{10.4.7.3}{8.1.7.3}{505, 886, 9303}

अ॒ह‌म्¦अत्क᳚‌म्¦क॒वये᳚¦शि॒श्न॒थ॒‌म्¦हथैः᳚¦अ॒ह‌म्¦कुत्स᳚‌म्¦आ॒व॒‌म्¦आ॒भिः¦ऊ॒तिऽभिः॑ |
अ॒ह‌म्¦शुष्ण॑स्य¦श्नथि॑ता¦वधः॑¦यम᳚‌म्¦न¦यः¦र॒रे¦आर्य᳚‌म्¦नाम॑¦दस्य॑वे ||

अ॒हं पि॒तेव॑ वेत॒सूँर॒भिष्ट॑ये॒ तुग्रं॒ कुत्सा᳚य॒ स्मदि॑भं च रन्धयम् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

अ॒हं भु॑वं॒ यज॑मानस्य रा॒जनि॒ प्र यद्भरे॒ तुज॑ये॒ न प्रि॒याधृषे᳚ ||{4/11}{10.49.4}{10.4.7.4}{8.1.7.4}{506, 886, 9304}

अ॒ह‌म्¦पि॒ताऽ‌इ᳚व¦वे॒त॒सून्¦अ॒भिष्ट॑ये¦तुग्र᳚‌म्¦कुत्सा᳚य¦स्मत्ऽ‌इ᳚भ‌म्¦च॒¦र॒न्ध॒य॒‌म् |
अ॒ह‌म्¦भु॒व॒‌म्¦यज॑मानस्य¦रा॒जनि॑¦प्र¦यत्¦भ॒रे॒¦तुज॑ये¦न¦प्रि॒या¦आ॒ऽधृषे᳚ ||

अ॒हं र᳚न्धयं॒ मृग॑यं श्रु॒तर्व॑णे॒ यन्माजि॑हीत व॒युना᳚ च॒नानु॒षक् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

अ॒हं वे॒शं न॒म्रमा॒यवे᳚ऽकरम॒हं सव्या᳚य॒ पड्गृ॑भिमरन्धयम् ||{5/11}{10.49.5}{10.4.7.5}{8.1.7.5}{507, 886, 9305}

अ॒ह‌म्¦र॒न्ध॒य॒‌म्¦मृग॑य‌म्¦श्रु॒तर्व॑णे¦यत्¦मा॒¦अजि॑हीत¦व॒युना᳚¦च॒न¦आ॒नु॒षक् |
अ॒ह‌म्¦वे॒श‌म्¦न॒म्र‌म्¦आ॒यवे᳚¦अ॒क॒र॒‌म्¦अ॒ह‌म्¦सव्या᳚य¦पट्ऽगृ॑भि‌म्¦अ॒र॒न्ध॒य॒‌म् ||

अ॒हं स यो नव॑वास्त्वं बृ॒हद्र॑थं॒ सं वृ॒त्रेव॒ दासं᳚ वृत्र॒हारु॑जम् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

यद्व॒र्धय᳚न्तं प्र॒थय᳚न्तमानु॒षग्‌ दू॒रे पा॒रे रज॑सो रोच॒नाक॑रम् ||{6/11}{10.49.6}{10.4.7.6}{8.1.8.1}{508, 886, 9306}

अ॒ह‌म्¦सः¦यः¦नव॑ऽवास्त्व‌म्¦बृ॒हत्ऽर॑थ‌म्¦स‌म्¦वृ॒त्राऽ‌इ᳚व¦दास᳚‌म्¦वृ॒त्र॒ऽहा¦अरु॑ज‌म् |
यत्¦व॒र्धय᳚न्त‌म्¦प्र॒थय᳚न्त‌म्¦आ॒नु॒षक्¦दू॒रे¦पा॒रे¦रज॑सः¦रो॒च॒ना¦अक॑र‌म् ||

अ॒हं सूर्य॑स्य॒ परि॑ याम्या॒शुभिः॒ प्रैत॒शेभि॒र्वह॑मान॒ ओज॑सा |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

यन्मा᳚ सा॒वो मनु॑ष॒ आह॑ नि॒र्णिज॒ ऋध॑क्कृषे॒ दासं॒ कृत्व्यं॒ हथैः᳚ ||{7/11}{10.49.7}{10.4.7.7}{8.1.8.2}{509, 886, 9307}

अ॒ह‌म्¦सूर्य॑स्य¦परि॑¦या॒मि॒¦आ॒शुऽभिः॑¦प्र¦ए॒त॒शेभिः॑¦वह॑मानः¦ओज॑सा |
यत्¦मा॒¦सा॒वः¦मनु॑षः¦आह॑¦निः॒ऽनिजे᳚¦ऋध॑क्¦कृ॒षे॒¦दास᳚‌म्¦कृत्व्य᳚‌म्¦हथैः᳚ ||

अ॒हं स॑प्त॒हा नहु॑षो॒ नहु॑ष्टरः॒ प्राश्रा᳚वयं॒ शव॑सा तु॒र्वशं॒ यदु᳚म् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

अ॒हं न्य१॑(अ॒)न्यं सह॑सा॒ सह॑स्करं॒ नव॒ व्राध॑तो नव॒तिं च॑ वक्षयम् ||{8/11}{10.49.8}{10.4.7.8}{8.1.8.3}{510, 886, 9308}

अ॒ह‌म्¦स॒प्त॒ऽहा¦नहु॑षः¦नहुः॑ऽतरः¦प्र¦अ॒श्र॒व॒य॒‌म्¦शव॑सा¦तु॒र्वश᳚‌म्¦यदु᳚‌म् |
अ॒ह‌म्¦नि¦अ॒न्य‌म्¦सह॑सा¦सहः॑¦क॒र॒‌म्¦नव॑¦व्राध॑तः¦न॒व॒ति‌म्¦च॒¦व॒क्ष॒य॒‌म् ||

अ॒हं स॒प्त स्र॒वतो᳚ धारयं॒ वृषा᳚ द्रवि॒त्न्वः॑ पृथि॒व्यां सी॒रा, अधि॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

अ॒हमर्णां᳚सि॒ वि ति॑रामि सु॒क्रतु᳚र्यु॒धा वि॑दं॒ मन॑वे गा॒तुमि॒ष्टये᳚ ||{9/11}{10.49.9}{10.4.7.9}{8.1.8.4}{511, 886, 9309}

अ॒ह‌म्¦स॒प्त¦स्र॒वतः॑¦धा॒र॒य॒‌म्¦वृषा᳚¦द्र॒वि॒त्न्वः॑¦पृ॒थि॒व्या‌म्¦सी॒राः¦अधि॑ |
अ॒ह‌म्¦अर्णां᳚सि¦वि¦ति॒रा॒मि॒¦सु॒ऽक्रतुः॑¦यु॒धा¦वि॒द॒‌म्¦मन॑वे¦गा॒तु‌म्¦इ॒ष्टये᳚ ||

अ॒हं तदा᳚सु धारयं॒ यदा᳚सु॒ न दे॒वश्च॒न त्वष्टाधा᳚रय॒द्रुश॑त् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

स्पा॒र्हं गवा॒मूध॑स्सु व॒क्षणा॒स्वा मधो॒र्मधु॒ श्वात्र्यं॒ सोम॑मा॒शिर᳚म् ||{10/11}{10.49.10}{10.4.7.10}{8.1.8.5}{512, 886, 9310}

अ॒ह‌म्¦तत्¦आ॒सु॒¦धा॒र॒य॒‌म्¦यत्¦आ॒सु॒¦न¦दे॒वः¦च॒न¦त्वष्टा᳚¦अधा᳚रयत्¦रुश॑त् |
स्पा॒र्ह‌म्¦गवा᳚‌म्¦ऊधः॑ऽसु¦व॒क्षणा᳚सु¦आ¦मधोः᳚¦मधु॑¦श्वात्र्य᳚‌म्¦सोम᳚‌म्¦आ॒ऽशिर᳚‌म् ||

ए॒वा दे॒वाँ, इन्द्रो᳚ विव्ये॒ नॄन्‌ प्र च्यौ॒त्नेन॑ म॒घवा᳚ स॒त्यरा᳚धाः |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्}

विश्वेत्ता ते᳚ हरिवः शचीवो॒ऽभि तु॒रासः॑ स्वयशो गृणन्ति ||{11/11}{10.49.11}{10.4.7.11}{8.1.8.6}{513, 886, 9311}

ए॒व¦दे॒वान्¦इन्द्रः॑¦वि॒व्ये॒¦नॄन्¦प्र¦च्यौ॒त्नेन॑¦म॒घऽवा᳚¦स॒त्यऽरा᳚धाः |
विश्वा᳚¦इत्¦ता¦ते॒¦ह॒रि॒ऽवः॒¦श॒ची॒ऽवः॒¦अ॒भि¦तु॒रासः॑¦स्व॒ऽय॒शः॒¦गृ॒ण॒न्ति॒ ||

[50] प्रवोमहइति सप्तर्चस्य सूक्तस्य वैकुंठ इंद्रो वैकुंठ इंद्रो जगती तृतीया चतुर्थ्यावभिसारिण्यौ पंचमीत्रिष्टुप् |
प्र वो᳚ म॒हे मन्द॑माना॒यान्ध॒सोऽर्चा᳚ वि॒श्वान॑राय विश्वा॒भुवे᳚ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

इन्द्र॑स्य॒ यस्य॒ सुम॑खं॒ सहो॒ महि॒ श्रवो᳚ नृ॒म्णं च॒ रोद॑सी सप॒र्यतः॑ ||{1/7}{10.50.1}{10.4.8.1}{8.1.9.1}{514, 887, 9312}

प्र¦वः॒¦म॒हे¦मन्द॑मानाय¦अन्ध॑सः¦अर्च॑¦वि॒श्वान॑राय¦वि॒श्व॒ऽभुवे᳚ |
इन्द्र॑स्य¦यस्य॑¦सुऽम॑ख‌म्¦सहः॑¦महि॑¦श्रवः॑¦नृ॒म्ण‌म्¦च॒¦रोद॑सी॒ इति॑¦स॒प॒र्यतः॑ ||

सो चि॒न्नु सख्या॒ नर्य॑ इ॒नः स्तु॒तश्च॒र्कृत्य॒ इन्द्रो॒ माव॑ते॒ नरे᳚ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

विश्वा᳚सु धू॒र्षु वा᳚ज॒कृत्ये᳚षु सत्पते वृ॒त्रे वा॒प्स्व१॑(अ॒)भि शू᳚र मन्दसे ||{2/7}{10.50.2}{10.4.8.2}{8.1.9.2}{515, 887, 9313}

सः¦चि॒त्¦नु¦सख्या᳚¦नर्यः॑¦इ॒नः¦स्तु॒तः¦च॒र्कृत्यः॑¦इन्द्रः॑¦माऽव॑ते¦नरे᳚ |
विश्वा᳚सु¦धूः॒ऽसु¦वा॒ज॒ऽकृत्ये᳚षु¦स॒त्ऽप॒ते॒¦वृ॒त्रे¦वा॒¦अ॒प्ऽसु¦अ॒भि¦शू॒र॒¦म॒न्द॒से॒ ||

के ते नर॑ इन्द्र॒ ये त॑ इ॒षे ये ते᳚ सु॒म्नं स॑ध॒न्य१॑(अ॒)मिय॑क्षान् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | अभिसारिण्यः}

के ते॒ वाजा᳚यासु॒र्या᳚य हिन्‌ विरे॒ के, अ॒प्सु स्वासू॒र्वरा᳚सु॒ पौंस्ये᳚ ||{3/7}{10.50.3}{10.4.8.3}{8.1.9.3}{516, 887, 9314}

के¦ते¦नरः॑¦इ॒न्द्र॒¦ये¦ते॒¦इ॒षे¦ये¦ते॒¦सु॒म्न‌म्¦स॒ऽध॒न्य᳚‌म्¦इय॑क्षान् |
के¦ते॒¦वाजा᳚य¦अ॒सु॒र्या᳚य¦हि॒न्वि॒रे॒¦के¦अ॒प्ऽसु¦स्वासु॑¦उ॒र्वरा᳚सु¦पौंस्ये᳚ ||

भुव॒स्त्वमि᳚न्द्र॒ ब्रह्म॑णा म॒हान्‌ भुवो॒ विश्वे᳚षु॒ सव॑नेषु य॒ज्ञियः॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | अभिसारिण्यः}

भुवो॒ नॄँश्च्यौ॒त्नो विश्व॑स्मि॒न्‌ भरे॒ ज्येष्ठ॑श्च॒ मन्त्रो᳚ विश्वचर्षणे ||{4/7}{10.50.4}{10.4.8.4}{8.1.9.4}{517, 887, 9315}

भुवः॑¦त्व‌म्¦इ॒न्द्र॒¦ब्रह्म॑णा¦म॒हान्¦भुवः॑¦विश्वे᳚षु¦सव॑नेषु¦य॒ज्ञियः॑ |
भुवः॑¦नॄन्¦च्यौ॒त्नः¦विश्व॑स्मिन्¦भरे᳚¦ज्येष्ठः॑¦च॒¦मन्त्रः॑¦वि॒श्व॒ऽच॒र्ष॒णे॒ ||

अवा॒ नु कं॒ ज्याया᳚न्‌ य॒ज्ञव॑नसो म॒हीं त॒ ओमा᳚त्रां कृ॒ष्टयो᳚ विदुः |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्}

असो॒ नु क॑म॒जरो॒ वर्धा᳚श्च॒ विश्वेदे॒ता सव॑ना तूतु॒मा कृ॑षे ||{5/7}{10.50.5}{10.4.8.5}{8.1.9.5}{518, 887, 9316}

अव॑¦नु¦क॒‌म्¦ज्याया᳚न्¦य॒ज्ञऽव॑नसः¦म॒ही‌म्¦ते॒¦ओमा᳚त्रा‌म्¦कृ॒ष्टयः॑¦वि॒दुः॒ |
असः॑¦नु¦क॒‌म्¦अ॒जरः॑¦वर्धाः᳚¦च॒¦विश्वा᳚¦इत्¦ए॒ता¦सव॑ना¦तू॒तु॒मा¦कृ॒षे॒ ||

ए॒ता विश्वा॒ सव॑ना तूतु॒मा कृ॑षे स्व॒यं सू᳚नो सहसो॒ यानि॑ दधि॒षे |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

वरा᳚य ते॒ पात्रं॒ धर्म॑णे॒ तना᳚ य॒ज्ञो मन्त्रो॒ ब्रह्मोद्य॑तं॒ वचः॑ ||{6/7}{10.50.6}{10.4.8.6}{8.1.9.6}{519, 887, 9317}

ए॒ता¦विश्वा᳚¦सव॑ना¦तू॒तु॒मा¦कृ॒षे॒¦स्व॒य‌म्¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦यानि॑¦द॒धि॒षे |
वरा᳚य¦ते॒¦पात्र᳚‌म्¦धर्म॑णे¦तना᳚¦य॒ज्ञः¦मन्त्रः॒¦ब्रह्म॑¦उत्ऽय॑त‌म्¦वचः॑ ||

ये ते᳚ विप्र ब्रह्म॒कृतः॑ सु॒ते सचा॒ वसू᳚नां च॒ वसु॑नश्च दा॒वने᳚ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

प्र ते सु॒म्नस्य॒ मन॑सा प॒था भु॑व॒न्मदे᳚ सु॒तस्य॑ सो॒म्यस्यान्ध॑सः ||{7/7}{10.50.7}{10.4.8.7}{8.1.9.7}{520, 887, 9318}

ये¦ते॒¦वि॒प्र॒¦ब्र॒ह्म॒ऽकृतः॑¦सु॒ते¦सचा᳚¦वसू᳚ना‌म्¦च॒¦वसु॑नः¦च॒¦दा॒वने᳚ |
प्र¦ते¦सु॒म्नस्य॑¦मन॑सा¦प॒था¦भु॒व॒न्¦मदे᳚¦सु॒तस्य॑¦सो॒म्यस्य॑¦अन्ध॑सः ||

[51] महत्तदिति नवर्चस्य सूक्तस्य द्वितीयादियुगृचां सौचीकोग्निऋषिः अयुजांदेवाऋषयः युजांदेवादेवताः अयुजामग्निर्देवतात्रिष्टुप् |
म॒हत्तदुल्बं॒ स्थवि॑रं॒ तदा᳚सी॒द्येनावि॑ष्टितः प्रवि॒वेशि॑था॒पः |{देवाः | अग्निः सौचीकः | त्रिष्टुप्}

विश्वा᳚, अपश्यद्बहु॒धा ते᳚, अग्ने॒ जात॑वेदस्त॒न्वो᳚ दे॒व एकः॑ ||{1/9}{10.51.1}{10.4.9.1}{8.1.10.1}{521, 888, 9319}

म॒हत्¦तत्¦उल्ब᳚‌म्¦स्थवि॑र‌म्¦तत्¦आ॒सी॒त्¦येन॑¦आऽवि॑ष्टितः¦प्र॒ऽवि॒वेशि॑थ¦अ॒पः |
विश्वाः᳚¦अ॒प॒श्य॒त्¦ब॒हु॒धा¦ते॒¦अ॒ग्ने॒¦जात॑ऽवेदः¦त॒न्वः॑¦दे॒वः¦एकः॑ ||

को मा᳚ ददर्श कत॒मः स दे॒वो यो मे᳚ त॒न्वो᳚ बहु॒धा प॒र्यप॑श्यत् |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

क्वाह॑ मित्रावरुणा क्षियन्त्य॒ग्नेर्विश्वाः᳚ स॒मिधो᳚ देव॒यानीः᳚ ||{2/9}{10.51.2}{10.4.9.2}{8.1.10.2}{522, 888, 9320}

कः¦मा॒¦द॒द॒र्श॒¦क॒त॒मः¦सः¦दे॒वः¦यः¦मे॒¦त॒न्वः॑¦ब॒हु॒धा¦प॒रि॒।आप॑श्यत् |
क्व॑¦अह॑¦मि॒त्रा॒व॒रु॒णा॒¦क्षि॒य॒न्ति॒¦अ॒ग्नेः¦विश्वाः᳚¦स॒‌म्ऽ‌इधः॑¦दे॒व॒ऽयानीः᳚ ||

ऐच्छा᳚म त्वा बहु॒धा जा᳚तवेदः॒ प्रवि॑ष्टमग्ने, अ॒प्स्वोष॑धीषु |{देवाः | अग्निः सौचीकः | त्रिष्टुप्}

तं त्वा᳚ य॒मो, अ॑चिकेच्चित्रभानो दशान्तरु॒ष्याद॑ति॒रोच॑मानम् ||{3/9}{10.51.3}{10.4.9.3}{8.1.10.3}{523, 888, 9321}

ऐच्छा᳚म¦त्वा॒¦ब॒हु॒धा¦जा॒त॒ऽवे॒दः॒¦प्रऽवि॑ष्ट‌म्¦अ॒ग्ने॒¦अ॒प्ऽसु¦ओष॑धीषु |
त‌म्¦त्वा॒¦य॒मः¦अ॒चि॒के॒त्¦चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो¦द॒श॒।आ॒न्त॒रु॒ष्यात्¦अ॒ति॒ऽरोच॑मान‌म् ||

हो॒त्राद॒हं व॑रुण॒ बिभ्य॑दायं॒ नेदे॒व मा᳚ यु॒नज॒न्नत्र॑ दे॒वाः |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

तस्य॑ मे त॒न्वो᳚ बहु॒धा निवि॑ष्टा, ए॒तमर्थं॒ न चि॑केता॒हम॒ग्निः ||{4/9}{10.51.4}{10.4.9.4}{8.1.10.4}{524, 888, 9322}

हो॒त्रात्¦अ॒ह‌म्¦व॒रु॒ण॒¦बिभ्य॑त्¦आ॒य॒‌म्¦न¦इत्¦ए॒व¦मा॒¦यु॒नज॑न्¦अत्र॑¦दे॒वाः |
तस्य॑¦मे॒¦त॒न्वः॑¦ब॒हु॒धा¦निऽवि॑ष्टाः¦ए॒त‌म्¦अर्थ᳚‌म्¦न¦चि॒के॒त॒¦अ॒ह‌म्¦अ॒ग्निः ||

एहि॒ मनु॑र्देव॒युर्य॒ज्ञका᳚मोऽरं॒कृत्या॒ तम॑सि क्षेष्यग्ने |{देवाः | अग्निः सौचीकः | त्रिष्टुप्}

सु॒गान्‌ प॒थः कृ॑णुहि देव॒याना॒न्वह॑ ह॒व्यानि॑ सुमन॒स्यमा᳚नः ||{5/9}{10.51.5}{10.4.9.5}{8.1.10.5}{525, 888, 9323}

आ¦इ॒हि॒¦मनुः॑¦दे॒व॒ऽयुः¦य॒ज्ञऽका᳚मः¦अ॒र॒‌म्ऽकृत्य॑¦तम॑सि¦क्षे॒षि॒¦अ॒ग्ने॒ |
सु॒ऽगान्¦प॒थः¦कृ॒णु॒हि॒¦दे॒व॒ऽयाना᳚न्¦वह॑¦ह॒व्यानि॑¦सु॒ऽम॒न॒स्यमा᳚नः ||

अ॒ग्नेः पूर्वे॒ भ्रात॑रो॒, अर्थ॑मे॒तं र॒थीवाध्वा᳚न॒मन्वाव॑रीवुः |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

तस्मा᳚द्भि॒या व॑रुण दू॒रमा᳚यं गौ॒रो न क्षे॒प्नोर॑विजे॒ ज्यायाः᳚ ||{6/9}{10.51.6}{10.4.9.6}{8.1.11.1}{526, 888, 9324}

अ॒ग्नेः¦पूर्वे᳚¦भ्रात॑रः¦अर्थ᳚‌म्¦ए॒त‌म्¦र॒थीऽ‌इ᳚व¦अध्वा᳚न‌म्¦अनु॑¦आ¦अ॒व॒री॒वु॒रिति॑ |
तस्मा᳚त्¦भि॒या¦व॒रु॒ण॒¦दू॒र‌म्¦आ॒य॒‌म्¦गौ॒रः¦न¦क्षे॒प्नोः¦आ॒वि॒जे॒¦ज्यायाः᳚ ||

कु॒र्मस्त॒ आयु॑र॒जरं॒ यद॑ग्ने॒ यथा᳚ यु॒क्तो जा᳚तवेदो॒ न रिष्याः᳚ |{देवाः | अग्निः सौचीकः | त्रिष्टुप्}

अथा᳚ वहासि सुमन॒स्यमा᳚नो भा॒गं दे॒वेभ्यो᳚ ह॒विषः॑ सुजात ||{7/9}{10.51.7}{10.4.9.7}{8.1.11.2}{527, 888, 9325}

कु॒र्मः¦ते॒¦आयुः॑¦अ॒जर᳚‌म्¦यत्¦अ॒ग्ने॒¦यथा᳚¦यु॒क्तः¦जा॒त॒ऽवे॒दः॒¦न¦रिष्याः᳚ |
अथ॑¦व॒हा॒सि॒¦सु॒ऽम॒न॒स्यमा᳚नः¦भा॒ग‌म्¦दे॒वेभ्यः॑¦ह॒विषः॑¦सु॒ऽजा॒त॒ ||

प्र॒या॒जान्मे᳚, अनुया॒जाँश्च॒ केव॑ला॒नूर्ज॑स्वन्तं ह॒विषो᳚ दत्त भा॒गम् |{सौचीकोग्निः | देवाः | भुरिक्त्रिष्टुप्}

घृ॒तं चा॒पां पुरु॑षं॒ चौष॑धीनाम॒ग्नेश्च॑ दी॒र्घमायु॑रस्तु देवाः ||{8/9}{10.51.8}{10.4.9.8}{8.1.11.3}{528, 888, 9326}

प्र॒ऽया॒जान्¦मे॒¦अ॒नु॒ऽया॒जान्¦च॒¦केव॑लान्¦ऊर्ज॑स्वन्त‌म्¦ह॒विषः॑¦द॒त्त॒¦भा॒ग‌म् |
घृ॒त‌म्¦च॒¦अ॒पा‌म्¦पुरु॑ष‌म्¦च॒¦ओष॑धीना‌म्¦अ॒ग्नेः¦च॒¦दी॒र्घ‌म्¦आयुः॑¦अ॒स्तु॒¦दे॒वाः॒ ||

तव॑ प्रया॒जा, अ॑नुया॒जाश्च॒ केव॑ल॒ ऊर्ज॑स्वन्तो ह॒विषः॑ सन्तु भा॒गाः |{देवाः | अग्निः सौचीकः | भुरिक्त्रिष्टुप्}

तवा᳚ग्ने य॒ज्ञो॒३॑(ओ॒)ऽयम॑स्तु॒ सर्व॒स्तुभ्यं᳚ नमन्तां प्र॒दिश॒श्चत॑स्रः ||{9/9}{10.51.9}{10.4.9.9}{8.1.11.4}{529, 888, 9327}

तव॑¦प्र॒ऽया॒जाः¦अ॒नु॒ऽया॒जाः¦च॒¦केव॑ले¦ऊर्ज॑स्वन्तः¦ह॒विषः॑¦स॒न्तु॒¦भा॒गाः |
तव॑¦अ॒ग्ने॒¦य॒ज्ञः¦अ॒य‌म्¦अ॒स्तु॒¦सर्वः॑¦तुभ्य᳚‌म्¦न॒म॒न्ता॒‌म्¦प्र॒ऽदिशः॑¦चत॑स्रः ||

[52] विश्वेदेवाइति षडृचस्य सूक्तस्यसौचीकोग्निर्देवास्त्रिष्टुप् |
विश्वे᳚ देवाः शा॒स्तन॑ मा॒ यथे॒ह होता᳚ वृ॒तो म॒नवै॒ यन्नि॒षद्य॑ |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

प्र मे᳚ ब्रूत भाग॒धेयं॒ यथा᳚ वो॒ येन॑ प॒था ह॒व्यमा वो॒ वहा᳚नि ||{1/6}{10.52.1}{10.4.10.1}{8.1.12.1}{530, 889, 9328}

विश्वे᳚¦दे॒वाः॒¦शा॒स्तन॑¦मा॒¦यथा᳚¦इ॒ह¦होता᳚¦वृ॒तः¦म॒नवै᳚¦यत्¦नि॒ऽसद्य॑ |
प्र¦मे॒¦ब्रू॒त॒¦भा॒ग॒ऽधेय᳚‌म्¦यथा᳚¦वः॒¦येन॑¦प॒था¦ह॒व्य‌म्¦आ¦वः॒¦वहा᳚नि ||

अ॒हं होता॒ न्य॑सीदं॒ यजी᳚या॒न्‌ विश्वे᳚ दे॒वा म॒रुतो᳚ मा जुनन्ति |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

अह॑रहरश्वि॒नाध्व᳚र्यवं वां ब्र॒ह्मा स॒मिद्भ॑वति॒ साहु॑तिर्वाम् ||{2/6}{10.52.2}{10.4.10.2}{8.1.12.2}{531, 889, 9329}

अ॒ह‌म्¦होता᳚¦नि¦अ॒सी॒द॒‌म्¦यजी᳚यान्¦विश्वे᳚¦दे॒वाः॒¦म॒रुतः॑¦मा॒¦जु॒न॒न्ति॒ |
अहः॑।आहः¦अ॒श्वि॒ना॒¦आध्व᳚र्यव‌म्¦वा॒‌म्¦ब्र॒ह्मा¦स॒‌म्ऽ‌इत्¦भ॒व॒ति॒¦सा¦आऽहु॑तिः¦वा॒‌म् ||

अ॒यं यो होता॒ किरु॒ स य॒मस्य॒ कमप्यू᳚हे॒ यत्स॑म॒ञ्जन्ति॑ दे॒वाः |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

अह॑रहर्जायते मा॒सिमा॒स्यथा᳚ दे॒वा द॑धिरे हव्य॒वाह᳚म् ||{3/6}{10.52.3}{10.4.10.3}{8.1.12.3}{532, 889, 9330}

अ॒य‌म्¦यः¦होता᳚¦किः¦ऊँ॒ इति॑¦सः¦य॒मस्य॑¦क‌म्¦अपि॑¦ऊ॒हे॒¦यत्¦स॒‌म्।आं॒जन्ति॑¦दे॒वाः |
अहः॑।आहः¦जा॒य॒ते॒¦मा॒सिऽमा᳚सि¦अथ॑¦दे॒वाः¦द॒धि॒रे॒¦ह॒व्य॒ऽवाह᳚‌म् ||

मां दे॒वा द॑धिरे हव्य॒वाह॒मप᳚म्लुक्तं ब॒हु कृ॒च्छ्रा चर᳚न्तम् |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

अ॒ग्निर्वि॒द्वान्‌ य॒ज्ञं नः॑ कल्पयाति॒ पञ्च॑यामं त्रि॒वृतं᳚ स॒प्तत᳚न्तुम् ||{4/6}{10.52.4}{10.4.10.4}{8.1.12.4}{533, 889, 9331}

मा‌म्¦दे॒वाः¦द॒धि॒रे॒¦ह॒व्य॒ऽवाह᳚‌म्¦अप॑ऽम्लुक्त‌म्¦ब॒हु¦कृ॒च्छ्रा¦चर᳚न्त‌म् |
अ॒ग्निः¦वि॒द्वान्¦य॒ज्ञ‌म्¦नः॒¦क॒ल्प॒या॒ति॒¦पंच॑ऽयाम‌म्¦त्रि॒ऽवृत᳚‌म्¦स॒प्तऽत᳚न्तु‌म् ||

आ वो᳚ यक्ष्यमृत॒त्वं सु॒वीरं॒ यथा᳚ वो देवा॒ वरि॑वः॒ करा᳚णि |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

आ बा॒ह्वोर्वज्र॒मिन्द्र॑स्य धेया॒मथे॒मा विश्वाः॒ पृत॑ना जयाति ||{5/6}{10.52.5}{10.4.10.5}{8.1.12.5}{534, 889, 9332}

आ¦वः॒¦य॒क्षि॒¦अ॒मृ॒त॒ऽत्व‌म्¦सु॒ऽवीर᳚‌म्¦यथा᳚¦वः॒¦दे॒वाः॒¦वरि॑वः¦करा᳚णि |
आ¦बा॒ह्वोः¦वज्र᳚‌म्¦इन्द्र॑स्य¦धेया᳚‌म्¦अथ॑¦इ॒माः¦विश्वाः᳚¦पृत॑नाः¦ज॒या॒ति॒ ||

त्रीणि॑ श॒ता त्री स॒हस्रा᳚ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

औक्ष॑न्‌ घृ॒तैरस्तृ॑णन्‌ ब॒र्हिर॑स्मा॒, आदिद्धोता᳚रं॒ न्य॑सादयन्त ||{6/6}{10.52.6}{10.4.10.6}{8.1.12.6}{535, 889, 9333}

त्रीणि॑¦श॒ता¦त्री¦स॒हस्रा᳚णि¦अ॒ग्नि‌म्¦त्रिं॒शत्¦च॒¦दे॒वाः¦नव॑¦च॒¦अ॒स॒प॒र्य॒न् |
औक्ष॑न्¦घृ॒तैः¦अस्तृ॑णन्¦ब॒र्हिः¦अ॒स्मै॒¦आत्¦इत्¦होता᳚र‌म्¦नि¦अ॒सा॒द॒य॒न्त॒ ||

[53] यमैच्छामेत्येकादशर्चस्य सूक्तस्य देवाऋषयः चतुर्थीपंचम्योः सौचीकोग्निरृषिः अग्निर्देवता चतुर्थीपंचम्योर्देवादेवता जगती अश्मन्वतीरितित्रिष्टुप् |
यमैच्छा᳚म॒ मन॑सा॒ सो॒३॑(ओ॒)ऽयमागा᳚द्‌ य॒ज्ञस्य॑ वि॒द्वान्‌ परु॑षश्चिकि॒त्वान् |{देवाः | अग्निः | त्रिष्टुप्}

स नो᳚ यक्षद्दे॒वता᳚ता॒ यजी᳚या॒न्नि हि षत्स॒दन्त॑रः॒ पूर्वो᳚, अ॒स्मत् ||{1/11}{10.53.1}{10.4.11.1}{8.1.13.1}{536, 890, 9334}

य‌म्¦ऐच्छा᳚म¦मन॑सा¦सः¦अ॒य‌म्¦आ¦अ॒गा॒त्¦य॒ज्ञस्य॑¦वि॒द्वान्¦परु॑षः¦चि॒कि॒त्वान् |
सः¦नः॒¦य॒क्ष॒त्¦दे॒वऽता᳚ता¦यजी᳚यान्¦नि¦हि¦स॒त्स॒त्¦अन्त॑रः¦पूर्वः॑¦अ॒स्मत् ||

अरा᳚धि॒ होता᳚ नि॒षदा॒ यजी᳚यान॒भि प्रयां᳚सि॒ सुधि॑तानि॒ हि ख्यत् |{देवाः | अग्निः | त्रिष्टुप्}

यजा᳚महै य॒ज्ञिया॒न्हन्त॑ दे॒वाँ, ईळा᳚महा॒, ईड्याँ॒, आज्ये᳚न ||{2/11}{10.53.2}{10.4.11.2}{8.1.13.2}{537, 890, 9335}

अरा᳚धि¦होता᳚¦नि॒ऽसदा᳚¦यजी᳚यान्¦अ॒भि¦प्रयां᳚सि¦सुऽधि॑तानि¦हि¦ख्यत् |
यजा᳚महै¦य॒ज्ञिया᳚न्¦हन्त॑¦दे॒वान्¦ईळा᳚महै¦ईड्या᳚न्¦आज्ये᳚न ||

सा॒ध्वीम॑कर्दे॒ववी᳚तिं नो, अ॒द्य य॒ज्ञस्य॑ जि॒ह्वाम॑विदाम॒ गुह्या᳚म् |{देवाः | अग्निः | त्रिष्टुप्}

स आयु॒रागा᳚त्सुर॒भिर्वसा᳚नो भ॒द्राम॑कर्दे॒वहू᳚तिं नो, अ॒द्य ||{3/11}{10.53.3}{10.4.11.3}{8.1.13.3}{538, 890, 9336}

सा॒ध्वी‌म्¦अ॒कः॒¦दे॒वऽवी᳚ति‌म्¦नः॒¦अ॒द्य¦य॒ज्ञस्य॑¦जि॒ह्वा‌म्¦अ॒वि॒दा॒म॒¦गुह्या᳚‌म् |
सः¦आयुः॑¦आ¦अ॒गा॒त्¦सु॒र॒भिः¦वसा᳚नः¦भ॒द्रा‌म्¦अ॒कः॒¦दे॒वऽहू᳚ति‌म्¦नः॒¦अ॒द्य ||

तद॒द्य वा॒चः प्र॑थ॒मं म॑सीय॒ येनासु॑राँ, अ॒भि दे॒वा, असा᳚म |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

ऊर्जा᳚द उ॒त य॑ज्ञियासः॒ पञ्च॑ जना॒ मम॑ हो॒त्रं जु॑षध्वम् ||{4/11}{10.53.4}{10.4.11.4}{8.1.13.4}{539, 890, 9337}

तत्¦अ॒द्य¦वा॒च¦प्र॒थ॒म‌म्¦म॒सी॒य॒¦येन॑¦असु॑रान्¦अ॒भि¦दे॒वाः¦असा᳚म |
ऊर्ज॑।आदः¦उ॒त¦य॒ज्ञि॒या॒सः॒¦पंच॑¦ज॒नाः॒¦मम॑¦हो॒त्र‌म्¦जु॒ष॒ध्व॒‌म् ||

पञ्च॒ जना॒ मम॑ हो॒त्रं जु॑षन्तां॒ गोजा᳚ता, उ॒त ये य॒ज्ञिया᳚सः |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

पृ॒थि॒वी नः॒ पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा᳚त्व॒स्मान् ||{5/11}{10.53.5}{10.4.11.5}{8.1.13.5}{540, 890, 9338}

पंच॑¦ज॒नाः॒¦मम॑¦हो॒त्र‌म्¦जु॒ष॒न्ता॒‌म्¦गोऽजा᳚ताः¦उ॒त¦ये¦य॒ज्ञिया᳚सः |
पृ॒थि॒वी¦नः॒¦पार्थि॑वात्¦पा॒तु॒¦अंह॑सः¦अ॒न्तरि॑क्ष‌म्¦दि॒व्यात्¦पा॒तु॒¦अ॒स्मान् ||

तन्तुं᳚ त॒न्वन्‌ रज॑सो भा॒नुमन्‌ वि॑हि॒ ज्योति॑ष्मतः प॒थो र॑क्ष धि॒या कृ॒तान् |{देवाः | अग्निः | जगती}

अ॒नु॒ल्ब॒णं व॑यत॒ जोगु॑वा॒मपो॒ मनु॑र्भव ज॒नया॒ दैव्यं॒ जन᳚म् ||{6/11}{10.53.6}{10.4.11.6}{8.1.14.1}{541, 890, 9339}

तन्तु᳚‌म्¦त॒न्वन्¦रज॑सः¦भा॒नु‌म्¦अनु॑¦इ॒हि॒¦ज्योति॑ष्मतः¦प॒थः¦र॒क्ष॒¦धि॒या¦कृ॒तान् |
अ॒नु॒ल्ब॒ण‌म्¦व॒य॒त॒¦जोगु॑वा‌म्¦अपः॑¦मनुः॑¦भ॒व॒¦ज॒नय॑¦दैव्य᳚‌म्¦जन᳚‌म् ||

अ॒क्षा॒नहो᳚ नह्यतनो॒त सो᳚म्या॒, इष्कृ॑णुध्वं रश॒ना, ओत पिं᳚शत |{देवाः | अग्निः | जगती}

अ॒ष्टाव᳚न्धुरं वहता॒भितो॒ रथं॒ येन॑ दे॒वासो॒, अन॑यन्न॒भि प्रि॒यम् ||{7/11}{10.53.7}{10.4.11.7}{8.1.14.2}{542, 890, 9340}

अ॒क्ष॒ऽनहः॑¦न॒ह्य॒त॒न॒¦उ॒त¦सो॒म्याः॒¦इष्कृ॑णुध्व‌म्¦र॒श॒नाः¦आ¦उ॒त¦पिं॒श॒त॒ |
अ॒ष्टाऽव᳚न्धुर‌म्¦व॒ह॒त॒¦अ॒भितः॑¦रथ᳚‌म्¦येन॑¦दे॒वासः॑¦अन॑यन्¦अ॒भि¦प्रि॒य‌म् ||

अश्म᳚न्वती रीयते॒ सं र॑भध्व॒मुत्ति॑ष्ठत॒ प्र त॑रता सखायः |{देवाः | अग्निः | त्रिष्टुप्}

अत्रा᳚ जहाम॒ ये, अस॒न्नशे᳚वाः शि॒वान्‌ व॒यमुत्त॑रेमा॒भि वाजा॑न् ||{8/11}{10.53.8}{10.4.11.8}{8.1.14.3}{543, 890, 9341}

अश्म॑न्ऽवती¦री॒य॒ते॒¦स‌म्¦र॒भ॒ध्व॒‌म्¦उत्¦ति॒ष्ठ॒त॒¦प्र¦त॒र॒त॒¦स॒खा॒यः॒ |
अत्र॑¦ज॒हा॒म॒¦ये¦अस॑न्¦अशे᳚वाः¦शि॒वान्¦व॒य‌म्¦उत्¦त॒रे॒म॒¦अ॒भि¦वाजा॑न् ||

त्वष्टा᳚ मा॒या वे᳚द॒पसा᳚म॒पस्त॑मो॒ बिभ्र॒त्पात्रा᳚ देव॒पाना᳚नि॒ शंत॑मा |{देवाः | अग्निः | जगती}

शिशी᳚ते नू॒नं प॑र॒शुं स्वा᳚य॒सं येन॑ वृ॒श्चादेत॑शो॒ ब्रह्म॑ण॒स्पतिः॑ ||{9/11}{10.53.9}{10.4.11.9}{8.1.14.4}{544, 890, 9342}

त्वष्टा᳚¦मा॒या¦वे॒त्¦अ॒पसा᳚‌म्¦अ॒पःऽत॑मः¦बिभ्र॑त्¦पात्रा᳚¦दे॒व॒ऽपाना᳚नि¦श‌म्ऽत॑मा |
शिशी᳚ते¦नू॒न‌म्¦प॒र॒शु‌म्¦सु॒ऽआ॒य॒स‌म्¦येन॑¦वृ॒श्चात्¦एत॑शः¦ब्रह्म॑णः¦पतिः॑ ||

स॒तो नू॒नं क॑वयः॒ सं शि॑शीत॒ वाशी᳚भि॒र्याभि॑र॒मृता᳚य॒ तक्ष॑थ |{देवाः | अग्निः | जगती}

वि॒द्वांसः॑ प॒दा गुह्या᳚नि कर्तन॒ येन॑ दे॒वासो᳚, अमृत॒त्वमा᳚न॒शुः ||{10/11}{10.53.10}{10.4.11.10}{8.1.14.5}{545, 890, 9343}

स॒तः¦नू॒न‌म्¦क॒व॒यः॒¦स‌म्¦शि॒शी॒त॒¦वाशी᳚भिः¦याभिः॑¦अ॒मृता᳚य¦तक्ष॑थ |
वि॒द्वांसः॑¦प॒दा¦गुह्या᳚नि¦क॒र्त॒न॒¦येन॑¦दे॒वासः॑¦अ॒मृ॒त॒ऽत्व‌म्¦आ॒न॒शुः ||

गर्भे॒ योषा॒मद॑धुर्व॒त्समा॒सन्य॑पी॒च्ये᳚न॒ मन॑सो॒त जि॒ह्वया᳚ |{देवाः | अग्निः | जगती}

स वि॒श्वाहा᳚ सु॒मना᳚ यो॒ग्या, अ॒भि सि॑षा॒सनि᳚र्वनते का॒र इज्जिति᳚म् ||{11/11}{10.53.11}{10.4.11.11}{8.1.14.6}{546, 890, 9344}

गर्भे᳚¦योषा᳚‌म्¦अद॑धुः¦व॒त्स‌म्¦आ॒सनि॑¦अ॒पी॒च्ये᳚न¦मन॑सा¦उ॒त¦जि॒ह्वया᳚ |
सः¦वि॒श्वाहा᳚¦सु॒ऽमनाः᳚¦यो॒ग्याः¦अ॒भि¦स॒सा॒सनिः॑¦व॒न॒ते॒¦का॒रः¦इत्¦जिति᳚‌म् ||

[54] तांसुतइति षडृचस्य सूक्तस्य वामदेव्यो बृहदुक्थ इंद्रस्त्रिष्टुप् |
तां सु ते᳚ की॒र्तिं म॑घवन्महि॒त्वा यत्‌ त्वा᳚ भी॒ते रोद॑सी॒, अह्व॑येताम् |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

प्रावो᳚ दे॒वाँ, आति॑रो॒ दास॒मोजः॑ प्र॒जायै᳚ त्वस्यै॒ यदशि॑क्ष इन्द्र ||{1/6}{10.54.1}{10.4.12.1}{8.1.15.1}{547, 891, 9345}

ता‌म्¦सु¦ते॒¦की॒र्ति‌म्¦म॒घ॒ऽव॒न्¦म॒हि॒ऽत्वा¦यत्¦त्वा॒¦भी॒ते इति॑¦रोद॑सी॒ इति॑¦अह्व॑येता‌म् |
प्र¦आ॒वः॒¦दे॒वान्¦आ¦अ॒ति॒रः॒¦दास᳚‌म्¦ओजः॑¦प्र॒ऽजायै᳚¦त्व॒स्यै॒¦यत्¦अशि॑क्षः¦इ॒न्द्र॒ ||

यदच॑रस्त॒न्वा᳚ वावृधा॒नो बला᳚नीन्द्र प्रब्रुवा॒णो जने᳚षु |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

मा॒येत्सा ते॒ यानि॑ यु॒द्धान्या॒हुर्नाद्य शत्रुं᳚ न॒नु पु॒रा वि॑वित्से ||{2/6}{10.54.2}{10.4.12.2}{8.1.15.2}{548, 891, 9346}

यत्¦अच॑रः¦त॒न्वा᳚¦व॒वृ॒धा॒नः¦बला᳚नि¦इ॒न्द्र॒¦प्र॒ऽब्रु॒वा॒णः¦जने᳚षु |
मा॒या¦इत्¦सा¦ते॒¦यानि॑¦यु॒द्धानि॑¦आ॒हुः¦न¦अ॒द्य¦शत्रु᳚‌म्¦न॒नु¦पु॒रा¦वि॒वि॒त्से॒ ||

क उ॒ नु ते᳚ महि॒मनः॑ समस्या॒स्मत्पूर्व॒ ऋष॒योऽन्त॑मापुः |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

यन्मा॒तरं᳚ च पि॒तरं᳚ च सा॒कमज॑नयथास्त॒न्व१॑(अः॒) स्वायाः᳚ ||{3/6}{10.54.3}{10.4.12.3}{8.1.15.3}{549, 891, 9347}

के¦ऊँ॒ इति॑¦नु¦ते॒¦म॒हि॒मनः॑¦स॒म॒स्य॒¦अ॒स्मत्¦पूर्वे᳚¦ऋष॑यः¦अन्त᳚‌म्¦आ॒पुः॒ |
यत्¦मा॒तर᳚‌म्¦च॒¦पि॒तर᳚‌म्¦च॒¦सा॒क‌म्¦अज॑नयथाः¦त॒न्वः॑¦स्वायाः᳚ ||

च॒त्वारि॑ ते, असु॒र्या᳚णि॒ नामादा᳚भ्यानि महि॒षस्य॑ सन्ति |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

त्वम॒ङ्ग तानि॒ विश्वा᳚नि वित्से॒ येभिः॒ कर्मा᳚णि मघवञ्च॒कर्थ॑ ||{4/6}{10.54.4}{10.4.12.4}{8.1.15.4}{550, 891, 9348}

च॒त्वारि॑¦ते॒¦अ॒सु॒र्या᳚णि¦नाम॑¦अदा᳚भ्यानि¦म॒हि॒षस्य॑¦स॒न्ति॒ |
त्व‌म्¦अ॒ङ्ग¦तानि॑¦विश्वा᳚नि¦वि॒त्से॒¦येभिः॑¦कर्मा᳚णि¦म॒घ॒ऽव॒न्¦च॒कर्थ॑ ||

त्वं विश्वा᳚ दधिषे॒ केव॑लानि॒ यान्या॒विर्या च॒ गुहा॒ वसू᳚नि |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

काम॒मिन्मे᳚ मघव॒न्मा वि ता᳚री॒स्त्वमा᳚ज्ञा॒ता त्वमि᳚न्द्रासि दा॒ता ||{5/6}{10.54.5}{10.4.12.5}{8.1.15.5}{551, 891, 9349}

त्व‌म्¦विश्वा᳚¦द॒धि॒षे॒¦केव॑लानि¦यानि॑¦आ॒विः¦या¦च॒¦गुहा᳚¦वसू᳚नि |
काम᳚‌म्¦इत्¦मे॒¦म॒घ॒ऽव॒न्¦मा¦वि¦ता॒रीः॒¦त्व‌म्¦आ॒ऽज्ञा॒ता¦त्व‌म्¦इ॒न्द्र॒¦अ॒सि॒¦दा॒ता ||

यो, अद॑धा॒ज्ज्योति॑षि॒ ज्योति॑र॒न्तर्यो, असृ॑ज॒न्मधु॑ना॒ सं मधू᳚नि |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

अध॑ प्रि॒यं शू॒षमिन्द्रा᳚य॒ मन्म॑ ब्रह्म॒कृतो᳚ बृ॒हदु॑क्थादवाचि ||{6/6}{10.54.6}{10.4.12.6}{8.1.15.6}{552, 891, 9350}

यः¦अद॑धात्¦ज्योति॑षि¦ज्योतिः॑¦अ॒न्तः¦यः¦असृ॑जत्¦मधु॑ना¦स‌म्¦मधू᳚नि |
अध॑¦प्रि॒य‌म्¦शू॒ष‌म्¦इन्द्रा᳚य¦मन्म॑¦ब्र॒ह्म॒ऽकृतः॑¦बृ॒हत्।औ᳚क्थात्¦अ॒वा॒चि॒ ||

[55] दूरेतदित्यष्टर्चस्य सूक्तस्य वामदेव्यो बृहदुक्थइंद्रत्रिष्टुप् |
दू॒रे तन्नाम॒ गुह्यं᳚ परा॒चैर्यत्‌ त्वा᳚ भी॒ते, अह्व॑येतां वयो॒धै |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

उद॑स्तभ्नाः पृथि॒वीं द्याम॒भीके॒ भ्रातुः॑ पु॒त्रान्म॑घवन्तित्विषा॒णः ||{1/8}{10.55.1}{10.4.13.1}{8.1.16.1}{553, 892, 9351}

दू॒रे¦तत्¦नाम॑¦गुह्य᳚‌म्¦प॒रा॒चैः¦यत्¦त्वा॒¦भी॒ते इति॑¦अह्व॑येता‌म्¦व॒यः॒ऽधै |
उत्¦अ॒स्त॒भ्नाः॒¦पृ॒थि॒वी‌म्¦द्या‌म्¦अ॒भीके᳚¦भ्रातुः॑¦पु॒त्रान्¦म॒घ॒ऽव॒न्¦ति॒त्वि॒षा॒णः ||

म॒हत्तन्नाम॒ गुह्यं᳚ पुरु॒स्पृग्येन॑ भू॒तं ज॒नयो॒ येन॒ भव्य᳚म् |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

प्र॒त्नं जा॒तं ज्योति॒र्यद॑स्य प्रि॒यं प्रि॒याः सम॑विशन्त॒ पञ्च॑ ||{2/8}{10.55.2}{10.4.13.2}{8.1.16.2}{554, 892, 9352}

म॒हत्¦तत्¦नाम॑¦गुह्य᳚‌म्¦पु॒रु॒ऽस्पृक्¦येन॑¦भू॒त‌म्¦ज॒नयः॑¦येन॑¦भव्य᳚‌म् |
प्र॒त्न‌म्¦जा॒त‌म्¦ज्योतिः॑¦यत्¦अ॒स्य॒¦प्रि॒य‌म्¦प्रि॒याः¦स‌म्¦अ॒वि॒श॒न्त॒¦पंच॑ ||

आ रोद॑सी, अपृणा॒दोत मध्यं॒ पञ्च॑ दे॒वाँ, ऋ॑तु॒शः स॒प्तस॑प्त |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

चतु॑स्त्रिंशता पुरु॒धा वि च॑ष्टे॒ सरू᳚पेण॒ ज्योति॑षा॒ विव्र॑तेन ||{3/8}{10.55.3}{10.4.13.3}{8.1.16.3}{555, 892, 9353}

आ¦रोद॑सी॒ इति॑¦अ॒पृ॒णा॒त्¦आ¦उ॒त¦मध्य᳚‌म्¦पंच॑¦दे॒वान्¦ऋ॒तु॒ऽशः¦स॒प्तऽस॑प्त |
चतुः॑ऽत्रिंशता¦पु॒रु॒धा¦वि¦च॒ष्टे॒¦सऽरू᳚पेण¦ज्योति॑षा¦विऽव्र॑तेन ||

यदु॑ष॒ औच्छः॑ प्रथ॒मा वि॒भाना॒मज॑नयो॒ येन॑ पु॒ष्टस्य॑ पु॒ष्टम् |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

यत्ते᳚ जामि॒त्वमव॑रं॒ पर॑स्या म॒हन्म॑ह॒त्या, अ॑सुर॒त्वमेक᳚म् ||{4/8}{10.55.4}{10.4.13.4}{8.1.16.4}{556, 892, 9354}

यत्¦उ॒षः॒¦औच्छः॑¦प्र॒थ॒मा¦वि॒ऽभाना᳚‌म्¦अज॑नयः¦येन॑¦पु॒ष्टस्य॑¦पु॒ष्ट‌म् |
यत्¦ते॒¦जा॒मि॒ऽत्व‌म्¦अव॑र‌म्¦पर॑स्याः¦म॒हत्¦म॒ह॒त्याः¦अ॒सु॒र॒ऽत्व‌म्¦एक᳚‌म् ||

वि॒धुं द॑द्रा॒णं सम॑ने बहू॒नां युवा᳚नं॒ सन्तं᳚ पलि॒तो ज॑गार |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

दे॒वस्य॑ पश्य॒ काव्यं᳚ महि॒त्वाद्या म॒मार॒ स ह्यः समा᳚न ||{5/8}{10.55.5}{10.4.13.5}{8.1.16.5}{557, 892, 9355}

वि॒धु‌म्¦द॒द्रा॒ण‌म्¦सम॑ने¦ब॒हू॒ना‌म्¦युवा᳚न‌म्¦सन्त᳚‌म्¦प॒लि॒तः¦ज॒गा॒र॒ |
दे॒वस्य॑¦प॒श्य॒¦काव्य᳚‌म्¦म॒हि॒ऽत्वा¦अ॒द्य¦म॒मार॑¦सः¦ह्यः¦स‌म्¦आ॒न॒ ||

शाक्म॑ना शा॒को, अ॑रु॒णः सु॑प॒र्ण आ यो म॒हः शूरः॑ स॒नादनी᳚ळः |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

यच्चि॒केत॑ स॒त्यमित्तन्न मोघं॒ वसु॑ स्पा॒र्हमु॒त जेतो॒त दाता᳚ ||{6/8}{10.55.6}{10.4.13.6}{8.1.17.1}{558, 892, 9356}

शाक्म॑ना¦शा॒कः¦अ॒रु॒णः¦सु॒ऽप॒र्णः¦आ¦यः¦म॒हः¦शूरः॑¦स॒नात्¦अनी᳚ळः |
यत्¦चि॒केत॑¦स॒त्य‌म्¦इत्¦तत्¦न¦मोघ᳚‌म्¦वसु॑¦स्पा॒र्ह‌म्¦उ॒त¦जेता᳚¦उ॒त¦दाता᳚ ||

ऐभि॑र्ददे॒ वृष्ण्या॒ पौंस्या᳚नि॒ येभि॒रौक्ष॑द्वृत्र॒हत्या᳚य व॒ज्री |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

ये कर्म॑णः क्रि॒यमा᳚णस्य म॒ह्न ऋ॑तेक॒र्ममु॒दजा᳚यन्त दे॒वाः ||{7/8}{10.55.7}{10.4.13.7}{8.1.17.2}{559, 892, 9357}

आ¦ए॒भिः॒¦द॒दे॒¦वृ॒ष्ण्या॒¦पौंस्या᳚नि¦येभिः॑¦औक्ष॑त्¦वृ॒त्र॒ऽहत्या᳚य¦व॒ज्री |
ये¦कर्म॑णः¦क्रि॒यमा᳚णस्य¦म॒ह्ना¦ऋ॒ते॒ऽक॒र्म‌म्¦उ॒त्।आजा᳚यन्त¦दे॒वाः ||

यु॒जा कर्मा᳚णि ज॒नय᳚न्‌ वि॒श्वौजा᳚, अशस्ति॒हा वि॒श्वम॑नास्तुरा॒षाट् |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

पी॒त्वी सोम॑स्य दि॒व आ वृ॑धा॒नः शूरो॒ निर्यु॒धाध॑म॒द्दस्यू॑न् ||{8/8}{10.55.8}{10.4.13.8}{8.1.17.3}{560, 892, 9358}

यु॒जा¦कर्मा᳚णि¦ज॒नय॑न्¦वि॒श्वाऽओ᳚जाः¦अ॒श॒स्ति॒ऽहा¦वि॒श्वऽम॑नाः¦तु॒रा॒षाट् |
पी॒त्वी¦सोम॑स्य¦दि॒वः¦आ¦वृ॒धा॒नः¦शूरः॑¦निः¦यु॒धा¦अ॒ध॒म॒त्¦दस्यू॑न् ||

[56] इदंतइति सप्तर्चस्य सूक्तस्य वामदेव्यो बृहदुक्थो विश्वेदेवास्त्रिष्टुप्‌ चतुर्थ्यादितिस्रोजगत्यः |
इ॒दं त॒ एकं᳚ प॒र ऊ᳚ त॒ एकं᳚ तृ॒तीये᳚न॒ ज्योति॑षा॒ सं वि॑शस्व |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | त्रिष्टुप्}

सं॒वेश॑ने त॒न्व१॑(अ॒)श्चारु॑रेधि प्रि॒यो दे॒वानां᳚ पर॒मे ज॒नित्रे᳚ ||{1/7}{10.56.1}{10.4.14.1}{8.1.18.1}{561, 893, 9359}

इ॒द‌म्¦ते॒¦एक᳚‌म्¦प॒रः¦ऊँ॒ इति॑¦ते॒¦एक᳚‌म्¦तृ॒तीये᳚न¦ज्योति॑षा¦स‌म्¦वि॒श॒स्व॒ |
स॒‌म्ऽवेश॑ने¦त॒न्वः॑¦चारुः॑¦ए॒धि॒¦प्रि॒यः¦दे॒वाना᳚‌म्¦प॒र॒मे¦ज॒नित्रे᳚ ||

त॒नूष्टे᳚ वाजिन्त॒न्व१॑(अं॒) नय᳚न्ती वा॒मम॒स्मभ्यं॒ धातु॒ शर्म॒ तुभ्य᳚म् |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | त्रिष्टुप्}

अह्रु॑तो म॒हो ध॒रुणा᳚य दे॒वान्दि॒वी᳚व॒ ज्योतिः॒ स्वमा मि॑मीयाः ||{2/7}{10.56.2}{10.4.14.2}{8.1.18.2}{562, 893, 9360}

त॒नूः¦ते॒¦वा॒जि॒न्¦त॒न्व᳚‌म्¦नय᳚न्ती¦वा॒म‌म्¦अ॒स्मभ्य᳚‌म्¦धातु॑¦शर्म॑¦तुभ्य᳚‌म् |
अह्रु॑तः¦म॒हः¦ध॒रुणा᳚य¦दे॒वान्¦दि॒विऽ‌इ᳚व¦ज्योतिः॑¦स्व‌म्¦आ¦मि॒मी॒याः॒ ||

वा॒ज्य॑सि॒ वाजि॑नेना सुवे॒नीः सु॑वि॒तः स्तोमं᳚ सुवि॒तो दिवं᳚ गाः |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | त्रिष्टुप्}

सु॒वि॒तो धर्म॑ प्रथ॒मानु॑ स॒त्या सु॑वि॒तो दे॒वान्‌ त्सु॑वि॒तोऽनु॒ पत्म॑ ||{3/7}{10.56.3}{10.4.14.3}{8.1.18.3}{563, 893, 9361}

वा॒जी¦अ॒सि॒¦वाजि॑नेन¦सु॒ऽवे॒नीः¦सु॒वि॒तः¦स्तोम᳚‌म्¦सु॒वि॒तः¦दिव᳚‌म्¦गाः॒ |
सु॒वि॒तः¦धर्म॑¦प्र॒थ॒मा¦अनु॑¦स॒त्या¦सु॒वि॒तः¦दे॒वान्¦सु॒वि॒तः¦अनु॑¦पत्म॑ ||

म॒हि॒म्न ए᳚षां पि॒तर॑श्च॒नेशि॑रे दे॒वा दे॒वेष्व॑दधु॒रपि॒ क्रतु᳚म् |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | जगती}

सम॑विव्यचुरु॒त यान्यत्वि॑षु॒रैषां᳚ त॒नूषु॒ नि वि॑विशुः॒ पुनः॑ ||{4/7}{10.56.4}{10.4.14.4}{8.1.18.4}{564, 893, 9362}

म॒हि॒म्नः¦ए॒षा॒‌म्¦पि॒तरः॑¦च॒न¦ई॒शि॒रे॒¦दे॒वाः¦दे॒वेषु॑¦अ॒द॒धुः॒¦अपि॑¦क्रतु᳚‌म् |
स‌म्¦अ॒वि॒व्य॒चुः॒¦उ॒त¦यानि॑¦अत्वि॑षुः¦आ¦ए॒षा॒‌म्¦त॒नूषु॑¦नि¦वि॒वि॒शुः॒¦पुन॒रिति॑ ||

सहो᳚भि॒र्विश्वं॒ परि॑ चक्रमू॒ रजः॒ पूर्वा॒ धामा॒न्यमि॑ता॒ मिमा᳚नाः |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | जगती}

त॒नूषु॒ विश्वा॒ भुव॑ना॒ नि ये᳚मिरे॒ प्रासा᳚रयन्त पुरु॒ध प्र॒जा, अनु॑ ||{5/7}{10.56.5}{10.4.14.5}{8.1.18.5}{565, 893, 9363}

सहः॑ऽभिः¦विश्व᳚‌म्¦परि॑¦च॒क्र॒मुः॒¦रजः॑¦पूर्वा᳚¦धा॒मानि॑¦अमि॑ता¦मिमा᳚नाः |
त॒नूषु॑¦विश्वा᳚¦भुव॑ना¦नि¦ये॒मि॒रे॒¦प्र¦अ॒सा॒र॒य॒न्त॒¦पु॒रु॒ध¦प्र॒ऽजाः¦अनु॑ ||

द्विधा᳚ सू॒नवोऽसु॑रं स्व॒र्विद॒मास्था᳚पयन्त तृ॒तीये᳚न॒ कर्म॑णा |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | जगती}

स्वां प्र॒जां पि॒तरः॒ पित्र्यं॒ सह॒ आव॑रेष्वदधु॒स्तन्तु॒मात॑तम् ||{6/7}{10.56.6}{10.4.14.6}{8.1.18.6}{566, 893, 9364}

द्विधा᳚¦सू॒नवः॑¦असु॑र‌म्¦स्वः॒ऽविद᳚‌म्¦आ¦अ॒स्था॒प॒य॒न्त॒¦तृ॒तीये᳚न¦कर्म॑णा |
स्वा‌म्¦प्र॒ऽजा‌म्¦पि॒तरः॑¦पित्र्य᳚‌म्¦सहः॑¦आ¦अव॑रेषु¦अ॒द॒धुः॒¦तन्तु᳚‌म्¦आऽत॑त‌म् ||

ना॒वा न क्षोदः॑ प्र॒दिशः॑ पृथि॒व्याः स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | त्रिष्टुप्}

स्वां प्र॒जां बृ॒हदु॑क्थो महि॒त्वाव॑रेष्वदधा॒दा परे᳚षु ||{7/7}{10.56.7}{10.4.14.7}{8.1.18.7}{567, 893, 9365}

ना॒वा¦न¦क्षोदः॑¦प्र॒ऽदिशः॑¦पृ॒थि॒व्याः¦स्व॒स्तिऽभिः॑¦अति॑¦दुः॒ऽगानि॑¦विश्वा᳚ |
स्वा‌म्¦प्र॒ऽजा‌म्¦बृ॒हत्।औ᳚क्थः¦म॒हि॒ऽत्वा¦आ¦अव॑रेषु¦अ॒द॒धा॒त्¦आ¦परे᳚षु ||

[57] माप्रगामेति षडृचस्य सूक्तस्य गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुर्विश्वेदेवागायत्री | (भेदपक्षे - इंद्रः १ अग्निस्तंतुः १ विश्वेदेवाः ३ सोमः १ एवं ६ माप्रगामेति सूक्तानां बंध्वाध्याऋषयइत्यार्षानुक्रमण्यां शौनकः) | (अत्रैषांगौपायनत्वमेवनलौपायनत्वं तथासुबंधोर्लोपश्च सर्वा । भा। ) |
मा प्र गा᳚म प॒थो व॒यं मा य॒ज्ञादि᳚न्द्र सो॒मिनः॑ |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री}

मान्तः स्थु᳚र्नो॒, अरा᳚तयः ||{1/6}{10.57.1}{10.4.15.1}{8.1.19.1}{568, 894, 9366}

मा¦प्र¦गा॒म॒¦प॒थः¦व॒य‌म्¦मा¦य॒ज्ञात्¦इ॒न्द्र॒¦सो॒मिनः॑ | मा¦अ॒न्तरिति॑¦स्थुः॒¦नः॒¦अरा᳚तयः ||

यो य॒ज्ञस्य॑ प्र॒साध॑न॒स्तन्तु॑र्दे॒वेष्वात॑तः |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री}

तमाहु॑तं नशीमहि ||{2/6}{10.57.2}{10.4.15.2}{8.1.19.2}{569, 894, 9367}

यः¦य॒ज्ञस्य॑¦प्र॒ऽसाध॑नः¦तन्तुः॑¦दे॒वेषु॑¦आऽत॑तः | त‌म्¦आऽहु॑त‌म्¦न॒शी॒म॒हि॒ ||

मनो॒ न्वा हु॑वामहे नाराशं॒सेन॒ सोमे᳚न |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री}

पि॒तॄ॒णां च॒ मन्म॑भिः ||{3/6}{10.57.3}{10.4.15.3}{8.1.19.3}{570, 894, 9368}

मनः॑¦नु¦आ¦हु॒वा॒म॒हे॒¦ना॒रा॒शं॒सेन॑¦सोमे᳚न | पि॒तॄ॒णा‌म्¦च॒¦मन्म॑ऽभिः ||

आ त॑ एतु॒ मनः॒ पुनः॒ क्रत्वे॒ दक्षा᳚य जी॒वसे᳚ |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री}

ज्योक्च॒ सूर्यं᳚ दृ॒शे ||{4/6}{10.57.4}{10.4.15.4}{8.1.19.4}{571, 894, 9369}

आ¦ते॒¦ए॒तु॒¦मनः॑¦पुन॒रिति॑¦क्रत्वे᳚¦दक्षा᳚य¦जी॒वसे᳚ | ज्योक्¦च॒¦सूर्य᳚‌म्¦दृ॒शे ||

पुन᳚र्नः पितरो॒ मनो॒ ददा᳚तु॒ दैव्यो॒ जनः॑ |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री}

जी॒वं व्रातं᳚ सचेमहि ||{5/6}{10.57.5}{10.4.15.5}{8.1.19.5}{572, 894, 9370}

पुनः॑¦नः॒¦पि॒त॒रः॒¦मनः॑¦ददा᳚तु¦दैव्यः॑¦जनः॑ | जी॒व‌म्¦व्रात᳚‌म्¦स॒चे॒म॒हि॒ ||

व॒यं सो᳚म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री}

प्र॒जाव᳚न्तः सचेमहि ||{6/6}{10.57.6}{10.4.15.6}{8.1.19.6}{573, 894, 9371}

व॒य‌म्¦सो॒म॒¦व्र॒ते¦तव॑¦मनः॑¦त॒नूषु॑¦बिभ्र॑तः | प्र॒जाऽव᳚न्तः¦स॒चे॒म॒हि॒ ||

[58] यत्तेयममिति द्वादशर्चस्य सूक्तस्य गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुर्मनोनुष्टुप् |
यत्ते᳚ य॒मं वै᳚वस्व॒तं मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{1/12}{10.58.1}{10.4.16.1}{8.1.20.1}{574, 895, 9372}

यत्¦ते॒¦य॒म‌म्¦वै॒व॒स्व॒त‌म्¦मनः॑¦ज॒गाम॑¦दू॒र॒क‌म् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ ||

यत्ते॒ दिवं॒ यत्‌ पृ॑थि॒वीं मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{2/12}{10.58.2}{10.4.16.2}{8.1.20.2}{575, 895, 9373}

यत्¦ते॒¦दिव᳚‌म्¦यत्¦पृ॒थि॒वी‌म्¦मनः॑¦ज॒गाम॑¦दू॒र॒क‌म् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ ||

यत्ते॒ भूमिं॒ चतु॑र्भृष्टिं॒ मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{3/12}{10.58.3}{10.4.16.3}{8.1.20.3}{576, 895, 9374}

यत्¦ते॒¦भूमि᳚‌म्¦चतुः॑ऽभृष्टि‌म्¦मनः॑¦ज॒गाम॑¦दू॒र॒क‌म् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ ||

यत्ते॒ चत॑स्रः प्र॒दिशो॒ मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{4/12}{10.58.4}{10.4.16.4}{8.1.20.4}{577, 895, 9375}

यत्¦ते॒¦चत॑स्रः¦प्र॒ऽदिशः॑¦मनः॑¦ज॒गाम॑¦दू॒र॒क‌म् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ ||

यत्ते᳚ समु॒द्रम᳚र्ण॒वं मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{5/12}{10.58.5}{10.4.16.5}{8.1.20.5}{578, 895, 9376}

यत्¦ते॒¦स॒मु॒द्र‌म्¦अ॒र्ण॒व‌म्¦मनः॑¦ज॒गाम॑¦दू॒र॒क‌म् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ ||

यत्ते॒ मरी᳚चीः प्र॒वतो॒ मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{6/12}{10.58.6}{10.4.16.6}{8.1.20.6}{579, 895, 9377}

यत्¦ते॒¦मरी᳚चीः¦प्र॒ऽवतः॑¦मनः॑¦ज॒गाम॑¦दू॒र॒क‌म् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ ||

यत्ते᳚, अ॒पो यदोष॑धी॒र्मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{7/12}{10.58.7}{10.4.16.7}{8.1.21.1}{580, 895, 9378}

यत्¦ते॒¦अ॒पः¦यत्¦ओष॑धीः¦मनः॑¦ज॒गाम॑¦दू॒र॒क‌म् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ ||

यत्ते॒ सूर्यं॒ यदु॒षसं॒ मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{8/12}{10.58.8}{10.4.16.8}{8.1.21.2}{581, 895, 9379}

यत्¦ते॒¦सूर्य᳚‌म्¦यत्¦उ॒षस᳚‌म्¦मनः॑¦ज॒गाम॑¦दू॒र॒क‌म् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ ||

यत्ते॒ पर्व॑तान्‌ बृह॒तो मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{9/12}{10.58.9}{10.4.16.9}{8.1.21.3}{582, 895, 9380}

यत्¦ते॒¦पर्व॑तान्¦बृ॒ह॒तः¦मनः॑¦ज॒गाम॑¦दू॒र॒क‌म् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ ||

यत्ते॒ विश्व॑मि॒दं जग॒न्मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{10/12}{10.58.10}{10.4.16.10}{8.1.21.4}{583, 895, 9381}

यत्¦ते॒¦विश्व᳚‌म्¦इ॒द‌म्¦जग॑त्¦मनः॑¦ज॒गाम॑¦दू॒र॒क‌म् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ ||

यत्ते॒ पराः᳚ परा॒वतो॒ मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{11/12}{10.58.11}{10.4.16.11}{8.1.21.5}{584, 895, 9382}

यत्¦ते॒¦पराः᳚¦प॒रा॒ऽवतः॑¦मनः॑¦ज॒गाम॑¦दू॒र॒क‌म् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ ||

यत्ते᳚ भू॒तं च॒ भव्यं᳚ च॒ मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{12/12}{10.58.12}{10.4.16.12}{8.1.21.6}{585, 895, 9383}

यत्¦ते॒¦भू॒त‌म्¦च॒¦भव्य᳚‌म्¦च॒¦मनः॑¦ज॒गाम॑¦दू॒र॒क‌म् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ ||

[59] प्रतार्यायुरिति दशर्चस्य सूक्तस्य गौपायनाबंध्वादय ऋषयः आद्यानांचतसृणां निरृतिर्देवता चतुर्थ्यानिरृतिसोमौ पंचमीषष्ठयोरसुनीतिदेवी सप्तम्याः पृथिवीद्यावंतरिक्षसोमपूषपथ्यास्वस्तयोदेवताः अंत्यानांतिसृणां द्यावापृथिव्यौत्रिष्टुप् अंत्यार्धर्चस्येंद्रः अंत्यास्तिस्रःक्रमेणपंक्तिमहा पंक्तिपंक्त्युत्तराः ।
प्र ता॒र्यायुः॑ प्रत॒रं नवी᳚यः॒ स्थाता᳚रेव॒ क्रतु॑मता॒ रथ॑स्य |{गौपायना बंध्वादयः | निरृतिः | त्रिष्टुप्}

अध॒ च्यवा᳚न॒ उत्त॑वी॒त्यर्थं᳚ परात॒रं सु निरृ॑तिर्जिहीताम् ||{1/10}{10.59.1}{10.4.17.1}{8.1.22.1}{586, 896, 9384}

प्र¦ता॒रि॒¦आयुः॑¦प्र॒ऽत॒र‌म्¦नवी᳚यः¦स्थाता᳚राऽ‌इव¦क्रतु॑ऽमता¦रथ॑स्य |
अध॑¦च्यवा᳚नः¦उत्¦त॒वी॒ति॒¦अर्थ᳚‌म्¦प॒रा॒ऽत॒र‌म्¦सु¦निःऽऋ॑तिः¦जि॒ही॒ता॒‌म् ||

साम॒न्नु रा॒ये नि॑धि॒मन्न्वन्नं॒ करा᳚महे॒ सु पु॑रु॒ध श्रवां᳚सि |{गौपायना बंध्वादयः | निरृतिः | त्रिष्टुप्}

ता नो॒ विश्वा᳚नि जरि॒ता म॑मत्तु परात॒रं सु निरृ॑तिर्जिहीताम् ||{2/10}{10.59.2}{10.4.17.2}{8.1.22.2}{587, 896, 9385}

साम॑न्¦नु¦रा॒ये¦नि॒धि॒ऽमत्¦नु¦अन्न᳚‌म्¦करा᳚महे¦सु¦पु॒रु॒ध¦श्रवां᳚सि |
ता¦नः॒¦विश्वा᳚नि¦ज॒रि॒ता¦म॒म॒त्तु॒¦प॒रा॒ऽत॒र‌म्¦सु¦निःऽऋ॑तिः¦जि॒ही॒ता॒‌म् ||

अ॒भी ष्व१॑(अ॒)र्यः पौंस्यै᳚र्भवेम॒ द्यौर्न भूमिं᳚ गि॒रयो॒ नाज्रा॑न् |{गौपायना बंध्वादयः | निरृतिः | त्रिष्टुप्}

ता नो॒ विश्वा᳚नि जरि॒ता चि॑केत परात॒रं सु निरृ॑तिर्जिहीताम् ||{3/10}{10.59.3}{10.4.17.3}{8.1.22.3}{588, 896, 9386}

अ॒भि¦सु¦अ॒र्यः¦पौंस्यैः᳚¦भ॒वे॒म॒¦द्यौः¦न¦भूमि᳚‌म्¦गि॒रयः॑¦न¦अज्रा॑न् |
ता¦नः॒¦विश्वा᳚नि¦ज॒रि॒ता¦चि॒के॒त॒¦प॒रा॒ऽत॒र‌म्¦सु¦निःऽऋ॑तिः¦जि॒ही॒ता॒‌म् ||

मो षु णः॑ सोम मृ॒त्यवे॒ परा᳚ दाः॒ पश्ये᳚म॒ नु सूर्य॑मु॒च्चर᳚न्तम् |{गौपायना बंध्वादयः | निरृतिः सोमाश्च | त्रिष्टुप्}

द्युभि᳚र्हि॒तो ज॑रि॒मा सू नो᳚, अस्तु परात॒रं सु निरृ॑तिर्जिहीताम् ||{4/10}{10.59.4}{10.4.17.4}{8.1.22.4}{589, 896, 9387}

मो इति॑¦सु¦नः॒¦सो॒म॒¦मृ॒त्यवे᳚¦परा᳚¦दाः॒¦पश्ये᳚म¦नु¦सूर्य᳚‌म्¦उ॒त्ऽचर᳚न्त‌म् |
द्युऽभिः॑¦हि॒तः¦ज॒रि॒मा¦सु¦नः॒¦अ॒स्तु॒¦प॒रा॒ऽत॒र‌म्¦सु¦निःऽऋ॑तिः¦जि॒ही॒ता॒‌म् ||

असु॑नीते॒ मनो᳚, अ॒स्मासु॑ धारय जी॒वात॑वे॒ सु प्र ति॑रा न॒ आयुः॑ |{गौपायना बंध्वादयः | असुनीतिः | त्रिष्टुप्}

रा॒र॒न्धि नः॒ सूर्य॑स्य सं॒दृशि॑ घृ॒तेन॒ त्वं त॒न्वं᳚ वर्धयस्व ||{5/10}{10.59.5}{10.4.17.5}{8.1.22.5}{590, 896, 9388}

असु॑ऽनीते¦मनः॑¦अ॒स्मासु॑¦धा॒र॒य॒¦जी॒वात॑वे¦सु¦प्र¦ति॒र॒¦नः॒¦आयुः॑ |
र॒र॒न्धि¦नः॒¦सूर्य॑स्य¦स॒‌म्ऽदृशि॑¦घृ॒तेन॑¦त्व‌म्¦त॒न्व᳚‌म्¦व॒र्ध॒य॒स्व॒ ||

असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षुः॒ पुनः॑ प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् |{गौपायना बंध्वादयः | असुनीतिः | त्रिष्टुप्}

ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒मनु॑मते मृ॒ळया᳚ नः स्व॒स्ति ||{6/10}{10.59.6}{10.4.17.6}{8.1.23.1}{591, 896, 9389}

असु॑ऽनीते¦पुनः॑¦अ॒स्मासु॑¦चक्षुः॑¦पुन॒रिति॑¦प्रा॒ण‌म्¦इ॒ह¦नः॒¦धे॒हि॒¦भोग᳚‌म् |
ज्योक्¦प॒श्ये॒म॒¦सूर्य᳚‌म्¦उ॒त्ऽचर᳚न्त‌म्¦अनु॑ऽमते¦मृ॒ळय॑¦नः॒¦स्व॒स्ति ||

पुन᳚र्नो॒, असुं᳚ पृथि॒वी द॑दातु॒ पुन॒र्द्यौर्दे॒वी पुन॑र॒न्तरि॑क्षम् |{गौपायना बंध्वादयः | पृथिवीद्यावंतरिक्षसोमपूषपथ्यास्वस्तयोदेवताः | त्रिष्टुप्}

पुन᳚र्नः॒ सोम॑स्त॒न्वं᳚ ददातु॒ पुनः॑ पू॒षा प॒थ्या॒३॑(आं॒) या स्व॒स्तिः ||{7/10}{10.59.7}{10.4.17.7}{8.1.23.2}{592, 896, 9390}

पुनः॑¦नः॒¦असु᳚‌म्¦पृ॒थि॒वी¦द॒दा॒तु॒¦पुनः॑¦द्यौः¦दे॒वी¦पुनः॑¦अ॒न्तरि॑क्ष‌म् |
पुनः॑¦नः॒¦सोमः॑¦त॒न्व᳚‌म्¦द॒दा॒तु॒¦पुन॒रिति॑¦पू॒षा¦प॒थ्या᳚‌म्¦या¦स्व॒स्तिः ||

शं रोद॑सी सु॒बन्ध॑वे य॒ह्वी, ऋ॒तस्य॑ मा॒तरा᳚ |{गौपायना बंध्वादयः | द्यावापृथिव्यौ | पङ्क्ति}

भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ||{8/10}{10.59.8}{10.4.17.8}{8.1.23.3}{593, 896, 9391}

श‌म्¦रोद॑सी॒ इति॑¦सु॒ऽबन्ध॑वे¦य॒ह्वी इति॑¦ऋ॒तस्य॑¦मा॒तरा᳚ |
भर॑ता‌म्¦अप॑¦यत्¦रपः॑¦द्यौः¦पृ॒थि॒वि॒¦क्ष॒मा¦रपः॑¦मो इति॑¦सु¦ते॒¦कि‌म्¦च॒न¦आ॒म॒म॒त् ||

अव॑ द्व॒के, अव॑ त्रि॒का दि॒वश्च॑रन्ति भेष॒जा |{गौपायना बंध्वादयः | द्यावापृथिव्यौ | महापङ्क्तिः}

क्ष॒मा च॑रि॒ष्ण्वे᳚क॒कं भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ||{9/10}{10.59.9}{10.4.17.9}{8.1.23.4}{594, 896, 9392}

अव॑¦द्व॒के इति॑¦अव॑¦त्रि॒का¦दि॒वः¦च॒र॒न्ति॒¦भे॒ष॒जा |
क्ष॒मा¦च॒रि॒ष्णु॒¦ए॒क॒क‌म्¦भर॑ता‌म्¦अप॑¦यत्¦रपः॑¦द्यौः¦पृ॒थि॒वि॒¦क्ष॒मा¦रपः॑¦मो इति॑¦सु¦ते॒¦कि‌म्¦च॒न¦आ॒म॒म॒त् ||

समि᳚न्द्रेरय॒ गाम॑न॒ड्वाहं॒ य आव॑हदुशी॒नरा᳚ण्या॒, अनः॑ |{गौपायना बंध्वादयः | द्यावापृथिव्यौ, इंद्रः | पंक्त्युत्तराः}

भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ||{10/10}{10.59.10}{10.4.17.10}{8.1.23.5}{595, 896, 9393}

स‌म्¦इ॒न्द्र॒¦ई॒र॒य॒¦गा‌म्¦अ॒न॒ड्वाह᳚‌म्¦यः¦आ¦अव॑हत्¦उ॒शी॒नरा᳚ण्याः¦अनः॑ |
भर॑ता‌म्¦अप॑¦यत्¦रपः॑¦द्यौः¦पृ॒थि॒वि॒¦क्ष॒मा¦रपः॑¦मो इति॑¦सु¦ते॒¦कि‌म्¦च॒न¦आ॒म॒म॒त् ||

[60] आजमिति द्वादशर्चस्य सूक्तस्य गौपायनाबंध्वादय ऋषयः षष्ठ्याअगस्त्यस्वसा ऋषिका आद्यानांचतसृणांषष्ठ्याश्च समातिर्देवता पंचम्याइंद्रः सप्तम्यादिपंचानांजीवः द्वादश्याहस्तोऽनुष्टुप् आद्याःपंचगायत्र्यः अष्टमीनवम्यौपंक्ती |
आ जनं᳚ त्वे॒षसं᳚दृशं॒ माही᳚नाना॒मुप॑स्तुतम् |{गौपायना बंध्वादयः | समातिर्देवता | गायत्री}

अग᳚न्म॒ बिभ्र॑तो॒ नमः॑ ||{1/12}{10.60.1}{10.4.18.1}{8.1.24.1}{596, 897, 9394}

आ¦जन᳚‌म्¦त्वे॒षऽस᳚न्दृश‌म्¦माही᳚नाना‌म्¦उप॑ऽस्तुत‌म् | अग᳚न्म¦बिभ्र॑तः¦नमः॑ ||

अस॑मातिं नि॒तोश॑नं त्वे॒षं नि॑य॒यिनं॒ रथ᳚म् |{गौपायना बंध्वादयः | समातिर्देवता | गायत्री}

भ॒जेर॑थस्य॒ सत्प॑तिम् ||{2/12}{10.60.2}{10.4.18.2}{8.1.24.2}{597, 897, 9395}

अस॑माति‌म्¦नि॒ऽतोश॑न‌म्¦त्वे॒ष‌म्¦नि॒ऽय॒यिन᳚‌म्¦रथ᳚‌म् | भ॒जेऽर॑थस्य¦सत्ऽप॑ति‌म् ||

यो जना᳚न्महि॒षाँ, इ॑वातित॒स्थौ पवी᳚रवान् |{गौपायना बंध्वादयः | समातिर्देवता | गायत्री}

उ॒ताप॑वीरवान्‌ यु॒धा ||{3/12}{10.60.3}{10.4.18.3}{8.1.24.3}{598, 897, 9396}

यः¦जना᳚न्¦म॒हि॒षान्ऽ‌इ᳚व¦अ॒ति॒ऽत॒स्थौ¦पवी᳚रवान् | उ॒त¦अप॑वीरवान्¦यु॒धा ||

यस्ये᳚क्ष्वा॒कुरुप᳚ व्र॒ते रे॒वान्‌ म॑रा॒य्येध॑ते |{गौपायना बंध्वादयः | समातिर्देवता | गायत्री}

दि॒वी᳚व॒ पञ्च॑ कृ॒ष्टयः॑ ||{4/12}{10.60.4}{10.4.18.4}{8.1.24.4}{599, 897, 9397}

यस्य॑¦इ॒क्ष्वा॒कुः¦उप॑¦व्र॒ते¦रे॒वान्¦म॒रा॒यी¦एध॑ते | दि॒विऽ‌इ᳚व¦पंच॑¦कृ॒ष्टयः॑ ||

इन्द्र॑ क्ष॒त्रास॑मातिषु॒ रथ॑प्रोष्ठेषु धारय |{गौपायना बंध्वादयः | इन्द्रः | गायत्री}

दि॒वी᳚व॒ सूर्यं᳚ दृ॒शे ||{5/12}{10.60.5}{10.4.18.5}{8.1.24.5}{600, 897, 9398}

इन्द्र॑¦क्ष॒त्रा¦अस॑मातिषु¦रथ॑ऽप्रोष्ठेषु¦धा॒र॒य॒ | दि॒विऽ‌इ᳚व¦सूर्य᳚‌म्¦दृ॒शे ||

अ॒गस्त्य॑स्य॒ नद्भ्यः॒ सप्ती᳚ युनक्षि॒ रोहि॑ता |{अगस्त्यस्वसा | समातिर्देवता | अनुष्टुप्}

प॒णीन्न्य॑क्रमीर॒भि विश्वा᳚न्‌ राजन्नरा॒धसः॑ ||{6/12}{10.60.6}{10.4.18.6}{8.1.24.6}{601, 897, 9399}

अ॒गस्त्य॑स्य¦नत्ऽभ्यः॑¦सप्ती॒ इति॑¦यु॒न॒क्षि॒¦रोहि॑ता | प॒णीन्¦नि¦अ॒क्र॒मीः॒¦अ॒भि¦विश्वा᳚न्¦रा॒ज॒न्¦अ॒रा॒धसः॑ ||

अ॒यं मा॒तायं पि॒तायं जी॒वातु॒राग॑मत् |{गौपायना बंध्वादयः | जीवः | अनुष्टुप्}

इ॒दं तव॑ प्र॒सर्प॑णं॒ सुब᳚न्ध॒वेहि॒ निरि॑हि ||{7/12}{10.60.7}{10.4.18.7}{8.1.25.1}{602, 897, 9400}

अ॒य‌म्¦मा॒ता¦अ॒य‌म्¦पि॒ता¦अ॒य‌म्¦जी॒वातुः॑¦आ¦अ॒ग॒म॒त् | इ॒द‌म्¦तव॑¦प्र॒ऽसर्प॑ण‌म्¦सुब᳚न्धो॒ इति॒ सुऽब᳚न्धो¦आ¦इ॒हि॒¦निः¦इ॒हि॒ ||

यथा᳚ यु॒गं व॑र॒त्रया॒ नह्य᳚न्ति ध॒रुणा᳚य॒ कम् |{गौपायना बंध्वादयः | जीवः | पङ्क्तिः}

ए॒वा दा᳚धार ते॒ मनो᳚ जी॒वात॑वे॒ न मृ॒त्यवेऽथो᳚, अरि॒ष्टता᳚तये ||{8/12}{10.60.8}{10.4.18.8}{8.1.25.2}{603, 897, 9401}

यथा᳚¦यु॒ग‌म्¦व॒र॒त्रया᳚¦नह्य᳚न्ति¦ध॒रुणा᳚य¦क‌म् |
ए॒व¦दा॒धा॒र॒¦ते॒¦मनः॑¦जी॒वात॑वे¦न¦मृ॒त्यवे᳚¦अथो॒ इति॑¦अ॒रि॒ष्टऽता᳚तये ||

यथे॒यं पृ॑थि॒वी म॒ही दा॒धारे॒मान्वन॒स्पती॑न् |{गौपायना बंध्वादयः | जीवः | पङ्क्तिः}

ए॒वा दा᳚धार ते॒ मनो᳚ जी॒वात॑वे॒ न मृ॒त्यवेऽथो᳚, अरि॒ष्टता᳚तये ||{9/12}{10.60.9}{10.4.18.9}{8.1.25.3}{604, 897, 9402}

यथा᳚¦इ॒य‌म्¦पृ॒थि॒वी¦म॒ही¦दा॒धार॑¦इ॒मान्¦वन॒स्पती॑न् |
ए॒व¦दा॒धा॒र॒¦ते॒¦मनः॑¦जी॒वात॑वे¦न¦मृ॒त्यवे᳚¦अथो॒ इति॑¦अ॒रि॒ष्टऽता᳚तये ||

य॒माद॒हं वै᳚वस्व॒तात्सु॒बन्धो॒र्मन॒ आभ॑रम् |{गौपायना बंध्वादयः | जीवः | अनुष्टुप्}

जी॒वात॑वे॒ न मृ॒त्यवेऽथो᳚, अरि॒ष्टता᳚तये ||{10/12}{10.60.10}{10.4.18.10}{8.1.25.4}{605, 897, 9403}

य॒मात्¦अ॒ह‌म्¦वै॒व॒स्व॒तात्¦सु॒ऽबन्धोः᳚¦मनः॑¦आ¦अ॒भ॒र॒‌म् | जी॒वात॑वे¦न¦मृ॒त्यवे᳚¦अथो॒ इति॑¦अ॒रि॒ष्टऽता᳚तये ||

न्य१॑(अ॒)ग्वातोऽव॑ वाति॒ न्य॑क्तपति॒ सूर्यः॑ |{गौपायना बंध्वादयः | जीवः | अनुष्टुप्}

नी॒चीन॑म॒घ्न्या दु॑हे॒ न्य॑ग्भवतु ते॒ रपः॑ ||{11/12}{10.60.11}{10.4.18.11}{8.1.25.5}{606, 897, 9404}

न्य॑क्¦वातः॑¦अव॑¦वा॒ति॒¦न्य॑क्¦त॒प॒ति॒¦सूर्यः॑ | नी॒चीन᳚‌म्¦अ॒घ्न्या¦दु॒हे॒¦न्य॑क्¦भ॒व॒तु॒¦ते॒¦रपः॑ ||

अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः |{गौपायना बंध्वादयः | हस्तः | अनुष्टुप्}

अ॒यं मे᳚ वि॒श्वभे᳚षजो॒ऽयं शि॒वाभि॑मर्शनः ||{12/12}{10.60.12}{10.4.18.12}{8.1.25.6}{607, 897, 9405}

अ॒य‌म्¦मे॒¦हस्तः॑¦भग॑ऽवान्¦अ॒य‌म्¦मे॒¦भग॑वत्ऽतरः | अ॒य‌म्¦मे॒¦वि॒श्वऽभे᳚षजः¦अ॒य‌म्¦शि॒व।आ॑भिमर्शनः ||

[61] इदमित्थेति सप्तविंशत्यृचस्य सूक्तस्य मानवो नाभानेदिष्ठो विश्वेदेवास्त्रिष्टुप् (भेदपक्षे - रुद्रः २ अश्विनौ २ रुद्रः २ विश्वेदेवाः १ वास्तोष्पतिरुद्रौ १ वास्तोष्पत्यग्नी १ अंगिरसः १ इंद्रः ३ अग्निः १ नासत्येंद्राः १ सोमः १ अग्निः १ आदित्यनाभानेदिष्ठौ १ नाभानेदिष्ठथेनू १ अग्निः १ इंद्राग्नी १ इंद्र: १ मित्रावरुणनाभानेदिष्ठाः १ वरुणः १ मित्रावरुणौ १वरुणः १ देवाः १ एवं २७ ) |
इ॒दमि॒त्था रौद्रं᳚ गू॒र्तव॑चा॒ ब्रह्म॒ क्रत्वा॒ शच्या᳚म॒न्तरा॒जौ |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

क्रा॒णा यद॑स्य पि॒तरा᳚ मंहने॒ष्ठाः पर्ष॑त्प॒क्थे, अह॒न्ना स॒प्त होतॄ॑न् ||{1/27}{10.61.1}{10.5.1.1}{8.1.26.1}{608, 898, 9406}

इ॒द‌म्¦इ॒त्था¦रौद्र᳚‌म्¦गू॒र्तऽव॑चाः¦ब्रह्म॑¦क्रत्वा᳚¦शच्या᳚‌म्¦अ॒न्तः¦आ॒जौ |
क्रा॒णा¦यत्¦अ॒स्य॒¦पि॒तरा᳚¦मं॒ह॒ने॒ऽस्थाः¦पर्ष॑त्¦प॒क्थे¦अह॑न्¦आ¦स॒प्त¦होतॄ॑न् ||

स इद्दा॒नाय॒ दभ्या᳚य व॒न्वञ्च्यवा᳚नः॒ सूदै᳚रमिमीत॒ वेदि᳚म् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

तूर्व॑याणो गू॒र्तव॑चस्तमः॒, क्षोदो॒ न रेत॑ इ॒तऊ᳚ति सिञ्चत् ||{2/27}{10.61.2}{10.5.1.2}{8.1.26.2}{609, 898, 9407}

सः¦इत्¦दा॒नाय॑¦दभ्या᳚य¦व॒न्वन्¦च्यवा᳚नः¦सूदैः᳚¦अ॒मि॒मी॒त॒¦वेदि᳚‌म् |
तूर्व॑याणः¦गू॒र्तव॑चःऽतमः¦क्षोदः॑¦न¦रेतः॑¦इ॒तःऽऊ᳚ति¦सिं॒च॒त् ||

मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विपः॒ शच्या᳚ वनु॒थो द्रव᳚न्ता |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

आ यः शर्या᳚भिस्तुविनृ॒म्णो, अ॒स्याश्री᳚णीता॒दिशं॒ गभ॑स्तौ ||{3/27}{10.61.3}{10.5.1.3}{8.1.26.3}{610, 898, 9408}

मनः॑¦न¦येषु॑¦हव॑नेषु¦ति॒ग्म‌म्¦विपः॑¦शच्या᳚¦व॒नु॒थः¦द्रव᳚न्ता |
आ¦यः¦शर्या᳚भिः¦तु॒वि॒ऽनृ॒म्णः¦अ॒स्य॒¦अश्री᳚णीत¦आ॒ऽदिश᳚‌म्¦गभ॑स्तौ ||

कृ॒ष्णा यद्गोष्व॑रु॒णीषु॒ सीद॑द्दि॒वो नपा᳚ताश्विना हुवे वाम् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

वी॒तं मे᳚ य॒ज्ञमा ग॑तं मे॒, अन्नं᳚ वव॒न्वांसा॒ नेष॒मस्मृ॑तध्रू ||{4/27}{10.61.4}{10.5.1.4}{8.1.26.4}{611, 898, 9409}

कृ॒ष्णा¦यत्¦गोषु॑¦अ॒रु॒णीषु॑¦सीद॑त्¦दि॒वः¦नपा᳚ता¦अ॒श्वि॒ना॒¦हु॒वे॒¦वा॒‌म् |
वी॒त‌म्¦मे॒¦य॒ज्ञ‌म्¦आ¦ग॒त॒‌म्¦मे॒¦अन्न᳚‌म्¦व॒व॒न्वांसा᳚¦न¦इष᳚‌म्¦अस्मृ॑तध्रू॒ इत्यस्मृ॑तऽध्रू ||

प्रथि॑ष्ट॒ यस्य॑ वी॒रक᳚र्ममि॒ष्णदनु॑ष्ठितं॒ नु नर्यो॒, अपौ᳚हत् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

पुन॒स्तदा वृ॑हति॒ यत्क॒नाया᳚ दुहि॒तुरा, अनु॑भृतमन॒र्वा ||{5/27}{10.61.5}{10.5.1.5}{8.1.26.5}{612, 898, 9410}

प्रथि॑ष्ट¦यस्य॑¦वी॒रऽक᳚र्म‌म्¦इ॒ष्णत्¦अनु॑ऽस्थित‌म्¦नु¦नर्यः॑¦अप॑¦औ॒ह॒त् |
पुन॒रिति॑¦तत्¦आ¦वृ॒ह॒ति॒¦यत्¦क॒नायाः᳚¦दु॒हि॒तुः¦आः¦अनु॑ऽभृत‌म्¦अ॒न॒र्वा ||

म॒ध्या यत्कर्त्व॒मभ॑वद॒भीके॒ कामं᳚ कृण्वा॒ने पि॒तरि॑ युव॒त्याम् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

म॒ना॒नग्रेतो᳚ जहतुर्वि॒यन्ता॒ सानौ॒ निषि॑क्तं सुकृ॒तस्य॒ योनौ᳚ ||{6/27}{10.61.6}{10.5.1.6}{8.1.27.1}{613, 898, 9411}

म॒ध्या¦यत्¦कर्त्व᳚‌म्¦अभ॑वत्¦अ॒भीके᳚¦काम᳚‌म्¦कृ॒ण्वा॒ने¦पि॒तरि॑¦यु॒व॒त्या‌म् |
म॒ना॒नक्¦रेतः॑¦ज॒ह॒तुः॒¦वि॒ऽयन्ता᳚¦सानौ᳚¦निऽसि॑क्त‌म्¦सु॒ऽकृ॒तस्य॑¦योनौ᳚ ||

पि॒ता यत्स्वां दु॑हि॒तर॑मधि॒ष्कन्‌ क्ष्म॒या रेतः॑ संजग्मा॒नो नि षि᳚ञ्चत् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

स्वा॒ध्यो᳚ऽजनय॒न्‌ ब्रह्म॑ दे॒वा वास्तो॒ष्पतिं᳚ व्रत॒पां निर॑तक्षन् ||{7/27}{10.61.7}{10.5.1.7}{8.1.27.2}{614, 898, 9412}

पि॒ता¦यत्¦स्वा‌म्¦दु॒हि॒तर᳚‌म्¦अ॒धि॒ऽस्कन्¦क्ष्म॒या¦रेतः॑¦स॒‌म्ऽज॒ग्मा॒नः¦नि¦सिं॒च॒त् |
सु॒ऽआ॒ध्यः॑¦अ॒ज॒न॒य॒न्¦ब्रह्म॑¦दे॒वाः¦वास्तोः᳚¦पति᳚‌म्¦व्र॒त॒ऽपा‌म्¦निः¦अ॒त॒क्ष॒न् ||

स ईं॒ वृषा॒ न फेन॑मस्यदा॒जौ स्मदा परै॒दप॑ द॒भ्रचे᳚ताः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

सर॑त्प॒दा न दक्षि॑णा परा॒वृङ्न ता नु मे᳚ पृश॒न्यो᳚ जगृभ्रे ||{8/27}{10.61.8}{10.5.1.8}{8.1.27.3}{615, 898, 9413}

सः¦ई॒‌म्¦वृषा᳚¦न¦फेन᳚‌म्¦अ॒स्य॒त्¦आ॒जौ¦स्मत्¦आ¦परा᳚¦ऐ॒त्¦अप॑¦द॒भ्रऽचे᳚ताः |
सर॑त्¦प॒दा¦न¦दक्षि॑णा¦प॒रा॒ऽवृक्¦न¦ताः¦नु¦मे॒¦पृ॒श॒न्यः॑¦ज॒गृ॒भ्रे॒ ||

म॒क्षू न वह्निः॑ प्र॒जाया᳚, उप॒ब्दिर॒ग्निं न न॒ग्न उप॑ सीद॒दूधः॑ |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

सनि॑ते॒ध्मं सनि॑तो॒त वाजं॒ स ध॒र्ता ज॑ज्ञे॒ सह॑सा यवी॒युत् ||{9/27}{10.61.9}{10.5.1.9}{8.1.27.4}{616, 898, 9414}

म॒क्षु¦न¦वह्निः॑¦प्र॒ऽजायाः᳚¦उ॒प॒ब्दिः¦अ॒ग्नि‌म्¦न¦न॒ग्नः¦उप॑¦सीद॑त्¦ऊधः॑ |
सनि॑ता¦इ॒ध्म‌म्¦सनि॑ता¦उ॒त¦वाज᳚‌म्¦सः¦ध॒र्ता¦ज॒ज्ञे॒¦सह॑सा¦य॒वि॒ऽयुत् ||

म॒क्षू क॒नायाः᳚ स॒ख्यं नव॑ग्वा, ऋ॒तं वद᳚न्त ऋ॒तयु॑क्तिमग्मन् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

द्वि॒बर्ह॑सो॒ य उप॑ गो॒पमागु॑रदक्षि॒णासो॒, अच्यु॑ता दुदुक्षन् ||{10/27}{10.61.10}{10.5.1.10}{8.1.27.5}{617, 898, 9415}

म॒क्षु¦क॒नायाः᳚¦स॒ख्य‌म्¦नव॑ऽग्वाः¦ऋ॒त‌म्¦वद᳚न्तः¦ऋ॒तऽयु॑क्ति‌म्¦अ॒ग्म॒न् |
द्वि॒ऽबर्ह॑सः¦ये¦उप॑¦गो॒प‌म्¦आ¦अगुः॑¦अ॒द॒क्षि॒णासः॑¦अच्यु॑ता¦दु॒धु॒क्ष॒न् ||

म॒क्षू क॒नायाः᳚ स॒ख्यं नवी᳚यो॒ राधो॒ न रेत॑ ऋ॒तमित्तु॑रण्यन् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शुचि॒ यत्ते॒ रेक्ण॒ आय॑जन्त सब॒र्दुघा᳚याः॒ पय॑ उ॒स्रिया᳚याः ||{11/27}{10.61.11}{10.5.1.11}{8.1.28.1}{618, 898, 9416}

म॒क्षु¦क॒नायाः᳚¦स॒ख्य‌म्¦नवी᳚यः¦राधः॑¦न¦रेतः॑¦ऋ॒त‌म्¦इत्¦तु॒र॒ण्य॒न् |
शुचि॑¦यत्¦ते॒¦रेक्णः॑¦आ¦अय॑जन्त¦स॒बः॒ऽदुघा᳚याः¦पयः॑¦उ॒स्रिया᳚याः ||

प॒श्वा यत्प॒श्चा वियु॑ता बु॒धन्तेति॑ ब्रवीति व॒क्तरी॒ ररा᳚णः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

वसो᳚र्वसु॒त्वा का॒रवो᳚ऽने॒हा विश्वं᳚ विवेष्टि॒ द्रवि॑ण॒मुप॒ क्षु ||{12/27}{10.61.12}{10.5.1.12}{8.1.28.2}{619, 898, 9417}

प॒श्वा¦यत्¦प॒श्चा¦विऽयु॑ता¦बु॒धन्त॑¦इति॑¦ब्र॒वी॒ति॒¦व॒क्तरि॑¦ररा᳚णः |
वसोः᳚¦व॒सु॒ऽत्वा¦का॒रवः॑¦अ॒ने॒हा¦विश्व᳚‌म्¦वि॒वे॒ष्टि॒¦द्रवि॑ण‌म्¦उप॑¦क्षु ||

तदिन्न्व॑स्य परि॒षद्वा᳚नो, अग्मन्‌ पु॒रू सद᳚न्तो नार्ष॒दं बि॑भित्सन् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

वि शुष्ण॑स्य॒ संग्र॑थितमन॒र्वा वि॒दत्पु॑रुप्रजा॒तस्य॒ गुहा॒ यत् ||{13/27}{10.61.13}{10.5.1.13}{8.1.28.3}{620, 898, 9418}

तत्¦इत्¦नु¦अ॒स्य॒¦प॒रि॒ऽसद्वा᳚नः¦अ॒ग्म॒न्¦पु॒रु¦सद᳚न्तः¦ना॒र्स॒द‌म्¦बि॒भि॒त्सन् |
वि¦शुष्ण॑स्य¦स‌म्ऽग्र॑थित‌म्¦अ॒न॒र्वा¦वि॒दत्¦पु॒रु॒ऽप्र॒जा॒तस्य॑¦गुहा᳚¦यत् ||

भर्गो᳚ ह॒ नामो॒त यस्य॑ दे॒वाः स्व१॑(अ॒)र्ण ये त्रि॑षध॒स्थे नि॑षे॒दुः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

अ॒ग्निर्ह॒ नामो॒त जा॒तवे᳚दाः श्रु॒धी नो᳚ होतरृ॒तस्य॒ होता॒ध्रुक् ||{14/27}{10.61.14}{10.5.1.14}{8.1.28.4}{621, 898, 9419}

भर्गः॑¦ह॒¦नाम॑¦उ॒त¦यस्य॑¦दे॒वाः¦स्वः॑¦न¦ये¦त्रि॒ऽस॒ध॒स्थे¦नि॒ऽसे॒दुः |
अ॒ग्निः¦ह॒¦नाम॑¦उ॒त¦जा॒तऽवे᳚दाः¦श्रु॒धि¦नः॒¦हो॒तः॒¦ऋ॒तस्य॑¦होता᳚¦अ॒ध्रुक् ||

उ॒त त्या मे॒ रौद्रा᳚वर्चि॒मन्ता॒ नास॑त्याविन्द्र गू॒र्तये॒ यज॑ध्यै |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

म॒नु॒ष्वद्वृ॒क्तब᳚र्हिषे॒ ररा᳚णा म॒न्दू हि॒तप्र॑यसा वि॒क्षु यज्यू᳚ ||{15/27}{10.61.15}{10.5.1.15}{8.1.28.5}{622, 898, 9420}

उ॒त¦त्या¦मे॒¦रौद्रौ᳚¦अ॒र्चि॒ऽमन्ता᳚¦नास॑त्यौ¦इ॒न्द्र॒¦गृ॒तये᳚¦यज॑ध्यै |
म॒नु॒ष्वत्¦वृ॒क्तऽब॑र्हिषे¦ररा᳚णा¦म॒न्दू इति॑¦हि॒तऽप्र॑यसा¦वि॒क्षु¦यज्यू॒ इति॑ ||

अ॒यं स्तु॒तो राजा᳚ वन्दि वे॒धा, अ॒पश्च॒ विप्र॑स्तरति॒ स्वसे᳚तुः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

स क॒क्षीव᳚न्तं रेजय॒त्सो, अ॒ग्निं ने॒मिं न च॒क्रमर्व॑तो रघु॒द्रु ||{16/27}{10.61.16}{10.5.1.16}{8.1.29.1}{623, 898, 9421}

अ॒य‌म्¦स्तु॒तः¦राजा᳚¦व॒न्दि॒¦वे॒धाः¦अ॒पः¦च॒¦विप्रः॑¦त॒र॒ति॒¦स्वऽसे᳚तुः |
सः¦क॒क्षीव᳚न्त‌म्¦रे॒ज॒य॒त्¦सः¦अ॒ग्नि‌म्¦ने॒मि‌म्¦न¦च॒क्र‌म्¦अर्व॑तः¦र॒घु॒ऽद्रु ||

स द्वि॒बन्धु᳚र्वैतर॒णो यष्टा᳚ सब॒र्धुं धे॒नुम॒स्वं᳚ दु॒हध्यै᳚ |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

सं यन्मि॒त्रावरु॑णा वृ॒ञ्ज उ॒क्थैर्ज्येष्ठे᳚भिरर्य॒मणं॒ वरू᳚थैः ||{17/27}{10.61.17}{10.5.1.17}{8.1.29.2}{624, 898, 9422}

सः¦द्वि॒ऽबन्धुः॑¦वै॒त॒र॒णः¦यष्टा᳚¦स॒बः॒ऽधु‌म्¦धे॒नु‌म्¦अ॒स्व᳚‌म्¦दु॒हध्यै᳚ |
स‌म्¦यत्¦मि॒त्रावरु॑णा¦वृं॒जे¦उ॒क्थैः¦ज्येष्ठे᳚भिः¦अ॒र्य॒मण᳚‌म्¦वरू᳚थैः ||

तद्‌ ब᳚न्धुः सू॒रिर्दि॒वि ते᳚ धियं॒धा नाभा॒नेदि॑ष्ठो रपति॒ प्र वेन॑न् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

सा नो॒ नाभिः॑ पर॒मास्य वा᳚ घा॒हं तत्‌ प॒श्चा क॑ति॒थश्चि॑दास ||{18/27}{10.61.18}{10.5.1.18}{8.1.29.3}{625, 898, 9423}

तत्ऽब᳚न्धुः¦सू॒रिः¦दि॒वि¦ते॒¦धि॒य॒‌म्ऽधाः¦नाभा॒नेदि॑ष्ठः¦र॒प॒ति॒¦प्र¦वेन॑न् |
सा¦नः॒¦नाभिः॑¦प॒र॒मा¦अ॒स्य¦वा॒¦घ॒¦अ॒ह‌म्¦तत्¦प॒श्चा¦क॒ति॒थः¦चि॒त्¦आ॒स॒ ||

इ॒यं मे॒ नाभि॑रि॒ह मे᳚ स॒धस्थ॑मि॒मे मे᳚ दे॒वा, अ॒यम॑स्मि॒ सर्वः॑ |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

द्वि॒जा, अह॑ प्रथम॒जा, ऋ॒तस्ये॒दं धे॒नुर॑दुह॒ज्जाय॑माना ||{19/27}{10.61.19}{10.5.1.19}{8.1.29.4}{626, 898, 9424}

इ॒य‌म्¦मे॒¦नाभिः॑¦इ॒ह¦मे॒¦स॒धऽस्थ᳚‌म्¦इ॒मे¦मे॒¦दे॒वाः¦अ॒य‌म्¦अ॒स्मि॒¦सर्वः॑ |
द्वि॒ऽजाः¦अह॑¦प्र॒थ॒म॒ऽजाः¦ऋ॒तस्य॑¦इ॒द‌म्¦धे॒नुः¦अ॒दु॒ह॒त्¦जाय॑माना ||

अधा᳚सु म॒न्द्रो, अ॑र॒तिर्वि॒भावाव॑ स्यति द्विवर्त॒निर्व॑ने॒षाट् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

ऊ॒र्ध्वा यच्छ्रेणि॒र्न शिशु॒र्दन्म॒क्षू स्थि॒रं शे᳚वृ॒धं सू᳚त मा॒ता ||{20/27}{10.61.20}{10.5.1.20}{8.1.29.5}{627, 898, 9425}

अध॑¦आ॒सु॒¦म॒न्द्रः¦अ॒र॒तिः¦वि॒भाऽवा᳚¦अव॑¦स्य॒ति॒¦द्वि॒ऽव॒र्त॒निः¦व॒ने॒षाट् |
ऊ॒र्ध्वा¦यत्¦श्रेणिः॑¦न¦शिशुः॑¦दन्¦म॒क्षु¦स्थि॒र‌म्¦शे॒ऽवृ॒ध‌म्¦सू॒त॒¦मा॒ता ||

अधा॒ गाव॒ उप॑मातिं क॒नाया॒, अनु॑ श्वा॒न्तस्य॒ कस्य॑ चि॒त्परे᳚युः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

श्रु॒धि त्वं सु॑द्रविणो न॒स्त्वं या᳚ळाश्व॒घ्नस्य॑ वावृधे सू॒नृता᳚भिः ||{21/27}{10.61.21}{10.5.1.21}{8.1.30.1}{628, 898, 9426}

अध॑¦गावः॑¦उप॑ऽमाति‌म्¦क॒नायाः᳚¦अनु॑¦श्वा॒न्तस्य॑¦कस्य॑¦चि॒त्¦परा᳚¦ई॒युः॒ |
श्रु॒धि¦त्व‌म्¦सु॒ऽद्र॒वि॒णः॒¦नः॒¦त्व‌म्¦या॒ट्¦आ॒श्व॒ऽघ्नस्य॑¦व॒वृ॒धे॒¦सू॒नृता᳚भिः ||

अध॒ त्वमि᳚न्द्र वि॒द्ध्य१॑(अ॒)स्मान्म॒हो रा॒ये नृ॑पते॒ वज्र॑बाहुः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

रक्षा᳚ च नो म॒घोनः॑ पा॒हि सू॒रीन॑ने॒हस॑स्ते हरिवो, अ॒भिष्टौ᳚ ||{22/27}{10.61.22}{10.5.1.22}{8.1.30.2}{629, 898, 9427}

अध॑¦त्व‌म्¦इ॒न्द्र॒¦वि॒द्धि¦अ॒स्मान्¦म॒हः¦रा॒ये¦नृ॒ऽप॒ते॒¦वज्र॑ऽबाहुः |
रक्ष॑¦च॒¦नः॒¦म॒घोनः॑¦पा॒हि¦सू॒रीन्¦अ॒ने॒हसः॑¦ते॒¦ह॒रि॒ऽवः॒¦अ॒भिष्टौ᳚ ||

अध॒ यद्रा᳚जाना॒ गवि॑ष्टौ॒ सर॑त्सर॒ण्युः का॒रवे᳚ जर॒ण्युः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

विप्रः॒ प्रेष्ठः॒ स ह्ये᳚षां ब॒भूव॒ परा᳚ च॒ वक्ष॑दु॒त प॑र्षदेनान् ||{23/27}{10.61.23}{10.5.1.23}{8.1.30.3}{630, 898, 9428}

अध॑¦यत्¦रा॒जा॒ना॒¦गोऽ‌इ᳚ष्टौ¦सर॑त्¦स॒र॒ण्युः¦का॒रवे᳚¦ज॒र॒ण्युः |
विप्रः॑¦प्रेष्ठः॑¦सः¦हि¦ए॒षा॒‌म्¦ब॒भूव॒¦परा᳚¦च॒¦वक्ष॑त्¦उ॒त¦प॒र्ष॒त्¦ए॒ना॒न् ||

अधा॒ न्व॑स्य॒ जेन्य॑स्य पु॒ष्टौ वृथा॒ रेभ᳚न्त ईमहे॒ तदू॒ नु |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

स॒र॒ण्युर॑स्य सू॒नुरश्वो॒ विप्र॑श्चासि॒ श्रव॑सश्च सा॒तौ ||{24/27}{10.61.24}{10.5.1.24}{8.1.30.4}{631, 898, 9429}

अध॑¦नु¦अ॒स्य॒¦जेन्य॑स्य¦पु॒ष्टौ¦वृथा᳚¦रेभ᳚न्तः¦ई॒म॒हे॒¦तत्¦ऊँ॒ इति॑¦नु |
स॒र॒ण्युः¦अ॒स्य॒¦सू॒नुः¦अश्वः॑¦विप्रः॑¦च॒¦अ॒सि॒¦श्रव॑सः¦च॒¦सा॒तौ ||

यु॒वोर्यदि॑ स॒ख्याया॒स्मे शर्धा᳚य॒ स्तोमं᳚ जुजु॒षे नम॑स्वान् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

वि॒श्वत्र॒ यस्मि॒न्ना गिरः॑ समी॒चीः पू॒र्वीव॑ गा॒तुर्दाश॑त्सू॒नृता᳚यै ||{25/27}{10.61.25}{10.5.1.25}{8.1.30.5}{632, 898, 9430}

यु॒वोः¦यदि॑¦स॒ख्याय॑¦अ॒स्मे इति॑¦शर्धा᳚य¦स्तोम᳚‌म्¦जु॒जु॒षे¦नम॑स्वान् |
वि॒श्वत्र॑¦यस्मि॑न्¦आ¦गिरः॑¦स॒‌म्ऽई॒चीः¦पू॒र्वीऽ‌इ᳚व¦गा॒तुः¦दाश॑त्¦सू॒नृता᳚यै ||

स गृ॑णा॒नो, अ॒द्भिर्दे॒ववा॒निति॑ सु॒बन्धु॒र्नम॑सा सू॒क्तैः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

वर्ध॑दु॒क्थैर्वचो᳚भि॒रा हि नू॒नं व्यध्वै᳚ति॒ पय॑स उ॒स्रिया᳚याः ||{26/27}{10.61.26}{10.5.1.26}{8.1.30.6}{633, 898, 9431}

सः¦गृ॒णा॒नः¦अ॒त्ऽभिः¦दे॒वऽवा᳚न्¦इति॑¦सु॒ऽबन्धुः॑¦नम॑सा¦सु॒।औ॒क्तैः |
वर्ध॑त्¦उ॒क्थैः¦वचः॑ऽभिः¦आ¦हि¦नू॒न‌म्¦वि¦अध्वा᳚¦ए॒ति॒¦पय॑सः¦उ॒स्रिया᳚याः ||

त ऊ॒ षु णो᳚ म॒हो य॑जत्रा भू॒त दे᳚वास ऊ॒तये᳚ स॒जोषाः᳚ |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

ये वाजाँ॒, अन॑यता वि॒यन्तो॒ ये स्था नि॑चे॒तारो॒, अमू᳚राः ||{27/27}{10.61.27}{10.5.1.27}{8.1.30.7}{634, 898, 9432}

ते¦ऊँ॒ इति॑¦सु¦नः॒¦म॒हः¦य॒ज॒त्राः॒¦भू॒त¦दे॒वा॒सः॒¦ऊ॒तये᳚¦स॒ऽजोषाः᳚ |
ये¦वाजा᳚न्¦अन॑यत¦वि॒ऽयन्तः॑¦ये¦स्थ¦नि॒ऽचे॒तारः॑¦अमू᳚राः ||

[62] येयज्ञेनेत्येकादशर्चस्य सूक्तस्य मानवोनाभानेदिष्ठो विश्वेदेवाः प्रनूनमित्यादिचतसृणां सावर्णिर्जगती पंचम्यष्टमीनवम्योनुष्टुभः षष्टी बृहती सप्तमीसतोबृहती दशमीगायत्री अंत्यात्रिष्टुप् (भेदपक्षे - अंगिरसः ६ विश्वेदेवाः १ सावर्णिः ४ एवं ११ | अंगिरसोनुक्रमण्यांपाक्षिकाउक्ताः) | येयज्ञेनेतिचतसृणां त्रिष्टुप् छंदस्त्वं कश्चिद्भूतेतद्बहुविरुद्धं | विरोधास्तु - षळंगिरसां स्तुतिर्वांत्यात्रिष्टुबित्यनुक्रमाच्छेष जगत्यइति परिभाषाव्याघात एकः । तासां त्रिष्टुप् छंदस्त्वेनादेशपरिभाषयातासामंत्यायाश्चत्रिष्टुब्वे सिद्धेत्यात्रिष्टुबिति सिद्धानुवादलक्षणदोषा विष्करणद्वितीयः | दशमीत्वस्य गायत्री जगत्यन्याविनोत्तमामिति शौनकवचनाज्ञानेनस्वेच्छयाव्याख्यानमिति तृतीयश्चेति) |
ये य॒ज्ञेन॒ दक्षि॑णया॒ सम॑क्ता॒, इन्द्र॑स्य स॒ख्यम॑मृत॒त्वमा᳚न॒श |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | जगती}

तेभ्यो᳚ भ॒द्रम᳚ङ्गिरसो वो, अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ||{1/11}{10.62.1}{10.5.2.1}{8.2.1.1}{635, 899, 9433}

ये¦य॒ज्ञेन॑¦दक्षि॑णया¦स‌म्।आ॑क्ताः¦इन्द्र॑स्य¦स॒ख्य‌म्¦अ॒मृ॒त॒ऽत्व‌म्¦आ॒न॒श |
तेभ्यः॑¦भ॒द्र‌म्¦अ॒ङ्गि॒र॒सः॒¦वः॒¦अ॒स्तु॒¦प्रति॑¦गृ॒भ्णी॒त॒¦मा॒न॒व‌म्¦सु॒ऽमे॒ध॒सः॒ ||

य उ॒दाज᳚न्‌ पि॒तरो᳚ गो॒मयं॒ वस्वृ॒तेनाभि᳚न्दन्‌ परिवत्स॒रे व॒लम् |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | जगती}

दी॒र्घा॒यु॒त्वम᳚ङ्गिरसो वो, अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ||{2/11}{10.62.2}{10.5.2.2}{8.2.1.2}{636, 899, 9434}

ये¦उ॒त्ऽआज॑न्¦पि॒तरः॑¦गो॒ऽमय᳚‌म्¦वसु॑¦ऋ॒तेन॑¦अभि᳚न्दन्¦प॒रि॒ऽव॒त्स॒रे¦व॒ल‌म् |
दी॒र्घा॒यु॒ऽत्व‌म्¦अ॒ङ्गि॒र॒सः॒¦वः॒¦अ॒स्तु॒¦प्रति॑¦गृ॒भ्णी॒त॒¦मा॒न॒व‌म्¦सु॒ऽमे॒ध॒सः॒ ||

य ऋ॒तेन॒ सूर्य॒मारो᳚हयन्दि॒व्यप्र॑थयन्‌ पृथि॒वीं मा॒तरं॒ वि |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | जगती}

सु॒प्र॒जा॒स्त्वम᳚ङ्गिरसो वो, अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ||{3/11}{10.62.3}{10.5.2.3}{8.2.1.3}{637, 899, 9435}

ये¦ऋ॒तेन॑¦सूर्य᳚‌म्¦आ¦अरो᳚हयन्¦दि॒वि¦अप्र॑थयन्¦पृ॒थि॒वी‌म्¦मा॒तर᳚‌म्¦वि |
सु॒प्र॒जाः॒ऽत्व‌म्¦अ॒ङ्गि॒र॒सः॒¦वः॒¦अ॒स्तु॒¦प्रति॑¦गृ॒भ्णी॒त॒¦मा॒न॒व‌म्¦सु॒ऽमे॒ध॒सः॒ ||

अ॒यं नाभा᳚ वदति व॒ल्गु वो᳚ गृ॒हे देव॑पुत्रा, ऋषय॒स्तच्छृ॑णोतन |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | जगती}

सु॒ब्र॒ह्म॒ण्यम᳚ङ्गिरसो वो, अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ||{4/11}{10.62.4}{10.5.2.4}{8.2.1.4}{638, 899, 9436}

अ॒य‌म्¦नाभा᳚¦व॒द॒ति॒¦व॒ल्गु¦वः॒¦गृ॒हे¦देव॑ऽपुत्राः¦ऋ॒ष॒यः॒¦तत्¦शृ॒णो॒त॒न॒ |
सु॒ऽब्र॒ह्म॒ण्य‌म्¦अ॒ङ्गि॒र॒सः॒¦वः॒¦अ॒स्तु॒¦प्रति॑¦गृ॒भ्णी॒त॒¦मा॒न॒व‌म्¦सु॒ऽमे॒ध॒सः॒ ||

विरू᳚पास॒ इदृष॑य॒स्त इद्ग᳚म्भी॒रवे᳚पसः |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | अनुष्टुप्}

ते, अङ्गि॑रसः सू॒नव॒स्ते, अ॒ग्नेः परि॑ जज्ञिरे ||{5/11}{10.62.5}{10.5.2.5}{8.2.1.5}{639, 899, 9437}

विऽरू᳚पासः¦इत्¦ऋष॑यः¦ते¦इत्¦ग॒म्भी॒रऽवे᳚पसः | ते¦अङ्गि॑रसः¦सू॒नवः॑¦ते¦अ॒ग्नेः¦परि॑¦ज॒ज्ञि॒रे॒ ||

ये, अ॒ग्नेः परि॑ जज्ञि॒रे विरू᳚पासो दि॒वस्परि॑ |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | बृहती}

नव॑ग्वो॒ नु दश॑ग्वो॒, अङ्गि॑रस्तमो॒ सचा᳚ दे॒वेषु॑ मंहते ||{6/11}{10.62.6}{10.5.2.6}{8.2.2.1}{640, 899, 9438}

ये¦अ॒ग्नेः¦परि॑¦ज॒ज्ञि॒रे¦विऽरू᳚पासः¦दि॒वः¦परि॑ |
नव॑ऽग्वः¦नु¦दश॑ऽग्वः¦अङ्गि॑रःऽतमः¦सचा᳚¦दे॒वेषु॑¦मं॒ह॒ते॒ ||

इन्द्रे᳚ण यु॒जा निः सृ॑जन्त वा॒घतो᳚ व्र॒जं गोम᳚न्तम॒श्विन᳚म् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | सतोबृहती}

स॒हस्रं᳚ मे॒ दद॑तो, अष्टक॒र्ण्य१॑(अः॒) श्रवो᳚ दे॒वेष्व॑क्रत ||{7/11}{10.62.7}{10.5.2.7}{8.2.2.2}{641, 899, 9439}

इन्द्रे᳚ण¦यु॒जा¦निः¦सृ॒ज॒न्त॒¦वा॒घतः॑¦व्र॒ज‌म्¦गोऽम᳚न्त‌म्¦अ॒श्विन᳚‌म् |
स॒हस्र᳚‌म्¦मे॒¦दद॑तः¦अ॒ष्ट॒ऽक॒र्ण्यः॑¦श्रवः॑¦दे॒वेषु॑¦अ॒क्र॒त॒ ||

प्र नू॒नं जा᳚यताम॒यं मनु॒स्तोक्मे᳚व रोहतु |{मानवो नाभानेदिष्ठः | सावर्णिः | अनुष्टुप्}

यः स॒हस्रं᳚ श॒ताश्वं᳚ स॒द्यो दा॒नाय॒ मंह॑ते ||{8/11}{10.62.8}{10.5.2.8}{8.2.2.3}{642, 899, 9440}

प्र¦नू॒न‌म्¦जा॒य॒ता॒‌म्¦अ॒य‌म्¦मनुः॑¦तोक्म॑ऽ‌इव¦रो॒ह॒तु॒ | यः¦स॒हस्र᳚‌म्¦श॒त।आ॑श्व‌म्¦स॒द्यः¦दा॒नाय॑¦मंह॑ते ||

न तम॑श्नोति॒ कश्च॒न दि॒व इ॑व॒ सान्वा॒रभ᳚म् |{मानवो नाभानेदिष्ठः | सावर्णिः | अनुष्टुप्}

सा॒व॒र्ण्यस्य॒ दक्षि॑णा॒ वि सिन्धु॑रिव पप्रथे ||{9/11}{10.62.9}{10.5.2.9}{8.2.2.4}{643, 899, 9441}

न¦त‌म्¦अ॒श्नो॒ति॒¦कः¦च॒न¦दि॒वःऽ‌इ᳚व¦सानु॑¦आ॒ऽरभ᳚‌म् | सा॒व॒र्ण्यस्य॑¦दक्षि॑णा¦वि¦सिन्धुः॑ऽ‌इव¦प॒प्र॒थे॒ ||

उ॒त दा॒सा प॑रि॒विषे॒ स्मद्दि॑ष्टी॒ गोप॑रीणसा |{मानवो नाभानेदिष्ठः | सावर्णिः | गायत्री}

यदु॑स्तु॒र्वश्च॑ मामहे ||{10/11}{10.62.10}{10.5.2.10}{8.2.2.5}{644, 899, 9442}

उ॒त¦दा॒सा¦प॒रि॒ऽविषे᳚¦स्मद्दि॑ष्टी॒ इति॒ स्मत्ऽदि॑ष्टी¦गोऽप॑रीणसा | यदुः॑¦तु॒र्वः¦च॒¦मा॒म॒हे॒ ||

स॒ह॒स्र॒दा ग्रा᳚म॒णीर्मा रि॑ष॒न्मनुः॒ सूर्ये᳚णास्य॒ यत॑मानैतु॒ दक्षि॑णा |{मानवो नाभानेदिष्ठः | सावर्णिः | त्रिष्टुप्}

साव᳚र्णेर्दे॒वाः प्र ति॑र॒न्त्वायु॒र्यस्मि॒न्नश्रा᳚न्ता॒, अस॑नाम॒ वाज᳚म् ||{11/11}{10.62.11}{10.5.2.11}{8.2.2.6}{645, 899, 9443}

स॒ह॒स्र॒ऽदाः¦ग्रा॒म॒ऽनीः¦मा¦रि॒ष॒त्¦मनुः॑¦सूर्ये᳚ण¦अ॒स्य॒¦यत॑माना¦ए॒तु॒¦दक्षि॑णा |
साव᳚र्णेः¦दे॒वाः¦प्र¦ति॒र॒न्तु॒¦आयुः॑¦यस्मि॑न्¦अस्रा᳚न्ताः¦अस॑नाम¦वाज᳚‌म् ||

[63] परावतइति सप्तदशर्चस्य सूक्तस्य गयःप्लातो विश्वेदेवाः पंचदशीषोडश्योः पथ्यास्वस्तिर्जगत्यंत्येद्वेत्रिष्टुभौ स्वस्तिस्त्रिष्टुब्वा | (भेदपक्षे - विश्वेदेवाः९ दिवः १ विश्वेदेवाः४ पथ्यास्वस्ति २ विश्वेदेवाः १ एवं १७) । गयः प्लातइत्यत्र प्लातोगयो विश्वेदेवा इत्यपिकचित्प्रयुंजते ) |
प॒रा॒वतो॒ ये दिधि॑षन्त॒ आप्यं॒ मनु॑प्रीतासो॒ जनि॑मा वि॒वस्व॑तः |{गयः प्लातः | विश्वदेवाः | जगती}

य॒याते॒र्ये न॑हु॒ष्य॑स्य ब॒र्हिषि॑ दे॒वा, आस॑ते॒ ते, अधि॑ ब्रुवन्तु नः ||{1/17}{10.63.1}{10.5.3.1}{8.2.3.1}{646, 900, 9444}

प॒रा॒ऽवतः॑¦ये¦दिधि॑षन्ते¦आप्य᳚‌म्¦मनु॑ऽप्रीतासः¦जनि॑म¦वि॒वस्व॑तः |
य॒यातेः᳚¦ये¦न॒हु॒ष्य॑स्य¦ब॒र्हिषि॑¦दे॒वाः¦आस॑ते¦ते¦अधि॑¦ब्रु॒व॒न्तु॒¦नः॒ ||

विश्वा॒ हि वो᳚ नम॒स्या᳚नि॒ वन्द्या॒ नामा᳚नि देवा, उ॒त य॒ज्ञिया᳚नि वः |{गयः प्लातः | विश्वदेवाः | जगती}

ये स्थ जा॒ता, अदि॑तेर॒द्भ्यस्परि॒ ये पृ॑थि॒व्यास्ते म॑ इ॒ह श्रु॑ता॒ हव᳚म् ||{2/17}{10.63.2}{10.5.3.2}{8.2.3.2}{647, 900, 9445}

विश्वा᳚¦हि¦वः॒¦न॒म॒स्या᳚नि¦वन्द्या᳚¦नामा᳚नि¦दे॒वाः॒¦उ॒त¦य॒ज्ञिया᳚नि¦वः॒ |
ये¦स्थ¦जा॒ताः¦अदि॑तेः¦अ॒त्ऽभ्यः¦परि॑¦ये¦पृ॒थि॒व्याः¦ते¦मे॒¦इ॒ह¦श्रु॒त॒¦हव᳚‌म् ||

येभ्यो᳚ मा॒ता मधु॑म॒त्‌ पिन्व॑ते॒ पयः॑ पी॒यूषं॒ द्यौरदि॑ति॒रद्रि॑बर्हाः |{गयः प्लातः | विश्वदेवाः | जगती}

उ॒क्थशु॑ष्मान्‌ वृषभ॒रान्‌ त्स्वप्न॑स॒स्ताँ, आ᳚दि॒त्याँ, अनु॑ मदा स्व॒स्तये᳚ ||{3/17}{10.63.3}{10.5.3.3}{8.2.3.3}{648, 900, 9446}

येभ्यः॑¦मा॒ता¦मधु॑ऽमत्¦पिन्व॑ते¦पयः॑¦पी॒यूष᳚‌म्¦द्यौः¦अदि॑तिः¦अद्रि॑ऽबर्हाः |
उ॒क्थऽशु॑ष्मान्¦वृ॒ष॒ऽभ॒रान्¦स्वप्न॑सः¦तान्¦आ॒दि॒त्यान्¦अनु॑¦म॒द॒¦स्व॒स्तये᳚ ||

नृ॒चक्ष॑सो॒, अनि॑मिषन्तो, अ॒र्हणा᳚ बृ॒हद्दे॒वासो᳚, अमृत॒त्वमा᳚नशुः |{गयः प्लातः | विश्वदेवाः | जगती}

ज्यो॒तीर॑था॒, अहि॑माया॒, अना᳚गसो दि॒वो व॒र्ष्माणं᳚ वसते स्व॒स्तये᳚ ||{4/17}{10.63.4}{10.5.3.4}{8.2.3.4}{649, 900, 9447}

नृ॒ऽचक्ष॑सः¦अनि॑ऽमिषन्तः¦अ॒र्हणा᳚¦बृ॒हत्¦दे॒वासः॑¦अ॒मृ॒त॒ऽत्व‌म्¦आ॒न॒शुः॒ |
ज्यो॒तिःऽर॑थाः¦अहि॑ऽमायाः¦अना᳚गसः¦दि॒वः¦व॒र्ष्माण᳚‌म्¦व॒स॒ते॒¦स्व॒स्तये᳚ ||

स॒म्राजो॒ ये सु॒वृधो᳚ य॒ज्ञमा᳚य॒युरप॑रिह्वृता दधि॒रे दि॒वि क्षय᳚म् |{गयः प्लातः | विश्वदेवाः | जगती}

ताँ, आ वि॑वास॒ नम॑सा सुवृ॒क्तिभि᳚र्म॒हो, आ᳚दि॒त्याँ, अदि॑तिं स्व॒स्तये᳚ ||{5/17}{10.63.5}{10.5.3.5}{8.2.3.5}{650, 900, 9448}

स॒‌म्ऽराजः॑¦ये¦सु॒ऽवृधः॑¦य॒ज्ञ‌म्¦आ॒ऽय॒युः¦अप॑रिऽह्वृताः¦द॒धि॒रे¦दि॒वि¦क्षय᳚‌म् |
तान्¦आ¦वि॒वा॒स॒¦नम॑सा¦सु॒वृ॒क्तिऽभिः॑¦म॒हः¦आ॒दि॒त्यान्¦अदि॑ति‌म्¦स्व॒स्तये᳚ ||

को वः॒ स्तोमं᳚ राधति॒ यं जुजो᳚षथ॒ विश्वे᳚ देवासो मनुषो॒ यति॒ ष्ठन॑ |{गयः प्लातः | विश्वदेवाः | जगती}

को वो᳚ऽध्व॒रं तु॑विजाता॒, अरं᳚ कर॒द्यो नः॒ पर्ष॒दत्यंहः॑ स्व॒स्तये᳚ ||{6/17}{10.63.6}{10.5.3.6}{8.2.4.1}{651, 900, 9449}

कः¦वः॒¦स्तोम᳚‌म्¦रा॒ध॒ति॒¦य‌म्¦जुजो᳚षथ¦विश्वे᳚¦दे॒वा॒सः॒¦म॒नु॒षः॒¦यति॑¦स्थन॑ |
कः¦वः॒¦अ॒ध्व॒र‌म्¦तु॒वि॒ऽजा॒ताः॒¦अर᳚‌म्¦क॒र॒त्¦यः¦नः॒¦पर्ष॑त्¦अति॑¦अंहः॑¦स्व॒स्तये᳚ ||

येभ्यो॒ होत्रां᳚ प्रथ॒मामा᳚ये॒जे मनुः॒ समि॑द्धाग्नि॒र्मन॑सा स॒प्त होतृ॑भिः |{गयः प्लातः | विश्वदेवाः | जगती}

त आ᳚दित्या॒, अभ॑यं॒ शर्म॑ यच्छत सु॒गा नः॑ कर्त सु॒पथा᳚ स्व॒स्तये᳚ ||{7/17}{10.63.7}{10.5.3.7}{8.2.4.2}{652, 900, 9450}

येभ्यः॑¦होत्रा᳚‌म्¦प्र॒थ॒मा‌म्¦आ॒ऽये॒जे¦मनुः॑¦समि॑द्ध।आग्निः¦मन॑सा¦स॒प्त¦होतृ॑ऽभिः |
ते¦आ॒दि॒त्याः॒¦अभ॑य‌म्¦शर्म॑¦य॒च्छ॒त॒¦सु॒ऽगा¦नः॒¦क॒र्त॒¦सु॒ऽपथा᳚¦स्व॒स्तये᳚ ||

य ईशि॑रे॒ भुव॑नस्य॒ प्रचे᳚तसो॒ विश्व॑स्य स्था॒तुर्जग॑तश्च॒ मन्त॑वः |{गयः प्लातः | विश्वदेवाः | जगती}

ते नः॑ कृ॒तादकृ॑ता॒देन॑स॒स्पर्य॒द्या दे᳚वासः पिपृता स्व॒स्तये᳚ ||{8/17}{10.63.8}{10.5.3.8}{8.2.4.3}{653, 900, 9451}

ये¦ईशि॑रे¦भुव॑नस्य¦प्रऽचे᳚तसः¦विश्व॑स्य¦स्था॒तुः¦जग॑तः¦च॒¦मन्त॑वः |
ते¦नः॒¦कृ॒तात्¦अकृ॑तात्¦एन॑सः¦परि॑¦अ॒द्य¦दे॒वा॒सः॒¦पि॒पृ॒त॒¦स्व॒स्तये᳚ ||

भरे॒ष्विन्द्रं᳚ सु॒हवं᳚ हवामहेंऽहो॒मुचं᳚ सु॒कृतं॒ दैव्यं॒ जन᳚म् |{गयः प्लातः | विश्वदेवाः | जगती}

अ॒ग्निं मि॒त्रं वरु॑णं सा॒तये॒ भगं॒ द्यावा᳚पृथि॒वी म॒रुतः॑ स्व॒स्तये᳚ ||{9/17}{10.63.9}{10.5.3.9}{8.2.4.4}{654, 900, 9452}

भरे᳚षु¦इन्द्र᳚‌म्¦सु॒ऽहव᳚‌म्¦ह॒वा॒म॒हे॒¦अं॒हः॒ऽमुच᳚‌म्¦सु॒ऽकृत᳚‌म्¦दैव्य᳚‌म्¦जन᳚‌म् |
अ॒ग्नि‌म्¦मि॒त्र‌म्¦वरु॑ण‌म्¦सा॒तये᳚¦भग᳚‌म्¦द्यावा᳚पृथि॒वी इति॑¦म॒रुतः॑¦स्व॒स्तये᳚ ||

सु॒त्रामा᳚णं पृथि॒वीं द्याम॑ने॒हसं᳚ सु॒शर्मा᳚ण॒मदि॑तिं सु॒प्रणी᳚तिम् |{गयः प्लातः | विश्वदेवाः | जगती}

दैवीं॒ नावं᳚ स्वरि॒त्रामना᳚गस॒मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये᳚ ||{10/17}{10.63.10}{10.5.3.10}{8.2.4.5}{655, 900, 9453}

सु॒ऽत्रामा᳚ण‌म्¦पृ॒थि॒वी‌म्¦द्या‌म्¦अ॒ने॒हस᳚‌म्¦सु॒ऽशर्मा᳚ण‌म्¦अदि॑ति‌म्¦सु॒ऽप्रनी᳚ति‌म् |
दैवी᳚‌म्¦नाव᳚‌म्¦सु॒।आ॒रि॒त्रा‌म्¦अना᳚गस‌म्¦अस्र॑वन्ती‌म्¦आ¦रु॒हे॒म॒¦स्व॒स्तये᳚ ||

विश्वे᳚ यजत्रा॒, अधि॑ वोचतो॒तये॒ त्राय॑ध्वं नो दु॒रेवा᳚या, अभि॒ह्रुतः॑ |{गयः प्लातः | विश्वदेवाः | जगती}

स॒त्यया᳚ वो दे॒वहू᳚त्या हुवेम शृण्व॒तो दे᳚वा॒, अव॑से स्व॒स्तये᳚ ||{11/17}{10.63.11}{10.5.3.11}{8.2.5.1}{656, 900, 9454}

विश्वे᳚¦य॒ज॒त्राः॒¦अधि॑¦वो॒च॒त॒¦ऊ॒तये᳚¦त्राय॑ध्व‌म्¦नः॒¦दुः॒ऽएवा᳚याः¦अ॒भि॒ऽह्रुतः॑ |
स॒त्यया᳚¦वः॒¦दे॒वऽहू᳚त्या¦हु॒वे॒म॒¦शृ॒ण्व॒तः¦दे॒वाः॒¦अव॑से¦स्व॒स्तये᳚ ||

अपामी᳚वा॒मप॒ विश्वा॒मना᳚हुति॒मपारा᳚तिं दुर्वि॒दत्रा᳚मघाय॒तः |{गयः प्लातः | विश्वदेवाः | जगती}

आ॒रे दे᳚वा॒ द्वेषो᳚, अ॒स्मद्यु॑योतनो॒रु णः॒ शर्म॑ यच्छता स्व॒स्तये᳚ ||{12/17}{10.63.12}{10.5.3.12}{8.2.5.2}{657, 900, 9455}

अप॑¦अमी᳚वा‌म्¦अप॑¦विश्वा᳚‌म्¦अना᳚हुति‌म्¦अप॑¦अरा᳚ति‌म्¦दुः॒ऽवि॒दत्रा᳚‌म्¦अ॒घ॒ऽय॒तः |
आ॒रे¦दे॒वाः॒¦द्वेषः॑¦अ॒स्मत्¦यु॒यो॒त॒न॒¦उ॒रु¦नः॒¦शर्म॑¦य॒च्छ॒त॒¦स्व॒स्तये᳚ ||

अरि॑ष्टः॒ स मर्तो॒ विश्व॑ एधते॒ प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ |{गयः प्लातः | विश्वदेवाः | जगती}

यमा᳚दित्यासो॒ नय॑था सुनी॒तिभि॒रति॒ विश्वा᳚नि दुरि॒ता स्व॒स्तये᳚ ||{13/17}{10.63.13}{10.5.3.13}{8.2.5.3}{658, 900, 9456}

अरि॑ष्टः¦सः¦मर्तः॑¦विश्वः॑¦ए॒ध॒ते॒¦प्र¦प्र॒ऽजाभिः॑¦जा॒य॒ते॒¦धर्म॑णः¦परि॑ |
य‌म्¦आ॒दि॒त्या॒सः॒¦नय॑थ¦सु॒नी॒तिऽभिः॑¦अति॑¦विश्वा᳚नि¦दुः॒ऽ‌इ॒ता¦स्व॒स्तये᳚ ||

यं दे᳚वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं शूर॑साता मरुतो हि॒ते धने᳚ |{गयः प्लातः | विश्वदेवाः | जगती}

प्रा॒त॒र्यावा᳚णं॒ रथ॑मिन्द्र सान॒सिमरि॑ष्यन्त॒मा रु॑हेमा स्व॒स्तये᳚ ||{14/17}{10.63.14}{10.5.3.14}{8.2.5.4}{659, 900, 9457}

य‌म्¦दे॒वा॒सः॒¦अव॑थ¦वाज॑ऽसातौ¦य‌म्¦शूर॑ऽसाता¦म॒रु॒तः॒¦हि॒ते¦धने᳚ |
प्रा॒तः॒ऽयावा᳚न‌म्¦रथ᳚‌म्¦इ॒न्द्र॒¦सा॒न॒सि‌म्¦अरि॑ष्यन्त‌म्¦आ¦रु॒हे॒म॒¦स्व॒स्तये᳚ ||

स्व॒स्ति नः॑ प॒थ्या᳚सु॒ धन्व॑सु स्व॒स्त्य१॑(अ॒)प्सु वृ॒जने॒ स्व᳚र्वति |{गयः प्लातः | पथ्यास्वस्तिः | जगती}

स्व॒स्ति नः॑ पुत्रकृ॒थेषु॒ योनि॑षु स्व॒स्ति रा॒ये म॑रुतो दधातन ||{15/17}{10.63.15}{10.5.3.15}{8.2.5.5}{660, 900, 9458}

स्व॒स्ति¦नः॒¦प॒थ्या᳚सु¦धन्व॑ऽसु¦स्व॒स्ति¦अ॒प्ऽसु¦वृ॒जने᳚¦स्वः॑ऽवति |
स्व॒स्ति¦नः॒¦पु॒त्र॒ऽकृ॒थेषु॑¦योनि॑षु¦स्व॒स्ति¦रा॒ये¦म॒रु॒तः॒¦द॒धा॒त॒न॒ ||

स्व॒स्तिरिद्धि प्रप॑थे॒ श्रेष्ठा॒ रेक्ण॑स्वत्य॒भि या वा॒ममेति॑ |{गयः प्लातः | पथ्यास्वस्तिः | त्रिष्टुप्}

सा नो᳚, अ॒मा सो, अर॑णे॒ नि पा᳚तु स्वावे॒शा भ॑वतु दे॒वगो᳚पा ||{16/17}{10.63.16}{10.5.3.16}{8.2.5.6}{661, 900, 9459}

स्व॒स्तिः¦इत्¦हि¦प्रऽप॑थे¦श्रेष्ठा᳚¦रेक्ण॑स्वती¦अ॒भि¦या¦वा॒म‌म्¦एति॑ |
सा¦नः॒¦अ॒मा¦सो इति॑¦अर॑णे¦नि¦पा॒तु॒¦सु॒ऽआ॒वे॒शा¦भ॒व॒तु॒¦दे॒वऽगो᳚पा ||

ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या, अदिते मनी॒षी |{गयः प्लातः | विश्वदेवाः | त्रिष्टुप्}

ई॒शा॒नासो॒ नरो॒, अम॑र्त्ये॒नास्ता᳚वि॒ जनो᳚ दि॒व्यो गये᳚न ||{17/17}{10.63.17}{10.5.3.17}{8.2.5.7}{662, 900, 9460}

ए॒व¦प्ल॒तेः¦सू॒नुः¦अ॒वी॒वृ॒ध॒त्¦वः॒¦विश्वे᳚¦आ॒दि॒त्याः॒¦अ॒दि॒ते॒¦म॒नी॒षी |
ई॒शा॒नासः॑¦नरः॑¦अम॑र्त्येन¦अस्ता᳚वि¦जनः॑¦दि॒व्यः¦गये᳚न ||

[64] कथादेवानामिति सप्तदशर्चस्य सूक्तस्य गयःप्लातोविश्वेदेवाजगती द्वादशीषोडशीसप्तदृश्यस्त्रिष्टुभः ( भेदपक्षे - विश्वे - देवाः ४ आदित्यार्यमणः १ विश्वेदेवाः ३ नद्यः १ विश्वेदेवाः ४ द्यावापृथिव्यौ १ विश्वेदेवाः ३ एवं १७ ) |
क॒था दे॒वानां᳚ कत॒मस्य॒ याम॑नि सु॒मन्तु॒ नाम॑ शृण्व॒तां म॑नामहे |{गयः प्लातः | विश्वदेवाः | जगती}

को मृ॑ळाति कत॒मो नो॒ मय॑स्करत्कत॒म ऊ॒ती, अ॒भ्या व॑वर्तति ||{1/17}{10.64.1}{10.5.4.1}{8.2.6.1}{663, 901, 9461}

क॒था¦दे॒वाना᳚‌म्¦क॒त॒मस्य॑¦याम॑नि¦सु॒ऽमन्तु॑¦नाम॑¦शृ॒ण्व॒ता‌म्¦म॒ना॒म॒हे॒ |
कः¦मृ॒ळा॒ति॒¦क॒त॒मः¦नः॒¦मयः॑¦क॒र॒त्¦क॒त॒मः¦ऊ॒ती¦अ॒भि¦आ¦व॒व॒र्त॒ति॒ ||

क्र॒तू॒यन्ति॒ क्रत॑वो हृ॒त्सु धी॒तयो॒ वेन᳚न्ति वे॒नाः प॒तय॒न्त्या दिशः॑ |{गयः प्लातः | विश्वदेवाः | जगती}

न म॑र्डि॒ता वि॑द्यते, अ॒न्य ए᳚भ्यो दे॒वेषु॑ मे॒, अधि॒ कामा᳚, अयंसत ||{2/17}{10.64.2}{10.5.4.2}{8.2.6.2}{664, 901, 9462}

क्र॒तु॒ऽयन्ति॑¦क्रत॑वः¦हृ॒त्ऽसु¦धी॒तयः॑¦वेन᳚न्ति¦वे॒नाः¦प॒तय᳚न्ति¦आ¦दिशः॑ |
न¦म॒र्डि॒ता¦वि॒द्य॒ते॒¦अ॒न्यः¦ए॒भ्यः॒¦दे॒वेषु॑¦मे॒¦अधि॑¦कामाः᳚¦अ॒यं॒स॒त॒ ||

नरा᳚ वा॒ शंसं᳚ पू॒षण॒मगो᳚ह्यम॒ग्निं दे॒वेद्ध॑म॒भ्य॑र्चसे गि॒रा |{गयः प्लातः | विश्वदेवाः | जगती}

सूर्या॒मासा᳚ च॒न्द्रम॑सा य॒मं दि॒वि त्रि॒तं वात॑मु॒षस॑म॒क्तुम॒श्विना᳚ ||{3/17}{10.64.3}{10.5.4.3}{8.2.6.3}{665, 901, 9463}

नरा॒शंस᳚‌म्¦वा॒¦पू॒षण᳚‌म्¦अगो᳚ह्य‌म्¦अ॒ग्नि‌म्¦दे॒वऽ‌इ᳚द्ध‌म्¦अ॒भि¦अ॒र्च॒से॒¦गि॒रा |
सूर्या॒मासा᳚¦च॒न्द्रम॑सा¦य॒म‌म्¦दि॒वि¦त्रि॒त‌म्¦वात᳚‌म्¦उ॒षस᳚‌म्¦अ॒क्तु‌म्¦अ॒श्विना᳚ ||

क॒था क॒विस्तु॑वी॒रवा॒न्‌ कया᳚ गि॒रा बृह॒स्पति᳚र्वावृधते सुवृ॒क्तिभिः॑ |{गयः प्लातः | विश्वदेवाः | जगती}

अ॒ज एक॑पात्सु॒हवे᳚भि॒रृक्व॑भि॒रहिः॑ शृणोतु बु॒ध्न्यो॒३॑(ओ॒) हवी᳚मनि ||{4/17}{10.64.4}{10.5.4.4}{8.2.6.4}{666, 901, 9464}

क॒था¦क॒विः¦तु॒वि॒ऽरवा᳚न्¦कया᳚¦गि॒रा¦बृह॒स्पतिः॑¦व॒वृ॒ध॒ते॒¦सु॒वृ॒क्तिऽभिः॑ |
अ॒जः¦एक॑ऽपात्¦सु॒ऽहवे᳚भिः¦ऋक्व॑ऽभिः¦अहिः॑¦शृ॒णो॒तु॒¦बु॒ध्न्यः॑¦हवी᳚मनि ||

दक्ष॑स्य वादिते॒ जन्म॑नि व्र॒ते राजा᳚ना मि॒त्रावरु॒णा वि॑वाससि |{गयः प्लातः | विश्वदेवाः | जगती}

अतू᳚र्तपन्थाः पुरु॒रथो᳚, अर्य॒मा स॒प्तहो᳚ता॒ विषु॑रूपेषु॒ जन्म॑सु ||{5/17}{10.64.5}{10.5.4.5}{8.2.6.5}{667, 901, 9465}

दक्ष॑स्य¦वा॒¦अ॒दि॒ते॒¦जन्म॑नि¦व्र॒ते¦राजा᳚ना¦मि॒त्रावरु॑णा¦आ¦वि॒वा॒स॒सि॒ |
अतू᳚र्तऽपन्थाः¦पु॒रु॒ऽरथः॑¦अ॒र्य॒मा¦स॒प्तऽहो᳚ता¦विषु॑ऽरूपेषु¦जन्म॑ऽसु ||

ते नो॒, अर्व᳚न्तो हवन॒श्रुतो॒ हवं॒ विश्वे᳚ शृण्वन्तु वा॒जिनो᳚ मि॒तद्र॑वः |{गयः प्लातः | विश्वदेवाः | जगती}

स॒ह॒स्र॒सा मे॒धसा᳚ताविव॒ त्मना᳚ म॒हो ये धनं᳚ समि॒थेषु॑ जभ्रि॒रे ||{6/17}{10.64.6}{10.5.4.6}{8.2.7.1}{668, 901, 9466}

ते¦नः॒¦अर्व᳚न्तः¦ह॒व॒न॒ऽश्रुतः॑¦हव᳚‌म्¦विश्वे᳚¦शृ॒ण्व॒न्तु॒¦वा॒जिनः॑¦मि॒तऽद्र॑वः |
स॒ह॒स्र॒ऽसाः¦मे॒धसा᳚तौऽ‌इव¦त्मना᳚¦म॒हः¦ये¦धन᳚‌म्¦स॒‌म्ऽ‌इ॒थेषु॑¦ज॒भ्रि॒रे ||

प्र वो᳚ वा॒युं र॑थ॒युजं॒ पुरं᳚धिं॒ स्तोमैः᳚ कृणुध्वं स॒ख्याय॑ पू॒षण᳚म् |{गयः प्लातः | विश्वदेवाः | जगती}

ते हि दे॒वस्य॑ सवि॒तुः सवी᳚मनि॒ क्रतुं॒ सच᳚न्ते स॒चितः॒ सचे᳚तसः ||{7/17}{10.64.7}{10.5.4.7}{8.2.7.2}{669, 901, 9467}

प्र¦वः॒¦वा॒यु‌म्¦र॒थ॒ऽयुज᳚‌म्¦पुर᳚‌म्ऽधि‌म्¦स्तोमैः᳚¦कृ॒णु॒ध्व॒‌म्¦स॒ख्याय॑¦पू॒षण᳚‌म् |
ते¦हि¦दे॒वस्य॑¦स॒वि॒तुः¦सवी᳚मनि¦क्रतु᳚‌म्¦सच᳚न्ते¦स॒ऽचितः॑¦सऽचे᳚तसः ||

त्रिः स॒प्त स॒स्रा न॒द्यो᳚ म॒हीर॒पो वन॒स्पती॒न्‌ पर्व॑ताँ, अ॒ग्निमू॒तये᳚ |{गयः प्लातः | विश्वदेवाः | जगती}

कृ॒शानु॒मस्तॄ᳚न्ति॒ष्यं᳚ स॒धस्थ॒ आ रु॒द्रं रु॒द्रेषु॑ रु॒द्रियं᳚ हवामहे ||{8/17}{10.64.8}{10.5.4.8}{8.2.7.3}{670, 901, 9468}

त्रिः¦स॒प्त¦स॒स्राः¦न॒द्यः॑¦म॒हीः¦अ॒पः¦वन॒स्पती॒न्¦पर्व॑तान्¦अ॒ग्नि‌म्¦ऊ॒तये᳚ |
कृ॒शानु᳚‌म्¦अस्तॄ᳚न्¦ति॒ष्य᳚‌म्¦स॒धऽस्थे᳚¦आ¦रु॒द्र‌म्¦रु॒द्रेषु॑¦रु॒द्रिय᳚‌म्¦ह॒वा॒म॒हे॒ ||

सर॑स्वती स॒रयुः॒ सिन्धु॑रू॒र्मिभि᳚र्म॒हो म॒हीरव॒सा य᳚न्तु॒ वक्ष॑णीः |{गयः प्लातः | विश्वदेवाः | जगती}

दे॒वीरापो᳚ मा॒तरः॑ सूदयि॒त्न्वो᳚ घृ॒तव॒त्पयो॒ मधु॑मन्नो, अर्चत ||{9/17}{10.64.9}{10.5.4.9}{8.2.7.4}{671, 901, 9469}

सर॑स्वती¦स॒रयुः॑¦सिन्धुः॑¦ऊ॒र्मिऽभिः॑¦म॒हः¦म॒हीः¦अव॑सा¦आ¦य॒न्तु॒¦वक्ष॑णीः |
दे॒वीः¦आपः॑¦मा॒तरः॑¦सू॒द॒यि॒त्न्वः॑¦घृ॒तऽव॑त्¦पयः॑¦मधु॑ऽमत्¦नः॒¦अ॒र्च॒त॒ ||

उ॒त मा॒ता बृ॑हद्दि॒वा शृ॑णोतु न॒स्त्वष्टा᳚ दे॒वेभि॒र्जनि॑भिः पि॒ता वचः॑ |{गयः प्लातः | विश्वदेवाः | जगती}

ऋ॒भु॒क्षा वाजो॒ रथ॒स्पति॒र्भगो᳚ र॒ण्वः शंसः॑ शशमा॒नस्य॑ पातु नः ||{10/17}{10.64.10}{10.5.4.10}{8.2.7.5}{672, 901, 9470}

उ॒त¦मा॒ता¦बृ॒ह॒त्ऽदि॒वा¦शृ॒णो॒तु॒¦नः॒¦त्वष्टा᳚¦दे॒वेभिः॑¦जनि॑ऽभिः¦पिता᳚¦वचः॑ |
ऋ॒भु॒क्षाः¦वाजः॑¦रथः॒पतिः॑¦भगः॑¦र॒ण्वः¦शंसः॑¦श॒श॒मा॒नस्य॑¦पा॒तु॒¦नः॒ ||

र॒ण्वः संदृ॑ष्टौ पितु॒माँ, इ॑व॒ क्षयो᳚ भ॒द्रा रु॒द्राणां᳚ म॒रुता॒मुप॑स्तुतिः |{गयः प्लातः | विश्वदेवाः | जगती}

गोभिः॑ ष्याम य॒शसो॒ जने॒ष्वा सदा᳚ देवास॒ इळ॑या सचेमहि ||{11/17}{10.64.11}{10.5.4.11}{8.2.8.1}{673, 901, 9471}

र॒ण्वः¦स‌म्ऽदृ॑ष्टौ¦पि॒तु॒मान्ऽ‌इ᳚व¦क्षयः॑¦भ॒द्रा¦रु॒द्राणा᳚‌म्¦म॒रुता᳚‌म्¦उप॑ऽस्तुतिः |
गोभिः॑¦स्या॒म॒¦य॒शसः॑¦जने᳚षु¦आ¦सदा᳚¦दे॒वा॒सः॒¦इळ॑या¦स॒चे॒म॒हि॒ ||

यां मे॒ धियं॒ मरु॑त॒ इन्द्र॒ देवा॒, अद॑दात वरुण मित्र यू॒यम् |{गयः प्लातः | विश्वदेवाः | त्रिष्टुप्}

तां पी᳚पयत॒ पय॑सेव धे॒नुं कु॒विद्गिरो॒, अधि॒ रथे॒ वहा᳚थ ||{12/17}{10.64.12}{10.5.4.12}{8.2.8.2}{674, 901, 9472}

य‌म्¦मे॒¦धिय᳚‌म्¦मरु॑तः¦इन्द्र॑¦देवाः᳚¦अद॑दात¦व॒रु॒ण॒¦मि॒त्र॒¦यू॒य‌म् |
ता‌म्¦पी॒प॒य॒त॒¦पय॑साऽ‌इव¦धे॒नु‌म्¦कु॒वित्¦गिरः॑¦अधि॑¦रथे᳚¦वहा᳚थ ||

कु॒विद॒ङ्ग प्रति॒ यथा᳚ चिद॒स्य नः॑ सजा॒त्य॑स्य मरुतो॒ बुबो᳚धथ |{गयः प्लातः | विश्वदेवाः | जगती}

नाभा॒ यत्र॑ प्रथ॒मं सं॒नसा᳚महे॒ तत्र॑ जामि॒त्वमदि॑तिर्दधातु नः ||{13/17}{10.64.13}{10.5.4.13}{8.2.8.3}{675, 901, 9473}

कु॒वित्¦अ॒ङ्ग¦प्रति॑¦यथा᳚¦चि॒त्¦अ॒स्य¦नः॒¦स॒ऽजा॒त्य॑स्य¦म॒रु॒तः॒¦बुबो᳚धथ |
नाभा᳚¦यत्र॑¦प्र॒थ॒म‌म्¦स॒‌म्ऽनसा᳚महे¦तत्र॑¦जा॒मि॒ऽत्व‌म्¦अदि॑तिः¦द॒धा॒तु॒¦नः॒ ||

ते हि द्यावा᳚पृथि॒वी मा॒तरा᳚ म॒ही दे॒वी दे॒वाञ्जन्म॑ना य॒ज्ञिये᳚, इ॒तः |{गयः प्लातः | विश्वदेवाः | जगती}

उ॒भे बि॑भृत उ॒भयं॒ भरी᳚मभिः पु॒रू रेतां᳚सि पि॒तृभि॑श्च सिञ्चतः ||{14/17}{10.64.14}{10.5.4.14}{8.2.8.4}{676, 901, 9474}

ते इति॑¦हि¦द्यावा᳚पृथि॒वी इति॑¦मा॒तरा᳚¦म॒ही इति॑¦दे॒वी इति॑¦दे॒वान्¦जन्म॑ना¦य॒ज्ञिये॒ इति॑¦इ॒तः |
उ॒भे इति॑¦बि॒भृ॒तः॒¦उ॒भय᳚‌म्¦भरी᳚मऽभिः¦पु॒रु¦रेतां᳚सि¦पि॒तृऽभिः॑¦च॒¦सिं॒च॒तः॒ ||

वि षा होत्रा॒ विश्व॑मश्नोति॒ वार्यं॒ बृह॒स्पति॑र॒रम॑तिः॒ पनी᳚यसी |{गयः प्लातः | विश्वदेवाः | जगती}

ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते᳚ बृ॒हदवी᳚वशन्त म॒तिभि᳚र्मनी॒षिणः॑ ||{15/17}{10.64.15}{10.5.4.15}{8.2.8.5}{677, 901, 9475}

वि¦सा¦होत्रा᳚¦विश्व᳚‌म्¦अ॒श्नो॒ति॒¦वार्य᳚‌म्¦बृह॒स्पतिः॑¦अ॒रम॑तिः¦पनी᳚यसी |
ग्रावा᳚¦यत्र॑¦म॒धु॒ऽसुत्¦उ॒च्यते᳚¦बृ॒हत्¦अवी᳚वशन्त¦म॒तिऽभिः॑¦म॒नी॒षिणः॑ ||

ए॒वा क॒विस्तु॑वी॒रवाँ᳚, ऋत॒ज्ञा द्र॑विण॒स्युर्द्रवि॑णसश्चका॒नः |{गयः प्लातः | विश्वदेवाः | त्रिष्टुप्}

उ॒क्थेभि॒रत्र॑ म॒तिभि॑श्च॒ विप्रोऽपी᳚पय॒द्गयो᳚ दि॒व्यानि॒ जन्म॑ ||{16/17}{10.64.16}{10.5.4.16}{8.2.8.6}{678, 901, 9476}

ए॒व¦क॒विः¦तु॒वि॒ऽरवा᳚न्¦ऋ॒त॒ऽज्ञाः¦द्र॒वि॒ण॒स्युः¦द्रवि॑णसः¦च॒का॒नः |
उ॒क्थेभिः॑¦अत्र॑¦म॒तिऽभिः॑¦च॒¦विप्रः॑¦अपी᳚पयत्¦गयः॑¦दि॒व्यानि॑¦जन्म॑ ||

ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या, अदिते मनी॒षी |{गयः प्लातः | विश्वदेवाः | त्रिष्टुप्}

ई॒शा॒नासो॒ नरो॒, अम॑र्त्ये॒नास्ता᳚वि॒ जनो᳚ दि॒व्यो गये᳚न ||{17/17}{10.64.17}{10.5.4.17}{8.2.8.7}{679, 901, 9477}

ए॒व¦प्ल॒तेः¦सू॒नुः¦अ॒वी॒वृ॒ध॒त्¦वः॒¦विश्वे᳚¦आ॒दि॒त्याः॒¦अ॒दि॒ते॒¦म॒नी॒षी |
ई॒शा॒नासः॑¦नरः॑¦अम॑र्त्येन¦अस्ता᳚वि¦जनः॑¦दि॒व्यः¦गये᳚न ||

[65] अग्निरिंद्रइति पंचदशर्चस्य सूक्तस्य वासुक्रोव सुकर्णो विश्वेदेवाजगत्यंव्यात्रिष्टुप् | ( भेदपक्षे –विश्वेदेवाः ४ मित्रावरुणौ १ गौः१ विश्वेदेवाः १ द्यावापृथिव्यौ १ विश्वेदेवाः ३ अश्विनौ १ विश्वेदेवाः ३ एवं १५ ) |
अ॒ग्निरिन्द्रो॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा वा॒युः पू॒षा सर॑स्वती स॒जोष॑सः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

आ॒दि॒त्या विष्णु᳚र्म॒रुतः॒ स्व॑र्बृ॒हत्सोमो᳚ रु॒द्रो, अदि॑ति॒र्ब्रह्म॑ण॒स्पतिः॑ ||{1/15}{10.65.1}{10.5.5.1}{8.2.9.1}{680, 902, 9478}

अ॒ग्निः¦इन्द्रः॑¦वरु॑णः¦मि॒त्रः¦आ॒र्य॒मा¦वा॒युः¦पू॒षा¦सर॑स्वती¦स॒ऽजोष॑सः |
आ॒दि॒त्याः¦विष्णुः॑¦म॒रुतः॑¦स्वः॑¦बृ॒हत्¦सोमः॑¦रु॒द्रः¦अदि॑तिः¦ब्रह्म॑णः¦पतिः॑ ||

इ॒न्द्रा॒ग्नी वृ॑त्र॒हत्ये᳚षु॒ सत्प॑ती मि॒थो हि᳚न्वा॒ना त॒न्वा॒३॑(आ॒) समो᳚कसा |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

अ॒न्तरि॑क्षं॒ मह्या प॑प्रु॒रोज॑सा॒ सोमो᳚ घृत॒श्रीर्म॑हि॒मान॑मी॒रय॑न् ||{2/15}{10.65.2}{10.5.5.2}{8.2.9.2}{681, 902, 9479}

इ॒न्द्रा॒ग्नी इति॑¦वृ॒त्र॒ऽहत्ये᳚षु¦सत्प॑ती॒ इति॒ सत्ऽप॑ती¦मि॒थः¦हि॒न्वा॒ना¦त॒न्वा᳚¦स‌म्ऽओ᳚कसा |
अ॒न्तरि॑क्ष‌म्¦महि॑¦आ¦प॒प्रुः॒¦ओज॑सा¦सोमः॑¦घृ॒त॒ऽश्रीः¦म॒हि॒मान᳚‌म्¦ई॒रय॑न् ||

तेषां॒ हि म॒ह्ना म॑ह॒ताम॑न॒र्वणां॒ स्तोमाँ॒, इय᳚र्म्यृत॒ज्ञा, ऋ॑ता॒वृधा᳚म् |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

ये, अ॑प्स॒वम᳚र्ण॒वं चि॒त्ररा᳚धस॒स्ते नो᳚ रासन्तां म॒हये᳚ सुमि॒त्र्याः ||{3/15}{10.65.3}{10.5.5.3}{8.2.9.3}{682, 902, 9480}

तेषा᳚‌म्¦हि¦म॒ह्ना¦मा॒ह॒ता‌म्¦अ॒न॒र्वणा᳚‌म्¦स्तोमा᳚न्¦इय᳚र्मि¦ऋ॒त॒ऽज्ञाः¦ऋ॒त॒ऽवृधा᳚‌म् |
ये¦अ॒प्स॒व‌म्¦अ॒र्ण॒व‌म्¦चि॒त्रऽरा᳚धसः¦ते¦नः॒¦रा॒स॒न्ता॒‌म्¦म॒हये᳚¦सु॒ऽमि॒त्र्याः ||

स्व᳚र्णरम॒न्तरि॑क्षाणि रोच॒ना द्यावा॒भूमी᳚ पृथि॒वीं स्क᳚म्भु॒रोज॑सा |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

पृ॒क्षा, इ॑व म॒हय᳚न्तः सुरा॒तयो᳚ दे॒वाः स्त॑वन्ते॒ मनु॑षाय सू॒रयः॑ ||{4/15}{10.65.4}{10.5.5.4}{8.2.9.4}{683, 902, 9481}

स्वः॑ऽनर‌म्¦अ॒न्तरि॑क्षाणि¦रो॒च॒ना¦द्यावा॒भूमी॒ इति॑¦पृ॒थि॒वी‌म्¦स्क॒म्भुः॒¦ओज॑सा |
पृ॒क्षाःऽ‌इ᳚व¦म॒हय᳚न्तः¦सु॒ऽरा॒तयः॑¦दे॒वाः¦स्त॒व॒न्ते॒¦मनु॑षाय¦सू॒रयः॑ ||

मि॒त्राय॑ शिक्ष॒ वरु॑णाय दा॒शुषे॒ या स॒म्राजा॒ मन॑सा॒ न प्र॒युच्छ॑तः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

ययो॒र्धाम॒ धर्म॑णा॒ रोच॑ते बृ॒हद्ययो᳚रु॒भे रोद॑सी॒ नाध॑सी॒ वृतौ᳚ ||{5/15}{10.65.5}{10.5.5.5}{8.2.9.5}{684, 902, 9482}

मि॒त्राय॑¦शि॒क्ष॒¦वरु॑णाय¦दा॒शुषे᳚¦या¦स॒‌म्ऽराजा᳚¦मन॑सा¦न¦प्र॒ऽयुच्छ॑तः |
ययोः᳚¦धाम॑¦धर्म॑णा¦रोच॑ते¦बृ॒हत्¦ययोः᳚¦उ॒भे इति॑¦रोद॑सी॒ इति॑¦नाध॑सी॒ इति॑¦वृतौ᳚ ||

या गौर्व॑र्त॒निं प॒र्येति॑ निष्कृ॒तं पयो॒ दुहा᳚ना व्रत॒नीर॑वा॒रतः॑ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

सा प्र॑ब्रुवा॒णा वरु॑णाय दा॒शुषे᳚ दे॒वेभ्यो᳚ दाशद्ध॒विषा᳚ वि॒वस्व॑ते ||{6/15}{10.65.6}{10.5.5.6}{8.2.10.1}{685, 902, 9483}

या¦गौः¦व॒र्त॒नि‌म्¦प॒रि॒ऽएति॑¦निः॒ऽकृ॒त‌म्¦पयः॑¦दुहा᳚ना¦व्र॒त॒ऽनीः¦अ॒वा॒रतः॑ |
सा¦प्र॒ऽब्रु॒वा॒णा¦वरु॑णाय¦दा॒शुषे᳚¦दे॒वेभ्यः॑¦दा॒श॒त्¦ह॒विषा᳚¦वि॒वस्व॑ते ||

दि॒वक्ष॑सो, अग्निजि॒ह्वा, ऋ॑ता॒वृध॑ ऋ॒तस्य॒ योनिं᳚ विमृ॒शन्त॑ आसते |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

द्यां स्क॑भि॒त्व्य१॑(अ॒)प आ च॑क्रु॒रोज॑सा य॒ज्ञं ज॑नि॒त्वी त॒न्वी॒३॑(ई॒) नि मा᳚मृजुः ||{7/15}{10.65.7}{10.5.5.7}{8.2.10.2}{686, 902, 9484}

दि॒वक्ष॑सः¦अ॒ग्नि॒ऽजि॒ह्वाः¦ऋ॒त॒ऽवृधः॑¦ऋ॒तस्य॑¦योनि᳚‌म्¦वि॒ऽमृ॒शन्तः॑¦आ॒स॒ते॒ |
द्या‌म्¦स्क॒भि॒त्वी¦अ॒पः¦आ¦च॒क्रुः॒¦ओज॑सा¦य॒ज्ञ‌म्¦ज॒नि॒त्वी¦त॒न्वि॑¦नि¦म॒मृ॒जुः॒ ||

प॒रि॒क्षिता᳚ पि॒तरा᳚ पूर्व॒जाव॑री, ऋ॒तस्य॒ योना᳚ क्षयतः॒ समो᳚कसा |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

द्यावा᳚पृथि॒वी वरु॑णाय॒ सव्र॑ते घृ॒तव॒त्पयो᳚ महि॒षाय॑ पिन्वतः ||{8/15}{10.65.8}{10.5.5.8}{8.2.10.3}{687, 902, 9485}

प॒रि॒ऽक्षिता᳚¦पि॒तरा᳚¦पू॒र्व॒जाव॑री॒ इति॑ पूर्व॒ऽजाव॑री¦ऋ॒तस्य॑¦योना᳚¦क्ष॒य॒तः॒¦स‌म्ऽओ᳚कसा |
द्यावा᳚पृथि॒वी इति॑¦वरु॑णाय¦सव्र॑ते॒ इति॒ सऽव्र॑ते¦घृ॒तऽव॑त्¦पयः॑¦म॒हि॒षाय॑¦पि॒न्व॒तः॒ ||

प॒र्जन्या॒वाता᳚ वृष॒भा पु॑री॒षिणे᳚न्द्रवा॒यू वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

दे॒वाँ, आ᳚दि॒त्याँ, अदि॑तिं हवामहे॒ ये पार्थि॑वासो दि॒व्यासो᳚, अ॒प्सु ये ||{9/15}{10.65.9}{10.5.5.9}{8.2.10.4}{688, 902, 9486}

प॒र्जन्या॒वाता᳚¦वृ॒ष॒भा¦पु॒री॒षिणा᳚¦इ॒न्द्र॒वा॒यू इति॑¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा |
दे॒वान्¦आ॒दि॒त्यान्¦अदि॑ति‌म्¦ह॒वा॒म॒हे॒¦ये¦पार्थि॑वासः¦दि॒व्यासः॑¦अ॒प्ऽसु¦ये ||

त्वष्टा᳚रं वा॒युमृ॑भवो॒ य ओह॑ते॒ दैव्या॒ होता᳚रा, उ॒षसं᳚ स्व॒स्तये᳚ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

बृह॒स्पतिं᳚ वृत्रखा॒दं सु॑मे॒धस॑मिन्द्रि॒यं सोमं᳚ धन॒सा, उ॑ ईमहे ||{10/15}{10.65.10}{10.5.5.10}{8.2.10.5}{689, 902, 9487}

त्वष्टा᳚र‌म्¦वा॒यु‌म्¦ऋ॒भ॒वः॒¦यः¦ओह॑ते¦दैव्या᳚¦होता᳚रौ¦उ॒षस᳚‌म्¦स्व॒स्तये᳚ |
बृह॒स्पति᳚‌म्¦वृ॒त्र॒ऽखा॒द‌म्¦सु॒ऽमे॒धस᳚‌म्¦इ॒न्द्रि॒य‌म्¦सोम᳚‌म्¦ध॒न॒ऽसाः¦ऊँ॒ इति॑¦ई॒म॒हे॒ ||

ब्रह्म॒ गामश्वं᳚ ज॒नय᳚न्त॒ ओष॑धी॒र्वन॒स्पती᳚न्‌ पृथि॒वीं पर्व॑ताँ, अ॒पः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

सूर्यं᳚ दि॒वि रो॒हय᳚न्तः सु॒दान॑व॒ आर्या᳚ व्र॒ता वि॑सृ॒जन्तो॒, अधि॒ क्षमि॑ ||{11/15}{10.65.11}{10.5.5.11}{8.2.11.1}{690, 902, 9488}

ब्रह्म॑¦गा‌म्¦अश्व᳚‌म्¦ज॒नय᳚न्तः¦ओष॑धीः¦वन॒स्पती᳚न्¦पृ॒थि॒वी‌म्¦पर्व॑तान्¦अ॒पः |
सूर्य॑¦दि॒वि¦रो॒हय᳚न्तः¦सु॒ऽदान॑वः¦आर्या᳚¦व्र॒ता¦वि॒ऽसृ॒जन्तः॑¦अधि॑¦क्षमि॑ ||

भु॒ज्युमंह॑सः पिपृथो॒ निर॑श्विना॒ श्यावं᳚ पु॒त्रं व॑ध्रिम॒त्या, अ॑जिन्वतम् |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

क॒म॒द्युवं᳚ विम॒दायो᳚हथुर्यु॒वं वि॑ष्णा॒प्व१॑(अं॒) विश्व॑का॒याव॑ सृजथः ||{12/15}{10.65.12}{10.5.5.12}{8.2.11.2}{691, 902, 9489}

भु॒ज्यु‌म्¦अंह॑सः¦पि॒पृ॒थः॒¦निः¦अ॒श्वि॒ना॒¦श्याव᳚‌म्¦पु॒त्र‌म्¦व॒ध्रि॒ऽम॒त्याः¦अ॒जि॒न्व॒त॒‌म् |
क॒म॒ऽद्युव᳚‌म्¦वि॒ऽम॒दाय॑¦ऊ॒ह॒थुः॒¦यु॒व‌म्¦वि॒ष्णा॒प्व᳚‌म्¦विश्व॑काय¦अव॑¦सृ॒ज॒थः॒ ||

पावी᳚रवी तन्य॒तुरेक॑पाद॒जो दि॒वो ध॒र्ता सिन्धु॒रापः॑ समु॒द्रियः॑ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

विश्वे᳚ दे॒वासः॑ शृणव॒न्वचां᳚सि मे॒ सर॑स्वती स॒ह धी॒भिः पुरं᳚ध्या ||{13/15}{10.65.13}{10.5.5.13}{8.2.11.3}{692, 902, 9490}

पावी᳚रवी¦त॒न्य॒तुः¦एक॑ऽपात्¦अ॒जः¦दि॒वः¦ध॒र्ता¦सिन्धुः॑¦आपः॑¦स॒मु॒द्रियः॑ |
विश्वे᳚¦दे॒वासः॑¦शृ॒ण॒व॒न्¦वचां᳚सि¦मे॒¦सर॑स्वती¦स॒ह¦धी॒भिः¦पुर᳚‌म्ऽध्या ||

विश्वे᳚ दे॒वाः स॒ह धी॒भिः पुरं᳚ध्या॒ मनो॒र्यज॑त्रा, अ॒मृता᳚ ऋत॒ज्ञाः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

रा॒ति॒षाचो᳚, अभि॒षाचः॑ स्व॒र्विदः॒ स्व१॑(अ॒)र्गिरो॒ ब्रह्म॑ सू॒क्तं जु॑षेरत ||{14/15}{10.65.14}{10.5.5.14}{8.2.11.4}{693, 902, 9491}

विश्वे᳚¦दे॒वाः¦स॒ह¦धी॒भिः¦पुर᳚‌म्ऽध्या¦मनोः᳚¦यज॑त्राः¦अ॒मृताः᳚¦ऋ॒त॒ऽज्ञाः |
रा॒ति॒ऽसाचः॑¦अ॒भि॒ऽसाचः॑¦स्वः॒ऽविदः॑¦स्वः॑¦गिरः॑¦ब्रह्म॑¦सु॒।औ॒क्त‌म्¦जु॒षे॒र॒त॒ ||

दे॒वान्‌ वसि॑ष्ठो, अ॒मृता᳚न्ववन्दे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः |{वसुकर्णो वासुक्रः | विश्वदेवाः | त्रिष्टुप्}

ते नो᳚ रासन्तामुरुगा॒यम॒द्य यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{15/15}{10.65.15}{10.5.5.15}{8.2.11.5}{694, 902, 9492}

दे॒वान्¦वसि॑ष्ठः¦अ॒मृता᳚न्¦व॒व॒न्दे॒¦ये¦विश्वा᳚¦भुव॑ना¦अ॒भि¦प्र॒ऽत॒स्थुः |
ते¦नः॒¦रा॒स॒न्ता॒‌म्¦उ॒रु॒ऽगा॒य‌म्¦अ॒द्य¦यू॒य‌म्¦पा॒त॒¦स्व॒स्तिऽभिः॑¦सदा᳚¦नः॒ ||

[66] देवान्हुवइति पंचदशर्चस्य सूक्तस्य वासुक्रोवसुकर्णो विश्वेदेवाजगत्यंत्यात्रिष्टुप् (पक्षे-विश्वेदेवाः ६ अग्नीषोमौ १ विश्वेदेवाः ८ एवं १५) |
दे॒वान्‌ हु॑वे बृ॒हच्छ्र॑वसः स्व॒स्तये᳚ ज्योति॒ष्कृतो᳚, अध्व॒रस्य॒ प्रचे᳚तसः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

ये वा᳚वृ॒धुः प्र॑त॒रं वि॒श्ववे᳚दस॒ इन्द्र॑ज्येष्ठासो, अ॒मृता᳚ ऋता॒वृधः॑ ||{1/15}{10.66.1}{10.5.6.1}{8.2.12.1}{695, 903, 9493}

दे॒वान्¦हु॒वे॒¦बृ॒हत्ऽश्र॑वसः¦स्व॒स्तये᳚¦ज्यो॒तिः॒ऽकृतः॑¦अ॒ध्व॒रस्य॑¦प्रऽचे᳚तसः |
ये¦व॒वृ॒धुः¦प्र॒ऽत॒र‌म्¦वि॒श्वऽवे᳚दसः¦इन्द्र॑ऽज्येष्ठासः¦अ॒मृताः᳚¦ऋ॒त॒ऽवृधः॑ ||

इन्द्र॑प्रसूता॒ वरु॑णप्रशिष्टा॒ ये सूर्य॑स्य॒ ज्योति॑षो भा॒गमा᳚न॒शुः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

म॒रुद्ग॑णे वृ॒जने॒ मन्म॑ धीमहि॒ माघो᳚ने य॒ज्ञं ज॑नयन्त सू॒रयः॑ ||{2/15}{10.66.2}{10.5.6.2}{8.2.12.2}{696, 903, 9494}

इन्द्र॑ऽप्रसूताः¦वरु॑णऽप्रशिष्टाः¦ये¦सूर्य॑स्य¦ज्योति॑षः¦भा॒ग‌म्¦आ॒न॒शुः |
म॒रुत्ऽग॑णे¦वृ॒जने᳚¦मन्म॑¦धी॒म॒हि॒¦माघो᳚ने¦य॒ज्ञ‌म्¦ज॒न॒य॒न्त॒¦सू॒रयः॑ ||

इन्द्रो॒ वसु॑भिः॒ परि॑ पातु नो॒ गय॑मादि॒त्यैर्नो॒, अदि॑तिः॒ शर्म॑ यच्छतु |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

रु॒द्रो रु॒द्रेभि॑र्दे॒वो मृ॑ळयाति न॒स्त्वष्टा᳚ नो॒ ग्नाभिः॑ सुवि॒ताय॑ जिन्वतु ||{3/15}{10.66.3}{10.5.6.3}{8.2.12.3}{697, 903, 9495}

इन्द्रः॑¦वसु॑ऽभिः¦परि॑¦पा॒तु॒¦नः॒¦गय᳚‌म्¦आ॒दि॒त्यैः¦नः॒¦अदि॑तिः¦शर्म॑¦य॒च्छ॒तु॒ |
रु॒द्रः¦रु॒द्रेभिः॑¦दे॒वः¦मृ॒ळ॒या॒ति॒¦नः॒¦त्वष्टा᳚¦नः॒¦ग्नाभिः॑¦सु॒वि॒ताय॑¦जि॒न्व॒तु॒ ||

अदि॑ति॒र्द्यावा᳚पृथि॒वी, ऋ॒तं म॒हदिन्द्रा॒विष्णू᳚ म॒रुतः॒ स्व॑र्बृ॒हत् |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

दे॒वाँ, आ᳚दि॒त्याँ, अव॑से हवामहे॒ वसू᳚न्‌ रु॒द्रान्‌ त्स॑वि॒तारं᳚ सु॒दंस॑सम् ||{4/15}{10.66.4}{10.5.6.4}{8.2.12.4}{698, 903, 9496}

अदि॑तिः¦द्यावा᳚पृथि॒वी इति॑¦ऋ॒त‌म्¦म॒हत्¦इन्द्रा॒विष्णू॒ इति॑¦म॒रुतः॒¦स्वः॑¦बृ॒हत् |
दे॒वान्¦आ॒दि॒त्यान्¦अव॑से¦ह॒वा॒म॒हे॒¦वसू᳚न्¦रु॒द्रान्¦स॒वि॒तार᳚‌म्¦सु॒ऽदंस॑स‌म् ||

सर॑स्वान्धी॒भिर्वरु॑णो धृ॒तव्र॑तः पू॒षा विष्णु᳚र्महि॒मा वा॒युर॒श्विना᳚ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

ब्र॒ह्म॒कृतो᳚, अ॒मृता᳚ वि॒श्ववे᳚दसः॒ शर्म॑ नो यंसन्त्रि॒वरू᳚थ॒मंह॑सः ||{5/15}{10.66.5}{10.5.6.5}{8.2.12.5}{699, 903, 9497}

सर॑स्वान्¦धी॒भिः¦वरु॑णः¦धृ॒तऽव्र॑तः¦पू॒षा¦विष्णुः॑¦म॒हि॒मा¦वा॒युः¦अ॒श्विना᳚ |
ब्र॒ह्म॒ऽकृतः॑¦अ॒मृताः᳚¦वि॒श्वऽवे᳚दसः¦शर्म॑¦नः॒¦यं॒स॒न्¦त्रि॒ऽवरू᳚थ‌म्¦अंह॑सः ||

वृषा᳚ य॒ज्ञो वृष॑णः सन्तु य॒ज्ञिया॒ वृष॑णो दे॒वा वृष॑णो हवि॒ष्कृतः॑ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

वृष॑णा॒ द्यावा᳚पृथि॒वी, ऋ॒ताव॑री॒ वृषा᳚ प॒र्जन्यो॒ वृष॑णो वृष॒स्तुभः॑ ||{6/15}{10.66.6}{10.5.6.6}{8.2.13.1}{700, 903, 9498}

वृषा᳚¦य॒ज्ञः¦वृष॑णः¦स॒न्तु॒¦य॒ज्ञियाः᳚¦वृष॑णः¦दे॒वाः¦वृष॑णः¦ह॒विः॒ऽकृतः॑ |
वृष॑णा¦द्यावा᳚पृथि॒वी इति॑¦ऋ॒तव॑री॒ इत्यृ॒तऽव॑री¦वृषा᳚¦प॒र्जन्यः॑¦वृष॑णः¦वृ॒ष॒ऽस्तुभः॑ ||

अ॒ग्नीषोमा॒ वृष॑णा॒ वाज॑सातये पुरुप्रश॒स्ता वृष॑णा॒, उप॑ ब्रुवे |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

यावी᳚जि॒रे वृष॑णो देवय॒ज्यया॒ ता नः॒ शर्म॑ त्रि॒वरू᳚थं॒ वि यं᳚सतः ||{7/15}{10.66.7}{10.5.6.7}{8.2.13.2}{701, 903, 9499}

अ॒ग्नीषोमा᳚¦वृष॑णा¦वाज॑ऽसातये¦पु॒रु॒ऽप्र॒श॒स्ता¦वृष॑णौ¦उप॑¦ब्रु॒वे॒ |
यौ¦ई॒जि॒रे¦वृष॑णः¦दे॒व॒ऽय॒ज्यया᳚¦ता¦नः॒¦शर्म॑¦त्रि॒ऽवरू᳚थ‌म्¦वि¦यां॒स॒तः॒ ||

धृ॒तव्र॑ताः, क्ष॒त्रिया᳚ यज्ञनि॒ष्कृतो᳚ बृहद्दि॒वा, अ॑ध्व॒राणा᳚मभि॒श्रियः॑ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

अ॒ग्निहो᳚तार ऋत॒सापो᳚, अ॒द्रुहो॒ऽपो, अ॑सृज॒न्ननु॑ वृत्र॒तूर्ये᳚ ||{8/15}{10.66.8}{10.5.6.8}{8.2.13.3}{702, 903, 9500}

धृ॒तऽव्र॑ताः¦क्ष॒त्रियाः᳚¦य॒ज्ञ॒निः॒ऽकृतः॑¦बृ॒ह॒त्ऽदि॒वाः¦अ॒ध्व॒राणा᳚‌म्¦अ॒भि॒ऽश्रियः॑ |
अ॒ग्निऽहो᳚तारः¦ऋ॒त॒ऽसापः॑¦अ॒द्रुहः॑¦अ॒पः¦अ॒सृज॒न्¦अनु॑¦वृ॒त्र॒ऽतूर्ये᳚ ||

द्यावा᳚पृथि॒वी ज॑नयन्न॒भि व्र॒ताप॒ ओष॑धीर्व॒निना᳚नि य॒ज्ञिया᳚ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

अ॒न्तरि॑क्षं॒ स्व१॑(अ॒)रा प॑प्रुरू॒तये॒ वशं᳚ दे॒वास॑स्त॒न्वी॒३॑(ई॒) नि मा᳚मृजुः ||{9/15}{10.66.9}{10.5.6.9}{8.2.13.4}{703, 903, 9501}

द्यावा᳚पृथि॒वी इति॑¦ज॒न॒य॒न्¦अ॒भि¦व्र॒ता¦आपः॑¦ओष॑धीः¦व॒निना᳚नि¦य॒ज्ञिया᳚ |
अ॒न्तरि॑क्ष‌म्¦स्वः॑¦आ¦प॒प्रुः॒¦ऊ॒तये᳚¦वश᳚‌म्¦दे॒वासः॑¦त॒न्वि॑¦नि¦म॒मृ॒जुः॒ ||

ध॒र्तारो᳚ दि॒व ऋ॒भवः॑ सु॒हस्ता᳚ वातापर्ज॒न्या म॑हि॒षस्य॑ तन्य॒तोः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

आप॒ ओष॑धीः॒ प्र ति॑रन्तु नो॒ गिरो॒ भगो᳚ रा॒तिर्वा॒जिनो᳚ यन्तु मे॒ हव᳚म् ||{10/15}{10.66.10}{10.5.6.10}{8.2.13.5}{704, 903, 9502}

ध॒र्तारः॑¦दि॒वः¦ऋ॒भवः॑¦सु॒ऽहस्ताः᳚¦वा॒ता॒प॒र्ज॒न्या¦म॒हि॒षस्य॑¦त॒न्य॒तोः |
आपः॑¦ओष॑धीः¦प्र¦ति॒र॒न्तु॒¦नः॒¦गिरः॒¦भगः॑¦रा॒तिः¦वा॒जिनः॑¦य॒न्तु॒¦मे॒¦हव᳚‌म् ||

स॒मु॒द्रः सिन्धू॒ रजो᳚, अ॒न्तरि॑क्षम॒ज एक॑पात्तनयि॒त्नुर᳚र्ण॒वः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

अहि॑र्बु॒ध्न्यः॑ शृणव॒द्वचां᳚सि मे॒ विश्वे᳚ दे॒वास॑ उ॒त सू॒रयो॒ मम॑ ||{11/15}{10.66.11}{10.5.6.11}{8.2.14.1}{705, 903, 9503}

स॒मु॒द्रः¦सिन्धुः॑¦रजः॑¦अ॒न्तरि॑क्ष‌म्¦अ॒जः¦एक॑ऽपात्¦त॒न॒यि॒त्नुः¦अ॒र्ण॒वः |
अहिः॑¦बु॒ध्न्यः॑¦शृ॒ण॒व॒त्¦वचां᳚सि¦मे॒¦विश्वे᳚¦दे॒वासः॑¦उ॒त¦सू॒रयः॑¦मम॑ ||

स्याम॑ वो॒ मन॑वो दे॒ववी᳚तये॒ प्राञ्चं᳚ नो य॒ज्ञं प्र ण॑यत साधु॒या |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

आदि॑त्या॒ रुद्रा॒ वस॑वः॒ सुदा᳚नव इ॒मा ब्रह्म॑ श॒स्यमा᳚नानि जिन्वत ||{12/15}{10.66.12}{10.5.6.12}{8.2.14.2}{706, 903, 9504}

स्याम॑¦वः॒¦मन॑वः¦दे॒वऽवी᳚तये¦प्रांच᳚‌म्¦नः॒¦य॒ज्ञ‌म्¦प्र¦न॒य॒त॒¦सा॒धु॒ऽया |
आदि॑त्याः¦रुद्राः᳚¦वस॑वः¦सुऽदा᳚नवः¦इ॒मा¦ब्रह्म॑¦श॒स्यमा᳚नानि¦जि॒न्व॒त॒ ||

दैव्या॒ होता᳚रा प्रथ॒मा पु॒रोहि॑त ऋ॒तस्य॒ पन्था॒मन्वे᳚मि साधु॒या |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

क्षेत्र॑स्य॒ पतिं॒ प्रति॑वेशमीमहे॒ विश्वा᳚न्दे॒वाँ, अ॒मृताँ॒, अप्र॑युच्छतः ||{13/15}{10.66.13}{10.5.6.13}{8.2.14.3}{707, 903, 9505}

दैव्या᳚¦होता᳚रा¦प्र॒थ॒मा¦पु॒रःऽहि॑ता¦ऋ॒तस्य॑¦पन्था᳚‌म्¦अनु॑¦ए॒मि॒¦सा॒धु॒ऽया |
क्षेत्र॑स्य¦पति᳚‌म्¦प्रति॑ऽवेश‌म्¦ई॒म॒हे॒¦विश्वा᳚न्¦दे॒वान्¦अ॒मृता᳚न्¦अप्र॑ऽयुच्छतः ||

वसि॑ष्ठासः पितृ॒वद्वाच॑मक्रत दे॒वाँ, ईळा᳚ना, ऋषि॒वत्स्व॒स्तये᳚ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

प्री॒ता, इ॑व ज्ञा॒तयः॒ काम॒मेत्या॒स्मे दे᳚वा॒सोऽव॑ धूनुता॒ वसु॑ ||{14/15}{10.66.14}{10.5.6.14}{8.2.14.4}{708, 903, 9506}

वसि॑ष्ठासः¦पि॒तृ॒ऽवत्¦वाच᳚‌म्¦अ॒क्र॒त॒¦दे॒वान्¦ईळा᳚नाः¦ऋ॒षि॒ऽवत्¦स्व॒स्तये᳚ |
प्री॒ताःऽ‌इ᳚व¦ज्ञा॒तयः॑¦काम᳚‌म्¦आ॒ऽ‌इत्य॑¦अ॒स्मे इति॑¦दे॒वा॒सः¦अव॑¦धू॒नु॒त॒¦वसु॑ ||

दे॒वान्‌ वसि॑ष्ठो, अ॒मृता᳚न्ववन्दे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः |{वसुकर्णो वासुक्रः | विश्वदेवाः | त्रिष्टुप्}

ते नो᳚ रासन्तामुरुगा॒यम॒द्य यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{15/15}{10.66.15}{10.5.6.15}{8.2.14.5}{709, 903, 9507}

दे॒वान्¦वसि॑ष्ठः¦अ॒मृता᳚न्¦व॒व॒न्दे॒¦ये¦विश्वा᳚¦भुव॑ना¦अ॒भि¦प्र॒ऽत॒स्थुः |
ते¦नः॒¦रा॒स॒न्ता॒‌म्¦उ॒रु॒ऽगा॒य‌म्¦अ॒द्य¦यू॒य‌म्¦पा॒त॒¦स्व॒स्तिऽभिः॑¦सदा᳚¦नः॒ ||

[67] इमांधियमिति द्वादशर्चस्य सूक्तस्यांगिरसोऽयास्यो बृहस्पतिस्त्रिष्टुप् |
इ॒मां धियं᳚ स॒प्तशी᳚र्ष्णीं पि॒ता न॑ ऋ॒तप्र॑जातां बृह॒तीम॑विन्दत् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

तु॒रीयं᳚ स्विज्जनयद्वि॒श्वज᳚न्यो॒ऽयास्य॑ उ॒क्थमिन्द्रा᳚य॒ शंस॑न् ||{1/12}{10.67.1}{10.5.7.1}{8.2.15.1}{710, 904, 9508}

इ॒मा‌म्¦धिय᳚‌म्¦स॒प्तऽशी᳚र्ष्णी‌म्¦पि॒ता¦नः॒¦ऋ॒तऽप्र॑जाता‌म्¦बृ॒ह॒ती‌म्¦अ॒वि॒न्द॒त् |
तु॒रीय᳚‌म्¦स्वि॒त्¦ज॒न॒य॒त्¦वि॒श्वऽज᳚न्यः¦अ॒यास्यः॑¦उ॒क्थ‌म्¦इन्द्रा᳚य¦शंस॑न् ||

ऋ॒तं शंस᳚न्त ऋ॒जु दीध्या᳚ना दि॒वस्पु॒त्रासो॒, असु॑रस्य वी॒राः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

विप्रं᳚ प॒दमङ्गि॑रसो॒ दधा᳚ना य॒ज्ञस्य॒ धाम॑ प्रथ॒मं म॑नन्त ||{2/12}{10.67.2}{10.5.7.2}{8.2.15.2}{711, 904, 9509}

ऋ॒त‌म्¦शंस᳚न्तः¦ऋ॒जु¦दीध्या᳚नाः¦दि॒वः¦पु॒त्रासः॑¦असु॑रस्य¦वी॒राः |
विप्र᳚‌म्¦प॒द‌म्¦अङ्गि॑रसः¦दधा᳚नाः¦य॒ज्ञस्य॑¦धाम॑¦प्र॒थ॒म‌म्¦म॒न॒न्त॒ ||

हं॒सैरि॑व॒ सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया᳚नि॒ नह॑ना॒ व्यस्य॑न् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गा, उ॒त प्रास्तौ॒दुच्च॑ वि॒द्वाँ, अ॑गायत् ||{3/12}{10.67.3}{10.5.7.3}{8.2.15.3}{712, 904, 9510}

हं॒सैःऽ‌इ᳚व¦सखि॑ऽभिः¦वाव॑दत्ऽभिः¦अ॒श्म॒न्ऽमया᳚नि¦नह॑ना¦वि॒।आस्य॑न् |
बृह॒स्पतिः॑¦अ॒भि॒ऽकनि॑क्रदत्¦गाः¦उ॒त¦प्र¦अ॒स्तौ॒त्¦उत्¦च॒¦वि॒द्वान्¦अ॒गा॒य॒त् ||

अ॒वो द्वाभ्यां᳚ प॒र एक॑या॒ गा गुहा॒ तिष्ठ᳚न्ती॒रनृ॑तस्य॒ सेतौ᳚ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति॒स्तम॑सि॒ ज्योति॑रि॒च्छन्नुदु॒स्रा, आक॒र्वि हि ति॒स्र आवः॑ ||{4/12}{10.67.4}{10.5.7.4}{8.2.15.4}{713, 904, 9511}

अ॒वः¦द्वाभ्या᳚‌म्¦प॒रः¦एक॑या¦गाः¦गुहा᳚¦तिष्ठ᳚न्तीः¦अनृ॑तस्य¦सेतौ᳚ |
बृह॒स्पतिः॑¦तम॑सि¦ज्योतिः॑¦इ॒च्छन्¦उत्¦उ॒स्राः¦आ¦अ॒कः॒¦वि¦हि¦ति॒श्रः¦आव॒रित्यावः॑ ||

वि॒भिद्या॒ पुरं᳚ श॒यथे॒मपा᳚चीं॒ निस्त्रीणि॑ सा॒कमु॑द॒धेर॑कृन्तत् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति॑रु॒षसं॒ सूर्यं॒ गाम॒र्कं वि॑वेद स्त॒नय᳚न्निव॒ द्यौः ||{5/12}{10.67.5}{10.5.7.5}{8.2.15.5}{714, 904, 9512}

वि॒ऽभिद्य॑¦पुर᳚‌म्¦श॒यथा᳚¦ई॒‌म्¦अपा᳚ची‌म्¦निः¦त्रीणि॑¦सा॒क‌म्¦उ॒द॒ऽधेः¦अ॒कृ॒न्त॒त् |
बृह॒स्पतिः॑¦उ॒षस᳚‌म्¦सूर्य᳚‌म्¦गा‌म्¦अ॒र्क‌म्¦वि॒वे॒द॒¦स्त॒नय॑न्ऽ‌इव¦द्यौः ||

इन्द्रो᳚ व॒लं र॑क्षि॒तारं॒ दुघा᳚नां क॒रेणे᳚व॒ वि च॑कर्ता॒ रवे᳚ण |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

स्वेदा᳚ञ्जिभिरा॒शिर॑मि॒च्छमा॒नोऽरो᳚दयत्प॒णिमा गा, अ॑मुष्णात् ||{6/12}{10.67.6}{10.5.7.6}{8.2.15.6}{715, 904, 9513}

इन्द्रः॑¦व॒ल‌म्¦र॒क्षि॒तार᳚‌म्¦दुघा᳚ना‌म्¦क॒रेण॑ऽ‌इव¦वि¦च॒क॒र्त॒¦रवे᳚ण |
स्वेदां᳚जिऽभिः¦आ॒ऽशिर᳚‌म्¦इ॒च्छमा᳚नः¦अरो᳚दयत्¦प॒णि‌म्¦आ¦गाः¦अ॒मु॒ष्णा॒त् ||

स ईं᳚ स॒त्येभिः॒ सखि॑भिः शु॒चद्भि॒र्गोधा᳚यसं॒ वि ध॑न॒सैर॑दर्दः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहै᳚र्घ॒र्मस्वे᳚देभि॒र्द्रवि॑णं॒ व्या᳚नट् ||{7/12}{10.67.7}{10.5.7.7}{8.2.16.1}{716, 904, 9514}

सः¦ई॒‌म्¦स॒त्येभिः॑¦सखि॑ऽभिः¦शु॒चत्ऽभिः॑¦गोऽधा᳚यस‌म्¦वि¦ध॒न॒ऽसैः¦अ॒द॒र्द॒रित्य॑दर्दः |
ब्रह्म॑णः¦पतिः॑¦वृष॑ऽभिः¦व॒राहैः᳚¦घ॒र्मऽस्वे᳚देभिः¦द्रवि॑ण‌म्¦वि¦आ॒न॒ट् ||

ते स॒त्येन॒ मन॑सा॒ गोप॑तिं॒ गा, इ॑या॒नास॑ इषणयन्त धी॒भिः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति᳚र्मि॒थो,अ॑वद्यपेभि॒रुदु॒स्रिया᳚, असृजत स्व॒युग्भिः॑ ||{8/12}{10.67.8}{10.5.7.8}{8.2.16.2}{717, 904, 9515}

ते¦स॒त्येन॑¦मन॑सा¦गोऽप॑ति‌म्¦गाः¦इ॒या॒नासः॑¦इ॒ष॒ण॒य॒न्त॒¦धी॒भिः |
बृह॒स्पतिः॑¦मि॒थः।आ॑वद्यपेभिः¦उत्¦उ॒स्रियाः᳚¦अ॒सृ॒ज॒त॒¦स्व॒युक्ऽभिः॑ ||

तं व॒र्धय᳚न्तो म॒तिभिः॑ शि॒वाभिः॑ सिं॒हमि॑व॒ नान॑दतं स॒धस्थे᳚ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पतिं॒ वृष॑णं॒ शूर॑सातौ॒ भरे᳚भरे॒, अनु॑ मदेम जि॒ष्णुम् ||{9/12}{10.67.9}{10.5.7.9}{8.2.16.3}{718, 904, 9516}

त‌म्¦व॒र्धय᳚न्तः¦म॒तिऽभिः॑¦शि॒वाभिः॑¦सिं॒ह‌म्ऽ‌इ᳚व¦नान॑दत‌म्¦स॒धऽस्थे᳚ |
बृह॒स्पति॒‌म्¦वृष॑ण‌म्¦शूर॑ऽसातौ¦भरे᳚ऽभरे¦अनु॑¦म॒दे॒म॒¦जि॒ष्णु‌म् ||

य॒दा वाज॒मस॑नद्वि॒श्वरू᳚प॒मा द्यामरु॑क्ष॒दुत्त॑राणि॒ सद्म॑ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पतिं॒ वृष॑णं व॒र्धय᳚न्तो॒ नाना॒ सन्तो॒ बिभ्र॑तो॒ ज्योति॑रा॒सा ||{10/12}{10.67.10}{10.5.7.10}{8.2.16.4}{719, 904, 9517}

य॒दा¦वाज᳚‌म्¦अस॑नत्¦वि॒श्वऽरू᳚प‌म्¦आ¦द्या‌म्¦अरु॑क्षत्¦उत्ऽत॑राणि¦सद्म॑ |
बृह॒स्पति᳚‌म्¦वृष॑ण‌म्¦व॒र्धय᳚न्तः¦नाना᳚¦सन्तः॑¦बिभ्र॑तः¦ज्योतिः॑¦आ॒सा ||

स॒त्यामा॒शिषं᳚ कृणुता वयो॒धै की॒रिं चि॒द्ध्यव॑थ॒ स्वेभि॒रेवैः᳚ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

प॒श्चा मृधो॒, अप॑ भवन्तु॒ विश्वा॒स्तद्रो᳚दसी शृणुतं विश्वमि॒न्वे ||{11/12}{10.67.11}{10.5.7.11}{8.2.16.5}{720, 904, 9518}

स॒त्या‌म्¦आ॒ऽशिष᳚‌म्¦कृ॒णु॒त॒¦व॒यः॒ऽधै¦की॒रि‌म्¦चि॒त्¦हि¦अव॑थ¦स्वेभिः॑¦एवैः᳚ |
प॒श्चा¦मृधः॑¦अप॑¦भ॒व॒न्तु॒¦विश्वाः᳚¦तत्¦रो॒द॒सी॒ इति॑¦शृ॒णु॒त॒‌म्¦वि॒श्व॒मि॒न्वे इति॑ वि॒श्व॒‌म्ऽ‌इ॒न्वे ||

इन्द्रो᳚ म॒ह्ना म॑ह॒तो, अ᳚र्ण॒वस्य॒ वि मू॒र्धान॑मभिनदर्बु॒दस्य॑ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

अह॒न्नहि॒मरि॑णात्स॒प्त सिन्धू᳚न्दे॒वैर्द्या᳚वापृथिवी॒ प्राव॑तं नः ||{12/12}{10.67.12}{10.5.7.12}{8.2.16.6}{721, 904, 9519}

इन्द्रः॑¦म॒ह्ना¦म॒ह॒तः¦अ॒र्ण॒वस्य॑¦वि¦मू॒र्धान᳚‌म्¦अ॒भि॒न॒त्¦अ॒र्बु॒दस्य॑ |
अह॑न्¦अहि᳚‌म्¦अरि॑णात्¦स॒प्त¦सिन्धू᳚न्¦दे॒वैः¦द्या॒वा॒पृ॒थि॒वी॒ इति॑¦प्र¦अ॒व॒त॒‌म्¦नः॒ ||

[68] उदप्रुतइति द्वादशर्चस्य सूक्तस्यांगिरसोयास्योबृहस्पतिस्त्रिष्टुप् |
उ॒द॒प्रुतो॒ न वयो॒ रक्ष॑माणा॒ वाव॑दतो, अ॒भ्रिय॑स्येव॒ घोषाः᳚ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

गि॒रि॒भ्रजो॒ नोर्मयो॒ मद᳚न्तो॒ बृह॒स्पति॑म॒भ्य१॑(अ॒)र्का, अ॑नावन् ||{1/12}{10.68.1}{10.5.8.1}{8.2.17.1}{722, 905, 9520}

उ॒द॒ऽप्रुतः॑¦न¦वयः॑¦रक्ष॑माणाः¦वाव॑दतः¦अ॒भ्रिय॑स्यऽ‌इव¦घोषाः᳚ |
गि॒रि॒ऽभ्रजः॑¦न¦ऊ॒र्मयः॑¦मद᳚न्तः¦बृहस्पति᳚‌म्¦अ॒भि¦अ॒र्काः¦अ॒ना॒व॒न् ||

सं गोभि॑राङ्गिर॒सो नक्ष॑माणो॒ भग॑ इ॒वेद᳚र्य॒मणं᳚ निनाय |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

जने᳚ मि॒त्रो न दम्प॑ती, अनक्ति॒ बृह॑स्पते वा॒जया॒शूँरि॑वा॒जौ ||{2/12}{10.68.2}{10.5.8.2}{8.2.17.2}{723, 905, 9521}

स‌म्¦गोभिः॑¦आ॒ङ्गि॒र॒सः¦नक्ष॑माणः¦भगः॑ऽ‌इव¦इत्¦अ॒र्य॒मण᳚‌म्¦नि॒ना॒य॒ |
जने᳚¦मि॒त्रः¦न¦दंप॑ती॒ इति॒ द‌म्ऽप॑ती¦अ॒न॒क्ति॒¦बृह॑स्पते¦वा॒जय॑¦आ॒शून्ऽ‌इ᳚व¦आ॒जौ ||

सा॒ध्व॒र्या, अ॑ति॒थिनी᳚रिषि॒राः स्पा॒र्हाः सु॒वर्णा᳚, अनव॒द्यरू᳚पाः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पतिः॒ पर्व॑तेभ्यो वि॒तूर्या॒ निर्गा, ऊ᳚पे॒ यव॑मिव स्थि॒विभ्यः॑ ||{3/12}{10.68.3}{10.5.8.3}{8.2.17.3}{724, 905, 9522}

सा॒धु॒।आ॒र्याः¦अ॒ति॒थिनीः᳚¦इ॒षि॒राः¦स्पा॒र्हाः¦सु॒ऽवर्णाः᳚¦अ॒न॒व॒द्यऽरू᳚पाः |
बृह॒स्पतिः॑¦पर्व॑तेभ्यः¦वि॒ऽतूर्य॑¦निः¦गाः¦ऊ॒पे॒¦यव᳚‌म्ऽ‌इव¦स्थि॒विऽभ्यः॑ ||

आ॒प्रु॒षा॒यन्मधु॑न ऋ॒तस्य॒ योनि॑मवक्षि॒पन्न॒र्क उ॒ल्कामि॑व॒ द्योः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति॑रु॒द्धर॒न्नश्म॑नो॒ गा भूम्या᳚, उ॒द्नेव॒ वि त्वचं᳚ बिभेद ||{4/12}{10.68.4}{10.5.8.4}{8.2.17.4}{725, 905, 9523}

आ॒ऽप्रु॒षा॒यन्¦मधु॑ना¦ऋ॒तस्य॑¦योनि᳚‌म्¦अ॒व॒ऽक्षि॒पन्¦अ॒र्कः¦उ॒ल्का‌म्ऽ‌इ᳚व¦द्योः |
बृह॒स्पतिः॑¦उ॒द्धर॑न्¦अश्म॑नः¦गाः¦भूम्याः᳚¦उ॒द्नाऽ‌इ᳚व¦वि¦त्वच᳚‌म्¦बि॒भे॒द॒ ||

अप॒ ज्योति॑षा॒ तमो᳚, अ॒न्तरि॑क्षादु॒द्नः शीपा᳚लमिव॒ वात॑ आजत् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति॑रनु॒मृश्या᳚ व॒लस्या॒भ्रमि॑व॒ वात॒ आ च॑क्र॒ आ गाः ||{5/12}{10.68.5}{10.5.8.5}{8.2.17.5}{726, 905, 9524}

अप॑¦ज्योति॑षा¦तमः॑¦अ॒न्तरि॑क्षात्¦उ॒द्नः¦शीपा᳚ल‌म्ऽ‌इव¦वातः॑¦आ॒ज॒त् |
बृह॒स्पतिः॑¦अ॒नु॒ऽमृश्य॑¦व॒लस्य॑¦अ॒भ्र‌म्ऽ‌इ᳚व¦वातः॑¦आ¦च॒क्रे॒¦आ¦गाः ||

य॒दा व॒लस्य॒ पीय॑तो॒ जसुं॒ भेद्बृह॒स्पति॑रग्नि॒तपो᳚भिर॒र्कैः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

द॒द्भिर्न जि॒ह्वा परि॑विष्ट॒माद॑दा॒विर्नि॒धीँर॑कृणोदु॒स्रिया᳚णाम् ||{6/12}{10.68.6}{10.5.8.6}{8.2.17.6}{727, 905, 9525}

य॒दा¦व॒लस्य॑¦पीय॑तः¦जसु᳚‌म्¦भेत्¦बृह॒स्पतिः॑¦अ॒ग्नि॒तपः॑ऽभिः¦अ॒र्कैः |
द॒त्ऽभिः¦न¦जि॒ह्वा¦परि॑ऽविष्ट‌म्¦आद॑त्¦आ॒विः¦नि॒धीन्¦अ॒कृ॒णो॒त्¦उ॒स्रिया᳚णा‌म् ||

बृह॒स्पति॒रम॑त॒ हि त्यदा᳚सां॒ नाम॑ स्व॒रीणां॒ सद॑ने॒ गुहा॒ यत् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

आ॒ण्डेव॑ भि॒त्‌ त्वा श॑कु॒नस्य॒ गर्भ॒मुदु॒स्रियाः॒ पर्व॑तस्य॒ त्मना᳚जत् ||{7/12}{10.68.7}{10.5.8.7}{8.2.18.1}{728, 905, 9526}

बृह॒स्पतिः॑¦अम॑त¦हि¦त्यत्¦आ॒सा॒‌म्¦नाम॑¦स्व॒रीणा᳚‌म्¦सद॑ने¦गुहा᳚¦यत् |
आ॒ण्डाऽ‌इ᳚व¦भि॒त्‌ त्वा¦श॒कु॒नस्य॑¦गर्भ᳚‌म्¦उत्¦उ॒स्रियाः᳚¦पर्व॑तस्य¦त्मना᳚¦आ॒ज॒त् ||

अश्नापि॑नद्धं॒ मधु॒ पर्य॑पश्य॒न्मत्स्यं॒ न दी॒न उ॒दनि॑ क्षि॒यन्त᳚म् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

निष्टज्ज॑भार चम॒सं न वृ॒क्षाद्बृह॒स्पति᳚र्विर॒वेणा᳚ वि॒कृत्य॑ ||{8/12}{10.68.8}{10.5.8.8}{8.2.18.2}{729, 905, 9527}

अश्ना᳚¦अपि॑ऽनद्ध‌म्¦मधु॑¦परि॑¦अ॒प॒श्य॒त्¦मत्स्य᳚‌म्¦न¦दी॒ने¦उ॒दनि॑¦क्षि॒यन्त᳚‌म् |
निः¦तत्¦ज॒भा॒र॒¦च॒म॒स‌म्¦न¦वृ॒क्षात्¦बृह॒स्पतिः॑¦वि॒ऽर॒वेण॑¦वि॒ऽकृत्य॑ ||

सोषाम॑विन्द॒त्स स्व१॑(अः॒) सो, अ॒ग्निं सो, अ॒र्केण॒ वि ब॑बाधे॒ तमां᳚सि |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति॒र्गोव॑पुषो व॒लस्य॒ निर्म॒ज्जानं॒ न पर्व॑णो जभार ||{9/12}{10.68.9}{10.5.8.9}{8.2.18.3}{730, 905, 9528}

सः¦उ॒षा‌म्¦अ॒वि॒न्द॒त्¦सः¦स्व१॒॑रिति॒ स्वः॑¦सः¦अ॒ग्नि‌म्¦सः¦अ॒र्केण॑¦वि¦ब॒बा॒धे॒¦तमां᳚सि |
बृह॒स्पतिः॑¦गोऽव॑पुषः¦व॒लस्य॑¦निः¦म॒ज्जान᳚‌म्¦न¦पर्व॑णः¦ज॒भा॒र॒ ||

हि॒मेव॑ प॒र्णा मु॑षि॒ता वना᳚नि॒ बृह॒स्पति॑नाकृपयद्व॒लो गाः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

अ॒ना॒नु॒कृ॒त्यम॑पु॒नश्च॑कार॒ यात्सूर्या॒मासा᳚ मि॒थ उ॒च्चरा᳚तः ||{10/12}{10.68.10}{10.5.8.10}{8.2.18.4}{731, 905, 9529}

हि॒माऽ‌इ᳚व¦प॒र्णा¦मु॒षि॒ता¦वना᳚नि¦बृह॒स्पति॑ना¦अ॒कृ॒प॒य॒त्¦व॒लः¦गाः |
अ॒न॒नु॒ऽकृ॒त्य‌म्¦अ॒पु॒नरिति॑¦च॒का॒र॒¦यात्¦सूर्या॒मासा᳚¦मि॒थः¦उ॒त्ऽचरा᳚तः ||

अ॒भि श्या॒वं न कृश॑नेभि॒रश्वं॒ नक्ष॑त्रेभिः पि॒तरो॒ द्याम॑पिंशन् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

रात्र्यां॒ तमो॒, अद॑धु॒र्ज्योति॒रह॒न्‌ बृह॒स्पति॑र्भि॒नदद्रिं᳚ वि॒दद्गाः ||{11/12}{10.68.11}{10.5.8.11}{8.2.18.5}{732, 905, 9530}

अ॒भि¦श्या॒व‌म्¦न¦कृश॑नेभिः¦अश्व᳚‌म्¦नक्ष॑त्रेभिः¦पि॒तरः॑¦द्या‌म्¦अ॒पिं॒श॒न् |
रात्र्या᳚‌म्¦तमः॑¦अद॑धुः¦ज्योतिः॑¦अह॑न्¦बृह॒स्पतिः॑¦भि॒नत्¦अद्रि᳚‌म्¦वि॒दत्¦गाः ||

इ॒दम॑कर्म॒ नमो᳚, अभ्रि॒याय॒ यः पू॒र्वीरन्वा॒नोन॑वीति |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पतिः॒ स हि गोभिः॒ सो, अश्वैः॒ स वी॒रेभिः॒ स नृभि᳚र्नो॒ वयो᳚ धात् ||{12/12}{10.68.12}{10.5.8.12}{8.2.18.6}{733, 905, 9531}

इ॒द‌म्¦अ॒क॒र्म॒¦नमः॑¦अ॒भ्रि॒याय॑¦यः¦पू॒र्वीः¦अनु॑¦आ॒ऽनोन॑वीति |
बृह॒स्पतिः॑¦सः¦हि¦गोभिः॑¦सः¦अश्वः॑¦सः¦वी॒रेभिः॑¦सः¦नृऽभिः॑¦नः॒¦वयः॑¦धा॒त् ||

[69] भद्राअग्नेरिति द्वादशर्चस्य सूक्तस्य वाध्र्यश्वः सुमित्रोग्निस्त्रिष्टुबाद्येद्वेजगत्यौ |
भ॒द्रा, अ॒ग्नेर्व॑ध्र्य॒श्वस्य॑ सं॒दृशो᳚ वा॒मी प्रणी᳚तिः सु॒रणा॒, उपे᳚तयः |{वाध्र्यश्वः सुमित्रः | अग्निः | जगती}

यदीं᳚ सुमि॒त्रा विशो॒, अग्र॑ इ॒न्धते᳚ घृ॒तेनाहु॑तो जरते॒ दवि॑द्युतत् ||{1/12}{10.69.1}{10.6.1.1}{8.2.19.1}{734, 906, 9532}

भ॒द्राः¦अ॒ग्नेः¦व॒ध्रि॒।आ॒श्वस्य॑¦स॒‌म्ऽदृशः॑¦वा॒मी¦प्रऽणी᳚तिः¦सु॒ऽरणाः᳚¦उप॑ऽ‌इतयः |
यत्¦ई॒‌म्¦सु॒ऽमि॒त्राः¦विशः॑¦अग्रे᳚¦इ॒न्धते᳚¦घृ॒तेन॑¦आऽहु॑तः¦ज॒र॒ते॒¦दवि॑द्युतत् ||

घृ॒तम॒ग्नेर्व॑ध्र्य॒श्वस्य॒ वर्ध॑नं घृ॒तमन्नं᳚ घृ॒तम्व॑स्य॒ मेद॑नम् |{वाध्र्यश्वः सुमित्रः | अग्निः | जगती}

घृ॒तेनाहु॑त उर्वि॒या वि प॑प्रथे॒ सूर्य॑ इव रोचते स॒र्पिरा᳚सुतिः ||{2/12}{10.69.2}{10.6.1.2}{8.2.19.2}{735, 906, 9533}

घृ॒त‌म्¦अ॒ग्नेः¦व॒ध्रि॒।आ॒श्वस्य॑¦वर्ध॑न‌म्¦घृ॒त‌म्¦अन्न᳚‌म्¦घृ॒त‌म्¦ऊँ॒ इति॑¦अ॒स्य॒¦भेद॑न‌म् |
घृ॒तेन॑¦आऽहु॑तः¦उ॒र्वि॒या¦वि¦प॒प्र॒थे॒¦सूर्यः॑ऽ‌इव¦रो॒च॒ते॒¦स॒र्पिःऽआ᳚सुतिः ||

यत्ते॒ मनु॒र्यदनी᳚कं सुमि॒त्रः स॑मी॒धे, अ॑ग्ने॒ तदि॒दं नवी᳚यः |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

स रे॒वच्छो᳚च॒ स गिरो᳚ जुषस्व॒ स वाजं᳚ दर्षि॒ स इ॒ह श्रवो᳚ धाः ||{3/12}{10.69.3}{10.6.1.3}{8.2.19.3}{736, 906, 9534}

यत्¦ते॒¦मनुः॑¦यत्¦अनी᳚क‌म्¦सु॒ऽमि॒त्रः¦स॒‌म्ऽई॒धे¦अ॒ग्ने॒¦तत्¦इ॒द‌म्¦नवी᳚यः |
सः¦रे॒वत्¦शो॒च॒¦सः¦गिरः॑¦जु॒ष॒स्व॒¦सः¦वाज᳚‌म्¦द॒र्षि॒¦सः¦इ॒ह¦श्रवः॑¦धाः॒ ||

यं त्वा॒ पूर्व॑मीळि॒तो व॑ध्र्य॒श्वः स॑मी॒धे, अ॑ग्ने॒ स इ॒दं जु॑षस्व |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

स नः॑ स्ति॒पा, उ॒त भ॑वा तनू॒पा दा॒त्रं र॑क्षस्व॒ यदि॒दं ते᳚, अ॒स्मे ||{4/12}{10.69.4}{10.6.1.4}{8.2.19.4}{737, 906, 9535}

य‌म्¦त्वा॒¦पूर्व᳚‌म्¦ई॒ळि॒तः¦व॒ध्रि॒।आ॒श्वः¦स॒‌म्ऽई॒धे¦अ॒ग्ने॒¦सः¦इ॒द‌म्¦जु॒ष॒स्व॒ |
सः¦नः॒¦स्ति॒ऽपाः¦उ॒त¦भ॒व॒¦त॒नू॒ऽपाः¦दा॒त्र‌म्¦र॒क्ष॒स्व॒¦यत्¦इ॒द‌म्¦ते॒¦अ॒स्मे इति॑ ||

भवा᳚ द्यु॒म्नी वा᳚ध्र्यश्वो॒त गो॒पा मा त्वा᳚ तारीद॒भिमा᳚ति॒र्जना᳚नाम् |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

शूर॑ इव धृ॒ष्णुश्च्यव॑नः सुमि॒त्रः प्र नु वो᳚चं॒ वाध्र्य॑श्वस्य॒ नाम॑ ||{5/12}{10.69.5}{10.6.1.5}{8.2.19.5}{738, 906, 9536}

भव॑¦द्यु॒म्नी¦वा॒ध्रि॒।आ॒श्व॒¦उ॒त¦गो॒पाः¦मा¦त्वा॒¦ता॒री॒त्¦अ॒भिऽमा᳚तिः¦जना᳚ना‌म् |
शूरः॑ऽ‌इव¦घृ॒ष्णुः¦च्यव॑नः¦सु॒ऽमि॒त्रः¦प्र¦नु¦वो॒च॒‌म्¦वाध्रि॑।आश्वस्य¦नाम॑ ||

सम॒ज्र्या᳚ पर्व॒त्या॒३॑(आ॒) वसू᳚नि॒ दासा᳚ वृ॒त्राण्यार्या᳚ जिगेथ |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

शूर॑ इव धृ॒ष्णुश्च्यव॑नो॒ जना᳚नां॒ त्वम॑ग्ने पृतना॒यूँर॒भि ष्याः᳚ ||{6/12}{10.69.6}{10.6.1.6}{8.2.19.6}{739, 906, 9537}

स‌म्¦अ॒ज्र्या᳚¦प॒र्व॒त्या᳚¦वसू᳚नि¦दासा᳚¦वृ॒त्राणि॑¦आर्या᳚¦जि॒गे॒थ॒ |
शूरः॑ऽ‌इव¦घृ॒ष्णुः¦च्यव॑नः¦जना᳚ना‌म्¦त्व‌म्¦अ॒ग्ने॒¦पृ॒त॒ना॒ऽयून्¦अ॒भि¦स्याः॒ ||

दी॒र्घत᳚न्तुर्बृ॒हदु॑क्षा॒यम॒ग्निः स॒हस्र॑स्तरीः श॒तनी᳚थ॒ ऋभ्वा᳚ |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

द्यु॒मान्द्यु॒मत्सु॒ नृभि᳚र्मृ॒ज्यमा᳚नः सुमि॒त्रेषु॑ दीदयो देव॒यत्सु॑ ||{7/12}{10.69.7}{10.6.1.7}{8.2.20.1}{740, 906, 9538}

दी॒र्घऽत᳚न्तुः¦बृ॒हत्।औ᳚क्षा¦अ॒य‌म्¦अ॒ग्निः¦स॒हस्र॑ऽस्तरीः¦श॒तऽनी᳚थः¦ऋभ्वा᳚ |
द्यु॒ऽमान्¦द्यु॒मत्ऽसु॑¦नृऽभिः॑¦मृ॒ज्यमा᳚नः¦सु॒ऽमि॒त्रेषु॑¦दी॒द॒यः॒¦दे॒व॒यत्ऽसु॑ ||

त्वे धे॒नुः सु॒दुघा᳚ जातवेदोऽस॒श्चते᳚व सम॒ना स॑ब॒र्धुक् |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

त्वं नृभि॒र्दक्षि॑णावद्भिरग्ने सुमि॒त्रेभि॑रिध्यसे देव॒यद्भिः॑ ||{8/12}{10.69.8}{10.6.1.8}{8.2.20.2}{741, 906, 9539}

त्वे इति॑¦धे॒नुः¦सु॒ऽदुघा᳚¦जा॒त॒वे॒दः॒¦अ॒स॒श्चता᳚ऽ‌इव¦स॒म॒ना¦स॒बः॒ऽधुक् |
त्व‌म्¦नृऽभिः॑¦दक्षि॑णावत्ऽभिः¦अ॒ग्ने॒¦सु॒ऽमि॒त्रेभिः॑¦इ॒ध्य॒से॒¦दे॒व॒यत्ऽभिः॑ ||

दे॒वाश्चि॑त्ते, अ॒मृता᳚ जातवेदो महि॒मानं᳚ वाध्र्यश्व॒ प्र वो᳚चन् |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

यत्स॒म्पृच्छं॒ मानु॑षी॒र्विश॒ आय॒न्त्वं नृभि॑रजय॒स्त्वावृ॑धेभिः ||{9/12}{10.69.9}{10.6.1.9}{8.2.20.3}{742, 906, 9540}

दे॒वाः¦चि॒त्¦ते॒¦अ॒मृताः᳚¦जा॒त॒ऽवे॒दः॒¦म॒हि॒मान᳚‌म्¦वा॒धि॒।आ॒श्व॒¦प्र¦वो॒च॒न् |
यत्¦स॒‌म्ऽपृच्छ᳚‌म्¦मानु॑षीः¦विशः॑¦आय॑न्¦त्व‌म्¦नृऽभिः॑¦अ॒ज॒यः॒¦त्वाऽवृ॑धेभिः ||

पि॒तेव॑ पु॒त्रम॑बिभरु॒पस्थे॒ त्वाम॑ग्ने वध्र्य॒श्वः स॑प॒र्यन् |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

जु॒षा॒णो, अ॑स्य स॒मिधं᳚ यविष्ठो॒त पूर्वाँ᳚, अवनो॒र्व्राध॑तश्चित् ||{10/12}{10.69.10}{10.6.1.10}{8.2.20.4}{743, 906, 9541}

पि॒ताऽ‌इ᳚व¦पु॒त्र‌म्¦अ॒बि॒भः॒¦उ॒पऽस्थे᳚¦त्वा‌म्¦अ॒ग्ने॒¦व॒ध्रि॒।आ॒श्वः¦स॒प॒र्यन् |
जु॒षा॒णः¦अ॒स्य॒¦स॒‌म्ऽ‌इध᳚‌म्¦य॒वि॒ष्ठ॒¦उ॒त¦पूर्वा᳚न्¦अ॒व॒नोः॒¦व्राध॑तः¦चि॒त् ||

शश्व॑द॒ग्निर्व॑ध्र्य॒श्वस्य॒ शत्रू॒न्नृभि॑र्जिगाय सु॒तसो᳚मवद्भिः |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

सम॑नं चिददहश्चित्रभा॒नोऽव॒ व्राध᳚न्तमभिनद्वृ॒धश्चि॑त् ||{11/12}{10.69.11}{10.6.1.11}{8.2.20.5}{744, 906, 9542}

शश्व॑त्¦अ॒ग्निः¦व॒ध्रि॒।आ॒श्वस्य॑¦शत्रू᳚न्¦नृऽभिः॑¦जि॒गा॒य॒¦सु॒तसो᳚मवत्ऽभिः |
सम॑न‌म्¦चि॒त्¦अ॒द॒हः॒¦चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो¦अव॑¦व्राध᳚न्त‌म्¦अ॒भि॒न॒त्¦वृ॒धः¦चि॒त् ||

अ॒यम॒ग्निर्व॑ध्र्य॒श्वस्य॑ वृत्र॒हा स॑न॒कात्प्रेद्धो॒ नम॑सोपवा॒क्यः॑ |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

स नो॒, अजा᳚मीँरु॒त वा॒ विजा᳚मीन॒भि ति॑ष्ठ॒ शर्ध॑तो वाध्र्यश्व ||{12/12}{10.69.12}{10.6.1.12}{8.2.20.6}{745, 906, 9543}

अ॒य‌म्¦अ॒ग्निः¦व॒ध्रि॒।आ॒श्वस्य॑¦वृ॒त्र॒ऽहा¦स॒न॒कात्¦प्रऽ‌इ᳚द्धः¦नम॑सा¦उ॒प॒ऽवा॒क्यः॑ |
सः¦नः॒¦अजा᳚मीन्¦उ॒त¦वा॒¦विऽजा᳚मीन्¦अ॒भि¦ति॒ष्ठ॒¦शर्ध॑तः¦वा॒ध्रि॒।आ॒श्व॒ ||

[70] इमांमइत्येकादशर्चस्य सूक्तस्य वाध्र्यश्वः सुमित्रइध्मोनराशंस इळो बर्हिर्देवीर्द्वार उषासानक्ता दैव्यौहोतारौप्रचेतसौ सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिः स्वाहाकृतयस्त्रिष्टुप् |
इ॒मां मे᳚, अग्ने स॒मिधं᳚ जुषस्वे॒ळस्प॒दे प्रति॑ हर्या घृ॒ताची᳚म् |{वाध्र्यश्वः सुमित्रः | इध्मः | त्रिष्टुप्}

वर्ष्म᳚न्‌ पृथि॒व्याः सु॑दिन॒त्वे, अह्ना᳚मू॒र्ध्वो भ॑व सुक्रतो देवय॒ज्या ||{1/11}{10.70.1}{10.6.2.1}{8.2.21.1}{746, 907, 9544}

इ॒मा‌म्¦मे॒¦अ॒ग्ने॒¦स॒‌म्ऽ‌इध᳚‌म्¦जु॒ष॒स्व॒¦इ॒ळः¦प॒दे¦प्रति॑¦ह॒र्य॒¦घृ॒ताची᳚‌म् |
वर्ष्म॑न्¦पृ॒थि॒व्याः¦सु॒दि॒न॒ऽत्वे¦अह्ना᳚‌म्¦ऊ॒र्ध्वः¦भ॒व॒¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो¦दे॒व॒ऽय॒ज्या ||

आ दे॒वाना᳚मग्र॒यावे॒ह या᳚तु॒ नरा॒शंसो᳚ वि॒श्वरू᳚पेभि॒रश्वैः᳚ |{वाध्र्यश्वः सुमित्रः | नराशंसः | त्रिष्टुप्}

ऋ॒तस्य॑ प॒था नम॑सा मि॒येधो᳚ दे॒वेभ्यो᳚ दे॒वत॑मः सुषूदत् ||{2/11}{10.70.2}{10.6.2.2}{8.2.21.2}{747, 907, 9545}

आ¦दे॒वाना᳚‌म्¦अ॒ग्र॒ऽयावा᳚¦इ॒ह¦या॒तु॒¦नरा॒शंसः॑¦वि॒श्वऽरू᳚पेभिः¦अश्वैः᳚ |
ऋ॒तस्य॑¦प॒था¦नम॑सा¦मि॒येधः॑¦दे॒वेभ्यः॑¦दे॒वऽत॑मः¦सु॒सू॒द॒त् ||

श॒श्व॒त्त॒ममी᳚ळते दू॒त्या᳚य ह॒विष्म᳚न्तो मनु॒ष्या᳚सो, अ॒ग्निम् |{वाध्र्यश्वः सुमित्रः | इळः | त्रिष्टुप्}

वहि॑ष्ठै॒रश्वैः᳚ सु॒वृता॒ रथे॒ना दे॒वान्‌ व॑क्षि॒ नि ष॑दे॒ह होता᳚ ||{3/11}{10.70.3}{10.6.2.3}{8.2.21.3}{748, 907, 9546}

श॒श्व॒त्ऽत॒म‌म्¦ई॒ळ॒ते॒¦दू॒त्या᳚य¦ह॒विष्म᳚न्तः¦म॒नु॒ष्या᳚सः¦अ॒ग्नि‌म् |
वहि॑ष्ठैः¦अश्वैः᳚¦सु॒ऽवृता᳚¦रथे᳚न¦आ¦दे॒वान्¦व॒क्षि॒¦नि¦स॒द॒¦इ॒ह¦होता᳚ ||

वि प्र॑थतां दे॒वजु॑ष्टं तिर॒श्चा दी॒र्घं द्रा॒घ्मा सु॑र॒भि भू᳚त्व॒स्मे |{वाध्र्यश्वः सुमित्रः | बर्हिः | त्रिष्टुप्}

अहे᳚ळता॒ मन॑सा देव बर्हि॒रिन्द्र॑ज्येष्ठाँ, उश॒तो य॑क्षि दे॒वान् ||{4/11}{10.70.4}{10.6.2.4}{8.2.21.4}{749, 907, 9547}

वि¦प्र॒थ॒ता॒‌म्¦दे॒वऽजु॑ष्ट‌म्¦ति॒र॒श्चा¦दी॒र्घ‌म्¦द्रा॒घ्मा¦सु॒र॒भि¦भू॒तु॒¦अ॒स्मे इति॑ |
अहे᳚ळत¦मन॑सा¦दे॒व॒¦ब॒र्हिः॒¦इन्द्र॑ऽज्येष्ठान्¦उ॒श॒तः¦य॒क्षि॒¦दे॒वान् ||

दि॒वो वा॒ सानु॑ स्पृ॒शता॒ वरी᳚यः पृथि॒व्या वा॒ मात्र॑या॒ वि श्र॑यध्वम् |{वाध्र्यश्वः सुमित्रः | देवीर्द्वार | त्रिष्टुप्}

उ॒श॒तीर्द्वा᳚रो महि॒ना म॒हद्भि॑र्दे॒वं रथं᳚ रथ॒युर्धा᳚रयध्वम् ||{5/11}{10.70.5}{10.6.2.5}{8.2.21.5}{750, 907, 9548}

दि॒वः¦वा॒¦सानु॑¦स्पृ॒शत॑¦वरी᳚यः¦पृ॒थि॒व्या¦वा॒¦मात्र॑या¦वि¦श्र॒य॒ध्व॒‌म् |
उ॒श॒तीः¦द्वा॒रः॒¦म॒हि॒ना¦म॒हत्ऽभिः॑¦दे॒व‌म्¦रथ᳚‌म्¦र॒थ॒ऽयुः¦धा॒र॒य॒ध्व॒‌म् ||

दे॒वी दि॒वो दु॑हि॒तरा᳚ सुशि॒ल्पे, उ॒षासा॒नक्ता᳚ सदतां॒ नि योनौ᳚ |{वाध्र्यश्वः सुमित्रः | उषासानक्ता | त्रिष्टुप्}

आ वां᳚ दे॒वास॑ उशती, उ॒शन्त॑ उ॒रौ सी᳚दन्तु सुभगे, उ॒पस्थे᳚ ||{6/11}{10.70.6}{10.6.2.6}{8.2.22.1}{751, 907, 9549}

दे॒वी इति॑¦दि॒वः¦दु॒हि॒तरा᳚¦सु॒शि॒ल्पे इति॑ सु॒ऽशि॒ल्पे¦उ॒षसा॒नक्ता᳚¦स॒द॒ता॒‌म्¦नि¦योनौ᳚ |
आ¦वा॒‌म्¦दे॒वासः॑¦उ॒श॒ती॒ इति॑¦उ॒शन्तः॑¦उ॒रौ¦सी॒द॒न्तु॒¦सु॒भ॒गे॒ इति॑ सुऽभगे¦उ॒पऽस्थे᳚ ||

ऊ॒र्ध्वो ग्रावा᳚ बृ॒हद॒ग्निः समि॑द्धः प्रि॒या धामा॒न्यदि॑तेरु॒पस्थे᳚ |{वाध्र्यश्वः सुमित्रः | दैव्यौहोतारौप्रचेतसौ | त्रिष्टुप्}

पु॒रोहि॑तावृत्विजा य॒ज्ञे, अ॒स्मिन्‌ वि॒दुष्ट॑रा॒ द्रवि॑ण॒मा य॑जेथाम् ||{7/11}{10.70.7}{10.6.2.7}{8.2.22.2}{752, 907, 9550}

ऊ॒र्ध्वः¦ग्रावा᳚¦बृ॒हत्¦अ॒ग्निः¦स‌म्ऽ‌इ᳚द्धः¦प्रि॒या¦धामा᳚नि¦अदि॑तेः¦उ॒पऽस्थे᳚ |
पु॒रःऽहि॑तौ¦ऋ॒त्वि॒जा॒¦य॒ज्ञे¦अ॒स्मिन्¦वि॒दुःऽत॑रा¦द्रवि॑ण‌म्¦आ¦य॒जे॒था॒‌म् ||

तिस्रो᳚ देवीर्ब॒र्हिरि॒दं वरी᳚य॒ आ सी᳚दत चकृ॒मा वः॑ स्यो॒नम् |{वाध्र्यश्वः सुमित्रः | सरस्वती | त्रिष्टुप्}

म॒नु॒ष्वद्‌ य॒ज्ञं सुधि॑ता ह॒वींषीळा᳚ दे॒वी घृ॒तप॑दी जुषन्त ||{8/11}{10.70.8}{10.6.2.8}{8.2.22.3}{753, 907, 9551}

तिस्रः॑¦दे॒वीः॒¦ब॒र्हिः¦इ॒द‌म्¦वरी᳚यः¦आ¦सी॒द॒त॒¦च॒कृ॒म¦वः॒¦स्यो॒न‌म् |
म॒नु॒ष्वत्¦य॒ज्ञ‌म्¦सुऽधि॑ता¦ह॒वींषि॑¦इळा᳚¦दे॒वी¦घृ॒तऽप॑दी¦जु॒ष॒न्त॒ ||

देव॑ त्वष्ट॒र्यद्ध॑ चारु॒त्वमान॒ड्यदङ्गि॑रसा॒मभ॑वः सचा॒भूः |{वाध्र्यश्वः सुमित्रः | वष्टा | त्रिष्टुप्}

स दे॒वानां॒ पाथ॒ उप॒ प्र वि॒द्वाँ, उ॒शन्य॑क्षि द्रविणोदः सु॒रत्नः॑ ||{9/11}{10.70.9}{10.6.2.9}{8.2.22.4}{754, 907, 9552}

देव॑¦त्व॒ष्टः॒¦यत्¦ह॒¦चा॒रु॒ऽत्व‌म्¦आन॑ट्¦यत्¦अङ्गि॑रसा‌म्¦अभ॑वः¦स॒चा॒ऽभूः |
सः¦दे॒वाना᳚‌म्¦पाथः॑¦उप॑¦प्र¦वि॒द्वान्¦उ॒शन्¦य॒क्षि॒¦द्र॒वि॒णः॒ऽदः॒¦सु॒ऽरत्नः॑ ||

वन॑स्पते रश॒नया᳚ नि॒यूया᳚ दे॒वानां॒ पाथ॒ उप॑ वक्षि वि॒द्वान् |{वाध्र्यश्वः सुमित्रः | वनस्पतिः | त्रिष्टुप्}

स्वदा᳚ति दे॒वः कृ॒णव॑द्ध॒वींष्यव॑तां॒ द्यावा᳚पृथि॒वी हवं᳚ मे ||{10/11}{10.70.10}{10.6.2.10}{8.2.22.5}{755, 907, 9553}

वन॑स्पते¦र॒श॒नया᳚¦नि॒ऽयूय॑¦दे॒वाना᳚‌म्¦पाथः॑¦उप॑¦व॒क्षि॒¦वि॒द्वान् |
स्वदा᳚ति¦दे॒वः¦कृ॒णव॑त्¦ह॒वींषि॑¦अव॑ता‌म्¦द्यावा᳚पृथि॒वी इति॑¦हव᳚‌म्¦मे॒ ||

आग्ने᳚ वह॒ वरु॑णमि॒ष्टये᳚ न॒ इन्द्रं᳚ दि॒वो म॒रुतो᳚, अ॒न्तरि॑क्षात् |{वाध्र्यश्वः सुमित्रः | स्वाहाकृतयः | त्रिष्टुप्}

सीद᳚न्तु ब॒र्हिर्विश्व॒ आ यज॑त्राः॒ स्वाहा᳚ दे॒वा, अ॒मृता᳚ मादयन्ताम् ||{11/11}{10.70.11}{10.6.2.11}{8.2.22.6}{756, 907, 9554}

आ¦अ॒ग्ने॒¦व॒ह॒¦वरु॑ण‌म्¦इ॒ष्टये᳚¦नः॒¦इन्द्र᳚‌म्¦दि॒वः¦म॒रुतः॑¦अ॒न्तरि॑क्षात् |
सीद᳚न्तु¦ब॒र्हिः¦विश्वे᳚¦आ¦यज॑त्राः¦स्वाहा᳚¦दे॒वाः¦अ॒मृताः᳚¦मा॒द॒य॒न्ता॒‌म् ||

[71] बृहस्पतइत्येकादशर्चस्य सूक्तस्यांगिरसो बृहस्पतिर्ज्ञानंत्रिष्टुप् नवमी जगती |
बृह॑स्पते प्रथ॒मं वा॒चो, अग्रं॒ यत्प्रैर॑त नाम॒धेयं॒ दधा᳚नाः |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

यदे᳚षां॒ श्रेष्ठं॒ यद॑रि॒प्रमासी᳚त्प्रे॒णा तदे᳚षां॒ निहि॑तं॒ गुहा॒विः ||{1/11}{10.71.1}{10.6.3.1}{8.2.23.1}{757, 908, 9555}

बृह॑स्पते¦प्र॒थ॒म‌म्¦वा॒चः¦अग्र᳚‌म्¦यत्¦प्र¦ऐर॑त¦ना॒म॒ऽधेय᳚‌म्¦दधा᳚नाः |
यत्¦ए॒षा॒‌म्¦श्रेष्ठ᳚‌म्¦यत्¦अ॒रि॒प्र‌म्¦आसी᳚त्¦प्रे॒णा¦तत्¦ए॒षा॒‌म्¦निऽहि॑त‌म्¦गुहा᳚¦आ॒विः ||

सक्तु॑मिव॒ तित॑उना पु॒नन्तो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒मक्र॑त |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

अत्रा॒ सखा᳚यः स॒ख्यानि॑ जानते भ॒द्रैषां᳚ ल॒क्ष्मीर्निहि॒ताधि॑ वा॒चि ||{2/11}{10.71.2}{10.6.3.2}{8.2.23.2}{758, 908, 9556}

सक्तु᳚‌म्ऽ‌इव¦तित॑उना¦पु॒नन्तः॑¦यत्र॑¦धीराः᳚¦मन॑सा¦वाच᳚‌म्¦अक्र॑त |
अत्र॑¦सखा᳚यः¦स॒ख्यानि॑¦जा॒न॒ते॒¦भ॒द्रा¦ए॒षा॒‌म्¦ल॒क्ष्मीः¦निहि॑ता¦अधि॑¦वा॒चि ||

य॒ज्ञेन॑ वा॒चः प॑द॒वीय॑माय॒न्तामन्व॑विन्द॒न्नृषि॑षु॒ प्रवि॑ष्टाम् |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

तामा॒भृत्या॒ व्य॑दधुः पुरु॒त्रा तां स॒प्त रे॒भा, अ॒भि सं न॑वन्ते ||{3/11}{10.71.3}{10.6.3.3}{8.2.23.3}{759, 908, 9557}

य॒ज्ञेन॑¦वा॒चः¦प॒द॒ऽवीय᳚‌म्¦आ॒य॒न्¦ता‌म्¦अनु॑¦अ॒वि॒न्द॒न्¦ऋषि॑षु¦प्रऽवि॑ष्टा‌म् |
ता‌म्¦आ॒ऽभृत्य॑¦वि¦अ॒द॒धुः॒¦पु॒रु॒ऽत्रा¦ता‌म्¦स॒प्त¦रे॒भाः¦अ॒भि¦स‌म्¦न॒व॒न्ते॒ ||

उ॒त त्वः॒ पश्य॒न्न द॑दर्श॒ वाच॑मु॒त त्वः॑ शृ॒ण्वन्न शृ॑णोत्येनाम् |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

उ॒तो त्व॑स्मै त॒न्व१॑(अं॒) वि स॑स्रे जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः᳚ ||{4/11}{10.71.4}{10.6.3.4}{8.2.23.4}{760, 908, 9558}

उ॒त¦त्वः॒¦पश्य॑न्¦न¦द॒द॒र्श॒¦वाच᳚‌म्¦उ॒त¦त्वः॒¦शृ॒ण्वन्¦न¦शृ॒णो॒ति॒¦ए॒ना॒‌म् |
उ॒तो इति॑¦त्व॒स्मै॒¦त॒न्व᳚‌म्¦वि¦स॒स्रे॒¦जा॒याऽ‌इ᳚व¦पत्ये᳚¦उ॒श॒ती¦सु॒ऽवासाः᳚ ||

उ॒त त्वं᳚ स॒ख्ये स्थि॒रपी᳚तमाहु॒र्नैनं᳚ हिन्व॒न्त्यपि॒ वाजि॑नेषु |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

अधे᳚न्वा चरति मा॒ययै॒ष वाचं᳚ शुश्रु॒वाँ, अ॑फ॒लाम॑पु॒ष्पाम् ||{5/11}{10.71.5}{10.6.3.5}{8.2.23.5}{761, 908, 9559}

उ॒त¦त्व॒‌म्¦स॒ख्ये¦स्थि॒रऽपी᳚त‌म्¦आहुः॑¦न¦ए॒न॒‌म्¦हि॒न्व॒न्ति॒¦अपि॑¦वाजि॑नेषु |
अधे᳚न्वा¦च॒र॒ति॒¦मा॒यया᳚¦ए॒षः¦वाच᳚‌म्¦शु॒श्रु॒ऽवान्¦अ॒फ॒ला‌म्¦आ॒पु॒ष्पा‌म् ||

यस्ति॒त्याज॑ सचि॒विदं॒ सखा᳚यं॒ न तस्य॑ वा॒च्यपि॑ भा॒गो, अ॑स्ति |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

यदीं᳚ शृ॒णोत्यल॑कं शृणोति न॒हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था᳚म् ||{6/11}{10.71.6}{10.6.3.6}{8.2.24.1}{762, 908, 9560}

यः¦ति॒त्याज॑¦स॒चि॒ऽविद᳚‌म्¦सखा᳚य‌म्¦न¦तस्य॑¦वा॒चि¦अपि॑¦भा॒गः¦अ॒स्ति॒ |
यत्¦ई॒‌म्¦शृ॒णोति॑¦अल॑क‌म्¦शृ॒णो॒ति॒¦न॒हि¦प्र॒ऽवेद॑¦सु॒ऽकृ॒तस्य॑¦पन्था᳚‌म् ||

अ॒क्ष॒ण्वन्तः॒ कर्ण॑वन्तः॒ सखा᳚यो मनोज॒वेष्वस॑मा बभूवुः |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

आ॒द॒घ्नास॑ उपक॒क्षास॑ उ त्वे ह्र॒दा, इ॑व॒ स्नात्वा᳚, उ त्वे ददृश्रे ||{7/11}{10.71.7}{10.6.3.7}{8.2.24.2}{763, 908, 9561}

अ॒क्ष॒ण्ऽवन्तः॑¦कर्ण॑ऽवन्तः¦सखा᳚यः¦म॒नः॒ऽज॒वेषु॑¦अस॑माः¦ब॒भू॒वुः॒ |
आ॒द॒घ्नासः॑¦उ॒प॒ऽक॒क्षासः॑¦ऊँ॒ इति॑¦त्वे॒¦ह्र॒दाःऽ‌इ᳚व¦स्नात्वाः᳚¦ऊँ॒ इति॑¦त्वे॒¦द॒दृ॒श्रे॒ ||

हृ॒दा त॒ष्टेषु॒ मन॑सो ज॒वेषु॒ यद्ब्रा᳚ह्म॒णाः सं॒यज᳚न्ते॒ सखा᳚यः |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

अत्राह॑ त्वं॒ वि ज॑हुर्वे॒द्याभि॒रोह॑ब्रह्माणो॒ वि च॑रन्त्यु त्वे ||{8/11}{10.71.8}{10.6.3.8}{8.2.24.3}{764, 908, 9562}

हृ॒दा¦त॒ष्टेषु॑¦मन॑सः¦ज॒वेषु॑¦यत्¦ब्रा॒ह्म॒णाः¦स॒‌म्ऽयज᳚न्ते¦सखा᳚यः |
अत्र॑¦अह॑¦त्व॒‌म्¦वि¦ज॒हुः॒¦वे॒द्याभिः॑¦ओह॑ऽब्रह्माणः¦वि¦च॒र॒न्ति॒¦ऊँ॒ इति॑¦त्वे॒ ||

इ॒मे ये नार्वाङ्न प॒रश्चर᳚न्ति॒ न ब्रा᳚ह्म॒णासो॒ न सु॒तेक॑रासः |{बृहस्पतिः | ज्ञानम् | जगती}

त ए॒ते वाच॑मभि॒पद्य॑ पा॒पया᳚ सि॒रीस्तन्त्रं᳚ तन्वते॒, अप्र॑जज्ञयः ||{9/11}{10.71.9}{10.6.3.9}{8.2.24.4}{765, 908, 9563}

इ॒मे¦ये¦न¦अ॒र्वाक्¦न¦प॒रः¦चर᳚न्ति¦न¦ब्रा॒ह्म॒णासः॑¦न¦सु॒तेऽक॑रासः |
ते¦ए॒ते¦वाच᳚‌म्¦अ॒भि॒ऽपद्य॑¦पा॒पया᳚¦सि॒रीः¦तन्त्र᳚‌म्¦त॒न्व॒ते॒¦अप्र॑ऽजज्ञयः ||

सर्वे᳚ नन्दन्ति य॒शसाग॑तेन सभासा॒हेन॒ सख्या॒ सखा᳚यः |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

कि॒ल्बि॒ष॒स्पृत्पि॑तु॒षणि॒र्ह्ये᳚षा॒मरं᳚ हि॒तो भव॑ति॒ वाजि॑नाय ||{10/11}{10.71.10}{10.6.3.10}{8.2.24.5}{766, 908, 9564}

सर्वे᳚¦न॒न्द॒न्ति॒¦य॒शसा᳚¦आऽग॑तेन¦स॒भा॒ऽसा॒हेन॑¦सख्या᳚¦सखा᳚यः |
कि॒ल्बि॒ष॒ऽस्पृत्¦पि॒तु॒ऽसणिः॑¦हि¦ए॒षा॒‌म्¦अर᳚‌म्¦हि॒तः¦भव॑ति¦वाजि॑नाय ||

ऋ॒चां त्वः॒ पोष॑मास्ते पुपु॒ष्वान्‌ गा᳚य॒त्रं त्वो᳚ गायति॒ शक्व॑रीषु |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

ब्र॒ह्मा त्वो॒ वद॑ति जातवि॒द्यां य॒ज्ञस्य॒ मात्रां॒ वि मि॑मीत उ त्वः ||{11/11}{10.71.11}{10.6.3.11}{8.2.24.6}{767, 908, 9565}

ऋ॒चा‌म्¦त्वः॒¦पोष᳚‌म्¦आ॒स्ते॒¦पु॒पु॒ष्वान्¦गा॒य॒त्र‌म्¦त्वः॒¦गा॒य॒ति॒¦शक्व॑रीषु |
ब्र॒ह्मा¦त्वः॒¦वद॑ति¦जा॒त॒ऽवि॒द्या‌म्¦य॒ज्ञस्य॑¦मात्रा᳚‌म्¦वि¦मि॒मी॒ते॒¦ऊँ॒ इति॑¦त्वः॒ ||

[72] देवानामिति नवर्चस्य सूक्तस्य लौक्योबृहस्पतिर्देवाअनुष्टुप् | (आंगिरसोवा बृहस्पतिऋषिर्दाक्षायण्यदितिर्वाऋषिका)|
दे॒वानां॒ नु व॒यं जाना॒ प्र वो᳚चाम विप॒न्यया᳚ |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

उ॒क्थेषु॑ श॒स्यमा᳚नेषु॒ यः पश्या॒दुत्त॑रे यु॒गे ||{1/9}{10.72.1}{10.6.4.1}{8.3.1.1}{768, 909, 9566}

दे॒वाना᳚‌म्¦नु¦व॒य‌म्¦जाना᳚¦प्र¦वो॒चा॒म॒¦वि॒प॒न्यया᳚ | उ॒क्थेषु॑¦श॒स्यमा᳚नेषु¦यः¦पश्या᳚त्¦उत्ऽत॑रे¦यु॒गे ||

ब्रह्म॑ण॒स्पति॑रे॒ता सं क॒र्मार॑ इवाधमत् |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

दे॒वानां᳚ पू॒र्व्ये यु॒गेऽस॑तः॒ सद॑जायत ||{2/9}{10.72.2}{10.6.4.2}{8.3.1.2}{769, 909, 9567}

ब्रह्म॑णः¦पतिः॑¦ए॒ता¦स‌म्¦क॒र्मारः॑ऽ‌इव¦अ॒ध॒म॒त् | दे॒वाना᳚‌म्¦पू॒र्व्ये¦यु॒गे¦अस॑तः¦सत्¦अ॒जा॒य॒त॒ ||

दे॒वानां᳚ यु॒गे प्र॑थ॒मेऽस॑तः॒ सद॑जायत |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

तदाशा॒, अन्व॑जायन्त॒ तदु॑त्ता॒नप॑द॒स्परि॑ ||{3/9}{10.72.3}{10.6.4.3}{8.3.1.3}{770, 909, 9568}

दे॒वाना᳚‌म्¦यु॒गे¦प्र॒थ॒मे¦अस॑तः¦सत्¦अ॒जा॒य॒त॒ | तत्¦आशाः᳚¦अनु॑¦अ॒जा॒य॒न्त॒¦तत्¦उ॒त्ता॒नऽप॑दः¦परि॑ ||

भूर्ज॑ज्ञ उत्ता॒नप॑दो भु॒व आशा᳚, अजायन्त |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

अदि॑ते॒र्दक्षो᳚, अजायत॒ दक्षा॒द्वदि॑तिः॒ परि॑ ||{4/9}{10.72.4}{10.6.4.4}{8.3.1.4}{771, 909, 9569}

भूः¦ज॒ज्ञे॒¦उ॒त्ता॒नऽप॑दः¦भु॒वः¦आशाः᳚¦अ॒जा॒य॒न्त॒ | अदि॑तेः¦दक्षः॑¦अ॒जा॒य॒त॒¦दक्षा᳚त्¦ऊँ॒ इति॑¦अदि॑तिः¦परि॑ ||

अदि॑ति॒र्ह्यज॑निष्ट॒ दक्ष॒ या दु॑हि॒ता तव॑ |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

तां दे॒वा, अन्व॑जायन्त भ॒द्रा, अ॒मृत॑बन्धवः ||{5/9}{10.72.5}{10.6.4.5}{8.3.1.5}{772, 909, 9570}

अदि॑तिः¦हि¦अज॑निष्ट¦दक्ष॑¦या¦दु॒हि॒ता¦तव॑ | ता‌म्¦दे॒वाः¦अनु॑¦अ॒जा॒य॒न्त॒¦भ॒द्राः¦अ॒मृत॑ऽबन्धवः ||

यद्दे᳚वा, अ॒दः स॑लि॒ले सुसं᳚रब्धा॒, अति॑ष्ठत |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

अत्रा᳚ वो॒ नृत्य॑तामिव ती॒व्रो रे॒णुरपा᳚यत ||{6/9}{10.72.6}{10.6.4.6}{8.3.2.1}{773, 909, 9571}

यत्¦दे॒वाः॒¦अ॒दः¦स॒लि॒ले¦सुऽसं᳚रब्धाः¦अति॑ष्ठत | अत्र॑¦वः॒¦नृत्य॑ता‌म्ऽ‌इव¦ती॒व्रः¦रे॒णुः¦अप॑¦आ॒य॒त॒ ||

यद्दे᳚वा॒ यत॑यो यथा॒ भुव॑ना॒न्यपि᳚न्वत |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

अत्रा᳚ समु॒द्र आ गू॒ळ्हमा सूर्य॑मजभर्तन ||{7/9}{10.72.7}{10.6.4.7}{8.3.2.2}{774, 909, 9572}

यत्¦दे॒वाः॒¦यत॑यः¦य॒था॒¦भुव॑नानि¦अपि᳚न्वत | अत्र॑¦स॒मु॒द्रे¦आ¦गू॒ळ्ह‌म्¦आ¦सूर्य᳚‌म्¦अ॒ज॒भ॒र्त॒न॒ ||

अ॒ष्टौ पु॒त्रासो॒, अदि॑ते॒र्ये जा॒तास्त॒न्व१॑(अ॒)स्परि॑ |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

दे॒वाँ, उप॒ प्रैत्स॒प्तभिः॒ परा᳚ मार्ता॒ण्डमा᳚स्यत् ||{8/9}{10.72.8}{10.6.4.8}{8.3.2.3}{775, 909, 9573}

अ॒ष्टौ¦पु॒त्रासः॑¦अदि॑तेः¦ये¦जा॒ताः¦त॒न्वः॑¦परि॑ | दे॒वान्¦उप॑¦प्र¦ऐ॒त्¦स॒प्तऽभिः॑¦परा᳚¦मा॒र्ता॒ण्ड‌म्¦आ॒स्य॒त् ||

स॒प्तभिः॑ पु॒त्रैरदि॑ति॒रुप॒ प्रैत्पू॒र्व्यं यु॒गम् |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

प्र॒जायै᳚ मृ॒त्यवे᳚ त्व॒त्पुन᳚र्मार्ता॒ण्डमाभ॑रत् ||{9/9}{10.72.9}{10.6.4.9}{8.3.2.4}{776, 909, 9574}

स॒प्तऽभिः॑¦पु॒त्रैः¦अदि॑तिः¦उप॑¦प्र¦ऐ॒त्¦पू॒र्व्य‌म्¦यु॒ग‌म् | प्र॒ऽजायै᳚¦मृ॒त्यवे᳚¦त्व॒त्¦पुनः॑¦मा॒र्ता॒ण्ड‌म्¦आ¦अ॒भ॒र॒त् ||

[73] जनिष्ठाइत्येकादशर्चस्य सूक्तस्य शाक्त्यो गौरिवीतिरिंद्रस्त्रिष्टुप् |
जनि॑ष्ठा, उ॒ग्रः सह॑से तु॒राय॑ म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अव॑र्ध॒न्निन्द्रं᳚ म॒रुत॑श्चि॒दत्र॑ मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा ||{1/11}{10.73.1}{10.6.5.1}{8.3.3.1}{777, 910, 9575}

जनि॑ष्ठाः¦उ॒ग्रः¦सह॑से¦तु॒राय॑¦म॒न्द्रः¦ओजि॑ष्ठः¦ब॒हु॒ल।आ॑भिमानः |
अव॑र्धन्¦इन्द्र᳚‌म्¦म॒रुतः॑¦चि॒त्¦अत्र॑¦मा॒ता¦यत्¦वी॒र‌म्¦द॒धन॑त्¦धनि॑ष्ठा ||

द्रु॒हो निष॑त्ता पृश॒नी चि॒देवैः᳚ पु॒रू शंसे᳚न वावृधु॒ष्ट इन्द्र᳚म् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अ॒भीवृ॑तेव॒ ता म॑हाप॒देन॑ ध्वा॒न्तात्प्र॑पि॒त्वादुद॑रन्त॒ गर्भाः᳚ ||{2/11}{10.73.2}{10.6.5.2}{8.3.3.2}{778, 910, 9576}

द्रु॒हः¦निऽस॑त्ता¦पृ॒श॒नी¦चि॒त्¦एवैः᳚¦पु॒रु¦शंसे᳚न¦व॒वृ॒धुः॒¦ते¦इन्द्र᳚‌म् |
अ॒भिवृ॑ताऽ‌इव¦ता¦म॒हा॒ऽप॒देन॑¦ध्वा॒न्तात्¦प्र॒ऽपि॒त्वात्¦उत्¦अ॒र॒न्त॒¦गर्भाः᳚ ||

ऋ॒ष्वा ते॒ पादा॒ प्र यज्जिगा॒स्यव॑र्ध॒न्वाजा᳚, उ॒त ये चि॒दत्र॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

त्वमि᳚न्द्र सालावृ॒कान्‌ त्स॒हस्र॑मा॒सन्द॑धिषे, अ॒श्विना व॑वृत्याः ||{3/11}{10.73.3}{10.6.5.3}{8.3.3.3}{779, 910, 9577}

ऋ॒ष्वा¦ते॒¦पादा᳚¦प्र¦यत्¦जिगा᳚सि¦अव॑र्धन्¦वाजाः᳚¦उ॒त¦ये¦चि॒त्¦अत्र॑ |
त्व‌म्¦इ॒न्द्र॒¦सा॒ला॒वृ॒कान्¦स॒हस्र᳚‌म्¦आ॒सन्¦द॒धि॒षे॒¦अ॒श्विना᳚¦आ¦व॒वृ॒त्याः॒ ||

स॒म॒ना तूर्णि॒रुप॑ यासि य॒ज्ञमा नास॑त्या स॒ख्याय॑ वक्षि |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

व॒साव्या᳚मिन्द्र धारयः स॒हस्रा॒श्विना᳚ शूर ददतुर्म॒घानि॑ ||{4/11}{10.73.4}{10.6.5.4}{8.3.3.4}{780, 910, 9578}

स॒म॒ना¦तूर्णिः॑¦उप॑¦या॒सि॒¦य॒ज्ञ‌म्¦आ¦नास॑त्या¦स॒ख्याय॑¦व॒क्षि॒ |
व॒साव्या᳚‌म्¦इ॒न्द्र॒¦धा॒र॒यः॒¦स॒हस्रा᳚¦अ॒श्विना᳚¦शू॒र॒¦द॒द॒तुः॒¦म॒घानि॑ ||

मन्द॑मान ऋ॒तादधि॑ प्र॒जायै॒ सखि॑भि॒रिन्द्र॑ इषि॒रेभि॒रर्थ᳚म् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

आभि॒र्हि मा॒या, उप॒ दस्यु॒मागा॒न्मिहः॒ प्र त॒म्रा, अ॑वप॒त्तमां᳚सि ||{5/11}{10.73.5}{10.6.5.5}{8.3.3.5}{781, 910, 9579}

मन्द॑मानः¦ऋ॒तात्¦अधि॑¦प्र॒ऽजायै᳚¦सखि॑ऽभिः¦इन्द्रः॑¦इ॒षि॒रेभिः॑¦अर्थ᳚‌म् |
आ¦आ॒भिः॒¦हि¦मा॒याः¦उप॑¦दस्यु᳚‌म्¦आ¦अगा᳚त्¦मिहः॑¦प्र¦त॒म्राः¦अ॒व॒प॒त्¦तमां᳚सि ||

सना᳚माना चिद्ध्वसयो॒ न्य॑स्मा॒, अवा᳚ह॒न्निन्द्र॑ उ॒षसो॒ यथानः॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

ऋ॒ष्वैर॑गच्छः॒ सखि॑भि॒र्निका᳚मैः सा॒कं प्र॑ति॒ष्ठा हृद्या᳚ जघन्थ ||{6/11}{10.73.6}{10.6.5.6}{8.3.4.1}{782, 910, 9580}

सऽना᳚माना¦चि॒त्¦ध्व॒स॒यः॒¦नि¦अ॒स्मै॒¦अव॑¦अ॒ह॒न्¦इन्द्रः॑¦उ॒षसः॑¦यथा᳚¦अनः॑ |
ऋ॒ष्वैः¦अ॒ग॒च्छः॒¦सखि॑ऽभिः¦निऽका᳚मैः¦सा॒क‌म्¦प्र॒ति॒ऽस्था¦हृद्या᳚¦ज॒घ॒न्थ॒ ||

त्वं ज॑घन्थ॒ नमु॑चिं मख॒स्युं दासं᳚ कृण्वा॒न ऋष॑ये॒ विमा᳚यम् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

त्वं च॑कर्थ॒ मन॑वे स्यो॒नान्‌ प॒थो दे᳚व॒त्राञ्ज॑सेव॒ याना॑न् ||{7/11}{10.73.7}{10.6.5.7}{8.3.4.2}{783, 910, 9581}

त्व‌म्¦जा॒घ॒न्थ॒¦नमु॑चि‌म्¦म॒ख॒स्यु‌म्¦दास᳚‌म्¦कृ॒ण्वा॒नः¦ऋष॑ये¦विऽमा᳚य‌म् |
त्व‌म्¦च॒क॒र्थ॒¦मन॑वे¦स्यो॒नान्¦प॒थः¦दे॒व॒ऽत्रा¦अंज॑साऽ‌इव¦याना॑न् ||

त्वमे॒तानि॑ पप्रिषे॒ वि नामेशा᳚न इन्द्र दधिषे॒ गभ॑स्तौ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अनु॑ त्वा दे॒वाः शव॑सा मदन्त्यु॒परि॑बुध्नान्व॒निन॑श्चकर्थ ||{8/11}{10.73.8}{10.6.5.8}{8.3.4.3}{784, 910, 9582}

त्व‌म्¦ए॒तानि॑¦प॒प्रि॒षे॒¦वि¦नाम॑¦ईशा᳚नः¦इ॒न्द्र॒¦द॒धि॒षे॒¦गभ॑स्तौ |
अनु॑¦त्वा॒¦दे॒वाः¦शव॑सा¦म॒द॒न्ति॒¦उ॒परि॑ऽबुध्नान्¦व॒निनः॑¦च॒क॒र्थ॒ ||

च॒क्रं यद॑स्या॒प्स्वा निष॑त्तमु॒तो तद॑स्मै॒ मध्विच्च॑च्छद्यात् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

पृ॒थि॒व्यामति॑षितं॒ यदूधः॒ पयो॒ गोष्वद॑धा॒, ओष॑धीषु ||{9/11}{10.73.9}{10.6.5.9}{8.3.4.4}{785, 910, 9583}

च॒क्र‌म्¦यत्¦अ॒स्य॒¦अ॒प्ऽसु¦आ¦निऽस॑त्त‌म्¦उ॒तो इति॑¦तत्¦अ॒स्मै॒¦मधु॑¦इत्¦च॒च्छ॒द्या॒त् |
पृ॒थि॒व्या‌म्¦अति॑ऽसित‌म्¦यत्¦ऊधः॑¦पयः॑¦गोषु॑¦अद॑धाः¦ओष॑धीषु ||

अश्वा᳚दिया॒येति॒ यद्वद॒न्त्योज॑सो जा॒तमु॒त म᳚न्य एनम् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

म॒न्योरि॑याय ह॒र्म्येषु॑ तस्थौ॒ यतः॑ प्रज॒ज्ञ इन्द्रो᳚, अस्य वेद ||{10/11}{10.73.10}{10.6.5.10}{8.3.4.5}{786, 910, 9584}

अश्वा᳚त्¦इ॒या॒य॒¦इति॑¦यत्¦वद᳚न्ति¦ओज॑सः¦जा॒त‌म्¦उ॒त¦म॒न्ये॒¦ए॒न॒‌म् |
म॒न्योः¦इ॒या॒य॒¦ह॒र्म्येषु॑¦त॒स्थौ॒¦यतः॑¦प्र॒ऽज॒ज्ञे¦इन्द्रः॑¦अ॒स्य॒¦वे॒द॒ ||

वयः॑ सुप॒र्णा, उप॑ सेदु॒रिन्द्रं᳚ प्रि॒यमे᳚धा॒ ऋष॑यो॒ नाध॑मानाः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अप॑ ध्वा॒न्तमू᳚र्णु॒हि पू॒र्धि चक्षु᳚र्मुमु॒ग्ध्य१॑(अ॒)स्मान्नि॒धये᳚व ब॒द्धान् ||{11/11}{10.73.11}{10.6.5.11}{8.3.4.6}{787, 910, 9585}

वयः॑¦सु॒ऽप॒र्णाः¦उप॑¦से॒दुः॒¦इन्द्र᳚‌म्¦प्रि॒यऽमे᳚धाः¦ऋष॑यः¦नाध॑मानाः |
अप॑¦ध्वा॒न्त‌म्¦ऊ॒र्णु॒हि¦पू॒र्धि¦चक्षुः॑¦मु॒मु॒ग्धि¦अ॒स्मान्¦नि॒धया᳚ऽ‌इव¦ब॒द्धान् ||

[74] वसूनामिति षडृचस्य सूक्तस्य शाक्त्यो गौरिवीतिरिंद्रस्त्रिष्टुप् |
वसू᳚नां वा चर्कृष॒ इय॑क्षन्धि॒या वा᳚ य॒ज्ञैर्वा॒ रोद॑स्योः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अर्व᳚न्तो वा॒ ये र॑यि॒मन्तः॑ सा॒तौ व॒नुं वा॒ ये सु॒श्रुणं᳚ सु॒श्रुतो॒ धुः ||{1/6}{10.74.1}{10.6.6.1}{8.3.5.1}{788, 911, 9586}

वसू᳚ना‌म्¦वा॒¦च॒र्कृ॒षे॒¦इय॑क्षन्¦धि॒या¦वा॒¦य॒ज्ञैः¦वा॒¦रोद॑स्योः |
अर्व᳚न्तः¦वा॒¦ये¦र॒यि॒ऽमन्तः॑¦सा॒तौ¦व॒नु‌म्¦वा॒¦ये¦सु॒ऽश्रुण᳚‌म्¦सु॒ऽश्रुतः॑¦धुरिति॒ धुः ||

हव॑ एषा॒मसु॑रो नक्षत॒ द्यां श्र॑वस्य॒ता मन॑सा निंसत॒ क्षाम् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

चक्षा᳚णा॒ यत्र॑ सुवि॒ताय॑ दे॒वा द्यौर्न वारे᳚भिः कृ॒णव᳚न्त॒ स्वैः ||{2/6}{10.74.2}{10.6.6.2}{8.3.5.2}{789, 911, 9587}

हवः॑¦ए॒षा॒‌म्¦असु॑रः¦न॒क्ष॒त॒¦द्या‌म्¦श्र॒व॒स्य॒ता¦मन॑सा¦निं॒स॒त॒¦क्षा‌म् |
चक्षा᳚णाः¦यत्र॑¦सु॒वि॒ताय॑¦दे॒वाः¦द्यौः¦न¦वारे᳚भिः¦कृ॒णव᳚न्त¦स्वैः ||

इ॒यमे᳚षाम॒मृता᳚नां॒ गीः स॒र्वता᳚ता॒ ये कृ॒पण᳚न्त॒ रत्न᳚म् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

धियं᳚ च य॒ज्ञं च॒ साध᳚न्त॒स्ते नो᳚ धान्तु वस॒व्य१॑(अ॒)मसा᳚मि ||{3/6}{10.74.3}{10.6.6.3}{8.3.5.3}{790, 911, 9588}

इ॒य‌म्¦ए॒षा॒‌म्¦अ॒मृता᳚ना‌म्¦गीः¦स॒र्वऽता᳚ता¦ये¦कृ॒पण᳚न्त¦रत्न᳚‌म् |
धिय᳚‌म्¦च॒¦य॒ज्ञ‌म्¦च॒¦साध᳚न्तः¦ते¦नः॒¦धा॒न्तु॒¦व॒स॒व्य᳚‌म्¦असा᳚मि ||

आ तत्त॑ इन्द्रा॒यवः॑ पनन्ता॒भि य ऊ॒र्वं गोम᳚न्तं॒ तितृ॑त्सान् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

स॒कृ॒त्स्व१॑(अं॒) ये पु॑रुपु॒त्रां म॒हीं स॒हस्र॑धारां बृह॒तीं दुदु॑क्षन् ||{4/6}{10.74.4}{10.6.6.4}{8.3.5.4}{791, 911, 9589}

आ¦तत्¦ते॒¦इ॒न्द्र॒¦आ॒यवः॑¦प॒न॒न्त॒¦अ॒भि¦ये¦ऊ॒र्व‌म्¦गोऽम᳚न्त‌म्¦तितृ॑त्सान् |
स॒कृ॒त्ऽस्व᳚‌म्¦ये¦पु॒रु॒ऽपु॒त्रा‌म्¦म॒ही‌म्¦स॒हस्र॑ऽधारा‌म्¦बृ॒ह॒ती‌म्¦दुधु॑क्षन् ||

शची᳚व॒ इन्द्र॒मव॑से कृणुध्व॒मना᳚नतं द॒मय᳚न्तं पृत॒न्यून् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

ऋ॒भु॒क्षणं᳚ म॒घवा᳚नं सुवृ॒क्तिं भर्ता॒ यो वज्रं॒ नर्यं᳚ पुरु॒क्षुः ||{5/6}{10.74.5}{10.6.6.5}{8.3.5.5}{792, 911, 9590}

शची᳚ऽवः¦इन्द्र᳚‌म्¦अव॑से¦कृ॒णु॒ध्व॒‌म्¦अना᳚नत‌म्¦द॒मय᳚न्त‌म्¦पृ॒त॒न्यून् |
ऋ॒भु॒क्षण᳚‌म्¦म॒घऽवा᳚न‌म्¦सु॒ऽवृ॒क्ति‌म्¦भर्ता᳚¦यः¦वज्र᳚‌म्¦नर्य᳚‌म्¦पु॒रु॒ऽक्षुः ||

यद्वा॒वान॑ पुरु॒तमं᳚ पुरा॒षाळा वृ॑त्र॒हेन्द्रो॒ नामा᳚न्यप्राः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अचे᳚ति प्रा॒सह॒स्पति॒स्तुवि॑ष्मा॒न्यदी᳚मु॒श्मसि॒ कर्त॑वे॒ कर॒त्तत् ||{6/6}{10.74.6}{10.6.6.6}{8.3.5.6}{793, 911, 9591}

यत्¦व॒वान॑¦पु॒रु॒ऽतम᳚‌म्¦पु॒रा॒षाट्¦आ¦वृ॒त्र॒ऽहा¦इन्द्रः॑¦नामा᳚नि¦अ॒प्राः॒ |
अचे᳚ति¦प्र॒ऽसहः॑¦पतिः॑¦तुवि॑ष्मान्¦यत्¦ई॒‌म्¦उ॒श्मसि॑¦कर्त॑वे¦कर॑त्¦तत् ||

[75] प्रसुवइति नवर्चस्य सूक्तस्य प्रैयमेधः सिंधुक्षिन्नद्योजगती |
प्र सु व॑ आपो महि॒मान॑मुत्त॒मं का॒रुर्वो᳚चाति॒ सद॑ने वि॒वस्व॑तः |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

प्र स॒प्तस॑प्त त्रे॒धा हि च॑क्र॒मुः प्र सृत्व॑रीणा॒मति॒ सिन्धु॒रोज॑सा ||{1/9}{10.75.1}{10.6.7.1}{8.3.6.1}{794, 912, 9592}

प्र¦सु¦वः॒¦आ॒पः॒¦म॒हि॒मान᳚‌म्¦उ॒त्ऽत॒म‌म्¦का॒रुः¦वो॒चा॒ति॒¦सद॑ने¦वि॒वस्व॑तः |
प्र¦स॒प्तऽस॑प्त¦त्रे॒धा¦हि¦च॒क्र॒मुः¦प्र¦सृत्व॑रीणा‌म्¦अति॑¦सिन्धुः॑¦ओज॑सा ||

प्र ते᳚ऽरद॒द्वरु॑णो॒ यात॑वे प॒थः सिन्धो॒ यद्वाजाँ᳚, अ॒भ्यद्र॑व॒स्त्वम् |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

भूम्या॒, अधि॑ प्र॒वता᳚ यासि॒ सानु॑ना॒ यदे᳚षा॒मग्रं॒ जग॑तामिर॒ज्यसि॑ ||{2/9}{10.75.2}{10.6.7.2}{8.3.6.2}{795, 912, 9593}

प्र¦ते॒¦अ॒र॒द॒त्¦वरु॑णः¦यात॑वे¦प॒थः¦सिन्धो॒ इति॑¦यत्¦वाजा᳚न्¦अ॒भि¦अद्र॑वः¦त्व‌म् |
भूम्याः᳚¦अधि॑¦प्र॒ऽवता᳚¦या॒सि॒¦सानु॑ना¦यत्¦ए॒षा॒‌म्¦अग्र᳚‌म्¦जग॑ता‌म्¦इ॒र॒ज्यसि॑ ||

दि॒वि स्व॒नो य॑तते॒ भूम्यो॒पर्य॑न॒न्तं शुष्म॒मुदि॑यर्ति भा॒नुना᳚ |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

अ॒भ्रादि॑व॒ प्र स्त॑नयन्ति वृ॒ष्टयः॒ सिन्धु॒र्यदेति॑ वृष॒भो न रोरु॑वत् ||{3/9}{10.75.3}{10.6.7.3}{8.3.6.3}{796, 912, 9594}

दि॒वि¦स्व॒नः¦य॒त॒ते॒¦भूम्या᳚¦उ॒परि॑¦अ॒न॒न्त‌म्¦शुष्म᳚‌म्¦उत्¦इ॒य॒र्ति॒¦भा॒नुना᳚ |
अ॒भ्रात्ऽ‌इ᳚व¦प्र¦स्त॒न॒य॒न्ति॒¦वृ॒ष्टयः॑¦सिन्धुः॑¦यत्¦एति॑¦वृ॒ष॒भः¦न¦रोरु॑वत् ||

अ॒भि त्वा᳚ सिन्धो॒ शिशु॒मिन्न मा॒तरो᳚ वा॒श्रा, अ॑र्षन्ति॒ पय॑सेव धे॒नवः॑ |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

राजे᳚व॒ युध्वा᳚ नयसि॒ त्वमित्सिचौ॒ यदा᳚सा॒मग्रं᳚ प्र॒वता॒मिन॑क्षसि ||{4/9}{10.75.4}{10.6.7.4}{8.3.6.4}{797, 912, 9595}

अ॒भि¦त्वा॒¦सिन्धो॒ इति॑¦शिशु᳚‌म्¦इत्¦न¦मा॒तरः॑¦वा॒श्राः¦अ॒र्ष॒न्ति॒¦पय॑साऽ‌इव¦धे॒नवः॑ |
राजा᳚ऽ‌इव¦युध्वा᳚¦न॒य॒सि॒¦त्व‌म्¦इत्¦सिचौ᳚¦यत्¦आ॒सा॒‌म्¦अग्र᳚‌म्¦प्र॒ऽवता᳚‌म्¦इन॑क्षसि ||

इ॒मं मे᳚ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमं᳚ सचता॒ परु॒ष्ण्या |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

अ॒सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒याऽऽर्जी᳚कीये शृणु॒ह्या सु॒षोम॑या ||{5/9}{10.75.5}{10.6.7.5}{8.3.6.5}{798, 912, 9596}

इ॒म‌म्¦मे॒¦ग॒ङ्गे॒¦य॒मु॒ने॒¦स॒र॒स्व॒ति॒¦शुतु॑द्रि¦स्तोम᳚‌म्¦स॒च॒त॒¦परु॑ष्णि¦आ |
अ॒सि॒क्न्या¦म॒रु॒त्ऽवृ॒धे॒¦वि॒तस्त॑या¦आर्जी᳚कीये¦शृ॒णु॒हि¦आ¦सु॒ऽसोम॑या ||

तृ॒ष्टाम॑या प्रथ॒मं यात॑वे स॒जूः सु॒सर्त्वा᳚ र॒सया᳚ श्वे॒त्या त्या |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

त्वं सि᳚न्धो॒ कुभ॑या गोम॒तीं क्रुमुं᳚ मेह॒त्न्वा स॒रथं॒ याभि॒रीय॑से ||{6/9}{10.75.6}{10.6.7.6}{8.3.7.1}{799, 912, 9597}

तृ॒ष्ट।आ॑मया¦प्र॒थ॒म‌म्¦यात॑वे¦स॒ऽजूः¦सु॒ऽसर्त्वा᳚¦र॒सया᳚¦श्वे॒त्या¦त्या |
त्व‌म्¦सि॒न्धो॒ इति॑¦कुभ॑या¦गो॒ऽम॒ती‌म्¦क्रुमु᳚‌म्¦मे॒ह॒त्न्वा¦स॒ऽरथ᳚‌म्¦याभिः॑¦ईय॑से ||

ऋजी॒त्येनी॒ रुश॑ती महि॒त्वा परि॒ ज्रयां᳚सि भरते॒ रजां᳚सि |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

अद॑ब्धा॒ सिन्धु॑र॒पसा᳚म॒पस्त॒माश्वा॒ न चि॒त्रा वपु॑षीव दर्श॒ता ||{7/9}{10.75.7}{10.6.7.7}{8.3.7.2}{800, 912, 9598}

ऋजी᳚ती¦एनी᳚¦रुश॑ती¦म॒हि॒ऽत्वा¦परि॑¦ज्रयां᳚सि¦भ॒र॒ते॒¦रजां᳚सि |
अद॑ब्धा¦सिन्धुः॑¦अ॒पसा᳚‌म्¦अ॒पःऽत॑मा¦अश्वा᳚¦न¦चि॒त्रा¦वपु॑षीऽ‌इव¦द॒र्श॒ता ||

स्वश्वा॒ सिन्धुः॑ सु॒रथा᳚ सु॒वासा᳚ हिर॒ण्ययी॒ सुकृ॑ता वा॒जिनी᳚वती |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

ऊर्णा᳚वती युव॒तिः सी॒लमा᳚वत्यु॒ताधि॑ वस्ते सु॒भगा᳚ मधु॒वृध᳚म् ||{8/9}{10.75.8}{10.6.7.8}{8.3.7.3}{801, 912, 9599}

सु॒।आश्वा᳚¦सिन्धुः॑¦सु॒ऽरथा᳚¦सु॒ऽवासाः᳚¦हि॒र॒ण्ययी᳚¦सुऽकृ॑ता¦वा॒जिनी᳚ऽवती |
ऊर्णा᳚ऽवती¦यु॒व॒तिः¦सी॒लमा᳚ऽवती¦उ॒त¦अधि॑¦व॒स्ते॒¦सु॒ऽभगा᳚¦म॒धु॒ऽवृध᳚‌म् ||

सु॒खं रथं᳚ युयुजे॒ सिन्धु॑र॒श्विनं॒ तेन॒ वाजं᳚ सनिषद॒स्मिन्ना॒जौ |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

म॒हान्ह्य॑स्य महि॒मा प॑न॒स्यतेऽद॑ब्धस्य॒ स्वय॑शसो विर॒प्शिनः॑ ||{9/9}{10.75.9}{10.6.7.9}{8.3.7.4}{802, 912, 9600}

सु॒ख‌म्¦रथ᳚‌म्¦यु॒यु॒जे॒¦सिन्धुः॑¦अ॒श्विन᳚‌म्¦तेन॑¦वाज᳚‌म्¦स॒नि॒ष॒त्¦अ॒स्मिन्¦आ॒जौ |
म॒हान्¦हि¦अ॒स्य॒¦म॒हि॒मा¦प॒न॒स्यते᳚¦अद॑ब्धस्य¦स्वऽय॑शसः¦वि॒ऽर॒प्शिनः॑ ||

[76] आवऋंजसइत्यष्टर्चस्य सूक्तस्यैरावतो जरत्कर्णः सर्पोग्रावाणोजगती |
आ व॑ ऋञ्जस ऊ॒र्जां व्यु॑ष्टि॒ष्विन्द्रं᳚ म॒रुतो॒ रोद॑सी, अनक्तन |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

उ॒भे यथा᳚ नो॒, अह॑नी सचा॒भुवा॒ सदः॑सदो वरिव॒स्यात॑ उ॒द्भिदा᳚ ||{1/8}{10.76.1}{10.6.8.1}{8.3.8.1}{803, 913, 9601}

आ¦वः॒¦ऋं॒ज॒से॒¦ऊ॒र्जा‌म्¦वि।औ᳚ष्टिषु¦इन्द्र᳚‌म्¦म॒रुतः॑¦रोद॑सी॒ इति॑¦अ॒न॒क्त॒न॒ |
उ॒भे इति॑¦यथा᳚¦नः॒¦अह॑नी॒ इति॑¦स॒चा॒ऽभुवा᳚¦सदः॑ऽसदः¦व॒रि॒व॒स्यातः॑¦उ॒त्ऽभिदा᳚ ||

तदु॒ श्रेष्ठं॒ सव॑नं सुनोत॒नात्यो॒ न हस्त॑यतो॒, अद्रिः॑ सो॒तरि॑ |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

वि॒दद्ध्य१॑(अ॒)र्यो, अ॒भिभू᳚ति॒ पौंस्यं᳚ म॒हो रा॒ये चि॑त्तरुते॒ यदर्व॑तः ||{2/8}{10.76.2}{10.6.8.2}{8.3.8.2}{804, 913, 9602}

तत्¦ऊँ॒ इति॑¦श्रेष्ठ᳚‌म्¦सव॑न‌म्¦सु॒नो॒त॒न॒¦अत्यः॑¦न¦हस्त॑ऽयतः¦अद्रिः॑¦सो॒तरि॑ |
वि॒दत्¦हि¦अ॒र्यः¦अ॒भिऽभू᳚ति¦पौंस्य᳚‌म्¦म॒हः¦रा॒ये¦चि॒त्¦त॒रु॒ते॒¦यत्¦अर्व॑तः ||

तदिद्ध्य॑स्य॒ सव॑नं वि॒वेर॒पो यथा᳚ पु॒रा मन॑वे गा॒तुमश्रे᳚त् |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

गो,अ᳚र्णसि त्वा॒ष्ट्रे, अश्व॑निर्णिजि॒ प्रेम॑ध्व॒रेष्व॑ध्व॒राँ, अ॑शिश्रयुः ||{3/8}{10.76.3}{10.6.8.3}{8.3.8.3}{805, 913, 9603}

तत्¦इत्¦हि¦अ॒स्य॒¦सव॑न‌म्¦वि॒वेः¦अ॒पः¦यथा᳚¦पु॒रा¦मन॑वे¦गा॒तु‌म्¦अश्रे᳚त् |
गो।आ᳚र्णसि¦त्वा॒ष्ट्रे¦अश्व॑ऽनिर्निजि¦प्र¦ई॒‌म्¦अ॒ध्व॒रेषु॑¦अ॒ध्व॒रान्¦अ॒शि॒श्र॒युः॒ ||

अप॑ हत र॒क्षसो᳚ भङ्गु॒राव॑तः स्कभा॒यत॒ निरृ॑तिं॒ सेध॒ताम॑तिम् |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

आ नो᳚ र॒यिं सर्व॑वीरं सुनोतन देवा॒व्यं᳚ भरत॒ श्लोक॑मद्रयः ||{4/8}{10.76.4}{10.6.8.4}{8.3.8.4}{806, 913, 9604}

अप॑¦ह॒त॒¦र॒क्षसः॑¦भ॒ङ्गु॒रऽव॑तः¦स्क॒भा॒यत॑¦निःऽऋ॑ति‌म्¦सेध॑त¦अम॑ति‌म् |
आ¦नः॒¦र॒यि‌म्¦सर्व॑ऽवीर‌म्¦सु॒नो॒त॒न॒¦दे॒व॒।आ॒व्य᳚‌म्¦भ॒र॒त॒¦श्लोक᳚‌म्¦अ॒द्र॒यः॒ ||

दि॒वश्चि॒दा वोऽम॑वत्तरेभ्यो वि॒भ्वना᳚ चिदा॒श्व॑पस्तरेभ्यः |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

वा॒योश्चि॒दा सोम॑रभस्तरेभ्यो॒ऽग्नेश्चि॑दर्च पितु॒कृत्त॑रेभ्यः ||{5/8}{10.76.5}{10.6.8.5}{8.3.8.5}{807, 913, 9605}

दि॒वः¦चि॒त्¦आ¦वः॒¦अम॑वत्ऽतरेभ्यः¦वि॒ऽभ्वना᳚¦चि॒त्¦आ॒श्व॑पःऽतरेभ्यः |
वा॒योः¦चि॒त्¦आ¦सोम॑रभःऽतरेभ्यः¦अ॒ग्नेः¦चि॒त्¦अ॒र्च॒¦पि॒तु॒कृत्ऽत॑रेभ्यः ||

भु॒रन्तु॑ नो य॒शसः॒ सोत्वन्ध॑सो॒ ग्रावा᳚णो वा॒चा दि॒विता᳚ दि॒वित्म॑ता |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

नरो॒ यत्र॑ दुह॒ते काम्यं॒ मध्वा᳚घो॒षय᳚न्तो, अ॒भितो᳚ मिथ॒स्तुरः॑ ||{6/8}{10.76.6}{10.6.8.6}{8.3.9.1}{808, 913, 9606}

भु॒रन्तु॑¦नः॒¦य॒शसः॑¦सोतु॑¦अन्ध॑सः¦ग्रावा᳚णः¦वा॒चा¦दि॒विता᳚¦दि॒वित्म॑ता |
नरः॑¦यत्र॑¦दु॒ह॒ते¦काम्य᳚‌म्¦मधु॑¦आ॒ऽघो॒षय᳚न्तः¦अ॒भितः॑¦मि॒थः॒ऽतुरः॑ ||

सु॒न्वन्ति॒ सोमं᳚ रथि॒रासो॒, अद्र॑यो॒ निर॑स्य॒ रसं᳚ ग॒विषो᳚ दुहन्ति॒ ते |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

दु॒हन्त्यूध॑रुप॒सेच॑नाय॒ कं नरो᳚ ह॒व्या न म॑र्जयन्त आ॒सभिः॑ ||{7/8}{10.76.7}{10.6.8.7}{8.3.9.2}{809, 913, 9607}

सु॒न्वन्ति॑¦सोम᳚‌म्¦र॒थि॒रासः॑¦अद्र॑यः¦निः¦अ॒स्य॒¦रस᳚‌म्¦गो॒ऽ‌इषः॑¦दु॒ह॒न्ति॒¦ते |
दु॒हन्ति॑¦ऊधः॑¦उ॒प॒ऽसेच॑नाय¦क‌म्¦नरः॑¦ह॒व्या¦न¦म॒र्ज॒य॒न्ते॒¦आ॒सऽभिः॑ ||

ए॒ते न॑रः॒ स्वप॑सो, अभूतन॒ य इन्द्रा᳚य सुनु॒थ सोम॑मद्रयः |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

वा॒मंवा᳚मं वो दि॒व्याय॒ धाम्ने॒ वसु॑वसु वः॒ पार्थि॑वाय सुन्व॒ते ||{8/8}{10.76.8}{10.6.8.8}{8.3.9.3}{810, 913, 9608}

ए॒ते¦न॒रः॒¦सु॒।आप॑सः¦अ॒भू॒त॒न॒¦ये¦इन्द्रा᳚य¦सु॒नु॒थ¦सोम᳚‌म्¦अ॒द्र॒यः॒ |
वा॒म‌म्ऽवा᳚म‌म्¦वः॒¦दि॒व्याय॑¦धाम्ने᳚¦वसु॑ऽवसु¦वः॒¦पार्थि॑वाय¦सु॒न्व॒ते ||

[77] अभ्रप्रुषइत्यष्टर्चस्य सूक्तस्य भार्गवः स्यूमरश्मिर्मरुतस्त्रिष्टुप् पंचमी जगती |
अ॒भ्र॒प्रुषो॒ न वा॒चा प्रु॑षा॒ वसु॑ ह॒विष्म᳚न्तो॒ न य॒ज्ञा वि॑जा॒नुषः॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

सु॒मारु॑तं॒ न ब्र॒ह्माण॑म॒र्हसे᳚ ग॒णम॑स्तोष्येषां॒ न शो॒भसे᳚ ||{1/8}{10.77.1}{10.6.9.1}{8.3.10.1}{811, 914, 9609}

अ॒भ्र॒ऽप्रुषः॑¦न¦वा॒चा¦प्रु॒ष॒¦वसु॑¦ह॒विष्म᳚न्तः¦न¦य॒ज्ञाः¦वि॒ऽजा॒नुषः॑ |
सु॒ऽमारु॑त‌म्¦न¦ब्र॒ह्माण᳚‌म्¦अ॒र्हसे᳚¦ग॒ण‌म्¦अ॒स्तो॒षि॒¦ए॒षा॒‌म्¦न¦शो॒भसे᳚ ||

श्रि॒ये मर्या᳚सो, अ॒ञ्जीँर॑कृण्वत सु॒मारु॑तं॒ न पू॒र्वीरति॒ क्षपः॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

दि॒वस्पु॒त्रास॒ एता॒ न ये᳚तिर आदि॒त्यास॒स्ते, अ॒क्रा न वा᳚वृधुः ||{2/8}{10.77.2}{10.6.9.2}{8.3.10.2}{812, 914, 9610}

श्रि॒ये¦मर्या᳚सः¦अं॒जीन्¦अ॒कृ॒ण्व॒त॒¦सु॒ऽमारु॑त‌म्¦न¦पू॒र्वीः¦अति॑¦क्षपः॑ |
दि॒वः¦पु॒त्रासः॑¦एताः᳚¦न¦ये॒ति॒रे॒¦आ॒दि॒त्यासः॑¦ते¦अ॒क्राः¦न¦व॒वृ॒धुः॒ ||

प्र ये दि॒वः पृ॑थि॒व्या न ब॒र्हणा॒ त्मना᳚ रिरि॒च्रे, अ॒भ्रान्न सूर्यः॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

पाज॑स्वन्तो॒ न वी॒राः प॑न॒स्यवो᳚ रि॒शाद॑सो॒ न मर्या᳚, अ॒भिद्य॑वः ||{3/8}{10.77.3}{10.6.9.3}{8.3.10.3}{813, 914, 9611}

प्र¦ये¦दि॒वः¦पृ॒थि॒व्याः¦न¦ब॒र्हणा᳚¦त्मना᳚¦रि॒रि॒च्रे¦अ॒भ्रात्¦न¦सूर्यः॑ |
पाज॑स्वन्तः¦न¦वी॒राः¦प॒न॒स्यवः॑¦रि॒शाद॑सः¦न¦मर्याः᳚¦अ॒भिऽद्य॑वः ||

यु॒ष्माकं᳚ बु॒ध्ने, अ॒पां न याम॑नि विथु॒र्यति॒ न म॒ही श्र॑थ॒र्यति॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

वि॒श्वप्सु᳚र्य॒ज्ञो, अ॒र्वाग॒यं सु वः॒ प्रय॑स्वन्तो॒ न स॒त्राच॒ आ ग॑त ||{4/8}{10.77.4}{10.6.9.4}{8.3.10.4}{814, 914, 9612}

यु॒ष्माक᳚‌म्¦बु॒ध्ने¦अ॒पा‌म्¦न¦याम॑नि¦वि॒थु॒र्यति॑¦न¦म॒ही¦श्र॒थ॒र्यति॑ |
वि॒श्वऽप्सुः॑¦य॒ज्ञः¦अ॒र्वाक्¦अ॒य‌म्¦सु¦वः॒¦प्रय॑स्वन्तः¦न¦स॒त्राचः॑¦आ¦ग॒त॒ ||

यू॒यं धू॒र्षु प्र॒युजो॒ न र॒श्मिभि॒र्ज्योति॑ष्मन्तो॒ न भा॒सा व्यु॑ष्टिषु |{भार्गवः स्यूमरश्मिः | मरुतः | जगती}

श्ये॒नासो॒ न स्वय॑शसो रि॒शाद॑सः प्र॒वासो॒ न प्रसि॑तासः परि॒प्रुषः॑ ||{5/8}{10.77.5}{10.6.9.5}{8.3.10.5}{815, 914, 9613}

यू॒य‌म्¦धूः॒ऽसु¦प्र॒ऽयुजः॑¦न¦र॒श्मिऽभिः॑¦ज्योति॑ष्मन्तः¦न¦भा॒सा¦वि।औ᳚ष्टिषु |
श्ये॒नासः॑¦न¦स्वऽय॑शसः¦रि॒शाद॑सः¦प्र॒वासः॑¦न¦प्रऽसि॑तासः¦प॒रि॒ऽप्रुषः॑ ||

प्र यद्वह॑ध्वे मरुतः परा॒काद्यू॒यं म॒हः सं॒वर॑णस्य॒ वस्वः॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

वि॒दा॒नासो᳚ वसवो॒ राध्य॑स्या॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योत ||{6/8}{10.77.6}{10.6.9.6}{8.3.11.1}{816, 914, 9614}

प्र¦यत्¦वह॑ध्वे¦म॒रु॒तः॒¦प॒रा॒कात्¦यू॒य‌म्¦म॒हः¦स॒‌म्ऽवर॑णस्य¦वस्वः॑ |
वि॒दा॒नासः॑¦व॒स॒वः॒¦राध्य॑स्य¦आ॒रात्¦चि॒त्¦द्वेषः॑¦स॒नु॒तः¦यु॒यो॒त॒ ||

य उ॒दृचि॑ य॒ज्ञे, अ॑ध्वरे॒ष्ठा म॒रुद्भ्यो॒ न मानु॑षो॒ ददा᳚शत् |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

रे॒वत्स वयो᳚ दधते सु॒वीरं॒ स दे॒वाना॒मपि॑ गोपी॒थे, अ॑स्तु ||{7/8}{10.77.7}{10.6.9.7}{8.3.11.2}{817, 914, 9615}

यः¦उ॒त्ऽऋचि॑¦य॒ज्ञे¦अ॒ध्व॒रे॒ऽस्थाः¦म॒रुत्ऽभ्यः॑¦न¦मानु॑षः¦ददा᳚शत् |
रे॒वत्¦सः¦वयः॑¦द॒ध॒ते॒¦सु॒ऽवीर᳚‌म्¦सः¦दे॒वाना᳚‌म्¦अपि॑¦गो॒ऽपी॒थे¦अ॒स्तु॒ ||

ते हि य॒ज्ञेषु॑ य॒ज्ञिया᳚स॒ ऊमा᳚, आदि॒त्येन॒ नाम्ना॒ शम्भ॑विष्ठाः |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

ते नो᳚ऽवन्तु रथ॒तूर्म॑नी॒षां म॒हश्च॒ याम᳚न्नध्व॒रे च॑का॒नाः ||{8/8}{10.77.8}{10.6.9.8}{8.3.11.3}{818, 914, 9616}

ते¦हि¦य॒ज्ञेषु॑¦य॒ज्ञिया᳚सः¦ऊमाः᳚¦आ॒दि॒त्येन॑¦नाम्ना᳚¦श‌म्ऽभ॑विष्ठाः |
ते¦नः॒¦अ॒व॒न्तु॒¦र॒थ॒ऽतूः¦म॒नी॒षा‌म्¦म॒हः¦च॒¦याम॑न्¦अ॒ध्व॒रे¦च॒का॒नाः ||

[78] विप्रासइत्यष्टर्चस्य सूक्तस्य भार्गवः स्यूमरश्मिर्मरुतस्त्रिष्टुप् द्वितीयापंचम्याद्याश्चतस्रश्चजगत्यः |
विप्रा᳚सो॒ न मन्म॑भिः स्वा॒ध्यो᳚ देवा॒व्यो॒३॑(ओ॒) न य॒ज्ञैः स्वप्न॑सः |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

राजा᳚नो॒ न चि॒त्राः सु॑सं॒दृशः॑, क्षिती॒नां न मर्या᳚, अरे॒पसः॑ ||{1/8}{10.78.1}{10.6.10.1}{8.3.12.1}{819, 915, 9617}

विप्रा᳚सः¦न¦मन्म॑ऽभिः¦सु॒ऽआ॒ध्यः॑¦दे॒व॒।आ॒व्यः॑¦न¦य॒ज्ञैः¦सु॒।आप्न॑सः |
राजा᳚नः¦न¦चि॒त्राः¦सु॒ऽस॒न्दृशः॑¦क्षि॒ती॒ना‌म्¦न¦मर्याः᳚¦अ॒रे॒पसः॑ ||

अ॒ग्निर्न ये भ्राज॑सा रु॒क्मव॑क्षसो॒ वाता᳚सो॒ न स्व॒युजः॑ स॒द्यऊ᳚तयः |{भार्गवः स्यूमरश्मिः | मरुतः | जगती}

प्र॒ज्ञा॒तारो॒ न ज्येष्ठाः᳚ सुनी॒तयः॑ सु॒शर्मा᳚णो॒ न सोमा᳚ ऋ॒तं य॒ते ||{2/8}{10.78.2}{10.6.10.2}{8.3.12.2}{820, 915, 9618}

अ॒ग्निः¦न¦ये¦भ्राज॑सा¦रु॒क्मऽव॑क्षसः¦वाता᳚सः¦न¦स्व॒ऽयुजः॑¦स॒द्यःऽऊ᳚तयः |
प्र॒ऽज्ञा॒तारः॑¦न¦ज्येष्ठाः᳚¦सु॒ऽनी॒तयः॑¦सु॒ऽशर्मा᳚णः¦न¦सोमाः᳚¦ऋ॒त‌म्¦य॒ते ||

वाता᳚सो॒ न ये धुन॑यो जिग॒त्नवो᳚ऽग्नी॒नां न जि॒ह्वा वि॑रो॒किणः॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

वर्म᳚ण्वन्तो॒ न यो॒धाः शिमी᳚वन्तः पितॄ॒णां न शंसाः᳚ सुरा॒तयः॑ ||{3/8}{10.78.3}{10.6.10.3}{8.3.12.3}{821, 915, 9619}

वाता᳚सः¦न¦ये¦धुन॑यः¦जि॒ग॒त्नवः॑¦अ॒ग्नी॒ना‌म्¦न¦जि॒ह्वाः¦वि॒ऽरो॒किणः॑ |
वर्म॑ण्ऽवन्तः¦न¦यो॒धाः¦शिमी᳚ऽवन्तः¦पि॒तॄ॒णा‌म्¦न¦शंसाः᳚¦सु॒ऽरा॒तयः॑ ||

रथा᳚नां॒ न ये॒३॑(ए॒)ऽराः सना᳚भयो जिगी॒वांसो॒ न शूरा᳚, अ॒भिद्य॑वः |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

व॒रे॒यवो॒ न मर्या᳚ घृत॒प्रुषो᳚ऽभिस्व॒र्तारो᳚, अ॒र्कं न सु॒ष्टुभः॑ ||{4/8}{10.78.4}{10.6.10.4}{8.3.12.4}{822, 915, 9620}

रथा᳚ना‌म्¦न¦ये¦अ॒राः¦सऽना᳚भयः¦जि॒गी॒वांसः॑¦न¦शूराः᳚¦अ॒भिऽद्य॑वः |
व॒रे॒ऽयवः॑¦न¦मर्याः᳚¦घृ॒त॒ऽप्रुषः॑¦अ॒भि॒ऽस्व॒र्तारः॑¦अ॒र्क‌म्¦न¦सु॒ऽस्तुभः॑ ||

अश्वा᳚सो॒ न ये ज्येष्ठा᳚स आ॒शवो᳚ दिधि॒षवो॒ न र॒थ्यः॑ सु॒दान॑वः |{भार्गवः स्यूमरश्मिः | मरुतः | जगती}

आपो॒ न नि॒म्नैरु॒दभि॑र्जिग॒त्नवो᳚ वि॒श्वरू᳚पा॒, अङ्गि॑रसो॒ न साम॑भिः ||{5/8}{10.78.5}{10.6.10.5}{8.3.12.5}{823, 915, 9621}

अश्वा᳚सः¦न¦ये¦ज्येष्ठा᳚सः¦आ॒शवः॑¦दि॒धि॒षवः॑¦न¦र॒थ्यः॑¦सु॒ऽदान॑वः |
आपः॑¦न¦नि॒म्नैः¦उ॒दऽभिः॑¦जि॒ग॒त्नवः॑¦वि॒श्वऽरू᳚पाः¦अङ्गि॑रसः¦न¦साम॑ऽभिः ||

ग्रावा᳚णो॒ न सू॒रयः॒ सिन्धु॑मातर आदर्दि॒रासो॒, अद्र॑यो॒ न वि॒श्वहा᳚ |{भार्गवः स्यूमरश्मिः | मरुतः | जगती}

शि॒शूला॒ न क्री॒ळयः॑ सुमा॒तरो᳚ महाग्रा॒मो न याम᳚न्नु॒त त्वि॒षा ||{6/8}{10.78.6}{10.6.10.6}{8.3.13.1}{824, 915, 9622}

ग्रावा᳚णः¦न¦सू॒रयः॑¦सिन्धु॑ऽमातरः¦आ॒ऽद॒र्दि॒रासः॑¦अद्र॑यः¦न¦वि॒श्वहा᳚ |
शि॒शूलाः᳚¦न¦क्री॒ळयः॑¦सु॒ऽमा॒तरः॑¦म॒हा॒ऽग्रा॒मः¦न¦याम॑न्¦उ॒त¦त्वि॒षा ||

उ॒षसां॒ न के॒तवो᳚ऽध्वर॒श्रियः॑ शुभं॒यवो॒ नाञ्जिभि॒र्व्य॑श्वितन् |{भार्गवः स्यूमरश्मिः | मरुतः | जगती}

सिन्ध॑वो॒ न य॒यियो॒ भ्राज॑दृष्टयः परा॒वतो॒ न योज॑नानि ममिरे ||{7/8}{10.78.7}{10.6.10.7}{8.3.13.2}{825, 915, 9623}

उ॒षसा᳚‌म्¦न¦के॒तवः॑¦अ॒ध्व॒र॒ऽश्रियः॑¦शु॒भ॒‌म्ऽयवः॑¦न¦अं॒जिऽभिः॑¦वि¦अ॒श्वि॒त॒न् |
सिन्ध॑वः¦न¦य॒यियः॑¦भ्राज॑त्ऽऋष्टयः¦प॒रा॒ऽवतः॑¦न¦योज॑नानि¦म॒मि॒रे॒ ||

सु॒भा॒गान्नो᳚ देवाः कृणुता सु॒रत्ना᳚न॒स्मान्‌ त्स्तो॒तॄन्म॑रुतो वावृधा॒नाः |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गात स॒नाद्धि वो᳚ रत्न॒धेया᳚नि॒ सन्ति॑ ||{8/8}{10.78.8}{10.6.10.8}{8.3.13.3}{826, 915, 9624}

सु॒ऽभा॒गान्¦नः॒¦दे॒वाः॒¦कृ॒णु॒त॒¦सु॒ऽरत्ना᳚न्¦अ॒स्मान्¦स्तो॒तॄन्¦म॒रु॒तः॒¦व॒वृ॒धा॒नाः |
अधि॑¦स्तो॒त्रस्य॑¦स॒ख्यस्य॑¦गा॒त॒¦स॒नात्¦हि¦वः॒¦र॒त्न॒ऽधेया᳚नि¦सन्ति॑ ||

[79] अपश्यमिति सप्तर्चस्य सूक्तस्य सौचीकोग्निरग्नित्रिष्टुप् (वैश्वानरोग्निर्वाजंभरः सप्तिरितीमावृषीपाक्षिकौ) |
अप॑श्यमस्य मह॒तो म॑हि॒त्वमम॑र्त्यस्य॒ मर्त्या᳚सु वि॒क्षु |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

नाना॒ हनू॒ विभृ॑ते॒ सं भ॑रेते॒, असि᳚न्वती॒ बप्स॑ती॒ भूर्य॑त्तः ||{1/7}{10.79.1}{10.6.11.1}{8.3.14.1}{827, 916, 9625}

अप॑श्य‌म्¦अ॒स्य॒¦म॒ह॒तः¦म॒हि॒ऽत्व‌म्¦अम॑र्त्यस्य¦मर्त्या᳚सु¦वि॒क्षु |
नाना᳚¦हनू॒ इति॑¦विभृ॑ते॒ इति॒ विऽभृ॑ते¦स‌म्¦भ॒रे॒ते॒ इति॑¦असि᳚न्वती॒ इति॑¦बप्स॑ती॒ इति॑¦भूरि॑¦अ॒त्तः॒ ||

गुहा॒ शिरो॒ निहि॑त॒मृध॑ग॒क्षी, असि᳚न्वन्नत्ति जि॒ह्वया॒ वना᳚नि |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अत्रा᳚ण्यस्मै प॒ड्भिः सं भ॑रन्त्युत्ता॒नह॑स्ता॒ नम॒साधि॑ वि॒क्षु ||{2/7}{10.79.2}{10.6.11.2}{8.3.14.2}{828, 916, 9626}

गुहा᳚¦शिरः॑¦निऽहि॑त‌म्¦ऋध॑क्¦अ॒क्षी इति॑¦असि᳚न्वन्¦अ॒त्ति॒¦जि॒ह्वया᳚¦वना᳚नि |
अत्रा᳚णि¦अ॒स्मै॒¦प॒ट्ऽभिः¦स‌म्¦भ॒र॒न्ति॒¦उ॒त्ता॒नऽह॑स्ताः¦नम॑सा¦अधि॑¦वि॒क्षु ||

प्र मा॒तुः प्र॑त॒रं गुह्य॑मि॒च्छन्‌ कु॑मा॒रो न वी॒रुधः॑ सर्पदु॒र्वीः |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

स॒सं न प॒क्वम॑विदच्छु॒चन्तं᳚ रिरि॒ह्वांसं᳚ रि॒प उ॒पस्थे᳚, अ॒न्तः ||{3/7}{10.79.3}{10.6.11.3}{8.3.14.3}{829, 916, 9627}

प्र¦मा॒तुः¦प्र॒ऽत॒र‌म्¦गुह्य᳚‌म्¦इ॒च्छन्¦कु॒मा॒रः¦न¦वी॒रुधः॑¦स॒र्प॒त्¦उ॒र्वीः |
स॒म‌म्¦न¦प॒क्व‌म्¦अ॒वि॒द॒त्¦शु॒चन्त᳚‌म्¦रि॒रि॒ह्वांस᳚‌म्¦रि॒पः¦उ॒पऽस्थे᳚¦अ॒न्तरिति॑ ||

तद्वा᳚मृ॒तं रो᳚दसी॒ प्र ब्र॑वीमि॒ जाय॑मानो मा॒तरा॒ गर्भो᳚, अत्ति |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

नाहं दे॒वस्य॒ मर्त्य॑श्चिकेता॒ग्निर॒ङ्ग विचे᳚ताः॒ स प्रचे᳚ताः ||{4/7}{10.79.4}{10.6.11.4}{8.3.14.4}{830, 916, 9628}

तत्¦वा॒‌म्¦ऋ॒त‌म्¦रो॒द॒सी॒ इति॑¦प्र¦ब्र॒वी॒मि॒¦जाय॑मानः¦मा॒तरा᳚¦गर्भः॑¦अ॒त्ति॒ |
न¦अ॒ह‌म्¦दे॒वस्य॑¦मर्त्यः॑¦चि॒के॒त॒¦अ॒ग्निः¦अ॒ङ्ग¦विऽचे᳚ताः¦सः¦प्रऽचे᳚ताः ||

यो, अ॑स्मा॒, अन्नं᳚ तृ॒ष्वा॒३॑(आ॒)दधा॒त्याज्यै᳚र्घृ॒तैर्जु॒होति॒ पुष्य॑ति |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

तस्मै᳚ स॒हस्र॑म॒क्षभि॒र्वि च॒क्षेऽग्ने᳚ वि॒श्वतः॑ प्र॒त्यङ्ङ॑सि॒ त्वम् ||{5/7}{10.79.5}{10.6.11.5}{8.3.14.5}{831, 916, 9629}

यः¦अ॒स्मै॒¦अन्न᳚‌म्¦तृ॒षु¦आ॒ऽदधा᳚ति¦आज्यैः᳚¦घृ॒तैः¦जु॒होति॑¦पुष्य॑ति |
तस्मै᳚¦स॒हस्र᳚‌म्¦अ॒क्षऽभिः॑¦वि¦च॒क्षे॒¦अग्ने᳚¦वि॒श्वतः॑¦प्र॒त्यङ्¦अ॒सि॒¦त्व‌म् ||

किं दे॒वेषु॒ त्यज॒ एन॑श्चक॒र्थाग्ने᳚ पृ॒च्छामि॒ नु त्वामवि॑द्वान् |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अक्री᳚ळ॒न्‌ क्रीळ॒न्हरि॒रत्त॑वे॒ऽदन्‌ वि प᳚र्व॒शश्च॑कर्त॒ गामि॑वा॒सिः ||{6/7}{10.79.6}{10.6.11.6}{8.3.14.6}{832, 916, 9630}

कि‌म्¦दे॒वेषु॑¦त्यजः॑¦एनः॑¦च॒क॒र्थ॒¦अग्ने᳚¦पृ॒च्छामि॑¦नु¦त्वा‌म्¦अवि॑द्वान् |
अक्री᳚ळन्¦क्रीळ॑न्¦हरिः॑¦अत्त॑वे¦अ॒दन्¦वि¦प॒र्व॒ऽशः¦च॒क॒र्त॒¦गा‌म्ऽ‌इ᳚व¦अ॒सिः ||

विषू᳚चो॒, अश्वा᳚न्युयुजे वने॒जा, ऋजी᳚तिभी रश॒नाभि॑र्गृभी॒तान् |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

च॒क्ष॒दे मि॒त्रो वसु॑भिः॒ सुजा᳚तः॒ समा᳚नृधे॒ पर्व॑भिर्वावृधा॒नः ||{7/7}{10.79.7}{10.6.11.7}{8.3.14.7}{833, 916, 9631}

विषू᳚चः¦अश्वा᳚न्¦यु॒यु॒जे॒¦व॒ने॒ऽजाः¦ऋजी᳚तिऽभिः¦र॒श॒नाभिः॑¦गृ॒भी॒तान् |
च॒क्ष॒दे¦मि॒त्रः¦वसु॑ऽभिः¦सुऽजा᳚तः¦स‌म्¦आ॒नृ॒धे॒¦पर्व॑ऽभिः¦व॒वृ॒धा॒नः ||

[80] अग्निःसप्तिमिति सप्तर्चस्य सूक्तस्य सौचीकोग्निरग्नित्रिष्टुप् (वैश्वानरोग्निर्वाजंभरः सप्तिरितीमावृषीपाक्षिकौ) |
अ॒ग्निः सप्तिं᳚ वाजम्भ॒रं द॑दात्य॒ग्निर्वी॒रं श्रुत्यं᳚ कर्मनिः॒ष्ठाम् |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अ॒ग्नी रोद॑सी॒ वि च॑रत्‌ सम॒ञ्जन्न॒ग्निर्नारीं᳚ वी॒रकु॑क्षिं॒ पुरं᳚धिम् ||{1/7}{10.80.1}{10.6.12.1}{8.3.15.1}{834, 917, 9632}

अ॒ग्निः¦सप्ति᳚‌म्¦वा॒ज॒‌म्ऽभ॒र‌म्¦द॒दा॒ति॒¦अ॒ग्निः¦वी॒र‌म्¦श्रुत्य᳚‌म्¦क॒र्म॒निः॒ऽस्था‌म् |
अ॒ग्निः¦रोद॑सी॒ इति॑¦वि¦च॒र॒त्¦स॒‌म्।आं॒जन्¦अ॒ग्निः¦नारी᳚‌म्¦वी॒रऽकु॑क्षि‌म्¦पुर᳚‌म्ऽधि‌म् ||

अ॒ग्नेरप्न॑सः स॒मिद॑स्तु भ॒द्राऽग्निर्म॒ही रोद॑सी॒, आ वि॑वेश |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अ॒ग्निरेकं᳚ चोदयत्‌ स॒मत्स्व॒ग्निर्वृ॒त्राणि॑ दयते पु॒रूणि॑ ||{2/7}{10.80.2}{10.6.12.2}{8.3.15.2}{835, 917, 9633}

अ॒ग्नेः¦अप्न॑सः¦स॒‌म्ऽ‌इत्¦अ॒स्तु॒¦भ॒द्रा¦अ॒ग्निः¦म॒ही इति॑¦रोद॑सी॒ इति॑¦आ¦वि॒वे॒श॒ |
अ॒ग्निः¦एक᳚‌म्¦चो॒द॒य॒त्¦स॒मत्ऽसु॑¦अ॒ग्निः¦वृ॒त्राणि॑¦द॒य॒ते॒¦पु॒रूणि॑ ||

अ॒ग्निर्ह॒ त्यं जर॑तः॒ कर्ण॑मावा॒ऽग्निर॒द्भ्यो निर॑दह॒ज्जरू᳚थम् |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अ॒ग्निरत्रिं᳚ घ॒र्म उ॑रुष्यद॒न्तर॒ग्निर्नृ॒मेधं᳚ प्र॒जया᳚सृज॒त्सम् ||{3/7}{10.80.3}{10.6.12.3}{8.3.15.3}{836, 917, 9634}

अ॒ग्निः¦ह॒¦त्य‌म्¦जर॑तः¦कर्ण᳚‌म्¦आ॒व॒¦अ॒ग्निः¦अ॒त्ऽभ्यः¦निः¦अ॒द॒ह॒त्¦जरू᳚थ‌म् |
अ॒ग्निः¦अत्रि᳚‌म्¦घ॒र्मे¦उ॒रु॒ष्य॒त्¦अ॒न्तः¦अ॒ग्निः¦नृ॒ऽमेध᳚‌म्¦प्र॒ऽजया᳚¦अ॒सृ॒ज॒त्¦स‌म् ||

अ॒ग्निर्दा॒द्द्रवि॑णं वी॒रपे᳚शा, अ॒ग्निरृषिं॒ यः स॒हस्रा᳚ स॒नोति॑ |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अ॒ग्निर्दि॒वि ह॒व्यमा त॑ताना॒ऽग्नेर्धामा᳚नि॒ विभृ॑ता पुरु॒त्रा ||{4/7}{10.80.4}{10.6.12.4}{8.3.15.4}{837, 917, 9635}

अ॒ग्निः¦दा॒त्¦द्रवि॑ण‌म्¦वी॒रऽपे᳚शाः¦अ॒ग्निः¦ऋषि᳚‌म्¦यः¦स॒हस्रा᳚¦स॒नोति॑ |
अ॒ग्निः¦दि॒वि¦ह॒व्य‌म्¦आ¦त॒ता॒न॒¦अ॒ग्नेः¦धामा᳚नि¦विऽभृ॑ता¦पु॒रु॒ऽत्रा ||

अ॒ग्निमु॒क्थैरृष॑यो॒ वि ह्व॑यन्ते॒ऽग्निं नरो॒ याम॑नि बाधि॒तासः॑ |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अ॒ग्निं वयो᳚, अ॒न्तरि॑क्षे॒ पत᳚न्तो॒ऽग्निः स॒हस्रा॒ परि॑ याति॒ गोना᳚म् ||{5/7}{10.80.5}{10.6.12.5}{8.3.15.5}{838, 917, 9636}

अ॒ग्नि‌म्¦उ॒क्थैः¦ऋष॑यः¦वि¦ह्व॒य॒न्ते॒¦अ॒ग्नि‌म्¦नरः॑¦याम॑नि¦बा॒धि॒तासः॑ |
अ॒ग्नि‌म्¦वयः॑¦अ॒न्तरि॑क्षे¦पत᳚न्तः¦अ॒ग्निः¦स॒हस्रा᳚¦परि॑¦या॒ति॒¦गोना᳚‌म् ||

अ॒ग्निं विश॑ ईळते॒ मानु॑षी॒र्या, अ॒ग्निं मनु॑षो॒ नहु॑षो॒ वि जा॒ताः |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अ॒ग्निर्गान्ध᳚र्वीं प॒थ्या᳚मृ॒तस्या॒ऽग्नेर्गव्यू᳚तिर्घृ॒त आ निष॑त्ता ||{6/7}{10.80.6}{10.6.12.6}{8.3.15.6}{839, 917, 9637}

अ॒ग्नि‌म्¦विशः॑¦ई॒ळ॒ते॒¦मानु॑षीः¦याः¦अ॒ग्नि‌म्¦मनु॑षः¦नहु॑षः¦वि¦जा॒ताः |
अ॒ग्निः¦गान्ध᳚र्वी‌म्¦प॒थ्या᳚‌म्¦ऋ॒तस्य॑¦अ॒ग्नेः¦गव्यू᳚तिः¦घृ॒ते¦आ¦निऽस॑त्ता ||

अ॒ग्नये॒ ब्रह्म॑ ऋ॒भव॑स्ततक्षुर॒ग्निं म॒हाम॑वोचामा सुवृ॒क्तिम् |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अग्ने॒ प्राव॑ जरि॒तारं᳚ यवि॒ष्ठाऽग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ||{7/7}{10.80.7}{10.6.12.7}{8.3.15.7}{840, 917, 9638}

अ॒ग्नये᳚¦ब्रह्म॑¦ऋ॒भवः॑¦त॒त॒क्षुः॒¦अ॒ग्नि‌म्¦म॒हा‌म्¦अ॒वो॒चा॒म॒¦सु॒ऽवृ॒क्ति‌म् |
अग्ने᳚¦प्र¦अ॒व॒¦ज॒रि॒तार᳚‌म्¦य॒वि॒ष्ठ॒¦अग्ने᳚¦महि॑¦द्रवि॑ण‌म्¦आ¦य॒ज॒स्व॒ ||

[81] यइमाविश्वेति सप्तर्चस्य सूक्तस्य भौवनोविश्वकर्माविश्वकर्मात्रिष्टुप्‌ द्वितीयाविराड्‌रूपा |
य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी᳚दत्पि॒ता नः॑ |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

स आ॒शिषा॒ द्रवि॑णमि॒च्छमा᳚नः प्रथम॒च्छदव॑राँ॒, आ वि॑वेश ||{1/7}{10.81.1}{10.6.13.1}{8.3.16.1}{841, 918, 9639}

यः¦इ॒मा¦विश्वा᳚¦भुव॑नानि¦जुह्व॑त्¦ऋषिः॑¦होता᳚¦नि¦असी᳚दत्¦पि॒ता¦नः॒ |
सः¦आ॒ऽशिषा᳚¦द्रवि॑ण‌म्¦इ॒च्छमा᳚नः¦प्र॒थ॒म॒ऽच्छत्¦अव॑रान्¦आ¦वि॒वे॒श॒ ||

किं स्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत्स्वि॑त्क॒थासी᳚त् |{भौवनो विश्वकर्माः | विश्वकर्मा | विराड्‌रूपा}

यतो॒ भूमिं᳚ ज॒नय᳚न्‌ वि॒श्वक᳚र्मा॒ वि द्यामौर्णो᳚न्महि॒ना वि॒श्वच॑क्षाः ||{2/7}{10.81.2}{10.6.13.2}{8.3.16.2}{842, 918, 9640}

कि‌म्¦स्वि॒त्¦आ॒सी॒त्¦अ॒धि॒ऽस्थान᳚‌म्¦आ॒ऽरम्भ॑ण‌म्¦क॒त॒मत्¦स्वि॒त्¦क॒था¦आ॒सी॒त् |
यतः॑¦भूमि᳚‌म्¦ज॒नय॑न्¦वि॒श्वऽक᳚र्मा¦वि¦द्या‌म्¦और्णो᳚त्¦म॒हि॒ना¦वि॒श्वऽच॑क्षाः ||

वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो᳚मुखो वि॒श्वतो᳚बाहुरु॒त वि॒श्वत॑स्पात् |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी᳚ ज॒नय᳚न्‌ दे॒व एकः॑ ||{3/7}{10.81.3}{10.6.13.3}{8.3.16.3}{843, 918, 9641}

वि॒श्वतः॑ऽचक्षुः¦उ॒त¦वि॒श्वतः॑ऽमुखः¦वि॒श्वतः॑ऽबाहुः¦उ॒त¦वि॒श्वतः॑ऽपात् |
स‌म्¦बा॒हुऽभ्या᳚‌म्¦धम॑ति¦स‌म्¦पत॑त्रैः¦द्यावा॒भूमी॒ इति॑¦ज॒नय॑न्¦दे॒वः¦एकः॑ ||

किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ᳚स॒ यतो॒ द्यावा᳚पृथि॒वी नि॑ष्टत॒क्षुः |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

मनी᳚षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ||{4/7}{10.81.4}{10.6.13.4}{8.3.16.4}{844, 918, 9642}

कि‌म्¦स्वि॒त्¦वन᳚‌म्¦कः¦ऊँ॒ इति॑¦सः¦वृ॒क्षः¦आ॒स॒¦यतः॑¦द्यावा᳚पृथि॒वी इति॑¦निः॒ऽत॒त॒क्षुः |
मनी᳚षिणः¦मन॑सा¦पृ॒च्छत॑¦इत्¦ऊँ॒ इति॑¦तत्¦यत्¦अ॒धि॒।आति॑ष्ठत्¦भुव॑नानि¦धा॒रय॑न् ||

या ते॒ धामा᳚नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒न्वं᳚ वृधा॒नः ||{5/7}{10.81.5}{10.6.13.5}{8.3.16.5}{845, 918, 9643}

या¦ते॒¦धामा᳚नि¦प॒र॒माणि॑¦या¦अ॒व॒मा¦या¦म॒ध्य॒मा¦वि॒श्व॒ऽक॒र्म॒न्¦उ॒त¦इ॒मा |
शिक्ष॑¦सखि॑ऽभ्यः¦ह॒विषि॑¦स्व॒धा॒ऽवः॒¦स्व॒य‌म्¦य॒ज॒स्व॒¦त॒न्व᳚‌म्¦वृ॒धा॒नः ||

विश्व॑कर्मन्ह॒विषा᳚ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्याम् |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

मुह्य᳚न्त्व॒न्ये, अ॒भितो॒ जना᳚स इ॒हास्माकं᳚ म॒घवा᳚ सू॒रिर॑स्तु ||{6/7}{10.81.6}{10.6.13.6}{8.3.16.6}{846, 918, 9644}

विश्व॑ऽकर्मन्¦ह॒विषा᳚¦व॒वृ॒धा॒नः¦स्व॒य‌म्¦य॒ज॒स्व॒¦पृ॒थि॒वी‌म्¦उ॒त¦द्या‌म् |
मुह्य᳚न्तु¦अ॒न्ये¦अ॒भितः॑¦जना᳚सः¦इ॒ह¦अ॒स्माक᳚‌म्¦म॒घऽवा᳚¦सू॒रिः¦अ॒स्तु॒ ||

वा॒चस्पतिं᳚ वि॒श्वक᳚र्माणमू॒तये᳚ मनो॒जुवं॒ वाजे᳚, अ॒द्या हु॑वेम |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

स नो॒ विश्वा᳚नि॒ हव॑नानि जोषद्वि॒श्वश᳚म्भू॒रव॑से सा॒धुक᳚र्मा ||{7/7}{10.81.7}{10.6.13.7}{8.3.16.7}{847, 918, 9645}

वा॒चः¦पति᳚‌म्¦वि॒श्वऽक᳚र्माण‌म्¦ऊ॒तये᳚¦म॒नः॒ऽजुव᳚‌म्¦वाजे᳚¦अ॒द्य¦हु॒वे॒म॒ |
सः¦नः॒¦विश्वा᳚नि¦हव॑नानि¦जो॒ष॒त्¦वि॒श्वऽश᳚म्भूः¦अव॑से¦सा॒धुऽक᳚र्मा ||

[82] चक्षुषइति सप्तर्चस्य सूक्तस्य भौवनोविश्वकर्माविश्वकर्मात्रिष्टुप् |
चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो᳚ घृ॒तमे᳚ने, अजन॒न्नन्न॑माने |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

य॒देदन्ता॒, अद॑दृहन्त॒ पूर्व॒ आदिद्द्यावा᳚पृथि॒वी, अ॑प्रथेताम् ||{1/7}{10.82.1}{10.6.14.1}{8.3.17.1}{848, 919, 9646}

चक्षु॑षः¦पि॒ता¦मन॑सा¦हि¦धीरः॑¦घृ॒त‌म्¦ए॒ने॒¦अ॒ज॒न॒त्¦नम्न॑माने॒ इति॑ |
य॒दा¦इत्¦अन्ताः᳚¦अद॑दृहन्त¦पूर्वे᳚¦आत्¦इत्¦द्यावा᳚पृथि॒वी इति॑¦अ॒प्र॒थे॒ता॒‌म् ||

वि॒श्वक᳚र्मा॒ विम॑ना॒, आद्विहा᳚या धा॒ता वि॑धा॒ता प॑र॒मोत सं॒दृक् |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

तेषा᳚मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्रा᳚ सप्तऋ॒षीन्‌ प॒र एक॑मा॒हुः ||{2/7}{10.82.2}{10.6.14.2}{8.3.17.2}{849, 919, 9647}

वि॒श्वऽक᳚र्मा¦विऽम॑नाः¦आत्¦विऽहा᳚याः¦धा॒ता¦वि॒ऽधा॒ता¦प॒र॒मा¦उ॒त¦स॒‌म्ऽदृक् |
तेषा᳚‌म्¦इ॒ष्टानि॑¦स‌म्¦इ॒षा¦म॒द॒न्ति॒¦यत्र॑¦स॒प्त॒ऽऋ॒षीन्¦प॒रः¦एक᳚‌म्¦आ॒हुः ||

यो नः॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ता धामा᳚नि॒ वेद॒ भुव॑नानि॒ विश्वा᳚ |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

यो दे॒वानां᳚ नाम॒धा, एक॑ ए॒व तं स᳚म्प्र॒श्नं भुव॑ना यन्त्य॒न्या ||{3/7}{10.82.3}{10.6.14.3}{8.3.17.3}{850, 919, 9648}

यः¦नः॒¦पि॒ता¦ज॒नि॒ता¦यः¦वि॒ऽधा॒ता¦धामा᳚नि¦वेद॑¦भुव॑नानि¦विश्वा᳚ |
यः¦दे॒वाना᳚‌म्¦ना॒म॒ऽधाः¦एकः॑¦ए॒व¦त‌म्¦स॒‌म्ऽप्र॒श्न‌म्¦भुव॑ना¦य॒न्ति॒¦अ॒न्या ||

त आय॑जन्त॒ द्रवि॑णं॒ सम॑स्मा॒ ऋष॑यः॒ पूर्वे᳚ जरि॒तारो॒ न भू॒ना |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

अ॒सूर्ते॒ सूर्ते॒ रज॑सि निष॒त्ते ये भू॒तानि॑ स॒मकृ᳚ण्वन्नि॒मानि॑ ||{4/7}{10.82.4}{10.6.14.4}{8.3.17.4}{851, 919, 9649}

ते¦आ¦अ॒य॒ज॒न्त॒¦द्रवि॑ण‌म्¦स‌म्¦अ॒स्मै॒¦ऋष॑यः¦पूर्वे᳚¦ज॒रि॒तारः॑¦न¦भू॒ना |
अ॒सूर्ते᳚¦सूर्ते᳚¦रज॑सि¦नि॒ऽस॒त्ते¦ये¦भू॒तानि॑¦स॒‌म्।आकृ᳚ण्वन्¦इ॒मानि॑ ||

प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्यदस्ति॑ |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

कं स्वि॒द्गर्भं᳚ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मप॑श्यन्त॒ विश्वे᳚ ||{5/7}{10.82.5}{10.6.14.5}{8.3.17.5}{852, 919, 9650}

प॒रः¦दि॒वा¦प॒रः¦ए॒ना¦पृ॒थि॒व्या¦प॒रः¦दे॒वेभिः॑¦असु॑रैः¦यत्¦अस्ति॑ |
क‌म्¦स्वि॒त्¦गर्भ᳚‌म्¦प्र॒थ॒म‌म्¦द॒ध्रे॒¦आपः॑¦यत्र॑¦दे॒वाः¦स॒‌म्।आप॑श्यन्त¦विश्वे᳚ ||

तमिद्गर्भं᳚ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे᳚ |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒ यस्मि॒न्‌ विश्वा᳚नि॒ भुव॑नानि त॒स्थुः ||{6/7}{10.82.6}{10.6.14.6}{8.3.17.6}{853, 919, 9651}

त‌म्¦इत्¦गर्भ᳚‌म्¦प्र॒थ॒म‌म्¦द॒ध्रे॒¦आपः॑¦यत्र॑¦दे॒वाः¦स॒‌म्।आग॑च्छन्त¦विश्वे᳚ |
अ॒जस्य॑¦नाभौ᳚¦अधि॑¦एक᳚‌म्¦अर्पि॑त‌म्¦यस्मि॑न्¦विश्वा᳚नि¦भुव॑नानि¦त॒स्थुः ||

न तं वि॑दाथ॒ य इ॒मा ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रं बभूव |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या᳚ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति ||{7/7}{10.82.7}{10.6.14.7}{8.3.17.7}{854, 919, 9652}

न¦त‌म्¦वि॒दा॒थ॒¦यः¦इ॒मा¦ज॒जान॑¦अ॒न्यत्¦यु॒ष्माक᳚‌म्¦अन्त॑र‌म्¦ब॒भू॒व॒ |
नी॒हा॒रेण॑¦प्रावृ॑ताः¦जल्प्या᳚¦च॒¦अ॒सु॒ऽतृपः॑¦उ॒क्थ॒ऽशासः॑¦च॒र॒न्ति॒ ||

[83] यस्तेमन्यविति सप्तर्चस्य सूक्तस्य तापसो मन्युर्मन्युस्त्रिष्टुबाद्याजगती |
यस्ते᳚ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक् |{तापसो मन्युः | मन्युः | जगती}

सा॒ह्याम॒ दास॒मार्यं॒ त्वया᳚ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ||{1/7}{10.83.1}{10.6.15.1}{8.3.18.1}{855, 920, 9653}

यः¦ते॒¦म॒न्यो॒ इति॑¦अवि॑धत्¦व॒ज्र॒¦सा॒य॒क॒¦सहः॑¦ओजः॑¦पु॒ष्य॒ति॒¦विश्व᳚‌म्¦आ॒नु॒षक् |
सा॒ह्याम॑¦दास᳚‌म्¦आर्य᳚‌म्¦त्वया᳚¦यु॒जा¦सहः॑ऽकृतेन¦सह॑सा¦सह॑स्वता ||

म॒न्युरिन्द्रो᳚ म॒न्युरे॒वास॑ दे॒वो म॒न्युर्होता॒ वरु॑णो जा॒तवे᳚दाः |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

म॒न्युं विश॑ ईळते॒ मानु॑षी॒र्याः पा॒हि नो᳚ मन्यो॒ तप॑सा स॒जोषाः᳚ ||{2/7}{10.83.2}{10.6.15.2}{8.3.18.2}{856, 920, 9654}

म॒न्युः¦इन्द्रः॑¦म॒न्युः¦ए॒व¦आ॒स॒¦दे॒वः¦म॒न्युः¦होता᳚¦वरु॑णः¦जा॒तऽवे᳚दाः |
म॒न्यु‌म्¦विशः॑¦ई॒ळ॒ते॒¦मानु॑षीः¦याः¦पा॒हि¦नः॒¦म॒न्यो॒ इति॑¦तप॑सा¦स॒ऽजोषाः᳚ ||

अ॒भी᳚हि मन्यो त॒वस॒स्तवी᳚या॒न् तप॑सा यु॒जा वि ज॑हि॒ शत्रू॑न् |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ||{3/7}{10.83.3}{10.6.15.3}{8.3.18.3}{857, 920, 9655}

अ॒भि¦इ॒हि॒¦म॒न्यो॒ इति॑¦त॒वसः॑¦तवी᳚यान्¦तप॑सा¦यु॒जा¦वि¦ज॒हि॒¦शत्रू॑न् |
अ॒मि॒त्र॒ऽहा¦वृ॒त्र॒ऽहा¦द॒स्यु॒ऽहा¦च॒¦विश्वा᳚¦वसू᳚नि¦आ¦भ॒र॒¦त्व‌म्¦नः॒ ||

त्वं हि म᳚न्यो, अ॒भिभू᳚त्योजाः स्वय॒म्भूर्भामो᳚, अभिमातिषा॒हः |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

वि॒श्वच॑र्षणिः॒ सहु॑रिः॒ सहा᳚वान॒स्मास्वोजः॒ पृत॑नासु धेहि ||{4/7}{10.83.4}{10.6.15.4}{8.3.18.4}{858, 920, 9656}

त्व‌म्¦हि¦म॒न्यो॒ इति॑¦अ॒भिभू᳚तिऽओजाः¦स्व॒य॒‌म्ऽभूः¦भामः॑¦अ॒भि॒मा॒ति॒ऽस॒हः |
वि॒श्वऽच॑र्षणिः¦सहु॑रिः¦सहा᳚वान्¦अ॒स्मासु॑¦ओजः॑¦पृत॑नासु¦धे॒हि॒ ||

अ॒भा॒गः सन्नप॒ परे᳚तो, अस्मि॒ तव॒ क्रत्वा᳚ तवि॒षस्य॑ प्रचेतः |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

तं त्वा᳚ मन्यो, अक्र॒तुर्जि॑हीळा॒हं स्वा त॒नूर्ब॑ल॒देया᳚य॒ मेहि॑ ||{5/7}{10.83.5}{10.6.15.5}{8.3.18.5}{859, 920, 9657}

अ॒भा॒गः¦सन्¦अप॑¦परा᳚ऽ‌इतः¦अ॒स्मि॒¦तव॑¦क्रत्वा᳚¦त॒वि॒षस्य॑¦प्र॒चे॒त॒ इति॑ प्रऽचेतः |
त‌म्¦त्वा॒¦म॒न्यो॒ इति॑¦अ॒क्र॒तुः¦जि॒ही॒ळ॒¦अ॒ह‌म्¦स्वा¦त॒नूः¦ब॒ल॒ऽदेया᳚य¦मा॒¦आ¦इ॒हि॒ ||

अ॒यं ते᳚, अ॒स्म्युप॒ मेह्य॒र्वाङ् प्र॑तीची॒नः स॑हुरे विश्वधायः |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

मन्यो᳚ वज्रिन्न॒भि मामा व॑वृत्स्व॒ हना᳚व॒ दस्यूँ᳚रु॒त बो᳚ध्या॒पेः ||{6/7}{10.83.6}{10.6.15.6}{8.3.18.6}{860, 920, 9658}

अ॒य‌म्¦ते॒¦अ॒स्मि॒¦उप॑¦मा॒¦आ¦इ॒हि॒¦अ॒र्वाङ्¦प्र॒ती॒ची॒नः¦स॒हु॒रे॒¦वि॒श्व॒ऽधा॒यः॒ |
मन्यो॒ इति॑¦व॒ज्रि॒न्¦अ॒भि¦मा‌म्¦आ¦व॒वृ॒त्स्व॒¦हना᳚व¦दस्यू᳚न्¦उ॒त¦बो॒धि॒¦आ॒पेः ||

अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ मेऽधा᳚ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

जु॒होमि॑ ते ध॒रुणं॒ मध्वो॒, अग्र॑मु॒भा, उ॑पां॒शु प्र॑थ॒मा पि॑बाव ||{7/7}{10.83.7}{10.6.15.7}{8.3.18.7}{861, 920, 9659}

अ॒भि¦प्र¦इ॒हि॒¦द॒क्षि॒ण॒तः¦भ॒व॒¦मे॒¦अध॑¦वृ॒त्राणि॑¦ज॒ङ्घ॒ना॒व॒¦भूरि॑ |
जु॒होमि॑¦ते॒¦ध॒रुण᳚‌म्¦मध्वः॑¦अग्र᳚‌म्¦उ॒भौ¦उ॒प॒।आं॒शु¦प्र॒थ॒मा¦पि॒बा॒व॒ ||

[84] त्वयामन्यविति सप्तर्चस्य सूक्तस्य तापसो मन्युर्मन्युर्जगती आद्यास्तिस्रस्त्रिष्टुभः |
त्वया᳚ मन्यो स॒रथ॑मारु॒जन्तो॒ हर्ष॑माणासो धृषि॒ता म॑रुत्वः |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा᳚ना, अ॒भि प्र य᳚न्तु॒ नरो᳚, अ॒ग्निरू᳚पाः ||{1/7}{10.84.1}{10.6.16.1}{8.3.19.1}{862, 921, 9660}

त्वया᳚¦म॒न्यो॒ इति॑¦स॒ऽरथ᳚‌म्¦आ॒ऽरु॒जन्तः॑¦हर्ष॑मानासः¦धृ॒षि॒ताः¦म॒रु॒त्वः॒ |
ति॒ग्मऽ‌इ᳚षवः¦आयु॑धा¦स॒‌म्ऽशिशा᳚नाः¦अ॒भि¦प्र¦य॒न्तु॒¦नरः॑¦अ॒ग्निऽरू᳚पाः ||

अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व सेना॒नीर्नः॑ सहुरे हू॒त ए᳚धि |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

ह॒त्वाय॒ शत्रू॒न्‌ वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा᳚नो॒ वि मृधो᳚ नुदस्व ||{2/7}{10.84.2}{10.6.16.2}{8.3.19.2}{863, 921, 9661}

अ॒ग्निःऽ‌इ᳚व¦म॒न्यो॒ इति॑¦त्वि॒षि॒तः¦स॒ह॒स्व॒¦से॒ना॒ऽनीः¦नः॒¦स॒हु॒रे॒¦हू॒तः¦ए॒धि॒ |
ह॒त्वाय॑¦शत्रू᳚न्¦वि¦भ॒ज॒स्व॒¦वेदः॑¦ओजः॑¦मिमा᳚नः¦वि¦मृधः॑¦नु॒द॒स्व॒ ||

सह॑स्व मन्यो, अ॒भिमा᳚तिम॒स्मे रु॒जन्‌ मृ॒णन्‌ प्र॑मृ॒णन्‌ प्रेहि॒ शत्रू॑न् |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

उ॒ग्रं ते॒ पाजो᳚ न॒न्वा रु॑रुध्रे व॒शी वशं᳚ नयस एकज॒ त्वम् ||{3/7}{10.84.3}{10.6.16.3}{8.3.19.3}{864, 921, 9662}

सह॑स्व¦म॒न्यो॒ इति॑¦अ॒भिऽमा᳚ति‌म्¦अ॒स्मे इति॑¦रु॒जन्¦मृ॒णन्¦प्र॒ऽमृ॒णन्¦प्र¦इ॒हि॒¦शत्रू॑न् |
उ॒ग्र‌म्¦ते॒¦पाजः॑¦न॒नु¦आ¦रु॒रु॒ध्रे॒¦व॒शी¦वश᳚‌म्¦न॒य॒से॒¦ए॒क॒ऽज॒¦त्व‌म् ||

एको᳚ बहू॒नाम॑सि मन्यवीळि॒तो विशं᳚विशं यु॒धये॒ सं शि॑शाधि |{तापसो मन्युः | मन्युः | जगती}

अकृ॑त्तरु॒क्त्वया᳚ यु॒जा व॒यं द्यु॒मन्तं॒ घोषं᳚ विज॒याय॑ कृण्महे ||{4/7}{10.84.4}{10.6.16.4}{8.3.19.4}{865, 921, 9663}

एकः॑¦ब॒हू॒ना‌म्¦अ॒सि॒¦म॒न्यो॒ इति॑¦ई॒ळि॒तः¦विश᳚‌म्ऽविश‌म्¦यु॒धये᳚¦स‌म्¦शि॒शा॒धि॒ |
अकृ॑त्तऽरुक्¦त्वया᳚¦यु॒जा¦व॒य‌म्¦द्यु॒ऽमन्त᳚‌म्¦घोष᳚‌म्¦वि॒ऽज॒याय॑¦कृ॒ण्म॒हे॒ ||

वि॒जे॒ष॒कृदिन्द्र॑ इवानवब्र॒वो॒३॑(ओ॒)ऽस्माकं᳚ मन्यो, अधि॒पा भ॑वे॒ह |{तापसो मन्युः | मन्युः | जगती}

प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑ ||{5/7}{10.84.5}{10.6.16.5}{8.3.19.5}{866, 921, 9664}

वि॒जे॒ष॒ऽकृत्¦इन्द्रः॑ऽ‌इव¦अ॒न॒व॒ऽब्र॒वः¦अ॒स्माक᳚‌म्¦म॒न्यो॒ इति॑¦अ॒धि॒ऽपाः¦भ॒व॒¦इ॒ह |
प्रि॒य‌म्¦ते॒¦नाम॑¦स॒हु॒रे॒¦गृ॒णी॒म॒सि॒¦वि॒द्म¦त‌म्¦उत्स᳚‌म्¦यतः॑¦आ॒ऽब॒भूथ॑ ||

आभू᳚त्या सह॒जा व॑ज्र सायक॒ सहो᳚ बिभर्ष्यभिभूत॒ उत्त॑रम् |{तापसो मन्युः | मन्युः | जगती}

क्रत्वा᳚ नो मन्यो स॒ह मे॒द्ये᳚धि महाध॒नस्य॑ पुरुहूत सं॒सृजि॑ ||{6/7}{10.84.6}{10.6.16.6}{8.3.19.6}{867, 921, 9665}

आऽभू᳚त्या¦स॒ह॒ऽजाः¦व॒ज्र॒¦सा॒य॒क॒¦सहः॑¦बि॒भ॒र्षि॒¦अ॒भि॒ऽभू॒ते॒¦उत्ऽत॑र‌म् |
क्रत्वा᳚¦नः॒¦म॒न्यो॒ इति॑¦स॒ह¦मे॒दी¦ए॒धि॒¦म॒हा॒ऽध॒नस्य॑¦पु॒रु॒ऽहू॒त॒¦स॒‌म्ऽसृजि॑ ||

संसृ॑ष्टं॒ धन॑मु॒भयं᳚ स॒माकृ॑तम॒स्मभ्यं᳚ दत्तां॒ वरु॑णश्च म॒न्युः |{तापसो मन्युः | मन्युः | जगती}

भियं॒ दधा᳚ना॒ हृद॑येषु॒ शत्र॑वः॒ परा᳚जितासो॒, अप॒ नि ल॑यन्ताम् ||{7/7}{10.84.7}{10.6.16.7}{8.3.19.7}{868, 921, 9666}

स‌म्ऽसृ॑ष्ट‌म्¦धन᳚‌म्¦उ॒भय᳚‌म्¦स॒‌म्ऽआकृ॑त‌म्¦अ॒स्मभ्य᳚‌म्¦द॒त्ता॒‌म्¦वरु॑णः¦च॒¦म॒न्युः |
भिय᳚‌म्¦दधा᳚नाः¦हृद॑येषु¦शत्र॑वः¦परा᳚ऽजितासः¦अप॑¦नि¦ल॒य॒न्ता॒‌म् ||

[85] सत्येनेति सप्तचत्वारिंशदृचस्य सूक्तस्य सूर्यासावित्रीऋषिका पंचानांसोमोदेवता ततएकादशानां सूर्याविवाहः सप्तदश्यादेवाः अष्टादश्याः सोमार्कौ एकोनविंश्याश्चंद्रमाः ततोनवानांनृणां विवाह मंत्राआशीः प्रायाः ततोद्वयोर्वधूर्वासोदेवता एकत्रिंश्यायक्ष्महा शिष्टानामृचसूर्यांसावित्री अनुष्टुप्‌चतुर्दशीएकोनविंश्यादि तिस्रस्रयोविंशी चतुर्विंशीषड्विंशी षट्‌त्रिंशी सप्तत्रिंशी चतुश्चत्वारिंश्यश्चत्रिष्टुभः अष्टादशी सप्तविंशीत्रिचत्वारिंश्यश्च जगत्यः चतुस्त्रिंश्युरोबृहती |
स॒त्येनोत्त॑भिता॒ भूमिः॒ सूर्ये॒णोत्त॑भिता॒ द्यौः |{सूर्या सावित्री | सोमः | अनुष्टुप्}

ऋ॒तेना᳚दि॒त्यास्ति॑ष्ठन्ति दि॒वि सोमो॒, अधि॑ श्रि॒तः ||{1/47}{10.85.1}{10.7.1.1}{8.3.20.1}{869, 922, 9667}

स॒त्येन॑¦उत्त॑भिता¦भूमिः॑¦सूर्ये᳚ण¦उत्त॑भिता¦द्यौः | ऋ॒तेन॑¦आ॒दि॒त्याः¦ति॒ष्ठ॒न्ति॒¦दि॒वि¦सोमः॑¦अधि॑¦श्रि॒तः ||

सोमे᳚नादि॒त्या ब॒लिनः॒ सोमे᳚न पृथि॒वी म॒ही |{सूर्या सावित्री | सोमः | अनुष्टुप्}

अथो॒ नक्ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आहि॑तः ||{2/47}{10.85.2}{10.7.1.2}{8.3.20.2}{870, 922, 9668}

सोमे᳚न¦आ॒दि॒त्याः¦ब॒लिनः॑¦सोमे᳚न¦पृ॒थि॒वी¦म॒ही | अथो॒ इति॑¦नक्ष॑त्राणा‌म्¦ए॒षा‌म्¦उ॒पऽस्थे᳚¦सोमः॑¦आऽहि॑तः ||

सोमं᳚ मन्यते पपि॒वान् यत्‌ स᳚म्पिं॒षन्त्योष॑धिम् |{सूर्या सावित्री | सोमः | अनुष्टुप्}

सोमं॒ यं ब्र॒ह्माणो᳚ वि॒दुर्न तस्या᳚श्नाति॒ कश्च॒न ||{3/47}{10.85.3}{10.7.1.3}{8.3.20.3}{871, 922, 9669}

सोम᳚‌म्¦म॒न्य॒ते॒¦प॒पि॒ऽवान्¦यत्¦स॒‌म्ऽपिं॒षन्ति॑¦ओष॑धि‌म् | सोम᳚‌म्¦य‌म्¦ब्र॒ह्माणः॑¦वि॒दुः¦न¦तस्य॑¦अ॒श्ना॒ति॒¦कः¦च॒न ||

आ॒च्छद्वि॑धानैर्गुपि॒तो बार्ह॑तैः सोम रक्षि॒तः |{सूर्या सावित्री | सोमः | अनुष्टुप्}

ग्राव्णा॒मिच्छृ॒ण्वन्ति॑ष्ठसि॒ न ते᳚, अश्नाति॒ पार्थि॑वः ||{4/47}{10.85.4}{10.7.1.4}{8.3.20.4}{872, 922, 9670}

आ॒च्छत्ऽवि॑धानैः¦गु॒पि॒तः¦बार्ह॑तैः¦सो॒म॒¦र॒क्षि॒तः | ग्राव्णा᳚‌म्¦इत्¦शृ॒ण्वन्¦ति॒ष्ठ॒सि॒¦न¦ते॒¦अ॒श्ना॒ति॒¦पार्थि॑वः ||

यत्‌ त्वा᳚ देव प्र॒पिब᳚न्ति॒ तत॒ आ प्या᳚यसे॒ पुनः॑ |{सूर्या सावित्री | सोमः | अनुष्टुप्}

वा॒युः सोम॑स्य रक्षि॒ता समा᳚नां॒ मास॒ आकृ॑तिः ||{5/47}{10.85.5}{10.7.1.5}{8.3.20.5}{873, 922, 9671}

यत्¦त्वा॒¦दे॒व॒¦प्र॒ऽपिब᳚न्ति¦ततः॑¦आ¦प्या॒य॒से॒¦पुन॒रिति॑ | वा॒युः¦सोम॑स्य¦र॒क्षि॒ता¦समा᳚ना‌म्¦मासः॑¦आऽकृ॑तिः ||

रैभ्या᳚सीदनु॒देयी᳚ नाराशं॒सी न्योच॑नी |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

सू॒र्याया᳚ भ॒द्रमिद्वासो॒ गाथ॑यैति॒ परि॑ष्कृतम् ||{6/47}{10.85.6}{10.7.1.6}{8.3.21.1}{874, 922, 9672}

रैभी᳚¦आ॒सी॒त्¦अ॒नु॒ऽदेयी᳚¦ना॒रा॒शं॒सी¦नि॒ऽओच॑नी | सू॒र्यायाः᳚¦भ॒द्र‌म्¦इत्¦वासः॑¦गाथ॑या¦ए॒ति॒¦परि॑ऽकृत‌म् ||

चित्ति॑रा, उप॒बर्ह॑णं॒ चक्षु॑रा, अ॒भ्यञ्ज॑नम् |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

द्यौर्भूमिः॒ कोश॑ आसी॒द्‌ यदया᳚त्‌ सू॒र्या पति᳚म् ||{7/47}{10.85.7}{10.7.1.7}{8.3.21.2}{875, 922, 9673}

चित्तिः॑¦आः॒¦उ॒प॒ऽबर्ह॑ण‌म्¦चक्षुः॑¦आः॒¦अ॒भि॒।आंज॑न‌म् | द्यौः¦भूमिः॑¦कोशः॑¦आ॒सी॒त्¦यत्¦अया᳚त्¦सू॒र्या¦पति᳚‌म् ||

स्तोमा᳚, आसन्‌ प्रति॒धयः॑ कु॒रीरं॒ छन्द॑ ओप॒शः |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

सू॒र्याया᳚, अ॒श्विना᳚ व॒राऽग्निरा᳚सीत्‌ पुरोग॒वः ||{8/47}{10.85.8}{10.7.1.8}{8.3.21.3}{876, 922, 9674}

स्तोमाः᳚¦आ॒स॒न्¦प्र॒ति॒ऽधयः॑¦कु॒रीर᳚‌म्¦छन्दः॑¦ओ॒प॒शः | सू॒र्यायाः᳚¦अ॒श्विना᳚¦व॒रा¦अ॒ग्निः¦आ॒सी॒त्¦पु॒रः॒ऽग॒वः ||

सोमो᳚ वधू॒युर॑भवद॒श्विना᳚स्तामु॒भा व॒रा |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

सू॒र्यां यत्‌ पत्ये॒ शंस᳚न्तीं॒ मन॑सा सवि॒ताद॑दात् ||{9/47}{10.85.9}{10.7.1.9}{8.3.21.4}{877, 922, 9675}

सोमः॑¦व॒धू॒ऽयुः¦अ॒भ॒व॒त्¦अ॒श्विना᳚¦आ॒स्ता॒‌म्¦उ॒भा¦व॒रा | सू॒र्या‌म्¦यत्¦पत्ये᳚¦शंस᳚न्ती‌म्¦मन॑सा¦स॒वि॒ता¦अद॑दात् ||

मनो᳚, अस्या॒, अन॑ आसी॒द् द्यौरा᳚सीदु॒त च्छ॒दिः |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

शु॒क्राव॑न॒ड्वाहा᳚वास्तां॒ यदया᳚त्‌ सू॒र्या गृ॒हम् ||{10/47}{10.85.10}{10.7.1.10}{8.3.21.5}{878, 922, 9676}

मनः॑¦अ॒स्याः॒¦अनः॑¦आ॒सी॒त्¦द्यौः¦आ॒सी॒त्¦उ॒त¦छ॒दिः | शु॒क्रौ¦अ॒न॒ड्वाहौ᳚¦आ॒स्ता॒‌म्¦यत्¦अया᳚त्¦सू॒र्या¦गृ॒ह‌म् ||

ऋ॒क्सा॒माभ्या᳚म॒भिहि॑तौ॒ गावौ᳚ ते साम॒नावि॑तः |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

श्रोत्रं᳚ ते च॒क्रे, आ᳚स्तां दि॒वि पन्था᳚श्चराचा॒रः ||{11/47}{10.85.11}{10.7.1.11}{8.3.22.1}{879, 922, 9677}

ऋ॒क्ऽसा॒माभ्या᳚‌म्¦अ॒भिऽहि॑तौ¦गावौ᳚¦ते॒¦सा॒म॒नौ¦इ॒तः॒ | श्रोत्र᳚‌म्¦ते॒¦च॒क्रे इति॑¦आ॒स्ता॒‌म्¦दि॒वि¦पन्थाः᳚¦च॒रा॒च॒रः ||

शुची᳚ ते च॒क्रे या॒त्या व्या॒नो, अक्ष॒ आह॑तः |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

अनो᳚ मन॒स्मयं᳚ सू॒र्याऽऽरो᳚हत्‌ प्रय॒ती पति᳚म् ||{12/47}{10.85.12}{10.7.1.12}{8.3.22.2}{880, 922, 9678}

शुची᳚¦ते॒¦च॒क्रे इति॑¦या॒त्याः¦वि॒ऽआ॒नः¦अक्षः॑¦आऽह॑तः | अनः॑¦म॒न॒स्मय᳚‌म्¦सू॒र्या¦आ¦अ॒रो॒ह॒त्¦प्र॒ऽय॒ती¦पति᳚‌म् ||

सू॒र्याया᳚ वह॒तुः प्रागा᳚त् सवि॒ता यम॒वासृ॑जत् |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

अ॒घासु॑ हन्यन्ते॒ गावोऽर्जु᳚न्योः॒ पर्यु॑ह्यते ||{13/47}{10.85.13}{10.7.1.13}{8.3.22.3}{881, 922, 9679}

सू॒र्यायाः᳚¦व॒ह॒तुः¦प्र¦अ॒गा॒त्¦स॒वि॒ता¦य‌म्¦अ॒व॒।आसृ॑जत् | अ॒घासु॑¦ह॒न्य॒न्ते॒¦गावः॑¦अर्जु᳚न्योः¦परि॑¦उ॒ह्य॒ते॒ ||

यद॑श्विना पृ॒च्छमा᳚ना॒वया᳚तं त्रिच॒क्रेण॑ वह॒तुं सू॒र्यायाः᳚ |{सूर्या सावित्री | सूर्याविवाहः | त्रिष्टुप्}

विश्वे᳚ दे॒वा, अनु॒ तद्वा᳚मजानन् पु॒त्रः पि॒तरा᳚ववृणीत पू॒षा ||{14/47}{10.85.14}{10.7.1.14}{8.3.22.4}{882, 922, 9680}

यत्¦अ॒श्वि॒ना॒¦पृ॒च्छमा᳚नौ¦अया᳚त‌म्¦त्रि॒ऽच॒क्रेण॑¦व॒ह॒तु‌म्¦सू॒र्यायाः᳚ |
विश्वे᳚¦दे॒वाः¦अनु॑¦तत्¦वा॒‌म्¦अ॒जा॒न॒न्¦पु॒त्रः¦पि॒तरौ᳚¦अ॒वृ॒णी॒त॒¦पू॒षा ||

यदया᳚तं शुभस्पती वरे॒यं सू॒र्यामुप॑ |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

क्वैकं᳚ च॒क्रं वा᳚मासी॒त् क्व॑ दे॒ष्ट्राय॑ तस्थथुः ||{15/47}{10.85.15}{10.7.1.15}{8.3.22.5}{883, 922, 9681}

यत्¦अया᳚त‌म्¦शु॒भः॒¦प॒ती॒ इति॑¦व॒रे॒ऽय‌म्¦सू॒र्या‌म्¦उप॑ | क्व॑¦एक᳚‌म्¦च॒क्र‌म्¦वा॒‌म्¦आ॒सी॒त्¦क्व॑¦दे॒ष्ट्राय॑¦त॒स्थ॒थुः॒ ||

द्वे ते᳚ च॒क्रे सू᳚र्ये ब्र॒ह्माण॑ ऋतु॒था वि॑दुः |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

अथैकं᳚ च॒क्रं यद्गुहा॒ तद॑द्धा॒तय॒ इद्वि॑दुः ||{16/47}{10.85.16}{10.7.1.16}{8.3.23.1}{884, 922, 9682}

द्वे इति॑¦ते॒¦च॒क्रे इति॑¦सू॒र्ये॒¦ब्र॒ह्माणः॑¦ऋ॒तु॒ऽथा¦वि॒दुः॒ | अथ॑¦एक᳚‌म्¦च॒क्र‌म्¦यत्¦गुहा᳚¦तत्¦अ॒द्धा॒तयः॑¦इत्¦वि॒दुः॒ ||

सू॒र्यायै᳚ दे॒वेभ्यो᳚ मि॒त्राय॒ वरु॑णाय च |{सूर्या सावित्री | देवाः | अनुष्टुप्}

ये भू॒तस्य॒ प्रचे᳚तस इ॒दं तेभ्यो᳚ऽकरं॒ नमः॑ ||{17/47}{10.85.17}{10.7.1.17}{8.3.23.2}{885, 922, 9683}

सू॒र्यायै᳚¦दे॒वेभ्यः॑¦मि॒त्राय॑¦वरु॑णाय¦च॒ | ये¦भू॒तस्य॑¦प्रऽचे᳚तसः¦इ॒द‌म्¦तेभ्यः॑¦अ॒क॒र॒‌म्¦नमः॑ ||

पू॒र्वा॒प॒रं च॑रतो मा॒ययै॒तौ शिशू॒ क्रीळ᳚न्तौ॒ परि॑ यातो, अध्व॒रम् |{सूर्या सावित्री | सोमार्कौ | जगती}

विश्वा᳚न्य॒न्यो भुव॑नाभि॒चष्ट॑ ऋ॒तूँर॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ ||{18/47}{10.85.18}{10.7.1.18}{8.3.23.3}{886, 922, 9684}

पू॒र्व॒।आ॒प॒र‌म्¦च॒र॒तः॒¦मा॒यया᳚¦ए॒तौ¦शिशू॒ इति॑¦क्रीळ᳚न्तौ¦परि॑¦या॒तः॒¦अ॒ध्व॒र‌म् |
विश्वा᳚नि¦अ॒न्यः¦भुव॑ना¦अ॒भि॒ऽचष्टे᳚¦ऋ॒तून्¦अ॒न्यः¦वि॒ऽदध॑त्¦जा॒य॒ते॒¦पुन॒रिति॑ ||

नवो᳚नवो भवति॒ जाय॑मा॒नोऽह्नां᳚ के॒तुरु॒षसा᳚मे॒त्यग्र᳚म् |{सूर्या सावित्री | चन्द्रमाः | त्रिष्टुप्}

भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन् प्र च॒न्द्रमा᳚स्तिरते दी॒र्घमायुः॑ ||{19/47}{10.85.19}{10.7.1.19}{8.3.23.4}{887, 922, 9685}

नवः॑ऽनवः¦भ॒व॒ति॒¦जाय॑मानः¦अह्ना᳚‌म्¦के॒तुः¦उ॒षसा᳚‌म्¦ए॒ति॒¦अग्र᳚‌म् |
भा॒ग‌म्¦दे॒वेभ्यः॑¦वि¦द॒धा॒ति॒¦आ॒ऽयन्¦प्र¦च॒न्द्रमाः᳚¦ति॒र॒ते॒¦दी॒र्घ‌म्¦आयुः॑ ||

सु॒किं॒शु॒कं श॑ल्म॒लिं वि॒श्वरू᳚पं॒ हिर᳚ण्यवर्णं सु॒वृतं᳚ सुच॒क्रम् |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्}

आ रो᳚ह सूर्ये, अ॒मृत॑स्य लो॒कं स्यो॒नं पत्ये᳚ वह॒तुं कृ॑णुष्व ||{20/47}{10.85.20}{10.7.1.20}{8.3.23.5}{888, 922, 9686}

सु॒ऽकिं॒शु॒क‌म्¦श॒ल्म॒लि‌म्¦वि॒श्वऽरू᳚प‌म्¦हिर᳚ण्यऽवर्ण‌म्¦सु॒ऽवृत᳚‌म्¦सु॒ऽच॒क्र‌म् |
आ¦रो॒ह॒¦सू॒र्ये॒¦अ॒मृत॑स्य¦लो॒क‌म्¦स्यो॒न‌म्¦पत्ये᳚¦व॒ह॒तु‌म्¦कृ॒णु॒ष्व॒ ||

उदी॒र्ष्वातः॒ पति॑वती॒ ह्ये॒३॑(ए॒)षा वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिरी᳚ळे |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्}

अ॒न्यामि॑च्छ पितृ॒षदं॒ व्य॑क्तां॒ स ते᳚ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ||{21/47}{10.85.21}{10.7.1.21}{8.3.24.1}{889, 922, 9687}

उत्¦ई॒र्ष्व॒¦अतः॑¦पति॑ऽवती¦हि¦ए॒षा¦वि॒श्वऽव॑सु‌म्¦नम॑सा¦गीः॒ऽभिः¦ई॒ळे॒ |
अ॒न्या‌म्¦इ॒च्छ॒¦पि॒तृ॒ऽसद᳚‌म्¦वि।आ॑क्ता‌म्¦सः¦ते॒¦भा॒गः¦ज॒नुषा᳚¦तस्य॑¦वि॒द्धि॒ ||

उदी॒र्ष्वातो᳚ विश्वावसो॒ नम॑सेळा महे त्वा |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | अनुष्टुप्}

अ॒न्यामि॑च्छ प्रफ॒र्व्य१॑(अं॒) सं जा॒यां पत्या᳚ सृज ||{22/47}{10.85.22}{10.7.1.22}{8.3.24.2}{890, 922, 9688}

उत्¦ई॒र्ष्व॒¦अतः॑¦वि॒श्व॒व॒सो॒ इति॑ विश्वऽवसो¦नम॑सा¦ई॒ळा॒म॒हे॒¦त्वा | अ॒न्या‌म्¦इ॒च्छ॒¦प्र॒ऽफ॒र्व्य᳚‌म्¦स‌म्¦जा॒या‌म्¦पत्या᳚¦सृ॒ज॒ ||

अ॒नृ॒क्ष॒रा, ऋ॒जवः॑ सन्तु॒ पन्था॒ येभिः॒ सखा᳚यो॒ यन्ति॑ नो वरे॒यम् |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्}

सम᳚र्य॒मा सं भगो᳚ नो निनीया॒त् सं जा᳚स्प॒त्यं सु॒यम॑मस्तु देवाः ||{23/47}{10.85.23}{10.7.1.23}{8.3.24.3}{891, 922, 9689}

अ॒नृ॒क्ष॒राः¦ऋ॒जवः॑¦स॒न्तु॒¦पन्थाः᳚¦येभिः॑¦सखा᳚यः¦यन्ति॑¦नः॒¦व॒रे॒ऽय‌म् |
स‌म्¦अ॒र्य॒मा¦स‌म्¦भगः॑¦नः॒¦नि॒नी॒या॒त्¦स‌म्¦जाः॒प॒त्य‌म्¦सु॒ऽयम᳚‌म्¦अ॒स्तु॒¦दे॒वाः॒ ||

प्र त्वा᳚ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द्‌ येन॒ त्वाब॑ध्नात्‌ सवि॒ता सु॒शेवः॑ |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्}

ऋ॒तस्य॒ योनौ᳚ सुकृ॒तस्य॑ लो॒केऽरि॑ष्टां त्वा स॒ह पत्या᳚ दधामि ||{24/47}{10.85.24}{10.7.1.24}{8.3.24.4}{892, 922, 9690}

प्र¦त्वा॒¦मुं॒चा॒मि॒¦वरु॑णस्य¦पाशा᳚त्¦येन॑¦त्वा॒¦अब॑ध्नात्¦स॒वि॒ता¦सु॒ऽशेवः॑ |
ऋ॒तस्य॑¦योनौ᳚¦सु॒ऽकृ॒तस्य॑¦लो॒के¦अरि॑ष्टा‌म्¦त्वा॒¦स॒ह¦पत्या᳚¦द॒धा॒मि॒ ||

प्रेतो मु॒ञ्चामि॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करम् |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | अनुष्टुप्}

यथे॒यमि᳚न्द्र मीढ्वः सुपु॒त्रा सु॒भगास॑ति ||{25/47}{10.85.25}{10.7.1.25}{8.3.24.5}{893, 922, 9691}

प्र¦इ॒तः¦मुं॒चामि॑¦न¦अ॒मुतः॑¦सु॒ऽब॒द्धा‌म्¦अ॒मुतः॑¦क॒र॒‌म् | यथा᳚¦इ॒य‌म्¦इ॒न्द्र॒¦मी॒ढ्वः॒¦सु॒ऽपु॒त्रा¦सु॒ऽभगा᳚¦अस॑ति ||

पू॒षा त्वे॒तो न॑यतु हस्त॒गृह्या॒श्विना᳚ त्वा॒ प्र व॑हतां॒ रथे᳚न |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्}

गृ॒हान्‌ ग॑च्छ गृ॒हप॑त्नी॒ यथासो᳚ व॒शिनी॒ त्वं वि॒दथ॒मा व॑दासि ||{26/47}{10.85.26}{10.7.1.26}{8.3.25.1}{894, 922, 9692}

पू॒षा¦त्वा॒¦इ॒तः¦न॒य॒तु॒¦ह॒स्त॒ऽगृह्य॑¦अ॒श्विना᳚¦त्वा॒¦प्र¦व॒ह॒ता॒‌म्¦रथे᳚न |
गृ॒हान्¦ग॒च्छ॒¦गृ॒हऽप॑त्नी¦यथा᳚¦असः॑¦व॒शिनी᳚¦त्व‌म्¦वि॒दथ᳚‌म्¦आ¦व॒दा॒सि॒ ||

इ॒ह प्रि॒यं प्र॒जया᳚ ते॒ समृ॑ध्यताम॒स्मिन्‌ गृ॒हे गार्ह॑पत्याय जागृहि |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्}

ए॒ना पत्या᳚ त॒न्व१॑(अं॒) सं सृ॑ज॒स्वाऽधा॒ जिव्री᳚ वि॒दथ॒मा व॑दाथः ||{27/47}{10.85.27}{10.7.1.27}{8.3.25.2}{895, 922, 9693}

इ॒ह¦प्रि॒य‌म्¦प्र॒ऽजया᳚¦ते॒¦स‌म्¦ऋ॒ध्य॒ता॒‌म्¦अ॒स्मिन्¦गृ॒हे¦गार्ह॑ऽपत्याय¦जा॒गृ॒हि॒ |
ए॒ना¦पत्या᳚¦त॒न्व᳚‌म्¦स‌म्¦सृ॒ज॒स्व॒¦अध॑¦जिव्री॒ इति॑¦वि॒दथ᳚‌म्¦आ¦व॒दा॒थः॒ ||

नी॒ल॒लो॒हि॒तं भ॑वति कृ॒त्यास॒क्तिर्व्य॑ज्यते |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | अनुष्टुप्}

एध᳚न्ते, अस्या ज्ञा॒तयः॒ पति॑र्ब॒न्धेषु॑ बध्यते ||{28/47}{10.85.28}{10.7.1.28}{8.3.25.3}{896, 922, 9694}

नी॒ल॒ऽलो॒हि॒त‌म्¦भ॒व॒ति॒¦कृ॒त्या¦आ॒स॒क्तिः¦वि¦अ॒ज्य॒ते॒ | एध᳚न्ते¦अ॒स्याः॒¦ज्ञा॒तयः॑¦पतिः॑¦ब॒न्धेषु॑¦ब॒ध्य॒ते॒ ||

परा᳚ देहि शामु॒ल्यं᳚ ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑ |{सूर्या सावित्री | धूर्वासः | अनुष्टुप्}

कृ॒त्यैषा प॒द्वती᳚ भू॒त्व्या जा॒या वि॑शते॒ पति᳚म् ||{29/47}{10.85.29}{10.7.1.29}{8.3.25.4}{897, 922, 9695}

परा᳚¦दे॒हि॒¦शा॒मु॒ल्य᳚‌म्¦ब्र॒ह्मऽभ्यः॑¦वि¦भ॒ज॒¦वसु॑ | कृ॒त्या¦ए॒षा¦प॒त्ऽवती᳚¦भू॒त्वी¦आ¦जा॒या¦वि॒श॒ते॒¦पति᳚‌म् ||

अ॒श्री॒रा त॒नूर्भ॑वति॒ रुश॑ती पा॒पया᳚मु॒या |{सूर्या सावित्री | धूर्वासः | अनुष्टुप्}

पति॒र्यद्व॒ध्वो॒३॑(ओ॒) वास॑सा॒ स्वमङ्ग॑मभि॒धित्स॑ते ||{30/47}{10.85.30}{10.7.1.30}{8.3.25.5}{898, 922, 9696}

अ॒श्री॒रा¦त॒नूः¦भ॒व॒ति॒¦रुश॑ती¦पा॒पया᳚¦अ॒मु॒या | पतिः॑¦यत्¦व॒ध्वः॑¦वास॑सा¦स्व‌म्¦अङ्ग᳚‌म्¦अ॒भि॒ऽधित्स॑ते ||

ये व॒ध्व॑श्च॒न्द्रं व॑ह॒तुं यक्ष्मा॒ यन्ति॒ जना॒दनु॑ |{सूर्या सावित्री | यायक्ष्महा | अनुष्टुप्}

पुन॒स्तान्‌ य॒ज्ञिया᳚ दे॒वा नय᳚न्तु॒ यत॒ आग॑ताः ||{31/47}{10.85.31}{10.7.1.31}{8.3.26.1}{899, 922, 9697}

ये¦व॒ध्वः॑¦च॒न्द्र‌म्¦व॒ह॒तु‌म्¦यक्ष्माः᳚¦यन्ति॑¦जना᳚त्¦अनु॑ | पुन॒रिति॑¦तान्¦य॒ज्ञियाः᳚¦दे॒वाः¦नय᳚न्तु¦यतः॑¦आऽग॑ताः ||

मा वि॑दन्‌ परिप॒न्थिनो॒ य आ॒सीद᳚न्ति॒ दम्प॑ती |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

सु॒गेभि॑र्दु॒र्गमती᳚ता॒मप॑ द्रा॒न्त्वरा᳚तयः ||{32/47}{10.85.32}{10.7.1.32}{8.3.26.2}{900, 922, 9698}

मा¦वि॒द॒न्¦प॒रि॒ऽप॒न्थिनः॑¦ये¦आ॒ऽसीद᳚न्ति¦दंप॑ती॒ इति॒ द‌म्ऽप॑ती | सु॒ऽगेभिः॑¦दुः॒ऽग‌म्¦अति॑¦इ॒ता॒‌म्¦अप॑¦द्रा॒न्तु॒¦अरा᳚तयः ||

सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒मां स॒मेत॒ पश्य॑त |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

सौभा᳚ग्यमस्यै द॒त्‌ त्वायाऽथास्तं॒ वि परे᳚तन ||{33/47}{10.85.33}{10.7.1.33}{8.3.26.3}{901, 922, 9699}

सु॒ऽम॒ङ्ग॒लीः¦इ॒य‌म्¦व॒धूः¦इ॒मा‌म्¦स॒‌म्ऽएत॑¦पश्य॑त | सौभा᳚ग्य‌म्¦अ॒स्यै॒¦द॒त्‌ त्वाय॑¦अथ॑¦अस्त᳚‌म्¦वि¦परा᳚¦इ॒त॒न॒ ||

तृ॒ष्टमे॒तत्‌ कटु॑कमे॒तद॑पा॒ष्ठव॑द्वि॒षव॒न्नैतदत्त॑वे |{सूर्या सावित्री | सूर्या | बृहती}

सू॒र्यां यो ब्र॒ह्मा वि॒द्यात् स इद्वाधू᳚यमर्हति ||{34/47}{10.85.34}{10.7.1.34}{8.3.26.4}{902, 922, 9700}

तृ॒ष्ट‌म्¦ए॒तत्¦कटु॑क‌म्¦ए॒तत्¦अ॒पा॒ष्ठऽव॑त्¦वि॒षऽव॑त्¦न¦ए॒तत्¦अत्त॑वे |
सू॒र्या‌म्¦यः¦ब्र॒ह्मा¦वि॒द्यात्¦सः¦इत्¦वाधू᳚ऽय‌म्¦अ॒र्ह॒ति॒ ||

आ॒शस॑नं वि॒शस॑न॒मथो᳚, अधिवि॒कर्त॑नम् |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

सू॒र्यायाः᳚ पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मा तु शु᳚न्धति ||{35/47}{10.85.35}{10.7.1.35}{8.3.26.5}{903, 922, 9701}

आ॒ऽशस॑न‌म्¦वि॒ऽशस॑न‌म्¦अथो॒ इति॑¦अ॒धि॒ऽवि॒कर्त॑न‌म् | सू॒र्यायाः᳚¦प॒श्य॒¦रू॒पाणि॑¦तानि॑¦ब्र॒ह्मा¦तु¦शु॒न्ध॒ति॒ ||

गृ॒भ्णामि॑ ते सौभग॒त्वाय॒ हस्तं॒ मया॒ पत्या᳚ ज॒रद॑ष्टि॒र्यथासः॑ |{सूर्या सावित्री | सूर्या | त्रिष्टुप्}

भगो᳚, अर्य॒मा स॑वि॒ता पुरं᳚धि॒र्मह्यं᳚ त्वादु॒र्गार्ह॑पत्याय दे॒वाः ||{36/47}{10.85.36}{10.7.1.36}{8.3.27.1}{904, 922, 9702}

गृ॒भ्णामि॑¦ते॒¦सौ॒भ॒ग॒ऽत्वाय॑¦हस्त᳚‌म्¦मया᳚¦पत्या᳚¦ज॒रत्।आ॑ष्टिः¦यथा᳚¦असः॑ |
भगः॑¦अ॒र्य॒मा¦स॒वि॒ता¦पुर᳚‌म्ऽधिः¦मह्य᳚‌म्¦त्वा॒¦अ॒दुः॒¦गार्ह॑ऽपत्याय¦दे॒वाः ||

तां पू᳚षञ्छि॒वत॑मा॒मेर॑यस्व॒ यस्यां॒ बीजं᳚ मनु॒ष्या॒३॑(आ॒) वप᳚न्ति |{सूर्या सावित्री | सूर्या | त्रिष्टुप्}

या न॑ ऊ॒रू, उ॑श॒ती वि॒श्रया᳚ते॒ यस्या᳚मु॒शन्तः॑ प्र॒हरा᳚म॒ शेप᳚म् ||{37/47}{10.85.37}{10.7.1.37}{8.3.27.2}{905, 922, 9703}

ता‌म्¦पू॒ष॒न्¦शि॒वऽत॑मा‌म्¦आ¦ई॒र॒य॒स्व॒¦यस्या᳚‌म्¦बीज᳚‌म्¦म॒नु॒ष्याः᳚¦वप᳚न्ति |
या¦नः॒¦ऊ॒रू इति॑¦उ॒श॒ती¦वि॒ऽश्रया᳚ते¦यस्या᳚‌म्¦उ॒शन्तः॑¦प्र॒ऽहरा᳚म¦शेप᳚‌म् ||

तुभ्य॒मग्रे॒ पर्य॑वहन् त्सू॒र्यां व॑ह॒तुना᳚ स॒ह |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

पुनः॒ पति॑भ्यो जा॒यां दा, अ॑ग्ने प्र॒जया᳚ स॒ह ||{38/47}{10.85.38}{10.7.1.38}{8.3.27.3}{906, 922, 9704}

तुभ्य᳚‌म्¦अग्रे᳚¦परि॑¦अ॒व॒ह॒न्¦सू॒र्या‌म्¦व॒ह॒तुना᳚¦स॒ह | पुन॒रिति॑¦पति॑ऽभ्यः¦जा॒या‌म्¦दाः¦अ॒ग्ने॒¦प्र॒ऽजया᳚¦स॒ह ||

पुनः॒ पत्नी᳚म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

दी॒र्घायु॑रस्या॒ यः पति॒र्जीवा᳚ति श॒रदः॑ श॒तम् ||{39/47}{10.85.39}{10.7.1.39}{8.3.27.4}{907, 922, 9705}

पुन॒रिति॑¦पत्नी᳚‌म्¦अ॒ग्निः¦अ॒दा॒त्¦आयु॑षा¦स॒ह¦वर्च॑सा | दी॒र्घऽआ᳚युः¦अ॒स्याः॒¦यः¦पतिः॑¦जीवा᳚ति¦श॒रदः॑¦श॒त‌म् ||

सोमः॑ प्रथ॒मो वि॑विदे गन्ध॒र्वो वि॑विद॒ उत्त॑रः |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

तृ॒तीयो᳚, अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः ||{40/47}{10.85.40}{10.7.1.40}{8.3.27.5}{908, 922, 9706}

सोमः॑¦प्र॒थ॒मः¦वि॒वि॒दे॒¦ग॒न्ध॒र्वः¦वि॒वि॒दे॒¦उत्ऽत॑रः | तृ॒तीयः॑¦अ॒ग्निः¦ते॒¦पतिः॑¦तु॒रीयः॑¦ते॒¦म॒नु॒ष्य॒ऽजाः ||

सोमो᳚ ददद्गन्ध॒र्वाय॑ गन्ध॒र्वो द॑दद॒ग्नये᳚ |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

र॒यिं च॑ पु॒त्राँश्चा᳚दाद॒ग्निर्मह्य॒मथो᳚, इ॒माम् ||{41/47}{10.85.41}{10.7.1.41}{8.3.28.1}{909, 922, 9707}

सोमः॑¦द॒द॒त्¦ग॒न्ध॒र्वाय॑¦ग॒न्ध॒र्वः¦द॒द॒त्¦अ॒ग्नये᳚ | र॒यि‌म्¦च॒¦पु॒त्रान्¦च॒¦अ॒दा॒त्¦अ॒ग्निः¦मह्य᳚‌म्¦अथो॒ इति॑¦इ॒मा‌म् ||

इ॒हैव स्तं॒ मा वि यौ᳚ष्टं॒ विश्व॒मायु॒र्व्य॑श्नुतम् |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

क्रीळ᳚न्तौ पु॒त्रैर्नप्तृ॑भि॒र्मोद॑मानौ॒ स्वे गृ॒हे ||{42/47}{10.85.42}{10.7.1.42}{8.3.28.2}{910, 922, 9708}

इ॒ह¦ए॒व¦स्त॒‌म्¦मा¦वि¦यौ॒ष्ट॒‌म्¦विश्व᳚‌म्¦आयुः॑¦वि¦अ॒श्नु॒त॒‌म् | क्रीळ᳚न्तौ¦पु॒त्रैः¦नप्तृ॑ऽभिः¦मोद॑मानौ¦स्वे¦गृ॒हे ||

आ नः॑ प्र॒जां ज॑नयतु प्र॒जाप॑तिराजर॒साय॒ सम॑नक्त्वर्य॒मा |{सूर्या सावित्री | सूर्या | जगती}

अदु᳚र्मङ्गलीः पतिलो॒कमा वि॑श॒ शं नो᳚ भव द्वि॒पदे॒ शं चतु॑ष्पदे ||{43/47}{10.85.43}{10.7.1.43}{8.3.28.3}{911, 922, 9709}

आ¦नः॒¦प्र॒ऽजा‌म्¦ज॒न॒य॒तु॒¦प्र॒जाऽप॑तिः¦आ॒ऽज॒र॒साय॑¦स‌म्¦अ॒न॒क्तु॒¦अ॒र्य॒मा |
अदुः॑ऽमङ्गलीः¦प॒ति॒ऽलो॒क‌म्¦आ¦वि॒श॒¦श‌म्¦नः॒¦भ॒व॒¦द्वि॒ऽपदे᳚¦श‌म्¦चतुः॑ऽपदे ||

अघो᳚रचक्षु॒रप॑तिघ्न्येधि शि॒वा प॒शुभ्यः॑ सु॒मनाः᳚ सु॒वर्चाः᳚ |{सूर्या सावित्री | सूर्या | त्रिष्टुप्}

वी॒र॒सूर्दे॒वका᳚मा स्यो॒ना शं नो᳚ भव द्वि॒पदे॒ शं चतु॑ष्पदे ||{44/47}{10.85.44}{10.7.1.44}{8.3.28.4}{912, 922, 9710}

अघो᳚रऽचक्षुः¦अप॑तिऽघ्नी¦ए॒धि॒¦शि॒वा¦प॒शुऽभ्यः॑¦सु॒ऽमनाः᳚¦सु॒ऽवर्चाः᳚ |
वी॒र॒ऽसूः¦दे॒वऽका᳚मा¦स्यो॒ना¦श‌म्¦नः॒¦भ॒व॒¦द्वि॒ऽपदे᳚¦श‌म्¦चतुः॑ऽपदे ||

इ॒मां त्वमि᳚न्द्र मीढ्वः सुपु॒त्रां सु॒भगां᳚ कृणु |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

दशा᳚स्यां पु॒त्राना धे᳚हि॒ पति॑मेकाद॒शं कृ॑धि ||{45/47}{10.85.45}{10.7.1.45}{8.3.28.5}{913, 922, 9711}

इ॒मा‌म्¦त्व‌म्¦इ॒न्द्र॒¦मी॒ढ्वः॒¦सु॒ऽपु॒त्रा‌म्¦सु॒ऽभगा᳚‌म्¦कृ॒णु॒ | दश॑¦अ॒स्या॒‌म्¦पु॒त्रान्¦आ¦धे॒हि॒¦पति᳚‌म्¦ए॒का॒द॒श‌म्¦कृ॒धि॒ ||

स॒म्राज्ञी॒ श्वशु॑रे भव स॒म्राज्ञी᳚ श्व॒श्र्वां भ॑व |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

नना᳚न्दरि स॒म्राज्ञी᳚ भव स॒म्राज्ञी॒, अधि॑ दे॒वृषु॑ ||{46/47}{10.85.46}{10.7.1.46}{8.3.28.6}{914, 922, 9712}

स॒‌म्ऽराज्ञी᳚¦श्वशु॑रे¦भ॒व॒¦स॒‌म्ऽराज्ञी᳚¦श्व॒श्र्वा‌म्¦भ॒व॒ | नना᳚न्दरि¦स॒‌म्ऽराज्ञी᳚¦भ॒व॒¦स॒‌म्ऽराज्ञी᳚¦अधि॑¦दे॒वृषु॑ ||

सम᳚ञ्जन्तु॒ विश्वे᳚ दे॒वाः समापो॒ हृद॑यानि नौ |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

सं मा᳚त॒रिश्वा॒ सं धा॒ता समु॒ देष्ट्री᳚ दधातु नौ ||{47/47}{10.85.47}{10.7.1.47}{8.3.28.7}{915, 922, 9713}

स‌म्¦अं॒ज॒न्तु॒¦विश्वे᳚¦दे॒वाः¦स‌म्¦आपः॑¦हृद॑यानि¦नौ॒ | स‌म्¦मा॒त॒रिश्वा᳚¦स‌म्¦धा॒ता¦स‌म्¦ऊँ॒ इति॑¦देष्ट्री᳚¦द॒धा॒तु॒¦नौ॒ ||

[86] विहिसोतोरिति त्रयोविंशत्यृचस्य सूक्तस्य आद्याष्टम्येकादशी द्वादशीचतुर्दशीनामेकोनविंश्यादिचतसृणांचेंद्र ऋषिः सप्तमीत्रयोदशीत्रयोविंशीनामैंद्रो वृषाकपि ऋषिः शिष्टानामेकादशर्चामिंद्राणी ऋषिकाइंद्रः पंक्तिः | (अत्रयस्य वाक्यमिति परिभाषां स्वीकृत्य इंद्रेंद्राणी वृषाकपीनांविभागशोदेवतात्वं केचिन्मन्यंते तद्भाष्यकारादिविरुद्धं) |
वि हि सोतो॒रसृ॑क्षत॒ नेन्द्रं᳚ दे॒वम॑मंसत |{एंद्रः | वरुणः | पङ्क्तिः}

यत्राम॑दद्‌ वृ॒षाक॑पिर॒र्यः पु॒ष्टेषु॒ मत्स॑खा॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{1/23}{10.86.1}{10.7.2.1}{8.4.1.1}{916, 923, 9714}

वि¦हि¦सोतोः᳚¦असृ॑क्षत¦न¦इन्द्र᳚‌म्¦दे॒व‌म्¦अ॒मं॒स॒त॒ |
यत्र॑¦अम॑दत्¦वृ॒षाक॑पिः¦अ॒र्यः¦पु॒ष्टेषु॑¦मत्ऽस॑खा¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

परा॒ ही᳚न्द्र॒ धाव॑सि वृ॒षाक॑पे॒रति॒ व्यथिः॑ |{इंद्राणी | वरुणः | पङ्क्तिः}

नो, अह॒ प्र वि᳚न्दस्य॒न्यत्र॒ सोम॑पीतये॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{2/23}{10.86.2}{10.7.2.2}{8.4.1.2}{917, 923, 9715}

परा᳚¦हि¦इ॒न्द्र॒¦धाव॑सि¦वृ॒षाक॑पेः¦अति॑¦व्यथिः॑ |
नो इति॑¦अह॑¦प्र¦वि॒न्द॒सि॒¦अ॒न्यत्र॑¦सोम॑ऽपीतये¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

किम॒यं त्वां वृ॒षाक॑पिश्च॒कार॒ हरि॑तो मृ॒गः |{एंद्रः | वरुणः | पङ्क्तिः}

यस्मा᳚, इर॒स्यसीदु॒ न्व१॑(अ॒)र्यो वा᳚ पुष्टि॒मद्वसु॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{3/23}{10.86.3}{10.7.2.3}{8.4.1.3}{918, 923, 9716}

कि‌म्¦अ॒य‌म्¦त्वा‌म्¦वृ॒षाक॑पिः¦च॒कार॑¦हरि॑तः¦मृ॒गः |
यस्मै᳚¦इ॒र॒स्यसि॑¦इत्¦ऊँ॒ इति॑¦नु¦अ॒र्यः¦वा॒¦पु॒ष्टि॒ऽमत्¦वसु॑¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

यमि॒मं त्वं वृ॒षाक॑पिं प्रि॒यमि᳚न्द्राभि॒रक्ष॑सि |{इंद्राणी | वरुणः | पङ्क्तिः}

श्वा न्व॑स्य जम्भिष॒दपि॒ कर्णे᳚ वराह॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{4/23}{10.86.4}{10.7.2.4}{8.4.1.4}{919, 923, 9717}

य‌म्¦इ॒म‌म्¦त्व‌म्¦वृ॒षाक॑पि‌म्¦प्रि॒य‌म्¦इ॒न्द्र॒¦अ॒भि॒ऽरक्ष॑सि |
श्वा¦नु¦अ॒स्य॒¦ज॒म्भि॒ष॒त्¦अपि॑¦कर्णे᳚¦व॒रा॒ह॒ऽयुः¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

प्रि॒या त॒ष्टानि॑ मे क॒पिर्व्य॑क्ता॒ व्य॑दूदुषत् |{इंद्राणी | वरुणः | पङ्क्तिः}

शिरो॒ न्व॑स्य राविषं॒ न सु॒गं दु॒ष्कृते᳚ भुवं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{5/23}{10.86.5}{10.7.2.5}{8.4.1.5}{920, 923, 9718}

प्रि॒या¦त॒ष्टानि॑¦मे॒¦क॒पिः¦वि।आ॑क्ता¦वि¦अ॒दू॒दु॒ष॒त् |
शिरः॑¦नु¦अ॒स्य॒¦रा॒वि॒ष॒‌म्¦न¦सु॒ऽग‌म्¦दुः॒ऽकृते᳚¦भु॒व॒‌म्¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

न मत्‌ स्त्री सु॑भ॒सत्त॑रा॒ न सु॒याशु॑तरा भुवत् |{इंद्राणी | वरुणः | पङ्क्तिः}

न मत्प्रति॑च्यवीयसी॒ न सक्थ्युद्य॑मीयसी॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{6/23}{10.86.6}{10.7.2.6}{8.4.2.1}{921, 923, 9719}

न¦मत्¦स्त्री¦सु॒भ॒सत्ऽत॑रा¦न¦सु॒याशु॑ऽतरा¦भु॒व॒त् |
न¦मत्¦प्रति॑ऽच्यवीयसी¦न¦सक्थि॑¦उत्ऽय॑मीयसी¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

उ॒वे, अ᳚म्ब सुलाभिके॒ यथे᳚वा॒ङ्ग भ॑वि॒ष्यति॑ |{इंद्रो वृषाकपि | वरुणः | पङ्क्तिः}

भ॒सन्मे᳚, अम्ब॒ सक्थि॑ मे॒ शिरो᳚ मे॒ वी᳚व हृष्यति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{7/23}{10.86.7}{10.7.2.7}{8.4.2.2}{922, 923, 9720}

सु॒वे¦अ॒म्ब॒¦सु॒ला॒भि॒के॒¦यथा᳚ऽ‌इव¦अ॒ङ्ग¦भ॒वि॒ष्यति॑ |
भ॒सत्¦मे॒¦अ॒म्ब॒¦सक्थि॑¦मे॒¦शिरः॑¦मे॒¦विऽ‌इ᳚व¦हृ॒ष्य॒ति॒¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

किं सु॑बाहो स्वङ्गुरे॒ पृथु॑ष्टो॒ पृथु॑जाघने |{इंद्राणी | वरुणः | पङ्क्तिः}

किं शू᳚रपत्नि न॒स्त्वम॒भ्य॑मीषि वृ॒षाक॑पिं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{8/23}{10.86.8}{10.7.2.8}{8.4.2.3}{923, 923, 9721}

कि‌म्¦सु॒बा॒हो॒ इति॑ सुऽबाहो¦सु॒।आ॒ङ्गु॒रे॒¦पृथु॑स्तो॒ इति॒ पृथु॑ऽस्तो¦पृथु॑ऽजघने |
कि‌म्¦शू॒र॒ऽप॒त्नि॒¦नः॒¦त्व‌म्¦अ॒भि¦अ॒मी॒षि॒¦वृ॒षाक॑पि‌म्¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

अ॒वीरा᳚मिव॒ माम॒यं श॒रारु॑र॒भि म᳚न्यते |{इंद्राणी | वरुणः | पङ्क्तिः}

उ॒ताहम॑स्मि वी॒रिणीन्द्र॑पत्नी म॒रुत्स॑खा॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{9/23}{10.86.9}{10.7.2.9}{8.4.2.4}{924, 923, 9722}

अ॒वीरा᳚‌म्ऽ‌इव¦मा‌म्¦अ॒य‌म्¦श॒रारुः॑¦अ॒भि¦म॒न्य॒ते॒ |
उ॒त¦अ॒ह‌म्¦अ॒स्मि॒¦वी॒रिणी᳚¦इन्द्र॑ऽपत्नी¦म॒रुत्ऽस॑खा¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

सं॒हो॒त्रं स्म॑ पु॒रा नारी॒ सम॑नं॒ वाव॑ गच्छति |{इंद्राणी | वरुणः | पङ्क्तिः}

वे॒धा, ऋ॒तस्य॑ वी॒रिणीन्द्र॑पत्नी महीयते॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{10/23}{10.86.10}{10.7.2.10}{8.4.2.5}{925, 923, 9723}

स॒‌म्ऽहो॒त्र‌म्¦स्म॒¦पु॒रा¦नारी᳚¦सम॑न‌म्¦वा॒¦अव॑¦ग॒च्छ॒ति॒ |
वे॒धाः¦ऋ॒तस्य॑¦वी॒रिणी᳚¦इन्द्र॑ऽपत्नी¦म॒ही॒य॒ते॒¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

इ॒न्द्रा॒णीमा॒सु नारि॑षु सु॒भगा᳚म॒हम॑श्रवम् |{एंद्रः | वरुणः | पङ्क्तिः}

न॒ह्य॑स्या, अप॒रं च॒न ज॒रसा॒ मर॑ते॒ पति॒र्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{11/23}{10.86.11}{10.7.2.11}{8.4.3.1}{926, 923, 9724}

इ॒न्द्रा॒णी‌म्¦आ॒सु¦नारि॑षु¦सु॒ऽभगा᳚‌म्¦अ॒ह‌म्¦अ॒श्र॒व॒‌म् |
न॒हि¦अ॒स्याः॒¦अ॒प॒र‌म्¦च॒न¦ज॒रसा᳚¦मर॑ते¦पतिः॑¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

नाहमि᳚न्द्राणि रारण॒ सख्यु᳚र्वृ॒षाक॑पेरृ॒ते |{एंद्रः | वरुणः | पङ्क्तिः}

यस्ये॒दमप्यं᳚ ह॒विः प्रि॒यं दे॒वेषु॒ गच्छ॑ति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{12/23}{10.86.12}{10.7.2.12}{8.4.3.2}{927, 923, 9725}

न¦अ॒ह‌म्¦इ॒न्द्रा॒णि॒¦र॒र॒ण॒¦सख्युः॑¦वृ॒षाक॑पेः¦ऋ॒ते |
यस्य॑¦इ॒द‌म्¦अप्य᳚‌म्¦ह॒विः¦प्रि॒य‌म्¦दे॒वेषु॑¦गच्छ॑ति¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

वृषा᳚कपायि॒ रेव॑ति॒ सुपु॑त्र॒ आदु॒ सुस्नु॑षे |{इंद्रो वृषाकपि | वरुणः | पङ्क्तिः}

घस॑त्त॒ इन्द्र॑ उ॒क्षणः॑ प्रि॒यं का᳚चित्क॒रं ह॒विर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{13/23}{10.86.13}{10.7.2.13}{8.4.3.3}{928, 923, 9726}

वृषा᳚कपायि¦रेव॑ति¦सुऽपु॑त्रे¦आत्¦ऊँ॒ इति॑¦सुऽस्नु॑षे |
घस॑त्¦ते॒¦इन्द्रः॑¦उ॒क्षणः॑¦प्रि॒य‌म्¦का॒चि॒त्ऽक॒र‌म्¦ह॒विः¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

उ॒क्ष्णो हि मे॒ पञ्च॑दश सा॒कं पच᳚न्ति विंश॒तिम् |{इंद्राणी | वरुणः | पङ्क्तिः}

उ॒ताहम॑द्मि॒ पीव॒ इदु॒भा कु॒क्षी पृ॑णन्ति मे॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{14/23}{10.86.14}{10.7.2.14}{8.4.3.4}{929, 923, 9727}

उ॒क्ष्णः¦हि¦मे॒¦पंच॑ऽदश¦सा॒क‌म्¦पच᳚न्ति¦विं॒श॒ति‌म् |
उ॒त¦अ॒ह‌म्¦अ॒द्मि॒¦पीवः॑¦इत्¦उ॒भा¦कु॒क्षी इति॑¦पृ॒ण॒न्ति॒¦मे॒¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

वृ॒ष॒भो न ति॒ग्मशृ᳚ङ्गो॒ऽन्तर्यू॒थेषु॒ रोरु॑वत् |{इंद्राणी | वरुणः | पङ्क्तिः}

म॒न्थस्त॑ इन्द्र॒ शं हृ॒दे यं ते᳚ सु॒नोति॑ भाव॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{15/23}{10.86.15}{10.7.2.15}{8.4.3.5}{930, 923, 9728}

वृ॒ष॒भः¦न¦ति॒ग्मऽशृ᳚ङ्गः¦अ॒न्तः¦यू॒थेषु॑¦रोरु॑वत् |
म॒न्थः¦ते॒¦इ॒न्द्र॒¦श‌म्¦हृ॒दे¦य‌म्¦ते॒¦सु॒नोति॑¦भा॒व॒युः¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

न सेशे॒ यस्य॒ रम्ब॑तेऽन्त॒रा स॒क्थ्या॒३॑(आ॒) कपृ॑त् |{इंद्राणी | वरुणः | पङ्क्तिः}

सेदी᳚शे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो᳚ वि॒जृम्भ॑ते॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{16/23}{10.86.16}{10.7.2.16}{8.4.4.1}{931, 923, 9729}

न¦सः¦ई॒शे॒¦यस्य॑¦रम्ब॑ते¦अ॒न्त॒रा¦स॒क्थ्या᳚¦कपृ॑त् |
सः¦इत्¦ई॒शे॒¦यस्य॑¦रो॒म॒श‌म्¦नि॒ऽसे॒दुषः॑¦वि॒ऽजृम्भ॑ते¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

न सेशे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो᳚ वि॒जृम्भ॑ते |{इंद्राणी | वरुणः | पङ्क्तिः}

सेदी᳚शे॒ यस्य॒ रम्ब॑तेऽन्त॒रा स॒क्थ्या॒३॑(आ॒) कपृ॒द्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{17/23}{10.86.17}{10.7.2.17}{8.4.4.2}{932, 923, 9730}

न¦सः¦ई॒शे॒¦यस्य॑¦रो॒म॒श‌म्¦नि॒ऽसे॒दुषः॑¦वि॒ऽजृम्भ॑ते |
सः¦इत्¦ई॒शे॒¦यस्य॑¦रम्ब॑ते¦अ॒न्त॒रा¦स॒क्थ्या᳚¦कपृ॑त्¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

अ॒यमि᳚न्द्र वृ॒षाक॑पिः॒ पर॑स्वन्तं ह॒तं वि॑दत् |{इंद्राणी | वरुणः | पङ्क्तिः}

अ॒सिं सू॒नां नवं᳚ च॒रुमादेध॒स्यान॒ आचि॑तं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{18/23}{10.86.18}{10.7.2.18}{8.4.4.3}{933, 923, 9731}

अ॒य‌म्¦इ॒न्द्र॒¦वृ॒षाक॑पिः¦पर॑स्वन्त‌म्¦ह॒त‌म्¦वि॒द॒त् |
अ॒सि‌म्¦सू॒ना‌म्¦नव᳚‌म्¦च॒रु‌म्¦आत्¦एध॑स्य¦अनः॑¦आऽचि॑त‌म्¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

अ॒यमे᳚मि वि॒चाक॑शद्विचि॒न्वन्दास॒मार्य᳚म् |{एंद्रः | वरुणः | पङ्क्तिः}

पिबा᳚मि पाक॒सुत्व॑नो॒ऽभि धीर॑मचाकशं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{19/23}{10.86.19}{10.7.2.19}{8.4.4.4}{934, 923, 9732}

अ॒य‌म्¦ए॒मि॒¦वि॒ऽचाक॑शत्¦वि॒ऽचि॒न्वन्¦दास᳚‌म्¦आर्य᳚‌म् |
पिबा᳚मि¦पा॒क॒ऽसुत्व॑नः¦अ॒भि¦धीर᳚‌म्¦अ॒चा॒क॒श॒‌म्¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

धन्व॑ च॒ यत्कृ॒न्तत्रं᳚ च॒ कति॑ स्वि॒त्ता वि योज॑ना |{एंद्रः | वरुणः | पङ्क्तिः}

नेदी᳚यसो वृषाक॒पेऽस्त॒मेहि॑ गृ॒हाँ, उप॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{20/23}{10.86.20}{10.7.2.20}{8.4.4.5}{935, 923, 9733}

धन्व॑¦च॒¦यत्¦कृ॒न्तत्र᳚‌म्¦च॒¦कति॑¦स्वि॒त्¦ता¦वि¦योज॑ना |
नेदी᳚यसः¦वृ॒षा॒क॒पे॒¦अस्त᳚‌म्¦आ¦इ॒हि॒¦गृ॒हान्¦उप॑¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

पुन॒रेहि॑ वृषाकपे सुवि॒ता क॑ल्पयावहै |{एंद्रः | वरुणः | पङ्क्तिः}

य ए॒ष स्व॑प्न॒नंश॒नोऽस्त॒मेषि॑ प॒था पुन॒र्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{21/23}{10.86.21}{10.7.2.21}{8.4.4.6}{936, 923, 9734}

पुनः॑¦आ¦इ॒हि॒¦वृ॒षा॒क॒पे॒¦सु॒वि॒ता¦क॒ल्प॒या॒व॒है॒ |
यः¦ए॒षः¦स्व॒प्न॒ऽनंश॑नः¦अस्त᳚‌म्¦एषि॑¦प॒था¦पुनः॑¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

यदुद᳚ञ्चो वृषाकपे गृ॒हमि॒न्द्राज॑गन्तन |{एंद्रः | वरुणः | पङ्क्तिः}

क्व१॑(अ॒) स्य पु॑ल्व॒घो मृ॒गः कम॑गञ्जन॒योप॑नो॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{22/23}{10.86.22}{10.7.2.22}{8.4.4.7}{937, 923, 9735}

यत्¦उदं᳚चः¦वृ॒षा॒क॒पे॒¦गृ॒ह‌म्¦इ॒न्द्र॒¦अज॑गन्तन |
क्व॑¦स्यः¦पु॒ल्व॒घः¦मृ॒गः¦क‌म्¦अ॒ग॒न्¦ज॒न॒ऽयोप॑नः¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

पर्शु᳚र्ह॒ नाम॑ मान॒वी सा॒कं स॑सूव विंश॒तिम् |{इंद्रो वृषाकपि | वरुणः | पङ्क्तिः}

भ॒द्रं भ॑ल॒ त्यस्या᳚, अभू॒द्यस्या᳚, उ॒दर॒माम॑य॒द्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{23/23}{10.86.23}{10.7.2.23}{8.4.4.8}{938, 923, 9736}

पशुः॑¦ह॒¦नाम॑¦मा॒न॒वी¦सा॒क‌म्¦स॒सू॒व॒¦विं॒श॒ति‌म् |
भ॒द्र‌म्¦भ॒ल॒¦त्यस्यै᳚¦अ॒भू॒त्¦यस्याः᳚¦उ॒दर᳚‌म्¦आम॑यत्¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

[87] रक्षोहणमिति पंचविंशत्यृचस्य सूक्तस्य भारद्वाजःपायूरक्षोहाग्निस्त्रिष्टुप् अंत्याश्चतस्रोनुष्टुभः |
र॒क्षो॒हणं᳚ वा॒जिन॒मा जि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

शिशा᳚नो, अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः॒ स नो॒ दिवा॒ स रि॒षः पा᳚तु॒ नक्त᳚म् ||{1/25}{10.87.1}{10.7.3.1}{8.4.5.1}{939, 924, 9737}

र॒क्षः॒ऽहन᳚‌म्¦वा॒जिन᳚‌म्¦आ¦जि॒घ॒र्मि॒¦मि॒त्र‌म्¦प्रथि॑ष्ठ‌म्¦उप॑¦या॒मि॒¦शर्म॑ |
शिशा᳚नः¦अ॒ग्निः¦क्रतु॑ऽभिः¦स‌म्ऽ‌इ᳚द्धः¦सः¦नः॒¦दिवा᳚¦सः¦रि॒षः¦पा॒तु॒¦नक्त᳚‌म् ||

अयो᳚दंष्ट्रो, अ॒र्चिषा᳚ यातु॒धाना॒नुप॑ स्पृश जातवेदः॒ समि॑द्धः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

आ जि॒ह्वया॒ मूर॑देवान्‌ रभस्व क्र॒व्यादो᳚ वृ॒क्त्व्यपि॑ धत्स्वा॒सन् ||{2/25}{10.87.2}{10.7.3.2}{8.4.5.2}{940, 924, 9738}

अयः॑ऽदंष्ट्रः¦अ॒र्चिषा᳚¦या॒तु॒ऽधाना᳚न्¦उप॑¦स्पृ॒श॒¦जा॒त॒ऽवे॒दः॒¦स‌म्ऽ‌इ᳚द्धः |
आ¦जि॒ह्वया᳚¦मूर॑ऽदेवान्¦र॒भ॒स्व॒¦क्र॒व्य॒।आदः॑¦वृ॒क्त्वी¦अपि॑¦ध॒त्स्व॒¦आ॒सन् ||

उ॒भोभ॑यावि॒न्नुप॑ धेहि॒ दंष्ट्रा᳚ हिं॒स्रः शिशा॒नोऽव॑रं॒ परं᳚ च |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

उ॒तान्तरि॑क्षे॒ परि॑ याहि राज॒ञ्जम्भैः॒ सं धे᳚ह्य॒भि या᳚तु॒धाना॑न् ||{3/25}{10.87.3}{10.7.3.3}{8.4.5.3}{941, 924, 9739}

उ॒भा¦उ॒भ॒या॒वि॒न्¦उप॑¦धे॒हि॒¦दंष्ट्रा᳚¦हिं॒स्रः¦शिशा᳚नः¦अव॑र‌म्¦पर᳚‌म्¦च॒ |
उ॒त¦अ॒न्तरि॑क्षे¦परि॑¦या॒हि॒¦रा॒ज॒न्¦जम्भैः᳚¦स‌म्¦धे॒हि॒¦अ॒भि¦या॒तु॒ऽधाना॑न् ||

य॒ज्ञैरिषूः᳚ सं॒नम॑मानो, अग्ने वा॒चा श॒ल्याँ, अ॒शनि॑भिर्दिहा॒नः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

ताभि᳚र्विध्य॒ हृद॑ये यातु॒धाना᳚न्‌ प्रती॒चो बा॒हून्‌ प्रति॑ भङ्ध्येषाम् ||{4/25}{10.87.4}{10.7.3.4}{8.4.5.4}{942, 924, 9740}

य॒ज्ञैः¦इषूः᳚¦स॒‌म्ऽनम॑मानः¦अ॒ग्ने॒¦वा॒चा¦श॒ल्यान्¦अ॒शनि॑ऽभिः¦दि॒हा॒नः |
ताभिः॑¦वि॒ध्य॒¦हृद॑ये¦या॒तु॒ऽधाना᳚न्¦प्र॒ती॒चः¦बा॒हून्¦प्रति॑¦भ॒ङ्धि॒¦ए॒षा॒‌म् ||

अग्ने॒ त्वचं᳚ यातु॒धान॑स्य भिन्धि हिं॒स्राशनि॒र्हर॑सा हन्त्वेनम् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

प्र पर्वा᳚णि जातवेदः शृणीहि क्र॒व्यात्क्र॑वि॒ष्णुर्वि चि॑नोतु वृ॒क्णम् ||{5/25}{10.87.5}{10.7.3.5}{8.4.5.5}{943, 924, 9741}

अग्ने᳚¦त्वच᳚‌म्¦या॒तु॒ऽधान॑स्य¦भि॒न्धि॒¦हिं॒स्रा¦अ॒शनिः॑¦हर॑सा¦ह॒न्तु॒¦ए॒न॒‌म् |
प्र¦पर्वा᳚णि¦जा॒त॒ऽवे॒दः॒¦शृ॒णी॒हि॒¦क्र॒व्यात्¦क्र॒वि॒ष्णुः¦वि¦चि॒नो॒तु॒¦वृ॒क्ण‌म् ||

यत्रे॒दानीं॒ पश्य॑सि जातवेद॒स्तिष्ठ᳚न्तमग्न उ॒त वा॒ चर᳚न्तम् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

यद्वा॒न्तरि॑क्षे प॒थिभिः॒ पत᳚न्तं॒ तमस्ता᳚ विध्य॒ शर्वा॒ शिशा᳚नः ||{6/25}{10.87.6}{10.7.3.6}{8.4.6.1}{944, 924, 9742}

यत्र॑¦इ॒दानी᳚‌म्¦पश्य॑सि¦जा॒त॒ऽवे॒दः॒¦तिष्ठ᳚न्त‌म्¦अ॒ग्ने॒¦उ॒त¦वा॒¦चर᳚न्त‌म् |
यत्¦वा॒¦अ॒न्तरि॑क्षे¦प॒थिऽभिः॑¦पत᳚न्त‌म्¦त‌म्¦अस्ता᳚¦वि॒ध्य॒¦शर्वा᳚¦शिशा᳚नः ||

उ॒ताल॑ब्धं स्पृणुहि जातवेद आलेभा॒नादृ॒ष्टिभि᳚र्यातु॒धाना᳚त् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

अग्ने॒ पूर्वो॒ नि ज॑हि॒ शोशु॑चान आ॒मादः॒, क्ष्विङ्का॒स्तम॑द॒न्त्वेनीः᳚ ||{7/25}{10.87.7}{10.7.3.7}{8.4.6.2}{945, 924, 9743}

उ॒त¦आऽल॑ब्ध‌म्¦स्पृ॒णु॒हि॒¦जा॒त॒ऽवे॒दः॒¦आ॒ऽले॒भा॒नात्¦ऋ॒ष्टिऽभिः॑¦या॒तु॒ऽधाना᳚त् |
अग्ने᳚¦पूर्वः॑¦नि¦ज॒हि॒¦शोशु॑चानः¦आ॒म॒।आदः॑¦क्ष्विङ्काः᳚¦त‌म्¦अ॒द॒न्तु॒¦एनीः᳚ ||

इ॒ह प्र ब्रू᳚हि यत॒मः सो, अ॑ग्ने॒ यो या᳚तु॒धानो॒ य इ॒दं कृ॒णोति॑ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

तमा र॑भस्व स॒मिधा᳚ यविष्ठ नृ॒चक्ष॑स॒श्चक्षु॑षे रन्धयैनम् ||{8/25}{10.87.8}{10.7.3.8}{8.4.6.3}{946, 924, 9744}

इ॒ह¦प्र¦ब्रू॒हि॒¦य॒त॒मः¦सः¦अ॒ग्ने॒¦यः¦या॒तु॒ऽधानः॑¦यः¦इ॒द‌म्¦कृ॒णोति॑ |
त‌म्¦आ¦र॒भ॒स्व॒¦स॒‌म्ऽ‌इधा᳚¦य॒वि॒ष्ठ॒¦नृ॒ऽचक्ष॑सः¦चक्षु॑षे¦र॒न्ध॒य॒¦ए॒न॒‌म् ||

ती॒क्ष्णेना᳚ग्ने॒ चक्षु॑षा रक्ष य॒ज्ञं प्राञ्चं॒ वसु॑भ्यः॒ प्र ण॑य प्रचेतः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

हिं॒स्रं रक्षां᳚स्य॒भि शोशु॑चानं॒ मा त्वा᳚ दभन्यातु॒धाना᳚ नृचक्षः ||{9/25}{10.87.9}{10.7.3.9}{8.4.6.4}{947, 924, 9745}

ती॒क्ष्णेन॑¦अ॒ग्ने॒¦चक्षु॑षा¦र॒क्ष॒¦य॒ज्ञ‌म्¦प्रांच᳚‌म्¦वसु॑ऽभ्यः¦प्र¦न॒य॒¦प्र॒ऽचे॒तः॒ |
हिं॒स्र‌म्¦रक्षां᳚सि¦अ॒भि¦शोशु॑चान‌म्¦मा¦त्वा॒¦द॒भ॒न्¦या॒तु॒ऽधानाः᳚¦नृ॒ऽच॒क्षः॒ ||

नृ॒चक्षा॒ रक्षः॒ परि॑ पश्य वि॒क्षु तस्य॒ त्रीणि॒ प्रति॑ शृणी॒ह्यग्रा᳚ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

तस्या᳚ग्ने पृ॒ष्टीर्हर॑सा शृणीहि त्रे॒धा मूलं᳚ यातु॒धान॑स्य वृश्च ||{10/25}{10.87.10}{10.7.3.10}{8.4.6.5}{948, 924, 9746}

नृ॒ऽचक्षाः᳚¦रक्षः॑¦परि॑¦प॒श्य॒¦वि॒क्षु¦तस्य॑¦त्रीणि॑¦प्रति॑¦शृ॒णी॒हि॒¦अग्रा᳚ |
तस्य॑¦अ॒ग्ने॒¦पृ॒ष्टीः¦हर॑सा¦शृ॒णी॒हि॒¦त्रे॒धा¦मूल᳚‌म्¦या॒तु॒ऽधान॑स्य¦वृ॒श्च॒ ||

त्रिर्या᳚तु॒धानः॒ प्रसि॑तिं त एत्वृ॒तं यो, अ॑ग्ने॒, अनृ॑तेन॒ हन्ति॑ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

तम॒र्चिषा᳚ स्फू॒र्जय᳚ञ्जातवेदः सम॒क्षमे᳚नं गृण॒ते नि वृ᳚ङ्धि ||{11/25}{10.87.11}{10.7.3.11}{8.4.7.1}{949, 924, 9747}

त्रिः¦या॒तु॒ऽधानः॑¦प्रऽसि॑ति‌म्¦ते॒¦ए॒तु॒¦ऋ॒त‌म्¦यः¦अ॒ग्ने॒¦अनृ॑तेन¦हन्ति॑ |
त‌म्¦अ॒र्चिषा᳚¦स्फू॒र्जय॑न्¦जा॒त॒ऽवे॒दः॒¦स॒‌म्।आ॒क्ष‌म्¦ए॒न॒‌म्¦गृ॒ण॒ते¦नि¦वृ॒ङ्धि॒ ||

तद॑ग्ने॒ चक्षुः॒ प्रति॑ धेहि रे॒भे श॑फा॒रुजं॒ येन॒ पश्य॑सि यातु॒धान᳚म् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

अ॒थ॒र्व॒वज्ज्योति॑षा॒ दैव्ये᳚न स॒त्यं धूर्व᳚न्तम॒चितं॒ न्यो᳚ष ||{12/25}{10.87.12}{10.7.3.12}{8.4.7.2}{950, 924, 9748}

तत्¦अ॒ग्ने॒¦चक्षुः॑¦प्रति॑¦धे॒हि॒¦रे॒भे¦श॒फ॒ऽआ॒रुज᳚‌म्¦येन॑¦पश्य॑सि¦या॒तु॒ऽधान᳚‌म् |
अ॒थ॒र्व॒ऽवत्¦ज्योति॑षा¦दैव्ये᳚न¦स॒त्य‌म्¦धूर्व᳚न्त‌म्¦अ॒चित᳚‌म्¦नि¦ओ॒ष॒ ||

यद॑ग्ने, अ॒द्य मि॑थु॒ना शपा᳚तो॒ यद्वा॒चस्तृ॒ष्टं ज॒नय᳚न्त रे॒भाः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

म॒न्योर्मन॑सः शर॒व्या॒३॑(आ॒) जाय॑ते॒ या तया᳚ विध्य॒ हृद॑ये यातु॒धाना॑न् ||{13/25}{10.87.13}{10.7.3.13}{8.4.7.3}{951, 924, 9749}

यत्¦अ॒ग्ने॒¦अ॒द्य¦मि॒थु॒ना¦शपा᳚तः¦यत्¦वा॒चः¦तृ॒ष्ट‌म्¦ज॒नय᳚न्त¦रे॒भाः |
म॒न्योः¦मन॑सः¦श॒र॒व्या᳚¦जाय॑ते¦या¦तया᳚¦वि॒ध्य॒¦हृद॑ये¦या॒तु॒ऽधाना॑न् ||

परा᳚ शृणीहि॒ तप॑सा यातु॒धाना॒न्‌ परा᳚ग्ने॒ रक्षो॒ हर॑सा शृणीहि |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

परा॒र्चिषा॒ मूर॑देवाञ्छृणीहि॒ परा᳚सु॒तृपो᳚, अ॒भि शोशु॑चानः ||{14/25}{10.87.14}{10.7.3.14}{8.4.7.4}{952, 924, 9750}

परा᳚¦शृ॒णी॒हि॒¦तप॑सा¦या॒तु॒ऽधाना᳚न्¦परा᳚¦अ॒ग्ने॒¦रक्षः॑¦हर॑सा¦शृ॒णी॒हि॒ |
परा᳚¦अ॒र्चिषा᳚¦मूर॑ऽदेवान्¦शृ॒णी॒हि॒¦परा᳚¦अ॒सु॒ऽतृपः॑¦अ॒भि¦शोशु॑चानः ||

परा॒द्य दे॒वा वृ॑जि॒नं शृ॑णन्तु प्र॒त्यगे᳚नं श॒पथा᳚ यन्तु तृ॒ष्टाः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

वा॒चास्ते᳚नं॒ शर॑व ऋच्छन्तु॒ मर्म॒न्‌ विश्व॑स्यैतु॒ प्रसि॑तिं यातु॒धानः॑ ||{15/25}{10.87.15}{10.7.3.15}{8.4.7.5}{953, 924, 9751}

परा᳚¦अ॒द्य¦दे॒वाः¦वृ॒जि॒न‌म्¦शृ॒ण॒न्तु॒¦प्र॒त्यक्¦ए॒न॒‌म्¦श॒पथाः᳚¦य॒न्तु॒¦तृ॒ष्टाः |
वा॒चाऽस्ते᳚न‌म्¦शर॑वः¦ऋ॒च्छ॒न्तु॒¦मर्म॑न्¦विश्व॑स्य¦ए॒तु॒¦प्रऽसि॑ति‌म्¦या॒तु॒ऽधानः॑ ||

यः पौरु॑षेयेण क्र॒विषा᳚ सम॒ङ्क्ते यो, अश्व्ये᳚न प॒शुना᳚ यातु॒धानः॑ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

यो, अ॒घ्न्याया॒ भर॑ति क्षी॒रम॑ग्ने॒ तेषां᳚ शी॒र्षाणि॒ हर॒सापि॑ वृश्च ||{16/25}{10.87.16}{10.7.3.16}{8.4.8.1}{954, 924, 9752}

यः¦पौरु॑षेयेण¦क्र॒विषा᳚¦स॒‌म्।आ॒ङ्क्ते¦यः¦अश्व्ये᳚न¦प॒शुना᳚¦या॒तु॒ऽधानः॑ |
यः¦अ॒घ्न्यायाः᳚¦भर॑ति¦क्षी॒र‌म्¦अ॒ग्ने॒¦तेषा᳚‌म्¦शी॒र्षाणि॑¦हर॑सा¦अपि॑¦वृ॒श्च॒ ||

सं॒व॒त्स॒रीणं॒ पय॑ उ॒स्रिया᳚या॒स्तस्य॒ माशी᳚द्यातु॒धानो᳚ नृचक्षः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

पी॒यूष॑मग्ने यत॒मस्तितृ॑प्सा॒त्तं प्र॒त्यञ्च॑म॒र्चिषा᳚ विध्य॒ मर्म॑न् ||{17/25}{10.87.17}{10.7.3.17}{8.4.8.2}{955, 924, 9753}

सं॒व॒त्स॒रीण᳚‌म्¦पयः॑¦उ॒स्रिया᳚याः¦तस्य॑¦मा¦अ॒शी॒त्¦या॒तु॒ऽधानः॑¦नृ॒ऽच॒क्षः॒ |
पी॒यूष᳚‌म्¦अ॒ग्ने॒¦य॒त॒मः¦तितृ॑प्सात्¦त‌म्¦प्र॒त्यंच᳚‌म्¦अ॒र्चिषा᳚¦वि॒ध्य॒¦मर्म॑न् ||

वि॒षं गवां᳚ यातु॒धानाः᳚ पिब॒न्त्वा वृ॑श्च्यन्ता॒मदि॑तये दु॒रेवाः᳚ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

परै᳚नान्दे॒वः स॑वि॒ता द॑दातु॒ परा᳚ भा॒गमोष॑धीनां जयन्ताम् ||{18/25}{10.87.18}{10.7.3.18}{8.4.8.3}{956, 924, 9754}

वि॒ष‌म्¦गवा᳚‌म्¦या॒तु॒ऽधानाः᳚¦पि॒ब॒न्तु॒¦आ¦वृ॒श्च्य॒न्ता॒‌म्¦अदि॑तये¦दुः॒ऽएवाः᳚ |
परा᳚¦ए॒ना॒न्¦दे॒वः¦स॒वि॒ता¦द॒दा॒तु॒¦परा᳚¦भा॒ग‌म्¦ओष॑धीना‌म्¦ज॒य॒न्ता॒‌म् ||

स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां᳚सि॒ पृत॑नासु जिग्युः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

अनु॑ दह स॒हमू᳚रान्‌ क्र॒व्यादो॒ मा ते᳚ हे॒त्या मु॑क्षत॒ दैव्या᳚याः ||{19/25}{10.87.19}{10.7.3.19}{8.4.8.4}{957, 924, 9755}

स॒नात्¦अ॒ग्ने॒¦मृ॒ण॒सि॒¦या॒तु॒ऽधाना᳚न्¦न¦त्वा॒¦रक्षां᳚सि¦पृत॑नासु¦जि॒ग्युः॒ |
अनु॑¦द॒ह॒¦स॒हऽमू᳚रान्¦क्र॒व्य॒।आदः॑¦मा¦ते॒¦हे॒त्याः¦मु॒क्ष॒त॒¦दैव्या᳚याः ||

त्वं नो᳚, अग्ने, अध॒रादुद॑क्ता॒त्‌ त्वं प॒श्चादु॒त र॑क्षा पु॒रस्ता᳚त् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

प्रति॒ ते ते᳚, अ॒जरा᳚स॒स्तपि॑ष्ठा, अ॒घशं᳚सं॒ शोशु॑चतो दहन्तु ||{20/25}{10.87.20}{10.7.3.20}{8.4.8.5}{958, 924, 9756}

त्व‌म्¦नः॒¦अ॒ग्ने॒¦अ॒ध॒रात्¦उद॑क्तात्¦त्व‌म्¦प॒श्चात्¦उ॒त¦र॒क्ष॒¦पु॒रस्ता᳚त् |
प्रति॑¦ते¦ते॒¦अ॒जरा᳚सः¦तपि॑ष्ठाः¦अ॒घऽशं᳚स‌म्¦शोशु॑चतः¦द॒ह॒न्तु॒ ||

प॒श्चात्पु॒रस्ता᳚दध॒रादुद॑क्तात्क॒विः काव्ये᳚न॒ परि॑ पाहि राजन् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

सखे॒ सखा᳚यम॒जरो᳚ जरि॒म्णेऽग्ने॒ मर्ताँ॒, अम॑र्त्य॒स्त्वं नः॑ ||{21/25}{10.87.21}{10.7.3.21}{8.4.9.1}{959, 924, 9757}

प॒श्चात्¦पु॒रस्ता᳚त्¦अ॒ध॒रात्¦उद॑क्तात्¦क॒विः¦काव्ये᳚न¦परि॑¦पा॒हि॒¦रा॒ज॒न् |
सखे᳚¦सखा᳚य‌म्¦अ॒जरः॑¦ज॒रि॒म्णे¦अग्ने᳚¦मर्ता᳚न्¦अम॑र्त्यः¦त्व‌म्¦नः॒ ||

परि॑ त्वाग्ने॒ पुरं᳚ व॒यं विप्रं᳚ सहस्य धीमहि |{भारद्वाजः पायूः | रक्षोहाग्निः | अनुष्टुप्}

धृ॒षद्व᳚र्णं दि॒वेदि॑वे ह॒न्तारं᳚ भङ्गु॒राव॑ताम् ||{22/25}{10.87.22}{10.7.3.22}{8.4.9.2}{960, 924, 9758}

परि॑¦त्वा॒¦अ॒ग्ने॒¦पुर᳚‌म्¦व॒य‌म्¦विप्र᳚‌म्¦स॒ह॒स्य॒¦धी॒म॒हि॒ | धृ॒षत्ऽव᳚र्ण‌म्¦दि॒वेऽदि॑वे¦ह॒न्तार᳚‌म्¦भ॒ङ्गु॒रऽव॑ता‌म् ||

वि॒षेण॑ भङ्गु॒राव॑तः॒ प्रति॑ ष्म र॒क्षसो᳚ दह |{भारद्वाजः पायूः | रक्षोहाग्निः | अनुष्टुप्}

अग्ने᳚ ति॒ग्मेन॑ शो॒चिषा॒ तपु॑रग्राभिरृ॒ष्टिभिः॑ ||{23/25}{10.87.23}{10.7.3.23}{8.4.9.3}{961, 924, 9759}

वि॒षेण॑¦भ॒ङ्गु॒रऽव॑तः¦प्रति॑¦स्म॒¦र॒क्षसः॑¦द॒ह॒ | अग्ने᳚¦ति॒ग्मेन॑¦शो॒चिषा᳚¦तपुः॑।आग्राभिः¦ऋ॒ष्टिऽभिः॑ ||

प्रत्य॑ग्ने मिथु॒ना द॑ह यातु॒धाना᳚ किमी॒दिना᳚ |{भारद्वाजः पायूः | रक्षोहाग्निः | अनुष्टुप्}

सं त्वा᳚ शिशामि जागृ॒ह्यद॑ब्धं विप्र॒ मन्म॑भिः ||{24/25}{10.87.24}{10.7.3.24}{8.4.9.4}{962, 924, 9760}

प्रति॑¦अ॒ग्ने॒¦मि॒थु॒ना¦द॒ह॒¦या॒तु॒ऽधाना᳚¦कि॒मी॒दिना᳚ | स‌म्¦त्वा॒¦शि॒शा॒मि॒¦जा॒गृ॒हि¦अद॑ब्ध‌म्¦वि॒प्र॒¦मन्म॑ऽभिः ||

प्रत्य॑ग्ने॒ हर॑सा॒ हरः॑ शृणी॒हि वि॒श्वतः॒ प्रति॑ |{भारद्वाजः पायूः | रक्षोहाग्निः | अनुष्टुप्}

या॒तु॒धान॑स्य र॒क्षसो॒ बलं॒ वि रु॑ज वी॒र्य᳚म् ||{25/25}{10.87.25}{10.7.3.25}{8.4.9.5}{963, 924, 9761}

प्रति॑¦अ॒ग्ने॒¦हर॑सा¦हरः॑¦शृ॒णी॒हि¦वि॒श्वतः॑¦प्रति॑ | या॒तु॒ऽधान॑स्य¦र॒क्षसः॑¦बल᳚‌म्¦वि¦रु॒ज॒¦वी॒र्य᳚‌म् ||

[88] हनिष्पांतमित्येकोन विंशत्यृचस्य सूक्तस्यांगिरसोमूर्धन्वान्सूर्यवैश्वानरौत्रिष्टुप् | (मरीचिः - हविष्पांतद्विदैवत्यं सौर्यवैश्वानरी यकमितिद्वेदेवतेअत्र । तेनसूर्यवैश्वानरइत्यग्नेर्गुणइतिवदंतः परास्ताः ) |
ह॒विष्पान्त॑म॒जरं᳚ स्व॒र्विदि॑ दिवि॒स्पृश्याहु॑तं॒ जुष्ट॑म॒ग्नौ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

तस्य॒ भर्म॑णे॒ भुव॑नाय दे॒वा धर्म॑णे॒ कं स्व॒धया᳚ पप्रथन्त ||{1/19}{10.88.1}{10.7.4.1}{8.4.10.1}{964, 925, 9762}

ह॒विः¦पान्त᳚‌म्¦अ॒जर᳚‌म्¦स्वः॒ऽविदि॑¦दि॒वि॒ऽस्पृशि॑¦आऽहु॑त‌म्¦जुष्ट᳚‌म्¦अ॒ग्नौ |
तस्य॑¦भर्म॑णे¦भुव॑नाय¦दे॒वाः¦धर्म॑णे¦क‌म्¦स्व॒धया᳚¦प॒प्र॒थ॒न्त॒ ||

गी॒र्णं भुव॑नं॒ तम॒साप॑गूळ्हमा॒विः स्व॑रभवज्जा॒ते, अ॒ग्नौ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

तस्य॑ दे॒वाः पृ॑थि॒वी द्यौरु॒तापोऽर॑णय॒न्नोष॑धीः स॒ख्ये, अ॑स्य ||{2/19}{10.88.2}{10.7.4.2}{8.4.10.2}{965, 925, 9763}

गी॒र्ण‌म्¦भुव॑न‌म्¦तम॑सा¦अप॑ऽगूळ्ह‌म्¦आ॒विः¦स्वः॑¦अ॒भ॒व॒त्¦जा॒ते¦अ॒ग्नौ |
तस्य॑¦दे॒वाः¦पृ॒थि॒वी¦द्यौः¦उ॒त¦आपः॑¦अर॑णयन्¦ओष॑धीः¦स॒ख्ये¦अ॒स्य॒ ||

दे॒वेभि॒र्न्‌ वि॑षि॒तो य॒ज्ञिये᳚भिर॒ग्निं स्तो᳚षाण्य॒जरं᳚ बृ॒हन्त᳚म् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

यो भा॒नुना᳚ पृथि॒वीं द्यामु॒तेमामा᳚त॒तान॒ रोद॑सी, अ॒न्तरि॑क्षम् ||{3/19}{10.88.3}{10.7.4.3}{8.4.10.3}{966, 925, 9764}

दे॒वेभिः॑¦नु¦इ॒षि॒तः¦य॒ज्ञिये᳚भिः¦अ॒ग्नि‌म्¦स्तो॒षा॒णि॒¦अ॒जर᳚‌म्¦बृ॒हन्त᳚‌म् |
यः¦भा॒नुना᳚¦पृ॒थि॒वी‌म्¦द्या‌म्¦उ॒त¦इ॒मा‌म्¦आ॒त॒तान॑¦रोद॑सी॒ इति॑¦अ॒न्तरि॑क्ष‌म् ||

यो होतासी᳚त्प्रथ॒मो दे॒वजु॑ष्टो॒ यं स॒माञ्ज॒न्नाज्ये᳚ना वृणा॒नाः |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

स प॑त॒त्री᳚त्व॒रं स्था जग॒द्यच्छ्वा॒त्रम॒ग्निर॑कृणोज्जा॒तवे᳚दाः ||{4/19}{10.88.4}{10.7.4.4}{8.4.10.4}{967, 925, 9765}

यः¦होता᳚¦आसी᳚त्¦प्र॒थ॒मः¦दे॒वऽजु॑ष्टः¦य‌म्¦स॒‌म्ऽआंज॑न्¦आज्ये᳚न¦वृ॒णा॒नाः |
सः¦प॒त॒त्रि¦इ॒त्व॒र‌म्¦स्थाः¦जग॑त्¦यत्¦श्वा॒त्र‌म्¦अ॒ग्निः¦अ॒कृ॒णो॒त्¦जा॒तऽवे᳚दाः ||

यज्जा᳚तवेदो॒ भुव॑नस्य मू॒र्धन्नति॑ष्ठो, अग्ने स॒ह रो᳚च॒नेन॑ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

तं त्वा᳚हेम म॒तिभि॑र्गी॒र्भिरु॒क्थैः स य॒ज्ञियो᳚, अभवो रोदसि॒प्राः ||{5/19}{10.88.5}{10.7.4.5}{8.4.10.5}{968, 925, 9766}

यत्¦जा॒त॒ऽवे॒दः॒¦भुव॑नस्य¦मू॒र्धन्¦अति॑ष्ठः¦अ॒ग्ने॒¦स॒ह¦रो॒च॒नेन॑ |
त‌म्¦त्वा॒¦अ॒हे॒म॒¦म॒तिऽभिः॑¦गीः॒ऽभिः¦उ॒क्थैः¦सः¦य॒ज्ञियः॑¦अ॒भ॒वः॒¦रो॒द॒सि॒ऽप्राः ||

मू॒र्धा भु॒वो भ॑वति॒ नक्त॑म॒ग्निस्ततः॒ सूर्यो᳚ जायते प्रा॒तरु॒द्यन् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

मा॒यामू॒ तु य॒ज्ञिया᳚नामे॒तामपो॒ यत्‌ तूर्णि॒श्चर॑ति प्रजा॒नन् ||{6/19}{10.88.6}{10.7.4.6}{8.4.11.1}{969, 925, 9767}

मू॒र्धा¦भु॒वः¦भ॒व॒ति॒¦नक्त᳚‌म्¦अ॒ग्निः¦ततः॑¦सूर्यः॑¦जा॒य॒ते॒¦प्रा॒तः¦उ॒त्ऽयन् |
मा॒या‌म्¦ऊँ॒ इति॑¦तु¦य॒ज्ञिया᳚ना‌म्¦ए॒ता‌म्¦अपः॑¦यत्¦तूर्णिः॑¦चर॑ति¦प्र॒ऽजा॒नन् ||

दृ॒शेन्यो॒ यो म॑हि॒ना समि॒द्धोऽरो᳚चत दि॒वियो᳚निर्वि॒भावा᳚ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

तस्मि᳚न्न॒ग्नौ सू᳚क्तवा॒केन॑ दे॒वा ह॒विर्विश्व॒ आजु॑हवुस्तनू॒पाः ||{7/19}{10.88.7}{10.7.4.7}{8.4.11.2}{970, 925, 9768}

दृ॒शेन्यः॑¦यः¦म॒हि॒ना¦स‌म्ऽ‌इ᳚द्धः¦अरो᳚चत¦दि॒विऽयो᳚निः¦वि॒भाऽवा᳚ |
तस्मि॑न्¦अ॒ग्नौ¦सू॒क्त॒ऽवा॒केन॑¦दे॒वाः¦ह॒विः¦विश्वे᳚¦आ¦अ॒जु॒ह॒वुः॒¦त॒नू॒ऽपाः ||

सू॒क्त॒वा॒कं प्र॑थ॒ममादिद॒ग्निमादिद्ध॒विर॑जनयन्त दे॒वाः |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

स ए᳚षां य॒ज्ञो, अ॑भवत्तनू॒पास्तं द्यौर्वे᳚द॒ तं पृ॑थि॒वी तमापः॑ ||{8/19}{10.88.8}{10.7.4.8}{8.4.11.3}{971, 925, 9769}

सू॒क्त॒ऽवा॒क‌म्¦प्र॒थ॒म‌म्¦आत्¦इत्¦अ॒ग्नि‌म्¦आत्¦इत्¦ह॒विः¦अ॒ज॒न॒य॒न्त॒¦दे॒वाः |
सः¦ए॒षा॒‌म्¦य॒ज्ञः¦अ॒भ॒व॒त्¦त॒नू॒ऽपाः¦त‌म्¦द्यौः¦वे॒द॒¦त‌म्¦पृ॒थि॒वी¦त‌म्¦आपः॑ ||

यं दे॒वासोऽज॑नयन्ता॒ग्निं यस्मि॒न्नाजु॑हवु॒र्भुव॑नानि॒ विश्वा᳚ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

सो, अ॒र्चिषा᳚ पृथि॒वीं द्यामु॒तेमामृ॑जू॒यमा᳚नो, अतपन्महि॒त्वा ||{9/19}{10.88.9}{10.7.4.9}{8.4.11.4}{972, 925, 9770}

य‌म्¦दे॒वासः॑¦अज॑नयन्त¦अ॒ग्नि‌म्¦यस्मि॑न्¦आ¦अजु॑हवुः¦भुव॑नानि¦विश्वा᳚ |
सः¦अ॒र्चिषा᳚¦पृ॒थि॒वी‌म्¦द्या‌म्¦उ॒त¦इ॒मा‌म्¦ऋ॒जु॒ऽयमा᳚नः¦अ॒त॒प॒त्¦म॒हि॒ऽत्वा ||

स्तोमे᳚न॒ हि दि॒वि दे॒वासो᳚, अ॒ग्निमजी᳚जन॒ञ्छक्ति॑भी रोदसि॒प्राम् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

तमू᳚, अकृण्वन्त्रे॒धा भु॒वे कं स ओष॑धीः पचति वि॒श्वरू᳚पाः ||{10/19}{10.88.10}{10.7.4.10}{8.4.11.5}{973, 925, 9771}

स्तोमे᳚न¦हि¦दि॒वि¦दे॒वासः॑¦अ॒ग्नि‌म्¦अजी᳚जनन्¦शक्ति॑ऽभिः¦रो॒द॒सि॒ऽप्रा‌म् |
त‌म्¦ऊँ॒ इति॑¦अ॒कृ॒ण्व॒न्¦त्रे॒धा¦भु॒वे¦क‌म्¦सः¦ओष॑धीः¦प॒च॒ति॒¦वि॒श्वऽरू᳚पाः ||

य॒देदे᳚न॒मद॑धुर्य॒ज्ञिया᳚सो दि॒वि दे॒वाः सूर्य॑मादिते॒यम् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

य॒दा च॑रि॒ष्णू मि॑थु॒नावभू᳚ता॒मादित्प्राप॑श्य॒न्‌ भुव॑नानि॒ विश्वा᳚ ||{11/19}{10.88.11}{10.7.4.11}{8.4.12.1}{974, 925, 9772}

य॒दा¦इत्¦ए॒न॒‌म्¦अद॑धुः¦य॒ज्ञिया᳚सः¦दि॒वि¦दे॒वाः¦सूर्य᳚‌म्¦आ॒दि॒ते॒य‌म् |
य॒दा¦च॒रि॒ष्णू इति॑¦मि॒थु॒नौ¦अभू᳚ता‌म्¦आत्¦इत्¦प्र¦अ॒प॒श्य॒न्¦भुव॑नानि¦विश्वा᳚ ||

विश्व॑स्मा, अ॒ग्निं भुव॑नाय दे॒वा वै᳚श्वान॒रं के॒तुमह्ना᳚मकृण्वन् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

आ यस्त॒तानो॒षसो᳚ विभा॒तीरपो᳚, ऊर्णोति॒ तमो᳚, अ॒र्चिषा॒ यन् ||{12/19}{10.88.12}{10.7.4.12}{8.4.12.2}{975, 925, 9773}

विश्व॑स्मै¦अ॒ग्नि‌म्¦भुव॑नाय¦दे॒वाः¦वै॒श्वा॒न॒र‌म्¦के॒तु‌म्¦अह्ना᳚‌म्¦अ॒कृ॒ण्व॒न् |
आ¦यः¦त॒तान॑¦उ॒षसः॑¦वि॒ऽभा॒तीः¦अपो॒ इति॑¦ऊ॒र्णो॒ति॒¦तमः॑¦अ॒र्चिषा᳚¦यन् ||

वै॒श्वा॒न॒रं क॒वयो᳚ य॒ज्ञिया᳚सो॒ऽग्निं दे॒वा, अ॑जनयन्नजु॒र्यम् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

नक्ष॑त्रं प्र॒त्नममि॑नच्चरि॒ष्णु य॒क्षस्याध्य॑क्षं तवि॒षं बृ॒हन्त᳚म् ||{13/19}{10.88.13}{10.7.4.13}{8.4.12.3}{976, 925, 9774}

वै॒श्वा॒न॒र‌म्¦क॒वयः॑¦य॒ज्ञियाः᳚¦अ॒ग्नि‌म्¦दे॒वाः¦अ॒ज॒न॒य॒न्¦अ॒जु॒र्य‌म् |
नक्ष॑त्र‌म्¦प्र॒त्न‌म्¦अमि॑नत्¦च॒रि॒ष्णु¦य॒क्षस्य॑¦अधि॑।आक्ष‌म्¦त॒वि॒ष‌म्¦बृ॒हन्त᳚‌म् ||

वै॒श्वा॒न॒रं वि॒श्वहा᳚ दीदि॒वांसं॒ मन्त्रै᳚र॒ग्निं क॒विमच्छा᳚ वदामः |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

यो म॑हि॒म्ना प॑रिब॒भूवो॒र्वी, उ॒तावस्ता᳚दु॒त दे॒वः प॒रस्ता᳚त् ||{14/19}{10.88.14}{10.7.4.14}{8.4.12.4}{977, 925, 9775}

वै॒श्वा॒न॒र‌म्¦वि॒श्वहा᳚¦दी॒दि॒ऽवांस᳚‌म्¦मन्त्रैः᳚¦अ॒ग्नि‌म्¦क॒वि‌म्¦अच्छ॑¦व॒दा॒मः॒ |
यः¦म॒हि॒म्ना¦प॒रि॒ऽब॒भूव॑¦उ॒र्वी इति॑¦उ॒त¦अ॒वस्ता᳚त्¦उ॒त¦दे॒वः¦प॒रस्ता᳚त् ||

द्वे स्रु॒ती, अ॑शृणवं पितॄ॒णाम॒हं दे॒वाना᳚मु॒त मर्त्या᳚नाम् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

ताभ्या᳚मि॒दं विश्व॒मेज॒त्समे᳚ति॒ यद᳚न्त॒रा पि॒तरं᳚ मा॒तरं᳚ च ||{15/19}{10.88.15}{10.7.4.15}{8.4.12.5}{978, 925, 9776}

द्वे इति॑¦स्रु॒ती इति॑¦अ॒शृ॒ण॒व॒‌म्¦पि॒तॄ॒णा‌म्¦अ॒ह‌म्¦दे॒वाना᳚‌म्¦उ॒त¦मर्त्या᳚ना‌म् |
ताभ्या᳚‌म्¦इ॒द‌म्¦विश्व᳚‌म्¦एज॑त्¦स‌म्¦ए॒ति॒¦यत्¦अ॒न्त॒रा¦पि॒तर᳚‌म्¦मा॒तर᳚‌म्¦च॒ ||

द्वे स॑मी॒ची बि॑भृत॒श्चर᳚न्तं शीर्ष॒तो जा॒तं मन॑सा॒ विमृ॑ष्टम् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

स प्र॒त्यङ्विश्वा॒ भुव॑नानि तस्था॒वप्र॑युच्छन्त॒रणि॒र्भ्राज॑मानः ||{16/19}{10.88.16}{10.7.4.16}{8.4.13.1}{979, 925, 9777}

द्वे इति॑¦स॒मी॒ची इति॑ स‌म्ऽई॒ची¦बि॒भृ॒तः॒¦चर᳚न्त‌म्¦शी॒र्ष॒तः¦जा॒त‌म्¦मन॑सा¦विऽमृ॑ष्ट‌म् |
सः¦प्र॒त्यङ्¦विश्वा᳚¦भुव॑नानि¦त॒स्थौ॒¦अप्र॑ऽयुच्छन्¦त॒रणिः॑¦भ्राज॑मानः ||

यत्रा॒ वदे᳚ते॒, अव॑रः॒ पर॑श्च यज्ञ॒न्योः᳚ कत॒रो नौ॒ वि वे᳚द |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

आ शे᳚कु॒रित्स॑ध॒मादं॒ सखा᳚यो॒ नक्ष᳚न्त य॒ज्ञं क इ॒दं वि वो᳚चत् ||{17/19}{10.88.17}{10.7.4.17}{8.4.13.2}{980, 925, 9778}

यत्र॑¦वदे᳚ते॒ इति॑¦अव॑रः¦परः॑¦च॒¦य॒ज्ञ॒ऽन्योः᳚¦क॒त॒रः¦नौ॒¦वि¦वे॒द॒ |
आ¦शे॒कुः॒¦इत्¦स॒ध॒ऽमाद᳚‌म्¦सखा᳚यः¦नक्ष᳚न्त¦य॒ज्ञ‌म्¦कः¦इ॒द‌म्¦वि¦वो॒च॒त् ||

कत्य॒ग्नयः॒ कति॒ सूर्या᳚सः॒ कत्यु॒षासः॒ कत्यु॑ स्वि॒दापः॑ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

नोप॒स्पिजं᳚ वः पितरो वदामि पृ॒च्छामि॑ वः कवयो वि॒द्मने॒ कम् ||{18/19}{10.88.18}{10.7.4.18}{8.4.13.3}{981, 925, 9779}

कति॑¦अ॒ग्नयः॑¦कति॑¦सूर्या᳚सः¦कति॑¦उ॒षसः॑¦कति॑¦ऊँ॒ इति॑¦स्वि॒त्¦आपः॑ |
न¦उ॒प॒ऽस्पिज᳚‌म्¦वः॒¦पि॒त॒रः॒¦व॒दा॒मि॒¦पृ॒च्छामि॑¦वः॒¦क॒व॒यः॒¦वि॒द्मने᳚¦क‌म् ||

या॒व॒न्मा॒त्रमु॒षसो॒ न प्रती᳚कं सुप॒र्ण्यो॒३॑(ओ॒) वस॑ते मातरिश्वः |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

ताव॑द्दधा॒त्युप॑ य॒ज्ञमा॒यन्‌ ब्रा᳚ह्म॒णो होतु॒रव॑रो नि॒षीद॑न् ||{19/19}{10.88.19}{10.7.4.19}{8.4.13.4}{982, 925, 9780}

या॒व॒त्ऽमा॒त्र‌म्¦उ॒षसः॑¦न¦प्रती᳚क‌म्¦सु॒ऽप॒र्ण्यः॑¦वस॑ते¦मा॒त॒रि॒श्वः॒ |
ताव॑त्¦द॒धा॒ति॒¦उप॑¦य॒ज्ञ‌म्¦आ॒ऽयन्¦ब्रा॒ह्म॒णः¦होतुः॑¦अव॑रः¦नि॒ऽसीद॑न् ||

[89] इंद्रस्तवेत्यष्टादशर्चस्य सूक्तस्य वैश्वामित्रोरेणुरिंद्रः पंचम्याइंद्रासोमौत्रिष्टुप् |
इन्द्रं᳚ स्तवा॒ नृत॑मं॒ यस्य॑ म॒ह्ना वि॑बबा॒धे रो᳚च॒ना वि ज्मो, अन्ता॑न् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

आ यः प॒प्रौ च॑र्षणी॒धृद्वरो᳚भिः॒ प्र सिन्धु॑भ्यो रिरिचा॒नो म॑हि॒त्वा ||{1/18}{10.89.1}{10.7.5.1}{8.4.14.1}{983, 926, 9781}

इन्द्र᳚‌म्¦स्त॒व॒¦नृऽत॑म‌म्¦यस्य॑¦म॒ह्ना¦वि॒ऽब॒बा॒धे¦रो॒च॒ना¦वि¦ज्मः¦अन्ता॑न् |
आ¦यः¦प॒प्रौ¦च॒र्ष॒णि॒ऽधृत्¦वरः॑ऽभिः¦प्र¦सिन्धु॑ऽभ्यः¦रि॒रि॒चा॒नः¦म॒हि॒ऽत्वा ||

स सूर्यः॒ पर्यु॒रू वरां॒स्येन्द्रो᳚ ववृत्या॒द्रथ्ये᳚व च॒क्रा |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

अति॑ष्ठन्तमप॒स्य१॑(अं॒) न सर्गं᳚ कृ॒ष्णा तमां᳚सि॒ त्विष्या᳚ जघान ||{2/18}{10.89.2}{10.7.5.2}{8.4.14.2}{984, 926, 9782}

सः¦सूर्यः॑¦परि॑¦उ॒रु¦वरां᳚सि¦आ¦इन्द्रः॑¦व॒वृ॒त्या॒त्¦रथ्या᳚ऽ‌इव¦च॒क्रा |
अति॑ष्ठन्त‌म्¦अ॒प॒स्य᳚‌म्¦न¦सर्ग᳚‌म्¦कृ॒ष्णा¦तमां᳚सि¦त्विष्या᳚¦ज॒घा॒न॒ ||

स॒मा॒नम॑स्मा॒, अन॑पावृदर्च क्ष्म॒या दि॒वो, अस॑मं॒ ब्रह्म॒ नव्य᳚म् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

वि यः पृ॒ष्ठेव॒ जनि॑मान्य॒र्य इन्द्र॑श्चि॒काय॒ न सखा᳚यमी॒षे ||{3/18}{10.89.3}{10.7.5.3}{8.4.14.3}{985, 926, 9783}

स॒मा॒न‌म्¦अ॒स्मै॒¦अन॑पऽवृत्¦अ॒र्च॒¦क्ष्म॒या¦दि॒वः¦अस॑म‌म्¦ब्रह्म॑¦नव्य᳚‌म् |
वि¦यः¦पृ॒ष्ठाऽ‌इ᳚व¦जनि॑मानि¦अ॒र्यः¦इन्द्रः॑¦चि॒काय॑¦न¦सखा᳚य‌म्¦ई॒षे ||

इन्द्रा᳚य॒ गिरो॒, अनि॑शितसर्गा, अ॒पः प्रेर॑यं॒ सग॑रस्य बु॒ध्नात् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

यो, अक्षे᳚णेव च॒क्रिया॒ शची᳚भि॒र्विष्व॑क्त॒स्तम्भ॑ पृथि॒वीमु॒त द्याम् ||{4/18}{10.89.4}{10.7.5.4}{8.4.14.4}{986, 926, 9784}

इन्द्रा᳚य¦गिरः॑¦अनि॑शितऽसर्गाः¦अ॒पः¦प्र¦ई॒र॒य॒‌म्¦सग॑रस्य¦बु॒ध्नात् |
यः¦अक्षे᳚णऽ‌इव¦च॒क्रिया᳚¦शची᳚भिः¦विष्व॑क्¦त॒स्तम्भ॑¦पृ॒थि॒वी‌म्¦उ॒त¦द्या‌म् ||

आपा᳚न्तमन्युस्तृ॒पल॑प्रभर्मा॒ धुनिः॒ शिमी᳚वा॒ञ्छरु॑माँ, ऋजी॒षी |{वैश्वामित्रो रेणुः | इन्द्रासोमौ | त्रिष्टुप्}

सोमो॒ विश्वा᳚न्यत॒सा वना᳚नि॒ नार्वागिन्द्रं᳚ प्रति॒माना᳚नि देभुः ||{5/18}{10.89.5}{10.7.5.5}{8.4.14.5}{987, 926, 9785}

आपा᳚न्तऽमन्युः¦तृ॒पल॑ऽप्रभर्मा¦धुनिः॑¦शिमी᳚ऽवान्¦शरु॑ऽमान्¦ऋ॒जी॒षी |
सोमः॑¦विश्वा᳚नि¦अ॒त॒सा¦वना᳚नि¦न¦अ॒र्वाक्¦इन्द्र᳚‌म्¦प्र॒ति॒ऽमाना᳚नि¦दे॒भुः॒ ||

न यस्य॒ द्यावा᳚पृथि॒वी न धन्व॒ नान्तरि॑क्षं॒ नाद्र॑यः॒ सोमो᳚, अक्षाः |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

यद॑स्य म॒न्युर॑धिनी॒यमा᳚नः शृ॒णाति॑ वी॒ळु रु॒जति॑ स्थि॒राणि॑ ||{6/18}{10.89.6}{10.7.5.6}{8.4.15.1}{988, 926, 9786}

न¦यस्य॑¦द्यावा᳚पृथि॒वी इति॑¦न¦धन्व॑¦न¦अ॒न्तरि॑क्ष‌म्¦न¦अद्र॑यः¦सोमः॑¦अ॒क्षा॒रिति॑ |
यत्¦अ॒स्य॒¦म॒न्युः¦अ॒धि॒ऽनी॒यमा᳚नः¦शृ॒णाति॑¦वी॒ळु¦रु॒जति॑¦स्थि॒राणि॑ ||

ज॒घान॑ वृ॒त्रं स्वधि॑ति॒र्वने᳚व रु॒रोज॒ पुरो॒, अर॑द॒न्न सिन्धू॑न् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

बि॒भेद॑ गि॒रिं नव॒मिन्न कु॒म्भमा गा, इन्द्रो᳚, अकृणुत स्व॒युग्भिः॑ ||{7/18}{10.89.7}{10.7.5.7}{8.4.15.2}{989, 926, 9787}

ज॒घान॑¦वृ॒त्र‌म्¦स्वऽधि॑तिः¦वना᳚ऽ‌इव¦रु॒रोज॑¦पुरः॑¦अर॑दत्¦न¦सिन्धू॑न् |
बि॒भेद॑¦गि॒रि‌म्¦नव᳚‌म्¦इत्¦न¦कु॒म्भ‌म्¦आ¦गाः¦इन्द्रः॑¦अ॒कृ॒णु॒त॒¦स्व॒युक्ऽभिः॑ ||

त्वं ह॒ त्यदृ॑ण॒या, इ᳚न्द्र॒ धीरो॒ऽसिर्न पर्व॑ वृजि॒ना शृ॑णासि |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

प्र ये मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ युजं॒ न जना᳚ मि॒नन्ति॑ मि॒त्रम् ||{8/18}{10.89.8}{10.7.5.8}{8.4.15.3}{990, 926, 9788}

त्व‌म्¦ह॒¦त्यत्¦ऋ॒ण॒ऽयाः¦इ॒न्द्र॒¦धीरः॑¦अ॒सिः¦न¦पर्व॑¦वृ॒जि॒ना¦शृ॒णा॒सि॒ |
प्र¦ये¦मि॒त्रस्य॑¦वरु॑णस्य¦धाम॑¦युज᳚‌म्¦न¦जनाः᳚¦मि॒नन्ति॑¦मि॒त्र‌म् ||

प्र ये मि॒त्रं प्रार्य॒मणं᳚ दु॒रेवाः॒ प्र सं॒गिरः॒ प्र वरु॑णं मि॒नन्ति॑ |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

न्य१॑(अ॒)मित्रे᳚षु व॒धमि᳚न्द्र॒ तुम्रं॒ वृष॒न्‌ वृषा᳚णमरु॒षं शि॑शीहि ||{9/18}{10.89.9}{10.7.5.9}{8.4.15.4}{991, 926, 9789}

प्र¦ये¦मि॒त्र‌म्¦प्र¦अ॒र्य॒मण᳚‌म्¦दुः॒ऽएवाः᳚¦प्र¦स॒‌म्ऽगिरः॑¦प्र¦वरु॑ण‌म्¦मि॒नन्ति॑ |
नि¦अ॒मित्रे᳚षु¦व॒ध‌म्¦इ॒न्द्र॒¦तुम्र᳚‌म्¦वृष॑न्¦वृषा᳚ण‌म्¦अ॒रु॒ष‌म्¦शि॒शी॒हि॒ ||

इन्द्रो᳚ दि॒व इन्द्र॑ ईशे पृथि॒व्या, इन्द्रो᳚, अ॒पामिन्द्र॒ इत्पर्व॑तानाम् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

इन्द्रो᳚ वृ॒धामिन्द्र॒ इन्मेधि॑राणा॒मिन्द्रः॒, क्षेमे॒ योगे॒ हव्य॒ इन्द्रः॑ ||{10/18}{10.89.10}{10.7.5.10}{8.4.15.5}{992, 926, 9790}

इन्द्रः॑¦दि॒वः¦इन्द्रः॑¦ई॒शे॒¦पृ॒थि॒व्याः¦इन्द्रः॑¦अ॒पा‌म्¦इन्द्रः॑¦इत्¦पर्व॑ताना‌म् |
इन्द्रः॑¦वृ॒धा‌म्¦इन्द्रः॑¦इत्¦मेधि॑राणा‌म्¦इन्द्रः॑¦क्षेमे᳚¦योगे᳚¦हव्यः॑¦इन्द्रः॑ ||

प्राक्तुभ्य॒ इन्द्रः॒ प्र वृ॒धो, अह॑भ्यः॒ प्रान्तरि॑क्षा॒त्प्र स॑मु॒द्रस्य॑ धा॒सेः |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

प्र वात॑स्य॒ प्रथ॑सः॒ प्र ज्मो, अन्ता॒त्प्र सिन्धु॑भ्यो रिरिचे॒ प्र क्षि॒तिभ्यः॑ ||{11/18}{10.89.11}{10.7.5.11}{8.4.16.1}{993, 926, 9791}

प्र¦अ॒क्तुऽभ्यः॑¦इन्द्रः॑¦प्र¦वृ॒धः¦अह॑ऽभ्यः¦प्र¦अ॒न्तरि॑क्षात्¦प्र¦स॒मु॒द्रस्य॑¦धा॒सेः |
प्र¦वात॑स्य¦प्रथ॑सः¦प्र¦ज्मः¦अन्ता᳚त्¦प्र¦सिन्धु॑ऽभ्यः¦रि॒रि॒चे॒¦प्र¦क्षि॒तिऽभ्यः॑ ||

प्र शोशु॑चत्या, उ॒षसो॒ न के॒तुर॑सि॒न्वा ते᳚ वर्ततामिन्द्र हे॒तिः |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

अश्मे᳚व विध्य दि॒व आ सृ॑जा॒नस्तपि॑ष्ठेन॒ हेष॑सा॒ द्रोघ॑मित्रान् ||{12/18}{10.89.12}{10.7.5.12}{8.4.16.2}{994, 926, 9792}

प्र¦शोशु॑चत्याः¦उ॒षसः॑¦न¦के॒तुः¦अ॒सि॒न्वा¦ते॒¦व॒र्त॒ता॒‌म्¦इ॒न्द्र॒¦हे॒तिः |
अश्मा᳚ऽ‌इव¦वि॒ध्य॒¦दि॒वः¦आ¦सृ॒जा॒नः¦तपि॑ष्ठेन¦हेष॑सा¦द्रोघ॑ऽमित्रान् ||

अन्वह॒ मासा॒, अन्‌ विद्वना॒न्यन्वोष॑धी॒रनु॒ पर्व॑तासः |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

अन्‌ विन्द्रं॒ रोद॑सी वावशा॒ने, अन्वापो᳚, अजिहत॒ जाय॑मानम् ||{13/18}{10.89.13}{10.7.5.13}{8.4.16.3}{995, 926, 9793}

अनु॑¦अह॑¦मासाः᳚¦अनु॑¦इत्¦वना᳚नि¦अनु॑¦ओष॑धीः¦अनु॑¦पर्व॑तासः |
अनु॑¦इन्द्र᳚‌म्¦रोद॑सी॒ इति॑¦वा॒व॒शा॒ने इति॑¦अनु॑¦आपः॑¦अ॒जि॒ह॒त॒¦जाय॑मान‌म् ||

कर्हि॑ स्वि॒त्सा त॑ इन्द्र चे॒त्यास॑द॒घस्य॒ यद्भि॒नदो॒ रक्ष॒ एष॑त् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

मि॒त्र॒क्रुवो॒ यच्छस॑ने॒ न गावः॑ पृथि॒व्या, आ॒पृग॑मु॒या शय᳚न्ते ||{14/18}{10.89.14}{10.7.5.14}{8.4.16.4}{996, 926, 9794}

कर्हि॑¦स्वि॒त्¦सा¦ते॒¦इ॒न्द्र॒¦चे॒त्या¦अ॒स॒त्¦अ॒घस्य॑¦यत्¦भि॒नदः॑¦रक्षः॑¦आ॒ऽईष॑त् |
मि॒त्र॒ऽक्रुवः॑¦यत्¦शस॑ने¦न¦गावः॑¦पृ॒थि॒व्याः¦आ॒ऽपृक्¦अ॒मु॒या¦शय᳚न्ते ||

श॒त्रू॒यन्तो᳚, अ॒भि ये न॑स्तत॒स्रे महि॒ व्राध᳚न्त ओग॒णास॑ इन्द्र |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

अ॒न्धेना॒मित्रा॒स्तम॑सा सचन्तां सुज्यो॒तिषो᳚, अ॒क्तव॒स्ताँ, अ॒भि ष्युः॑ ||{15/18}{10.89.15}{10.7.5.15}{8.4.16.5}{997, 926, 9795}

श॒त्रु॒ऽयन्तः॑¦अ॒भि¦ये¦नः॒¦त॒त॒स्रे¦महि॑¦व्राध᳚न्तः¦ओ॒ग॒णासः॑¦इ॒न्द्र॒ |
अ॒न्धेन॑¦अ॒मित्राः᳚¦तम॑सा¦स॒च॒न्ता॒‌म्¦सु॒ऽज्यो॒तिषः॑¦अ॒क्तवः॑¦तान्¦अ॒भि¦स्यु॒रिति॑ स्युः ||

पु॒रूणि॒ हि त्वा॒ सव॑ना॒ जना᳚नां॒ ब्रह्मा᳚णि॒ मन्द॑न्‌ गृण॒तामृषी᳚णाम् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

इ॒मामा॒घोष॒न्नव॑सा॒ सहू᳚तिं ति॒रो विश्वाँ॒, अर्च॑तो याह्य॒र्वाङ् ||{16/18}{10.89.16}{10.7.5.16}{8.4.16.6}{998, 926, 9796}

पु॒रूणि॑¦हि¦त्वा॒¦सव॑ना¦जना᳚ना‌म्¦ब्रह्मा᳚णि¦मन्द॑न्¦गृ॒ण॒ता‌म्¦ऋषी᳚णा‌म् |
इ॒मा‌म्¦आ॒ऽघोष॑न्¦अव॑सा¦सऽहू᳚ति‌म्¦ति॒रः¦विश्वा᳚न्¦अर्च॑तः¦या॒हि॒¦अ॒र्वाङ् ||

ए॒वा ते᳚ व॒यमि᳚न्द्र भुञ्जती॒नां वि॒द्याम॑ सुमती॒नां नवा᳚नाम् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो᳚ वि॒श्वामि॑त्रा, उ॒त त॑ इन्द्र नू॒नम् ||{17/18}{10.89.17}{10.7.5.17}{8.4.16.7}{999, 926, 9797}

ए॒व¦ते॒¦व॒य‌म्¦इ॒न्द्र॒¦भुं॒ज॒ती॒ना‌म्¦वि॒द्याम॑¦सु॒ऽम॒ती॒ना‌म्¦नवा᳚ना‌म् |
वि॒द्याम॑¦वस्तोः᳚¦अव॑सा¦गृ॒णन्तः॑¦वि॒श्वामि॑त्राः¦उ॒त¦ते॒¦इ॒न्द्र॒¦नू॒न‌म् ||

शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌ भरे॒ नृत॑मं॒ वाज॑सातौ |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{18/18}{10.89.18}{10.7.5.18}{8.4.16.8}{1000, 926, 9798}

शु॒न‌म्¦हु॒वे॒म॒¦म॒घऽवा᳚न‌म्¦इन्द्र᳚‌म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑म‌म्¦वाज॑ऽसातौ |
शृ॒ण्वन्त᳚‌म्¦उ॒ग्र‌म्¦ऊ॒तये᳚¦स॒मत्ऽसु॑¦घ्नन्त᳚‌म्¦वृ॒त्राणि॑¦स॒‌म्ऽजित᳚‌म्¦धना᳚ना‌म् ||

[90] सहस्रशीर्षेति षोळशर्चस्य सूक्तस्य नारायणः पुरुषोनुष्टुबंत्यात्रिष्टुप् |
स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् |{नारायणः | पुरुषः | अनुष्टुप्}

स भूमिं᳚ वि॒श्वतो᳚ वृ॒त्वाऽत्य॑तिष्ठद्दशाङ्गु॒लम् ||{1/16}{10.90.1}{10.7.6.1}{8.4.17.1}{1001, 927, 9799}

स॒हस्र॑ऽशीर्षा¦पुरु॑षः¦स॒ह॒स्र॒।आ॒क्षः¦स॒हस्र॑ऽपात् | सः¦भूमि᳚‌म्¦वि॒श्वतः॑¦वृ॒त्वा¦अति॑¦अ॒ति॒ष्ठ॒त्¦द॒श॒।आ॒ङ्गु॒ल‌म् ||

पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॒ भव्य᳚म् |{नारायणः | पुरुषः | अनुष्टुप्}

उ॒तामृ॑त॒त्वस्येशा᳚नो॒ यदन्ने᳚नाति॒रोह॑ति ||{2/16}{10.90.2}{10.7.6.2}{8.4.17.2}{1002, 927, 9800}

पुरु॑षः¦ए॒व¦इ॒द‌म्¦सर्व᳚‌म्¦यत्¦भू॒त‌म्¦यत्¦च॒¦भव्य᳚‌म् | उ॒त¦अ॒मृ॒त॒ऽत्वस्य॑¦ईशा᳚नः¦यत्¦अन्ने᳚न¦अ॒ति॒ऽरोह॑ति ||

ए॒तावा᳚नस्य महि॒माऽतो॒ ज्यायाँ᳚श्च॒ पूरु॑षः |{नारायणः | पुरुषः | अनुष्टुप्}

पादो᳚ऽस्य॒ विश्वा᳚ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं᳚ दि॒वि ||{3/16}{10.90.3}{10.7.6.3}{8.4.17.3}{1003, 927, 9801}

ए॒तावा᳚न्¦अ॒स्य॒¦म॒हि॒मा¦अतः॑¦ज्याया᳚न्¦च॒¦पुरु॑षः | पादः॑¦अ॒स्य॒¦विश्वा᳚¦भू॒तानि॑¦त्रि॒ऽपात्¦अ॒स्य॒¦अ॒मृत᳚‌म्¦दि॒वि ||

त्रि॒पादू॒र्ध्व उदै॒त्‌ पुरु॑षः॒ पादो᳚ऽस्ये॒हाभ॑व॒त्‌ पुनः॑ |{नारायणः | पुरुषः | अनुष्टुप्}

ततो॒ विष्व॒ङ्‌ व्य॑क्रामत् साशनानश॒ने, अ॒भि ||{4/16}{10.90.4}{10.7.6.4}{8.4.17.4}{1004, 927, 9802}

त्रि॒ऽपात्¦ऊ॒र्ध्व¦उत्¦ऐ॒त्¦पुरु॑षः¦पादः॑¦अ॒स्य॒¦इ॒ह¦अ॒भ॒व॒त्¦पुन॒रिति॑ | ततः॑¦विष्व᳚ङ्¦वि¦अ॒क्रा॒म॒त्¦सा॒श॒ना॒न॒श॒ने इति॑¦अ॒भि ||

तस्मा᳚द्वि॒राळ॑जायत वि॒राजो॒, अधि॒ पूरु॑षः |{नारायणः | पुरुषः | अनुष्टुप्}

स जा॒तो, अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो᳚ पु॒रः ||{5/16}{10.90.5}{10.7.6.5}{8.4.17.5}{1005, 927, 9803}

तस्मा᳚त्¦वि॒राट्¦अ॒जा॒य॒त॒¦वि॒ऽराजः॑¦अधि॑¦पुरु॑षः | सः¦जा॒तः¦अति॑¦अ॒रि॒च्य॒त॒¦प॒श्चात्¦भूमि᳚‌म्¦अथो॒ इति॑¦पु॒रः ||

यत्‌ पुरु॑षेण ह॒विषा᳚ दे॒वा य॒ज्ञमत᳚न्वत |{नारायणः | पुरुषः | अनुष्टुप्}

व॒स॒न्तो, अ॑स्यासी॒दाज्यं᳚ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ||{6/16}{10.90.6}{10.7.6.6}{8.4.18.1}{1006, 927, 9804}

यत्¦पुरु॑षेण¦ह॒विषा᳚¦दे॒वाः¦य॒ज्ञ‌म्¦अत᳚न्वत | व॒स॒न्तः¦अ॒स्य॒¦आ॒सी॒त्¦आज्य᳚‌म्¦ग्री॒ष्मः¦इ॒द्मः¦श॒रत्¦ह॒विः ||

तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॒न् पुरु॑षं जा॒तम॑ग्र॒तः |{नारायणः | पुरुषः | अनुष्टुप्}

तेन॑ दे॒वा, अ॑यजन्त सा॒ध्या, ऋष॑यश्च॒ ये ||{7/16}{10.90.7}{10.7.6.7}{8.4.18.2}{1007, 927, 9805}

त‌म्¦य॒ज्ञ‌म्¦ब॒र्हिषि॑¦प्र¦औ॒क्ष॒न्¦पुरु॑ष‌म्¦जा॒त‌म्¦अ॒ग्र॒तः | तेन॑¦दे॒वाः¦अ॒य॒ज॒न्त॒¦सा॒ध्याः¦ऋष॑यः¦च॒¦ये ||

तस्मा᳚द्य॒ज्ञात्‌ स᳚र्व॒हुतः॒ सम्भृ॑तं पृषदा॒ज्यम् |{नारायणः | पुरुषः | अनुष्टुप्}

प॒शून्‌ ताँश्च॑क्रे वाय॒व्या᳚नार॒ण्यान्‌ ग्रा॒म्याश्च॒ ये ||{8/16}{10.90.8}{10.7.6.8}{8.4.18.3}{1008, 927, 9806}

तस्मा᳚त्¦य॒ज्ञात्¦स॒र्व॒ऽहुतः॑¦स‌म्ऽभृ॑त‌म्¦पृ॒ष॒त्ऽआ॒ज्य‌म् | प॒शून्¦तान्¦च॒क्रे॒¦वा॒य॒व्या᳚न्¦आ॒र॒ण्यान्¦ग्रा॒म्याः¦च॒¦ये ||

तस्मा᳚द्य॒ज्ञात्‌ स᳚र्व॒हुत॒ ऋचः॒ सामा᳚नि जज्ञिरे |{नारायणः | पुरुषः | अनुष्टुप्}

छन्दां᳚सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा᳚दजायत ||{9/16}{10.90.9}{10.7.6.9}{8.4.18.4}{1009, 927, 9807}

तस्मा᳚त्¦य॒ज्ञात्¦स॒र्व॒ऽहुतः॑¦ऋचः॑¦सामा᳚नि¦ज॒ज्ञि॒रे॒ | छन्दां᳚सि¦ज॒ज्ञि॒रे॒¦तस्मा᳚त्¦यजुः॑¦तस्मा᳚त्¦अ॒जा॒य॒त॒ ||

तस्मा॒दश्वा᳚, अजायन्त॒ ये के चो᳚भ॒याद॑तः |{नारायणः | पुरुषः | अनुष्टुप्}

गावो᳚ ह जज्ञिरे॒ तस्मा॒त् तस्मा᳚ज्जा॒ता, अ॑जा॒वयः॑ ||{10/16}{10.90.10}{10.7.6.10}{8.4.18.5}{1010, 927, 9808}

तस्मा᳚त्¦अश्वाः᳚¦अ॒जा॒य॒न्त॒¦ये¦के¦च॒¦उ॒भ॒याद॑तः | गावः॑¦ह॒¦ज॒ज्ञि॒रे॒¦तस्मा᳚त्¦तस्मा᳚त्¦जा॒ताः¦अ॒जा॒वयः॑ ||

यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् |{नारायणः | पुरुषः | अनुष्टुप्}

मुखं॒ किम॑स्य॒ कौ बा॒हू का, ऊ॒रू पादा᳚, उच्येते ||{11/16}{10.90.11}{10.7.6.11}{8.4.19.1}{1011, 927, 9809}

यत्¦पुरु॑ष‌म्¦वि¦अद॑धुः¦क॒ति॒धा¦वि¦अ॒क॒ल्प॒य॒न् | मुख᳚‌म्¦कि‌म्¦अ॒स्य॒¦कौ¦बा॒हू इति॑¦कौ¦ऊ॒रू इति॑¦पादौ᳚¦उ॒च्ये॒ते॒ इति॑ ||

ब्रा॒ह्म॒णो᳚ स्य॒ मुख॑मासीद्बा॒हू रा᳚ज॒न्यः॑ कृ॒तः |{नारायणः | पुरुषः | अनुष्टुप्}

ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्यां शू॒द्रो, अ॑जायत ||{12/16}{10.90.12}{10.7.6.12}{8.4.19.2}{1012, 927, 9810}

ब्रा॒ह्म॒णः¦अ॒स्य॒¦मुख᳚‌म्¦आ॒सी॒त्¦बा॒हू इति॑¦रा॒ज॒न्यः॑¦कृ॒तः | ऊ॒रू इति॑¦तत्¦अ॒स्य॒¦यत्¦वैश्यः॑¦प॒त्ऽभ्या‌म्¦शू॒द्रः¦अ॒जा॒य॒त॒ ||

च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो᳚, अजायत |{नारायणः | पुरुषः | अनुष्टुप्}

मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत ||{13/16}{10.90.13}{10.7.6.13}{8.4.19.3}{1013, 927, 9811}

च॒न्द्रमाः᳚¦मन॑सः¦जा॒तः¦चक्षोः᳚¦सूर्यः॑¦अ॒जा॒य॒त॒ | मुखा᳚त्¦इन्द्रः॑¦च॒¦अ॒ग्निः¦च॒¦प्रा॒णात्¦वा॒युः¦अ॒जा॒य॒त॒ ||

नाभ्या᳚, आसीद॒न्तरि॑क्षं शी॒र्ष्णो द्यौः सम॑वर्तत |{नारायणः | पुरुषः | अनुष्टुप्}

प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॒त् तथा᳚ लो॒काँ, अ॑कल्पयन् ||{14/16}{10.90.14}{10.7.6.14}{8.4.19.4}{1014, 927, 9812}

नाभ्याः᳚¦आ॒सी॒त्¦अ॒न्तरि॑क्ष‌म्¦शी॒र्ष्णः¦द्यौः¦स‌म्¦अ॒व॒र्त॒त॒ | प॒त्ऽभ्या‌म्¦भूमिः॑¦दिशः॑¦श्रोत्रा᳚त्¦तथा᳚¦लो॒कान्¦अ॒क॒ल्प॒य॒न् ||

स॒प्तास्या᳚सन्‌ परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः |{नारायणः | पुरुषः | अनुष्टुप्}

दे॒वा यद्य॒ज्ञं त᳚न्वा॒ना, अब॑ध्न॒न्‌ पुरु॑षं प॒शुम् ||{15/16}{10.90.15}{10.7.6.15}{8.4.19.5}{1015, 927, 9813}

स॒प्त¦अ॒स्य॒¦आ॒स॒न्¦प॒रि॒ऽधयः॑¦त्रिः¦स॒प्त¦स॒‌म्ऽ‌इधः॑¦कृ॒ताः | दे॒वाः¦यत्¦य॒ज्ञ‌म्¦त॒न्वा॒नाः¦अब॑ध्नन्¦पुरु॑ष‌म्¦प॒शु‌म् ||

य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा᳚णि प्रथ॒मान्या᳚सन् |{नारायणः | पुरुषः | त्रिष्टुप्}

ते ह॒ नाकं᳚ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे᳚ सा॒ध्याः सन्ति॑ दे॒वाः ||{16/16}{10.90.16}{10.7.6.16}{8.4.19.6}{1016, 927, 9814}

य॒ज्ञेन॑¦य॒ज्ञ‌म्¦अ॒य॒ज॒न्त॒¦दे॒वाः¦तानि॑¦धर्मा᳚णि¦प्र॒थ॒मानि॑¦आ॒स॒न् |
ते¦ह॒¦नाक᳚‌म्¦म॒हि॒मानः॑¦स॒च॒न्त॒¦यत्र॑¦पूर्वे᳚¦सा॒ध्याः¦सन्ति॑¦दे॒वाः ||

[91] संजागृवद्भिरिति पंचदशर्चस्य सूक्तस्य वैतहव्योरुणोग्निर्जगत्यंयात्रिष्टुप् |
सं जा᳚गृ॒वद्भि॒र्जर॑माण इध्यते॒ दमे॒ दमू᳚ना, इ॒षय᳚न्नि॒ळस्प॒दे |{वैतहव्यो रुणः | अग्निः | जगती}

विश्व॑स्य॒ होता᳚ ह॒विषो॒ वरे᳚ण्यो वि॒भुर्वि॒भावा᳚ सु॒षखा᳚ सखीय॒ते ||{1/15}{10.91.1}{10.8.1.1}{8.4.20.1}{1017, 928, 9815}

स‌म्¦जा॒गृ॒वत्ऽभिः॑¦जर॑माणः¦इ॒द्य॒ते॒¦दमे᳚¦दमू᳚नाः¦इ॒षय॑न्¦इ॒ळः¦प॒दे |
विश्व॑स्य¦होता᳚¦ह॒विषः॑¦वरे᳚ण्यः¦वि॒ऽभुः¦वि॒भाऽवा᳚¦सु॒ऽसखा᳚¦स॒खि॒ऽय॒ते ||

स द॑र्शत॒श्रीरति॑थिर्गृ॒हेगृ॑हे॒ वने᳚वने शिश्रिये तक्व॒वीरि॑व |{वैतहव्यो रुणः | अग्निः | जगती}

जनं᳚जनं॒ जन्यो॒ नाति॑ मन्यते॒ विश॒ आ क्षे᳚ति वि॒श्यो॒३॑(ओ॒) विशं᳚विशम् ||{2/15}{10.91.2}{10.8.1.2}{8.4.20.2}{1018, 928, 9816}

सः¦द॒र्श॒त॒ऽश्रीः¦अति॑थिः¦गृ॒हेऽगृ॑हे¦वने᳚ऽवने¦शि॒श्रि॒ये॒¦त॒क्व॒वीःऽ‌इ᳚व |
जन᳚‌म्ऽजन‌म्¦जन्यः॑¦न¦अति॑¦म॒न्य॒ते॒¦विशः॑¦आ¦क्षे॒ति॒¦वि॒श्यः॑¦विश᳚‌म्ऽविश‌म् ||

सु॒दक्षो॒ दक्षैः॒ क्रतु॑नासि सु॒क्रतु॒रग्ने᳚ क॒विः काव्ये᳚नासि विश्व॒वित् |{वैतहव्यो रुणः | अग्निः | जगती}

वसु॒र्वसू᳚नां क्षयसि॒ त्वमेक॒ इद्द्यावा᳚ च॒ यानि॑ पृथि॒वी च॒ पुष्य॑तः ||{3/15}{10.91.3}{10.8.1.3}{8.4.20.3}{1019, 928, 9817}

सु॒ऽदक्षः॑¦दक्षः॑¦क्रतु॑ना¦अ॒सि॒¦सु॒ऽक्रतुः॑¦अग्ने᳚¦क॒विः¦काव्ये᳚न¦अ॒सि॒¦वि॒श्व॒ऽवित् |
वसुः॑¦वसू᳚ना‌म्¦क्ष॒य॒सि॒¦त्व‌म्¦एकः॑¦इत्¦द्यावा᳚¦च॒¦यानि॑¦पृ॒थि॒वी इति॑¦च॒¦पुष्य॑तः ||

प्र॒जा॒नन्न॑ग्ने॒ तव॒ योनि॑मृ॒त्विय॒मिळा᳚यास्प॒दे घृ॒तव᳚न्त॒मास॑दः |{वैतहव्यो रुणः | अग्निः | जगती}

आ ते᳚ चिकित्र उ॒षसा᳚मि॒वेत॑योऽरे॒पसः॒ सूर्य॑स्येव र॒श्मयः॑ ||{4/15}{10.91.4}{10.8.1.4}{8.4.20.4}{1020, 928, 9818}

प्र॒ऽजा॒नन्¦अ॒ग्ने॒¦तव॑¦योनि᳚‌म्¦ऋ॒त्विय᳚‌म्¦इळा᳚याः¦प॒दे¦घृ॒तऽव᳚न्त‌म्¦आ¦अ॒स॒दः॒ |
आ¦ते॒¦चि॒कि॒त्रे॒¦उ॒षसा᳚‌म्ऽ‌इव¦एत॑यः¦अ॒रे॒पसः॑¦सूर्य॑स्यऽ‌इव¦र॒श्मयः॑ ||

तव॒ श्रियो᳚ व॒र्ष्य॑स्येव वि॒द्युत॑श्चि॒त्राश्चि॑कित्र उ॒षसां॒ न के॒तवः॑ |{वैतहव्यो रुणः | अग्निः | जगती}

यदोष॑धीर॒भिसृ॑ष्टो॒ वना᳚नि च॒ परि॑ स्व॒यं चि॑नु॒षे, अन्न॑मा॒स्ये᳚ ||{5/15}{10.91.5}{10.8.1.5}{8.4.20.5}{1021, 928, 9819}

तव॑¦श्रियः॑¦व॒र्ष्य॑स्यऽ‌इव¦वि॒ऽद्युतः॑¦चि॒त्राः¦चि॒कि॒त्रे॒¦उ॒षसा᳚‌म्¦न¦के॒तवः॑ |
यत्¦ओष॑धीः¦अ॒भिऽसृ॑ष्टः¦वना᳚नि¦च॒¦परि॑¦स्व॒य‌म्¦चि॒नु॒षे¦अन्न᳚‌म्¦आ॒स्ये᳚ ||

तमोष॑धीर्दधिरे॒ गर्भ॑मृ॒त्वियं॒ तमापो᳚, अ॒ग्निं ज॑नयन्त मा॒तरः॑ |{वैतहव्यो रुणः | अग्निः | जगती}

तमित्स॑मा॒नं व॒निन॑श्च वी॒रुधो॒ऽन्तर्व॑तीश्च॒ सुव॑ते च वि॒श्वहा᳚ ||{6/15}{10.91.6}{10.8.1.6}{8.4.21.1}{1022, 928, 9820}

त‌म्¦ओष॑धीः¦द॒धि॒रे॒¦गर्भ᳚‌म्¦ऋ॒त्विय᳚‌म्¦त‌म्¦आपः॑¦अ॒ग्नि‌म्¦ज॒न॒य॒न्त॒¦मा॒तरः॑ |
त‌म्¦इत्¦स॒मा॒न‌म्¦व॒निनः॑¦च॒¦वी॒रुधः॑¦अ॒न्तःऽव॑तीः¦च॒¦सुव॑ते¦च॒¦वि॒श्वहा᳚ ||

वातो᳚पधूत इषि॒तो वशाँ॒, अनु॑ तृ॒षु यदन्ना॒ वेवि॑षद्वि॒तिष्ठ॑से |{वैतहव्यो रुणः | अग्निः | जगती}

आ ते᳚ यतन्ते र॒थ्यो॒३॑(ओ॒) यथा॒ पृथ॒क्छर्धां᳚स्यग्ने, अ॒जरा᳚णि॒ धक्ष॑तः ||{7/15}{10.91.7}{10.8.1.7}{8.4.21.2}{1023, 928, 9821}

वात॑।औपधूतः¦इ॒षि॒तः¦वशा᳚न्¦अनु॑¦तृ॒षु¦यत्¦अन्ना᳚¦वेवि॑षत्¦व्ऽतिष्ठ॑से |
आ¦ते॒¦य॒त॒न्ते॒¦र॒थ्यः॑¦यथा᳚¦पृथ॑क्¦शर्धां᳚सि¦अ॒ग्ने॒¦अ॒जरा᳚णि¦धक्ष॑तः ||

मे॒धा॒का॒रं वि॒दथ॑स्य प्र॒साध॑नम॒ग्निं होता᳚रं परि॒भूत॑मं म॒तिम् |{वैतहव्यो रुणः | अग्निः | जगती}

तमिदर्भे᳚ ह॒विष्या स॑मा॒नमित्तमिन्म॒हे वृ॑णते॒ नान्यं त्वत् ||{8/15}{10.91.8}{10.8.1.8}{8.4.21.3}{1024, 928, 9822}

मे॒धा॒ऽका॒र‌म्¦वि॒दथ॑स्य¦प्र॒ऽसाध॑न‌म्¦अ॒ग्नि‌म्¦होता᳚र‌म्¦प॒रि॒ऽभूत॑म‌म्¦म॒ति‌म् |
त‌म्¦इत्¦अर्भे᳚¦ह॒विषि॑¦आ¦स॒मा॒न‌म्¦इत्¦त‌म्¦इत्¦म॒हे¦वृ॒ण॒ते॒¦न¦अ॒न्य‌म्¦त्वत् ||

त्वामिदत्र॑ वृणते त्वा॒यवो॒ होता᳚रमग्ने वि॒दथे᳚षु वे॒धसः॑ |{वैतहव्यो रुणः | अग्निः | जगती}

यद्दे᳚व॒यन्तो॒ दध॑ति॒ प्रयां᳚सि ते ह॒विष्म᳚न्तो॒ मन॑वो वृ॒क्तब᳚र्हिषः ||{9/15}{10.91.9}{10.8.1.9}{8.4.21.4}{1025, 928, 9823}

त्वा‌म्¦इत्¦अत्र॑¦वृ॒ण॒ते॒¦त्वा॒ऽयवः॑¦होता᳚र‌म्¦अ॒ग्ने॒¦वि॒दथे᳚षु¦वे॒धसः॑ |
यत्¦दे॒व॒ऽयन्तः॑¦दध॑ति¦प्रयां᳚सि¦ते॒¦ह॒विष्म᳚न्तः¦मन॑वः¦वृ॒क्तऽब॑र्हिषः ||

तवा᳚ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः |{वैतहव्यो रुणः | अग्निः | जगती}

तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे᳚ ||{10/15}{10.91.10}{10.8.1.10}{8.4.21.5}{1026, 928, 9824}

तव॑¦अ॒ग्ने॒¦हो॒त्र‌म्¦तव॑¦पो॒त्र‌म्¦ऋ॒त्विय᳚‌म्¦तव॑¦ने॒ष्ट्र‌म्¦त्व‌म्¦अ॒ग्नित्¦ऋ॒त॒ऽय॒तः |
तव॑¦प्र॒ऽशा॒स्त्र‌म्¦त्व‌म्¦अ॒ध्व॒रि॒ऽय॒सि॒¦ब्र॒ह्मा¦च॒¦असि॑¦गृ॒हऽप॑तिः¦च॒¦नः॒¦दमे᳚ ||

यस्तुभ्य॑मग्ने, अ॒मृता᳚य॒ मर्त्यः॑ स॒मिधा॒ दाश॑दु॒त वा᳚ ह॒विष्कृ॑ति |{वैतहव्यो रुणः | अग्निः | जगती}

तस्य॒ होता᳚ भवसि॒ यासि॑ दू॒त्य१॑(अ॒)मुप॑ ब्रूषे॒ यज॑स्यध्वरी॒यसि॑ ||{11/15}{10.91.11}{10.8.1.11}{8.4.22.1}{1027, 928, 9825}

यः¦तुभ्य᳚‌म्¦अ॒ग्ने॒¦अ॒मृता᳚य¦मर्त्यः॑¦स॒‌म्ऽ‌इधा᳚¦दाश॑त्¦उ॒त¦वा॒¦ह॒विःऽकृ॑ति |
तस्य॑¦होता᳚¦भ॒व॒सि॒¦यासि॑¦दू॒त्य᳚‌म्¦उप॑¦ब्रू॒षे॒¦यज॑सि¦अ॒ध्व॒रि॒ऽयसि॑ ||

इ॒मा, अ॑स्मै म॒तयो॒ वाचो᳚, अ॒स्मदाँ, ऋचो॒ गिरः॑ सुष्टु॒तयः॒ सम॑ग्मत |{वैतहव्यो रुणः | अग्निः | जगती}

व॒सू॒यवो॒ वस॑वे जा॒तवे᳚दसे वृ॒द्धासु॑ चि॒द्वर्ध॑नो॒ यासु॑ चा॒कन॑त् ||{12/15}{10.91.12}{10.8.1.12}{8.4.22.2}{1028, 928, 9826}

इ॒माः¦अ॒स्मै॒¦म॒तयः॑¦वाचः॑¦अ॒स्मत्¦आ¦ऋचः॑¦गिरः॑¦सु॒ऽस्तु॒तयः॑¦स‌म्¦अ॒ग्म॒त॒ |
व॒सु॒ऽयवः॑¦वस॑वे¦जा॒तऽवे᳚दः¦वृ॒द्धासु॑¦चि॒त्¦वर्ध॑नः¦यासु॑¦चा॒कन॑त् ||

इ॒मां प्र॒त्नाय॑ सुष्टु॒तिं नवी᳚यसीं वो॒चेय॑मस्मा, उश॒ते शृ॒णोतु॑ नः |{वैतहव्यो रुणः | अग्निः | जगती}

भू॒या, अन्त॑रा हृ॒द्य॑स्य नि॒स्पृशे᳚ जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः᳚ ||{13/15}{10.91.13}{10.8.1.13}{8.4.22.3}{1029, 928, 9827}

इ॒मा‌म्¦प्र॒त्नाय॑¦सु॒ऽस्तु॒ति‌म्¦नवी᳚यसी‌म्¦वो॒चेय᳚‌म्¦अ॒स्मै॒¦उ॒श॒ते¦शृ॒णोतु॑¦नः॒ |
भू॒याः¦अन्त॑रा¦हृ॒दि¦अ॒स्य॒¦नि॒ऽस्पृशे᳚¦जा॒याऽ‌इ᳚व¦पत्ये᳚¦उ॒श॒ती¦सु॒ऽवासाः᳚ ||

यस्मि॒न्नश्वा᳚स ऋष॒भास॑ उ॒क्षणो᳚ व॒शा मे॒षा, अ॑वसृ॒ष्टास॒ आहु॑ताः |{वैतहव्यो रुणः | अग्निः | जगती}

की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे᳚ हृ॒दा म॒तिं ज॑नये॒ चारु॑म॒ग्नये᳚ ||{14/15}{10.91.14}{10.8.1.14}{8.4.22.4}{1030, 928, 9828}

यस्मि॑न्¦अश्वा᳚सः¦ऋ॒ष॒भासः॑¦उ॒क्षणः॑¦व॒शाः¦मे॒षाः¦अ॒व॒ऽसृ॒ष्टासः॑¦आऽहु॑ताः |
की॒ला॒ल॒ऽपे¦सोम॑ऽपृष्ठाय¦वे॒धसे᳚¦हृ॒दा¦म॒ति‌म्¦ज॒न॒ये॒¦चारु᳚‌म्¦अ॒ग्नये᳚ ||

अहा᳚व्यग्ने ह॒विरा॒स्ये᳚ ते स्रु॒ची᳚व घृ॒तं च॒म्वी᳚व॒ सोमः॑ |{वैतहव्यो रुणः | अग्निः | त्रिष्टुप्}

वा॒ज॒सनिं᳚ र॒यिम॒स्मे सु॒वीरं᳚ प्रश॒स्तं धे᳚हि य॒शसं᳚ बृ॒हन्त᳚म् ||{15/15}{10.91.15}{10.8.1.15}{8.4.22.5}{1031, 928, 9829}

अहा᳚वि¦अ॒ग्ने॒¦ह॒विः¦आ॒स्ये᳚¦ते॒¦स्रु॒चिऽ‌इ᳚व¦घृ॒त‌म्¦च॒म्वि॑ऽ‌इव¦सोमः॑ |
वा॒ज॒ऽसनि᳚‌म्¦र॒यि‌म्¦अ॒स्मे इति॑¦सु॒ऽवीर᳚‌म्¦प्र॒ऽश॒स्त‌म्¦धे॒हि॒¦य॒शस᳚‌म्¦बृ॒हन्त᳚‌म् ||

[92] यज्ञस्येति पंचदशर्चस्य सूक्तस्य मानवःशार्यातोविश्वेदेवाजगती |
य॒ज्ञस्य॑ वो र॒थ्यं᳚ वि॒श्पतिं᳚ वि॒शां होता᳚रम॒क्तोरति॑थिं वि॒भाव॑सुम् |{मानवो शार्यातः | विश्वदेवाः | जगती}

शोच॒ञ्छुष्का᳚सु॒ हरि॑णीषु॒ जर्भु॑र॒द्वृषा᳚ के॒तुर्य॑ज॒तो द्याम॑शायत ||{1/15}{10.92.1}{10.8.2.1}{8.4.23.1}{1032, 929, 9830}

य॒ज्ञस्य॑¦वः॒¦र॒थ्य᳚‌म्¦वि॒श्पति᳚‌म्¦वि॒शा‌म्¦होता᳚र‌म्¦अ॒क्तोः¦अति॑थि‌म्¦वि॒भाऽव॑सु‌म् |
शोच॑न्¦शुष्का᳚सु¦हरि॑णीषु¦जर्भु॑रत्¦वृषा᳚¦के॒तुः¦य॒ज॒तः¦द्या‌म्¦अ॒शा॒य॒त॒ ||

इ॒मम᳚ञ्ज॒स्पामु॒भये᳚, अकृण्वत ध॒र्माण॑म॒ग्निं वि॒दथ॑स्य॒ साध॑नम् |{मानवो शार्यातः | विश्वदेवाः | जगती}

अ॒क्तुं न य॒ह्वमु॒षसः॑ पु॒रोहि॑तं॒ तनू॒नपा᳚तमरु॒षस्य॑ निंसते ||{2/15}{10.92.2}{10.8.2.2}{8.4.23.2}{1033, 929, 9831}

इ॒म‌म्¦अं॒जः॒ऽपा‌म्¦उ॒भये᳚¦अ॒कृ॒ण्व॒त॒¦ध॒र्माण᳚‌म्¦अ॒ग्नि‌म्¦वि॒दथ॑स्य¦साध॑न‌म् |
अ॒क्तु‌म्¦न¦य॒ह्व‌म्¦उ॒षसः॑¦पु॒रःऽहि॑त‌म्¦तनू॒३॒॑ऽनपा᳚त‌म्¦अ॒रु॒षस्य॑¦निं॒स॒ते॒ ||

बळ॑स्य नी॒था वि प॒णेश्च॑ मन्महे व॒या, अ॑स्य॒ प्रहु॑ता, आसु॒रत्त॑वे |{मानवो शार्यातः | विश्वदेवाः | जगती}

य॒दा घो॒रासो᳚, अमृत॒त्वमाश॒तादिज्जन॑स्य॒ दैव्य॑स्य चर्किरन् ||{3/15}{10.92.3}{10.8.2.3}{8.4.23.3}{1034, 929, 9832}

बट्¦अ॒स्य॒¦नी॒था¦वि¦प॒णेः¦च॒¦म॒न्म॒हे॒¦व॒याः¦अ॒स्य॒¦प्रऽहु॑ताः¦आ॒सुः॒¦अत्त॑वे |
य॒दा¦घो॒रासः॑¦अ॒मृ॒त॒ऽत्व‌म्¦आश॑त¦आत्¦इत्¦जन॑स्य¦दैव्य॑स्य¦च॒र्कि॒र॒न् ||

ऋ॒तस्य॒ हि प्रसि॑ति॒र्द्यौरु॒रु व्यचो॒ नमो᳚ म॒ह्य१॑(अ॒)रम॑तिः॒ पनी᳚यसी |{मानवो शार्यातः | विश्वदेवाः | जगती}

इन्द्रो᳚ मि॒त्रो वरु॑णः॒ सं चि॑कित्रि॒रेऽथो॒ भगः॑ सवि॒ता पू॒तद॑क्षसः ||{4/15}{10.92.4}{10.8.2.4}{8.4.23.4}{1035, 929, 9833}

ऋ॒तस्य॑¦हि¦प्रऽसि॑तिः¦द्यौः¦उ॒रु¦व्यचः॑¦नमः॑¦म॒ही¦अ॒रम॑तिः¦पना᳚यसी |
इन्द्रः॑¦मि॒त्रः¦वरु॑णः¦स‌म्¦चि॒कि॒त्रि॒रे¦अथो॒ इति॑¦भगः॑¦स॒वि॒ता¦पू॒तऽद॑क्षसः ||

प्र रु॒द्रेण॑ य॒यिना᳚ यन्ति॒ सिन्ध॑वस्ति॒रो म॒हीम॒रम॑तिं दधन्‌ विरे |{मानवो शार्यातः | विश्वदेवाः | जगती}

येभिः॒ परि॑ज्मा परि॒यन्नु॒रु ज्रयो॒ वि रोरु॑वज्ज॒ठरे॒ विश्व॑मु॒क्षते᳚ ||{5/15}{10.92.5}{10.8.2.5}{8.4.23.5}{1036, 929, 9834}

प्र¦रु॒द्रेण॑¦य॒यिना᳚¦य॒न्ति॒¦सिन्ध॑वः¦ति॒रः¦म॒ही‌म्¦अ॒रम॑ति‌म्¦द॒ध॒न्वि॒रे॒ |
येभिः॑¦परि॑ऽज्मा¦प॒रि॒ऽयन्¦उ॒रु¦ज्रयः॑¦वि¦रोरु॑वत्¦ज॒ठरे᳚¦विश्व᳚‌म्¦उ॒क्षते᳚ ||

क्रा॒णा रु॒द्रा म॒रुतो᳚ वि॒श्वकृ॑ष्टयो दि॒वः श्ये॒नासो॒, असु॑रस्य नी॒ळयः॑ |{मानवो शार्यातः | विश्वदेवाः | जगती}

तेभि॑श्चष्टे॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मेन्द्रो᳚ दे॒वेभि॑रर्व॒शेभि॒रर्व॑शः ||{6/15}{10.92.6}{10.8.2.6}{8.4.24.1}{1037, 929, 9835}

क्रा॒णाः¦रु॒द्राः¦म॒रुतः॑¦वि॒श्वऽकृ॑ष्टयः¦दि॒वः¦श्ये॒नासः॑¦असु॑रस्य¦नी॒ळयः॑ |
तेभिः॑¦च॒ष्टे॒¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा¦इन्द्रः॑¦दे॒वेभिः॑¦अ॒र्व॒शेभिः॑¦अर्व॑शः ||

इन्द्रे॒ भुजं᳚ शशमा॒नास॑ आशत॒ सूरो॒ दृशी᳚के॒ वृष॑णश्च॒ पौंस्ये᳚ |{मानवो शार्यातः | विश्वदेवाः | जगती}

प्र ये न्व॑स्या॒र्हणा᳚ ततक्षि॒रे युजं॒ वज्रं᳚ नृ॒षद॑नेषु का॒रवः॑ ||{7/15}{10.92.7}{10.8.2.7}{8.4.24.2}{1038, 929, 9836}

इन्द्रे᳚¦भुज᳚‌म्¦श॒श॒मा॒नासः॑¦आ॒श॒त॒¦सूरः॑¦दृशी᳚के¦वृष॑णः¦च॒¦पौंस्ये᳚ |
प्र¦ये¦नु¦अ॒स्य॒¦अ॒र्हणा᳚¦त॒त॒क्षि॒रे¦युज᳚‌म्¦वज्र᳚‌म्¦नृ॒ऽसद॑नेषु¦का॒रवः॑ ||

सूर॑श्चि॒दा ह॒रितो᳚, अस्य रीरम॒दिन्द्रा॒दा कश्चि॑द्भयते॒ तवी᳚यसः |{मानवो शार्यातः | विश्वदेवाः | जगती}

भी॒मस्य॒ वृष्णो᳚ ज॒ठरा᳚दभि॒श्वसो᳚ दि॒वेदि॑वे॒ सहु॑रिः स्त॒न्नबा᳚धितः ||{8/15}{10.92.8}{10.8.2.8}{8.4.24.3}{1039, 929, 9837}

सूरः॑¦चि॒त्¦आ¦ह॒रितः॑¦अ॒स्य॒¦री॒र॒म॒त्¦इन्द्रा᳚त्¦आ¦कः¦चि॒त्¦भ॒य॒ते॒¦तवी᳚यसः |
भी॒मस्य॑¦वृष्णः॑¦ज॒ठरा᳚त्¦अ॒भि॒ऽश्वसः॑¦दि॒वेऽदि॑वे¦सहु॑रिः¦स्त॒न्¦अबा᳚धितः ||

स्तोमं᳚ वो, अ॒द्य रु॒द्राय॒ शिक्व॑से क्ष॒यद्वी᳚राय॒ नम॑सा दिदिष्टन |{मानवो शार्यातः | विश्वदेवाः | जगती}

येभिः॑ शि॒वः स्ववाँ᳚, एव॒याव॑भिर्दि॒वः सिष॑क्ति॒ स्वय॑शा॒ निका᳚मभिः ||{9/15}{10.92.9}{10.8.2.9}{8.4.24.4}{1040, 929, 9838}

स्तोम᳚‌म्¦वः॒¦अ॒द्य¦रु॒द्राय॑¦शिक्व॑से¦क्ष॒यत्ऽवी᳚राय¦नम॑सा¦दि॒दि॒ष्ट॒न॒ |
येभिः॑¦शि॒वः¦स्वऽवा᳚न्¦ए॒व॒याव॑ऽभिः¦दि॒वः¦सिस॑क्ति¦स्वऽय॑शाः¦निका᳚मऽभिः ||

ते हि प्र॒जाया॒, अभ॑रन्त॒ वि श्रवो॒ बृह॒स्पति᳚र्वृष॒भः सोम॑जामयः |{मानवो शार्यातः | विश्वदेवाः | जगती}

य॒ज्ञैरथ᳚र्वा प्रथ॒मो वि धा᳚रयद्दे॒वा दक्षै॒र्भृग॑वः॒ सं चि॑कित्रिरे ||{10/15}{10.92.10}{10.8.2.10}{8.4.24.5}{1041, 929, 9839}

ते¦हि¦प्र॒ऽजायाः᳚¦अभ॑रन्त¦वि¦श्रवः॑¦बृह॒स्पतिः॑¦वृ॒ष॒भः¦सोम॑ऽजामयः |
य॒ज्ञैः¦अथ᳚र्वा¦प्र॒थ॒मः¦वि¦धा॒र॒य॒त्¦दे॒वाः¦दक्षैः᳚¦भृग॑वः¦स‌म्¦चि॒कि॒त्रि॒रे॒ ||

ते हि द्यावा᳚पृथि॒वी भूरि॑रेतसा॒ नरा॒शंस॒श्चतु॑रङ्गो य॒मोऽदि॑तिः |{मानवो शार्यातः | विश्वदेवाः | जगती}

दे॒वस्त्वष्टा᳚ द्रविणो॒दा, ऋ॑भु॒क्षणः॒ प्र रो᳚द॒सी म॒रुतो॒ विष्णु॑रर्हिरे ||{11/15}{10.92.11}{10.8.2.11}{8.4.25.1}{1042, 929, 9840}

ते¦हि¦द्यावा᳚पृथि॒वी इति॑¦भूरि॑ऽरेतसा¦नरा॒शंसः॑¦चतुः॑।आङ्गः¦य॒मः¦अदि॑तिः |
दे॒वः¦त्वष्टा᳚¦द्र॒वि॒णः॒ऽदाः¦ऋ॒भु॒क्षणः॑¦प्र¦रो॒द॒सी इति॑¦म॒रुतः॑¦विष्णुः॑¦अ॒र्हि॒रे॒ ||

उ॒त स्य न॑ उ॒शिजा᳚मुर्वि॒या क॒विरहिः॑ शृणोतु बु॒ध्न्यो॒३॑(ओ॒) हवी᳚मनि |{मानवो शार्यातः | विश्वदेवाः | जगती}

सूर्या॒मासा᳚ वि॒चर᳚न्ता दिवि॒क्षिता᳚ धि॒या श॑मीनहुषी, अ॒स्य बो᳚धतम् ||{12/15}{10.92.12}{10.8.2.12}{8.4.25.2}{1043, 929, 9841}

उ॒त¦स्यः¦नः॒¦उ॒शिजा᳚‌म्¦उ॒र्वि॒या¦क॒विः¦अहिः॑¦शृ॒णो॒तु॒¦बु॒ध्न्यः॑¦हवी᳚मनि |
सूर्या॒मासा᳚¦वि॒ऽचर᳚न्ता¦दि॒वि॒ऽक्षिता᳚¦धि॒या¦श॒मी॒न॒हु॒षी॒ इति॑¦अ॒स्य¦बो॒ध॒त॒‌म् ||

प्र नः॑ पू॒षा च॒रथं᳚ वि॒श्वदे᳚व्यो॒ऽपां नपा᳚दवतु वा॒युरि॒ष्टये᳚ |{मानवो शार्यातः | विश्वदेवाः | जगती}

आ॒त्मानं॒ वस्यो᳚, अ॒भि वात॑मर्चत॒ तद॑श्विना सुहवा॒ याम॑नि श्रुतम् ||{13/15}{10.92.13}{10.8.2.13}{8.4.25.3}{1044, 929, 9842}

प्र¦नः॒¦पू॒षा¦च॒रथ᳚‌म्¦वि॒श्वऽदे᳚व्यः¦अ॒पा‌म्¦नपा᳚त्¦अ॒व॒तु॒¦वा॒युः¦इ॒ष्टये᳚ |
आ॒त्मान᳚‌म्¦वस्यः॑¦अ॒भि¦वात᳚‌म्¦अ॒र्च॒त॒¦तत्¦अ॒श्वि॒ना॒¦सु॒ऽह॒वा॒¦याम॑नि¦श्रु॒त॒‌म् ||

वि॒शामा॒सामभ॑यानामधि॒क्षितं᳚ गी॒र्भिरु॒ स्वय॑शसं गृणीमसि |{मानवो शार्यातः | विश्वदेवाः | जगती}

ग्नाभि॒र्विश्वा᳚भि॒रदि॑तिमन॒र्वण॑म॒क्तोर्युवा᳚नं नृ॒मणा॒, अधा॒ पति᳚म् ||{14/15}{10.92.14}{10.8.2.14}{8.4.25.4}{1045, 929, 9843}

वि॒शा‌म्¦आ॒सा‌म्¦अभ॑याना‌म्¦अ॒धि॒ऽक्षित᳚‌म्¦गीः॒ऽभिः¦ऊँ॒ इति॑¦स्वऽय॑शस‌म्¦गृ॒णी॒म॒सि॒ |
ग्नाभिः॑¦विश्वा᳚भिः¦अदि॑ति‌म्¦अ॒न॒र्वण᳚‌म्¦अ॒क्तोः¦युवा᳚न‌म्¦नृ॒ऽमनाः᳚¦अध॑¦पति᳚‌म् ||

रेभ॒दत्र॑ ज॒नुषा॒ पूर्वो॒, अङ्गि॑रा॒ ग्रावा᳚ण ऊ॒र्ध्वा, अ॒भि च॑क्षुरध्व॒रम् |{मानवो शार्यातः | विश्वदेवाः | जगती}

येभि॒र्विहा᳚या॒, अभ॑वद्विचक्ष॒णः पाथः॑ सु॒मेकं॒ स्वधि॑ति॒र्वन᳚न्वति ||{15/15}{10.92.15}{10.8.2.15}{8.4.25.5}{1046, 929, 9844}

रेभ॑त्¦अत्र॑¦ज॒नुषा᳚¦पूर्वः॑¦अङ्गि॑राः¦ग्रावा᳚णः¦ऊ॒र्ध्वाः᳚¦अ॒भि¦च॒क्षुः॒¦अ॒ध्व॒र‌म् |
येभिः॑¦विऽहा᳚याः¦अभ॑वत्¦वि॒ऽच॒क्ष॒णः¦पाथः॑¦सु॒ऽमेक᳚‌म्¦स्वऽधि॑तिः¦वन॑न्ऽवति ||

[93] महीति पंचदशर्चस्य सूक्तस्य पार्थ्यस्तान्वो विश्वेदेवाः प्रस्तारपंक्तिर्द्वितीयात्रयोदश्यनुष्टुभौ नवम्यक्षरौपंक्तिरेकादशीन्यं कुसारिण्यंत्यापुरस्ताद्बृहती |
महि॑ द्यावापृथिवी भूतमु॒र्वी नारी᳚ य॒ह्वी न रोद॑सी॒ सदं᳚ नः |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

तेभि᳚र्नः पातं॒ सह्य॑स ए॒भिर्नः॑ पातं शू॒षणि॑ ||{1/15}{10.93.1}{10.8.3.1}{8.4.26.1}{1047, 930, 9845}

महि॑¦द्या॒वा॒पृ॒थि॒वी॒ इति॑¦भू॒त॒‌म्¦उ॒र्वी इति॑¦नारी॒ इति॑¦य॒ह्वी इति॑¦न¦रोद॑सी॒ इति॑¦सद᳚‌म्¦नः॒ |
तेभिः॑¦नः॒¦पा॒त॒‌म्¦सह्य॑सः¦ए॒भिः¦नः॒¦पा॒त॒‌म्¦शू॒षणि॑ ||

य॒ज्ञेय॑ज्ञे॒ स मर्त्यो᳚ दे॒वान्‌ त्स॑पर्यति |{पार्थ्यस्तान्वः | विश्वदेवाः | अनुष्टुप्}

यः सु॒म्नैर्दी᳚र्घ॒श्रुत्त॑म आ॒विवा᳚सत्येनान् ||{2/15}{10.93.2}{10.8.3.2}{8.4.26.2}{1048, 930, 9846}

य॒ज्ञेऽय॑ज्ञे¦सः¦मर्त्यः॑¦दे॒वान्¦स॒प॒र्य॒ति॒ | यः¦सु॒म्नैः¦दी॒र्घ॒श्रुत्ऽत॑मः¦आ॒ऽविवा᳚साति¦ए॒ना॒न् ||

विश्वे᳚षामिरज्यवो दे॒वानां॒ वार्म॒हः |{पार्थ्यस्तान्वः | विश्वदेवाः | अनुष्टुप्}

विश्वे॒ हि वि॒श्वम॑हसो॒ विश्वे᳚ य॒ज्ञेषु॑ य॒ज्ञियाः᳚ ||{3/15}{10.93.3}{10.8.3.3}{8.4.26.3}{1049, 930, 9847}

विश्वे᳚षा‌म्¦इ॒र॒ज्य॒वः॒¦दे॒वाना᳚‌म्¦वाः¦म॒हः | विश्वे᳚¦हि¦वि॒श्वऽम॑हसः¦विश्वे᳚¦य॒ज्ञेषु॑¦य॒ज्ञियाः᳚ ||

ते घा॒ राजा᳚नो, अ॒मृत॑स्य म॒न्द्रा, अ᳚र्य॒मा मि॒त्रो वरु॑णः॒ परि॑ज्मा |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

कद्रु॒द्रो नृ॒णां स्तु॒तो म॒रुतः॑ पू॒षणो॒ भगः॑ ||{4/15}{10.93.4}{10.8.3.4}{8.4.26.4}{1050, 930, 9848}

ते¦घ॒¦राजा᳚नः¦अ॒मृत॑स्य¦म॒न्द्राः¦अ॒र्य॒मा¦मि॒त्रः¦वरु॑णः¦परि॑ऽज्मा |
कत्¦रु॒द्रः¦नृ॒णा‌म्¦स्तु॒तः¦म॒रुतः॑¦पू॒षणः॑¦भगः॑ ||

उ॒त नो॒ नक्त॑म॒पां वृ॑षण्वसू॒ सूर्या॒मासा॒ सद॑नाय सध॒न्या᳚ |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

सचा॒ यत्साद्ये᳚षा॒महि॑र्बु॒ध्नेषु॑ बु॒ध्न्यः॑ ||{5/15}{10.93.5}{10.8.3.5}{8.4.26.5}{1051, 930, 9849}

उ॒त¦नः॒¦नक्त᳚‌म्¦अ॒पा‌म्¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू¦सूर्या॒मासा᳚¦सद॑नाय¦स॒ऽध॒न्या᳚ |
सचा᳚¦यत्¦सादि॑¦ए॒षा॒‌म्¦अहिः॑¦बु॒ध्नेषु॑¦बु॒ध्न्यः॑ ||

उ॒त नो᳚ दे॒वाव॒श्विना᳚ शु॒भस्पती॒ धाम॑भिर्मि॒त्रावरु॑णा, उरुष्यताम् |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

म॒हः स रा॒य एष॒तेऽति॒ धन्वे᳚व दुरि॒ता ||{6/15}{10.93.6}{10.8.3.6}{8.4.27.1}{1052, 930, 9850}

उ॒त¦नः॒¦दे॒वौ¦अ॒श्विना᳚¦शु॒भः¦पती॒ इति॑¦धाम॑ऽभिः¦मि॒त्रावरु॑णौ¦उ॒रु॒ष्य॒ता॒‌म् |
म॒हः¦सः¦रा॒यः¦आ¦ई॒ष॒ते॒¦अति॑¦धन्वा᳚ऽ‌इव¦दुः॒ऽ‌इ॒ता ||

उ॒त नो᳚ रु॒द्रा चि᳚न्‌ मृळताम॒श्विना॒ विश्वे᳚ दे॒वासो॒ रथ॒स्पति॒र्भगः॑ |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

ऋ॒भुर्वाज॑ ऋभुक्षणः॒ परि॑ज्मा विश्ववेदसः ||{7/15}{10.93.7}{10.8.3.7}{8.4.27.2}{1053, 930, 9851}

उ॒त¦नः॒¦रु॒द्रा¦चि॒त्¦मृ॒ळ॒ता॒‌म्¦अ॒श्विना᳚¦विश्वे᳚¦दे॒वासः॑¦रथः॒पतिः॑¦भगः॑ |
ऋ॒भुः¦वाजः॑¦ऋ॒भु॒क्ष॒णः॒¦परि॑ऽज्मा¦वि॒श्व॒ऽवे॒द॒सः॒ ||

ऋ॒भुरृ॑भु॒क्षा, ऋ॒भुर्वि॑ध॒तो मद॒ आ ते॒ हरी᳚ जूजुवा॒नस्य॑ वा॒जिना᳚ |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

दु॒ष्टरं॒ यस्य॒ साम॑ चि॒दृध॑ग्य॒ज्ञो न मानु॑षः ||{8/15}{10.93.8}{10.8.3.8}{8.4.27.3}{1054, 930, 9852}

ऋ॒भुः¦ऋ॒भु॒क्षाः¦ऋ॒भुः¦वि॒ध॒तः¦मदः॑¦आ¦ते॒¦हरी॒ इति॑¦जू॒जु॒वा॒नस्य॑¦वा॒जिना᳚ |
दु॒स्तर᳚‌म्¦यस्य॑¦साम॑¦चि॒त्¦ऋध॑क्¦य॒ज्ञः¦न¦मानु॑षः ||

कृ॒धी नो॒, अह्र॑यो देव सवितः॒ स च॑ स्तुषे म॒घोना᳚म् |{पार्थ्यस्तान्वः | विश्वदेवाः | पङ्क्ति}

स॒हो न॒ इन्द्रो॒ वह्नि॑भि॒र्न्ये᳚षां चर्षणी॒नां च॒क्रं र॒श्मिं न यो᳚युवे ||{9/15}{10.93.9}{10.8.3.9}{8.4.27.4}{1055, 930, 9853}

कृ॒धि¦नः॒¦अह्र॑यः¦दे॒व॒¦स॒वि॒त॒रिति॑¦सः¦च॒¦स्तु॒षे॒¦म॒घोना᳚‌म् |
स॒हो इति॑¦नः॒¦इन्द्रः॑¦वह्नि॑ऽभिः¦नि¦ए॒षा॒‌म्¦च॒र्ष॒णी॒ना‌म्¦च॒क्र‌म्¦र॒श्मि‌म्¦न¦यो॒यु॒वे॒ ||

ऐषु॑ द्यावापृथिवी धातं म॒हद॒स्मे वी॒रेषु॑ वि॒श्वच॑र्षणि॒ श्रवः॑ |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

पृ॒क्षं वाज॑स्य सा॒तये᳚ पृ॒क्षं रा॒योत तु॒र्वणे᳚ ||{10/15}{10.93.10}{10.8.3.10}{8.4.27.5}{1056, 930, 9854}

आ¦ए॒षु॒¦द्या॒वा॒पृ॒थि॒वी॒ इति॑¦धा॒त॒‌म्¦म॒हत्¦अ॒स्मे इति॑¦वी॒रेषु॑¦वि॒श्वऽच॑र्षणि¦श्रवः॑ |
पृ॒क्ष‌म्¦वाज॑स्य¦सा॒तये᳚¦पृ॒क्ष‌म्¦रा॒या¦उ॒त¦तु॒र्वणे᳚ ||

ए॒तं शंस॑मिन्द्रास्म॒युष्ट्वं कूचि॒त्सन्तं᳚ सहसावन्न॒भिष्ट॑ये |{पार्थ्यस्तान्वः | विश्वदेवाः | सारिणी बृहती}

सदा᳚ पाह्य॒भिष्ट॑ये मे॒दतां᳚ वे॒दता᳚ वसो ||{11/15}{10.93.11}{10.8.3.11}{8.4.28.1}{1057, 930, 9855}

ए॒त‌म्¦शंस᳚‌म्¦इ॒न्द्र॒¦अ॒स्म॒ऽयुः¦त्व‌म्¦कूऽचि॑त्¦सन्त᳚‌म्¦स॒ह॒सा॒ऽव॒न्¦अ॒भिष्ट॑ये¦सदा᳚¦पा॒हि॒¦अ॒भिष्ट॑ये |
मे॒दता᳚‌म्¦वे॒दता᳚¦व॒सो॒ इति॑ ||

ए॒तं मे॒ स्तोमं᳚ त॒ना न सूर्ये᳚ द्यु॒तद्या᳚मानं वावृधन्त नृ॒णाम् |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

सं॒वन॑नं॒ नाश्व्यं॒ तष्टे॒वान॑पच्युतम् ||{12/15}{10.93.12}{10.8.3.12}{8.4.28.2}{1058, 930, 9856}

ए॒त‌म्¦मे॒¦स्तोम᳚‌म्¦त॒ना¦न¦सूर्ये᳚¦द्यु॒तत्ऽया᳚मान‌म्¦व॒वृ॒ध॒न्त॒¦नृ॒णा‌म् |
स॒‌म्ऽवन॑न‌म्¦न¦अस्व्य᳚‌म्¦तष्टा᳚ऽ‌इव¦अन॑पऽच्युत‌म् ||

वा॒वर्त॒ येषां᳚ रा॒या यु॒क्तैषां᳚ हिर॒ण्ययी᳚ |{पार्थ्यस्तान्वः | विश्वदेवाः | अनुष्टुप्}

ने॒मधि॑ता॒ न पौंस्या॒ वृथे᳚व वि॒ष्टान्ता᳚ ||{13/15}{10.93.13}{10.8.3.13}{8.4.28.3}{1059, 930, 9857}

व॒वर्त॑¦येषा᳚‌म्¦रा॒या¦यु॒क्ता¦ए॒षा॒‌म्¦हि॒र॒ण्ययी᳚ | ने॒मऽधि॑ता¦न¦पौंस्या᳚¦वृथा᳚ऽ‌इव¦वि॒ष्ट।आ᳚न्ता ||

प्र तद्दुः॒शीमे॒ पृथ॑वाने वे॒ने प्र रा॒मे वो᳚च॒मसु॑रे म॒घव॑त्सु |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

ये यु॒क्त्वाय॒ पञ्च॑ श॒तास्म॒यु प॒था वि॒श्राव्ये᳚षाम् ||{14/15}{10.93.14}{10.8.3.14}{8.4.28.4}{1060, 930, 9858}

प्र¦तत्¦दुः॒ऽशीमे᳚¦पृथ॑वाने¦वे॒ने¦प्र¦रा॒मे¦वो॒च॒‌म्¦असु॑रे¦म॒घव॑त्ऽसु |
ये¦यु॒क्त्वाय॑¦पंच॑¦श॒ता¦अ॒स्म॒ऽयु¦प॒था¦वि॒ऽश्रावि॑¦ए॒षा॒‌म् ||

अधीन्न्वत्र॑ सप्त॒तिं च॑ स॒प्त च॑ |{पार्थ्यस्तान्वः | विश्वदेवाः | बृहती}

स॒द्यो दि॑दिष्ट॒ तान्वः॑ स॒द्यो दि॑दिष्ट पा॒र्थ्यः स॒द्यो दि॑दिष्ट माय॒वः ||{15/15}{10.93.15}{10.8.3.15}{8.4.28.5}{1061, 930, 9859}

अधि॑¦इत्¦नु¦अत्र॑¦स॒प्त॒ति‌म्¦च॒¦स॒प्त¦च॒ |
स॒द्यः¦दि॒दि॒ष्ट॒¦तान्वः॑¦स॒द्यः¦दि॒दि॒ष्ट॒¦पा॒र्थ्यः¦स॒द्यः¦दि॒दि॒ष्ट॒¦मा॒य॒वः ||

[94] प्रैतइति चतुर्दशर्चस्य सूक्तस्य काद्रवेयोर्बुदः सर्पोग्रावाणोजगती पंचमीसप्तमीचर्तुदृश्यस्त्रिष्टुभः |
प्रैते व॑दन्तु॒ प्र व॒यं व॑दाम॒ ग्राव॑भ्यो॒ वाचं᳚ वदता॒ वद॑द्भ्यः |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

यद॑द्रयः पर्वताः सा॒कमा॒शवः॒ श्लोकं॒ घोषं॒ भर॒थेन्द्रा᳚य सो॒मिनः॑ ||{1/14}{10.94.1}{10.8.4.1}{8.4.29.1}{1062, 931, 9860}

प्र¦ए॒ते¦व॒द॒न्तु॒¦प्र¦व॒य‌म्¦व॒दा॒म॒¦ग्राव॑ऽभ्यः¦वाच᳚‌म्¦व॒द॒त॒¦वद॑त्ऽभ्यः |
यत्¦अ॒द्र॒यः॒¦प॒र्व॒ताः॒¦सा॒क‌म्¦आ॒शवः॒¦श्लोक᳚‌म्¦घोष᳚‌म्¦भर॑थ¦इन्द्रा᳚य¦सो॒मिनः॑ ||

ए॒ते व॑दन्ति श॒तव॑त्स॒हस्र॑वद॒भि क्र᳚न्दन्ति॒ हरि॑तेभिरा॒सभिः॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

वि॒ष्ट्वी ग्रावा᳚णः सु॒कृतः॑ सुकृ॒त्यया॒ होतु॑श्चि॒त्पूर्वे᳚ हवि॒रद्य॑माशत ||{2/14}{10.94.2}{10.8.4.2}{8.4.29.2}{1063, 931, 9861}

ए॒ते¦व॒द॒न्ति॒¦श॒तऽव॑त्¦स॒हस्र॑ऽवत्¦अ॒भि¦क्र॒न्द॒न्ति॒¦हरि॑तेभिः¦आ॒सऽभिः॑ |
वि॒ष्ट्वी¦ग्रावा᳚णः¦सु॒ऽकृतः॑¦सु॒ऽकृ॒त्यया᳚¦होतुः॑¦चि॒त्¦पूर्वे᳚¦ह॒विः॒।आद्य᳚‌म्¦आ॒श॒त॒ ||

ए॒ते व॑द॒न्त्यवि॑दन्न॒ना मधु॒ न्यू᳚ङ्खयन्ते॒, अधि॑ प॒क्व आमि॑षि |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

वृ॒क्षस्य॒ शाखा᳚मरु॒णस्य॒ बप्स॑त॒स्ते सूभ᳚र्वा वृष॒भाः प्रेम॑राविषुः ||{3/14}{10.94.3}{10.8.4.3}{8.4.29.3}{1064, 931, 9862}

ए॒ते¦व॒द॒न्ति॒¦अवि॑दन्¦अ॒ना¦मधु॑¦नि¦ऊ॒ङ्ख॒य॒न्ते॒¦अधि॑¦प॒क्वे¦आमि॑षि |
वृ॒क्षस्य॑¦शाखा᳚‌म्¦अ॒रु॒णस्य॑¦बप्स॑तः¦ते॒¦सूभ᳚र्वाः¦वृ॒ष॒भाः¦प्र¦ई॒‌म्¦अ॒रा॒वि॒षुः॒ ||

बृ॒हद्व॑दन्ति मदि॒रेण॑ म॒न्दिनेन्द्रं॒ क्रोश᳚न्तोऽविदन्न॒ना मधु॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

सं॒रभ्या॒ धीराः॒ स्वसृ॑भिरनर्तिषुराघो॒षय᳚न्तः पृथि॒वीमु॑प॒ब्दिभिः॑ ||{4/14}{10.94.4}{10.8.4.4}{8.4.29.4}{1065, 931, 9863}

बृ॒हत्¦व॒द॒न्ति॒¦म॒दि॒रेण॑¦म॒न्दिना᳚¦इन्द्र᳚‌म्¦क्रोश᳚न्तः¦अ॒वि॒द॒न्¦अ॒ना¦मधु॑ |
स॒‌म्ऽरभ्य॑¦धीराः᳚¦स्वसृ॑ऽभिः¦अ॒न॒र्ति॒षुः॒¦आ॒ऽघो॒षय᳚न्तः¦पृ॒थि॒वी‌म्¦उ॒प॒ब्दिऽभिः॑ ||

सु॒प॒र्णा वाच॑मक्र॒तोप॒ द्यव्या᳚ख॒रे कृष्णा᳚, इषि॒रा, अ॑नर्तिषुः |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | त्रिष्टुप्}

न्य१॑(अ॒)ङ्नि य॒न्त्युप॑रस्य निष्कृ॒तं पु॒रू रेतो᳚ दधिरे सूर्य॒श्वितः॑ ||{5/14}{10.94.5}{10.8.4.5}{8.4.29.5}{1066, 931, 9864}

सु॒ऽप॒र्णाः¦वाच᳚‌म्¦अ॒क्र॒त॒¦उप॑¦द्यवि॑¦आ॒ऽख॒रे¦कृष्णाः᳚¦इ॒षि॒राः¦अ॒न॒र्ति॒षुः॒ |
न्य॑क्¦नि¦य॒न्ति॒¦उप॑रस्य¦निः॒ऽकृ॒त‌म्¦पु॒रु¦रेतः॑¦द॒धि॒रे॒¦सू॒र्य॒ऽश्वितः॑ ||

उ॒ग्रा, इ॑व प्र॒वह᳚न्तः स॒माय॑मुः सा॒कं यु॒क्ता वृष॑णो॒ बिभ्र॑तो॒ धुरः॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

यच्छ्व॒सन्तो᳚ जग्रसा॒ना, अरा᳚विषुः शृ॒ण्व ए᳚षां प्रो॒थथो॒, अर्व॑तामिव ||{6/14}{10.94.6}{10.8.4.6}{8.4.30.1}{1067, 931, 9865}

उ॒ग्राःऽ‌इ᳚व¦प्र॒ऽवह᳚न्तः¦स॒‌म्ऽआय॑मुः¦सा॒क‌म्¦यु॒क्ताः¦वृष॑णः¦बिभ्र॑तः¦धुरः॑ |
यद्¦श्व॒सन्तः॑¦ज॒ग्र॒सा॒नाः¦अरा᳚विषुः¦शृ॒ण्वे¦ए॒षा॒‌म्¦प्रो॒थथः॑¦अर्व॑ता‌म्ऽ‌इव ||

दशा᳚वनिभ्यो॒ दश॑कक्ष्येभ्यो॒ दश॑योक्त्रेभ्यो॒ दश॑योजनेभ्यः |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | त्रिष्टुप्}

दशा᳚भीशुभ्यो, अर्चता॒जरे᳚भ्यो॒ दश॒ धुरो॒ दश॑ यु॒क्ता वह॑द्भ्यः ||{7/14}{10.94.7}{10.8.4.7}{8.4.30.2}{1068, 931, 9866}

दशा᳚वनिऽभ्यः¦दश॑कक्ष्येभ्यः¦दश॑ऽयोक्त्रेभ्यः¦दश॑ऽयोजनेभ्यः |
दशा᳚भीशुऽभ्यः¦अ॒र्च॒त॒¦अ॒जरे᳚भ्यः¦दश॑¦धुरः॑¦दश॑¦यु॒क्ताः¦वह॑त्ऽभ्यः ||

ते, अद्र॑यो॒ दश॑यन्त्रास आ॒शव॒स्तेषा᳚मा॒धानं॒ पर्ये᳚ति हर्य॒तम् |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

त ऊ᳚ सु॒तस्य॑ सो॒म्यस्यान्ध॑सों॒ऽशोः पी॒यूषं᳚ प्रथ॒मस्य॑ भेजिरे ||{8/14}{10.94.8}{10.8.4.8}{8.4.30.3}{1069, 931, 9867}

ते¦अद्र॑यः¦दश॑ऽयन्त्रासः¦आ॒शवः॑¦तेषा᳚‌म्¦आ॒ऽधान᳚‌म्¦परि॑¦ए॒ति॒¦ह॒र्य॒त‌म् |
ते¦ऊँ॒ इति॑¦सु॒तस्य॑¦सो॒म्यस्य॑¦अन्ध॑सः¦अं॒शोः¦पी॒यूष᳚‌म्¦प्र॒थ॒मस्य॑¦भे॒जि॒रे॒ ||

ते सो॒मादो॒ हरी॒, इन्द्र॑स्य निंसतें॒ऽशुं दु॒हन्तो॒, अध्या᳚सते॒ गवि॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

तेभि॑र्दु॒ग्धं प॑पि॒वान्‌ त्सो॒म्यं मध्विन्द्रो᳚ वर्धते॒ प्रथ॑ते वृषा॒यते᳚ ||{9/14}{10.94.9}{10.8.4.9}{8.4.30.4}{1070, 931, 9868}

ते¦सो॒म॒।आदः॑¦हरी॒ इति॑¦इन्द्र॑स्य¦निं॒स॒ते॒¦अं॒शु‌म्¦दु॒हन्तः॑¦अधि॑¦आ॒स॒ते॒¦गवि॑ |
तेभिः॑¦दु॒ग्ध‌म्¦प॒पि॒ऽवान्¦सो॒म्य‌म्¦मधु॑¦इन्द्रः॑¦व॒र्ध॒ते॒¦प्रथ॑ते¦वृ॒ष॒ऽयते᳚ ||

वृषा᳚ वो, अं॒शुर्न किला᳚ रिषाथ॒नेळा᳚वन्तः॒ सद॒मित्‌ स्थ॒नाशि॑ताः |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

रै॒व॒त्येव॒ मह॑सा॒ चार॑वः स्थन॒ यस्य॑ ग्रावाणो॒, अजु॑षध्वमध्व॒रम् ||{10/14}{10.94.10}{10.8.4.10}{8.4.30.5}{1071, 931, 9869}

वृषा᳚¦वः॒¦अं॒शुः¦न¦किल॑¦रि॒षा॒थ॒न॒¦इळा᳚ऽवन्तः¦सद᳚‌म्¦इत्¦स्थ॒न॒¦आशि॑ताः |
रै॒व॒त्याऽ‌इ᳚व¦मह॑सा¦चार॑वः¦स्थ॒न॒¦यस्य॑¦ग्रा॒वा॒णः॒¦अजु॑षध्व‌म्¦अ॒ध्व॒र‌म् ||

तृ॒दि॒ला, अतृ॑दिलासो॒, अद्र॑योऽश्रम॒णा, अशृ॑थिता॒, अमृ॑त्यवः |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

अ॒ना॒तु॒रा, अ॒जराः॒ स्थाम॑विष्णवः सुपी॒वसो॒, अतृ॑षिता॒, अतृ॑ष्णजः ||{11/14}{10.94.11}{10.8.4.11}{8.4.31.1}{1072, 931, 9870}

तृ॒दि॒लाः¦अतृ॑दिलासः¦अद्र॑यः¦अ॒श्र॒म॒णाः¦अशृ॑थिताः¦अमृ॑त्यवः |
अ॒ना॒तु॒राः¦अ॒जराः᳚¦स्थ¦अम॑विष्णवः¦सु॒ऽपी॒वसः॑¦अतृ॑षिताः¦अतृ॑ष्णऽजः ||

ध्रु॒वा, ए॒व वः॑ पि॒तरो᳚ यु॒गेयु॑गे॒ क्षेम॑कामासः॒ सद॑सो॒ न यु᳚ञ्जते |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

अ॒जु॒र्यासो᳚ हरि॒षाचो᳚ ह॒रिद्र॑व॒ आ द्यां रवे᳚ण पृथि॒वीम॑शुश्रवुः ||{12/14}{10.94.12}{10.8.4.12}{8.4.31.2}{1073, 931, 9871}

ध्रु॒वाः¦ए॒व¦वः॒¦पि॒तरः॑¦यु॒गेऽयु॑गे¦क्षेम॑ऽकामासः¦सद॑सः¦न¦युं॒ज॒ते॒ |
अ॒जु॒र्यासः॑¦ह॒रि॒ऽसाचः॑¦ह॒रिद्र॑वः¦आ¦द्या‌म्¦रवे᳚ण¦पृ॒थि॒वी‌म्¦अ॒शु॒श्र॒वुः॒ ||

तदिद्व॑द॒न्त्यद्र॑यो वि॒मोच॑ने॒ याम᳚न्नञ्ज॒स्पा, इ॑व॒ घेदु॑प॒ब्दिभिः॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

वप᳚न्तो॒ बीज॑मिव धान्या॒कृतः॑ पृ॒ञ्चन्ति॒ सोमं॒ न मि॑नन्ति॒ बप्स॑तः ||{13/14}{10.94.13}{10.8.4.13}{8.4.31.3}{1074, 931, 9872}

तत्¦इत्¦व॒द॒न्ति॒¦अद्र॑यः¦वि॒ऽमोच॑ने¦याम॑न्¦अं॒जः॒पाःऽ‌इ᳚व¦घ॒¦इत्¦उ॒प॒ब्दिऽभिः॑ |
वप᳚न्तः¦बीज᳚‌म्ऽ‌इव¦धा॒न्य॒ऽकृतः॑¦पृं॒चन्ति॑¦सोम᳚‌म्¦न¦मि॒न॒न्ति॒¦बप्स॑तः ||

सु॒ते, अ॑ध्व॒रे, अधि॒ वाच॑मक्र॒ता क्री॒ळयो॒ न मा॒तरं᳚ तु॒दन्तः॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | त्रिष्टुप्}

वि षू मु᳚ञ्चा सुषु॒वुषो᳚ मनी॒षां वि व॑र्तन्ता॒मद्र॑य॒श्चाय॑मानाः ||{14/14}{10.94.14}{10.8.4.14}{8.4.31.4}{1075, 931, 9873}

सु॒ते¦अ॒ध्व॒रे¦अधि॑¦वाच᳚‌म्¦अ॒क्र॒त॒¦आ¦क्री॒ळयः॑¦न¦मा॒तर᳚‌म्¦तु॒दन्तः॑ |
वि¦सु¦मुं॒च॒¦सु॒सु॒ऽवुषः॑¦म॒नी॒षा‌म्¦वि¦व॒र्त॒न्ता॒‌म्¦अद्र॑यः¦चाय॑मानाः ||

[95] हयेजाये इत्यष्टादशर्चस्य सूक्तस्य आद्यातृतीयाषष्ठीनवम्यादिचतसृणां चतुर्दशी सप्तदशीत्येवं नवानामैलः पुरूरवाऋषिरुर्वशी देवता शिष्टानामुर्वशीऋषिका पुरूरवादेवतात्रिष्टुप् |
ह॒ये जाये॒ मन॑सा॒ तिष्ठ॑ घोरे॒ वचां᳚सि मि॒श्रा कृ॑णवावहै॒ नु |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

न नौ॒ मन्त्रा॒, अनु॑दितास ए॒ते मय॑स्कर॒न्‌ पर॑तरे च॒नाह॑न् ||{1/18}{10.95.1}{10.8.5.1}{8.5.1.1}{1076, 932, 9874}

ह॒ये¦जाये᳚¦मन॑सा¦तिष्ठ॑¦घोरे᳚¦वचां᳚सि¦मि॒श्रा¦कृ॒ण॒वा॒व॒है॒¦नु |
न¦नौ॒¦मन्त्राः᳚¦अनु॑दितासः¦ए॒ते¦मयः॑¦क॒र॒न्¦पर॑ऽतरे¦च॒न¦अह॑न् ||

किमे॒ता वा॒चा कृ॑णवा॒ तवा॒हं प्राक्र॑मिषमु॒षसा᳚मग्रि॒येव॑ |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

पुरू᳚रवः॒ पुन॒रस्तं॒ परे᳚हि दुराप॒ना वात॑ इवा॒हम॑स्मि ||{2/18}{10.95.2}{10.8.5.2}{8.5.1.2}{1077, 932, 9875}

कि‌म्¦ए॒ता¦वा॒चा¦कृ॒ण॒व॒¦तव॑¦अ॒ह‌म्¦प्र¦अ॒क्र॒मि॒ष॒‌म्¦उ॒षसा᳚‌म्¦अ॒ग्रि॒याऽ‌इ᳚व |
पुरू᳚रवः¦पुनः॑¦अस्त᳚‌म्¦परा᳚¦इ॒हि॒¦दुः॒ऽआ॒प॒ना¦वातः॑ऽ‌इव¦अ॒ह‌म्¦अ॒स्मि॒ ||

इषु॒र्न श्रि॒य इ॑षु॒धेर॑स॒ना गो॒षाः श॑त॒सा न रंहिः॑ |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

अ॒वीरे॒ क्रतौ॒ वि द॑विद्युत॒न्नोरा॒ न मा॒युं चि॑तयन्त॒ धुन॑यः ||{3/18}{10.95.3}{10.8.5.3}{8.5.1.3}{1078, 932, 9876}

इषुः॑¦न¦श्रि॒ये¦इ॒षु॒ऽधेः¦अ॒स॒ना¦गो॒ऽसाः¦श॒त॒ऽसाः¦न¦रंहिः॑ |
अ॒वीरे᳚¦क्रतौ᳚¦वि¦द॒वि॒द्यु॒त॒त्¦न¦उरा᳚¦न¦मा॒यु‌म्¦चि॒त॒य॒न्त॒¦धुन॑यः ||

सा वसु॒ दध॑ती॒ श्वशु॑राय॒ वय॒ उषो॒ यदि॒ वष्ट्यन्ति॑गृहात् |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

अस्तं᳚ ननक्षे॒ यस्मि᳚ञ्चा॒कन्दिवा॒ नक्तं᳚ श्नथि॒ता वै᳚त॒सेन॑ ||{4/18}{10.95.4}{10.8.5.4}{8.5.1.4}{1079, 932, 9877}

सा¦वसु॑¦दध॑ती¦श्वशु॑राय¦वयः॑¦उषः॑¦यदि॑¦वष्टि॑¦अन्ति॑ऽगृहात् |
अस्त᳚‌म्¦न॒न॒क्षे॒¦यस्मि॑न्¦चा॒कन्¦दिवा᳚¦नक्त᳚‌म्¦श्न॒थि॒ता¦वै॒त॒सेन॑ ||

त्रिः स्म॒ माह्नः॑ श्नथयो वैत॒सेनो॒त स्म॒ मेऽव्य॑त्यै पृणासि |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

पुरू᳚र॒वोऽनु॑ ते॒ केत॑मायं॒ राजा᳚ मे वीर त॒न्व१॑(अ॒)स्तदा᳚सीः ||{5/18}{10.95.5}{10.8.5.5}{8.5.1.5}{1080, 932, 9878}

त्रिः¦स्म॒¦मा॒¦अह्नः॑¦श्न॒थ॒यः॒¦वै॒त॒सेन॑¦उ॒त¦स्म॒¦मे॒¦अव्य॑त्यै¦पृ॒णा॒सि॒ |
पुरू᳚रवः¦अनु॑¦ते॒¦केत᳚‌म्¦आ॒य॒‌म्¦राजा᳚¦मे॒¦वी॒र॒¦त॒न्वः॑¦तत्¦आ॒सीः॒ ||

या सु॑जू॒र्णिः श्रेणिः॑ सु॒म्नआ᳚पिर्ह्र॒देच॑क्षु॒र्न ग्र॒न्थिनी᳚ चर॒ण्युः |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

ता, अ॒ञ्जयो᳚ऽरु॒णयो॒ न स॑स्रुः श्रि॒ये गावो॒ न धे॒नवो᳚ऽनवन्त ||{6/18}{10.95.6}{10.8.5.6}{8.5.2.1}{1081, 932, 9879}

या¦सु॒ऽजू॒र्णिः¦श्रेणिः॑¦सु॒म्नेऽआ᳚पिः¦ह्र॒देऽच॑क्षुः¦न¦ग्र॒न्थिनी᳚¦च॒र॒ण्युः |
ताः¦अं॒जयः॑¦अ॒रु॒णयः॑¦न¦स॒स्रुः॒¦श्रि॒ये¦गावः॑¦न¦धे॒नवः॑¦अ॒न॒व॒न्त॒ ||

सम॑स्मि॒ञ्जाय॑मान आसत॒ ग्ना, उ॒तेम॑वर्धन्न॒द्य१॑(अः॒) स्वगू᳚र्ताः |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

म॒हे यत्‌ त्वा᳚ पुरूरवो॒ रणा॒याव॑र्धयन्दस्यु॒हत्या᳚य दे॒वाः ||{7/18}{10.95.7}{10.8.5.7}{8.5.2.2}{1082, 932, 9880}

स‌म्¦अ॒स्मि॒न्¦जाय॑माने¦आ॒स॒त॒¦ग्नाः¦उ॒त¦ई॒‌म्¦अ॒व॒र्ध॒न्¦न॒द्यः॑¦स्वऽगू᳚र्ताः |
म॒हे¦यत्¦त्वा॒¦पु॒रू॒र॒वः॒¦रणा᳚य¦अव॑र्धयन्¦द॒स्यु॒ऽहत्या᳚य¦दे॒वाः ||

सचा॒ यदा᳚सु॒ जह॑ती॒ष्वत्क॒ममा᳚नुषीषु॒ मानु॑षो नि॒षेवे᳚ |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

अप॑ स्म॒ मत्त॒रस᳚न्ती॒ न भु॒ज्युस्ता, अ॑त्रसन्‌ रथ॒स्पृशो॒ नाश्वाः᳚ ||{8/18}{10.95.8}{10.8.5.8}{8.5.2.3}{1083, 932, 9881}

सचा᳚¦यत्¦आ॒सु॒¦जह॑तीषु¦अत्क᳚‌म्¦अमा᳚नुषीषु¦मानु॑षः¦नि॒ऽसेवे᳚ |
अप॑¦स्म॒¦मत्¦त॒रस᳚न्ती¦न¦भु॒ज्युः¦ताः¦अ॒त्र॒स॒न्¦र॒थ॒ऽस्पृशः॑¦न¦अश्वाः᳚ ||

यदा᳚सु॒ मर्तो᳚, अ॒मृता᳚सु नि॒स्पृक्सं क्षो॒णीभिः॒ क्रतु॑भि॒र्न पृ॒ङ्क्ते |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

ता, आ॒तयो॒ न त॒न्वः॑ शुम्भत॒ स्वा, अश्वा᳚सो॒ न क्री॒ळयो॒ दन्द॑शानाः ||{9/18}{10.95.9}{10.8.5.9}{8.5.2.4}{1084, 932, 9882}

यत्¦आ॒सु॒¦मर्तः॑¦अ॒मृता᳚सु¦नि॒ऽस्पृक्¦स‌म्¦क्षो॒णीभिः॑¦क्रतु॑ऽभिः¦न¦पृ॒ङ्क्ते |
ताः¦आ॒तयः॑¦न¦त॒न्वः॑¦शु॒म्भ॒त॒¦स्वाः¦अश्वा᳚सः¦न¦क्री॒ळयः॑¦दन्द॑शानाः ||

वि॒द्युन्न या पत᳚न्ती॒ दवि॑द्यो॒द्भर᳚न्ती मे॒, अप्या॒ काम्या᳚नि |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

जनि॑ष्टो, अ॒पो नर्यः॒ सुजा᳚तः॒ प्रोर्वशी᳚ तिरत दी॒र्घमायुः॑ ||{10/18}{10.95.10}{10.8.5.10}{8.5.2.5}{1085, 932, 9883}

वि॒ऽद्युत्¦न¦या¦पत᳚न्ती¦दवि॑द्योत्¦भर᳚न्ती¦मे॒¦अप्या᳚¦काम्या᳚नि |
जनि॑ष्टो॒ इति॑¦अ॒पः¦नर्यः॑¦सुऽजा᳚तः¦प्र¦उ॒र्वशी᳚¦ति॒र॒त॒¦दी॒र्घ‌म्¦आयुः॑ ||

ज॒ज्ञि॒ष इ॒त्था गो॒पीथ्या᳚य॒ हि द॒धाथ॒ तत्‌ पु॑रूरवो म॒ ओजः॑ |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

अशा᳚सं त्वा वि॒दुषी॒ सस्मि॒न्नह॒न्न म॒ आशृ॑णोः॒ किम॒भुग्व॑दासि ||{11/18}{10.95.11}{10.8.5.11}{8.5.3.1}{1086, 932, 9884}

ज॒ज्ञि॒षे¦इ॒त्था¦गो॒ऽपीथ्या᳚य¦हि¦द॒धाथ॑¦तत्¦पु॒रू॒र॒वः॒¦मे॒¦ओजः॑ |
अशा᳚स‌म्¦त्वा॒¦वि॒दुषी᳚¦सस्मि॑न्¦अह॑न्¦न¦मे॒¦आ¦अ॒शृ॒णोः॒¦कि‌म्¦अ॒भुक्¦व॒दा॒सि॒ ||

क॒दा सू॒नुः पि॒तरं᳚ जा॒त इ॑च्छाच्च॒क्रन्नाश्रु॑ वर्तयद्विजा॒नन् |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

को दम्प॑ती॒ सम॑नसा॒ वि यू᳚यो॒दध॒ यद॒ग्निः श्वशु॑रेषु॒ दीद॑यत् ||{12/18}{10.95.12}{10.8.5.12}{8.5.3.2}{1087, 932, 9885}

क॒दा¦सू॒नुः¦पि॒तर᳚‌म्¦जा॒तः¦इ॒च्छा॒त्¦च॒क्रन्¦न¦अश्रु॑¦व॒र्त॒य॒त्¦वि॒ऽजा॒नन् |
कः¦दंप॑ती॒ इति॒ द‌म्ऽप॑ती¦सऽम॑नसा¦वि¦यू॒यो॒त्¦अध॑¦यत्¦अ॒ग्निः¦श्वशु॑रेषु¦दीद॑यत् ||

प्रति॑ ब्रवाणि व॒र्तय॑ते॒, अश्रु॑ च॒क्रन्न क्र᳚न्ददा॒ध्ये᳚ शि॒वायै᳚ |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

प्र तत्ते᳚ हिनवा॒ यत्ते᳚, अ॒स्मे परे॒ह्यस्तं᳚ न॒हि मू᳚र॒ मापः॑ ||{13/18}{10.95.13}{10.8.5.13}{8.5.3.3}{1088, 932, 9886}

प्रति॑¦ब्र॒वा॒णि॒¦व॒र्तय॑ते¦अश्रु॑¦च॒क्रन्¦न¦क्र॒न्द॒त्¦आ॒ऽध्ये᳚¦शि॒वायै᳚ |
प्र¦तत्¦ते॒¦हि॒न॒व॒¦यत्¦ते॒¦अ॒स्मे इति॑¦परा᳚¦इ॒हि॒¦अस्त᳚‌म्¦न॒हि¦मू॒र॒¦मा॒¦आपः॑ ||

सु॒दे॒वो, अ॒द्य प्र॒पते॒दना᳚वृत्परा॒वतं᳚ पर॒मां गन्त॒वा, उ॑ |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

अधा॒ शयी᳚त॒ निरृ॑तेरु॒पस्थेऽधै᳚नं॒ वृका᳚ रभ॒सासो᳚, अ॒द्युः ||{14/18}{10.95.14}{10.8.5.14}{8.5.3.4}{1089, 932, 9887}

सु॒ऽदे॒वः¦अ॒द्य¦प्र॒ऽपते᳚त्¦अना᳚वृत्¦प॒रा॒ऽवत᳚‌म्¦प॒र॒मा‌म्¦गन्त॒वै¦ऊँ॒ इति॑ |
अध॑¦शयी᳚त¦निःऽऋ॑तेः¦उ॒पऽस्थे᳚¦अध॑¦ए॒न॒‌म्¦वृकाः᳚¦र॒भ॒सासः॑¦अ॒द्युः ||

पुरू᳚रवो॒ मा मृ॑था॒ मा प्र प॑प्तो॒ मा त्वा॒ वृका᳚सो॒, अशि॑वास उ क्षन् |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

न वै स्त्रैणा᳚नि स॒ख्यानि॑ सन्ति सालावृ॒काणां॒ हृद॑यान्ये॒ता ||{15/18}{10.95.15}{10.8.5.15}{8.5.3.5}{1090, 932, 9888}

पुरू᳚रवः¦मा¦मृ॒थाः॒¦मा¦प्र¦प॒प्तः॒¦मा¦त्वा॒¦वृका᳚सः¦अशि॑वासः¦ऊँ॒ इति॑¦क्ष॒न् |
न¦वै¦स्त्रैणा᳚नि¦स॒ख्यानि॑¦स॒न्ति॒¦सा॒ला॒वृ॒काणा᳚‌म्¦हृद॑यानि¦ए॒ता ||

यद्विरू॒पाच॑रं॒ मर्त्ये॒ष्वव॑सं॒ रात्रीः᳚ श॒रद॒श्चत॑स्रः |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

घृ॒तस्य॑ स्तो॒कं स॒कृदह्न॑ आश्नां॒ तादे॒वेदं ता᳚तृपा॒णा च॑रामि ||{16/18}{10.95.16}{10.8.5.16}{8.5.4.1}{1091, 932, 9889}

यत्¦विऽरू᳚पा¦अच॑र‌म्¦मर्त्ये᳚षु¦अव॑स‌म्¦रात्रीः᳚¦श॒रदः॑¦चत॑स्रः |
घृ॒तस्य॑¦स्तो॒क‌म्¦स॒कृत्¦अह्नः॑¦आ॒श्ना॒‌म्¦तात्¦ए॒व¦इ॒द‌म्¦त॒तृ॒पा॒णा¦च॒रा॒मि॒ ||

अ॒न्त॒रि॒क्ष॒प्रां रज॑सो वि॒मानी॒मुप॑ शिक्षाम्यु॒र्वशीं॒ वसि॑ष्ठः |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

उप॑ त्वा रा॒तिः सु॑कृ॒तस्य॒ तिष्ठा॒न्नि व॑र्तस्व॒ हृद॑यं तप्यते मे ||{17/18}{10.95.17}{10.8.5.17}{8.5.4.2}{1092, 932, 9890}

अ॒न्त॒रि॒क्ष॒ऽप्रा‌म्¦रज॑सः¦वि॒ऽमानी᳚‌म्¦उप॑¦शि॒क्षा॒मि॒¦उ॒र्वशी᳚‌म्¦वसि॑ष्ठः |
उप॑¦त्वा॒¦रा॒तिः¦सु॒ऽकृ॒तस्य॑¦तिष्ठा᳚त्¦नि¦व॒र्त॒स्व॒¦हृद॑य‌म्¦त॒प्य॒ते॒¦मे॒ ||

इति॑ त्वा दे॒वा, इ॒म आ᳚हुरैळ॒ यथे᳚मे॒तद्‌ भव॑सि मृ॒त्युब᳚न्धुः |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

प्र॒जा ते᳚ दे॒वान्‌ ह॒विषा᳚ यजाति स्व॒र्ग उ॒ त्वमपि॑ मादयासे ||{18/18}{10.95.18}{10.8.5.18}{8.5.4.3}{1093, 932, 9891}

इति॑¦त्वा॒¦दे॒वाः¦इ॒मे¦आ॒हुः॒¦ऐ॒ळ॒¦यथा᳚¦ई॒‌म्¦ए॒तत्¦भव॑सि¦मृ॒त्युऽब᳚न्धुः |
प्र॒ऽजा¦ते॒¦दे॒वान्¦ह॒विषा᳚¦य॒जा॒ति॒¦स्वः॒ऽगे¦ऊँ॒ इति॑¦त्व‌म्¦अपि॑¦मा॒द॒या॒से॒ ||

[96] प्रतइति त्रयोदशर्चस्य सूक्तस्यांगिरसोबरुर्हरिर्जगत्यंत्येद्वेत्रिष्टुभौ ( ऐंद्रः सर्वहरिर्वर्षिरत्र | हरिरितींद्रनाम | शौनकस्तु मुखतएवैतत्सूक्तर्मेंद्रमित्याह । हरिरितींद्राश्वनामेतिचकश्चित् । एवंहरिशब्दार्थे विप्रतिपत्तावप्याकरो दितरिशब्दोच्चारणंयुक्तमुत्पश्यामः) |
प्र ते᳚ म॒हे वि॒दथे᳚ शंसिषं॒ हरी॒ प्र ते᳚ वन्वे व॒नुषो᳚ हर्य॒तं मद᳚म् |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

घृ॒तं न यो हरि॑भि॒श्चारु॒ सेच॑त॒ आ त्वा᳚ विशन्तु॒ हरि॑वर्पसं॒ गिरः॑ ||{1/13}{10.96.1}{10.8.6.1}{8.5.5.1}{1094, 933, 9892}

प्र¦ते॒¦म॒हे¦वि॒दथे᳚¦श॒म्सि॒ष॒‌म्¦हरी॒ इति॑¦प्र¦ते॒¦व॒न्वे॒¦व॒नुषः॑¦ह॒र्य॒त‌म्¦मद᳚‌म् |
घृ॒त‌म्¦न¦यः¦हरि॑ऽभिः¦चारु॑¦सेच॑ते¦आ¦त्वा॒¦वि॒श॒न्तु॒¦हरि॑ऽवर्पस‌म्¦गिरः॑ ||

हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन्हि॒न्वन्तो॒ हरी᳚ दि॒व्यं यथा॒ सदः॑ |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

आ यं पृ॒णन्ति॒ हरि॑भि॒र्न धे॒नव॒ इन्द्रा᳚य शू॒षं हरि॑वन्तमर्चत ||{2/13}{10.96.2}{10.8.6.2}{8.5.5.2}{1095, 933, 9893}

हरि᳚‌म्¦हि¦योनि᳚‌म्¦अ॒भि¦ये¦स॒‌म्।आस्व॑रन्¦हि॒न्वन्तः॑¦हरी॒ इति॑¦दि॒व्य‌म्¦यथा᳚¦सदः॑ |
आ¦य‌म्¦पृ॒णन्ति॑¦हरि॑ऽभिः¦न¦धे॒नवः॑¦इन्द्रा᳚य¦शू॒ष‌म्¦हरि॑ऽवन्त‌म्¦अ॒र्च॒त॒ ||

सो, अ॑स्य॒ वज्रो॒ हरि॑तो॒ य आ᳚य॒सो हरि॒र्निका᳚मो॒ हरि॒रा गभ॑स्त्योः |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

द्यु॒म्नी सु॑शि॒प्रो हरि॑मन्युसायक॒ इन्द्रे॒ नि रू॒पा हरि॑ता मिमिक्षिरे ||{3/13}{10.96.3}{10.8.6.3}{8.5.5.3}{1096, 933, 9894}

सः¦अ॒स्य॒¦वज्रः॑¦हरि॑तः¦यः¦आ॒य॒सः¦हरिः॑¦निऽका᳚मः¦हरिः॑¦आ¦गभ॑स्त्योः |
द्यु॒म्नी¦सु॒ऽशि॒प्रः¦हरि॑मन्युऽसायकः¦इन्द्रे᳚¦नि¦रू॒पा¦हरि॑ता¦मि॒मि॒क्षि॒रे॒ ||

दि॒वि न के॒तुरधि॑ धायि हर्य॒तो वि॒व्यच॒द्वज्रो॒ हरि॑तो॒ न रंह्या᳚ |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

तु॒ददहिं॒ हरि॑शिप्रो॒ य आ᳚य॒सः स॒हस्र॑शोका, अभवद्धरिम्भ॒रः ||{4/13}{10.96.4}{10.8.6.4}{8.5.5.4}{1097, 933, 9895}

दि॒वि¦न¦के॒तुः¦अधि॑¦धा॒यि॒¦ह॒र्य॒तः¦वि॒व्यच॑त्¦वज्रः॑¦हरि॑तः¦न¦रंह्या᳚ |
तु॒दत्¦अहि᳚‌म्¦हरि॑ऽशिप्रः¦यः¦आ॒य॒सः¦स॒हस्र॑ऽशोकाः¦अ॒भ॒व॒त्¦ह॒रि॒‌म्ऽभ॒रः ||

त्वंत्व॑महर्यथा॒, उप॑स्तुतः॒ पूर्वे᳚भिरिन्द्र हरिकेश॒ यज्व॑भिः |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

त्वं ह᳚र्यसि॒ तव॒ विश्व॑मु॒क्थ्य१॑(अ॒)मसा᳚मि॒ राधो᳚ हरिजात हर्य॒तम् ||{5/13}{10.96.5}{10.8.6.5}{8.5.5.5}{1098, 933, 9896}

त्व‌म्ऽत्व᳚‌म्¦अ॒ह॒र्य॒थाः॒¦उप॑ऽस्तुतः¦पूर्वे᳚भिः¦इ॒न्द्र॒¦ह॒रि॒ऽके॒श॒¦यज्व॑ऽभिः |
त्व‌म्¦ह॒र्य॒सि॒¦तव॑¦विश्व᳚‌म्¦उ॒क्थ्य᳚‌म्¦असा᳚मि¦राधः॑¦ह॒रि॒ऽजा॒त॒¦ह॒र्य॒त‌म् ||

ता व॒ज्रिणं᳚ म॒न्दिनं॒ स्तोम्यं॒ मद॒ इन्द्रं॒ रथे᳚ वहतो हर्य॒ता हरी᳚ |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

पु॒रूण्य॑स्मै॒ सव॑नानि॒ हर्य॑त॒ इन्द्रा᳚य॒ सोमा॒ हर॑यो दधन्‌ विरे ||{6/13}{10.96.6}{10.8.6.6}{8.5.6.1}{1099, 933, 9897}

ता¦व॒ज्रिण᳚‌म्¦म॒न्दिन᳚‌म्¦स्तोम्य᳚‌म्¦मदे᳚¦इन्द्र᳚‌म्¦रथे᳚¦व॒ह॒तः॒¦ह॒र्य॒ता¦हरी॒ इति॑ |
पु॒रूणि॑¦अ॒स्मै॒¦सव॑नानि¦हर्य॑ते¦इन्द्रा᳚य¦सोमाः᳚¦हर॑यः¦द॒ध॒न्वि॒रे॒ ||

अरं॒ कामा᳚य॒ हर॑यो दधन्‌ विरे स्थि॒राय॑ हिन्व॒न्हर॑यो॒ हरी᳚ तु॒रा |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

अर्व॑द्भि॒र्यो हरि॑भि॒र्जोष॒मीय॑ते॒ सो, अ॑स्य॒ कामं॒ हरि॑वन्तमानशे ||{7/13}{10.96.7}{10.8.6.7}{8.5.6.2}{1100, 933, 9898}

अर᳚‌म्¦कामा᳚य¦हर॑यः¦द॒ध॒न्वि॒रे॒¦स्थि॒राय॑¦हि॒न्व॒न्¦हर॑यः¦हरी॒ इति॑¦तु॒रा |
अर्व॑त्ऽभिः¦यः¦हरि॑ऽभिः¦जोष᳚‌म्¦ईय॑ते¦सः¦अ॒स्य॒¦काम᳚‌म्¦हरि॑ऽवन्त‌म्¦आ॒न॒शे॒ ||

हरि॑श्मशारु॒र्हरि॑केश आय॒सस्तु॑र॒स्पेये॒ यो ह॑रि॒पा, अव॑र्धत |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

अर्व॑द्भि॒र्यो हरि॑भिर्वा॒जिनी᳚वसु॒रति॒ विश्वा᳚ दुरि॒ता पारि॑ष॒द्धरी᳚ ||{8/13}{10.96.8}{10.8.6.8}{8.5.6.3}{1101, 933, 9899}

हरि॑ऽश्मशारुः¦हरि॑ऽकेशः¦आ॒य॒सः¦तु॒रः॒ऽपेये᳚¦यः¦ह॒रि॒ऽपाः¦अव॑र्धत |
अर्व॑त्ऽभिः¦यः¦हरि॑ऽभिः¦वा॒जिनी᳚ऽवसुः¦अति॑¦विश्वा᳚¦दुः॒ऽ‌इ॒ता¦पारि॑षत्¦हरी॒ इति॑ ||

स्रुवे᳚व॒ यस्य॒ हरि॑णी विपे॒ततुः॒ शिप्रे॒ वाजा᳚य॒ हरि॑णी॒ दवि॑ध्वतः |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

प्र यत्कृ॒ते च॑म॒से मर्मृ॑ज॒द्धरी᳚ पी॒त्वा मद॑स्य हर्य॒तस्यान्ध॑सः ||{9/13}{10.96.9}{10.8.6.9}{8.5.6.4}{1102, 933, 9900}

स्रुवा᳚ऽ‌इव¦यस्य॑¦हरि॑णी॒ इति॑¦वि॒ऽपे॒ततुः॑¦शिप्रे॒ इति॑¦वाजा᳚य¦हरि॑णी॒ इति॑¦दवि॑ध्वतः |
प्र¦यत्¦कृ॒ते¦च॒म॒से¦मर्मृ॑जत्¦हरी॒ इति॑¦पी॒त्वा¦मद॑स्य¦ह॒र्य॒तस्य॑¦अन्ध॑सः ||

उ॒त स्म॒ सद्म॑ हर्य॒तस्य॑ प॒स्त्यो॒३॑(ओ॒)रत्यो॒ न वाजं॒ हरि॑वाँ, अचिक्रदत् |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

म॒ही चि॒द्धि धि॒षणाह᳚र्य॒दोज॑सा बृ॒हद्वयो᳚ दधिषे हर्य॒तश्चि॒दा ||{10/13}{10.96.10}{10.8.6.10}{8.5.6.5}{1103, 933, 9901}

उ॒त¦स्म॒¦सद्म॑¦ह॒र्य॒तस्य॑¦प॒स्त्योः᳚¦अत्यः॑¦न¦वाज᳚‌म्¦हरि॑ऽवान्¦अ॒चि॒क्र॒द॒त् |
म॒ही¦चि॒त्¦हि¦धि॒षणा᳚¦अह᳚र्यत्¦ओज॑सा¦बृ॒हत्¦वयः॑¦द॒धि॒षे॒¦ह॒र्य॒तः¦चि॒त्¦आ ||

आ रोद॑सी॒ हर्य॑माणो महि॒त्वा नव्यं᳚नव्यं हर्यसि॒ मन्म॒ नु प्रि॒यम् |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

प्र प॒स्त्य॑मसुर हर्य॒तं गोरा॒विष्कृ॑धि॒ हर॑ये॒ सूर्या᳚य ||{11/13}{10.96.11}{10.8.6.11}{8.5.7.1}{1104, 933, 9902}

आ¦रोद॑सी॒ इति॑¦हर्य॑माणः¦म॒हि॒ऽत्वा¦नव्य᳚‌म्ऽनव्य‌म्¦ह॒र्य॒सि॒¦मन्म॑¦नु¦प्रि॒य‌म् |
प्र¦प॒स्त्य᳚‌म्¦अ॒सु॒र॒¦ह॒र्य॒त‌म्¦गोः¦आ॒विः¦कृ॒धि॒¦हर॑ये¦सूर्या᳚य ||

आ त्वा᳚ ह॒र्यन्तं᳚ प्र॒युजो॒ जना᳚नां॒ रथे᳚ वहन्तु॒ हरि॑शिप्रमिन्द्र |{आङ्गिरसो बरुः | हरिस्तुतिः | त्रिष्टुप्}

पिबा॒ यथा॒ प्रति॑भृतस्य॒ मध्वो॒ हर्य᳚न्‌ य॒ज्ञं स॑ध॒मादे॒ दशो᳚णिम् ||{12/13}{10.96.12}{10.8.6.12}{8.5.7.2}{1105, 933, 9903}

आ¦त्वा॒¦ह॒र्यन्त᳚‌म्¦प्र॒ऽयुजः॑¦जना᳚ना‌म्¦रथे᳚¦व॒ह॒न्तु॒¦हरि॑ऽशिप्र‌म्¦इ॒न्द्र॒ |
पिब॑¦यथा᳚¦प्रति॑ऽभृतस्य¦मध्वः॑¦हर्य॑न्¦य॒ज्ञ‌म्¦स॒ध॒ऽमादे᳚¦दश॑ऽओणि‌म् ||

अपाः॒ पूर्वे᳚षां हरिवः सु॒ताना॒मथो᳚, इ॒दं सव॑नं॒ केव॑लं ते |{आङ्गिरसो बरुः | हरिस्तुतिः | त्रिष्टुप्}

म॒म॒द्धि सोमं॒ मधु॑मन्तमिन्द्र स॒त्रा वृ॑षञ्ज॒ठर॒ आ वृ॑षस्व ||{13/13}{10.96.13}{10.8.6.13}{8.5.7.3}{1106, 933, 9904}

अपाः᳚¦पूर्वे᳚षा‌म्¦ह॒रि॒ऽवः॒¦सु॒ताना᳚‌म्¦अथो॒ इति॑¦इ॒द‌म्¦सव॑न‌म्¦केव॑ल‌म्¦ते॒ |
म॒म॒द्धि¦सोम᳚‌म्¦मधु॑ऽमन्त‌म्¦इ॒न्द्र॒¦स॒त्रा¦वृ॒ष॒न्¦ज॒ठरे᳚¦आ¦वृ॒ष॒स्व॒ ||

[97] याओषधीरिति त्रयोविंशत्यृचस्य सूक्तस्याथर्वणोभिषगोषधयोनुष्टुप् |
या, ओष॑धीः॒ पूर्वा᳚ जा॒ता दे॒वेभ्य॑स्त्रियु॒गं पु॒रा |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

मनै॒ नु ब॒भ्रूणा᳚म॒हं श॒तं धामा᳚नि स॒प्त च॑ ||{1/23}{10.97.1}{10.8.7.1}{8.5.8.1}{1107, 934, 9905}

याः¦ओष॑धीः¦पूर्वाः᳚¦जा॒ताः¦दे॒वेभ्यः॑¦त्रि॒ऽयु॒ग‌म्¦पु॒रा | मनै᳚¦नु¦ब॒भ्रूणा᳚‌म्¦अ॒ह‌म्¦श॒त‌म्¦धामा᳚नि¦स॒प्त¦च॒ ||

श॒तं वो᳚, अम्ब॒ धामा᳚नि स॒हस्र॑मु॒त वो॒ रुहः॑ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

अधा᳚ शतक्रत्वो यू॒यमि॒मं मे᳚, अग॒दं कृ॑त ||{2/23}{10.97.2}{10.8.7.2}{8.5.8.2}{1108, 934, 9906}

श॒त‌म्¦वः॒¦अ॒म्ब॒¦धामा᳚नि¦स॒हस्र᳚‌म्¦उ॒त¦वः॒¦रुहः॑ | अध॑¦श॒त॒ऽक्र॒त्वः॒¦यू॒य‌म्¦इ॒म‌म्¦मे॒¦अ॒ग॒द‌म्¦कृ॒त॒ ||

ओष॑धीः॒ प्रति॑ मोदध्वं॒ पुष्प॑वतीः प्र॒सूव॑रीः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

अश्वा᳚, इव स॒जित्व॑रीर्वी॒रुधः॑ पारयि॒ष्ण्वः॑ ||{3/23}{10.97.3}{10.8.7.3}{8.5.8.3}{1109, 934, 9907}

ओष॑धीः¦प्रति॑¦मो॒द॒ध्व॒‌म्¦पुष्प॑ऽवतीः¦प्र॒ऽसूव॑रीः | अश्वाः᳚ऽ‌इव¦स॒ऽजित्व॑रीः¦वी॒रुधः॑¦पा॒र॒यि॒ष्ण्वः॑ ||

ओष॑धी॒रिति॑ मातर॒स्तद्वो᳚ देवी॒रुप॑ ब्रुवे |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

स॒नेय॒मश्वं॒ गां वास॑ आ॒त्मानं॒ तव॑ पूरुष ||{4/23}{10.97.4}{10.8.7.4}{8.5.8.4}{1110, 934, 9908}

ओष॑धीः¦इति॑¦मा॒त॒रः॒¦तत्¦वः॒¦दे॒वीः॒¦उप॑¦ब्रु॒वे॒ | स॒नेय᳚‌म्¦अश्व᳚‌म्¦गा‌म्¦वासः॑¦आ॒त्मान᳚‌म्¦तव॑¦पु॒रु॒ष॒ ||

अ॒श्व॒त्थे वो᳚ नि॒षद॑नं प॒र्णे वो᳚ वस॒तिष्कृ॒ता |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

गो॒भाज॒ इत्किला᳚सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् ||{5/23}{10.97.5}{10.8.7.5}{8.5.8.5}{1111, 934, 9909}

अ॒श्व॒त्थे¦वः॒¦नि॒ऽसद॑न‌म्¦प॒र्णे¦वः॒¦व॒स॒तिः¦कृ॒ता | गो॒ऽभाजः॑¦इत्¦किल॑¦अ॒स॒थ॒¦यत्¦स॒नव॑थ¦पुरु॑ष‌म् ||

यत्रौष॑धीः स॒मग्म॑त॒ राजा᳚नः॒ समि॑ताविव |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

विप्रः॒ स उ॑च्यते भि॒षग्र॑क्षो॒हामी᳚व॒चात॑नः ||{6/23}{10.97.6}{10.8.7.6}{8.5.9.1}{1112, 934, 9910}

यत्र॑¦ओष॑धीः¦स॒‌म्।आग्म॑त¦राजा᳚नः¦समि॑तौऽ‌इव | विप्रः॑¦सः¦उ॒च्य॒ते॒¦भि॒षक्¦र॒क्षः॒ऽहा¦अ॒मी॒व॒ऽचात॑नः ||

अ॒श्वा॒व॒तीं सो᳚माव॒तीमू॒र्जय᳚न्ती॒मुदो᳚जसम् |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

आवि॑त्सि॒ सर्वा॒, ओष॑धीर॒स्मा, अ॑रि॒ष्टता᳚तये ||{7/23}{10.97.7}{10.8.7.7}{8.5.9.2}{1113, 934, 9911}

अ॒श्व॒ऽव॒ती‌म्¦स॒म॒ऽव॒ती‌म्¦ऊ॒र्जय᳚न्ती‌म्¦उत्ऽओ᳚जस‌म् | आ¦अ॒वि॒त्सि॒¦सर्वाः᳚¦ओष॑धीः¦अ॒स्मै¦अ॒रि॒ष्टऽता᳚तये ||

उच्छुष्मा॒, ओष॑धीनां॒ गावो᳚ गो॒ष्ठादि॑वेरते |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

धनं᳚ सनि॒ष्यन्ती᳚नामा॒त्मानं॒ तव॑ पूरुष ||{8/23}{10.97.8}{10.8.7.8}{8.5.9.3}{1114, 934, 9912}

उत्¦शुष्माः᳚¦ओष॑धीना‌म्¦गावः॑¦गो॒स्थात्ऽ‌इ᳚व¦ई॒र॒ते॒ | धन᳚‌म्¦स॒नि॒ष्यन्ती᳚ना‌म्¦आ॒त्मान᳚‌म्¦तव॑¦पु॒रु॒ष॒ ||

इष्कृ॑ति॒र्नाम॑ वो मा॒ताथो᳚ यू॒यं स्थ॒ निष्कृ॑तीः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

सी॒राः प॑त॒त्रिणीः᳚ स्थन॒ यदा॒मय॑ति॒ निष्कृ॑थ ||{9/23}{10.97.9}{10.8.7.9}{8.5.9.4}{1115, 934, 9913}

इष्कृ॑तिः¦नाम॑¦वः॒¦मा॒ता¦अथो॒ इति॑¦यू॒य‌म्¦स्थ॒¦निःऽकृ॑तीः | सी॒राः¦प॒त॒त्रिणीः᳚¦स्थ॒न॒¦यत्¦आ॒मय॑ति¦निः¦कृ॒थ॒ ||

अति॒ विश्वाः᳚ परि॒ष्ठाः स्ते॒न इ॑व व्र॒जम॑क्रमुः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

ओष॑धीः॒ प्राचु॑च्यवु॒र्यत्किं च॑ त॒न्वो॒३॑(ओ॒) रपः॑ ||{10/23}{10.97.10}{10.8.7.10}{8.5.9.5}{1116, 934, 9914}

अति॑¦विश्वाः᳚¦प॒रि॒ऽस्थाः¦स्ते॒नःऽ‌इ᳚व¦व्र॒ज‌म्¦अ॒क्र॒मुः॒ | ओष॑धीः¦प्र¦अ॒चु॒च्य॒वुः॒¦यत्¦कि‌म्¦च॒¦त॒न्वः॑¦रपः॑ ||

यदि॒मा वा॒जय᳚न्न॒हमोष॑धी॒र्हस्त॑ आद॒धे |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी᳚व॒गृभो᳚ यथा ||{11/23}{10.97.11}{10.8.7.11}{8.5.10.1}{1117, 934, 9915}

यत्¦इ॒माः¦वा॒जय॑न्¦अ॒ह‌म्¦ओष॑धीः¦हस्ते᳚¦आ॒ऽद॒धे | आ॒त्मा¦यक्ष्म॑स्य¦न॒श्य॒ति॒¦पु॒रा¦जी॒व॒ऽगृभः॑¦य॒था॒ ||

यस्यौ᳚षधीः प्र॒सर्प॒थाङ्ग॑मङ्गं॒ परु॑ष्परुः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

ततो॒ यक्ष्मं॒ वि बा᳚धध्व उ॒ग्रो म॑ध्यम॒शीरि॑व ||{12/23}{10.97.12}{10.8.7.12}{8.5.10.2}{1118, 934, 9916}

यस्य॑¦ओ॒ष॒धीः॒¦प्र॒ऽसर्प॑थ¦अङ्ग᳚‌म्।आङ्ग‌म्¦परुः॑ऽपरुः | ततः॑¦यक्ष्म᳚‌म्¦वि¦बा॒ध॒ध्वे॒¦उ॒ग्रः¦म॒ध्य॒म॒शीःऽ‌इ᳚व ||

सा॒कं य॑क्ष्म॒ प्र प॑त॒ चाषे᳚ण किकिदी॒विना᳚ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

सा॒कं वात॑स्य॒ ध्राज्या᳚ सा॒कं न॑श्य नि॒हाक॑या ||{13/23}{10.97.13}{10.8.7.13}{8.5.10.3}{1119, 934, 9917}

सा॒क‌म्¦य॒क्ष्म॒¦प्र¦प॒त॒¦चाषे᳚ण¦कि॒कि॒दी॒विना᳚ | सा॒क‌म्¦वात॑स्य¦ध्राज्या᳚¦सा॒क‌म्¦न॒श्य॒¦नि॒ऽहाक॑या ||

अ॒न्या वो᳚, अ॒न्याम॑वत्व॒न्यान्यस्या॒, उपा᳚वत |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

ताः सर्वाः᳚ संविदा॒ना, इ॒दं मे॒ प्राव॑ता॒ वचः॑ ||{14/23}{10.97.14}{10.8.7.14}{8.5.10.4}{1120, 934, 9918}

अ॒न्या¦वः॒¦अ॒न्या‌म्¦अ॒व॒तु॒¦अ॒न्या¦अ॒न्यस्याः᳚¦उप॑¦अ॒व॒त॒ | ताः¦सर्वाः᳚¦स॒‌म्ऽवि॒दा॒नाः¦इ॒द‌म्¦मे॒¦प्र¦अ॒व॒त॒¦वचः॑ ||

याः फ॒लिनी॒र्या, अ॑फ॒ला, अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः᳚ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

बृह॒स्पति॑प्रसूता॒स्ता नो᳚ मुञ्च॒न्त्वंह॑सः ||{15/23}{10.97.15}{10.8.7.15}{8.5.10.5}{1121, 934, 9919}

याः¦फ॒लिनीः᳚¦याः¦अ॒फ॒लाः¦अ॒पु॒ष्पाः¦याः¦च॒¦पु॒ष्पिणीः᳚ | बृह॒स्पति॑ऽप्रसूताः¦ताः¦नः॒¦मुं॒च॒न्तु॒¦अंह॑सः ||

मु॒ञ्चन्तु॑ मा शप॒थ्या॒३॑(आ॒)दथो᳚ वरु॒ण्या᳚दु॒त |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

अथो᳚ य॒मस्य॒ पड्बी᳚शा॒त्सर्व॑स्माद्देवकिल्बि॒षात् ||{16/23}{10.97.16}{10.8.7.16}{8.5.11.1}{1122, 934, 9920}

मुं॒चन्तु॑¦मा॒¦श॒प॒थ्या᳚त्¦अथो॒ इति॑¦व॒रु॒ण्या᳚त्¦उ॒त | अथो॒ इति॑¦य॒मस्य॑¦पड्बी᳚शात्¦सर्व॑स्मात्¦दे॒व॒ऽकि॒ल्बि॒षात् ||

अ॒व॒पत᳚न्तीरवदन्दि॒व ओष॑धय॒स्परि॑ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

यं जी॒वम॒श्नवा᳚महै॒ न स रि॑ष्याति॒ पूरु॑षः ||{17/23}{10.97.17}{10.8.7.17}{8.5.11.2}{1123, 934, 9921}

अ॒व॒ऽपत᳚न्तीः¦अ॒व॒द॒न्¦दि॒वः¦ओष॑धयः¦परि॑ | य‌म्¦जी॒व‌म्¦अ॒श्नवा᳚महै¦न¦सः¦रि॒ष्या॒ति॒¦पुरु॑षः ||

या, ओष॑धीः॒ सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

तासां॒ त्वम॑स्युत्त॒मारं॒ कामा᳚य॒ शं हृ॒दे ||{18/23}{10.97.18}{10.8.7.18}{8.5.11.3}{1124, 934, 9922}

याः¦ओष॑धीः¦सोम॑ऽराज्ञीः¦ब॒ह्वीः¦श॒तऽवि॑चक्षणाः | तासा᳚‌म्¦त्व‌म्¦अ॒सि॒¦उ॒त्ऽत॒मा¦अर᳚‌म्¦कामा᳚य¦श‌म्¦हृ॒दे ||

या, ओष॑धीः॒ सोम॑राज्ञी॒र्विष्ठि॑ताः पृथि॒वीमनु॑ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

बृह॒स्पति॑प्रसूता, अ॒स्यै सं द॑त्त वी॒र्य᳚म् ||{19/23}{10.97.19}{10.8.7.19}{8.5.11.4}{1125, 934, 9923}

याः¦ओष॑धीः¦सोम॑ऽराज्ञीः¦विऽस्थि॑ताः¦पृ॒थि॒वी‌म्¦अनु॑ | बृ॒ह॒स्पति॑ऽप्रसूताः¦अ॒स्यै¦स‌म्¦द॒त्त॒¦वी॒र्य᳚‌म् ||

मा वो᳚ रिषत्खनि॒ता यस्मै᳚ चा॒हं खना᳚मि वः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

द्वि॒पच्चतु॑ष्पद॒स्माकं॒ सर्व॑मस्त्वनातु॒रम् ||{20/23}{10.97.20}{10.8.7.20}{8.5.11.5}{1126, 934, 9924}

मा¦वः॒¦रि॒ष॒त्¦ख॒नि॒ता¦यस्मै᳚¦च॒¦अ॒ह‌म्¦खना᳚मि¦वः॒ | द्वि॒ऽपत्¦चतुः॑ऽपत्¦अ॒स्माक᳚‌म्¦सर्व᳚‌म्¦अ॒स्तु॒¦अ॒ना॒तु॒र‌म् ||

याश्चे॒दमु॑पशृ॒ण्वन्ति॒ याश्च॑ दू॒रं परा᳚गताः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

सर्वाः᳚ सं॒गत्य॑ वीरुधो॒ऽस्यै सं द॑त्त वी॒र्य᳚म् ||{21/23}{10.97.21}{10.8.7.21}{8.5.11.6}{1127, 934, 9925}

याः¦च॒¦इ॒द‌म्¦उ॒प॒ऽशृ॒ण्वन्ति॑¦याः¦च॒¦दू॒र‌म्¦परा᳚ऽगताः | सर्वाः᳚¦स॒‌म्ऽगत्य॑¦वी॒रु॒धः॒¦अ॒स्यै¦स‌म्¦द॒त्त॒¦वी॒र्य᳚‌म् ||

ओष॑धयः॒ सं व॑दन्ते॒ सोमे᳚न स॒ह राज्ञा᳚ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

यस्मै᳚ कृ॒णोति॑ ब्राह्म॒णस्तं रा᳚जन्‌ पारयामसि ||{22/23}{10.97.22}{10.8.7.22}{8.5.11.7}{1128, 934, 9926}

ओष॑धयः¦स‌म्¦व॒द॒न्ते॒¦सोमे᳚न¦स॒ह¦राज्ञा᳚ | यस्मै᳚¦कृ॒णोति॑¦ब्रा॒ह्म॒णः¦त‌म्¦रा॒ज॒न्¦पा॒र॒या॒म॒सि॒ ||

त्वमु॑त्त॒मास्यो᳚षधे॒ तव॑ वृ॒क्षा, उप॑स्तयः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

उप॑स्तिरस्तु॒ सो॒३॑(ओ॒)ऽस्माकं॒ यो, अ॒स्माँ, अ॑भि॒दास॑ति ||{23/23}{10.97.23}{10.8.7.23}{8.5.11.8}{1129, 934, 9927}

त्व‌म्¦उ॒त्ऽत॒मा¦अ॒सि॒¦ओ॒ष॒धे॒¦तव॑¦वृ॒क्षाः¦उप॑स्तयः | उप॑स्तिः¦अ॒स्तु॒¦सः¦अ॒स्माक᳚‌म्¦यः¦अ॒स्मान्¦अ॒भि॒ऽदास॑ति ||

[98] बृहस्पत इति द्वादशर्चस्य सूक्तस्यार्ष्टिषेणो देवापिर्देवास्त्रिष्टुप् | (शौनकस्त्वस्मिन्सूक्ते आद्यानांचतसृणां बृहस्पतिस्ततश्चतसृणां देवास्ततः पंचानामग्निरित्येवं देवताव्यवस्थामाह) |
बृह॑स्पते॒ प्रति॑ मे दे॒वता᳚मिहि मि॒त्रो वा॒ यद्वरु॑णो॒ वासि॑ पू॒षा |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

आ॒दि॒त्यैर्वा॒ यद्वसु॑भिर्म॒रुत्वा॒न्‌ त्स प॒र्जन्यं॒ शंत॑नवे वृषाय ||{1/12}{10.98.1}{10.8.8.1}{8.5.12.1}{1130, 935, 9928}

बृह॑स्पते¦प्रति॑¦मे॒¦दे॒वता᳚‌म्¦इ॒हि॒¦मि॒त्रः¦वा॒¦यत्¦वरु॑णः¦वा॒¦अ॒सि॒¦पू॒षा |
आ॒दि॒त्यैः¦वा॒¦यत्¦वसु॑ऽभिः¦म॒रुत्वा᳚न्¦सः¦प॒र्जन्य᳚‌म्¦श‌म्ऽत॑नवे¦वृ॒ष॒य॒ ||

आ दे॒वो दू॒तो, अ॑जि॒रश्चि॑कि॒त्वान्‌ त्वद्दे᳚वापे, अ॒भि माम॑गच्छत् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

प्र॒ती॒ची॒नः प्रति॒ मामा व॑वृत्स्व॒ दधा᳚मि ते द्यु॒मतीं॒ वाच॑मा॒सन् ||{2/12}{10.98.2}{10.8.8.2}{8.5.12.2}{1131, 935, 9929}

आ¦दे॒वः¦दू॒तः¦अ॒जि॒रः¦चि॒कि॒त्वान्¦त्वत्¦दे॒व॒ऽआ॒पे॒¦अ॒भि¦मा‌म्¦अ॒ग॒च्छ॒त् |
प्र॒ती॒ची॒नः¦प्रति॑¦मा‌म्¦आ¦व॒वृ॒त्स्व॒¦दधा᳚मि¦ते॒¦द्यु॒ऽमती᳚‌म्¦वाच᳚‌म्¦आ॒सन् ||

अ॒स्मे धे᳚हि द्यु॒मतीं॒ वाच॑मा॒सन्‌ बृह॑स्पते, अनमी॒वामि॑षि॒राम् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

यया᳚ वृ॒ष्टिं शंत॑नवे॒ वना᳚व दि॒वो द्र॒प्सो मधु॑माँ॒, आ वि॑वेश ||{3/12}{10.98.3}{10.8.8.3}{8.5.12.3}{1132, 935, 9930}

अ॒स्मे इति॑¦धे॒हि॒¦द्यु॒ऽमती᳚‌म्¦वाच᳚‌म्¦आ॒सन्¦बृह॑स्पते¦अ॒न॒मी॒वा‌म्¦इ॒षि॒रा‌म् |
यया᳚¦वृ॒ष्टि‌म्¦श‌म्ऽत॑नवे¦वना᳚व¦दि॒वः¦द्र॒प्सः¦मधु॑ऽमान्¦आ¦वि॒वे॒श॒ ||

आ नो᳚ द्र॒प्सा मधु॑मन्तो विश॒न्त्विन्द्र॑ दे॒ह्यधि॑रथं स॒हस्र᳚म् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

नि षी᳚द हो॒त्रमृ॑तु॒था य॑जस्व दे॒वान्‌ दे᳚वापे ह॒विषा᳚ सपर्य ||{4/12}{10.98.4}{10.8.8.4}{8.5.12.4}{1133, 935, 9931}

आ¦नः॒¦द्र॒प्साः¦मधु॑ऽमन्तः¦वि॒श॒न्तु॒¦इन्द्र॑¦दे॒हि¦अधि॑ऽरथ‌म्¦स॒हस्र᳚‌म् |
नि¦सी॒द॒¦हो॒त्र‌म्¦ऋ॒तु॒ऽथा¦य॒ज॒स्व॒¦दे॒वान्¦दे॒व॒ऽआ॒पे॒¦ह॒विषा᳚¦स॒प॒र्य॒ ||

आ॒र्ष्टि॒षे॒णो हो॒त्रमृषि᳚र्नि॒षीद᳚न्दे॒वापि॑र्देवसुम॒तिं चि॑कि॒त्वान् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

स उत्त॑रस्मा॒दध॑रं समु॒द्रम॒पो दि॒व्या, अ॑सृजद्व॒र्ष्या᳚, अ॒भि ||{5/12}{10.98.5}{10.8.8.5}{8.5.12.5}{1134, 935, 9932}

आ॒र्ष्टि॒षे॒णः¦हो॒त्र‌म्¦ऋषिः॑¦नि॒ऽसीद॑न्¦दे॒वऽआ᳚पिः¦दे॒व॒ऽसु॒म॒ति‌म्¦चि॒कि॒त्वान् |
सः¦उत्ऽत॑रस्मात्¦अध॑र‌म्¦स॒मु॒द्र‌म्¦अ॒पः¦दि॒व्याः¦अ॒सृ॒ज॒त्¦व॒र्ष्याः᳚¦अ॒भि ||

अ॒स्मिन्‌ त्स॑मु॒द्रे, अध्युत्त॑रस्मि॒न्नापो᳚ दे॒वेभि॒र्निवृ॑ता, अतिष्ठन् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

ता, अ॑द्रवन्नार्ष्टिषे॒णेन॑ सृ॒ष्टा दे॒वापि॑ना॒ प्रेषि॑ता मृ॒क्षिणी᳚षु ||{6/12}{10.98.6}{10.8.8.6}{8.5.12.6}{1135, 935, 9933}

अ॒स्मिन्¦स॒मु॒द्रे¦अधि॑¦उत्ऽत॑रस्मिन्¦आपः॑¦दे॒वेभिः॑¦निऽवृ॑ताः¦अ॒ति॒ष्ठ॒न् |
ताः¦अ॒द्र॒व॒न्¦आ॒र्ष्टि॒षे॒णेन॑¦सृ॒ष्टाः¦दे॒वऽआ᳚पिना¦प्रऽ‌इ᳚षिताः¦मृ॒क्षिणी᳚षु ||

यद्दे॒वापिः॒ शंत॑नवे पु॒रोहि॑तो हो॒त्राय॑ वृ॒तः कृ॒पय॒न्नदी᳚धेत् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

दे॒व॒श्रुतं᳚ वृष्टि॒वनिं॒ ररा᳚णो॒ बृह॒स्पति॒र्वाच॑मस्मा, अयच्छत् ||{7/12}{10.98.7}{10.8.8.7}{8.5.13.1}{1136, 935, 9934}

यत्¦दे॒वऽआ᳚पिः¦श‌म्ऽत॑नवे¦पु॒रःऽहि॑तः¦हो॒त्राय॑¦वृ॒तः¦कृ॒पय॑न्¦अदी᳚धेत् |
दे॒व॒ऽश्रुत᳚‌म्¦वृ॒ष्टि॒ऽवनि᳚‌म्¦ररा᳚णः¦बृह॒स्पतिः॑¦वाच᳚‌म्¦अ॒स्मै॒¦अ॒य॒च्छ॒त् ||

यं त्वा᳚ दे॒वापिः॑ शुशुचा॒नो, अ॑ग्न आर्ष्टिषे॒णो म॑नु॒ष्यः॑ समी॒धे |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

विश्वे᳚भिर्दे॒वैर॑नुम॒द्यमा᳚नः॒ प्र प॒र्जन्य॑मीरया वृष्टि॒मन्त᳚म् ||{8/12}{10.98.8}{10.8.8.8}{8.5.13.2}{1137, 935, 9935}

य‌म्¦त्वा॒¦दे॒वऽआ᳚पिः¦शु॒शु॒चा॒नः¦अ॒ग्ने॒¦आ॒र्ष्टि॒षे॒णः¦म॒नु॒ष्यः॑¦स॒‌म्ऽई॒धे |
विश्वे᳚भिः¦दे॒वैः¦अ॒नु॒ऽम॒द्यमा᳚नः¦प्र¦प॒र्जन्य᳚‌म्¦ई॒र॒य॒¦वृ॒ष्टि॒ऽमन्त᳚‌म् ||

त्वां पूर्व॒ ऋष॑यो गी॒र्भिरा᳚य॒न्त्वाम॑ध्व॒रेषु॑ पुरुहूत॒ विश्वे᳚ |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

स॒हस्रा॒ण्यधि॑रथान्य॒स्मे, आ नो᳚ य॒ज्ञं रो᳚हिद॒श्वोप॑ याहि ||{9/12}{10.98.9}{10.8.8.9}{8.5.13.3}{1138, 935, 9936}

त्वा‌म्¦पूर्वे᳚¦ऋष॑यः¦गीः॒ऽभिः¦आ॒य॒न्¦त्वा‌म्¦अ॒ध्व॒रेषु॑¦पु॒रु॒ऽहू॒त॒¦विश्वे᳚ |
स॒हस्रा᳚णि¦अधि॑ऽरथानि¦अ॒स्मे इति॑¦आ¦नः॒¦य॒ज्ञ‌म्¦रि॒हि॒त्।आ॒श्वा¦उप॑¦या॒हि॒ ||

ए॒तान्य॑ग्ने नव॒तिर्नव॒ त्वे, आहु॑ता॒न्यधि॑रथा स॒हस्रा᳚ |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

तेभि᳚र्वर्धस्व त॒न्वः॑ शूर पू॒र्वीर्दि॒वो नो᳚ वृ॒ष्टिमि॑षि॒तो रि॑रीहि ||{10/12}{10.98.10}{10.8.8.10}{8.5.13.4}{1139, 935, 9937}

ए॒तानि॑¦अ॒ग्ने॒¦न॒व॒तिः¦नव॑¦त्वे इति॑¦आऽहु॑तानि¦अधि॑ऽरथा¦स॒हस्रा᳚ |
तेभिः॑¦व॒र्ध॒स्व॒¦त॒न्वः॑¦शू॒र॒¦पू॒र्वीः¦दि॒वः¦नः॒¦वृ॒ष्टि‌म्¦इ॒षि॒तः¦रि॒री॒हि॒ ||

ए॒तान्य॑ग्ने नव॒तिं स॒हस्रा॒ सं प्र य॑च्छ॒ वृष्ण॒ इन्द्रा᳚य भा॒गम् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

वि॒द्वान्‌ प॒थ ऋ॑तु॒शो दे᳚व॒याना॒नप्यौ᳚ला॒नं दि॒वि दे॒वेषु॑ धेहि ||{11/12}{10.98.11}{10.8.8.11}{8.5.13.5}{1140, 935, 9938}

ए॒तानि॑¦अ॒ग्ने॒¦न॒व॒ति‌म्¦स॒हस्रा᳚¦स‌म्¦प्र¦य॒च्छ॒¦वृष्णे᳚¦इन्द्रा᳚य¦भा॒ग‌म् |
वि॒द्वान्¦प॒थः¦ऋ॒तु॒ऽशः¦दे॒व॒ऽयाना᳚न्¦अपि॑¦औ॒ला॒न‌म्¦दि॒वि¦दे॒वेषु॑¦धे॒हि॒ ||

अग्ने॒ बाध॑स्व॒ वि मृधो॒ वि दु॒र्गहापामी᳚वा॒मप॒ रक्षां᳚सि सेध |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

अ॒स्मात्स॑मु॒द्राद्बृ॑ह॒तो दि॒वो नो॒ऽपां भू॒मान॒मुप॑ नः सृजे॒ह ||{12/12}{10.98.12}{10.8.8.12}{8.5.13.6}{1141, 935, 9939}

अग्ने᳚¦बाध॑स्व¦वि¦मृधः॑¦वि¦दुः॒ऽगहा᳚¦अप॑¦अमी᳚वा‌म्¦अप॑¦रक्षां᳚सि¦से॒ध॒ |
अ॒स्मात्¦स॒मु॒द्रात्¦बृ॒ह॒तः¦दि॒वः¦नः॒¦अ॒पा‌म्¦भू॒मान᳚‌म्¦उप॑¦नः॒¦सृ॒ज॒¦इ॒ह ||

[99] कन्नइति द्वादशर्चस्य सूक्तस्य वैखानसोवम्र इंद्रस्त्रिष्टुप् |
कं न॑श्चि॒त्रमि॑षण्यसि चिकि॒त्वान्‌ पृ॑थु॒ग्मानं᳚ वा॒श्रं वा᳚वृ॒धध्यै᳚ |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

कत्तस्य॒ दातु॒ शव॑सो॒ व्यु॑ष्टौ॒ तक्ष॒द्वज्रं᳚ वृत्र॒तुर॒मपि᳚न्वत् ||{1/12}{10.99.1}{10.8.9.1}{8.5.14.1}{1142, 936, 9940}

क‌म्¦नः॒¦चि॒त्र‌म्¦इ॒ष॒ण्य॒सि॒¦चि॒कि॒त्वान्¦पृ॒थु॒ऽग्मान᳚‌म्¦वा॒श्र‌म्¦व॒वृ॒धध्यै᳚ |
कत्¦तस्य॑¦दातु॑¦शव॑सः¦वि।औ᳚ष्टौ¦तक्ष॑त्¦वज्र᳚‌म्¦वृ॒त्र॒ऽतुर᳚‌म्¦अपि᳚न्वत् ||

स हि द्यु॒ता वि॒द्युता॒ वेति॒ साम॑ पृ॒थुं योनि॑मसुर॒त्वा स॑साद |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

स सनी᳚ळेभिः प्रसहा॒नो, अ॑स्य॒ भ्रातु॒र्न ऋ॒ते स॒प्तथ॑स्य मा॒याः ||{2/12}{10.99.2}{10.8.9.2}{8.5.14.2}{1143, 936, 9941}

सः¦हि¦द्यु॒ता¦वि॒ऽद्युता᳚¦वेति॑¦साम॑¦पृ॒थु‌म्¦योनि᳚‌म्¦अ॒सु॒र॒ऽत्वा¦आ¦स॒सा॒द॒ |
सः¦सऽनी᳚ळेभिः¦प्र॒ऽस॒हा॒नः¦अ॒स्य॒¦भ्रातुः॑¦न¦ऋ॒ते¦स॒प्तथ॑स्य¦मा॒याः ||

स वाजं॒ याताप॑दुष्पदा॒ यन्‌ त्स्व॑र्षाता॒ परि॑ षदत्सनि॒ष्यन् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

अ॒न॒र्वा यच्छ॒तदु॑रस्य॒ वेदो॒ घ्नञ्छि॒श्नदे᳚वाँ, अ॒भि वर्प॑सा॒ भूत् ||{3/12}{10.99.3}{10.8.9.3}{8.5.14.3}{1144, 936, 9942}

सः¦वाज᳚‌म्¦याता᳚¦अप॑दुःऽपदा¦यन्¦स्वः॑ऽसाता¦परि॑¦स॒द॒त्¦स॒नि॒ष्यन् |
अ॒न॒र्वा¦यत्¦श॒तऽदु॑रस्य¦वेदः॑¦घ्नन्¦शि॒श्नऽदे᳚वान्¦अ॒भि¦वर्प॑सा¦भूत् ||

स य॒ह्व्यो॒३॑(ओ॒)ऽवनी॒र्गोष्वर्वा जु॑होति प्रध॒न्या᳚सु॒ सस्रिः॑ |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

अ॒पादो॒ यत्र॒ युज्या᳚सोऽर॒था द्रो॒ण्य॑श्वास॒ ईर॑ते घृ॒तं वाः ||{4/12}{10.99.4}{10.8.9.4}{8.5.14.4}{1145, 936, 9943}

सः¦य॒ह्व्यः॑¦अ॒वनीः᳚¦गोषु॑¦अर्वा᳚¦आ¦जु॒हो॒ति॒¦प्र॒ऽध॒न्या᳚सु¦सस्रिः॑ |
अ॒पादः॑¦यत्र॑¦युज्या᳚सः¦अ॒र॒थाः¦द्रो॒णि।आ॑श्वासः¦ईर॑ते¦घृ॒त‌म्¦वाः ||

स रु॒द्रेभि॒रश॑स्तवार॒ ऋभ्वा᳚ हि॒त्वी गय॑मा॒रे,अ॑वद्य॒ आगा᳚त् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

व॒म्रस्य॑ मन्ये मिथु॒ना विव᳚व्री॒, अन्न॑म॒भीत्या᳚रोदयन्मुषा॒यन् ||{5/12}{10.99.5}{10.8.9.5}{8.5.14.5}{1146, 936, 9944}

सः¦रु॒द्रेभिः॑¦अश॑स्तऽवारः¦ऋभ्वा᳚¦हि॒त्वी¦गय᳚‌म्¦आ॒रे।आ॑वद्यः¦आ¦अ॒गा॒त् |
व॒म्रस्य॑¦म॒न्ये॒¦मि॒थु॒ना¦विव᳚व्री॒ इति॒ विऽव᳚व्री¦अन्न᳚‌म्¦अ॒भि॒ऽ‌इत्य॑¦अ॒रो॒द॒य॒त्¦मु॒षा॒यन् ||

स इद्दासं᳚ तुवी॒रवं॒ पति॒र्दन्ष॑ळ॒क्षं त्रि॑शी॒र्षाणं᳚ दमन्यत् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

अ॒स्य त्रि॒तो न्वोज॑सा वृधा॒नो वि॒पा व॑रा॒हमयो᳚अग्रया हन् ||{6/12}{10.99.6}{10.8.9.6}{8.5.14.6}{1147, 936, 9945}

सः¦इत्¦दास᳚‌म्¦तु॒वि॒ऽरव᳚‌म्¦पतिः॑¦दन्¦ष॒ट्।आ॒क्ष‌म्¦त्रि॒ऽशी॒र्षाण᳚‌म्¦द॒म॒न्य॒त् |
अ॒स्य¦त्रि॒तः¦नु¦ओज॑सा¦वृ॒धा॒नः¦वि॒पा¦व॒रा॒ह‌म्¦अयः॑।आग्रया¦ह॒न्निति॑ हन् ||

स द्रुह्व॑णे॒ मनु॑ष ऊर्ध्वसा॒न आ सा᳚विषदर्शसा॒नाय॒ शरु᳚म् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

स नृत॑मो॒ नहु॑षो॒ऽस्मत्सुजा᳚तः॒ पुरो᳚ऽभिन॒दर्ह᳚न्दस्यु॒हत्ये᳚ ||{7/12}{10.99.7}{10.8.9.7}{8.5.15.1}{1148, 936, 9946}

सः¦द्रुह्व॑णे¦मनु॑षे¦ऊ॒र्ध्व॒सा॒नः¦आ¦सा॒वि॒ष॒त्¦अ॒र्श॒सा॒नाय॑¦शरु᳚‌म् |
सः¦नृऽत॑मः¦नहु॑षः¦अ॒स्मत्¦सुऽजा᳚तः¦पुरः॑¦अ॒भि॒न॒त्¦अर्ह॑न्¦द॒स्यु॒ऽहत्ये᳚ ||

सो, अ॒भ्रियो॒ न यव॑स उद॒न्यन्‌ क्षया᳚य गा॒तुं वि॒दन्नो᳚, अ॒स्मे |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

उप॒ यत्सीद॒दिन्दुं॒ शरी᳚रैः श्ये॒नोऽयो᳚पाष्टिर्हन्ति॒ दस्यू॑न् ||{8/12}{10.99.8}{10.8.9.8}{8.5.15.2}{1149, 936, 9947}

सः¦अ॒भ्रियः॑¦न¦यव॑से¦उ॒द॒न्यन्¦क्षया᳚य¦गा॒तु‌म्¦वि॒दत्¦नः॒¦अ॒स्मे इति॑ |
उप॑¦यत्¦सीद॑त्¦इन्दु᳚‌म्¦शरी᳚रैः¦श्ये॒नः¦अयः॑।आपाष्टिः¦ह॒न्ति॒¦दस्यू॑न् ||

स व्राध॑तः शवसा॒नेभि॑रस्य॒ कुत्सा᳚य॒ शुष्णं᳚ कृ॒पणे॒ परा᳚दात् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

अ॒यं क॒विम॑नयच्छ॒स्यमा᳚न॒मत्कं॒ यो, अ॑स्य॒ सनि॑तो॒त नृ॒णाम् ||{9/12}{10.99.9}{10.8.9.9}{8.5.15.3}{1150, 936, 9948}

सः¦व्राध॑तः¦श॒व॒सा॒नेभिः॑¦अ॒स्य॒¦कुत्सा᳚य¦शुष्ण᳚‌म्¦कृ॒पणे᳚¦परा᳚¦अ॒दा॒त् |
अ॒य‌म्¦क॒वि‌म्¦अ॒न॒य॒त्¦श॒स्यमा᳚न‌म्¦अत्क᳚‌म्¦यः¦अ॒स्य॒¦सनि॑ता¦उ॒त¦नृ॒णा‌म् ||

अ॒यं द॑श॒स्यन्नर्ये᳚भिरस्य द॒स्मो दे॒वेभि॒र्वरु॑णो॒ न मा॒यी |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

अ॒यं क॒नीन॑ ऋतु॒पा, अ॑वे॒द्यमि॑मीता॒ररुं॒ यश्चतु॑ष्पात् ||{10/12}{10.99.10}{10.8.9.10}{8.5.15.4}{1151, 936, 9949}

अ॒य‌म्¦द॒श॒स्यन्¦नर्ये᳚भिः¦अ॒स्य॒¦द॒स्मः¦दे॒वेभिः॑¦वरु॑णः¦न¦मा॒यी |
अ॒य‌म्¦क॒नीनः॑¦ऋ॒तु॒ऽपाः¦अ॒वे॒दि॒¦अमि॑मीत¦अ॒ररु᳚‌म्¦यः¦चतुः॑ऽपात् ||

अ॒स्य स्तोमे᳚भिरौशि॒ज ऋ॒जिश्वा᳚ व्र॒जं द॑रयद्वृष॒भेण॒ पिप्रोः᳚ |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

सुत्वा॒ यद्य॑ज॒तो दी॒दय॒द्गीः पुर॑ इया॒नो, अ॒भि वर्प॑सा॒ भूत् ||{11/12}{10.99.11}{10.8.9.11}{8.5.15.5}{1152, 936, 9950}

अ॒स्य¦स्तोमे᳚भिः¦औ॒शि॒जः¦ऋ॒जिश्वा᳚¦व्र॒ज‌म्¦द॒र॒य॒त्¦वृ॒ष॒भेण॑¦पिप्रोः᳚ |
सुत्वा᳚¦यत्¦य॒ज॒तः¦दी॒दय॑त्¦गीः¦पुरः॑¦इ॒या॒नः¦अ॒भि¦वर्प॑सा¦भूत् ||

ए॒वा म॒हो, अ॑सुर व॒क्षथा᳚य वम्र॒कः प॒ड्भिरुप॑ सर्प॒दिन्द्र᳚म् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

स इ॑या॒नः क॑रति स्व॒स्तिम॑स्मा॒, इष॒मूर्जं᳚ सुक्षि॒तिं विश्व॒माभाः᳚ ||{12/12}{10.99.12}{10.8.9.12}{8.5.15.6}{1153, 936, 9951}

ए॒व¦म॒हः¦अ॒सु॒र॒¦व॒क्षथा᳚य¦व॒म्र॒कः¦प॒ट्ऽभिः¦उप॑¦स॒र्प॒त्¦इन्द्र᳚‌म् |
सः¦इ॒या॒नः¦क॒र॒ति॒¦स्व॒स्ति‌म्¦अ॒स्मै॒¦इष᳚‌म्¦ऊर्ज᳚‌म्¦सु॒ऽक्षि॒ति‌म्¦विश्व᳚‌म्¦आ¦अ॒भा॒रित्य॑भाः ||

[100] इंद्रदृह्येति द्वादशर्चस्य सूक्तस्य वांदनोदुवस्युर्विश्वेदेवाजगत्यंत्यात्रिष्टुप् (भेदपक्षे - विश्वेदेवाः १० इंद्रादिती १ इंद्र: १ एवं १२) |
इन्द्र॒ दृह्य॑ मघव॒न्त्वाव॒दिद्भु॒ज इ॒ह स्तु॒तः सु॑त॒पा बो᳚धि नो वृ॒धे |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

दे॒वेभि᳚र्नः सवि॒ता प्राव॑तु श्रु॒तमा स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{1/12}{10.100.1}{10.9.1.1}{8.5.16.1}{1154, 937, 9952}

इन्द्र॑¦दृह्य॑¦म॒घ॒ऽव॒न्¦त्वाऽव॑त्¦इत्¦भु॒जे¦इ॒ह¦स्तु॒तः¦सु॒त॒ऽपाः¦बो॒धि॒¦नः॒¦वृ॒धे |
दे॒वेभिः॑¦नः॒¦स॒वि॒ता¦प्र¦अ॒व॒तु॒¦श्रु॒त‌म्¦आ¦स॒र्वऽता᳚ति‌म्¦अदि॑ति‌म्¦वृ॒णी॒म॒हे॒ ||

भरा᳚य॒ सु भ॑रत भा॒गमृ॒त्वियं॒ प्र वा॒यवे᳚ शुचि॒पे क्र॒न्ददि॑ष्टये |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

गौ॒रस्य॒ यः पय॑सः पी॒तिमा᳚न॒श आ स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{2/12}{10.100.2}{10.9.1.2}{8.5.16.2}{1155, 937, 9953}

भरा᳚य¦सु¦भ॒र॒त॒¦भा॒ग‌म्¦ऋ॒त्विय᳚‌म्¦प्र¦वा॒यवे᳚¦शु॒चि॒ऽपे¦क्र॒न्दत्ऽ‌इ᳚ष्टये |
गौ॒रस्य॑¦यः¦पय॑सः¦पी॒ति‌म्¦आ॒न॒शे¦आ¦स॒र्वऽता᳚ति‌म्¦अदि॑ति‌म्¦वृ॒णी॒म॒हे॒ ||

आ नो᳚ दे॒वः स॑वि॒ता सा᳚विष॒द्वय॑ ऋजूय॒ते यज॑मानाय सुन्व॒ते |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

यथा᳚ दे॒वान्‌ प्र॑ति॒भूषे᳚म पाक॒वदा स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{3/12}{10.100.3}{10.9.1.3}{8.5.16.3}{1156, 937, 9954}

आ¦नः॒¦दे॒वः¦स॒वि॒ता¦सा॒वि॒ष॒त्¦वयः॑¦ऋ॒जु॒ऽय॒ते¦यज॑मानाय¦सु॒न्व॒ते |
यथा᳚¦दे॒वान्¦प्र॒ति॒ऽभूषे᳚म¦पा॒क॒ऽवत्¦आ¦स॒र्वऽता᳚ति‌म्¦अदि॑ति‌म्¦वृ॒णी॒म॒हे॒ ||

इन्द्रो᳚, अ॒स्मे सु॒मना᳚, अस्तु वि॒श्वहा॒ राजा॒ सोमः॑ सुवि॒तस्याध्ये᳚तु नः |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

यथा᳚यथा मि॒त्रधि॑तानि संद॒धुरा स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{4/12}{10.100.4}{10.9.1.4}{8.5.16.4}{1157, 937, 9955}

इन्द्रः॑¦अ॒स्मे इति॑¦सु॒ऽमनाः᳚¦अ॒स्तु॒¦वि॒श्वहा᳚¦राजा᳚¦सोमः॑¦सु॒वि॒तस्य॑¦अधि॑¦ए॒तु॒¦नः॒ |
यथा᳚ऽयथा¦मि॒त्रऽधि॑तानि¦स॒‌म्ऽद॒धुः¦आ¦स॒र्वऽता᳚ति‌म्¦अदि॑ति‌म्¦वृ॒णी॒म॒हे॒ ||

इन्द्र॑ उ॒क्थेन॒ शव॑सा॒ परु॑र्दधे॒ बृह॑स्पते प्रतरी॒तास्यायु॑षः |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

य॒ज्ञो मनुः॒ प्रम॑तिर्नः पि॒ता हि क॒मा स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{5/12}{10.100.5}{10.9.1.5}{8.5.16.5}{1158, 937, 9956}

इन्द्रः॑¦उ॒क्थेन॑¦शव॑सा¦परुः॑¦द॒धे॒¦बृह॑स्पते¦प्र॒ऽत॒री॒ता¦अ॒सि॒¦आयु॑षः |
य॒ज्ञः¦मनुः॑¦प्रऽम॑तिः¦नः॒¦पि॒ता¦हि¦क॒‌म्¦आ¦स॒र्वऽता᳚ति‌म्¦अदि॑ति‌म्¦वृ॒णी॒म॒हे॒ ||

इन्द्र॑स्य॒ नु सुकृ॑तं॒ दैव्यं॒ सहो॒ऽग्निर्गृ॒हे ज॑रि॒ता मेधि॑रः क॒विः |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

य॒ज्ञश्च॑ भूद्वि॒दथे॒ चारु॒रन्त॑म॒ आ स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{6/12}{10.100.6}{10.9.1.6}{8.5.16.6}{1159, 937, 9957}

इन्द्र॑स्य¦नु¦सुऽकृ॑त‌म्¦दैव्य᳚‌म्¦सहः॑¦अ॒ग्निः¦गृ॒हे¦ज॒रि॒ता¦मेधि॑रः¦क॒विः |
य॒ज्ञः¦च॒¦भू॒त्¦वि॒दथे᳚¦चारुः॑¦अन्त॑मः¦आ¦स॒र्वऽता᳚ति‌म्¦अदि॑ति‌म्¦वृ॒णी॒म॒हे॒ ||

न वो॒ गुहा᳚ चकृम॒ भूरि॑ दुष्कृ॒तं नाविष्ट्यं᳚ वसवो देव॒हेळ॑नम् |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

माकि᳚र्नो देवा॒, अनृ॑तस्य॒ वर्प॑स॒ आ स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{7/12}{10.100.7}{10.9.1.7}{8.5.17.1}{1160, 937, 9958}

न¦वः॒¦गुहा᳚¦च॒कृ॒म॒¦भूरि॑¦दुः॒ऽकृ॒त‌म्¦न¦आ॒विःऽत्य᳚‌म्¦व॒स॒वः॒¦दे॒व॒ऽहेळ॑न‌म् |
माकिः॑¦नः॒¦दे॒वाः॒¦अनृ॑तस्य¦वर्प॑सः¦आ¦स॒र्वऽता᳚ति‌म्¦अदि॑ति‌म्¦वृ॒णी॒म॒हे॒ ||

अपामी᳚वां सवि॒ता सा᳚विष॒न्न्य१॑(अ॒)ग्वरी᳚य॒ इदप॑ सेध॒न्त्वद्र॑यः |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते᳚ बृ॒हदा स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{8/12}{10.100.8}{10.9.1.8}{8.5.17.2}{1161, 937, 9959}

अप॑¦अमी᳚वा‌म्¦स॒वि॒ता¦सा॒वि॒ष॒त्¦न्य॑क्¦वरी᳚यः¦इत्¦अप॑¦से॒ध॒न्तु॒¦अद्र॑यः |
ग्रावा᳚¦यत्र॑¦म॒धु॒ऽसुत्¦उ॒च्यते᳚¦बृ॒हत्¦आ¦स॒र्वऽता᳚ति‌म्¦अदि॑ति‌म्¦वृ॒णी॒म॒हे॒ ||

ऊ॒र्ध्वो ग्रावा᳚ वसवोऽस्तु सो॒तरि॒ विश्वा॒ द्वेषां᳚सि सनु॒तर्यु॑योत |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

स नो᳚ दे॒वः स॑वि॒ता पा॒युरीड्य॒ आ स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{9/12}{10.100.9}{10.9.1.9}{8.5.17.3}{1162, 937, 9960}

ऊ॒र्ध्वः¦ग्रावा᳚¦व॒स॒वः॒¦अ॒स्तु॒¦सो॒तरि॑¦विश्वा᳚¦द्वेषां᳚सि¦स॒नु॒तः¦यु॒यो॒त॒ |
सः¦नः॒¦दे॒वः¦स॒वि॒ता¦पा॒युः¦ईड्यः॑¦आ¦स॒र्वऽता᳚ति‌म्¦अदि॑ति‌म्¦वृ॒णी॒म॒हे॒ ||

ऊर्जं᳚ गावो॒ यव॑से॒ पीवो᳚, अत्तन ऋ॒तस्य॒ याः सद॑ने॒ कोशे᳚, अ॒ङ्ग्ध्वे |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

त॒नूरे॒व त॒न्वो᳚, अस्तु भेष॒जमा स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{10/12}{10.100.10}{10.9.1.10}{8.5.17.4}{1163, 937, 9961}

ऊर्ज᳚‌म्¦गा॒वः॒¦यव॑से¦पीवः॑¦अ॒त्त॒न॒¦ऋ॒तस्य॑¦याः¦सद॑ने¦कोशे᳚¦अ॒ङ्ध्वे |
त॒नूः¦ए॒व¦त॒न्वः॑¦अ॒स्तु॒¦भे॒ष॒ज‌म्¦आ¦स॒र्वऽता᳚ति‌म्¦अदि॑ति‌म्¦वृ॒णी॒म॒हे॒ ||

क्र॒तु॒प्रावा᳚ जरि॒ता शश्व॑ता॒मव॒ इन्द्र॒ इद्भ॒द्रा प्रम॑तिः सु॒ताव॑ताम् |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

पू॒र्णमूध॑र्दि॒व्यं यस्य॑ सि॒क्तय॒ आ स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{11/12}{10.100.11}{10.9.1.11}{8.5.17.5}{1164, 937, 9962}

क्र॒तु॒ऽप्रावा᳚¦ज॒रि॒ता¦शश्व॑ता‌म्¦अवः॑¦इन्द्रः॑¦इत्¦भ॒द्रा¦प्रऽम॑तिः¦सु॒तऽव॑ता‌म् |
पू॒र्ण‌म्¦ऊधः॑¦दि॒व्य‌म्¦यस्य॑¦सि॒क्तये᳚¦आ¦स॒र्वऽता᳚ति‌म्¦अदि॑ति‌म्¦वृ॒णी॒म॒हे॒ ||

चि॒त्रस्ते᳚ भा॒नुः क्र॑तु॒प्रा, अ॑भि॒ष्टिः सन्ति॒ स्पृधो᳚ जरणि॒प्रा, अधृ॑ष्टाः |{वांदनो दुवस्युः | विश्वदेवाः | त्रिष्टुप्}

रजि॑ष्ठया॒ रज्या᳚ प॒श्व आ गोस्तूतू᳚र्षति॒ पर्यग्रं᳚ दुव॒स्युः ||{12/12}{10.100.12}{10.9.1.12}{8.5.17.6}{1165, 937, 9963}

चि॒त्रः¦ते॒¦भा॒नुः¦क्र॒तु॒ऽप्राः¦अ॒भि॒ष्टिः¦सन्ति॑¦स्पृधः॑¦ज॒र॒णि॒ऽप्राः¦अधृ॑ष्टाः |
रजि॑ष्टया¦रज्या᳚¦प॒श्वः¦आ¦गोः¦तूतू᳚र्षति¦परि॑¦अग्र᳚‌म्¦दु॒व॒स्युः ||

[101] उद्बुध्यध्वमिति द्वादशर्चस्य सूक्तस्य सौम्योबुधो विश्वेदेवास्त्रिप् चतुर्थीषष्ठ्यौगायत्र्यौ पंचमीबृहती नवमीद्वादश्यौजगत्यौ (ऋत्विजोदेवतावा) |
उद्बु॑ध्यध्वं॒ सम॑नसः सखायः॒ सम॒ग्निमि᳚न्ध्वं ब॒हवः॒ सनी᳚ळाः |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्}

द॒धि॒क्राम॒ग्निमु॒षसं᳚ च दे॒वीमिन्द्रा᳚व॒तोऽव॑से॒ नि ह्व॑ये वः ||{1/12}{10.101.1}{10.9.2.1}{8.5.18.1}{1166, 938, 9964}

उत्¦बु॒ध्य॒ध्व॒‌म्¦सऽम॑नसः¦स॒खा॒यः॒¦स‌म्¦अ॒ग्नि‌म्¦इ॒न्ध्व॒‌म्¦ब॒हवः॑¦सऽनी᳚ळाः |
द॒धि॒ऽक्रा‌म्¦अ॒ग्नि‌म्¦उ॒षस᳚‌म्¦च॒¦दे॒वी‌म्¦इ॒न्द्र॒ऽव॒तः¦अव॑से¦नि¦ह्व॒ये॒¦वः॒ ||

म॒न्द्रा कृ॑णुध्वं॒ धिय॒ आ त॑नुध्वं॒ नाव॑मरित्र॒पर॑णीं कृणुध्वम् |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्}

इष्कृ॑णुध्व॒मायु॒धारं᳚ कृणुध्वं॒ प्राञ्चं᳚ य॒ज्ञं प्र ण॑यता सखायः ||{2/12}{10.101.2}{10.9.2.2}{8.5.18.2}{1167, 938, 9965}

म॒न्द्रा¦कृ॒णु॒ध्व॒‌म्¦धियः॑¦आ¦त॒नु॒ध्व॒‌म्¦नाव᳚‌म्¦अ॒रि॒त्र॒ऽपर॑णी‌म्¦कृ॒णु॒ध्व॒‌म् |
इष्कृ॑णुध्व‌म्¦आयु॑धा¦अर᳚‌म्¦कृ॒णु॒ध्व॒‌म्¦प्रांच᳚‌म्¦य॒ज्ञ‌म्¦प्र¦न॒य॒त॒¦स॒खा॒यः॒ ||

यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नुध्वं कृ॒ते योनौ᳚ वपते॒ह बीज᳚म् |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्}

गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒, अस᳚न्नो॒ नेदी᳚य॒ इत्सृ॒ण्यः॑ प॒क्वमेया᳚त् ||{3/12}{10.101.3}{10.9.2.3}{8.5.18.3}{1168, 938, 9966}

यु॒नक्त॑¦सीरा᳚¦वि¦यु॒गा¦त॒नु॒ध्व॒‌म्¦कृ॒ते¦योनौ᳚¦व॒प॒त॒¦इ॒ह¦बीज᳚‌म् |
गि॒रा¦च॒¦श्रु॒ष्टिः¦सऽभ॑राः¦अस॑त्¦नः॒¦नेदी᳚यः¦इत्¦सृ॒ण्यः॑¦प॒क्व‌म्¦आ¦इ॒या॒त् ||

सीरा᳚ युञ्जन्ति क॒वयो᳚ यु॒गा वि त᳚न्वते॒ पृथ॑क् |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | गायत्री}

धीरा᳚ दे॒वेषु॑ सुम्न॒या ||{4/12}{10.101.4}{10.9.2.4}{8.5.18.4}{1169, 938, 9967}

सीरा᳚¦युं॒ज॒न्ति॒¦क॒वयः॑¦यु॒गा¦वि¦त॒न्व॒ते॒¦पृथ॑क् | धीराः᳚¦दे॒वेषु॑¦सु॒म्न॒ऽया ||

निरा᳚हा॒वान्‌ कृ॑णोतन॒ सं व॑र॒त्रा द॑धातन |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | बृहती}

सि॒ञ्चाम॑हा, अव॒तमु॒द्रिणं᳚ व॒यं सु॒षेक॒मनु॑पक्षितम् ||{5/12}{10.101.5}{10.9.2.5}{8.5.18.5}{1170, 938, 9968}

निः¦आ॒ऽहा॒वान्¦कृ॒णो॒त॒न॒¦स‌म्¦व॒र॒त्राः¦द॒धा॒त॒न॒ |
सिं॒चाम॑है¦अ॒व॒त‌म्¦उ॒द्रिण᳚‌म्¦व॒य‌म्¦सु॒ऽसेक᳚‌म्¦अनु॑पऽक्षित‌म् ||

इष्कृ॑ताहावमव॒तं सु॑वर॒त्रं सु॑षेच॒नम् |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | गायत्री}

उ॒द्रिणं᳚ सिञ्चे॒, अक्षि॑तम् ||{6/12}{10.101.6}{10.9.2.6}{8.5.18.6}{1171, 938, 9969}

इष्कृ॑तऽआहाव‌म्¦अ॒व॒त‌म्¦सु॒ऽव॒र॒त्र‌म्¦सु॒ऽसे॒च॒न‌म् | उ॒द्रिण᳚‌म्¦सिं॒चे॒¦अक्षि॑त‌म् ||

प्री॒णी॒ताश्वा᳚न्हि॒तं ज॑याथ स्वस्ति॒वाहं॒ रथ॒मित्कृ॑णुध्वम् |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | पादत्रिष्टुप्}

द्रोणा᳚हावमव॒तमश्म॑चक्र॒मंस॑त्रकोशं सिञ्चता नृ॒पाण᳚म् ||{7/12}{10.101.7}{10.9.2.7}{8.5.19.1}{1172, 938, 9970}

प्री॒णी॒त¦अश्वा᳚न्¦हि॒त‌म्¦ज॒या॒थ॒¦स्व॒स्ति॒ऽवाह᳚‌म्¦रथ᳚‌म्¦इत्¦कृ॒णु॒ध्व॒‌म् |
द्रोण॑ऽआहाव‌म्¦अ॒व॒त‌म्¦अश्म॑ऽचक्र‌म्¦अंस॑त्रऽकोश‌म्¦सिं॒च॒त॒¦नृ॒ऽपान᳚‌म् ||

व्र॒जं कृ॑णुध्वं॒ स हि वो᳚ नृ॒पाणो॒ वर्म॑ सीव्यध्वं बहु॒ला पृ॒थूनि॑ |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्}

पुरः॑ कृणुध्व॒माय॑सी॒रधृ॑ष्टा॒ मा वः॑ सुस्रोच्चम॒सो दृंह॑ता॒ तम् ||{8/12}{10.101.8}{10.9.2.8}{8.5.19.2}{1173, 938, 9971}

व्र॒ज‌म्¦कृ॒णु॒ध्व॒‌म्¦सः¦हि¦वः॒¦नृ॒ऽपानः॑¦वर्म॑¦सी॒व्य॒ध्व॒‌म्¦ब॒हु॒ला¦पृ॒थूनि॑ |
पुरः॑¦कृ॒णु॒ध्व॒‌म्¦आय॑सीः¦अधृ॑ष्टाः¦मा¦वः॒¦सु॒स्रो॒त्¦च॒म॒सः¦दृंह॑त¦त‌म् ||

आ वो॒ धियं᳚ य॒ज्ञियां᳚ वर्त ऊ॒तये॒ देवा᳚ दे॒वीं य॑ज॒तां य॒ज्ञिया᳚मि॒ह |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | जगती}

सा नो᳚ दुहीय॒द्यव॑सेव ग॒त्वी स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ||{9/12}{10.101.9}{10.9.2.9}{8.5.19.3}{1174, 938, 9972}

आ¦वः॒¦धिय᳚‌म्¦य॒ज्ञिया᳚‌म्¦व॒र्ते॒¦ऊ॒तये᳚¦देवाः᳚¦दे॒वी‌म्¦य॒ज॒ता‌म्¦य॒ज्ञिया᳚‌म्¦इ॒ह |
सा¦नः॒¦दु॒ही॒य॒त्¦यव॑साऽ‌इव¦ग॒त्वी¦स॒हस्र॑ऽधारा¦पय॑सा¦म॒ही¦गौः ||

आ तू षि᳚ञ्च॒ हरि॑मीं॒ द्रोरु॒पस्थे॒ वाशी᳚भिस्तक्षताश्म॒न्मयी᳚भिः |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्}

परि॑ ष्वजध्वं॒ दश॑ क॒क्ष्या᳚भिरु॒भे धुरौ॒ प्रति॒ वह्निं᳚ युनक्त ||{10/12}{10.101.10}{10.9.2.10}{8.5.19.4}{1175, 938, 9973}

आ¦तु¦सिं॒च॒¦हरि᳚‌म्¦ई॒‌म्¦द्रोः¦उ॒पऽस्थे᳚¦वाशी᳚भिः¦त॒क्ष॒त॒¦अ॒श्म॒न्ऽमयी᳚भिः |
परि॑¦स्व॒ज॒ध्व॒‌म्¦दश॑¦क॒क्ष्या᳚भिः¦उ॒भे इति॑¦धुरौ᳚¦प्रति॑¦वह्नि᳚‌म्¦यु॒न॒क्त॒ ||

उ॒भे धुरौ॒ वह्नि॑रा॒पिब्द॑मानो॒ऽन्तर्योने᳚व चरति द्वि॒जानिः॑ |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्}

वन॒स्पतिं॒ वन॒ आस्था᳚पयध्वं॒ नि षू द॑धिध्व॒मख॑नन्त॒ उत्स᳚म् ||{11/12}{10.101.11}{10.9.2.11}{8.5.19.5}{1176, 938, 9974}

उ॒भे इति॑¦धुरौ᳚¦वह्निः॑¦आ॒ऽपिब्द॑मानः¦अ॒न्तः¦योना᳚ऽ‌इव¦च॒र॒ति॒¦द्वि॒ऽजानिः॑ |
वन॒स्पति᳚‌म्¦वने᳚¦आ¦अ॒स्था॒प॒य॒ध्व॒‌म्¦नि¦सु¦द॒धि॒ध्व॒‌म्¦अख॑नन्तः¦उत्स᳚‌म् ||

कपृ᳚न्नरः कपृ॒थमुद्द॑धातन चो॒दय॑त खु॒दत॒ वाज॑सातये |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | जगती}

नि॒ष्टि॒ग्र्यः॑ पु॒त्रमा च्या᳚वयो॒तय॒ इन्द्रं᳚ स॒बाध॑ इ॒ह सोम॑पीतये ||{12/12}{10.101.12}{10.9.2.12}{8.5.19.6}{1177, 938, 9975}

कपृ॑त्¦न॒रः॒¦क॒पृ॒थ‌म्¦उत्¦द॒धा॒त॒न॒¦चो॒दय॑त¦खु॒दत॑¦वाज॑ऽसातये |
नि॒ष्टि॒ग्र्यः॑¦पु॒त्र‌म्¦आ¦च्या॒व॒य॒¦ऊ॒तये᳚¦इन्द्र᳚‌म्¦स॒ऽबाधः॑¦इ॒ह¦सोम॑ऽपीतये ||

[102] प्रतेरथमिति द्वादशर्चस्य सूक्तस्य भार्म्यश्वो मुद्गलो द्रुघणस्त्रिष्टुप् आद्यातृतीयांत्याबृहत्यः | (प्रतेरथमिति सूक्तदेवतात्वे विप्रतिपत्तिः परस्परमाचार्याणां | उक्तंचशौनकेन - प्रेतीतिहाससूक्तंतुमन्यतेशाकटायनः | यास्कोद्रौघणमैंद्रंवा वैश्वदेवंतुशौनकः | आजानवेनंभार्म्यश्व इंद्रासोमौतुमुद्गलइति) |
प्र ते॒ रथं᳚ मिथू॒कृत॒मिन्द्रो᳚ऽवतु धृष्णु॒या |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | ऋहती}

अ॒स्मिन्ना॒जौ पु॑रुहूत श्र॒वाय्ये᳚ धनभ॒क्षेषु॑ नोऽव ||{1/12}{10.102.1}{10.9.3.1}{8.5.20.1}{1178, 939, 9976}

प्र¦ते॒¦रथ᳚‌म्¦मि॒थु॒ऽकृत᳚‌म्¦इन्द्रः॑¦अ॒व॒तु॒¦धृ॒ष्णु॒ऽया |
अ॒स्मिन्¦आ॒जौ¦पु॒रु॒ऽहू॒त॒¦श्र॒वाय्ये᳚¦ध॒न॒ऽभ॒क्षेषु॑¦नः॒¦अ॒व॒ ||

उत्स्म॒ वातो᳚ वहति॒ वासो᳚ऽस्या॒, अधि॑रथं॒ यदज॑यत्स॒हस्र᳚म् |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

र॒थीर॑भून्मुद्ग॒लानी॒ गवि॑ष्टौ॒ भरे᳚ कृ॒तं व्य॑चेदिन्द्रसे॒ना ||{2/12}{10.102.2}{10.9.3.2}{8.5.20.2}{1179, 939, 9977}

उत्¦स्म॒¦वातः॑¦व॒ह॒ति॒¦वासः॑¦अ॒स्याः॒¦अधि॑ऽरथ‌म्¦यत्¦अज॑यत्¦स॒हस्र᳚‌म् |
र॒थीः¦अ॒भू॒त्¦मु॒द्ग॒लानी᳚¦गवि॑ष्टौ¦भरे᳚¦कृ॒त‌म्¦वि¦अ॒चे॒त्¦इ॒न्द्र॒ऽसे॒ना ||

अ॒न्तर्य॑च्छ॒ जिघां᳚सतो॒ वज्र॑मिन्द्राभि॒दास॑तः |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | बृहती}

दास॑स्य वा मघव॒न्नार्य॑स्य वा सनु॒तर्य॑वया व॒धम् ||{3/12}{10.102.3}{10.9.3.3}{8.5.20.3}{1180, 939, 9978}

अ॒न्तः¦य॒च्छ॒¦जिघां᳚सतः¦वज्र᳚‌म्¦इ॒न्द्र॒¦अ॒भि॒ऽदास॑तः |
दास॑स्य¦वा॒¦म॒घ॒ऽव॒न्¦आर्य॑स्य¦वा॒¦स॒नु॒तः¦य॒व॒य॒¦व॒ध‌म् ||

उ॒द्नो ह्र॒दम॑पिब॒ज्जर्हृ॑षाणः॒ कूटं᳚ स्म तृं॒हद॒भिमा᳚तिमेति |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

प्र मु॒ष्कभा᳚रः॒ श्रव॑ इ॒च्छमा᳚नोऽजि॒रं बा॒हू, अ॑भर॒त्सिषा᳚सन् ||{4/12}{10.102.4}{10.9.3.4}{8.5.20.4}{1181, 939, 9979}

उ॒द्नः¦ह्र॒द‌म्¦अ॒पि॒ब॒त्¦जर्हृ॑षाणः¦कूट᳚‌म्¦स्म॒¦तृं॒हत्¦अ॒भिऽमा᳚ति‌म्¦ए॒ति॒ |
प्र¦मु॒ष्कऽभा᳚रः¦श्रवः॑¦इ॒च्छमा᳚नः¦अ॒जि॒र‌म्¦बा॒हू इति॑¦अ॒भ॒र॒त्¦सिसा᳚सन् ||

न्य॑क्रन्दयन्नुप॒यन्त॑ एन॒ममे᳚हयन्‌ वृष॒भं मध्य॑ आ॒जेः |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

तेन॒ सूभ᳚र्वं श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः प्र॒धने᳚ जिगाय ||{5/12}{10.102.5}{10.9.3.5}{8.5.20.5}{1182, 939, 9980}

नि¦अ॒क्र॒न्द॒य॒न्¦उ॒प॒ऽयन्तः॑¦ए॒न॒‌म्¦अमे᳚हयन्¦वृ॒ष॒भ‌म्¦मध्ये᳚¦आ॒जेः |
तेन॑¦सूभ᳚र्व‌म्¦श॒तऽव॑त्¦स॒हस्र᳚‌म्¦गवा᳚‌म्¦मुद्ग॑लः¦प्र॒ऽधने᳚¦जि॒गा॒य॒ ||

क॒कर्द॑वे वृष॒भो यु॒क्त आ᳚सी॒दवा᳚वची॒त्सार॑थिरस्य के॒शी |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

दुधे᳚र्यु॒क्तस्य॒ द्रव॑तः स॒हान॑स ऋ॒च्छन्ति॑ ष्मा नि॒ष्पदो᳚ मुद्ग॒लानी᳚म् ||{6/12}{10.102.6}{10.9.3.6}{8.5.20.6}{1183, 939, 9981}

क॒कर्द॑वे¦वृ॒ष॒भः¦यु॒क्तः¦आ॒सी॒त्¦अवा᳚वचीत्¦सार॑थिः¦अ॒स्य॒¦के॒शी |
दुधेः᳚¦यु॒क्तस्य॑¦द्रव॑तः¦स॒ह¦अन॑सा¦ऋ॒च्छन्ति॑¦स्म॒¦निः॒ऽपदः॑¦मु॒द्ग॒लानी᳚‌म् ||

उ॒त प्र॒धिमुद॑हन्नस्य वि॒द्वानुपा᳚युन॒ग्वंस॑ग॒मत्र॒ शिक्ष॑न् |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

इन्द्र॒ उदा᳚व॒त्पति॒मघ्न्या᳚ना॒मरं᳚हत॒ पद्या᳚भिः क॒कुद्मा॑न् ||{7/12}{10.102.7}{10.9.3.7}{8.5.21.1}{1184, 939, 9982}

उ॒त¦प्र॒ऽधि‌म्¦उत्¦अ॒ह॒न्¦अ॒स्य॒¦वि॒द्वान्¦उप॑¦अ॒यु॒न॒क्¦वंस॑ग‌म्¦अत्र॑¦शिक्ष॑न् |
इन्द्रः॑¦उत्¦आ॒व॒त्¦पति᳚‌म्¦अघ्न्या᳚ना‌म्¦अरं᳚हत¦पद्या᳚भिः¦क॒कुत्ऽमा॑न् ||

शु॒नम॑ष्ट्रा॒व्य॑चरत्कप॒र्दी व॑र॒त्रायां॒ दार्वा॒नह्य॑मानः |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

नृ॒म्णानि॑ कृ॒ण्वन्‌ ब॒हवे॒ जना᳚य॒ गाः प॑स्पशा॒नस्तवि॑षीरधत्त ||{8/12}{10.102.8}{10.9.3.8}{8.5.21.2}{1185, 939, 9983}

शु॒न‌म्¦अ॒ष्ट्रा॒ऽवी¦अ॒च॒र॒त्¦क॒प॒र्दी¦व॒र॒त्राया᳚‌म्¦दारु॑¦आ॒ऽनह्य॑मानः |
नृ॒म्नानि॑¦कृ॒ण्वन्¦ब॒हवे᳚¦जना᳚य¦गाः¦प॒स्प॒शा॒नः¦तवि॑षीः¦अ॒ध॒त्त॒ ||

इ॒मं तं प॑श्य वृष॒भस्य॒ युञ्जं॒ काष्ठा᳚या॒ मध्ये᳚ द्रुघ॒णं शया᳚नम् |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

येन॑ जि॒गाय॑ श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः पृत॒नाज्ये᳚षु ||{9/12}{10.102.9}{10.9.3.9}{8.5.21.3}{1186, 939, 9984}

इ॒म‌म्¦त‌म्¦प॒श्य॒¦वृ॒ष॒भस्य॑¦युंज᳚‌म्¦काष्ठा᳚याः¦मध्ये᳚¦द्रु॒ऽघ॒ण‌म्¦शया᳚न‌म् |
येन॑¦जि॒गाय॑¦श॒तऽव॑त्¦स॒हस्र᳚‌म्¦गवा᳚‌म्¦मुद्ग॑लः¦पृ॒त॒नाज्ये᳚षु ||

आ॒रे, अ॒घा को न्‌ वि१॑(इ॒)त्था द॑दर्श॒ यं यु॒ञ्जन्ति॒ तम्वा स्था᳚पयन्ति |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

नास्मै॒ तृणं॒ नोद॒कमा भ॑र॒न्त्युत्त॑रो धु॒रो व॑हति प्र॒देदि॑शत् ||{10/12}{10.102.10}{10.9.3.10}{8.5.21.4}{1187, 939, 9985}

आ॒रे¦अ॒घा¦कः¦नु¦इ॒त्था¦द॒द॒र्श॒¦य‌म्¦युं॒जन्ति॑¦त‌म्¦ऊँ॒ इति॑¦आ¦स्था॒प॒य॒न्ति॒ |
न¦अ॒स्मै॒¦तृण᳚‌म्¦न¦उ॒द॒क‌म्¦आ¦भ॒र॒न्ति॒¦उत्ऽत॑रः¦धु॒रः¦व॒ह॒ति॒¦प्र॒ऽदेदि॑शत् ||

प॒रि॒वृ॒क्तेव॑ पति॒विद्य॑मान॒ट् पीप्या᳚ना॒ कूच॑क्रेणेव सि॒ञ्चन् |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

ए॒षै॒ष्या᳚ चिद्र॒थ्या᳚ जयेम सुम॒ङ्गलं॒ सिन॑वदस्तु सा॒तम् ||{11/12}{10.102.11}{10.9.3.11}{8.5.21.5}{1188, 939, 9986}

प॒रि॒वृ॒क्ताऽ‌इ᳚व¦प॒ति॒ऽविद्य᳚‌म्¦आ॒न॒ट्¦पीप्या᳚ना¦कूच॑क्रेणऽ‌इव¦सिं॒चन् |
ए॒ष॒ऽए॒ष्या᳚¦चि॒त्¦र॒थ्या᳚¦ज॒ये॒म॒¦सु॒ऽम॒ङ्गल᳚‌म्¦सिन॑ऽवत्¦अ॒स्तु॒¦सा॒त‌म् ||

त्वं विश्व॑स्य॒ जग॑त॒श्चक्षु॑रिन्द्रासि॒ चक्षु॑षः |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | ऋहती}

वृषा॒ यदा॒जिं वृष॑णा॒ सिषा᳚ससि चो॒दय॒न्वध्रि॑णा यु॒जा ||{12/12}{10.102.12}{10.9.3.12}{8.5.21.6}{1189, 939, 9987}

त्व‌म्¦विश्व॑स्य¦जग॑तः¦चक्षुः॑¦इ॒न्द्र॒¦अ॒सि॒¦चक्षु॑षः |
वृषा᳚¦यत्¦आ॒जि‌म्¦वृष॑णा¦सिसा᳚ससि¦चो॒दय॑न्¦वध्रि॑णा¦यु॒जा ||

[103] आशुःशिशानइति त्रयोदशर्चस्य सूक्तस्यैंद्रो प्रतिरथइंद्रश्चतुर्थ्यां बृहस्पतिर्द्वादश्याअप्वादेव्यंत्यायामरुतस्त्रिष्टुबंत्यानुष्टुप् | (आशुः शिशानः सूक्तोपांत्यायाआप्वादेवीत्यनुक्रमण्यां मप्वादेवीतिशौनकीये)
आ॒शुः शिशा᳚नो वृष॒भो न भी॒मो घ॑नाघ॒नः, क्षोभ॑णश्चर्षणी॒नाम् |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

सं॒क्रन्द॑नोऽनिमि॒ष ए᳚कवी॒रः श॒तं सेना᳚, अजयत्सा॒कमिन्द्रः॑ ||{1/13}{10.103.1}{10.9.4.1}{8.5.22.1}{1190, 940, 9988}

आ॒शुः¦शिशा᳚नः¦वृ॒ष॒भः¦न¦भी॒मः¦घ॒ना॒घ॒नः¦क्षोभ॑णः¦च॒र्ष॒णी॒ना‌म् |
स॒‌म्ऽक्रन्द॑नः¦अ॒नि॒ऽमि॒षः¦ए॒क॒ऽवी॒रः¦श॒त‌म्¦सेनाः᳚¦अ॒ज॒य॒त्¦सा॒क‌म्¦इन्द्रः॑ ||

सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना᳚ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना᳚ |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

तदिन्द्रे᳚ण जयत॒ तत्स॑हध्वं॒ युधो᳚ नर॒ इषु॑हस्तेन॒ वृष्णा᳚ ||{2/13}{10.103.2}{10.9.4.2}{8.5.22.2}{1191, 940, 9989}

स॒‌म्ऽक्रन्द॑नेन¦अ॒नि॒ऽमि॒षेण॑¦जि॒ष्णुना᳚¦यु॒त्ऽका॒रेण॑¦दुः॒ऽच्य॒व॒नेन॑¦धृ॒ष्णुना᳚ |
तत्¦इन्द्रे᳚ण¦ज॒य॒त॒¦तत्¦स॒ह॒ध्व॒‌म्¦युधः॑¦न॒रः॒¦इषु॑ऽहस्तेन¦वृष्णा᳚ ||

स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि᳚र्व॒शी संस्र॑ष्टा॒ स युध॒ इन्द्रो᳚ ग॒णेन॑ |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

सं॒सृ॒ष्ट॒जित्सो᳚म॒पा बा᳚हुश॒र्ध्यु१॑(उ॒)ग्रध᳚न्वा॒ प्रति॑हिताभि॒रस्ता᳚ ||{3/13}{10.103.3}{10.9.4.3}{8.5.22.3}{1192, 940, 9990}

सः¦इषु॑ऽहस्तैः¦सः¦नि॒ष॒ङ्गिऽभिः॑¦व॒शी¦स‌म्ऽस्र॑ष्टा¦सः¦युधः॑¦इन्द्रः॑¦ग॒णेन॑ |
सं॒सृ॒ष्ट॒ऽजित्¦सो॒म॒ऽपाः¦बा॒हु॒ऽश॒र्धी¦उ॒ग्रऽध᳚न्वा¦प्रति॑ऽहिताभिः¦अस्ता᳚ ||

बृह॑स्पते॒ परि॑ दीया॒ रथे᳚न रक्षो॒हामित्राँ᳚, अप॒बाध॑मानः |{इंद्रो प्रतिरथः | बृहस्पतिः | त्रिष्टुप्}

प्र॒भ॒ञ्जन्‌ त्सेनाः᳚ प्रमृ॒णो यु॒धा जय᳚न्न॒स्माक॑मेध्यवि॒ता रथा᳚नाम् ||{4/13}{10.103.4}{10.9.4.4}{8.5.22.4}{1193, 940, 9991}

बृह॑स्पते¦परि॑¦दी॒य॒¦रथे᳚न¦र॒क्षः॒ऽहा¦अ॒मित्रा᳚न्¦अ॒प॒ऽबाध॑मानः |
प्र॒ऽभं॒जन्¦सेनाः᳚¦प्र॒ऽमृ॒णः¦यु॒धा¦जय॑न्¦अ॒स्माक᳚‌म्¦ए॒धि॒¦अ॒वि॒ता¦रथा᳚ना‌म् ||

ब॒ल॒वि॒ज्ञा॒यः स्थवि॑रः॒ प्रवी᳚रः॒ सह॑स्वान्‌ वा॒जी सह॑मान उ॒ग्रः |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

अ॒भिवी᳚रो, अ॒भिस॑त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒वित् ||{5/13}{10.103.5}{10.9.4.5}{8.5.22.5}{1194, 940, 9992}

ब॒ल॒ऽवि॒ज्ञा॒यः¦स्थवि॑रः¦प्रऽवी᳚रः¦सह॑स्वान्¦वा॒जी¦सह॑मानः¦उ॒ग्रः |
अ॒भिऽवी᳚रः¦अ॒भिऽस॑त्वा¦स॒हः॒ऽजाः¦जैत्र᳚‌म्¦इ॒न्द्र॒¦रथ᳚‌म्¦आ¦ति॒ष्ठ॒¦गो॒ऽवित् ||

गो॒त्र॒भिदं᳚ गो॒विदं॒ वज्र॑बाहुं॒ जय᳚न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

इ॒मं स॑जाता॒, अनु॑ वीरयध्व॒मिन्द्रं᳚ सखायो॒, अनु॒ सं र॑भध्वम् ||{6/13}{10.103.6}{10.9.4.6}{8.5.22.6}{1195, 940, 9993}

गो॒त्र॒ऽभिद᳚‌म्¦गो॒ऽविद᳚‌म्¦वज्र॑ऽबाहु‌म्¦जय᳚न्त‌म्¦अज्म॑¦प्र॒ऽमृ॒णन्त᳚‌म्¦ओज॑सा |
इ॒म‌म्¦स॒ऽजा॒ताः॒¦अनु॑¦वी॒र॒य॒ध्व॒‌म्¦इन्द्र᳚‌म्¦स॒खा॒यः॒¦अनु॑¦स‌म्¦र॒भ॒ध्व॒‌म् ||

अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽद॒यो वी॒रः श॒तम᳚न्यु॒रिन्द्रः॑ |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

दु॒श्च्य॒व॒नः पृ॑तना॒षाळ॑यु॒ध्यो॒३॑(ओ॒)ऽस्माकं॒ सेना᳚, अवतु॒ प्र यु॒त्सु ||{7/13}{10.103.7}{10.9.4.7}{8.5.23.1}{1196, 940, 9994}

अ॒भि¦गो॒त्राणि॑¦सह॑सा¦गाह॑मानः¦अ॒द॒यः¦वी॒रः¦श॒तऽम᳚न्युः¦इन्द्रः॑ |
दुः॒ऽच्य॒व॒नः¦पृ॒त॒ना॒षाट्¦अ॒यु॒ध्यः¦अ॒स्माक᳚‌म्¦सेनाः᳚¦अ॒व॒तु॒¦प्र¦यु॒त्ऽसु ||

इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए᳚तु॒ सोमः॑ |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

दे॒व॒से॒नाना᳚मभिभञ्जती॒नां जय᳚न्तीनां म॒रुतो᳚ य॒न्त्वग्र᳚म् ||{8/13}{10.103.8}{10.9.4.8}{8.5.23.2}{1197, 940, 9995}

इन्द्रः॑¦आ॒सा॒‌म्¦ने॒ता¦बृह॒स्पतिः॑¦दक्षि॑णा¦य॒ज्ञः¦पु॒रः¦ए॒तु॒¦सोमः॑ |
दे॒व॒ऽसे॒नाना᳚‌म्¦अ॒भि॒ऽभं॒ज॒ती॒ना‌म्¦जय᳚न्तीना‌म्¦म॒रुतः॑¦य॒न्तु॒¦अग्र᳚‌म् ||

इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां᳚ म॒रुतां॒ शर्ध॑ उ॒ग्रम् |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो᳚ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ||{9/13}{10.103.9}{10.9.4.9}{8.5.23.3}{1198, 940, 9996}

इन्द्र॑स्य¦वृष्णः॑¦वरु॑णस्य¦राज्ञः॑¦आ॒दि॒त्याना᳚‌म्¦म॒रुता᳚‌म्¦शर्धः॑¦उ॒ग्र‌म् |
म॒हाऽम॑नसा‌म्¦भु॒व॒न॒ऽच्य॒वाना᳚‌म्¦घोषः॑¦दे॒वाना᳚‌म्¦जय॑ता‌म्¦उत्¦अ॒स्था॒त् ||

उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नां माम॒कानां॒ मनां᳚सि |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

उद्वृ॑त्रहन्वा॒जिनां॒ वाजि॑ना॒न्युद्रथा᳚नां॒ जय॑तां यन्तु॒ घोषाः᳚ ||{10/13}{10.103.10}{10.9.4.10}{8.5.23.4}{1199, 940, 9997}

उत्¦ह॒र्ष॒य॒¦म॒घ॒ऽव॒न्¦आयु॑धानि¦उत्¦सत्व॑ना‌म्¦मा॒म॒काना᳚‌म्¦मनां᳚सि |
उत्¦वृ॒त्र॒ऽह॒न्¦वा॒जिना᳚‌म्¦वाजि॑नानि¦उत्¦रथा᳚ना‌म्¦जय॑ता‌म्¦य॒न्तु॒¦घोषाः᳚ ||

अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या, इष॑व॒स्ता ज॑यन्तु |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

अ॒स्माकं᳚ वी॒रा, उत्त॑रे भवन्त्व॒स्माँ, उ॑ देवा, अवता॒ हवे᳚षु ||{11/13}{10.103.11}{10.9.4.11}{8.5.23.5}{1200, 940, 9998}

अ॒स्माक᳚‌म्¦इन्द्रः॑¦स‌म्ऽऋ॑तेषु¦ध्व॒जेषु॑¦अ॒स्माक᳚‌म्¦याः¦इष॑वः¦ताः¦ज॒य॒न्तु॒ |
अ॒स्माक᳚‌म्¦वी॒राः¦उत्ऽत॑रे¦भ॒व॒न्तु॒¦अ॒स्मान्¦ऊँ॒ इति॑¦दे॒वाः॒¦अ॒व॒त॒¦हवे᳚षु ||

अ॒मीषां᳚ चि॒त्तं प्र॑तिलो॒भय᳚न्ती गृहा॒णाङ्गा᳚न्यप्वे॒ परे᳚हि |{इंद्रो प्रतिरथः | अप्वा | त्रिष्टुप्}

अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै᳚र॒न्धेना॒मित्रा॒स्तम॑सा सचन्ताम् ||{12/13}{10.103.12}{10.9.4.12}{8.5.23.6}{1201, 940, 9999}

अ॒मीषा᳚‌म्¦चि॒त्त‌म्¦प्र॒ति॒ऽलो॒भय᳚न्ती¦गृ॒हा॒ण¦अङ्गा᳚नि¦अ॒प्वे॒¦परा᳚¦इ॒हि॒ |
अ॒भि¦प्र¦इ॒हि॒¦निः¦द॒ह॒¦हृ॒त्ऽसु¦शोकैः᳚¦अ॒न्धेन॑¦अ॒मित्राः᳚¦तम॑सा¦स॒च॒न्ता॒‌म् ||

प्रेता॒ जय॑ता नर॒ इन्द्रो᳚ वः॒ शर्म॑ यच्छतु |{इंद्रो प्रतिरथः | इन्द्रो मरुतो वा | अनुष्टुप्}

उ॒ग्रा वः॑ सन्तु बा॒हवो᳚ऽनाधृ॒ष्या यथास॑थ ||{13/13}{10.103.13}{10.9.4.13}{8.5.23.7}{1202, 940, 10000}

प्र¦इ॒त॒¦जय॑त¦न॒रः॒¦इन्द्रः॑¦वः॒¦शर्म॑¦य॒च्छ॒तु॒ | उ॒ग्राः¦वः॒¦स॒न्तु॒¦बा॒हवः॑¦अ॒ना॒धृ॒ष्याः¦यथा᳚¦अस॑थ ||

[104] असावीत्येकादशर्चस्य सूक्तस्य वैश्वामित्रोष्टकइंद्रस्त्रिष्टुप् |
असा᳚वि॒ सोमः॑ पुरुहूत॒ तुभ्यं॒ हरि॑भ्यां य॒ज्ञमुप॑ याहि॒ तूय᳚म् |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

तुभ्यं॒ गिरो॒ विप्र॑वीरा, इया॒ना द॑धन्‌ वि॒र इ᳚न्द्र॒ पिबा᳚ सु॒तस्य॑ ||{1/11}{10.104.1}{10.9.5.1}{8.5.24.1}{1203, 941, 10001}

असा᳚वि¦सोमः॑¦पु॒रु॒ऽहू॒त॒¦तुभ्य᳚‌म्¦हरि॑ऽभ्या‌म्¦य॒ज्ञ‌म्¦उप॑¦या॒हि॒¦तूय᳚‌म् |
तुभ्य᳚‌म्¦गिरः॑¦विप्र॑ऽवीराः¦इ॒या॒नाः¦द॒ध॒न्वि॒रे¦इ॒न्द्र॒¦पिब॑¦सु॒तस्य॑ ||

अ॒प्सु धू॒तस्य॑ हरिवः॒ पिबे॒ह नृभिः॑ सु॒तस्य॑ ज॒ठरं᳚ पृणस्व |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

मि॒मि॒क्षुर्यमद्र॑य इन्द्र॒ तुभ्यं॒ तेभि᳚र्वर्धस्व॒ मद॑मुक्थवाहः ||{2/11}{10.104.2}{10.9.5.2}{8.5.24.2}{1204, 941, 10002}

अ॒प्ऽसु¦धू॒तस्य॑¦ह॒रि॒ऽवः॒¦पिब॑¦इ॒ह¦नृऽभिः॑¦सु॒तस्य॑¦ज॒ठर᳚‌म्¦पृ॒ण॒स्व॒ |
मि॒मि॒क्षुः¦य‌म्¦अद्र॑यः¦इ॒न्द्र॒¦तुभ्य᳚‌म्¦तेभिः॑¦व॒र्ध॒स्व॒¦मद᳚‌म्¦उ॒क्थ॒ऽवा॒हः॒ ||

प्रोग्रां पी॒तिं वृष्ण॑ इयर्मि स॒त्यां प्र॒यै सु॒तस्य॑ हर्यश्व॒ तुभ्य᳚म् |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

इन्द्र॒ धेना᳚भिरि॒ह मा᳚दयस्व धी॒भिर्विश्वा᳚भिः॒ शच्या᳚ गृणा॒नः ||{3/11}{10.104.3}{10.9.5.3}{8.5.24.3}{1205, 941, 10003}

प्र¦उ॒ग्रा‌म्¦पी॒ति‌म्¦वृष्णे᳚¦इ॒य॒र्मि॒¦स॒त्या‌म्¦प्र॒ऽयै¦सु॒तस्य॑¦ह॒रि॒।आ॒श्व॒¦तुभ्य᳚‌म् |
इन्द्र॑¦धेना᳚भिः¦इ॒ह¦मा॒द॒य॒स्व॒¦धी॒भिः¦विश्वा᳚भिः¦शच्या᳚¦गृ॒णा॒नः ||

ऊ॒ती श॑चीव॒स्तव॑ वी॒र्ये᳚ण॒ वयो॒ दधा᳚ना, उ॒शिज॑ ऋत॒ज्ञाः |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

प्र॒जाव॑दिन्द्र॒ मनु॑षो दुरो॒णे त॒स्थुर्गृ॒णन्तः॑ सध॒माद्या᳚सः ||{4/11}{10.104.4}{10.9.5.4}{8.5.24.4}{1206, 941, 10004}

ऊ॒ती¦श॒ची॒ऽवः॒¦तव॑¦वी॒र्ये᳚ण¦वयः॑¦दधा᳚नाः¦उ॒शिजः॑¦ऋ॒त॒ऽज्ञाः |
प्र॒जाऽव॑त्¦इ॒न्द्र॒¦मनु॑षः¦दु॒रो॒णे¦त॒स्थुः¦गृ॒णन्तः॑¦स॒ध॒ऽमाद्या᳚सः ||

प्रणी᳚तिभिष्टे हर्यश्व सु॒ष्टोः सु॑षु॒म्नस्य॑ पुरु॒रुचो॒ जना᳚सः |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

मंहि॑ष्ठामू॒तिं वि॒तिरे॒ दधा᳚नाः स्तो॒तार॑ इन्द्र॒ तव॑ सू॒नृता᳚भिः ||{5/11}{10.104.5}{10.9.5.5}{8.5.24.5}{1207, 941, 10005}

प्रनी᳚तिऽभिः¦ते॒¦ह॒रि॒।आ॒श्व॒¦सु॒ऽस्तोः¦सु॒ऽसु॒म्नस्य॑¦पु॒रु॒ऽरुचः॑¦जना᳚सः |
मंहि॑ष्ठा‌म्¦ऊ॒ति‌म्¦वि॒ऽतिरे᳚¦दधा᳚नाः¦स्तो॒तारः॑¦इ॒न्द्र॒¦तव॑¦सू॒नृता᳚भिः ||

उप॒ ब्रह्मा᳚णि हरिवो॒ हरि॑भ्यां॒ सोम॑स्य याहि पी॒तये᳚ सु॒तस्य॑ |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

इन्द्र॑ त्वा य॒ज्ञः, क्षम॑माणमानड्दा॒श्वाँ, अ॑स्यध्व॒रस्य॑ प्रके॒तः ||{6/11}{10.104.6}{10.9.5.6}{8.5.25.1}{1208, 941, 10006}

उप॑¦ब्रह्मा᳚णि¦ह॒रि॒ऽवः॒¦हरि॑ऽभ्या‌म्¦सोम॑स्य¦या॒हि॒¦पी॒तये᳚¦सु॒तस्य॑ |
इन्द्र॑¦त्वा॒¦य॒ज्ञः¦क्षम॑माण‌म्¦आ॒न॒ट्¦दा॒श्वान्¦अ॒सि॒¦अ॒ध्व॒रस्य॑¦प्र॒ऽके॒तः ||

स॒हस्र॑वाजमभिमाति॒षाहं᳚ सु॒तेर॑णं म॒घवा᳚नं सुवृ॒क्तिम् |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

उप॑ भूषन्ति॒ गिरो॒, अप्र॑तीत॒मिन्द्रं᳚ नम॒स्या ज॑रि॒तुः प॑नन्त ||{7/11}{10.104.7}{10.9.5.7}{8.5.25.2}{1209, 941, 10007}

स॒हस्र॑ऽवाज‌म्¦अ॒भि॒मा॒ति॒ऽसह᳚‌म्¦सु॒तेऽर॑ण‌म्¦म॒घऽवा᳚न‌म्¦सु॒ऽवृ॒क्ति‌म् |
उप॑¦भू॒ष॒न्ति॒¦गिरः॑¦अप्र॑तिऽ‌इत‌म्¦इन्द्र᳚‌म्¦न॒म॒स्याः¦ज॒रि॒तुः¦प॒न॒न्त॒ ||

स॒प्तापो᳚ दे॒वीः सु॒रणा॒, अमृ॑क्ता॒ याभिः॒ सिन्धु॒मत॑र इन्द्र पू॒र्भित् |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

न॒व॒तिं स्रो॒त्या नव॑ च॒ स्रव᳚न्तीर्दे॒वेभ्यो᳚ गा॒तुं मनु॑षे च विन्दः ||{8/11}{10.104.8}{10.9.5.8}{8.5.25.3}{1210, 941, 10008}

स॒प्त¦आपः॑¦दे॒वीः¦सु॒ऽरणाः᳚¦अमृ॑क्ताः¦याभिः॑¦सिन्धु᳚‌म्¦अत॑रः¦इ॒न्द्र॒¦पूः॒ऽभित् |
न॒व॒ति‌म्¦स्रो॒त्याः¦नव॑¦च॒¦स्रव᳚न्तीः¦दे॒वेभ्यः॑¦गा॒तु‌म्¦मनु॑षे¦च॒¦वि॒न्दः॒ ||

अ॒पो म॒हीर॒भिश॑स्तेरमु॒ञ्चोऽजा᳚गरा॒स्वधि॑ दे॒व एकः॑ |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

इन्द्र॒ यास्त्वं वृ॑त्र॒तूर्ये᳚ च॒कर्थ॒ ताभि᳚र्वि॒श्वायु॑स्त॒न्वं᳚ पुपुष्याः ||{9/11}{10.104.9}{10.9.5.9}{8.5.25.4}{1211, 941, 10009}

अ॒पः¦म॒हीः¦अ॒भिऽश॑स्तेः¦अ॒मुं॒चः॒¦अजा᳚गः¦आ॒सु॒¦अधि॑¦दे॒वः¦एकः॑ |
इन्द्र॑¦याः¦त्व‌म्¦वृ॒त्र॒ऽतूर्ये᳚¦च॒कर्थ॑¦ताभिः॑¦वि॒श्वऽआ᳚युः¦त॒न्व᳚‌म्¦पु॒पु॒ष्याः॒ ||

वी॒रेण्यः॒ क्रतु॒रिन्द्रः॑ सुश॒स्तिरु॒तापि॒ धेना᳚ पुरुहू॒तमी᳚ट्टे |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

आर्द॑यद्वृ॒त्रमकृ॑णोदु लो॒कं स॑सा॒हे श॒क्रः पृत॑ना, अभि॒ष्टिः ||{10/11}{10.104.10}{10.9.5.10}{8.5.25.5}{1212, 941, 10010}

वी॒रेण्यः॑¦क्रतुः॑¦इन्द्रः॑¦सु॒ऽश॒स्तिः¦उ॒त¦अपि॑¦धेना᳚¦पु॒रु॒ऽहू॒त‌म्¦ई॒ट्टे॒ |
आर्द॑यत्¦वृ॒त्र‌म्¦अकृ॑णोत्¦ऊँ॒ इति॑¦लोक᳚‌म्¦स॒स॒हे¦श॒क्रः¦पृत॑नाः¦अ॒भि॒ष्टिः ||

शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌ भरे॒ नृत॑मं॒ वाज॑सातौ |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{11/11}{10.104.11}{10.9.5.11}{8.5.25.6}{1213, 941, 10011}

शु॒न‌म्¦हु॒वे॒म॒¦म॒घऽवा᳚न‌म्¦इन्द्र᳚‌म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑म‌म्¦वाज॑ऽसातौ |
शृ॒ण्वन्त᳚‌म्¦उ॒ग्र‌म्¦ऊ॒तये᳚¦स॒मत्ऽसु॑¦घ्नन्त᳚‌म्¦वृ॒त्राणि॑¦स॒‌म्ऽजित᳚‌म्¦धना᳚ना‌म् ||

[105] कदेत्येकादशर्चस्य सूक्तस्य कौत्सोदुर्मित्र इंद्र उष्णिक् आद्यागायत्रीवा द्वितीयासप्तम्यौपिपीलिकमध्येअंत्यात्रिष्टुप् |
क॒दा व॑सो स्तो॒त्रं हर्य॑त॒ आव॑ श्म॒शा रु॑ध॒द्वाः |{कौत्सो दुर्मित्रः | इन्द्रः | गायत्री}

दी॒र्घं सु॒तं वा॒ताप्या᳚य ||{1/11}{10.105.1}{10.9.6.1}{8.5.26.1}{1214, 942, 10012}

क॒दा¦व॒सो॒ इति॑¦स्तो॒त्र‌म्¦हर्य॑ते¦आ¦अव॑¦श्म॒शा¦रु॒ध॒त्¦वारिति॒ वाः | दी॒र्घ‌म्¦सु॒त‌म्¦वा॒ताप्या᳚य ||

हरी॒ यस्य॑ सु॒युजा॒ विव्र॑ता॒ वेरर्व॒न्तानु॒ शेपा᳚ |{कौत्सो दुर्मित्रः | इन्द्रः | गायत्री}

उ॒भा र॒जी न के॒शिना॒ पति॒र्दन् ||{2/11}{10.105.2}{10.9.6.2}{8.5.26.2}{1215, 942, 10013}

हरी॒ इति॑¦यस्य॑¦सु॒ऽयुजा᳚¦विऽव्र॑ता¦वेः¦अर्व᳚न्ता¦अनु॑¦शेपा᳚ | उ॒भा¦र॒जी इति॑¦न¦के॒शिना᳚¦पतिः॑¦द॒न् ||

अप॒ योरिन्द्रः॒ पाप॑ज॒ आ मर्तो॒ न श॑श्रमा॒णो बि॑भी॒वान् |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्}

शु॒भे यद्यु॑यु॒जे तवि॑षीवान् ||{3/11}{10.105.3}{10.9.6.3}{8.5.26.3}{1216, 942, 10014}

अप॑¦योः¦इन्द्रः॑¦पाप॑जे¦आ¦मर्तः॑¦न¦श॒श्र॒मा॒णः¦बि॒भी॒वान् | शु॒भे¦यत्¦यु॒यु॒जे¦तवि॑षीऽवान् ||

सचा॒योरिन्द्र॒श्चर्कृ॑ष॒ आँ, उ॑पान॒सः स॑प॒र्यन् |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्}

न॒दयो॒र्विव्र॑तयोः॒ शूर॒ इन्द्रः॑ ||{4/11}{10.105.4}{10.9.6.4}{8.5.26.4}{1217, 942, 10015}

सचा᳚¦आ॒योः¦इन्द्रः॑¦चर्कृ॑षे¦आ¦उ॒पा॒न॒सः¦स॒प॒र्यन् | न॒दयोः᳚¦विऽव्र॑तयोः¦शूरः॑¦इन्द्रः॑ ||

अधि॒ यस्त॒स्थौ केश॑वन्ता॒ व्यच॑स्वन्ता॒ न पु॒ष्ट्यै |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्}

व॒नोति॒ शिप्रा᳚भ्यां शि॒प्रिणी᳚वान् ||{5/11}{10.105.5}{10.9.6.5}{8.5.26.5}{1218, 942, 10016}

अधि॑¦यः¦त॒स्थौ¦केष॑ऽवन्ता¦व्यच॑स्वन्ता¦न¦पु॒ष्ट्यै | व॒नोति॑¦शिप्रा᳚भ्या‌म्¦शि॒प्रिणी᳚ऽवान् ||

प्रास्तौ᳚दृ॒ष्वौजा᳚ ऋ॒ष्वेभि॑स्त॒तक्ष॒ शूरः॒ शव॑सा |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्}

ऋ॒भुर्न क्रतु॑भिर्मात॒रिश्वा᳚ ||{6/11}{10.105.6}{10.9.6.6}{8.5.27.1}{1219, 942, 10017}

प्र¦अ॒स्तौ॒त्¦ऋ॒ष्वऽओ᳚जाः॒¦ऋ॒ष्वेभिः॑¦त॒तक्ष॑¦शूरः॑¦शव॑सा | ऋ॒भुः¦न¦क्रतु॑ऽभिः¦मा॒त॒रिश्वा᳚ ||

वज्रं॒ यश्च॒क्रे सु॒हना᳚य॒ दस्य॑वे हिरीम॒शो हिरी᳚मान् |{कौत्सो दुर्मित्रः | इन्द्रः | गायत्री}

अरु॑तहनु॒रद्भु॑तं॒ न रजः॑ ||{7/11}{10.105.7}{10.9.6.7}{8.5.27.2}{1220, 942, 10018}

वज्र᳚‌म्¦यः¦च॒क्रे¦सु॒ऽहना᳚य¦दस्य॑वे¦हि॒री॒म॒शः¦हिरी᳚मान् | अरु॑तऽहनुः¦अद्भु॑त‌म्¦न¦रजः॑ ||

अव॑ नो वृजि॒ना शि॑शीह्यृ॒चा व॑नेमा॒नृचः॑ |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्}

नाब्र᳚ह्मा य॒ज्ञ ऋध॒ग्जोष॑ति॒ त्वे ||{8/11}{10.105.8}{10.9.6.8}{8.5.27.3}{1221, 942, 10019}

अव॑¦नः॒¦वृ॒जि॒ना¦शि॒शी॒हि॒¦ऋ॒चा¦व॒ने॒म॒¦अ॒नृचः॑ | न¦अब्र᳚ह्मा¦य॒ज्ञः¦ऋध॑क्¦जोष॑ति¦त्वे इति॑ ||

ऊ॒र्ध्वा यत्ते᳚ त्रे॒तिनी॒ भूद्‌ य॒ज्ञस्य॑ धू॒र्षु सद्म॑न् |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्}

स॒जूर्नावं॒ स्वय॑शसं॒ सचा॒योः ||{9/11}{10.105.9}{10.9.6.9}{8.5.27.4}{1222, 942, 10020}

ऊ॒र्ध्वा¦यत्¦ते॒¦त्रे॒तिनी᳚¦भूत्¦य॒ज्ञस्य॑¦धूः॒ऽसु¦सद्म॑न् | स॒ऽजूः¦नाव᳚‌म्¦स्वऽय॑शस‌म्¦सचा᳚¦आ॒योः ||

श्रि॒ये ते॒ पृश्नि॑रुप॒सेच॑नी भूच्छ्रि॒ये दर्वि॑ररे॒पाः |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्}

यया॒ स्वे पात्रे᳚ सि॒ञ्चस॒ उत् ||{10/11}{10.105.10}{10.9.6.10}{8.5.27.5}{1223, 942, 10021}

श्रि॒ये¦ते॒¦पृश्निः॑¦उ॒प॒ऽसेच॑नी¦भू॒त्¦श्रि॒ये¦दर्विः॑¦अ॒रे॒पाः | यया᳚¦स्वे¦पात्रे᳚¦सिं॒चसे᳚¦उत् ||

श॒तं वा॒ यद॑सुर्य॒ प्रति॑ त्वा सुमि॒त्र इ॒त्थास्तौ᳚द्दुर्मि॒त्र इ॒त्थास्तौ᳚त् |{कौत्सो दुर्मित्रः | इन्द्रः | त्रिष्टुप्}

आवो॒ यद्द॑स्यु॒हत्ये᳚ कुत्सपु॒त्रं प्रावो॒ यद्द॑स्यु॒हत्ये᳚ कुत्सव॒त्सम् ||{11/11}{10.105.11}{10.9.6.11}{8.5.27.6}{1224, 942, 10022}

श॒त‌म्¦वा॒¦यत्¦अ॒सु॒र्य॒¦प्रति॑¦त्वा॒¦सु॒ऽमि॒त्रः¦इ॒त्था¦अ॒स्तौ॒त्¦दुः॒ऽमि॒त्रः¦इ॒त्था¦अ॒स्तौ॒त् |
आवः॑¦यत्¦द॒स्यु॒ऽहत्ये᳚¦कु॒त्स॒ऽपु॒त्र‌म्¦प्र¦आवः॑¦यत्¦द॒स्यु॒ऽहत्ये᳚¦कु॒त्स॒ऽव॒त्स‌म् ||

[106] उभाउनूनमित्येकादशर्चस्य सूक्तस्य काश्यपोभूतांशोश्विनौत्रिष्टुप् |
उ॒भा, उ॑ नू॒नं तदिद॑र्थयेथे॒ वि त᳚न्वाथे॒ धियो॒ वस्त्रा॒पसे᳚व |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

स॒ध्री॒ची॒ना यात॑वे॒ प्रेम॑जीगः सु॒दिने᳚व॒ पृक्ष॒ आ तं᳚सयेथे ||{1/11}{10.106.1}{10.9.7.1}{8.6.1.1}{1225, 943, 10023}

उ॒भौ¦ऊँ॒ इति॑¦नू॒न‌म्¦तत्¦इत्¦अ॒र्थ॒ये॒थे॒ इति॑¦वि¦त॒न्वा॒थे॒ इति॑¦धियः॑¦वस्त्रा᳚¦अ॒पसा᳚ऽ‌इव |
स॒ध्री॒ची॒ना¦यात॑वे¦प्र¦ई॒‌म्¦अ॒जी॒ग॒रिति॑¦सु॒दिना᳚ऽ‌इव¦पृक्षः॑¦आ¦तं॒स॒ये॒थे॒ इति॑ ||

उ॒ष्टारे᳚व॒ फर्व॑रेषु श्रयेथे प्रायो॒गेव॒ श्वात्र्या॒ शासु॒रेथः॑ |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

दू॒तेव॒ हि ष्ठो य॒शसा॒ जने᳚षु॒ माप॑ स्थातं महि॒षेवा᳚व॒पाना᳚त् ||{2/11}{10.106.2}{10.9.7.2}{8.6.1.2}{1226, 943, 10024}

उ॒ष्टारा᳚ऽ‌इव¦फर्व॑रेषु¦श्र॒ये॒थे॒ इति॑¦प्रा॒यो॒गाऽ‌इ᳚व¦श्वात्र्या᳚¦शासुः॑¦आ¦इ॒थः॒ |
दू॒ताऽ‌इ᳚व¦हि¦स्थः¦य॒शसा᳚¦जने᳚षु¦मा¦अप॑¦स्था॒त॒‌म्¦म॒हि॒षाऽ‌इ᳚व¦अ॒व॒ऽपाना᳚त् ||

सा॒कं॒युजा᳚ शकु॒नस्ये᳚व प॒क्षा प॒श्वेव॑ चि॒त्रा यजु॒रा ग॑मिष्टम् |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

अ॒ग्निरि॑व देव॒योर्दी᳚दि॒वांसा॒ परि॑ज्मानेव यजथः पुरु॒त्रा ||{3/11}{10.106.3}{10.9.7.3}{8.6.1.3}{1227, 943, 10025}

सा॒क॒‌म्ऽयुजा᳚¦श॒कु॒नस्य॑ऽ‌इव¦प॒क्षा¦प॒श्वाऽ‌इ᳚व¦चि॒त्रा¦यजुः॑¦आ¦ग॒मि॒ष्ट॒‌म् |
अ॒ग्निःऽ‌इ᳚व¦दे॒व॒ऽयोः¦दी॒दि॒ऽवांसा᳚¦परि॑ज्मानाऽ‌इव¦य॒ज॒थः॒¦पु॒रु॒ऽत्रा ||

आ॒पी वो᳚, अ॒स्मे पि॒तरे᳚व पु॒त्रोग्रेव॑ रु॒चा नृ॒पती᳚व तु॒र्यै |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

इर्ये᳚व पु॒ष्ट्यै कि॒रणे᳚व भु॒ज्यै श्रु॑ष्टी॒वाने᳚व॒ हव॒मा ग॑मिष्टम् ||{4/11}{10.106.4}{10.9.7.4}{8.6.1.4}{1228, 943, 10026}

आ॒पी इति॑¦वः॒¦अ॒स्मे इति॑¦पि॒तरा᳚ऽ‌इव¦पु॒त्रा¦उ॒ग्राऽ‌इ᳚व¦रु॒चा¦नृ॒पती᳚ इ॒वेति॑ नृ॒पती᳚ऽ‌इव¦तु॒र्यै |
इर्या᳚ऽ‌इव¦पु॒ष्ट्यै¦कि॒रणा᳚ऽ‌इव¦भु॒ज्यै¦श्रु॒ष्टी॒वाना᳚ऽ‌इव¦हव᳚‌म्¦आ¦ग॒मि॒ष्ट॒‌म् ||

वंस॑गेव पूष॒र्या᳚ शि॒म्बाता᳚ मि॒त्रेव॑ ऋ॒ता श॒तरा॒ शात॑पन्ता |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

वाजे᳚वो॒च्चा वय॑सा घर्म्ये॒ष्ठा मेषे᳚वे॒षा स॑प॒र्या॒३॑(आ॒) पुरी᳚षा ||{5/11}{10.106.5}{10.9.7.5}{8.6.1.5}{1229, 943, 10027}

वंस॑गाऽ‌इव¦पू॒ष॒र्या᳚¦शि॒म्बाता᳚¦मि॒त्राऽ‌इ᳚व¦ऋ॒ता¦श॒तरा᳚¦शात॑पन्ता |
वाजा᳚ऽ‌इव¦उ॒च्चा¦वय॑सा¦घ॒र्म्ये॒ऽस्था¦मेषा᳚ऽ‌इव¦इ॒षा¦स॒प॒र्या᳚¦पुरी᳚षा ||

सृ॒ण्ये᳚व ज॒र्भरी᳚ तु॒र्फरी᳚तू नैतो॒शेव॑ तु॒र्फरी᳚ पर्फ॒रीका᳚ |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

उ॒द॒न्य॒जेव॒ जेम॑ना मदे॒रू ता मे᳚ ज॒राय्व॒जरं᳚ म॒रायु॑ ||{6/11}{10.106.6}{10.9.7.6}{8.6.2.1}{1230, 943, 10028}

सृ॒ण्या᳚ऽ‌इव¦ज॒र्भरी॒ इति॑¦तु॒र्फरी᳚तू॒ इति॑¦नै॒तो॒शाऽ‌इ᳚व¦तु॒र्फरी॒ इति॑¦प॒र्फ॒रीका᳚ |
उ॒द॒न्य॒जाऽ‌इ᳚व¦जेम॑ना¦म॒दे॒रू इति॑¦ता¦मे॒¦ज॒रायु॑¦अ॒जर᳚‌म्¦म॒रायु॑ ||

प॒ज्रेव॒ चर्च॑रं॒ जारं᳚ म॒रायु॒ क्षद्मे॒वार्थे᳚षु तर्तरीथ उग्रा |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

ऋ॒भू नाप॑त्खरम॒ज्रा ख॒रज्रु᳚र्वा॒युर्न प॑र्फरत्‌ क्षयद्रयी॒णाम् ||{7/11}{10.106.7}{10.9.7.7}{8.6.2.2}{1231, 943, 10029}

प॒ज्राऽ‌इ᳚व¦चर्च॑र‌म्¦जार᳚‌म्¦म॒रायु॑¦क्षद्म॑ऽ‌इव¦अर्थे᳚षु¦त॒र्त॒री॒थः॒¦उ॒ग्रा॒ |
ऋ॒भू इति॑¦न¦आ॒प॒त्¦ख॒र॒म॒ज्रा¦ख॒रऽज्रुः॑¦वा॒युः¦न¦प॒र्फ॒र॒त्¦क्ष॒य॒त्¦र॒यी॒णा‌म् ||

घ॒र्मेव॒ मधु॑ ज॒ठरे᳚ स॒नेरू॒ भगे᳚विता तु॒र्फरी॒ फारि॒वार᳚म् |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

प॒त॒रेव॑ चच॒रा च॒न्द्रनि᳚र्णि॒ङ्मन॑ऋङ्गा मन॒न्या॒३॑(आ॒) न जग्मी᳚ ||{8/11}{10.106.8}{10.9.7.8}{8.6.2.3}{1232, 943, 10030}

घ॒र्माऽ‌इ᳚व¦मधु॑¦ज॒ठरे᳚¦स॒नेरू॒ इति॑¦भगे᳚।आविता¦तु॒र्फरी॒ इति॑¦फारि॑वा¦अर᳚‌म् |
प॒त॒राऽ‌इ᳚व¦च॒च॒रा¦च॒न्द्रऽनि᳚र्निक्¦मनः॑ऽऋङ्गा¦म॒न॒न्या᳚¦न¦जग्मी॒ इति॑ ||

बृ॒हन्ते᳚व ग॒म्भरे᳚षु प्रति॒ष्ठां पादे᳚व गा॒धं तर॑ते विदाथः |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

कर्णे᳚व॒ शासु॒रनु॒ हि स्मरा॒थोंऽशे᳚व नो भजतं चि॒त्रमप्नः॑ ||{9/11}{10.106.9}{10.9.7.9}{8.6.2.4}{1233, 943, 10031}

बृ॒हन्ता᳚ऽ‌इव¦ग॒म्भरे᳚षु¦प्र॒ति॒ऽस्था‌म्¦पादा᳚ऽ‌इव¦गा॒ध‌म्¦तर॑ते¦वि॒दा॒थः॒ |
कर्णा᳚ऽ‌इव¦शासुः॑¦अनु॑¦हि¦स्मरा᳚थः¦अंशा᳚ऽ‌इव¦नः॒¦भ॒ज॒त॒‌म्¦चि॒त्र‌म्¦अप्नः॑ ||

आ॒र॒ङ्ग॒रेव॒ मध्वेर॑येथे सार॒घेव॒ गवि॑ नी॒चीन॑बारे |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

की॒नारे᳚व॒ स्वेद॑मासिष्विदा॒ना क्षामे᳚वो॒र्जा सू᳚यव॒सात्स॑चेथे ||{10/11}{10.106.10}{10.9.7.10}{8.6.2.5}{1234, 943, 10032}

आ॒र॒ङ्ग॒राऽ‌इ᳚व¦मधु॑¦आ¦ई॒र॒ये॒थे॒ इति॑¦सा॒र॒घाऽ‌इ᳚व¦गवि॑¦नी॒चीन॑ऽबारे |
की॒नारा᳚ऽ‌इव¦स्वेद᳚‌म्¦आ॒ऽसि॒स्वि॒दा॒ना¦क्षाम॑ऽ‌इव¦ऊ॒र्जा¦सु॒य॒व॒स॒।आत्¦स॒चे॒थे॒ इति॑ ||

ऋ॒ध्याम॒ स्तोमं᳚ सनु॒याम॒ वाज॒मा नो॒ मन्त्रं᳚ स॒रथे॒होप॑ यातम् |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

यशो॒ न प॒क्वं मधु॒ गोष्व॒न्तरा भू॒तांशो᳚, अ॒श्विनोः॒ काम॑मप्राः ||{11/11}{10.106.11}{10.9.7.11}{8.6.2.6}{1235, 943, 10033}

ऋ॒ध्याम॑¦स्तोम᳚‌म्¦स॒नु॒याम॑¦वाज᳚‌म्¦आ¦नः॒¦मन्त्र᳚‌म्¦स॒ऽरथा᳚¦इ॒ह¦उप॑¦या॒त॒‌म् |
यशः॑¦न¦प॒क्व‌म्¦मधु॑¦गोषु॑¦अ॒न्तः¦आ¦भू॒त।आं᳚शः¦अ॒श्विनोः᳚¦काम᳚‌म्¦अ॒प्राः॒ ||

[107] आविरित्येका दशर्चस्य सूक्तस्यांगिरसोदिव्योदक्षिणात्रिष्टुप् चतुर्थीजगती | (प्राजापत्यादक्षिणानामग्निरृषिका वा दक्षिणादातारोवा देवता) |
आ॒विर॑भू॒न्महि॒ माघो᳚नमेषां॒ विश्वं᳚ जी॒वं तम॑सो॒ निर॑मोचि |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

महि॒ ज्योतिः॑ पि॒तृभि॑र्द॒त्तमागा᳚दु॒रुः पन्था॒ दक्षि॑णाया, अदर्शि ||{1/11}{10.107.1}{10.9.8.1}{8.6.3.1}{1236, 944, 10034}

आ॒विः¦अ॒भू॒त्¦महि॑¦माघो᳚न‌म्¦ए॒षा॒‌म्¦विश्व᳚‌म्¦जी॒व‌म्¦तम॑सः¦निः¦अ॒मो॒चि॒ |
महि॑¦ज्योतिः॑¦पि॒तृऽभिः॑¦द॒त्त‌म्¦आ¦अ॒गा॒त्¦उ॒रुः¦पन्थाः᳚¦दक्षि॑णायाः¦अ॒द॒र्शि॒ ||

उ॒च्चा दि॒वि दक्षि॑णावन्तो, अस्थु॒र्ये, अ॑श्व॒दाः स॒ह ते सूर्ये᳚ण |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

हि॒र॒ण्य॒दा, अ॑मृत॒त्वं भ॑जन्ते वासो॒दाः सो᳚म॒ प्र ति॑रन्त॒ आयुः॑ ||{2/11}{10.107.2}{10.9.8.2}{8.6.3.2}{1237, 944, 10035}

उ॒च्चा¦दि॒वि¦दक्षि॑णाऽवन्तः¦अ॒स्थुः॒¦ये¦अ॒श्व॒ऽदाः¦स॒ह¦ते¦सूर्ये᳚ण |
हि॒र॒ण्य॒ऽदाः¦अ॒मृ॒त॒ऽत्व‌म्¦भ॒ज॒न्ते॒¦वा॒सः॒ऽदाः¦सो॒म॒¦प्र¦ति॒र॒न्ते॒¦आयुः॑ ||

दैवी᳚ पू॒र्तिर्दक्षि॑णा देवय॒ज्या न क॑वा॒रिभ्यो᳚ न॒हि ते पृ॒णन्ति॑ |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

अथा॒ नरः॒ प्रय॑तदक्षिणासोऽवद्यभि॒या ब॒हवः॑ पृणन्ति ||{3/11}{10.107.3}{10.9.8.3}{8.6.3.3}{1238, 944, 10036}

दैवी᳚¦पू॒र्तिः¦दक्षि॑णा¦दे॒व॒ऽय॒ज्या¦न¦क॒व॒।आ॒रिभ्यः॑¦न॒हि¦ते¦पृ॒णन्ति॑ |
अथ॑¦नरः॑¦प्रय॑तऽदक्षिणासः¦अ॒व॒द्य॒ऽभि॒या¦ब॒हवः॑¦पृ॒ण॒न्ति॒ ||

श॒तधा᳚रं वा॒युम॒र्कं स्व॒र्विदं᳚ नृ॒चक्ष॑स॒स्ते, अ॒भि च॑क्षते ह॒विः |{आङ्गिरसो दिव्यः | दक्षिणाः | जगती}

ये पृ॒णन्ति॒ प्र च॒ यच्छ᳚न्ति संग॒मे ते दक्षि॑णां दुहते स॒प्तमा᳚तरम् ||{4/11}{10.107.4}{10.9.8.4}{8.6.3.4}{1239, 944, 10037}

श॒तऽधा᳚र‌म्¦वा॒यु‌म्¦अ॒र्क‌म्¦स्वः॒ऽविद᳚‌म्¦नृ॒ऽचक्ष॑सः¦ते॒¦अ॒भि¦च॒क्ष॒ते॒¦ह॒विः |
ये¦पृ॒णन्ति॑¦प्र¦च॒¦यच्छ᳚न्ति¦स॒‌म्ऽग॒मे¦ते¦दक्षि॑णा‌म्¦दु॒ह॒ते॒¦स॒प्तऽमा᳚तर‌म् ||

दक्षि॑णावान्‌ प्रथ॒मो हू॒त ए᳚ति॒ दक्षि॑णावान्‌ ग्राम॒णीरग्र॑मेति |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

तमे॒व म᳚न्ये नृ॒पतिं॒ जना᳚नां॒ यः प्र॑थ॒मो दक्षि॑णामावि॒वाय॑ ||{5/11}{10.107.5}{10.9.8.5}{8.6.3.5}{1240, 944, 10038}

दक्षि॑णाऽवान्¦प्र॒थ॒मः¦हू॒तः¦ए॒ति॒¦दक्षि॑णाऽवान्¦ग्रा॒म॒ऽनीः¦अग्र᳚‌म्¦ए॒ति॒ |
त‌म्¦ए॒व¦म॒न्ये॒¦नृ॒ऽपति᳚‌म्¦जना᳚ना‌म्¦यः¦प्र॒थ॒मः¦दक्षि॑णा‌म्¦आ॒ऽवि॒वाय॑ ||

तमे॒व ऋषिं॒ तमु॑ ब्र॒ह्माण॑माहुर्यज्ञ॒न्यं᳚ साम॒गामु॑क्थ॒शास᳚म् |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

स शु॒क्रस्य॑ त॒न्वो᳚ वेद ति॒स्रो यः प्र॑थ॒मो दक्षि॑णया र॒राध॑ ||{6/11}{10.107.6}{10.9.8.6}{8.6.4.1}{1241, 944, 10039}

त‌म्¦ए॒व¦ऋषि᳚‌म्¦त‌म्¦ऊँ॒ इति॑¦ब्र॒ह्माण᳚‌म्¦आ॒हुः॒¦य॒ज्ञ॒ऽन्य᳚‌म्¦सा॒म॒ऽगा‌म्¦उ॒क्थ॒ऽशास᳚‌म् |
सः¦शु॒क्रस्य॑¦त॒न्वः॑¦वे॒द॒¦ति॒स्रः¦यः¦प्र॒थ॒मः¦दक्षि॑णया¦र॒राध॑ ||

दक्षि॒णाश्वं॒ दक्षि॑णा॒ गां द॑दाति॒ दक्षि॑णा च॒न्द्रमु॒त यद्धिर᳚ण्यम् |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

दक्षि॒णान्नं᳚ वनुते॒ यो न॑ आ॒त्मा दक्षि॑णां॒ वर्म॑ कृणुते विजा॒नन् ||{7/11}{10.107.7}{10.9.8.7}{8.6.4.2}{1242, 944, 10040}

दक्षि॑णा¦अश्व᳚‌म्¦दक्षि॑णा¦गा‌म्¦द॒दा॒ति॒¦दक्षि॑णा¦च॒न्द्र‌म्¦उ॒त¦यत्¦हिर᳚ण्य‌म् |
दक्षि॑णा¦अन्न᳚‌म्¦व॒नु॒ते॒¦यः¦नः॒¦आ॒त्मा¦दक्षि॑णा‌म्¦वर्म॑¦कृ॒णु॒ते॒¦वि॒ऽजा॒नन् ||

न भो॒जा म᳚म्रु॒र्न न्य॒र्थमी᳚यु॒र्न रि॑ष्यन्ति॒ न व्य॑थन्ते ह भो॒जाः |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

इ॒दं यद्विश्वं॒ भुव॑नं॒ स्व॑श्चै॒तत्सर्वं॒ दक्षि॑णैभ्यो ददाति ||{8/11}{10.107.8}{10.9.8.8}{8.6.4.3}{1243, 944, 10041}

न¦भो॒जाः¦म॒म्रुः॒¦न¦नि॒।आ॒र्थ‌म्¦ई॒युः॒¦न¦रि॒ष्य॒न्ति॒¦न¦व्य॒थ॒न्ते॒¦ह॒¦भो॒जाः |
इ॒द‌म्¦यत्¦विश्व᳚‌म्¦भुव॑न‌म्¦स्वः॑¦च॒¦ए॒तत्¦सर्व᳚‌म्¦दक्षि॑णा¦ए॒भ्यः॒¦द॒दा॒ति॒ ||

भो॒जा जि॑ग्युः सुर॒भिं योनि॒मग्रे᳚ भो॒जा जि॑ग्युर्व॒ध्व१॑(अं॒) या सु॒वासाः᳚ |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

भो॒जा जि॑ग्युरन्तः॒पेयं॒ सुरा᳚या भो॒जा जि॑ग्यु॒र्ये, अहू᳚ताः प्र॒यन्ति॑ ||{9/11}{10.107.9}{10.9.8.9}{8.6.4.4}{1244, 944, 10042}

भो॒जाः¦जि॒ग्युः॒¦सु॒र॒भि‌म्¦योनि᳚‌म्¦अग्रे᳚¦भो॒जाः¦जि॒ग्युः॒¦व॒ध्व᳚‌म्¦या¦सु॒ऽवासाः᳚ |
भो॒जाः¦जि॒ग्युः॒¦अ॒न्तः॒ऽपेय᳚‌म्¦सुरा᳚याः¦भो॒जाः¦जि॒ग्युः॒¦ये¦अहू᳚ताः¦प्र॒ऽयन्ति॑ ||

भो॒जायाश्वं॒ सं मृ॑जन्त्या॒शुं भो॒जाया᳚स्ते क॒न्या॒३॑(आ॒) शुम्भ॑माना |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

भो॒जस्ये॒दं पु॑ष्क॒रिणी᳚व॒ वेश्म॒ परि॑ष्कृतं देवमा॒नेव॑ चि॒त्रम् ||{10/11}{10.107.10}{10.9.8.10}{8.6.4.5}{1245, 944, 10043}

भो॒जाय॑¦अश्व᳚‌म्¦स‌म्¦मृ॒ज॒न्ति॒¦आ॒शु‌म्¦भो॒जाय॑¦आ॒स्ते॒¦क॒न्या᳚¦शुम्भ॑माना |
भो॒जस्य॑¦इ॒द‌म्¦पु॒ष्क॒रिणी᳚ऽ‌इव¦वेश्म॑¦परि॑ऽकृत‌म्¦दे॒व॒मा॒नाऽ‌इ᳚व¦चि॒त्र‌म् ||

भो॒जमश्वाः᳚ सुष्ठु॒वाहो᳚ वहन्ति सु॒वृद्रथो᳚ वर्तते॒ दक्षि॑णायाः |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

भो॒जं दे᳚वासोऽवता॒ भरे᳚षु भो॒जः शत्रू᳚न्‌ त्समनी॒केषु॒ जेता᳚ ||{11/11}{10.107.11}{10.9.8.11}{8.6.4.6}{1246, 944, 10044}

भो॒ज‌म्¦अश्वाः᳚¦सु॒ष्ठु॒ऽवाहः॑¦व॒ह॒न्ति॒¦सु॒ऽवृत्¦रथः॑¦व॒र्त॒ते॒¦दक्षि॑णायाः |
भो॒ज‌म्¦दे॒वा॒सः॒¦अ॒व॒त॒¦भरे᳚षु¦भो॒जः¦शत्रू᳚न्¦स॒‌म्।आ॒नी॒केषु॑¦जेता᳚ ||

[108] किमिच्छंतीत्येकादशर्चस्य सूक्तस्यायुजां पणिनामासुराऋषयः युजामेकादश्याश्च सरमानाग्नीदेवशुनीऋषिका अयुजांसरमादेवता युजामेकादश्याश्चपणयस्त्रिष्टुप् |
किमि॒च्छन्ती᳚ स॒रमा॒ प्रेदमा᳚नड्दू॒रे ह्यध्वा॒ जगु॑रिः परा॒चैः |{पणिनामासुराः | सरमा | त्रिष्टुप्}

कास्मेहि॑तिः॒ का परि॑तक्म्यासीत्क॒थं र॒साया᳚, अतरः॒ पयां᳚सि ||{1/11}{10.108.1}{10.9.9.1}{8.6.5.1}{1247, 945, 10045}

कि‌म्¦इ॒च्छन्ती᳚¦स॒रमा᳚¦प्र¦इ॒द‌म्¦आ॒न॒ट्¦दू॒रे¦हि¦अध्वा᳚¦जगु॑रिः¦प॒रा॒चैः |
का¦अ॒स्मेऽहि॑तिः¦का¦परि॑ऽतक्म्या¦आ॒सी॒त्¦क॒थ‌म्¦र॒सायाः᳚¦अ॒त॒रः॒¦पयां᳚सि ||

इन्द्र॑स्य दू॒तीरि॑षि॒ता च॑रामि म॒ह इ॒च्छन्ती᳚ पणयो नि॒धीन्वः॑ |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्}

अ॒ति॒ष्कदो᳚ भि॒यसा॒ तन्न॑ आव॒त्तथा᳚ र॒साया᳚, अतरं॒ पयां᳚सि ||{2/11}{10.108.2}{10.9.9.2}{8.6.5.2}{1248, 945, 10046}

इन्द्र॑स्य¦दू॒तीः¦इ॒षि॒ता¦च॒रा॒मि॒¦म॒हः¦इ॒च्छन्ती᳚¦प॒ण॒यः॒¦नि॒ऽधीन्¦वः॒ |
अ॒ति॒ऽस्कदः॑¦भि॒यसा᳚¦तत्¦नः॒¦आ॒व॒त्¦तथा᳚¦र॒सायाः᳚¦अ॒त॒र॒‌म्¦पयां᳚सि ||

की॒दृङ्ङिन्द्रः॑ सरमे॒ का दृ॑शी॒का यस्ये॒दं दू॒तीरस॑रः परा॒कात् |{पणिनामासुराः | सरमा | त्रिष्टुप्}

आ च॒ गच्छा᳚न्मि॒त्रमे᳚ना दधा॒माथा॒ गवां॒ गोप॑तिर्नो भवाति ||{3/11}{10.108.3}{10.9.9.3}{8.6.5.3}{1249, 945, 10047}

की॒दृक्¦इन्द्रः॑¦स॒र॒मे॒¦का¦दृ॒शी॒का¦यस्य॑¦इ॒द‌म्¦दू॒तीः¦अस॑रः¦प॒रा॒कात् |
आ¦च॒¦गच्छा᳚त्¦मि॒त्र‌म्¦ए॒न॒¦द॒धा॒म॒¦अथ॑¦गवा᳚‌म्¦गोऽप॑तिः¦नः॒¦भ॒वा॒ति॒ ||

नाहं तं वे᳚द॒ दभ्यं॒ दभ॒त्स यस्ये॒दं दू॒तीरस॑रं परा॒कात् |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्}

न तं गू᳚हन्ति स्र॒वतो᳚ गभी॒रा ह॒ता, इन्द्रे᳚ण पणयः शयध्वे ||{4/11}{10.108.4}{10.9.9.4}{8.6.5.4}{1250, 945, 10048}

न¦अ॒ह‌म्¦त‌म्¦वे॒द॒¦दभ्य᳚‌म्¦दभ॑त्¦सः¦यस्य॑¦इ॒द‌म्¦दू॒तीः¦अस॑र‌म्¦प॒रा॒कात् |
न¦त‌म्¦गू॒ह॒न्ति॒¦स्र॒वतः॑¦ग॒भी॒राः¦ह॒ताः¦इन्द्रे᳚ण¦प॒ण॒यः॒¦श॒य॒ध्वे॒ ||

इ॒मा गावः॑ सरमे॒ या, ऐच्छः॒ परि॑ दि॒वो, अन्ता᳚न्‌ त्सुभगे॒ पत᳚न्ती |{पणिनामासुराः | सरमा | त्रिष्टुप्}

कस्त॑ एना॒, अव॑ सृजा॒दयु॑ध्व्यु॒तास्माक॒मायु॑धा सन्ति ति॒ग्मा ||{5/11}{10.108.5}{10.9.9.5}{8.6.5.5}{1251, 945, 10049}

इ॒माः¦गावः॑¦स॒र॒मे॒¦याः¦ऐच्छः॑¦परि॑¦दि॒वः¦अन्ता᳚न्¦सु॒ऽभ॒गे॒¦पत᳚न्ती |
कः¦ते॒¦ए॒नाः॒¦अव॑¦सृ॒जा॒त्¦अयु॑ध्वी¦उ॒त¦अ॒स्माक᳚‌म्¦आयु॑धा¦स॒न्ति॒¦ति॒ग्मा ||

अ॒से॒न्या वः॑ पणयो॒ वचां᳚स्यनिष॒व्यास्त॒न्वः॑ सन्तु पा॒पीः |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्}

अधृ॑ष्टो व॒ एत॒वा, अ॑स्तु॒ पन्था॒ बृह॒स्पति᳚र्व उभ॒या न मृ॑ळात् ||{6/11}{10.108.6}{10.9.9.6}{8.6.6.1}{1252, 945, 10050}

अ॒से॒न्या¦वः॒¦प॒ण॒यः॒¦वचां᳚सि¦अ॒नि॒ष॒व्याः¦त॒न्वः॑¦स॒न्तु॒¦पा॒पीः |
अधृ॑ष्टः¦वः॒¦एत॒वै¦अ॒स्तु॒¦पन्थाः᳚¦बृह॒स्पतिः॑¦वः॒¦उ॒भ॒या¦न¦मृ॒ळा॒त् ||

अ॒यं नि॒धिः स॑रमे॒, अद्रि॑बुध्नो॒ गोभि॒रश्वे᳚भि॒र्वसु॑भि॒र्न्यृ॑ष्टः |{पणिनामासुराः | सरमा | त्रिष्टुप्}

रक्ष᳚न्ति॒ तं प॒णयो॒ ये सु॑गो॒पा रेकु॑ प॒दमल॑क॒मा ज॑गन्थ ||{7/11}{10.108.7}{10.9.9.7}{8.6.6.2}{1253, 945, 10051}

अ॒य‌म्¦नि॒ऽधिः¦स॒र॒मे॒¦अद्रि॑ऽबुध्नः¦गोभिः॑¦अश्वे᳚भिः¦वसु॑ऽभिः¦निऽऋ॑ष्टः |
रक्ष᳚न्ति¦त‌म्¦प॒णयः॑¦ये¦सु॒ऽगो॒पाः¦रेकु॑¦प॒द‌म्¦अल॑क‌म्¦आ¦ज॒ग॒न्थ॒ ||

एह ग॑म॒न्नृष॑यः॒ सोम॑शिता, अ॒यास्यो॒, अङ्गि॑रसो॒ नव॑ग्वाः |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्}

त ए॒तमू॒र्वं वि भ॑जन्त॒ गोना॒मथै॒तद्वचः॑ प॒णयो॒ वम॒न्नित् ||{8/11}{10.108.8}{10.9.9.8}{8.6.6.3}{1254, 945, 10052}

आ¦इ॒ह¦ग॒म॒न्¦ऋष॑यः¦सोम॑ऽशिताः¦अ॒यास्यः॑¦अङ्गि॑रसः¦नव॑ऽग्वाः |
ते¦ए॒त‌म्¦ऊ॒र्व‌म्¦वि¦भ॒ज॒न्त॒¦गोना᳚‌म्¦अथ॑¦ए॒तत्¦वचः॑¦प॒णयः॑¦वम॑न्¦इत् ||

ए॒वा च॒ त्वं स॑रम आज॒गन्थ॒ प्रबा᳚धिता॒ सह॑सा॒ दैव्ये᳚न |{पणिनामासुराः | सरमा | त्रिष्टुप्}

स्वसा᳚रं त्वा कृणवै॒ मा पुन॑र्गा॒, अप॑ ते॒ गवां᳚ सुभगे भजाम ||{9/11}{10.108.9}{10.9.9.9}{8.6.6.4}{1255, 945, 10053}

ए॒व¦च॒¦त्व‌म्¦स॒र॒मे॒¦आ॒ऽज॒गन्थ॑¦प्रऽबा᳚धिता¦सह॑सा¦दैव्ये᳚न |
स्वसा᳚र‌म्¦त्वा॒¦कृ॒ण॒वै॒¦मा¦पुनः॑¦गाः॒¦अप॑¦ते॒¦गवा᳚‌म्¦सु॒ऽभ॒गे॒¦भ॒जा॒म॒ ||

नाहं वे᳚द भ्रातृ॒त्वं नो स्व॑सृ॒त्वमिन्द्रो᳚ विदु॒रङ्गि॑रसश्च घो॒राः |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्}

गोका᳚मा मे, अच्छदय॒न्यदाय॒मपात॑ इत पणयो॒ वरी᳚यः ||{10/11}{10.108.10}{10.9.9.10}{8.6.6.5}{1256, 945, 10054}

न¦अ॒ह‌म्¦वे॒द॒¦भ्रा॒तृ॒ऽत्व‌म्¦नो इति॑¦स्व॒सृ॒ऽत्व‌म्¦इन्द्रः॑¦वि॒दुः॒¦अङ्गि॑रसः¦च॒¦घो॒राः |
गोऽका᳚माः¦मे॒¦अ॒च्छ॒द॒य॒न्¦यत्¦आय᳚‌म्¦अप॑¦अतः॑¦इ॒त॒¦प॒ण॒यः॒¦वरी᳚यः ||

दू॒रमि॑त पणयो॒ वरी᳚य॒ उद्गावो᳚ यन्तु मिन॒तीरृ॒तेन॑ |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्}

बृह॒स्पति॒र्या, अवि᳚न्द॒न्निगू᳚ळ्हाः॒ सोमो॒ ग्रावा᳚ण॒ ऋष॑यश्च॒ विप्राः᳚ ||{11/11}{10.108.11}{10.9.9.11}{8.6.6.6}{1257, 945, 10055}

दू॒र‌म्¦इ॒त॒¦प॒ण॒यः॒¦वरी᳚यः¦उत्¦गावः॑¦य॒न्तु॒¦मि॒न॒तीः¦ऋ॒तेन॑ |
बृह॒स्पतिः॑¦याः¦अवि᳚न्दत्¦निऽगू᳚ळ्हाः¦सोमः॑¦ग्रावा᳚नः¦ऋष॑यः¦च॒¦विप्राः᳚ ||

[109] तेवदन्निति सप्तर्चस्य सूक्तस्य ब्रह्मजायाजुहूर्विश्वेदेवास्त्रिष्टुबंत्येद्वेअनुष्टुभौ | (ब्राह्मोवोर्ध्वनाभऋषिः) |
ते᳚ऽवदन्‌ प्रथ॒मा ब्र᳚ह्मकिल्बि॒षेऽकू᳚पारः सलि॒लो मा᳚त॒रिश्वा᳚ |{ब्रह्मजायाजुहू | विश्वदेवाः | त्रिष्टुप्}

वी॒ळुह॑रा॒स्तप॑ उ॒ग्रो म॑यो॒भूरापो᳚ दे॒वीः प्र॑थम॒जा, ऋ॒तेन॑ ||{1/7}{10.109.1}{10.9.10.1}{8.6.7.1}{1258, 946, 10056}

ते¦अ॒व॒द॒न्¦प्र॒थ॒माः¦ब्र॒ह्म॒ऽकि॒ल्बि॒षे¦अकू᳚पारः¦स॒लि॒लः¦मा॒त॒रिश्वा᳚ |
वी॒ळुऽह॑राः¦तपः॑¦उ॒ग्रः¦म॒यः॒ऽभूः¦आपः॑¦दे॒वीः¦प्र॒थ॒म॒ऽजाः¦ऋ॒तेन॑ ||

सोमो॒ राजा᳚ प्रथ॒मो ब्र᳚ह्मजा॒यां पुनः॒ प्राय॑च्छ॒दहृ॑णीयमानः |{ब्रह्मजायाजुहू | विश्वदेवाः | त्रिष्टुप्}

अ॒न्व॒र्ति॒ता वरु॑णो मि॒त्र आ᳚सीद॒ग्निर्होता᳚ हस्त॒गृह्या नि॑नाय ||{2/7}{10.109.2}{10.9.10.2}{8.6.7.2}{1259, 946, 10057}

सोमः॑¦राजा᳚¦प्र॒थ॒मः¦ब्र॒ह्म॒ऽजा॒या‌म्¦पुन॒रिति॑¦प्र¦अ॒य॒च्छ॒त्¦अहृ॑णीयमानः |
अ॒नु॒।आ॒र्ति॒ता¦वरु॑णः¦मि॒त्रः¦आ॒सी॒त्¦अ॒ग्निः¦होता᳚¦ह॒स्त॒ऽगृह्य॑¦आ¦नि॒ना॒य॒ ||

हस्ते᳚नै॒व ग्रा॒ह्य॑ आ॒धिर॑स्या ब्रह्मजा॒येयमिति॒ चेदवो᳚चन् |{ब्रह्मजायाजुहू | विश्वदेवाः | त्रिष्टुप्}

न दू॒ताय॑ प्र॒ह्ये᳚ तस्थ ए॒षा तथा᳚ रा॒ष्ट्रं गु॑पि॒तं क्ष॒त्रिय॑स्य ||{3/7}{10.109.3}{10.9.10.3}{8.6.7.3}{1260, 946, 10058}

हस्ते᳚न¦ए॒व¦ग्रा॒ह्यः॑¦आ॒ऽधिः¦अ॒स्याः॒¦ब्र॒ह्म॒ऽजा॒या¦इ॒य‌म्¦इति॑¦च॒¦इत्¦अवो᳚चन् |
न¦दू॒ताय॑¦प्र॒ऽह्ये᳚¦त॒स्थे॒¦ए॒षा¦तथा᳚¦रा॒ष्ट्र‌म्¦गु॒पि॒त‌म्¦क्ष॒त्रिय॑स्य ||

दे॒वा, ए॒तस्या᳚मवदन्त॒ पूर्वे᳚ सप्तऋ॒षय॒स्तप॑से॒ ये नि॑षे॒दुः |{ब्रह्मजायाजुहू | विश्वदेवाः | त्रिष्टुप्}

भी॒मा जा॒या ब्रा᳚ह्म॒णस्योप॑नीता दु॒र्धां द॑धाति पर॒मे व्यो᳚मन् ||{4/7}{10.109.4}{10.9.10.4}{8.6.7.4}{1261, 946, 10059}

दे॒वाः¦ए॒तस्या᳚‌म्¦अ॒व॒द॒न्त॒¦पूर्वे᳚¦स॒प्त॒ऽऋ॒षयः॑¦तप॑से¦ये¦नि॒ऽसे॒दुः |
भी॒मा¦जा॒या¦ब्रा॒ह्म॒णस्य॑¦उप॑ऽनीता¦दुः॒ऽधा‌म्¦द॒धा॒ति॒¦प॒र॒मे¦विऽओ᳚मन् ||

ब्र॒ह्म॒चा॒री च॑रति॒ वेवि॑ष॒द्विषः॒ स दे॒वानां᳚ भव॒त्येक॒मङ्ग᳚म् |{ब्रह्मजायाजुहू | विश्वदेवाः | त्रिष्टुप्}

तेन॑ जा॒यामन्व॑विन्द॒द्बृह॒स्पतिः॒ सोमे᳚न नी॒तां जु॒ह्व१॑(अं॒) न दे᳚वाः ||{5/7}{10.109.5}{10.9.10.5}{8.6.7.5}{1262, 946, 10060}

ब्र॒ह्म॒ऽचा॒री¦च॒र॒ति॒¦वेवि॑षत्¦विषः॑¦सः¦दे॒वाना᳚‌म्¦भ॒व॒ति॒¦एक᳚‌म्¦अङ्ग᳚‌म् |
तेन॑¦जा॒या‌म्¦अनु॑¦अ॒वि॒न्द॒त्¦बृह॒स्पतिः॑¦सोमे᳚न¦नी॒ता‌म्¦जु॒ह्व᳚‌म्¦न¦दे॒वाः॒ ||

पुन॒र्वै दे॒वा, अ॑ददुः॒ पुन᳚र्मनु॒ष्या᳚, उ॒त |{ब्रह्मजायाजुहू | विश्वदेवाः | अनुष्टुप्}

राजा᳚नः स॒त्यं कृ᳚ण्वा॒ना ब्र᳚ह्मजा॒यां पुन॑र्ददुः ||{6/7}{10.109.6}{10.9.10.6}{8.6.7.6}{1263, 946, 10061}

पुनः॑¦वै¦दे॒वाः¦अ॒द॒दुः॒¦पुनः॑¦म॒नु॒ष्याः᳚¦उ॒त | राजा᳚नः¦स॒त्य‌म्¦कृ॒ण्वा॒नाः¦ब्र॒ह्म॒ऽजा॒या‌म्¦पुनः॑¦द॒दुः॒ ||

पु॒न॒र्दाय॑ ब्रह्मजा॒यां कृ॒त्वी दे॒वैर्नि॑किल्बि॒षम् |{ब्रह्मजायाजुहू | विश्वदेवाः | अनुष्टुप्}

ऊर्जं᳚ पृथि॒व्या भ॒क्त्वायो᳚रुगा॒यमुपा᳚सते ||{7/7}{10.109.7}{10.9.10.7}{8.6.7.7}{1264, 946, 10062}

पु॒नः॒ऽदाय॑¦ब्र॒ह्म॒ऽजा॒या‌म्¦कृ॒त्वी¦दे॒वैः¦नि॒ऽकि॒ल्बि॒ष‌म् | ऊर्ज᳚‌म्¦पृ॒थि॒व्याः¦भ॒क्त्वाय॑¦उ॒रु॒ऽगा॒य‌म्¦उप॑¦आ॒स॒ते॒ ||

[110] समिद्धइत्येकादशर्चस्य सूक्तस्य भार्गवो जमदग्निरिध्म स्तनूनपाद् इळो बर्हिर्देवीर्द्वारउषासानक्ता दैव्यौहोतारौसरस्वतीळाभारत्यस्त्वष्टावनस्पति स्वाहाकृतयस्त्रिष्टुप् | (जामदग्नि: परशुरामोवा)|
समि॑द्धो, अ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान्‌ य॑जसि जातवेदः |{भार्गवो जमदग्निः | इध्मः | त्रिष्टुप्}

आ च॒ वह॑ मित्रमहश्चिकि॒त्वान्‌ त्वं दू॒तः क॒विर॑सि॒ प्रचे᳚ताः ||{1/11}{10.110.1}{10.9.11.1}{8.6.8.1}{1265, 947, 10063}

स‌म्ऽ‌इ᳚द्धः¦अ॒द्य¦मनु॑षः¦दु॒रो॒णे¦दे॒वः¦दे॒वान्¦य॒ज॒सि॒¦जा॒त॒ऽवे॒दः॒ |
आ¦च॒¦वह॑¦मि॒त्र॒ऽम॒हः॒¦चि॒कि॒त्वान्¦त्व‌म्¦दू॒तः¦क॒विः¦अ॒सि॒¦प्रऽचे᳚ताः ||

तनू᳚नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा᳚ सम॒ञ्जन्‌ त्स्व॑दया सुजिह्व |{भार्गवो जमदग्निः | तनूनपाद् | त्रिष्टुप्}

मन्मा᳚नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन्दे᳚व॒त्रा च॑ कृणुह्यध्व॒रं नः॑ ||{2/11}{10.110.2}{10.9.11.2}{8.6.8.2}{1266, 947, 10064}

तनू᳚ऽनपात्¦प॒थः¦ऋ॒तस्य॑¦याना᳚न्¦मध्वा᳚¦स॒‌म्।आं॒जन्¦स्व॒द॒य॒¦सु॒ऽजि॒ह्व॒ |
मन्मा᳚नि¦धी॒भिः¦उ॒त¦य॒ज्ञ‌म्¦ऋ॒न्धन्¦दे॒व॒ऽत्रा¦च॒¦कृ॒णु॒हि॒¦अ॒ध्व॒र‌म्¦नः॒ ||

आ॒जुह्वा᳚न॒ ईड्यो॒ वन्द्य॒श्चा या᳚ह्यग्ने॒ वसु॑भिः स॒जोषाः᳚ |{भार्गवो जमदग्निः | इळः | त्रिष्टुप्}

त्वं दे॒वाना᳚मसि यह्व॒ होता॒ स ए᳚नान्यक्षीषि॒तो यजी᳚यान् ||{3/11}{10.110.3}{10.9.11.3}{8.6.8.3}{1267, 947, 10065}

आ॒ऽजुह्वा᳚नः¦ईड्यः॑¦वन्द्यः॑¦च॒¦आ¦या॒हि॒¦अ॒ग्ने॒¦वसु॑ऽभिः¦स॒ऽजोषाः᳚ |
त्व‌म्¦दे॒वाना᳚‌म्¦अ॒सि॒¦य॒ह्व॒¦होता᳚¦सः¦ए॒ता॒न्¦य॒क्षि॒¦इ॒षि॒तः¦यजी᳚यान् ||

प्रा॒चीनं᳚ ब॒र्हिः प्र॒दिशा᳚ पृथि॒व्या वस्तो᳚र॒स्या वृ॑ज्यते॒, अग्रे॒, अह्ना᳚म् |{भार्गवो जमदग्निः | बर्हिः | त्रिष्टुप्}

व्यु॑ प्रथते वित॒रं वरी᳚यो दे॒वेभ्यो॒, अदि॑तये स्यो॒नम् ||{4/11}{10.110.4}{10.9.11.4}{8.6.8.4}{1268, 947, 10066}

प्रा॒चीन᳚‌म्¦ब॒र्हिः¦प्र॒ऽदिशा᳚¦पृ॒थि॒व्याः¦वस्तोः᳚¦अ॒स्याः¦वृ॒ज्य॒ते॒¦अग्रे᳚¦अह्ना᳚‌म् |
वि¦ऊँ॒ इति॑¦प्र॒थ॒ते॒¦वि॒ऽत॒र‌म्¦वरी᳚यः¦दे॒वेभ्यः॑¦अदि॑तये¦स्यो॒न‌म् ||

व्यच॑स्वतीरुर्वि॒या वि श्र॑यन्तां॒ पति॑भ्यो॒ न जन॑यः॒ शुम्भ॑मानाः |{भार्गवो जमदग्निः | देवीर्द्वार | त्रिष्टुप्}

देवी᳚र्द्वारो बृहतीर्विश्वमिन्वा दे॒वेभ्यो᳚ भवत सुप्राय॒णाः ||{5/11}{10.110.5}{10.9.11.5}{8.6.8.5}{1269, 947, 10067}

व्यच॑स्वतीः¦उ॒र्वि॒या¦वि¦श्र॒य॒न्ता॒‌म्¦पति॑ऽभ्यः¦न¦जन॑यः¦शुम्भ॑मानाः |
देवीः᳚¦द्वा॒रः॒¦बृ॒ह॒तीः॒¦वि॒श्व॒‌म्ऽ‌इ॒न्वाः॒¦दे॒वेभ्यः॑¦भ॒व॒त॒¦सु॒प्र॒।आ॒य॒णाः ||

आ सु॒ष्वय᳚न्ती यज॒ते, उपा᳚के, उ॒षासा॒नक्ता᳚ सदतां॒ नि योनौ᳚ |{भार्गवो जमदग्निः | उषासानक्ता | त्रिष्टुप्}

दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे, अधि॒ श्रियं᳚ शुक्र॒पिशं॒ दधा᳚ने ||{6/11}{10.110.6}{10.9.11.6}{8.6.9.1}{1270, 947, 10068}

आ¦सु॒स्वय᳚न्ती॒ इति॑¦य॒ज॒ते इति॑¦उपा᳚के॒ इति॑¦उ॒षसा॒नक्ता᳚¦स॒द॒ता॒‌म्¦नि¦योनौ᳚ |
दि॒व्ये¦योष॑णे॒ इति॑¦बृ॒ह॒ती इति॑¦सु॒रु॒क्मे इति॑ सु॒ऽरु॒क्मे¦अधि॑¦श्रिय᳚‌म्¦शु॒क्र॒ऽपिश᳚‌म्¦दधा᳚ने ||

दैव्या॒ होता᳚रा प्रथ॒मा सु॒वाचा॒ मिमा᳚ना य॒ज्ञं मनु॑षो॒ यज॑ध्यै |{भार्गवो जमदग्निः | दैव्यौहोतारौ | त्रिष्टुप्}

प्र॒चो॒दय᳚न्ता वि॒दथे᳚षु का॒रू प्रा॒चीनं॒ ज्योतिः॑ प्र॒दिशा᳚ दि॒शन्ता᳚ ||{7/11}{10.110.7}{10.9.11.7}{8.6.9.2}{1271, 947, 10069}

दैव्या᳚¦होता᳚रा¦प्र॒थ॒मा¦सु॒ऽवाचा᳚¦मिमा᳚ना¦य॒ज्ञ‌म्¦मनु॑षः¦यज॑ध्यै |
प्र॒ऽचो॒दय᳚न्ता¦वि॒दथे᳚षु¦का॒रू इति॑¦प्रा॒चीन᳚‌म्¦ज्योतिः॑¦प्र॒ऽदिशा᳚¦दि॒शन्ता᳚ ||

आ नो᳚ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विळा᳚ मनु॒ष्वदि॒ह चे॒तय᳚न्ती |{भार्गवो जमदग्निः | सरस्वतीळाभारत्यः | त्रिष्टुप्}

ति॒स्रो दे॒वीर्ब॒र्हिरेदं स्यो॒नं सर॑स्वती॒ स्वप॑सः सदन्तु ||{8/11}{10.110.8}{10.9.11.8}{8.6.9.3}{1272, 947, 10070}

आ¦नः॒¦य॒ज्ञ‌म्¦भार॑ती¦तूय᳚‌म्¦ए॒तु॒¦इळा᳚¦म॒नु॒ष्वत्¦इ॒ह¦चे॒तय᳚न्ती |
ति॒स्रः¦दे॒वीः¦ब॒र्हिः¦आ¦इ॒द‌म्¦स्यो॒न‌म्¦सर॑स्वती¦सु॒।आप॑सः¦स॒द॒न्तु॒ ||

य इ॒मे द्यावा᳚पृथि॒वी जनि॑त्री रू॒पैरपिं᳚श॒द्भुव॑नानि॒ विश्वा᳚ |{भार्गवो जमदग्निः | वष्टा | त्रिष्टुप्}

तम॒द्य हो᳚तरिषि॒तो यजी᳚यान्दे॒वं त्वष्टा᳚रमि॒ह य॑क्षि वि॒द्वान् ||{9/11}{10.110.9}{10.9.11.9}{8.6.9.4}{1273, 947, 10071}

यः¦इ॒मे इति॑¦द्यावा᳚पृथि॒वी इति॑¦जनि॑त्री॒ इति॑¦रू॒पैः¦अपिं᳚शत्¦भुव॑नानि¦विश्वा᳚ |
त‌म्¦अ॒द्य¦हो॒तः॒¦इ॒षि॒तः¦यजी᳚यान्¦दे॒व‌म्¦त्वष्टा᳚र‌म्¦इ॒ह¦य॒क्षि॒¦वि॒द्वान् ||

उ॒पाव॑सृज॒ त्मन्या᳚ सम॒ञ्जन्दे॒वानां॒ पाथ॑ ऋतु॒था ह॒वींषि॑ |{भार्गवो जमदग्निः | वनस्पतिः | त्रिष्टुप्}

वन॒स्पतिः॑ शमि॒ता दे॒वो, अ॒ग्निः स्वद᳚न्तु ह॒व्यं मधु॑ना घृ॒तेन॑ ||{10/11}{10.110.10}{10.9.11.10}{8.6.9.5}{1274, 947, 10072}

उ॒प॒।आव॑सृज¦त्मन्या᳚¦स॒‌म्।आं॒जन्¦दे॒वाना᳚‌म्¦पाथः॑¦ऋ॒तु॒ऽथा¦ह॒वींषि॑ |
वन॒स्पतिः॑¦श॒मि॒ता¦दे॒वः¦अ॒ग्निः¦स्वद᳚न्तु¦ह॒व्य‌म्¦मधु॑ना¦घृ॒तेन॑ ||

स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना᳚मभवत्पुरो॒गाः |{भार्गवो जमदग्निः | स्वाहाकृतयः | त्रिष्टुप्}

अ॒स्य होतुः॑ प्र॒दिश्यृ॒तस्य॑ वा॒चि स्वाहा᳚कृतं ह॒विर॑दन्तु दे॒वाः ||{11/11}{10.110.11}{10.9.11.11}{8.6.9.6}{1275, 947, 10073}

स॒द्यः¦जा॒तः¦वि¦अ॒मि॒मी॒त॒¦य॒ज्ञ‌म्¦अ॒ग्निः¦दे॒वाना᳚‌म्¦अ॒भ॒व॒त्¦पु॒रः॒ऽगाः |
अ॒स्य¦होतुः॑¦प्र॒ऽदिशि॑¦ऋ॒तस्य॑¦वा॒चि¦स्वाहा᳚ऽकृत‌म्¦ह॒विः¦अ॒द॒न्तु॒¦दे॒वाः ||

[111] मनीषिणइति दशर्चस्य सुक्तस्य वैरूपोष्टादंष्त्रः इंद्रत्रिष्टुप् |
मनी᳚षिणः॒ प्र भ॑रध्वं मनी॒षां यथा᳚यथा म॒तयः॒ सन्ति॑ नृ॒णाम् |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

इन्द्रं᳚ स॒त्यैरेर॑यामा कृ॒तेभिः॒ स हि वी॒रो गि᳚र्वण॒स्युर्विदा᳚नः ||{1/10}{10.111.1}{10.9.12.1}{8.6.10.1}{1276, 948, 10074}

मनी᳚षिणः¦प्र¦भ॒र॒ध्व॒‌म्¦म॒नी॒षा‌म्¦यथा᳚ऽयथा¦म॒तयः॑¦सन्ति॑¦नृ॒णा‌म् |
इन्द्र᳚‌म्¦स॒त्यैः¦आ¦ई॒र॒या॒म॒¦कृ॒तेभिः॑¦सः¦हि¦वी॒रः¦गि॒र्व॒ण॒स्युः¦विदा᳚नः ||

ऋ॒तस्य॒ हि सद॑सो धी॒तिरद्यौ॒त्सं गा᳚र्ष्टे॒यो वृ॑ष॒भो गोभि॑रानट् |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

उद॑तिष्ठत्तवि॒षेणा॒ रवे᳚ण म॒हान्ति॑ चि॒त्सं वि᳚व्याचा॒ रजां᳚सि ||{2/10}{10.111.2}{10.9.12.2}{8.6.10.2}{1277, 948, 10075}

ऋ॒तस्य॑¦हि¦सद॑सः¦धी॒तिः¦अद्यौ᳚त्¦स‌म्¦गा॒र्ष्टे॒यः¦वृ॒ष॒भः¦गोभिः॑¦आ॒न॒ट् |
उत्¦अ॒ति॒ष्ठ॒त्¦त॒वि॒षेण॑¦रवे᳚ण¦म॒हान्ति॑¦चि॒त्¦स‌म्¦वि॒व्या॒च॒¦रजां᳚सि ||

इन्द्रः॒ किल॒ श्रुत्या᳚, अ॒स्य वे᳚द॒ स हि जि॒ष्णुः प॑थि॒कृत्सूर्या᳚य |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

आन्मेनां᳚ कृ॒ण्वन्नच्यु॑तो॒ भुव॒द्गोः पति॑र्दि॒वः स॑न॒जा, अप्र॑तीतः ||{3/10}{10.111.3}{10.9.12.3}{8.6.10.3}{1278, 948, 10076}

इन्द्रः॑¦किल॑¦श्रुत्यै᳚¦अ॒स्य¦वे॒द॒¦सः¦हि¦जि॒ष्णुः¦प॒थि॒ऽकृत्¦सूर्या᳚य |
आत्¦मेना᳚‌म्¦कृ॒ण्वन्¦अच्यु॑तः¦भुव॑त्¦गोः¦पतिः॑¦दि॒वः¦स॒न॒ऽजाः¦अप्र॑तिऽ‌इतः ||

इन्द्रो᳚ म॒ह्ना म॑ह॒तो, अ᳚र्ण॒वस्य᳚ व्र॒तामि॑ना॒दङ्गि॑रोभिर्गृणा॒नः |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

पु॒रूणि॑ चि॒न्नि त॑ताना॒ रजां᳚सि दा॒धार॒ यो ध॒रुणं᳚ स॒त्यता᳚ता ||{4/10}{10.111.4}{10.9.12.4}{8.6.10.4}{1279, 948, 10077}

इन्द्रः॑¦म॒ह्ना¦म॒ह॒तः¦अ॒र्ण॒वस्य॑¦व्र॒ता¦अ॒मि॒ना॒त्¦अङ्गि॑रःऽभिः¦गृ॒णा॒नः |
पु॒रूणि॑¦चि॒त्¦नि¦त॒ता॒न॒¦रजां᳚सि¦दा॒धार॑¦यः¦ध॒रुण᳚‌म्¦स॒त्यऽता᳚ता ||

इन्द्रो᳚ दि॒वः प्र॑ति॒मानं᳚ पृथि॒व्या विश्वा᳚ वेद॒ सव॑ना॒ हन्ति॒ शुष्ण᳚म् |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

म॒हीं चि॒द्द्यामात॑नो॒त्सूर्ये᳚ण चा॒स्कम्भ॑ चि॒त्कम्भ॑नेन॒ स्कभी᳚यान् ||{5/10}{10.111.5}{10.9.12.5}{8.6.10.5}{1280, 948, 10078}

इन्द्रः॑¦दि॒वः¦प्र॒ति॒ऽमान᳚‌म्¦पृ॒थि॒व्याः¦विश्वा᳚¦वे॒द॒¦सव॑ना¦हन्ति॑¦शुष्ण᳚‌म् |
म॒ही‌म्¦चि॒त्¦द्या‌म्¦आ¦अ॒त॒नो॒त्¦सूर्ये᳚ण¦चा॒स्कम्भ॑¦चि॒त्¦कम्भ॑नेन¦स्कभी᳚यान् ||

वज्रे᳚ण॒ हि वृ॑त्र॒हा वृ॒त्रमस्त॒रदे᳚वस्य॒ शूशु॑वानस्य मा॒याः |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

वि धृ॑ष्णो॒, अत्र॑ धृष॒ता ज॑घ॒न्थाथा᳚भवो मघवन्‌ बा॒ह्वो᳚जाः ||{6/10}{10.111.6}{10.9.12.6}{8.6.11.1}{1281, 948, 10079}

वज्रे᳚ण¦हि¦वृ॒त्र॒ऽहा¦वृ॒त्र‌म्¦अस्तः॑¦अदे᳚वस्य¦शूशु॑वानस्य¦मा॒याः |
वि¦धृ॒ष्णो॒ इति॑¦अत्र॑¦धृ॒ष॒ता¦ज॒घ॒न्थ॒¦अथ॑¦अ॒भ॒वः॒¦म॒घ॒ऽव॒न्¦बा॒ह्वुऽओ᳚जाः ||

सच᳚न्त॒ यदु॒षसः॒ सूर्ये᳚ण चि॒त्राम॑स्य के॒तवो॒ राम॑विन्दन् |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

आ यन्नक्ष॑त्रं॒ ददृ॑शे दि॒वो न पुन᳚र्य॒तो नकि॑र॒द्धा नु वे᳚द ||{7/10}{10.111.7}{10.9.12.7}{8.6.11.2}{1282, 948, 10080}

सच᳚न्त¦यत्¦उ॒षसः॑¦सूर्ये᳚ण¦चि॒त्रा‌म्¦अ॒स्य॒¦के॒तवः॑¦रा‌म्¦अ॒वि॒न्द॒न् |
आ¦यत्¦नक्ष॑त्र‌म्¦ददृ॑शे¦दि॒वः¦न¦पुनः॑¦य॒तः¦नकिः॑¦अ॒द्धा¦नु¦वे॒द॒ ||

दू॒रं किल॑ प्रथ॒मा ज॑ग्मुरासा॒मिन्द्र॑स्य॒ याः प्र॑स॒वे स॒स्रुरापः॑ |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

क्व॑ स्वि॒दग्रं॒ क्व॑ बु॒ध्न आ᳚सा॒मापो॒ मध्यं॒ क्व॑ वो नू॒नमन्तः॑ ||{8/10}{10.111.8}{10.9.12.8}{8.6.11.3}{1283, 948, 10081}

दू॒र‌म्¦किल॑¦प्र॒थ॒माः¦ज॒ग्मुः॒¦आ॒सा॒‌म्¦इन्द्र॑स्य¦याः¦प्र॒ऽस॒वे¦स॒स्रुः¦आपः॑ |
क्व॑¦स्वि॒त्¦अग्र᳚‌म्¦क्व॑¦बु॒ध्नः¦आ॒सा॒‌म्¦आपः॑¦मध्य᳚‌म्¦क्व॑¦वः॒¦नू॒न‌म्¦अन्तः॑ ||

सृ॒जः सिन्धूँ॒रहि॑ना जग्रसा॒नाँ, आदिदे॒ताः प्र वि॑विज्रे ज॒वेन॑ |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

मुमु॑क्षमाणा, उ॒त या मु॑मु॒च्रेऽधेदे॒ता न र॑मन्ते॒ निति॑क्ताः ||{9/10}{10.111.9}{10.9.12.9}{8.6.11.4}{1284, 948, 10082}

सृ॒जः¦सिन्धू᳚न्¦अहि॑ना¦ज॒ग्र॒सा॒नान्¦आत्¦इत्¦ए॒ताः¦प्र¦वि॒वि॒ज्रे॒¦ज॒वेन॑ |
मुमु॑क्षमाणाः¦उ॒त¦याः¦मु॒मु॒च्रे¦अध॑¦इत्¦ए॒ताः¦न¦र॒म॒न्ते॒¦निऽति॑क्ताः ||

स॒ध्रीचीः॒ सिन्धु॑मुश॒तीरि॑वायन्‌ त्स॒नाज्जा॒र आ᳚रि॒तः पू॒र्भिदा᳚साम् |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

अस्त॒मा ते॒ पार्थि॑वा॒ वसू᳚न्य॒स्मे ज॑ग्मुः सू॒नृता᳚, इन्द्र पू॒र्वीः ||{10/10}{10.111.10}{10.9.12.10}{8.6.11.5}{1285, 948, 10083}

स॒ध्रीचीः᳚¦सिन्धु᳚‌म्¦उ॒श॒तीःऽ‌इ᳚व¦आ॒य॒न्¦स॒नात्¦जा॒रः¦आ॒रि॒तः¦पूः॒ऽभित्¦आ॒सा॒‌म् |
अस्त᳚‌म्¦आ¦ते॒¦पार्थि॑वा¦वसू᳚नि¦अ॒स्मे इति॑¦ज॒ग्मुः॒¦सू॒नृताः᳚¦इ॒न्द्र॒¦पू॒र्वीः ||

[112] इंद्रपिबेति दशर्चस्य सूक्तस्य वैरूपोनभः प्रभेदनइंद्रस्त्रिष्टुप् |
इन्द्र॒ पिब॑ प्रतिका॒मं सु॒तस्य॑ प्रातःसा॒वस्तव॒ हि पू॒र्वपी᳚तिः |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

हर्ष॑स्व॒ हन्त॑वे शूर॒ शत्रू᳚नु॒क्थेभि॑ष्टे वी॒र्या॒३॑(आ॒) प्र ब्र॑वाम ||{1/10}{10.112.1}{10.9.13.1}{8.6.12.1}{1286, 949, 10084}

इन्द्र॑¦पिब॑¦प्र॒ति॒ऽका॒म‌म्¦सु॒तस्य॑¦प्रा॒तः॒ऽसा॒वः¦तव॑¦हि¦पू॒र्वऽपी᳚तिः |
हर्ष॑स्व¦हन्त॑वे¦शू॒र॒¦शत्रू᳚न्¦उ॒क्थेभिः॑¦ते॒¦वी॒र्या᳚¦प्र¦ब्र॒वा॒म॒ ||

यस्ते॒ रथो॒ मन॑सो॒ जवी᳚या॒नेन्द्र॒ तेन॑ सोम॒पेया᳚य याहि |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

तूय॒मा ते॒ हर॑यः॒ प्र द्र॑वन्तु॒ येभि॒र्यासि॒ वृष॑भि॒र्मन्द॑मानः ||{2/10}{10.112.2}{10.9.13.2}{8.6.12.2}{1287, 949, 10085}

यः¦ते॒¦रथः॑¦मन॑सः¦जवी᳚यान्¦आ॒¦इ॒न्द्र॒¦तेन॑¦सो॒म॒ऽपेया᳚य¦या॒हि॒ |
तूय᳚‌म्¦आ¦ते॒¦हर॑यः¦प्र¦द्र॒व॒न्तु॒¦येभिः॑¦यासि॑¦वृष॑ऽभिः¦मन्द॑मानः ||

हरि॑त्वता॒ वर्च॑सा॒ सूर्य॑स्य॒ श्रेष्ठै᳚ रू॒पैस्त॒न्वं᳚ स्पर्शयस्व |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

अ॒स्माभि॑रिन्द्र॒ सखि॑भिर्हुवा॒नः स॑ध्रीची॒नो मा᳚दयस्वा नि॒षद्य॑ ||{3/10}{10.112.3}{10.9.13.3}{8.6.12.3}{1288, 949, 10086}

हरि॑त्वता¦वर्च॑सा¦सूर्य॑स्य¦श्रेष्ठैः᳚¦रू॒पैः¦त॒न्व᳚‌म्¦स्प॒र्श॒य॒स्व॒ |
अ॒स्माभिः॑¦इ॒न्द्र॒¦सखि॑ऽभिः¦हु॒वा॒नः¦स॒ध्री॒ची॒नः¦मा॒द॒य॒स्व॒¦नि॒ऽसद्य॑ ||

यस्य॒ त्यत्ते᳚ महि॒मानं॒ मदे᳚ष्वि॒मे म॒ही रोद॑सी॒ नावि॑विक्ताम् |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

तदोक॒ आ हरि॑भिरिन्द्र यु॒क्तैः प्रि॒येभि᳚र्याहि प्रि॒यमन्न॒मच्छ॑ ||{4/10}{10.112.4}{10.9.13.4}{8.6.12.4}{1289, 949, 10087}

यस्य॑¦त्यत्¦ते॒¦म॒हि॒मान᳚‌म्¦मदे᳚षु¦इ॒मे इति॑¦म॒ही इति॑¦रोद॑सी॒ इति॑¦न¦अवि॑विक्ता‌म् |
तत्¦ओकः॑¦आ¦हरि॑ऽभिः¦इ॒न्द्र॒¦यु॒क्तैः¦प्रि॒येभिः॑¦या॒हि॒¦प्रि॒य‌म्¦अन्न᳚‌म्¦अच्छ॑ ||

यस्य॒ शश्व॑त्पपि॒वाँ, इ᳚न्द्र॒ शत्रू᳚ननानुकृ॒त्या रण्या᳚ च॒कर्थ॑ |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

स ते॒ पुरं᳚धिं॒ तवि॑षीमियर्ति॒ स ते॒ मदा᳚य सु॒त इ᳚न्द्र॒ सोमः॑ ||{5/10}{10.112.5}{10.9.13.5}{8.6.12.5}{1290, 949, 10088}

यस्य॑¦शश्व॑त्¦प॒पि॒ऽवान्¦इ॒न्द्र॒¦शत्रू᳚न्¦अ॒न॒नु॒ऽकृ॒त्या¦रण्या᳚¦च॒कर्थ॑ |
सः¦ते॒¦पुर᳚‌म्ऽधि‌म्¦तवि॑षी‌म्¦इ॒य॒र्ति॒¦सः¦ते॒¦मदा᳚य¦सु॒तः¦इ॒न्द्र॒¦सोमः॑ ||

इ॒दं ते॒ पात्रं॒ सन॑वित्तमिन्द्र॒ पिबा॒ सोम॑मे॒ना श॑तक्रतो |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

पू॒र्ण आ᳚हा॒वो म॑दि॒रस्य॒ मध्वो॒ यं विश्व॒ इद॑भि॒हर्य᳚न्ति दे॒वाः ||{6/10}{10.112.6}{10.9.13.6}{8.6.13.1}{1291, 949, 10089}

इ॒द‌म्¦ते॒¦पात्र᳚‌म्¦सन॑ऽवित्त‌म्¦इ॒न्द्र॒¦पिब॑¦सोम᳚‌म्¦ए॒ना¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो |
पू॒र्णः¦आ॒ऽहा॒वः¦म॒दि॒रस्य॑¦मध्वः॑¦य‌म्¦विश्वे᳚¦इत्¦अ॒भि॒ऽहर्य᳚न्ति¦दे॒वाः ||

वि हि त्वामि᳚न्द्र पुरु॒धा जना᳚सो हि॒तप्र॑यसो वृषभ॒ ह्वय᳚न्ते |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

अ॒स्माकं᳚ ते॒ मधु॑मत्तमानी॒मा भु॑व॒न्‌ त्सव॑ना॒ तेषु॑ हर्य ||{7/10}{10.112.7}{10.9.13.7}{8.6.13.2}{1292, 949, 10090}

वि¦हि¦त्वा‌म्¦इ॒न्द्र॒¦पु॒रु॒धा¦जना᳚सः¦हि॒तऽप्र॑यसः¦वृ॒ष॒भ॒¦ह्वय᳚न्ते |
अ॒स्माक᳚‌म्¦ते॒¦मधु॑मत्ऽतमानि¦इ॒मा¦भु॒व॒न्¦सव॑ना¦तेषु॑¦ह॒र्य॒ ||

प्र त॑ इन्द्र पू॒र्व्याणि॒ प्र नू॒नं वी॒र्या᳚ वोचं प्रथ॒मा कृ॒तानि॑ |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

स॒ती॒नम᳚न्युरश्रथायो॒, अद्रिं᳚ सुवेद॒नाम॑कृणो॒र्ब्रह्म॑णे॒ गाम् ||{8/10}{10.112.8}{10.9.13.8}{8.6.13.3}{1293, 949, 10091}

प्र¦ते॒¦इ॒न्द्र॒¦पू॒र्व्याणि॑¦प्र¦नू॒न‌म्¦वी॒र्या᳚¦वो॒च॒‌म्¦प्र॒थ॒मा¦कृ॒तानि॑ |
स॒ती॒नऽम᳚न्युः¦अ॒श्र॒थ॒यः॒¦अद्रि᳚‌म्¦सु॒ऽवे॒द॒ना‌म्¦अ॒कृ॒णोः॒¦ब्रह्म॑णे¦गा‌म् ||

नि षु सी᳚द गणपते ग॒णेषु॒ त्वामा᳚हु॒र्विप्र॑तमं कवी॒नाम् |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

न ऋ॒ते त्वत्‌ क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवञ्चि॒त्रम॑र्च ||{9/10}{10.112.9}{10.9.13.9}{8.6.13.4}{1294, 949, 10092}

नि¦सु¦सी॒द॒¦ग॒ण॒ऽप॒ते॒¦ग॒णेषु॑¦त्वा‌म्¦आ॒हुः॒¦विप्र॑ऽतम‌म्¦क॒वी॒ना‌म् |
न¦ऋ॒ते¦त्वत्¦क्रि॒य॒ते॒¦कि‌म्¦च॒न¦आ॒रे¦म॒हा‌म्¦अ॒र्क‌म्¦म॒घ॒ऽव॒न्¦चि॒त्र‌म्¦अ॒र्च॒ ||

अ॒भि॒ख्या नो᳚ मघव॒न्‌ नाध॑माना॒न् त्सखे᳚ बो॒धि व॑सुपते॒ सखी᳚नाम् |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

रणं᳚ कृधि रणकृत्‌ सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये, अ॒स्मान् ||{10/10}{10.112.10}{10.9.13.10}{8.6.13.5}{1295, 949, 10093}

अ॒भि॒ऽख्या¦नः॒¦म॒घ॒ऽव॒न्¦नाध॑मानान्¦सखे᳚¦बो॒धि¦व॒सु॒ऽप॒ते॒¦सखी᳚ना‌म् |
रण᳚‌म्¦कृ॒धि॒¦र॒ण॒ऽकृ॒त्¦स॒त्य॒ऽशु॒ष्म॒¦अभ॑क्ते¦चि॒त्¦आ¦भ॒ज॒¦रा॒ये¦अ॒स्मान् ||

[113] तमस्येति दशर्चस्य सूक्तस्य वैरूपः शतप्रभेदनइंद्रजगत्यंत्या त्रिष्टुप् |
तम॑स्य॒ द्यावा᳚पृथि॒वी सचे᳚तसा॒ विश्वे᳚भिर्दे॒वैरनु॒ शुष्म॑मावताम् |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

यदैत्कृ᳚ण्वा॒नो म॑हि॒मान॑मिन्द्रि॒यं पी॒त्वी सोम॑स्य॒ क्रतु॑माँ, अवर्धत ||{1/10}{10.113.1}{10.10.1.1}{8.6.14.1}{1296, 950, 10094}

त‌म्¦अ॒स्य॒¦द्यावा᳚पृथि॒वी इति॑¦सऽचे᳚तसा¦विश्वे᳚भिः¦दे॒वैः¦अनु॑¦शुष्म᳚‌म्¦आ॒व॒ता॒‌म् |
यत्¦ऐत्¦कृ॒ण्वा॒नः¦म॒हि॒मान᳚‌म्¦इ॒न्द्रि॒य‌म्¦पी॒त्वी¦सोम॑स्य¦क्रतु॑ऽमान्¦अ॒व॒र्ध॒त॒ ||

तम॑स्य॒ विष्णु᳚र्महि॒मान॒मोज॑सां॒शुं द॑ध॒न्वान्‌ मधु॑नो॒ वि र॑प्शते |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

दे॒वेभि॒रिन्द्रो᳚ म॒घवा᳚ स॒याव॑भिर्वृ॒त्रं ज॑घ॒न्वाँ, अ॑भव॒द्वरे᳚ण्यः ||{2/10}{10.113.2}{10.10.1.2}{8.6.14.2}{1297, 950, 10095}

त‌म्¦अ॒स्य॒¦विष्णुः॑¦म॒हि॒मान᳚‌म्¦ओज॑सा¦अं॒शु‌म्¦द॒ध॒न्वान्¦मधु॑नः¦वि¦र॒प्श॒ते॒ |
दे॒वेभिः॑¦इन्द्रः॑¦म॒घऽवा᳚¦स॒याव॑ऽभिः¦वृ॒त्र‌म्¦ज॒घ॒न्वान्¦अ॒भ॒व॒त्¦वरे᳚ण्यः ||

वृ॒त्रेण॒ यदहि॑ना॒ बिभ्र॒दायु॑धा स॒मस्थि॑था यु॒धये॒ शंस॑मा॒विदे᳚ |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

विश्वे᳚ ते॒, अत्र॑ म॒रुतः॑ स॒ह त्मनाव॑र्धन्नुग्र महि॒मान॑मिन्द्रि॒यम् ||{3/10}{10.113.3}{10.10.1.3}{8.6.14.3}{1298, 950, 10096}

वृ॒त्रेण॑¦यत्¦अहि॑ना¦बिभ्र॑त्¦आयु॑धा¦स॒‌म्।आस्थि॑थाः¦यु॒धये᳚¦शंस᳚‌म्¦आ॒ऽविदे᳚ |
विश्वे᳚¦ते॒¦अत्र॑¦म॒रुतः॑¦स॒ह¦त्मना᳚¦अव॑र्धन्¦उ॒ग्र॒¦म॒हि॒मान᳚‌म्¦इ॒न्द्रि॒य‌म् ||

ज॒ज्ञा॒न ए॒व व्य॑बाधत॒ स्पृधः॒ प्राप॑श्यद्वी॒रो, अ॒भि पौंस्यं॒ रण᳚म् |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

अवृ॑श्च॒दद्रि॒मव॑ स॒स्यदः॑ सृज॒दस्त॑भ्ना॒न्नाकं᳚ स्वप॒स्यया᳚ पृ॒थुम् ||{4/10}{10.113.4}{10.10.1.4}{8.6.14.4}{1299, 950, 10097}

ज॒ज्ञा॒नः¦ए॒व¦वि¦अ॒बा॒ध॒त॒¦स्पृधः॑¦प्र¦अ॒प॒श्य॒त्¦वी॒रः¦अ॒भि¦पौंस्य᳚‌म्¦रण᳚‌म् |
अवृ॑श्चत्¦अद्रि᳚‌म्¦अव॑¦स॒ऽस्यदः॑¦सृ॒ज॒त्¦अस्त॑भ्नात्¦नाक᳚‌म्¦सु॒।आ॒प॒स्यया᳚¦पृ॒थु‌म् ||

आदिन्द्रः॑ स॒त्रा तवि॑षीरपत्यत॒ वरी᳚यो॒ द्यावा᳚पृथि॒वी, अ॑बाधत |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

अवा᳚भरद्धृषि॒तो वज्र॑माय॒सं शेवं᳚ मि॒त्राय॒ वरु॑णाय दा॒शुषे᳚ ||{5/10}{10.113.5}{10.10.1.5}{8.6.14.5}{1300, 950, 10098}

आत्¦इन्द्रः॑¦स॒त्रा¦तवि॑षीः¦अ॒प॒त्य॒त॒¦वरी᳚यः¦द्यावा᳚पृथि॒वी इति॑¦अ॒बा॒ध॒त॒ |
अव॑¦अ॒भ॒र॒त्¦धृ॒षि॒तः¦वज्र᳚‌म्¦आ॒य॒स‌म्¦शेव᳚‌म्¦मि॒त्राय॑¦वरु॑णाय¦दा॒शुषे᳚ ||

इन्द्र॒स्यात्र॒ तवि॑षीभ्यो विर॒प्शिन॑ ऋघाय॒तो, अ॑रंहयन्त म॒न्यवे᳚ |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

वृ॒त्रं यदु॒ग्रो व्यवृ॑श्च॒दोज॑सा॒पो बिभ्र॑तं॒ तम॑सा॒ परी᳚वृतम् ||{6/10}{10.113.6}{10.10.1.6}{8.6.15.1}{1301, 950, 10099}

इन्द्र॑स्य¦अत्र॑¦तवि॑षीभ्यः¦वि॒ऽर॒प्शिनः॑¦ऋ॒घा॒य॒तः¦अ॒रं॒ह॒य॒न्त॒¦म॒न्यवे᳚ |
वृ॒त्र‌म्¦यत्¦उ॒ग्रः¦वि¦अवृ॑श्चत्¦ओज॑सा¦अ॒पः¦बिभ्र॑त‌म्¦तम॑सा¦परि॑ऽवृत‌म् ||

या वी॒र्या᳚णि प्रथ॒मानि॒ कर्त्वा᳚ महि॒त्वेभि॒र्यत॑मानौ समी॒यतुः॑ |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

ध्वा॒न्तं तमोऽव॑ दध्वसे ह॒त इन्द्रो᳚ म॒ह्ना पू॒र्वहू᳚तावपत्यत ||{7/10}{10.113.7}{10.10.1.7}{8.6.15.2}{1302, 950, 10100}

या¦वी॒र्या᳚णि¦प्र॒थ॒मानि॑¦कर्त्वा᳚¦म॒हि॒ऽत्वेभिः॑¦यत॑मानौ¦स॒‌म्ऽई॒यतुः॑ |
ध्वा॒न्त‌म्¦तमः॑¦अव॑¦द॒ध्व॒से॒¦ह॒ते¦इन्द्रः॑¦म॒ह्ना¦पू॒र्वऽहू᳚तौ¦अ॒प॒त्य॒त॒ ||

विश्वे᳚ दे॒वासो॒, अध॒ वृष्ण्या᳚नि॒ तेऽव॑र्धय॒न्‌ त्सोम॑वत्या वच॒स्यया᳚ |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

र॒द्धं वृ॒त्रमहि॒मिन्द्र॑स्य॒ हन्म॑ना॒ग्निर्न जम्भै᳚स्तृ॒ष्वन्न॑मावयत् ||{8/10}{10.113.8}{10.10.1.8}{8.6.15.3}{1303, 950, 10101}

विश्वे᳚¦दे॒वासः॑¦अध॑¦वृष्ण्या᳚नि¦ते¦अव॑र्धयन्¦सोम॑ऽवत्या¦व॒च॒स्यया᳚ |
र॒द्ध‌म्¦वृ॒त्र‌म्¦अहि᳚‌म्¦इन्द्र॑स्य¦हन्म॑ना¦अ॒ग्निः¦न¦जम्भैः᳚¦तृ॒षु¦अन्न᳚‌म्¦आ॒व॒य॒त् ||

भूरि॒ दक्षे᳚भिर्वच॒नेभि॒रृक्व॑भिः स॒ख्येभिः॑ स॒ख्यानि॒ प्र वो᳚चत |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

इन्द्रो॒ धुनिं᳚ च॒ चुमु॑रिं च द॒म्भय᳚ञ्छ्रद्धामन॒स्या शृ॑णुते द॒भीत॑ये ||{9/10}{10.113.9}{10.10.1.9}{8.6.15.4}{1304, 950, 10102}

भूरि॑¦दक्षे᳚भिः¦व॒च॒नेभिः॑¦ऋक्व॑ऽभिः¦स॒ख्येभिः॑¦स॒ख्यानि॑¦प्र¦वो॒च॒त॒ |
इन्द्रः॑¦धुनि᳚‌म्¦च॒¦चुमु॑रि‌म्¦च॒¦द॒म्भय॑न्¦श्र॒द्धा॒ऽम॒न॒स्या¦शृ॒णु॒ते॒¦द॒भीत॑ये ||

त्वं पु॒रूण्या भ॑रा॒ स्वश्व्या॒ येभि॒र्मंसै᳚ नि॒वच॑नानि॒ शंस॑न् |{वैरूपः शतप्रभेदः | इन्द्रः | त्रिष्टुप्}

सु॒गेभि॒र्विश्वा᳚ दुरि॒ता त॑रेम वि॒दो षु ण॑ उर्वि॒या गा॒धम॒द्य ||{10/10}{10.113.10}{10.10.1.10}{8.6.15.5}{1305, 950, 10103}

त्व‌म्¦पु॒रूणि॑¦आ¦भ॒र॒¦सु॒।आश्व्या᳚¦येभिः॑¦मंसै᳚¦नि॒ऽवच॑नानि¦शंस॑न् |
सु॒ऽगेभिः॑¦विश्वा᳚¦दुः॒ऽ‌इ॒ता¦त॒रे॒म॒¦वि॒दो इति॑¦सु¦नः॒¦उ॒र्वि॒या¦गा॒ध‌म्¦अ॒द्य ||

[114] घर्मेति दशर्चस्य सूक्तस्य वैरूपः सघ्निर्विश्वेदेवास्त्रिष्टुष्चतुर्थीजगती | ( तापसोघर्मोवाऋषिः) |
घ॒र्मा सम᳚न्ता त्रि॒वृतं॒ व्या᳚पतु॒स्तयो॒र्जुष्टिं᳚ मात॒रिश्वा᳚ जगाम |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

दि॒वस्पयो॒ दिधि॑षाणा, अवेषन्‌ वि॒दुर्दे॒वाः स॒हसा᳚मानम॒र्कम् ||{1/10}{10.114.1}{10.10.2.1}{8.6.16.1}{1306, 951, 10104}

घ॒र्मा¦स‌म्।आ᳚न्ता¦त्रि॒ऽवृत᳚‌म्¦वि¦आ॒प॒तुः॒¦तयोः᳚¦जुष्टि᳚‌म्¦मा॒त॒रिश्वा᳚¦ज॒गा॒म॒ |
दि॒वः¦पयः॑¦दिधि॑षाणाः¦अ॒वे॒ष॒न्¦वि॒दुः¦दे॒वाः¦स॒हऽसा᳚मान‌म्¦अ॒र्क‌म् ||

ति॒स्रो दे॒ष्ट्राय॒ निरृ॑ती॒रुपा᳚सते दीर्घ॒श्रुतो॒ वि हि जा॒नन्ति॒ वह्न॑यः |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

तासां॒ नि चि॑क्युः क॒वयो᳚ नि॒दानं॒ परे᳚षु॒ या गुह्ये᳚षु व्र॒तेषु॑ ||{2/10}{10.114.2}{10.10.2.2}{8.6.16.2}{1307, 951, 10105}

ति॒स्रः¦दे॒ष्ट्राय॑¦निःऽऋ॑तीः¦उप॑¦आ॒स॒ते॒¦दी॒र्घ॒ऽश्रुतः॑¦वि¦हि¦जा॒नन्ति॑¦वह्न॑यः |
तासा᳚‌म्¦नि¦चि॒क्युः॒¦क॒वयः॑¦नि॒ऽदान᳚‌म्¦परे᳚षु¦याः¦गुह्ये᳚षु¦व्र॒तेषु॑ ||

चतु॑ष्कपर्दा युव॒तिः सु॒पेशा᳚ घृ॒तप्र॑तीका व॒युना᳚नि वस्ते |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

तस्यां᳚ सुप॒र्णा वृष॑णा॒ नि षे᳚दतु॒र्यत्र॑ दे॒वा द॑धि॒रे भा᳚ग॒धेय᳚म् ||{3/10}{10.114.3}{10.10.2.3}{8.6.16.3}{1308, 951, 10106}

चतुः॑ऽकपर्दा¦यु॒व॒तिः¦सु॒ऽपेशाः᳚¦घृ॒तऽप्र॑तीका¦व॒युना᳚नि¦व॒स्ते॒ |
तस्या᳚‌म्¦सु॒ऽप॒र्णा¦वृष॑णा¦नि¦से॒द॒तुः॒¦यत्र॑¦दे॒वाः¦द॒धि॒रे¦भा॒ग॒ऽधेय᳚‌म् ||

एकः॑ सुप॒र्णः स स॑मु॒द्रमा वि॑वेश॒ स इ॒दं विश्वं॒ भुव॑नं॒ वि च॑ष्टे |{वैरूपः सघ्निः | विश्वदेवाः | जगती}

तं पाके᳚न॒ मन॑सापश्य॒मन्ति॑त॒स्तं मा॒ता रे᳚ळ्हि॒ स उ॑ रेळ्हि मा॒तर᳚म् ||{4/10}{10.114.4}{10.10.2.4}{8.6.16.4}{1309, 951, 10107}

एकः॑¦सु॒ऽप॒र्णः¦सः¦स॒मु॒द्र‌म्¦आ¦वि॒वे॒श॒¦सः¦इ॒द‌म्¦विश्व᳚‌म्¦भुव॑न‌म्¦वि¦च॒ष्टे॒ |
त‌म्¦पाके᳚न¦मन॑सा¦अ॒प॒श्य॒‌म्¦अन्ति॑तः¦त‌म्¦मा॒ता¦रे॒ळ्हि॒¦सः¦ऊँ॒ इति॑¦रे॒ळ्हि॒¦मा॒तर᳚‌म् ||

सु॒प॒र्णं विप्राः᳚ क॒वयो॒ वचो᳚भि॒रेकं॒ सन्तं᳚ बहु॒धा क॑ल्पयन्ति |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

छन्दां᳚सि च॒ दध॑तो, अध्व॒रेषु॒ ग्रहा॒न्‌ त्सोम॑स्य मिमते॒ द्वाद॑श ||{5/10}{10.114.5}{10.10.2.5}{8.6.16.5}{1310, 951, 10108}

सु॒ऽप॒र्ण‌म्¦विप्रा᳚¦क॒वयः॑¦वचः॑ऽभिः¦एक᳚‌म्¦सन्त᳚‌म्¦ब॒हु॒धा¦क॒ल्प॒य॒न्ति॒ |
छन्दां᳚सि¦च॒¦दध॑तः¦अ॒ध्व॒रेषु॑¦ग्रहा᳚न्¦सोम॑स्य¦मि॒म॒ते॒¦द्वाद॑श ||

ष॒ट्त्रिं॒शाँश्च॑ च॒तुरः॑ क॒ल्पय᳚न्त॒श्छन्दां᳚सि च॒ दध॑त आद्वाद॒शम् |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

य॒ज्ञं वि॒माय॑ क॒वयो᳚ मनी॒ष ऋ॑क्सा॒माभ्यां॒ प्र रथं᳚ वर्तयन्ति ||{6/10}{10.114.6}{10.10.2.6}{8.6.17.1}{1311, 951, 10109}

ष॒ट्ऽत्रिं॒शान्¦च॒¦च॒तुरः॑¦क॒ल्पय᳚न्तः¦छन्दां᳚सि¦च॒¦दध॑तः¦आ॒ऽद्वा॒द॒श‌म् |
य॒ज्ञ‌म्¦वि॒ऽमाय॑¦क॒वयः॑¦म॒नी॒षा¦ऋ॒क्ऽसा॒माभ्या᳚‌म्¦प्र¦रथ᳚‌म्¦व॒र्त॒य॒न्ति॒ ||

चतु॑र्दशा॒न्ये म॑हि॒मानो᳚, अस्य॒ तं धीरा᳚ वा॒चा प्र ण॑यन्ति स॒प्त |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

आप्ना᳚नं ती॒र्थं क इ॒ह प्र वो᳚च॒द्येन॑ प॒था प्र॒पिब᳚न्ते सु॒तस्य॑ ||{7/10}{10.114.7}{10.10.2.7}{8.6.17.2}{1312, 951, 10110}

चतुः॑ऽदश¦अ॒न्ये¦म॒हि॒मानः॑¦अ॒स्य॒¦त‌म्¦धीराः᳚¦वा॒चा¦प्र¦न॒य॒न्ति॒¦स॒प्त |
आप्ना᳚न‌म्¦ती॒र्थ‌म्¦कः¦इ॒ह¦प्र¦वो॒च॒त्¦येन॑¦प॒था¦प्र॒ऽपिब᳚न्ते¦सु॒तस्य॑ ||

स॒ह॒स्र॒धा प᳚ञ्चद॒शान्यु॒क्था याव॒द्द्यावा᳚पृथि॒वी ताव॒दित्तत् |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

स॒ह॒स्र॒धा म॑हि॒मानः॑ स॒हस्रं॒ याव॒द्ब्रह्म॒ विष्ठि॑तं॒ ताव॑ती॒ वाक् ||{8/10}{10.114.8}{10.10.2.8}{8.6.17.3}{1313, 951, 10111}

स॒ह॒स्र॒धा¦पं॒च॒ऽद॒शानि॑¦उ॒क्था¦याव॑त्¦द्यावा᳚पृथि॒वी इति॑¦ताव॑त्¦इत्¦तत् |
स॒ह॒स्र॒धा¦म॒हि॒मानः॑¦स॒हस्र᳚‌म्¦याव॑त्¦ब्रह्म॑¦विऽस्थि॑त‌म्¦ताव॑ती¦वाक् ||

कश्छन्द॑सां॒ योग॒मा वे᳚द॒ धीरः॒ को धिष्ण्यां॒ प्रति॒ वाचं᳚ पपाद |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

कमृ॒त्विजा᳚मष्ट॒मं शूर॑माहु॒र्हरी॒, इन्द्र॑स्य॒ नि चि॑काय॒ कः स्वि॑त् ||{9/10}{10.114.9}{10.10.2.9}{8.6.17.4}{1314, 951, 10112}

कः¦छन्द॑सा‌म्¦योग᳚‌म्¦आ¦वे॒द॒¦धीरः॑¦कः¦धिष्ण्या᳚‌म्¦प्रति॑¦वाच᳚‌म्¦प॒पा॒द॒ |
क‌म्¦ऋ॒त्विजा᳚‌म्¦अ॒ष्ट॒म‌म्¦शूर᳚‌म्¦आ॒हुः॒¦हरी॒ इति॑¦इन्द्र॑स्य¦नि¦चि॒का॒य॒¦कः¦स्वि॒त् ||

भूम्या॒, अन्तं॒ पर्येके᳚ चरन्ति॒ रथ॑स्य धू॒र्षु यु॒क्तासो᳚, अस्थुः |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

श्रम॑स्य दा॒यं वि भ॑जन्त्येभ्यो य॒दा य॒मो भव॑ति ह॒र्म्ये हि॒तः ||{10/10}{10.114.10}{10.10.2.10}{8.6.17.5}{1315, 951, 10113}

भूम्याः᳚¦अन्त᳚‌म्¦परि॑¦एके᳚¦च॒र॒न्ति॒¦रथ॑स्य¦धूः॒ऽसु¦यु॒क्तासः॑¦अ॒स्थुः॒ |
श्रम॑स्य¦दा॒य‌म्¦वि¦भ॒ज॒न्ति॒¦ए॒भ्यः॒¦य॒दा¦य॒मः¦भव॑ति¦ह॒र्म्ये¦हि॒तः ||

[115] चित्रइति नवर्चस्य सूक्तस्य वार्ष्तिहव्य उपस्तुतोग्निर्जगती अष्टमीनवम्यौ त्रिष्टुप्‌शक्वर्यौ |
चि॒त्र इच्छिशो॒स्तरु॑णस्य व॒क्षथो॒ न यो मा॒तरा᳚व॒प्येति॒ धात॑वे |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती}

अ॒नू॒धा यदि॒ जीज॑न॒दधा᳚ च॒ नु व॒वक्ष॑ स॒द्यो महि॑ दू॒त्य१॑(अं॒) चर॑न् ||{1/9}{10.115.1}{10.10.3.1}{8.6.18.1}{1316, 952, 10114}

चि॒त्रः¦इत्¦शिशोः᳚¦तरु॑णस्य¦व॒क्षथः॑¦न¦यः¦मा॒तरौ᳚¦अ॒पि॒ऽएति॑¦धात॑वे |
अ॒नू॒धाः¦यदि॑¦जीज॑नत्¦अधा᳚¦च॒¦नु¦व॒वक्ष॑¦स॒द्यः¦महि॑¦दू॒त्य᳚‌म्¦चर॑न् ||

अ॒ग्निर्ह॒ नाम॑ धायि॒ दन्न॒पस्त॑मः॒ सं यो वना᳚ यु॒वते॒ भस्म॑ना द॒ता |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती}

अ॒भि॒प्र॒मुरा᳚ जु॒ह्वा᳚ स्वध्व॒र इ॒नो न प्रोथ॑मानो॒ यव॑से॒ वृषा᳚ ||{2/9}{10.115.2}{10.10.3.2}{8.6.18.2}{1317, 952, 10115}

अ॒ग्निः¦ह॒¦नाम॑¦धा॒यि॒¦दन्¦अ॒पःऽत॑मः¦स‌म्¦यः¦वना᳚¦यु॒वते᳚¦भस्म॑ना¦द॒ता |
अ॒भि॒ऽप्र॒मुरा᳚¦जु॒ह्वा᳚¦सु॒।आ॒ध्व॒रः¦इ॒नः¦न¦प्रोथ॑मानः¦यव॑से¦वृषा᳚ ||

तं वो॒ विं न द्रु॒षदं᳚ दे॒वमन्ध॑स॒ इन्दुं॒ प्रोथ᳚न्तं प्र॒वप᳚न्तमर्ण॒वम् |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती}

आ॒सा वह्निं॒ न शो॒चिषा᳚ विर॒प्शिनं॒ महि᳚व्रतं॒ न स॒रज᳚न्त॒मध्व॑नः ||{3/9}{10.115.3}{10.10.3.3}{8.6.18.3}{1318, 952, 10116}

त‌म्¦वः॒¦वि‌म्¦न¦द्रु॒ऽसद᳚‌म्¦दे॒व‌म्¦अन्ध॑सः¦इन्दु᳚‌म्¦प्रोथ᳚न्त‌म्¦प्र॒ऽवप᳚न्त‌म्¦अ॒र्ण॒व‌म् |
आ॒सा¦वह्नि᳚‌म्¦न¦शो॒चिषा᳚¦वि॒ऽर॒प्शिन᳚‌म्¦महि॑ऽव्रत‌म्¦न¦स॒रज᳚न्त‌म्¦अध्व॑नः ||

वि यस्य॑ ते ज्रयसा॒नस्या᳚जर॒ धक्षो॒र्न वाताः॒ परि॒ सन्त्यच्यु॑ताः |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती}

आ र॒ण्वासो॒ युयु॑धयो॒ न स॑त्व॒नं त्रि॒तं न॑शन्त॒ प्र शि॒षन्त॑ इ॒ष्टये᳚ ||{4/9}{10.115.4}{10.10.3.4}{8.6.18.4}{1319, 952, 10117}

वि¦यस्य॑¦ते॒¦ज्र॒य॒सा॒नस्य॑¦अ॒ज॒र॒¦धक्षोः᳚¦न¦वाताः᳚¦परि॑¦सन्ति॑¦अच्यु॑ताः |
आ¦र॒ण्वासः॑¦युयु॑धयः¦न¦स॒त्व॒न‌म्¦त्रि॒त‌म्¦न॒श॒न्त॒¦प्र¦शि॒षन्तः॑¦इ॒ष्टये᳚ ||

स इद॒ग्निः कण्व॑तमः॒ कण्व॑सखा॒र्यः पर॒स्यान्त॑रस्य॒ तरु॑षः |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती}

अ॒ग्निः पा᳚तु गृण॒तो, अ॒ग्निः सू॒रीन॒ग्निर्द॑दातु॒ तेषा॒मवो᳚ नः ||{5/9}{10.115.5}{10.10.3.5}{8.6.18.5}{1320, 952, 10118}

सः¦इत्¦अ॒ग्निः¦कण्व॑ऽतमः¦कण्व॑ऽसखा¦अ॒र्यः¦पर॑स्य¦अन्त॑रस्य¦तरु॑षः |
अ॒ग्निः¦पा॒तु॒¦गृ॒ण॒तः¦अ॒ग्निः¦सू॒रीन्¦अ॒ग्निः¦द॒दा॒तु॒¦तेषा᳚‌म्¦अवः॑¦नः॒ ||

वा॒जिन्त॑माय॒ सह्य॑से सुपित्र्य तृ॒षु च्यवा᳚नो॒, अनु॑ जा॒तवे᳚दसे |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती}

अ॒नु॒द्रे चि॒द्यो धृ॑ष॒ता वरं᳚ स॒ते म॒हिन्त॑माय॒ धन्व॒नेद॑विष्य॒ते ||{6/9}{10.115.6}{10.10.3.6}{8.6.19.1}{1321, 952, 10119}

वा॒जिन्ऽत॑माय¦सह्य॑से¦सु॒ऽपि॒त्र्य॒¦तृ॒षु¦च्यवा᳚नः¦अनु॑¦जा॒तऽवे᳚दसे |
अ॒नु॒द्रे¦चि॒त्¦यः¦धृ॒ष॒ता¦वर᳚‌म्¦स॒ते¦म॒हिन्ऽत॑माय¦धन्व॑ना¦इत्¦अ॒वि॒ष्य॒ते॒ ||

ए॒वाग्निर्मर्तैः᳚ स॒ह सू॒रिभि॒र्वसुः॑ ष्टवे॒ सह॑सः सू॒नरो॒ नृभिः॑ |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती}

मि॒त्रासो॒ न ये सुधि॑ता, ऋता॒यवो॒ द्यावो॒ न द्यु॒म्नैर॒भि सन्ति॒ मानु॑षान् ||{7/9}{10.115.7}{10.10.3.7}{8.6.19.2}{1322, 952, 10120}

ए॒व¦अ॒ग्निः¦मर्तैः᳚¦स॒ह¦सू॒रिऽभिः॑¦वसुः॑¦स्त॒वे॒¦सह॑सः¦सू॒नरः॑¦नृऽभिः॑ |
मि॒त्रासः॑¦न¦ये¦सुऽधि॑ताः¦ऋ॒त॒ऽयवः॑¦द्यावः॑¦न¦द्यु॒म्नैः¦अ॒भि¦स॒न्ति॒¦मानु॑षान् ||

ऊर्जो᳚ नपात्सहसाव॒न्निति॑ त्वोपस्तु॒तस्य॑ वन्दते॒ वृषा॒ वाक् |{वार्ष्तिहव्य उपस्तुतः | अग्निः | त्रिष्टुप्}

त्वां स्तो᳚षाम॒ त्वया᳚ सु॒वीरा॒ द्राघी᳚य॒ आयुः॑ प्रत॒रं दधा᳚नाः ||{8/9}{10.115.8}{10.10.3.8}{8.6.19.3}{1323, 952, 10121}

ऊर्जः॑¦न॒पा॒त्¦स॒ह॒सा॒ऽव॒न्¦इति॑¦त्वा॒¦उ॒प॒ऽस्तु॒तस्य॑¦व॒न्द॒ते॒¦वृषा᳚¦वाक् |
त्वा‌म्¦स्तो॒षा॒म॒¦त्वया᳚¦सु॒ऽवीराः᳚¦द्राघी᳚यः¦आयुः॑¦प्र॒ऽत॒र‌म्¦दधा᳚नाः ||

इति॑ त्वाग्ने वृष्टि॒हव्य॑स्य पु॒त्रा, उ॑पस्तु॒तास॒ ऋष॑योऽवोचन् |{वार्ष्तिहव्य उपस्तुतः | अग्निः | शक्वरी}

ताँश्च॑ पा॒हि गृ॑ण॒तश्च॑ सू॒रीन्वष॒ड्वष॒ळित्यू॒र्ध्वासो᳚, अनक्ष॒न्नमो॒ नम॒ इत्यू॒र्ध्वासो᳚, अनक्षन् ||{9/9}{10.115.9}{10.10.3.9}{8.6.19.4}{1324, 952, 10122}

इति॑¦त्वा॒¦अ॒ग्ने॒¦वृ॒ष्टि॒ऽहव्य॑स्य¦पु॒त्राः¦उ॒प॒ऽस्तु॒तासः॑¦ऋष॑यः¦अ॒वो॒च॒न् |
तान्¦च॒¦पा॒हि¦गृ॒ण॒तः¦च॒¦सू॒रीन्¦वष॑ट्¦वष॑ट्¦इति॑¦ऊ॒र्ध्वासः॑¦अ॒न॒क्ष॒न्¦नमः॑¦नमः॑¦इति॑¦ऊ॒र्ध्वासः॑¦अ॒न॒क्ष॒न् ||

[116] पिबेति नवर्चस्य सूक्तस्य स्थौरोग्नियुत इंद्रस्त्रिष्टुप् | (अग्नियूपोवा ऋषिः) |
पिबा॒ सोमं᳚ मह॒त इ᳚न्द्रि॒याय॒ पिबा᳚ वृ॒त्राय॒ हन्त॑वे शविष्ठ |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

पिब॑ रा॒ये शव॑से हू॒यमा᳚नः॒ पिब॒ मध्व॑स्तृ॒पदि॒न्द्रा वृ॑षस्व ||{1/9}{10.116.1}{10.10.4.1}{8.6.20.1}{1325, 953, 10123}

पिब॑¦सोम᳚‌म्¦म॒ह॒ते¦इ॒न्द्रि॒याय॑¦पिब॑¦वृ॒त्राय॑¦हन्त॑वे¦श॒वि॒ष्ठ॒ |
पिब॑¦रा॒ये¦शव॑से¦हू॒यमा᳚नः¦पिब॑¦मध्वः॑¦तृ॒पत्¦इ॒न्द्र॒¦आ¦वृ॒ष॒स्व॒ ||

अ॒स्य पि॑ब क्षु॒मतः॒ प्रस्थि॑त॒स्येन्द्र॒ सोम॑स्य॒ वर॒मा सु॒तस्य॑ |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

स्व॒स्ति॒दा मन॑सा मादयस्वार्वाची॒नो रे॒वते॒ सौभ॑गाय ||{2/9}{10.116.2}{10.10.4.2}{8.6.20.2}{1326, 953, 10124}

अ॒स्य¦पि॒ब॒¦क्षु॒ऽमतः॑¦प्रऽस्थि॑तस्य¦इन्द्र॑¦सोम॑स्य¦वर᳚‌म्¦आ¦सु॒तस्य॑ |
स्व॒स्ति॒ऽदाः¦मन॑सा¦मा॒द॒य॒स्व॒¦अ॒र्वा॒ची॒नः¦रे॒वते᳚¦सौभ॑गाय ||

म॒मत्तु॑ त्वा दि॒व्यः सोम॑ इन्द्र म॒मत्तु॒ यः सू॒यते॒ पार्थि॑वेषु |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

म॒मत्तु॒ येन॒ वरि॑वश्च॒कर्थ॑ म॒मत्तु॒ येन॑ निरि॒णासि॒ शत्रू॑न् ||{3/9}{10.116.3}{10.10.4.3}{8.6.20.3}{1327, 953, 10125}

म॒मत्तु॑¦त्वा॒¦दि॒व्यः¦सोमः॑¦इ॒न्द्र॒¦म॒मत्तु॑¦यः¦सू॒यते᳚¦पार्थि॑वेषु |
म॒मत्तु॑¦येन॑¦वरि॑ऽवः¦च॒कर्थ॑¦म॒मत्तु॑¦येन॑¦नि॒ऽरि॒णासि॑¦शत्रू॑न् ||

आ द्वि॒बर्हा᳚, अमि॒नो या॒त्विन्द्रो॒ वृषा॒ हरि॑भ्यां॒ परि॑षिक्त॒मन्धः॑ |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

गव्या सु॒तस्य॒ प्रभृ॑तस्य॒ मध्वः॑ स॒त्रा खेदा᳚मरुश॒हा वृ॑षस्व ||{4/9}{10.116.4}{10.10.4.4}{8.6.20.4}{1328, 953, 10126}

आ¦द्वि॒ऽबर्हाः᳚¦अ॒मि॒नः¦या॒तु॒¦इन्द्रः॑¦वृषा᳚¦हरि॑ऽभ्या‌म्¦परि॑ऽसिक्त‌म्¦अन्धः॑ |
गवि॑¦आ¦सु॒तस्य॑¦प्रऽभृ॑तस्य¦मध्वः॑¦स॒त्रा¦खेदा᳚‌म्¦अ॒रु॒श॒ऽहा¦आ¦वृ॒ष॒स्व॒ ||

नि ति॒ग्मानि॑ भ्रा॒शय॒न्‌ भ्राश्या॒न्यव॑ स्थि॒रा त॑नुहि यातु॒जूना᳚म् |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

उ॒ग्राय॑ ते॒ सहो॒ बलं᳚ ददामि प्र॒तीत्या॒ शत्रू᳚न्‌ विग॒देषु॑ वृश्च ||{5/9}{10.116.5}{10.10.4.5}{8.6.20.5}{1329, 953, 10127}

नि¦ति॒ग्मानि॑¦भ्रा॒शय॑न्¦भ्राश्या᳚नि¦अव॑¦स्थि॒रा¦त॒नु॒हि॒¦या॒तु॒ऽजूना᳚‌म् |
उ॒ग्राय॑¦ते॒¦सहः॑¦बल᳚‌म्¦द॒दा॒मि॒¦प्र॒ति॒ऽ‌इत्य॑¦शत्रू᳚न्¦वि॒ऽग॒देषु॑¦वृ॒श्च॒ ||

व्य१॑(अ॒)र्य इ᳚न्द्र तनुहि॒ श्रवां॒स्योजः॑ स्थि॒रेव॒ धन्व॑नो॒ऽभिमा᳚तीः |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

अ॒स्म॒द्र्य॑ग्वावृधा॒नः सहो᳚भि॒रनि॑भृष्टस्त॒न्वं᳚ वावृधस्व ||{6/9}{10.116.6}{10.10.4.6}{8.6.21.1}{1330, 953, 10128}

वि¦अ॒र्यः¦इ॒न्द्र॒¦त॒नु॒हि॒¦श्रवां᳚सि¦ओजः॑¦स्थि॒राऽ‌इ᳚व¦धन्व॑नः¦अ॒भिऽमा᳚तीः |
अ॒स्म॒द्र्य॑क्¦व॒वृ॒धा॒नः¦सहः॑ऽभिः¦अनि॑ऽभृष्टः¦त॒न्व᳚‌म्¦व॒वृ॒ध॒स्व॒ ||

इ॒दं ह॒विर्म॑घव॒न्तुभ्यं᳚ रा॒तं प्रति॑ सम्रा॒ळहृ॑णानो गृभाय |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

तुभ्यं᳚ सु॒तो म॑घव॒न्तुभ्यं᳚ प॒क्वो॒३॑(ओ॒)ऽद्धी᳚न्द्र॒ पिब॑ च॒ प्रस्थि॑तस्य ||{7/9}{10.116.7}{10.10.4.7}{8.6.21.2}{1331, 953, 10129}

इ॒द‌म्¦ह॒विः¦म॒घ॒ऽव॒न्¦तुभ्य᳚‌म्¦रा॒त‌म्¦प्रति॑¦स‌म्ऽरा᳚ट्¦अहृ॑णानः¦गृ॒भा॒य॒ |
तुभ्य᳚‌म्¦सु॒तः¦म॒घ॒ऽव॒न्¦तुभ्य᳚‌म्¦प॒क्वः॑¦अ॒द्धि¦इ॒न्द्र॒¦पिब॑¦च॒¦प्रऽस्थि॑तस्य ||

अ॒द्धीदि᳚न्द्र॒ प्रस्थि॑ते॒मा ह॒वींषि॒ चनो᳚ दधिष्व पच॒तोत सोम᳚म् |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

प्रय॑स्वन्तः॒ प्रति॑ हर्यामसि त्वा स॒त्याः स᳚न्तु॒ यज॑मानस्य॒ कामाः᳚ ||{8/9}{10.116.8}{10.10.4.8}{8.6.21.3}{1332, 953, 10130}

अ॒द्धि¦इत्¦इ॒न्द्र॒¦प्रऽस्थि॑ता¦इ॒मा¦ह॒वींषि॑¦चनः॑¦द॒धि॒ष्व॒¦प॒च॒ता¦उ॒त¦सोम᳚‌म् |
प्रय॑स्वन्तः¦प्रति॑¦ह॒र्या॒म॒सि॒¦त्वा॒¦स॒त्याः¦स॒न्तु॒¦यज॑मानस्य¦कामाः᳚ ||

प्रेन्द्रा॒ग्निभ्यां᳚ सुवच॒स्यामि॑यर्मि॒ सिन्धा᳚विव॒ प्रेर॑यं॒ नाव॑म॒र्कैः |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

अया᳚, इव॒ परि॑ चरन्ति दे॒वा ये, अ॒स्मभ्यं᳚ धन॒दा, उ॒द्भिद॑श्च ||{9/9}{10.116.9}{10.10.4.9}{8.6.21.4}{1333, 953, 10131}

प्र¦इ॒न्द्रा॒ग्निऽभ्या᳚‌म्¦सु॒ऽव॒च॒स्या‌म्¦इ॒य॒र्मि॒¦सिन्धौ᳚ऽ‌इव¦प्र¦ई॒र॒य॒‌म्¦नाव᳚‌म्¦अ॒र्कैः |
अयाः᳚ऽ‌इव¦परि॑¦च॒र॒न्ति॒¦दे॒वाः¦ये¦अ॒स्मभ्य᳚‌म्¦ध॒न॒ऽदाः¦उ॒त्ऽभिदः॑¦च॒ ||

[117] नवाइति नवर्चस्य सूक्तस्यांगिरसो भिक्षुर्धनान्नदानंत्रिष्टुबाद्येजगत्यौ |
न वा, उ॑ दे॒वाः, क्षुध॒मिद्व॒धं द॑दुरु॒ताशि॑त॒मुप॑ गच्छन्ति मृ॒त्यवः॑ |{आंगिरसो भिक्षुः | धनान्नदानः | जगती}

उ॒तो र॒यिः पृ॑ण॒तो नोप॑ दस्यत्यु॒तापृ॑णन्मर्डि॒तारं॒ न वि᳚न्दते ||{1/9}{10.117.1}{10.10.5.1}{8.6.22.1}{1334, 954, 10132}

न¦वै¦ऊँ॒ इति॑¦दे॒वाः¦क्षुध᳚‌म्¦इत्¦व॒ध‌म्¦द॒दुः॒¦उ॒त¦आशि॑त‌म्¦उप॑¦ग॒च्छ॒न्ति॒¦मृ॒त्यवः॑ |
उ॒तो इति॑¦र॒यिः¦पृ॒ण॒तः¦न¦उप॑¦द॒स्य॒ति॒¦उ॒त¦अपृ॑णन्¦म॒र्डि॒तार᳚‌म्¦न¦वि॒न्द॒ते॒ ||

य आ॒ध्राय॑ चकमा॒नाय॑ पि॒त्वोऽन्न॑वा॒न्‌ त्सन्‌ र॑फि॒तायो᳚पज॒ग्मुषे᳚ |{आंगिरसो भिक्षुः | धनान्नदानः | जगती}

स्थि॒रं मनः॑ कृणु॒ते सेव॑ते पु॒रोतो चि॒त्स म॑र्डि॒तारं॒ न वि᳚न्दते ||{2/9}{10.117.2}{10.10.5.2}{8.6.22.2}{1335, 954, 10133}

यः¦आ॒ध्राय॑¦च॒क॒मा॒नाय॑¦पि॒त्वः¦अन्न॑ऽवान्¦सन्¦र॒फि॒ताय॑¦उ॒प॒ऽज॒ग्मुषे᳚ |
स्थि॒र‌म्¦मनः॑¦कृ॒णु॒ते¦सेव॑ते¦पु॒रा¦उ॒तो इति॑¦चि॒त्¦सः¦म॒र्डि॒तार᳚‌म्¦न¦वि॒न्द॒ते॒ ||

स इद्भो॒जो यो गृ॒हवे॒ ददा॒त्यन्न॑कामाय॒ चर॑ते कृ॒शाय॑ |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्}

अर॑मस्मै भवति॒ याम॑हूता, उ॒ताप॒रीषु॑ कृणुते॒ सखा᳚यम् ||{3/9}{10.117.3}{10.10.5.3}{8.6.22.3}{1336, 954, 10134}

सः¦इत्¦भो॒जः¦यः¦गृ॒हवे᳚¦ददा᳚ति¦अन्न॑ऽकामाय¦चर॑ते¦कृ॒शाय॑ |
अर᳚‌म्¦अ॒स्मै॒¦भ॒व॒ति॒¦याम॑ऽहूतौ¦उ॒त¦अ॒प॒रीषु॑¦कृ॒णु॒ते॒¦सखा᳚य‌म् ||

न स सखा॒ यो न ददा᳚ति॒ सख्ये᳚ सचा॒भुवे॒ सच॑मानाय पि॒त्वः |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्}

अपा᳚स्मा॒त्प्रेया॒न्न तदोको᳚, अस्ति पृ॒णन्त॑म॒न्यमर॑णं चिदिच्छेत् ||{4/9}{10.117.4}{10.10.5.4}{8.6.22.4}{1337, 954, 10135}

न¦सः¦सखा᳚¦यः¦न¦ददा᳚ति¦सख्ये᳚¦स॒चा॒ऽभुवे᳚¦सच॑मानाय¦पि॒त्वः |
अप॑¦अ॒स्मा॒त्¦प्र¦इ॒या॒त्¦न¦तत्¦ओकः॑¦अ॒स्ति॒¦पृ॒णन्त᳚‌म्¦अ॒न्य‌म्¦अर॑ण‌म्¦चि॒त्¦इ॒च्छे॒त् ||

पृ॒णी॒यादिन्नाध॑मानाय॒ तव्या॒न्द्राघी᳚यांस॒मनु॑ पश्येत॒ पन्था᳚म् |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्}

ओ हि वर्त᳚न्ते॒ रथ्ये᳚व च॒क्रान्यम᳚न्य॒मुप॑ तिष्ठन्त॒ रायः॑ ||{5/9}{10.117.5}{10.10.5.5}{8.6.22.5}{1338, 954, 10136}

पृ॒णी॒यात्¦इत्¦नाध॑मानाय¦तव्या᳚न्¦द्राघी᳚यांस‌म्¦अनु॑¦प॒श्ये॒त॒¦पन्था᳚‌म् |
ओ इति॑¦हि¦व॒र्त॒न्ते॒¦रथ्या᳚ऽ‌इव¦च॒क्रा¦अ॒न्य‌म्।आ᳚न्य‌म्¦उप॑¦ति॒ष्ठ॒न्त॒¦रायः॑ ||

मोघ॒मन्नं᳚ विन्दते॒, अप्र॑चेताः स॒त्यं ब्र॑वीमि व॒ध इत्स तस्य॑ |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्}

नार्य॒मणं॒ पुष्य॑ति॒ नो सखा᳚यं॒ केव॑लाघो भवति केवला॒दी ||{6/9}{10.117.6}{10.10.5.6}{8.6.23.1}{1339, 954, 10137}

मोघ᳚‌म्¦अन्न᳚‌म्¦वि॒न्द॒ते॒¦अप्र॑ऽचेताः¦स॒त्य‌म्¦ब्र॒वी॒मि॒¦व॒धः¦इत्¦सः¦तस्य॑ |
न¦अ॒र्य॒मण᳚‌म्¦पुष्य॑ति¦नो इति॑¦सखा᳚य‌म्¦केव॑ल।आघः¦भ॒व॒ति॒¦के॒व॒ल॒ऽआ॒दी ||

कृ॒षन्नित्फाल॒ आशि॑तं कृणोति॒ यन्नध्वा᳚न॒मप॑ वृङ्क्ते च॒रित्रैः᳚ |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्}

वद᳚न्‌ ब्र॒ह्माव॑दतो॒ वनी᳚यान्‌ पृ॒णन्ना॒पिरपृ॑णन्तम॒भि ष्या᳚त् ||{7/9}{10.117.7}{10.10.5.7}{8.6.23.2}{1340, 954, 10138}

कृ॒षन्¦इत्¦फालः॑¦आशि॑त‌म्¦कृ॒णो॒ति॒¦यन्¦अध्वा᳚न‌म्¦अप॑¦वृ॒ङ्क्ते॒¦च॒रित्रैः᳚ |
वद॑न्¦ब्र॒ह्मा¦अव॑दतः¦वनी᳚यान्¦पृ॒णन्¦आ॒पिः¦अपृ॑णन्त‌म्¦अ॒भि¦स्या॒त् ||

एक॑पा॒द्भूयो᳚ द्वि॒पदो॒ वि च॑क्रमे द्वि॒पात्त्रि॒पाद॑म॒भ्ये᳚ति प॒श्चात् |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्}

चतु॑ष्पादेति द्वि॒पदा᳚मभिस्व॒रे स॒म्पश्य᳚न्‌ प॒ङ्क्तीरु॑प॒तिष्ठ॑मानः ||{8/9}{10.117.8}{10.10.5.8}{8.6.23.3}{1341, 954, 10139}

एक॑ऽपात्¦भूयः॑¦द्वि॒ऽपदः॑¦वि¦च॒क्र॒मे॒¦द्वि॒ऽपात्¦त्रि॒ऽपाद᳚‌म्¦अ॒भि¦ए॒ति॒¦प॒श्चात् |
चतुः॑ऽपात्¦ए॒ति॒¦द्वि॒ऽपदा᳚‌म्¦अ॒भि॒ऽस्व॒रे¦स॒‌म्ऽपश्य॑न्¦प॒ङ्क्तीः¦उ॒प॒ऽतिष्ठ॑मानः ||

स॒मौ चि॒द्धस्तौ॒ न स॒मं वि॑विष्टः सम्मा॒तरा᳚ चि॒न्न स॒मं दु॑हाते |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्}

य॒मयो᳚श्चि॒न्न स॒मा वी॒र्या᳚णि ज्ञा॒ती चि॒त्सन्तौ॒ न स॒मं पृ॑णीतः ||{9/9}{10.117.9}{10.10.5.9}{8.6.23.4}{1342, 954, 10140}

स॒मौ¦चि॒त्¦हस्तौ᳚¦न¦स॒म‌म्¦वि॒वि॒ष्टः¦स॒‌म्ऽमा॒तरा᳚¦चि॒त्¦न¦स॒म‌म्¦दु॒हा॒ते॒ इति॑ |
य॒मयोः᳚¦चि॒त्¦न¦स॒मा¦वी॒र्या᳚णि¦ज्ञा॒ती इति॑¦चि॒त्¦सन्तौ᳚¦न¦स॒म‌म्¦पृ॒णी॒तः॒ ||

[118] अग्नेहंसीति नवर्चस्य सूक्तस्यामहीयव उरुक्षयोरक्षोहाग्निर्गायत्री |
अग्ने॒ हंसि॒ न्य१॑(अ॒)त्रिणं॒ दीद्य॒न्मर्त्ये॒ष्वा |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

स्वे क्षये᳚ शुचिव्रत ||{1/9}{10.118.1}{10.10.6.1}{8.6.24.1}{1343, 955, 10141}

अग्ने᳚¦हंसि॑¦नि¦अ॒त्रिण᳚‌म्¦दीद्य॑त्¦मर्त्ये᳚षु¦आ | स्वे¦क्षये᳚¦शु॒चि॒ऽव्र॒त॒ ||

उत्ति॑ष्ठसि॒ स्वा᳚हुतो घृ॒तानि॒ प्रति॑ मोदसे |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

यत्‌ त्वा॒ स्रुचः॑ स॒मस्थि॑रन् ||{2/9}{10.118.2}{10.10.6.2}{8.6.24.2}{1344, 955, 10142}

उत्¦ति॒ष्ठ॒सि॒¦सुऽआ᳚हुतः¦घृ॒तानि॑¦प्रति॑¦मो॒द॒से॒ | यत्¦त्वा॒¦स्रुचः॑¦स॒‌म्।आस्थि॑रन् ||

स आहु॑तो॒ वि रो᳚चते॒ऽग्निरी॒ळेन्यो᳚ गि॒रा |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

स्रु॒चा प्रती᳚कमज्यते ||{3/9}{10.118.3}{10.10.6.3}{8.6.24.3}{1345, 955, 10143}

सः¦आऽहु॑तः¦वि¦रो॒च॒ते॒¦अ॒ग्निः¦ई॒ळेन्यः॑¦गि॒रा | स्रु॒चा¦प्रती᳚क‌म्¦अ॒ज्य॒ते॒ ||

घृ॒तेना॒ग्निः सम॑ज्यते॒ मधु॑प्रतीक॒ आहु॑तः |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

रोच॑मानो वि॒भाव॑सुः ||{4/9}{10.118.4}{10.10.6.4}{8.6.24.4}{1346, 955, 10144}

घृ॒तेन॑¦अ॒ग्निः¦स‌म्¦अ॒ज्य॒ते॒¦मधु॑ऽप्रतीकः¦आऽहु॑तः | रोच॑मानः¦वि॒भाऽव॑सुः ||

जर॑माणः॒ समि॑ध्यसे दे॒वेभ्यो᳚ हव्यवाहन |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

तं त्वा᳚ हवन्त॒ मर्त्याः᳚ ||{5/9}{10.118.5}{10.10.6.5}{8.6.24.5}{1347, 955, 10145}

जर॑माणः¦स‌म्¦इ॒ध्य॒से॒¦दे॒वेभ्यः॑¦ह॒व्य॒ऽवा॒ह॒न॒ | त‌म्¦त्वा॒¦ह॒व॒न्त॒¦मर्त्याः᳚ ||

तं म॑र्ता॒, अम॑र्त्यं घृ॒तेना॒ग्निं स॑पर्यत |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

अदा᳚भ्यं गृ॒हप॑तिम् ||{6/9}{10.118.6}{10.10.6.6}{8.6.25.1}{1348, 955, 10146}

त‌म्¦म॒र्ताः॒¦अम॑र्त्य‌म्¦घृ॒तेन॑¦अ॒ग्नि‌म्¦स॒प॒र्य॒त॒ | अदा᳚भ्य‌म्¦गृ॒हऽप॑ति‌म् ||

अदा᳚भ्येन शो॒चिषाग्ने॒ रक्ष॒स्त्वं द॑ह |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

गो॒पा, ऋ॒तस्य॑ दीदिहि ||{7/9}{10.118.7}{10.10.6.7}{8.6.25.2}{1349, 955, 10147}

अदा᳚भ्येन¦शो॒चिषा᳚¦अग्ने᳚¦रक्षः॑¦त्व‌म्¦द॒ह॒ | गो॒पाः¦ऋ॒तस्य॑¦दी॒दि॒हि॒ ||

स त्वम॑ग्ने॒ प्रती᳚केन॒ प्रत्यो᳚ष यातुधा॒न्यः॑ |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

उ॒रु॒क्षये᳚षु॒ दीद्य॑त् ||{8/9}{10.118.8}{10.10.6.8}{8.6.25.3}{1350, 955, 10148}

सः¦त्व‌म्¦अ॒ग्ने॒¦प्रती᳚केन¦प्रति॑¦ओ॒ष॒¦या॒तु॒ऽधा॒न्यः॑ | उ॒रु॒ऽक्षये᳚षु¦दीद्य॑त् ||

तं त्वा᳚ गी॒र्भिरु॑रु॒क्षया᳚ हव्य॒वाहं॒ समी᳚धिरे |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

यजि॑ष्ठं॒ मानु॑षे॒ जने᳚ ||{9/9}{10.118.9}{10.10.6.9}{8.6.25.4}{1351, 955, 10149}

त‌म्¦त्वा॒¦गीः॒ऽभिः¦उ॒रु॒ऽक्षयाः᳚¦ह॒व्य॒ऽवाह᳚‌म्¦स‌म्¦ई॒धि॒रे॒ | यजि॑ष्ठ‌म्¦मानु॑षे¦जने᳚ ||

[119] इतिवाइति त्रयोदशर्चस्य सूक्तस्यैंद्रो लबोगायत्री |
इति॒ वा, इति॑ मे॒ मनो॒ गामश्वं᳚ सनुया॒मिति॑ |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ ||{1/13}{10.119.1}{10.10.7.1}{8.6.26.1}{1352, 956, 10150}

इति॑¦वै¦इति॑¦मे॒¦मनः॑¦गा‌म्¦अश्व᳚‌म्¦स॒नु॒या॒‌म्¦इति॑ | कु॒वित्¦सोम॑स्य¦अपा᳚‌म्¦इति॑ ||

प्र वाता᳚, इव॒ दोध॑त॒ उन्मा᳚ पी॒ता, अ॑यंसत |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ ||{2/13}{10.119.2}{10.10.7.2}{8.6.26.2}{1353, 956, 10151}

प्र¦वाताः᳚ऽ‌इव¦दोध॑तः¦उत्¦मा॒¦पी॒ताः¦अ॒यं॒स॒त॒ | कु॒वित्¦सोम॑स्य¦अपा᳚‌म्¦इति॑ ||

उन्मा᳚ पी॒ता, अ॑यंसत॒ रथ॒मश्वा᳚, इवा॒शवः॑ |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ ||{3/13}{10.119.3}{10.10.7.3}{8.6.26.3}{1354, 956, 10152}

उत्¦मा॒¦पी॒ताः¦अ॒यं॒स॒त॒¦रथ᳚‌म्¦अश्वाः᳚ऽ‌इव¦आ॒शवः॑ | कु॒वित्¦सोम॑स्य¦अपा᳚‌म्¦इति॑ ||

उप॑ मा म॒तिर॑स्थित वा॒श्रा पु॒त्रमि॑व प्रि॒यम् |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ ||{4/13}{10.119.4}{10.10.7.4}{8.6.26.4}{1355, 956, 10153}

उप॑¦मा¦म॒तिः¦अ॒स्थि॒त॒¦वा॒श्रा¦पु॒त्र‌म्ऽ‌इ᳚व¦प्रि॒य‌म् | कु॒वित्¦सोम॑स्य¦अपा᳚‌म्¦इति॑ ||

अ॒हं तष्टे᳚व व॒न्धुरं॒ पर्य॑चामि हृ॒दा म॒तिम् |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ ||{5/13}{10.119.5}{10.10.7.5}{8.6.26.5}{1356, 956, 10154}

अ॒ह‌म्¦तष्टा᳚ऽ‌इव¦व॒न्धुर᳚‌म्¦परि॑¦अ॒चा॒मि॒¦हृ॒दा¦म॒ति‌म् | कु॒वित्¦सोम॑स्य¦अपा᳚‌म्¦इति॑ ||

न॒हि मे᳚, अक्षि॒पच्च॒नाऽच्छा᳚न्‌ त्सुः॒ पञ्च॑ कृ॒ष्टयः॑ |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ ||{6/13}{10.119.6}{10.10.7.6}{8.6.26.6}{1357, 956, 10155}

न॒हि¦मे॒¦अ॒क्षि॒ऽपत्¦च॒न¦अच्छा᳚न्त्सुः¦पंच॑¦कृ॒ष्टयः॑ | कु॒वित्¦सोम॑स्य¦अपा᳚‌म्¦इति॑ ||

न॒हि मे॒ रोद॑सी, उ॒भे, अ॒न्यं प॒क्षं च॒न प्रति॑ |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ ||{7/13}{10.119.7}{10.10.7.7}{8.6.27.1}{1358, 956, 10156}

न॒हि¦मे॒¦रोद॑सी॒ इति॑¦उ॒भे इति॑¦अ॒न्य‌म्¦प॒क्ष‌म्¦च॒न¦प्रति॑ | कु॒वित्¦सोम॑स्य¦अपा᳚‌म्¦इति॑ ||

अ॒भि द्यां म॑हि॒ना भु॑वम॒भी॒३॑(ई॒)मां पृ॑थि॒वीं म॒हीम् |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ ||{8/13}{10.119.8}{10.10.7.8}{8.6.27.2}{1359, 956, 10157}

अ॒भि¦द्या‌म्¦म॒हि॒ना¦भु॒व॒‌म्¦अ॒भि¦इ॒मा‌म्¦पृ॒थि॒वी‌म्¦म॒ही‌म् | कु॒वित्¦सोम॑स्य¦अपा᳚‌म्¦इति॑ ||

हन्ता॒हं पृ॑थि॒वीमि॒मां नि द॑धानी॒ह वे॒ह वा᳚ |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ ||{9/13}{10.119.9}{10.10.7.9}{8.6.27.3}{1360, 956, 10158}

हन्त॑¦अ॒ह‌म्¦पृ॒थि॒वी‌म्¦इ॒मा‌म्¦नि¦द॒धा॒नि॒¦इ॒ह¦वा॒¦इ॒ह¦वा॒ | कु॒वित्¦सोम॑स्य¦अपा᳚‌म्¦इति॑ ||

ओ॒षमित्‌ पृ॑थि॒वीम॒हं ज॒ङ्घना᳚नी॒ह वे॒ह वा᳚ |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ ||{10/13}{10.119.10}{10.10.7.10}{8.6.27.4}{1361, 956, 10159}

ओ॒ष‌म्¦इत्¦पृ॒थि॒वी‌म्¦अ॒ह‌म्¦ज॒ङ्घना᳚नि¦इ॒ह¦वा॒¦इ॒ह¦वा॒ | कु॒वित्¦सोम॑स्य¦अपा᳚‌म्¦इति॑ ||

दि॒वि मे᳚, अ॒न्यः प॒क्षो॒३॑(ओ॒) ऽधो, अ॒न्यम॑चीकृषम् |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ ||{11/13}{10.119.11}{10.10.7.11}{8.6.27.5}{1362, 956, 10160}

दि॒वि¦मे॒¦अ॒न्यः¦प॒क्षः¦अ॒धः¦अ॒न्य‌म्¦अ॒ची॒कृ॒ष॒‌म् | कु॒वित्¦सोम॑स्य¦अपा᳚‌म्¦इति॑ ||

अ॒हम॑स्मि महाम॒हो᳚ ऽभिन॒भ्यमुदी᳚षितः |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ ||{12/13}{10.119.12}{10.10.7.12}{8.6.27.6}{1363, 956, 10161}

अ॒ह‌म्¦अ॒स्मि॒¦म॒हा॒ऽम॒हः¦अ॒भि॒ऽन॒भ्य‌म्¦उत्ऽई᳚षितः | कु॒वित्¦सोम॑स्य¦अपा᳚‌म्¦इति॑ ||

गृ॒हो या॒म्यरं᳚कृतो दे॒वेभ्यो᳚ हव्य॒वाह॑नः |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ ||{13/13}{10.119.13}{10.10.7.13}{8.6.27.7}{1364, 956, 10162}

गृ॒हः¦या॒मि॒¦अर᳚‌म्ऽकृतः¦दे॒वेभ्यः॑¦ह॒व्य॒ऽवाह॑नः | कु॒वित्¦सोम॑स्य¦अपा᳚‌म्¦इति॑ ||

[120] तदिदिति नवर्चस्य सूक्तस्याथर्वणोबृहद्दिवइंद्रस्त्रिष्टुप् |
तदिदा᳚स॒ भुव॑नेषु॒ ज्येष्ठं॒ यतो᳚ ज॒ज्ञ उ॒ग्रस्त्वे॒षनृ᳚म्णः |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

स॒द्यो ज॑ज्ञा॒नो नि रि॑णाति॒ शत्रू॒ननु॒ यं विश्वे॒ मद॒न्त्यूमाः᳚ ||{1/9}{10.120.1}{10.10.8.1}{8.7.1.1}{1365, 957, 10163}

तत्¦इत्¦आ॒स॒¦भुव॑नेषु¦ज्येष्ठ᳚‌म्¦यतः॑¦ज॒ज्ञे¦उ॒ग्रः¦त्वे॒षऽनृ᳚म्णः |
स॒द्यः¦ज॒ज्ञा॒नः¦नि¦रि॒णा॒ति॒¦शत्रू᳚न्¦अनु॑¦य‌म्¦विश्वे᳚¦मद᳚न्ति¦ऊमाः᳚ ||

वा॒वृ॒धा॒नः शव॑सा॒ भूर्यो᳚जाः॒ शत्रु॑र्दा॒साय॑ भि॒यसं᳚ दधाति |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

अव्य॑नच्च व्य॒नच्च॒ सस्नि॒ सं ते᳚ नवन्त॒ प्रभृ॑ता॒ मदे᳚षु ||{2/9}{10.120.2}{10.10.8.2}{8.7.1.2}{1366, 957, 10164}

व॒वृ॒धा॒नः¦शव॑सा¦भूरि॑ऽओजाः¦शत्रुः॑¦दा॒साय॑¦भि॒यस᳚‌म्¦द॒धा॒ति॒ |
अवि॑।आनत्¦च॒¦वि॒।आ॒नत्¦च॒¦सस्नि॑¦स‌म्¦ते॒¦न॒व॒न्त॒¦प्रऽभृ॑ता¦मदे᳚षु ||

त्वे क्रतु॒मपि॑ वृञ्जन्ति॒ विश्वे॒ द्विर्यदे॒ते त्रिर्भव॒न्त्यूमाः᳚ |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

स्वा॒दोः स्वादी᳚यः स्वा॒दुना᳚ सृजा॒ सम॒दः सु मधु॒ मधु॑ना॒भि यो᳚धीः ||{3/9}{10.120.3}{10.10.8.3}{8.7.1.3}{1367, 957, 10165}

त्वे इति॑¦क्रतु᳚‌म्¦अपि॑¦वृं॒ज॒न्ति॒¦विश्वे᳚¦द्विः¦यत्¦ए॒ते¦त्रिः¦भव᳚न्ति¦ऊमाः᳚ |
स्वा॒दोः¦स्वादी᳚यः¦स्वा॒दुना᳚¦सृ॒ज॒¦स‌म्¦अ॒दः¦सु¦मधु॑¦मधु॑ना¦अ॒भि¦यो॒धीः॒ ||

इति॑ चि॒द्धि त्वा॒ धना॒ जय᳚न्तं॒ मदे᳚मदे, अनु॒मद᳚न्ति॒ विप्राः᳚ |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

ओजी᳚यो धृष्णो स्थि॒रमा त॑नुष्व॒ मा त्वा᳚ दभन्यातु॒धाना᳚ दु॒रेवाः᳚ ||{4/9}{10.120.4}{10.10.8.4}{8.7.1.4}{1368, 957, 10166}

इति॑¦चि॒त्¦हि¦त्वा॒¦धना᳚¦जय᳚न्त‌म्¦मदे᳚ऽमदे¦अ॒नु॒ऽमद᳚न्ति¦विप्राः᳚ |
ओजी᳚यः¦धृ॒ष्णो॒ इति॑¦स्थि॒र‌म्¦आ¦त॒नु॒ष्व॒¦मा¦त्वा॒¦द॒भ॒न्¦या॒तु॒ऽधानाः᳚¦दुः॒ऽएवाः᳚ ||

त्वया᳚ व॒यं शा᳚शद्महे॒ रणे᳚षु प्र॒पश्य᳚न्तो यु॒धेन्या᳚नि॒ भूरि॑ |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

चो॒दया᳚मि त॒ आयु॑धा॒ वचो᳚भिः॒ सं ते᳚ शिशामि॒ ब्रह्म॑णा॒ वयां᳚सि ||{5/9}{10.120.5}{10.10.8.5}{8.7.1.5}{1369, 957, 10167}

त्वया᳚¦व॒य‌म्¦शा॒श॒द्म॒हे॒¦रणे᳚षु¦प्र॒ऽपश्य᳚न्तः¦यु॒धेन्या᳚नि¦भूरि॑ |
चो॒दया᳚मि¦ते॒¦आयु॑धा¦वचः॑ऽभिः¦स‌म्¦ते॒¦शि॒शा॒मि॒¦ब्रह्म॑णा¦वयां᳚सि ||

स्तु॒षेय्यं᳚ पुरु॒वर्प॑स॒मृभ्व॑मि॒नत॑ममा॒प्त्यमा॒प्त्याना᳚म् |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

आ द॑र्षते॒ शव॑सा स॒प्त दानू॒न्‌ प्र सा᳚क्षते प्रति॒माना᳚नि॒ भूरि॑ ||{6/9}{10.120.6}{10.10.8.6}{8.7.2.1}{1370, 957, 10168}

स्तु॒षेय्य᳚‌म्¦पु॒रु॒ऽवर्प॑स‌म्¦ऋभ्व᳚‌म्¦इ॒नऽत॑म‌म्¦आ॒प्त्य‌म्¦आ॒प्त्याना᳚‌म् |
आ¦द॒र्ष॒ते॒¦शव॑सा¦स॒प्त¦दानू᳚न्¦प्र¦सा॒क्ष॒ते॒¦प्र॒ति॒ऽमाना᳚नि¦भूरि॑ ||

नि तद्द॑धि॒षेऽव॑रं॒ परं᳚ च॒ यस्मि॒न्नावि॒थाव॑सा दुरो॒णे |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

आ मा॒तरा᳚ स्थापयसे जिग॒त्नू, अत॑ इनोषि॒ कर्व॑रा पु॒रूणि॑ ||{7/9}{10.120.7}{10.10.8.7}{8.7.2.2}{1371, 957, 10169}

नि¦तत्¦द॒धि॒षे॒¦अव॑र‌म्¦पर᳚‌म्¦च॒¦यस्मि॑न्¦आवि॑थ¦अव॑सा¦दु॒रो॒णे |
आ¦मा॒तरा᳚¦स्था॒प॒य॒से॒¦जि॒ग॒त्नू इति॑¦अतः॑¦इ॒नो॒षि॒¦कर्व॑रा¦पु॒रूणि॑ ||

इ॒मा ब्रह्म॑ बृ॒हद्दि॑वो विव॒क्तीन्द्रा᳚य शू॒षम॑ग्रि॒यः स्व॒र्षाः |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

म॒हो गो॒त्रस्य॑ क्षयति स्व॒राजो॒ दुर॑श्च॒ विश्वा᳚, अवृणो॒दप॒ स्वाः ||{8/9}{10.120.8}{10.10.8.8}{8.7.2.3}{1372, 957, 10170}

इ॒मा¦ब्रह्म॑¦बृ॒हत्ऽदि॑वः¦वि॒व॒क्ति॒¦इन्द्रा᳚य¦शू॒ष‌म्¦अ॒ग्रि॒यः¦स्वः॒ऽसाः |
म॒हः¦गो॒त्रस्य॑¦क्ष॒य॒ति॒¦स्व॒ऽराजः॑¦दुरः॑¦च॒¦विश्वाः᳚¦अ॒वृ॒णो॒त्¦अप॑¦स्वाः ||

ए॒वा म॒हान्‌ बृ॒हद्दि॑वो॒, अथ॒र्वावो᳚च॒त्स्वां त॒न्व१॑(अ॒)मिन्द्र॑मे॒व |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

स्वसा᳚रो मात॒रिभ्व॑रीररि॒प्रा हि॒न्वन्ति॑ च॒ शव॑सा व॒र्धय᳚न्ति च ||{9/9}{10.120.9}{10.10.8.9}{8.7.2.4}{1373, 957, 10171}

ए॒व¦म॒हान्¦बृ॒हत्ऽदि॑वः¦अथ᳚र्वा¦अवो᳚चत्¦स्वा‌म्¦त॒न्व᳚‌म्¦इन्द्र᳚‌म्¦ए॒व |
स्वसा᳚रः¦मा॒त॒रिभ्व॑रीः¦अ॒रि॒प्राः¦हि॒न्वन्ति॑¦च॒¦शव॑सा¦व॒र्धय᳚न्ति¦च॒ ||

[121] हिरण्यगर्भइति दशर्चस्य सूक्तस्य प्राजापत्योहिरण्यगर्भः प्रजापतिस्त्रिष्टुप् |
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे᳚ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

स दा᳚धार पृथि॒वीं द्यामु॒तेमां कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{1/10}{10.121.1}{10.10.9.1}{8.7.3.1}{1374, 958, 10172}

हि॒र॒ण्य॒ऽग॒र्भः¦स‌म्¦अ॒व॒र्त॒त॒¦अग्रे᳚¦भू॒तस्य॑¦जा॒तः¦पतिः॑¦एकः॑¦आ॒सी॒त् |
सः¦दा॒धा॒र॒¦पृ॒थि॒वी‌म्¦द्या‌म्¦उ॒त¦इ॒मा‌म्¦कस्मै᳚¦दे॒वाय॑¦ह॒विषा᳚¦वि॒धे॒म॒ ||

य आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{2/10}{10.121.2}{10.10.9.2}{8.7.3.2}{1375, 958, 10173}

यः¦आ॒त्म॒ऽदाः¦ब॒ल॒ऽदाः¦यस्य॑¦विश्वे᳚¦उ॒प॒ऽआस॑ते¦प्र॒ऽशिष᳚‌म्¦यस्य॑¦दे॒वाः |
यस्य॑¦छा॒या‌म्¦ऋत᳚‌म्¦यस्य॑¦मृ॒त्युः¦कस्मै᳚¦दे॒वाय॑¦ह॒विषा᳚¦वि॒धे॒म॒ ||

यः प्रा᳚ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

य ईशे᳚, अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{3/10}{10.121.3}{10.10.9.3}{8.7.3.3}{1376, 958, 10174}

यः¦प्रा॒ण॒तः¦नि॒ऽमि॒ष॒तः¦म॒हि॒ऽत्वा¦एकः॑¦इत्¦राजा᳚¦जग॑तः¦ब॒भूव॑ |
यः¦ईशे᳚¦अ॒स्य¦द्वि॒ऽपदः॑¦चतुः॑ऽपदः¦कस्मै᳚¦दे॒वाय॑¦ह॒विषा᳚¦वि॒धे॒म॒ ||

यस्ये॒मे हि॒मव᳚न्तो महि॒त्वा यस्य॑ समु॒द्रं र॒सया᳚ स॒हाहुः |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{4/10}{10.121.4}{10.10.9.4}{8.7.3.4}{1377, 958, 10175}

यस्य॑¦इ॒मे¦हि॒मऽव᳚न्तः¦म॒हि॒ऽत्वा¦यस्य॑¦स॒मु॒द्र‌म्¦र॒सया᳚¦स॒ह¦आ॒हुः॒ |
यस्य॑¦इ॒माः¦प्र॒ऽदिशः॑¦यस्य॑¦बा॒हू इति॑¦कस्मै᳚¦दे॒वाय॑¦ह॒विषा᳚¦वि॒धे॒म॒ ||

येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ळ्हा येन॒ स्वः॑ स्तभि॒तं येन॒ नाकः॑ |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

यो, अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः॒ कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{5/10}{10.121.5}{10.10.9.5}{8.7.3.5}{1378, 958, 10176}

येन॑¦द्यौः¦उ॒ग्रा¦पृ॒थि॒वी¦च॒¦दृ॒ळ्हा¦येन॑¦स्व१॒॑रिति॒ स्वः॑¦स्त॒भि॒त‌म्¦येन॑¦नाकः॑ |
यः¦अ॒न्तरि॑क्षे¦रज॑सः¦वि॒ऽमानः॑¦कस्मै᳚¦दे॒वाय॑¦ह॒विषा᳚¦वि॒धे॒म॒ ||

यं क्रन्द॑सी॒, अव॑सा तस्तभा॒ने, अ॒भ्यैक्षे᳚तां॒ मन॑सा॒ रेज॑माने |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

यत्राधि॒ सूर॒ उदि॑तो वि॒भाति॒ कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{6/10}{10.121.6}{10.10.9.6}{8.7.4.1}{1379, 958, 10177}

य‌म्¦क्रन्द॑सी॒ इति॑¦अव॑सा¦त॒स्त॒भा॒ने इति॑¦अ॒भि¦ऐक्षे᳚ता‌म्¦मन॑सा¦रेज॑माने |
यत्र॑¦अधि॑¦सूरः॑¦उत्ऽ‌इ᳚तः¦वि॒ऽभाति॑¦कस्मै᳚¦दे॒वाय॑¦ह॒विषा᳚¦वि॒धे॒म॒ ||

आपो᳚ ह॒ यद्‌ बृ॑ह॒तीर्विश्व॒माय॒न् गर्भं॒ दधा᳚ना ज॒नय᳚न्तीर॒ग्निम् |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

ततो᳚ दे॒वानां॒ सम॑वर्त॒तासु॒रेकः॒ कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{7/10}{10.121.7}{10.10.9.7}{8.7.4.2}{1380, 958, 10178}

आपः॑¦ह॒¦यत्¦बृ॒ह॒तीः¦विश्व᳚‌म्¦आय॑न्¦गर्भ᳚‌म्¦दधा᳚नाः¦ज॒नय᳚न्तीः¦अ॒ग्नि‌म् |
ततः॑¦दे॒वाना᳚‌म्¦स‌म्¦अ॒व॒र्त॒त॒¦असुः॑¦एकः॑¦कस्मै᳚¦दे॒वाय॑¦ह॒विषा᳚¦वि॒धे॒म॒ ||

यश्चि॒दापो᳚ महि॒ना प॒र्यप॑श्य॒द् दक्षं॒ दधा᳚ना ज॒नय᳚न्तीर्य॒ज्ञम् |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त् कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{8/10}{10.121.8}{10.10.9.8}{8.7.4.3}{1381, 958, 10179}

यः¦चि॒त्¦आपः॑¦म॒हि॒ना¦प॒रि॒।आप॑श्यत्¦दक्ष᳚‌म्¦दधा᳚नाः¦ज॒नय᳚न्तीः¦य॒ज्ञ‌म् |
यः¦दे॒वेषु॑¦अधि॑¦दे॒वः¦एकः॑¦आसी᳚त्¦कस्मै᳚¦दे॒वाय॑¦ह॒विषा᳚¦वि॒धे॒म॒ ||

मा नो᳚ हिंसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवं᳚ स॒त्यध᳚र्मा ज॒जान॑ |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

यश्चा॒पश्च॒न्द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{9/10}{10.121.9}{10.10.9.9}{8.7.4.4}{1382, 958, 10180}

मा¦नः॒¦हिं॒सी॒त्¦ज॒नि॒ता¦यः¦पृ॒थि॒व्याः¦यः¦वा॒¦दिव᳚‌म्¦स॒त्यऽध᳚र्मा¦ज॒जान॑ |
यः¦च॒¦अ॒पः¦च॒न्द्राः¦बृ॒ह॒तीः¦ज॒जान॑¦कस्मै᳚¦दे॒वाय॑¦ह॒विषा᳚¦वि॒धे॒म॒ ||

प्रजा᳚पते॒ न त्वदे॒तान्य॒न्यो विश्वा᳚ जा॒तानि॒ परि॒ ता ब॑भूव |{प्राजापत्यो हिरण्यगर्भः | प्रजापति | त्रिष्टुप्}

यत्‌ का᳚मास्ते जुहु॒मस्तन्नो᳚, अस्तु व॒यं स्या᳚म॒ पत॑यो रयी॒णाम् ||{10/10}{10.121.10}{10.10.9.10}{8.7.4.5}{1383, 958, 10181}

प्रजा᳚ऽपते¦न¦त्वत्¦ए॒तानि॑¦अ॒न्यः¦विश्वा᳚¦जा॒तानि॑¦परि॑¦ता¦ब॒भू॒व॒ |
यत्ऽका᳚माः¦ते॒¦जु॒हु॒मः¦तत्¦नः॒¦अ॒स्तु॒¦व॒य‌म्¦स्या॒म॒¦पत॑यः¦र॒यी॒णा‌म् ||

[122] वसुमित्यष्टर्चस्य सूक्तस्य वासिष्ठश्चित्रमहाअग्निर्जगती आद्यापंचम्यौत्रिष्टुभौ |
वसुं॒ न चि॒त्रम॑हसं गृणीषे वा॒मं शेव॒मति॑थिमद्विषे॒ण्यम् |{वासिष्ठश्चित्रमहा | अग्निः | त्रिष्टुप्}

स रा᳚सते शु॒रुधो᳚ वि॒श्वधा᳚यसो॒ऽग्निर्होता᳚ गृ॒हप॑तिः सु॒वीर्य᳚म् ||{1/8}{10.122.1}{10.10.10.1}{8.7.5.1}{1384, 959, 10182}

वसु᳚‌म्¦न¦चि॒त्रऽम॑हस‌म्¦गृ॒णी॒षे॒¦वा॒म‌म्¦शेव᳚‌म्¦अति॑थि‌म्¦अ॒द्वि॒षे॒ण्य‌म् |
सः¦रा॒स॒ते॒¦शु॒रुधः॑¦वि॒श्वऽधा᳚यसः¦अ॒ग्निः¦होता᳚¦गृ॒हऽप॑तिः¦सु॒ऽवीर्य᳚‌म् ||

जु॒षा॒णो, अ॑ग्ने॒ प्रति॑ हर्य मे॒ वचो॒ विश्वा᳚नि वि॒द्वान्‌ व॒युना᳚नि सुक्रतो |{वासिष्ठश्चित्रमहा | अग्निः | त्रिष्टुप्}

घृत॑निर्णि॒ग्ब्रह्म॑णे गा॒तुमेर॑य॒ तव॑ दे॒वा, अ॑जनय॒न्ननु᳚ व्र॒तम् ||{2/8}{10.122.2}{10.10.10.2}{8.7.5.2}{1385, 959, 10183}

जु॒षा॒णः¦अ॒ग्ने॒¦प्रति॑¦ह॒र्य॒¦मे॒¦वचः॑¦विश्वा᳚नि¦वि॒द्वान्¦व॒युना᳚नि¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो |
घृत॑ऽनिर्निक्¦ब्रह्म॑णे¦गा॒तु‌म्¦आ¦ई॒र॒य॒¦तव॑¦दे॒वाः¦अ॒ज॒न॒य॒न्¦अनु॑¦व्र॒त‌म् ||

स॒प्त धामा᳚नि परि॒यन्नम॑र्त्यो॒ दाश॑द्दा॒शुषे᳚ सु॒कृते᳚ मामहस्व |{वासिष्ठश्चित्रमहा | अग्निः | त्रिष्टुप्}

सु॒वीरे᳚ण र॒यिणा᳚ग्ने स्वा॒भुवा॒ यस्त॒ आन॑ट्स॒मिधा॒ तं जु॑षस्व ||{3/8}{10.122.3}{10.10.10.3}{8.7.5.3}{1386, 959, 10184}

स॒प्त¦धामा᳚नि¦प॒रि॒ऽयन्¦अम॑र्त्यः¦दाश॑त्¦दा॒शुषे᳚¦सु॒ऽकृते᳚¦म॒म॒ह॒स्व॒ |
सु॒ऽवीरे᳚ण¦र॒यिणा᳚¦अ॒ग्ने॒¦सु॒ऽआ॒भुवा᳚¦यः¦ते॒¦आन॑ट्¦स॒‌म्ऽ‌इधा᳚¦त‌म्¦जु॒ष॒स्व॒ ||

य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तं ह॒विष्म᳚न्त ईळते स॒प्त वा॒जिन᳚म् |{वासिष्ठश्चित्रमहा | अग्निः | त्रिष्टुप्}

शृ॒ण्वन्त॑म॒ग्निं घृ॒तपृ॑ष्ठमु॒क्षणं᳚ पृ॒णन्तं᳚ दे॒वं पृ॑ण॒ते सु॒वीर्य᳚म् ||{4/8}{10.122.4}{10.10.10.4}{8.7.5.4}{1387, 959, 10185}

य॒ज्ञस्य॑¦के॒तु‌म्¦प्र॒थ॒म‌म्¦पु॒रःऽहि॑त‌म्¦ह॒विष्म᳚न्तः¦ई॒ळ॒ते॒¦स॒प्त¦वा॒जिन᳚‌म् |
शृ॒ण्वन्त᳚‌म्¦अ॒ग्नि‌म्¦घृ॒तऽपृ॑ष्ठ‌म्¦उ॒क्षण᳚‌म्¦पृ॒णन्त᳚‌म्¦दे॒व‌म्¦पृ॒ण॒ते¦सु॒ऽवीर्य᳚‌म् ||

त्वं दू॒तः प्र॑थ॒मो वरे᳚ण्यः॒ स हू॒यमा᳚नो, अ॒मृता᳚य मत्स्व |{वासिष्ठश्चित्रमहा | अग्निः | त्रिष्टुप्}

त्वां म॑र्जयन्म॒रुतो᳚ दा॒शुषो᳚ गृ॒हे त्वां स्तोमे᳚भि॒र्भृग॑वो॒ वि रु॑रुचुः ||{5/8}{10.122.5}{10.10.10.5}{8.7.5.5}{1388, 959, 10186}

त्व‌म्¦दू॒तः¦प्र॒थ॒मः¦वरे᳚ण्यः¦सः¦हू॒यमा᳚नः¦अ॒मृता᳚य¦म॒त्स्व॒ |
त्वा‌म्¦म॒र्ज॒य॒न्¦म॒रुतः॑¦दा॒शुषः॑¦गृ॒हे¦त्वा‌म्¦स्तोमे᳚भिः¦भृग॑वः¦वि¦रि॒रु॒चुः॒ ||

इषं᳚ दु॒हन्‌ त्सु॒दुघां᳚ वि॒श्वधा᳚यसं यज्ञ॒प्रिये॒ यज॑मानाय सुक्रतो |{वासिष्ठश्चित्रमहा | अग्निः | जगती}

अग्ने᳚ घृ॒तस्नु॒स्त्रिरृ॒तानि॒ दीद्य॑द्व॒र्तिर्य॒ज्ञं प॑रि॒यन्‌ त्सु॑क्रतूयसे ||{6/8}{10.122.6}{10.10.10.6}{8.7.6.1}{1389, 959, 10187}

इष᳚‌म्¦दु॒हन्¦सु॒ऽदुघा᳚‌म्¦वि॒श्वऽधा᳚यस‌म्¦य॒ज्ञ॒ऽप्रिये᳚¦यज॑मानाय¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो |
अग्रे᳚¦घृ॒तऽस्नुः॑¦त्रिः¦ऋ॒तानि॑¦दीद्य॑त्¦व॒र्तिः¦य॒ज्ञ‌म्¦प॒रि॒ऽयन्¦सु॒क्र॒तु॒ऽय॒से॒ ||

त्वामिद॒स्या, उ॒षसो॒ व्यु॑ष्टिषु दू॒तं कृ᳚ण्वा॒ना, अ॑यजन्त॒ मानु॑षाः |{वासिष्ठश्चित्रमहा | अग्निः | जगती}

त्वां दे॒वा म॑ह॒याय्या᳚य वावृधु॒राज्य॑मग्ने निमृ॒जन्तो᳚, अध्व॒रे ||{7/8}{10.122.7}{10.10.10.7}{8.7.6.2}{1390, 959, 10188}

त्वा‌म्¦इत्¦अ॒स्याः¦उ॒षसः॑¦वि।औ᳚ष्टिषु¦दू॒त‌म्¦कृ॒ण्वा॒नाः¦अ॒य॒ज॒न्त॒¦मानु॑षाः |
त्वा‌म्¦दे॒वाः¦म॒ह॒याय्या᳚य¦व॒वृ॒धुः॒¦आज्य᳚‌म्¦अ॒ग्ने॒¦नि॒ऽमृ॒जन्तः॑¦अ॒ध्व॒रे ||

नि त्वा॒ वसि॑ष्ठा, अह्वन्त वा॒जिनं᳚ गृ॒णन्तो᳚, अग्ने वि॒दथे᳚षु वे॒धसः॑ |{वासिष्ठश्चित्रमहा | अग्निः | जगती}

रा॒यस्पोषं॒ यज॑मानेषु धारय यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{8/8}{10.122.8}{10.10.10.8}{8.7.6.3}{1391, 959, 10189}

नि¦त्वा॒¦वसि॑ष्ठाः¦अ॒ह्व॒न्त॒¦वा॒जिन᳚‌म्¦गृ॒णन्तः॑¦अ॒ग्ने॒¦वि॒दथे᳚षु¦वे॒धसः॑ |
रा॒यः¦पोष᳚‌म्¦यज॑मानेषु¦धा॒र॒य॒¦यू॒य‌म्¦पा॒त॒¦स्व॒स्तिऽभिः॑¦सदा᳚¦नः॒ ||

[123] अयमित्यष्टर्चस्यसूक्तस्य भार्गवोवेनोवेनस्त्रिष्टुप् |
अ॒यं वे॒नश्चो᳚दय॒त्‌ पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने᳚ |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

इ॒मम॒पां सं᳚ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा᳚ म॒तिभी᳚ रिहन्ति ||{1/8}{10.123.1}{10.10.11.1}{8.7.7.1}{1392, 960, 10190}

अ॒य‌म्¦वे॒नः¦चो॒द॒य॒त्¦पृश्नि॑ऽगर्भाः¦ज्योतिः॑ऽजरायुः¦रज॑सः¦वि॒ऽमाने᳚ |
इ॒म‌म्¦अ॒पा‌म्¦स॒‌म्ऽग॒मे¦सूर्य॑स्य¦शिशु᳚‌म्¦न¦विप्राः᳚¦म॒तिऽभिः॑¦रि॒ह॒न्ति॒ ||

स॒मु॒द्रादू॒र्मिमुदि॑यर्ति वे॒नो न॑भो॒जाः पृ॒ष्ठं ह᳚र्य॒तस्य॑ दर्शि |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

ऋ॒तस्य॒ साना॒वधि॑ वि॒ष्टपि॒ भ्राट्स॑मा॒नं योनि॑म॒भ्य॑नूषत॒ व्राः ||{2/8}{10.123.2}{10.10.11.2}{8.7.7.2}{1393, 960, 10191}

स॒मु॒द्रात्¦ऊ॒र्मि‌म्¦उत्¦इ॒य॒र्ति॒¦वे॒नः¦न॒भः॒ऽजाः¦पृ॒ष्ठ‌म्¦ह॒र्य॒तस्य॑¦द॒र्शि॒ |
ऋ॒तस्य॑¦सानौ᳚¦अधि॑¦वि॒ष्टपि॑¦भ्राट्¦स॒मा॒न‌म्¦योनि᳚‌म्¦अ॒भि¦अ॒नू॒ष॒त॒¦व्राः ||

स॒मा॒नं पू॒र्वीर॒भि वा᳚वशा॒नास्तिष्ठ᳚न्व॒त्सस्य॑ मा॒तरः॒ सनी᳚ळाः |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

ऋ॒तस्य॒ साना॒वधि॑ चक्रमा॒णा रि॒हन्ति॒ मध्वो᳚, अ॒मृत॑स्य॒ वाणीः᳚ ||{3/8}{10.123.3}{10.10.11.3}{8.7.7.3}{1394, 960, 10192}

स॒मा॒न‌म्¦पू॒र्वीः¦अ॒भि¦व॒व॒शा॒नाः¦तिष्ठ॑न्¦व॒त्सस्य॑¦मा॒तरः॑¦सऽनी᳚ळाः |
ऋ॒तस्य॑¦सानौ᳚¦अधि॑¦च॒क्र॒मा॒णाः¦रि॒हन्ति॑¦मध्वः॑¦अ॒मृत॑स्य¦वाणीः᳚ ||

जा॒नन्तो᳚ रू॒पम॑कृपन्त॒ विप्रा᳚ मृ॒गस्य॒ घोषं᳚ महि॒षस्य॒ हि ग्मन् |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

ऋ॒तेन॒ यन्तो॒, अधि॒ सिन्धु॑मस्थुर्वि॒दद्ग᳚न्ध॒र्वो, अ॒मृता᳚नि॒ नाम॑ ||{4/8}{10.123.4}{10.10.11.4}{8.7.7.4}{1395, 960, 10193}

जा॒नन्तः॑¦रू॒प‌म्¦अ॒कृ॒प॒न्त॒¦विप्राः᳚¦मृ॒गस्य॑¦घोष᳚‌म्¦म॒हि॒षस्य॑¦हि¦ग्मन् |
ऋ॒तेन॑¦यन्तः॑¦अधि॑¦सिन्धु᳚‌म्¦अ॒स्थुः॒¦वि॒दत्¦ग॒न्ध॒र्वः¦अ॒मृता᳚नि¦नाम॑ ||

अ॒प्स॒रा जा॒रमु॑पसिष्मिया॒णा योषा᳚ बिभर्ति पर॒मे व्यो᳚मन् |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

चर॑त्प्रि॒यस्य॒ योनि॑षु प्रि॒यः सन्‌ त्सीद॑त्प॒क्षे हि॑र॒ण्यये॒ स वे॒नः ||{5/8}{10.123.5}{10.10.11.5}{8.7.7.5}{1396, 960, 10194}

अ॒प्स॒राः¦जा॒र‌म्¦उ॒प॒ऽसि॒ष्मि॒या॒णा¦योषा᳚¦बि॒भ॒र्ति॒¦प॒र॒मे¦विऽओ᳚मन् |
चर॑त्¦प्रि॒यस्य॑¦योनि॑षु¦प्रि॒यः¦सन्¦सीद॑त्¦प॒क्षे¦हि॒र॒ण्यये᳚¦सः¦वे॒नः ||

नाके᳚ सुप॒र्णमुप॒ यत्‌ पत᳚न्तं हृ॒दा वेन᳚न्तो, अ॒भ्यच॑क्षत त्वा |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

हिर᳚ण्यपक्षं॒ वरु॑णस्य दू॒तं य॒मस्य॒ योनौ᳚ शकु॒नं भु॑र॒ण्युम् ||{6/8}{10.123.6}{10.10.11.6}{8.7.8.1}{1397, 960, 10195}

नाके᳚¦सु॒ऽप॒र्ण‌म्¦उप॑¦यत्¦पत᳚न्त‌म्¦हृ॒दा¦वेन᳚न्तः¦अ॒भि¦अच॑क्षत¦त्वा॒ |
हिर᳚ण्यऽपक्ष‌म्¦वरु॑णस्य¦दू॒त‌म्¦य॒मस्य॑¦योनौ᳚¦श॒कु॒न‌म्¦भु॒र॒ण्यु‌म् ||

ऊ॒र्ध्वो ग᳚न्ध॒र्वो, अधि॒ नाके᳚, अस्थात्प्र॒त्यङ्चि॒त्रा बिभ्र॑द॒स्यायु॑धानि |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

वसा᳚नो॒, अत्कं᳚ सुर॒भिं दृ॒शे कं स्व१॑(अ॒)र्ण नाम॑ जनत प्रि॒याणि॑ ||{7/8}{10.123.7}{10.10.11.7}{8.7.8.2}{1398, 960, 10196}

ऊ॒र्ध्वः¦ग॒न्ध॒र्वः¦अधि॑¦नाके᳚¦अ॒स्था॒त्¦प्र॒त्यङ्¦चि॒त्रा¦बिभ्र॑त्¦अ॒स्य॒¦आयु॑धानि |
वसा᳚नः¦अत्क᳚‌म्¦सु॒ऽर॒भि‌म्¦दृ॒शे¦क‌म्¦स्वः॑¦न¦नाम॑¦ज॒न॒त॒¦प्रि॒याणि॑ ||

द्र॒प्सः स॑मु॒द्रम॒भि यज्जिगा᳚ति॒ पश्य॒न्‌ गृध्र॑स्य॒ चक्ष॑सा॒ विध᳚र्मन् |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

भा॒नुः शु॒क्रेण॑ शो॒चिषा᳚ चका॒नस्तृ॒तीये᳚ चक्रे॒ रज॑सि प्रि॒याणि॑ ||{8/8}{10.123.8}{10.10.11.8}{8.7.8.3}{1399, 960, 10197}

द्र॒प्सः¦स॒मु॒द्र‌म्¦अ॒भि¦यत्¦जिगा᳚ति¦पश्य॑न्¦गृध्र॑स्य¦चक्ष॑सा¦विऽध᳚र्मन् |
भा॒नुः¦शु॒क्रेण॑¦शो॒चिषा᳚¦च॒का॒नः¦तृ॒तीये᳚¦च॒क्रे॒¦रज॑सि¦प्रि॒याणि॑ ||

[124] इमंनइति नवर्चस्य सूक्तस्याद्यायाः पंचम्यादिचतसृणांचाग्निवरुणसोमाऋषयः द्वितीयादितिसृणामग्निरृषिः आद्यानांचतसृणामग्निः पंचमीसप्तम्यष्टमीनांवरुणः षष्ठ्याः सोमो नवम्याः सोमेंद्रौत्रिष्टुप् सप्तमीजगती |
इ॒मं नो᳚, अग्न॒ उप॑ य॒ज्ञमेहि॒ पञ्च॑यामं त्रि॒वृतं᳚ स॒प्तत᳚न्तुम् |{अग्नि वरुण सोमाः | अग्निः | त्रिष्टुप्}

असो᳚ हव्य॒वाळु॒त नः॑ पुरो॒गा ज्योगे॒व दी॒र्घं तम॒ आश॑यिष्ठाः ||{1/9}{10.124.1}{10.10.12.1}{8.7.9.1}{1400, 961, 10198}

इ॒म‌म्¦नः॒¦अ॒ग्ने॒¦उप॑¦य॒ज्ञ‌म्¦आ¦इ॒हि॒¦पंच॑ऽयाम‌म्¦त्रि॒ऽवृत᳚‌म्¦स॒प्तऽत᳚न्तु‌म् |
असः॑¦ह॒व्य॒ऽवाट्¦उ॒त¦नः॒¦पु॒रः॒ऽगाः¦ज्योक्¦ए॒व¦दी॒र्घ‌म्¦तमः॑¦आ¦अ॒श॒यि॒ष्ठाः॒ ||

अदे᳚वाद्दे॒वः प्र॒चता॒ गुहा॒ यन्‌ प्र॒पश्य॑मानो, अमृत॒त्वमे᳚मि |{अग्निः | अग्निः | त्रिष्टुप्}

शि॒वं यत्सन्त॒मशि॑वो॒ जहा᳚मि॒ स्वात्स॒ख्यादर॑णीं॒ नाभि॑मेमि ||{2/9}{10.124.2}{10.10.12.2}{8.7.9.2}{1401, 961, 10199}

अदे᳚वात्¦दे॒वः¦प्र॒ऽचता᳚¦गुहा᳚¦यन्¦प्र॒ऽपश्य॑मानः¦अ॒मृ॒त॒ऽत्व‌म्¦ए॒मि॒ |
शि॒व‌म्¦यत्¦सन्त᳚‌म्¦अशि॑वः¦जहा᳚मि¦स्वात्¦स॒ख्यात्¦अर॑णी‌म्¦नाभि᳚‌म्¦ए॒मि॒ ||

पश्य᳚न्न॒न्यस्या॒, अति॑थिं व॒याया᳚ ऋ॒तस्य॒ धाम॒ वि मि॑मे पु॒रूणि॑ |{अग्निः | अग्निः | त्रिष्टुप्}

शंसा᳚मि पि॒त्रे, असु॑राय॒ शेव॑मयज्ञि॒याद्‌ य॒ज्ञियं᳚ भा॒गमे᳚मि ||{3/9}{10.124.3}{10.10.12.3}{8.7.9.3}{1402, 961, 10200}

पश्य॑न्¦अ॒न्यस्याः᳚¦अति॑थि‌म्¦व॒यायाः᳚¦ऋ॒तस्य॑¦धाम॑¦वि¦मि॒मे॒¦पु॒रूणि॑ |
शंसा᳚मि¦पि॒त्रे¦असु॑राय¦शेव᳚‌म्¦अ॒य॒ज्ञि॒यात्¦य॒ज्ञिय᳚‌म्¦भा॒ग‌म्¦ए॒मि॒ ||

ब॒ह्वीः समा᳚, अकरम॒न्तर॑स्मि॒न्निन्द्रं᳚ वृणा॒नः पि॒तरं᳚ जहामि |{अग्निः | अग्निः | त्रिष्टुप्}

अ॒ग्निः सोमो॒ वरु॑ण॒स्ते च्य॑वन्ते प॒र्याव॑र्द्रा॒ष्ट्रं तद॑वाम्या॒यन् ||{4/9}{10.124.4}{10.10.12.4}{8.7.9.4}{1403, 961, 10201}

ब॒ह्वीः¦समाः᳚¦अ॒क॒र॒‌म्¦अ॒न्तः¦अ॒स्मि॒न्¦इन्द्र᳚‌म्¦वृ॒णा॒नः¦पि॒तर᳚‌म्¦ज॒हा॒मि॒ |
अ॒ग्निः¦सोमः॑¦वरु॑णः¦ते¦च्य॒व॒न्ते॒¦प॒रि॒ऽआव॑र्त्¦रा॒ष्ट्र‌म्¦तत्¦अ॒वा॒मि॒¦आ॒ऽयन् ||

निर्मा᳚या, उ॒ त्ये, असु॑रा, अभूव॒न्त्वं च॑ मा वरुण का॒मया᳚से |{अग्नि वरुण सोमाः | वरुणः | त्रिष्टुप्}

ऋ॒तेन॑ राज॒न्ननृ॑तं विवि॒ञ्चन्मम॑ रा॒ष्ट्रस्याधि॑पत्य॒मेहि॑ ||{5/9}{10.124.5}{10.10.12.5}{8.7.9.5}{1404, 961, 10202}

निःऽमा᳚याः¦ऊँ॒ इति॑¦त्ये¦असु॑राः¦अ॒भू॒व॒न्¦त्व‌म्¦च॒¦मा॒¦व॒रु॒ण॒¦का॒मया᳚से |
ऋ॒तेन॑¦रा॒ज॒न्¦अनृ॑त‌म्¦वि॒ऽविं॒चन्¦मम॑¦रा॒ष्ट्रस्य॑¦अधि॑ऽपत्य‌म्¦आ¦इ॒हि॒ ||

इ॒दं स्व॑रि॒दमिदा᳚स वा॒मम॒यं प्र॑का॒श उ॒र्व१॑(अ॒)न्तरि॑क्षम् |{अग्नि वरुण सोमाः | सोमः | त्रिष्टुप्}

हना᳚व वृ॒त्रं नि॒रेहि॑ सोम ह॒विष्ट्वा॒ सन्तं᳚ ह॒विषा᳚ यजाम ||{6/9}{10.124.6}{10.10.12.6}{8.7.10.1}{1405, 961, 10203}

इ॒द‌म्¦स्वः॑¦इ॒द‌म्¦इत्¦आ॒स॒¦वा॒म‌म्¦अ॒य‌म्¦प्र॒ऽका॒शः¦उ॒रु¦अ॒न्तरि॑क्ष‌म् |
हना᳚व¦वृ॒त्र‌म्¦निः॒ऽएहि॑¦सो॒म॒¦ह॒विः¦त्वा॒¦सन्त᳚‌म्¦ह॒विषा᳚¦य॒जा॒म॒ ||

क॒विः क॑वि॒त्वा दि॒वि रू॒पमास॑ज॒दप्र॑भूती॒ वरु॑णो॒ निर॒पः सृ॑जत् |{अग्नि वरुण सोमाः | वरुणः | त्रिष्टुप्}

क्षेमं᳚ कृण्वा॒ना जन॑यो॒ न सिन्ध॑व॒स्ता, अ॑स्य॒ वर्णं॒ शुच॑यो भरिभ्रति ||{7/9}{10.124.7}{10.10.12.7}{8.7.10.2}{1406, 961, 10204}

क॒विः¦क॒वि॒ऽत्वा¦दि॒वि¦रू॒प‌म्¦आ¦अ॒स॒ज॒त्¦अप्र॑ऽभूती¦वरु॑णः¦निः¦अ॒पः¦सृ॒ज॒त् |
क्षेम᳚‌म्¦कृ॒ण्वा॒नाः¦जन॑यः¦न¦सिन्ध॑वः¦ताः¦अ॒स्य॒¦वर्ण᳚‌म्¦शुच॑यः¦भ॒रि॒भ्र॒ति॒ ||

ता, अ॑स्य॒ ज्येष्ठ॑मिन्द्रि॒यं स॑चन्ते॒ ता, ई॒मा क्षे᳚ति स्व॒धया॒ मद᳚न्तीः |{अग्नि वरुण सोमाः | वरुणः | त्रिष्टुप्}

ता, ईं॒ विशो॒ न राजा᳚नं वृणा॒ना बी᳚भ॒त्सुवो॒, अप॑ वृ॒त्राद॑तिष्ठन् ||{8/9}{10.124.8}{10.10.12.8}{8.7.10.3}{1407, 961, 10205}

ताः¦अ॒स्य॒¦ज्येष्ठ᳚‌म्¦इ॒न्द्रि॒य‌म्¦स॒च॒न्ते॒¦ताः¦ई॒‌म्¦आ¦क्षे॒ति॒¦स्व॒धया᳚¦मद᳚न्तीः |
ताः¦ई॒‌म्¦विशः॑¦न¦राजा᳚न‌म्¦वृ॒णा॒नाः¦बी॒भ॒त्सुवः॑¦अप॑¦वृ॒त्रात्¦अ॒ति॒ष्ठ॒न् ||

बी॒भ॒त्सूनां᳚ स॒युजं᳚ हं॒समा᳚हुर॒पां दि॒व्यानां᳚ स॒ख्ये चर᳚न्तम् |{अग्नि वरुण सोमाः | सोमेंद्रौ | त्रिष्टुप्}

अ॒नु॒ष्टुभ॒मनु॑ चर्चू॒र्यमा᳚ण॒मिन्द्रं॒ नि चि॑क्युः क॒वयो᳚ मनी॒षा ||{9/9}{10.124.9}{10.10.12.9}{8.7.10.4}{1408, 961, 10206}

बी॒भ॒त्सूना᳚‌म्¦स॒ऽयुज᳚‌म्¦हं॒स‌म्¦आ॒हुः॒¦अ॒पा‌म्¦दि॒व्याना᳚‌म्¦स॒ख्ये¦चर᳚न्त‌म् |
अ॒नु॒ऽस्तुभ᳚‌म्¦अनु॑¦च॒र्चू॒र्यमा᳚ण‌म्¦इन्द्र᳚‌म्¦नि¦चि॒क्युः॒¦क॒वयः॑¦म॒नी॒षा ||

[125] अहंरुद्रेभिरित्यष्टर्चस्य सूक्तस्यांभृणिर्वागांभृणिर्वाक्‌त्रिष्टुप्‌द्वितीयाजगती |
अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा᳚दि॒त्यैरु॒त वि॒श्वदे᳚वैः |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि᳚न्द्रा॒ग्नी, अ॒हम॒श्विनो॒भा ||{1/8}{10.125.1}{10.10.13.1}{8.7.11.1}{1409, 962, 10207}

अ॒ह‌म्¦रु॒द्रेभिः॑¦वसु॑ऽभिः¦च॒रा॒मि॒¦अ॒ह‌म्¦आ॒दि॒त्यैः¦उ॒त¦वि॒श्वऽदे᳚वैः |
अ॒ह‌म्¦मि॒त्रावरु॑णा¦उ॒भा¦बि॒भ॒र्मि॒¦अ॒ह‌म्¦इ॒न्द्रा॒ग्नी इति॑¦अ॒ह‌म्¦अ॒श्विना᳚¦उ॒भा ||

अ॒हं सोम॑माह॒नसं᳚ बिभर्म्य॒हं त्वष्टा᳚रमु॒त पू॒षणं॒ भग᳚म् |{आंभृणिर्वागांभृणि | वाक् | जगती}

अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒३॑(ए॒) यज॑मानाय सुन्व॒ते ||{2/8}{10.125.2}{10.10.13.2}{8.7.11.2}{1410, 962, 10208}

अ॒ह‌म्¦सोम᳚‌म्¦आ॒ह॒नस᳚‌म्¦बि॒भ॒र्मि॒¦अ॒ह‌म्¦त्वष्टा᳚र‌म्¦उ॒त¦पू॒षण᳚‌म्¦भग᳚‌म् |
अ॒ह‌म्¦द॒धा॒मि॒¦द्रवि॑ण‌म्¦ह॒विष्म॑ते¦सु॒प्र॒।आ॒व्ये᳚¦यज॑मानाय¦सु॒न्व॒ते ||

अ॒हं राष्ट्री᳚ सं॒गम॑नी॒ वसू᳚नां चिकि॒तुषी᳚ प्रथ॒मा य॒ज्ञिया᳚नाम् |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

तां मा᳚ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या᳚वे॒शय᳚न्तीम् ||{3/8}{10.125.3}{10.10.13.3}{8.7.11.3}{1411, 962, 10209}

अ॒ह‌म्¦राष्ट्री᳚¦स॒‌म्ऽगम॑नी¦वसू᳚ना‌म्¦चि॒कि॒तुषी᳚¦प्र॒थ॒मा¦य॒ज्ञिया᳚ना‌म् |
ता‌म्¦मा॒¦दे॒वाः¦वि¦अ॒द॒धुः॒¦पु॒रु॒ऽत्रा¦भूरि॑ऽस्थात्रा‌म्¦भूरि॑¦आ॒ऽवे॒शय᳚न्ती‌म् ||

मया॒ सो, अन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं᳚ शृ॒णोत्यु॒क्तम् |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

अ॒म॒न्तवो॒ मां त उप॑ क्षियन्ति श्रु॒धि श्रु॑त श्रद्धि॒वं ते᳚ वदामि ||{4/8}{10.125.4}{10.10.13.4}{8.7.11.4}{1412, 962, 10210}

मया᳚¦सः¦अन्न᳚‌म्¦अ॒त्ति॒¦यः¦वि॒ऽपश्य॑ति¦यः¦प्राणि॑ति¦यः¦ई॒‌म्¦शृ॒णोति॑¦उ॒क्त‌म् |
अ॒म॒न्तवः॑¦मा‌म्¦ते¦उप॑¦क्षि॒य॒न्ति॒¦श्रु॒धि¦श्रु॒त॒¦श्र॒द्धि॒ऽव‌म्¦ते॒¦व॒दा॒मि॒ ||

अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं᳚ दे॒वेभि॑रु॒त मानु॑षेभिः |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

यं का॒मये॒ तंत॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ||{5/8}{10.125.5}{10.10.13.5}{8.7.11.5}{1413, 962, 10211}

अ॒ह‌म्¦ए॒व¦स्व॒य‌म्¦इ॒द‌म्¦व॒दा॒मि॒¦जुष्ट᳚‌म्¦दे॒वेभिः॑¦उ॒त¦मानु॑षेभिः |
य‌म्¦का॒मये᳚¦त‌म्ऽत᳚‌म्¦उ॒ग्र‌म्¦कृ॒णो॒मि॒¦त‌म्¦ब्र॒ह्माण᳚‌म्¦त‌म्¦ऋषि᳚‌म्¦त‌म्¦सु॒ऽमे॒धा‌म् ||

अ॒हं रु॒द्राय॒ धनु॒रा त॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒ हन्त॒वा, उ॑ |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

अ॒हं जना᳚य स॒मदं᳚ कृणोम्य॒हं द्यावा᳚पृथि॒वी, आ वि॑वेश ||{6/8}{10.125.6}{10.10.13.6}{8.7.12.1}{1414, 962, 10212}

अ॒ह‌म्¦रु॒द्राय॑¦धनुः॑¦आ¦त॒नो॒मि॒¦ब्र॒ह्म॒ऽद्विषे᳚¦शर॑वे¦हन्त॒वै¦ऊँ॒ इति॑ |
अ॒ह‌म्¦जना᳚य¦स॒ऽमद᳚‌म्¦कृ॒णो॒मि॒¦अ॒ह‌म्¦द्यावा᳚पृथि॒वी इति॑¦आ¦वि॒वे॒श॒ ||

अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन् मम॒ योनि॑र॒प्स्व१॑(अ॒)न्तः स॑मु॒द्रे |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

ततो॒ वि ति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ||{7/8}{10.125.7}{10.10.13.7}{8.7.12.2}{1415, 962, 10213}

अ॒ह‌म्¦सु॒वे॒¦पि॒तर᳚‌म्¦अ॒स्य॒¦मू॒र्धन्¦मम॑¦योनिः॑¦अ॒प्ऽसु¦अ॒न्तरिति॑¦स॒मु॒द्रे |
ततः॑¦वि¦ति॒ष्ठे॒¦भुव॑ना¦अनु॑¦विश्वा᳚¦उ॒त¦अ॒मू‌म्¦द्या‌म्¦व॒र्ष्मणा᳚¦उप॑¦स्पृ॒शा॒मि॒ ||

अ॒हमे॒व वात॑ इव॒ प्र वा᳚म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा᳚ |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्यैताव॑ती महि॒ना सं ब॑भूव ||{8/8}{10.125.8}{10.10.13.8}{8.7.12.3}{1416, 962, 10214}

अ॒ह‌म्¦ए॒व¦वातः॑ऽ‌इव¦प्र¦वा॒मि॒¦आ॒ऽरभ॑माणा¦भुव॑नानि¦विश्वा᳚ |
प॒रः¦दि॒वा¦प॒रः¦ए॒ना¦पृ॒थि॒व्या¦ए॒ताव॑ती¦म॒हि॒ना¦स‌म्¦ब॒भू॒व॒ ||

[126] नतमित्यष्टर्चस्य सूक्तस्य शैलूषिः कुल्मलबर्हिषो विश्वेदेवाउपरिष्टाद्बृहत्यंत्यात्रिष्टुप् | (अत्रवामदेव्यहोमुक्पाक्षिकऋषिः । कुल्मलबर्हिषइत्यदंतं प्रातिपदिकं) |
न तमंहो॒ न दु॑रि॒तं देवा᳚सो, अष्ट॒ मर्त्य᳚म् |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती}

स॒जोष॑सो॒ यम᳚र्य॒मा मि॒त्रो नय᳚न्ति॒ वरु॑णो॒, अति॒ द्विषः॑ ||{1/8}{10.126.1}{10.10.14.1}{8.7.13.1}{1417, 963, 10215}

न¦त‌म्¦अंहः॑¦न¦दुः॒ऽ‌इ॒त‌म्¦देवा᳚सः¦अष्ट॑¦मर्त्य᳚‌म् |
स॒ऽजोष॑सः¦य‌म्¦अ॒र्य॒मा¦मि॒त्रः¦नय᳚न्ति¦वरु॑णः¦अति॑¦द्विषः॑ ||

तद्धि व॒यं वृ॑णी॒महे॒ वरु॑ण॒ मित्रार्य॑मन् |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती}

येना॒ निरंह॑सो यू॒यं पा॒थ ने॒था च॒ मर्त्य॒मति॒ द्विषः॑ ||{2/8}{10.126.2}{10.10.14.2}{8.7.13.2}{1418, 963, 10216}

तत्¦हि¦व॒य‌म्¦वृ॒णी॒महे᳚¦वरु॑ण¦मित्र॑¦अर्य॑मन् |
येन॑¦निः¦अंह॑सः¦यू॒य‌म्¦पा॒थ¦ने॒थ¦च॒¦मर्त्य᳚‌म्¦अति॑¦द्विषः॑ ||

ते नू॒नं नो॒ऽयमू॒तये॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती}

नयि॑ष्ठा, उ नो ने॒षणि॒ पर्षि॑ष्ठा, उ नः प॒र्षण्यति॒ द्विषः॑ ||{3/8}{10.126.3}{10.10.14.3}{8.7.13.3}{1419, 963, 10217}

ते¦नू॒न‌म्¦नः॒¦अ॒य‌म्¦ऊ॒तये᳚¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा |
नयि॑ष्ठाः¦ऊँ॒ इति॑¦नः॒¦ने॒षणि॑¦पर्षि॑ष्ठाः¦ऊँ॒ इति॑¦नः॒¦प॒र्षणि॑¦अति॑¦द्विषः॑ ||

यू॒यं विश्वं॒ परि॑ पाथ॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती}

यु॒ष्माकं॒ शर्म॑णि प्रि॒ये स्याम॑ सुप्रणीत॒योऽति॒ द्विषः॑ ||{4/8}{10.126.4}{10.10.14.4}{8.7.13.4}{1420, 963, 10218}

यू॒य‌म्¦विश्व᳚‌म्¦परि॑¦पा॒थ॒¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा |
यु॒ष्माक᳚‌म्¦शर्म॑णि¦प्रि॒ये¦स्याम॑¦सु॒ऽप्र॒नी॒त॒यः॒¦अति॑¦द्विषः॑ ||

आ॒दि॒त्यासो॒, अति॒ स्रिधो॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती}

उ॒ग्रं म॒रुद्भी᳚ रु॒द्रं हु॑वे॒मेन्द्र॑म॒ग्निं स्व॒स्तयेऽति॒ द्विषः॑ ||{5/8}{10.126.5}{10.10.14.5}{8.7.13.5}{1421, 963, 10219}

आ॒दि॒त्यासः॑¦अति॑¦स्रिधः॑¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा |
उ॒ग्र‌म्¦म॒रुत्ऽभिः॑¦रु॒द्र‌म्¦हु॒वे॒म॒¦इन्द्र᳚‌म्¦अ॒ग्नि‌म्¦स्व॒स्तये᳚¦अति॑¦द्विषः॑ ||

नेता᳚र ऊ॒ षु ण॑स्ति॒रो वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती}

अति॒ विश्वा᳚नि दुरि॒ता राजा᳚नश्चर्षणी॒नामति॒ द्विषः॑ ||{6/8}{10.126.6}{10.10.14.6}{8.7.13.6}{1422, 963, 10220}

नेता᳚रः¦ऊँ॒ इति॑¦सु¦नः॒¦ति॒रः¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा |
अति॑¦विश्वा᳚नि¦दुः॒ऽ‌इ॒ता¦राजा᳚नः¦च॒र्ष॒णी॒ना‌म्¦अति॑¦द्विषः॑ ||

शु॒नम॒स्मभ्य॑मू॒तये॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती}

शर्म॑ यच्छन्तु स॒प्रथ॑ आदि॒त्यासो॒ यदीम॑हे॒, अति॒ द्विषः॑ ||{7/8}{10.126.7}{10.10.14.7}{8.7.13.7}{1423, 963, 10221}

शु॒न‌म्¦अ॒स्मभ्य᳚‌म्¦ऊ॒तये᳚¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा |
शर्म॑¦य॒च्छ॒न्तु॒¦स॒ऽप्रथः॑¦आ॒दि॒त्यासः॑¦यत्¦ईम॑हे¦अति॑¦द्विषः॑ ||

यथा᳚ ह॒ त्यद्व॑सवो गौ॒र्यं᳚ चित् प॒दि षि॒ताममु᳚ञ्चता यजत्राः |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | त्रिष्टुप्}

ए॒वो ष्व१॑(अ॒)स्मन्मु᳚ञ्चता॒ व्यंहः॒ प्र ता᳚र्यग्ने प्रत॒रं न॒ आयुः॑ ||{8/8}{10.126.8}{10.10.14.8}{8.7.13.8}{1424, 963, 10222}

यथा᳚¦ह॒¦त्यत्¦व॒स॒वः॒¦गौ॒र्य᳚‌म्¦चि॒त्¦प॒दि¦सि॒ता‌म्¦अमुं᳚चत¦य॒ज॒त्राः॒ |
ए॒वो इति॑¦सु¦अ॒स्मत्¦मुं॒च॒त॒¦वि¦अंहः॑¦प्र¦ता॒रि॒¦अ॒ग्ने॒¦प्र॒ऽत॒र‌म्¦नः॒¦आयुः॑ ||

[127] रात्रीत्यष्टर्चस्य सूक्तस्य सौभरः कुशिकोरात्रिर्गायत्री (अत्रभारद्वाजीरात्रिऋषिकापाक्षिकी) |
रात्री॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्य१॑(अ॒)क्षभिः॑ |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

विश्वा॒, अधि॒ श्रियो᳚ऽधित ||{1/8}{10.127.1}{10.10.15.1}{8.7.14.1}{1425, 964, 10223}

रात्री᳚¦वि¦अ॒ख्य॒त्¦आ॒ऽय॒ती¦पु॒रु॒ऽत्रा¦दे॒वी¦अ॒क्षऽभिः॑ | विश्वाः᳚¦अधि॑¦श्रियः॑¦अ॒धि॒त॒ ||

ओर्व॑प्रा॒, अम॑र्त्या नि॒वतो᳚ दे॒व्यु१॑(उ॒)द्वतः॑ |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

ज्योति॑षा बाधते॒ तमः॑ ||{2/8}{10.127.2}{10.10.15.2}{8.7.14.2}{1426, 964, 10224}

आ¦उ॒रु¦अ॒प्राः॒¦अम॑र्त्या¦नि॒ऽवतः॑¦दे॒वी¦उ॒त्ऽवतः॑ | ज्योति॑षा¦बा॒ध॒ते॒¦तमः॑ ||

निरु॒ स्वसा᳚रमस्कृतो॒षसं᳚ दे॒व्या᳚य॒ती |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

अपेदु॑ हासते॒ तमः॑ ||{3/8}{10.127.3}{10.10.15.3}{8.7.14.3}{1427, 964, 10225}

निः¦ऊँ॒ इति॑¦स्वसा᳚र‌म्¦अ॒कृ॒त॒¦उ॒षस᳚‌म्¦दे॒वी¦आ॒ऽय॒ती | अप॑¦इत्¦ऊँ॒ इति॑¦हा॒स॒ते॒¦तमः॑ ||

सा नो᳚, अ॒द्य यस्या᳚ व॒यं नि ते॒ याम॒न्नवि॑क्ष्महि |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

वृ॒क्षे न व॑स॒तिं वयः॑ ||{4/8}{10.127.4}{10.10.15.4}{8.7.14.4}{1428, 964, 10226}

सा¦नः॒¦अ॒द्य¦यस्याः᳚¦व॒य‌म्¦नि¦ते॒¦याम॑न्¦अवि॑क्ष्महि | वृ॒क्षे¦न¦व॒स॒ति‌म्¦वयः॑ ||

नि ग्रामा᳚सो, अविक्षत॒ नि प॒द्वन्तो॒ नि प॒क्षिणः॑ |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

नि श्ये॒नास॑श्चिद॒र्थिनः॑ ||{5/8}{10.127.5}{10.10.15.5}{8.7.14.5}{1429, 964, 10227}

नि¦ग्रामा᳚सः¦अ॒वि॒क्ष॒त॒¦नि¦प॒त्ऽवन्तः॑¦नि¦प॒क्षिणः॑ | नि¦श्ये॒नासः॑¦चि॒त्¦अ॒र्थिनः॑ ||

या॒वया᳚ वृ॒क्य१॑(अं॒) वृकं᳚ य॒वय॑ स्ते॒नमू᳚र्म्ये |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

अथा᳚ नः सु॒तरा᳚ भव ||{6/8}{10.127.6}{10.10.15.6}{8.7.14.6}{1430, 964, 10228}

य॒वय॑¦वृ॒क्य᳚‌म्¦वृक᳚‌म्¦य॒वय॑¦स्ते॒न‌म्¦ऊ॒र्म्ये॒ | अथ॑¦नः॒¦सु॒ऽतरा᳚¦भ॒व॒ ||

उप॑ मा॒ पेपि॑श॒त्तमः॑ कृ॒ष्णं व्य॑क्तमस्थित |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

उष॑ ऋ॒णेव॑ यातय ||{7/8}{10.127.7}{10.10.15.7}{8.7.14.7}{1431, 964, 10229}

उप॑¦मा॒¦पेपि॑शत्¦तमः॑¦कृ॒ष्ण‌म्¦वि।आ॑क्त‌म्¦अ॒स्थि॒त॒ | उषः॑¦ऋ॒णाऽ‌इ᳚व¦या॒त॒य॒ ||

उप॑ ते॒ गा, इ॒वाक॑रं वृणी॒ष्व दु॑हितर्दिवः |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

रात्रि॒ स्तोमं॒ न जि॒ग्युषे᳚ ||{8/8}{10.127.8}{10.10.15.8}{8.7.14.8}{1432, 964, 10230}

उप॑¦ते॒¦गाःऽ‌इ᳚व¦आ¦अ॒क॒र॒‌म्¦वृ॒णी॒ष्व¦दु॒हि॒तः॒¦दि॒वः॒ | रात्रि॑¦स्तोम᳚‌म्¦न¦जि॒ग्युषे᳚ ||

[128] ममाग्नइति नवर्चस्य सूक्तस्यांगिरसोविहव्यो विश्वेदेवास्त्रिष्टुबंत्याजगती |
ममा᳚ग्ने॒ वर्चो᳚ विह॒वेष्व॑स्तु व॒यं त्वेन्धा᳚नास्त॒न्वं᳚ पुषेम |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

मह्यं᳚ नमन्तां प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ||{1/9}{10.128.1}{10.10.16.1}{8.7.15.1}{1433, 965, 10231}

मम॑¦अ॒ग्ने॒¦वर्चः॑¦वि॒ऽह॒वेषु॑¦अ॒स्तु॒¦व॒य‌म्¦त्वा॒¦इन्धा᳚नाः¦त॒न्व᳚‌म्¦पु॒षे॒म॒ |
मह्य᳚‌म्¦न॒म॒न्ता॒‌म्¦प्र॒ऽदिशः॑¦चत॑स्रः¦त्वया᳚¦अधि॑।आक्षेण¦पृत॑नाः¦ज॒ये॒म॒ ||

मम॑ दे॒वा वि॑ह॒वे स᳚न्तु॒ सर्व॒ इन्द्र॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

ममा॒न्तरि॑क्षमु॒रुलो᳚कमस्तु॒ मह्यं॒ वातः॑ पवतां॒ कामे᳚, अ॒स्मिन् ||{2/9}{10.128.2}{10.10.16.2}{8.7.15.2}{1434, 965, 10232}

मम॑¦दे॒वाः¦वि॒ऽह॒वे¦स॒न्तु॒¦सर्वे᳚¦इन्द्र॑ऽवन्तः¦म॒रुतः॑¦विष्णुः॑¦अ॒ग्निः |
मम॑¦अ॒न्तरि॑क्ष‌म्¦उ॒रुऽलो᳚क‌म्¦अ॒स्तु॒¦मह्य᳚‌म्¦वातः॑¦प॒व॒ता॒‌म्¦कामे᳚¦अ॒स्मिन् ||

मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्तां॒ मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू᳚तिः |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

दैव्या॒ होता᳚रो वनुषन्त॒ पूर्वेऽरि॑ष्टाः स्याम त॒न्वा᳚ सु॒वीराः᳚ ||{3/9}{10.128.3}{10.10.16.3}{8.7.15.3}{1435, 965, 10233}

मयि॑¦दे॒वाः¦द्रवि॑ण‌म्¦आ¦य॒ज॒न्ता॒‌म्¦मयि॑¦आ॒ऽशीः¦अ॒स्तु॒¦मयि॑¦दे॒वऽहू᳚तिः |
दैव्याः᳚¦होता᳚रः¦व॒नु॒ष॒न्त॒¦पूर्वे᳚¦अरि॑ष्टाः¦स्या॒म¦त॒न्वा᳚¦सु॒ऽवीराः᳚ ||

मह्यं᳚ यजन्तु॒ मम॒ यानि॑ ह॒व्याकू᳚तिः स॒त्या मन॑सो मे, अस्तु |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

एनो॒ मा नि गां᳚ कत॒मच्च॒नाहं विश्वे᳚ देवासो॒, अधि॑ वोचता नः ||{4/9}{10.128.4}{10.10.16.4}{8.7.15.4}{1436, 965, 10234}

मह्य᳚‌म्¦य॒ज॒न्तु॒¦मम॑¦यानि॑¦ह॒व्या¦आऽकू᳚तिः¦स॒त्या¦मन॑सः¦मे॒¦अ॒स्तु॒ |
एनः॑¦मा¦नि¦गा॒‌म्¦क॒त॒मत्¦च॒न¦अ॒ह‌म्¦विश्वे᳚¦दे॒वा॒सः॒¦अधि॑¦वो॒च॒त॒¦नः॒ ||

देवीः᳚ षळुर्वीरु॒रु नः॑ कृणोत॒ विश्वे᳚ देवास इ॒ह वी᳚रयध्वम् |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

मा हा᳚स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो᳚म राजन् ||{5/9}{10.128.5}{10.10.16.5}{8.7.15.5}{1437, 965, 10235}

देवीः᳚¦षट्¦उ॒र्वीः॒¦उ॒रु¦नः॒¦कृ॒णो॒त॒¦विश्वे᳚¦दे॒वा॒सः॒¦इ॒ह¦वी॒र॒य॒ध्व॒‌म् |
मा¦हा॒स्म॒हि॒¦प्र॒ऽजया᳚¦मा¦त॒नूभिः॑¦मा¦र॒धा॒म॒¦द्वि॒ष॒ते¦सो॒म॒¦रा॒ज॒न् ||

अग्ने᳚ म॒न्युं प्र॑तिनु॒दन्‌ परे᳚षा॒मद॑ब्धो गो॒पाः परि॑ पाहि न॒स्त्वम् |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

प्र॒त्यञ्चो᳚ यन्तु नि॒गुतः॒ पुन॒स्ते॒३॑(ए॒)ऽमैषां᳚ चि॒त्तं प्र॒बुधां॒ वि ने᳚शत् ||{6/9}{10.128.6}{10.10.16.6}{8.7.16.1}{1438, 965, 10236}

अग्ने᳚¦म॒न्यु‌म्¦प्र॒ति॒ऽनु॒दन्¦परे᳚षा‌म्¦अद॑ब्धः¦गो॒पाः¦परि॑¦पा॒हि॒¦नः॒¦त्व‌म् |
प्र॒त्यंचः॑¦य॒न्तु॒¦नि॒ऽगुतः॑¦पुन॒रिति॑¦ते¦अ॒मा¦ए॒षा॒‌म्¦चि॒त्त‌म्¦प्र॒ऽबुधा᳚‌म्¦वि¦ने॒श॒त् ||

धा॒ता धा᳚तॄ॒णां भुव॑नस्य॒ यस्पति॑र्दे॒वं त्रा॒तार॑मभिमातिषा॒हम् |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

इ॒मं य॒ज्ञम॒श्विनो॒भा बृह॒स्पति॑र्दे॒वाः पा᳚न्तु॒ यज॑मानं न्य॒र्थात् ||{7/9}{10.128.7}{10.10.16.7}{8.7.16.2}{1439, 965, 10237}

धा॒ता¦धा॒तॄ॒णा‌म्¦भुव॑नस्य¦यः¦पतिः॑¦दे॒व‌म्¦त्रा॒तार᳚‌म्¦अ॒भि॒मा॒ति॒ऽस॒ह‌म् |
इ॒म‌म्¦य॒ज्ञ‌म्¦अ॒श्विना᳚¦उ॒भा¦बृह॒स्पतिः॑¦दे॒वाः¦पा॒न्तु॒¦यज॑मान‌म्¦नि॒।आ॒र्थात् ||

उ॒रु॒व्यचा᳚ नो महि॒षः शर्म॑ यंसद॒स्मिन्हवे᳚ पुरुहू॒तः पु॑रु॒क्षुः |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

स नः॑ प्र॒जायै᳚ हर्यश्व मृळ॒येन्द्र॒ मा नो᳚ रीरिषो॒ मा परा᳚ दाः ||{8/9}{10.128.8}{10.10.16.8}{8.7.16.3}{1440, 965, 10238}

उ॒रु॒ऽव्यचाः᳚¦नः॒¦म॒हि॒षः¦शर्म॑¦यं॒स॒त्¦अ॒स्मिन्¦हवे᳚¦पु॒रु॒ऽहू॒तः¦पु॒रु॒ऽक्षुः |
सः¦नः॒¦प्र॒ऽजायै᳚¦ह॒रि॒।आ॒श्व॒¦मृ॒ळ॒य॒¦इन्द्र॑¦मा¦नः॒¦रि॒रि॒षः॒¦मा¦परा᳚¦दाः॒ ||

ये नः॑ स॒पत्ना॒, अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् |{आंगिरसो विहव्यः | विश्वदेवाः | जगती}

वस॑वो रु॒द्रा, आ᳚दि॒त्या, उ॑परि॒स्पृशं᳚ मो॒ग्रं चेत्ता᳚रमधिरा॒जम॑क्रन् ||{9/9}{10.128.9}{10.10.16.9}{8.7.16.4}{1441, 965, 10239}

ये¦नः॒¦स॒ऽपत्नाः᳚¦अप॑¦ते¦भ॒व॒न्तु॒¦इ॒न्द्रा॒ग्निऽभ्या᳚‌म्¦अव॑¦बा॒धा॒म॒हे॒¦तान् |
वस॑वः¦रु॒द्राः¦आ॒दि॒त्याः¦उ॒प॒रि॒ऽस्पृश᳚‌म्¦मा॒¦उ॒ग्र‌म्¦चेत्ता᳚र‌म्¦अ॒धि॒ऽरा॒ज‌म्¦अ॒क्र॒न् ||

[129] नासदिति सप्तर्चस्य सूक्तस्य परमेष्ठी प्रजापतिर्भाववृत्तिस्त्रिष्टुप् |
नास॑दासी॒न्नो सदा᳚सीत्त॒दानीं॒ नासी॒द्रजो॒ नो व्यो᳚मा प॒रो यत् |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्}

किमाव॑रीवः॒ कुह॒ कस्य॒ शर्म॒न्नम्भः॒ किमा᳚सी॒द्गह॑नं गभी॒रम् ||{1/7}{10.129.1}{10.11.1.1}{8.7.17.1}{1442, 966, 10240}

न¦अस॑त्¦आ॒सी॒त्¦नो इति॑¦सत्¦आ॒सी॒त्¦त॒दानी᳚‌म्¦न¦आ॒सी॒त्¦रजः॑¦नो इति॑¦विऽओ᳚म¦प॒रः¦यत् |
कि‌म्¦आ¦अ॒व॒री॒व॒रिति॑¦कुह॑¦कस्य॑¦शर्म॑न्¦अम्भः॑¦कि‌म्¦आ॒सी॒त्¦गह॑न‌म्¦ग॒भी॒र‌म् ||

न मृ॒त्युरा᳚सीद॒मृतं॒ न तर्हि॒ न रात्र्या॒, अह्न॑ आसीत्‌ प्रके॒तः |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्}

आनी᳚दवा॒तं स्व॒धया॒ तदेकं॒ तस्मा᳚द्धा॒न्यन्न प॒रः किं च॒नास॑ ||{2/7}{10.129.2}{10.11.1.2}{8.7.17.2}{1443, 966, 10241}

न¦मृ॒त्युः¦आ॒सी॒त्¦अ॒मृत᳚‌म्¦न¦तर्हि॑¦न¦रात्र्याः᳚¦अह्नः॑¦आ॒सी॒त्¦प्र॒ऽके॒तः |
आनी᳚त्¦अ॒वा॒त‌म्¦स्व॒धया᳚¦तत्¦एक᳚‌म्¦तस्मा᳚त्¦ह॒¦अ॒न्यत्¦न¦प॒रः¦कि‌म्¦च॒न¦आ॒स॒ ||

तम॑ आसी॒त्तम॑सा गू॒ळ्हमग्रे᳚ऽप्रके॒तं स॑लि॒लं सर्व॑मा, इ॒दम् |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्}

तु॒च्छ्येना॒भ्वपि॑हितं॒ यदासी॒त् तप॑स॒स्तन्म॑हि॒नाजा᳚य॒तैक᳚म् ||{3/7}{10.129.3}{10.11.1.3}{8.7.17.3}{1444, 966, 10242}

तमः॑¦आ॒सी॒त्¦तम॑सा¦गू॒ळ्ह‌म्¦अग्रे᳚¦अ॒प्र॒ऽके॒त‌म्¦स॒लि॒ल‌म्¦सर्व᳚‌म्¦आः॒¦इ॒द‌म् |
तु॒च्छ्येन॑¦आ॒भु¦अपि॑ऽहित‌म्¦यत्¦आसी᳚त्¦तप॑सः¦तत्¦म॒हि॒ना¦अ॒जा॒य॒त॒¦एक᳚‌म् ||

काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॒ मन॑सो॒ रेतः॑ प्रथ॒मं यदासी᳚त् |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्}

स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन् हृ॒दि प्र॒तीष्या᳚ क॒वयो᳚ मनी॒षा ||{4/7}{10.129.4}{10.11.1.4}{8.7.17.4}{1445, 966, 10243}

कामः॑¦तत्¦अग्रे᳚¦स‌म्¦अ॒व॒र्त॒त॒¦अधि॑¦मन॑सः¦रेतः॑¦प्र॒थ॒म‌म्¦यत्¦आसी᳚त् |
स॒तः¦बन्धु᳚‌म्¦अस॑ति¦निः¦अ॒वि॒न्द॒न्¦हृ॒दि¦प्र॒तीष्या᳚¦क॒वयः॑¦म॒नी॒षा ||

ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे᳚षाम॒धः स्वि॑दा॒सी३दु॒परि॑ स्विदासी३त् |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्}

रे॒तो॒धा, आ᳚सन्‌ महि॒मान॑ आसन् त्स्व॒धा, अ॒वस्ता॒त्‌ प्रय॑तिः प॒रस्ता᳚त् ||{5/7}{10.129.5}{10.11.1.5}{8.7.17.5}{1446, 966, 10244}

ति॒र॒श्चीनः॑¦विऽत॑तः¦र॒श्मिः¦ए॒षा॒‌म्¦अ॒धः¦स्वि॒त्¦आ॒सी३त्¦उ॒परि॑¦स्वि॒त्¦आ॒सी॒३त् |
रे॒तः॒ऽधाः¦आ॒स॒न्¦म॒हि॒मानः॑¦आ॒स॒न्¦स्व॒धा¦अ॒वस्ता᳚त्¦प्रऽय॑तिः¦प॒रस्ता᳚त् ||

को, अ॒द्धा वे᳚द॒ क इ॒ह प्र वो᳚च॒त् कुत॒ आजा᳚ता॒ कुत॑ इ॒यं विसृ॑ष्टिः |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्}

अ॒र्वाग्दे॒वा, अ॒स्य वि॒सर्ज॑ने॒नाथा॒ को वे᳚द॒ यत॑ आब॒भूव॑ ||{6/7}{10.129.6}{10.11.1.6}{8.7.17.6}{1447, 966, 10245}

कः¦अ॒द्धा¦वे॒द॒¦कः¦इ॒ह¦प्र¦वो॒च॒त्¦कुतः॑¦आऽजा᳚ता¦कुतः॑¦इ॒य‌म्¦विऽसृ॑ष्टिः |
अ॒र्वाक्¦दे॒वाः¦अ॒स्य¦वि॒ऽसर्ज॑नेन¦अथ॑¦कः¦वे॒द॒¦यतः॑¦आ॒ऽब॒भूव॑ ||

इ॒यं विसृ॑ष्टि॒र्यत॑ आब॒भूव॒ यदि॑ वा द॒धे यदि॑ वा॒ न |{परमेष्ठी प्रजापतिः | भाववृत्तिः | पादत्रिष्टुप्}

यो, अ॒स्याध्य॑क्षः पर॒मे व्यो᳚म॒न् त्सो, अ॒ङ्ग वे᳚द॒ यदि॑ वा॒ न वेद॑ ||{7/7}{10.129.7}{10.11.1.7}{8.7.17.7}{1448, 966, 10246}

इ॒य‌म्¦विऽसृ॑ष्टिः¦यतः॑¦आ॒ऽब॒भूव॑¦यदि॑¦वा॒¦द॒धे¦यदि॑¦वा॒¦न |
यः¦अ॒स्य॒¦अधि॑।आक्षः¦प॒र॒मे¦विऽओ᳚मन्¦सः¦अ॒ङ्ग¦वे॒द॒¦यदि॑¦वा॒¦न¦वेद॑ ||

[130] योयज्ञइति सप्तर्चस्य सूक्तस्य प्राजापत्योयज्ञोभाववृत्तिस्त्रिष्टुबाद्याजगती |
यो य॒ज्ञो वि॒श्वत॒स्तन्तु॑भिस्त॒त एक॑शतं देवक॒र्मेभि॒राय॑तः |{प्राजापत्यो यज्ञः | भाववृत्तिः | जगती}

इ॒मे व॑यन्ति पि॒तरो॒ य आ᳚य॒युः प्र व॒याप॑ व॒येत्या᳚सते त॒ते ||{1/7}{10.130.1}{10.11.2.1}{8.7.18.1}{1449, 967, 10247}

यः¦य॒ज्ञः¦वि॒श्वतः॑¦तन्तु॑ऽभिः¦त॒तः¦एक॑ऽशत‌म्¦दे॒व॒ऽक॒र्मेभिः॑¦आऽय॑तः |
इ॒मे¦व॒य॒न्ति॒¦पि॒तरः॑¦ये¦आ॒ऽय॒युः¦प्र¦व॒य॒¦अप॑¦व॒य॒¦इति॑¦आ॒स॒ते॒¦त॒ते ||

पुमाँ᳚, एनं तनुत॒ उत्कृ॑णत्ति॒ पुमा॒न्‌ वि त॑त्ने॒, अधि॒ नाके᳚, अ॒स्मिन् |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्}

इ॒मे म॒यूखा॒, उप॑ सेदुरू॒ सदः॒ सामा᳚नि चक्रु॒स्तस॑रा॒ण्योत॑वे ||{2/7}{10.130.2}{10.11.2.2}{8.7.18.2}{1450, 967, 10248}

पुमा᳚न्¦ए॒न॒‌म्¦त॒नु॒ते॒¦उत्¦कृ॒ण॒त्ति॒¦पुमा᳚न्¦वि¦त॒त्ने॒¦अधि॑¦नाके᳚¦अ॒स्मिन् |
इ॒मे¦म॒यूखाः᳚¦उप॑¦से॒दुः॒¦ऊँ॒ इति॑¦सदः॑¦सामा᳚नि¦च॒क्रुः॒¦तस॑राणि¦ओत॑वे ||

कासी᳚त्प्र॒मा प्र॑ति॒मा किं नि॒दान॒माज्यं॒ किमा᳚सीत्परि॒धिः क आ᳚सीत् |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्}

छन्दः॒ किमा᳚सी॒त्प्रौ᳚गं॒ किमु॒क्थं यद्दे॒वा दे॒वमय॑जन्त॒ विश्वे᳚ ||{3/7}{10.130.3}{10.11.2.3}{8.7.18.3}{1451, 967, 10249}

का¦आ॒सी॒त्¦प्र॒ऽमा¦प्र॒ति॒ऽमा¦कि‌म्¦नि॒ऽदान᳚‌म्¦आज्य᳚‌म्¦कि‌म्¦आ॒सी॒त्¦प॒रि॒ऽधिः¦कः¦आ॒सी॒त् |
छन्दः॑¦कि‌म्¦आ॒सी॒त्¦प्रउ॑ग‌म्¦कि‌म्¦उ॒क्थ‌म्¦यत्¦दे॒वाः¦दे॒व‌म्¦अय॑जन्त¦विश्वे᳚ ||

अ॒ग्नेर्गा᳚य॒त्र्य॑भवत्स॒युग्वो॒ष्णिह॑या सवि॒ता सं ब॑भूव |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्}

अ॒नु॒ष्टुभा॒ सोम॑ उ॒क्थैर्मह॑स्वा॒न्‌ बृह॒स्पते᳚र्बृह॒ती वाच॑मावत् ||{4/7}{10.130.4}{10.11.2.4}{8.7.18.4}{1452, 967, 10250}

अ॒ग्नेः¦गा॒य॒त्री¦अ॒भ॒व॒त्¦स॒ऽयुग्वा᳚¦उ॒ष्णिह॑या¦स॒वि॒ता¦स‌म्¦ब॒भू॒व॒ |
अ॒नु॒ऽस्तुभा᳚¦सोमः॑¦उ॒क्थैः¦मह॑स्वान्¦बृह॒स्पतेः᳚¦बृ॒ह॒ती¦वाच᳚‌म्¦आ॒व॒त् ||

वि॒राण्मि॒त्रावरु॑णयोरभि॒श्रीरिन्द्र॑स्य त्रि॒ष्टुबि॒ह भा॒गो, अह्नः॑ |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्}

विश्वा᳚न्दे॒वाञ्जग॒त्या वि॑वेश॒ तेन॑ चाकॢप्र॒ ऋष॑यो मनु॒ष्याः᳚ ||{5/7}{10.130.5}{10.11.2.5}{8.7.18.5}{1453, 967, 10251}

वि॒राट्¦मि॒त्रावरु॑णयोः¦अ॒भि॒ऽश्रीः¦इन्द्र॑स्य¦त्रि॒ऽस्तुप्¦इ॒ह¦भा॒गः¦अह्नः॑ |
विश्वा᳚न्¦दे॒वान्¦जग॑ती¦आ¦वि॒वे॒श॒¦तेन॑¦चा॒कॢ॒प्रे॒¦ऋष॑यः¦म॒नु॒ष्याः᳚ ||

चा॒कॢ॒प्रे तेन॒ ऋष॑यो मनु॒ष्या᳚ य॒ज्ञे जा॒ते पि॒तरो᳚ नः पुरा॒णे |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्}

पश्य᳚न्मन्ये॒ मन॑सा॒ चक्ष॑सा॒ तान्य इ॒मं य॒ज्ञमय॑जन्त॒ पूर्वे᳚ ||{6/7}{10.130.6}{10.11.2.6}{8.7.18.6}{1454, 967, 10252}

चा॒कॢ॒प्रे¦तेन॑¦ऋष॑यः¦म॒नु॒ष्याः᳚¦य॒ज्ञे¦जा॒ते¦पि॒तरः॑¦नः॒¦पु॒रा॒णे |
पश्य॑न्¦म॒न्ये॒¦मन॑सा¦चक्ष॑सा¦तान्¦ये¦इ॒म‌म्¦य॒ज्ञ‌म्¦अय॑जन्त¦पूर्वे᳚ ||

स॒हस्तो᳚माः स॒हछ᳚न्दस आ॒वृतः॑ स॒हप्र॑मा॒ ऋष॑यः स॒प्त दैव्याः᳚ |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्}

पूर्वे᳚षां॒ पन्था᳚मनु॒दृश्य॒ धीरा᳚, अ॒न्वाले᳚भिरे र॒थ्यो॒३॑(ओ॒) न र॒श्मीन् ||{7/7}{10.130.7}{10.11.2.7}{8.7.18.7}{1455, 967, 10253}

स॒हऽस्तो᳚माः¦स॒हऽछ᳚न्दसः¦आ॒ऽवृतः॑¦स॒हऽप्र॑माः¦ऋष॑यः¦स॒प्त¦दैव्याः᳚ |
पूर्वे᳚षा‌म्¦पन्था᳚‌म्¦अ॒नु॒ऽदृश्य॑¦धीराः᳚¦अ॒नु॒ऽआले᳚भिरे¦र॒थ्यः॑¦न¦र॒श्मीन् ||

[131] अपप्राचइति सप्तर्चस्य सूक्तस्य काक्षीवतः सुकीर्तिरिंद्रश्चतुर्थीपंचम्योरश्विनौत्रिष्टुप् चतुर्थ्यनुष्टुप् |
अप॒ प्राच॑ इन्द्र॒ विश्वाँ᳚, अ॒मित्रा॒नपापा᳚चो, अभिभूते नुदस्व |{काक्षीवतः सुकीर्तिः | इन्द्रः | त्रिष्टुप्}

अपोदी᳚चो॒, अप॑ शूराध॒राच॑ उ॒रौ यथा॒ तव॒ शर्म॒न्मदे᳚म ||{1/7}{10.131.1}{10.11.3.1}{8.7.19.1}{1456, 968, 10254}

अप॑¦प्राचः॑¦इ॒न्द्र॒¦विश्वा᳚न्¦अ॒मित्रा᳚न्¦अप॑¦अपा᳚चः¦अ॒भि॒ऽभू॒ते॒¦नु॒द॒स्व॒ |
अप॑¦उदी᳚चः¦अप॑¦शू॒र॒¦अ॒ध॒राचः॑¦उ॒रौ¦यथा᳚¦तव॑¦शर्म॑न्¦मदे᳚म ||

कु॒विद॒ङ्ग यव॑मन्तो॒ यवं᳚ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ |{काक्षीवतः सुकीर्तिः | इन्द्रः | त्रिष्टुप्}

इ॒हेहै᳚षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नमो᳚वृक्तिं॒ न ज॒ग्मुः ||{2/7}{10.131.2}{10.11.3.2}{8.7.19.2}{1457, 968, 10255}

कु॒वित्¦अ॒ङ्ग¦यव॑ऽमन्तः¦यव᳚‌म्¦चि॒त्¦यथा᳚¦दान्ति॑¦अ॒नु॒ऽपू॒र्व‌म्¦वि॒ऽयूय॑ |
इ॒हऽ‌इ᳚ह¦ए॒षा॒‌म्¦कृ॒णु॒हि॒¦भोज॑नानि¦ये¦ब॒र्हिषः॑¦नमः॑ऽवृक्ति‌म्¦न¦ज॒ग्मुः ||

न॒हि स्थूर्यृ॑तु॒था या॒तमस्ति॒ नोत श्रवो᳚ विविदे संग॒मेषु॑ |{काक्षीवतः सुकीर्तिः | इन्द्रः | त्रिष्टुप्}

ग॒व्यन्त॒ इन्द्रं᳚ स॒ख्याय॒ विप्रा᳚, अश्वा॒यन्तो॒ वृष॑णं वा॒जय᳚न्तः ||{3/7}{10.131.3}{10.11.3.3}{8.7.19.3}{1458, 968, 10256}

न॒हि¦स्थूरि॑¦ऋ॒तु॒ऽथा¦या॒त‌म्¦अस्ति॑¦न¦उ॒त¦श्रवः॑¦वि॒वि॒दे॒¦स॒‌म्ऽग॒मेषु॑ |
ग॒व्यन्तः॑¦इन्द्र᳚‌म्¦स॒ख्याय॑¦विप्राः᳚¦अ॒श्व॒ऽयन्तः॑¦वृष॑ण‌म्¦वा॒जऽय᳚न्तः ||

यु॒वं सु॒राम॑मश्विना॒ नमु॑चावासु॒रे सचा᳚ |{काक्षीवतः सुकीर्तिः | अश्विनौ | अनुष्टुप्}

वि॒पि॒पा॒ना शु॑भस्पती॒, इन्द्रं॒ कर्म॑स्वावतम् ||{4/7}{10.131.4}{10.11.3.4}{8.7.19.4}{1459, 968, 10257}

यु॒व‌म्¦सु॒राम᳚‌म्¦अ॒श्वि॒ना॒¦नमु॑चौ¦आ॒सु॒रे¦सचा᳚ | वि॒ऽपि॒पा॒ना¦शु॒भः॒¦प॒ती॒ इति॑¦इन्द्र᳚‌म्¦कर्म॑ऽसु¦आ॒व॒त॒‌म् ||

पु॒त्रमि॑व पि॒तरा᳚व॒श्विनो॒भेन्द्रा॒वथुः॒ काव्यै᳚र्दं॒सना᳚भिः |{काक्षीवतः सुकीर्तिः | अश्विनौ | त्रिष्टुप्}

यत्सु॒रामं॒ व्यपि॑बः॒ शची᳚भिः॒ सर॑स्वती त्वा मघवन्नभिष्णक् ||{5/7}{10.131.5}{10.11.3.5}{8.7.19.5}{1460, 968, 10258}

पु॒त्र‌म्ऽ‌इ᳚व¦पि॒तरौ᳚¦अ॒श्विना᳚¦उ॒भा¦इन्द्र॑¦आ॒वथुः॑¦काव्यैः᳚¦दं॒सना᳚भिः |
यत्¦सु॒राम᳚‌म्¦वि¦अपि॑बः¦शची᳚भिः¦सर॑स्वती¦त्वा॒¦म॒घ॒ऽव॒न्¦अ॒भि॒ष्ण॒क् ||

इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒, अवो᳚भिः सुमृळी॒को भ॑वतु वि॒श्ववे᳚दाः |{काक्षीवतः सुकीर्तिः | इन्द्रः | त्रिष्टुप्}

बाध॑तां॒ द्वेषो॒, अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ||{6/7}{10.131.6}{10.11.3.6}{8.7.19.6}{1461, 968, 10259}

इन्द्रः॑¦सु॒ऽत्रामा᳚¦स्वऽवा᳚न्¦अवः॑ऽभिः¦सु॒ऽमृ॒ळी॒कः¦भ॒व॒तु॒¦वि॒श्वऽवे᳚दाः |
बाध॑ता‌म्¦द्वेषः॑¦अभ॑य‌म्¦कृ॒णो॒तु॒¦सु॒ऽवीर्य॑स्य¦पत॑यः¦स्या॒म॒ ||

तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ᳚मन॒से स्या᳚म |{काक्षीवतः सुकीर्तिः | इन्द्रः | त्रिष्टुप्}

स सु॒त्रामा॒ स्ववाँ॒, इन्द्रो᳚, अ॒स्मे, आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु ||{7/7}{10.131.7}{10.11.3.7}{8.7.19.7}{1462, 968, 10260}

तस्य॑¦व॒य‌म्¦सु॒ऽम॒तौ¦य॒ज्ञिय॑स्य¦अपि॑¦भ॒द्रे¦सौ॒म॒न॒से¦स्या॒म॒ |
सः¦सु॒त्रामा᳚¦स्वऽवा᳚न्¦इन्द्रः॑¦अ॒स्मे इति॑¦आ॒रात्¦चि॒त्¦द्वेषः॑¦स॒नु॒त¦यु॒यो॒तु॒ ||

[132] ईजानमिति सप्तर्चस्य सूक्तस्य नार्मेधः शकपूतो मित्रावरुणावाद्यायाद्युभूम्यश्विनोविराड्‌रूपाः आद्यान्यंकुसारिणी द्वितीयाषष्ठ्यौ प्रस्तारपंक्ती अंत्यामहासतोबृहती |
ई॒जा॒नमिद्द्यौर्गू॒र्ताव॑सुरीजा॒नं भूमि॑र॒भि प्र॑भू॒षणि॑ |{नार्मेधः शकपूतः | द्युभूम्यश्विनः | अंकुसारिणी}

ई॒जा॒नं दे॒वाव॒श्विना᳚व॒भि सु॒म्नैर॑वर्धताम् ||{1/7}{10.132.1}{10.11.4.1}{8.7.20.1}{1463, 969, 10261}

ई॒जा॒न‌म्¦इत्¦द्यौः¦गू॒र्तऽव॑सुः¦ई॒जा॒न‌म्¦भूमिः॑¦अ॒भि¦प्र॒ऽभू॒षणि॑ |
ई॒जा॒न‌म्¦दे॒वौ¦अ॒श्विनौ᳚¦अ॒भि¦सु॒म्नैः¦अ॒व॒र्ध॒ता॒‌म् ||

ता वां᳚ मित्रावरुणा धार॒यत्‌ क्षि॑ती सुषु॒म्नेषि॑त॒त्वता᳚ यजामसि |{नार्मेधः शकपूतः | मित्रावरुणौ | प्रस्तारपंक्ती}

यु॒वोः क्रा॒णाय॑ स॒ख्यैर॒भि ष्या᳚म र॒क्षसः॑ ||{2/7}{10.132.2}{10.11.4.2}{8.7.20.2}{1464, 969, 10262}

ता¦वा॒‌म्¦मि॒त्रा॒व॒रु॒णा॒¦धा॒र॒यत्‌ क्षि॑ती॒ इति॑ धा॒र॒यत्ऽक्षि॑ती¦सु॒ऽसु॒म्ना¦इ॒षि॒त॒त्वता᳚¦य॒जा॒म॒सि॒ |
यु॒वोः¦क्रा॒णाय॑¦स॒ख्यैः¦अ॒भि¦स्या॒म॒¦र॒क्षसः॑ ||

अधा᳚ चि॒न्नु यद्दिधि॑षामहे वाम॒भि प्रि॒यं रेक्णः॒ पत्य॑मानाः |{नार्मेधः शकपूतः | मित्रावरुणौ | विराड्रूपा}

द॒द्वाँऽ वा॒ यत्पुष्य॑ति॒ रेक्णः॒ सम्वा᳚र॒न्नकि॑रस्य म॒घानि॑ ||{3/7}{10.132.3}{10.11.4.3}{8.7.20.3}{1465, 969, 10263}

अध॑¦चि॒त्¦नु¦यत्¦दधि॑षामहे¦वा॒‌म्¦अ॒भि¦प्रि॒य‌म्¦रेक्णः॑¦पत्य॑मानाः |
द॒द्वान्¦वा॒¦यत्¦पुष्य॑ति¦रेक्णः॑¦स‌म्¦ऊँ॒ इति॑¦आ॒र॒न्¦नकिः॑¦अ॒स्य॒¦म॒घानि॑ ||

अ॒साव॒न्यो, अ॑सुर सूयत॒ द्यौस्त्वं विश्वे᳚षां वरुणासि॒ राजा᳚ |{नार्मेधः शकपूतः | मित्रावरुणौ | पादपङ्क्तिः}

मू॒र्धा रथ॑स्य चाक॒न्नैताव॒तैन॑सान्तक॒ध्रुक् ||{4/7}{10.132.4}{10.11.4.4}{8.7.20.4}{1466, 969, 10264}

अ॒सौ¦अ॒न्यः¦अ॒सु॒र॒¦सू॒य॒त॒¦द्यौः¦त्व‌म्¦विश्वे᳚षा‌म्¦व॒रु॒ण॒¦अ॒सि॒¦राजा᳚ |
मू॒र्धा¦रथ॑स्य¦चा॒क॒न्¦न¦ए॒ताव॑ता¦एन॑सा¦अ॒न्त॒क॒ऽध्रुक् ||

अ॒स्मिन्‌ त्स्वे॒३॑(ए॒)तच्छक॑पूत॒ एनो᳚ हि॒ते मि॒त्रे निग॑तान्हन्ति वी॒रान् |{नार्मेधः शकपूतः | मित्रावरुणौ | विराड्रूपा}

अ॒वोर्वा॒ यद्धात्त॒नूष्ववः॑ प्रि॒यासु॑ य॒ज्ञिया॒स्वर्वा᳚ ||{5/7}{10.132.5}{10.11.4.5}{8.7.20.5}{1467, 969, 10265}

अ॒स्मिन्¦सु¦ए॒तत्¦शक॑ऽपूते¦एनः॑¦हि॒ते¦मि॒त्रे¦निऽग॑तान्¦ह॒न्ति॒¦वी॒रान् |
अ॒वोः¦वा॒¦यत्¦धात्¦त॒नूषु॑¦अवः॑¦प्रि॒यासु॑¦य॒ज्ञिया᳚सु¦अर्वा᳚ ||

यु॒वोर्हि मा॒तादि॑तिर्विचेतसा॒ द्यौर्न भूमिः॒ पय॑सा पुपू॒तनि॑ |{नार्मेधः शकपूतः | मित्रावरुणौ | प्रस्तारपंक्ती}

अव॑ प्रि॒या दि॑दिष्टन॒ सूरो᳚ निनिक्त र॒श्मिभिः॑ ||{6/7}{10.132.6}{10.11.4.6}{8.7.20.6}{1468, 969, 10266}

यु॒वोः¦हि¦मा॒ता¦अदि॑तिः¦वि॒ऽचे॒त॒सा॒¦द्यौः¦न¦भूमिः॑¦पय॑सा¦पु॒पू॒तनि॑ |
अव॑¦प्रि॒या¦दि॒दि॒ष्ट॒न॒¦सूरः॑¦नि॒नि॒क्त॒¦र॒श्मिऽभिः॑ ||

यु॒वं ह्य॑प्न॒राजा॒वसी᳚दतं॒ तिष्ठ॒द्रथं॒ न धू॒र्षदं᳚ वन॒र्षद᳚म् |{नार्मेधः शकपूतः | मित्रावरुणौ | महासतोबृहती}

ता नः॑ कणूक॒यन्ती᳚र्नृ॒मेध॑स्तत्रे॒, अंह॑सः सु॒मेध॑स्तत्रे॒, अंह॑सः ||{7/7}{10.132.7}{10.11.4.7}{8.7.20.7}{1469, 969, 10267}

यु॒व‌म्¦हि¦अ॒प्न॒ऽराजौ᳚¦असी᳚दत‌म्¦तिष्ठ॑त्¦रथ᳚‌म्¦न¦धूः॒ऽसद᳚‌म्¦व॒न॒ऽसद᳚‌म् |
ताः¦नः॒¦क॒णू॒क॒ऽयन्तीः᳚¦नृ॒ऽमेधः॑¦त॒त्रे॒¦अंह॑सः¦सु॒ऽमेधः॑¦त॒त्रे॒¦अंह॑सः ||

[133] प्रोष्विति सप्तर्चस्य सूक्तस्य सुदाः पैजवनइंद्रः शक्वरीचतुर्थ्यादितिस्रो महापंक्तयोत्यात्रिष्टुप् |
प्रो ष्व॑स्मै पुरोर॒थमिन्द्रा᳚य शू॒षम॑र्चत |{सुदाः पैजवनः | इन्द्रः | शक्वरी}

अ॒भीके᳚ चिदु लोक॒कृत्सं॒गे स॒मत्सु॑ वृत्र॒हास्माकं᳚ बोधि चोदि॒ता नभ᳚न्तामन्य॒केषां᳚ ज्या॒का, अधि॒ धन्व॑सु ||{1/7}{10.133.1}{10.11.5.1}{8.7.21.1}{1470, 970, 10268}

प्रो इति॑¦सु¦अ॒स्मै॒¦पु॒रः॒ऽर॒थ‌म्¦इन्द्रा᳚य¦शू॒ष‌म्¦अ॒र्च॒त॒ |
अ॒भीके᳚¦चि॒त्¦ऊँ॒ इति॑¦लो॒क॒ऽकृत्¦स॒‌म्ऽगे¦स॒मत्ऽसु॑¦वृ॒त्र॒ऽहा¦अ॒स्माक᳚‌म्¦बो॒धि॒¦चो॒दि॒ता¦नभ᳚न्ता‌म्¦अ॒न्य॒केषा᳚‌म्¦ज्या॒काः¦अधि॑¦धन्व॑ऽसु ||

त्वं सिन्धूँ॒रवा᳚सृजोऽध॒राचो॒, अह॒न्नहि᳚म् |{सुदाः पैजवनः | इन्द्रः | शक्वरी}

अ॒श॒त्रुरि᳚न्द्र जज्ञिषे॒ विश्वं᳚ पुष्यसि॒ वार्यं॒ तं त्वा॒ परि॑ ष्वजामहे॒ नभ᳚न्तामन्य॒केषां᳚ ज्या॒का, अधि॒ धन्व॑सु ||{2/7}{10.133.2}{10.11.5.2}{8.7.21.2}{1471, 970, 10269}

त्व‌म्¦सिन्धू᳚न्¦अव॑¦अ॒सृ॒जः॒¦अ॒ध॒राचः॑¦अह॑न्¦अहि᳚‌म् |
अ॒श॒त्रुः¦इ॒न्द्र॒¦ज॒ज्ञि॒षे॒¦विश्व᳚‌म्¦पु॒ष्य॒सि॒¦वार्य᳚‌म्¦त‌म्¦त्वा॒¦परि॑¦स्व॒जा॒म॒हे॒¦नभ᳚न्ता‌म्¦अ॒न्य॒केषा᳚‌म्¦ज्या॒काः¦अधि॑¦धन्व॑ऽसु ||

वि षु विश्वा॒, अरा᳚तयो॒ऽर्यो न॑शन्त नो॒ धियः॑ |{सुदाः पैजवनः | इन्द्रः | शक्वरी}

अस्ता᳚सि॒ शत्र॑वे व॒धं यो न॑ इन्द्र॒ जिघां᳚सति॒ या ते᳚ रा॒तिर्द॒दिर्वसु॒ नभ᳚न्तामन्य॒केषां᳚ ज्या॒का, अधि॒ धन्व॑सु ||{3/7}{10.133.3}{10.11.5.3}{8.7.21.3}{1472, 970, 10270}

वि¦सु¦विश्वा᳚¦अरा᳚तयः¦अ॒र्यः¦न॒श॒न्त॒¦नः॒¦धियः॑ |
अस्ता᳚¦अ॒सि॒¦शत्र॑वे¦व॒ध‌म्¦यः¦नः॒¦इ॒न्द्र॒¦जिघां᳚सति¦या¦ते॒¦रा॒तिः¦द॒दिः¦वसु॑¦नभ᳚न्ता‌म्¦अ॒न्य॒केषा᳚‌म्¦ज्या॒काः¦अधि॑¦धन्व॑ऽसु ||

यो न॑ इन्द्रा॒भितो॒ जनो᳚ वृका॒युरा॒दिदे᳚शति |{सुदाः पैजवनः | इन्द्रः | महापङ्क्तिः}

अ॒ध॒स्प॒दं तमीं᳚ कृधि विबा॒धो, अ॑सि सास॒हिर्नभ᳚न्तामन्य॒केषां᳚ ज्या॒का, अधि॒ धन्व॑सु ||{4/7}{10.133.4}{10.11.5.4}{8.7.21.4}{1473, 970, 10271}

यः¦नः॒¦इ॒न्द्र॒¦अ॒भितः॑¦जनः॑¦वृ॒क॒ऽयुः¦आ॒ऽदिदे᳚शति |
अ॒धः॒ऽप॒द‌म्¦त‌म्¦ई॒‌म्¦कृ॒धि॒¦वि॒ऽबा॒धः¦अ॒सि॒¦स॒स॒हिः¦नभ᳚न्ता‌म्¦अ॒न्य॒केषा᳚‌म्¦ज्या॒काः¦अधि॑¦धन्व॑ऽसु ||

यो न॑ इन्द्राभि॒दास॑ति॒ सना᳚भि॒र्यश्च॒ निष्ट्यः॑ |{सुदाः पैजवनः | इन्द्रः | महापङ्क्तिः}

अव॒ तस्य॒ बलं᳚ तिर म॒हीव॒ द्यौरध॒ त्मना॒ नभ᳚न्तामन्य॒केषां᳚ ज्या॒का, अधि॒ धन्व॑सु ||{5/7}{10.133.5}{10.11.5.5}{8.7.21.5}{1474, 970, 10272}

यः¦नः॒¦इ॒न्द्र॒¦अ॒भि॒ऽदास॑ति¦सऽना᳚भिः¦यः¦च॒¦निष्ट्यः॑ |
अव॑¦तस्य॑¦बल᳚‌म्¦ति॒र॒¦म॒हीऽ‌इ᳚व¦द्यौः¦अध॑¦त्मना᳚¦नभ᳚न्ता‌म्¦अ॒न्य॒केषा᳚‌म्¦ज्या॒काः¦अधि॑¦धन्व॑ऽसु ||

व॒यमि᳚न्द्र त्वा॒यवः॑ सखि॒त्वमा र॑भामहे |{सुदाः पैजवनः | इन्द्रः | महापङ्क्तिः}

ऋ॒तस्य॑ नः प॒था न॒याति॒ विश्वा᳚नि दुरि॒ता नभ᳚न्तामन्य॒केषां᳚ ज्या॒का, अधि॒ धन्व॑सु ||{6/7}{10.133.6}{10.11.5.6}{8.7.21.6}{1475, 970, 10273}

व॒य‌म्¦इ॒न्द्र॒¦त्वा॒ऽयवः॑¦स॒खि॒ऽत्व‌म्¦आ¦र॒भा॒म॒हे॒ |
ऋ॒तस्य॑¦नः॒¦प॒था¦न॒य॒¦अति॑¦विश्वा᳚नि¦दुः॒ऽ‌इ॒ता¦नभ᳚न्ता‌म्¦अ॒न्य॒केषा᳚‌म्¦ज्या॒काः¦अधि॑¦धन्व॑ऽसु ||

अ॒स्मभ्यं॒ सु त्वमि᳚न्द्र॒ तां शि॑क्ष॒ या दोह॑ते॒ प्रति॒ वरं᳚ जरि॒त्रे |{सुदाः पैजवनः | इन्द्रः | त्रिष्टुप्}

अच्छि॑द्रोध्नी पी॒पय॒द्यथा᳚ नः स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ||{7/7}{10.133.7}{10.11.5.7}{8.7.21.7}{1476, 970, 10274}

अ॒स्मभ्य᳚‌म्¦सु¦त्व‌म्¦इ॒न्द्र॒¦ता‌म्¦शि॒क्ष॒¦या¦दोह॑ते¦प्रति॑¦वर᳚‌म्¦ज॒रि॒त्रे |
अच्छि॑द्रऽऊध्नी¦पी॒पय॑त्¦यथा᳚¦नः॒¦स॒हस्र॑ऽधारा¦पय॑सा¦म॒ही¦गौः ||

[134] उभेयदिति सप्तर्चस्य सूक्तस्य यौवनाश्वोमांधातेंद्रः अंत्यानां तिसृणामर्धर्चागोधेंद्रो महापंक्तिरंत्यापंक्तिः |
उ॒भे यदि᳚न्द्र॒ रोद॑सी, आप॒प्राथो॒षा, इ॑व |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः}

म॒हान्तं᳚ त्वा म॒हीनां᳚ स॒म्राजं᳚ चर्षणी॒नां दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ||{1/7}{10.134.1}{10.11.6.1}{8.7.22.1}{1477, 971, 10275}

उ॒भे इति॑¦यत्¦इ॒न्द्र॒¦रोद॑सी॒ इति॑¦आ॒ऽप॒प्राथ॑¦उ॒षाःऽ‌इ᳚व |
म॒हान्त᳚‌म्¦त्वा॒¦म॒हीना᳚‌म्¦स॒‌म्ऽराज᳚‌म्¦च॒र्ष॒णी॒ना‌म्¦दे॒वी¦जनि॑त्री¦अ॒जी॒ज॒न॒त्¦भ॒द्रा¦जनि॑त्री¦अ॒जी॒ज॒न॒त् ||

अव॑ स्म दुर्हणाय॒तो मर्त॑स्य तनुहि स्थि॒रम् |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः}

अ॒ध॒स्प॒दं तमीं᳚ कृधि॒ यो, अ॒स्माँ, आ॒दिदे᳚शति दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ||{2/7}{10.134.2}{10.11.6.2}{8.7.22.2}{1478, 971, 10276}

अव॑¦स्म॒¦दुः॒ऽह॒ना॒य॒तः¦मर्त॑स्य¦त॒नु॒हि॒¦स्थि॒र‌म् |
अ॒धः॒ऽप॒द‌म्¦त‌म्¦ई॒‌म्¦कृ॒धि॒¦यः¦अ॒स्मान्¦आ॒ऽदिदे᳚शति¦दे॒वी¦जनि॑त्री¦अ॒जी॒ज॒न॒त्¦भ॒द्रा¦जनि॑त्री¦अ॒जी॒ज॒न॒त् ||

अव॒ त्या बृ॑ह॒तीरिषो᳚ वि॒श्वश्च᳚न्द्रा, अमित्रहन् |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः}

शची᳚भिः शक्र धूनु॒हीन्द्र॒ विश्वा᳚भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ||{3/7}{10.134.3}{10.11.6.3}{8.7.22.3}{1479, 971, 10277}

अव॑¦त्याः¦बृ॒ह॒तीः¦इषः॑¦वि॒श्वऽच᳚न्द्राः¦अ॒मि॒त्र॒ऽह॒न् |
शची᳚भिः¦श॒क्र॒¦धू॒नु॒हि॒¦इन्द्र॑¦विश्वा᳚भिः¦ऊ॒तिऽभिः॑¦दे॒वी¦जनि॑त्री¦अ॒जी॒ज॒न॒त्¦भ॒द्रा¦जनि॑त्री¦अ॒जी॒ज॒न॒त् ||

अव॒ यत्‌ त्वं श॑तक्रत॒विन्द्र॒ विश्वा᳚नि धूनु॒षे |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः}

र॒यिं न सु᳚न्व॒ते सचा᳚ सह॒स्रिणी᳚भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ||{4/7}{10.134.4}{10.11.6.4}{8.7.22.4}{1480, 971, 10278}

अव॑¦यत्¦त्व‌म्¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो¦इन्द्र॑¦विश्वा᳚नि¦धू॒नु॒षे |
र॒यि‌म्¦न¦सु॒न्व॒ते¦सचा᳚¦स॒ह॒स्रिणी᳚भिः¦ऊ॒तिऽभिः॑¦दे॒वी¦जनि॑त्री¦अ॒जी॒ज॒न॒त्¦भ॒द्रा¦जनि॑त्री¦अ॒जी॒ज॒न॒त् ||

अव॒ स्वेदा᳚, इवा॒भितो॒ विष्व॑क्पतन्तु दि॒द्यवः॑ |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः}

दूर्वा᳚या, इव॒ तन्त॑वो॒ व्य१॑(अ॒)स्मदे᳚तु दुर्म॒तिर्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ||{5/7}{10.134.5}{10.11.6.5}{8.7.22.5}{1481, 971, 10279}

अव॑¦स्वेदाः᳚ऽ‌इव¦अ॒भितः॑¦विष्व॑क्¦प॒त॒न्तु॒¦दि॒द्यवः॑ |
दूर्वा᳚याःऽ‌इव¦तन्त॑वः¦वि¦अ॒स्मत्¦ए॒तु॒¦दुः॒ऽम॒तिः¦दे॒वी¦जनि॑त्री¦अ॒जी॒ज॒न॒त्¦भ॒द्रा¦जनि॑त्री¦अ॒जी॒ज॒न॒त् ||

दी॒र्घं ह्य᳚ङ्कु॒शं य॑था॒ शक्तिं॒ बिभ॑र्षि मन्तुमः |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः}

पूर्वे᳚ण मघवन्‌ प॒दाजो व॒यां यथा᳚ यमो दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ||{6/7}{10.134.6}{10.11.6.6}{8.7.22.6}{1482, 971, 10280}

दी॒र्घ‌म्¦हि¦अ॒ङ्कु॒श‌म्¦य॒था॒¦शक्ति᳚‌म्¦बिभ॑र्षि¦म॒न्तु॒ऽमः॒ |
पूर्वे᳚ण¦म॒घ॒ऽव॒न्¦प॒दा¦अ॒जः¦व॒या‌म्¦यथा᳚¦य॒मः॒¦दे॒वी¦जनि॑त्री¦अ॒जी॒ज॒न॒त्¦भ॒द्रा¦जनि॑त्री¦अ॒जी॒ज॒न॒त् ||

नकि॑र्देवा मिनीमसि॒ नकि॒रा यो᳚पयामसि मन्त्र॒श्रुत्यं᳚ चरामसि |{गोधा, यौवनाश्वोमांधातेंद्रः | इन्द्रः | पङ्क्तिः}

प॒क्षेभि॑रपिक॒क्षेभि॒रत्रा॒भि सं र॑भामहे ||{7/7}{10.134.7}{10.11.6.7}{8.7.22.7}{1483, 971, 10281}

नकिः॑¦दे॒वाः॒¦मि॒नी॒म॒सि॒¦नकिः॑¦आ¦यो॒प॒या॒म॒सि॒¦म॒न्त्र॒ऽश्रुत्य᳚‌म्¦च॒रा॒म॒सि॒ |
प॒क्षेभिः॑¦अ॒पि॒ऽक॒क्षेभिः॑¦अत्र॑¦अ॒भि¦स‌म्¦र॒भा॒म॒हे॒ ||

[135] यस्मिन्निति सप्तर्चस्य सूक्तस्य यामायनः कुमारोयमोनुष्टुप् |
यस्मि᳚न्‌ वृ॒क्षे सु॑पला॒शे दे॒वैः स॒म्पिब॑ते य॒मः |{यामायनः कुमारः | यमः | अनुष्टुप्}

अत्रा᳚ नो वि॒श्पतिः॑ पि॒ता पु॑रा॒णाँ, अनु॑ वेनति ||{1/7}{10.135.1}{10.11.7.1}{8.7.23.1}{1484, 972, 10282}

यस्मि॑न्¦वृ॒क्षे¦सु॒ऽप॒ला॒शे¦दे॒वैः¦स॒‌म्ऽपिब॑ते¦य॒मः | अत्र॑¦नः॒¦वि॒श्पतिः॑¦पि॒ता¦पु॒रा॒णान्¦अनु॑¦वे॒न॒ति॒ ||

पु॒रा॒णाँ, अ॑नु॒वेन᳚न्तं॒ चर᳚न्तं पा॒पया᳚मु॒या |{यामायनः कुमारः | यमः | अनुष्टुप्}

अ॒सू॒यन्न॒भ्य॑चाकशं॒ तस्मा᳚, अस्पृहयं॒ पुनः॑ ||{2/7}{10.135.2}{10.11.7.2}{8.7.23.2}{1485, 972, 10283}

पु॒रा॒णा᳚न्¦अ॒नु॒ऽवेन᳚न्त‌म्¦चर᳚न्त‌म्¦पा॒पया᳚¦अ॒मु॒या | अ॒सू॒यन्¦अ॒भि¦अ॒चा॒क॒श॒‌म्¦तस्मै᳚¦अ॒स्पृ॒ह॒य॒‌म्¦पुन॒रिति॑ ||

यं कु॑मार॒ नवं॒ रथ॑मच॒क्रं मन॒साकृ॑णोः |{यामायनः कुमारः | यमः | अनुष्टुप्}

एके᳚षं वि॒श्वतः॒ प्राञ्च॒मप॑श्य॒न्नधि॑ तिष्ठसि ||{3/7}{10.135.3}{10.11.7.3}{8.7.23.3}{1486, 972, 10284}

य‌म्¦कु॒मा॒र॒¦नव᳚‌म्¦रथ᳚‌म्¦अ॒च॒क्र‌म्¦मन॑सा¦अकृ॑णोः | एक॑ऽईष‌म्¦वि॒श्वतः॑¦प्रांच᳚‌म्¦अप॑श्यन्¦अधि॑¦ति॒ष्ठ॒सि॒ ||

यं कु॑मार॒ प्राव॑र्तयो॒ रथं॒ विप्रे᳚भ्य॒स्परि॑ |{यामायनः कुमारः | यमः | अनुष्टुप्}

तं सामानु॒ प्राव॑र्तत॒ समि॒तो ना॒व्याहि॑तम् ||{4/7}{10.135.4}{10.11.7.4}{8.7.23.4}{1487, 972, 10285}

य‌म्¦कु॒मा॒र॒¦प्र¦अव॑र्तयः¦रथ᳚‌म्¦विप्रे᳚भ्यः¦परि॑ | त‌म्¦साम॑¦अनु॑¦प्र¦अ॒व॒र्त॒त॒¦स‌म्¦इ॒तः¦ना॒वि¦आऽहि॑त‌म् ||

कः कु॑मा॒रम॑जनय॒द्रथं॒ को निर॑वर्तयत् |{यामायनः कुमारः | यमः | अनुष्टुप्}

कः स्वि॒त्तद॒द्य नो᳚ ब्रूयादनु॒देयी॒ यथाभ॑वत् ||{5/7}{10.135.5}{10.11.7.5}{8.7.23.5}{1488, 972, 10286}

कः¦कु॒मा॒र‌म्¦अ॒ज॒न॒य॒त्¦रथ᳚‌म्¦कः¦निः¦अ॒व॒र्त॒य॒त् | कः¦स्वि॒त्¦तत्¦अ॒द्य¦नः॒¦ब्रू॒या॒त्¦अ॒नु॒ऽदेयी᳚¦यथा᳚¦अभ॑वत् ||

यथाभ॑वदनु॒देयी॒ ततो॒, अग्र॑मजायत |{यामायनः कुमारः | यमः | अनुष्टुप्}

पु॒रस्ता᳚द्बु॒ध्न आत॑तः प॒श्चान्नि॒रय॑णं कृ॒तम् ||{6/7}{10.135.6}{10.11.7.6}{8.7.23.6}{1489, 972, 10287}

यथा᳚¦अभ॑वत्¦अ॒नु॒ऽदेयी᳚¦ततः॑¦अग्र᳚‌म्¦अ॒जा॒य॒त॒ | पु॒रस्ता᳚त्¦बु॒ध्नः¦आऽत॑तः¦प॒श्चात्¦निः॒।आय॑न‌म्¦कृ॒त‌म् ||

इ॒दं य॒मस्य॒ साद॑नं देवमा॒नं यदु॒च्यते᳚ |{यामायनः कुमारः | यमः | अनुष्टुप्}

इ॒यम॑स्य धम्यते ना॒ळीर॒यं गी॒र्भिः परि॑ष्कृतः ||{7/7}{10.135.7}{10.11.7.7}{8.7.23.7}{1490, 972, 10288}

इ॒द‌म्¦य॒मस्य॑¦सद॑न‌म्¦दे॒व॒ऽमा॒न‌म्¦यत्¦उ॒च्यते᳚ | इ॒य‌म्¦अ॒स्य॒¦ध॒म्य॒ते॒¦ना॒ळीः¦अ॒य‌म्¦गीः॒ऽभिः¦परि॑ऽकृतः ||

[136] केशीति सप्तर्चस्य सूक्तस्य वातरशना जूतिर्वातजूतिर्विप्र जूतिर्वृषाणकः करिक्रत एतशऋष्यशृंग इति क्रमेणैकर्चाऋषयः | केश्यग्निसूर्यवायवोदेवताअनुष्टुप् |
के॒श्य१॑(अ॒)ग्निं के॒शी वि॒षं के॒शी बि॑भर्ति॒ रोद॑सी |{जूतिः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्}

के॒शी विश्वं॒ स्व॑र्दृ॒शे के॒शीदं ज्योति॑रुच्यते ||{1/7}{10.136.1}{10.11.8.1}{8.7.24.1}{1491, 973, 10289}

के॒शी¦अ॒ग्नि‌म्¦के॒शी¦वि॒ष‌म्¦के॒शी¦बि॒भ॒र्ति॒¦रोद॑सी॒ इति॑ | के॒शी¦विश्व᳚‌म्¦स्वः॑¦दृ॒शे¦के॒शी¦इ॒द‌म्¦ज्योतिः॑¦उ॒च्य॒ते॒ ||

मुन॑यो॒ वात॑रशनाः पि॒शङ्गा᳚ वसते॒ मला᳚ |{वातजूतिः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्}

वात॒स्यानु॒ ध्राजिं᳚ यन्ति॒ यद्दे॒वासो॒, अवि॑क्षत ||{2/7}{10.136.2}{10.11.8.2}{8.7.24.2}{1492, 973, 10290}

मुन॑यः¦वात॑ऽरशनाः¦पि॒शङ्गाः᳚¦व॒स॒ते॒¦मला᳚ | वात॑स्य¦अनु॑¦ध्राजि᳚‌म्¦यन्ति॑¦यत्¦दे॒वासः॑¦अवि॑क्षत ||

उन्म॑दिता॒ मौने᳚येन॒ वाताँ॒, आ त॑स्थिमा व॒यम् |{विप्र जूतिः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्}

शरी॒रेद॒स्माकं᳚ यू॒यं मर्ता᳚सो, अ॒भि प॑श्यथ ||{3/7}{10.136.3}{10.11.8.3}{8.7.24.3}{1493, 973, 10291}

उत्ऽम॑दिताः¦मौने᳚येन¦वाता᳚न्¦आ¦त॒स्थि॒म॒¦व॒य‌म् | शरी᳚रा¦इत्¦अ॒स्माक᳚‌म्¦यू॒य‌म्¦मर्ता᳚सः¦अ॒भि¦प॒श्य॒थ॒ ||

अ॒न्तरि॑क्षेण पतति॒ विश्वा᳚ रू॒पाव॒चाक॑शत् |{ऋषाणकः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्}

मुनि॑र्दे॒वस्य॑देवस्य॒ सौकृ॑त्याय॒ सखा᳚ हि॒तः ||{4/7}{10.136.4}{10.11.8.4}{8.7.24.4}{1494, 973, 10292}

अ॒न्तरि॑क्षेण¦प॒त॒ति॒¦विश्वा᳚¦रू॒पा¦अ॒व॒ऽचाक॑शत् | मुनिः॑¦दे॒वस्य॑ऽदेवस्य¦सौकृ॑त्याय¦सखा᳚¦हि॒तः ||

वात॒स्याश्वो᳚ वा॒योः सखाथो᳚ दे॒वेषि॑तो॒ मुनिः॑ |{करिक्रतः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्}

उ॒भौ स॑मु॒द्रावा क्षे᳚ति॒ यश्च॒ पूर्व॑ उ॒ताप॑रः ||{5/7}{10.136.5}{10.11.8.5}{8.7.24.5}{1495, 973, 10293}

वात॑स्य¦अश्वः॑¦वा॒योः¦सखा᳚¦अथो॒ इति॑¦दे॒वऽ‌इ᳚षितः¦मुनिः॑ | उ॒भौ¦स॒मु॒द्रौ¦आ¦क्षे॒ति॒¦यः¦च॒¦पूर्वः॑¦उ॒त¦अप॑रः ||

अ॒प्स॒रसां᳚ गन्ध॒र्वाणां᳚ मृ॒गाणां॒ चर॑णे॒ चर॑न् |{एतशः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्}

के॒शी केत॑स्य वि॒द्वान्‌ त्सखा᳚ स्वा॒दुर्म॒दिन्त॑मः ||{6/7}{10.136.6}{10.11.8.6}{8.7.24.6}{1496, 973, 10294}

अ॒प्स॒रसा᳚‌म्¦ग॒न्ध॒र्वाणा᳚‌म्¦मृ॒गाणा᳚‌म्¦चर॑णे¦चर॑न् | के॒शी¦केत॑स्य¦वि॒द्वान्¦सखा᳚¦स्वा॒दुः¦म॒दिन्ऽत॑मः ||

वा॒युर॑स्मा॒, उपा᳚मन्थत्पि॒नष्टि॑ स्मा कुनन्न॒मा |{ऋष्यशृंगः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्}

के॒शी वि॒षस्य॒ पात्रे᳚ण॒ यद्रु॒द्रेणापि॑बत्स॒ह ||{7/7}{10.136.7}{10.11.8.7}{8.7.24.7}{1497, 973, 10295}

वा॒युर्¦अ॒स्मै॒¦उप॑¦अ॒म॒न्थ॒त्¦पि॒नष्टि॑¦स्म॒¦कु॒न॒न्न॒मा | के॒शी¦वि॒षस्य॑¦पात्रे᳚ण¦यत्¦रु॒द्रेण॑¦अपि॑बत्¦स॒ह ||

[137] उतेति सप्तर्चस्य सूक्तस्य भरद्वाजः कश्यपोगौतमोत्रिर्विश्वामित्रोजमदग्निर्वसिष्ठ इतिक्रमेणैकर्चाऋषयो विश्वेदेवा अनुष्टुप् (भेदपक्षे-देवाः १ वातः ३ विश्वेदेवाः १ आपः २ एवं ७) |
उ॒त दे᳚वा॒, अव॑हितं॒ देवा॒, उन्न॑यथा॒ पुनः॑ |{भरद्वाजः | विश्वदेवाः | अनुष्टुप्}

उ॒ताग॑श्च॒क्रुषं᳚ देवा॒ देवा᳚ जी॒वय॑था॒ पुनः॑ ||{1/7}{10.137.1}{10.11.9.1}{8.7.25.1}{1498, 974, 10296}

उ॒त¦दे॒वाः॒¦अव॑ऽहित‌म्¦देवाः᳚¦उत्¦न॒य॒थ॒¦पुन॒रिति॑ | उ॒त¦आगः॑¦च॒क्रुष᳚‌म्¦दे॒वः॒¦देवाः᳚¦जी॒वय॑थ¦पुन॒रिति॑ ||

द्वावि॒मौ वातौ᳚ वात॒ आ सिन्धो॒रा प॑रा॒वतः॑ |{कश्यपः | विश्वदेवाः | अनुष्टुप्}

दक्षं᳚ ते, अ॒न्य आ वा᳚तु॒ परा॒न्यो वा᳚तु॒ यद्रपः॑ ||{2/7}{10.137.2}{10.11.9.2}{8.7.25.2}{1499, 974, 10297}

द्वौ¦इ॒मौ¦वातौ᳚¦वा॒तः॒¦आ¦सिन्धोः᳚¦आ¦प॒रा॒ऽवतः॑ | दक्ष᳚‌म्¦ते॒¦अ॒न्यः¦आ¦वा॒तु॒¦परा᳚¦अ॒न्यः¦वा॒तु॒¦यत्¦रपः॑ ||

आ वा᳚त वाहि भेष॒जं वि वा᳚त वाहि॒ यद्रपः॑ |{गोतमः | विश्वदेवाः | अनुष्टुप्}

त्वं हि वि॒श्वभे᳚षजो दे॒वानां᳚ दू॒त ईय॑से ||{3/7}{10.137.3}{10.11.9.3}{8.7.25.3}{1500, 974, 10298}

आ¦वा॒त॒¦वा॒हि॒¦भे॒ष॒ज‌म्¦वि¦वा॒त॒¦वा॒हि॒¦यत्¦रपः॑ | त्व‌म्¦हि¦वि॒श्वऽभे᳚षजः¦दे॒वाना᳚‌म्¦दू॒तः¦ईय॑से ||

आ त्वा᳚गमं॒ शंता᳚तिभि॒रथो᳚, अरि॒ष्टता᳚तिभिः |{अत्रिः | विश्वदेवाः | अनुष्टुप्}

दक्षं᳚ ते भ॒द्रमाभा᳚र्षं॒ परा॒ यक्ष्मं᳚ सुवामि ते ||{4/7}{10.137.4}{10.11.9.4}{8.7.25.4}{1501, 974, 10299}

आ¦त्वा॒¦अ॒ग॒म॒‌म्¦शन्ता᳚तिऽभिः¦अथो॒ इति॑¦अ॒रि॒ष्टता᳚तिऽभिः | दक्ष᳚‌म्¦ते॒¦भ॒द्र‌म्¦आ¦अ॒भा॒र्ष॒‌म्¦परा᳚¦यक्ष्म᳚‌म्¦सु॒वा॒मि॒¦ते ||

त्राय᳚न्तामि॒ह दे॒वास्त्राय॑तां म॒रुतां᳚ ग॒णः |{विश्वामित्रः | विश्वदेवाः | अनुष्टुप्}

त्राय᳚न्तां॒ विश्वा᳚ भू॒तानि॒ यथा॒यम॑र॒पा, अस॑त् ||{5/7}{10.137.5}{10.11.9.5}{8.7.25.5}{1502, 974, 10300}

त्राय᳚न्ता‌म्¦इ॒ह¦दे॒वाः¦त्राय॑ता‌म्¦म॒रुता᳚‌म्¦ग॒णः | त्राय᳚न्ता‌म्¦विश्वा᳚¦भू॒तानि॑¦यथा᳚¦अ॒य‌म्¦अ॒र॒पाः¦अस॑त् ||

आप॒ इद्वा, उ॑ भेष॒जीरापो᳚, अमीव॒चात॑नीः |{जमदग्निः | विश्वदेवाः | अनुष्टुप्}

आपः॒ सर्व॑स्य भेष॒जीस्तास्ते᳚ कृण्वन्तु भेष॒जम् ||{6/7}{10.137.6}{10.11.9.6}{8.7.25.6}{1503, 974, 10301}

आपः॑¦इत्¦वा॒¦ऊँ॒ इति॑¦भे॒ष॒जीः¦आपः॑¦अ॒मी॒व॒ऽचात॑नीः | आपः॑¦सर्व॑स्य¦भे॒ष॒जीः¦ताः¦ते॒¦कृ॒ण्व॒न्तु॒¦भे॒ष॒ज‌म् ||

हस्ता᳚भ्यां॒ दश॑शाखाभ्यां जि॒ह्वा वा॒चः पु॑रोग॒वी |{वसिष्ठः | विश्वदेवाः | अनुष्टुप्}

अ॒ना॒म॒यि॒त्नुभ्यां᳚ त्वा॒ ताभ्यां॒ त्वोप॑ स्पृशामसि ||{7/7}{10.137.7}{10.11.9.7}{8.7.25.7}{1504, 974, 10302}

हस्ता᳚भ्या‌म्¦दश॑ऽशाखाभ्या‌म्¦जि॒ह्वा¦वा॒चः¦पु॒रः॒ऽग॒वी | अ॒ना॒म॒यि॒त्नुऽभ्या᳚‌म्¦त्वा॒¦ताभ्या᳚‌म्¦त्वा॒¦उप॑¦स्पृ॒शा॒म॒सि॒ ||

[138] तवत्यइति षडृचस्य सूक्तस्यौरवोंग इंद्रोजगती |
तव॒ त्य इ᳚न्द्र स॒ख्येषु॒ वह्न॑य ऋ॒तं म᳚न्वा॒ना व्य॑दर्दिरुर्व॒लम् |{औरवोंगः | इन्द्रः | जगती}

यत्रा᳚ दश॒स्यन्नु॒षसो᳚ रि॒णन्न॒पः कुत्सा᳚य॒ मन्म᳚न्न॒ह्य॑श्च दं॒सयः॑ ||{1/6}{10.138.1}{10.11.10.1}{8.7.26.1}{1505, 975, 10303}

तव॑¦त्ये¦इ॒न्द्र॒¦स॒ख्येषु॑¦वह्न॑यः¦ऋ॒त‌म्¦म॒न्वा॒नाः¦वि¦अ॒द॒र्दि॒रुः॒¦व॒ल‌म् |
यत्र॑¦द॒श॒स्यन्¦उ॒षसः॑¦रि॒णन्¦आ॒पः¦कुत्सा᳚य¦मन्म॑न्¦अ॒ह्यः॑¦च॒¦दं॒सयः॑ ||

अवा᳚सृजः प्र॒स्वः॑ श्व॒ञ्चयो᳚ गि॒रीनुदा᳚ज उ॒स्रा, अपि॑बो॒ मधु॑ प्रि॒यम् |{औरवोंगः | इन्द्रः | जगती}

अव॑र्धयो व॒निनो᳚, अस्य॒ दंस॑सा शु॒शोच॒ सूर्य॑ ऋ॒तजा᳚तया गि॒रा ||{2/6}{10.138.2}{10.11.10.2}{8.7.26.2}{1506, 975, 10304}

अव॑¦अ॒सृ॒जः॒¦प्र॒ऽस्वः॑¦श्वं॒चयः॑¦गि॒रीन्¦उत्¦आ॒जः॒¦उ॒स्राः¦अपि॑बः¦मधु॑¦प्रि॒य‌म् |
अव॑र्धयः¦व॒निनः॑¦अ॒स्य॒¦दंस॑सा¦शु॒शोच॑¦सूर्यः॑¦ऋ॒तऽजा᳚तया᳚¦गि॒रा ||

वि सूर्यो॒ मध्ये᳚, अमुच॒द्रथं᳚ दि॒वो वि॒दद्दा॒साय॑ प्रति॒मान॒मार्यः॑ |{औरवोंगः | इन्द्रः | जगती}

दृ॒ळ्हानि॒ पिप्रो॒रसु॑रस्य मा॒यिन॒ इन्द्रो॒ व्या᳚स्यच्चकृ॒वाँ, ऋ॒जिश्व॑ना ||{3/6}{10.138.3}{10.11.10.3}{8.7.26.3}{1507, 975, 10305}

वि¦सूर्यः॑¦मध्ये᳚¦अ॒मु॒च॒त्¦रथ᳚‌म्¦दि॒वः¦वि॒दत्¦दा॒साय॑¦प्र॒ति॒ऽमान᳚‌म्¦आर्यः॑ |
दृ॒ळ्हानि॑¦पिप्रोः᳚¦असु॑रस्य¦मा॒यिनः॑¦इन्द्रः॑¦वि¦आ॒स्य॒त्¦च॒कृ॒ऽवान्¦ऋ॒जिश्व॑ना ||

अना᳚धृष्टानि धृषि॒तो व्या᳚स्यन्नि॒धीँरदे᳚वाँ, अमृणद॒यास्यः॑ |{औरवोंगः | इन्द्रः | जगती}

मा॒सेव॒ सूर्यो॒ वसु॒ पुर्य॒मा द॑दे गृणा॒नः शत्रूँ᳚रशृणाद्वि॒रुक्म॑ता ||{4/6}{10.138.4}{10.11.10.4}{8.7.26.4}{1508, 975, 10306}

अना᳚धृष्टानि¦धृ॒षि॒तः¦वि¦आ॒स्य॒त्¦नि॒ऽधीन्¦अदे᳚वान्¦अ॒मृ॒ण॒त्¦अ॒यास्यः॑ |
मा॒साऽ‌इ᳚व¦सूर्यः॑¦वसु॑¦पुर्य᳚‌म्¦आ¦द॒दे॒¦गृ॒णा॒नः¦शत्रू᳚न्¦अ॒शृ॒णा॒त्¦वि॒ऽरुक्म॑ता ||

अयु॑द्धसेनो वि॒भ्वा᳚ विभिन्द॒ता दाश॑द्वृत्र॒हा तुज्या᳚नि तेजते |{औरवोंगः | इन्द्रः | जगती}

इन्द्र॑स्य॒ वज्रा᳚दबिभेदभि॒श्नथः॒ प्राक्रा᳚मच्छु॒न्ध्यूरज॑हादु॒षा, अनः॑ ||{5/6}{10.138.5}{10.11.10.5}{8.7.26.5}{1509, 975, 10307}

अयु॑द्धऽसेनः¦वि॒ऽभ्वा᳚¦वि॒ऽभि॒न्द॒ता¦दाश॑त्¦वृ॒त्र॒ऽहा¦तुज्या᳚नि¦ते॒ज॒ते॒ |
इन्द्र॑स्य¦वज्रा᳚त्¦अ॒बि॒भे॒त्¦अ॒भि॒ऽश्नथः॑¦प्र¦अ॒क्रा॒म॒त्¦शु॒न्ध्यूः¦अज॑हात्¦उ॒षाः¦अनः॑ ||

ए॒ता त्या ते॒ श्रुत्या᳚नि॒ केव॑ला॒ यदेक॒ एक॒मकृ॑णोरय॒ज्ञम् |{औरवोंगः | इन्द्रः | जगती}

मा॒सां वि॒धान॑मदधा॒, अधि॒ द्यवि॒ त्वया॒ विभि᳚न्नं भरति प्र॒धिं पि॒ता ||{6/6}{10.138.6}{10.11.10.6}{8.7.26.6}{1510, 975, 10308}

ए॒ता¦त्या¦ते॒¦श्रुत्या᳚नि¦केव॑ला¦यत्¦एकः॑¦एक᳚‌म्¦अकृ॑णोः¦अ॒य॒ज्ञ‌म् |
मा॒सा‌म्¦वि॒ऽधान᳚‌म्¦अ॒द॒धाः॒¦अधि॑¦द्यवि॑¦त्वया᳚¦विऽभि᳚न्न‌म्¦भ॒र॒ति॒¦प्र॒ऽधि‌म्¦पि॒ता ||

[139] सूर्यरश्मिरिति षडृचस्य सूक्तस्य देवगंधर्वोविश्वावसुः सवितांत्यतिसृणां देवगंधर्वोविश्वावसुस्त्रिष्टुप् |
सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता᳚त्सवि॒ता ज्योति॒रुद॑याँ॒, अज॑स्रम् |{देवगंधर्वोविश्वावसुः | सविता | त्रिष्टुप्}

तस्य॑ पू॒षा प्र॑स॒वे या᳚ति वि॒द्वान्‌ त्स॒म्पश्य॒न्‌ विश्वा॒ भुव॑नानि गो॒पाः ||{1/6}{10.139.1}{10.11.11.1}{8.7.27.1}{1511, 976, 10309}

सूर्य॑ऽरश्मिः¦हरि॑ऽकेशः¦पु॒रस्ता᳚त्¦स॒वि॒ता¦ज्योतिः॑¦उत्¦अ॒या॒न्¦अज॑स्र‌म् |
तस्य॑¦पू॒षा¦प्र॒ऽस॒वे¦या॒ति¦वि॒द्वान्¦स॒‌म्ऽपश्य॑न्¦विश्वा᳚¦भुव॑नानि¦गो॒पाः ||

नृ॒चक्षा᳚, ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान्‌ रोद॑सी, अ॒न्तरि॑क्षम् |{देवगंधर्वोविश्वावसुः | सविता | त्रिष्टुप्}

स वि॒श्वाची᳚र॒भि च॑ष्टे घृ॒ताची᳚रन्त॒रा पूर्व॒मप॑रं च के॒तुम् ||{2/6}{10.139.2}{10.11.11.2}{8.7.27.2}{1512, 976, 10310}

नृ॒ऽचक्षाः᳚¦ए॒षः¦दि॒वः¦मध्ये᳚¦आ॒स्ते॒¦आ॒प॒प्रि॒ऽवान्¦रोद॑सी॒ इति॑¦अ॒न्तरि॑क्ष‌म् |
सः¦वि॒श्वाचीः᳚¦अ॒भि¦च॒ष्टि॒¦घृ॒ताचीः᳚¦अ॒न्त॒रा¦पूर्व᳚‌म्¦अप॑र‌म्¦च॒¦के॒तु‌म् ||

रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू᳚नां॒ विश्वा᳚ रू॒पाभि च॑ष्टे॒ शची᳚भिः |{देवगंधर्वोविश्वावसुः | सविता | त्रिष्टुप्}

दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे धना᳚नाम् ||{3/6}{10.139.3}{10.11.11.3}{8.7.27.3}{1513, 976, 10311}

रा॒यः¦बु॒ध्नः¦स॒‌म्ऽगम॑नः¦वसू᳚ना‌म्¦विश्वा᳚¦रू॒पा¦अ॒भि¦च॒ष्टे॒¦शची᳚भिः |
दे॒वःऽ‌इ᳚व¦स॒वि॒ता¦स॒त्यऽध᳚र्मा¦इन्द्रः॑¦न¦त॒स्थौ॒¦स॒‌म्।आ॒रे¦धना᳚ना‌म् ||

वि॒श्वाव॑सुं सोम गन्ध॒र्वमापो᳚ ददृ॒शुषी॒स्तदृ॒तेना॒ व्या᳚यन् |{देवगंधर्वोविश्वावसुः | देवगंधर्वोविश्वावसुः | त्रिष्टुप्}

तद॒न्ववै॒दिन्द्रो᳚ रारहा॒ण आ᳚सां॒ परि॒ सूर्य॑स्य परि॒धीँर॑पश्यत् ||{4/6}{10.139.4}{10.11.11.4}{8.7.27.4}{1514, 976, 10312}

वि॒श्वऽव॑सु‌म्¦सो॒म॒¦ग॒न्ध॒र्व‌म्¦आपः॑¦द॒दृ॒शुषीः᳚¦तत्¦ऋ॒तेन॑¦वि¦आ॒य॒न् |
तत्¦अ॒नु॒।आवै᳚त्¦इन्द्रः॑¦र॒र॒हा॒णः¦आ॒सा॒‌म्¦परि॑¦सूर्य॑स्य¦प॒रि॒ऽधीन्¦अ॒प॒श्य॒त् ||

वि॒श्वाव॑सुर॒भि तन्नो᳚ गृणातु दि॒व्यो ग᳚न्ध॒र्वो रज॑सो वि॒मानः॑ |{देवगंधर्वोविश्वावसुः | देवगंधर्वोविश्वावसुः | त्रिष्टुप्}

यद्वा᳚ घा स॒त्यमु॒त यन्न वि॒द्म धियो᳚ हिन्वा॒नो धिय॒ इन्नो᳚, अव्याः ||{5/6}{10.139.5}{10.11.11.5}{8.7.27.5}{1515, 976, 10313}

वि॒श्वऽव॑सुः¦अ॒भि¦तत्¦नः॒¦गृ॒णा॒तु॒¦दि॒व्यः¦ग॒न्ध॒र्वः¦रज॑सः¦वि॒ऽमानः॑ |
यत्¦वा॒¦घ॒¦स॒त्य‌म्¦उ॒त¦यत्¦न¦वि॒द्म¦धियः॑¦हि॒न्वा॒नः¦धियः॑¦इत्¦नः॒¦अ॒व्याः॒ ||

सस्नि॑मविन्द॒च्चर॑णे न॒दीना॒मपा᳚वृणो॒द्दुरो॒, अश्म᳚व्रजानाम् |{देवगंधर्वोविश्वावसुः | देवगंधर्वोविश्वावसुः | त्रिष्टुप्}

प्रासां᳚ गन्ध॒र्वो, अ॒मृता᳚नि वोच॒दिन्द्रो॒ दक्षं॒ परि॑ जानाद॒हीना᳚म् ||{6/6}{10.139.6}{10.11.11.6}{8.7.27.6}{1516, 976, 10314}

सस्नि᳚‌म्¦अ॒वि॒न्द॒त्¦चर॑णे¦न॒दीना᳚‌म्¦अप॑¦अ॒वृ॒णो॒त्¦दुरः॑¦अश्म॑ऽव्रजाना‌म् |
प्र¦आ॒सा॒‌म्¦ग॒न्ध॒र्वः¦अ॒मृता᳚नि¦वो॒च॒त्¦इन्द्रः॑¦दक्ष᳚‌म्¦परि॑¦जा॒ना॒त्¦अ॒हीना᳚‌म् ||

[140] अग्नेतवेति षडृचस्य सूक्तस्य पावकोग्निरग्निः सतोबृहती आध्येविष्टारपंक्ती अंत्योपरिष्टाज्ज्योतिः |
अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजन्ते, अ॒र्चयो᳚ विभावसो |{पावकोग्निः | अग्निः | विष्टारपङ्क्तिः}

बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्य१॑(अं॒) दधा᳚सि दा॒शुषे᳚ कवे ||{1/6}{10.140.1}{10.11.12.1}{8.7.28.1}{1517, 977, 10315}

अग्ने᳚¦तव॑¦श्रवः॑¦वयः॑¦महि॑¦भ्रा॒ज॒न्ते॒¦अ॒र्चयः॑¦वि॒भा॒व॒सो॒ इति॑ विभाऽवसो |
बृह॑द्भानो॒ इति॒ बृह॑त्ऽभानो¦शव॑सा¦वाज᳚‌म्¦उ॒क्थ्य᳚‌म्¦दधा᳚सि¦दा॒शुषे᳚¦क॒वे॒ ||

पा॒व॒कव॑र्चाः शु॒क्रव॑र्चा॒, अनू᳚नवर्चा॒, उदि॑यर्षि भा॒नुना᳚ |{पावकोग्निः | अग्निः | विष्टारपङ्क्तिः}

पु॒त्रो मा॒तरा᳚ वि॒चर॒न्नुपा᳚वसि पृ॒णक्षि॒ रोद॑सी, उ॒भे ||{2/6}{10.140.2}{10.11.12.2}{8.7.28.2}{1518, 977, 10316}

पा॒व॒कऽव॑र्चाः¦शु॒क्रऽव॑र्चाः¦अनू᳚नऽवर्चाः¦उत्¦इ॒य॒र्षि॒¦भा॒नुना᳚ |
पु॒त्रः¦मा॒तरा᳚¦वि॒ऽचर॑न्¦उ॒प॑¦अ॒व॒सि॒¦पृ॒णक्षि॑¦रोद॑सी॒ इति॑¦उ॒भे इति॑ ||

ऊर्जो᳚ नपाज्जातवेदः सुश॒स्तिभि॒र्मन्द॑स्व धी॒तिभि᳚र्हि॒तः |{पावकोग्निः | अग्निः | सतोबृहती}

त्वे, इषः॒ सं द॑धु॒र्भूरि॑वर्पसश्चि॒त्रोत॑यो वा॒मजा᳚ताः ||{3/6}{10.140.3}{10.11.12.3}{8.7.28.3}{1519, 977, 10317}

ऊर्जः॑¦न॒पा॒त्¦जा॒त॒ऽवे॒दः॒¦सु॒श॒स्तिऽभिः॑¦मन्द॑स्व¦धी॒तिऽभिः॑¦हि॒तः |
त्वे इति॑¦इषः॑¦स‌म्¦द॒धुः॒¦भूरि॑ऽवर्पसः¦चि॒त्रऽऊ᳚तयः¦वा॒मऽजा᳚ताः ||

इ॒र॒ज्यन्न॑ग्ने प्रथयस्व ज॒न्तुभि॑र॒स्मे रायो᳚, अमर्त्य |{पावकोग्निः | अग्निः | सतोबृहती}

स द॑र्श॒तस्य॒ वपु॑षो॒ वि रा᳚जसि पृ॒णक्षि॑ सान॒सिं क्रतु᳚म् ||{4/6}{10.140.4}{10.11.12.4}{8.7.28.4}{1520, 977, 10318}

इ॒र॒ज्यन्¦अ॒ग्ने॒¦प्र॒थ॒य॒स्व॒¦ज॒न्तुऽभिः॑¦अ॒स्मे इति॑¦रायः॑¦अ॒म॒र्त्य॒ |
सः¦द॒र्श॒तस्य॑¦वपु॑षः¦वि¦रा॒ज॒सि॒¦पृ॒णक्षि॑¦सा॒न॒सि‌म्¦क्रतु᳚‌म् ||

इ॒ष्क॒र्तार॑मध्व॒रस्य॒ प्रचे᳚तसं॒ क्षय᳚न्तं॒ राध॑सो म॒हः |{पावकोग्निः | अग्निः | सतोबृहती}

रा॒तिं वा॒मस्य॑ सु॒भगां᳚ म॒हीमिषं॒ दधा᳚सि सान॒सिं र॒यिम् ||{5/6}{10.140.5}{10.11.12.5}{8.7.28.5}{1521, 977, 10319}

इ॒ष्क॒र्तार᳚‌म्¦अ॒ध्व॒रस्य॑¦प्रऽचे᳚तस‌म्¦क्षय᳚न्त‌म्¦राध॑सः¦म॒हः |
रा॒ति‌म्¦वा॒मस्य॑¦सु॒ऽभगा᳚‌म्¦म॒ही‌म्¦इष᳚‌म्¦दधा᳚सि¦सा॒न॒सि‌म्¦र॒यि‌म् ||

ऋ॒तावा᳚नं महि॒षं वि॒श्वद॑र्शतम॒ग्निं सु॒म्नाय॑ दधिरे पु॒रो जनाः᳚ |{पावकोग्निः | अग्निः | परिष्टाज्ज्योतिः}

श्रुत्क᳚र्णं स॒प्रथ॑स्तमं त्वा गि॒रा दैव्यं॒ मानु॑षा यु॒गा ||{6/6}{10.140.6}{10.11.12.6}{8.7.28.6}{1522, 977, 10320}

ऋ॒तऽवा᳚न‌म्¦म॒हि॒ष‌म्¦वि॒श्वऽद॑र्शत‌म्¦अ॒ग्नि‌म्¦सु॒म्नाय॑¦द॒धि॒रे॒¦पु॒रः¦जनाः᳚ |
श्रुत्ऽक᳚र्ण‌म्¦स॒प्रथः॑ऽतम‌म्¦त्वा॒¦गि॒रा¦दैव्य᳚‌म्¦मानु॑षा¦यु॒गा ||

[141] अग्नेअच्छेति षडृचस्य सूक्तस्य तापसोग्निर्विश्वेदेवा अनुष्टुप् |
अग्ने॒, अच्छा᳚ वदे॒ह नः॑ प्र॒त्यङ्नः॑ सु॒मना᳚ भव |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्}

प्र नो᳚ यच्छ विशस्पते धन॒दा, अ॑सि न॒स्त्वम् ||{1/6}{10.141.1}{10.11.13.1}{8.7.29.1}{1523, 978, 10321}

अग्ने᳚¦अच्छ॑¦व॒द॒¦इ॒ह¦नः॒¦प्र॒त्यङ्¦नः॒¦सु॒ऽमनाः᳚¦भ॒व॒ | प्र¦नः॒¦य॒च्छ॒¦वि॒शः॒¦प॒ते॒¦ध॒न॒ऽदाः¦अ॒सि॒¦नः॒¦त्व‌म् ||

प्र नो᳚ यच्छत्वर्य॒मा प्र भगः॒ प्र बृह॒स्पतिः॑ |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्}

प्र दे॒वाः प्रोत सू॒नृता᳚ रा॒यो दे॒वी द॑दातु नः ||{2/6}{10.141.2}{10.11.13.2}{8.7.29.2}{1524, 978, 10322}

प्र¦नः॒¦य॒च्छ॒तु॒¦अ॒र्य॒मा¦प्र¦भगः॑¦प्र¦बृह॒स्पतिः॑ | प्र¦दे॒वाः¦प्र¦उ॒त¦सू॒नृता᳚¦रा॒यः¦दे॒वी¦द॒दा॒तु॒¦नः॒ ||

सोमं॒ राजा᳚न॒मव॑से॒ऽग्निं गी॒र्भिर्ह॑वामहे |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्}

आ॒दि॒त्यान्‌ विष्णुं॒ सूर्यं᳚ ब्र॒ह्माणं᳚ च॒ बृह॒स्पति᳚म् ||{3/6}{10.141.3}{10.11.13.3}{8.7.29.3}{1525, 978, 10323}

सोम᳚‌म्¦राजा᳚न‌म्¦अव॑से¦अ॒ग्नि‌म्¦गीः॒ऽभिः¦ह॒वा॒म॒हे॒ | आ॒दि॒त्यान्¦विष्णु᳚‌म्¦सूर्य᳚‌म्¦ब्र॒ह्माण᳚‌म्¦च॒¦बृह॒स्पति᳚‌म् ||

इ॒न्द्र॒वा॒यू बृह॒स्पतिं᳚ सु॒हवे॒ह ह॑वामहे |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्}

यथा᳚ नः॒ सर्व॒ इज्जनः॒ संग॑त्यां सु॒मना॒, अस॑त् ||{4/6}{10.141.4}{10.11.13.4}{8.7.29.4}{1526, 978, 10324}

इ॒न्द्र॒वा॒यू इति॑¦बृह॒स्पति᳚‌म्¦सु॒ऽहवा᳚¦इ॒ह¦ह॒वा॒म॒हे॒ | यथा᳚¦नः॒¦सर्वः॑¦इत्¦जनः॑¦स‌म्ऽग॑त्या‌म्¦सु॒ऽमनाः᳚¦अस॑त् ||

अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना᳚य चोदय |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्}

वातं॒ विष्णुं॒ सर॑स्वतीं सवि॒तारं᳚ च वा॒जिन᳚म् ||{5/6}{10.141.5}{10.11.13.5}{8.7.29.5}{1527, 978, 10325}

अ॒र्य॒मण᳚‌म्¦बृह॒स्पति᳚‌म्¦इन्द्र᳚‌म्¦दाना᳚य¦चो॒द॒य॒ | वात᳚‌म्¦विष्णु᳚‌म्¦सर॑स्वती‌म्¦स॒वि॒तार᳚‌म्¦च॒¦वा॒जिन᳚‌म् ||

त्वं नो᳚, अग्ने, अ॒ग्निभि॒र्ब्रह्म॑ य॒ज्ञं च॑ वर्धय |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्}

त्वं नो᳚ दे॒वता᳚तये रा॒यो दाना᳚य चोदय ||{6/6}{10.141.6}{10.11.13.6}{8.7.29.6}{1528, 978, 10326}

त्व‌म्¦नः॒¦अ॒ग्ने॒¦अ॒ग्निऽभिः॑¦ब्रह्म॑¦य॒ज्ञ‌म्¦च॒¦व॒र्ध॒य॒ | त्व‌म्¦नः॒¦दे॒वऽता᳚तये¦रा॒यः¦दाना᳚य¦चो॒द॒य॒ ||

[142] अयमग्नइत्यष्टर्चस्य सूक्तस्य प्रथमयोः शार्ङ्गोजरिता तृतीयाचतुर्थ्योः शार्ङ्गोद्रोणः पंचमीषष्ट्योः शार्ङ्गःसारिसृक्कः सप्तम्यष्टम्योः शार्ङ्गस्तम्बमित्रोग्निस्त्रिष्टुप् आद्येजगत्यावंत्येअनुष्टुभौ |
अ॒यम॑ग्ने जरि॒ता त्वे, अ॑भू॒दपि॒ सह॑सः सूनो न॒ह्य१॑(अ॒)न्यदस्त्याप्य᳚म् |{शार्ङ्गोजरिताः | अग्निः | जगती}

भ॒द्रं हि शर्म॑ त्रि॒वरू᳚थ॒मस्ति॑ त आ॒रे हिंसा᳚ना॒मप॑ दि॒द्युमा कृ॑धि ||{1/8}{10.142.1}{10.11.14.1}{8.7.30.1}{1529, 979, 10327}

अ॒य‌म्¦अ॒ग्ने॒¦ज॒रि॒ता¦त्वे इति॑¦अ॒भू॒त्¦अपि॑¦सह॑सः¦सू॒नो॒ इति॑¦न॒हि¦अ॒न्यत्¦अस्ति॑¦आप्य᳚‌म् |
भ॒द्र‌म्¦हि¦शर्म॑¦त्रि॒ऽवरू᳚थ‌म्¦अस्ति॑¦ते॒¦आ॒रे¦हिंसा᳚ना‌म्¦अप॑¦दि॒द्यु‌म्¦आ¦कृ॒धि॒ ||

प्र॒वत्ते᳚, अग्ने॒ जनि॑मा पितूय॒तः सा॒चीव॒ विश्वा॒ भुव॑ना॒ न्यृ᳚ञ्जसे |{शार्ङ्गोजरिताः | अग्निः | जगती}

प्र सप्त॑यः॒ प्र स॑निषन्त नो॒ धियः॑ पु॒रश्च॑रन्ति पशु॒पा, इ॑व॒ त्मना᳚ ||{2/8}{10.142.2}{10.11.14.2}{8.7.30.2}{1530, 979, 10328}

प्र॒ऽवत्¦ते॒¦अ॒ग्ने॒¦जनि॑म¦पि॒तु॒ऽय॒तः¦सा॒चीऽ‌इ᳚व¦विश्वा᳚¦भुव॑ना¦नि¦ऋं॒ज॒से॒ |
प्र¦सप्त॑यः¦प्र¦स॒नि॒ष॒न्त॒¦नः॒¦धियः॑¦पु॒रः¦च॒र॒न्ति॒¦प॒शु॒ऽपाःऽ‌इ᳚व¦त्मना᳚ ||

उ॒त वा, उ॒ परि॑ वृणक्षि॒ बप्स॑द्ब॒होर॑ग्न॒ उल॑पस्य स्वधावः |{शार्ङ्गोद्रोणः | अग्निः | त्रिष्टुप्}

उ॒त खि॒ल्या, उ॒र्वरा᳚णां भवन्ति॒ मा ते᳚ हे॒तिं तवि॑षीं चुक्रुधाम ||{3/8}{10.142.3}{10.11.14.3}{8.7.30.3}{1531, 979, 10329}

उ॒त¦वा॒¦ऊँ॒ इति॑¦परि॑¦वृ॒ण॒क्षि॒¦बप्स॑त्¦ब॒होः¦अ॒ग्ने॒¦उल॑पस्य¦स्व॒धा॒ऽवः॒ |
उ॒त¦खि॒ल्याः¦उ॒र्वरा᳚णा‌म्¦भ॒व॒न्ति॒¦मा¦ते॒¦हे॒ति‌म्¦तवि॑षी‌म्¦चु॒क्रु॒धा॒म॒ ||

यदु॒द्वतो᳚ नि॒वतो॒ यासि॒ बप्स॒त्‌ पृथ॑गेषि प्रग॒र्धिनी᳚व॒ सेना᳚ |{शार्ङ्गोद्रोणः | अग्निः | त्रिष्टुप्}

य॒दा ते॒ वातो᳚, अनु॒वाति॑ शो॒चिर्वप्ते᳚व॒ श्मश्रु॑ वपसि॒ प्र भूम॑ ||{4/8}{10.142.4}{10.11.14.4}{8.7.30.4}{1532, 979, 10330}

यत्¦उ॒त्ऽवतः॑¦नि॒ऽवतः॑¦या॒सि॒¦बप्स॑त्¦पृथ॑क्¦ए॒षि॒¦प्र॒ग॒र्धिनी᳚ऽ‌इव¦सेना᳚ |
य॒दा¦ते॒¦वातः॑¦अ॒नु॒ऽवाति॑¦शो॒चिः¦वप्ता᳚ऽ‌इव¦श्मश्रु॑¦व॒प॒सि॒¦प्र¦भूम॑ ||

प्रत्य॑स्य॒ श्रेण॑यो ददृश्र॒ एकं᳚ नि॒यानं᳚ ब॒हवो॒ रथा᳚सः |{शार्ङ्गःसारिसृक्कः | अग्निः | त्रिष्टुप्}

बा॒हू यद॑ग्ने, अनु॒मर्मृ॑जानो॒ न्य᳚ङ्ङुत्ता॒नाम॒न्वेषि॒ भूमि᳚म् ||{5/8}{10.142.5}{10.11.14.5}{8.7.30.5}{1533, 979, 10331}

प्रति॑¦अ॒स्य॒¦श्रेण॑यः¦द॒दृ॒श्रे॒¦एक᳚‌म्¦नि॒ऽयान᳚‌म्¦ब॒हवः॑¦रथा᳚सः |
बा॒हू इति॑¦यत्¦अ॒ग्ने॒¦अ॒नु॒ऽमर्मृ॑जानः¦न्य᳚ङ्¦उ॒त्ता॒ना‌म्¦अ॒नु॒ऽएषि॑¦भूमि᳚‌म् ||

उत्ते॒ शुष्मा᳚ जिहता॒मुत्ते᳚, अ॒र्चिरुत्ते᳚, अग्ने शशमा॒नस्य॒ वाजाः᳚ |{शार्ङ्गःसारिसृक्कः | अग्निः | त्रिष्टुप्}

उच्छ्व᳚ञ्चस्व॒ नि न॑म॒ वर्ध॑मान॒ आ त्वा॒द्य विश्वे॒ वस॑वः सदन्तु ||{6/8}{10.142.6}{10.11.14.6}{8.7.30.6}{1534, 979, 10332}

उत्¦ते॒¦शुष्माः᳚¦जि॒ह॒ता॒‌म्¦उत्¦ते॒¦अ॒र्चिः¦उत्¦ते॒¦अ॒ग्ने॒¦श॒श॒मा॒नस्य॑¦वाजाः᳚ |
उत्¦श्वं॒च॒स्व॒¦नि¦न॒म॒¦वर्ध॑मानः¦आ¦त्वा॒¦अ॒द्य¦विश्वे᳚¦वस॑वः¦स॒द॒न्तु॒ ||

अ॒पामि॒दं न्यय॑नं समु॒द्रस्य॑ नि॒वेश॑नम् |{शार्ङ्गस्तम्बमित्रः | अग्निः | अनुष्टुप्}

अ॒न्यं कृ॑णुष्वे॒तः पन्थां॒ तेन॑ याहि॒ वशाँ॒, अनु॑ ||{7/8}{10.142.7}{10.11.14.7}{8.7.30.7}{1535, 979, 10333}

अ॒पा‌म्¦इ॒द‌म्¦नि॒।आय॑न‌म्¦स॒मु॒द्रस्य॑¦नि॒ऽवेश॑न‌म् | अ॒न्य‌म्¦कृ॒णु॒ष्व॒¦इ॒तः¦पन्था᳚‌म्¦तेन॑¦या॒हि॒¦वशा᳚न्¦अनु॑ ||

आय॑ने ते प॒राय॑णे॒ दूर्वा᳚ रोहन्तु पु॒ष्पिणीः᳚ |{शार्ङ्गस्तम्बमित्रः | अग्निः | अनुष्टुप्}

ह्र॒दाश्च॑ पु॒ण्डरी᳚काणि समु॒द्रस्य॑ गृ॒हा, इ॒मे ||{8/8}{10.142.8}{10.11.14.8}{8.7.30.8}{1536, 979, 10334}

आ॒।आय॑ने¦ते॒¦प॒रा॒।आय॑ने¦दूर्वाः᳚¦रो॒ह॒न्तु॒¦पु॒ष्पिणीः᳚ | ह्र॒दाः¦च॒¦पु॒ण्डरी᳚काणि¦स॒मु॒द्रस्य॑¦गृ॒हाः¦इ॒मे ||

[143] त्यंचिदिति षडृचस्य सूक्तस्य सांख्योत्रिरश्विनावनुष्टुप् |
त्यं चि॒दत्रि॑मृत॒जुर॒मर्थ॒मश्वं॒ न यात॑वे |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्}

क॒क्षीव᳚न्तं॒ यदी॒ पुना॒ रथं॒ न कृ॑णु॒थो नव᳚म् ||{1/6}{10.143.1}{10.11.15.1}{8.8.1.1}{1537, 980, 10335}

त्य‌म्¦चि॒त्¦अत्रि᳚‌म्¦ऋ॒त॒ऽजुर᳚‌म्¦अर्थ᳚‌म्¦अश्व᳚‌म्¦न¦यात॑वे | क॒क्षीव᳚न्त‌म्¦यदि॑¦पुन॒रिति॑¦रथ᳚‌म्¦न¦कृ॒णु॒थः¦नव᳚‌म् ||

त्यं चि॒दश्वं॒ न वा॒जिन॑मरे॒णवो॒ यमत्न॑त |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्}

दृ॒ळ्हं ग्र॒न्थिं न वि ष्य॑त॒मत्रिं॒ यवि॑ष्ठ॒मा रजः॑ ||{2/6}{10.143.2}{10.11.15.2}{8.8.1.2}{1538, 980, 10336}

त्य‌म्¦चि॒त्¦अश्व᳚‌म्¦न¦वा॒जिन᳚‌म्¦अ॒रे॒णवः॑¦य‌म्¦अत्न॑त | दृ॒ळ्ह‌म्¦ग्र॒न्थि‌म्¦न¦वि¦स्य॒त॒‌म्¦अत्रि᳚‌म्¦यवि॑ष्ठ‌म्¦आ¦रजः॑ ||

नरा॒ दंसि॑ष्ठा॒वत्र॑ये॒ शुभ्रा॒ सिषा᳚सतं॒ धियः॑ |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्}

अथा॒ हि वां᳚ दि॒वो न॑रा॒ पुनः॒ स्तोमो॒ न वि॒शसे᳚ ||{3/6}{10.143.3}{10.11.15.3}{8.8.1.3}{1539, 980, 10337}

नरा᳚¦दंसि॑ष्ठौ¦अत्र॑ये¦शुभ्रा᳚¦सिसा᳚सत‌म्¦धियः॑ | अथ॑¦हि¦वा॒‌म्¦दि॒वः¦न॒रा॒¦पुन॒रिति॑¦स्तोमः॑¦न¦वि॒शसे᳚ ||

चि॒ते तद्वां᳚ सुराधसा रा॒तिः सु॑म॒तिर॑श्विना |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्}

आ यन्नः॒ सद॑ने पृ॒थौ सम॑ने॒ पर्ष॑थो नरा ||{4/6}{10.143.4}{10.11.15.4}{8.8.1.4}{1540, 980, 10338}

चि॒ते¦तत्¦वा॒‌म्¦सु॒ऽरा॒ध॒सा॒¦रा॒तिः¦सु॒ऽम॒तिः¦अ॒श्वि॒ना॒ | आ¦यत्¦नः॒¦सद॑ने¦पृ॒थौ¦सम॑ने¦पर्ष॑थः¦न॒रा॒ ||

यु॒वं भु॒ज्युं स॑मु॒द्र आ रज॑सः पा॒र ई᳚ङ्खि॒तम् |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्}

या॒तमच्छा᳚ पत॒त्रिभि॒र्नास॑त्या सा॒तये᳚ कृतम् ||{5/6}{10.143.5}{10.11.15.5}{8.8.1.5}{1541, 980, 10339}

यु॒व‌म्¦भु॒ज्यु‌म्¦स॒मु॒द्रे¦आ¦रज॑सः¦पा॒रे¦ई॒ङ्खि॒त‌म् | या॒त‌म्¦अच्छ॑¦प॒त॒त्रिऽभिः॑¦नास॑त्या¦सा॒तये᳚¦कृ॒त॒‌म् ||

आ वां᳚ सु॒म्नैः शं॒यू, इ॑व॒ मंहि॑ष्ठा॒ विश्व॑वेदसा |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्}

सम॒स्मे भू᳚षतं न॒रोत्सं॒ न पि॒प्युषी॒रिषः॑ ||{6/6}{10.143.6}{10.11.15.6}{8.8.1.6}{1542, 980, 10340}

आ¦वा॒‌म्¦सु॒म्नैः¦शं॒यू इ॒वेति॑ शं॒यूऽ‌इ᳚व¦मंहि॑ष्ठा¦विश्व॑ऽवेदसा | स‌म्¦अ॒स्मे इति॑¦भू॒ष॒त॒‌म्¦न॒रा॒¦उत्स᳚‌म्¦न¦पि॒प्युषीः᳚¦इषः॑ ||

[144] अयंहीति षडृचस्य सूक्तस्य तार्क्ष्यपुत्रः सुपर्णइंद्रो गायत्री द्वितीयाबृहती पंचमीसतोबृहती षष्ठीविष्टारपंक्तिः (यामायन ऊर्ध्वकृशनोवात्रऋषिः) |
अ॒यं हि ते॒, अम॑र्त्य॒ इन्दु॒रत्यो॒ न पत्य॑ते |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | गायत्री}

दक्षो᳚ वि॒श्वायु᳚र्वे॒धसे᳚ ||{1/6}{10.144.1}{10.11.16.1}{8.8.2.1}{1543, 981, 10341}

अ॒य‌म्¦हि¦ते॒¦अम॑र्त्यः¦इन्दुः॑¦अत्यः॑¦न¦पत्य॑ते | दक्षः॑¦वि॒श्वऽआ᳚युः¦वे॒धसे᳚ ||

अ॒यम॒स्मासु॒ काव्य॑ ऋ॒भुर्वज्रो॒ दास्व॑ते |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | बृहती^इहती}

अ॒यं बि॑भर्त्यू॒र्ध्वकृ॑शनं॒ मद॑मृ॒भुर्न कृत्व्यं॒ मद᳚म् ||{2/6}{10.144.2}{10.11.16.2}{8.8.2.2}{1544, 981, 10342}

अ॒य‌म्¦अ॒स्मासु॑¦काव्यः॑¦ऋ॒भुः¦वज्रः॑¦दास्व॑ते |
अ॒य‌म्¦बि॒भ॒र्ति॒¦ऊ॒र्ध्वऽकृ॑शन‌म्¦मद᳚‌म्¦ऋ॒भुः¦न¦कृत्व्य᳚‌म्¦मद᳚‌म् ||

घृषुः॑ श्ये॒नाय॒ कृत्व॑न आ॒सु स्वासु॒ वंस॑गः |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | गायत्री}

अव॑ दीधेदही॒शुवः॑ ||{3/6}{10.144.3}{10.11.16.3}{8.8.2.3}{1545, 981, 10343}

घृषुः॑¦श्ये॒नाय॑¦कृत्व॑ने¦आ॒सु¦स्वासु॑¦वंस॑गः | अव॑¦दी॒धे॒त्¦अ॒ही॒शुवः॑ ||

यं सु॑प॒र्णः प॑रा॒वतः॑ श्ये॒नस्य॑ पु॒त्र आभ॑रत् |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | गायत्री}

श॒तच॑क्रं॒ यो॒३॑(ओ॒)ऽह्यो᳚ वर्त॒निः ||{4/6}{10.144.4}{10.11.16.4}{8.8.2.4}{1546, 981, 10344}

य‌म्¦सु॒ऽप॒र्णः¦प॒रा॒ऽवतः॑¦श्ये॒नस्य॑¦पु॒त्रः¦आ¦अभ॑रत् | श॒तऽच॑क्र‌म्¦यः¦अ॒ह्यः॑¦व॒र्त॒निः ||

यं ते᳚ श्ये॒नश्चारु॑मवृ॒कं प॒दाभ॑रदरु॒णं मा॒नमन्ध॑सः |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | सतोबृहती}

ए॒ना वयो॒ वि ता॒र्यायु॑र्जी॒वस॑ ए॒ना जा᳚गार ब॒न्धुता᳚ ||{5/6}{10.144.5}{10.11.16.5}{8.8.2.5}{1547, 981, 10345}

य‌म्¦ते॒¦श्ये॒नः¦चारु᳚‌म्¦अ॒वृ॒क‌म्¦प॒दा¦आ¦अभ॑रत्¦अ॒रु॒ण‌म्¦मा॒न‌म्¦अन्ध॑सः |
ए॒ना¦वयः॑¦वि¦ता॒रि॒¦आयुः॑¦जी॒वसे᳚¦ए॒ना¦जा॒गा॒र॒¦ब॒न्धुता᳚ ||

ए॒वा तदिन्द्र॒ इन्दु॑ना दे॒वेषु॑ चिद्धारयाते॒ महि॒ त्यजः॑ |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | विष्टारपङ्क्तिः}

क्रत्वा॒ वयो॒ वि ता॒र्यायुः॑ सुक्रतो॒ क्रत्वा॒यम॒स्मदा सु॒तः ||{6/6}{10.144.6}{10.11.16.6}{8.8.2.6}{1548, 981, 10346}

ए॒व¦तत्¦इन्द्रः॑¦इन्दु॑ना¦दे॒वेषु॑¦चि॒त्¦धा॒र॒या॒ते॒¦महि॑¦त्यजः॑ |
क्रत्वा᳚¦वयः॑¦वि¦ता॒रि॒¦आयुः॑¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो¦क्रत्वा᳚¦अ॒य‌म्¦अ॒स्मत्¦आ¦सु॒तः ||

[145] इमामिति षडृचस्य सूक्तस्येंद्राणीसपत्नीनाशनमनुष्टुबंत्यापंक्तिः |
इ॒मां ख॑ना॒म्योष॑धिं वी॒रुधं॒ बल॑वत्तमाम् |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | अनुष्टुप्}

यया᳚ स॒पत्नीं॒ बाध॑ते॒ यया᳚ संवि॒न्दते॒ पति᳚म् ||{1/6}{10.145.1}{10.11.17.1}{8.8.3.1}{1549, 982, 10347}

इ॒मा‌म्¦ख॒ना॒मि॒¦ओष॑धि‌म्¦वी॒रुध᳚‌म्¦बल॑वत्ऽतमा‌म् | यया᳚¦स॒ऽपत्नी᳚‌म्¦बाध॑ते¦यया᳚¦स॒‌म्ऽवि॒न्दते᳚¦पति᳚‌म् ||

उत्ता᳚नपर्णे॒ सुभ॑गे॒ देव॑जूते॒ सह॑स्वति |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | अनुष्टुप्}

स॒पत्नीं᳚ मे॒ परा᳚ धम॒ पतिं᳚ मे॒ केव॑लं कुरु ||{2/6}{10.145.2}{10.11.17.2}{8.8.3.2}{1550, 982, 10348}

उत्ता᳚नऽपर्णे¦सुऽभ॑गे¦देव॑ऽजूते¦सह॑स्वति | स॒ऽपत्नी᳚‌म्¦मे॒¦परा᳚¦ध॒म॒¦पति᳚‌म्¦मे॒¦केव॑ल‌म्¦कु॒रु॒ ||

उत्त॑रा॒हमु॑त्तर॒ उत्त॒रेदुत्त॑राभ्यः |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | अनुष्टुप्}

अथा᳚ स॒पत्नी॒ या ममाध॑रा॒ साध॑राभ्यः ||{3/6}{10.145.3}{10.11.17.3}{8.8.3.3}{1551, 982, 10349}

उत्ऽत॑रा¦अ॒ह‌म्¦उ॒त्ऽत॒रे॒¦उ॒त्ऽत॒रा¦इत्¦उत्ऽत॑राभ्यः | अथ॑¦स॒ऽपत्नी᳚¦या¦मम॑¦अध॑रा¦सा¦अध॑राभ्यः ||

न॒ह्य॑स्या॒ नाम॑ गृ॒भ्णामि॒ नो, अ॒स्मिन्‌ र॑मते॒ जने᳚ |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | अनुष्टुप्}

परा᳚मे॒व प॑रा॒वतं᳚ स॒पत्नीं᳚ गमयामसि ||{4/6}{10.145.4}{10.11.17.4}{8.8.3.4}{1552, 982, 10350}

न॒हि¦अ॒स्याः॒¦नाम॑¦गृ॒भ्णामि॑¦नो इति॑¦अ॒स्मिन्¦र॒म॒ते॒¦जने᳚ | परा᳚‌म्¦ए॒व¦प॒रा॒ऽवत᳚‌म्¦स॒ऽपत्नी᳚‌म्¦ग॒म॒या॒म॒सि॒ ||

अ॒हम॑स्मि॒ सह॑मा॒नाथ॒ त्वम॑सि सास॒हिः |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | अनुष्टुप्}

उ॒भे सह॑स्वती भू॒त्वी स॒पत्नीं᳚ मे सहावहै ||{5/6}{10.145.5}{10.11.17.5}{8.8.3.5}{1553, 982, 10351}

अ॒ह‌म्¦अ॒स्मि॒¦सह॑माना¦अथ॑¦त्व‌म्¦अ॒सि॒¦स॒स॒हिः | उ॒भे इति॑¦सह॑स्वती॒ इति॑¦भू॒त्वी¦स॒ऽपत्नी᳚‌म्¦मे॒¦स॒हा॒व॒है॒ ||

उप॑ तेऽधां॒ सह॑मानाम॒भि त्वा᳚धां॒ सही᳚यसा |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | पङ्क्तिः}

मामनु॒ प्र ते॒ मनो᳚ व॒त्सं गौरि॑व धावतु प॒था वारि॑व धावतु ||{6/6}{10.145.6}{10.11.17.6}{8.8.3.6}{1554, 982, 10352}

उप॑¦ते॒¦अ॒धा॒‌म्¦सह॑माना‌म्¦अ॒भि¦त्वा॒¦अ॒धा॒‌म्¦सही᳚यसा |
मा‌म्¦अनु॑¦प्र¦ते॒¦मनः॑¦व॒त्स‌म्¦गौःऽ‌इ᳚व¦धा॒व॒तु॒¦प॒था¦वाःऽ‌इ᳚व¦धा॒व॒तु॒ ||

[146] अरण्यानीति षडृचस्य सूक्तस्यैरंमदोदेवमुनिररण्यान्यनुष्टुप् |
अर᳚ण्या॒न्यर᳚ण्यान्य॒सौ या प्रेव॒ नश्य॑सि |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्}

क॒था ग्रामं॒ न पृ॑च्छसि॒ न त्वा॒ भीरि॑व विन्दती३ँ ||{1/6}{10.146.1}{10.11.18.1}{8.8.4.1}{1555, 983, 10353}

अर᳚ण्यानि¦अर᳚ण्यान्यि¦अ॒सौ¦या¦प्रऽ‌इ᳚व¦नश्य॑सि | क॒था¦ग्राम᳚‌म्¦न¦पृ॒च्छ॒सि॒¦न¦त्वा॒¦भीःऽ‌इ᳚व¦वि॒न्द॒तीँ॒३ ||

वृ॒षा॒र॒वाय॒ वद॑ते॒ यदु॒पाव॑ति चिच्चि॒कः |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्}

आ॒घा॒टिभि॑रिव धा॒वय᳚न्नरण्या॒निर्म॑हीयते ||{2/6}{10.146.2}{10.11.18.2}{8.8.4.2}{1556, 983, 10354}

वृ॒षा॒ऽर॒वाय॑¦वद॑ते¦यत्¦उ॒प॒।आव॑ति¦चि॒च्चि॒कः | आ॒घा॒टिभिः॑ऽ‌इव¦धा॒वय॑न्¦अ॒र॒ण्या॒निः¦म॒ही॒य॒ते॒ ||

उ॒त गाव॑ इवादन्त्यु॒त वेश्मे᳚व दृश्यते |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्}

उ॒तो, अ॑रण्या॒निः सा॒यं श॑क॒टीरि॑व सर्जति ||{3/6}{10.146.3}{10.11.18.3}{8.8.4.3}{1557, 983, 10355}

उ॒त¦गावः॑ऽ‌इव¦अ॒द॒न्ति॒¦उ॒त¦वेश्म॑ऽ‌इव¦दृ॒श्य॒ते॒ | उ॒तो इति॑¦अ॒र॒ण्या॒निः¦सा॒य‌म्¦श॒क॒टीःऽ‌इ᳚व¦स॒र्ज॒ति॒ ||

गाम॒ङ्गैष आ ह्व॑यति॒ दार्व॒ङ्गैषो, अपा᳚वधीत् |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्}

वस᳚न्नरण्या॒न्यां सा॒यमक्रु॑क्ष॒दिति॑ मन्यते ||{4/6}{10.146.4}{10.11.18.4}{8.8.4.4}{1558, 983, 10356}

गा‌म्¦अ॒ङ्ग¦ए॒षः¦आ¦ह्व॒य॒ति॒¦दारु॑¦अ॒ङ्ग¦ए॒षः¦अप॑¦अ॒व॒धी॒त् | वस॑न्¦अ॒र॒ण्या॒न्या‌म्¦सा॒य‌म्¦अक्रु॑क्षत्¦इति॑¦म॒न्य॒ते॒ ||

न वा, अ॑रण्या॒निर्ह᳚न्त्य॒न्यश्चेन्नाभि॒गच्छ॑ति |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्}

स्वा॒दोः फल॑स्य ज॒ग्ध्वाय॑ यथा॒कामं॒ नि प॑द्यते ||{5/6}{10.146.5}{10.11.18.5}{8.8.4.5}{1559, 983, 10357}

न¦वै¦अ॒र॒ण्या॒निः¦ह॒न्ति॒¦अ॒न्यः¦च॒¦इत्¦न¦अ॒भि॒ऽगच्छ॑ति | स्वा॒दोः¦फल॑स्य¦ज॒ग्ध्वाय॑¦य॒था॒ऽकाम᳚‌म्¦नि¦प॒द्य॒ते॒ ||

आञ्ज॑नगन्धिं सुर॒भिं ब॑ह्व॒न्नामकृ॑षीवलाम् |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्}

प्राहं मृ॒गाणां᳚ मा॒तर॑मरण्या॒निम॑शंसिषम् ||{6/6}{10.146.6}{10.11.18.6}{8.8.4.6}{1560, 983, 10358}

आंज॑नऽगन्धि‌म्¦सु॒र॒भि‌म्¦ब॒हु॒।आ॒न्ना‌म्¦अकृ॑षिऽवला‌म् | प्र¦अ॒ह‌म्¦मृ॒गाणा᳚‌म्¦मा॒तर᳚‌म्¦अ॒र॒ण्या॒नि‌म्¦अ॒शं॒सि॒ष॒‌म् ||

[147] श्रत्तइति पंचर्चस्य सूक्तस्य शैरीषिः सुवेदाइंद्रोजगत्यंत्यात्रिष्टुप् |
श्रत्ते᳚ दधामि प्रथ॒माय॑ म॒न्यवेऽह॒न्यद्वृ॒त्रं नर्यं᳚ वि॒वेर॒पः |{शैरीषिः सुवेदाः | इन्द्रः | जगती}

उ॒भे यत्‌ त्वा॒ भव॑तो॒ रोद॑सी॒, अनु॒ रेज॑ते॒ शुष्मा᳚त्‌ पृथि॒वी चि॑दद्रिवः ||{1/5}{10.147.1}{10.11.19.1}{8.8.5.1}{1561, 984, 10359}

श्रत्¦ते॒¦द॒धा॒मि॒¦प्र॒थ॒माय॑¦म॒न्यवे᳚¦अह॑न्¦यत्¦वृ॒त्र‌म्¦नर्य᳚‌म्¦वि॒वेः¦अ॒पः |
उ॒भे इति॑¦यत्¦त्वा॒¦भव॑तः¦रोद॑सी॒ इति॑¦अनु॑¦रेज॑ते¦शुष्मा᳚त्¦पृ॒थि॒वी¦चि॒त्¦अ॒द्रि॒ऽवः॒ ||

त्वं मा॒याभि॑रनवद्य मा॒यिनं᳚ श्रवस्य॒ता मन॑सा वृ॒त्रम॑र्दयः |{शैरीषिः सुवेदाः | इन्द्रः | जगती}

त्वामिन्नरो᳚ वृणते॒ गवि॑ष्टिषु॒ त्वां विश्वा᳚सु॒ हव्या॒स्विष्टि॑षु ||{2/5}{10.147.2}{10.11.19.2}{8.8.5.2}{1562, 984, 10360}

त्व‌म्¦मा॒याभिः॑¦अ॒न॒व॒द्य॒¦मा॒यिन᳚‌म्¦श्र॒व॒स्य॒ता¦मन॑सा¦वृ॒त्र‌म्¦अ॒र्द॒य॒ |
त्वा‌म्¦इत्¦नरः॑¦वृ॒ण॒ते॒¦गवि॑ष्टिषु¦त्वा‌म्¦विश्वा᳚सु¦हव्या᳚सु¦इष्टि॑षु ||

ऐषु॑ चाकन्धि पुरुहूत सू॒रिषु॑ वृ॒धासो॒ ये म॑घवन्नान॒शुर्म॒घम् |{शैरीषिः सुवेदाः | इन्द्रः | जगती}

अर्च᳚न्ति तो॒के तन॑ये॒ परि॑ष्टिषु मे॒धसा᳚ता वा॒जिन॒मह्र॑ये॒ धने᳚ ||{3/5}{10.147.3}{10.11.19.3}{8.8.5.3}{1563, 984, 10361}

आ¦ए॒षु॒¦चा॒क॒न्धि॒¦पु॒रु॒ऽहू॒त॒¦सू॒रिषु॑¦वृ॒धासः॑¦ये¦म॒घ॒ऽव॒न्¦आ॒न॒शुः¦म॒घ‌म् |
अर्च᳚न्ति¦तो॒के¦तन॑ये¦परि॑ष्टिषु¦मे॒धऽसा᳚ता¦वा॒जिन᳚‌म्¦अह्व॑ये¦धने᳚ ||

स इन्नु रा॒यः सुभृ॑तस्य चाकन॒न्मदं॒ यो, अ॑स्य॒ रंह्यं॒ चिके᳚तति |{शैरीषिः सुवेदाः | इन्द्रः | जगती}

त्वावृ॑धो मघवन्दा॒श्व॑ध्वरो म॒क्षू स वाजं᳚ भरते॒ धना॒ नृभिः॑ ||{4/5}{10.147.4}{10.11.19.4}{8.8.5.4}{1564, 984, 10362}

सः¦इत्¦नु¦रा॒यः¦सुऽभृ॑तस्य¦चा॒क॒न॒त्¦मद᳚‌म्¦यः¦अ॒स्य॒¦रंह्य᳚‌म्¦चिके᳚तति |
त्वाऽवृ॑धः¦म॒घ॒ऽव॒न्¦दा॒शु।आ॑ध्वरः¦म॒क्षु¦सः¦वाज᳚‌म्¦भ॒र॒ते॒¦धना᳚¦नृऽभिः॑ ||

त्वं शर्धा᳚य महि॒ना गृ॑णा॒न उ॒रु कृ॑धि मघवञ्छ॒ग्धि रा॒यः |{शैरीषिः सुवेदाः | इन्द्रः | त्रिष्टुप्}

त्वं नो᳚ मि॒त्रो वरु॑णो॒ न मा॒यी पि॒त्वो न द॑स्म दयसे विभ॒क्ता ||{5/5}{10.147.5}{10.11.19.5}{8.8.5.5}{1565, 984, 10363}

त्व‌म्¦शर्धा᳚य¦म॒हि॒ना¦गृ॒णा॒नः¦उ॒रु¦कृ॒धि॒¦म॒घ॒ऽव॒न्¦श॒ग्धि¦रा॒यः |
त्व‌म्¦नः॒¦मि॒त्रः¦वरु॑णः¦न¦मा॒यी¦पि॒त्वः¦न¦द॒स्म॒¦द॒य॒से॒¦वि॒ऽभ॒क्ता ||

[148] सुष्वाणासइति पंचर्चस्य सूक्तस्य वैन्यः पृथुरिंद्रस्त्रिष्टुप् |
सु॒ष्वा॒णास॑ इन्द्र स्तु॒मसि॑ त्वा सस॒वांस॑श्च तुविनृम्ण॒ वाज᳚म् |{वैन्यः पृथुः | इन्द्रः | त्रिष्टुप्}

आ नो᳚ भर सुवि॒तं यस्य॑ चा॒कन्त्मना॒ तना᳚ सनुयाम॒ त्वोताः᳚ ||{1/5}{10.148.1}{10.11.20.1}{8.8.6.1}{1566, 985, 10364}

सु॒स्वा॒नासः॑¦इ॒न्द्र॒¦स्तु॒मसि॑¦त्वा॒¦स॒स॒ऽवांसः॑¦च॒¦तु॒वि॒ऽनृ॒म्ण॒¦वाज᳚‌म् |
आ¦नः॒¦भ॒र॒¦सु॒वि॒त‌म्¦यस्य॑¦चा॒कन्¦त्मना᳚¦तना᳚¦स॒नु॒या॒म॒¦त्वाऽऊ᳚ताः ||

ऋ॒ष्वस्त्वमि᳚न्द्र शूर जा॒तो दासी॒र्विशः॒ सूर्ये᳚ण सह्याः |{वैन्यः पृथुः | इन्द्रः | त्रिष्टुप्}

गुहा᳚ हि॒तं गुह्यं᳚ गू॒ळ्हम॒प्सु बि॑भृ॒मसि॑ प्र॒स्रव॑णे॒ न सोम᳚म् ||{2/5}{10.148.2}{10.11.20.2}{8.8.6.2}{1567, 985, 10365}

ऋ॒ष्वः¦त्व‌म्¦इ॒न्द्र॒¦शू॒र॒¦जा॒तः¦दासीः᳚¦विशः॑¦सूर्ये᳚ण¦स॒ह्याः॒ |
गुहा᳚¦हि॒त‌म्¦गुह्य᳚‌म्¦गू॒ळ्ह‌म्¦अ॒प्ऽसु¦बि॒भृ॒मसि॑¦प्र॒ऽस्रव॑णे¦न¦सोम᳚‌म् ||

अ॒र्यो वा॒ गिरो᳚, अ॒भ्य॑र्च वि॒द्वानृषी᳚णां॒ विप्रः॑ सुम॒तिं च॑का॒नः |{वैन्यः पृथुः | इन्द्रः | त्रिष्टुप्}

ते स्या᳚म॒ ये र॒णय᳚न्त॒ सोमै᳚रे॒नोत तुभ्यं᳚ रथोळ्ह भ॒क्षैः ||{3/5}{10.148.3}{10.11.20.3}{8.8.6.3}{1568, 985, 10366}

अ॒र्यः¦वा॒¦गिरः॑¦अ॒भि¦अ॒र्च॒¦वि॒द्वान्¦ऋषी᳚णा‌म्¦विप्रः॑¦सु॒ऽम॒ति‌म्¦च॒का॒नः |
ते¦स्या॒म॒¦ये¦र॒णय᳚न्त¦सोमैः᳚¦ए॒ना¦उ॒त¦तुभ्य᳚‌म्¦र॒थ॒ऽओ॒ळ्ह॒¦भ॒क्षैः ||

इ॒मा ब्रह्मे᳚न्द्र॒ तुभ्यं᳚ शंसि॒ दा नृभ्यो᳚ नृ॒णां शू᳚र॒ शवः॑ |{वैन्यः पृथुः | इन्द्रः | त्रिष्टुप्}

तेभि॑र्भव॒ सक्र॑तु॒र्येषु॑ चा॒कन्नु॒त त्रा᳚यस्व गृण॒त उ॒त स्तीन् ||{4/5}{10.148.4}{10.11.20.4}{8.8.6.4}{1569, 985, 10367}

इ॒मा¦ब्रह्म॑¦इ॒न्द्र॒¦तुभ्य᳚‌म्¦शं॒सि॒¦दाः¦नृऽभ्यः॑¦नृ॒णा‌म्¦शू॒र॒¦शवः॑ |
तेभिः॑¦भ॒व॒¦सऽक्र॑तुः¦येषु॑¦चा॒कन्¦उ॒त¦त्रा॒य॒स्व॒¦गृ॒ण॒तः¦उ॒त¦स्तीन् ||

श्रु॒धी हव॑मिन्द्र शूर॒ पृथ्या᳚, उ॒त स्त॑वसे वे॒न्यस्या॒र्कैः |{वैन्यः पृथुः | इन्द्रः | त्रिष्टुप्}

आ यस्ते॒ योनिं᳚ घृ॒तव᳚न्त॒मस्वा᳚रू॒र्मिर्न निम्नैर्द्र॑वयन्त॒ वक्वाः᳚ ||{5/5}{10.148.5}{10.11.20.5}{8.8.6.5}{1570, 985, 10368}

श्रु॒धि¦हव᳚‌म्¦इ॒न्द्र॒¦शू॒र॒¦पृथ्याः᳚¦उ॒त¦स्त॒व॒ते॒¦वे॒न्यस्य॑¦अ॒र्कैः |
आ¦यः¦ते॒¦योनि᳚‌म्¦घृ॒तऽव᳚न्त‌म्¦अस्वाः᳚¦ऊ॒र्मिः¦न¦नि॒म्नैः¦द्र॒व॒य॒न्त॒¦वक्वाः᳚ ||

[149] सवितेति पंचर्चस्य सूक्तस्य हैरण्यस्तूपोर्चन्न सवितात्रिष्टुप् |
स॒वि॒ता य॒न्त्रैः पृ॑थि॒वीम॑रम्णादस्कम्भ॒ने स॑वि॒ता द्याम॑दृंहत् |{हैरण्य स्तूपोर्चन्नः | सविता | त्रिष्टुप्}

अश्व॑मिवाधुक्ष॒द्धुनि॑म॒न्तरि॑क्षम॒तूर्ते᳚ ब॒द्धं स॑वि॒ता स॑मु॒द्रम् ||{1/5}{10.149.1}{10.11.21.1}{8.8.7.1}{1571, 986, 10369}

स॒वि॒ता¦य॒न्त्रैः¦पृ॒थि॒वी‌म्¦अ॒र॒म्णा॒त्¦अ॒स्क॒म्भ॒ने¦स॒वि॒ता¦द्या‌म्¦अ॒दृं॒ह॒त् |
अश्व᳚‌म्ऽ‌इव¦अ॒धु॒क्ष॒त्¦धुनि᳚‌म्¦अ॒न्तरि॑क्ष‌म्¦अ॒तूर्ते᳚¦ब॒द्ध‌म्¦स॒वि॒ता¦स॒मु॒द्र‌म् ||

यत्रा᳚ समु॒द्रः स्क॑भि॒तो व्यौन॒दपां᳚ नपात्सवि॒ता तस्य॑ वेद |{हैरण्य स्तूपोर्चन्नः | सविता | त्रिष्टुप्}

अतो॒ भूरत॑ आ॒, उत्थि॑तं॒ रजोऽतो॒ द्यावा᳚पृथि॒वी, अ॑प्रथेताम् ||{2/5}{10.149.2}{10.11.21.2}{8.8.7.2}{1572, 986, 10370}

यत्र॑¦स॒मु॒द्रः¦स्क॒भि॒तः¦वि¦औन॑त्¦अपा᳚‌म्¦न॒पा॒त्¦स॒वि॒ता¦तस्य॑¦वे॒द॒ |
अतः॑¦भूः¦अतः॑¦आः॒¦उत्थि॑त‌म्¦रजः॑¦अतः॑¦द्यावा᳚पृथि॒वी इति॑¦अ॒प्र॒थे॒ता॒‌म् ||

प॒श्चेदम॒न्यद॑भव॒द्यज॑त्र॒मम॑र्त्यस्य॒ भुव॑नस्य भू॒ना |{हैरण्य स्तूपोर्चन्नः | सविता | त्रिष्टुप्}

सु॒प॒र्णो, अ॒ङ्ग स॑वि॒तुर्ग॒रुत्मा॒न्‌ पूर्वो᳚ जा॒तः स उ॑ अ॒स्यानु॒ धर्म॑ ||{3/5}{10.149.3}{10.11.21.3}{8.8.7.3}{1573, 986, 10371}

प॒श्चा¦इ॒द‌म्¦अ॒न्यत्¦अ॒भ॒व॒त्¦यज॑त्र‌म्¦अम॑र्त्यस्य¦भुव॑नस्य¦भू॒ना |
सु॒ऽप॒र्णः¦अ॒ङ्ग¦स॒वि॒तुः¦ग॒रुत्मा᳚न्¦पूर्वः॑¦जा॒तः¦सः¦ऊँ॒ इति॑¦अ॒स्य॒¦अनु॑¦धर्म॑ ||

गाव॑ इव॒ ग्रामं॒ यूयु॑धिरि॒वाश्वा᳚न्वा॒श्रेव॑ व॒त्सं सु॒मना॒ दुहा᳚ना |{हैरण्य स्तूपोर्चन्नः | सविता | त्रिष्टुप्}

पति॑रिव जा॒याम॒भि नो॒ न्ये᳚तु ध॒र्ता दि॒वः स॑वि॒ता वि॒श्ववा᳚रः ||{4/5}{10.149.4}{10.11.21.4}{8.8.7.4}{1574, 986, 10372}

गावः॑ऽ‌इव¦ग्राम᳚‌म्¦यूयु॑धिःऽ‌इव¦अश्वा᳚न्¦वा॒श्राऽ‌इ᳚व¦व॒त्स‌म्¦सु॒ऽमनाः᳚¦दुहा᳚ना |
पतिः॑ऽ‌इव¦जा॒या‌म्¦अ॒भि¦नः॒¦नि¦ए॒तु॒¦ध॒र्ता¦दि॒वः¦स॒वि॒ता¦वि॒श्वऽवा᳚रः ||

हिर᳚ण्यस्तूपः सवित॒र्यथा᳚ त्वाङ्गिर॒सो जु॒ह्वे वाजे᳚, अ॒स्मिन् |{हैरण्य स्तूपोर्चन्नः | सविता | त्रिष्टुप्}

ए॒वा त्वार्च॒न्नव॑से॒ वन्द॑मानः॒ सोम॑स्येवां॒शुं प्रति॑ जागरा॒हम् ||{5/5}{10.149.5}{10.11.21.5}{8.8.7.5}{1575, 986, 10373}

हिर᳚ण्यऽस्तूपः¦स॒वि॒तः॒¦यथा᳚¦त्वा॒¦आ॒ङ्गि॒र॒सः¦जु॒ह्वे¦वाजे᳚¦अ॒स्मिन् |
ए॒व¦त्वा॒¦अर्च॑न्¦अव॑से¦वन्द॑मानः¦सोम॑स्यऽ‌इव¦अं॒शु‌म्¦प्रति॑¦जा॒ग॒र॒¦अ॒ह‌म् ||

[150] समिद्धइति पंचर्चस्य सूक्तस्य वासिष्ठोमृळीकोग्निर्बृहती अंत्येद्वेउपरिष्टाज्ज्योतिषी (उपांत्या जगतीवा) |
समि॑द्धश्चि॒त्समि॑ध्यसे दे॒वेभ्यो᳚ हव्यवाहन |{वासिष्ठो मृळीकः | अग्निः | बृहती}

आ॒दि॒त्यै रु॒द्रैर्वसु॑भिर्न॒ आ ग॑हि मृळी॒काय॑ न॒ आ ग॑हि ||{1/5}{10.150.1}{10.11.22.1}{8.8.8.1}{1576, 987, 10374}

स‌म्ऽ‌इ᳚द्धः¦चि॒त्¦स‌म्¦इ॒ध्य॒से॒¦दे॒वेभ्यः॑¦ह॒व्य॒ऽवा॒ह॒न॒ |
आ॒दि॒त्यैः¦रु॒द्रैः¦वसु॑ऽभिः¦नः॒¦आ¦ग॒हि॒¦मृ॒ळी॒काय॑¦नः॒¦आ¦ग॒हि॒ ||

इ॒मं य॒ज्ञमि॒दं वचो᳚ जुजुषा॒ण उ॒पाग॑हि |{वासिष्ठो मृळीकः | अग्निः | बृहती}

मर्ता᳚सस्त्वा समिधान हवामहे मृळी॒काय॑ हवामहे ||{2/5}{10.150.2}{10.11.22.2}{8.8.8.2}{1577, 987, 10375}

इ॒म‌म्¦य॒ज्ञ‌म्¦इ॒द‌म्¦वचः॑¦जु॒जु॒षा॒णः¦उ॒प॒ऽआग॑हि |
मर्ता᳚सः¦त्वा॒¦स॒‌म्ऽ‌इ॒धा॒न॒¦ह॒वा॒म॒हे॒¦मृ॒ळी॒काय॑¦ह॒वा॒म॒हे॒ ||

त्वामु॑ जा॒तवे᳚दसं वि॒श्ववा᳚रं गृणे धि॒या |{वासिष्ठो मृळीकः | अग्निः | बृहती}

अग्ने᳚ दे॒वाँ, आ व॑ह नः प्रि॒यव्र॑तान्‌ मृळी॒काय॑ प्रि॒यव्र॑तान् ||{3/5}{10.150.3}{10.11.22.3}{8.8.8.3}{1578, 987, 10376}

त्वा‌म्¦ऊँ॒ इति॑¦जा॒तऽवे᳚दस‌म्¦वि॒श्वऽवा᳚र‌म्¦गृ॒णे॒¦धि॒या |
अग्ने᳚¦दे॒वान्¦आ¦व॒ह॒¦नः॒¦प्रि॒यऽव्र॑तान्¦मृ॒ळी॒काय॑¦प्रि॒यऽव्र॑तान् ||

अ॒ग्निर्दे॒वो दे॒वाना᳚मभवत्पु॒रोहि॑तो॒ऽग्निं म॑नु॒ष्या॒३॑(आ॒) ऋष॑यः॒ समी᳚धिरे |{वासिष्ठो मृळीकः | अग्निः | उपरिष्टाज्योति}

अ॒ग्निं म॒हो धन॑साताव॒हं हु॑वे मृळी॒कं धन॑सातये ||{4/5}{10.150.4}{10.11.22.4}{8.8.8.4}{1579, 987, 10377}

अ॒ग्निः¦दे॒वः¦दे॒वाना᳚‌म्¦अ॒भ॒व॒त्¦पु॒रःऽहि॑तः¦अ॒ग्नि‌म्¦म॒नु॒ष्याः᳚¦ऋष॑यः¦स‌म्¦ई॒धि॒रे॒ |
अ॒ग्नि‌म्¦म॒हः¦धन॑ऽसातौ¦अ॒ह‌म्¦हु॒वे॒¦मृ॒ळी॒क‌म्¦धन॑ऽसातये ||

अ॒ग्निरत्रिं᳚ भ॒रद्वा᳚जं॒ गवि॑ष्ठिरं॒ प्राव᳚न्नः॒ कण्वं᳚ त्र॒सद॑स्युमाह॒वे |{वासिष्ठो मृळीकः | अग्निः | उपरिष्टाज्योति}

अ॒ग्निं वसि॑ष्ठो हवते पु॒रोहि॑तो मृळी॒काय॑ पु॒रोहि॑तः ||{5/5}{10.150.5}{10.11.22.5}{8.8.8.5}{1580, 987, 10378}

अ॒ग्निः¦अत्रि᳚‌म्¦भ॒रत्ऽवा᳚ज‌म्¦गवि॑ष्ठिर‌म्¦प्र¦आ॒व॒त्¦नः॒¦कण्व᳚‌म्¦त्र॒सद॑स्यु‌म्¦आ॒ऽह॒वे |
अ॒ग्नि‌म्¦वसि॑ष्ठः¦ह॒व॒ते॒¦पु॒रःऽहि॑तः¦मृ॒ळी॒काय॑¦पु॒रःऽहि॑तः ||

[151] श्रद्धयेति पंचर्चस्य सूक्तस्य श्रद्धाकामायनीश्रद्धानुष्टुप् |
श्र॒द्धया॒ग्निः समि॑ध्यते श्र॒द्धया᳚ हूयते ह॒विः |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्}

श्र॒द्धां भग॑स्य मू॒र्धनि॒ वच॒सा वे᳚दयामसि ||{1/5}{10.151.1}{10.11.23.1}{8.8.9.1}{1581, 988, 10379}

श्र॒द्धया᳚¦अ॒ग्निः¦स‌म्¦इ॒ध्य॒ते॒¦श्र॒द्धया᳚¦हू॒य॒ते॒¦ह॒विः | श्र॒द्धा‌म्¦भग॑स्य¦मू॒र्धनि॑¦वच॑सा¦आ¦वे॒द॒या॒म॒सि॒ ||

प्रि॒यं श्र॑द्धे॒ दद॑तः प्रि॒यं श्र॑द्धे॒ दिदा᳚सतः |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्}

प्रि॒यं भो॒जेषु॒ यज्व॑स्वि॒दं म॑ उदि॒तं कृ॑धि ||{2/5}{10.151.2}{10.11.23.2}{8.8.9.2}{1582, 988, 10380}

प्रि॒य‌म्¦श्र॒द्धे॒¦दद॑तः¦प्रि॒य‌म्¦श्र॒द्धे॒¦दिदा᳚सतः | प्रि॒य‌म्¦भो॒जेषु॑¦यज्व॑सु¦इ॒द‌म्¦मे॒¦उ॒दि॒त‌म्¦कृ॒धि॒ ||

यथा᳚ दे॒वा, असु॑रेषु श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्}

ए॒वं भो॒जेषु॒ यज्व॑स्व॒स्माक॑मुदि॒तं कृ॑धि ||{3/5}{10.151.3}{10.11.23.3}{8.8.9.3}{1583, 988, 10381}

यथा᳚¦दे॒वाः¦असु॑रेषु¦श्र॒द्धा‌म्¦उ॒ग्रेषु॑¦च॒क्रि॒रे | ए॒व‌म्¦भो॒जेषु॑¦यज्व॑ऽसु¦अ॒स्माक᳚‌म्¦उ॒दि॒त‌म्¦कृ॒धि॒ ||

श्र॒द्धां दे॒वा यज॑माना वा॒युगो᳚पा॒, उपा᳚सते |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्}

श्र॒द्धां हृ॑द॒य्य१॑(अ॒)याकू᳚त्या श्र॒द्धया᳚ विन्दते॒ वसु॑ ||{4/5}{10.151.4}{10.11.23.4}{8.8.9.4}{1584, 988, 10382}

श्र॒द्धा‌म्¦दे॒वाः¦यज॑मानाः¦वा॒युऽगो᳚पाः¦उप॑¦आ॒स॒ते॒ | श्र॒द्धा‌म्¦हृ॒द॒य्य॑या¦आऽकू᳚त्या¦श्र॒द्धया᳚¦वि॒न्द॒ते॒¦वसु॑ ||

श्र॒द्धां प्रा॒तर्ह॑वामहे श्र॒द्धां म॒ध्यंदि॑नं॒ परि॑ |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्}

श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒ श्रद्धे॒ श्रद्धा᳚पये॒ह नः॑ ||{5/5}{10.151.5}{10.11.23.5}{8.8.9.5}{1585, 988, 10383}

श्र॒द्धा‌म्¦प्रा॒तः¦ह॒वा॒म॒हे॒¦श्र॒द्धा‌म्¦म॒ध्यंदि॑न‌म्¦परि॑ | श्र॒द्धा‌म्¦सूर्य॑स्य¦नि॒ऽम्रुचि॑¦श्रद्धे᳚¦श्रत्¦धा॒प॒य॒¦इ॒ह¦नः॒ ||

[152] शासइति पंचर्चस्य सूक्तस्य भारद्वाजः शासइंद्रोनुष्टुप् |
शा॒स इ॒त्था म॒हाँ, अ॑स्यमित्रखा॒दो, अद्भु॑तः |{भारद्वाजः शासः | इन्द्रः | अनुष्टुप्}

न यस्य॑ ह॒न्यते॒ सखा॒ न जीय॑ते॒ कदा᳚ च॒न ||{1/5}{10.152.1}{10.12.1.1}{8.8.10.1}{1586, 989, 10384}

शा॒सः¦इ॒त्था¦म॒हान्¦अ॒सि॒¦अ॒मि॒त्र॒ऽखा॒दः¦अद्भु॑तः | न¦यस्य॑¦ह॒न्यते᳚¦सखा᳚¦न¦जीय॑ते¦कदा᳚¦च॒न ||

स्व॒स्ति॒दा वि॒शस्पति᳚र्वृत्र॒हा वि॑मृ॒धो व॒शी |{भारद्वाजः शासः | इन्द्रः | अनुष्टुप्}

वृषेन्द्रः॑ पु॒र ए᳚तु नः सोम॒पा, अ॑भयंक॒रः ||{2/5}{10.152.2}{10.12.1.2}{8.8.10.2}{1587, 989, 10385}

स्व॒स्ति॒ऽदाः¦वि॒शः¦पतिः॑¦वृ॒त्र॒ऽहा¦वि॒ऽमृ॒धः¦व॒शी | वृषा᳚¦इन्द्रः॑¦पु॒रः¦ए॒तु॒¦नः॒¦सो॒म॒ऽपाः¦अ॒भ॒य॒‌म्ऽक॒रः ||

वि रक्षो॒ वि मृधो᳚ जहि॒ वि वृ॒त्रस्य॒ हनू᳚ रुज |{भारद्वाजः शासः | इन्द्रः | अनुष्टुप्}

वि म॒न्युमि᳚न्द्र वृत्रहन्न॒मित्र॑स्याभि॒दास॑तः ||{3/5}{10.152.3}{10.12.1.3}{8.8.10.3}{1588, 989, 10386}

वि¦रक्षः॑¦वि¦मृधः॑¦ज॒हि॒¦वि¦वृ॒त्रस्य॑¦हनू॒ इति॑¦रु॒ज॒ | वि¦म॒न्यु‌म्¦इ॒न्द्र॒¦वृ॒त्र॒ऽह॒न्¦अ॒मित्र॑स्य¦अ॒भि॒ऽदास॑तः ||

वि न॑ इन्द्र॒ मृधो᳚ जहि नी॒चा य॑च्छ पृतन्य॒तः |{भारद्वाजः शासः | इन्द्रः | अनुष्टुप्}

यो, अ॒स्माँ, अ॑भि॒दास॒त्यध॑रं गमया॒ तमः॑ ||{4/5}{10.152.4}{10.12.1.4}{8.8.10.4}{1589, 989, 10387}

वि¦नः॒¦इ॒न्द्र॒¦मृधः॑¦ज॒हि॒¦नी॒चा¦य॒च्छ॒¦पृ॒त॒न्य॒तः | यः¦अ॒स्मान्¦अ॒भि॒ऽदास॑ति¦अध॑र‌म्¦ग॒म॒य॒¦तमः॑ ||

अपे᳚न्द्र द्विष॒तो मनोऽप॒ जिज्या᳚सतो व॒धम् |{भारद्वाजः शासः | इन्द्रः | अनुष्टुप्}

वि म॒न्योः शर्म॑ यच्छ॒ वरी᳚यो यवया व॒धम् ||{5/5}{10.152.5}{10.12.1.5}{8.8.10.5}{1590, 989, 10388}

अप॑¦इ॒न्द्र॒¦द्वि॒ष॒तः¦मनः॑¦अप॑¦जिज्या᳚सतः¦व॒ध‌म् | वि¦म॒न्योः¦शर्म॑¦य॒च्छ॒¦वरी᳚यः¦य॒व॒य॒¦व॒ध‌म् ||

[153] ईंखयंतीरिति पंचर्चस्य सूक्तस्य देवजामयइंद्रमातरइंद्रोगायत्री |
ई॒ङ्खय᳚न्तीरप॒स्युव॒ इन्द्रं᳚ जा॒तमुपा᳚सते |{देवजामयइंद्रमातरः | इन्द्रः | गायत्री}

भे॒जा॒नासः॑ सु॒वीर्य᳚म् ||{1/5}{10.153.1}{10.12.2.1}{8.8.11.1}{1591, 990, 10389}

ई॒ङ्खय᳚न्तीः¦अ॒प॒स्युवः॑¦इन्द्र᳚‌म्¦जा॒त‌म्¦उप॑¦आ॒स॒ते॒ | भे॒जा॒नासः॑¦सु॒ऽवीर्य᳚‌म् ||

त्वमि᳚न्द्र॒ बला॒दधि॒ सह॑सो जा॒त ओज॑सः |{देवजामयइंद्रमातरः | इन्द्रः | गायत्री}

त्वं वृ॑ष॒न्‌ वृषेद॑सि ||{2/5}{10.153.2}{10.12.2.2}{8.8.11.2}{1592, 990, 10390}

त्व‌म्¦इ॒न्द्र॒¦बला᳚त्¦अधि॑¦सह॑सः¦जा॒तः¦ओज॑सः | त्व‌म्¦वृ॒ष॒न्¦वृषा᳚¦इत्¦अ॒सि॒ ||

त्वमि᳚न्द्रासि वृत्र॒हा व्य१॑(अ॒)न्तरि॑क्षमतिरः |{देवजामयइंद्रमातरः | इन्द्रः | गायत्री}

उद्द्याम॑स्तभ्ना॒, ओज॑सा ||{3/5}{10.153.3}{10.12.2.3}{8.8.11.3}{1593, 990, 10391}

त्व‌म्¦इ॒न्द्र॒¦अ॒सि॒¦वृ॒त्र॒ऽहा¦वि¦अ॒न्तरि॑क्ष‌म्¦अ॒ति॒रः॒ | उत्¦द्या‌म्¦अ॒स्त॒भ्नाः॒¦ओज॑सा ||

त्वमि᳚न्द्र स॒जोष॑सम॒र्कं बि॑भर्षि बा॒ह्वोः |{देवजामयइंद्रमातरः | इन्द्रः | गायत्री}

वज्रं॒ शिशा᳚न॒ ओज॑सा ||{4/5}{10.153.4}{10.12.2.4}{8.8.11.4}{1594, 990, 10392}

त्व‌म्¦इ॒न्द्र॒¦स॒ऽजोष॑स‌म्¦अ॒र्क‌म्¦बि॒भ॒र्षि॒¦बा॒ह्वोः | वज्र᳚‌म्¦शिशा᳚नः¦ओज॑सा ||

त्वमि᳚न्द्राभि॒भूर॑सि॒ विश्वा᳚ जा॒तान्योज॑सा |{देवजामयइंद्रमातरः | इन्द्रः | गायत्री}

स विश्वा॒ भुव॒ आभ॑वः ||{5/5}{10.153.5}{10.12.2.5}{8.8.11.5}{1595, 990, 10393}

त्व‌म्¦इ॒न्द्र॒¦अ॒भि॒ऽभूः¦अ॒सि॒¦विश्वा᳚¦जा॒तानि॑¦ओज॑सा | सः¦विश्वाः᳚¦भुवः॑¦आ¦अ॒भ॒वः॒ ||

[154] सोमइति पंचर्चस्य सूक्तस्य वैवस्वती यमी भाववृत्तिरनुष्टुप् |
सोम॒ एके᳚भ्यः पवते घृ॒तमेक॒ उपा᳚सते |{वैवस्वती यमी | भाववृत्तिः | अनुष्टुप्}

येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ||{1/5}{10.154.1}{10.12.3.1}{8.8.12.1}{1596, 991, 10394}

सोमः॑¦एके᳚भ्यः¦प॒व॒ते॒¦घृ॒त‌म्¦एके᳚¦उप॑¦आ॒स॒ते॒ | येभ्यः॑¦मधु॑¦प्र॒ऽधाव॑ति¦तान्¦चि॒त्¦ए॒व¦अपि॑¦ग॒च्छ॒ता॒त् ||

तप॑सा॒ ये, अ॑नाधृ॒ष्यास्तप॑सा॒ ये स्व᳚र्य॒युः |{वैवस्वती यमी | भाववृत्तिः | अनुष्टुप्}

तपो॒ ये च॑क्रि॒रे मह॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ||{2/5}{10.154.2}{10.12.3.2}{8.8.12.2}{1597, 991, 10395}

तप॑सा¦ये¦अ॒ना॒धृ॒ष्याः¦तप॑सा¦ये¦स्वः॑¦य॒युः | तपः॑¦ये¦च॒क्रि॒रे¦महः॑¦तान्¦चि॒त्¦ए॒व¦अपि॑¦ग॒च्छ॒ता॒त् ||

ये युध्य᳚न्ते प्र॒धने᳚षु॒ शूरा᳚सो॒ ये त॑नू॒त्यजः॑ |{वैवस्वती यमी | भाववृत्तिः | अनुष्टुप्}

ये वा᳚ स॒हस्र॑दक्षिणा॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ||{3/5}{10.154.3}{10.12.3.3}{8.8.12.3}{1598, 991, 10396}

ये¦युध्य᳚न्ते¦प्र॒ऽधने᳚षु¦शूरा᳚सः¦ये¦त॒नू॒ऽत्यजः॑ | ये¦वा॒¦स॒हस्र॑ऽदक्षिणाः¦तान्¦चि॒त्¦ए॒व¦अपि॑¦ग॒च्छ॒ता॒त् ||

ये चि॒त्पूर्व॑ ऋत॒साप॑ ऋ॒तावा᳚न ऋता॒वृधः॑ |{वैवस्वती यमी | भाववृत्तिः | अनुष्टुप्}

पि॒तॄन्‌ तप॑स्वतो यम॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ||{4/5}{10.154.4}{10.12.3.4}{8.8.12.4}{1599, 991, 10397}

ये¦चि॒त्¦पूर्वे᳚¦ऋ॒त॒ऽसापः॑¦ऋ॒तऽवा᳚नः¦ऋ॒त॒ऽवृधः॑ | पि॒तॄन्¦तप॑स्वतः¦य॒म॒¦तान्¦चि॒त्¦ए॒व¦अपि॑¦ग॒च्छ॒ता॒त् ||

स॒हस्र॑णीथाः क॒वयो॒ ये गो᳚पा॒यन्ति॒ सूर्य᳚म् |{वैवस्वती यमी | भाववृत्तिः | अनुष्टुप्}

ऋषी॒न्‌ तप॑स्वतो यम तपो॒जाँ, अपि॑ गच्छतात् ||{5/5}{10.154.5}{10.12.3.5}{8.8.12.5}{1600, 991, 10398}

स॒हस्र॑ऽनीथाः¦क॒वयः॑¦ये¦गो॒पा॒यन्ति॑¦सूर्य᳚‌म् | ऋषी᳚न्¦तप॑स्वतः¦य॒म॒¦त॒पः॒ऽजान्¦अपि॑¦ग॒च्छ॒ता॒त् ||

[155] अरायीति पंचर्चस्य सूक्तस्य भारद्वाजः शिरिंबिठोऽलक्ष्मीनाशनो द्वितीयातृतीययोर्ब्रह्मणस्पतिरंत्याया विश्वेदेवाअनुष्टुप् |
अरा᳚यि॒ काणे॒ विक॑टे गि॒रिं ग॑च्छ सदान्वे |{भारद्वाजो शिरिंबिठः | अलक्ष्मीनाशनः | अनुष्टुप्}

शि॒रिम्बि॑ठस्य॒ सत्व॑भि॒स्तेभि॑ष्ट्वा चातयामसि ||{1/5}{10.155.1}{10.12.4.1}{8.8.13.1}{1601, 992, 10399}

अरा᳚यि¦काणे᳚¦विऽक॑टे¦गि॒रि‌म्¦ग॒च्छ॒¦स॒दा॒न्वे॒ | शि॒रिम्बि॑ठस्य¦सत्व॑ऽभिः¦तेभिः॑¦त्वा॒¦चा॒त॒या॒म॒सि॒ ||

च॒त्तो, इ॒तश्च॒त्तामुतः॒ सर्वा᳚ भ्रू॒णान्या॒रुषी᳚ |{भारद्वाजो शिरिंबिठः | ब्रह्मणस्पतिः | अनुष्टुप्}

अ॒रा॒य्यं᳚ ब्रह्मणस्पते॒ तीक्ष्ण॑शृण्गोदृ॒षन्नि॑हि ||{2/5}{10.155.2}{10.12.4.2}{8.8.13.2}{1602, 992, 10400}

च॒त्तो इति॑¦इ॒तः¦च॒त्ता¦अ॒मुतः॑¦सर्वा᳚¦भ्रू॒णानि॑¦आ॒रुषी᳚ | अ॒रा॒य्य᳚‌म्¦ब्र॒ह्म॒णः॒¦प॒ते॒¦तीक्ष्ण॑ऽशृङ्ग¦उ॒त्ऽऋ॒षन्¦इ॒हि॒ ||

अ॒दो यद्दारु॒ प्लव॑ते॒ सिन्धोः᳚ पा॒रे, अ॑पूरु॒षम् |{भारद्वाजो शिरिंबिठः | ब्रह्मणस्पतिः | अनुष्टुप्}

तदा र॑भस्व दुर्हणो॒ तेन॑ गच्छ परस्त॒रम् ||{3/5}{10.155.3}{10.12.4.3}{8.8.13.3}{1603, 992, 10401}

अ॒दः¦यत्¦दारु॑¦प्लव॑ते¦सिन्धोः᳚¦पा॒रे¦अ॒पु॒रु॒ष‌म् | तत्¦आ¦र॒भ॒स्व॒¦दु॒र्ह॒नो॒ इति॑ दुःऽहनो¦तेन॑¦ग॒च्छ॒¦प॒रः॒ऽत॒र‌म् ||

यद्ध॒ प्राची॒रज॑ग॒न्तोरो᳚ मण्डूरधाणिकीः |{भारद्वाजो शिरिंबिठः | अलक्ष्मीनाशनः | अनुष्टुप्}

ह॒ता, इन्द्र॑स्य॒ शत्र॑वः॒ सर्वे᳚ बुद्बु॒दया᳚शवः ||{4/5}{10.155.4}{10.12.4.4}{8.8.13.4}{1604, 992, 10402}

यत्¦ह॒¦प्राचीः᳚¦अज॑गन्त¦उरः॑¦म॒ण्डू॒र॒ऽधा॒णि॒कीः॒ | ह॒ताः¦इन्द्र॑स्य¦शत्र॑वः¦सर्वे᳚¦बु॒द्बु॒दऽया᳚शवः ||

परी॒मे गाम॑नेषत॒ पर्य॒ग्निम॑हृषत |{भारद्वाजो शिरिंबिठः | विश्वदेवाः | अनुष्टुप्}

दे॒वेष्व॑क्रत॒ श्रवः॒ क इ॒माँ, आ द॑धर्षति ||{5/5}{10.155.5}{10.12.4.5}{8.8.13.5}{1605, 992, 10403}

परि॑¦इ॒मे¦गा‌म्¦अ॒ने॒ष॒त॒¦परि॑¦अ॒ग्नि‌म्¦अ॒हृ॒ष॒त॒ | दे॒वेषु॑¦अ॒क्र॒त॒¦श्रवः॑¦कः¦इ॒मान्¦आ¦द॒ध॒र्ष॒ति॒ ||

[156] अग्निमिति पंचर्चस्य सूक्तस्याग्नेयः केतुरग्निर्गायत्री |
अ॒ग्निं हि᳚न्वन्तु नो॒ धियः॒ सप्ति॑मा॒शुमि॑वा॒जिषु॑ |{आग्नेयः केतुः | अग्निः | गायत्री}

तेन॑ जेष्म॒ धनं᳚धनम् ||{1/5}{10.156.1}{10.12.5.1}{8.8.14.1}{1606, 993, 10404}

अ॒ग्नि‌म्¦हि॒न्व॒न्तु॒¦नः॒¦धियः॑¦सप्ति᳚‌म्¦आ॒शु‌म्ऽ‌इ᳚व¦आ॒जिषु॑ | तेन॑¦जे॒ष्म॒¦धन᳚‌म्ऽधन‌म् ||

यया॒ गा, आ॒करा᳚महे॒ सेन॑याग्ने॒ तवो॒त्या |{आग्नेयः केतुः | अग्निः | गायत्री}

तां नो᳚ हिन्व म॒घत्त॑ये ||{2/5}{10.156.2}{10.12.5.2}{8.8.14.2}{1607, 993, 10405}

यया᳚¦गाः¦आ॒ऽकरा᳚महे¦सेन॑या¦अ॒ग्ने॒¦तव॑¦ऊ॒त्या | ता‌म्¦नः॒¦हि॒न्व॒¦म॒घत्त॑ये ||

आग्ने᳚ स्थू॒रं र॒यिं भ॑र पृ॒थुं गोम᳚न्तम॒श्विन᳚म् |{आग्नेयः केतुः | अग्निः | गायत्री}

अ॒ङ्धि खं व॒र्तया᳚ प॒णिम् ||{3/5}{10.156.3}{10.12.5.3}{8.8.14.3}{1608, 993, 10406}

आ¦अ॒ग्ने॒¦स्थू॒र‌म्¦र॒यि‌म्¦भ॒र॒¦पृ॒थु‌म्¦गोऽम᳚न्त‌म्¦अ॒श्विन᳚‌म् | अ॒ङ्धि¦ख‌म्¦व॒र्तय॑¦प॒णि‌म् ||

अग्ने॒ नक्ष॑त्रम॒जर॒मा सूर्यं᳚ रोहयो दि॒वि |{आग्नेयः केतुः | अग्निः | गायत्री}

दध॒ज्ज्योति॒र्जने᳚भ्यः ||{4/5}{10.156.4}{10.12.5.4}{8.8.14.4}{1609, 993, 10407}

अग्ने᳚¦नक्ष॑त्र‌म्¦अ॒जर᳚‌म्¦आ¦सूर्य᳚‌म्¦रो॒ह॒यः॒¦दि॒वि | दध॑त्¦ज्योतिः॑¦जने᳚भ्यः ||

अग्ने᳚ के॒तुर्वि॒शाम॑सि॒ प्रेष्ठः॒ श्रेष्ठ॑ उपस्थ॒सत् |{आग्नेयः केतुः | अग्निः | गायत्री}

बोधा᳚ स्तो॒त्रे वयो॒ दध॑त् ||{5/5}{10.156.5}{10.12.5.5}{8.8.14.5}{1610, 993, 10408}

अग्ने᳚¦के॒तुः¦वि॒शा‌म्¦अ॒सि॒¦प्रेष्ठः॑¦श्रेष्ठः॑¦उ॒प॒स्थ॒ऽसत् | बोध॑¦स्तो॒त्रे¦वयः॑¦दध॑त् ||

[157] इमान्विति पंचर्चस्य सूक्तस्याप्त्यो भुवनो विश्वेदेवाद्विपदात्रिष्टुप् | (अत्रभौवनः साधनोवैकल्पिकः)
इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे᳚ च दे॒वाः ||{आप्त्यो भुवनः | विश्वदेवाः | त्रिष्टुप्}{1/5}{10.157.1}{10.12.6.1}{8.8.15.1}{1611, 994, 10409}
य॒ज्ञं च॑ नस्त॒न्वं᳚ च प्र॒जां चा᳚दि॒त्यैरिन्द्रः॑ स॒ह ची᳚कॢपाति ||{आप्त्यो भुवनः | विश्वदेवाः | त्रिष्टुप्}{2/5}{10.157.2}{10.12.6.2}{8.8.15.2}{1612, 994, 10410}
आ॒दि॒त्यैरिन्द्रः॒ सग॑णो म॒रुद्भि॑र॒स्माकं᳚ भूत्ववि॒ता त॒नूना᳚म् ||{आप्त्यो भुवनः | विश्वदेवाः | त्रिष्टुप्}{3/5}{10.157.3}{10.12.6.3}{8.8.15.3}{1613, 994, 10411}
ह॒त्वाय॑ दे॒वा, असु॑रा॒न्यदाय᳚न्दे॒वा दे᳚व॒त्वम॑भि॒रक्ष॑माणाः ||{आप्त्यो भुवनः | विश्वदेवाः | त्रिष्टुप्}{4/5}{10.157.4}{10.12.6.4}{8.8.15.4}{1614, 994, 10412}
प्र॒त्यञ्च॑म॒र्कम॑नय॒ञ्छची᳚भि॒रादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ||{आप्त्यो भुवनः | विश्वदेवाः | त्रिष्टुप्}{5/5}{10.157.5}{10.12.6.5}{8.8.15.5}{1615, 994, 10413}
[158] सूर्योन इति पंचर्चस्य सूक्तस्य सौर्यश्चक्षुर्मानवः सूर्यो गायत्री |
सूर्यो᳚ नो दि॒वस्पा᳚तु॒ वातो᳚, अ॒न्तरि॑क्षात् |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री}

अ॒ग्निर्नः॒ पार्थि॑वेभ्यः ||{1/5}{10.158.1}{10.12.7.1}{8.8.16.1}{1616, 995, 10414}

सूर्यः॑¦नः॒¦दि॒वः¦पा॒तु॒¦वातः॑¦अ॒न्तरि॑क्षात् | अ॒ग्निः¦नः॒¦पार्थि॑वेभ्यः ||

जोषा᳚ सवित॒र्यस्य॑ ते॒ हरः॑ श॒तं स॒वाँ, अर्ह॑ति |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री}

पा॒हि नो᳚ दि॒द्युतः॒ पत᳚न्त्याः ||{2/5}{10.158.2}{10.12.7.2}{8.8.16.2}{1617, 995, 10415}

जोष॑¦स॒वि॒तः॒¦यस्य॑¦ते॒¦हरः॑¦श॒त‌म्¦स॒वान्¦अर्ह॑ति | पा॒हि¦नः॒¦दि॒द्युतः॑¦पत᳚न्त्याः ||

चक्षु᳚र्नो दे॒वः स॑वि॒ता चक्षु᳚र्न उ॒त पर्व॑तः |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री}

चक्षु॑र्धा॒ता द॑धातु नः ||{3/5}{10.158.3}{10.12.7.3}{8.8.16.3}{1618, 995, 10416}

चक्षुः॑¦नः॒¦दे॒वः¦स॒वि॒ता¦चक्षुः॑¦नः॒¦उ॒त¦पर्व॑तः | चक्षुः॑¦धा॒ता¦द॒धा॒तु॒¦नः॒ ||

चक्षु᳚र्नो धेहि॒ चक्षु॑षे॒ चक्षु᳚र्वि॒ख्यै त॒नूभ्यः॑ |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री}

सं चे॒दं वि च॑ पश्येम ||{4/5}{10.158.4}{10.12.7.4}{8.8.16.4}{1619, 995, 10417}

चक्षुः॑¦नः॒¦धे॒हि॒¦चक्षु॑षे¦चक्षुः॑¦वि॒ऽख्यै¦त॒नूभ्यः॑ | स‌म्¦च॒¦इ॒द‌म्¦वि¦च॒¦प॒श्ये॒म॒ ||

सु॒सं॒दृशं᳚ त्वा व॒यं प्रति॑ पश्येम सूर्य |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री}

वि प॑श्येम नृ॒चक्ष॑सः ||{5/5}{10.158.5}{10.12.7.5}{8.8.16.5}{1620, 995, 10418}

सु॒ऽस॒न्दृश᳚‌म्¦त्वा॒¦व॒य‌म्¦प्रति॑¦प॒श्ये॒म॒¦सू॒र्य॒ | वि¦प॒श्ये॒म॒¦नृ॒ऽचक्ष॑सः ||

[159] उदसाविति षढचस्य सूक्तस्य पौलोमी शचीशच्यनुष्टुप् |
उद॒सौ सूर्यो᳚, अगा॒दुद॒यं मा᳚म॒को भगः॑ |{पौलोमी शचीः | शची | अनुष्टुप्}

अ॒हं तद्वि॑द्व॒ला पति॑म॒भ्य॑साक्षि विषास॒हिः ||{1/6}{10.159.1}{10.12.8.1}{8.8.17.1}{1621, 996, 10419}

उत्¦अ॒सौ¦सूर्यः॑¦अ॒गा॒त्¦उत्¦अ॒य‌म्¦मा॒म॒कः¦भगः॑ | अ॒ह‌म्¦तत्¦वि॒द्व॒ला¦पति᳚‌म्¦अ॒भि¦आ॒सा॒क्षि॒¦वि॒ऽस॒स॒हिः ||

अ॒हं के॒तुर॒हं मू॒र्धाहमु॒ग्रा वि॒वाच॑नी |{पौलोमी शचीः | शची | अनुष्टुप्}

ममेदनु॒ क्रतुं॒ पतिः॑ सेहा॒नाया᳚, उ॒पाच॑रेत् ||{2/6}{10.159.2}{10.12.8.2}{8.8.17.2}{1622, 996, 10420}

अ॒ह‌म्¦के॒तुः¦अ॒ह‌म्¦मू॒र्धा¦अ॒ह‌म्¦उ॒ग्रा¦वि॒ऽवाच॑नी | मम॑¦इत्¦अनु॑¦क्रतु᳚‌म्¦पतिः॑¦से॒हा॒नायाः᳚¦उ॒प॒ऽआच॑रेत् ||

मम॑ पु॒त्राः श॑त्रु॒हणोऽथो᳚ मे दुहि॒ता वि॒राट् |{पौलोमी शचीः | शची | अनुष्टुप्}

उ॒ताहम॑स्मि संज॒या पत्यौ᳚ मे॒ श्लोक॑ उत्त॒मः ||{3/6}{10.159.3}{10.12.8.3}{8.8.17.3}{1623, 996, 10421}

मम॑¦पु॒त्राः¦श॒त्रु॒ऽहनः॑¦अथो॒ इति॑¦मे॒¦दु॒हि॒ता¦वि॒राट् | उ॒त¦अ॒ह‌म्¦अ॒स्मि॒¦स॒‌म्ऽज॒या¦पत्यौ᳚¦मे॒¦श्लोकः॑¦उ॒त्ऽत॒मः ||

येनेन्द्रो᳚ ह॒विषा᳚ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः |{पौलोमी शचीः | शची | अनुष्टुप्}

इ॒दं तद॑क्रि देवा, असप॒त्ना किला᳚भुवम् ||{4/6}{10.159.4}{10.12.8.4}{8.8.17.4}{1624, 996, 10422}

येन॑¦इन्द्रः॑¦ह॒विषा᳚¦कृ॒त्वी¦अभ॑वत्¦द्यु॒म्नी¦उ॒त्ऽत॒मः | इ॒दन्‌म्¦तत्¦अ॒क्रि॒¦दे॒वाः॒¦अ॒स॒प॒त्ना¦किल॑¦अ॒भु॒व॒‌म् ||

अ॒स॒प॒त्ना स॑पत्न॒घ्नी जय᳚न्त्यभि॒भूव॑री |{पौलोमी शचीः | शची | अनुष्टुप्}

आवृ॑क्षम॒न्यासां॒ वर्चो॒ राधो॒, अस्थे᳚यसामिव ||{5/6}{10.159.5}{10.12.8.5}{8.8.17.5}{1625, 996, 10423}

अ॒स॒प॒त्ना¦स॒प॒त्न॒ऽघ्नी¦जय᳚न्ती¦अ॒भि॒ऽभूव॑री | आ¦अ॒वृ॒क्ष॒‌म्¦अ॒न्यासा᳚‌म्¦वर्चः॑¦राधः॑¦अस्थे᳚यसा‌म्ऽ‌इव ||

सम॑जैषमि॒मा, अ॒हं स॒पत्नी᳚रभि॒भूव॑री |{पौलोमी शचीः | शची | अनुष्टुप्}

यथा॒हम॒स्य वी॒रस्य॑ वि॒राजा᳚नि॒ जन॑स्य च ||{6/6}{10.159.6}{10.12.8.6}{8.8.17.6}{1626, 996, 10424}

स‌म्¦अ॒जै॒ष॒‌म्¦इ॒माः¦अ॒ह‌म्¦स॒ऽपत्नीः᳚¦अ॒भि॒ऽभूव॑री | यथा᳚¦अ॒ह‌म्¦अ॒स्य¦वी॒रस्य॑¦वि॒ऽराजा᳚नि¦जन॑स्य¦च॒ ||

[160] तीव्रस्येति पंचर्चस्य सूक्तस्य वैश्वामित्रः पूरणइंद्रस्त्रिष्टुप् |
ती॒व्रस्या॒भिव॑यसो, अ॒स्य पा᳚हि सर्वर॒था वि हरी᳚, इ॒ह मु᳚ञ्च |{वैश्वामित्रः पूरणः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒ मा त्वा॒ यज॑मानासो, अ॒न्ये नि री᳚रम॒न्तुभ्य॑मि॒मे सु॒तासः॑ ||{1/5}{10.160.1}{10.12.9.1}{8.8.18.1}{1627, 997, 10425}

ती॒व्रस्य॑¦अ॒भिऽव॑यसः¦अ॒स्य¦पा॒हि॒¦स॒र्व॒ऽर॒था¦वि¦हरी॒ इति॑¦इ॒ह¦मुं॒च॒ |
इन्द्र॑¦मा¦त्वा॒¦यज॑मानासः¦अ॒न्ये¦नि¦री॒र॒म॒न्¦तुभ्य᳚‌म्¦इ॒मे¦सु॒तासः॑ ||

तुभ्यं᳚ सु॒तास्तुभ्य॑मु॒ सोत्वा᳚स॒स्त्वां गिरः॒ श्वात्र्या॒, आ ह्व॑यन्ति |{वैश्वामित्रः पूरणः | इन्द्रः | त्रिष्टुप्}

इन्द्रे॒दम॒द्य सव॑नं जुषा॒णो विश्व॑स्य वि॒द्वाँ, इ॒ह पा᳚हि॒ सोम᳚म् ||{2/5}{10.160.2}{10.12.9.2}{8.8.18.2}{1628, 997, 10426}

तुभ्य᳚‌म्¦सु॒ताः¦तुभ्य᳚‌म्¦ऊँ॒ इति॑¦सोत्वा᳚सः¦त्वा‌म्¦गिरः॑¦श्वात्र्याः᳚¦आ¦ह्व॒य॒न्ति॒ |
इन्द्र॑¦इ॒द‌म्¦अ॒द्य¦सव॑न‌म्¦जु॒षा॒णः¦विश्व॑स्य¦वि॒द्वान्¦इ॒ह¦पा॒हि॒¦सोम᳚‌म् ||

य उ॑श॒ता मन॑सा॒ सोम॑मस्मै सर्वहृ॒दा दे॒वका᳚मः सु॒नोति॑ |{वैश्वामित्रः पूरणः | इन्द्रः | त्रिष्टुप्}

न गा, इन्द्र॒स्तस्य॒ परा᳚ ददाति प्रश॒स्तमिच्चारु॑मस्मै कृणोति ||{3/5}{10.160.3}{10.12.9.3}{8.8.18.3}{1629, 997, 10427}

यः¦उ॒श॒ता¦मन॑सा¦सोम᳚‌म्¦अ॒स्मै॒¦स॒र्व॒ऽहृ॒दा¦दे॒वऽका᳚मः¦सु॒नोति॑ |
न¦गाः¦इन्द्रः॑¦तस्य॑¦परा᳚¦द॒दा॒ति॒¦प्र॒ऽश॒स्त‌म्¦इत्¦चारु᳚‌म्¦अ॒स्मै॒¦कृ॒णो॒ति॒ ||

अनु॑स्पष्टो भवत्ये॒षो, अ॑स्य॒ यो, अ॑स्मै रे॒वान्न सु॒नोति॒ सोम᳚म् |{वैश्वामित्रः पूरणः | इन्द्रः | त्रिष्टुप्}

निर॑र॒त्नौ म॒घवा॒ तं द॑धाति ब्रह्म॒द्विषो᳚ ह॒न्त्यना᳚नुदिष्टः ||{4/5}{10.160.4}{10.12.9.4}{8.8.18.4}{1630, 997, 10428}

अनु॑ऽस्पष्टः¦भ॒व॒ति॒¦ए॒षः¦अ॒स्य॒¦यः¦अ॒स्मै॒¦रे॒वान्¦न¦सु॒नोति॑¦सोम᳚‌म् |
निः¦अ॒र॒त्नौ¦म॒घऽवा᳚¦त‌म्¦द॒धा॒ति॒¦ब्र॒ह्म॒ऽद्विषः॑¦ह॒न्ति॒¦अन॑नुऽदिष्टः ||

अ॒श्वा॒यन्तो᳚ ग॒व्यन्तो᳚ वा॒जय᳚न्तो॒ हवा᳚महे॒ त्वोप॑गन्त॒वा, उ॑ |{वैश्वामित्रः पूरणः | इन्द्रः | त्रिष्टुप्}

आ॒भूष᳚न्तस्ते सुम॒तौ नवा᳚यां व॒यमि᳚न्द्र त्वा शु॒नं हु॑वेम ||{5/5}{10.160.5}{10.12.9.5}{8.8.18.5}{1631, 997, 10429}

अ॒श्व॒यन्तः॑¦ग॒व्यन्तः॑¦वा॒जय᳚न्तः¦हवा᳚महे¦त्वा॒¦उप॑ऽग॒न्त॒वै¦ऊँ॒ इति॑ |
आ॒ऽभूष᳚न्तः¦ते॒¦सु॒ऽम॒तौ¦नवा᳚या‌म्¦व॒य‌म्¦इ॒न्द्र॒¦त्वा॒¦शु॒न‌म्¦हु॒वे॒म॒ ||

[161] मुंचामित्वेति पंचर्चस्य सूक्तस्य प्राजापत्यो यक्ष्मनाशन इंद्राग्नीत्रिष्टुबंत्यानुष्टुप् | (मुंचामीति सूक्ते राज यक्ष्मघ्नमित्युक्ते राजयक्ष्मनाशनो देवतेतिकेचित् अन्येप्रजापतिमाहुः इंद्राग्नीइतितुयास्कः इत्थंमतवैविध्येपि 'षळाहुतिश्चरुर्मुंचामित्वाहविषा जीवनायकमित्येतेनेति' गृह्यसूत्रानुसारिवृत्तिकृत्कारिका कारादिभिरस्य सूक्तस्यैंद्राग्नि (देवतात्वनिर्देशत्ते‌एवस्माभिरुक्ते)
मु॒ञ्चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा᳚जय॒क्ष्मात् |{प्राजापत्यो यक्ष्मनाशनः | इन्द्राग्नी राजयक्ष्मघ्नरूपोर्थो वा देवता | त्रिष्टुप्}

ग्राहि॑र्ज॒ग्राह॒ यदि॑ वै॒तदे᳚नं॒ तस्या᳚, इन्द्राग्नी॒ प्र मु॑मुक्तमेनम् ||{1/5}{10.161.1}{10.12.10.1}{8.8.19.1}{1632, 998, 10430}

मुं॒चामि॑¦त्वा॒¦ह॒विषा᳚¦जीव॑नाय¦क‌म्¦अ॒ज्ञा॒त॒ऽय॒क्ष्मात्¦उ॒त¦रा॒ज॒ऽय॒क्ष्मात् |
ग्राहिः॑¦ज॒ग्राह॑¦यदि॑¦वा॒¦ए॒तत्¦ए॒न॒‌म्¦तस्याः᳚¦इ॒न्द्रा॒ग्नी॒ इति॑¦प्र¦मु॒मु॒क्त॒‌म्¦ए॒न॒‌म् ||

यदि॑ क्षि॒तायु॒र्यदि॑ वा॒ परे᳚तो॒ यदि॑ मृ॒त्योर᳚न्ति॒कं नी᳚त ए॒व |{प्राजापत्यो यक्ष्मनाशनः | इन्द्राग्नी राजयक्ष्मघ्नरूपोर्थो वा देवता | त्रिष्टुप्}

तमा ह॑रामि॒ निरृ॑तेरु॒पस्था॒दस्पा᳚र्षमेनं श॒तशा᳚रदाय ||{2/5}{10.161.2}{10.12.10.2}{8.8.19.2}{1633, 998, 10431}

यदि॑¦क्षि॒तऽआ᳚युः¦यदि॑¦वा॒¦परा᳚ऽ‌इतः¦यदि॑¦मृ॒त्योः¦अ॒न्ति॒क‌म्¦निऽ‌इ᳚तः¦ए॒व |
त‌म्¦आ¦ह॒रा॒मि॒¦निःऽऋ॑तेः¦उ॒पऽस्था᳚त्¦अस्पा᳚र्ष‌म्¦ए॒न॒‌म्¦श॒तऽशा᳚रदाय ||

स॒ह॒स्रा॒क्षेण॑ श॒तशा᳚रदेन श॒तायु॑षा ह॒विषाहा᳚र्षमेनम् |{प्राजापत्यो यक्ष्मनाशनः | इन्द्राग्नी राजयक्ष्मघ्नरूपोर्थो वा देवता | त्रिष्टुप्}

श॒तं यथे॒मं श॒रदो॒ नया॒तीन्द्रो॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रम् ||{3/5}{10.161.3}{10.12.10.3}{8.8.19.3}{1634, 998, 10432}

स॒ह॒स्र॒।आ॒क्षेण॑¦श॒तऽशा᳚रदेन¦श॒तऽआ᳚युषा¦ह॒विषा᳚¦आ¦अ॒हा॒र्ष॒‌म्¦ए॒न॒‌म् |
श॒त‌म्¦यथा᳚¦इ॒म‌म्¦श॒रदः॑¦नया᳚ति¦इन्द्रः॑¦विश्व॑स्य¦दुः॒ऽ‌इ॒तस्य॑¦पा॒र‌म् ||

श॒तं जी᳚व श॒रदो॒ वर्ध॑मानः श॒तं हे᳚म॒न्ताञ्छ॒तमु॑ वस॒न्तान् |{प्राजापत्यो यक्ष्मनाशनः | इन्द्राग्नी राजयक्ष्मघ्नरूपोर्थो वा देवता | त्रिष्टुप्}

श॒तमि᳚न्द्रा॒ग्नी स॑वि॒ता बृह॒स्पतिः॑ श॒तायु॑षा ह॒विषे॒मं पुन॑र्दुः ||{4/5}{10.161.4}{10.12.10.4}{8.8.19.4}{1635, 998, 10433}

श॒त‌म्¦जी॒व॒¦श॒रदः॑¦वर्ध॑मानः¦श॒त‌म्¦हे॒म॒न्तान्¦श॒त‌म्¦ऊँ॒ इति॑¦व॒स॒न्तान् |
श॒त‌म्¦इ॒न्द्रा॒ग्नी इति॑¦स॒वि॒ता¦बृह॒स्पतिः॑¦श॒तऽआ᳚युषा¦ह॒विषा᳚¦इ॒म‌म्¦पुनः॑¦दुः॒ ||

आहा᳚र्षं॒ त्वावि॑दं त्वा॒ पुन॒रागाः᳚ पुनर्नव |{प्राजापत्यो यक्ष्मनाशनः | इन्द्राग्नी राजयक्ष्मघ्नरूपोर्थो वा देवता | अनुष्टुप्}

सर्वा᳚ङ्ग॒ सर्वं᳚ ते॒ चक्षुः॒ सर्व॒मायु॑श्च तेऽविदम् ||{5/5}{10.161.5}{10.12.10.5}{8.8.19.5}{1636, 998, 10434}

आ¦अ॒हा॒र्ष॒‌म्¦त्वा॒¦अवि॑द‌म्¦त्वा॒¦पुनः॑¦आ¦अ॒गाः॒¦पु॒नः॒ऽन॒व॒ | सर्व॑।आङ्ग¦सर्व᳚‌म्¦ते॒¦चक्षुः॑¦सर्व᳚‌म्¦आयुः॑¦च॒¦ते॒¦अ॒वि॒द॒‌म् ||

[162] ब्रह्मणाग्रिरिति षडृचस्य सूक्तस्य ब्राह्मोरक्षोहा प्रजापतिरनुष्टुप् | (अत्रसूक्तेऽनुक्रमण्यवष्टंभेनदेवतानिर्णयोनभवति | यतस्तत्र गर्भस्रावे प्रायश्चित्तिरित्युक्तं तेनसूक्तस्य प्रभावमात्रंद्योत्यतेनतुदेवता | अतोत्रप्रजापतिर्देवताग्राह्या | तथाच शौनकः 'मंत्रेषुह्यनिरुक्तेषु देवतांकर्मतोवदेत् | मंत्रतः कर्मणाचैव प्रजापतिरसंभवे' इति | भाष्यकारैरपिप्रजापतिरेवोक्तः | बृहद्देवतायांतु राक्षोघ्नाग्नेयमित्युक्तं तत्रयुक्तायुक्तंसद्भिर्विचारणीयम् ) |
ब्रह्म॑णा॒ग्निः सं᳚विदा॒नो र॑क्षो॒हा बा᳚धतामि॒तः |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्}

अमी᳚वा॒ यस्ते॒ गर्भं᳚ दु॒र्णामा॒ योनि॑मा॒शये᳚ ||{1/6}{10.162.1}{10.12.11.1}{8.8.20.1}{1637, 999, 10435}

ब्रह्म॑णा¦अ॒ग्निः¦सा॒‌म्ऽवि॒दा॒नः¦र॒क्षः॒ऽहा¦बा॒ध॒ता॒‌म्¦इ॒तः | अमी᳚वा¦यः¦ते॒¦गर्भ᳚‌म्¦दुः॒ऽनामा᳚¦योनि᳚‌म्¦आ॒शये᳚ ||

यस्ते॒ गर्भ॒ममी᳚वा दु॒र्णामा॒ योनि॑मा॒शये᳚ |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्}

अ॒ग्निष्टं ब्रह्म॑णा स॒ह निष्क्र॒व्याद॑मनीनशत् ||{2/6}{10.162.2}{10.12.11.2}{8.8.20.2}{1638, 999, 10436}

यः¦ते॒¦गर्भ᳚‌म्¦अमी᳚वा¦दुः॒ऽनामा᳚¦योनि᳚‌म्¦आ॒ऽशये᳚ | अ॒ग्निः¦त‌म्¦ब्रह्म॑णा¦स॒ह¦निः¦क्र॒व्य॒।आद᳚‌म्¦अ॒नी॒न॒श॒त् ||

यस्ते॒ हन्ति॑ प॒तय᳚न्तं निष॒त्स्नुं यः स॑रीसृ॒पम् |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्}

जा॒तं यस्ते॒ जिघां᳚सति॒ तमि॒तो ना᳚शयामसि ||{3/6}{10.162.3}{10.12.11.3}{8.8.20.3}{1639, 999, 10437}

यः¦ते॒¦हन्ति॑¦प॒तय᳚न्त‌म्¦नि॒ऽस॒त्स्नु‌म्¦यः¦स॒री॒सृ॒प‌म् | जा॒त‌म्¦यः¦ते॒¦जिघां᳚सति¦त‌म्¦इ॒तः¦ना॒श॒या॒म॒सि॒ ||

यस्त॑ ऊ॒रू वि॒हर॑त्यन्त॒रा दम्प॑ती॒ शये᳚ |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्}

योनिं॒ यो, अ॒न्तरा॒रेळ्हि॒ तमि॒तो ना᳚शयामसि ||{4/6}{10.162.4}{10.12.11.4}{8.8.20.4}{1640, 999, 10438}

यः¦ते॒¦ऊ॒रू इति॑¦वि॒ऽहर॑ति¦अ॒न्त॒रा¦दंप॑ती॒ इति॒ द‌म्ऽप॑ती¦शये᳚ | योनि᳚‌म्¦यः¦अ॒न्तः¦आ॒ऽरेळ्हि॑¦त‌म्¦इ॒तः¦ना॒श॒या॒म॒सि॒ ||

यस्त्वा॒ भ्राता॒ पति॑र्भू॒त्वा जा॒रो भू॒त्वा नि॒पद्य॑ते |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्}

प्र॒जां यस्ते॒ जिघां᳚सति॒ तमि॒तो ना᳚शयामसि ||{5/6}{10.162.5}{10.12.11.5}{8.8.20.5}{1641, 999, 10439}

यः¦त्वा॒¦भ्राता᳚¦पतिः॑¦भू॒त्वा¦जा॒रः¦भू॒त्वा¦नि॒ऽपद्य॑ते | प्र॒ऽजा‌म्¦यः¦ते॒¦जिघां᳚सति¦त‌म्¦इ॒तः¦ना॒श॒या॒म॒सि॒ ||

यस्त्वा॒ स्वप्ने᳚न॒ तम॑सा मोहयि॒त्वा नि॒पद्य॑ते |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्}

प्र॒जां यस्ते॒ जिघां᳚सति॒ तमि॒तो ना᳚शयामसि ||{6/6}{10.162.6}{10.12.11.6}{8.8.20.6}{1642, 999, 10440}

यः¦त्वा॒¦स्वप्ने᳚न¦तम॑सा¦मो॒ह॒यि॒त्वा¦नि॒ऽपद्य॑ते | प्र॒ऽजा‌म्¦यः¦ते॒¦जिघां᳚सति¦त‌म्¦इ॒तः¦ना॒श॒या॒म॒सि॒ ||

[163] अक्षीभ्यामिति षडृचस्य सूक्तस्य काश्यपोविवृहायक्ष्महानुष्टुप् |
अ॒क्षीभ्यां᳚ ते॒ नासि॑काभ्यां॒ कर्णा᳚भ्यां॒ छुबु॑का॒दधि॑ |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्}

यक्ष्मं᳚ शीर्ष॒ण्यं᳚ म॒स्तिष्का᳚ज्जि॒ह्वाया॒ वि वृ॑हामि ते ||{1/6}{10.163.1}{10.12.12.1}{8.8.21.1}{1643, 1000, 10441}

अ॒क्षीभ्या᳚‌म्¦ते॒¦नासि॑काभ्या‌म्¦कर्णा᳚भ्या‌म्¦छुबु॑कात्¦अधि॑ | यक्ष्म᳚‌म्¦शी॒र्ष॒ण्य᳚‌म्¦म॒स्तिष्का᳚त्¦जि॒ह्वायाः᳚¦वि¦वृ॒हा॒मि॒¦ते॒ ||

ग्री॒वाभ्य॑स्त उ॒ष्णिहा᳚भ्यः॒ कीक॑साभ्यो, अनू॒क्या᳚त् |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्}

यक्ष्मं᳚ दोष॒ण्य१॑(अ॒)मंसा᳚भ्यां बा॒हुभ्यां॒ वि वृ॑हामि ते ||{2/6}{10.163.2}{10.12.12.2}{8.8.21.2}{1644, 1000, 10442}

ग्री॒वाभ्यः॑¦ते॒¦उ॒ष्णिहा᳚भ्यः¦कीक॑साभ्यः¦अ॒नू॒क्या᳚त् | यक्ष्म᳚‌म्¦दो॒ष॒ण्य᳚‌म्¦अंसा᳚भ्या‌म्¦बा॒हुऽभ्या᳚‌म्¦वि¦वृ॒हा॒मि॒¦ते॒ ||

आ॒न्त्रेभ्य॑स्ते॒ गुदा᳚भ्यो वनि॒ष्ठोर्हृद॑या॒दधि॑ |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्}

यक्ष्मं॒ मत॑स्नाभ्यां य॒क्नः प्ला॒शिभ्यो॒ वि वृ॑हामि ते ||{3/6}{10.163.3}{10.12.12.3}{8.8.21.3}{1645, 1000, 10443}

आ॒न्त्रेभ्यः॑¦ते॒¦गुदा᳚भ्यः¦व॒नि॒ष्ठोः¦हृद॑यात्¦अधि॑ | यक्ष्म᳚‌म्¦मत॑स्नाभ्या‌म्¦य॒क्नः¦प्ला॒शिऽभ्यः॑¦वि¦वृ॒हा॒मि॒¦ते॒ ||

ऊ॒रुभ्यां᳚ ते, अष्ठी॒वद्भ्यां॒ पार्ष्णि॑भ्यां॒ प्रप॑दाभ्याम् |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्}

यक्ष्मं॒ श्रोणि॑भ्यां॒ भास॑दा॒द्भंस॑सो॒ वि वृ॑हामि ते ||{4/6}{10.163.4}{10.12.12.4}{8.8.21.4}{1646, 1000, 10444}

ऊ॒रुऽभ्या᳚‌म्¦ते॒¦अ॒ष्ठी॒वत्ऽभ्या᳚‌म्¦पार्ष्णि॑ऽभ्या‌म्¦प्रऽप॑दाभ्या‌म् | यक्ष्म᳚‌म्¦श्रोणि॑ऽभ्य्‌म्¦भास॑दात्¦भंस॑सः¦वि¦वृ॒हा॒मि॒¦ते॒ ||

मेह॑नाद्वनं॒कर॑णा॒ल्लोम॑भ्यस्ते न॒खेभ्यः॑ |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्}

यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ||{5/6}{10.163.5}{10.12.12.5}{8.8.21.5}{1647, 1000, 10445}

मेह॑नात्¦व॒न॒‌म्ऽकर॑णात्¦लोम॑ऽभ्यः¦ते॒¦न॒खेभ्यः॑ | यक्ष्म᳚‌म्¦सर्व॑स्मात्¦आ॒त्मनः॑¦त‌म्¦इ॒द‌म्¦वि¦वृ॒हा॒मि॒¦ते॒ ||

अङ्गा᳚दङ्गा॒ल्लोम्नो᳚लोम्नो जा॒तं पर्व॑णिपर्वणि |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्}

यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ||{6/6}{10.163.6}{10.12.12.6}{8.8.21.6}{1648, 1000, 10446}

अङ्गा᳚त्।आङ्गात्¦लोम्नः॑ऽलोम्नः¦जा॒त‌म्¦पर्व॑णिऽपर्वणि | यक्ष्म᳚‌म्¦सर्व॑स्मात्¦आ॒त्मनः॑¦त‌म्¦इ॒द‌म्¦वि¦वृ॒हा॒मि॒¦ते॒ ||

[164] अपेहीति पंचर्चस्य सूक्तस्यांगिरसः प्रचेता दुःस्वप्ननाशनोनुष्टुप् तृतीया त्रिष्टुप्‌ अंत्यापंक्तिः |
अपे᳚हि मनसस्प॒तेऽप॑ क्राम प॒रश्च॑र |{आंगिरसः प्रचेतादुः | दुःस्वप्ननाशनः | अनुष्टुप्}

प॒रो निरृ॑त्या॒, आ च॑क्ष्व बहु॒धा जीव॑तो॒ मनः॑ ||{1/5}{10.164.1}{10.12.13.1}{8.8.22.1}{1649, 1001, 10447}

अप॑¦इ॒हि॒¦म॒न॒सः॒¦प॒ते॒¦अप॑¦क्रा॒म॒¦प॒रः¦च॒र॒ | प॒रः¦निःऽऋ॑त्यै¦आ¦च॒क्ष्व॒¦ब॒हु॒धा¦जीव॑तः¦मनः॑ ||

भ॒द्रं वै वरं᳚ वृणते भ॒द्रं यु᳚ञ्जन्ति॒ दक्षि॑णम् |{आंगिरसः प्रचेतादुः | दुःस्वप्ननाशनः | अनुष्टुप्}

भ॒द्रं वै᳚वस्व॒ते चक्षु॑र्बहु॒त्रा जीव॑तो॒ मनः॑ ||{2/5}{10.164.2}{10.12.13.2}{8.8.22.2}{1650, 1001, 10448}

भ॒द्र‌म्¦वै¦वर᳚‌म्¦वृ॒ण॒ते॒¦भ॒द्र‌म्¦युं॒ज॒न्ति॒¦दक्षि॑ण‌म् | भ॒द्र‌म्¦वै॒व॒स्व॒ते¦चक्षुः॑¦ब॒हु॒ऽत्रा¦जीव॑तः¦मनः॑ ||

यदा॒शसा᳚ निः॒शसा᳚भि॒शसो᳚पारि॒म जाग्र॑तो॒ यत्स्व॒पन्तः॑ |{आंगिरसः प्रचेतादुः | दुःस्वप्ननाशनः | त्रिष्टुप्}

अ॒ग्निर्विश्वा॒न्यप॑ दुष्कृ॒तान्यजु॑ष्टान्या॒रे, अ॒स्मद्द॑धातु ||{3/5}{10.164.3}{10.12.13.3}{8.8.22.3}{1651, 1001, 10449}

यत्¦आ॒ऽशसा᳚¦निः॒ऽशसा᳚¦अ॒भि॒ऽशसा᳚¦उ॒प॒ऽआ॒रि॒म¦जाग्र॑तः¦यत्¦स्व॒पन्तः॑ |
अ॒ग्निः¦विश्वा᳚नि¦अप॑¦दुः॒ऽकृ॒तानि॑¦अजु॑ष्टानि¦आ॒रे¦अ॒स्मत्¦दा॒धा॒तु॒ ||

यदि᳚न्द्र ब्रह्मणस्पतेऽभिद्रो॒हं चरा᳚मसि |{आंगिरसः प्रचेतादुः | दुःस्वप्ननाशनः | अनुष्टुप्}

प्रचे᳚ता न आङ्गिर॒सो द्वि॑ष॒तां पा॒त्वंह॑सः ||{4/5}{10.164.4}{10.12.13.4}{8.8.22.4}{1652, 1001, 10450}

यत्¦इ॒न्द्र॒¦ब्र॒ह्म॒णः॒¦प॒ते॒¦अ॒भि॒ऽद्रो॒ह‌म्¦चरा᳚मसि | प्रऽचे᳚ताः¦नः॒¦आ॒ङ्गि॒र॒सः¦द्वि॒ष॒ता‌म्¦पा॒तु॒¦अंह॑सः ||

अजै᳚ष्मा॒द्यास॑नाम॒ चाभू॒माना᳚गसो व॒यम् |{आंगिरसः प्रचेतादुः | दुःस्वप्ननाशनः | पङ्क्तिः}

जा॒ग्र॒त्स्व॒प्नः सं᳚क॒ल्पः पा॒पो यं द्वि॒ष्मस्तं स ऋ॑च्छतु॒ यो नो॒ द्वेष्टि॒ तमृ॑च्छतु ||{5/5}{10.164.5}{10.12.13.5}{8.8.22.5}{1653, 1001, 10451}

अजै᳚ष्म¦अ॒द्य¦अस॑नाम¦च॒¦अभू᳚म¦अना᳚गसः¦व॒य‌म् |
जा॒ग्र॒त्ऽस्व॒प्नः¦स॒‌म्ऽक॒ल्पः¦पा॒पः¦य‌म्¦द्वि॒ष्मः¦त‌म्¦सः¦ऋ॒च्छ॒तु॒¦यः¦नः॒¦द्वे॒ष्टि॒¦त‌म्¦ऋ॒च्छ॒तु॒ ||

[165] देवाइति पंचर्चस्य सूक्तस्य नैरृतः कपोतोर्विश्वेदेवास्त्रिष्टुप् |
देवाः᳚ क॒पोत॑ इषि॒तो यदि॒च्छन्दू॒तो निरृ॑त्या, इ॒दमा᳚ज॒गाम॑ |{नैरृतः कपोतः | विश्वेदेवाः | त्रिष्टुप्}

तस्मा᳚, अर्चाम कृ॒णवा᳚म॒ निष्कृ॑तिं॒ शं नो᳚, अस्तु द्वि॒पदे॒ शं चतु॑ष्पदे ||{1/5}{10.165.1}{10.12.14.1}{8.8.23.1}{1654, 1002, 10452}

देवाः᳚¦क॒पोतः॑¦इ॒षि॒तः¦यत्¦इ॒च्छन्¦दू॒तः¦निःऽऋ॑त्याः¦इ॒द‌म्¦आ॒ऽज॒गाम॑ |
तस्मै᳚¦अ॒र्चा॒म॒¦कृ॒णवा᳚म¦निःऽकृ॑ति‌म्¦श‌म्¦नः॒¦अ॒स्तु॒¦द्वि॒ऽपदे᳚¦श‌म्¦चतुः॑ऽपदे ||

शि॒वः क॒पोत॑ इषि॒तो नो᳚, अस्त्वना॒गा दे᳚वाः शकु॒नो गृ॒हेषु॑ |{नैरृतः कपोतः | विश्वेदेवाः | त्रिष्टुप्}

अ॒ग्निर्हि विप्रो᳚ जु॒षतां᳚ ह॒विर्नः॒ परि॑ हे॒तिः प॒क्षिणी᳚ नो वृणक्तु ||{2/5}{10.165.2}{10.12.14.2}{8.8.23.2}{1655, 1002, 10453}

शि॒वः¦क॒पोतः॑¦इ॒षि॒तः¦नः॒¦अ॒स्तु॒¦अ॒ना॒गाः¦दे॒वाः॒¦श॒कु॒नः¦गृ॒हेषु॑ |
अ॒ग्निः¦हि¦विप्रः॑¦जु॒षता᳚‌म्¦ह॒विः¦नः॒¦परि॑¦हे॒तिः¦प॒क्षिणी᳚¦नः॒¦वृ॒ण॒क्तु॒ ||

हे॒तिः प॒क्षिणी॒ न द॑भात्य॒स्माना॒ष्ट्र्यां प॒दं कृ॑णुते, अग्नि॒धाने᳚ |{नैरृतः कपोतः | विश्वेदेवाः | त्रिष्टुप्}

शं नो॒ गोभ्य॑श्च॒ पुरु॑षेभ्यश्चास्तु॒ मा नो᳚ हिंसीदि॒ह दे᳚वाः क॒पोतः॑ ||{3/5}{10.165.3}{10.12.14.3}{8.8.23.3}{1656, 1002, 10454}

हे॒तिः¦प॒क्षिणी᳚¦न¦द॒भा॒ति॒¦अ॒स्मान्¦आ॒ष्ट्र्या‌म्¦प॒द‌म्¦कृ॒णु॒ते॒¦अ॒ग्नि॒ऽधाने᳚ |
श‌म्¦नः॒¦गोभ्यः॑¦च॒¦पुरु॑षेभ्यः¦च॒¦अ॒स्तु॒¦मा¦नः॒¦हिं॒सी॒त्¦इ॒ह¦दे॒वाः॒¦क॒पोतः॑ ||

यदुलू᳚को॒ वद॑ति मो॒घमे॒तद्यत्क॒पोतः॑ प॒दम॒ग्नौ कृ॒णोति॑ |{नैरृतः कपोतः | विश्वेदेवाः | त्रिष्टुप्}

यस्य॑ दू॒तः प्रहि॑त ए॒ष ए॒तत्तस्मै᳚ य॒माय॒ नमो᳚, अस्तु मृ॒त्यवे᳚ ||{4/5}{10.165.4}{10.12.14.4}{8.8.23.4}{1657, 1002, 10455}

यत्¦उलू᳚कः¦वद॑ति¦मो॒घ‌म्¦ए॒तत्¦यत्¦क॒पोतः॑¦प॒द‌म्¦अ॒ग्नौ¦कृ॒णोति॑ |
यस्य॑¦दू॒तः¦प्रऽहि॑तः¦ए॒षः¦ए॒तत्¦तस्मै᳚¦य॒माय॑¦नमः॑¦अ॒स्तु॒¦मृ॒त्यवे᳚ ||

ऋ॒चा क॒पोतं᳚ नुदत प्र॒णोद॒मिषं॒ मद᳚न्तः॒ परि॒ गां न॑यध्वम् |{नैरृतः कपोतः | विश्वेदेवाः | त्रिष्टुप्}

सं॒यो॒पय᳚न्तो दुरि॒तानि॒ विश्वा᳚ हि॒त्वा न॒ ऊर्जं॒ प्र प॑ता॒त्पति॑ष्ठः ||{5/5}{10.165.5}{10.12.14.5}{8.8.23.5}{1658, 1002, 10456}

ऋ॒चा¦क॒पोत᳚‌म्¦नु॒द॒त॒¦प्र॒ऽनोद᳚‌म्¦इष᳚‌म्¦मद᳚न्तः¦परि॑¦गा‌म्¦न॒य॒ध्व॒‌म् |
स॒‌म्ऽयो॒पय᳚न्तः¦दुः॒ऽ‌इ॒तानि॑¦विश्वा᳚¦हि॒त्वा¦नः॒¦ऊर्ज᳚‌म्¦प्र¦प॒ता॒त्¦पति॑ष्ठः ||

[166] ऋषभमिति पंचर्चस्य सूक्तस्य वैराजऋषभः सपत्ननाशनोनुष्ठुबंत्या महापंक्तिः | (शाक्वरोवाऋषिः)|
ऋ॒ष॒भं मा᳚ समा॒नानां᳚ स॒पत्ना᳚नां विषास॒हिम् |{वैराजऋषभः | सपत्ननाशनः | अनुष्टुप्}

ह॒न्तारं॒ शत्रू᳚णां कृधि वि॒राजं॒ गोप॑तिं॒ गवा᳚म् ||{1/5}{10.166.1}{10.12.15.1}{8.8.24.1}{1659, 1003, 10457}

ऋ॒ष॒भ‌म्¦मा॒¦स॒मा॒नाना᳚‌म्¦स॒ऽपत्ना᳚ना‌म्¦वि॒ऽस॒स॒हि‌म् | ह॒न्तार᳚‌म्¦शत्रू᳚णा‌म्¦कृ॒धि॒¦वि॒ऽराज᳚‌म्¦गोऽप॑ति‌म्¦गवा᳚‌म् ||

अ॒हम॑स्मि सपत्न॒हेन्द्र॑ इ॒वारि॑ष्टो॒, अक्ष॑तः |{वैराजऋषभः | सपत्ननाशनः | अनुष्टुप्}

अ॒धः स॒पत्ना᳚ मे प॒दोरि॒मे सर्वे᳚, अ॒भिष्ठि॑ताः ||{2/5}{10.166.2}{10.12.15.2}{8.8.24.2}{1660, 1003, 10458}

अ॒ह‌म्¦अ॒स्मि॒¦स॒प॒त्न॒ऽहा¦इन्द्रः॑ऽ‌इव¦अरि॑ष्टः¦अक्ष॑तः | अ॒धः¦स॒ऽपत्नाः᳚¦मे॒¦प॒दोः¦इ॒मे¦सर्वे᳚¦अ॒भिऽस्थि॑ताः ||

अत्रै॒व वोऽपि॑ नह्याम्यु॒भे, आर्त्नी᳚, इव॒ ज्यया᳚ |{वैराजऋषभः | सपत्ननाशनः | अनुष्टुप्}

वाच॑स्पते॒ नि षे᳚धे॒मान्यथा॒ मदध॑रं॒ वदा॑न् ||{3/5}{10.166.3}{10.12.15.3}{8.8.24.3}{1661, 1003, 10459}

अत्र॑¦ए॒व¦वः॒¦अपि॑¦न॒ह्या॒मि॒¦उ॒भे इति॑¦आर्त्नी᳚ इ॒वेत्यार्त्नी᳚ऽ‌इव¦ज्यया᳚ | वाचः॑¦प॒ते॒¦नि¦से॒ध॒¦इ॒मान्¦यथा᳚¦मत्¦अध॑र‌म्¦वदा॑न् ||

अ॒भि॒भूर॒हमाग॑मं वि॒श्वक᳚र्मेण॒ धाम्ना᳚ |{वैराजऋषभः | सपत्ननाशनः | अनुष्टुप्}

आ व॑श्चि॒त्तमा वो᳚ व्र॒तमा वो॒ऽहं समि॑तिं ददे ||{4/5}{10.166.4}{10.12.15.4}{8.8.24.4}{1662, 1003, 10460}

अ॒भि॒ऽभूः¦अ॒ह‌म्¦आ¦अ॒ग॒म॒‌म्¦वि॒श्वऽक᳚र्मेण¦धाम्ना᳚ | आ¦वः॒¦चि॒त्त‌म्¦आ¦वः॒¦व्र॒त‌म्¦आ¦वः॒¦अ॒ह‌म्¦स‌म्ऽ‌इ᳚ति‌म्¦द॒दे॒ ||

यो॒ग॒क्षे॒मं व॑ आ॒दाया॒हं भू᳚यासमुत्त॒म आ वो᳚ मू॒र्धान॑मक्रमीम् |{वैराजऋषभः | सपत्ननाशनः | महापङ्क्तिः}

अ॒ध॒स्प॒दान्म॒ उद्व॑दत म॒ण्डूका᳚, इवोद॒कान्म॒ण्डूका᳚, उद॒कादि॑व ||{5/5}{10.166.5}{10.12.15.5}{8.8.24.5}{1663, 1003, 10461}

यो॒ग॒ऽक्षे॒म‌म्¦वः॒¦आ॒ऽदाय॑¦अ॒ह‌म्¦भू॒या॒स॒‌म्¦उ॒त्ऽत॒मः¦आ¦वः॒¦मू॒र्धान᳚‌म्¦अ॒क्र॒मी॒‌म् |
अ॒धः॒ऽप॒दात्¦मे॒¦उत्¦व॒द॒त॒¦म॒ण्डूकाः᳚ऽ‌इव¦उ॒द॒कात्¦म॒ण्डूकाः᳚¦उ॒द॒कात्ऽ‌इ᳚व ||

[167] तुभ्येदमिति चतुरृचस्य सूक्तस्य गाथिभार्गवौ विश्वामित्र जमदग्नी इंद्रस्त्रतीयायाः सोमवरुण बृहस्पत्यनुमतिधातृविधातारोजगती |
तुभ्ये॒दमि᳚न्द्र॒ परि॑ षिच्यते॒ मधु॒ त्वं सु॒तस्य॑ क॒लश॑स्य राजसि |{गाथिभार्गवौ विश्वामित्र जमदग्नी | इन्द्रः | जगती}

त्वं र॒यिं पु॑रु॒वीरा᳚मु नस्कृधि॒ त्वं तपः॑ परि॒तप्या᳚जयः॒ स्वः॑ ||{1/4}{10.167.1}{10.12.16.1}{8.8.25.1}{1664, 1004, 10462}

तुभ्य॑¦इ॒द‌म्¦इ॒न्द्र॒¦परि॑¦सि॒च्य॒ते॒¦मधु॑¦त्व‌म्¦सु॒तस्य॑¦क॒लश॑स्य¦रा॒ज॒सि॒ |
त्व‌म्¦र॒यि‌म्¦पु॒रु॒ऽवीरा᳚‌म्¦ऊँ॒ इति॑¦नः॒¦कृ॒धि॒¦त्व‌म्¦तपः॑¦प॒रि॒ऽतप्य॑¦अ॒ज॒यः॒¦स्व१॒॑रिति॒ स्वः॑ ||

स्व॒र्जितं॒ महि॑ मन्दा॒नमन्ध॑सो॒ हवा᳚महे॒ परि॑ श॒क्रं सु॒ताँ, उप॑ |{गाथिभार्गवौ विश्वामित्र जमदग्नी | इन्द्रः | जगती}

इ॒मं नो᳚ य॒ज्ञमि॒ह बो॒ध्या ग॑हि॒ स्पृधो॒ जय᳚न्तं म॒घवा᳚नमीमहे ||{2/4}{10.167.2}{10.12.16.2}{8.8.25.2}{1665, 1004, 10463}

स्वः॒ऽजित᳚‌म्¦महि॑¦म॒न्दा॒न‌म्¦अन्ध॑सः¦हवा᳚महे¦परि॑¦श॒क्र‌म्¦सु॒तान्¦उप॑ |
इ॒म‌म्¦नः॒¦य॒ज्ञ‌म्¦इ॒ह¦बो॒धि॒¦आ¦ग॒हि॒¦स्पृधः॑¦जय᳚न्त‌म्¦म॒घऽवा᳚न‌म्¦ई॒म॒हे॒ ||

सोम॑स्य॒ राज्ञो॒ वरु॑णस्य॒ धर्म॑णि॒ बृह॒स्पते॒रनु॑मत्या, उ॒ शर्म॑णि |{गाथिभार्गवौ विश्वामित्र जमदग्नी | सोमवरुण बृहस्पत्यनुमतिधातृविधातारः | जगती}

तवा॒हम॒द्य म॑घव॒न्नुप॑स्तुतौ॒ धात॒र्विधा᳚तः क॒लशाँ᳚, अभक्षयम् ||{3/4}{10.167.3}{10.12.16.3}{8.8.25.3}{1666, 1004, 10464}

सोम॑स्य¦राज्ञः॑¦वरु॑णस्य¦धर्म॑णि¦बृह॒स्पतेः᳚¦अनु॑ऽमत्याः¦ऊँ॒ इति॑¦शर्म॑णि |
तव॑¦अ॒ह‌म्¦अ॒द्य¦म॒घ॒ऽव॒न्¦उप॑ऽस्तुतौ¦धातः॑¦विधा᳚त॒रिति॒ विऽधा᳚तः¦क॒लशा᳚न्¦अ॒भ॒क्ष॒य॒‌म् ||

प्रसू᳚तो भ॒क्षम॑करं च॒रावपि॒ स्तोमं᳚ चे॒मं प्र॑थ॒मः सू॒रिरुन्‌ मृ॑जे |{गाथिभार्गवौ विश्वामित्र जमदग्नी | इन्द्रः | जगती}

सु॒ते सा॒तेन॒ यद्याग॑मं वां॒ प्रति॑ विश्वामित्रजमदग्नी॒ दमे᳚ ||{4/4}{10.167.4}{10.12.16.4}{8.8.25.4}{1667, 1004, 10465}

प्रऽसू᳚तः¦भ॒क्ष‌म्¦अ॒क॒र॒‌म्¦च॒रौ¦अपि॑¦स्तोम᳚‌म्¦च॒¦इ॒म‌म्¦प्र॒थ॒मः¦सू॒रिः¦उत्¦मृ॒जे॒ |
सु॒ते¦सा॒तेन॑¦यदि॑¦आ¦अग॑म‌म्¦वा॒‌म्¦प्रति॑¦वि॒श्वा॒मि॒त्र॒ज॒म॒द॒ग्नी॒ इति॑¦दमे᳚ ||

[168] वातस्येति चतुरृचस्य सूक्तस्य वातायनोनिलोवायुस्त्रिष्टुप् |
वात॑स्य॒ नु म॑हि॒मानं॒ रथ॑स्य रु॒जन्ने᳚ति स्त॒नय᳚न्नस्य॒ घोषः॑ |{वातायनो निलः | वायुः | त्रिष्टुप्}

दि॒वि॒स्पृग्या᳚त्यरु॒णानि॑ कृ॒ण्वन्नु॒तो, ए᳚ति पृथि॒व्या रे॒णुमस्य॑न् ||{1/4}{10.168.1}{10.12.17.1}{8.8.26.1}{1668, 1005, 10466}

वात॑स्य¦नु¦म॒हि॒मान᳚‌म्¦रथ॑स्य¦रु॒जन्¦ए॒ति॒¦स्त॒नय॑न्¦अ॒स्य॒¦घोषः॑ |
दि॒वि॒ऽस्पृक्¦या॒ति॒¦अ॒रु॒णानि॑¦कृ॒ण्वन्¦उ॒तो इति॑¦ए॒ति॒¦पृ॒थि॒व्या¦रे॒णु‌म्¦अस्य॑न् ||

सं प्रेर॑ते॒, अनु॒ वात॑स्य वि॒ष्ठा, ऐनं᳚ गच्छन्ति॒ सम॑नं॒ न योषाः᳚ |{वातायनो निलः | वायुः | त्रिष्टुप्}

ताभिः॑ स॒युक्स॒रथं᳚ दे॒व ई᳚यते॒ऽस्य विश्व॑स्य॒ भुव॑नस्य॒ राजा᳚ ||{2/4}{10.168.2}{10.12.17.2}{8.8.26.2}{1669, 1005, 10467}

स‌म्¦प्र¦ई॒र॒ते॒¦अनु॑¦वात॑स्य¦वि॒ऽस्थाः¦आ¦ए॒न॒‌म्¦ग॒च्छ॒न्ति॒¦सम॑न‌म्¦न¦योषाः᳚ |
ताभिः॑¦स॒ऽयुक्¦स॒ऽरथ᳚‌म्¦दे॒वः¦ई॒य॒ते॒¦अ॒स्य¦विश्व॑स्य¦भुव॑नस्य¦राजा᳚ ||

अ॒न्तरि॑क्षे प॒थिभि॒रीय॑मानो॒ न नि वि॑शते कत॒मच्च॒नाहः॑ |{वातायनो निलः | वायुः | त्रिष्टुप्}

अ॒पां सखा᳚ प्रथम॒जा, ऋ॒तावा॒ क्व॑ स्विज्जा॒तः कुत॒ आ ब॑भूव ||{3/4}{10.168.3}{10.12.17.3}{8.8.26.3}{1670, 1005, 10468}

अ॒न्तरि॑क्षे¦प॒थिऽभिः॑¦ईय॑मानः¦न¦नि¦वि॒श॒ते॒¦क॒त॒मत्¦च॒न¦अह॒रिति॑ |
अ॒पा‌म्¦सखा᳚¦प्र॒थ॒म॒ऽजाः¦ऋ॒तऽवा᳚¦क्व॑¦स्वि॒त्¦जा॒तः¦कुतः॑¦आ¦ब॒भू॒व॒ ||

आ॒त्मा दे॒वानां॒ भुव॑नस्य॒ गर्भो᳚ यथाव॒शं च॑रति दे॒व ए॒षः |{वातायनो निलः | वायुः | त्रिष्टुप्}

घोषा॒, इद॑स्य शृण्विरे॒ न रू॒पं तस्मै॒ वाता᳚य ह॒विषा᳚ विधेम ||{4/4}{10.168.4}{10.12.17.4}{8.8.26.4}{1671, 1005, 10469}

आ॒त्मा¦दे॒वाना᳚‌म्¦भुव॑नस्य¦गर्भः॑¦य॒था॒ऽव॒श‌म्¦च॒र॒ति॒¦दे॒वः¦ए॒षः |
घोषाः᳚¦इत्¦अ॒स्य॒¦शृ॒ण्वि॒रे॒¦न¦रू॒प‌म्¦तस्मै᳚¦वाता᳚य¦ह॒विषा᳚¦वि॒धे॒म॒ ||

[169] मयोभूरिति चतुरृचस्य सूक्तस्य काक्षीवतः शंबरोगावस्त्रिष्टुप् |
म॒यो॒भूर्वातो᳚, अ॒भि वा᳚तू॒स्रा, ऊर्ज॑स्वती॒रोष॑धी॒रा रि॑शन्ताम् |{काक्षीवतः शंबरः | गावः | त्रिष्टुप्}

पीव॑स्वतीर्जी॒वध᳚न्याः पिबन्त्वव॒साय॑ प॒द्वते᳚ रुद्र मृळ ||{1/4}{10.169.1}{10.12.18.1}{8.8.27.1}{1672, 1006, 10470}

म॒यः॒ऽभूः¦वातः॑¦अ॒भि¦वा॒तु॒¦उ॒स्राः¦ऊर्ज॑स्वतीः¦ओष॑धीः¦आ¦रि॒श॒न्ता॒‌म् |
पीव॑स्वतीः¦जी॒वऽध᳚न्याः¦पि॒ब॒न्तु॒¦अ॒व॒साय॑¦प॒त्ऽवते᳚¦रु॒द्र॒¦मृ॒ळ॒ ||

याः सरू᳚पा॒ विरू᳚पा॒, एक॑रूपा॒ यासा᳚म॒ग्निरिष्ट्या॒ नामा᳚नि॒ वेद॑ |{काक्षीवतः शंबरः | गावः | त्रिष्टुप्}

या, अङ्गि॑रस॒स्तप॑से॒ह च॒क्रुस्ताभ्यः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ||{2/4}{10.169.2}{10.12.18.2}{8.8.27.2}{1673, 1006, 10471}

याः¦सऽरू᳚पाः¦विऽरू᳚पाः¦एक॑ऽरूपाः¦यासा᳚‌म्¦अ॒ग्निः¦इष्ट्या᳚¦नामा᳚नि¦वेद॑ |
याः¦अङ्गि॑रसः¦तप॑सा¦इ॒ह¦च॒क्रुः¦ताभ्यः॑¦प॒र्ज॒न्य॒¦महि॑¦शर्म॑¦य॒च्छ॒ ||

या दे॒वेषु॑ त॒न्व१॑(अ॒)मैर॑यन्त॒ यासां॒ सोमो॒ विश्वा᳚ रू॒पाणि॒ वेद॑ |{काक्षीवतः शंबरः | गावः | त्रिष्टुप्}

ता, अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः प्र॒जाव॑तीरिन्द्र गो॒ष्ठे रि॑रीहि ||{3/4}{10.169.3}{10.12.18.3}{8.8.27.3}{1674, 1006, 10472}

याः¦दे॒वेषु॑¦त॒न्व᳚‌म्¦ऐर॑यन्त¦यासा᳚‌म्¦सोमः॑¦विश्वा᳚¦रू॒पाणि॑¦वेद॑ |
ताः¦अ॒स्मभ्य᳚‌म्¦पय॑सा¦पिन्व॑मानाः¦प्र॒जाऽव॑तीः¦इ॒न्द्र॒¦गो॒ऽस्थे¦रि॒री॒हि॒ ||

प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा᳚णो॒ विश्वै᳚र्दे॒वैः पि॒तृभिः॑ संविदा॒नः |{काक्षीवतः शंबरः | गावः | त्रिष्टुप्}

शि॒वाः स॒तीरुप॑ नो गो॒ष्ठमाक॒स्तासां᳚ व॒यं प्र॒जया॒ सं स॑देम ||{4/4}{10.169.4}{10.12.18.4}{8.8.27.4}{1675, 1006, 10473}

प्र॒जाऽप॑तिः¦मह्य᳚‌म्¦ए॒ताः¦ररा᳚णः¦विश्वैः᳚¦दे॒वैः¦पि॒तृऽभिः॑¦स॒‌म्ऽवि॒दा॒नः |
शि॒वाः¦स॒तीः¦उप॑¦नः॒¦गो॒ऽस्थ‌म्¦आ¦अ॒क॒रित्य॑कः¦तासा᳚‌म्¦व॒य‌म्¦प्र॒ऽजया᳚¦स‌म्¦स॒दे॒म॒ ||

[170] विभ्राडिति चतुरृचस्य सूक्तस्य सौर्यो विभ्राट् सूर्योजगत्यंयास्तारपंक्तिः |
वि॒भ्राड्‌ बृ॒हत्‌ पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतम् |{सौर्यो विभ्राट् | सूर्यः | जगती}

वात॑जूतो॒ यो, अ॑भि॒रक्ष॑ति॒ त्मना᳚ प्र॒जाः पु॑पोष पुरु॒धा वि रा᳚जति ||{1/4}{10.170.1}{10.12.19.1}{8.8.28.1}{1676, 1007, 10474}

वि॒ऽभ्राट्¦बृ॒हत्¦पि॒ब॒तु॒¦सो॒म्य‌म्¦मधु॑¦आयुः॑¦दध॑त्¦य॒ज्ञऽप॑तौ¦अवि॑ऽहुत‌म् |
वात॑ऽजूतः¦यः¦अ॒भि॒ऽरक्ष॑ति¦त्मना᳚¦प्र॒ऽजाः¦पु॒पो॒ष॒¦पु॒रु॒धा¦वि¦रा॒ज॒ति॒ ||

वि॒भ्राड्‌ बृ॒हत्‌ सुभृ॑तं वाज॒सात॑मं॒ धर्म᳚न्‌ दि॒वो ध॒रुणे᳚ स॒त्यमर्पि॑तम् |{सौर्यो विभ्राट् | सूर्यः | जगती}

अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हन्त॑मं॒ ज्योति॑र्जज्ञे, असुर॒हा स॑पत्न॒हा ||{2/4}{10.170.2}{10.12.19.2}{8.8.28.2}{1677, 1007, 10475}

वि॒ऽभ्राट्¦बृ॒हत्¦सुऽभृ॑त‌म्¦वा॒ज॒ऽसात॑म‌म्¦धर्म᳚‌म्¦दि॒वः¦ध॒रुणे᳚¦स॒त्य‌म्¦अर्पि॑त‌म् |
अ॒मि॒त्र॒ऽहा¦वृ॒त्र॒ऽहा¦द॒स्यु॒ह‌म्ऽत॑म‌म्¦ज्योतिः॑¦ज॒ज्ञे॒¦अ॒सु॒र॒ऽहा¦स॒प॒त्न॒ऽहा ||

इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॑रुत्त॒मं वि॑श्व॒जिद्ध॑न॒जिदु॑च्यते बृ॒हत् |{सौर्यो विभ्राट् | सूर्यः | जगती}

वि॒श्व॒भ्राड्‌ भ्रा॒जो महि॒ सूर्यो᳚ दृ॒श उ॒रु प॑प्रथे॒ सह॒ ओजो॒, अच्यु॑तम् ||{3/4}{10.170.3}{10.12.19.3}{8.8.28.3}{1678, 1007, 10476}

इ॒द‌म्¦श्रेष्ठ᳚‌म्¦ज्योति॑षा‌म्¦ज्योतिः॑¦उ॒त्ऽत॒म‌म्¦वि॒श्व॒ऽजित्¦ध॒न॒ऽजित्¦उ॒च्य॒ते॒¦बृ॒हत् |
वि॒श्व॒ऽभ्राट्¦भ्रा॒जः¦महि॑¦सूर्यः॑¦दृ॒शे¦उ॒रु¦प॒प्र॒थे॒¦सहः॑¦ओजः॑¦अच्यु॑त‌म् ||

वि॒भ्राज॒ञ्ज्योति॑षा॒ स्व१॑(अ॒)रग॑च्छो रोच॒नं दि॒वः |{सौर्यो विभ्राट् | सूर्यः | आस्तारपङ्क्ति}

येने॒मा विश्वा॒ भुव॑ना॒न्याभृ॑ता वि॒श्वक᳚र्मणा वि॒श्वदे᳚व्यावता ||{4/4}{10.170.4}{10.12.19.4}{8.8.28.4}{1679, 1007, 10477}

वि॒ऽभ्राज᳚‌म्¦ज्योति॑षा¦स्वः॑¦अग॑च्छः¦रो॒च॒न‌म्¦दि॒वः |
येन॑¦इ॒मा¦विश्वा᳚¦भुव॑नानि¦आऽभृ॑ता¦वि॒श्वऽक᳚र्मणा¦वि॒श्वदे᳚व्यऽवता ||

[171] त्वंत्यमिति चतुर्भचस्य सूक्तस्य भार्गवइटइंद्रोगायत्री |
त्वं त्यमि॒टतो॒ रथ॒मिन्द्र॒ प्रावः॑ सु॒ताव॑तः |{भार्गव इटः | इन्द्रः | गायत्री}

अशृ॑णोः सो॒मिनो॒ हव᳚म् ||{1/4}{10.171.1}{10.12.20.1}{8.8.29.1}{1680, 1008, 10478}

त्व‌म्¦त्य‌म्¦इ॒टतः॑¦रथ᳚‌म्¦इन्द्र॑¦प्र¦आ॒वः॒¦सु॒तऽव॑तः | अशृ॑णोः¦सो॒मिन॑¦हव᳚‌म् ||

त्वं म॒खस्य॒ दोध॑तः॒ शिरोऽव॑ त्व॒चो भ॑रः |{भार्गव इटः | इन्द्रः | गायत्री}

अग॑च्छः सो॒मिनो᳚ गृ॒हम् ||{2/4}{10.171.2}{10.12.20.2}{8.8.29.2}{1681, 1008, 10479}

त्व‌म्¦म॒खस्य॑¦दोध॑तः¦शिरः॑¦अव॑¦त्व॒चः¦भ॒रः॒ | अग॑च्छः¦सो॒मिनः॑¦गृ॒ह‌म् ||

त्वं त्यमि᳚न्द्र॒ मर्त्य॑मास्त्रबु॒ध्नाय॑ वे॒न्यम् |{भार्गव इटः | इन्द्रः | गायत्री}

मुहुः॑ श्रथ्ना मन॒स्यवे᳚ ||{3/4}{10.171.3}{10.12.20.3}{8.8.29.3}{1682, 1008, 10480}

त्व‌म्¦त्य‌म्¦इ॒न्द्र॒¦मर्त्य᳚‌म्¦आ॒स्त्र॒ऽबु॒ध्नाय॑¦वे॒न्य‌म् | मुहुः॑¦श्र॒थ्नाः॒¦म॒न॒स्यवे᳚ ||

त्वं त्यमि᳚न्द्र॒ सूर्यं᳚ प॒श्चा सन्तं᳚ पु॒रस्कृ॑धि |{भार्गव इटः | इन्द्रः | गायत्री}

दे॒वानां᳚ चित्ति॒रो वश᳚म् ||{4/4}{10.171.4}{10.12.20.4}{8.8.29.4}{1683, 1008, 10481}

त्व‌म्¦त्य‌म्¦इ॒न्द्र॒¦सूर्य᳚‌म्¦प॒श्चा¦सन्त᳚‌म्¦पु॒रः¦कृ॒धि॒ | दे॒वाना᳚‌म्¦चि॒त्¦ति॒रः¦वश᳚‌म् ||

[172] आयाहीति चतुरृचस्य सूक्तस्यांगिरसः संवर्त उषाद्विपदाविराट् |
आ या᳚हि॒ वन॑सा स॒ह गावः॑ सचन्त वर्त॒निं यदूध॑भिः ||{आङ्गिरसः संवर्तः | उषाः | द्विपदाविराट्}{1/4}{10.172.1}{10.12.21.1}{8.8.30.1}{1684, 1009, 10482}

आ¦या॒हि॒¦वन॑सा¦स॒ह¦गावः॑¦स॒च॒न्त॒¦व॒र्त॒नि‌म्¦यत्¦ऊध॑ऽभिः ||

आ या᳚हि॒ वस्व्या᳚ धि॒या मंहि॑ष्ठो जार॒यन्म॑खः सु॒दानु॑भिः ||{आङ्गिरसः संवर्तः | उषाः | द्विपदाविराट्}{2/4}{10.172.2}{10.12.21.2}{8.8.30.2}{1685, 1009, 10483}

आ¦या॒हि॒¦वस्व्या᳚¦धि॒या¦मंहि॑ष्ठः¦जा॒र॒यत्ऽम॑खः¦सु॒दानु॑ऽभिः ||

पि॒तु॒भृतो॒ न तन्तु॒मित्सु॒दान॑वः॒ प्रति॑ दध्मो॒ यजा᳚मसि ||{आङ्गिरसः संवर्तः | उषाः | द्विपदाविराट्}{3/4}{10.172.3}{10.12.21.3}{8.8.30.3}{1686, 1009, 10484}

पि॒तु॒ऽभृतः॑¦न¦तन्तु᳚‌म्¦इत्¦सु॒ऽदान॑वः¦प्रति॑¦द॒ध्मः॒¦यजा᳚मसि ||

उ॒षा, अप॒ स्वसु॒स्तमः॒ सं व॑र्तयति वर्त॒निं सु॑जा॒तता᳚ ||{आङ्गिरसः संवर्तः | उषाः | द्विपदाविराट्}{4/4}{10.172.4}{10.12.21.4}{8.8.30.4}{1687, 1009, 10485}

उ॒षाः¦अप॑¦स्वसुः॑¦तमः॑¦स‌म्¦व॒र्त॒य॒ति॒¦व॒र्त॒नि‌म्¦सु॒ऽजा॒तता᳚ ||

[173] आत्वेति षडृचस्य सूक्तस्यांगिरसोध्रुवोराजानुष्टुप् |
आ त्वा᳚हार्षम॒न्तरे᳚धि ध्रु॒वस्ति॒ष्ठावि॑चाचलिः |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्}

विश॑स्त्वा॒ सर्वा᳚ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ||{1/6}{10.173.1}{10.12.22.1}{8.8.31.1}{1688, 1010, 10486}

आ¦त्वा॒¦अ॒हा॒र्ष॒‌म्¦अ॒न्तः¦ए॒धि॒¦ध्रु॒वः¦ति॒ष्ठ॒¦अवि॑ऽचाचलिः | विशः॑¦त्वा॒¦सर्वाः᳚¦वां॒छ॒न्तु॒¦मा¦त्वत्¦रा॒ष्ट्र‌म्¦अधि॑¦भ्र॒श॒त् ||

इ॒हैवैधि॒ माप॑ च्योष्ठाः॒ पर्व॑त इ॒वावि॑चाचलिः |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्}

इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑ धारय ||{2/6}{10.173.2}{10.12.22.2}{8.8.31.2}{1689, 1010, 10487}

इ॒ह¦ए॒व¦ए॒धि॒¦मा¦अप॑¦च्यो॒ष्ठाः॒¦पर्व॑तःऽ‌इव¦अवि॑ऽचाचलिः | इन्द्र॑ऽ‌इव¦इ॒ह¦ध्रु॒वः¦ति॒ष्ठ॒¦इ॒ह¦रा॒ष्ट्र‌म्¦ऊँ॒ इति॑¦धा॒र॒य॒ ||

इ॒ममिन्द्रो᳚, अदीधरद्ध्रु॒वं ध्रु॒वेण॑ ह॒विषा᳚ |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्}

तस्मै॒ सोमो॒, अधि॑ ब्रव॒त्तस्मा᳚, उ॒ ब्रह्म॑ण॒स्पतिः॑ ||{3/6}{10.173.3}{10.12.22.3}{8.8.31.3}{1690, 1010, 10488}

इ॒म‌म्¦इन्द्रः॑¦अ॒दी॒ध॒र॒त्¦ध्रु॒व‌म्¦ध्रु॒वेण॑¦ह॒विषा᳚ | तस्मै᳚¦सोमः॑¦अधि॑¦ब्र॒व॒त्¦तस्मै᳚¦ऊँ॒ इति॑¦ब्रह्म॑णः¦पतिः॑ ||

ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वासः॒ पर्व॑ता, इ॒मे |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्}

ध्रु॒वं विश्व॑मि॒दं जग॑द् ध्रु॒वो राजा᳚ वि॒शाम॒यम् ||{4/6}{10.173.4}{10.12.22.4}{8.8.31.4}{1691, 1010, 10489}

ध्रु॒वा¦द्यौः¦ध्रु॒वा¦पृ॒थि॒वी¦ध्रु॒वासः॑¦पर्व॑ताः¦इ॒मे | ध्रु॒व‌म्¦विश्व᳚‌म्¦इ॒द‌म्¦जग॑त्¦ध्रु॒वः¦राजा᳚¦वि॒शा‌म्¦अ॒य‌म् ||

ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वं दे॒वो बृह॒स्पतिः॑ |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्}

ध्रु॒वं त॒ इन्द्र॑श्चा॒ग्निश्च॑ रा॒ष्ट्रं धा᳚रयतां ध्रु॒वम् ||{5/6}{10.173.5}{10.12.22.5}{8.8.31.5}{1692, 1010, 10490}

ध्रु॒व‌म्¦ते॒¦राजा᳚¦वरु॑णः¦ध्रु॒व‌म्¦दे॒वः¦बृह॒स्पतिः॑ | ध्रु॒व‌म्¦ते॒¦इन्द्रः॑¦च॒¦अ॒ग्निः¦च॒¦रा॒ष्ट्र‌म्¦धा॒र॒य॒ता॒‌म्¦ध्रु॒व‌म् ||

ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॒ऽभि सोमं᳚ मृशामसि |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्}

अथो᳚ त॒ इन्द्रः॒ केव॑ली॒र्विशो᳚ बलि॒हृत॑स्करत् ||{6/6}{10.173.6}{10.12.22.6}{8.8.31.6}{1693, 1010, 10491}

ध्रु॒व‌म्¦ध्रु॒वेण॑¦ह॒विषा᳚¦अ॒भि¦सोम᳚‌म्¦मृ॒शा॒म॒सि॒ | अथो॒ इति॑¦ते॒¦इन्द्रः॑¦केव॑लीः¦विशः॑¦ब॒लि॒ऽहृतः॑¦क॒र॒त् ||

[174] अभीवर्तेनेति पंचर्चस्य सूक्तस्यांगिरसोभीवर्तो राजानुष्टुप् |
अ॒भी॒व॒र्तेन॑ ह॒विषा॒ येनेन्द्रो᳚, अभिवावृ॒ते |{आङ्गिरसो भीवर्तः | राजाः | अनुष्टुप्}

तेना॒स्मान्‌ ब्र᳚ह्मणस्पते॒ऽभि रा॒ष्ट्राय॑ वर्तय ||{1/5}{10.174.1}{10.12.23.1}{8.8.32.1}{1694, 1011, 10492}

अ॒भि॒ऽव॒र्तेन॑¦ह॒विषा᳚¦येन॑¦इन्द्रः॑¦अ॒भि॒ऽव॒वृ॒ते | तेन॑¦अ॒स्मान्¦ब्र॒ह्म॒णः॒¦प॒ते॒¦अ॒भि¦रा॒ष्ट्राय॑¦व॒र्त॒य॒ ||

अ॒भि॒वृत्य॑ स॒पत्ना᳚न॒भि या नो॒, अरा᳚तयः |{आङ्गिरसो भीवर्तः | राजाः | अनुष्टुप्}

अ॒भि पृ॑त॒न्यन्तं᳚ तिष्ठा॒भि यो न॑ इर॒स्यति॑ ||{2/5}{10.174.2}{10.12.23.2}{8.8.32.2}{1695, 1011, 10493}

अ॒भि॒ऽवृत्य॑¦स॒ऽपत्ना᳚न्¦अ॒भि¦याः¦नः॒¦अरा᳚तयः | अ॒भि¦पृ॒त॒न्यन्त᳚‌म्¦ति॒ष्ठ॒¦अ॒भि¦यः¦नः॒¦इ॒र॒स्यति॑ ||

अ॒भि त्वा᳚ दे॒वः स॑वि॒ताभि सोमो᳚, अवीवृतत् |{आङ्गिरसो भीवर्तः | राजाः | अनुष्टुप्}

अ॒भि त्वा॒ विश्वा᳚ भू॒तान्य॑भीव॒र्तो यथास॑सि ||{3/5}{10.174.3}{10.12.23.3}{8.8.32.3}{1696, 1011, 10494}

अ॒भि¦त्वा᳚¦दे॒वः¦स॒वि॒ता¦अ॒भि¦सोमः॑¦अ॒वी॒वृ॒त॒त् | अ॒भि¦त्वा॒¦विश्वा᳚¦भू॒तानि॑¦अ॒भि॒ऽव॒र्तः¦यथा᳚¦अस॑सि ||

येनेन्द्रो᳚ ह॒विषा᳚ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः |{आङ्गिरसो भीवर्तः | राजाः | अनुष्टुप्}

इ॒दं तद॑क्रि देवा, असप॒त्नः किला᳚भुवम् ||{4/5}{10.174.4}{10.12.23.4}{8.8.32.4}{1697, 1011, 10495}

येन॑¦इन्द्रः॑¦ह॒विषा᳚¦कृ॒त्वी¦अभ॑वत्¦द्यु॒म्नी¦उ॒त्ऽत॒मः | इ॒द‌म्¦तत्¦अ॒क्रि॒¦दे॒वाः॒¦अ॒स॒प॒त्नः¦किल॑¦अ॒भु॒व॒‌म् ||

अ॒स॒प॒त्नः स॑पत्न॒हाभिरा᳚ष्ट्रो विषास॒हिः |{आङ्गिरसो भीवर्तः | राजाः | अनुष्टुप्}

यथा॒हमे᳚षां भू॒तानां᳚ वि॒राजा᳚नि॒ जन॑स्य च ||{5/5}{10.174.5}{10.12.23.5}{8.8.32.5}{1698, 1011, 10496}

अ॒स॒प॒त्नः¦स॒प॒त्न॒ऽहा¦अ॒भिऽरा᳚ष्ट्रः¦वि॒ऽस॒स॒हिः | यथा᳚¦अ॒ह‌म्¦ए॒षा‌म्¦भू॒ताना᳚‌म्¦वि॒ऽराजा᳚नि¦जन॑स्य¦च॒ ||

[175] प्रवइति चतुरृचस्य सूक्तस्योर्ध्वग्रावार्बुदः सर्पऋषिपुत्रोग्रावाणोगायत्री |
प्र वो᳚ ग्रावाणः सवि॒ता दे॒वः सु॑वतु॒ धर्म॑णा |{ऊर्ध्वग्रावार्बुदः | ग्रावाणः | गायत्री}

धू॒र्षु यु॑ज्यध्वं सुनु॒त ||{1/4}{10.175.1}{10.12.24.1}{8.8.33.1}{1699, 1012, 10497}

प्र¦वः॒¦ग्रा॒वा॒णः॒¦स॒वि॒ता¦दे॒वः¦सु॒व॒तु॒¦धर्म॑णा | धूः॒ऽसु¦यु॒ज्य॒ध्व॒‌म्¦सु॒नु॒त ||

ग्रावा᳚णो॒, अप॑ दु॒च्छुना॒मप॑ सेधत दुर्म॒तिम् |{ऊर्ध्वग्रावार्बुदः | ग्रावाणः | गायत्री}

उ॒स्राः क॑र्तन भेष॒जम् ||{2/4}{10.175.2}{10.12.24.2}{8.8.33.2}{1700, 1012, 10498}

ग्रावा᳚णः¦अप॑¦दु॒च्छुना᳚‌म्¦अप॑¦से॒ध॒त॒¦दुः॒ऽम॒ति‌म् | उ॒स्राः¦क॒र्त॒न॒¦भे॒ष॒ज‌म् ||

ग्रावा᳚ण॒ उप॑रे॒ष्वा म॑ही॒यन्ते᳚ स॒जोष॑सः |{ऊर्ध्वग्रावार्बुदः | ग्रावाणः | गायत्री}

वृष्णे॒ दध॑तो॒ वृष्ण्य᳚म् ||{3/4}{10.175.3}{10.12.24.3}{8.8.33.3}{1701, 1012, 10499}

ग्रावा᳚णः¦उप॑रेषु¦आ¦म॒ही॒यन्ते᳚¦स॒ऽजोष॑सः | वृ॒ष्णे॒¦दध॑तः¦वृष्ण्य᳚‌म् ||

ग्रावा᳚णः सवि॒ता नु वो᳚ दे॒वः सु॑वतु॒ धर्म॑णा |{ऊर्ध्वग्रावार्बुदः | ग्रावाणः | गायत्री}

यज॑मानाय सुन्व॒ते ||{4/4}{10.175.4}{10.12.24.4}{8.8.33.4}{1702, 1012, 10500}

ग्रावा᳚णः¦स॒वि॒ता¦नु¦वः॒¦दे॒वः¦सु॒व॒तु॒¦धर्म॑णा | यज॑मानाय¦सु॒न्व॒ते ||

[176] प्रसूनवइति चतुरृचस्य सूक्तस्यार्भवः सूनुरग्निराद्यायाऋभवोनुष्टुप् द्वितीया गायत्री |
प्र सू॒नव॑ ऋभू॒णां बृ॒हन्न॑वन्त वृ॒जना᳚ |{सूनुरार्भवः | ऋभवः | अनुष्टुप्}

क्षामा॒ ये वि॒श्वधा᳚य॒सोऽश्न᳚न्धे॒नुं न मा॒तर᳚म् ||{1/4}{10.176.1}{10.12.25.1}{8.8.34.1}{1703, 1013, 10501}

प्र¦सू॒नवः॑¦ऋ॒भू॒णा‌म्¦बृ॒हत्¦न॒व॒न्त॒¦वृ॒जना᳚ | क्षाम॑¦ये¦वि॒श्वऽधा᳚यसः¦अश्न॑न्¦धे॒नु‌म्¦न¦मा॒तर᳚‌म् ||

प्र दे॒वं दे॒व्या धि॒या भर॑ता जा॒तवे᳚दसम् |{सूनुरार्भवः | अग्निः | गायत्री}

ह॒व्या नो᳚ वक्षदानु॒षक् ||{2/4}{10.176.2}{10.12.25.2}{8.8.34.2}{1704, 1013, 10502}

प्र¦दे॒व‌म्¦दे॒व्या¦धि॒या¦भर॑त¦जा॒तऽवे᳚दस‌म् | ह॒व्या¦नः॒¦व॒क्ष॒त्¦आ॒नु॒षक् ||

अ॒यमु॒ ष्य प्र दे᳚व॒युर्होता᳚ य॒ज्ञाय॑ नीयते |{सूनुरार्भवः | अग्निः | अनुष्टुप्}

रथो॒ न योर॒भीवृ॑तो॒ घृणी᳚वाञ्चेतति॒ त्मना᳚ ||{3/4}{10.176.3}{10.12.25.3}{8.8.34.3}{1705, 1013, 10503}

अ॒य‌म्¦ऊँ॒ इति॑¦स्यः¦प्र¦दे॒व॒ऽयुः¦होता᳚¦य॒ज्ञाय॑¦नी॒य॒ते॒ | रथः॑¦न¦योः¦अ॒भिऽवृ॑तः¦घृणि॑ऽवान्¦चे॒त॒ति॒¦त्मना᳚ ||

अ॒यम॒ग्निरु॑रुष्यत्य॒मृता᳚दिव॒ जन्म॑नः |{सूनुरार्भवः | अग्निः | अनुष्टुप्}

सह॑सश्चि॒त्सही᳚यान्दे॒वो जी॒वात॑वे कृ॒तः ||{4/4}{10.176.4}{10.12.25.4}{8.8.34.4}{1706, 1013, 10504}

अ॒य‌म्¦अ॒ग्निः¦उ॒रु॒ष्य॒ति॒¦अ॒मृता᳚त्ऽ‌इव¦जन्म॑नः | सह॑सः¦चि॒त्¦सही᳚यान्¦दे॒वः¦जी॒वात॑वे¦कृ॒तः ||

[177] पतंगमिति तृचस्य सूक्तस्य प्राजापत्यः पतंगोमायाभेदस्त्रिष्टुप् आद्याजगती |
प॒तं॒गम॒क्तमसु॑रस्य मा॒यया᳚ हृ॒दा प॑श्यन्ति॒ मन॑सा विप॒श्चितः॑ |{प्राजापत्यः पतंगः | मायाभेदः | जगती}

स॒मु॒द्रे, अ॒न्तः क॒वयो॒ वि च॑क्षते॒ मरी᳚चीनां प॒दमि॑च्छन्ति वे॒धसः॑ ||{1/3}{10.177.1}{10.12.26.1}{8.8.35.1}{1707, 1014, 10505}

प॒त॒ङ्ग‌म्¦अ॒क्त‌म्¦असु॑रस्य¦मा॒यया᳚¦हृ॒दा¦प॒श्य॒न्ति॒¦मन॑सा¦वि॒पः॒ऽचितः॑ |
स॒मु॒द्रे¦अ॒न्तरिति॑¦क॒वयः॑¦वि¦च॒क्ष॒ते॒¦मरी᳚चीना‌म्¦प॒द‌म्¦इ॒च्छ॒न्ति॒¦वे॒धसः॑ ||

प॒तं॒गो वाचं॒ मन॑सा बिभर्ति॒ तां ग᳚न्ध॒र्वो᳚ऽवद॒द्गर्भे᳚, अ॒न्तः |{प्राजापत्यः पतंगः | मायाभेदः | त्रिष्टुप्}

तां द्योत॑मानां स्व॒र्यं᳚ मनी॒षामृ॒तस्य॑ प॒दे क॒वयो॒ नि पा᳚न्ति ||{2/3}{10.177.2}{10.12.26.2}{8.8.35.2}{1708, 1014, 10506}

प॒त॒ङ्गः¦वाच᳚‌म्¦मन॑सा¦बि॒भ॒र्ति॒¦तान्¦ग॒न्ध॒र्वः¦अ॒व॒द॒त्¦गर्भे᳚¦अ॒न्तरिति॑ |
ता‌म्¦द्योत॑माना‌म्¦स्व॒र्य᳚‌म्¦म॒नी॒षा‌म्¦ऋ॒तस्य॑¦प॒दे¦क॒वयः॑¦नि¦पा॒न्ति॒ ||

अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा᳚ च प॒थिभि॒श्चर᳚न्तम् |{प्राजापत्यः पतंगः | मायाभेदः | त्रिष्टुप्}

स स॒ध्रीचीः॒ स विषू᳚ची॒र्वसा᳚न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ||{3/3}{10.177.3}{10.12.26.3}{8.8.35.3}{1709, 1014, 10507}

अप॑श्य‌म्¦गो॒पा‌म्¦अनि॑ऽपद्यमान‌म्¦आ¦च॒¦परा᳚¦च॒¦प॒थिऽभिः॑¦चर᳚न्त‌म् |
सः¦स॒ध्रीचीः᳚¦सः¦विषू᳚चीः¦वसा᳚नः¦आ¦व॒री॒व॒र्ति॒¦भुव॑नेषु¦अ॒न्तरिति॑ ||

[178] त्यमूष्विति तृचस्य सूक्तस्य तार्क्ष्योरिष्टनेमिस्तार्क्ष्यस्त्रिष्टुप् |
त्यमू॒ षु वा॒जिनं᳚ दे॒वजू᳚तं स॒हावा᳚नं तरु॒तारं॒ रथा᳚नाम् |{तार्क्ष्योरिष्टनेमिः | तार्क्ष्यः | त्रिष्टुप्}

अरि॑ष्टनेमिं पृत॒नाज॑मा॒शुं स्व॒स्तये॒ तार्क्ष्य॑मि॒हा हु॑वेम ||{1/3}{10.178.1}{10.12.27.1}{8.8.36.1}{1710, 1015, 10508}

त्य‌म्¦ऊँ॒ इति॑¦सु¦वा॒जिन᳚‌म्¦दे॒वऽजू᳚त‌म्¦स॒हऽवा᳚न‌म्¦त॒रु॒ऽतार᳚‌म्¦रथा᳚ना‌म् |
अरि॑ष्टऽनेमि‌म्¦पृ॒त॒नाज᳚‌म्¦आ॒शु‌म्¦स्व॒स्तये᳚¦तार्क्ष्य᳚‌म्¦इ॒ह¦हु॒वे॒म॒ ||

इन्द्र॑स्येव रा॒तिमा॒जोहु॑वानाः स्व॒स्तये॒ नाव॑मि॒वा रु॑हेम |{तार्क्ष्योरिष्टनेमिः | तार्क्ष्यः | त्रिष्टुप्}

उर्वी॒ न पृथ्वी॒ बहु॑ले॒ गभी᳚रे॒ मा वा॒मेतौ॒ मा परे᳚तौ रिषाम ||{2/3}{10.178.2}{10.12.27.2}{8.8.36.2}{1711, 1015, 10509}

इन्द्र॑स्यऽ‌इव¦रा॒ति‌म्¦आ॒ऽजोहु॑वानाः¦स्व॒स्तये᳚¦नाव᳚‌म्ऽ‌इव¦आ¦रु॒हे॒म॒ |
उर्वी॒ इति॑¦न¦पृथ्वी॒ इति॑¦बहु॑ले॒ इति॑¦गभी᳚रे॒ इति॑¦मा¦वा॒‌म्¦आऽ‌इ᳚तौ¦मा¦परा᳚ऽ‌इतौ¦रि॒षा॒म॒ ||

स॒द्यश्चि॒द्यः शव॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस्त॒तान॑ |{तार्क्ष्योरिष्टनेमिः | तार्क्ष्यः | त्रिष्टुप्}

स॒ह॒स्र॒साः श॑त॒सा, अ॑स्य॒ रंहि॒र्न स्मा᳚ वरन्ते युव॒तिं न शर्या᳚म् ||{3/3}{10.178.3}{10.12.27.3}{8.8.36.3}{1712, 1015, 10510}

स॒द्यः¦चि॒त्¦यः¦शव॑सा¦पंच॑¦कृ॒ष्टीः¦सूर्यः॑ऽ‌इव¦ज्योति॑षा¦अ॒पः¦त॒तान॑ |
स॒ह॒स्र॒ऽसाः¦श॒त॒ऽसाः¦अ॒स्य॒¦रंहिः॑¦न¦स्म॒¦व॒र॒न्ते॒¦यु॒व॒ति‌म्¦न¦शर्या᳚‌म् ||

[179] उत्तिष्ठतेति तृचस्य सूक्तस्यौशीनरः शिबिः १ काशिराजः प्रतर्दनो रोहिदश्ववसुमना३ इर्तिक्रर्मेणैकर्चा इंद्रत्रिष्टुबाद्यानुष्टुप् |
उत्ति॑ष्ठ॒ताव॑ पश्य॒तेन्द्र॑स्य भा॒गमृ॒त्विय᳚म् |{शिबिरौशीनरः | इन्द्रः | अनुष्टुप्}

यदि॑ श्रा॒तो जु॒होत॑न॒ यद्यश्रा᳚तो मम॒त्तन॑ ||{1/3}{10.179.1}{10.12.28.1}{8.8.37.1}{1713, 1016, 10511}

उत्¦ति॒ष्ठ॒त॒¦अव॑¦प॒श्य॒त॒¦इन्द्र॑स्य¦भा॒ग‌म्¦ऋ॒त्विय᳚‌म् | यदि॑¦श्रा॒तः¦जु॒होत॑न¦यदि॑¦अश्रा᳚तः¦म॒म॒त्तन॑ ||

श्रा॒तं ह॒विरो ष्वि᳚न्द्र॒ प्र या᳚हि ज॒गाम॒ सूरो॒, अध्व॑नो॒ विम॑ध्यम् |{प्रतर्दनः काशिराजः | इन्द्रः | त्रिष्टुप्}

परि॑ त्वासते नि॒धिभिः॒ सखा᳚यः कुल॒पा न व्रा॒जप॑तिं॒ चर᳚न्तम् ||{2/3}{10.179.2}{10.12.28.2}{8.8.37.2}{1714, 1016, 10512}

श्रा॒त‌म्¦ह॒विः¦ओ इति॑¦सु¦इ॒न्द्र॒¦प्र¦या॒हि॒¦ज॒गाम॑¦सूरः॑¦अध्व॑नः¦विऽम॑ध्य‌म् |
परि॑¦त्वा॒¦आ॒स॒ते॒¦नि॒धिऽभिः॑¦सखा᳚यः¦कु॒ल॒ऽपाः¦न¦व्रा॒जऽप॑ति‌म्¦चर᳚न्त‌म् ||

श्रा॒तं म᳚न्य॒ ऊध॑नि श्रा॒तम॒ग्नौ सुश्रा᳚तं मन्ये॒ तदृ॒तं नवी᳚यः |{वसुमना रौहिदश्वः | इन्द्रः | त्रिष्टुप्}

माध्यं᳚दिनस्य॒ सव॑नस्य द॒ध्नः पिबे᳚न्द्र वज्रिन्‌ पुरुकृज्जुषा॒णः ||{3/3}{10.179.3}{10.12.28.3}{8.8.37.3}{1715, 1016, 10513}

श्रा॒त‌म्¦म॒न्ये॒¦ऊध॑नि¦श्रा॒त‌म्¦अ॒ग्नौ¦सुऽश्रा᳚त‌म्¦म॒न्ये॒¦तत्¦ऋ॒त‌म्¦नवी᳚यः |
माध्य᳚न्दिनस्य¦सव॑नस्य¦द॒ध्नः¦पिब॑¦इ॒न्द्र॒¦व॒ज्रि॒न्¦पु॒रु॒ऽकृ॒त्¦जु॒षा॒णः ||

[180] प्रससाहिषइति तृचस्य सूक्तस्यैंद्रिर्जयइंद्रस्त्रिष्टुप् |
प्र स॑साहिषे पुरुहूत॒ शत्रू॒ञ्ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु |{जयः | इन्द्रः | त्रिष्टुप्}

इन्द्रा भ॑र॒ दक्षि॑णेना॒ वसू᳚नि॒ पतिः॒ सिन्धू᳚नामसि रे॒वती᳚नाम् ||{1/3}{10.180.1}{10.12.29.1}{8.8.38.1}{1716, 1017, 10514}

प्र¦स॒स॒हि॒षे॒¦पु॒रु॒ऽहू॒त॒¦शत्रू᳚न्¦ज्येष्ठः॑¦ते॒¦शुष्मः॑¦इ॒ह¦रा॒तिः¦अ॒स्तु॒ |
इन्द्र॑¦आ¦भ॒र॒¦दक्षि॑णेन¦वसू᳚नि¦पतिः॑¦सिन्धू᳚ना‌म्¦अ॒सि॒¦रे॒वती᳚ना‌म् ||

मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ आ ज॑गन्था॒ पर॑स्याः |{जयः | इन्द्रः | त्रिष्टुप्}

सृ॒कं सं॒शाय॑ प॒विमि᳚न्द्र ति॒ग्मं वि शत्रू᳚न्ताळ्हि॒ वि मृधो᳚ नुदस्व ||{2/3}{10.180.2}{10.12.29.2}{8.8.38.2}{1717, 1017, 10515}

मृ॒गः¦न¦भी॒मः¦कु॒च॒रः¦गि॒रि॒ऽस्थाः¦प॒रा॒ऽवतः॑¦आ¦ज॒ग॒न्थ॒¦पर॑स्याः |
सृ॒क‌म्¦स॒‌म्ऽशाय॑¦प॒वि‌म्¦इ॒न्द्र॒¦ति॒ग्म‌म्¦वि¦शत्रू᳚न्¦ता॒ळ्हि॒¦वि¦मृधः॑¦नु॒द॒स्व॒ ||

इन्द्र॑ क्ष॒त्रम॒भि वा॒ममोजोऽजा᳚यथा वृषभ चर्षणी॒नाम् |{जयः | इन्द्रः | त्रिष्टुप्}

अपा᳚नुदो॒ जन॑ममित्र॒यन्त॑मु॒रुं दे॒वेभ्यो᳚, अकृणोरु लो॒कम् ||{3/3}{10.180.3}{10.12.29.3}{8.8.38.3}{1718, 1017, 10516}

इन्द्र॑¦क्ष॒त्र‌म्¦अ॒भि¦वा॒म‌म्¦ओजः॑¦अजा᳚यथाः¦वृ॒ष॒भ॒¦च॒र्ष॒णी॒ना‌म् |
अप॑¦अ॒नु॒दः॒¦जन᳚‌म्¦अ॒मि॒त्र॒ऽयन्त᳚‌म्¦उ॒रु‌म्¦दे॒वेभ्यः॑¦अ॒कृ॒णोः॒¦ऊँ॒ इति॑¦लो॒क‌म् ||

[181] प्रथेश्चेति तृचस्य सूक्तस्य वासिष्ठः प्रथो १। भारद्वाजःसप्रथ२ सौर्याघर्म३ कर्चाविश्वेदेवास्त्रिष्टुप् |
प्रथ॑श्च॒ यस्य॑ स॒प्रथ॑श्च॒ नामानु॑ष्टुभस्य ह॒विषो᳚ ह॒विर्यत् |{प्रथो वासिष्ठः | विश्वदेवाः | त्रिष्टुप्}

धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒ विष्णो᳚ रथंत॒रमा ज॑भारा॒ वसि॑ष्ठः ||{1/3}{10.181.1}{10.12.30.1}{8.8.39.1}{1719, 1018, 10517}

प्रथः॑¦च॒¦यस्य॑¦स॒ऽप्रथः॑¦च॒¦नाम॑¦आनु॑ऽस्तुभस्य¦ह॒विषः॑¦ह॒विः¦यत् |
धा॒तुः¦द्युता᳚नात्¦स॒वि॒तुः¦च॒¦विष्णोः᳚¦र॒थ॒‌म्ऽत॒र‌म्¦आ¦ज॒भा॒र॒¦वसि॑ष्ठः ||

अवि᳚न्द॒न्ते, अति॑हितं॒ यदासी᳚द्‌ य॒ज्ञस्य॒ धाम॑ पर॒मं गुहा॒ यत् |{सप्रथो भारद्वाजः | विश्वदेवाः | त्रिष्टुप्}

धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒ विष्णो᳚र्भ॒रद्वा᳚जो बृ॒हदा च॑क्रे, अ॒ग्नेः ||{2/3}{10.181.2}{10.12.30.2}{8.8.39.2}{1720, 1018, 10518}

अवि᳚न्दन्¦ते¦अति॑ऽहित‌म्¦यत्¦आसी᳚त्¦य॒ज्ञस्य॑¦धाम॑¦प॒र॒म‌म्¦गुहा᳚¦यत् |
धा॒तुः¦द्युता᳚नात्¦स॒वि॒तुः¦च॒¦विष्णोः᳚¦भ॒रत्ऽवा᳚जः¦बृ॒हत्¦आ¦च॒क्रे॒¦अ॒ग्नेः ||

ते᳚ऽविन्द॒न्मन॑सा॒ दीध्या᳚ना॒ यजुः॑ ष्क॒न्नं प्र॑थ॒मं दे᳚व॒यान᳚म् |{धर्मः सौर्यः | विश्वदेवाः | पादत्रिष्टुप्}

धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒ विष्णो॒रा सूर्या᳚दभरन्‌ घ॒र्ममे॒ते ||{3/3}{10.181.3}{10.12.30.3}{8.8.39.3}{1721, 1018, 10519}

ते¦अ॒वि॒न्द॒न्¦मन॑सा¦दीध्या᳚नाः¦यजुः॑¦स्क॒न्न‌म्¦प्र॒थ॒म‌म्¦दे॒व॒ऽयान᳚‌म् |
धा॒तुः¦द्युता᳚नात्¦स॒वि॒तुः¦च॒¦विष्णोः᳚¦आ¦सूर्या᳚त्¦अ॒भ॒र॒न्¦घ॒र्म‌म्¦ए॒ते ||

[182] बृहस्पतिरिति तृचस्य सूक्तस्य बार्हस्पत्यस्त पुर्मूर्धा बृहस्पतिस्त्रिष्टुप् |
बृह॒स्पति᳚र्नयतु दु॒र्गहा᳚ ति॒रः पुन᳚र्नेषद॒घशं᳚साय॒ मन्म॑ |{बार्हस्पत्यस्तः पुर्मूर्धाः | बृहस्पतिः | त्रिष्टुप्}

क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा᳚ कर॒द्यज॑मानाय॒ शं योः ||{1/3}{10.182.1}{10.12.31.1}{8.8.40.1}{1722, 1019, 10520}

बृह॒स्पतिः॑¦न॒य॒तु॒¦दुः॒ऽगहा᳚¦ति॒रः¦पुनः॑¦ने॒ष॒त्¦अ॒घऽशं᳚साय¦मन्म॑ |
क्षि॒पत्¦अश॑स्ति‌म्¦अप॑¦दुः॒ऽम॒ति‌म्¦ह॒न्¦अथ॑¦क॒र॒त्¦यज॑मानाय¦श‌म्¦योः ||

नरा॒शंसो᳚ नोऽवतु प्रया॒जे शं नो᳚, अस्त्वनुया॒जो हवे᳚षु |{बार्हस्पत्यस्तः पुर्मूर्धाः | बृहस्पतिः | त्रिष्टुप्}

क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा᳚ कर॒द्यज॑मानाय॒ शं योः ||{2/3}{10.182.2}{10.12.31.2}{8.8.40.2}{1723, 1019, 10521}

नरा॒शंसः॑¦नः॒¦अ॒व॒तु॒¦प्र॒ऽया॒जे¦श‌म्¦नः॒¦अ॒स्तु॒¦अ॒नु॒ऽया॒जः¦हवे᳚षु |
क्षि॒पत्¦अश॑स्ति‌म्¦अप॑¦दुः॒ऽम॒ति‌म्¦ह॒न्¦अथ॑¦क॒र॒त्¦यज॑मानाय¦श‌म्¦योः ||

तपु᳚र्मूर्धा तपतु र॒क्षसो॒ ये ब्र᳚ह्म॒द्विषः॒ शर॑वे॒ हन्त॒वा, उ॑ |{बार्हस्पत्यस्तः पुर्मूर्धाः | बृहस्पतिः | त्रिष्टुप्}

क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा᳚ कर॒द्यज॑मानाय॒ शं योः ||{3/3}{10.182.3}{10.12.31.3}{8.8.40.3}{1724, 1019, 10522}

तपुः॑ऽमूर्धा¦त॒प॒तु॒¦र॒क्षसः॑¦ये¦ब्र॒ह्म॒ऽद्विषः॑¦शर॑वे¦हन्त॒वै¦ऊँ॒ इति॑ |
क्षि॒पत्¦अश॑स्ति‌म्¦अप॑¦दुः॒ऽम॒ति‌म्¦ह॒न्¦अथ॑¦क॒र॒त्¦यज॑मानाय¦श‌म्¦योः ||

[183] अपश्यमिति तृचस्य सूक्तस्य प्राजापत्यः प्रजावानृषिः यजमानोयजमानपत्नीहोता इतिक्रमेणदेवतास्त्रिष्टुप् | (अपश्यंत्वेत्येतस्याद्य यायजमानमीक्षते द्वितीयया पत्नींतृतीययात्मानं आ। श्रौ।)
अप॑श्यं त्वा॒ मन॑सा॒ चेकि॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभू᳚तम् |{प्राजापत्यः प्रजावान् | यजमानः | त्रिष्टुप्}

इ॒ह प्र॒जामि॒ह र॒यिं ररा᳚णः॒ प्र जा᳚यस्व प्र॒जया᳚ पुत्रकाम ||{1/3}{10.183.1}{10.12.32.1}{8.8.41.1}{1725, 1020, 10523}

अप॑श्य‌म्¦त्वा॒¦मन॑सा¦चेकि॑तान‌म्¦तप॑सः¦जा॒त‌म्¦तप॑सः¦विऽभू᳚त‌म् |
इ॒ह¦प्र॒ऽजा‌म्¦इ॒ह¦र॒यि‌म्¦ररा᳚णः¦प्र¦जा॒य॒स्व॒¦प्र॒ऽजया᳚¦पु॒त्र॒ऽका॒म॒ ||

अप॑श्यं त्वा॒ मन॑सा॒ दीध्या᳚नां॒ स्वायां᳚ त॒नू, ऋत्व्ये॒ नाध॑मानाम् |{प्राजापत्यः प्रजावान् | यजमानपत्नी | त्रिष्टुप्}

उप॒ मामु॒च्चा यु॑व॒तिर्ब॑भूयाः॒ प्र जा᳚यस्व प्र॒जया᳚ पुत्रकामे ||{2/3}{10.183.2}{10.12.32.2}{8.8.41.2}{1726, 1020, 10524}

अप॑श्य‌म्¦त्वा॒¦मन॑सा¦दीध्या᳚ना‌म्¦स्वाया᳚‌म्¦त॒नू इति॑¦ऋत्व्ये᳚¦नाध॑माना‌म् |
उप॑¦मा‌म्¦उ॒च्चा¦यु॒व॒तिः¦ब॒भू॒याः॒¦प्र¦जा॒य॒स्व॒¦प्र॒ऽजया᳚¦पु॒त्र॒ऽका॒म॒ ||

अ॒हं गर्भ॑मदधा॒मोष॑धीष्व॒हं विश्वे᳚षु॒ भुव॑नेष्व॒न्तः |{प्राजापत्यः प्रजावान् | होता | त्रिष्टुप्}

अ॒हं प्र॒जा, अ॑जनयं पृथि॒व्याम॒हं जनि॑भ्यो, अप॒रीषु॑ पु॒त्रान् ||{3/3}{10.183.3}{10.12.32.3}{8.8.41.3}{1727, 1020, 10525}

अ॒ह‌म्¦गर्भ᳚‌म्¦अ॒द॒धा॒‌म्¦ओष॑धीषु¦अ॒ह‌म्¦विश्वे᳚षु¦भुव॑नेषु¦अ॒न्तरिति॑ |
अ॒ह‌म्¦प्र॒ऽजाः¦अ॒ज॒न॒य॒‌म्¦पृ॒थि॒व्या‌म्¦अ॒ह‌म्¦जनि॑ऽभ्यः¦अ॒प॒रीषु॑¦पु॒त्रान् ||

[184] विष्णुरिति तृचस्य सूक्तस्य गर्भकर्तात्वष्टा आद्याया विष्णुत्वष्टृप्रजापतिधातारो द्वितीयायाः सिनीवालि सरस्वत्यश्विनस्तृतीयायाअश्विनावनुष्टुप् | (प्राजापत्योविष्णुर्वाऋषिः) |
विष्णु॒र्योनिं᳚ कल्पयतु॒ त्वष्टा᳚ रू॒पाणि॑ पिंशतु |{गर्भकर्तात्वष्टाः | विष्णुत्वष्टृप्रजापतिधातारः | अनुष्टुप्}

आ सि᳚ञ्चतु प्र॒जाप॑तिर्धा॒ता गर्भं᳚ दधातु ते ||{1/3}{10.184.1}{10.12.33.1}{8.8.42.1}{1728, 1021, 10526}

विष्णुः॑¦योनि᳚‌म्¦क॒ल्प॒य॒तु॒¦त्वष्टा᳚¦रू॒पाणि॑¦पिं॒श॒तु॒ | आ¦सिं॒च॒तु॒¦प्र॒जाऽप॑तिः¦धा॒ता¦गर्भ᳚‌म्¦द॒धा॒तु॒¦ते॒ ||

गर्भं᳚ धेहि सिनीवालि॒ गर्भं᳚ धेहि सरस्वति |{गर्भकर्तात्वष्टाः | सिनीवालीसरस्वत्यश्विनः | अनुष्टुप्}

गर्भं᳚ ते, अ॒श्विनौ᳚ दे॒वावा ध॑त्तां॒ पुष्क॑रस्रजा ||{2/3}{10.184.2}{10.12.33.2}{8.8.42.2}{1729, 1021, 10527}

गर्भ᳚‌म्¦धे॒हि॒¦सि॒नी॒वा॒लि॒¦गर्भ᳚‌म्¦धे॒हि॒¦स॒र॒स्व॒ति॒ | गर्भ᳚‌म्¦ते॒¦अ॒श्विनौ᳚¦दे॒वौ¦आ¦ध॒त्ता॒‌म्¦पुष्क॑रऽस्रजा ||

हि॒र॒ण्ययी᳚, अ॒रणी॒ यं नि॒र्मन्थ॑तो, अ॒श्विना᳚ |{गर्भकर्तात्वष्टाः | अश्विनौ | अनुष्टुप्}

तं ते॒ गर्भं᳚ हवामहे दश॒मे मा॒सि सूत॑वे ||{3/3}{10.184.3}{10.12.33.3}{8.8.42.3}{1730, 1021, 10528}

हि॒र॒ण्ययी॒ इति॑¦अ॒रणी॒ इति॑¦य‌म्¦निः॒ऽमन्थ॑तः¦अ॒श्विना᳚ | त‌म्¦ते॒¦गर्भ᳚‌म्¦ह॒वा॒म॒हे॒¦द॒श॒मे¦मा॒सि¦सूत॑वे ||

[185] महीति तृचस्य सूक्तस्य वारुणिः सत्यधृतिरादित्या गायत्री | (महि सत्यधृतिर्वारुणिरादित्यं स्वस्त्ययनमित्यनुक्रमण्या अदितिर्देवतायस्येत्यादित्यं आदित्योदेवतायस्येत्यादित्यमिति द्वैविध्येनप्राप्ता वप्यत्रादित्यानामेवदेवतात्वंनादितेः 'माहित्रंयन्महित्रीणामादित्यानांस्तुतिर्विदुः' इतिशौनकोक्तेः)|
महि॑ त्री॒णामवो᳚ऽस्तु द्यु॒क्षं मि॒त्रस्या᳚र्य॒म्णः |{वारुणिः सत्यधृतिः | आदित्या | गायत्री}

दु॒रा॒धर्षं॒ वरु॑णस्य ||{1/3}{10.185.1}{10.12.34.1}{8.8.43.1}{1731, 1022, 10529}

महि॑¦त्री॒णा‌म्¦अवः॑¦अ॒स्तु॒¦द्यु॒क्ष‌म्¦मि॒त्रस्य॑¦अ॒र्य॒म्णः | दुः॒ऽआ॒धर्ष᳚‌म्¦वरु॑णस्य ||

न॒हि तेषा᳚म॒मा च॒न नाध्व॑सु वार॒णेषु॑ |{वारुणिः सत्यधृतिः | आदित्या | गायत्री}

ईशे᳚ रि॒पुर॒घशं᳚सः ||{2/3}{10.185.2}{10.12.34.2}{8.8.43.2}{1732, 1022, 10530}

न॒हि¦तेषा᳚‌म्¦अ॒मा¦च॒न¦न¦अध्व॑ऽसु¦वा॒र॒णेषु॑ | ईशे᳚¦रि॒पुः¦अ॒घऽशं᳚सः ||

यस्मै᳚ पु॒त्रासो॒, अदि॑तेः॒ प्र जी॒वसे॒ मर्त्या᳚य |{वारुणिः सत्यधृतिः | आदित्या | गायत्री}

ज्योति॒र्यच्छ॒न्त्यज॑स्रम् ||{3/3}{10.185.3}{10.12.34.3}{8.8.43.3}{1733, 1022, 10531}

यस्मै᳚¦पु॒त्रासः॑¦अदि॑तेः¦प्र¦जी॒वसे᳚¦मर्त्या᳚य | ज्योतिः॑¦यच्छ᳚न्ति¦अज॑स्र‌म् ||

[186] वातइति तृचस्य सूकस्य वातायनउलोवायुर्गायत्री |
वात॒ आ वा᳚तु भेष॒जं श॒म्भु म॑यो॒भु नो᳚ हृ॒दे |{वातायन उलः | वायुः | गायत्री}

प्र ण॒ आयूं᳚षि तारिषत् ||{1/3}{10.186.1}{10.12.35.1}{8.8.44.1}{1734, 1023, 10532}

वातः॑¦आ¦वा॒तु॒¦भे॒ष॒ज‌म्¦श॒‌म्ऽभु¦मा॒यः॒ऽभु¦नः॒¦हृ॒दे | प्र¦नः॒¦आयूं᳚षि¦ता॒रि॒ष॒त् ||

उ॒त वा᳚त पि॒तासि॑ न उ॒त भ्रातो॒त नः॒ सखा᳚ |{वातायन उलः | वायुः | गायत्री}

स नो᳚ जी॒वात॑वे कृधि ||{2/3}{10.186.2}{10.12.35.2}{8.8.44.2}{1735, 1023, 10533}

उ॒त¦वा॒त॒¦पि॒ता¦अ॒सि॒¦नः॒¦उ॒त¦भ्राता᳚¦उ॒त¦नः॒¦सखा᳚ | सः¦नः॒¦जी॒वात॑वे¦कृ॒धि॒ ||

यद॒दो वा᳚त ते गृ॒हे॒३॑(ए॒)ऽमृत॑स्य नि॒धिर्हि॒तः |{वातायन उलः | वायुः | गायत्री}

ततो᳚ नो देहि जी॒वसे᳚ ||{3/3}{10.186.3}{10.12.35.3}{8.8.44.3}{1736, 1023, 10534}

यत्¦अ॒दः¦वा॒त॒¦ते॒¦गृ॒हे¦अ॒मृत॑स्य¦नि॒धिः¦हि॒तः | ततः॑¦नः॒¦दे॒हि॒¦जी॒वसे᳚ ||

[187] प्राग्नयइति पंचर्चस्य सूक्तस्याग्नेयोवत्सोग्निर्गायत्री |
प्राग्नये॒ वाच॑मीरय वृष॒भाय॑ क्षिती॒नाम् |{आग्नेयो वत्सः | अग्निः | गायत्री}

स नः॑ पर्ष॒दति॒ द्विषः॑ ||{1/5}{10.187.1}{10.12.36.1}{8.8.45.1}{1737, 1024, 10535}

प्र¦अ॒ग्नये᳚¦वाच᳚‌म्¦ई॒र॒य॒¦वृ॒ष॒भाय॑¦क्षि॒ती॒ना‌म् | सः¦नः॒¦प॒र्ष॒त्¦अति॑¦द्विषः॑ ||

यः पर॑स्याः परा॒वत॑स्ति॒रो धन्वा᳚ति॒रोच॑ते |{आग्नेयो वत्सः | अग्निः | गायत्री}

स नः॑ पर्ष॒दति॒ द्विषः॑ ||{2/5}{10.187.2}{10.12.36.2}{8.8.45.2}{1738, 1024, 10536}

यः¦पर॑स्याः¦प॒रा॒ऽवतः॑¦ति॒रः¦धन्व॑¦अ॒ति॒ऽरोच॑ते | सः¦नः॒¦प॒र्ष॒त्¦अति॑¦द्विषः॑ ||

यो रक्षां᳚सि नि॒जूर्व॑ति॒ वृषा᳚ शु॒क्रेण॑ शो॒चिषा᳚ |{आग्नेयो वत्सः | अग्निः | गायत्री}

स नः॑ पर्ष॒दति॒ द्विषः॑ ||{3/5}{10.187.3}{10.12.36.3}{8.8.45.3}{1739, 1024, 10537}

यः¦रक्षां᳚सि¦नि॒ऽजूर्व॑ति¦वृषा᳚¦शु॒क्रेण॑¦शो॒चिषा᳚ | सः¦नः॒¦प॒र्ष॒त्¦अति॑¦द्विषः॑ ||

यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति |{आग्नेयो वत्सः | अग्निः | गायत्री}

स नः॑ पर्ष॒दति॒ द्विषः॑ ||{4/5}{10.187.4}{10.12.36.4}{8.8.45.4}{1740, 1024, 10538}

यः¦विश्वा᳚¦अ॒भि¦वि॒ऽपश्य॑ति¦भुव॑ना¦स‌म्¦च॒¦पश्य॑ति | सः¦नः॒¦प॒र्ष॒त्¦अति॑¦द्विषः॑ ||

यो, अ॒स्य पा॒रे रज॑सः शु॒क्रो, अ॒ग्निरजा᳚यत |{आग्नेयो वत्सः | अग्निः | गायत्री}

स नः॑ पर्ष॒दति॒ द्विषः॑ ||{5/5}{10.187.5}{10.12.36.5}{8.8.45.5}{1741, 1024, 10539}

यः¦अ॒स्य¦पा॒रे¦रज॑सः¦शु॒क्रः¦अ॒ग्निः¦अजा᳚यत | सः¦नः॒¦प॒र्ष॒त्¦अति॑¦द्विषः॑ ||

[188] प्रनूनमिति तृचस्य सूक्तस्याग्नेयः श्येनोजातवेदाअग्निर्गायत्री |
प्र नू॒नं जा॒तवे᳚दस॒मश्वं᳚ हिनोत वा॒जिन᳚म् |{श्येनः | अग्निर्जातवेदाः | गायत्री}

इ॒दं नो᳚ ब॒र्हिरा॒सदे᳚ ||{1/3}{10.188.1}{10.12.37.1}{8.8.46.1}{1742, 1025, 10540}

प्र¦नू॒न‌म्¦जा॒तऽवे᳚दस‌म्¦अश्व᳚‌म्¦हि॒नो॒त॒¦वा॒जिन᳚‌म् | इ॒द‌म्¦नः॒¦ब॒र्हिः¦आ॒ऽसदे᳚ ||

अ॒स्य प्र जा॒तवे᳚दसो॒ विप्र॑वीरस्य मी॒ळ्हुषः॑ |{श्येनः | अग्निर्जातवेदाः | गायत्री}

म॒हीमि॑यर्मि सुष्टु॒तिम् ||{2/3}{10.188.2}{10.12.37.2}{8.8.46.2}{1743, 1025, 10541}

अ॒स्य¦प्र¦जा॒तऽवे᳚दसः¦विप्र॑ऽवीरस्य¦मी॒ळ्हुषः॑ | म॒ही‌म्¦इ॒य॒र्मि॒¦सु॒ऽस्तु॒ति‌म् ||

या रुचो᳚ जा॒तवे᳚दसो देव॒त्रा ह᳚व्य॒वाह॑नीः |{श्येनः | अग्निर्जातवेदाः | गायत्री}

ताभि᳚र्नो य॒ज्ञमि᳚न्वतु ||{3/3}{10.188.3}{10.12.37.3}{8.8.46.3}{1744, 1025, 10542}

याः¦रुचः॑¦जा॒तऽवे᳚दसः¦दे॒व॒ऽत्रा¦ह॒व्य॒ऽवाह॑नीः | ताभिः॑¦नः॒¦य॒ज्ञ‌म्¦इ॒न्व॒तु॒ ||

[189] आयंगौरिति तृचस्य सूक्तस्य सार्पराज्ञी सूर्यगायत्री । (अत्रयद्यपि सार्पराज्ञ्यात्मदैवतमित्यनेनप्रकृतासार्पराज्ञीदेवताप्राप्नोति तथापि प्रयोक्तृभिः सूर्यस्यग्रहणात्पाक्षिकोपिसूर्योस्माभि रुपाक्तः
आयं गौः पृश्नि॑रक्रमी॒दस॑दन्‌ मा॒तरं᳚ पु॒रः |{सार्पराज्ञी | सार्पराज्ञी सूर्यो वा | गायत्री}

पि॒तरं᳚ च प्र॒यन्‌ त्स्वः॑ ||{1/3}{10.189.1}{10.12.38.1}{8.8.47.1}{1745, 1026, 10543}

आ¦अ॒य‌म्¦गौः¦पृश्निः॑¦अ॒क्र॒मी॒त्¦अस॑दत्¦मा॒तर᳚‌म्¦पु॒रः | पि॒तर᳚‌म्¦च॒¦प्र॒ऽयन्¦स्व१॒॑रिति॒ स्वः॑ ||

अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती |{सार्पराज्ञी | सार्पराज्ञी सूर्यो वा | गायत्री}

व्य॑ख्यन्‌ महि॒षो दिव᳚म् ||{2/3}{10.189.2}{10.12.38.2}{8.8.47.2}{1746, 1026, 10544}

अ॒न्तरिति॑¦च॒र॒ति॒¦रो॒च॒ना¦अ॒स्य¦प्रा॒णात्¦अ॒प॒।आ॒न॒ती | वि¦अ॒ख्य॒त्¦म॒हि॒षः¦दिव᳚‌म् ||

त्रिं॒शद्धाम॒ वि रा᳚जति॒ वाक्‌ प॑तं॒गाय॑ धीयते |{सार्पराज्ञी | सार्पराज्ञी सूर्यो वा | गायत्री}

प्रति॒ वस्तो॒रह॒ द्युभिः॑ ||{3/3}{10.189.3}{10.12.38.3}{8.8.47.3}{1747, 1026, 10545}

त्रिं॒शत्¦धाम॑¦वि¦रा॒ज॒ति॒¦वाक्¦प॒तं॒गाय॑¦धी॒य॒ते॒ | प्रति॑¦वस्तोः᳚¦अह॑¦द्युऽभिः॑ ||

[190] ऋतंचेति तृचस्य सूक्तस्य माधुच्छंदसोघमर्षणोभाववृत्तिरनुष्टुप् |
ऋ॒तं च॑ स॒त्यं चा॒भी᳚द्धा॒त् तप॒सोऽध्य॑जायत |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्}

ततो॒ रात्र्य॑जायत॒ ततः॑ समु॒द्रो, अ᳚र्ण॒वः ||{1/3}{10.190.1}{10.12.39.1}{8.8.48.1}{1748, 1027, 10546}

ऋ॒त‌म्¦च॒¦स॒त्य‌म्¦च॒¦अ॒भिऽ‌इ᳚द्धात्¦तप॑सः¦अधि॑¦अ॒जा॒य॒त॒ | ततः॑¦रात्री᳚¦अ॒जा॒य॒त॒¦ततः॑¦स॒मु॒द्रः¦अ॒र्ण॒वः ||

स॒मु॒द्राद᳚र्ण॒वादधि॑ संवत्स॒रो, अ॑जायत |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्}

अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ||{2/3}{10.190.2}{10.12.39.2}{8.8.48.2}{1749, 1027, 10547}

स॒मु॒द्रात्¦अ॒र्ण॒वात्¦अधि॑¦सं॒व॒त्स॒रः¦अ॒जा॒य॒त॒ | अ॒हो॒रा॒त्राणि॑¦वि॒ऽदध॑त्¦विश्व॑स्य¦मि॒ष॒तः¦व॒शी ||

सू॒र्या॒च॒न्द्र॒मसौ᳚ धा॒ता य॑थापू॒र्वम॑कल्पयत् |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्}

दिवं᳚ च पृथि॒वीं चा॒ऽन्तरि॑क्ष॒मथो॒ स्वः॑ ||{3/3}{10.190.3}{10.12.39.3}{8.8.48.3}{1750, 1027, 10548}

सू॒र्या॒च॒न्द्र॒मसौ᳚¦धा॒ता¦य॒था॒पू॒र्व‌म्¦अ॒क॒ल्प॒य॒त् | दिव᳚‌म्¦च॒¦पृ॒थि॒वी‌म्¦च॒¦अ॒न्तरि॑क्ष‌म्¦अथो॒ इति॑¦स्वः॑ ||

[191] संसमिति चतुरृचस्य सूक्तस्यांगिरसः संवननः आद्याया अग्निस्ततस्तिसृणां संज्ञानमनुष्टुप् तृतीयात्रिष्टुप् |
संस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा᳚न्य॒र्य आ |{आङ्गिरसः संवननः | अग्निः | अनुष्टुप्}

इ॒ळस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ||{1/4}{10.191.1}{10.12.40.1}{8.8.49.1}{1751, 1028, 10549}

स‌म्ऽस᳚‌म्¦इत्¦यु॒व॒से॒¦वृ॒ष॒न्¦अग्ने᳚¦विश्वा᳚नि¦अ॒र्यः¦आ | इ॒ळः¦प॒दे¦स‌म्¦इ॒ध्य॒से॒¦सः¦नः॒¦वसू᳚नि¦आ¦भ॒र॒ ||

सं ग॑च्छध्वं॒ सं व॑दध्वं॒ सं वो॒ मनां᳚सि जानताम् |{आङ्गिरसः संवननः | संज्ञानम् | अनुष्टुप्}

दे॒वा भा॒गं यथा॒ पूर्वे᳚ संजाना॒ना, उ॒पास॑ते ||{2/4}{10.191.2}{10.12.40.2}{8.8.49.2}{1752, 1028, 10550}

स‌म्¦ग॒च्छ॒ध्व॒‌म्¦स‌म्¦व॒द॒ध्व॒‌म्¦स‌म्¦वः॒¦मनां᳚सि¦जा॒न॒ता॒‌म् | दे॒वाः¦भा॒ग‌म्¦यथा᳚¦पूर्वे᳚¦स॒‌म्ऽजा॒ना॒नाः¦उ॒प॒ऽआस॑ते ||

स॒मा॒नो मन्त्रः॒ समि॑तिः समा॒नी स॑मा॒नं मनः॑ स॒ह चि॒त्तमे᳚षाम् |{आङ्गिरसः संवननः | संज्ञानम् | त्रिष्टुप्}

स॒मा॒नं मन्त्र॑म॒भि म᳚न्त्रये वः समा॒नेन॑ वो ह॒विषा᳚ जुहोमि ||{3/4}{10.191.3}{10.12.40.3}{8.8.49.3}{1753, 1028, 10551}

स॒मा॒नः¦मन्त्रः॑¦स‌म्ऽ‌इ᳚तिः¦स॒मा॒नी¦स॒मा॒न‌म्¦मनः॑¦स॒ह¦चि॒त्त‌म्¦ए॒षा॒‌म् |
स॒मा॒न‌म्¦मन्त्र᳚‌म्¦अ॒भि¦म॒न्त्र॒ये॒¦वः॒¦स॒मा॒नेन॑¦वः॒¦ह॒विषा᳚¦जु॒हो॒मि॒ ||

स॒मा॒नी व॒ आकू᳚तिः समा॒ना हृद॑यानि वः |{आङ्गिरसः संवननः | संज्ञानम् | अनुष्टुप्}

स॒मा॒नम॑स्तु वो॒ मनो॒ यथा᳚ वः॒ सुस॒हास॑ति ||{4/4}{10.191.4}{10.12.40.4}{8.8.49.4}{1754, 1028, 10552}

स॒मा॒नी¦वः॒¦आऽकू᳚तिः¦स॒मा॒ना¦हृद॑यानि¦वः॒ | स॒मा॒न‌म्¦अ॒स्तु॒¦वः॒¦मनः॑¦यथा᳚¦वः॒¦सुऽस॑ह¦अस॑ति ||