|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||

|| ऋग्वेद संहिता (मंडल: 03) ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
Mantra classification is following this convention{मंडल,सूक्त,मंत्र}{मंडल,अनुवाक,सूक्त,मंत्र}{अष्टक,अध्याय,वर्ग,मंत्र}{मंडल मन्त्र संख्या,ऋक्संहित सूक्त संख्या,ऋक्संहित मन्त्र संख्या}
[Last updated on: 03-Jun-2025]

[1] सोमस्यमेति त्रयोविंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् |
सोम॑स्यमात॒वसं॒वक्ष्य॑ग्ने॒¦वह्निं᳚चकर्थवि॒दथे॒यज॑ध्यै |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दे॒वाँ,अच्छा॒दीद्य॑द्‌यु॒ञ्जे,अद्रिं᳚¦शमा॒ये,अ॑ग्नेत॒न्वं᳚जुषस्व || {1/23}{3.1.1}{3.1.1.1}{2.8.13.1}{1, 235, 2436}

सोम॑स्य¦मा॒¦त॒वस᳚‌म्¦वक्षि॑¦अ॒ग्ने॒¦वह्नि᳚‌म्¦च॒क॒र्थ॒¦वि॒दथे᳚¦यज॑ध्यै |
दे॒वान्¦अच्छ॑¦दीद्य॑त्¦युं॒जे¦अद्रि᳚‌म्¦श॒‌म्ऽआ॒ये¦अ॒ग्ने॒¦त॒न्व᳚‌म्¦जु॒ष॒स्व॒ ||

प्राञ्चं᳚य॒ज्ञंच॑कृम॒वर्ध॑तां॒गीः¦स॒मिद्भि॑र॒ग्निंनम॑सादुवस्यन् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दि॒वःश॑शासुर्वि॒दथा᳚कवी॒नां¦गृत्सा᳚यचित्त॒वसे᳚गा॒तुमी᳚षुः || {2/23}{3.1.2}{3.1.1.2}{2.8.13.2}{2, 235, 2437}

प्रांच᳚‌म्¦य॒ज्ञ‌म्¦च॒कृ॒म॒¦वर्ध॑ता‌म्¦गीः¦स॒मित्ऽभिः॑¦अ॒ग्नि‌म्¦नम॑सा¦दु॒व॒स्य॒न् |
दि॒वः¦श॒शा॒सुः॒¦वि॒दथा᳚¦क॒वी॒ना‌म्¦गृत्सा᳚य¦चि॒त्¦त॒वसे᳚¦गा॒तु‌म्¦ई॒षुः॒ ||

मयो᳚दधे॒मेधि॑रःपू॒तद॑क्षो¦दि॒वःसु॒बन्धु॑र्ज॒नुषा᳚पृथि॒व्याः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अवि᳚न्दन्नुदर्श॒तम॒प्स्व१॑(अ॒)न्त¦र्दे॒वासो᳚,अ॒ग्निम॒पसि॒स्वसॄ᳚णाम् || {3/23}{3.1.3}{3.1.1.3}{2.8.13.3}{3, 235, 2438}

मयः॑¦द॒धे॒¦मेधि॑रः¦पू॒तऽद॑क्षः¦दि॒वः¦सु॒ऽबन्धुः॑¦ज॒नुषा᳚¦पृ॒थि॒व्याः |
अवि᳚न्दन्¦ऊँ॒ इति॑¦द॒र्श॒त‌म्¦अ॒प्ऽसु¦अ॒न्तः¦दे॒वासः॑¦अ॒ग्नि‌म्¦अ॒पसि॑¦स्वसॄ᳚णा‌म् ||

अव॑र्धयन्‌त्सु॒भगं᳚स॒प्तय॒ह्वीः¦श्वे॒तंज॑ज्ञा॒नम॑रु॒षंम॑हि॒त्वा |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

शिशुं॒जा॒तम॒भ्या᳚रु॒रश्वा᳚¦दे॒वासो᳚,अ॒ग्निंजनि॑मन्‌वपुष्यन् || {4/23}{3.1.4}{3.1.1.4}{2.8.13.4}{4, 235, 2439}

अव॑र्धयन्¦सु॒ऽभग᳚‌म्¦स॒प्त¦य॒ह्वीः¦श्वे॒त‌म्¦ज॒ज्ञा॒न‌म्¦अ॒रु॒ष‌म्¦म॒हि॒ऽत्वा |
शिशु᳚‌म्¦न¦जा॒त‌म्¦अ॒भि¦आ॒रुः॒¦अश्वाः᳚¦दे॒वासः॑¦अ॒ग्नि‌म्¦जनि॑मन्¦व॒पु॒ष्य॒न् ||

शु॒क्रेभि॒रङ्गै॒रज॑आतत॒न्वान्¦क्रतुं᳚पुना॒नःक॒विभिः॑प॒वित्रैः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

शो॒चिर्वसा᳚नः॒पर्यायु॑र॒पां¦श्रियो᳚मिमीतेबृह॒तीरनू᳚नाः || {5/23}{3.1.5}{3.1.1.5}{2.8.13.5}{5, 235, 2440}

शु॒क्रेभिः॑¦अङ्गैः᳚¦रजः॑¦आ॒ऽत॒त॒न्वान्¦क्रतु᳚‌म्¦पु॒ना॒नः¦क॒विऽभिः॑¦प॒वित्रैः᳚ |
शो॒चिः¦वसा᳚नः¦परि॑¦आयुः॑¦अ॒पा‌म्¦श्रियः॑¦मि॒मी॒ते॒¦बृ॒ह॒तीः¦अनू᳚नाः ||

व॒व्राजा᳚सी॒मन॑दती॒रद॑ब्धा¦दि॒वोय॒ह्वीरव॑साना॒,अन॑ग्नाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

सना॒,अत्र॑युव॒तयः॒सयो᳚नी॒¦रेकं॒गर्भं᳚दधिरेस॒प्तवाणीः᳚ || {6/23}{3.1.6}{3.1.1.6}{2.8.14.1}{6, 235, 2441}

व॒व्राज॑¦सी॒‌म्¦अन॑दतीः¦अद॑ब्धाः¦दि॒वः¦य॒ह्वीः¦अव॑सानाः¦अन॑ग्नाः |
सनाः᳚¦अत्र॑¦यु॒व॒तयः॑¦सऽयो᳚नीः¦एक᳚‌म्¦गर्भ᳚‌म्¦द॒धि॒रे॒¦स॒प्त¦वाणीः᳚ ||

स्ती॒र्णा,अ॑स्यसं॒हतो᳚वि॒श्वरू᳚पा¦घृ॒तस्य॒योनौ᳚स्र॒वथे॒मधू᳚नाम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अस्थु॒रत्र॑धे॒नवः॒पिन्व॑माना¦म॒हीद॒स्मस्य॑मा॒तरा᳚समी॒ची || {7/23}{3.1.7}{3.1.1.7}{2.8.14.2}{7, 235, 2442}

स्ती॒र्णाः¦अ॒स्य॒¦स॒‌म्ऽहतः॑¦वि॒श्वऽरू᳚पाः¦घृ॒तस्य॑¦योनौ᳚¦स्र॒वथे᳚¦मधू᳚ना‌म् |
अस्थुः॑¦अत्र॑¦धे॒नवः॑¦पिन्व॑मानाः¦म॒ही इति॑¦द॒स्मस्य॑¦मा॒तरा᳚¦स॒मी॒ची इति॑ स॒‌म्ऽई॒ची ||

ब॒भ्रा॒णःसू᳚नोसहसो॒व्य॑द्यौ॒द्¦दधा᳚नःशु॒क्रार॑भ॒सावपूं᳚षि |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

श्चोत᳚न्ति॒धारा॒मधु॑नोघृ॒तस्य॒¦वृषा॒यत्र॑वावृ॒धेकाव्ये᳚न || {8/23}{3.1.8}{3.1.1.8}{2.8.14.3}{8, 235, 2443}

ब॒भ्रा॒णः¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦वि¦अ॒द्यौ॒त्¦दधा᳚नः¦शु॒क्रा¦र॒भ॒सा¦वपूं᳚षि |
श्चोत᳚न्ति¦धाराः᳚¦मधु॑नः¦घृ॒तस्य॑¦वृषा᳚¦यत्र॑¦व॒वृ॒धे¦काव्ये᳚न ||

पि॒तुश्चि॒दूध॑र्ज॒नुषा᳚विवेद॒¦व्य॑स्य॒धारा᳚,असृज॒द्‌विधेनाः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

गुहा॒चर᳚न्तं॒सखि॑भिःशि॒वेभि॑¦र्दि॒वोय॒ह्वीभि॒र्नगुहा᳚बभूव || {9/23}{3.1.9}{3.1.1.9}{2.8.14.4}{9, 235, 2444}

पि॒तुः¦चि॒त्¦ऊधः॑¦ज॒नुषा᳚¦वि॒वे॒द॒¦वि¦अ॒स्य॒¦धाराः᳚¦अ॒सृ॒ज॒त्¦वि¦धेनाः᳚ |
गुहा᳚¦चर᳚न्त‌म्¦सखि॑ऽभिः¦शि॒वेभिः॑¦दि॒वः¦य॒ह्वीभिः॑¦न¦गुहा᳚¦ब॒भू॒व॒ ||

पि॒तुश्च॒गर्भं᳚जनि॒तुश्च॑बभ्रे¦पू॒र्वीरेको᳚,अधय॒त्‌पीप्या᳚नाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

वृष्णे᳚स॒पत्नी॒शुच॑ये॒सब᳚न्धू¦,उ॒भे,अ॑स्मैमनु॒ष्ये॒३॑(ए॒)निपा᳚हि || {10/23}{3.1.10}{3.1.1.10}{2.8.14.5}{10, 235, 2445}

पि॒तुः¦च॒¦गर्भ᳚‌म्¦ज॒नि॒तुः¦च॒¦ब॒भ्रे॒¦पू॒र्वीः¦एकः॑¦अ॒ध॒य॒त्¦पीप्या᳚नाः |
वृष्णे᳚¦स॒पत्नी॒ इति॑ स॒ऽपत्नी᳚¦शुच॑ये¦सब᳚न्धू॒ इति॒ सऽब᳚न्धू¦उ॒भे इति॑¦अ॒स्मै॒¦म॒नु॒ष्ये॒३॒॑ इति॑¦नि¦पा॒हि॒ ||

उ॒रौम॒हाँ,अ॑निबा॒धेव॑व॒र्धा¦ऽऽपो᳚,अ॒ग्निंय॒शसः॒संहिपू॒र्वीः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

ऋ॒तस्य॒योना᳚वशय॒द्दमू᳚ना¦जामी॒नाम॒ग्निर॒पसि॒स्वसॄ᳚णाम् || {11/23}{3.1.11}{3.1.1.11}{2.8.15.1}{11, 235, 2446}

उ॒रौ¦म॒हान्¦अ॒नि॒ऽबा॒धे¦व॒व॒र्ध॒¦आपः॑¦अ॒ग्नि‌म्¦य॒शसः॑¦स‌म्¦हि¦पू॒र्वीः |
ऋ॒तस्य॑¦योनौ᳚¦अ॒श॒य॒त्¦दमू᳚नाः¦जा॒मी॒ना‌म्¦अ॒ग्निः¦अ॒पसि॑¦स्वसॄ᳚णा‌म् ||

अ॒क्रोब॒भ्रिःस॑मि॒थेम॒हीनां᳚¦दिदृ॒क्षेयः॑सू॒नवे॒भा,ऋ॑जीकः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

उदु॒स्रिया॒जनि॑ता॒योज॒जाना॒¦पांगर्भो॒नृत॑मोय॒ह्वो,अ॒ग्निः || {12/23}{3.1.12}{3.1.1.12}{2.8.15.2}{12, 235, 2447}

अ॒क्रः¦न¦ब॒भ्रिः¦स॒‌म्ऽ‌इ॒थे¦म॒हीना᳚‌म्¦दि॒दृ॒क्षेयः॑¦सू॒नवे᳚¦भाःऽऋ॑जीकः |
उत्¦उ॒स्रियाः᳚¦जनि॑ता¦यः¦ज॒जान॑¦अ॒पा‌म्¦गर्भः॑¦नृऽत॑मः¦य॒ह्वः¦अ॒ग्निः ||

अ॒पांगर्भं᳚दर्श॒तमोष॑धीनां॒¦वना᳚जजानसु॒भगा॒विरू᳚पम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दे॒वास॑श्चि॒न्मन॑सा॒संहिज॒ग्मुः¦पनि॑ष्ठंजा॒तंत॒वसं᳚दुवस्यन् || {13/23}{3.1.13}{3.1.1.13}{2.8.15.3}{13, 235, 2448}

अ॒पा‌म्¦गर्भ᳚‌म्¦द॒र्श॒त‌म्¦ओष॑धीना‌म्¦वना᳚¦ज॒जा॒न॒¦सु॒ऽभगा᳚¦विऽरू᳚प‌म् |
दे॒वासः॑¦चि॒त्¦मन॑सा¦स‌म्¦हि¦ज॒ग्मुः¦पनि॑ष्ठ‌म्¦जा॒त‌म्¦त॒वस᳚‌म्¦दु॒व॒स्य॒न् ||

बृ॒हन्त॒इद्‌भा॒नवो॒भा,ऋ॑जीक¦म॒ग्निंस॑चन्तवि॒द्युतो॒शु॒क्राः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

गुहे᳚ववृ॒द्धंसद॑सि॒स्वे,अ॒न्त¦र॑पा॒रऊ॒र्वे,अ॒मृतं॒दुहा᳚नाः || {14/23}{3.1.14}{3.1.1.14}{2.8.15.4}{14, 235, 2449}

बृ॒हन्तः॑¦इत्¦भा॒नवः॑¦भाःऽऋ॑जीक‌म्¦अ॒ग्नि‌म्¦स॒च॒न्त॒¦वि॒ऽद्युतः॑¦न¦शु॒क्राः |
गुहा᳚ऽ‌इव¦वृ॒द्ध‌म्¦सद॑सि¦स्वे¦अ॒न्तः¦अ॒पा॒रे¦ऊ॒र्वे¦अ॒मृत᳚‌म्¦दुहा᳚नाः ||

ईळे᳚त्वा॒यज॑मानोह॒विर्भि॒¦रीळे᳚सखि॒त्वंसु॑म॒तिंनिका᳚मः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दे॒वैरवो᳚मिमीहि॒संज॑रि॒त्रे¦रक्षा᳚नो॒दम्ये᳚भि॒रनी᳚कैः || {15/23}{3.1.15}{3.1.1.15}{2.8.15.5}{15, 235, 2450}

ईळे᳚¦च॒¦त्वा॒¦यज॑मानः¦ह॒विःऽभिः॑¦ईळे᳚¦स॒खि॒ऽत्व‌म्¦सु॒ऽम॒ति‌म्¦निऽका᳚मः |
दे॒वैः¦अवः॑¦मि॒मी॒हि॒¦स‌म्¦ज॒रि॒त्रे¦रक्ष॑¦च॒¦नः॒¦दम्ये᳚ऽभिः¦अनी᳚कैः ||

उ॒प॒क्षे॒तार॒स्तव॑सुप्रणी॒ते¦ऽग्ने॒विश्वा᳚नि॒धन्या॒दधा᳚नाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

सु॒रेत॑सा॒श्रव॑सा॒तुञ्ज॑माना¦,अ॒भिष्या᳚मपृतना॒यूँरदे᳚वान् || {16/23}{3.1.16}{3.1.1.16}{2.8.16.1}{16, 235, 2451}

उ॒प॒ऽक्षे॒तारः॑¦तव॑¦सु॒ऽप्र॒नी॒ते॒¦अग्ने᳚¦विश्वा᳚नि¦धन्या᳚¦दधा᳚नाः |
सु॒ऽरेत॑सा¦श्रव॑सा¦तुंज॑मानाः¦अ॒भि¦स्या॒म॒¦पृ॒त॒ना॒ऽयून्¦अदे᳚वान् ||

दे॒वाना᳚मभवःके॒तुर॑ग्ने¦म॒न्द्रोविश्वा᳚नि॒काव्या᳚निवि॒द्वान् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

प्रति॒मर्ताँ᳚,अवासयो॒दमू᳚ना॒,¦अनु॑दे॒वान्‌र॑थि॒रोया᳚सि॒साध॑न् || {17/23}{3.1.17}{3.1.1.17}{2.8.16.2}{17, 235, 2452}

आ¦दे॒वाना᳚‌म्¦अ॒भ॒वः॒¦के॒तुः¦अ॒ग्ने॒¦म॒न्द्रः¦विश्वा᳚नि¦काव्या᳚नि¦वि॒द्वान् |
प्रति॑¦मर्ता᳚न्¦अ॒वा॒स॒यः॒¦दमू᳚नाः¦अनु॑¦दे॒वान्¦र॒थि॒रः¦या॒सि॒¦साध॑न् ||

निदु॑रो॒णे,अ॒मृतो॒मर्त्या᳚नां॒¦राजा᳚ससादवि॒दथा᳚नि॒साध॑न् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

घृ॒तप्र॑तीकउर्वि॒याव्य॑द्यौ¦द॒ग्निर्विश्वा᳚नि॒काव्या᳚निवि॒द्वान् || {18/23}{3.1.18}{3.1.1.18}{2.8.16.3}{18, 235, 2453}

नि¦दु॒रो॒णे¦अ॒मृतः॑¦मर्त्या᳚ना‌म्¦राजा᳚¦स॒सा॒द॒¦वि॒दथा᳚नि¦साध॑न् |
घृ॒तऽप्र॑तीकः¦उ॒र्वि॒या¦वि¦अ॒द्यौ॒त्¦अ॒ग्निः¦विश्वा᳚नि¦काव्या᳚नि¦वि॒द्वान् ||

नो᳚गहिस॒ख्येभिः॑शि॒वेभि᳚¦र्म॒हान्‌म॒हीभि॑रू॒तिभिः॑सर॒ण्यन् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अ॒स्मेर॒यिंब॑हु॒लंसंत॑रुत्रं¦सु॒वाचं᳚भा॒गंय॒शसं᳚कृधीनः || {19/23}{3.1.19}{3.1.1.19}{2.8.16.4}{19, 235, 2454}

आ¦नः॒¦ग॒हि॒¦स॒ख्येभिः॑¦शि॒वेभिः॑¦म॒हान्¦म॒हीभिः॑¦ऊ॒तिऽभिः॑¦स॒र॒ण्यन् |
अ॒स्मे इति॑¦र॒यि‌म्¦ब॒हु॒ल‌म्¦स‌म्ऽत॑रुत्र‌म्¦सु॒ऽवाच᳚‌म्¦भा॒ग‌म्¦य॒शस᳚‌म्¦कृ॒धि॒¦नः॒ ||

ए॒ताते᳚,अग्ने॒जनि॑मा॒सना᳚नि॒¦प्रपू॒र्व्याय॒नूत॑नानिवोचम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

म॒हान्ति॒वृष्णे॒सव॑नाकृ॒तेमा¦जन्म᳚ञ्जन्म॒न्‌निहि॑तोजा॒तवे᳚दाः || {20/23}{3.1.20}{3.1.1.20}{2.8.16.5}{20, 235, 2455}

ए॒ता¦ते॒¦अ॒ग्ने॒¦जनि॑म¦सना᳚नि¦प्र¦पू॒र्व्याय॑¦नूत॑नानि¦वो॒च॒‌म् |
म॒हान्ति॑¦वृष्णे᳚¦सव॑ना¦कृ॒ता¦इ॒मा¦जन्म॑न्ऽजन्मन्¦निऽहि॑तः¦जा॒तऽवे᳚दाः ||

जन्म᳚ञ्जन्म॒न्‌निहि॑तोजा॒तवे᳚दा¦वि॒श्वामि॑त्रेभिरिध्यते॒,अज॑स्रः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

तस्य॑व॒यंसु॑म॒तौय॒ज्ञिय॒स्या¦पि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म || {21/23}{3.1.21}{3.1.1.21}{2.8.16.6}{21, 235, 2456}

जन्म॑न्ऽजन्मन्¦निऽहि॑तः¦जा॒तऽवे᳚दाः¦वि॒श्वामि॑त्रेभिः¦इ॒ध्य॒ते॒¦अज॑स्रः |
तस्य॑¦व॒य‌म्¦सु॒ऽम॒तौ¦य॒ज्ञिय॑स्य¦अपि॑¦भ॒द्रे¦सौ॒म॒न॒से¦स्या॒म॒ ||

इ॒मंय॒ज्ञंस॑हसाव॒न्त्वंनो᳚¦देव॒त्राधे᳚हिसुक्रतो॒ररा᳚णः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

प्रयं᳚सिहोतर्बृह॒तीरिषो॒नो¦ऽग्ने॒महि॒द्रवि॑ण॒माय॑जस्व || {22/23}{3.1.22}{3.1.1.22}{2.8.16.7}{22, 235, 2457}

इ॒म‌म्¦य॒ज्ञ‌म्¦स॒ह॒सा॒ऽव॒न्¦त्व‌म्¦नः॒¦दे॒व॒ऽत्रा¦धे॒हि॒¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो¦ररा᳚णः |
प्र¦यं॒सि॒¦हो॒तः॒¦बृ॒ह॒तीः¦इषः॑¦नः॒¦अग्ने᳚¦महि॑¦द्रवि॑ण‌म्¦आ¦य॒ज॒स्व॒ ||

इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {23/23}{3.1.23}{3.1.1.23}{2.8.16.8}{23, 235, 2458}

इळा᳚‌म्¦अ॒ग्ने॒¦पु॒रु॒ऽदंस᳚‌म्¦स॒नि‌म्¦गोः¦श॒श्व॒त्ऽत॒म‌म्¦हव॑मानाय¦सा॒ध॒ |
स्यात्¦नः॒¦सू॒नुः¦तन॑यः¦वि॒जाऽवा᳚¦अग्ने᳚¦सा¦ते॒¦सु॒ऽम॒तिः¦भू॒तु॒¦अ॒स्मे इति॑ ||

[2] वैश्वानरायेति पंचदशर्चस्य सूक्तस्य गाथिनो विश्वामित्रो वैश्वानरोग्निर्जगती |
वै॒श्वा॒न॒राय॑धि॒षणा᳚मृता॒वृधे᳚¦घृ॒तंपू॒तम॒ग्नये᳚जनामसि |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

द्वि॒ताहोता᳚रं॒मनु॑षश्चवा॒घतो᳚¦धि॒यारथं॒कुलि॑शः॒समृ᳚ण्वति || {1/15}{3.2.1}{3.1.2.1}{2.8.17.1}{24, 236, 2459}

वै॒श्वा॒न॒राय॑¦धि॒षणा᳚‌म्¦ऋ॒त॒ऽवृधे᳚¦घृ॒त‌म्¦न¦पू॒त‌म्¦अ॒ग्नये᳚¦ज॒ना॒म॒सि॒ |
द्वि॒ता¦होता᳚र‌म्¦मनु॑षः¦च॒¦वा॒घतः॑¦धि॒या¦रथ᳚‌म्¦न¦कुलि॑शः¦स‌म्¦ऋ॒ण्व॒ति॒ ||

रो᳚चयज्ज॒नुषा॒रोद॑सी,उ॒भे¦मा॒त्रोर॑भवत्‌पु॒त्रईड्यः॑ |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

ह॒व्य॒वाळ॒ग्निर॒जर॒श्चनो᳚हितो¦दू॒ळभो᳚वि॒शामति॑थिर्वि॒भाव॑सुः || {2/15}{3.2.2}{3.1.2.2}{2.8.17.2}{25, 236, 2460}

सः¦रो॒च॒य॒त्¦ज॒नुषा᳚¦रोद॑सी॒ इति॑¦उ॒भे इति॑¦सः¦मा॒त्रोः¦अ॒भ॒व॒त्¦पु॒त्रः¦ईड्यः॑ |
ह॒व्य॒ऽवाट्¦अ॒ग्निः¦अ॒जरः॑¦चनः॑ऽहितः¦दुः॒ऽदभः॑¦वि॒शा‌म्¦अति॑थिः¦वि॒भाऽव॑सुः ||

क्रत्वा॒दक्ष॑स्य॒तरु॑षो॒विध᳚र्मणि¦दे॒वासो᳚,अ॒ग्निंज॑नयन्त॒चित्ति॑भिः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

रु॒रु॒चा॒नंभा॒नुना॒ज्योति॑षाम॒हा¦मत्यं॒वाजं᳚सनि॒ष्यन्नुप॑ब्रुवे || {3/15}{3.2.3}{3.1.2.3}{2.8.17.3}{26, 236, 2461}

क्रत्वा᳚¦दक्ष॑स्य¦तरु॑षः¦विऽध᳚र्मणि¦दे॒वासः॑¦अ॒ग्नि‌म्¦ज॒न॒य॒न्त॒¦चित्ति॑ऽभिः |
रु॒रु॒चा॒न‌म्¦भा॒नुना᳚¦ज्योति॑षा¦म॒हा‌म्¦अत्य᳚‌म्¦न¦वाज᳚‌म्¦स॒नि॒ष्यन्¦उप॑¦ब्रु॒वे॒ ||

म॒न्द्रस्य॑सनि॒ष्यन्तो॒वरे᳚ण्यं¦वृणी॒महे॒,अह्र॑यं॒वाज॑मृ॒ग्मिय᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

रा॒तिंभृगू᳚णामु॒शिजं᳚क॒विक्र॑तु¦म॒ग्निंराज᳚न्तंदि॒व्येन॑शो॒चिषा᳚ || {4/15}{3.2.4}{3.1.2.4}{2.8.17.4}{27, 236, 2462}

आ¦म॒न्द्रस्य॑¦स॒नि॒ष्यन्तः॑¦वरे᳚ण्य‌म्¦वृ॒णी॒महे᳚¦अह्र॑य‌म्¦वाज᳚‌म्¦ऋ॒ग्मिय᳚‌म् |
रा॒ति‌म्¦भृगू᳚णा‌म्¦उ॒शिज᳚‌म्¦क॒विऽक्र॑तु‌म्¦अ॒ग्नि‌म्¦राज᳚न्त‌म्¦दि॒व्येन॑¦शो॒चिषा᳚ ||

अ॒ग्निंसु॒म्नाय॑दधिरेपु॒रोजना॒¦वाज॑श्रवसमि॒हवृ॒क्तब᳚र्हिषः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

य॒तस्रु॑चःसु॒रुचं᳚वि॒श्वदे᳚व्यं¦रु॒द्रंय॒ज्ञानां॒साध॑दिष्टिम॒पसा᳚म् || {5/15}{3.2.5}{3.1.2.5}{2.8.17.5}{28, 236, 2463}

अ॒ग्नि‌म्¦सु॒म्नाय॑¦द॒धि॒रे॒¦पु॒रः¦जनाः᳚¦वाज॑ऽश्रवस‌म्¦इ॒ह¦वृ॒क्तऽब॑र्हिषः |
य॒तऽस्रु॑चः¦सु॒ऽरुच᳚‌म्¦वि॒श्वऽदे᳚व्य‌म्¦रु॒द्र‌म्¦य॒ज्ञाना᳚‌म्¦साध॑त्ऽ‌इष्टि‌म्¦अ॒पसा᳚‌म् ||

पाव॑कशोचे॒तव॒हिक्षयं॒परि॒¦होत᳚र्य॒ज्ञेषु॑वृ॒क्तब᳚र्हिषो॒नरः॑ |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

अग्ने॒दुव॑इ॒च्छमा᳚नास॒आप्य॒¦मुपा᳚सते॒द्रवि॑णंधेहि॒तेभ्यः॑ || {6/15}{3.2.6}{3.1.2.6}{2.8.18.1}{29, 236, 2464}

पाव॑कऽशोचे¦तव॑¦हि¦क्षय᳚‌म्¦परि॑¦होतः॑¦य॒ज्ञेषु॑¦वृ॒क्तऽब॑र्हिषः¦नरः॑ |
अग्ने᳚¦दुवः॑¦इ॒च्छमा᳚नासः¦आप्य᳚‌म्¦उप॑¦आ॒स॒ते॒¦द्रवि॑ण‌म्¦धे॒हि॒¦तेभ्यः॑ ||

रोद॑सी,अपृण॒दास्व᳚र्म॒ह¦ज्जा॒तंयदे᳚नम॒पसो॒,अधा᳚रयन् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

सो,अ॑ध्व॒राय॒परि॑णीयतेक॒वि¦रत्यो॒वाज॑सातये॒चनो᳚हितः || {7/15}{3.2.7}{3.1.2.7}{2.8.18.2}{30, 236, 2465}

आ¦रोद॑सी॒ इति॑¦अ॒पृ॒ण॒त्¦आ¦स्वः॑¦म॒हत्¦जा॒त‌म्¦यत्¦ए॒न॒‌म्¦अ॒पसः॑¦अधा᳚रयन् |
सः¦अ॒ध्व॒राय॑¦परि॑¦नी॒य॒ते॒¦क॒विः¦अत्यः॑¦न¦वाज॑ऽसातये¦चनः॑ऽहितः ||

न॒म॒स्यत॑ह॒व्यदा᳚तिंस्वध्व॒रं¦दु॑व॒स्यत॒दम्यं᳚जा॒तवे᳚दसम् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

र॒थीरृ॒तस्य॑बृह॒तोविच॑र्षणि¦र॒ग्निर्दे॒वाना᳚मभवत्‌पु॒रोहि॑तः || {8/15}{3.2.8}{3.1.2.8}{2.8.18.3}{31, 236, 2466}

न॒म॒स्यत॑¦ह॒व्यऽदा᳚ति‌म्¦सु॒।आ॒ध्व॒र‌म्¦दु॒व॒स्यत॑¦दम्य᳚‌म्¦जा॒तऽवे᳚दस‌म् |
र॒थीः¦ऋ॒तस्य॑¦बृ॒ह॒तः¦विऽच॑र्षणिः¦अ॒ग्निः¦दे॒वाना᳚‌म्¦अ॒भ॒व॒त्¦पु॒रःऽहि॑तः ||

ति॒स्रोय॒ह्वस्य॑स॒मिधः॒परि॑ज्मनो॒¦ऽग्नेर॑पुनन्नु॒शिजो॒,अमृ॑त्यवः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

तासा॒मेका॒मद॑धु॒र्मर्त्ये॒भुज॑¦मुलो॒कमु॒द्वे,उप॑जा॒मिमी᳚यतुः || {9/15}{3.2.9}{3.1.2.9}{2.8.18.4}{32, 236, 2467}

ति॒स्रः¦य॒ह्वस्य॑¦स॒‌म्ऽ‌इधः॑¦परि॑ऽज्मनः¦अ॒ग्नेः¦अ॒पु॒न॒न्¦उ॒शिजः॑¦अमृ॑त्यवः |
तासा᳚‌म्¦एका᳚‌म्¦अद॑धुः¦मर्त्ये᳚¦भुज᳚‌म्¦ऊँ॒ इति॑¦लो॒क‌म्¦ऊँ॒ इति॑¦द्वे इति॑¦उप॑¦जा॒मि‌म्¦ई॒य॒तुः॒ ||

वि॒शांक॒विंवि॒श्पतिं॒मानु॑षी॒रिषः॒¦संसी᳚मकृण्व॒न्‌त्स्वधि॑तिं॒तेज॑से |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

उ॒द्वतो᳚नि॒वतो᳚याति॒वेवि॑ष॒त्¦गर्भ॑मे॒षुभुव॑नेषुदीधरत् || {10/15}{3.2.10}{3.1.2.10}{2.8.18.5}{33, 236, 2468}

वि॒शा‌म्¦क॒वि‌म्¦वि॒श्पति᳚‌म्¦मानु॑षीः¦इषः॑¦स‌म्¦सी॒‌म्¦अ॒कृ॒ण्व॒न्¦स्वऽधि॑ति‌म्¦न¦तेज॑से |
सः¦उ॒त्ऽवतः॑¦नि॒ऽवतः॑¦या॒ति॒¦वेवि॑षत्¦सः¦गर्भ᳚‌म्¦ए॒षु¦भुव॑नेषु¦दी॒ध॒र॒त् ||

जि᳚न्वतेज॒ठरे᳚षुप्रजज्ञि॒वान्¦वृषा᳚चि॒त्रेषु॒नान॑द॒न्नसिं॒हः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

वै॒श्वा॒न॒रःपृ॑थु॒पाजा॒,अम॑र्त्यो॒¦वसु॒रत्ना॒दय॑मानो॒विदा॒शुषे᳚ || {11/15}{3.2.11}{3.1.2.11}{2.8.19.1}{34, 236, 2469}

सः¦जि॒न्व॒ते॒¦ज॒ठरे᳚षु¦प्र॒ज॒ज्ञि॒ऽवान्¦वृषा᳚¦चि॒त्रेषु॑¦नान॑दत्¦न¦सिं॒हः |
वै॒श्वा॒न॒रः¦पृ॒थु॒ऽपाजाः᳚¦अम॑र्त्यः¦वसु॑¦रत्ना᳚¦दय॑मानः¦वि¦दा॒शुषे᳚ ||

वै॒श्वा॒न॒रःप्र॒त्नथा॒नाक॒मारु॑हद्¦दि॒वस्पृ॒ष्ठंभन्द॑मानःसु॒मन्म॑भिः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

पू᳚र्व॒वज्ज॒नय᳚ञ्ज॒न्तवे॒धनं᳚¦समा॒नमज्मं॒पर्ये᳚ति॒जागृ॑विः || {12/15}{3.2.12}{3.1.2.12}{2.8.19.2}{35, 236, 2470}

वै॒श्वा॒न॒रः¦प्र॒त्नऽथा᳚¦नाक᳚‌म्¦आ¦अ॒रु॒ह॒त्¦दि॒वः¦पृ॒ष्ठ‌म्¦भन्द॑मानः¦सु॒मन्म॑ऽभिः |
सः¦पू॒र्व॒ऽवत्¦ज॒नय॑न्¦ज॒न्तवे᳚¦धन᳚‌म्¦स॒मा॒न‌म्¦अज्म᳚‌म्¦परि॑¦ए॒ति॒¦जागृ॑विः ||

ऋ॒तावा᳚नंय॒ज्ञियं॒विप्र॑मु॒क्थ्य१॑(अ॒)¦मायंद॒धेमा᳚त॒रिश्वा᳚दि॒विक्षय᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

तंचि॒त्रया᳚मं॒हरि॑केशमीमहे¦सुदी॒तिम॒ग्निंसु॑वि॒ताय॒नव्य॑से || {13/15}{3.2.13}{3.1.2.13}{2.8.19.3}{36, 236, 2471}

ऋ॒तऽवा᳚न‌म्¦य॒ज्ञिय᳚‌म्¦विप्र᳚‌म्¦उ॒क्थ्य᳚‌म्¦आ¦य‌म्¦द॒धे¦मा॒त॒रिश्वा᳚¦दि॒वि¦क्षय᳚‌म् |
त‌म्¦चि॒त्रऽया᳚म‌म्¦हरि॑ऽकेश‌म्¦ई॒म॒हे॒¦सु॒ऽदी॒ति‌म्¦अ॒ग्नि‌म्¦सु॒वि॒ताय॑¦नव्य॑से ||

शुचिं॒याम᳚न्निषि॒रंस्व॒र्दृशं᳚¦के॒तुंदि॒वोरो᳚चन॒स्थामु॑ष॒र्बुध᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

अ॒ग्निंमू॒र्धानं᳚दि॒वो,अप्र॑तिष्कुतं॒¦तमी᳚महे॒नम॑सावा॒जिनं᳚बृ॒हत् || {14/15}{3.2.14}{3.1.2.14}{2.8.19.4}{37, 236, 2472}

शुचि᳚‌म्¦न¦याम॑न्¦इ॒षि॒र‌म्¦स्वः॒ऽदृश᳚‌म्¦के॒तु‌म्¦दि॒वः¦रो॒च॒न॒ऽस्था‌म्¦उ॒षः॒ऽबुध᳚‌म् |
अ॒ग्नि‌म्¦मू॒र्धान᳚‌म्¦दि॒वः¦अप्र॑तिऽस्कुत‌म्¦त‌म्¦ई॒म॒हे॒¦नम॑सा¦वा॒जिन᳚‌म्¦बृ॒हत् ||

म॒न्द्रंहोता᳚रं॒शुचि॒मद्व॑याविनं॒¦दमू᳚नसमु॒क्थ्यं᳚वि॒श्वच॑र्षणिम् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

रथं॒चि॒त्रंवपु॑षायदर्श॒तं¦मनु᳚र्हितं॒सद॒मिद्रा॒यई᳚महे || {15/15}{3.2.15}{3.1.2.15}{2.8.19.5}{38, 236, 2473}

म॒न्द्र‌म्¦होता᳚र‌म्¦शुचि᳚‌म्¦अद्व॑याविन‌म्¦दमू᳚नस‌म्¦उ॒क्थ्य᳚‌म्¦वि॒श्वऽच॑र्षणि‌म् |
रथ᳚‌म्¦न¦चि॒त्र‌म्¦वपु॑षाय¦द॒र्श॒त‌म्¦मनुः॑ऽहित‌म्¦सद᳚‌म्¦इत्¦रा॒यः¦ई॒म॒हे॒ ||

[3] वैश्वानरायेत्येकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्रो वैश्वानरोग्निर्जगती |
वै॒श्वा॒न॒राय॑पृथु॒पाज॑से॒विपो॒¦रत्ना᳚विधन्तध॒रुणे᳚षु॒गात॑वे |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

अ॒ग्निर्हिदे॒वाँ,अ॒मृतो᳚दुव॒स्य¦त्यथा॒धर्मा᳚णिस॒नता॒दू᳚दुषत् || {1/11}{3.3.1}{3.1.3.1}{2.8.20.1}{39, 237, 2474}

वै॒श्वा॒न॒राय॑¦पृ॒थु॒ऽपाज॑से¦विपः॑¦रत्ना᳚¦वि॒ध॒न्त॒¦ध॒रुणे᳚षु¦गात॑वे |
अ॒ग्निः¦हि¦दे॒वान्¦अ॒मृतः॑¦दु॒व॒स्यति॑¦अथ॑¦धर्मा᳚णि¦स॒नता᳚¦न¦दू॒दु॒ष॒त् ||

अ॒न्तर्दू॒तोरोद॑सीद॒स्मई᳚यते॒¦होता॒निष॑त्तो॒मनु॑षःपु॒रोहि॑तः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

क्षयं᳚बृ॒हन्तं॒परि॑भूषति॒द्युभि॑¦र्दे॒वेभि॑र॒ग्निरि॑षि॒तोधि॒याव॑सुः || {2/11}{3.3.2}{3.1.3.2}{2.8.20.2}{40, 237, 2475}

अ॒न्तः¦दू॒तः¦रोद॑सी॒ इति॑¦द॒स्मः¦ई॒य॒ते॒¦होता᳚¦निऽस॑त्तः¦मनु॑षः¦पु॒रःऽहि॑तः |
क्षय᳚‌म्¦बृ॒हन्त᳚‌म्¦परि॑¦भू॒ष॒ति॒¦द्युऽभिः॑¦दे॒वेभिः॑¦अ॒ग्निः¦इ॒षि॒तः¦धि॒याऽव॑सुः ||

के॒तुंय॒ज्ञानां᳚वि॒दथ॑स्य॒साध॑नं॒¦विप्रा᳚सो,अ॒ग्निंम॑हयन्त॒चित्ति॑भिः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

अपां᳚सि॒यस्मि॒न्नधि॑संद॒धुर्गिर॒¦स्तस्मि᳚न्‌त्सु॒म्नानि॒यज॑मान॒च॑के || {3/11}{3.3.3}{3.1.3.3}{2.8.20.3}{41, 237, 2476}

के॒तु‌म्¦य॒ज्ञाना᳚‌म्¦वि॒दथ॑स्य¦साध॑न‌म्¦विप्रा᳚सः¦अ॒ग्नि‌म्¦म॒ह॒य॒न्त॒¦चित्ति॑ऽभिः |
अपां᳚सि¦यस्मि॑न्¦अधि॑¦स॒‌म्ऽद॒धुः¦गिरः॑¦तस्मि॑न्¦सु॒म्नानि॑¦यज॑मानः¦आ¦च॒के॒ ||

पि॒ताय॒ज्ञाना॒मसु॑रोविप॒श्चितां᳚¦वि॒मान॑म॒ग्निर्व॒युनं᳚वा॒घता᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

वि॑वेश॒रोद॑सी॒भूरि॑वर्पसा¦पुरुप्रि॒योभ᳚न्दते॒धाम॑भिःक॒विः || {4/11}{3.3.4}{3.1.3.4}{2.8.20.4}{42, 237, 2477}

पि॒ता¦य॒ज्ञाना᳚‌म्¦असु॑रः¦वि॒पः॒ऽचिता᳚‌म्¦वि॒ऽमान᳚‌म्¦अ॒ग्निः¦व॒युन᳚‌म्¦च॒¦वा॒घता᳚‌म् |
आ¦वि॒वे॒श॒¦रोद॑सी॒ इति॑¦भूरि॑ऽवर्पसा¦पु॒रु॒ऽप्रि॒यः¦भ॒न्द॒ते॒¦धाम॑ऽभिः¦क॒विः ||

च॒न्द्रम॒ग्निंच॒न्द्रर॑थं॒हरि᳚व्रतं¦वैश्वान॒रम॑प्सु॒षदं᳚स्व॒र्विद᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

वि॒गा॒हंतूर्णिं॒तवि॑षीभि॒रावृ॑तं॒¦भूर्णिं᳚दे॒वास॑इ॒हसु॒श्रियं᳚दधुः || {5/11}{3.3.5}{3.1.3.5}{2.8.20.5}{43, 237, 2478}

च॒न्द्र‌म्¦अ॒ग्नि‌म्¦च॒न्द्रऽर॑थ‌म्¦हरि॑ऽव्रत‌म्¦वै॒श्वा॒न॒र‌म्¦अ॒प्सु॒ऽसद᳚‌म्¦स्वः॒ऽविद᳚‌म् |
वि॒ऽगा॒ह‌म्¦तूर्णि᳚‌म्¦तवि॑षीभिः¦आऽवृ॑त‌म्¦भूर्णि᳚‌म्¦दे॒वासः॑¦इ॒ह¦सु॒ऽश्रिय᳚‌म्¦द॒धुः॒ ||

अ॒ग्निर्दे॒वेभि॒र्मनु॑षश्चज॒न्तुभि॑¦स्तन्वा॒नोय॒ज्ञंपु॑रु॒पेश॑संधि॒या |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

र॒थीर॒न्तरी᳚यते॒साध॑दिष्टिभि¦र्जी॒रोदमू᳚ना,अभिशस्ति॒चात॑नः || {6/11}{3.3.6}{3.1.3.6}{2.8.21.1}{44, 237, 2479}

अ॒ग्निः¦दे॒वेभिः॑¦मनु॑षः¦च॒¦ज॒न्तुऽभिः॑¦त॒न्वा॒नः¦य॒ज्ञ‌म्¦पु॒रु॒ऽपेश॑स‌म्¦धि॒या |
र॒थीः¦अ॒न्तः¦ई॒य॒ते॒¦साध॑दिष्टिऽभिः¦जी॒रः¦दमू᳚नाः¦अ॒भि॒श॒स्ति॒ऽचात॑नः ||

अग्ने॒जर॑स्वस्वप॒त्यआयु᳚¦न्यू॒र्जापि᳚न्वस्व॒समिषो᳚दिदीहिनः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

वयां᳚सिजिन्वबृह॒तश्च॑जागृव¦उ॒शिग्दे॒वाना॒मसि॑सु॒क्रतु᳚र्वि॒पाम् || {7/11}{3.3.7}{3.1.3.7}{2.8.21.2}{45, 237, 2480}

अग्ने᳚¦जर॑स्व¦सु॒।आ॒प॒त्ये¦आयु॑नि¦ऊ॒र्जा¦पि॒न्व॒स्व॒¦स‌म्¦इषः॑¦दि॒दी॒हि॒¦नः॒ |
वयां᳚सि¦जि॒न्व॒¦बृ॒ह॒तः¦च॒¦जा॒गृ॒वे॒¦उ॒शिक्¦दे॒वाना᳚‌म्¦असि॑¦सु॒ऽक्रतुः॑¦वि॒पा‌म् ||

वि॒श्पतिं᳚य॒ह्वमति॑थिं॒नरः॒सदा᳚¦य॒न्तारं᳚धी॒नामु॒शिजं᳚वा॒घता᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

अ॒ध्व॒राणां॒चेत॑नंजा॒तवे᳚दसं॒¦प्रशं᳚सन्ति॒नम॑साजू॒तिभि᳚र्वृ॒धे || {8/11}{3.3.8}{3.1.3.8}{2.8.21.3}{46, 237, 2481}

वि॒श्पति᳚‌म्¦य॒ह्व‌म्¦अति॑थि‌म्¦नरः॑¦सदा᳚¦य॒न्तार᳚‌म्¦धी॒ना‌म्¦उ॒शिज᳚‌म्¦च॒¦वा॒घता᳚‌म् |
अ॒ध्व॒राणा᳚‌म्¦चेत॑न‌म्¦जा॒तऽवे᳚दस‌म्¦प्र¦शं॒स॒न्ति॒¦नम॑सा¦जू॒तिऽभिः॑¦वृ॒धे ||

वि॒भावा᳚दे॒वःसु॒रणः॒परि॑क्षि॒ती¦र॒ग्निर्ब॑भूव॒शव॑सासु॒मद्र॑थः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

तस्य᳚व्र॒तानि॑भूरिपो॒षिणो᳚व॒य¦मुप॑भूषेम॒दम॒सु॑वृ॒क्तिभिः॑ || {9/11}{3.3.9}{3.1.3.9}{2.8.21.4}{47, 237, 2482}

वि॒भाऽवा᳚¦दे॒वः¦सु॒ऽरणः॑¦परि॑¦क्षि॒तीः¦अ॒ग्निः¦ब॒भू॒व॒¦शव॑सा¦सु॒मत्ऽर॑थः |
तस्य॑¦व्र॒तानि॑¦भू॒रि॒ऽपो॒षिणः॑¦व॒य‌म्¦उप॑¦भू॒षे॒म॒¦दमे᳚¦आ¦सु॒वृ॒क्तिऽभिः॑ ||

वैश्वा᳚नर॒तव॒धामा॒न्याच॑के॒¦येभिः॑स्व॒र्विदभ॑वोविचक्षण |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

जा॒तआपृ॑णो॒भुव॑नानि॒रोद॑सी॒,¦अग्ने॒ताविश्वा᳚परि॒भूर॑सि॒त्मना᳚ || {10/11}{3.3.10}{3.1.3.10}{2.8.21.5}{48, 237, 2483}

वैश्वा᳚नर¦तव॑¦धामा᳚नि¦आ¦च॒क्रे॒¦येभिः॑¦स्वः॒ऽवित्¦अभ॑वः¦वि॒ऽच॒क्ष॒ण॒ |
जा॒तः¦आ¦अ॒पृ॒णः॒¦भुव॑नानि¦रोद॑सी॒ इति॑¦अग्ने᳚¦ता¦विश्वा᳚¦प॒रि॒ऽभूः¦अ॒सि॒¦त्मना᳚ ||

वै॒श्वा॒न॒रस्य॑दं॒सना᳚भ्योबृ॒ह¦दरि॑णा॒देकः॑स्वप॒स्यया᳚क॒विः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

उ॒भापि॒तरा᳚म॒हय᳚न्नजायता॒¦ग्निर्द्यावा᳚पृथि॒वीभूरि॑रेतसा || {11/11}{3.3.11}{3.1.3.11}{2.8.21.6}{49, 237, 2484}

वै॒श्वा॒न॒रस्य॑¦दं॒सना᳚भ्यः¦बृ॒हत्¦अरि॑णात्¦एकः॑¦सु॒।आ॒प॒स्यया᳚¦क॒विः |
उ॒भा¦पि॒तरा᳚¦म॒हय॑न्¦अ॒जा॒य॒त॒¦अ॒ग्निः¦द्यावा᳚पृथि॒वी इति॑¦भूरि॑ऽरेतसा ||

[4] समित्समिदित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रइध्मस्तनूनपादिळोबर्हिर्देवीर्द्वारउषासानक्तादैव्यौ होतारौ सरस्वतीळाभारत्यस्त्वष्टावनस्पतिस्वाहाकृतयइतिक्रमेणदेवतास्त्रिष्टुप् |
स॒मित्स॑मित्‌सु॒मना᳚बोध्य॒स्मे¦शु॒चाशु॑चासुम॒तिंरा᳚सि॒वस्वः॑ |{गाथिनो विश्वामित्रः | इध्मः समिद्धोऽग्निर्वा | त्रिष्टुप्}

दे᳚वदे॒वान्‌य॒जथा᳚यवक्षि॒¦सखा॒सखी᳚न्‌त्सु॒मना᳚यक्ष्यग्ने || {1/11}{3.4.1}{3.1.4.1}{2.8.22.1}{50, 238, 2485}

स॒मित्ऽस॑मित्¦सु॒ऽमनाः᳚¦बो॒धि॒¦अ॒स्मे इति॑¦शु॒चाऽशु॑चा¦सु॒ऽम॒ति‌म्¦रा॒सि॒¦वस्वः॑ |
आ¦दे॒व॒¦दे॒वान्¦य॒जथा᳚य¦व॒क्षि॒¦सखा᳚¦सखी᳚न्¦सु॒ऽमनाः᳚¦य॒क्षि॒¦अ॒ग्ने॒ ||

यंदे॒वास॒स्त्रिरह᳚न्ना॒यज᳚न्ते¦दि॒वेदि॑वे॒वरु॑णोमि॒त्रो,अ॒ग्निः |{गाथिनो विश्वामित्रः | तनूनपात् | त्रिष्टुप्}

सेमंय॒ज्ञंमधु॑मन्तंकृधीन॒¦स्तनू᳚नपाद्‌घृ॒तयो᳚निंवि॒धन्त᳚म् || {2/11}{3.4.2}{3.1.4.2}{2.8.22.2}{51, 238, 2486}

य‌म्¦दे॒वासः॑¦त्रिः¦अह॑न्¦आ॒ऽयज᳚न्ते¦दि॒वेऽदि॑वे¦वरु॑णः¦मि॒त्रः¦अ॒ग्निः |
सः¦इ॒म‌म्¦य॒ज्ञ‌म्¦मधु॑ऽमन्त‌म्¦कृ॒धि॒¦नः॒¦तनू᳚ऽनपात्¦घृ॒तऽयो᳚नि‌म्¦वि॒धन्त᳚‌म् ||

प्रदीधि॑तिर्वि॒श्ववा᳚राजिगाति॒¦होता᳚रमि॒ळःप्र॑थ॒मंयज॑ध्यै |{गाथिनो विश्वामित्रः | इळः | त्रिष्टुप्}

अच्छा॒नमो᳚भिर्वृष॒भंव॒न्दध्यै॒¦दे॒वान्‌य॑क्षदिषि॒तोयजी᳚यान् || {3/11}{3.4.3}{3.1.4.3}{2.8.22.3}{52, 238, 2487}

प्र¦दीधि॑तिः¦वि॒श्वऽवा᳚रा¦जि॒गा॒ति॒¦होता᳚र‌म्¦इ॒ळः¦प्र॒थ॒म‌म्¦यज॑ध्यै |
अच्छ॑¦नमः॑ऽभिः¦वृ॒ष॒भ‌म्¦व॒न्दध्यै᳚¦सः¦दे॒वान्¦य॒क्ष॒त्¦इ॒षि॒तः¦यजी᳚यान् ||

ऊ॒र्ध्वोवां᳚गा॒तुर॑ध्व॒रे,अ॑का¦र्यू॒र्ध्वाशो॒चींषि॒प्रस्थि॑ता॒रजां᳚सि |{गाथिनो विश्वामित्रः | बर्हिः | त्रिष्टुप्}

दि॒वोवा॒नाभा॒न्य॑सादि॒होता᳚¦स्तृणी॒महि॑दे॒वव्य॑चा॒विब॒र्हिः || {4/11}{3.4.4}{3.1.4.4}{2.8.22.4}{53, 238, 2488}

ऊ॒र्ध्वः¦वा॒‌म्¦गा॒तुः¦अ॒ध्व॒रे¦अ॒का॒रि॒¦ऊ॒र्ध्वा¦शो॒चींषि॑¦प्रऽस्थि॑ता¦रजां᳚सि |
दि॒वः¦वा॒¦नाभा᳚¦नि¦अ॒सा॒दि॒¦होता᳚¦स्तृ॒णी॒महि॑¦दे॒वऽव्य॑चाः¦वि¦ब॒र्हिः ||

स॒प्तहो॒त्राणि॒मन॑सावृणा॒ना¦,इन्व᳚न्तो॒विश्वं॒प्रति॑यन्नृ॒तेन॑ |{गाथिनो विश्वामित्रः | देवीर्द्वारः | त्रिष्टुप्}

नृ॒पेश॑सोवि॒दथे᳚षु॒प्रजा॒ता¦,अ॒भी॒३॑(ई॒)मंय॒ज्ञंविच॑रन्तपू॒र्वीः || {5/11}{3.4.5}{3.1.4.5}{2.8.22.5}{54, 238, 2489}

स॒प्त¦हो॒त्राणि॑¦मन॑सा¦वृ॒णा॒नाः¦इन्व᳚न्तः¦विश्व᳚‌म्¦प्रति॑¦य॒न्¦ऋ॒तेन॑ |
नृ॒ऽपेश॑सः¦वि॒दथे᳚षु¦प्र¦जा॒ताः¦अ॒भि¦इ॒म‌म्¦य॒ज्ञ‌म्¦वि¦च॒र॒न्त॒¦पू॒र्वीः ||

भन्द॑माने,उ॒षसा॒,उपा᳚के¦,उ॒तस्म॑येतेत॒न्वा॒३॑(आ॒)विरू᳚पे |{गाथिनो विश्वामित्रः | उषासानक्ता | त्रिष्टुप्}

यथा᳚नोमि॒त्रोवरु॑णो॒जुजो᳚ष॒¦दिन्द्रो᳚म॒रुत्वाँ᳚,उ॒तवा॒महो᳚भिः || {6/11}{3.4.6}{3.1.4.6}{2.8.23.1}{55, 238, 2490}

आ¦भन्द॑माने॒ इति॑¦उ॒षसौ᳚¦उपा᳚के॒ इति॑¦उ॒त¦स्म॒ये॒ते॒ इति॑¦त॒न्वा᳚¦विरू᳚पे॒ इति॒ विऽरू᳚पे |
यथा᳚¦नः॒¦मि॒त्रः¦वरु॑णः¦जुजो᳚षत्¦इन्द्रः॑¦म॒रुत्वा᳚न्¦उ॒त¦वा॒¦महः॑ऽभिः ||

दैव्या॒होता᳚राप्रथ॒मान्यृ᳚ञ्जे¦स॒प्तपृ॒क्षासः॑स्व॒धया᳚मदन्ति |{गाथिनो विश्वामित्रः | दैव्यौ होतारौ प्रचेतसौ | त्रिष्टुप्}

ऋ॒तंशंस᳚न्तऋ॒तमित्तआ᳚हु॒¦रनु᳚व्र॒तंव्र॑त॒पादीध्या᳚नाः || {7/11}{3.4.7}{3.1.4.7}{2.8.23.2}{56, 238, 2491}

दैव्या᳚¦होता᳚रा¦प्र॒थ॒मा¦नि¦ऋं॒जे॒¦स॒प्त¦पृ॒क्षासः॑¦स्व॒धया᳚¦म॒द॒न्ति॒ |
ऋ॒त‌म्¦शंस᳚न्तः¦ऋ॒त‌म्¦इत्¦ते¦आ॒हुः॒¦अनु॑¦व्र॒त‌म्¦व्र॒त॒ऽपाः¦दीध्या᳚नाः ||

भार॑ती॒भार॑तीभिःस॒जोषा॒,¦इळा᳚दे॒वैर्म॑नु॒ष्ये᳚भिर॒ग्निः |{गाथिनो विश्वामित्रः | तिस्रो देव्यः सरस्वतीळाभारत्यः | त्रिष्टुप्}

सर॑स्वतीसारस्व॒तेभि॑र॒र्वाक्¦ति॒स्रोदे॒वीर्ब॒र्हिरेदंस॑दन्तु || {8/11}{3.4.8}{3.1.4.8}{2.8.23.3}{57, 238, 2492}

आ¦भार॑ती¦भार॑तीभिः¦स॒ऽजोषाः᳚¦इळाः᳚¦दे॒वैः¦म॒नु॒ष्ये᳚भिः¦अ॒ग्निः |
सर॑स्वती¦सा॒र॒स्व॒तेभिः॑¦अ॒र्वाक्¦ति॒स्रः¦दे॒वीः¦ब॒र्हिः¦आ¦इ॒द‌म्¦स॒द॒न्तु॒ ||

तन्न॑स्तु॒रीप॒मध॑पोषयि॒त्नु¦देव॑त्वष्ट॒र्विर॑रा॒णःस्य॑स्व |{गाथिनो विश्वामित्रः | त्वष्टाः | त्रिष्टुप्}

यतो᳚वी॒रःक᳚र्म॒ण्यः॑सु॒दक्षो᳚¦यु॒क्तग्रा᳚वा॒जाय॑तेदे॒वका᳚मः || {9/11}{3.4.9}{3.1.4.9}{2.8.23.4}{58, 238, 2493}

तत्¦नः॒¦तु॒रीप᳚‌म्¦अध॑¦पो॒ष॒यि॒त्नु¦देव॑¦त्व॒ष्टः॒¦वि¦र॒रा॒णः¦स्य॒स्वेति॑ स्यस्व |
यतः॑¦वी॒रः¦क॒र्म॒ण्यः॑¦सु॒ऽदक्षः॑¦यु॒क्तऽग्रा᳚वा¦जाय॑ते¦दे॒वऽका᳚मः ||

वन॑स्प॒तेऽव॑सृ॒जोप॑दे॒वा¦न॒ग्निर्ह॒विःश॑मि॒तासू᳚दयाति |{गाथिनो विश्वामित्रः | वनस्पतिः | त्रिष्टुप्}

सेदु॒होता᳚स॒त्यत॑रोयजाति॒¦यथा᳚दे॒वानां॒जनि॑मानि॒वेद॑ || {10/11}{3.4.10}{3.1.4.10}{2.8.23.5}{59, 238, 2494}

वन॑स्पते¦अव॑¦सृ॒ज॒¦उप॑¦दे॒वान्¦अ॒ग्निः¦ह॒विः¦श॒मि॒ता¦सू॒द॒या॒ति॒ |
सः¦इत्¦ऊँ॒ इति॑¦होता᳚¦स॒त्यऽत॑रः¦य॒जा॒ति॒¦यथा᳚¦दे॒वाना᳚‌म्¦जनि॑मानि¦वेद॑ ||

या᳚ह्यग्नेसमिधा॒नो,अ॒र्वाङ्¦इन्द्रे᳚णदे॒वैःस॒रथं᳚तु॒रेभिः॑ |{गाथिनो विश्वामित्रः | स्वाहाकृतयः | त्रिष्टुप्}

ब॒र्हिर्न॒आस्ता॒मदि॑तिःसुपु॒त्रा¦स्वाहा᳚दे॒वा,अ॒मृता᳚मादयन्ताम् || {11/11}{3.4.11}{3.1.4.11}{2.8.23.6}{60, 238, 2495}

आ¦या॒हि॒¦अ॒ग्ने॒¦स॒‌म्ऽ‌इ॒धा॒नः¦अ॒र्वाङ्¦इन्द्रे᳚ण¦दे॒वैः¦स॒ऽरथ᳚‌म्¦तु॒रेभिः॑ |
ब॒र्हिः¦नः॒¦आस्ता᳚‌म्¦अदि॑तिः¦सु॒ऽपु॒त्रा¦स्वाहा᳚¦दे॒वाः¦अ॒मृताः᳚¦मा॒द॒य॒न्ता॒‌म् ||

[5] प्रत्यग्निरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् (प्रत्यग्निःप्रकारवः सूक्तयोरन्त्यासांद्यावापृथिव्यादीनांनिपातादृश्यन्तेअतस्तयोर्लिंगोक्तादेवताः पाक्षिकाः) |
प्रत्य॒ग्निरु॒षस॒श्चेकि॑ता॒नो¦ऽबो᳚धि॒विप्रः॑पद॒वीःक॑वी॒नाम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

पृ॒थु॒पाजा᳚देव॒यद्भिः॒समि॒द्धो¦ऽप॒द्वारा॒तम॑सो॒वह्नि॑रावः || {1/11}{3.5.1}{3.1.5.1}{2.8.24.1}{61, 239, 2496}

प्रति॑¦अ॒ग्निः¦उ॒षसः॑¦चेकि॑तानः¦अबो᳚धि¦विप्रः॑¦प॒द॒ऽवीः¦क॒वी॒ना‌म् |
पृ॒थु॒ऽपाजाः᳚¦दे॒व॒यत्ऽभिः॑¦स‌म्ऽ‌इ᳚द्धः¦अप॑¦द्वारा᳚¦तम॑सः¦वह्निः॑¦आ॒व॒रित्या᳚वः ||

प्रेद्व॒ग्निर्वा᳚वृधे॒स्तोमे᳚भि¦र्गी॒र्भिःस्तो᳚तॄ॒णांन॑म॒स्य॑उ॒क्थैः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

पू॒र्वीरृ॒तस्य॑सं॒दृश॑श्चका॒नः¦संदू॒तो,अ॑द्यौदु॒षसो᳚विरो॒के || {2/11}{3.5.2}{3.1.5.2}{2.8.24.2}{62, 239, 2497}

प्र¦इत्¦ऊँ॒ इति॑¦अ॒ग्निः¦व॒वृ॒धे॒¦स्तोमे᳚भिः¦गीः॒ऽभिः¦स्तो॒तॄ॒णा‌म्¦न॒म॒स्यः॑¦उ॒क्थैः |
पू॒र्वीः¦ऋ॒तस्य॑¦स॒‌म्ऽदृशः॑¦च॒का॒नः¦स‌म्¦दू॒तः¦अ॒द्यौ॒त्¦उ॒षसः॑¦वि॒ऽरो॒के ||

अधा᳚य्य॒ग्निर्मानु॑षीषुवि॒क्ष्व१॑(अ॒)¦पांगर्भो᳚मि॒त्रऋ॒तेन॒साध॑न् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

ह᳚र्य॒तोय॑ज॒तःसान्व॑स्था॒¦दभू᳚दु॒विप्रो॒हव्यो᳚मती॒नाम् || {3/11}{3.5.3}{3.1.5.3}{2.8.24.3}{63, 239, 2498}

अधा᳚यि¦अ॒ग्निः¦मानु॑षीषु¦वि॒क्षु¦अ॒पा‌म्¦गर्भः॑¦मि॒त्रः¦ऋ॒तेन॑¦साध॑न् |
आ¦हि॒र्य॒तः¦य॒ज॒तः¦सानु॑¦अ॒स्था॒त्¦अभू᳚त्¦ऊँ॒ इति॑¦विप्रः॑¦हव्यः॑¦म॒ती॒ना‌म् ||

मि॒त्रो,अ॒ग्निर्भ॑वति॒यत्‌समि॑द्धो¦मि॒त्रोहोता॒वरु॑णोजा॒तवे᳚दाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

मि॒त्रो,अ॑ध्व॒र्युरि॑षि॒रोदमू᳚ना¦मि॒त्रःसिन्धू᳚नामु॒तपर्व॑तानाम् || {4/11}{3.5.4}{3.1.5.4}{2.8.24.4}{64, 239, 2499}

मि॒त्रः¦अ॒ग्निः¦भ॒व॒ति॒¦यत्¦स‌म्ऽ‌इ᳚द्धः¦मि॒त्रः¦होता᳚¦वरु॑णः¦जा॒तऽवे᳚दाः |
मि॒त्रः¦अ॒ध्व॒र्युः¦इ॒षि॒रः¦दमू᳚नाः¦मि॒त्रः¦सिन्धू᳚ना‌म्¦उ॒त¦पर्व॑ताना‌म् ||

पाति॑प्रि॒यंरि॒पो,अग्रं᳚प॒दंवेः¦पाति॑य॒ह्वश्चर॑णं॒सूर्य॑स्य |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

पाति॒नाभा᳚स॒प्तशी᳚र्षाणम॒ग्निः¦पाति॑दे॒वाना᳚मुप॒माद॑मृ॒ष्वः || {5/11}{3.5.5}{3.1.5.5}{2.8.24.5}{65, 239, 2500}

पाति॑¦प्रि॒य‌म्¦रि॒पः¦अग्र᳚‌म्¦प॒द‌म्¦वेः¦पाति॑¦य॒ह्वः¦चर॑ण‌म्¦सूर्य॑स्य |
पाति॑¦नाभा᳚¦स॒प्तऽशी᳚र्षाणा‌म्¦अ॒ग्निः¦पाति॑¦दे॒वाना᳚‌म्¦उ॒प॒ऽमाद᳚‌म्¦ऋ॒ष्वः ||

ऋ॒भुश्च॑क्र॒ईड्यं॒चारु॒नाम॒¦विश्वा᳚निदे॒वोव॒युना᳚निवि॒द्वान् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

स॒सस्य॒चर्म॑घृ॒तव॑त्‌प॒दंवे¦स्तदिद॒ग्नीर॑क्ष॒त्यप्र॑युच्छन् || {6/11}{3.5.6}{3.1.5.6}{2.8.25.1}{66, 239, 2501}

ऋ॒भुः¦च॒क्रे॒¦ईड्य᳚‌म्¦चारु॑¦नाम॑¦विश्वा᳚नि¦दे॒वः¦व॒युना᳚नि¦वि॒द्वान् |
स॒सस्य॑¦चर्म॑¦घृ॒तऽव॑त्¦प॒द‌म्¦वेः¦तत्¦इत्¦अ॒ग्निः¦र॒क्ष॒ति॒¦अप्र॑ऽयुच्छन् ||

योनि॑म॒ग्निर्घृ॒तव᳚न्तमस्थात्¦पृ॒थुप्र॑गाणमु॒शन्त॑मुशा॒नः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दीद्या᳚नः॒शुचि᳚रृ॒ष्वःपा᳚व॒कः¦पुनः॑पुनर्मा॒तरा॒नव्य॑सीकः || {7/11}{3.5.7}{3.1.5.7}{2.8.25.2}{67, 239, 2502}

आ¦योनि᳚‌म्¦अ॒ग्निः¦घृ॒तऽव᳚न्त‌म्¦अ॒स्था॒त्¦पृ॒थुऽप्र॑गान‌म्¦उ॒शन्त᳚‌म्¦उ॒शा॒नः |
दीद्या᳚नः¦शुचिः॑¦ऋ॒ष्वः¦पा॒व॒कः¦पुनः॑ऽपुनः¦मा॒तरा᳚¦नव्य॑सी॒ इति॑¦क॒रिति॑ कः ||

स॒द्योजा॒तओष॑धीभिर्ववक्षे॒¦यदी॒वर्ध᳚न्तिप्र॒स्वो᳚घृ॒तेन॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

आप॑इवप्र॒वता॒शुम्भ॑माना¦,उरु॒ष्यद॒ग्निःपि॒त्रोरु॒पस्थे᳚ || {8/11}{3.5.8}{3.1.5.8}{2.8.25.3}{68, 239, 2503}

स॒द्यः¦जा॒तः¦ओष॑धीभिः¦व॒व॒क्षे॒¦यदि॑¦वर्ध᳚न्ति¦प्र॒ऽस्वः॑¦घृ॒तेन॑ |
आपः॑ऽ‌इव¦प्र॒ऽवता᳚¦शुम्भ॑मानाः¦उ॒रु॒ष्यत्¦अ॒ग्निः¦पि॒त्रोः¦उ॒पऽस्थे᳚ ||

उदु॑ष्टु॒तःस॒मिधा᳚य॒ह्वो,अ॑द्यौ॒द्¦वर्ष्म᳚न्‌दि॒वो,अधि॒नाभा᳚पृथि॒व्याः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

मि॒त्रो,अ॒ग्निरीड्यो᳚मात॒रिश्वा¦ऽऽदू॒तोव॑क्षद्‌य॒जथा᳚यदे॒वान् || {9/11}{3.5.9}{3.1.5.9}{2.8.25.4}{69, 239, 2504}

उत्¦ऊँ॒ इति॑| स्तु॒तः¦स॒‌म्ऽ‌इधा᳚¦य॒ह्वः¦अ॒द्यौ॒त्¦वर्ष्म॑न्¦दि॒वः¦अधि॑¦नाभा᳚¦पृ॒थि॒व्याः |
मि॒त्रः¦अ॒ग्निः¦ईड्यः॑¦मा॒त॒रिश्वा᳚¦आ¦दू॒तः¦व॒क्ष॒त्¦य॒जथा᳚य¦दे॒वान् ||

उद॑स्तम्भीत्‌स॒मिधा॒नाक॑मृ॒ष्वो॒३॑(ओ॒)¦ऽग्निर्भव᳚न्नुत्त॒मोरो᳚च॒नाना᳚म् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

यदी॒भृगु॑भ्यः॒परि॑मात॒रिश्वा॒¦गुहा॒सन्तं᳚हव्य॒वाहं᳚समी॒धे || {10/11}{3.5.10}{3.1.5.10}{2.8.25.5}{70, 239, 2505}

उत्¦अ॒स्त॒म्भी॒त्¦स॒‌म्ऽ‌इधा᳚¦नाक᳚‌म्¦ऋ॒ष्वः¦अ॒ग्निः¦भव॑न्¦उ॒त्ऽत॒मः¦रो॒च॒नाना᳚‌म् |
यदि॑¦भृगु॑ऽभ्यः¦परि॑¦मा॒त॒रिश्वा᳚¦गुहा᳚¦सन्त᳚‌म्¦ह॒व्य॒ऽवाह᳚‌म्¦स॒‌म्ऽई॒धे ||

इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {11/11}{3.5.11}{3.1.5.11}{2.8.25.6}{71, 239, 2506}

इळा᳚‌म्¦अ॒ग्ने॒¦पु॒रु॒ऽदंस᳚‌म्¦स॒नि‌म्¦गोः¦श॒श्व॒त्ऽत॒म‌म्¦हव॑मानाय¦सा॒ध॒ |
स्यात्¦नः॒¦सू॒नुः¦तन॑यः¦वि॒जाऽवा᳚¦अग्ने᳚¦सा¦ते॒¦सु॒ऽम॒तिः¦भू॒तु॒¦अ॒स्मे इति॑ ||

[6] प्रकारवइत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् |
प्रका᳚रवोमन॒नाव॒च्यमा᳚ना¦देव॒द्रीचीं᳚नयतदेव॒यन्तः॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

द॒क्षि॒णा॒वाड्‌वा॒जिनी॒प्राच्ये᳚ति¦ह॒विर्भर᳚न्‌त्य॒ग्नये᳚घृ॒ताची᳚ || {1/11}{3.6.1}{3.1.6.1}{2.8.26.1}{72, 240, 2507}

प्र¦का॒र॒वः॒¦म॒न॒ना¦व॒च्यमा᳚नाः¦दे॒व॒द्रीची᳚‌म्¦न॒य॒त॒¦दे॒व॒ऽयन्तः॑ |
द॒क्षि॒णा॒ऽवाट्¦वा॒जिनी᳚¦प्राची᳚¦ए॒ति॒¦ह॒विः¦भर᳚न्ती¦अ॒ग्नये᳚¦घृ॒ताची᳚ ||

रोद॑सी,अपृणा॒जाय॑मान¦उ॒तप्ररि॑क्था॒,अध॒नुप्र॑यज्यो |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दि॒वश्चि॑दग्नेमहि॒नापृ॑थि॒व्या¦व॒च्यन्तां᳚ते॒वह्न॑यःस॒प्तजि॑ह्वाः || {2/11}{3.6.2}{3.1.6.2}{2.8.26.2}{73, 240, 2508}

आ¦रोद॑सी॒ इति॑¦अ॒पृ॒णाः॒¦जाय॑मानः¦उ॒त¦प्र¦रि॒क्थाः॒¦अध॑¦नु¦प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो |
दि॒वः¦चि॒त्¦अ॒ग्ने॒¦म॒हि॒ना¦पृ॒थि॒व्याः¦व॒च्यन्ता᳚‌म्¦ते॒¦वह्न॑यः¦स॒प्तऽजि॑ह्वाः ||

द्यौश्च॑त्वापृथि॒वीय॒ज्ञिया᳚सो॒¦निहोता᳚रंसादयन्ते॒दमा᳚य |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

यदी॒विशो॒मानु॑षीर्देव॒यन्तीः॒¦प्रय॑स्वती॒रीळ॑तेशु॒क्रम॒र्चिः || {3/11}{3.6.3}{3.1.6.3}{2.8.26.3}{74, 240, 2509}

द्यौः¦च॒¦त्वा॒¦पृ॒थि॒वी¦य॒ज्ञिया᳚सः¦नि¦होता᳚र‌म्¦सा॒द॒य॒न्ते॒¦दमा᳚य |
यदि॑¦विशः॑¦मानु॑षीः¦दे॒व॒ऽयन्तीः᳚¦प्रय॑स्वतीः¦ईळ॑ते¦शु॒क्र‌म्¦अ॒र्चिः ||

म॒हान्‌त्स॒धस्थे᳚ध्रु॒वनिष॑त्तो॒¦ऽन्तर्द्यावा॒माहि॑ने॒हर्य॑माणः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

आस्क्रे᳚स॒पत्नी᳚,अ॒जरे॒,अमृ॑क्ते¦सब॒र्दुघे᳚,उरुगा॒यस्य॑धे॒नू || {4/11}{3.6.4}{3.1.6.4}{2.8.26.4}{75, 240, 2510}

म॒हान्¦स॒धऽस्थे᳚¦ध्रु॒वः¦आ¦निऽस॑त्तः¦अ॒न्तः¦द्यावा᳚¦माहि॑ने॒ इति॑¦हर्य॑माणः |
आस्क्रे॒ इति॑¦स॒पत्नी॒ इति॑ स॒ऽपत्नी᳚¦अ॒जरे॒ इति॑¦अमृ॑क्ते॒ इति॑¦स॒ब॒र्दुघे॒ इति॑ स॒बः॒ऽदुघे᳚¦उ॒रु॒ऽगा॒यस्य॑¦धे॒नू इति॑ ||

व्र॒ताते᳚,अग्नेमह॒तोम॒हानि॒¦तव॒क्रत्वा॒रोद॑सी॒,त॑तन्थ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

त्वंदू॒तो,अ॑भवो॒जाय॑मान॒¦स्त्वंने॒तावृ॑षभचर्षणी॒नाम् || {5/11}{3.6.5}{3.1.6.5}{2.8.26.5}{76, 240, 2511}

व्र॒ता¦ते॒¦अ॒ग्ने॒¦म॒ह॒तः¦म॒हानि॑¦तव॑¦क्रत्वा᳚¦रोद॑सी॒ इति॑¦आ¦त॒त॒न्थ॒ |
त्व‌म्¦दू॒तः¦अ॒भ॒वः॒¦जाय॑मानः¦त्व‌म्¦ने॒ता¦वृ॒ष॒भ॒¦च॒र्ष॒णी॒ना‌म् ||

ऋ॒तस्य॑वाके॒शिना᳚यो॒ग्याभि॑¦र्घृत॒स्नुवा॒रोहि॑ताधु॒रिधि॑ष्व |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अथाव॑हदे॒वान्‌दे᳚व॒विश्वा᳚न्¦त्स्वध्व॒राकृ॑णुहिजातवेदः || {6/11}{3.6.6}{3.1.6.6}{2.8.27.1}{77, 240, 2512}

ऋ॒तस्य॑¦वा॒¦के॒शिना᳚¦यो॒ग्याभिः॑¦घृ॒त॒ऽस्नुवा᳚¦रोहि॑ता¦धु॒रि¦धि॒ष्व॒ |
अथ॑¦आ¦व॒ह¦दे॒वान्¦दे॒व॒¦विश्वा᳚न्¦सु॒।आ॒ध्व॒रा¦कृ॒णु॒हि॒¦जा॒त॒ऽवे॒दः॒ ||

दि॒वश्चि॒दाते᳚रुचयन्तरो॒का¦,उ॒षोवि॑भा॒तीरनु॑भासिपू॒र्वीः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अ॒पोयद॑ग्नउ॒शध॒ग्वने᳚षु॒¦होतु᳚र्म॒न्द्रस्य॑प॒नय᳚न्तदे॒वाः || {7/11}{3.6.7}{3.1.6.7}{2.8.27.2}{78, 240, 2513}

दि॒वः¦चि॒त्¦आ¦ते॒¦रु॒च॒य॒न्त॒¦रो॒काः¦उ॒षः¦वि॒ऽभा॒तीः¦अनु॑¦भा॒सि॒¦पू॒र्वीः |
अ॒पः¦यत्¦अ॒ग्ने॒¦उ॒शध॑क्¦वने᳚षु¦होतुः॑¦म॒न्द्रस्य॑¦प॒नय᳚न्त¦दे॒वाः ||

उ॒रौवा॒ये,अ॒न्तरि॑क्षे॒मद᳚न्ति¦दि॒वोवा॒येरो᳚च॒नेसन्ति॑दे॒वाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

ऊमा᳚वा॒येसु॒हवा᳚सो॒यज॑त्रा¦,आयेमि॒रेर॒थ्यो᳚,अग्ने॒,अश्वाः᳚ || {8/11}{3.6.8}{3.1.6.8}{2.8.27.3}{79, 240, 2514}

उ॒रौ¦वा॒¦ये¦अ॒न्तरि॑क्षे¦मद᳚न्ति¦दि॒वः¦वा॒¦ये¦रो॒च॒ने¦सन्ति॑¦दे॒वाः |
ऊमाः᳚¦वा॒¦ये¦सु॒ऽहवा᳚सः¦यज॑त्राः¦आ॒ऽये॒मि॒रे¦र॒थ्यः॑¦अ॒ग्ने॒¦अश्वाः᳚ ||

ऐभि॑रग्नेस॒रथं᳚याह्य॒र्वाङ्¦ना᳚नार॒थंवा᳚वि॒भवो॒ह्यश्वाः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

पत्नी᳚वतस्त्रिं॒शतं॒त्रींश्च॑दे॒वा¦न॑नुष्व॒धमाव॑हमा॒दय॑स्व || {9/11}{3.6.9}{3.1.6.9}{2.8.27.4}{80, 240, 2515}

आ¦ए॒भिः॒¦अ॒ग्ने॒¦स॒ऽरथ᳚‌म्¦या॒हि॒¦अ॒र्वाङ्¦ना॒ना॒ऽर॒थ‌म्¦वा॒¦वि॒ऽभवः॑¦हि¦अश्वाः᳚ |
पत्नी᳚ऽवतः¦त्रिं॒शत᳚‌म्¦त्रीन्¦च॒¦दे॒वान्¦अ॒नु॒ऽस्व॒ध‌म्¦आ¦व॒ह॒¦मा॒दय॑स्व ||

होता॒यस्य॒रोद॑सीचिदु॒र्वी¦य॒ज्ञंय॑ज्ञम॒भिवृ॒धेगृ॑णी॒तः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

प्राची᳚,अध्व॒रेव॑तस्थतुःसु॒मेके᳚¦ऋ॒ताव॑री,ऋ॒तजा᳚तस्यस॒त्ये || {10/11}{3.6.10}{3.1.6.10}{2.8.27.5}{81, 240, 2516}

सः¦होता᳚¦यस्य॑¦रोद॑सी॒ इति॑¦चि॒त्¦उ॒र्वी इति॑¦य॒ज्ञ‌म्ऽय॑ज्ञ‌म्¦अ॒भि¦वृ॒धे¦गृ॒णी॒तः |
प्राची॒ इति॑¦अ॒ध्व॒राऽ‌इ᳚व¦त॒स्थ॒तुः॒¦सु॒मेके॒ इति॑ सु॒ऽमेके᳚¦ऋ॒तव॑री॒ इत्यृ॒तऽव॑री¦ऋ॒तऽजा᳚तस्य¦स॒त्ये इति॑ ||

इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {11/11}{3.6.11}{3.1.6.11}{2.8.27.6}{82, 240, 2517}

इळा᳚‌म्¦अ॒ग्ने॒¦पु॒रु॒ऽदंस᳚‌म्¦स॒नि‌म्¦गोः¦श॒श्व॒त्ऽत॒म‌म्¦हव॑मानाय¦सा॒ध॒ |
स्यात्¦नः॒¦सू॒नुः¦तन॑यः¦वि॒जाऽवा᳚¦अग्ने᳚¦सा¦ते॒¦सु॒ऽम॒तिः¦भू॒तु॒¦अ॒स्मे इति॑ ||

[7] प्रयआरुरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् |
प्रआ॒रुःशि॑तिपृ॒ष्ठस्य॑धा॒से¦रामा॒तरा᳚विविशुःस॒प्तवाणीः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

प॒रि॒क्षिता᳚पि॒तरा॒संच॑रेते॒¦प्रस॑र्स्रातेदी॒र्घमायुः॑प्र॒यक्षे᳚ || {1/11}{3.7.1}{3.1.7.1}{3.1.1.1}{83, 241, 2518}

प्र¦ये¦आ॒रुः¦शि॒ति॒ऽपृ॒ष्ठस्य॑¦धा॒सेः¦आ¦मा॒तरा᳚¦वि॒वि॒शुः॒¦स॒प्त¦वाणीः᳚ |
प॒रि॒ऽक्षिता᳚¦पि॒तरा᳚¦स‌म्¦च॒रे॒ते॒ इति॑¦प्र¦स॒र्स्रा॒ते॒ इति॑¦दी॒र्घ‌म्¦आयुः॑¦प्र॒ऽयक्षे᳚ ||

दि॒वक्ष॑सोधे॒नवो॒वृष्णो॒,अश्वा᳚¦दे॒वीरात॑स्थौ॒मधु॑म॒द्‌वह᳚न्तीः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

ऋ॒तस्य॑त्वा॒सद॑सिक्षेम॒यन्तं॒¦पर्येका᳚चरतिवर्त॒निंगौः || {2/11}{3.7.2}{3.1.7.2}{3.1.1.2}{84, 241, 2519}

दि॒वक्ष॑सः¦धे॒नवः॑¦वृष्णः॑¦अश्वाः᳚¦दे॒वीः¦आ¦त॒स्थौ॒¦मधु॑ऽमत्¦वह᳚न्तीः |
ऋ॒तस्य॑¦त्वा॒¦सद॑सि¦क्षे॒म॒ऽयन्त᳚‌म्¦परि॑¦एका᳚¦च॒र॒ति॒¦व॒र्त॒नि‌म्¦गौः ||

सी᳚मरोहत्‌सु॒यमा॒भव᳚न्तीः॒¦पति॑श्चिकि॒त्वान्‌र॑यि॒विद्‌र॑यी॒णाम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

प्रनील॑पृष्ठो,अत॒सस्य॑धा॒से¦स्ता,अ॑वासयत्‌पुरु॒धप्र॑तीकः || {3/11}{3.7.3}{3.1.7.3}{3.1.1.3}{85, 241, 2520}

आ¦सी॒‌म्¦अ॒रो॒ह॒त्¦सु॒ऽयमाः᳚¦भव᳚न्तीः¦पतिः॑¦चि॒कि॒त्वान्¦र॒यि॒ऽवित्¦र॒यी॒णा‌म् |
प्र¦नील॑ऽपृष्ठः¦अ॒त॒सस्य॑¦धा॒सेः¦ताः¦अ॒वा॒स॒य॒त्¦पु॒रु॒धऽप्र॑तीकः ||

महि॑त्वा॒ष्ट्रमू॒र्जय᳚न्तीरजु॒र्यं¦स्त॑भू॒यमा᳚नंव॒हतो᳚वहन्ति |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

व्यङ्गे᳚भिर्दिद्युता॒नःस॒धस्थ॒¦एका᳚मिव॒रोद॑सी॒,वि॑वेश || {4/11}{3.7.4}{3.1.7.4}{3.1.1.4}{86, 241, 2521}

महि॑¦त्वा॒ष्ट्र‌म्¦ऊ॒र्जय᳚न्तीः¦अ॒जु॒र्य‌म्¦स्त॒भु॒ऽयमा᳚न‌म्¦व॒हतः॑¦व॒ह॒न्ति॒ |
वि¦अङ्गे᳚भिः¦दि॒द्यु॒ता॒नः¦स॒धऽस्थे᳚¦एका᳚‌म्ऽ‌इव¦रोद॑सी॒ इति॑¦आ¦वि॒वे॒श॒ ||

जा॒नन्ति॒वृष्णो᳚,अरु॒षस्य॒शेव॑¦मु॒तब्र॒ध्नस्य॒शास॑नेरणन्ति |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दि॒वो॒रुचः॑सु॒रुचो॒रोच॑माना॒,¦इळा॒येषां॒गण्या॒माहि॑ना॒गीः || {5/11}{3.7.5}{3.1.7.5}{3.1.1.5}{87, 241, 2522}

जा॒नन्ति॑¦वृष्णः॑¦अ॒रु॒षस्य॑¦शेव᳚‌म्¦उ॒त¦ब्र॒ध्नस्य॑¦शास॑ने¦र॒ण॒न्ति॒ |
दि॒वः॒ऽरुचः॑¦सु॒ऽरुचः॑¦रोच॑मानाः¦इळा᳚¦येषा᳚‌म्¦गण्या᳚¦माहि॑ना¦गीः ||

उ॒तोपि॒तृभ्यां᳚प्र॒विदानु॒घोषं᳚¦म॒होम॒हद्भ्या᳚मनयन्तशू॒षम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

उ॒क्षाह॒यत्र॒परि॒धान॑म॒क्तो¦रनु॒स्वंधाम॑जरि॒तुर्व॒वक्ष॑ || {6/11}{3.7.6}{3.1.7.6}{3.1.2.1}{88, 241, 2523}

उ॒तो इति॑¦पि॒तृऽभ्या᳚‌म्¦प्र॒ऽविदा᳚¦अनु॑¦घोष᳚‌म्¦म॒हः¦म॒हत्ऽभ्या᳚‌म्¦अ॒न॒य॒न्त॒¦शू॒ष‌म् |
उ॒क्षा¦ह॒¦यत्र॑¦परि॑¦धान᳚‌म्¦अ॒क्तोः¦अनु॑¦स्व‌म्¦धाम॑¦ज॒रि॒तुः¦व॒वक्ष॑ ||

अ॒ध्व॒र्युभिः॑प॒ञ्चभिः॑स॒प्तविप्राः᳚¦प्रि॒यंर॑क्षन्ते॒निहि॑तंप॒दंवेः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

प्राञ्चो᳚मदन्त्यु॒क्षणो᳚,अजु॒र्या¦दे॒वादे॒वाना॒मनु॒हिव्र॒तागुः || {7/11}{3.7.7}{3.1.7.7}{3.1.2.2}{89, 241, 2524}

अ॒ध्व॒र्युऽभिः॑¦पं॒चऽभिः॑¦स॒प्त¦विप्राः᳚¦प्रि॒य‌म्¦र॒क्ष॒न्ते॒¦निऽहि॑त‌म्¦प॒द‌म्¦वेरिति॒ वेः |
प्रांचः॑¦म॒द॒न्ति॒¦उ॒क्षणः॑¦अ॒जु॒र्याः¦दे॒वाः¦दे॒वाना᳚‌म्¦अनु॑¦हि¦व्र॒ता¦गुरिति॒ गुः ||

दैव्या॒होता᳚राप्रथ॒मान्यृ᳚ञ्जे¦स॒प्तपृ॒क्षासः॑स्व॒धया᳚मदन्ति |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

ऋ॒तंशंस᳚न्तऋ॒तमित्तआ᳚हु॒¦रनु᳚व्र॒तंव्र॑त॒पादीध्या᳚नाः || {8/11}{3.7.8}{3.1.7.8}{3.1.2.3}{90, 241, 2525}

दैव्या᳚¦होता᳚रा¦प्र॒थ॒मा¦नि¦ऋं॒जे॒¦स॒प्त¦पृ॒क्षासः॑¦स्व॒धया᳚¦म॒द॒न्ति॒ |
ऋ॒त‌म्¦शंस᳚न्तः¦ऋ॒त‌म्¦इत्¦ते¦आ॒हुः॒¦अनु॑¦व्र॒त‌म्¦व्र॒त॒ऽपाः¦दीध्या᳚नाः ||

वृ॒षा॒यन्ते᳚म॒हे,अत्या᳚यपू॒र्वी¦र्वृष्णे᳚चि॒त्राय॑र॒श्मयः॑सुया॒माः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

देव॑होतर्म॒न्द्रत॑रश्चिकि॒त्वान्¦म॒होदे॒वान्‌रोद॑सी॒,एहव॑क्षि || {9/11}{3.7.9}{3.1.7.9}{3.1.2.4}{91, 241, 2526}

वृ॒ष॒ऽयन्ते᳚¦म॒हे¦अत्या᳚य¦पू॒र्वीः¦वृष्णे᳚¦चि॒त्राय॑¦र॒श्मयः॑¦सु॒ऽया॒माः |
देव॑¦हो॒तः॒¦म॒न्द्रऽत॑रः¦चि॒कि॒त्वान्¦म॒हः¦दे॒वान्¦रोद॑सी॒ इति॑¦आ¦इ॒ह¦व॒क्षि॒ ||

पृ॒क्षप्र॑यजोद्रविणःसु॒वाचः॑¦सुके॒तव॑उ॒षसो᳚रे॒वदू᳚षुः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

उ॒तोचि॑दग्नेमहि॒नापृ॑थि॒व्याः¦कृ॒तंचि॒देनः॒संम॒हेद॑शस्य || {10/11}{3.7.10}{3.1.7.10}{3.1.2.5}{92, 241, 2527}

पृ॒क्षऽप्र॑यजः¦द्र॒वि॒णः॒¦सु॒ऽवाचः॑¦सु॒ऽके॒तवः॑¦उ॒षसः॑¦रे॒वत्¦ऊ॒षुः॒ |
उ॒तो इति॑¦चि॒त्¦अ॒ग्ने॒¦म॒हि॒ना¦पृ॒थि॒व्याः¦कृ॒त‌म्¦चि॒त्¦एनः॑¦स‌म्¦म॒हे¦द॒श॒स्य॒ ||

इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {11/11}{3.7.11}{3.1.7.11}{3.1.2.6}{93, 241, 2528}

इळा᳚‌म्¦अ॒ग्ने॒¦पु॒रु॒ऽदंस᳚‌म्¦स॒नि‌म्¦गोः¦श॒श्व॒त्ऽत॒म‌म्¦हव॑मानाय¦सा॒ध॒ |
स्यात्¦नः॒¦सू॒नुः¦तन॑यः¦वि॒जाऽवा᳚¦अग्ने᳚¦सा¦ते॒¦सु॒ऽम॒तिः¦भू॒तु॒¦अ॒स्मे इति॑ ||

[8] अंजंतीत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोयूपः षष्ठ्यादिपंचानांयूपाः (अष्टम्याविश्वेदेवावा) अंत्ययाव्रश्चन त्रिष्टुप् तृतीयासप्तम्यावनुष्टुभौ |
अ॒ञ्जन्ति॒त्वाम॑ध्व॒रेदे᳚व॒यन्तो॒¦वन॑स्पते॒मधु॑ना॒दैव्ये᳚न |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्}

यदू॒र्ध्वस्तिष्ठा॒द्रवि॑णे॒हध॑त्ता॒द्¦यद्‌वा॒क्षयो᳚मा॒तुर॒स्या,उ॒पस्थे᳚ || {1/11}{3.8.1}{3.1.8.1}{3.1.3.1}{94, 242, 2529}

अं॒जन्ति॑¦त्वा‌म्¦अ॒ध्व॒रे¦दे॒व॒ऽयन्तः॑¦वन॑स्पते¦मधु॑ना¦दैव्ये᳚न |
यत्¦ऊ॒र्ध्वः¦ति॒ष्ठाः᳚¦द्रवि॑णा¦इ॒ह¦ध॒त्ता॒त्¦यत्¦वा॒¦क्षयः॑¦मा॒तुः¦अ॒स्याः¦उ॒पऽस्थे᳚ ||

समि॑द्धस्य॒श्रय॑माणःपु॒रस्ता॒द्¦ब्रह्म॑वन्वा॒नो,अ॒जरं᳚सु॒वीर᳚म् |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्}

आ॒रे,अ॒स्मदम॑तिं॒बाध॑मान॒¦उच्छ्र॑यस्वमह॒तेसौभ॑गाय || {2/11}{3.8.2}{3.1.8.2}{3.1.3.2}{95, 242, 2530}

स‌म्ऽ‌इ᳚द्धस्य¦श्रय॑माणः¦पु॒रस्ता᳚त्¦ब्रह्म॑¦व॒न्वा॒नः¦अ॒जर᳚‌म्¦सु॒ऽवीर᳚‌म् |
आ॒रे¦अ॒स्मत्¦अम॑ति‌म्¦बाध॑मानः¦उत्¦श्र॒य॒स्व॒¦म॒ह॒ते¦सौभ॑गाय ||

उच्छ्र॑यस्ववनस्पते॒¦वर्ष्म᳚न्‌पृथि॒व्या,अधि॑ |{गाथिनो विश्वामित्रः | यूपः | अनुष्टुप्}

सुमि॑तीमी॒यमा᳚नो॒¦वर्चो᳚धाय॒ज्ञवा᳚हसे || {3/11}{3.8.3}{3.1.8.3}{3.1.3.3}{96, 242, 2531}

उत्¦श्र॒य॒स्व॒¦व॒न॒स्प॒ते॒¦वर्ष्म॑न्¦पृ॒थि॒व्याः¦अधि॑ | सुऽमि॑ती¦मी॒यमा᳚नः¦वर्चः॑¦धाः॒¦य॒ज्ञऽवा᳚हसे ||

युवा᳚सु॒वासाः॒परि॑वीत॒आगा॒त्¦उ॒श्रेया᳚न्‌भवति॒जाय॑मानः |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्}

तंधीरा᳚सःक॒वय॒उन्न॑यन्ति¦स्वा॒ध्यो॒३॑(ओ॒)मन॑सादेव॒यन्तः॑ || {4/11}{3.8.4}{3.1.8.4}{3.1.3.4}{97, 242, 2532}

युवा᳚¦सु॒ऽवासाः᳚¦परि॑ऽवीतः¦आ¦अ॒गा॒त्¦सः¦ऊँ॒ इति॑¦श्रेया᳚न्¦भ॒व॒ति॒¦जाय॑मानः |
त‌म्¦धीरा᳚सः¦क॒वयः॑¦उत्¦न॒य॒न्ति॒¦सु॒ऽआ॒ध्यः॑¦मन॑सा¦दे॒व॒ऽयन्तः॑ ||

जा॒तोजा᳚यतेसुदिन॒त्वे,अह्नां᳚¦सम॒र्यवि॒दथे॒वर्ध॑मानः |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्}

पु॒नन्ति॒धीरा᳚,अ॒पसो᳚मनी॒षा¦दे᳚व॒याविप्र॒उदि॑यर्ति॒वाच᳚म् || {5/11}{3.8.5}{3.1.8.5}{3.1.3.5}{98, 242, 2533}

जा॒तः¦जा॒य॒ते॒¦सु॒दि॒न॒ऽत्वे¦अह्ना᳚‌म्¦स॒ऽम॒र्ये¦आ¦वि॒दथे᳚¦वर्ध॑मानः |
पु॒नन्ति॑¦धीराः᳚¦अ॒पसः॑¦म॒नी॒षा¦दे॒व॒ऽयाः¦विप्रः॑¦उत्¦इ॒य॒र्ति॒¦वाच᳚‌म् ||

यान्‌वो॒नरो᳚देव॒यन्तो᳚निमि॒म्यु¦र्वन॑स्पते॒स्वधि॑तिर्वात॒तक्ष॑ |{गाथिनो विश्वामित्रः | यूपाः | त्रिष्टुप्}

तेदे॒वासः॒स्वर॑वस्तस्थि॒वांसः॑¦प्र॒जाव॑द॒स्मेदि॑धिषन्तु॒रत्न᳚म् || {6/11}{3.8.6}{3.1.8.6}{3.1.4.1}{99, 242, 2534}

यान्¦वः॒¦नरः॑¦दे॒व॒ऽयन्तः॑¦नि॒ऽमि॒म्युः¦वन॑स्पते¦स्वऽधि॑तिः¦वा॒¦त॒तक्ष॑ |
ते¦दे॒वासः॑¦स्वर॑वः¦त॒स्थि॒ऽवांसः॑¦प्र॒जाऽव॑त्¦अ॒स्मे इति॑¦दि॒धि॒ष॒न्तु॒¦रत्न᳚‌म् ||

येवृ॒क्णासो॒,अधि॒क्षमि॒¦निमि॑तासोय॒तस्रु॑चः |{गाथिनो विश्वामित्रः | यूपाः | अनुष्टुप्}

तेनो᳚व्यन्तु॒वार्यं᳚¦देव॒त्राक्षे᳚त्र॒साध॑सः || {7/11}{3.8.7}{3.1.8.7}{3.1.4.2}{100, 242, 2535}

ये¦वृ॒क्णासः॑¦अधि॑¦क्षमि॑¦निऽमि॑तासः¦य॒तऽस्रु॑चः | ते¦नः॒¦व्य॒न्तु॒¦वार्य᳚‌म्¦दे॒व॒ऽत्रा¦क्षे॒त्र॒ऽसाध॑सः ||

आ॒दि॒त्यारु॒द्रावस॑वःसुनी॒था¦द्यावा॒क्षामा᳚पृथि॒वी,अ॒न्तरि॑क्षम् |{गाथिनो विश्वामित्रः | विश्वेदेवा | त्रिष्टुप्}

स॒जोष॑सोय॒ज्ञम॑वन्तुदे॒वा¦,ऊ॒र्ध्वंकृ᳚ण्वन्त्वध्व॒रस्य॑के॒तुम् || {8/11}{3.8.8}{3.1.8.8}{3.1.4.3}{101, 242, 2536}

आ॒दि॒त्याः¦रु॒द्राः¦वस॑वः¦सु॒ऽनी॒थाः¦द्यावा॒क्षामा᳚¦पृ॒थि॒वी¦अ॒न्तरि॑क्ष‌म् |
स॒ऽजोष॑सः¦य॒ज्ञ‌म्¦अ॒व॒न्तु॒¦दे॒वाः¦ऊ॒र्ध्व‌म्¦कृ॒ण्व॒न्तु॒¦अ॒ध्व॒रस्य॑¦के॒तु‌म् ||

हं॒सा,इ॑वश्रेणि॒शोयता᳚नाः¦शु॒क्रावसा᳚नाः॒स्वर॑वोन॒आगुः॑ |{गाथिनो विश्वामित्रः | यूपाः | त्रिष्टुप्}

उ॒न्नी॒यमा᳚नाःक॒विभिः॑पु॒रस्ता᳚द्¦दे॒वादे॒वाना॒मपि॑यन्ति॒पाथः॑ || {9/11}{3.8.9}{3.1.8.9}{3.1.4.4}{102, 242, 2537}

हं॒साःऽ‌इ᳚व¦श्रे॒णि॒ऽशः¦यता᳚नाः¦शु॒क्रा¦वसा᳚नाः¦स्वर॑वः¦नः॒¦आ¦अ॒गुः॒ |
उ॒त्ऽनी॒यमा᳚नाः¦क॒विऽभिः॑¦पु॒रस्ता᳚त्¦दे॒वाः¦दे॒वाना᳚‌म्¦अपि॑¦य॒न्ति॒¦पाथः॑ ||

शृङ्गा᳚णी॒वेच्छृ॒ङ्गिणां॒संद॑दृश्रे¦च॒षाल॑वन्तः॒स्वर॑वःपृथि॒व्याम् |{गाथिनो विश्वामित्रः | यूपाः | त्रिष्टुप्}

वा॒घद्भि᳚र्वाविह॒वेश्रोष॑माणा¦,अ॒स्माँ,अ॑वन्तुपृत॒नाज्ये᳚षु || {10/11}{3.8.10}{3.1.8.10}{3.1.4.5}{103, 242, 2538}

शृङ्गा᳚णिऽ‌इव¦इत्¦शृ॒ङ्गिणा᳚‌म्¦स‌म्¦द॒दृ॒श्रे॒¦च॒षाल॑ऽवन्तः¦स्वर॑वः¦पृ॒थि॒व्या‌म् |
वा॒घत्ऽभिः॑¦वा॒¦वि॒ऽह॒वे¦श्रोष॑माणाः¦अ॒स्मान्¦अ॒व॒न्तु॒¦पृ॒त॒नाज्ये᳚षु ||

वन॑स्पतेश॒तव᳚ल्शो॒विरो᳚ह¦स॒हस्र॑वल्शा॒विव॒यंरु॑हेम |{गाथिनो विश्वामित्रः | व्रश्चनः | त्रिष्टुप्}

यंत्वाम॒यंस्वधि॑ति॒स्तेज॑मानः¦प्रणि॒नाय॑मह॒तेसौभ॑गाय || {11/11}{3.8.11}{3.1.8.11}{3.1.4.6}{104, 242, 2539}

वन॑स्पते¦श॒तऽव॑ल्शः¦वि¦रो॒ह॒¦स॒हस्र॑ऽवल्शाः¦वि¦व॒य‌म्¦रु॒हे॒म॒ |
य‌म्¦त्वा‌म्¦अ॒य‌म्¦स्वऽधि॑तिः¦तेज॑मानः¦प्र॒ऽनि॒नाय॑¦म॒ह॒ते¦सौभ॑गाय ||

[9] सखायइति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्बृहत्यंत्यात्रिष्टुप् |
सखा᳚यस्त्वाववृमहे¦दे॒वंमर्ता᳚सऊ॒तये᳚ |{गाथिनो विश्वामित्रः | अग्निः | बृहती}

अ॒पांनपा᳚तंसु॒भगं᳚सु॒दीदि॑तिं¦सु॒प्रतू᳚र्तिमने॒हस᳚म् || {1/9}{3.9.1}{3.1.9.1}{3.1.5.1}{105, 243, 2540}

सखा᳚यः¦त्वा॒¦व॒वृ॒म॒हे॒¦दे॒व‌म्¦मर्ता᳚सः¦ऊ॒तये᳚ |
अ॒पा‌म्¦नपा᳚त‌म्¦सु॒ऽभग᳚‌म्¦सु॒ऽदीदि॑ति‌म्¦सु॒ऽप्रतू᳚र्ति‌म्¦अ॒ने॒हस᳚‌म् ||

काय॑मानोव॒नात्वं¦यन्मा॒तॄरज॑गन्न॒पः |{गाथिनो विश्वामित्रः | अग्निः | बृहती}

तत्ते᳚,अग्नेप्र॒मृषे᳚नि॒वर्त॑नं॒¦यद्दू॒रेसन्नि॒हाभ॑वः || {2/9}{3.9.2}{3.1.9.2}{3.1.5.2}{106, 243, 2541}

काय॑मानः¦व॒ना¦त्व‌म्¦यत्¦मा॒तॄः¦अज॑गन्¦अ॒पः |
न¦तत्¦ते॒¦अ॒ग्ने॒¦प्र॒ऽमृषे᳚¦नि॒ऽवर्त॑न‌म्¦यत्¦दू॒रे¦सन्¦इ॒ह¦अभ॑वः ||

अति॑तृ॒ष्टंव॑वक्षि॒था¦थै॒वसु॒मना᳚,असि |{गाथिनो विश्वामित्रः | अग्निः | बृहती}

प्रप्रा॒न्येयन्ति॒पर्य॒न्यआ᳚सते॒¦येषां᳚स॒ख्ये,असि॑श्रि॒तः || {3/9}{3.9.3}{3.1.9.3}{3.1.5.3}{107, 243, 2542}

अति॑¦तृ॒ष्ट‌म्¦व॒व॒क्षि॒थ॒¦अथ॑¦ए॒व¦सु॒ऽमनाः᳚¦अ॒सि॒ |
प्रऽप्र॑¦अ॒न्ये¦यन्ति॑¦परि॑¦अ॒न्ये¦आ॒स॒ते॒¦येषा᳚‌म्¦स॒ख्ये¦असि॑¦श्रि॒तः ||

ई॒यि॒वांस॒मति॒स्रिधः॒¦शश्व॑ती॒रति॑स॒श्चतः॑ |{गाथिनो विश्वामित्रः | अग्निः | बृहती}

अन्वी᳚मविन्दन्‌निचि॒रासो᳚,अ॒द्रुहो॒¦ऽप्सुसिं॒हमि॑वश्रि॒तम् || {4/9}{3.9.4}{3.1.9.4}{3.1.5.4}{108, 243, 2543}

ई॒यि॒ऽवांस᳚‌म्¦अति॑¦स्रिधः॑¦शश्व॑तीः¦अति॑¦स॒श्चतः॑ |
अनु॑¦ई॒‌म्¦अ॒वि॒न्द॒न्¦नि॒ऽचि॒रासः॑¦अ॒द्रुहः॑¦अ॒प्ऽसु¦सिं॒ह‌म्ऽ‌इ᳚व¦श्रि॒त‌म् ||

स॒सृ॒वांस॑मिव॒त्मना॒¦ग्निमि॒त्थाति॒रोहि॑तम् |{गाथिनो विश्वामित्रः | अग्निः | बृहती}

ऐनं᳚नयन्मात॒रिश्वा᳚परा॒वतो᳚¦दे॒वेभ्यो᳚मथि॒तंपरि॑ || {5/9}{3.9.5}{3.1.9.5}{3.1.5.5}{109, 243, 2544}

स॒सृ॒वांस᳚‌म्ऽ‌इव¦त्मना᳚¦अ॒ग्नि‌म्¦इ॒त्था¦ति॒रःऽहि॑त‌म् |
आ¦ए॒न॒‌म्¦न॒य॒त्¦मा॒त॒रिश्वा᳚¦प॒रा॒ऽवतः॑¦दे॒वेभ्यः॑¦म॒थि॒त‌म्¦परि॑ ||

तंत्वा॒मर्ता᳚,अगृभ्णत¦दे॒वेभ्यो᳚हव्यवाहन |{गाथिनो विश्वामित्रः | अग्निः | बृहती}

विश्वा॒न्‌यद्‌य॒ज्ञाँ,अ॑भि॒पासि॑मानुष॒¦तव॒क्रत्वा᳚यविष्ठ्य || {6/9}{3.9.6}{3.1.9.6}{3.1.6.1}{110, 243, 2545}

त‌म्¦त्वा॒¦मर्ताः᳚¦अ॒गृ॒भ्ण॒त॒¦दे॒वेभ्यः॑¦ह॒व्य॒ऽवा॒ह॒न॒ |
विश्वा᳚न्¦यत्¦य॒ज्ञान्¦अ॒भि॒ऽपासि॑¦मा॒नु॒ष॒¦तव॑¦क्रत्वा᳚¦य॒वि॒ष्ठ्य॒ ||

तद्‌भ॒द्रंतव॑दं॒सना॒¦पाका᳚यचिच्छदयति |{गाथिनो विश्वामित्रः | अग्निः | बृहती}

त्वांयद॑ग्नेप॒शवः॑स॒मास॑ते॒¦समि॑द्धमपिशर्व॒रे || {7/9}{3.9.7}{3.1.9.7}{3.1.6.2}{111, 243, 2546}

तत्¦भ॒द्र‌म्¦तव॑¦दं॒सना᳚¦पाका᳚य¦चि॒त्¦छ॒द॒य॒ति॒ |
त्वा‌म्¦यत्¦अ॒ग्ने॒¦प॒शवः॑¦स॒‌म्ऽआस॑ते¦स‌म्ऽ‌इ᳚द्ध‌म्¦अ॒पि॒ऽश॒र्व॒रे ||

जु॑होतास्वध्व॒रं¦शी॒रंपा᳚व॒कशो᳚चिषम् |{गाथिनो विश्वामित्रः | अग्निः | बृहती}

आ॒शुंदू॒तम॑जि॒रंप्र॒त्नमीड्यं᳚¦श्रु॒ष्टीदे॒वंस॑पर्यत || {8/9}{3.9.8}{3.1.9.8}{3.1.6.3}{112, 243, 2547}

आ¦जु॒हो॒त॒¦सु॒।आ॒ध्व॒र‌म्¦शी॒र‌म्¦पा॒व॒कऽशो᳚चिष‌म् |
आ॒शु‌म्¦दू॒त‌म्¦अ॒जि॒र‌म्¦प्र॒त्न‌म्¦ईड्य᳚‌म्¦श्रु॒ष्टी¦दे॒व‌म्¦स॒प॒र्य॒त॒ ||

त्रीणि॑श॒तात्रीस॒हस्रा᳚ण्य॒ग्निंत्रिं॒शच्च॑दे॒वानव॑चासपर्यन् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

औक्ष॑न्‌घृ॒तैरस्तृ॑णन्‌ब॒र्हिर॑स्मा॒,¦आदिद्धोता᳚रं॒न्य॑सादयन्त || {9/9}{3.9.9}{3.1.9.9}{3.1.6.4}{113, 243, 2548}

त्रीणि॑¦श॒ता¦त्री¦स॒हस्रा᳚णि¦अ॒ग्नि‌म्¦त्रिं॒शत्¦च॒¦दे॒वाः¦नव॑¦च॒¦अ॒स॒प॒र्य॒न् |
औक्ष॑न्¦घृ॒तैः¦अस्तृ॑णन्¦ब॒र्हिः¦अ॒स्मै॒¦आत्¦इत्¦होता᳚र‌म्¦नि¦अ॒सा॒द॒य॒न्त॒ ||

[10] त्वामग्नइतिनवर्चस्यसूक्तस्यगाथिनोविश्वामित्रोग्निरुष्णिक् |
त्वाम॑ग्नेमनी॒षिणः॑¦स॒म्राजं᳚चर्षणी॒नाम् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

दे॒वंमर्ता᳚सइन्धते॒सम॑ध्व॒रे || {1/9}{3.10.1}{3.1.10.1}{3.1.7.1}{114, 244, 2549}

त्वा‌म्¦अ॒ग्ने॒¦म॒नी॒षिणः॑¦स॒‌म्ऽराज᳚‌म्¦च॒र्ष॒णी॒ना‌म् | दे॒व‌म्¦मर्ता᳚सः¦इ॒न्ध॒ते॒¦स‌म्¦अ॒ध्व॒रे ||

त्वांय॒ज्ञेष्वृ॒त्विज॒¦मग्ने॒होता᳚रमीळते |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

गो॒पा,ऋ॒तस्य॑दीदिहि॒स्वेदमे᳚ || {2/9}{3.10.2}{3.1.10.2}{3.1.7.2}{115, 244, 2550}

त्वा‌म्¦य॒ज्ञेषु॑¦ऋ॒त्विज᳚‌म्¦अग्ने᳚¦होता᳚र‌म्¦ई॒ळ॒ते॒ | गो॒पाः¦ऋ॒तस्य॑¦दी॒दि॒हि॒¦स्वे¦दमे᳚ ||

घा॒यस्ते॒ददा᳚शति¦स॒मिधा᳚जा॒तवे᳚दसे |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

सो,अ॑ग्नेधत्तेसु॒वीर्यं॒पु॑ष्यति || {3/9}{3.10.3}{3.1.10.3}{3.1.7.3}{116, 244, 2551}

सः¦घ॒¦यः¦ते॒¦ददा᳚शति¦स॒‌म्ऽ‌इधा᳚¦जा॒तऽवे᳚दसे | सः¦अ॒ग्ने॒¦ध॒त्ते॒¦सु॒ऽवीर्य᳚‌म्¦सः¦पु॒ष्य॒ति॒ ||

के॒तुर॑ध्व॒राणा᳚¦म॒ग्निर्दे॒वेभि॒राग॑मत् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

अ॒ञ्जा॒नःस॒प्तहोतृ॑भिर्ह॒विष्म॑ते || {4/9}{3.10.4}{3.1.10.4}{3.1.7.4}{117, 244, 2552}

सः¦के॒तुः¦अ॒ध्व॒राणा᳚‌म्¦अ॒ग्निः¦दे॒वेभिः॑¦आ¦ग॒म॒त् | अं॒जा॒नः¦स॒प्त¦होतृ॑ऽभिः¦ह॒विष्म॑ते ||

प्रहोत्रे᳚पू॒र्व्यंवचो॒¦ऽग्नये᳚भरताबृ॒हत् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

वि॒पांज्योतीं᳚षि॒बिभ्र॑ते॒वे॒धसे᳚ || {5/9}{3.10.5}{3.1.10.5}{3.1.7.5}{118, 244, 2553}

प्र¦होत्रे᳚¦पू॒र्व्य‌म्¦वचः॑¦अ॒ग्नये᳚¦भ॒र॒त॒¦बृ॒हत् | वि॒पा‌म्¦ज्योतीं᳚षि¦बिभ्र॑ते¦न¦वे॒धसे᳚ ||

अ॒ग्निंव॑र्धन्तुनो॒गिरो॒¦यतो॒जाय॑तउ॒क्थ्यः॑ |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

म॒हेवाजा᳚य॒द्रवि॑णायदर्श॒तः || {6/9}{3.10.6}{3.1.10.6}{3.1.8.1}{119, 244, 2554}

अ॒ग्नि‌म्¦व॒र्ध॒न्तु॒¦नः॒¦गिरः॑¦यतः॑¦जाय॑ते¦उ॒क्थ्यः॑ | म॒हे¦वाजा᳚य¦द्रवि॑णाय¦द॒र्श॒तः ||

अग्ने॒यजि॑ष्ठो,अध्व॒रे¦दे॒वान्‌दे᳚वय॒तेय॑ज |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

होता᳚म॒न्द्रोविरा᳚ज॒स्यति॒स्रिधः॑ || {7/9}{3.10.7}{3.1.10.7}{3.1.8.2}{120, 244, 2555}

अग्ने᳚¦यजि॑ष्ठः¦अ॒ध्व॒रे¦दे॒वान्¦दे॒व॒ऽय॒ते¦य॒ज॒ | होता᳚¦म॒न्द्रः¦वि¦रा॒ज॒सि॒¦अति॑¦स्रिधः॑ ||

नः॑पावकदीदिहि¦द्यु॒मद॒स्मेसु॒वीर्य᳚म् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

भवा᳚स्तो॒तृभ्यो॒,अन्त॑मःस्व॒स्तये᳚ || {8/9}{3.10.8}{3.1.10.8}{3.1.8.3}{121, 244, 2556}

सः¦नः॒¦पा॒व॒क॒¦दी॒दि॒हि॒¦द्यु॒ऽमत्¦अ॒स्मे इति॑¦सु॒ऽवीर्य᳚‌म् | भव॑¦स्तो॒तृऽभ्यः॑¦अन्त॑मः¦स्व॒स्तये᳚ ||

तंत्वा॒विप्रा᳚विप॒न्यवो᳚¦जागृ॒वांसः॒समि᳚न्धते |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

ह॒व्य॒वाह॒मम॑र्त्यंसहो॒वृध᳚म् || {9/9}{3.10.9}{3.1.10.9}{3.1.8.4}{122, 244, 2557}

त‌म्¦त्वा॒¦विप्राः᳚¦वि॒प॒न्यवः॑¦जा॒गृ॒ऽवांसः॑¦स‌म्¦इ॒न्ध॒ते॒ | ह॒व्य॒ऽवाह᳚‌म्¦अम॑र्त्य‌म्¦स॒हः॒ऽवृध᳚‌म् ||

[11] अग्निर्होतेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्गायत्री |
अ॒ग्निर्होता᳚पु॒रोहि॑तो¦ऽध्व॒रस्य॒विच॑र्षणिः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

वे᳚दय॒ज्ञमा᳚नु॒षक् || {1/9}{3.11.1}{3.1.11.1}{3.1.9.1}{123, 245, 2558}

अ॒ग्निः¦होता᳚¦पु॒रःऽहि॑तः¦अ॒ध्व॒रस्य॑¦विऽच॑र्षणिः | सः¦वे॒द॒¦य॒ज्ञ‌म्¦आ॒नु॒षक् ||

ह᳚व्य॒वाळम॑र्त्य¦उ॒शिग्दू॒तश्चनो᳚हितः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

अ॒ग्निर्धि॒यासमृ᳚ण्वति || {2/9}{3.11.2}{3.1.11.2}{3.1.9.2}{124, 245, 2559}

सः¦ह॒व्य॒ऽवाट्¦अम॑र्त्यः¦उ॒शिक्¦दू॒तः¦चनः॑ऽहितः | अ॒ग्निः¦धि॒या¦स‌म्¦ऋ॒ण्व॒ति॒ ||

अ॒ग्निर्धि॒याचे᳚तति¦के॒तुर्य॒ज्ञस्य॑पू॒र्व्यः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

अर्थं॒ह्य॑स्यत॒रणि॑ || {3/9}{3.11.3}{3.1.11.3}{3.1.9.3}{125, 245, 2560}

अ॒ग्निः¦धि॒या¦सः¦चे॒त॒ति॒¦के॒तुः¦य॒ज्ञस्य॑¦पू॒र्व्यः | अर्थ᳚‌म्¦हि¦अ॒स्य॒¦त॒रणि॑ ||

अ॒ग्निंसू॒नुंसन॑श्रुतं॒¦सह॑सोजा॒तवे᳚दसम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

वह्निं᳚दे॒वा,अ॑कृण्वत || {4/9}{3.11.4}{3.1.11.4}{3.1.9.4}{126, 245, 2561}

अ॒ग्नि‌म्¦सू॒नु‌म्¦सन॑ऽश्रुत‌म्¦सह॑सः¦जा॒तऽवे᳚दस‌म् | वह्नि᳚‌म्¦दे॒वाः¦अ॒कृ॒ण्व॒त॒ ||

अदा᳚भ्यःपुरए॒ता¦वि॒शाम॒ग्निर्मानु॑षीणाम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

तूर्णी॒रथः॒सदा॒नवः॑ || {5/9}{3.11.5}{3.1.11.5}{3.1.9.5}{127, 245, 2562}

अदा᳚भ्यः¦पु॒रः॒ऽए॒ता¦वि॒शा‌म्¦अ॒ग्निः¦मानु॑षीणा‌म् | तूर्णिः॑¦रथः॑¦सदा᳚¦नवः॑ ||

सा॒ह्वान्‌विश्वा᳚,अभि॒युजः॒¦क्रतु॑र्दे॒वाना॒ममृ॑क्तः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

अ॒ग्निस्तु॒विश्र॑वस्तमः || {6/9}{3.11.6}{3.1.11.6}{3.1.10.1}{128, 245, 2563}

स॒ह्वान्¦विश्वाः᳚¦अ॒भि॒ऽयुजः॑¦क्रतुः॑¦दे॒वाना᳚‌म्¦अमृ॑क्तः | अ॒ग्निः¦तु॒विश्र॑वःऽतमः ||

अ॒भिप्रयां᳚सि॒वाह॑सा¦दा॒श्वाँ,अ॑श्नोति॒मर्त्यः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

क्षयं᳚पाव॒कशो᳚चिषः || {7/9}{3.11.7}{3.1.11.7}{3.1.10.2}{129, 245, 2564}

अ॒भि¦प्रयां᳚सि¦वाह॑सा¦दा॒श्वान्¦अ॒श्नो॒ति॒¦मर्त्यः॑ | क्षय᳚‌म्¦पा॒व॒कऽशो᳚चिषः ||

परि॒विश्वा᳚नि॒सुधि॑ता॒¦ऽग्नेर॑श्याम॒मन्म॑भिः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

विप्रा᳚सोजा॒तवे᳚दसः || {8/9}{3.11.8}{3.1.11.8}{3.1.10.3}{130, 245, 2565}

परि॑¦विश्वा᳚नि¦सुऽधि॑ता¦अ॒ग्नेः¦अ॒श्या॒म॒¦मन्म॑ऽभिः | विप्रा᳚सः¦जा॒तऽवे᳚दसः ||

अग्ने॒विश्वा᳚नि॒वार्या॒¦वाजे᳚षुसनिषामहे |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

त्वेदे॒वास॒एरि॑रे || {9/9}{3.11.9}{3.1.11.9}{3.1.10.4}{131, 245, 2566}

अग्ने᳚¦विश्वा᳚नि¦वार्या᳚¦वाजे᳚षु¦स॒नि॒षा॒म॒हे॒ | त्वे इति॑¦दे॒वासः॑¦आ¦ई॒रि॒रे॒ ||

[12] इंद्राग्नीइतिनवर्चस्य सूक्तस्य गाथिनो विश्वामित्र‌इंद्राग्नीगायत्री |
इन्द्रा᳚ग्नी॒,ग॑तंसु॒तं¦गी॒र्भिर्नभो॒वरे᳚ण्यम् |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री}

अ॒स्यपा᳚तंधि॒येषि॒ता || {1/9}{3.12.1}{3.1.12.1}{3.1.11.1}{132, 246, 2567}

इन्द्रा᳚ग्नी॒ इति॑¦आ¦ग॒त॒‌म्¦सु॒त‌म्¦गीः॒ऽभिः¦नभः॑¦वरे᳚ण्य‌म् | अ॒स्य¦पा॒त॒‌म्¦धि॒या¦इ॒षि॒ता ||

इन्द्रा᳚ग्नीजरि॒तुःसचा᳚¦य॒ज्ञोजि॑गाति॒चेत॑नः |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री}

अ॒यापा᳚तमि॒मंसु॒तम् || {2/9}{3.12.2}{3.1.12.2}{3.1.11.2}{133, 246, 2568}

इन्द्रा᳚ग्नी॒ इति॑¦ज॒रि॒तुः¦सचा᳚¦य॒ज्ञः¦जि॒गा॒ति॒¦चेत॑नः | अ॒या¦पा॒त॒‌म्¦इ॒म‌म्¦सु॒त‌म् ||

इन्द्र॑म॒ग्निंक॑वि॒च्छदा᳚¦य॒ज्ञस्य॑जू॒त्यावृ॑णे |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री}

तासोम॑स्ये॒हतृ᳚म्पताम् || {3/9}{3.12.3}{3.1.12.3}{3.1.11.3}{134, 246, 2569}

इन्द्र᳚‌म्¦अ॒ग्नि‌म्¦क॒वि॒ऽछदा᳚¦य॒ज्ञस्य॑¦जू॒त्या¦वृ॒णे॒ | ता¦सोम॑स्य¦इ॒ह¦तृ॒म्प॒ता॒‌म् ||

तो॒शावृ॑त्र॒हणा᳚हुवे¦स॒जित्वा॒नाप॑राजिता |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री}

इ॒न्द्रा॒ग्नीवा᳚ज॒सात॑मा || {4/9}{3.12.4}{3.1.12.4}{3.1.11.4}{135, 246, 2570}

तो॒शा¦वृ॒त्र॒ऽहना᳚¦हु॒वे॒¦स॒ऽजित्वा᳚ना¦अप॑राऽजिता | इ॒न्द्रा॒ग्नी इति॑¦वा॒ज॒ऽसात॑मा ||

प्रवा᳚मर्चन्त्यु॒क्थिनो᳚¦नीथा॒विदो᳚जरि॒तारः॑ |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री}

इन्द्रा᳚ग्नी॒,इष॒वृ॑णे || {5/9}{3.12.5}{3.1.12.5}{3.1.11.5}{136, 246, 2571}

प्र¦वा॒‌म्¦अ॒र्च॒न्ति॒¦उ॒क्थिनः॑¦नी॒थ॒ऽविदः॑¦ज॒रि॒तारः॑ | इन्द्रा᳚ग्नी॒ इति॑¦इषः॑¦आ¦वृ॒णे॒ ||

इन्द्रा᳚ग्नीनव॒तिंपुरो᳚¦दा॒सप॑त्नीरधूनुतम् |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री}

सा॒कमेके᳚न॒कर्म॑णा || {6/9}{3.12.6}{3.1.12.6}{3.1.12.1}{137, 246, 2572}

इन्द्रा᳚ग्नी॒ इति॑¦न॒व॒ति‌म्¦पुरः॑¦दा॒सऽप॑त्नीः¦अ॒धू॒नु॒त॒‌म् | सा॒क‌म्¦एके᳚न¦कर्म॑णा ||

इन्द्रा᳚ग्नी॒,अप॑स॒स्पर्यु¦प॒प्रय᳚न्तिधी॒तयः॑ |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री}

ऋ॒तस्य॑प॒थ्या॒३॑(आ॒)अनु॑ || {7/9}{3.12.7}{3.1.12.7}{3.1.12.2}{138, 246, 2573}

इन्द्रा᳚ग्नी॒ इति॑¦अप॑सः¦परि॑¦उप॑¦प्र¦य॒न्ति॒¦धी॒तयः॑ | ऋ॒तस्य॑¦प॒थ्याः᳚¦अनु॑ ||

इन्द्रा᳚ग्नीतवि॒षाणि॑वां¦स॒धस्था᳚नि॒प्रयां᳚सि |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री}

यु॒वोर॒प्तूर्यं᳚हि॒तम् || {8/9}{3.12.8}{3.1.12.8}{3.1.12.3}{139, 246, 2574}

इन्द्रा᳚ग्नी॒ इति॑¦त॒वि॒षाणि॑¦वा॒‌म्¦स॒धऽस्था᳚नि¦प्रयां᳚सि¦च॒ | यु॒वोः¦अ॒प्ऽतूर्य᳚‌म्¦हि॒त‌म् ||

इन्द्रा᳚ग्नीरोच॒नादि॒वः¦परि॒वाजे᳚षुभूषथः |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री}

तद्‌वां᳚चेति॒प्रवी॒र्य᳚म् || {9/9}{3.12.9}{3.1.12.9}{3.1.12.4}{140, 246, 2575}

इन्द्रा᳚ग्नी॒ इति॑¦रो॒च॒ना¦दि॒वः¦परि॑¦वाजे᳚षु¦भू॒ष॒थः॒ | तत्¦वा॒‌म्¦चे॒ति॒¦प्र¦वी॒र्य᳚‌म् ||

[13] प्रवोदेवायेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभोग्निरनुष्टुप् |
प्रवो᳚दे॒वाया॒ग्नये॒¦बर्हि॑ष्ठमर्चास्मै |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्}

गम॑द्दे॒वेभि॒रानो॒¦यजि॑ष्ठोब॒र्हिरास॑दत् || {1/7}{3.13.1}{3.2.1.1}{3.1.13.1}{141, 247, 2576}

प्र¦वः॒¦दे॒वाय॑¦अ॒ग्नये᳚¦बर्हि॑ष्ठ‌म्¦अ॒र्च॒¦अ॒स्मै॒ | गम॑त्¦दे॒वेभिः॑¦आ¦सः¦नः॒¦यजि॑ष्ठः¦ब॒र्हिः¦आ¦स॒द॒त् ||

ऋ॒तावा॒यस्य॒रोद॑सी॒¦दक्षं॒सच᳚न्तऊ॒तयः॑ |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्}

ह॒विष्म᳚न्त॒स्तमी᳚ळते॒¦तंस॑नि॒ष्यन्तोऽव॑से || {2/7}{3.13.2}{3.2.1.2}{3.1.13.2}{142, 247, 2577}

ऋ॒तऽवा᳚¦यस्य॑¦रोद॑सी॒ इति॑¦दक्ष᳚‌म्¦सच᳚न्ते¦ऊ॒तयः॑ | ह॒विष्म᳚न्तः¦त‌म्¦ई॒ळ॒ते॒¦त‌म्¦स॒नि॒ष्यन्तः॑¦अव॑से ||

य॒न्ताविप्र॑एषां॒¦य॒ज्ञाना॒मथा॒हिषः |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्}

अ॒ग्निंतंवो᳚दुवस्यत॒¦दाता॒योवनि॑ताम॒घम् || {3/7}{3.13.3}{3.2.1.3}{3.1.13.3}{143, 247, 2578}

सः¦य॒न्ता¦विप्रः॑¦ए॒षा॒‌म्¦सः¦य॒ज्ञाना᳚‌म्¦अथ॑¦हि¦सः | अ॒ग्नि‌म्¦त‌म्¦वः॒¦दु॒व॒स्य॒त॒¦दाता᳚¦यः¦वनि॑ता¦म॒घ‌म् ||

नः॒शर्मा᳚णिवी॒तये॒¦ऽग्निर्य॑च्छतु॒शंत॑मा |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्}

यतो᳚नःप्रु॒ष्णव॒द्‌वसु॑¦दि॒विक्षि॒तिभ्यो᳚,अ॒प्स्वा || {4/7}{3.13.4}{3.2.1.4}{3.1.13.4}{144, 247, 2579}

सः¦नः॒¦शर्मा᳚णि¦वी॒तये᳚¦अ॒ग्निः¦य॒च्छ॒तु॒¦श‌म्ऽत॑मा | यतः॑¦नः॒¦प्रु॒ष्णव॑त्¦वसु॑¦दि॒वि¦क्षि॒तिऽभ्यः॑¦अ॒प्ऽसु¦आ ||

दी॒दि॒वांस॒मपू᳚र्व्यं॒¦वस्वी᳚भिरस्यधी॒तिभिः॑ |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्}

ऋक्वा᳚णो,अ॒ग्निमि᳚न्धते॒¦होता᳚रंवि॒श्पतिं᳚वि॒शाम् || {5/7}{3.13.5}{3.2.1.5}{3.1.13.5}{145, 247, 2580}

दी॒दि॒ऽवांस᳚‌म्¦अपू᳚र्व्य‌म्¦वस्वी᳚भिः¦अ॒स्य॒¦धी॒तिऽभिः॑ | ऋक्वा᳚णः¦अ॒ग्नि‌म्¦इ॒न्ध॒ते॒¦होता᳚र‌म्¦वि॒श्पति᳚‌म्¦वि॒शा‌म् ||

उ॒तनो॒ब्रह्म᳚न्नविष¦उ॒क्थेषु॑देव॒हूत॑मः |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्}

शंनः॑शोचाम॒रुद्वृ॒धो¦ऽग्ने᳚सहस्र॒सात॑मः || {6/7}{3.13.6}{3.2.1.6}{3.1.13.6}{146, 247, 2581}

उ॒त¦नः॒¦ब्रह्म॑न्¦अ॒वि॒षः॒¦उ॒क्थेषु॑¦दे॒व॒ऽहूत॑मः | श‌म्¦नः॒¦शो॒च॒¦म॒रुत्ऽवृ॑धः¦अग्ने᳚¦स॒ह॒स्र॒ऽसात॑मः ||

नूनो᳚रास्वस॒हस्र॑वत्¦तो॒कव॑त्‌पुष्टि॒मद्‌वसु॑ |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्}

द्यु॒मद॑ग्नेसु॒वीर्यं॒¦वर्षि॑ष्ठ॒मनु॑पक्षितम् || {7/7}{3.13.7}{3.2.1.7}{3.1.13.7}{147, 247, 2582}

नु¦नः॒¦रा॒स्व॒¦स॒हस्र॑ऽवत्¦तो॒कऽव॑त्¦पु॒ष्टि॒ऽमत्¦वसु॑ | द्यु॒ऽमत्¦अ॒ग्ने॒¦सु॒ऽवीर्य᳚‌म्¦वर्षि॑ष्ठ‌म्¦अनु॑पऽक्षित‌म् ||

[14] आहोतेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभोग्निस्त्रिष्टुप् |
होता᳚म॒न्द्रोवि॒दथा᳚न्यस्थात्¦स॒त्योयज्वा᳚क॒वित॑मः॒वे॒धाः |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्}

वि॒द्युद्र॑थः॒सह॑सस्पु॒त्रो,अ॒ग्निः¦शो॒चिष्के᳚शःपृथि॒व्यांपाजो᳚,अश्रेत् || {1/7}{3.14.1}{3.2.2.1}{3.1.14.1}{148, 248, 2583}

आ¦होता᳚¦म॒न्द्रः¦व॒दथा᳚नि¦अ॒स्था॒त्¦स॒त्यः¦यज्वा᳚¦क॒विऽत॑मः¦सः¦वे॒धाः |
वि॒द्युत्ऽर॑थः¦सह॑सः¦पु॒त्रः¦अ॒ग्निः¦शो॒चिःऽके᳚शः¦पृ॒थि॒व्या‌म्¦पाजः॑¦अ॒श्रे॒त् ||

अया᳚मिते॒नम॑उक्तिंजुषस्व॒¦ऋता᳚व॒स्तुभ्यं॒चेत॑तेसहस्वः |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्}

वि॒द्वाँ,व॑क्षिवि॒दुषो॒निष॑त्सि॒¦मध्य॒ब॒र्हिरू॒तये᳚यजत्र || {2/7}{3.14.2}{3.2.2.2}{3.1.14.2}{149, 248, 2584}

अया᳚मि¦ते॒¦नमः॑।औक्ति‌म्¦जु॒ष॒स्व॒¦ऋत॑ऽवः¦तुभ्य᳚‌म्¦चेत॑ते¦स॒ह॒स्वः॒ |
वि॒द्वान्¦आ¦व॒क्षि॒¦वि॒दुषः॑¦नि¦स॒त्सि॒¦मध्ये᳚¦आ¦ब॒र्हिः¦ऊ॒तये᳚¦य॒ज॒त्र॒ ||

द्रव॑तांउ॒षसा᳚वा॒जय᳚न्ती॒,¦अग्ने॒वात॑स्यप॒थ्या᳚भि॒रच्छ॑ |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्}

यत्‌सी᳚म॒ञ्जन्ति॑पू॒र्व्यंह॒विर्भि॒¦राव॒न्धुरे᳚वतस्थतुर्दुरो॒णे || {3/7}{3.14.3}{3.2.2.3}{3.1.14.3}{150, 248, 2585}

द्रव॑ता‌म्¦ते॒¦उ॒षसा᳚¦वा॒जय᳚न्ती॒ इति॑¦अग्ने᳚¦वात॑स्य¦प॒थ्या᳚भिः¦अच्छ॑ |
यत्¦सी॒‌म्¦अं॒जन्ति॑¦पू॒र्व्य‌म्¦ह॒विःऽभिः॑¦आ¦व॒न्धुरा᳚ऽ‌इव¦त॒स्थ॒तुः॒¦दु॒रो॒णे ||

मि॒त्रश्च॒तुभ्यं॒वरु॑णःसह॒स्वो¦ऽग्ने॒विश्वे᳚म॒रुतः॑सु॒म्नम॑र्चन् |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्}

यच्छो॒चिषा᳚सहसस्पुत्र॒तिष्ठा᳚,¦अ॒भिक्षि॒तीःप्र॒थय॒न्‌त्सूर्यो॒नॄन् || {4/7}{3.14.4}{3.2.2.4}{3.1.14.4}{151, 248, 2586}

मि॒त्रः¦च॒¦तुभ्य᳚‌म्¦वरु॑णः¦स॒ह॒स्वः॒¦अग्ने᳚¦विश्वे᳚¦म॒रुतः॑¦सु॒म्न‌म्¦अ॒र्च॒न् |
यत्¦शो॒चिषा᳚¦स॒ह॒सः॒¦पु॒त्र॒¦तिष्ठाः᳚¦अ॒भि¦क्षि॒तीः¦प्र॒थय॑न्¦सूर्यः॑¦नॄन् ||

व॒यंते᳚,अ॒द्यर॑रि॒माहिकाम॑¦मुत्ता॒नह॑स्ता॒नम॑सोप॒सद्य॑ |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्}

यजि॑ष्ठेन॒मन॑सायक्षिदे॒वा¦नस्रे᳚धता॒मन्म॑ना॒विप्रो᳚,अग्ने || {5/7}{3.14.5}{3.2.2.5}{3.1.14.5}{152, 248, 2587}

व॒य‌म्¦ते॒¦अ॒द्य¦र॒रि॒म॒¦हि¦काम᳚‌म्¦उ॒त्ता॒नऽह॑स्ताः¦नम॑सा¦उ॒प॒ऽसद्य॑ |
यजि॑ष्ठेन¦मन॑सा¦य॒क्षि॒¦दे॒वान्¦अस्रे᳚धता¦मन्म॑ना¦विप्रः॑¦अ॒ग्ने॒ ||

त्वद्धिपु॑त्रसहसो॒विपू॒र्वी¦र्दे॒वस्य॒यन्त्यू॒तयो॒विवाजाः᳚ |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्}

त्वंदे᳚हिसह॒स्रिणं᳚र॒यिंनो᳚¦ऽद्रो॒घेण॒वच॑सास॒त्यम॑ग्ने || {6/7}{3.14.6}{3.2.2.6}{3.1.14.6}{153, 248, 2588}

त्वत्¦हि¦पु॒त्र॒¦स॒ह॒सः॒¦वि¦पू॒र्वीः¦दे॒वस्य॑¦यन्ति॑¦ऊ॒तयः॑¦वि¦वाजाः᳚ |
त्व‌म्¦दे॒हि॒¦स॒ह॒स्रिण᳚‌म्¦र॒यि‌म्¦नः॒¦अ॒द्रो॒घेण॑¦वच॑सा¦स॒त्य‌म्¦अ॒ग्ने॒ ||

तुभ्यं᳚दक्षकविक्रतो॒यानी॒मा¦देव॒मर्ता᳚सो,अध्व॒रे,अक᳚र्म |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्}

त्वंविश्व॑स्यसु॒रथ॑स्यबोधि॒¦सर्वं॒तद॑ग्ने,अमृतस्वदे॒ह || {7/7}{3.14.7}{3.2.2.7}{3.1.14.7}{154, 248, 2589}

तुभ्य᳚‌म्¦द॒क्ष॒¦क॒वि॒क्र॒तो॒ इति॑ कविऽक्रतो¦यानि॑¦इ॒मा¦देव॑¦मर्ता᳚सः¦अ॒ध्व॒रे¦अक᳚र्म |
त्व‌म्¦विश्व॑स्य¦सु॒ऽरथ॑स्य¦बो॒धि॒¦सर्व᳚‌म्¦तत्¦अ॒ग्ने॒¦अ॒मृ॒त॒¦स्व॒द॒¦इ॒ह ||

[15] विपाजसेतिसप्तर्चस्य सूक्तस्य कात्य उत्कीलोग्निस्त्रिष्टुप् |
विपाज॑सापृ॒थुना॒शोशु॑चानो॒¦बाध॑स्वद्वि॒षोर॒क्षसो॒,अमी᳚वाः |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्}

सु॒शर्म॑णोबृह॒तःशर्म॑णिस्या¦म॒ग्नेर॒हंसु॒हव॑स्य॒प्रणी᳚तौ || {1/7}{3.15.1}{3.2.3.1}{3.1.15.1}{155, 249, 2590}

वि¦पाज॑सा¦पृ॒थुना᳚¦शोशु॑चानः¦बाध॑स्व¦द्वि॒षः¦र॒क्षसः॑¦अमी᳚वाः |
सु॒ऽशर्म॑णः¦बृ॒ह॒तः¦शर्म॑णि¦स्या॒‌म्¦अ॒ग्नेः¦अ॒ह‌म्¦सु॒ऽहव॑स्य¦प्रऽनी᳚तौ ||

त्वंनो᳚,अ॒स्या,उ॒षसो॒व्यु॑ष्टौ॒¦त्वंसूर॒उदि॑तेबोधिगो॒पाः |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्}

जन्मे᳚व॒नित्यं॒तन॑यंजुषस्व॒¦स्तोमं᳚मे,अग्नेत॒न्वा᳚सुजात || {2/7}{3.15.2}{3.2.3.2}{3.1.15.2}{156, 249, 2591}

त्व‌म्¦नः॒¦अ॒स्याः¦उ॒षसः॑¦वि।औ᳚ष्टौ¦त्व‌म्¦सूरे᳚¦उत्ऽ‌इ᳚ते¦बो॒धि॒¦गो॒पाः |
जन्म॑ऽ‌इव¦नित्य᳚‌म्¦तन॑य‌म्¦जु॒ष॒स्व॒¦स्तोम᳚‌म्¦मे॒¦अ॒ग्ने॒¦त॒न्वा᳚¦सु॒ऽजा॒त॒ ||

त्वंनृ॒चक्षा᳚वृष॒भानु॑पू॒र्वीः¦कृ॒ष्णास्व॑ग्ने,अरु॒षोविभा᳚हि |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्}

वसो॒नेषि॑च॒पर्षि॒चात्यंहः॑¦कृ॒धीनो᳚रा॒यउ॒शिजो᳚यविष्ठ || {3/7}{3.15.3}{3.2.3.3}{3.1.15.3}{157, 249, 2592}

त्व‌म्¦नृ॒ऽचक्षाः᳚¦वृ॒ष॒भ॒¦अनु॑¦पू॒र्वीः¦कृ॒ष्णासु॑¦अ॒ग्ने॒¦अ॒रु॒षः¦वि¦भा॒हि॒ |
वसो॒ इति॑¦नेषि॑¦च॒¦पर्षि॑¦च॒¦अति॑¦अंहः॑¦कृ॒धि¦नः॒¦रा॒ये¦उ॒शिजः॑¦य॒वि॒ष्ठ॒ ||

अषा᳚ळ्हो,अग्नेवृष॒भोदि॑दीहि॒¦पुरो॒विश्वाः॒सौभ॑गासंजिगी॒वान् |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्}

य॒ज्ञस्य॑ने॒ताप्र॑थ॒मस्य॑पा॒यो¦र्जात॑वेदोबृह॒तःसु॑प्रणीते || {4/7}{3.15.4}{3.2.3.4}{3.1.15.4}{158, 249, 2593}

अषा᳚ळ्हः¦अ॒ग्ने॒¦वृ॒ष॒भः¦दि॒दी॒हि॒¦पुरः॑¦विश्वाः᳚¦सौभ॑गा¦स॒‌म्ऽजि॒गी॒वान् |
य॒ज्ञस्य॑¦ने॒ता¦प्र॒थ॒मस्य॑¦पा॒योः¦जात॑ऽवेदः¦बृ॒ह॒तः¦सु॒ऽप्र॒नी॒ते॒ ||

अच्छि॑द्रा॒शर्म॑जरितःपु॒रूणि॑¦दे॒वाँ,अच्छा॒दीद्या᳚नःसुमे॒धाः |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्}

रथो॒सस्नि॑र॒भिव॑क्षि॒वाज॒¦मग्ने॒त्वंरोद॑सीनःसु॒मेके᳚ || {5/7}{3.15.5}{3.2.3.5}{3.1.15.5}{159, 249, 2594}

अच्छि॑द्रा¦शर्म॑¦ज॒रि॒त॒रिति॑¦पु॒रूणि॑¦दे॒वान्¦अच्छ॑¦दीद्या᳚नः¦सु॒ऽमे॒धाः |
रथः॑¦न¦सस्निः॑¦अ॒भि¦व॒क्षि॒¦वाज᳚‌म्¦अग्ने᳚¦त्व‌म्¦रोद॑सी॒ इति॑¦नः॒¦सु॒मेके॒ इति॑ सु॒ऽमेके᳚ ||

प्रपी᳚पयवृषभ॒जिन्व॒वाजा॒¦नग्ने॒त्वंरोद॑सीनःसु॒दोघे᳚ |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्}

दे॒वेभि॑र्देवसु॒रुचा᳚रुचा॒नो¦मानो॒मर्त॑स्यदुर्म॒तिःपरि॑ष्ठात् || {6/7}{3.15.6}{3.2.3.6}{3.1.15.6}{160, 249, 2595}

प्र¦पी॒प॒य॒¦वृ॒ष॒भ॒¦जिन्व॑¦वाजा᳚न्¦अग्ने᳚¦त्व‌म्¦रोद॑सी॒ इति॑¦नः॒¦सु॒दोघे॒ इति॑ सु॒ऽदोघे᳚ |
दे॒वेभिः॑¦दे॒व॒¦सु॒ऽरुचा᳚¦रु॒चा॒नः¦मा¦नः॒¦मर्त॑स्य¦दुः॒ऽम॒तिः¦परि॑¦स्था॒त् ||

इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्}

स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {7/7}{3.15.7}{3.2.3.7}{3.1.15.7}{161, 249, 2596}

इळा᳚‌म्¦अ॒ग्ने॒¦पु॒रु॒ऽदंस᳚‌म्¦स॒नि‌म्¦गोः¦श॒श्व॒त्ऽत॒म‌म्¦हव॑मानाय¦सा॒ध॒ |
स्यात्¦नः॒¦सू॒नुः¦तन॑यः¦वि॒जाऽवा᳚¦अग्ने᳚¦सा¦ते॒¦सु॒ऽम॒तिः¦भू॒तु॒¦अ॒स्मे इति॑ ||

[16] अयमग्निरितिषडृचस्य सूक्तस्य कात्य उत्कीलोग्निः आद्यातृतीयापंचम्योबृहत्यः द्वितीयाचतुर्थीषष्ठ्यः सतोबृहत्यः
अ॒यम॒ग्निःसु॒वीर्य॒स्ये¦शे᳚म॒हःसौभ॑गस्य |{कात्य उत्कीलः | अग्निः | बृहत्यः}

रा॒यई᳚शेस्वप॒त्यस्य॒गोम॑त॒¦ईशे᳚वृत्र॒हथा᳚नाम् || {1/6}{3.16.1}{3.2.4.1}{3.1.16.1}{162, 250, 2597}

अ॒य‌म्¦अ॒ग्निः¦सु॒ऽवीर्य॑स्य¦ईशे᳚¦म॒हः¦सौभ॑गस्य |
रा॒यः¦ई॒शे॒¦सु॒।आ॒प॒त्यस्य॑¦गोऽम॑तः¦ईशे᳚¦वृ॒त्र॒ऽहथा᳚ना‌म् ||

इ॒मंन॑रोमरुतःसश्चता॒वृधं॒¦यस्मि॒न्‌रायः॒शेवृ॑धासः |{कात्य उत्कीलः | अग्निः | सतोबृहत्यः}

अ॒भियेसन्ति॒पृत॑नासुदू॒ढ्यो᳚¦वि॒श्वाहा॒शत्रु॑माद॒भुः || {2/6}{3.16.2}{3.2.4.2}{3.1.16.2}{163, 250, 2598}

इ॒म‌म्¦न॒रः॒¦म॒रु॒तः॒¦स॒श्च॒त॒¦वृध᳚‌म्¦यस्मि॑न्¦रायः॑¦शेऽवृ॑धासः |
अ॒भि¦ये¦सन्ति॑¦पृत॑नासु¦दुः॒ऽध्यः॑¦वि॒श्वाहा᳚¦शत्रु᳚‌म्¦आ॒ऽद॒भुः ||

त्वंनो᳚रा॒यःशि॑शीहि॒¦मीढ्वो᳚,अग्नेसु॒वीर्य॑स्य |{कात्य उत्कीलः | अग्निः | बृहत्यः}

तुवि॑द्युम्न॒वर्षि॑ष्ठस्यप्र॒जाव॑तो¦ऽनमी॒वस्य॑शु॒ष्मिणः॑ || {3/6}{3.16.3}{3.2.4.3}{3.1.16.3}{164, 250, 2599}

सः¦त्व‌म्¦नः॒¦रा॒यः¦शि॒शी॒हि॒¦मीढ्वः॑¦अ॒ग्ने॒¦सु॒ऽवीर्य॑स्य |
तुवि॑ऽद्युम्न¦वर्षि॑ष्ठस्य¦प्र॒जाऽव॑तः¦अ॒न॒मी॒वस्य॑¦शु॒ष्मिणः॑ ||

चक्रि॒र्योविश्वा॒भुव॑ना॒भिसा᳚स॒हि¦श्चक्रि॑र्दे॒वेष्वादुवः॑ |{कात्य उत्कीलः | अग्निः | सतोबृहत्यः}

दे॒वेषु॒यत॑त॒सु॒वीर्य॒¦शंस॑उ॒तनृ॒णाम् || {4/6}{3.16.4}{3.2.4.4}{3.1.16.4}{165, 250, 2600}

चक्रिः॑¦यः¦विश्वा᳚¦भुव॑ना¦अ॒भि¦स॒स॒हिः¦चक्रिः॑¦दे॒वेषु॑¦आ¦दुवः॑ |
आ¦दे॒वेषु॑¦यत॑ते¦आ¦सु॒ऽवीर्ये᳚¦आ¦शंसे᳚¦उ॒त¦नृ॒णा‌म् ||

मानो᳚,अ॒ग्नेऽम॑तये॒¦मावीर॑तायैरीरधः |{कात्य उत्कीलः | अग्निः | बृहत्यः}

मागोता᳚यैसहसस्पुत्र॒मानि॒दे¦ऽप॒द्वेषां॒स्याकृ॑धि || {5/6}{3.16.5}{3.2.4.5}{3.1.16.5}{166, 250, 2601}

मा¦नः॒¦अ॒ग्ने॒¦अम॑तये¦मा¦अ॒वीर॑तायै¦री॒र॒धः॒ |
मा¦अ॒गोता᳚यै¦स॒ह॒सः॒¦पु॒त्र॒¦मा¦नि॒दे¦अप॑¦द्वेषां᳚सि¦आ¦कृ॒धि॒ ||

श॒ग्धिवाज॑स्यसुभगप्र॒जाव॒तो¦ऽग्ने᳚बृह॒तो,अ॑ध्व॒रे |{कात्य उत्कीलः | अग्निः | सतोबृहत्यः}

संरा॒याभूय॑सासृजमयो॒भुना॒¦तुवि॑द्युम्न॒यश॑स्वता || {6/6}{3.16.6}{3.2.4.6}{3.1.16.6}{167, 250, 2602}

श॒ग्धि¦वाज॑स्य¦सु॒ऽभ॒ग॒¦प्र॒जाऽव॑तः¦अग्ने᳚¦बृ॒ह॒तः¦अ॒ध्व॒रे |
स‌म्¦रा॒या¦भूय॑सा¦सृ॒ज॒¦म॒यः॒ऽभुना᳚¦तुवि॑ऽद्युम्न¦यश॑स्वता ||

[17] समिध्यमानइतिपंचर्चस्य सूक्तस्य वैश्वामित्रः कतोग्निस्त्रिष्टुप् |
स॒मि॒ध्यमा᳚नःप्रथ॒मानु॒धर्मा॒¦सम॒क्तुभि॑रज्यतेवि॒श्ववा᳚रः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

शो॒चिष्के᳚शोघृ॒तनि᳚र्णिक्‌पाव॒कः¦सु॑य॒ज्ञो,अ॒ग्निर्य॒जथा᳚यदे॒वान् || {1/5}{3.17.1}{3.2.5.1}{3.1.17.1}{168, 251, 2603}

स॒‌म्ऽ‌इ॒ध्यमा᳚नः¦प्र॒थ॒मा¦अनु॑¦धर्म॑¦स‌म्¦अ॒क्तुऽभिः॑¦अ॒ज्य॒ते॒¦वि॒श्वऽवा᳚रः |
शो॒चिःऽके᳚शः¦घृ॒तऽनि᳚र्निक्¦पा॒व॒कः¦सु॒ऽय॒ज्ञः¦अ॒ग्निः¦य॒जथा᳚य¦दे॒वान् ||

यथाय॑जोहो॒त्रम॑ग्नेपृथि॒व्या¦यथा᳚दि॒वोजा᳚तवेदश्चिकि॒त्वान् |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

ए॒वानेन॑ह॒विषा᳚यक्षिदे॒वान्¦म॑नु॒ष्वद्‌य॒ज्ञंप्रति॑रे॒मम॒द्य || {2/5}{3.17.2}{3.2.5.2}{3.1.17.2}{169, 251, 2604}

यथा᳚¦अय॑जः¦हो॒त्र‌म्¦अ॒ग्ने॒¦पृ॒थि॒व्याः¦यथा᳚¦दि॒वः¦जा॒त॒ऽवे॒दः॒¦चि॒कि॒त्वान् |
ए॒व¦अ॒नेन॑¦ह॒विषा᳚¦य॒क्षि॒¦दे॒वान्¦म॒नु॒ष्वत्¦य॒ज्ञ‌म्¦प्र¦ति॒र॒¦इ॒म‌म्¦अ॒द्य ||

त्रीण्यायूं᳚षि॒तव॑जातवेद¦स्ति॒स्रआ॒जानी᳚रु॒षस॑स्ते,अग्ने |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

ताभि॑र्दे॒वाना॒मवो᳚यक्षिवि॒द्वा¦नथा᳚भव॒यज॑मानाय॒शंयोः || {3/5}{3.17.3}{3.2.5.3}{3.1.17.3}{170, 251, 2605}

त्रीणि॑¦आयूं᳚षि¦तव॑¦जा॒त॒ऽवे॒दः॒¦ति॒स्रः¦आ॒ऽजानीः᳚¦उ॒षसः॑¦ते॒¦अ॒ग्ने॒ |
ताभिः॑¦दे॒वाना᳚‌म्¦अवः॑¦य॒क्षि॒¦वि॒द्वान्¦अथ॑¦भ॒व॒¦यज॑मानाय¦श‌म्¦योः ||

अ॒ग्निंसु॑दी॒तिंसु॒दृशं᳚गृ॒णन्तो᳚¦नम॒स्याम॒स्त्वेड्यं᳚जातवेदः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

त्वांदू॒तम॑र॒तिंह᳚व्य॒वाहं᳚¦दे॒वा,अ॑कृण्वन्न॒मृत॑स्य॒नाभि᳚म् || {4/5}{3.17.4}{3.2.5.4}{3.1.17.4}{171, 251, 2606}

अ॒ग्नि‌म्¦सु॒ऽदी॒ति‌म्¦सु॒ऽदृश᳚‌म्¦गृ॒णन्तः॑¦न॒म॒स्यामः॑¦त्वा॒¦ईड्य᳚‌म्¦जा॒त॒ऽवे॒दः॒ |
त्वा‌म्¦दू॒त‌म्¦अ॒र॒ति‌म्¦ह॒व्य॒ऽवाह᳚‌म्¦दे॒वाः¦अ॒कृ॒ण्व॒न्¦अ॒मृत॑स्य¦नाभि᳚‌म् ||

यस्त्वद्धोता॒पूर्वो᳚,अग्ने॒यजी᳚यान्¦द्वि॒ताच॒सत्ता᳚स्व॒धया᳚श॒म्भुः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

तस्यानु॒धर्म॒प्रय॑जाचिकि॒त्वो¦था᳚नोधा,अध्व॒रंदे॒ववी᳚तौ || {5/5}{3.17.5}{3.2.5.5}{3.1.17.5}{172, 251, 2607}

यः¦त्वत्¦होता᳚¦पूर्वः॑¦अ॒ग्ने॒¦यजी᳚यान्¦द्वि॒ता¦च॒¦सत्ता᳚¦स्व॒धया᳚¦च॒¦श॒‌म्ऽभुः |
तस्य॑¦अनु॑¦धर्म॑¦प्र¦य॒ज॒¦चि॒कि॒त्वः॒¦अथ॑¦नः॒¦धाः॒¦अ॒ध्व॒र‌म्¦दे॒वऽवी᳚तौ ||

[18] भवानइतिपंचर्चस्य सूक्तस्य वैश्वामित्रः कतोग्निस्त्रिष्टुप् |
भवा᳚नो,अग्नेसु॒मना॒,उपे᳚तौ॒¦सखे᳚व॒सख्ये᳚पि॒तरे᳚वसा॒धुः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

पु॒रु॒द्रुहो॒हिक्षि॒तयो॒जना᳚नां॒¦प्रति॑प्रती॒चीर्द॑हता॒दरा᳚तीः || {1/5}{3.18.1}{3.2.6.1}{3.1.18.1}{173, 252, 2608}

भव॑¦नः॒¦अ॒ग्ने॒¦सु॒ऽमनाः᳚¦उप॑ऽ‌इतौ¦सखा᳚ऽ‌इव¦सख्ये᳚¦पि॒तरा᳚ऽ‌इव¦सा॒धुः |
पु॒रु॒ऽद्रुहः॑¦हि¦क्षि॒तयः॑¦जना᳚ना‌म्¦प्रति॑¦प्र॒ती॒चीः¦द॒ह॒ता॒त्¦अरा᳚तीः ||

तपो॒ष्व॑ग्ने॒,अन्त॑राँ,अ॒मित्रा॒न्¦तपा॒शंस॒मर॑रुषः॒पर॑स्य |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

तपो᳚वसोचिकिता॒नो,अ॒चित्ता॒न्¦विते᳚तिष्ठन्ताम॒जरा᳚,अ॒यासः॑ || {2/5}{3.18.2}{3.2.6.2}{3.1.18.2}{174, 252, 2609}

तपो॒ इति॑¦सु¦अ॒ग्ने॒¦अन्त॑रान्¦अ॒मित्रा᳚न्¦तप॑¦शंस᳚‌म्¦अर॑रुषः¦पर॑स्य |
तपो॒ इति॑¦व॒सो॒ इति॑¦चि॒कि॒ता॒नः¦अ॒चित्ता᳚न्¦वि¦ते॒¦ति॒ष्ठ॒न्ता॒‌म्¦अ॒जराः᳚¦अ॒यासः॑ ||

इ॒ध्मेना᳚ग्नइ॒च्छमा᳚नोघृ॒तेन॑¦जु॒होमि॑ह॒व्यंतर॑से॒बला᳚य |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

याव॒दीशे॒ब्रह्म॑णा॒वन्द॑मान¦इ॒मांधियं᳚शत॒सेया᳚यदे॒वीम् || {3/5}{3.18.3}{3.2.6.3}{3.1.18.3}{175, 252, 2610}

इ॒ध्मेन॑¦अ॒ग्ने॒¦इ॒च्छमा᳚नः¦घृ॒तेन॑¦जु॒होमि॑¦ह॒व्य‌म्¦तर॑से¦बला᳚य |
याव॑त्¦ईशे᳚¦ब्रह्म॑णा¦वन्द॑मानः¦इ॒मा‌म्¦धिय᳚‌म्¦श॒त॒ऽसेया᳚य¦दे॒वी‌म् ||

उच्छो॒चिषा᳚सहसस्‌पुत्रस्तु॒तो¦बृ॒हद्‌वयः॑शशमा॒नेषु॑धेहि |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

रे॒वद॑ग्नेवि॒श्वामि॑त्रेषु॒शंयो¦र्म᳚र्मृ॒ज्माते᳚त॒न्व१॑(अं॒)भूरि॒कृत्वः॑ || {4/5}{3.18.4}{3.2.6.4}{3.1.18.4}{176, 252, 2611}

उत्¦शो॒चिषा᳚¦स॒ह॒सः॒¦पु॒त्र॒¦स्तु॒तः¦बृ॒हत्¦वयः॑¦श॒श॒मा॒नेषु॑¦धे॒हि॒ |
रे॒वत्¦अ॒ग्ने॒¦वि॒श्वामि॑त्रेषु¦श‌म्¦योः¦म॒र्मृ॒ज्म¦ते॒¦त॒न्व᳚‌म्¦भूरि॑¦कृत्वः॑ ||

कृ॒धिरत्नं᳚सुसनित॒र्धना᳚नां॒¦घेद॑ग्नेभवसि॒यत्‌समि॑द्धः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

स्तो॒तुर्दु॑रो॒णेसु॒भग॑स्यरे॒वत्¦सृ॒प्राक॒रस्ना᳚दधिषे॒वपूं᳚षि || {5/5}{3.18.5}{3.2.6.5}{3.1.18.5}{177, 252, 2612}

कृ॒धि¦रत्न᳚‌म्¦सु॒ऽस॒नि॒तः॒¦धना᳚ना‌म्¦सः¦घ॒¦इत्¦अ॒ग्ने॒¦भ॒व॒सि॒¦यत्¦स‌म्ऽ‌इ᳚द्धः |
स्तो॒तुः¦दु॒रो॒णे¦सु॒ऽभग॑स्य¦रे॒वत्¦सृ॒प्रा¦क॒रस्ना᳚¦द॒धि॒षे॒¦वपूं᳚षि ||

[19] अग्निंहोतारमिति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निस्त्रिष्टुप् |
अ॒ग्निंहोता᳚रं॒प्रवृ॑णेमि॒येधे॒¦गृत्सं᳚क॒विंवि॑श्व॒विद॒ममू᳚रम् |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

नो᳚यक्षद्दे॒वता᳚ता॒यजी᳚यान्¦रा॒येवाजा᳚यवनतेम॒घानि॑ || {1/5}{3.19.1}{3.2.7.1}{3.1.19.1}{178, 253, 2613}

अ॒ग्नि‌म्¦होता᳚र‌म्¦प्र¦वृ॒णे॒¦मि॒येधे᳚¦गृत्स᳚‌म्¦क॒वि‌म्¦वि॒श्व॒ऽविद᳚‌म्¦अमू᳚र‌म् |
सः¦नः॒¦य॒क्ष॒त्¦दे॒वऽता᳚ता¦यजी᳚यान्¦रा॒ये¦वाजा᳚य¦व॒न॒ते॒¦म॒घानि॑ ||

प्रते᳚,अग्नेह॒विष्म॑तीमिय॒¦र्म्यच्छा᳚सुद्यु॒म्नांरा॒तिनीं᳚घृ॒ताची᳚म् |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

प्र॒द॒क्षि॒णिद्दे॒वता᳚तिमुरा॒णः¦संरा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रेत् || {2/5}{3.19.2}{3.2.7.2}{3.1.19.2}{179, 253, 2614}

प्र¦ते॒¦अ॒ग्ने॒¦ह॒विष्म॑ती‌म्¦इ॒य॒र्मि॒¦अच्छ॑¦सु॒ऽद्यु॒म्ना‌म्¦रा॒तिनी᳚‌म्¦घृ॒ताची᳚‌म् |
प्र॒ऽद॒क्षि॒णित्¦दे॒वऽता᳚ति‌म्¦उ॒रा॒णः¦स‌म्¦रा॒तिऽभिः॑¦वसु॑ऽभिः¦य॒ज्ञ‌म्¦अ॒श्रे॒त् ||

तेजी᳚यसा॒मन॑सा॒त्वोत॑¦उ॒तशि॑क्षस्वप॒त्यस्य॑शि॒क्षोः |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

अग्ने᳚रा॒योनृत॑मस्य॒प्रभू᳚तौ¦भू॒याम॑तेसुष्टु॒तय॑श्च॒वस्वः॑ || {3/5}{3.19.3}{3.2.7.3}{3.1.19.3}{180, 253, 2615}

सः¦तेजी᳚यसा¦मन॑सा¦त्वाऽऊ᳚तः¦उ॒त¦शि॒क्ष॒¦सु॒।आ॒प॒त्यस्य॑¦शि॒क्षोः |
अग्ने᳚¦रा॒यः¦नृऽत॑मस्य¦प्रऽभू᳚तौ¦भू॒याम॑¦ते॒¦सु॒ऽस्तु॒तयः॑¦च॒¦वस्वः॑ ||

भूरी᳚णि॒हित्वेद॑धि॒रे,अनी॒का¦ग्ने᳚दे॒वस्य॒यज्य॑वो॒जना᳚सः |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

व॑हदे॒वता᳚तिंयविष्ठ॒¦शर्धो॒यद॒द्यदि॒व्यंयजा᳚सि || {4/5}{3.19.4}{3.2.7.4}{3.1.19.4}{181, 253, 2616}

भूरी᳚णि¦हि¦त्वे इति॑¦द॒धि॒रे¦अनी᳚का¦अग्ने᳚¦दे॒वस्य॑¦यज्य॑वः¦जना᳚सः |
सः¦आ¦व॒ह॒¦दे॒वऽता᳚ति‌म्¦य॒वि॒ष्ठ॒¦शर्धः॑¦यत्¦अ॒द्य¦दि॒व्य‌म्¦यजा᳚सि ||

यत्‌त्वा॒होता᳚रम॒नज᳚न्‌मि॒येधे᳚¦निषा॒दय᳚न्तोय॒जथा᳚यदे॒वाः |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

त्वंनो᳚,अग्नेऽवि॒तेहबो॒ध्य¦धि॒श्रवां᳚सिधेहिनस्त॒नूषु॑ || {5/5}{3.19.5}{3.2.7.5}{3.1.19.5}{182, 253, 2617}

यत्¦त्वा॒¦होता᳚र‌म्¦अ॒नज॑न्¦मि॒येधे᳚¦नि॒ऽसा॒दय᳚न्तः¦य॒जथा᳚य¦दे॒वाः |
सः¦त्व‌म्¦नः॒¦अ॒ग्ने॒¦अ॒वि॒ता¦इ॒ह¦बो॒धि॒¦अधि॑¦श्रवां᳚सि¦धे॒हि॒¦नः॒¦त॒नूषु॑ ||

[20] अग्निमुषसमिति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निः आद्यांत्ययोर्विश्वेदेवास्त्रिष्टुप् |
अ॒ग्निमु॒षस॑म॒श्विना᳚दधि॒क्रां¦व्यु॑ष्टिषुहवते॒वह्नि॑रु॒क्थैः |{कौशिको गाथी | विश्वदेवाः | त्रिष्टुप्}

सु॒ज्योति॑षोनःशृण्वन्तुदे॒वाः¦स॒जोष॑सो,अध्व॒रंवा᳚वशा॒नाः || {1/5}{3.20.1}{3.2.8.1}{3.1.20.1}{183, 254, 2618}

अ॒ग्नि‌म्¦उ॒षस᳚‌म्¦अ॒श्विना᳚¦द॒धि॒ऽक्रा‌म्¦वि।औ᳚ष्टिषु¦ह॒व॒ते॒¦वह्निः॑¦उ॒क्थैः |
सु॒ऽज्योति॑षः¦नः॒¦शृ॒ण्व॒न्तु॒¦दे॒वाः¦स॒ऽजोष॑सः¦अ॒ध्व॒र‌म्¦वा॒व॒शा॒नाः ||

अग्ने॒त्रीते॒वाजि॑ना॒त्रीष॒धस्था᳚¦ति॒स्रस्ते᳚जि॒ह्वा,ऋ॑तजातपू॒र्वीः |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

ति॒स्रउ॑तेत॒न्वो᳚दे॒ववा᳚ता॒¦स्ताभि᳚र्नःपाहि॒गिरो॒,अप्र॑युच्छन् || {2/5}{3.20.2}{3.2.8.2}{3.1.20.2}{184, 254, 2619}

अग्ने᳚¦त्री¦ते॒¦वाजि॑ना¦त्री¦स॒धऽस्था᳚¦ति॒स्रः¦ते॒¦जि॒ह्वाः¦ऋ॒त॒ऽजा॒त॒¦पू॒र्वीः |
ति॒स्रः¦ऊँ॒ इति॑¦ते॒¦त॒न्वः॑¦दे॒वऽवा᳚ताः¦ताभिः॑¦नः॒¦पा॒हि॒¦गिरः॑¦अप्र॑ऽयुच्छन् ||

अग्ने॒भूरी᳚णि॒तव॑जातवेदो॒¦देव॑स्वधावो॒ऽमृत॑स्य॒नाम॑ |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

याश्च॑मा॒यामा॒यिनां᳚विश्वमिन्व॒¦त्वेपू॒र्वीःसं᳚द॒धुःपृ॑ष्टबन्धो || {3/5}{3.20.3}{3.2.8.3}{3.1.20.3}{185, 254, 2620}

अग्ने᳚¦भूरी᳚णि¦तव॑¦जा॒त॒ऽवे॒दः॒¦देव॑¦स्व॒धा॒ऽवः॒¦अ॒मृत॑स्य¦नाम॑ |
याः¦च॒¦मा॒याः¦मा॒यिना᳚‌म्¦वि॒श्व॒‌म्ऽ‌इ॒न्व॒¦त्वे इति॑¦पू॒र्वीः¦स॒‌म्ऽद॒धुः¦पृ॒ष्ट॒ब॒न्धो॒ इति॑ पृष्टऽबन्धो ||

अ॒ग्निर्ने॒ताभग॑इवक्षिती॒नां¦दैवी᳚नांदे॒वऋ॑तु॒पा,ऋ॒तावा᳚ |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

वृ॑त्र॒हास॒नयो᳚वि॒श्ववे᳚दाः॒¦पर्ष॒द्‌विश्वाति॑दुरि॒तागृ॒णन्त᳚म् || {4/5}{3.20.4}{3.2.8.4}{3.1.20.4}{186, 254, 2621}

अ॒ग्निः¦ने॒ता¦भगः॑ऽ‌इव¦क्षि॒ती॒ना‌म्¦दैवी᳚ना‌म्¦दे॒वः¦ऋ॒तु॒ऽपाः¦ऋ॒तऽवा᳚ |
सः¦वृ॒त्र॒ऽहा¦स॒नयः॑¦वि॒श्वऽवे᳚दाः¦पर्ष॑त्¦विश्वा᳚¦अति॑¦दुः॒ऽ‌इ॒ता¦गृ॒णन्त᳚‌म् ||

द॒धि॒क्राम॒ग्निमु॒षसं᳚दे॒वीं¦बृह॒स्पतिं᳚सवि॒तारं᳚दे॒वम् |{कौशिको गाथी | विश्वदेवाः | त्रिष्टुप्}

अ॒श्विना᳚मि॒त्रावरु॑णा॒भगं᳚च॒¦वसू᳚न्‌रु॒द्राँ,आ᳚दि॒त्याँ,इ॒हहु॑वे || {5/5}{3.20.5}{3.2.8.5}{3.1.20.5}{187, 254, 2622}

द॒धि॒ऽक्रा‌म्¦अ॒ग्नि‌म्¦उ॒षस᳚‌म्¦च॒¦दे॒वी‌म्¦बृह॒स्पति᳚‌म्¦स॒वि॒तार᳚‌म्¦च॒¦दे॒व‌म् |
अ॒श्विना᳚¦मि॒त्रावरु॑णा¦भग᳚‌म्¦च॒¦वसू᳚न्¦रु॒द्रा᳚न्¦आ॒दि॒त्यान्¦इ॒ह¦हु॒वे॒ ||

[21] इमंनइति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निः आद्यात्रिष्टुप् द्वितीयातृतीयेनुष्टुभौ चतुर्थीविराड्रूपांत्यासतोबृहती |
इ॒मंनो᳚य॒ज्ञम॒मृते᳚षुधेही॒¦माह॒व्याजा᳚तवेदोजुषस्व |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

स्तो॒काना᳚मग्ने॒मेद॑सोघृ॒तस्य॒¦होतः॒प्राशा᳚नप्रथ॒मोनि॒षद्य॑ || {1/5}{3.21.1}{3.2.9.1}{3.1.21.1}{188, 255, 2623}

इ॒म‌म्¦नः॒¦य॒ज्ञ‌म्¦अ॒मृते᳚षु¦धे॒हि॒¦ई॒मा¦ह॒व्या¦जा॒त॒ऽवे॒दः॒¦जु॒ष॒स्व॒ |
स्तो॒काना᳚‌म्¦अ॒ग्ने॒¦मेद॑सः¦घृ॒तस्य॑¦होत॒रिति॑¦प्र¦अ॒शा॒न॒¦प्र॒थ॒मः¦नि॒ऽसद्य॑ ||

घृ॒तव᳚न्तःपावकते¦स्तो॒काःश्चो᳚तन्ति॒मेद॑सः |{कौशिको गाथी | अग्निः | अनुष्टुप्}

स्वध᳚र्मन्‌दे॒ववी᳚तये॒¦श्रेष्ठं᳚नोधेहि॒वार्य᳚म् || {2/5}{3.21.2}{3.2.9.2}{3.1.21.2}{189, 255, 2624}

घृ॒तऽव᳚न्तः¦पा॒व॒क॒¦ते॒¦स्तो॒काः¦श्चो॒त॒न्ति॒¦मेद॑सः | स्वऽध᳚र्मन्¦दे॒वऽवी᳚तये¦श्रेष्ठ᳚‌म्¦नः॒¦धे॒हि॒¦वार्य᳚‌म् ||

तुभ्यं᳚स्तो॒काघृ॑त॒श्चुतो¦ऽग्ने॒विप्रा᳚यसन्त्य |{कौशिको गाथी | अग्निः | अनुष्टुप्}

ऋषिः॒श्रेष्ठः॒समि॑ध्यसे¦य॒ज्ञस्य॑प्रावि॒ताभ॑व || {3/5}{3.21.3}{3.2.9.3}{3.1.21.3}{190, 255, 2625}

तुभ्य᳚‌म्¦स्तो॒काः¦घृ॒त॒ऽश्चुतः॑¦अग्ने᳚¦विप्रा᳚य¦स॒न्त्य॒ | ऋषिः॑¦श्रेष्ठः॑¦स‌म्¦इ॒ध्य॒से॒¦य॒ज्ञस्य॑¦प्र॒।आ॒वि॒ता¦भ॒व॒ ||

तुभ्यं᳚श्चोतन्त्यध्रिगोशचीवः¦स्तो॒कासो᳚,अग्ने॒मेद॑सोघृ॒तस्य॑ |{कौशिको गाथी | अग्निः | विराड्रूपा}

क॒वि॒श॒स्तोबृ॑ह॒ताभा॒नुनागा᳚¦ह॒व्याजु॑षस्वमेधिर || {4/5}{3.21.4}{3.2.9.4}{3.1.21.4}{191, 255, 2626}

तुभ्य᳚‌म्¦श्चो॒त॒न्ति॒¦अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो¦श॒ची॒ऽवः॒¦स्तो॒कासः॑¦अ॒ग्ने॒¦मेद॑सः¦घृ॒तस्य॑ |
क॒वि॒ऽश॒स्तः¦बृ॒ह॒ता¦भा॒नुना᳚¦आ¦अ॒गाः॒¦ह॒व्या¦जु॒ष॒स्व॒¦मे॒धि॒र॒ ||

ओजि॑ष्ठंतेमध्य॒तोमेद॒उद्भृ॑तं॒¦प्रते᳚व॒यंद॑दामहे |{कौशिको गाथी | अग्निः | सतोबृहती}

श्चोत᳚न्तितेवसोस्तो॒का,अधि॑त्व॒चि¦प्रति॒तान्‌दे᳚व॒शोवि॑हि || {5/5}{3.21.5}{3.2.9.5}{3.1.21.5}{192, 255, 2627}

ओजि॑ष्ठ‌म्¦ते॒¦म॒ध्य॒तः¦मेदः॑¦उत्ऽभृ॑त‌म्¦प्र¦ते॒¦व॒य‌म्¦द॒दा॒म॒हे॒ |
श्चोत᳚न्ति¦ते॒¦व॒सो॒ इति॑¦स्तो॒काः¦अधि॑¦त्व॒चि¦प्रति॑¦तान्¦दे॒व॒ऽशः¦वि॒हि॒ ||

[22] अयंसइति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निरूपांत्यायाः पुरीष्याग्नयस्त्रिष्टुप् चतुर्थ्यनुष्टुप् |
अ॒यंसो,अ॒ग्निर्यस्मि॒न्‌त्सोम॒मिन्द्रः॑¦सु॒तंद॒धेज॒ठरे᳚वावशा॒नः |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

स॒ह॒स्रिणं॒वाज॒मत्यं॒सप्तिं᳚¦सस॒वान्‌त्सन्‌त्स्तू᳚यसेजातवेदः || {1/5}{3.22.1}{3.2.10.1}{3.1.22.1}{193, 256, 2628}

अ॒य‌म्¦सः¦अ॒ग्निः¦यस्मि॑न्¦सोम᳚‌म्¦इन्द्रः॑¦सु॒त‌म्¦द॒धे¦ज॒ठरे᳚¦वा॒व॒शा॒नः |
स॒ह॒स्रिण᳚‌म्¦वाज᳚‌म्¦अत्य᳚‌म्¦न¦सप्ति᳚‌म्¦स॒स॒ऽवान्¦सन्¦स्तू॒य॒से॒¦जा॒त॒ऽवे॒दः॒ ||

अग्ने॒यत्ते᳚दि॒विवर्चः॑पृथि॒व्यां¦यदोष॑धीष्व॒प्स्वाय॑जत्र |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

येना॒न्तरि॑क्षमु॒र्वा᳚त॒तन्थ॑¦त्वे॒षःभा॒नुर᳚र्ण॒वोनृ॒चक्षाः᳚ || {2/5}{3.22.2}{3.2.10.2}{3.1.22.2}{194, 256, 2629}

अग्ने᳚¦यत्¦ते॒¦दि॒वि¦वर्चः॑¦पृ॒थि॒व्या‌म्¦यत्¦ओष॑धीषु¦अ॒प्ऽसु¦आ¦य॒ज॒त्र॒ |
येन॑¦अ॒न्तरि॑क्ष‌म्¦उ॒रु¦आ॒ऽत॒तन्थ॑¦त्वे॒षः¦सः¦भा॒नुः¦अ॒र्ण॒वः¦नृ॒ऽचक्षाः᳚ ||

अग्ने᳚दि॒वो,अर्ण॒मच्छा᳚जिगा॒स्य¦च्छा᳚दे॒वाँ,ऊ᳚चिषे॒धिष्ण्या॒ये |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

यारो᳚च॒नेप॒रस्ता॒त्‌सूर्य॑स्य॒¦याश्चा॒वस्ता᳚दुप॒तिष्ठ᳚न्त॒आपः॑ || {3/5}{3.22.3}{3.2.10.3}{3.1.22.3}{195, 256, 2630}

अग्ने᳚¦दि॒वः¦अर्ण᳚‌म्¦अच्छ॑¦जि॒गा॒सि॒¦अच्छ॑¦दे॒वान्¦ऊ॒चि॒षे॒¦धिष्ण्याः᳚¦ये |
याः¦रो॒च॒ने¦प॒रस्ता᳚त्¦सूर्य॑स्य¦याः¦च॒¦अ॒वस्ता᳚त्¦उ॒प॒ऽतिष्ठ᳚न्ते¦आपः॑ ||

पु॒री॒ष्या᳚सो,अ॒ग्नयः॑¦प्राव॒णेभिः॑स॒जोष॑सः |{कौशिको गाथी | पुरीष्या अग्नयः | अनुष्टुप्}

जु॒षन्तां᳚य॒ज्ञम॒द्रुहो᳚¦ऽनमी॒वा,इषो᳚म॒हीः || {4/5}{3.22.4}{3.2.10.4}{3.1.22.4}{196, 256, 2631}

पु॒री॒ष्या᳚सः¦अ॒ग्नयः॑¦प्र॒व॒णेभिः॑¦स॒ऽजोष॑सः | जु॒षन्ता᳚‌म्¦य॒ज्ञ‌म्¦अ॒द्रुहः॑¦अ॒न॒मी॒वाः¦इषः॑¦म॒हीः ||

इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {5/5}{3.22.5}{3.2.10.5}{3.1.22.5}{197, 256, 2632}

इळा᳚‌म्¦अ॒ग्ने॒¦पु॒रु॒ऽदंस᳚‌म्¦स॒नि‌म्¦गोः¦श॒श्व॒त्ऽत॒म‌म्¦हव॑मानाय¦सा॒ध॒ |
स्यात्¦नः॒¦सू॒नुः¦तन॑यः¦वि॒जाऽवा᳚¦अ॒ग्ने॒¦सा¦ते॒¦सु॒ऽम॒तिः¦भू॒तु॒¦अ॒स्मे इति॑ ||

[23] निर्मथितइति पंचर्चस्य सूक्तस्य भारतौदेवश्रवोदेववातावग्निस्त्रिष्टुप् तृतीयासतोबृहती |
निर्म॑थितः॒सुधि॑त॒स॒धस्थे॒¦युवा᳚क॒विर॑ध्व॒रस्य॑प्रणे॒ता |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्}

जूर्य॑त्स्व॒ग्निर॒जरो॒वने॒ष्व¦त्रा᳚दधे,अ॒मृतं᳚जा॒तवे᳚दाः || {1/5}{3.23.1}{3.2.11.1}{3.1.23.1}{198, 257, 2633}

निःऽम॑थितः¦सुऽधि॑तः¦आ¦स॒धऽस्थे᳚¦युवा᳚¦क॒विः¦अ॒ध्व॒रस्य॑¦प्र॒ऽने॒ता |
जूर्य॑त्ऽसु¦अ॒ग्निः¦अ॒जरः॑¦वने᳚षु¦अत्र॑¦द॒धे॒¦अ॒मृत᳚‌म्¦जा॒तऽवे᳚दाः ||

अम᳚न्थिष्टां॒भार॑तारे॒वद॒ग्निं¦दे॒वश्र॑वादे॒ववा᳚तःसु॒दक्ष᳚म् |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्}

अग्ने॒विप॑श्यबृह॒ताभिरा॒ये¦षांनो᳚ने॒ताभ॑वता॒दनु॒द्यून् || {2/5}{3.23.2}{3.2.11.2}{3.1.23.2}{199, 257, 2634}

अम᳚न्थिष्टा‌म्¦भार॑ता¦रे॒वत्¦अ॒ग्नि‌म्¦दे॒वऽश्र॑वाः¦दे॒वऽवा᳚तः¦सु॒ऽदक्ष᳚‌म् |
अग्ने᳚¦वि¦प॒श्य॒¦बृ॒ह॒ता¦अ॒भि¦रा॒या¦इ॒षा‌म्¦नः॒¦ने॒ता¦भ॒व॒ता॒त्¦अनु॑¦द्यून् ||

दश॒क्षिपः॑पू॒र्व्यंसी᳚मजीजन॒न्¦त्सुजा᳚तंमा॒तृषु॑प्रि॒यम् |{भारतौ देवश्रवोदेववातौ | अग्निः | सतोबृहती}

अ॒ग्निंस्तु॑हिदैववा॒तंदे᳚वश्रवो॒¦योजना᳚ना॒मस॑द्‌व॒शी || {3/5}{3.23.3}{3.2.11.3}{3.1.23.3}{200, 257, 2635}

दश॑¦क्षिपः॑¦पू॒र्व्य‌म्¦सी॒‌म्¦अ॒जी॒ज॒न॒न्¦सुऽजा᳚त‌म्¦मा॒तृषु॑¦प्रि॒य‌म् |
अ॒ग्नि‌म्¦स्तु॒हि॒¦दै॒व॒ऽवा॒त‌म्¦दे॒व॒ऽश्र॒वः॒¦यः¦जना᳚ना‌म्¦अस॑त्¦व॒शी ||

नित्वा᳚दधे॒वर॒पृ॑थि॒व्या¦,इळा᳚यास्प॒देसु॑दिन॒त्वे,अह्ना᳚म् |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्}

दृ॒षद्व॑त्यां॒मानु॑षआप॒यायां॒¦सर॑स्वत्यांरे॒वद॑ग्नेदिदीहि || {4/5}{3.23.4}{3.2.11.4}{3.1.23.4}{201, 257, 2636}

नि¦त्वा॒¦द॒धे॒¦वरे᳚¦आ¦पृ॒थि॒व्याः¦इळा᳚याः¦प॒दे¦सु॒दि॒न॒ऽत्वे¦अह्ना᳚‌म् |
दृ॒षत्ऽव॑त्या‌म्¦मानु॑षे¦आ॒प॒याया᳚‌म्¦सर॑स्वत्या‌म्¦रे॒वत्¦अ॒ग्ने॒¦दि॒दी॒हि॒ ||

इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्}

स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {5/5}{3.23.5}{3.2.11.5}{3.1.23.5}{202, 257, 2637}

इळा᳚‌म्¦अ॒ग्ने॒¦पु॒रु॒ऽदंस᳚‌म्¦स॒नि‌म्¦गोः¦श॒श्व॒त्ऽत॒म‌म्¦हव॑मानाय¦सा॒ध॒ |
स्यात्¦नः॒¦सू॒नुः¦तन॑यः¦वि॒जाऽवा᳚¦अग्ने᳚¦सा¦ते॒¦सु॒ऽम॒तिः¦भू॒तु॒¦अ॒स्मे इति॑ ||

[24] अग्नेसहस्वेति पंचर्चस्य सूक्तस्य गाथिनो विश्वामित्रोग्निर्गायत्री आद्यानुष्टुप् |
अग्ने॒सह॑स्व॒पृत॑ना¦,अ॒भिमा᳚ती॒रपा᳚स्य |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्}

दु॒ष्टर॒स्तर॒न्नरा᳚ती॒¦र्वर्चो᳚धाय॒ज्ञवा᳚हसे || {1/5}{3.24.1}{3.2.12.1}{3.1.24.1}{203, 258, 2638}

अग्ने᳚¦सह॑स्व¦पृत॑नाः¦अ॒भिऽमा᳚तीः¦अप॑¦अ॒स्य॒ | दु॒स्तरः॑¦तर॑न्¦अरा᳚तीः¦वर्चः॑¦धाः॒¦य॒ज्ञऽवा᳚हसे ||

अग्न॑इ॒ळासमि॑ध्यसे¦वी॒तिहो᳚त्रो॒,अम॑र्त्यः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

जु॒षस्व॒सूनो᳚,अध्व॒रम् || {2/5}{3.24.2}{3.2.12.2}{3.1.24.2}{204, 258, 2639}

अग्ने᳚¦इ॒ळा¦स‌म्¦इ॒ध्य॒से॒¦वी॒तिऽहो᳚त्रः¦अम॑र्त्यः | जु॒षस्व॑¦सु¦नः॒¦अ॒ध्व॒र‌म् ||

अग्ने᳚द्यु॒म्नेन॑जागृवे॒¦सह॑सःसूनवाहुत |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

एदंब॒र्हिःस॑दो॒मम॑ || {3/5}{3.24.3}{3.2.12.3}{3.1.24.3}{205, 258, 2640}

अग्ने᳚¦द्यु॒म्नेन॑¦जा॒गृ॒वे॒¦सह॑सः¦सू॒नो॒ इति॑¦आ॒ऽहु॒त॒ | आ¦इ॒द‌म्¦ब॒र्हिः¦स॒दः॒¦मम॑ ||

अग्ने॒विश्वे᳚भिर॒ग्निभि॑¦र्दे॒वेभि᳚र्महया॒गिरः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

य॒ज्ञेषु॒उ॑चा॒यवः॑ || {4/5}{3.24.4}{3.2.12.4}{3.1.24.4}{206, 258, 2641}

अग्ने᳚¦विश्वे᳚भिः¦अ॒ग्निऽभिः॑¦दे॒वेभिः॑¦म॒ह॒य॒¦गिरः॑ | य॒ज्ञेषु॑¦ये¦ऊँ॒ इति॑¦चा॒यवः॑ ||

अग्ने॒दादा॒शुषे᳚र॒यिं¦वी॒रव᳚न्तं॒परी᳚णसम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

शि॒शी॒हिनः॑सूनु॒मतः॑ || {5/5}{3.24.5}{3.2.12.5}{3.1.24.5}{207, 258, 2642}

अग्ने᳚¦दाः¦दा॒शुषे᳚¦र॒यि‌म्¦वी॒रऽव᳚न्त‌म्¦परी᳚णस‌म् | शि॒शी॒हि¦नः॒¦सू॒नु॒ऽमतः॑ ||

[25] अग्नेदिवइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निश्चतुर्थ्या इंद्राग्नीविराट् |
अग्ने᳚दि॒वःसू॒नुर॑सि॒प्रचे᳚ता॒¦स्तना᳚पृथि॒व्या,उ॒तवि॒श्ववे᳚दाः |{गाथिनो विश्वामित्रः | अग्निः | विराट्}

ऋध॑ग्‌दे॒वाँ,इ॒हय॑जाचिकित्वः || {1/5}{3.25.1}{3.2.13.1}{3.1.25.1}{208, 259, 2643}

अग्ने᳚¦दि॒वः¦सू॒नुः¦अ॒सि॒¦प्रऽचे᳚ताः¦तना᳚¦पृ॒थि॒व्याः¦उ॒त¦वि॒श्वऽवे᳚दाः | ऋध॑क्¦दे॒वान्¦इ॒ह¦य॒ज॒¦चि॒कि॒त्वः॒ ||

अ॒ग्निःस॑नोतिवी॒र्या᳚णिवि॒द्वान्¦त्स॒नोति॒वाज॑म॒मृता᳚य॒भूष॑न् |{गाथिनो विश्वामित्रः | अग्निः | विराट्}

नो᳚दे॒वाँ,एहव॑हापुरुक्षो || {2/5}{3.25.2}{3.2.13.2}{3.1.25.2}{209, 259, 2644}

अ॒ग्निः¦स॒नो॒ति॒¦वी॒र्या᳚णि¦वि॒द्वान्¦स॒नोति॑¦वाज᳚‌म्¦अ॒मृता᳚य¦भूष॑न् | सः¦नः॒¦दे॒वान्¦आ¦इ॒ह¦व॒ह॒¦पु॒रु॒क्षो॒ इति॑ पुरुऽक्षो ||

अ॒ग्निर्द्यावा᳚पृथि॒वीवि॒श्वज᳚न्ये॒,¦भा᳚तिदे॒वी,अ॒मृते॒,अमू᳚रः |{गाथिनो विश्वामित्रः | अग्निः | विराट्}

क्षय॒न्‌वाजैः᳚पुरुश्च॒न्द्रोनमो᳚भिः || {3/5}{3.25.3}{3.2.13.3}{3.1.25.3}{210, 259, 2645}

अ॒ग्निः¦द्यावा᳚पृथि॒वी इति॑¦वि॒श्वज᳚न्ये॒ इति॑ वि॒श्वऽज᳚न्ये¦आ¦भा॒ति॒¦दे॒वी इति॑¦अ॒मृते॒ इति॑¦अमू᳚रः | क्षय॑न्¦वाजैः᳚¦पु॒रु॒ऽच॒न्द्रः¦नमः॑ऽभिः ||

अग्न॒इन्द्र॑श्चदा॒शुषो᳚दुरो॒णे¦सु॒ताव॑तोय॒ज्ञमि॒होप॑यातम् |{गाथिनो विश्वामित्रः | अग्नीन्द्रौ | विराट्}

अम॑र्धन्तासोम॒पेया᳚यदेवा || {4/5}{3.25.4}{3.2.13.4}{3.1.25.4}{211, 259, 2646}

अग्ने᳚¦इन्द्रः॑¦च॒¦दा॒शुषः॑¦दु॒रो॒णे¦सु॒तऽव॑तः¦य॒ज्ञ‌म्¦इ॒ह¦उप॑¦या॒त॒‌म् | अम॑र्धन्ता¦सो॒म॒ऽपेया᳚य¦दे॒वा॒ ||

अग्ने᳚,अ॒पांसमि॑ध्यसेदुरो॒णे¦नित्यः॑सूनोसहसोजातवेदः |{गाथिनो विश्वामित्रः | अग्निः | विराट्}

स॒धस्था᳚निम॒हय॑मानऊ॒ती || {5/5}{3.25.5}{3.2.13.5}{3.1.25.5}{212, 259, 2647}

अग्ने᳚¦अ॒पा‌म्¦स‌म्¦इ॒ध्य॒से॒¦दु॒रो॒णे¦नित्यः॑¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦जा॒त॒ऽवे॒दः॒ | स॒धऽस्था᳚नि¦म॒हय॑मानः¦ऊ॒ती ||

[26] वैश्वानरमिति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्रः आद्यानांतिसृणां वैश्वानरोग्निश्चतुर्थ्यादितिसृणांमरुतः सप्तम्यष्टम्योरात्मा अंत्याया उपाध्यायः आध्याःषट्‌जगत्योंत्यास्तिस्रस्त्रिष्टुभः |
वै॒श्वा॒न॒रंमन॑सा॒ग्निंनि॒चाय्या᳚¦ह॒विष्म᳚न्तो,अनुष॒त्यंस्व॒र्विद᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोग्निः | जगती}

सु॒दानुं᳚दे॒वंर॑थि॒रंव॑सू॒यवो᳚¦गी॒र्भीर॒ण्वंकु॑शि॒कासो᳚हवामहे || {1/9}{3.26.1}{3.2.14.1}{3.1.26.1}{213, 260, 2648}

वै॒श्वा॒न॒र‌म्¦मन॑सा¦अ॒ग्नि‌म्¦नि॒ऽचाय्य॑¦ह॒विष्म᳚न्तः¦अ॒नु॒ऽस॒त्य‌म्¦स्वः॒ऽविद᳚‌म् |
सु॒ऽदानु᳚‌म्¦दे॒व‌म्¦र॒थि॒र‌म्¦व॒सु॒ऽयवः॑¦गीः॒ऽभिः¦र॒ण्व‌म्¦कु॒शि॒कासः॑¦ह॒वा॒म॒हे॒ ||

तंशु॒भ्रम॒ग्निमव॑सेहवामहे¦वैश्वान॒रंमा᳚त॒रिश्वा᳚नमु॒क्थ्य᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोग्निः | जगती}

बृह॒स्पतिं॒मनु॑षोदे॒वता᳚तये॒¦विप्रं॒श्रोता᳚र॒मति॑थिंरघु॒ष्यद᳚म् || {2/9}{3.26.2}{3.2.14.2}{3.1.26.2}{214, 260, 2649}

त‌म्¦शु॒भ्र‌म्¦अ॒ग्नि‌म्¦अव॑से¦ह॒वा॒म॒हे॒¦वै॒श्वा॒न॒र‌म्¦मा॒त॒रिश्वा᳚न‌म्¦उ॒क्थ्य᳚‌म् |
बृह॒स्पति᳚‌म्¦मनु॑षः¦दे॒वऽता᳚तये¦विप्र᳚‌म्¦श्रोता᳚र‌म्¦अति॑थि‌म्¦र॒घु॒ऽस्यद᳚‌म् ||

अश्वो॒क्रन्द॒ञ्जनि॑भिः॒समि॑ध्यते¦वैश्वान॒रःकु॑शि॒केभि᳚र्यु॒गेयु॑गे |{गाथिनो विश्वामित्रः | वैश्वानरोग्निः | जगती}

नो᳚,अ॒ग्निःसु॒वीर्यं॒स्वश्व्यं॒¦दधा᳚तु॒रत्न॑म॒मृते᳚षु॒जागृ॑विः || {3/9}{3.26.3}{3.2.14.3}{3.1.26.3}{215, 260, 2650}

अश्वः॑¦न¦क्रन्द॑न्¦जनि॑ऽभिः¦स‌म्¦इ॒ध्य॒ते॒¦वै॒श्वा॒न॒रः¦कु॒शि॒केभिः॑¦यु॒गेऽयु॑गे |
सः¦नः॒¦अ॒ग्निः¦सु॒ऽवीर्य᳚‌म्¦सु॒।आश्व्य᳚‌म्¦दधा᳚तु¦रत्न᳚‌म्¦अ॒मृते᳚षु¦जागृ॑विः ||

प्रय᳚न्तु॒वाजा॒स्तवि॑षीभिर॒ग्नयः॑¦शु॒भेसम्मि॑श्लाः॒पृष॑तीरयुक्षत |{गाथिनो विश्वामित्रः | मरुतः | जगती}

बृ॒ह॒दुक्षो᳚म॒रुतो᳚वि॒श्ववे᳚दसः॒¦प्रवे᳚पयन्ति॒पर्व॑ताँ॒,अदा᳚भ्याः || {4/9}{3.26.4}{3.2.14.4}{3.1.26.4}{216, 260, 2651}

प्र¦य॒न्तु॒¦वाजाः᳚¦तवि॑षीभिः¦अ॒ग्नयः॑¦शु॒भे¦स‌म्ऽमि॑श्लाः¦पृष॑तीः¦अ॒यु॒क्ष॒त॒ |
बृ॒ह॒त्।औक्षः॑¦म॒रुतः॑¦वि॒श्वऽवे᳚दसः¦प्र¦वे॒प॒य॒न्ति॒¦पर्व॑तान्¦अदा᳚भ्याः ||

अ॒ग्नि॒श्रियो᳚म॒रुतो᳚वि॒श्वकृ॑ष्टय॒¦त्वे॒षमु॒ग्रमव॑ईमहेव॒यम् |{गाथिनो विश्वामित्रः | मरुतः | जगती}

तेस्वा॒निनो᳚रु॒द्रिया᳚व॒र्षनि᳚र्णिजः¦सिं॒हाहे॒षक्र॑तवःसु॒दान॑वः || {5/9}{3.26.5}{3.2.14.5}{3.1.26.5}{217, 260, 2652}

अ॒ग्नि॒ऽश्रियः॑¦म॒रुतः॑¦वि॒श्वऽकृ॑ष्टयः¦आ¦त्वे॒ष‌म्¦उ॒ग्र‌म्¦अवः॑¦ई॒म॒हे॒¦व॒य‌म् |
ते¦स्वा॒निनः॑¦रु॒द्रियाः᳚¦व॒र्षऽनि᳚र्निजः¦सिं॒हाः¦न¦हे॒षऽक्र॑तवः¦सु॒ऽदान॑वः ||

व्रातं᳚व्रातंग॒णंग॑णंसुश॒स्तिभि॑¦र॒ग्नेर्भामं᳚म॒रुता॒मोज॑ईमहे |{गाथिनो विश्वामित्रः | मरुतः | जगती}

पृष॑दश्वासो,अनव॒भ्ररा᳚धसो॒¦गन्ता᳚रोय॒ज्ञंवि॒दथे᳚षु॒धीराः᳚ || {6/9}{3.26.6}{3.2.14.6}{3.1.27.1}{218, 260, 2653}

व्रात᳚‌म्ऽव्रात‌म्¦ग॒ण‌म्ऽग॑ण‌म्¦सु॒श॒स्तिऽभिः॑¦अ॒ग्नेः¦भाम᳚‌म्¦म॒रुता᳚‌म्¦ओजः॑¦ई॒म॒हे॒ |
पृष॑त्।आश्वासः¦अ॒न॒व॒भ्रऽरा᳚धसः¦गन्ता᳚रः¦य॒ज्ञ‌म्¦वि॒दथे᳚षु¦धीराः᳚ ||

अ॒ग्निर॑स्मि॒जन्म॑नाजा॒तवे᳚दा¦घृ॒तंमे॒चक्षु॑र॒मृतं᳚आ॒सन् |{गाथिनो विश्वामित्रः | आत्मा (अग्निर्वा) | त्रिष्टुप्}

अ॒र्कस्त्रि॒धातू॒रज॑सोवि॒मानो¦ऽज॑स्रोघ॒र्मोह॒विर॑स्मि॒नाम॑ || {7/9}{3.26.7}{3.2.14.7}{3.1.27.2}{219, 260, 2654}

अ॒ग्निः¦अ॒स्मि॒¦जन्म॑ना¦जा॒तऽवे᳚दाः¦घृ॒त‌म्¦मे॒¦चक्षुः॑¦अ॒मृत᳚‌म्¦मे॒¦आ॒सन् |
अ॒र्कः¦त्रि॒ऽधातुः॑¦रज॑सः¦वि॒ऽमानः॑¦अज॑स्रः¦घ॒र्मः¦ह॒विः¦अ॒स्मि॒¦नाम॑ ||

त्रि॒भिःप॒वित्रै॒रपु॑पो॒द्ध्य१॑(अ॒)र्कं¦हृ॒दाम॒तिंज्योति॒रनु॑प्रजा॒नन् |{गाथिनो विश्वामित्रः | आत्मा (अग्निर्वा) | त्रिष्टुप्}

वर्षि॑ष्ठं॒रत्न॑मकृतस्व॒धाभि॒¦रादिद्द्यावा᳚पृथि॒वीपर्य॑पश्यत् || {8/9}{3.26.8}{3.2.14.8}{3.1.27.3}{220, 260, 2655}

त्रि॒ऽभिः¦प॒वित्रैः᳚¦अपु॑पोत्¦हि¦अ॒र्क‌म्¦हृ॒दा¦म॒ति‌म्¦ज्योतिः॑¦अनु॑¦प्र॒ऽजा॒नन् |
वर्षि॑ष्ठ‌म्¦रत्न᳚‌म्¦अ॒कृ॒त॒¦स्व॒धाभिः॑¦आत्¦इत्¦द्यावा᳚पृथि॒वी इति॑¦परि॑¦अ॒प॒श्य॒त् ||

श॒तधा᳚र॒मुत्स॒मक्षी᳚यमाणं¦विप॒श्चितं᳚पि॒तरं॒वक्त्वा᳚नाम् |{गाथिनो विश्वामित्रः | उपाध्यायः | त्रिष्टुप्}

मे॒ळिंमद᳚न्तंपि॒त्रोरु॒पस्थे॒¦तंरो᳚दसीपिपृतंसत्य॒वाच᳚म् || {9/9}{3.26.9}{3.2.14.9}{3.1.27.4}{221, 260, 2656}

श॒तऽधा᳚र‌म्¦उत्स᳚‌म्¦अक्षी᳚यमाण‌म्¦वि॒पः॒ऽचित᳚‌म्¦पि॒तर᳚‌म्¦वक्त्वा᳚ना‌म् |
मे॒ळि‌म्¦मद᳚न्त‌म्¦पि॒त्रोः¦उ॒पऽस्थे᳚¦त‌म्¦रो॒द॒सी॒ इति॑¦पि॒पृ॒त॒‌म्¦स॒त्य॒ऽवाच᳚‌म् ||

[27] प्रवोवाजाइति पंचदशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निः आद्यायाऋतवोवागायत्री |
प्रवो॒वाजा᳚,अ॒भिद्य॑वो¦ह॒विष्म᳚न्तोघृ॒ताच्या᳚ |{गाथिनो विश्वामित्रः | ऋतवोऽग्निर्वा | गायत्री}

दे॒वाञ्जि॑गातिसुम्न॒युः || {1/15}{3.27.1}{3.2.15.1}{3.1.28.1}{222, 261, 2657}

प्र¦वः॒¦वाजाः᳚¦अ॒भिऽद्य॑वः¦ह॒विष्म᳚न्तः¦घृ॒ताच्या᳚ | दे॒वान्¦जि॒गा॒ति॒¦सु॒म्न॒युः ||

ईळे᳚,अ॒ग्निंवि॑प॒श्चितं᳚¦गि॒राय॒ज्ञस्य॒साध॑नम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

श्रु॒ष्टी॒वानं᳚धि॒तावा᳚नम् || {2/15}{3.27.2}{3.2.15.2}{3.1.28.2}{223, 261, 2658}

ईळे᳚¦अ॒ग्नि‌म्¦वि॒पः॒ऽचित᳚‌म्¦गि॒रा¦य॒ज्ञस्य॑¦साध॑न‌म् | श्रु॒ष्टी॒ऽवान᳚‌म्¦धि॒तऽवा᳚न‌म् ||

अग्ने᳚श॒केम॑तेव॒यं¦यमं᳚दे॒वस्य॑वा॒जिनः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

अति॒द्वेषां᳚सितरेम || {3/15}{3.27.3}{3.2.15.3}{3.1.28.3}{224, 261, 2659}

अग्ने᳚¦श॒केम॑¦ते॒¦व॒य‌म्¦यम᳚‌म्¦दे॒वस्य॑¦वा॒जिनः॑ | अति॑¦द्वेषां᳚सि¦त॒रे॒म॒ ||

स॒मि॒ध्यमा᳚नो,अध्व॒रे॒३॑(ए॒)¦ऽग्निःपा᳚व॒कईड्यः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

शो॒चिष्के᳚श॒स्तमी᳚महे || {4/15}{3.27.4}{3.2.15.4}{3.1.28.4}{225, 261, 2660}

स॒‌म्ऽ‌इ॒ध्यमा᳚नः¦अ॒ध्व॒रे¦अ॒ग्निः¦पा॒व॒कः¦ईड्यः॑ | शो॒चिःऽके᳚शः¦त‌म्¦ई॒म॒हे॒ ||

पृ॒थु॒पाजा॒,अम॑र्त्यो¦घृ॒तनि᳚र्णि॒क्‌स्वा᳚हुतः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

अ॒ग्निर्य॒ज्ञस्य॑हव्य॒वाट् || {5/15}{3.27.5}{3.2.15.5}{3.1.28.5}{226, 261, 2661}

पृ॒थु॒ऽपाजाः᳚¦अम॑र्त्यः¦घृ॒तऽनि᳚र्निक्¦सुऽआ᳚हुतः | अ॒ग्निः¦य॒ज्ञस्य॑¦ह॒व्य॒ऽवाट् ||

तंस॒बाधो᳚य॒तस्रु॑च¦इ॒त्थाधि॒याय॒ज्ञव᳚न्तः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

च॑क्रुर॒ग्निमू॒तये᳚ || {6/15}{3.27.6}{3.2.15.6}{3.1.29.1}{227, 261, 2662}

त‌म्¦स॒ऽबाधः॑¦य॒तऽस्रु॑चः¦इ॒त्था¦धि॒या¦य॒ज्ञऽव᳚न्तः | आ¦च॒क्रुः॒¦अ॒ग्नि‌म्¦ऊ॒तये᳚ ||

होता᳚दे॒वो,अम॑र्त्यः¦पु॒रस्ता᳚देतिमा॒यया᳚ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

वि॒दथा᳚निप्रचो॒दय॑न् || {7/15}{3.27.7}{3.2.15.7}{3.1.29.2}{228, 261, 2663}

होता᳚¦दे॒वः¦अम॑र्त्यः¦पु॒रस्ता᳚त्¦ए॒ति॒¦मा॒यया᳚ | वि॒दथा᳚नि¦प्र॒ऽचो॒दय॑न् ||

वा॒जीवाजे᳚षुधीयते¦ऽध्व॒रेषु॒प्रणी᳚यते |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

विप्रो᳚य॒ज्ञस्य॒साध॑नः || {8/15}{3.27.8}{3.2.15.8}{3.1.29.3}{229, 261, 2664}

वा॒जी¦वाजे᳚षु¦धी॒य॒ते॒¦अ॒ध्व॒रेषु॑¦प्र¦नी॒य॒ते॒ | विप्रः॑¦य॒ज्ञस्य॑¦साध॑नः ||

धि॒याच॑क्रे॒वरे᳚ण्यो¦भू॒तानां॒गर्भ॒माद॑धे |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

दक्ष॑स्यपि॒तरं॒तना᳚ || {9/15}{3.27.9}{3.2.15.9}{3.1.29.4}{230, 261, 2665}

धि॒या¦च॒क्रे॒¦वरे᳚ण्यः¦भू॒ताना᳚‌म्¦गर्भ᳚‌म्¦आ¦द॒धे॒ | दक्ष॑स्य¦पि॒तर᳚‌म्¦तना᳚ ||

नित्वा᳚दधे॒वरे᳚ण्यं॒¦दक्ष॑स्ये॒ळास॑हस्कृत |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

अग्ने᳚सुदी॒तिमु॒शिज᳚म् || {10/15}{3.27.10}{3.2.15.10}{3.1.29.5}{231, 261, 2666}

नि¦त्वा॒¦द॒धे॒¦वरे᳚ण्य‌म्¦दक्ष॑स्य¦इ॒ळा¦स॒हः॒ऽकृ॒त॒ | अग्ने᳚¦सु॒ऽदी॒ति‌म्¦उ॒शिज᳚‌म् ||

अ॒ग्निंय॒न्तुर॑म॒प्तुर॑¦मृ॒तस्य॒योगे᳚व॒नुषः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

विप्रा॒वाजैः॒समि᳚न्धते || {11/15}{3.27.11}{3.2.15.11}{3.1.30.1}{232, 261, 2667}

अ॒ग्नि‌म्¦य॒न्तुर᳚‌म्¦अ॒प्ऽतुर᳚‌म्¦ऋ॒तस्य॑¦योगे᳚¦व॒नुषः॑ | विप्राः᳚¦वाजैः᳚¦स‌म्¦इ॒न्ध॒ते॒ ||

ऊ॒र्जोनपा᳚तमध्व॒रे¦दी᳚दि॒वांस॒मुप॒द्यवि॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

अ॒ग्निमी᳚ळेक॒विक्र॑तुम् || {12/15}{3.27.12}{3.2.15.12}{3.1.30.2}{233, 261, 2668}

ऊ॒र्जः¦नपा᳚त‌म्¦अ॒ध्व॒रे¦दी॒दि॒ऽवांस᳚‌म्¦उप॑¦द्यवि॑ | अ॒ग्नि‌म्¦ई॒ळे॒¦क॒विऽक्र॑तु‌म् ||

ई॒ळेन्यो᳚नम॒स्य॑¦स्ति॒रस्तमां᳚सिदर्श॒तः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

सम॒ग्निरि॑ध्यते॒वृषा᳚ || {13/15}{3.27.13}{3.2.15.13}{3.1.30.3}{234, 261, 2669}

ई॒ळेन्यः॑¦न॒म॒स्यः॑¦ति॒रः¦तमां᳚सि¦द॒र्श॒तः | स‌म्¦अ॒ग्निः¦इ॒ध्य॒ते॒¦वृषा᳚ ||

वृषो᳚,अ॒ग्निःसमि॑ध्य॒ते¦ऽश्वो॒दे᳚व॒वाह॑नः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

तंह॒विष्म᳚न्तईळते || {14/15}{3.27.14}{3.2.15.14}{3.1.30.4}{235, 261, 2670}

वृषो॒ इति॑¦अ॒ग्निः¦स‌म्¦इ॒ध्य॒ते॒¦अश्वः॑¦न¦दे॒व॒ऽवाह॑नः | त‌म्¦ह॒विष्म᳚न्तः¦ई॒ळ॒ते॒ ||

वृष॑णंत्वाव॒यंवृ॑ष॒न्¦वृष॑णः॒समि॑धीमहि |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

अग्ने॒दीद्य॑तंबृ॒हत् || {15/15}{3.27.15}{3.2.15.15}{3.1.30.5}{236, 261, 2671}

वृष॑ण‌म्¦त्वा॒¦व॒य‌म्¦वृ॒ष॒न्¦वृष॑णः¦स‌म्¦इ॒धी॒म॒हि॒ | अग्ने᳚¦दीद्य॑त‌म्¦बृ॒हत् ||

[28] अग्नेजुषस्वेति षडृचस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्गायत्री तृतीयोष्णिक् चतुर्थीत्रिष्टुप् पंचमीजगती |
अग्ने᳚जु॒षस्व॑नोह॒विः¦पु॑रो॒ळाशं᳚जातवेदः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

प्रा॒तः॒सा॒वेधि॑यावसो || {1/6}{3.28.1}{3.2.16.1}{3.1.31.1}{237, 262, 2672}

अग्ने᳚¦जु॒षस्व॑¦नः॒¦ह॒विः¦पु॒रो॒ळाश᳚‌म्¦जा॒त॒ऽवे॒दः॒ | प्रा॒तः॒ऽसा॒वे¦धि॒या॒व॒सो॒ इति॑ धियाऽवसो ||

पु॒रो॒ळा,अ॑ग्नेपच॒त¦स्तुभ्यं᳚वाघा॒परि॑ष्कृतः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

तंजु॑षस्वयविष्ठ्य || {2/6}{3.28.2}{3.2.16.2}{3.1.31.2}{238, 262, 2673}

पु॒रो॒ळाः¦अ॒ग्ने॒¦प॒च॒तः¦तुभ्य᳚‌म्¦वा॒¦घ॒¦परि॑ऽकृतः | त‌म्¦जु॒ष॒स्व॒¦य॒वि॒ष्ठ्य॒ ||

अग्ने᳚वी॒हिपु॑रो॒ळाश॒¦माहु॑तंति॒रो,अ᳚ह्न्यम् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

सह॑सःसू॒नुर॑स्यध्व॒रेहि॒तः || {3/6}{3.28.3}{3.2.16.3}{3.1.31.3}{239, 262, 2674}

अग्ने᳚¦वी॒हि¦पु॒रो॒ळाश᳚‌म्¦आऽहु॑त‌म्¦ति॒रः।आ᳚ह्न्य‌म् | सह॑सः¦सू॒नुः¦अ॒सि॒¦अ॒ध्व॒रे¦हि॒तः ||

माध्यं᳚दिने॒सव॑नेजातवेदः¦पुरो॒ळाश॑मि॒हक॑वेजुषस्व |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अग्ने᳚य॒ह्वस्य॒तव॑भाग॒धेयं॒¦प्रमि॑नन्तिवि॒दथे᳚षु॒धीराः᳚ || {4/6}{3.28.4}{3.2.16.4}{3.1.31.4}{240, 262, 2675}

माध्यं᳚दिने¦सव॑ने¦जा॒त॒ऽवे॒दः॒¦पु॒रो॒ळाश᳚‌म्¦इ॒ह¦क॒वे॒¦जु॒ष॒स्व॒ |
अग्ने᳚¦य॒ह्वस्य॑¦तव॑¦भा॒ग॒ऽधेय᳚‌म्¦न¦प्र¦मि॒न॒न्ति॒¦वि॒दथे᳚षु¦धीराः᳚ ||

अग्ने᳚तृ॒तीये॒सव॑ने॒हिकानि॑षः¦पुरो॒ळाशं᳚सहसःसून॒वाहु॑तम् |{गाथिनो विश्वामित्रः | अग्निः | जगती}

अथा᳚दे॒वेष्‌व॑ध्व॒रंवि॑प॒न्यया॒¦धारत्न॑वन्तम॒मृते᳚षु॒जागृ॑विम् || {5/6}{3.28.5}{3.2.16.5}{3.1.31.5}{241, 262, 2676}

अग्ने᳚¦तृ॒तीये᳚¦सव॑ने¦हि¦कानि॑षः¦पु॒रो॒ळाश᳚‌म्¦स॒ह॒सः॒¦सू॒नो॒ इति॑¦आऽहु॑त‌म् |
अथ॑¦दे॒वेषु॑¦अ॒ध्व॒र‌म्¦वि॒प॒न्यया᳚¦धाः¦रत्न॑ऽवन्त‌म्¦अ॒मृते᳚षु¦जागृ॑वि‌म् ||

अग्ने᳚वृधा॒नआहु॑तिं¦पुरो॒ळाशं᳚जातवेदः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

जु॒षस्व॑ति॒रो,अ᳚ह्न्यम् || {6/6}{3.28.6}{3.2.16.6}{3.1.31.6}{242, 262, 2677}

अग्ने᳚¦वृ॒धा॒नः¦आऽहु॑ति‌म्¦पु॒रो॒ळाश᳚‌म्¦जा॒त॒ऽवे॒दः॒ | जु॒षस्व॑¦ति॒रः।आ᳚ह्न्य‌म् ||

[29] अस्तीदमिति षोळशर्चस्य सूक्तस्य गाथिनो विश्वामित्रोग्निस्त्रिष्टुप् ( पंचम्याऋत्विजोवा) आद्य चतुर्थीदशमीद्वादश्योनुष्टुभः षष्ठ्येकादशी पंचदश्योजगत्यः |
अस्ती॒दम॑धि॒मन्थ॑न॒¦मस्ति॑प्र॒जन॑नंकृ॒तम् |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्}

ए॒तांवि॒श्पत्नी॒माभ॑रा॒¦ग्निंम᳚न्थामपू॒र्वथा᳚ || {1/16}{3.29.1}{3.2.17.1}{3.1.32.1}{243, 263, 2678}

अस्ति॑¦इ॒द‌म्¦अ॒धि॒ऽमन्थ॑न‌म्¦अस्ति॑¦प्र॒ऽजन॑न‌म्¦कृ॒त‌म् | ए॒ता‌म्¦वि॒श्पत्नी᳚‌म्¦आ¦भ॒र॒¦अ॒ग्नि‌म्¦म॒न्था॒म॒¦पू॒र्वऽथा᳚ ||

अ॒रण्यो॒र्निहि॑तोजा॒तवे᳚दा॒¦गर्भ॑इव॒सुधि॑तोग॒र्भिणी᳚षु |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दि॒वेदि॑व॒ईड्यो᳚जागृ॒वद्भि॑¦र्ह॒विष्म॑द्भिर्मनु॒ष्ये᳚भिर॒ग्निः || {2/16}{3.29.2}{3.2.17.2}{3.1.32.2}{244, 263, 2679}

अ॒रण्योः᳚¦निऽहि॑तः¦जा॒तऽवे᳚दाः¦गर्भः॑ऽ‌इव¦सुऽधि॑तः¦ग॒र्भिणी᳚षु |
दि॒वेऽदि॑वे¦ईड्यः॑¦जा॒गृ॒वत्ऽभिः॑¦ह॒विष्म॑त्ऽभिः¦म॒नु॒ष्ये᳚भिः¦अ॒ग्निः ||

उ॒त्ता॒नाया॒मव॑भराचिकि॒त्वान्¦त्स॒द्यःप्रवी᳚ता॒वृष॑णंजजान |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अ॒रु॒षस्तू᳚पो॒रुश॑दस्य॒पाज॒¦इळा᳚यास्‌पु॒त्रोव॒युने᳚ऽजनिष्ट || {3/16}{3.29.3}{3.2.17.3}{3.1.32.3}{245, 263, 2680}

उ॒त्ता॒नाया᳚‌म्¦अव॑¦भ॒र॒¦चि॒कि॒त्वान्¦स॒द्यः¦प्रऽवी᳚ता¦वृष॑ण‌म्¦ज॒जा॒न॒ |
अ॒रु॒षऽस्तू᳚पः¦रुश॑त्¦अ॒स्य॒¦पाजः॑¦इळा᳚याः¦पु॒त्रः¦व॒युने᳚¦अ॒ज॒नि॒ष्ट॒ ||

इळा᳚यास्त्वाप॒देव॒यं¦नाभा᳚पृथि॒व्या,अधि॑ |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्}

जात॑वेदो॒निधी᳚म॒¦ह्यग्ने᳚ह॒व्याय॒वोळ्ह॑वे || {4/16}{3.29.4}{3.2.17.4}{3.1.32.4}{246, 263, 2681}

इळा᳚याः¦त्वा॒¦प॒दे¦व॒य‌म्¦नाभा᳚¦पृ॒थि॒व्याः¦अधि॑ | जात॑ऽवेदः¦नि¦धी॒म॒हि॒¦अग्ने᳚¦ह॒व्याय॑¦वोळ्ह॑वे ||

मन्थ॑तानरःक॒विमद्व॑यन्तं॒¦प्रचे᳚तसम॒मृतं᳚सु॒प्रती᳚कम् |{गाथिनो विश्वामित्रः | ऋत्विजोऽग्निर्वा | त्रिष्टुप्}

य॒ज्ञस्य॑के॒तुंप्र॑थ॒मंपु॒रस्ता᳚¦द॒ग्निंन॑रोजनयतासु॒शेव᳚म् || {5/16}{3.29.5}{3.2.17.5}{3.1.32.5}{247, 263, 2682}

मन्थ॑त¦न॒रः॒¦क॒वि‌म्¦अद्व॑यन्त‌म्¦प्रऽचे᳚तस‌म्¦अ॒मृत᳚‌म्¦सु॒ऽप्रती᳚क‌म् |
य॒ज्ञस्य॑¦के॒तु‌म्¦प्र॒थ॒म‌म्¦पु॒रस्ता᳚त्¦अ॒ग्नि‌म्¦न॒रः॒¦ज॒न॒य॒त॒¦सु॒ऽशेव᳚‌म् ||

यदी॒मन्थ᳚न्तिबा॒हुभि॒र्विरो᳚च॒ते¦ऽश्वो॒वा॒ज्य॑रु॒षोवने॒ष्वा |{गाथिनो विश्वामित्रः | अग्निः | जगती}

चि॒त्रोयाम᳚न्न॒श्विनो॒रनि॑वृतः॒¦परि॑वृण॒क्त्यश्म॑न॒स्तृणा॒दह॑न् || {6/16}{3.29.6}{3.2.17.6}{3.1.33.1}{248, 263, 2683}

यदि॑¦मन्थ᳚न्ति¦बा॒हुऽभिः॑¦वि¦रो॒च॒ते॒¦अश्वः॑¦न¦वा॒जी¦अ॒रु॒षः¦वने᳚षु¦आ |
चि॒त्रः¦न¦याम॑न्¦अ॒श्विनोः᳚¦अनि॑ऽवृतः¦परि॑¦वृ॒ण॒क्ति॒¦अश्म॑नः¦तृणा᳚¦दह॑न् ||

जा॒तो,अ॒ग्नीरो᳚चते॒चेकि॑तानो¦वा॒जीविप्रः॑कविश॒स्तःसु॒दानुः॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

यंदे॒वास॒ईड्यं᳚विश्व॒विदं᳚¦हव्य॒वाह॒मद॑धुरध्व॒रेषु॑ || {7/16}{3.29.7}{3.2.17.7}{3.1.33.2}{249, 263, 2684}

जा॒तः¦अ॒ग्निः¦रो॒च॒ते॒¦चेकि॑तानः¦वा॒जी¦विप्रः॑¦क॒वि॒ऽश॒स्तः¦सु॒ऽदानुः॑ |
य‌म्¦दे॒वासः॑¦ईड्य᳚‌म्¦वि॒श्व॒ऽविद᳚‌म्¦ह॒व्य॒ऽवाह᳚‌म्¦अद॑धुः¦अ॒ध्व॒रेषु॑ ||

सीद॑होतः॒स्वउ॑लो॒केचि॑कि॒त्वान्¦त्सा॒दया᳚य॒ज्ञंसु॑कृ॒तस्य॒योनौ᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दे॒वा॒वीर्दे॒वान्‌ह॒विषा᳚यजा॒¦स्यग्ने᳚बृ॒हद्‌यज॑माने॒वयो᳚धाः || {8/16}{3.29.8}{3.2.17.8}{3.1.33.3}{250, 263, 2685}

सीद॑¦हो॒त॒रिति॑¦स्वे¦ऊँ॒ इति॑¦लो॒के¦चि॒कि॒त्वान्¦सा॒दय॑¦य॒ज्ञ‌म्¦सु॒ऽकृ॒तस्य॑¦योनौ᳚ |
दे॒व॒।आ॒वीः¦दे॒वान्¦ह॒विषा᳚¦य॒जा॒सि॒¦अग्ने᳚¦बृ॒हत्¦यज॑माने¦वयः॑¦धाः॒ ||

कृ॒णोत॑धू॒मंवृष॑णंसखा॒यो¦ऽस्रे᳚धन्तइतन॒वाज॒मच्छ॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अ॒यम॒ग्निःपृ॑तना॒षाट्‌सु॒वीरो॒¦ऽयेन॑दे॒वासो॒,अस॑हन्त॒दस्यू॑न् || {9/16}{3.29.9}{3.2.17.9}{3.1.33.4}{251, 263, 2686}

कृ॒णोत॑¦धू॒म‌म्¦वृष॑ण‌म्¦स॒खा॒यः॒¦अस्रे᳚धन्तः¦इ॒त॒न॒¦वाज᳚‌म्¦अच्छ॑ |
अ॒य‌म्¦अ॒ग्निः¦पृ॒त॒ना॒षाट्¦सु॒ऽवीरः॑¦येन॑¦दे॒वासः॑¦अस॑हन्त¦दस्यू॑न् ||

अ॒यंते॒योनि᳚रृ॒त्वियो॒¦यतो᳚जा॒तो,अरो᳚चथाः |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्}

तंजा॒नन्न॑ग्न॒सी॒दा¦था᳚नोवर्धया॒गिरः॑ || {10/16}{3.29.10}{3.2.17.10}{3.1.33.5}{252, 263, 2687}

अ॒य‌म्¦ते॒¦योनिः॑¦ऋ॒त्वियः॑¦यतः॑¦जा॒तः¦अरो᳚चथाः | त‌म्¦जा॒नन्¦अ॒ग्ने॒¦आ¦सी॒द॒¦अथ॑¦नः॒¦व॒र्ध॒य॒¦गिरः॑ ||

तनू॒नपा᳚दुच्यते॒गर्भ॑आसु॒रो¦नरा॒शंसो᳚भवति॒यद्वि॒जाय॑ते |{गाथिनो विश्वामित्रः | अग्निः | जगती}

मा॒त॒रिश्वा॒यदमि॑मीतमा॒तरि॒¦वात॑स्य॒सर्गो᳚,अभव॒त्सरी᳚मणि || {11/16}{3.29.11}{3.2.17.11}{3.1.34.1}{253, 263, 2688}

तनू॒३॒॑ऽनपा᳚त्¦उ॒च्य॒ते॒¦गर्भः॑¦आ॒सु॒रः¦नरा॒शंसः॑¦भ॒व॒ति॒¦यत्¦वि॒ऽजाय॑ते |
मा॒त॒रिश्वा᳚¦यत्¦अमि॑मीत¦मा॒तरि॑¦वात॑स्य¦सर्गः॑¦अ॒भ॒व॒त्¦सरी᳚मणि ||

सु॒नि॒र्मथा॒निर्म॑थितः¦सुनि॒धानिहि॑तःक॒विः |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्}

अग्ने᳚स्वध्व॒राकृ॑णु¦दे॒वान्‌दे᳚वय॒तेय॑ज || {12/16}{3.29.12}{3.2.17.12}{3.1.34.2}{254, 263, 2689}

सु॒निः॒ऽमथा᳚¦निःऽम॑थितः¦सु॒ऽनि॒धा¦निऽहि॑तः¦क॒विः | अग्ने᳚¦सु॒।आ॒ध्व॒रा¦कृ॒णु॒¦दे॒वान्¦दे॒व॒ऽय॒ते¦य॒ज॒ ||

अजी᳚जनन्‌न॒मृतं॒मर्त्या᳚सो¦ऽस्रे॒माणं᳚त॒रणिं᳚वी॒ळुज᳚म्भम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दश॒स्वसा᳚रो,अ॒ग्रुवः॑समी॒चीः¦पुमां᳚संजा॒तम॒भिसंर॑भन्ते || {13/16}{3.29.13}{3.2.17.13}{3.1.34.3}{255, 263, 2690}

अजी᳚जनन्¦अ॒मृत᳚‌म्¦मर्त्या᳚सः¦अ॒स्रे॒माण᳚‌म्¦त॒रणि᳚‌म्¦वी॒ळुऽज᳚म्भ‌म् |
दश॑¦स्वसा᳚रः¦अ॒ग्रुवः॑¦स॒‌म्ऽई॒चीः¦पुमां᳚स‌म्¦जा॒त‌म्¦अ॒भि¦स‌म्¦र॒भ॒न्ते॒ ||

प्रस॒प्तहो᳚तासन॒काद॑रोचत¦मा॒तुरु॒पस्थे॒यदशो᳚च॒दूध॑नि |{गाथिनो विश्वामित्रः | अग्निः | जगती}

निमि॑षतिसु॒रणो᳚दि॒वेदि॑वे॒¦यदसु॑रस्यज॒ठरा॒दजा᳚यत || {14/16}{3.29.14}{3.2.17.14}{3.1.34.4}{256, 263, 2691}

प्र¦स॒प्तऽहो᳚ता¦स॒न॒कात्¦अ॒रो॒च॒त॒¦मा॒तुः¦उ॒पऽस्थे᳚¦यत्¦अशो᳚चत्¦ऊध॑नि |
न¦नि¦मि॒ष॒ति॒¦सु॒ऽरणः॑¦दि॒वेऽदि॑वे¦यत्¦असु॑रस्य¦ज॒ठरा᳚त्¦अजा᳚यत ||

अ॒मि॒त्रा॒युधो᳚म॒रुता᳚मिवप्र॒याः¦प्र॑थम॒जाब्रह्म॑णो॒विश्व॒मिद्वि॑दुः |{गाथिनो विश्वामित्रः | अग्निः | जगती}

द्यु॒म्नव॒द्‌ब्रह्म॑कुशि॒कास॒एरि॑र॒¦एक॑एको॒दमे᳚,अ॒ग्निंसमी᳚धिरे || {15/16}{3.29.15}{3.2.17.15}{3.1.34.5}{257, 263, 2692}

अ॒मि॒त्र॒ऽयुधः॑¦म॒रुता᳚‌म्ऽ‌इव¦प्र॒ऽयाः¦प्र॒थ॒म॒ऽजाः¦ब्रह्म॑णः¦विश्व᳚‌म्¦इत्¦वि॒दुः॒ |
द्यु॒म्नऽव॑त्¦ब्रह्म॑¦कु॒शि॒कासः॑¦आ¦ई॒रि॒रे॒¦एकः॑ऽएकः¦दमे᳚¦अ॒ग्नि‌म्¦स‌म्¦ई॒धि॒रे॒ ||

यद॒द्यत्वा᳚प्रय॒तिय॒ज्ञे,अ॒स्मिन्¦होत॑श्चिकि॒त्वोऽवृ॑णीमही॒ह |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

ध्रु॒वम॑याध्रु॒वमु॒ताश॑मिष्ठाः¦प्रजा॒नन्‌वि॒द्वाँ,उप॑याहि॒सोम᳚म् || {16/16}{3.29.16}{3.2.17.16}{3.1.34.6}{258, 263, 2693}

यत्¦अ॒द्य¦त्वा॒¦प्र॒ऽय॒ति¦य॒ज्ञे¦अ॒स्मिन्¦होत॒रिति॑¦चि॒कि॒त्वः॒¦अवृ॑णीमहि¦इ॒ह |
ध्रु॒व‌म्¦अ॒याः॒¦ध्रु॒व‌म्¦उ॒त¦अ॒श॒मि॒ष्ठाः॒¦प्र॒ऽजा॒नन्¦वि॒द्वान्¦उप॑¦या॒हि॒¦सोम᳚‌म् ||

[30] इच्छंतित्वेति द्वाविंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
इ॒च्छन्ति॑त्वासो॒म्यासः॒सखा᳚यः¦सु॒न्वन्ति॒सोमं॒दध॑ति॒प्रयां᳚सि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

तिति॑क्षन्ते,अ॒भिश॑स्तिं॒जना᳚ना॒¦मिन्द्र॒त्वदाकश्च॒नहिप्र॑के॒तः || {1/22}{3.30.1}{3.3.1.1}{3.2.1.1}{259, 264, 2694}

इ॒च्छन्ति॑¦त्वा॒¦सो॒म्यासः॑¦सखा᳚यः¦सु॒न्वन्ति॑¦सोम᳚‌म्¦दध॑ति¦प्रयां᳚सि |
तति॑क्षन्ते¦अ॒भिऽश॑स्ति‌म्¦जना᳚ना‌म्¦इन्द्र॑¦त्वत्¦आ¦कः¦च॒न¦हि¦प्र॒ऽके॒तः ||

ते᳚दू॒रेप॑र॒माचि॒द्रजां॒¦स्यातुप्रया᳚हिहरिवो॒हरि॑भ्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

स्थि॒राय॒वृष्णे॒सव॑नाकृ॒तेमा¦यु॒क्ताग्रावा᳚णःसमिधा॒ने,अ॒ग्नौ || {2/22}{3.30.2}{3.3.1.2}{3.2.1.2}{260, 264, 2695}

न¦ते॒¦दू॒रे¦प॒र॒मा¦चि॒त्¦रजां᳚सि¦आ¦तु¦प्र¦या॒हि॒¦ह॒रि॒ऽवः॒¦हरि॑ऽभ्या‌म् |
स्थि॒राय॑¦वृष्णे᳚¦सव॑ना¦कृ॒ता¦इ॒मा¦यु॒क्ताः¦ग्रावा᳚णः¦स॒‌म्ऽ‌इ॒धा॒ने¦अ॒ग्नौ ||

इन्द्रः॑सु॒शिप्रो᳚म॒घवा॒तरु॑त्रो¦म॒हाव्रा᳚तस्तुविकू॒र्मिरृघा᳚वान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

यदु॒ग्रोधाबा᳚धि॒तोमर्त्ये᳚षु॒¦क्व१॑(अ॒)त्याते᳚वृषभवी॒र्या᳚णि || {3/22}{3.30.3}{3.3.1.3}{3.2.1.3}{261, 264, 2696}

इन्द्रः॑¦सु॒ऽशिप्रः॑¦म॒घऽवा᳚¦तरु॑त्रः¦म॒हाऽव्रा᳚तः¦तु॒वि॒ऽकू॒र्मिः¦ऋघा᳚वान् |
यत्¦उ॒ग्रः¦धाः¦बा॒धि॒तः¦मर्त्ये᳚षु¦क्व॑¦त्या¦ते॒¦वृ॒ष॒भ॒¦वी॒र्या᳚णि ||

त्वंहिष्मा᳚च्या॒वय॒न्नच्यु॑ता॒¦न्येको᳚वृ॒त्राचर॑सि॒जिघ्न॑मानः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

तव॒द्यावा᳚पृथि॒वीपर्व॑ता॒सो¦नु᳚व्र॒ताय॒निमि॑तेवतस्थुः || {4/22}{3.30.4}{3.3.1.4}{3.2.1.4}{262, 264, 2697}

त्व‌म्¦हि¦स्म॒¦च्य॒वय॑न्¦अच्यु॑तानि¦एकः॑¦वृ॒त्रा¦चर॑सि¦जिघ्न॑मानः |
तव॑¦द्यावा᳚पृथि॒वी इति॑¦पर्व॑तासः¦अनु॑¦व्र॒ताय॑¦निमि॑ताऽ‌इव¦त॒स्थुः॒ ||

उ॒ताभ॑येपुरुहूत॒श्रवो᳚भि॒¦रेको᳚दृ॒ळ्हम॑वदोवृत्र॒हासन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इ॒मेचि॑दिन्द्र॒रोद॑सी,अपा॒रे¦यत्सं᳚गृ॒भ्णाम॑घवन्‌का॒शिरित्ते᳚ || {5/22}{3.30.5}{3.3.1.5}{3.2.1.5}{263, 264, 2698}

उ॒त¦अभ॑ये¦पु॒रु॒ऽहू॒त॒¦श्रवः॑ऽभिः¦एकः॑¦दृ॒ळ्ह‌म्¦अ॒व॒दः॒¦वृ॒त्र॒ऽहा¦सन् |
इ॒मे इति॑¦चि॒त्¦इ॒न्द्र॒¦रोद॑सी॒ इति॑¦अ॒पा॒रे इति॑¦यत्¦स॒‌म्ऽगृ॒भ्णाः¦म॒घ॒ऽव॒न्¦का॒शिः¦इत्¦ते॒ ||

प्रसूत॑इन्द्रप्र॒वता॒हरि॑भ्यां॒¦प्रते॒वज्रः॑प्रमृ॒णन्ने᳚तु॒शत्रू॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

ज॒हिप्र॑ती॒चो,अ॑नू॒चःपरा᳚चो॒¦विश्वं᳚स॒त्यंकृ॑णुहिवि॒ष्टम॑स्तु || {6/22}{3.30.6}{3.3.1.6}{3.2.2.1}{264, 264, 2699}

प्र¦सु¦ते॒¦इ॒न्द्र॒¦प्र॒ऽवता᳚¦हरि॑ऽभ्या‌म्¦प्र¦ते॒¦वज्रः॑¦प्र॒ऽमृ॒णन्¦ए॒तु॒¦शत्रू॑न् |
ज॒हि¦प्र॒ती॒चः¦अ॒नू॒चः¦परा᳚चः¦विश्व᳚‌म्¦स॒त्य‌म्¦कृ॒णु॒हि॒¦वि॒ष्ट‌म्¦अ॒स्तु॒ ||

यस्मै॒धायु॒रद॑धा॒मर्त्या॒या¦भ॑क्तंचिद्‌भजतेगे॒ह्य१॑(अं॒)सः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

भ॒द्रात॑इन्द्रसुम॒तिर्घृ॒ताची᳚¦स॒हस्र॑दानापुरुहूतरा॒तिः || {7/22}{3.30.7}{3.3.1.7}{3.2.2.2}{265, 264, 2700}

यस्मै᳚¦धायुः॑¦अद॑धाः¦मर्त्या᳚य¦अभ॑क्त‌म्¦चि॒त्¦भ॒ज॒ते॒¦गे॒ह्य᳚‌म्¦सः |
भ॒द्रा¦ते॒¦इ॒न्द्र॒¦सु॒ऽम॒तिः¦घृ॒ताची᳚¦स॒हस्र॑ऽदाना¦पु॒रु॒ऽहू॒त॒¦रा॒तिः ||

स॒हदा᳚नुंपुरुहूतक्षि॒यन्त॑¦मह॒स्तमि᳚न्द्र॒संपि॑ण॒क्कुणा᳚रुम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अ॒भिवृ॒त्रंवर्ध॑मानं॒पिया᳚रु¦म॒पाद॑मिन्द्रत॒वसा᳚जघन्थ || {8/22}{3.30.8}{3.3.1.8}{3.2.2.3}{266, 264, 2701}

स॒हऽदा᳚नु‌म्¦पु॒रु॒ऽहू॒त॒¦क्षि॒यन्त᳚‌म्¦अ॒ह॒स्त‌म्¦इ॒न्द्र॒¦स‌म्¦पि॒ण॒क्¦कुणा᳚रु‌म् |
अ॒भि¦वृ॒त्र‌म्¦वर्ध॑मान‌म्¦पिया᳚रु‌म्¦अ॒पाद᳚‌म्¦इ॒न्द्र॒¦त॒वसा᳚¦ज॒घ॒न्थ॒ ||

निसा᳚म॒नामि॑षि॒रामि᳚न्द्र॒भूमिं᳚¦म॒हीम॑पा॒रांसद॑नेससत्थ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अस्त॑भ्ना॒द्द्यांवृ॑ष॒भो,अ॒न्तरि॑क्ष॒¦मर्ष॒न्त्वाप॒स्त्वये॒हप्रसू᳚ताः || {9/22}{3.30.9}{3.3.1.9}{3.2.2.4}{267, 264, 2702}

नि¦सा॒म॒ना‌म्¦इ॒षि॒रा‌म्¦इ॒न्द्र॒¦भूमि᳚‌म्¦म॒ही‌म्¦अ॒पा॒रा‌म्¦सद॑ने¦स॒स॒त्थ॒ |
अस्त॑भ्नात्¦द्या‌म्¦वृ॒ष॒भः¦अ॒न्तरि॑क्ष‌म्¦अर्ष᳚न्तु¦आपः॑¦त्वया᳚¦इ॒ह¦प्रऽसू᳚ताः ||

अ॒ला॒तृ॒णोव॒लइ᳚न्द्रव्र॒जोगोः¦पु॒राहन्तो॒र्भय॑मानो॒व्या᳚र |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

सु॒गान्‌प॒थो,अ॑कृणोन्नि॒रजे॒गाः¦प्राव॒न्वाणीः᳚पुरुहू॒तंधम᳚न्तीः || {10/22}{3.30.10}{3.3.1.10}{3.2.2.5}{268, 264, 2703}

अ॒ला॒तृ॒णः¦व॒लः¦इ॒न्द्र॒¦व्र॒जः¦गोः¦पु॒रा¦हन्तोः᳚¦भय॑मानः¦वि¦आ॒र॒ |
सु॒ऽगान्¦प॒थः¦अ॒कृ॒णो॒त्¦निः॒।आजे᳚¦गाः¦प्र¦आ॒व॒न्¦वाणीः᳚¦पु॒रु॒ऽहू॒त‌म्¦धम᳚न्तीः ||

एको॒द्वेवसु॑मतीसमी॒ची¦,इन्द्र॒प॑प्रौपृथि॒वीमु॒तद्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

उ॒तान्तरि॑क्षाद॒भिनः॑समी॒क¦इ॒षोर॒थीःस॒युजः॑शूर॒वाजा॑न् || {11/22}{3.30.11}{3.3.1.11}{3.2.3.1}{269, 264, 2704}

एकः॑¦द्वे इति॑¦वसु॑मती॒ इति॒ वसु॑ऽमती¦स॒मी॒ची इति॑ स॒‌म्ऽई॒ची¦इन्द्रः॑¦आ¦प॒प्रौ॒¦पृ॒थि॒वी‌म्¦उ॒त¦द्या‌म् |
उ॒त¦अ॒न्तरि॑क्षात्¦अ॒भि¦नः॒¦स॒‌म्ऽई॒के¦इ॒षः¦र॒थीः¦स॒ऽयुजः॑¦शू॒र॒¦वाजा॑न् ||

दिशः॒सूर्यो॒मि॑नाति॒प्रदि॑ष्टा¦दि॒वेदि॑वे॒हर्य॑श्वप्रसूताः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

संयदान॒ळध्व॑न॒आदिदश्वै᳚¦र्वि॒मोच॑नंकृणुते॒तत्‌त्व॑स्य || {12/22}{3.30.12}{3.3.1.12}{3.2.3.2}{270, 264, 2705}

दिशः॑¦सूर्यः॑¦न¦मि॒ना॒ति॒¦प्रऽदि॑ष्टाः¦दि॒वेऽदि॑वे¦हर्य॑श्वऽप्रसूताः |
स‌म्¦यत्¦आन॑ट्¦अध्व॑नः¦आत्¦इत्¦अश्वैः᳚¦वि॒ऽमोच॑न‌म्¦कृ॒णु॒ते॒¦तत्¦तु¦अ॒स्य॒ ||

दिदृ॑क्षन्तउ॒षसो॒याम᳚न्न॒क्तो¦र्वि॒वस्व॑त्या॒महि॑चि॒त्रमनी᳚कम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

विश्वे᳚जानन्तिमहि॒नायदागा॒¦दिन्द्र॑स्य॒कर्म॒सुकृ॑तापु॒रूणि॑ || {13/22}{3.30.13}{3.3.1.13}{3.2.3.3}{271, 264, 2706}

दिदृ॑क्षन्ते¦उ॒षसः॑¦याम॑न्¦अ॒क्तोः¦वि॒वस्व॑त्याः¦महि॑¦चि॒त्र‌म्¦अनी᳚क‌म् |
विश्वे᳚¦जा॒न॒न्ति॒¦म॒हि॒ना¦यत्¦आ¦अगा᳚त्¦इन्द्र॑स्य¦कर्म॑¦सुऽकृ॑ता¦पु॒रूणि॑ ||

महि॒ज्योति॒र्निहि॑तंव॒क्षणा᳚¦स्वा॒माप॒क्वंच॑रति॒बिभ्र॑ती॒गौः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

विश्वं॒स्वाद्म॒सम्भृ॑तमु॒स्रिया᳚यां॒¦यत्सी॒मिन्द्रो॒,अद॑धा॒द्‌भोज॑नाय || {14/22}{3.30.14}{3.3.1.14}{3.2.3.4}{272, 264, 2707}

महि॑¦ज्योतिः॑¦निऽहि॑त‌म्¦व॒क्षणा᳚सु¦आ॒मा¦प॒क्व‌म्¦च॒र॒ति॒¦बिभ्र॑ती¦गौः |
विश्व᳚‌म्¦स्वाद्म॑¦स‌म्ऽभृ॑त‌म्¦उ॒स्रिया᳚या‌म्¦यत्¦सी॒‌म्¦इन्द्रः॑¦अद॑धात्¦भोज॑नाय ||

इन्द्र॒दृह्य॑यामको॒शा,अ॑भूवन्¦य॒ज्ञाय॑शिक्षगृण॒तेसखि॑भ्यः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

दु॒र्मा॒यवो᳚दु॒रेवा॒मर्त्या᳚सो¦निष॒ङ्गिणो᳚रि॒पवो॒हन्त्वा᳚सः || {15/22}{3.30.15}{3.3.1.15}{3.2.3.5}{273, 264, 2708}

इन्द्र॑¦दृह्य॑¦या॒म॒ऽको॒शाः¦अ॒भू॒व॒न्¦य॒ज्ञाय॑¦शि॒क्ष॒¦गृ॒ण॒ते¦सखि॑ऽभ्यः |
दुः॒ऽमा॒यवः॑¦दुः॒ऽएवाः᳚¦मर्त्या᳚सः¦नि॒ष॒ङ्गिणः॑¦रि॒पवः॑¦हन्त्वा᳚सः ||

संघोषः॑शृण्वेऽव॒मैर॒मित्रै᳚¦र्ज॒हीन्ये᳚ष्व॒शनिं॒तपि॑ष्ठाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

वृ॒श्चेम॒धस्ता॒द्‌विरु॑जा॒सह॑स्व¦ज॒हिरक्षो᳚मघवन्‌र॒न्धय॑स्व || {16/22}{3.30.16}{3.3.1.16}{3.2.4.1}{274, 264, 2709}

स‌म्¦घोषः॑¦शृ॒ण्वे॒¦अ॒व॒मैः¦अ॒मित्रैः᳚¦ज॒हि¦नि¦ए॒षु॒¦अ॒शनि᳚‌म्¦तपि॑ष्ठा‌म् |
वृ॒श्च¦ई॒‌म्¦अ॒धस्ता᳚त्¦वि¦रु॒ज॒¦सह॑स्व¦ज॒हि¦रक्षः॑¦म॒घ॒ऽव॒न्¦र॒न्धय॑स्व ||

उद्‌वृ॑ह॒रक्षः॑स॒हमू᳚लमिन्द्र¦वृ॒श्चामध्यं॒प्रत्यग्रं᳚शृणीहि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

कीव॑तःसल॒लूकं᳚चकर्थ¦ब्रह्म॒द्विषे॒तपु॑षिंहे॒तिम॑स्य || {17/22}{3.30.17}{3.3.1.17}{3.2.4.2}{275, 264, 2710}

उत्¦वृ॒ह॒¦रक्षः॑¦स॒हऽमू᳚ल‌म्¦इ॒न्द्र॒¦वृ॒श्च¦मध्य᳚‌म्¦प्रति॑¦अग्र᳚‌म्¦शृ॒णी॒हि॒ |
आ¦कीव॑तः¦स॒ल॒लूक᳚‌म्¦च॒क॒र्थ॒¦ब्र॒ह्म॒ऽद्विषे᳚¦तपु॑षि‌म्¦हे॒ति‌म्¦अ॒स्य॒ ||

स्व॒स्तये᳚वा॒जिभि॑श्चप्रणेतः॒¦संयन्म॒हीरिष॑आ॒सत्सि॑पू॒र्वीः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

रा॒योव॒न्तारो᳚बृह॒तःस्या᳚मा॒¦स्मे,अ॑स्तु॒भग॑इन्द्रप्र॒जावा॑न् || {18/22}{3.30.18}{3.3.1.18}{3.2.4.3}{276, 264, 2711}

स्व॒स्तये᳚¦वा॒जिऽभिः॑¦च॒¦प्र॒ने॒त॒रिति॑ प्रऽनेतः¦स‌म्¦यत्¦म॒हीः¦इषः॑¦आ॒ऽसत्सि॑¦पू॒र्वीः |
रा॒यः¦व॒न्तारः॑¦बृ॒ह॒तः¦स्या॒म॒¦अ॒स्मे इति॑¦अ॒स्तु॒¦भगः॑¦इ॒न्द्र॒¦प्र॒जाऽवा॑न् ||

नो᳚भर॒भग॑मिन्द्रद्यु॒मन्तं॒¦निते᳚दे॒ष्णस्य॑धीमहिप्ररे॒के |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

ऊ॒र्वइ॑वपप्रथे॒कामो᳚,अ॒स्मे¦तमापृ॑णवसुपते॒वसू᳚नाम् || {19/22}{3.30.19}{3.3.1.19}{3.2.4.4}{277, 264, 2712}

आ¦नः॒¦भ॒र॒¦भग᳚‌म्¦इ॒न्द्र॒¦द्यु॒ऽमन्त᳚‌म्¦नि¦ते॒¦दे॒ष्णस्य॑¦धी॒म॒हि॒¦प्र॒ऽरे॒के |
ऊ॒र्वःऽ‌इ᳚व¦प॒प्र॒थे॒¦कामः॑¦अ॒स्मे इति॑¦त‌म्¦आ¦पृ॒ण॒¦व॒सु॒ऽप॒ते॒¦वसू᳚ना‌म् ||

इ॒मंकामं᳚मन्दया॒गोभि॒रश्वै᳚¦श्च॒न्द्रव॑ता॒राध॑साप॒प्रथ॑श्च |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

स्व॒र्यवो᳚म॒तिभि॒स्तुभ्यं॒विप्रा॒,¦इन्द्रा᳚य॒वाहः॑कुशि॒कासो᳚,अक्रन् || {20/22}{3.30.20}{3.3.1.20}{3.2.4.5}{278, 264, 2713}

इ॒म‌म्¦काम᳚‌म्¦म॒न्द॒य॒¦गोऽभिः॑¦अश्वैः᳚¦च॒न्द्रऽव॑ता¦राध॑सा¦प॒प्रथः॑¦च॒ |
स्वः॒ऽयवः॑¦म॒तिऽभिः॑¦तुभ्य᳚‌म्¦विप्राः᳚¦इन्द्रा᳚य¦वाहः॑¦कु॒शि॒कासः॑¦अ॒क्र॒न् ||

नो᳚गो॒त्राद॑र्दृहिगोपते॒गाः¦सम॒स्मभ्यं᳚स॒नयो᳚यन्तु॒वाजाः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

दि॒वक्षा᳚,असिवृषभस॒त्यशु॑ष्मो॒¦ऽस्मभ्यं॒सुम॑घवन्‌बोधिगो॒दाः || {21/22}{3.30.21}{3.3.1.21}{3.2.4.6}{279, 264, 2714}

आ¦नः॒¦गो॒त्रा¦द॒र्दृ॒हि॒¦गो॒ऽप॒ते॒¦गाः¦स‌म्¦अ॒स्मभ्य᳚‌म्¦स॒नयः॑¦य॒न्तु॒¦वाजाः᳚ |
दि॒वक्षाः᳚¦अ॒सि॒¦वृ॒ष॒भ॒¦स॒त्यऽशु॑ष्मः¦अ॒स्मभ्य᳚‌म्¦सु¦म॒घ॒ऽव॒न्¦बो॒धि॒¦गो॒ऽदाः ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {22/22}{3.30.22}{3.3.1.22}{3.2.4.7}{280, 264, 2715}

शु॒न‌म्¦हु॒वे॒म॒¦म॒घऽवा᳚न‌म्¦इन्द्र᳚‌म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑म‌म्¦वाज॑ऽसातौ |
शृ॒ण्वन्त᳚‌म्¦उ॒ग्र‌म्¦ऊ॒तये᳚¦स॒मत्ऽसु॑¦घ्नन्त᳚‌म्¦वृ॒त्राणि॑¦स॒‌म्ऽजित᳚‌म्¦धना᳚ना‌म् ||

[31] शासद्वह्निरिति द्वाविंशत्यृचस्य सूक्तस्य इषीरथिः कुशिक इंद्रत्रिष्टुप् |
शास॒द्‌वह्नि॑र्दुहि॒तुर्न॒प्त्यं᳚गाद्¦वि॒द्वाँ,ऋ॒तस्य॒दीधि॑तिंसप॒र्यन् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

पि॒तायत्र॑दुहि॒तुःसेक॑मृ॒ञ्जन्¦त्संश॒ग्म्ये᳚न॒मन॑सादध॒न्वे || {1/22}{3.31.1}{3.3.2.1}{3.2.5.1}{281, 265, 2716}

शास॑त्¦वह्निः॑¦दु॒हि॒तुः¦न॒प्त्य᳚‌म्¦गा॒त्¦वि॒द्वान्¦ऋ॒तस्य॑¦दीधि॑ति‌म्¦स॒प॒र्यन् |
पि॒ता¦यत्र॑¦दु॒हि॒तुः¦सेक᳚‌म्¦ऋं॒जन्¦स‌म्¦श॒ग्म्ये᳚न¦मन॑सा¦द॒ध॒न्वे ||

जा॒मये॒तान्वो᳚रि॒क्थमा᳚रैक्¦च॒कार॒गर्भं᳚सनि॒तुर्नि॒धान᳚म् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

यदी᳚मा॒तरो᳚ज॒नय᳚न्त॒वह्नि॑¦म॒न्यःक॒र्तासु॒कृतो᳚र॒न्यऋ॒न्धन् || {2/22}{3.31.2}{3.3.2.2}{3.2.5.2}{282, 265, 2717}

न¦जा॒मये᳚¦तान्वः॑¦रि॒क्थ‌म्¦अ॒रै॒क्¦च॒कार॑¦गर्भ᳚‌म्¦स॒नि॒तुः¦नि॒ऽधान᳚‌म् |
यदि॑¦मा॒तरः॑¦ज॒नय᳚न्त¦वह्नि᳚‌म्¦अ॒न्यः¦क॒र्ता¦सु॒ऽकृतोः᳚¦अ॒न्यः¦ऋ॒न्धन् ||

अ॒ग्निर्ज॑ज्ञेजु॒ह्वा॒३॑(आ॒)रेज॑मानो¦म॒हस्पु॒त्राँ,अ॑रु॒षस्य॑प्र॒यक्षे᳚ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

म॒हान्‌गर्भो॒मह्याजा॒तमे᳚षां¦म॒हीप्र॒वृद्धर्य॑श्वस्यय॒ज्ञैः || {3/22}{3.31.3}{3.3.2.3}{3.2.5.3}{283, 265, 2718}

अ॒ग्निः¦ज॒ज्ञे॒¦जु॒ह्वा᳚¦रेज॑मानः¦म॒हः¦पु॒त्रान्¦अ॒रु॒षस्य॑¦प्र॒ऽयक्षे᳚ |
म॒हान्¦गर्भः॑¦महि॑¦आ¦जा॒त‌म्¦ए॒षा॒‌म्¦म॒ही¦प्र॒ऽवृत्¦हरि॑।आश्वस्य¦य॒ज्ञैः ||

अ॒भिजैत्री᳚रसचन्तस्पृधा॒नं¦महि॒ज्योति॒स्तम॑सो॒निर॑जानन् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

तंजा᳚न॒तीःप्रत्युदा᳚यन्नु॒षासः॒¦पति॒र्गवा᳚मभव॒देक॒इन्द्रः॑ || {4/22}{3.31.4}{3.3.2.4}{3.2.5.4}{284, 265, 2719}

अ॒भि¦जैत्रीः᳚¦अ॒स॒च॒न्त॒¦स्पृ॒धा॒न‌म्¦महि॑¦ज्योतिः॑¦तम॑सः¦निः¦अ॒जा॒न॒न् |
त‌म्¦जा॒न॒तीः¦प्रति॑¦उत्¦आ॒य॒न्¦उ॒षसः॑¦पतिः॑¦गवा᳚‌म्¦अ॒भ॒व॒त्¦एकः॑¦इन्द्रः॑ ||

वी॒ळौस॒तीर॒भिधीरा᳚,अतृन्दन्¦प्रा॒चाहि᳚न्व॒न्‌मन॑सास॒प्तविप्राः᳚ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

विश्वा᳚मविन्दन्‌प॒थ्या᳚मृ॒तस्य॑¦प्रजा॒नन्नित्तानम॒सावि॑वेश || {5/22}{3.31.5}{3.3.2.5}{3.2.5.5}{285, 265, 2720}

वी॒ळौ¦स॒तीः¦अ॒भि¦धीराः᳚¦अ॒तृ॒न्द॒न्¦प्रा॒चा¦अ॒हि॒न्व॒न्¦मन॑सा¦स॒प्त¦विप्राः᳚ |
विश्वा᳚‌म्¦अ॒वि॒न्द॒न्¦प॒थ्या᳚‌म्¦ऋ॒तस्य॑¦प्र॒ऽजा॒नन्¦इत्¦ता¦नम॑सा¦आ¦वि॒वे॒श॒ ||

वि॒दद्यदी᳚स॒रमा᳚रु॒ग्णमद्रे॒¦र्महि॒पाथः॑पू॒र्व्यंस॒ध्र्य॑क्कः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

अग्रं᳚नयत्‌सु॒पद्यक्ष॑राणा॒¦मच्छा॒रवं᳚प्रथ॒माजा᳚न॒तीगा᳚त् || {6/22}{3.31.6}{3.3.2.6}{3.2.6.1}{286, 265, 2721}

वि॒दत्¦यदि॑¦स॒रमा᳚¦रु॒ग्ण‌म्¦अद्रेः᳚¦महि॑¦पाथः॑¦पू॒र्व्य‌म्¦स॒ध्र्य॑क्¦क॒रिति॑ कः |
अग्र᳚‌म्¦न॒य॒त्¦सु॒ऽपदी᳚¦अक्ष॑राणा‌म्¦अच्छ॑¦रव᳚‌म्¦प्र॒थ॒मा¦जा॒न॒ती¦गा॒त् ||

अग॑च्छदु॒विप्र॑तमःसखी॒य¦न्नसू᳚दयत्‌सु॒कृते॒गर्भ॒मद्रिः॑ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

स॒सान॒मर्यो॒युव॑भिर्मख॒स्य¦न्नथा᳚भव॒दङ्गि॑राःस॒द्यो,अर्च॑न् || {7/22}{3.31.7}{3.3.2.7}{3.2.6.2}{287, 265, 2722}

अग॑च्छत्¦ऊँ॒ इति॑¦विप्र॑ऽतमः¦स॒खि॒ऽयन्¦असू᳚दयत्¦सु॒ऽकृते᳚¦गर्भ᳚‌म्¦अद्रिः॑ |
स॒सान॑¦मर्यः॑¦युव॑ऽभिः¦म॒ख॒स्यन्¦अथ॑¦अ॒भ॒व॒त्¦अङ्गि॑राः¦स॒द्यः¦अर्च॑न् ||

स॒तःस॑तःप्रति॒मानं᳚पुरो॒भू¦र्विश्वा᳚वेद॒जनि॑मा॒हन्ति॒शुष्ण᳚म् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

प्रणो᳚दि॒वःप॑द॒वीर्ग॒व्युरर्च॒न्¦त्सखा॒सखीँ᳚रमुञ्च॒न्निर॑व॒द्यात् || {8/22}{3.31.8}{3.3.2.8}{3.2.6.3}{288, 265, 2723}

स॒तःऽस॑तः¦प्र॒ति॒ऽमान᳚‌म्¦पु॒रः॒ऽभूः¦विश्वा᳚¦वे॒द॒¦जनि॑म¦हन्ति॑¦शुष्ण᳚‌म् |
प्र¦नः॒¦दि॒वः¦प॒द॒ऽवीः¦ग॒व्युः¦अर्च॑न्¦सखा᳚¦सखी᳚न्¦अ॒मुं॒च॒त्¦निः¦अ॒व॒द्यात् ||

निग᳚व्य॒तामन॑सासेदुर॒र्कैः¦कृ᳚ण्वा॒नासो᳚,अमृत॒त्वाय॑गा॒तुम् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

इ॒दंचि॒न्नुसद॑नं॒भूर्ये᳚षां॒¦येन॒मासाँ॒,असि॑षासन्नृ॒तेन॑ || {9/22}{3.31.9}{3.3.2.9}{3.2.6.4}{289, 265, 2724}

नि¦ग॒व्य॒ता¦मन॑सा¦से॒दुः॒¦अ॒र्कैः¦कृ॒ण्वा॒नासः॑¦अ॒मृ॒त॒ऽत्वाय॑¦गा॒तु‌म् |
इ॒द‌म्¦चि॒त्¦नु¦सद॑न‌म्¦भूरि॑¦ए॒षा॒‌म्¦येन॑¦मासा᳚न्¦असि॑सासन्¦ऋ॒तेन॑ ||

स॒म्पश्य॑माना,अमदन्न॒भिस्वं¦पयः॑प्र॒त्नस्य॒रेत॑सो॒दुघा᳚नाः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

विरोद॑सी,अतप॒द्‌घोष॑एषां¦जा॒तेनि॒ष्ठामद॑धु॒र्गोषु॑वी॒रान् || {10/22}{3.31.10}{3.3.2.10}{3.2.6.5}{290, 265, 2725}

स॒‌म्ऽपश्य॑मानाः¦अ॒म॒द॒न्¦अ॒भि¦स्व‌म्¦पयः॑¦प्र॒त्नस्य॑¦रेत॑सः¦दुघा᳚नाः |
वि¦रोद॑सी॒ इति॑¦अ॒त॒प॒त्¦घोषः॑¦ए॒षा॒‌म्¦जा॒ते¦निः॒ऽस्था‌म्¦अद॑धुः¦गोषु॑¦वी॒रान् ||

जा॒तेभि᳚र्वृत्र॒हासेदु॑ह॒व्यै¦रुदु॒स्रिया᳚,असृज॒दिन्द्रो᳚,अ॒र्कैः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

उ॒रू॒च्य॑स्मैघृ॒तव॒द्‌भर᳚न्ती॒¦मधु॒स्वाद्म॑दुदुहे॒जेन्या॒गौः || {11/22}{3.31.11}{3.3.2.11}{3.2.7.1}{291, 265, 2726}

सः¦जा॒तेभिः॑¦वृ॒त्र॒ऽहा¦सः¦इत्¦ऊँ॒ इति॑¦ह॒व्यैः¦उत्¦उ॒स्रियाः᳚¦अ॒सृ॒ज॒त्¦इन्द्रः॑¦अ॒र्कैः |
उ॒रू॒ची¦अ॒स्मै॒¦घृ॒तऽव॑त्¦भर᳚न्ती¦मधु॑¦स्वाद्म॑¦दु॒दु॒हे॒¦जेन्या᳚¦गौः ||

पि॒त्रेचि॑च्चक्रुः॒सद॑नं॒सम॑स्मै॒¦महि॒त्विषी᳚मत्‌सु॒कृतो॒विहिख्यन् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

वि॒ष्क॒भ्नन्तः॒स्कम्भ॑नेना॒जनि॑त्री॒,¦आसी᳚ना,ऊ॒र्ध्वंर॑भ॒संविमि᳚न्वन् || {12/22}{3.31.12}{3.3.2.12}{3.2.7.2}{292, 265, 2727}

पि॒त्रे¦चि॒त्¦च॒क्रुः॒¦सद॑न‌म्¦स‌म्¦अ॒स्मै॒¦महि॑¦त्विषि॑ऽमत्¦सु॒ऽकृतः॑¦वि¦हि¦ख्यन् |
वि॒ऽस्क॒भ्नन्तः॑¦स्कम्भ॑नेन¦जनि॑त्री॒ इति॑¦आसी᳚नाः¦ऊ॒र्ध्व‌म्¦र॒भ॒स‌म्¦वि¦मि॒न्व॒न् ||

म॒हीयदि॑धि॒षणा᳚शि॒श्नथे॒धात्¦स॑द्यो॒वृधं᳚वि॒भ्व१॑(अं॒)रोद॑स्योः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

गिरो॒यस्मि᳚न्ननव॒द्याःस॑मी॒ची¦र्विश्वा॒,इन्द्रा᳚य॒तवि॑षी॒रनु॑त्ताः || {13/22}{3.31.13}{3.3.2.13}{3.2.7.3}{293, 265, 2728}

म॒ही¦यदि॑¦धि॒षणा᳚¦शि॒श्नथे᳚¦धात्¦स॒द्यः॒ऽवृध᳚‌म्¦वि॒ऽभ्व᳚‌म्¦रोद॑स्योः |
गिरः॑¦यस्मि॑न्¦अ॒न॒व॒द्याः¦स॒‌म्ऽई॒चीः¦विश्वाः᳚¦इन्द्रा᳚य¦तवि॑षीः¦अनु॑त्ताः ||

मह्याते᳚स॒ख्यंव॑श्मिश॒क्ती¦रावृ॑त्र॒घ्नेनि॒युतो᳚यन्तिपू॒र्वीः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

महि॑स्तो॒त्रमव॒आग᳚न्मसू॒रे¦र॒स्माकं॒सुम॑घवन्‌बोधिगो॒पाः || {14/22}{3.31.14}{3.3.2.14}{3.2.7.4}{294, 265, 2729}

महि॑¦आ¦ते॒¦स॒ख्य‌म्¦व॒श्मि॒¦श॒क्तीः¦आ¦वृ॒त्र॒ऽघ्ने¦नि॒ऽयुतः॑¦य॒न्ति॒¦पू॒र्वीः |
महि॑¦स्तो॒त्र‌म्¦अवः॑¦आ¦अ॒ग॒न्म॒¦सू॒रेः¦अ॒स्माक᳚‌म्¦सु¦म॒घ॒ऽव॒न्¦बो॒धि॒¦गो॒पाः ||

महि॒क्षेत्रं᳚पु॒रुश्च॒न्द्रंवि॑वि॒द्वा¦नादित्‌सखि॑भ्यश्च॒रथं॒समै᳚रत् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

इन्द्रो॒नृभि॑रजन॒द्दीद्या᳚नः¦सा॒कंसूर्य॑मु॒षसं᳚गा॒तुम॒ग्निम् || {15/22}{3.31.15}{3.3.2.15}{3.2.7.5}{295, 265, 2730}

महि॑¦क्षेत्र᳚‌म्¦पु॒रु¦च॒न्द्र‌म्¦वि॒वि॒द्वान्¦आत्¦इत्¦सखि॑ऽभ्यः¦च॒रथ᳚‌म्¦स‌म्¦ऐ॒रत् |
इन्द्रः॑¦नृऽभिः॑¦अ॒ज॒न॒त्¦दीद्या᳚नः¦सा॒क‌म्¦सूर्य᳚‌म्¦उ॒षस᳚‌म्¦गा॒तु‌म्¦अ॒ग्नि‌म् ||

अ॒पश्चि॑दे॒षवि॒भ्वो॒३॑(ओ॒)दमू᳚नाः॒¦प्रस॒ध्रीची᳚रसृजद्‌वि॒श्वश्च᳚न्द्राः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

मध्वः॑पुना॒नाःक॒विभिः॑प॒वित्रै॒¦र्द्युभि᳚र्हिन्वन्त्य॒क्तुभि॒र्धनु॑त्रीः || {16/22}{3.31.16}{3.3.2.16}{3.2.8.1}{296, 265, 2731}

अ॒पः¦चि॒त्¦ए॒षः¦वि॒ऽभ्वः॑¦दमू᳚नाः¦प्र¦स॒ध्रीचीः᳚¦अ॒सृ॒ज॒त्¦वि॒श्वऽच᳚न्द्राः |
मध्वः॑¦पु॒ना॒नाः¦क॒विऽभिः॑¦प॒वित्रैः᳚¦द्युऽभिः॑¦हि॒न्व॒न्ति॒¦अ॒क्तुऽभिः॑¦धनु॑त्रीः ||

अनु॑कृ॒ष्णेवसु॑धितीजिहाते¦,उ॒भेसूर्य॑स्यमं॒हना॒यज॑त्रे |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

परि॒यत्ते᳚महि॒मानं᳚वृ॒जध्यै॒¦सखा᳚यइन्द्र॒काम्या᳚ऋजि॒प्याः || {17/22}{3.31.17}{3.3.2.17}{3.2.8.2}{297, 265, 2732}

अनु॑¦कृ॒ष्णे इति॑¦वसु॑धिती॒ इति॒ वसु॑ऽधिती¦जि॒हा॒ते॒ इति॑¦उ॒भे इति॑¦सूर्य॑स्य¦मं॒हना᳚¦यज॑त्रे॒ इति॑ |
परि॑¦यत्¦ते॒¦म॒हि॒मान᳚‌म्¦वृ॒जध्यै᳚¦सखा᳚यः¦इ॒न्द्र॒¦काम्याः᳚¦ऋ॒जि॒प्याः ||

पति॑र्भववृत्रहन्‌त्सू॒नृता᳚नां¦गि॒रांवि॒श्वायु᳚र्वृष॒भोव॑यो॒धाः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

नो᳚गहिस॒ख्येभिः॑शि॒वेभि᳚¦र्म॒हान्‌म॒हीभि॑रू॒तिभिः॑सर॒ण्यन् || {18/22}{3.31.18}{3.3.2.18}{3.2.8.3}{298, 265, 2733}

पतिः॑¦भ॒व॒¦वृ॒त्र॒ऽह॒न्¦सू॒नृता᳚ना‌म्¦गि॒रा‌म्¦वि॒श्वऽआ᳚युः¦वृ॒ष॒भः¦व॒यः॒ऽधाः |
आ¦नः॒¦ग॒हि॒¦स॒ख्येभिः॑¦शि॒वेभिः॑¦म॒हान्¦म॒हीभिः॑¦ऊ॒तिऽभिः॑¦स॒र॒ण्यन् ||

तम᳚ङ्गिर॒स्वन्नम॑सासप॒र्यन्¦नव्यं᳚कृणोमि॒सन्य॑सेपुरा॒जाम् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

द्रुहो॒विया᳚हिबहु॒ला,अदे᳚वीः॒¦स्व॑श्चनोमघवन्‌त्सा॒तये᳚धाः || {19/22}{3.31.19}{3.3.2.19}{3.2.8.4}{299, 265, 2734}

त‌म्¦अ॒ङ्गि॒र॒स्वत्¦नम॑सा¦स॒प॒र्यन्¦नव्य᳚‌म्¦कृ॒णो॒मि॒¦सन्य॑से¦पु॒रा॒ऽजा‌म् |
द्रुहः॑¦वि¦या॒हि॒¦ब॒हु॒लाः¦अदे᳚वीः¦स्व१॒॑रिति॒ स्वः॑¦च॒¦नः॒¦म॒घ॒ऽव॒न्¦सा॒तये᳚¦धाः॒ ||

मिहः॑पाव॒काःप्रत॑ता,अभूवन्¦त्स्व॒स्तिनः॑पिपृहिपा॒रमा᳚साम् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒त्वंर॑थि॒रःपा᳚हिनोरि॒षो¦म॒क्षूम॑क्षूकृणुहिगो॒जितो᳚नः || {20/22}{3.31.20}{3.3.2.20}{3.2.8.5}{300, 265, 2735}

मिहः॑¦पा॒व॒काः¦प्रऽत॑ताः¦अ॒भू॒व॒न्¦स्व॒स्ति¦नः॒¦पि॒पृ॒हि॒¦पा॒र‌म्¦आ॒सा॒‌म् |
इन्द्र॑¦त्व‌म्¦र॒थि॒रः¦पा॒हि॒¦नः॒¦रि॒षः¦म॒क्षुऽम॑क्षु¦कृ॒णु॒हि॒¦गो॒ऽजितः॑¦नः॒ ||

अदे᳚दिष्टवृत्र॒हागोप॑ति॒र्गा¦,अ॒न्तःकृ॒ष्णाँ,अ॑रु॒षैर्धाम॑भिर्गात् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

प्रसू॒नृता᳚दि॒शमा᳚नऋ॒तेन॒¦दुर॑श्च॒विश्वा᳚,अवृणो॒दप॒स्वाः || {21/22}{3.31.21}{3.3.2.21}{3.2.8.6}{301, 265, 2736}

अदे᳚दिष्ट¦वृ॒त्र॒ऽहा¦गोऽप॑तिः¦गाः¦अ॒न्तरिति॑¦कृ॒ष्णान्¦अ॒रु॒षैः¦धाम॑ऽभिः¦गा॒त् |
प्र¦सू॒नृताः᳚¦दि॒शमा᳚नः¦ऋ॒तेन॑¦दुरः॑¦च॒¦विश्वाः᳚¦अ॒वृ॒णो॒त्¦अप॑¦स्वाः ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {22/22}{3.31.22}{3.3.2.22}{3.2.8.7}{302, 265, 2737}

शु॒न‌म्¦हु॒वे॒म॒¦म॒घऽवा᳚न‌म्¦इन्द्र᳚‌म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑म‌म्¦वाज॑ऽसातौ |
शृ॒ण्वन्त᳚‌म्¦उ॒ग्र‌म्¦ऊ॒तये᳚¦स॒मत्ऽसु॑¦घ्नन्त᳚‌म्¦वृ॒त्राणि॑¦स॒‌म्ऽजित᳚‌म्¦धना᳚ना‌म् ||

[32] इंद्रसोममिति सप्तदशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
इन्द्र॒सोमं᳚सोमपते॒पिबे॒मं¦माध्यं᳚दिनं॒सव॑नं॒चारु॒यत्ते᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

प्र॒प्रुथ्या॒शिप्रे᳚मघवन्नृजीषिन्¦वि॒मुच्या॒हरी᳚,इ॒हमा᳚दयस्व || {1/17}{3.32.1}{3.3.3.1}{3.2.9.1}{303, 266, 2738}

इन्द्र॑¦सोम᳚‌म्¦सो॒म॒ऽप॒ते॒¦पिब॑¦इ॒म‌म्¦माध्यं᳚दिन‌म्¦सव॑न‌म्¦चारु॑¦यत्¦ते॒ |
प्र॒ऽप्रुथ्य॑¦शिप्रे॒ इति॑¦म॒घ॒ऽवन्¦ऋ॒जी॒षि॒न्¦वि॒ऽमुच्य॑¦हरी॒ इति॑¦इ॒ह¦मा॒द॒य॒स्व॒ ||

गवा᳚शिरंम॒न्थिन॑मिन्द्रशु॒क्रं¦पिबा॒सोमं᳚ररि॒माते॒मदा᳚य |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

ब्र॒ह्म॒कृता॒मारु॑तेनाग॒णेन॑¦स॒जोषा᳚रु॒द्रैस्‌तृ॒पदावृ॑षस्व || {2/17}{3.32.2}{3.3.3.2}{3.2.9.2}{304, 266, 2739}

गोऽआ᳚शिर‌म्¦म॒न्थिन᳚‌म्¦इ॒न्द्र॒¦शु॒क्र‌म्¦पिब॑¦सोम᳚‌म्¦र॒रि॒म¦ते॒¦मदा᳚य |
ब्र॒ह्म॒ऽकृता᳚¦मारु॑तेन¦ग॒णेन॑¦स॒ऽजोषाः᳚¦रु॒द्रैः¦तृ॒पत्¦आ¦वृ॒ष॒स्व॒ ||

येते॒शुष्मं॒येतवि॑षी॒मव॑र्ध॒¦न्नर्च᳚न्तइन्द्रम॒रुत॑स्त॒ओजः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

माध्यं᳚दिने॒सव॑नेवज्रहस्त॒¦पिबा᳚रु॒द्रेभिः॒सग॑णःसुशिप्र || {3/17}{3.32.3}{3.3.3.3}{3.2.9.3}{305, 266, 2740}

ये¦ते॒¦शुष्म᳚‌म्¦ये¦तवि॑षी‌म्¦अव॑र्धन्¦अर्च᳚न्तः¦इ॒न्द्र॒¦म॒रुतः॑¦ते॒¦ओजः॑ |
माध्यं᳚दिने¦सव॑ने¦व॒ज्र॒ऽह॒स्त॒¦पिब॑¦रु॒द्रेभिः॑¦सऽग॑णः¦सु॒ऽशि॒प्र॒ ||

इन्न्व॑स्य॒मधु॑मद्‌विविप्र॒¦इन्द्र॑स्य॒शर्धो᳚म॒रुतो॒आस॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

येभि᳚र्वृ॒त्रस्ये᳚षि॒तोवि॒वेदा᳚¦म॒र्मणो॒मन्य॑मानस्य॒मर्म॑ || {4/17}{3.32.4}{3.3.3.4}{3.2.9.4}{306, 266, 2741}

ते¦इत्¦नु¦अ॒स्य॒¦मधु॑ऽमत्¦वि॒वि॒प्रे॒¦इन्द्र॑स्य¦शर्धः॑¦म॒रुतः॑¦ये¦आस॑न् |
येभिः॑¦वृ॒त्रस्य॑¦इ॒षि॒तः¦वि॒वेद॑¦अ॒म॒र्मणः॑¦मन्य॑मानस्य¦मर्म॑ ||

म॒नु॒ष्वदि᳚न्द्र॒सव॑नंजुषा॒णः¦पिबा॒सोमं॒शश्व॑तेवी॒र्या᳚य |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

व॑वृत्स्वहर्यश्वय॒ज्ञैः¦स॑र॒ण्युभि॑र॒पो,अर्णा᳚सिसर्षि || {5/17}{3.32.5}{3.3.3.5}{3.2.9.5}{307, 266, 2742}

म॒नु॒ष्वत्¦इ॒न्द्र॒¦सव॑न‌म्¦जु॒षा॒णः¦पिब॑¦सोम᳚‌म्¦शश्व॑ते¦वी॒र्या᳚य |
सः¦आ¦व॒वृ॒त्स्व॒¦ह॒रि॒।आ॒श्व॒¦य॒ज्ञैः¦स॒र॒ण्युऽभिः॑¦अ॒पः¦अर्णा᳚¦सि॒स॒र्षि॒ ||

त्वम॒पोयद्ध॑वृ॒त्रंज॑घ॒न्वाँ¦अत्याँ᳚,इव॒प्रासृ॑जः॒सर्त॒वाजौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शया᳚नमिन्द्र॒चर॑ताव॒धेन॑¦वव्रि॒वांसं॒परि॑दे॒वीरदे᳚वम् || {6/17}{3.32.6}{3.3.3.6}{3.2.10.1}{308, 266, 2743}

त्व‌म्¦अ॒पः¦यत्¦ह॒¦वृ॒त्र‌म्¦ज॒घ॒न्वान्¦अत्या᳚न्ऽ‌इव¦प्र¦असृ॑जः¦सर्त॒वै¦आ॒जौ |
शया᳚न‌म्¦इ॒न्द्र॒¦चर॑ता¦व॒धेन॑¦व॒व्रि॒ऽवांस᳚‌म्¦परि॑¦दे॒वीः¦अदे᳚व‌म् ||

यजा᳚म॒इन्नम॑सावृ॒द्धमिन्द्रं᳚¦बृ॒हन्त॑मृ॒ष्वम॒जरं॒युवा᳚नम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

यस्य॑प्रि॒येम॒मतु᳚र्य॒ज्ञिय॑स्य॒¦रोद॑सीमहि॒मानं᳚म॒माते᳚ || {7/17}{3.32.7}{3.3.3.7}{3.2.10.2}{309, 266, 2744}

यजा᳚मः¦इत्¦नम॑सा¦वृ॒द्ध‌म्¦इन्द्र᳚‌म्¦बृ॒हन्त᳚‌म्¦ऋ॒ष्व‌म्¦अ॒जर᳚‌म्¦युवा᳚न‌म् |
यस्य॑¦प्रि॒ये इति॑¦म॒मतुः॑¦य॒ज्ञिय॑स्य¦न¦रोद॑सी॒ इति॑¦म॒हि॒मान᳚‌म्¦म॒माते॒ इति॑ ||

इन्द्र॑स्य॒कर्म॒सुकृ॑तापु॒रूणि᳚¦व्र॒तानि॑दे॒वामि॑नन्ति॒विश्वे᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

दा॒धार॒यःपृ॑थि॒वींद्यामु॒तेमां¦ज॒जान॒सूर्य॑मु॒षसं᳚सु॒दंसाः᳚ || {8/17}{3.32.8}{3.3.3.8}{3.2.10.3}{310, 266, 2745}

इन्द्र॑स्य¦कर्म॑¦सुऽकृ॑ता¦पु॒रूणि॑¦व्र॒तानि॑¦दे॒वाः¦न¦मि॒न॒न्ति॒¦विश्वे᳚ |
दा॒धार॑¦यः¦पृ॒थि॒वी‌म्¦द्या‌म्¦उ॒त¦इ॒मा‌म्¦ज॒जान॑¦सूर्य᳚‌म्¦उ॒षस᳚‌म्¦सु॒ऽदंसाः᳚ ||

अद्रो᳚घस॒त्यंतव॒तन्म॑हि॒त्वं¦स॒द्योयज्जा॒तो,अपि॑बोह॒सोम᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

द्याव॑इन्द्रत॒वस॑स्त॒ओजो॒¦नाहा॒मासाः᳚श॒रदो᳚वरन्त || {9/17}{3.32.9}{3.3.3.9}{3.2.10.4}{311, 266, 2746}

अद्रो᳚घ¦स॒त्य‌म्¦तव॑¦तत्¦म॒हि॒ऽत्व‌म्¦स॒द्यः¦यत्¦जा॒तः¦अपि॑बः¦ह॒¦सोम᳚‌म् |
न¦द्यावः॑¦इ॒न्द्र॒¦त॒वसः॑¦ते॒¦ओजः॑¦न¦अहा᳚¦न¦मासाः᳚¦श॒रदः॑¦व॒र॒न्त॒ ||

त्वंस॒द्यो,अ॑पिबोजा॒तइ᳚न्द्र॒¦मदा᳚य॒सोमं᳚पर॒मेव्यो᳚मन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

यद्ध॒द्यावा᳚पृथि॒वी,आवि॑वेशी॒¦रथा᳚भवःपू॒र्व्यःका॒रुधा᳚याः || {10/17}{3.32.10}{3.3.3.10}{3.2.10.5}{312, 266, 2747}

त्व‌म्¦स॒द्यः¦अ॒पि॒बः॒¦जा॒तः¦इ॒न्द्र॒¦मदा᳚य¦सोम᳚‌म्¦प॒र॒मे¦विऽओ᳚मन् |
यत्¦ह॒¦द्यावा᳚पृथि॒वी इति॑¦आ¦अवि॑वेशीः¦अथ॑¦अ॒भ॒वः॒¦पू॒र्व्यः¦का॒रुऽधा᳚याः ||

अह॒न्नहिं᳚परि॒शया᳚न॒मर्ण॑¦ओजा॒यमा᳚नंतुविजात॒तव्या॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

ते᳚महि॒त्वमनु॑भू॒दध॒द्यौ¦र्यद॒न्यया᳚स्फि॒ग्या॒३॑(आ॒)क्षामव॑स्थाः || {11/17}{3.32.11}{3.3.3.11}{3.2.11.1}{313, 266, 2748}

अह॑न्¦अहि᳚‌म्¦प॒रि॒ऽशया᳚न‌म्¦अर्णः॑¦ओ॒जा॒यमा᳚न‌म्¦तु॒वि॒ऽजा॒त॒¦तव्या॑न् |
न¦ते॒¦म॒हि॒ऽत्व‌म्¦अनु॑¦भू॒त्¦अध॑¦द्यौः¦यत्¦अ॒न्यया᳚¦स्फि॒ग्या᳚¦क्षा‌म्¦अव॑स्थाः ||

य॒ज्ञोहित॑इन्द्र॒वर्ध॑नो॒भू¦दु॒तप्रि॒यःसु॒तसो᳚मोमि॒येधः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

य॒ज्ञेन॑य॒ज्ञम॑वय॒ज्ञियः॒सन्¦य॒ज्ञस्ते॒वज्र॑महि॒हत्य॑आवत् || {12/17}{3.32.12}{3.3.3.12}{3.2.11.2}{314, 266, 2749}

य॒ज्ञः¦हि¦ते॒¦इ॒न्द्र॒¦वर्ध॑नः¦भूत्¦उ॒त¦प्रि॒यः¦सु॒तऽसो᳚मः¦मि॒येधः॑ |
य॒ज्ञेन॑¦य॒ज्ञ‌म्¦अ॒व॒¦य॒ज्ञियः॑¦सन्¦य॒ज्ञः¦ते॒¦वज्र᳚‌म्¦अ॒हि॒ऽहत्ये᳚¦आ॒व॒त् ||

य॒ज्ञेनेन्द्र॒मव॒साच॑क्रे,अ॒र्वा¦गैनं᳚सु॒म्नाय॒नव्य॑सेववृत्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

यःस्तोमे᳚भिर्वावृ॒धेपू॒र्व्येभि॒¦र्योम॑ध्य॒मेभि॑रु॒तनूत॑नेभिः || {13/17}{3.32.13}{3.3.3.13}{3.2.11.3}{315, 266, 2750}

य॒ज्ञेन॑¦इन्द्र᳚‌म्¦अव॑सा¦आ¦च॒क्रे॒¦अ॒र्वाक्¦आ¦ए॒न॒‌म्¦सु॒म्नाय॑¦नव्य॑से¦व॒वृ॒त्या॒‌म् |
यः¦स्तोमे᳚भिः¦व॒वृ॒धे¦पू॒र्व्येभिः॑¦यः¦म॒ध्य॒मेभिः॑¦उ॒त¦नूत॑नेभिः ||

वि॒वेष॒यन्मा᳚धि॒षणा᳚ज॒जान॒¦स्तवै᳚पु॒रापार्या॒दिन्द्र॒मह्नः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अंह॑सो॒यत्र॑पी॒पर॒द्‌यथा᳚नो¦ना॒वेव॒यान्त॑मु॒भये᳚हवन्ते || {14/17}{3.32.14}{3.3.3.14}{3.2.11.4}{316, 266, 2751}

वि॒वेष॑¦यत्¦मा॒¦धि॒षणा᳚¦ज॒जान॑¦स्तवै᳚¦पु॒रा¦पार्या᳚त्¦इन्द्र᳚‌म्¦अह्नः॑ |
अंह॑सः¦यत्र॑¦पी॒पर॑त्¦यथा᳚¦नः॒¦ना॒वाऽ‌इ᳚व¦यान्त᳚‌म्¦उ॒भये᳚¦ह॒व॒न्ते॒ ||

आपू᳚र्णो,अस्यक॒लशः॒स्वाहा॒¦सेक्ते᳚व॒कोशं᳚सिसिचे॒पिब॑ध्यै |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

समु॑प्रि॒या,आव॑वृत्र॒न्‌मदा᳚य¦प्रदक्षि॒णिद॒भिसोमा᳚स॒इन्द्र᳚म् || {15/17}{3.32.15}{3.3.3.15}{3.2.11.5}{317, 266, 2752}

आऽपू᳚र्णः¦अ॒स्य॒¦क॒लशः॑¦स्वाहा᳚¦सेक्ता᳚ऽ‌इव¦कोश᳚‌म्¦सि॒सि॒चे॒¦पिब॑ध्यै |
स‌म्¦ऊँ॒ इति॑¦प्रि॒याः¦आ¦अ॒व॒वृ॒त्र॒न्¦मदा᳚य¦प्र॒ऽद॒क्षि॒णित्¦अ॒भि¦सोमा᳚सः¦इन्द्र᳚‌म् ||

त्वा᳚गभी॒रःपु॑रुहूत॒सिन्धु॒¦र्नाद्र॑यः॒परि॒षन्तो᳚वरन्त |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इ॒त्थासखि॑भ्यइषि॒तोयदि॒न्द्रा¦ऽऽदृ॒ळ्हंचि॒दरु॑जो॒गव्य॑मू॒र्वम् || {16/17}{3.32.16}{3.3.3.16}{3.2.11.6}{318, 266, 2753}

न¦त्वा॒¦ग॒भी॒रः¦पु॒रु॒ऽहू॒त॒¦सिन्धुः॑¦न¦अद्र॑यः¦परि॑¦सन्तः॑¦व॒र॒न्त॒ |
इ॒त्था¦सखि॑ऽभ्यः¦इ॒षि॒तः¦यत्¦इ॒न्द्र॒¦आ¦दृ॒ळ्ह‌म्¦चि॒त्¦अरु॑जः¦गव्य᳚‌म्¦ऊ॒र्व‌म् ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {17/17}{3.32.17}{3.3.3.17}{3.2.11.7}{319, 266, 2754}

शु॒न‌म्¦हु॒वे॒म॒¦म॒घऽवा᳚न‌म्¦इन्द्र᳚‌म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑म‌म्¦वाज॑ऽसातौ |
शृ॒ण्वन्त᳚‌म्¦उ॒ग्र‌म्¦ऊ॒तये᳚¦स॒मत्ऽसु॑¦घ्नन्त᳚‌म्¦वृ॒त्राणि॑¦स॒‌म्ऽजित᳚‌म्¦धना᳚ना‌म् ||

[33] प्रपर्वतानामिति त्रयोदशर्चस्य सूक्तस्य गाथिनोविश्वामित्रः चतुर्थी षष्ठ्यष्टमीदशमीनांनदीऋषिकानद्योदेवताः एनावयमेतद्वच आतेकारोरितितिसृणांविश्वामित्रोदेवता इंद्रोअस्मानितिद्वयोरिंद्रस्त्रिष्टुबन्त्यानुष्टुप् |
प्रपर्व॑तानामुश॒ती,उ॒पस्था॒¦दश्वे᳚,इव॒विषि॑ते॒हास॑माने |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्}

गावे᳚वशु॒भ्रेमा॒तरा᳚रिहा॒णे¦विपा᳚ट्छुतु॒द्रीपय॑साजवेते || {1/13}{3.33.1}{3.3.4.1}{3.2.12.1}{320, 267, 2755}

प्र¦पर्व॑ताना‌म्¦उ॒श॒ती इति॑¦उ॒पऽस्था᳚त्¦अश्वे᳚ इ॒वेत्यश्वे᳚ऽ‌इव¦विसि॑ते॒ इति॒ विऽसि॑ते¦हास॑माने॒ इति॑ |
गावा᳚ऽ‌इव¦शु॒भ्रे इति॑¦मा॒तरा᳚¦रि॒हा॒णे इति॑¦विऽपा᳚ट्¦शु॒तु॒द्री¦पय॑सा¦ज॒वे॒ते॒ इति॑ ||

इन्द्रे᳚षितेप्रस॒वंभिक्ष॑माणे॒,¦अच्छा᳚समु॒द्रंर॒थ्ये᳚वयाथः |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्}

स॒मा॒रा॒णे,ऊ॒र्मिभिः॒पिन्व॑माने¦,अ॒न्यावा᳚म॒न्यामप्ये᳚तिशुभ्रे || {2/13}{3.33.2}{3.3.4.2}{3.2.12.2}{321, 267, 2756}

इन्द्रे᳚षिते॒ इतीन्द्र॑ऽ‌इषिते¦प्र॒ऽस॒व‌म्¦भिक्ष॑माणे॒ इति॑¦अच्छ॑¦स॒मु॒द्र‌म्¦र॒थ्या᳚ऽ‌इव¦या॒थः॒ |
स॒मा॒रा॒णे इति॑ स॒‌म्ऽआ॒रा॒णे¦ऊ॒र्मिऽभिः॑¦पिन्व॑माने॒ इति॑¦अ॒न्या¦वा॒‌म्¦अ॒न्या‌म्¦अपि॑¦ए॒ति॒¦शु॒भ्रे॒ इति॑ ||

अच्छा॒सिन्धुं᳚मा॒तृत॑मामयासं॒¦विपा᳚शमु॒र्वींसु॒भगा᳚मगन्म |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्}

व॒त्समि॑वमा॒तरा᳚संरिहा॒णे¦स॑मा॒नंयोनि॒मनु॑सं॒चर᳚न्ती || {3/13}{3.33.3}{3.3.4.3}{3.2.12.3}{322, 267, 2757}

अच्छ॑¦सिन्धु᳚‌म्¦मा॒तृऽत॑मा‌म्¦अ॒या॒स॒‌म्¦विऽपा᳚श‌म्¦उ॒र्वी‌म्¦सु॒ऽभगा᳚‌म्¦अ॒ग॒न्म॒ |
व॒त्स‌म्ऽ‌इ᳚व¦मा॒तरा᳚¦सं॒रि॒हा॒णे इति॑ स॒‌म्ऽरि॒हा॒णे¦स॒मा॒न‌म्¦योनि᳚‌म्¦अनु॑¦सं॒चर᳚न्ती॒ इति॑ स॒‌म्ऽचर᳚न्ती ||

ए॒नाव॒यंपय॑सा॒पिन्व॑माना॒,¦अनु॒योनिं᳚दे॒वकृ॑तं॒चर᳚न्तीः |{नद्यः ऋषिक | विश्वामित्रः | त्रिष्टुप्}

वर्त॑वेप्रस॒वःसर्ग॑तक्तः¦किं॒युर्विप्रो᳚न॒द्यो᳚जोहवीति || {4/13}{3.33.4}{3.3.4.4}{3.2.12.4}{323, 267, 2758}

ए॒ना¦व॒य‌म्¦पय॑सा¦पिन्व॑मानाः¦अनु॑¦योनि᳚‌म्¦दे॒वऽकृ॑त‌म्¦चर᳚न्तीः |
न¦वर्त॑वे¦प्र॒ऽस॒वः¦सर्ग॑ऽतक्तः¦कि॒‌म्ऽयुः¦विप्रः॑¦न॒द्यः॑¦जो॒ह॒वी॒ति॒ ||

रम॑ध्वंमे॒वच॑सेसो॒म्याय॒¦ऋता᳚वरी॒रुप॑मुहू॒र्तमेवैः᳚ |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्}

प्रसिन्धु॒मच्छा᳚बृह॒तीम॑नी॒षा¦व॒स्युर॑ह्वेकुशि॒कस्य॑सू॒नुः || {5/13}{3.33.5}{3.3.4.5}{3.2.12.5}{324, 267, 2759}

रम॑ध्व‌म्¦मे॒¦वच॑से¦सो॒म्याय॑¦ऋत॑ऽवरीः¦उप॑¦मु॒हू॒र्त‌म्¦एवैः᳚ |
प्र¦सिन्धु᳚‌म्¦अच्छ॑¦बृ॒ह॒ती¦म॒नी॒षा¦अ॒व॒स्युः¦अ॒ह्वे॒¦कु॒शि॒कस्य॑¦सू॒नुः ||

इन्द्रो᳚,अ॒स्माँ,अ॑रद॒द्‌वज्र॑बाहु॒¦रपा᳚हन्‌वृ॒त्रंप॑रि॒धिंन॒दीना᳚म् |{नद्यः ऋषिक | इन्द्रः | त्रिष्टुप्}

दे॒वो᳚ऽनयत्‌सवि॒तासु॑पा॒णि¦स्तस्य॑व॒यंप्र॑स॒वेया᳚मउ॒र्वीः || {6/13}{3.33.6}{3.3.4.6}{3.2.13.1}{325, 267, 2760}

इन्द्रः॑¦अ॒स्मान्¦अ॒र॒द॒त्¦वज्र॑ऽबाहुः¦अप॑¦अ॒ह॒न्¦वृ॒त्र‌म्¦प॒रि॒ऽधि‌म्¦न॒दीना᳚‌म् |
दे॒वः¦अ॒न॒य॒त्¦स॒वि॒ता¦सु॒ऽपा॒णिः¦तस्य॑¦व॒य‌म्¦प्र॒ऽस॒वे¦या॒मः॒¦उ॒र्वीः ||

प्र॒वाच्यं᳚शश्व॒धावी॒र्य१॑(अं॒)त¦दिन्द्र॑स्य॒कर्म॒यदहिं᳚विवृ॒श्चत् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

विवज्रे᳚णपरि॒षदो᳚जघा॒ना¦य॒न्नापोऽय॑नमि॒च्छमा᳚नाः || {7/13}{3.33.7}{3.3.4.7}{3.2.13.2}{326, 267, 2761}

प्र॒ऽवाच्य᳚‌म्¦श॒श्व॒धा¦वी॒र्य᳚‌म्¦तत्¦इन्द्र॑स्य¦कर्म॑¦यत्¦अहि᳚‌म्¦वि॒ऽवृ॒श्चत् |
वि¦वज्रे᳚ण¦प॒रि॒ऽसदः॑¦ज॒घा॒न॒¦आय॑न्¦आपः॑¦अय॑न‌म्¦इ॒च्छमा᳚नाः ||

ए॒तद्‌वचो᳚जरित॒र्मापि॑मृष्ठा॒,¦यत्ते॒घोषा॒नुत्त॑रायु॒गानि॑ |{नद्यः ऋषिक | विश्वामित्रः | त्रिष्टुप्}

उ॒क्थेषु॑कारो॒प्रति॑नोजुषस्व॒¦मानो॒निकः॑पुरुष॒त्रानम॑स्ते || {8/13}{3.33.8}{3.3.4.8}{3.2.13.3}{327, 267, 2762}

ए॒तत्¦वचः॑¦ज॒रि॒तः॒¦मा¦अपि॑¦मृ॒ष्ठाः॒¦आ¦यत्¦ते॒¦घोषा᳚न्¦उत्ऽत॑रा¦यु॒गानि॑ |
उ॒क्थेषु॑¦का॒रो॒ इति॑¦प्रति॑¦नः॒¦जु॒ष॒स्व॒¦मा¦नः॒¦नि¦क॒रिति॑ कः¦पु॒रु॒ष॒ऽत्रा¦नमः॑¦ते॒ ||

षुस्व॑सारःका॒रवे᳚शृणोत¦य॒यौवो᳚दू॒रादन॑सा॒रथे᳚न |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्}

निषून॑मध्वं॒भव॑तासुपा॒रा¦,अ॑धो।आ॒क्षाःसि᳚न्धवःस्रो॒त्याभिः॑ || {9/13}{3.33.9}{3.3.4.9}{3.2.13.4}{328, 267, 2763}

ओ इति॑¦सु¦स्व॒सा॒रः॒¦का॒रवे᳚¦शृ॒णो॒त॒¦य॒यौ¦वः॒¦दू॒रात्¦अन॑सा¦रथे᳚न |
नि¦सु¦न॒म॒ध्व॒‌म्¦भव॑त¦सु॒ऽपा॒राः¦अ॒धः॒।आ॒क्षाः¦सि॒न्ध॒वः॒¦स्रो॒त्याभिः॑ ||

ते᳚कारोशृणवामा॒वचां᳚सि¦य॒याथ॑दू॒रादन॑सा॒रथे᳚न |{नद्यः ऋषिक | विश्वामित्रः | त्रिष्टुप्}

निते᳚नंसैपीप्या॒नेव॒योषा॒¦मर्या᳚येवक॒न्या᳚शश्व॒चैते᳚ || {10/13}{3.33.10}{3.3.4.10}{3.2.13.5}{329, 267, 2764}

आ¦ते॒¦का॒रो॒ इति॑¦शृ॒ण॒वा॒म॒¦वचां᳚सि¦य॒याथ॑¦दू॒रात्¦अन॑सा¦रथे᳚न |
नि¦ते॒¦नं॒सै॒¦पी॒प्या॒नाऽ‌इ᳚व¦योषा᳚¦मर्या᳚यऽ‌इव¦क॒न्या᳚¦श॒श्व॒चै¦त॒ इति॑ ते ||

यद॒ङ्गत्वा᳚भर॒ताःसं॒तरे᳚यु¦र्ग॒व्यन्‌ग्राम॑इषि॒तइन्द्र॑जूतः |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्}

अर्षा॒दह॑प्रस॒वःसर्ग॑तक्त॒¦वो᳚वृणेसुम॒तिंय॒ज्ञिया᳚नाम् || {11/13}{3.33.11}{3.3.4.11}{3.2.14.1}{330, 267, 2765}

यत्¦अ॒ङ्ग¦त्वा॒¦भ॒र॒ताः¦स॒‌म्ऽतरे᳚युः¦ग॒व्यन्¦ग्रामः॑¦इ॒षि॒तः¦इन्द्र॑ऽजूतः |
अर्षा᳚त्¦अह॑¦प्र॒ऽस॒वः¦सर्ग॑ऽतक्तः¦आ¦वः॒¦वृ॒णे॒¦सु॒ऽम॒ति‌म्¦य॒ज्ञिया᳚ना‌म् ||

अता᳚रिषुर्भर॒ताग॒व्यवः॒स¦मभ॑क्त॒विप्रः॑सुम॒तिंन॒दीना᳚म् |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्}

प्रपि᳚न्वध्वमि॒षय᳚न्तीःसु॒राधा॒,¦व॒क्षणाः᳚पृ॒णध्वं᳚या॒तशीभ᳚म् || {12/13}{3.33.12}{3.3.4.12}{3.2.14.2}{331, 267, 2766}

अता᳚रिषुः¦भ॒र॒ताः¦ग॒व्यवः॑¦स‌म्¦अभ॑क्त¦विप्रः॑¦सु॒ऽम॒ति‌म्¦न॒दीना᳚‌म् |
प्र¦पि॒न्व॒ध्व॒‌म्¦इ॒षय᳚न्तीः¦सु॒ऽराधाः᳚¦आ¦व॒क्षणाः᳚¦पृ॒णध्व᳚‌म्¦या॒त¦शीभ᳚‌म् ||

उद्व॑ऊ॒र्मिःशम्या᳚ह॒¦न्त्वापो॒योक्त्रा᳚णिमुञ्चत |{गाथिनो विश्वामित्रः | नद्यः | अनुष्टुप्}

मादु॑ष्कृतौ॒व्ये᳚नसा॒¦ऽघ्न्यौशून॒मार॑ताम् || {13/13}{3.33.13}{3.3.4.13}{3.2.14.3}{332, 267, 2767}

उत्¦वः॒¦ऊ॒र्मिः¦शम्याः᳚¦ह॒न्तु॒¦आपः॑¦योक्त्रा᳚णि¦मुं॒च॒त॒ | मा¦अदुः॑ऽकृतौ¦विऽए᳚नसा¦अ॒घ्न्यौ¦शून᳚‌म्¦आ¦अ॒र॒ता॒‌म् ||

[34] इंद्रःपूर्भिरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
इन्द्रः॑पू॒र्भिदाति॑र॒द्‌दास॑म॒र्कै¦र्वि॒दद्‌व॑सु॒र्दय॑मानो॒विशत्रू॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

ब्रह्म॑जूतस्त॒न्वा᳚वावृधा॒नो¦भूरि॑दात्र॒आपृ॑ण॒द्‌रोद॑सी,उ॒भे || {1/11}{3.34.1}{3.3.5.1}{3.2.15.1}{333, 268, 2768}

इन्द्रः॑¦पूः॒ऽभित्¦आ¦अ॒ति॒र॒त्¦दास᳚‌म्¦अ॒र्कैः¦वि॒दत्ऽव॑सुः¦दय॑मानः¦वि¦शत्रू॑न् |
ब्रह्म॑ऽजूतः¦त॒न्वा᳚¦व॒वृ॒धा॒नः¦भूरि॑ऽदात्रः¦आ¦अ॒पृ॒ण॒त्¦रोद॑सी॒ इति॑¦उ॒भे इति॑ ||

म॒खस्य॑तेतवि॒षस्य॒प्रजू॒ति¦मिय᳚र्मि॒वाच॑म॒मृता᳚य॒भूष॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इन्द्र॑क्षिती॒नाम॑सि॒मानु॑षीणां¦वि॒शांदैवी᳚नामु॒तपू᳚र्व॒यावा᳚ || {2/11}{3.34.2}{3.3.5.2}{3.2.15.2}{334, 268, 2769}

म॒खस्य॑¦ते॒¦त॒वि॒षस्य॑¦प्र¦जू॒ति‌म्¦इय᳚र्मि¦वाच᳚‌म्¦अ॒मृता᳚य¦भूष॑न् |
इन्द्र॑¦क्षि॒ती॒ना‌म्¦अ॒सि॒¦मानु॑षीणा‌म्¦वि॒शा‌म्¦दैवी᳚ना‌म्¦उ॒त¦पू॒र्व॒ऽयावा᳚ ||

इन्द्रो᳚वृ॒त्रम॑वृणो॒च्छर्ध॑नीतिः॒¦प्रमा॒यिना᳚ममिना॒द्‌वर्प॑णीतिः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अह॒न्व्यं᳚समु॒शध॒ग्‌वने᳚¦ष्वा॒विर्धेना᳚,अकृणोद्‌रा॒म्याणा᳚म् || {3/11}{3.34.3}{3.3.5.3}{3.2.15.3}{335, 268, 2770}

इन्द्रः॑¦वृ॒त्र‌म्¦अ॒वृ॒णो॒त्¦शर्ध॑ऽनीतिः¦प्र¦मा॒यिना᳚‌म्¦अ॒मि॒ना॒त्¦वर्प॑ऽनीतिः |
अह॑न्¦वि।आं᳚स‌म्¦उ॒शध॑क्¦वने᳚षु¦आ॒विः¦धेनाः᳚¦अ॒कृ॒णो॒त्¦रा॒म्याणा᳚‌म् ||

इन्द्रः॑स्व॒र्षाज॒नय॒न्नहा᳚नि¦जि॒गायो॒शिग्भिः॒पृत॑ना,अभि॒ष्टिः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

प्रारो᳚चय॒न्मन॑वेके॒तुमह्ना॒¦मवि᳚न्द॒ज्ज्योति॑र्बृह॒तेरणा᳚य || {4/11}{3.34.4}{3.3.5.4}{3.2.15.4}{336, 268, 2771}

इन्द्रः॑¦स्वः॒ऽसाः¦ज॒नय॑न्¦अहा᳚नि¦जि॒गाय॑¦उ॒शिक्ऽभिः॑¦पृत॑नाः¦अ॒भि॒ष्टिः |
प्र¦अ॒रो॒च॒य॒त्¦मन॑वे¦के॒तु‌म्¦अह्ना᳚‌म्¦अवि᳚न्दत्¦ज्योतिः॑¦बृ॒ह॒ते¦रणा᳚य ||

इन्द्र॒स्तुजो᳚ब॒र्हणा॒,वि॑वेश¦नृ॒वद्दधा᳚नो॒नर्या᳚पु॒रूणि॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अचे᳚तय॒द्‌धिय॑इ॒माज॑रि॒त्रे¦प्रेमंवर्ण॑मतिरच्छु॒क्रमा᳚साम् || {5/11}{3.34.5}{3.3.5.5}{3.2.15.5}{337, 268, 2772}

इन्द्रः॑¦तुजः॑¦ब॒र्हणाः᳚¦आ¦वि॒वे॒श॒¦नृ॒ऽवत्¦दधा᳚नः¦नर्या᳚¦पु॒रूणि॑ |
अचे᳚तयत्¦धियः॑¦इ॒माः¦ज॒रि॒त्रे¦प्र¦इ॒म‌म्¦वर्ण᳚‌म्¦अ॒ति॒र॒त्¦शु॒क्र‌म्¦आ॒सा॒‌म् ||

म॒होम॒हानि॑पनयन्त्य॒स्ये¦न्द्र॑स्य॒कर्म॒सुकृ॑तापु॒रूणि॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

वृ॒जने᳚नवृजि॒नान्‌त्संपि॑पेष¦मा॒याभि॒र्दस्यूँ᳚र॒भिभू᳚त्योजाः || {6/11}{3.34.6}{3.3.5.6}{3.2.16.1}{338, 268, 2773}

म॒हः¦म॒हानि॑¦प॒न॒य॒न्ति॒¦अ॒स्य॒¦इन्द्र॑स्य¦कर्म॑¦सुऽकृ॑ता¦पु॒रूणि॑ |
वृ॒जने᳚न¦वृ॒जि॒नान्¦स‌म्¦पि॒पे॒ष॒¦मा॒याभिः॑¦दस्यू᳚न्¦अ॒भिभू᳚तिऽओजाः ||

यु॒धेन्द्रो᳚म॒ह्नावरि॑वश्चकार¦दे॒वेभ्यः॒सत्प॑तिश्चर्षणि॒प्राः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

वि॒वस्व॑तः॒सद॑ने,अस्य॒तानि॒¦विप्रा᳚,उ॒क्थेभिः॑क॒वयो᳚गृणन्ति || {7/11}{3.34.7}{3.3.5.7}{3.2.16.2}{339, 268, 2774}

यु॒धा¦इन्द्रः॑¦म॒ह्ना¦वरि॑वः¦च॒का॒र॒¦दे॒वेभ्यः॑¦सत्ऽप॑तिः¦च॒र्ष॒णि॒ऽप्राः |
वि॒वस्व॑तः¦सद॑ने¦अ॒स्य॒¦तानि॑¦विप्राः᳚¦उ॒क्थेभिः॑¦क॒वयः॑¦गृ॒ण॒न्ति॒ ||

स॒त्रा॒साहं॒वरे᳚ण्यंसहो॒दां¦स॑स॒वांसं॒स्व॑र॒पश्च॑दे॒वीः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

स॒सान॒यःपृ॑थि॒वींद्यामु॒तेमा¦मिन्द्रं᳚मद॒न्त्यनु॒धीर॑णासः || {8/11}{3.34.8}{3.3.5.8}{3.2.16.3}{340, 268, 2775}

स॒त्रा॒ऽसह᳚‌म्¦वरे᳚ण्य‌म्¦स॒हः॒ऽदा‌म्¦स॒स॒वांस᳚‌म्¦स्वः॑¦अ॒पः¦च॒¦दे॒वीः |
स॒सान॑¦यः¦पृ॒थि॒वी‌म्¦द्या‌म्¦उ॒त¦इ॒मा‌म्¦इन्द्र᳚‌म्¦म॒द॒न्ति॒¦अनु॑¦धीऽर॑णासः ||

स॒सानात्याँ᳚,उ॒तसूर्यं᳚ससा॒ने¦न्द्रः॑ससानपुरु॒भोज॑सं॒गाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

हि॒र॒ण्यय॑मु॒तभोगं᳚ससान¦ह॒त्वीदस्यू॒न्‌प्रार्यं॒वर्ण॑मावत् || {9/11}{3.34.9}{3.3.5.9}{3.2.16.4}{341, 268, 2776}

स॒सान॑¦अत्या᳚न्¦उ॒त¦सूर्य᳚‌म्¦स॒सा॒न॒¦इन्द्रः॑¦स॒सा॒न॒¦पु॒रु॒ऽभोज॑स‌म्¦गा‌म् |
हि॒र॒ण्यय᳚‌म्¦उ॒त¦भोग᳚‌म्¦स॒सा॒न॒¦ह॒त्वी¦दस्यू᳚न्¦प्र¦आर्य᳚‌म्¦वर्ण᳚‌म्¦आ॒व॒त् ||

इन्द्र॒ओष॑धीरसनो॒दहा᳚नि॒¦वन॒स्पतीँ᳚रसनोद॒न्तरि॑क्षम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

बि॒भेद॑व॒लंनु॑नु॒देविवा॒चो¦ऽथा᳚भवद्दमि॒ताभिक्र॑तूनाम् || {10/11}{3.34.10}{3.3.5.10}{3.2.16.5}{342, 268, 2777}

इन्द्रः॑¦ओष॑धीः¦अ॒स॒नो॒त्¦अहा᳚नि¦वन॒स्पती᳚न्¦अ॒स॒नो॒त्¦अ॒न्तरि॑क्ष‌म् |
बि॒भेद॑¦व॒ल‌म्¦नु॒नु॒दे¦विऽवा᳚चः¦अथ॑¦अ॒भ॒व॒त्¦द॒मि॒ता¦अ॒भिऽक्र॑तूना‌म् ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {11/11}{3.34.11}{3.3.5.11}{3.2.16.6}{343, 268, 2778}

शु॒न‌म्¦हु॒वे॒म॒¦म॒घऽवा᳚न‌म्¦इन्द्र᳚‌म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑म‌म्¦वाज॑ऽसातौ |
शृ॒ण्वन्त᳚‌म्¦उ॒ग्र‌म्¦ऊ॒तये᳚¦स॒मत्ऽसु॑¦घ्नन्त᳚‌म्¦वृ॒त्राणि॑¦स॒‌म्ऽजित᳚‌म्¦धना᳚ना‌म् ||

[35] तिष्ठाहरीइत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
तिष्ठा॒हरी॒रथ॒यु॒ज्यमा᳚ना¦या॒हिवा॒युर्ननि॒युतो᳚नो॒,अच्छ॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

पिबा॒स्यन्धो᳚,अ॒भिसृ॑ष्टो,अ॒स्मे¦,इन्द्र॒स्वाहा᳚ररि॒माते॒मदा᳚य || {1/11}{3.35.1}{3.3.6.1}{3.2.17.1}{344, 269, 2779}

तिष्ठ॑¦हरी॒ इति॑¦रथे᳚¦आ¦यु॒ज्यमा᳚ना¦या॒हि¦वा॒युः¦न¦नि॒ऽयुतः॑¦नः॒¦अच्छ॑ |
पिबा᳚सि¦अन्धः॑¦अ॒भिऽसृ॑ष्टः¦अ॒स्मे इति॑¦इन्द्र॑¦स्वाहा᳚¦र॒रि॒म¦ते॒¦मदा᳚य ||

उपा᳚जि॒रापु॑रुहू॒ताय॒सप्ती॒¦हरी॒रथ॑स्यधू॒र्ष्वायु॑नज्मि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

द्र॒वद्यथा॒सम्भृ॑तंवि॒श्वत॑श्चि॒¦दुपे॒मंय॒ज्ञमाव॑हात॒इन्द्र᳚म् || {2/11}{3.35.2}{3.3.6.2}{3.2.17.2}{345, 269, 2780}

उप॑¦अ॒जि॒रा¦पु॒रु॒ऽहू॒ताय॑¦सप्ती॒ इति॑¦हरी॒ इति॑¦रथ॑स्य¦धूः॒ऽसु¦आ¦यु॒न॒ज्मि॒ |
द्र॒वत्¦यथा᳚¦स‌म्ऽभृ॑त‌म्¦वि॒श्वतः॑¦चि॒त्¦उप॑¦इ॒म‌म्¦य॒ज्ञ‌म्¦आ¦व॒हा॒तः॒¦इन्द्र᳚‌म् ||

उपो᳚नयस्व॒वृष॑णातपु॒ष्पो¦तेम॑व॒त्वंवृ॑षभस्वधावः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

ग्रसे᳚ता॒मश्वा॒विमु॑चे॒हशोणा᳚¦दि॒वेदि॑वेस॒दृशी᳚रद्धिधा॒नाः || {3/11}{3.35.3}{3.3.6.3}{3.2.17.3}{346, 269, 2781}

उपो॒ इति॑¦न॒य॒स्व॒¦वृष॑णा¦त॒पुः॒ऽपा¦उ॒त¦ई॒‌म्¦अ॒व॒¦त्व‌म्¦वृ॒ष॒भ॒¦स्व॒धा॒ऽवः॒ |
ग्रसे᳚ता‌म्¦अश्वा᳚¦वि¦मु॒च॒¦इ॒ह¦शोणा᳚¦दि॒वेऽदि॑वे¦स॒ऽदृशीः᳚¦अ॒द्धि॒¦धा॒नाः ||

ब्रह्म॑णातेब्रह्म॒युजा᳚युनज्मि॒¦हरी॒सखा᳚यासध॒माद॑आ॒शू |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

स्थि॒रंरथं᳚सु॒खमि᳚न्द्राधि॒तिष्ठ॑न्¦प्रजा॒नन्‌वि॒द्वाँ,उप॑याहि॒सोम᳚म् || {4/11}{3.35.4}{3.3.6.4}{3.2.17.4}{347, 269, 2782}

ब्रह्म॑णा¦ते॒¦ब्र॒ह्म॒ऽयुजा᳚¦यु॒न॒ज्मि॒¦हरी॒ इति॑¦सखा᳚या¦स॒ध॒ऽमादे᳚¦आ॒शू इति॑ |
स्थि॒र‌म्¦रथ᳚‌म्¦सु॒ऽख‌म्¦इ॒न्द्र॒¦अ॒धि॒ऽतिष्ठ॑न्¦प्र॒ऽजा॒नन्¦वि॒द्वान्¦उप॑¦या॒हि॒¦सोम᳚‌म् ||

माते॒हरी॒वृष॑णावी॒तपृ॑ष्ठा॒¦निरी᳚रम॒न्‌यज॑मानासो,अ॒न्ये |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अ॒त्याया᳚हि॒शश्व॑तोव॒यंते¦रं᳚सु॒तेभिः॑कृणवाम॒सोमैः᳚ || {5/11}{3.35.5}{3.3.6.5}{3.2.17.5}{348, 269, 2783}

मा¦ते॒¦हरी॒ इति॑¦वृष॑णा¦वी॒तऽपृ॑ष्ठा¦नि¦री॒र॒म॒न्¦यज॑मानासः¦अ॒न्ये |
अ॒ति॒ऽआया᳚हि¦शश्व॑तः¦व॒य‌म्¦ते॒¦अर᳚‌म्¦सु॒तेभिः॑¦कृ॒ण॒वा॒म॒¦सोमैः᳚ ||

तवा॒यंसोम॒स्त्वमेह्य॒र्वाङ्¦श॑श्वत्त॒मंसु॒मना᳚,अ॒स्यपा᳚हि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अ॒स्मिन्‌य॒ज्ञेब॒र्हिष्यानि॒षद्या᳚¦दधि॒ष्वेमंज॒ठर॒इन्दु॑मिन्द्र || {6/11}{3.35.6}{3.3.6.6}{3.2.18.1}{349, 269, 2784}

तव॑¦अ॒य‌म्¦सोमः॑¦त्व‌म्¦आ¦इ॒हि॒¦अ॒र्वाङ्¦श॒श्व॒त्ऽत॒म‌म्¦सु॒ऽमनाः᳚¦अ॒स्य¦पा॒हि॒ |
अ॒स्मिन्¦य॒ज्ञे¦ब॒र्हिषि॑¦आ¦नि॒ऽसद्य॑¦द॒धि॒ष्व¦इ॒म‌म्¦ज॒ठरे᳚¦इन्दु᳚‌म्¦इ॒न्द्र॒ ||

स्ती॒र्णंते᳚ब॒र्हिःसु॒तइ᳚न्द्र॒सोमः॑¦कृ॒ताधा॒ना,अत्त॑वेते॒हरि॑भ्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

तदो᳚कसेपुरु॒शाका᳚य॒वृष्णे᳚¦म॒रुत्व॑ते॒तुभ्यं᳚रा॒ताह॒वींषि॑ || {7/11}{3.35.7}{3.3.6.7}{3.2.18.2}{350, 269, 2785}

स्ती॒र्ण‌म्¦ते॒¦ब॒र्हिः¦सु॒तः¦इ॒न्द्र॒¦सोमः॑¦कृ॒ताः¦धा॒नाः¦अत्त॑वे¦ते॒¦हरि॑ऽभ्या‌म् |
तत्ऽओ᳚कसे¦पु॒रु॒ऽशाका᳚य¦वृष्णे᳚¦म॒रुत्व॑ते¦तुभ्य᳚‌म्¦रा॒ता¦ह॒वींषि॑ ||

इ॒मंनरः॒पर्व॑ता॒ऽस्तुभ्य॒मापः॒¦समि᳚न्द्र॒गोभि॒र्मधु॑मन्तमक्रन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

तस्या॒गत्या᳚सु॒मना᳚ऋष्वपाहि¦प्रजा॒नन्‌वि॒द्वान्‌प॒थ्या॒३॑(आ॒)अनु॒स्वाः || {8/11}{3.35.8}{3.3.6.8}{3.2.18.3}{351, 269, 2786}

इ॒म‌म्¦नरः॑¦पर्व॑ताः¦तुभ्य᳚‌म्¦आपः॑¦स‌म्¦इ॒न्द्र॒¦गोभिः॑¦मधु॑ऽमन्त‌म्¦अ॒क्र॒न् |
तस्य॑¦आ॒ऽगत्य॑¦सु॒ऽमनाः᳚¦ऋ॒ष्व॒¦पा॒हि॒¦प्र॒ऽजा॒नन्¦वि॒द्वान्¦प॒थ्याः᳚¦अनु॑¦स्वाः ||

याँ,आभ॑जोम॒रुत॑इन्द्र॒सोमे॒ये¦त्वामव॑र्ध॒न्नभ॑वन्‌ग॒णस्ते᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

तेभि॑रे॒तंस॒जोषा᳚वावशा॒नो॒३॑(ओ॒)¦ऽग्नेःपि॑बजि॒ह्वया॒सोम॑मिन्द्र || {9/11}{3.35.9}{3.3.6.9}{3.2.18.4}{352, 269, 2787}

यान्¦आ¦अभ॑जः¦म॒रुतः॑¦इ॒न्द्र॒¦सोमे᳚¦ये¦त्वा‌म्¦अव॑र्धन्¦अभ॑वन्¦ग॒णः¦ते॒ |
तेभिः॑¦ए॒त‌म्¦स॒ऽजोषाः᳚¦वा॒व॒शा॒नः¦अ॒ग्नेः¦पि॒ब॒¦जि॒ह्वया᳚¦सोम᳚‌म्¦इ॒न्द्र॒ ||

इन्द्र॒पिब॑स्व॒धया᳚चित्‌सु॒तस्या॒¦ऽग्नेर्वा᳚पाहिजि॒ह्वया᳚यजत्र |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अ॒ध्व॒र्योर्वा॒प्रय॑तंशक्र॒हस्ता॒¦द्धोतु᳚र्वाय॒ज्ञंह॒विषो᳚जुषस्व || {10/11}{3.35.10}{3.3.6.10}{3.2.18.5}{353, 269, 2788}

इन्द्र॑¦पिब॑¦स्व॒धया᳚¦चि॒त्¦सु॒तस्य॑¦अ॒ग्नेः¦वा॒¦पा॒हि॒¦जि॒ह्वया᳚¦य॒ज॒त्र॒ |
अ॒ध्व॒र्योः¦वा॒¦प्रऽय॑त‌म्¦श॒क्र॒¦हस्ता᳚त्¦होतुः॑¦वा॒¦य॒ज्ञ‌म्¦ह॒विषः॑¦जु॒ष॒स्व॒ ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {11/11}{3.35.11}{3.3.6.11}{3.2.18.6}{354, 269, 2789}

शु॒न‌म्¦हु॒वे॒म॒¦म॒घऽवा᳚न‌म्¦इन्द्र᳚‌म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑म‌म्¦वाज॑ऽसातौ |
शृ॒ण्वन्त᳚‌म्¦उ॒ग्र‌म्¦ऊ॒तये᳚¦स॒मत्ऽसु॑¦घ्नन्त᳚‌म्¦वृ॒त्राणि॑¦स॒‌म्ऽजित᳚‌म्¦धना᳚ना‌म् ||

[36] इमामूष्वित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोदशम्याआंगिरसोघोरइंद्रस्त्रिष्टुप् |
इ॒मामू॒षुप्रभृ॑तिंसा॒तये᳚धाः॒¦शश्व॑च्छश्वदू॒तिभि॒र्याद॑मानः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

सु॒तेसु॑तेवावृधे॒वर्ध॑नेभि॒¦र्यःकर्म॑भिर्म॒हद्भिः॒सुश्रु॑तो॒भूत् || {1/11}{3.36.1}{3.3.7.1}{3.2.19.1}{355, 270, 2790}

इ॒मा‌म्¦ऊँ॒ इति॑¦सु¦प्रऽभृ॑ति‌म्¦सा॒तये᳚¦धाः॒¦शश्व॑त्ऽशश्वत्¦ऊ॒तिऽभिः॑¦याद॑मानः |
सु॒तेऽसु॑ते¦व॒वृ॒धे॒¦वर्ध॑नेभिः¦यः¦कर्म॑ऽभिः¦म॒हत्ऽभिः॑¦सुऽश्रु॑तः¦भूत् ||

इन्द्रा᳚य॒सोमाः᳚प्र॒दिवो॒विदा᳚ना¦ऋ॒भुर्येभि॒र्वृष॑पर्वा॒विहा᳚याः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

प्र॒य॒म्यमा᳚ना॒न्‌प्रति॒षूगृ॑भा॒ये¦न्द्र॒पिब॒वृष॑धूतस्य॒वृष्णः॑ || {2/11}{3.36.2}{3.3.7.2}{3.2.19.2}{356, 270, 2791}

इन्द्रा᳚य¦सोमाः᳚¦प्र॒ऽदिवः॑¦विदा᳚नाः¦ऋ॒भुः¦येभिः॑¦वृष॑ऽपर्वा¦विऽहा᳚याः |
प्र॒ऽय॒म्यमा᳚नान्¦प्रति॑¦सु¦गृ॒भा॒य॒¦इन्द्र॑¦पिब॑¦वृष॑ऽधूतस्य¦वृष्णः॑ ||

पिबा॒वर्ध॑स्व॒तव॑घासु॒तास॒¦इन्द्र॒सोमा᳚सःप्रथ॒मा,उ॒तेमे |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

यथापि॑बःपू॒र्व्याँ,इ᳚न्द्र॒सोमाँ᳚¦ए॒वापा᳚हि॒पन्यो᳚,अ॒द्यानवी᳚यान् || {3/11}{3.36.3}{3.3.7.3}{3.2.19.3}{357, 270, 2792}

पिब॑¦वर्ध॑स्व¦तव॑¦घ॒¦सु॒तासः॑¦इन्द्र॑¦सोमा᳚सः¦प्र॒थ॒माः¦उ॒त¦इ॒मे |
यथा᳚¦अपि॑बः¦पू॒र्व्यान्¦इ॒न्द्र॒¦सोमा᳚न्¦ए॒व¦पा॒हि॒¦पन्यः॑¦अ॒द्य¦नवी᳚यान् ||

म॒हाँ,अम॑त्रोवृ॒जने᳚विर॒प्श्यु१॑(उ॒)¦ग्रंशवः॑पत्यतेधृ॒ष्ण्वोजः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

नाह॑विव्याचपृथि॒वीच॒नैनं॒¦यत्सोमा᳚सो॒हर्य॑श्व॒मम᳚न्दन् || {4/11}{3.36.4}{3.3.7.4}{3.2.19.4}{358, 270, 2793}

म॒हान्¦अम॑त्रः¦वृ॒जने᳚¦वि॒ऽर॒प्शी¦उ॒ग्र‌म्¦शवः॑¦प॒त्य॒ते॒¦धृ॒ष्णु¦ओजः॑ |
न¦अह॑¦वि॒व्या॒च॒¦पृ॒थि॒वी¦च॒न¦ए॒न॒‌म्¦यत्¦सोमा᳚सः¦हरि॑।आश्व‌म्¦अम᳚न्दन् ||

म॒हाँ,उ॒ग्रोवा᳚वृधेवी॒र्या᳚य¦स॒माच॑क्रेवृष॒भःकाव्ये᳚न |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इन्द्रो॒भगो᳚वाज॒दा,अ॑स्य॒गावः॒¦प्रजा᳚यन्ते॒दक्षि॑णा,अस्यपू॒र्वीः || {5/11}{3.36.5}{3.3.7.5}{3.2.19.5}{359, 270, 2794}

म॒हान्¦उ॒ग्रः¦व॒वृ॒धे॒¦वी॒र्या᳚य¦स॒‌म्ऽआच॑क्रे¦वृ॒ष॒भः¦काव्ये᳚न |
इन्द्रः॑¦भगः॑¦वा॒ज॒ऽदाः¦अ॒स्य॒¦गावः॑¦प्र¦जा॒य॒न्ते॒¦दक्षि॑णाः¦अ॒स्य॒¦पू॒र्वीः ||

प्रयत्‌सिन्ध॑वःप्रस॒वंयथाय॒¦न्नापः॑समु॒द्रंर॒थ्ये᳚वजग्मुः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अत॑श्चि॒दिन्द्रः॒सद॑सो॒वरी᳚या॒न्¦यदीं॒सोमः॑पृ॒णति॑दु॒ग्धो,अं॒शुः || {6/11}{3.36.6}{3.3.7.6}{3.2.20.1}{360, 270, 2795}

प्र¦यत्¦सिन्ध॑वः¦प्र॒ऽस॒व‌म्¦यथा᳚¦आय॑न्¦आपः॑¦स॒मु॒द्र‌म्¦र॒थ्या᳚ऽ‌इव¦ज॒ग्मुः॒ |
अतः॑¦चि॒त्¦इन्द्रः॑¦सद॑सः¦वरी᳚यान्¦यत्¦ई॒‌म्¦सोमः॑¦पृ॒णति॑¦दु॒ग्धः¦अं॒शुः ||

स॒मु॒द्रेण॒सिन्ध॑वो॒याद॑माना॒,¦इन्द्रा᳚य॒सोमं॒सुषु॑तं॒भर᳚न्तः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अं॒शुंदु॑हन्तिह॒स्तिनो᳚भ॒रित्रै॒¦र्मध्वः॑पुनन्ति॒धार॑याप॒वित्रैः᳚ || {7/11}{3.36.7}{3.3.7.7}{3.2.20.2}{361, 270, 2796}

स॒मु॒द्रेण॑¦सिन्ध॑वः¦याद॑मानाः¦इन्द्रा᳚य¦सोम᳚‌म्¦सुऽसु॑त‌म्¦भर᳚न्तः |
अं॒शु‌म्¦दु॒ह॒न्ति॒¦ह॒स्तिनः॑¦भ॒रित्रैः᳚¦मध्वः॑¦पु॒न॒न्ति॒¦धार॑या¦प॒वित्रैः᳚ ||

ह्र॒दा,इ॑वकु॒क्षयः॑सोम॒धानाः॒¦समी᳚विव्याच॒सव॑नापु॒रूणि॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अन्ना॒यदिन्द्रः॑प्रथ॒माव्याश॑¦वृ॒त्रंज॑घ॒न्वाँ,अ॑वृणीत॒सोम᳚म् || {8/11}{3.36.8}{3.3.7.8}{3.2.20.3}{362, 270, 2797}

ह्र॒दाःऽ‌इ᳚व¦कु॒क्षयः॑¦सो॒म॒ऽधानाः᳚¦स‌म्¦ई॒मिति॑¦वि॒व्या॒च॒¦सव॑ना¦पु॒रूणि॑ |
अन्ना᳚¦यत्¦इन्द्रः॑¦प्र॒थ॒मा¦वि¦आश॑¦वृ॒त्र‌म्¦ज॒घ॒न्वान्¦अ॒वृ॒णी॒त॒¦सोम᳚‌म् ||

तूभ॑र॒माकि॑रे॒तत्‌परि॑ष्ठाद्¦वि॒द्माहित्वा॒वसु॑पतिं॒वसू᳚नाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒यत्ते॒माहि॑नं॒दत्र॒म¦स्त्य॒स्मभ्यं॒तद्ध᳚र्यश्व॒प्रय᳚न्धि || {9/11}{3.36.9}{3.3.7.9}{3.2.20.4}{363, 270, 2798}

आ¦तु¦भ॒र॒¦माकिः॑¦ए॒तत्¦परि॑¦स्था॒त्¦वि॒द्म¦हि¦त्वा॒¦वसु॑ऽपति‌म्¦वसू᳚ना‌म् |
इन्द्र॑¦यत्¦ते॒¦माहि॑न‌म्¦दत्र᳚‌म्¦अस्ति॑¦अ॒स्मभ्य᳚‌म्¦तत्¦ह॒रि॒।आ॒श्व॒¦प्र¦य॒न्धि॒ ||

अ॒स्मेप्रय᳚न्धिमघवन्‌नृजीषि॒¦न्निन्द्र॑रा॒योवि॒श्ववा᳚रस्य॒भूरेः᳚ |{आङ्गिरसो घोरः | इन्द्रः | त्रिष्टुप्}

अ॒स्मेश॒तंश॒रदो᳚जी॒वसे᳚धा¦,अ॒स्मेवी॒राञ्छश्व॑तइन्द्रशिप्रिन् || {10/11}{3.36.10}{3.3.7.10}{3.2.20.5}{364, 270, 2799}

अ॒स्मे इति॑¦प्र¦य॒न्धि॒¦म॒घ॒ऽव॒न्¦ऋ॒जी॒षि॒न्¦इन्द्र॑¦रा॒यः¦वि॒श्वऽवा᳚रस्य¦भूरेः᳚ |
अ॒स्मे इति॑¦श॒त‌म्¦श॒रदः॑¦जी॒वसे᳚¦धाः॒¦अ॒स्मे इति॑¦वी॒रान्¦शश्व॑तः¦इ॒न्द्र॒¦शि॒प्रि॒न् ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {11/11}{3.36.11}{3.3.7.11}{3.2.20.6}{365, 270, 2800}

शु॒न‌म्¦हु॒वे॒म॒¦म॒घऽवा᳚न‌म्¦इन्द्र᳚‌म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑म‌म्¦वाज॑ऽसातौ |
शृ॒ण्वन्त᳚‌म्¦उ॒ग्र‌म्¦ऊ॒तये᳚¦स॒मत्ऽसु॑¦घ्नन्त᳚‌म्¦वृ॒त्राणि॑¦स॒‌म्ऽजित᳚‌म्¦धना᳚ना‌म् ||

[37] वार्त्रहत्यायेत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री अंत्यानुष्टुप् |
वार्त्र॑हत्याय॒शव॑से¦पृतना॒षाह्या᳚य |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॒त्वाव॑र्तयामसि || {1/11}{3.37.1}{3.3.8.1}{3.2.21.1}{366, 271, 2801}

वार्त्र॑ऽहत्याय¦शव॑से¦पृ॒त॒ना॒ऽसह्या᳚य¦च॒ | इन्द्र॑¦त्वा॒¦आ¦व॒र्त॒या॒म॒सि॒ ||

अ॒र्वा॒चीनं॒सुते॒मन॑¦उ॒तचक्षुः॑शतक्रतो |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॑कृ॒ण्वन्तु॑वा॒घतः॑ || {2/11}{3.37.2}{3.3.8.2}{3.2.21.2}{367, 271, 2802}

अ॒र्वा॒चीन᳚‌म्¦सु¦ते॒¦मनः॑¦उ॒त¦चक्षुः॑¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | इन्द्र॑¦कृ॒ण्वन्तु॑¦वा॒घतः॑ ||

नामा᳚नितेशतक्रतो॒¦विश्वा᳚भिर्गी॒र्भिरी᳚महे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्रा᳚भिमाति॒षाह्ये᳚ || {3/11}{3.37.3}{3.3.8.3}{3.2.21.3}{368, 271, 2803}

नामा᳚नि¦ते॒¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो¦विश्वा᳚भिः¦गीः॒ऽभिः¦ई॒म॒हे॒ | इन्द्र॑¦अ॒भि॒मा॒ति॒ऽसह्ये᳚ ||

पु॒रु॒ष्टु॒तस्य॒धाम॑भिः¦श॒तेन॑महयामसि |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॑स्यचर्षणी॒धृतः॑ || {4/11}{3.37.4}{3.3.8.4}{3.2.21.4}{369, 271, 2804}

पु॒रु॒ऽस्तु॒तस्य॑¦धाम॑ऽभिः¦श॒तेन॑¦म॒ह॒या॒म॒सि॒ | इन्द्र॑स्य¦च॒र्ष॒णि॒ऽधृतः॑ ||

इन्द्रं᳚वृ॒त्राय॒हन्त॑वे¦पुरुहू॒तमुप॑ब्रुवे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

भरे᳚षु॒वाज॑सातये || {5/11}{3.37.5}{3.3.8.5}{3.2.21.5}{370, 271, 2805}

इन्द्र᳚‌म्¦वृ॒त्राय॑¦हन्त॑वे¦पु॒रु॒ऽहू॒त‌म्¦उप॑¦ब्रु॒वे॒ | भरे᳚षु¦वाज॑ऽसातये ||

वाजे᳚षुसास॒हिर्भ॑व॒¦त्वामी᳚महेशतक्रतो |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॑वृ॒त्राय॒हन्त॑वे || {6/11}{3.37.6}{3.3.8.6}{3.2.22.1}{371, 271, 2806}

वाजे᳚षु¦स॒स॒हिः¦भ॒व॒¦त्वा‌म्¦ई॒म॒हे॒¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | इन्द्र॑¦वृ॒त्राय॑¦हन्त॑वे ||

द्यु॒म्नेषु॑पृत॒नाज्ये᳚¦पृत्सु॒तूर्षु॒श्रव॑स्सु |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॒साक्ष्वा॒भिमा᳚तिषु || {7/11}{3.37.7}{3.3.8.7}{3.2.22.2}{372, 271, 2807}

द्यु॒म्नेषु॑¦पृ॒त॒नाज्ये᳚¦पृ॒त्सु॒तूर्षु॑¦श्रवः॑ऽसु¦च॒ | इन्द्र॑¦साक्ष्व॑¦अ॒भिऽमा᳚तिषु ||

शु॒ष्मिन्त॑मंऊ॒तये᳚¦द्यु॒म्निनं᳚पाहि॒जागृ॑विम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॒सोमं᳚शतक्रतो || {8/11}{3.37.8}{3.3.8.8}{3.2.22.3}{373, 271, 2808}

शु॒ष्मिन्ऽत॑म‌म्¦नः॒¦ऊ॒तये᳚¦द्यु॒म्निन᳚‌म्¦पा॒हि॒¦जागृ॑वि‌म् | इन्द्र॑¦सोम᳚‌म्¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ||

इ॒न्द्रि॒याणि॑शतक्रतो॒¦याते॒जने᳚षुप॒ञ्चसु॑ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॒तानि॑त॒वृ॑णे || {9/11}{3.37.9}{3.3.8.9}{3.2.22.4}{374, 271, 2809}

इ॒न्द्रि॒याणि॑¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो¦या¦ते॒¦जने᳚षु¦पं॒चऽसु॑ | इन्द्र॑¦तानि॑¦ते॒¦आ¦वृ॒णे॒ ||

अग᳚न्निन्द्र॒श्रवो᳚बृ॒हद्¦द्यु॒म्नंद॑धिष्वदु॒ष्टर᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

उत्ते॒शुष्मं᳚तिरामसि || {10/11}{3.37.10}{3.3.8.10}{3.2.22.5}{375, 271, 2810}

अग॑न्¦इ॒न्द्र॒¦श्रवः॑¦बृ॒हत्¦द्यु॒म्न‌म्¦द॒धि॒ष्व॒¦दु॒स्तर᳚‌म् | उत्¦ते॒¦शुष्म᳚‌म्¦ति॒रा॒म॒सि॒ ||

अ॒र्वा॒वतो᳚न॒ग॒¦ह्यथो᳚शक्रपरा॒वतः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | अनुष्टुप्}

उ॒लो॒कोयस्ते᳚,अद्रिव॒¦इन्द्रे॒हतत॒ग॑हि || {11/11}{3.37.11}{3.3.8.11}{3.2.22.6}{376, 271, 2811}

अ॒र्वा॒ऽवतः॑¦नः॒¦आ¦ग॒हि॒¦अथो॒ इति॑¦श॒क्र॒¦प॒रा॒ऽवतः॑ | ऊँ॒ इति॑¦लो॒कः¦यः¦ते॒¦अ॒द्रि॒ऽवः॒¦इन्द्र॑¦इ॒ह¦ततः॑¦आ¦ग॒हि॒ ||

[38] अभितष्ठेवेति दशर्चस्य सूक्तस्य वैश्वामित्रः प्रजापतिरिंद्रस्त्रिष्टुप् (वाच्यः प्रजापतिर्वा विश्वामित्रोवा) |
अ॒भितष्टे᳚वदीधयामनी॒षा¦मत्यो॒वा॒जीसु॒धुरो॒जिहा᳚नः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

अ॒भिप्रि॒याणि॒मर्मृ॑श॒त्‌परा᳚णि¦क॒वीँरि॑च्छामिसं॒दृशे᳚सुमे॒धाः || {1/10}{3.38.1}{3.3.9.1}{3.2.23.1}{377, 272, 2812}

अ॒भि¦तष्टा᳚ऽ‌इव¦दी॒ध॒य॒¦म॒नी॒षा‌म्¦अत्यः॑¦न¦वा॒जी¦सु॒ऽधुरः॑¦जिहा᳚नः |
अ॒भि¦प्रि॒याणि॑¦मर्मृ॑शत्¦परा᳚णि¦क॒वीन्¦इ॒च्छा॒मि॒¦स॒‌म्ऽदृशे᳚¦सु॒ऽमे॒धाः ||

इ॒नोतपृ॑च्छ॒जनि॑माकवी॒नां¦म॑नो॒धृतः॑सु॒कृत॑स्तक्षत॒द्याम् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

इ॒मा,उ॑तेप्र॒ण्यो॒३॑(ओ॒)वर्ध॑माना॒¦मनो᳚वाता॒,अध॒नुधर्म॑णिग्मन् || {2/10}{3.38.2}{3.3.9.2}{3.2.23.2}{378, 272, 2813}

इ॒ना¦उ॒त¦पृ॒च्छ॒¦जनि॑म¦क॒वी॒ना‌म्¦म॒नः॒ऽधृतः॑¦सु॒ऽकृतः॑¦त॒क्ष॒त॒¦द्या‌म् |
इ॒माः¦ऊँ॒ इति॑¦ते॒¦प्र॒ऽन्यः॑¦वर्ध॑मानाः¦मनः॑ऽवाताः¦अध॑¦नु¦धर्म॑णि¦ग्म॒न् ||

निषी॒मिदत्र॒गुह्या॒दधा᳚ना¦,उ॒तक्ष॒त्राय॒रोद॑सी॒सम᳚ञ्जन् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

संमात्रा᳚भिर्ममि॒रेये॒मुरु॒र्वी¦,अ॒न्तर्म॒हीसमृ॑ते॒धाय॑सेधुः || {3/10}{3.38.3}{3.3.9.3}{3.2.23.3}{379, 272, 2814}

नि¦सी॒‌म्¦इत्¦अत्र॑¦गुह्या᳚¦दधा᳚नाः¦उ॒त¦क्ष॒त्राय॑¦रोद॑सी॒ इति॑¦स‌म्¦अं॒ज॒न् |
स‌म्¦मात्रा᳚भिः¦म॒मि॒रे¦ये॒मुः¦उ॒र्वी इति॑¦अ॒न्तः¦म॒ही इति॑¦समृ॑ते॒ इति॒ स‌म्ऽऋ॑ते¦धाय॑से¦धु॒रिति॑ धुः ||

आ॒तिष्ठ᳚न्तं॒परि॒विश्वे᳚,अभूष॒ञ्¦छ्रियो॒वसा᳚नश्चरति॒स्वरो᳚चिः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

म॒हत्तद्‌वृष्णो॒,असु॑रस्य॒नामा¦ऽऽवि॒श्वरू᳚पो,अ॒मृता᳚नितस्थौ || {4/10}{3.38.4}{3.3.9.4}{3.2.23.4}{380, 272, 2815}

आ॒ऽतिष्ठ᳚न्त‌म्¦परि॑¦विश्वे᳚¦अ॒भू॒ष॒न्¦श्रियः॑¦वसा᳚नः¦च॒र॒ति॒¦स्वऽरो᳚चिः |
म॒हत्¦तत्¦वृष्णः॑¦असु॑रस्य¦नाम॑¦आ¦वि॒श्वऽरू᳚पः¦अ॒मृता᳚नि¦त॒स्थौ॒ ||

असू᳚त॒पूर्वो᳚वृष॒भोज्याया᳚¦नि॒मा,अ॑स्यशु॒रुधः॑सन्तिपू॒र्वीः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

दिवो᳚नपातावि॒दथ॑स्यधी॒भिः,¦क्ष॒त्रंरा᳚जानाप्र॒दिवो᳚दधाथे || {5/10}{3.38.5}{3.3.9.5}{3.2.23.5}{381, 272, 2816}

असू᳚त¦पूर्वः॑¦वृ॒ष॒भः¦ज्याया᳚न्¦इ॒माः¦अ॒स्य॒¦शु॒रुधः॑¦स॒न्ति॒¦पू॒र्वीः |
दिवः॑¦न॒पा॒ता॒¦वि॒दथ॑स्य¦धी॒भिः¦क्ष॒त्र‌म्¦रा॒जा॒ना॒¦प्र॒ऽदिवः॑¦द॒धा॒थे॒ इति॑ ||

त्रीणि॑राजानावि॒दथे᳚पु॒रूणि॒¦परि॒विश्वा᳚निभूषथः॒सदां᳚सि |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

अप॑श्य॒मत्र॒मन॑साजग॒न्वान्¦व्र॒तेग᳚न्ध॒र्वाँ,अपि॑वा॒युके᳚शान् || {6/10}{3.38.6}{3.3.9.6}{3.2.24.1}{382, 272, 2817}

त्रीणि॑¦रा॒जा॒ना॒¦वि॒दथे᳚¦पु॒रूणि॑¦परि॑¦विश्वा᳚नि¦भू॒ष॒थः॒¦सदां᳚सि |
अप॑श्य‌म्¦अत्र॑¦मन॑सा¦ज॒ग॒न्वान्¦व्र॒ते¦ग॒न्ध॒र्वान्¦अपि॑¦वा॒युऽके᳚शान् ||

तदिन्न्व॑स्यवृष॒भस्य॑धे॒नो¦रानाम॑भिर्ममिरे॒सक्म्यं॒गोः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

अ॒न्यद᳚न्यदसु॒र्य१॑(अं॒)वसा᳚ना॒¦निमा॒यिनो᳚ममिरेरू॒पम॑स्मिन् || {7/10}{3.38.7}{3.3.9.7}{3.2.24.2}{383, 272, 2818}

तत्¦इत्¦नु¦अ॒स्य॒¦वृ॒ष॒भस्य॑¦धे॒नोः¦आ¦नाम॑ऽभिः¦म॒मि॒रे॒¦सक्म्य᳚‌म्¦गोः |
अ॒न्यत्।आ᳚न्यत्¦अ॒सु॒र्य᳚‌म्¦वसा᳚नाः¦नि¦मा॒यिनः॑¦म॒मि॒रे॒¦रू॒प‌म्¦अ॒स्मि॒न् ||

तदिन्न्व॑स्यसवि॒तुर्नकि᳚र्मे¦हिर॒ण्ययी᳚म॒मतिं॒यामशि॑श्रेत् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

सु॑ष्टु॒तीरोद॑सीविश्वमि॒न्वे¦,अपी᳚व॒योषा॒जनि॑मानिवव्रे || {8/10}{3.38.8}{3.3.9.8}{3.2.24.3}{384, 272, 2819}

तत्¦इत्¦नु¦अ॒स्य॒¦स॒वि॒तुः¦नकिः॑¦मे॒¦हि॒र॒ण्ययी᳚‌म्¦अ॒मति᳚‌म्¦या‌म्¦अशि॑श्रेत् |
आ¦सु॒ऽस्तु॒ती¦रोद॑सी॒ इति॑¦वि॒श्व॒मि॒न्वे इति॑ वि॒श्व॒‌म्ऽ‌इ॒न्वे¦अपि॑ऽ‌इव¦योषा᳚¦जनि॑मानि¦व॒व्रे॒ ||

यु॒वंप्र॒त्नस्य॑साधथोम॒होयद्¦दैवी᳚स्व॒स्तिःपरि॑णःस्यातम् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

गो॒पाजि॑ह्वस्यत॒स्थुषो॒विरू᳚पा॒¦विश्वे᳚पश्यन्तिमा॒यिनः॑कृ॒तानि॑ || {9/10}{3.38.9}{3.3.9.9}{3.2.24.4}{385, 272, 2820}

यु॒व‌म्¦प्र॒त्नस्य॑¦सा॒ध॒थः॒¦म॒हः¦यत्¦दैवी᳚¦स्व॒स्तिः¦परि॑¦नः॒¦स्या॒त॒‌म् |
गो॒पाजि॑ह्वस्य¦त॒स्थुषः॑¦विऽरू᳚पा¦विश्वे᳚¦प॒श्य॒न्ति॒¦मा॒यिनः॑¦कृ॒तानि॑ ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {10/10}{3.38.10}{3.3.9.10}{3.2.24.5}{386, 272, 2821}

शु॒न‌म्¦हु॒वे॒म॒¦म॒घऽवा᳚न‌म्¦इन्द्र᳚‌म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑म‌म्¦वाज॑ऽसातौ |
शृ॒ण्वन्त᳚‌म्¦उ॒ग्र‌म्¦ऊ॒तये᳚¦स॒मत्ऽसु॑¦घ्नन्त᳚‌म्¦वृ॒त्राणि॑¦स॒‌म्ऽजित᳚‌म्¦धना᳚ना‌म् ||

[39] इंद्रंमतिरिति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
इन्द्रं᳚म॒तिर्हृ॒दव॒च्यमा॒ना¦च्छा॒पतिं॒स्तोम॑तष्टाजिगाति |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

याजागृ॑विर्वि॒दथे᳚श॒स्यमा॒ने¦न्द्र॒यत्ते॒जाय॑तेवि॒द्धितस्य॑ || {1/9}{3.39.1}{3.4.1.1}{3.2.25.1}{387, 273, 2822}

इन्द्र᳚‌म्¦म॒तिः¦हृ॒दः¦आ¦व॒च्यमा᳚ना¦अच्छ॑¦पति᳚‌म्¦स्तोम॑ऽतष्टा¦जि॒गा॒ति॒ |
या¦जागृ॑विः¦वि॒दथे᳚¦श॒स्यमा᳚ना¦इन्द्र॑¦यत्¦ते॒¦जाय॑ते¦वि॒द्धि¦तस्य॑ ||

दि॒वश्चि॒दापू॒र्व्याजाय॑माना॒¦विजागृ॑विर्वि॒दथे᳚श॒स्यमा᳚ना |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

भ॒द्रावस्त्रा॒ण्यर्जु॑ना॒वसा᳚ना॒¦सेयम॒स्मेस॑न॒जापित्र्या॒धीः || {2/9}{3.39.2}{3.4.1.2}{3.2.25.2}{388, 273, 2823}

दि॒वः¦चि॒त्¦आ¦पू॒र्व्या¦जाय॑माना¦वि¦जागृ॑विः¦वि॒दथे᳚¦श॒स्यमा᳚ना |
भ॒द्रा¦वस्त्रा᳚णि¦अर्जु॑ना¦वसा᳚ना¦सा¦इ॒य‌म्¦अ॒स्मे इति॑¦स॒न॒ऽजा¦पित्र्या᳚¦धीः ||

य॒माचि॒दत्र॑यम॒सूर॑सूत¦जि॒ह्वाया॒,अग्रं॒पत॒दाह्यस्था᳚त् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

वपूं᳚षिजा॒तामि॑थु॒नास॑चेते¦तमो॒हना॒तपु॑षोबु॒ध्नएता᳚ || {3/9}{3.39.3}{3.4.1.3}{3.2.25.3}{389, 273, 2824}

य॒मा¦चि॒त्¦अत्र॑¦य॒म॒ऽसूः¦अ॒सू॒त॒¦जि॒ह्वायाः᳚¦अग्र᳚‌म्¦पत॑त्¦आ¦हि¦अस्था᳚त् |
वपूं᳚षि¦जा॒ता¦मि॒थु॒ना¦स॒चे॒ते॒ इति॑¦त॒मः॒ऽहना᳚¦तपु॑षः¦बु॒ध्ने¦आऽ‌इ᳚ता ||

नकि॑रेषांनिन्दि॒तामर्त्ये᳚षु॒¦ये,अ॒स्माकं᳚पि॒तरो॒गोषु॑यो॒धाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इन्द्र॑एषांदृंहि॒तामाहि॑नावा॒¦नुद्‌गो॒त्राणि॑ससृजेदं॒सना᳚वान् || {4/9}{3.39.4}{3.4.1.4}{3.2.25.4}{390, 273, 2825}

नकिः॑¦ए॒षा॒‌म्¦नि॒न्दि॒ता¦मर्त्ये᳚षु¦ये¦अ॒स्माक᳚‌म्¦पि॒तरः॑¦गोषु॑¦यो॒धाः |
इन्द्रः॑¦ए॒षा॒‌म्¦दृं॒हि॒ता¦माहि॑नऽवान्¦उत्¦गो॒त्राणि॑¦स॒सृ॒जे॒¦दं॒सना᳚ऽवान् ||

सखा᳚ह॒यत्र॒सखि॑भि॒र्नव॑ग्वै¦रभि॒ज्ञ्वासत्व॑भि॒र्गा,अ॑नु॒ग्मन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

स॒त्यंतदिन्द्रो᳚द॒शभि॒र्दश॑ग्वैः॒¦सूर्यं᳚विवेद॒तम॑सिक्षि॒यन्त᳚म् || {5/9}{3.39.5}{3.4.1.5}{3.2.25.5}{391, 273, 2826}

सखा᳚¦ह॒¦यत्र॑¦सखि॑ऽभिः¦नव॑ऽग्वैः¦अ॒भि॒ऽज्ञु¦आ¦सत्व॑ऽभिः¦गाः¦अ॒नु॒ऽग्मन् |
स॒त्य‌म्¦तत्¦इन्द्रः॑¦द॒शऽभिः॑¦दश॑ऽग्वैः¦सूर्य᳚‌म्¦वि॒वे॒द॒¦तम॑सि¦क्षि॒यन्त᳚‌म् ||

इन्द्रो॒मधु॒सम्भृ॑तमु॒स्रिया᳚यां¦प॒द्वद्‌वि॑वेदश॒फव॒न्नमे॒गोः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

गुहा᳚हि॒तंगुह्यं᳚गू॒ळ्हम॒प्सु¦हस्ते᳚दधे॒दक्षि॑णे॒दक्षि॑णावान् || {6/9}{3.39.6}{3.4.1.6}{3.2.26.1}{392, 273, 2827}

इन्द्रः॑¦मधु॑¦स‌म्ऽभृ॑त‌म्¦उ॒स्रिया᳚या‌म्¦प॒त्ऽवत्¦वि॒वे॒द॒¦श॒फऽव॑त्¦नमे᳚¦गोः |
गुहा᳚¦हि॒त‌म्¦गुह्य᳚‌म्¦गू॒ळ्ह‌म्¦अ॒प्ऽसु¦हस्ते᳚¦द॒धे॒¦दक्षि॑णे¦दक्षि॑णऽवान् ||

ज्योति᳚र्वृणीत॒तम॑सोविजा॒न¦न्ना॒रेस्या᳚मदुरि॒ताद॒भीके᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इ॒मागिरः॑सोमपाःसोमवृद्ध¦जु॒षस्वे᳚न्द्रपुरु॒तम॑स्यका॒रोः || {7/9}{3.39.7}{3.4.1.7}{3.2.26.2}{393, 273, 2828}

ज्योतिः॑¦वृ॒णी॒त॒¦तम॑सः¦वि॒ऽजा॒नन्¦आ॒रे¦स्या॒म॒¦दुः॒ऽ‌इ॒तात्¦अ॒भीके᳚ |
इ॒माः¦गिरः॑¦सो॒म॒ऽपाः॒¦सो॒म॒ऽवृ॒द्ध॒¦जु॒षस्व॑¦इ॒न्द्र॒¦पु॒रु॒ऽतम॑स्य¦का॒रोः ||

ज्योति᳚र्य॒ज्ञाय॒रोद॑सी॒,अनु॑ष्या¦दा॒रेस्या᳚मदुरि॒तस्य॒भूरेः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

भूरि॑चि॒द्धितु॑ज॒तोमर्त्य॑स्य¦सुपा॒रासो᳚वसवोब॒र्हणा᳚वत् || {8/9}{3.39.8}{3.4.1.8}{3.2.26.3}{394, 273, 2829}

ज्योतिः॑¦य॒ज्ञाय॑¦रोद॑सी॒ इति॑¦अनु॑¦स्या॒त्¦आ॒रे¦स्या॒म॒¦दुः॒ऽ‌इ॒तस्य॑¦भूरेः᳚ |
भूरि॑¦चि॒त्¦हि¦तु॒ज॒तः¦मर्त्य॑स्य¦सु॒ऽपा॒रासः॑¦व॒स॒वः॒¦ब॒र्हणा᳚ऽवत् ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {9/9}{3.39.9}{3.4.1.9}{3.2.26.4}{395, 273, 2830}

शु॒न‌म्¦हु॒वे॒म॒¦म॒घऽवा᳚न‌म्¦इन्द्र᳚‌म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑म‌म्¦वाज॑ऽसातौ |
शृ॒ण्वन्त᳚‌म्¦उ॒ग्र‌म्¦ऊ॒तये᳚¦स॒मत्ऽसु॑¦घ्नन्त᳚‌म्¦वृ॒त्राणि॑¦स॒‌म्ऽजित᳚‌म्¦धना᳚ना‌म् ||

[40] इंद्रत्वेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री |
इन्द्र॑त्वावृष॒भंव॒यं¦सु॒तेसोमे᳚हवामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

पा᳚हि॒मध्वो॒,अन्ध॑सः || {1/9}{3.40.1}{3.4.2.1}{3.3.1.1}{396, 274, 2831}

इन्द्र॑¦त्वा॒¦वृ॒ष॒भ‌म्¦व॒य‌म्¦सु॒ते¦सोमे᳚¦ह॒वा॒म॒हे॒ | सः¦पा॒हि॒¦मध्वः॑¦अन्ध॑सः ||

इन्द्र॑क्रतु॒विदं᳚सु॒तं¦सोमं᳚हर्यपुरुष्टुत |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

पिबावृ॑षस्व॒तातृ॑पिम् || {2/9}{3.40.2}{3.4.2.2}{3.3.1.2}{397, 274, 2832}

इन्द्र॑¦क्र॒तु॒ऽविद᳚‌म्¦सु॒त‌म्¦सोम᳚‌म्¦ह॒र्य॒¦पु॒रु॒ऽस्तु॒त॒ | पिब॑¦आ¦वृ॒ष॒स्व॒¦ततृ॑पि‌म् ||

इन्द्र॒प्रणो᳚धि॒तावा᳚नं¦य॒ज्ञंविश्वे᳚भिर्दे॒वेभिः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

ति॒रस्त॑वानविश्पते || {3/9}{3.40.3}{3.4.2.3}{3.3.1.3}{398, 274, 2833}

इन्द्र॑¦प्र¦नः॒¦धि॒तऽवा᳚न‌म्¦य॒ज्ञ‌म्¦विश्वे᳚भिः¦दे॒वेभिः॑ | ति॒र¦स्त॒वा॒न॒¦वि॒श्प॒ते॒ ||

इन्द्र॒सोमाः᳚सु॒ता,इ॒मे¦तव॒प्रय᳚न्तिसत्पते |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

क्षयं᳚च॒न्द्रास॒इन्द॑वः || {4/9}{3.40.4}{3.4.2.4}{3.3.1.4}{399, 274, 2834}

इन्द्र॑¦सोमाः᳚¦सु॒ताः¦इ॒मे¦तव॑¦प्र¦य॒न्ति॒¦स॒त्ऽप॒ते॒ | क्षय᳚‌म्¦च॒न्द्रासः॑¦इन्द॑वः ||

द॒धि॒ष्वाज॒ठरे᳚सु॒तं¦सोम॑मिन्द्र॒वरे᳚ण्यम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

तव॑द्यु॒क्षास॒इन्द॑वः || {5/9}{3.40.5}{3.4.2.5}{3.3.1.5}{400, 274, 2835}

द॒धि॒ष्व¦ज॒ठरे᳚¦सु॒त‌म्¦सोम᳚‌म्¦इ॒न्द्र॒¦वरे᳚ण्य‌म् | तव॑¦द्यु॒क्षासः॑¦इन्द॑वः ||

गिर्व॑णःपा॒हिनः॑सु॒तं¦मधो॒र्धारा᳚भिरज्यसे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॒त्वादा᳚त॒मिद्‌यशः॑ || {6/9}{3.40.6}{3.4.2.6}{3.3.2.1}{401, 274, 2836}

गिर्व॑णः¦पा॒हि¦नः॒¦सु॒त‌म्¦मधोः᳚¦धारा᳚भिः¦अ॒ज्य॒से॒ | इन्द्र॑¦त्वाऽदा᳚त‌म्¦इत्¦यशः॑ ||

अ॒भिद्यु॒म्नानि॑व॒निन॒¦इन्द्रं᳚सचन्ते॒,अक्षि॑ता |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

पी॒त्वीसोम॑स्यवावृधे || {7/9}{3.40.7}{3.4.2.7}{3.3.2.2}{402, 274, 2837}

अ॒भि¦द्यु॒म्नानि॑¦व॒निनः॑¦इन्द्र᳚‌म्¦स॒च॒न्ते॒¦अक्षि॑ता | पी॒त्वी¦सोम॑स्य¦व॒वृ॒धे॒ ||

अ॒र्वा॒वतो᳚न॒ग॑हि¦परा॒वत॑श्चवृत्रहन् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इ॒माजु॑षस्वनो॒गिरः॑ || {8/9}{3.40.8}{3.4.2.8}{3.3.2.3}{403, 274, 2838}

अ॒र्वा॒ऽवतः॑¦नः॒¦आ¦ग॒हि॒¦प॒रा॒ऽवतः॑¦च॒¦वृ॒त्र॒ऽह॒न् | इ॒माः¦जु॒ष॒स्व॒¦नः॒¦गिरः॑ ||

यद᳚न्त॒राप॑रा॒वत॑¦मर्वा॒वतं᳚हू॒यसे᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्रे॒हतत॒ग॑हि || {9/9}{3.40.9}{3.4.2.9}{3.3.2.4}{404, 274, 2839}

यत्¦अ॒न्त॒रा¦प॒रा॒ऽवत᳚‌म्¦अ॒र्वा॒ऽवत᳚‌म्¦च॒¦हू॒यसे᳚ | इन्द्र॑¦इ॒ह¦ततः॑¦आ¦ग॒हि॒ ||

[41] आतून‌इंद्रेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री |
तून॑इन्द्रम॒द्र्य॑¦ग्घुवा॒नःसोम॑पीतये |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

हरि॑भ्यांयाह्यद्रिवः || {1/9}{3.41.1}{3.4.3.1}{3.3.3.1}{405, 275, 2840}

आ¦तु¦नः॒¦इ॒न्द्र॒¦म॒द्र्य॑क्¦हु॒वा॒नः¦सोम॑ऽपीतये | हरि॑ऽभ्या‌म्¦या॒हि॒¦अ॒द्रि॒ऽवः॒ ||

स॒त्तोहोता᳚ऋ॒त्विय॑¦स्तिस्ति॒रेब॒र्हिरा᳚नु॒षक् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

अयु॑ज्रन्‌प्रा॒तरद्र॑यः || {2/9}{3.41.2}{3.4.3.2}{3.3.3.2}{406, 275, 2841}

स॒त्तः¦होता᳚¦नः॒¦ऋ॒त्वियः॑¦ति॒स्ति॒रे¦ब॒र्हिः¦आ॒नु॒षक् | अयु॑ज्रन्¦प्रा॒तः¦अद्र॑यः ||

इ॒माब्रह्म॑ब्रह्मवाहः¦क्रि॒यन्त॒ब॒र्हिःसी᳚द |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

वी॒हिशू᳚रपुरो॒ळाश᳚म् || {3/9}{3.41.3}{3.4.3.3}{3.3.3.3}{407, 275, 2842}

इ॒मा¦ब्रह्म॑¦ब्र॒ह्म॒ऽवा॒हः॒¦क्रि॒यन्ते᳚¦आ¦ब॒र्हिः¦सी॒द॒ | वी॒हि¦शू॒र॒¦पु॒रो॒ळाश᳚‌म् ||

रा॒र॒न्धिसव॑नेषुण¦ए॒षुस्तोमे᳚षुवृत्रहन् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

उ॒क्थेष्वि᳚न्द्रगिर्वणः || {4/9}{3.41.4}{3.4.3.4}{3.3.3.4}{408, 275, 2843}

र॒र॒न्धि¦सव॑नेषु¦नः॒¦ए॒षु¦स्तोमे᳚षु¦वृ॒त्र॒ऽह॒न् | उ॒क्थेषु॑¦इ॒न्द्र॒¦गि॒र्व॒णः॒ ||

म॒तयः॑सोम॒पामु॒रुं¦रि॒हन्ति॒शव॑स॒स्पति᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्रं᳚व॒त्संमा॒तरः॑ || {5/9}{3.41.5}{3.4.3.5}{3.3.3.5}{409, 275, 2844}

म॒तयः॑¦सो॒म॒ऽपा‌म्¦उ॒रु‌म्¦रि॒हन्ति॑¦शव॑सः¦पति᳚‌म् | इन्द्र᳚‌म्¦व॒त्स‌म्¦न¦मा॒तरः॑ ||

म᳚न्दस्वा॒ह्यन्ध॑सो॒¦राध॑सेत॒न्वा᳚म॒हे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

स्तो॒तारं᳚नि॒देक॑रः || {6/9}{3.41.6}{3.4.3.6}{3.3.4.1}{410, 275, 2845}

सः¦म॒न्द॒स्व॒¦हि¦अन्ध॑सः¦राध॑से¦त॒न्वा᳚¦म॒हे | न¦स्तो॒तार᳚‌म्¦नि॒दे¦क॒रः॒ ||

व॒यमि᳚न्द्रत्वा॒यवो᳚¦ह॒विष्म᳚न्तोजरामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

उ॒तत्वम॑स्म॒युर्व॑सो || {7/9}{3.41.7}{3.4.3.7}{3.3.4.2}{411, 275, 2846}

व॒य‌म्¦इ॒न्द्र॒¦त्वा॒ऽयवः॑¦ह॒विष्म᳚न्तः¦ज॒रा॒म॒हे॒ | उ॒त¦त्व‌म्¦अ॒स्म॒ऽयुः¦व॒सो॒ इति॑ ||

मारे,अ॒स्मद्‌विमु॑मुचो॒¦हरि॑प्रिया॒र्वाङ्या᳚हि |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॑स्वधावो॒मत्स्वे॒ह || {8/9}{3.41.8}{3.4.3.8}{3.3.4.3}{412, 275, 2847}

मा¦आ॒रे¦अ॒स्मत्¦वि¦मु॒मु॒चः॒¦हरि॑ऽप्रिय¦आ॒र्वाङ्¦या॒हि॒ | इन्द्र॑¦स्व॒धा॒ऽवः॒¦मत्स्व॑¦इ॒ह ||

अ॒र्वाञ्चं᳚त्वासु॒खेरथे॒¦वह॑तामिन्द्रके॒शिना᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

घृ॒तस्नू᳚ब॒र्हिरा॒सदे᳚ || {9/9}{3.41.9}{3.4.3.9}{3.3.4.4}{413, 275, 2848}

अ॒र्वांच᳚‌म्¦त्वा॒¦सु॒ऽखे¦रथे᳚¦वह॑ता‌म्¦इ॒न्द्र॒¦के॒शिना᳚ | घृ॒तस्नू॒ इति॑ घृ॒तऽस्नू᳚¦ब॒र्हिः¦आ॒ऽसदे᳚ ||

[42] उपनइति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र इंद्रोगायत्री |
उप॑नःसु॒तमाग॑हि॒¦सोम॑मिन्द्र॒गवा᳚शिरम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

हरि॑भ्यां॒यस्ते᳚,अस्म॒युः || {1/9}{3.42.1}{3.4.4.1}{3.3.5.1}{414, 276, 2849}

उप॑¦नः॒¦सु॒त‌म्¦आ¦ग॒हि॒¦सोम᳚‌म्¦इ॒न्द्र॒¦गोऽआ᳚शिर‌म् | हरि॑ऽभ्या‌म्¦यः¦ते॒¦अ॒स्म॒ऽयुः ||

तमि᳚न्द्र॒मद॒माग॑हि¦बर्हिः॒ष्ठांग्राव॑भिःसु॒तम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

कु॒विन्न्व॑स्यतृ॒प्णवः॑ || {2/9}{3.42.2}{3.4.4.2}{3.3.5.2}{415, 276, 2850}

त‌म्¦इ॒न्द्र॒¦मद᳚‌म्¦आ¦ग॒हि॒¦ब॒र्हिः॒ऽस्था‌म्¦ग्राव॑ऽभिः¦सु॒त‌म् | कु॒वित्¦नु¦अ॒स्य॒¦तृ॒ष्णवः॑ ||

इन्द्र॑मि॒त्थागिरो॒ममा¦च्छा᳚गुरिषि॒ता,इ॒तः |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

आ॒वृते॒सोम॑पीतये || {3/9}{3.42.3}{3.4.4.3}{3.3.5.3}{416, 276, 2851}

इन्द्र᳚‌म्¦इ॒त्था¦गिरः॑¦मम॑¦अच्छ॑¦अ॒गुः॒¦इ॒षि॒ताः¦इ॒तः | आ॒ऽवृते᳚¦सोम॑ऽपीतये ||

इन्द्रं॒सोम॑स्यपी॒तये॒¦स्तोमै᳚रि॒हह॑वामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

उ॒क्थेभिः॑कु॒विदा॒गम॑त् || {4/9}{3.42.4}{3.4.4.4}{3.3.5.4}{417, 276, 2852}

इन्द्र᳚‌म्¦सोम॑स्य¦पी॒तये᳚¦स्तोमैः᳚¦इ॒ह¦ह॒वा॒म॒हे॒ | उ॒क्थेभिः॑¦कु॒वित्¦आ॒ऽगम॑त् ||

इन्द्र॒सोमाः᳚सु॒ता,इ॒मे¦तान्‌द॑धिष्वशतक्रतो |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

ज॒ठरे᳚वाजिनीवसो || {5/9}{3.42.5}{3.4.4.5}{3.3.5.5}{418, 276, 2853}

इन्द्र॑¦सोमाः᳚¦सु॒ताः¦इ॒मे¦तान्¦द॒धि॒ष्व॒¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | ज॒ठरे᳚¦वा॒जि॒नी॒व॒सो॒ इति॑ वाजिनीऽवसो ||

वि॒द्माहित्वा᳚धनंज॒यं¦वाजे᳚षुदधृ॒षंक॑वे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

अधा᳚तेसु॒म्नमी᳚महे || {6/9}{3.42.6}{3.4.4.6}{3.3.6.1}{419, 276, 2854}

वि॒द्म¦हि¦त्वा॒¦ध॒न॒‌म्ऽज॒य‌म्¦वाजे᳚षु¦द॒धृ॒ष‌म्¦क॒वे॒ | अध॑¦ते॒¦सु॒म्न‌म्¦ई॒म॒हे॒ ||

इ॒ममि᳚न्द्र॒गवा᳚शिरं॒¦यवा᳚शिरंनःपिब |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

आ॒गत्या॒वृष॑भिःसु॒तम् || {7/9}{3.42.7}{3.4.4.7}{3.3.6.2}{420, 276, 2855}

इ॒म‌म्¦इ॒न्द्र॒¦गोऽआ᳚शिर‌म्¦यव॑ऽआशिर‌म्¦च॒¦नः॒¦पि॒ब॒ | आ॒ऽगत्य॑¦वृष॑ऽभिः¦सु॒त‌म् ||

तुभ्येदि᳚न्द्र॒स्वओ॒क्ये॒३॑(ए॒)¦सोमं᳚चोदामिपी॒तये᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

ए॒षरा᳚रन्तुतेहृ॒दि || {8/9}{3.42.8}{3.4.4.8}{3.3.6.3}{421, 276, 2856}

तुभ्य॑¦इत्¦इ॒न्द्र॒¦स्वे¦ओ॒क्ये᳚¦सोम᳚‌म्¦चो॒दा॒मि॒¦पी॒तये᳚ | ए॒षः¦र॒र॒न्तु॒¦ते॒¦हृ॒दि ||

त्वांसु॒तस्य॑पी॒तये᳚¦प्र॒त्नमि᳚न्द्रहवामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

कु॒शि॒कासो᳚,अव॒स्यवः॑ || {9/9}{3.42.9}{3.4.4.9}{3.3.6.4}{422, 276, 2857}

त्वा‌म्¦सु॒तस्य॑¦पी॒तये᳚¦प्र॒त्न‌म्¦इ॒न्द्र॒¦ह॒वा॒म॒हे॒ | कु॒शि॒कासः॑¦अ॒व॒स्यवः॑ ||

[43] आयाह्यर्वाङित्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
या᳚ह्य॒र्वाङुप॑वन्धुरे॒ष्ठा¦स्तवेदनु॑प्र॒दिवः॑सोम॒पेय᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

प्रि॒यासखा᳚या॒विमु॒चोप॑ब॒र्हि¦स्त्वामि॒मेह᳚व्य॒वाहो᳚हवन्ते || {1/8}{3.43.1}{3.4.5.1}{3.3.7.1}{423, 277, 2858}

आ¦या॒हि॒¦अ॒र्वाङ्¦उप॑¦व॒न्धु॒रे॒ऽस्थाः¦तव॑¦इत्¦अनु॑¦प्र॒ऽदिवः॑¦सो॒म॒ऽपेय᳚‌म् |
प्रि॒या¦सखा᳚या¦वि¦मु॒च॒¦उप॑¦ब॒र्हिः¦त्वा‌म्¦इ॒मे¦ह॒व्य॒ऽवाहः॑¦ह॒व॒न्ते॒ ||

या᳚हिपू॒र्वीरति॑चर्ष॒णीराँ¦अ॒र्यआ॒शिष॒उप॑नो॒हरि॑भ्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इ॒माहित्वा᳚म॒तयः॒स्तोम॑तष्टा॒,¦इन्द्र॒हव᳚न्तेस॒ख्यंजु॑षा॒णाः || {2/8}{3.43.2}{3.4.5.2}{3.3.7.2}{424, 277, 2859}

आ¦या॒हि॒¦पू॒र्वीः¦अति॑¦च॒र्ष॒णीः¦आ¦अ॒र्यः¦आ॒ऽशिषः॑¦उप॑¦नः॒¦हरि॑ऽभ्या‌म् |
इ॒माः¦हि¦त्वा॒¦म॒तयः॑¦स्तोम॑ऽतष्टाः¦इन्द्र॑¦हव᳚न्ते¦स॒ख्य‌म्¦जु॒षा॒णाः ||

नो᳚य॒ज्ञंन॑मो॒वृधं᳚स॒जोषा॒,¦इन्द्र॑देव॒हरि॑भिर्याहि॒तूय᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अ॒हंहित्वा᳚म॒तिभि॒र्जोह॑वीमि¦घृ॒तप्र॑याःसध॒मादे॒मधू᳚नाम् || {3/8}{3.43.3}{3.4.5.3}{3.3.7.3}{425, 277, 2860}

आ¦नः॒¦य॒ज्ञ‌म्¦न॒मः॒ऽवृध᳚‌म्¦स॒ऽजोषाः᳚¦इन्द्र॑¦दे॒व॒¦हरि॑ऽभिः¦या॒हि॒¦तूय᳚‌म् |
अ॒ह‌म्¦हि¦त्वा॒¦म॒तिऽभिः॑¦जोह॑वीमि¦घृ॒तऽप्र॑याः¦स॒ध॒ऽमादे᳚¦मधू᳚ना‌म् ||

च॒त्वामे॒तावृष॑णा॒वहा᳚तो॒¦हरी॒सखा᳚यासु॒धुरा॒स्वङ्गा᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

धा॒नाव॒दिन्द्रः॒सव॑नंजुषा॒णः¦सखा॒सख्युः॑शृणव॒द्‌वन्द॑नानि || {4/8}{3.43.4}{3.4.5.4}{3.3.7.4}{426, 277, 2861}

आ¦च॒¦त्वा‌म्¦ए॒ता¦वृष॑णा¦वहा᳚तः¦हरी॒ इति॑¦सखा᳚या¦सु॒ऽधुरा᳚¦सु॒।आङ्गा᳚ |
धा॒नाऽव॑त्¦इन्द्रः॑¦सव॑न‌म्¦जु॒षा॒णः¦सखा᳚¦सख्युः॑¦शृ॒ण॒व॒त्¦वन्द॑नानि ||

कु॒विन्मा᳚गो॒पांकर॑से॒जन॑स्य¦कु॒विद्‌राजा᳚नंमघवन्नृजीषिन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

कु॒विन्म॒ऋषिं᳚पपि॒वांसं᳚सु॒तस्य॑¦कु॒विन्मे॒वस्वो᳚,अ॒मृत॑स्य॒शिक्षाः᳚ || {5/8}{3.43.5}{3.4.5.5}{3.3.7.5}{427, 277, 2862}

कु॒वित्¦मा॒¦गो॒पा‌म्¦कर॑से¦जन॑स्य¦कु॒वित्¦राजा᳚न‌म्¦म॒घ॒ऽव॒न्¦ऋ॒जी॒षि॒न् |
कु॒वित्¦मा॒¦ऋषि᳚‌म्¦प॒पि॒ऽवांस᳚‌म्¦सु॒तस्य॑¦कु॒वित्¦मे॒¦वस्वः॑¦अ॒मृत॑स्य¦शिक्षाः᳚ ||

त्वा᳚बृ॒हन्तो॒हर॑योयुजा॒ना¦,अ॒र्वागि᳚न्द्रसध॒मादो᳚वहन्तु |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

प्रयेद्वि॒तादि॒वऋ॒ञ्जन्त्याताः॒¦सुस᳚म्मृष्टासोवृष॒भस्य॑मू॒राः || {6/8}{3.43.6}{3.4.5.6}{3.3.7.6}{428, 277, 2863}

आ¦त्वा॒¦बृ॒हन्तः॑¦हर॑यः¦यु॒जा॒नाः¦अ॒र्वाक्¦इ॒न्द्र॒¦स॒ध॒ऽमादः॑¦व॒ह॒न्तु॒ |
प्र¦ये¦द्वि॒ता¦दि॒वः¦ऋं॒जन्ति॑¦आताः᳚¦सुऽसं᳚मृष्टासः¦वृ॒ष॒भस्य॑¦मू॒राः ||

इन्द्र॒पिब॒वृष॑धूतस्य॒वृष्ण॒¦यंते᳚श्ये॒नउ॑श॒तेज॒भार॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

यस्य॒मदे᳚च्या॒वय॑सि॒प्रकृ॒ष्टी¦र्यस्य॒मदे॒,अप॑गो॒त्राव॒वर्थ॑ || {7/8}{3.43.7}{3.4.5.7}{3.3.7.7}{429, 277, 2864}

इन्द्र॑¦पिब॑¦वृष॑ऽधूतस्य¦वृष्णः॑¦आ¦य‌म्¦ते॒¦श्ये॒नः¦उ॒श॒ते¦ज॒भार॑ |
यस्य॑¦मदे᳚¦च्य॒वय॑सि¦प्र¦कृ॒ष्टीः¦यस्य॑¦मदे᳚¦अप॑¦गो॒त्रा¦व॒वर्थ॑ ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {8/8}{3.43.8}{3.4.5.8}{3.3.7.8}{430, 277, 2865}

शु॒न‌म्¦हु॒वे॒म॒¦म॒घऽवा᳚न‌म्¦इन्द्र᳚‌म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑म‌म्¦वाज॑ऽसातौ |
शृ॒ण्वन्त᳚‌म्¦उ॒ग्र‌म्¦ऊ॒तये᳚¦स॒मत्ऽसु॑¦घ्नन्त᳚‌म्¦वृ॒त्राणि॑¦स॒‌म्ऽजित᳚‌म्¦धना᳚ना‌म् ||

[44] अयंतइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोबृहती |
अ॒यंते᳚,अस्तुहर्य॒तः¦सोम॒हरि॑भिःसु॒तः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

जु॒षा॒णइ᳚न्द्र॒हरि॑भिर्न॒ग॒¦ह्याति॑ष्ठ॒हरि॑तं॒रथ᳚म् || {1/5}{3.44.1}{3.4.6.1}{3.3.8.1}{431, 278, 2866}

अ॒य‌म्¦ते॒¦अ॒स्तु॒¦ह॒र्य॒तः¦सोमः॑¦आ¦हरि॑ऽभिः¦सु॒तः |
जु॒षा॒णः¦इ॒न्द्र॒¦हरि॑ऽभिः¦नः॒¦आ¦ग॒हि॒¦आ¦ति॒ष्ठ॒¦हरि॑त‌म्¦रथ᳚‌म् ||

ह॒र्यन्नु॒षस॑मर्चयः॒¦सूर्यं᳚ह॒र्यन्न॑रोचयः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

वि॒द्वाँश्चि॑कि॒त्वान्‌ह᳚र्यश्ववर्धस॒¦इन्द्र॒विश्वा᳚,अ॒भिश्रियः॑ || {2/5}{3.44.2}{3.4.6.2}{3.3.8.2}{432, 278, 2867}

ह॒र्यन्¦उ॒षस᳚‌म्¦अ॒र्च॒यः॒¦सूर्य᳚‌म्¦ह॒र्यन्¦अ॒रो॒च॒यः॒ |
वि॒द्वान्¦चि॒कि॒त्वान्¦ह॒रि॒।आ॒श्व॒¦व॒र्ध॒से॒¦इन्द्र॑¦विश्वाः᳚¦अ॒भि¦श्रियः॑ ||

द्यामिन्द्रो॒हरि॑धायसं¦पृथि॒वींहरि॑वर्पसम् |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

अधा᳚रयद्ध॒रितो॒र्भूरि॒भोज॑नं॒¦ययो᳚र॒न्तर्हरि॒श्चर॑त् || {3/5}{3.44.3}{3.4.6.3}{3.3.8.3}{433, 278, 2868}

द्या‌म्¦इन्द्रः॑¦हरि॑ऽधायस‌म्¦पृ॒थि॒वी‌म्¦हरि॑ऽवर्पस‌म् |
अधा᳚रयत्¦ह॒रितोः᳚¦भूरि॑¦भोज॑न‌म्¦ययोः᳚¦अ॒न्तः¦हरिः॒¦चर॑त् ||

ज॒ज्ञा॒नोहरि॑तो॒वृषा॒¦विश्व॒माभा᳚तिरोच॒नम् |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

हर्य॑श्वो॒हरि॑तंधत्त॒¦आयु॑ध॒मावज्रं᳚बा॒ह्वोर्हरि᳚म् || {4/5}{3.44.4}{3.4.6.4}{3.3.8.4}{434, 278, 2869}

ज॒ज्ञा॒नः¦हरि॑तः¦वृषा᳚¦विश्व᳚‌म्¦आ¦भा॒ति॒¦रो॒च॒न‌म् |
हरि॑।आश्वः¦हरि॑त‌म्¦ध॒त्ते॒¦आयु॑ध‌म्¦आ¦वज्र᳚‌म्¦बा॒ह्वोः¦हरि᳚‌म् ||

इन्द्रो᳚ह॒र्यन्त॒मर्जु॑नं॒¦वज्रं᳚शु॒क्रैर॒भीवृ॑तम् |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

अपा᳚वृणो॒द्धरि॑भि॒रद्रि॑भिःसु॒त¦मुद्‌गाहरि॑भिराजत || {5/5}{3.44.5}{3.4.6.5}{3.3.8.5}{435, 278, 2870}

इन्द्रः॑¦ह॒र्यन्त᳚‌म्¦अर्जु॑न‌म्¦वज्र᳚‌म्¦शु॒क्रैः¦अ॒भिऽवृ॑त‌म् |
अप॑¦अ॒वृ॒णो॒त्¦हरि॑ऽभिः¦अद्रि॑ऽभिः¦सु॒त‌म्¦उत्¦गाः¦हरि॑ऽभिः¦आ॒ज॒त॒ ||

[45] आमंद्रैरिति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोबृहती |
म॒न्द्रैरि᳚न्द्र॒हरि॑भि¦र्या॒हिम॒यूर॑रोमभिः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

मात्वा॒केचि॒न्निय॑म॒न्विंपा॒शिनो¦ऽति॒धन्वे᳚व॒ताँ,इ॑हि || {1/5}{3.45.1}{3.4.7.1}{3.3.9.1}{436, 279, 2871}

आ¦म॒न्द्रैः¦इ॒न्द्र॒¦हरि॑ऽभिः¦या॒हि¦म॒यूर॑रोमऽभिः |
मा¦त्वा॒¦के¦चि॒त्¦नि¦य॒म॒न्¦वि‌म्¦न¦पा॒शिनः॑¦अति॑¦धन्व॑ऽ‌इव¦तान्¦इ॒हि॒ ||

वृ॒त्र॒खा॒दोव॑लंरु॒जः¦पु॒रांद॒र्मो,अ॒पाम॒जः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

स्थाता॒रथ॑स्य॒हर्यो᳚रभिस्व॒र¦इन्द्रो᳚दृ॒ळ्हाचि॑दारु॒जः || {2/5}{3.45.2}{3.4.7.2}{3.3.9.2}{437, 279, 2872}

वृ॒त्र॒ऽखा॒दः¦व॒ल॒‌म्ऽरु॒जः¦पु॒रा‌म्¦द॒र्मः¦अ॒पा‌म्¦अ॒जः |
स्थाता᳚¦रथ॑स्य¦हर्योः᳚¦अ॒भि॒ऽस्व॒रे¦इन्द्रः॑¦दृ॒ळ्हा¦चि॒त्¦आ॒ऽरु॒जः ||

ग॒म्भी॒राँ,उ॑द॒धीँरि॑व॒¦क्रतुं᳚पुष्यसि॒गा,इ॑व |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

प्रसु॑गो॒पायव॑संधे॒नवो᳚यथा¦ऽह्र॒दंकु॒ल्या,इ॑वाशत || {3/5}{3.45.3}{3.4.7.3}{3.3.9.3}{438, 279, 2873}

ग॒म्भी॒रान्¦उ॒द॒धीन्ऽ‌इ᳚व¦क्रतु᳚‌म्¦पु॒ष्य॒सि॒¦गाःऽ‌इ᳚व |
प्र¦सु॒ऽगो॒पाः¦यव॑स‌म्¦धे॒नवः॑¦य॒था॒¦ह्र॒द‌म्¦कु॒ल्याःऽ‌इ᳚व¦आ॒श॒त॒ ||

न॒स्तुजं᳚र॒यिंभ॒रां¦शं॒प्र॑तिजान॒ते |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

वृ॒क्षंप॒क्वंफल॑म॒ङ्कीव॑धूनु॒ही¦न्द्र॑स॒म्पार॑णं॒वसु॑ || {4/5}{3.45.4}{3.4.7.4}{3.3.9.4}{439, 279, 2874}

आ¦नः॒¦तुज᳚‌म्¦र॒यि‌म्¦भ॒र॒¦अंश᳚‌म्¦न¦प्र॒ति॒ऽजा॒न॒ते |
वृ॒क्ष‌म्¦प॒क्व‌म्¦फल᳚‌म्¦अ॒ङ्कीऽ‌इ᳚व¦धू॒नु॒हि॒¦इन्द्र॑¦स॒‌म्ऽपार॑ण‌म्¦वसु॑ ||

स्व॒युरि᳚न्द्रस्व॒राळ॑सि॒¦स्मद्दि॑ष्टिः॒स्वय॑शस्तरः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

वा᳚वृधा॒नओज॑सापुरुष्टुत॒¦भवा᳚नःसु॒श्रव॑स्तमः || {5/5}{3.45.5}{3.4.7.5}{3.3.9.5}{440, 279, 2875}

स्व॒ऽयुः¦इ॒न्द्र॒¦स्व॒ऽराट्¦अ॒सि॒¦स्मत्ऽदि॑ष्टिः¦स्वय॑शःऽतरः |
सः¦व॒वृ॒धा॒नः¦ओज॑सा¦पु॒रु॒ऽस्तु॒त॒¦भव॑¦नः॒¦सु॒श्रवः॑ऽतमः ||

[46] युध्मस्यतइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रत्रिष्टुप् |
यु॒ध्मस्य॑तेवृष॒भस्य॑स्व॒राज॑¦उ॒ग्रस्य॒यूनः॒स्थवि॑रस्य॒घृष्वेः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अजू᳚र्यतोव॒ज्रिणो᳚वी॒र्या॒३॑(आ॒)णी¦न्द्र॑श्रु॒तस्य॑मह॒तोम॒हानि॑ || {1/5}{3.46.1}{3.4.8.1}{3.3.10.1}{441, 280, 2876}

यु॒ध्मस्य॑¦ते॒¦वृ॒ष॒भस्य॑¦स्व॒ऽराजः॑¦उ॒ग्रस्य॑¦यूनः॑¦स्थवि॑रस्य¦घृष्वेः᳚ |
अजू᳚र्यतः¦व॒ज्रिणः॑¦वी॒र्या᳚णि¦इन्द्र॑¦श्रु॒तस्य॑¦म॒ह॒तः¦म॒हानि॑ ||

म॒हाँ,अ॑सिमहिष॒वृष्ण्ये᳚भि¦र्धन॒स्पृदु॑ग्र॒सह॑मानो,अ॒न्यान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

एको॒विश्व॑स्य॒भुव॑नस्य॒राजा॒¦यो॒धया᳚क्ष॒यया᳚च॒जना॑न् || {2/5}{3.46.2}{3.4.8.2}{3.3.10.2}{442, 280, 2877}

म॒हान्¦अ॒सि॒¦म॒हि॒ष॒¦वृष्ण्ये᳚भिः¦ध॒न॒ऽस्पृत्¦उ॒ग्र॒¦सह॑मानः¦अ॒न्यान् |
एकः॑¦विश्व॑स्य¦भुव॑नस्य¦राजा᳚¦सः¦यो॒धय॑¦च॒¦क्ष॒यय॑¦च॒¦जना॑न् ||

प्रमात्रा᳚भीरिरिचे॒रोच॑मानः॒¦प्रदे॒वेभि᳚र्वि॒श्वतो॒,अप्र॑तीतः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

प्रम॒ज्मना᳚दि॒वइन्द्रः॑पृथि॒व्याः¦प्रोरोर्म॒हो,अ॒न्तरि॑क्षादृजी॒षी || {3/5}{3.46.3}{3.4.8.3}{3.3.10.3}{443, 280, 2878}

प्र¦मात्रा᳚भिः¦रि॒रि॒चे॒¦रोच॑मानः¦प्र¦दे॒वेभिः॑¦वि॒श्वतः॑¦अप्र॑तिऽ‌इतः |
प्र¦म॒ज्मना᳚¦दि॒वः¦इन्द्रः॑¦पृ॒थि॒व्याः¦प्र¦उ॒रोः¦म॒हः¦अ॒न्तरि॑क्षात्¦ऋ॒जी॒षी ||

उ॒रुंग॑भी॒रंज॒नुषा॒भ्यु१॑(उ॒)ग्रं¦वि॒श्वव्य॑चसमव॒तंम॑ती॒नाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इन्द्रं॒सोमा᳚सःप्र॒दिवि॑सु॒तासः॑¦समु॒द्रंस्र॒वत॒वि॑शन्ति || {4/5}{3.46.4}{3.4.8.4}{3.3.10.4}{444, 280, 2879}

उ॒रु‌म्¦ग॒भी॒र‌म्¦ज॒नुषा᳚¦अ॒भि¦उ॒ग्र‌म्¦वि॒श्वऽव्य॑चस‌म्¦अ॒व॒त‌म्¦म॒ती॒ना‌म् |
इन्द्र᳚‌म्¦सोमा᳚सः¦प्र॒ऽदिवि॑¦सु॒तासः॑¦स॒मु॒द्र‌म्¦न¦स्र॒वतः॑¦आ¦वि॒श॒न्ति॒ ||

यंसोम॑मिन्द्रपृथि॒वीद्यावा॒¦गर्भं॒मा॒ताबि॑भृ॒तस्त्वा॒या |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

तंते᳚हिन्वन्ति॒तमु॑तेमृजन्त्य¦ध्व॒र्यवो᳚वृषभ॒पात॒वा,उ॑ || {5/5}{3.46.5}{3.4.8.5}{3.3.10.5}{445, 280, 2880}

य‌म्¦सोम᳚‌म्¦इ॒न्द्र॒¦पृ॒थि॒वीद्यावा᳚¦गर्भ᳚‌म्¦न¦मा॒ता¦बि॒भृ॒तः¦त्वा॒ऽया |
त‌म्¦ते॒¦हि॒न्व॒न्ति॒¦त‌म्¦ऊँ॒ इति॑¦ते॒¦मृ॒ज॒न्ति॒¦अ॒ध्व॒र्यवः॑¦वृ॒ष॒भ॒¦पात॒वै¦ऊँ॒ इति॑ ||

[47] मरुत्वाँइंद्रेति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
म॒रुत्वाँ᳚,इन्द्रवृष॒भोरणा᳚य॒¦पिबा॒सोम॑मनुष्व॒धंमदा᳚य |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

सि᳚ञ्चस्वज॒ठरे॒मध्व॑ऊ॒र्मिं¦त्वंराजा᳚सिप्र॒दिवः॑सु॒ताना᳚म् || {1/5}{3.47.1}{3.4.9.1}{3.3.11.1}{446, 281, 2881}

म॒रुत्वा᳚न्¦इ॒न्द्र॒¦वृ॒ष॒भः¦रणा᳚य¦पिब॑¦सोम᳚‌म्¦अ॒नु॒ऽस्व॒ध‌म्¦मदा᳚य |
आ¦सिं॒च॒स्व॒¦ज॒ठरे᳚¦मध्वः॑¦ऊ॒र्मि‌म्¦त्व‌म्¦राजा᳚¦अ॒सि॒¦प्र॒ऽदिवः॑¦सु॒ताना᳚‌म् ||

स॒जोषा᳚,इन्द्र॒सग॑णोम॒रुद्भिः॒¦सोमं᳚पिबवृत्र॒हाशू᳚रवि॒द्वान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

ज॒हिशत्रूँ॒रप॒मृधो᳚नुद॒स्वा¦थाभ॑यंकृणुहिवि॒श्वतो᳚नः || {2/5}{3.47.2}{3.4.9.2}{3.3.11.2}{447, 281, 2882}

स॒ऽजोषाः᳚¦इ॒न्द्र॒¦सऽग॑णः¦म॒रुत्ऽभिः॑¦सोम᳚‌म्¦पि॒ब॒¦वृ॒त्र॒ऽहा¦शू॒र॒¦वि॒द्वान् |
ज॒हि¦शत्रू᳚न्¦अप॑¦मृधः॑¦नु॒द॒स्व॒¦अथ॑¦अभ॑य‌म्¦कृ॒णु॒हि॒¦वि॒श्वतः॑¦नः॒ ||

उ॒तऋ॒तुभि᳚रृतुपाःपाहि॒सोम॒¦मिन्द्र॑दे॒वेभिः॒सखि॑भिःसु॒तंनः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

याँ,आभ॑जोम॒रुतो॒येत्वा¦न्वह᳚न्‌वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॑ || {3/5}{3.47.3}{3.4.9.3}{3.3.11.3}{448, 281, 2883}

उ॒त¦ऋ॒तुऽभिः॑¦ऋ॒तु॒ऽपाः¦पा॒हि॒¦सोम᳚‌म्¦इन्द्र॑¦दे॒वेभिः॑¦सखि॑ऽभिः¦सु॒त‌म्¦नः॒ |
यान्¦आ¦अभ॑जः¦म॒रुतः॑¦ये¦त्वा॒¦अनु॑¦अह॑न्¦वृ॒त्र‌म्¦अद॑धुः¦तुभ्य᳚‌म्¦ओजः॑ ||

येत्वा᳚हि॒हत्ये᳚मघव॒न्नव॑र्ध॒न्¦येशा᳚म्ब॒रेह॑रिवो॒येगवि॑ष्टौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

येत्वा᳚नू॒नम॑नु॒मद᳚न्ति॒विप्राः॒¦पिबे᳚न्द्र॒सोमं॒सग॑णोम॒रुद्भिः॑ || {4/5}{3.47.4}{3.4.9.4}{3.3.11.4}{449, 281, 2884}

ये¦त्वा॒¦अ॒हि॒ऽहत्ये᳚¦म॒घ॒ऽव॒न्¦अव॑र्धन्¦ये¦शा॒म्ब॒रे¦ह॒रि॒ऽवः॒¦ये¦गोऽ‌इ᳚ष्टौ |
ये¦त्वा॒¦नू॒न‌म्¦अ॒नु॒ऽमद᳚न्ति¦विप्राः᳚¦पिब॑¦इ॒न्द्र॒¦सोम᳚‌म्¦सऽग॑णः¦म॒रुत्ऽभिः॑ ||

म॒रुत्व᳚न्तंवृष॒भंवा᳚वृधा॒न¦मक॑वारिंदि॒व्यंशा॒समिन्द्र᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

वि॒श्वा॒साह॒मव॑से॒नूत॑नायो॒¦ग्रंस॑हो॒दामि॒हतंहु॑वेम || {5/5}{3.47.5}{3.4.9.5}{3.3.11.5}{450, 281, 2885}

म॒रुत्व᳚न्त‌म्¦वृ॒ष॒भ‌म्¦व॒वृ॒धा॒न‌म्¦अक॑व।आरि‌म्¦दि॒व्य‌म्¦शा॒स‌म्¦इन्द्र᳚‌म् |
वि॒श्व॒ऽसह᳚‌म्¦अव॑से¦नूत॑नाय¦उ॒ग्र‌म्¦स॒हः॒ऽदा‌म्¦इ॒ह¦त‌म्¦हु॒वे॒म॒ ||

[48] सद्योहजातइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
स॒द्योह॑जा॒तोवृ॑ष॒भःक॒नीनः॒¦प्रभ॑र्तुमाव॒दन्ध॑सःसु॒तस्य॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

सा॒धोःपि॑बप्रतिका॒मंयथा᳚ते॒¦रसा᳚शिरःप्रथ॒मंसो॒म्यस्य॑ || {1/5}{3.48.1}{3.4.10.1}{3.3.12.1}{451, 282, 2886}

स॒द्यः¦ह॒¦जा॒तः¦वृ॒ष॒भः¦क॒नीनः॑¦प्रऽभ॑र्तु‌म्¦आ॒व॒त्¦अन्ध॑सः¦सु॒तस्य॑ |
सा॒धोः¦पि॒ब॒¦प्र॒ति॒ऽका॒म‌म्¦यथा᳚¦ते॒¦रस॑ऽआशिरः¦प्र॒थ॒म‌म्¦सो॒म्यस्य॑ ||

यज्जाय॑था॒स्तदह॑रस्य॒कामें॒¦शोःपी॒यूष॑मपिबोगिरि॒ष्ठाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

तंते᳚मा॒तापरि॒योषा॒जनि॑त्री¦म॒हःपि॒तुर्दम॒आसि᳚ञ्च॒दग्रे᳚ || {2/5}{3.48.2}{3.4.10.2}{3.3.12.2}{452, 282, 2887}

यत्¦जाय॑थाः¦तत्¦अहः॑¦अ॒स्य॒¦कामे᳚¦अं॒शोः¦पी॒यूष᳚‌म्¦अ॒पि॒बः॒¦गि॒रि॒ऽस्था‌म् |
त‌म्¦ते॒¦मा॒ता¦परि॑¦योषा᳚¦जनि॑त्री¦म॒हः¦पि॒तुः¦दमे᳚¦आ¦अ॒सिं॒च॒त्¦अग्रे᳚ ||

उ॒प॒स्थाय॑मा॒तर॒मन्न॑मैट्ट¦ति॒ग्मम॑पश्यद॒भिसोम॒मूधः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

प्र॒या॒वय᳚न्नचर॒द्‌गृत्सो᳚,अ॒न्यान्¦म॒हानि॑चक्रेपुरु॒धप्र॑तीकः || {3/5}{3.48.3}{3.4.10.3}{3.3.12.3}{453, 282, 2888}

उ॒प॒ऽस्थाय॑¦मा॒तर᳚‌म्¦अन्न᳚‌म्¦ऐ॒ट्ट॒¦ति॒ग्म‌म्¦अ॒प॒श्य॒त्¦अ॒भि¦सोम᳚‌म्¦ऊधः॑ |
प्र॒ऽय॒वय॑न्¦अ॒च॒र॒त्¦गृत्सः॑¦अ॒न्यान्¦म॒हानि॑¦च॒क्रे॒¦पु॒रु॒धऽप्र॑तीकः ||

उ॒ग्रस्तु॑रा॒षाळ॒भिभू᳚त्योजा¦यथाव॒शंत॒न्वं᳚चक्रए॒षः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

त्वष्टा᳚र॒मिन्द्रो᳚ज॒नुषा᳚भि॒भूया॒¦मुष्या॒सोम॑मपिबच्च॒मूषु॑ || {4/5}{3.48.4}{3.4.10.4}{3.3.12.4}{454, 282, 2889}

उ॒ग्रः¦तु॒रा॒षाट्¦अ॒भिभू᳚तिऽओजाः¦य॒था॒ऽव॒श‌म्¦त॒न्व᳚‌म्¦च॒क्रे॒¦ए॒षः |
त्वष्टा᳚र‌म्¦इन्द्रः॑¦ज॒नुषा᳚¦अ॒भि॒ऽभूय॑¦आ॒ऽमुष्य॑¦सोम᳚‌म्¦अ॒पि॒ब॒त्¦च॒मूषु॑ ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {5/5}{3.48.5}{3.4.10.5}{3.3.12.5}{455, 282, 2890}

शु॒न‌म्¦हु॒वे॒म॒¦म॒घऽवा᳚न‌म्¦इन्द्र᳚‌म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑म‌म्¦वाज॑ऽसातौ |
शृ॒ण्वन्त᳚‌म्¦उ॒ग्र‌म्¦ऊ॒तये᳚¦स॒मत्ऽसु॑¦घ्नन्त᳚‌म्¦वृ॒त्राणि॑¦स॒‌म्ऽजित᳚‌म्¦धना᳚ना‌म् ||

[49] शंसामद्दामिति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
शंसा᳚म॒हामिन्द्रं॒यस्मि॒न्‌विश्वा॒,¦कृ॒ष्टयः॑सोम॒पाःकाम॒मव्य॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

यंसु॒क्रतुं᳚धि॒षणे᳚विभ्वत॒ष्टं¦घ॒नंवृ॒त्राणां᳚ज॒नय᳚न्तदे॒वाः || {1/5}{3.49.1}{3.4.11.1}{3.3.13.1}{456, 283, 2891}

शंस॑¦म॒हा‌म्¦इन्द्र᳚‌म्¦यस्मि॑न्¦विश्वाः᳚¦आ¦कृ॒ष्टयः॑¦सो॒म॒ऽपाः¦काम᳚‌म्¦अव्य॑न् |
य‌म्¦सु॒ऽक्रतु᳚‌म्¦धि॒षणे॒ इति॑¦वि॒भ्व॒ऽत॒ष्ट‌म्¦घ॒न‌म्¦वृ॒त्राणा᳚‌म्¦ज॒नय᳚न्त¦दे॒वाः ||

यंनुनकिः॒पृत॑नासुस्व॒राजं᳚¦द्वि॒तातर॑ति॒नृत॑मंहरि॒ष्ठाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इ॒नत॑मः॒सत्व॑भि॒र्योह॑शू॒षैः¦पृ॑थु॒ज्रया᳚,अमिना॒दायु॒र्दस्योः᳚ || {2/5}{3.49.2}{3.4.11.2}{3.3.13.2}{457, 283, 2892}

य‌म्¦नु¦नकिः॑¦पृत॑नासु¦स्व॒ऽराज᳚‌म्¦द्वि॒ता¦तर॑ति¦नृऽत॑म‌म्¦ह॒रि॒ऽस्था‌म् |
इ॒नऽत॑मः¦सत्व॑ऽभिः¦यः¦ह॒¦शू॒षैः¦पृ॒थु॒ऽज्रयाः᳚¦अ॒मि॒ना॒त्¦आयुः॑¦दस्योः᳚ ||

स॒हावा᳚पृ॒त्सुत॒रणि॒र्नार्वा᳚¦व्यान॒शीरोद॑सीमे॒हना᳚वान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

भगो॒का॒रेहव्यो᳚मती॒नां¦पि॒तेव॒चारुः॑सु॒हवो᳚वयो॒धाः || {3/5}{3.49.3}{3.4.11.3}{3.3.13.3}{458, 283, 2893}

स॒हऽवा᳚¦पृ॒त्ऽसु¦त॒रणिः॑¦न¦अर्वा᳚¦वि॒ऽआ॒न॒शिः¦रोद॑सी॒ इति॑¦मे॒हना᳚ऽवान् |
भगः॑¦न¦का॒रे¦हव्यः॑¦म॒ती॒ना‌म्¦पि॒ताऽ‌इ᳚व¦चारुः॑¦सु॒ऽहवः॑¦व॒यः॒ऽधाः ||

ध॒र्तादि॒वोरज॑सस्‌पृ॒ष्टऊ॒र्ध्वो¦रथो॒वा॒युर्वसु॑भिर्नि॒युत्वा॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

क्ष॒पांव॒स्ताज॑नि॒तासूर्य॑स्य॒¦विभ॑क्ताभा॒गंधि॒षणे᳚व॒वाज᳚म् || {4/5}{3.49.4}{3.4.11.4}{3.3.13.4}{459, 283, 2894}

ध॒र्ता¦दि॒वः¦रज॑सः¦पृ॒ष्टः¦ऊ॒र्ध्वः¦रथः॑¦न¦वा॒युः¦वसु॑ऽभिः¦नि॒युत्वा॑न् |
क्ष॒पा‌म्¦व॒स्ता¦ज॒नि॒ता¦सूर्य॑स्य¦विऽभ॑क्ता¦भा॒ग‌म्¦धि॒षणा᳚ऽ‌इव¦वाज᳚‌म् ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {5/5}{3.49.5}{3.4.11.5}{3.3.13.5}{460, 283, 2895}

शु॒न‌म्¦हु॒वे॒म॒¦म॒घऽवा᳚न‌म्¦इन्द्र᳚‌म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑म‌म्¦वाज॑ऽसातौ |
शृ॒ण्वन्त᳚‌म्¦उ॒ग्र‌म्¦ऊ॒तये᳚¦स॒मत्ऽसु॑¦घ्नन्त᳚‌म्¦वृ॒त्राणि॑¦स॒‌म्ऽजित᳚‌म्¦धना᳚ना‌म् ||

[50] इंद्रः स्वाहेति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
इन्द्रः॒स्वाहा᳚पिबतु॒यस्य॒सोम॑¦आ॒गत्या॒तुम्रो᳚वृष॒भोम॒रुत्वा॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

ओरु॒व्यचाः᳚पृणतामे॒भिरन्नै॒¦रास्य॑ह॒विस्त॒न्व१॑(अः॒)काम॑मृध्याः || {1/5}{3.50.1}{3.4.12.1}{3.3.14.1}{461, 284, 2896}

इन्द्रः॑¦स्वाहा᳚¦पि॒ब॒तु॒¦यस्य॑¦सोमः॑¦आ॒ऽगत्य॑¦तुम्रः॑¦वृ॒ष॒भः¦म॒रुत्वा॑न् |
आ¦उ॒रु॒ऽव्यचाः᳚¦पृ॒ण॒ता॒‌म्¦ए॒भिः¦अन्नैः᳚¦आ¦अ॒स्य॒¦ह॒विः¦त॒न्वः॑¦काम᳚‌म्¦ऋ॒ध्याः॒ ||

ते᳚सप॒र्यूज॒वसे᳚युनज्मि॒¦ययो॒रनु॑प्र॒दिवः॑श्रु॒ष्टिमावः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इ॒हत्वा᳚धेयु॒र्हर॑यःसुशिप्र॒¦पिबा॒त्व१॑(अ॒)स्यसुषु॑तस्य॒चारोः᳚ || {2/5}{3.50.2}{3.4.12.2}{3.3.14.2}{462, 284, 2897}

आ¦ते॒¦स॒प॒र्यू इति॑¦ज॒वसे᳚¦यु॒न॒ज्मि॒¦ययोः᳚¦अनु॑¦प्र॒ऽदिवः॑¦श्रु॒ष्टि‌म्¦आवः॑ |
इ॒ह¦त्वा॒¦धे॒युः॒¦हर॑यः¦सु॒ऽशि॒प्र॒¦पिब॑¦तु¦अ॒स्य¦सुऽसु॑तस्य¦चारोः᳚ ||

गोभि᳚र्मिमि॒क्षुंद॑धिरेसुपा॒र¦मिन्द्रं॒ज्यैष्ठ्या᳚य॒धाय॑सेगृणा॒नाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

म॒न्दा॒नःसोमं᳚पपि॒वाँ,ऋ॑जीषि॒न्¦त्सम॒स्मभ्यं᳚पुरु॒धागा,इ॑षण्य || {3/5}{3.50.3}{3.4.12.3}{3.3.14.3}{463, 284, 2898}

गोभिः॑¦मि॒मि॒क्षु‌म्¦द॒धि॒रे॒¦सु॒ऽपा॒र‌म्¦इन्द्र᳚‌म्¦ज्यैष्ठ्या᳚य¦धाय॑से¦गृ॒णा॒नाः |
म॒न्दा॒नः¦सोम᳚‌म्¦प॒पि॒ऽवान्¦ऋ॒जी॒षि॒न्¦स‌म्¦अ॒स्मभ्य᳚‌म्¦पु॒रु॒धा¦गाः¦इ॒ष॒ण्य॒ ||

इ॒मंकामं᳚मन्दया॒गोभि॒रश्वै᳚¦श्च॒न्द्रव॑ता॒राध॑साप॒प्रथ॑श्च |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

स्व॒र्यवो᳚म॒तिभि॒स्तुभ्यं॒विप्रा॒,¦इन्द्रा᳚य॒वाहः॑कुशि॒कासो᳚,अक्रन् || {4/5}{3.50.4}{3.4.12.4}{3.3.14.4}{464, 284, 2899}

इ॒म‌म्¦काम᳚‌म्¦म॒न्द॒य॒¦गोभिः॑¦अश्वैः᳚¦च॒न्द्रऽव॑ता¦राध॑सा¦प॒प्रथः॑¦च॒ |
स्वः॒ऽयवः॑¦म॒तिऽभिः॑¦तुभ्य᳚‌म्¦विप्राः᳚¦इन्द्रा᳚य¦वाहः॑¦कु॒शि॒कासः॑¦अ॒क्र॒न् ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {5/5}{3.50.5}{3.4.12.5}{3.3.14.5}{465, 284, 2900}

शु॒न‌म्¦हु॒वे॒म॒¦म॒घऽवा᳚न‌म्¦इन्द्र᳚‌म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑म‌म्¦वाज॑ऽसातौ |
शृ॒ण्वन्त᳚‌म्¦उ॒ग्र‌म्¦ऊ॒तये᳚¦स॒मत्ऽसु॑¦घ्नन्त᳚‌म्¦वृ॒त्राणि॑¦स॒‌म्ऽजित᳚‌म्¦धना᳚ना‌म् ||

[51] चर्षणीधृतमिति द्वादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् आद्यास्तिस्रोजगत्यः अंत्यास्तिस्रोगायत्र्यः |
च॒र्ष॒णी॒धृतं᳚म॒घवा᳚नमु॒क्थ्य१॑(अ॒)¦मिन्द्रं॒गिरो᳚बृह॒तीर॒भ्य॑नूषत |{गाथिनो विश्वामित्रः | इन्द्रः | जगती}

वा॒वृ॒धा॒नंपु॑रुहू॒तंसु॑वृ॒क्तिभि॒¦रम॑र्त्यं॒जर॑माणंदि॒वेदि॑वे || {1/12}{3.51.1}{3.4.13.1}{3.3.15.1}{466, 285, 2901}

च॒र्ष॒णि॒ऽधृत᳚‌म्¦म॒घऽवा᳚न‌म्¦उ॒क्थ्य᳚‌म्¦इन्द्र᳚‌म्¦गिरः॑¦बृ॒ह॒तीः¦अ॒भि¦अ॒नू॒ष॒त॒ |
व॒वृ॒धा॒न‌म्¦पु॒रु॒ऽहू॒त‌म्¦सु॒वृ॒क्तिऽभिः॑¦अम॑र्त्य‌म्¦जर॑माण‌म्¦दि॒वेऽदि॑वे ||

श॒तक्र॑तुमर्ण॒वंशा॒किनं॒नरं॒¦गिरो᳚म॒इन्द्र॒मुप॑यन्तिवि॒श्वतः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | जगती}

वा॒ज॒सनिं᳚पू॒र्भिदं॒तूर्णि॑म॒प्तुरं᳚¦धाम॒साच॑मभि॒षाचं᳚स्व॒र्विद᳚म् || {2/12}{3.51.2}{3.4.13.2}{3.3.15.2}{467, 285, 2902}

श॒तऽक्र॑तु‌म्¦अ॒र्ण॒व‌म्¦शा॒किन᳚‌म्¦नर᳚‌म्¦गिरः॑¦मे॒¦इन्द्र᳚‌म्¦उप॑¦य॒न्ति॒¦वि॒श्वतः॑ |
वा॒ज॒ऽसनि᳚‌म्¦पूः॒ऽभिद᳚‌म्¦तूर्णि᳚‌म्¦अ॒प्ऽतुर᳚‌म्¦धा॒म॒ऽसाच᳚‌म्¦अ॒भि॒ऽसाच᳚‌म्¦स्वः॒ऽविद᳚‌म् ||

आ॒क॒रेवसो᳚र्जरि॒ताप॑नस्यते¦ऽने॒हसः॒स्तुभ॒इन्द्रो᳚दुवस्यति |{गाथिनो विश्वामित्रः | इन्द्रः | जगती}

वि॒वस्व॑तः॒सद॑न॒हिपि॑प्रि॒ये¦स॑त्रा॒साह॑मभिमाति॒हनं᳚स्तुहि || {3/12}{3.51.3}{3.4.13.3}{3.3.15.3}{468, 285, 2903}

आ॒ऽक॒रे¦वसोः᳚¦ज॒रि॒ता¦प॒न॒स्य॒ते॒¦अ॒ने॒हसः॑¦स्तुभः॑¦इन्द्रः॑¦दु॒व॒स्य॒ति॒ |
वि॒वस्व॑तः¦सद॑ने¦आ¦हि¦पि॒प्रि॒ये¦स॒त्रा॒ऽसह᳚‌म्¦अ॒भि॒मा॒ति॒ऽहन᳚‌म्¦स्तु॒हि॒ ||

नृ॒णामु॑त्वा॒नृत॑मंगी॒र्भिरु॒क्थै¦र॒भिप्रवी॒रम॑र्चतास॒बाधः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

संसह॑सेपुरुमा॒योजि॑हीते॒¦नमो᳚,अस्यप्र॒दिव॒एक॑ईशे || {4/12}{3.51.4}{3.4.13.4}{3.3.15.4}{469, 285, 2904}

नृ॒णा‌म्¦ऊँ॒ इति॑¦त्वा॒¦नृऽत॑म‌म्¦गीः॒ऽभिः¦उ॒क्थैः¦अ॒भि¦प्र¦वी॒र‌म्¦अ॒र्च॒त॒¦स॒ऽबाधः॑ |
स‌म्¦सह॑से¦पु॒रु॒ऽमा॒यः¦जि॒ही॒ते॒¦नमः॑¦अ॒स्य॒¦प्र॒ऽदिवः॑¦एकः॑¦ई॒शे॒ ||

पू॒र्वीर॑स्यनि॒ष्षिधो॒मर्त्ये᳚षु¦पु॒रूवसू᳚निपृथि॒वीबि॑भर्ति |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इन्द्रा᳚य॒द्याव॒ओष॑धीरु॒तापो᳚¦र॒यिंर॑क्षन्तिजी॒रयो॒वना᳚नि || {5/12}{3.51.5}{3.4.13.5}{3.3.15.5}{470, 285, 2905}

पू॒र्वीः¦अ॒स्य॒¦निः॒ऽसिधः॑¦मर्त्ये᳚षु¦पु॒रु¦वसू᳚नि¦पृ॒थि॒वी¦बि॒भ॒र्ति॒ |
इन्द्रा᳚य¦द्यावः॑¦ओष॑धीः¦उ॒त¦आपः॑¦र॒यि‌म्¦र॒क्ष॒न्ति॒¦जी॒रयः॑¦वना᳚नि ||

तुभ्यं॒ब्रह्मा᳚णि॒गिर॑इन्द्र॒तुभ्यं᳚¦स॒त्राद॑धिरेहरिवोजु॒षस्व॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

बो॒ध्या॒३॑(आ॒)पिरव॑सो॒नूत॑नस्य॒¦सखे᳚वसोजरि॒तृभ्यो॒वयो᳚धाः || {6/12}{3.51.6}{3.4.13.6}{3.3.16.1}{471, 285, 2906}

तुभ्य᳚‌म्¦ब्रह्मा᳚णि¦गिरः॑¦इ॒न्द्र॒¦तुभ्य᳚‌म्¦स॒त्रा¦द॒धि॒रे॒¦ह॒रि॒ऽवः॒¦जु॒षस्व॑ |
बो॒धि¦आ॒पिः¦अव॑सः¦नूत॑नस्य¦सखे᳚¦व॒सो॒ इति॑¦ज॒रि॒तृऽभ्यः॑¦वयः॑¦धाः॒ ||

इन्द्र॑मरुत्वइ॒हपा᳚हि॒सोमं॒¦यथा᳚शार्या॒ते,अपि॑बःसु॒तस्य॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

तव॒प्रणी᳚ती॒तव॑शूर॒शर्म॒¦न्नावि॑वासन्तिक॒वयः॑सुय॒ज्ञाः || {7/12}{3.51.7}{3.4.13.7}{3.3.16.2}{472, 285, 2907}

इन्द्र॑¦म॒रु॒त्वः॒¦इ॒ह¦पा॒हि॒¦सोम᳚‌म्¦यथा᳚¦शा॒र्या॒ते¦अपि॑बः¦सु॒तस्य॑ |
तव॑¦प्रऽनी᳚ती¦तव॑¦शू॒र॒¦शर्म॑न्¦आ¦वि॒वा॒स॒न्ति॒¦क॒वयः॑¦सु॒ऽय॒ज्ञाः ||

वा᳚वशा॒नइ॒हपा᳚हि॒सोमं᳚¦म॒रुद्भि॑रिन्द्र॒सखि॑भिःसु॒तंनः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

जा॒तंयत्‌त्वा॒परि॑दे॒वा,अभू᳚षन्¦म॒हेभरा᳚यपुरुहूत॒विश्वे᳚ || {8/12}{3.51.8}{3.4.13.8}{3.3.16.3}{473, 285, 2908}

सः¦वा॒व॒शा॒नः¦इ॒ह¦पा॒हि॒¦सोम᳚‌म्¦म॒रुत्ऽभिः॑¦इ॒न्द्र॒¦सखि॑ऽभिः¦सु॒त‌म्¦नः॒ |
जा॒त‌म्¦यत्¦त्वा॒¦परि॑¦दे॒वाः¦अभू᳚षन्¦म॒हे¦भरा᳚य¦पु॒रु॒ऽहू॒त॒¦विश्वे᳚ ||

अ॒प्तूर्ये᳚मरुतआ॒पिरे॒षो¦ऽम᳚न्द॒न्निन्द्र॒मनु॒दाति॑वाराः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

तेभिः॑सा॒कंपि॑बतुवृत्रखा॒दः¦सु॒तंसोमं᳚दा॒शुषः॒स्वेस॒धस्थे᳚ || {9/12}{3.51.9}{3.4.13.9}{3.3.16.4}{474, 285, 2909}

अ॒प्ऽतूर्ये᳚¦म॒रु॒तः॒¦आ॒पिः¦ए॒षः¦अम᳚न्दन्¦इन्द्र᳚‌म्¦अनु॑¦दाति॑ऽवाराः |
तेभिः॑¦सा॒क‌म्¦पि॒ब॒तु॒¦वृ॒त्र॒ऽखा॒दः¦सु॒त‌म्¦सोम᳚‌म्¦दा॒शुषः॑¦स्वे¦स॒धऽस्थे᳚ ||

इ॒दंह्यन्वोज॑सा¦सु॒तंरा᳚धानांपते |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

पिबा॒त्व१॑(अ॒)स्यगि᳚र्वणः || {10/12}{3.51.10}{3.4.13.10}{3.3.16.5}{475, 285, 2910}

इ॒द‌म्¦हि¦अनु॑¦ओज॑सा¦सु॒त‌म्¦रा॒धा॒ना॒‌म्¦प॒ते॒ | पिब॑¦तु¦अ॒स्य¦गि॒र्व॒णः॒ ||

यस्ते॒,अनु॑स्व॒धामस॑त्¦सु॒तेनिय॑च्छत॒न्व᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

त्वा᳚ममत्तुसो॒म्यम् || {11/12}{3.51.11}{3.4.13.11}{3.3.16.6}{476, 285, 2911}

यः¦ते॒¦अनु॑¦स्व॒धा‌म्¦अस॑त्¦सु॒ते¦नि¦य॒च्छ॒¦त॒न्व᳚‌म् | सः¦त्वा॒¦म॒म॒त्तु॒¦सो॒म्य‌म् ||

प्रते᳚,अश्नोतुकु॒क्ष्योः¦प्रेन्द्र॒ब्रह्म॑णा॒शिरः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

प्रबा॒हूशू᳚र॒राध॑से || {12/12}{3.51.12}{3.4.13.12}{3.3.16.7}{477, 285, 2912}

प्र¦ते॒¦अ॒श्नो॒तु॒¦कु॒क्ष्योः¦प्र¦इ॒न्द्र॒¦ब्रह्म॑णा¦शिरः॑ | प्र¦बा॒हू इति॑¦शू॒र॒¦राध॑से ||

[52] धानावंतमित्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् अध्याश्चतस्रोगायत्र्यः षष्ठीजगती |
धा॒नाव᳚न्तंकर॒म्भिण॑¦मपू॒पव᳚न्तमु॒क्थिन᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॑प्रा॒तर्जु॑षस्वनः || {1/8}{3.52.1}{3.4.14.1}{3.3.17.1}{478, 286, 2913}

धा॒नाऽव᳚न्त‌म्¦क॒र॒म्भिण᳚‌म्¦अ॒पू॒पऽव᳚न्त‌म्¦उ॒क्थिन᳚‌म् | इन्द्र॑¦प्रा॒तः¦जु॒ष॒स्व॒¦नः॒ ||

पु॒रो॒ळाशं᳚पच॒त्यं᳚¦जु॒षस्वे॒न्द्रागु॑रस्व |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

तुभ्यं᳚ह॒व्यानि॑सिस्रते || {2/8}{3.52.2}{3.4.14.2}{3.3.17.2}{479, 286, 2914}

पु॒रो॒ळाश᳚‌म्¦प॒च॒त्य᳚‌म्¦जु॒षस्व॑¦इ॒न्द्र॒¦आ¦गु॒र॒स्व॒¦च॒ | तुभ्य᳚‌म्¦ह॒व्यानि॑¦सि॒स्र॒ते॒ ||

पु॒रो॒ळाशं᳚नो॒घसो᳚¦जो॒षया᳚से॒गिर॑श्चनः |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

व॒धू॒युरि॑व॒योष॑णाम् || {3/8}{3.52.3}{3.4.14.3}{3.3.17.3}{480, 286, 2915}

पु॒रो॒ळाश᳚‌म्¦च॒¦नः॒¦घसः॑¦जो॒षया᳚से¦गिरः॑¦च॒¦नः॒ | व॒धू॒युःऽ‌इ᳚व¦योष॑णा‌म् ||

पु॒रो॒ळाशं᳚सनश्रुत¦प्रातःसा॒वेजु॑षस्वनः |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॒क्रतु॒र्हिते᳚बृ॒हन् || {4/8}{3.52.4}{3.4.14.4}{3.3.17.4}{481, 286, 2916}

पु॒रो॒ळाश᳚‌म्¦स॒न॒ऽश्रु॒त॒¦प्रा॒तः॒ऽसा॒वे¦जु॒ष॒स्व॒¦नः॒ | इन्द्र॑¦क्रतुः॑¦हि¦ते॒¦बृ॒हन् ||

माध्यं᳚दिनस्य॒सव॑नस्यधा॒नाः¦पु॑रो॒ळाश॑मिन्द्रकृष्वे॒हचारु᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

प्रयत्‌स्तो॒ताज॑रि॒तातूर्ण्य॑र्थो¦वृषा॒यमा᳚ण॒उप॑गी॒र्भिरीट्टे᳚ || {5/8}{3.52.5}{3.4.14.5}{3.3.17.5}{482, 286, 2917}

माध्यं᳚दिनस्य¦सव॑नस्य¦धा॒नाः¦पु॒रो॒ळाश᳚‌म्¦इ॒न्द्र॒¦कृ॒ष्व॒¦इ॒ह¦चारु᳚‌म् |
प्र¦यत्¦स्तो॒ता¦ज॒रि॒ता¦तूर्णि॑।आर्थः¦वृ॒ष॒ऽयमा᳚णः¦उप॑¦गीः॒ऽभिः¦ईट्टे᳚ ||

तृ॒तीये᳚धा॒नाःसव॑नेपुरुष्टुत¦पुरो॒ळाश॒माहु॑तंमामहस्वनः |{गाथिनो विश्वामित्रः | इन्द्रः | जगती}

ऋ॒भु॒मन्तं॒वाज॑वन्तंत्वाकवे॒¦प्रय॑स्वन्त॒उप॑शिक्षेमधी॒तिभिः॑ || {6/8}{3.52.6}{3.4.14.6}{3.3.18.1}{483, 286, 2918}

तृ॒तीये᳚¦धा॒नाः¦सव॑ने¦पु॒रु॒ऽस्तु॒त॒¦पु॒रो॒ळाश᳚‌म्¦आऽहु॑त‌म्¦म॒म॒ह॒स्व॒¦नः॒ |
ऋ॒भु॒ऽमन्त᳚‌म्¦वाज॑ऽवन्त‌म्¦त्वा॒¦क॒वे॒¦प्रय॑स्वन्तः¦उप॑¦शि॒क्षे॒म॒¦धी॒तिऽभिः॑ ||

पू॒ष॒ण्वते᳚तेचकृमाकर॒म्भं¦हरि॑वते॒हर्य॑श्वायधा॒नाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अ॒पू॒पम॑द्धि॒सग॑णोम॒रुद्भिः॒¦सोमं᳚पिबवृत्र॒हाशू᳚रवि॒द्वान् || {7/8}{3.52.7}{3.4.14.7}{3.3.18.2}{484, 286, 2919}

पू॒ष॒ण्ऽवते᳚¦ते॒¦च॒कृ॒म॒¦क॒र॒म्भ‌म्¦हरि॑ऽवते¦हरि॑।आश्वाय¦धा॒नाः |
अ॒पू॒प‌म्¦अ॒द्धि॒¦सऽग॑णः¦म॒रुत्ऽभिः॑¦सोम᳚‌म्¦पि॒ब॒¦वृ॒त्र॒ऽहा¦शू॒र॒¦वि॒द्वान् ||

प्रति॑धा॒नाभ॑रत॒तूय॑मस्मै¦पुरो॒ळाशं᳚वी॒रत॑मायनृ॒णाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

दि॒वेदि॑वेस॒दृशी᳚रिन्द्र॒तुभ्यं॒¦वर्ध᳚न्तुत्वासोम॒पेया᳚यधृष्णो || {8/8}{3.52.8}{3.4.14.8}{3.3.18.3}{485, 286, 2920}

प्रति॑¦धा॒नाः¦भ॒र॒त॒¦तूय᳚‌म्¦अ॒स्मै॒¦पु॒रो॒ळाश᳚‌म्¦वी॒रऽत॑माय¦नृ॒णा‌म् |
दि॒वेऽदि॑वे¦स॒ऽदृशीः᳚¦इ॒न्द्र॒¦तुभ्य᳚‌म्¦वर्ध᳚न्तु¦त्वा॒¦सो॒म॒ऽपेया᳚य¦धृ॒ष्णो॒ इति॑ ||

[53] इंद्रापर्वतेति चतुर्विंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्र ऋषिरिंद्रोदेवता आद्यायाइंद्रापर्वतौ पंचदश्यादिद्वयोः ससर्परीवाक् ततश्चतसृणांरथांगानित्रिष्टुप् दशमीषोळश्यौजगत्यौ द्वादशीद्वाविंश्योनुष्टुभः त्रयोदशीगायत्री अष्टादशीबृहती |
इन्द्रा᳚पर्वताबृह॒तारथे᳚न¦वा॒मीरिष॒व॑हतंसु॒वीराः᳚ |{गाथिनो विश्वामित्रः | इन्द्रापर्वतौ | त्रिष्टुप्}

वी॒तंह॒व्यान्‌य॑ध्व॒रेषु॑देवा॒¦वर्धे᳚थांगी॒र्भिरिळ॑या॒मद᳚न्ता || {1/24}{3.53.1}{3.4.15.1}{3.3.19.1}{486, 287, 2921}

इन्द्रा᳚पर्वता¦बृ॒ह॒ता¦रथे᳚न¦वा॒मीः¦इषः॑¦आ¦व॒ह॒त॒‌म्¦सु॒ऽवीराः᳚ |
वी॒त‌म्¦ह॒व्यानि॑¦अ॒ध्व॒रेषु॑¦दे॒वा॒¦वर्धे᳚था‌म्¦गीः॒ऽभिः¦इळ॑या¦मद᳚न्ता ||

तिष्ठा॒सुकं᳚मघव॒न्‌मापरा᳚गाः॒¦सोम॑स्य॒नुत्वा॒सुषु॑तस्ययक्षि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

पि॒तुर्नपु॒त्रःसिच॒मार॑भेत॒¦इन्द्र॒स्वादि॑ष्ठयागि॒राश॑चीवः || {2/24}{3.53.2}{3.4.15.2}{3.3.19.2}{487, 287, 2922}

तिष्ठ॑¦सु¦क॒‌म्¦म॒घ॒ऽव॒न्¦मा¦परा᳚¦गाः॒¦सोम॑स्य¦नु¦त्वा॒¦सुऽसु॑तस्य¦य॒क्षि॒ |
पि॒तुः¦न¦पु॒त्रः¦सिच᳚‌म्¦आ¦र॒भे॒¦ते॒¦इन्द्र॑¦स्वादि॑ष्ठया¦गि॒रा¦श॒ची॒ऽवः॒ ||

शंसा᳚वाध्वर्यो॒प्रति॑मेगृणी॒ही¦न्द्रा᳚य॒वाहः॑कृणवाव॒जुष्ट᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

एदंब॒र्हिर्यज॑मानस्यसी॒दा¦था᳚भूदु॒क्थमिन्द्रा᳚यश॒स्तम् || {3/24}{3.53.3}{3.4.15.3}{3.3.19.3}{488, 287, 2923}

शंसा᳚व¦अ॒ध्व॒र्यो॒ इति॑¦प्रति॑¦मे॒¦गृ॒णी॒हि॒¦इन्द्रा᳚य¦वाहः॑¦कृ॒ण॒वा॒व॒¦जुष्ट᳚‌म् |
आ¦इ॒द‌म्¦ब॒र्हिः¦यज॑मानस्य¦सी॒द॒¦अथ॑¦च॒¦भू॒त्¦उ॒क्थ‌म्¦इन्द्रा᳚य¦श॒स्त‌म् ||

जा॒येदस्तं᳚मघव॒न्‌त्सेदु॒योनि॒¦स्तदित्‌त्वा᳚यु॒क्ताहर॑योवहन्तु |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

य॒दाक॒दाच॑सु॒नवा᳚म॒सोम॑¦म॒ग्निष्ट्वा᳚दू॒तोध᳚न्‌वा॒त्यच्छ॑ || {4/24}{3.53.4}{3.4.15.4}{3.3.19.4}{489, 287, 2924}

जा॒या¦इत्¦अस्त᳚‌म्¦म॒घ॒ऽव॒न्¦सा¦इत्¦ऊँ॒ इति॑¦योनिः॑¦तत्¦इत्¦त्वा॒¦यु॒क्ताः¦हर॑यः¦व॒ह॒न्तु॒ |
य॒दा¦क॒दा¦च॒¦सु॒नवा᳚म¦सोम᳚‌म्¦अ॒ग्निः¦त्वा॒¦दू॒तः¦ध॒न्वा॒ति॒¦अच्छ॑ ||

परा᳚याहिमघव॒न्नाच॑या॒ही¦न्द्र॑भ्रातरुभ॒यत्रा᳚ते॒,अर्थ᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

यत्रा॒रथ॑स्यबृह॒तोनि॒धानं᳚¦वि॒मोच॑नंवा॒जिनो॒रास॑भस्य || {5/24}{3.53.5}{3.4.15.5}{3.3.19.5}{490, 287, 2925}

परा᳚¦या॒हि॒¦म॒घ॒ऽव॒न्¦आ¦च॒¦या॒हि॒¦इन्द्र॑¦भ्रा॒तः॒¦उ॒भ॒यत्र॑¦ते॒¦अर्थ᳚‌म् |
यत्र॑¦रथ॑स्य¦बृ॒ह॒तः¦नि॒ऽधान᳚‌म्¦वि॒ऽमोच॑न‌म्¦वा॒जिनः॑¦रास॑भस्य ||

अपाः॒सोम॒मस्त॑मिन्द्र॒प्रया᳚हि¦कल्या॒णीर्जा॒यासु॒रणं᳚गृ॒हेते᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

यत्रा॒रथ॑स्यबृह॒तोनि॒धानं᳚¦वि॒मोच॑नंवा॒जिनो॒दक्षि॑णावत् || {6/24}{3.53.6}{3.4.15.6}{3.3.20.1}{491, 287, 2926}

अपाः᳚¦सोम᳚‌म्¦अस्त᳚‌म्¦इ॒न्द्र॒¦प्र¦या॒हि॒¦क॒ल्या॒णीः¦जा॒या¦सु॒ऽरण᳚‌म्¦गृ॒हे¦ते॒ |
यत्र॑¦रथ॑स्य¦बृ॒ह॒तः¦नि॒ऽधान᳚‌म्¦वि॒ऽमोच॑न‌म्¦वा॒जिनः॑¦दक्षि॑णाऽवत् ||

इ॒मेभो॒जा,अङ्गि॑रसो॒विरू᳚पा¦दि॒वस्पु॒त्रासो॒,असु॑रस्यवी॒राः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

वि॒श्वामि॑त्राय॒दद॑तोम॒घानि॑¦सहस्रसा॒वेप्रति॑रन्त॒आयुः॑ || {7/24}{3.53.7}{3.4.15.7}{3.3.20.2}{492, 287, 2927}

इ॒मे¦भो॒जाः¦अङ्गि॑रसः¦विऽरू᳚पाः¦दि॒वः¦पु॒त्रासः॑¦असु॑रस्य¦वी॒राः |
वि॒श्वामि॑त्राय¦दद॑तः¦म॒घानि॑¦स॒ह॒स्र॒ऽसा॒वे¦प्र¦ति॒र॒न्ते॒¦आयुः॑ ||

रू॒पंरू᳚पंम॒घवा᳚बोभवीति¦मा॒याःकृ᳚ण्वा॒नस्त॒न्व१॑(अं॒)परि॒स्वाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

त्रिर्यद्दि॒वःपरि॑मुहू॒र्तमागा॒त्¦स्वैर्मन्त्रै॒रनृ॑तुपा,ऋ॒तावा᳚ || {8/24}{3.53.8}{3.4.15.8}{3.3.20.3}{493, 287, 2928}

रू॒प‌म्ऽरू᳚प‌म्¦म॒घऽवा᳚¦बो॒भ॒वी॒ति॒¦मा॒याः¦कृ॒ण्वा॒नः¦त॒न्व᳚‌म्¦परि॑¦स्वा‌म् |
त्रिः¦यत्¦दि॒वः¦परि॑¦मु॒हू॒र्त‌म्¦आ¦अगा᳚त्¦स्वैः¦मन्त्रैः᳚¦अनृ॑तुऽपाः¦ऋ॒तऽवा᳚ ||

म॒हाँ,ऋषि॑र्देव॒जादे॒वजू॒तो¦ऽस्त॑भ्ना॒त्‌सिन्धु॑मर्ण॒वंनृ॒चक्षाः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

वि॒श्वामि॑त्रो॒यदव॑हत्‌सु॒दास॒¦मप्रि॑यायतकुशि॒केभि॒रिन्द्रः॑ || {9/24}{3.53.9}{3.4.15.9}{3.3.20.4}{494, 287, 2929}

म॒हान्¦ऋषिः॑¦दे॒व॒ऽजाः¦दे॒वऽजू᳚तः¦अस्त॑भ्नात्¦सिन्धु᳚‌म्¦अ॒र्ण॒व‌म्¦नृ॒ऽचक्षाः᳚ |
वि॒श्वामि॑त्रः¦यत्¦अव॑हत्¦सु॒ऽदास᳚‌म्¦अप्रि॑यायत¦कु॒शि॒केभिः॑¦इन्द्रः॑ ||

हं॒सा,इ॑वकृणुथ॒श्लोक॒मद्रि॑भि॒¦र्मद᳚न्तोगी॒र्भिर॑ध्व॒रेसु॒तेसचा᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | जगती}

दे॒वेभि᳚र्विप्रा,ऋषयोनृचक्षसो॒¦विपि॑बध्वंकुशिकाःसो॒म्यंमधु॑ || {10/24}{3.53.10}{3.4.15.10}{3.3.20.5}{495, 287, 2930}

हं॒साःऽ‌इ᳚व¦कृ॒णु॒थ॒¦श्लोक᳚‌म्¦अद्रि॑ऽभिः¦मद᳚न्तः¦गीः॒ऽभिः¦अ॒ध्व॒रे¦सु॒ते¦सचा᳚ |
दे॒वेभिः॑¦वि॒प्राः॒¦ऋ॒ष॒यः॒¦नृ॒ऽच॒क्ष॒सः॒¦वि¦पि॒ब॒ध्व॒‌म्¦कु॒शि॒काः॒¦सो॒म्य‌म्¦मधु॑ ||

उप॒प्रेत॑कुशिकाश्चे॒तय॑ध्व॒¦मश्वं᳚रा॒येप्रमु᳚ञ्चतासु॒दासः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

राजा᳚वृ॒त्रंज᳚ङ्घन॒त्‌प्रागपा॒गुद॒¦गथा᳚यजाते॒वर॒पृ॑थि॒व्याः || {11/24}{3.53.11}{3.4.15.11}{3.3.21.1}{496, 287, 2931}

उप॑¦प्र¦इ॒त॒¦कु॒शि॒काः॒¦चे॒तय॑ध्व‌म्¦अश्व᳚‌म्¦रा॒ये¦प्र¦मुं॒च॒त॒¦सु॒ऽदासः॑ |
राजा᳚¦वृ॒त्र‌म्¦ज॒ङ्घ॒न॒त्¦प्राक्¦अपा᳚क्¦उद॑क्¦अथ॑¦य॒जा॒ते॒¦वरे᳚¦आ¦पृ॒थि॒व्याः ||

इ॒मेरोद॑सी,उ॒भे¦,अ॒हमिन्द्र॒मतु॑ष्टवम् |{गाथिनो विश्वामित्रः | इन्द्रः | अनुष्टुप्}

वि॒श्वामि॑त्रस्यरक्षति॒¦ब्रह्मे॒दंभार॑तं॒जन᳚म् || {12/24}{3.53.12}{3.4.15.12}{3.3.21.2}{497, 287, 2932}

यः¦इ॒मे इति॑¦रोद॑सी॒ इति॑¦उ॒भे इति॑¦अ॒ह‌म्¦इन्द्र᳚‌म्¦अतु॑स्तव‌म् | वि॒श्वामि॑त्रस्य¦र॒क्ष॒ति॒¦ब्रह्म॑¦इ॒द‌म्¦भार॑त‌म्¦जन᳚‌म् ||

वि॒श्वामि॑त्रा,अरासत॒¦ब्रह्मेन्द्रा᳚यव॒ज्रिणे᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

कर॒दिन्नः॑सु॒राध॑सः || {13/24}{3.53.13}{3.4.15.13}{3.3.21.3}{498, 287, 2933}

वि॒श्वामि॑त्राः¦अ॒रा॒स॒त॒¦ब्रह्म॑¦इन्द्रा᳚य¦व॒ज्रिणे᳚ | कर॑त्¦इत्¦नः॒¦सु॒ऽराध॑सः ||

किंते᳚कृण्वन्ति॒कीक॑टेषु॒गावो॒¦नाशिरं᳚दु॒ह्रेत॑पन्तिघ॒र्मम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

नो᳚भर॒प्रम॑गन्दस्य॒वेदो᳚¦नैचाशा॒खंम॑घवन्‌रन्धयानः || {14/24}{3.53.14}{3.4.15.14}{3.3.21.4}{499, 287, 2934}

कि‌म्¦ते॒¦कृ॒ण्व॒न्ति॒¦कीक॑टेषु¦गावः॑¦न¦आ॒ऽशिर॑न्¦दु॒ह्रे¦न¦त॒प॒न्ति॒¦घ॒र्म‌म् |
आ¦नः॒¦भ॒र॒¦प्रऽम॑गन्दस्य¦वेदः॑¦नै॒चा॒ऽशा॒ख‌म्¦म॒घ॒ऽव॒न्¦र॒न्ध॒य॒¦नः॒ ||

स॒स॒र्प॒रीरम॑तिं॒बाध॑माना¦बृ॒हन्मि॑मायज॒मद॑ग्निदत्ता |{गाथिनो विश्वामित्रः | ससर्परी वाक् | त्रिष्टुप्}

सूर्य॑स्यदुहि॒तात॑तान॒¦श्रवो᳚दे॒वेष्व॒मृत॑मजु॒र्यम् || {15/24}{3.53.15}{3.4.15.15}{3.3.21.5}{500, 287, 2935}

स॒स॒र्प॒रीः¦अम॑ति‌म्¦बाध॑माना¦बृ॒हत्¦मि॒मा॒य॒¦ज॒मद॑ग्निऽदत्ता |
आ¦सूर्य॑स्य¦दु॒हि॒ता¦त॒ता॒न॒¦श्रवः॑¦दे॒वेषु॑¦अ॒मृत᳚‌म्¦अ॒जु॒र्य‌म् ||

स॒स॒र्प॒रीर॑भर॒त्‌तूय॑मे॒भ्यो¦ऽधि॒श्रवः॒पाञ्च॑जन्यासुकृ॒ष्टिषु॑ |{गाथिनो विश्वामित्रः | ससर्परी वाक् | जगती}

साप॒क्ष्या॒३॑(आ॒)नव्य॒मायु॒र्दधा᳚ना॒¦यांमे᳚पलस्तिजमद॒ग्नयो᳚द॒दुः || {16/24}{3.53.16}{3.4.15.16}{3.3.22.1}{501, 287, 2936}

स॒स॒र्प॒रीः¦अ॒भ॒र॒त्¦तूय᳚‌म्¦ए॒भ्यः॒¦अधि॑¦श्रवः॑¦पांच॑ऽजन्यासु¦कृ॒ष्टिषु॑ |
सा¦प॒क्ष्या᳚¦नव्य᳚‌म्¦आयुः॑¦दधा᳚ना¦या‌म्¦मे॒¦प॒ल॒स्ति॒ऽज॒म॒द॒ग्नयः॑¦द॒दुः ||

स्थि॒रौगावौ᳚भवतांवी॒ळुरक्षो॒¦मेषाविव᳚र्हि॒मायु॒गंविशा᳚रि |{गाथिनो विश्वामित्रः | रथाङ्गानि | त्रिष्टुप्}

इन्द्रः॑पात॒ल्ये᳚ददतां॒शरी᳚तो॒¦ररि॑ष्टनेमे,अ॒भिनः॑सचस्व || {17/24}{3.53.17}{3.4.15.17}{3.3.22.2}{502, 287, 2937}

स्थि॒रौ¦गावौ᳚¦भ॒व॒ता॒‌म्¦वी॒ळुः¦अक्षः॑¦मा¦ई॒षा¦वि¦व॒र्हि॒¦मा¦यु॒ग‌म्¦वि¦शा॒रि॒ |
इन्द्रः॑¦पा॒त॒ल्ये॒३॒॑ इति॑¦द॒द॒ता॒‌म्¦शरी᳚तोः¦अरि॑ष्टऽनेमे¦अ॒भि¦नः॒¦स॒च॒स्व॒ ||

बलं᳚धेहित॒नूषु॑नो॒¦बल॑मिन्द्रान॒ळुत्सु॑नः |{गाथिनो विश्वामित्रः | रथाङ्गानि | बृहती}

बलं᳚तो॒काय॒तन॑यायजी॒वसे॒¦त्वंहिब॑ल॒दा,असि॑ || {18/24}{3.53.18}{3.4.15.18}{3.3.22.3}{503, 287, 2938}

बल᳚‌म्¦धे॒हि॒¦त॒नूषु॑¦नः॒¦बल᳚‌म्¦इ॒न्द्र॒¦अ॒न॒ळुत्ऽसु॑¦नः॒ |
बल᳚‌म्¦तो॒काय॑¦तन॑याय¦जी॒वसे᳚¦त्व‌म्¦हि¦ब॒ल॒ऽदाः¦असि॑ ||

अ॒भिव्य॑यस्वखदि॒रस्य॒सार॒¦मोजो᳚धेहिस्पन्द॒नेशिं॒शपा᳚याम् |{गाथिनो विश्वामित्रः | रथाङ्गानि | त्रिष्टुप्}

अक्ष॑वीळोवीळितवी॒ळय॑स्व॒¦मायामा᳚द॒स्मादव॑जीहिपोनः || {19/24}{3.53.19}{3.4.15.19}{3.3.22.4}{504, 287, 2939}

अ॒भि¦व्य॒य॒स्व॒¦ख॒दि॒रस्य॑¦सार᳚‌म्¦ओजः॑¦धे॒हि॒¦स्प॒न्द॒ने¦शिं॒शपा᳚या‌म् |
अक्ष॑¦वी॒ळो॒ इति॑¦वी॒ळि॒त॒¦वी॒ळय॑स्व¦मा¦यामा᳚त्¦अ॒स्मात्¦अव॑¦जी॒हि॒पः॒¦नः॒ ||

अ॒यम॒स्मान्‌वन॒स्पति॒¦र्माच॒हामाच॑रीरिषत् |{गाथिनो विश्वामित्रः | रथाङ्गानि | अनुष्टुप्}

स्व॒स्त्यागृ॒हेभ्य॒आव॒सा¦,आवि॒मोच॑नात् || {20/24}{3.53.20}{3.4.15.20}{3.3.22.5}{505, 287, 2940}

अ॒य‌म्¦अ॒स्मान्¦वन॒स्पतिः॑¦मा¦च॒¦हाः¦मा¦च॒¦रि॒रि॒ष॒त् | स्व॒स्ति¦आ¦गृ॒हेभ्यः॑¦आ¦अ॒व॒ऽसै¦आ¦वि॒ऽमोच॑नात् ||

इन्द्रो॒तिभि॑र्बहु॒लाभि᳚र्नो,अ॒द्य¦या᳚च्छ्रे॒ष्ठाभि᳚र्मघवञ्छूरजिन्व |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

योनो॒द्वेष्ट्यध॑रः॒सस्प॑दीष्ट॒¦यमु॑द्वि॒ष्मस्तमु॑प्रा॒णोज॑हातु || {21/24}{3.53.21}{3.4.15.21}{3.3.23.1}{506, 287, 2941}

इन्द्र॑¦ऊ॒तिऽभिः॑¦ब॒हु॒लाभिः॑¦नः॒¦अ॒द्य¦या॒त्ऽश्रे॒ष्ठाभिः॑¦म॒घ॒ऽव॒न्¦शू॒र॒¦जि॒न्व॒ |
यः¦नः॒¦द्वेष्टि॑¦अध॑रः¦सः¦प॒दी॒ष्ट॒¦य‌म्¦ऊँ॒ इति॑¦द्वि॒ष्मः¦त‌म्¦ऊँ॒ इति॑¦प्रा॒णः¦ज॒हा॒तु॒ ||

प॒र॒शुंचि॒द्‌वित॑पति¦शिम्ब॒लंचि॒द्‌विवृ॑श्चति |{गाथिनो विश्वामित्रः | इन्द्रः | अनुष्टुप्}

उ॒खाचि॑दिन्द्र॒येष᳚न्ती॒¦प्रय॑स्ता॒फेन॑मस्यति || {22/24}{3.53.22}{3.4.15.22}{3.3.23.2}{507, 287, 2942}

प॒र॒शु‌म्¦चि॒त्¦वि¦त॒प॒ति॒¦शि॒म्ब॒ल‌म्¦चि॒त्¦वि¦वृ॒श्च॒ति॒ | उ॒खा¦चि॒त्¦इ॒न्द्र॒ ¦येष᳚न्ती¦प्रऽय॑स्ता¦फेन᳚‌म्¦अ॒स्य॒ति॒ ||

साय॑कस्यचिकितेजनासो¦लो॒धंन॑यन्ति॒पशु॒मन्य॑मानाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

नावा᳚जिनंवा॒जिना᳚हासयन्ति॒¦ग॑र्द॒भंपु॒रो,अश्वा᳚न्नयन्ति || {23/24}{3.53.23}{3.4.15.23}{3.3.23.3}{508, 287, 2943}

न¦साय॑कस्य¦चि॒कि॒ते॒¦ज॒ना॒सः॒¦लो॒ध‌म्¦न॒य॒न्ति॒¦पशु॑¦मन्य॑मानाः |
न¦अवा᳚जिन‌म्¦वा॒जिना᳚¦हा॒स॒य॒न्ति॒¦न¦ग॒र्द॒भ‌म्¦पु॒रः¦अश्वा᳚त्¦न॒य॒न्ति॒ ||

इ॒मइ᳚न्द्रभर॒तस्य॑पु॒त्रा¦,अ॑पपि॒त्वंचि॑कितु॒र्नप्र॑पि॒त्वम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

हि॒न्वन्त्यश्व॒मर॑णं॒नित्यं॒¦ज्या᳚वाजं॒परि॑णयन्त्या॒जौ || {24/24}{3.53.24}{3.4.15.24}{3.3.23.4}{509, 287, 2944}

इ॒मे¦इ॒न्द्र॒¦भ॒र॒तस्य॑¦पु॒त्राः¦अ॒प॒ऽपि॒त्व‌म्¦चि॒कि॒तुः॒¦न¦प्र॒ऽपि॒त्व‌म् |
हि॒न्वन्ति॑¦अश्व᳚‌म्¦अर॑ण‌म्¦न¦नित्य᳚‌म्¦ज्या᳚ऽवाज‌म्¦परि॑¦न॒य॒न्ति॒¦आ॒जौ ||

[54] इमंमहइति द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रःप्रजापतिर्विश्वेदेवास्त्रिष्टुप् (सूक्तभेदप्रयोगपक्षेदेवताः क्रमेण - अग्निः १ विश्वेदेवाः २ द्यावापृथिवी १ विश्वे। १ सूर्यद्यावापृथिव्यः १ द्यावापृथिवी २ द्यौः १ विश्वेदेवाः १ सविता १ विश्वे। २ विष्णुः १ इंद्रः १ अश्विनौ १ विश्वेदेवाः ५ अग्निः १ एवं २२ उत्तरसूक्तेअखिला अपिविश्वेदेवाः)|
इ॒मंम॒हेवि॑द॒थ्या᳚यशू॒षं¦शश्व॒त्‌कृत्व॒ईड्या᳚य॒प्रज॑भ्रुः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

शृ॒णोतु॑नो॒दम्ये᳚भि॒रनी᳚कैः¦शृ॒णोत्व॒ग्निर्दि॒व्यैरज॑स्रः || {1/22}{3.54.1}{3.5.1.1}{3.3.24.1}{510, 288, 2945}

इ॒म‌म्¦म॒हे¦वि॒द॒थ्या᳚य¦शू॒ष‌म्¦शश्व॑त्¦कृत्वः॑¦ईड्या᳚य¦प्र¦ज॒भ्रुः॒ |
शृ॒णोतु॑¦नः॒¦दम्ये᳚भिः¦अनी᳚कैः¦शृ॒णोतु॑¦अ॒ग्निः¦दि॒व्यैः¦अज॑स्रः ||

महि॑म॒हेदि॒वे,अ॑र्चापृथि॒व्यै¦कामो᳚इ॒च्छञ्च॑रतिप्रजा॒नन् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

ययो᳚र्ह॒स्तोमे᳚वि॒दथे᳚षुदे॒वाः¦स॑प॒र्यवो᳚मा॒दय᳚न्ते॒सचा॒योः || {2/22}{3.54.2}{3.5.1.2}{3.3.24.2}{511, 288, 2946}

महि॑¦म॒हे¦दि॒वे¦अ॒र्च॒¦पृ॒थि॒व्यै¦कामः॑¦मे॒¦इ॒च्छन्¦च॒र॒ति॒¦प्र॒ऽजा॒नन् |
ययोः᳚¦ह॒¦स्तोमे᳚¦वि॒दथे᳚षु¦दे॒वाः¦स॒प॒र्यवः॑¦मा॒दय᳚न्ते¦सचा᳚¦आ॒योः ||

यु॒वोरृ॒तंरो᳚दसीस॒त्यम॑स्तु¦म॒हेषुणः॑सुवि॒ताय॒प्रभू᳚तम् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

इ॒दंदि॒वेनमो᳚,अग्नेपृथि॒व्यै¦स॑प॒र्यामि॒प्रय॑सा॒यामि॒रत्न᳚म् || {3/22}{3.54.3}{3.5.1.3}{3.3.24.3}{512, 288, 2947}

यु॒वोः¦ऋ॒त‌म्¦रो॒द॒सी॒ इति॑¦स॒त्य‌म्¦अ॒स्तु॒¦म॒हे¦सु¦नः॒¦सु॒ऽवि॒ताय॑¦प्र¦भू॒त॒‌म् |
इ॒द‌म्¦दि॒वे¦नमः॑¦अ॒ग्ने॒¦पृ॒थि॒व्यै¦स॒प॒र्यामि॑¦प्रय॑सा¦यामि॑¦रत्न᳚‌म् ||

उ॒तोहिवां᳚पू॒र्व्या,आ᳚विवि॒द्र¦ऋता᳚वरीरोदसीसत्य॒वाचः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

नर॑श्चिद्‌वांसमि॒थेशूर॑सातौ¦ववन्दि॒रेपृ॑थिवि॒वेवि॑दानाः || {4/22}{3.54.4}{3.5.1.4}{3.3.24.4}{513, 288, 2948}

उ॒तो इति॑¦हि¦वा॒‌म्¦पू॒र्व्याः¦आ॒ऽवि॒वि॒द्रे¦ऋत॑वरी॒ इत्यृत॑ऽवरी¦रो॒द॒सी॒ इति॑¦स॒त्य॒ऽवाचः॑ |
नरः॑¦चि॒त्¦वा॒‌म्¦स॒‌म्ऽ‌इ॒थे¦शूर॑ऽसातौ¦व॒व॒न्दि॒रे¦पृ॒थि॒वि॒¦वेवि॑दानाः ||

को,अ॒द्धावे᳚द॒इ॒हप्रवो᳚चद्¦दे॒वाँ,अच्छा᳚प॒थ्या॒३॑(आ॒)कासमे᳚ति |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

ददृ॑श्रएषामव॒मासदां᳚सि॒¦परे᳚षु॒यागुह्ये᳚षुव्र॒तेषु॑ || {5/22}{3.54.5}{3.5.1.5}{3.3.24.5}{514, 288, 2949}

कः¦अ॒द्धा¦वे॒द॒¦कः¦इ॒ह¦प्र¦वो॒च॒त्¦दे॒वान्¦अच्छ॑¦प॒थ्या᳚¦का¦स‌म्¦ए॒ति॒ |
ददृ॑श्रे¦ए॒षा॒‌म्¦अ॒व॒मा¦सदां᳚सि¦परे᳚षु¦या¦गुह्ये᳚षु¦व्र॒तेषु॑ ||

क॒विर्नृ॒चक्षा᳚,अ॒भिषी᳚मचष्ट¦ऋ॒तस्य॒योना॒विघृ॑ते॒मद᳚न्ती |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

नाना᳚चक्राते॒सद॑नं॒यथा॒वेः¦स॑मा॒नेन॒क्रतु॑नासंविदा॒ने || {6/22}{3.54.6}{3.5.1.6}{3.3.25.1}{515, 288, 2950}

क॒विः¦नृ॒ऽचक्षाः᳚¦अ॒भि¦सी॒‌म्¦अ॒च॒ष्ट॒¦ऋ॒तस्य॑¦योना᳚¦विघृ॑ते॒ इति॒ विऽघृ॑ते¦मद᳚न्ती॒ इति॑ |
नाना᳚¦च॒क्रा॒ते॒ इति॑¦सद॑न‌म्¦यथा᳚¦वेः¦स॒मा॒नेन॑¦क्रतु॑ना¦सं॒वि॒दा॒ने इति॑ स॒‌म्ऽवि॒दा॒ने ||

स॒मा॒न्यावियु॑तेदू॒रे,अ᳚न्ते¦ध्रु॒वेप॒देत॑स्थतुर्जाग॒रूके᳚ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

उ॒तस्वसा᳚रायुव॒तीभव᳚न्ती॒,¦आदु॑ब्रुवातेमिथु॒नानि॒नाम॑ || {7/22}{3.54.7}{3.5.1.7}{3.3.25.2}{516, 288, 2951}

स॒मा॒न्या¦वियु॑ते॒ इति॒ विऽयु॑ते¦दू॒रेअ᳚न्ते॒ इति॑ दू॒रे।आ᳚न्ते¦ध्रु॒वे¦प॒दे¦त॒स्थ॒तुः॒¦जा॒ग॒रूके᳚ |
उ॒त¦स्वसा᳚रा¦यु॒व॒ती इति॑¦भव᳚न्ती॒ इति॑¦आत्¦ऊँ॒ इति॑¦ब्रु॒वा॒ते॒ इति॑¦मि॒थु॒नानि॑¦नाम॑ ||

विश्वेदे॒तेजनि॑मा॒संवि॑विक्तो¦म॒होदे॒वान्‌बिभ्र॑ती॒व्य॑थेते |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

एज॑द्‌ध्रु॒वंप॑त्यते॒विश्व॒मेकं॒¦चर॑त्‌पत॒त्रिविषु॑णं॒विजा॒तम् || {8/22}{3.54.8}{3.5.1.8}{3.3.25.3}{517, 288, 2952}

विश्वा᳚¦इत्¦ए॒ते इति॑¦जनि॑म¦स‌म्¦वि॒वि॒क्तः॒¦म॒हः¦दे॒वान्¦बिभ्र॑ती॒ इति॑¦न¦व्य॒थे॒ते॒ इति॑ |
एज॑त्¦ध्रु॒व‌म्¦प॒त्य॒ते॒¦विश्व᳚‌म्¦एक᳚‌म्¦चर॑त्¦प॒त॒त्रि¦विषु॑ण‌म्¦वि¦जा॒त‌म् ||

सना᳚पुरा॒णमध्ये᳚म्या॒रा¦न्म॒हःपि॒तुर्ज॑नि॒तुर्जा॒मितन्नः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

दे॒वासो॒यत्र॑पनि॒तार॒एवै᳚¦रु॒रौप॒थिव्यु॑तेत॒स्थुर॒न्तः || {9/22}{3.54.9}{3.5.1.9}{3.3.25.4}{518, 288, 2953}

सना᳚¦पु॒रा॒ण‌म्¦अधि॑¦ए॒मि॒¦आ॒रात्¦म॒हः¦पि॒तुः¦ज॒नि॒तुः¦जा॒मि¦तत्¦नः॒ |
दे॒वासः॑¦यत्र॑¦प॒नि॒तारः॑¦एवैः᳚¦उ॒रौ¦प॒थि¦वि।औ᳚ते¦त॒स्थुः¦अ॒न्तरिति॑ ||

इ॒मंस्तोमं᳚रोदसी॒प्रब्र॑वी¦म्यृदू॒दराः᳚शृणवन्नग्निजि॒ह्वाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

मि॒त्रःस॒म्राजो॒वरु॑णो॒युवा᳚न¦आदि॒त्यासः॑क॒वयः॑पप्रथा॒नाः || {10/22}{3.54.10}{3.5.1.10}{3.3.25.5}{519, 288, 2954}

इ॒म‌म्¦स्तोम᳚‌म्¦रो॒द॒सी॒ इति॑¦प्र¦ब्र॒वी॒मि॒¦ऋ॒दू॒दराः᳚¦शृ॒ण॒व॒न्¦अ॒ग्नि॒ऽजि॒ह्वाः |
मि॒त्रः¦स॒‌म्ऽराजः॑¦वरु॑णः¦युवा᳚नः¦आ॒दि॒त्यासः॑¦क॒वयः॑¦प॒प्र॒था॒नाः ||

हिर᳚ण्यपाणिःसवि॒तासु॑जि॒ह्व¦स्त्रिरादि॒वोवि॒दथे॒पत्य॑मानः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

दे॒वेषु॑सवितः॒श्लोक॒मश्रे॒¦राद॒स्मभ्य॒मासु॑वस॒र्वता᳚तिम् || {11/22}{3.54.11}{3.5.1.11}{3.3.26.1}{520, 288, 2955}

हिर᳚ण्यऽपाणिः¦स॒वि॒ता¦सु॒ऽजि॒ह्वः¦त्रिः¦आ¦दि॒वः¦वि॒दथे᳚¦पत्य॑मानः |
दे॒वेषु॑¦च॒¦स॒वि॒त॒रिति॑¦श्लोक᳚‌म्¦अश्रेः᳚¦आत्¦अ॒स्मभ्य᳚‌म्¦आ¦सु॒व॒¦स॒र्वऽता᳚ति‌म् ||

सु॒कृत्‌सु॑पा॒णिःस्ववाँ᳚,ऋ॒तावा᳚¦दे॒वस्त्वष्टाव॑से॒तानि॑नोधात् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

पू॒ष॒ण्वन्त॑ऋभवोमादयध्व¦मू॒र्ध्वग्रा᳚वाणो,अध्व॒रम॑तष्ट || {12/22}{3.54.12}{3.5.1.12}{3.3.26.2}{521, 288, 2956}

सु॒ऽकृत्¦सु॒ऽपा॒णिः¦स्वऽवा᳚न्¦ऋ॒तऽवा᳚¦दे॒वः¦त्वष्टा᳚¦अव॑से¦तानि॑¦नः॒¦धा॒त् |
पू॒ष॒ण्ऽवन्तः॑¦ऋ॒भ॒वः॒¦मा॒द॒य॒ध्व॒‌म्¦ऊ॒र्ध्वऽग्रा᳚वाणः¦अ॒ध्व॒र‌म्¦अ॒त॒ष्ट॒ ||

वि॒द्युद्र॑थाम॒रुत॑ऋष्टि॒मन्तो᳚¦दि॒वोमर्या᳚ऋ॒तजा᳚ता,अ॒यासः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

सर॑स्वतीशृणवन्‌य॒ज्ञिया᳚सो॒¦धाता᳚र॒यिंस॒हवी᳚रंतुरासः || {13/22}{3.54.13}{3.5.1.13}{3.3.26.3}{522, 288, 2957}

वि॒द्युत्ऽर॑थाः¦म॒रुतः॑¦ऋ॒ष्टि॒ऽमन्तः॑¦दि॒वः¦मर्याः᳚¦ऋ॒तऽजा᳚ताः¦अ॒यासः॑ |
सर॑स्वती¦शृ॒ण॒व॒न्¦य॒ज्ञिया᳚सः¦धात॑¦र॒यि‌म्¦स॒हऽवी᳚र‌म्¦तु॒रा॒सः॒ ||

विष्णुं॒स्तोमा᳚सःपुरुद॒स्मम॒र्का¦भग॑स्येवका॒रिणो॒याम॑निग्मन् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

उ॒रु॒क्र॒मःक॑कु॒होयस्य॑पू॒र्वी¦र्नम॑र्धन्तियुव॒तयो॒जनि॑त्रीः || {14/22}{3.54.14}{3.5.1.14}{3.3.26.4}{523, 288, 2958}

विष्णु᳚‌म्¦स्तोमा᳚सः¦पु॒रु॒ऽद॒स्म‌म्¦अ॒र्काः¦भग॑स्यऽ‌इव¦का॒रिणः॑¦याम॑नि¦ग्म॒न् |
उ॒रु॒ऽक्र॒मः¦क॒कु॒हः¦यस्य॑¦पू॒र्वीः¦न¦म॒र्ध॒न्ति॒¦यु॒व॒तयः॑¦जनि॑त्रीः ||

इन्द्रो॒विश्वै᳚र्वी॒र्यै॒३॑(ऐः॒)पत्य॑मान¦उ॒भे,प॑प्रौ॒रोद॑सीमहि॒त्वा |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

पु॒रं॒द॒रोवृ॑त्र॒हाधृ॒ष्णुषे᳚णः¦सं॒गृभ्या᳚न॒भ॑रा॒भूरि॑प॒श्वः || {15/22}{3.54.15}{3.5.1.15}{3.3.26.5}{524, 288, 2959}

इन्द्रः॑¦विश्वैः᳚¦वी॒र्यैः᳚¦पत्य॑मानः¦उ॒भे इति॑¦आ¦प॒प्रौ॒¦रोद॑सी॒ इति॑¦म॒हि॒ऽत्वा |
पु॒र॒‌म्ऽद॒रः¦वृ॒त्र॒ऽहा¦धृ॒ष्णुऽसे᳚नः¦स॒‌म्ऽगृभ्य॑¦नः॒¦आ¦भ॒र॒¦भूरि॑¦प॒श्वः ||

नास॑त्यामेपि॒तरा᳚बन्धु॒पृच्छा᳚¦सजा॒त्य॑म॒श्विनो॒श्चारु॒नाम॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

यु॒वंहिस्थोर॑यि॒दौनो᳚रयी॒णां¦दा॒त्रंर॑क्षेथे॒,अक॑वै॒रद॑ब्धा || {16/22}{3.54.16}{3.5.1.16}{3.3.27.1}{525, 288, 2960}

नास॑त्या¦मे॒¦पि॒तरा᳚¦ब॒न्धु॒ऽपृच्छा᳚¦स॒ऽजा॒त्य᳚‌म्¦अ॒श्विनोः᳚¦चारु॑¦नाम॑ |
यु॒व‌म्¦हि¦स्थः¦र॒यि॒ऽदौ¦नः॒¦र॒यी॒णा‌म्¦दा॒त्र‌म्¦र॒क्षे॒थे॒ इति॑¦अक॑वैः¦अद॑ब्धा ||

म॒हत्तद्‌वः॑कवय॒श्चारु॒नाम॒¦यद्ध॑देवा॒भव॑थ॒विश्व॒इन्द्रे᳚ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

सख॑ऋ॒भुभिः॑पुरुहूतप्रि॒येभि॑¦रि॒मांधियं᳚सा॒तये᳚तक्षतानः || {17/22}{3.54.17}{3.5.1.17}{3.3.27.2}{526, 288, 2961}

म॒हत्¦तत्¦वः॒¦क॒व॒यः॒¦चारु॑¦नाम॑¦यत्¦ह॒¦दे॒वाः॒¦भव॑थ¦विश्वे᳚¦इन्द्रे᳚ |
सखा᳚¦ऋ॒भुऽभिः॑¦पु॒रु॒ऽहू॒त॒¦प्रि॒येभिः॑¦इ॒मा‌म्¦धिय᳚‌म्¦सा॒तये᳚¦त॒क्ष॒त॒¦नः॒ ||

अ॒र्य॒माणो॒,अदि॑तिर्य॒ज्ञिया॒सो¦ऽद॑ब्धानि॒वरु॑णस्यव्र॒तानि॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

यु॒योत॑नो,अनप॒त्यानि॒गन्तोः᳚¦प्र॒जावा᳚न्‌नःपशु॒माँ,अ॑स्तुगा॒तुः || {18/22}{3.54.18}{3.5.1.18}{3.3.27.3}{527, 288, 2962}

अ॒र्य॒मा¦नः॒¦अदि॑तिः¦य॒ज्ञिया᳚सः¦अद॑ब्धानि¦वरु॑णस्य¦व्र॒तानि॑ |
यु॒योत॑¦नः॒¦अ॒न॒प॒त्यानि॑¦गन्तोः᳚¦प्र॒जाऽवा᳚न्¦नः॒¦प॒शु॒ऽमान्¦अ॒स्तु॒¦गा॒तुः ||

दे॒वानां᳚दू॒तःपु॑रु॒धप्रसू॒तो¦ऽना᳚गान्‌नोवोचतुस॒र्वता᳚ता |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

शृ॒णोतु॑नःपृथि॒वीद्यौरु॒तापः॒¦सूर्यो॒नक्ष॑त्रैरु॒र्व१॑(अ॒)न्तरि॑क्षम् || {19/22}{3.54.19}{3.5.1.19}{3.3.27.4}{528, 288, 2963}

दे॒वाना᳚‌म्¦दू॒तः¦पु॒रु॒ध¦प्रऽसू᳚तः¦अना᳚गान्¦नः॒¦वो॒च॒तु॒¦स॒र्वऽता᳚ता |
शृ॒णोतु॑¦नः॒¦पृ॒थि॒वी¦द्यौः¦उ॒त¦आपः॑¦सूर्यः॑¦नक्ष॑त्रैः¦उ॒रु¦अ॒न्तरि॑क्ष‌म् ||

शृ॒ण्वन्तु॑नो॒वृष॑णः॒पर्व॑तासो¦ध्रु॒वक्षे᳚मास॒इळ॑या॒मद᳚न्तः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

आ॒दि॒त्यैर्नो॒,अदि॑तिःशृणोतु॒¦यच्छ᳚न्तुनोम॒रुतः॒शर्म॑भ॒द्रम् || {20/22}{3.54.20}{3.5.1.20}{3.3.27.5}{529, 288, 2964}

शृ॒ण्वन्तु॑¦नः॒¦वृष॑णः¦पर्व॑तासः¦ध्रु॒वऽक्षे᳚मासः¦इळ॑या¦मद᳚न्तः |
आ॒दि॒त्यैः¦नः॒¦अदि॑तिः¦शृ॒णो॒तु॒¦यच्छ᳚न्तु¦नः॒¦म॒रुतः॑¦शर्म॑¦भ॒द्र‌म् ||

सदा᳚सु॒गःपि॑तु॒माँ,अ॑स्तु॒पन्था॒¦मध्वा᳚देवा॒,ओष॑धीः॒संपि॑पृक्त |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

भगो᳚मे,अग्नेस॒ख्येमृ॑ध्या॒,¦उद्‌रा॒यो,अ॑श्यां॒सद॑नंपुरु॒क्षोः || {21/22}{3.54.21}{3.5.1.21}{3.3.27.6}{530, 288, 2965}

सदा᳚¦सु॒ऽगः¦पि॒तु॒ऽमान्¦अ॒स्तु॒¦पन्था᳚¦मध्वा᳚¦दे॒वाः॒¦ओष॑धीः¦स‌म्¦पि॒पृ॒क्त॒ |
भगः॑¦मे॒¦अ॒ग्ने॒¦स॒ख्ये¦न¦मृ॒ध्याः᳚¦उत्¦रा॒यः¦अ॒श्या॒‌म्¦सद॑न‌म्¦पु॒रु॒ऽक्षोः ||

स्वद॑स्वह॒व्यासमिषो᳚दिदी¦ह्यस्म॒द्र्य१॑(अ॒)क्‌संमि॑मीहि॒श्रवां᳚सि |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

विश्वाँ᳚,अग्नेपृ॒त्सुताञ्जे᳚षि॒शत्रू॒¦नहा॒विश्वा᳚सु॒मना᳚दीदिहीनः || {22/22}{3.54.22}{3.5.1.22}{3.3.27.7}{531, 288, 2966}

स्वद॑स्व¦ह॒व्या¦स‌म्¦इषः॑¦दि॒दी॒हि॒¦अ॒स्म॒द्र्य॑क्¦स‌म्¦मि॒मी॒हि॒¦श्रवां᳚सि |
विश्वा᳚न्¦अ॒ग्ने॒¦पृ॒त्ऽसु¦तान्¦जे॒षि॒¦शत्रू᳚न्¦अहा᳚¦विश्वा᳚¦सु॒ऽमनाः᳚¦दी॒दि॒हि॒¦नः॒ ||

[55] उषसइति द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रःप्रजापतिर्विश्वेदेवास्त्रिष्टुप् |
उ॒षसः॒पूर्वा॒,अध॒यद्‌व्यू॒षु¦र्म॒हद्‌विज॑ज्ञे,अ॒क्षरं᳚प॒देगोः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

व्र॒तादे॒वाना॒मुप॒नुप्र॒भूष॑न्¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {1/22}{3.55.1}{3.5.2.1}{3.3.28.1}{532, 289, 2967}

उ॒षसः॑¦पूर्वाः᳚¦अध॑¦यत्¦वि॒ऽऊ॒षुः¦म॒हत्¦वि¦ज॒ज्ञे॒¦अ॒क्षर᳚‌म्¦प॒दे¦गोः |
व्र॒ता¦दे॒वाना᳚‌म्¦उप॑¦नु¦प्र॒ऽभूष॑न्¦म॒हत्¦दे॒वाना᳚‌म्¦अ॒सु॒र॒ऽत्व‌म्¦एक᳚‌म् ||

मोषूणो॒,अत्र॑जुहुरन्तदे॒वा¦मापूर्वे᳚,अग्नेपि॒तरः॑पद॒ज्ञाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

पु॒रा॒ण्योःसद्म॑नोःके॒तुर॒न्त¦र्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {2/22}{3.55.2}{3.5.2.2}{3.3.28.2}{533, 289, 2968}

मो इति॑¦सु¦नः॒¦अत्र॑¦जु॒हु॒र॒न्त॒¦दे॒वाः¦मा¦पूर्वे᳚¦अ॒ग्ने॒¦पि॒तरः॑¦प॒द॒ऽज्ञाः |
पु॒रा॒ण्योः¦सद्म॑नोः¦के॒तुः¦अ॒न्तः¦म॒हत्¦दे॒वाना᳚‌म्¦अ॒सु॒र॒ऽत्व‌म्¦एक᳚‌म् ||

विमे᳚पुरु॒त्राप॑तयन्ति॒कामाः॒¦शम्यच्छा᳚दीद्येपू॒र्व्याणि॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

समि॑द्धे,अ॒ग्नावृ॒तमिद्‌व॑देम¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3/22}{3.55.3}{3.5.2.3}{3.3.28.3}{534, 289, 2969}

वि¦मे॒¦पु॒रु॒ऽत्रा¦प॒त॒य॒न्ति॒¦कामाः᳚¦शमि॑¦अच्छ॑¦दी॒द्ये॒¦पू॒र्व्याणि॑ |
स‌म्ऽ‌इ᳚द्धे¦अ॒ग्नौ¦ऋ॒त‌म्¦इत्¦व॒दे॒म॒¦म॒हत्¦दे॒वाना᳚‌म्¦अ॒सु॒र॒ऽत्व‌म्¦एक᳚‌म् ||

स॒मा॒नोराजा॒विभृ॑तःपुरु॒त्रा¦शये᳚श॒यासु॒प्रयु॑तो॒वनानु॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

अ॒न्याव॒त्संभर॑ति॒क्षेति॑मा॒ता¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {4/22}{3.55.4}{3.5.2.4}{3.3.28.4}{535, 289, 2970}

स॒मा॒नः¦राजा᳚¦विऽभृ॑तः¦पु॒रु॒ऽत्रा¦शये᳚¦श॒यासु॑¦प्रऽयु॑तः¦वना᳚¦अनु॑ |
अ॒न्या¦व॒त्स‌म्¦भर॑ति¦क्षेति॑¦मा॒ता¦म॒हत्¦दे॒वाना᳚‌म्¦अ॒सु॒र॒ऽत्व‌म्¦एक᳚‌म् ||

आ॒क्षित्‌पूर्वा॒स्वप॑रा,अनू॒रुत्¦स॒द्योजा॒तासु॒तरु॑णीष्व॒न्तः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

अ॒न्तर्व॑तीःसुवते॒,अप्र॑वीता¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {5/22}{3.55.5}{3.5.2.5}{3.3.28.5}{536, 289, 2971}

आ॒ऽक्षित्¦पूर्वा᳚सु¦अप॑राः¦अ॒नू॒रुत्¦स॒द्यः¦जा॒तासु॑¦तरु॑णीषु¦अ॒न्तरिति॑ |
अ॒न्तःऽव॑तीः¦सु॒व॒ते॒¦अप्र॑ऽवीताः¦म॒हत्¦दे॒वाना᳚‌म्¦अ॒सु॒र॒ऽत्व‌म्¦एक᳚‌म् ||

श॒युःप॒रस्ता॒दध॒नुद्वि॑मा॒ता¦ब᳚न्ध॒नश्च॑रतिव॒त्सएकः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

मि॒त्रस्य॒तावरु॑णस्यव्र॒तानि॑¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {6/22}{3.55.6}{3.5.2.6}{3.3.29.1}{537, 289, 2972}

श॒युः¦प॒रस्ता᳚त्¦अध॑¦नु¦द्वि॒ऽमा॒ता¦अ॒ब॒न्ध॒नः¦च॒र॒ति॒¦व॒त्सः¦एकः॑ |
मि॒त्रस्य॑¦ता¦वरु॑णस्य¦व्र॒तानि॑¦म॒हत्¦दे॒वाना᳚‌म्¦अ॒सु॒र॒ऽत्व‌म्¦एक᳚‌म् ||

द्वि॒मा॒ताहोता᳚वि॒दथे᳚षुस॒म्रा¦ळन्वग्रं॒चर॑ति॒क्षेति॑बु॒ध्नः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

प्ररण्या᳚निरण्य॒वाचो᳚भरन्ते¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {7/22}{3.55.7}{3.5.2.7}{3.3.29.2}{538, 289, 2973}

द्वि॒ऽमा॒ता¦होता᳚¦वि॒दथे᳚षु¦स॒‌म्ऽराट्¦अनु॑¦अग्र᳚‌म्¦चर॑ति¦क्षेति॑¦बु॒ध्नः |
प्र¦रण्या᳚नि¦र॒ण्य॒ऽवाचः॑¦भ॒र॒न्ते॒¦म॒हत्¦दे॒वाना᳚‌म्¦अ॒सु॒र॒ऽत्व‌म्¦एक᳚‌म् ||

शूर॑स्येव॒युध्य॑तो,अन्त॒मस्य॑¦प्रती॒चीनं᳚ददृशे॒विश्व॑मा॒यत् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

अ॒न्तर्म॒तिश्च॑रतिनि॒ष्षिधं॒गो¦र्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {8/22}{3.55.8}{3.5.2.8}{3.3.29.3}{539, 289, 2974}

शूर॑स्यऽ‌इव¦युध्य॑तः¦अ॒न्त॒मस्य॑¦प्र॒ती॒चीन᳚‌म्¦द॒दृ॒शे॒¦विश्व᳚‌म्¦आ॒ऽयत् |
अ॒न्तः¦म॒तिः¦च॒र॒ति॒¦निः॒ऽसिध᳚‌म्¦गोः¦म॒हत्¦दे॒वाना᳚‌म्¦अ॒सु॒र॒ऽत्व‌म्¦एक᳚‌म् ||

निवे᳚वेतिपलि॒तोदू॒तआ᳚¦स्व॒न्तर्म॒हाँश्च॑रतिरोच॒नेन॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

वपूं᳚षि॒बिभ्र॑द॒भिनो॒विच॑ष्टे¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {9/22}{3.55.9}{3.5.2.9}{3.3.29.4}{540, 289, 2975}

नि¦वे॒वे॒ति॒¦प॒लि॒तः¦दू॒तः¦आ॒सु॒¦अ॒न्तः¦म॒हान्¦च॒र॒ति॒¦रो॒च॒नेन॑ |
वपूं᳚षि¦बिभ्र॑त्¦अ॒भि¦नः॒¦वि¦च॒ष्टे॒¦म॒हत्¦दे॒वाना᳚‌म्¦अ॒सु॒र॒ऽत्व‌म्¦एक᳚‌म् ||

विष्णु॑र्गो॒पाःप॑र॒मंपा᳚ति॒पाथः॑¦प्रि॒याधामा᳚न्य॒मृता॒दधा᳚नः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

अ॒ग्निष्टाविश्वा॒भुव॑नानिवेद¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {10/22}{3.55.10}{3.5.2.10}{3.3.29.5}{541, 289, 2976}

विष्णुः॑¦गो॒पाः¦प॒र॒म‌म्¦पा॒ति॒¦पाथः॑¦प्रि॒या¦धामा᳚नि¦अ॒मृता᳚¦दधा᳚नः |
अ॒ग्निः¦ता¦विश्वा᳚¦भुव॑नानि¦वे॒द॒¦म॒हत्¦दे॒वाना᳚‌म्¦अ॒सु॒र॒ऽत्व‌म्¦एक᳚‌म् ||

नाना᳚चक्रातेय॒म्या॒३॑(आ॒)वपूं᳚षि॒¦तयो᳚र॒न्यद्‌रोच॑तेकृ॒ष्णम॒न्यत् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

श्यावी᳚च॒यदरु॑षीच॒स्वसा᳚रौ¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {11/22}{3.55.11}{3.5.2.11}{3.3.30.1}{542, 289, 2977}

नाना᳚¦च॒क्रा॒ते॒ इति॑¦य॒म्या᳚¦वपूं᳚षि¦तयोः᳚¦अ॒न्यत्¦रोच॑ते¦कृ॒ष्ण‌म्¦अ॒न्यत् |
श्यावी᳚¦च॒¦यत्¦अरु॑षी¦च॒¦स्वसा᳚रौ¦म॒हत्¦दे॒वाना᳚‌म्¦अ॒सु॒र॒ऽत्व‌म्¦एक᳚‌म् ||

मा॒ताच॒यत्र॑दुहि॒ताच॑धे॒नू¦स॑ब॒र्दुघे᳚धा॒पये᳚तेसमी॒ची |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒तस्य॒तेसद॑सीळे,अ॒न्त¦र्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {12/22}{3.55.12}{3.5.2.12}{3.3.30.2}{543, 289, 2978}

मा॒ता¦च॒¦यत्र॑¦दु॒हि॒ता¦च॒¦धे॒नू इति॑¦स॒ब॒र्दुघे॒ इति॑ स॒बः॒ऽदुघे᳚¦धा॒पये᳚ते॒ इति॑¦स॒मी॒ची इति॑ स॒‌म्ऽई॒ची |
ऋ॒तस्य॑¦ते॒ इति॑¦सद॑सि¦ई॒ळे॒¦अ॒न्तः¦म॒हत्¦दे॒वाना᳚‌म्¦अ॒सु॒र॒ऽत्व‌म्¦एक᳚‌म् ||

अ॒न्यस्या᳚व॒त्संरि॑ह॒तीमि॑माय॒¦कया᳚भु॒वानिद॑धेधे॒नुरूधः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒तस्य॒सापय॑सापिन्व॒तेळा᳚¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {13/22}{3.55.13}{3.5.2.13}{3.3.30.3}{544, 289, 2979}

अ॒न्यस्याः᳚¦व॒त्स‌म्¦रि॒ह॒ती¦मि॒मा॒य॒¦कया᳚¦भु॒वा¦नि¦द॒धे॒¦धे॒नुः¦ऊधः॑ |
ऋ॒तस्य॑¦सा¦पय॑सा¦अ॒पि॒न्व॒त॒¦इळा᳚¦म॒हत्¦दे॒वाना᳚‌म्¦अ॒सु॒र॒ऽत्व‌म्¦एक᳚‌म् ||

पद्या᳚वस्तेपुरु॒रूपा॒वपूं᳚¦ष्यू॒र्ध्वात॑स्थौ॒त्र्यविं॒रेरि॑हाणा |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒तस्य॒सद्म॒विच॑रामिवि॒द्वान्¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {14/22}{3.55.14}{3.5.2.14}{3.3.30.4}{545, 289, 2980}

पद्या᳚¦व॒स्ते॒¦पु॒रु॒ऽरूपा᳚¦वपूं᳚षि¦ऊ॒र्ध्वा¦त॒स्थौ॒¦त्रि॒।आवि᳚‌म्¦रेरि॑हाणा |
ऋ॒तस्य॑¦सद्म॑¦वि¦च॒रा॒मि॒¦वि॒द्वान्¦म॒हत्¦दे॒वाना᳚‌म्¦अ॒सु॒र॒ऽत्व‌म्¦एक᳚‌म् ||

प॒दे,इ॑व॒निहि॑तेद॒स्मे,अ॒न्त¦स्तयो᳚र॒न्यद्‌गुह्य॑मा॒विर॒न्यत् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

स॒ध्री॒ची॒नाप॒थ्या॒३॑(आ॒)साविषू᳚ची¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {15/22}{3.55.15}{3.5.2.15}{3.3.30.5}{546, 289, 2981}

प॒दे इ॒वेति॑ प॒देऽ‌इ᳚व¦निहि॑ते॒ इति॒ निऽहि॑ते¦द॒स्मे¦अ॒न्तरिति॑¦तयोः᳚¦अ॒न्यत्¦गुह्य᳚‌म्¦आ॒विः¦अ॒न्यत् |
स॒ध्री॒ची॒ना¦प॒थ्या᳚¦सा¦विषू᳚ची¦म॒हत्¦दे॒वाना᳚‌म्¦अ॒सु॒र॒ऽत्व‌म्¦एक᳚‌म् ||

धे॒नवो᳚धुनयन्ता॒मशि॑श्वीः¦सब॒र्दुघाः᳚शश॒या,अप्र॑दुग्धाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

नव्या᳚नव्यायुव॒तयो॒भव᳚न्ती¦र्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {16/22}{3.55.16}{3.5.2.16}{3.3.31.1}{547, 289, 2982}

आ¦धे॒नवः॑¦धु॒न॒य॒न्ता॒‌म्¦अशि॑श्वीः¦स॒बः॒ऽदुघाः᳚¦श॒श॒याः¦अप्र॑ऽदुग्धाः |
नव्याः᳚ऽनव्याः¦यु॒व॒तयः॑¦भव᳚न्तीः¦म॒हत्¦दे॒वाना᳚‌म्¦अ॒सु॒र॒ऽत्व‌म्¦एक᳚‌म् ||

यद॒न्यासु॑वृष॒भोरोर॑वीति॒¦सो,अ॒न्यस्मि᳚न्‌यू॒थेनिद॑धाति॒रेतः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

हिक्षपा᳚वा॒न्‌त्सभगः॒राजा᳚¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {17/22}{3.55.17}{3.5.2.17}{3.3.31.2}{548, 289, 2983}

यत्¦अ॒न्यासु॑¦वृ॒ष॒भः¦रोर॑वीति¦सः¦अ॒न्यस्मि॑न्¦यू॒थे¦नि¦द॒धा॒ति॒¦रेतः॑ |
सः¦हि¦क्षपा᳚ऽवान्¦सः¦भगः॑¦सः¦राजा᳚¦म॒हत्¦दे॒वाना᳚‌म्¦अ॒सु॒र॒ऽत्व‌म्¦एक᳚‌म् ||

वी॒रस्य॒नुस्वश्व्यं᳚जनासः॒¦प्रनुवो᳚चामवि॒दुर॑स्यदे॒वाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

षो॒ळ्हायु॒क्ताःपञ्च॑प॒ञ्चाव॑हन्ति¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {18/22}{3.55.18}{3.5.2.18}{3.3.31.3}{549, 289, 2984}

वी॒रस्य॑¦नु¦सु॒।आश्व्य᳚‌म्¦ज॒ना॒सः॒¦प्र¦नु¦वो॒चा॒म॒¦वि॒दुः¦अ॒स्य॒¦दे॒वाः |
षो॒ळ्हा¦यु॒क्ताः¦पंच॑ऽपंच¦आ¦व॒ह॒न्ति॒¦म॒हत्¦दे॒वाना᳚‌म्¦अ॒सु॒र॒ऽत्व‌म्¦एक᳚‌म् ||

दे॒वस्त्वष्टा᳚सवि॒तावि॒श्वरू᳚पः¦पु॒पोष॑प्र॒जाःपु॑रु॒धाज॑जान |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

इ॒माच॒विश्वा॒भुव॑नान्यस्य¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {19/22}{3.55.19}{3.5.2.19}{3.3.31.4}{550, 289, 2985}

दे॒वः¦त्वष्टा᳚¦स॒वि॒ता¦वि॒श्वऽरू᳚पः¦पु॒पोष॑¦प्र॒ऽजाः¦पु॒रु॒धा¦ज॒जा॒न॒ |
इ॒मा¦च॒¦विश्वा᳚¦भुव॑नानि¦अ॒स्य॒¦म॒हत्¦दे॒वाना᳚‌म्¦अ॒सु॒र॒ऽत्व‌म्¦एक᳚‌म् ||

म॒हीसमै᳚रच्च॒म्वा᳚समी॒ची¦,उ॒भेते,अ॑स्य॒वसु॑ना॒न्यृ॑ष्टे |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

शृ॒ण्वेवी॒रोवि॒न्दमा᳚नो॒वसू᳚नि¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {20/22}{3.55.20}{3.5.2.20}{3.3.31.5}{551, 289, 2986}

म॒ही इति॑¦स‌म्¦ऐ॒र॒त्¦च॒म्वा᳚¦स॒मी॒ची इति॑ स॒‌म्ऽई॒ची¦उ॒भे इति॑¦ते इति॑¦अ॒स्य॒¦वसु॑ना¦न्यृ॑ष्टे॒ इति॒ निऽऋ॑ष्टे |
शृ॒ण्वे¦वी॒रः¦वि॒न्दमा᳚नः¦वसू᳚नि¦म॒हत्¦दे॒वाना᳚‌म्¦अ॒सु॒र॒ऽत्व‌म्¦एक᳚‌म् ||

इ॒मांच॑नःपृथि॒वींवि॒श्वधा᳚या॒,¦उप॑क्षेतिहि॒तमि॑त्रो॒राजा᳚ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

पु॒रः॒सदः॑शर्म॒सदो॒वी॒रा¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {21/22}{3.55.21}{3.5.2.21}{3.3.31.6}{552, 289, 2987}

इ॒मा‌म्¦च॒¦नः॒¦पृ॒थि॒वी‌म्¦वि॒श्वऽधा᳚याः¦उप॑¦क्षे॒ति॒¦हि॒तऽमि॑त्रः¦न¦राजा᳚ |
पु॒रः॒ऽसदः॑¦श॒र्म॒ऽसदः॑¦न¦वी॒राः¦म॒हत्¦दे॒वाना᳚‌म्¦अ॒सु॒र॒ऽत्व‌म्¦एक᳚‌म् ||

नि॒ष्षिध्व॑रीस्त॒ओष॑धीरु॒तापो᳚¦र॒यिंत॑इन्द्रपृथि॒वीबि॑भर्ति |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

सखा᳚यस्तेवाम॒भाजः॑स्यामम॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {22/22}{3.55.22}{3.5.2.22}{3.3.31.7}{553, 289, 2988}

निः॒ऽसिध्व॑रीः¦ते॒¦ओष॑धीः¦उ॒त¦आपः॑¦र॒यि‌म्¦ते॒¦इ॒न्द्र॒¦पृ॒थि॒वी¦बि॒भ॒र्ति॒ |
सखा᳚यः¦ते॒¦वा॒म॒ऽभाजः॑¦स्या॒म॒¦म॒हत्¦दे॒वाना᳚‌म्¦अ॒सु॒र॒ऽत्व‌म्¦एक᳚‌म् ||

[56] नतामिनंतीत्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्रो विश्वेदेवास्त्रिष्टुप् (भेदपक्षेविभागः क्रमेण - विश्वेदेवाः १ संवत्सरादित्याः सिंधवः १ सविता १ विश्वेदेवाः २ एवमष्टौ)|
तामि॑नन्तिमा॒यिनो॒धीरा᳚¦व्र॒तादे॒वानां᳚प्रथ॒माध्रु॒वाणि॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

रोद॑सी,अ॒द्रुहा᳚वे॒द्याभि॒¦र्नपर्व॑तानि॒नमे᳚तस्थि॒वांसः॑ || {1/8}{3.56.1}{3.5.3.1}{3.4.1.1}{554, 290, 2989}

न¦ता¦मि॒न॒न्ति॒¦मा॒यिनः॑¦न¦धीराः᳚¦व्र॒ता¦दे॒वाना᳚‌म्¦प्र॒थ॒मा¦ध्रु॒वाणि॑ |
न¦रोद॑सी॒ इति॑¦अ॒द्रुहा᳚¦वे॒द्याभिः॑¦न¦पर्व॑ताः¦नि॒ऽनमे᳚¦त॒स्थि॒ऽवांसः॑ ||

षड्‌भा॒राँ,एको॒,अच॑रन्‌बिभ¦र्त्यृ॒तंवर्षि॑ष्ठ॒मुप॒गाव॒आगुः॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

ति॒स्रोम॒हीरुप॑रास्तस्थु॒रत्या॒¦गुहा॒द्वेनिहि॑ते॒दर्श्येका᳚ || {2/8}{3.56.2}{3.5.3.2}{3.4.1.2}{555, 290, 2990}

षट्¦भा॒रान्¦एकः॑¦अच॑रन्¦बि॒भ॒र्ति॒¦ऋ॒त‌म्¦वर्षि॑ष्ठ‌म्¦उप॑¦गावः॑¦आ¦अ॒गुः॒ |
ति॒स्रः¦म॒हीः¦उप॑राः¦त॒स्थुः॒¦अत्याः᳚¦गुहा᳚¦द्वे इति॑¦निहि॑ते॒ इति॒ निऽहि॑ते¦दर्शि॑¦एका᳚ ||

त्रि॒पा॒ज॒स्योवृ॑ष॒भोवि॒श्वरू᳚प¦उ॒तत्र्यु॒धापु॑रु॒धप्र॒जावा॑न् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

त्र्य॒नी॒कःप॑त्यते॒माहि॑नावा॒न्¦त्सरे᳚तो॒धावृ॑ष॒भःशश्व॑तीनाम् || {3/8}{3.56.3}{3.5.3.3}{3.4.1.3}{556, 290, 2991}

त्रि॒ऽपा॒ज॒स्यः¦वृ॒ष॒भः¦वि॒श्वऽरू᳚पः¦उ॒त¦त्रि॒।औ॒धा¦पु॒रु॒ध¦प्र॒जाऽवा॑न् |
त्रि॒।आ॒नी॒कः¦प॒त्य॒ते॒¦माहि॑नऽवा॒न्¦सः¦रे॒तः॒ऽधाः¦वृ॒ष॒भः¦शश्व॑तीना‌म् ||

अ॒भीक॑आसांपद॒वीर॑बो¦ध्यादि॒त्याना᳚मह्वे॒चारु॒नाम॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

आप॑श्चिदस्मा,अरमन्तदे॒वीः¦पृथ॒ग्‌व्रज᳚न्तीः॒परि॑षीमवृञ्जन् || {4/8}{3.56.4}{3.5.3.4}{3.4.1.4}{557, 290, 2992}

अ॒भीके᳚¦आ॒सा॒‌म्¦प॒द॒ऽवीः¦अ॒बो॒धि॒¦आ॒दि॒त्याना᳚‌म्¦अ॒ह्वे॒¦चारु॑¦नाम॑ |
आपः॑¦चि॒त्¦अ॒स्मै॒¦अ॒र॒म॒न्त॒¦दे॒वीः¦पृथ॑क्¦व्रज᳚न्तीः¦परि॑¦सी॒‌म्¦अ॒वृं॒ज॒न् ||

त्रीष॒धस्था᳚सिन्धव॒स्त्रिःक॑वी॒ना¦मु॒तत्रि॑मा॒तावि॒दथे᳚षुस॒म्राट् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒ताव॑री॒र्योष॑णास्ति॒स्रो,अप्या॒¦स्त्रिरादि॒वोवि॒दथे॒पत्य॑मानाः || {5/8}{3.56.5}{3.5.3.5}{3.4.1.5}{558, 290, 2993}

त्री¦स॒धऽस्था᳚¦सि॒न्ध॒वः॒¦त्रिः¦क॒वी॒ना‌म्¦उ॒त¦त्रि॒ऽमा॒ता¦वि॒दथे᳚षु¦स॒‌म्ऽराट् |
ऋ॒तऽव॑रीः¦योष॑णाः¦ति॒स्रः¦अप्याः᳚¦त्रिः¦आ¦दि॒वः¦वि॒दथे᳚¦पत्य॑मानाः ||

त्रिरादि॒वःस॑वित॒र्वार्या᳚णि¦दि॒वेदि॑व॒सु॑व॒त्रिर्नो॒,अह्नः॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

त्रि॒धातु॑रा॒यसु॑वा॒वसू᳚नि॒¦भग॑त्रातर्धिषणेसा॒तये᳚धाः || {6/8}{3.56.6}{3.5.3.6}{3.4.1.6}{559, 290, 2994}

त्रिः¦आ¦दि॒वः¦स॒वि॒तः॒¦वार्या᳚णि¦दि॒वेऽदि॑वे¦आ¦सु॒व॒¦त्रिः¦नः॒¦अह्नः॑ |
त्रि॒ऽधातु॑¦रा॒यः¦आ¦सु॒व॒¦वसू᳚नि¦भग॑¦त्रा॒तः॒¦धि॒ष॒णे॒¦सा॒तये᳚¦धाः॒ ||

त्रिरादि॒वःस॑वि॒तासो᳚षवीति॒¦राजा᳚नामि॒त्रावरु॑णासुपा॒णी |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

आप॑श्चिदस्य॒रोद॑सीचिदु॒र्वी¦रत्नं᳚भिक्षन्तसवि॒तुःस॒वाय॑ || {7/8}{3.56.7}{3.5.3.7}{3.4.1.7}{560, 290, 2995}

त्रिः¦आ¦दि॒वः¦स॒वि॒ता¦सो॒स॒वी॒ति॒¦राजा᳚ना¦मि॒त्रावरु॑णा¦सु॒पा॒णी इति॑ सु॒ऽपा॒णी |
आपः॑¦चि॒त्¦अ॒स्य॒¦रोद॑सी॒ इति॑¦चि॒त्¦उ॒र्वी इति॑¦रत्न᳚‌म्¦भि॒क्ष॒न्त॒¦स॒वि॒तुः¦स॒वाय॑ ||

त्रिरु॑त्त॒मादू॒णशा᳚रोच॒नानि॒¦त्रयो᳚राज॒न्‌त्यसु॑रस्यवी॒राः |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒तावा᳚नइषि॒रादू॒ळभा᳚स॒¦स्त्रिरादि॒वोवि॒दथे᳚सन्तुदे॒वाः || {8/8}{3.56.8}{3.5.3.8}{3.4.1.8}{561, 290, 2996}

त्रिः¦उ॒त्ऽत॒मा¦दुः॒ऽनशा᳚¦रो॒च॒नानि॑¦त्रयः॑¦रा॒ज॒न्ति॒¦असु॑रस्य¦वी॒राः |
ऋ॒तऽवा᳚नः¦इ॒षि॒राः¦दुः॒ऽदभा᳚सः¦त्रिः¦आ¦दि॒वः¦वि॒दथे᳚¦स॒न्तु॒¦दे॒वाः ||

[57] प्रमेविविक्वानिति षडृचस्य सूक्तस्य गाथिनोविश्वामित्रोविश्वेदेवास्त्रिष्टुप् (भेदपक्षेविश्वेदेवाः ४ अग्निः २ एवंषट्) |
प्रमे᳚विवि॒क्वाँ,अ॑विदन्मनी॒षां¦धे॒नुंचर᳚न्तीं॒प्रयु॑ता॒मगो᳚पाम् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

स॒द्यश्चि॒द्‌यादु॑दु॒हेभूरि॑धा॒से¦रिन्द्र॒स्तद॒ग्निःप॑नि॒तारो᳚,अस्याः || {1/6}{3.57.1}{3.5.4.1}{3.4.2.1}{562, 291, 2997}

प्र¦मे॒¦वि॒वि॒क्वान्¦अ॒वि॒द॒त्¦म॒नी॒षा‌म्¦धे॒नु‌म्¦चर᳚न्ती‌म्¦प्रऽयु॑ता‌म्¦अगो᳚पा‌म् |
स॒द्यः¦चि॒त्¦या¦दु॒दु॒हे¦भूरि॑¦धा॒सेः¦इन्द्रः॑¦तत्¦अ॒ग्निः¦प॒नि॒तारः॑¦अ॒स्याः॒ ||

इन्द्रः॒सुपू॒षावृष॑णासु॒हस्ता᳚¦दि॒वोप्री॒ताःश॑श॒यंदु॑दुह्रे |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

विश्वे॒यद॑स्यांर॒णय᳚न्तदे॒वाः¦प्रवोत्र॑वसवःसु॒म्नम॑श्याम् || {2/6}{3.57.2}{3.5.4.2}{3.4.2.2}{563, 291, 2998}

इन्द्रः॑¦सु¦पू॒षा¦वृष॑णा¦सु॒ऽहस्ता᳚¦दि॒वः¦न¦प्री॒ताः¦श॒श॒य‌म्¦दु॒दु॒ह्रे॒ |
विश्वे᳚¦यत्¦अ॒स्या॒‌म्¦र॒णय᳚न्त¦दे॒वाः¦प्र¦वः॒¦अत्र॑¦व॒स॒वः॒¦सु॒म्न‌म्¦अ॒श्या॒‌म् ||

याजा॒मयो॒वृष्ण॑इ॒च्छन्ति॑श॒क्तिं¦न॑म॒स्यन्ती᳚र्जानते॒गर्भ॑मस्मिन् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

अच्छा᳚पु॒त्रंधे॒नवो᳚वावशा॒ना¦म॒हश्च॑रन्ति॒बिभ्र॑तं॒वपूं᳚षि || {3/6}{3.57.3}{3.5.4.3}{3.4.2.3}{564, 291, 2999}

याः¦जा॒मयः॑¦वृष्णे᳚¦इ॒च्छन्ति॑¦श॒क्ति‌म्¦न॒म॒स्यन्तीः᳚¦जा॒न॒ते॒¦गर्भ᳚‌म्¦अ॒स्मि॒न् |
अच्छ॑¦पु॒त्र‌म्¦धे॒नवः॑¦वा॒व॒शा॒नाः¦म॒हः¦च॒र॒न्ति॒¦बिभ्र॑त‌म्¦वपूं᳚षि ||

अच्छा᳚विवक्मि॒रोद॑सीसु॒मेके॒¦ग्राव्णो᳚युजा॒नो,अ॑ध्व॒रेम॑नी॒षा |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

इ॒मा,उ॑ते॒मन॑वे॒भूरि॑वारा¦,ऊ॒र्ध्वाभ॑वन्तिदर्श॒तायज॑त्राः || {4/6}{3.57.4}{3.5.4.4}{3.4.2.4}{565, 291, 3000}

अच्छ॑¦वि॒व॒क्मि॒¦रोद॑सी॒ इति॑¦सु॒मेके॒ इति॑ सु॒ऽमेके᳚¦ग्राव्णः॑¦यु॒जा॒नः¦अ॒ध्व॒रे¦म॒नी॒षा |
इ॒माः¦ऊँ॒ इति॑¦ते॒¦मन॑वे¦भूरि॑ऽवाराः¦ऊ॒र्ध्वाः¦भ॒व॒न्ति॒¦द॒र्श॒ताः¦यज॑त्राः ||

याते᳚जि॒ह्वामधु॑मतीसुमे॒धा¦,अग्ने᳚दे॒वेषू॒च्यत॑उरू॒ची |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

तये॒हविश्वाँ॒,अव॑से॒यज॑त्रा॒¦नासा᳚दयपा॒यया᳚चा॒मधू᳚नि || {5/6}{3.57.5}{3.5.4.5}{3.4.2.5}{566, 291, 3001}

या¦ते॒¦जि॒ह्वा¦मधु॑ऽमती¦सु॒ऽमे॒धाः¦अग्ने᳚¦दे॒वेषु॑¦उ॒च्यते᳚¦उ॒रू॒ची |
तया᳚¦इ॒ह¦विश्वा॒न्¦अव॑से¦यज॑त्रान्¦आ¦सा॒द॒य॒¦पा॒यय॑¦च॒¦मधू᳚नि ||

याते᳚,अग्ने॒पर्व॑तस्येव॒धारा¦स॑श्चन्तीपी॒पय॑द्देवचि॒त्रा |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

ताम॒स्मभ्यं॒प्रम॑तिंजातवेदो॒¦वसो॒रास्व॑सुम॒तिंवि॒श्वज᳚न्याम् || {6/6}{3.57.6}{3.5.4.6}{3.4.2.6}{567, 291, 3002}

या¦ते॒¦अ॒ग्ने॒¦पर्व॑तस्यऽ‌इव¦धारा᳚¦अस॑श्चन्ती¦पी॒पय॑त्¦दे॒व॒¦चि॒त्रा |
ता‌म्¦अ॒स्मभ्य᳚‌म्¦प्रऽम॑ति‌म्¦जा॒त॒ऽवे॒दः॒¦वसो॒ इति॑¦रास्व॑¦सु॒ऽम॒ति‌म्¦वि॒श्वऽज᳚न्या‌म् ||

[58] धेनुःप्रत्नस्येति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोश्विनौत्रिष्टुप् |
धे॒नुःप्र॒त्नस्य॒काम्यं॒दुहा᳚ना॒¦ऽन्तःपु॒त्रश्च॑रति॒दक्षि॑णायाः |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्}

द्यो᳚त॒निंव॑हतिशु॒भ्रया᳚मो॒¦षसः॒स्तोमो᳚,अ॒श्विना᳚वजीगः || {1/9}{3.58.1}{3.5.5.1}{3.4.3.1}{568, 292, 3003}

धे॒नुः¦प्र॒त्नस्य॑¦काम्य᳚‌म्¦दुहा᳚ना¦अ॒न्तरिति॑¦पु॒त्रः¦च॒र॒ति॒¦दक्षि॑णायाः |
आ¦द्यो॒त॒नि‌म्¦व॒ह॒ति॒¦शु॒भ्रऽया᳚मा¦उ॒षसः॑¦स्तोमः॑¦अ॒श्विनौ᳚¦अ॒जी॒ग॒रिति॑ ||

सु॒युग्‌व॑हन्ति॒प्रति॑वामृ॒तेनो॒¦र्ध्वाभ॑वन्तिपि॒तरे᳚व॒मेधाः᳚ |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्}

जरे᳚थाम॒स्मद्‌विप॒णेर्म॑नी॒षां¦यु॒वोरव॑श्चकृ॒माया᳚तम॒र्वाक् || {2/9}{3.58.2}{3.5.5.2}{3.4.3.2}{569, 292, 3004}

सु॒ऽयुक्¦व॒ह॒न्ति॒¦प्रति॑¦वा॒‌म्¦ऋ॒तेन॑¦ऊ॒र्ध्वाः¦भ॒व॒न्ति॒¦पि॒तरा᳚ऽ‌इव¦मेधाः᳚ |
जरे᳚था‌म्¦अ॒स्मत्¦वि¦प॒णेः¦म॒नी॒षा‌म्¦यु॒वोः¦अवः॑¦च॒कृ॒म॒¦आ¦या॒त॒‌म्¦अ॒र्वाक् ||

सु॒युग्भि॒रश्वैः᳚सु॒वृता॒रथे᳚न॒¦दस्रा᳚वि॒मंशृ॑णुतं॒श्लोक॒मद्रेः᳚ |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्}

किम॒ङ्गवां॒प्रत्यव॑र्तिं॒गमि॑ष्ठा॒¦ऽऽहुर्विप्रा᳚सो,अश्विनापुरा॒जाः || {3/9}{3.58.3}{3.5.5.3}{3.4.3.3}{570, 292, 3005}

सु॒युक्ऽभिः॑¦अश्वैः᳚¦सु॒ऽवृता᳚¦रथे᳚न¦दस्रौ᳚¦इ॒म‌म्¦शृ॒णु॒त॒‌म्¦श्लोक᳚‌म्¦अद्रेः᳚ |
कि‌म्¦अ॒ङ्ग¦वा॒‌म्¦प्रति॑¦अव॑र्ति‌म्¦गमि॑ष्ठा¦आ॒हुः¦विप्रा᳚सः¦अ॒श्वि॒ना॒¦पु॒रा॒ऽजाः ||

म᳚न्येथा॒माग॑तं॒कच्चि॒देवै॒¦र्विश्वे॒जना᳚सो,अ॒श्विना᳚हवन्ते |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्}

इ॒माहिवां॒गो,ऋ॑जीका॒मधू᳚नि॒¦प्रमि॒त्रासो॒द॒दुरु॒स्रो,अग्रे᳚ || {4/9}{3.58.4}{3.5.5.4}{3.4.3.4}{571, 292, 3006}

आ¦म॒न्ये॒था॒‌म्¦आ¦ग॒त॒‌म्¦कत्¦चि॒त्¦एवैः᳚¦विश्वे᳚¦जना᳚सः¦अ॒श्विना᳚¦ह॒व॒न्ते॒ |
इ॒मा¦हि¦वा॒‌म्¦गोऽऋ॑जीका¦मधू᳚नि¦प्र¦मि॒त्रासः॑¦न¦द॒दुः¦उ॒स्रः¦अग्रे᳚ ||

ति॒रःपु॒रूचि॑दश्विना॒रजां᳚¦स्याङ्गू॒षोवां᳚मघवाना॒जने᳚षु |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्}

एहया᳚तंप॒थिभि॑र्देव॒यानै॒¦र्दस्रा᳚वि॒मेवां᳚नि॒धयो॒मधू᳚नाम् || {5/9}{3.58.5}{3.5.5.5}{3.4.3.5}{572, 292, 3007}

ति॒रः¦पु॒रु¦चि॒त्¦अ॒श्वि॒ना॒¦रजां᳚सि¦आ॒ङ्गू॒षः¦वा॒‌म्¦म॒घ॒ऽवा॒ना॒¦जने᳚षु |
आ¦इ॒ह¦या॒त॒‌म्¦प॒थिऽभिः॑¦दे॒व॒ऽयानैः᳚¦दस्रौ᳚¦इ॒मे¦वा॒‌म्¦नि॒ऽधयः॑¦मधू᳚ना‌म् ||

पु॒रा॒णमोकः॑स॒ख्यंशि॒वंवां᳚¦यु॒वोर्न॑रा॒द्रवि॑णंज॒ह्नाव्या᳚म् |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्}

पुनः॑कृण्वा॒नाःस॒ख्याशि॒वानि॒¦मध्वा᳚मदेमस॒हनूस॑मा॒नाः || {6/9}{3.58.6}{3.5.5.6}{3.4.4.1}{573, 292, 3008}

पु॒रा॒ण‌म्¦ओकः॑¦स॒ख्य‌म्¦शि॒व‌म्¦वा॒‌म्¦यु॒वोः¦न॒रा॒¦द्रवि॑ण‌म्¦ज॒ह्नाव्या᳚‌म् |
पुन॒रिति॑¦कृ॒ण्वा॒नाः¦स॒ख्या¦शि॒वानि॑¦मध्वा᳚¦म॒दे॒म॒¦स॒ह¦नु¦स॒मा॒नाः ||

अश्वि॑नावा॒युना᳚यु॒वंसु॑दक्षा¦नि॒युद्भि॑ष्चस॒जोष॑सायुवाना |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्}

नास॑त्याति॒रो,अ᳚ह्न्यंजुषा॒णा¦सोमं᳚पिबतम॒स्रिधा᳚सुदानू || {7/9}{3.58.7}{3.5.5.7}{3.4.4.2}{574, 292, 3009}

अश्वि॑ना¦वा॒युना᳚¦यु॒व‌म्¦सु॒ऽद॒क्षा॒¦नि॒युत्ऽभिः॑¦च॒¦स॒ऽजोष॑सा¦यु॒वा॒ना॒ |
नास॑त्या¦ति॒रः।आ᳚ह्न्य‌म्¦जु॒षा॒णा¦सोम᳚‌म्¦पि॒ब॒त॒‌म्¦अ॒स्रिधा᳚¦सु॒दा॒नू॒ इति॑ सुऽदानू ||

अश्वि॑ना॒परि॑वा॒मिषः॑पुरू॒ची¦री॒युर्गी॒र्भिर्यत॑माना॒,अमृ॑ध्राः |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्}

रथो᳚वामृत॒जा,अद्रि॑जूतः॒¦परि॒द्यावा᳚पृथि॒वीया᳚तिस॒द्यः || {8/9}{3.58.8}{3.5.5.8}{3.4.4.3}{575, 292, 3010}

अश्वि॑ना¦परि॑¦वा॒‌म्¦इषः॑¦पु॒रू॒चीः¦ई॒युः¦गीः॒ऽभिः¦यत॑मानाः¦अमृ॑ध्राः |
रथः॑¦ह॒¦वा॒‌म्¦ऋ॒त॒ऽजाः¦अद्रि॑ऽजूतः¦परि॑¦द्यावा᳚पृथि॒वी इति॑¦या॒ति॒¦स॒द्यः ||

अश्वि॑नामधु॒षुत्त॑मोयु॒वाकुः॒¦सोम॒स्तंपा᳚त॒माग॑तंदुरो॒णे |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्}

रथो᳚वां॒भूरि॒वर्पः॒करि॑क्रत्¦सु॒ताव॑तोनिष्कृ॒तमाग॑मिष्ठः || {9/9}{3.58.9}{3.5.5.9}{3.4.4.4}{576, 292, 3011}

अश्वि॑ना¦म॒धु॒सुत्ऽत॑मः¦यु॒वाकुः॑¦सोमः॑¦त‌म्¦पा॒त॒‌म्¦आ¦ग॒त॒‌म्¦दु॒रो॒णे |
रथः॑¦ह॒¦वा॒‌म्¦भूरि॑¦वर्पः॑¦करि॑क्रत्¦सु॒तऽव॑तः¦निः॒ऽकृ॒त‌म्¦आऽग॑मिष्ठः ||

[59] मित्रोजनानिति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रो मित्रस्त्रिष्टुप् अंत्याश्चतस्रोगायत्र्यः
मि॒त्रोजना᳚न्‌यातयतिब्रुवा॒णो¦मि॒त्रोदा᳚धारपृथि॒वीमु॒तद्याम् |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्}

मि॒त्रःकृ॒ष्टीरनि॑मिषा॒भिच॑ष्टे¦मि॒त्राय॑ह॒व्यंघृ॒तव॑ज्जुहोत || {1/9}{3.59.1}{3.5.6.1}{3.4.5.1}{577, 293, 3012}

मि॒त्रः¦जना᳚न्¦या॒त॒य॒ति॒¦ब्रु॒वा॒णः¦मि॒त्रः¦दा॒धा॒र॒¦पृ॒थि॒वी‌म्¦उ॒त¦द्या‌म् |
मि॒त्रः¦कृ॒ष्टीः¦अनि॑ऽमिषा¦अ॒भि¦च॒ष्टे॒¦मि॒त्राय॑¦ह॒व्य‌म्¦घृ॒तऽव॑त्¦जु॒हो॒त॒ ||

प्रमि॑त्र॒मर्तो᳚,अस्तु॒प्रय॑स्वा॒न्¦यस्त॑आदित्य॒शिक्ष॑तिव्र॒तेन॑ |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्}

ह᳚न्यते॒जी᳚यते॒त्वोतो॒¦नैन॒मंहो᳚,अश्नो॒त्यन्ति॑तो॒दू॒रात् || {2/9}{3.59.2}{3.5.6.2}{3.4.5.2}{578, 293, 3013}

प्र¦सः¦मि॒त्र॒¦मर्तः॑¦अ॒स्तु॒¦प्रय॑स्वान्¦यः¦ते॒¦आ॒दि॒त्य॒¦शिक्ष॑ति¦व्र॒तेन॑ |
न¦ह॒न्य॒ते॒¦न¦जी॒य॒ते॒¦त्वाऽऊ᳚तः¦न¦ए॒न॒‌म्¦अंहः॑¦अ॒श्नो॒ति॒¦अन्ति॑तः¦न¦दू॒रात् ||

अ॒न॒मी॒वास॒इळ॑या॒मद᳚न्तो¦मि॒तज्ञ॑वो॒वरि॑म॒न्नापृ॑थि॒व्याः |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्}

आ॒दि॒त्यस्य᳚व्र॒तमु॑पक्षि॒यन्तो᳚¦व॒यंमि॒त्रस्य॑सुम॒तौस्या᳚म || {3/9}{3.59.3}{3.5.6.3}{3.4.5.3}{579, 293, 3014}

अ॒न॒मी॒वासः॑¦इळ॑या¦मद᳚न्तः¦मि॒तऽज्ञ॑वः¦वरि॑मन्¦आ¦पृ॒थि॒व्याः |
आ॒दि॒त्यस्य॑¦व्र॒त‌म्¦उ॒प॒ऽक्षि॒यन्तः॑¦व॒य‌म्¦मि॒त्रस्य॑¦सु॒ऽम॒तौ¦स्या॒म॒ ||

अ॒यंमि॒त्रोन॑म॒स्यः॑सु॒शेवो॒¦राजा᳚सुक्ष॒त्रो,अ॑जनिष्टवे॒धाः |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्}

तस्य॑व॒यंसु॑म॒तौय॒ज्ञिय॒स्या¦पि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म || {4/9}{3.59.4}{3.5.6.4}{3.4.5.4}{580, 293, 3015}

अ॒य‌म्¦मि॒त्रः¦न॒म॒स्यः॑¦सु॒ऽशेवः॑¦राजा᳚¦सु॒ऽक्ष॒त्रः¦अ॒ज॒नि॒ष्ट॒¦वे॒धाः |
तस्य॑¦व॒य‌म्¦सु॒ऽम॒तौ¦य॒ज्ञिय॑स्य¦अपि॑¦भ॒द्रे¦सौ॒म॒न॒से¦स्या॒म॒ ||

म॒हाँ,आ᳚दि॒त्योनम॑सोप॒सद्यो᳚¦यात॒यज्ज॑नोगृण॒तेसु॒शेवः॑ |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्}

तस्मा᳚,ए॒तत्‌पन्य॑तमाय॒जुष्ट॑¦म॒ग्नौमि॒त्राय॑ह॒विराजु॑होत || {5/9}{3.59.5}{3.5.6.5}{3.4.5.5}{581, 293, 3016}

म॒हान्¦आ॒दि॒त्यः¦नम॑सा¦उ॒प॒ऽसद्यः॑¦या॒त॒यत्ऽज॑नः¦गृ॒ण॒ते¦सु॒ऽशेवः॑ |
तस्मै᳚¦ए॒तत्¦पन्य॑ऽतमाय¦जुष्ट᳚‌म्¦अ॒ग्नौ¦मि॒त्राय॑¦ह॒विः¦आ¦जु॒हो॒त॒ ||

मि॒त्रस्य॑चर्षणी॒धृतो¦वो᳚दे॒वस्य॑सान॒सि |{गाथिनो विश्वामित्रः | मित्रः | गायत्री}

द्यु॒म्नंचि॒त्रश्र॑वस्तमम् || {6/9}{3.59.6}{3.5.6.6}{3.4.6.1}{582, 293, 3017}

मि॒त्रस्य॑¦च॒र्ष॒णि॒ऽधृतः॑¦अवः॑¦दे॒वस्य॑¦सा॒न॒सि | द्यु॒म्न‌म्¦चि॒त्रश्र॑वःऽतम‌म् ||

अ॒भियोम॑हि॒नादिवं᳚¦मि॒त्रोब॒भूव॑स॒प्रथाः᳚ |{गाथिनो विश्वामित्रः | मित्रः | गायत्री}

अ॒भिश्रवो᳚भिःपृथि॒वीम् || {7/9}{3.59.7}{3.5.6.7}{3.4.6.2}{583, 293, 3018}

अ॒भि¦यः¦म॒हि॒ना¦दिव᳚‌म्¦मि॒त्रः¦ब॒भूव॑¦स॒ऽप्रथाः᳚ | अ॒भि¦श्रवः॑ऽभिः¦पृ॒थि॒वी‌म् ||

मि॒त्राय॒पञ्च॑येमिरे॒¦जना᳚,अ॒भिष्टि॑शवसे |{गाथिनो विश्वामित्रः | मित्रः | गायत्री}

दे॒वान्‌विश्वा᳚न्‌बिभर्ति || {8/9}{3.59.8}{3.5.6.8}{3.4.6.3}{584, 293, 3019}

मि॒त्राय॑¦पंच॑¦ये॒मि॒रे॒¦जनाः᳚¦अ॒भिष्टि॑ऽशवसे | सः¦दे॒वान्¦विश्वा᳚न्¦बि॒भ॒र्ति॒ ||

मि॒त्रोदे॒वेष्वा॒युषु॒¦जना᳚यवृ॒क्तब᳚र्हिषे |{गाथिनो विश्वामित्रः | मित्रः | गायत्री}

इष॑इ॒ष्टव्र॑ता,अकः || {9/9}{3.59.9}{3.5.6.9}{3.4.6.4}{585, 293, 3020}

मि॒त्रः¦दे॒वेषु॑¦आ॒युषु॑¦जना᳚य¦वृ॒क्तऽब॑र्हिषे | इषः॑¦इ॒ष्टऽव्र॑ताः¦अ॒क॒रित्य॑कः ||

[60] इहेहवइति सप्तर्चस्य सूक्तस्य गाथिनोविश्वामित्रऋभवः अंत्यानांतिसृणामिंद्रऋभवोजगती |
इ॒हेह॑वो॒मन॑साब॒न्धुता᳚नर¦उ॒शिजो᳚जग्मुर॒भितानि॒वेद॑सा |{गाथिनो विश्वामित्रः | ऋभवः | जगती}

याभि᳚र्मा॒याभिः॒प्रति॑जूतिवर्पसः॒¦सौध᳚न्वनाय॒ज्ञियं᳚भा॒गमा᳚न॒श || {1/7}{3.60.1}{3.5.7.1}{3.4.7.1}{586, 294, 3021}

इ॒हऽ‌इ᳚ह¦वः॒¦मन॑सा¦ब॒न्धुता᳚¦न॒रः॒¦उ॒शिजः॑¦ज॒ग्मुः॒¦अ॒भि¦तानि॑¦वेद॑सा |
याभिः॑¦मा॒याभिः॑¦प्रति॑जूतिऽवर्पसः¦सौध᳚न्वनाः¦य॒ज्ञिय᳚‌म्¦भा॒ग‌म्¦आ॒न॒श ||

याभिः॒शची᳚भिश्चम॒साँ,अपिं᳚शत॒¦यया᳚धि॒यागामरि॑णीत॒चर्म॑णः |{गाथिनो विश्वामित्रः | ऋभवः | जगती}

येन॒हरी॒मन॑सानि॒रत॑क्षत॒¦तेन॑देव॒त्वमृ॑भवः॒समा᳚नश || {2/7}{3.60.2}{3.5.7.2}{3.4.7.2}{587, 294, 3022}

याभिः॑¦शची᳚भिः¦च॒म॒सान्¦अपिं᳚शत¦यया᳚¦धि॒या¦गा‌म्¦अरि॑णीत¦चर्म॑णः |
येन॑¦हरी॒ इति॑¦मन॑सा¦निः॒।आत॑क्षत¦तेन॑¦दे॒व॒ऽत्व‌म्¦ऋ॒भ॒वः॒¦स‌म्¦आ॒न॒श॒ ||

इन्द्र॑स्यस॒ख्यमृ॒भवः॒समा᳚नशु॒¦र्मनो॒र्नपा᳚तो,अ॒पसो᳚दधन्‌विरे |{गाथिनो विश्वामित्रः | ऋभवः | जगती}

सौ॒ध॒न्व॒नासो᳚,अमृत॒त्वमेरि॑रे¦वि॒ष्ट्वीशमी᳚भिःसु॒कृतः॑सुकृ॒त्यया᳚ || {3/7}{3.60.3}{3.5.7.3}{3.4.7.3}{588, 294, 3023}

इन्द्र॑स्य¦स॒ख्य‌म्¦ऋ॒भवः॑¦स‌म्¦आ॒न॒शुः॒¦मनोः᳚¦नपा᳚तः¦अ॒पसः॑¦द॒ध॒न्वि॒रे॒ |
सौ॒ध॒न्व॒नासः॑¦अ॒मृ॒त॒ऽत्व‌म्¦आ¦ई॒रि॒रे॒¦वि॒ष्ट्वी¦शमी᳚भिः¦सु॒ऽकृतः॑¦सु॒ऽकृ॒त्यया᳚ ||

इन्द्रे᳚णयाथस॒रथं᳚सु॒तेसचाँ॒¦अथो॒वशा᳚नांभवथास॒हश्रि॒या |{गाथिनो विश्वामित्रः | ऋभवः | जगती}

वः॑प्रति॒मैसु॑कृ॒तानि॑वाघतः॒¦सौध᳚न्वना,ऋभवोवी॒र्या᳚णि || {4/7}{3.60.4}{3.5.7.4}{3.4.7.4}{589, 294, 3024}

इन्द्रे᳚ण¦या॒थ॒¦स॒ऽरथ᳚‌म्¦सु॒ते¦सचा᳚¦अथो॒ इति॑¦वशा᳚ना‌म्¦भ॒व॒थ॒¦स॒ह¦श्रि॒या |
न¦वः॒¦प्र॒ति॒ऽमै¦सु॒ऽकृ॒तानि॑¦वा॒घ॒तः॒¦सौध᳚न्वनाः¦ऋ॒भ॒वः॒¦वी॒र्या᳚णि¦च॒ ||

इन्द्र॑ऋ॒भुभि॒र्वाज॑वद्भिः॒समु॑क्षितं¦सु॒तंसोम॒मावृ॑षस्वा॒गभ॑स्त्योः |{गाथिनो विश्वामित्रः | इन्द्रः, ऋभवः | जगती}

धि॒येषि॒तोम॑घवन्‌दा॒शुषो᳚गृ॒हे¦सौ᳚धन्व॒नेभिः॑स॒हम॑त्स्वा॒नृभिः॑ || {5/7}{3.60.5}{3.5.7.5}{3.4.7.5}{590, 294, 3025}

इन्द्र॑¦ऋ॒भुऽभिः॑¦वाज॑वत्ऽभिः¦स‌म्।औ᳚क्षित‌म्¦सु॒त‌म्¦सोम᳚‌म्¦आ¦वृ॒ष॒स्व॒¦गभ॑स्त्योः |
धि॒या¦इ॒षि॒तः¦म॒घ॒ऽव॒न्¦दा॒शुषः॑¦गृ॒हे¦सौ॒ध॒न्व॒नेभिः॑¦स॒ह¦म॒त्स्व॒¦नृऽभिः॑ ||

इन्द्र॑ऋभु॒मान्‌वाज॑वान्‌मत्स्वे॒हनो॒¦ऽस्मिन्‌त्सव॑ने॒शच्या᳚पुरुष्टुत |{गाथिनो विश्वामित्रः | इन्द्रः, ऋभवः | जगती}

इ॒मानि॒तुभ्यं॒स्वस॑राणियेमिरे¦व्र॒तादे॒वानां॒मनु॑षश्च॒धर्म॑भिः || {6/7}{3.60.6}{3.5.7.6}{3.4.7.6}{591, 294, 3026}

इन्द्र॑¦ऋ॒भु॒ऽमान्¦वाज॑ऽवान्¦म॒त्स्व॒¦इ॒ह¦नः॒¦अ॒स्मिन्¦सव॑ने¦शच्या᳚¦पु॒रु॒ऽस्तु॒त॒ |
इ॒मानि॑¦तुभ्य᳚‌म्¦स्वस॑राणि¦ये॒मि॒रे॒¦व्र॒ता¦दे॒वाना᳚‌म्¦मनु॑षः¦च॒¦धर्म॑ऽभिः ||

इन्द्र॑ऋ॒भुभि᳚र्वा॒जिभि᳚र्वा॒जय᳚न्नि॒ह¦स्तोमं᳚जरि॒तुरुप॑याहिय॒ज्ञिय᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः, ऋभवः | जगती}

श॒तंकेते᳚भिरिषि॒रेभि॑रा॒यवे᳚¦स॒हस्र॑णीथो,अध्व॒रस्य॒होम॑नि || {7/7}{3.60.7}{3.5.7.7}{3.4.7.7}{592, 294, 3027}

इन्द्र॑¦ऋ॒भुऽभिः॑¦वा॒जिऽभिः॑¦वा॒जय॑न्¦इ॒ह¦स्तोम᳚‌म्¦ज॒रि॒तुः¦उप॑¦या॒हि॒¦य॒ज्ञिय᳚‌म् |
श॒त‌म्¦केते᳚भिः¦इ॒षि॒रेभिः॑¦आ॒यवे᳚¦स॒हस्र॑ऽनीथः¦अ॒ध्व॒रस्य॑¦होम॑नि ||

[61] उषोवाजेनेति सप्तर्चस्य सूक्तस्य गाथिनोविश्वामित्रउषास्त्रिष्टुप् |
उषो॒वाजे᳚नवाजिनि॒प्रचे᳚ताः॒¦स्तोमं᳚जुषस्वगृण॒तोम॑घोनि |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्}

पु॒रा॒णीदे᳚वियुव॒तिःपुरं᳚धि॒¦रनु᳚व्र॒तंच॑रसिविश्ववारे || {1/7}{3.61.1}{3.5.8.1}{3.4.8.1}{593, 295, 3028}

उषः॑¦वाजे᳚न¦वा॒जि॒नि॒¦प्रऽचे᳚ताः¦स्तोम᳚‌म्¦जु॒ष॒स्व॒¦गृ॒ण॒तः¦म॒घो॒नि॒ |
पु॒रा॒णी¦दे॒वि॒¦यु॒व॒तिः¦पुर᳚‌म्ऽधिः¦अनु॑¦व्र॒त‌म्¦च॒र॒सि॒¦वि॒श्व॒ऽवा॒रे॒ ||

उषो᳚दे॒व्यम॑र्त्या॒विभा᳚हि¦च॒न्द्रर॑थासू॒नृता᳚,ई॒रय᳚न्ती |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्}

त्वा᳚वहन्तुसु॒यमा᳚सो॒,अश्वा॒¦हिर᳚ण्यवर्णांपृथु॒पाज॑सो॒ये || {2/7}{3.61.2}{3.5.8.2}{3.4.8.2}{594, 295, 3029}

उषः॑¦दे॒वि॒¦अम॑र्त्या¦वि¦भा॒हि॒¦च॒न्द्रऽर॑था¦सू॒नृताः᳚¦ई॒रय᳚न्ती |
आ¦त्वा॒¦व॒ह॒न्तु॒¦सु॒ऽयमा᳚सः¦अश्वाः᳚¦हिर᳚ण्यऽवर्णा‌म्¦पृ॒थु॒ऽपाज॑सः¦ये ||

उषः॑प्रती॒चीभुव॑नानि॒विश्वो॒¦र्ध्वाति॑ष्ठस्य॒मृत॑स्यके॒तुः |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्}

स॒मा॒नमर्थं᳚चरणी॒यमा᳚ना¦च॒क्रमि॑वनव्य॒स्याव॑वृत्स्व || {3/7}{3.61.3}{3.5.8.3}{3.4.8.3}{595, 295, 3030}

उषः॑¦प्र॒ती॒ची¦भुव॑नानि¦विश्वा᳚¦ऊ॒र्ध्वा¦ति॒ष्ठ॒सि॒¦अ॒मृत॑स्य¦के॒तुः |
स॒मा॒न‌म्¦अर्थ᳚‌म्¦च॒र॒णी॒यमा᳚ना¦च॒क्र‌म्ऽ‌इ᳚व¦न॒व्य॒सि॒¦आ¦व॒वृ॒त्स्व॒ ||

अव॒स्यूमे᳚वचिन्व॒तीम॒घो¦न्यु॒षाया᳚ति॒स्वस॑रस्य॒पत्नी᳚ |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्}

स्व१॑(अ॒)र्जन᳚न्तीसु॒भगा᳚सु॒दंसा॒,¦आन्ता᳚द्दि॒वःप॑प्रथ॒पृ॑थि॒व्याः || {4/7}{3.61.4}{3.5.8.4}{3.4.8.4}{596, 295, 3031}

अव॑¦स्यूम॑ऽ‌इव¦चि॒न्व॒ती¦म॒घोनी᳚¦उ॒षाः¦या॒ति॒¦स्वस॑रस्य¦पत्नी᳚ |
स्वः॑¦जन᳚न्ती¦सु॒ऽभगा᳚¦सु॒ऽदंसाः᳚¦आ¦अन्ता᳚त्¦दि॒वः¦प॒प्र॒थे॒¦आ¦पृ॒थि॒व्याः ||

अच्छा᳚वोदे॒वीमु॒षसं᳚विभा॒तीं¦प्रवो᳚भरध्वं॒नम॑सासुवृ॒क्तिम् |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्}

ऊ॒र्ध्वंम॑धु॒धादि॒विपाजो᳚,अश्रे॒त्¦प्ररो᳚च॒नारु॑रुचेर॒ण्वसं᳚दृक् || {5/7}{3.61.5}{3.5.8.5}{3.4.8.5}{597, 295, 3032}

अच्छ॑¦वः॒¦दे॒वी‌म्¦उ॒षस᳚‌म्¦वि॒ऽभा॒ती‌म्¦प्र¦वः॒¦भ॒र॒ध्व॒‌म्¦नम॑सा¦सु॒ऽवृ॒क्ति‌म् |
ऊ॒र्ध्व‌म्¦म॒धु॒धा¦दि॒वि¦पाजः॑¦अ॒श्रे॒त्¦प्र¦रो॒च॒ना¦रु॒रु॒चे॒¦र॒ण्वऽसं᳚दृक् ||

ऋ॒ताव॑रीदि॒वो,अ॒र्कैर॑बो॒¦ध्यारे॒वती॒रोद॑सीचि॒त्रम॑स्थात् |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्}

आ॒य॒तीम॑ग्नउ॒षसं᳚विभा॒तीं¦वा॒ममे᳚षि॒द्रवि॑णं॒भिक्ष॑माणः || {6/7}{3.61.6}{3.5.8.6}{3.4.8.6}{598, 295, 3033}

ऋ॒तऽव॑री¦दि॒वः¦अ॒र्कैः¦अ॒बो॒धि॒¦आ¦रे॒वती᳚¦रोद॑सी॒ इति॑¦चि॒त्र‌म्¦आ॒स्था॒त् |
आ॒ऽय॒ती‌म्¦अ॒ग्ने॒¦उ॒षस᳚‌म्¦वि॒ऽभा॒ती‌म्¦वा॒म‌म्¦ए॒षि॒¦द्रवि॑ण‌म्¦भिक्ष॑माणः ||

ऋ॒तस्य॑बु॒ध्नउ॒षसा᳚मिष॒ण्यन्¦वृषा᳚म॒हीरोद॑सी॒,वि॑वेश |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्}

म॒हीमि॒त्रस्य॒वरु॑णस्यमा॒या¦च॒न्द्रेव॑भा॒नुंविद॑धेपुरु॒त्रा || {7/7}{3.61.7}{3.5.8.7}{3.4.8.7}{599, 295, 3034}

ऋ॒तस्य॑¦बु॒ध्ने¦उ॒षसा᳚‌म्¦इ॒ष॒ण्यन्¦वृषा᳚¦म॒ही इति॑¦रोद॑सी॒ इति॑¦आ¦वि॒वे॒श॒ |
म॒ही¦मि॒त्रस्य॑¦वरु॑णस्य¦मा॒या¦च॒न्द्राऽ‌इ᳚व¦भा॒नु‌म्¦वि¦द॒धे॒¦पु॒रु॒ऽत्रा ||

[62] इमाउवामित्यष्टादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रः ( अंत्यतृचस्य जमदग्निर्वा) आद्यतिसृणामिंद्रावरुणौ चतुर्थ्यादितिसृणांबृहस्पतिः इयंतइत्यादितिसृणांपूषा तत्सवितुरित्यादितिसृणांसविता सोमइत्यादितिसृणांसोम आनइत्यादितिसृणांमित्रावरुणौदेवताः आद्यास्तिस्रत्रिष्टुभः शिष्टाः पञ्चदशगायत्र्यः |
इ॒मा,उ॑वांभृ॒मयो॒मन्य॑माना¦यु॒वाव॑ते॒तुज्या᳚,अभूवन् |{गाथिनो विश्वामित्रः | इन्द्रावरुणौ | त्रिष्टुप्}

क्व१॑(अ॒)त्यदि᳚न्द्रावरुणा॒यशो᳚वां॒¦येन॑स्मा॒सिनं॒भर॑थः॒सखि॑भ्यः || {1/18}{3.62.1}{3.5.9.1}{3.4.9.1}{600, 296, 3035}

इ॒माः¦ऊँ॒ इति॑¦वा॒‌म्¦भृ॒मयः॑¦मन्य॑मानाः¦यु॒वाऽव॑ते¦न¦तुज्याः᳚¦अ॒भू॒व॒न् |
क्व॑¦त्यत्¦इ॒न्द्रा॒व॒रु॒णा॒¦यशः॑¦वा॒‌म्¦येन॑¦स्म॒¦सिन᳚‌म्¦भर॑थः¦सखि॑ऽभ्यः ||

अ॒यमु॑वांपुरु॒तमो᳚रयी॒यञ्¦छ॑श्वत्त॒ममव॑सेजोहवीति |{गाथिनो विश्वामित्रः | इन्द्रावरुणौ | त्रिष्टुप्}

स॒जोषा᳚विन्द्रावरुणाम॒रुद्भि॑¦र्दि॒वापृ॑थि॒व्याशृ॑णुतं॒हवं᳚मे || {2/18}{3.62.2}{3.5.9.2}{3.4.9.2}{601, 296, 3036}

अ॒य‌म्¦ऊँ॒ इति॑¦वा॒‌म्¦पु॒रु॒ऽतमः॑¦र॒यि॒ऽयन्¦श॒श्व॒त्ऽत॒म‌म्¦अव॑से¦जो॒ह॒वी॒ति॒ |
स॒ऽजोषौ᳚¦इ॒न्द्रा॒व॒रु॒णा॒¦म॒रुत्ऽभिः॑¦दि॒वा¦पृ॒थि॒व्या¦शृ॒णु॒त॒‌म्¦हव᳚‌म्¦मे॒ ||

अ॒स्मेतदि᳚न्द्रावरुणा॒वसु॑ष्या¦द॒स्मेर॒यिर्म॑रुतः॒सर्व॑वीरः |{गाथिनो विश्वामित्रः | इन्द्रावरुणौ | त्रिष्टुप्}

अ॒स्मान्‌वरू᳚त्रीःशर॒णैर॑व¦न्त्व॒स्मान्‌होत्रा॒भार॑ती॒दक्षि॑णाभिः || {3/18}{3.62.3}{3.5.9.3}{3.4.9.3}{602, 296, 3037}

अ॒स्मे इति॑¦तत्¦इ॒न्द्रा॒व॒रु॒णा॒¦वसु॑¦स्या॒त्¦अ॒स्मे इति॑¦र॒यिः¦म॒रु॒तः॒¦सर्व॑ऽवीरः |
अ॒स्मान्¦वरू᳚त्रीः¦श॒र॒णैः¦अ॒व॒न्तु॒¦अ॒स्मान्¦होत्रा᳚¦भार॑ती¦दक्षि॑णाभिः ||

बृह॑स्पतेजु॒षस्व॑नो¦ह॒व्यानि॑विश्वदेव्य |{गाथिनो विश्वामित्रः | बृहस्पतिः | गायत्री}

रास्व॒रत्ना᳚निदा॒शुषे᳚ || {4/18}{3.62.4}{3.5.9.4}{3.4.9.4}{603, 296, 3038}

बृह॑स्पते¦जु॒षस्व॑¦नः॒¦ह॒व्यानि॑¦वि॒श्व॒ऽदे॒व्य॒ | रास्व॑¦रत्ना᳚नि¦दा॒शुषे᳚ ||

शुचि॑म॒र्कैर्बृह॒स्पति॑¦मध्व॒रेषु॑नमस्यत |{गाथिनो विश्वामित्रः | बृहस्पतिः | गायत्री}

अना॒म्योज॒च॑के || {5/18}{3.62.5}{3.5.9.5}{3.4.9.5}{604, 296, 3039}

शुचि᳚‌म्¦अ॒र्कैः¦बृह॒स्पति᳚‌म्¦अ॒ध्व॒रेषु॑¦न॒म॒स्य॒त॒ | अना᳚मि¦ओजः॑¦आ¦च॒के॒ ||

वृ॒ष॒भंच॑र्षणी॒नां¦वि॒श्वरू᳚प॒मदा᳚भ्यम् |{गाथिनो विश्वामित्रः | बृहस्पतिः | गायत्री}

बृह॒स्पतिं॒वरे᳚ण्यम् || {6/18}{3.62.6}{3.5.9.6}{3.4.10.1}{605, 296, 3040}

वृ॒ष॒भ‌म्¦च॒र्ष॒णी॒ना‌म्¦वि॒श्वऽरू᳚प‌म्¦अदा᳚भ्य‌म् | बृह॒स्पति᳚‌म्¦वरे᳚ण्य‌म् ||

इ॒यंते᳚पूषन्नाघृणे¦सुष्टु॒तिर्दे᳚व॒नव्य॑सी |{गाथिनो विश्वामित्रः | पूषा | गायत्री}

अ॒स्माभि॒स्तुभ्यं᳚शस्यते || {7/18}{3.62.7}{3.5.9.7}{3.4.10.2}{606, 296, 3041}

इ॒य‌म्¦ते॒¦पू॒ष॒न्¦आ॒घृ॒णे॒¦सु॒ऽस्तु॒तिः¦दे॒व॒¦नव्य॑सी | अ॒स्माभिः॑¦तुभ्य᳚‌म्¦श॒स्य॒ते॒ ||

तांजु॑षस्व॒गिरं॒मम॑¦वाज॒यन्ती᳚मवा॒धिय᳚म् |{गाथिनो विश्वामित्रः | पूषा | गायत्री}

व॒धू॒युरि॑व॒योष॑णाम् || {8/18}{3.62.8}{3.5.9.8}{3.4.10.3}{607, 296, 3042}

ता‌म्¦जु॒ष॒स्व॒¦गिर᳚‌म्¦मम॑¦वा॒ज॒ऽयन्ती᳚‌म्¦अ॒व॒¦धिय᳚‌म् | व॒धू॒युःऽ‌इ᳚व¦योष॑णा‌म् ||

योविश्वा॒भिवि॒पश्य॑ति॒¦भुव॑ना॒संच॒पश्य॑ति |{गाथिनो विश्वामित्रः | पूषा | गायत्री}

नः॑पू॒षावि॒ताभु॑वत् || {9/18}{3.62.9}{3.5.9.9}{3.4.10.4}{608, 296, 3043}

यः¦विश्वा᳚¦अ॒भि¦वि॒ऽपश्य॑ति¦भुव॑ना¦स‌म्¦च॒¦पश्य॑ति | सः¦नः॒¦पू॒षा¦अ॒वि॒ता¦भु॒व॒त् ||

तत्‌स॑वि॒तुर्वरे᳚ण्यं॒¦भर्गो᳚दे॒वस्य॑धीमहि |{गाथिनो विश्वामित्रः | सविता | गायत्री}

धियो॒योनः॑प्रचो॒दया᳚त् || {10/18}{3.62.10}{3.5.9.10}{3.4.10.5}{609, 296, 3044}

तत्¦स॒वि॒तुः¦वरे᳚ण्य‌म्¦भर्गः॑¦दे॒वस्य॑¦धी॒म॒हि॒ | धियः॑¦यः¦नः॒¦प्र॒ऽचो॒दया᳚त् ||

दे॒वस्य॑सवि॒तुर्व॒यं¦वा᳚ज॒यन्तः॒पुरं᳚ध्या |{गाथिनो विश्वामित्रः | सविता | गायत्री}

भग॑स्यरा॒तिमी᳚महे || {11/18}{3.62.11}{3.5.9.11}{3.4.11.1}{610, 296, 3045}

दे॒वस्य॑¦स॒वि॒तुः¦व॒य‌म्¦वा॒ज॒ऽयन्तः॑¦पुर᳚‌म्ऽध्या | भग॑स्य¦रा॒ति‌म्¦ई॒म॒हे॒ ||

दे॒वंनरः॑सवि॒तारं॒¦विप्रा᳚य॒ज्ञैःसु॑वृ॒क्तिभिः॑ |{गाथिनो विश्वामित्रः | सविता | गायत्री}

न॒म॒स्यन्ति॑धि॒येषि॒ताः || {12/18}{3.62.12}{3.5.9.12}{3.4.11.2}{611, 296, 3046}

दे॒व‌म्¦नरः॑¦स॒वि॒तार᳚‌म्¦विप्राः᳚¦य॒ज्ञैः¦सु॒वृ॒क्तिऽभिः॑ | न॒म॒स्यन्ति॑¦धि॒या¦इ॒षि॒ताः ||

सोमो᳚जिगातिगातु॒विद्¦दे॒वाना᳚मेतिनिष्कृ॒तम् |{गाथिनो विश्वामित्रः | सोमः | गायत्री}

ऋ॒तस्य॒योनि॑मा॒सद᳚म् || {13/18}{3.62.13}{3.5.9.13}{3.4.11.3}{612, 296, 3047}

सोमः॑¦जि॒गा॒ति॒¦गा॒तु॒ऽवित्¦दे॒वाना᳚‌म्¦ए॒ति॒¦निः॒ऽकृ॒त‌म् | ऋ॒तस्य॑¦योनि᳚‌म्¦आ॒ऽसद᳚‌म् ||

सोमो᳚,अ॒स्मभ्यं᳚द्वि॒पदे॒¦चतु॑ष्पदेप॒शवे᳚ |{गाथिनो विश्वामित्रः | सोमः | गायत्री}

अ॒न॒मी॒वा,इष॑स्करत् || {14/18}{3.62.14}{3.5.9.14}{3.4.11.4}{613, 296, 3048}

सोमः॑¦अ॒स्मभ्य᳚‌म्¦द्वि॒ऽपदे᳚¦चतुः॑ऽपदे¦च॒¦प॒शवे᳚ | अ॒न॒मी॒वाः¦इषः॑¦क॒र॒त् ||

अ॒स्माक॒मायु᳚र्व॒र्धय᳚¦न्न॒भिमा᳚तीः॒सह॑मानः |{गाथिनो विश्वामित्रः | सोमः | गायत्री}

सोमः॑स॒धस्थ॒मास॑दत् || {15/18}{3.62.15}{3.5.9.15}{3.4.11.5}{614, 296, 3049}

अ॒स्माक᳚‌म्¦आयुः॑¦व॒र्धय॑न्¦अ॒भिऽमा᳚तीः¦सह॑मानः | सोमः॑¦स॒धऽस्थ᳚‌म्¦आ¦अ॒स॒द॒त् ||

नो᳚मित्रावरुणा¦घृ॒तैर्गव्यू᳚तिमुक्षतम् |{विश्वामित्रो जमदग्निर्वा | मित्रावरुणौ | गायत्री}

मध्वा॒रजां᳚सिसुक्रतू || {16/18}{3.62.16}{3.5.9.16}{3.4.11.6}{615, 296, 3050}

आ¦नः॒¦मि॒त्रा॒व॒रु॒णा॒¦घृ॒तैः¦गव्यू᳚ति‌म्¦उ॒क्ष॒त॒‌म् | मध्वा᳚¦रजां᳚सि¦सु॒क्र॒तू॒ इति॑ सुऽक्रतू ||

उ॒रु॒शंसा᳚नमो॒वृधा᳚¦म॒ह्नादक्ष॑स्यराजथः |{विश्वामित्रो जमदग्निर्वा | मित्रावरुणौ | गायत्री}

द्राघि॑ष्ठाभिःशुचिव्रता || {17/18}{3.62.17}{3.5.9.17}{3.4.11.7}{616, 296, 3051}

उ॒रु॒ऽशंसा᳚¦न॒मः॒ऽवृधा᳚¦म॒ह्ना¦दक्ष॑स्य¦रा॒ज॒थः॒ | द्राघि॑ष्ठाभिः¦शु॒चि॒ऽव्र॒ता॒ ||

गृ॒णा॒नाज॒मद॑ग्निना॒¦योना᳚वृ॒तस्य॑सीदतम् |{विश्वामित्रो जमदग्निर्वा | मित्रावरुणौ | गायत्री}

पा॒तंसोम॑मृतावृधा || {18/18}{3.62.18}{3.5.9.18}{3.4.11.8}{617, 296, 3052}

गृ॒णा॒ना¦ज॒मत्।आ॑ग्निना¦योनौ᳚¦ऋ॒तस्य॑¦सी॒द॒त॒‌म् | पा॒त‌म्¦सोम᳚‌म्¦ऋ॒त॒ऽवृ॒धा॒ ||