[1] त्वांह्यग्नइति विंशत्यृचस्य सूक्तस्य गौतमोवामदेवोग्निर्द्वितीयादिचतसृणामग्निवरुणौ त्रिष्टुप् आद्यास्तिस्रः क्रमेणाष्ट्यतिजगतीधृतयः | |
त्वांह्य॑ग्ने॒सद॒मित्स॑म॒न्यवो᳚¦दे॒वासो᳚दे॒वम॑र॒तिंन्ये᳚रि॒र¦इति॒क्रत्वा᳚न्येरि॒रे |{गौतमो वामदेवः | अग्निः | अष्टिः} अम॑र्त्यंयजत॒मर्त्ये॒ष्वा¦दे॒वमादे᳚वंजनत॒प्रचे᳚तसं॒¦विश्व॒मादे᳚वंजनत॒प्रचे᳚तसम् || {1/20}{4.1.1}{4.1.1.1}{3.4.12.1}{1, 297, 3053} त्वाम्¦हि¦अ॒ग्ने॒¦सद᳚म्¦इत्¦स॒ऽम॒न्यवः॑¦दे॒वासः॑¦दे॒वम्¦अ॒र॒तिम्¦नि॒ऽए॒रि॒रे¦इति॑¦क्रत्वा᳚¦नि॒ऽए॒रि॒रे | |
सभ्रात॑रं॒वरु॑णमग्न॒आव॑वृत्स्व¦दे॒वाँ,अच्छा᳚सुम॒तीय॒ज्ञव॑नसं॒¦ज्येष्ठं᳚य॒ज्ञव॑नसम् |{गौतमो वामदेवः | अग्निः वरुणौ | अतिजगती} ऋ॒तावा᳚नमादि॒त्यंच॑र्षणी॒धृतं॒¦राजा᳚नंचर्षणी॒धृत᳚म् || {2/20}{4.1.2}{4.1.1.2}{3.4.12.2}{2, 297, 3054} सः¦भ्रात॑रम्¦वरु॑णम्¦अ॒ग्ने॒¦आ¦व॒वृ॒त्स्व॒¦दे॒वान्¦अच्छ॑¦सु॒ऽम॒ती¦य॒ज्ञऽव॑नसम्¦ज्येष्ठ᳚म्¦य॒ज्ञऽव॑नसम् | |
सखे॒सखा᳚यम॒भ्याव॑वृत्स्वा॒¦शुंनच॒क्रंरथ्ये᳚व॒रंह्या॒¦स्मभ्यं᳚दस्म॒रंह्या᳚ |{गौतमो वामदेवः | अग्निः वरुणौ | धृतिः} अग्ने᳚मृळी॒कंवरु॑णे॒सचा᳚विदो¦म॒रुत्सु॑वि॒श्वभा᳚नुषु |{गौतमो वामदेवः | अग्निः वरुणौ | धृतिः} तो॒काय॑तु॒जेशु॑शुचान॒शंकृ॑ध्य॒¦स्मभ्यं᳚दस्म॒शंकृ॑धि || {3/20}{4.1.3}{4.1.1.3}{3.4.12.3}{3, 297, 3055} सखे᳚¦सखा᳚यम्¦अ॒भि¦आ¦व॒वृ॒त्स्व॒¦आ॒शुम्¦न¦च॒क्रम्¦रथ्या᳚ऽइव¦रंह्या᳚¦अ॒स्मभ्य᳚म्¦द॒स्म॒¦रंह्या᳚ | |
त्वंनो᳚,अग्ने॒वरु॑णस्यवि॒द्वान्¦दे॒वस्य॒हेळोऽव॑यासिसीष्ठाः |{गौतमो वामदेवः | अग्निः वरुणौ | त्रिष्टुप्} यजि॑ष्ठो॒वह्नि॑तमः॒शोशु॑चानो॒¦विश्वा॒द्वेषां᳚सि॒प्रमु॑मुग्ध्य॒स्मत् || {4/20}{4.1.4}{4.1.1.4}{3.4.12.4}{4, 297, 3056} त्वम्¦नः॒¦अ॒ग्ने॒¦वरु॑णस्य¦वि॒द्वान्¦दे॒वस्य॑¦हेळः॑¦अव॑¦या॒सि॒सी॒ष्ठाः॒ | |
सत्वंनो᳚,अग्नेऽव॒मोभ॑वो॒ती¦नेदि॑ष्ठो,अ॒स्या,उ॒षसो॒व्यु॑ष्टौ |{गौतमो वामदेवः | अग्निः वरुणौ | त्रिष्टुप्} अव॑यक्ष्वनो॒वरु॑णं॒ररा᳚णो¦वी॒हिमृ॑ळी॒कंसु॒हवो᳚नएधि || {5/20}{4.1.5}{4.1.1.5}{3.4.12.5}{5, 297, 3057} सः¦त्वम्¦नः॒¦अ॒ग्ने॒¦अ॒व॒मः¦भ॒व॒¦ऊ॒ती¦नेदि॑ष्ठः¦अ॒स्याः¦उ॒षसः॑¦वि।औ᳚ष्टौ | |
अ॒स्यश्रेष्ठा᳚सु॒भग॑स्यसं॒दृग्¦दे॒वस्य॑चि॒त्रत॑मा॒मर्त्ये᳚षु |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} शुचि॑घृ॒तंनत॒प्तमघ्न्या᳚याः¦स्पा॒र्हादे॒वस्य॑मं॒हने᳚वधे॒नोः || {6/20}{4.1.6}{4.1.1.6}{3.4.13.1}{6, 297, 3058} अ॒स्य¦श्रेष्ठा᳚¦सु॒ऽभग॑स्य¦स॒म्ऽदृक्¦दे॒वस्य॑¦चि॒त्रऽत॑मा¦मर्त्ये᳚षु | |
त्रिर॑स्य॒ताप॑र॒मास᳚न्तिस॒त्या¦स्पा॒र्हादे॒वस्य॒जनि॑मान्य॒ग्नेः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अ॒न॒न्ते,अ॒न्तःपरि॑वीत॒आगा॒¦च्छुचिः॑शु॒क्रो,अ॒र्योरोरु॑चानः || {7/20}{4.1.7}{4.1.1.7}{3.4.13.2}{7, 297, 3059} त्रिः¦अ॒स्य॒¦ता¦प॒र॒मा¦स॒न्ति॒¦स॒त्या¦स्पा॒र्हा¦दे॒वस्य॑¦जनि॑मानि¦अ॒ग्नेः | |
सदू॒तोविश्वेद॒भिव॑ष्टि॒सद्मा॒¦होता॒हिर᳚ण्यरथो॒रंसु॑जिह्वः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} रो॒हिद॑श्वोवपु॒ष्यो᳚वि॒भावा॒¦सदा᳚र॒ण्वःपि॑तु॒मती᳚वसं॒सत् || {8/20}{4.1.8}{4.1.1.8}{3.4.13.3}{8, 297, 3060} सः¦दू॒तः¦विश्वा᳚¦इत्¦अ॒भि¦व॒ष्टि॒¦सद्म॑¦होता᳚¦हिर᳚ण्यऽरथः¦रम्ऽसु॑जिह्वः | |
सचे᳚तय॒न्मनु॑षोय॒ज्ञब᳚न्धुः॒¦प्रतंम॒ह्यार॑श॒नया᳚नयन्ति |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} सक्षे᳚त्यस्य॒दुर्या᳚सु॒साध॑न्¦दे॒वोमर्त॑स्यसधनि॒त्वमा᳚प || {9/20}{4.1.9}{4.1.1.9}{3.4.13.4}{9, 297, 3061} सः¦चे॒त॒य॒त्¦मनु॑षः¦य॒ज्ञऽब᳚न्धुः¦प्र¦तम्¦म॒ह्या¦र॒श॒नया᳚¦न॒य॒न्ति॒ | |
सतूनो᳚,अ॒ग्निर्न॑यतुप्रजा॒न¦न्नच्छा॒रत्नं᳚दे॒वभ॑क्तं॒यद॑स्य |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} धि॒यायद्विश्वे᳚,अ॒मृता॒,अकृ᳚ण्व॒न्¦द्यौष्पि॒ताज॑नि॒तास॒त्यमु॑क्षन् || {10/20}{4.1.10}{4.1.1.10}{3.4.13.5}{10, 297, 3062} सः¦तु¦नः॒¦अ॒ग्निः¦न॒य॒तु॒¦प्र॒ऽजा॒नन्¦अच्छ॑¦रत्न᳚म्¦दे॒वऽभ॑क्तम्¦यत्¦अ॒स्य॒ | |
सजा᳚यतप्रथ॒मःप॒स्त्या᳚सु¦म॒होबु॒ध्नेरज॑सो,अ॒स्ययोनौ᳚ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अ॒पाद॑शी॒र्षागु॒हमा᳚नो॒,अन्ता॒¦योयु॑वानोवृष॒भस्य॑नी॒ळे || {11/20}{4.1.11}{4.1.1.11}{3.4.14.1}{11, 297, 3063} सः¦जा॒य॒त॒¦प्र॒थ॒मः¦प॒स्त्या᳚सु¦म॒हः¦बु॒ध्ने¦रज॑सः¦अ॒स्य¦योनौ᳚ | |
प्रशर्ध॑आर्तप्रथ॒मंवि॑प॒न्याँ¦ऋ॒तस्य॒योना᳚वृष॒भस्य॑नी॒ळे |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} स्पा॒र्होयुवा᳚वपु॒ष्यो᳚वि॒भावा᳚¦स॒प्तप्रि॒यासो᳚ऽजनयन्त॒वृष्णे᳚ || {12/20}{4.1.12}{4.1.1.12}{3.4.14.2}{12, 297, 3064} प्र¦शर्धः॑¦आ॒र्त॒¦प्र॒थ॒मम्¦वि॒प॒न्या¦ऋ॒तस्य॑¦योना᳚¦वृ॒ष॒भस्य॑¦नी॒ळे | |
अ॒स्माक॒मत्र॑पि॒तरो᳚मनु॒ष्या᳚,¦अ॒भिप्रसे᳚दुरृ॒तमा᳚शुषा॒णाः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अश्म᳚व्रजाःसु॒दुघा᳚व॒व्रे,अ॒न्त¦रुदु॒स्रा,आ᳚जन्नु॒षसो᳚हुवा॒नाः || {13/20}{4.1.13}{4.1.1.13}{3.4.14.3}{13, 297, 3065} अ॒स्माक᳚म्¦अत्र॑¦पि॒तरः॑¦म॒नु॒ष्याः᳚¦अ॒भि¦प्र¦से॒दुः॒¦ऋ॒तम्¦आ॒शु॒षा॒णाः | |
तेम᳚र्मृजतददृ॒वांसो॒,अद्रिं॒¦तदे᳚षाम॒न्ये,अ॒भितो॒विवो᳚चन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} प॒श्वय᳚न्त्रासो,अ॒भिका॒रम॑र्चन्¦वि॒दन्त॒ज्योति॑श्चकृ॒पन्त॑धी॒भिः || {14/20}{4.1.14}{4.1.1.14}{3.4.14.4}{14, 297, 3066} ते¦म॒र्मृ॒ज॒त॒¦द॒दृ॒ऽवांसः॑¦अद्रि᳚म्¦तत्¦ए॒षा॒म्¦अ॒न्ये¦अ॒भितः॑¦वि¦वो॒च॒न् | |
तेग᳚व्य॒तामन॑सादृ॒ध्रमु॒ब्धं¦गाये᳚मा॒नंपरि॒षन्त॒मद्रि᳚म् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} दृ॒ळ्हंनरो॒वच॑सा॒दैव्ये᳚न¦व्र॒जंगोम᳚न्तमु॒शिजो॒विव᳚व्रुः || {15/20}{4.1.15}{4.1.1.15}{3.4.14.5}{15, 297, 3067} ते¦ग॒व्य॒ता¦मन॑सा¦दृ॒ध्रम्¦उ॒ब्धम्¦गाः¦ये॒मा॒नम्¦परि॑¦सन्त᳚म्¦अद्रि᳚म् | |
तेम᳚न्वतप्रथ॒मंनाम॑धे॒नो¦स्त्रिःस॒प्तमा॒तुःप॑र॒माणि॑विन्दन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} तज्जा᳚न॒तीर॒भ्य॑नूषत॒व्रा¦,आ॒विर्भु॑वदरु॒णीर्य॒शसा॒गोः || {16/20}{4.1.16}{4.1.1.16}{3.4.15.1}{16, 297, 3068} ते¦म॒न्व॒त॒¦प्र॒थ॒मम्¦नाम॑¦धे॒नोः¦त्रिः¦स॒प्त¦मा॒तुः¦प॒र॒माणि॑¦वि॒न्द॒न् | |
नेश॒त्तमो॒दुधि॑तं॒रोच॑त॒द्यौ¦रुद्दे॒व्या,उ॒षसो᳚भा॒नुर॑र्त |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} आसूर्यो᳚बृह॒तस्ति॑ष्ठ॒दज्राँ᳚¦ऋ॒जुमर्ते᳚षुवृजि॒नाच॒पश्य॑न् || {17/20}{4.1.17}{4.1.1.17}{3.4.15.2}{17, 297, 3069} नेश॑त्¦तमः॑¦दुधि॑तम्¦रोच॑त¦द्यौः¦उत्¦दे॒व्याः¦उ॒षसः॑¦भा॒नुः¦अ॒र्त॒ | |
आदित्प॒श्चाबु॑बुधा॒नाव्य॑ख्य॒¦न्नादिद्रत्नं᳚धारयन्त॒द्युभ॑क्तम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} विश्वे॒विश्वा᳚सु॒दुर्या᳚सुदे॒वा¦मित्र॑धि॒येव॑रुणस॒त्यम॑स्तु || {18/20}{4.1.18}{4.1.1.18}{3.4.15.3}{18, 297, 3070} आत्¦इत्¦प॒श्चा¦बु॒बु॒धा॒नाः¦वि¦अ॒ख्य॒न्¦आत्¦इत्¦रत्न᳚म्¦धा॒र॒य॒न्त॒¦द्युऽभ॑क्तम् | |
अच्छा᳚वोचेयशुशुचा॒नम॒ग्निं¦होता᳚रंवि॒श्वभ॑रसं॒यजि॑ष्ठम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} शुच्यूधो᳚,अतृण॒न्नगवा॒¦मन्धो॒नपू॒तंपरि॑षिक्तमं॒शोः || {19/20}{4.1.19}{4.1.1.19}{3.4.15.4}{19, 297, 3071} अच्छ॑¦वो॒चे॒य॒¦शु॒शु॒चा॒नम्¦अ॒ग्निम्¦होता᳚रम्¦वि॒श्वऽभ॑रसम्¦यजि॑ष्ठम् | |
विश्वे᳚षा॒मदि॑तिर्य॒ज्ञिया᳚नां॒¦विश्वे᳚षा॒मति॑थि॒र्मानु॑षाणाम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अ॒ग्निर्दे॒वाना॒मव॑आवृणा॒नः¦सु॑मृळी॒कोभ॑वतुजा॒तवे᳚दाः || {20/20}{4.1.20}{4.1.1.20}{3.4.15.5}{20, 297, 3072} विश्वे᳚षाम्¦अदि॑तिः¦य॒ज्ञिया᳚नाम्¦विश्वे᳚षाम्¦अति॑थिः¦मानु॑षाणाम् | |
[2] योमर्त्येष्विति विंशत्यृचस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् | |
योमर्त्ये᳚ष्व॒मृत॑ऋ॒तावा᳚¦दे॒वोदे॒वेष्व॑र॒तिर्नि॒धायि॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} होता॒यजि॑ष्ठोम॒ह्नाशु॒चध्यै᳚¦ह॒व्यैर॒ग्निर्मनु॑षईर॒यध्यै᳚ || {1/20}{4.2.1}{4.1.2.1}{3.4.16.1}{21, 298, 3073} यः¦मर्त्ये᳚षु¦अ॒मृतः॑¦ऋ॒तऽवा᳚¦दे॒वः¦दे॒वेषु॑¦अ॒र॒तिः¦नि॒ऽधायि॑ | |
इ॒हत्वंसू᳚नोसहसोनो,अ॒द्य¦जा॒तोजा॒ताँ,उ॒भयाँ᳚,अ॒न्तर॑ग्ने |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} दू॒तई᳚यसेयुयुजा॒नऋ॑ष्व¦ऋजुमु॒ष्कान्वृष॑णःशु॒क्राँश्च॑ || {2/20}{4.2.2}{4.1.2.2}{3.4.16.2}{22, 298, 3074} इ॒ह¦त्वम्¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦नः॒¦अ॒द्य¦जा॒तः¦जा॒तान्¦उ॒भया᳚न्¦अ॒न्तः¦अ॒ग्ने॒ | |
अत्या᳚वृध॒स्नूरोहि॑ताघृ॒तस्नू᳚¦ऋ॒तस्य॑मन्ये॒मन॑सा॒जवि॑ष्ठा |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अ॒न्तरी᳚यसे,अरु॒षायु॑जा॒नो¦यु॒ष्माँश्च॑दे॒वान्विश॒आच॒मर्ता॑न् || {3/20}{4.2.3}{4.1.2.3}{3.4.16.3}{23, 298, 3075} अत्या᳚¦वृ॒ध॒स्नू इति॑ वृ॒ध॒ऽस्नू¦रोहि॑ता¦घृ॒तस्नू॒ इति॑ घृ॒तऽस्नू᳚¦ऋ॒तस्य॑¦म॒न्ये॒¦मन॑सा¦जवि॑ष्ठा | |
अ॒र्य॒मणं॒वरु॑णंमि॒त्रमे᳚षा॒¦मिन्द्रा॒विष्णू᳚म॒रुतो᳚,अ॒श्विनो॒त |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} स्वश्वो᳚,अग्नेसु॒रथः॑सु॒राधा॒,¦एदु॑वहसुह॒विषे॒जना᳚य || {4/20}{4.2.4}{4.1.2.4}{3.4.16.4}{24, 298, 3076} अ॒र्य॒मण᳚म्¦वरु॑णम्¦मि॒त्रम्¦ए॒षा॒म्¦इन्द्रा॒विष्णू॒ इति॑¦म॒रुतः॑¦अ॒श्विना᳚¦उ॒त | |
गोमाँ᳚,अ॒ग्नेऽवि॑माँ,अ॒श्वीय॒ज्ञो¦नृ॒वत्स॑खा॒सद॒मिद॑प्रमृ॒ष्यः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} इळा᳚वाँ,ए॒षो,अ॑सुरप्र॒जावा᳚न्¦दी॒र्घोर॒यिःपृ॑थुबु॒ध्नःस॒भावा॑न् || {5/20}{4.2.5}{4.1.2.5}{3.4.16.5}{25, 298, 3077} गोऽमा᳚न्¦अ॒ग्ने॒¦अवि॑ऽमान्¦अ॒श्वी¦य॒ज्ञः¦नृ॒वत्ऽस॑खा¦सद᳚म्¦इत्¦अ॒प्र॒ऽमृ॒ष्यः | |
यस्त॑इ॒ध्मंज॒भर॑त्सिष्विदा॒नो¦मू॒र्धानं᳚वात॒तप॑तेत्वा॒या |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} भुव॒स्तस्य॒स्वत॑वाँःपा॒युर॑ग्ने॒¦विश्व॑स्मात्सीमघाय॒तउ॑रुष्य || {6/20}{4.2.6}{4.1.2.6}{3.4.17.1}{26, 298, 3078} यः¦ते॒¦इ॒ध्मम्¦ज॒भर॑त्¦सि॒स्वि॒दा॒नः¦मू॒र्धान᳚म्¦वा॒¦त॒तप॑ते¦त्वा॒ऽया | |
यस्ते॒भरा॒दन्नि॑यतेचि॒दन्नं᳚¦नि॒शिष᳚न्म॒न्द्रमति॑थिमु॒दीर॑त् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} आदे᳚व॒युरि॒नध॑तेदुरो॒णे¦तस्मि᳚न्र॒यिर्ध्रु॒वो,अ॑स्तु॒दास्वा॑न् || {7/20}{4.2.7}{4.1.2.7}{3.4.17.2}{27, 298, 3079} यः¦ते॒¦भरा᳚त्¦अन्नि॑ऽयते¦चि॒त्¦अन्न᳚म्¦नि॒ऽशिष॑त्¦म॒न्द्रम्¦अति॑थिम्¦उ॒त्ऽईर॑त् | |
यस्त्वा᳚दो॒षायउ॒षसि॑प्र॒शंसा᳚त्¦प्रि॒यंवा᳚त्वाकृ॒णव॑तेह॒विष्मा॑न् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अश्वो॒नस्वेदम॒आहे॒म्यावा॒न्¦तमंह॑सःपीपरोदा॒श्वांस᳚म् || {8/20}{4.2.8}{4.1.2.8}{3.4.17.3}{28, 298, 3080} यः¦त्वा॒¦दो॒षा¦यः¦उ॒षसि॑¦प्र॒ऽशंसा᳚त्¦प्रि॒यम्¦वा॒¦त्वा॒¦कृ॒णव॑ते¦ह॒विष्मा॑न् | |
यस्तुभ्य॑मग्ने,अ॒मृता᳚य॒दाश॒द्¦दुव॒स्त्वेकृ॒णव॑तेय॒तस्रु॑क् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} नसरा॒याश॑शमा॒नोवियो᳚ष॒¦न्नैन॒मंहः॒परि॑वरदघा॒योः || {9/20}{4.2.9}{4.1.2.9}{3.4.17.4}{29, 298, 3081} यः¦तुभ्य᳚म्¦अ॒ग्ने॒¦अ॒मृता᳚य¦दाश॑त्¦दुवः॑¦त्वे इति॑¦कृ॒णव॑ते¦य॒तऽस्रु॑क् | |
यस्य॒त्वम॑ग्ने,अध्व॒रंजुजो᳚षो¦दे॒वोमर्त॑स्य॒सुधि॑तं॒ररा᳚णः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} प्री॒तेद॑स॒द्धोत्रा॒साय॑वि॒ष्ठा¦ऽसा᳚म॒यस्य॑विध॒तोवृ॒धासः॑ || {10/20}{4.2.10}{4.1.2.10}{3.4.17.5}{30, 298, 3082} यस्य॑¦त्वम्¦अ॒ग्ने॒¦अ॒ध्व॒रम्¦जुजो᳚षः¦दे॒वः¦मर्त॑स्य¦सुऽधि॑तम्¦ररा᳚णः | |
चित्ति॒मचि॑त्तिंचिनव॒द्विवि॒द्वान्¦पृ॒ष्ठेव॑वी॒तावृ॑जि॒नाच॒मर्ता॑न् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} रा॒येच॑नःस्वप॒त्याय॑देव॒¦दितिं᳚च॒रास्वादि॑तिमुरुष्य || {11/20}{4.2.11}{4.1.2.11}{3.4.18.1}{31, 298, 3083} चित्ति᳚म्¦अचि॑त्तिम्¦चि॒न॒व॒त्¦वि¦वि॒द्वान्¦पृ॒ष्टाऽइ᳚व¦वी॒ता¦वृ॒जि॒ना¦च॒¦मर्ता॑न् | |
क॒विंश॑शासुःक॒वयोऽद॑ब्धा¦निधा॒रय᳚न्तो॒दुर्या᳚स्वा॒योः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अत॒स्त्वंदृश्याँ᳚,अग्नए॒तान्¦प॒ड्भिःप॑श्ये॒रद्भु॑ताँ,अ॒र्यएवैः᳚ || {12/20}{4.2.12}{4.1.2.12}{3.4.18.2}{32, 298, 3084} क॒विम्¦श॒शा॒सुः॒¦क॒वयः॑¦अद॑ब्धाः¦नि॒ऽधा॒रय᳚न्तः¦दुर्या᳚सु¦आ॒योः | |
त्वम॑ग्नेवा॒घते᳚सु॒प्रणी᳚तिः¦सु॒तसो᳚मायविध॒तेय॑विष्ठ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} रत्नं᳚भरशशमा॒नाय॑घृष्वे¦पृ॒थुश्च॒न्द्रमव॑सेचर्षणि॒प्राः || {13/20}{4.2.13}{4.1.2.13}{3.4.18.3}{33, 298, 3085} त्वम्¦अ॒ग्ने॒¦वा॒घते᳚¦सु॒ऽप्रनी᳚तिः¦सु॒तऽसो᳚माय¦वि॒ध॒ते¦य॒वि॒ष्ठ॒ | |
अधा᳚ह॒यद्व॒यम॑ग्नेत्वा॒या¦प॒ड्भिर्हस्ते᳚भिश्चकृ॒मात॒नूभिः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} रथं॒नक्रन्तो॒,अप॑साभु॒रिजो᳚¦रृ॒तंये᳚मुःसु॒ध्य॑आशुषा॒णाः || {14/20}{4.2.14}{4.1.2.14}{3.4.18.4}{34, 298, 3086} अध॑¦ह॒¦यत्¦व॒यम्¦अ॒ग्ने॒¦त्वा॒ऽया¦प॒ट्ऽभिः¦हस्ते᳚भिः¦च॒कृ॒म¦त॒नूभिः॑ | |
अधा᳚मा॒तुरु॒षसः॑स॒प्तविप्रा॒¦जाये᳚महिप्रथ॒मावे॒धसो॒नॄन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} दि॒वस्पु॒त्रा,अङ्गि॑रसोभवे॒मा¦ऽद्रिं᳚रुजेमध॒निनं᳚शु॒चन्तः॑ || {15/20}{4.2.15}{4.1.2.15}{3.4.18.5}{35, 298, 3087} अध॑¦मा॒तुः¦उ॒षसः॑¦स॒प्त¦विप्राः᳚¦जाये᳚महि¦प्र॒थ॒माः¦वे॒धसः॑¦नॄन् | |
अधा॒यथा᳚नःपि॒तरः॒परा᳚सः¦प्र॒त्नासो᳚,अग्नऋ॒तमा᳚शुषा॒णाः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} शुचीद॑य॒न्दीधि॑तिमुक्थ॒शासः॒,¦क्षामा᳚भि॒न्दन्तो᳚,अरु॒णीरप᳚व्रन् || {16/20}{4.2.16}{4.1.2.16}{3.4.19.1}{36, 298, 3088} अध॑¦यथा᳚¦नः॒¦पि॒तरः॑¦परा᳚सः¦प्र॒त्नासः॑¦अ॒ग्ने॒¦ऋ॒तम्¦आ॒शु॒षा॒णाः | |
सु॒कर्मा᳚णःसु॒रुचो᳚देव॒यन्तो¦ऽयो॒नदे॒वाजनि॑मा॒धम᳚न्तः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} शु॒चन्तो᳚,अ॒ग्निंव॑वृ॒धन्त॒इन्द्र॑¦मू॒र्वंगव्यं᳚परि॒षद᳚न्तो,अग्मन् || {17/20}{4.2.17}{4.1.2.17}{3.4.19.2}{37, 298, 3089} सु॒ऽकर्मा᳚णः¦सु॒ऽरुचः॑¦दे॒व॒ऽयन्तः॑¦अयः॑¦न¦दे॒वाः¦जनि॑म¦धम᳚न्तः | |
आयू॒थेव॑क्षु॒मति॑प॒श्वो,अ॑ख्यद्¦दे॒वानां॒यज्जनि॒मान्त्यु॑ग्र |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} मर्ता᳚नांचिदु॒र्वशी᳚रकृप्रन्¦वृ॒धेचि॑द॒र्यउप॑रस्या॒योः || {18/20}{4.2.18}{4.1.2.18}{3.4.19.3}{38, 298, 3090} आ¦यू॒थाऽइ᳚व¦क्षु॒ऽमति॑¦प॒श्वः¦अ॒ख्य॒त्¦दे॒वाना᳚म्¦यत्¦ज॒नि॒म¦अन्ति॑¦उ॒ग्र॒ | |
अक᳚र्मते॒स्वप॑सो,अभूम¦ऋ॒तम॑वस्रन्नु॒षसो᳚विभा॒तीः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अनू᳚नम॒ग्निंपु॑रु॒धासु॑श्च॒न्द्रं¦दे॒वस्य॒मर्मृ॑जत॒श्चारु॒चक्षुः॑ || {19/20}{4.2.19}{4.1.2.19}{3.4.19.4}{39, 298, 3091} अक᳚र्म¦ते॒¦सु॒।आप॑सः¦अ॒भू॒म॒¦ऋ॒तम्¦अ॒व॒स्र॒न्¦उ॒षसः॑¦वि॒भा॒तीः | |
ए॒ताते᳚,अग्नउ॒चथा᳚निवे॒धो¦ऽवो᳚चामक॒वये॒ताजु॑षस्व |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} उच्छो᳚चस्वकृणु॒हिवस्य॑सोनो¦म॒होरा॒यःपु॑रुवार॒प्रय᳚न्धि || {20/20}{4.2.20}{4.1.2.20}{3.4.19.5}{40, 298, 3092} ए॒ता¦ते॒¦अ॒ग्ने॒¦उ॒चथा᳚नि¦वे॒धः॒¦अवो᳚चाम¦क॒वये᳚¦ता¦जु॒ष॒स्व॒ | |
[3] आवोराजानमिति षोडशर्चस्य सूक्तस्य गौतमोवामदेव आद्यायारुद्रोद्वितीयादीनामग्निस्त्रिष्टुप् | |
आवो॒राजा᳚नमध्व॒रस्य॑रु॒द्रं¦होता᳚रंसत्य॒यजं॒रोद॑स्योः |{गौतमो वामदेवः | रुद्रः, अग्निः | त्रिष्टुप्} अ॒ग्निंपु॒रात॑नयि॒त्नोर॒चित्ता॒¦द्धिर᳚ण्यरूप॒मव॑सेकृणुध्वम् || {1/16}{4.3.1}{4.1.3.1}{3.4.20.1}{41, 299, 3093} आ¦वः॒¦राजा᳚नम्¦अ॒ध्व॒रस्य॑¦रु॒द्रम्¦होता᳚रम्¦स॒त्य॒ऽयज॒म्¦रोद॑स्योः | |
अ॒यंयोनि॑श्चकृ॒मायंव॒यंते᳚¦जा॒येव॒पत्य॑उश॒तीसु॒वासाः᳚ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अ॒र्वा॒ची॒नःपरि॑वीतो॒निषी᳚दे॒¦मा,उ॑तेस्वपाकप्रती॒चीः || {2/16}{4.3.2}{4.1.3.2}{3.4.20.2}{42, 299, 3094} अ॒यम्¦योनिः॑¦च॒कृ॒म¦यम्¦व॒यम्¦ते॒¦जा॒याऽइ᳚व¦पत्ये᳚¦उ॒श॒ती¦सु॒ऽवासाः᳚ | |
आ॒शृ॒ण्व॒ते,अदृ॑पिताय॒मन्म॑¦नृ॒चक्ष॑सेसुमृळी॒काय॑वेधः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} दे॒वाय॑श॒स्तिम॒मृता᳚यशंस॒¦ग्रावे᳚व॒सोता᳚मधु॒षुद्यमी॒ळे || {3/16}{4.3.3}{4.1.3.3}{3.4.20.3}{43, 299, 3095} आ॒ऽशृ॒ण्व॒ते¦अदृ॑पिताय¦मन्म॑¦नृ॒ऽचक्ष॑से¦सु॒ऽमृ॒ळी॒काय॑¦वे॒धः॒ | |
त्वंचि᳚न्नः॒शम्या᳚,अग्ने,अ॒स्या¦ऋ॒तस्य॑बोध्यृतचित्स्वा॒धीः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} क॒दात॑उ॒क्थास॑ध॒माद्या᳚नि¦क॒दाभ॑वन्तिस॒ख्यागृ॒हेते᳚ || {4/16}{4.3.4}{4.1.3.4}{3.4.20.4}{44, 299, 3096} त्वम्¦चि॒त्¦नः॒¦शम्यै᳚¦अ॒ग्ने॒¦अ॒स्याः¦ऋ॒तस्य॑¦बो॒धि॒¦ऋ॒त॒ऽचि॒त्¦सु॒ऽआ॒धीः | |
क॒थाह॒तद्वरु॑णाय॒त्वम॑ग्ने¦क॒थादि॒वेग᳚र्हसे॒कन्न॒आगः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} क॒थामि॒त्राय॑मी॒ळ्हुषे᳚पृथि॒व्यै¦ब्रवः॒कद᳚र्य॒म्णेकद्भगा᳚य || {5/16}{4.3.5}{4.1.3.5}{3.4.20.5}{45, 299, 3097} क॒था¦ह॒¦तत्¦वरु॑णाय¦त्वम्¦अ॒ग्ने॒¦क॒था¦दि॒वे¦ग॒र्ह॒से॒¦कत्¦नः॒¦आगः॑ | |
कद्धिष्ण्या᳚सुवृधसा॒नो,अ॑ग्ने॒¦कद्वाता᳚य॒प्रत॑वसेशुभं॒ये |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} परि॑ज्मने॒नास॑त्याय॒क्षे¦ब्रवः॒कद॑ग्नेरु॒द्राय॑नृ॒घ्ने || {6/16}{4.3.6}{4.1.3.6}{3.4.21.1}{46, 299, 3098} कत्¦धिष्ण्या᳚सु¦वृ॒ध॒सा॒नः¦अ॒ग्ने॒¦कत्¦वाता᳚य¦प्रऽत॑वसे¦शु॒भ॒म्ऽये | |
क॒थाम॒हेपु॑ष्टिम्भ॒राय॑पू॒ष्णे¦कद्रु॒द्राय॒सुम॑खायहवि॒र्दे |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} कद्विष्ण॑वउरुगा॒याय॒रेतो॒¦ब्रवः॒कद॑ग्ने॒शर॑वेबृह॒त्यै || {7/16}{4.3.7}{4.1.3.7}{3.4.21.2}{47, 299, 3099} क॒था¦म॒हे¦पु॒ष्टि॒म्ऽभ॒राय॑¦पू॒ष्णे¦कत्¦रु॒द्राय॑¦सुऽम॑खाय¦ह॒विः॒ऽदे | |
क॒थाशर्धा᳚यम॒रुता᳚मृ॒ताय॑¦क॒थासू॒रेबृ॑ह॒तेपृ॒च्छ्यमा᳚नः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} प्रति॑ब्र॒वोऽदि॑तयेतु॒राय॒¦साधा᳚दि॒वोजा᳚तवेदश्चिकि॒त्वान् || {8/16}{4.3.8}{4.1.3.8}{3.4.21.3}{48, 299, 3100} क॒था¦शर्धा᳚य¦म॒रुता᳚म्¦ऋ॒ताय॑¦क॒था¦सू॒रे¦बृ॒ह॒ते¦पृ॒च्छ्यमा᳚नः | |
ऋ॒तेन॑ऋ॒तंनिय॑तमीळ॒आगो¦रा॒मासचा॒मधु॑मत्प॒क्वम॑ग्ने |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} कृ॒ष्णास॒तीरुश॑ताधा॒सिनै॒षा¦जाम᳚र्येण॒पय॑सापीपाय || {9/16}{4.3.9}{4.1.3.9}{3.4.21.4}{49, 299, 3101} ऋ॒तेन॑¦ऋ॒तम्¦निऽय॑तम्¦ई॒ळे॒¦आ¦गोः¦आ॒मा¦सचा᳚¦मधु॑ऽमत्¦प॒क्वम्¦अ॒ग्ने॒ | |
ऋ॒तेन॒हिष्मा᳚वृष॒भश्चि॑द॒क्तः¦पुमाँ᳚,अ॒ग्निःपय॑सापृ॒ष्ठ्ये᳚न |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अस्प᳚न्दमानो,अचरद्वयो॒धा¦वृषा᳚शु॒क्रंदु॑दुहे॒पृश्नि॒रूधः॑ || {10/16}{4.3.10}{4.1.3.10}{3.4.21.5}{50, 299, 3102} ऋ॒तेनः॑¦हि¦स्म॒¦वृ॒ष॒भः¦चि॒त्¦अ॒क्तः¦पुमा᳚न्¦अ॒ग्निः¦पय॑सा¦पृ॒ष्ठ्ये᳚न | |
ऋ॒तेनाद्रिं॒व्य॑सन्भि॒दन्तः॒¦समङ्गि॑रसोनवन्त॒गोभिः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} शु॒नंनरः॒परि॑षदन्नु॒षास॑¦मा॒विःस्व॑रभवज्जा॒ते,अ॒ग्नौ || {11/16}{4.3.11}{4.1.3.11}{3.4.22.1}{51, 299, 3103} ऋ॒तेन॑¦अद्रि᳚म्¦वि¦अ॒स॒न्¦भि॒दन्तः॑¦सम्¦अङ्गि॑रसः¦न॒व॒न्त॒¦गोऽभिः॑ | |
ऋ॒तेन॑दे॒वीर॒मृता॒,अमृ॑क्ता॒,¦अर्णो᳚भि॒रापो॒मधु॑मद्भिरग्ने |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} वा॒जीनसर्गे᳚षुप्रस्तुभा॒नः¦प्रसद॒मित्स्रवि॑तवेदधन्युः || {12/16}{4.3.12}{4.1.3.12}{3.4.22.2}{52, 299, 3104} ऋ॒तेन॑¦दे॒वीः¦अ॒मृताः᳚¦अमृ॑क्ताः¦अर्णः॑ऽभिः¦आपः॑¦मधु॑मत्ऽभिः¦अ॒ग्ने॒ | |
माकस्य॑य॒क्षंसद॒मिद्धु॒रोगा॒¦मावे॒शस्य॑प्रमिन॒तोमापेः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} माभ्रातु॑रग्ने॒,अनृ॑जोरृ॒णंवे॒¦र्मासख्यु॒र्दक्षं᳚रि॒पोर्भु॑जेम || {13/16}{4.3.13}{4.1.3.13}{3.4.22.3}{53, 299, 3105} मा¦कस्य॑¦य॒क्षम्¦सद᳚म्¦इत्¦हु॒रः¦गाः॒¦मा¦वे॒शस्य॑¦प्र॒ऽमि॒न॒तः¦मा¦आ॒पेः | |
रक्षा᳚णो,अग्ने॒तव॒रक्ष॑णेभी¦रारक्षा॒णःसु॑मखप्रीणा॒नः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} प्रति॑ष्फुर॒विरु॑जवी॒ड्वंहो᳚¦ज॒हिरक्षो॒महि॑चिद्वावृधा॒नम् || {14/16}{4.3.14}{4.1.3.14}{3.4.22.4}{54, 299, 3106} रक्ष॑¦नः॒¦अ॒ग्ने॒¦तव॑¦रक्ष॑णेभिः¦र॒र॒क्षा॒णः¦सु॒ऽम॒ख॒¦प्री॒णा॒नः | |
ए॒भिर्भ॑वसु॒मना᳚,अग्ने,अ॒र्कै¦रि॒मान्त्स्पृ॑श॒मन्म॑भिःशूर॒वाजा॑न् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} उ॒तब्रह्मा᳚ण्यङ्गिरोजुषस्व॒¦संते᳚श॒स्तिर्दे॒ववा᳚ताजरेत || {15/16}{4.3.15}{4.1.3.15}{3.4.22.5}{55, 299, 3107} ए॒भिः¦भ॒व॒¦सु॒ऽमनाः᳚¦अ॒ग्ने॒¦अ॒र्कैः¦इ॒मान्¦स्पृ॒श॒¦मन्म॑ऽभिः¦शू॒र॒¦वाजा॑न् | |
ए॒ताविश्वा᳚वि॒दुषे॒तुभ्यं᳚वेधो¦नी॒थान्य॑ग्नेनि॒ण्यावचां᳚सि |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} नि॒वच॑नाक॒वये॒काव्या॒¦न्यशं᳚सिषंम॒तिभि॒र्विप्र॑उ॒क्थैः || {16/16}{4.3.16}{4.1.3.16}{3.4.22.6}{56, 299, 3108} ए॒ता¦विश्वा᳚¦वि॒दुषे᳚¦तुभ्य᳚म्¦वे॒धः॒¦नी॒थानि॑¦अ॒ग्ने॒¦नि॒ण्या¦वचां᳚सि | |
[4] कृणुष्वेति पंचदशर्चस्य सूक्तस्य गौतमोवामदेवोरक्षोहाग्निस्त्रिष्टुप् | |
कृ॒णु॒ष्वपाजः॒प्रसि॑तिं॒नपृ॒थ्वीं¦या॒हिराजे॒वाम॑वाँ॒,इभे᳚न |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} तृ॒ष्वीमनु॒प्रसि॑तिंद्रूणा॒नो¦ऽस्ता᳚सि॒विध्य॑र॒क्षस॒स्तपि॑ष्ठैः || {1/15}{4.4.1}{4.1.4.1}{3.4.23.1}{57, 300, 3109} कृ॒णु॒ष्व¦पाजः॑¦प्रऽसि॑तिम्¦न¦पृ॒थ्वीम्¦या॒हि¦राजा᳚ऽइव¦अम॑ऽवान्¦इभे᳚न | |
तव॑भ्र॒मास॑आशु॒याप॑त॒¦न्त्यनु॑स्पृशधृष॒ताशोशु॑चानः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} तपूं᳚ष्यग्नेजु॒ह्वा᳚पतं॒गा¦नसं᳚दितो॒विसृ॑ज॒विष्व॑गु॒ल्काः || {2/15}{4.4.2}{4.1.4.2}{3.4.23.2}{58, 300, 3110} तव॑¦भ्र॒मासः॑¦आ॒शु॒ऽया¦प॒त॒न्ति॒¦अनु॑¦स्पृ॒श॒¦धृ॒ष॒ता¦शोशु॑चानः | |
प्रति॒स्पशो॒विसृ॑ज॒तूर्णि॑तमो॒¦भवा᳚पा॒युर्वि॒शो,अ॒स्या,अद॑ब्धः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} योनो᳚दू॒रे,अ॒घशं᳚सो॒यो,अ¦न्त्यग्ने॒माकि॑ष्टे॒व्यथि॒राद॑धर्षीत् || {3/15}{4.4.3}{4.1.4.3}{3.4.23.3}{59, 300, 3111} प्रति॑¦स्पशः॑¦वि¦सृ॒ज॒¦तूर्णि॑ऽतमः¦भव॑¦पा॒युः¦वि॒शः¦अ॒स्याः¦अद॑ब्धः | |
उद॑ग्नेतिष्ठ॒प्रत्यात॑नुष्व॒¦न्य१॑(अ॒)मित्राँ᳚,ओषतात्तिग्महेते |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} योनो॒,अरा᳚तिंसमिधानच॒क्रे¦नी॒चातंध॑क्ष्यत॒सन्नशुष्क᳚म् || {4/15}{4.4.4}{4.1.4.4}{3.4.23.4}{60, 300, 3112} उत्¦अ॒ग्ने॒¦ति॒ष्ठ॒¦प्रति॑¦आ¦त॒नु॒ष्व॒¦नि¦अ॒मित्रा᳚न्¦ओ॒ष॒ता॒त्¦ति॒ग्म॒ऽहे॒ते॒ | |
ऊ॒र्ध्वोभ॑व॒प्रति॑वि॒ध्याध्य॒स्म¦दा॒विष्कृ॑णुष्व॒दैव्या᳚न्यग्ने |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} अव॑स्थि॒रात॑नुहियातु॒जूनां᳚¦जा॒मिमजा᳚मिं॒प्रमृ॑णीहि॒शत्रू॑न् || {5/15}{4.4.5}{4.1.4.5}{3.4.23.5}{61, 300, 3113} ऊ॒र्ध्वः¦भ॒व॒¦प्रति॑¦वि॒ध्य॒¦अधि॑¦अ॒स्मत्¦आ॒विः¦कृ॒णु॒ष्व॒¦दैव्या᳚नि¦अ॒ग्ने॒ | |
सते᳚जानातिसुम॒तिंय॑विष्ठ॒¦यईव॑ते॒ब्रह्म॑णेगा॒तुमैर॑त् |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} विश्वा᳚न्यस्मैसु॒दिना᳚निरा॒यो¦द्यु॒म्नान्य॒र्योविदुरो᳚,अ॒भिद्यौ᳚त् || {6/15}{4.4.6}{4.1.4.6}{3.4.24.1}{62, 300, 3114} सः¦ते॒¦जा॒ना॒ति॒¦सु॒ऽम॒तिम्¦य॒वि॒ष्ठ॒¦यः¦ईव॑ते¦ब्रह्म॑णे¦गा॒तुम्¦ऐर॑त् | |
सेद॑ग्ने,अस्तुसु॒भगः॑सु॒दानु॒¦र्यस्त्वा॒नित्ये᳚नह॒विषा॒यउ॒क्थैः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} पिप्री᳚षति॒स्वआयु॑षिदुरो॒णे¦विश्वेद॑स्मैसु॒दिना॒सास॑दि॒ष्टिः || {7/15}{4.4.7}{4.1.4.7}{3.4.24.2}{63, 300, 3115} सः¦इत्¦अ॒ग्ने॒¦अ॒स्तु॒¦सु॒ऽभगः॑¦सु॒ऽदानुः॑¦यः¦त्वा॒¦नित्ये᳚न¦ह॒विषा᳚¦यः¦उ॒क्थैः | |
अर्चा᳚मितेसुम॒तिंघोष्य॒र्वाक्¦संते᳚वा॒वाता᳚जरतामि॒यंगीः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} स्वश्वा᳚स्त्वासु॒रथा᳚मर्जयेमा॒¦ऽस्मेक्ष॒त्राणि॑धारये॒रनु॒द्यून् || {8/15}{4.4.8}{4.1.4.8}{3.4.24.3}{64, 300, 3116} अर्चा᳚मि¦ते॒¦सु॒ऽम॒तिम्¦घोषि॑¦अ॒र्वाक्¦सम्¦ते॒¦व॒वाता᳚¦ज॒र॒ता॒म्¦इ॒यम्¦गीः | |
इ॒हत्वा॒भूर्याच॑रे॒दुप॒त्मन्¦दोषा᳚वस्तर्दीदि॒वांस॒मनु॒द्यून् |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} क्रीळ᳚न्तस्त्वासु॒मन॑सःसपेमा॒¦ऽभिद्यु॒म्नात॑स्थि॒वांसो॒जना᳚नाम् || {9/15}{4.4.9}{4.1.4.9}{3.4.24.4}{65, 300, 3117} इ॒ह¦त्वा॒¦भूरि॑¦आ¦च॒रे॒त्¦उप॑¦त्मन्¦दोषा᳚ऽवस्तः¦दी॒दि॒ऽवांस᳚म्¦अनु॑¦द्यून् | |
यस्त्वा॒स्वश्वः॑सुहिर॒ण्यो,अ॑ग्न¦उप॒याति॒वसु॑मता॒रथे᳚न |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} तस्य॑त्रा॒ताभ॑वसि॒तस्य॒सखा॒¦यस्त॑आति॒थ्यमा᳚नु॒षग्जुजो᳚षत् || {10/15}{4.4.10}{4.1.4.10}{3.4.24.5}{66, 300, 3118} यः¦त्वा॒¦सु॒।आश्वः॑¦सु॒ऽहि॒र॒ण्यः¦अ॒ग्ने॒¦उ॒प॒ऽयाति॑¦वसु॑ऽमता¦रथे᳚न | |
म॒होरु॑जामिब॒न्धुता॒वचो᳚भि॒¦स्तन्मा᳚पि॒तुर्गोत॑मा॒दन्वि॑याय |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} त्वंनो᳚,अ॒स्यवच॑सश्चिकिद्धि॒¦होत᳚र्यविष्ठसुक्रतो॒दमू᳚नाः || {11/15}{4.4.11}{4.1.4.11}{3.4.25.1}{67, 300, 3119} म॒हः¦रु॒जा॒मि॒¦ब॒न्धुता᳚¦वचः॑ऽभिः¦तत्¦मा॒¦पि॒तुः¦गोत॑मात्¦अनु॑¦इ॒या॒य॒ | |
अस्व॑प्नजस्त॒रण॑यःसु॒शेवा॒,¦अत᳚न्द्रासोऽवृ॒का,अश्र॑मिष्ठाः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} तेपा॒यवः॑स॒ध्र्य᳚ञ्चोनि॒षद्या¦ऽग्ने॒तव॑नःपान्त्वमूर || {12/15}{4.4.12}{4.1.4.12}{3.4.25.2}{68, 300, 3120} अस्व॑प्नऽजः¦त॒रण॑यः¦सु॒ऽशेवाः᳚¦अत᳚न्द्रासः¦अ॒वृ॒काः¦अश्र॑मिष्ठाः | |
येपा॒यवो᳚मामते॒यंते᳚,अग्ने॒¦पश्य᳚न्तो,अ॒न्धंदु॑रि॒तादर॑क्षन् |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} र॒रक्ष॒तान्त्सु॒कृतो᳚वि॒श्ववे᳚दा॒¦दिप्स᳚न्त॒इद्रि॒पवो॒नाह॑देभुः || {13/15}{4.4.13}{4.1.4.13}{3.4.25.3}{69, 300, 3121} ये¦पा॒यवः॑¦मा॒म॒ते॒यम्¦ते॒¦अ॒ग्ने॒¦पश्य᳚न्तः¦अ॒न्धम्¦दुः॒ऽइ॒तात्¦अर॑क्षन् | |
त्वया᳚व॒यंस॑ध॒न्य१॑(अ॒)स्त्वोता॒¦स्तव॒प्रणी᳚त्यश्याम॒वाजा॑न् |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} उ॒भाशंसा᳚सूदयसत्यताते¦ऽनुष्ठु॒याकृ॑णुह्यह्रयाण || {14/15}{4.4.14}{4.1.4.14}{3.4.25.4}{70, 300, 3122} त्वया᳚¦व॒यम्¦स॒ऽध॒न्यः॑¦त्वाऽऊ᳚ताः¦तव॑¦प्रऽनी᳚ती¦अ॒श्या॒म॒¦वाजा॑न् | |
अ॒याते᳚,अग्नेस॒मिधा᳚विधेम॒¦प्रति॒स्तोमं᳚श॒स्यमा᳚नंगृभाय |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} दहा॒शसो᳚र॒क्षसः॑पा॒ह्य१॑(अ॒)स्मान्¦द्रु॒होनि॒दोमि॑त्रमहो,अव॒द्यात् || {15/15}{4.4.15}{4.1.4.15}{3.4.25.5}{71, 300, 3123} अ॒या¦ते॒¦अ॒ग्ने॒¦स॒म्ऽइधा᳚¦वि॒धे॒म॒¦प्रति॑¦स्तोम᳚म्¦श॒स्यमा᳚नम्¦गृ॒भा॒य॒ | |
[5] वैश्वानरायेतिपंचदशर्चस्य सूक्तस्य गौतमोवामदेवोवैश्वानरोग्निस्त्रिष्टुप् | |
वै॒श्वा॒न॒राय॑मी॒ळ्हुषे᳚स॒जोषाः᳚¦क॒थादा᳚शेमा॒ग्नये᳚बृ॒हद्भाः |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} अनू᳚नेनबृह॒ताव॒क्षथे॒नो¦प॑स्तभायदुप॒मिन्नरोधः॑ || {1/15}{4.5.1}{4.1.5.1}{3.5.1.1}{72, 301, 3124} वै॒श्वा॒न॒राय॑¦मी॒ळ्हुषे᳚¦स॒ऽजोषाः᳚¦क॒था¦दा॒शे॒म॒¦अ॒ग्नये᳚¦बृ॒हत्¦भाः | |
मानि᳚न्दत॒यइ॒मांमह्यं᳚रा॒तिं¦दे॒वोद॒दौमर्त्या᳚यस्व॒धावा॑न् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} पाका᳚य॒गृत्सो᳚,अ॒मृतो॒विचे᳚ता¦वैश्वान॒रोनृत॑मोय॒ह्वो,अ॒ग्निः || {2/15}{4.5.2}{4.1.5.2}{3.5.1.2}{73, 301, 3125} मा¦नि॒न्द॒त॒¦यः¦इ॒माम्¦मह्य᳚म्¦रा॒तिम्¦दे॒वः¦द॒दौ¦मर्या᳚य¦स्व॒धाऽवा॑न् | |
साम॑द्वि॒बर्हा॒महि॑ति॒ग्मभृ॑ष्टिः¦स॒हस्र॑रेतावृष॒भस्तुवि॑ष्मान् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} प॒दंनगोरप॑गूळ्हंविवि॒द्वा¦न॒ग्निर्मह्यं॒प्रेदु॑वोचन्मनी॒षाम् || {3/15}{4.5.3}{4.1.5.3}{3.5.1.3}{74, 301, 3126} साम॑¦द्वि॒ऽबर्हाः᳚¦महि॑¦ति॒ग्मऽभृ॑ष्टिः¦स॒हस्र॑ऽरेताः¦वृ॒ष॒भः¦तुवि॑ष्मान् | |
प्रताँ,अ॒ग्निर्ब॑भसत्ति॒ग्मज᳚म्भ॒¦स्तपि॑ष्ठेनशो॒चिषा॒यःसु॒राधाः᳚ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} प्रयेमि॒नन्ति॒वरु॑णस्य॒धाम॑¦प्रि॒यामि॒त्रस्य॒चेत॑तोध्रु॒वाणि॑ || {4/15}{4.5.4}{4.1.5.4}{3.5.1.4}{75, 301, 3127} प्र¦तान्¦अ॒ग्निः¦ब॒भ॒स॒त्¦ति॒ग्मऽज᳚म्भः¦तपि॑ष्ठेन¦शो॒चिषा᳚¦यः¦सु॒ऽराधाः᳚ | |
अ॒भ्रा॒तरो॒नयोष॑णो॒व्यन्तः॑¦पति॒रिपो॒नजन॑योदु॒रेवाः᳚ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} पा॒पासः॒सन्तो᳚,अनृ॒ता,अ॑स॒त्या¦,इ॒दंप॒दम॑जनतागभी॒रम् || {5/15}{4.5.5}{4.1.5.5}{3.5.1.5}{76, 301, 3128} अ॒भ्रा॒तरः॑¦न¦योष॑णः¦व्यन्तः॑¦प॒ति॒ऽरिपः॑¦न¦जन॑यः¦दुः॒ऽएवाः᳚ | |
इ॒दंमे᳚,अग्ने॒किय॑तेपाव॒का¦ऽमि॑नतेगु॒रुंभा॒रंनमन्म॑ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} बृ॒हद्द॑धाथधृष॒ताग॑भी॒रं¦य॒ह्वंपृ॒ष्ठंप्रय॑सास॒प्तधा᳚तु || {6/15}{4.5.6}{4.1.5.6}{3.5.2.1}{77, 301, 3129} इ॒दम्¦मे॒¦अ॒ग्ने॒¦किय॑ते¦पा॒व॒क॒¦अमि॑नते¦गु॒रुम्¦भा॒रम्¦न¦मन्म॑ | |
तमिन्न्वे॒३॑(ए॒)वस॑म॒नास॑मा॒न¦म॒भिक्रत्वा᳚पुन॒तीधी॒तिर॑श्याः |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} स॒सस्य॒चर्म॒न्नधि॒चारु॒पृश्ने॒¦रग्रे᳚रु॒पआरु॑पितं॒जबा᳚रु || {7/15}{4.5.7}{4.1.5.7}{3.5.2.2}{78, 301, 3130} तम्¦इत्¦नु¦ए॒व¦स॒म॒ना¦स॒मा॒नम्¦अ॒भि¦क्रत्वा᳚¦पु॒न॒ती¦धी॒तिः¦अ॒श्याः॒ | |
प्र॒वाच्यं॒वच॑सः॒किंमे᳚,अ॒स्य¦गुहा᳚हि॒तमुप॑नि॒णिग्व॑दन्ति |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} यदु॒स्रिया᳚णा॒मप॒वारि॑व॒व्रन्¦पाति॑प्रि॒यंरु॒पो,अग्रं᳚प॒दंवेः || {8/15}{4.5.8}{4.1.5.8}{3.5.2.3}{79, 301, 3131} प्र॒ऽवाच्य᳚म्¦वच॑सः¦किम्¦मे॒¦अ॒स्य¦गुहा᳚¦हि॒तम्¦उप॑¦नि॒णिक्¦व॒द॒न्ति॒ | |
इ॒दमु॒त्यन्महि॑म॒हामनी᳚कं॒¦यदु॒स्रिया॒सच॑तपू॒र्व्यंगौः |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} ऋ॒तस्य॑प॒दे,अधि॒दीद्या᳚नं॒¦गुहा᳚रघु॒ष्यद्र॑घु॒यद्वि॑वेद || {9/15}{4.5.9}{4.1.5.9}{3.5.2.4}{80, 301, 3132} इ॒दम्¦ऊँ॒ इति॑¦त्यत्¦महि॑¦म॒हाम्¦अनी᳚कम्¦यत्¦उ॒स्रिया᳚¦सच॑त¦पू॒र्व्यम्¦गौः | |
अध॑द्युता॒नःपि॒त्रोःसचा॒सा¦ऽम॑नुत॒गुह्यं॒चारु॒पृश्नेः᳚ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} मा॒तुष्प॒देप॑र॒मे,अन्ति॒षद्गो¦र्वृष्णः॑शो॒चिषः॒प्रय॑तस्यजि॒ह्वा || {10/15}{4.5.10}{4.1.5.10}{3.5.2.5}{81, 301, 3133} अध॑¦द्यु॒ता॒नः¦पि॒त्रोः¦सचा᳚¦आ॒सा¦अम॑नुत¦गुह्य᳚म्¦चारु॑¦पृश्नेः᳚ | |
ऋ॒तंवो᳚चे॒नम॑सापृ॒च्छ्यमा᳚न॒¦स्तवा॒शसा᳚जातवेदो॒यदी॒दम् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} त्वम॒स्यक्ष॑यसि॒यद्ध॒विश्वं᳚¦दि॒वियदु॒द्रवि॑णं॒यत्पृ॑थि॒व्याम् || {11/15}{4.5.11}{4.1.5.11}{3.5.3.1}{82, 301, 3134} ऋ॒तम्¦वो॒चे॒¦नम॑सा¦पृ॒च्छ्यमा᳚नः¦तव॑¦आ॒ऽशसा᳚¦जा॒त॒ऽवे॒दः॒¦यदि॑¦इ॒दम् | |
किंनो᳚,अ॒स्यद्रवि॑णं॒कद्ध॒रत्नं॒¦विनो᳚वोचोजातवेदश्चिकि॒त्वान् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} गुहाध्व॑नःपर॒मंयन्नो᳚,अ॒स्य¦रेकु॑प॒दंननि॑दा॒ना,अग᳚न्म || {12/15}{4.5.12}{4.1.5.12}{3.5.3.2}{83, 301, 3135} किम्¦नः॒¦अ॒स्य¦द्रवि॑णम्¦कत्¦ह॒¦रत्न᳚म्¦वि¦नः॒¦वो॒चः॒¦जा॒त॒ऽवे॒दः॒¦चि॒कि॒त्वान् | |
काम॒र्यादा᳚व॒युना॒कद्ध॑वा॒म¦मच्छा᳚गमेमर॒घवो॒नवाज᳚म् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} क॒दानो᳚दे॒वीर॒मृत॑स्य॒पत्नीः॒¦सूरो॒वर्णे᳚नततनन्नु॒षासः॑ || {13/15}{4.5.13}{4.1.5.13}{3.5.3.3}{84, 301, 3136} का¦म॒र्यादा᳚¦व॒युना᳚¦कत्¦ह॒¦वा॒मम्¦अच्छ॑¦ग॒मे॒म॒¦र॒घवः॑¦न¦वाज᳚म् | |
अ॒नि॒रेण॒वच॑साफ॒ल्ग्वे᳚न¦प्र॒तीत्ये᳚नकृ॒धुना᳚तृ॒पासः॑ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} अधा॒ते,अ॑ग्ने॒किमि॒हाव॑द¦न्त्यनायु॒धास॒आस॑तासचन्ताम् || {14/15}{4.5.14}{4.1.5.14}{3.5.3.4}{85, 301, 3137} अ॒नि॒रेण॑¦वच॑सा¦फ॒ल्ग्वे᳚न¦प्र॒तीत्ये᳚न¦कृ॒धुना᳚¦अ॒तृ॒पासः॑ | |
अ॒स्यश्रि॒येस॑मिधा॒नस्य॒वृष्णो॒¦वसो॒रनी᳚कं॒दम॒आरु॑रोच |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} रुश॒द्वसा᳚नःसु॒दृशी᳚करूपः,¦क्षि॒तिर्नरा॒यापु॑रु॒वारो᳚,अद्यौत् || {15/15}{4.5.15}{4.1.5.15}{3.5.3.5}{86, 301, 3138} अ॒स्य¦श्रि॒ये¦स॒म्ऽइ॒धा॒नस्य॑¦वृष्णः॑¦वसोः᳚¦अनी᳚कम्¦दमे᳚¦आ¦रु॒रो॒च॒ | |
[6] ऊर्ध्वऊषुणइत्येकादशर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् | |
ऊ॒र्ध्वऊ॒षुणो᳚,अध्वरस्यहोत॒¦रग्ने॒तिष्ठ॑दे॒वता᳚ता॒यजी᳚यान् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} त्वंहिविश्व॑म॒भ्यसि॒मन्म॒¦प्रवे॒धस॑श्चित्तिरसिमनी॒षाम् || {1/11}{4.6.1}{4.1.6.1}{3.5.4.1}{87, 302, 3139} ऊ॒र्ध्वः¦ऊँ॒ इति॑¦सु¦नः॒¦अ॒ध्व॒र॒स्य॒¦हो॒तः॒¦अग्ने᳚¦तिष्ठ॑¦दे॒वऽता᳚ता¦यजी᳚यान् | |
अमू᳚रो॒होता॒न्य॑सादिवि॒क्ष्व१॑(अ॒)¦ग्निर्म॒न्द्रोवि॒दथे᳚षु॒प्रचे᳚ताः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} ऊ॒र्ध्वंभा॒नुंस॑वि॒तेवा᳚श्रे॒¦न्मेते᳚वधू॒मंस्त॑भाय॒दुप॒द्याम् || {2/11}{4.6.2}{4.1.6.2}{3.5.4.2}{88, 302, 3140} अमू᳚रः¦होता᳚¦नि¦अ॒सा॒दि॒¦वि॒क्षु¦अ॒ग्निः¦म॒न्द्रः¦वि॒दथे᳚षु¦प्रऽचे᳚ताः | |
य॒तासु॑जू॒र्णीरा॒तिनी᳚घृ॒ताची᳚¦प्रदक्षि॒णिद्दे॒वता᳚तिमुरा॒णः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} उदु॒स्वरु᳚र्नव॒जानाक्रः¦प॒श्वो,अ॑नक्ति॒सुधि॑तःसु॒मेकः॑ || {3/11}{4.6.3}{4.1.6.3}{3.5.4.3}{89, 302, 3141} य॒ता¦सु॒ऽजू॒र्णिः¦रा॒तिनी᳚¦घृ॒ताची᳚¦प्र॒ऽद॒क्षि॒णित्¦दे॒वऽता᳚तिम्¦उ॒रा॒णः | |
स्ती॒र्णेब॒र्हिषि॑समिधा॒ने,अ॒ग्ना¦,ऊ॒र्ध्वो,अ॑ध्व॒र्युर्जु॑जुषा॒णो,अ॑स्थात् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} पर्य॒ग्निःप॑शु॒पानहोता᳚¦त्रिवि॒ष्ट्ये᳚तिप्र॒दिव॑उरा॒णः || {4/11}{4.6.4}{4.1.6.4}{3.5.4.4}{90, 302, 3142} स्ती॒र्णे¦ब॒र्हिषि॑¦स॒म्ऽइ॒धा॒ने¦अ॒ग्नौ¦ऊ॒र्ध्वः¦अ॒ध्व॒र्युः¦जु॒जु॒षा॒णः¦अ॒स्था॒त् | |
परि॒त्मना᳚मि॒तद्रु॑रेति॒होता॒¦ऽग्निर्म॒न्द्रोमधु॑वचा,ऋ॒तावा᳚ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} द्रव᳚न्त्यस्यवा॒जिनो॒नशोका॒¦भय᳚न्ते॒विश्वा॒भुव॑ना॒यदभ्रा᳚ट् || {5/11}{4.6.5}{4.1.6.5}{3.5.4.5}{91, 302, 3143} परि॑¦त्मना᳚¦मि॒तऽद्रुः॑¦ए॒ति॒¦होता᳚¦अ॒ग्निः¦म॒न्द्रः¦मधु॑ऽवचाः¦ऋ॒तऽवा᳚ | |
भ॒द्राते᳚,अग्नेस्वनीकसं॒दृग्¦घो॒रस्य॑स॒तोविषु॑णस्य॒चारुः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} नयत्ते᳚शो॒चिस्तम॑सा॒वर᳚न्त॒¦नध्व॒स्मान॑स्त॒न्वी॒३॑(ई॒)रेप॒आधुः॑ || {6/11}{4.6.6}{4.1.6.6}{3.5.5.1}{92, 302, 3144} भ॒द्रा¦ते॒¦अ॒ग्ने॒¦सु॒।आ॒नी॒क॒¦स॒म्ऽदृक्¦घो॒रस्य॑¦स॒तः¦विषु॑णस्य¦चारुः॑ | |
नयस्य॒सातु॒र्जनि॑तो॒रवा᳚रि॒¦नमा॒तरा᳚पि॒तरा॒नूचि॑दि॒ष्टौ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अधा᳚मि॒त्रोनसुधि॑तःपाव॒को॒३॑(ओ॒)¦ऽग्निर्दी᳚दाय॒मानु॑षीषुवि॒क्षु || {7/11}{4.6.7}{4.1.6.7}{3.5.5.2}{93, 302, 3145} न¦यस्य॑¦सातुः॑¦जनि॑तोः¦अवा᳚रि¦न¦मा॒तरा᳚पि॒तरा᳚¦नु¦चि॒त्¦इ॒ष्टौ | |
द्विर्यंपञ्च॒जीज॑नन्त्सं॒वसा᳚नाः॒¦स्वसा᳚रो,अ॒ग्निंमानु॑षीषुवि॒क्षु |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} उ॒ष॒र्बुध॑मथ॒र्यो॒३॑(ओ॒)नदन्तं᳚¦शु॒क्रंस्वासं᳚पर॒शुंनति॒ग्मम् || {8/11}{4.6.8}{4.1.6.8}{3.5.5.3}{94, 302, 3146} द्विः¦यम्¦पंच॑¦जीज॑नन्¦स॒म्ऽवसा᳚नाः¦स्वसा᳚रः¦अ॒ग्निम्¦मानु॑षीषु¦वि॒क्षु | |
तव॒त्ये,अ॑ग्नेह॒रितो᳚घृत॒स्ना¦रोहि॑तासऋ॒ज्वञ्चः॒स्वञ्चः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अ॒रु॒षासो॒वृष॑णऋजुमु॒ष्का¦,आदे॒वता᳚तिमह्वन्तद॒स्माः || {9/11}{4.6.9}{4.1.6.9}{3.5.5.4}{95, 302, 3147} तव॑¦त्ये¦अ॒ग्ने॒¦ह॒रितः॑¦घृ॒त॒ऽस्नाः¦रोहि॑तासः¦ऋ॒जु॒।आंचः॑¦सु॒।आंचः॑ | |
येह॒त्येते॒सह॑माना,अ॒यास॑¦स्त्वे॒षासो᳚,अग्ने,अ॒र्चय॒श्चर᳚न्ति |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} श्ये॒नासो॒नदु॑वस॒नासो॒,अर्थं᳚¦तुविष्व॒णसो॒मारु॑तं॒नशर्धः॑ || {10/11}{4.6.10}{4.1.6.10}{3.5.5.5}{96, 302, 3148} ये¦ह॒¦त्ये¦ते॒¦सह॑मानाः¦अ॒यासः॑¦त्वे॒षासः॑¦अ॒ग्ने॒¦अ॒र्चयः॑¦चर᳚न्ति | |
अका᳚रि॒ब्रह्म॑समिधान॒तुभ्यं॒¦शंसा᳚त्यु॒क्थंयज॑ते॒व्यू᳚धाः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} होता᳚रम॒ग्निंमनु॑षो॒निषे᳚दु¦र्नम॒स्यन्त॑उ॒शिजः॒शंस॑मा॒योः || {11/11}{4.6.11}{4.1.6.11}{3.5.5.6}{97, 302, 3149} अका᳚रि¦ब्रह्म॑¦स॒म्ऽइ॒धा॒न॒¦तुभ्य᳚म्¦शंसा᳚ति¦उ॒क्थम्¦यज॑ते¦वि¦ऊँ॒ इति॑¦धाः॒ | |
[7] अयमिहेत्येकादशर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् आद्याजगतीद्वितीयाद्यापंचानुष्टुभः | |
अ॒यमि॒हप्र॑थ॒मोधा᳚यिधा॒तृभि॒¦र्होता॒यजि॑ष्ठो,अध्व॒रेष्वीड्यः॑ |{गौतमो वामदेवः | अग्निः | जगती} यमप्न॑वानो॒भृग॑वोविरुरु॒चु¦र्वने᳚षुचि॒त्रंवि॒भ्वं᳚वि॒शेवि॑शे || {1/11}{4.7.1}{4.1.7.1}{3.5.6.1}{98, 303, 3150} अ॒यम्¦इ॒ह¦प्र॒थ॒मः¦धा॒यि॒¦धा॒तृऽभिः॑¦होता᳚¦यजि॑ष्ठः¦अ॒ध्व॒रेषु॑¦ईड्यः॑ | |
अग्ने᳚क॒दात॑आनु॒षग्¦भुव॑द्दे॒वस्य॒चेत॑नम् |{गौतमो वामदेवः | अग्निः | अनुष्टुप्} अधा॒हित्वा᳚जगृभ्रि॒रे¦मर्ता᳚सोवि॒क्ष्वीड्य᳚म् || {2/11}{4.7.2}{4.1.7.2}{3.5.6.2}{99, 303, 3151} अग्ने᳚¦क॒दा¦ते॒¦आ॒नु॒षक्¦भुव॑त्¦दे॒वस्य॑¦चेत॑नम् | अध॑¦हि¦त्वा॒¦ज॒गृ॒भ्रि॒रे¦मर्ता᳚सः¦वि॒क्षु¦ईड्य᳚म् || |
ऋ॒तावा᳚नं॒विचे᳚तसं॒¦पश्य᳚न्तो॒द्यामि॑व॒स्तृभिः॑ |{गौतमो वामदेवः | अग्निः | अनुष्टुप्} विश्वे᳚षामध्व॒राणां᳚¦हस्क॒र्तारं॒दमे᳚दमे || {3/11}{4.7.3}{4.1.7.3}{3.5.6.3}{100, 303, 3152} ऋ॒तऽवा᳚नम्¦विऽचे᳚तसम्¦पश्य᳚न्तः¦द्याम्ऽइ᳚व¦स्तृऽभिः॑ | विश्वे᳚षाम्¦अ॒ध्व॒राणा᳚म्¦ह॒स्क॒र्तार᳚म्¦दमे᳚ऽदमे || |
आ॒शुंदू॒तंवि॒वस्व॑तो॒¦विश्वा॒यश्च॑र्ष॒णीर॒भि |{गौतमो वामदेवः | अग्निः | अनुष्टुप्} आज॑भ्रुःके॒तुमा॒यवो॒¦भृग॑वाणंवि॒शेवि॑शे || {4/11}{4.7.4}{4.1.7.4}{3.5.6.4}{101, 303, 3153} आ॒शुम्¦दू॒तम्¦वि॒वस्व॑तः¦विश्वाः᳚¦यः¦च॒र्ष॒णीः¦अ॒भि | आ¦ज॒भ्रुः॒¦के॒तुम्¦आ॒यवः॑¦भृग॑वाणम्¦वि॒शेऽवि॑शे || |
तमीं॒होता᳚रमानु॒षक्¦चि॑कि॒त्वांसं॒निषे᳚दिरे |{गौतमो वामदेवः | अग्निः | अनुष्टुप्} र॒ण्वंपा᳚व॒कशो᳚चिषं॒¦यजि॑ष्ठंस॒प्तधाम॑भिः || {5/11}{4.7.5}{4.1.7.5}{3.5.6.5}{102, 303, 3154} तम्¦ई॒म्¦होता᳚रम्¦आ॒नु॒षक्¦चि॒कि॒त्वांस᳚म्¦नि¦से॒दि॒रे॒ | र॒ण्वम्¦पा॒व॒कऽशो᳚चिषम्¦यजि॑ष्ठम्¦स॒प्त¦धाम॑ऽभिः || |
तंशश्व॑तीषुमा॒तृषु॒¦वन॒आवी॒तमश्रि॑तम् |{गौतमो वामदेवः | अग्निः | अनुष्टुप्} चि॒त्रंसन्तं॒गुहा᳚हि॒तं¦सु॒वेदं᳚कूचिद॒र्थिन᳚म् || {6/11}{4.7.6}{4.1.7.6}{3.5.7.1}{103, 303, 3155} तम्¦शश्व॑तीषु¦मा॒तृषु॑¦वने᳚¦आ¦वी॒तम्¦अश्रि॑तम् | चि॒त्रम्¦सन्त᳚म्¦गुहा᳚¦हि॒तम्¦सु॒ऽवेद᳚म्¦कू॒चि॒त्।आ॒र्थिन᳚म् || |
स॒सस्य॒यद्वियु॑ता॒सस्मि॒न्नूध᳚¦न्नृ॒तस्य॒धाम᳚न्र॒णय᳚न्तदे॒वाः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} म॒हाँ,अ॒ग्निर्नम॑सारा॒तह᳚व्यो॒¦वेर॑ध्व॒राय॒सद॒मिदृ॒तावा᳚ || {7/11}{4.7.7}{4.1.7.7}{3.5.7.2}{104, 303, 3156} स॒सस्य॑¦यत्¦विऽयु॑ता¦सस्मि॑न्¦ऊध॑न्¦ऋ॒तस्य॑¦धाम॑न्¦र॒णय᳚न्त¦दे॒वाः | |
वेर॑ध्व॒रस्य॑दू॒त्या᳚निवि॒द्वा¦नु॒भे,अ॒न्तारोद॑सीसंचिकि॒त्वान् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} दू॒तई᳚यसेप्र॒दिव॑उरा॒णो¦वि॒दुष्ट॑रोदि॒वआ॒रोध॑नानि || {8/11}{4.7.8}{4.1.7.8}{3.5.7.3}{105, 303, 3157} वेः¦अ॒ध्व॒रस्य॑¦दू॒त्या᳚नि¦वि॒द्वान्¦उ॒भे इति॑¦अ॒न्तरिति॑¦रोद॑सी॒ इति॑¦स॒म्ऽचि॒कि॒त्वान् | |
कृ॒ष्णंत॒एम॒रुश॑तःपु॒रोभा¦श्च॑रि॒ष्ण्व१॑(अ॒)र्चिर्वपु॑षा॒मिदेक᳚म् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} यदप्र॑वीता॒दध॑तेह॒गर्भं᳚¦स॒द्यश्चि॑ज्जा॒तोभव॒सीदु॑दू॒तः || {9/11}{4.7.9}{4.1.7.9}{3.5.7.4}{106, 303, 3158} कृ॒ष्णम्¦ते॒¦एम॑¦रुश॑तः¦पु॒रः¦भाः¦च॒रि॒ष्णु¦अ॒र्चिः¦वपु॑षाम्¦इत्¦एक᳚म् | |
स॒द्योजा॒तस्य॒ददृ॑शान॒मोजो॒¦यद॑स्य॒वातो᳚,अनु॒वाति॑शो॒चिः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} वृ॒णक्ति॑ति॒ग्माम॑त॒सेषु॑जि॒ह्वां¦स्थि॒राचि॒दन्ना᳚दयते॒विजम्भैः᳚ || {10/11}{4.7.10}{4.1.7.10}{3.5.7.5}{107, 303, 3159} स॒द्यः¦जा॒तस्य॑¦ददृ॑शानम्¦ओजः॑¦यत्¦अ॒स्य॒¦वातः॑¦अ॒नु॒ऽवाति॑¦शो॒चिः | |
तृ॒षुयदन्ना᳚तृ॒षुणा᳚व॒वक्ष॑¦तृ॒षुंदू॒तंकृ॑णुतेय॒ह्वो,अ॒ग्निः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} वात॑स्यमे॒ळिंस॑चतेनि॒जूर्व᳚¦न्ना॒शुंनवा᳚जयतेहि॒न्वे,अर्वा᳚ || {11/11}{4.7.11}{4.1.7.11}{3.5.7.6}{108, 303, 3160} तृ॒षु¦यत्¦अन्ना᳚¦तृ॒षुणा᳚¦व॒वक्ष॑¦तृ॒षुम्¦दू॒तम्¦कृ॒णु॒ते॒¦य॒ह्वः¦अ॒ग्निः | |
[8] दूतंवइत्यष्टर्चस्य सूक्तस्य गौतमोवामदेवोग्निर्गायत्री | |
दू॒तंवो᳚वि॒श्ववे᳚दसं¦हव्य॒वाह॒मम॑र्त्यम् |{गौतमो वामदेवः | अग्निः | गायत्री} यजि॑ष्ठमृञ्जसेगि॒रा || {1/8}{4.8.1}{4.1.8.1}{3.5.8.1}{109, 304, 3161} दू॒तम्¦वः॒¦वि॒श्वऽवे᳚दसम्¦ह॒व्य॒ऽवाह᳚म्¦अम॑र्त्यम् | यजि॑ष्ठम्¦ऋं॒ज॒से॒¦गि॒रा || |
सहिवेदा॒वसु॑धितिं¦म॒हाँ,आ॒रोध॑नंदि॒वः |{गौतमो वामदेवः | अग्निः | गायत्री} सदे॒वाँ,एहव॑क्षति || {2/8}{4.8.2}{4.1.8.2}{3.5.8.2}{110, 304, 3162} सः¦हि¦वेद॑¦वसु॑ऽधितिम्¦म॒हान्¦आ॒ऽरोध॑नम्¦दि॒वः | सः¦दे॒वान्¦आ¦इ॒ह¦व॒क्ष॒ति॒ || |
सवे᳚ददे॒वआ॒नमं᳚¦दे॒वाँ,ऋ॑ताय॒तेदमे᳚ |{गौतमो वामदेवः | अग्निः | गायत्री} दाति॑प्रि॒याणि॑चि॒द्वसु॑ || {3/8}{4.8.3}{4.1.8.3}{3.5.8.3}{111, 304, 3163} सः¦वे॒द॒¦दे॒वः¦आ॒ऽनम᳚म्¦दे॒वान्¦ऋ॒त॒ऽय॒ते¦दमे᳚ | दाति॑¦प्रि॒याणि॑¦चि॒त्¦वसु॑ || |
सहोता॒सेदु॑दू॒त्यं᳚¦चिकि॒त्वाँ,अ॒न्तरी᳚यते |{गौतमो वामदेवः | अग्निः | गायत्री} वि॒द्वाँ,आ॒रोध॑नंदि॒वः || {4/8}{4.8.4}{4.1.8.4}{3.5.8.4}{112, 304, 3164} सः¦होता᳚¦सः¦इत्¦ऊँ॒ इति॑¦दू॒त्य᳚म्¦चि॒कि॒त्वान्¦अ॒न्तः¦ई॒य॒ते॒ | वि॒द्वान्¦आ॒ऽरोध॑नम्¦दि॒वः || |
तेस्या᳚म॒ये,अ॒ग्नये᳚¦ददा॒शुर्ह॒व्यदा᳚तिभिः |{गौतमो वामदेवः | अग्निः | गायत्री} यईं॒पुष्य᳚न्तइन्ध॒ते || {5/8}{4.8.5}{4.1.8.5}{3.5.8.5}{113, 304, 3165} ते¦स्या॒म॒¦ये¦अ॒ग्नये᳚¦द॒दा॒शुः¦ह॒व्यदा᳚तिऽभिः | ये¦ई॒म्¦पुष्य᳚न्तः¦इ॒न्ध॒ते || |
तेरा॒यातेसु॒वीर्यैः᳚¦सस॒वांसो॒विशृ᳚ण्विरे |{गौतमो वामदेवः | अग्निः | गायत्री} ये,अ॒ग्नाद॑धि॒रेदुवः॑ || {6/8}{4.8.6}{4.1.8.6}{3.5.8.6}{114, 304, 3166} ते¦रा॒या¦ते¦सु॒ऽवीर्यैः᳚¦स॒स॒ऽवांसः॑¦वि¦शृ॒ण्वि॒रे॒ | ये¦अ॒ग्ना¦द॒धि॒रे¦दुवः॑ || |
अ॒स्मेरायो᳚दि॒वेदि॑वे॒¦संच॑रन्तुपुरु॒स्पृहः॑ |{गौतमो वामदेवः | अग्निः | गायत्री} अ॒स्मेवाजा᳚सईरताम् || {7/8}{4.8.7}{4.1.8.7}{3.5.8.7}{115, 304, 3167} अ॒स्मे इति॑¦रायः॑¦दि॒वेऽदि॑वे¦सम्¦च॒र॒न्तु॒¦पु॒रु॒ऽस्पृहः॑ | अ॒स्मे इति॑¦वाजा᳚सः¦ई॒र॒ता॒म् || |
सविप्र॑श्चर्षणी॒नां¦शव॑सा॒मानु॑षाणाम् |{गौतमो वामदेवः | अग्निः | गायत्री} अति॑क्षि॒प्रेव॑विध्यति || {8/8}{4.8.8}{4.1.8.8}{3.5.8.8}{116, 304, 3168} सः¦विप्रः॑¦च॒र्ष॒णी॒नाम्¦शव॑सा¦मानु॑षाणाम् | अति॑¦क्षि॒प्राऽइ᳚व¦वि॒ध्य॒ति॒ || |
[9] अग्नेमृळेत्यष्टर्चस्य सूक्तस्य गौतमोवामदेवोग्निर्गायत्री | |
अग्ने᳚मृ॒ळम॒हाँ,अ॑सि॒¦यई॒मादे᳚व॒युंजन᳚म् |{गौतमो वामदेवः | अग्निः | गायत्री} इ॒येथ॑ब॒र्हिरा॒सद᳚म् || {1/8}{4.9.1}{4.1.9.1}{3.5.9.1}{117, 305, 3169} अग्ने᳚¦मृ॒ळ¦म॒हान्¦अ॒सि॒¦यः¦ई॒म्¦आ¦दे॒व॒ऽयुम्¦जन᳚म् | इ॒येथ॑¦ब॒र्हिः¦आ॒ऽसद᳚म् || |
समानु॑षीषुदू॒ळभो᳚¦वि॒क्षुप्रा॒वीरम॑र्त्यः |{गौतमो वामदेवः | अग्निः | गायत्री} दू॒तोविश्वे᳚षांभुवत् || {2/8}{4.9.2}{4.1.9.2}{3.5.9.2}{118, 305, 3170} सः¦मानु॑षीषु¦दुः॒ऽदभः॑¦वि॒क्षु¦प्र॒।आ॒वीः¦अम॑र्त्यः | दू॒तः¦विश्वे᳚षाम्¦भु॒व॒त् || |
ससद्म॒परि॑णीयते॒¦होता᳚म॒न्द्रोदिवि॑ष्टिषु |{गौतमो वामदेवः | अग्निः | गायत्री} उ॒तपोता॒निषी᳚दति || {3/8}{4.9.3}{4.1.9.3}{3.5.9.3}{119, 305, 3171} सः¦सद्म॑¦परि॑¦नी॒य॒ते॒¦होता᳚¦म॒न्द्रः¦दिवि॑ष्टिषु | उ॒त¦पोता᳚¦नि¦सी॒द॒ति॒ || |
उ॒तग्ना,अ॒ग्निर॑ध्व॒र¦उ॒तोगृ॒हप॑ति॒र्दमे᳚ |{गौतमो वामदेवः | अग्निः | गायत्री} उ॒तब्र॒ह्मानिषी᳚दति || {4/8}{4.9.4}{4.1.9.4}{3.5.9.4}{120, 305, 3172} उ॒त¦ग्नाः¦अ॒ग्निः¦अ॒ध्व॒रे¦उ॒तो इति॑¦गृ॒हऽप॑तिः¦दमे᳚ | उ॒त¦ब्र॒ह्मा¦नि¦सी॒द॒ति॒ || |
वेषि॒ह्य॑ध्वरीय॒ता¦मु॑पव॒क्ताजना᳚नाम् |{गौतमो वामदेवः | अग्निः | गायत्री} ह॒व्याच॒मानु॑षाणाम् || {5/8}{4.9.5}{4.1.9.5}{3.5.9.5}{121, 305, 3173} वेषि॑¦हि¦अ॒ध्व॒रि॒ऽय॒ताम्¦उ॒प॒ऽव॒क्ता¦जना᳚नाम् | ह॒व्या¦च॒¦मानु॑षाणाम् || |
वेषीद्व॑स्यदू॒त्य१॑(अं॒)¦यस्य॒जुजो᳚षो,अध्व॒रम् |{गौतमो वामदेवः | अग्निः | गायत्री} ह॒व्यंमर्त॑स्य॒वोळ्ह॑वे || {6/8}{4.9.6}{4.1.9.6}{3.5.9.6}{122, 305, 3174} वेषि॑¦इत्¦ऊँ॒ इति॑¦अ॒स्य॒¦दू॒त्य᳚म्¦यस्य॑¦जुजो᳚षः¦अ॒ध्व॒रम् | ह॒व्यम्¦मर्त॑स्य¦वोळ्ह॑वे || |
अ॒स्माकं᳚जोष्यध्व॒र¦म॒स्माकं᳚य॒ज्ञम᳚ङ्गिरः |{गौतमो वामदेवः | अग्निः | गायत्री} अ॒स्माकं᳚शृणुधी॒हव᳚म् || {7/8}{4.9.7}{4.1.9.7}{3.5.9.7}{123, 305, 3175} अ॒स्माक᳚म्¦जो॒षि॒¦अ॒ध्व॒रम्¦अ॒स्माक᳚म्¦य॒ज्ञम्¦अ॒ङ्गि॒रः॒ | अ॒स्माक᳚म्¦शृ॒णु॒धि॒¦हव᳚म् || |
परि॑तेदू॒ळभो॒रथो॒¦ऽस्माँ,अ॑श्नोतुवि॒श्वतः॑ |{गौतमो वामदेवः | अग्निः | गायत्री} येन॒रक्ष॑सिदा॒शुषः॑ || {8/8}{4.9.8}{4.1.9.8}{3.5.9.8}{124, 305, 3176} परि॑¦ते॒¦दुः॒ऽदभः॑¦रथः॑¦अ॒स्मान्¦अ॒श्नो॒तु॒¦वि॒श्वतः॑ | येन॑¦रक्ष॑सि¦दा॒शुषः॑ || |
[10] अग्नेतमद्येत्यष्टर्चस्य सूक्तस्य गौतमोवामदेवोग्निः पदपंक्तिः पंचमीमहापदपंक्तिः अंत्येद्वेउष्णिहौ | |
अग्ने॒तम॒द्या¦ऽश्वं॒नस्तोमैः॒¦क्रतुं॒नभ॒द्रं¦हृ॑दि॒स्पृश᳚म् |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः} ऋ॒ध्यामा᳚त॒ओहैः᳚ || {1/8}{4.10.1}{4.1.10.1}{3.5.10.1}{125, 306, 3177} अग्ने᳚¦तम्¦अ॒द्य¦अश्व᳚म्¦न¦स्तोमैः᳚¦क्रतु᳚म्¦न¦भ॒द्रम्¦हृ॒दि॒ऽस्पृश᳚म् | ऋ॒ध्याम॑¦ते॒¦ओहैः᳚ || |
अधा॒ह्य॑ग्ने॒¦क्रतो᳚र्भ॒द्रस्य॒¦दक्ष॑स्यसा॒धोः |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः} र॒थीरृ॒तस्य॑बृह॒तोब॒भूथ॑ || {2/8}{4.10.2}{4.1.10.2}{3.5.10.2}{126, 306, 3178} अध॑¦हि¦अ॒ग्ने॒¦क्रतोः᳚¦भ॒द्रस्य॑¦दक्ष॑स्य¦सा॒धोः | र॒थीः¦ऋ॒तस्य॑¦बृ॒ह॒तः¦ब॒भूथ॑ || |
ए॒भिर्नो᳚,अ॒र्कै¦र्भवा᳚नो,अ॒र्वाङ्¦स्व१॑(अ॒)र्णज्योतिः॑ |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः} अग्ने॒विश्वे᳚भिःसु॒मना॒,अनी᳚कैः || {3/8}{4.10.3}{4.1.10.3}{3.5.10.3}{127, 306, 3179} ए॒भिः¦नः॒¦अ॒र्कैः¦भव॑¦नः॒¦अ॒र्वाङ्¦स्वः॑¦न¦ज्योतिः॑ | अग्ने᳚¦विश्वे᳚भिः¦सु॒ऽमनाः᳚¦अनी᳚कैः || |
आ॒भिष्टे᳚,अ॒द्य¦गी॒र्भिर्गृ॒णन्तो¦ऽग्ने॒दाशे᳚म |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः} प्रते᳚दि॒वोनस्त॑नयन्ति॒शुष्माः᳚ || {4/8}{4.10.4}{4.1.10.4}{3.5.10.4}{128, 306, 3180} आ॒भिः¦ते॒¦अ॒द्य¦गीः॒ऽभिः¦गृ॒णन्तः॑¦अग्ने᳚¦दाशे᳚म | प्र¦ते॒¦दि॒वः¦न¦स्त॒न॒य॒न्ति॒¦शुष्माः᳚ || |
तव॒स्वादि॒ष्ठा¦ऽग्ने॒संदृ॑ष्टि¦रि॒दाचि॒दह्न॑¦इ॒दाचि॑द॒क्तोः |{गौतमो वामदेवः | अग्निः | महापदपङ्क्तिः} श्रि॒येरु॒क्मोनरो᳚चतउपा॒के || {5/8}{4.10.5}{4.1.10.5}{3.5.10.5}{129, 306, 3181} तव॑¦स्वादि॑ष्ठा¦अग्ने᳚¦सम्ऽदृ॑ष्टिः¦इ॒दा¦चि॒त्¦अह्नः॑¦इ॒दा¦चि॒त्¦अ॒क्तोः | श्रि॒ये¦रु॒क्मः¦न¦रो॒च॒ते॒¦उ॒पा॒के || |
घृ॒तंनपू॒तं¦त॒नूर॑रे॒पाः¦शुचि॒हिर᳚ण्यम् |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः} तत्ते᳚रु॒क्मोन¦रो᳚चतस्वधावः || {6/8}{4.10.6}{4.1.10.6}{3.5.10.6}{130, 306, 3182} घृ॒तम्¦न¦पू॒तम्¦त॒नूः¦अ॒रे॒पाः¦शुचि॑¦हिर᳚ण्यम् | तत्¦ते॒¦रु॒क्मः¦न¦रो॒च॒त॒¦स्व॒धा॒ऽवः॒ || |
कृ॒तंचि॒द्धिष्मा॒¦सने᳚मि॒द्वेषो¦ऽग्न॑इ॒नोषि॒मर्ता᳚त् |{गौतमो वामदेवः | अग्निः | उष्णिक्} इ॒त्थायज॑मानादृतावः || {7/8}{4.10.7}{4.1.10.7}{3.5.10.7}{131, 306, 3183} कृ॒तम्¦चि॒त्¦हि¦स्म॒¦सने᳚मि¦द्वेषः॑¦अग्ने᳚¦इ॒नोषि॑¦मर्ता᳚त् | इ॒त्था¦यज॑मानात्¦ऋ॒त॒ऽवः॒ || |
शि॒वानः॑स॒ख्या¦सन्तु॑भ्रा॒त्रा¦ऽग्ने᳚दे॒वेषु॑यु॒ष्मे |{गौतमो वामदेवः | अग्निः | उष्णिक्} सानो॒नाभिः॒सद॑ने॒सस्मि॒न्नूध॑न् || {8/8}{4.10.8}{4.1.10.8}{3.5.10.8}{132, 306, 3184} शि॒वा¦नः॒¦स॒ख्या¦सन्तु॑¦भ्रा॒त्रा¦अग्ने᳚¦दे॒वेषु॑¦यु॒ष्मे इति॑ | सा¦नः॒¦नाभिः॑¦सद॑ने¦सस्मि॑न्¦ऊध᳚म् || |
[11] भद्रंतइति षडृचस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् | |
भ॒द्रंते᳚,अग्नेसहसि॒न्ननी᳚क¦मुपा॒कआरो᳚चते॒सूर्य॑स्य |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} रुश॑द्दृ॒शेद॑दृशेनक्त॒याचि॒¦दरू᳚क्षितंदृ॒शआरू॒पे,अन्न᳚म् || {1/6}{4.11.1}{4.2.1.1}{3.5.11.1}{133, 307, 3185} भ॒द्रम्¦ते॒¦अ॒ग्ने॒¦स॒ह॒सि॒न्¦अनी᳚कम्¦उ॒पा॒के¦आ¦रो॒च॒ते॒¦सूर्य॑स्य | |
विषा᳚ह्यग्नेगृण॒तेम॑नी॒षां¦खंवेप॑सातुविजात॒स्तवा᳚नः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} विश्वे᳚भि॒र्यद्वा॒वनः॑शुक्रदे॒वै¦स्तन्नो᳚रास्वसुमहो॒भूरि॒मन्म॑ || {2/6}{4.11.2}{4.2.1.2}{3.5.11.2}{134, 307, 3186} वि¦सा॒हि॒¦अ॒ग्ने॒¦गृ॒ण॒ते¦म॒नी॒षाम्¦खम्¦वेप॑सा¦तु॒वि॒ऽजा॒त॒¦स्तवा᳚नः | |
त्वद॑ग्ने॒काव्या॒त्वन्म॑नी॒षा¦स्त्वदु॒क्थाजा᳚यन्ते॒राध्या᳚नि |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} त्वदे᳚ति॒द्रवि॑णंवी॒रपे᳚शा¦,इ॒त्थाधि॑येदा॒शुषे॒मर्त्या᳚य || {3/6}{4.11.3}{4.2.1.3}{3.5.11.3}{135, 307, 3187} त्वत्¦अ॒ग्ने॒¦काव्या᳚¦त्वत्¦म॒नी॒षाः¦त्वत्¦उ॒क्था¦जा॒य॒न्ते॒¦राध्या᳚नि | |
त्वद्वा॒जीवा᳚जम्भ॒रोविहा᳚या¦,अभिष्टि॒कृज्जा᳚यतेस॒त्यशु॑ष्मः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} त्वद्र॒यिर्दे॒वजू᳚तोमयो॒भु¦स्त्वदा॒शुर्जू᳚जु॒वाँ,अ॑ग्ने॒,अर्वा᳚ || {4/6}{4.11.4}{4.2.1.4}{3.5.11.4}{136, 307, 3188} त्वत्¦वा॒जी¦वा॒ज॒म्ऽभ॒रः¦विऽहा᳚याः¦अ॒भि॒ष्टि॒ऽकृत्¦जा॒य॒ते॒¦स॒त्यऽशु॑ष्मः | |
त्वाम॑ग्नेप्रथ॒मंदे᳚व॒यन्तो᳚¦दे॒वंमर्ता᳚,अमृतम॒न्द्रजि॑ह्वम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} द्वे॒षो॒युत॒मावि॑वासन्तिधी॒भि¦र्दमू᳚नसंगृ॒हप॑ति॒ममू᳚रम् || {5/6}{4.11.5}{4.2.1.5}{3.5.11.5}{137, 307, 3189} त्वाम्¦अ॒ग्ने॒¦प्र॒थ॒मम्¦दे॒व॒ऽयन्तः॑¦दे॒वम्¦मर्ताः᳚¦अ॒मृ॒त॒¦म॒न्द्रऽजि॑ह्वम् | |
आ॒रे,अ॒स्मदम॑तिमा॒रे,अंह॑¦आ॒रेविश्वां᳚दुर्म॒तिंयन्नि॒पासि॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} दो॒षाशि॒वःस॑हसःसूनो,अग्ने॒¦यंदे॒वआचि॒त्सच॑सेस्व॒स्ति || {6/6}{4.11.6}{4.2.1.6}{3.5.11.6}{138, 307, 3190} आ॒रे¦अ॒स्मत्¦अम॑तिम्¦आ॒रे¦अंहः॑¦आ॒रे¦विश्वा᳚म्¦दुः॒ऽम॒तिम्¦यत्¦नि॒ऽपासि॑ | |
[12] यस्त्वामग्नइति षडृचस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् | |
यस्त्वाम॑ग्नइ॒नध॑तेय॒तस्रु॒क्¦त्रिस्ते॒,अन्नं᳚कृ॒णव॒त्सस्मि॒न्नह॑न् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} ससुद्यु॒म्नैर॒भ्य॑स्तुप्र॒सक्ष॒त्¦तव॒क्रत्वा᳚जातवेदश्चिकि॒त्वान् || {1/6}{4.12.1}{4.2.2.1}{3.5.12.1}{139, 308, 3191} यः¦त्वाम्¦अ॒ग्ने॒¦इ॒नध॑ते¦य॒तऽस्रु॑क्¦त्रिः¦ते॒¦अन्न᳚म्¦कृ॒णव॑त्¦सस्मि॑न्¦अह॑न् | |
इ॒ध्मंयस्ते᳚ज॒भर॑च्छश्रमा॒णो¦म॒हो,अ॑ग्ने॒,अनी᳚क॒मास॑प॒र्यन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} सइ॑धा॒नःप्रति॑दो॒षामु॒षासं॒¦पुष्य᳚न्र॒यिंस॑चते॒घ्नन्न॒मित्रा॑न् || {2/6}{4.12.2}{4.2.2.2}{3.5.12.2}{140, 308, 3192} इ॒ध्मम्¦यः¦ते॒¦ज॒भर॑त्¦श॒श्र॒मा॒णः¦म॒हः¦अ॒ग्ने॒¦अनी᳚कम्¦आ¦स॒प॒र्यन् | |
अ॒ग्निरी᳚शेबृह॒तः,क्ष॒त्रिय॑स्या॒¦ऽग्निर्वाज॑स्यपर॒मस्य॑रा॒यः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} दधा᳚ति॒रत्नं᳚विध॒तेयवि॑ष्ठो॒¦व्या᳚नु॒षङ्मर्त्या᳚यस्व॒धावा॑न् || {3/6}{4.12.3}{4.2.2.3}{3.5.12.3}{141, 308, 3193} अ॒ग्निः¦ई॒शे॒¦बृ॒ह॒तः¦क्ष॒त्रिय॑स्य¦अ॒ग्निः¦वाज॑स्य¦प॒र॒मस्य॑¦रा॒यः | |
यच्चि॒द्धिते᳚पुरुष॒त्राय॑वि॒ष्ठा¦ऽचि॑त्तिभिश्चकृ॒माकच्चि॒दागः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} कृ॒धीष्व१॑(अ॒)स्माँ,अदि॑ते॒रना᳚गा॒न्¦व्येनां᳚सिशिश्रथो॒विष्व॑गग्ने || {4/6}{4.12.4}{4.2.2.4}{3.5.12.4}{142, 308, 3194} यत्¦चि॒त्¦हि¦ते॒¦पु॒रु॒ष॒ऽत्रा¦य॒वि॒ष्ठ॒¦अचि॑त्तिऽभिः¦च॒कृ॒म¦कत्¦चि॒त्¦आगः॑ | |
म॒हश्चि॑दग्न॒एन॑सो,अ॒भीक॑¦ऊ॒र्वाद्दे॒वाना᳚मु॒तमर्त्या᳚नाम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} माते॒सखा᳚यः॒सद॒मिद्रि॑षाम॒¦यच्छा᳚तो॒काय॒तन॑याय॒शंयोः || {5/6}{4.12.5}{4.2.2.5}{3.5.12.5}{143, 308, 3195} म॒हः¦चि॒त्¦अ॒ग्ने॒¦एन॑सः¦अ॒भीके᳚¦ऊ॒र्वात्¦दे॒वाना᳚म्¦उ॒त¦मर्त्या᳚नाम् | |
यथा᳚ह॒त्यद्व॑सवोगौ॒र्यं᳚चित्¦प॒दिषि॒ताममु᳚ञ्चतायजत्राः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} ए॒वोष्व१॑(अ॒)स्मन्मु᳚ञ्चता॒व्यंहः॒¦प्रता᳚र्यग्नेप्रत॒रंन॒आयुः॑ || {6/6}{4.12.6}{4.2.2.6}{3.5.12.6}{144, 308, 3196} यथा᳚¦ह॒¦त्यत्¦व॒स॒वः॒¦गौ॒र्य᳚म्¦चि॒त्¦प॒दि¦सि॒ताम्¦अमुं᳚चत¦य॒ज॒त्राः॒ | |
[13] प्रत्यग्निरिति पंचर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् | |
प्रत्य॒ग्निरु॒षसा॒मग्र॑मख्यद्¦विभाती॒नांसु॒मना᳚रत्न॒धेय᳚म् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} या॒तम॑श्विनासु॒कृतो᳚दुरो॒ण¦मुत्सूर्यो॒ज्योति॑षादे॒वए᳚ति || {1/5}{4.13.1}{4.2.3.1}{3.5.13.1}{145, 309, 3197} प्रति॑¦अ॒ग्निः¦उ॒षसा᳚म्¦अग्र᳚म्¦अ॒ख्य॒त्¦वि॒ऽभा॒ती॒नाम्¦सु॒ऽमनाः᳚¦र॒त्न॒ऽधेय᳚म् | |
ऊ॒र्ध्वंभा॒नुंस॑वि॒तादे॒वो,अ॑श्रेद्¦द्र॒प्संदवि॑ध्वद्गवि॒षोनसत्वा᳚ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अनु᳚व्र॒तंवरु॑णोयन्तिमि॒त्रो¦यत्सूर्यं᳚दि॒व्या᳚रो॒हय᳚न्ति || {2/5}{4.13.2}{4.2.3.2}{3.5.13.2}{146, 309, 3198} ऊ॒र्ध्वम्¦भा॒नुम्¦स॒वि॒ता¦दे॒वः¦अ॒श्रे॒त्¦द्र॒प्सम्¦दवि॑ध्वत्¦गो॒ऽइ॒षः¦न¦सत्वा᳚ | |
यंसी॒मकृ᳚ण्व॒न्तम॑सेवि॒पृचे᳚¦ध्रु॒वक्षे᳚मा॒,अन॑वस्यन्तो॒,अर्थ᳚म् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} तंसूर्यं᳚ह॒रितः॑स॒प्तय॒ह्वीः¦स्पशं॒विश्व॑स्य॒जग॑तोवहन्ति || {3/5}{4.13.3}{4.2.3.3}{3.5.13.3}{147, 309, 3199} यम्¦सी॒म्¦अकृ᳚ण्वन्¦तम॑से¦वि॒ऽपृचे᳚¦ध्रु॒वऽक्षे᳚माः¦अन॑वऽस्यन्तः¦अर्थ᳚म् | |
वहि॑ष्ठेभिर्वि॒हर᳚न्यासि॒तन्तु॑¦मव॒व्यय॒न्नसि॑तंदेव॒वस्म॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} दवि॑ध्वतोर॒श्मयः॒सूर्य॑स्य॒¦चर्मे॒वावा᳚धु॒स्तमो᳚,अ॒प्स्व१॑(अ॒)न्तः || {4/5}{4.13.4}{4.2.3.4}{3.5.13.4}{148, 309, 3200} वहि॑ष्ठेभिः¦वि॒ऽहर॑न्¦या॒सि॒¦तन्तु᳚म्¦अ॒व॒ऽव्यय॑न्¦असि॑तम्¦दे॒व॒¦वस्म॑ | |
अना᳚यतो॒,अनि॑बद्धःक॒थायं¦न्य᳚ङ्ङुत्ता॒नोऽव॑पद्यते॒न |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} कया᳚यातिस्व॒धया॒कोद॑दर्श¦दि॒वःस्क॒म्भःसमृ॑तःपाति॒नाक᳚म् || {5/5}{4.13.5}{4.2.3.5}{3.5.13.5}{149, 309, 3201} अना᳚यतः¦अनि॑ऽबद्धः¦क॒था¦अ॒यम्¦न्य᳚ङ्¦उ॒त्ता॒नः¦अव॑¦प॒द्य॒ते॒¦न | |
[14] प्रत्यग्निरिति पंचर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् | (अनयोः सूक्तयोः केचिदाचार्यालिङ्गोक्तदेवताआहुःताश्च आद्यसूक्ते आद्यानां तिसृणामग्निः चतुर्थ्याः सवितृवरुणमित्राः पंचम्याः सूर्यः | अपरसूक्तेक्रमेण अग्न्याश्विनः सूर्य उषाअश्व्युषसः सूर्य इत्येवंज्ञेयाः )| |
प्रत्य॒ग्निरु॒षसो᳚जा॒तवे᳚दा॒,¦अख्य॑द्दे॒वोरोच॑माना॒महो᳚भिः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} आना᳚सत्योरुगा॒यारथे᳚ने॒¦मंय॒ज्ञमुप॑नोयात॒मच्छ॑ || {1/5}{4.14.1}{4.2.4.1}{3.5.14.1}{150, 310, 3202} प्रति॑¦अ॒ग्निः¦उ॒षसः॑¦जा॒तऽवे᳚दाः¦अख्य॑त्¦दे॒वः¦रोच॑मानाः¦महः॑ऽभिः | |
ऊ॒र्ध्वंके॒तुंस॑वि॒तादे॒वो,अ॑श्रे॒¦ज्ज्योति॒र्विश्व॑स्मै॒भुव॑नायकृ॒ण्वन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} आप्रा॒द्यावा᳚पृथि॒वी,अ॒न्तरि॑क्षं॒¦विसूर्यो᳚र॒श्मिभि॒श्चेकि॑तानः || {2/5}{4.14.2}{4.2.4.2}{3.5.14.2}{151, 310, 3203} ऊ॒र्ध्वम्¦के॒तुम्¦स॒वि॒ता¦दे॒वः¦अ॒श्रे॒त्¦ज्योतिः॑¦विश्व॑स्मै¦भुव॑नाय¦कृ॒ण्वन् | |
आ॒वह᳚न्त्यरु॒णीर्ज्योति॒षागा᳚¦न्म॒हीचि॒त्रार॒श्मिभि॒श्चेकि॑ताना |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} प्र॒बो॒धय᳚न्तीसुवि॒ताय॑दे॒व्यु१॑(उ॒)¦षा,ई᳚यतेसु॒युजा॒रथे᳚न || {3/5}{4.14.3}{4.2.4.3}{3.5.14.3}{152, 310, 3204} आ॒ऽवह᳚न्ती¦अ॒रु॒णीः¦ज्योति॑षा¦आ¦अ॒गा॒त्¦म॒ही¦चि॒त्रा¦र॒श्मिऽभिः॑¦चेकि॑ताना | |
आवां॒वहि॑ष्ठा,इ॒हतेव॑हन्तु॒¦रथा॒,अश्वा᳚सउ॒षसो॒व्यु॑ष्टौ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} इ॒मेहिवां᳚मधु॒पेया᳚य॒सोमा᳚,¦अ॒स्मिन्य॒ज्ञेवृ॑षणामादयेथाम् || {4/5}{4.14.4}{4.2.4.4}{3.5.14.4}{153, 310, 3205} आ¦वा॒म्¦वहि॑ष्ठाः¦इ॒ह¦ते¦व॒ह॒न्तु॒¦रथाः᳚¦अश्वा᳚सः¦उ॒षसः॑¦वि।औ᳚ष्टौ | |
अना᳚यतो॒,अनि॑बद्धःक॒थायं¦न्य᳚ङ्ङुत्ता॒नोऽव॑पद्यते॒न |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} कया᳚यातिस्व॒धया॒कोद॑दर्श¦दि॒वःस्क॒म्भःसमृ॑तःपाति॒नाक᳚म् || {5/5}{4.14.5}{4.2.4.5}{3.5.14.5}{154, 310, 3206} अना᳚यतः¦अनि॑ऽबद्धः¦क॒था¦अ॒यम्¦न्य᳚ङ्¦उ॒त्ता॒नः¦अव॑¦प॒द्य॒ते॒¦न | |
[15] अग्निहोतेति दशर्चस्य सूक्तस्य गौतमोवामदेवोग्निः सप्तम्यष्टम्योःसाहदेव्यःसोमकः अंत्ययोरश्विनौगायत्री | |
अ॒ग्निर्होता᳚नो,अध्व॒रे¦वा॒जीसन्परि॑णीयते |{गौतमो वामदेवः | अग्निः | गायत्री} दे॒वोदे॒वेषु॑य॒ज्ञियः॑ || {1/10}{4.15.1}{4.2.5.1}{3.5.15.1}{155, 311, 3207} अ॒ग्निः¦होता᳚¦नः॒¦अ॒ध्व॒रे¦वा॒जी¦सन्¦परि॑¦नी॒य॒ते॒ | दे॒वः¦दे॒वेषु॑¦य॒ज्ञियः॑ || |
परि॑त्रिवि॒ष्ट्य॑ध्व॒रं¦यात्य॒ग्नीर॒थीरि॑व |{गौतमो वामदेवः | अग्निः | गायत्री} आदे॒वेषु॒प्रयो॒दध॑त् || {2/10}{4.15.2}{4.2.5.2}{3.5.15.2}{156, 311, 3208} परि॑¦त्रि॒ऽवि॒ष्टि¦अ॒ध्व॒रम्¦याति॑¦अ॒ग्निः¦र॒थीःऽइ᳚व | आ¦दे॒वेषु॑¦प्रयः॑¦दध॑त् || |
परि॒वाज॑पतिःक॒वि¦र॒ग्निर्ह॒व्यान्य॑क्रमीत् |{गौतमो वामदेवः | अग्निः | गायत्री} दध॒द्रत्ना᳚निदा॒शुषे᳚ || {3/10}{4.15.3}{4.2.5.3}{3.5.15.3}{157, 311, 3209} परि॑¦वाज॑ऽपतिः¦क॒विः¦अ॒ग्निः¦ह॒व्यानि॑¦अ॒क्र॒मी॒त् | दध॑त्¦रत्ना᳚नि¦दा॒शुषे᳚ || |
अ॒यंयःसृञ्ज॑येपु॒रो¦दै᳚ववा॒तेस॑मि॒ध्यते᳚ |{गौतमो वामदेवः | अग्निः | गायत्री} द्यु॒माँ,अ॑मित्र॒दम्भ॑नः || {4/10}{4.15.4}{4.2.5.4}{3.5.15.4}{158, 311, 3210} अ॒यम्¦यः¦सृंज॑ये¦पु॒रः¦दै॒व॒ऽवा॒ते¦स॒म्ऽइ॒ध्यते᳚ | द्यु॒ऽमान्¦अ॒मि॒त्र॒ऽदम्भ॑नः || |
अस्य॑घावी॒रईव॑तो॒¦ऽग्नेरी᳚शीत॒मर्त्यः॑ |{गौतमो वामदेवः | अग्निः | गायत्री} ति॒ग्मज᳚म्भस्यमी॒ळ्हुषः॑ || {5/10}{4.15.5}{4.2.5.5}{3.5.15.5}{159, 311, 3211} अस्य॑¦घ॒¦वी॒रः¦ईव॑तः¦अ॒ग्नेः¦ई॒शी॒त॒¦मर्त्यः॑ | ति॒ग्मऽज᳚म्भस्य¦मी॒ळ्हुषः॑ || |
तमर्व᳚न्तं॒नसा᳚न॒सि¦म॑रु॒षंनदि॒वःशिशु᳚म् |{गौतमो वामदेवः | अग्निः | गायत्री} म॒र्मृ॒ज्यन्ते᳚दि॒वेदि॑वे || {6/10}{4.15.6}{4.2.5.6}{3.5.16.1}{160, 311, 3212} तम्¦अर्व᳚न्तम्¦न¦सा॒न॒सिम्¦अ॒रु॒षम्¦न¦दि॒वः¦शिशु᳚म् | म॒र्मृ॒ज्यन्ते᳚¦दि॒वेऽदि॑वे || |
बोध॒द्यन्मा॒हरि॑भ्यां¦कुमा॒रःसा᳚हदे॒व्यः |{गौतमो वामदेवः | साहदेव्यः सोमकः | गायत्री} अच्छा॒नहू॒तउद॑रम् || {7/10}{4.15.7}{4.2.5.7}{3.5.16.2}{161, 311, 3213} बोध॑त्¦यत्¦मा॒¦हरि॑ऽभ्याम्¦कु॒मा॒रः¦सा॒ह॒ऽदे॒व्यः | अच्छ॑¦न¦हू॒तः¦उत्¦अ॒र॒म् || |
उ॒तत्याय॑ज॒ताहरी᳚¦कुमा॒रात्सा᳚हदे॒व्यात् |{गौतमो वामदेवः | साहदेव्यः सोमकः | गायत्री} प्रय॑तास॒द्यआद॑दे || {8/10}{4.15.8}{4.2.5.8}{3.5.16.3}{162, 311, 3214} उ॒त¦त्या¦य॒ज॒ता¦हरी॒ इति॑¦कु॒मा॒रात्¦सा॒ह॒ऽदे॒व्यात् | प्रऽय॑ता¦स॒द्यः¦आ¦द॒दे॒ || |
ए॒षवां᳚देवावश्विना¦कुमा॒रःसा᳚हदे॒व्यः |{गौतमो वामदेवः | अश्विनौ | गायत्री} दी॒र्घायु॑रस्तु॒सोम॑कः || {9/10}{4.15.9}{4.2.5.9}{3.5.16.4}{163, 311, 3215} ए॒षः¦वा॒म्¦दे॒वौ॒¦अ॒श्वि॒ना॒¦कु॒मा॒रः¦सा॒ह॒ऽदे॒व्यः | दी॒र्घऽआ᳚युः¦अ॒स्तु॒¦सोम॑कः || |
तंयु॒वंदे᳚वावश्विना¦कुमा॒रंसा᳚हदे॒व्यम् |{गौतमो वामदेवः | अश्विनौ | गायत्री} दी॒र्घायु॑षंकृणोतन || {10/10}{4.15.10}{4.2.5.10}{3.5.16.5}{164, 311, 3216} तम्¦यु॒वम्¦दे॒वौ॒¦अ॒श्वि॒ना॒¦कु॒मा॒रम्¦सा॒ह॒ऽदे॒व्यम् | दी॒र्घऽआ᳚युषम्¦कृ॒णो॒त॒न॒ || |
[16] आसत्योयात्वित्येकविंशत्यृचस्य सूक्तस्य गौतमोवामदेवइंद्रस्त्रिष्टुप् | |
आस॒त्योया᳚तुम॒घवाँ᳚,ऋजी॒षी¦द्रव᳚न्त्वस्य॒हर॑य॒उप॑नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} तस्मा॒,इदन्धः॑सुषुमासु॒दक्ष॑¦मि॒हाभि॑पि॒त्वंक॑रतेगृणा॒नः || {1/21}{4.16.1}{4.2.6.1}{3.5.17.1}{165, 312, 3217} आ¦स॒त्यः¦या॒तु॒¦म॒घऽवा᳚न्¦ऋ॒जी॒षी¦द्रव᳚न्तु¦अ॒स्य॒¦हर॑यः¦उप॑¦नः॒ | |
अव॑स्यशू॒राध्व॑नो॒नान्ते॒¦ऽस्मिन्नो᳚,अ॒द्यसव॑नेम॒न्दध्यै᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} शंसा᳚त्यु॒क्थमु॒शने᳚ववे॒धा¦श्चि॑कि॒तुषे᳚,असु॒र्या᳚य॒मन्म॑ || {2/21}{4.16.2}{4.2.6.2}{3.5.17.2}{166, 312, 3218} अव॑¦स्य॒¦शू॒र॒¦अध्व॑नः¦न¦अन्ते᳚¦अ॒स्मिन्¦नः॒¦अ॒द्य¦सव॑ने¦म॒न्दध्यै᳚ | |
क॒विर्ननि॒ण्यंवि॒दथा᳚नि॒साध॒न्¦वृषा॒यत्सेकं᳚विपिपा॒नो,अर्चा᳚त् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} दि॒वइ॒त्थाजी᳚जनत्स॒प्तका॒रू¦नह्ना᳚चिच्चक्रुर्व॒युना᳚गृ॒णन्तः॑ || {3/21}{4.16.3}{4.2.6.3}{3.5.17.3}{167, 312, 3219} क॒विः¦न¦नि॒ण्यम्¦वि॒दथा᳚नि¦साध॑न्¦वृषा᳚¦यत्¦सेक᳚म्¦वि॒ऽपि॒पा॒नः¦अर्चा᳚त् | |
स्व१॑(अ॒)र्यद्वेदि॑सु॒दृशी᳚कम॒र्कै¦र्महि॒ज्योती᳚रुरुचु॒र्यद्ध॒वस्तोः᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अ॒न्धातमां᳚सि॒दुधि॑तावि॒चक्षे॒¦नृभ्य॑श्चकार॒नृत॑मो,अ॒भिष्टौ᳚ || {4/21}{4.16.4}{4.2.6.4}{3.5.17.4}{168, 312, 3220} स्वः॑¦यत्¦वेदि॑¦सु॒ऽदृशी᳚कम्¦अ॒र्कैः¦महि॑¦ज्योतिः॑¦रु॒रु॒चुः॒¦यत्¦ह॒¦वस्तोः᳚ | |
व॒व॒क्षइन्द्रो॒,अमि॑तमृजी॒¦ष्यु१॑(उ॒)भे,आप॑प्रौ॒रोद॑सीमहि॒त्वा |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अत॑श्चिदस्यमहि॒माविरे᳚¦च्य॒भियोविश्वा॒भुव॑नाब॒भूव॑ || {5/21}{4.16.5}{4.2.6.5}{3.5.17.5}{169, 312, 3221} व॒व॒क्षे¦इन्द्रः॑¦अमि॑तम्¦ऋ॒जी॒षी¦उ॒भे इति॑¦आ¦प॒प्रौ॒¦रोद॑सी॒ इति॑¦म॒हि॒ऽत्वा | |
विश्वा᳚निश॒क्रोनर्या᳚णिवि॒द्वा¦न॒पोरि॑रेच॒सखि॑भि॒र्निका᳚मैः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अश्मा᳚नंचि॒द्येबि॑भि॒दुर्वचो᳚भि¦र्व्र॒जंगोम᳚न्तमु॒शिजो॒विव᳚व्रुः || {6/21}{4.16.6}{4.2.6.6}{3.5.18.1}{170, 312, 3222} विश्वा᳚नि¦श॒क्रः¦नर्या᳚णि¦वि॒द्वान्¦अ॒पः¦रि॒रे॒च॒¦सखि॑ऽभिः¦निऽका᳚मैः | |
अ॒पोवृ॒त्रंव᳚व्रि॒वांसं॒परा᳚ह॒न्¦प्राव॑त्ते॒वज्रं᳚पृथि॒वीसचे᳚ताः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} प्रार्णां᳚सिसमु॒द्रिया᳚ण्यैनोः॒¦पति॒र्भव॒ञ्छव॑साशूरधृष्णो || {7/21}{4.16.7}{4.2.6.7}{3.5.18.2}{171, 312, 3223} अ॒पः¦वृ॒त्रम्¦व॒व्रि॒ऽवांस᳚म्¦परा᳚¦अ॒ह॒न्¦प्र¦आ॒व॒त्¦ते॒¦वज्र᳚म्¦पृ॒थि॒वी¦सऽचे᳚ताः | |
अ॒पोयदद्रिं᳚पुरुहूत॒दर्द॑¦रा॒विर्भु॑वत्स॒रमा᳚पू॒र्व्यंते᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} सनो᳚ने॒तावाज॒माद॑र्षि॒भूरिं᳚¦गो॒त्रारु॒जन्नङ्गि॑रोभिर्गृणा॒नः || {8/21}{4.16.8}{4.2.6.8}{3.5.18.3}{172, 312, 3224} अ॒पः¦यत्¦अद्रि᳚म्¦पु॒रु॒ऽहू॒त॒¦दर्दः॑¦आ॒विः¦भु॒व॒त्¦स॒रमा᳚¦पू॒र्व्यम्¦ते॒ | |
अच्छा᳚क॒विंनृ॑मणोगा,अ॒भिष्टौ॒¦स्व॑र्षातामघव॒न्नाध॑मानम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ऊ॒तिभि॒स्तमि॑षणोद्यु॒म्नहू᳚तौ॒¦निमा॒यावा॒नब्र᳚ह्मा॒दस्यु॑रर्त || {9/21}{4.16.9}{4.2.6.9}{3.5.18.4}{173, 312, 3225} अच्छ॑¦क॒विम्¦नृ॒ऽम॒नः॒¦गाः॒¦अ॒भिष्टौ᳚¦स्वः॑ऽसाता¦म॒घ॒ऽव॒न्¦नाध॑मानम् | |
आद॑स्यु॒घ्नामन॑साया॒ह्यस्तं॒¦भुव॑त्ते॒कुत्सः॑स॒ख्येनिका᳚मः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स्वेयोनौ॒निष॑दतं॒सरू᳚पा॒¦विवां᳚चिकित्सदृत॒चिद्ध॒नारी᳚ || {10/21}{4.16.10}{4.2.6.10}{3.5.18.5}{174, 312, 3226} आ¦द॒स्यु॒ऽघ्ना¦मन॑सा¦या॒हि॒¦अस्त᳚म्¦भुव॑त्¦ते॒¦कुत्सः॑¦स॒ख्ये¦निऽका᳚मः | |
यासि॒कुत्से᳚नस॒रथ॑मव॒स्यु¦स्तो॒दोवात॑स्य॒हर्यो॒रीशा᳚नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ऋ॒ज्रावाजं॒नगध्यं॒युयू᳚षन्¦क॒विर्यदह॒न्पार्या᳚य॒भूषा᳚त् || {11/21}{4.16.11}{4.2.6.11}{3.5.19.1}{175, 312, 3227} यासि॑¦कुत्से᳚न¦स॒ऽरथ᳚म्¦अ॒व॒स्युः¦तो॒दः¦वात॑स्य¦हर्योः᳚¦ईशा᳚नः | |
कुत्सा᳚य॒शुष्ण॑म॒शुषं॒निब᳚र्हीः¦प्रपि॒त्वे,अह्नः॒कुय॑वंस॒हस्रा᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स॒द्योदस्यू॒न्प्रमृ॑णकु॒त्स्येन॒¦प्रसूर॑श्च॒क्रंवृ॑हताद॒भीके᳚ || {12/21}{4.16.12}{4.2.6.12}{3.5.19.2}{176, 312, 3228} कुत्सा᳚य¦शुष्ण᳚म्¦अ॒शुष᳚म्¦नि¦ब॒र्हीः॒¦प्र॒ऽपि॒त्वे¦अह्नः॑¦कुय॑वम्¦स॒हस्रा᳚ | |
त्वंपिप्रुं॒मृग॑यंशूशु॒वांस॑¦मृ॒जिश्व॑नेवैदथि॒नाय॑रन्धीः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} प॒ञ्चा॒शत्कृ॒ष्णानिव॑पःस॒हस्रा¦ऽत्कं॒नपुरो᳚जरि॒माविद॑र्दः || {13/21}{4.16.13}{4.2.6.13}{3.5.19.3}{177, 312, 3229} त्वम्¦पिप्रु᳚म्¦मृग॑यम्¦शू॒शु॒ऽवांस᳚म्¦ऋ॒जिश्व॑ने¦वै॒द॒थि॒नाय॑¦र॒न्धीः॒ | |
सूर॑उपा॒केत॒न्व१॑(अं॒)दधा᳚नो॒¦वियत्ते॒चेत्य॒मृत॑स्य॒वर्पः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} मृ॒गोनह॒स्तीतवि॑षीमुषा॒णः¦सिं॒होनभी॒मआयु॑धानि॒बिभ्र॑त् || {14/21}{4.16.14}{4.2.6.14}{3.5.19.4}{178, 312, 3230} सूरः॑¦उ॒पा॒के¦त॒न्व᳚म्¦दधा᳚नः¦वि¦यत्¦ते॒¦चेति॑¦अ॒मृत॑स्य¦वर्पः॑ | |
इन्द्रं॒कामा᳚वसू॒यन्तो᳚,अग्म॒न्¦त्स्व᳚र्मीळ्हे॒नसव॑नेचका॒नाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} श्र॒व॒स्यवः॑शशमा॒नास॑उ॒क्थै¦रोको॒नर॒ण्वासु॒दृशी᳚वपु॒ष्टिः || {15/21}{4.16.15}{4.2.6.15}{3.5.19.5}{179, 312, 3231} इन्द्र᳚म्¦कामाः᳚¦व॒सु॒ऽयन्तः॑¦अ॒ग्म॒न्¦स्वः॑ऽमीळ्हे¦न¦सव॑ने¦च॒का॒नाः | |
तमिद्व॒इन्द्रं᳚सु॒हवं᳚हुवेम॒¦यस्ताच॒कार॒नर्या᳚पु॒रूणि॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} योमाव॑तेजरि॒त्रेगध्यं᳚चि¦न्म॒क्षूवाजं॒भर॑तिस्पा॒र्हरा᳚धाः || {16/21}{4.16.16}{4.2.6.16}{3.5.20.1}{180, 312, 3232} तम्¦इत्¦वः॒¦इन्द्र᳚म्¦सु॒ऽहव᳚म्¦हु॒वे॒म॒¦यः¦ता¦च॒कार॑¦नर्या᳚¦पु॒रूणि॑ | |
ति॒ग्मायद॒न्तर॒शनिः॒पता᳚ति॒¦कस्मि᳚ञ्चिच्छूरमुहु॒केजना᳚नाम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} घो॒रायद᳚र्य॒समृ॑ति॒र्भवा॒¦त्यध॑स्मानस्त॒न्वो᳚बोधिगो॒पाः || {17/21}{4.16.17}{4.2.6.17}{3.5.20.2}{181, 312, 3233} ति॒ग्मा¦यत्¦अ॒न्तः¦अ॒शनिः॑¦पता᳚ति¦कस्मि॑न्¦चि॒त्¦शू॒र॒¦मु॒हु॒के¦जना᳚नाम् | |
भुवो᳚ऽवि॒तावा॒मदे᳚वस्यधी॒नां¦भुवः॒सखा᳚वृ॒कोवाज॑सातौ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} त्वामनु॒प्रम॑ति॒माज॑गन्मो¦रु॒शंसो᳚जरि॒त्रेवि॒श्वध॑स्याः || {18/21}{4.16.18}{4.2.6.18}{3.5.20.3}{182, 312, 3234} भुवः॑¦अ॒वि॒ता¦वा॒मऽदे᳚वस्य¦धी॒नाम्¦भुवः॑¦सखा᳚¦अ॒वृ॒कः¦वाज॑ऽसातौ | |
ए॒भिर्नृभि॑रिन्द्रत्वा॒युभि॑ष्ट्वा¦म॒घव॑द्भिर्मघव॒न्विश्व॑आ॒जौ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} द्यावो॒नद्यु॒म्नैर॒भिसन्तो᳚,अ॒र्यः,¦क्ष॒पोम॑देमश॒रद॑श्चपू॒र्वीः || {19/21}{4.16.19}{4.2.6.19}{3.5.20.4}{183, 312, 3235} ए॒भिः¦नृऽभिः॑¦इ॒न्द्र॒¦त्वा॒युऽभिः॑¦त्वा॒¦म॒घव॑त्ऽभिः¦म॒घ॒ऽव॒न्¦विश्वे᳚¦आ॒जौ | |
ए॒वेदिन्द्रा᳚यवृष॒भाय॒वृष्णे॒¦ब्रह्मा᳚कर्म॒भृग॑वो॒नरथ᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} नूचि॒द्यथा᳚नःस॒ख्यावि॒योष॒¦दस᳚न्नउ॒ग्रो᳚ऽवि॒तात॑नू॒पाः || {20/21}{4.16.20}{4.2.6.20}{3.5.20.5}{184, 312, 3236} ए॒व¦इत्¦इन्द्रा᳚य¦वृ॒ष॒भाय॑¦वृष्णे᳚¦ब्रह्म॑¦अ॒क॒र्म॒¦भृग॑वः¦न¦रथ᳚म् | |
नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒न¦इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚¦धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {21/21}{4.16.21}{4.2.6.21}{3.5.20.6}{185, 312, 3237} नु¦स्तु॒तः¦इ॒न्द्र॒¦नु¦गृ॒णा॒नः¦इष᳚म्¦ज॒रि॒त्रे¦न॒द्यः॑¦न¦पी॒पे॒रिति॑ पीपेः | |
[17] त्वंमहानित्येकविंशत्यृचस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् असिक्न्यामित्येकपदाविराट् | |
त्वंम॒हाँ,इ᳚न्द्र॒तुभ्यं᳚ह॒क्षा¦,अनु॑क्ष॒त्रंमं॒हना᳚मन्यत॒द्यौः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} त्वंवृ॒त्रंशव॑साजघ॒न्वान्¦त्सृ॒जःसिन्धूँ॒रहि॑नाजग्रसा॒नान् || {1/21}{4.17.1}{4.2.7.1}{3.5.21.1}{186, 313, 3238} त्वम्¦म॒हान्¦इ॒न्द्र॒¦तुभ्य᳚म्¦ह॒¦क्षाः¦अनु॑¦क्ष॒त्रम्¦मं॒हना᳚¦म॒न्य॒त॒¦द्यौः | |
तव॑त्वि॒षोजनि॑मन्रेजत॒द्यौ¦रेज॒द्भूमि॑र्भि॒यसा॒स्वस्य॑म॒न्योः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ऋ॒घा॒यन्त॑सु॒भ्व१॑(अः॒)पर्व॑तास॒¦आर्द॒न्धन्वा᳚निस॒रय᳚न्त॒आपः॑ || {2/21}{4.17.2}{4.2.7.2}{3.5.21.2}{187, 313, 3239} तव॑¦त्वि॒षः¦जनि॑मन्¦रे॒ज॒त॒¦द्यौः¦रेज॑त्¦भूमिः॑¦भि॒यसा᳚¦स्वस्य॑¦म॒न्योः | |
भि॒नद्गि॒रिंशव॑सा॒वज्र॑मि॒ष्ण¦न्ना᳚विष्कृण्वा॒नःस॑हसा॒नओजः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} वधी᳚द्वृ॒त्रंवज्रे᳚णमन्दसा॒नः¦सर॒न्नापो॒जव॑साह॒तवृ॑ष्णीः || {3/21}{4.17.3}{4.2.7.3}{3.5.21.3}{188, 313, 3240} भि॒नत्¦गि॒रिम्¦शव॑सा¦वज्र᳚म्¦इ॒ष्णन्¦आ॒विः॒ऽकृ॒ण्वा॒नः¦स॒ह॒सा॒नः¦ओजः॑ | |
सु॒वीर॑स्तेजनि॒ताम᳚न्यत॒द्यौ¦रिन्द्र॑स्यक॒र्तास्वप॑स्तमोभूत् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} यईं᳚ज॒जान॑स्व॒र्यं᳚सु॒वज्र॒¦मन॑पच्युतं॒सद॑सो॒नभूम॑ || {4/21}{4.17.4}{4.2.7.4}{3.5.21.4}{189, 313, 3241} सु॒ऽवीरः॑¦ते॒¦ज॒नि॒ता¦म॒न्य॒त॒¦द्यौः¦इन्द्र॑स्य¦क॒र्ता¦स्वपः॑ऽतमः¦भू॒त् | |
यएक॑इच्च्या॒वय॑ति॒प्रभूमा॒¦राजा᳚कृष्टी॒नांपु॑रुहू॒तइन्द्रः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स॒त्यमे᳚न॒मनु॒विश्वे᳚मदन्ति¦रा॒तिंदे॒वस्य॑गृण॒तोम॒घोनः॑ || {5/21}{4.17.5}{4.2.7.5}{3.5.21.5}{190, 313, 3242} यः¦एकः॑¦इत्¦च्य॒वय॑ति¦प्र¦भूम॑¦राजा᳚¦कृ॒ष्टी॒नाम्¦पु॒रु॒ऽहू॒तः¦इन्द्रः॑ | |
स॒त्रासोमा᳚,अभवन्नस्य॒विश्वे᳚¦स॒त्रामदा᳚सोबृह॒तोमदि॑ष्ठाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स॒त्राभ॑वो॒वसु॑पति॒र्वसू᳚नां॒¦दत्रे॒विश्वा᳚,अधिथा,इन्द्रकृ॒ष्टीः || {6/21}{4.17.6}{4.2.7.6}{3.5.22.1}{191, 313, 3243} स॒त्रा¦सोमाः᳚¦अ॒भ॒व॒न्¦अ॒स्य॒¦विश्वे᳚¦स॒त्रा¦मदा᳚सः¦बृ॒ह॒तः¦मदि॑ष्ठाः | |
त्वमध॑प्रथ॒मंजाय॑मा॒नो¦ऽमे॒विश्वा᳚,अधिथा,इन्द्रकृ॒ष्टीः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} त्वंप्रति॑प्र॒वत॑आ॒शया᳚न॒¦महिं॒वज्रे᳚णमघव॒न्विवृ॑श्चः || {7/21}{4.17.7}{4.2.7.7}{3.5.22.2}{192, 313, 3244} त्वम्¦अध॑¦प्र॒थ॒मम्¦जाय॑मानः¦अमे᳚¦विश्वाः᳚¦अ॒धि॒थाः॒¦इ॒न्द्र॒¦कृ॒ष्टीः | |
स॒त्रा॒हणं॒दाधृ॑षिं॒तुम्र॒मिन्द्रं᳚¦म॒हाम॑पा॒रंवृ॑ष॒भंसु॒वज्र᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} हन्ता॒योवृ॒त्रंसनि॑तो॒तवाजं॒¦दाता᳚म॒घानि॑म॒घवा᳚सु॒राधाः᳚ || {8/21}{4.17.8}{4.2.7.8}{3.5.22.3}{193, 313, 3245} स॒त्रा॒ऽहन॑न्¦दधृ॑षिम्¦तुम्र᳚म्¦इन्द्र᳚म्¦म॒हाम्¦अ॒पा॒रम्¦वृ॒ष॒भम्¦सु॒ऽवज्र᳚म् | |
अ॒यंवृत॑श्चातयतेसमी॒ची¦र्यआ॒जिषु॑म॒घवा᳚शृ॒ण्वएकः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अ॒यंवाजं᳚भरति॒यंस॒नोत्य॒¦स्यप्रि॒यासः॑स॒ख्येस्या᳚म || {9/21}{4.17.9}{4.2.7.9}{3.5.22.4}{194, 313, 3246} अ॒यम्¦वृतः॑¦चा॒त॒य॒ते॒¦स॒म्ऽई॒चीः¦यः¦आ॒जिषु॑¦म॒घऽवा᳚¦शृ॒ण्वे¦एकः॑ | |
अ॒यंशृ᳚ण्वे॒,अध॒जय᳚न्नु॒तघ्नन्¦न॒यमु॒तप्रकृ॑णुतेयु॒धागाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} य॒दास॒त्यंकृ॑णु॒तेम॒न्युमिन्द्रो॒¦विश्वं᳚दृ॒ळ्हंभ॑यत॒एज॑दस्मात् || {10/21}{4.17.10}{4.2.7.10}{3.5.22.5}{195, 313, 3247} अ॒यम्¦शृ॒ण्वे॒¦अध॑¦जय॑न्¦उ॒त¦घ्नन्¦अ॒यम्¦उ॒त¦प्र¦कृ॒णु॒ते॒¦यु॒धा¦गाः | |
समिन्द्रो॒गा,अ॑जय॒त्संहिर᳚ण्या॒¦सम॑श्वि॒याम॒घवा॒योह॑पू॒र्वीः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ए॒भिर्नृभि॒र्नृत॑मो,अस्यशा॒कै¦रा॒योवि॑भ॒क्तास᳚म्भ॒रश्च॒वस्वः॑ || {11/21}{4.17.11}{4.2.7.11}{3.5.23.1}{196, 313, 3248} सम्¦इन्द्रः॑¦गाः¦अ॒ज॒य॒त्¦सम्¦हिर᳚ण्या¦सम्¦अ॒श्वि॒या¦म॒घऽवा᳚¦यः¦ह॒¦पू॒र्वीः | |
किय॑त्स्वि॒दिन्द्रो॒,अध्ये᳚तिमा॒तुः¦किय॑त्पि॒तुर्ज॑नि॒तुर्योज॒जान॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} यो,अ॑स्य॒शुष्मं᳚मुहु॒कैरिय॑र्ति॒¦वातो॒नजू॒तःस्त॒नय॑द्भिर॒भ्रैः || {12/21}{4.17.12}{4.2.7.12}{3.5.23.2}{197, 313, 3249} किय॑त्¦स्वि॒त्¦इन्द्रः॑¦अधि॑¦ए॒ति॒¦मा॒तुः¦किय॑त्¦पि॒तुः¦ज॒नि॒तुः¦यः¦ज॒जान॑ | |
क्षि॒यन्तं᳚त्व॒मक्षि॑यन्तंकृणो॒ती¦य॑र्तिरे॒णुंम॒घवा᳚स॒मोह᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} वि॒भ॒ञ्ज॒नुर॒शनि॑माँ,इव॒द्यौ¦रु॒तस्तो॒तारं᳚म॒घवा॒वसौ᳚धात् || {13/21}{4.17.13}{4.2.7.13}{3.5.23.3}{198, 313, 3250} क्षि॒यन्त᳚म्¦त्व॒म्¦अक्षि॑यन्तम्¦कृ॒णो॒ति॒¦इय॑र्ति¦रे॒णुम्¦म॒घऽवा᳚¦स॒म्ऽओह᳚म् | |
अ॒यंच॒क्रमि॑षण॒त्सूर्य॑स्य॒¦न्येत॑शंरीरमत्ससृमा॒णम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} आकृ॒ष्णईं᳚जुहुरा॒णोजि॑घर्ति¦त्व॒चोबु॒ध्नेरज॑सो,अ॒स्ययोनौ᳚ || {14/21}{4.17.14}{4.2.7.14}{3.5.23.4}{199, 313, 3251} अ॒यम्¦च॒क्रम्¦इ॒ष॒ण॒त्¦सूर्य॑स्य¦नि¦एत॑शम्¦री॒र॒म॒त्¦स॒सृ॒मा॒णम् | |
असि॑क्न्यां॒यज॑मानो॒नहोता᳚ || {गौतमो वामदेवः | इन्द्रः | एकपदा विराट्}{15/21}{4.17.15}{4.2.7.15}{3.5.23.5}{200, 313, 3252} असि॑क्न्याम्¦यज॑मानः¦न¦होता᳚ || |
ग॒व्यन्त॒इन्द्रं᳚स॒ख्याय॒विप्रा᳚,¦अश्वा॒यन्तो॒वृष॑णंवा॒जय᳚न्तः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ज॒नी॒यन्तो᳚जनि॒दामक्षि॑तोति॒¦माच्या᳚वयामोऽव॒तेनकोश᳚म् || {16/21}{4.17.16}{4.2.7.16}{3.5.24.1}{201, 313, 3253} ग॒व्यन्तः॑¦इन्द्र᳚म्¦स॒ख्याय॑¦विप्राः᳚¦अ॒श्व॒ऽयन्तः॑¦वृष॑णम्¦वा॒जय᳚न्तः | |
त्रा॒तानो᳚बोधि॒ददृ॑शानआ॒पि¦र॑भिख्या॒ताम॑र्डि॒तासो॒म्याना᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} सखा᳚पि॒तापि॒तृत॑मःपितॄ॒णां¦कर्ते᳚मुलो॒कमु॑श॒तेव॑यो॒धाः || {17/21}{4.17.17}{4.2.7.17}{3.5.24.2}{202, 313, 3254} त्रा॒ता¦नः॒¦बो॒धि॒¦ददृ॑शानः¦आ॒पिः¦अ॒भि॒ऽख्या॒ता¦म॒र्डि॒ता¦सो॒म्याना᳚म् | |
स॒खी॒य॒ताम॑वि॒ताबो᳚धि॒सखा᳚¦गृणा॒नइ᳚न्द्रस्तुव॒तेवयो᳚धाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} व॒यंह्याते᳚चकृ॒मास॒बाध॑¦आ॒भिःशमी᳚भिर्म॒हय᳚न्तइन्द्र || {18/21}{4.17.18}{4.2.7.18}{3.5.24.3}{203, 313, 3255} स॒खि॒ऽय॒ताम्¦अ॒वि॒ता¦बो॒धि॒¦सखा᳚¦गृ॒णा॒नः¦इ॒न्द्र॒¦स्तु॒व॒ते¦वयः॑¦धाः॒ | |
स्तु॒तइन्द्रो᳚म॒घवा॒यद्ध॑वृ॒त्रा¦भूरी॒ण्येको᳚,अप्र॒तीनि॑हन्ति |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अ॒स्यप्रि॒योज॑रि॒तायस्य॒शर्म॒¦न्नकि॑र्दे॒वावा॒रय᳚न्ते॒नमर्ताः᳚ || {19/21}{4.17.19}{4.2.7.19}{3.5.24.4}{204, 313, 3256} स्तु॒तः¦इन्द्रः॑¦म॒घऽवा᳚¦यत्¦ह॒¦वृ॒त्रा¦भूरी᳚णि¦एकः॑¦अ॒प्र॒तीनि॑¦ह॒न्ति॒ | |
ए॒वान॒इन्द्रो᳚म॒घवा᳚विर॒प्शी¦कर॑त्स॒त्याच॑र्षणी॒धृद॑न॒र्वा |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} त्वंराजा᳚ज॒नुषां᳚धेह्य॒स्मे¦,अधि॒श्रवो॒माहि॑नं॒यज्ज॑रि॒त्रे || {20/21}{4.17.20}{4.2.7.20}{3.5.24.5}{205, 313, 3257} ए॒व¦नः॒¦इन्द्रः॑¦म॒घऽवा᳚¦वि॒ऽर॒प्शी¦कर॑त्¦स॒त्या¦च॒र्ष॒णि॒ऽधृत्¦अ॒न॒र्वा | |
नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒न¦इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚¦धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {21/21}{4.17.21}{4.2.7.21}{3.5.24.6}{206, 313, 3258} नु¦स्तु॒तः¦इ॒न्द्र॒¦नु¦गृ॒णा॒नः¦इष᳚म्¦ज॒रि॒त्रे¦न॒द्यः॑¦न¦पी॒पे॒रिति॑ पीपेः | |
[18] अयंपंथाइति त्रयोदशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः आद्यायाइंद्रऋषिः नहीन्वस्येत्यादिसार्धतिसृणमदितिरृषिका आद्यायावामदेवोदेवता नाहमतइत्यादिपंचार्धर्चानामंत्यानांषण्णामृचांचेंद्रोदेवता नहीन्वस्येतिसार्धतिसृणांवामदेवोदेवतात्रिष्टुप् | |
अ॒यंपन्था॒,अनु॑वित्तःपुरा॒णो¦यतो᳚दे॒वा,उ॒दजा᳚यन्त॒विश्वे᳚ |{इन्द्रः | वामदेवः | त्रिष्टुप्} अत॑श्चि॒दाज॑निषीष्ट॒प्रवृ॑द्धो॒¦मामा॒तर॑ममु॒यापत्त॑वेकः || {1/13}{4.18.1}{4.2.8.1}{3.5.25.1}{207, 314, 3259} अ॒यम्¦पन्थाः᳚¦अनु॑ऽवित्तः¦पु॒रा॒णः¦यतः॑¦दे॒वाः¦उ॒त्।आजा᳚यन्त¦विश्वे᳚ | |
नाहमतो॒निर॑यादु॒र्गहै॒तत्¦ति॑र॒श्चता᳚पा॒र्श्वान्निर्ग॑माणि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ब॒हूनि॑मे॒,अकृ॑ता॒कर्त्वा᳚नि॒¦युध्यै᳚त्वेन॒संत्वे᳚नपृच्छै || {2/13}{4.18.2}{4.2.8.2}{3.5.25.2}{208, 314, 3260} न¦अ॒हम्¦अतः॑¦निः¦अ॒य॒¦दुः॒ऽगहा᳚¦ए॒तत्¦ति॒र॒श्चता᳚¦पा॒र्श्वात्¦निः¦ग॒मा॒नि॒ | |
प॒रा॒य॒तींमा॒तर॒मन्व॑चष्ट॒¦ननानु॑गा॒न्यनु॒नूग॑मानि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} त्वष्टु॑र्गृ॒हे,अ॑पिब॒त्सोम॒मिन्द्रः॑¦शतध॒न्यं᳚च॒म्वोः᳚सु॒तस्य॑ || {3/13}{4.18.3}{4.2.8.3}{3.5.25.3}{209, 314, 3261} प॒रा॒ऽय॒तीम्¦मा॒तर᳚म्¦अनु॑¦अ॒च॒ष्ट॒¦न¦न¦अनु॑¦गा॒नि॒¦अनु॑¦नु¦ग॒मा॒नि॒ | |
किंसऋध॑क्कृणव॒द्यंस॒हस्रं᳚¦मा॒सोज॒भार॑श॒रद॑श्चपू॒र्वीः |{१/२: गौतमो वामदेवः २/२:अदितिरृषिका | १/२:इन्द्रः २/२:वामदेवः | त्रिष्टुप्} न॒हीन्व॑स्यप्रति॒मान॒मस्त्य॒¦न्तर्जा॒तेषू॒तयेजनि॑त्वाः || {4/13}{4.18.4}{4.2.8.4}{3.5.25.4}{210, 314, 3262} किम्¦सः¦ऋध॑क्¦कृ॒ण॒व॒त्¦यम्¦स॒हस्र᳚म्¦मा॒सः¦ज॒भार॑¦श॒रदः॑¦च॒¦पू॒र्वीः | |
अ॒व॒द्यमि॑व॒मन्य॑माना॒गुहा᳚क॒¦रिन्द्रं᳚मा॒तावी॒र्ये᳚णा॒न्यृ॑ष्टम् |{अदितिरृषिका | वामदेवः | त्रिष्टुप्} अथोद॑स्थात्स्व॒यमत्कं॒वसा᳚न॒¦आरोद॑सी,अपृणा॒ज्जाय॑मानः || {5/13}{4.18.5}{4.2.8.5}{3.5.25.5}{211, 314, 3263} अ॒व॒द्यम्ऽइ᳚व¦मन्य॑माना¦गुहा᳚¦अ॒कः॒¦इन्द्र᳚म्¦मा॒ता¦वी॒र्ये᳚ण¦निऽऋ॑ष्टम् | |
ए॒ता,अ॑र्षन्त्यलला॒भव᳚न्ती¦रृ॒ताव॑रीरिवसं॒क्रोश॑मानाः |{अदितिरृषिका | वामदेवः | त्रिष्टुप्} ए॒ताविपृ॑च्छ॒किमि॒दंभ॑नन्ति॒¦कमापो॒,अद्रिं᳚परि॒धिंरु॑जन्ति || {6/13}{4.18.6}{4.2.8.6}{3.5.26.1}{212, 314, 3264} ए॒ताः¦अ॒र्ष॒न्ति॒¦अ॒ल॒ला॒ऽभव᳚न्तीः¦ऋ॒तव॑रीःऽइव¦स॒म्ऽक्रोश॑मानाः | |
किमु॑ष्विदस्मैनि॒विदो᳚भन॒न्ते¦न्द्र॑स्याव॒द्यंदि॑धिषन्त॒आपः॑ |{अदितिरृषिका | वामदेवः | त्रिष्टुप्} ममै॒तान्पु॒त्रोम॑ह॒ताव॒धेन॑¦वृ॒त्रंज॑घ॒न्वाँ,अ॑सृज॒द्विसिन्धू॑न् || {7/13}{4.18.7}{4.2.8.7}{3.5.26.2}{213, 314, 3265} किम्¦ऊँ॒ इति॑¦स्वि॒त्¦अ॒स्मै॒¦नि॒ऽविदः॑¦भ॒न॒न्त॒¦इन्द्र॑स्य¦अ॒व॒द्यम्¦दि॒धि॒ष॒न्ते॒¦आपः॑ | |
मम॑च्च॒नत्वा᳚युव॒तिःप॒रास॒¦मम॑च्च॒नत्वा᳚कु॒षवा᳚ज॒गार॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} मम॑च्चि॒दापः॒शिश॑वेममृड्यु॒¦र्मम॑च्चि॒दिन्द्रः॒सह॒सोद॑तिष्ठत् || {8/13}{4.18.8}{4.2.8.8}{3.5.26.3}{214, 314, 3266} मम॑त्¦च॒न¦त्वा॒¦यु॒व॒तिः¦प॒रा॒ऽआस॑¦मम॑त्¦च॒न¦त्वा॒¦कु॒षवा᳚¦ज॒गार॑ | |
मम॑च्च॒नते᳚मघव॒न्व्यं᳚सो¦निविवि॒ध्वाँ,अप॒हनू᳚ज॒घान॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अधा॒निवि॑द्ध॒उत्त॑रोबभू॒वाञ्¦छिरो᳚दा॒सस्य॒संपि॑णग्व॒धेन॑ || {9/13}{4.18.9}{4.2.8.9}{3.5.26.4}{215, 314, 3267} मम॑त्¦च॒न¦ते॒¦म॒घ॒ऽव॒न्¦वि।आं᳚सः¦नि॒ऽवि॒वि॒ध्वान्¦अप॑¦हनू॒ इति॑¦ज॒घान॑ | |
गृ॒ष्टिःस॑सूव॒स्थवि॑रंतवा॒गा¦म॑नाधृ॒ष्यंवृ॑ष॒भंतुम्र॒मिन्द्र᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अरी᳚ळ्हंव॒त्संच॒रथा᳚यमा॒ता¦स्व॒यंगा॒तुंत॒न्व॑इ॒च्छमा᳚नम् || {10/13}{4.18.10}{4.2.8.10}{3.5.26.5}{216, 314, 3268} गृ॒ष्टिः¦स॒सू॒व॒¦स्थवि॑रम्¦त॒वा॒गाम्¦अ॒ना॒धृ॒ष्यम्¦वृ॒ष॒भम्¦तुम्र᳚म्¦इन्द्र᳚म् | |
उ॒तमा॒ताम॑हि॒षमन्व॑वेन¦द॒मीत्वा᳚जहतिपुत्रदे॒वाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अथा᳚ब्रवीद्वृ॒त्रमिन्द्रो᳚हनि॒ष्यन्¦त्सखे᳚विष्णोवित॒रंविक्र॑मस्व || {11/13}{4.18.11}{4.2.8.11}{3.5.26.6}{217, 314, 3269} उ॒त¦मा॒ता¦म॒हि॒षम्¦अनु॑¦अ॒वे॒न॒त्¦अ॒मी इति॑¦त्वा॒¦ज॒ह॒ति॒¦पु॒त्र॒¦दे॒वाः | |
कस्ते᳚मा॒तरं᳚वि॒धवा᳚मचक्र¦च्छ॒युंकस्त्वाम॑जिघांस॒च्चर᳚न्तम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} कस्ते᳚दे॒वो,अधि॑मार्डी॒कआ᳚सी॒द्¦यत्प्राक्षि॑णाःपि॒तरं᳚पाद॒गृह्य॑ || {12/13}{4.18.12}{4.2.8.12}{3.5.26.7}{218, 314, 3270} कः¦ते॒¦मा॒तर᳚म्¦वि॒धवा᳚म्¦अ॒च॒क्र॒त्¦श॒युम्¦कः¦त्वाम्¦अ॒जि॒घां॒स॒त्¦चर᳚न्तम् | |
अव॑र्त्या॒शुन॑आ॒न्त्राणि॑पेचे॒¦नदे॒वेषु॑विविदेमर्डि॒तार᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अप॑श्यंजा॒यामम॑हीयमाना॒¦मधा᳚मेश्ये॒नोमध्वाज॑भार || {13/13}{4.18.13}{4.2.8.13}{3.5.26.8}{219, 314, 3271} अव॑र्त्या¦शुनः॑¦आ॒न्त्राणि॑¦पे॒चे॒¦न¦दे॒वेषु॑¦वि॒वि॒दे॒¦म॒र्डि॒तार᳚म् | |
[19] एवात्वामित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् | |
ए॒वात्वामि᳚न्द्रवज्रि॒न्नत्र॒¦विश्वे᳚दे॒वासः॑सु॒हवा᳚स॒ऊमाः᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} म॒हामु॒भेरोद॑सीवृ॒द्धमृ॒ष्वं¦निरेक॒मिद्वृ॑णतेवृत्र॒हत्ये᳚ || {1/11}{4.19.1}{4.2.9.1}{3.6.1.1}{220, 315, 3272} ए॒व¦त्वाम्¦इ॒न्द्र॒¦व॒ज्रि॒न्¦अत्र॑¦विश्वे᳚¦दे॒वासः॑¦सु॒ऽहवा᳚सः¦ऊमाः᳚ | |
अवा᳚सृजन्त॒जिव्र॑यो॒नदे॒वा¦भुवः॑स॒म्राळि᳚न्द्रस॒त्ययो᳚निः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अह॒न्नहिं᳚परि॒शया᳚न॒मर्णः॒¦प्रव॑र्त॒नीर॑रदोवि॒श्वधे᳚नाः || {2/11}{4.19.2}{4.2.9.2}{3.6.1.2}{221, 315, 3273} अव॑¦अ॒सृ॒ज॒न्त॒¦जिव्र॑यः¦न¦दे॒वाः¦भुवः॑¦स॒म्ऽराट्¦इ॒न्द्र॒¦स॒त्यऽयो᳚निः | |
अतृ॑प्णुवन्तं॒विय॑तमबु॒ध्य¦मबु॑ध्यमानंसुषुपा॒णमि᳚न्द्र |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स॒प्तप्रति॑प्र॒वत॑आ॒शया᳚न॒¦महिं॒वज्रे᳚ण॒विरि॑णा,अप॒र्वन् || {3/11}{4.19.3}{4.2.9.3}{3.6.1.3}{222, 315, 3274} अतृ॑प्णुवन्तम्¦विऽय॑तम्¦अ॒बु॒ध्यम्¦अबु॑ध्यमानम्¦सु॒सु॒पा॒नम्¦इ॒न्द्र॒ | |
अक्षो᳚दय॒च्छव॑सा॒क्षाम॑बु॒ध्नं¦वार्णवात॒स्तवि॑षीभि॒रिन्द्रः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} दृ॒ळ्हान्यौ᳚भ्नादु॒शमा᳚न॒ओजो¦ऽवा᳚भिनत्क॒कुभः॒पर्व॑तानाम् || {4/11}{4.19.4}{4.2.9.4}{3.6.1.4}{223, 315, 3275} अक्षो᳚दयत्¦शव॑सा¦क्षाम॑¦बु॒ध्नम्¦वाः¦न¦वातः॑¦तवि॑षीभिः¦इन्द्रः॑ | |
अ॒भिप्रद॑द्रु॒र्जन॑यो॒नगर्भं॒¦रथा᳚,इव॒प्रय॑युःसा॒कमद्र॑यः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अत॑र्पयोवि॒सृत॑उ॒ब्जऊ॒र्मीन्¦त्वंवृ॒ताँ,अ॑रिणा,इन्द्र॒सिन्धू॑न् || {5/11}{4.19.5}{4.2.9.5}{3.6.1.5}{224, 315, 3276} अ॒भि¦प्र¦द॒द्रुः॒¦जन॑यः¦न¦गर्भ᳚म्¦रथाः᳚ऽइव¦प्र¦य॒युः॒¦सा॒कम्¦अद्र॑यः | |
त्वंम॒हीम॒वनिं᳚वि॒श्वधे᳚नां¦तु॒र्वीत॑येव॒य्या᳚य॒क्षर᳚न्तीम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अर॑मयो॒नम॒सैज॒दर्णः॑¦सुतर॒णाँ,अ॑कृणोरिन्द्र॒सिन्धू॑न् || {6/11}{4.19.6}{4.2.9.6}{3.6.2.1}{225, 315, 3277} त्वम्¦म॒हीम्¦अ॒वनि᳚म्¦वि॒श्वऽधे᳚नाम्¦तु॒र्वीत॑ये¦व॒य्या᳚य¦क्षर᳚न्तीम् | |
प्राग्रुवो᳚नभ॒न्वो॒३॑(ओ॒)नवक्वा᳚¦ध्व॒स्रा,अ॑पिन्वद्युव॒तीरृ॑त॒ज्ञाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} धन्वा॒न्यज्राँ᳚,अपृणक्तृषा॒णाँ¦अधो॒गिन्द्रः॑स्त॒र्यो॒३॑(ओ॒)दंसु॑पत्नीः || {7/11}{4.19.7}{4.2.9.7}{3.6.2.2}{226, 315, 3278} प्र¦अ॒ग्रुवः॑¦न॒भ॒न्वः॑¦न¦वक्वाः᳚¦ध्व॒स्राः¦अ॒पि॒न्व॒त्¦यु॒व॒तीः¦ऋ॒त॒ऽज्ञाः | |
पू॒र्वीरु॒षसः॑श॒रद॑श्चगू॒र्ता¦वृ॒त्रंज॑घ॒न्वाँ,अ॑सृज॒द्विसिन्धू॑न् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} परि॑ष्ठिता,अतृणद्बद्बधा॒नाः¦सी॒रा,इन्द्रः॒स्रवि॑तवेपृथि॒व्या || {8/11}{4.19.8}{4.2.9.8}{3.6.2.3}{227, 315, 3279} पू॒र्वीः¦उ॒षसः॑¦श॒रदः॑¦च॒¦गू॒र्ताः¦वृ॒त्रम्¦ज॒घ॒न्वान्¦अ॒सृ॒ज॒त्¦वि¦सिन्धू॑न् | |
व॒म्रीभिः॑पु॒त्रम॒ग्रुवो᳚,अदा॒नं¦नि॒वेश॑नाद्धरिव॒आज॑भर्थ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} व्य१॑(अ॒)न्धो,अ॑ख्य॒दहि॑माददा॒नो¦निर्भू᳚दुख॒च्छित्सम॑रन्त॒पर्व॑ || {9/11}{4.19.9}{4.2.9.9}{3.6.2.4}{228, 315, 3280} व॒म्रीभिः॑¦पु॒त्रम्¦अ॒ग्रुवः॑¦अ॒दा॒नम्¦नि॒ऽवेश॑नात्¦ह॒रि॒ऽवः॒¦आ¦ज॒भ॒र्थ॒ | |
प्रते॒पूर्वा᳚णि॒कर॑णानिविप्रा¦ऽऽवि॒द्वाँ,आ᳚हवि॒दुषे॒करां᳚सि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} यथा᳚यथा॒वृष्ण्या᳚नि॒स्वगू॒र्ता¦ऽपां᳚सिराज॒न्नर्यावि॑वेषीः || {10/11}{4.19.10}{4.2.9.10}{3.6.2.5}{229, 315, 3281} प्र¦ते॒¦पूर्वा᳚णि¦कर॑णानि¦वि॒प्र॒¦आ॒ऽवि॒द्वान्¦आ॒ह॒¦वि॒दुषे᳚¦करां᳚सि | |
नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒न¦इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚¦धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {11/11}{4.19.11}{4.2.9.11}{3.6.2.6}{230, 315, 3282} नु¦स्तु॒तः¦इ॒न्द्र॒¦नु¦गृ॒णा॒नः¦इष᳚म्¦ज॒रि॒त्रे¦न॒द्यः॑¦न¦पी॒पे॒रिति॑ पीपेः | |
[20] आनइंद्रइत्येकादशर्चस्य सूक्तस्यगौतमोवामदेव इंद्रस्त्रिष्टुप् | |
आन॒इन्द्रो᳚दू॒रादान॑आ॒सा¦द॑भिष्टि॒कृदव॑सेयासदु॒ग्रः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ओजि॑ष्ठेभिर्नृ॒पति॒र्वज्र॑बाहुः¦सं॒गेस॒मत्सु॑तु॒र्वणिः॑पृत॒न्यून् || {1/11}{4.20.1}{4.2.10.1}{3.6.3.1}{231, 316, 3283} आ¦नः॒¦इन्द्रः॑¦दू॒रात्¦आ¦नः॒¦आ॒सात्¦अ॒भि॒ष्टि॒ऽकृत्¦अव॑से¦या॒स॒त्¦उ॒ग्रः | |
आन॒इन्द्रो॒हरि॑भिर्या॒त्वच्छा᳚¦ऽर्वाची॒नोऽव॑से॒राध॑सेच |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} तिष्ठा᳚तिव॒ज्रीम॒घवा᳚विर॒प्शी¦मंय॒ज्ञमनु॑नो॒वाज॑सातौ || {2/11}{4.20.2}{4.2.10.2}{3.6.3.2}{232, 316, 3284} आ¦नः॒¦इन्द्रः॑¦हरि॑ऽभिः¦या॒तु॒¦अच्छ॑¦अ॒र्वा॒ची॒नः¦अव॑से¦राध॑से¦च॒ | |
इ॒मंय॒ज्ञंत्वम॒स्माक॑मिन्द्र¦पु॒रोदध॑त्सनिष्यसि॒क्रतुं᳚नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} श्व॒घ्नीव॑वज्रिन्त्स॒नये॒धना᳚नां॒¦त्वया᳚व॒यम॒र्यआ॒जिंज॑येम || {3/11}{4.20.3}{4.2.10.3}{3.6.3.3}{233, 316, 3285} इ॒मम्¦य॒ज्ञम्¦त्वम्¦अ॒स्माक᳚म्¦इ॒न्द्र॒¦पु॒रः¦दध॑त्¦स॒नि॒ष्य॒सि॒¦क्रतु᳚म्¦नः॒ | |
उ॒शन्नु॒षुणः॑सु॒मना᳚,उपा॒के¦सोम॑स्य॒नुसुषु॑तस्यस्वधावः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} पा,इ᳚न्द्र॒प्रति॑भृतस्य॒मध्वः॒¦समन्ध॑साममदःपृ॒ष्ठ्ये᳚न || {4/11}{4.20.4}{4.2.10.4}{3.6.3.4}{234, 316, 3286} उ॒शन्¦ऊँ॒ इति॑¦सु¦नः॒¦सु॒ऽमनाः᳚¦उ॒पा॒के¦सोम॑स्य¦नु¦सुऽसु॑तस्य¦स्व॒धा॒ऽवः॒ | |
वियोर॑र॒प्शऋषि॑भि॒र्नवे᳚भि¦र्वृ॒क्षोनप॒क्वःसृण्यो॒नजेता᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} मर्यो॒नयोषा᳚म॒भिमन्य॑मा॒नो¦ऽच्छा᳚विवक्मिपुरुहू॒तमिन्द्र᳚म् || {5/11}{4.20.5}{4.2.10.5}{3.6.3.5}{235, 316, 3287} वि¦यः¦र॒र॒प्शे¦ऋषि॑ऽभिः¦नवे᳚भिः¦वृ॒क्षः¦न¦प॒क्वः¦सृण्यः॑¦न¦जेता᳚ | |
गि॒रिर्नयःस्वत॑वाँ,ऋ॒ष्वइन्द्रः॑¦स॒नादे॒वसह॑सेजा॒तउ॒ग्रः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} आद॑र्ता॒वज्रं॒स्थवि॑रं॒नभी॒म¦उ॒द्नेव॒कोशं॒वसु॑ना॒न्यृ॑ष्टम् || {6/11}{4.20.6}{4.2.10.6}{3.6.4.1}{236, 316, 3288} गि॒रिः¦न¦यः¦स्वऽत॑वान्¦ऋ॒ष्वः¦इन्द्रः॑¦स॒नात्¦ए॒व¦सह॑से¦जा॒तः¦उ॒ग्रः | |
नयस्य॑व॒र्ताज॒नुषा॒न्वस्ति॒¦नराध॑सआमरी॒ताम॒घस्य॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} उ॒द्वा॒वृ॒षा॒णस्त॑विषीवउग्रा॒¦ऽस्मभ्यं᳚दद्धिपुरुहूतरा॒यः || {7/11}{4.20.7}{4.2.10.7}{3.6.4.2}{237, 316, 3289} न¦यस्य॑¦व॒र्ता¦ज॒नुषा᳚¦नु¦अस्ति॑¦न¦राध॑सः¦आ॒ऽम॒री॒ता¦म॒घस्य॑ | |
ईक्षे᳚रा॒यः,क्षय॑स्यचर्षणी॒ना¦मु॒तव्र॒जम॑पव॒र्तासि॒गोना᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} शि॒क्षा॒न॒रःस॑मि॒थेषु॑प्र॒हावा॒न्¦वस्वो᳚रा॒शिम॑भिने॒तासि॒भूरि᳚म् || {8/11}{4.20.8}{4.2.10.8}{3.6.4.3}{238, 316, 3290} ईक्षे᳚¦रा॒यः¦क्षय॑स्य¦च॒र्ष॒णी॒नाम्¦उ॒त¦व्र॒जम्¦अ॒प॒ऽव॒र्ता¦अ॒सि॒¦गोना᳚म् | |
कया॒तच्छृ᳚ण्वे॒शच्या॒शचि॑ष्ठो॒¦यया᳚कृ॒णोति॒मुहु॒काचि॑दृ॒ष्वः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} पु॒रुदा॒शुषे॒विच॑यिष्ठो॒,अंहो¦ऽथा᳚दधाति॒द्रवि॑णंजरि॒त्रे || {9/11}{4.20.9}{4.2.10.9}{3.6.4.4}{239, 316, 3291} कया᳚¦तत्¦शृ॒ण्वे॒¦शच्या᳚¦शचि॑ष्ठः¦यया᳚¦कृ॒णोति॑¦मुहु॑¦का¦चि॒त्¦ऋ॒ष्वः | |
मानो᳚मर्धी॒राभ॑राद॒द्धितन्नः॒¦प्रदा॒शुषे॒दात॑वे॒भूरि॒यत्ते᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} नव्ये᳚दे॒ष्णेश॒स्ते,अ॒स्मिन्त॑उ॒क्थे¦प्रब्र॑वामव॒यमि᳚न्द्रस्तु॒वन्तः॑ || {10/11}{4.20.10}{4.2.10.10}{3.6.4.5}{240, 316, 3292} मा¦नः॒¦म॒र्धीः॒¦आ¦भ॒र॒¦द॒द्धि¦तत्¦नः॒¦प्र¦दा॒शुषे᳚¦दात॑वे¦भूरि॑¦यत्¦ते॒ | |
नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒न¦इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚¦धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {11/11}{4.20.11}{4.2.10.11}{3.6.4.6}{241, 316, 3293} नु¦स्तु॒तः¦इ॒न्द्र॒¦नु¦गृ॒णा॒नः¦इष᳚म्¦ज॒रि॒त्रे¦न॒द्यः॑¦न¦पी॒पे॒रिति॑ पीपेः | |
[21] आयात्विंद्र इत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् | |
आया॒त्विन्द्रोऽव॑स॒उप॑न¦इ॒हस्तु॒तःस॑ध॒माद॑स्तु॒शूरः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑पू॒र्वी¦र्द्यौर्नक्ष॒त्रम॒भिभू᳚ति॒पुष्या᳚त् || {1/11}{4.21.1}{4.2.11.1}{3.6.5.1}{242, 317, 3294} आ¦या॒तु॒¦इन्द्रः॑¦अव॑से¦उप॑¦नः॒¦इ॒ह¦स्तु॒तः¦स॒ध॒ऽमात्¦अ॒स्तु॒¦शूरः॑ | |
तस्येदि॒हस्त॑वथ॒वृष्ण्या᳚नि¦तुविद्यु॒म्नस्य॑तुवि॒राध॑सो॒नॄन् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} यस्य॒क्रतु᳚र्विद॒थ्यो॒३॑(ओ॒)नस॒म्राट्¦सा॒ह्वान्तरु॑त्रो,अ॒भ्यस्ति॑कृ॒ष्टीः || {2/11}{4.21.2}{4.2.11.2}{3.6.5.2}{243, 317, 3295} तस्य॑¦इत्¦इ॒ह¦स्त॒व॒थ॒¦वृष्ण्या᳚नि¦तु॒वि॒ऽद्यु॒म्नस्य॑¦तु॒वि॒ऽराध॑सः¦नॄन् | |
आया॒त्विन्द्रो᳚दि॒वआपृ॑थि॒व्या¦म॒क्षूस॑मु॒द्रादु॒तवा॒पुरी᳚षात् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स्व᳚र्णरा॒दव॑सेनोम॒रुत्वा᳚न्¦परा॒वतो᳚वा॒सद॑नादृ॒तस्य॑ || {3/11}{4.21.3}{4.2.11.3}{3.6.5.3}{244, 317, 3296} आ¦या॒तु॒¦इन्द्रः॑¦दि॒वः¦आ¦पृ॒थि॒व्याः¦म॒क्षु¦स॒मु॒द्रात्¦उ॒त¦वा॒¦पुरी᳚षात् | |
स्थू॒रस्य॑रा॒योबृ॑ह॒तोयईशे॒¦तमु॑ष्टवामवि॒दथे॒ष्विन्द्र᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} योवा॒युना॒जय॑ति॒गोम॑तीषु॒¦प्रधृ॑ष्णु॒यानय॑ति॒वस्यो॒,अच्छ॑ || {4/11}{4.21.4}{4.2.11.4}{3.6.5.4}{245, 317, 3297} स्थू॒रस्य॑¦रा॒यः¦बृ॒ह॒तः¦यः¦ईशे᳚¦तम्¦ऊँ॒ इति॑¦स्त॒वा॒म॒¦वि॒दथे᳚षु¦इन्द्र᳚म् | |
उप॒योनमो॒नम॑सिस्तभा॒य¦न्निय॑र्ति॒वाचं᳚ज॒नय॒न्यज॑ध्यै |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ऋ॒ञ्ज॒सा॒नःपु॑रु॒वार॑उ॒क्थै¦रेन्द्रं᳚कृण्वीत॒सद॑नेषु॒होता᳚ || {5/11}{4.21.5}{4.2.11.5}{3.6.5.5}{246, 317, 3298} उप॑¦यः¦नमः॑¦नम॑सि¦स्त॒भा॒यन्¦इय॑र्ति¦वाच᳚म्¦ज॒नय॑न्¦यज॑ध्यै | |
धि॒षायदि॑धिष॒ण्यन्तः॑सर॒ण्यान्¦त्सद᳚न्तो॒,अद्रि॑मौशि॒जस्य॒गोहे᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} आदु॒रोषाः᳚पा॒स्त्यस्य॒होता॒¦योनो᳚म॒हान्त्सं॒वर॑णेषु॒वह्निः॑ || {6/11}{4.21.6}{4.2.11.6}{3.6.6.1}{247, 317, 3299} धि॒षा¦यदि॑¦धि॒ष॒ण्यन्तः॑¦स॒र॒ण्यान्¦सद᳚न्तः¦अद्रि᳚म्¦औ॒शि॒जस्य॑¦गोहे᳚ | |
स॒त्रायदीं᳚भार्व॒रस्य॒वृष्णः॒¦सिष॑क्ति॒शुष्मः॑स्तुव॒तेभरा᳚य |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} गुहा॒यदी᳚मौशि॒जस्य॒गोहे॒¦प्रयद्धि॒येप्राय॑से॒मदा᳚य || {7/11}{4.21.7}{4.2.11.7}{3.6.6.2}{248, 317, 3300} स॒त्रा¦यत्¦इ॒म्¦भा॒र्व॒रस्य॑¦वृष्णः॑¦सिस॑क्ति¦शुष्मः॑¦स्तु॒व॒ते¦भरा᳚य | |
वियद्वरां᳚सि॒पर्व॑तस्यवृ॒ण्वे¦पयो᳚भिर्जि॒न्वे,अ॒पांजवां᳚सि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} वि॒दद्गौ॒रस्य॑गव॒यस्य॒गोहे॒¦यदी॒वाजा᳚यसु॒ध्यो॒३॑(ओ॒)वह᳚न्ति || {8/11}{4.21.8}{4.2.11.8}{3.6.6.3}{249, 317, 3301} वि¦यत्¦वरां᳚सि¦पर्व॑तस्य¦वृ॒ण्वे¦पयः॑ऽभिः¦जि॒न्वे¦अ॒पाम्¦जवां᳚सि | |
भ॒द्राते॒हस्ता॒सुकृ॑तो॒तपा॒णी¦प्र॑य॒न्तारा᳚स्तुव॒तेराध॑इन्द्र |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} काते॒निष॑त्तिः॒किमु॒नोम॑मत्सि॒¦किंनोदु॑दुहर्षसे॒दात॒वा,उ॑ || {9/11}{4.21.9}{4.2.11.9}{3.6.6.4}{250, 317, 3302} भ॒द्रा¦ते॒¦हस्ता᳚¦सुऽकृ॑ता¦उ॒त¦पा॒णी इति॑¦प्र॒ऽय॒न्तारा᳚¦स्तु॒व॒ते¦राधः॑¦इ॒न्द्र॒ | |
ए॒वावस्व॒इन्द्रः॑स॒त्यःस॒म्रा¦ड्ढन्ता᳚वृ॒त्रंवरि॑वःपू॒रवे᳚कः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} पुरु॑ष्टुत॒क्रत्वा᳚नःशग्धिरा॒यो¦भ॑क्षी॒यतेऽव॑सो॒दैव्य॑स्य || {10/11}{4.21.10}{4.2.11.10}{3.6.6.5}{251, 317, 3303} ए॒व¦वस्वः॑¦इन्द्रः॑¦स॒त्यः¦स॒म्ऽराट्¦हन्ता᳚¦वृ॒त्रम्¦वरि॑वः¦पू॒रवे᳚¦क॒रिति॑ कः | |
नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒न¦इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚¦धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {11/11}{4.21.11}{4.2.11.11}{3.6.6.6}{252, 317, 3304} नु¦स्तु॒तः¦इ॒न्द्र॒¦नु¦गृ॒णा॒नः¦इष᳚म्¦ज॒रि॒त्रे¦न॒द्यः॑¦न¦पी॒पे॒रिति॑ पीपेः | |
[22] यन्नइंद्र इत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् | |
यन्न॒इन्द्रो᳚जुजु॒षेयच्च॒वष्टि॒¦तन्नो᳚म॒हान्क॑रतिशु॒ष्म्याचि॑त् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ब्रह्म॒स्तोमं᳚म॒घवा॒सोम॑मु॒क्था¦यो,अश्मा᳚नं॒शव॑सा॒बिभ्र॒देति॑ || {1/11}{4.22.1}{4.3.1.1}{3.6.7.1}{253, 318, 3305} यत्¦नः॒¦इन्द्रः॑¦जु॒जु॒षे¦यत्¦च॒¦व॒ष्टि॒¦तत्¦नः॒¦म॒हान्¦क॒र॒ति॒¦शु॒ष्मी¦आ¦चि॒त् | |
वृषा॒वृष᳚न्धिं॒चतु॑रश्रि॒मस्य᳚¦न्नु॒ग्रोबा॒हुभ्यां॒नृत॑मः॒शची᳚वान् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} श्रि॒येपरु॑ष्णीमु॒षमा᳚ण॒ऊर्णां॒¦यस्याः॒पर्वा᳚णिस॒ख्याय॑वि॒व्ये || {2/11}{4.22.2}{4.3.1.2}{3.6.7.2}{254, 318, 3306} वृषा᳚¦वृष᳚न्धिम्¦चतुः॑।आश्रिम्¦अस्य॑न्¦उ॒ग्रः¦बा॒हुऽभ्या᳚म्¦नृऽत॑मः¦शची᳚ऽवान् | |
योदे॒वोदे॒वत॑मो॒जाय॑मानो¦म॒होवाजे᳚भिर्म॒हद्भि॑श्च॒शुष्मैः᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} दधा᳚नो॒वज्रं᳚बा॒ह्वोरु॒शन्तं॒¦द्याममे᳚नरेजय॒त्प्रभूम॑ || {3/11}{4.22.3}{4.3.1.3}{3.6.7.3}{255, 318, 3307} यः¦दे॒वः¦दे॒वऽत॑मः¦जाय॑मानः¦म॒हः¦वाजे᳚भिः¦म॒हत्ऽभिः॑¦च॒¦शुष्मैः᳚ | |
विश्वा॒रोधां᳚सिप्र॒वत॑श्चपू॒र्वी¦र्द्यौरृ॒ष्वाज्जनि॑मन्रेजत॒क्षाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} आमा॒तरा॒भर॑तिशु॒ष्म्यागो¦र्नृ॒वत्परि॑ज्मन्नोनुवन्त॒वाताः᳚ || {4/11}{4.22.4}{4.3.1.4}{3.6.7.4}{256, 318, 3308} विश्वा᳚¦रोधां᳚सि¦प्र॒ऽवतः॑¦च॒¦पू॒र्वीः¦द्यौः¦ऋ॒ष्वात्¦जनि॑मन्¦रे॒ज॒त॒¦क्षाः | |
तातूत॑इन्द्रमह॒तोम॒हानि॒¦विश्वे॒ष्वित्सव॑नेषुप्र॒वाच्या᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} यच्छू᳚रधृष्णोधृष॒ताद॑धृ॒ष्वा¦नहिं॒वज्रे᳚ण॒शव॒सावि॑वेषीः || {5/11}{4.22.5}{4.3.1.5}{3.6.7.5}{257, 318, 3309} ता¦तु¦ते॒¦इ॒न्द्र॒¦म॒ह॒तः¦म॒हानि॑¦विश्वे᳚षु¦इत्¦सव॑नेषु¦प्र॒ऽवाच्या᳚ | |
तातूते᳚स॒त्यातु॑विनृम्ण॒विश्वा॒¦प्रधे॒नवः॑सिस्रते॒वृष्ण॒ऊध्नः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अधा᳚ह॒त्वद्वृ॑षमणोभिया॒नाः¦प्रसिन्ध॑वो॒जव॑साचक्रमन्त || {6/11}{4.22.6}{4.3.1.6}{3.6.8.1}{258, 318, 3310} ता¦तु¦ते॒¦स॒त्या¦तु॒वि॒ऽनृ॒म्ण॒¦विश्वा᳚¦प्र¦धे॒नवः॑¦सि॒स्र॒ते॒¦वृष्णः॑¦ऊध्नः॑ | |
अत्राह॑तेहरिव॒स्ता,उ॑दे॒वी¦रवो᳚भिरिन्द्रस्तवन्त॒स्वसा᳚रः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} यत्सी॒मनु॒प्रमु॒चोब॑द्बधा॒ना¦दी॒र्घामनु॒प्रसि॑तिंस्यन्द॒यध्यै᳚ || {7/11}{4.22.7}{4.3.1.7}{3.6.8.2}{259, 318, 3311} अत्र॑¦अह॑¦ते॒¦ह॒रि॒ऽवः॒¦ताः¦ऊँ॒ इति॑¦दे॒वीः¦अवः॑ऽभिः¦इ॒न्द्र॒¦स्त॒व॒न्त॒¦स्वसा᳚रः | |
पि॒पी॒ळे,अं॒शुर्मद्यो॒नसिन्धु॒¦रात्वा॒शमी᳚शशमा॒नस्य॑श॒क्तिः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अ॒स्म॒द्र्य॑क्छुशुचा॒नस्य॑यम्या¦,आ॒शुर्नर॒श्मिंतु॒व्योज॑सं॒गोः || {8/11}{4.22.8}{4.3.1.8}{3.6.8.3}{260, 318, 3312} पि॒पी॒ळे¦अं॒शुः¦मद्यः॑¦न¦सिन्धुः॑¦आ¦त्वा॒¦शमी᳚¦श॒श॒मा॒नस्य॑¦श॒क्तिः | |
अ॒स्मेवर्षि॑ष्ठाकृणुहि॒ज्येष्ठा᳚¦नृ॒म्णानि॑स॒त्रास॑हुरे॒सहां᳚सि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अ॒स्मभ्यं᳚वृ॒त्रासु॒हना᳚निरन्धि¦ज॒हिवध᳚र्व॒नुषो॒मर्त्य॑स्य || {9/11}{4.22.9}{4.3.1.9}{3.6.8.4}{261, 318, 3313} अ॒स्मे इति॑¦वर्षि॑ष्ठा¦कृ॒णु॒हि॒¦ज्येष्ठा᳚¦नृ॒म्णानि॑¦स॒त्रा¦स॒हु॒रे॒¦सहां᳚सि | |
अ॒स्माक॒मित्सुशृ॑णुहि॒त्वमि᳚न्द्रा॒¦ऽस्मभ्यं᳚चि॒त्राँ,उप॑माहि॒वाजा॑न् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अ॒स्मभ्यं॒विश्वा᳚,इषणः॒पुरं᳚धी¦र॒स्माकं॒सुम॑घवन्बोधिगो॒दाः || {10/11}{4.22.10}{4.3.1.10}{3.6.8.5}{262, 318, 3314} अ॒स्माक᳚म्¦इत्¦सु¦शृ॒णु॒हि॒¦त्वम्¦इ॒न्द्र॒¦अ॒स्मभ्य᳚म्¦चि॒त्रान्¦उप॑¦मा॒हि॒¦वाजा॑न् | |
नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒न¦इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚¦धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {11/11}{4.22.11}{4.3.1.11}{3.6.8.6}{263, 318, 3315} नु¦स्तु॒तः¦इ॒न्द्र॒¦नु¦गृ॒णा॒नः¦इष᳚म्¦ज॒रि॒त्रे¦न॒द्यः॑¦न¦पी॒पे॒रिति॑ पीपेः | |
[23] कथामहामित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् ( अंत्यानांतिसृणांऋतंदेवतावा ) | |
क॒थाम॒हाम॑वृध॒त्कस्य॒होतु᳚¦र्य॒ज्ञंजु॑षा॒णो,अ॒भिसोम॒मूधः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} पिब᳚न्नुशा॒नोजु॒षमा᳚णो॒,अन्धो᳚¦वव॒क्षऋ॒ष्वःशु॑च॒तेधना᳚य || {1/11}{4.23.1}{4.3.2.1}{3.6.9.1}{264, 319, 3316} क॒था¦म॒हाम्¦अ॒वृ॒ध॒त्¦कस्य॑¦होतुः॑¦य॒ज्ञम्¦जु॒षा॒णः¦अ॒भि¦सोम᳚म्¦ऊधः॑ | |
को,अ॑स्यवी॒रःस॑ध॒माद॑माप॒¦समा᳚नंशसुम॒तिभिः॒को,अ॑स्य |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} कद॑स्यचि॒त्रंचि॑किते॒कदू॒ती¦वृ॒धेभु॑वच्छशमा॒नस्य॒यज्योः᳚ || {2/11}{4.23.2}{4.3.2.2}{3.6.9.2}{265, 319, 3317} कः¦अ॒स्य॒¦वी॒रः¦स॒ध॒ऽमाद᳚म्¦आ॒प॒¦सम्¦आ॒नं॒श॒¦सु॒म॒तिऽभिः॑¦कः¦अ॒स्य॒ | |
क॒थाशृ॑णोतिहू॒यमा᳚न॒मिन्द्रः॑¦क॒थाशृ॒ण्वन्नव॑सामस्यवेद |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} का,अ॑स्यपू॒र्वीरुप॑मातयोह¦क॒थैन॑माहुः॒पपु॑रिंजरि॒त्रे || {3/11}{4.23.3}{4.3.2.3}{3.6.9.3}{266, 319, 3318} क॒था¦शृ॒णो॒ति॒¦हू॒यमा᳚नम्¦इन्द्रः॑¦क॒था¦शृ॒ण्वन्¦अव॑साम्¦अ॒स्य॒¦वे॒द॒ | |
क॒थास॒बाधः॑शशमा॒नो,अ॑स्य॒¦नश॑द॒भिद्रवि॑णं॒दीध्या᳚नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} दे॒वोभु॑व॒न्नवे᳚दामऋ॒तानां॒¦नमो᳚जगृ॒भ्वाँ,अ॒भियज्जुजो᳚षत् || {4/11}{4.23.4}{4.3.2.4}{3.6.9.4}{267, 319, 3319} क॒था¦स॒ऽबाधः॑¦श॒श॒मा॒नः¦अ॒स्य॒¦नश॑त्¦अ॒भि¦द्रवि॑णम्¦दीध्या᳚नः | |
क॒थाकद॒स्या,उ॒षसो॒व्यु॑ष्टौ¦दे॒वोमर्त॑स्यस॒ख्यंजु॑जोष |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} क॒थाकद॑स्यस॒ख्यंसखि॑भ्यो॒¦ये,अ॑स्मि॒न्कामं᳚सु॒युजं᳚तत॒स्रे || {5/11}{4.23.5}{4.3.2.5}{3.6.9.5}{268, 319, 3320} क॒था¦कत्¦अ॒स्याः¦उ॒षसः॑¦वि।औ᳚ष्टौ¦दे॒वः¦मर्त॑स्य¦स॒ख्यम्¦जु॒जो॒ष॒ | |
किमादम॑त्रंस॒ख्यंसखि॑भ्यः¦क॒दानुते᳚भ्रा॒त्रंप्रब्र॑वाम |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} श्रि॒येसु॒दृशो॒वपु॑रस्य॒सर्गाः॒¦स्व१॑(अ॒)र्णचि॒त्रत॑ममिष॒आगोः || {6/11}{4.23.6}{4.3.2.6}{3.6.10.1}{269, 319, 3321} किम्¦आत्¦अम॑त्रम्¦स॒ख्यम्¦सखि॑ऽभ्यः¦क॒दा¦नु¦ते॒¦भ्रा॒त्रम्¦प्र¦ब्र॒वा॒म॒ | |
द्रुहं॒जिघां᳚सन्ध्व॒रस॑मनि॒न्द्रां¦तेति॑क्तेति॒ग्मातु॒जसे॒,अनी᳚का |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ऋ॒णाचि॒द्यत्र॑ऋण॒यान॑उ॒ग्रो¦दू॒रे,अज्ञा᳚ता,उ॒षसो᳚बबा॒धे || {7/11}{4.23.7}{4.3.2.7}{3.6.10.2}{270, 319, 3322} द्रुह᳚म्¦जिघां᳚सन्¦ध्व॒रस᳚म्¦अ॒नि॒न्द्राम्¦तेति॑क्ते¦ति॒ग्मा¦तु॒जसे᳚¦अनी᳚का | |
ऋ॒तस्य॒हिशु॒रुधः॒सन्ति॑पू॒र्वी¦रृ॒तस्य॑धी॒तिर्वृ॑जि॒नानि॑हन्ति |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ऋ॒तस्य॒श्लोको᳚बधि॒रात॑तर्द॒¦कर्णा᳚बुधा॒नःशु॒चमा᳚नआ॒योः || {8/11}{4.23.8}{4.3.2.8}{3.6.10.3}{271, 319, 3323} ऋ॒तस्य॑¦हि¦शु॒रुधः॑¦सन्ति॑¦पू॒र्वीः¦ऋ॒तस्य॑¦धी॒तिः¦वृ॒जि॒नानि॑¦ह॒न्ति॒ | |
ऋ॒तस्य॑दृ॒ळ्हाध॒रुणा᳚निसन्ति¦पु॒रूणि॑च॒न्द्रावपु॑षे॒वपूं᳚षि |{गौतमो वामदेवः | इन्द्रऱ्ऱितदेवता वा | त्रिष्टुप्} ऋ॒तेन॑दी॒र्घमि॑षणन्त॒पृक्ष॑¦ऋ॒तेन॒गाव॑ऋ॒तमावि॑वेशुः || {9/11}{4.23.9}{4.3.2.9}{3.6.10.4}{272, 319, 3324} ऋ॒तस्य॑¦दृ॒ळ्हा¦ध॒रुणा᳚नि¦स॒न्ति॒¦पु॒रूणि॑¦च॒न्द्रा¦वपु॑षे¦वपूं᳚षि | |
ऋ॒तंये᳚मा॒नऋ॒तमिद्व॑नोत्यृ॒¦तस्य॒शुष्म॑स्तुर॒या,उ॑ग॒व्युः |{गौतमो वामदेवः | इन्द्रऱ्ऱितदेवता वा | त्रिष्टुप्} ऋ॒ताय॑पृ॒थ्वीब॑हु॒लेग॑भी॒रे¦ऋ॒ताय॑धे॒नूप॑र॒मेदु॑हाते || {10/11}{4.23.10}{4.3.2.10}{3.6.10.5}{273, 319, 3325} ऋ॒तम्¦ये॒मा॒नः¦ऋ॒तम्¦इत्¦व॒नो॒ति॒¦ऋ॒तस्य॑¦शुष्मः॑¦तु॒र॒ऽयाः¦ऊँ॒ इति॑¦ग॒व्युः | |
नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒न¦इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |{गौतमो वामदेवः | इन्द्रऱ्ऱितदेवता वा | त्रिष्टुप्} अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚¦धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {11/11}{4.23.11}{4.3.2.11}{3.6.10.6}{274, 319, 3326} नु¦स्तु॒तः¦इ॒न्द्र॒¦नु¦गृ॒णा॒नः¦इष᳚म्¦ज॒रि॒त्रे¦न॒द्यः॑¦न¦पी॒पे॒रिति॑ पीपेः | |
[24] कासुष्टुतिरित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् | |
कासु॑ष्टु॒तिःशव॑सःसू॒नुमिन्द्र॑¦मर्वाची॒नंराध॑स॒आव॑वर्तत् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} द॒दिर्हिवी॒रोगृ॑ण॒तेवसू᳚नि॒¦सगोप॑तिर्नि॒ष्षिधां᳚नोजनासः || {1/11}{4.24.1}{4.3.3.1}{3.6.11.1}{275, 320, 3327} का¦सु॒ऽस्तु॒तिः¦शव॑सः¦सू॒नुम्¦इन्द्र᳚म्¦अ॒र्वा॒ची॒नम्¦राध॑से¦आ¦व॒व॒र्त॒त् | |
सवृ॑त्र॒हत्ये॒हव्यः॒सईड्यः॒¦ससुष्टु॑त॒इन्द्रः॑स॒त्यरा᳚धाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} सयाम॒न्नाम॒घवा॒मर्त्या᳚य¦ब्रह्मण्य॒तेसुष्व॑ये॒वरि॑वोधात् || {2/11}{4.24.2}{4.3.3.2}{3.6.11.2}{276, 320, 3328} सः¦वृ॒त्र॒ऽहत्ये᳚¦हव्यः॑¦सः¦ईड्यः॑¦सः¦सुऽस्तु॑तः¦इन्द्रः॑¦स॒त्यऽरा᳚धाः | |
तमिन्नरो॒विह्व॑यन्तेसमी॒के¦रि॑रि॒क्वांस॑स्त॒न्वः॑कृण्वत॒त्राम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} मि॒थोयत्त्या॒गमु॒भया᳚सो॒,अग्म॒न्¦नर॑स्तो॒कस्य॒तन॑यस्यसा॒तौ || {3/11}{4.24.3}{4.3.3.3}{3.6.11.3}{277, 320, 3329} तम्¦इत्¦नरः॑¦वि¦ह्व॒य॒न्ते॒¦स॒म्ऽई॒के¦रि॒रि॒क्वांसः॑¦त॒न्वः॑¦कृ॒ण्व॒त॒¦त्राम् | |
क्र॒तू॒यन्ति॑क्षि॒तयो॒योग॑उग्रा¦ऽऽशुषा॒णासो᳚मि॒थो,अर्ण॑सातौ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} संयद्विशोऽव॑वृत्रन्तयु॒ध्मा¦,आदिन्नेम॑इन्द्रयन्ते,अ॒भीके᳚ || {4/11}{4.24.4}{4.3.3.4}{3.6.11.4}{278, 320, 3330} क्र॒तु॒ऽयन्ति॑¦क्षि॒तयः॑¦योगे᳚¦उ॒ग्र॒¦आ॒शु॒षा॒णासः॑¦मि॒थः¦अर्ण॑ऽसातौ | |
आदिद्ध॒नेम॑इन्द्रि॒यंय॑जन्त॒¦आदित्प॒क्तिःपु॑रो॒ळाशं᳚रिरिच्यात् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} आदित्सोमो॒विप॑पृच्या॒दसु॑ष्वी॒¦नादिज्जु॑जोषवृष॒भंयज॑ध्यै || {5/11}{4.24.5}{4.3.3.5}{3.6.11.5}{279, 320, 3331} आत्¦इत्¦ह॒¦नेमे᳚¦इ॒न्द्रि॒यम्¦य॒ज॒न्ते॒¦आत्¦इत्¦प॒क्तिः¦पु॒रो॒ळाश᳚म्¦रि॒रि॒च्या॒त् | |
कृ॒णोत्य॑स्मै॒वरि॑वो॒यइ॒त्थे¦न्द्रा᳚य॒सोम॑मुश॒तेसु॒नोति॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स॒ध्री॒चीने᳚न॒मन॒सावि॑वेन॒न्¦तमित्सखा᳚यंकृणुतेस॒मत्सु॑ || {6/11}{4.24.6}{4.3.3.6}{3.6.12.1}{280, 320, 3332} कृ॒णोति॑¦अ॒स्मै॒¦वरि॑वः¦यः¦इ॒त्था¦इन्द्रा᳚य¦सोम᳚म्¦उ॒श॒ते¦सु॒नोति॑ | |
यइन्द्रा᳚यसु॒नव॒त्सोम॑म॒द्य¦पचा᳚त्प॒क्तीरु॒तभृ॒ज्जाति॑धा॒नाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} प्रति॑मना॒योरु॒चथा᳚नि॒हर्य॒न्¦तस्मि᳚न्दध॒द्वृष॑णं॒शुष्म॒मिन्द्रः॑ || {7/11}{4.24.7}{4.3.3.7}{3.6.12.2}{281, 320, 3333} यः¦इन्द्रा᳚य¦सु॒नव॑त्¦सोम᳚म्¦अ॒द्य¦पचा᳚त्¦प॒क्तीः¦उ॒त¦भृ॒ज्जाति॑¦धा॒नाः | |
य॒दास॑म॒र्यंव्यचे॒दृघा᳚वा¦दी॒र्घंयदा॒जिम॒भ्यख्य॑द॒र्यः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अचि॑क्रद॒द्वृष॑णं॒पत्न्यच्छा᳚¦दुरो॒णआनिशि॑तंसोम॒सुद्भिः॑ || {8/11}{4.24.8}{4.3.3.8}{3.6.12.3}{282, 320, 3334} य॒दा¦स॒ऽम॒र्यम्¦वि¦अचे᳚त्¦ऋघा᳚वा¦दी॒र्घम्¦यत्¦आ॒जिम्¦अ॒भि¦अख्य॑त्¦अ॒र्यः | |
भूय॑साव॒स्नम॑चर॒त्कनी॒यो¦ऽवि॑क्रीतो,अकानिषं॒पुन॒र्यन् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} सभूय॑सा॒कनी᳚यो॒नारि॑रेचीद्¦दी॒नादक्षा॒विदु॑हन्ति॒प्रवा॒णम् || {9/11}{4.24.9}{4.3.3.9}{3.6.12.4}{283, 320, 3335} भूय॑सा¦व॒स्नम्¦अ॒च॒र॒त्¦क॒नी॒यः¦अवि॑ऽक्रीतः¦अ॒का॒नि॒ष॒म्¦पुनः॑¦यन् | |
कइ॒मंद॒शभि॒र्ममे¦न्द्रं᳚क्रीणातिधे॒नुभिः॑ |{गौतमो वामदेवः | इन्द्रः | अनुष्टुप्} य॒दावृ॒त्राणि॒जङ्घ॑न॒¦दथै᳚नंमे॒पुन॑र्ददत् || {10/11}{4.24.10}{4.3.3.10}{3.6.12.5}{284, 320, 3336} कः¦इ॒मम्¦द॒शऽभिः॑¦मम॑¦इन्द्र᳚म्¦क्री॒णा॒ति॒¦धे॒नुऽभिः॑ | य॒दा¦वृ॒त्राणि॑¦जङ्घ॑नत्¦अथ॑¦ए॒न॒म्¦मे॒¦पुनः॑¦द॒द॒त् || |
नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒न¦इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚¦धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {11/11}{4.24.11}{4.3.3.11}{3.6.12.6}{285, 320, 3337} नु¦स्तु॒तः¦इ॒न्द्र॒¦नु¦गृ॒णा॒नः¦इष᳚म्¦ज॒रि॒त्रे¦न॒द्यः॑¦न¦पी॒पे॒रिति॑ पीपेः | |
[25] कोअद्येत्यष्टर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् | |
को,अ॒द्यनर्यो᳚दे॒वका᳚म¦उ॒शन्निन्द्र॑स्यस॒ख्यंजु॑जोष |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} कोवा᳚म॒हेऽव॑से॒पार्या᳚य॒¦समि॑द्धे,अ॒ग्नौसु॒तसो᳚मईट्टे || {1/8}{4.25.1}{4.3.4.1}{3.6.13.1}{286, 321, 3338} कः¦अ॒द्य¦नर्यः॑¦दे॒वऽका᳚मः¦उ॒शन्¦इन्द्र॑स्य¦स॒ख्यम्¦जु॒जो॒ष॒ | |
कोना᳚नाम॒वच॑सासो॒म्याय॑¦मना॒युर्वा᳚भवति॒वस्त॑उ॒स्राः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} कइन्द्र॑स्य॒युज्यं॒कःस॑खि॒त्वं¦कोभ्रा॒त्रंव॑ष्टिक॒वये॒कऊ॒ती || {2/8}{4.25.2}{4.3.4.2}{3.6.13.2}{287, 321, 3339} कः¦न॒ना॒म॒¦वच॑सा¦सो॒म्याय॑¦म॒ना॒युः¦वा॒¦भ॒व॒ति॒¦वस्ते᳚¦उ॒स्राः | |
कोदे॒वाना॒मवो᳚,अ॒द्यावृ॑णीते॒¦कआ᳚दि॒त्याँ,अदि॑तिं॒ज्योति॑रीट्टे |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} कस्या॒श्विना॒विन्द्रो᳚,अ॒ग्निःसु॒तस्यां॒¦ऽशोःपि॑बन्ति॒मन॒सावि॑वेनम् || {3/8}{4.25.3}{4.3.4.3}{3.6.13.3}{288, 321, 3340} कः¦दे॒वाना᳚म्¦अवः॑¦अ॒द्य¦वृ॒णी॒ते॒¦कः¦आ॒दि॒त्यान्¦अदि॑तिम्¦ज्योतिः॑¦ई॒ट्टे॒ | |
तस्मा᳚,अ॒ग्निर्भार॑तः॒शर्म॑यंस॒¦ज्ज्योक्प॑श्या॒त्सूर्य॑मु॒च्चर᳚न्तम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} यइन्द्रा᳚यसु॒नवा॒मेत्याह॒¦नरे॒नर्या᳚य॒नृत॑मायनृ॒णाम् || {4/8}{4.25.4}{4.3.4.4}{3.6.13.4}{289, 321, 3341} तस्मै᳚¦अ॒ग्निः¦भार॑तः¦शर्म॑¦यं॒स॒त्¦ज्योक्¦प॒श्या॒त्¦सूर्य᳚म्¦उ॒त्ऽचर᳚न्तम् | |
नतंजि॑नन्तिब॒हवो॒नद॒भ्रा¦,उ॒र्व॑स्मा॒,अदि॑तिः॒शर्म॑यंसत् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} प्रि॒यःसु॒कृत्प्रि॒यइन्द्रे᳚मना॒युः¦प्रि॒यःसु॑प्रा॒वीःप्रि॒यो,अ॑स्यसो॒मी || {5/8}{4.25.5}{4.3.4.5}{3.6.13.5}{290, 321, 3342} न¦तम्¦जि॒न॒न्ति॒¦ब॒हवः॑¦न¦द॒भ्राः¦उ॒रु¦अ॒स्मै॒¦अदि॑तिः¦शर्म॑¦यं॒स॒त् | |
सु॒प्रा॒व्यः॑प्राशु॒षाळे॒षवी॒रः¦सुष्वेः᳚प॒क्तिंकृ॑णुते॒केव॒लेन्द्रः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} नासु॑ष्वेरा॒पिर्नसखा॒नजा॒मि¦र्दु॑ष्प्रा॒व्यो᳚ऽवह॒न्तेदवा᳚चः || {6/8}{4.25.6}{4.3.4.6}{3.6.14.1}{291, 321, 3343} सु॒प्र॒।आ॒व्यः॑¦प्रा॒शु॒षाट्¦ए॒षः¦वी॒रः¦सुस्वेः᳚¦प॒क्तिम्¦कृ॒णु॒ते॒¦केव॑ला¦इन्द्रः॑ | |
नरे॒वता᳚प॒णिना᳚स॒ख्यमिन्द्रो¦ऽसु᳚न्वतासुत॒पाःसंगृ॑णीते |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} आस्य॒वेदः॑खि॒दति॒हन्ति॑न॒ग्नं¦विसुष्व॑येप॒क्तये॒केव॑लोभूत् || {7/8}{4.25.7}{4.3.4.7}{3.6.14.2}{292, 321, 3344} न¦रे॒वता᳚¦प॒णिना᳚¦स॒ख्यम्¦इन्द्रः॑¦असु᳚न्वता¦सु॒त॒ऽपाः¦सम्¦गृ॒णी॒ते॒ | |
इन्द्रं॒परेऽव॑रेमध्य॒मास॒¦इन्द्रं॒यान्तोऽव॑सितास॒इन्द्र᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} इन्द्रं᳚क्षि॒यन्त॑उ॒तयुध्य॑माना॒,¦इन्द्रं॒नरो᳚वाज॒यन्तो᳚हवन्ते || {8/8}{4.25.8}{4.3.4.8}{3.6.14.3}{293, 321, 3345} इन्द्र᳚म्¦परे᳚¦अव॑रे¦म॒ध्य॒मासः॑¦इन्द्र᳚म्¦यान्तः॑¦अव॑ऽसितासः¦इन्द्र᳚म् | |
[26] अहंमनुरिति सप्तर्चस्य सूक्तस्य गौतमोवामदेवःआद्यानांतिसृणामात्मा देवता अंत्यानांचतसृणांश्येनस्त्रिष्टुप् (आद्यतृचेवामदेवेंद्रयोरृषित्वविकल्पमाहुः केचित्) | |
अ॒हंमनु॑रभवं॒सूर्य॑श्चा॒¦ऽहंक॒क्षीवाँ॒,ऋषि॑रस्मि॒विप्रः॑ |{गौतमो वामदेवः, इन्द्रः | इन्द्रः, आत्माः | त्रिष्टुप्} अ॒हंकुत्स॑मार्जुने॒यंन्यृ᳚ञ्जे॒¦ऽहंक॒विरु॒शना॒पश्य॑तामा || {1/7}{4.26.1}{4.3.5.1}{3.6.15.1}{294, 322, 3346} अ॒हम्¦मनुः॑¦अ॒भ॒व॒म्¦सूर्यः॑¦च॒¦अ॒हम्¦क॒क्षीवा᳚न्¦ऋषिः॑¦अ॒स्मि॒¦विप्रः॑ | |
अ॒हंभूमि॑मददा॒मार्या᳚या॒¦ऽहंवृ॒ष्टिंदा॒शुषे॒मर्त्या᳚य |{गौतमो वामदेवः, इन्द्रः | इन्द्रः, आत्माः | त्रिष्टुप्} अ॒हम॒पो,अ॑नयंवावशा॒ना¦मम॑दे॒वासो॒,अनु॒केत॑मायन् || {2/7}{4.26.2}{4.3.5.2}{3.6.15.2}{295, 322, 3347} अ॒हम्¦भूमि᳚म्¦अ॒द॒दा॒म्¦आर्या᳚य¦अ॒हम्¦वृ॒ष्टिम्¦दा॒शुषे᳚¦मर्त्या᳚य | |
अ॒हंपुरो᳚मन्दसा॒नोव्यै᳚रं॒¦नव॑सा॒कंन॑व॒तीःशम्ब॑रस्य |{गौतमो वामदेवः, इन्द्रः | इन्द्रः, आत्माः | त्रिष्टुप्} श॒त॒त॒मंवे॒श्यं᳚स॒र्वता᳚ता॒¦दिवो᳚दासमतिथि॒ग्वंयदाव᳚म् || {3/7}{4.26.3}{4.3.5.3}{3.6.15.3}{296, 322, 3348} अ॒हम्¦पुरः॑¦म॒न्द॒सा॒नः¦वि¦ऐ॒र॒म्¦नव॑¦सा॒कम्¦न॒व॒तीः¦शम्ब॑रस्य | |
प्रसुषविभ्यो᳚मरुतो॒विर॑स्तु॒¦प्रश्ये॒नःश्ये॒नेभ्य॑आशु॒पत्वा᳚ |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्} अ॒च॒क्रया॒यत्स्व॒धया᳚सुप॒र्णो¦ह॒व्यंभर॒न्मन॑वेदे॒वजु॑ष्टम् || {4/7}{4.26.4}{4.3.5.4}{3.6.15.4}{297, 322, 3349} प्र¦सु¦सः¦विऽभ्यः॑¦म॒रु॒तः॒¦विः¦अ॒स्तु॒¦प्र¦श्ये॒नः¦श्ये॒नेभ्यः॑¦आ॒शु॒ऽपत्वा᳚ | |
भर॒द्यदि॒विरतो॒वेवि॑जानः¦प॒थोरुणा॒मनो᳚जवा,असर्जि |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्} तूयं᳚ययौ॒मधु॑नासो॒म्येनो॒¦तश्रवो᳚विविदेश्ये॒नो,अत्र॑ || {5/7}{4.26.5}{4.3.5.5}{3.6.15.5}{298, 322, 3350} भर॑त्¦यदि॑¦विः¦अतः॑¦वेवि॑जानः¦प॒था¦उ॒रुणा᳚¦मनः॑ऽजवाः¦अ॒स॒र्जि॒ | |
ऋ॒जी॒पीश्ये॒नोदद॑मानो,अं॒शुं¦प॑रा॒वतः॑शकु॒नोम॒न्द्रंमद᳚म् |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्} सोमं᳚भरद्दादृहा॒णोदे॒वावा᳚न्¦दि॒वो,अ॒मुष्मा॒दुत्त॑रादा॒दाय॑ || {6/7}{4.26.6}{4.3.5.6}{3.6.15.6}{299, 322, 3351} ऋ॒जी॒पी¦श्ये॒नः¦दद॑मानः¦अं॒शुम्¦प॒रा॒ऽवतः॑¦श॒कु॒नः¦म॒न्द्रम्¦मद᳚म् | |
आ॒दाय॑श्ये॒नो,अ॑भर॒त्सोमं᳚¦स॒हस्रं᳚स॒वाँ,अ॒युतं᳚चसा॒कम् |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्} अत्रा॒पुरं᳚धिरजहा॒दरा᳚ती॒¦र्मदे॒सोम॑स्यमू॒रा,अमू᳚रः || {7/7}{4.26.7}{4.3.5.7}{3.6.15.7}{300, 322, 3352} आ॒ऽदाय॑¦श्ये॒नः¦अ॒भ॒र॒त्¦सोम᳚म्¦स॒हस्र᳚म्¦स॒वान्¦अ॒युत᳚म्¦च॒¦सा॒कम् | |
[27] गर्भेन्विति पंचर्चस्य सूक्तस्य गौतमोवामदेवः श्येनस्त्रिष्टुबन्त्याशक्वरी (परानवाष्टौवेत्यनुक्रमण्या मुक्तेरधश्वेतमित्यस्यां पाक्षिकींद्रदेवता यदिश्येनदेवतायाअष्टर्चत्वंस्वीकृतंचेत्) | |
गर्भे॒नुसन्नन्वे᳚षामवेद¦म॒हंदे॒वानां॒जनि॑मानि॒विश्वा᳚ |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्} श॒तंमा॒पुर॒आय॑सीररक्ष॒¦न्नध॑श्ये॒नोज॒वसा॒निर॑दीयम् || {1/5}{4.27.1}{4.3.6.1}{3.6.16.1}{301, 323, 3353} गर्भे᳚¦नु¦सन्¦अनु॑¦ए॒षा॒म्¦अ॒वे॒द॒म्¦अ॒हम्¦दे॒वाना᳚म्¦जनि॑मानि¦विश्वा᳚ | |
नघा॒समामप॒जोषं᳚जभारा॒¦ऽभीमा᳚स॒त्वक्ष॑सावी॒र्ये᳚ण |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्} ई॒र्मापुरं᳚धिरजहा॒दरा᳚ती¦रु॒तवाताँ᳚,अतर॒च्छूशु॑वानः || {2/5}{4.27.2}{4.3.6.2}{3.6.16.2}{302, 323, 3354} न¦घ॒¦सः¦माम्¦अप॑¦जोष᳚म्¦ज॒भा॒र॒¦अ॒भि¦ई॒म्¦आ॒स॒¦त्वक्ष॑सा¦वी॒र्ये᳚ण | |
अव॒यच्छ्ये॒नो,अस्व॑नी॒दध॒द्यो¦र्वियद्यदि॒वात॑ऊ॒हुःपुरं᳚धिम् |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्} सृ॒जद्यद॑स्मा॒,अव॑हक्षि॒पज्ज्यां¦कृ॒शानु॒रस्ता॒मन॑साभुर॒ण्यन् || {3/5}{4.27.3}{4.3.6.3}{3.6.16.3}{303, 323, 3355} अव॑¦यत्¦श्ये॒नः¦अस्व॑नीत्¦अध॑¦द्योः¦वि¦यत्¦यदि॑¦वा॒¦अतः॑¦ऊ॒हुः¦पुर᳚म्ऽधिम् | |
ऋ॒जि॒प्यई॒मिन्द्रा᳚वतो॒नभु॒ज्युं¦श्ये॒नोज॑भारबृह॒तो,अधि॒ष्णोः |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्} अ॒न्तःप॑तत्पत॒त्र्य॑स्यप॒र्ण¦मध॒याम॑नि॒प्रसि॑तस्य॒तद्वेः || {4/5}{4.27.4}{4.3.6.4}{3.6.16.4}{304, 323, 3356} ऋ॒जि॒प्यः¦ई॒म्¦इन्द्र॑ऽवतः¦न¦भु॒ज्युम्¦श्ये॒नः¦ज॒भा॒र॒¦बृ॒ह॒तः¦अधि॑¦स्नोः | |
अध॑श्वे॒तंक॒लशं॒गोभि॑र॒क्त¦मा᳚पिप्या॒नंम॒घवा᳚शु॒क्रमन्धः॑ |{गौतमो वामदेवः | श्येनः, इन्द्रः | शक्वरी} अ॒ध्व॒र्युभिः॒प्रय॑तं॒मध्वो॒,अग्र॒¦मिन्द्रो॒मदा᳚य॒प्रति॑ध॒त्पिब॑ध्यै॒¦शूरो॒मदा᳚य॒प्रति॑ध॒त्पिब॑ध्यै || {5/5}{4.27.5}{4.3.6.5}{3.6.16.5}{305, 323, 3357} अध॑¦श्वे॒तम्¦क॒लश᳚म्¦गोभिः॑¦अ॒क्तम्¦आ॒ऽपि॒प्या॒नम्¦म॒घऽवा᳚¦शु॒क्रम्¦अन्धः॑ | |
[28] त्वायुजेति पंचर्चस्य सूक्तस्य गौतमोवामदेव इंद्रत्रिष्टुप् (इंद्रासोमौवा देवते) | |
त्वायु॒जातव॒तत्सो᳚मस॒ख्य¦इन्द्रो᳚,अ॒पोमन॑वेस॒स्रुत॑स्कः |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्} अह॒न्नहि॒मरि॑णात्स॒प्तसिन्धू॒¦नपा᳚वृणो॒दपि॑हितेव॒खानि॑ || {1/5}{4.28.1}{4.3.7.1}{3.6.17.1}{306, 324, 3358} त्वा¦यु॒जा¦तव॑¦तत्¦सो॒म॒¦स॒ख्ये¦इन्द्रः॑¦अ॒पः¦मन॑वे¦स॒ऽस्रुतः॑¦क॒रिति॑ कः | |
त्वायु॒जानिखि॑द॒त्सूर्य॒स्ये¦न्द्र॑श्च॒क्रंसह॑सास॒द्यइ᳚न्दो |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्} अधि॒ष्णुना᳚बृह॒तावर्त॑मानं¦म॒होद्रु॒हो,अप॑वि॒श्वायु॑धायि || {2/5}{4.28.2}{4.3.7.2}{3.6.17.2}{307, 324, 3359} त्वा¦यु॒जा¦नि¦खि॒द॒त्¦सूर्य॑स्य¦इन्द्रः॑¦च॒क्रम्¦सह॑सा¦स॒द्यः¦इ॒न्दो॒ इति॑ | |
अह॒न्निन्द्रो॒,अद॑हद॒ग्निरि᳚न्दो¦पु॒रादस्यू᳚न्म॒ध्यंदि॑नाद॒भीके᳚ |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्} दु॒र्गेदु॑रो॒णेक्रत्वा॒नया॒तां¦पु॒रूस॒हस्रा॒शर्वा॒निब᳚र्हीत् || {3/5}{4.28.3}{4.3.7.3}{3.6.17.3}{308, 324, 3360} अह॑न्¦इन्द्रः॑¦अद॑हत्¦अ॒ग्निः¦इ॒न्दो॒ इति॑¦पु॒रा¦दस्यू᳚न्¦म॒ध्यंदि॑नात्¦अ॒भीके᳚ | |
विश्व॑स्मात्सीमध॒माँ,इ᳚न्द्र॒दस्यू॒न्¦विशो॒दासी᳚रकृणोरप्रश॒स्ताः |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्} अबा᳚धेथा॒ममृ॑णतं॒निशत्रू॒¦नवि᳚न्देथा॒मप॑चितिं॒वध॑त्रैः || {4/5}{4.28.4}{4.3.7.4}{3.6.17.4}{309, 324, 3361} विश्व॑स्मात्¦सी॒म्¦अ॒ध॒मान्¦इ॒न्द्र॒¦दस्यू᳚न्¦विशः॑¦दासीः᳚¦अ॒कृ॒णोः॒¦अ॒प्र॒ऽश॒स्ताः | |
ए॒वास॒त्यंम॑घवानायु॒वंत¦दिन्द्र॑श्चसोमो॒र्वमश्व्यं॒गोः |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्} आद॑र्दृत॒मपि॑हिता॒न्यश्ना᳚¦रिरि॒चथुः॒,क्षाश्चि॑त्ततृदा॒ना || {5/5}{4.28.5}{4.3.7.5}{3.6.17.5}{310, 324, 3362} ए॒व¦स॒त्यम्¦म॒घ॒ऽवा॒ना॒¦यु॒वम्¦तत्¦इन्द्रः॑¦च॒¦सो॒म॒¦ऊ॒र्वम्¦अश्व्य᳚म्¦गोः | |
[29] आनःस्तुतइति पंचर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् | |
आनः॑स्तु॒तउप॒वाजे᳚भिरू॒ती¦,इन्द्र॑या॒हिहरि॑भिर्मन्दसा॒नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ति॒रश्चि॑द॒र्यःसव॑नापु॒रूण्या᳚¦ङ्गू॒षेभि॑र्गृणा॒नःस॒त्यरा᳚धाः || {1/5}{4.29.1}{4.3.8.1}{3.6.18.1}{311, 325, 3363} आ¦नः॒¦स्तु॒तः¦उप॑¦वाजे᳚भिः¦ऊ॒ती¦इन्द्र॑¦या॒हि¦हरि॑ऽभिः¦म॒न्द॒सा॒नः | |
आहिष्मा॒याति॒नर्य॑श्चिकि॒त्वान्¦हू॒यमा᳚नःसो॒तृभि॒रुप॑य॒ज्ञम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स्वश्वो॒यो,अभी᳚रु॒र्मन्य॑मानः¦सुष्वा॒णेभि॒र्मद॑ति॒संह॑वी॒रैः || {2/5}{4.29.2}{4.3.8.2}{3.6.18.2}{312, 325, 3364} आ¦हि¦स्म॒¦याति॑¦नर्यः॑¦चि॒कि॒त्वान्¦हू॒यमा᳚नः¦सो॒तृऽभिः॑¦उप॑¦य॒ज्ञम् | |
श्रा॒वयेद॑स्य॒कर्णा᳚वाज॒यध्यै॒¦जुष्टा॒मनु॒प्रदिशं᳚मन्द॒यध्यै᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} उ॒द्वा॒वृ॒षा॒णोराध॑से॒तुवि॑ष्मा॒न्¦कर᳚न्न॒इन्द्रः॑सुती॒र्थाभ॑यंच || {3/5}{4.29.3}{4.3.8.3}{3.6.18.3}{313, 325, 3365} श्र॒वय॑¦इत्¦अ॒स्य॒¦कर्णा᳚¦वा॒ज॒यध्यै᳚¦जुष्टा᳚म्¦अनु॑¦प्र¦दिश᳚म्¦म॒न्द॒यध्यै᳚ | |
अच्छा॒योगन्ता॒नाध॑मानमू॒ती¦,इ॒त्थाविप्रं॒हव॑मानंगृ॒णन्त᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} उप॒त्मनि॒दधा᳚नोधु॒र्या॒३॑(आ॒)शून्¦त्स॒हस्रा᳚णिश॒तानि॒वज्र॑बाहुः || {4/5}{4.29.4}{4.3.8.4}{3.6.18.4}{314, 325, 3366} अच्छ॑¦यः¦गन्ता᳚¦नाध॑मानम्¦ऊ॒ती¦इ॒त्था¦विप्र᳚म्¦हव॑मानम्¦गृ॒णन्त᳚म् | |
त्वोता᳚सोमघवन्निन्द्र॒विप्रा᳚¦व॒यंते᳚स्यामसू॒रयो᳚गृ॒णन्तः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} भे॒जा॒नासो᳚बृ॒हद्दि॑वस्यरा॒य¦आ᳚का॒य्य॑स्यदा॒वने᳚पुरु॒क्षोः || {5/5}{4.29.5}{4.3.8.5}{3.6.18.5}{315, 325, 3367} त्वाऽऊ᳚तासः¦म॒घ॒ऽव॒न्¦इ॒न्द्र॒¦विप्राः᳚¦व॒यम्¦ते॒¦स्या॒म॒¦सू॒रयः॑¦गृ॒णन्तः॑ | |
[30] नकिरिंद्रेति चतुर्विंशत्यृचस्य सूक्तस्य गौतमोवामदेवइन्द्रः नवम्यादितिसृणामिंद्रोषसौगायत्री अष्टम्यंत्ये अनुष्टुभौ | |
नकि॑रिन्द्र॒त्वदुत्त॑रो॒¦नज्यायाँ᳚,अस्तिवृत्रहन् |{गौतमो वामदेवः | इन्द्रः | गायत्री} नकि॑रे॒वायथा॒त्वम् || {1/24}{4.30.1}{4.3.9.1}{3.6.19.1}{316, 326, 3368} नकिः॑¦इ॒न्द्र॒¦त्वत्¦उत्ऽत॑रः¦न¦ज्याया᳚न्¦अ॒स्ति॒¦वृ॒त्र॒ऽह॒न् | नकिः॑¦ए॒व¦यथा᳚¦त्वम् || |
स॒त्राते॒,अनु॑कृ॒ष्टयो॒¦विश्वा᳚च॒क्रेव॑वावृतुः |{गौतमो वामदेवः | इन्द्रः | गायत्री} स॒त्राम॒हाँ,अ॑सिश्रु॒तः || {2/24}{4.30.2}{4.3.9.2}{3.6.19.2}{317, 326, 3369} स॒त्रा¦ते॒¦अनु॑¦कृ॒ष्टयः॑¦विश्वा᳚¦च॒क्राऽइ᳚व¦व॒वृ॒तुः॒ | स॒त्रा¦म॒हान्¦अ॒सि॒¦श्रु॒तः || |
विश्वे᳚च॒नेद॒नात्वा᳚¦दे॒वास॑इन्द्रयुयुधुः |{गौतमो वामदेवः | इन्द्रः | गायत्री} यदहा॒नक्त॒माति॑रः || {3/24}{4.30.3}{4.3.9.3}{3.6.19.3}{318, 326, 3370} विश्वे᳚¦च॒न¦इत्¦अ॒ना¦त्वा॒¦दे॒वासः॑¦इ॒न्द्र॒¦यु॒यु॒धुः॒ | यत्¦अहा᳚¦नक्त᳚म्¦आ¦अति॑रः || |
यत्रो॒तबा᳚धि॒तेभ्य॑¦श्च॒क्रंकुत्सा᳚य॒युध्य॑ते |{गौतमो वामदेवः | इन्द्रः | गायत्री} मु॒षा॒यइ᳚न्द्र॒सूर्य᳚म् || {4/24}{4.30.4}{4.3.9.4}{3.6.19.4}{319, 326, 3371} यत्र॑¦उ॒त¦बा॒धि॒तेभ्यः॑¦च॒क्रम्¦कुत्सा᳚य¦युध्य॑ते | मु॒षा॒यः¦इ॒न्द्र॒¦सूर्य᳚म् || |
यत्र॑दे॒वाँ,ऋ॑घाय॒तो¦विश्वाँ॒,अयु॑ध्य॒एक॒इत् |{गौतमो वामदेवः | इन्द्रः | गायत्री} त्वमि᳚न्द्रव॒नूँरह॑न् || {5/24}{4.30.5}{4.3.9.5}{3.6.19.5}{320, 326, 3372} यत्र॑¦दे॒वान्¦ऋ॒घा॒य॒तः¦विश्वा᳚न्¦अयु॑ध्यः¦एकः॑¦इत् | त्वम्¦इ॒न्द्र॒¦व॒नून्¦अह॑न् || |
यत्रो॒तमर्त्या᳚य॒क¦मरि॑णा,इन्द्र॒सूर्य᳚म् |{गौतमो वामदेवः | इन्द्रः | गायत्री} प्रावः॒शची᳚भि॒रेत॑शम् || {6/24}{4.30.6}{4.3.9.6}{3.6.20.1}{321, 326, 3373} यत्र॑¦उ॒त¦मर्त्या᳚य¦कम्¦अरि॑णाः¦इ॒न्द्र॒¦सूर्य᳚म् | प्र¦आ॒वः॒¦शची᳚भिः¦एत॑शम् || |
किमादु॒तासि॑वृत्रह॒न्¦मघ॑वन्मन्यु॒मत्त॑मः |{गौतमो वामदेवः | इन्द्रः | गायत्री} अत्राह॒दानु॒माति॑रः || {7/24}{4.30.7}{4.3.9.7}{3.6.20.2}{322, 326, 3374} किम्¦आत्¦उ॒त¦अ॒सि॒¦वृ॒त्र॒ऽह॒न्¦मघ॑ऽवन्¦म॒न्यु॒मत्ऽत॑मः | अत्र॑¦अह॑¦दानु᳚म्¦आ¦अ॒ति॒रः॒ || |
ए॒तद्घेदु॒तवी॒र्य१॑(अ॒)¦मिन्द्र॑च॒कर्थ॒पौंस्य᳚म् |{गौतमो वामदेवः | इन्द्रः | अनुष्टुप्} स्त्रियं॒यद्दु᳚र्हणा॒युवं॒¦वधी᳚र्दुहि॒तरं᳚दि॒वः || {8/24}{4.30.8}{4.3.9.8}{3.6.20.3}{323, 326, 3375} ए॒तत्¦घ॒¦इत्¦उ॒त¦वी॒र्य᳚म्¦इन्द्र॑¦च॒कर्थ॑¦पौंस्य᳚म् | स्त्रिय᳚म्¦यत्¦दुः॒ऽह॒ना॒युव᳚म्¦वधीः᳚¦दु॒हि॒तर᳚म्¦दि॒वः || |
दि॒वश्चि॑द्घादुहि॒तरं᳚¦म॒हान्म॑ही॒यमा᳚नाम् |{गौतमो वामदेवः | इंद्रोषसौ | गायत्री} उ॒षास॑मिन्द्र॒संपि॑णक् || {9/24}{4.30.9}{4.3.9.9}{3.6.20.4}{324, 326, 3376} दि॒वः¦चि॒त्¦घ॒¦दु॒हि॒तर᳚म्¦म॒हान्¦म॒ही॒यमा᳚नाम् | उ॒षस᳚म्¦इ॒न्द्र॒¦सम्¦पि॒ण॒क् || |
अपो॒षा,अन॑सःसर॒त्¦सम्पि॑ष्टा॒दह॑बि॒भ्युषी᳚ |{गौतमो वामदेवः | इंद्रोषसौ | गायत्री} नियत्सीं᳚शि॒श्नथ॒द्वृषा᳚ || {10/24}{4.30.10}{4.3.9.10}{3.6.20.5}{325, 326, 3377} अप॑¦उ॒षाः¦अन॑सः¦सर॑त्¦सम्ऽपि॑ष्टात्¦अह॑¦बि॒भ्युषी᳚ | नि¦यत्¦सी॒म्¦शि॒श्नथ॑त्¦वृषा᳚ || |
ए॒तद॑स्या॒,अनः॑शये॒¦सुस᳚म्पिष्टं॒विपा॒श्या |{गौतमो वामदेवः | इंद्रोषसौ | गायत्री} स॒सार॑सींपरा॒वतः॑ || {11/24}{4.30.11}{4.3.9.11}{3.6.21.1}{326, 326, 3378} ए॒तत्¦अ॒स्याः॒¦अनः॑¦श॒ये॒¦सुऽसं᳚पिष्टम्¦विऽपा᳚शि¦आ | स॒सार॑¦सी॒म्¦प॒रा॒ऽवतः॑ || |
उ॒तसिन्धुं᳚विबा॒ल्यं᳚¦वितस्था॒नामधि॒क्षमि॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री} परि॑ष्ठा,इन्द्रमा॒यया᳚ || {12/24}{4.30.12}{4.3.9.12}{3.6.21.2}{327, 326, 3379} उ॒त¦सिन्धु᳚म्¦वि॒ऽबा॒ल्य᳚म्¦वि॒ऽत॒स्था॒नाम्¦अधि॑¦क्षमि॑ | परि॑¦स्थाः॒¦इ॒न्द्र॒¦मा॒यया᳚ || |
उ॒तशुष्ण॑स्यधृष्णु॒या¦प्रमृ॑क्षो,अ॒भिवेद॑नम् |{गौतमो वामदेवः | इन्द्रः | गायत्री} पुरो॒यद॑स्यसम्पि॒णक् || {13/24}{4.30.13}{4.3.9.13}{3.6.21.3}{328, 326, 3380} उ॒त¦शुष्ण॑स्य¦धृ॒ष्णु॒ऽया¦प्र¦मृ॒क्षः॒¦अ॒भि¦वेद॑नम् | पुरः॑¦यत्¦अ॒स्य॒¦स॒म्ऽपि॒णक् || |
उ॒तदा॒संकौ᳚लित॒रं¦बृ॑ह॒तःपर्व॑ता॒दधि॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री} अवा᳚हन्निन्द्र॒शम्ब॑रम् || {14/24}{4.30.14}{4.3.9.14}{3.6.21.4}{329, 326, 3381} उ॒त¦दा॒सम्¦कौ॒लि॒ऽत॒रम्¦बृ॒ह॒तः¦पर्व॑तात्¦अधि॑ | अव॑¦अ॒ह॒न्¦इ॒न्द्र॒¦शम्ब॑रम् || |
उ॒तदा॒सस्य॑व॒र्चिनः॑¦स॒हस्रा᳚णिश॒ताव॑धीः |{गौतमो वामदेवः | इन्द्रः | गायत्री} अधि॒पञ्च॑प्र॒धीँरि॑व || {15/24}{4.30.15}{4.3.9.15}{3.6.21.5}{330, 326, 3382} उ॒त¦दा॒सस्य॑¦व॒र्चिनः॑¦स॒हस्रा᳚णि¦श॒ता¦अ॒व॒धीः॒ | अधि॑¦पंच॑¦प्र॒धीन्ऽइ᳚व || |
उ॒तत्यंपु॒त्रम॒ग्रुवः॒¦परा᳚वृक्तंश॒तक्र॑तुः |{गौतमो वामदेवः | इन्द्रः | गायत्री} उ॒क्थेष्विन्द्र॒आभ॑जत् || {16/24}{4.30.16}{4.3.9.16}{3.6.22.1}{331, 326, 3383} उ॒त¦त्यम्¦पु॒त्रम्¦अ॒ग्रुवः॑¦परा᳚ऽवृक्तम्¦श॒तऽक्र॑तुः | उ॒क्थेषु॑¦इन्द्रः॑¦आ¦अ॒भ॒ज॒त् || |
उ॒तत्यातु॒र्वशा॒यदू᳚,¦अस्ना॒तारा॒शची॒पतिः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री} इन्द्रो᳚वि॒द्वाँ,अ॑पारयत् || {17/24}{4.30.17}{4.3.9.17}{3.6.22.2}{332, 326, 3384} उ॒त¦त्या¦तु॒र्वशा॒यदू॒ इति॑¦अ॒स्ना॒तारा᳚¦शची॒३॒॑ऽपतिः॑ | इन्द्रः॑¦वि॒द्वान्¦अ॒पा॒र॒य॒त् || |
उ॒तत्यास॒द्यआर्या᳚¦स॒रयो᳚रिन्द्रपा॒रतः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री} अर्णा᳚चि॒त्रर॑थावधीः || {18/24}{4.30.18}{4.3.9.18}{3.6.22.3}{333, 326, 3385} उ॒त¦त्या¦स॒द्यः¦आर्या᳚¦स॒रयोः᳚¦इ॒न्द्र॒¦पा॒रतः॑ | अर्णा᳚चि॒त्रर॑था¦अ॒व॒धीः॒ || |
अनु॒द्वाज॑हि॒तान॑यो॒¦ऽन्धंश्रो॒णंच॑वृत्रहन् |{गौतमो वामदेवः | इन्द्रः | गायत्री} नतत्ते᳚सु॒म्नमष्ट॑वे || {19/24}{4.30.19}{4.3.9.19}{3.6.22.4}{334, 326, 3386} अनु॑¦द्वा¦ज॒हि॒ता¦न॒यः॒¦अ॒न्धम्¦श्रो॒णम्¦च॒¦वृ॒त्र॒ऽह॒न् | न¦तत्¦ते॒¦सु॒म्नम्¦अष्ट॑वे || |
श॒तम॑श्म॒न्मयी᳚नां¦पु॒रामिन्द्रो॒व्या᳚स्यत् |{गौतमो वामदेवः | इन्द्रः | गायत्री} दिवो᳚दासायदा॒शुषे᳚ || {20/24}{4.30.20}{4.3.9.20}{3.6.22.5}{335, 326, 3387} श॒तम्¦अ॒श्म॒न्ऽमयी᳚नाम्¦पु॒राम्¦इन्द्रः॑¦वि¦आ॒स्य॒त् | दिवः॑ऽदासाय¦दा॒शुषे᳚ || |
अस्वा᳚पयद्द॒भीत॑ये¦स॒हस्रा᳚त्रिं॒शतं॒हथैः᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री} दा॒साना॒मिन्द्रो᳚मा॒यया᳚ || {21/24}{4.30.21}{4.3.9.21}{3.6.23.1}{336, 326, 3388} अस्वा᳚पयत्¦द॒भीत॑ये¦स॒हस्रा᳚¦त्रिं॒शत᳚म्¦हथैः᳚ | दा॒साना᳚म्¦इन्द्रः॑¦मा॒यया᳚ || |
सघेदु॒तासि॑वृत्रहन्¦त्समा॒नइ᳚न्द्र॒गोप॑तिः |{गौतमो वामदेवः | इन्द्रः | गायत्री} यस्ताविश्वा᳚निचिच्यु॒षे || {22/24}{4.30.22}{4.3.9.22}{3.6.23.2}{337, 326, 3389} सः¦घ॒¦इत्¦उ॒त¦अ॒सि॒¦वृ॒त्र॒ऽह॒न्¦स॒मा॒नः¦इ॒न्द्र॒¦गोऽप॑तिः | यः¦ता¦विश्वा᳚नि¦चि॒च्यु॒षे || |
उ॒तनू॒नंयदि᳚न्द्रि॒यं¦क॑रि॒ष्या,इ᳚न्द्र॒पौंस्य᳚म् |{गौतमो वामदेवः | इन्द्रः | गायत्री} अ॒द्यानकि॒ष्टदामि॑नत् || {23/24}{4.30.23}{4.3.9.23}{3.6.23.3}{338, 326, 3390} उ॒त¦नू॒नम्¦यत्¦इ॒न्द्रि॒यम्¦क॒रि॒ष्याः¦इ॒न्द्र॒¦पौंस्य᳚म् | अ॒द्य¦नकिः॑¦तत्¦आ¦मि॒न॒त् || |
वा॒मंवा᳚मंतआदुरे¦दे॒वोद॑दात्वर्य॒मा |{गौतमो वामदेवः | इन्द्रः | अनुष्टुप्} वा॒मंपू॒षावा॒मंभगो᳚¦वा॒मंदे॒वःकरू᳚ळती || {24/24}{4.30.24}{4.3.9.24}{3.6.23.4}{339, 326, 3391} वा॒मम्ऽवा᳚मम्¦ते॒¦आ॒ऽदु॒रे॒¦दे॒वः¦द॒दा॒तु॒¦अ॒र्य॒मा | वा॒मम्¦पू॒षा¦वा॒मम्¦भगः॑¦वा॒मम्¦दे॒वः¦करू᳚ळती || |
[31] कयानइति पंचदशर्चस्य सूक्तस्य गौतमोवामदेवइंद्रोगायत्री तृतीयापादनिचृत् | |
कया᳚नश्चि॒त्रआभु॑व¦दू॒तीस॒दावृ॑धः॒सखा᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री} कया॒शचि॑ष्ठयावृ॒ता || {1/15}{4.31.1}{4.3.10.1}{3.6.24.1}{340, 327, 3392} कया᳚¦नः॒¦चि॒त्रः¦आ¦भु॒व॒त्¦ऊ॒ती¦स॒दाऽवृ॑धः¦सखा᳚ | कया᳚¦शचि॑ष्ठया¦वृ॒ता || |
कस्त्वा᳚स॒त्योमदा᳚नां॒¦मंहि॑ष्ठोमत्स॒दन्ध॑सः |{गौतमो वामदेवः | इन्द्रः | गायत्री} दृ॒ळ्हाचि॑दा॒रुजे॒वसु॑ || {2/15}{4.31.2}{4.3.10.2}{3.6.24.2}{341, 327, 3393} कः¦त्वा॒¦स॒त्यः¦मदा᳚नाम्¦मंहि॑ष्ठः¦म॒त्स॒त्¦अन्ध॑सः | दृ॒ळ्हा¦चि॒त्¦आ॒ऽरुजे᳚¦वसु॑ || |
अ॒भीषुणः॒सखी᳚ना¦मवि॒ताज॑रितॄ॒णाम् |{गौतमो वामदेवः | इन्द्रः | गायत्री} श॒तंभ॑वास्यू॒तिभिः॑ || {3/15}{4.31.3}{4.3.10.3}{3.6.24.3}{342, 327, 3394} अ॒भि¦सु¦नः॒¦सखी᳚नाम्¦अ॒वि॒ता¦ज॒रि॒तॄ॒णाम् | श॒तम्¦भ॒वा॒सि॒¦ऊ॒तिऽभिः॑ || |
अ॒भीन॒आव॑वृत्स्व¦च॒क्रंनवृ॒त्तमर्व॑तः |{गौतमो वामदेवः | इन्द्रः | गायत्री} नि॒युद्भि॑श्चर्षणी॒नाम् || {4/15}{4.31.4}{4.3.10.4}{3.6.24.4}{343, 327, 3395} अ॒भि¦नः॒¦आ¦व॒वृ॒त्स्व॒¦च॒क्रम्¦न¦वृ॒त्तम्¦अर्व॑तः | नि॒युत्ऽभिः॑¦च॒र्ष॒णी॒नाम् || |
प्र॒वता॒हिक्रतू᳚ना॒¦माहा᳚प॒देव॒गच्छ॑सि |{गौतमो वामदेवः | इन्द्रः | गायत्री} अभ॑क्षि॒सूर्ये॒सचा᳚ || {5/15}{4.31.5}{4.3.10.5}{3.6.24.5}{344, 327, 3396} प्र॒ऽवता᳚¦हि¦क्रतू᳚नाम्¦आ¦ह॒¦प॒दाऽइ᳚व¦गच्छ॑सि | अभ॑क्षि¦सूर्ये᳚¦सचा᳚ || |
संयत्त॑इन्द्रम॒न्यवः॒¦संच॒क्राणि॑दधन्वि॒रे |{गौतमो वामदेवः | इन्द्रः | गायत्री} अध॒त्वे,अध॒सूर्ये᳚ || {6/15}{4.31.6}{4.3.10.6}{3.6.25.1}{345, 327, 3397} सम्¦यत्¦ते॒¦इ॒न्द्र॒¦म॒न्यवः॑¦सम्¦च॒क्राणि॑¦द॒ध॒न्वि॒रे | अध॑¦त्वे इति॑¦अध॑¦सूर्ये᳚ || |
उ॒तस्मा॒हित्वामा॒हुरिन्¦म॒घवा᳚नंशचीपते |{गौतमो वामदेवः | इन्द्रः | गायत्री} दाता᳚र॒मवि॑दीधयुम् || {7/15}{4.31.7}{4.3.10.7}{3.6.25.2}{346, 327, 3398} उ॒त¦स्म॒¦हि¦त्वाम्¦आ॒हुः¦इत्¦म॒घऽवा᳚नम्¦श॒ची॒ऽप॒ते॒ | दाता᳚रम्¦अवि॑ऽदीधयुम् || |
उ॒तस्मा᳚स॒द्यइत्परि॑¦शशमा॒नाय॑सुन्व॒ते |{गौतमो वामदेवः | इन्द्रः | गायत्री} पु॒रूचि᳚न्मंहसे॒वसु॑ || {8/15}{4.31.8}{4.3.10.8}{3.6.25.3}{347, 327, 3399} उ॒त¦स्म॒¦स॒द्यः¦इत्¦परि॑¦श॒श॒मा॒नाय॑¦सु॒न्व॒ते | पु॒रु¦चि॒त्¦मं॒ह॒से॒¦वसु॑ || |
न॒हिष्मा᳚तेश॒तंच॒न¦राधो॒वर᳚न्तआ॒मुरः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री} नच्यौ॒त्नानि॑करिष्य॒तः || {9/15}{4.31.9}{4.3.10.9}{3.6.25.4}{348, 327, 3400} न॒हि¦स्म॒¦ते॒¦श॒तम्¦च॒न¦राधः॑¦वर᳚न्ते¦आ॒ऽमुरः॑ | न¦च्यौ॒त्नानि॑¦क॒रि॒ष्य॒तः || |
अ॒स्माँ,अ॑वन्तुतेश॒त¦म॒स्मान्त्स॒हस्र॑मू॒तयः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री} अ॒स्मान्विश्वा᳚,अ॒भिष्ट॑यः || {10/15}{4.31.10}{4.3.10.10}{3.6.25.5}{349, 327, 3401} अ॒स्मान्¦अ॒व॒न्तु॒¦ते॒¦श॒तम्¦अ॒स्मान्¦स॒हस्र᳚म्¦ऊ॒तयः॑ | अ॒स्मान्¦विश्वाः᳚¦अ॒भिष्ट॑यः || |
अ॒स्माँ,इ॒हावृ॑णीष्व¦स॒ख्याय॑स्व॒स्तये᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री} म॒होरा॒येदि॒वित्म॑ते || {11/15}{4.31.11}{4.3.10.11}{3.6.26.1}{350, 327, 3402} अ॒स्मान्¦इ॒ह¦वृ॒णी॒ष्व॒¦स॒ख्याय॑¦स्व॒स्तये᳚ | म॒हः¦रा॒ये¦दि॒वित्म॑ते || |
अ॒स्माँ,अ॑विड्ढिवि॒श्वहे¦न्द्र॑रा॒यापरी᳚णसा |{गौतमो वामदेवः | इन्द्रः | गायत्री} अ॒स्मान्विश्वा᳚भिरू॒तिभिः॑ || {12/15}{4.31.12}{4.3.10.12}{3.6.26.2}{351, 327, 3403} अ॒स्मान्¦अ॒वि॒ड्ढि॒¦वि॒श्वहा᳚¦इन्द्र॑¦रा॒या¦परी᳚णसा | अ॒स्मान्¦विश्वा᳚भिः¦ऊ॒तिऽभिः॑ || |
अ॒स्मभ्यं॒ताँ,अपा᳚वृधि¦व्र॒जाँ,अस्ते᳚व॒गोम॑तः |{गौतमो वामदेवः | इन्द्रः | गायत्री} नवा᳚भिरिन्द्रो॒तिभिः॑ || {13/15}{4.31.13}{4.3.10.13}{3.6.26.3}{352, 327, 3404} अ॒स्मभ्य᳚म्¦तान्¦अप॑¦वृ॒धि॒¦व्र॒जान्¦अस्ता᳚ऽइव¦गोऽम॑तः | नवा᳚भिः¦इ॒न्द्र॒¦ऊ॒तिऽभिः॑ || |
अ॒स्माकं᳚धृष्णु॒यारथो᳚¦द्यु॒माँ,इ॒न्द्रान॑पच्युतः |{गौतमो वामदेवः | इन्द्रः | गायत्री} ग॒व्युर॑श्व॒युरी᳚यते || {14/15}{4.31.14}{4.3.10.14}{3.6.26.4}{353, 327, 3405} अ॒स्माक᳚म्¦धृ॒ष्णु॒ऽया¦रथः॑¦द्यु॒ऽमान्¦इ॒न्द्र॒¦अन॑पऽच्युतः | ग॒व्युः¦अ॒श्व॒ऽयुः¦ई॒य॒ते॒ || |
अ॒स्माक॑मुत्त॒मंकृ॑धि॒¦श्रवो᳚दे॒वेषु॑सूर्य |{गौतमो वामदेवः | इन्द्रः | गायत्री} वर्षि॑ष्ठं॒द्यामि॑वो॒परि॑ || {15/15}{4.31.15}{4.3.10.15}{3.6.26.5}{354, 327, 3406} अ॒स्माक᳚म्¦उ॒त्ऽत॒मम्¦कृ॒धि॒¦श्रवः॑¦दे॒वेषु॑¦सू॒र्य॒ | वर्षि॑ष्ठम्¦द्याम्ऽइ᳚व¦उ॒परि॑ || |
[32] आतूनइति चतुर्विंशत्यृचस्य सूक्तस्य गौतमोवामदेव इंद्रोंत्ययोरिंद्राश्वौगायत्री | |
आतून॑इन्द्रवृत्रह¦न्न॒स्माक॑म॒र्धमाग॑हि |{गौतमो वामदेवः | इन्द्रः | गायत्री} म॒हान्म॒हीभि॑रू॒तिभिः॑ || {1/24}{4.32.1}{4.3.11.1}{3.6.27.1}{355, 328, 3407} आ¦तु¦नः॒¦इ॒न्द्र॒¦वृ॒त्र॒ऽह॒न्¦अ॒स्माक᳚म्¦अ॒र्धम्¦आ¦ग॒हि॒ | म॒हान्¦म॒हीभिः॑¦ऊ॒तिऽभिः॑ || |
भृमि॑श्चिद्घासि॒तूतु॑जि॒¦राचि॑त्रचि॒त्रिणी॒ष्वा |{गौतमो वामदेवः | इन्द्रः | गायत्री} चि॒त्रंकृ॑णोष्यू॒तये᳚ || {2/24}{4.32.2}{4.3.11.2}{3.6.27.2}{356, 328, 3408} भृमिः॑¦चि॒त्¦घ॒¦अ॒सि॒¦तूतु॑जिः¦आ¦चि॒त्र॒¦चि॒त्रिणी᳚षु¦आ | चि॒त्रम्¦कृ॒णो॒षि॒¦ऊ॒तये᳚ || |
द॒भ्रेभि॑श्चि॒च्छशी᳚यांसं॒¦हंसि॒व्राध᳚न्त॒मोज॑सा |{गौतमो वामदेवः | इन्द्रः | गायत्री} सखि॑भि॒र्येत्वेसचा᳚ || {3/24}{4.32.3}{4.3.11.3}{3.6.27.3}{357, 328, 3409} द॒भ्रेभिः॑¦चि॒त्¦शशी᳚यांसम्¦हंसि॑¦व्राध᳚न्तम्¦ओज॑सा | सखि॑ऽभिः¦ये¦त्वे इति॑¦सचा᳚ || |
व॒यमि᳚न्द्र॒त्वेसचा᳚¦व॒यंत्वा॒भिनो᳚नुमः |{गौतमो वामदेवः | इन्द्रः | गायत्री} अ॒स्माँअ॑स्माँ॒,इदुद॑व || {4/24}{4.32.4}{4.3.11.4}{3.6.27.4}{358, 328, 3410} व॒यम्¦इ॒न्द्र॒¦त्वे इति॑¦सचा᳚¦व॒यम्¦त्वा॒¦अ॒भि¦नो॒नु॒मः॒ | अ॒स्मान्।आ॑स्मान्¦इत्¦उत्¦अ॒व॒ || |
सन॑श्चि॒त्राभि॑रद्रिवो¦ऽनव॒द्याभि॑रू॒तिभिः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री} अना᳚धृष्टाभि॒राग॑हि || {5/24}{4.32.5}{4.3.11.5}{3.6.27.5}{359, 328, 3411} सः¦नः॒¦चि॒त्राभिः॑¦अ॒द्रि॒ऽवः॒¦अ॒न॒व॒द्याभिः॑¦ऊ॒तिऽभिः॑ | अना᳚धृष्टाभिः¦आ¦ग॒हि॒ || |
भू॒यामो॒षुत्वाव॑तः॒¦सखा᳚यइन्द्र॒गोम॑तः |{गौतमो वामदेवः | इन्द्रः | गायत्री} युजो॒वाजा᳚य॒घृष्व॑ये || {6/24}{4.32.6}{4.3.11.6}{3.6.28.1}{360, 328, 3412} भू॒यामो॒ इति॑¦सु¦त्वाऽव॑तः¦सखा᳚यः¦इ॒न्द्र॒¦गोऽम॑तः | युजः॑¦वाजा᳚य¦घृष्व॑ये || |
त्वंह्येक॒ईशि॑ष॒¦इन्द्र॒वाज॑स्य॒गोम॑तः |{गौतमो वामदेवः | इन्द्रः | गायत्री} सनो᳚यन्धिम॒हीमिष᳚म् || {7/24}{4.32.7}{4.3.11.7}{3.6.28.2}{361, 328, 3413} त्वम्¦हि¦एकः॑¦ईशि॑षे¦इन्द्र॑¦वाज॑स्य¦गोऽम॑तः | सः¦नः॒¦य॒न्धि॒¦म॒हीम्¦इष᳚म् || |
नत्वा᳚वरन्ते,अ॒न्यथा॒¦यद्दित्स॑सिस्तु॒तोम॒घम् |{गौतमो वामदेवः | इन्द्रः | गायत्री} स्तो॒तृभ्य॑इन्द्रगिर्वणः || {8/24}{4.32.8}{4.3.11.8}{3.6.28.3}{362, 328, 3414} न¦त्वा॒¦व॒र॒न्ते॒¦अ॒न्यथा᳚¦यत्¦दित्स॑सि¦स्तु॒तः¦म॒घम् | स्तो॒तृऽभ्यः॑¦इ॒न्द्र॒¦गि॒र्व॒णः॒ || |
अ॒भित्वा॒गोत॑मागि॒रा¦ऽनू᳚षत॒प्रदा॒वने᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री} इन्द्र॒वाजा᳚य॒घृष्व॑ये || {9/24}{4.32.9}{4.3.11.9}{3.6.28.4}{363, 328, 3415} अ॒भि¦त्वा॒¦गोत॑माः¦गि॒रा¦अनू᳚षत¦प्र¦दा॒वने᳚ | इन्द्र॑¦वाजा᳚य¦घृष्व॑ये || |
प्रते᳚वोचामवी॒र्या॒३॑(आ॒)¦याम᳚न्दसा॒नआरु॑जः |{गौतमो वामदेवः | इन्द्रः | गायत्री} पुरो॒दासी᳚र॒भीत्य॑ || {10/24}{4.32.10}{4.3.11.10}{3.6.28.5}{364, 328, 3416} प्र¦ते॒¦वो॒चा॒म॒¦वी॒र्या᳚¦याः¦म॒न्द॒सा॒नः¦आ¦अरु॑जः | पुरः॑¦दासीः᳚¦अ॒भि॒ऽइत्य॑ || |
ताते᳚गृणन्तिवे॒धसो॒¦यानि॑च॒कर्थ॒पौंस्या᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री} सु॒तेष्वि᳚न्द्रगिर्वणः || {11/24}{4.32.11}{4.3.11.11}{3.6.29.1}{365, 328, 3417} ता¦ते॒¦गृ॒ण॒न्ति॒¦वे॒धसः॑¦यानि॑¦च॒कर्थ॑¦पौंस्या᳚ | सु॒तेषु॑¦इ॒न्द्र॒¦गि॒र्व॒णः॒ || |
अवी᳚वृधन्त॒गोत॑मा॒,¦इन्द्र॒त्वेस्तोम॑वाहसः |{गौतमो वामदेवः | इन्द्रः | गायत्री} ऐषु॑धावी॒रव॒द्यशः॑ || {12/24}{4.32.12}{4.3.11.12}{3.6.29.2}{366, 328, 3418} अवी᳚वृधन्त¦गोत॑माः¦इन्द्र॑¦त्वे इति॑¦स्तोम॑ऽवाहसः | आ¦ए॒षु॒¦धाः॒¦वी॒रऽव॑त्¦यशः॑ || |
यच्चि॒द्धिशश्व॑ता॒मसी¦न्द्र॒साधा᳚रण॒स्त्वम् |{गौतमो वामदेवः | इन्द्रः | गायत्री} तंत्वा᳚व॒यंह॑वामहे || {13/24}{4.32.13}{4.3.11.13}{3.6.29.3}{367, 328, 3419} यत्¦चि॒त्¦हि¦शश्व॑ताम्¦असि॑¦इन्द्र॑¦साधा᳚रणः¦त्वम् | तम्¦त्वा॒¦व॒यम्¦ह॒वा॒म॒हे॒ || |
अ॒र्वा॒ची॒नोव॑सोभवा॒¦ऽस्मेसुम॒त्स्वान्ध॑सः |{गौतमो वामदेवः | इन्द्रः | गायत्री} सोमा᳚नामिन्द्रसोमपाः || {14/24}{4.32.14}{4.3.11.14}{3.6.29.4}{368, 328, 3420} अ॒र्वा॒ची॒नः¦व॒सो॒ इति॑¦भ॒व॒¦अ॒स्मे इति॑¦सु¦म॒त्स्व॒¦अन्ध॑सः | सोमा᳚नाम्¦इ॒न्द्र॒¦सो॒म॒ऽपाः॒ || |
अ॒स्माकं᳚त्वामती॒ना¦मास्तोम॑इन्द्रयच्छतु |{गौतमो वामदेवः | इन्द्रः | गायत्री} अ॒र्वागाव॑र्तया॒हरी᳚ || {15/24}{4.32.15}{4.3.11.15}{3.6.29.5}{369, 328, 3421} अ॒स्माक᳚म्¦त्वा॒¦म॒ती॒नाम्¦आ¦स्तोमः॑¦इ॒न्द्र॒¦य॒च्छ॒तु॒ | अ॒र्वाक्¦आ¦व॒र्त॒य॒¦हरी॒ इति॑ || |
पु॒रो॒ळाशं᳚चनो॒घसो᳚¦जो॒षया᳚से॒गिर॑श्चनः |{गौतमो वामदेवः | इन्द्रः | गायत्री} व॒धू॒युरि॑व॒योष॑णाम् || {16/24}{4.32.16}{4.3.11.16}{3.6.29.6}{370, 328, 3422} पु॒रो॒ळाश᳚म्¦च॒¦नः॒¦घसः॑¦जो॒षया᳚से¦गिरः॑¦च॒¦नः॒ | व॒धू॒युःऽइ᳚व¦योष॑णाम् || |
स॒हस्रं॒व्यती᳚नां¦यु॒क्ताना॒मिन्द्र॑मीमहे |{गौतमो वामदेवः | इन्द्रः | गायत्री} श॒तंसोम॑स्यखा॒र्यः॑ || {17/24}{4.32.17}{4.3.11.17}{3.6.30.1}{371, 328, 3423} स॒हस्र᳚म्¦व्यती᳚नाम्¦यु॒क्ताना᳚म्¦इन्द्र᳚म्¦ई॒म॒हे॒ | श॒तम्¦सोम॑स्य¦खा॒र्यः॑ || |
स॒हस्रा᳚तेश॒ताव॒यं¦गवा॒माच्या᳚वयामसि |{गौतमो वामदेवः | इन्द्रः | गायत्री} अ॒स्म॒त्राराध॑एतुते || {18/24}{4.32.18}{4.3.11.18}{3.6.30.2}{372, 328, 3424} स॒हस्रा᳚¦ते॒¦श॒ता¦व॒यम्¦गवा᳚म्¦आ¦च्य॒व॒या॒म॒सि॒ | अ॒स्म॒ऽत्रा¦राधः॑¦ए॒तु॒¦ते॒ || |
दश॑तेक॒लशा᳚नां॒¦हिर᳚ण्यानामधीमहि |{गौतमो वामदेवः | इन्द्रः | गायत्री} भू॒रि॒दा,अ॑सिवृत्रहन् || {19/24}{4.32.19}{4.3.11.19}{3.6.30.3}{373, 328, 3425} दश॑¦ते॒¦क॒लशा᳚नाम्¦हिर᳚ण्यानाम्¦अ॒धी॒म॒हि॒ | भू॒रि॒ऽदाः¦अ॒सि॒¦वृ॒त्र॒ऽह॒न् || |
भूरि॑दा॒भूरि॑देहिनो॒¦माद॒भ्रंभूर्याभ॑र |{गौतमो वामदेवः | इन्द्रः | गायत्री} भूरि॒घेदि᳚न्द्रदित्ससि || {20/24}{4.32.20}{4.3.11.20}{3.6.30.4}{374, 328, 3426} भूरि॑ऽदाः¦भूरि॑¦दे॒हि॒¦नः॒¦मा¦द॒भ्रम्¦भूरि॑¦आ¦भ॒र॒ | भूरि॑¦घ॒¦इत्¦इ॒न्द्र॒¦दि॒त्स॒सि॒ || |
भू॒रि॒दाह्यसि॑श्रु॒तः¦पु॑रु॒त्राशू᳚रवृत्रहन् |{गौतमो वामदेवः | इन्द्रः | गायत्री} आनो᳚भजस्व॒राध॑सि || {21/24}{4.32.21}{4.3.11.21}{3.6.30.5}{375, 328, 3427} भू॒रि॒ऽदाः¦हि¦असि॑¦श्रु॒तः¦पु॒रु॒ऽत्रा¦शू॒र॒¦वृ॒त्र॒ऽह॒न् | आ¦नः॒¦भ॒ज॒स्व॒¦राध॑सि || |
प्रते᳚ब॒भ्रूवि॑चक्षण॒¦शंसा᳚मिगोषणोनपात् |{गौतमो वामदेवः | इन्द्रः | गायत्री} माभ्यां॒गा,अनु॑शिश्रथः || {22/24}{4.32.22}{4.3.11.22}{3.6.30.6}{376, 328, 3428} प्र¦ते॒¦ब॒भ्रू इति॑¦वि॒ऽच॒क्ष॒ण॒¦शंसा᳚मि¦गो॒ऽस॒नः॒¦न॒पा॒त् | मा¦आ॒भ्या॒म्¦गाः¦अनु॑¦शि॒श्र॒थः॒ || |
क॒नी॒न॒केव॑विद्र॒धे¦नवे᳚द्रुप॒दे,अ॑र्भ॒के |{गौतमो वामदेवः | इन्द्राश्वौ | गायत्री} ब॒भ्रूयामे᳚षुशोभेते || {23/24}{4.32.23}{4.3.11.23}{3.6.30.7}{377, 328, 3429} क॒नी॒न॒काऽइ᳚व¦वि॒द्र॒धे¦नवे᳚¦द्रु॒ऽप॒दे¦अ॒र्भ॒के | ब॒भ्रू इति॑¦यामे᳚षु¦शो॒भे॒ते॒ इति॑ || |
अरं᳚मउ॒स्रया॒म्णे¦ऽर॒मनु॑स्रयाम्णे |{गौतमो वामदेवः | इन्द्राश्वौ | गायत्री} ब॒भ्रूयामे᳚ष्व॒स्रिधा᳚ || {24/24}{4.32.24}{4.3.11.24}{3.6.30.8}{378, 328, 3430} अर᳚म्¦मे॒¦उ॒स्रऽया᳚म्ने¦अर᳚म्¦अनु॑स्रऽयाम्ने | ब॒भ्रू इति॑¦यामे᳚षु¦अ॒स्रिधा᳚ || |
[33] प्रऋभुभ्यइत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव ऋभवस्त्रिष्टुप् | |
प्रऋ॒भुभ्यो᳚दू॒तमि॑व॒वाच॑मिष्य¦उप॒स्तिरे॒श्वैत॑रींधे॒नुमी᳚ळे |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} येवात॑जूतास्त॒रणि॑भि॒रेवैः॒¦परि॒द्यांस॒द्यो,अ॒पसो᳚बभू॒वुः || {1/11}{4.33.1}{4.4.1.1}{3.7.1.1}{379, 329, 3431} प्र¦ऋ॒भुऽभ्यः॑¦दू॒तम्ऽइ᳚व¦वाच᳚म्¦इ॒ष्ये॒¦उ॒प॒ऽस्तिरे᳚¦श्वैत॑रीम्¦धे॒नुम्¦ई॒ळे॒ | |
य॒दार॒मक्र᳚न्नृ॒भवः॑पि॒तृभ्यां॒¦परि॑विष्टीवे॒षणा᳚दं॒सना᳚भिः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} आदिद्दे॒वाना॒मुप॑स॒ख्यमा᳚य॒न्¦धीरा᳚सःपु॒ष्टिम॑वहन्म॒नायै᳚ || {2/11}{4.33.2}{4.4.1.2}{3.7.1.2}{380, 329, 3432} य॒दा¦अर᳚म्¦अक्र॑न्¦ऋ॒भवः॑¦पि॒तृऽभ्या᳚म्¦परि॑ऽविष्टी¦वे॒षणा᳚¦दं॒सना᳚भिः | |
पुन॒र्येच॒क्रुःपि॒तरा॒युवा᳚ना॒¦सना॒यूपे᳚वजर॒णाशया᳚ना |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} तेवाजो॒विभ्वाँ᳚,ऋ॒भुरिन्द्र॑वन्तो॒¦मधु॑प्सरसोनोऽवन्तुय॒ज्ञम् || {3/11}{4.33.3}{4.4.1.3}{3.7.1.3}{381, 329, 3433} पुनः॑¦ये¦च॒क्रुः¦पि॒तरा᳚¦युवा᳚ना¦सना᳚¦यूपा᳚ऽइव¦ज॒र॒णा¦शया᳚ना | |
यत्सं॒वत्स॑मृ॒भवो॒गामर॑क्ष॒न्¦यत्सं॒वत्स॑मृ॒भवो॒मा,अपिं᳚शन् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} यत्सं॒वत्स॒मभ॑र॒न्भासो᳚,अस्या॒¦स्ताभिः॒शमी᳚भिरमृत॒त्वमा᳚शुः || {4/11}{4.33.4}{4.4.1.4}{3.7.1.4}{382, 329, 3434} यत्¦स॒म्ऽवत्स᳚म्¦ऋ॒भवः॑¦गाम्¦अर॑क्षन्¦यत्¦स॒म्ऽवत्स᳚म्¦ऋ॒भवः॑¦माः¦अपिं᳚शन् | |
ज्ये॒ष्ठआ᳚हचम॒साद्वाक॒रेति॒¦कनी᳚या॒न्त्रीन्कृ॑णवा॒मेत्या᳚ह |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} क॒नि॒ष्ठआ᳚हच॒तुर॑स्क॒रेति॒¦त्वष्ट॑ऋभव॒स्तत्प॑नय॒द्वचो᳚वः || {5/11}{4.33.5}{4.4.1.5}{3.7.1.5}{383, 329, 3435} ज्ये॒ष्ठः¦आ॒ह॒¦च॒म॒सा¦द्वा¦क॒र॒¦इति॑¦कनी᳚यान्¦त्रीन्¦कृ॒ण॒वा॒म॒¦इति॑¦आ॒ह॒ | |
स॒त्यमू᳚चु॒र्नर॑ए॒वाहिच॒क्रु¦रनु॑स्व॒धामृ॒भवो᳚जग्मुरे॒ताम् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} वि॒भ्राज॑मानाँश्चम॒साँ,अहे॒वा¦वे᳚न॒त्त्वष्टा᳚च॒तुरो᳚ददृ॒श्वान् || {6/11}{4.33.6}{4.4.1.6}{3.7.2.1}{384, 329, 3436} स॒त्यम्¦ऊ॒चुः॒¦नरः॑¦ए॒व¦हि¦च॒क्रुः¦अनु॑¦स्व॒धाम्¦ऋ॒भवः॑¦ज॒ग्मुः॒¦ए॒ताम् | |
द्वाद॑श॒द्यून्यदगो᳚ह्यस्या¦ऽऽति॒थ्येरण᳚न्नृ॒भवः॑स॒सन्तः॑ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} सु॒क्षेत्रा᳚कृण्व॒न्नन॑यन्त॒सिन्धू॒न्¦धन्वाति॑ष्ठ॒न्नोष॑धीर्नि॒म्नमापः॑ || {7/11}{4.33.7}{4.4.1.7}{3.7.2.2}{385, 329, 3437} द्वाद॑श¦द्यून्¦यत्¦अगो᳚ह्यस्य¦आ॒ति॒थ्ये¦रण॑न्¦ऋ॒भवः॑¦स॒सन्तः॑ | |
रथं॒येच॒क्रुःसु॒वृतं᳚नरे॒ष्ठां¦येधे॒नुंवि॑श्व॒जुवं᳚वि॒श्वरू᳚पाम् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} तआत॑क्षन्त्वृ॒भवो᳚र॒यिंनः॒¦स्वव॑सः॒स्वप॑सःसु॒हस्ताः᳚ || {8/11}{4.33.8}{4.4.1.8}{3.7.2.3}{386, 329, 3438} रथ᳚म्¦ये¦च॒क्रुः¦सु॒ऽवृत᳚म्¦न॒रे॒ऽस्थाम्¦ये¦धे॒नुम्¦वि॒श्व॒ऽजुव᳚म्¦वि॒श्वऽरू᳚पाम् | |
अपो॒ह्ये᳚षा॒मजु॑षन्तदे॒वा¦,अ॒भिक्रत्वा॒मन॑सा॒दीध्या᳚नाः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} वाजो᳚दे॒वाना᳚मभवत्सु॒कर्मे¦न्द्र॑स्यऋभु॒क्षावरु॑णस्य॒विभ्वा᳚ || {9/11}{4.33.9}{4.4.1.9}{3.7.2.4}{387, 329, 3439} अपः॑¦हि¦ए॒षा॒म्¦अजु॑षन्त¦दे॒वाः¦अ॒भि¦क्रत्वा᳚¦मन॑सा¦दीध्या᳚नाः | |
येहरी᳚मे॒धयो॒क्थामद᳚न्त॒¦इन्द्रा᳚यच॒क्रुःसु॒युजा॒ये,अश्वा᳚ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} तेरा॒यस्पोषं॒द्रवि॑णान्य॒स्मे¦ध॒त्तऋ॑भवः,क्षेम॒यन्तो॒नमि॒त्रम् || {10/11}{4.33.10}{4.4.1.10}{3.7.2.5}{388, 329, 3440} ये¦हरी॒ इति॑¦मे॒धया᳚¦उ॒क्था¦मद᳚न्तः¦इन्द्रा᳚य¦च॒क्रुः¦सु॒ऽयुजा᳚¦ये¦अश्वा᳚ | |
इ॒दाह्नः॑पी॒तिमु॒तवो॒मदं᳚धु॒¦र्नऋ॒तेश्रा॒न्तस्य॑स॒ख्याय॑दे॒वाः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} तेनू॒नम॒स्मे,ऋ॑भवो॒वसू᳚नि¦तृ॒तीये᳚,अ॒स्मिन्त्सव॑नेदधात || {11/11}{4.33.11}{4.4.1.11}{3.7.2.6}{389, 329, 3441} इ॒दा¦अह्नः॑¦पी॒तिम्¦उ॒त¦वः॒¦मद᳚म्¦धुः॒¦न¦ऋ॒ते¦श्रा॒न्तस्य॑¦स॒ख्याय॑¦दे॒वाः | |
[34] ऋभुर्विभ्वेत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव ऋभवस्त्रिष्टुप् | |
ऋ॒भुर्विभ्वा॒वाज॒इन्द्रो᳚नो॒,अच्छे॒¦मंय॒ज्ञंर॑त्न॒धेयोप॑यात |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} इ॒दाहिवो᳚धि॒षणा᳚दे॒व्यह्ना॒¦मधा᳚त्पी॒तिंसंमदा᳚,अग्मतावः || {1/11}{4.34.1}{4.4.2.1}{3.7.3.1}{390, 330, 3442} ऋ॒भुः¦विऽभ्वा᳚¦वाजः॑¦इन्द्रः॑¦नः॒¦अच्छ॑¦इ॒मम्¦य॒ज्ञम्¦र॒त्न॒ऽधेया᳚¦उप॑¦या॒त॒ | |
वि॒दा॒नासो॒जन्म॑नोवाजरत्ना¦,उ॒तऋ॒तुभि᳚रृभवोमादयध्वम् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} संवो॒मदा॒,अग्म॑त॒संपुरं᳚धिः¦सु॒वीरा᳚म॒स्मेर॒यिमेर॑यध्वम् || {2/11}{4.34.2}{4.4.2.2}{3.7.3.2}{391, 330, 3443} वि॒दा॒नासः॑¦जन्म॑नः¦वा॒ज॒ऽर॒त्नाः॒¦उ॒त¦ऋ॒तुऽभिः॑¦ऋ॒भ॒वः॒¦मा॒द॒य॒ध्व॒म् | |
अ॒यंवो᳚य॒ज्ञऋ॑भवोऽकारि॒¦यमाम॑नु॒ष्वत्प्र॒दिवो᳚दधि॒ध्वे |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} प्रवोऽच्छा᳚जुजुषा॒णासो᳚,अस्थु॒¦रभू᳚त॒विश्वे᳚,अग्रि॒योतवा᳚जाः || {3/11}{4.34.3}{4.4.2.3}{3.7.3.3}{392, 330, 3444} अ॒यम्¦वः॒¦य॒ज्ञः¦ऋ॒भ॒वः॒¦अ॒का॒रि॒¦यम्¦आ¦म॒नु॒ष्वत्¦प्र॒ऽदिवः॑¦द॒धि॒ध्वे | |
अभू᳚दुवोविध॒तेर॑त्न॒धेय॑¦मि॒दान॑रोदा॒शुषे॒मर्त्या᳚य |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} पिब॑तवाजा,ऋभवोद॒देवो॒¦महि॑तृ॒तीयं॒सव॑नं॒मदा᳚य || {4/11}{4.34.4}{4.4.2.4}{3.7.3.4}{393, 330, 3445} अभू᳚त्¦ऊँ॒ इति॑¦वः॒¦वि॒ध॒ते¦र॒त्न॒ऽधेय᳚म्¦इ॒दा¦न॒रः॒¦दा॒शुषे᳚¦मर्त्या᳚य | |
आवा᳚जाया॒तोप॑नऋभुक्षा¦म॒होन॑रो॒द्रवि॑णसोगृणा॒नाः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} आवः॑पी॒तयो᳚ऽभिपि॒त्वे,अह्ना᳚¦मि॒मा,अस्तं᳚नव॒स्व॑इवग्मन् || {5/11}{4.34.5}{4.4.2.5}{3.7.3.5}{394, 330, 3446} आ¦वा॒जाः॒¦या॒त॒¦उप॑¦नः॒¦ऋ॒भु॒क्षाः॒¦म॒हः¦न॒रः॒¦द्रवि॑णसः¦गृ॒णा॒नाः | |
आन॑पातःशवसोयात॒नोपे॒¦मंय॒ज्ञंनम॑साहू॒यमा᳚नाः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} स॒जोष॑सःसूरयो॒यस्य॑च॒स्थ¦मध्वः॑पातरत्न॒धा,इन्द्र॑वन्तः || {6/11}{4.34.6}{4.4.2.6}{3.7.4.1}{395, 330, 3447} आ¦न॒पा॒तः॒¦श॒व॒सः॒¦या॒त॒न॒¦उप॑¦इ॒मम्¦य॒ज्ञम्¦नम॑सा¦हू॒यमा᳚नाः | |
स॒जोषा᳚,इन्द्र॒वरु॑णेन॒सोमं᳚¦स॒जोषाः᳚पाहिगिर्वणोम॒रुद्भिः॑ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} अ॒ग्रे॒पाभि᳚रृतु॒पाभिः॑स॒जोषा॒¦ग्नास्पत्नी᳚भीरत्न॒धाभिः॑स॒जोषाः᳚ || {7/11}{4.34.7}{4.4.2.7}{3.7.4.2}{396, 330, 3448} स॒ऽजोषाः᳚¦इ॒न्द्र॒¦वरु॑णेन¦सोम᳚म्¦स॒ऽजोषाः᳚¦पा॒हि॒¦गि॒र्व॒णः॒¦म॒रुत्ऽभिः॑ | |
स॒जोष॑सआदि॒त्यैर्मा᳚दयध्वं¦स॒जोष॑सऋभवः॒पर्व॑तेभिः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} स॒जोष॑सो॒दैव्ये᳚नासवि॒त्रा¦स॒जोष॑सः॒सिन्धु॑भीरत्न॒धेभिः॑ || {8/11}{4.34.8}{4.4.2.8}{3.7.4.3}{397, 330, 3449} स॒ऽजोष॑सः¦आ॒दि॒त्यैः¦मा॒द॒य॒ध्व॒म्¦स॒ऽजोष॑सः¦ऋ॒भ॒वः॒¦पर्व॑तेभिः | |
ये,अ॒श्विना॒येपि॒तरा॒यऊ॒ती¦धे॒नुंत॑त॒क्षुरृ॒भवो॒ये,अश्वा᳚ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} ये,अंस॑त्रा॒यऋध॒ग्रोद॑सी॒ये¦विभ्वो॒नरः॑स्वप॒त्यानि॑च॒क्रुः || {9/11}{4.34.9}{4.4.2.9}{3.7.4.4}{398, 330, 3450} ये¦अ॒श्विना᳚¦ये¦पि॒तरा᳚¦ये¦ऊ॒ती¦धे॒नुम्¦त॒त॒क्षुः¦ऋ॒भवः॑¦ये¦अश्वा᳚ | |
येगोम᳚न्तं॒वाज॑वन्तंसु॒वीरं᳚¦र॒यिंध॒त्थवसु॑मन्तंपुरु॒क्षुम् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} ते,अ॑ग्रे॒पा,ऋ॑भवोमन्दसा॒ना¦,अ॒स्मेध॑त्त॒येच॑रा॒तिंगृ॒णन्ति॑ || {10/11}{4.34.10}{4.4.2.10}{3.7.4.5}{399, 330, 3451} ये¦गोऽम᳚न्तम्¦वाज॑ऽवन्तम्¦सु॒ऽवीर᳚म्¦र॒यिम्¦ध॒त्थ¦वसु॑ऽमन्तम्¦पु॒रु॒ऽक्षुम् | |
नापा᳚भूत॒नवो᳚ऽतीतृषा॒मा¦ऽनिः॑शस्ता,ऋभवोय॒ज्ञे,अ॒स्मिन् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} समिन्द्रे᳚ण॒मद॑थ॒संम॒रुद्भिः॒¦संराज॑भीरत्न॒धेया᳚यदेवाः || {11/11}{4.34.11}{4.4.2.11}{3.7.4.6}{400, 330, 3452} न¦अप॑¦अ॒भू॒त॒¦न¦वः॒¦अ॒ती॒तृ॒षा॒म॒¦अनिः॑ऽशस्ताः¦ऋ॒भ॒वः॒¦य॒ज्ञे¦अ॒स्मिन् | |
[35] इहोपेति नवर्चस्य सूक्तस्य गौतमोवामदेवऋभवस्त्रिष्टुप् | |
इ॒होप॑यातशवसोनपातः॒¦सौध᳚न्वना,ऋभवो॒माप॑भूत |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} अ॒स्मिन्हिवः॒सव॑नेरत्न॒धेयं॒¦गम॒न्त्विन्द्र॒मनु॑वो॒मदा᳚सः || {1/9}{4.35.1}{4.4.3.1}{3.7.5.1}{401, 331, 3453} इ॒ह¦उप॑¦या॒त॒¦श॒व॒सः॒¦न॒पा॒तः॒¦सौध᳚न्वनाः¦ऋ॒भ॒वः॒¦मा¦अप॑¦भू॒त॒ | |
आग᳚न्नृभू॒णामि॒हर॑त्न॒धेय॒¦मभू॒त्सोम॑स्य॒सुषु॑तस्यपी॒तिः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} सु॒कृ॒त्यया॒यत्स्व॑प॒स्यया᳚चँ॒¦एकं᳚विच॒क्रच॑म॒संच॑तु॒र्धा || {2/9}{4.35.2}{4.4.3.2}{3.7.5.2}{402, 331, 3454} आ¦अ॒ग॒न्¦ऋ॒भू॒णाम्¦इ॒ह¦र॒त्न॒ऽधेय᳚म्¦अभू᳚त्¦सोम॑स्य¦सुऽसु॑तस्य¦पी॒तिः | |
व्य॑कृणोतचम॒संच॑तु॒र्धा¦सखे॒विशि॒क्षेत्य॑ब्रवीत |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} अथै᳚तवाजा,अ॒मृत॑स्य॒पन्थां᳚¦ग॒णंदे॒वाना᳚मृभवःसुहस्ताः || {3/9}{4.35.3}{4.4.3.3}{3.7.5.3}{403, 331, 3455} वि¦अ॒कृ॒णो॒त॒¦च॒म॒सम्¦च॒तुः॒ऽधा¦सखे᳚¦वि¦शि॒क्ष॒¦इति॑¦अ॒ब्र॒वी॒त॒ | |
कि॒म्मयः॑स्विच्चम॒सए॒षआ᳚स॒¦यंकाव्ये᳚नच॒तुरो᳚विच॒क्र |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} अथा᳚सुनुध्वं॒सव॑नं॒मदा᳚य¦पा॒तऋ॑भवो॒मधु॑नःसो॒म्यस्य॑ || {4/9}{4.35.4}{4.4.3.4}{3.7.5.4}{404, 331, 3456} कि॒म्ऽमयः॑¦स्वि॒त्¦च॒म॒सः¦ए॒षः¦आ॒स॒¦यम्¦काव्ये᳚न¦च॒तुरः॑¦वि॒ऽच॒क्र | |
शच्या᳚कर्तपि॒तरा॒युवा᳚ना॒¦शच्या᳚कर्तचम॒संदे᳚व॒पान᳚म् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} शच्या॒हरी॒धनु॑तरावतष्टे¦न्द्र॒वाहा᳚वृभवोवाजरत्नाः || {5/9}{4.35.5}{4.4.3.5}{3.7.5.5}{405, 331, 3457} शच्या᳚¦अ॒क॒र्त॒¦पि॒तरा᳚¦युवा᳚ना¦शच्या᳚¦अ॒क॒र्त॒¦च॒म॒सम्¦दे॒व॒ऽपान᳚म् | |
योवः॑सु॒नोत्य॑भिपि॒त्वे,अह्नां᳚¦ती॒व्रंवा᳚जासः॒सव॑नं॒मदा᳚य |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} तस्मै᳚र॒यिमृ॑भवः॒सर्व॑वीर॒¦मात॑क्षतवृषणोमन्दसा॒नाः || {6/9}{4.35.6}{4.4.3.6}{3.7.6.1}{406, 331, 3458} यः¦वः॒¦सु॒नोति॑¦अ॒भि॒ऽपि॒त्वे¦अह्ना᳚म्¦ती॒व्रम्¦वा॒जा॒सः॒¦सव॑नम्¦मदा᳚य | |
प्रा॒तःसु॒तम॑पिबोहर्यश्व॒¦माध्यं᳚दिनं॒सव॑नं॒केव॑लंते |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} समृ॒भुभिः॑पिबस्वरत्न॒धेभिः॒¦सखीँ॒र्याँ,इ᳚न्द्रचकृ॒षेसु॑कृ॒त्या || {7/9}{4.35.7}{4.4.3.7}{3.7.6.2}{407, 331, 3459} प्रा॒तरिति॑¦सु॒तम्¦अ॒पि॒बः॒¦ह॒रि॒।आ॒श्व॒¦माध्यं᳚दिनम्¦सव॑नम्¦केव॑लम्¦ते॒ | |
येदे॒वासो॒,अभ॑वतासुकृ॒त्या¦श्ये॒ना,इ॒वेदधि॑दि॒विनि॑षे॒द |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} तेरत्नं᳚धातशवसोनपातः॒¦सौध᳚न्वना॒,अभ॑वता॒मृता᳚सः || {8/9}{4.35.8}{4.4.3.8}{3.7.6.3}{408, 331, 3460} ये¦दे॒वासः॑¦अभ॑वत¦सु॒ऽकृ॒त्या¦श्ये॒नाःऽइ᳚व¦इत्¦अधि॑¦दि॒वि¦नि॒ऽसे॒द | |
यत्तृ॒तीयं॒सव॑नंरत्न॒धेय॒¦मकृ॑णुध्वंस्वप॒स्यासु॑हस्ताः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} तदृ॑भवः॒परि॑षिक्तंवए॒तत्¦संमदे᳚भिरिन्द्रि॒येभिः॑पिबध्वम् || {9/9}{4.35.9}{4.4.3.9}{3.7.6.4}{409, 331, 3461} यत्¦तृ॒तीय᳚म्¦सव॑नम्¦र॒त्न॒ऽधेय᳚म्¦अकृ॑णुध्वम्¦सु॒।आ॒प॒स्या¦सु॒ऽह॒स्ताः॒ | |
[36] अनश्वोजातइति नवर्चस्य सूक्तस्य गौतमोवामदेव ऋभवो जगत्यंत्यात्रिष्टुप् | |
अ॒न॒श्वोजा॒तो,अ॑नभी॒शुरु॒क्थ्यो॒३॑(ओ॒)¦रथ॑स्त्रिच॒क्रःपरि॑वर्तते॒रजः॑ |{गौतमो वामदेवः | ऋभवः | जगती} म॒हत्तद्वो᳚दे॒व्य॑स्यप्र॒वाच॑नं॒¦द्यामृ॑भवःपृथि॒वींयच्च॒पुष्य॑थ || {1/9}{4.36.1}{4.4.4.1}{3.7.7.1}{410, 332, 3462} अ॒न॒श्वः¦जा॒तः¦अ॒न॒भी॒शुः¦उ॒क्थ्यः॑¦रथः॑¦त्रि॒ऽच॒क्रः¦परि॑¦व॒र्त॒ते॒¦रजः॑ | |
रथं॒येच॒क्रुःसु॒वृतं᳚सु॒चेत॒सो¦ऽवि॑ह्वरन्तं॒मन॑स॒स्परि॒ध्यया᳚ |{गौतमो वामदेवः | ऋभवः | जगती} ताँ,ऊ॒न्व१॑(अ॒)स्यसव॑नस्यपी॒तय॒¦आवो᳚वाजा,ऋभवोवेदयामसि || {2/9}{4.36.2}{4.4.4.2}{3.7.7.2}{411, 332, 3463} रथ᳚म्¦ये¦च॒क्रुः¦सु॒ऽवृत᳚म्¦सु॒ऽचेत॑सः¦अवि॑ऽह्वरन्तम्¦मन॑सः¦परि॑¦ध्यया᳚ | |
तद्वो᳚वाजा,ऋभवःसुप्रवाच॒नं¦दे॒वेषु॑विभ्वो,अभवन्महित्व॒नम् |{गौतमो वामदेवः | ऋभवः | जगती} जिव्री॒यत्सन्ता᳚पि॒तरा᳚सना॒जुरा॒¦पुन॒र्युवा᳚नाच॒रथा᳚य॒तक्ष॑थ || {3/9}{4.36.3}{4.4.4.3}{3.7.7.3}{412, 332, 3464} तत्¦वः॒¦वा॒जाः॒¦ऋ॒भ॒वः॒¦सु॒ऽप्र॒वा॒च॒नम्¦दे॒वेषु॑¦वि॒ऽभ्वः॒¦अ॒भ॒व॒त्¦म॒हि॒ऽत्व॒नम् | |
एकं॒विच॑क्रचम॒संचतु᳚र्वयं॒¦निश्चर्म॑णो॒गाम॑रिणीतधी॒तिभिः॑ |{गौतमो वामदेवः | ऋभवः | जगती} अथा᳚दे॒वेष्व॑मृत॒त्वमा᳚नश¦श्रु॒ष्टीवा᳚जा,ऋभव॒स्तद्व॑उ॒क्थ्य᳚म् || {4/9}{4.36.4}{4.4.4.4}{3.7.7.4}{413, 332, 3465} एक᳚म्¦वि¦च॒क्र॒¦च॒म॒सम्¦चतुः॑ऽवयम्¦निः¦चर्म॑णः¦गाम्¦अ॒रि॒णी॒त॒¦धी॒तिऽभिः॑ | |
ऋ॒भु॒तोर॒यिःप्र॑थ॒मश्र॑वस्तमो॒¦वाज॑श्रुतासो॒यमजी᳚जन॒न्नरः॑ |{गौतमो वामदेवः | ऋभवः | जगती} वि॒भ्व॒त॒ष्टोवि॒दथे᳚षुप्र॒वाच्यो॒¦यंदे᳚वा॒सोऽव॑था॒सविच॑र्षणिः || {5/9}{4.36.5}{4.4.4.5}{3.7.7.5}{414, 332, 3466} ऋ॒भु॒तः¦र॒यिः¦प्र॒थ॒मश्र॑वःऽतमः¦वाज॑ऽश्रुतासः¦यम्¦अजी᳚जनन्¦नरः॑ | |
सवा॒ज्यर्वा॒सऋषि᳚र्वच॒स्यया॒¦सशूरो॒,अस्ता॒पृत॑नासुदु॒ष्टरः॑ |{गौतमो वामदेवः | ऋभवः | जगती} सरा॒यस्पोषं॒ससु॒वीर्यं᳚दधे॒¦यंवाजो॒विभ्वाँ᳚,ऋ॒भवो॒यमावि॑षुः || {6/9}{4.36.6}{4.4.4.6}{3.7.8.1}{415, 332, 3467} सः¦वा॒जी¦अर्वा᳚¦सः¦ऋषिः॑¦व॒च॒स्यया᳚¦सः¦शूरः॑¦अस्ता᳚¦पृत॑नासु¦दु॒स्तरः॑ | |
श्रेष्ठं᳚वः॒पेशो॒,अधि॑धायिदर्श॒तं¦स्तोमो᳚वाजा,ऋभव॒स्तंजु॑जुष्टन |{गौतमो वामदेवः | ऋभवः | जगती} धीरा᳚सो॒हिष्ठाक॒वयो᳚विप॒श्चित॒¦स्तान्व॑ए॒नाब्रह्म॒णावे᳚दयामसि || {7/9}{4.36.7}{4.4.4.7}{3.7.8.2}{416, 332, 3468} श्रेष्ठ᳚म्¦वः॒¦पेशः॑¦अधि॑¦धा॒यि॒¦द॒र्श॒तम्¦स्तोमः॑¦वा॒जाः॒¦ऋ॒भ॒वः॒¦तम्¦जु॒जु॒ष्ट॒न॒ | |
यू॒यम॒स्मभ्यं᳚धि॒षणा᳚भ्य॒स्परि॑¦वि॒द्वांसो॒विश्वा॒नर्या᳚णि॒भोज॑ना |{गौतमो वामदेवः | ऋभवः | जगती} द्यु॒मन्तं॒वाजं॒वृष॑शुष्ममुत्त॒म¦मानो᳚र॒यिमृ॑भवस्तक्ष॒तावयः॑ || {8/9}{4.36.8}{4.4.4.8}{3.7.8.3}{417, 332, 3469} यू॒यम्¦अ॒स्मभ्य᳚म्¦धि॒षणा᳚भ्यः¦परि॑¦वि॒द्वांसः॑¦विश्वा᳚¦नर्या᳚णि¦भोज॑ना | |
इ॒हप्र॒जामि॒हर॒यिंररा᳚णा¦,इ॒हश्रवो᳚वी॒रव॑त्तक्षतानः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} येन॑व॒यंचि॒तये॒मात्य॒न्यान्¦तंवाजं᳚चि॒त्रमृ॑भवोददानः || {9/9}{4.36.9}{4.4.4.9}{3.7.8.4}{418, 332, 3470} इ॒ह¦प्र॒ऽजाम्¦इ॒ह¦र॒यिम्¦ररा᳚णाः¦इ॒ह¦श्रवः॑¦वी॒रऽव॑त्¦त॒क्ष॒त॒¦नः॒ | |
[37] उपनइत्यष्टर्चस्य ऊक्तस्य गौतमोवामदेवऋभवस्त्रिष्टुप् अंत्याश्चतस्रोनुष्टुभः | |
उप॑नोवाजा,अध्व॒रमृ॑भुक्षा॒¦देवा᳚या॒तप॒थिभि॑र्देव॒यानैः᳚ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} यथा᳚य॒ज्ञंमनु॑षोवि॒क्ष्वा॒३॑(आ॒)सु¦द॑धि॒ध्वेर᳚ण्वाःसु॒दिने॒ष्वह्ना᳚म् || {1/8}{4.37.1}{4.4.5.1}{3.7.9.1}{419, 333, 3471} उप॑¦नः॒¦वा॒जाः॒¦अ॒ध्व॒रम्¦ऋ॒भु॒क्षाः॒¦देवाः᳚¦या॒त¦प॒थिऽभिः॑¦दे॒व॒ऽयानैः᳚ | |
तेवो᳚हृ॒देमन॑सेसन्तुय॒ज्ञा¦जुष्टा᳚सो,अ॒द्यघृ॒तनि᳚र्णिजोगुः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} प्रवः॑सु॒तासो᳚हरयन्तपू॒र्णाः¦क्रत्वे॒दक्षा᳚यहर्षयन्तपी॒ताः || {2/8}{4.37.2}{4.4.5.2}{3.7.9.2}{420, 333, 3472} ते¦वः॒¦हृ॒दे¦मन॑से¦स॒न्तु॒¦य॒ज्ञाः¦जुष्टा᳚सः¦अ॒द्य¦घृ॒तऽनि᳚र्निजः¦गुः॒ | |
त्र्यु॒दा॒यंदे॒वहि॑तं॒यथा᳚वः॒¦स्तोमो᳚वाजा,ऋभुक्षणोद॒देवः॑ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} जु॒ह्वेम॑नु॒ष्वदुप॑रासुवि॒क्षु¦यु॒ष्मेसचा᳚बृ॒हद्दि॑वेषु॒सोम᳚म् || {3/8}{4.37.3}{4.4.5.3}{3.7.9.3}{421, 333, 3473} त्रि॒।औ॒दा॒यम्¦दे॒वऽहि॑तम्¦यथा᳚¦वः॒¦स्तोमः॑¦वा॒जाः॒¦ऋ॒भु॒क्ष॒णः॒¦द॒दे¦वः॒ | |
पीवो᳚अश्वाःशु॒चद्र॑था॒हिभू॒ता¦ऽयः॑शिप्रावाजिनःसुनि॒ष्काः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} इन्द्र॑स्यसूनोशवसोनपा॒तो¦ऽनु॑वश्चेत्यग्रि॒यंमदा᳚य || {4/8}{4.37.4}{4.4.5.4}{3.7.9.4}{422, 333, 3474} पीवः॑।आश्वाः¦शु॒चत्ऽर॑थाः¦हि¦भू॒त¦आयः॑ऽशिप्राः¦वा॒जि॒नः॒¦सु॒ऽनि॒ष्काः | |
ऋ॒भुमृ॑भुक्षणोर॒यिं¦वाजे᳚वा॒जिन्त॑मं॒युज᳚म् |{गौतमो वामदेवः | ऋभवः | अनुष्टुप्} इन्द्र॑स्वन्तंहवामहे¦सदा॒सात॑मम॒श्विन᳚म् || {5/8}{4.37.5}{4.4.5.5}{3.7.9.5}{423, 333, 3475} ऋ॒भुम्¦ऋ॒भु॒क्ष॒णः॒¦र॒यिम्¦वाजे᳚¦वा॒जिन्ऽत॑मम्¦युज᳚म् | इन्द्र॑स्वन्तम्¦ह॒वा॒म॒हे॒¦स॒दा॒ऽसात॑मम्¦अ॒श्विन᳚म् || |
सेदृ॑भवो॒यमव॑थ¦यू॒यमिन्द्र॑श्च॒मर्त्य᳚म् |{गौतमो वामदेवः | ऋभवः | अनुष्टुप्} सधी॒भिर॑स्तु॒सनि॑ता¦मे॒धसा᳚ता॒सो,अर्व॑ता || {6/8}{4.37.6}{4.4.5.6}{3.7.10.1}{424, 333, 3476} सः¦इत्¦ऋ॒भ॒वः॒¦यम्¦अव॑थ¦यू॒यम्¦इन्द्रः॑¦च॒¦मर्त्य᳚म् | सः¦धी॒भिः¦अ॒स्तु॒¦सनि॑ता¦मे॒धऽसा᳚ता¦सः¦अर्व॑ता || |
विनो᳚वाजा,ऋभुक्षणः¦प॒थश्चि॑तन॒यष्ट॑वे |{गौतमो वामदेवः | ऋभवः | अनुष्टुप्} अ॒स्मभ्यं᳚सूरयःस्तु॒ता¦विश्वा॒,आशा᳚स्तरी॒षणि॑ || {7/8}{4.37.7}{4.4.5.7}{3.7.10.2}{425, 333, 3477} वि¦नः॒¦वा॒जाः॒¦ऋ॒भु॒क्ष॒णः॒¦प॒थः¦चि॒त॒न॒¦यष्ट॑वे | अ॒स्मभ्य᳚म्¦सू॒र॒यः॒¦स्तु॒ताः¦विश्वाः᳚¦आशाः᳚¦त॒री॒षणि॑ || |
तंनो᳚वाजा,ऋभुक्षण॒¦इन्द्र॒नास॑त्यार॒यिम् |{गौतमो वामदेवः | ऋभवः | अनुष्टुप्} समश्वं᳚चर्ष॒णिभ्य॒आ¦पु॒रुश॑स्तम॒घत्त॑ये || {8/8}{4.37.8}{4.4.5.8}{3.7.10.3}{426, 333, 3478} तम्¦नः॒¦वा॒जाः॒¦ऋ॒भु॒क्ष॒णः॒¦इन्द्र॑¦नास॑त्या¦र॒यिम् | सम्¦अश्व᳚म्¦च॒र्ष॒णिऽभ्यः॑¦आ¦पु॒रु¦श॒स्त॒¦म॒घत्त॑ये || |
[38] उतोहीति दशर्चस्य सूक्तस्य गौतमोवामदेवोदधिक्रावा आद्यायाद्यावापृथिवीत्रिष्टुप् |
उ॒तोहिवां᳚दा॒त्रासन्ति॒पूर्वा॒¦यापू॒रुभ्य॑स्त्र॒सद॑स्युर्नितो॒शे |{गौतमो वामदेवः | द्यावापृथिवी | त्रिष्टुप्} क्षे॒त्रा॒सांद॑दथुरुर्वरा॒सां¦घ॒नंदस्यु॑भ्यो,अ॒भिभू᳚तिमु॒ग्रम् || {1/10}{4.38.1}{4.4.6.1}{3.7.11.1}{427, 334, 3479} उ॒तो इति॑¦हि¦वा॒म्¦दा॒त्रा¦सन्ति॑¦पूर्वा᳚¦या¦पू॒रुऽभ्यः॑¦त्र॒सद॑स्युः¦नि॒ऽतो॒शे | |
उ॒तवा॒जिनं᳚पुरुनि॒ष्षिध्वा᳚नं¦दधि॒क्रामु॑ददथुर्वि॒श्वकृ॑ष्टिम् |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} ऋ॒जि॒प्यंश्ये॒नंप्रु॑षि॒तप्सु॑मा॒शुं¦च॒र्कृत्य॑म॒र्योनृ॒पतिं॒नशूर᳚म् || {2/10}{4.38.2}{4.4.6.2}{3.7.11.2}{428, 334, 3480} उ॒त¦वा॒जिन᳚म्¦पु॒रु॒निः॒ऽसिध्वा᳚नम्¦द॒धि॒ऽक्राम्¦ऊँ॒ इति॑¦द॒द॒थुः॒¦वि॒श्वऽकृ॑ष्टिम् | |
यंसी॒मनु॑प्र॒वते᳚व॒द्रव᳚न्तं॒¦विश्वः॑पू॒रुर्मद॑ति॒हर्ष॑माणः |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} प॒ड्भिर्गृध्य᳚न्तंमेध॒युंनशूरं᳚¦रथ॒तुरं॒वात॑मिव॒ध्रज᳚न्तम् || {3/10}{4.38.3}{4.4.6.3}{3.7.11.3}{429, 334, 3481} यम्¦सी॒म्¦अनु॑¦प्र॒वता᳚ऽइव¦द्रव᳚न्तम्¦विश्वः॑¦पू॒रुः¦मद॑ति¦हर्ष॑माणः | |
यःस्मा᳚रुन्धा॒नोगध्या᳚स॒मत्सु॒¦सनु॑तर॒श्चर॑ति॒गोषु॒गच्छ॑न् |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} आ॒विरृ॑जीकोवि॒दथा᳚नि॒चिक्य॑त्¦ति॒रो,अ॑र॒तिंपर्याप॑आ॒योः || {4/10}{4.38.4}{4.4.6.4}{3.7.11.4}{430, 334, 3482} यः¦स्म॒¦आ॒ऽरु॒न्धा॒नः¦गध्या᳚¦स॒मत्ऽसु॑¦सनु॑ऽतरः¦चर॑ति¦गोषु॑¦गच्छ॑न् | |
उ॒तस्मै᳚नंवस्त्र॒मथिं॒नता॒यु¦मनु॑क्रोशन्तिक्षि॒तयो॒भरे᳚षु |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} नी॒चाय॑मानं॒जसु॑रिं॒नश्ये॒नं¦श्रव॒श्चाच्छा᳚पशु॒मच्च॑यू॒थम् || {5/10}{4.38.5}{4.4.6.5}{3.7.11.5}{431, 334, 3483} उ॒त¦स्म॒¦ए॒न॒म्¦व॒स्त्र॒ऽमथि᳚म्¦न¦ता॒युम्¦अनु॑¦क्रो॒श॒न्ति॒¦क्षि॒तयः॑¦भरे᳚षु | |
उ॒तस्मा᳚सुप्रथ॒मःस॑रि॒ष्यन्¦निवे᳚वेति॒श्रेणि॑भी॒रथा᳚नाम् |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} स्रजं᳚कृण्वा॒नोजन्यो॒नशुभ्वा᳚¦रे॒णुंरेरि॑हत्कि॒रणं᳚दद॒श्वान् || {6/10}{4.38.6}{4.4.6.6}{3.7.12.1}{432, 334, 3484} उ॒त¦स्म॒¦आ॒सु¦प्र॒थ॒मः¦स॒रि॒ष्यन्¦नि¦वे॒वे॒ति॒¦श्रेणि॑ऽभिः¦रथा᳚नाम् | |
उ॒तस्यवा॒जीसहु॑रिरृ॒तावा॒¦शुश्रू᳚षमाणस्त॒न्वा᳚सम॒र्ये |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} तुरं᳚य॒तीषु॑तु॒रय᳚न्नृजि॒प्यो¦ऽधि॑भ्रु॒वोःकि॑रतेरे॒णुमृ॒ञ्जन् || {7/10}{4.38.7}{4.4.6.7}{3.7.12.2}{433, 334, 3485} उ॒त¦स्यः¦वा॒जी¦सहु॑रिः¦ऋ॒तऽवा᳚¦शुश्रू᳚षमाणः¦त॒न्वा᳚¦स॒ऽम॒र्ये | |
उ॒तस्मा᳚स्यतन्य॒तोरि॑व॒द्यो¦रृ॑घाय॒तो,अ॑भि॒युजो᳚भयन्ते |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} य॒दास॒हस्र॑म॒भिषी॒मयो᳚धीद्¦दु॒र्वर्तुः॑स्माभवतिभी॒मऋ॒ञ्जन् || {8/10}{4.38.8}{4.4.6.8}{3.7.12.3}{434, 334, 3486} उ॒त¦स्म॒¦अ॒स्य॒¦त॒न्य॒तोःऽइ᳚व¦द्योः¦ऋ॒घा॒य॒तः¦अ॒भि॒ऽयुजः॑¦भ॒य॒न्ते॒ | |
उ॒तस्मा᳚स्यपनयन्ति॒जना᳚¦जू॒तिंकृ॑ष्टि॒प्रो,अ॒भिभू᳚तिमा॒शोः |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} उ॒तैन॑माहुःसमि॒थेवि॒यन्तः॒¦परा᳚दधि॒क्रा,अ॑सरत्स॒हस्रैः᳚ || {9/10}{4.38.9}{4.4.6.9}{3.7.12.4}{435, 334, 3487} उ॒त¦स्म॒¦अ॒स्य॒¦प॒न॒य॒न्ति॒¦जनाः᳚¦जू॒तिम्¦कृ॒ष्टि॒ऽप्रः¦अ॒भिऽभू᳚तिम्¦आ॒शोः | |
आद॑धि॒क्राःशव॑सा॒पञ्च॑कृ॒ष्टीः¦सूर्य॑इव॒ज्योति॑षा॒पस्त॑तान |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} स॒ह॒स्र॒साःश॑त॒सावा॒ज्यर्वा᳚¦पृ॒णक्तु॒मध्वा॒समि॒मावचां᳚सि || {10/10}{4.38.10}{4.4.6.10}{3.7.12.5}{436, 334, 3488} आ¦द॒धि॒ऽक्राः¦शव॑सा¦पंच॑¦कृ॒ष्टीः¦सूर्यः॑ऽइव¦ज्योति॑षा¦अ॒पः¦त॒ता॒न॒ | |
[39] आशुमिति षडृचस्य सूक्तस्य गौतमोवामदेवोदधिक्रावात्रिष्टुबन्त्यानुष्टुप् | |
आ॒शुंद॑धि॒क्रांतमु॒नुष्ट॑वाम¦दि॒वस्पृ॑थि॒व्या,उ॒तच॑र्किराम |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} उ॒च्छन्ती॒र्मामु॒षसः॑सूदय॒न्¦त्वति॒विश्वा᳚निदुरि॒तानि॑पर्षन् || {1/6}{4.39.1}{4.4.7.1}{3.7.13.1}{437, 335, 3489} आ॒शुम्¦द॒धि॒ऽक्राम्¦तम्¦ऊँ॒ इति॑¦नु¦स्त॒वा॒म॒¦दि॒वः¦पृ॒थि॒व्याः¦उ॒त¦च॒र्कि॒रा॒म॒ | |
म॒हश्च॑र्क॒र्म्यर्व॑तःक्रतु॒प्रा¦द॑धि॒क्राव्णः॑पुरु॒वार॑स्य॒वृष्णः॑ |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} यंपू॒रुभ्यो᳚दीदि॒वांसं॒नाग्निं¦द॒दथु᳚र्मित्रावरुणा॒ततु॑रिम् || {2/6}{4.39.2}{4.4.7.2}{3.7.13.2}{438, 335, 3490} म॒हः¦च॒र्क॒र्मि॒¦अर्व॑तः¦क्र॒तु॒ऽप्राः¦द॒धि॒ऽक्राव्णः॑¦पु॒रु॒ऽवार॑स्य¦वृष्णः॑ | |
यो,अश्व॑स्यदधि॒क्राव्णो॒,अका᳚री॒त्¦समि॑द्धे,अ॒ग्ना,उ॒षसो॒व्यु॑ष्टौ |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} अना᳚गसं॒तमदि॑तिःकृणोतु॒¦समि॒त्रेण॒वरु॑णेनास॒जोषाः᳚ || {3/6}{4.39.3}{4.4.7.3}{3.7.13.3}{439, 335, 3491} यः¦अश्व॑स्य¦द॒धि॒ऽक्राव्णः॑¦अका᳚रीत्¦सम्ऽइ᳚द्धे¦अ॒ग्नौ¦उ॒षसः॑¦वि।औ᳚ष्टौ | |
द॒धि॒क्राव्ण॑इ॒षऊ॒र्जोम॒होय¦दम᳚न्महिम॒रुतां॒नाम॑भ॒द्रम् |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} स्व॒स्तये॒वरु॑णंमि॒त्रम॒ग्निं¦हवा᳚मह॒इन्द्रं॒वज्र॑बाहुम् || {4/6}{4.39.4}{4.4.7.4}{3.7.13.4}{440, 335, 3492} द॒धि॒ऽक्राव्णः॑¦इ॒षः¦ऊ॒र्जः¦म॒हः¦यत्¦अम᳚न्महि¦म॒रुता᳚म्¦नाम॑¦भ॒द्रम् | |
इन्द्र॑मि॒वेदु॒भये॒विह्व॑यन्त¦उ॒दीरा᳚णाय॒ज्ञमु॑पप्र॒यन्तः॑ |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} द॒धि॒क्रामु॒सूद॑नं॒मर्त्या᳚य¦द॒दथु᳚र्मित्रावरुणानो॒,अश्व᳚म् || {5/6}{4.39.5}{4.4.7.5}{3.7.13.5}{441, 335, 3493} इन्द्र᳚म्ऽइव¦इत्¦उ॒भये᳚¦वि¦ह्व॒य॒न्ते॒¦उ॒त्ऽईरा᳚णाः¦य॒ज्ञम्¦उ॒प॒ऽप्र॒यन्तः॑ | |
द॒धि॒क्राव्णो᳚,अकारिषं¦जि॒ष्णोरश्व॑स्यवा॒जिनः॑ |{गौतमो वामदेवः | दधिक्राः | अनुष्टुप्} सु॒र॒भिनो॒मुखा᳚कर॒त्¦प्रण॒आयूं᳚षितारिषत् || {6/6}{4.39.6}{4.4.7.6}{3.7.13.6}{442, 335, 3494} द॒धि॒ऽक्राव्णः॑¦अ॒का॒रि॒ष॒म्¦जि॒ष्णोः¦अश्व॑स्य¦वा॒जिनः॑ | सु॒र॒भि¦नः॒¦मुखा᳚¦क॒र॒त्¦प्र¦नः॒¦आयूं᳚षि¦ता॒रि॒ष॒त् || |
[40] दधिक्राव्णइति पंचर्चस्य सूक्तस्य गौतमोवामदेवदधिक्रावा अंत्यायाः सूर्यस्त्रिष्टुप् अंत्याश्चतस्रोजगत्यः |
द॒धि॒क्राव्ण॒इदु॒नुच॑र्किराम॒¦विश्वा॒,इन्मामु॒षसः॑सूदयन्तु |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} अ॒पाम॒ग्नेरु॒षसः॒सूर्य॑स्य॒¦बृह॒स्पते᳚राङ्गिर॒सस्य॑जि॒ष्णोः || {1/5}{4.40.1}{4.4.8.1}{3.7.14.1}{443, 336, 3495} द॒धि॒ऽक्राव्णः॑¦इत्¦ऊँ॒ इति॑¦नु¦चा॒र्कि॒रा॒म॒¦विश्वाः᳚¦इत्¦माम्¦उ॒षसः॑¦सू॒द॒य॒न्तु॒ | |
सत्वा᳚भरि॒षोग॑वि॒षोदु॑वन्य॒स¦च्छ्र॑व॒स्यादि॒षउ॒षस॑स्तुरण्य॒सत् |{गौतमो वामदेवः | दधिक्राः | जगती} स॒त्योद्र॒वोद्र॑व॒रःप॑तंग॒रो¦द॑धि॒क्रावेष॒मूर्जं॒स्व॑र्जनत् || {2/5}{4.40.2}{4.4.8.2}{3.7.14.2}{444, 336, 3496} सत्वा᳚¦भ॒रि॒षः¦गो॒ऽइ॒षः¦दु॒व॒न्य॒ऽसत्¦श्र॒व॒स्यात्¦इ॒षः¦उ॒षसः॑¦तु॒र॒ण्य॒ऽसत् | |
उ॒तस्मा᳚स्य॒द्रव॑तस्तुरण्य॒तः¦प॒र्णंनवेरनु॑वातिप्रग॒र्धिनः॑ |{गौतमो वामदेवः | दधिक्राः | जगती} श्ये॒नस्ये᳚व॒ध्रज॑तो,अङ्क॒संपरि॑¦दधि॒क्राव्णः॑स॒होर्जातरि॑त्रतः || {3/5}{4.40.3}{4.4.8.3}{3.7.14.3}{445, 336, 3497} उ॒त¦स्म॒¦अ॒स्य॒¦द्रव॑तः¦तु॒र॒ण्य॒तः¦प॒र्णम्¦न¦वेः¦अनु॑¦वा॒ति॒¦प्र॒ऽग॒र्धिनः॑ | |
उ॒तस्यवा॒जीक्षि॑प॒णिंतु॑रण्यति¦ग्री॒वायां᳚ब॒द्धो,अ॑पिक॒क्षआ॒सनि॑ |{गौतमो वामदेवः | दधिक्राः | जगती} क्रतुं᳚दधि॒क्रा,अनु॑सं॒तवी᳚त्वत्¦प॒थामङ्कां॒स्यन्वा॒पनी᳚फणत् || {4/5}{4.40.4}{4.4.8.4}{3.7.14.4}{446, 336, 3498} उ॒त¦स्यः¦वा॒जी¦क्षि॒प॒णिम्¦तु॒र॒ण्य॒ति॒¦ग्री॒वाया᳚म्¦ब॒द्धः¦अ॒पि॒ऽक॒क्षे¦आ॒सनि॑ | |
हं॒सःशु॑चि॒षद्वसु॑रन्तरिक्ष॒स¦द्धोता᳚वेदि॒षदति॑थिर्दुरोण॒सत् |{गौतमो वामदेवः | सूर्यः | जगती} नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो᳚म॒स¦द॒ब्जागो॒जा,ऋ॑त॒जा,अ॑द्रि॒जा,ऋ॒तम् || {5/5}{4.40.5}{4.4.8.5}{3.7.14.5}{447, 336, 3499} हं॒सः¦शु॒चि॒ऽसत्¦वसुः॑¦अ॒न्त॒रि॒क्ष॒ऽसत्¦होता᳚¦वे॒दि॒ऽसत्¦अति॑थिः¦दु॒रो॒ण॒ऽसत् | |
[41] इंद्राकोवामित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रावरुणौत्रिष्टुप् |
इन्द्रा॒कोवां᳚वरुणासु॒म्नमा᳚प॒¦स्तोमो᳚ह॒विष्माँ᳚,अ॒मृतो॒नहोता᳚ |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} योवां᳚हृ॒दिक्रतु॑माँ,अ॒स्मदु॒क्तः¦प॒स्पर्श॑दिन्द्रावरुणा॒नम॑स्वान् || {1/11}{4.41.1}{4.4.9.1}{3.7.15.1}{448, 337, 3500} इन्द्रा᳚¦कः¦वा॒म्¦व॒रु॒णा॒¦सु॒म्नम्¦आ॒प॒¦स्तोमः॑¦ह॒विष्मा᳚न्¦अ॒मृतः॑¦न¦होता᳚ | |
इन्द्रा᳚ह॒योवरु॑णाच॒क्रआ॒पी¦दे॒वौमर्तः॑स॒ख्याय॒प्रय॑स्वान् |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} सह᳚न्तिवृ॒त्रास॑मि॒थेषु॒शत्रू॒¦नवो᳚भिर्वाम॒हद्भिः॒सप्रशृ᳚ण्वे || {2/11}{4.41.2}{4.4.9.2}{3.7.15.2}{449, 337, 3501} इन्द्रा᳚¦ह॒¦यः¦वरु॑णा¦च॒क्रे¦आ॒पी इति॑¦दे॒वौ¦मर्तः॑¦स॒ख्याय॑¦प्रय॑स्वान् | |
इन्द्रा᳚ह॒रत्नं॒वरु॑णा॒धेष्ठे॒¦त्थानृभ्यः॑शशमा॒नेभ्य॒स्ता |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} यदी॒सखा᳚यास॒ख्याय॒सोमैः᳚¦सु॒तेभिः॑सुप्र॒यसा᳚मा॒दयै᳚ते || {3/11}{4.41.3}{4.4.9.3}{3.7.15.3}{450, 337, 3502} इन्द्रा᳚¦ह॒¦रत्न᳚म्¦वरु॑णा¦धेष्ठा᳚¦इ॒त्था¦नृऽभ्यः॑¦श॒श॒मा॒नेभ्यः॑¦ता | |
इन्द्रा᳚यु॒वंव॑रुणादि॒द्युम॑स्मि॒¦न्नोजि॑ष्ठमुग्रा॒निव॑धिष्टं॒वज्र᳚म् |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} योनो᳚दु॒रेवो᳚वृ॒कति॑र्द॒भीति॒¦स्तस्मि᳚न्मिमाथाम॒भिभू॒त्योजः॑ || {4/11}{4.41.4}{4.4.9.4}{3.7.15.4}{451, 337, 3503} इन्द्रा᳚¦यु॒वम्¦व॒रु॒णा॒¦दि॒द्युम्¦अ॒स्मि॒न्¦ओजि॑ष्ठम्¦उ॒ग्रा॒¦नि¦व॒धि॒ष्ट॒म्¦वज्र᳚म् | |
इन्द्रा᳚यु॒वंव॑रुणाभू॒तम॒स्या¦धि॒यःप्रे॒तारा᳚वृष॒भेव॑धे॒नोः |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} सानो᳚दुहीय॒द्यव॑सेवग॒त्वी¦स॒हस्र॑धारा॒पय॑साम॒हीगौः || {5/11}{4.41.5}{4.4.9.5}{3.7.15.5}{452, 337, 3504} इन्द्रा᳚¦यु॒वम्¦व॒रु॒णा॒¦भू॒तम्¦अ॒स्याः¦धि॒यः¦प्रे॒तारा᳚¦वृ॒ष॒भाऽइ᳚व¦धे॒नोः | |
तो॒केहि॒तेतन॑यउ॒र्वरा᳚सु॒¦सूरो॒दृशी᳚के॒वृष॑णश्च॒पौंस्ये᳚ |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} इन्द्रा᳚नो॒,अत्र॒वरु॑णास्याता॒¦मवो᳚भिर्द॒स्मापरि॑तक्म्यायाम् || {6/11}{4.41.6}{4.4.9.6}{3.7.16.1}{453, 337, 3505} तो॒के¦हि॒ते¦तन॑ये¦उ॒र्वरा᳚सु¦सूरः॑¦दृशी᳚के¦वृष॑णः¦च॒¦पौंस्ये᳚ | |
यु॒वामिद्ध्यव॑सेपू॒र्व्याय॒¦परि॒प्रभू᳚तीग॒विषः॑स्वापी |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} वृ॒णी॒महे᳚स॒ख्याय॑प्रि॒याय॒¦शूरा॒मंहि॑ष्ठापि॒तरे᳚वश॒म्भू || {7/11}{4.41.7}{4.4.9.7}{3.7.16.2}{454, 337, 3506} यु॒वाम्¦इत्¦हि¦अव॑से¦पू॒र्व्याय॑¦परि॑¦प्रभू᳚ती॒ इति॒ प्रऽभू᳚ती¦गो॒ऽइषः॑¦स्वा॒पी॒ इति॑ सुऽआपी | |
तावां॒धियोऽव॑सेवाज॒यन्ती᳚¦रा॒जिंनज॑ग्मुर्युव॒यूःसु॑दानू |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} श्रि॒येनगाव॒उप॒सोम॑मस्थु॒¦रिन्द्रं॒गिरो॒वरु॑णंमेमनी॒षाः || {8/11}{4.41.8}{4.4.9.8}{3.7.16.3}{455, 337, 3507} ताः¦वा॒म्¦धियः॑¦अव॑से¦वा॒ज॒ऽयन्तीः᳚¦आ॒जिम्¦न¦ज॒ग्मुः॒¦यु॒व॒ऽयूः¦सु॒दा॒नू॒ इति॑ सुऽदानू | |
इ॒मा,इन्द्रं॒वरु॑णंमेमनी॒षा¦,अग्म॒न्नुप॒द्रवि॑णमि॒च्छमा᳚नाः |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} उपे᳚मस्थुर्जो॒ष्टार॑इव॒वस्वो᳚¦र॒घ्वीरि॑व॒श्रव॑सो॒भिक्ष॑माणाः || {9/11}{4.41.9}{4.4.9.9}{3.7.16.4}{456, 337, 3508} इ॒माः¦इन्द्र᳚म्¦वरु॑णम्¦मे॒¦म॒नी॒षाः¦अग्म॑न्¦उप॑¦द्रवि॑णम्¦इ॒च्छमा᳚नाः | |
अश्व्य॑स्य॒त्मना॒रथ्य॑स्यपु॒ष्टे¦र्नित्य॑स्यरा॒यःपत॑यःस्याम |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} ताच॑क्रा॒णा,ऊ॒तिभि॒र्नव्य॑सीभि¦रस्म॒त्रारायो᳚नि॒युतः॑सचन्ताम् || {10/11}{4.41.10}{4.4.9.10}{3.7.16.5}{457, 337, 3509} अश्व्य॑स्य¦त्मना᳚¦रथ्य॑स्य¦पु॒ष्टेः¦नित्य॑स्य¦रा॒यः¦पत॑यः¦स्या॒म॒ | |
आनो᳚बृहन्ताबृह॒तीभि॑रू॒ती¦,इन्द्र॑या॒तंव॑रुण॒वाज॑सातौ |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} यद्दि॒द्यवः॒पृत॑नासुप्र॒क्रीळा॒न्¦तस्य॑वांस्यामसनि॒तार॑आ॒जेः || {11/11}{4.41.11}{4.4.9.11}{3.7.16.6}{458, 337, 3510} आ¦नः॒¦बृ॒ह॒न्ता॒¦बृ॒ह॒तीभिः॑¦ऊ॒ती¦इन्द्र॑¦या॒तम्¦व॒रु॒ण॒¦वाज॑ऽसातौ | |
[42] ममद्वितेति दशर्चस्य सूक्तस्य पौरुकुत्स्यस्त्रसदस्युः आद्यानांषण्णांत्रसदस्युर्देवता अंत्यानांचतसृणामिंद्रावरुणौत्रिष्टुप् |
मम॑द्वि॒तारा॒ष्ट्रंक्ष॒त्रिय॑स्य¦वि॒श्वायो॒र्विश्वे᳚,अ॒मृता॒यथा᳚नः |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्} क्रतुं᳚सचन्ते॒वरु॑णस्यदे॒वा¦राजा᳚मिकृ॒ष्टेरु॑प॒मस्य॑व॒व्रेः || {1/10}{4.42.1}{4.4.10.1}{3.7.17.1}{459, 338, 3511} मम॑¦द्वि॒ता¦रा॒ष्ट्रम्¦क्ष॒त्रिय॑स्य¦वि॒श्वऽआ᳚योः¦विश्वे᳚¦अ॒मृताः᳚¦यथा᳚¦नः॒ | |
अ॒हंराजा॒वरु॑णो॒मह्यं॒ता¦न्य॑सु॒र्या᳚णिप्रथ॒माधा᳚रयन्त |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्} क्रतुं᳚सचन्ते॒वरु॑णस्यदे॒वा¦राजा᳚मिकृ॒ष्टेरु॑प॒मस्य॑व॒व्रेः || {2/10}{4.42.2}{4.4.10.2}{3.7.17.2}{460, 338, 3512} अ॒हम्¦राजा᳚¦वरु॑णः¦मह्य᳚म्¦तानि॑¦अ॒सु॒र्या᳚णि¦प्र॒थ॒मा¦धा॒र॒य॒न्त॒ | |
अ॒हमिन्द्रो॒वरु॑ण॒स्तेम॑हि॒त्वो¦र्वीग॑भी॒रेरज॑सीसु॒मेके᳚ |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्} त्वष्टे᳚व॒विश्वा॒भुव॑नानिवि॒द्वान्¦त्समै᳚रयं॒रोद॑सीधा॒रयं᳚च || {3/10}{4.42.3}{4.4.10.3}{3.7.17.3}{461, 338, 3513} अ॒हम्¦इन्द्रः॑¦वरु॑णः¦ते इति॑¦म॒हि॒ऽत्वा¦उ॒र्वी इति॑¦ग॒भी॒रे इति॑¦रज॑सी॒ इति॑¦सु॒मेके॒ इति॑ सु॒ऽमेके᳚ | |
अ॒हम॒पो,अ॑पिन्वमु॒क्षमा᳚णा¦धा॒रयं॒दिवं॒सद॑नऋ॒तस्य॑ |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्} ऋ॒तेन॑पु॒त्रो,अदि॑तेरृ॒तावो॒¦तत्रि॒धातु॑प्रथय॒द्विभूम॑ || {4/10}{4.42.4}{4.4.10.4}{3.7.17.4}{462, 338, 3514} अ॒हम्¦अ॒पः¦अ॒पि॒न्व॒म्¦उ॒क्षमा᳚णाः¦ध॒रय᳚म्¦दिव᳚म्¦सद॑ने¦ऋ॒तस्य॑ | |
मांनरः॒स्वश्वा᳚वा॒जय᳚न्तो॒¦मांवृ॒ताःस॒मर॑णेहवन्ते |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्} कृ॒णोम्या॒जिंम॒घवा॒हमिन्द्र॒¦इय᳚र्मिरे॒णुम॒भिभू᳚त्योजाः || {5/10}{4.42.5}{4.4.10.5}{3.7.17.5}{463, 338, 3515} माम्¦नरः॑¦सु॒।आश्वाः᳚¦वा॒जय᳚न्तः¦माम्¦वृ॒ताः¦स॒म्।आर॑णे¦ह॒व॒न्ते॒ | |
अ॒हंताविश्वा᳚चकरं॒नकि᳚र्मा॒¦दैव्यं॒सहो᳚वरते॒,अप्र॑तीतम् |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्} यन्मा॒सोमा᳚सोम॒मद॒न्यदु॒क्थो¦भेभ॑येते॒रज॑सी,अपा॒रे || {6/10}{4.42.6}{4.4.10.6}{3.7.18.1}{464, 338, 3516} अ॒हम्¦ता¦विश्वा᳚¦च॒क॒र॒म्¦नकिः॑¦मा॒¦दैव्य᳚म्¦सहः॑¦व॒र॒ते॒¦अप्र॑तिऽइतम् | |
वि॒दुष्टे॒विश्वा॒भुव॑नानि॒तस्य॒¦ताप्रब्र॑वीषि॒वरु॑णायवेधः |{पौरुकुत्स्यः त्रसदस्युः | इन्द्रावरुणौ | त्रिष्टुप्} त्वंवृ॒त्राणि॑शृण्विषेजघ॒न्वान्¦त्वंवृ॒ताँ,अ॑रिणा,इन्द्र॒सिन्धू॑न् || {7/10}{4.42.7}{4.4.10.7}{3.7.18.2}{465, 338, 3517} वि॒दुः¦ते॒¦विश्वा᳚¦भुव॑नानि¦तस्य॑¦ता¦प्र¦ब्र॒वी॒षि॒¦वरु॑णाय¦वे॒धः॒ | |
अ॒स्माक॒मत्र॑पि॒तर॒स्तआ᳚सन्¦त्स॒प्तऋष॑योदौर्ग॒हेब॒ध्यमा᳚ने |{पौरुकुत्स्यः त्रसदस्युः | इन्द्रावरुणौ | त्रिष्टुप्} तआय॑जन्तत्र॒सद॑स्युमस्या॒,¦इन्द्रं॒नवृ॑त्र॒तुर॑मर्धदे॒वम् || {8/10}{4.42.8}{4.4.10.8}{3.7.18.3}{466, 338, 3518} अ॒स्माक᳚म्¦अत्र॑¦पि॒तरः॑¦ते¦आ॒स॒न्¦स॒प्त¦ऋष॑यः¦दौः॒ऽग॒हे¦ब॒ध्यमा᳚ने | |
पु॒रु॒कुत्सा᳚नी॒हिवा॒मदा᳚श¦द्ध॒व्येभि॑रिन्द्रावरुणा॒नमो᳚भिः |{पौरुकुत्स्यः त्रसदस्युः | इन्द्रावरुणौ | त्रिष्टुप्} अथा॒राजा᳚नंत्र॒सद॑स्युमस्या¦वृत्र॒हणं᳚ददथुरर्धदे॒वम् || {9/10}{4.42.9}{4.4.10.9}{3.7.18.4}{467, 338, 3519} पु॒रु॒ऽकुत्सा᳚नी¦हि¦वा॒म्¦अदा᳚शत्¦ह॒व्येभिः॑¦इ॒न्द्रा॒व॒रु॒णा॒¦नमः॑ऽभिः | |
रा॒याव॒यंस॑स॒वांसो᳚मदेम¦ह॒व्येन॑दे॒वायव॑सेन॒गावः॑ |{पौरुकुत्स्यः त्रसदस्युः | इन्द्रावरुणौ | त्रिष्टुप्} तांधे॒नुमि᳚न्द्रावरुणायु॒वंनो᳚¦वि॒श्वाहा᳚धत्त॒मन॑पस्फुरन्तीम् || {10/10}{4.42.10}{4.4.10.10}{3.7.18.5}{468, 338, 3520} रा॒या¦व॒यम्¦स॒स॒ऽवांसः॑¦म॒दे॒म॒¦ह॒व्येन॑¦दे॒वाः¦यव॑सेन¦गावः॑ | |
[43] कउश्रवदिति सप्तर्चस्य सूक्तस्य सौहोत्रौ पुरुमीळ्हाजमीळ्हावश्विनौत्रिष्टुप् | |
कउ॑श्रवत्कत॒मोय॒ज्ञिया᳚नां¦व॒न्दारु॑दे॒वःक॑त॒मोजु॑षाते |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} कस्ये॒मांदे॒वीम॒मृते᳚षु॒प्रेष्ठां᳚¦हृ॒दिश्रे᳚षामसुष्टु॒तिंसु॑ह॒व्याम् || {1/7}{4.43.1}{4.4.11.1}{3.7.19.1}{469, 339, 3521} कः¦ऊँ॒ इति॑¦श्र॒व॒त्¦क॒त॒मः¦य॒ज्ञिया᳚नाम्¦व॒न्दारु॑¦दे॒वः¦क॒त॒मः¦जु॒षा॒ते॒ | |
कोमृ॑ळातिकत॒मआग॑मिष्ठो¦दे॒वाना᳚मुकत॒मःशम्भ॑विष्ठः |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} रथं॒कमा᳚हुर्द्र॒वद॑श्वमा॒शुं¦यंसूर्य॑स्यदुहि॒तावृ॑णीत || {2/7}{4.43.2}{4.4.11.2}{3.7.19.2}{470, 339, 3522} कः¦मृ॒ळा॒ति॒¦क॒त॒मः¦आऽग॑मिष्ठः¦दे॒वाना᳚म्¦ऊँ॒ इति॑¦क॒त॒मः¦शम्ऽभ॑विष्ठः | |
म॒क्षूहिष्मा॒गच्छ॑थ॒ईव॑तो॒द्यू¦निन्द्रो॒नश॒क्तिंपरि॑तक्म्यायाम् |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} दि॒वआजा᳚तादि॒व्यासु॑प॒र्णा¦कया॒शची᳚नांभवथः॒शचि॑ष्ठा || {3/7}{4.43.3}{4.4.11.3}{3.7.19.3}{471, 339, 3523} म॒क्षु¦हि¦स्म॒¦गच्छ॑थः¦ईव॑तः¦द्यून्¦इन्द्रः॑¦न¦श॒क्तिम्¦परि॑ऽतक्म्यायाम् | |
कावां᳚भू॒दुप॑मातिः॒कया᳚न॒¦आश्वि॑नागमथोहू॒यमा᳚ना |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} कोवां᳚म॒हश्चि॒त्त्यज॑सो,अ॒भीक॑¦उरु॒ष्यतं᳚माध्वीदस्रानऊ॒ती || {4/7}{4.43.4}{4.4.11.4}{3.7.19.4}{472, 339, 3524} का¦वा॒म्¦भू॒त्¦उप॑ऽमातिः¦कया᳚¦नः॒¦आ¦अ॒श्वि॒ना॒¦ग॒म॒थः॒¦हू॒यमा᳚ना | |
उ॒रुवां॒रथः॒परि॑नक्षति॒द्या¦मायत्स॑मु॒द्राद॒भिवर्त॑तेवाम् |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} मध्वा᳚माध्वी॒मधु॑वांप्रुषाय॒न्¦यत्सीं᳚वां॒पृक्षो᳚भु॒रज᳚न्तप॒क्वाः || {5/7}{4.43.5}{4.4.11.5}{3.7.19.5}{473, 339, 3525} उ॒रु¦वा॒म्¦रथः॑¦परि॑¦न॒क्ष॒ति॒¦द्याम्¦आ¦यत्¦स॒मु॒द्रात्¦अ॒भि¦वर्त॑ते¦वा॒म् | |
सिन्धु᳚र्हवांर॒सया᳚सिञ्च॒दश्वा᳚न्¦घृ॒णावयो᳚ऽरु॒षासः॒परि॑ग्मन् |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} तदू॒षुवा᳚मजि॒रंचे᳚ति॒यानं॒¦येन॒पती॒भव॑थःसू॒र्यायाः᳚ || {6/7}{4.43.6}{4.4.11.6}{3.7.19.6}{474, 339, 3526} सिन्धुः॑¦ह॒¦वा॒म्¦र॒सया᳚¦सिं॒च॒त्¦अश्वा᳚न्¦घृ॒णा¦वयः॑¦अ॒रु॒षासः॑¦परि॑¦ग्म॒न् | |
इ॒हेह॒यद्वां᳚सम॒नाप॑पृ॒क्षे¦सेयम॒स्मेसु॑म॒तिर्वा᳚जरत्ना |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} उ॒रु॒ष्यतं᳚जरि॒तारं᳚यु॒वंह॑¦श्रि॒तःकामो᳚नासत्यायुव॒द्रिक् || {7/7}{4.43.7}{4.4.11.7}{3.7.19.7}{475, 339, 3527} इ॒हऽइ᳚ह¦यत्¦वा॒म्¦स॒म॒ना¦प॒पृ॒क्षे¦सा¦इ॒यम्¦अ॒स्मे इति॑¦सु॒ऽम॒तिः¦वा॒ज॒ऽर॒त्ना॒ | |
[44] तंवामिति सप्तर्चस्य सूक्तस्य सौहोत्रौ पुरुमीळ्हाजमीळ्हावश्विनौत्रिष्टुप् | |
तंवां॒रथं᳚व॒यम॒द्याहु॑वेम¦पृथु॒ज्रय॑मश्विना॒संग॑तिं॒गोः |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} यःसू॒र्यांवह॑तिवन्धुरा॒यु¦र्गिर्वा᳚हसंपुरु॒तमं᳚वसू॒युम् || {1/7}{4.44.1}{4.4.12.1}{3.7.20.1}{476, 340, 3528} तम्¦वा॒म्¦रथ᳚म्¦व॒यम्¦अ॒द्य¦हु॒वे॒म॒¦पृ॒थु॒ऽज्रय᳚म्¦अ॒श्वि॒ना॒¦सम्ऽग॑तिम्¦गोः | |
यु॒वंश्रिय॑मश्विनादे॒वता॒तां¦दिवो᳚नपातावनथः॒शची᳚भिः |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} यु॒वोर्वपु॑र॒भिपृक्षः॑सचन्ते॒¦वह᳚न्ति॒यत्क॑कु॒हासो॒रथे᳚वाम् || {2/7}{4.44.2}{4.4.12.2}{3.7.20.2}{477, 340, 3529} यु॒वम्¦श्रिय᳚म्¦अ॒श्वि॒ना॒¦दे॒वता᳚¦ताम्¦दिवः॑¦न॒पा॒ता॒¦व॒न॒थः॒¦शची᳚भिः | |
कोवा᳚म॒द्याक॑रतेरा॒तह᳚व्य¦ऊ॒तये᳚वासुत॒पेया᳚यवा॒र्कैः |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} ऋ॒तस्य॑वाव॒नुषे᳚पू॒र्व्याय॒¦नमो᳚येमा॒नो,अ॑श्वि॒नाव॑वर्तत् || {3/7}{4.44.3}{4.4.12.3}{3.7.20.3}{478, 340, 3530} कः¦वा॒म्¦अ॒द्य¦क॒र॒ते॒¦रा॒तऽह᳚व्यः¦ऊ॒तये᳚¦वा॒¦सु॒त॒ऽपेया᳚य¦वा॒¦अ॒र्कैः | |
हि॒र॒ण्यये᳚नपुरुभू॒रथे᳚ने॒¦मंय॒ज्ञंना᳚स॒त्योप॑यातम् |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} पिबा᳚थ॒इन्मधु॑नःसो॒म्यस्य॒¦दध॑थो॒रत्नं᳚विध॒तेजना᳚य || {4/7}{4.44.4}{4.4.12.4}{3.7.20.4}{479, 340, 3531} हि॒र॒ण्यये᳚न¦पु॒रु॒भू॒ इति॑ पुरुऽभू¦रथे᳚न¦इ॒मम्¦य॒ज्ञम्¦ना॒स॒त्या॒¦उप॑¦या॒त॒म् | |
आनो᳚यातंदि॒वो,अच्छा᳚पृथि॒व्या¦हि॑र॒ण्यये᳚नसु॒वृता॒रथे᳚न |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} मावा᳚म॒न्येनिय॑मन्देव॒यन्तः॒¦संयद्द॒देनाभिः॑पू॒र्व्यावा᳚म् || {5/7}{4.44.5}{4.4.12.5}{3.7.20.5}{480, 340, 3532} आ¦नः॒¦या॒त॒म्¦दि॒वः¦अच्छ॑¦पृ॒थि॒व्याः¦हि॒र॒ण्यये᳚न¦सु॒ऽवृता᳚¦रथे᳚न | |
नूनो᳚र॒यिंपु॑रु॒वीरं᳚बृ॒हन्तं॒¦दस्रा॒मिमा᳚थामु॒भये᳚ष्व॒स्मे |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} नरो॒यद्वा᳚मश्विना॒स्तोम॒माव॑न्¦त्स॒धस्तु॑तिमाजमी॒ळ्हासो᳚,अग्मन् || {6/7}{4.44.6}{4.4.12.6}{3.7.20.6}{481, 340, 3533} नु¦नः॒¦र॒यिम्¦पु॒रु॒ऽवीर᳚म्¦बृ॒हन्त᳚म्¦द॒स्रा॒¦मिमा᳚थाम्¦उ॒भये᳚षु¦अ॒स्मे इति॑ | |
इ॒हेह॒यद्वां᳚सम॒नाप॑पृ॒क्षे¦सेयम॒स्मेसु॑म॒तिर्वा᳚जरत्ना |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} उ॒रु॒ष्यतं᳚जरि॒तारं᳚यु॒वंह॑¦श्रि॒तःकामो᳚नासत्यायुव॒द्रिक् || {7/7}{4.44.7}{4.4.12.7}{3.7.20.7}{482, 340, 3534} इ॒हऽइ᳚ह¦यत्¦वा॒म्¦स॒म॒ना¦प॒पृ॒क्षे¦सा¦इ॒यम्¦अ॒स्मे इति॑¦सु॒ऽम॒तिः¦वा॒ज॒ऽर॒त्ना॒ | |
[45] एषस्यइति सप्तर्चस्य सूक्तस्य गौतमो वामदेवोश्विनौ जगत्यंत्यात्रिष्टुप् | |
ए॒षस्यभा॒नुरुदि॑यर्तियु॒ज्यते॒¦रथः॒परि॑ज्मादि॒वो,अ॒स्यसान॑वि |{गौतमो वामदेवः | अश्विनौ | जगती} पृ॒क्षासो᳚,अस्मिन्मिथु॒ना,अधि॒त्रयो॒¦दृति॑स्तु॒रीयो॒मधु॑नो॒विर॑प्शते || {1/7}{4.45.1}{4.4.13.1}{3.7.21.1}{483, 341, 3535} ए॒षः¦स्यः¦भा॒नुः¦उत्¦इ॒य॒र्ति॒¦यु॒ज्यते᳚¦रथः॑¦परि॑ऽज्मा¦दि॒वः¦अ॒स्य¦सान॑वि | |
उद्वां᳚पृ॒क्षासो॒मधु॑मन्तईरते॒¦रथा॒,अश्वा᳚सउ॒षसो॒व्यु॑ष्टिषु |{गौतमो वामदेवः | अश्विनौ | जगती} अ॒पो॒र्णु॒वन्त॒स्तम॒आपरी᳚वृतं॒¦स्व१॑(अ॒)र्णशु॒क्रंत॒न्वन्त॒आरजः॑ || {2/7}{4.45.2}{4.4.13.2}{3.7.21.2}{484, 341, 3536} उत्¦वा॒म्¦पृ॒क्षासः॑¦मधु॑ऽमन्तः¦ई॒र॒ते॒¦रथाः᳚¦अश्वा᳚सः¦उ॒षसः॑¦वि।औ᳚ष्टिषु | |
मध्वः॑पिबतंमधु॒पेभि॑रा॒सभि॑¦रु॒तप्रि॒यंमधु॑नेयुञ्जाथां॒रथ᳚म् |{गौतमो वामदेवः | अश्विनौ | जगती} आव॑र्त॒निंमधु॑नाजिन्वथस्प॒थो¦दृतिं᳚वहेथे॒मधु॑मन्तमश्विना || {3/7}{4.45.3}{4.4.13.3}{3.7.21.3}{485, 341, 3537} मध्वः॑¦पि॒ब॒त॒म्¦म॒धु॒ऽपेभिः॑¦आ॒सऽभिः॑¦उ॒त¦प्रि॒यम्¦मधु॑ने¦युं॒जा॒था॒म्¦रथ᳚म् | |
हं॒सासो॒येवां॒मधु॑मन्तो,अ॒स्रिधो॒¦हिर᳚ण्यपर्णा,उ॒हुव॑उष॒र्बुधः॑ |{गौतमो वामदेवः | अश्विनौ | जगती} उ॒द॒प्रुतो᳚म॒न्दिनो᳚मन्दिनि॒स्पृशो॒¦मध्वो॒नमक्षः॒सव॑नानिगच्छथः || {4/7}{4.45.4}{4.4.13.4}{3.7.21.4}{486, 341, 3538} हं॒सासः॑¦ये¦वा॒म्¦मधु॑ऽमन्तः¦अ॒स्रिधः॑¦हिर᳚ण्यऽपर्णाः¦उ॒हुवः॑¦उ॒षः॒ऽबुधः॑ | |
स्व॒ध्व॒रासो॒मधु॑मन्तो,अ॒ग्नय॑¦उ॒स्राज॑रन्ते॒प्रति॒वस्तो᳚र॒श्विना᳚ |{गौतमो वामदेवः | अश्विनौ | जगती} यन्नि॒क्तह॑स्तस्त॒रणि᳚र्विचक्ष॒णः¦सोमं᳚सु॒षाव॒मधु॑मन्त॒मद्रि॑भिः || {5/7}{4.45.5}{4.4.13.5}{3.7.21.5}{487, 341, 3539} सु॒।आ॒ध्च॒रासः॑¦मधु॑ऽमन्तः¦अ॒ग्नयः॑¦उ॒स्रा¦ज॒र॒न्ते॒¦प्रति॑¦वस्तोः᳚¦अ॒श्विना᳚ | |
आ॒के॒नि॒पासो॒,अह॑भि॒र्दवि॑ध्वतः॒¦स्व१॑(अ॒)र्णशु॒क्रंत॒न्वन्त॒आरजः॑ |{गौतमो वामदेवः | अश्विनौ | जगती} सूर॑श्चि॒दश्वा᳚न्युयुजा॒नई᳚यते॒¦विश्वाँ॒,अनु॑स्व॒धया᳚चेतथस्प॒थः || {6/7}{4.45.6}{4.4.13.6}{3.7.21.6}{488, 341, 3540} आ॒के॒ऽनि॒पासः॑¦अह॑ऽभिः¦दवि॑ध्वतः¦स्वः॑¦न¦शु॒क्रम्¦त॒न्वन्तः॑¦आ¦रजः॑ | |
प्रवा᳚मवोचमश्विनाधियं॒धा¦रथः॒स्वश्वो᳚,अ॒जरो॒यो,अस्ति॑ |{गौतमो वामदेवः | अश्विनौ | त्रिष्टुप्} येन॑स॒द्यःपरि॒रजां᳚सिया॒थो¦ह॒विष्म᳚न्तंत॒रणिं᳚भो॒जमच्छ॑ || {7/7}{4.45.7}{4.4.13.7}{3.7.21.7}{489, 341, 3541} प्र¦वा॒म्¦अ॒वो॒च॒म्¦अ॒श्वि॒ना॒¦धि॒य॒म्ऽधाः¦रथः॑¦सु॒।आश्वः॑¦अ॒जरः॑¦यः¦अस्ति॑ | |
[46] अग्रम्पिबेति सप्तर्चस्य सूक्तस्य गौतमोवामदेव इंद्रवायू आद्यायावायुर्गायत्री | |
अग्रं᳚पिबा॒मधू᳚नां¦सु॒तंवा᳚यो॒दिवि॑ष्टिषु |{गौतमो वामदेवः | वायुः | गायत्री} त्वंहिपू᳚र्व॒पा,असि॑ || {1/7}{4.46.1}{4.5.1.1}{3.7.22.1}{490, 342, 3542} अग्र᳚म्¦पि॒ब॒¦मधू᳚नाम्¦सु॒तम्¦व॒यो॒ इति॑¦दिवि॑ष्टिषु | त्वम्¦हि¦पू॒र्व॒ऽपाः¦असि॑ || |
श॒तेना᳚नो,अ॒भिष्टि॑भि¦र्नि॒युत्वाँ॒,इन्द्र॑सारथिः |{गौतमो वामदेवः | इंद्रवायू | गायत्री} वायो᳚सु॒तस्य॑तृम्पतम् || {2/7}{4.46.2}{4.5.1.2}{3.7.22.2}{491, 342, 3543} श॒तेन॑¦नः॒¦अ॒भिष्टि॑ऽभिः¦नि॒युत्वा᳚न्¦इन्द्र॑ऽसारथिः | वायो॒ इति॑¦सु॒तस्य॑¦तृ॒म्प॒त॒म् || |
आवां᳚स॒हस्रं॒हर॑य॒¦इन्द्र॑वायू,अ॒भिप्रयः॑ |{गौतमो वामदेवः | इंद्रवायू | गायत्री} वह᳚न्तु॒सोम॑पीतये || {3/7}{4.46.3}{4.5.1.3}{3.7.22.3}{492, 342, 3544} आ¦वा॒म्¦स॒हस्र᳚म्¦हर॑यः¦इन्द्र॑वायू॒ इति॑¦अ॒भि¦प्रयः॑ | वह᳚न्तु¦सोम॑ऽपीतये || |
रथं॒हिर᳚ण्यवन्धुर॒¦मिन्द्र॑वायूस्वध्व॒रम् |{गौतमो वामदेवः | इंद्रवायू | गायत्री} आहिस्थाथो᳚दिवि॒स्पृश᳚म् || {4/7}{4.46.4}{4.5.1.4}{3.7.22.4}{493, 342, 3545} रथ᳚म्¦हिर᳚ण्यऽवन्धुरम्¦इन्द्र॑वायू॒ इति॑¦सु॒।आ॒ध्व॒रम् | आ¦हि¦स्थाथः॑¦दि॒वि॒ऽस्पृश᳚म् || |
रथे᳚नपृथु॒पाज॑सा¦दा॒श्वांस॒मुप॑गच्छतम् |{गौतमो वामदेवः | इंद्रवायू | गायत्री} इन्द्र॑वायू,इ॒हाग॑तम् || {5/7}{4.46.5}{4.5.1.5}{3.7.22.5}{494, 342, 3546} रथे᳚न¦पृ॒थु॒ऽपाज॑सा¦दा॒श्वांस᳚म्¦उप॑¦ग॒च्छ॒त॒म् | इन्द्र॑वायू॒ इति॑¦इ॒ह¦आ¦ग॒त॒म् || |
इन्द्र॑वायू,अ॒यंसु॒त¦स्तंदे॒वेभिः॑स॒जोष॑सा |{गौतमो वामदेवः | इंद्रवायू | गायत्री} पिब॑तंदा॒शुषो᳚गृ॒हे || {6/7}{4.46.6}{4.5.1.6}{3.7.22.6}{495, 342, 3547} इन्द्र॑वायू॒ इति॑¦अ॒यम्¦सु॒तः¦तम्¦दे॒वेभिः॑¦स॒ऽजोष॑सा | पिब॑तम्¦दा॒शुषः॑¦गृ॒हे || |
इ॒हप्र॒याण॑मस्तुवा॒¦मिन्द्र॑वायूवि॒मोच॑नम् |{गौतमो वामदेवः | इंद्रवायू | गायत्री} इ॒हवां॒सोम॑पीतये || {7/7}{4.46.7}{4.5.1.7}{3.7.22.7}{496, 342, 3548} इ॒ह¦प्र॒ऽयान᳚म्¦अ॒स्तु॒¦वा॒म्¦इन्द्र॑वायू॒ इति॑¦वि॒ऽमोच॑नम् | इ॒ह¦वा॒म्¦सोम॑ऽपीतये || |
[47] वायोशुक्रइति चतुरृचस्य सूक्तस्य गौतमोवामदेव इंद्रवायू आद्यायावायुरनुष्टुप् | |
वायो᳚शु॒क्रो,अ॑यामिते॒¦मध्वो॒,अग्रं॒दिवि॑ष्टिषु |{गौतमो वामदेवः | वायुः | अनुष्टुप्} आया᳚हि॒सोम॑पीतये¦स्पा॒र्होदे᳚वनि॒युत्व॑ता || {1/4}{4.47.1}{4.5.2.1}{3.7.23.1}{497, 343, 3549} वायो॒ इति॑¦शु॒क्रः¦अ॒या॒मि॒¦ते॒¦मध्वः॑¦अग्र᳚म्¦दिवि॑ष्टिषु | आ¦या॒हि॒¦सोम॑ऽपीतये¦स्पा॒र्हः¦दे॒व॒¦नि॒युत्व॑ता || |
इन्द्र॑श्चवायवेषां॒¦सोमा᳚नांपी॒तिम᳚र्हथः |{गौतमो वामदेवः | इंद्रवायू | अनुष्टुप्} यु॒वांहियन्तीन्द॑वो¦नि॒म्नमापो॒नस॒ध्र्य॑क् || {2/4}{4.47.2}{4.5.2.2}{3.7.23.2}{498, 343, 3550} इन्द्रः॑¦च॒¦वा॒यो॒ इति॑¦ए॒षा॒म्¦सोमा᳚नाम्¦पी॒तिम्¦अ॒र्ह॒थः॒ | यु॒वाम्¦हि¦यन्ति॑¦इन्द॑वः¦नि॒म्नम्¦आपः॑¦न¦स॒ध्र्य॑क् || |
वाय॒विन्द्र॑श्चशु॒ष्मिणा᳚¦स॒रथं᳚शवसस्पती |{गौतमो वामदेवः | इंद्रवायू | अनुष्टुप्} नि॒युत्व᳚न्तानऊ॒तय॒¦आया᳚तं॒सोम॑पीतये || {3/4}{4.47.3}{4.5.2.3}{3.7.23.3}{499, 343, 3551} वायो॒ इति॑¦इन्द्रः॑¦च॒¦शु॒ष्मिणा᳚¦स॒ऽरथ᳚म्¦श॒व॒सः॒¦प॒ती॒ इति॑ | नि॒युत्व᳚न्ता¦नः॒¦ऊ॒तये᳚¦आ¦या॒त॒म्¦सोम॑ऽपीतये || |
यावां॒सन्ति॑पुरु॒स्पृहो᳚¦नि॒युतो᳚दा॒शुषे᳚नरा |{गौतमो वामदेवः | इंद्रवायू | अनुष्टुप्} अ॒स्मेताय॑ज्ञवाह॒से¦न्द्र॑वायू॒निय॑च्छतम् || {4/4}{4.47.4}{4.5.2.4}{3.7.23.4}{500, 343, 3552} याः¦वा॒म्¦सन्ति॑¦पु॒रु॒ऽस्पृहः॑¦नि॒ऽयुतः॑¦दा॒शुषे᳚¦न॒रा॒ | अ॒स्मे इति॑¦ताः¦य॒ज्ञ॒ऽवा॒ह॒सा॒¦इन्द्र॑वायू॒ इति॑¦नि¦य॒च्छ॒त॒म् || |
[48] विहिहोत्राइति पंचर्चस्य सूक्तस्य गौतमोवामदेवोवायुरनुष्टुप् | |
वि॒हिहोत्रा॒,अवी᳚ता॒¦विपो॒नरायो᳚,अ॒र्यः |{गौतमो वामदेवः | वायुः | अनुष्टुप्} वाय॒वाच॒न्द्रेण॒रथे᳚न¦या॒हिसु॒तस्य॑पी॒तये᳚ || {1/5}{4.48.1}{4.5.3.1}{3.7.24.1}{501, 344, 3553} वि॒हि¦होत्रा᳚¦अवी᳚ताः¦विपः॑¦न¦रायः॑¦अ॒र्यः | वायो॒ इति॑¦आ¦च॒न्द्रेण॑¦रथे᳚न¦या॒हि¦सु॒तस्य॑¦पी॒तये᳚ || |
नि॒र्यु॒वा॒णो,अश॑स्ती¦र्नि॒युत्वाँ॒,इन्द्र॑सारथिः |{गौतमो वामदेवः | वायुः | अनुष्टुप्} वाय॒वाच॒न्द्रेण॒रथे᳚न¦या॒हिसु॒तस्य॑पी॒तये᳚ || {2/5}{4.48.2}{4.5.3.2}{3.7.24.2}{502, 344, 3554} निः॒ऽयु॒वा॒नः¦अश॑स्तीः¦नि॒युत्वा᳚न्¦इन्द्र॑ऽसारथिः | वायो॒ इति॑¦आ¦च॒न्द्रेण॑¦रथे᳚न¦या॒हि¦सु॒तस्य॑¦पी॒तये᳚ || |
अनु॑कृ॒ष्णेवसु॑धिती¦ये॒माते᳚वि॒श्वपे᳚शसा |{गौतमो वामदेवः | वायुः | अनुष्टुप्} वाय॒वाच॒न्द्रेण॒रथे᳚न¦या॒हिसु॒तस्य॑पी॒तये᳚ || {3/5}{4.48.3}{4.5.3.3}{3.7.24.3}{503, 344, 3555} अनु॑¦कृ॒ष्णे इति॑¦वसु॑धिती॒ इति॒ वसु॑ऽधिती¦ये॒माते॒ इति॑¦वि॒श्वऽपे᳚शसा | वायो॒ इति॑¦आ¦च॒न्द्रेण॑¦रथे᳚न¦या॒हि¦सु॒तस्य॑¦पी॒तये᳚ || |
वह᳚न्तुत्वामनो॒युजो᳚¦यु॒क्तासो᳚नव॒तिर्नव॑ |{गौतमो वामदेवः | वायुः | अनुष्टुप्} वाय॒वाच॒न्द्रेण॒रथे᳚न¦या॒हिसु॒तस्य॑पी॒तये᳚ || {4/5}{4.48.4}{4.5.3.4}{3.7.24.4}{504, 344, 3556} वह᳚न्तु¦त्वा॒¦म॒नः॒ऽयुजः॑¦यु॒क्तासः॑¦न॒व॒तिः¦नव॑ | वायो॒ इति॑¦आ¦च॒न्द्रेण॑¦रथे᳚न¦या॒हि¦सु॒तस्य॑¦पी॒तये᳚ || |
वायो᳚श॒तंहरी᳚णां¦यु॒वस्व॒पोष्या᳚णाम् |{गौतमो वामदेवः | वायुः | अनुष्टुप्} उ॒तवा᳚तेसह॒स्रिणो॒¦रथ॒आया᳚तु॒पाज॑सा || {5/5}{4.48.5}{4.5.3.5}{3.7.24.5}{505, 344, 3557} वायो॒ इति॑¦श॒तम्¦हरी᳚णाम्¦यु॒वस्व॑¦पोष्या᳚णाम् | उ॒त¦वा॒¦ते॒¦स॒ह॒स्रिणः॑¦रथः॑¦आ¦या॒तु॒¦पाज॑सा || |
[49] इदंवामिति षडृचस्य सूक्तस्य गौतमोवामदेव इंद्राबृहस्पतीगायत्री |
इ॒दंवा᳚मा॒स्ये᳚ह॒विः¦प्रि॒यमि᳚न्द्राबृहस्पती |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री} उ॒क्थंमद॑श्चशस्यते || {1/6}{4.49.1}{4.5.4.1}{3.7.25.1}{506, 345, 3558} इ॒दम्¦वा॒म्¦आ॒स्ये᳚¦ह॒विः¦प्रि॒यम्¦इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ | उ॒क्थम्¦मदः॑¦च॒¦श॒स्य॒ते॒ || |
अ॒यंवां॒परि॑षिच्यते॒¦सोम॑इन्द्राबृहस्पती |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री} चारु॒र्मदा᳚यपी॒तये᳚ || {2/6}{4.49.2}{4.5.4.2}{3.7.25.2}{507, 345, 3559} अ॒यम्¦वा॒म्¦परि॑¦सि॒च्य॒ते॒¦सोमः॑¦इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ | चारुः॒¦मदा᳚य¦पी॒तये᳚ || |
आन॑इन्द्राबृहस्पती¦गृ॒हमिन्द्र॑श्चगच्छतम् |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री} सो॒म॒पासोम॑पीतये || {3/6}{4.49.3}{4.5.4.3}{3.7.25.3}{508, 345, 3560} आ¦नः॒¦इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑¦गृ॒हम्¦इन्द्रः॑¦च॒¦ग॒च्छ॒त॒म् | सो॒म॒ऽपा¦सोम॑ऽपीतये || |
अ॒स्मे,इ᳚न्द्राबृहस्पती¦र॒यिंध॑त्तंशत॒ग्विन᳚म् |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री} अश्वा᳚वन्तंसह॒स्रिण᳚म् || {4/6}{4.49.4}{4.5.4.4}{3.7.25.4}{509, 345, 3561} अ॒स्मे इति॑¦इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑¦र॒यिम्¦ध॒त्त॒म्¦श॒त॒ऽग्विन᳚म् | अश्व॑ऽवन्तम्¦स॒ह॒स्रिण᳚म् || |
इन्द्रा॒बृह॒स्पती᳚व॒यं¦सु॒तेगी॒र्भिर्ह॑वामहे |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री} अ॒स्यसोम॑स्यपी॒तये᳚ || {5/6}{4.49.5}{4.5.4.5}{3.7.25.5}{510, 345, 3562} इन्द्रा॒बृह॒स्पती॒ इति॑¦व॒यम्¦सु॒ते¦गीः॒ऽभिः¦ह॒वा॒म॒हे॒ | अ॒स्य¦सोम॑स्य¦पी॒तये᳚ || |
सोम॑मिन्द्राबृहस्पती॒¦पिब॑तंदा॒शुषो᳚गृ॒हे |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री} मा॒दये᳚थां॒तदो᳚कसा || {6/6}{4.49.6}{4.5.4.6}{3.7.25.6}{511, 345, 3563} सोम᳚म्¦इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑¦पिब॑तम्¦दा॒शुषः॑¦गृ॒हे | मा॒दये᳚थाम्¦तत्ऽओ᳚कसा || |
[50] यस्तस्तंभेत्येकादशर्चस्य सूक्तस्य गौतमोवामदेवो बृहस्पतिरंत्ययोर्द्वयोरिंद्राबृहस्पतीत्रिष्टुप्दशमी जगती | |
यस्त॒स्तम्भ॒सह॑सा॒विज्मो,अन्ता॒न्¦बृह॒स्पति॑स्त्रिषध॒स्थोरवे᳚ण |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्} तंप्र॒त्नास॒ऋष॑यो॒दीध्या᳚नाः¦पु॒रोविप्रा᳚दधिरेम॒न्द्रजि॑ह्वम् || {1/11}{4.50.1}{4.5.5.1}{3.7.26.1}{512, 346, 3564} यः¦त॒स्तम्भ॑¦सह॑सा¦वि¦ज्मः¦अन्ता᳚न्¦बृह॒स्पतिः॑¦त्रि॒ऽस॒ध॒स्थः¦रवे᳚ण | |
धु॒नेत॑यःसुप्रके॒तंमद᳚न्तो॒¦बृह॑स्पते,अ॒भियेन॑स्तत॒स्रे |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्} पृष᳚न्तंसृ॒प्रमद॑ब्धमू॒र्वं¦बृह॑स्पते॒रक्ष॑तादस्य॒योनि᳚म् || {2/11}{4.50.2}{4.5.5.2}{3.7.26.2}{513, 346, 3565} धु॒नऽइ᳚तयः¦सु॒ऽप्र॒के॒तम्¦मद᳚न्तः¦बृह॑स्पते¦अ॒भि¦ये¦नः॒¦त॒त॒स्रे | |
बृह॑स्पते॒याप॑र॒माप॑रा॒वद¦त॒आत॑ऋत॒स्पृशो॒निषे᳚दुः |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्} तुभ्यं᳚खा॒ता,अ॑व॒ता,अद्रि॑दुग्धा॒¦मध्वः॑श्चोतन्त्य॒भितो᳚विर॒प्शम् || {3/11}{4.50.3}{4.5.5.3}{3.7.26.3}{514, 346, 3566} बृह॑स्पते¦या¦प॒र॒मा¦प॒रा॒ऽवत्¦अतः॑¦आ¦ते॒¦ऋ॒त॒ऽस्पृशः॑¦नि¦से॒दुः॒ | |
बृह॒स्पतिः॑प्रथ॒मंजाय॑मानो¦म॒होज्योति॑षःपर॒मेव्यो᳚मन् |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्} स॒प्तास्य॑स्तुविजा॒तोरवे᳚ण॒¦विस॒प्तर॑श्मिरधम॒त्तमां᳚सि || {4/11}{4.50.4}{4.5.5.4}{3.7.26.4}{515, 346, 3567} बृह॒स्पतिः॑¦प्र॒थ॒मम्¦जाय॑मानः¦म॒हः¦ज्योति॑षः¦प॒र॒मे¦विऽओ᳚मन् | |
ससु॒ष्टुभा॒सऋक्व॑ताग॒णेन॑¦व॒लंरु॑रोजफलि॒गंरवे᳚ण |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्} बृह॒स्पति॑रु॒स्रिया᳚हव्य॒सूदः॒¦कनि॑क्रद॒द्वाव॑शती॒रुदा᳚जत् || {5/11}{4.50.5}{4.5.5.5}{3.7.26.5}{516, 346, 3568} सः¦सु॒ऽस्तुभा᳚¦सः¦ऋक्व॑ता¦ग॒णेन॑¦व॒लम्¦रु॒रो॒ज॒¦फ॒लि॒ऽगम्¦रवे᳚ण | |
ए॒वापि॒त्रेवि॒श्वदे᳚वाय॒वृष्णे᳚¦य॒ज्ञैर्वि॑धेम॒नम॑साह॒विर्भिः॑ |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्} बृह॑स्पतेसुप्र॒जावी॒रव᳚न्तो¦व॒यंस्या᳚म॒पत॑योरयी॒णाम् || {6/11}{4.50.6}{4.5.5.6}{3.7.27.1}{517, 346, 3569} ए॒व¦पि॒त्रे¦वि॒श्वऽदे᳚वाय¦वृष्णे᳚¦य॒ज्ञैः¦वि॒धे॒म॒¦नम॑सा¦ह॒विःऽभिः॑ | |
सइद्राजा॒प्रति॑जन्यानि॒विश्वा॒¦शुष्मे᳚णतस्थाव॒भिवी॒र्ये᳚ण |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्} बृह॒स्पतिं॒यःसुभृ॑तंबि॒भर्ति॑¦वल्गू॒यति॒वन्द॑तेपूर्व॒भाज᳚म् || {7/11}{4.50.7}{4.5.5.7}{3.7.27.2}{518, 346, 3570} सः¦इत्¦राजा᳚¦प्रति॑ऽजन्यानि¦विश्वा᳚¦शुष्मे᳚ण¦त॒स्थौ॒¦अ॒भि¦वी॒र्ये᳚ण | |
सइत्क्षे᳚ति॒सुधि॑त॒ओक॑सि॒स्वे¦तस्मा॒,इळा᳚पिन्वतेविश्व॒दानी᳚म् |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्} तस्मै॒विशः॑स्व॒यमे॒वान॑मन्ते॒¦यस्मि᳚न्ब्र॒ह्माराज॑नि॒पूर्व॒एति॑ || {8/11}{4.50.8}{4.5.5.8}{3.7.27.3}{519, 346, 3571} सः¦इत्¦क्षे॒ति॒¦सुऽधि॑तः¦ओक॑सि¦स्वे¦तस्मै᳚¦इळा᳚¦पि॒न्व॒ते॒¦वि॒श्व॒ऽदानी᳚म् | |
अप्र॑तीतोजयति॒संधना᳚नि॒¦प्रति॑जन्यान्यु॒तयासज᳚न्या |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्} अ॒व॒स्यवे॒योवरि॑वःकृ॒णोति॑¦ब्र॒ह्मणे॒राजा॒तम॑वन्तिदे॒वाः || {9/11}{4.50.9}{4.5.5.9}{3.7.27.4}{520, 346, 3572} अप्र॑तिऽइतः¦ज॒य॒ति॒¦सम्¦धना᳚नि¦प्रति॑ऽजन्यानि¦उ॒त¦या¦सऽज᳚न्या | |
इन्द्र॑श्च॒सोमं᳚पिबतंबृहस्पते॒¦ऽस्मिन्य॒ज्ञेम᳚न्दसा॒नावृ॑षण्वसू |{गौतमो वामदेवः | इंद्राबृहस्पती | जगती} आवां᳚विश॒न्त्विन्द॑वःस्वा॒भुवो॒¦ऽस्मेर॒यिंसर्व॑वीरं॒निय॑च्छतम् || {10/11}{4.50.10}{4.5.5.10}{3.7.27.5}{521, 346, 3573} इन्द्रः॑¦च॒¦सोम᳚म्¦पि॒ब॒त॒म्¦बृ॒ह॒स्प॒ते॒¦अ॒स्मिन्¦य॒ज्ञे¦म॒न्द॒सा॒ना¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू | |
बृह॑स्पतइन्द्र॒वर्ध॑तंनः॒¦सचा॒सावां᳚सुम॒तिर्भू᳚त्व॒स्मे |{गौतमो वामदेवः | इंद्राबृहस्पती | त्रिष्टुप्} अ॒वि॒ष्टंधियो᳚जिगृ॒तंपुरं᳚धी¦र्जज॒स्तम॒र्योव॒नुषा॒मरा᳚तीः || {11/11}{4.50.11}{4.5.5.11}{3.7.27.6}{522, 346, 3574} बृह॑स्पते¦इ॒न्द्र॒¦वर्ध॑तम्¦नः॒¦सचा᳚¦सा¦वा॒म्¦सु॒ऽम॒तिः¦भू॒तु॒¦अ॒स्मे इति॑ | |
[51] इदमुत्यदित्येकादशर्चस्य सूक्तस्य गौतमोवामदेवउषास्त्रिष्टुप् | |
इ॒दमु॒त्यत्पु॑रु॒तमं᳚पु॒रस्ता॒¦ज्ज्योति॒स्तम॑सोव॒युना᳚वदस्थात् |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} नू॒नंदि॒वोदु॑हि॒तरो᳚विभा॒ती¦र्गा॒तुंकृ॑णवन्नु॒षसो॒जना᳚य || {1/11}{4.51.1}{4.5.6.1}{3.8.1.1}{523, 347, 3575} इ॒दम्¦ऊँ॒ इति॑¦त्यत्¦पु॒रु॒ऽतम᳚म्¦पु॒रस्ता᳚त्¦ज्योतिः॑¦तम॑सः¦व॒युन॑ऽवत्¦अ॒स्था॒त् | |
अस्थु॑रुचि॒त्रा,उ॒षसः॑पु॒रस्ता᳚¦न्मि॒ता,इ॑व॒स्वर॑वोऽध्व॒रेषु॑ |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} व्यू᳚व्र॒जस्य॒तम॑सो॒द्वारो॒¦च्छन्ती᳚रव्र॒ञ्छुच॑यःपाव॒काः || {2/11}{4.51.2}{4.5.6.2}{3.8.1.2}{524, 347, 3576} अस्थुः॑¦ऊँ॒ इति॑¦चि॒त्राः¦उ॒षसः॑¦पु॒रस्ता᳚त्¦मि॒ताःऽइ᳚व¦स्वर॑वः¦अ॒ध्व॒रेषु॑ | |
उ॒च्छन्ती᳚र॒द्यचि॑तयन्तभो॒जान्¦रा᳚धो॒देया᳚यो॒षसो᳚म॒घोनीः᳚ |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} अ॒चि॒त्रे,अ॒न्तःप॒णयः॑सस॒¦न्त्वबु॑ध्यमाना॒स्तम॑सो॒विम॑ध्ये || {3/11}{4.51.3}{4.5.6.3}{3.8.1.3}{525, 347, 3577} उ॒च्छन्तीः᳚¦अ॒द्य¦चि॒त॒य॒न्त॒¦भो॒जान्¦रा॒धः॒ऽदेया᳚य¦उ॒षसः॑¦म॒घोनीः᳚ | |
कु॒वित्सदे᳚वीःस॒नयो॒नवो᳚वा॒¦यामो᳚बभू॒यादु॑षसोवो,अ॒द्य |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} येना॒नव॑ग्वे॒,अङ्गि॑रे॒दश॑ग्वे¦स॒प्तास्ये᳚रेवतीरे॒वदू॒ष || {4/11}{4.51.4}{4.5.6.4}{3.8.1.4}{526, 347, 3578} कु॒वित्¦सः¦दे॒वीः॒¦स॒नयः॑¦नवः॑¦वा॒¦यामः॑¦ब॒भू॒यात्¦उ॒ष॒सः॒¦वः॒¦अ॒द्य | |
यू॒यंहिदे᳚वीरृत॒युग्भि॒रश्वैः᳚¦परिप्रया॒थभुव॑नानिस॒द्यः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} प्र॒बो॒धय᳚न्तीरुषसःस॒सन्तं᳚¦द्वि॒पाच्चतु॑ष्पाच्च॒रथा᳚यजी॒वम् || {5/11}{4.51.5}{4.5.6.5}{3.8.1.5}{527, 347, 3579} यू॒यम्¦हि¦दे॒वीः॒¦ऋ॒त॒युक्ऽभिः॑¦अश्वैः᳚¦प॒रि॒ऽप्र॒या॒थ¦भुव॑नानि¦स॒द्यः | |
क्व॑स्विदासांकत॒मापु॑रा॒णी¦यया᳚वि॒धाना᳚विद॒धुरृ॑भू॒णाम् |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} शुभं॒यच्छु॒भ्रा,उ॒षस॒श्चर᳚न्ति॒¦नविज्ञा᳚यन्तेस॒दृशी᳚रजु॒र्याः || {6/11}{4.51.6}{4.5.6.6}{3.8.2.1}{528, 347, 3580} क्व॑¦स्वि॒त्¦आ॒सा॒म्¦क॒त॒मा¦पु॒रा॒णी¦यया᳚¦वि॒ऽधाना᳚¦वि॒ऽद॒धुः¦ऋ॒भू॒णाम् | |
ताघा॒ताभ॒द्रा,उ॒षसः॑पु॒रासु॑¦रभि॒ष्टिद्यु᳚म्ना,ऋ॒तजा᳚तसत्याः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} यास्वी᳚जा॒नःश॑शमा॒नउ॒क्थैः¦स्तु॒वञ्छंस॒न्द्रवि॑णंस॒द्यआप॑ || {7/11}{4.51.7}{4.5.6.7}{3.8.2.2}{529, 347, 3581} ताः¦घ॒¦ताः¦भ॒द्राः¦उ॒षसः॑¦पु॒रा¦आ॒सुः॒¦अ॒भि॒ष्टिऽद्यु᳚म्नाः¦ऋ॒तजा᳚तऽसत्याः | |
ता,आच॑रन्तिसम॒नापु॒रस्ता᳚त्¦समा॒नतः॑सम॒नाप॑प्रथा॒नाः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} ऋ॒तस्य॑दे॒वीःसद॑सोबुधा॒ना¦गवां॒नसर्गा᳚,उ॒षसो᳚जरन्ते || {8/11}{4.51.8}{4.5.6.8}{3.8.2.3}{530, 347, 3582} ताः¦आ¦च॒र॒न्ति॒¦स॒म॒ना¦पु॒रस्ता᳚त्¦स॒मा॒नतः॑¦स॒म॒ना¦प॒प्र॒था॒नाः | |
ता,इन्न्वे॒३॑(ए॒)वस॑म॒नास॑मा॒नी¦रमी᳚तवर्णा,उ॒षस॑श्चरन्ति |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} गूह᳚न्ती॒रभ्व॒मसि॑तं॒रुश॑द्भिः¦शु॒क्रास्त॒नूभिः॒शुच॑योरुचा॒नाः || {9/11}{4.51.9}{4.5.6.9}{3.8.2.4}{531, 347, 3583} ताः¦इत्¦नु¦ए॒व¦स॒म॒ना¦स॒मा॒नीः¦अमी᳚तऽवर्णाः¦उ॒षसः॑¦च॒र॒न्ति॒ | |
र॒यिंदि॑वोदुहितरोविभा॒तीः¦प्र॒जाव᳚न्तंयच्छता॒स्मासु॑देवीः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} स्यो॒नादावः॑प्रति॒बुध्य॑मानाः¦सु॒वीर्य॑स्य॒पत॑यःस्याम || {10/11}{4.51.10}{4.5.6.10}{3.8.2.5}{532, 347, 3584} र॒यिम्¦दि॒वः॒¦दु॒हि॒त॒रः॒¦वि॒ऽभा॒तीः¦प्र॒जाऽव᳚न्तम्¦य॒च्छ॒त॒¦अ॒स्मासु॑¦दे॒वीः॒ | |
तद्वो᳚दिवोदुहितरोविभा॒ती¦रुप॑ब्रुवउषसोय॒ज्ञके᳚तुः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} व॒यंस्या᳚मय॒शसो॒जने᳚षु॒¦तद्द्यौश्च॑ध॒त्तांपृ॑थि॒वीच॑दे॒वी || {11/11}{4.51.11}{4.5.6.11}{3.8.2.6}{533, 347, 3585} तत्¦वः॒¦दि॒वः॒¦दु॒हि॒त॒रः॒¦वि॒ऽभा॒तीः¦उप॑¦ब्रु॒वे॒¦उ॒ष॒सः॒¦य॒ज्ञऽके᳚तुः | |
[52] प्रतिष्येति सप्तर्चस्य सूक्तस्य गौतमोवामदेव उषागायत्री | |
प्रति॒ष्यासू॒नरी॒जनी᳚¦व्यु॒च्छन्ती॒परि॒स्वसुः॑ |{गौतमो वामदेवः | उषाः | गायत्री} दि॒वो,अ॑दर्शिदुहि॒ता || {1/7}{4.52.1}{4.5.7.1}{3.8.3.1}{534, 348, 3586} प्रति॑¦स्या¦सू॒नरी᳚¦जनी᳚¦वि॒।औ॒च्छन्ती᳚¦परि॑¦स्वसुः॑ | दि॒वः¦अ॒द॒र्शि॒¦दु॒हि॒ता || |
अश्वे᳚वचि॒त्रारु॑षी¦मा॒तागवा᳚मृ॒ताव॑री |{गौतमो वामदेवः | उषाः | गायत्री} सखा᳚भूद॒श्विनो᳚रु॒षाः || {2/7}{4.52.2}{4.5.7.2}{3.8.3.2}{535, 348, 3587} अश्वा᳚ऽइव¦चि॒त्रा¦अरु॑षी¦मा॒ता¦गवा᳚म्¦ऋ॒तऽव॑री | सखा᳚¦अ॒भू॒त्¦अ॒श्विनोः᳚¦उ॒षाः || |
उ॒तसखा᳚स्य॒श्विनो᳚¦रु॒तमा॒तागवा᳚मसि |{गौतमो वामदेवः | उषाः | गायत्री} उ॒तोषो॒वस्व॑ईशिषे || {3/7}{4.52.3}{4.5.7.3}{3.8.3.3}{536, 348, 3588} उ॒त¦सखा᳚¦अ॒सि॒¦अ॒श्विनोः᳚¦उ॒त¦मा॒ता¦गवा᳚म्¦अ॒सि॒ | उ॒त¦उ॒षः॒¦वस्वः॑¦ई॒शि॒षे॒ || |
या॒व॒यद्द्वे᳚षसंत्वा¦चिकि॒त्वित्सू᳚नृतावरि |{गौतमो वामदेवः | उषाः | गायत्री} प्रति॒स्तोमै᳚रभुत्स्महि || {4/7}{4.52.4}{4.5.7.4}{3.8.3.4}{537, 348, 3589} य॒व॒यत्ऽद्वे᳚षसम्¦त्वा॒¦चि॒कि॒त्वित्¦सू॒नृ॒ता॒ऽव॒रि॒ | प्रति॑¦स्तोमैः᳚¦अ॒भु॒त्स्म॒हि॒ || |
प्रति॑भ॒द्रा,अ॑दृक्षत॒¦गवां॒सर्गा॒नर॒श्मयः॑ |{गौतमो वामदेवः | उषाः | गायत्री} ओषा,अ॑प्रा,उ॒रुज्रयः॑ || {5/7}{4.52.5}{4.5.7.5}{3.8.3.5}{538, 348, 3590} प्रति॑¦भ॒द्राः¦अ॒दृ॒क्ष॒त॒¦गवा᳚म्¦सर्गाः᳚¦न¦र॒श्मयः॑ | आ¦उ॒षाः¦अ॒प्राः॒¦उ॒रु¦ज्रयः॑ || |
आ॒प॒प्रुषी᳚विभावरि॒¦व्या᳚व॒र्ज्योति॑षा॒तमः॑ |{गौतमो वामदेवः | उषाः | गायत्री} उषो॒,अनु॑स्व॒धाम॑व || {6/7}{4.52.6}{4.5.7.6}{3.8.3.6}{539, 348, 3591} आ॒ऽप॒प्रुषी᳚¦वि॒भा॒ऽव॒रि॒¦वि¦आ॒वः॒¦ज्योति॑षा¦तमः॑ | उषः॑¦अनु॑¦स्व॒धाम्¦अ॒व॒ || |
आद्यांत॑नोषिर॒श्मिभि॒¦रान्तरि॑क्षमु॒रुप्रि॒यम् |{गौतमो वामदेवः | उषाः | गायत्री} उषः॑शु॒क्रेण॑शो॒चिषा᳚ || {7/7}{4.52.7}{4.5.7.7}{3.8.3.7}{540, 348, 3592} आ¦द्याम्¦त॒नो॒षि॒¦र॒श्मिऽभिः॑¦आ¦अ॒न्तरि॑क्षम्¦उ॒रु¦प्रि॒यम् | उषः॑¦शु॒क्रेण॑¦शो॒चिषा᳚ || |
[53] तद्देवस्येति सप्तर्चस्य सूक्तस्य गौतमोवामदेवः सविताजगती | |
तद्दे॒वस्य॑सवि॒तुर्वार्यं᳚म॒हद्¦वृ॑णी॒महे॒,असु॑रस्य॒प्रचे᳚तसः |{गौतमो वामदेवः | सविता | जगती} छ॒र्दिर्येन॑दा॒शुषे॒यच्छ॑ति॒त्मना॒¦तन्नो᳚म॒हाँ,उद॑यान्दे॒वो,अ॒क्तुभिः॑ || {1/7}{4.53.1}{4.5.8.1}{3.8.4.1}{541, 349, 3593} तत्¦दे॒वस्य॑¦स॒वि॒तुः¦वार्य᳚म्¦म॒हत्¦वृ॒णी॒महे᳚¦असु॑रस्य¦प्रऽचे᳚तसः | |
दि॒वोध॒र्ताभुव॑नस्यप्र॒जाप॑तिः¦पि॒शङ्गं᳚द्रा॒पिंप्रति॑मुञ्चतेक॒विः |{गौतमो वामदेवः | सविता | जगती} वि॒च॒क्ष॒णःप्र॒थय᳚न्नापृ॒णन्नु॒र्व¦जी᳚जनत्सवि॒तासु॒म्नमु॒क्थ्य᳚म् || {2/7}{4.53.2}{4.5.8.2}{3.8.4.2}{542, 349, 3594} दि॒वः¦ध॒र्ता¦भुव॑नस्य¦प्र॒जाऽप॑तिः¦पि॒शङ्ग᳚म्¦द्रा॒पिम्¦प्रति॑¦मुं॒च॒ते॒¦क॒विः | |
आप्रा॒रजां᳚सिदि॒व्यानि॒पार्थि॑वा॒¦श्लोकं᳚दे॒वःकृ॑णुते॒स्वाय॒धर्म॑णे |{गौतमो वामदेवः | सविता | जगती} प्रबा॒हू,अ॑स्राक्सवि॒तासवी᳚मनि¦निवे॒शय᳚न्प्रसु॒वन्न॒क्तुभि॒र्जग॑त् || {3/7}{4.53.3}{4.5.8.3}{3.8.4.3}{543, 349, 3595} आ¦अ॒प्राः॒¦रजां᳚सि¦दि॒व्यानि॑¦पार्थि॑वा¦श्लोक᳚म्¦दे॒वः¦कृ॒णु॒ते॒¦स्वाय॑¦धर्म॑णे | |
अदा᳚भ्यो॒भुव॑नानिप्र॒चाक॑शद्¦व्र॒तानि॑दे॒वःस॑वि॒ताभिर॑क्षते |{गौतमो वामदेवः | सविता | जगती} प्रास्रा᳚ग्बा॒हूभुव॑नस्यप्र॒जाभ्यो᳚¦धृ॒तव्र॑तोम॒हो,अज्म॑स्यराजति || {4/7}{4.53.4}{4.5.8.4}{3.8.4.4}{544, 349, 3596} अदा᳚भ्यः¦भुव॑नानि¦प्र॒ऽचाक॑शत्¦व्र॒तानि॑¦दे॒वः¦स॒वि॒ता¦अ॒भि¦र॒क्ष॒ते॒ | |
त्रिर॒न्तरि॑क्षंसवि॒ताम॑हित्व॒ना¦त्रीरजां᳚सिपरि॒भूस्त्रीणि॑रोच॒ना |{गौतमो वामदेवः | सविता | जगती} ति॒स्रोदिवः॑पृथि॒वीस्ति॒स्रइ᳚न्वति¦त्रि॒भिर्व्र॒तैर॒भिनो᳚रक्षति॒त्मना᳚ || {5/7}{4.53.5}{4.5.8.5}{3.8.4.5}{545, 349, 3597} त्रिः¦अ॒न्तरि॑क्षम्¦स॒वि॒ता¦म॒हि॒ऽत्व॒ना¦त्री¦रजां᳚सि¦प॒रि॒ऽभूः¦त्रीणि॑¦रो॒च॒ना | |
बृ॒हत्सु᳚म्नःप्रसवी॒तानि॒वेश॑नो॒¦जग॑तःस्था॒तुरु॒भय॑स्य॒योव॒शी |{गौतमो वामदेवः | सविता | जगती} सनो᳚दे॒वःस॑वि॒ताशर्म॑यच्छ¦त्व॒स्मेक्षया᳚यत्रि॒वरू᳚थ॒मंह॑सः || {6/7}{4.53.6}{4.5.8.6}{3.8.4.6}{546, 349, 3598} बृ॒हत्ऽसु᳚म्नः¦प्र॒ऽस॒वि॒ता¦नि॒ऽवेश॑नः¦जग॑तः¦स्था॒तुः¦उ॒भय॑स्य¦यः¦व॒शी | |
आग᳚न्दे॒वऋ॒तुभि॒र्वर्ध॑तु॒क्षयं॒¦दधा᳚तुनःसवि॒तासु॑प्र॒जामिष᳚म् |{गौतमो वामदेवः | सविता | जगती} सनः॑,क्ष॒पाभि॒रह॑भिश्चजिन्वतु¦प्र॒जाव᳚न्तंर॒यिम॒स्मेसमि᳚न्वतु || {7/7}{4.53.7}{4.5.8.7}{3.8.4.7}{547, 349, 3599} आ¦अ॒ग॒न्¦दे॒वः¦ऋ॒तुऽभिः॑¦वर्ध॑तु¦क्षय᳚म्¦दधा᳚तु¦नः॒¦स॒वि॒ता¦सु॒ऽप्र॒जाम्¦इष᳚म् | |
[54] अभूद्देवइति षडृचस्य सूक्तस्य गौतमो वामदेवः सविताजगत्यंत्यात्रिष्टुप् | |
अभू᳚द्दे॒वःस॑वि॒तावन्द्यो॒नुन॑¦इ॒दानी॒मह्न॑उप॒वाच्यो॒नृभिः॑ |{गौतमो वामदेवः | सविता | जगती} वियोरत्ना॒भज॑तिमान॒वेभ्यः॒¦श्रेष्ठं᳚नो॒,अत्र॒द्रवि॑णं॒यथा॒दध॑त् || {1/6}{4.54.1}{4.5.9.1}{3.8.5.1}{548, 350, 3600} अभू᳚त्¦दे॒वः¦स॒वि॒ता¦वन्द्यः॑¦नु¦नः॒¦इ॒दानी᳚म्¦अह्नः॑¦उ॒प॒ऽवाच्यः॑¦नृऽभिः॑ | |
दे॒वेभ्यो॒हिप्र॑थ॒मंय॒ज्ञिये᳚भ्यो¦ऽमृत॒त्वंसु॒वसि॑भा॒गमु॑त्त॒मम् |{गौतमो वामदेवः | सविता | जगती} आदिद्दा॒मानं᳚सवित॒र्व्यू᳚र्णुषे¦ऽनूची॒नाजी᳚वि॒तामानु॑षेभ्यः || {2/6}{4.54.2}{4.5.9.2}{3.8.5.2}{549, 350, 3601} दे॒वेभ्यः॑¦हि¦प्र॒थ॒मम्¦य॒ज्ञिये᳚भ्यः¦अ॒मृ॒त॒ऽत्वम्¦सु॒वसि॑¦भा॒गम्¦उ॒त्ऽत॒मम् | |
अचि॑त्ती॒यच्च॑कृ॒मादैव्ये॒जने᳚¦दी॒नैर्दक्षैः॒प्रभू᳚तीपूरुष॒त्वता᳚ |{गौतमो वामदेवः | सविता | जगती} दे॒वेषु॑चसवित॒र्मानु॑षेषुच॒¦त्वंनो॒,अत्र॑सुवता॒दना᳚गसः || {3/6}{4.54.3}{4.5.9.3}{3.8.5.3}{550, 350, 3602} अचि॑त्ती¦यत्¦च॒कृ॒म¦दैव्ये᳚¦जने᳚¦दी॒नैः¦दक्षः॑¦प्रऽभू᳚ती¦पु॒रु॒ष॒त्वता᳚ | |
नप्र॒मिये᳚सवि॒तुर्दैव्य॑स्य॒तद्¦यथा॒विश्वं॒भुव॑नंधारयि॒ष्यति॑ |{गौतमो वामदेवः | सविता | जगती} यत्पृ॑थि॒व्यावरि॑म॒न्नास्व᳚ङ्गु॒रि¦र्वर्ष्म᳚न्दि॒वःसु॒वति॑स॒त्यम॑स्य॒तत् || {4/6}{4.54.4}{4.5.9.4}{3.8.5.4}{551, 350, 3603} न¦प्र॒ऽमिये᳚¦स॒वि॒तुः¦दैव्य॑स्य¦तत्¦यथा᳚¦विश्व᳚म्¦भुव॑नम्¦धा॒र॒यि॒ष्यति॑ | |
इन्द्र॑ज्येष्ठान्बृ॒हद्भ्यः॒पर्व॑तेभ्यः॒,¦क्षयाँ᳚,एभ्यःसुवसिप॒स्त्या᳚वतः |{गौतमो वामदेवः | सविता | जगती} यथा᳚यथाप॒तय᳚न्तोवियेमि॒रए॒वैव¦त॑स्थुःसवितःस॒वाय॑ते || {5/6}{4.54.5}{4.5.9.5}{3.8.5.5}{552, 350, 3604} इन्द्र॑ऽज्येष्ठान्¦बृ॒हत्ऽभ्यः॑¦पर्व॑तेभ्यः¦क्षया᳚न्¦ए॒भ्यः॒¦सु॒व॒सि॒¦प॒स्त्य॑ऽवतः | |
येते॒त्रिरह᳚न्त्सवितःस॒वासो᳚¦दि॒वेदि॑वे॒सौभ॑गमासु॒वन्ति॑ |{गौतमो वामदेवः | सविता | त्रिष्टुप्} इन्द्रो॒द्यावा᳚पृथि॒वीसिन्धु॑र॒द्भि¦रा᳚दि॒त्यैर्नो॒,अदि॑तिः॒शर्म॑यंसत् || {6/6}{4.54.6}{4.5.9.6}{3.8.5.6}{553, 350, 3605} ये¦ते॒¦त्रिः¦अह॑न्¦स॒वि॒त॒रिति॑¦स॒वासः॑¦दि॒वेऽदि॑वे¦सौभ॑गम्¦आ॒ऽसु॒वन्ति॑ | |
[55] कोवस्त्रातेति दशर्चस्य सूक्तस्य गौतमोवामदेवो विश्वेदेवास्त्रिष्टुप् अंत्यास्तिस्रो गायत्र्यः । (भेदपक्षे - विश्वेदेवाः ७ अग्निः १ उषाः १ विश्वेदेवाः १ एवंदश) | |
कोव॑स्त्रा॒ताव॑सवः॒कोव॑रू॒ता¦द्यावा᳚भूमी,अदिते॒त्रासी᳚थांनः |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्} सही᳚यसोवरुणमित्र॒मर्ता॒त्¦कोवो᳚ऽध्व॒रेवरि॑वोधातिदेवाः || {1/10}{4.55.1}{4.5.10.1}{3.8.6.1}{554, 351, 3606} कः¦वः॒¦त्रा॒ता¦व॒स॒वः॒¦कः¦व॒रू॒ता¦द्यावा᳚भूमी॒ इति॑¦अ॒दि॒ते॒¦त्रासी᳚थाम्¦नः॒ | |
प्रयेधामा᳚निपू॒र्व्याण्यर्चा॒न्¦वियदु॒च्छान्वि॑यो॒तारो॒,अमू᳚राः |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्} वि॒धा॒तारो॒वितेद॑धु॒रज॑स्रा¦ऋ॒तधी᳚तयोरुरुचन्तद॒स्माः || {2/10}{4.55.2}{4.5.10.2}{3.8.6.2}{555, 351, 3607} प्र¦ये¦धामा᳚नि¦पू॒र्व्याणि॑¦अर्चा᳚न्¦वि¦यत्¦उ॒च्छान्¦वि॒ऽयो॒तारः॑¦अमू᳚राः | |
प्रप॒स्त्या॒३॑(आ॒)मदि॑तिं॒सिन्धु॑म॒र्कैः¦स्व॒स्तिमी᳚ळेस॒ख्याय॑दे॒वीम् |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्} उ॒भेयथा᳚नो॒,अह॑नीनि॒पात॑¦उ॒षासा॒नक्ता᳚करता॒मद॑ब्धे || {3/10}{4.55.3}{4.5.10.3}{3.8.6.3}{556, 351, 3608} प्र¦प॒स्त्या᳚म्¦अदि॑तिम्¦सिन्धु᳚म्¦अ॒र्कैः¦स्व॒स्तिम्¦ई॒ळे॒¦स॒ख्याय॑¦दे॒वीम् | |
व्य᳚र्य॒मावरु॑णश्चेति॒पन्था᳚¦मि॒षस्पतिः॑सुवि॒तंगा॒तुम॒ग्निः |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्} इन्द्रा᳚विष्णूनृ॒वदु॒षुस्तवा᳚ना॒¦शर्म॑नोयन्त॒मम॑व॒द्वरू᳚थम् || {4/10}{4.55.4}{4.5.10.4}{3.8.6.4}{557, 351, 3609} वि¦अ॒र्य॒मा¦वरु॑णः¦चे॒ति॒¦पन्था᳚म्¦इ॒षः¦पतिः॑¦सु॒वि॒तम्¦गा॒तुम्¦अ॒ग्निः | |
आपर्व॑तस्यम॒रुता॒मवां᳚सि¦दे॒वस्य॑त्रा॒तुर᳚व्रि॒भग॑स्य |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्} पात्पति॒र्जन्या॒दंह॑सोनो¦मि॒त्रोमि॒त्रिया᳚दु॒तन॑उरुष्येत् || {5/10}{4.55.5}{4.5.10.5}{3.8.6.5}{558, 351, 3610} आ¦पर्व॑तस्य¦म॒रुता᳚म्¦अवां᳚सि¦दे॒वस्य॑¦त्रा॒तुः¦अ॒व्रि॒¦भग॑स्य | |
नूरो᳚दसी॒,अहि॑नाबु॒ध्न्ये᳚न¦स्तुवी॒तदे᳚वी॒,अप्ये᳚भिरि॒ष्टैः |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्} स॒मु॒द्रंनसं॒चर॑णेसनि॒ष्यवो᳚¦घ॒र्मस्व॑रसोन॒द्यो॒३॑(ओ॒)अप᳚व्रन् || {6/10}{4.55.6}{4.5.10.6}{3.8.7.1}{559, 351, 3611} नु¦रो॒द॒सी॒ इति॑¦अहि॑ना¦बु॒ध्न्ये᳚न¦स्तु॒वी॒त¦दे॒वी॒ इति॑¦अप्ये᳚भिः¦इ॒ष्टैः | |
दे॒वैर्नो᳚दे॒व्यदि॑ति॒र्निपा᳚तु¦दे॒वस्त्रा॒तात्रा᳚यता॒मप्र॑युच्छन् |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्} न॒हिमि॒त्रस्य॒वरु॑णस्यधा॒सि¦मर्हा᳚मसिप्र॒मियं॒सान्व॒ग्नेः || {7/10}{4.55.7}{4.5.10.7}{3.8.7.2}{560, 351, 3612} दे॒वैः¦नः॒¦दे॒वी¦अदि॑तिः¦नि¦पा॒तु॒¦दे॒वः¦त्रा॒ता¦त्रा॒य॒ता॒म्¦अप्र॑ऽयुच्छन् | |
अ॒ग्निरी᳚शेवस॒व्य॑स्या॒¦ऽग्निर्म॒हःसौभ॑गस्य |{गौतमो वामदेवः | विश्वदेवाः | गायत्री} तान्य॒स्मभ्यं᳚रासते || {8/10}{4.55.8}{4.5.10.8}{3.8.7.3}{561, 351, 3613} अ॒ग्निः¦ई॒शे॒¦व॒स॒व्य॑स्य¦अ॒ग्निः¦म॒हः¦सौभ॑गस्य | तानि॑¦अ॒स्मभ्य᳚म्¦रा॒स॒ते॒ || |
उषो᳚मघो॒न्याव॑ह॒¦सूनृ॑ते॒वार्या᳚पु॒रु |{गौतमो वामदेवः | विश्वदेवाः | गायत्री} अ॒स्मभ्यं᳚वाजिनीवति || {9/10}{4.55.9}{4.5.10.9}{3.8.7.4}{562, 351, 3614} उषः॑¦म॒घो॒नि॒¦आ¦व॒ह॒¦सूनृ॑ते¦वार्या᳚¦पु॒रु | अ॒स्मभ्य᳚म्¦वा॒जि॒नी॒ऽव॒ति॒ || |
तत्सुनः॑सवि॒ताभगो॒¦वरु॑णोमि॒त्रो,अ᳚र्य॒मा |{गौतमो वामदेवः | विश्वदेवाः | गायत्री} इन्द्रो᳚नो॒राध॒साग॑मत् || {10/10}{4.55.10}{4.5.10.10}{3.8.7.5}{563, 351, 3615} तत्¦सु¦नः॒¦स॒वि॒ता¦भगः॑¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा | इन्द्रः॑¦नः॒¦राध॑सा¦आ¦ग॒म॒त् || |
[56] महीइति सप्तर्चस्य सूक्तस्य गौतमो वामदेवोद्यावापृथिवीत्रिष्टुप् अंत्यास्तिस्रो गायत्र्यः | |
म॒हीद्यावा᳚पृथि॒वी,इ॒हज्येष्ठे᳚¦रु॒चाभ॑वतांशु॒चय॑द्भिर॒र्कैः |{गौतमो वामदेवः | द्यावापृथिव्यौ | त्रिष्टुप्} यत्सीं॒वरि॑ष्ठेबृह॒तीवि॑मि॒न्वन्¦रु॒वद्धो॒क्षाप॑प्रथा॒नेभि॒रेवैः᳚ || {1/7}{4.56.1}{4.5.11.1}{3.8.8.1}{564, 352, 3616} म॒ही इति॑¦द्यावा᳚पृथि॒वी इति॑¦इ॒ह¦ज्येष्ठे॒ इति॑¦रु॒चा¦भ॒व॒ता॒म्¦शु॒चय॑त्ऽभिः¦अ॒र्कैः | |
दे॒वीदे॒वेभि᳚र्यज॒तेयज॑त्रै॒¦रमि॑नतीतस्थतुरु॒क्षमा᳚णे |{गौतमो वामदेवः | द्यावापृथिव्यौ | त्रिष्टुप्} ऋ॒ताव॑री,अ॒द्रुहा᳚दे॒वपु॑त्रे¦य॒ज्ञस्य॑ने॒त्रीशु॒चय॑द्भिर॒र्कैः || {2/7}{4.56.2}{4.5.11.2}{3.8.8.2}{565, 352, 3617} दे॒वी इति॑¦दे॒वेभिः॑¦य॒ज॒ते इति॑¦यज॑त्रैः¦अमि॑नती॒ इति॑¦त॒स्थ॒तुः॒¦उ॒क्षमा᳚णे॒ इति॑ | |
सइत्स्वपा॒भुव॑नेष्वास॒¦यइ॒मेद्यावा᳚पृथि॒वीज॒जान॑ |{गौतमो वामदेवः | द्यावापृथिव्यौ | त्रिष्टुप्} उ॒र्वीग॑भी॒रेरज॑सीसु॒मेके᳚,¦अवं॒शेधीरः॒शच्या॒समै᳚रत् || {3/7}{4.56.3}{4.5.11.3}{3.8.8.3}{566, 352, 3618} सः¦इत्¦सु॒।आपाः᳚¦भुव॑नेषु¦आ॒स॒¦यः¦इ॒मे इति॑¦द्यावा᳚पृथि॒वी इति॑¦ज॒जान॑ | |
नूरो᳚दसीबृ॒हद्भि᳚र्नो॒वरू᳚थैः॒¦पत्नी᳚वद्भिरि॒षय᳚न्तीस॒जोषाः᳚ |{गौतमो वामदेवः | द्यावापृथिव्यौ | त्रिष्टुप्} उ॒रू॒चीविश्वे᳚यज॒तेनिपा᳚तं¦धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {4/7}{4.56.4}{4.5.11.4}{3.8.8.4}{567, 352, 3619} नु¦रो॒द॒सी॒ इति॑¦बृ॒हत्ऽभिः॑¦नः॒¦वरू᳚थैः¦पत्नी᳚वत्ऽभिः¦इ॒षय᳚न्ती॒ इति॑¦स॒ऽजोषाः᳚ | |
प्रवां॒महि॒द्यवी᳚,अ॒भ्यु¦प॑स्तुतिंभरामहे |{गौतमो वामदेवः | द्यावापृथिव्यौ | गायत्री} शुची॒,उप॒प्रश॑स्तये || {5/7}{4.56.5}{4.5.11.5}{3.8.8.5}{568, 352, 3620} प्र¦वा॒म्¦महि॑¦द्यवी॒ इति॑¦अ॒भि¦उप॑ऽस्तुतिम्¦भ॒रा॒म॒हे॒ | शुची॒ इति॑¦उप॑¦प्रऽश॑स्तये || |
पु॒ना॒नेत॒न्वा᳚मि॒थः¦स्वेन॒दक्षे᳚णराजथः |{गौतमो वामदेवः | द्यावापृथिव्यौ | गायत्री} ऊ॒ह्याथे᳚स॒नादृ॒तम् || {6/7}{4.56.6}{4.5.11.6}{3.8.8.6}{569, 352, 3621} पु॒ना॒ने इति॑¦त॒न्वा᳚¦मि॒थः¦स्वेन॑¦दक्षे᳚ण¦रा॒ज॒थः॒ | ऊ॒ह्याथे॒ इति॑¦स॒नात्¦ऋ॒तम् || |
म॒हीमि॒त्रस्य॑साधथ॒¦स्तर᳚न्ती॒पिप्र॑ती,ऋ॒तम् |{गौतमो वामदेवः | द्यावापृथिव्यौ | गायत्री} परि॑य॒ज्ञंनिषे᳚दथुः || {7/7}{4.56.7}{4.5.11.7}{3.8.8.7}{570, 352, 3622} म॒ही इति॑¦मि॒त्रस्य॑¦सा॒ध॒थः॒¦तर᳚न्ती॒ इति॑¦पिप्र॑ती॒ इति॑¦ऋ॒तम् | परि॑¦य॒ज्ञम्¦नि¦से॒द॒थुः॒ || |
[57] क्षेत्रस्येत्यष्टर्चस्य सूक्तस्य गौतमोवामदेव आद्यानांतिसृणां क्षेत्रपतिर्देवता चतुर्थ्याःशुनः पंचम्यष्टम्योः शुनासीरौ षष्ठीसप्तम्योः सीता आद्याचतुर्थीषष्ठीसप्तम्योनुष्टुभः पंचमीपुरउष्णिक् शेषास्त्रिष्टुभः (अत्रचतुर्थ्याः शुनोऽदंतः | तथाशुनासीरावित्यत्र केचिद्वाय्वादित्या वित्युञ्चारयन्तितन्नचतुरस्रं यतः वायुः शुनः सूर्य एवात्रसीरः शुनासीरौवायुसूर्योवदंति | शुनासीरंयास्कइंद्रतुमेने सूर्येद्रौ तौमन्यतेशाकपूर्णि रितिशुनासीरस्वरूपेशौनकेनाचार्यमतदर्शनव्याजेनवैविध्यंप्रतिपादितं तस्मात्प्रकृतिभूतशुनासीरशब्देनोच्चारणंयुक्तं) | |
क्षेत्र॑स्य॒पति॑नाव॒यं¦हि॒तेने᳚वजयामसि |{गौतमो वामदेवः | क्षेत्रपतिः | अनुष्टुप्} गामश्वं᳚पोषयि॒त्न्वा¦सनो᳚मृळाती॒दृशे᳚ || {1/8}{4.57.1}{4.5.12.1}{3.8.9.1}{571, 353, 3623} क्षेत्र॑स्य¦पति॑ना¦व॒यम्¦हि॒तेन॑ऽइव¦ज॒या॒म॒सि॒ | गाम्¦अश्व᳚म्¦पो॒ष॒यि॒त्नु¦आ¦सः¦नः॒¦मृ॒ळा॒ति॒¦ई॒दृशे᳚ || |
क्षेत्र॑स्यपते॒मधु॑मन्तमू॒र्मिं¦धे॒नुरि॑व॒पयो᳚,अ॒स्मासु॑धुक्ष्व |{गौतमो वामदेवः | क्षेत्रपतिः | त्रिष्टुप्} म॒धु॒श्चुतं᳚घृ॒तमि॑व॒सुपू᳚त¦मृ॒तस्य॑नः॒पत॑योमृळयन्तु || {2/8}{4.57.2}{4.5.12.2}{3.8.9.2}{572, 353, 3624} क्षेत्र॑स्य¦प॒ते॒¦मधु॑ऽमन्तम्¦ऊ॒र्मिम्¦धे॒नुःऽइ᳚व¦पयः॑¦अ॒स्मासु॑¦धु॒क्ष्व॒ | |
मधु॑मती॒रोष॑धी॒र्द्याव॒आपो॒¦मधु॑मन्नोभवत्व॒न्तरि॑क्षम् |{गौतमो वामदेवः | क्षेत्रपतिः | त्रिष्टुप्} क्षेत्र॑स्य॒पति॒र्मधु॑मान्नो,अ॒स्त्व¦रि॑ष्यन्तो॒,अन्वे᳚नंचरेम || {3/8}{4.57.3}{4.5.12.3}{3.8.9.3}{573, 353, 3625} मधु॑ऽमतीः¦ओष॑धीः¦द्यावः॑¦आपः॑¦मधु॑ऽमत्¦नः॒¦भ॒व॒तु॒¦अ॒न्तरि॑क्षम् | |
शु॒नंवा॒हाःशु॒नंनरः॑¦शु॒नंकृ॑षतु॒लाङ्ग॑लम् |{गौतमो वामदेवः | शुनः | अनुष्टुप्} शु॒नंव॑र॒त्राब॑ध्यन्तां¦शु॒नमष्ट्रा॒मुदि᳚ङ्गय || {4/8}{4.57.4}{4.5.12.4}{3.8.9.4}{574, 353, 3626} शु॒नम्¦वा॒हाः¦शु॒नम्¦नरः॑¦शु॒नम्¦कृ॒ष॒तु॒¦लाङ्ग॑लम् | शु॒नम्¦व॒र॒त्राः¦ब॒ध्य॒न्ता॒म्¦शु॒नम्¦अष्ट्रा᳚म्¦उत्¦इ॒ङ्ग॒य॒ || |
शुना᳚सीरावि॒मांवाचं᳚जुषेथां॒¦यद्दि॒विच॒क्रथुः॒पयः॑ |{गौतमो वामदेवः | शुनासीरौ | पुर उष्णिक्} तेने॒मामुप॑सिञ्चतम् || {5/8}{4.57.5}{4.5.12.5}{3.8.9.5}{575, 353, 3627} शुना᳚सीरौ¦इ॒माम्¦वाच᳚म्¦जु॒षे॒था॒म्¦यत्¦दि॒वि¦च॒क्रथुः॑¦पयः॑ | तेन॑¦इ॒माम्¦उप॑¦सिं॒च॒त॒म् || |
अ॒र्वाची᳚सुभगेभव॒¦सीते॒वन्दा᳚महेत्वा |{गौतमो वामदेवः | सीता | अनुष्टुप्} यथा᳚नःसु॒भगास॑सि॒¦यथा᳚नःसु॒फलास॑सि || {6/8}{4.57.6}{4.5.12.6}{3.8.9.6}{576, 353, 3628} अ॒र्वाची᳚¦सु॒ऽभ॒गे॒¦भ॒व॒¦सीते᳚¦वन्दा᳚महे¦त्वा॒ | यथा᳚¦नः॒¦सु॒ऽभगा᳚¦अस॑सि¦यथा᳚¦नः॒¦सु॒ऽफला᳚¦अस॑सि || |
इन्द्रः॒सीतां॒निगृ᳚ह्णातु॒¦तांपू॒षानु॑यच्छतु |{गौतमो वामदेवः | सीता | अनुष्टुप्} सानः॒पय॑स्वतीदुहा॒¦मुत्त॑रामुत्तरां॒समा᳚म् || {7/8}{4.57.7}{4.5.12.7}{3.8.9.7}{577, 353, 3629} इन्द्रः॑¦सीता᳚म्¦नि¦गृ॒ह्णा॒तु॒¦ताम्¦पू॒षा¦अनु॑¦य॒च्छ॒तु॒ | सा¦नः॒¦पय॑स्वती¦दु॒हा॒म्¦उत्त॑राम्।औत्तराम्¦समा᳚म् || |
शु॒नंनः॒फाला॒विकृ॑षन्तु॒भूमिं᳚¦शु॒नंकी॒नाशा᳚,अ॒भिय᳚न्तुवा॒हैः |{गौतमो वामदेवः | शुनासीरौ | त्रिष्टुप्} शु॒नंप॒र्जन्यो॒मधु॑ना॒पयो᳚भिः॒¦शुना᳚सीराशु॒नम॒स्मासु॑धत्तम् || {8/8}{4.57.8}{4.5.12.8}{3.8.9.8}{578, 353, 3630} शु॒नम्¦नः॒¦फालाः᳚¦वि¦कृ॒ष॒न्तु॒¦भूमि᳚म्¦शु॒नम्¦की॒नाशाः᳚¦अ॒भि¦य॒न्तु॒¦वा॒हैः | |
[58] समुद्रादूर्मिरित्येकादशर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुबंत्याजगती | (सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता) | |
स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒,उदा᳚र॒¦दुपां॒शुना॒सम॑मृत॒त्वमा᳚नट् |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} घृ॒तस्य॒नाम॒गुह्यं॒यदस्ति॑¦जि॒ह्वादे॒वाना᳚म॒मृत॑स्य॒नाभिः॑ || {1/11}{4.58.1}{4.5.13.1}{3.8.10.1}{579, 354, 3631} स॒मु॒द्रात्¦ऊ॒र्मिः¦मधु॑ऽमान्¦उत्¦आ॒र॒त्¦उप॑¦अं॒शुना᳚¦सम्¦अ॒मृ॒त॒ऽत्वम्¦आ॒न॒ट् | |
व॒यंनाम॒प्रब्र॑वामाघृ॒तस्या॒¦स्मिन्य॒ज्ञेधा᳚रयामा॒नमो᳚भिः |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} उप॑ब्र॒ह्माशृ॑णवच्छ॒स्यमा᳚नं॒¦चतुः॑शृङ्गोऽवमीद्गौ॒रए॒तत् || {2/11}{4.58.2}{4.5.13.2}{3.8.10.2}{580, 354, 3632} व॒यम्¦नाम॑¦प्र¦ब्र॒वा॒म॒¦घृ॒तस्य॑¦अ॒स्मिन्¦य॒ज्ञे¦धा॒र॒या॒म॒¦नमः॑ऽभिः | |
च॒त्वारि॒शृङ्गा॒त्रयो᳚,अस्य॒पादा॒¦द्वेशी॒र्षेस॒प्तहस्ता᳚सो,अस्य |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} त्रिधा᳚ब॒द्धोवृ॑ष॒भोरो᳚रवीति¦म॒होदे॒वोमर्त्याँ॒,आवि॑वेश || {3/11}{4.58.3}{4.5.13.3}{3.8.10.3}{581, 354, 3633} च॒त्वारि॑¦शृङ्गा᳚¦त्रयः॑¦अ॒स्य॒¦पादाः᳚¦द्वे इति॑¦शी॒र्षे इति॑¦स॒प्त¦हस्ता᳚सः¦अ॒स्य॒ | |
त्रिधा᳚हि॒तंप॒णिभि॑र्गु॒ह्यमा᳚नं॒¦गवि॑दे॒वासो᳚घृ॒तमन्व॑विन्दन् |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} इन्द्र॒एकं॒सूर्य॒एकं᳚जजान¦वे॒नादेकं᳚स्व॒धया॒निष्ट॑तक्षुः || {4/11}{4.58.4}{4.5.13.4}{3.8.10.4}{582, 354, 3634} त्रिधा᳚¦हि॒तम्¦प॒णिऽभिः॑¦गु॒ह्यमा᳚नम्¦गवि॑¦दे॒वासः॑¦घृ॒तम्¦अनु॑¦अ॒वि॒न्द॒न् | |
ए॒ता,अ॑र्षन्ति॒हृद्या᳚त्समु॒द्रा¦च्छ॒तव्र॑जारि॒पुणा॒नाव॒चक्षे᳚ |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} घृ॒तस्य॒धारा᳚,अ॒भिचा᳚कशीमि¦हिर॒ण्ययो᳚वेत॒सोमध्य॑आसाम् || {5/11}{4.58.5}{4.5.13.5}{3.8.10.5}{583, 354, 3635} ए॒ताः¦अ॒र्ष॒न्ति॒¦हृद्या᳚त्¦स॒मु॒द्रात्¦श॒तऽव्र॑जाः¦रि॒पुणा᳚¦न¦अ॒व॒ऽचक्षे᳚ | |
स॒म्यक्स्र॑वन्तिस॒रितो॒नधेना᳚,¦अ॒न्तर्हृ॒दामन॑सापू॒यमा᳚नाः |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} ए॒ते,अ॑र्षन्त्यू॒र्मयो᳚घृ॒तस्य॑¦मृ॒गा,इ॑वक्षिप॒णोरीष॑माणाः || {6/11}{4.58.6}{4.5.13.6}{3.8.11.1}{584, 354, 3636} स॒म्यक्¦स्र॒व॒न्ति॒¦स॒रितः॑¦न¦धेनाः᳚¦अ॒न्तः¦हृ॒दा¦मन॑सा¦पू॒यमा᳚नाः | |
सिन्धो᳚रिवप्राध्व॒नेशू᳚घ॒नासो॒¦वात॑प्रमियःपतयन्तिय॒ह्वाः |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} घृ॒तस्य॒धारा᳚,अरु॒षोनवा॒जी¦काष्ठा᳚भि॒न्दन्नू॒र्मिभिः॒पिन्व॑मानः || {7/11}{4.58.7}{4.5.13.7}{3.8.11.2}{585, 354, 3637} सिन्धोः᳚ऽइव¦प्र॒।आ॒ध्व॒ने¦शू॒घ॒नासः॑¦वात॑ऽप्रमियः¦प॒त॒य॒न्ति॒¦य॒ह्वाः | |
अ॒भिप्र॑वन्त॒सम॑नेव॒योषाः᳚¦कल्या॒ण्य१॑(अः॒)स्मय॑मानासो,अ॒ग्निम् |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} घृ॒तस्य॒धाराः᳚स॒मिधो᳚नसन्त॒¦ताजु॑षा॒णोह᳚र्यतिजा॒तवे᳚दाः || {8/11}{4.58.8}{4.5.13.8}{3.8.11.3}{586, 354, 3638} अ॒भि¦प्र॒व॒न्त॒¦सम॑नाऽइव¦योषाः᳚¦क॒ल्या॒ण्यः॑¦स्मय॑मानासः¦अ॒ग्निम् | |
क॒न्या᳚,इववह॒तुमेत॒वा,उ॑¦अ॒ञ्ज्य᳚ञ्जा॒ना,अ॒भिचा᳚कशीमि |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} यत्र॒सोमः॑सू॒यते॒यत्र॑य॒ज्ञो¦घृ॒तस्य॒धारा᳚,अ॒भितत्प॑वन्ते || {9/11}{4.58.9}{4.5.13.9}{3.8.11.4}{587, 354, 3639} क॒न्याः᳚ऽइव¦व॒ह॒तुम्¦एत॒वै¦ऊँ॒ इति॑¦अं॒जि¦अं॒जा॒नाः¦अ॒भि¦चा॒क॒शी॒मि॒ | |
अ॒भ्य॑र्षतसुष्टु॒तिंगव्य॑मा॒जि¦म॒स्मासु॑भ॒द्राद्रवि॑णानिधत्त |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} इ॒मंय॒ज्ञंन॑यतदे॒वता᳚नो¦घृ॒तस्य॒धारा॒मधु॑मत्पवन्ते || {10/11}{4.58.10}{4.5.13.10}{3.8.11.5}{588, 354, 3640} अ॒भि¦अ॒र्ष॒त॒¦सु॒ऽस्तु॒तिम्¦गव्य᳚म्¦आ॒जिम्¦अ॒स्मासु॑¦भ॒द्रा¦द्रवि॑णानि¦ध॒त्त॒ | |
धाम᳚न्ते॒विश्वं॒भुव॑न॒मधि॑श्रि॒त¦म॒न्तःस॑मु॒द्रेहृ॒द्य१॑(अ॒)न्तरायु॑षि |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | जगती} अ॒पामनी᳚केसमि॒थेयआभृ॑त॒स्¦तम॑श्याम॒मधु॑मन्तंतऊ॒र्मिम् || {11/11}{4.58.11}{4.5.13.11}{3.8.11.6}{589, 354, 3641} धाम॑न्¦ते॒¦विश्व᳚म्¦भुव॑नम्¦अधि॑¦श्रि॒तम्¦अ॒न्तरिति॑¦स॒मु॒द्रे¦हृ॒दि¦अ॒न्तः¦आयु॑षि | |