|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||

|| ऋग्वेद संहिता (मंडल: 10) ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
Mantra classification is following this convention{मंडल,सूक्त,मंत्र}{मंडल,अनुवाक,सूक्त,मंत्र}{अष्टक,अध्याय,वर्ग,मंत्र}{मंडल मन्त्र संख्या,ऋक्संहित सूक्त संख्या,ऋक्संहित मन्त्र संख्या}
[Last updated on: 03-Jun-2025]

[1] अग्नेबृहन्निति सप्तर्चस्य सूक्तस्याप्त्यस्त्रितोग्निस्त्रिष्टुप् |
अग्रे᳚बृ॒हन्नु॒षसा᳚मू॒र्ध्वो,अ॑स्थान्निर्जग॒न्वान्‌तम॑सो॒ज्योति॒षागा᳚त् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒ग्निर्भा॒नुना॒रुश॑ता॒स्वङ्ग॒जा॒तोविश्वा॒सद्मा᳚न्यप्राः || {1/7}{10.1.1}{10.1.1.1}{7.5.29.1}{1, 838, 8799}

अग्रे᳚¦बृ॒हन्¦उ॒षसा᳚‌म्¦ऊ॒र्ध्वः¦अ॒स्था॒त्¦निः॒ऽज॒ग॒न्वान्¦तम॑सः¦ज्योति॑षा¦आ¦अ॒गा॒त् |
अ॒ग्निः¦भा॒नुना᳚¦रुश॑ता¦सु॒।आङ्गः॑¦आ¦जा॒तः¦विश्वा᳚¦सद्मा᳚नि¦अ॒प्राः॒ ||

जा॒तोगर्भो᳚,असि॒रोद॑स्यो॒रग्ने॒चारु॒र्विभृ॑त॒ओष॑धीषु |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

चि॒त्रःशिशुः॒परि॒तमां᳚स्य॒क्तून्‌प्रमा॒तृभ्यो॒,अधि॒कनि॑क्रदद्गाः || {2/7}{10.1.2}{10.1.1.2}{7.5.29.2}{2, 838, 8800}

सः¦जा॒तः¦गर्भः॑¦अ॒सि॒¦रोद॑स्योः¦अग्ने᳚¦चारुः॑¦विऽभृ॑तः¦ओष॑धीषु |
चि॒त्रः¦शिशुः॑¦परि॑¦तमां᳚सि¦अ॒क्तून्¦प्र¦मा॒तृऽभ्यः॑¦अधि॑¦कनि॑क्रदत्¦गाः॒ ||

विष्णु॑रि॒त्थाप॑र॒मम॑स्यवि॒द्वाञ्जा॒तोबृ॒हन्न॒भिपा᳚तितृ॒तीय᳚म् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

आ॒सायद॑स्य॒पयो॒,अक्र॑त॒स्वंसचे᳚तसो,अ॒भ्य॑र्च॒न्त्यत्र॑ || {3/7}{10.1.3}{10.1.1.3}{7.5.29.3}{3, 838, 8801}

विष्णुः॑¦इ॒त्था¦प॒र॒म‌म्¦अ॒स्य॒¦वि॒द्वान्¦जा॒तः¦बृ॒हन्¦अ॒भि¦पा॒ति॒¦तृ॒तीय᳚‌म् |
आ॒सा¦यत्¦अ॒स्य॒¦पयः॑¦अक्र॑त¦स्व‌म्¦सऽचे᳚तसः¦अ॒भि¦अ॒र्च॒न्ति॒¦अत्र॑ ||

अत॑त्वापितु॒भृतो॒जनि॑त्रीरन्ना॒वृधं॒प्रति॑चर॒न्त्यन्नैः᳚ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

ता,ईं॒प्रत्ये᳚षि॒पुन॑र॒न्यरू᳚पा॒,असि॒त्वंवि॒क्षुमानु॑षीषु॒होता᳚ || {4/7}{10.1.4}{10.1.1.4}{7.5.29.4}{4, 838, 8802}

अतः॑¦ऊँ॒ इति॑¦त्वा॒¦पि॒तु॒ऽभृतः॑¦जनि॑त्रीः¦अ॒न्न॒ऽवृध᳚‌म्¦प्रति॑¦च॒र॒न्ति॒¦अन्नैः᳚ |
ताः¦ई॒‌म्¦प्रति॑¦ए॒षि॒¦पुनः॑¦अ॒न्यऽरू᳚पाः¦असि॑¦त्व‌म्¦वि॒क्षु¦मानु॑षीषु¦होता᳚ ||

होता᳚रंचि॒त्रर॑थमध्व॒रस्य॑य॒ज्ञस्य॑यज्ञस्यके॒तुंरुश᳚न्तम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

प्रत्य॑र्धिंदे॒वस्य॑देवस्यम॒ह्नाश्रि॒यात्व१॑(अ॒)ग्निमति॑थिं॒जना᳚नाम् || {5/7}{10.1.5}{10.1.1.5}{7.5.29.5}{5, 838, 8803}

होता᳚र‌म्¦चि॒त्रऽर॑थ‌म्¦अ॒ध्व॒रस्य॑¦य॒ज्ञस्य॑ऽयज्ञस्य¦के॒तु‌म्¦रुश᳚न्त‌म् |
प्रति॑।आर्धि‌म्¦दे॒वस्य॑ऽदेवस्य¦म॒ह्ना¦श्रि॒या¦त्व‌म्¦अ॒ग्नि‌म्¦अति॑थि‌म्¦जना᳚ना‌म् ||

तुवस्त्रा॒ण्यध॒पेश॑नानि॒वसा᳚नो,अ॒ग्निर्नाभा᳚पृथि॒व्याः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒रु॒षोजा॒तःप॒दइळा᳚याःपु॒रोहि॑तोराजन्यक्षी॒हदे॒वान् || {6/7}{10.1.6}{10.1.1.6}{7.5.29.6}{6, 838, 8804}

सः¦तु¦वस्त्रा᳚णि¦अध॑¦पेश॑नानि¦वसा᳚नः¦अ॒ग्निः¦नाभा᳚¦पृ॒थि॒व्याः |
अ॒रु॒षः¦जा॒तः¦प॒दे¦इळा᳚याः¦पु॒रःऽहि॑तः¦रा॒ज॒न्¦य॒क्षि॒¦इ॒ह¦दे॒वान् ||

हिद्यावा᳚पृथि॒वी,अ॑ग्नउ॒भेसदा᳚पु॒त्रोमा॒तरा᳚त॒तन्थ॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

प्रया॒ह्यच्छो᳚श॒तोय॑वि॒ष्ठाथाव॑हसहस्ये॒हदे॒वान् || {7/7}{10.1.7}{10.1.1.7}{7.5.29.7}{7, 838, 8805}

आ¦हि¦द्यावा᳚पृथि॒वी इति॑¦अ॒ग्ने॒¦उ॒भे इति॑¦सदा᳚¦पु॒त्रः¦न¦मा॒तरा᳚¦त॒तन्थ॑ |
प्र¦या॒हि॒¦अच्छ॑¦उ॒श॒तः¦य॒वि॒ष्ठ॒¦अथ॑¦आ¦व॒ह॒¦स॒ह॒स्य॒¦इ॒ह¦दे॒वान् ||

[2] पिप्रीहीति सप्तर्चस्य सूक्तस्याप्त्यस्त्रितोग्निस्त्रिष्टुप् | (१ नात्रस्वाहाकारः किंतुमंत्रांत एव हविः प्रक्षेपः)|
पि॒प्री॒हिदे॒वाँ,उ॑श॒तोय॑विष्ठवि॒द्वाँ,ऋ॒तूँरृ॑तुपतेयजे॒ह |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

येदैव्या᳚ऋ॒त्विज॒स्तेभि॑रग्ने॒त्वंहोतॄ᳚णाम॒स्याय॑जिष्ठः || {1/7}{10.2.1}{10.1.2.1}{7.5.30.1}{8, 839, 8806}

पि॒प्री॒हि¦दे॒वान्¦उ॒श॒तः¦य॒वि॒ष्ठ॒¦वि॒द्वान्¦ऋ॒तून्¦ऋ॒तु॒ऽप॒ते॒¦य॒ज॒¦इ॒ह |
ये¦दैव्याः᳚¦ऋ॒त्विजः॑¦तेभिः॑¦अ॒ग्ने॒¦त्व‌म्¦होतॄ᳚णा‌म्¦अ॒सि॒¦आऽय॑जिष्ठः ||

वेषि॑हो॒त्रमु॒तपो॒त्रंजना᳚नांमन्धा॒तासि॑द्रविणो॒दा,ऋ॒तावा᳚ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

स्वाहा᳚व॒यंकृ॒णवा᳚माह॒वींषि॑दे॒वोदे॒वान्‌य॑जत्व॒ग्निरर्ह॑न् || {2/7}{10.2.2}{10.1.2.2}{7.5.30.2}{9, 839, 8807}

वेषि॑¦हो॒त्र‌म्¦उ॒त¦पो॒त्र‌म्¦जना᳚ना‌म्¦म॒न्धा॒ता¦अ॒सि॒¦द्र॒वि॒णः॒ऽदाः¦ऋ॒तऽवा᳚ |
स्वाहा᳚¦व॒य‌म्¦कृ॒णवा᳚म¦ह॒वींषि॑¦दे॒वः¦दे॒वान्¦य॒ज॒तु॒¦अ॒ग्निः¦अर्ह॑न् ||

दे॒वाना॒मपि॒पन्था᳚मगन्म॒यच्छ॒क्नवा᳚म॒तदनु॒प्रवो᳚ळ्हुम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒ग्निर्वि॒द्वान्‌त्सय॑जा॒त्सेदु॒होता॒सो,अ॑ध्व॒रान्‌त्सऋ॒तून्‌क॑ल्पयाति || {3/7}{10.2.3}{10.1.2.3}{7.5.30.3}{10, 839, 8808}

आ¦दे॒वाना᳚‌म्¦अपि॑¦पन्था᳚‌म्¦अ॒ग॒न्म॒¦यत्¦श॒क्नवा᳚म¦तत्¦अनु॑¦प्रऽवो᳚ळ्हु‌म् |
अ॒ग्निः¦वि॒द्वान्¦सः¦य॒ज॒त्¦सः¦इत्¦ऊँ॒ इति॑¦होता᳚¦सः¦अ॒ध्व॒रान्¦सः¦ऋ॒तून्¦क॒ल्प॒या॒ति॒ ||

यद्वो᳚व॒यंप्र॑मि॒नाम᳚व्र॒तानि॑वि॒दुषां᳚देवा॒,अवि॑दुष्टरासः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒ग्निष्टद्विश्व॒मापृ॑णातिवि॒द्वान्‌येभि॑र्दे॒वाँ,ऋ॒तुभिः॑क॒ल्पया᳚ति || {4/7}{10.2.4}{10.1.2.4}{7.5.30.4}{11, 839, 8809}

तत्¦वः॒¦व॒य‌म्¦प्र॒ऽमि॒नाम॑¦व्र॒तानि॑¦वि॒दुषा᳚‌म्¦दे॒वाः॒¦अवि॑दुःऽतरासः |
अ॒ग्निः¦तत्¦विश्व᳚‌म्¦आ¦पृ॒णा॒ति॒¦वि॒द्वान्¦येभिः॑¦दे॒वान्¦ऋ॒तुऽभिः॑¦क॒ल्पया᳚ति ||

यत्पा᳚क॒त्रामन॑सादी॒नद॑क्षा॒य॒ज्ञस्य॑मन्व॒तेमर्त्या᳚सः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒ग्निष्टद्धोता᳚क्रतु॒विद्वि॑जा॒नन्यजि॑ष्ठोदे॒वाँ,ऋ॑तु॒शोय॑जाति || {5/7}{10.2.5}{10.1.2.5}{7.5.30.5}{12, 839, 8810}

यत्¦पा॒क॒ऽत्रा¦मन॑सा¦दी॒नऽद॑क्षाः¦न¦य॒ज्ञस्य॑¦म॒न्व॒ते¦मर्त्या᳚सः |
अ॒ग्निः¦तत्¦होता᳚¦क्र॒तु॒ऽवित्¦वि॒ऽजा॒नन्¦यजि॑ष्ठः¦दे॒वान्¦ऋ॒तु॒ऽशः¦य॒जा॒ति॒ ||

विश्वे᳚षां॒ह्य॑ध्व॒राणा॒मनी᳚कंचि॒त्रंके॒तुंजनि॑तात्वाज॒जान॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

य॑जस्वनृ॒वती॒रनु॒क्षाःस्पा॒र्हा,इषः॑,क्षु॒मती᳚र्वि॒श्वज᳚न्याः || {6/7}{10.2.6}{10.1.2.6}{7.5.30.6}{13, 839, 8811}

विश्वे᳚षा‌म्¦हि¦अ॒ध्व॒राणा᳚‌म्¦अनी᳚क‌म्¦चि॒त्र‌म्¦के॒तु‌म्¦जनि॑ता¦त्वा॒¦ज॒जान॑ |
सः¦आ¦य॒ज॒स्व॒¦नृ॒ऽवतीः᳚¦अनु॑¦क्षाः¦स्पा॒र्हाः¦इषः॑¦क्षु॒ऽमतीः᳚¦वि॒स्वऽज᳚न्याः ||

यंत्वा॒द्यावा᳚पृथि॒वीयंत्वाप॒स्त्वष्टा॒यंत्वा᳚सु॒जनि॑माज॒जान॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

पन्था॒मनु॑प्रवि॒द्वान्‌पि॑तृ॒याणं᳚द्यु॒मद॑ग्नेसमिधा॒नोविभा᳚हि || {7/7}{10.2.7}{10.1.2.7}{7.5.30.7}{14, 839, 8812}

य‌म्¦त्वा॒¦द्यावा᳚पृथि॒वी इति॑¦य‌म्¦त्वा॒¦आपः॑¦त्वष्टा᳚¦य‌म्¦त्वा॒¦सु॒ऽजमि॑मा¦ज॒जान॑ |
पन्था᳚‌म्¦अनु॑¦प्र॒ऽवि॒द्वान्¦पि॒तृ॒ऽयान᳚‌म्¦द्यु॒ऽमत्¦अ॒ग्ने॒¦स॒‌म्ऽ‌इ॒धा॒नः¦वि¦भा॒हि॒ ||

[3] इनोराजन्निति सप्तर्चस्य सूक्तस्याप्त्यस्त्रितोग्निस्त्रिष्टुप् |
इ॒नोरा᳚जन्नर॒तिःसमि॑द्धो॒रौद्रो॒दक्षा᳚यसुषु॒माँ,अ॑दर्शि |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

चि॒किद्विभा᳚तिभा॒साबृ॑ह॒तासि॑क्नीमेति॒रुश॑तीम॒पाज॑न् || {1/7}{10.3.1}{10.1.3.1}{7.5.31.1}{15, 840, 8813}

इ॒नः¦रा॒ज॒न्¦अ॒र॒तिः¦स‌म्ऽ‌इ᳚द्धः¦रौद्रः॑¦दक्षा᳚य¦सु॒सु॒ऽमान्¦अ॒द॒र्शि॒ |
चि॒कित्¦वि¦भा॒ति॒¦भा॒सा¦बृ॒ह॒ता¦असि॑क्नी‌म्¦ए॒ति॒¦रुश॑ती‌म्¦अ॒प॒।आज॑न् ||

कृ॒ष्णांयदेनी᳚म॒भिवर्प॑सा॒भूज्ज॒नय॒न्योषां᳚बृह॒तःपि॒तुर्जाम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

ऊ॒र्ध्वंभा॒नुंसूर्य॑स्यस्तभा॒यन्दि॒वोवसु॑भिरर॒तिर्विभा᳚ति || {2/7}{10.3.2}{10.1.3.2}{7.5.31.2}{16, 840, 8814}

कृ॒ष्णा‌म्¦यत्¦एनी᳚‌म्¦अ॒भि¦वर्प॑सा¦भूत्¦ज॒नय॑न्¦योषा᳚‌म्¦बृ॒ह॒तः¦पि॒तुः¦जा‌म् |
ऊ॒र्ध्व‌म्¦भा॒नु‌म्¦सूर्य॑स्य¦स्त॒भा॒यन्¦दि॒वः¦वसु॑ऽभिः¦अ॒र॒तिः¦वि¦भा॒ति॒ ||

भ॒द्रोभ॒द्रया॒सच॑मान॒आगा॒त्स्वसा᳚रंजा॒रो,अ॒भ्ये᳚तिप॒श्चात् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

सु॒प्र॒के॒तैर्द्युभि॑र॒ग्निर्वि॒तिष्ठ॒न्‌रुश॑द्भि॒र्वर्णै᳚र॒भिरा॒मम॑स्थात् || {3/7}{10.3.3}{10.1.3.3}{7.5.31.3}{17, 840, 8815}

भ॒द्रः¦भ॒द्रया᳚¦सच॑मानः¦आ¦अ॒गा॒त्¦स्वसा᳚र‌म्¦जा॒रः¦अ॒भि¦ए॒ति॒¦प॒श्चात् |
सु॒ऽप्र॒के॒तैः¦द्युऽभिः॑¦अ॒ग्निः¦वि॒ऽतिष्ठ॑न्¦रुश॑त्ऽभिः¦वर्णैः᳚¦अ॒भि¦रा॒म‌म्¦अ॒स्था॒त् ||

अ॒स्ययामा᳚सोबृह॒तोव॒ग्नूनिन्धा᳚ना,अ॒ग्नेःसख्युः॑शि॒वस्य॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

ईड्य॑स्य॒वृष्णो᳚बृह॒तःस्वासो॒भामा᳚सो॒याम᳚न्न॒क्तव॑श्चिकित्रे || {4/7}{10.3.4}{10.1.3.4}{7.5.31.4}{18, 840, 8816}

अ॒स्य¦यामा᳚सः¦बृ॒ह॒तः¦न¦व॒ग्नून्¦इन्धा᳚नाः¦अ॒ग्नेः¦सख्युः॑¦शि॒वस्य॑ |
ईड्य॑स्य¦वृष्णः॑¦बृ॒ह॒तः¦सु॒ऽआसः॑¦भामा᳚सः¦याम॑न्¦अ॒क्तवः॑¦चि॒कि॒त्रे॒ ||

स्व॒नायस्य॒भामा᳚सः॒पव᳚न्ते॒रोच॑मानस्यबृह॒तःसु॒दिवः॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

ज्येष्ठे᳚भि॒र्यस्तेजि॑ष्ठैःक्रीळु॒मद्भि॒र्वर्षि॑ष्ठेभिर्भा॒नुभि॒र्नक्ष॑ति॒द्याम् || {5/7}{10.3.5}{10.1.3.5}{7.5.31.5}{19, 840, 8817}

स्व॒नाः¦न¦यस्य॑¦भामा᳚सः¦पव᳚न्ते¦रोच॑मानस्य¦बृ॒ह॒तः¦सु॒ऽदिवः॑ |
ज्येष्ठे᳚भिः¦यः¦तेजि॑ष्ठैः¦क्री॒ळु॒मत्ऽभिः॑¦वर्षि॑ष्ठेभिः¦भा॒नुऽभिः॑¦नक्ष॑ति¦द्या‌म् ||

अ॒स्यशुष्मा᳚सोददृशा॒नप॑वे॒र्जेह॑मानस्यस्वनयन्नि॒युद्भिः॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

प्र॒त्नेभि॒र्योरुश॑द्भिर्दे॒वत॑मो॒विरेभ॑द्भिरर॒तिर्भाति॒विभ्वा᳚ || {6/7}{10.3.6}{10.1.3.6}{7.5.31.6}{20, 840, 8818}

अ॒स्य¦शुष्मा᳚सः¦द॒दृ॒शा॒नऽप॑वेः¦जेह॑मानस्य¦स्व॒न॒य॒न्¦नि॒युत्ऽभिः॑ |
प्र॒त्नेभिः॑¦यः¦रुश॑त्ऽभिः¦दे॒वऽत॑मः¦वि¦रेभ॑त्ऽभिः¦अ॒र॒तिः¦भाति॑¦विऽभ्वा᳚ ||

व॑क्षि॒महि॑न॒च॑सत्सिदि॒वस्पृ॑थि॒व्योर॑र॒तिर्यु॑व॒त्योः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒ग्निःसु॒तुकः॑सु॒तुके᳚भि॒रश्वै॒रभ॑स्वद्भी॒रभ॑स्वाँ॒,एहग᳚म्याः || {7/7}{10.3.7}{10.1.3.7}{7.5.31.7}{21, 840, 8819}

सः¦आ¦व॒क्षि॒¦महि॑¦नः॒¦आ¦च॒¦स॒त्सि॒¦दि॒वःपृ॑थि॒व्योः¦अ॒र॒तिः¦यु॒व॒त्योः |
अ॒ग्निः¦सु॒ऽतुकः॑¦सु॒त्।औके᳚भिः¦अश्वैः᳚¦रभ॑स्वत्ऽभिः¦रभ॑स्वान्¦आ¦इ॒ह¦ग॒म्याः॒ ||

[4] प्रतइति सप्तर्चस्य सूक्तस्याप्त्यस्त्रितोग्निस्त्रिष्टुप् |
प्रते᳚यक्षि॒प्रत॑इयर्मि॒मन्म॒भुवो॒यथा॒वन्द्यो᳚नो॒हवे᳚षु |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

धन्व᳚न्निवप्र॒पा,अ॑सि॒त्वम॑ग्नइय॒क्षवे᳚पू॒रवे᳚प्रत्नराजन् || {1/7}{10.4.1}{10.1.4.1}{7.5.32.1}{22, 841, 8820}

प्र¦ते॒¦य॒क्षि॒¦प्र¦ते॒¦इ॒य॒र्मि॒¦मन्म॑¦भुवः॑¦यथा᳚¦वन्द्यः॑¦नः॒¦हवे᳚षु |
धन्व॑न्ऽ‌इव¦प्र॒ऽपा¦अ॒सि॒¦त्व‌म्¦अ॒ग्ने॒¦इ॒य॒क्षवे᳚¦पू॒रवे᳚¦प्र॒त्न॒¦रा॒ज॒न् ||

यंत्वा॒जना᳚सो,अ॒भिसं॒चर᳚न्ति॒गाव॑उ॒ष्णमि॑वव्र॒जंय॑विष्ठ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

दू॒तोदे॒वाना᳚मसि॒मर्त्या᳚नाम॒न्तर्म॒हाँश्च॑रसिरोच॒नेन॑ || {2/7}{10.4.2}{10.1.4.2}{7.5.32.2}{23, 841, 8821}

य‌म्¦त्वा॒¦जना᳚सः¦अ॒भि¦स॒‌म्ऽचर᳚न्ति¦गावः॑¦उ॒ष्ण‌म्ऽ‌इ᳚व¦व्र॒ज‌म्¦य॒वि॒ष्ठ॒ |
दू॒तः¦दे॒वाना᳚‌म्¦अ॒सि॒¦मर्त्या᳚ना‌म्¦अ॒न्तः¦म॒हान्¦च॒र॒सि॒¦रो॒च॒नेन॑ ||

शिशुं॒त्वा॒जेन्यं᳚व॒र्धय᳚न्तीमा॒ताबि॑भर्तिसचन॒स्यमा᳚ना |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

धनो॒रधि॑प्र॒वता᳚यासि॒हर्य॒ञ्जिगी᳚षसेप॒शुरि॒वाव॑सृष्टः || {3/7}{10.4.3}{10.1.4.3}{7.5.32.3}{24, 841, 8822}

शिशु᳚‌म्¦न¦त्वा॒¦जेन्य᳚‌म्¦व॒र्धय᳚न्ती¦मा॒ता¦बि॒भ॒र्ति॒¦स॒च॒न॒स्यमा᳚ना |
धनोः᳚¦अधि॑¦प्र॒ऽवता᳚¦या॒सि॒¦हर्य॑न्¦जिगी᳚षसे¦प॒शुःऽ‌इ᳚व¦अव॑ऽसृष्टः ||

मू॒रा,अ॑मूर॒व॒यंचि॑कित्वोमहि॒त्वम॑ग्ने॒त्वम॒ङ्गवि॑त्से |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

शये᳚व॒व्रिश्चर॑तिजि॒ह्वया॒दन्‌रे᳚रि॒ह्यते᳚युव॒तिंवि॒श्पतिः॒सन् || {4/7}{10.4.4}{10.1.4.4}{7.5.32.4}{25, 841, 8823}

मू॒राः¦अ॒मू॒र॒¦न¦व॒य‌म्¦चि॒कि॒त्वः॒¦म॒हि॒ऽत्व‌म्¦अ॒ग्ने॒¦त्व‌म्¦अ॒ङ्ग¦वि॒त्से॒ |
शये᳚¦व॒व्रिः¦चर॑ति¦जि॒ह्वया᳚¦अ॒दन्¦रे॒रि॒ह्यते᳚¦यु॒व॒ति‌म्¦वि॒श्पतिः॑¦सन् ||

कूचि॑ज्जायते॒सन॑यासु॒नव्यो॒वने᳚तस्थौपलि॒तोधू॒मके᳚तुः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒स्ना॒तापो᳚वृष॒भोप्रवे᳚ति॒सचे᳚तसो॒यंप्र॒णय᳚न्त॒मर्ताः᳚ || {5/7}{10.4.5}{10.1.4.5}{7.5.32.5}{26, 841, 8824}

कूऽचि॑त्¦जा॒य॒ते॒¦सन॑यासु¦नव्यः॑¦वने᳚¦त॒स्थौ॒¦प॒लि॒तः¦धू॒मऽके᳚तुः |
अ॒स्ना॒ता¦आपः॑¦वृ॒ष॒भः¦न¦प्र¦वे॒ति॒¦सऽचे᳚तसः¦य‌म्¦प्र॒ऽनय᳚न्त¦मर्ताः᳚ ||

त॒नू॒त्यजे᳚व॒तस्क॑रावन॒र्गूर॑श॒नाभि॑र्द॒शभि॑र॒भ्य॑धीताम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

इ॒यंते᳚,अग्ने॒नव्य॑सीमनी॒षायु॒क्ष्वारथं॒शु॒चय॑द्भि॒रङ्गैः᳚ || {6/7}{10.4.6}{10.1.4.6}{7.5.32.6}{27, 841, 8825}

त॒नू॒त्यजा᳚ऽ‌इव¦तस्क॑रा¦व॒न॒र्गू इति॑¦र॒श॒नाभिः॑¦द॒शऽभिः॑¦अ॒भि¦अ॒धी॒ता॒‌म् |
इ॒य‌म्¦ते॒¦अ॒ग्ने॒¦नव्य॑सी¦म॒नी॒षा¦यु॒क्ष्व¦रथ᳚‌म्¦न¦शु॒चय॑त्ऽभिः¦अङ्गैः᳚ ||

ब्रह्म॑तेजातवेदो॒नम॑श्चे॒यंच॒गीःसद॒मिद्वर्ध॑नीभूत् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

रक्षा᳚णो,अग्ने॒तन॑यानितो॒कारक्षो॒तन॑स्त॒न्वो॒३॑(ओ॒)अप्र॑युच्छन् || {7/7}{10.4.7}{10.1.4.7}{7.5.32.7}{28, 841, 8826}

ब्रह्म॑¦च॒¦ते॒¦जा॒त॒ऽवे॒दः॒¦नमः॑¦च॒¦इ॒य‌म्¦च॒¦गीः¦सद᳚‌म्¦इत्¦वर्ध॑नी¦भू॒त् |
रक्ष॑¦नः॒¦अ॒ग्ने॒¦तन॑यानि¦तो॒का¦रक्ष॑¦उ॒त¦नः॒¦त॒न्वः॑¦अप्र॑ऽयुच्छन् ||

[5] एकःसमुद्रइति सप्तर्चस्य सूक्तस्यात्यस्त्रितोग्नित्रिष्टुप् |
एकः॑समु॒द्रोध॒रुणो᳚रयी॒णाम॒स्मद्धृ॒दोभूरि॑जन्मा॒विच॑ष्टे |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

सिष॒क्त्यूध᳚र्नि॒ण्योरु॒पस्थ॒उत्स॑स्य॒मध्ये॒निहि॑तंप॒दंवेः || {1/7}{10.5.1}{10.1.5.1}{7.5.33.1}{29, 842, 8827}

एकः॑¦स॒मु॒द्रः¦ध॒रुणः॑¦र॒यी॒णा‌म्¦अ॒स्मत्¦हृ॒दः¦भूरि॑ऽजन्मा¦वि¦च॒ष्टे॒ |
सिस॑क्ति¦ऊधः॑¦नि॒ण्योः¦उ॒पऽस्थे᳚¦उत्स॑स्य¦मध्ये᳚¦निऽहि॑त‌म्¦प॒द‌म्¦वेरिति॒ वेः ||

स॒मा॒नंनी॒ळंवृष॑णो॒वसा᳚नाः॒संज॑ग्मिरेमहि॒षा,अर्व॑तीभिः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

ऋ॒तस्य॑प॒दंक॒वयो॒निपा᳚न्ति॒गुहा॒नामा᳚निदधिरे॒परा᳚णि || {2/7}{10.5.2}{10.1.5.2}{7.5.33.2}{30, 842, 8828}

स॒मा॒न‌म्¦नी॒ळ‌म्¦वृष॑णः¦वसा᳚नाः¦स‌म्¦ज॒ग्मि॒रे॒¦म॒हि॒षाः¦अर्व॑तीभिः |
ऋ॒तस्य॑¦प॒द‌म्¦क॒वयः॑¦नि¦पा॒न्ति॒¦गुहा᳚¦नामा᳚नि¦द॒धि॒रे॒¦परा᳚णि ||

ऋ॒ता॒यिनी᳚मा॒यिनी॒संद॑धातेमि॒त्वाशिशुं᳚जज्ञतुर्व॒र्धय᳚न्ती |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

विश्व॑स्य॒नाभिं॒चर॑तोध्रु॒वस्य॑क॒वेश्चि॒त्तन्तुं॒मन॑सावि॒यन्तः॑ || {3/7}{10.5.3}{10.1.5.3}{7.5.33.3}{31, 842, 8829}

ऋ॒त॒यिनी॒ इत्यृ॑त॒ऽयिनी᳚¦मा॒यिनी॒ इति॑¦स‌म्¦द॒धा॒ते॒ इति॑¦मि॒त्वा¦शिशु᳚‌म्¦ज॒ज्ञ॒तुः॒¦व॒र्धय᳚न्ती॒ इति॑ |
विश्व॑स्य¦नाभि᳚‌म्¦चर॑तः¦ध्रु॒वस्य॑¦क॒वेः¦चि॒त्¦तन्तु᳚‌म्¦मन॑सा¦वि॒ऽयन्तः॑ ||

ऋ॒तस्य॒हिव॑र्त॒नयः॒सुजा᳚त॒मिषो॒वाजा᳚यप्र॒दिवः॒सच᳚न्ते |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒धी॒वा॒संरोद॑सीवावसा॒नेघृ॒तैरन्नै᳚र्वावृधाते॒मधू᳚नाम् || {4/7}{10.5.4}{10.1.5.4}{7.5.33.4}{32, 842, 8830}

ऋ॒तस्य॑¦हि¦व॒र्त॒नयः॑¦सुऽजा᳚त‌म्¦इषः॑¦वाजा᳚य¦प्र॒ऽदिवः॑¦सच᳚न्ते |
अ॒धी॒वा॒स‌म्¦रोद॑सी॒ इति॑¦व॒व॒सा॒ने इति॑¦घृ॒तैः¦अन्नैः᳚¦व॒वृ॒धा॒ते॒ इति॑¦मधू᳚ना‌म् ||

स॒प्तस्वसॄ॒ररु॑षीर्वावशा॒नोवि॒द्वान्‌मध्व॒उज्ज॑भारादृ॒शेकम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒न्तर्ये᳚मे,अ॒न्तरि॑क्षेपुरा॒जा,इ॒च्छन्व॒व्रिम॑विदत्पूष॒णस्य॑ || {5/7}{10.5.5}{10.1.5.5}{7.5.33.5}{33, 842, 8831}

स॒प्त¦स्वसॄः᳚¦अरु॑षीः¦वा॒व॒शा॒नः¦वि॒द्वान्¦मध्वः॑¦उत्¦ज॒भा॒र॒¦दृ॒शे¦क‌म् |
अ॒न्तः¦ये॒मे॒¦अ॒न्तरि॑क्षे¦पु॒रा॒ऽजाः¦इ॒च्छन्¦व॒व्रि‌म्¦अ॒वि॒द॒त्¦पू॒ष॒णस्य॑ ||

स॒प्तम॒र्यादाः᳚क॒वय॑स्ततक्षु॒स्तासा॒मेका॒मिद॒भ्यं᳚हु॒रोगा᳚त् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

आ॒योर्ह॑स्क॒म्भउ॑प॒मस्य॑नी॒ळेप॒थांवि॑स॒र्गेध॒रुणे᳚षुतस्थौ || {6/7}{10.5.6}{10.1.5.6}{7.5.33.6}{34, 842, 8832}

स॒प्त¦म॒र्यादाः᳚¦क॒वयः॑¦त॒त॒क्षुः॒¦तासा᳚‌म्¦एका᳚‌म्¦इत्¦अ॒भि¦अं॒हु॒रः¦गा॒त् |
आ॒योः¦ह॒¦स्क॒म्भः¦उ॒प॒ऽमस्य॑¦नी॒ळे¦प॒था‌म्¦वि॒ऽस॒र्गे¦ध॒रुणे᳚षु¦त॒स्थौ॒ ||

अस॑च्च॒सच्च॑पर॒मेव्यो᳚म॒न्दक्ष॑स्य॒जन्म॒न्नदि॑तेरु॒पस्थे᳚ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒ग्निर्ह॑नःप्रथम॒जा,ऋ॒तस्य॒पूर्व॒आयु॑निवृष॒भश्च॑धे॒नुः || {7/7}{10.5.7}{10.1.5.7}{7.5.33.7}{35, 842, 8833}

अस॑त्¦च॒¦स॒त्¦च॒¦प॒र॒मे¦विऽओ᳚मन्¦दक्ष॑स्य¦जन्म॑न्¦अदि॑तेः¦उ॒पऽस्थे᳚ |
अ॒ग्निः¦ह॒¦नः॒¦प्र॒थ॒म॒ऽजाः¦ऋ॒तस्य॑¦पूर्वे᳚¦आयु॑नि¦वृ॒ष॒भः¦च॒¦धे॒नुः ||

[6] अयंसइति सप्तर्चस्य सूक्तस्यात्यस्त्रितोग्नित्रिष्टुप् |
अ॒यंयस्य॒शर्म॒न्नवो᳚भिर॒ग्नेरेध॑तेजरि॒ताभिष्टौ᳚ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

ज्येष्ठे᳚भि॒र्योभा॒नुभि᳚रृषू॒णांप॒र्येति॒परि॑वीतोवि॒भावा᳚ || {1/7}{10.6.1}{10.1.6.1}{7.6.1.1}{36, 843, 8834}

अ॒य‌म्¦सः¦यस्य॑¦शर्म॑न्¦अवः॑ऽभिः¦अ॒ग्नेः¦एध॑ते¦ज॒रि॒ता¦अ॒भिष्टौ᳚ |
ज्येष्ठे᳚भिः¦यः¦भा॒नुऽभिः॑¦ऋ॒षू॒णा‌म्¦प॒रि॒ऽएति॑¦परि॑ऽवीतः¦वि॒भाऽवा᳚ ||

योभा॒नुभि᳚र्वि॒भावा᳚वि॒भात्य॒ग्निर्दे॒वेभि᳚रृ॒तावाज॑स्रः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

योवि॒वाय॑स॒ख्यासखि॒भ्योऽप॑रिह्वृतो॒,अत्यो॒सप्तिः॑ || {2/7}{10.6.2}{10.1.6.2}{7.6.1.2}{37, 843, 8835}

यः¦भा॒नुऽभिः॑¦वि॒भाऽवा᳚¦वि॒ऽभाति॑¦अ॒ग्निः¦दे॒वेभिः॑¦ऋ॒तऽवा᳚¦अज॑स्रः |
आ¦यः¦वि॒वाय॑¦स॒ख्या¦सखि॑ऽभ्यः¦अप॑रिऽह्वृतः¦अत्यः॑¦न¦सप्तिः॑ ||

ईशे॒योविश्व॑स्यादे॒ववी᳚ते॒रीशे᳚वि॒श्वायु॑रु॒षसो॒व्यु॑ष्टौ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

यस्मि᳚न्म॒नाह॒वींष्य॒ग्नावरि॑ष्टरथःस्क॒भ्नाति॑शू॒षैः || {3/7}{10.6.3}{10.1.6.3}{7.6.1.3}{38, 843, 8836}

ईशे᳚¦यः¦विश्व॑स्याः¦दे॒वऽवी᳚तेः¦ईशे᳚¦वि॒श्वऽआ᳚युः¦उ॒षसः॑¦वि।औ᳚ष्टौ |
आ¦यस्मि॑न्¦म॒ना¦ह॒वींषि॑¦अ॒ग्नौ¦अरि॑ष्टऽरथः¦स्क॒भ्नाति॑¦शू॒षैः ||

शू॒षेभि᳚र्वृ॒धोजु॑षा॒णो,अ॒र्कैर्दे॒वाँ,अच्छा᳚रघु॒पत्वा᳚जिगाति |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

म॒न्द्रोहोता॒जु॒ह्वा॒३॑(आ॒)यजि॑ष्ठः॒सम्मि॑श्लो,अ॒ग्निराजि॑घर्तिदे॒वान् || {4/7}{10.6.4}{10.1.6.4}{7.6.1.4}{39, 843, 8837}

शू॒षेभिः॑¦वृ॒धः¦जु॒षा॒णः¦अ॒र्कैः¦दे॒वान्¦अच्छ॑¦र॒घु॒ऽपत्वा᳚¦ज॒गा॒ति॒ |
म॒न्द्रः¦होता᳚¦सः¦जु॒ह्वा᳚¦यजि॑ष्ठः¦स‌म्ऽमि॑श्लः¦अ॒ग्निः¦आ¦जि॒घ॒र्ति॒¦दे॒वान् ||

तमु॒स्रामिन्द्रं॒रेज॑मानम॒ग्निंगी॒र्भिर्नमो᳚भि॒राकृ॑णुध्वम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

यंविप्रा᳚सोम॒तिभि॑र्गृ॒णन्ति॑जा॒तवे᳚दसंजु॒ह्वं᳚स॒हाना᳚म् || {5/7}{10.6.5}{10.1.6.5}{7.6.1.5}{40, 843, 8838}

त‌म्¦उ॒स्रा‌म्¦इन्द्र᳚‌म्¦न¦रेज॑मान‌म्¦अ॒ग्नि‌म्¦गीः॒ऽभिः¦नमः॑ऽभिः¦आ¦कृ॒णु॒ध्व॒‌म् |
आ¦य‌म्¦विप्रा᳚सः¦म॒तिऽभिः॑¦गृ॒णन्ति॑¦जा॒तऽवे᳚दस‌म्¦जु॒ह्व᳚‌म्¦स॒हाना᳚‌म् ||

संयस्मि॒न्‌विश्वा॒वसू᳚निज॒ग्मुर्वाजे॒नाश्वाः॒सप्ती᳚वन्त॒एवैः᳚ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒स्मे,ऊ॒तीरिन्द्र॑वाततमा,अर्वाची॒ना,अ॑ग्न॒कृ॑णुष्व || {6/7}{10.6.6}{10.1.6.6}{7.6.1.6}{41, 843, 8839}

स‌म्¦यस्मि॑न्¦विश्वा᳚¦वसू᳚नि¦ज॒ग्मुः¦वाजे᳚¦न¦अश्वाः᳚¦सप्ति॑ऽवन्तः¦एवैः᳚ |
अ॒स्मे इति॑¦ऊ॒तीः¦इन्द्र॑वातऽतमाः¦अ॒र्वा॒ची॒नाः¦अ॒ग्ने॒¦आ¦कृ॒णु॒ष्व॒ ||

अधा॒ह्य॑ग्नेम॒ह्नानि॒षद्या᳚स॒द्योज॑ज्ञा॒नोहव्यो᳚ब॒भूथ॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

तंते᳚दे॒वासो॒,अनु॒केत॑माय॒न्नधा᳚वर्धन्तप्रथ॒मास॒ऊमाः᳚ || {7/7}{10.6.7}{10.1.6.7}{7.6.1.7}{42, 843, 8840}

अध॑¦हि¦अ॒ग्ने॒¦म॒ह्ना¦नि॒ऽसद्य॑¦स॒द्यः¦ज॒ज्ञा॒नः¦हव्यः॑¦ब॒भूथ॑ |
त‌म्¦ते॒¦दे॒वासः॑¦अनु॑¦केत᳚‌म्¦आ॒य॒न्¦अध॑¦अ॒व॒र्ध॒न्त॒¦प्र॒थ॒मासः॑¦ऊमाः᳚ ||

[7] स्वस्तिनइति सप्तर्चस्य सूक्तस्यात्यस्त्रितोग्नित्रिष्टुप् |
स्व॒स्तिनो᳚दि॒वो,अ॑ग्नेपृथि॒व्यावि॒श्वायु॑र्धेहिय॒जथा᳚यदेव |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

सचे᳚महि॒तव॑दस्मप्रके॒तैरु॑रु॒ष्याण॑उ॒रुभि॑र्देव॒शंसैः᳚ || {1/7}{10.7.1}{10.1.7.1}{7.6.2.1}{43, 844, 8841}

स्व॒स्ति¦नः॒¦दि॒वः¦अ॒ग्ने॒¦पृ॒थि॒व्याः¦वि॒श्वऽआ᳚युः¦धे॒हि॒¦य॒जथा᳚य¦दे॒व॒ |
सचे᳚महि¦तव॑¦द॒स्म॒¦प्र॒ऽके॒तैः¦उ॒रु॒ष्य¦नः॒¦उ॒रुऽभिः॑¦दे॒व॒¦शंसैः᳚ ||

इ॒मा,अ॑ग्नेम॒तय॒स्तुभ्यं᳚जा॒तागोभि॒रश्वै᳚र॒भिगृ॑णन्ति॒राधः॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

य॒दाते॒मर्तो॒,अनु॒भोग॒मान॒ड्वसो॒दधा᳚नोम॒तिभिः॑सुजात || {2/7}{10.7.2}{10.1.7.2}{7.6.2.2}{44, 844, 8842}

इ॒माः¦अ॒ग्ने॒¦म॒तयः॑¦तुभ्य᳚‌म्¦जा॒ताः¦गोभिः॑¦अश्वैः᳚¦अ॒भि¦गृ॒ण॒न्ति॒¦राधः॑ |
य॒दा¦ते॒¦मर्तः॑¦अनु॑¦भोग᳚‌म्¦आन॑ट्¦वसो॒ इति॑¦दधा᳚नः¦म॒तिऽभिः॑¦सु॒ऽजा॒त॒ ||

अ॒ग्निंम᳚न्येपि॒तर॑म॒ग्निमा॒पिम॒ग्निंभ्रात॑रं॒सद॒मित्सखा᳚यम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

अ॒ग्नेरनी᳚कंबृह॒तःस॑पर्यंदि॒विशु॒क्रंय॑ज॒तंसूर्य॑स्य || {3/7}{10.7.3}{10.1.7.3}{7.6.2.3}{45, 844, 8843}

अ॒ग्नि‌म्¦म॒न्ये॒¦पि॒तर᳚‌म्¦अ॒ग्नि‌म्¦आ॒पि‌म्¦अ॒ग्नि‌म्¦भ्रात॑र‌म्¦सद᳚‌म्¦इत्¦सखा᳚य‌म् |
अ॒ग्नेः¦अनी᳚क‌म्¦बृ॒ह॒तः¦स॒प॒र्य॒‌म्¦दि॒वि¦शु॒क्र‌म्¦य॒ज॒त‌म्¦सूर्य॑स्य ||

सि॒ध्रा,अ॑ग्ने॒धियो᳚,अ॒स्मेसनु॑त्री॒र्यंत्राय॑से॒दम॒नित्य॑होता |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

ऋ॒तावा॒रो॒हिद॑श्वःपुरु॒क्षुर्द्युभि॑रस्मा॒,अह॑भिर्वा॒मम॑स्तु || {4/7}{10.7.4}{10.1.7.4}{7.6.2.4}{46, 844, 8844}

सि॒ध्राः¦अ॒ग्ने॒¦धियः॑¦अ॒स्मे इति॑¦सनु॑त्रीः¦य‌म्¦त्राय॑से¦दमे᳚¦आ¦नित्य॑ऽहोता |
ऋ॒तऽवा᳚¦सः¦रो॒हित्।आ॑श्वः¦पु॒रु॒ऽक्षुः¦द्युऽभिः॑¦अ॒स्मै॒¦अह॑ऽभिः¦वा॒म‌म्¦अ॒स्तु॒ ||

द्युभि᳚र्हि॒तंमि॒त्रमि॑वप्र॒योगं᳚प्र॒त्नमृ॒त्विज॑मध्व॒रस्य॑जा॒रम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

बा॒हुभ्या᳚म॒ग्निमा॒यवो᳚ऽजनन्तवि॒क्षुहोता᳚रं॒न्य॑सादयन्त || {5/7}{10.7.5}{10.1.7.5}{7.6.2.5}{47, 844, 8845}

द्युऽभिः॑¦हि॒त‌म्¦मि॒त्र‌म्ऽ‌इ᳚व¦प्र॒ऽयोग᳚‌म्¦प्र॒त्न‌म्¦ऋ॒त्विज᳚‌म्¦अ॒ध्व॒रस्य॑¦जा॒र‌म् |
बा॒हुऽभ्या᳚‌म्¦अ॒ग्नि‌म्¦आ॒यवः॑¦अ॒ज॒न॒न्त॒¦वि॒क्षु¦होता᳚र‌म्¦नि¦अ॒सा॒द॒य॒न्त॒ ||

स्व॒यंय॑जस्वदि॒विदे᳚वदे॒वान्‌किंते॒पाकः॑कृणव॒दप्र॑चेताः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

यथाय॑जऋ॒तुभि॑र्देवदे॒वाने॒वाय॑जस्वत॒न्वं᳚सुजात || {6/7}{10.7.6}{10.1.7.6}{7.6.2.6}{48, 844, 8846}

स्व॒य‌म्¦य॒ज॒स्व॒¦दि॒वि¦दे॒व॒¦दे॒वान्¦कि‌म्¦ते॒¦पाकः॑¦कृ॒ण॒व॒त्¦अप्र॑ऽचेताः |
यथा᳚¦अय॑जः¦ऋ॒तुऽभिः॑¦दे॒व॒¦दे॒वान्¦ए॒व¦य॒ज॒स्व॒¦त॒न्व᳚‌म्¦सु॒ऽजा॒त॒ ||

भवा᳚नो,अग्नेऽवि॒तोतगो॒पाभवा᳚वय॒स्कृदु॒तनो᳚वयो॒धाः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्}

रास्वा᳚नःसुमहोह॒व्यदा᳚तिं॒त्रास्वो॒तन॑स्त॒न्वो॒३॑(ओ॒)अप्र॑युच्छन् || {7/7}{10.7.7}{10.1.7.7}{7.6.2.7}{49, 844, 8847}

भव॑¦नः॒¦अ॒ग्ने॒¦अ॒वि॒ता¦उ॒त¦गो॒पाः¦भव॑¦व॒यः॒ऽकृत्¦उ॒त¦नः॒¦व॒यः॒ऽधाः |
रास्व॑¦च॒¦नः॒¦सु॒ऽम॒हः¦ह॒व्यऽदा᳚ति‌म्¦त्रास्व॑¦उ॒त¦नः॒¦त॒न्वः॑¦अप्र॑ऽयुच्छन् ||

[8] प्रकेतुनेति नवर्चस्य सूक्तस्यत्वाष्ट्रस्त्रिशिराअग्निः अंत्यतृचस्येंद्रस्त्रिष्टुप् |
प्रके॒तुना᳚बृह॒ताया᳚त्य॒ग्निरारोद॑सीवृष॒भोरो᳚रवीति |{त्वाष्ट्रस्त्रिशिरः | अग्निः | त्रिष्टुप्}

दि॒वश्चि॒दन्ताँ᳚,उप॒माँ,उदा᳚नळ॒पामु॒पस्थे᳚महि॒षोव॑वर्ध || {1/9}{10.8.1}{10.1.8.1}{7.6.3.1}{50, 845, 8848}

प्र¦के॒तुना᳚¦बृ॒ह॒ता¦या॒ति॒¦अ॒ग्निः¦आ¦रोद॑सी॒ इति॑¦वृ॒ष॒भः¦रो॒र॒वी॒ति॒ |
दि॒वः¦चि॒त्¦अन्ता᳚न्¦उ॒प॒ऽमान्¦उत्¦आ॒न॒ट्¦अ॒पा‌म्¦उ॒पऽस्थे᳚¦म॒हि॒षः¦व॒व॒र्ध॒ ||

मु॒मोद॒गर्भो᳚वृष॒भःक॒कुद्मा᳚नस्रे॒माव॒त्सःशिमी᳚वाँ,अरावीत् |{त्वाष्ट्रस्त्रिशिरः | अग्निः | त्रिष्टुप्}

दे॒वता॒त्युद्य॑तानिकृ॒ण्वन्‌त्स्वेषु॒क्षये᳚षुप्रथ॒मोजि॑गाति || {2/9}{10.8.2}{10.1.8.2}{7.6.3.2}{51, 845, 8849}

मु॒मोद॑¦गर्भः॑¦वृ॒ष॒भः¦क॒कुत्ऽमा᳚न्¦अ॒स्रे॒मा¦व॒त्सः¦शिमी᳚ऽवान्¦अ॒रा॒वी॒त् |
सः¦दे॒वऽता᳚ति¦उत्ऽय॑तानि¦कृ॒ण्वन्¦स्वेषु॑¦क्षये᳚षु¦प्र॒थ॒मः¦जि॒गा॒ति॒ ||

योमू॒र्धानं᳚पि॒त्रोरर॑ब्ध॒न्य॑ध्व॒रेद॑धिरे॒सूरो॒,अर्णः॑ |{त्वाष्ट्रस्त्रिशिरः | अग्निः | त्रिष्टुप्}

अस्य॒पत्म॒न्नरु॑षी॒रश्व॑बुध्ना,ऋ॒तस्य॒योनौ᳚त॒न्वो᳚जुषन्त || {3/9}{10.8.3}{10.1.8.3}{7.6.3.3}{52, 845, 8850}

आ¦यः¦मू॒र्धान᳚‌म्¦पि॒त्रोः¦अर॑ब्ध¦नि¦अ॒ध्व॒रे¦द॒धि॒रे॒¦सूरः॑¦अर्णः॑ |
अस्य॑¦पत्म॑न्¦अरु॑षीः¦अश्व॑ऽबुध्नाः¦ऋ॒तस्य॑¦योनौ᳚¦त॒न्वः॑¦जु॒ष॒न्त॒ ||

उ॒षौ᳚षो॒हिव॑सो॒,अग्र॒मेषि॒त्वंय॒मयो᳚रभवोवि॒भावा᳚ |{त्वाष्ट्रस्त्रिशिरः | अग्निः | त्रिष्टुप्}

ऋ॒ताय॑स॒प्तद॑धिषेप॒दानि॑ज॒नय᳚न्मि॒त्रंत॒न्वे॒३॑(ए॒)स्वायै᳚ || {4/9}{10.8.4}{10.1.8.4}{7.6.3.4}{53, 845, 8851}

उ॒षः।औ᳚षः¦हि¦व॒सो॒ इति॑¦अग्र᳚‌म्¦एषि॑¦त्व‌म्¦य॒मयोः᳚¦अ॒भ॒वः॒¦वि॒भाऽवा᳚ |
ऋ॒ताय॑¦स॒प्त¦द॒धि॒षे॒¦प॒दानि॑¦ज॒नय॑न्¦मि॒त्र‌म्¦त॒न्वे᳚¦स्वायै᳚ ||

भुव॒श्चक्षु᳚र्म॒हऋ॒तस्य॑गो॒पाभुवो॒वरु॑णो॒यदृ॒ताय॒वेषि॑ |{त्वाष्ट्रस्त्रिशिरः | अग्निः | त्रिष्टुप्}

भुवो᳚,अ॒पांनपा᳚ज्जातवेदो॒भुवो᳚दू॒तोयस्य॑ह॒व्यंजुजो᳚षः || {5/9}{10.8.5}{10.1.8.5}{7.6.3.5}{54, 845, 8852}

भुवः॑¦चक्षुः॑¦म॒हः¦ऋ॒तस्य॑¦गो॒पाः¦भुवः॑¦वरु॑णः¦यत्¦ऋ॒ताय॑¦वेषि॑ |
भुवः॑¦अ॒पा‌म्¦नपा᳚त्¦जा॒त॒ऽवे॒दः॒¦भुवः॑¦दू॒तः¦यस्य॑¦ह॒व्य‌म्¦जुजो᳚षः ||

भुवो᳚य॒ज्ञस्य॒रज॑सश्चने॒तायत्रा᳚नि॒युद्भिः॒सच॑सेशि॒वाभिः॑ |{त्वाष्ट्रस्त्रिशिरः | अग्निः | त्रिष्टुप्}

दि॒विमू॒र्धानं᳚दधिषेस्व॒र्षांजि॒ह्वाम॑ग्नेचकृषेहव्य॒वाह᳚म् || {6/9}{10.8.6}{10.1.8.6}{7.6.4.1}{55, 845, 8853}

भुवः॑¦य॒ज्ञस्य॑¦रज॑सः¦च॒¦ने॒ता¦यत्र॑¦नि॒युत्ऽभिः॑¦सच॑से¦शि॒वाभिः॑ |
दि॒वि¦मू॒र्धान᳚‌म्¦द॒धि॒षे॒¦स्वः॒ऽसा‌म्¦जि॒ह्वा‌म्¦अ॒ग्ने॒¦च॒कृ॒षे॒¦ह॒व्य॒ऽवाह᳚‌म् ||

अ॒स्यत्रि॒तःक्रतु॑नाव॒व्रे,अ॒न्तरि॒च्छन्धी॒तिंपि॒तुरेवैः॒पर॑स्य |{त्वाष्ट्रस्त्रिशिरः | इन्द्रः | त्रिष्टुप्}

स॒च॒स्यमा᳚नःपि॒त्रोरु॒पस्थे᳚जा॒मिब्रु॑वा॒णआयु॑धानिवेति || {7/9}{10.8.7}{10.1.8.7}{7.6.4.2}{56, 845, 8854}

अ॒स्य¦त्रि॒तः¦क्रतु॑ना¦व॒व्रे¦अ॒न्तः¦इ॒च्छन्¦धी॒ति‌म्¦पि॒तुः¦एवैः᳚¦पर॑स्य |
स॒च॒स्यमा᳚नः¦पि॒त्रोः¦उ॒पऽस्थे᳚¦जा॒मि¦ब्रु॒वा॒णः¦आयु॑धानि¦वे॒ति॒ ||

पित्र्या॒ण्यायु॑धानिवि॒द्वानिन्द्रे᳚षितआ॒प्त्यो,अ॒भ्य॑युध्यत् |{त्वाष्ट्रस्त्रिशिरः | इन्द्रः | त्रिष्टुप्}

त्रि॒शी॒र्षाणं᳚स॒प्तर॑श्मिंजघ॒न्वान्‌त्वा॒ष्ट्रस्य॑चि॒न्निःस॑सृजेत्रि॒तोगाः || {8/9}{10.8.8}{10.1.8.8}{7.6.4.3}{57, 845, 8855}

सः¦पित्र्या᳚णि¦आयु॑धानि¦वि॒द्वान्¦इन्द्र॑ऽ‌इषितः¦आ॒प्त्यः¦अ॒भि¦अ॒यु॒ध्य॒त् |
त्रि॒ऽशी॒र्षाण᳚‌म्¦स॒प्तऽर॑श्मि‌म्¦ज॒घ॒न्वान्¦त्वा॒ष्ट्रस्य॑¦चि॒त्¦निः¦स॒सृ॒जे॒¦त्रि॒तः¦गाः ||

भूरीदिन्द्र॑उ॒दिन॑क्षन्त॒मोजोऽवा᳚भिन॒त्सत्प॑ति॒र्मन्य॑मानम् |{त्वाष्ट्रस्त्रिशिरः | इन्द्रः | त्रिष्टुप्}

त्वा॒ष्ट्रस्य॑चिद्वि॒श्वरू᳚पस्य॒गोना᳚माचक्रा॒णस्त्रीणि॑शी॒र्षापरा᳚वर्क् || {9/9}{10.8.9}{10.1.8.9}{7.6.4.4}{58, 845, 8856}

भूरि॑¦इत्¦इन्द्रः॑¦उ॒त्ऽ‌इन॑क्षन्त‌म्¦ओजः॑¦अव॑¦अ॒भि॒न॒त्¦सत्ऽप॑तिः¦मन्य॑मान‌म् |
त्वा॒ष्ट्रस्य॑¦चि॒त्¦वि॒श्वऽरू᳚पस्य¦गोना᳚‌म्¦आ॒ऽच॒क्रा॒णः¦त्रीणि॑¦शी॒र्षा¦परा᳚¦व॒र्गिति॑ वर्क् ||

[9] आपोहिष्ठेति नवर्चस्य सूक्तस्य आंबरीषः सिंधुद्वीप आपो गायत्री पंचमीवर्धमाना सप्तमीप्रतिष्ठांत्येद्वेअनुष्टुभौ | आपोहिसिंधुद्वीपोवांबरीष इत्येवमनुक्रमण्यां सिंधुद्वीपस्य पाक्षिकत्व स्वीकारे पूर्वोक्तस्त्रिशिराः प्राप्नोतितथापि प्रयोक्तृभिः सिंधुद्वीप एवाद्रियते |
आपो॒हिष्ठाम॑यो॒भुव॒¦स्तान॑ऊ॒र्जेद॑धातन |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री}

म॒हेरणा᳚य॒चक्ष॑से || {1/9}{10.9.1}{10.1.9.1}{7.6.5.1}{59, 846, 8857}

आपः॑¦हि¦स्थ¦म॒यः॒ऽभुवः॑¦ताः¦नः॒¦ऊ॒र्जे¦द॒धा॒त॒न॒ | म॒हे¦रणा᳚य¦चक्ष॑से ||

योवः॑शि॒वत॑मो॒रस॒¦स्तस्य॑भाजयते॒हनः॑ |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री}

उ॒श॒तीरि॑वमा॒तरः॑ || {2/9}{10.9.2}{10.1.9.2}{7.6.5.2}{60, 846, 8858}

यः¦वः॒¦शि॒वऽत॑मः¦रसः॑¦तस्य॑¦भा॒ज॒य॒त॒¦इ॒ह¦नः॒ | उ॒श॒तीःऽ‌इ᳚व¦मा॒तरः॑ ||

तस्मा॒,अरं᳚गमामवो॒¦यस्य॒क्षया᳚य॒जिन्व॑थ |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री}

आपो᳚ज॒नय॑थानः || {3/9}{10.9.3}{10.1.9.3}{7.6.5.3}{61, 846, 8859}

तस्मै᳚¦अर᳚‌म्¦ग॒मा॒म॒¦वः॒¦यस्य॑¦क्षया᳚य¦जिन्व॑थ | आपः॑¦ज॒नय॑थ¦च॒¦नः॒ ||

शंनो᳚दे॒वीर॒भिष्ट॑य॒¦आपो᳚भवन्तुपी॒तये᳚ |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री}

शंयोर॒भिस्र॑वन्तुनः || {4/9}{10.9.4}{10.1.9.4}{7.6.5.4}{62, 846, 8860}

श‌म्¦नः॒¦दे॒वीः¦अ॒भिष्ट॑ये¦आपः॑¦भ॒व॒न्तु॒¦पी॒तये᳚ | श‌म्¦योः¦अ॒भि¦स्र॒व॒न्तु॒¦नः॒ ||

ईशा᳚ना॒वार्या᳚णां॒¦क्षय᳚न्तीश्चर्षणी॒नाम् |{आंबरीषः सिंधुद्वीपः | आपः | वर्धमाना गायत्री}

अ॒पोया᳚चामिभेष॒जम् || {5/9}{10.9.5}{10.1.9.5}{7.6.5.5}{63, 846, 8861}

ईशा᳚नाः¦वार्या᳚णा‌म्¦क्षय᳚न्तीः¦च॒र्ष॒णी॒ना‌म् | अ॒पः¦या॒चा॒मि॒¦भे॒ष॒ज‌म् ||

अ॒प्सुमे॒सोमो᳚,अब्रवी¦द॒न्तर्विश्वा᳚निभेष॒जा |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री}

अ॒ग्निंच॑वि॒श्वश᳚म्भुवम् || {6/9}{10.9.6}{10.1.9.6}{7.6.5.6}{64, 846, 8862}

अ॒प्ऽसु¦मे॒¦सोमः॑¦अ॒ब्र॒वी॒त्¦अ॒न्तः¦विश्वा᳚नि¦भे॒ष॒जा | अ॒ग्नि‌म्¦च॒¦वि॒श्वऽश᳚म्भुव‌म् ||

आपः॑पृणी॒तभे᳚ष॒जं¦वरू᳚थंत॒न्वे॒३॑(ए॒)मम॑ |{आंबरीषः सिंधुद्वीपः | आपः | प्रतिष्ठागायत्री}

ज्योक्‌च॒सूर्यं᳚दृ॒शे || {7/9}{10.9.7}{10.1.9.7}{7.6.5.7}{65, 846, 8863}

आपः॑¦पृ॒णी॒त¦भे॒ष॒ज‌म्¦वरू᳚थ‌म्¦त॒न्वे᳚¦मम॑ | ज्योक्¦च॒¦सूर्य᳚‌म्¦दृ॒शे ||

इ॒दमा᳚पः॒प्रव॑हत॒¦यत्‌किंच॑दुरि॒तंमयि॑ |{आंबरीषः सिंधुद्वीपः | आपः | अनुष्टुप्}

यद्वा॒हम॑भिदु॒द्रोह॒¦यद्वा᳚शे॒पउ॒तानृ॑तम् || {8/9}{10.9.8}{10.1.9.8}{7.6.5.8}{66, 846, 8864}

इ॒द‌म्¦आ॒पः॒¦प्र¦व॒ह॒त॒¦यत्¦कि‌म्¦च॒¦दुः॒ऽ‌इ॒त‌म्¦मयि॑ | यत्¦वा॒¦अ॒ह‌म्¦अ॒भि॒ऽदु॒द्रोह॑¦यत्¦वा॒¦शे॒पे¦उ॒त¦अनृ॑त‌म् ||

आपो᳚,अ॒द्यान्व॑चारिषं॒¦रसे᳚न॒सम॑गस्महि |{आंबरीषः सिंधुद्वीपः | आपः | अनुष्टुप्}

पय॑स्वानग्न॒ग॑हि॒¦तंमा॒संसृ॑ज॒वर्च॑सा || {9/9}{10.9.9}{10.1.9.9}{7.6.5.9}{67, 846, 8865}

आपः॑¦अ॒द्य¦अनु॑¦अ॒चा॒रि॒ष॒‌म्¦रसे᳚न¦स‌म्¦अ॒ग॒स्म॒हि॒ | पय॑स्वान्¦अ॒ग्ने॒¦आ¦ग॒हि॒¦त‌म्¦मा॒¦स‌म्¦सृ॒ज॒¦वर्च॑सा ||

[10] ओचिदिति चतुर्दशर्चस्य सूक्तस्य नवमी वर्ज्यानामयुजां षष्ठ्याश्च वैवस्वतीयमी ऋषिका यमोदेवता षष्ठीवर्ज्यानांयुजां नवम्याश्च वैवस्वतोयमीत्रिष्टुप् |
चि॒त्सखा᳚यंस॒ख्याव॑वृत्यांति॒रःपु॒रूचि॑दर्ण॒वंज॑ग॒न्वान् |{वैवस्वती यमी | यमः | त्रिष्टुप्}

पि॒तुर्नपा᳚त॒माद॑धीतवे॒धा,अधि॒क्षमि॑प्रत॒रंदीध्या᳚नः || {1/14}{10.10.1}{10.1.10.1}{7.6.6.1}{68, 847, 8866}

ओ इति॑¦चि॒त्¦सखा᳚य‌म्¦स॒ख्या¦व॒वृ॒त्या॒‌म्¦ति॒रः¦पु॒रु¦चि॒त्¦अ॒र्ण॒व‌म्¦ज॒ग॒न्वान् |
पि॒तुः¦नपा᳚त‌म्¦आ¦द॒धी॒त॒¦वे॒धाः¦अधि॑¦क्षमि॑¦प्र॒ऽत॒र‌म्¦दीध्या᳚नः ||

ते॒सखा᳚स॒ख्यंव॑ष्ट्ये॒तत्सल॑क्ष्मा॒यद्विषु॑रूपा॒भवा᳚ति |{यमः | वैवस्वती यमी | त्रिष्टुप्}

म॒हस्पु॒त्रासो॒,असु॑रस्यवी॒रादि॒वोध॒र्तार॑उर्वि॒यापरि॑ख्यन् || {2/14}{10.10.2}{10.1.10.2}{7.6.6.2}{69, 847, 8867}

न¦ते॒¦सखा᳚¦स॒ख्य‌म्¦व॒ष्टि॒¦ए॒तत्¦सऽल॑क्ष्मा¦यत्¦विषु॑ऽरूपा¦भवा᳚ति |
म॒हः¦पु॒त्रासः॑¦असु॑रस्य¦वी॒राः¦दि॒वः¦ध॒र्तारः॑¦उ॒र्वि॒या¦परि॑¦ख्य॒न् ||

उ॒शन्ति॑घा॒ते,अ॒मृता᳚सए॒तदेक॑स्यचित्‌त्य॒जसं॒मर्त्य॑स्य |{वैवस्वती यमी | यमः | त्रिष्टुप्}

निते॒मनो॒मन॑सिधाय्य॒स्मेजन्युः॒पति॑स्त॒न्व१॑(अ॒)मावि॑विश्याः || {3/14}{10.10.3}{10.1.10.3}{7.6.6.3}{70, 847, 8868}

उ॒शन्ति॑¦घ॒¦ते¦अ॒मृता᳚सः¦ए॒तत्¦एक॑स्य¦चि॒त्¦त्य॒जस᳚‌म्¦मर्त्य॑स्य |
नि¦ते॒¦मनः॑¦मन॑सि¦धा॒यि॒¦अ॒स्मे इति॑¦जन्युः॑¦पतिः॑¦त॒न्व᳚‌म्¦आ¦वि॒वि॒श्याः॒ ||

यत्पु॒राच॑कृ॒माकद्ध॑नू॒नमृ॒तावद᳚न्तो॒,अनृ॑तंरपेम |{यमः | वैवस्वती यमी | त्रिष्टुप्}

ग॒न्ध॒र्वो,अ॒प्स्वप्या᳚च॒योषा॒सानो॒नाभिः॑पर॒मंजा॒मितन्नौ᳚ || {4/14}{10.10.4}{10.1.10.4}{7.6.6.4}{71, 847, 8869}

न¦यत्¦पु॒रा¦च॒कृ॒म॒¦कत्¦ह॒¦नू॒न‌म्¦ऋ॒ता¦वद᳚न्तः¦अनृ॑त‌म्¦र॒पे॒म॒ |
ग॒न्ध॒र्वः¦अ॒प्ऽसु¦अप्या᳚¦च॒¦योषा᳚¦सा¦नः॒¦नाभिः॑¦प॒र॒म‌म्¦जा॒मि¦तत्¦नौ॒ ||

गर्भे॒नुनौ᳚जनि॒तादम्प॑तीकर्दे॒वस्त्वष्टा᳚सवि॒तावि॒श्वरू᳚पः |{वैवस्वती यमी | यमः | त्रिष्टुप्}

नकि॑रस्य॒प्रमि॑नन्तिव्र॒तानि॒वेद॑नाव॒स्यपृ॑थि॒वी,उ॒तद्यौः || {5/14}{10.10.5}{10.1.10.5}{7.6.6.5}{72, 847, 8870}

गर्भे᳚¦नु¦नौ॒¦ज॒नि॒ता¦दंप॑ती॒ इति॒ द‌म्ऽप॑ती¦कः॒¦दे॒वः¦त्वष्टा᳚¦स॒वि॒ता¦वि॒श्वऽरू᳚पः |
नकिः॑¦अ॒स्य॒¦प्र¦मि॒न॒न्ति॒¦व्र॒तानि॑¦वेद॑¦नौ॒¦अ॒स्य¦पृ॒थि॒वी¦उ॒त¦द्यौः ||

को,अ॒स्यवे᳚दप्रथ॒मस्याह्नः॒ईं᳚ददर्श॒इ॒हप्रवो᳚चत् |{वैवस्वती यमी | यमः | त्रिष्टुप्}

बृ॒हन्मि॒त्रस्य॒वरु॑णस्य॒धाम॒कदु॑ब्रवआहनो॒वीच्या॒नॄन् || {6/14}{10.10.6}{10.1.10.6}{7.6.7.1}{73, 847, 8871}

कः¦अ॒स्य¦वे॒द॒¦प्र॒थ॒मस्य॑¦अह्नः॑¦कः¦ई॒‌म्¦द॒द॒र्श॒¦कः¦इ॒ह¦प्र¦वो॒च॒त् |
बृ॒हत्¦मि॒त्रस्य॑¦वरु॑णस्य¦धाम॑¦कत्¦ऊँ॒ इति॑¦ब्र॒वः॒¦आ॒ह॒नः॒¦वीच्या᳚¦नॄन् ||

य॒मस्य॑माय॒म्य१॑(अं॒)काम॒आग᳚न्‌त्समा॒नेयोनौ᳚सह॒शेय्या᳚य |{वैवस्वती यमी | यमः | त्रिष्टुप्}

जा॒येव॒पत्ये᳚त॒न्वं᳚रिरिच्यां॒विचि॑द्वृहेव॒रथ्ये᳚वच॒क्रा || {7/14}{10.10.7}{10.1.10.7}{7.6.7.2}{74, 847, 8872}

य॒मस्य॑¦मा॒¦य॒म्य᳚‌म्¦कामः॑¦आ¦अ॒ग॒न्¦स॒मा॒ने¦योनौ᳚¦स॒ह॒ऽशेय्या᳚य |
जा॒याऽ‌इ᳚व¦पत्ये᳚¦त॒न्व᳚‌म्¦रि॒रि॒च्या॒‌म्¦वि¦चि॒त्¦वृ॒हे॒व॒¦रथ्या᳚ऽ‌इव¦च॒क्रा ||

ति॑ष्ठन्ति॒निमि॑षन्त्ये॒तेदे॒वानां॒स्पश॑इ॒हयेचर᳚न्ति |{यमः | वैवस्वती यमी | त्रिष्टुप्}

अ॒न्येन॒मदा᳚हनोयाहि॒तूयं॒तेन॒विवृ॑ह॒रथ्ये᳚वच॒क्रा || {8/14}{10.10.8}{10.1.10.8}{7.6.7.3}{75, 847, 8873}

न¦ति॒ष्ठ॒न्ति॒¦न¦नि¦मि॒ष॒न्ति॒¦ए॒ते¦दे॒वाना᳚‌म्¦स्पशः॑¦इ॒ह¦ये¦चर᳚न्ति |
अ॒न्येन॑¦मत्¦आ॒ह॒नः॒¦या॒हि॒¦तूय᳚‌म्¦तेन॑¦वि¦वृ॒हे॒व॒¦रथ्या᳚ऽ‌इव¦च॒क्रा ||

रात्री᳚भिरस्मा॒,अह॑भिर्दशस्ये॒त्सूर्य॑स्य॒चक्षु॒र्मुहु॒रुन्मि॑मीयात् |{यमः | वैवस्वती यमी | त्रिष्टुप्}

दि॒वापृ॑थि॒व्यामि॑थु॒नासब᳚न्धूय॒मीर्य॒मस्य॑बिभृया॒दजा᳚मि || {9/14}{10.10.9}{10.1.10.9}{7.6.7.4}{76, 847, 8874}

रात्री᳚भिः¦अ॒स्मै॒¦अह॑ऽभिः¦द॒श॒स्ये॒त्¦सूर्य॑स्य¦चक्षुः॑¦मुहुः॑¦उत्¦मि॒मी॒या॒त् |
दि॒वा¦पृ॒थि॒व्या¦मि॒थु॒ना¦सब᳚न्धू॒ इति॒ सऽब᳚न्धू¦य॒मीः¦य॒मस्य॑¦बि॒भृ॒या॒त्¦अजा᳚मि ||

घा॒ताग॑च्छा॒नुत्त॑रायु॒गानि॒यत्र॑जा॒मयः॑कृ॒णव॒न्नजा᳚मि |{यमः | वैवस्वती यमी | त्रिष्टुप्}

उप॑बर्बृहिवृष॒भाय॑बा॒हुम॒न्यमि॑च्छस्वसुभगे॒पतिं॒मत् || {10/14}{10.10.10}{10.1.10.10}{7.6.7.5}{77, 847, 8875}

आ¦घ॒¦ता¦ग॒च्छा॒न्¦उत्ऽत॑रा¦यु॒गानि॑¦यत्र॑¦जा॒मयः॑¦कृ॒णव॑न्¦अजा᳚मि |
उप॑¦बर्बृ॑हि¦वृ॒ष॒भाय॑¦बा॒हु‌म्¦अ॒न्य‌म्¦इ॒च्छ॒स्व॒¦सु॒ऽभ॒गे॒¦पति᳚‌म्¦मत् ||

किंभ्राता᳚स॒द्यद॑ना॒थंभवा᳚ति॒किमु॒स्वसा॒यन्निरृ॑तिर्नि॒गच्छा᳚त् |{वैवस्वती यमी | यमः | त्रिष्टुप्}

काम॑मूताब॒ह्वे॒३॑(ए॒)तद्र॑पामित॒न्वा᳚मेत॒न्व१॑(अं॒)संपि॑पृग्धि || {11/14}{10.10.11}{10.1.10.11}{7.6.8.1}{78, 847, 8876}

कि‌म्¦भ्राता᳚¦अ॒स॒त्¦यत्¦अ॒ना॒थ‌म्¦भवा᳚ति¦कि‌म्¦ऊँ॒ इति॑¦स्वसा᳚¦यत्¦निःऽऋ॑तिः¦नि॒ऽगच्छा᳚त् |
काम॑ऽमूता¦ब॒हु¦ए॒तत्¦र॒पा॒मि॒¦त॒न्वा᳚¦मे॒¦त॒न्व᳚‌म्¦स‌म्¦पि॒पृ॒ग्धि॒ ||

वा,उ॑तेत॒न्वा᳚त॒न्व१॑(अं॒)संप॑पृच्यांपा॒पमा᳚हु॒र्यःस्वसा᳚रंनि॒गच्छा᳚त् |{यमः | वैवस्वती यमी | त्रिष्टुप्}

अ॒न्येन॒मत्प्र॒मुदः॑कल्पयस्व॒ते॒भ्राता᳚सुभगेवष्ट्ये॒तत् || {12/14}{10.10.12}{10.1.10.12}{7.6.8.2}{79, 847, 8877}

न¦वै¦ऊँ॒ इति॑¦ते॒¦त॒न्वा᳚¦त॒न्व᳚‌म्¦स‌म्¦प॒पृ॒च्या॒‌म्¦पा॒प‌म्¦आ॒हुः॒¦यः¦स्वसा᳚र‌म्¦नि॒ऽगच्छा᳚त् |
अ॒न्येन॑¦मत्¦प्र॒ऽमुदः॑¦क॒ल्प॒य॒स्व॒¦न¦ते॒¦भ्राता᳚¦सु॒ऽभ॒गे॒¦व॒ष्टि॒¦ए॒तत् ||

ब॒तोब॑तासियम॒नैवते॒मनो॒हृद॑यंचाविदाम |{वैवस्वती यमी | यमः | त्रिष्टुप्}

अ॒न्याकिल॒त्वांक॒क्ष्ये᳚वयु॒क्तंपरि॑ष्वजाते॒लिबु॑जेववृ॒क्षम् || {13/14}{10.10.13}{10.1.10.13}{7.6.8.3}{80, 847, 8878}

ब॒तः¦ब॒त॒¦अ॒सि॒¦य॒म॒¦न¦ए॒व¦ते॒¦मनः॑¦हृद॑य‌म्¦च॒¦अ॒वि॒दा॒म॒ |
अ॒न्या¦किल॑¦त्वा‌म्¦क॒क्ष्या᳚ऽ‌इव¦यु॒क्त‌म्¦परि॑¦स्व॒जा॒ते॒¦लिबु॑जाऽ‌इव¦वृ॒क्ष‌म् ||

अ॒न्यमू॒षुत्वंय᳚म्य॒न्यउ॒त्वांपरि॑ष्वजाते॒लिबु॑जेववृ॒क्षम् |{यमः | वैवस्वती यमी | त्रिष्टुप्}

तस्य॑वा॒त्वंमन॑इ॒च्छावा॒तवाधा᳚कृणुष्वसं॒विदं॒सुभ॑द्राम् || {14/14}{10.10.14}{10.1.10.14}{7.6.8.4}{81, 847, 8879}

अ॒न्य‌म्¦ऊँ॒ इति॑¦सु¦त्व‌म्¦य॒मि॒¦अ॒न्यः¦ऊँ॒ इति॑¦त्वा‌म्¦परि॑¦स्व॒जा॒ते॒¦लिबु॑जाऽ‌इव¦वृ॒क्ष‌म् |
तस्य॑¦वा॒¦त्व‌म्¦मनः॑¦इ॒च्छा¦सः¦वा॒¦तव॑¦अध॑¦कृ॒णु॒ष्व॒¦स॒‌म्ऽविद᳚‌म्¦सुऽभ॑द्रा‌म् ||

[11] वृषावृष्ण इति नवर्चस्य सूक्तस्यांगिर्हविर्धानोऽग्निर्जगती अंत्यास्तिस्रत्रिष्टुभः |
वृषा॒वृष्णे᳚दुदुहे॒दोह॑सादि॒वःपयां᳚सिय॒ह्वो,अदि॑ते॒रदा᳚भ्यः |{आङ्गिर्हविर्धानः | अग्निः | जगती}

विश्वं॒वे᳚द॒वरु॑णो॒यथा᳚धि॒याय॒ज्ञियो᳚यजतुय॒ज्ञियाँ᳚,ऋ॒तून् || {1/9}{10.11.1}{10.1.11.1}{7.6.9.1}{82, 848, 8880}

वृषा᳚¦वृष्णे᳚¦दु॒दु॒हे॒¦दोह॑सा¦दि॒वः¦पयां᳚सि¦य॒ह्वः¦अदि॑तेः¦अदा᳚भ्यः |
विश्व᳚‌म्¦सः¦वे॒द॒¦वरु॑णः¦यथा᳚¦धि॒या¦सः¦य॒ज्ञियः॑¦य॒ज॒तु॒¦य॒ज्ञिया᳚न्¦ऋ॒तून् ||

रप॑द्गन्ध॒र्वीरप्या᳚च॒योष॑णान॒दस्य॑ना॒देपरि॑पातुमे॒मनः॑ |{आङ्गिर्हविर्धानः | अग्निः | जगती}

इ॒ष्टस्य॒मध्ये॒,अदि॑ति॒र्निधा᳚तुनो॒भ्राता᳚नोज्ये॒ष्ठःप्र॑थ॒मोविवो᳚चति || {2/9}{10.11.2}{10.1.11.2}{7.6.9.2}{83, 848, 8881}

रप॑त्¦ग॒न्ध॒र्वीः¦अप्या᳚¦च॒¦योष॑णा¦न॒दस्य॑¦ना॒दे¦परि॑¦पा॒तु॒¦मे॒¦मनः॑ |
इ॒ष्टस्य॑¦मध्ये᳚¦अदि॑तिः¦नि¦धा॒तु॒¦नः॒¦भ्राता᳚¦नः॒¦ज्ये॒ष्ठः¦प्र॒थ॒मः¦वि¦वो॒च॒ति॒ ||

सोचि॒न्नुभ॒द्राक्षु॒मती॒यश॑स्वत्यु॒षा,उ॑वास॒मन॑वे॒स्व᳚र्वती |{आङ्गिर्हविर्धानः | अग्निः | जगती}

यदी᳚मु॒शन्त॑मुश॒तामनु॒क्रतु॑म॒ग्निंहोता᳚रंवि॒दथा᳚य॒जीज॑नन् || {3/9}{10.11.3}{10.1.11.3}{7.6.9.3}{84, 848, 8882}

सो इति॑¦चि॒त्¦नु¦भ॒द्रा¦क्षु॒ऽमती᳚¦यश॑स्वती¦उ॒षाः¦उ॒वा॒स॒¦मन॑वे¦स्वः॑ऽवती |
यत्¦ई॒‌म्¦उ॒शन्त᳚‌म्¦उ॒श॒ता‌म्¦अनु॑¦ऋतु᳚‌म्¦अ॒ग्नि‌म्¦होता᳚र‌म्¦वि॒दथा᳚य¦जीज॑नन् ||

अध॒त्यंद्र॒प्संवि॒भ्वं᳚विचक्ष॒णंविराभ॑रदिषि॒तःश्ये॒नो,अ॑ध्व॒रे |{आङ्गिर्हविर्धानः | अग्निः | जगती}

यदी॒विशो᳚वृ॒णते᳚द॒स्ममार्या᳚,अ॒ग्निंहोता᳚र॒मध॒धीर॑जायत || {4/9}{10.11.4}{10.1.11.4}{7.6.9.4}{85, 848, 8883}

अध॑¦त्य‌म्¦द्र॒प्स‌म्¦वि॒भ्व᳚‌म्¦वि॒ऽच॒क्ष॒ण‌म्¦विः¦आ¦अ॒भ॒र॒त्¦इ॒षि॒तः¦श्ये॒नः¦अ॒ध्व॒रे |
यदि॑¦विशः॑¦वृ॒णते᳚¦द॒स्म‌म्¦आर्याः᳚¦अ॒ग्नि‌म्¦होता᳚र‌म्¦अध॑¦धीः¦अ॒जा॒य॒त॒ ||

सदा᳚सिर॒ण्वोयव॑सेव॒पुष्य॑ते॒होत्रा᳚भिरग्ने॒मनु॑षःस्वध्व॒रः |{आङ्गिर्हविर्धानः | अग्निः | जगती}

विप्र॑स्यवा॒यच्छ॑शमा॒नउ॒क्थ्य१॑(अं॒)वाजं᳚सस॒वाँ,उ॑प॒यासि॒भूरि॑भिः || {5/9}{10.11.5}{10.1.11.5}{7.6.9.5}{86, 848, 8884}

सदा᳚¦अ॒सि॒¦र॒ण्वः¦यव॑साऽ‌इव¦पुष्य॑ते¦होत्रा᳚भिः¦अ॒ग्ने॒¦मनु॑षः¦सु॒।आ॒ध्व॒रः |
विप्र॑स्य¦वा॒¦यत्¦श॒श॒मा॒नः¦उ॒क्थ्य᳚‌म्¦वाज᳚‌म्¦स॒स॒ऽवान्¦उ॒प॒ऽयासि॑¦भूरि॑ऽभिः ||

उदी᳚रयपि॒तरा᳚जा॒रभग॒मिय॑क्षतिहर्य॒तोहृ॒त्तइ॑ष्यति |{आङ्गिर्हविर्धानः | अग्निः | जगती}

विव॑क्ति॒वह्निः॑स्वप॒स्यते᳚म॒खस्त॑वि॒ष्यते॒,असु॑रो॒वेप॑तेम॒ती || {6/9}{10.11.6}{10.1.11.6}{7.6.10.1}{87, 848, 8885}

उत्¦ई॒र॒य॒¦पि॒तरा᳚¦जा॒रः¦आ¦भग᳚‌म्¦इय॑क्षति¦ह॒र्य॒तः¦हृ॒त्तः¦इ॒ष्य॒ति॒ |
विव॑क्ति¦वह्निः॑¦सु॒।आ॒प॒स्यते᳚¦म॒खः¦त॒वि॒ष्यते᳚¦असु॑रः¦वेप॑ते¦म॒ती ||

यस्ते᳚,अग्नेसुम॒तिंमर्तो॒,अक्ष॒त्सह॑सःसूनो॒,अति॒प्रशृ᳚ण्वे |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

इषं॒दधा᳚नो॒वह॑मानो॒,अश्वै॒राद्यु॒माँ,अम॑वान्‌भूषति॒द्यून् || {7/9}{10.11.7}{10.1.11.7}{7.6.10.2}{88, 848, 8886}

यः¦ते॒¦अ॒ग्ने॒¦सु॒ऽम॒ति‌म्¦मर्तः॑¦अक्ष॑त्¦सह॑सः¦सू॒नो॒ इति॑¦अति॑¦सः¦प्र¦शृ॒ण्वे॒ |
इष᳚‌म्¦दधा᳚नः¦वह॑मानः¦अश्वैः᳚¦आ¦सः¦द्यु॒ऽमान्¦अम॑ऽवान्¦भू॒ष॒ति॒¦द्यून् ||

यद॑ग्नए॒षासमि॑ति॒र्भवा᳚तिदे॒वीदे॒वेषु॑यज॒ताय॑जत्र |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

रत्ना᳚च॒यद्वि॒भजा᳚सिस्वधावोभा॒गंनो॒,अत्र॒वसु॑मन्तंवीतात् || {8/9}{10.11.8}{10.1.11.8}{7.6.10.3}{89, 848, 8887}

यत्¦अ॒ग्ने॒¦ए॒षा¦स‌म्ऽ‌इ᳚तिः¦भवा᳚ति¦दे॒वी¦दे॒वेषु॑¦य॒ज॒ता¦य॒ज॒त्र॒ |
रत्ना᳚¦च॒¦यत्¦वि॒ऽभजा᳚सि¦स्व॒धा॒ऽवः॒¦भा॒ग‌म्¦नः॒¦अत्र॑¦वसु॑ऽमन्त‌म्¦वी॒ता॒त् ||

श्रु॒धीनो᳚,अग्ने॒सद॑नेस॒धस्थे᳚यु॒क्ष्वारथ॑म॒मृत॑स्यद्रवि॒त्नुम् |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

नो᳚वह॒रोद॑सीदे॒वपु॑त्रे॒माकि॑र्दे॒वाना॒मप॑भूरि॒हस्याः᳚ || {9/9}{10.11.9}{10.1.11.9}{7.6.10.4}{90, 848, 8888}

श्रु॒धि¦नः॒¦अ॒ग्ने॒¦सद॑ने¦स॒धऽस्थे᳚¦यु॒क्ष्व¦रथ᳚‌म्¦अ॒मृत॑स्य¦द्र॒वि॒त्नु‌म् |
आ¦नः॒¦व॒ह॒¦रोद॑सी॒ इति॑¦दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे¦माकिः॑¦दे॒वाना᳚‌म्¦अप॑¦भूः॒¦इ॒ह¦स्याः॒ ||

[12] द्यावाहेति नवर्चस्य सूक्तस्यहविर्धानोग्निस्त्रिष्टुप् |
द्यावा᳚ह॒क्षामा᳚प्रथ॒मे,ऋ॒तेना᳚भिश्रा॒वेभ॑वतःसत्य॒वाचा᳚ |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

दे॒वोयन्मर्ता᳚न्य॒जथा᳚यकृ॒ण्वन्‌त्सीद॒द्धोता᳚प्र॒त्यङ्स्वमसुं॒यन् || {1/9}{10.12.1}{10.1.12.1}{7.6.11.1}{91, 849, 8889}

द्यावा᳚¦ह॒¦क्षामा᳚¦प्र॒थ॒मे इति॑¦ऋ॒तेन॑¦अ॒भि॒ऽश्रा॒वे¦भ॒व॒तः॒¦स॒त्य॒ऽवाचा᳚ |
दे॒वः¦यत्¦मर्ता᳚न्¦य॒जथा᳚य¦कृ॒ण्वन्¦सीद॑त्¦होता᳚¦प्र॒त्यङ्¦स्व‌म्¦असु᳚‌म्¦यन् ||

दे॒वोदे॒वान्‌प॑रि॒भूरृ॒तेन॒वहा᳚नोह॒व्यंप्र॑थ॒मश्चि॑कि॒त्वान् |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

धू॒मके᳚तुःस॒मिधा॒भा,ऋ॑जीकोम॒न्द्रोहोता॒नित्यो᳚वा॒चायजी᳚यान् || {2/9}{10.12.2}{10.1.12.2}{7.6.11.2}{92, 849, 8890}

दे॒वः¦दे॒वान्¦प॒रि॒ऽभूः¦ऋ॒तेन॑¦वह॑¦नः॒¦ह॒व्य‌म्¦प्र॒थ॒मः¦चि॒कि॒त्वान् |
धू॒मऽके᳚तुः¦स॒‌म्ऽ‌इधा᳚¦भाःऽऋ॑जीकः¦म॒न्द्रः¦होता᳚¦नित्यः॑¦वा॒चा¦यजी᳚यान् ||

स्वावृ॑ग्दे॒वस्या॒मृतं॒यदी॒गोरतो᳚जा॒तासो᳚धारयन्तउ॒र्वी |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

विश्वे᳚दे॒वा,अनु॒तत्ते॒यजु॑र्गुर्दु॒हेयदेनी᳚दि॒व्यंघृ॒तंवाः || {3/9}{10.12.3}{10.1.12.3}{7.6.11.3}{93, 849, 8891}

स्वावृ॑क्¦दे॒वस्य॑¦अ॒मृत᳚‌म्¦यदि॑¦गोः¦अतः॑¦जा॒तासः॑¦धा॒र॒य॒न्ते॒¦उ॒र्वी इति॑ |
विश्वे᳚¦दे॒वाः¦अनु॑¦तत्¦ते॒¦यजुः॑¦गुः॒¦दु॒हे¦यत्¦एनी᳚¦दि॒व्य‌म्¦घृ॒त‌म्¦वारिति॒ वाः ||

अर्चा᳚मिवां॒वर्धा॒यापो᳚घृतस्नू॒द्यावा᳚भूमीशृणु॒तंरो᳚दसीमे |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

अहा॒यद्द्यावोऽसु॑नीति॒मय॒न्मध्वा᳚नो॒,अत्र॑पि॒तरा᳚शिशीताम् || {4/9}{10.12.4}{10.1.12.4}{7.6.11.4}{94, 849, 8892}

अर्चा᳚मि¦वा॒‌म्¦वर्धा᳚य¦अपः॑¦घृ॒त॒स्नू॒ इति॑ घृतऽस्नू¦द्यावा᳚भूमी॒ इति॑¦शृ॒णु॒त‌म्¦रो॒द॒सी॒ इति॑¦मे॒ |
अहा᳚¦यत्¦द्यावः॑¦असु॑ऽनीति‌म्¦अय॑न्¦मध्वा᳚¦नः॒¦अत्र॑¦पि॒तरा᳚¦शि॒शी॒ता॒‌म् ||

किंस्वि᳚न्नो॒राजा᳚जगृहे॒कद॒स्याति᳚व्र॒तंच॑कृमा॒कोविवे᳚द |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

मि॒त्रश्चि॒द्धिष्मा᳚जुहुरा॒णोदे॒वाञ्छ्लोको॒या॒तामपि॒वाजो॒,अस्ति॑ || {5/9}{10.12.5}{10.1.12.5}{7.6.11.5}{95, 849, 8893}

कि‌म्¦स्वि॒त्¦नः॒¦राजा᳚¦ज॒गृ॒हे॒¦कत्¦अ॒स्य॒¦अति॑¦व्र॒त‌म्¦च॒कृ॒म॒¦कः¦वि¦वे॒द॒ |
मि॒त्रः¦चि॒त्¦हि¦स्म॒¦जु॒हु॒रा॒णः¦दे॒वान्¦श्लोकः॑¦न¦या॒ता‌म्¦अपि॑¦वाजः॑¦अस्ति॑ ||

दु॒र्मन्त्वत्रा॒मृत॑स्य॒नाम॒सल॑क्ष्मा॒यद्विषु॑रूपा॒भवा᳚ति |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

य॒मस्य॒योम॒नव॑तेसु॒मन्त्वग्ने॒तमृ॑ष्वपा॒ह्यप्र॑युच्छन् || {6/9}{10.12.6}{10.1.12.6}{7.6.12.1}{96, 849, 8894}

दुः॒ऽमन्तु॑¦अत्र॑¦अ॒मृत॑स्य¦नाम॑¦सऽल॑क्ष्मा¦यत्¦विषु॑ऽरूपा¦भवा᳚ति |
य॒मस्य॑¦यः¦म॒नव॑ते¦सु॒ऽमन्तु॑¦अग्ने᳚¦त‌म्¦ऋ॒ष्व॒¦पा॒हि॒¦अप्र॑ऽयुच्छन् ||

यस्मि᳚न्दे॒वावि॒दथे᳚मा॒दय᳚न्तेवि॒वस्व॑तः॒सद॑नेधा॒रय᳚न्ते |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

सूर्ये॒ज्योति॒रद॑धुर्मा॒स्य१॑(अ॒)क्तून्‌परि॑द्योत॒निंच॑रतो॒,अज॑स्रा || {7/9}{10.12.7}{10.1.12.7}{7.6.12.2}{97, 849, 8895}

यस्मि॑न्¦दे॒वाः¦वि॒दथे᳚¦मा॒दय᳚न्ते¦वि॒वस्व॑तः¦सद॑ने¦धा॒रय᳚न्ते |
सूर्ये᳚¦ज्योतिः॑¦अद॑धुः¦मा॒सि¦अ॒क्तून्¦परि॑¦द्यो॒त॒नि‌म्¦च॒र॒तः॒¦अज॑स्रा ||

यस्मि᳚न्दे॒वामन्म॑निसं॒चर᳚न्त्यपी॒च्ये॒३॑(ए॒)व॒यम॑स्यविद्म |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

मि॒त्रोनो॒,अत्रादि॑ति॒रना᳚गान्‌त्सवि॒तादे॒वोवरु॑णायवोचत् || {8/9}{10.12.8}{10.1.12.8}{7.6.12.3}{98, 849, 8896}

यस्मि॑न्¦दे॒वाः¦मन्म॑नि¦स॒‌म्ऽचर᳚न्ति¦अ॒पी॒च्ये᳚¦न¦व॒य‌म्¦अ॒स्य॒¦वि॒द्म॒ |
मि॒त्रः¦नः॒¦अत्र॑¦अदि॑तिः¦अना᳚गान्¦स॒वि॒ता¦दे॒वः¦वरु॑णाय¦वो॒च॒त् ||

श्रु॒धीनो᳚,अग्ने॒सद॑नेस॒धस्थे᳚यु॒क्ष्वारथ॑म॒मृत॑स्यद्रवि॒त्नुम् |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्}

नो᳚वह॒रोद॑सीदे॒वपु॑त्रे॒माकि॑र्दे॒वाना॒मप॑भूरि॒हस्याः᳚ || {9/9}{10.12.9}{10.1.12.9}{7.6.12.4}{99, 849, 8897}

श्रु॒धि¦नः॒¦अ॒ग्ने॒¦सद॑ने¦स॒धऽस्थे᳚¦यु॒क्ष्व¦रथ᳚‌म्¦अ॒मृत॑स्य¦द्र॒वि॒त्नु‌म् |
आ¦नः॒¦व॒ह॒¦रोद॑सी॒ इति॑¦दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे¦माकिः॑¦दे॒वाना᳚‌म्¦अप॑¦भूः॒¦इ॒ह¦स्याः॒ ||

[13] युजेवामिति पंचर्चस्य सूक्तस्यादित्योविवस्वान्हविर्धानस्त्रिष्टुबंत्याजगती |
यु॒जेवां॒ब्रह्म॑पू॒र्व्यंनमो᳚भि॒र्विश्लोक॑एतुप॒थ्ये᳚वसू॒रेः |{आदित्यो विवस्वानः | हविर्धानः | त्रिष्टुप्}

शृ॒ण्वन्तु॒विश्वे᳚,अ॒मृत॑स्यपु॒त्रा,येधामा᳚निदि॒व्यानि॑त॒स्थुः || {1/5}{10.13.1}{10.1.13.1}{7.6.13.1}{100, 850, 8898}

यु॒जे¦वा॒‌म्¦ब्रह्म॑¦पू॒र्व्य‌म्¦नमः॑ऽभिः¦वि¦श्लोकः॑¦ए॒तु॒¦प॒थ्या᳚ऽ‌इव¦सू॒रेः |
शृ॒ण्वन्तु॑¦विश्वे᳚¦अ॒मृत॑स्य¦पु॒त्राः¦आ¦ये¦धामा᳚नि¦दि॒व्यानि॑¦त॒स्थुः ||

य॒मे,इ॑व॒यत॑माने॒यदैतं॒प्रवां᳚भर॒न्मानु॑षादेव॒यन्तः॑ |{आदित्यो विवस्वानः | हविर्धानः | त्रिष्टुप्}

सी᳚दतं॒स्वमु॑लो॒कंविदा᳚नेस्वास॒स्थेभ॑वत॒मिन्द॑वेनः || {2/5}{10.13.2}{10.1.13.2}{7.6.13.2}{101, 850, 8899}

य॒मे इ॒वेति॑ य॒मेऽ‌इ᳚व¦यत॑माने॒ इति॑¦यत्¦ऐत᳚‌म्¦प्र¦वा॒‌म्¦भ॒र॒न्¦मानु॑षाः¦दे॒व॒ऽयन्तः॑ |
आ¦सी॒द॒त॒‌म्¦स्व‌म्¦ऊँ॒ इति॑¦लो॒क‌म्¦विदा᳚ने॒ इति॑¦स्वा॒स॒स्थे इति॑ सु॒ऽआ॒स॒स्थे¦भ॒व॒त॒‌म्¦इन्द॑वे¦नः॒ ||

पञ्च॑प॒दानि॑रु॒पो,अन्व॑रोहं॒चतु॑ष्पदी॒मन्वे᳚मिव्र॒तेन॑ |{आदित्यो विवस्वानः | हविर्धानः | त्रिष्टुप्}

अ॒क्षरे᳚ण॒प्रति॑मिमए॒तामृ॒तस्य॒नाभा॒वधि॒संपु॑नामि || {3/5}{10.13.3}{10.1.13.3}{7.6.13.3}{102, 850, 8900}

पंच॑¦प॒दानि॑¦रु॒पः¦अनु॑¦अ॒रो॒ह॒‌म्¦चतुः॑ऽपदी‌म्¦अनु॑¦ए॒मि॒¦व्र॒तेन॑ |
अ॒क्षरे᳚ण¦प्रति॑¦मि॒मे॒¦ए॒ता‌म्¦ऋ॒तस्य॑¦नाभौ᳚¦अधि॑¦स‌म्¦पु॒ना॒मि॒ ||

दे॒वेभ्यः॒कम॑वृणीतमृ॒त्युंप्र॒जायै॒कम॒मृतं॒नावृ॑णीत |{आदित्यो विवस्वानः | हविर्धानः | त्रिष्टुप्}

बृह॒स्पतिं᳚य॒ज्ञम॑कृण्वत॒ऋषिं᳚प्रि॒यांय॒मस्त॒न्व१॑(अं॒)प्रारि॑रेचीत् || {4/5}{10.13.4}{10.1.13.4}{7.6.13.4}{103, 850, 8901}

दे॒वेभ्यः॑¦क‌म्¦अ॒वृ॒णी॒त॒¦मृ॒त्यु‌म्¦प्र॒ऽजायै᳚¦क‌म्¦अ॒मृत᳚‌म्¦न¦अ॒वृ॒णी॒त॒ |
बृह॒स्पति᳚‌म्¦य॒ज्ञ‌म्¦अ॒कृ॒ण्व॒त॒¦ऋषि᳚‌म्¦प्रि॒या‌म्¦य॒मः¦त॒न्व᳚‌म्¦प्र¦अ॒रि॒रे॒ची॒त् ||

स॒प्तक्ष॑रन्ति॒शिश॑वेम॒रुत्व॑तेपि॒त्रेपु॒त्रासो॒,अप्य॑वीवतन्नृ॒तम् |{आदित्यो विवस्वानः | हविर्धानः | जगती}

उ॒भे,इद॑स्यो॒भय॑स्यराजतउ॒भेय॑तेते,उ॒भय॑स्यपुष्यतः || {5/5}{10.13.5}{10.1.13.5}{7.6.13.5}{104, 850, 8902}

स॒प्त¦क्ष॒र॒न्ति॒¦शिश॑वे¦म॒रुत्व॑ते¦पि॒त्रे¦पु॒त्रासः॑¦अपि॑¦अ॒वी॒व॒त॒न्¦ऋ॒त‌म् |
उ॒भे इति॑¦इत्¦अ॒स्य॒¦उ॒भय॑स्य¦रा॒ज॒तः॒¦उ॒भे इति॑¦य॒ते॒ते॒ इति॑¦उ॒भय॑स्य¦पु॒ष्य॒तः॒ ||

[14] परेयिवांसमिति षोळशर्चस्य सूक्तस्य वैवस्वतोयमऋषिः यमोदेवता षष्ठ्यांगिरःपित्रथर्वभृगुसोमाः दशम्यादितिसृणांश्वानौ त्रिष्टुप् त्रयोदशीचतुर्दशीषोडश्योनुष्टुभः पंचदशीबृहती ( प्रेहिप्रेहीत्यादितिसृणां पितृदेवतावैकल्पिकी ) |
प॒रे॒यि॒वांसं᳚प्र॒वतो᳚म॒हीरनु॑ब॒हुभ्यः॒पन्था᳚मनुपस्पशा॒नम् |{वैवस्वतो यमः | यमः | त्रिष्टुप्}

वै॒व॒स्व॒तंसं॒गम॑नं॒जना᳚नांय॒मंराजा᳚नंह॒विषा᳚दुवस्य || {1/16}{10.14.1}{10.1.14.1}{7.6.14.1}{105, 851, 8903}

प॒रे॒यि॒ऽवांस᳚‌म्¦प्र॒ऽवतः॑¦म॒हीः¦अनु॑¦ब॒हुऽभ्यः॑¦पन्था᳚‌म्¦अ॒नु॒ऽप॒स्प॒शा॒न‌म् |
वै॒व॒स्व॒त‌म्¦स॒‌म्ऽगम॑न‌म्¦जना᳚ना‌म्¦य॒म‌म्¦राजा᳚न‌म्¦ह॒विषा᳚¦दु॒व॒स्य॒ ||

य॒मोनो᳚गा॒तुंप्र॑थ॒मोवि॑वेद॒नैषागव्यू᳚ति॒रप॑भर्त॒वा,उ॑ |{वैवस्वतो यमः | यमः | त्रिष्टुप्}

यत्रा᳚नः॒पूर्वे᳚पि॒तरः॑परे॒युरे॒नाज॑ज्ञा॒नाःप॒थ्या॒३॑(आ॒)अनु॒स्वाः || {2/16}{10.14.2}{10.1.14.2}{7.6.14.2}{106, 851, 8904}

य॒मः¦नः॒¦गा॒तु‌म्¦प्र॒थ॒मः¦वि॒वे॒द॒¦न¦ए॒षा¦गव्यू᳚तिः¦अप॑ऽभ॒र्त॒वै¦ऊँ॒ इति॑ |
यत्र॑¦नः॒¦पूर्वे᳚¦पि॒तरः॑¦प॒रा॒ऽई॒युः¦ए॒ना¦ज॒ज्ञा॒नाः¦प॒थ्याः᳚¦अनु॑¦स्वाः ||

मात॑लीक॒व्यैर्य॒मो,अङ्गि॑रोभि॒र्बृह॒स्पति॒रृक्व॑भिर्वावृधा॒नः |{वैवस्वतो यमः | यमः | त्रिष्टुप्}

याँश्च॑दे॒वावा᳚वृ॒धुर्येच॑दे॒वान्‌त्स्वाहा॒न्येस्व॒धया॒न्येम॑दन्ति || {3/16}{10.14.3}{10.1.14.3}{7.6.14.3}{107, 851, 8905}

मात॑ली¦क॒व्यैः¦य॒मः¦अङ्गि॑रःऽभिः¦बृह॒स्पतिः॑¦ऋक्व॑ऽभिः¦व॒वृ॒धा॒नः |
यान्¦च॒¦दे॒वाः¦व॒वृ॒धुः¦ये¦च॒¦दे॒वान्¦स्वाहा᳚¦अ॒न्ये¦स्व॒धया᳚¦अ॒न्ये¦म॒द॒न्ति॒ ||

इ॒मंय॑मप्रस्त॒रमाहिसीदाङ्गि॑रोभिःपि॒तृभिः॑संविदा॒नः |{वैवस्वतो यमः | यमः | त्रिष्टुप्}

त्वा॒मन्त्राः᳚कविश॒स्ताव॑हन्त्वे॒नारा᳚जन्ह॒विषा᳚मादयस्व || {4/16}{10.14.4}{10.1.14.4}{7.6.14.4}{108, 851, 8906}

इ॒म‌म्¦य॒म॒¦प्र॒ऽस्त॒र‌म्¦आ¦हि¦सीद॑¦अङ्गि॑रःऽभिः¦पि॒तृऽभिः॑¦स॒‌म्ऽवि॒दा॒नः |
आ¦त्वा॒¦मन्त्राः᳚¦क॒वि॒ऽश॒स्ताः¦व॒ह॒न्तु॒¦ए॒ना¦रा॒ज॒न्¦ह॒विषा᳚¦मा॒द॒य॒स्व॒ ||

अङ्गि॑रोभि॒राग॑हिय॒ज्ञिये᳚भि॒र्यम॑वैरू॒पैरि॒हमा᳚दयस्व |{वैवस्वतो यमः | यमः | त्रिष्टुप्}

विव॑स्वन्तंहुवे॒यःपि॒ताते॒ऽस्मिन्‌य॒ज्ञेब॒र्हिष्यानि॒षद्य॑ || {5/16}{10.14.5}{10.1.14.5}{7.6.14.5}{109, 851, 8907}

अङ्गि॑रःऽभिः¦आ¦ग॒हि॒¦य॒ज्ञिये᳚भिः¦यम॑¦वै॒रू॒पैः¦इ॒ह¦मा॒द॒य॒स्व॒ |
विव॑स्वन्त‌म्¦हु॒वे॒¦यः¦पि॒ता¦ते॒¦अ॒स्मिन्¦य॒ज्ञे¦ब॒र्हिषि॑¦आ¦नि॒ऽसद्य॑ ||

अङ्गि॑रसोनःपि॒तरो॒नव॑ग्वा॒,अथ᳚र्वाणो॒भृग॑वःसो॒म्यासः॑ |{वैवस्वतो यमः | आंगिरःपित्रथर्वभृगुःसोमाः | त्रिष्टुप्}

तेषां᳚व॒यंसु॑म॒तौय॒ज्ञिया᳚ना॒मपि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म || {6/16}{10.14.6}{10.1.14.6}{7.6.15.1}{110, 851, 8908}

अङ्गि॑रसः¦नः॒¦पि॒तरः॑¦नव॑ऽग्वाः¦अथ᳚र्वाणः¦भृग॑वः¦सो॒म्यासः॑ |
तेषा᳚‌म्¦व॒य‌म्¦सु॒ऽम॒तौ¦य॒ज्ञिया᳚ना‌म्¦अपि॑¦भ॒द्रे¦सौ॒म॒न॒से¦स्या॒म॒ ||

प्रेहि॒प्रेहि॑प॒थिभिः॑पू॒र्व्येभि॒र्यत्रा᳚नः॒पूर्वे᳚पि॒तरः॑परे॒युः |{वैवस्वतो यमः | पितृदेवता | त्रिष्टुप्}

उ॒भाराजा᳚नास्व॒धया॒मद᳚न्ताय॒मंप॑श्यासि॒वरु॑णंदे॒वम् || {7/16}{10.14.7}{10.1.14.7}{7.6.15.2}{111, 851, 8909}

प्र¦इ॒हि॒¦प्र¦इ॒हि॒¦प॒थिऽभिः॑¦पू॒र्व्येभिः॑¦यत्र॑¦नः॒¦पूर्वे᳚¦पि॒तरः॑¦प॒रा॒ऽई॒युः |
उ॒भा¦राजा᳚ना¦स्व॒धया᳚¦मद᳚न्ता¦य॒म‌म्¦प॒श्या॒सि॒¦वरु॑ण‌म्¦च॒¦दे॒व‌म् ||

संग॑च्छस्वपि॒तृभिः॒संय॒मेने᳚ष्टापू॒र्तेन॑पर॒मेव्यो᳚मन् |{वैवस्वतो यमः | पितृदेवता | त्रिष्टुप्}

हि॒त्वाया᳚व॒द्यंपुन॒रस्त॒मेहि॒संग॑च्छस्वत॒न्वा᳚सु॒वर्चाः᳚ || {8/16}{10.14.8}{10.1.14.8}{7.6.15.3}{112, 851, 8910}

स‌म्¦ग॒च्छ॒स्व॒¦पि॒तृऽभिः॑¦स‌म्¦य॒मेन॑¦इ॒ष्टा॒पू॒र्तेन॑¦प॒र॒मे¦विऽओ᳚मन् |
हि॒त्वाय॑¦अ॒व॒द्य‌म्¦पुनः॑¦अस्त᳚‌म्¦आ¦इ॒हि॒¦स‌म्¦ग॒च्छ॒स्व॒¦त॒न्वा᳚¦सु॒ऽवर्चाः᳚ ||

अपे᳚त॒वी᳚त॒विच॑सर्प॒तातो॒ऽस्मा,ए॒तंपि॒तरो᳚लो॒कम॑क्रन् |{वैवस्वतो यमः | पितृदेवता | त्रिष्टुप्}

अहो᳚भिर॒द्भिर॒क्तुभि॒र्व्य॑क्तंय॒मोद॑दात्यव॒सान॑मस्मै || {9/16}{10.14.9}{10.1.14.9}{7.6.15.4}{113, 851, 8911}

अप॑¦इ॒त॒¦वि¦इ॒त॒¦वि¦च॒¦स॒र्प॒त॒¦अतः॑¦अ॒स्मै¦ए॒त‌म्¦पि॒तरः॑¦लो॒क‌म्¦अ॒क्र॒न् |
अहः॑ऽभिः¦अ॒त्ऽभिः¦अ॒क्तुऽभिः॑¦वि।आ॑क्त‌म्¦य॒मः¦द॒दा॒ति॒¦अ॒व॒ऽसान᳚‌म्¦अ॒स्मै॒ ||

अति॑द्रवसारमे॒यौश्वानौ᳚चतुर॒क्षौश॒बलौ᳚सा॒धुना᳚प॒था |{वैवस्वतो यमः | श्वानौ | त्रिष्टुप्}

अथा᳚पि॒तॄन्‌त्सु॑वि॒दत्राँ॒,उपे᳚हिय॒मेन॒येस॑ध॒मादं॒मद᳚न्ति || {10/16}{10.14.10}{10.1.14.10}{7.6.15.5}{114, 851, 8912}

अति॑¦द्र॒व॒¦सा॒र॒मे॒यौ¦श्वानौ᳚¦च॒तुः॒।आ॒क्षौ¦श॒बलौ᳚¦सा॒धुना᳚¦प॒था |
अथ॑¦पि॒तॄन्¦सु॒ऽवि॒दत्रा᳚न्¦उप॑¦इ॒हि॒¦य॒मेन॑¦ये¦स॒ध॒ऽमाद᳚‌म्¦मद᳚न्ति ||

यौते॒श्वानौ᳚यमरक्षि॒तारौ᳚चतुर॒क्षौप॑थि॒रक्षी᳚नृ॒चक्ष॑सौ |{वैवस्वतो यमः | श्वानौ | त्रिष्टुप्}

ताभ्या᳚मेनं॒परि॑देहिराजन्‌त्स्व॒स्तिचा᳚स्मा,अनमी॒वंच॑धेहि || {11/16}{10.14.11}{10.1.14.11}{7.6.16.1}{115, 851, 8913}

यौ¦ते॒¦श्वानौ᳚¦य॒म॒¦र॒क्षि॒तारौ᳚¦च॒तुः॒।आ॒क्षौ¦प॒थि॒रक्षी॒ इति॑ प॒थि॒ऽरक्षी᳚¦नृ॒ऽचक्ष॑सौ |
ताभ्या᳚‌म्¦ए॒न॒‌म्¦परि॑¦दे॒हि॒¦रा॒ज॒न्¦स्व॒स्ति¦च॒¦अ॒स्मै॒¦अ॒न॒मी॒व‌म्¦च॒¦धे॒हि॒ ||

उ॒रू॒ण॒साव॑सु॒तृपा᳚,उदुम्ब॒लौय॒मस्य॑दू॒तौच॑रतो॒जनाँ॒,अनु॑ |{वैवस्वतो यमः | श्वानौ | त्रिष्टुप्}

ताव॒स्मभ्यं᳚दृ॒शये॒सूर्या᳚य॒पुन॑र्दाता॒मसु॑म॒द्येहभ॒द्रम् || {12/16}{10.14.12}{10.1.14.12}{7.6.16.2}{116, 851, 8914}

उ॒रु॒ऽन॒सौ¦अ॒सु॒ऽतृपौ᳚¦उ॒दु॒म्ब॒लौ¦य॒मस्य॑¦दू॒तौ¦च॒र॒तः॒¦जना᳚न्¦अनु॑ |
तौ¦अ॒स्मभ्य᳚‌म्¦दृ॒शये᳚¦सूर्या᳚य¦पुनः॑¦दा॒ता॒‌म्¦असु᳚‌म्¦अ॒द्य¦इ॒ह¦भ॒द्र‌म् ||

य॒माय॒सोमं᳚सुनुत¦य॒माय॑जुहुताह॒विः |{वैवस्वतो यमः | यमः | अनुष्टुप्}

य॒मंह॑य॒ज्ञोग॑च्छ¦त्य॒ग्निदू᳚तो॒,अरं᳚कृतः || {13/16}{10.14.13}{10.1.14.13}{7.6.16.3}{117, 851, 8915}

य॒माय॑¦सोम᳚‌म्¦सु॒नु॒त॒¦य॒माय॑¦जु॒हु॒त॒¦ह॒विः | य॒म‌म्¦ह॒¦य॒ज्ञः¦ग॒च्छ॒ति॒¦अ॒ग्निऽदू᳚तः¦अर᳚‌म्ऽकृतः ||

य॒माय॑घृ॒तव॑द्ध॒विर्जु॒होत॒प्रच॑तिष्ठत |{वैवस्वतो यमः | यमः | अनुष्टुप्}

नो᳚दे॒वेष्वाय॑मद्दी॒र्घमायुः॒प्रजी॒वसे᳚ || {14/16}{10.14.14}{10.1.14.14}{7.6.16.4}{118, 851, 8916}

य॒माय॑¦घृ॒तऽव॑त्¦ह॒विः¦जु॒होत॑¦प्र¦च॒¦ति॒ष्ठ॒त॒ | सः¦नः॒¦दे॒वेषु॑¦आ¦य॒म॒त्¦दी॒र्घ‌म्¦आयुः॑¦प्र¦जी॒वसे᳚ ||

य॒माय॒मधु॑मत्तमं॒राज्ञे᳚ह॒व्यंजु॑होतन |{वैवस्वतो यमः | यमः | बृहती}

इ॒दंनम॒ऋषि॑भ्यःपूर्व॒जेभ्यः॒पूर्वे᳚भ्यःपथि॒कृद्भ्यः॑ || {15/16}{10.14.15}{10.1.14.15}{7.6.16.5}{119, 851, 8917}

य॒माय॑¦मधु॑मत्ऽतम‌म्¦राज्ञे᳚¦ह॒व्य‌म्¦जु॒हो॒त॒न॒ |
इ॒द‌म्¦नमः॑¦ऋषि॑ऽभ्यः¦पू॒र्व॒ऽजेभ्यः॑¦पूर्वे᳚भ्यः¦प॒थि॒कृत्ऽभ्यः॑ ||

त्रिक॑द्रुकेभिःपतति॒षळु॒र्वीरेक॒मिद्बृ॒हत् |{वैवस्वतो यमः | यमः | अनुष्टुप्}

त्रि॒ष्टुब्गा᳚य॒त्रीछन्दां᳚सि॒सर्वा॒ताय॒मआहि॑ता || {16/16}{10.14.16}{10.1.14.16}{7.6.16.6}{120, 851, 8918}

त्रिऽक॑द्रुकेभिः¦प॒त॒ति॒¦षट्¦उ॒र्वीः¦एक᳚‌म्¦इत्¦बृ॒हत् | त्रि॒ऽस्तुप्¦गा॒य॒त्री¦छन्दां᳚सि¦सर्वा᳚¦ता¦य॒मे¦आऽहि॑ता ||

[15] उदीरतामिति चतुर्दशर्चस्य सूक्तस्य यामायनः शंखः पितरस्त्रिष्टुप् एकादशीजगती |
उदी᳚रता॒मव॑र॒उत्परा᳚स॒उन्म॑ध्य॒माःपि॒तरः॑सो॒म्यासः॑ |{यामायनः शंखः | पितरः | त्रिष्टुप्}

असुं॒ई॒युर॑वृ॒का,ऋ॑त॒ज्ञास्तेनो᳚ऽवन्तुपि॒तरो॒हवे᳚षु || {1/14}{10.15.1}{10.1.15.1}{7.6.17.1}{121, 852, 8919}

उत्¦ई॒र॒ता॒‌म्¦अव॑रे¦उत्¦परा᳚सः¦उत्¦म॒ध्य॒माः¦पि॒तरः॑¦सो॒म्यासः॑ |
असु᳚‌म्¦ये¦ई॒युः¦अ॒वृ॒काः¦ऋ॒त॒ऽज्ञाः¦ते¦नः॒¦अ॒व॒न्तु॒¦पि॒तरः॑¦हवे᳚षु ||

इ॒दंपि॒तृभ्यो॒नमो᳚,अस्त्व॒द्ययेपूर्वा᳚सो॒उप॑रासई॒युः |{यामायनः शंखः | पितरः | त्रिष्टुप्}

येपार्थि॑वे॒रज॒स्यानिष॑त्ता॒येवा᳚नू॒नंसु॑वृ॒जना᳚सुवि॒क्षु || {2/14}{10.15.2}{10.1.15.2}{7.6.17.2}{122, 852, 8920}

इ॒द‌म्¦पि॒तृऽभ्यः॑¦नमः॑¦अ॒स्तु॒¦अ॒द्य¦ये¦पूर्वा᳚सः¦ये¦उप॑रासः¦ई॒युः |
ये¦पार्थि॑वे¦रज॑सि¦आ¦निऽस॑त्ताः¦ये¦वा॒¦नू॒न‌म्¦सु॒ऽवृ॒जना᳚सु¦वि॒क्षु ||

आहंपि॒तॄन्‌त्सु॑वि॒दत्राँ᳚,अवित्सि॒नपा᳚तंवि॒क्रम॑णंच॒विष्णोः᳚ |{यामायनः शंखः | पितरः | त्रिष्टुप्}

ब॒र्हि॒षदो॒येस्व॒धया᳚सु॒तस्य॒भज᳚न्तपि॒त्वस्तइ॒हाग॑मिष्ठाः || {3/14}{10.15.3}{10.1.15.3}{7.6.17.3}{123, 852, 8921}

आ¦अ॒ह‌म्¦पि॒तॄन्¦सु॒ऽवि॒दत्रा᳚न्¦अ॒वि॒त्सि॒¦नपा᳚त‌म्¦च॒¦वि॒ऽक्रम॑ण‌म्¦च॒¦विष्णोः᳚ |
ब॒र्हि॒ऽसदः॑¦ये¦स्व॒धया᳚¦सु॒तस्य॑¦भज᳚न्त¦पि॒त्वः¦ते¦इ॒ह¦आऽग॑मिष्ठाः ||

बर्हि॑षदःपितरऊ॒त्य१॑(अ॒)र्वागि॒मावो᳚ह॒व्याच॑कृमाजु॒षध्व᳚म् |{यामायनः शंखः | पितरः | त्रिष्टुप्}

ग॒ताव॑सा॒शंत॑मे॒नाथा᳚नः॒शंयोर॑र॒पोद॑धात || {4/14}{10.15.4}{10.1.15.4}{7.6.17.4}{124, 852, 8922}

बर्हि॑ऽसदः¦पि॒त॒रः॒¦ऊ॒ती¦अ॒र्वाक्¦इ॒मा¦वः॒¦ह॒व्या¦च॒कृ॒म॒¦जु॒षध्व᳚‌म् |
ते¦आ¦ग॒त॒¦अव॑सा¦श‌म्ऽत॑मेन¦अथ॑¦नः॒¦श‌म्¦योः¦अ॒र॒पः¦द॒धा॒त॒ ||

उप॑हूताःपि॒तरः॑सो॒म्यासो᳚बर्हि॒ष्ये᳚षुनि॒धिषु॑प्रि॒येषु॑ |{यामायनः शंखः | पितरः | त्रिष्टुप्}

ग॑मन्तु॒इ॒हश्रु॑व॒न्त्वधि॑ब्रुवन्तु॒ते᳚ऽवन्त्व॒स्मान् || {5/14}{10.15.5}{10.1.15.5}{7.6.17.5}{125, 852, 8923}

उप॑ऽहूताः¦पि॒तरः॑¦सो॒म्यासः॑¦ब॒र्हि॒ष्ये᳚षु¦नि॒ऽधिषु॑¦प्रि॒येषु॑ |
ते¦आ¦ग॒म॒न्तु॒¦ते¦इ॒ह¦श्रि॒व॒न्तु॒¦अधि॑¦ब्रु॒व॒न्तु॒¦ते¦अ॒व॒न्तु॒¦अ॒स्मान् ||

आच्या॒जानु॑दक्षिण॒तोनि॒षद्ये॒मंय॒ज्ञम॒भिगृ॑णीत॒विश्वे᳚ |{यामायनः शंखः | पितरः | त्रिष्टुप्}

माहिं᳚सिष्टपितरः॒केन॑चिन्नो॒यद्व॒आगः॑पुरु॒षता॒करा᳚म || {6/14}{10.15.6}{10.1.15.6}{7.6.18.1}{126, 852, 8924}

आ॒।आच्य॑¦जानु॑¦द॒क्षि॒ण॒तः¦नि॒ऽसद्य॑¦इ॒म‌म्¦य॒ज्ञ‌म्¦अ॒भि¦गृ॒णी॒त॒¦विश्वे᳚ |
मा¦हिं॒सि॒ष्ट॒¦पि॒त॒रः॒¦केन॑¦चि॒त्¦नः॒¦यत्¦वः॒¦आगः॑¦पु॒रु॒षता᳚¦करा᳚म ||

आसी᳚नासो,अरु॒णीना᳚मु॒पस्थे᳚र॒यिंध॑त्तदा॒शुषे॒मर्त्या᳚य |{यामायनः शंखः | पितरः | त्रिष्टुप्}

पु॒त्रेभ्यः॑पितर॒स्तस्य॒वस्वः॒प्रय॑च्छत॒इ॒होर्जं᳚दधात || {7/14}{10.15.7}{10.1.15.7}{7.6.18.2}{127, 852, 8925}

आसी᳚नासः¦अ॒रु॒णीना᳚‌म्¦उ॒पऽस्थे᳚¦र॒यि‌म्¦ध॒त्त॒¦दा॒शुषे᳚¦मर्त्या᳚य |
पु॒त्रेभ्यः॑¦पि॒त॒रः॒¦तस्य॑¦वस्वः॑¦प्र¦य॒च्छ॒त॒¦ते¦इ॒ह¦ऊर्ज᳚‌म्¦द॒धा॒त॒ ||

येनः॒पूर्वे᳚पि॒तरः॑सो॒म्यासो᳚ऽनूहि॒रेसो᳚मपी॒थंवसि॑ष्ठाः |{यामायनः शंखः | पितरः | त्रिष्टुप्}

तेभि᳚र्य॒मःसं᳚ररा॒णोह॒वींष्यु॒शन्नु॒शद्भिः॑प्रतिका॒मम॑त्तु || {8/14}{10.15.8}{10.1.15.8}{7.6.18.3}{128, 852, 8926}

ये¦नः॒¦पूर्वे᳚¦पि॒तरः॑¦सो॒म्यासः॑¦अ॒नु॒ऽऊ॒हि॒रे¦सो॒म॒ऽपी॒थ‌म्¦वसि॑ष्ठाः |
तेभिः॑¦य॒मः¦स॒‌म्ऽर॒रा॒णः¦ह॒वींषि॑¦उ॒शन्¦ए॒शत्ऽभिः॑¦प्र॒ति॒ऽका॒म‌म्¦अ॒त्तु॒ ||

येता᳚तृ॒षुर्दे᳚व॒त्राजेह॑मानाहोत्रा॒विदः॒स्तोम॑तष्टासो,अ॒र्कैः |{यामायनः शंखः | पितरः | त्रिष्टुप्}

आग्ने᳚याहिसुवि॒दत्रे᳚भिर॒र्वाङ्स॒त्यैःक॒व्यैःपि॒तृभि॑र्घर्म॒सद्भिः॑ || {9/14}{10.15.9}{10.1.15.9}{7.6.18.4}{129, 852, 8927}

ये¦त॒तृ॒षुः¦दे॒व॒त्रा¦जेह॑मानाः¦हो॒त्रा॒ऽविदः॑¦स्तोम॑ऽतष्टासः¦अ॒र्कैः |
आ¦अ॒ग्ने॒¦या॒हि॒¦सु॒ऽवि॒दत्रे᳚भिः¦अ॒र्वाङ्¦स॒त्यैः¦क॒व्यैः¦पि॒तृऽभिः॑¦घ॒र्म॒सत्ऽभिः॑ ||

येस॒त्यासो᳚हवि॒रदो᳚हवि॒ष्पा,इन्द्रे᳚णदे॒वैःस॒रथं॒दधा᳚नाः |{यामायनः शंखः | पितरः | त्रिष्टुप्}

आग्ने᳚याहिस॒हस्रं᳚देवव॒न्दैःपरैः॒पूर्वैः᳚पि॒तृभि॑र्घर्म॒सद्भिः॑ || {10/14}{10.15.10}{10.1.15.10}{7.6.18.5}{130, 852, 8928}

ये¦स॒त्यासः॑¦ह॒विः॒।आदः॑¦ह॒विः॒ऽपाः¦इन्द्रे᳚ण¦दे॒वैः¦स॒ऽरथ᳚‌म्¦दधा᳚नाः |
आ¦अ॒ग्ने॒¦या॒हि॒¦स॒हस्र᳚‌म्¦दे॒व॒ऽव॒न्दैः¦परैः᳚¦पूर्वैः᳚¦पि॒तृऽभिः॑¦घ॒र्म॒सत्ऽभिः॑ ||

अग्नि॑ष्वात्ताःपितर॒एहग॑च्छत॒सदः॑सदःसदतसुप्रणीतयः |{यामायनः शंखः | पितरः | जगती}

अ॒त्ताह॒वींषि॒प्रय॑तानिब॒र्हिष्यथा᳚र॒यिंसर्व॑वीरंदधातन || {11/14}{10.15.11}{10.1.15.11}{7.6.19.1}{131, 852, 8929}

अग्नि॑ऽस्वात्ताः¦पि॒त॒रः॒¦आ¦इ॒ह¦ग॒च्छ॒त॒¦सदः॑ऽसदः¦स॒द॒त॒¦सु॒ऽप्र॒नी॒त॒यः॒ |
अ॒त्त¦ह॒वींषि॑¦प्रऽय॑तानि¦ब॒र्हिषि॑¦अथ॑¦र॒यि‌म्¦सर्व॑ऽवीर‌म्¦द॒धा॒त॒न॒ ||

त्वम॑ग्नईळि॒तोजा᳚तवे॒दोऽवा᳚ड्ढ॒व्यानि॑सुर॒भीणि॑कृ॒त्वी |{यामायनः शंखः | पितरः | त्रिष्टुप्}

प्रादाः᳚पि॒तृभ्यः॑स्व॒धया॒ते,अ॑क्षन्न॒द्धित्वंदे᳚व॒प्रय॑ताह॒वींषि॑ || {12/14}{10.15.12}{10.1.15.12}{7.6.19.2}{132, 852, 8930}

त्व‌म्¦अ॒ग्ने॒¦ई॒ळि॒तः¦जा॒त॒ऽवे॒दः॒¦अवा᳚ट्¦ह॒व्यानि॑¦सु॒र॒भीणि॑¦कृ॒त्वी |
प्र¦अ॒दाः॒¦पि॒तृऽभ्यः॑¦स्व॒धया᳚¦ते¦अ॒क्ष॒न्¦अ॒द्धि¦त्व‌म्¦दे॒व॒¦प्रऽय॑ता¦ह॒वींषि॑ ||

येचे॒हपि॒तरो॒येच॒नेहयाँश्च॑वि॒द्मयाँ,उ॑च॒प्र॑वि॒द्म |{यामायनः शंखः | पितरः | त्रिष्टुप्}

त्वंवे᳚त्थ॒यति॒तेजा᳚तवेदःस्व॒धाभि᳚र्य॒ज्ञंसुकृ॑तंजुषस्व || {13/14}{10.15.13}{10.1.15.13}{7.6.19.3}{133, 852, 8931}

ये¦च॒¦इ॒ह¦पि॒तरः॑¦ये¦च॒¦न¦इ॒ह¦यान्¦च॒¦वि॒द्म¦यान्¦ऊँ॒ इति॑¦च॒¦न¦प्र॒ऽवि॒द्म |
त्व‌म्¦वे॒त्थ॒¦यति॑¦ते¦जा॒त॒ऽवे॒दः॒¦स्व॒धाभिः॑¦य॒ज्ञ‌म्¦सुऽकृ॑त‌म्¦जु॒ष॒स्व॒ ||

ये,अ॑ग्निद॒ग्धाये,अन॑ग्निदग्धा॒मध्ये᳚दि॒वःस्व॒धया᳚मा॒दय᳚न्ते |{यामायनः शंखः | पितरः | त्रिष्टुप्}

तेभिः॑स्व॒राळसु॑नीतिमे॒तांय॑थाव॒शंत॒न्वं᳚कल्पयस्व || {14/14}{10.15.14}{10.1.15.14}{7.6.19.4}{134, 852, 8932}

ये¦अ॒ग्नि॒ऽद॒ग्धाः¦ये¦अन॑ग्निऽदग्धाः¦मध्ये᳚¦दि॒वः¦स्व॒धया᳚¦मा॒दय᳚न्ते |
तेभिः॑¦स्व॒ऽराट्¦असु॑ऽनीति‌म्¦ए॒ता‌म्¦य॒था॒ऽव॒श‌म्¦त॒न्व᳚‌म्¦क॒ल्प॒य॒स्व॒ ||

[16] मैनमिति चतुर्दशर्चस्य सूक्तस्य यामायनोदमनोग्निस्त्रिष्टुबंत्याञ्चतस्रोनुष्टुभः |
मैन॑मग्ने॒विद॑हो॒माभिशो᳚चो॒मास्य॒त्वचं᳚चिक्षिपो॒माशरी᳚रम् |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

य॒दाशृ॒तंकृ॒णवो᳚जातवे॒दोऽथे᳚मेनं॒प्रहि॑णुतात्पि॒तृभ्यः॑ || {1/14}{10.16.1}{10.1.16.1}{7.6.20.1}{135, 853, 8933}

मा¦ए॒न॒‌म्¦अ॒ग्ने॒¦वि¦द॒हः॒¦मा¦अ॒भि¦शो॒चः॒¦मा¦अ॒स्य॒¦त्वच᳚‌म्¦चि॒क्षि॒पः॒¦मा¦शरी᳚र‌म् |
य॒दा¦शृ॒त‌म्¦कृ॒णवः॑¦जा॒त॒ऽवे॒दः॒¦अथ॑¦ई॒‌म्¦ए॒न॒‌म्¦प्र¦हि॒णु॒ता॒त्¦पि॒तृऽभ्यः॑ ||

शृ॒तंय॒दाकर॑सिजातवे॒दोऽथे᳚मेनं॒परि॑दत्तात्पि॒तृभ्यः॑ |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

य॒दागच्छा॒त्यसु॑नीतिमे॒तामथा᳚दे॒वानां᳚वश॒नीर्भ॑वाति || {2/14}{10.16.2}{10.1.16.2}{7.6.20.2}{136, 853, 8934}

शृ॒त‌म्¦य॒दा¦कर॑सि¦जा॒त॒ऽवे॒दः॒¦अथ॑¦ई॒‌म्¦ए॒न॒‌म्¦परि॑¦द॒त्ता॒त्¦पि॒तृऽभ्यः॑ |
य॒दा¦गच्छा᳚ति¦असु॑ऽनीति‌म्¦ए॒ता‌म्¦अथ॑¦दे॒वाना᳚‌म्¦व॒श॒ऽनीः¦भ॒वा॒ति॒ ||

सूर्यं॒चक्षु॑र्गच्छतु॒वात॑मा॒त्माद्यांच॑गच्छपृथि॒वींच॒धर्म॑णा |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

अ॒पोवा᳚गच्छ॒यदि॒तत्र॑तेहि॒तमोष॑धीषु॒प्रति॑तिष्ठा॒शरी᳚रैः || {3/14}{10.16.3}{10.1.16.3}{7.6.20.3}{137, 853, 8935}

सूर्य᳚‌म्¦चक्षुः॑¦ग॒च्छ॒तु॒¦वात᳚‌म्¦आ॒त्मा¦द्या‌म्¦च॒¦ग॒च्छ॒¦पृ॒थि॒वी‌म्¦च॒¦धर्म॑णा |
अ॒पः¦वा॒¦ग॒च्छ॒¦यदि॑¦तत्र॑¦ते॒¦हि॒त‌म्¦ओष॑धीषु¦प्रति॑¦ति॒ष्ठ॒¦शरी᳚रैः ||

अ॒जोभा॒गस्तप॑सा॒तंत॑पस्व॒तंते᳚शो॒चिस्त॑पतु॒तंते᳚,अ॒र्चिः |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

यास्ते᳚शि॒वास्त॒न्वो᳚जातवेद॒स्ताभि᳚र्वहैनंसु॒कृता᳚मुलो॒कम् || {4/14}{10.16.4}{10.1.16.4}{7.6.20.4}{138, 853, 8936}

अ॒जः¦भा॒गः¦तप॑सा॒¦त‌म्¦त॒प॒स्व॒¦त‌म्¦ते॒¦शो॒चिः¦त॒प॒तु॒¦त‌म्¦ते॒¦अ॒र्चिः |
याः¦ते॒¦शि॒वाः¦त॒न्वः॑¦जा॒त॒ऽवे॒दः॒¦ताभिः॑¦व॒ह॒¦ए॒न॒‌म्¦सु॒ऽकृता᳚‌म्¦ऊँ॒ इति॑¦लो॒क‌म् ||

अव॑सृज॒पुन॑रग्नेपि॒तृभ्यो॒यस्त॒आहु॑त॒श्चर॑तिस्व॒धाभिः॑ |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

आयु॒र्वसा᳚न॒उप॑वेतु॒शेषः॒संग॑च्छतांत॒न्वा᳚जातवेदः || {5/14}{10.16.5}{10.1.16.5}{7.6.20.5}{139, 853, 8937}

अव॑¦सृ॒ज॒¦पुनः॑¦अ॒ग्ने॒¦पि॒तृऽभ्यः॑¦यः¦ते॒¦आऽहु॑तः¦चर॑ति¦स्व॒धाभिः॑ |
आयुः॑¦वसा᳚नः¦उप॑¦वे॒तु॒¦शेषः॑¦स‌म्¦ग॒च्छ॒ता॒‌म्¦त॒न्वा᳚¦जा॒त॒ऽवे॒दः॒ ||

यत्ते᳚कृ॒ष्णःश॑कु॒नआ᳚तु॒तोद॑पिपी॒लःस॒र्पउ॒तवा॒श्वाप॑दः |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

अ॒ग्निष्टद्वि॒श्वाद॑ग॒दंकृ॑णोतु॒सोम॑श्च॒योब्रा᳚ह्म॒णाँ,आ᳚वि॒वेश॑ || {6/14}{10.16.6}{10.1.16.6}{7.6.21.1}{140, 853, 8938}

यत्¦ते॒¦कृ॒ष्णः¦श॒कु॒नः¦आ॒ऽतु॒तोद॑¦पि॒पी॒लः¦स॒र्पः¦उ॒त¦वा॒¦श्वाप॑दः |
अ॒ग्निः¦तत्¦वि॒श्व॒।आत्¦अ॒ग॒द‌म्¦कृ॒णो॒तु॒¦सोमः॑¦च॒¦यः¦ब्रा॒ह्म॒णान्¦आ॒ऽवि॒वेश॑ ||

अ॒ग्नेर्वर्म॒परि॒गोभि᳚र्व्ययस्व॒संप्रोर्णु॑ष्व॒पीव॑सा॒मेद॑सा |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

नेत्‌त्वा᳚धृ॒ष्णुर्हर॑सा॒जर्हृ॑षाणोद॒धृग्वि॑ध॒क्ष्यन्‌प᳚र्य॒ङ्खया᳚ते || {7/14}{10.16.7}{10.1.16.7}{7.6.21.2}{141, 853, 8939}

अ॒ग्नेः¦वर्म॑¦परि॑¦गोभिः॑¦व्य॒य॒स्व॒¦स‌म्¦प्र¦ऊ॒णु॒ष्व॒¦पीव॑सा¦मेद॑सा¦च॒ |
न¦इत्¦त्वा॒¦धृ॒ष्णुः¦हर॑सा¦जर्हृ॑षाणः¦द॒धृक्¦वि॒ऽध॒क्ष्यन्¦प॒रि॒।आ॒ङ्खया᳚ते ||

इ॒मम॑ग्नेचम॒संमाविजि॑ह्वरःप्रि॒योदे॒वाना᳚मु॒तसो॒म्याना᳚म् |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

ए॒षयश्च॑म॒सोदे᳚व॒पान॒स्तस्मि᳚न्दे॒वा,अ॒मृता᳚मादयन्ते || {8/14}{10.16.8}{10.1.16.8}{7.6.21.3}{142, 853, 8940}

इ॒म‌म्¦अ॒ग्ने॒¦च॒म॒स‌म्¦मा¦वि¦जि॒ह्व॒रः॒¦प्रि॒यः¦दे॒वाना᳚‌म्¦उ॒त¦सो॒म्याना᳚‌म् |
ए॒षः¦यः¦च॒म॒सः¦दे॒व॒ऽपानः॑¦तस्मि॑न्¦दे॒वाः¦अ॒मृताः᳚¦मा॒द॒य॒न्ते॒ ||

क्र॒व्याद॑म॒ग्निंप्रहि॑णोमिदू॒रंय॒मरा᳚ज्ञोगच्छतुरिप्रवा॒हः |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

इ॒हैवायमित॑रोजा॒तवे᳚दादे॒वेभ्यो᳚ह॒व्यंव॑हतुप्रजा॒नन् || {9/14}{10.16.9}{10.1.16.9}{7.6.21.4}{143, 853, 8941}

क्र॒व्य॒।आद᳚‌म्¦अ॒ग्नि‌म्¦प्र¦हि॒णो॒मि॒¦दू॒र‌म्¦य॒मऽरा᳚ज्ञः¦ग॒च्छ॒तु॒¦रि॒प्र॒ऽवा॒हः |
इ॒ह¦ए॒व¦अ॒य‌म्¦इत॑रः¦जा॒तऽवे᳚दाः¦दे॒वेभ्यः॑¦ह॒व्य‌म्¦व॒ह॒तु॒¦प्र॒ऽजा॒नन् ||

यो,अ॒ग्निःक्र॒व्यात्प्र॑वि॒वेश॑वोगृ॒हमि॒मंपश्य॒न्नित॑रंजा॒तवे᳚दसम् |{यामायनो दमनः | अग्निः | त्रिष्टुप्}

तंह॑रामिपितृय॒ज्ञाय॑दे॒वंघ॒र्ममि᳚न्वात्पर॒मेस॒धस्थे᳚ || {10/14}{10.16.10}{10.1.16.10}{7.6.21.5}{144, 853, 8942}

यः¦अ॒ग्निः¦क्र॒व्य॒।आत्¦प्र॒ऽवि॒वेश॑¦वः॒¦गृ॒ह‌म्¦इ॒म‌म्¦पश्य॑न्¦इत॑र‌म्¦जा॒तऽवे᳚दस‌म् |
त‌म्¦ह॒रा॒मि॒¦पि॒तृ॒ऽय॒ज्ञाय॑¦दे॒व‌म्¦सः¦घ॒र्म‌म्¦इ॒न्वा॒त्¦प॒र॒मे¦स॒धऽस्थे᳚ ||

यो,अ॒ग्निःक्र᳚व्य॒वाह॑नःपि॒तॄन्यक्ष॑दृता॒वृधः॑ |{यामायनो दमनः | अग्निः | अनुष्टुप्}

प्रेदु॑ह॒व्यानि॑वोचतिदे॒वेभ्य॑श्चपि॒तृभ्य॒ || {11/14}{10.16.11}{10.1.16.11}{7.6.22.1}{145, 853, 8943}

यः¦अ॒ग्निः¦क्र॒व्य॒ऽवाह॑नः¦पि॒तॄन्¦यक्ष॑त्¦ऋ॒त॒ऽवृधः॑ | प्र¦इत्¦ऊँ॒ इति॑¦ह॒व्यानि॑¦वो॒च॒ति॒¦दे॒वेभ्यः॑¦च॒¦पि॒तृऽभ्यः॑¦आ ||

उ॒शन्त॑स्त्वा॒निधी᳚मह्यु॒शन्तः॒समि॑धीमहि |{यामायनो दमनः | अग्निः | अनुष्टुप्}

उ॒शन्नु॑श॒तव॑हपि॒तॄन्ह॒विषे॒,अत्त॑वे || {12/14}{10.16.12}{10.1.16.12}{7.6.22.2}{146, 853, 8944}

उ॒शन्तः॑¦त्वा॒¦नि¦धी॒म॒हि॒¦उ॒शन्तः॑¦स‌म्¦इ॒धी॒म॒हि॒ | उ॒शन्¦उ॒श॒तः¦आ¦व॒ह॒¦पि॒तॄन्¦ह॒विषे᳚¦अत्त॑वे ||

यंत्वम॑ग्नेस॒मद॑ह॒स्तमु॒निर्वा᳚पया॒पुनः॑ |{यामायनो दमनः | अग्निः | अनुष्टुप्}

कि॒याम्ब्वत्र॑रोहतुपाकदू॒र्वाव्य॑ल्कशा || {13/14}{10.16.13}{10.1.16.13}{7.6.22.3}{147, 853, 8945}

य‌म्¦त्व‌म्¦अ॒ग्ने॒¦स॒‌म्।आद॑हः¦त‌म्¦ऊँ॒ इति॑¦निः¦वा॒प॒य॒¦पुन॒रिति॑ | कि॒याम्बु॑¦अत्र॑¦रो॒ह॒तु॒¦पा॒क॒ऽदू॒र्वा¦वि।आ॑ल्कशा ||

शीति॑के॒शीति॑कावति॒ह्लादि॑के॒ह्लादि॑कावति |{यामायनो दमनः | अग्निः | अनुष्टुप्}

म॒ण्डू॒क्या॒३॑(आ॒)सुसंग॑मइ॒मंस्व१॑(अ॒)ग्निंह॑र्षय || {14/14}{10.16.14}{10.1.16.14}{7.6.22.4}{148, 853, 8946}

शीति॑के¦शीति॑काऽवति¦ह्लादि॑के¦ह्लादि॑काऽवति | म॒ण्डू॒क्या᳚¦सु¦स‌म्¦ग॒मः॒¦इ॒म‌म्¦सु¦अ॒ग्नि‌म्¦ह॒र्ष॒य॒ ||

[17] त्वष्टादुहित्र इति चतुर्दशर्चस्य सूक्तस्य यामायनोवेदश्रवाऋषिः आद्ययोर्द्वयोः सरण्यूदेवता ततश्चतसृणांपूषा ततस्तिसृणांसरस्वती ततःपंचानामापस्त्रिष्टुप् अंत्येद्वेअनुष्टुभौ (द्रप्सश्चस्कन्देति तिसृणां सोमोदेवतावाउपांत्यापुरस्ताद्बृहतीवेतिच) |
त्वष्टा᳚दुहि॒त्रेव॑ह॒तुंकृ॑णो॒तीती॒दंविश्वं॒भुव॑नं॒समे᳚ति |{यामायनो वेदश्रवाः | सरण्यूः | त्रिष्टुप्}

य॒मस्य॑मा॒ताप᳚र्यु॒ह्यमा᳚नाम॒होजा॒याविव॑स्वतोननाश || {1/14}{10.17.1}{10.2.1.1}{7.6.23.1}{149, 854, 8947}

त्वष्टा᳚¦दु॒हि॒त्रे¦व॒ह॒तु‌म्¦कृ॒णो॒ति॒¦इति॑¦इ॒द‌म्¦विश्व᳚‌म्¦भुव॑न‌म्¦स‌म्¦ए॒ति॒ |
य॒मस्य॑¦मा॒ता¦प॒रि॒।औ॒ह्यमा᳚ना¦म॒हः¦जा॒या¦विव॑वस्वतः¦न॒ना॒श॒ ||

अपा᳚गूहन्न॒मृतां॒मर्त्ये᳚भ्यःकृ॒त्वीसव᳚र्णामददु॒र्विव॑स्वते |{यामायनो वेदश्रवाः | सरण्यूः | त्रिष्टुप्}

उ॒ताश्विना᳚वभर॒द्यत्तदासी॒दज॑हादु॒द्वामि॑थु॒नास॑र॒ण्यूः || {2/14}{10.17.2}{10.2.1.2}{7.6.23.2}{150, 854, 8948}

अप॑¦अ॒गू॒ह॒न्¦अ॒मृता᳚‌म्¦मर्त्ये᳚भ्यः¦कृ॒त्वी¦सऽव᳚र्णा‌म्¦अ॒द॒दुः॒¦विव॑स्वते |
उ॒त¦अ॒श्विनौ᳚¦अ॒भ॒र॒त्¦यत्¦तत्¦आसी᳚त्¦अज॑हात्¦ऊँ॒ इति॑¦द्वा¦मि॒थु॒ना¦स॒र॒ण्यूः ||

पू॒षात्वे॒तश्च्या᳚वयतु॒प्रवि॒द्वानन॑ष्टपशु॒र्भुव॑नस्यगो॒पाः |{यामायनो वेदश्रवाः | पूषा | त्रिष्टुप्}

त्वै॒तेभ्यः॒परि॑ददत्पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्यः॑सुविद॒त्रिये᳚भ्यः || {3/14}{10.17.3}{10.2.1.3}{7.6.23.3}{151, 854, 8949}

पू॒षा¦त्वा॒¦इ॒तः¦च्य॒व॒य॒तु॒¦प्र¦वि॒द्वान्¦अन॑ष्टऽपशुः¦भुव॑नस्य¦गो॒पाः |
सः¦त्वा॒¦ए॒तेभ्यः॑¦परि॑¦द॒द॒त्¦पि॒तृऽभ्यः॑¦अ॒ग्निः¦दे॒वेभ्यः॑¦सु॒ऽवि॒द॒त्रिये᳚भ्यः ||

आयु᳚र्वि॒श्वायुः॒परि॑पासतित्वापू॒षात्वा᳚पातु॒प्रप॑थेपु॒रस्ता᳚त् |{यामायनो वेदश्रवाः | पूषा | त्रिष्टुप्}

यत्रास॑तेसु॒कृतो॒यत्र॒तेय॒युस्तत्र॑त्वादे॒वःस॑वि॒ताद॑धातु || {4/14}{10.17.4}{10.2.1.4}{7.6.23.4}{152, 854, 8950}

आयुः॑¦वि॒श्वऽआ᳚युः¦परि॑¦पा॒स॒ति॒¦त्वा॒¦पू॒षा¦त्वा॒¦पा॒तु॒¦प्रऽप॑थे¦पु॒रस्ता᳚त् |
यत्र॑¦आस॑ते¦सु॒ऽकृतः॑¦यत्र॑¦ते¦य॒युः¦तत्र॑¦त्वा॒¦दे॒वः¦स॒वि॒ता¦द॒धा॒तु॒ ||

पू॒षेमा,आशा॒,अनु॑वेद॒सर्वाः॒सो,अ॒स्माँ,अभ॑यतमेननेषत् |{यामायनो वेदश्रवाः | पूषा | त्रिष्टुप्}

स्व॒स्ति॒दा,आघृ॑णिः॒सर्व॑वी॒रोऽप्र॑युच्छन्‌पु॒रए᳚तुप्रजा॒नन् || {5/14}{10.17.5}{10.2.1.5}{7.6.23.5}{153, 854, 8951}

पू॒षा¦इ॒माः¦आशाः᳚¦अनु॑¦वे॒द॒¦सर्वाः᳚¦सः¦अ॒स्मान्¦अभ॑यऽतमेन¦ने॒ष॒त् |
स्व॒स्ति॒ऽदाः¦आघृ॑णिः¦सर्व॑ऽवीरः¦अप्र॑ऽयुच्छन्¦पु॒रः¦ए॒तु॒¦प्र॒ऽजा॒नन् ||

प्रप॑थेप॒थाम॑जनिष्टपू॒षाप्रप॑थेदि॒वःप्रप॑थेपृथि॒व्याः |{यामायनो वेदश्रवाः | पूषा | त्रिष्टुप्}

उ॒भे,अ॒भिप्रि॒यत॑मेस॒धस्थे॒,च॒परा᳚चरतिप्रजा॒नन् || {6/14}{10.17.6}{10.2.1.6}{7.6.24.1}{154, 854, 8952}

प्रऽप॑थे¦प॒था‌म्¦अ॒ज॒नि॒ष्ट॒¦पू॒षा¦प्रऽप॑थे¦दि॒वः¦प्रऽप॑थे¦पृ॒थि॒व्याः |
उ॒भे इति॑¦अ॒भि¦प्रि॒यत॑मे॒ इति॑ प्रि॒यऽत॑मे¦स॒धस्थे॒ इति॑ स॒धऽस्थे᳚¦आ¦च॒¦परा᳚¦च॒¦च॒र॒ति॒¦प्र॒ऽजा॒नन् ||

सर॑स्वतींदेव॒यन्तो᳚हवन्ते॒¦सर॑स्वतीमध्व॒रेता॒यमा᳚ने |{यामायनो वेदश्रवाः | सरस्वती | त्रिष्टुप्}

सर॑स्वतींसु॒कृतो᳚,अह्वयन्त॒¦सर॑स्वतीदा॒शुषे॒वार्यं᳚दात् || {7/14}{10.17.7}{10.2.1.7}{7.6.24.2}{155, 854, 8953}

सर॑स्वती‌म्¦दे॒व॒ऽयन्तः॑¦ह॒व॒न्ते॒¦सर॑स्वती‌म्¦अ॒ध्व॒रे¦ता॒यमा᳚ने |
सर॑स्वती‌म्¦सु॒ऽकृतः॑¦अ॒ह्व॒य॒न्त॒¦सर॑स्वती¦दा॒शुषे᳚¦वार्य᳚‌म्¦दा॒त् ||

सर॑स्वति॒यास॒रथं᳚य॒याथ॑¦स्व॒धाभि॑र्देविपि॒तृभि॒र्मद᳚न्ती |{यामायनो वेदश्रवाः | सरस्वती | त्रिष्टुप्}

आ॒सद्या॒स्मिन्‌ब॒र्हिषि॑मादयस्वा¦नमी॒वा,इष॒धे᳚ह्य॒स्मे || {8/14}{10.17.8}{10.2.1.8}{7.6.24.3}{156, 854, 8954}

सर॑स्वति¦या¦स॒ऽरथ᳚‌म्¦य॒याथ॑¦स्व॒धाभिः॑¦दे॒वि॒¦पि॒तृऽभिः॑¦मद᳚न्ती |
आ॒ऽसद्य॑¦अ॒स्मिन्¦ब॒र्हिषि॑¦मा॒द॒य॒स्व॒¦अ॒न॒मी॒वाः¦इषः॑¦आ¦धे॒हि॒¦अ॒स्मे इति॑ ||

सर॑स्वतीं॒यांपि॒तरो॒हव᳚न्ते¦दक्षि॒णाय॒ज्ञम॑भि॒नक्ष॑माणाः |{यामायनो वेदश्रवाः | सरस्वती | त्रिष्टुप्}

स॒ह॒स्रा॒र्घमि॒ळो,अत्र॑भा॒गं¦रा॒यस्पोषं॒यज॑मानेषुधेहि || {9/14}{10.17.9}{10.2.1.9}{7.6.24.4}{157, 854, 8955}

सर॑स्वती‌म्¦या‌म्¦पि॒तरः॑¦हव᳚न्ते¦द॒क्षि॒णा¦य॒ज्ञ‌म्¦अ॒भि॒ऽनक्ष॑माणाः |
स॒ह॒स्र॒।आ॒र्घ‌म्¦इ॒ळः¦अत्र॑¦भा॒ग‌म्¦रा॒यः¦पोष᳚‌म्¦यज॑मानेषु¦धे॒हि॒ ||

आपो᳚,अ॒स्मान्मा॒तरः॑शुन्धयन्तुघृ॒तेन॑नोघृत॒प्वः॑पुनन्तु |{यामायनो वेदश्रवाः | आपः | त्रिष्टुप्}

विश्वं॒हिरि॒प्रंप्र॒वह᳚न्तिदे॒वीरुदिदा᳚भ्यः॒शुचि॒रापू॒तए᳚मि || {10/14}{10.17.10}{10.2.1.10}{7.6.24.5}{158, 854, 8956}

आपः॑¦अ॒स्मान्¦मा॒तरः॑¦शु॒न्ध॒य॒न्तु॒¦घृ॒तेन॑¦नः॒¦घृ॒त॒ऽप्वः॑¦पु॒न॒न्तु॒ |
विश्व᳚‌म्¦हि¦रि॒प्र‌म्¦प्र॒ऽवह᳚न्ति¦दे॒वीः¦उत्¦इत्¦आ॒भ्यः॒¦शुचिः॑¦आ¦पू॒तः¦ए॒मि॒ ||

द्र॒प्सश्च॑स्कन्दप्रथ॒माँ,अनु॒द्यूनि॒मंच॒योनि॒मनु॒यश्च॒पूर्वः॑ |{यामायनो वेदश्रवाः | आपः सोमो वा | त्रिष्टुप्}

स॒मा॒नंयोनि॒मनु॑सं॒चर᳚न्तंद्र॒प्संजु॑हो॒म्यनु॑स॒प्तहोत्राः᳚ || {11/14}{10.17.11}{10.2.1.11}{7.6.25.1}{159, 854, 8957}

द्र॒प्सः¦च॒स्क॒न्द॒¦प्र॒थ॒मा‌म्¦अनु॑¦द्यून्¦इ॒म‌म्¦च॒¦योनि᳚‌म्¦अनु॑¦यः¦च॒¦पूर्वः॑ |
स॒मा॒न‌म्¦योनि᳚‌म्¦अनु॑¦स॒‌म्ऽचर᳚न्त‌म्¦द्र॒प्स‌म्¦जु॒हो॒मि॒¦अनु॑¦स॒प्त¦होत्राः᳚ ||

यस्ते᳚द्र॒प्सःस्कन्द॑ति॒यस्ते᳚,अं॒शुर्बा॒हुच्यु॑तोधि॒षणा᳚या,उ॒पस्था᳚त् |{यामायनो वेदश्रवाः | आपः सोमो वा | त्रिष्टुप्}

अ॒ध्व॒र्योर्वा॒परि॑वा॒यःप॒वित्रा॒त्तंते᳚जुहोमि॒मन॑सा॒वष॑ट्कृतम् || {12/14}{10.17.12}{10.2.1.12}{7.6.25.2}{160, 854, 8958}

यः¦ते॒¦द्र॒प्सः¦स्कन्द॑ति¦यः¦ते॒¦अं॒शुः¦बा॒हुऽच्यु॑तः¦धि॒षणा᳚याः¦उ॒पऽस्था᳚त् |
अ॒ध्व॒र्योः¦वा॒¦परि॑¦वा॒¦यः¦प॒वित्रा᳚त्¦त‌म्¦ते॒¦जु॒हो॒मि॒¦मन॑सा¦वष॑ट्ऽकृत‌म् ||

यस्ते᳚द्र॒प्सःस्क॒न्नोयस्ते᳚,अं॒शुर॒वश्च॒यःप॒रःस्रु॒चा |{यामायनो वेदश्रवाः | आपः सोमो वा | पुरस्ताद्‌बृहती}

अ॒यंदे॒वोबृह॒स्पतिः॒संतंसि᳚ञ्चतु॒राध॑से || {13/14}{10.17.13}{10.2.1.13}{7.6.25.3}{161, 854, 8959}

यः¦ते॒¦द्र॒प्सः¦स्क॒न्नः¦यः¦ते॒¦अं॒शुः¦अ॒वः¦च॒¦यः¦प॒रः¦स्रु॒चा |
अ॒य‌म्¦दे॒वः¦बृह॒स्पतिः॑¦स‌म्¦त‌म्¦सिं॒च॒तु॒¦राध॑से ||

पय॑स्वती॒रोष॑धयः॒पय॑स्वन्माम॒कंवचः॑ |{यामायनो वेदश्रवाः | आपः | अनुष्टुप्}

अ॒पांपय॑स्व॒दित्पय॒स्तेन॑मास॒हशु᳚न्धत || {14/14}{10.17.14}{10.2.1.14}{7.6.25.4}{162, 854, 8960}

पय॑स्वतीः¦ओष॑धयः¦पय॑स्वत्¦मा॒म॒क‌म्¦वचः॑ | अ॒पा‌म्¦पय॑स्वत्¦इत्¦पयः॑¦तेन॑¦मा॒¦स॒ह¦शु॒न्ध॒त॒ ||

[18] परंमृत्योइति चतुर्दशर्चस्य सूक्तस्य यामायनः संकुसुकः आद्यानांचतसृणांमृत्युः पंचम्याधाता षष्ठ्यास्त्वष्टा शिष्टानां पितृमेधास्त्रिष्टुप् एकादशीप्रस्तारपंक्तिः त्रयोदशीजगत्यंत्येनुष्टुभौ (अंत्यायाः प्रजापतिर्वादेवता) |
परं᳚मृत्यो॒,अनु॒परे᳚हि॒पन्थां॒¦यस्ते॒स्वइत॑रोदेव॒याना᳚त् |{यामायनः संकुसुकः | मृत्युः | त्रिष्टुप्}

चक्षु॑ष्मतेशृण्व॒तेते᳚ब्रवीमि॒¦मानः॑प्र॒जांरी᳚रिषो॒मोतवी॒रान् || {1/14}{10.18.1}{10.2.2.1}{7.6.26.1}{163, 855, 8961}

पर᳚‌म्¦मृ॒त्यो॒ इति॑¦अनु॑¦परा᳚¦इ॒हि॒¦पन्था᳚‌म्¦यः¦ते॒¦स्वः¦इत॑रः¦दे॒व॒ऽयाना᳚त् |
चक्षु॑ष्मते¦शृ॒ण्व॒ते¦ते॒¦ब्र॒वी॒मि॒¦मा¦नः॒¦प्र॒ऽजा‌म्¦रि॒रि॒षः॒¦मा¦उ॒त¦वी॒रान् ||

मृ॒त्योःप॒दंयो॒पय᳚न्तो॒यदैत॒द्राघी᳚य॒आयुः॑प्रत॒रंदधा᳚नाः |{यामायनः संकुसुकः | मृत्युः | त्रिष्टुप्}

आ॒प्याय॑मानाःप्र॒जया॒धने᳚नशु॒द्धाःपू॒ताभ॑वतयज्ञियासः || {2/14}{10.18.2}{10.2.2.2}{7.6.26.2}{164, 855, 8962}

मृ॒त्योः¦प॒द‌म्¦यो॒पय᳚न्तः¦यत्¦ऐत॑¦द्राघी᳚यः¦आयुः॑¦प्र॒ऽत॒र‌म्¦दधा᳚नाः |
आ॒प्याय॑मानाः¦प्र॒ऽजया᳚¦धने᳚न¦शु॒द्धाः¦पू॒ताः¦भ॒व॒त॒¦य॒ज्ञि॒या॒सः॒ ||

इ॒मेजी॒वाविमृ॒तैराव॑वृत्र॒न्नभू᳚द्भ॒द्रादे॒वहू᳚तिर्नो,अ॒द्य |{यामायनः संकुसुकः | मृत्युः | त्रिष्टुप्}

प्राञ्चो᳚,अगामनृ॒तये॒हसा᳚य॒द्राघी᳚य॒आयुः॑प्रत॒रंदधा᳚नाः || {3/14}{10.18.3}{10.2.2.3}{7.6.26.3}{165, 855, 8963}

इ॒मे¦जी॒वाः¦वि¦मृ॒तैः¦आ¦अ॒व॒वृ॒त्र॒न्¦अभू᳚त्¦भ॒द्रा¦दे॒वऽहू᳚तिः¦नः॒¦अ॒द्य |
प्रांचः॑¦अ॒गा॒म॒¦नृ॒तये᳚¦हसा᳚य¦द्राघी᳚यः¦आयुः॑¦प्र॒ऽत॒र‌म्¦दधा᳚नाः ||

इ॒मंजी॒वेभ्यः॑परि॒धिंद॑धामि॒मैषां॒नुगा॒दप॑रो॒,अर्थ॑मे॒तम् |{यामायनः संकुसुकः | मृत्युः | त्रिष्टुप्}

श॒तंजी᳚वन्तुश॒रदः॑पुरू॒चीर॒न्तर्मृ॒त्युंद॑धतां॒पर्व॑तेन || {4/14}{10.18.4}{10.2.2.4}{7.6.26.4}{166, 855, 8964}

इ॒म‌म्¦जी॒वेभ्यः॑¦प॒रि॒ऽधि‌म्¦दा॒धा॒मि॒¦मा¦ए॒षा॒‌म्¦नु¦गा॒त्¦अप॑रः¦अर्थ᳚‌म्¦ए॒त‌म् |
श॒त‌म्¦जी॒व॒न्तु॒¦श॒रदः॑¦पु॒रू॒चीः¦अ॒न्तः¦मृ॒त्यु‌म्¦द॒ध॒ता॒‌म्¦पर्व॑तेन ||

यथाहा᳚न्यनुपू॒र्वंभव᳚न्ति॒यथ॑ऋ॒तव॑ऋ॒तुभि॒र्यन्ति॑सा॒धु |{यामायनः संकुसुकः | धाता | त्रिष्टुप्}

यथा॒पूर्व॒मप॑रो॒जहा᳚त्ये॒वाधा᳚त॒रायूं᳚षिकल्पयैषाम् || {5/14}{10.18.5}{10.2.2.5}{7.6.26.5}{167, 855, 8965}

यथा᳚¦अहा᳚नि¦अ॒नु॒ऽपू॒र्व‌म्¦भव᳚न्ति¦यथा᳚¦ऋ॒तवः॑¦ऋ॒तुऽभिः॑¦य॒न्ति¦सा॒धु |
यथा᳚¦न¦पूर्व᳚‌म्¦अप॑रः¦जहा᳚ति¦ए॒व¦धा॒तः॒¦आयूं᳚षि¦क॒ल्प॒य॒¦ए॒षा‌म् ||

रो᳚ह॒तायु॑र्ज॒रसं᳚वृणा॒ना,अ॑नुपू॒र्वंयत॑माना॒यति॒ष्ठ |{यामायनः संकुसुकः | त्वष्टा | त्रिष्टुप्}

इ॒हत्वष्टा᳚सु॒जनि॑मास॒जोषा᳚दी॒र्घमायुः॑करतिजी॒वसे᳚वः || {6/14}{10.18.6}{10.2.2.6}{7.6.27.1}{168, 855, 8966}

आ¦र॒ह॒त॒¦आयुः॑¦ज॒रस᳚‌म्¦वृ॒णा॒नाः¦अ॒नु॒ऽपू॒र्व‌म्¦यत॑मानाः¦यति॑¦स्थ |
इ॒ह¦त्वष्टा᳚¦सु॒ऽजनि॑मा¦स॒ऽजोषाः᳚¦दी॒र्घ‌म्¦आयुः॑¦क॒र॒ति॒¦जी॒वसे᳚¦वः॒ ||

इ॒मानारी᳚रविध॒वाःसु॒पत्नी॒राञ्ज॑नेनस॒र्पिषा॒संवि॑शन्तु |{यामायनः संकुसुकः | पितृमेधः | त्रिष्टुप्}

अ॒न॒श्रवो᳚ऽनमी॒वाःसु॒रत्ना॒,रो᳚हन्तु॒जन॑यो॒योनि॒मग्रे᳚ || {7/14}{10.18.7}{10.2.2.7}{7.6.27.2}{169, 855, 8967}

इ॒माः¦नारीः᳚¦अ॒वि॒ध॒वाः¦सु॒ऽपत्नीः᳚¦आ॒।आंज॑नेन¦स॒र्पिषा᳚¦स‌म्¦वि॒श॒न्तु॒ |
अ॒न॒श्रवः॑¦अ॒न॒मी॒वाः¦सु॒ऽरत्नाः᳚¦आ¦रो॒ह॒न्तु॒¦जन॑यः¦योनि᳚‌म्¦अग्रे᳚ ||

उदी᳚र्ष्वनार्य॒भिजी᳚वलो॒कंग॒तासु॑मे॒तमुप॑शेष॒एहि॑ |{यामायनः संकुसुकः | पितृमेधः | त्रिष्टुप्}

ह॒स्त॒ग्रा॒भस्य॑दिधि॒षोस्तवे॒दंपत्यु॑र्जनि॒त्वम॒भिसंब॑भूथ || {8/14}{10.18.8}{10.2.2.8}{7.6.27.3}{170, 855, 8968}

उत्¦ई॒र्ष्व॒¦ना॒रि॒¦अ॒भि¦जी॒व॒ऽलो॒क‌म्¦ग॒त।आ॑सु‌म्¦ए॒त‌म्¦उप॑¦शे॒षे॒¦आ¦इ॒हि॒ |
ह॒स्त॒ऽग्रा॒भस्य॑¦दि॒धि॒षोः¦तव॑¦इ॒द‌म्¦पत्युः॑¦ज॒नि॒ऽत्व‌म्¦अ॒भि¦स‌म्¦ब॒भू॒थ॒ ||

धनु॒र्हस्ता᳚दा॒ददा᳚नोमृ॒तस्या॒स्मेक्ष॒त्राय॒वर्च॑से॒बला᳚य |{यामायनः संकुसुकः | पितृमेधः | त्रिष्टुप्}

अत्रै॒वत्वमि॒हव॒यंसु॒वीरा॒विश्वाः॒स्पृधो᳚,अ॒भिमा᳚तीर्जयेम || {9/14}{10.18.9}{10.2.2.9}{7.6.27.4}{171, 855, 8969}

धनुः॑¦हस्ता᳚त्¦आ॒ऽददा᳚नः¦मृ॒तस्य॑¦अ॒स्मे इति॑¦क्ष॒त्राय॑¦वर्च॑से¦बला᳚य |
अत्र॑¦ए॒व¦त्व‌म्¦इ॒ह¦व॒य‌म्¦सु॒ऽवीराः᳚¦विश्वाः᳚¦स्पृधः॑¦अ॒भिऽमा᳚तीः¦ज॒ये॒म॒ ||

उप॑सर्पमा॒तरं॒भूमि॑मे॒तामु॑रु॒व्यच॑संपृथि॒वींसु॒शेवा᳚म् |{यामायनः संकुसुकः | पितृमेधः | त्रिष्टुप्}

ऊर्ण᳚म्रदायुव॒तिर्दक्षि॑णावतए॒षात्वा᳚पातु॒निरृ॑तेरु॒पस्था᳚त् || {10/14}{10.18.10}{10.2.2.10}{7.6.27.5}{172, 855, 8970}

उप॑¦स॒र्प॒¦मा॒तर᳚‌म्¦भूमि᳚‌म्¦ए॒ता‌म्¦उ॒रु॒ऽव्यच॑स‌म्¦पृ॒थि॒वी‌म्¦सु॒ऽशेवा᳚‌म् |
ऊर्ण॑ऽम्रदाः¦यु॒व॒तिः¦दक्षि॑णाऽवते¦ए॒षा¦त्वा॒¦पा॒तु॒¦निःऽऋ॑तेः¦उ॒पऽस्था᳚त् ||

उच्छ्व᳚ञ्चस्वपृथिवि॒मानिबा᳚धथाःसूपाय॒नास्मै᳚भवसूपवञ्च॒ना |{यामायनः संकुसुकः | पितृमेधः | प्रस्तार पङ्क्तिः}

मा॒तापु॒त्रंयथा᳚सि॒चाभ्ये᳚नंभूमऊर्णुहि || {11/14}{10.18.11}{10.2.2.11}{7.6.28.1}{173, 855, 8971}

उत्¦श्वं॒च॒स्व॒¦पृ॒थि॒वि॒¦मा¦नि¦बा॒ध॒थाः॒¦सु॒।औ॒पा॒य॒ना¦अ॒स्मै॒¦भ॒व॒¦सु॒।औ॒प॒वं॒च॒ना |
मा॒ता¦पु॒त्र‌म्¦यथा᳚¦सि॒चा¦अ॒भि¦ए॒न॒‌म्¦भू॒मे॒¦ऊ॒र्णु॒हि॒ ||

उ॒च्छ्वञ्च॑मानापृथि॒वीसुति॑ष्ठतुस॒हस्रं॒मित॒उप॒हिश्रय᳚न्ताम् |{यामायनः संकुसुकः | पितृमेधः | त्रिष्टुप्}

तेगृ॒हासो᳚घृत॒श्चुतो᳚भवन्तुवि॒श्वाहा᳚स्मैशर॒णाःस॒न्त्वत्र॑ || {12/14}{10.18.12}{10.2.2.12}{7.6.28.2}{174, 855, 8972}

उ॒त्ऽश्वंच॑माना¦पृ॒थि॒वी¦सु¦ति॒ष्ठ॒तु॒¦स॒हस्र᳚‌म्¦मितः॑¦उप॑¦हि¦श्रय᳚न्ता‌म् |
ते¦गृ॒हासः॑¦घृ॒त॒ऽश्चुतः॑¦भ॒व॒न्तु॒¦वि॒श्वाहा᳚¦अ॒स्मै॒¦श॒र॒णाः¦स॒न्तु॒¦अत्र॑ ||

उत्ते᳚स्तभ्नामिपृथि॒वींत्वत्परी॒मंलो॒गंनि॒दध॒न्मो,अ॒हंरि॑षम् |{यामायनः संकुसुकः | पितृमेधः | जगती}

ए॒तांस्थूणां᳚पि॒तरो᳚धारयन्तु॒तेऽत्रा᳚य॒मःसाद॑नातेमिनोतु || {13/14}{10.18.13}{10.2.2.13}{7.6.28.3}{175, 855, 8973}

उत्¦ते॒¦स्त॒भ्ना॒मि॒¦पृ॒थि॒वी‌म्¦त्वत्¦परि॑¦इ॒म‌म्¦लो॒ग‌म्¦नि॒ऽदध॑त्¦मो इति॑¦अ॒ह‌म्¦रि॒ष॒‌म् |
ए॒ता‌म्¦स्थूणा᳚‌म्¦पि॒तरः॑¦धा॒र॒य॒न्तु॒¦ते॒¦अत्र॑¦य॒मः¦सद॑ना¦ते॒¦मि॒नो॒तु॒ ||

प्र॒ती॒चीने॒मामह॒नीष्वाः᳚प॒र्णमि॒वाद॑धुः |{यामायनः संकुसुकः | पितृमेधः प्रजापतिर्वा | अनुष्टुप्}

प्र॒तीचीं᳚जग्रभा॒वाच॒मश्वं᳚रश॒नया᳚यथा || {14/14}{10.18.14}{10.2.2.14}{7.6.28.4}{176, 855, 8974}

प्र॒ती॒चीने᳚¦मा‌म्¦अह॑नि¦इष्वाः᳚¦प॒र्ण‌म्ऽ‌इ᳚व¦आ¦द॒धुः॒ | प्र॒तीची᳚‌म्¦ज॒ग्र॒भ॒¦वाच᳚‌म्¦अश्व᳚‌म्¦र॒श॒नया᳚¦य॒था॒ ||

[19] निवर्तध्वमित्यष्टर्चस्य सूक्तस्य यामायनोमथितऋषिः आपोदेवताः आद्यायाअग्नीषोमा अनुष्टुप् षष्ठीगायत्री | (अत्रसूक्ते वारुणिर्भृगुर्भार्गवश्च यवनश्चेमौ पाक्षिकावृषीगौर्वादेवता) |
निव॑र्तध्वं॒मानु॑गाता॒स्मान्‌त्सि॑षक्तरेवतीः |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा, अग्नीसोमौ | अनुष्टुप्}

अग्नी᳚षोमापुनर्वसू,अ॒स्मेधा᳚रयतंर॒यिम् || {1/8}{10.19.1}{10.2.3.1}{7.7.1.1}{177, 856, 8975}

नि¦व॒र्त॒ध्व॒‌म्¦मा¦अनु॑¦गा॒त॒¦अ॒स्मान्¦सि॒स॒क्त॒¦रे॒व॒तीः॒ | अग्नी᳚षोमा¦पु॒न॒र्व॒सू॒ इति॑ पुनःऽवसू¦अ॒स्मे इति॑¦धा॒र॒य॒त॒‌म्¦र॒यि‌म् ||

पुन॑रेना॒निव॑र्तय॒पुन॑रेना॒न्याकु॑रु |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा | अनुष्टुप्}

इन्द्र॑एणा॒निय॑च्छत्व॒ग्निरे᳚ना,उ॒पाज॑तु || {2/8}{10.19.2}{10.2.3.2}{7.7.1.2}{178, 856, 8976}

पुनः॑¦ए॒नाः॒¦नि¦व॒र्त॒य॒¦पुनः॑¦ए॒नाः॒¦नि¦आ¦कु॒रु॒ | इन्द्र॑¦ए॒नाः॒¦नि¦य॒च्छ॒तु॒¦अ॒ग्निः¦ए॒नाः॒¦उ॒प॒ऽआज॑तु ||

पुन॑रे॒तानिव॑र्तन्ताम॒स्मिन्‌पु॑ष्यन्तु॒गोप॑तौ |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा | अनुष्टुप्}

इ॒हैवाग्ने॒निधा᳚रये॒हति॑ष्ठतु॒यार॒यिः || {3/8}{10.19.3}{10.2.3.3}{7.7.1.3}{179, 856, 8977}

पुनः॑¦ए॒ताः¦नि¦व॒र्त॒न्ता॒‌म्¦अ॒स्मिन्¦पु॒ष्य॒न्तु॒¦गोऽप॑तौ | इ॒ह¦ए॒व¦अ॒ग्ने॒¦नि¦धा॒र॒य॒¦इ॒ह¦ति॒ष्ठ॒तु॒¦या¦र॒यिः ||

यन्नि॒यानं॒न्यय॑नंसं॒ज्ञानं॒यत्प॒राय॑णम् |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा | अनुष्टुप्}

आ॒वर्त॑नंनि॒वर्त॑नं॒योगो॒पा,अपि॒तंहु॑वे || {4/8}{10.19.4}{10.2.3.4}{7.7.1.4}{180, 856, 8978}

यत्¦नि॒ऽयान᳚‌म्¦नि॒।आय॑न‌म्¦स॒‌म्ऽज्ञान᳚‌म्¦यत्¦प॒रा॒।आय॑न‌म् | आ॒ऽवर्त॑न‌म्¦नि॒ऽवर्त॑न‌म्¦यः¦गो॒पाः¦अपि॑¦त‌म्¦हु॒वे॒ ||

उ॒दान॒ड्व्यय॑नं॒उ॒दान॑ट्प॒राय॑णम् |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा | अनुष्टुप्}

आ॒वर्त॑नंनि॒वर्त॑न॒मपि॑गो॒पानिव॑र्तताम् || {5/8}{10.19.5}{10.2.3.5}{7.7.1.5}{181, 856, 8979}

यः¦उ॒त्ऽआन॑ट्¦वि॒।आय॑न‌म्¦यः¦उ॒त्ऽआन॑ट्¦प॒रा॒।आय॑न‌म् | आ॒ऽवर्त॑न‌म्¦नि॒ऽवर्त॑न‌म्¦अपि॑¦गो॒पाः¦नि¦व॒र्त॒ता॒‌म् ||

नि॑वर्त॒निव॑र्तय॒पुन᳚र्नइन्द्र॒गादे᳚हि |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा | गायत्री}

जी॒वाभि॑र्भुनजामहै || {6/8}{10.19.6}{10.2.3.6}{7.7.1.6}{182, 856, 8980}

आ¦नि॒ऽव॒र्त॒¦नि¦व॒र्त॒य॒¦पुनः॑¦नः॒¦इ॒न्द्र॒¦गाः¦दे॒हि॒ | जी॒वाभिः॑¦भु॒न॒जा॒म॒है॒ ||

परि॑वोवि॒श्वतो᳚दधऊ॒र्जाघृ॒तेन॒पय॑सा |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा | अनुष्टुप्}

येदे॒वाःकेच॑य॒ज्ञिया॒स्तेर॒य्यासंसृ॑जन्तुनः || {7/8}{10.19.7}{10.2.3.7}{7.7.1.7}{183, 856, 8981}

परि॑¦वः॒¦वि॒श्वतः॑¦द॒धे॒¦ऊ॒र्जा¦घृ॒तेन॑¦पय॑सा | ये¦दे॒वाः¦के¦च॒¦य॒ज्ञियाः᳚¦ते¦र॒य्या¦स‌म्¦सृ॒ज॒न्तु॒¦नः॒ ||

नि॑वर्तनवर्तय॒निनि॑वर्तनवर्तय |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा | अनुष्टुप्}

भूम्या॒श्चत॑स्रःप्र॒दिश॒स्ताभ्य॑एना॒निव॑र्तय || {8/8}{10.19.8}{10.2.3.8}{7.7.1.8}{184, 856, 8982}

आ¦नि॒ऽव॒र्त॒न॒¦व॒र्त॒य॒¦नि¦नि॒ऽव॒र्त॒न॒¦व॒र्त॒य॒ | भूम्याः᳚¦चत॑स्रः¦प्र॒ऽदिशः॑¦ताभ्यः॑¦ए॒नाः॒¦नि¦व॒र्त॒य॒ ||

[20] भद्रमिति दशर्चस्य सूक्तस्यैंद्रो विमदोग्निर्गायत्री आद्यैकपदाविराट् द्वितीयानुष्टुबंत्येविराट् त्रिष्टुभौ (भद्रंनःप्रभृति सप्तसूक्तेषु य एंद्रोविमदः सप्राजापत्योर्वैकल्पिकः किंचवासुक्रोवसुकृद्वा) |
भ॒द्रंनो॒,अपि॑वातय॒मनः॑ || {ऐंद्रो विमदः | अग्निः | एकपदा विराट्}{1/10}{10.20.1}{10.2.4.1}{7.7.2.1}{185, 857, 8983}

भ॒द्र‌म्¦नः॒¦अपि॑¦वा॒त॒य॒¦मनः॑ ||

अ॒ग्निमी᳚ळेभु॒जांयवि॑ष्ठंशा॒सामि॒त्रंदु॒र्धरी᳚तुम् |{ऐंद्रो विमदः | अग्निः | अनुष्टुप्}

यस्य॒धर्म॒न्‌त्स्व१॑(अ॒)रेनीः᳚सप॒र्यन्ति॑मा॒तुरूधः॑ || {2/10}{10.20.2}{10.2.4.2}{7.7.2.2}{186, 857, 8984}

अ॒ग्नि‌म्¦ई॒ळे॒¦भु॒जा‌म्¦यवि॑ष्ठ‌म्¦शा॒सा¦मि॒त्र‌म्¦दुः॒ऽधरी᳚तु‌म् | यस्य॑¦धर्म॑न्¦स्वः॑¦एनीः᳚¦स॒प॒र्यन्ति॑¦मा॒तुः¦ऊधः॑ ||

यमा॒साकृ॒पनी᳚ळंभा॒साके᳚तुंव॒र्धय᳚न्ति |{ऐंद्रो विमदः | अग्निः | गायत्री}

भ्राज॑ते॒श्रेणि॑दन् || {3/10}{10.20.3}{10.2.4.3}{7.7.2.3}{187, 857, 8985}

य‌म्¦आ॒साः¦कृ॒पऽनी᳚ळ‌म्¦भा॒साऽके᳚तु‌म्¦व॒र्धय᳚न्ति | भ्राज॑ते¦श्रेणि॑ऽदन् ||

अ॒र्योवि॒शांगा॒तुरे᳚ति॒प्रयदान॑ड्दि॒वो,अन्ता॑न् |{ऐंद्रो विमदः | अग्निः | गायत्री}

क॒विर॒भ्रंदीद्या᳚नः || {4/10}{10.20.4}{10.2.4.4}{7.7.2.4}{188, 857, 8986}

अ॒र्यः¦वि॒शा‌म्¦गा॒तुः¦ए॒ति॒¦प्र¦यत्¦आन॑ट्¦दि॒वः¦अन्ता॑न् | क॒विः¦अ॒भ्र‌म्¦दीद्या᳚नः ||

जु॒षद्ध॒व्यामानु॑षस्यो॒र्ध्वस्त॑स्था॒वृभ्वा᳚य॒ज्ञे |{ऐंद्रो विमदः | अग्निः | गायत्री}

मि॒न्वन्‌त्सद्म॑पु॒रए᳚ति || {5/10}{10.20.5}{10.2.4.5}{7.7.2.5}{189, 857, 8987}

जु॒षत्¦ह॒व्या¦मानु॑षस्य¦ऊ॒र्ध्वः¦त॒स्थौ॒¦ऋभ्वा᳚¦य॒ज्ञे | मि॒न्वन्¦सद्म॑¦पु॒रः¦ए॒ति॒ ||

हिक्षेमो᳚ह॒विर्य॒ज्ञःश्रु॒ष्टीद॑स्यगा॒तुरे᳚ति |{ऐंद्रो विमदः | अग्निः | गायत्री}

अ॒ग्निंदे॒वावाशी᳚मन्तम् || {6/10}{10.20.6}{10.2.4.6}{7.7.2.6}{190, 857, 8988}

सः¦हि¦क्षेमः॑¦ह॒विः¦य॒ज्ञः¦श्रु॒ष्टी¦इत्¦अ॒स्य॒¦गा॒तुः¦ए॒ति॒ | अ॒ग्नि‌म्¦दे॒वाः¦वाशी᳚ऽमन्त‌म् ||

य॒ज्ञा॒साहं॒दुव॑इषे॒ऽग्निंपूर्व॑स्य॒शेव॑स्य |{ऐंद्रो विमदः | अग्निः | गायत्री}

अद्रेः᳚सू॒नुमा॒युमा᳚हुः || {7/10}{10.20.7}{10.2.4.7}{7.7.3.1}{191, 857, 8989}

य॒ज्ञ॒ऽसह᳚‌म्¦दुवः॑¦इ॒षे॒¦अ॒ग्नि‌म्¦पूर्व॑स्य¦शेव॑स्य | अद्रेः᳚¦सू॒नु‌म्¦आ॒यु‌म्¦आ॒हुः॒ ||

नरो॒येकेचा॒स्मदाविश्वेत्तेवा॒मस्युः॑ |{ऐंद्रो विमदः | अग्निः | गायत्री}

अ॒ग्निंह॒विषा॒वर्ध᳚न्तः || {8/10}{10.20.8}{10.2.4.8}{7.7.3.2}{192, 857, 8990}

नरः॑¦ये¦के¦च॒¦अ॒स्मत्¦आ¦विश्वा᳚¦इत्¦ते¦वा॒मे¦आ¦स्यु॒रिति॑ स्युः | अ॒ग्नि‌म्¦ह॒विषा᳚¦वर्ध᳚न्तः ||

कृ॒ष्णःश्वे॒तो᳚ऽरु॒षोयामो᳚,अस्यब्र॒ध्नऋ॒ज्रउ॒तशोणो॒यश॑स्वान् |{ऐंद्रो विमदः | अग्निः | विराट्}

हिर᳚ण्यरूपं॒जनि॑ताजजान || {9/10}{10.20.9}{10.2.4.9}{7.7.3.3}{193, 857, 8991}

कृ॒ष्णः¦श्वे॒तः¦अ॒रु॒षः¦यामः॑¦अ॒स्य॒¦ब्र॒ध्नः¦ऋ॒ज्रः¦उ॒त¦शोणः॑¦यश॑स्वान् | हिर᳚ण्यऽरूप‌म्¦जनि॑ता¦ज॒जा॒न॒ ||

ए॒वाते᳚,अग्नेविम॒दोम॑नी॒षामूर्जो᳚नपाद॒मृते᳚भिःस॒जोषाः᳚ |{ऐंद्रो विमदः | अग्निः | त्रिष्टुप्}

गिर॒व॑क्षत्सुम॒तीरि॑या॒नइष॒मूर्जं᳚सुक्षि॒तिंविश्व॒माभाः᳚ || {10/10}{10.20.10}{10.2.4.10}{7.7.3.4}{194, 857, 8992}

ए॒व¦ते॒¦अ॒ग्ने॒¦वि॒ऽम॒दः¦म॒नी॒षा‌म्¦ऊर्जः॑¦न॒पा॒त्¦अ॒मृते᳚भिः¦स॒ऽजोषाः᳚ |
गिरः॑¦आ¦व॒क्ष॒त्¦सु॒ऽम॒तीः¦इ॒या॒नः¦इष᳚‌म्¦ऊर्ज᳚‌म्¦सु॒ऽक्षि॒ति‌म्¦विश्व᳚‌म्¦आ¦अ॒भा॒रित्य॑भाः ||

[21] आग्निंनेत्यष्टर्चस्य सूक्तस्यैंद्रो विमदोग्निरास्तारपंक्तिः |
आग्निंस्ववृ॑क्तिभि॒र्होता᳚रंत्वावृणीमहे |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः}

य॒ज्ञाय॑स्ती॒र्णब᳚र्हिषे॒विवो॒मदे᳚शी॒रंपा᳚व॒कशो᳚चिषं॒विव॑क्षसे || {1/8}{10.21.1}{10.2.5.1}{7.7.4.1}{195, 858, 8993}

आ¦अ॒ग्नि‌म्¦न¦स्ववृ॑क्तिऽभिः¦होता᳚र‌म्¦त्वा॒¦वृ॒णी॒म॒हे॒ |
य॒ज्ञाय॑¦स्ती॒र्णऽब॑र्हिषे¦वि¦वः॒¦मदे᳚¦शी॒र‌म्¦पा॒व॒कऽशो᳚चिष‌म्¦विव॑क्षसे ||

त्वामु॒तेस्वा॒भुवः॑शु॒म्भन्त्यश्व॑राधसः |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः}

वेति॒त्वामु॑प॒सेच॑नी॒विवो॒मद॒ऋजी᳚तिरग्न॒आहु॑ति॒र्विव॑क्षसे || {2/8}{10.21.2}{10.2.5.2}{7.7.4.2}{196, 858, 8994}

त्वा‌म्¦ऊँ॒ इति॑¦ते¦सु॒ऽआ॒भुवः॑¦शु॒म्भन्ति॑¦अश्व॑ऽराधसः |
वेति॑¦त्वा‌म्¦उ॒प॒ऽसेच॑नी¦वि¦वः॒¦मदे᳚¦ऋजी᳚तिः¦अ॒ग्ने॒¦आऽहु॑तिः¦विव॑क्षसे ||

त्वेध॒र्माण॑आसतेजु॒हूभिः॑सिञ्च॒तीरि॑व |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः}

कृ॒ष्णारू॒पाण्यर्जु॑ना॒विवो॒मदे॒विश्वा॒,अधि॒श्रियो᳚धिषे॒विव॑क्षसे || {3/8}{10.21.3}{10.2.5.3}{7.7.4.3}{197, 858, 8995}

त्वे इति॑¦ध॒र्माणः॑¦आ॒स॒ते॒¦जु॒हूभिः॑¦सिं॒च॒तीःऽ‌इ᳚व |
कृ॒ष्णा¦रू॒पाणि॑¦अर्जु॑ना¦वि¦वः॒¦मदे᳚¦विश्वाः᳚¦अधि॑¦श्रियः॑¦धि॒षे॒¦विव॑क्षसे ||

यम॑ग्ने॒मन्य॑सेर॒यिंसह॑सावन्नमर्त्य |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः}

तमानो॒वाज॑सातये॒विवो॒मदे᳚य॒ज्ञेषु॑चि॒त्रमाभ॑रा॒विव॑क्षसे || {4/8}{10.21.4}{10.2.5.4}{7.7.4.4}{198, 858, 8996}

य‌म्¦अ॒ग्ने॒¦मन्य॑से¦र॒यि‌म्¦सह॑साऽवन्¦अ॒म॒र्त्य॒ |
त‌म्¦आ¦नः॒¦वाज॑ऽसातये¦वि¦वः॒¦मदे᳚¦य॒ज्ञेषु॑¦चि॒त्र‌म्¦आ¦भ॒र॒¦विव॑क्षसे ||

अ॒ग्निर्जा॒तो,अथ᳚र्वणावि॒दद्विश्वा᳚नि॒काव्या᳚ |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः}

भुव॑द्दू॒तोवि॒वस्व॑तो॒विवो॒मदे᳚प्रि॒योय॒मस्य॒काम्यो॒विव॑क्षसे || {5/8}{10.21.5}{10.2.5.5}{7.7.4.5}{199, 858, 8997}

अ॒ग्निः¦जा॒तः¦अथ᳚र्वणा¦वि॒दत्¦विश्वा᳚नि¦काव्या᳚ |
भुव॑त्¦दू॒तः¦वि॒वस्व॑तः¦वि¦वः॒¦मदे᳚¦प्रि॒यः¦य॒मस्य॑¦काम्यः॑¦विव॑क्षसे ||

त्वांय॒ज्ञेष्वी᳚ळ॒तेऽग्ने᳚प्रय॒त्य॑ध्व॒रे |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः}

त्वंवसू᳚नि॒काम्या॒विवो॒मदे॒विश्वा᳚दधासिदा॒शुषे॒विव॑क्षसे || {6/8}{10.21.6}{10.2.5.6}{7.7.5.1}{200, 858, 8998}

त्वा‌म्¦य॒ज्ञेषु॑¦ई॒ळ॒ते॒¦अग्ने᳚¦प्र॒ऽय॒ति¦अ॒ध्व॒रे |
त्व‌म्¦वसू᳚नि¦काम्या᳚¦वि¦वः॒¦मदे᳚¦विश्वा᳚¦द॒धा॒सि॒¦दा॒शुषे᳚¦विव॑क्षसे ||

त्वांय॒ज्ञेष्वृ॒त्विजं॒चारु॑मग्ने॒निषे᳚दिरे |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः}

घृ॒तप्र॑तीकं॒मनु॑षो॒विवो॒मदे᳚शु॒क्रंचेति॑ष्ठम॒क्षभि॒र्विव॑क्षसे || {7/8}{10.21.7}{10.2.5.7}{7.7.5.2}{201, 858, 8999}

त्वा‌म्¦य॒ज्ञेषु॑¦ऋ॒त्विज᳚‌म्¦चारु᳚‌म्¦अ॒ग्ने॒¦नि¦से॒दि॒रे॒ |
घृ॒तऽप्र॑तीक‌म्¦मनु॑षः¦वि¦वः॒¦मदे᳚¦शु॒क‌म्¦चेति॑ष्ठ‌म्¦अ॒क्षऽभिः॑¦विव॑क्षसे ||

अग्ने᳚शु॒क्रेण॑शो॒चिषो॒रुप्र॑थयसेबृ॒हत् |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः}

अ॒भि॒क्रन्द᳚न्‌वृषायसे॒विवो॒मदे॒गर्भं᳚दधासिजा॒मिषु॒विव॑क्षसे || {8/8}{10.21.8}{10.2.5.8}{7.7.5.3}{202, 858, 9000}

अग्ने᳚¦शु॒क्रेण॑¦शो॒चिषा᳚¦उ॒रु¦प्र॒थ॒य॒से॒¦बृ॒हत् |
अ॒भि॒ऽक्रन्द॑न्¦वृ॒ष॒ऽय॒से॒¦वि¦वः॒¦मदे᳚¦गर्भ᳚‌म्¦द॒धा॒सि॒¦जा॒मिषु॑¦विव॑क्षसे ||

[22] कुहश्रुतइति पंचदशर्चस्य सूक्तस्यैंद्रोविमदइंद्रः पुरस्ताद्बहती पंचमी सप्तमी नवम्योनुष्टुभोंत्यात्रिष्टुप् |
कुह॑श्रु॒तइन्द्रः॒कस्मि᳚न्न॒द्यजने᳚मि॒त्रोश्रू᳚यते |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

ऋषी᳚णांवा॒यः,क्षये॒गुहा᳚वा॒चर्कृ॑षेगि॒रा || {1/15}{10.22.1}{10.2.6.1}{7.7.6.1}{203, 859, 9001}

कुह॑¦श्रु॒तः¦इन्द्रः॑¦कस्मि॑न्¦अ॒द्य¦जने᳚¦मि॒त्रः¦न¦श्रू॒य॒ते॒ |
ऋषी᳚णा‌म्¦वा॒¦यः¦क्षये᳚¦गुहा᳚¦वा॒¦चर्कृ॑षे¦गि॒रा ||

इ॒हश्रु॒तइन्द्रो᳚,अ॒स्मे,अ॒द्यस्तवे᳚व॒ज्र्यृची᳚षमः |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

मि॒त्रोयोजने॒ष्वायश॑श्च॒क्रे,असा॒म्या || {2/15}{10.22.2}{10.2.6.2}{7.7.6.2}{204, 859, 9002}

इ॒ह¦श्रु॒तः¦इन्द्रः॑¦अ॒स्मे इति॑¦अ॒द्य¦स्तवे᳚¦व॒ज्री¦ऋची᳚षमः |
मि॒त्रः¦न¦यः¦जने᳚षु¦आ¦यशः॑¦च॒क्रे¦असा᳚मि¦आ ||

म॒होयस्पतिः॒शव॑सो॒,असा॒म्याम॒होनृ॒म्णस्य॑तूतु॒जिः |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

भ॒र्तावज्र॑स्यधृ॒ष्णोःपि॒तापु॒त्रमि॑वप्रि॒यम् || {3/15}{10.22.3}{10.2.6.3}{7.7.6.3}{205, 859, 9003}

म॒हः¦यः¦पतिः॑¦शव॑सः¦असा᳚मि¦आ¦म॒हः¦नृ॒म्णस्य॑¦तू॒तु॒जिः |
भ॒र्ता¦वज्र॑स्य¦धृ॒ष्णोः¦पि॒ता¦पु॒त्र‌म्ऽ‌इ᳚व¦प्रि॒य‌म् ||

यु॒जा॒नो,अश्वा॒वात॑स्य॒धुनी᳚दे॒वोदे॒वस्य॑वज्रिवः |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

स्यन्ता᳚प॒थावि॒रुक्म॑तासृजा॒नःस्तो॒ष्यध्व॑नः || {4/15}{10.22.4}{10.2.6.4}{7.7.6.4}{206, 859, 9004}

यु॒जा॒नः¦अश्वा᳚¦वात॑स्य¦धुनी॒ इति॑¦दे॒वः¦दे॒वस्य॑¦व॒ज्रि॒ऽवः॒ |
स्यन्ता᳚¦प॒था¦वि॒रुक्म॑ता¦सृ॒जा॒नः¦स्तो॒षि॒¦अध्व॑नः ||

त्वंत्याचि॒द्वात॒स्याश्वागा᳚ऋ॒ज्रात्मना॒वह॑ध्यै |{ऐंद्रो विमदः | इन्द्रः | अनुष्टुप्}

ययो᳚र्दे॒वोमर्त्यो᳚य॒न्तानकि᳚र्वि॒दाय्यः॑ || {5/15}{10.22.5}{10.2.6.5}{7.7.6.5}{207, 859, 9005}

त्व‌म्¦त्या¦चि॒त्¦वात॑स्य¦अश्वा᳚¦आ¦अ॒गाः॒¦ऋ॒ज्रा¦त्मना᳚¦वह॑ध्यै | ययोः᳚¦दे॒वः¦न¦मर्त्यः॑¦य॒न्ता¦नकिः॑¦वि॒दाय्यः॑ ||

अध॒ग्मन्तो॒शना᳚पृच्छतेवां॒कद॑र्थान॒गृ॒हम् |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

ज॑ग्मथुःपरा॒काद्दि॒वश्च॒ग्मश्च॒मर्त्य᳚म् || {6/15}{10.22.6}{10.2.6.6}{7.7.7.1}{208, 859, 9006}

अध॑¦ग्मन्ता᳚¦उ॒शना᳚¦पृ॒च्छ॒ते॒¦वा॒‌म्¦कत्।आ॑र्था¦नः॒¦आ¦गृ॒ह‌म् |
आ¦ज॒ग्म॒थुः॒¦प॒रा॒कात्¦दि॒वः¦च॒¦ग्मः¦च॒¦मर्त्य᳚‌म् ||

न॑इन्द्रपृक्षसे॒ऽस्माकं॒ब्रह्मोद्य॑तम् |{ऐंद्रो विमदः | इन्द्रः | अनुष्टुप्}

तत्‌त्वा᳚याचाम॒हेऽवः॒शुष्णं॒यद्धन्नमा᳚नुषम् || {7/15}{10.22.7}{10.2.6.7}{7.7.7.2}{209, 859, 9007}

आ¦नः॒¦इ॒न्द्र॒¦पृ॒क्ष॒से॒¦अ॒स्माक᳚‌म्¦ब्रह्म॑¦उत्ऽय॑त‌म् | तत्¦त्वा॒¦या॒चा॒म॒हे॒¦अवः॑¦शुष्ण᳚‌म्¦यत्¦हन्¦अमा᳚नुष‌म् ||

अ॒क॒र्मादस्यु॑र॒भिनो᳚,अम॒न्तुर॒न्यव्र॑तो॒,अमा᳚नुषः |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

त्वंतस्या᳚मित्रह॒न्वध॑र्दा॒सस्य॑दम्भय || {8/15}{10.22.8}{10.2.6.8}{7.7.7.3}{210, 859, 9008}

अ॒क॒र्मा¦दसुः॑¦अ॒भि¦नः॒¦अ॒म॒न्तुः¦अ॒न्यऽव्र॑तः¦अमा᳚नुषः |
त्व‌म्¦तस्य॑¦अ॒मि॒त्र॒ऽह॒न्¦वधः॑¦दा॒सस्य॑¦द॒म्भ॒य॒ ||

त्वंन॑इन्द्रशूर॒शूरै᳚रु॒तत्वोता᳚सोब॒र्हणा᳚ |{ऐंद्रो विमदः | इन्द्रः | अनुष्टुप्}

पु॒रु॒त्राते॒विपू॒र्तयो॒नव᳚न्तक्षो॒णयो᳚यथा || {9/15}{10.22.9}{10.2.6.9}{7.7.7.4}{211, 859, 9009}

त्व‌म्¦नः॒¦इ॒न्द्र॒¦शू॒र॒¦शूरैः᳚¦उ॒त¦त्वाऽऊ᳚तासः¦ब॒र्हना᳚ | पु॒रु॒ऽत्रा¦ते॒¦वि¦पू॒र्तयः॑¦नव᳚न्त¦क्षो॒णयः॑¦य॒था॒ ||

त्वंतान्‌वृ॑त्र॒हत्ये᳚चोदयो॒नॄन्‌का᳚र्पा॒णेशू᳚रवज्रिवः |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

गुहा॒यदी᳚कवी॒नांवि॒शांनक्ष॑त्रशवसाम् || {10/15}{10.22.10}{10.2.6.10}{7.7.7.5}{212, 859, 9010}

त्व‌म्¦तान्¦वृ॒त्र॒ऽहत्ये᳚¦चो॒दय॒ः॒¦नॄन्¦का॒र्पा॒णे¦शू॒र॒¦व॒ज्रि॒ऽवः॒ |
गुहा᳚¦यदि॑¦क॒वी॒ना‌म्¦वि॒शा‌म्¦नक्ष॑त्रऽशवसा‌म् ||

म॒क्षूतात॑इन्द्रदा॒नाप्न॑सआक्षा॒णेशू᳚रवज्रिवः |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

यद्ध॒शुष्ण॑स्यद॒म्भयो᳚जा॒तंविश्वं᳚स॒याव॑भिः || {11/15}{10.22.11}{10.2.6.11}{7.7.8.1}{213, 859, 9011}

म॒क्षु¦ता¦ते॒¦इ॒न्द्र॒¦दा॒न।आ॑प्नसः¦आ॒क्षा॒णे¦शू॒र॒¦व॒ज्रि॒ऽवः॒ |
यत्¦ह॒¦शुष्ण॑स्य¦द॒म्भयः॑¦जा॒त‌म्¦विश्व᳚‌म्¦स॒याव॑ऽभिः ||

माकु॒ध्र्य॑गिन्द्रशूर॒वस्वी᳚र॒स्मेभू᳚वन्न॒भिष्ट॑यः |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

व॒यंव॑यंआसांसु॒म्नेस्या᳚मवज्रिवः || {12/15}{10.22.12}{10.2.6.12}{7.7.8.2}{214, 859, 9012}

मा¦अ॒कु॒ध्र्य॑क्¦इ॒न्द्र॒¦शू॒र॒¦वस्वीः᳚¦अ॒स्मे इति॑¦भू॒व॒न्¦अ॒भिष्ट॑यः |
व॒य‌म्ऽव॑य‌म्¦ते॒¦आ॒सा॒‌म्¦सु॒म्ने¦स्या॒म॒¦व॒ज्रि॒ऽवः॒ ||

अ॒स्मेतात॑इन्द्रसन्तुस॒त्याहिं᳚सन्तीरुप॒स्पृशः॑ |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

वि॒द्याम॒यासां॒भुजो᳚धेनू॒नांव॑ज्रिवः || {13/15}{10.22.13}{10.2.6.13}{7.7.8.3}{215, 859, 9013}

अ॒स्मे इति॑¦ता¦ते॒¦इ॒न्द्र॒¦स॒न्तु॒¦स॒त्या¦अहिं᳚सन्तीः¦उ॒प॒ऽस्पृषः॑ |
वि॒द्याम॑¦यासा᳚‌म्¦भुजः॑¦धे॒नू॒ना‌म्¦न¦व॒ज्रि॒ऽवः॒ ||

अ॒ह॒स्तायद॒पदी॒वर्ध॑त॒क्षाःशची᳚भिर्वे॒द्याना᳚म् |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती}

शुष्णं॒परि॑प्रदक्षि॒णिद्वि॒श्वाय॑वे॒निशि॑श्नथः || {14/15}{10.22.14}{10.2.6.14}{7.7.8.4}{216, 859, 9014}

अ॒ह॒स्ता¦यत्¦अ॒पदी᳚¦वर्ध॑त¦क्षाः¦शची᳚भिः¦वे॒द्याना᳚‌म् |
शुष्ण᳚‌म्¦परि॑¦प्र॒ऽद॒क्षि॒णित्¦वि॒श्वऽआ᳚यवे¦नि¦शि॒श्न॒थः॒ ||

पिबा᳚पि॒बेदि᳚न्द्रशूर॒सोमं॒मारि॑षण्योवसवान॒वसुः॒सन् |{ऐंद्रो विमदः | इन्द्रः | त्रिष्टुप्}

उ॒तत्रा᳚यस्वगृण॒तोम॒घोनो᳚म॒हश्च॑रा॒योरे॒वत॑स्कृधीनः || {15/15}{10.22.15}{10.2.6.15}{7.7.8.5}{217, 859, 9015}

पिब॑ऽपिब¦इत्¦इ॒न्द्र॒¦शू॒र॒¦सोम᳚‌म्¦मा¦रि॒ष॒ण्यः॒¦व॒स॒वा॒न॒¦वसुः॑¦सन् |
उ॒त¦त्रा॒य॒स्व॒¦गृ॒ण॒तः¦म॒घोनः॑¦म॒हः¦च॒¦रा॒यः¦रे॒वतः॑¦कृ॒धि॒¦नः॒ ||

[23] यजामहइति सप्तर्चस्य सूक्तस्यैंद्रो विमदइंद्रोजगत्याद्यांत्येत्रिष्टुभौ पंचम्यभिसारिणी |
यजा᳚मह॒इन्द्रं॒वज्र॑दक्षिणं॒हरी᳚णांर॒थ्य१॑(अं॒)विव्र॑तानाम् |{ऐंद्रो विमदः | इन्द्रः | त्रिष्टुप्}

प्रश्मश्रु॒दोधु॑वदू॒र्ध्वथा᳚भू॒द्विसेना᳚भि॒र्दय॑मानो॒विराध॑सा || {1/7}{10.23.1}{10.2.7.1}{7.7.9.1}{218, 860, 9016}

यजा᳚महे¦इन्द्र᳚‌म्¦वज्र॑ऽदक्षिण‌म्¦हरी᳚ना‌म्¦र॒थ्य᳚‌म्¦विऽव्र॑ताना‌म् |
प्र¦श्मश्रु॑¦दोधु॑वत्¦ऊ॒र्ध्वऽथा᳚¦भू॒त्¦वि¦सेना᳚भिः¦दय॑मानः¦वि¦राध॑सा ||

हरी॒न्व॑स्य॒यावने᳚वि॒देवस्विन्द्रो᳚म॒घैर्म॒घवा᳚वृत्र॒हाभु॑वत् |{ऐंद्रो विमदः | इन्द्रः | जगती}

ऋ॒भुर्वाज॑ऋभु॒क्षाःप॑त्यते॒शवोऽव॑क्ष्णौमि॒दास॑स्य॒नाम॑चित् || {2/7}{10.23.2}{10.2.7.2}{7.7.9.2}{219, 860, 9017}

हरी॒ इति॑¦नु¦अ॒स्य॒¦या¦वने᳚¦वि॒दे¦वसु॑¦इन्द्रः॑¦म॒घैः¦म॒घऽवा᳚¦वृ॒त्र॒ऽहा¦भु॒व॒त् |
ऋ॒भुः¦वाजः॑¦ऋ॒भु॒क्षाः¦प॒त्य॒ते॒¦शवः॑¦अव॑¦क्ष्णौ॒मि॒¦दास॑स्य¦नाम॑¦चि॒त् ||

य॒दावज्रं॒हिर᳚ण्य॒मिदथा॒रथं॒हरी॒यम॑स्य॒वह॑तो॒विसू॒रिभिः॑ |{ऐंद्रो विमदः | इन्द्रः | जगती}

ति॑ष्ठतिम॒घवा॒सन॑श्रुत॒इन्द्रो॒वाज॑स्यदी॒र्घश्र॑वस॒स्पतिः॑ || {3/7}{10.23.3}{10.2.7.3}{7.7.9.3}{220, 860, 9018}

य॒दा¦वज्र᳚‌म्¦हिर᳚ण्य‌म्¦इत्¦अथ॑¦रथ᳚‌म्¦हरी॒ इति॑¦य‌म्¦अ॒स्य॒¦वह॑तः¦वि¦सू॒रिऽभिः॑ |
आ¦ति॒ष्ठ॒ति॒¦म॒घऽवा᳚¦सन॑ऽश्रुतः¦इन्द्रः॑¦वाज॑स्य¦दी॒र्घऽश्र॑वसः¦पतिः॑ ||

सोचि॒न्नुवृ॒ष्टिर्यू॒थ्या॒३॑(आ॒)स्वासचाँ॒,इन्द्रः॒श्मश्रू᳚णि॒हरि॑ता॒भिप्रु॑ष्णुते |{ऐंद्रो विमदः | इन्द्रः | जगती}

अव॑वेतिसु॒क्षयं᳚सु॒तेमधूदिद्धू᳚नोति॒वातो॒यथा॒वन᳚म् || {4/7}{10.23.4}{10.2.7.4}{7.7.9.4}{221, 860, 9019}

सो इति॑¦चि॒त्¦नु¦वृ॒ष्टिः¦यू॒थ्या᳚¦स्वा¦सचा᳚¦इन्द्रः॑¦श्मश्रू᳚णि¦हरि॑ता¦अ॒भि¦प्रु॒ष्णु॒ते॒ |
अव॑¦वे॒ति॒¦सु॒ऽक्षय᳚‌म्¦सु॒ते¦मधु॑¦उत्¦इत्¦धू॒नो॒ति॒¦वातः॑¦यथा᳚¦वन᳚‌म् ||

योवा॒चाविवा᳚चोमृ॒ध्रवा᳚चःपु॒रूस॒हस्राशि॑वाज॒घान॑ |{ऐंद्रो विमदः | इन्द्रः | अभिसारिणी}

तत्त॒दिद॑स्य॒पौंस्यं᳚गृणीमसिपि॒तेव॒यस्तवि॑षींवावृ॒धेशवः॑ || {5/7}{10.23.5}{10.2.7.5}{7.7.9.5}{222, 860, 9020}

यः¦वा॒चा¦विऽवा᳚चः¦मृ॒ध्रऽवा᳚चः¦पु॒रु¦स॒हस्रा᳚¦असि॑वा¦ज॒घान॑ |
तत्ऽत॑त्¦इत्¦अ॒स्य॒¦पौंस्य᳚‌म्¦गृ॒णी॒म॒सि॒¦पि॒ताऽ‌इ᳚व¦यः¦तवि॑षी‌म्¦व॒वृ॒धे¦शवः॑ ||

स्तोमं᳚इन्द्रविम॒दा,अ॑जीजन॒न्नपू᳚र्व्यंपुरु॒तमं᳚सु॒दान॑वे |{ऐंद्रो विमदः | इन्द्रः | जगती}

वि॒द्माह्य॑स्य॒भोज॑नमि॒नस्य॒यदाप॒शुंगो॒पाःक॑रामहे || {6/7}{10.23.6}{10.2.7.6}{7.7.9.6}{223, 860, 9021}

स्तोम᳚‌म्¦ते॒¦इ॒न्द्र॒¦वि॒ऽम॒दाः¦अ॒जी॒ज॒न॒न्¦अपू᳚र्व्य‌म्¦पु॒रु॒ऽतम᳚‌म्¦सु॒ऽदान॑वे |
वि॒द्म¦हि¦अ॒स्य॒¦भोज॑न‌म्¦इ॒नस्य॑¦यत्¦आ¦प॒शु‌म्¦न¦गो॒पाः¦क॒रा॒म॒हे॒ ||

माकि᳚र्नए॒नास॒ख्यावियौ᳚षु॒स्तव॑चेन्द्रविम॒दस्य॑च॒ऋषेः᳚ |{ऐंद्रो विमदः | इन्द्रः | त्रिष्टुप्}

वि॒द्माहिते॒प्रम॑तिंदेवजामि॒वद॒स्मेते᳚सन्तुस॒ख्याशि॒वानि॑ || {7/7}{10.23.7}{10.2.7.7}{7.7.9.7}{224, 860, 9022}

माकिः॑¦नः॒¦ए॒ना¦स॒ख्या¦वि¦यौ॒षुः॒¦तव॑¦च॒¦इ॒न्द्र॒¦वि॒ऽम॒दस्य॑¦च॒¦ऋषेः᳚ |
वि॒द्म¦हि¦ते॒¦प्रऽम॑ति‌म्¦दे॒व॒¦जा॒मि॒ऽवत्¦अ॒स्मे इति॑¦ते॒¦स॒न्तु॒¦स॒ख्या¦शि॒वानि॑ ||

[24] इंद्रसोममिति षडृचस्य सूक्तस्यैंद्रो विमदइंद्रोंत्यस्तिसृणामश्विनावास्तारपंक्तिः अंत्यास्तिस्रोनुष्टुभः |
इन्द्र॒सोम॑मि॒मंपि॑ब॒मधु॑मन्तंच॒मूसु॒तम् |{ऐंद्रो विमदः | इन्द्रः | आस्तारपङ्क्ति}

अ॒स्मेर॒यिंनिधा᳚रय॒विवो॒मदे᳚सह॒स्रिणं᳚पुरूवसो॒विव॑क्षसे || {1/6}{10.24.1}{10.2.8.1}{7.7.10.1}{225, 861, 9023}

इन्द्र॑¦सोम᳚‌म्¦इ॒म‌म्¦पि॒ब॒¦मधु॑ऽमन्त‌म्¦च॒मू इति॑¦सु॒त‌म् |
अ॒स्मे इति॑¦र॒यि‌म्¦नि¦धा॒र॒य॒¦वि¦वः॒¦मदे᳚¦स॒ह॒स्रिण᳚‌म्¦पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो¦विव॑क्षसे ||

त्वांय॒ज्ञेभि॑रु॒क्थैरुप॑ह॒व्येभि॑रीमहे |{ऐंद्रो विमदः | इन्द्रः | आस्तारपङ्क्ति}

शची᳚पतेशचीनां॒विवो॒मदे॒श्रेष्ठं᳚नोधेहि॒वार्यं॒विव॑क्षसे || {2/6}{10.24.2}{10.2.8.2}{7.7.10.2}{226, 861, 9024}

त्वा‌म्¦य॒ज्ञेभिः॑¦उ॒क्थैः¦उप॑¦ह॒व्येभिः॑¦ई॒म॒हे॒ |
शची᳚ऽपते¦श॒ची॒न॒‌म्¦वि¦वः॒¦मदे᳚¦श्रेष्ठ᳚‌म्¦नः॒¦धे॒हि॒¦वार्य᳚‌म्¦विव॑क्षसे ||

यस्पति॒र्वार्या᳚णा॒मसि॑र॒ध्रस्य॑चोदि॒ता |{ऐंद्रो विमदः | इन्द्रः | आस्तारपङ्क्ति}

इन्द्र॑स्तोतॄ॒णाम॑वि॒ताविवो॒मदे᳚द्वि॒षोनः॑पा॒ह्यंह॑सो॒विव॑क्षसे || {3/6}{10.24.3}{10.2.8.3}{7.7.10.3}{227, 861, 9025}

यः¦पति᳚‌म्¦वार्या᳚णा‌म्¦असि॑¦र॒ध्रस्य॑¦चो॒दि॒ता |
इन्द्र॑¦स्तो॒तॄ॒णा‌म्¦अ॒वि॒ता¦वि¦वः॒¦मदे᳚¦द्वि॒षः¦नः॒¦पा॒हि॒¦अंह॑सः¦विव॑क्षसे ||

यु॒वंश॑क्रामाया॒विना᳚समी॒चीनिर॑मन्थतम् |{ऐंद्रो विमदः | अश्विनौ | अनुष्टुप्}

वि॒म॒देन॒यदी᳚ळि॒तानास॑त्यानि॒रम᳚न्थतम् || {4/6}{10.24.4}{10.2.8.4}{7.7.10.4}{228, 861, 9026}

यु॒व‌म्¦श॒क्रा॒¦मा॒या॒ऽविना᳚¦स॒मी॒ची इति॑ स॒‌म्ऽई॒ची¦निः¦अ॒म॒न्थ॒त॒‌म् | वि॒ऽम॒देन॑¦यत्¦ई॒ळि॒ता¦नास॑त्या¦निः॒।आम᳚न्थत‌म् ||

विश्वे᳚दे॒वा,अ॑कृपन्तसमी॒च्योर्नि॒ष्पत᳚न्त्योः |{ऐंद्रो विमदः | अश्विनौ | अनुष्टुप्}

नास॑त्यावब्रुवन्दे॒वाःपुन॒राव॑हता॒दिति॑ || {5/6}{10.24.5}{10.2.8.5}{7.7.10.5}{229, 861, 9027}

विश्वे᳚¦दे॒वाः¦अ॒कृ॒प॒न्त॒¦स॒‌म्ऽई॒च्योः¦निः॒ऽपत᳚न्त्योः | नास॑त्यौ¦अ॒ब्रु॒व॒न्¦दे॒वाः¦पुनः॑¦आ¦व॒ह॒ता॒त्¦इति॑ ||

मधु॑मन्मेप॒राय॑णं॒मधु॑म॒त्पुन॒राय॑नम् |{ऐंद्रो विमदः | अश्विनौ | अनुष्टुप्}

तानो᳚देवादे॒वत॑यायु॒वंमधु॑मतस्कृतम् || {6/6}{10.24.6}{10.2.8.6}{7.7.10.6}{230, 861, 9028}

मधु॑ऽमत्¦मे॒¦प॒रा॒।आय॑ण‌म्¦मधु॑ऽमत्¦पुनः॑¦आ॒।आय॑न‌म् | ता¦नः॒¦दे॒वा॒¦दे॒वत॑या¦यु॒व‌म्¦मधु॑ऽमतः¦कृ॒त॒‌म् ||

[25] भद्रमित्येकादशर्चस्य सूक्तस्यैंद्रोविमदः सोमआस्तारपंक्तिः |
भ॒द्रंनो॒,अपि॑वातय॒मनो॒दक्ष॑मु॒तक्रतु᳚म् |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

अधा᳚तेस॒ख्ये,अन्ध॑सो॒विवो॒मदे॒रण॒न्‌गावो॒यव॑से॒विव॑क्षसे || {1/11}{10.25.1}{10.2.9.1}{7.7.11.1}{231, 862, 9029}

भ॒द्र‌म्¦नः॒¦अपि॑¦वा॒त॒य॒¦मनः॑¦दक्ष᳚‌म्¦उ॒त¦क्रतु᳚‌म् |
अध॑¦ते॒¦स॒ख्ये¦अन्ध॑सः¦वि¦वः॒¦मदे᳚¦रण॑न्¦गावः॑¦न¦यव॑से¦विव॑क्षसे ||

हृ॒दि॒स्पृश॑स्तआसते॒विश्वे᳚षुसोम॒धाम॑सु |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

अधा॒कामा᳚,इ॒मेमम॒विवो॒मदे॒विति॑ष्ठन्तेवसू॒यवो॒विव॑क्षसे || {2/11}{10.25.2}{10.2.9.2}{7.7.11.2}{232, 862, 9030}

हृ॒दि॒ऽस्पृशः॑¦ते॒¦आ॒स॒ते॒¦विश्वे᳚षु¦सो॒म॒¦धाम॑ऽसु |
अध॑¦कामाः᳚¦इ॒मे¦मम॑¦वि¦वः॒¦मदे᳚¦वि¦ति॒ष्ठ॒न्ते॒¦व॒सु॒ऽयवः॑¦विव॑क्षसे ||

उ॒तव्र॒तानि॑सोमते॒प्राहंमि॑नामिपा॒क्या᳚ |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

अधा᳚पि॒तेव॑सू॒नवे॒विवो॒मदे᳚मृ॒ळानो᳚,अ॒भिचि॑द्व॒धाद्विव॑क्षसे || {3/11}{10.25.3}{10.2.9.3}{7.7.11.3}{233, 862, 9031}

उ॒त¦व्र॒तानि॑¦सो॒म॒¦ते॒¦प्र¦अ॒ह‌म्¦मि॒ना॒मि॒¦पा॒क्या᳚ |
अध॑¦पि॒ताऽ‌इ᳚व¦सू॒नवे᳚¦वि¦वः॒¦मदे᳚¦मृ॒ळ¦नः॒¦अ॒भि¦चि॒त्¦व॒धात्¦विव॑क्षसे ||

समु॒प्रय᳚न्तिधी॒तयः॒सर्गा᳚सोऽव॒ताँ,इ॑व |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

क्रतुं᳚नःसोमजी॒वसे॒विवो॒मदे᳚धा॒रया᳚चम॒साँ,इ॑व॒विव॑क्षसे || {4/11}{10.25.4}{10.2.9.4}{7.7.11.4}{234, 862, 9032}

स‌म्¦ऊँ॒ इति॑¦प्र¦य॒न्ति॒¦धी॒तयः॑¦सर्गा᳚सः¦अ॒व॒तान्ऽ‌इ᳚व |
क्रतु᳚‌म्¦नः॒¦सो॒म॒¦जी॒वसे᳚¦वि¦वः॒¦मदे᳚¦धा॒रय॑¦च॒म॒सान्ऽ‌इ᳚व¦विव॑क्षसे ||

तव॒त्येसो᳚म॒शक्ति॑भि॒र्निका᳚मासो॒व्यृ᳚ण्विरे |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

गृत्स॑स्य॒धीरा᳚स्त॒वसो॒विवो॒मदे᳚व्र॒जंगोम᳚न्तम॒श्विनं॒विव॑क्षसे || {5/11}{10.25.5}{10.2.9.5}{7.7.11.5}{235, 862, 9033}

तव॑¦त्ये¦सो॒म॒¦शक्ति॑ऽभिः¦निऽका᳚मासः¦वि¦ऋ॒ण्वि॒रे॒ |
गृत्स॑स्य¦धीराः᳚¦त॒वसः॑¦वि¦वः॒¦मदे᳚¦व्र॒ज‌म्¦गोऽम᳚न्त‌म्¦अ॒श्विन᳚‌म्¦विव॑क्षसे ||

प॒शुंनः॑सोमरक्षसिपुरु॒त्राविष्ठि॑तं॒जग॑त् |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

स॒माकृ॑णोषिजी॒वसे॒विवो॒मदे॒विश्वा᳚स॒म्पश्य॒न्‌भुव॑ना॒विव॑क्षसे || {6/11}{10.25.6}{10.2.9.6}{7.7.12.1}{236, 862, 9034}

प॒शु‌म्¦नः॒¦सो॒म॒¦र॒क्ष॒सि॒¦पु॒रु॒ऽत्रा¦विऽस्थि॑त‌म्¦जग॑त् |
स॒‌म्ऽआकृ॑णोषि¦जी॒वसे᳚¦वि¦वः॒¦मदे᳚¦विश्वा᳚¦स॒‌म्ऽपश्य॑न्¦भुव॑ना¦विव॑क्षसे ||

त्वंनः॑सोमवि॒श्वतो᳚गो॒पा,अदा᳚भ्योभव |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

सेध॑राज॒न्नप॒स्रिधो॒विवो॒मदे॒मानो᳚दुः॒शंस॑ईशता॒विव॑क्षसे || {7/11}{10.25.7}{10.2.9.7}{7.7.12.2}{237, 862, 9035}

त्व‌म्¦नः॒¦सो॒म॒¦वि॒श्वतः॑¦गो॒पाः¦अदा᳚भ्यः¦भ॒व॒ |
सेध॑¦रा॒ज॒न्¦अप॑¦स्रिधः॑¦वि¦वः॒¦मदे᳚¦मा¦नः॒¦दुः॒ऽशंसः॑¦ई॒श॒त॒¦विव॑क्षसे ||

त्वंनः॑सोमसु॒क्रतु᳚र्वयो॒धेया᳚यजागृहि |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

क्षे॒त्र॒वित्त॑रो॒मनु॑षो॒विवो॒मदे᳚द्रु॒होनः॑पा॒ह्यंह॑सो॒विव॑क्षसे || {8/11}{10.25.8}{10.2.9.8}{7.7.12.3}{238, 862, 9036}

त्व‌म्¦नः॒¦सो॒म॒¦सु॒ऽक्रतुः॑¦व॒यः॒ऽधेया᳚य¦जा॒गृ॒हि॒ |
क्षे॒त्र॒वित्ऽत॑रः¦मनु॑षः¦वि¦वः॒¦मदे᳚¦द्रु॒हः¦नः॒¦पा॒हि॒¦अंह॑सः¦विव॑क्षसे ||

त्वंनो᳚वृत्रहन्त॒मेन्द्र॑स्येन्दोशि॒वःसखा᳚ |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

यत्सीं॒हव᳚न्तेसमि॒थेविवो॒मदे॒युध्य॑मानास्तो॒कसा᳚तौ॒विव॑क्षसे || {9/11}{10.25.9}{10.2.9.9}{7.7.12.4}{239, 862, 9037}

त्व‌म्¦नः॒¦वृ॒त्र॒ह॒न्ऽत॒म॒¦इन्द्र॑स्य¦इ॒न्दो॒ इति॑¦शि॒वः¦सखा᳚ |
यत्¦सी॒‌म्¦हव᳚न्ते¦स॒‌म्ऽ‌इ॒थे¦वि¦वः॒¦मदे᳚¦युध्य॑मानाः¦तो॒कऽसा᳚तौ¦विव॑क्षसे ||

अ॒यंघ॒तु॒रोमद॒इन्द्र॑स्यवर्धतप्रि॒यः |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

अ॒यंक॒क्षीव॑तोम॒होविवो॒मदे᳚म॒तिंविप्र॑स्यवर्धय॒द्विव॑क्षसे || {10/11}{10.25.10}{10.2.9.10}{7.7.12.5}{240, 862, 9038}

अ॒य‌म्¦घ॒¦सः¦तु॒रः¦मदः॑¦इन्द्र॑स्य¦व॒र्ध॒त॒¦प्रि॒यः |
अ॒य‌म्¦क॒क्षीव॑तः¦म॒हः¦वि¦वः॒¦मदे᳚¦म॒ति‌म्¦विप्र॑स्य¦व॒र्ध॒य॒त्¦विव॑क्षसे ||

अ॒यंविप्रा᳚यदा॒शुषे॒वाजाँ᳚,इयर्ति॒गोम॑तः |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति}

अ॒यंस॒प्तभ्य॒वरं॒विवो॒मदे॒प्रान्धंश्रो॒णंच॑तारिष॒द्विव॑क्षसे || {11/11}{10.25.11}{10.2.9.11}{7.7.12.6}{241, 862, 9039}

अ॒य‌म्¦विप्रा᳚य¦दा॒शुषे᳚¦वाजा᳚न्¦इ॒य॒र्ति॒¦गोऽम॑तः |
अ॒य‌म्¦स॒प्तऽभ्यः॑¦आ¦वर᳚‌म्¦वि¦वः॒¦मदे᳚¦प्र¦अ॒न्ध‌म्¦श्रो॒ण‌म्¦च॒¦ता॒रि॒ष॒त्¦विव॑क्षसे ||

[26] प्रह्यच्छेति नवर्चस्य सूक्तस्यैंद्रो विमदः पूषानुष्टुप् आद्याचतुर्थ्यावुष्णिहौ |
प्रह्यच्छा᳚मनी॒षास्पा॒र्हायन्ति॑नि॒युतः॑ |{ऐंद्रो विमदः | पूषा | उष्णिक्}

प्रद॒स्रानि॒युद्र॑थःपू॒षा,अ॑विष्टु॒माहि॑नः || {1/9}{10.26.1}{10.2.10.1}{7.7.13.1}{242, 863, 9040}

प्र¦हि¦अच्छ॑¦म॒नी॒षाः¦स्पा॒र्हाः¦यन्ति॑¦नि॒ऽयुतः॑ | प्र¦द॒स्रा¦नि॒युत्ऽर॑थः¦पू॒षा¦अ॒वि॒ष्टु॒¦माहि॑नः ||

यस्य॒त्यन्म॑हि॒त्वंवा॒ताप्य॑म॒यंजनः॑ |{ऐंद्रो विमदः | पूषा | अनुष्टुप्}

विप्र॒वं᳚सद्धी॒तिभि॒श्चिके᳚तसुष्टुती॒नाम् || {2/9}{10.26.2}{10.2.10.2}{7.7.13.2}{243, 863, 9041}

यस्य॑¦त्यत्¦म॒हि॒ऽत्व‌म्¦वा॒ताप्य᳚‌म्¦अ॒य‌म्¦जनः॑ | विप्रः॑¦आ¦वं॒स॒त्¦धी॒तिऽभिः॑¦चिके᳚त¦सु॒ऽस्तु॒ती॒ना‌म् ||

वे᳚दसुष्टुती॒नामिन्दु॒र्नपू॒षावृषा᳚ |{ऐंद्रो विमदः | पूषा | अनुष्टुप्}

अ॒भिप्सुरः॑प्रुषायतिव्र॒जंन॒प्रु॑षायति || {3/9}{10.26.3}{10.2.10.3}{7.7.13.3}{244, 863, 9042}

सः¦वे॒द॒¦सु॒ऽस्तु॒ती॒ना‌म्¦इन्दुः॑¦न¦पू॒षा¦वृषा᳚ | अ॒भि¦प्सुरः॑¦प्रु॒षा॒य॒ति॒¦व्र॒ज‌म्¦नः॒¦आ¦प्रु॒षा॒य॒ति॒ ||

मं॒सी॒महि॑त्वाव॒यम॒स्माकं᳚देवपूषन् |{ऐंद्रो विमदः | पूषा | उष्णिक्}

म॒ती॒नांच॒साध॑नं॒विप्रा᳚णांचाध॒वम् || {4/9}{10.26.4}{10.2.10.4}{7.7.13.4}{245, 863, 9043}

मं॒सी॒महि॑¦त्वा॒¦व॒य‌म्¦अ॒स्माक᳚‌म्¦दे॒व॒¦पू॒ष॒न् | म॒ती॒ना‌म्¦च॒¦साध॑न‌म्¦विप्रा᳚णा‌म्¦च॒¦आ॒ऽध॒व‌म् ||

प्रत्य॑र्धिर्य॒ज्ञाना᳚मश्वह॒योरथा᳚नाम् |{ऐंद्रो विमदः | पूषा | अनुष्टुप्}

ऋषिः॒योमनु᳚र्हितो॒विप्र॑स्ययावयत्स॒खः || {5/9}{10.26.5}{10.2.10.5}{7.7.13.5}{246, 863, 9044}

प्रति॑।आर्धिः¦य॒ज्ञाना᳚‌म्¦अ॒श्व॒ऽह॒यः¦रथा᳚ना‌म् | ऋषिः॑¦सः¦यः¦मनुः॑ऽहितः¦विप्र॑स्य¦य॒व॒य॒त्ऽस॒खः ||

आ॒धीष॑माणायाः॒पतिः॑शु॒चाया᳚श्चशु॒चस्य॑ |{ऐंद्रो विमदः | पूषा | अनुष्टुप्}

वा॒सो॒वा॒योऽवी᳚ना॒मावासां᳚सि॒मर्मृ॑जत् || {6/9}{10.26.6}{10.2.10.6}{7.7.14.1}{247, 863, 9045}

आ॒ऽधीष॑माणायाः¦पतिः॑¦शु॒चायाः᳚¦च॒¦शु॒चस्य॑¦च॒ | वा॒सः॒ऽवा॒यः¦अवी᳚ना‌म्¦आ¦वासां᳚सि¦मर्मृ॑जत् ||

इ॒नोवाजा᳚नां॒पति॑रि॒नःपु॑ष्टी॒नांसखा᳚ |{ऐंद्रो विमदः | पूषा | अनुष्टुप्}

प्रश्मश्रु॑हर्य॒तोदू᳚धो॒द्विवृथा॒यो,अदा᳚भ्यः || {7/9}{10.26.7}{10.2.10.7}{7.7.14.2}{248, 863, 9046}

इ॒नः¦वाजा᳚ना‌म्¦पतिः॑¦इ॒नः¦पु॒ष्टी॒ना‌म्¦सखा᳚ | प्र¦श्मश्रु॑¦ह॒र्य॒तः¦दू॒धो॒त्¦वि¦वृथा᳚¦यः¦अदा᳚भ्यः ||

ते॒रथ॑स्यपूषन्न॒जाधुरं᳚ववृत्युः |{ऐंद्रो विमदः | पूषा | अनुष्टुप्}

विश्व॑स्या॒र्थिनः॒सखा᳚सनो॒जा,अन॑पच्युतः || {8/9}{10.26.8}{10.2.10.8}{7.7.14.3}{249, 863, 9047}

आ¦ते॒¦रथ॑स्य¦पू॒ष॒न्¦अ॒जाः¦धुर᳚‌म्¦व॒वृ॒त्युः॒ | विश्व॑स्य¦अ॒र्थिनः॑¦सखा᳚¦स॒नः॒ऽजाः¦अन॑पऽच्युतः ||

अ॒स्माक॑मू॒र्जारथं᳚पू॒षा,अ॑विष्टु॒माहि॑नः |{ऐंद्रो विमदः | पूषा | अनुष्टुप्}

भुव॒द्वाजा᳚नांवृ॒धइ॒मंनः॑शृणव॒द्धव᳚म् || {9/9}{10.26.9}{10.2.10.9}{7.7.14.4}{250, 863, 9048}

अ॒स्माक᳚‌म्¦ऊ॒र्जा¦रथ᳚‌म्¦पू॒षा¦अ॒वि॒ष्टु॒¦माहि॑नः | भुव॑त्¦वाजा᳚ना‌म्¦वृ॒धः¦इ॒म‌म्¦नः॒¦शृ॒ण॒व॒त्¦हव᳚‌म् ||

[27] असत्स्विति चतुर्विंशत्यृचस्य सूक्तस्यैंद्रोवसुक्रइंद्रस्त्रिष्टुप् |
अस॒त्सुमे᳚जरितः॒साभि॑वे॒गोयत्सु᳚न्व॒तेयज॑मानाय॒शिक्ष᳚म् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

अना᳚शीर्दाम॒हम॑स्मिप्रह॒न्तास॑त्य॒ध्वृतं᳚वृजिना॒यन्त॑मा॒भुम् || {1/24}{10.27.1}{10.2.11.1}{7.7.15.1}{251, 864, 9049}

अस॑त्¦सु¦मे॒¦ज॒रि॒त॒रिति॑¦सः¦अ॒भि॒ऽवे॒गः¦यत्¦सु॒न्व॒ते¦यज॑मानाय¦शिक्ष᳚‌म् |
अना᳚शीःऽदा‌म्¦अ॒ह‌म्¦अ॒स्मि॒¦प्र॒ऽह॒न्ता¦स॒त्य॒ऽध्वृत᳚‌म्¦वृ॒जि॒न॒ऽयन्त᳚‌म्¦आ॒भु‌म् ||

यदीद॒हंयु॒धये᳚सं॒नया॒न्यदे᳚वयून्त॒न्वा॒३॑(आ॒)शूशु॑जानान् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

अ॒माते॒तुम्रं᳚वृष॒भंप॑चानिती॒व्रंसु॒तंप᳚ञ्चद॒शंनिषि᳚ञ्चम् || {2/24}{10.27.2}{10.2.11.2}{7.7.15.2}{252, 864, 9050}

यदि॑¦इत्¦अ॒ह‌म्¦यु॒धये᳚¦स॒‌म्ऽनया᳚नि¦अदे᳚वऽयून्¦त॒न्वा᳚¦शूशु॑जानान् |
अ॒मा¦ते॒¦तुम्र᳚‌म्¦वृ॒ष॒भ‌म्¦प॒चा॒नि॒¦ती॒व्र‌म्¦सु॒त‌म्¦पं॒च॒ऽद॒श‌म्¦नि¦सिं॒च॒‌म् ||

नाहंतंवे᳚द॒इति॒ब्रवी॒त्यदे᳚वयून्‌त्स॒मर॑णेजघ॒न्वान् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

य॒दावाख्य॑त्स॒मर॑ण॒मृघा᳚व॒दादिद्ध॑मेवृष॒भाप्रब्रु॑वन्ति || {3/24}{10.27.3}{10.2.11.3}{7.7.15.3}{253, 864, 9051}

न¦अ॒ह‌म्¦त‌म्¦वे॒द॒¦यः¦इति॑¦ब्रवी᳚ति¦अदे᳚वऽयून्¦स॒‌म्।आर॑णे¦ज॒घ॒न्वान् |
य॒दा¦अ॒व॒।आख्य॑त्¦स॒‌म्।आर॑ण‌म्¦ऋघा᳚वत्¦आत्¦इत्¦ह॒¦मे॒¦वृ॒ष॒भा¦प्र¦ब्रु॒व॒न्ति॒ ||

यदज्ञा᳚तेषुवृ॒जने॒ष्वासं॒विश्वे᳚स॒तोम॒घवा᳚नोआसन् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

जि॒नामि॒वेत्‌क्षेम॒सन्त॑मा॒भुंप्रतंक्षि॑णां॒पर्व॑तेपाद॒गृह्य॑ || {4/24}{10.27.4}{10.2.11.4}{7.7.15.4}{254, 864, 9052}

यत्¦अज्ञा᳚तेषु¦वृ॒जने᳚षु¦आस᳚‌म्¦विश्वे᳚¦स॒तः¦म॒घऽवा᳚नः¦मे॒¦आ॒स॒न् |
जि॒नामि॑¦वा॒¦इत्¦क्षेमे᳚¦आ¦सन्त᳚‌म्¦आ॒भु‌म्¦प्र¦त‌म्¦क्षि॒णा॒‌म्¦पर्व॑ते¦पा॒द॒ऽगृह्य॑ ||

वा,उ॒मांवृ॒जने᳚वारयन्ते॒पर्व॑तासो॒यद॒हंम॑न॒स्ये |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

मम॑स्व॒नात्कृ॑धु॒कर्णो᳚भयातए॒वेदनु॒द्यून्‌कि॒रणः॒समे᳚जात् || {5/24}{10.27.5}{10.2.11.5}{7.7.15.5}{255, 864, 9053}

न¦वै¦ऊँ॒ इति॑¦मा‌म्¦वृ॒जने᳚¦वा॒र॒य॒न्ते॒¦न¦पर्व॑तासः¦यत्¦अ॒ह‌म्¦म॒न॒स्ये |
मम॑¦स्व॒नात्¦कृ॒धु॒ऽकर्णः॑¦भ॒या॒ते॒¦ए॒व¦इत्¦अनु॑¦द्यून्¦कि॒रणः॑¦स‌म्¦ए॒जा॒त् ||

दर्श॒न्न्वत्र॑शृत॒पाँ,अ॑नि॒न्द्रान्‌बा᳚हु॒क्षदः॒शर॑वे॒पत्य॑मानान् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

घृषुं᳚वा॒येनि॑नि॒दुःसखा᳚य॒मध्यू॒न्वे᳚षुप॒वयो᳚ववृत्युः || {6/24}{10.27.6}{10.2.11.6}{7.7.16.1}{256, 864, 9054}

दर्श॑न्¦नु¦अत्र॑¦शृ॒त॒ऽपान्¦अ॒नि॒न्द्रान्¦बा॒हु॒ऽक्षदः॑¦शर॑वे¦पत्य॑मानान् |
घृषु᳚‌म्¦वा॒¦ये¦नि॒नि॒दुः¦सखा᳚य‌म्¦अधि॑¦ऊँ॒ इति॑¦नु¦ए॒षु॒¦प॒वयः॑¦व॒वृ॒त्युः॒ ||

अभू॒र्वौक्षी॒र्व्यु१॑(उ॒)आयु॑रान॒ड्दर्ष॒न्नुपूर्वो॒,अप॑रो॒नुद॑र्षत् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

द्वेप॒वस्ते॒परि॒तंभू᳚तो॒यो,अ॒स्यपा॒रेरज॑सोवि॒वेष॑ || {7/24}{10.27.7}{10.2.11.7}{7.7.16.2}{257, 864, 9055}

अभूः᳚¦ऊँ॒ इति॑¦औक्षीः᳚¦वि¦ऊँ॒ इति॑¦आयुः॑¦आ॒न॒ट्¦दर्ष॑त्¦नु¦पूर्वः॑¦अप॑रः¦नु¦द॒र्ष॒त् |
द्वे इति॑¦प॒वस्ते॒ इति॑¦परि॑¦त‌म्¦न¦भू॒तः॒¦यः¦अ॒स्य¦पा॒रे¦रज॑सः¦वि॒वेष॑ ||

गावो॒यवं॒प्रयु॑ता,अ॒र्यो,अ॑क्ष॒न्ता,अ॑पश्यंस॒हगो᳚पा॒श्चर᳚न्तीः |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

हवा॒,इद॒र्यो,अ॒भितः॒समा᳚य॒न्‌किय॑दासु॒स्वप॑तिश्छन्दयाते || {8/24}{10.27.8}{10.2.11.8}{7.7.16.3}{258, 864, 9056}

गाव॑¦यव᳚‌म्¦प्रऽयु॑ताः¦अ॒र्यः¦अ॒क्ष॒न्¦ताः¦अ॒प॒श्य॒‌म्¦स॒हऽगो᳚पाः¦चर᳚न्तीः |
हवाः᳚¦इत्¦अ॒र्यः¦अ॒भितः॑¦स‌म्¦आ॒य॒न्¦किय॑त्¦आ॒सु॒¦स्वऽप॑तिः¦छ॒न्द॒या॒ते॒ ||

संयद्वयं᳚यव॒सादो॒जना᳚नाम॒हंय॒वाद॑उ॒र्वज्रे᳚,अ॒न्तः |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

अत्रा᳚यु॒क्तो᳚ऽवसा॒तार॑मिच्छा॒दथो॒,अयु॑क्तंयुनजद्वव॒न्वान् || {9/24}{10.27.9}{10.2.11.9}{7.7.16.4}{259, 864, 9057}

स‌म्¦यत्¦वय᳚‌म्¦य॒व॒स॒।आदः॑¦जना᳚ना‌म्¦अ॒ह‌म्¦य॒व॒।आदः॑¦उ॒रु॒।आज्रे᳚¦अ॒न्तरिति॑ |
अत्र॑¦यु॒क्तः¦अ॒व॒ऽसा॒तार᳚‌म्¦इ॒च्छा॒त्¦अथो॒ इति॑¦अयु॑क्त‌म्¦यु॒न॒ज॒त्¦व॒व॒न्वान् ||

अत्रेदु॑मेमंससेस॒त्यमु॒क्तंद्वि॒पाच्च॒यच्चतु॑ष्पात्संसृ॒जानि॑ |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

स्त्री॒भिर्यो,अत्र॒वृष॑णंपृत॒न्यादयु॑द्धो,अस्य॒विभ॑जानि॒वेदः॑ || {10/24}{10.27.10}{10.2.11.10}{7.7.16.5}{260, 864, 9058}

अत्र॑¦इत्¦ऊँ॒ इति॑¦मे॒¦मं॒स॒से॒¦स॒त्य‌म्¦उ॒क्त‌म्¦द्वि॒ऽपात्¦च॒¦यत्¦चतुः॑ऽपात्¦स॒‌म्ऽसृ॒जानि॑ |
स्त्री॒ऽभिः¦यः¦अत्र॑¦वृष॑ण‌म्¦पृ॒त॒न्यात्¦अयु॑द्धः¦अ॒स्य॒¦वि¦भ॒जा॒नि॒¦वेदः॑ ||

यस्या᳚न॒क्षादु॑हि॒ताजात्वास॒कस्तांवि॒द्वाँ,अ॒भिम᳚न्याते,अ॒न्धाम् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

क॒त॒रोमे॒निंप्रति॒तंमु॑चाते॒ईं॒वहा᳚ते॒ईं᳚वावरे॒यात् || {11/24}{10.27.11}{10.2.11.11}{7.7.17.1}{261, 864, 9059}

यस्य॑¦अ॒न॒क्षा¦दु॒हि॒ता¦जातु॑¦आस॑¦कः¦ता‌म्¦वि॒द्वान्¦अ॒भि¦म॒न्या॒ते॒¦अ॒न्धा‌म् |
क॒त॒रः¦मे॒नि‌म्¦प्रति॑¦त‌म्¦मु॒चा॒ते॒¦यः¦ई॒‌म्¦वहा᳚ते¦यः¦ई॒‌म्¦वा॒¦व॒रे॒ऽयात् ||

किय॑ती॒योषा᳚मर्य॒तोव॑धू॒योःपरि॑प्रीता॒पन्य॑सा॒वार्ये᳚ण |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

भ॒द्राव॒धूर्भ॑वति॒यत्सु॒पेशाः᳚स्व॒यंसामि॒त्रंव॑नुते॒जने᳚चित् || {12/24}{10.27.12}{10.2.11.12}{7.7.17.2}{262, 864, 9060}

किय॑ती¦योषा᳚¦म॒र्य॒तः¦व॒धू॒ऽयोः¦परि॑ऽप्रीता¦पन्य॑सा¦वार्ये᳚ण |
भ॒द्रा¦व॒धूः¦भ॒व॒ति॒¦यत्¦सु॒ऽपेशाः᳚¦स्व॒य‌म्¦सा¦मि॒त्र‌म्¦व॒नु॒ते॒¦जने᳚¦चि॒त् ||

प॒त्तोज॑गारप्र॒त्यञ्च॑मत्तिशी॒र्ष्णाशिरः॒प्रति॑दधौ॒वरू᳚थम् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

आसी᳚नऊ॒र्ध्वामु॒पसि॑क्षिणाति॒न्य᳚ङ्ङुत्ता॒नामन्वे᳚ति॒भूमि᳚म् || {13/24}{10.27.13}{10.2.11.13}{7.7.17.3}{263, 864, 9061}

प॒त्तः¦ज॒गा॒र॒¦प्र॒त्यंच᳚‌म्¦अ॒त्ति॒¦शी॒र्ष्णा¦शिरः॑¦प्रति॑¦द॒धौ॒¦वरू᳚थ‌म् |
आसी᳚नः¦ऊ॒र्ध्वा‌म्¦उ॒पसि॑¦क्षि॒णा॒ति॒¦न्य॒ङ्¦उ॒त्ता॒ना‌म्¦अनु॑¦ए॒ति॒¦भूमि᳚‌म् ||

बृ॒हन्न॑च्छा॒यो,अ॑पला॒शो,अर्वा᳚त॒स्थौमा॒ताविषि॑तो,अत्ति॒गर्भः॑ |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

अ॒न्यस्या᳚व॒त्संरि॑ह॒तीमि॑माय॒कया᳚भु॒वानिद॑धेधे॒नुरूधः॑ || {14/24}{10.27.14}{10.2.11.14}{7.7.17.4}{264, 864, 9062}

बृ॒हन्¦अ॒च्छा॒यः¦अ॒प॒ला॒शः¦अर्वा᳚¦त॒स्थौ¦मा॒ता¦विऽसि॑तः¦अ॒त्ति॒¦गर्भः॑ |
अ॒न्यस्याः᳚¦व॒त्स‌म्¦रि॒ह॒ती¦मि॒मा॒य॒¦कया᳚¦भु॒वा¦नि¦द॒धे॒¦धे॒नुः¦ऊधः॑ ||

स॒प्तवी॒रासो᳚,अध॒रादुदा᳚यन्न॒ष्टोत्त॒रात्ता॒त्सम॑जग्मिर॒न्ते |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

नव॑प॒श्चाता᳚त्‌स्थिवि॒मन्त॑आय॒न्दश॒प्राक्सानु॒विति॑र॒न्त्यश्नः॑ || {15/24}{10.27.15}{10.2.11.15}{7.7.17.5}{265, 864, 9063}

स॒प्त¦वी॒रासः॑¦अ॒ध॒रात्¦उत्¦आ॒य॒न्¦अ॒ष्ट¦उ॒त्त॒रात्ता᳚त्¦स‌म्¦अ॒ज॒ग्मि॒र॒न्¦ते |
नव॑¦प॒श्चाता᳚त्¦स्थि॒वि॒ऽमन्तः॑¦आ॒य॒न्¦दश॑¦प्राक्¦सानु॑¦वि¦ति॒र॒न्ति॒¦अश्नः॑ ||

द॒शा॒नामेकं᳚कपि॒लंस॑मा॒नंतंहि᳚न्वन्ति॒क्रत॑वे॒पार्या᳚य |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

गर्भं᳚मा॒तासुधि॑तंव॒क्षणा॒स्ववे᳚नन्तंतु॒षय᳚न्तीबिभर्ति || {16/24}{10.27.16}{10.2.11.16}{7.7.18.1}{266, 864, 9064}

द॒शा॒ना‌म्¦एक᳚‌म्¦क॒पि॒ल‌म्¦स॒मा॒न‌म्¦त‌म्¦हि॒न्व॒न्ति॒¦क्रत॑वे¦पार्या᳚य |
गर्भ᳚‌म्¦मा॒ता¦सुऽधि॑त‌म्¦व॒क्षणा᳚सु¦अवे᳚नन्त‌म्¦तु॒षय᳚न्ती¦बि॒भ॒र्ति॒ ||

पीवा᳚नंमे॒षम॑पचन्तवी॒रान्यु॑प्ता,अ॒क्षा,अनु॑दी॒वआ᳚सन् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

द्वाधनुं᳚बृह॒तीम॒प्स्व१॑(अ॒)न्तःप॒वित्र॑वन्ताचरतःपु॒नन्ता᳚ || {17/24}{10.27.17}{10.2.11.17}{7.7.18.2}{267, 864, 9065}

पीवा᳚न‌म्¦मे॒ष‌म्¦अ॒प॒च॒न्त॒¦वी॒राः¦नि।औ᳚प्ताः¦अ॒क्षाः¦अनु॑¦दी॒वे¦आ॒स॒न् |
द्वा¦धनु᳚‌म्¦बृ॒ह॒ती‌म्¦अ॒प्ऽसु¦अ॒न्तरिति॑¦प॒वित्र॑ऽवन्ता¦च॒र॒तः॒¦पु॒नन्ता᳚ ||

विक्रो᳚श॒नासो॒विष्व᳚ञ्चआय॒न्‌पचा᳚ति॒नेमो᳚न॒हिपक्ष॑द॒र्धः |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

अ॒यंमे᳚दे॒वःस॑वि॒तातदा᳚ह॒द्र्व᳚न्न॒इद्व॑नवत्स॒र्पिर᳚न्नः || {18/24}{10.27.18}{10.2.11.18}{7.7.18.3}{268, 864, 9066}

वि¦क्रो॒श॒नासः॑¦विष्वं᳚चः¦आ॒य॒न्¦पचा᳚ति¦नेमः॑¦न॒हि¦पक्ष॑त्¦अ॒र्धः |
अ॒य‌म्¦मे॒¦दे॒वः¦स॒वि॒ता¦तत्¦आ॒ह॒¦द्रु।आ᳚न्नः¦इत्¦व॒न॒व॒त्¦स॒र्पिः।आ᳚न्नः ||

अप॑श्यं॒ग्रामं॒वह॑मानमा॒राद॑च॒क्रया᳚स्व॒धया॒वर्त॑मानम् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

सिष॑क्त्य॒र्यःप्रयु॒गाजना᳚नांस॒द्यःशि॒श्नाप्र॑मिना॒नोनवी᳚यान् || {19/24}{10.27.19}{10.2.11.19}{7.7.18.4}{269, 864, 9067}

अप॑श्य‌म्¦ग्राम᳚‌म्¦वह॑मान‌म्¦आ॒रात्¦अ॒च॒क्रया᳚¦स्व॒धया᳚¦वर्त॑मान‌म् |
सिस॑क्ति¦अ॒र्यः¦प्र¦यु॒गा¦जना᳚ना‌म्¦स॒द्यः¦शि॒श्ना¦प्र॒ऽमि॒ना॒नः¦नवी᳚यान् ||

ए॒तौमे॒गावौ᳚प्रम॒रस्य॑यु॒क्तौमोषुप्रसे᳚धी॒र्मुहु॒रिन्म॑मन्धि |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

आप॑श्चिदस्य॒विन॑श॒न्त्यर्थं॒सूर॑श्चम॒र्कउप॑रोबभू॒वान् || {20/24}{10.27.20}{10.2.11.20}{7.7.18.5}{270, 864, 9068}

ए॒तौ¦मे॒¦गावौ᳚¦प्र॒ऽम॒रस्य॑¦यु॒क्तौ¦मो इति॑¦सु¦प्र¦से॒धीः॒¦मुहुः॑¦इत्¦म॒म॒न्धि॒ |
आपः॑¦चि॒त्¦अ॒स्य॒¦वि¦न॒श॒न्ति॒¦अर्थ᳚‌म्¦सूरः॑¦च॒¦म॒र्कः¦उप॑रः¦ब॒भू॒वान् ||

अ॒यंयोवज्रः॑पुरु॒धाविवृ॑त्तो॒ऽवःसूर्य॑स्यबृह॒तःपुरी᳚षात् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

श्रव॒इदे॒नाप॒रो,अ॒न्यद॑स्ति॒तद᳚व्य॒थीज॑रि॒माण॑स्तरन्ति || {21/24}{10.27.21}{10.2.11.21}{7.7.19.1}{271, 864, 9069}

अ॒य‌म्¦यः¦वज्रः॑¦पु॒रु॒धा¦विऽवृ॑त्तः¦अ॒वः¦सूर्य॑स्य¦बृ॒ह॒तः¦पुरी᳚षात् |
श्रवः॑¦इत्¦ए॒ना¦प॒रः¦अ॒न्यत्¦अ॒स्ति॒¦तत्¦अ॒व्य॒थी¦ज॒रि॒माणः॑¦त॒र॒न्ति॒ ||

वृ॒क्षेवृ॑क्षे॒निय॑तामीमय॒द्गौस्ततो॒वयः॒प्रप॑तान्‌पूरु॒षादः॑ |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

अथे॒दंविश्वं॒भुव॑नंभयात॒इन्द्रा᳚यसु॒न्वदृष॑येच॒शिक्ष॑त् || {22/24}{10.27.22}{10.2.11.22}{7.7.19.2}{272, 864, 9070}

वृ॒क्षेऽवृ॑क्षे¦निऽय॑ता¦मी॒म॒य॒त्¦गौः¦ततः॑¦वयः॑¦प्र¦प॒ता॒न्¦पु॒रु॒ष॒।आदः॑ |
अथ॑¦इ॒द‌म्¦विश्व᳚‌म्¦भुव॑न‌म्¦भ॒या॒ते॒¦इन्द्रा᳚य¦सु॒न्वत्¦ऋष॑ये¦च॒¦शिक्ष॑त् ||

दे॒वानां॒माने᳚प्रथ॒मा,अ॑तिष्ठन्‌कृ॒न्तत्रा᳚देषा॒मुप॑रा॒,उदा᳚यन् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

त्रय॑स्तपन्तिपृथि॒वीम॑नू॒पाद्वाबृबू᳚कंवहतः॒पुरी᳚षम् || {23/24}{10.27.23}{10.2.11.23}{7.7.19.3}{273, 864, 9071}

दे॒वाना᳚‌म्¦माने᳚¦प्र॒थ॒माः¦अ॒ति॒ष्ठ॒न्¦कृ॒न्तत्रा᳚त्¦ए॒षा॒‌म्¦उप॑राः¦उत्¦आ॒य॒न् |
त्रयः॑¦त॒प॒न्ति॒¦पृ॒थि॒वी‌म्¦अ॒नू॒पाः¦द्वा¦बृबू᳚क‌म्¦व॒ह॒तः॒¦पुरी᳚ष‌म् ||

साते᳚जी॒वातु॑रु॒ततस्य॑विद्धि॒मास्मै᳚ता॒दृगप॑गूहःसम॒र्ये |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

आ॒विःस्वः॑कृणु॒तेगूह॑तेबु॒संपा॒दुर॑स्यनि॒र्णिजो॒मु॑च्यते || {24/24}{10.27.24}{10.2.11.24}{7.7.19.4}{274, 864, 9072}

सा¦ते॒¦जी॒वातुः॑¦उ॒त¦तस्य॑¦वि॒द्धि॒¦मा¦स्म॒¦ए॒ता॒दृक्¦अप॑¦गू॒हः॒¦स॒म॒र्ये |
आ॒विः¦स्व१॒॑रिति॒ स्वः॑¦कृ॒णु॒ते¦गूह॑ते¦बु॒स‌म्¦सः¦पा॒दुः¦अ॒स्य॒¦निः॒ऽनिजः॑¦न¦मु॒च्य॒ते॒ ||

[28] विश्वेहीति द्वादशर्चस्य सूक्तस्य आद्यायाइंद्रस्नुषाऋषिका द्वितीयादिचतुर्थीवर्जानां युजामिंद्रऋषिः चतुर्थीसहितानामयुजांवसुक्रऋषिः चतुर्थीवर्ज्यानांयुजांवसुक्रोदेवता शिष्टानामिंद्रस्त्रिष्टुप् | (अत्रसूक्तेप्रथमर्चींद्रस्नुषार्षत्वे विकल्पं शौनकोमन्यते तत्‌पक्षे तत्रवसुक्रोविज्ञेयः) |
विश्वो॒ह्य१॑(अ॒)न्यो,अ॒रिरा᳚ज॒गाम॒ममेदह॒श्वशु॑रो॒नाज॑गाम |{इन्द्रस्नुषाः | इन्द्रः | त्रिष्टुप्}

ज॒क्षी॒याद्धा॒ना,उ॒तसोमं᳚पपीया॒त्स्वा᳚शितः॒पुन॒रस्तं᳚जगायात् || {1/12}{10.28.1}{10.2.12.1}{7.7.20.1}{275, 865, 9073}

विश्वः॑¦हि¦अ॒न्यः¦अ॒रिः¦आ॒ज॒गाम॑¦मम॑¦इत्¦अह॑¦श्वशु॑रः¦न¦आ¦ज॒गा॒म॒ |
ज॒क्षी॒यात्¦धा॒नाः¦उ॒त¦सोम᳚‌म्¦प॒पी॒या॒त्¦सुऽआ᳚शितः¦पुनः॑¦अस्त᳚‌म्¦ज॒गा॒या॒त् ||

रोरु॑वद्वृष॒भस्ति॒ग्मशृ᳚ङ्गो॒वर्ष्म᳚न्तस्थौ॒वरि॑म॒न्नापृ॑थि॒व्याः |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

विश्वे᳚ष्वेनंवृ॒जने᳚षुपामि॒योमे᳚कु॒क्षीसु॒तसो᳚मःपृ॒णाति॑ || {2/12}{10.28.2}{10.2.12.2}{7.7.20.2}{276, 865, 9074}

सः¦रोरु॑वत्¦वृ॒ष॒भः¦ति॒ग्मऽशृ᳚ङ्गः¦वर्ष्म॑न्¦त॒स्थौ॒¦वरि॑मन्¦आ¦पृ॒थि॒व्याः |
विश्वे᳚षु¦ए॒न॒‌म्¦वृ॒जने᳚षु¦पा॒मि॒¦यः¦मे॒¦कु॒क्षी इति॑¦सु॒तऽसो᳚मः¦पृ॒णाति॑ ||

अद्रि॑णातेम॒न्दिन॑इन्द्र॒तूया᳚न्‌त्सु॒न्वन्ति॒सोमा॒न्‌पिब॑सि॒त्वमे᳚षाम् |{इन्द्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

पच᳚न्तितेवृष॒भाँ,अत्सि॒तेषां᳚पृ॒क्षेण॒यन्म॑घवन्हू॒यमा᳚नः || {3/12}{10.28.3}{10.2.12.3}{7.7.20.3}{277, 865, 9075}

अद्रि॑णा¦ते॒¦म॒न्दिनः॑¦इ॒न्द्र॒¦तूया᳚न्¦सु॒न्वन्ति॑¦सोमा᳚न्¦पिब॑सि¦त्व‌म्¦ए॒षा॒‌म् |
पच᳚न्ति¦ते॒¦वृ॒ष॒भान्¦अत्सि॑¦तेषा᳚‌म्¦पृ॒क्षेण॑¦यत्¦म॒घ॒ऽव॒न्¦हू॒यमा᳚नः ||

इ॒दंसुमे᳚जरित॒राचि॑किद्धिप्रती॒पंशापं᳚न॒द्यो᳚वहन्ति |{इन्द्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

लो॒पा॒शःसिं॒हंप्र॒त्यञ्च॑मत्साःक्रो॒ष्टाव॑रा॒हंनिर॑तक्त॒कक्षा᳚त् || {4/12}{10.28.4}{10.2.12.4}{7.7.20.4}{278, 865, 9076}

इ॒द‌म्¦सु¦मे॒¦ज॒रि॒तः॒¦आ¦चि॒कि॒द्धि॒¦प्र॒ति॒ऽई॒प‌म्¦शाप᳚‌म्¦न॒द्यः॑¦व॒ह॒न्ति॒ |
लो॒पा॒शः¦सिं॒ह‌म्¦प्र॒त्यंच᳚‌म्¦अ॒त्सा॒रिति॑¦क्रो॒ष्टा¦व॒रा॒ह‌म्¦निः¦अ॒त॒क्त॒¦कक्षा᳚त् ||

क॒थात॑ए॒तद॒हमाचि॑केतं॒गृत्स॑स्य॒पाक॑स्त॒वसो᳚मनी॒षाम् |{इन्द्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

त्वंनो᳚वि॒द्वाँ,ऋ॑तु॒थाविवो᳚चो॒यमर्धं᳚तेमघवन्‌क्षे॒म्याधूः || {5/12}{10.28.5}{10.2.12.5}{7.7.20.5}{279, 865, 9077}

क॒था¦ते॒¦ए॒तत्¦अ॒ह‌म्¦आ¦चि॒के॒त॒‌म्¦गृत्स॑स्य¦पाकः॑¦त॒वसः॑¦म॒नी॒षा‌म् |
त्व‌म्¦नः॒¦वि॒द्वान्¦ऋ॒तु॒ऽथा¦वि¦वो॒चः॒¦य‌म्¦अर्ध᳚‌म्¦ते॒¦म॒घ॒ऽव॒न्¦क्षे॒म्या¦धूः ||

ए॒वाहिमांत॒वसं᳚व॒र्धय᳚न्तिदि॒वश्चि᳚न्मेबृह॒तउत्त॑रा॒धूः |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

पु॒रूस॒हस्रा॒निशि॑शामिसा॒कम॑श॒त्रुंहिमा॒जनि॑ताज॒जान॑ || {6/12}{10.28.6}{10.2.12.6}{7.7.20.6}{280, 865, 9078}

ए॒व¦हि¦मा‌म्¦त॒वस᳚‌म्¦व॒र्धय᳚न्ति¦दि॒वः¦चि॒त्¦मे॒¦बृ॒ह॒तः¦उत्ऽत॑रा¦धूः |
पु॒रु¦स॒हस्रा᳚¦नि¦शि॒शा॒मि॒¦सा॒क‌म्¦अ॒श॒त्रु‌म्¦हि¦मा॒¦जनि॑ता¦ज॒जान॑ ||

ए॒वाहिमांत॒वसं᳚ज॒ज्ञुरु॒ग्रंकर्म᳚न्‌कर्म॒न्‌वृष॑णमिन्द्रदे॒वाः |{इन्द्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

वधीं᳚वृ॒त्रंवज्रे᳚णमन्दसा॒नोऽप᳚व्र॒जंम॑हि॒नादा॒शुषे᳚वम् || {7/12}{10.28.7}{10.2.12.7}{7.7.21.1}{281, 865, 9079}

ए॒व¦हि¦मा‌म्¦त॒वस᳚‌म्¦ज॒ज्ञुः¦उ॒ग्र‌म्¦कर्म॑न्ऽकर्मन्¦वृष॑ण‌म्¦इ॒न्द्र॒¦दे॒वाः |
वधी᳚‌म्¦वृ॒त्र‌म्¦वज्रे᳚ण¦म॒न्द॒सा॒नः¦अप॑¦व्र॒ज‌म्¦म॒हि॒ना¦दा॒शुषे᳚¦व॒‌म् ||

दे॒वास॑आयन्‌पर॒शूँर॑बिभ्र॒न्वना᳚वृ॒श्चन्तो᳚,अ॒भिवि॒ड्भिरा᳚यन् |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

निसु॒द्र्व१॑(अं॒)दध॑तोव॒क्षणा᳚सु॒यत्रा॒कृपी᳚ट॒मनु॒तद्द॑हन्ति || {8/12}{10.28.8}{10.2.12.8}{7.7.21.2}{282, 865, 9080}

दे॒वासः॑¦आ॒य॒न्¦प॒र॒शून्¦अ॒बि॒भ्र॒न्¦वना᳚¦वृ॒श्चन्तः॑¦अ॒भि¦वि॒ट्ऽभिः¦आ॒य॒न् |
नि¦सु॒ऽद्र्व᳚‌म्¦दध॑तः¦व॒क्षणा᳚सु¦यत्र॑¦कृपी᳚ट‌म्¦अनु॑¦तत्¦द॒ह॒न्ति॒ ||

श॒शः,क्षु॒रंप्र॒त्यञ्चं᳚जगा॒राद्रिं᳚लो॒गेन॒व्य॑भेदमा॒रात् |{इन्द्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

बृ॒हन्तं᳚चिदृह॒तेर᳚न्धयानि॒वय॑द्व॒त्सोवृ॑ष॒भंशूशु॑वानः || {9/12}{10.28.9}{10.2.12.9}{7.7.21.3}{283, 865, 9081}

श॒शः¦क्षु॒र‌म्¦प्र॒त्यंच᳚‌म्¦ज॒गा॒र॒¦अद्रि᳚‌म्¦लो॒गेन॑¦वि¦अ॒भे॒द॒‌म्¦आ॒रात् |
बृ॒हन्त᳚‌म्¦चि॒त्¦ऋ॒ह॒ते¦र॒न्ध॒या॒नि॒¦वय॑त्¦व॒त्सः¦वृ॒ष॒भ‌म्¦शूशु॑वानः ||

सु॒प॒र्णइ॒त्थान॒खमासि॑षा॒याव॑रुद्धःपरि॒पदं॒सिं॒हः |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

नि॒रु॒द्धश्चि᳚न्महि॒षस्त॒र्ष्यावा᳚न्‌गो॒धातस्मा᳚,अ॒यथं᳚कर्षदे॒तत् || {10/12}{10.28.10}{10.2.12.10}{7.7.21.4}{284, 865, 9082}

सु॒ऽप॒र्णः¦इ॒त्था¦न॒ख‌म्¦आ¦सि॒सा॒य॒¦अव॑ऽरुद्धः¦प॒रि॒ऽपद᳚‌म्¦न¦सिं॒हः |
नि॒ऽरु॒द्धः¦चि॒त्¦म॒हि॒षः¦त॒र्ष्याऽवा᳚न्¦गो॒धा¦तस्मै᳚¦अ॒यथ᳚‌म्¦क॒र्ष॒त्¦ए॒तत् ||

तेभ्यो᳚गो॒धा,अ॒यथं᳚कर्षदे॒तद्येब्र॒ह्मणः॑प्रति॒पीय॒न्त्यन्नैः᳚ |{इन्द्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

सि॒मउ॒क्ष्णो᳚ऽवसृ॒ष्टाँ,अ॑दन्तिस्व॒यंबला᳚नित॒न्वः॑शृणा॒नाः || {11/12}{10.28.11}{10.2.12.11}{7.7.21.5}{285, 865, 9083}

तेभ्यः॑¦गो॒धाः¦अ॒यथ᳚‌म्¦क॒र्ष॒त्¦ए॒तत्¦ये¦ब्र॒ह्मणः॑¦प्र॒ति॒ऽपीय᳚न्ति¦अन्नैः᳚ |
सि॒मः¦उ॒क्ष्णः¦अ॒व॒ऽसृ॒ष्टान्¦अ॒द॒न्ति॒¦स्व॒य‌म्¦बला᳚नि¦त॒न्वः॑¦शृ॒णा॒नाः ||

ए॒तेशमी᳚भिःसु॒शमी᳚,अभूव॒न्येहि᳚न्‌वि॒रेत॒न्व१॑(अः॒)सोम॑उ॒क्थैः |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

नृ॒वद्वद॒न्नुप॑नोमाहि॒वाजा᳚न्दि॒विश्रवो᳚दधिषे॒नाम॑वी॒रः || {12/12}{10.28.12}{10.2.12.12}{7.7.21.6}{286, 865, 9084}

ए॒ते¦शमी᳚भिः¦सु॒ऽशमी᳚¦अ॒भू॒व॒न्¦ये¦हि॒न्वि॒रे¦त॒न्वः॑¦सोमे᳚¦उ॒क्थैः |
नृ॒ऽवत्¦वद॑न्¦उप॑¦नः॒¦मा॒हि॒¦वाजा᳚न्¦दि॒वि¦श्रवः॑¦द॒धि॒षे॒¦नाम॑¦वी॒रः ||

[29] वनेनेत्यष्टर्चस्य सूक्तस्यैंद्रोवसुक्रइंद्रस्त्रिष्टुप् |
वने॒वा॒योन्य॑धायिचा॒कञ्छुचि᳚र्वां॒स्तोमो᳚भुरणावजीगः |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

यस्येदिन्द्रः॑पुरु॒दिने᳚षु॒होता᳚नृ॒णांनर्यो॒नृत॑मः,क्ष॒पावा॑न् || {1/8}{10.29.1}{10.2.13.1}{7.7.22.1}{287, 866, 9085}

वने᳚¦न¦वा॒¦यः¦नि¦अ॒धा॒यि॒¦चा॒कन्¦शुचिः॑¦वा॒‌म्¦स्तोमः॑¦भु॒र॒णौ॒¦अ॒जी॒ग॒रिति॑ |
यस्य॑¦इत्¦इन्द्रः॑¦पु॒रु॒ऽदिने᳚षु¦होता᳚¦नृ॒णा‌म्¦नर्यः॑¦नृऽत॑मः¦क्ष॒पाऽवा॑न् ||

प्रते᳚,अ॒स्या,उ॒षसः॒प्राप॑रस्यानृ॒तौस्या᳚म॒नृत॑मस्यनृ॒णाम् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

अनु॑त्रि॒शोकः॑श॒तमाव॑ह॒न्नॄन्‌कुत्से᳚न॒रथो॒यो,अस॑त्सस॒वान् || {2/8}{10.29.2}{10.2.13.2}{7.7.22.2}{288, 866, 9086}

प्र¦ते॒¦अ॒स्याः¦उ॒षसः॑¦प्र¦अप॑रस्याः¦नृ॒तौ¦स्या॒म॒¦नृऽत॑मस्य¦नृ॒णा‌म् |
अनु॑¦त्रि॒ऽशोकः॑¦श॒त‌म्¦आ¦अ॒व॒ह॒न्¦नॄन्¦कुत्से᳚न¦रथः॑¦यः¦अस॑त्¦स॒स॒ऽवान् ||

कस्ते॒मद॑इन्द्र॒रन्त्यो᳚भू॒द्दुरो॒गिरो᳚,अ॒भ्यु१॑(उ॒)ग्रोविधा᳚व |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

कद्वाहो᳚,अ॒र्वागुप॑मामनी॒षा,त्वा᳚शक्यामुप॒मंराधो॒,अन्नैः᳚ || {3/8}{10.29.3}{10.2.13.3}{7.7.22.3}{289, 866, 9087}

कः¦ते॒¦मदः॑¦इ॒न्द्र॒¦रन्त्यः॑¦भू॒त्¦दुरः॑¦गिरः॑¦अ॒भि¦उ॒ग्रः¦वि¦धा॒व॒ |
कत्¦वाहः॑¦अ॒र्वाक्¦उप॑¦मा॒¦म॒नी॒षा¦आ¦त्वा॒¦श॒क्या॒‌म्¦उ॒प॒ऽम‌म्¦राधः॑¦अन्नैः᳚ ||

कदु॑द्यु॒म्नमि᳚न्द्र॒त्वाव॑तो॒नॄन्‌कया᳚धि॒याक॑रसे॒कन्न॒आग॑न् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

मि॒त्रोस॒त्यउ॑रुगायभृ॒त्या,अन्ने᳚समस्य॒यदस᳚न्मनी॒षाः || {4/8}{10.29.4}{10.2.13.4}{7.7.22.4}{290, 866, 9088}

कत्¦ऊँ॒ इति॑¦द्यु॒म्न‌म्¦इ॒न्द्र॒¦त्वाऽव॑तः¦नॄन्¦कया᳚¦धि॒या¦क॒र॒से॒¦कत्¦नः॒¦आ¦अ॒ग॒न् |
मि॒त्रः¦न¦स॒त्यः¦उ॒रु॒ऽगा॒य॒¦भृ॒त्यै¦अन्ने᳚¦स॒म॒स्य॒¦यत्¦अस॑न्¦म॒नी॒षाः ||

प्रेर॑य॒सूरो॒,अर्थं॒पा॒रंये,अ॑स्य॒कामं᳚जनि॒धा,इ॑व॒ग्मन् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

गिर॑श्च॒येते᳚तुविजातपू॒र्वीर्नर॑इन्द्रप्रति॒शिक्ष॒न्त्यन्नैः᳚ || {5/8}{10.29.5}{10.2.13.5}{7.7.22.5}{291, 866, 9089}

प्र¦ई॒र॒य॒¦सूरः॑¦अर्थ᳚‌म्¦न¦पा॒र‌म्¦ये¦अ॒स्य॒¦काम᳚‌म्¦ज॒नि॒धाःऽ‌इ᳚व¦ग्मन् |
गिरः॑¦च॒¦ये¦ते॒¦तु॒वि॒ऽजा॒त॒¦पू॒र्वीः¦नरः॑¦इ॒न्द्र॒¦प्र॒ति॒ऽशिक्ष᳚न्ति¦अन्नैः᳚ ||

मात्रे॒नुते॒सुमि॑ते,इन्द्रपू॒र्वीद्यौर्म॒ज्मना᳚पृथि॒वीकाव्ये᳚न |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

वरा᳚यतेघृ॒तव᳚न्तःसु॒तासः॒स्वाद्म᳚न्‌भवन्तुपी॒तये॒मधू᳚नि || {6/8}{10.29.6}{10.2.13.6}{7.7.23.1}{292, 866, 9090}

मात्रे॒ इति॑¦नु¦ते॒¦सुमि॑ते॒ इति॒ सुऽमि॑ते¦इ॒न्द्र॒¦पू॒र्वी इति॑¦द्यौः¦म॒ज्मना᳚¦पृ॒थि॒वी¦काव्ये᳚न |
वरा᳚य¦ते॒¦घृ॒तऽव᳚न्तः¦सु॒तासः॑¦स्वाद्म॑न्¦भ॒व॒न्तु॒¦पी॒तये᳚¦मधू᳚नि ||

मध्वो᳚,अस्मा,असिच॒न्नम॑त्र॒मिन्द्रा᳚यपू॒र्णंहिस॒त्यरा᳚धाः |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

वा᳚वृधे॒वरि॑म॒न्नापृ॑थि॒व्या,अ॒भिक्रत्वा॒नर्यः॒पौंस्यै᳚श्च || {7/8}{10.29.7}{10.2.13.7}{7.7.23.2}{293, 866, 9091}

आ¦मध्वः॑¦अ॒स्मै॒¦अ॒सि॒च॒न्¦अम॑त्र‌म्¦इन्द्रा᳚य¦पू॒र्ण‌म्¦सः¦हि¦स॒त्यऽरा᳚धाः |
सः¦व॒वृ॒धे॒¦वरि॑मन्¦आ¦पृ॒थि॒व्याः¦अ॒भि¦क्रत्वा᳚¦नर्यः॑¦पौंस्यैः᳚¦च॒ ||

व्या᳚न॒ळिन्द्रः॒पृत॑नाः॒स्वोजा॒,आस्मै᳚यतन्तेस॒ख्याय॑पू॒र्वीः |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्}

स्मा॒रथं॒पृत॑नासुतिष्ठ॒यंभ॒द्रया᳚सुम॒त्याचो॒दया᳚से || {8/8}{10.29.8}{10.2.13.8}{7.7.23.3}{294, 866, 9092}

वि¦आ॒न॒ट्¦इन्द्रः॑¦पृत॑नाः¦सु॒ऽओजाः᳚¦आ¦अ॒स्मै॒¦य॒त॒न्ते॒¦स॒ख्याय॑¦पू॒र्वीः |
आ¦स्म॒¦रथ᳚‌म्¦न¦पृत॑नासु¦ति॒ष्ठ॒¦य‌म्¦भ॒द्रया᳚¦सु॒ऽम॒त्या¦चो॒दया᳚से ||

[30] प्रदेवत्रेति पंचदशर्चस्य सूक्तस्यैलूषः कवषआपस्त्रिष्टुप् |
प्रदे᳚व॒त्राब्रह्म॑णेगा॒तुरे᳚त्व॒पो,अच्छा॒मन॑सो॒प्रयु॑क्ति |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

म॒हींमि॒त्रस्य॒वरु॑णस्यधा॒सिंपृ॑थु॒ज्रय॑सेरीरधासुवृ॒क्तिम् || {1/15}{10.30.1}{10.3.1.1}{7.7.24.1}{295, 867, 9093}

प्र¦दे॒व॒ऽत्रा¦ब्रह्म॑णे¦गा॒तुः¦ए॒तु॒¦अ॒पः¦अच्छ॑¦मन॑सः¦न¦प्रऽयु॑क्ति |
म॒ही‌म्¦मि॒त्रस्य॑¦वरु॑णस्य¦धा॒सि‌म्¦पृ॒थु॒ऽज्रय॑से¦री॒र॒ध॒¦सु॒ऽवृ॒क्ति‌म् ||

अध्व᳚र्यवोह॒विष्म᳚न्तो॒हिभू॒ताच्छा॒पइ॑तोश॒तीरु॑शन्तः |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

अव॒याश्चष्टे᳚,अरु॒णःसु॑प॒र्णस्तमास्य॑ध्वमू॒र्मिम॒द्यासु॑हस्ताः || {2/15}{10.30.2}{10.3.1.2}{7.7.24.2}{296, 867, 9094}

अध्व᳚र्यवः¦ह॒विष्म᳚न्तः¦हि¦भू॒त¦अच्छ॑¦अ॒पः¦इ॒त॒¦उ॒श॒तीः¦उ॒श॒न्तः॒ |
अव॑¦याः¦चष्टे᳚¦अ॒रु॒णः¦सु॒ऽप॒र्णः¦त‌म्¦आ¦अ॒स्य॒ध्व॒‌म्¦ऊ॒र्मि‌म्¦अ॒द्य¦सु॒ऽह॒स्ताः॒ ||

अध्व᳚र्यवो॒ऽपइ॑तासमु॒द्रम॒पांनपा᳚तंह॒विषा᳚यजध्वम् |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

वो᳚दददू॒र्मिम॒द्यासुपू᳚तं॒तस्मै॒सोमं॒मधु॑मन्तंसुनोत || {3/15}{10.30.3}{10.3.1.3}{7.7.24.3}{297, 867, 9095}

अध्व᳚र्यवः¦अ॒पः¦इ॒त॒¦स॒मु॒द्र‌म्¦अ॒पा‌म्¦नपा᳚त‌म्¦ह॒विषा᳚¦य॒ज॒ध्व॒‌म् |
सः¦वः॒¦द॒द॒त्¦ऊ॒र्मि‌म्¦अ॒द्य¦सुऽपू᳚त‌म्¦तस्मै᳚¦सोम᳚‌म्¦मधु॑ऽमन्त‌म्¦सु॒नो॒त॒ ||

यो,अ॑नि॒ध्मोदीद॑यद॒प्स्व१॑(अ॒)न्तर्यंविप्रा᳚स॒ईळ॑ते,अध्व॒रेषु॑ |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

अपां᳚नपा॒न्मधु॑मतीर॒पोदा॒याभि॒रिन्द्रो᳚वावृ॒धेवी॒र्या᳚य || {4/15}{10.30.4}{10.3.1.4}{7.7.24.4}{298, 867, 9096}

यः¦अ॒नि॒ध्मः¦दीद॑यत्¦अ॒प्ऽसु¦अ॒न्तः¦य‌म्¦विप्रा᳚सः¦ईळ॑ते¦अ॒ध्व॒रेषु॑ |
अपा᳚‌म्¦न॒पा॒त्¦मधु॑ऽमतीः¦अ॒पः¦दाः॒¦याभिः॑¦इन्द्रः॑¦व॒वृ॒धे¦वी॒र्या᳚य ||

याभिः॒सोमो॒मोद॑ते॒हर्ष॑तेकल्या॒णीभि᳚र्युव॒तिभि॒र्नमर्यः॑ |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

ता,अ॑ध्वर्यो,अ॒पो,अच्छा॒परे᳚हि॒यदा᳚सि॒ञ्चा,ओष॑धीभिःपुनीतात् || {5/15}{10.30.5}{10.3.1.5}{7.7.24.5}{299, 867, 9097}

याभिः॑¦सोमः॑¦मोद॑ते¦हर्ष॑ते¦च॒¦क॒ल्या॒णीभिः॑¦यु॒व॒तिऽभिः॑¦न¦मर्यः॑ |
ताः¦अ॒ध्व॒र्यो॒ इति॑¦अ॒पः¦अच्छ॑¦परा᳚¦इ॒हि॒¦यत्¦आ॒ऽसिं॒चाः¦ओष॑धीभिः¦पु॒नी॒ता॒त् ||

ए॒वेद्यूने᳚युव॒तयो᳚नमन्त॒यदी᳚मु॒शन्नु॑श॒तीरेत्यच्छ॑ |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

संजा᳚नते॒मन॑सा॒संचि॑कित्रेऽध्व॒र्यवो᳚धि॒षणाप॑श्चदे॒वीः || {6/15}{10.30.6}{10.3.1.6}{7.7.25.1}{300, 867, 9098}

ए॒व¦इत्¦यूने᳚¦यु॒व॒तयः॑¦न॒म॒न्त॒¦यत्¦ई॒‌म्¦उ॒शन्¦उ॒ष॒तीः¦एति॑¦अच्छ॑ |
स‌म्¦जा॒न॒ते॒¦मन॑सा¦स‌म्¦चि॒कि॒त्रे॒¦अ॒ध्व॒र्यवः॑¦धि॒षणा᳚¦आपः॑¦च॒¦दे॒वीः ||

योवो᳚वृ॒ताभ्यो॒,अकृ॑णोदुलो॒कंयोवो᳚म॒ह्या,अ॒भिश॑स्ते॒रमु᳚ञ्चत् |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

तस्मा॒,इन्द्रा᳚य॒मधु॑मन्तमू॒र्मिंदे᳚व॒माद॑नं॒प्रहि॑णोतनापः || {7/15}{10.30.7}{10.3.1.7}{7.7.25.2}{301, 867, 9099}

यः¦वः॒¦वृ॒ताभ्यः॑¦अकृ॑णोत्¦ऊँ॒ इति॑¦लो॒क‌म्¦यः¦वः॒¦म॒ह्याः¦अ॒भिऽश॑स्तेः¦अमुं᳚चत् |
तस्मै᳚¦इन्द्रा᳚य¦मधु॑ऽमन्त‌म्¦ऊ॒र्मि‌म्¦दे॒व॒ऽमाद॑न‌म्¦प्र¦हि॒णो॒त॒न॒¦आ॒पः ||

प्रास्मै᳚हिनोत॒मधु॑मन्तमू॒र्मिंगर्भो॒योवः॑सिन्धवो॒मध्व॒उत्सः॑ |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

घृ॒तपृ॑ष्ठ॒मीड्य॑मध्व॒रेष्वापो᳚रेवतीःशृणु॒ताहवं᳚मे || {8/15}{10.30.8}{10.3.1.8}{7.7.25.3}{302, 867, 9100}

प्र¦अ॒स्मै॒¦हि॒नो॒त॒¦मधु॑ऽमन्त‌म्¦ऊ॒र्मि‌म्¦गर्भः॑¦यः¦वः॒¦सि॒न्ध॒वः॒¦मध्वः॑¦उत्सः॑ |
घृ॒तऽपृ॑ष्ठ‌म्¦ईड्य᳚‌म्¦अ॒ध्व॒रेषु॑¦आपः॑¦रे॒व॒तीः॒¦शृ॒णु॒त¦हव᳚‌म्¦मे॒ ||

तंसि᳚न्धवोमत्स॒रमि᳚न्द्र॒पान॑मू॒र्मिंप्रहे᳚त॒उ॒भे,इय॑र्ति |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

म॒द॒च्युत॑मौशा॒नंन॑भो॒जांपरि॑त्रि॒तन्तुं᳚वि॒चर᳚न्त॒मुत्स᳚म् || {9/15}{10.30.9}{10.3.1.9}{7.7.25.4}{303, 867, 9101}

त‌म्¦सि॒न्ध॒वः॒¦म॒त्स॒र‌म्¦इ॒न्द्र॒ऽपान᳚‌म्¦ऊ॒र्मि‌म्¦प्र¦हे॒त॒¦यः¦उ॒भे इति॑¦इय॑र्ति |
म॒द॒ऽच्युत᳚‌म्¦औ॒शा॒न‌म्¦न॒भः॒ऽजा‌म्¦परि॑¦त्रि॒ऽतन्तु᳚‌म्¦वि॒ऽचर᳚न्त‌म्¦उत्स᳚‌म् ||

आ॒वर्वृ॑तती॒रध॒नुद्वि॒धारा᳚गोषु॒युधो॒नि॑य॒वंचर᳚न्तीः |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

ऋषे॒जनि॑त्री॒र्भुव॑नस्य॒पत्नी᳚र॒पोव᳚न्दस्वस॒वृधः॒सयो᳚नीः || {10/15}{10.30.10}{10.3.1.10}{7.7.25.5}{304, 867, 9102}

आ॒ऽवर्वृ॑ततीः¦अध॑¦नु¦द्वि॒ऽधाराः᳚¦गो॒षु॒ऽयुधः॑¦न¦नि॒ऽय॒व‌म्¦चर᳚न्तीः |
ऋषे᳚¦जनि॑त्रीः¦भुव॑नस्य¦पत्नीः᳚¦अ॒पः¦व॒न्द॒स्व॒¦स॒ऽवृधः॑¦सऽयो᳚नीः ||

हि॒नोता᳚नो,अध्व॒रंदे᳚वय॒ज्याहि॒नोत॒ब्रह्म॑स॒नये॒धना᳚नाम् |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

ऋ॒तस्य॒योगे॒विष्य॑ध्व॒मूधः॑श्रुष्टी॒वरी᳚र्भूतना॒स्मभ्य॑मापः || {11/15}{10.30.11}{10.3.1.11}{7.7.26.1}{305, 867, 9103}

हि॒नोत॑¦नः॒¦अ॒ध्व॒र‌म्¦दे॒व॒ऽय॒ज्या¦हि॒नोत॑¦ब्रह्म॑¦स॒नये᳚¦धना᳚ना‌म् |
ऋ॒तस्य॑¦योगे᳚¦वि¦स्य॒ध्व॒‌म्¦ऊधः॑¦श्रु॒ष्टी॒ऽवरीः᳚¦भू॒त॒न॒¦अ॒स्मभ्य᳚‌म्¦आ॒पः॒ ||

आपो᳚रेवतीः॒,क्षय॑था॒हिवस्वः॒क्रतुं᳚भ॒द्रंबि॑भृ॒थामृतं᳚ |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

रा॒यश्च॒स्थस्व॑प॒त्यस्य॒पत्नीः॒सर॑स्वती॒तद्गृ॑ण॒तेवयो᳚धात् || {12/15}{10.30.12}{10.3.1.12}{7.7.26.2}{306, 867, 9104}

आ॒पः¦रे॒व॒तीः॒¦क्षय॑थ¦हि¦वस्वः॑¦क्रतु᳚‌म्¦च॒¦भ॒द्र‌म्¦बि॒भृ॒था‌म्¦ऋत᳚‌म्¦च॒ |
रा॒यः¦च॒¦स्थ¦सु॒।आ॒प॒त्यस्य॑¦पत्नीः᳚¦सर॑स्वती¦तत्¦गृ॒ण॒ते¦वयः॑¦धा॒त् ||

प्रति॒यदापो॒,अदृ॑श्रमाय॒तीर्घृ॒तंपयां᳚सि॒बिभ्र॑ती॒र्मधू᳚नि |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

अ॒ध्व॒र्युभि॒र्मन॑सासंविदा॒ना,इन्द्रा᳚य॒सोमं॒सुषु॑तं॒भर᳚न्तीः || {13/15}{10.30.13}{10.3.1.13}{7.7.26.3}{307, 867, 9105}

प्रति॑¦यत्¦आपः॑¦अदृ॑श्र‌म्¦आ॒ऽय॒तीः¦घृ॒त‌म्¦पयां᳚सि¦बिभ्र॑तीः¦मधू᳚नि |
अ॒ध्व॒र्युऽभिः॑¦मन॑सा¦स॒‌म्ऽवि॒दा॒नाः¦इन्द्रा᳚य¦सोम᳚‌म्¦सुऽसु॑त‌म्¦भर᳚न्तीः ||

एमा,अ॑ग्मन्‌रे॒वती᳚र्जी॒वध᳚न्या॒,अध्व᳚र्यवःसा॒दय॑तासखायः |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

निब॒र्हिषि॑धत्तनसोम्यासो॒ऽपांनप्त्रा᳚संविदा॒नास॑एनाः || {14/15}{10.30.14}{10.3.1.14}{7.7.26.4}{308, 867, 9106}

आ¦इ॒माः¦अ॒ग्म॒न्¦रे॒वतीः᳚¦जी॒वऽध᳚न्याः¦अध्व᳚र्यवः¦सा॒दय॑त¦स॒खा॒यः॒ |
नि¦ब॒र्हिषि॑¦ध॒त्त॒न॒¦सो॒म्या॒सः॒¦अ॒पा‌म्¦नप्त्रा᳚¦स॒‌म्ऽवि॒दा॒नासः॑¦ए॒नाः॒ ||

आग्म॒न्नाप॑उश॒तीर्ब॒र्हिरेदंन्य॑ध्व॒रे,अ॑सदन्देव॒यन्तीः᳚ |{ऐलूषः कवषः | आपः | त्रिष्टुप्}

अध्व᳚र्यवःसुनु॒तेन्द्रा᳚य॒सोम॒मभू᳚दुवःसु॒शका᳚देवय॒ज्या || {15/15}{10.30.15}{10.3.1.15}{7.7.26.5}{309, 867, 9107}

आ¦अ॒ग्म॒न्¦आपः॑¦उ॒श॒तीः¦ब॒र्हिः¦आ¦इ॒द‌म्¦नि¦अ॒ध्व॒रे¦अ॒स॒द॒न्¦दे॒व॒ऽयन्तीः᳚ |
अध्व᳚र्यवः¦सु॒नु॒त¦इन्द्रा᳚य¦सोम᳚‌म्¦अभू᳚त्¦ऊँ॒ इति॑¦वः॒¦सु॒ऽशका᳚¦दे॒व॒ऽय॒ज्या ||

[31] आनोदेवानामित्येकादशर्चस्य सूक्तस्यैलूषःकवषो विश्वेदेवात्रिष्टुप् (भेदपक्षे- विश्वेदेवाः ९ अश्वत्थगर्भाशमी १ उषोग्नी १ एवं ११) |
नो᳚दे॒वाना॒मुप॑वेतु॒शंसो॒विश्वे᳚भिस्तु॒रैरव॑से॒यज॑त्रः |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

तेभि᳚र्व॒यंसु॑ष॒खायो᳚भवेम॒तर᳚न्तो॒विश्वा᳚दुरि॒तास्या᳚म || {1/11}{10.31.1}{10.3.2.1}{7.7.27.1}{310, 868, 9108}

आ¦नः॒¦दे॒वाना᳚‌म्¦उप॑¦वे॒तु॒¦शंसः॑¦विश्वे᳚भिः¦तु॒रैः¦अव॑से¦यज॑त्रः |
तेभिः॑¦व॒य‌म्¦सु॒ऽस॒खायः॑¦भ॒वे॒म॒¦तर᳚न्तः¦विश्वा᳚¦दुः॒ऽ‌इ॒ता¦स्या॒म॒ ||

परि॑चि॒न्मर्तो॒द्रवि॑णंममन्यादृ॒तस्य॑प॒थानम॒सावि॑वासेत् |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

उ॒तस्वेन॒क्रतु॑ना॒संव॑देत॒श्रेयां᳚सं॒दक्षं॒मन॑साजगृभ्यात् || {2/11}{10.31.2}{10.3.2.2}{7.7.27.2}{311, 868, 9109}

परि॑¦चि॒त्¦मर्तः॑¦द्रवि॑ण‌म्¦म॒म॒न्या॒त्¦ऋ॒तस्य॑¦प॒था¦नम॑सा¦आ¦वि॒वा॒से॒त् |
उ॒त¦स्वेन॑¦क्रतु॑ना¦स‌म्¦व॒दे॒त॒¦श्रेयां᳚स‌म्¦दक्ष᳚‌म्¦मन॑सा¦ज॒गृ॒भ्या॒त् ||

अधा᳚यिधी॒तिरस॑सृग्र॒मंशा᳚स्ती॒र्थेद॒स्ममुप॑य॒न्त्यूमाः᳚ |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

अ॒भ्या᳚नश्मसुवि॒तस्य॑शू॒षंनवे᳚दसो,अ॒मृता᳚नामभूम || {3/11}{10.31.3}{10.3.2.3}{7.7.27.3}{312, 868, 9110}

अधा᳚यि¦धी॒तिः¦अस॑सृग्र‌म्¦अंशाः᳚¦ती॒र्थे¦न¦द॒स्म‌म्¦उप॑¦य॒न्ति॒¦ऊमाः᳚ |
अ॒भि¦आ॒न॒श्म॒¦सु॒वि॒तस्य॑¦शू॒ष‌म्¦नवे᳚दसः¦अ॒मृता᳚ना‌म्¦अ॒भू॒म॒ ||

नित्य॑श्चाकन्या॒त्स्वप॑ति॒र्दमू᳚ना॒यस्मा᳚,दे॒वःस॑वि॒ताज॒जान॑ |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

भगो᳚वा॒गोभि॑रर्य॒मेम॑नज्या॒त्सो,अ॑स्मै॒चारु॑श्छदयदु॒तस्या᳚त् || {4/11}{10.31.4}{10.3.2.4}{7.7.27.4}{313, 868, 9111}

नित्यः॑¦चा॒क॒न्या॒त्¦स्वऽप॑तिः¦दमू᳚नाः¦यस्मै᳚¦ऊँ॒ इति॑¦दे॒वः¦स॒वि॒ता¦ज॒जान॑ |
भगः॑¦वा॒¦गोभिः॑¦अ॒र्य॒मा¦ई॒‌म्¦अ॒न॒ज्या॒त्¦सः¦अ॒स्मै॒¦चारुः॑¦छ॒द॒य॒त्¦उ॒त¦स्या॒त् ||

इ॒यंसाभू᳚या,उ॒षसा᳚मिव॒क्षायद्ध॑क्षु॒मन्तः॒शव॑सास॒माय॑न् |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

अ॒स्यस्तु॒तिंज॑रि॒तुर्भिक्ष॑माणा॒,नः॑श॒ग्मास॒उप॑यन्तु॒वाजाः᳚ || {5/11}{10.31.5}{10.3.2.5}{7.7.27.5}{314, 868, 9112}

इ॒य‌म्¦सा¦भू॒याः॒¦उ॒षसा᳚‌म्ऽ‌इव¦क्षाः¦यत्¦ह॒¦क्षु॒ऽमन्तः॑¦शव॑सा¦स॒‌म्ऽआय॑न् |
अ॒स्य¦स्तु॒ति‌म्¦ज॒रि॒तुः¦भिक्ष॑माणाः¦आ¦नः॒¦श॒ग्मासः॑¦उप॑¦य॒न्तु॒¦वाजाः᳚ ||

अ॒स्येदे॒षासु॑म॒तिःप॑प्रथा॒नाभ॑वत्पू॒र्व्याभूम॑ना॒गौः |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

अ॒स्यसनी᳚ळा॒,असु॑रस्य॒योनौ᳚समा॒नभर॑णे॒बिभ्र॑माणाः || {6/11}{10.31.6}{10.3.2.6}{7.7.28.1}{315, 868, 9113}

अ॒स्य¦इत्¦ए॒षा¦सु॒ऽम॒तिः¦प॒प्र॒था॒ना¦अभ॑वत्¦पू॒र्व्या¦भूम॑ना¦गौः |
अ॒स्य¦सऽनी᳚ळाः¦असु॑रस्य¦योनौ᳚¦स॒मा॒ने¦आ¦भर॑णे¦बिभ्र॑माणाः ||

किंस्वि॒द्वनं॒उ॒वृ॒क्षआ᳚स॒यतो॒द्यावा᳚पृथि॒वीनि॑ष्टत॒क्षुः |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

सं॒त॒स्था॒ने,अ॒जरे᳚,इ॒तऊ᳚ती॒,अहा᳚निपू॒र्वीरु॒षसो᳚जरन्त || {7/11}{10.31.7}{10.3.2.7}{7.7.28.2}{316, 868, 9114}

कि‌म्¦स्वि॒त्¦वन᳚‌म्¦कः¦ऊँ॒ इति॑¦सः¦वृ॒क्षः¦आ॒स॒¦यतः॑¦द्यावा᳚पृथि॒वी इति॑¦निः॒ऽत॒त॒क्षुः |
सं॒त॒स्था॒ने इति॑ स॒‌म्ऽत॒स्था॒ने¦अ॒जरे॒ इति॑¦इ॒तऊ᳚ती॒ इती॒तःऽऊ᳚ती¦अहा᳚नि¦पू॒र्वीः¦उ॒षसः॑¦ज॒र॒न्त॒ ||

नैताव॑दे॒नाप॒रो,अ॒न्यद॑स्त्यु॒क्षाद्यावा᳚पृथि॒वीबि॑भर्ति |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

त्वचं᳚प॒वित्रं᳚कृणुतस्व॒धावा॒न्यदीं॒सूर्यं॒ह॒रितो॒वह᳚न्ति || {8/11}{10.31.8}{10.3.2.8}{7.7.28.3}{317, 868, 9115}

न¦ए॒ताव॑त्¦ए॒ना¦प॒रः¦अ॒न्यत्¦अ॒स्ति॒¦उ॒क्षा¦सः¦द्यावा᳚पृथि॒वी इति॑¦बि॒भ॒र्ति॒ |
त्वच᳚‌म्¦प॒वित्र᳚‌म्¦कृ॒णु॒त॒¦स्व॒धाऽवा᳚न्¦यत्¦ई॒‌म्¦सूर्य᳚‌म्¦न¦ह॒रितः॑¦वह᳚न्ति ||

स्ते॒गोक्षामत्ये᳚तिपृ॒थ्वींमिहं॒वातो॒विह॑वाति॒भूम॑ |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

मि॒त्रोयत्र॒वरु॑णो,अ॒ज्यमा᳚नो॒ऽग्निर्वने॒व्यसृ॑ष्ट॒शोक᳚म् || {9/11}{10.31.9}{10.3.2.9}{7.7.28.4}{318, 868, 9116}

स्ते॒गः¦न¦क्ष‌म्¦अति॑¦ए॒ति॒¦पृ॒थ्वी‌म्¦मिह᳚‌म्¦न¦वातः॑¦वि¦ह॒¦वाति॑¦भूम॑ |
मि॒त्रः¦यत्र॑¦वरु॑णः¦अ॒ज्यमा᳚नः¦अ॒ग्निः¦वने᳚¦न¦वि¦असृ॑ष्ट¦शोक᳚‌म् ||

स्त॒रीर्यत्सूत॑स॒द्यो,अ॒ज्यमा᳚ना॒व्यथि॑रव्य॒थीःकृ॑णुत॒स्वगो᳚पा |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

पु॒त्रोयत्पूर्वः॑पि॒त्रोर्जनि॑ष्टश॒म्यांगौर्ज॑गार॒यद्ध॑पृ॒च्छान् || {10/11}{10.31.10}{10.3.2.10}{7.7.28.5}{319, 868, 9117}

स्त॒रीः¦यत्¦सूत॑¦स॒द्यः¦अ॒ज्यमा᳚ना¦व्यथिः॑¦अ॒व्य॒थीः¦कृ॒णु॒त॒¦स्वऽगो᳚पा |
पु॒त्रः¦यत्¦पूर्वः॑¦पि॒त्रोः¦जनि॑ष्ट¦श॒म्या‌म्¦गौः¦ज॒गा॒र॒¦यत्¦ह॒¦पृ॒च्छान् ||

उ॒तकण्वं᳚नृ॒षदः॑पु॒त्रमा᳚हुरु॒तश्या॒वोधन॒माद॑त्तवा॒जी |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

प्रकृ॒ष्णाय॒रुश॑दपिन्व॒तोध᳚रृ॒तमत्र॒नकि॑रस्मा,अपीपेत् || {11/11}{10.31.11}{10.3.2.11}{7.7.28.6}{320, 868, 9118}

उ॒त¦कण्व᳚‌म्¦नृ॒ऽसदः॑¦पु॒त्र‌म्¦आ॒हुः॒¦उ॒त¦श्या॒वः¦धन᳚‌म्¦आ¦अ॒द॒त्त॒¦वा॒जी |
प्र¦कृ॒ष्णाय॑¦रुश॑त्¦अ॒पि॒न्व॒त॒¦ऊधः॑¦ऋ॒त‌म्¦अत्र॑¦नकिः॑¦अ॒स्मै॒¦अ॒पी॒पे॒त् ||

[32] प्रसुग्मंतेति नवर्चस्य सूक्तस्यैलूषः कवषइंद्रोजगती अंत्याश्चतस्रस्त्रिष्टुभः |
प्रसुग्मन्ता᳚धियसा॒नस्य॑स॒क्षणि॑व॒रेभि᳚र्व॒राँ,अ॒भिषुप्र॒सीद॑तः |{ऐलूषः कवषः | इन्द्रः | जगती}

अ॒स्माक॒मिन्द्र॑उ॒भयं᳚जुजोषति॒यत्सो॒म्यस्यान्ध॑सो॒बुबो᳚धति || {1/9}{10.32.1}{10.3.3.1}{7.7.29.1}{321, 869, 9119}

प्र¦सु¦ग्मन्ता᳚¦धि॒य॒सा॒नस्य॑¦स॒क्षणि॑¦व॒रेभिः॑¦व॒रान्¦अ॒भि¦सु¦प्र॒ऽसीद॑तः |
अ॒स्माक᳚‌म्¦इन्द्रः॑¦उ॒भय᳚‌म्¦जु॒जो॒ष॒ति॒¦यत्¦सो॒म्यस्य॑¦अन्ध॑सः¦बुबो᳚धति ||

वी᳚न्द्रयासिदि॒व्यानि॑रोच॒नाविपार्थि॑वानि॒रज॑सापुरुष्टुत |{ऐलूषः कवषः | इन्द्रः | जगती}

येत्वा॒वह᳚न्ति॒मुहु॑रध्व॒राँ,उप॒तेसुव᳚न्वन्तुवग्व॒नाँ,अ॑रा॒धसः॑ || {2/9}{10.32.2}{10.3.3.2}{7.7.29.2}{322, 869, 9120}

वि¦इ॒न्द्र॒¦या॒सि॒¦दि॒व्यानि॑¦रो॒च॒ना¦वि¦पार्थि॑वानि¦रज॑सा¦पु॒रु॒ऽस्तु॒त॒ |
ये¦त्वा॒¦वह᳚न्ति¦मुहुः॑¦अ॒ध्व॒रान्¦उप॑¦ते¦सु¦व॒न्व॒न्तु॒¦व॒ग्व॒नान्¦अ॒रा॒धसः॑ ||

तदिन्मे᳚छन्‌त्स॒द्वपु॑षो॒वपु॑ष्टरंपु॒त्रोयज्जानं᳚पि॒त्रोर॒धीय॑ति |{ऐलूषः कवषः | इन्द्रः | जगती}

जा॒यापतिं᳚वहतिव॒ग्नुना᳚सु॒मत्पुं॒सइद्भ॒द्रोव॑ह॒तुःपरि॑ष्कृतः || {3/9}{10.32.3}{10.3.3.3}{7.7.29.3}{323, 869, 9121}

तत्¦इत्¦मे॒¦छ॒न्त्स॒त्¦वपु॑षः¦वपुः॑ऽतर‌म्¦पु॒त्रः¦यत्¦जान᳚‌म्¦पि॒त्रोः¦अ॒धि॒ऽ‌इय॑ति |
जा॒या¦पति᳚‌म्¦व॒ह॒ति॒¦व॒नुना᳚¦सु॒ऽमत्¦पुं॒सः¦इत्¦भ॒द्रः¦व॒ह॒तुः¦परि॑ऽकृतः ||

तदित्स॒धस्थ॑म॒भिचारु॑दीधय॒गावो॒यच्छास᳚न्वह॒तुंधे॒नवः॑ |{ऐलूषः कवषः | इन्द्रः | जगती}

मा॒तायन्मन्तु᳚र्यू॒थस्य॑पू॒र्व्याभिवा॒णस्य॑स॒प्तधा᳚तु॒रिज्जनः॑ || {4/9}{10.32.4}{10.3.3.4}{7.7.29.4}{324, 869, 9122}

तत्¦इत्¦स॒धऽस्थ᳚‌म्¦अ॒भि¦चारु॑¦दी॒ध॒य॒¦गावः॑¦यत्¦शास॑न्¦व॒ह॒तु‌म्¦न¦धे॒नवः॑ |
मा॒ता¦यत्¦मन्तुः॑¦यू॒थस्य॑¦पू॒र्व्या¦अ॒भि¦वा॒णस्य॑¦स॒प्तऽधा᳚तुः¦इत्¦जनः॑ ||

प्रवोऽच्छा᳚रिरिचेदेव॒युष्प॒दमेको᳚रु॒द्रेभि᳚र्यातितु॒र्वणिः॑ |{ऐलूषः कवषः | इन्द्रः | जगती}

ज॒रावा॒येष्व॒मृते᳚षुदा॒वने॒परि॑व॒ऊमे᳚भ्यःसिञ्चता॒मधु॑ || {5/9}{10.32.5}{10.3.3.5}{7.7.29.5}{325, 869, 9123}

प्र¦वः॒¦अच्छ॑¦रि॒रि॒चे॒¦दे॒व॒ऽयुः¦प॒द‌म्¦एकः॑¦रु॒द्रेभिः॑¦या॒ति॒¦तु॒र्वणिः॑ |
ज॒रा¦वा॒¦येषु॑¦अ॒मृते᳚षु¦दा॒वने᳚¦परि॑¦वः॒¦ऊमे᳚भ्यः¦सिं॒च॒त॒¦मधु॑ ||

नि॒धी॒यमा᳚न॒मप॑गूळ्हम॒प्सुप्रमे᳚दे॒वानां᳚व्रत॒पा,उ॑वाच |{ऐलूषः कवषः | इन्द्रः | त्रिष्टुप्}

इन्द्रो᳚वि॒द्वाँ,अनु॒हित्वा᳚च॒चक्ष॒तेना॒हम॑ग्ने॒,अनु॑शिष्ट॒आगा᳚म् || {6/9}{10.32.6}{10.3.3.6}{7.7.30.1}{326, 869, 9124}

नि॒ऽधी॒यमा᳚न‌म्¦अप॑ऽगूळ्ह‌म्¦अ॒प्ऽसु¦प्र¦मे॒¦दे॒वाना᳚‌म्¦व्र॒त॒ऽपाः¦उ॒वा॒च॒ |
इन्द्रः॑¦वि॒द्वान्¦अनु॑¦हि¦त्वा॒¦च॒चक्ष॑¦तेन॑¦अ॒ह‌म्¦अ॒ग्ने॒¦अनु॑ऽशिष्टः¦आ¦अ॒गा॒‌म् ||

अक्षे᳚त्रवित्‌क्षेत्र॒विदं॒ह्यप्रा॒ट्सप्रैति॑क्षेत्र॒विदानु॑शिष्टः |{ऐलूषः कवषः | इन्द्रः | त्रिष्टुप्}

ए॒तद्वैभ॒द्रम॑नु॒शास॑नस्यो॒तस्रु॒तिंवि᳚न्दत्यञ्ज॒सीना᳚म् || {7/9}{10.32.7}{10.3.3.7}{7.7.30.2}{327, 869, 9125}

अक्षे᳚त्रऽवित्¦क्षे॒त्र॒ऽविद᳚‌म्¦हि¦अप्रा᳚ट्¦सः¦प्र¦ए॒ति॒¦क्षे॒त्र॒ऽविदा᳚¦अनु॑ऽशिष्टः |
ए॒तत्¦वै॒¦भ॒द्र‌म्¦अ॒नु॒ऽशास॑नस्य¦उ॒त¦स्रु॒ति‌म्¦वि॒न्द॒ति॒¦अं॒ज॒सीना᳚‌म् ||

अ॒द्येदु॒प्राणी॒दम॑मन्नि॒माहापी᳚वृतो,अधयन्मा॒तुरूधः॑ |{ऐलूषः कवषः | इन्द्रः | त्रिष्टुप्}

एमे᳚नमापजरि॒मायुवा᳚न॒महे᳚ळ॒न्वसुः॑सु॒मना᳚बभूव || {8/9}{10.32.8}{10.3.3.8}{7.7.30.3}{328, 869, 9126}

अ॒द्य¦इत्¦ऊँ॒ इति॑¦प्र¦आ॒णी॒त्¦अम॑मन्¦इ॒मा¦अहा᳚¦अपि॑ऽवृतः¦अ॒ध॒य॒त्¦मा॒तुः¦ऊधः॑ |
आ¦ई॒‌म्¦ए॒न॒‌म्¦आ॒प॒¦ज॒रि॒मा¦युवा᳚न‌म्¦अहे᳚ळन्¦वसुः॑¦सु॒ऽमनाः᳚¦ब॒भू॒व॒ ||

ए॒तानि॑भ॒द्राक॑लशक्रियाम॒कुरु॑श्रवण॒दद॑तोम॒घानि॑ |{ऐलूषः कवषः | इन्द्रः | त्रिष्टुप्}

दा॒नइद्वो᳚मघवानः॒सो,अ॑स्त्व॒यंच॒सोमो᳚हृ॒दियंबिभ᳚र्मि || {9/9}{10.32.9}{10.3.3.9}{7.7.30.4}{329, 869, 9127}

ए॒तानि॑¦भ॒द्रा¦क॒ल॒श॒¦क्रि॒या॒म॒¦कुरु॑ऽश्रवण¦दद॑तः¦म॒घानि॑ |
दा॒नः¦इत्¦वः॒¦म॒घ॒ऽवा॒नः॒¦सः¦अ॒स्तु॒¦अ॒य‌म्¦च॒¦सोमः॑¦हृ॒दि¦य‌म्¦बिभ᳚र्मि ||

[33] प्रमायुयुज्रइति नवर्चस्य सूक्तस्यैलूषःकवषऋषिः आद्याया विश्वेदेवाः ततोद्वयोरिंद्रः चतुर्थीपंचम्योः कुरुश्रवणः षष्ठ्यदादिचतसृणामुपश्र वा आद्यात्रिष्टुप् द्वितीयाबृहती तृतीया सतोबृहती शेषाः षड्‌गायत्र्यः |
प्रमा᳚युयुज्रेप्र॒युजो॒जना᳚नां॒वहा᳚मिस्मपू॒षण॒मन्त॑रेण |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्}

विश्वे᳚दे॒वासो॒,अध॒माम॑रक्षन्दुः॒शासु॒रागा॒दिति॒घोष॑आसीत् || {1/9}{10.33.1}{10.3.4.1}{7.8.1.1}{330, 870, 9128}

प्र¦मा॒¦यु॒यु॒ज्रे॒¦प्र॒ऽयुजः॑¦जना᳚ना‌म्¦वहा᳚मि¦स्म॒¦पू॒षण᳚‌म्¦अन्त॑रेण |
विश्वे᳚¦दे॒वासः॑¦अध॑¦मा‌म्¦अ॒र॒क्ष॒न्¦दुः॒ऽशासुः॑¦आ¦अ॒गा॒त्¦इति॑¦घोषः॑¦आ॒सी॒त् ||

संमा᳚तपन्त्य॒भितः॑स॒पत्नी᳚रिव॒पर्श॑वः |{ऐलूषः कवषः | इंद्रः | बृहती}

निबा᳚धते॒,अम॑तिर्न॒ग्नता॒जसु॒र्वेर्नवे᳚वीयतेम॒तिः || {2/9}{10.33.2}{10.3.4.2}{7.8.1.2}{331, 870, 9129}

स‌म्¦मा॒¦त॒प॒न्ति॒¦अ॒भितः॑¦स॒पत्नीः᳚ऽ‌इव¦पर्श॑वः |
नि¦बा॒ध॒ते॒¦अम॑तिः¦न॒ग्नता᳚¦जसुः॑¦वेः¦न¦वे॒वी॒य॒ते॒¦म॒तिः ||

मूषो॒शि॒श्नाव्य॑दन्तिमा॒ध्यः॑स्तो॒तारं᳚तेशतक्रतो |{ऐलूषः कवषः | इंद्रः | सतोबृहती}

स॒कृत्सुनो᳚मघवन्निन्द्रमृळ॒याधा᳚पि॒तेव॑नोभव || {3/9}{10.33.3}{10.3.4.3}{7.8.1.3}{332, 870, 9130}

मूषः॑¦न¦शि॒श्ना¦वि¦अ॒द॒न्ति॒¦मा॒¦आ॒ऽध्यः॑¦स्तो॒तार᳚‌म्¦ते॒¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो |
स॒कृत्¦सु¦नः॒¦म॒घ॒ऽव॒न्¦इ॒न्द्र॒¦मृ॒ळ॒य॒¦अध॑¦पि॒ताऽ‌इ᳚व¦नः॒¦भ॒व॒ ||

कु॒रु॒श्रव॑णमावृणि॒राजा᳚नं॒त्रास॑दस्यवम् |{ऐलूषः कवषः | कुरुश्रवणः | गायत्री}

मंहि॑ष्ठंवा॒घता॒मृषिः॑ || {4/9}{10.33.4}{10.3.4.4}{7.8.1.4}{333, 870, 9131}

कु॒रु॒ऽश्रव॑ण‌म्¦अ॒वृ॒णि॒¦राजा᳚न‌म्¦त्रास॑दस्यव‌म् | मंहि॑ष्ठ‌म्¦वा॒घता᳚‌म्¦ऋषिः॑ ||

यस्य॑माह॒रितो॒रथे᳚ति॒स्रोवह᳚न्तिसाधु॒या |{ऐलूषः कवषः | कुरुश्रवणः | गायत्री}

स्तवै᳚स॒हस्र॑दक्षिणे || {5/9}{10.33.5}{10.3.4.5}{7.8.1.5}{334, 870, 9132}

यस्य॑¦मा॒¦ह॒रितः॑¦रथे᳚¦ति॒स्रः¦वह᳚न्ति¦सा॒धु॒ऽया | स्तवै᳚¦स॒हस्र॑ऽदक्षिणे ||

यस्य॒प्रस्वा᳚दसो॒गिर॑उप॒मश्र॑वसःपि॒तुः |{ऐलूषः कवषः | उपश्र वा | गायत्री}

क्षेत्रं॒र॒ण्वमू॒चुषे᳚ || {6/9}{10.33.6}{10.3.4.6}{7.8.2.1}{335, 870, 9133}

यस्य॑¦प्रऽस्वा᳚दसः¦गिरः॑¦उ॒प॒मऽश्र॑वसः¦पि॒तुः | क्षेत्र᳚‌म्¦न¦र॒ण्व‌म्¦ऊ॒चुषे᳚ ||

अधि॑पुत्रोपमश्रवो॒नपा᳚न्मित्रातिथेरिहि |{ऐलूषः कवषः | उपश्र वा | गायत्री}

पि॒तुष्टे᳚,अस्मिवन्दि॒ता || {7/9}{10.33.7}{10.3.4.7}{7.8.2.2}{336, 870, 9134}

अधि॑¦पु॒त्र॒¦उ॒प॒म॒ऽश्र॒वः॒¦नपा᳚त्¦मि॒त्र॒।आ॒ति॒थेः॒¦इ॒हि॒ | पि॒तुः¦ते॒¦अ॒स्मि॒¦व॒न्दि॒ता ||

यदीशी᳚या॒मृता᳚नामु॒तवा॒मर्त्या᳚नाम् |{ऐलूषः कवषः | उपश्र वा | गायत्री}

जीवे॒दिन्म॒घवा॒मम॑ || {8/9}{10.33.8}{10.3.4.8}{7.8.2.3}{337, 870, 9135}

यत्¦ईशी᳚य¦अ॒मृता᳚ना‌म्¦उ॒त¦वा॒¦मर्त्या᳚ना‌म् | जीवे᳚त्¦इ॒त्¦म॒घऽवा᳚¦मम॑ ||

दे॒वाना॒मति᳚व्र॒तंश॒तात्मा᳚च॒नजी᳚वति |{ऐलूषः कवषः | उपश्र वा | गायत्री}

तथा᳚यु॒जाविवा᳚वृते || {9/9}{10.33.9}{10.3.4.9}{7.8.2.4}{338, 870, 9136}

न¦दे॒वाना᳚‌म्¦अति॑¦व्र॒त‌म्¦श॒तऽआ᳚त्मा¦च॒न¦जी॒व॒ति॒ | तथा᳚¦यु॒जा¦वि¦व॒वृ॒ते॒ ||

[34] प्रावेपाइति चतुर्दशर्चस्य सूक्तस्य मौजवानक्ष ऋषिः आद्या सप्तमी नवमीद्वादशीनामक्षादेवताः त्रयोदश्याः कृषिः शिष्टानामक्षनिंदा देवता त्रिष्टुप् सप्तमी जगती |
प्रा॒वे॒पामा᳚बृह॒तोमा᳚दयन्तिप्रवाते॒जा,इरि॑णे॒वर्वृ॑तानाः |{मौजवानक्षः | अक्षादेवताः | त्रिष्टुप्}

सोम॑स्येवमौजव॒तस्य॑भ॒क्षोवि॒भीद॑को॒जागृ॑वि॒र्मह्य॑मच्छान् || {1/14}{10.34.1}{10.3.5.1}{7.8.3.1}{339, 871, 9137}

प्रा॒वे॒पाः¦मा॒¦बृ॒ह॒तः¦मा॒द॒य॒न्ति॒¦प्र॒वा॒ते॒ऽजाः¦इरि॑णे¦वर्वृ॑तानाः |
सोम॑स्यऽ‌इव¦मौ॒ज॒ऽव॒तस्य॑¦भ॒क्षः¦वि॒ऽभीद॑कः¦जागृ॑विः¦मह्य᳚‌म्¦अ॒च्छा॒न् ||

मा᳚मिमेथ॒जि॑हीळए॒षाशि॒वासखि॑भ्यउ॒तमह्य॑मासीत् |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्}

अ॒क्षस्या॒हमे᳚कप॒रस्य॑हे॒तोरनु᳚व्रता॒मप॑जा॒याम॑रोधम् || {2/14}{10.34.2}{10.3.5.2}{7.8.3.2}{340, 871, 9138}

न¦मा॒¦मि॒मे॒थ॒¦न¦जि॒ही॒ळे॒¦ए॒षा¦शि॒वा¦सखि॑ऽभ्यः¦उ॒त¦मह्य᳚‌म्¦आ॒सी॒त् |
अ॒क्षस्य॑¦अ॒ह‌म्¦ए॒क॒ऽप॒रस्य॑¦हे॒तोः¦अनु॑ऽव्रता‌म्¦अप॑¦जा॒या‌म्¦अ॒रो॒ध॒‌म् ||

द्वेष्टि॑श्व॒श्रूरप॑जा॒यारु॑णद्धि॒ना᳚थि॒तोवि᳚न्दतेमर्डि॒तार᳚म् |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्}

अश्व॑स्येव॒जर॑तो॒वस्न्य॑स्य॒नाहंवि᳚न्दामिकित॒वस्य॒भोग᳚म् || {3/14}{10.34.3}{10.3.5.3}{7.8.3.3}{341, 871, 9139}

द्वेष्टि॑¦श्व॒श्रूः¦अप॑¦जा॒या¦रु॒ण॒द्धि॒¦न¦ना॒थि॒तः¦वि॒न्द॒ते॒¦म॒र्डि॒तार᳚‌म् |
अश्व॑स्यऽ‌इव¦जर॑तः¦वस्न्य॑स्य¦न¦अ॒ह‌म्¦वि॒न्दा॒मि॒¦कि॒त॒वस्य॑¦भोग᳚‌म् ||

अ॒न्येजा॒यांपरि॑मृशन्त्यस्य॒यस्यागृ॑ध॒द्वेद॑नेवा॒ज्य१॑(अ॒)क्षः |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्}

पि॒तामा॒ताभ्रात॑रएनमाहु॒र्नजा᳚नीमो॒नय॑ताब॒द्धमे॒तम् || {4/14}{10.34.4}{10.3.5.4}{7.8.3.4}{342, 871, 9140}

अ॒न्ये¦जा॒या‌म्¦परि॑¦मृ॒श॒न्ति॒¦अ॒स्य॒¦यस्य॑¦अगृ॑धत्¦वेद॑ने¦वा॒जी¦अ॒क्षः |
पि॒ता¦मा॒ता¦भ्रात॑रः¦ए॒न॒‌म्¦आ॒हुः॒¦न¦जा॒नी॒मः॒¦नय॑त¦ब॒द्ध‌म्¦ए॒त‌म् ||

यदा॒दीध्ये॒द॑विषाण्येभिःपरा॒यद्भ्योऽव॑हीये॒सखि॑भ्यः |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्}

न्यु॑प्ताश्चब॒भ्रवो॒वाच॒मक्र॑तँ॒,एमीदे᳚षांनिष्कृ॒तंजा॒रिणी᳚व || {5/14}{10.34.5}{10.3.5.5}{7.8.3.5}{343, 871, 9141}

यत्¦आ॒ऽदी॒ध्ये॒¦न¦द॒वि॒षा॒णि॒¦ए॒भिः॒¦प॒रा॒यत्ऽभ्यः॑¦अव॑¦हीये᳚¦सखि॑ऽभ्यः |
नि।औ᳚प्ताः¦च॒¦ब॒भ्रवः॑¦वाच᳚‌म्¦अक्र॑त¦एमि॑¦इत्¦ए॒षा॒‌म्¦निः॒ऽकृ॒त‌म्¦जा॒रिणी᳚ऽ‌इव ||

स॒भामे᳚तिकित॒वःपृ॒च्छमा᳚नोजे॒ष्यामीति॑त॒न्वा॒३॑(आ॒)शूशु॑जानः |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्}

अ॒क्षासो᳚,अस्य॒विति॑रन्ति॒कामं᳚प्रति॒दीव्ने॒दध॑त॒कृ॒तानि॑ || {6/14}{10.34.6}{10.3.5.6}{7.8.4.1}{344, 871, 9142}

स॒भा‌म्¦ए॒ति॒¦कि॒त॒वः¦पृ॒च्छमा᳚नः¦जे॒ष्यामि॑¦इति॑¦त॒न्वा᳚¦शूशु॑जानः |
अ॒क्षासः॑¦अ॒स्य॒¦वि¦ति॒र॒न्ति॒¦काम᳚‌म्¦प्र॒ति॒ऽदीव्ने᳚¦दध॑तः¦आ¦कृ॒तानि॑ ||

अ॒क्षास॒इद᳚ङ्कु॒शिनो᳚नितो॒दिनो᳚नि॒कृत्वा᳚न॒स्तप॑नास्तापयि॒ष्णवः॑ |{मौजवानक्षः | अक्षादेवताः | जगती}

कु॒मा॒रदे᳚ष्णा॒जय॑तःपुन॒र्हणो॒मध्वा॒सम्पृ॑क्ताःकित॒वस्य॑ब॒र्हणा᳚ || {7/14}{10.34.7}{10.3.5.7}{7.8.4.2}{345, 871, 9143}

अ॒क्षासः॑¦इत्¦अ॒ङ्कु॒शिनः॑¦नि॒ऽतो॒दिनः॑¦नि॒ऽकृत्वा᳚नः¦तप॑नाः¦ता॒प॒यि॒ष्णवः॑ |
कु॒मा॒रऽदे᳚ष्णाः¦जय॑तः¦पु॒नः॒ऽहनः॑¦मध्वा᳚¦स‌म्ऽपृ॑क्ताः¦कि॒त॒वस्य॑¦ब॒र्हणा᳚ ||

त्रि॒प॒ञ्चा॒शःक्री᳚ळति॒व्रात॑एषांदे॒वइ॑वसवि॒तास॒त्यध᳚र्मा |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्}

उ॒ग्रस्य॑चिन्म॒न्यवे॒नान॑मन्ते॒राजा᳚चिदेभ्यो॒नम॒इत्कृ॑णोति || {8/14}{10.34.8}{10.3.5.8}{7.8.4.3}{346, 871, 9144}

त्रि॒ऽपं॒चा॒शः¦क्री॒ळ॒ति॒¦व्रातः॑¦ए॒षा॒‌म्¦दे॒वःऽ‌इ᳚व¦स॒वि॒ता¦स॒त्यऽध᳚र्मा |
उ॒ग्रस्य॑¦चि॒त्¦म॒न्यवे᳚¦न¦न॒म॒न्ते॒¦राजा᳚¦चि॒त्¦ए॒भ्यः॒¦नमः॑¦इत्¦कृ॒णो॒ति॒ ||

नी॒चाव॑र्तन्तउ॒परि॑स्फुरन्त्यह॒स्तासो॒हस्त॑वन्तंसहन्ते |{मौजवानक्षः | अक्षादेवताः | त्रिष्टुप्}

दि॒व्या,अङ्गा᳚रा॒,इरि॑णे॒न्यु॑प्ताःशी॒ताःसन्तो॒हृद॑यं॒निर्द॑हन्ति || {9/14}{10.34.9}{10.3.5.9}{7.8.4.4}{347, 871, 9145}

नी॒चाः¦व॒र्त॒न्ते॒¦उ॒परि॑¦स्फु॒र॒न्ति॒¦अ॒ह॒स्तासः॑¦हस्त॑ऽवन्त‌म्¦स॒ह॒न्ते॒ |
दि॒व्याः¦अङ्गा᳚राः¦इरि॑णे¦नि।औ᳚प्ताः¦शी॒ताः¦सन्तः॑¦हृद॑य‌म्¦निः¦द॒ह॒न्ति॒ ||

जा॒यात॑प्यतेकित॒वस्य॑ही॒नामा॒तापु॒त्रस्य॒चर॑तः॒क्व॑स्वित् |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्}

ऋ॒णा॒वाबिभ्य॒द्धन॑मि॒च्छमा᳚नो॒ऽन्येषा॒मस्त॒मुप॒नक्त॑मेति || {10/14}{10.34.10}{10.3.5.10}{7.8.4.5}{348, 871, 9146}

जा॒या¦त॒प्य॒ते॒¦कि॒त॒वस्य॑¦ही॒ना¦मा॒ता¦पु॒त्रस्य॑¦चर॑तः¦क्व॑¦स्वि॒त् |
ऋ॒ण॒ऽवा¦बि॒भ्य॒त्¦धन᳚‌म्¦इ॒च्छमा᳚नः¦अ॒न्येषा᳚‌म्¦अस्त᳚‌म्¦उप॑¦नक्त᳚‌म्¦ए॒ति॒ ||

स्त्रियं᳚दृ॒ष्ट्वाय॑कित॒वंत॑तापा॒न्येषां᳚जा॒यांसुकृ॑तंच॒योनि᳚म् |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्}

पू॒र्वा॒ह्णे,अश्वा᳚न्युयु॒जेहिब॒भ्रून्‌त्सो,अ॒ग्नेरन्ते᳚वृष॒लःप॑पाद || {11/14}{10.34.11}{10.3.5.11}{7.8.5.1}{349, 871, 9147}

स्त्रिय᳚‌म्¦दृ॒ष्ट्वाय॑¦कि॒त॒व‌म्¦त॒ता॒प॒¦अ॒न्येषा᳚‌म्¦जा॒या‌म्¦सुऽकृ॑त‌म्¦च॒¦योनि᳚‌म् |
पू॒र्वा॒ह्णे¦अश्वा᳚न्¦यु॒यु॒जे¦हि¦ब॒भ्रून्¦सः¦अ॒ग्नेः¦अन्ते᳚¦वृ॒ष॒लः¦प॒पा॒द॒ ||

योवः॑सेना॒नीर्म॑ह॒तोग॒णस्य॒राजा॒व्रात॑स्यप्रथ॒मोब॒भूव॑ |{मौजवानक्षः | अक्षादेवताः | त्रिष्टुप्}

तस्मै᳚कृणोमि॒धना᳚रुणध्मि॒दशा॒हंप्राची॒स्तदृ॒तंव॑दामि || {12/14}{10.34.12}{10.3.5.12}{7.8.5.2}{350, 871, 9148}

यः¦वः॒¦से॒ना॒ऽनीः¦म॒ह॒तः¦ग॒णस्य॑¦राजा᳚¦व्रात॑स्य¦प्र॒थ॒मः¦ब॒भूव॑ |
तस्मै᳚¦कृ॒णो॒मि॒¦न¦धना᳚¦रु॒ण॒ध्मि॒¦दश॑¦अ॒ह‌म्¦प्राचीः᳚¦तत्¦ऋ॒त‌म्¦व॒दा॒मि॒ ||

अ॒क्षैर्मादी᳚व्यःकृ॒षिमित्कृ॑षस्ववि॒त्तेर॑मस्वब॒हुमन्य॑मानः |{मौजवानक्षः | कृषिः | त्रिष्टुप्}

तत्र॒गावः॑कितव॒तत्र॑जा॒यातन्मे॒विच॑ष्टेसवि॒तायम॒र्यः || {13/14}{10.34.13}{10.3.5.13}{7.8.5.3}{351, 871, 9149}

अ॒क्षैः¦मा¦दी॒व्य॒ह्¦कृ॒षि‌म्¦इत्¦कृ॒ष॒स्व॒¦वि॒त्ते¦र॒म॒स्व॒¦ब॒हु¦मन्य॑मानः |
तत्त्र॑¦गावः॑¦कि॒त॒व॒¦तत्र॑¦जा॒या¦तत्¦मे॒¦वि¦च॒ष्टे॒¦स॒वि॒ता¦अ॒य‌म्¦अ॒र्यः ||

मि॒त्रंकृ॑णुध्वं॒खलु॑मृ॒ळता᳚नो॒मानो᳚घो॒रेण॑चरता॒भिधृ॒ष्णु |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्}

निवो॒नुम॒न्युर्वि॑शता॒मरा᳚तिर॒न्योब॑भ्रू॒णांप्रसि॑तौ॒न्व॑स्तु || {14/14}{10.34.14}{10.3.5.14}{7.8.5.4}{352, 871, 9150}

मि॒त्र‌म्¦कृ॒णु॒ध्व॒‌म्¦खलु॑¦मृ॒ळत॑¦नः॒¦मा¦नः॒¦घो॒रेण॑¦च॒र॒त॒¦अ॒भि¦धृ॒ष्णु |
नि¦वः॒¦नु¦म॒न्युः¦वि॒श॒ता॒‌म्¦अरा᳚तिः¦अ॒न्यः¦ब॒भ्रू॒णा‌म्¦प्रऽसि॑तौ¦नु¦अ॒स्तु॒ ||

[35] अबुध्रमिति चतुर्दशर्चस्य सूक्तस्य धानाकोलुशोविश्वेदेवाजगत्यंत्येद्वेत्रिष्टुभौ (भेद - विश्वेदेवाः ३ उषसोग्निः २ विश्वेदेवाः ९ एवं १४) |
अबु॑ध्रमु॒त्यइन्द्र॑वन्तो,अ॒ग्नयो॒ज्योति॒र्भर᳚न्तउ॒षसो॒व्यु॑ष्टिषु |{धानाकोलुशः | विश्वदेवाः | जगती}

म॒हीद्यावा᳚पृथि॒वीचे᳚तता॒मपो॒ऽद्यादे॒वाना॒मव॒वृ॑णीमहे || {1/14}{10.35.1}{10.3.6.1}{7.8.6.1}{353, 872, 9151}

अबु॑ध्र‌म्¦ऊँ॒ इति॑¦त्ये¦इन्द्र॑ऽवन्तः¦अ॒ग्नयः॑¦ज्योतिः॑¦भर᳚न्तः¦उ॒षसः॑¦वि।औ᳚ष्टिषु |
म॒ही इति॑¦द्यावा᳚पृथि॒वी इति॑¦चे॒त॒ता॒‌म्¦अपः॑¦अ॒द्य¦दे॒वाना᳚‌म्¦अवः॑¦आ¦वृ॒णी॒म॒हे॒ ||

दि॒वस्पृ॑थि॒व्योरव॒वृ॑णीमहेमा॒तॄन्‌त्सिन्धू॒न्‌पर्व॑ताञ्छर्य॒णाव॑तः |{धानाकोलुशः | विश्वदेवाः | जगती}

अ॒ना॒गा॒स्त्वंसूर्य॑मु॒षास॑मीमहेभ॒द्रंसोमः॑सुवा॒नो,अ॒द्याकृ॑णोतुनः || {2/14}{10.35.2}{10.3.6.2}{7.8.6.2}{354, 872, 9152}

दि॒वःपृ॑थि॒व्योः¦अवः॑¦आ¦वृ॒णी॒म॒हे॒¦मा॒तॄन्¦सिन्धू᳚न्¦पर्व॑तान्¦श॒र्य॒णाऽव॑तः |
अ॒ना॒गाः॒ऽत्व‌म्¦सूर्य᳚‌म्¦उ॒षस᳚‌म्¦ई॒म॒हे॒¦भ॒द्र‌म्¦सोमः॑¦सु॒वा॒नः¦अ॒द्य¦कृ॒णो॒तु॒¦नः॒ ||

द्यावा᳚नो,अ॒द्यपृ॑थि॒वी,अना᳚गसोम॒हीत्रा᳚येतांसुवि॒ताय॑मा॒तरा᳚ |{धानाकोलुशः | विश्वदेवाः | जगती}

उ॒षा,उ॒च्छन्त्यप॑बाधताम॒घंस्व॒स्त्य१॑(अ॒)ग्निंस॑मिधा॒नमी᳚महे || {3/14}{10.35.3}{10.3.6.3}{7.8.6.3}{355, 872, 9153}

द्यावा᳚¦नः॒¦अ॒द्य¦पृ॒थि॒वी इति॑¦अना᳚गसः¦म॒ही इति॑¦त्रा॒ये॒ता॒‌म्¦सु॒वि॒ताय॑¦मा॒तरा᳚ |
उ॒षाः¦उ॒च्छन्ती᳚¦अप॑¦बा॒ध॒ता॒‌म्¦अ॒घ‌म्¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

इ॒यंन॑उ॒स्राप्र॑थ॒मासु॑दे॒व्यं᳚रे॒वत्स॒निभ्यो᳚रे॒वती॒व्यु॑च्छतु |{धानाकोलुशः | विश्वदेवाः | जगती}

आ॒रेम॒न्युंदु᳚र्वि॒दत्र॑स्यधीमहिस्व॒स्त्य१॑(अ॒)ग्निंस॑मिधा॒नमी᳚महे || {4/14}{10.35.4}{10.3.6.4}{7.8.6.4}{356, 872, 9154}

इ॒य‌म्¦नः॒¦उ॒स्रा¦प्र॒थ॒मा¦सु॒ऽदे॒व्य᳚‌म्¦रे॒वत्¦स॒निऽभ्यः॑¦रे॒वती᳚¦वि¦उ॒च्छ॒तु॒ |
आ॒रे¦म॒न्यु‌म्¦दुः॒ऽवि॒दत्र॑स्य¦धी॒म॒हि॒¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

प्रयाःसिस्र॑ते॒सूर्य॑स्यर॒श्मिभि॒र्ज्योति॒र्भर᳚न्तीरु॒षसो॒व्यु॑ष्टिषु |{धानाकोलुशः | विश्वदेवाः | जगती}

भ॒द्रानो᳚,अ॒द्यश्रव॑से॒व्यु॑च्छतस्व॒स्त्य१॑(अ॒)ग्निंस॑मिधा॒नमी᳚महे || {5/14}{10.35.5}{10.3.6.5}{7.8.6.5}{357, 872, 9155}

प्र¦याः¦सिस्र॑ते¦सूर्य॑स्य¦र॒श्मिऽभिः॑¦ज्योतिः॑¦भर᳚न्तीः¦उ॒षसः॑¦वि।औ᳚ष्टिषु |
भ॒द्राः¦नः॒¦अ॒द्य¦श्रव॑से¦वि¦उ॒च्छ॒त॒¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

अ॒न॒मी॒वा,उ॒षस॒च॑रन्तुन॒उद॒ग्नयो᳚जिहतां॒ज्योति॑षाबृ॒हत् |{धानाकोलुशः | विश्वदेवाः | जगती}

आयु॑क्षाताम॒श्विना॒तूतु॑जिं॒रथं᳚स्व॒स्त्य१॑(अ॒)ग्निंस॑मिधा॒नमी᳚महे || {6/14}{10.35.6}{10.3.6.6}{7.8.7.1}{358, 872, 9156}

अ॒न॒मी॒वाः¦उ॒षसः॑¦आ¦च॒र॒न्तु॒¦नः॒¦उत्¦अ॒ग्नयः॑¦जि॒ह॒ता॒‌म्¦ज्योति॑षा¦बृ॒हत् |
अयु॑क्षाता‌म्¦अ॒श्विना᳚¦तूतु॑जि‌म्¦रथ᳚‌म्¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

श्रेष्ठं᳚नो,अ॒द्यस॑वित॒र्वरे᳚ण्यंभा॒गमासु॑व॒हिर॑त्न॒धा,असि॑ |{धानाकोलुशः | विश्वदेवाः | जगती}

रा॒योजनि॑त्रींधि॒षणा॒मुप॑ब्रुवेस्व॒स्त्य१॑(अ॒)ग्निंस॑मिधा॒नमी᳚महे || {7/14}{10.35.7}{10.3.6.7}{7.8.7.2}{359, 872, 9157}

श्रेष्ठ᳚‌म्¦नः॒¦अ॒द्य¦स॒वि॒तः॒¦वरे᳚ण्य‌म्¦भा॒ग‌म्¦आ¦सु॒व॒¦सः¦हि¦र॒त्न॒ऽधाः¦असि॑ |
रा॒यः¦जनि॑त्रीन्¦धि॒षणा᳚‌म्¦उप॑¦ब्रु॒वे॒¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

पिप॑र्तुमा॒तदृ॒तस्य॑प्र॒वाच॑नंदे॒वानां॒यन्म॑नु॒ष्या॒३॑(आ॒)अम᳚न्महि |{धानाकोलुशः | विश्वदेवाः | जगती}

विश्वा॒,इदु॒स्राःस्पळुदे᳚ति॒सूर्यः॑स्व॒स्त्य१॑(अ॒)ग्निंस॑मिधा॒नमी᳚महे || {8/14}{10.35.8}{10.3.6.8}{7.8.7.3}{360, 872, 9158}

पिप॑र्तु¦मा॒¦तत्¦ऋ॒तस्य॑¦प्र॒ऽवाच॑न‌म्¦दे॒वाना᳚‌म्¦यत्¦म॒नु॒ष्याः᳚¦अम᳚न्महि |
विश्वाः᳚¦इत्¦उ॒स्राः¦स्पट्¦उत्¦ए॒ति॒¦सूर्यः॑¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

अ॒द्वे॒षो,अ॒द्यब॒र्हिषः॒स्तरी᳚मणि॒ग्राव्णां॒योगे॒मन्म॑नः॒साध॑ईमहे |{धानाकोलुशः | विश्वदेवाः | जगती}

आ॒दि॒त्यानां॒शर्म॑णि॒स्थाभु॑रण्यसिस्व॒स्त्य१॑(अ॒)ग्निंस॑मिधा॒नमी᳚महे || {9/14}{10.35.9}{10.3.6.9}{7.8.7.4}{361, 872, 9159}

अ॒द्वे॒षः¦अ॒द्य¦ब॒र्हिषः॑¦स्तरी᳚मणि¦ग्राव्णा᳚‌म्¦योगे᳚¦मन्म॑नः¦साधे᳚¦ई॒म॒हे॒ |
आ॒दि॒त्याना᳚‌म्¦शर्म॑णि¦स्थाः¦भु॒र॒ण्य॒सि॒¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

नो᳚ब॒र्हिःस॑ध॒मादे᳚बृ॒हद्दि॒विदे॒वाँ,ई᳚ळेसा॒दया᳚स॒प्तहोतॄ॑न् |{धानाकोलुशः | विश्वदेवाः | जगती}

इन्द्रं᳚मि॒त्रंवरु॑णंसा॒तये॒भगं᳚स्व॒स्त्य१॑(अ॒)ग्निंस॑मिधा॒नमी᳚महे || {10/14}{10.35.10}{10.3.6.10}{7.8.7.5}{362, 872, 9160}

आ¦नः॒¦ब॒र्हिः¦स॒ध॒ऽमादे᳚¦बृ॒हत्¦दि॒वि¦दे॒वान्¦ई॒ळे॒¦सा॒दय॑¦स॒प्त¦होतॄ॑न् |
इन्द्र᳚‌म्¦मि॒त्र‌म्¦वरु॑ण‌म्¦सा॒तये᳚¦भग᳚‌म्¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

आ᳚दित्या॒,ग॑तास॒र्वता᳚तयेवृ॒धेनो᳚य॒ज्ञम॑वतासजोषसः |{धानाकोलुशः | विश्वदेवाः | जगती}

बृह॒स्पतिं᳚पू॒षण॑म॒श्विना॒भगं᳚स्व॒स्त्य१॑(अ॒)ग्निंस॑मिधा॒नमी᳚महे || {11/14}{10.35.11}{10.3.6.11}{7.8.8.1}{363, 872, 9161}

ते¦आ॒दि॒त्याः॒¦आ¦ग॒त॒¦स॒र्वता᳚तये¦वृ॒धे¦नः॒¦य॒ज्ञ‌म्¦अ॒व॒त॒¦स॒ऽजो॒ष॒सः॒ |
बृह॒स्पति᳚‌म्¦पू॒षण᳚‌म्¦अ॒श्विना᳚¦भग᳚‌म्¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

तन्नो᳚देवायच्छतसुप्रवाच॒नंछ॒र्दिरा᳚दित्याःसु॒भरं᳚नृ॒पाय्य᳚म् |{धानाकोलुशः | विश्वदेवाः | जगती}

पश्वे᳚तो॒काय॒तन॑यायजी॒वसे᳚स्व॒स्त्य१॑(अ॒)ग्निंस॑मिधा॒नमी᳚महे || {12/14}{10.35.12}{10.3.6.12}{7.8.8.2}{364, 872, 9162}

तत्¦नः॒¦दे॒वाः॒¦य॒च्छ॒त॒¦सु॒ऽप्र॒वा॒च॒न‌म्¦छ॒र्दिः¦आ॒दि॒त्याः॒¦सु॒ऽभर᳚‌म्¦नृ॒ऽपाय्य᳚‌म् |
पश्वे᳚¦तो॒काय॑¦तन॑याय¦जी॒वसे᳚¦स्व॒स्ति¦अ॒ग्नि‌म्¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦ई॒म॒हे॒ ||

विश्वे᳚,अ॒द्यम॒रुतो॒विश्व॑ऊ॒तीविश्वे᳚भवन्त्व॒ग्नयः॒समि॑द्धाः |{धानाकोलुशः | विश्वदेवाः | त्रिष्टुप्}

विश्वे᳚नोदे॒वा,अव॒साग॑मन्तु॒विश्व॑मस्तु॒द्रवि॑णं॒वाजो᳚,अ॒स्मे || {13/14}{10.35.13}{10.3.6.13}{7.8.8.3}{365, 872, 9163}

विश्वे᳚¦अ॒द्य¦म॒रुतः॑¦विश्वे᳚¦ऊ॒ती¦विश्वे᳚¦भ॒व॒न्तु॒¦अ॒ग्नयः॑¦स‌म्ऽ‌इ᳚द्धाः |
विश्वे᳚¦नः॒¦दे॒वाः¦अ॒व॒सा¦आ¦ग॒म॒न्तु॒¦विश्व᳚‌म्¦अ॒स्तु॒¦द्रवि॑ण‌म्¦वाजः॑¦अ॒स्मे इति॑ ||

यंदे᳚वा॒सोऽव॑थ॒वाज॑सातौ॒यंत्राय॑ध्वे॒यंपि॑पृ॒थात्यंहः॑ |{धानाकोलुशः | विश्वदेवाः | त्रिष्टुप्}

योवो᳚गोपी॒थेभ॒यस्य॒वेद॒तेस्या᳚मदे॒ववी᳚तयेतुरासः || {14/14}{10.35.14}{10.3.6.14}{7.8.8.4}{366, 872, 9164}

य‌म्¦दे॒वा॒सः॒¦अव॑थ¦वाज॑ऽसातौ¦य‌म्¦त्राय॑ध्वे¦य‌म्¦पि॒पृ॒थ¦अति॑¦अंहः॑ |
यः¦वः॒¦गो॒ऽपी॒थे¦न¦भ॒यस्य॑¦वेद॑¦ते¦स्या॒म॒¦दे॒वऽवी᳚तये¦तु॒रा॒सः॒ ||

[36] उषासानक्तेति चतुर्दशर्चस्य सूक्तस्य धानाकोलुशोविश्वेदेवाजगत्यंत्येद्वे त्रिष्टुभौ (भेदपक्षे - विश्वेदेवाः १३ सविता १ एवं १४) |
उ॒षासा॒नक्ता᳚बृह॒तीसु॒पेश॑सा॒द्यावा॒क्षामा॒वरु॑णोमि॒त्रो,अ᳚र्य॒मा |{धानाकोलुशः | विश्वदेवाः | जगती}

इन्द्रं᳚हुवेम॒रुतः॒पर्व॑ताँ,अ॒पआ᳚दि॒त्यान्द्यावा᳚पृथि॒वी,अ॒पःस्वः॑ || {1/14}{10.36.1}{10.3.7.1}{7.8.9.1}{367, 873, 9165}

उ॒षसा॒नक्ता᳚¦बृ॒ह॒ती इति॑¦सु॒ऽपेश॑सा¦द्यावा॒क्षामा᳚¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा |
इन्द्र᳚‌म्¦हु॒वे॒¦म॒रुतः॑¦पर्व॑तान्¦अ॒पः¦आ॒दि॒त्यान्¦द्यावा᳚पृथि॒वी इति॑¦अ॒पः¦स्व१॒॑रिति॒ स्वः॑ ||

द्यौश्च॑नःपृथि॒वीच॒प्रचे᳚तसऋ॒ताव॑रीरक्षता॒मंह॑सोरि॒षः |{धानाकोलुशः | विश्वदेवाः | जगती}

मादु᳚र्वि॒दत्रा॒निरृ॑तिर्नईशत॒तद्दे॒वाना॒मवो᳚,अ॒द्यावृ॑णीमहे || {2/14}{10.36.2}{10.3.7.2}{7.8.9.2}{368, 873, 9166}

द्यौः¦च॒¦नः॒¦पृ॒थि॒वी¦च॒¦प्रऽचे᳚तसा¦ऋ॒तव॑री॒ इत्यृ॒तऽव॑री¦र॒क्ष॒ता॒‌म्¦अंह॑सः¦रि॒षः |
मा¦दुः॒ऽवि॒दत्रा᳚¦निःऽऋ॑तिः¦नः॒¦ई॒श॒त॒¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

विश्व॑स्मान्नो॒,अदि॑तिःपा॒त्वंह॑सोमा॒तामि॒त्रस्य॒वरु॑णस्यरे॒वतः॑ |{धानाकोलुशः | विश्वदेवाः | जगती}

स्व᳚र्व॒ज्ज्योति॑रवृ॒कंन॑शीमहि॒तद्दे॒वाना॒मवो᳚,अ॒द्यावृ॑णीमहे || {3/14}{10.36.3}{10.3.7.3}{7.8.9.3}{369, 873, 9167}

विश्व॑स्मात्¦नः॒¦अदि॑तिः¦पा॒तु॒¦अंह॑सः¦मा॒ता¦मि॒त्रस्य॑¦वरु॑णस्य¦रे॒वतः॑ |
स्वः॑ऽवत्¦ज्योतिः॑¦अ॒वृ॒क‌म्¦न॒शी॒म॒हि॒¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

ग्रावा॒वद॒न्नप॒रक्षां᳚सिसेधतुदु॒ष्ष्वप्न्यं॒निरृ॑तिं॒विश्व॑म॒त्रिण᳚म् |{धानाकोलुशः | विश्वदेवाः | जगती}

आ॒दि॒त्यंशर्म॑म॒रुता᳚मशीमहि॒तद्दे॒वाना॒मवो᳚,अ॒द्यावृ॑णीमहे || {4/14}{10.36.4}{10.3.7.4}{7.8.9.4}{370, 873, 9168}

ग्रावा᳚¦वद॑न्¦अप॑¦रक्षां᳚सि¦से॒ध॒तु॒¦दुः॒ऽस्वप्न्य᳚‌म्¦निःऽऋ॑ति‌म्¦विश्व᳚‌म्¦अ॒त्रिण᳚‌म् |
आ॒दि॒त्य‌म्¦शर्म॑¦म॒रुता᳚‌म्¦अ॒शी॒म॒हि॒¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

एन्द्रो᳚ब॒र्हिःसीद॑तु॒पिन्व॑ता॒मिळा॒बृह॒स्पतिः॒साम॑भिरृ॒क्वो,अ॑र्चतु |{धानाकोलुशः | विश्वदेवाः | जगती}

सु॒प्र॒के॒तंजी॒वसे॒मन्म॑धीमहि॒तद्दे॒वाना॒मवो᳚,अ॒द्यावृ॑णीमहे || {5/14}{10.36.5}{10.3.7.5}{7.8.9.5}{371, 873, 9169}

आ¦इन्द्रः॑¦ब॒र्हिः¦सीद॑तु¦पिन्व॑ता‌म्¦इळा᳚¦बृह॒स्पतिः॑¦साम॑ऽभिः¦ऋ॒क्वः¦अ॒र्च॒तु॒ |
सु॒ऽप्र॒के॒त‌म्¦जी॒वसे᳚¦मन्म॑¦धी॒म॒हि॒¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

दि॒वि॒स्पृशं᳚य॒ज्ञम॒स्माक॑मश्विनाजी॒राध्व॑रंकृणुतंसु॒म्नमि॒ष्टये᳚ |{धानाकोलुशः | विश्वदेवाः | जगती}

प्रा॒चीन॑रश्मि॒माहु॑तंघृ॒तेन॒तद्दे॒वाना॒मवो᳚,अ॒द्यावृ॑णीमहे || {6/14}{10.36.6}{10.3.7.6}{7.8.10.1}{372, 873, 9170}

दि॒वि॒ऽस्पृश᳚‌म्¦य॒ज्ञ‌म्¦अ॒स्माक᳚‌म्¦अ॒श्वि॒ना॒¦जी॒र।आ॑ध्वर‌म्¦कृ॒णु॒त॒‌म्¦सु॒म्न‌म्¦इ॒ष्टये᳚ |
प्रा॒चीन॑ऽरश्मि‌म्¦आऽहु॑त‌म्¦घृ॒तेन॑¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

उप॑ह्वयेसु॒हवं॒मारु॑तंग॒णंपा᳚व॒कमृ॒ष्वंस॒ख्याय॑श॒म्भुव᳚म् |{धानाकोलुशः | विश्वदेवाः | जगती}

रा॒यस्पोषं᳚सौश्रव॒साय॑धीमहि॒तद्दे॒वाना॒मवो᳚,अ॒द्यावृ॑णीमहे || {7/14}{10.36.7}{10.3.7.7}{7.8.10.2}{373, 873, 9171}

उप॑¦ह्व॒ये॒¦सु॒ऽहव᳚‌म्¦मारु॑त‌म्¦ग॒ण‌म्¦पा॒व॒क‌म्¦ऋ॒ष्व‌म्¦स॒ख्याय॑¦श॒‌म्ऽभुव᳚‌म् |
रा॒यः¦पोष᳚‌म्¦सौ॒श्र॒व॒साय॑¦धी॒म॒हि॒¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

अ॒पांपेरुं᳚जी॒वध᳚न्यंभरामहेदेवा॒व्यं᳚सु॒हव॑मध्वर॒श्रिय᳚म् |{धानाकोलुशः | विश्वदेवाः | जगती}

सु॒र॒श्मिंसोम॑मिन्द्रि॒यंय॑मीमहि॒तद्दे॒वाना॒मवो᳚,अ॒द्यावृ॑णीमहे || {8/14}{10.36.8}{10.3.7.8}{7.8.10.3}{374, 873, 9172}

अ॒पा‌म्¦पेरु᳚‌म्¦जी॒वऽध᳚न्य‌म्¦भ॒रा॒म॒हे॒¦दे॒व॒।आ॒व्य᳚‌म्¦सु॒ऽहव᳚‌म्¦अ॒ध्व॒र॒ऽश्रिय᳚‌म् |
सु॒ऽर॒श्मि‌म्¦सोम᳚‌म्¦इ॒न्द्रि॒य‌म्¦य॒मी॒म॒हि॒¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

स॒नेम॒तत्सु॑स॒निता᳚स॒नित्व॑भिर्व॒यंजी॒वाजी॒वपु॑त्रा॒,अना᳚गसः |{धानाकोलुशः | विश्वदेवाः | जगती}

ब्र॒ह्म॒द्विषो॒विष्व॒गेनो᳚भरेरत॒तद्दे॒वाना॒मवो᳚,अ॒द्यावृ॑णीमहे || {9/14}{10.36.9}{10.3.7.9}{7.8.10.4}{375, 873, 9173}

स॒नेम॑¦तत्¦सु॒ऽस॒निता᳚¦स॒नित्व॑ऽभिः¦व॒य‌म्¦जी॒वाः¦जी॒वऽपु॑त्राः¦अना᳚गसः |
ब्र॒ह्म॒ऽद्विषः॑¦विष्व॑क्¦एनः॑¦भ॒रे॒र॒त॒¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

येस्थामनो᳚र्य॒ज्ञिया॒स्तेशृ॑णोतन॒यद्वो᳚देवा॒,ईम॑हे॒तद्द॑दातन |{धानाकोलुशः | विश्वदेवाः | जगती}

जैत्रं॒क्रतुं᳚रयि॒मद्वी॒रव॒द्यश॒स्तद्दे॒वाना॒मवो᳚,अ॒द्यावृ॑णीमहे || {10/14}{10.36.10}{10.3.7.10}{7.8.10.5}{376, 873, 9174}

ये¦स्थाः¦मनोः᳚¦य॒ज्ञियाः᳚¦ते¦शृ॒णो॒त॒न॒¦यत्¦वः॒¦दे॒वाः॒¦ईम॑हे¦तत्¦द॒दा॒त॒न॒ |
जैत्र᳚‌म्¦क्रतु᳚‌म्¦र॒यि॒मत्¦वी॒रऽव॑त्¦यशः॑¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

म॒हद॒द्यम॑ह॒तामावृ॑णीम॒हेऽवो᳚दे॒वानां᳚बृह॒ताम॑न॒र्वणा᳚म् |{धानाकोलुशः | विश्वदेवाः | जगती}

यथा॒वसु॑वी॒रजा᳚तं॒नशा᳚महै॒तद्दे॒वाना॒मवो᳚,अ॒द्यावृ॑णीमहे || {11/14}{10.36.11}{10.3.7.11}{7.8.11.1}{377, 873, 9175}

म॒हत्¦अ॒द्य¦म॒ह॒ता‌म्¦आ¦वृ॒णी॒म॒हे॒¦अवः॑¦दे॒वाना᳚‌म्¦बृ॒ह॒ता‌म्¦अ॒न॒र्वणा᳚‌म् |
यथा᳚¦वसु॑¦वी॒रऽजा᳚त‌म्¦नशा᳚महै¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

म॒हो,अ॒ग्नेःस॑मिधा॒नस्य॒शर्म॒ण्यना᳚गामि॒त्रेवरु॑णेस्व॒स्तये᳚ |{धानाकोलुशः | विश्वदेवाः | जगती}

श्रेष्ठे᳚स्यामसवि॒तुःसवी᳚मनि॒तद्दे॒वाना॒मवो᳚,अ॒द्यावृ॑णीमहे || {12/14}{10.36.12}{10.3.7.12}{7.8.11.2}{378, 873, 9176}

म॒हः¦अ॒ग्नेः¦स॒‌म्ऽ‌इ॒धा॒नस्य॑¦शर्म॑णि¦अना᳚गाः¦मि॒त्रे¦वरु॑णे¦स्व॒स्तये᳚ |
श्रेष्ठे᳚¦स्या॒म॒¦स॒वि॒तुः¦सवी᳚मनि¦तत्¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒म॒हे॒ ||

येस॑वि॒तुःस॒त्यस॑वस्य॒विश्वे᳚मि॒त्रस्य᳚व्र॒तेवरु॑णस्यदे॒वाः |{धानाकोलुशः | विश्वदेवाः | त्रिष्टुप्}

तेसौभ॑गंवी॒रव॒द्गोम॒दप्नो॒दधा᳚तन॒द्रवि॑णंचि॒त्रम॒स्मे || {13/14}{10.36.13}{10.3.7.13}{7.8.11.3}{379, 873, 9177}

ये¦स॒वि॒तुः¦स॒त्यऽस॑वस्य¦विश्वे᳚¦मि॒त्रस्य॑¦व्र॒ते¦वरु॑णस्य¦दे॒वाः |
ते¦सौभ॑ग‌म्¦वी॒रऽव॑त्¦गोऽम॑त्¦अप्नः॑¦दधा᳚तन¦द्रवि॑ण‌म्¦चि॒त्र‌म्¦अ॒स्मे इति॑ ||

स॒वि॒ताप॒श्चाता᳚त्सवि॒तापु॒रस्ता᳚त्सवि॒तोत्त॒रात्ता᳚त्सवि॒ताध॒रात्ता᳚त् |{धानाकोलुशः | विश्वदेवाः | त्रिष्टुप्}

स॒वि॒तानः॑सुवतुस॒र्वता᳚तिंसवि॒तानो᳚रासतांदी॒र्घमायुः॑ || {14/14}{10.36.14}{10.3.7.14}{7.8.11.4}{380, 873, 9178}

स॒वि॒ता¦प॒श्चाता᳚त्¦स॒वि॒ता¦पु॒रस्ता᳚त्¦स॒वि॒ता¦उ॒त्त॒रात्ता᳚त्¦स॒वि॒ता¦अ॒ध॒रात्ता᳚त् |
स॒वि॒ता¦नः॒¦सु॒व॒तु॒¦स॒र्वऽता᳚ति‌म्¦स॒वि॒ता¦नः॒¦रा॒स॒ता॒‌म्¦दी॒र्घ‌म्¦आयुः॑ ||

[37] नमोमित्रस्येति द्वादशर्चस्य सूक्तस्य सौर्योभितपाः सूर्योजगती दशमी त्रिष्टुप् |
नमो᳚मि॒त्रस्य॒वरु॑णस्य॒चक्ष॑से¦म॒होदे॒वाय॒तदृ॒तंस॑पर्यत |{सौर्योभितपाः | सूर्यः | जगती}

दू॒रे॒दृशे᳚दे॒वजा᳚तायके॒तवे᳚¦दि॒वस्पु॒त्राय॒सूर्या᳚यशंसत || {1/12}{10.37.1}{10.3.8.1}{7.8.12.1}{381, 874, 9179}

नमः॑¦मि॒त्रस्य॑¦वरु॑णस्य¦चक्ष॑से¦म॒हः¦दे॒वाय॑¦तत्¦ऋ॒त‌म्¦स॒प॒र्य॒त॒ |
दू॒रे॒ऽदृशे᳚¦दे॒वऽजा᳚ताय¦के॒तवे᳚¦दि॒वः¦पु॒त्राय॑¦सूर्या᳚य¦शं॒स॒त॒ ||

सामा᳚स॒त्योक्तिः॒परि॑पातुवि॒श्वतो॒¦द्यावा᳚च॒यत्र॑त॒तन॒न्नहा᳚नि |{सौर्योभितपाः | सूर्यः | जगती}

विश्व॑म॒न्यन्निवि॑शते॒यदेज॑ति¦वि॒श्वाहापो᳚वि॒श्वाहोदे᳚ति॒सूर्यः॑ || {2/12}{10.37.2}{10.3.8.2}{7.8.12.2}{382, 874, 9180}

सा¦मा॒¦स॒त्य।औ᳚क्तिः¦परि॑¦पा॒तु॒¦वि॒श्वतः॑¦द्यावा᳚¦च॒¦यत्र॑¦त॒तन॑न्¦अहा᳚नि¦च॒ |
विश्व᳚‌म्¦अ॒न्यत्¦नि¦वि॒श॒ते॒¦यत्¦एज॑ति¦वि॒श्वाहा᳚¦आपः॑¦वि॒श्वाहा᳚¦उत्¦ए॒ति॒¦सूर्यः॑ ||

ते॒,अदे᳚वःप्र॒दिवो॒निवा᳚सते॒¦यदे᳚त॒शेभिः॑पत॒रैर॑थ॒र्यसि॑ |{सौर्योभितपाः | सूर्यः | जगती}

प्रा॒चीन॑म॒न्यदनु॑वर्तते॒रज॒¦उद॒न्येन॒ज्योति॑षायासिसूर्य || {3/12}{10.37.3}{10.3.8.3}{7.8.12.3}{383, 874, 9181}

न¦ते॒¦अदे᳚वः¦प्र॒ऽदिवः॑¦नि¦वा॒स॒ते॒¦यत्¦ए॒त॒शेभिः॑¦प॒त॒रैः¦र॒थ॒र्यसि॑ |
प्रा॒चीन᳚‌म्¦अ॒न्यत्¦अनु॑¦व॒र्त॒ते॒¦रजः॑¦उत्¦अ॒न्येन॑¦ज्योति॑षा¦या॒सि॒¦सू॒र्य॒ ||

येन॑सूर्य॒ज्योति॑षा॒बाध॑से॒तमो॒¦जग॑च्च॒विश्व॑मुदि॒यर्षि॑भा॒नुना᳚ |{सौर्योभितपाः | सूर्यः | जगती}

तेना॒स्मद्विश्वा॒मनि॑रा॒मना᳚हुति॒¦मपामी᳚वा॒मप॑दु॒ष्ष्वप्न्यं᳚सुव || {4/12}{10.37.4}{10.3.8.4}{7.8.12.4}{384, 874, 9182}

येन॑¦सू॒र्य॒¦ज्योति॑षा¦बाध॑से¦तमः॑¦जग॑त्¦च॒¦विश्व᳚‌म्¦उ॒त्ऽ‌इ॒यर्षि॑¦भा॒नुना᳚ |
तेन॑¦अ॒स्मत्¦विश्वा᳚‌म्¦अनि॑रा‌म्¦अना᳚हुति‌म्¦अप॑¦अमी᳚वा‌म्¦अप॑¦दुः॒ऽस्वप्न्य᳚‌म्¦सु॒व॒ ||

विश्व॑स्य॒हिप्रेषि॑तो॒रक्ष॑सिव्र॒त¦महे᳚ळयन्नु॒च्चर॑सिस्व॒धा,अनु॑ |{सौर्योभितपाः | सूर्यः | जगती}

यद॒द्यत्वा᳚सूर्योप॒ब्रवा᳚महै॒¦तंनो᳚दे॒वा,अनु॑मंसीरत॒क्रतु᳚म् || {5/12}{10.37.5}{10.3.8.5}{7.8.12.5}{385, 874, 9183}

विश्व॑स्य¦हि¦प्रऽ‌इ᳚षितः¦रक्ष॑सि¦व्र॒त‌म्¦अहे᳚ळयन्¦उ॒त्ऽचर॑सि¦स्व॒धाः¦अनु॑ |
यत्¦अ॒द्य¦त्वा॒¦सू॒र्य॒¦उ॒प॒ऽब्रवा᳚महै¦त‌म्¦नः॒¦दे॒वाः¦अनु॑¦मं॒सी॒र॒त॒¦क्रतु᳚‌म् ||

तंनो॒द्यावा᳚पृथि॒वीतन्न॒आप॒¦इन्द्रः॑शृण्वन्तुम॒रुतो॒हवं॒वचः॑ |{सौर्योभितपाः | सूर्यः | जगती}

माशूने᳚भूम॒सूर्य॑स्यसं॒दृशि॑¦भ॒द्रंजीव᳚न्तोजर॒णाम॑शीमहि || {6/12}{10.37.6}{10.3.8.6}{7.8.12.6}{386, 874, 9184}

त‌म्¦नः॒¦द्यावा᳚पृथि॒वी इति॑¦तत्¦नः॒¦आपः॑¦इन्द्रः॑¦शृ॒ण्व॒न्तु॒¦म॒रुतः॑¦हव᳚‌म्¦वचः॑ |
मा¦शूने᳚¦भू॒म॒¦सूर्य॑स्य¦स॒‌म्ऽदृशि॑¦भ॒द्र‌म्¦जीव᳚न्तः¦ज॒र॒णा‌म्¦अ॒शी॒म॒हि॒ ||

वि॒श्वाहा᳚त्वासु॒मन॑सःसु॒चक्ष॑सः¦प्र॒जाव᳚न्तो,अनमी॒वा,अना᳚गसः |{सौर्योभितपाः | सूर्यः | जगती}

उ॒द्यन्तं᳚त्वामित्रमहोदि॒वेदि॑वे॒¦ज्योग्जी॒वाःप्रति॑पश्येमसूर्य || {7/12}{10.37.7}{10.3.8.7}{7.8.13.1}{387, 874, 9185}

वि॒श्वाहा᳚¦त्वा॒¦सु॒ऽमन॑सः¦सु॒ऽचक्ष॑सः¦प्र॒जाऽव᳚न्तः¦अ॒न॒मी॒वाः¦अना᳚गसः |
उ॒त्ऽयन्त᳚‌म्¦त्वा॒¦मि॒त्र॒ऽम॒हः॒¦दि॒वेऽदि॑वे¦ज्योक्¦जी॒वाः¦प्रति॑¦प॒श्ये॒म॒¦सू॒र्य॒ ||

महि॒ज्योति॒र्बिभ्र॑तंत्वाविचक्षण॒¦भास्व᳚न्तं॒चक्षु॑षेचक्षुषे॒मयः॑ |{सौर्योभितपाः | सूर्यः | जगती}

आ॒रोह᳚न्तंबृह॒तःपाज॑स॒स्परि॑¦व॒यंजी॒वाःप्रति॑पश्येमसूर्य || {8/12}{10.37.8}{10.3.8.8}{7.8.13.2}{388, 874, 9186}

महि॑¦ज्योतिः॑¦बिभ्र॑त‌म्¦त्वा॒¦वि॒ऽच॒क्ष॒ण॒¦भास्व᳚न्त‌म्¦चक्षु॑षेऽचक्षुषे¦मयः॑ |
आ॒ऽरोह᳚न्त‌म्¦बृ॒ह॒तः¦पाज॑सः¦परि॑¦व॒य‌म्¦जी॒वाः¦प्रति॑¦प॒श्ये॒म॒¦सू॒र्य॒ ||

यस्य॑ते॒विश्वा॒भुव॑नानिके॒तुना॒¦प्रचेर॑ते॒निच॑वि॒शन्ते᳚,अ॒क्तुभिः॑ |{सौर्योभितपाः | सूर्यः | जगती}

अ॒ना॒गा॒स्त्वेन॑हरिकेशसू॒र्या¦ह्ना᳚ह्नानो॒वस्य॑सावस्य॒सोदि॑हि || {9/12}{10.37.9}{10.3.8.9}{7.8.13.3}{389, 874, 9187}

यस्य॑¦ते॒¦विश्वा᳚¦भुव॑नानि¦के॒तुना᳚¦प्र¦च॒¦ईर॑ते¦नि¦च॒¦वि॒शन्ते᳚¦अ॒क्तुऽभिः॑ |
अ॒ना॒गाः॒ऽत्वेन॑¦ह॒रि॒ऽके॒श॒¦सू॒र्य॒¦अह्ना᳚।आह्ना¦नः॒¦वस्य॑साऽवस्यसा¦उत्¦इ॒हि॒ ||

शंनो᳚भव॒चक्ष॑सा॒शंनो॒,अह्ना॒¦शंभा॒नुना॒शंहि॒माशंघृ॒णेन॑ |{सौर्योभितपाः | सूर्यः | त्रिष्टुप्}

यथा॒शमध्व॒ञ्छमस॑द्दुरो॒णे¦तत्‌सू᳚र्य॒द्रवि॑णंधेहिचि॒त्रम् || {10/12}{10.37.10}{10.3.8.10}{7.8.13.4}{390, 874, 9188}

श‌म्¦नः॒¦भ॒व॒¦चक्ष॑सा¦स‌म्¦नः॒¦अह्ना᳚¦श‌म्¦भा॒नुना᳚¦श‌म्¦हि॒माः¦श‌म्¦घृ॒णेन॑ |
यथा᳚¦श‌म्¦अध्व॑न्¦श‌म्¦अस॑त्¦दु॒रो॒णे¦तत्¦सू॒र्य॒¦द्रवि॑ण‌म्¦धे॒हि॒¦चि॒त्र‌म् ||

अ॒स्माकं᳚देवा,उ॒भया᳚य॒जन्म॑ने॒¦शर्म॑यच्छतद्वि॒पदे॒चतु॑ष्पदे |{सौर्योभितपाः | सूर्यः | जगती}

अ॒दत्‌पिब॑दू॒र्जय॑मान॒माशि॑तं॒¦तद॒स्मेशंयोर॑र॒पोद॑धातन || {11/12}{10.37.11}{10.3.8.11}{7.8.13.5}{391, 874, 9189}

अ॒स्माक᳚‌म्¦दे॒वाः॒¦उ॒भया᳚य¦जन्म॑ने¦शर्म॑¦य॒च्छ॒त॒¦द्वि॒ऽपदे᳚¦चतुः॑ऽपदे |
अ॒दत्¦पिब॑त्¦ऊ॒र्जय॑मान‌म्¦आशि॑त‌म्¦तत्¦अ॒स्मे इति॑¦श‌म्¦योः¦अ॒र॒पः¦द॒धा॒त॒न॒ ||

यद्वो᳚देवाश्चकृ॒मजि॒ह्वया᳚गु॒रु¦मन॑सोवा॒प्रयु॑तीदेव॒हेळ॑नम् |{सौर्योभितपाः | सूर्यः | जगती}

अरा᳚वा॒योनो᳚,अ॒भिदु॑च्छुना॒यते॒¦तस्मि॒न्‌तदेनो᳚वसवो॒निधे᳚तन || {12/12}{10.37.12}{10.3.8.12}{7.8.13.6}{392, 874, 9190}

यत्¦वः॒¦दे॒वाः॒¦च॒कृ॒म¦जि॒ह्वया᳚¦गु॒रु¦मन॑सः¦वा॒¦प्रऽयु॑ती¦दे॒व॒ऽहेळ॑न‌म् |
अरा᳚वा¦यः¦नः॒¦अ॒भि¦दु॒च्छु॒न॒ऽयते᳚¦तस्मि॑न्¦तत्¦एनः॑¦व॒स॒वः॒¦नि¦धे॒त॒न॒ ||

[38] अस्मिन्नइति पंचर्चस्य सूक्तस्य मुष्कवानिंद्रइंद्रोजगती |
अ॒स्मिन्न॑इन्द्रपृत्सु॒तौयश॑स्वति॒शिमी᳚वति॒क्रन्द॑सि॒प्राव॑सा॒तये᳚ |{मुष्कवानिंद्रः | इन्द्रः | जगती}

यत्र॒गोषा᳚ताधृषि॒तेषु॑खा॒दिषु॒विष्व॒क्पत᳚न्तिदि॒द्यवो᳚नृ॒षाह्ये᳚ || {1/5}{10.38.1}{10.3.9.1}{7.8.14.1}{393, 875, 9191}

अ॒स्मिन्¦नः॒¦इ॒न्द्र॒¦पृ॒त्सु॒तौ¦यश॑स्वति¦शिमी᳚ऽवति¦क्रन्द॑सि¦प्र¦अ॒व॒¦सा॒तये᳚ |
यत्र॑¦गोऽसा᳚ता¦धृ॒षि॒तेषु॑¦खा॒दिषु॑¦विष्व॑क्¦पत᳚न्ति¦दि॒द्यवः॑¦नृ॒ऽसह्ये᳚ ||

नः॑,क्षु॒मन्तं॒सद॑ने॒व्यू᳚र्णुहि॒गो,अ᳚र्णसंर॒यिमि᳚न्द्रश्र॒वाय्य᳚म् |{मुष्कवानिंद्रः | इन्द्रः | जगती}

स्याम॑ते॒जय॑तःशक्रमे॒दिनो॒यथा᳚व॒यमु॒श्मसि॒तद्व॑सोकृधि || {2/5}{10.38.2}{10.3.9.2}{7.8.14.2}{394, 875, 9192}

सः¦नः॒¦क्षु॒ऽमन्त᳚‌म्¦सद॑ने¦वि¦ऊ॒र्णु॒हि॒¦गो।आ᳚र्णस‌म्¦र॒यि‌म्¦इ॒न्द्र॒¦श्र॒वाय्य᳚‌म् |
स्याम॑¦ते॒¦जय॑तः¦श॒क्र॒¦मे॒दिनः॑¦यथा᳚¦व॒य‌म्¦उ॒श्मसि॑¦तत्¦व॒सो॒ इति॑¦कृ॒धि॒ ||

योनो॒दास॒आर्यो᳚वापुरुष्टु॒तादे᳚वइन्द्रयु॒धये॒चिके᳚तति |{मुष्कवानिंद्रः | इन्द्रः | जगती}

अ॒स्माभि॑ष्टेसु॒षहाः᳚सन्तु॒शत्र॑व॒स्त्वया᳚व॒यंतान्व॑नुयामसंग॒मे || {3/5}{10.38.3}{10.3.9.3}{7.8.14.3}{395, 875, 9193}

यः¦नः॒¦दासः॑¦आर्यः॑¦वा॒¦पु॒रु॒ऽस्तु॒त¦अदे᳚वः¦इ॒न्द्र॒¦यु॒धये᳚¦चिके᳚तति |
अ॒स्माभिः॑¦ते॒¦सु॒ऽसहाः᳚¦स॒न्तु॒¦शत्र॑वः¦त्वया᳚¦व॒य‌म्¦तान्¦व॒नु॒या॒म॒¦स॒‌म्ऽग॒मे ||

योद॒भ्रेभि॒र्हव्यो॒यश्च॒भूरि॑भि॒र्यो,अ॒भीके᳚वरिवो॒विन्नृ॒षाह्ये᳚ |{मुष्कवानिंद्रः | इन्द्रः | जगती}

तंवि॑खा॒देसस्नि॑म॒द्यश्रु॒तंनर॑म॒र्वाञ्च॒मिन्द्र॒मव॑सेकरामहे || {4/5}{10.38.4}{10.3.9.4}{7.8.14.4}{396, 875, 9194}

यः¦द॒भ्रेभिः॑¦हव्यः॑¦यः¦च॒¦भूरि॑ऽभिः¦यः¦अ॒भीके᳚¦व॒रि॒वः॒ऽवित्¦नृ॒ऽसह्ये᳚ |
त‌म्¦वि॒ऽखा॒दे¦सस्नि᳚‌म्¦अ॒द्य¦श्रु॒त‌म्¦नर᳚‌म्¦अ॒र्वांच᳚‌म्¦इन्द्र᳚‌म्¦अव॑से¦क॒रा॒म॒हे॒ ||

स्व॒वृजं॒हित्वाम॒हमि᳚न्द्रशु॒श्रवा᳚नानु॒दंवृ॑षभरध्र॒चोद॑नम् |{मुष्कवानिंद्रः | इन्द्रः | जगती}

प्रमु᳚ञ्चस्व॒परि॒कुत्सा᳚दि॒हाग॑हि॒किमु॒त्वावा᳚न्मु॒ष्कयो᳚र्ब॒द्धआ᳚सते || {5/5}{10.38.5}{10.3.9.5}{7.8.14.5}{397, 875, 9195}

स्व॒ऽवृज᳚‌म्¦हि¦त्वा‌म्¦अ॒ह‌म्¦इ॒न्द्र॒¦शु॒श्रव॑¦अ॒न॒नु॒ऽद‌म्¦वृ॒ष॒भ॒¦र॒ध्र॒ऽचोद॑न‌म् |
प्र¦मुं॒च॒स्व॒¦परि॑¦कुत्सा᳚त्¦इ॒ह¦आ¦ग॒हि॒¦कि‌म्¦ऊँ॒ इति॑¦त्वाऽवा᳚न्¦मु॒ष्कयोः᳚¦ब॒द्धः¦आ॒स॒ते॒ ||

[39] योवामिति चतुर्दशर्चस्य सूक्तस्य काक्षीवतीघोषाश्विनौ जगत्यंत्यात्रिष्टुप् |
योवां॒परि॑ज्मासु॒वृद॑श्विना॒रथो᳚दो॒षामु॒षासो॒हव्यो᳚ह॒विष्म॑ता |{काक्षीवती घोषा | अश्विनौ | जगती}

श॒श्व॒त्त॒मास॒स्तमु॑वामि॒दंव॒यंपि॒तुर्ननाम॑सु॒हवं᳚हवामहे || {1/14}{10.39.1}{10.3.10.1}{7.8.15.1}{398, 876, 9196}

यः¦वा॒‌म्¦परि॑ऽज्मा¦सु॒ऽवृत्¦अ॒श्वि॒ना॒¦रथः॑¦दो॒षा‌म्¦उ॒षसः॑¦हव्यः॑¦ह॒विष्म॑ता |
श॒श्व॒त्ऽत॒मासः॑¦त‌म्¦ऊँ॒ इति॑¦वा॒‌म्¦इ॒द‌म्¦व॒य‌म्¦पि॒तुः¦न¦नाम॑¦सु॒ऽहव᳚‌म्¦ह॒वा॒म॒हे॒ ||

चो॒दय॑तंसू॒नृताः॒पिन्व॑तं॒धिय॒उत्पुरं᳚धीरीरयतं॒तदु॑श्मसि |{काक्षीवती घोषा | अश्विनौ | जगती}

य॒शसं᳚भा॒गंकृ॑णुतंनो,अश्विना॒सोमं॒चारुं᳚म॒घव॑त्सुनस्कृतम् || {2/14}{10.39.2}{10.3.10.2}{7.8.15.2}{399, 876, 9197}

चो॒दय॑त‌म्¦सू॒नृताः᳚¦पिन्व॑त‌म्¦धियः॑¦उत्¦पुर᳚‌म्ऽधीः¦ई॒र॒य॒त॒‌म्¦तत्¦उ॒श्म॒सि॒ |
य॒शस᳚‌म्¦भा॒ग‌म्¦कृ॒णु॒त॒‌म्¦नः॒¦अ॒श्वि॒ना॒¦सोम᳚‌म्¦न¦चारु᳚‌म्¦म॒घव॑त्ऽसु¦नः॒¦कृ॒त॒‌म् ||

अ॒मा॒जुर॑श्चिद्भवथोयु॒वंभगो᳚ऽना॒शोश्चि॑दवि॒तारा᳚प॒मस्य॑चित् |{काक्षीवती घोषा | अश्विनौ | जगती}

अ॒न्धस्य॑चिन्नासत्याकृ॒शस्य॑चिद्यु॒वामिदा᳚हुर्भि॒षजा᳚रु॒तस्य॑चित् || {3/14}{10.39.3}{10.3.10.3}{7.8.15.3}{400, 876, 9198}

अ॒मा॒ऽजुरः॑¦चि॒त्¦भ॒व॒थः॒¦यु॒व‌म्¦भगः॑¦अ॒ना॒शोः¦चि॒त्¦अ॒वि॒तारा᳚¦अ॒प॒मस्य॑¦चि॒त् |
अ॒न्धस्य॑¦चि॒त्¦ना॒स॒त्या॒¦कृ॒शस्य॑¦चि॒त्¦यु॒वा‌म्¦इत्¦आ॒हुः॒¦भि॒षजा᳚¦रु॒तस्य॑¦चि॒त् ||

यु॒वंच्यवा᳚नंस॒नयं॒यथा॒रथं॒पुन॒र्युवा᳚नंच॒रथा᳚यतक्षथुः |{काक्षीवती घोषा | अश्विनौ | जगती}

निष्टौ॒ग्र्यमू᳚हथुर॒द्भ्यस्परि॒विश्वेत्तावां॒सव॑नेषुप्र॒वाच्या᳚ || {4/14}{10.39.4}{10.3.10.4}{7.8.15.4}{401, 876, 9199}

यु॒व‌म्¦च्यवा᳚न‌म्¦स॒नय᳚‌म्¦यथा᳚¦रथ᳚‌म्¦पुनः॑¦युवा᳚न‌म्¦च॒रथा᳚य¦त॒क्ष॒थुः॒ |
निः¦तौ॒ग्र्य‌म्¦ऊ॒ह॒थुः॒¦अ॒त्ऽभ्यः¦परि॑¦विश्वा᳚¦इत्¦ता¦वा॒‌म्¦सव॑नेषु¦प्र॒ऽवाच्या᳚ ||

पु॒रा॒णावां᳚वी॒र्या॒३॑(आ॒)प्रब्र॑वा॒जनेऽथो᳚हासथुर्भि॒षजा᳚मयो॒भुवा᳚ |{काक्षीवती घोषा | अश्विनौ | जगती}

तावां॒नुनव्या॒वव॑सेकरामहे॒ऽयंना᳚सत्या॒श्रद॒रिर्यथा॒दध॑त् || {5/14}{10.39.5}{10.3.10.5}{7.8.15.5}{402, 876, 9200}

पु॒रा॒णा¦वा॒‌म्¦वी॒र्या᳚¦प्र¦ब्र॒व॒¦जने᳚¦अथो॒ इति॑¦ह॒¦आ॒स॒थुः॒¦भि॒षजा᳚¦म॒यः॒ऽभुवा᳚ |
ता¦वा॒‌म्¦नु¦नव्यौ᳚¦अव॑से¦क॒रा॒म॒हे॒¦अ॒य‌म्¦ना॒स॒त्या॒¦श्रत्¦अ॒रिः¦यथा᳚¦दध॑त् ||

इ॒यंवा᳚मह्वेशृणु॒तंमे᳚,अश्विनापु॒त्राये᳚वपि॒तरा॒मह्यं᳚शिक्षतम् |{काक्षीवती घोषा | अश्विनौ | जगती}

अना᳚पि॒रज्ञा᳚,असजा॒त्याम॑तिःपु॒रातस्या᳚,अ॒भिश॑स्ते॒रव॑स्पृतम् || {6/14}{10.39.6}{10.3.10.6}{7.8.16.1}{403, 876, 9201}

इ॒य‌म्¦वा॒‌म्¦अ॒ह्वे॒¦शृ॒णु॒त‌म्¦मे॒¦अ॒श्वि॒ना॒¦पु॒त्राय॑ऽ‌इव¦पि॒तरा᳚¦मह्य᳚‌म्¦शि॒क्ष॒त॒‌म् |
अना᳚पिः¦अज्ञाः᳚¦अ॒स॒जा॒त्या¦अम॑तिः¦पु॒रा¦तस्याः᳚¦अ॒भिऽश॑स्तेः¦अव॑¦स्पृ॒त॒‌म् ||

यु॒वंरथे᳚नविम॒दाय॑शु॒न्ध्युवं॒न्यू᳚हथुःपुरुमि॒त्रस्य॒योष॑णाम् |{काक्षीवती घोषा | अश्विनौ | जगती}

यु॒वंहवं᳚वध्रिम॒त्या,अ॑गच्छतंयु॒वंसुषु॑तिंचक्रथुः॒पुरं᳚धये || {7/14}{10.39.7}{10.3.10.7}{7.8.16.2}{404, 876, 9202}

यु॒व‌म्¦रथे᳚न¦वि॒ऽम॒दाय॑¦शु॒न्ध्युव᳚‌म्¦नि¦ऊ॒ह॒थुः॒¦पु॒रु॒ऽमि॒त्रस्य॑¦योष॑ण‌म् |
यु॒व‌म्¦हव᳚‌म्¦व॒ध्रि॒ऽम॒त्याः¦अ॒ग॒च्छ॒त॒‌म्¦यु॒व‌म्¦सुऽसु॑ति‌म्¦च॒क्र॒थुः॒¦पुर᳚‌म्ऽधये ||

यु॒वंविप्र॑स्यजर॒णामु॑पे॒युषः॒पुनः॑क॒लेर॑कृणुतं॒युव॒द्वयः॑ |{काक्षीवती घोषा | अश्विनौ | जगती}

यु॒वंवन्द॑नमृश्य॒दादुदू᳚पथुर्यु॒वंस॒द्योवि॒श्पला॒मेत॑वेकृथः || {8/14}{10.39.8}{10.3.10.8}{7.8.16.3}{405, 876, 9203}

यु॒व‌म्¦विप्र॑स्य¦ज॒र॒णा‌म्¦उ॒प॒ऽई॒युषः॑¦पुन॒रिति॑¦क॒लेः¦अ॒कृ॒णु॒त॒‌म्¦यु॒व॒त्¦वयः॑ |
यु॒व‌म्¦वन्द॑न‌म्¦ऋ॒श्य॒ऽदात्¦उत्¦ऊ॒प॒थुः॒¦यु॒व‌म्¦स॒द्यः¦वि॒श्पला᳚‌म्¦एत॑वे¦कृ॒थः॒ ||

यु॒वंह॑रे॒भंवृ॑षणा॒गुहा᳚हि॒तमुदै᳚रयतंममृ॒वांस॑मश्विना |{काक्षीवती घोषा | अश्विनौ | जगती}

यु॒वमृ॒बीस॑मु॒तत॒प्तमत्र॑य॒ओम᳚न्वन्तंचक्रथुःस॒प्तव॑ध्रये || {9/14}{10.39.9}{10.3.10.9}{7.8.16.4}{406, 876, 9204}

यु॒व‌म्¦ह॒¦रे॒भ‌म्¦वृ॒ष॒णा॒¦गुहा᳚¦हि॒त‌म्¦उत्¦ऐ॒र॒य॒त॒‌म्¦म॒मृ॒ऽवांस᳚‌म्¦अ॒श्वि॒ना॒ |
यु॒व‌म्¦ऋ॒बीस᳚‌म्¦उ॒त¦त॒प्त‌म्¦अत्र॑ये¦ओम॑न्ऽवन्त‌म्¦च॒क्र॒थुः॒¦स॒प्तऽव॑ध्रये ||

यु॒वंश्वे॒तंपे॒दवे᳚ऽश्वि॒नाश्वं᳚न॒वभि॒र्वाजै᳚र्नव॒तीच॑वा॒जिन᳚म् |{काक्षीवती घोषा | अश्विनौ | जगती}

च॒र्कृत्यं᳚ददथुर्द्राव॒यत्स॑खं॒भगं॒नृभ्यो॒हव्यं᳚मयो॒भुव᳚म् || {10/14}{10.39.10}{10.3.10.10}{7.8.16.5}{407, 876, 9205}

यु॒व‌म्¦श्वे॒त‌म्¦पे॒दवे᳚¦अ॒श्वि॒ना॒¦अश्व᳚‌म्¦न॒वऽभिः॑¦वाजैः᳚¦न॒व॒ती¦च॒¦वा॒जिन᳚‌म् |
च॒र्कृत्य᳚‌म्¦द॒द॒थुः॒¦द्र॒व॒यत्ऽस॑ख‌म्¦भग᳚‌म्¦न¦नृऽभ्यः॑¦हव्य᳚‌म्¦म॒यः॒ऽभुव᳚‌म् ||

तंरा᳚जानावदिते॒कुत॑श्च॒ननांहो᳚,अश्नोतिदुरि॒तंनकि॑र्भ॒यम् |{काक्षीवती घोषा | अश्विनौ | जगती}

यम॑श्विनासुहवारुद्रवर्तनीपुरोर॒थंकृ॑णु॒थःपत्न्या᳚स॒ह || {11/14}{10.39.11}{10.3.10.11}{7.8.17.1}{408, 876, 9206}

न¦त‌म्¦रा॒जा॒नौ॒¦अ॒दि॒ते॒¦कुतः॑¦च॒न¦न¦अंहः॑¦अ॒श्नो॒ति॒¦दुः॒ऽ‌इ॒त‌म्¦नकिः॑¦भ॒य‌म् |
य‌म्¦अ॒श्वि॒ना॒¦सु॒ऽह॒वा॒¦रु॒द्र॒व॒र्त॒नी॒ इति॑ रुद्रऽवर्तनी¦पु॒रः॒ऽर॒थ‌म्¦कृ॒णु॒थः¦पत्न्या᳚¦स॒ह ||

तेन॑यातं॒मन॑सो॒जवी᳚यसा॒रथं॒यंवा᳚मृ॒भव॑श्च॒क्रुर॑श्विना |{काक्षीवती घोषा | अश्विनौ | जगती}

यस्य॒योगे᳚दुहि॒ताजाय॑तेदि॒वउ॒भे,अह॑नीसु॒दिने᳚वि॒वस्व॑तः || {12/14}{10.39.12}{10.3.10.12}{7.8.17.2}{409, 876, 9207}

आ¦तेन॑¦या॒त॒‌म्¦मन॑सः¦जवी᳚यसा¦रथ᳚‌म्¦य‌म्¦वा॒‌म्¦ऋ॒भवः॑¦च॒क्रुः¦अ॒श्वि॒ना॒ |
यस्य॑¦योगे᳚¦दु॒हि॒ता¦जाय॑ते¦दि॒वः¦उ॒भे इति॑¦अह॑नी॒ इति॑¦सु॒दिने॒ इति॑ सु॒ऽदिने᳚¦वि॒वस्व॑तः ||

ताव॒र्तिर्या᳚तंज॒युषा॒विपर्व॑त॒मपि᳚न्वतंश॒यवे᳚धे॒नुम॑श्विना |{काक्षीवती घोषा | अश्विनौ | जगती}

वृक॑स्यचि॒द्वर्ति॑काम॒न्तरा॒स्या᳚द्यु॒वंशची᳚भिर्ग्रसि॒ताम॑मुञ्चतम् || {13/14}{10.39.13}{10.3.10.13}{7.8.17.3}{410, 876, 9208}

ता¦व॒र्तिः¦या॒त॒‌म्¦ज॒युषा᳚¦वि¦पर्व॑त‌म्¦अपि᳚न्वत‌म्¦श॒यवे᳚¦धे॒नु‌म्¦अ॒श्वि॒ना॒ |
वृक॑स्य¦चि॒त्¦वरि॑का‌म्¦अ॒न्तः¦आ॒स्या᳚त्¦यु॒व‌म्¦शची᳚भिः¦ग्र॒सि॒ता‌म्¦अ॒मुं॒च॒त॒‌म् ||

ए॒तंवां॒स्तोम॑मश्विनावक॒र्मात॑क्षाम॒भृग॑वो॒रथ᳚म् |{काक्षीवती घोषा | अश्विनौ | त्रिष्टुप्}

न्य॑मृक्षाम॒योष॑णां॒मर्ये॒नित्यं॒सू॒नुंतन॑यं॒दधा᳚नाः || {14/14}{10.39.14}{10.3.10.14}{7.8.17.4}{411, 876, 9209}

ए॒त‌म्¦वा॒‌म्¦स्तोम᳚‌म्¦अ॒श्वि॒नौ॒¦अ॒क॒र्म॒¦अत॑क्षाम¦भृग॑वः¦न¦रथ᳚‌म् |
नि¦अ॒मृ॒क्षा॒म॒¦योष॑णा‌म्¦न¦मर्ये᳚¦नित्य᳚‌म्¦न¦सू॒नु‌म्¦तन॑य‌म्¦दधा᳚नाः ||

[40] रथंयांतमिति चतुर्दशर्चस्य सूक्तस्य काक्षीवतीघोषाश्विनौजगती |
रथं॒यान्तं॒कुह॒कोह॑वांनरा॒प्रति॑द्यु॒मन्तं᳚सुवि॒ताय॑भूषति |{काक्षीवती घोषा | अश्विनौ | जगती}

प्रा॒त॒र्यावा᳚णंवि॒भ्वं᳚वि॒शेवि॑शे॒वस्तो᳚र्वस्तो॒र्वह॑मानंधि॒याशमि॑ || {1/14}{10.40.1}{10.3.11.1}{7.8.18.1}{412, 877, 9210}

रथ᳚‌म्¦यान्त᳚‌म्¦कुह॑¦कः¦ह॒¦वा॒‌म्¦न॒रा॒¦प्रति॑¦द्यु॒ऽमन्त᳚‌म्¦सु॒ऽवि॒ताय॑¦भू॒ष॒ति॒ |
प्रा॒तः॒ऽयावा᳚ण‌म्¦वि॒ऽभ्व᳚‌म्¦वि॒शेऽवि॑शे¦वस्तोः᳚ऽवस्तोः¦वह॑मान‌म्¦धि॒या¦शमि॑ ||

कुह॑स्विद्दो॒षाकुह॒वस्तो᳚र॒श्विना॒कुहा᳚भिपि॒त्वंक॑रतः॒कुहो᳚षतुः |{काक्षीवती घोषा | अश्विनौ | जगती}

कोवां᳚शयु॒त्रावि॒धवे᳚वदे॒वरं॒मर्यं॒योषा᳚कृणुतेस॒धस्थ॒ || {2/14}{10.40.2}{10.3.11.2}{7.8.18.2}{413, 877, 9211}

कुह॑¦स्वि॒त्¦दो॒षा¦कुह॑¦वस्तोः᳚¦अ॒श्विना᳚¦कुह॑¦अ॒भि॒ऽपि॒त्व‌म्¦क॒र॒तः॒¦कुह॑¦ऊ॒ष॒तुः॒ |
कः¦वा॒‌म्¦श॒यु॒ऽत्रा¦वि॒धवा᳚ऽ‌इव¦दे॒वर᳚‌म्¦मर्य᳚‌म्¦न¦योषा᳚¦कृ॒णु॒ते॒¦स॒धऽस्थे᳚¦आ ||

प्रा॒तर्ज॑रेथेजर॒णेव॒काप॑या॒वस्तो᳚र्वस्तोर्यज॒ताग॑च्छथोगृ॒हम् |{काक्षीवती घोषा | अश्विनौ | जगती}

कस्य॑ध्व॒स्राभ॑वथः॒कस्य॑वानराराजपु॒त्रेव॒सव॒नाव॑गच्छथः || {3/14}{10.40.3}{10.3.11.3}{7.8.18.3}{414, 877, 9212}

प्रा॒तः¦ज॒रे॒थे॒ इति॑¦ज॒र॒णाऽ‌इ᳚व¦काप॑या¦वस्तोः᳚ऽवस्तोः¦य॒ज॒ता¦ग॒च्छ॒थः॒¦गृ॒ह‌म् |
कस्य॑¦ध्व॒स्रा¦भ॒व॒थः॒¦कस्य॑¦वा॒¦न॒रा॒¦रा॒ज॒ऽपु॒त्राऽ‌इ᳚व¦सव॑ना¦अव॑¦ग॒च्छ॒थः॒ ||

यु॒वांमृ॒गेव॑वार॒णामृ॑ग॒ण्यवो᳚दो॒षावस्तो᳚र्ह॒विषा॒निह्व॑यामहे |{काक्षीवती घोषा | अश्विनौ | जगती}

यु॒वंहोत्रा᳚मृतु॒थाजुह्व॑तेन॒रेषं॒जना᳚यवहथःशुभस्पती || {4/14}{10.40.4}{10.3.11.4}{7.8.18.4}{415, 877, 9213}

यु॒वा‌म्¦मृ॒गाऽ‌इ᳚व¦वा॒र॒णा¦मृ॒ग॒ण्यवः॑¦दो॒षा¦वस्तोः᳚¦ह॒विषा᳚¦नि¦ह्व॒या॒म॒हे॒ |
यु॒व‌म्¦होत्रा᳚‌म्¦ऋ॒तु॒ऽथा¦जुह्व॑ते¦न॒रा॒¦इष᳚‌म्¦जना᳚य¦व॒ह॒थः॒¦शु॒भः॒¦प॒ती॒ इति॑ ||

यु॒वांह॒घोषा॒पर्य॑श्विनाय॒तीराज्ञ॑ऊचेदुहि॒तापृ॒च्छेवां᳚नरा |{काक्षीवती घोषा | अश्विनौ | जगती}

भू॒तंमे॒,अह्न॑उ॒तभू᳚तम॒क्तवेऽश्वा᳚वतेर॒थिने᳚शक्त॒मर्व॑ते || {5/14}{10.40.5}{10.3.11.5}{7.8.18.5}{416, 877, 9214}

यु॒वा‌म्¦ह॒¦घोषा᳚¦परि॑¦अ॒श्वि॒ना॒¦य॒ती¦राज्ञः॑¦ऊ॒चे॒¦दु॒हि॒ता¦पृ॒च्छे¦वा॒‌म्¦न॒रा॒ |
भू॒त‌म्¦मे॒¦अह्ने᳚¦उ॒त¦भू॒त॒‌म्¦अ॒क्तवे᳚¦अश्व॑ऽवते¦र॒थिने᳚¦शक्त᳚‌म्¦अर्व॑ते ||

यु॒वंक॒वीष्ठः॒पर्य॑श्विना॒रथं॒विशो॒कुत्सो᳚जरि॒तुर्न॑शायथः |{काक्षीवती घोषा | अश्विनौ | जगती}

यु॒वोर्ह॒मक्षा॒पर्य॑श्विना॒मध्वा॒साभ॑रतनिष्कृ॒तंयोष॑णा || {6/14}{10.40.6}{10.3.11.6}{7.8.19.1}{417, 877, 9215}

यु॒व‌म्¦क॒वी इति॑¦स्थः॒¦परि॑¦अ॒श्वि॒ना॒¦रथ᳚‌म्¦विशः॑¦न¦कुत्सः॑¦ज॒रि॒तुः¦न॒शा॒य॒थः॒ |
यु॒वोः¦ह॒¦मक्षा᳚¦परि॑¦अ॒श्वि॒ना॒¦मधु॑¦आ॒सा¦भ॒र॒त॒¦निः॒ऽकृ॒त‌म्¦न¦योष॑णा ||

यु॒वंह॑भु॒ज्युंयु॒वम॑श्विना॒वशं᳚यु॒वंशि॒ञ्जार॑मु॒शना॒मुपा᳚रथुः |{काक्षीवती घोषा | अश्विनौ | जगती}

यु॒वोररा᳚वा॒परि॑स॒ख्यमा᳚सतेयु॒वोर॒हमव॑सासु॒म्नमाच॑के || {7/14}{10.40.7}{10.3.11.7}{7.8.19.2}{418, 877, 9216}

यु॒व‌म्¦ह॒¦भु॒ज्यु‌म्¦यु॒व‌म्¦अ॒श्वि॒ना॒¦वश᳚‌म्¦यु॒व‌म्¦शिं॒जार᳚‌म्¦उ॒शना᳚‌म्¦उप॑¦आ॒र॒थुः॒ |
यु॒वोः¦ररा᳚वा¦परि॑¦स॒ख्य‌म्¦आ॒स॒ते॒¦यु॒वोः¦अ॒ह‌म्¦अव॑सा¦सु॒म्न‌म्¦आ¦च॒के॒ ||

यु॒वंह॑कृ॒शंयु॒वम॑श्विनाश॒युंयु॒वंवि॒धन्तं᳚वि॒धवा᳚मुरुष्यथः |{काक्षीवती घोषा | अश्विनौ | जगती}

यु॒वंस॒निभ्यः॑स्त॒नय᳚न्तमश्वि॒नाप᳚व्र॒जमू᳚र्णुथःस॒प्तास्य᳚म् || {8/14}{10.40.8}{10.3.11.8}{7.8.19.3}{419, 877, 9217}

यु॒व‌म्¦ह॒¦कृ॒श‌म्¦यु॒व‌म्¦अ॒श्वि॒ना॒¦श॒यु‌म्¦यु॒व‌म्¦वि॒धन्त᳚‌म्¦वि॒धवा᳚‌म्¦उ॒रु॒ष्य॒थः॒ |
यु॒व‌म्¦स॒निऽभ्यः॑¦स्त॒नय᳚न्त‌म्¦अ॒श्वि॒ना॒¦अप॑¦व्र॒ज‌म्¦ऊ॒र्णु॒थः॒¦स॒प्तऽआ᳚स्य‌म् ||

जनि॑ष्ट॒योषा᳚प॒तय॑त्कनीन॒कोविचारु॑हन्वी॒रुधो᳚दं॒सना॒,अनु॑ |{काक्षीवती घोषा | अश्विनौ | जगती}

आस्मै᳚रीयन्तेनिव॒नेव॒सिन्ध॑वो॒ऽस्मा,अह्ने᳚भवति॒तत्‌प॑तित्व॒नम् || {9/14}{10.40.9}{10.3.11.9}{7.8.19.4}{420, 877, 9218}

जनि॑ष्ठ¦योषा᳚¦प॒तय॑त्¦क॒नी॒न॒कः¦वि¦च॒¦अरु॑हन्¦वी॒रुधः॑¦दं॒सनाः᳚¦अनु॑ |
आ¦अ॒स्मै॒¦री॒य॒न्ते॒¦नि॒व॒नाऽ‌इ᳚व¦सिन्ध॑वः¦अ॒स्मै¦अह्ने᳚¦भ॒व॒ति॒¦तत्¦प॒ति॒ऽत्व॒न‌म् ||

जी॒वंरु॑दन्ति॒विम॑यन्ते,अध्व॒रेदी॒र्घामनु॒प्रसि॑तिंदीधियु॒र्नरः॑ |{काक्षीवती घोषा | अश्विनौ | जगती}

वा॒मंपि॒तृभ्यो॒इ॒दंस॑मेरि॒रेमयः॒पति॑भ्यो॒जन॑यःपरि॒ष्वजे᳚ || {10/14}{10.40.10}{10.3.11.10}{7.8.19.5}{421, 877, 9219}

जी॒व‌म्¦रु॒द॒न्ति॒¦वि¦म॒य॒न्ते॒¦अ॒ध्व॒रे¦दी॒र्घा‌म्¦अनु॑¦प्रऽसि॑ति‌म्¦दी॒धि॒युः॒¦नरः॑ |
वा॒म‌म्¦पि॒तृऽभ्यः॑¦ये¦इ॒द‌म्¦स॒‌म्ऽए॒रि॒रे¦मयः॑¦पति॑ऽभ्यः¦जन॑यः¦प॒रि॒ऽस्वजे᳚ ||

तस्य॑विद्म॒तदु॒षुप्रवो᳚चत॒युवा᳚ह॒यद्यु॑व॒त्याः,क्षेति॒योनि॑षु |{काक्षीवती घोषा | अश्विनौ | जगती}

प्रि॒योस्रि॑यस्यवृष॒भस्य॑रे॒तिनो᳚गृ॒हंग॑मेमाश्विना॒तदु॑श्मसि || {11/14}{10.40.11}{10.3.11.11}{7.8.20.1}{422, 877, 9220}

न¦तस्य॑¦वि॒द्म॒¦तत्¦ऊँ॒ इति॑¦सु¦प्र¦वो॒च॒त॒¦युवा᳚¦ह॒¦यत्¦यु॒व॒त्याः¦क्षेति॑¦योनि॑षु |
प्रि॒य।औ᳚स्रियस्य¦वृ॒ष॒भस्य॑¦रे॒तिनः॑¦गृ॒ह‌म्¦ग॒मे॒म॒¦अ॒श्वि॒ना॒¦तत्¦उ॒श्म॒सि॒ ||

वा᳚मगन्‌त्सुम॒तिर्वा᳚जिनीवसू॒न्य॑श्विनाहृ॒त्सुकामा᳚,अयंसत |{काक्षीवती घोषा | अश्विनौ | जगती}

अभू᳚तंगो॒पामि॑थु॒नाशु॑भस्पतीप्रि॒या,अ᳚र्य॒म्णोदुर्याँ᳚,अशीमहि || {12/14}{10.40.12}{10.3.11.12}{7.8.20.2}{423, 877, 9221}

आ¦वा॒‌म्¦अ॒ग॒न्¦सु॒ऽम॒तिः¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू¦नि¦अ॒श्वि॒ना॒¦हृ॒त्ऽसु¦कामाः᳚¦अ॒यं॒स॒त॒ |
अभू᳚त‌म्¦गो॒पा¦मि॒थु॒ना¦शु॒भः॒¦प॒ती॒ इति॑¦प्रि॒याः¦अ॒र्य॒म्णः¦दुर्या᳚न्¦अ॒शी॒म॒हि॒ ||

ताम᳚न्दसा॒नामनु॑षोदुरो॒णध॒त्तंर॒यिंस॒हवी᳚रंवच॒स्यवे᳚ |{काक्षीवती घोषा | अश्विनौ | जगती}

कृ॒तंती॒र्थंसु॑प्रपा॒णंशु॑भस्पतीस्था॒णुंप॑थे॒ष्ठामप॑दुर्म॒तिंह॑तम् || {13/14}{10.40.13}{10.3.11.13}{7.8.20.3}{424, 877, 9222}

ता¦म॒न्द॒सा॒ना¦मनु॑षः¦दु॒रो॒णे¦आ¦ध॒त्त‌म्¦र॒यि‌म्¦स॒हऽवी᳚र‌म्¦व॒च॒स्यवे᳚ |
कृ॒त‌म्¦ती॒र्थ‌म्¦सु॒ऽप्र॒पा॒न‌म्¦शु॒भः॒¦प॒ती॒ इति॑¦स्था॒णु‌म्¦प॒थे॒ऽस्था‌म्¦अप॑¦दुः॒ऽम॒ति‌म्¦ह॒त॒‌म् ||

क्व॑स्विद॒द्यक॑त॒मास्व॒श्विना᳚वि॒क्षुद॒स्रामा᳚दयेतेशु॒भस्पती᳚ |{काक्षीवती घोषा | अश्विनौ | जगती}

ईं॒निये᳚मेकत॒मस्य॑जग्मतु॒र्विप्र॑स्यवा॒यज॑मानस्यवागृ॒हम् || {14/14}{10.40.14}{10.3.11.14}{7.8.20.4}{425, 877, 9223}

क्व॑¦स्वि॒त्¦अ॒द्य¦क॒त॒मासु॑¦अ॒श्विना᳚¦वि॒क्षु¦द॒स्रा¦मा॒द॒ये॒ते॒ इति॑¦शु॒भः¦पती॒ इति॑ |
कः¦ई॒‌म्¦नि¦ये॒मे॒¦क॒त॒मस्य॑¦ज॒ग्म॒तुः॒¦विप्र॑स्य¦वा॒¦यज॑मानस्य¦वा॒¦गृ॒ह‌म् ||

[41] समानमिति तृचस्य सूक्तस्य घौषेयः सुहस्त्योश्विनौजगती |
स॒मा॒नमु॒त्यंपु॑रुहू॒तमु॒क्थ्य१॑(अं॒)रथं᳚त्रिच॒क्रंसव॑ना॒गनि॑ग्मतम् |{घौषेयः सुहस्त्यः | अश्विनौ | जगती}

परि॑ज्मानंविद॒थ्यं᳚सुवृ॒क्तिभि᳚र्व॒यंव्यु॑ष्टा,उ॒षसो᳚हवामहे || {1/3}{10.41.1}{10.3.12.1}{7.8.21.1}{426, 878, 9224}

स॒मा॒न‌म्¦ऊँ॒ इति॑¦त्य‌म्¦पु॒रु॒ऽहू॒त‌म्¦उ॒क्थ्य᳚‌म्¦रथ᳚‌म्¦त्रि॒ऽच॒क्र‌म्¦सव॑ना¦गनि॑ग्मत‌म् |
परि॑ऽज्मान‌म्¦वि॒द॒थ्य᳚‌म्¦सु॒वृ॒क्तिऽभिः॑¦व॒य‌म्¦वि।औ᳚ष्टौ¦उ॒षसः॑¦ह॒वा॒म॒हे॒ ||

प्रा॒त॒र्युजं᳚नास॒त्याधि॑तिष्ठथःप्रात॒र्यावा᳚णंमधु॒वाह॑नं॒रथ᳚म् |{घौषेयः सुहस्त्यः | अश्विनौ | जगती}

विशो॒येन॒गच्छ॑थो॒यज्व॑रीर्नराकी॒रेश्चि॑द्‌य॒ज्ञंहोतृ॑मन्तमश्विना || {2/3}{10.41.2}{10.3.12.2}{7.8.21.2}{427, 878, 9225}

प्रा॒तः॒ऽयुज᳚‌म्¦ना॒स॒त्या॒¦अधि॑¦ति॒ष्ठ॒थः॒¦प्रा॒तः॒ऽयावा᳚न‌म्¦म॒धु॒ऽवाह॑न‌म्¦रथ᳚‌म् |
विशः॑¦येन॑¦गच्छ॑तः¦यज्व॑रीः¦न॒रा॒¦की॒रेः¦चि॒त्¦य॒ज्ञ‌म्¦होतृ॑ऽमन्त‌म्¦अ॒श्वि॒ना॒ ||

अ॒ध्व॒र्युंवा॒मधु॑पाणिंसु॒हस्त्य॑म॒ग्निधं᳚वाधृ॒तद॑क्षं॒दमू᳚नसम् |{घौषेयः सुहस्त्यः | अश्विनौ | जगती}

विप्र॑स्यवा॒यत्सव॑नानि॒गच्छ॒थोऽत॒या᳚तंमधु॒पेय॑मश्विना || {3/3}{10.41.3}{10.3.12.3}{7.8.21.3}{428, 878, 9226}

अ॒ध्व॒र्यु‌म्¦वा॒¦मधु॑ऽपाणि‌म्¦सु॒ऽहस्त्य᳚‌म्¦अ॒ग्निध᳚‌म्¦वा॒¦धृ॒तऽद॑क्ष‌म्¦दमू᳚नस‌म् |
विप्र॑स्य¦वा॒¦यत्¦सव॑नानि¦गच्छ॑थः¦अतः॑¦आ¦या॒त॒‌म्¦म॒धु॒ऽपेय᳚‌म्¦अ॒श्वि॒न्चा ||

[42] अस्तेवेत्येकादशर्चस्य सूक्तस्यांगिरसः कृष्णइंद्रस्त्रिष्टुप् |
अस्ते᳚व॒सुप्र॑त॒रंलाय॒मस्य॒न्‌भूष᳚न्निव॒प्रभ॑रा॒स्तोम॑मस्मै |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

वा॒चावि॑प्रास्तरत॒वाच॑म॒र्योनिरा᳚मयजरितः॒सोम॒इन्द्र᳚म् || {1/11}{10.42.1}{10.3.13.1}{7.8.22.1}{429, 879, 9227}

अस्ता᳚ऽ‌इव¦सु¦प्र॒ऽत॒र‌म्¦लाय᳚‌म्¦अस्य॑न्¦भूष॑न्ऽ‌इव¦प्र¦भ॒र॒¦स्तोम᳚‌म्¦अ॒स्मै॒ |
वा॒चा¦वि॒प्राः॒¦त॒र॒त॒¦वाच᳚‌म्¦अ॒र्यः¦नि¦र॒म॒य॒¦ज॒रि॒त॒रिति॑¦सोमे᳚¦इन्द्र᳚‌म् ||

दोहे᳚न॒गामुप॑शिक्षा॒सखा᳚यं॒प्रबो᳚धयजरितर्जा॒रमिन्द्र᳚म् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

कोशं॒पू॒र्णंवसु॑ना॒न्यृ॑ष्ट॒माच्या᳚वयमघ॒देया᳚य॒शूर᳚म् || {2/11}{10.42.2}{10.3.13.2}{7.8.22.2}{430, 879, 9228}

दोहे᳚न¦गा‌म्¦उप॑¦शि॒क्ष॒¦सखा᳚य‌म्¦प्र¦बो॒ध॒य॒¦ज॒रि॒तः॒¦जा॒र‌म्¦इन्द्र᳚‌म् |
कोश᳚‌म्¦न¦पू॒र्ण‌म्¦वसु॑ना¦निऽऋ॑ष्ट‌म्¦आ¦च्य॒व॒य॒¦म॒घ॒ऽदेया᳚य¦शूर᳚‌म् ||

किम॒ङ्गत्वा᳚मघवन्‌भो॒जमा᳚हुःशिशी॒हिमा᳚शिश॒यंत्वा᳚शृणोमि |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

अप्न॑स्वती॒मम॒धीर॑स्तुशक्रवसु॒विदं॒भग॑मि॒न्द्राभ॑रानः || {3/11}{10.42.3}{10.3.13.3}{7.8.22.3}{431, 879, 9229}

कि‌म्¦अ॒ङ्ग¦त्वा॒¦म॒घ॒ऽव॒न्¦भो॒ज‌म्¦आ॒हुः॒¦शि॒शी॒हि¦मा॒¦शि॒श॒य‌म्¦त्वा॒¦शृ॒णो॒मि॒ |
अप्न॑स्वती¦मम॑¦धीः¦अ॒स्तु॒¦श॒क्र॒¦व॒सु॒ऽविद᳚‌म्¦भग᳚‌म्¦इ॒न्द्र॒¦आ¦भ॒र॒¦नः॒ ||

त्वांजना᳚ममस॒त्येष्वि᳚न्द्रसंतस्था॒नाविह्व॑यन्तेसमी॒के |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

अत्रा॒युजं᳚कृणुते॒योह॒विष्मा॒न्नासु᳚न्वतास॒ख्यंव॑ष्टि॒शूरः॑ || {4/11}{10.42.4}{10.3.13.4}{7.8.22.4}{432, 879, 9230}

त्वा‌म्¦जनाः᳚¦म॒म॒ऽस॒त्येषु॑¦इ॒न्द्र॒¦स॒‌म्ऽत॒स्था॒नाः¦वि¦ह्व॒य॒न्ते॒¦स॒‌म्ऽई॒के |
अत्र॑¦युज᳚‌म्¦कृ॒णु॒ते॒¦यः¦ह॒विष्मा᳚न्¦न¦असु᳚न्वता¦स॒ख्य‌म्¦व॒ष्टि॒¦शूरः॑ ||

धनं॒स्य॒न्द्रंब॑हु॒लंयो,अ॑स्मैती॒व्रान्‌त्सोमाँ᳚,आसु॒नोति॒प्रय॑स्वान् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

तस्मै॒शत्रू᳚न्‌त्सु॒तुका᳚न्‌प्रा॒तरह्नो॒निस्वष्ट्रा᳚न्यु॒वति॒हन्ति॑वृ॒त्रम् || {5/11}{10.42.5}{10.3.13.5}{7.8.22.5}{433, 879, 9231}

धन᳚‌म्¦न¦स्प॒न्द्र‌म्¦ब॒हु॒ल‌म्¦यः¦अ॒स्मै॒¦ती॒व्रान्¦सोमा᳚न्¦आ॒ऽसु॒नोति॑¦प्रय॑स्वान् |
तस्मै᳚¦शत्रू᳚न्¦सु॒ऽतुका᳚न्¦प्रा॒तः¦अह्नः॑¦नि¦सु॒।आष्ट्रा᳚न्¦यु॒वति॑¦हन्ति॑¦वृ॒त्र‌म् ||

यस्मि᳚न्व॒यंद॑धि॒माशंस॒मिन्द्रे॒यःशि॒श्राय॑म॒घवा॒काम॑म॒स्मे |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

आ॒राच्चि॒त्सन्‌भ॑यतामस्य॒शत्रु॒र्न्य॑स्मैद्यु॒म्नाजन्या᳚नमन्ताम् || {6/11}{10.42.6}{10.3.13.6}{7.8.23.1}{434, 879, 9232}

यस्मि॑न्¦व॒य‌म्¦द॒धि॒म¦शंस᳚‌म्¦इन्द्रे᳚¦यः¦शि॒श्राय॑¦म॒घऽवा᳚¦काम᳚‌म्¦अ॒स्मे इति॑ |
आ॒रात्¦चि॒त्¦सन्¦भ॒य॒ता॒‌म्¦अ॒स्य॒¦शत्रुः॑¦नि¦अ॒स्मै॒¦द्यु॒म्ना¦जन्या᳚¦न॒म॒न्ता॒‌म् ||

आ॒राच्छत्रु॒मप॑बाधस्वदू॒रमु॒ग्रोयःशम्बः॑पुरुहूत॒तेन॑ |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

अ॒स्मेधे᳚हि॒यव॑म॒द्गोम॑दिन्द्रकृ॒धीधियं᳚जरि॒त्रेवाज॑रत्नाम् || {7/11}{10.42.7}{10.3.13.7}{7.8.23.2}{435, 879, 9233}

आ॒रात्¦शत्रु᳚‌म्¦अप॑¦बा॒ध॒स्व॒¦दू॒र‌म्¦उ॒ग्रः¦यः¦शम्बः॑¦पु॒रु॒ऽहू॒त॒¦तेन॑ |
अ॒स्मे इति॑¦धे॒हि॒¦यव॑ऽमत्¦गोऽम॑त्¦इ॒न्द्र॒¦कृ॒धि¦धिय᳚‌म्¦ज॒रि॒त्रे¦वाज॑ऽरत्ना‌म् ||

प्रयम॒न्तर्वृ॑षस॒वासो॒,अग्म᳚न्ती॒व्राःसोमा᳚बहु॒लान्ता᳚स॒इन्द्र᳚म् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

नाह॑दा॒मानं᳚म॒घवा॒नियं᳚स॒न्निसु᳚न्व॒तेव॑हति॒भूरि॑वा॒मम् || {8/11}{10.42.8}{10.3.13.8}{7.8.23.3}{436, 879, 9234}

प्र¦य‌म्¦अ॒न्तः¦वृ॒ष॒ऽस॒वासः॑¦अग्म॑न्¦ती॒व्राः¦सोमाः᳚¦ब॒हु॒ल।आ᳚न्तासः¦इन्द्र᳚‌म् |
न¦अह॑¦दा॒मान᳚‌म्¦म॒घऽवा᳚¦नि¦यं॒स॒त्¦नि¦सु॒न्व॒ते¦व॒ह॒ति॒¦भूरि॑¦वा॒म‌म् ||

उ॒तप्र॒हाम॑ति॒दीव्या᳚जयातिकृ॒तंयच्छ्व॒घ्नीवि॑चि॒नोति॑का॒ले |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

योदे॒वका᳚मो॒धना᳚रुणद्धि॒समित्तंरा॒यासृ॑जतिस्व॒धावा॑न् || {9/11}{10.42.9}{10.3.13.9}{7.8.23.4}{437, 879, 9235}

उ॒त¦प्र॒ऽहा‌म्¦अ॒ति॒ऽदीव्य॑¦ज॒या॒ति॒¦कृ॒त‌म्¦यत्¦श्व॒ऽघ्नी¦वि॒ऽचि॒नोति॑¦का॒ले |
यः¦दे॒वऽका᳚मः¦न¦धना᳚¦रु॒ण॒द्धि॒¦स‌म्¦इत्¦त‌म्¦रा॒या¦सृ॒ज॒ति॒¦स्व॒धाऽवा॑न् ||

गोभि॑ष्टरे॒माम॑तिंदु॒रेवां॒यवे᳚न॒क्षुधं᳚पुरुहूत॒विश्वा᳚म् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

व॒यंराज॑भिःप्रथ॒माधना᳚न्य॒स्माके᳚नवृ॒जने᳚नाजयेम || {10/11}{10.42.10}{10.3.13.10}{7.8.23.5}{438, 879, 9236}

गोभिः॑¦त॒रे॒म॒¦अम॑ति‌म्¦दुः॒ऽएवा᳚‌म्¦यवे᳚न¦क्षुध᳚‌म्¦पु॒रु॒ऽहू॒त॒¦विश्वा᳚‌म् |
व॒य‌म्¦राज॑ऽभिः¦प्र॒थ॒माः¦धना᳚नि¦अ॒स्माके᳚न¦वृ॒जने᳚न¦ज॒ये॒म॒ ||

बृह॒स्पति᳚र्नः॒परि॑पातुप॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

इन्द्रः॑पु॒रस्ता᳚दु॒तम॑ध्य॒तोनः॒सखा॒सखि॑भ्यो॒वरि॑वःकृणोतु || {11/11}{10.42.11}{10.3.13.11}{7.8.23.6}{439, 879, 9237}

बृ॒हस्पतिः॑¦नः॒¦परि॑¦पा॒तु॒¦प॒श्चात्¦उ॒त¦उत्ऽत॑रस्मात्¦अध॑रात्¦अ॒घ॒ऽयोः |
इन्द्रः॑¦पु॒रस्ता᳚त्¦उ॒त¦म॒ध्य॒तः¦नः॒¦सखा᳚¦सखि॑ऽभ्यः¦वरि॑ऽवः¦कृ॒णो॒तु॒ ||

[43] अच्छामइत्येकादशर्चस्य सूक्तस्यांगिरसः कृष्णइंद्रोजगत्यंत्येद्वेत्रिष्टुभौ |
अच्छा᳚म॒इन्द्रं᳚म॒तयः॑स्व॒र्विदः॑स॒ध्रीची॒र्विश्वा᳚,उश॒तीर॑नूषत |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

परि॑ष्वजन्ते॒जन॑यो॒यथा॒पतिं॒मर्यं॒शु॒न्ध्युंम॒घवा᳚नमू॒तये᳚ || {1/11}{10.43.1}{10.4.1.1}{7.8.24.1}{440, 880, 9238}

अच्छ॑¦मे॒¦इन्द्र᳚‌म्¦म॒तयः॑¦स्वः॒ऽविदः॑¦स॒ध्रीचीः᳚¦विश्वाः᳚¦उ॒श॒तीः¦अ॒नू॒ष॒त॒ |
परि॑¦स्व॒ज॒न्ते॒¦जन॑यः¦यथा᳚¦पति᳚‌म्¦मर्य᳚‌म्¦न¦शु॒न्ध्यु‌म्¦म॒घऽवा᳚न‌म्¦ऊ॒तये᳚ ||

घा᳚त्व॒द्रिगप॑वेतिमे॒मन॒स्त्वे,इत्कामं᳚पुरुहूतशिश्रय |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

राजे᳚वदस्म॒निष॒दोऽधि॑ब॒र्हिष्य॒स्मिन्‌त्सुसोमे᳚ऽव॒पान॑मस्तुते || {2/11}{10.43.2}{10.4.1.2}{7.8.24.2}{441, 880, 9239}

न¦घ॒¦त्व॒द्रिक्¦अप॑¦वे॒ति॒¦मे॒¦मनः॑¦त्वे इति॑¦इत्¦काम᳚‌म्¦पु॒रु॒ऽहू॒त॒¦शि॒श्र॒य॒ |
राजा᳚ऽ‌इव¦द॒स्म॒¦नि¦स॒दः॒¦अधि॑¦ब॒र्हिषि॑¦अ॒स्मिन्¦सु¦सोमे᳚¦अ॒व॒ऽपान᳚‌म्¦अ॒स्तु॒¦ते॒ ||

वि॒षू॒वृदिन्द्रो॒,अम॑तेरु॒तक्षु॒धःइद्रा॒योम॒घवा॒वस्व॑ईशते |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

तस्येदि॒मेप्र॑व॒णेस॒प्तसिन्ध॑वो॒वयो᳚वर्धन्तिवृष॒भस्य॑शु॒ष्मिणः॑ || {3/11}{10.43.3}{10.4.1.3}{7.8.24.3}{442, 880, 9240}

वि॒षु॒ऽवृत्¦इन्द्रः॑¦अम॑तेः¦उ॒त्¦क्षु॒धः¦सः¦इत्¦रा॒यः¦म॒घऽवा᳚¦वस्वः॑¦ई॒श॒ते॒ |
तस्य॑¦इत्¦इ॒मे¦प्र॒व॒णे¦स॒प्त¦सिन्ध॑वः¦वयः॑¦व॒र्ध॒न्ति॒¦वृ॒ष॒भस्य॑¦शु॒ष्मिणः॑ ||

वयो॒वृ॒क्षंसु॑पला॒शमास॑द॒न्‌त्सोमा᳚स॒इन्द्रं᳚म॒न्दिन॑श्चमू॒षदः॑ |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

प्रैषा॒मनी᳚कं॒शव॑सा॒दवि॑द्युतद्वि॒दत्स्व१॑(अ॒)र्मन॑वे॒ज्योति॒रार्य᳚म् || {4/11}{10.43.4}{10.4.1.4}{7.8.24.4}{443, 880, 9241}

वयः॑¦न¦वृ॒क्ष‌म्¦सु॒ऽप॒ला॒श‌म्¦आ¦अ॒स॒द॒न्¦सोमा᳚सः¦इन्द्र᳚‌म्¦म॒न्दिनः॑¦च॒मू॒ऽसदः॑ |
प्र¦ए॒षा॒‌म्¦अनी᳚क‌म्¦शव॑सा¦दवि॑द्युतत्¦वि॒दत्¦स्वः॑¦मन॑वे¦ज्योतिः॑¦आर्य᳚‌म् ||

कृ॒तंश्व॒घ्नीविचि॑नोति॒देव॑नेसं॒वर्गं॒यन्म॒घवा॒सूर्यं॒जय॑त् |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

तत्ते᳚,अ॒न्यो,अनु॑वी॒र्यं᳚शक॒न्नपु॑रा॒णोम॑घव॒न्नोतनूत॑नः || {5/11}{10.43.5}{10.4.1.5}{7.8.24.5}{444, 880, 9242}

कृ॒त‌म्¦न¦श्व॒ऽघ्नी¦वि¦चि॒नो॒ति॒¦देव॑ने¦स॒‌म्ऽवर्ग᳚‌म्¦यत्¦म॒घऽवा᳚¦सूर्य᳚‌म्¦जय॑त् |
न¦तत्¦ते॒¦अ॒न्यः¦अनु॑¦वी॒र्य᳚‌म्¦श॒क॒त्¦न¦पु॒रा॒णः¦म॒घ॒ऽव॒न्¦न¦उ॒त¦नूत॑नः ||

विशं᳚विशंम॒घवा॒पर्य॑शायत॒जना᳚नां॒धेना᳚,अव॒चाक॑श॒द्वृषा᳚ |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

यस्याह॑श॒क्रःसव॑नेषु॒रण्य॑ति॒ती॒व्रैःसोमैः᳚सहतेपृतन्य॒तः || {6/11}{10.43.6}{10.4.1.6}{7.8.25.1}{445, 880, 9243}

विश᳚‌म्ऽविश‌म्¦म॒घऽवा᳚¦परि॑¦अ॒शा॒य॒त॒¦जना᳚ना‌म्¦धेनाः᳚¦अ॒व॒ऽचाक॑शत्¦वृषा᳚ |
यस्य॑¦अह॑¦श॒क्रः¦सव॑नेषु¦रण्य॑ति¦सः¦ती॒व्रैः¦सोमैः᳚¦स॒ह॒ते॒¦पृ॒त॒न्य॒तः ||

आपो॒सिन्धु॑म॒भियत्स॒मक्ष॑र॒न्‌त्सोमा᳚स॒इन्द्रं᳚कु॒ल्या,इ॑वह्र॒दम् |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

वर्ध᳚न्ति॒विप्रा॒महो᳚,अस्य॒साद॑ने॒यवं॒वृ॒ष्टिर्दि॒व्येन॒दानु॑ना || {7/11}{10.43.7}{10.4.1.7}{7.8.25.2}{446, 880, 9244}

आपः॑¦न¦सिन्धु᳚‌म्¦अ॒भि¦यत्¦स॒‌म्।आक्ष॑रन्¦सोमा᳚सः¦इन्द्र᳚‌म्¦कु॒ल्याःऽ‌इ᳚व¦ह्र॒द‌म् |
वर्ध᳚न्ति¦विप्राः᳚¦महः॑¦अ॒स्य॒¦साद॑ने¦यव᳚‌म्¦न¦वृ॒ष्टिः¦दि॒व्येन॑¦दानु॑ना ||

वृषा॒क्रु॒द्धःप॑तय॒द्रज॒स्स्वायो,अ॒र्यप॑त्नी॒रकृ॑णोदि॒मा,अ॒पः |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

सु᳚न्व॒तेम॒घवा᳚जी॒रदा᳚न॒वेऽवि᳚न्द॒ज्ज्योति॒र्मन॑वेह॒विष्म॑ते || {8/11}{10.43.8}{10.4.1.8}{7.8.25.3}{447, 880, 9245}

वृषा᳚¦न¦क्रु॒द्धः¦प॒त॒य॒त्¦रजः॑ऽसु¦आ¦यः¦अ॒र्यऽप॑त्नीः¦अकृ॑णोत्¦इ॒माः¦अ॒पः |
सः¦सु॒न्व॒ते¦म॒घऽवा᳚¦जी॒रऽदा᳚नवे¦अवि᳚न्दत्¦ज्योतिः॑¦मन॑वे¦ह॒विष्म॑ते ||

उज्जा᳚यतांपर॒शुर्ज्योति॑षास॒हभू॒या,ऋ॒तस्य॑सु॒दुघा᳚पुराण॒वत् |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

विरो᳚चतामरु॒षोभा॒नुना॒शुचिः॒स्व१॑(अ॒)र्णशु॒क्रंशु॑शुचीत॒सत्प॑तिः || {9/11}{10.43.9}{10.4.1.9}{7.8.25.4}{448, 880, 9246}

उत्¦जा॒य॒ता॒‌म्¦प॒र॒शुः¦ज्योति॑षा¦स॒ह¦भू॒याः¦ऋ॒तस्य॑¦सु॒ऽदुघा᳚¦पु॒रा॒ण॒ऽवत् |
वि¦रो॒च॒ता॒‌म्¦अ॒रु॒षः¦भा॒नुना᳚¦शुचिः॑¦स्वः॒¦न¦शु॒क्र‌म्¦शु॒शु॒ची॒त॒¦सत्ऽप॑तिः ||

गोभि॑ष्टरे॒माम॑तिंदु॒रेवां॒यवे᳚न॒क्षुधं᳚पुरुहूत॒विश्वा᳚म् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

व॒यंराज॑भिःप्रथ॒माधना᳚न्य॒स्माके᳚नवृ॒जने᳚नाजयेम || {10/11}{10.43.10}{10.4.1.10}{7.8.25.5}{449, 880, 9247}

गोभिः॑¦त॒रे॒म॒¦अम॑ति‌म्¦दुः॒ऽएवा᳚‌म्¦यवे᳚न¦क्षुध᳚‌म्¦पु॒रु॒ऽहू॒त॒¦विश्वा᳚‌म् |
व॒य‌म्¦राज॑ऽभिः¦प्र॒थ॒माः¦धना᳚नि¦अ॒स्माके᳚न¦वृ॒जने᳚न¦ज॒ये॒म॒ ||

बृह॒स्पति᳚र्नः॒परि॑पातुप॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

इन्द्रः॑पु॒रस्ता᳚दु॒तम॑ध्य॒तोनः॒सखा॒सखि॑भ्यो॒वरि॑वःकृणोतु || {11/11}{10.43.11}{10.4.1.11}{7.8.25.6}{450, 880, 9248}

बृ॒हस्पतिः॑¦नः॒¦परि॑¦पा॒तु॒¦प॒श्चात्¦उ॒त¦उत्ऽत॑रस्मात्¦अध॑रात्¦अ॒घ॒ऽयोः |
इन्द्रः॑¦पु॒रस्ता᳚त्¦उ॒त¦म॒ध्य॒तः¦नः॒¦सखा᳚¦सखि॑ऽभ्यः¦वरि॑ऽवः¦कृ॒णो॒तु॒ ||

[44] आयात्वित्येकादशर्चस्य सूक्तस्यांगिरसः कृष्णइंद्रोजगती आद्यास्तिस्रोंत्येद्वेचत्रिष्टुभः |
या॒त्विन्द्रः॒स्वप॑ति॒र्मदा᳚य॒योधर्म॑णातूतुजा॒नस्तुवि॑ष्मान् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

प्र॒त्व॒क्षा॒णो,अति॒विश्वा॒सहां᳚स्यपा॒रेण॑मह॒तावृष्ण्ये᳚न || {1/11}{10.44.1}{10.4.2.1}{7.8.26.1}{451, 881, 9249}

आ¦या॒तु॒¦इन्द्रः॑¦स्वऽप॑तिः¦मदा᳚य¦यः¦धर्म॑णा¦तू॒तु॒जा॒नः¦तुवि॑ष्मान् |
प्र॒ऽत्व॒क्षा॒णः¦अति॑¦विश्वा᳚¦सहां᳚सि¦अ॒पा॒रेण॑¦म॒ह॒ता¦वृष्ण्ये᳚न ||

सु॒ष्ठामा॒रथः॑सु॒यमा॒हरी᳚तेमि॒म्यक्ष॒वज्रो᳚नृपते॒गभ॑स्तौ |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

शीभं᳚राजन्‌त्सु॒पथाया᳚ह्य॒र्वाङ्वर्धा᳚मतेप॒पुषो॒वृष्ण्या᳚नि || {2/11}{10.44.2}{10.4.2.2}{7.8.26.2}{452, 881, 9250}

सु॒ऽस्थामा᳚¦रथः॑¦सु॒ऽयमा᳚¦हरी॒ इति॑¦ते॒¦मि॒म्यक्ष॑¦वज्रः॑¦नृ॒ऽप॒ते॒¦गभ॑स्तौ |
शीभ᳚‌म्¦रा॒ज॒न्¦सु॒ऽपथा᳚¦आ¦या॒हि॒¦अ॒र्वाङ्¦वर्धा᳚म¦ते॒¦प॒पुषः॑¦वृष्ण्या᳚नि ||

एन्द्र॒वाहो᳚नृ॒पतिं॒वज्र॑बाहुमु॒ग्रमु॒ग्रास॑स्तवि॒षास॑एनम् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

प्रत्व॑क्षसंवृष॒भंस॒त्यशु॑ष्म॒मेम॑स्म॒त्रास॑ध॒मादो᳚वहन्तु || {3/11}{10.44.3}{10.4.2.3}{7.8.26.3}{453, 881, 9251}

आ¦इ॒न्द्र॒ऽवाहः॑¦नृ॒ऽपति᳚‌म्¦वज्र॑ऽबाहु‌म्¦उ॒ग्र‌म्¦उ॒ग्रासः॑¦त॒वि॒षासः॑¦ए॒न॒‌म् |
प्रऽत्व॑क्षस‌म्¦वृ॒ष॒भ‌म्¦स॒त्यऽशु॑ष्म‌म्¦आ¦ई॒‌म्¦अ॒स्म॒ऽत्रा¦स॒ध॒ऽमादः॑¦व॒ह॒न्तु॒ ||

ए॒वापतिं᳚द्रोण॒साचं॒सचे᳚तसमू॒र्जःस्क॒म्भंध॒रुण॒वृ॑षायसे |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

ओजः॑कृष्व॒संगृ॑भाय॒त्वे,अप्यसो॒यथा᳚केनि॒पाना᳚मि॒नोवृ॒धे || {4/11}{10.44.4}{10.4.2.4}{7.8.26.4}{454, 881, 9252}

ए॒व¦पति᳚‌म्¦द्रो॒ण॒ऽसाच᳚‌म्¦सऽचे᳚तस‌म्¦ऊ॒र्जः¦स्क॒म्भ‌म्¦ध॒रुणे᳚¦आ¦वृ॒ष॒ऽय॒से॒ |
ओजः॑¦कृ॒ष्व॒¦स‌म्¦गृ॒भा॒य॒¦त्वे इति॑¦अपि॑¦असः॑¦यथा᳚¦के॒ऽनि॒पाना᳚‌म्¦इ॒नः¦वृ॒धे ||

गम᳚न्न॒स्मेवसू॒न्याहिशंसि॑षंस्वा॒शिषं॒भर॒माया᳚हिसो॒मिनः॑ |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

त्वमी᳚शिषे॒सास्मिन्नास॑त्सिब॒र्हिष्य॑नाधृ॒ष्यातव॒पात्रा᳚णि॒धर्म॑णा || {5/11}{10.44.5}{10.4.2.5}{7.8.26.5}{455, 881, 9253}

गम॑न्¦अ॒स्मे इति॑¦वसू᳚नि¦आ¦हि¦शंसि॑ष‌म्¦सु॒ऽआ॒शिष᳚‌म्¦भर᳚‌म्¦आ¦या॒हि॒¦सो॒मिनः॑ |
त्व‌म्¦ई॒शि॒षे॒¦सः¦अ॒स्मिन्¦आ¦स॒त्सि॒¦ब॒र्हिषि॑¦अ॒ना॒धृ॒ष्या¦तव॑¦पात्रा᳚णि¦धर्म॑णा ||

पृथ॒क्प्राय᳚न्‌प्रथ॒मादे॒वहू᳚त॒योऽकृ᳚ण्वतश्रव॒स्या᳚निदु॒ष्टरा᳚ |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

येशे॒कुर्य॒ज्ञियां॒नाव॑मा॒रुह॑मी॒र्मैवतेन्य॑विशन्त॒केप॑यः || {6/11}{10.44.6}{10.4.2.6}{7.8.27.1}{456, 881, 9254}

पृथ॑क्¦प्र¦आ॒य॒न्¦प्र॒थ॒माः¦दे॒वऽहू᳚तयः¦अकृ᳚ण्वत¦श्र॒व॒स्या᳚नि¦दु॒स्तरा᳚ |
न¦ये¦शे॒कुः¦य॒ज्ञिया᳚‌म्¦नाव᳚‌म्¦आ॒ऽरुह᳚‌म्¦ई॒र्मा¦ए॒व¦ते¦नि¦अ॒वि॒श॒न्त॒¦केप॑यः ||

ए॒वैवापा॒गप॑रेसन्तुदू॒ढ्योऽश्वा॒येषां᳚दु॒र्युज॑आयुयु॒ज्रे |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

इ॒त्थायेप्रागुप॑रे॒सन्ति॑दा॒वने᳚पु॒रूणि॒यत्र॑व॒युना᳚नि॒भोज॑ना || {7/11}{10.44.7}{10.4.2.7}{7.8.27.2}{457, 881, 9255}

ए॒व¦ए॒व¦अपा᳚क्¦अप॑रे¦स॒न्तु॒¦दुः॒ऽध्यः॑¦अश्वाः᳚¦येषा᳚‌म्¦दुः॒ऽयुजः॑¦आ॒ऽयु॒यु॒ज्रे |
इ॒त्था¦ये¦प्राक्¦उप॑रे¦सन्ति॑¦दा॒वने᳚¦पु॒रूणि॑¦यत्र॑¦व॒युना᳚नि¦भोज॑ना ||

गि॒रीँरज्रा॒न्‌रेज॑मानाँ,अधारय॒द्द्यौःक्र᳚न्दद॒न्तरि॑क्षाणिकोपयत् |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

स॒मी॒ची॒नेधि॒षणे॒विष्क॑भायति॒वृष्णः॑पी॒त्वामद॑उ॒क्थानि॑शंसति || {8/11}{10.44.8}{10.4.2.8}{7.8.27.3}{458, 881, 9256}

गि॒रीन्¦अज्रा᳚न्¦रेज॑मानान्¦अ॒धा॒र॒य॒त्¦द्यौः¦क्र॒न्द॒त्¦अ॒न्तरि॑क्षाणि¦को॒प॒य॒त् |
स॒मी॒ची॒ने इति॑ स॒‌म्ऽई॒ची॒ने¦धि॒षणे॒ इति॑¦वि¦स्क॒भा॒य॒ति॒¦वृष्णः॑¦पी॒त्वा¦मदे᳚¦उ॒क्थानि॑¦शं॒स॒ति॒ ||

इ॒मंबि॑भर्मि॒सुकृ॑तंते,अङ्कु॒शंयेना᳚रु॒जासि॑मघवञ्छफा॒रुजः॑ |{आङ्गिरसः कृष्णः | इन्द्रः | जगती}

अ॒स्मिन्‌त्सुते॒सव॑ने,अस्त्वो॒क्यं᳚सु॒तइ॒ष्टौम॑घवन्‌बो॒ध्याभ॑गः || {9/11}{10.44.9}{10.4.2.9}{7.8.27.4}{459, 881, 9257}

इ॒म‌म्¦बि॒भ॒र्मि॒¦सुऽकृ॑त‌म्¦ते॒¦अ॒ङ्कु॒श‌म्¦येन॑¦आ॒ऽरु॒जासि॑¦म॒घ॒ऽव॒न्¦श॒फ॒ऽआ॒रुजः॑ |
अ॒स्मिन्¦सु¦ते॒¦सव॑ने¦अ॒स्तु॒¦ओ॒क्य᳚‌म्¦सु॒ते¦इ॒ष्टौ¦म॒घ॒ऽव॒न्¦बो॒धि॒¦आऽभ॑गः ||

गोभि॑ष्टरे॒माम॑तिंदु॒रेवां॒यवे᳚न॒क्षुधं᳚पुरुहूत॒विश्वा᳚म् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

व॒यंराज॑भिःप्रथ॒माधना᳚न्य॒स्माके᳚नवृ॒जने᳚नाजयेम || {10/11}{10.44.10}{10.4.2.10}{7.8.27.5}{460, 881, 9258}

गोभिः॑¦त॒रे॒म॒¦अम॑ति‌म्¦दुः॒ऽएवा᳚‌म्¦यवे᳚न¦क्षुध᳚‌म्¦पु॒रु॒ऽहू॒त॒¦विश्वा᳚‌म् |
व॒य‌म्¦राज॑ऽभिः¦प्र॒थ॒माः¦धना᳚नि¦अ॒स्माके᳚न¦वृ॒जने᳚न¦ज॒ये॒म॒ ||

बृह॒स्पति᳚र्नः॒परि॑पातुप॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्}

इन्द्रः॑पु॒रस्ता᳚दु॒तम॑ध्य॒तोनः॒सखा॒सखि॑भ्यो॒वरि॑वःकृणोतु || {11/11}{10.44.11}{10.4.2.11}{7.8.27.6}{461, 881, 9259}

बृ॒हस्पतिः॑¦नः॒¦परि॑¦पा॒तु॒¦प॒श्चात्¦उ॒त¦उत्ऽत॑रस्मात्¦अध॑रात्¦अ॒घ॒ऽयोः |
इन्द्रः॑¦पु॒रस्ता᳚त्¦उ॒त¦म॒ध्य॒तः¦नः॒¦सखा᳚¦सखि॑ऽभ्यः¦वरि॑ऽवः¦कृ॒णो॒तु॒ ||

[45] दिवस्परीति द्वादशर्चस्य सूक्तस्य भालंदनो वत्सप्रिरग्निस्त्रिष्टुप् |
दि॒वस्परि॑प्रथ॒मंज॑ज्ञे,अ॒ग्निर॒स्मद्द्वि॒तीयं॒परि॑जा॒तवे᳚दाः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

तृ॒तीय॑म॒प्सुनृ॒मणा॒,अज॑स्र॒मिन्धा᳚नएनंजरतेस्वा॒धीः || {1/12}{10.45.1}{10.4.3.1}{7.8.28.1}{462, 882, 9260}

दि॒वः¦परि॑¦प्र॒थ॒म‌म्¦ज॒ज्ञे॒¦अ॒ग्निः¦अ॒स्मत्¦द्वि॒तीय᳚‌म्¦परि॑¦जा॒तऽवे᳚दाः |
तृ॒तीय᳚‌म्¦अ॒प्ऽसु¦नृ॒ऽमनाः᳚¦अज॑स्र‌म्¦इन्धा᳚नः¦ए॒न॒‌म्¦ज॒र॒ते॒¦सु॒ऽआ॒धीः ||

वि॒द्माते᳚,अग्नेत्रे॒धात्र॒याणि॑वि॒द्माते॒धाम॒विभृ॑तापुरु॒त्रा |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

वि॒द्माते॒नाम॑पर॒मंगुहा॒यद्वि॒द्मातमुत्सं॒यत॑आज॒गन्थ॑ || {2/12}{10.45.2}{10.4.3.2}{7.8.28.2}{463, 882, 9261}

वि॒द्म¦ते॒¦अ॒ग्ने॒¦त्रे॒धा¦त्र॒याणि॑¦वि॒द्म¦ते॒¦धाम॑¦विऽभृ॑ता¦पु॒रु॒ऽत्रा |
वि॒द्म¦ते॒¦नाम॑¦प॒र॒म‌म्¦गुहा᳚¦यत्¦वि॒द्म¦त‌म्¦उत्स᳚‌म्¦यतः॑¦आ॒ऽज॒गन्थ॑ ||

स॒मु॒द्रेत्वा᳚नृ॒मणा᳚,अ॒प्स्व१॑(अ॒)न्तर्नृ॒चक्षा᳚,ईधेदि॒वो,अ॑ग्न॒ऊध॑न् |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

तृ॒तीये᳚त्वा॒रज॑सितस्थि॒वांस॑म॒पामु॒पस्थे᳚महि॒षा,अ॑वर्धन् || {3/12}{10.45.3}{10.4.3.3}{7.8.28.3}{464, 882, 9262}

स॒मु॒द्रे¦त्वा॒¦नृ॒ऽमनाः᳚¦अ॒प्ऽसु¦अ॒न्तः¦नृ॒ऽचक्षाः᳚¦ई॒धे॒¦दि॒वः¦अ॒ग्ने॒¦ऊध॑न् |
तृ॒तीये᳚¦त्वा॒¦रज॑सि¦त॒स्थि॒ऽवांस᳚‌म्¦अ॒पा‌म्¦उ॒पऽस्थे᳚¦म॒हि॒षाः¦अ॒व॒र्ध॒न् ||

अक्र᳚न्दद॒ग्निःस्त॒नय᳚न्निव॒द्यौः,क्षामा॒रेरि॑हद्वी॒रुधः॑सम॒ञ्जन् |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

स॒द्योज॑ज्ञा॒नोविहीमि॒द्धो,अख्य॒दारोद॑सीभा॒नुना᳚भात्य॒न्तः || {4/12}{10.45.4}{10.4.3.4}{7.8.28.4}{465, 882, 9263}

अक्र᳚न्दत्¦अ॒ग्निः¦स्त॒नय॑न्ऽ‌इव¦द्यौः¦क्षाम॑¦रेरि॑हत्¦वी॒रुधः॑¦स॒‌म्।आं॒जन् |
स॒द्यः¦ज॒ज्ञा॒नः¦वि¦हि¦ई॒‌म्¦इ॒द्धः¦अख्य॑त्¦आ¦रोद॑सी॒ इति॑¦भा॒नुना᳚¦भा॒ति॒¦अ॒न्तरिति॑ ||

श्री॒णामु॑दा॒रोध॒रुणो᳚रयी॒णांम॑नी॒षाणां॒प्रार्प॑णः॒सोम॑गोपाः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

वसुः॑सू॒नुःसह॑सो,अ॒प्सुराजा॒विभा॒त्यग्र॑उ॒षसा᳚मिधा॒नः || {5/12}{10.45.5}{10.4.3.5}{7.8.28.5}{466, 882, 9264}

श्री॒णा‌म्¦उ॒त्ऽआ॒रः¦ध॒रुणः॑¦र॒यी॒णा‌म्¦म॒नी॒षाणा᳚‌म्¦प्र॒।आर्प॑णः¦सोम॑ऽगोपाः |
वसुः॑¦सू॒नुः¦सह॑सः¦अ॒प्ऽसु¦राजा᳚¦वि¦भा॒ति॒¦अग्रे᳚¦उ॒षसा᳚‌म्¦इ॒धा॒नः ||

विश्व॑स्यके॒तुर्भुव॑नस्य॒गर्भ॒रोद॑सी,अपृणा॒ज्जाय॑मानः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

वी॒ळुंचि॒दद्रि॑मभिनत्परा॒यञ्जना॒यद॒ग्निमय॑जन्त॒पञ्च॑ || {6/12}{10.45.6}{10.4.3.6}{7.8.28.6}{467, 882, 9265}

विश्व॑स्य¦के॒तुः¦भुव॑नस्य¦गर्भः॑¦आ¦रोद॑सी॒ इति॑¦अ॒पृ॒णा॒त्¦जाय॑मानः |
वी॒ळु‌म्¦चि॒त्¦अद्रि᳚‌म्¦अ॒भि॒न॒त्¦प॒रा॒ऽयन्¦जनाः᳚¦यत्¦अ॒ग्नि‌म्¦अय॑जन्त¦पंच॑ ||

उ॒शिक्‌पा᳚व॒को,अ॑र॒तिःसु॑मे॒धामर्ते᳚ष्व॒ग्निर॒मृतो॒निधा᳚यि |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

इय॑र्तिधू॒मम॑रु॒षंभरि॑भ्र॒दुच्छु॒क्रेण॑शो॒चिषा॒द्यामिन॑क्षन् || {7/12}{10.45.7}{10.4.3.7}{7.8.29.1}{468, 882, 9266}

उ॒शिक्¦पा॒व॒कः¦अ॒र॒तिः¦सु॒ऽमे॒धाः¦मर्ते᳚षु¦अ॒ग्निः¦अ॒मृतः॑¦नि¦धा॒यि॒ |
इय॑र्ति¦धू॒म‌म्¦अ॒रु॒ष‌म्¦भरि॑भ्रत्¦उत्¦शु॒क्रेण॑¦शो॒चिषा᳚¦द्या‌म्¦इन॑क्षन् ||

दृ॒शा॒नोरु॒क्मउ᳚र्वि॒याव्य॑द्यौद्दु॒र्मर्ष॒मायुः॑श्रि॒येरु॑चा॒नः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

अ॒ग्निर॒मृतो᳚,अभव॒द्वयो᳚भि॒र्यदे᳚नं॒द्यौर्ज॒नय॑त्सु॒रेताः᳚ || {8/12}{10.45.8}{10.4.3.8}{7.8.29.2}{469, 882, 9267}

दृ॒शा॒नः¦रु॒क्मः¦उ॒र्वि॒या¦वि¦अ॒द्यौ॒त्¦दुः॒ऽमर्ष᳚‌म्¦आयुः॑¦श्रि॒ये¦रु॒चा॒नः |
अ॒ग्निः¦अ॒मृतः॑¦अ॒भ॒व॒त्¦वयः॑ऽभिः¦यत्¦ए॒न॒‌म्¦द्यौः¦ज॒नय॑त्¦सु॒ऽरेताः᳚ ||

यस्ते᳚,अ॒द्यकृ॒णव॑द्भद्रशोचेऽपू॒पंदे᳚वघृ॒तव᳚न्तमग्ने |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

प्रतंन॑यप्रत॒रंवस्यो॒,अच्छा॒भिसु॒म्नंदे॒वभ॑क्तंयविष्ठ || {9/12}{10.45.9}{10.4.3.9}{7.8.29.3}{470, 882, 9268}

यः¦ते॒¦अ॒द्य¦कृ॒णव॑त्¦भ॒द्र॒ऽशो॒चे॒¦अ॒पू॒प‌म्¦दे॒व॒¦घृ॒तऽव᳚न्त‌म्¦अ॒ग्ने॒ |
प्र¦त‌म्¦न॒य॒¦प्र॒ऽत॒र‌म्¦वस्यः॑¦अच्छ॑¦अ॒भि¦सु॒म्न‌म्¦दे॒वऽभ॑क्त‌म्¦य॒वि॒ष्ठ॒ ||

तंभ॑जसौश्रव॒सेष्व॑ग्नउ॒क्थौ᳚क्थ॒भ॑जश॒स्यमा᳚ने |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

प्रि॒यःसूर्ये᳚प्रि॒यो,अ॒ग्नाभ॑वा॒त्युज्जा॒तेन॑भि॒नद॒दुज्जनि॑त्वैः || {10/12}{10.45.10}{10.4.3.10}{7.8.29.4}{471, 882, 9269}

आ¦त‌म्¦भ॒ज॒¦सौ॒श्र॒व॒सेषु॑¦अ॒ग्ने॒¦उ॒क्थे।औ᳚क्थे¦आ¦भ॒ज॒¦श॒स्यमा᳚ने |
प्रि॒यः¦सूर्ये᳚¦प्रि॒यः¦अ॒ग्ना¦भ॒वा॒ति॒¦उत्¦जा॒तेन॑¦भि॒नद॑त्¦उत्¦जनि॑ऽत्वैः ||

त्वाम॑ग्ने॒यज॑माना॒,अनु॒द्यून्‌विश्वा॒वसु॑दधिरे॒वार्या᳚णि |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

त्वया᳚स॒हद्रवि॑णमि॒च्छमा᳚नाव्र॒जंगोम᳚न्तमु॒शिजो॒विव᳚व्रुः || {11/12}{10.45.11}{10.4.3.11}{7.8.29.5}{472, 882, 9270}

त्वा‌म्¦अ॒ग्ने॒¦यज॑मानाः¦अनु॑¦द्यून्¦विश्वा᳚¦वसु॑¦द॒धि॒रे॒¦वार्या᳚णि |
त्वया᳚¦स॒ह¦द्रवि॑ण‌म्¦इ॒च्छमा᳚नाः¦व्र॒ज‌म्¦गोऽम᳚न्त‌म्¦उ॒शिजः॑¦वि¦व॒व्रुः॒ ||

अस्ता᳚व्य॒ग्निर्न॒रांसु॒शेवो᳚वैश्वान॒रऋषि॑भिः॒सोम॑गोपाः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

अ॒द्वे॒षेद्यावा᳚पृथि॒वीहु॑वेम॒देवा᳚ध॒त्तर॒यिम॒स्मेसु॒वीर᳚म् || {12/12}{10.45.12}{10.4.3.12}{7.8.29.6}{473, 882, 9271}

अस्ता᳚वि¦अ॒ग्निः¦न॒रा‌म्¦सु॒ऽशेवः॑¦वै॒श्वा॒न॒रः¦ऋषि॑ऽभिः¦सोम॑ऽगोपाः |
अ॒द्वे॒षे¦द्यावा᳚पृथि॒वी इति॑¦हु॒वे॒म॒¦देवाः᳚¦ध॒त्त¦र॒यि‌म्¦अ॒स्मे इति॑¦सु॒ऽवीर᳚‌म् ||

[46] प्रहोतेति दशर्चस्य सूक्तस्य भालंदनो वत्सप्रिरग्निस्त्रिष्टुप् |
प्रहोता᳚जा॒तोम॒हान्न॑भो॒विन्नृ॒षद्वा᳚सीदद॒पामु॒पस्थे᳚ |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

दधि॒र्योधायि॒ते॒वयां᳚सिय॒न्तावसू᳚निविध॒तेत॑नू॒पाः || {1/10}{10.46.1}{10.4.4.1}{8.1.1.1}{474, 883, 9272}

प्र¦होता᳚¦जा॒तः¦म॒हान्¦न॒भः॒ऽवित्¦नृ॒ऽसद्वा᳚¦सी॒द॒त्¦अ॒पा‌म्¦उ॒पऽस्थे᳚ |
दधिः॑¦यः¦धायि॑¦सः¦ते॒¦वयां᳚सि¦य॒न्ता¦वसू᳚नि¦वि॒ध॒ते¦त॒नू॒ऽपाः ||

इ॒मंवि॒धन्तो᳚,अ॒पांस॒धस्थे᳚प॒शुंन॒ष्टंप॒दैरनु॑ग्मन् |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

गुहा॒चत᳚न्तमु॒शिजो॒नमो᳚भिरि॒च्छन्तो॒धीरा॒भृग॑वोऽविन्दन् || {2/10}{10.46.2}{10.4.4.2}{8.1.1.2}{475, 883, 9273}

इ॒म‌म्¦वि॒धन्तः॑¦अ॒पा‌म्¦स॒धऽस्थे᳚¦प॒शु‌म्¦न¦न॒ष्ट‌म्¦प॒दैः¦अनु॑¦ग्म॒न् |
गुहा᳚¦चत᳚न्त‌म्¦उ॒शिजः॑¦नमः॑ऽभिः¦इ॒च्छन्तः॑¦धीराः᳚¦भृग॑वः¦अ॒वि॒न्द॒न् ||

इ॒मंत्रि॒तोभूर्य॑विन्ददि॒च्छन्वै᳚भूव॒सोमू॒र्धन्यघ्न्या᳚याः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

शेवृ॑धोजा॒तह॒र्म्येषु॒नाभि॒र्युवा᳚भवतिरोच॒नस्य॑ || {3/10}{10.46.3}{10.4.4.3}{8.1.1.3}{476, 883, 9274}

इ॒म‌म्¦त्रि॒तः¦भूरि॑¦अ॒वि॒न्द॒त्¦इ॒च्छन्¦वै॒भु॒ऽव॒सः¦मू॒र्धनि॑¦अघ्न्या᳚याः |
सः¦शेवृ॑धः¦जा॒तः¦आ¦ह॒र्म्येषु॑¦नाभिः॑¦युवा᳚¦भ॒व॒ति॒¦रो॒च॒नस्य॑ ||

म॒न्द्रंहोता᳚रमु॒शिजो॒नमो᳚भिः॒प्राञ्चं᳚य॒ज्ञंने॒तार॑मध्व॒राणा᳚म् |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

वि॒शाम॑कृण्वन्नर॒तिंपा᳚व॒कंह᳚व्य॒वाहं॒दध॑तो॒मानु॑षेषु || {4/10}{10.46.4}{10.4.4.4}{8.1.1.4}{477, 883, 9275}

म॒न्द्र‌म्¦होता᳚र‌म्¦उ॒शिजः॑¦नमः॑ऽभिः¦प्रांच᳚‌म्¦य॒ज्ञ‌म्¦ने॒तार᳚‌म्¦अ॒ध्व॒राणा᳚‌म् |
वि॒शा‌म्¦अ॒कृ॒ण्व॒न्¦अ॒र॒ति‌म्¦पा॒व॒क‌म्¦ह॒व्य॒ऽवाह᳚‌म्¦दध॑तः¦मानु॑षेषु ||

प्रभू॒र्जय᳚न्तंम॒हांवि॑पो॒धांमू॒रा,अमू᳚रंपु॒रांद॒र्माण᳚म् |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

नय᳚न्तो॒गर्भं᳚व॒नांधियं᳚धु॒र्हिरि॑श्मश्रुं॒नार्वा᳚णं॒धन॑र्चम् || {5/10}{10.46.5}{10.4.4.5}{8.1.1.5}{478, 883, 9276}

प्र¦भूः॒¦जय᳚न्त‌म्¦म॒हान्¦वि॒पः॒ऽधा‌म्¦मू॒राः¦अमू᳚र‌म्¦पु॒रा‌म्¦द॒र्माण᳚‌म् |
नय᳚न्तः¦गर्भ᳚‌म्¦व॒ना‌म्¦धिय᳚‌म्¦धुः॒¦हिरि॑ऽश्मश्रु‌म्¦न¦अर्वा᳚ण‌म्¦धन॑।आर्च‌म् ||

निप॒स्त्या᳚सुत्रि॒तःस्त॑भू॒यन्‌परि॑वीतो॒योनौ᳚सीदद॒न्तः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

अतः॑सं॒गृभ्या᳚वि॒शांदमू᳚ना॒विध᳚र्मणाय॒न्त्रैरी᳚यते॒नॄन् || {6/10}{10.46.6}{10.4.4.6}{8.1.2.1}{479, 883, 9277}

नि¦प॒स्त्या᳚सु¦त्रि॒तः¦स्त॒भु॒ऽयन्¦परि॑ऽवीतः¦योनौ᳚¦सी॒द॒त्¦अ॒न्तरिति॑ |
अतः॑¦स॒‌म्ऽगृभ्य॑¦वि॒शा‌म्¦दमू᳚नाः¦विऽध᳚र्मणा¦अ॒य॒न्त्रैः¦ई॒य॒ते॒¦नॄन् ||

अ॒स्याजरा᳚सोद॒माम॒रित्रा᳚,अ॒र्चद्धू᳚मासो,अ॒ग्नयः॑पाव॒काः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

श्वि॒ती॒चयः॑श्वा॒त्रासो᳚भुर॒ण्यवो᳚वन॒र्षदो᳚वा॒यवो॒सोमाः᳚ || {7/10}{10.46.7}{10.4.4.7}{8.1.2.2}{480, 883, 9278}

अ॒स्य¦अ॒जरा᳚सः¦द॒मा‌म्¦अ॒रित्राः᳚¦अ॒र्चत्ऽधू᳚मासः¦अ॒ग्नयः॑¦पा॒व॒काः |
श्वि॒ती॒चयः॑¦श्वा॒त्रासः॑¦भु॒र॒ण्यवः॑¦व॒न॒ऽसदः॑¦वा॒यवः॑¦न¦सोमाः᳚ ||

प्रजि॒ह्वया᳚भरते॒वेपो᳚,अ॒ग्निःप्रव॒युना᳚नि॒चेत॑सापृथि॒व्याः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

तमा॒यवः॑शु॒चय᳚न्तंपाव॒कंम॒न्द्रंहोता᳚रंदधिरे॒यजि॑ष्ठम् || {8/10}{10.46.8}{10.4.4.8}{8.1.2.3}{481, 883, 9279}

प्र¦जि॒ह्वया᳚¦भ॒र॒ते॒¦वेपः॑¦अ॒ग्निः¦प्र¦व॒युना᳚नि¦चेत॑सा¦पृ॒थि॒व्याः |
त‌म्¦आ॒यवः॑¦शु॒चय᳚न्त‌म्¦पा॒व॒क‌म्¦म॒न्द्र‌म्¦होता᳚र‌म्¦द॒धि॒रे॒¦यजि॑ष्ठ‌म् ||

द्यावा॒यम॒ग्निंपृ॑थि॒वीजनि॑ष्टा॒माप॒स्त्वष्टा॒भृग॑वो॒यंसहो᳚भिः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

ई॒ळेन्यं᳚प्रथ॒मंमा᳚त॒रिश्वा᳚दे॒वास्त॑तक्षु॒र्मन॑वे॒यज॑त्रम् || {9/10}{10.46.9}{10.4.4.9}{8.1.2.4}{482, 883, 9280}

द्यावा᳚¦य‌म्¦अ॒ग्नि‌म्¦पृ॒थि॒वी इति॑¦जनि॑ष्टा‌म्¦आपः॑¦त्वष्टा᳚¦भृग॑वः¦य‌म्¦सहः॑ऽभिः |
ई॒ळेन्य᳚‌म्¦प्र॒थ॒म‌म्¦मा॒त॒रिश्वा᳚¦दे॒वाः¦त॒त॒क्षुः॒¦मन॑वे¦यज॑त्र‌म् ||

यंत्वा᳚दे॒वाद॑धि॒रेह᳚व्य॒वाहं᳚पुरु॒स्पृहो॒मानु॑षासो॒यज॑त्रम् |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

याम᳚न्नग्नेस्तुव॒तेवयो᳚धाः॒प्रदे᳚व॒यन्य॒शसः॒संहिपू॒र्वीः || {10/10}{10.46.10}{10.4.4.10}{8.1.2.5}{483, 883, 9281}

य‌म्¦त्वा॒¦दे॒वाः¦द॒धि॒रे¦ह॒व्य॒ऽवाह᳚‌म्¦पु॒रु॒ऽस्पृहः॑¦मानु॑षासः¦यज॑त्र‌म् |
सः¦याम॑न्¦अ॒ग्ने॒¦स्तु॒व॒ते¦वयः॑¦धाः॒¦प्र¦दे॒व॒ऽयन्¦य॒शसः॑¦स‌म्¦हि¦पू॒र्वीः ||

[47] जगृ‌भ्मेत्यष्टर्चस्य सूक्तस्य सप्तगुर्वैकुंठइंद्रत्रिष्टुप् |
ज॒गृ॒भ्माते॒दक्षि॑णमिन्द्र॒हस्तं᳚वसू॒यवो᳚वसुपते॒वसू᳚नाम् |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

वि॒द्माहित्वा॒गोप॑तिंशूर॒गोना᳚म॒स्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚ || {1/8}{10.47.1}{10.4.5.1}{8.1.3.1}{484, 884, 9282}

ज॒गृ॒भ्म¦ते॒¦दक्षि॑ण‌म्¦इ॒न्द्र॒¦हस्त᳚‌म्¦व॒सु॒ऽयवः॑¦व॒सु॒ऽप॒ते॒¦वसू᳚ना‌म् |
वि॒द्म¦हि¦त्वा॒¦गोऽप॑ति‌म्¦शू॒र॒¦गोना᳚‌म्¦अ॒स्मभ्य᳚‌म्¦चि॒त्र‌म्¦वृष॑ण‌म्¦र॒यि‌म्¦दाः॒ ||

स्वा॒यु॒धंस्वव॑संसुनी॒थंचतुः॑समुद्रंध॒रुणं᳚रयी॒णाम् |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

च॒र्कृत्यं॒शंस्यं॒भूरि॑वारम॒स्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚ || {2/8}{10.47.2}{10.4.5.2}{8.1.3.2}{485, 884, 9283}

सु॒ऽआ॒यु॒ध‌म्¦सु॒।आव॑स‌म्¦सु॒ऽनी॒थ‌म्¦चतुः॑ऽसमुद्र‌म्¦ध॒रुण᳚‌म्¦र॒यी॒णा‌म् |
च॒र्कृत्य᳚‌म्¦शंस्य᳚‌म्¦भूरि॑ऽवार‌म्¦अ॒स्मभ्य᳚‌म्¦चि॒त्र‌म्¦वृष॑ण‌म्¦र॒यि‌म्¦दाः॒ ||

सु॒ब्रह्मा᳚णंदे॒वव᳚न्तंबृ॒हन्त॑मु॒रुंग॑भी॒रंपृ॒थुबु॑ध्नमिन्द्र |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

श्रु॒तऋ॑षिमु॒ग्रम॑भिमाति॒षाह॑म॒स्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚ || {3/8}{10.47.3}{10.4.5.3}{8.1.3.3}{486, 884, 9284}

सु॒ऽब्रह्मा᳚ण‌म्¦दे॒वऽव᳚न्त‌म्¦बृ॒हन्त᳚‌म्¦उ॒रु‌म्¦ग॒भी॒र‌म्¦पृ॒थुऽबु॑ध्न‌म्¦इ॒न्द्र॒ |
श्रु॒तऽऋ॑षि‌म्¦उ॒ग्र‌म्¦अ॒भि॒मा॒ति॒ऽसह᳚‌म्¦अ॒स्मभ्य᳚‌म्¦चि॒त्र‌म्¦वृष॑ण‌म्¦र॒यि‌म्¦दाः॒ ||

स॒नद्वा᳚जं॒विप्र॑वीरं॒तरु॑त्रंधन॒स्पृतं᳚शूशु॒वांसं᳚सु॒दक्ष᳚म् |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

द॒स्यु॒हनं᳚पू॒र्भिद॑मिन्द्रस॒त्यम॒स्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚ || {4/8}{10.47.4}{10.4.5.4}{8.1.3.4}{487, 884, 9285}

स॒नत्ऽवा᳚ज‌म्¦विप्र॑ऽवीर‌म्¦तरु॑त्र‌म्¦ध॒न॒ऽस्पृत᳚‌म्¦शू॒शु॒ऽवांस᳚‌म्¦सु॒ऽदक्ष᳚‌म् |
द॒स्यु॒हन᳚‌म्¦पूः॒ऽभिद᳚‌म्¦इ॒न्द्र॒¦स॒त्य‌म्¦अ॒स्मभ्य᳚‌म्¦चि॒त्र‌म्¦वृष॑ण‌म्¦र॒यि‌म्¦दाः॒ ||

अश्वा᳚वन्तंर॒थिनं᳚वी॒रव᳚न्तंसह॒स्रिणं᳚श॒तिनं॒वाज॑मिन्द्र |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

भ॒द्रव्रा᳚तं॒विप्र॑वीरंस्व॒र्षाम॒स्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚ || {5/8}{10.47.5}{10.4.5.5}{8.1.3.5}{488, 884, 9286}

अश्व॑ऽवन्त‌म्¦र॒थिन᳚‌म्¦वी॒रऽव᳚न्त‌म्¦स॒ह॒स्रिण᳚‌म्¦श॒तिन᳚‌म्¦वाज᳚‌म्¦इ॒न्द्र॒ |
भ॒द्रऽव्रा᳚त‌म्¦विप्र॑ऽवीर‌म्¦स्वः॒ऽसा‌म्¦अ॒स्मभ्य᳚‌म्¦चि॒त्र‌म्¦वृष॑ण‌म्¦र॒यि‌म्¦दाः॒ ||

प्रस॒प्तगु॑मृ॒तधी᳚तिंसुमे॒धांबृह॒स्पतिं᳚म॒तिरच्छा᳚जिगाति |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

आ᳚ङ्गिर॒सोनम॑सोप॒सद्यो॒ऽस्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚ || {6/8}{10.47.6}{10.4.5.6}{8.1.4.1}{489, 884, 9287}

प्र¦स॒प्तऽगु᳚‌म्¦ऋ॒तऽधी᳚ति‌म्¦सु॒ऽमे॒धा‌म्¦बृ॒ह॒स्पति᳚‌म्¦म॒तिः¦अच्छ॑¦जि॒गा॒ति॒ |
यः¦आ॒ङ्गि॒र॒सः¦नम॑सा¦उ॒प॒ऽसद्यः॑¦अ॒स्मभ्य᳚‌म्¦चि॒त्र‌म्¦वृष॑ण‌म्¦र॒यि‌म्¦दाः॒ ||

वनी᳚वानो॒मम॑दू॒तास॒इन्द्रं॒स्तोमा᳚श्चरन्तिसुम॒तीरि॑या॒नाः |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

हृ॒दि॒स्पृशो॒मन॑साव॒च्यमा᳚ना,अ॒स्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚ || {7/8}{10.47.7}{10.4.5.7}{8.1.4.2}{490, 884, 9288}

वनी᳚वानः¦मम॑¦दू॒तासः॑¦इन्द्र᳚‌म्¦सोमाः᳚¦च॒र॒न्ति॒¦सु॒ऽम॒तीः¦इ॒या॒नाः |
हृ॒दि॒ऽस्पृशः॑¦मन॑सा¦व॒च्यमा᳚नाः¦अ॒स्मभ्य᳚‌म्¦चि॒त्र‌म्¦वृष॑ण‌म्¦र॒यि‌म्¦दाः॒ ||

यत्‌त्वा॒यामि॑द॒द्धितन्न॑इन्द्रबृ॒हन्तं॒क्षय॒मस॑मं॒जना᳚नाम् |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

अ॒भितद्द्यावा᳚पृथि॒वीगृ॑णीताम॒स्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚ || {8/8}{10.47.8}{10.4.5.8}{8.1.4.3}{491, 884, 9289}

यत्¦त्वा॒¦यामि॑¦द॒द्धि¦तत्¦नः॒¦इ॒न्द्र॒¦बृ॒हन्त᳚‌म्¦क्षय᳚‌म्¦अस॑म‌म्¦जना᳚ना‌म् |
अ॒भि¦तत्¦द्यावा᳚पृथि॒वी इति॑¦गृ॒णी॒ता॒‌म्¦अ॒स्मभ्य᳚‌म्¦चि॒त्र‌म्¦वृष॑ण‌म्¦र॒यि‌म्¦दाः॒ ||

[48] अहंभुवमित्येकादशर्चस्य सूक्तस्य वैकुंठइंद्रो वैकुंठइंद्रो जगती सप्तमीदशम्येकादश्यस्त्रिष्टुभः |
अ॒हंभु॑वं॒वसु॑नःपू॒र्व्यस्पति॑र॒हंधना᳚नि॒संज॑यामि॒शश्व॑तः |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

मांह॑वन्तेपि॒तरं॒ज॒न्तवो॒ऽहंदा॒शुषे॒विभ॑जामि॒भोज॑नम् || {1/11}{10.48.1}{10.4.6.1}{8.1.5.1}{492, 885, 9290}

अ॒ह‌म्¦भु॒व॒‌म्¦वसु॑नः¦पू॒र्व्यः¦पतिः॑¦अ॒ह‌म्¦धना᳚नि¦स‌म्¦ज॒जा॒मि॒¦शश्व॑तः |
मा‌म्¦ह॒व॒न्ते॒¦पि॒तर᳚‌म्¦न¦ज॒न्तवः॑¦अ॒ह‌म्¦दा॒शुषे᳚¦वि¦भ॒जा॒मि॒¦भोज॑न‌म् ||

अ॒हमिन्द्रो॒रोधो॒वक्षो॒,अथ᳚र्वणस्त्रि॒ताय॒गा,अ॑जनय॒महे॒रधि॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

अ॒हंदस्यु॑भ्यः॒परि॑नृ॒म्णमाद॑देगो॒त्राशिक्ष᳚न्दधी॒चेमा᳚त॒रिश्व॑ने || {2/11}{10.48.2}{10.4.6.2}{8.1.5.2}{493, 885, 9291}

अ॒ह‌म्¦इन्द्रः॑¦रोधः॑¦वक्षः॑¦अथ᳚र्वणः¦त्रि॒तायः॑¦गाः¦अ॒ज॒न॒य॒‌म्¦अहेः᳚¦अधि॑ |
अ॒ह‌म्¦दस्यु॑ऽभ्यः¦परि॑¦नृ॒म्ण‌म्¦आ¦द॒दे॒¦गो॒त्रा¦शिक्ष॑न्¦द॒धी॒चे¦मा॒त॒रिश्व॑ने ||

मह्यं॒त्वष्टा॒वज्र॑मतक्षदाय॒संमयि॑दे॒वासो᳚ऽवृज॒न्नपि॒क्रतु᳚म् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

ममानी᳚कं॒सूर्य॑स्येवदु॒ष्टरं॒मामार्य᳚न्तिकृ॒तेन॒कर्त्वे᳚न || {3/11}{10.48.3}{10.4.6.3}{8.1.5.3}{494, 885, 9292}

मह्य᳚‌म्¦त्वष्टा᳚¦वज्र᳚‌म्¦अ॒त॒क्ष॒त्¦आ॒य॒स‌म्¦मयि॑¦दे॒वासः॑¦अ॒वृ॒ज॒न्¦अपि॑¦क्रतु᳚‌म् |
मम॑¦अनी᳚क‌म्¦सूर्य॑स्यऽ‌इव¦दु॒स्तर᳚‌म्¦मा‌म्¦आर्य᳚न्ति¦कृ॒तेन॑¦कर्त्वे᳚न¦च॒ ||

अ॒हमे॒तंग॒व्यय॒मश्व्यं᳚प॒शुंपु॑री॒षिणं॒साय॑केनाहिर॒ण्यय᳚म् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

पु॒रूस॒हस्रा॒निशि॑शामिदा॒शुषे॒यन्मा॒सोमा᳚सउ॒क्थिनो॒,अम᳚न्दिषुः || {4/11}{10.48.4}{10.4.6.4}{8.1.5.4}{495, 885, 9293}

अ॒ह‌म्¦ए॒त‌म्¦ग॒व्यय᳚‌म्¦अश्व्य᳚‌म्¦प॒शु‌म्¦पु॒री॒षिण᳚‌म्¦साय॑केन¦हि॒र॒ण्यय᳚‌म् |
पु॒रु¦स॒हस्रा᳚¦नि¦शि॒शा॒मि॒¦दा॒शुषे᳚¦यत्¦मा॒¦सोमा᳚सः¦उ॒क्थिनः॑¦अम᳚न्दिषुः ||

अ॒हमिन्द्रो॒परा᳚जिग्य॒इद्धनं॒मृ॒त्यवेऽव॑तस्थे॒कदा᳚च॒न |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

सोम॒मिन्मा᳚सु॒न्वन्तो᳚याचता॒वसु॒मे᳚पूरवःस॒ख्येरि॑षाथन || {5/11}{10.48.5}{10.4.6.5}{8.1.5.5}{496, 885, 9294}

अ॒ह‌म्¦इन्द्रः॑¦न¦परा᳚¦जि॒ग्ये॒¦इत्¦धन᳚‌म्¦न¦मृ॒त्यवे᳚¦अव॑¦त॒स्थे॒¦कदा᳚¦च॒न |
सोम᳚‌म्¦इत्¦मा॒¦सु॒न्वन्तः॑¦या॒च॒त॒¦वसु॑¦न¦मे॒¦पू॒र॒वः॒¦स॒ख्ये¦रि॒षा॒थ॒न॒ ||

अ॒हमे॒ताञ्छाश्व॑सतो॒द्वाद्वेन्द्रं॒येवज्रं᳚यु॒धयेऽकृ᳚ण्वत |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

आ॒ह्वय॑मानाँ॒,अव॒हन्म॑नाहनंदृ॒ळ्हावद॒न्नन॑मस्युर्नम॒स्विनः॑ || {6/11}{10.48.6}{10.4.6.6}{8.1.6.1}{497, 885, 9295}

अ॒ह‌म्¦ए॒तान्¦शाश्व॑सतः¦द्वाऽद्वा᳚¦इन्द्र᳚‌म्¦ये¦वज्र᳚‌म्¦यु॒धये᳚¦अकृ᳚ण्वत |
आ॒ऽह्वय॑मानान्¦अव॑¦हन्म॑ना¦अ॒ह॒न॒‌म्¦दृ॒ळ्हा¦वद॑न्¦अन॑मस्युः¦न॒म॒स्विनः॑ ||

अ॒भी॒३॑(ई॒)दमेक॒मेको᳚,अस्मिनि॒ष्षाळ॒भीद्वाकिमु॒त्रयः॑करन्ति |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्}

खले॒प॒र्षान्‌प्रति॑हन्मि॒भूरि॒किंमा᳚निन्दन्ति॒शत्र॑वोऽनि॒न्द्राः || {7/11}{10.48.7}{10.4.6.7}{8.1.6.2}{498, 885, 9296}

अ॒भि¦इ॒द‌म्¦एक᳚‌म्¦एकः॑¦अ॒स्मि॒¦नि॒ष्षाट्¦अ॒भि¦द्वा¦कि‌म्¦ऊँ॒ इति॑¦त्रयः॑¦क॒र॒न्ति॒ |
खले᳚¦न¦प॒र्षान्¦प्रति॑¦ह॒न्मि॒¦भूरि॑¦कि‌म्¦मा॒¦नि॒न्द॒न्ति॒¦शत्र॑वः¦अ॒नि॒न्द्राः ||

अ॒हंगु॒ङ्गुभ्यो᳚,अतिथि॒ग्वमिष्क॑र॒मिषं॒वृ॑त्र॒तुरं᳚वि॒क्षुधा᳚रयम् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

यत्प᳚र्णय॒घ्नउ॒तवा᳚करञ्ज॒हेप्राहंम॒हेवृ॑त्र॒हत्ये॒,अशु॑श्रवि || {8/11}{10.48.8}{10.4.6.8}{8.1.6.3}{499, 885, 9297}

अ॒ह‌म्¦गु॒ङ्गुऽभ्यः॑¦अ॒ति॒थि॒ऽग्व‌म्¦इष्क॑र‌म्¦इष᳚‌म्¦न¦वृ॒त्र॒ऽतुर᳚‌म्¦वि॒क्षु¦धा॒र॒य॒‌म् |
यत्¦प॒र्ण॒य॒ऽघ्ने¦उ॒त¦वा॒¦क॒रं॒ज॒ऽहे¦प्र¦अ॒ह‌म्¦म॒हे¦वृ॒त्र॒ऽहत्ये᳚¦अशु॑श्रवि ||

प्रमे॒नमी᳚सा॒प्यइ॒षेभु॒जेभू॒द्गवा॒मेषे᳚स॒ख्याकृ॑णुतद्वि॒ता |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

दि॒द्युंयद॑स्यसमि॒थेषु॑मं॒हय॒मादिदे᳚नं॒शंस्य॑मु॒क्थ्यं᳚करम् || {9/11}{10.48.9}{10.4.6.9}{8.1.6.4}{500, 885, 9298}

प्र¦मे॒¦नमी᳚¦सा॒प्यः¦इ॒षे¦भु॒जे¦भू॒त्¦गवा᳚‌म्¦एषे᳚¦स॒ख्या¦कृ॒णु॒त॒¦द्वि॒ता |
दि॒द्यु‌म्¦यत्¦अ॒स्य॒¦स॒मि॒थेषु॑¦मं॒हय᳚‌म्¦आत्¦इत्¦ए॒न॒‌म्¦शंस्य᳚‌म्¦उ॒क्थ्य᳚‌म्¦क॒र॒‌म् ||

प्रनेम॑स्मिन्ददृशे॒सोमो᳚,अ॒न्तर्गो॒पानेम॑मा॒विर॒स्थाकृ॑णोति |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्}

ति॒ग्मशृ᳚ङ्गंवृष॒भंयुयु॑त्सन्द्रु॒हस्त॑स्थौबहु॒लेब॒द्धो,अ॒न्तः || {10/11}{10.48.10}{10.4.6.10}{8.1.6.5}{501, 885, 9299}

प्र¦नेम॑स्मिन्¦द॒दृ॒शे॒¦सोमः॑¦अ॒न्तः¦गो॒पाः¦नेम᳚‌म्¦आ॒विः¦अ॒स्था¦कृ॒णो॒ति॒ |
सः¦ति॒ग्मऽशृ᳚ङ्ग‌म्¦वृ॒ष॒भ‌म्¦युयु॑त्सन्¦द्रु॒हः¦त॒स्थौ॒¦ब॒हु॒ले¦ब॒द्धः¦अ॒न्तरिति॑ ||

आ॒दि॒त्यानां॒वसू᳚नांरु॒द्रिया᳚णांदे॒वोदे॒वानां॒मि॑नामि॒धाम॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्}

तेमा᳚भ॒द्राय॒शव॑सेततक्षु॒रप॑राजित॒मस्तृ॑त॒मषा᳚ळ्हम् || {11/11}{10.48.11}{10.4.6.11}{8.1.6.6}{502, 885, 9300}

आ॒दि॒त्याना᳚‌म्¦वसू᳚ना‌म्¦रु॒द्रिया᳚णा‌म्¦दे॒वः¦दे॒वाना᳚‌म्¦न¦मि॒ना॒मि॒¦धाम॑ |
ते¦मा॒¦भ॒द्राय॑¦शव॑से¦त॒त॒क्षुः॒¦अप॑राऽजित‌म्¦अस्तृ॑त‌म्¦अषा᳚ळ्ह‌म् ||

[49] अहंदामित्येकादशर्चस्य सूक्तस्य वैकुंठ इंद्रो वैकुंठइंद्रो जगती द्वितीयांत्येत्रिष्टुभौ |
अ॒हंदां᳚गृण॒तेपूर्व्यं॒वस्व॒हंब्रह्म॑कृणवं॒मह्यं॒वर्ध॑नम् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

अ॒हंभु॑वं॒यज॑मानस्यचोदि॒ताय॑ज्वनःसाक्षि॒विश्व॑स्मि॒न्‌भरे᳚ || {1/11}{10.49.1}{10.4.7.1}{8.1.7.1}{503, 886, 9301}

अ॒ह‌म्¦दा॒‌म्¦गृ॒ण॒ते¦पूर्व्य᳚‌म्¦वसु॑¦अ॒ह‌म्¦ब्रह्म॑¦कृ॒ण॒व॒‌म्¦मह्य᳚‌म्¦वर्ध॑न‌म् |
अ॒ह‌म्¦भु॒व॒‌म्¦यज॑मानस्य¦चो॒दि॒ता¦अय॑ज्वनः¦सा॒क्षि॒¦विश्व॑स्मिन्¦भरे᳚ ||

मांधु॒रिन्द्रं॒नाम॑दे॒वता᳚दि॒वश्च॒ग्मश्चा॒पांच॑ज॒न्तवः॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्}

अ॒हंहरी॒वृष॑णा॒विव्र॑तार॒घू,अ॒हंवज्रं॒शव॑सेधृ॒ष्ण्वाद॑दे || {2/11}{10.49.2}{10.4.7.2}{8.1.7.2}{504, 886, 9302}

मा‌म्¦धुः॒¦इन्द्र᳚‌म्¦नाम॑¦दे॒वता᳚¦दि॒वः¦च॒¦ग्मः¦च॒¦अ॒पा‌म्¦च॒¦ज॒न्तवः॑ |
अ॒ह‌म्¦हरी॒ इति॑¦वृष॑णा¦विऽव्र॑ता¦र॒घू इति॑¦अ॒ह‌म्¦वज्र᳚‌म्¦शव॑से¦धृ॒ष्णु¦आ¦द॒दे॒ ||

अ॒हमत्कं᳚क॒वये᳚शिश्नथं॒हथै᳚र॒हंकुत्स॑मावमा॒भिरू॒तिभिः॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

अ॒हंशुष्ण॑स्य॒श्नथि॑ता॒वध᳚र्यमं॒योर॒रआर्यं॒नाम॒दस्य॑वे || {3/11}{10.49.3}{10.4.7.3}{8.1.7.3}{505, 886, 9303}

अ॒ह‌म्¦अत्क᳚‌म्¦क॒वये᳚¦शि॒श्न॒थ॒‌म्¦हथैः᳚¦अ॒ह‌म्¦कुत्स᳚‌म्¦आ॒व॒‌म्¦आ॒भिः¦ऊ॒तिऽभिः॑ |
अ॒ह‌म्¦शुष्ण॑स्य¦श्नथि॑ता¦वधः॑¦यम᳚‌म्¦न¦यः¦र॒रे¦आर्य᳚‌म्¦नाम॑¦दस्य॑वे ||

अ॒हंपि॒तेव॑वेत॒सूँर॒भिष्ट॑ये॒तुग्रं॒कुत्सा᳚य॒स्मदि॑भंरन्धयम् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

अ॒हंभु॑वं॒यज॑मानस्यरा॒जनि॒प्रयद्भरे॒तुज॑ये॒प्रि॒याधृषे᳚ || {4/11}{10.49.4}{10.4.7.4}{8.1.7.4}{506, 886, 9304}

अ॒ह‌म्¦पि॒ताऽ‌इ᳚व¦वे॒त॒सून्¦अ॒भिष्ट॑ये¦तुग्र᳚‌म्¦कुत्सा᳚य¦स्मत्ऽ‌इ᳚भ‌म्¦च॒¦र॒न्ध॒य॒‌म् |
अ॒ह‌म्¦भु॒व॒‌म्¦यज॑मानस्य¦रा॒जनि॑¦प्र¦यत्¦भ॒रे॒¦तुज॑ये¦न¦प्रि॒या¦आ॒ऽधृषे᳚ ||

अ॒हंर᳚न्धयं॒मृग॑यंश्रु॒तर्व॑णे॒यन्माजि॑हीतव॒युना᳚च॒नानु॒षक् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

अ॒हंवे॒शंन॒म्रमा॒यवे᳚ऽकरम॒हंसव्या᳚य॒पड्गृ॑भिमरन्धयम् || {5/11}{10.49.5}{10.4.7.5}{8.1.7.5}{507, 886, 9305}

अ॒ह‌म्¦र॒न्ध॒य॒‌म्¦मृग॑य‌म्¦श्रु॒तर्व॑णे¦यत्¦मा॒¦अजि॑हीत¦व॒युना᳚¦च॒न¦आ॒नु॒षक् |
अ॒ह‌म्¦वे॒श‌म्¦न॒म्र‌म्¦आ॒यवे᳚¦अ॒क॒र॒‌म्¦अ॒ह‌म्¦सव्या᳚य¦पट्ऽगृ॑भि‌म्¦अ॒र॒न्ध॒य॒‌म् ||

अ॒हंयोनव॑वास्त्वंबृ॒हद्र॑थं॒संवृ॒त्रेव॒दासं᳚वृत्र॒हारु॑जम् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

यद्व॒र्धय᳚न्तंप्र॒थय᳚न्तमानु॒षग्‌दू॒रेपा॒रेरज॑सोरोच॒नाक॑रम् || {6/11}{10.49.6}{10.4.7.6}{8.1.8.1}{508, 886, 9306}

अ॒ह‌म्¦सः¦यः¦नव॑ऽवास्त्व‌म्¦बृ॒हत्ऽर॑थ‌म्¦स‌म्¦वृ॒त्राऽ‌इ᳚व¦दास᳚‌म्¦वृ॒त्र॒ऽहा¦अरु॑ज‌म् |
यत्¦व॒र्धय᳚न्त‌म्¦प्र॒थय᳚न्त‌म्¦आ॒नु॒षक्¦दू॒रे¦पा॒रे¦रज॑सः¦रो॒च॒ना¦अक॑र‌म् ||

अ॒हंसूर्य॑स्य॒परि॑याम्या॒शुभिः॒प्रैत॒शेभि॒र्वह॑मान॒ओज॑सा |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

यन्मा᳚सा॒वोमनु॑ष॒आह॑नि॒र्णिज॒ऋध॑क्कृषे॒दासं॒कृत्व्यं॒हथैः᳚ || {7/11}{10.49.7}{10.4.7.7}{8.1.8.2}{509, 886, 9307}

अ॒ह‌म्¦सूर्य॑स्य¦परि॑¦या॒मि॒¦आ॒शुऽभिः॑¦प्र¦ए॒त॒शेभिः॑¦वह॑मानः¦ओज॑सा |
यत्¦मा॒¦सा॒वः¦मनु॑षः¦आह॑¦निः॒ऽनिजे᳚¦ऋध॑क्¦कृ॒षे॒¦दास᳚‌म्¦कृत्व्य᳚‌म्¦हथैः᳚ ||

अ॒हंस॑प्त॒हानहु॑षो॒नहु॑ष्टरः॒प्राश्रा᳚वयं॒शव॑सातु॒र्वशं॒यदु᳚म् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

अ॒हंन्य१॑(अ॒)न्यंसह॑सा॒सह॑स्करं॒नव॒व्राध॑तोनव॒तिंच॑वक्षयम् || {8/11}{10.49.8}{10.4.7.8}{8.1.8.3}{510, 886, 9308}

अ॒ह‌म्¦स॒प्त॒ऽहा¦नहु॑षः¦नहुः॑ऽतरः¦प्र¦अ॒श्र॒व॒य॒‌म्¦शव॑सा¦तु॒र्वश᳚‌म्¦यदु᳚‌म् |
अ॒ह‌म्¦नि¦अ॒न्य‌म्¦सह॑सा¦सहः॑¦क॒र॒‌म्¦नव॑¦व्राध॑तः¦न॒व॒ति‌म्¦च॒¦व॒क्ष॒य॒‌म् ||

अ॒हंस॒प्तस्र॒वतो᳚धारयं॒वृषा᳚द्रवि॒त्न्वः॑पृथि॒व्यांसी॒रा,अधि॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

अ॒हमर्णां᳚सि॒विति॑रामिसु॒क्रतु᳚र्यु॒धावि॑दं॒मन॑वेगा॒तुमि॒ष्टये᳚ || {9/11}{10.49.9}{10.4.7.9}{8.1.8.4}{511, 886, 9309}

अ॒ह‌म्¦स॒प्त¦स्र॒वतः॑¦धा॒र॒य॒‌म्¦वृषा᳚¦द्र॒वि॒त्न्वः॑¦पृ॒थि॒व्या‌म्¦सी॒राः¦अधि॑ |
अ॒ह‌म्¦अर्णां᳚सि¦वि¦ति॒रा॒मि॒¦सु॒ऽक्रतुः॑¦यु॒धा¦वि॒द॒‌म्¦मन॑वे¦गा॒तु‌म्¦इ॒ष्टये᳚ ||

अ॒हंतदा᳚सुधारयं॒यदा᳚सु॒दे॒वश्च॒नत्वष्टाधा᳚रय॒द्रुश॑त् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

स्पा॒र्हंगवा॒मूध॑स्सुव॒क्षणा॒स्वामधो॒र्मधु॒श्वात्र्यं॒सोम॑मा॒शिर᳚म् || {10/11}{10.49.10}{10.4.7.10}{8.1.8.5}{512, 886, 9310}

अ॒ह‌म्¦तत्¦आ॒सु॒¦धा॒र॒य॒‌म्¦यत्¦आ॒सु॒¦न¦दे॒वः¦च॒न¦त्वष्टा᳚¦अधा᳚रयत्¦रुश॑त् |
स्पा॒र्ह‌म्¦गवा᳚‌म्¦ऊधः॑ऽसु¦व॒क्षणा᳚सु¦आ¦मधोः᳚¦मधु॑¦श्वात्र्य᳚‌म्¦सोम᳚‌म्¦आ॒ऽशिर᳚‌म् ||

ए॒वादे॒वाँ,इन्द्रो᳚विव्ये॒नॄन्‌प्रच्यौ॒त्नेन॑म॒घवा᳚स॒त्यरा᳚धाः |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्}

विश्वेत्ताते᳚हरिवःशचीवो॒ऽभितु॒रासः॑स्वयशोगृणन्ति || {11/11}{10.49.11}{10.4.7.11}{8.1.8.6}{513, 886, 9311}

ए॒व¦दे॒वान्¦इन्द्रः॑¦वि॒व्ये॒¦नॄन्¦प्र¦च्यौ॒त्नेन॑¦म॒घऽवा᳚¦स॒त्यऽरा᳚धाः |
विश्वा᳚¦इत्¦ता¦ते॒¦ह॒रि॒ऽवः॒¦श॒ची॒ऽवः॒¦अ॒भि¦तु॒रासः॑¦स्व॒ऽय॒शः॒¦गृ॒ण॒न्ति॒ ||

[50] प्रवोमहइति सप्तर्चस्य सूक्तस्य वैकुंठ इंद्रो वैकुंठ इंद्रो जगती तृतीया चतुर्थ्यावभिसारिण्यौ पंचमीत्रिष्टुप् |
प्रवो᳚म॒हेमन्द॑माना॒यान्ध॒सोऽर्चा᳚वि॒श्वान॑रायविश्वा॒भुवे᳚ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

इन्द्र॑स्य॒यस्य॒सुम॑खं॒सहो॒महि॒श्रवो᳚नृ॒म्णंच॒रोद॑सीसप॒र्यतः॑ || {1/7}{10.50.1}{10.4.8.1}{8.1.9.1}{514, 887, 9312}

प्र¦वः॒¦म॒हे¦मन्द॑मानाय¦अन्ध॑सः¦अर्च॑¦वि॒श्वान॑राय¦वि॒श्व॒ऽभुवे᳚ |
इन्द्र॑स्य¦यस्य॑¦सुऽम॑ख‌म्¦सहः॑¦महि॑¦श्रवः॑¦नृ॒म्ण‌म्¦च॒¦रोद॑सी॒ इति॑¦स॒प॒र्यतः॑ ||

सोचि॒न्नुसख्या॒नर्य॑इ॒नःस्तु॒तश्च॒र्कृत्य॒इन्द्रो॒माव॑ते॒नरे᳚ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

विश्वा᳚सुधू॒र्षुवा᳚ज॒कृत्ये᳚षुसत्पतेवृ॒त्रेवा॒प्स्व१॑(अ॒)भिशू᳚रमन्दसे || {2/7}{10.50.2}{10.4.8.2}{8.1.9.2}{515, 887, 9313}

सः¦चि॒त्¦नु¦सख्या᳚¦नर्यः॑¦इ॒नः¦स्तु॒तः¦च॒र्कृत्यः॑¦इन्द्रः॑¦माऽव॑ते¦नरे᳚ |
विश्वा᳚सु¦धूः॒ऽसु¦वा॒ज॒ऽकृत्ये᳚षु¦स॒त्ऽप॒ते॒¦वृ॒त्रे¦वा॒¦अ॒प्ऽसु¦अ॒भि¦शू॒र॒¦म॒न्द॒से॒ ||

केतेनर॑इन्द्र॒येत॑इ॒षेयेते᳚सु॒म्नंस॑ध॒न्य१॑(अ॒)मिय॑क्षान् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | अभिसारिण्यः}

केते॒वाजा᳚यासु॒र्या᳚यहिन्‌विरे॒के,अ॒प्सुस्वासू॒र्वरा᳚सु॒पौंस्ये᳚ || {3/7}{10.50.3}{10.4.8.3}{8.1.9.3}{516, 887, 9314}

के¦ते¦नरः॑¦इ॒न्द्र॒¦ये¦ते॒¦इ॒षे¦ये¦ते॒¦सु॒म्न‌म्¦स॒ऽध॒न्य᳚‌म्¦इय॑क्षान् |
के¦ते॒¦वाजा᳚य¦अ॒सु॒र्या᳚य¦हि॒न्वि॒रे॒¦के¦अ॒प्ऽसु¦स्वासु॑¦उ॒र्वरा᳚सु¦पौंस्ये᳚ ||

भुव॒स्त्वमि᳚न्द्र॒ब्रह्म॑णाम॒हान्‌भुवो॒विश्वे᳚षु॒सव॑नेषुय॒ज्ञियः॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | अभिसारिण्यः}

भुवो॒नॄँश्च्यौ॒त्नोविश्व॑स्मि॒न्‌भरे॒ज्येष्ठ॑श्च॒मन्त्रो᳚विश्वचर्षणे || {4/7}{10.50.4}{10.4.8.4}{8.1.9.4}{517, 887, 9315}

भुवः॑¦त्व‌म्¦इ॒न्द्र॒¦ब्रह्म॑णा¦म॒हान्¦भुवः॑¦विश्वे᳚षु¦सव॑नेषु¦य॒ज्ञियः॑ |
भुवः॑¦नॄन्¦च्यौ॒त्नः¦विश्व॑स्मिन्¦भरे᳚¦ज्येष्ठः॑¦च॒¦मन्त्रः॑¦वि॒श्व॒ऽच॒र्ष॒णे॒ ||

अवा॒नुकं॒ज्याया᳚न्‌य॒ज्ञव॑नसोम॒हींत॒ओमा᳚त्रांकृ॒ष्टयो᳚विदुः |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्}

असो॒नुक॑म॒जरो॒वर्धा᳚श्च॒विश्वेदे॒तासव॑नातूतु॒माकृ॑षे || {5/7}{10.50.5}{10.4.8.5}{8.1.9.5}{518, 887, 9316}

अव॑¦नु¦क॒‌म्¦ज्याया᳚न्¦य॒ज्ञऽव॑नसः¦म॒ही‌म्¦ते॒¦ओमा᳚त्रा‌म्¦कृ॒ष्टयः॑¦वि॒दुः॒ |
असः॑¦नु¦क॒‌म्¦अ॒जरः॑¦वर्धाः᳚¦च॒¦विश्वा᳚¦इत्¦ए॒ता¦सव॑ना¦तू॒तु॒मा¦कृ॒षे॒ ||

ए॒ताविश्वा॒सव॑नातूतु॒माकृ॑षेस्व॒यंसू᳚नोसहसो॒यानि॑दधि॒षे |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

वरा᳚यते॒पात्रं॒धर्म॑णे॒तना᳚य॒ज्ञोमन्त्रो॒ब्रह्मोद्य॑तं॒वचः॑ || {6/7}{10.50.6}{10.4.8.6}{8.1.9.6}{519, 887, 9317}

ए॒ता¦विश्वा᳚¦सव॑ना¦तू॒तु॒मा¦कृ॒षे॒¦स्व॒य‌म्¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦यानि॑¦द॒धि॒षे |
वरा᳚य¦ते॒¦पात्र᳚‌म्¦धर्म॑णे¦तना᳚¦य॒ज्ञः¦मन्त्रः॒¦ब्रह्म॑¦उत्ऽय॑त‌म्¦वचः॑ ||

येते᳚विप्रब्रह्म॒कृतः॑सु॒तेसचा॒वसू᳚नांच॒वसु॑नश्चदा॒वने᳚ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

प्रतेसु॒म्नस्य॒मन॑साप॒थाभु॑व॒न्मदे᳚सु॒तस्य॑सो॒म्यस्यान्ध॑सः || {7/7}{10.50.7}{10.4.8.7}{8.1.9.7}{520, 887, 9318}

ये¦ते॒¦वि॒प्र॒¦ब्र॒ह्म॒ऽकृतः॑¦सु॒ते¦सचा᳚¦वसू᳚ना‌म्¦च॒¦वसु॑नः¦च॒¦दा॒वने᳚ |
प्र¦ते¦सु॒म्नस्य॑¦मन॑सा¦प॒था¦भु॒व॒न्¦मदे᳚¦सु॒तस्य॑¦सो॒म्यस्य॑¦अन्ध॑सः ||

[51] महत्तदिति नवर्चस्य सूक्तस्य द्वितीयादियुगृचां सौचीकोग्निऋषिः अयुजांदेवाऋषयः युजांदेवादेवताः अयुजामग्निर्देवतात्रिष्टुप् |
म॒हत्तदुल्बं॒स्थवि॑रं॒तदा᳚सी॒द्येनावि॑ष्टितःप्रवि॒वेशि॑था॒पः |{देवाः | अग्निः सौचीकः | त्रिष्टुप्}

विश्वा᳚,अपश्यद्बहु॒धाते᳚,अग्ने॒जात॑वेदस्त॒न्वो᳚दे॒वएकः॑ || {1/9}{10.51.1}{10.4.9.1}{8.1.10.1}{521, 888, 9319}

म॒हत्¦तत्¦उल्ब᳚‌म्¦स्थवि॑र‌म्¦तत्¦आ॒सी॒त्¦येन॑¦आऽवि॑ष्टितः¦प्र॒ऽवि॒वेशि॑थ¦अ॒पः |
विश्वाः᳚¦अ॒प॒श्य॒त्¦ब॒हु॒धा¦ते॒¦अ॒ग्ने॒¦जात॑ऽवेदः¦त॒न्वः॑¦दे॒वः¦एकः॑ ||

कोमा᳚ददर्शकत॒मःदे॒वोयोमे᳚त॒न्वो᳚बहु॒धाप॒र्यप॑श्यत् |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

क्वाह॑मित्रावरुणाक्षियन्त्य॒ग्नेर्विश्वाः᳚स॒मिधो᳚देव॒यानीः᳚ || {2/9}{10.51.2}{10.4.9.2}{8.1.10.2}{522, 888, 9320}

कः¦मा॒¦द॒द॒र्श॒¦क॒त॒मः¦सः¦दे॒वः¦यः¦मे॒¦त॒न्वः॑¦ब॒हु॒धा¦प॒रि॒।आप॑श्यत् |
क्व॑¦अह॑¦मि॒त्रा॒व॒रु॒णा॒¦क्षि॒य॒न्ति॒¦अ॒ग्नेः¦विश्वाः᳚¦स॒‌म्ऽ‌इधः॑¦दे॒व॒ऽयानीः᳚ ||

ऐच्छा᳚मत्वाबहु॒धाजा᳚तवेदः॒प्रवि॑ष्टमग्ने,अ॒प्स्वोष॑धीषु |{देवाः | अग्निः सौचीकः | त्रिष्टुप्}

तंत्वा᳚य॒मो,अ॑चिकेच्चित्रभानोदशान्तरु॒ष्याद॑ति॒रोच॑मानम् || {3/9}{10.51.3}{10.4.9.3}{8.1.10.3}{523, 888, 9321}

ऐच्छा᳚म¦त्वा॒¦ब॒हु॒धा¦जा॒त॒ऽवे॒दः॒¦प्रऽवि॑ष्ट‌म्¦अ॒ग्ने॒¦अ॒प्ऽसु¦ओष॑धीषु |
त‌म्¦त्वा॒¦य॒मः¦अ॒चि॒के॒त्¦चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो¦द॒श॒।आ॒न्त॒रु॒ष्यात्¦अ॒ति॒ऽरोच॑मान‌म् ||

हो॒त्राद॒हंव॑रुण॒बिभ्य॑दायं॒नेदे॒वमा᳚यु॒नज॒न्नत्र॑दे॒वाः |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

तस्य॑मेत॒न्वो᳚बहु॒धानिवि॑ष्टा,ए॒तमर्थं॒चि॑केता॒हम॒ग्निः || {4/9}{10.51.4}{10.4.9.4}{8.1.10.4}{524, 888, 9322}

हो॒त्रात्¦अ॒ह‌म्¦व॒रु॒ण॒¦बिभ्य॑त्¦आ॒य॒‌म्¦न¦इत्¦ए॒व¦मा॒¦यु॒नज॑न्¦अत्र॑¦दे॒वाः |
तस्य॑¦मे॒¦त॒न्वः॑¦ब॒हु॒धा¦निऽवि॑ष्टाः¦ए॒त‌म्¦अर्थ᳚‌म्¦न¦चि॒के॒त॒¦अ॒ह‌म्¦अ॒ग्निः ||

एहि॒मनु॑र्देव॒युर्य॒ज्ञका᳚मोऽरं॒कृत्या॒तम॑सिक्षेष्यग्ने |{देवाः | अग्निः सौचीकः | त्रिष्टुप्}

सु॒गान्‌प॒थःकृ॑णुहिदेव॒याना॒न्वह॑ह॒व्यानि॑सुमन॒स्यमा᳚नः || {5/9}{10.51.5}{10.4.9.5}{8.1.10.5}{525, 888, 9323}

आ¦इ॒हि॒¦मनुः॑¦दे॒व॒ऽयुः¦य॒ज्ञऽका᳚मः¦अ॒र॒‌म्ऽकृत्य॑¦तम॑सि¦क्षे॒षि॒¦अ॒ग्ने॒ |
सु॒ऽगान्¦प॒थः¦कृ॒णु॒हि॒¦दे॒व॒ऽयाना᳚न्¦वह॑¦ह॒व्यानि॑¦सु॒ऽम॒न॒स्यमा᳚नः ||

अ॒ग्नेःपूर्वे॒भ्रात॑रो॒,अर्थ॑मे॒तंर॒थीवाध्वा᳚न॒मन्वाव॑रीवुः |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

तस्मा᳚द्भि॒याव॑रुणदू॒रमा᳚यंगौ॒रोक्षे॒प्नोर॑विजे॒ज्यायाः᳚ || {6/9}{10.51.6}{10.4.9.6}{8.1.11.1}{526, 888, 9324}

अ॒ग्नेः¦पूर्वे᳚¦भ्रात॑रः¦अर्थ᳚‌म्¦ए॒त‌म्¦र॒थीऽ‌इ᳚व¦अध्वा᳚न‌म्¦अनु॑¦आ¦अ॒व॒री॒वु॒रिति॑ |
तस्मा᳚त्¦भि॒या¦व॒रु॒ण॒¦दू॒र‌म्¦आ॒य॒‌म्¦गौ॒रः¦न¦क्षे॒प्नोः¦आ॒वि॒जे॒¦ज्यायाः᳚ ||

कु॒र्मस्त॒आयु॑र॒जरं॒यद॑ग्ने॒यथा᳚यु॒क्तोजा᳚तवेदो॒रिष्याः᳚ |{देवाः | अग्निः सौचीकः | त्रिष्टुप्}

अथा᳚वहासिसुमन॒स्यमा᳚नोभा॒गंदे॒वेभ्यो᳚ह॒विषः॑सुजात || {7/9}{10.51.7}{10.4.9.7}{8.1.11.2}{527, 888, 9325}

कु॒र्मः¦ते॒¦आयुः॑¦अ॒जर᳚‌म्¦यत्¦अ॒ग्ने॒¦यथा᳚¦यु॒क्तः¦जा॒त॒ऽवे॒दः॒¦न¦रिष्याः᳚ |
अथ॑¦व॒हा॒सि॒¦सु॒ऽम॒न॒स्यमा᳚नः¦भा॒ग‌म्¦दे॒वेभ्यः॑¦ह॒विषः॑¦सु॒ऽजा॒त॒ ||

प्र॒या॒जान्मे᳚,अनुया॒जाँश्च॒केव॑ला॒नूर्ज॑स्वन्तंह॒विषो᳚दत्तभा॒गम् |{सौचीकोग्निः | देवाः | भुरिक्त्रिष्टुप्}

घृ॒तंचा॒पांपुरु॑षं॒चौष॑धीनाम॒ग्नेश्च॑दी॒र्घमायु॑रस्तुदेवाः || {8/9}{10.51.8}{10.4.9.8}{8.1.11.3}{528, 888, 9326}

प्र॒ऽया॒जान्¦मे॒¦अ॒नु॒ऽया॒जान्¦च॒¦केव॑लान्¦ऊर्ज॑स्वन्त‌म्¦ह॒विषः॑¦द॒त्त॒¦भा॒ग‌म् |
घृ॒त‌म्¦च॒¦अ॒पा‌म्¦पुरु॑ष‌म्¦च॒¦ओष॑धीना‌म्¦अ॒ग्नेः¦च॒¦दी॒र्घ‌म्¦आयुः॑¦अ॒स्तु॒¦दे॒वाः॒ ||

तव॑प्रया॒जा,अ॑नुया॒जाश्च॒केव॑ल॒ऊर्ज॑स्वन्तोह॒विषः॑सन्तुभा॒गाः |{देवाः | अग्निः सौचीकः | भुरिक्त्रिष्टुप्}

तवा᳚ग्नेय॒ज्ञो॒३॑(ओ॒)ऽयम॑स्तु॒सर्व॒स्तुभ्यं᳚नमन्तांप्र॒दिश॒श्चत॑स्रः || {9/9}{10.51.9}{10.4.9.9}{8.1.11.4}{529, 888, 9327}

तव॑¦प्र॒ऽया॒जाः¦अ॒नु॒ऽया॒जाः¦च॒¦केव॑ले¦ऊर्ज॑स्वन्तः¦ह॒विषः॑¦स॒न्तु॒¦भा॒गाः |
तव॑¦अ॒ग्ने॒¦य॒ज्ञः¦अ॒य‌म्¦अ॒स्तु॒¦सर्वः॑¦तुभ्य᳚‌म्¦न॒म॒न्ता॒‌म्¦प्र॒ऽदिशः॑¦चत॑स्रः ||

[52] विश्वेदेवाइति षडृचस्य सूक्तस्यसौचीकोग्निर्देवास्त्रिष्टुप् |
विश्वे᳚देवाःशा॒स्तन॑मा॒यथे॒हहोता᳚वृ॒तोम॒नवै॒यन्नि॒षद्य॑ |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

प्रमे᳚ब्रूतभाग॒धेयं॒यथा᳚वो॒येन॑प॒थाह॒व्यमावो॒वहा᳚नि || {1/6}{10.52.1}{10.4.10.1}{8.1.12.1}{530, 889, 9328}

विश्वे᳚¦दे॒वाः॒¦शा॒स्तन॑¦मा॒¦यथा᳚¦इ॒ह¦होता᳚¦वृ॒तः¦म॒नवै᳚¦यत्¦नि॒ऽसद्य॑ |
प्र¦मे॒¦ब्रू॒त॒¦भा॒ग॒ऽधेय᳚‌म्¦यथा᳚¦वः॒¦येन॑¦प॒था¦ह॒व्य‌म्¦आ¦वः॒¦वहा᳚नि ||

अ॒हंहोता॒न्य॑सीदं॒यजी᳚या॒न्‌विश्वे᳚दे॒वाम॒रुतो᳚माजुनन्ति |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

अह॑रहरश्वि॒नाध्व᳚र्यवंवांब्र॒ह्मास॒मिद्भ॑वति॒साहु॑तिर्वाम् || {2/6}{10.52.2}{10.4.10.2}{8.1.12.2}{531, 889, 9329}

अ॒ह‌म्¦होता᳚¦नि¦अ॒सी॒द॒‌म्¦यजी᳚यान्¦विश्वे᳚¦दे॒वाः॒¦म॒रुतः॑¦मा॒¦जु॒न॒न्ति॒ |
अहः॑।आहः¦अ॒श्वि॒ना॒¦आध्व᳚र्यव‌म्¦वा॒‌म्¦ब्र॒ह्मा¦स॒‌म्ऽ‌इत्¦भ॒व॒ति॒¦सा¦आऽहु॑तिः¦वा॒‌म् ||

अ॒यंयोहोता॒किरु॒य॒मस्य॒कमप्यू᳚हे॒यत्स॑म॒ञ्जन्ति॑दे॒वाः |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

अह॑रहर्जायतेमा॒सिमा॒स्यथा᳚दे॒वाद॑धिरेहव्य॒वाह᳚म् || {3/6}{10.52.3}{10.4.10.3}{8.1.12.3}{532, 889, 9330}

अ॒य‌म्¦यः¦होता᳚¦किः¦ऊँ॒ इति॑¦सः¦य॒मस्य॑¦क‌म्¦अपि॑¦ऊ॒हे॒¦यत्¦स॒‌म्।आं॒जन्ति॑¦दे॒वाः |
अहः॑।आहः¦जा॒य॒ते॒¦मा॒सिऽमा᳚सि¦अथ॑¦दे॒वाः¦द॒धि॒रे॒¦ह॒व्य॒ऽवाह᳚‌म् ||

मांदे॒वाद॑धिरेहव्य॒वाह॒मप᳚म्लुक्तंब॒हुकृ॒च्छ्राचर᳚न्तम् |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

अ॒ग्निर्वि॒द्वान्‌य॒ज्ञंनः॑कल्पयाति॒पञ्च॑यामंत्रि॒वृतं᳚स॒प्तत᳚न्तुम् || {4/6}{10.52.4}{10.4.10.4}{8.1.12.4}{533, 889, 9331}

मा‌म्¦दे॒वाः¦द॒धि॒रे॒¦ह॒व्य॒ऽवाह᳚‌म्¦अप॑ऽम्लुक्त‌म्¦ब॒हु¦कृ॒च्छ्रा¦चर᳚न्त‌म् |
अ॒ग्निः¦वि॒द्वान्¦य॒ज्ञ‌म्¦नः॒¦क॒ल्प॒या॒ति॒¦पंच॑ऽयाम‌म्¦त्रि॒ऽवृत᳚‌म्¦स॒प्तऽत᳚न्तु‌म् ||

वो᳚यक्ष्यमृत॒त्वंसु॒वीरं॒यथा᳚वोदेवा॒वरि॑वः॒करा᳚णि |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

बा॒ह्वोर्वज्र॒मिन्द्र॑स्यधेया॒मथे॒माविश्वाः॒पृत॑नाजयाति || {5/6}{10.52.5}{10.4.10.5}{8.1.12.5}{534, 889, 9332}

आ¦वः॒¦य॒क्षि॒¦अ॒मृ॒त॒ऽत्व‌म्¦सु॒ऽवीर᳚‌म्¦यथा᳚¦वः॒¦दे॒वाः॒¦वरि॑वः¦करा᳚णि |
आ¦बा॒ह्वोः¦वज्र᳚‌म्¦इन्द्र॑स्य¦धेया᳚‌म्¦अथ॑¦इ॒माः¦विश्वाः᳚¦पृत॑नाः¦ज॒या॒ति॒ ||

त्रीणि॑श॒तात्रीस॒हस्रा᳚ण्य॒ग्निंत्रिं॒शच्च॑दे॒वानव॑चासपर्यन् |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

औक्ष॑न्‌घृ॒तैरस्तृ॑णन्‌ब॒र्हिर॑स्मा॒,आदिद्धोता᳚रं॒न्य॑सादयन्त || {6/6}{10.52.6}{10.4.10.6}{8.1.12.6}{535, 889, 9333}

त्रीणि॑¦श॒ता¦त्री¦स॒हस्रा᳚णि¦अ॒ग्नि‌म्¦त्रिं॒शत्¦च॒¦दे॒वाः¦नव॑¦च॒¦अ॒स॒प॒र्य॒न् |
औक्ष॑न्¦घृ॒तैः¦अस्तृ॑णन्¦ब॒र्हिः¦अ॒स्मै॒¦आत्¦इत्¦होता᳚र‌म्¦नि¦अ॒सा॒द॒य॒न्त॒ ||

[53] यमैच्छामेत्येकादशर्चस्य सूक्तस्य देवाऋषयः चतुर्थीपंचम्योः सौचीकोग्निरृषिः अग्निर्देवता चतुर्थीपंचम्योर्देवादेवता जगती अश्मन्वतीरितित्रिष्टुप् |
यमैच्छा᳚म॒मन॑सा॒सो॒३॑(ओ॒)ऽयमागा᳚द्‌य॒ज्ञस्य॑वि॒द्वान्‌परु॑षश्चिकि॒त्वान् |{देवाः | अग्निः | त्रिष्टुप्}

नो᳚यक्षद्दे॒वता᳚ता॒यजी᳚या॒न्निहिषत्स॒दन्त॑रः॒पूर्वो᳚,अ॒स्मत् || {1/11}{10.53.1}{10.4.11.1}{8.1.13.1}{536, 890, 9334}

य‌म्¦ऐच्छा᳚म¦मन॑सा¦सः¦अ॒य‌म्¦आ¦अ॒गा॒त्¦य॒ज्ञस्य॑¦वि॒द्वान्¦परु॑षः¦चि॒कि॒त्वान् |
सः¦नः॒¦य॒क्ष॒त्¦दे॒वऽता᳚ता¦यजी᳚यान्¦नि¦हि¦स॒त्स॒त्¦अन्त॑रः¦पूर्वः॑¦अ॒स्मत् ||

अरा᳚धि॒होता᳚नि॒षदा॒यजी᳚यान॒भिप्रयां᳚सि॒सुधि॑तानि॒हिख्यत् |{देवाः | अग्निः | त्रिष्टुप्}

यजा᳚महैय॒ज्ञिया॒न्हन्त॑दे॒वाँ,ईळा᳚महा॒,ईड्याँ॒,आज्ये᳚न || {2/11}{10.53.2}{10.4.11.2}{8.1.13.2}{537, 890, 9335}

अरा᳚धि¦होता᳚¦नि॒ऽसदा᳚¦यजी᳚यान्¦अ॒भि¦प्रयां᳚सि¦सुऽधि॑तानि¦हि¦ख्यत् |
यजा᳚महै¦य॒ज्ञिया᳚न्¦हन्त॑¦दे॒वान्¦ईळा᳚महै¦ईड्या᳚न्¦आज्ये᳚न ||

सा॒ध्वीम॑कर्दे॒ववी᳚तिंनो,अ॒द्यय॒ज्ञस्य॑जि॒ह्वाम॑विदाम॒गुह्या᳚म् |{देवाः | अग्निः | त्रिष्टुप्}

आयु॒रागा᳚त्सुर॒भिर्वसा᳚नोभ॒द्राम॑कर्दे॒वहू᳚तिंनो,अ॒द्य || {3/11}{10.53.3}{10.4.11.3}{8.1.13.3}{538, 890, 9336}

सा॒ध्वी‌म्¦अ॒कः॒¦दे॒वऽवी᳚ति‌म्¦नः॒¦अ॒द्य¦य॒ज्ञस्य॑¦जि॒ह्वा‌म्¦अ॒वि॒दा॒म॒¦गुह्या᳚‌म् |
सः¦आयुः॑¦आ¦अ॒गा॒त्¦सु॒र॒भिः¦वसा᳚नः¦भ॒द्रा‌म्¦अ॒कः॒¦दे॒वऽहू᳚ति‌म्¦नः॒¦अ॒द्य ||

तद॒द्यवा॒चःप्र॑थ॒मंम॑सीय॒येनासु॑राँ,अ॒भिदे॒वा,असा᳚म |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

ऊर्जा᳚दउ॒तय॑ज्ञियासः॒पञ्च॑जना॒मम॑हो॒त्रंजु॑षध्वम् || {4/11}{10.53.4}{10.4.11.4}{8.1.13.4}{539, 890, 9337}

तत्¦अ॒द्य¦वा॒च¦प्र॒थ॒म‌म्¦म॒सी॒य॒¦येन॑¦असु॑रान्¦अ॒भि¦दे॒वाः¦असा᳚म |
ऊर्ज॑।आदः¦उ॒त¦य॒ज्ञि॒या॒सः॒¦पंच॑¦ज॒नाः॒¦मम॑¦हो॒त्र‌म्¦जु॒ष॒ध्व॒‌म् ||

पञ्च॒जना॒मम॑हो॒त्रंजु॑षन्तां॒गोजा᳚ता,उ॒तयेय॒ज्ञिया᳚सः |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

पृ॒थि॒वीनः॒पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षंदि॒व्यात्पा᳚त्व॒स्मान् || {5/11}{10.53.5}{10.4.11.5}{8.1.13.5}{540, 890, 9338}

पंच॑¦ज॒नाः॒¦मम॑¦हो॒त्र‌म्¦जु॒ष॒न्ता॒‌म्¦गोऽजा᳚ताः¦उ॒त¦ये¦य॒ज्ञिया᳚सः |
पृ॒थि॒वी¦नः॒¦पार्थि॑वात्¦पा॒तु॒¦अंह॑सः¦अ॒न्तरि॑क्ष‌म्¦दि॒व्यात्¦पा॒तु॒¦अ॒स्मान् ||

तन्तुं᳚त॒न्वन्‌रज॑सोभा॒नुमन्‌वि॑हि॒ज्योति॑ष्मतःप॒थोर॑क्षधि॒याकृ॒तान् |{देवाः | अग्निः | जगती}

अ॒नु॒ल्ब॒णंव॑यत॒जोगु॑वा॒मपो॒मनु॑र्भवज॒नया॒दैव्यं॒जन᳚म् || {6/11}{10.53.6}{10.4.11.6}{8.1.14.1}{541, 890, 9339}

तन्तु᳚‌म्¦त॒न्वन्¦रज॑सः¦भा॒नु‌म्¦अनु॑¦इ॒हि॒¦ज्योति॑ष्मतः¦प॒थः¦र॒क्ष॒¦धि॒या¦कृ॒तान् |
अ॒नु॒ल्ब॒ण‌म्¦व॒य॒त॒¦जोगु॑वा‌म्¦अपः॑¦मनुः॑¦भ॒व॒¦ज॒नय॑¦दैव्य᳚‌म्¦जन᳚‌म् ||

अ॒क्षा॒नहो᳚नह्यतनो॒तसो᳚म्या॒,इष्कृ॑णुध्वंरश॒ना,ओतपिं᳚शत |{देवाः | अग्निः | जगती}

अ॒ष्टाव᳚न्धुरंवहता॒भितो॒रथं॒येन॑दे॒वासो॒,अन॑यन्न॒भिप्रि॒यम् || {7/11}{10.53.7}{10.4.11.7}{8.1.14.2}{542, 890, 9340}

अ॒क्ष॒ऽनहः॑¦न॒ह्य॒त॒न॒¦उ॒त¦सो॒म्याः॒¦इष्कृ॑णुध्व‌म्¦र॒श॒नाः¦आ¦उ॒त¦पिं॒श॒त॒ |
अ॒ष्टाऽव᳚न्धुर‌म्¦व॒ह॒त॒¦अ॒भितः॑¦रथ᳚‌म्¦येन॑¦दे॒वासः॑¦अन॑यन्¦अ॒भि¦प्रि॒य‌म् ||

अश्म᳚न्वतीरीयते॒संर॑भध्व॒मुत्ति॑ष्ठत॒प्रत॑रतासखायः |{देवाः | अग्निः | त्रिष्टुप्}

अत्रा᳚जहाम॒ये,अस॒न्नशे᳚वाःशि॒वान्‌व॒यमुत्त॑रेमा॒भिवाजा॑न् || {8/11}{10.53.8}{10.4.11.8}{8.1.14.3}{543, 890, 9341}

अश्म॑न्ऽवती¦री॒य॒ते॒¦स‌म्¦र॒भ॒ध्व॒‌म्¦उत्¦ति॒ष्ठ॒त॒¦प्र¦त॒र॒त॒¦स॒खा॒यः॒ |
अत्र॑¦ज॒हा॒म॒¦ये¦अस॑न्¦अशे᳚वाः¦शि॒वान्¦व॒य‌म्¦उत्¦त॒रे॒म॒¦अ॒भि¦वाजा॑न् ||

त्वष्टा᳚मा॒यावे᳚द॒पसा᳚म॒पस्त॑मो॒बिभ्र॒त्पात्रा᳚देव॒पाना᳚नि॒शंत॑मा |{देवाः | अग्निः | जगती}

शिशी᳚तेनू॒नंप॑र॒शुंस्वा᳚य॒संयेन॑वृ॒श्चादेत॑शो॒ब्रह्म॑ण॒स्पतिः॑ || {9/11}{10.53.9}{10.4.11.9}{8.1.14.4}{544, 890, 9342}

त्वष्टा᳚¦मा॒या¦वे॒त्¦अ॒पसा᳚‌म्¦अ॒पःऽत॑मः¦बिभ्र॑त्¦पात्रा᳚¦दे॒व॒ऽपाना᳚नि¦श‌म्ऽत॑मा |
शिशी᳚ते¦नू॒न‌म्¦प॒र॒शु‌म्¦सु॒ऽआ॒य॒स‌म्¦येन॑¦वृ॒श्चात्¦एत॑शः¦ब्रह्म॑णः¦पतिः॑ ||

स॒तोनू॒नंक॑वयः॒संशि॑शीत॒वाशी᳚भि॒र्याभि॑र॒मृता᳚य॒तक्ष॑थ |{देवाः | अग्निः | जगती}

वि॒द्वांसः॑प॒दागुह्या᳚निकर्तन॒येन॑दे॒वासो᳚,अमृत॒त्वमा᳚न॒शुः || {10/11}{10.53.10}{10.4.11.10}{8.1.14.5}{545, 890, 9343}

स॒तः¦नू॒न‌म्¦क॒व॒यः॒¦स‌म्¦शि॒शी॒त॒¦वाशी᳚भिः¦याभिः॑¦अ॒मृता᳚य¦तक्ष॑थ |
वि॒द्वांसः॑¦प॒दा¦गुह्या᳚नि¦क॒र्त॒न॒¦येन॑¦दे॒वासः॑¦अ॒मृ॒त॒ऽत्व‌म्¦आ॒न॒शुः ||

गर्भे॒योषा॒मद॑धुर्व॒त्समा॒सन्य॑पी॒च्ये᳚न॒मन॑सो॒तजि॒ह्वया᳚ |{देवाः | अग्निः | जगती}

वि॒श्वाहा᳚सु॒मना᳚यो॒ग्या,अ॒भिसि॑षा॒सनि᳚र्वनतेका॒रइज्जिति᳚म् || {11/11}{10.53.11}{10.4.11.11}{8.1.14.6}{546, 890, 9344}

गर्भे᳚¦योषा᳚‌म्¦अद॑धुः¦व॒त्स‌म्¦आ॒सनि॑¦अ॒पी॒च्ये᳚न¦मन॑सा¦उ॒त¦जि॒ह्वया᳚ |
सः¦वि॒श्वाहा᳚¦सु॒ऽमनाः᳚¦यो॒ग्याः¦अ॒भि¦स॒सा॒सनिः॑¦व॒न॒ते॒¦का॒रः¦इत्¦जिति᳚‌म् ||

[54] तांसुतइति षडृचस्य सूक्तस्य वामदेव्यो बृहदुक्थ इंद्रस्त्रिष्टुप् |
तांसुते᳚की॒र्तिंम॑घवन्महि॒त्वायत्‌त्वा᳚भी॒तेरोद॑सी॒,अह्व॑येताम् |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

प्रावो᳚दे॒वाँ,आति॑रो॒दास॒मोजः॑प्र॒जायै᳚त्वस्यै॒यदशि॑क्षइन्द्र || {1/6}{10.54.1}{10.4.12.1}{8.1.15.1}{547, 891, 9345}

ता‌म्¦सु¦ते॒¦की॒र्ति‌म्¦म॒घ॒ऽव॒न्¦म॒हि॒ऽत्वा¦यत्¦त्वा॒¦भी॒ते इति॑¦रोद॑सी॒ इति॑¦अह्व॑येता‌म् |
प्र¦आ॒वः॒¦दे॒वान्¦आ¦अ॒ति॒रः॒¦दास᳚‌म्¦ओजः॑¦प्र॒ऽजायै᳚¦त्व॒स्यै॒¦यत्¦अशि॑क्षः¦इ॒न्द्र॒ ||

यदच॑रस्त॒न्वा᳚वावृधा॒नोबला᳚नीन्द्रप्रब्रुवा॒णोजने᳚षु |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

मा॒येत्साते॒यानि॑यु॒द्धान्या॒हुर्नाद्यशत्रुं᳚न॒नुपु॒रावि॑वित्से || {2/6}{10.54.2}{10.4.12.2}{8.1.15.2}{548, 891, 9346}

यत्¦अच॑रः¦त॒न्वा᳚¦व॒वृ॒धा॒नः¦बला᳚नि¦इ॒न्द्र॒¦प्र॒ऽब्रु॒वा॒णः¦जने᳚षु |
मा॒या¦इत्¦सा¦ते॒¦यानि॑¦यु॒द्धानि॑¦आ॒हुः¦न¦अ॒द्य¦शत्रु᳚‌म्¦न॒नु¦पु॒रा¦वि॒वि॒त्से॒ ||

उ॒नुते᳚महि॒मनः॑समस्या॒स्मत्पूर्व॒ऋष॒योऽन्त॑मापुः |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

यन्मा॒तरं᳚पि॒तरं᳚सा॒कमज॑नयथास्त॒न्व१॑(अः॒)स्वायाः᳚ || {3/6}{10.54.3}{10.4.12.3}{8.1.15.3}{549, 891, 9347}

के¦ऊँ॒ इति॑¦नु¦ते॒¦म॒हि॒मनः॑¦स॒म॒स्य॒¦अ॒स्मत्¦पूर्वे᳚¦ऋष॑यः¦अन्त᳚‌म्¦आ॒पुः॒ |
यत्¦मा॒तर᳚‌म्¦च॒¦पि॒तर᳚‌म्¦च॒¦सा॒क‌म्¦अज॑नयथाः¦त॒न्वः॑¦स्वायाः᳚ ||

च॒त्वारि॑ते,असु॒र्या᳚णि॒नामादा᳚भ्यानिमहि॒षस्य॑सन्ति |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

त्वम॒ङ्गतानि॒विश्वा᳚निवित्से॒येभिः॒कर्मा᳚णिमघवञ्च॒कर्थ॑ || {4/6}{10.54.4}{10.4.12.4}{8.1.15.4}{550, 891, 9348}

च॒त्वारि॑¦ते॒¦अ॒सु॒र्या᳚णि¦नाम॑¦अदा᳚भ्यानि¦म॒हि॒षस्य॑¦स॒न्ति॒ |
त्व‌म्¦अ॒ङ्ग¦तानि॑¦विश्वा᳚नि¦वि॒त्से॒¦येभिः॑¦कर्मा᳚णि¦म॒घ॒ऽव॒न्¦च॒कर्थ॑ ||

त्वंविश्वा᳚दधिषे॒केव॑लानि॒यान्या॒विर्याच॒गुहा॒वसू᳚नि |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

काम॒मिन्मे᳚मघव॒न्माविता᳚री॒स्त्वमा᳚ज्ञा॒तात्वमि᳚न्द्रासिदा॒ता || {5/6}{10.54.5}{10.4.12.5}{8.1.15.5}{551, 891, 9349}

त्व‌म्¦विश्वा᳚¦द॒धि॒षे॒¦केव॑लानि¦यानि॑¦आ॒विः¦या¦च॒¦गुहा᳚¦वसू᳚नि |
काम᳚‌म्¦इत्¦मे॒¦म॒घ॒ऽव॒न्¦मा¦वि¦ता॒रीः॒¦त्व‌म्¦आ॒ऽज्ञा॒ता¦त्व‌म्¦इ॒न्द्र॒¦अ॒सि॒¦दा॒ता ||

यो,अद॑धा॒ज्ज्योति॑षि॒ज्योति॑र॒न्तर्यो,असृ॑ज॒न्मधु॑ना॒संमधू᳚नि |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

अध॑प्रि॒यंशू॒षमिन्द्रा᳚य॒मन्म॑ब्रह्म॒कृतो᳚बृ॒हदु॑क्थादवाचि || {6/6}{10.54.6}{10.4.12.6}{8.1.15.6}{552, 891, 9350}

यः¦अद॑धात्¦ज्योति॑षि¦ज्योतिः॑¦अ॒न्तः¦यः¦असृ॑जत्¦मधु॑ना¦स‌म्¦मधू᳚नि |
अध॑¦प्रि॒य‌म्¦शू॒ष‌म्¦इन्द्रा᳚य¦मन्म॑¦ब्र॒ह्म॒ऽकृतः॑¦बृ॒हत्।औ᳚क्थात्¦अ॒वा॒चि॒ ||

[55] दूरेतदित्यष्टर्चस्य सूक्तस्य वामदेव्यो बृहदुक्थइंद्रत्रिष्टुप् |
दू॒रेतन्नाम॒गुह्यं᳚परा॒चैर्यत्‌त्वा᳚भी॒ते,अह्व॑येतांवयो॒धै |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

उद॑स्तभ्नाःपृथि॒वींद्याम॒भीके॒भ्रातुः॑पु॒त्रान्म॑घवन्तित्विषा॒णः || {1/8}{10.55.1}{10.4.13.1}{8.1.16.1}{553, 892, 9351}

दू॒रे¦तत्¦नाम॑¦गुह्य᳚‌म्¦प॒रा॒चैः¦यत्¦त्वा॒¦भी॒ते इति॑¦अह्व॑येता‌म्¦व॒यः॒ऽधै |
उत्¦अ॒स्त॒भ्नाः॒¦पृ॒थि॒वी‌म्¦द्या‌म्¦अ॒भीके᳚¦भ्रातुः॑¦पु॒त्रान्¦म॒घ॒ऽव॒न्¦ति॒त्वि॒षा॒णः ||

म॒हत्तन्नाम॒गुह्यं᳚पुरु॒स्पृग्येन॑भू॒तंज॒नयो॒येन॒भव्य᳚म् |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

प्र॒त्नंजा॒तंज्योति॒र्यद॑स्यप्रि॒यंप्रि॒याःसम॑विशन्त॒पञ्च॑ || {2/8}{10.55.2}{10.4.13.2}{8.1.16.2}{554, 892, 9352}

म॒हत्¦तत्¦नाम॑¦गुह्य᳚‌म्¦पु॒रु॒ऽस्पृक्¦येन॑¦भू॒त‌म्¦ज॒नयः॑¦येन॑¦भव्य᳚‌म् |
प्र॒त्न‌म्¦जा॒त‌म्¦ज्योतिः॑¦यत्¦अ॒स्य॒¦प्रि॒य‌म्¦प्रि॒याः¦स‌म्¦अ॒वि॒श॒न्त॒¦पंच॑ ||

रोद॑सी,अपृणा॒दोतमध्यं॒पञ्च॑दे॒वाँ,ऋ॑तु॒शःस॒प्तस॑प्त |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

चतु॑स्त्रिंशतापुरु॒धाविच॑ष्टे॒सरू᳚पेण॒ज्योति॑षा॒विव्र॑तेन || {3/8}{10.55.3}{10.4.13.3}{8.1.16.3}{555, 892, 9353}

आ¦रोद॑सी॒ इति॑¦अ॒पृ॒णा॒त्¦आ¦उ॒त¦मध्य᳚‌म्¦पंच॑¦दे॒वान्¦ऋ॒तु॒ऽशः¦स॒प्तऽस॑प्त |
चतुः॑ऽत्रिंशता¦पु॒रु॒धा¦वि¦च॒ष्टे॒¦सऽरू᳚पेण¦ज्योति॑षा¦विऽव्र॑तेन ||

यदु॑ष॒औच्छः॑प्रथ॒मावि॒भाना॒मज॑नयो॒येन॑पु॒ष्टस्य॑पु॒ष्टम् |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

यत्ते᳚जामि॒त्वमव॑रं॒पर॑स्याम॒हन्म॑ह॒त्या,अ॑सुर॒त्वमेक᳚म् || {4/8}{10.55.4}{10.4.13.4}{8.1.16.4}{556, 892, 9354}

यत्¦उ॒षः॒¦औच्छः॑¦प्र॒थ॒मा¦वि॒ऽभाना᳚‌म्¦अज॑नयः¦येन॑¦पु॒ष्टस्य॑¦पु॒ष्ट‌म् |
यत्¦ते॒¦जा॒मि॒ऽत्व‌म्¦अव॑र‌म्¦पर॑स्याः¦म॒हत्¦म॒ह॒त्याः¦अ॒सु॒र॒ऽत्व‌म्¦एक᳚‌म् ||

वि॒धुंद॑द्रा॒णंसम॑नेबहू॒नांयुवा᳚नं॒सन्तं᳚पलि॒तोज॑गार |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

दे॒वस्य॑पश्य॒काव्यं᳚महि॒त्वाद्याम॒मार॒ह्यःसमा᳚न || {5/8}{10.55.5}{10.4.13.5}{8.1.16.5}{557, 892, 9355}

वि॒धु‌म्¦द॒द्रा॒ण‌म्¦सम॑ने¦ब॒हू॒ना‌म्¦युवा᳚न‌म्¦सन्त᳚‌म्¦प॒लि॒तः¦ज॒गा॒र॒ |
दे॒वस्य॑¦प॒श्य॒¦काव्य᳚‌म्¦म॒हि॒ऽत्वा¦अ॒द्य¦म॒मार॑¦सः¦ह्यः¦स‌म्¦आ॒न॒ ||

शाक्म॑नाशा॒को,अ॑रु॒णःसु॑प॒र्णयोम॒हःशूरः॑स॒नादनी᳚ळः |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

यच्चि॒केत॑स॒त्यमित्तन्नमोघं॒वसु॑स्पा॒र्हमु॒तजेतो॒तदाता᳚ || {6/8}{10.55.6}{10.4.13.6}{8.1.17.1}{558, 892, 9356}

शाक्म॑ना¦शा॒कः¦अ॒रु॒णः¦सु॒ऽप॒र्णः¦आ¦यः¦म॒हः¦शूरः॑¦स॒नात्¦अनी᳚ळः |
यत्¦चि॒केत॑¦स॒त्य‌म्¦इत्¦तत्¦न¦मोघ᳚‌म्¦वसु॑¦स्पा॒र्ह‌म्¦उ॒त¦जेता᳚¦उ॒त¦दाता᳚ ||

ऐभि॑र्ददे॒वृष्ण्या॒पौंस्या᳚नि॒येभि॒रौक्ष॑द्वृत्र॒हत्या᳚यव॒ज्री |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

येकर्म॑णःक्रि॒यमा᳚णस्यम॒ह्नऋ॑तेक॒र्ममु॒दजा᳚यन्तदे॒वाः || {7/8}{10.55.7}{10.4.13.7}{8.1.17.2}{559, 892, 9357}

आ¦ए॒भिः॒¦द॒दे॒¦वृ॒ष्ण्या॒¦पौंस्या᳚नि¦येभिः॑¦औक्ष॑त्¦वृ॒त्र॒ऽहत्या᳚य¦व॒ज्री |
ये¦कर्म॑णः¦क्रि॒यमा᳚णस्य¦म॒ह्ना¦ऋ॒ते॒ऽक॒र्म‌म्¦उ॒त्।आजा᳚यन्त¦दे॒वाः ||

यु॒जाकर्मा᳚णिज॒नय᳚न्‌वि॒श्वौजा᳚,अशस्ति॒हावि॒श्वम॑नास्तुरा॒षाट् |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

पी॒त्वीसोम॑स्यदि॒ववृ॑धा॒नःशूरो॒निर्यु॒धाध॑म॒द्दस्यू॑न् || {8/8}{10.55.8}{10.4.13.8}{8.1.17.3}{560, 892, 9358}

यु॒जा¦कर्मा᳚णि¦ज॒नय॑न्¦वि॒श्वाऽओ᳚जाः¦अ॒श॒स्ति॒ऽहा¦वि॒श्वऽम॑नाः¦तु॒रा॒षाट् |
पी॒त्वी¦सोम॑स्य¦दि॒वः¦आ¦वृ॒धा॒नः¦शूरः॑¦निः¦यु॒धा¦अ॒ध॒म॒त्¦दस्यू॑न् ||

[56] इदंतइति सप्तर्चस्य सूक्तस्य वामदेव्यो बृहदुक्थो विश्वेदेवास्त्रिष्टुप्‌ चतुर्थ्यादितिस्रोजगत्यः |
इ॒दंत॒एकं᳚प॒रऊ᳚त॒एकं᳚तृ॒तीये᳚न॒ज्योति॑षा॒संवि॑शस्व |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | त्रिष्टुप्}

सं॒वेश॑नेत॒न्व१॑(अ॒)श्चारु॑रेधिप्रि॒योदे॒वानां᳚पर॒मेज॒नित्रे᳚ || {1/7}{10.56.1}{10.4.14.1}{8.1.18.1}{561, 893, 9359}

इ॒द‌म्¦ते॒¦एक᳚‌म्¦प॒रः¦ऊँ॒ इति॑¦ते॒¦एक᳚‌म्¦तृ॒तीये᳚न¦ज्योति॑षा¦स‌म्¦वि॒श॒स्व॒ |
स॒‌म्ऽवेश॑ने¦त॒न्वः॑¦चारुः॑¦ए॒धि॒¦प्रि॒यः¦दे॒वाना᳚‌म्¦प॒र॒मे¦ज॒नित्रे᳚ ||

त॒नूष्टे᳚वाजिन्त॒न्व१॑(अं॒)नय᳚न्तीवा॒मम॒स्मभ्यं॒धातु॒शर्म॒तुभ्य᳚म् |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | त्रिष्टुप्}

अह्रु॑तोम॒होध॒रुणा᳚यदे॒वान्दि॒वी᳚व॒ज्योतिः॒स्वमामि॑मीयाः || {2/7}{10.56.2}{10.4.14.2}{8.1.18.2}{562, 893, 9360}

त॒नूः¦ते॒¦वा॒जि॒न्¦त॒न्व᳚‌म्¦नय᳚न्ती¦वा॒म‌म्¦अ॒स्मभ्य᳚‌म्¦धातु॑¦शर्म॑¦तुभ्य᳚‌म् |
अह्रु॑तः¦म॒हः¦ध॒रुणा᳚य¦दे॒वान्¦दि॒विऽ‌इ᳚व¦ज्योतिः॑¦स्व‌म्¦आ¦मि॒मी॒याः॒ ||

वा॒ज्य॑सि॒वाजि॑नेनासुवे॒नीःसु॑वि॒तःस्तोमं᳚सुवि॒तोदिवं᳚गाः |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | त्रिष्टुप्}

सु॒वि॒तोधर्म॑प्रथ॒मानु॑स॒त्यासु॑वि॒तोदे॒वान्‌त्सु॑वि॒तोऽनु॒पत्म॑ || {3/7}{10.56.3}{10.4.14.3}{8.1.18.3}{563, 893, 9361}

वा॒जी¦अ॒सि॒¦वाजि॑नेन¦सु॒ऽवे॒नीः¦सु॒वि॒तः¦स्तोम᳚‌म्¦सु॒वि॒तः¦दिव᳚‌म्¦गाः॒ |
सु॒वि॒तः¦धर्म॑¦प्र॒थ॒मा¦अनु॑¦स॒त्या¦सु॒वि॒तः¦दे॒वान्¦सु॒वि॒तः¦अनु॑¦पत्म॑ ||

म॒हि॒म्नए᳚षांपि॒तर॑श्च॒नेशि॑रेदे॒वादे॒वेष्व॑दधु॒रपि॒क्रतु᳚म् |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | जगती}

सम॑विव्यचुरु॒तयान्यत्वि॑षु॒रैषां᳚त॒नूषु॒निवि॑विशुः॒पुनः॑ || {4/7}{10.56.4}{10.4.14.4}{8.1.18.4}{564, 893, 9362}

म॒हि॒म्नः¦ए॒षा॒‌म्¦पि॒तरः॑¦च॒न¦ई॒शि॒रे॒¦दे॒वाः¦दे॒वेषु॑¦अ॒द॒धुः॒¦अपि॑¦क्रतु᳚‌म् |
स‌म्¦अ॒वि॒व्य॒चुः॒¦उ॒त¦यानि॑¦अत्वि॑षुः¦आ¦ए॒षा॒‌म्¦त॒नूषु॑¦नि¦वि॒वि॒शुः॒¦पुन॒रिति॑ ||

सहो᳚भि॒र्विश्वं॒परि॑चक्रमू॒रजः॒पूर्वा॒धामा॒न्यमि॑ता॒मिमा᳚नाः |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | जगती}

त॒नूषु॒विश्वा॒भुव॑ना॒निये᳚मिरे॒प्रासा᳚रयन्तपुरु॒धप्र॒जा,अनु॑ || {5/7}{10.56.5}{10.4.14.5}{8.1.18.5}{565, 893, 9363}

सहः॑ऽभिः¦विश्व᳚‌म्¦परि॑¦च॒क्र॒मुः॒¦रजः॑¦पूर्वा᳚¦धा॒मानि॑¦अमि॑ता¦मिमा᳚नाः |
त॒नूषु॑¦विश्वा᳚¦भुव॑ना¦नि¦ये॒मि॒रे॒¦प्र¦अ॒सा॒र॒य॒न्त॒¦पु॒रु॒ध¦प्र॒ऽजाः¦अनु॑ ||

द्विधा᳚सू॒नवोऽसु॑रंस्व॒र्विद॒मास्था᳚पयन्ततृ॒तीये᳚न॒कर्म॑णा |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | जगती}

स्वांप्र॒जांपि॒तरः॒पित्र्यं॒सह॒आव॑रेष्वदधु॒स्तन्तु॒मात॑तम् || {6/7}{10.56.6}{10.4.14.6}{8.1.18.6}{566, 893, 9364}

द्विधा᳚¦सू॒नवः॑¦असु॑र‌म्¦स्वः॒ऽविद᳚‌म्¦आ¦अ॒स्था॒प॒य॒न्त॒¦तृ॒तीये᳚न¦कर्म॑णा |
स्वा‌म्¦प्र॒ऽजा‌म्¦पि॒तरः॑¦पित्र्य᳚‌म्¦सहः॑¦आ¦अव॑रेषु¦अ॒द॒धुः॒¦तन्तु᳚‌म्¦आऽत॑त‌म् ||

ना॒वाक्षोदः॑प्र॒दिशः॑पृथि॒व्याःस्व॒स्तिभि॒रति॑दु॒र्गाणि॒विश्वा᳚ |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | त्रिष्टुप्}

स्वांप्र॒जांबृ॒हदु॑क्थोमहि॒त्वाव॑रेष्वदधा॒दापरे᳚षु || {7/7}{10.56.7}{10.4.14.7}{8.1.18.7}{567, 893, 9365}

ना॒वा¦न¦क्षोदः॑¦प्र॒ऽदिशः॑¦पृ॒थि॒व्याः¦स्व॒स्तिऽभिः॑¦अति॑¦दुः॒ऽगानि॑¦विश्वा᳚ |
स्वा‌म्¦प्र॒ऽजा‌म्¦बृ॒हत्।औ᳚क्थः¦म॒हि॒ऽत्वा¦आ¦अव॑रेषु¦अ॒द॒धा॒त्¦आ¦परे᳚षु ||

[57] माप्रगामेति षडृचस्य सूक्तस्य गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुर्विश्वेदेवागायत्री | (भेदपक्षे - इंद्रः १ अग्निस्तंतुः १ विश्वेदेवाः ३ सोमः १ एवं ६ माप्रगामेति सूक्तानां बंध्वाध्याऋषयइत्यार्षानुक्रमण्यां शौनकः) | (अत्रैषांगौपायनत्वमेवनलौपायनत्वं तथासुबंधोर्लोपश्च सर्वा । भा। ) |
माप्रगा᳚मप॒थोव॒यंमाय॒ज्ञादि᳚न्द्रसो॒मिनः॑ |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री}

मान्तःस्थु᳚र्नो॒,अरा᳚तयः || {1/6}{10.57.1}{10.4.15.1}{8.1.19.1}{568, 894, 9366}

मा¦प्र¦गा॒म॒¦प॒थः¦व॒य‌म्¦मा¦य॒ज्ञात्¦इ॒न्द्र॒¦सो॒मिनः॑ | मा¦अ॒न्तरिति॑¦स्थुः॒¦नः॒¦अरा᳚तयः ||

योय॒ज्ञस्य॑प्र॒साध॑न॒स्तन्तु॑र्दे॒वेष्वात॑तः |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री}

तमाहु॑तंनशीमहि || {2/6}{10.57.2}{10.4.15.2}{8.1.19.2}{569, 894, 9367}

यः¦य॒ज्ञस्य॑¦प्र॒ऽसाध॑नः¦तन्तुः॑¦दे॒वेषु॑¦आऽत॑तः | त‌म्¦आऽहु॑त‌म्¦न॒शी॒म॒हि॒ ||

मनो॒न्वाहु॑वामहेनाराशं॒सेन॒सोमे᳚न |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री}

पि॒तॄ॒णांच॒मन्म॑भिः || {3/6}{10.57.3}{10.4.15.3}{8.1.19.3}{570, 894, 9368}

मनः॑¦नु¦आ¦हु॒वा॒म॒हे॒¦ना॒रा॒शं॒सेन॑¦सोमे᳚न | पि॒तॄ॒णा‌म्¦च॒¦मन्म॑ऽभिः ||

त॑एतु॒मनः॒पुनः॒क्रत्वे॒दक्षा᳚यजी॒वसे᳚ |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री}

ज्योक्च॒सूर्यं᳚दृ॒शे || {4/6}{10.57.4}{10.4.15.4}{8.1.19.4}{571, 894, 9369}

आ¦ते॒¦ए॒तु॒¦मनः॑¦पुन॒रिति॑¦क्रत्वे᳚¦दक्षा᳚य¦जी॒वसे᳚ | ज्योक्¦च॒¦सूर्य᳚‌म्¦दृ॒शे ||

पुन᳚र्नःपितरो॒मनो॒ददा᳚तु॒दैव्यो॒जनः॑ |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री}

जी॒वंव्रातं᳚सचेमहि || {5/6}{10.57.5}{10.4.15.5}{8.1.19.5}{572, 894, 9370}

पुनः॑¦नः॒¦पि॒त॒रः॒¦मनः॑¦ददा᳚तु¦दैव्यः॑¦जनः॑ | जी॒व‌म्¦व्रात᳚‌म्¦स॒चे॒म॒हि॒ ||

व॒यंसो᳚मव्र॒तेतव॒मन॑स्त॒नूषु॒बिभ्र॑तः |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री}

प्र॒जाव᳚न्तःसचेमहि || {6/6}{10.57.6}{10.4.15.6}{8.1.19.6}{573, 894, 9371}

व॒य‌म्¦सो॒म॒¦व्र॒ते¦तव॑¦मनः॑¦त॒नूषु॑¦बिभ्र॑तः | प्र॒जाऽव᳚न्तः¦स॒चे॒म॒हि॒ ||

[58] यत्तेयममिति द्वादशर्चस्य सूक्तस्य गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुर्मनोनुष्टुप् |
यत्ते᳚य॒मंवै᳚वस्व॒तंमनो᳚ज॒गाम॑दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒व॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || {1/12}{10.58.1}{10.4.16.1}{8.1.20.1}{574, 895, 9372}

यत्¦ते॒¦य॒म‌म्¦वै॒व॒स्व॒त‌म्¦मनः॑¦ज॒गाम॑¦दू॒र॒क‌म् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ ||

यत्ते॒दिवं॒यत्‌पृ॑थि॒वींमनो᳚ज॒गाम॑दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒व॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || {2/12}{10.58.2}{10.4.16.2}{8.1.20.2}{575, 895, 9373}

यत्¦ते॒¦दिव᳚‌म्¦यत्¦पृ॒थि॒वी‌म्¦मनः॑¦ज॒गाम॑¦दू॒र॒क‌म् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ ||

यत्ते॒भूमिं॒चतु॑र्भृष्टिं॒मनो᳚ज॒गाम॑दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒व॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || {3/12}{10.58.3}{10.4.16.3}{8.1.20.3}{576, 895, 9374}

यत्¦ते॒¦भूमि᳚‌म्¦चतुः॑ऽभृष्टि‌म्¦मनः॑¦ज॒गाम॑¦दू॒र॒क‌म् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ ||

यत्ते॒चत॑स्रःप्र॒दिशो॒मनो᳚ज॒गाम॑दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒व॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || {4/12}{10.58.4}{10.4.16.4}{8.1.20.4}{577, 895, 9375}

यत्¦ते॒¦चत॑स्रः¦प्र॒ऽदिशः॑¦मनः॑¦ज॒गाम॑¦दू॒र॒क‌म् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ ||

यत्ते᳚समु॒द्रम᳚र्ण॒वंमनो᳚ज॒गाम॑दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒व॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || {5/12}{10.58.5}{10.4.16.5}{8.1.20.5}{578, 895, 9376}

यत्¦ते॒¦स॒मु॒द्र‌म्¦अ॒र्ण॒व‌म्¦मनः॑¦ज॒गाम॑¦दू॒र॒क‌म् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ ||

यत्ते॒मरी᳚चीःप्र॒वतो॒मनो᳚ज॒गाम॑दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒व॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || {6/12}{10.58.6}{10.4.16.6}{8.1.20.6}{579, 895, 9377}

यत्¦ते॒¦मरी᳚चीः¦प्र॒ऽवतः॑¦मनः॑¦ज॒गाम॑¦दू॒र॒क‌म् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ ||

यत्ते᳚,अ॒पोयदोष॑धी॒र्मनो᳚ज॒गाम॑दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒व॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || {7/12}{10.58.7}{10.4.16.7}{8.1.21.1}{580, 895, 9378}

यत्¦ते॒¦अ॒पः¦यत्¦ओष॑धीः¦मनः॑¦ज॒गाम॑¦दू॒र॒क‌म् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ ||

यत्ते॒सूर्यं॒यदु॒षसं॒मनो᳚ज॒गाम॑दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒व॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || {8/12}{10.58.8}{10.4.16.8}{8.1.21.2}{581, 895, 9379}

यत्¦ते॒¦सूर्य᳚‌म्¦यत्¦उ॒षस᳚‌म्¦मनः॑¦ज॒गाम॑¦दू॒र॒क‌म् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ ||

यत्ते॒पर्व॑तान्‌बृह॒तोमनो᳚ज॒गाम॑दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒व॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || {9/12}{10.58.9}{10.4.16.9}{8.1.21.3}{582, 895, 9380}

यत्¦ते॒¦पर्व॑तान्¦बृ॒ह॒तः¦मनः॑¦ज॒गाम॑¦दू॒र॒क‌म् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ ||

यत्ते॒विश्व॑मि॒दंजग॒न्मनो᳚ज॒गाम॑दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒व॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || {10/12}{10.58.10}{10.4.16.10}{8.1.21.4}{583, 895, 9381}

यत्¦ते॒¦विश्व᳚‌म्¦इ॒द‌म्¦जग॑त्¦मनः॑¦ज॒गाम॑¦दू॒र॒क‌म् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ ||

यत्ते॒पराः᳚परा॒वतो॒मनो᳚ज॒गाम॑दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒व॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || {11/12}{10.58.11}{10.4.16.11}{8.1.21.5}{584, 895, 9382}

यत्¦ते॒¦पराः᳚¦प॒रा॒ऽवतः॑¦मनः॑¦ज॒गाम॑¦दू॒र॒क‌म् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ ||

यत्ते᳚भू॒तंच॒भव्यं᳚च॒मनो᳚ज॒गाम॑दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒व॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || {12/12}{10.58.12}{10.4.16.12}{8.1.21.6}{585, 895, 9383}

यत्¦ते॒¦भू॒त‌म्¦च॒¦भव्य᳚‌म्¦च॒¦मनः॑¦ज॒गाम॑¦दू॒र॒क‌म् | तत्¦ते॒¦आ¦व॒र्त॒या॒म॒सि॒¦इ॒ह¦क्षया᳚य¦जी॒वसे᳚ ||

[59] प्रतार्यायुरिति दशर्चस्य सूक्तस्य गौपायनाबंध्वादय ऋषयः आद्यानांचतसृणां निरृतिर्देवता चतुर्थ्यानिरृतिसोमौ पंचमीषष्ठयोरसुनीतिदेवी सप्तम्याः पृथिवीद्यावंतरिक्षसोमपूषपथ्यास्वस्तयोदेवताः अंत्यानांतिसृणां द्यावापृथिव्यौत्रिष्टुप् अंत्यार्धर्चस्येंद्रः अंत्यास्तिस्रःक्रमेणपंक्तिमहा पंक्तिपंक्त्युत्तराः ।
प्रता॒र्यायुः॑प्रत॒रंनवी᳚यः॒स्थाता᳚रेव॒क्रतु॑मता॒रथ॑स्य |{गौपायना बंध्वादयः | निरृतिः | त्रिष्टुप्}

अध॒च्यवा᳚न॒उत्त॑वी॒त्यर्थं᳚परात॒रंसुनिरृ॑तिर्जिहीताम् || {1/10}{10.59.1}{10.4.17.1}{8.1.22.1}{586, 896, 9384}

प्र¦ता॒रि॒¦आयुः॑¦प्र॒ऽत॒र‌म्¦नवी᳚यः¦स्थाता᳚राऽ‌इव¦क्रतु॑ऽमता¦रथ॑स्य |
अध॑¦च्यवा᳚नः¦उत्¦त॒वी॒ति॒¦अर्थ᳚‌म्¦प॒रा॒ऽत॒र‌म्¦सु¦निःऽऋ॑तिः¦जि॒ही॒ता॒‌म् ||

साम॒न्नुरा॒येनि॑धि॒मन्न्वन्नं॒करा᳚महे॒सुपु॑रु॒धश्रवां᳚सि |{गौपायना बंध्वादयः | निरृतिः | त्रिष्टुप्}

तानो॒विश्वा᳚निजरि॒ताम॑मत्तुपरात॒रंसुनिरृ॑तिर्जिहीताम् || {2/10}{10.59.2}{10.4.17.2}{8.1.22.2}{587, 896, 9385}

साम॑न्¦नु¦रा॒ये¦नि॒धि॒ऽमत्¦नु¦अन्न᳚‌म्¦करा᳚महे¦सु¦पु॒रु॒ध¦श्रवां᳚सि |
ता¦नः॒¦विश्वा᳚नि¦ज॒रि॒ता¦म॒म॒त्तु॒¦प॒रा॒ऽत॒र‌म्¦सु¦निःऽऋ॑तिः¦जि॒ही॒ता॒‌म् ||

अ॒भीष्व१॑(अ॒)र्यःपौंस्यै᳚र्भवेम॒द्यौर्नभूमिं᳚गि॒रयो॒नाज्रा॑न् |{गौपायना बंध्वादयः | निरृतिः | त्रिष्टुप्}

तानो॒विश्वा᳚निजरि॒ताचि॑केतपरात॒रंसुनिरृ॑तिर्जिहीताम् || {3/10}{10.59.3}{10.4.17.3}{8.1.22.3}{588, 896, 9386}

अ॒भि¦सु¦अ॒र्यः¦पौंस्यैः᳚¦भ॒वे॒म॒¦द्यौः¦न¦भूमि᳚‌म्¦गि॒रयः॑¦न¦अज्रा॑न् |
ता¦नः॒¦विश्वा᳚नि¦ज॒रि॒ता¦चि॒के॒त॒¦प॒रा॒ऽत॒र‌म्¦सु¦निःऽऋ॑तिः¦जि॒ही॒ता॒‌म् ||

मोषुणः॑सोममृ॒त्यवे॒परा᳚दाः॒पश्ये᳚म॒नुसूर्य॑मु॒च्चर᳚न्तम् |{गौपायना बंध्वादयः | निरृतिः सोमाश्च | त्रिष्टुप्}

द्युभि᳚र्हि॒तोज॑रि॒मासूनो᳚,अस्तुपरात॒रंसुनिरृ॑तिर्जिहीताम् || {4/10}{10.59.4}{10.4.17.4}{8.1.22.4}{589, 896, 9387}

मो इति॑¦सु¦नः॒¦सो॒म॒¦मृ॒त्यवे᳚¦परा᳚¦दाः॒¦पश्ये᳚म¦नु¦सूर्य᳚‌म्¦उ॒त्ऽचर᳚न्त‌म् |
द्युऽभिः॑¦हि॒तः¦ज॒रि॒मा¦सु¦नः॒¦अ॒स्तु॒¦प॒रा॒ऽत॒र‌म्¦सु¦निःऽऋ॑तिः¦जि॒ही॒ता॒‌म् ||

असु॑नीते॒मनो᳚,अ॒स्मासु॑धारयजी॒वात॑वे॒सुप्रति॑रान॒आयुः॑ |{गौपायना बंध्वादयः | असुनीतिः | त्रिष्टुप्}

रा॒र॒न्धिनः॒सूर्य॑स्यसं॒दृशि॑घृ॒तेन॒त्वंत॒न्वं᳚वर्धयस्व || {5/10}{10.59.5}{10.4.17.5}{8.1.22.5}{590, 896, 9388}

असु॑ऽनीते¦मनः॑¦अ॒स्मासु॑¦धा॒र॒य॒¦जी॒वात॑वे¦सु¦प्र¦ति॒र॒¦नः॒¦आयुः॑ |
र॒र॒न्धि¦नः॒¦सूर्य॑स्य¦स॒‌म्ऽदृशि॑¦घृ॒तेन॑¦त्व‌म्¦त॒न्व᳚‌म्¦व॒र्ध॒य॒स्व॒ ||

असु॑नीते॒पुन॑र॒स्मासु॒चक्षुः॒पुनः॑प्रा॒णमि॒हनो᳚धेहि॒भोग᳚म् |{गौपायना बंध्वादयः | असुनीतिः | त्रिष्टुप्}

ज्योक्प॑श्येम॒सूर्य॑मु॒च्चर᳚न्त॒मनु॑मतेमृ॒ळया᳚नःस्व॒स्ति || {6/10}{10.59.6}{10.4.17.6}{8.1.23.1}{591, 896, 9389}

असु॑ऽनीते¦पुनः॑¦अ॒स्मासु॑¦चक्षुः॑¦पुन॒रिति॑¦प्रा॒ण‌म्¦इ॒ह¦नः॒¦धे॒हि॒¦भोग᳚‌म् |
ज्योक्¦प॒श्ये॒म॒¦सूर्य᳚‌म्¦उ॒त्ऽचर᳚न्त‌म्¦अनु॑ऽमते¦मृ॒ळय॑¦नः॒¦स्व॒स्ति ||

पुन᳚र्नो॒,असुं᳚पृथि॒वीद॑दातु॒पुन॒र्द्यौर्दे॒वीपुन॑र॒न्तरि॑क्षम् |{गौपायना बंध्वादयः | पृथिवीद्यावंतरिक्षसोमपूषपथ्यास्वस्तयोदेवताः | त्रिष्टुप्}

पुन᳚र्नः॒सोम॑स्त॒न्वं᳚ददातु॒पुनः॑पू॒षाप॒थ्या॒३॑(आं॒)यास्व॒स्तिः || {7/10}{10.59.7}{10.4.17.7}{8.1.23.2}{592, 896, 9390}

पुनः॑¦नः॒¦असु᳚‌म्¦पृ॒थि॒वी¦द॒दा॒तु॒¦पुनः॑¦द्यौः¦दे॒वी¦पुनः॑¦अ॒न्तरि॑क्ष‌म् |
पुनः॑¦नः॒¦सोमः॑¦त॒न्व᳚‌म्¦द॒दा॒तु॒¦पुन॒रिति॑¦पू॒षा¦प॒थ्या᳚‌म्¦या¦स्व॒स्तिः ||

शंरोद॑सीसु॒बन्ध॑वेय॒ह्वी,ऋ॒तस्य॑मा॒तरा᳚ |{गौपायना बंध्वादयः | द्यावापृथिव्यौ | पङ्क्ति}

भर॑ता॒मप॒यद्रपो॒द्यौःपृ॑थिविक्ष॒मारपो॒मोषुते॒किंच॒नाम॑मत् || {8/10}{10.59.8}{10.4.17.8}{8.1.23.3}{593, 896, 9391}

श‌म्¦रोद॑सी॒ इति॑¦सु॒ऽबन्ध॑वे¦य॒ह्वी इति॑¦ऋ॒तस्य॑¦मा॒तरा᳚ |
भर॑ता‌म्¦अप॑¦यत्¦रपः॑¦द्यौः¦पृ॒थि॒वि॒¦क्ष॒मा¦रपः॑¦मो इति॑¦सु¦ते॒¦कि‌म्¦च॒न¦आ॒म॒म॒त् ||

अव॑द्व॒के,अव॑त्रि॒कादि॒वश्च॑रन्तिभेष॒जा |{गौपायना बंध्वादयः | द्यावापृथिव्यौ | महापङ्क्तिः}

क्ष॒माच॑रि॒ष्ण्वे᳚क॒कंभर॑ता॒मप॒यद्रपो॒द्यौःपृ॑थिविक्ष॒मारपो॒मोषुते॒किंच॒नाम॑मत् || {9/10}{10.59.9}{10.4.17.9}{8.1.23.4}{594, 896, 9392}

अव॑¦द्व॒के इति॑¦अव॑¦त्रि॒का¦दि॒वः¦च॒र॒न्ति॒¦भे॒ष॒जा |
क्ष॒मा¦च॒रि॒ष्णु॒¦ए॒क॒क‌म्¦भर॑ता‌म्¦अप॑¦यत्¦रपः॑¦द्यौः¦पृ॒थि॒वि॒¦क्ष॒मा¦रपः॑¦मो इति॑¦सु¦ते॒¦कि‌म्¦च॒न¦आ॒म॒म॒त् ||

समि᳚न्द्रेरय॒गाम॑न॒ड्वाहं॒आव॑हदुशी॒नरा᳚ण्या॒,अनः॑ |{गौपायना बंध्वादयः | द्यावापृथिव्यौ, इंद्रः | पंक्त्युत्तराः}

भर॑ता॒मप॒यद्रपो॒द्यौःपृ॑थिविक्ष॒मारपो॒मोषुते॒किंच॒नाम॑मत् || {10/10}{10.59.10}{10.4.17.10}{8.1.23.5}{595, 896, 9393}

स‌म्¦इ॒न्द्र॒¦ई॒र॒य॒¦गा‌म्¦अ॒न॒ड्वाह᳚‌म्¦यः¦आ¦अव॑हत्¦उ॒शी॒नरा᳚ण्याः¦अनः॑ |
भर॑ता‌म्¦अप॑¦यत्¦रपः॑¦द्यौः¦पृ॒थि॒वि॒¦क्ष॒मा¦रपः॑¦मो इति॑¦सु¦ते॒¦कि‌म्¦च॒न¦आ॒म॒म॒त् ||

[60] आजमिति द्वादशर्चस्य सूक्तस्य गौपायनाबंध्वादय ऋषयः षष्ठ्याअगस्त्यस्वसा ऋषिका आद्यानांचतसृणांषष्ठ्याश्च समातिर्देवता पंचम्याइंद्रः सप्तम्यादिपंचानांजीवः द्वादश्याहस्तोऽनुष्टुप् आद्याःपंचगायत्र्यः अष्टमीनवम्यौपंक्ती |
जनं᳚त्वे॒षसं᳚दृशं॒माही᳚नाना॒मुप॑स्तुतम् |{गौपायना बंध्वादयः | समातिर्देवता | गायत्री}

अग᳚न्म॒बिभ्र॑तो॒नमः॑ || {1/12}{10.60.1}{10.4.18.1}{8.1.24.1}{596, 897, 9394}

आ¦जन᳚‌म्¦त्वे॒षऽस᳚न्दृश‌म्¦माही᳚नाना‌म्¦उप॑ऽस्तुत‌म् | अग᳚न्म¦बिभ्र॑तः¦नमः॑ ||

अस॑मातिंनि॒तोश॑नंत्वे॒षंनि॑य॒यिनं॒रथ᳚म् |{गौपायना बंध्वादयः | समातिर्देवता | गायत्री}

भ॒जेर॑थस्य॒सत्प॑तिम् || {2/12}{10.60.2}{10.4.18.2}{8.1.24.2}{597, 897, 9395}

अस॑माति‌म्¦नि॒ऽतोश॑न‌म्¦त्वे॒ष‌म्¦नि॒ऽय॒यिन᳚‌म्¦रथ᳚‌म् | भ॒जेऽर॑थस्य¦सत्ऽप॑ति‌म् ||

योजना᳚न्महि॒षाँ,इ॑वातित॒स्थौपवी᳚रवान् |{गौपायना बंध्वादयः | समातिर्देवता | गायत्री}

उ॒ताप॑वीरवान्‌यु॒धा || {3/12}{10.60.3}{10.4.18.3}{8.1.24.3}{598, 897, 9396}

यः¦जना᳚न्¦म॒हि॒षान्ऽ‌इ᳚व¦अ॒ति॒ऽत॒स्थौ¦पवी᳚रवान् | उ॒त¦अप॑वीरवान्¦यु॒धा ||

यस्ये᳚क्ष्वा॒कुरुप᳚व्र॒तेरे॒वान्‌म॑रा॒य्येध॑ते |{गौपायना बंध्वादयः | समातिर्देवता | गायत्री}

दि॒वी᳚व॒पञ्च॑कृ॒ष्टयः॑ || {4/12}{10.60.4}{10.4.18.4}{8.1.24.4}{599, 897, 9397}

यस्य॑¦इ॒क्ष्वा॒कुः¦उप॑¦व्र॒ते¦रे॒वान्¦म॒रा॒यी¦एध॑ते | दि॒विऽ‌इ᳚व¦पंच॑¦कृ॒ष्टयः॑ ||

इन्द्र॑क्ष॒त्रास॑मातिषु॒रथ॑प्रोष्ठेषुधारय |{गौपायना बंध्वादयः | इन्द्रः | गायत्री}

दि॒वी᳚व॒सूर्यं᳚दृ॒शे || {5/12}{10.60.5}{10.4.18.5}{8.1.24.5}{600, 897, 9398}

इन्द्र॑¦क्ष॒त्रा¦अस॑मातिषु¦रथ॑ऽप्रोष्ठेषु¦धा॒र॒य॒ | दि॒विऽ‌इ᳚व¦सूर्य᳚‌म्¦दृ॒शे ||

अ॒गस्त्य॑स्य॒नद्भ्यः॒सप्ती᳚युनक्षि॒रोहि॑ता |{अगस्त्यस्वसा | समातिर्देवता | अनुष्टुप्}

प॒णीन्न्य॑क्रमीर॒भिविश्वा᳚न्‌राजन्नरा॒धसः॑ || {6/12}{10.60.6}{10.4.18.6}{8.1.24.6}{601, 897, 9399}

अ॒गस्त्य॑स्य¦नत्ऽभ्यः॑¦सप्ती॒ इति॑¦यु॒न॒क्षि॒¦रोहि॑ता | प॒णीन्¦नि¦अ॒क्र॒मीः॒¦अ॒भि¦विश्वा᳚न्¦रा॒ज॒न्¦अ॒रा॒धसः॑ ||

अ॒यंमा॒तायंपि॒तायंजी॒वातु॒राग॑मत् |{गौपायना बंध्वादयः | जीवः | अनुष्टुप्}

इ॒दंतव॑प्र॒सर्प॑णं॒सुब᳚न्ध॒वेहि॒निरि॑हि || {7/12}{10.60.7}{10.4.18.7}{8.1.25.1}{602, 897, 9400}

अ॒य‌म्¦मा॒ता¦अ॒य‌म्¦पि॒ता¦अ॒य‌म्¦जी॒वातुः॑¦आ¦अ॒ग॒म॒त् | इ॒द‌म्¦तव॑¦प्र॒ऽसर्प॑ण‌म्¦सुब᳚न्धो॒ इति॒ सुऽब᳚न्धो¦आ¦इ॒हि॒¦निः¦इ॒हि॒ ||

यथा᳚यु॒गंव॑र॒त्रया॒नह्य᳚न्तिध॒रुणा᳚य॒कम् |{गौपायना बंध्वादयः | जीवः | पङ्क्तिः}

ए॒वादा᳚धारते॒मनो᳚जी॒वात॑वे॒मृ॒त्यवेऽथो᳚,अरि॒ष्टता᳚तये || {8/12}{10.60.8}{10.4.18.8}{8.1.25.2}{603, 897, 9401}

यथा᳚¦यु॒ग‌म्¦व॒र॒त्रया᳚¦नह्य᳚न्ति¦ध॒रुणा᳚य¦क‌म् |
ए॒व¦दा॒धा॒र॒¦ते॒¦मनः॑¦जी॒वात॑वे¦न¦मृ॒त्यवे᳚¦अथो॒ इति॑¦अ॒रि॒ष्टऽता᳚तये ||

यथे॒यंपृ॑थि॒वीम॒हीदा॒धारे॒मान्वन॒स्पती॑न् |{गौपायना बंध्वादयः | जीवः | पङ्क्तिः}

ए॒वादा᳚धारते॒मनो᳚जी॒वात॑वे॒मृ॒त्यवेऽथो᳚,अरि॒ष्टता᳚तये || {9/12}{10.60.9}{10.4.18.9}{8.1.25.3}{604, 897, 9402}

यथा᳚¦इ॒य‌म्¦पृ॒थि॒वी¦म॒ही¦दा॒धार॑¦इ॒मान्¦वन॒स्पती॑न् |
ए॒व¦दा॒धा॒र॒¦ते॒¦मनः॑¦जी॒वात॑वे¦न¦मृ॒त्यवे᳚¦अथो॒ इति॑¦अ॒रि॒ष्टऽता᳚तये ||

य॒माद॒हंवै᳚वस्व॒तात्सु॒बन्धो॒र्मन॒आभ॑रम् |{गौपायना बंध्वादयः | जीवः | अनुष्टुप्}

जी॒वात॑वे॒मृ॒त्यवेऽथो᳚,अरि॒ष्टता᳚तये || {10/12}{10.60.10}{10.4.18.10}{8.1.25.4}{605, 897, 9403}

य॒मात्¦अ॒ह‌म्¦वै॒व॒स्व॒तात्¦सु॒ऽबन्धोः᳚¦मनः॑¦आ¦अ॒भ॒र॒‌म् | जी॒वात॑वे¦न¦मृ॒त्यवे᳚¦अथो॒ इति॑¦अ॒रि॒ष्टऽता᳚तये ||

न्य१॑(अ॒)ग्वातोऽव॑वाति॒न्य॑क्तपति॒सूर्यः॑ |{गौपायना बंध्वादयः | जीवः | अनुष्टुप्}

नी॒चीन॑म॒घ्न्यादु॑हे॒न्य॑ग्भवतुते॒रपः॑ || {11/12}{10.60.11}{10.4.18.11}{8.1.25.5}{606, 897, 9404}

न्य॑क्¦वातः॑¦अव॑¦वा॒ति॒¦न्य॑क्¦त॒प॒ति॒¦सूर्यः॑ | नी॒चीन᳚‌म्¦अ॒घ्न्या¦दु॒हे॒¦न्य॑क्¦भ॒व॒तु॒¦ते॒¦रपः॑ ||

अ॒यंमे॒हस्तो॒भग॑वा¦न॒यंमे॒भग॑वत्तरः |{गौपायना बंध्वादयः | हस्तः | अनुष्टुप्}

अ॒यंमे᳚वि॒श्वभे᳚षजो॒¦ऽयंशि॒वाभि॑मर्शनः || {12/12}{10.60.12}{10.4.18.12}{8.1.25.6}{607, 897, 9405}

अ॒य‌म्¦मे॒¦हस्तः॑¦भग॑ऽवान्¦अ॒य‌म्¦मे॒¦भग॑वत्ऽतरः | अ॒य‌म्¦मे॒¦वि॒श्वऽभे᳚षजः¦अ॒य‌म्¦शि॒व।आ॑भिमर्शनः ||

[61] इदमित्थेति सप्तविंशत्यृचस्य सूक्तस्य मानवो नाभानेदिष्ठो विश्वेदेवास्त्रिष्टुप् (भेदपक्षे - रुद्रः २ अश्विनौ २ रुद्रः २ विश्वेदेवाः १ वास्तोष्पतिरुद्रौ १ वास्तोष्पत्यग्नी १ अंगिरसः १ इंद्रः ३ अग्निः १ नासत्येंद्राः १ सोमः १ अग्निः १ आदित्यनाभानेदिष्ठौ १ नाभानेदिष्ठथेनू १ अग्निः १ इंद्राग्नी १ इंद्र: १ मित्रावरुणनाभानेदिष्ठाः १ वरुणः १ मित्रावरुणौ १वरुणः १ देवाः १ एवं २७ ) |
इ॒दमि॒त्थारौद्रं᳚गू॒र्तव॑चा॒ब्रह्म॒क्रत्वा॒शच्या᳚म॒न्तरा॒जौ |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

क्रा॒णायद॑स्यपि॒तरा᳚मंहने॒ष्ठाःपर्ष॑त्प॒क्थे,अह॒न्नास॒प्तहोतॄ॑न् || {1/27}{10.61.1}{10.5.1.1}{8.1.26.1}{608, 898, 9406}

इ॒द‌म्¦इ॒त्था¦रौद्र᳚‌म्¦गू॒र्तऽव॑चाः¦ब्रह्म॑¦क्रत्वा᳚¦शच्या᳚‌म्¦अ॒न्तः¦आ॒जौ |
क्रा॒णा¦यत्¦अ॒स्य॒¦पि॒तरा᳚¦मं॒ह॒ने॒ऽस्थाः¦पर्ष॑त्¦प॒क्थे¦अह॑न्¦आ¦स॒प्त¦होतॄ॑न् ||

इद्दा॒नाय॒दभ्या᳚यव॒न्वञ्च्यवा᳚नः॒सूदै᳚रमिमीत॒वेदि᳚म् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

तूर्व॑याणोगू॒र्तव॑चस्तमः॒,क्षोदो॒रेत॑इ॒तऊ᳚तिसिञ्चत् || {2/27}{10.61.2}{10.5.1.2}{8.1.26.2}{609, 898, 9407}

सः¦इत्¦दा॒नाय॑¦दभ्या᳚य¦व॒न्वन्¦च्यवा᳚नः¦सूदैः᳚¦अ॒मि॒मी॒त॒¦वेदि᳚‌म् |
तूर्व॑याणः¦गू॒र्तव॑चःऽतमः¦क्षोदः॑¦न¦रेतः॑¦इ॒तःऽऊ᳚ति¦सिं॒च॒त् ||

मनो॒येषु॒हव॑नेषुति॒ग्मंविपः॒शच्या᳚वनु॒थोद्रव᳚न्ता |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

यःशर्या᳚भिस्तुविनृ॒म्णो,अ॒स्याश्री᳚णीता॒दिशं॒गभ॑स्तौ || {3/27}{10.61.3}{10.5.1.3}{8.1.26.3}{610, 898, 9408}

मनः॑¦न¦येषु॑¦हव॑नेषु¦ति॒ग्म‌म्¦विपः॑¦शच्या᳚¦व॒नु॒थः¦द्रव᳚न्ता |
आ¦यः¦शर्या᳚भिः¦तु॒वि॒ऽनृ॒म्णः¦अ॒स्य॒¦अश्री᳚णीत¦आ॒ऽदिश᳚‌म्¦गभ॑स्तौ ||

कृ॒ष्णायद्गोष्व॑रु॒णीषु॒सीद॑द्दि॒वोनपा᳚ताश्विनाहुवेवाम् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

वी॒तंमे᳚य॒ज्ञमाग॑तंमे॒,अन्नं᳚वव॒न्वांसा॒नेष॒मस्मृ॑तध्रू || {4/27}{10.61.4}{10.5.1.4}{8.1.26.4}{611, 898, 9409}

कृ॒ष्णा¦यत्¦गोषु॑¦अ॒रु॒णीषु॑¦सीद॑त्¦दि॒वः¦नपा᳚ता¦अ॒श्वि॒ना॒¦हु॒वे॒¦वा॒‌म् |
वी॒त‌म्¦मे॒¦य॒ज्ञ‌म्¦आ¦ग॒त॒‌म्¦मे॒¦अन्न᳚‌म्¦व॒व॒न्वांसा᳚¦न¦इष᳚‌म्¦अस्मृ॑तध्रू॒ इत्यस्मृ॑तऽध्रू ||

प्रथि॑ष्ट॒यस्य॑वी॒रक᳚र्ममि॒ष्णदनु॑ष्ठितं॒नुनर्यो॒,अपौ᳚हत् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

पुन॒स्तदावृ॑हति॒यत्क॒नाया᳚दुहि॒तुरा,अनु॑भृतमन॒र्वा || {5/27}{10.61.5}{10.5.1.5}{8.1.26.5}{612, 898, 9410}

प्रथि॑ष्ट¦यस्य॑¦वी॒रऽक᳚र्म‌म्¦इ॒ष्णत्¦अनु॑ऽस्थित‌म्¦नु¦नर्यः॑¦अप॑¦औ॒ह॒त् |
पुन॒रिति॑¦तत्¦आ¦वृ॒ह॒ति॒¦यत्¦क॒नायाः᳚¦दु॒हि॒तुः¦आः¦अनु॑ऽभृत‌म्¦अ॒न॒र्वा ||

म॒ध्यायत्कर्त्व॒मभ॑वद॒भीके॒कामं᳚कृण्वा॒नेपि॒तरि॑युव॒त्याम् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

म॒ना॒नग्रेतो᳚जहतुर्वि॒यन्ता॒सानौ॒निषि॑क्तंसुकृ॒तस्य॒योनौ᳚ || {6/27}{10.61.6}{10.5.1.6}{8.1.27.1}{613, 898, 9411}

म॒ध्या¦यत्¦कर्त्व᳚‌म्¦अभ॑वत्¦अ॒भीके᳚¦काम᳚‌म्¦कृ॒ण्वा॒ने¦पि॒तरि॑¦यु॒व॒त्या‌म् |
म॒ना॒नक्¦रेतः॑¦ज॒ह॒तुः॒¦वि॒ऽयन्ता᳚¦सानौ᳚¦निऽसि॑क्त‌म्¦सु॒ऽकृ॒तस्य॑¦योनौ᳚ ||

पि॒तायत्स्वांदु॑हि॒तर॑मधि॒ष्कन्‌क्ष्म॒यारेतः॑संजग्मा॒नोनिषि᳚ञ्चत् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

स्वा॒ध्यो᳚ऽजनय॒न्‌ब्रह्म॑दे॒वावास्तो॒ष्पतिं᳚व्रत॒पांनिर॑तक्षन् || {7/27}{10.61.7}{10.5.1.7}{8.1.27.2}{614, 898, 9412}

पि॒ता¦यत्¦स्वा‌म्¦दु॒हि॒तर᳚‌म्¦अ॒धि॒ऽस्कन्¦क्ष्म॒या¦रेतः॑¦स॒‌म्ऽज॒ग्मा॒नः¦नि¦सिं॒च॒त् |
सु॒ऽआ॒ध्यः॑¦अ॒ज॒न॒य॒न्¦ब्रह्म॑¦दे॒वाः¦वास्तोः᳚¦पति᳚‌म्¦व्र॒त॒ऽपा‌म्¦निः¦अ॒त॒क्ष॒न् ||

ईं॒वृषा॒फेन॑मस्यदा॒जौस्मदापरै॒दप॑द॒भ्रचे᳚ताः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

सर॑त्प॒दादक्षि॑णापरा॒वृङ्नतानुमे᳚पृश॒न्यो᳚जगृभ्रे || {8/27}{10.61.8}{10.5.1.8}{8.1.27.3}{615, 898, 9413}

सः¦ई॒‌म्¦वृषा᳚¦न¦फेन᳚‌म्¦अ॒स्य॒त्¦आ॒जौ¦स्मत्¦आ¦परा᳚¦ऐ॒त्¦अप॑¦द॒भ्रऽचे᳚ताः |
सर॑त्¦प॒दा¦न¦दक्षि॑णा¦प॒रा॒ऽवृक्¦न¦ताः¦नु¦मे॒¦पृ॒श॒न्यः॑¦ज॒गृ॒भ्रे॒ ||

म॒क्षूवह्निः॑प्र॒जाया᳚,उप॒ब्दिर॒ग्निंन॒ग्नउप॑सीद॒दूधः॑ |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

सनि॑ते॒ध्मंसनि॑तो॒तवाजं॒ध॒र्ताज॑ज्ञे॒सह॑सायवी॒युत् || {9/27}{10.61.9}{10.5.1.9}{8.1.27.4}{616, 898, 9414}

म॒क्षु¦न¦वह्निः॑¦प्र॒ऽजायाः᳚¦उ॒प॒ब्दिः¦अ॒ग्नि‌म्¦न¦न॒ग्नः¦उप॑¦सीद॑त्¦ऊधः॑ |
सनि॑ता¦इ॒ध्म‌म्¦सनि॑ता¦उ॒त¦वाज᳚‌म्¦सः¦ध॒र्ता¦ज॒ज्ञे॒¦सह॑सा¦य॒वि॒ऽयुत् ||

म॒क्षूक॒नायाः᳚स॒ख्यंनव॑ग्वा,ऋ॒तंवद᳚न्तऋ॒तयु॑क्तिमग्मन् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

द्वि॒बर्ह॑सो॒उप॑गो॒पमागु॑रदक्षि॒णासो॒,अच्यु॑तादुदुक्षन् || {10/27}{10.61.10}{10.5.1.10}{8.1.27.5}{617, 898, 9415}

म॒क्षु¦क॒नायाः᳚¦स॒ख्य‌म्¦नव॑ऽग्वाः¦ऋ॒त‌म्¦वद᳚न्तः¦ऋ॒तऽयु॑क्ति‌म्¦अ॒ग्म॒न् |
द्वि॒ऽबर्ह॑सः¦ये¦उप॑¦गो॒प‌म्¦आ¦अगुः॑¦अ॒द॒क्षि॒णासः॑¦अच्यु॑ता¦दु॒धु॒क्ष॒न् ||

म॒क्षूक॒नायाः᳚स॒ख्यंनवी᳚यो॒राधो॒रेत॑ऋ॒तमित्तु॑रण्यन् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शुचि॒यत्ते॒रेक्ण॒आय॑जन्तसब॒र्दुघा᳚याः॒पय॑उ॒स्रिया᳚याः || {11/27}{10.61.11}{10.5.1.11}{8.1.28.1}{618, 898, 9416}

म॒क्षु¦क॒नायाः᳚¦स॒ख्य‌म्¦नवी᳚यः¦राधः॑¦न¦रेतः॑¦ऋ॒त‌म्¦इत्¦तु॒र॒ण्य॒न् |
शुचि॑¦यत्¦ते॒¦रेक्णः॑¦आ¦अय॑जन्त¦स॒बः॒ऽदुघा᳚याः¦पयः॑¦उ॒स्रिया᳚याः ||

प॒श्वायत्प॒श्चावियु॑ताबु॒धन्तेति॑ब्रवीतिव॒क्तरी॒ररा᳚णः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

वसो᳚र्वसु॒त्वाका॒रवो᳚ऽने॒हाविश्वं᳚विवेष्टि॒द्रवि॑ण॒मुप॒क्षु || {12/27}{10.61.12}{10.5.1.12}{8.1.28.2}{619, 898, 9417}

प॒श्वा¦यत्¦प॒श्चा¦विऽयु॑ता¦बु॒धन्त॑¦इति॑¦ब्र॒वी॒ति॒¦व॒क्तरि॑¦ररा᳚णः |
वसोः᳚¦व॒सु॒ऽत्वा¦का॒रवः॑¦अ॒ने॒हा¦विश्व᳚‌म्¦वि॒वे॒ष्टि॒¦द्रवि॑ण‌म्¦उप॑¦क्षु ||

तदिन्न्व॑स्यपरि॒षद्वा᳚नो,अग्मन्‌पु॒रूसद᳚न्तोनार्ष॒दंबि॑भित्सन् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

विशुष्ण॑स्य॒संग्र॑थितमन॒र्वावि॒दत्पु॑रुप्रजा॒तस्य॒गुहा॒यत् || {13/27}{10.61.13}{10.5.1.13}{8.1.28.3}{620, 898, 9418}

तत्¦इत्¦नु¦अ॒स्य॒¦प॒रि॒ऽसद्वा᳚नः¦अ॒ग्म॒न्¦पु॒रु¦सद᳚न्तः¦ना॒र्स॒द‌म्¦बि॒भि॒त्सन् |
वि¦शुष्ण॑स्य¦स‌म्ऽग्र॑थित‌म्¦अ॒न॒र्वा¦वि॒दत्¦पु॒रु॒ऽप्र॒जा॒तस्य॑¦गुहा᳚¦यत् ||

भर्गो᳚ह॒नामो॒तयस्य॑दे॒वाःस्व१॑(अ॒)र्णयेत्रि॑षध॒स्थेनि॑षे॒दुः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

अ॒ग्निर्ह॒नामो॒तजा॒तवे᳚दाःश्रु॒धीनो᳚होतरृ॒तस्य॒होता॒ध्रुक् || {14/27}{10.61.14}{10.5.1.14}{8.1.28.4}{621, 898, 9419}

भर्गः॑¦ह॒¦नाम॑¦उ॒त¦यस्य॑¦दे॒वाः¦स्वः॑¦न¦ये¦त्रि॒ऽस॒ध॒स्थे¦नि॒ऽसे॒दुः |
अ॒ग्निः¦ह॒¦नाम॑¦उ॒त¦जा॒तऽवे᳚दाः¦श्रु॒धि¦नः॒¦हो॒तः॒¦ऋ॒तस्य॑¦होता᳚¦अ॒ध्रुक् ||

उ॒तत्यामे॒रौद्रा᳚वर्चि॒मन्ता॒नास॑त्याविन्द्रगू॒र्तये॒यज॑ध्यै |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

म॒नु॒ष्वद्वृ॒क्तब᳚र्हिषे॒ररा᳚णाम॒न्दूहि॒तप्र॑यसावि॒क्षुयज्यू᳚ || {15/27}{10.61.15}{10.5.1.15}{8.1.28.5}{622, 898, 9420}

उ॒त¦त्या¦मे॒¦रौद्रौ᳚¦अ॒र्चि॒ऽमन्ता᳚¦नास॑त्यौ¦इ॒न्द्र॒¦गृ॒तये᳚¦यज॑ध्यै |
म॒नु॒ष्वत्¦वृ॒क्तऽब॑र्हिषे¦ररा᳚णा¦म॒न्दू इति॑¦हि॒तऽप्र॑यसा¦वि॒क्षु¦यज्यू॒ इति॑ ||

अ॒यंस्तु॒तोराजा᳚वन्दिवे॒धा,अ॒पश्च॒विप्र॑स्तरति॒स्वसे᳚तुः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

क॒क्षीव᳚न्तंरेजय॒त्सो,अ॒ग्निंने॒मिंच॒क्रमर्व॑तोरघु॒द्रु || {16/27}{10.61.16}{10.5.1.16}{8.1.29.1}{623, 898, 9421}

अ॒य‌म्¦स्तु॒तः¦राजा᳚¦व॒न्दि॒¦वे॒धाः¦अ॒पः¦च॒¦विप्रः॑¦त॒र॒ति॒¦स्वऽसे᳚तुः |
सः¦क॒क्षीव᳚न्त‌म्¦रे॒ज॒य॒त्¦सः¦अ॒ग्नि‌म्¦ने॒मि‌म्¦न¦च॒क्र‌म्¦अर्व॑तः¦र॒घु॒ऽद्रु ||

द्वि॒बन्धु᳚र्वैतर॒णोयष्टा᳚सब॒र्धुंधे॒नुम॒स्वं᳚दु॒हध्यै᳚ |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

संयन्मि॒त्रावरु॑णावृ॒ञ्जउ॒क्थैर्ज्येष्ठे᳚भिरर्य॒मणं॒वरू᳚थैः || {17/27}{10.61.17}{10.5.1.17}{8.1.29.2}{624, 898, 9422}

सः¦द्वि॒ऽबन्धुः॑¦वै॒त॒र॒णः¦यष्टा᳚¦स॒बः॒ऽधु‌म्¦धे॒नु‌म्¦अ॒स्व᳚‌म्¦दु॒हध्यै᳚ |
स‌म्¦यत्¦मि॒त्रावरु॑णा¦वृं॒जे¦उ॒क्थैः¦ज्येष्ठे᳚भिः¦अ॒र्य॒मण᳚‌म्¦वरू᳚थैः ||

तद्‌ब᳚न्धुःसू॒रिर्दि॒विते᳚धियं॒धानाभा॒नेदि॑ष्ठोरपति॒प्रवेन॑न् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

सानो॒नाभिः॑पर॒मास्यवा᳚घा॒हंतत्‌प॒श्चाक॑ति॒थश्चि॑दास || {18/27}{10.61.18}{10.5.1.18}{8.1.29.3}{625, 898, 9423}

तत्ऽब᳚न्धुः¦सू॒रिः¦दि॒वि¦ते॒¦धि॒य॒‌म्ऽधाः¦नाभा॒नेदि॑ष्ठः¦र॒प॒ति॒¦प्र¦वेन॑न् |
सा¦नः॒¦नाभिः॑¦प॒र॒मा¦अ॒स्य¦वा॒¦घ॒¦अ॒ह‌म्¦तत्¦प॒श्चा¦क॒ति॒थः¦चि॒त्¦आ॒स॒ ||

इ॒यंमे॒नाभि॑रि॒हमे᳚स॒धस्थ॑मि॒मेमे᳚दे॒वा,अ॒यम॑स्मि॒सर्वः॑ |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

द्वि॒जा,अह॑प्रथम॒जा,ऋ॒तस्ये॒दंधे॒नुर॑दुह॒ज्जाय॑माना || {19/27}{10.61.19}{10.5.1.19}{8.1.29.4}{626, 898, 9424}

इ॒य‌म्¦मे॒¦नाभिः॑¦इ॒ह¦मे॒¦स॒धऽस्थ᳚‌म्¦इ॒मे¦मे॒¦दे॒वाः¦अ॒य‌म्¦अ॒स्मि॒¦सर्वः॑ |
द्वि॒ऽजाः¦अह॑¦प्र॒थ॒म॒ऽजाः¦ऋ॒तस्य॑¦इ॒द‌म्¦धे॒नुः¦अ॒दु॒ह॒त्¦जाय॑माना ||

अधा᳚सुम॒न्द्रो,अ॑र॒तिर्वि॒भावाव॑स्यतिद्विवर्त॒निर्व॑ने॒षाट् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

ऊ॒र्ध्वायच्छ्रेणि॒र्नशिशु॒र्दन्म॒क्षूस्थि॒रंशे᳚वृ॒धंसू᳚तमा॒ता || {20/27}{10.61.20}{10.5.1.20}{8.1.29.5}{627, 898, 9425}

अध॑¦आ॒सु॒¦म॒न्द्रः¦अ॒र॒तिः¦वि॒भाऽवा᳚¦अव॑¦स्य॒ति॒¦द्वि॒ऽव॒र्त॒निः¦व॒ने॒षाट् |
ऊ॒र्ध्वा¦यत्¦श्रेणिः॑¦न¦शिशुः॑¦दन्¦म॒क्षु¦स्थि॒र‌म्¦शे॒ऽवृ॒ध‌म्¦सू॒त॒¦मा॒ता ||

अधा॒गाव॒उप॑मातिंक॒नाया॒,अनु॑श्वा॒न्तस्य॒कस्य॑चि॒त्परे᳚युः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

श्रु॒धित्वंसु॑द्रविणोन॒स्त्वंया᳚ळाश्व॒घ्नस्य॑वावृधेसू॒नृता᳚भिः || {21/27}{10.61.21}{10.5.1.21}{8.1.30.1}{628, 898, 9426}

अध॑¦गावः॑¦उप॑ऽमाति‌म्¦क॒नायाः᳚¦अनु॑¦श्वा॒न्तस्य॑¦कस्य॑¦चि॒त्¦परा᳚¦ई॒युः॒ |
श्रु॒धि¦त्व‌म्¦सु॒ऽद्र॒वि॒णः॒¦नः॒¦त्व‌म्¦या॒ट्¦आ॒श्व॒ऽघ्नस्य॑¦व॒वृ॒धे॒¦सू॒नृता᳚भिः ||

अध॒त्वमि᳚न्द्रवि॒द्ध्य१॑(अ॒)स्मान्म॒होरा॒येनृ॑पते॒वज्र॑बाहुः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

रक्षा᳚नोम॒घोनः॑पा॒हिसू॒रीन॑ने॒हस॑स्तेहरिवो,अ॒भिष्टौ᳚ || {22/27}{10.61.22}{10.5.1.22}{8.1.30.2}{629, 898, 9427}

अध॑¦त्व‌म्¦इ॒न्द्र॒¦वि॒द्धि¦अ॒स्मान्¦म॒हः¦रा॒ये¦नृ॒ऽप॒ते॒¦वज्र॑ऽबाहुः |
रक्ष॑¦च॒¦नः॒¦म॒घोनः॑¦पा॒हि¦सू॒रीन्¦अ॒ने॒हसः॑¦ते॒¦ह॒रि॒ऽवः॒¦अ॒भिष्टौ᳚ ||

अध॒यद्रा᳚जाना॒गवि॑ष्टौ॒सर॑त्सर॒ण्युःका॒रवे᳚जर॒ण्युः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

विप्रः॒प्रेष्ठः॒ह्ये᳚षांब॒भूव॒परा᳚च॒वक्ष॑दु॒तप॑र्षदेनान् || {23/27}{10.61.23}{10.5.1.23}{8.1.30.3}{630, 898, 9428}

अध॑¦यत्¦रा॒जा॒ना॒¦गोऽ‌इ᳚ष्टौ¦सर॑त्¦स॒र॒ण्युः¦का॒रवे᳚¦ज॒र॒ण्युः |
विप्रः॑¦प्रेष्ठः॑¦सः¦हि¦ए॒षा॒‌म्¦ब॒भूव॒¦परा᳚¦च॒¦वक्ष॑त्¦उ॒त¦प॒र्ष॒त्¦ए॒ना॒न् ||

अधा॒न्व॑स्य॒जेन्य॑स्यपु॒ष्टौवृथा॒रेभ᳚न्तईमहे॒तदू॒नु |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

स॒र॒ण्युर॑स्यसू॒नुरश्वो॒विप्र॑श्चासि॒श्रव॑सश्चसा॒तौ || {24/27}{10.61.24}{10.5.1.24}{8.1.30.4}{631, 898, 9429}

अध॑¦नु¦अ॒स्य॒¦जेन्य॑स्य¦पु॒ष्टौ¦वृथा᳚¦रेभ᳚न्तः¦ई॒म॒हे॒¦तत्¦ऊँ॒ इति॑¦नु |
स॒र॒ण्युः¦अ॒स्य॒¦सू॒नुः¦अश्वः॑¦विप्रः॑¦च॒¦अ॒सि॒¦श्रव॑सः¦च॒¦सा॒तौ ||

यु॒वोर्यदि॑स॒ख्याया॒स्मेशर्धा᳚य॒स्तोमं᳚जुजु॒षेनम॑स्वान् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

वि॒श्वत्र॒यस्मि॒न्नागिरः॑समी॒चीःपू॒र्वीव॑गा॒तुर्दाश॑त्सू॒नृता᳚यै || {25/27}{10.61.25}{10.5.1.25}{8.1.30.5}{632, 898, 9430}

यु॒वोः¦यदि॑¦स॒ख्याय॑¦अ॒स्मे इति॑¦शर्धा᳚य¦स्तोम᳚‌म्¦जु॒जु॒षे¦नम॑स्वान् |
वि॒श्वत्र॑¦यस्मि॑न्¦आ¦गिरः॑¦स॒‌म्ऽई॒चीः¦पू॒र्वीऽ‌इ᳚व¦गा॒तुः¦दाश॑त्¦सू॒नृता᳚यै ||

गृ॑णा॒नो,अ॒द्भिर्दे॒ववा॒निति॑सु॒बन्धु॒र्नम॑सासू॒क्तैः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

वर्ध॑दु॒क्थैर्वचो᳚भि॒राहिनू॒नंव्यध्वै᳚ति॒पय॑सउ॒स्रिया᳚याः || {26/27}{10.61.26}{10.5.1.26}{8.1.30.6}{633, 898, 9431}

सः¦गृ॒णा॒नः¦अ॒त्ऽभिः¦दे॒वऽवा᳚न्¦इति॑¦सु॒ऽबन्धुः॑¦नम॑सा¦सु॒।औ॒क्तैः |
वर्ध॑त्¦उ॒क्थैः¦वचः॑ऽभिः¦आ¦हि¦नू॒न‌म्¦वि¦अध्वा᳚¦ए॒ति॒¦पय॑सः¦उ॒स्रिया᳚याः ||

ऊ॒षुणो᳚म॒होय॑जत्राभू॒तदे᳚वासऊ॒तये᳚स॒जोषाः᳚ |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

येवाजाँ॒,अन॑यतावि॒यन्तो॒येस्थानि॑चे॒तारो॒,अमू᳚राः || {27/27}{10.61.27}{10.5.1.27}{8.1.30.7}{634, 898, 9432}

ते¦ऊँ॒ इति॑¦सु¦नः॒¦म॒हः¦य॒ज॒त्राः॒¦भू॒त¦दे॒वा॒सः॒¦ऊ॒तये᳚¦स॒ऽजोषाः᳚ |
ये¦वाजा᳚न्¦अन॑यत¦वि॒ऽयन्तः॑¦ये¦स्थ¦नि॒ऽचे॒तारः॑¦अमू᳚राः ||

[62] येयज्ञेनेत्येकादशर्चस्य सूक्तस्य मानवोनाभानेदिष्ठो विश्वेदेवाः प्रनूनमित्यादिचतसृणां सावर्णिर्जगती पंचम्यष्टमीनवम्योनुष्टुभः षष्टी बृहती सप्तमीसतोबृहती दशमीगायत्री अंत्यात्रिष्टुप् (भेदपक्षे - अंगिरसः ६ विश्वेदेवाः १ सावर्णिः ४ एवं ११ | अंगिरसोनुक्रमण्यांपाक्षिकाउक्ताः) | येयज्ञेनेतिचतसृणां त्रिष्टुप् छंदस्त्वं कश्चिद्भूतेतद्बहुविरुद्धं | विरोधास्तु - षळंगिरसां स्तुतिर्वांत्यात्रिष्टुबित्यनुक्रमाच्छेष जगत्यइति परिभाषाव्याघात एकः । तासां त्रिष्टुप् छंदस्त्वेनादेशपरिभाषयातासामंत्यायाश्चत्रिष्टुब्वे सिद्धेत्यात्रिष्टुबिति सिद्धानुवादलक्षणदोषा विष्करणद्वितीयः | दशमीत्वस्य गायत्री जगत्यन्याविनोत्तमामिति शौनकवचनाज्ञानेनस्वेच्छयाव्याख्यानमिति तृतीयश्चेति) |
येय॒ज्ञेन॒दक्षि॑णया॒सम॑क्ता॒,इन्द्र॑स्यस॒ख्यम॑मृत॒त्वमा᳚न॒श |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | जगती}

तेभ्यो᳚भ॒द्रम᳚ङ्गिरसोवो,अस्तु॒प्रति॑गृभ्णीतमान॒वंसु॑मेधसः || {1/11}{10.62.1}{10.5.2.1}{8.2.1.1}{635, 899, 9433}

ये¦य॒ज्ञेन॑¦दक्षि॑णया¦स‌म्।आ॑क्ताः¦इन्द्र॑स्य¦स॒ख्य‌म्¦अ॒मृ॒त॒ऽत्व‌म्¦आ॒न॒श |
तेभ्यः॑¦भ॒द्र‌म्¦अ॒ङ्गि॒र॒सः॒¦वः॒¦अ॒स्तु॒¦प्रति॑¦गृ॒भ्णी॒त॒¦मा॒न॒व‌म्¦सु॒ऽमे॒ध॒सः॒ ||

उ॒दाज᳚न्‌पि॒तरो᳚गो॒मयं॒वस्वृ॒तेनाभि᳚न्दन्‌परिवत्स॒रेव॒लम् |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | जगती}

दी॒र्घा॒यु॒त्वम᳚ङ्गिरसोवो,अस्तु॒प्रति॑गृभ्णीतमान॒वंसु॑मेधसः || {2/11}{10.62.2}{10.5.2.2}{8.2.1.2}{636, 899, 9434}

ये¦उ॒त्ऽआज॑न्¦पि॒तरः॑¦गो॒ऽमय᳚‌म्¦वसु॑¦ऋ॒तेन॑¦अभि᳚न्दन्¦प॒रि॒ऽव॒त्स॒रे¦व॒ल‌म् |
दी॒र्घा॒यु॒ऽत्व‌म्¦अ॒ङ्गि॒र॒सः॒¦वः॒¦अ॒स्तु॒¦प्रति॑¦गृ॒भ्णी॒त॒¦मा॒न॒व‌म्¦सु॒ऽमे॒ध॒सः॒ ||

ऋ॒तेन॒सूर्य॒मारो᳚हयन्दि॒व्यप्र॑थयन्‌पृथि॒वींमा॒तरं॒वि |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | जगती}

सु॒प्र॒जा॒स्त्वम᳚ङ्गिरसोवो,अस्तु॒प्रति॑गृभ्णीतमान॒वंसु॑मेधसः || {3/11}{10.62.3}{10.5.2.3}{8.2.1.3}{637, 899, 9435}

ये¦ऋ॒तेन॑¦सूर्य᳚‌म्¦आ¦अरो᳚हयन्¦दि॒वि¦अप्र॑थयन्¦पृ॒थि॒वी‌म्¦मा॒तर᳚‌म्¦वि |
सु॒प्र॒जाः॒ऽत्व‌म्¦अ॒ङ्गि॒र॒सः॒¦वः॒¦अ॒स्तु॒¦प्रति॑¦गृ॒भ्णी॒त॒¦मा॒न॒व‌म्¦सु॒ऽमे॒ध॒सः॒ ||

अ॒यंनाभा᳚वदतिव॒ल्गुवो᳚गृ॒हेदेव॑पुत्रा,ऋषय॒स्तच्छृ॑णोतन |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | जगती}

सु॒ब्र॒ह्म॒ण्यम᳚ङ्गिरसोवो,अस्तु॒प्रति॑गृभ्णीतमान॒वंसु॑मेधसः || {4/11}{10.62.4}{10.5.2.4}{8.2.1.4}{638, 899, 9436}

अ॒य‌म्¦नाभा᳚¦व॒द॒ति॒¦व॒ल्गु¦वः॒¦गृ॒हे¦देव॑ऽपुत्राः¦ऋ॒ष॒यः॒¦तत्¦शृ॒णो॒त॒न॒ |
सु॒ऽब्र॒ह्म॒ण्य‌म्¦अ॒ङ्गि॒र॒सः॒¦वः॒¦अ॒स्तु॒¦प्रति॑¦गृ॒भ्णी॒त॒¦मा॒न॒व‌म्¦सु॒ऽमे॒ध॒सः॒ ||

विरू᳚पास॒इदृष॑य॒स्तइद्ग᳚म्भी॒रवे᳚पसः |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | अनुष्टुप्}

ते,अङ्गि॑रसःसू॒नव॒स्ते,अ॒ग्नेःपरि॑जज्ञिरे || {5/11}{10.62.5}{10.5.2.5}{8.2.1.5}{639, 899, 9437}

विऽरू᳚पासः¦इत्¦ऋष॑यः¦ते¦इत्¦ग॒म्भी॒रऽवे᳚पसः | ते¦अङ्गि॑रसः¦सू॒नवः॑¦ते¦अ॒ग्नेः¦परि॑¦ज॒ज्ञि॒रे॒ ||

ये,अ॒ग्नेःपरि॑जज्ञि॒रेविरू᳚पासोदि॒वस्परि॑ |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | बृहती}

नव॑ग्वो॒नुदश॑ग्वो॒,अङ्गि॑रस्तमो॒सचा᳚दे॒वेषु॑मंहते || {6/11}{10.62.6}{10.5.2.6}{8.2.2.1}{640, 899, 9438}

ये¦अ॒ग्नेः¦परि॑¦ज॒ज्ञि॒रे¦विऽरू᳚पासः¦दि॒वः¦परि॑ |
नव॑ऽग्वः¦नु¦दश॑ऽग्वः¦अङ्गि॑रःऽतमः¦सचा᳚¦दे॒वेषु॑¦मं॒ह॒ते॒ ||

इन्द्रे᳚णयु॒जानिःसृ॑जन्तवा॒घतो᳚व्र॒जंगोम᳚न्तम॒श्विन᳚म् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | सतोबृहती}

स॒हस्रं᳚मे॒दद॑तो,अष्टक॒र्ण्य१॑(अः॒)श्रवो᳚दे॒वेष्व॑क्रत || {7/11}{10.62.7}{10.5.2.7}{8.2.2.2}{641, 899, 9439}

इन्द्रे᳚ण¦यु॒जा¦निः¦सृ॒ज॒न्त॒¦वा॒घतः॑¦व्र॒ज‌म्¦गोऽम᳚न्त‌म्¦अ॒श्विन᳚‌म् |
स॒हस्र᳚‌म्¦मे॒¦दद॑तः¦अ॒ष्ट॒ऽक॒र्ण्यः॑¦श्रवः॑¦दे॒वेषु॑¦अ॒क्र॒त॒ ||

प्रनू॒नंजा᳚यताम॒यंमनु॒स्तोक्मे᳚वरोहतु |{मानवो नाभानेदिष्ठः | सावर्णिः | अनुष्टुप्}

यःस॒हस्रं᳚श॒ताश्वं᳚स॒द्योदा॒नाय॒मंह॑ते || {8/11}{10.62.8}{10.5.2.8}{8.2.2.3}{642, 899, 9440}

प्र¦नू॒न‌म्¦जा॒य॒ता॒‌म्¦अ॒य‌म्¦मनुः॑¦तोक्म॑ऽ‌इव¦रो॒ह॒तु॒ | यः¦स॒हस्र᳚‌म्¦श॒त।आ॑श्व‌म्¦स॒द्यः¦दा॒नाय॑¦मंह॑ते ||

तम॑श्नोति॒कश्च॒नदि॒वइ॑व॒सान्वा॒रभ᳚म् |{मानवो नाभानेदिष्ठः | सावर्णिः | अनुष्टुप्}

सा॒व॒र्ण्यस्य॒दक्षि॑णा॒विसिन्धु॑रिवपप्रथे || {9/11}{10.62.9}{10.5.2.9}{8.2.2.4}{643, 899, 9441}

न¦त‌म्¦अ॒श्नो॒ति॒¦कः¦च॒न¦दि॒वःऽ‌इ᳚व¦सानु॑¦आ॒ऽरभ᳚‌म् | सा॒व॒र्ण्यस्य॑¦दक्षि॑णा¦वि¦सिन्धुः॑ऽ‌इव¦प॒प्र॒थे॒ ||

उ॒तदा॒साप॑रि॒विषे॒स्मद्दि॑ष्टी॒गोप॑रीणसा |{मानवो नाभानेदिष्ठः | सावर्णिः | गायत्री}

यदु॑स्तु॒र्वश्च॑मामहे || {10/11}{10.62.10}{10.5.2.10}{8.2.2.5}{644, 899, 9442}

उ॒त¦दा॒सा¦प॒रि॒ऽविषे᳚¦स्मद्दि॑ष्टी॒ इति॒ स्मत्ऽदि॑ष्टी¦गोऽप॑रीणसा | यदुः॑¦तु॒र्वः¦च॒¦मा॒म॒हे॒ ||

स॒ह॒स्र॒दाग्रा᳚म॒णीर्मारि॑ष॒न्मनुः॒सूर्ये᳚णास्य॒यत॑मानैतु॒दक्षि॑णा |{मानवो नाभानेदिष्ठः | सावर्णिः | त्रिष्टुप्}

साव᳚र्णेर्दे॒वाःप्रति॑र॒न्त्वायु॒र्यस्मि॒न्नश्रा᳚न्ता॒,अस॑नाम॒वाज᳚म् || {11/11}{10.62.11}{10.5.2.11}{8.2.2.6}{645, 899, 9443}

स॒ह॒स्र॒ऽदाः¦ग्रा॒म॒ऽनीः¦मा¦रि॒ष॒त्¦मनुः॑¦सूर्ये᳚ण¦अ॒स्य॒¦यत॑माना¦ए॒तु॒¦दक्षि॑णा |
साव᳚र्णेः¦दे॒वाः¦प्र¦ति॒र॒न्तु॒¦आयुः॑¦यस्मि॑न्¦अस्रा᳚न्ताः¦अस॑नाम¦वाज᳚‌म् ||

[63] परावतइति सप्तदशर्चस्य सूक्तस्य गयःप्लातो विश्वेदेवाः पंचदशीषोडश्योः पथ्यास्वस्तिर्जगत्यंत्येद्वेत्रिष्टुभौ स्वस्तिस्त्रिष्टुब्वा | (भेदपक्षे - विश्वेदेवाः९ दिवः १ विश्वेदेवाः४ पथ्यास्वस्ति २ विश्वेदेवाः १ एवं १७) । गयः प्लातइत्यत्र प्लातोगयो विश्वेदेवा इत्यपिकचित्प्रयुंजते ) |
प॒रा॒वतो॒येदिधि॑षन्त॒आप्यं॒मनु॑प्रीतासो॒जनि॑मावि॒वस्व॑तः |{गयः प्लातः | विश्वदेवाः | जगती}

य॒याते॒र्येन॑हु॒ष्य॑स्यब॒र्हिषि॑दे॒वा,आस॑ते॒ते,अधि॑ब्रुवन्तुनः || {1/17}{10.63.1}{10.5.3.1}{8.2.3.1}{646, 900, 9444}

प॒रा॒ऽवतः॑¦ये¦दिधि॑षन्ते¦आप्य᳚‌म्¦मनु॑ऽप्रीतासः¦जनि॑म¦वि॒वस्व॑तः |
य॒यातेः᳚¦ये¦न॒हु॒ष्य॑स्य¦ब॒र्हिषि॑¦दे॒वाः¦आस॑ते¦ते¦अधि॑¦ब्रु॒व॒न्तु॒¦नः॒ ||

विश्वा॒हिवो᳚नम॒स्या᳚नि॒वन्द्या॒नामा᳚निदेवा,उ॒तय॒ज्ञिया᳚निवः |{गयः प्लातः | विश्वदेवाः | जगती}

येस्थजा॒ता,अदि॑तेर॒द्भ्यस्परि॒येपृ॑थि॒व्यास्तेम॑इ॒हश्रु॑ता॒हव᳚म् || {2/17}{10.63.2}{10.5.3.2}{8.2.3.2}{647, 900, 9445}

विश्वा᳚¦हि¦वः॒¦न॒म॒स्या᳚नि¦वन्द्या᳚¦नामा᳚नि¦दे॒वाः॒¦उ॒त¦य॒ज्ञिया᳚नि¦वः॒ |
ये¦स्थ¦जा॒ताः¦अदि॑तेः¦अ॒त्ऽभ्यः¦परि॑¦ये¦पृ॒थि॒व्याः¦ते¦मे॒¦इ॒ह¦श्रु॒त॒¦हव᳚‌म् ||

येभ्यो᳚मा॒तामधु॑म॒त्‌पिन्व॑ते॒पयः॑¦पी॒यूषं॒द्यौरदि॑ति॒रद्रि॑बर्हाः |{गयः प्लातः | विश्वदेवाः | जगती}

उ॒क्थशु॑ष्मान्‌वृषभ॒रान्‌त्स्वप्न॑स॒¦स्ताँ,आ᳚दि॒त्याँ,अनु॑मदास्व॒स्तये᳚ || {3/17}{10.63.3}{10.5.3.3}{8.2.3.3}{648, 900, 9446}

येभ्यः॑¦मा॒ता¦मधु॑ऽमत्¦पिन्व॑ते¦पयः॑¦पी॒यूष᳚‌म्¦द्यौः¦अदि॑तिः¦अद्रि॑ऽबर्हाः |
उ॒क्थऽशु॑ष्मान्¦वृ॒ष॒ऽभ॒रान्¦स्वप्न॑सः¦तान्¦आ॒दि॒त्यान्¦अनु॑¦म॒द॒¦स्व॒स्तये᳚ ||

नृ॒चक्ष॑सो॒,अनि॑मिषन्तो,अ॒र्हणा᳚बृ॒हद्दे॒वासो᳚,अमृत॒त्वमा᳚नशुः |{गयः प्लातः | विश्वदेवाः | जगती}

ज्यो॒तीर॑था॒,अहि॑माया॒,अना᳚गसोदि॒वोव॒र्ष्माणं᳚वसतेस्व॒स्तये᳚ || {4/17}{10.63.4}{10.5.3.4}{8.2.3.4}{649, 900, 9447}

नृ॒ऽचक्ष॑सः¦अनि॑ऽमिषन्तः¦अ॒र्हणा᳚¦बृ॒हत्¦दे॒वासः॑¦अ॒मृ॒त॒ऽत्व‌म्¦आ॒न॒शुः॒ |
ज्यो॒तिःऽर॑थाः¦अहि॑ऽमायाः¦अना᳚गसः¦दि॒वः¦व॒र्ष्माण᳚‌म्¦व॒स॒ते॒¦स्व॒स्तये᳚ ||

स॒म्राजो॒येसु॒वृधो᳚य॒ज्ञमा᳚य॒युरप॑रिह्वृतादधि॒रेदि॒विक्षय᳚म् |{गयः प्लातः | विश्वदेवाः | जगती}

ताँ,वि॑वास॒नम॑सासुवृ॒क्तिभि᳚र्म॒हो,आ᳚दि॒त्याँ,अदि॑तिंस्व॒स्तये᳚ || {5/17}{10.63.5}{10.5.3.5}{8.2.3.5}{650, 900, 9448}

स॒‌म्ऽराजः॑¦ये¦सु॒ऽवृधः॑¦य॒ज्ञ‌म्¦आ॒ऽय॒युः¦अप॑रिऽह्वृताः¦द॒धि॒रे¦दि॒वि¦क्षय᳚‌म् |
तान्¦आ¦वि॒वा॒स॒¦नम॑सा¦सु॒वृ॒क्तिऽभिः॑¦म॒हः¦आ॒दि॒त्यान्¦अदि॑ति‌म्¦स्व॒स्तये᳚ ||

कोवः॒स्तोमं᳚राधति॒यंजुजो᳚षथ॒विश्वे᳚देवासोमनुषो॒यति॒ष्ठन॑ |{गयः प्लातः | विश्वदेवाः | जगती}

कोवो᳚ऽध्व॒रंतु॑विजाता॒,अरं᳚कर॒द्योनः॒पर्ष॒दत्यंहः॑स्व॒स्तये᳚ || {6/17}{10.63.6}{10.5.3.6}{8.2.4.1}{651, 900, 9449}

कः¦वः॒¦स्तोम᳚‌म्¦रा॒ध॒ति॒¦य‌म्¦जुजो᳚षथ¦विश्वे᳚¦दे॒वा॒सः॒¦म॒नु॒षः॒¦यति॑¦स्थन॑ |
कः¦वः॒¦अ॒ध्व॒र‌म्¦तु॒वि॒ऽजा॒ताः॒¦अर᳚‌म्¦क॒र॒त्¦यः¦नः॒¦पर्ष॑त्¦अति॑¦अंहः॑¦स्व॒स्तये᳚ ||

येभ्यो॒होत्रां᳚प्रथ॒मामा᳚ये॒जेमनुः॒समि॑द्धाग्नि॒र्मन॑सास॒प्तहोतृ॑भिः |{गयः प्लातः | विश्वदेवाः | जगती}

आ᳚दित्या॒,अभ॑यं॒शर्म॑यच्छतसु॒गानः॑कर्तसु॒पथा᳚स्व॒स्तये᳚ || {7/17}{10.63.7}{10.5.3.7}{8.2.4.2}{652, 900, 9450}

येभ्यः॑¦होत्रा᳚‌म्¦प्र॒थ॒मा‌म्¦आ॒ऽये॒जे¦मनुः॑¦समि॑द्ध।आग्निः¦मन॑सा¦स॒प्त¦होतृ॑ऽभिः |
ते¦आ॒दि॒त्याः॒¦अभ॑य‌म्¦शर्म॑¦य॒च्छ॒त॒¦सु॒ऽगा¦नः॒¦क॒र्त॒¦सु॒ऽपथा᳚¦स्व॒स्तये᳚ ||

ईशि॑रे॒भुव॑नस्य॒प्रचे᳚तसो॒विश्व॑स्यस्था॒तुर्जग॑तश्च॒मन्त॑वः |{गयः प्लातः | विश्वदेवाः | जगती}

तेनः॑कृ॒तादकृ॑ता॒देन॑स॒स्पर्य॒द्यादे᳚वासःपिपृतास्व॒स्तये᳚ || {8/17}{10.63.8}{10.5.3.8}{8.2.4.3}{653, 900, 9451}

ये¦ईशि॑रे¦भुव॑नस्य¦प्रऽचे᳚तसः¦विश्व॑स्य¦स्था॒तुः¦जग॑तः¦च॒¦मन्त॑वः |
ते¦नः॒¦कृ॒तात्¦अकृ॑तात्¦एन॑सः¦परि॑¦अ॒द्य¦दे॒वा॒सः॒¦पि॒पृ॒त॒¦स्व॒स्तये᳚ ||

भरे॒ष्विन्द्रं᳚सु॒हवं᳚हवामहेंऽहो॒मुचं᳚सु॒कृतं॒दैव्यं॒जन᳚म् |{गयः प्लातः | विश्वदेवाः | जगती}

अ॒ग्निंमि॒त्रंवरु॑णंसा॒तये॒भगं॒द्यावा᳚पृथि॒वीम॒रुतः॑स्व॒स्तये᳚ || {9/17}{10.63.9}{10.5.3.9}{8.2.4.4}{654, 900, 9452}

भरे᳚षु¦इन्द्र᳚‌म्¦सु॒ऽहव᳚‌म्¦ह॒वा॒म॒हे॒¦अं॒हः॒ऽमुच᳚‌म्¦सु॒ऽकृत᳚‌म्¦दैव्य᳚‌म्¦जन᳚‌म् |
अ॒ग्नि‌म्¦मि॒त्र‌म्¦वरु॑ण‌म्¦सा॒तये᳚¦भग᳚‌म्¦द्यावा᳚पृथि॒वी इति॑¦म॒रुतः॑¦स्व॒स्तये᳚ ||

सु॒त्रामा᳚णंपृथि॒वींद्याम॑ने॒हसं᳚सु॒शर्मा᳚ण॒मदि॑तिंसु॒प्रणी᳚तिम् |{गयः प्लातः | विश्वदेवाः | जगती}

दैवीं॒नावं᳚स्वरि॒त्रामना᳚गस॒मस्र॑वन्ती॒मारु॑हेमास्व॒स्तये᳚ || {10/17}{10.63.10}{10.5.3.10}{8.2.4.5}{655, 900, 9453}

सु॒ऽत्रामा᳚ण‌म्¦पृ॒थि॒वी‌म्¦द्या‌म्¦अ॒ने॒हस᳚‌म्¦सु॒ऽशर्मा᳚ण‌म्¦अदि॑ति‌म्¦सु॒ऽप्रनी᳚ति‌म् |
दैवी᳚‌म्¦नाव᳚‌म्¦सु॒।आ॒रि॒त्रा‌म्¦अना᳚गस‌म्¦अस्र॑वन्ती‌म्¦आ¦रु॒हे॒म॒¦स्व॒स्तये᳚ ||

विश्वे᳚यजत्रा॒,अधि॑वोचतो॒तये॒त्राय॑ध्वंनोदु॒रेवा᳚या,अभि॒ह्रुतः॑ |{गयः प्लातः | विश्वदेवाः | जगती}

स॒त्यया᳚वोदे॒वहू᳚त्याहुवेमशृण्व॒तोदे᳚वा॒,अव॑सेस्व॒स्तये᳚ || {11/17}{10.63.11}{10.5.3.11}{8.2.5.1}{656, 900, 9454}

विश्वे᳚¦य॒ज॒त्राः॒¦अधि॑¦वो॒च॒त॒¦ऊ॒तये᳚¦त्राय॑ध्व‌म्¦नः॒¦दुः॒ऽएवा᳚याः¦अ॒भि॒ऽह्रुतः॑ |
स॒त्यया᳚¦वः॒¦दे॒वऽहू᳚त्या¦हु॒वे॒म॒¦शृ॒ण्व॒तः¦दे॒वाः॒¦अव॑से¦स्व॒स्तये᳚ ||

अपामी᳚वा॒मप॒विश्वा॒मना᳚हुति॒मपारा᳚तिंदुर्वि॒दत्रा᳚मघाय॒तः |{गयः प्लातः | विश्वदेवाः | जगती}

आ॒रेदे᳚वा॒द्वेषो᳚,अ॒स्मद्यु॑योतनो॒रुणः॒शर्म॑यच्छतास्व॒स्तये᳚ || {12/17}{10.63.12}{10.5.3.12}{8.2.5.2}{657, 900, 9455}

अप॑¦अमी᳚वा‌म्¦अप॑¦विश्वा᳚‌म्¦अना᳚हुति‌म्¦अप॑¦अरा᳚ति‌म्¦दुः॒ऽवि॒दत्रा᳚‌म्¦अ॒घ॒ऽय॒तः |
आ॒रे¦दे॒वाः॒¦द्वेषः॑¦अ॒स्मत्¦यु॒यो॒त॒न॒¦उ॒रु¦नः॒¦शर्म॑¦य॒च्छ॒त॒¦स्व॒स्तये᳚ ||

अरि॑ष्टः॒मर्तो॒विश्व॑एधते॒प्रप्र॒जाभि॑र्जायते॒धर्म॑ण॒स्परि॑ |{गयः प्लातः | विश्वदेवाः | जगती}

यमा᳚दित्यासो॒नय॑थासुनी॒तिभि॒रति॒विश्वा᳚निदुरि॒तास्व॒स्तये᳚ || {13/17}{10.63.13}{10.5.3.13}{8.2.5.3}{658, 900, 9456}

अरि॑ष्टः¦सः¦मर्तः॑¦विश्वः॑¦ए॒ध॒ते॒¦प्र¦प्र॒ऽजाभिः॑¦जा॒य॒ते॒¦धर्म॑णः¦परि॑ |
य‌म्¦आ॒दि॒त्या॒सः॒¦नय॑थ¦सु॒नी॒तिऽभिः॑¦अति॑¦विश्वा᳚नि¦दुः॒ऽ‌इ॒ता¦स्व॒स्तये᳚ ||

यंदे᳚वा॒सोऽव॑थ॒वाज॑सातौ॒यंशूर॑सातामरुतोहि॒तेधने᳚ |{गयः प्लातः | विश्वदेवाः | जगती}

प्रा॒त॒र्यावा᳚णं॒रथ॑मिन्द्रसान॒सिमरि॑ष्यन्त॒मारु॑हेमास्व॒स्तये᳚ || {14/17}{10.63.14}{10.5.3.14}{8.2.5.4}{659, 900, 9457}

य‌म्¦दे॒वा॒सः॒¦अव॑थ¦वाज॑ऽसातौ¦य‌म्¦शूर॑ऽसाता¦म॒रु॒तः॒¦हि॒ते¦धने᳚ |
प्रा॒तः॒ऽयावा᳚न‌म्¦रथ᳚‌म्¦इ॒न्द्र॒¦सा॒न॒सि‌म्¦अरि॑ष्यन्त‌म्¦आ¦रु॒हे॒म॒¦स्व॒स्तये᳚ ||

स्व॒स्तिनः॑प॒थ्या᳚सु॒धन्व॑सुस्व॒स्त्य१॑(अ॒)प्सुवृ॒जने॒स्व᳚र्वति |{गयः प्लातः | पथ्यास्वस्तिः | जगती}

स्व॒स्तिनः॑पुत्रकृ॒थेषु॒योनि॑षुस्व॒स्तिरा॒येम॑रुतोदधातन || {15/17}{10.63.15}{10.5.3.15}{8.2.5.5}{660, 900, 9458}

स्व॒स्ति¦नः॒¦प॒थ्या᳚सु¦धन्व॑ऽसु¦स्व॒स्ति¦अ॒प्ऽसु¦वृ॒जने᳚¦स्वः॑ऽवति |
स्व॒स्ति¦नः॒¦पु॒त्र॒ऽकृ॒थेषु॑¦योनि॑षु¦स्व॒स्ति¦रा॒ये¦म॒रु॒तः॒¦द॒धा॒त॒न॒ ||

स्व॒स्तिरिद्धिप्रप॑थे॒श्रेष्ठा॒रेक्ण॑स्वत्य॒भियावा॒ममेति॑ |{गयः प्लातः | पथ्यास्वस्तिः | त्रिष्टुप्}

सानो᳚,अ॒मासो,अर॑णे॒निपा᳚तुस्वावे॒शाभ॑वतुदे॒वगो᳚पा || {16/17}{10.63.16}{10.5.3.16}{8.2.5.6}{661, 900, 9459}

स्व॒स्तिः¦इत्¦हि¦प्रऽप॑थे¦श्रेष्ठा᳚¦रेक्ण॑स्वती¦अ॒भि¦या¦वा॒म‌म्¦एति॑ |
सा¦नः॒¦अ॒मा¦सो इति॑¦अर॑णे¦नि¦पा॒तु॒¦सु॒ऽआ॒वे॒शा¦भ॒व॒तु॒¦दे॒वऽगो᳚पा ||

ए॒वाप्ल॒तेःसू॒नुर॑वीवृधद्वो॒विश्व॑आदित्या,अदितेमनी॒षी |{गयः प्लातः | विश्वदेवाः | त्रिष्टुप्}

ई॒शा॒नासो॒नरो॒,अम॑र्त्ये॒नास्ता᳚वि॒जनो᳚दि॒व्योगये᳚न || {17/17}{10.63.17}{10.5.3.17}{8.2.5.7}{662, 900, 9460}

ए॒व¦प्ल॒तेः¦सू॒नुः¦अ॒वी॒वृ॒ध॒त्¦वः॒¦विश्वे᳚¦आ॒दि॒त्याः॒¦अ॒दि॒ते॒¦म॒नी॒षी |
ई॒शा॒नासः॑¦नरः॑¦अम॑र्त्येन¦अस्ता᳚वि¦जनः॑¦दि॒व्यः¦गये᳚न ||

[64] कथादेवानामिति सप्तदशर्चस्य सूक्तस्य गयःप्लातोविश्वेदेवाजगती द्वादशीषोडशीसप्तदृश्यस्त्रिष्टुभः ( भेदपक्षे - विश्वे - देवाः ४ आदित्यार्यमणः १ विश्वेदेवाः ३ नद्यः १ विश्वेदेवाः ४ द्यावापृथिव्यौ १ विश्वेदेवाः ३ एवं १७ ) |
क॒थादे॒वानां᳚कत॒मस्य॒याम॑निसु॒मन्तु॒नाम॑शृण्व॒तांम॑नामहे |{गयः प्लातः | विश्वदेवाः | जगती}

कोमृ॑ळातिकत॒मोनो॒मय॑स्करत्कत॒मऊ॒ती,अ॒भ्याव॑वर्तति || {1/17}{10.64.1}{10.5.4.1}{8.2.6.1}{663, 901, 9461}

क॒था¦दे॒वाना᳚‌म्¦क॒त॒मस्य॑¦याम॑नि¦सु॒ऽमन्तु॑¦नाम॑¦शृ॒ण्व॒ता‌म्¦म॒ना॒म॒हे॒ |
कः¦मृ॒ळा॒ति॒¦क॒त॒मः¦नः॒¦मयः॑¦क॒र॒त्¦क॒त॒मः¦ऊ॒ती¦अ॒भि¦आ¦व॒व॒र्त॒ति॒ ||

क्र॒तू॒यन्ति॒क्रत॑वोहृ॒त्सुधी॒तयो॒वेन᳚न्तिवे॒नाःप॒तय॒न्त्यादिशः॑ |{गयः प्लातः | विश्वदेवाः | जगती}

म॑र्डि॒तावि॑द्यते,अ॒न्यए᳚भ्योदे॒वेषु॑मे॒,अधि॒कामा᳚,अयंसत || {2/17}{10.64.2}{10.5.4.2}{8.2.6.2}{664, 901, 9462}

क्र॒तु॒ऽयन्ति॑¦क्रत॑वः¦हृ॒त्ऽसु¦धी॒तयः॑¦वेन᳚न्ति¦वे॒नाः¦प॒तय᳚न्ति¦आ¦दिशः॑ |
न¦म॒र्डि॒ता¦वि॒द्य॒ते॒¦अ॒न्यः¦ए॒भ्यः॒¦दे॒वेषु॑¦मे॒¦अधि॑¦कामाः᳚¦अ॒यं॒स॒त॒ ||

नरा᳚वा॒शंसं᳚पू॒षण॒मगो᳚ह्यम॒ग्निंदे॒वेद्ध॑म॒भ्य॑र्चसेगि॒रा |{गयः प्लातः | विश्वदेवाः | जगती}

सूर्या॒मासा᳚च॒न्द्रम॑साय॒मंदि॒वित्रि॒तंवात॑मु॒षस॑म॒क्तुम॒श्विना᳚ || {3/17}{10.64.3}{10.5.4.3}{8.2.6.3}{665, 901, 9463}

नरा॒शंस᳚‌म्¦वा॒¦पू॒षण᳚‌म्¦अगो᳚ह्य‌म्¦अ॒ग्नि‌म्¦दे॒वऽ‌इ᳚द्ध‌म्¦अ॒भि¦अ॒र्च॒से॒¦गि॒रा |
सूर्या॒मासा᳚¦च॒न्द्रम॑सा¦य॒म‌म्¦दि॒वि¦त्रि॒त‌म्¦वात᳚‌म्¦उ॒षस᳚‌म्¦अ॒क्तु‌म्¦अ॒श्विना᳚ ||

क॒थाक॒विस्तु॑वी॒रवा॒न्‌कया᳚गि॒राबृह॒स्पति᳚र्वावृधतेसुवृ॒क्तिभिः॑ |{गयः प्लातः | विश्वदेवाः | जगती}

अ॒जएक॑पात्सु॒हवे᳚भि॒रृक्व॑भि॒रहिः॑शृणोतुबु॒ध्न्यो॒३॑(ओ॒)हवी᳚मनि || {4/17}{10.64.4}{10.5.4.4}{8.2.6.4}{666, 901, 9464}

क॒था¦क॒विः¦तु॒वि॒ऽरवा᳚न्¦कया᳚¦गि॒रा¦बृह॒स्पतिः॑¦व॒वृ॒ध॒ते॒¦सु॒वृ॒क्तिऽभिः॑ |
अ॒जः¦एक॑ऽपात्¦सु॒ऽहवे᳚भिः¦ऋक्व॑ऽभिः¦अहिः॑¦शृ॒णो॒तु॒¦बु॒ध्न्यः॑¦हवी᳚मनि ||

दक्ष॑स्यवादिते॒जन्म॑निव्र॒तेराजा᳚नामि॒त्रावरु॒णावि॑वाससि |{गयः प्लातः | विश्वदेवाः | जगती}

अतू᳚र्तपन्थाःपुरु॒रथो᳚,अर्य॒मास॒प्तहो᳚ता॒विषु॑रूपेषु॒जन्म॑सु || {5/17}{10.64.5}{10.5.4.5}{8.2.6.5}{667, 901, 9465}

दक्ष॑स्य¦वा॒¦अ॒दि॒ते॒¦जन्म॑नि¦व्र॒ते¦राजा᳚ना¦मि॒त्रावरु॑णा¦आ¦वि॒वा॒स॒सि॒ |
अतू᳚र्तऽपन्थाः¦पु॒रु॒ऽरथः॑¦अ॒र्य॒मा¦स॒प्तऽहो᳚ता¦विषु॑ऽरूपेषु¦जन्म॑ऽसु ||

तेनो॒,अर्व᳚न्तोहवन॒श्रुतो॒हवं॒विश्वे᳚शृण्वन्तुवा॒जिनो᳚मि॒तद्र॑वः |{गयः प्लातः | विश्वदेवाः | जगती}

स॒ह॒स्र॒सामे॒धसा᳚ताविव॒त्मना᳚म॒होयेधनं᳚समि॒थेषु॑जभ्रि॒रे || {6/17}{10.64.6}{10.5.4.6}{8.2.7.1}{668, 901, 9466}

ते¦नः॒¦अर्व᳚न्तः¦ह॒व॒न॒ऽश्रुतः॑¦हव᳚‌म्¦विश्वे᳚¦शृ॒ण्व॒न्तु॒¦वा॒जिनः॑¦मि॒तऽद्र॑वः |
स॒ह॒स्र॒ऽसाः¦मे॒धसा᳚तौऽ‌इव¦त्मना᳚¦म॒हः¦ये¦धन᳚‌म्¦स॒‌म्ऽ‌इ॒थेषु॑¦ज॒भ्रि॒रे ||

प्रवो᳚वा॒युंर॑थ॒युजं॒पुरं᳚धिं॒स्तोमैः᳚कृणुध्वंस॒ख्याय॑पू॒षण᳚म् |{गयः प्लातः | विश्वदेवाः | जगती}

तेहिदे॒वस्य॑सवि॒तुःसवी᳚मनि॒क्रतुं॒सच᳚न्तेस॒चितः॒सचे᳚तसः || {7/17}{10.64.7}{10.5.4.7}{8.2.7.2}{669, 901, 9467}

प्र¦वः॒¦वा॒यु‌म्¦र॒थ॒ऽयुज᳚‌म्¦पुर᳚‌म्ऽधि‌म्¦स्तोमैः᳚¦कृ॒णु॒ध्व॒‌म्¦स॒ख्याय॑¦पू॒षण᳚‌म् |
ते¦हि¦दे॒वस्य॑¦स॒वि॒तुः¦सवी᳚मनि¦क्रतु᳚‌म्¦सच᳚न्ते¦स॒ऽचितः॑¦सऽचे᳚तसः ||

त्रिःस॒प्तस॒स्रान॒द्यो᳚म॒हीर॒पोवन॒स्पती॒न्‌पर्व॑ताँ,अ॒ग्निमू॒तये᳚ |{गयः प्लातः | विश्वदेवाः | जगती}

कृ॒शानु॒मस्तॄ᳚न्ति॒ष्यं᳚स॒धस्थ॒रु॒द्रंरु॒द्रेषु॑रु॒द्रियं᳚हवामहे || {8/17}{10.64.8}{10.5.4.8}{8.2.7.3}{670, 901, 9468}

त्रिः¦स॒प्त¦स॒स्राः¦न॒द्यः॑¦म॒हीः¦अ॒पः¦वन॒स्पती॒न्¦पर्व॑तान्¦अ॒ग्नि‌म्¦ऊ॒तये᳚ |
कृ॒शानु᳚‌म्¦अस्तॄ᳚न्¦ति॒ष्य᳚‌म्¦स॒धऽस्थे᳚¦आ¦रु॒द्र‌म्¦रु॒द्रेषु॑¦रु॒द्रिय᳚‌म्¦ह॒वा॒म॒हे॒ ||

सर॑स्वतीस॒रयुः॒सिन्धु॑रू॒र्मिभि᳚र्म॒होम॒हीरव॒साय᳚न्तु॒वक्ष॑णीः |{गयः प्लातः | विश्वदेवाः | जगती}

दे॒वीरापो᳚मा॒तरः॑सूदयि॒त्न्वो᳚घृ॒तव॒त्पयो॒मधु॑मन्नो,अर्चत || {9/17}{10.64.9}{10.5.4.9}{8.2.7.4}{671, 901, 9469}

सर॑स्वती¦स॒रयुः॑¦सिन्धुः॑¦ऊ॒र्मिऽभिः॑¦म॒हः¦म॒हीः¦अव॑सा¦आ¦य॒न्तु॒¦वक्ष॑णीः |
दे॒वीः¦आपः॑¦मा॒तरः॑¦सू॒द॒यि॒त्न्वः॑¦घृ॒तऽव॑त्¦पयः॑¦मधु॑ऽमत्¦नः॒¦अ॒र्च॒त॒ ||

उ॒तमा॒ताबृ॑हद्दि॒वाशृ॑णोतुन॒स्त्वष्टा᳚दे॒वेभि॒र्जनि॑भिःपि॒तावचः॑ |{गयः प्लातः | विश्वदेवाः | जगती}

ऋ॒भु॒क्षावाजो॒रथ॒स्पति॒र्भगो᳚र॒ण्वःशंसः॑शशमा॒नस्य॑पातुनः || {10/17}{10.64.10}{10.5.4.10}{8.2.7.5}{672, 901, 9470}

उ॒त¦मा॒ता¦बृ॒ह॒त्ऽदि॒वा¦शृ॒णो॒तु॒¦नः॒¦त्वष्टा᳚¦दे॒वेभिः॑¦जनि॑ऽभिः¦पिता᳚¦वचः॑ |
ऋ॒भु॒क्षाः¦वाजः॑¦रथः॒पतिः॑¦भगः॑¦र॒ण्वः¦शंसः॑¦श॒श॒मा॒नस्य॑¦पा॒तु॒¦नः॒ ||

र॒ण्वःसंदृ॑ष्टौपितु॒माँ,इ॑व॒क्षयो᳚भ॒द्रारु॒द्राणां᳚म॒रुता॒मुप॑स्तुतिः |{गयः प्लातः | विश्वदेवाः | जगती}

गोभिः॑ष्यामय॒शसो॒जने॒ष्वासदा᳚देवास॒इळ॑यासचेमहि || {11/17}{10.64.11}{10.5.4.11}{8.2.8.1}{673, 901, 9471}

र॒ण्वः¦स‌म्ऽदृ॑ष्टौ¦पि॒तु॒मान्ऽ‌इ᳚व¦क्षयः॑¦भ॒द्रा¦रु॒द्राणा᳚‌म्¦म॒रुता᳚‌म्¦उप॑ऽस्तुतिः |
गोभिः॑¦स्या॒म॒¦य॒शसः॑¦जने᳚षु¦आ¦सदा᳚¦दे॒वा॒सः॒¦इळ॑या¦स॒चे॒म॒हि॒ ||

यांमे॒धियं॒मरु॑त॒इन्द्र॒देवा॒,अद॑दातवरुणमित्रयू॒यम् |{गयः प्लातः | विश्वदेवाः | त्रिष्टुप्}

तांपी᳚पयत॒पय॑सेवधे॒नुंकु॒विद्गिरो॒,अधि॒रथे॒वहा᳚थ || {12/17}{10.64.12}{10.5.4.12}{8.2.8.2}{674, 901, 9472}

य‌म्¦मे॒¦धिय᳚‌म्¦मरु॑तः¦इन्द्र॑¦देवाः᳚¦अद॑दात¦व॒रु॒ण॒¦मि॒त्र॒¦यू॒य‌म् |
ता‌म्¦पी॒प॒य॒त॒¦पय॑साऽ‌इव¦धे॒नु‌म्¦कु॒वित्¦गिरः॑¦अधि॑¦रथे᳚¦वहा᳚थ ||

कु॒विद॒ङ्गप्रति॒यथा᳚चिद॒स्यनः॑सजा॒त्य॑स्यमरुतो॒बुबो᳚धथ |{गयः प्लातः | विश्वदेवाः | जगती}

नाभा॒यत्र॑प्रथ॒मंसं॒नसा᳚महे॒तत्र॑जामि॒त्वमदि॑तिर्दधातुनः || {13/17}{10.64.13}{10.5.4.13}{8.2.8.3}{675, 901, 9473}

कु॒वित्¦अ॒ङ्ग¦प्रति॑¦यथा᳚¦चि॒त्¦अ॒स्य¦नः॒¦स॒ऽजा॒त्य॑स्य¦म॒रु॒तः॒¦बुबो᳚धथ |
नाभा᳚¦यत्र॑¦प्र॒थ॒म‌म्¦स॒‌म्ऽनसा᳚महे¦तत्र॑¦जा॒मि॒ऽत्व‌म्¦अदि॑तिः¦द॒धा॒तु॒¦नः॒ ||

तेहिद्यावा᳚पृथि॒वीमा॒तरा᳚म॒हीदे॒वीदे॒वाञ्जन्म॑नाय॒ज्ञिये᳚,इ॒तः |{गयः प्लातः | विश्वदेवाः | जगती}

उ॒भेबि॑भृतउ॒भयं॒भरी᳚मभिःपु॒रूरेतां᳚सिपि॒तृभि॑श्चसिञ्चतः || {14/17}{10.64.14}{10.5.4.14}{8.2.8.4}{676, 901, 9474}

ते इति॑¦हि¦द्यावा᳚पृथि॒वी इति॑¦मा॒तरा᳚¦म॒ही इति॑¦दे॒वी इति॑¦दे॒वान्¦जन्म॑ना¦य॒ज्ञिये॒ इति॑¦इ॒तः |
उ॒भे इति॑¦बि॒भृ॒तः॒¦उ॒भय᳚‌म्¦भरी᳚मऽभिः¦पु॒रु¦रेतां᳚सि¦पि॒तृऽभिः॑¦च॒¦सिं॒च॒तः॒ ||

विषाहोत्रा॒विश्व॑मश्नोति॒वार्यं॒बृह॒स्पति॑र॒रम॑तिः॒पनी᳚यसी |{गयः प्लातः | विश्वदेवाः | जगती}

ग्रावा॒यत्र॑मधु॒षुदु॒च्यते᳚बृ॒हदवी᳚वशन्तम॒तिभि᳚र्मनी॒षिणः॑ || {15/17}{10.64.15}{10.5.4.15}{8.2.8.5}{677, 901, 9475}

वि¦सा¦होत्रा᳚¦विश्व᳚‌म्¦अ॒श्नो॒ति॒¦वार्य᳚‌म्¦बृह॒स्पतिः॑¦अ॒रम॑तिः¦पनी᳚यसी |
ग्रावा᳚¦यत्र॑¦म॒धु॒ऽसुत्¦उ॒च्यते᳚¦बृ॒हत्¦अवी᳚वशन्त¦म॒तिऽभिः॑¦म॒नी॒षिणः॑ ||

ए॒वाक॒विस्तु॑वी॒रवाँ᳚,ऋत॒ज्ञाद्र॑विण॒स्युर्द्रवि॑णसश्चका॒नः |{गयः प्लातः | विश्वदेवाः | त्रिष्टुप्}

उ॒क्थेभि॒रत्र॑म॒तिभि॑श्च॒विप्रोऽपी᳚पय॒द्गयो᳚दि॒व्यानि॒जन्म॑ || {16/17}{10.64.16}{10.5.4.16}{8.2.8.6}{678, 901, 9476}

ए॒व¦क॒विः¦तु॒वि॒ऽरवा᳚न्¦ऋ॒त॒ऽज्ञाः¦द्र॒वि॒ण॒स्युः¦द्रवि॑णसः¦च॒का॒नः |
उ॒क्थेभिः॑¦अत्र॑¦म॒तिऽभिः॑¦च॒¦विप्रः॑¦अपी᳚पयत्¦गयः॑¦दि॒व्यानि॑¦जन्म॑ ||

ए॒वाप्ल॒तेःसू॒नुर॑वीवृधद्वो॒विश्व॑आदित्या,अदितेमनी॒षी |{गयः प्लातः | विश्वदेवाः | त्रिष्टुप्}

ई॒शा॒नासो॒नरो॒,अम॑र्त्ये॒नास्ता᳚वि॒जनो᳚दि॒व्योगये᳚न || {17/17}{10.64.17}{10.5.4.17}{8.2.8.7}{679, 901, 9477}

ए॒व¦प्ल॒तेः¦सू॒नुः¦अ॒वी॒वृ॒ध॒त्¦वः॒¦विश्वे᳚¦आ॒दि॒त्याः॒¦अ॒दि॒ते॒¦म॒नी॒षी |
ई॒शा॒नासः॑¦नरः॑¦अम॑र्त्येन¦अस्ता᳚वि¦जनः॑¦दि॒व्यः¦गये᳚न ||

[65] अग्निरिंद्रइति पंचदशर्चस्य सूक्तस्य वासुक्रोव सुकर्णो विश्वेदेवाजगत्यंव्यात्रिष्टुप् | ( भेदपक्षे –विश्वेदेवाः ४ मित्रावरुणौ १ गौः१ विश्वेदेवाः १ द्यावापृथिव्यौ १ विश्वेदेवाः ३ अश्विनौ १ विश्वेदेवाः ३ एवं १५ ) |
अ॒ग्निरिन्द्रो॒वरु॑णोमि॒त्रो,अ᳚र्य॒मावा॒युःपू॒षासर॑स्वतीस॒जोष॑सः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

आ॒दि॒त्याविष्णु᳚र्म॒रुतः॒स्व॑र्बृ॒हत्सोमो᳚रु॒द्रो,अदि॑ति॒र्ब्रह्म॑ण॒स्पतिः॑ || {1/15}{10.65.1}{10.5.5.1}{8.2.9.1}{680, 902, 9478}

अ॒ग्निः¦इन्द्रः॑¦वरु॑णः¦मि॒त्रः¦आ॒र्य॒मा¦वा॒युः¦पू॒षा¦सर॑स्वती¦स॒ऽजोष॑सः |
आ॒दि॒त्याः¦विष्णुः॑¦म॒रुतः॑¦स्वः॑¦बृ॒हत्¦सोमः॑¦रु॒द्रः¦अदि॑तिः¦ब्रह्म॑णः¦पतिः॑ ||

इ॒न्द्रा॒ग्नीवृ॑त्र॒हत्ये᳚षु॒सत्प॑तीमि॒थोहि᳚न्वा॒नात॒न्वा॒३॑(आ॒)समो᳚कसा |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

अ॒न्तरि॑क्षं॒मह्याप॑प्रु॒रोज॑सा॒सोमो᳚घृत॒श्रीर्म॑हि॒मान॑मी॒रय॑न् || {2/15}{10.65.2}{10.5.5.2}{8.2.9.2}{681, 902, 9479}

इ॒न्द्रा॒ग्नी इति॑¦वृ॒त्र॒ऽहत्ये᳚षु¦सत्प॑ती॒ इति॒ सत्ऽप॑ती¦मि॒थः¦हि॒न्वा॒ना¦त॒न्वा᳚¦स‌म्ऽओ᳚कसा |
अ॒न्तरि॑क्ष‌म्¦महि॑¦आ¦प॒प्रुः॒¦ओज॑सा¦सोमः॑¦घृ॒त॒ऽश्रीः¦म॒हि॒मान᳚‌म्¦ई॒रय॑न् ||

तेषां॒हिम॒ह्नाम॑ह॒ताम॑न॒र्वणां॒स्तोमाँ॒,इय᳚र्म्यृत॒ज्ञा,ऋ॑ता॒वृधा᳚म् |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

ये,अ॑प्स॒वम᳚र्ण॒वंचि॒त्ररा᳚धस॒स्तेनो᳚रासन्तांम॒हये᳚सुमि॒त्र्याः || {3/15}{10.65.3}{10.5.5.3}{8.2.9.3}{682, 902, 9480}

तेषा᳚‌म्¦हि¦म॒ह्ना¦मा॒ह॒ता‌म्¦अ॒न॒र्वणा᳚‌म्¦स्तोमा᳚न्¦इय᳚र्मि¦ऋ॒त॒ऽज्ञाः¦ऋ॒त॒ऽवृधा᳚‌म् |
ये¦अ॒प्स॒व‌म्¦अ॒र्ण॒व‌म्¦चि॒त्रऽरा᳚धसः¦ते¦नः॒¦रा॒स॒न्ता॒‌म्¦म॒हये᳚¦सु॒ऽमि॒त्र्याः ||

स्व᳚र्णरम॒न्तरि॑क्षाणिरोच॒नाद्यावा॒भूमी᳚पृथि॒वींस्क᳚म्भु॒रोज॑सा |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

पृ॒क्षा,इ॑वम॒हय᳚न्तःसुरा॒तयो᳚दे॒वाःस्त॑वन्ते॒मनु॑षायसू॒रयः॑ || {4/15}{10.65.4}{10.5.5.4}{8.2.9.4}{683, 902, 9481}

स्वः॑ऽनर‌म्¦अ॒न्तरि॑क्षाणि¦रो॒च॒ना¦द्यावा॒भूमी॒ इति॑¦पृ॒थि॒वी‌म्¦स्क॒म्भुः॒¦ओज॑सा |
पृ॒क्षाःऽ‌इ᳚व¦म॒हय᳚न्तः¦सु॒ऽरा॒तयः॑¦दे॒वाः¦स्त॒व॒न्ते॒¦मनु॑षाय¦सू॒रयः॑ ||

मि॒त्राय॑शिक्ष॒वरु॑णायदा॒शुषे॒यास॒म्राजा॒मन॑सा॒प्र॒युच्छ॑तः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

ययो॒र्धाम॒धर्म॑णा॒रोच॑तेबृ॒हद्ययो᳚रु॒भेरोद॑सी॒नाध॑सी॒वृतौ᳚ || {5/15}{10.65.5}{10.5.5.5}{8.2.9.5}{684, 902, 9482}

मि॒त्राय॑¦शि॒क्ष॒¦वरु॑णाय¦दा॒शुषे᳚¦या¦स॒‌म्ऽराजा᳚¦मन॑सा¦न¦प्र॒ऽयुच्छ॑तः |
ययोः᳚¦धाम॑¦धर्म॑णा¦रोच॑ते¦बृ॒हत्¦ययोः᳚¦उ॒भे इति॑¦रोद॑सी॒ इति॑¦नाध॑सी॒ इति॑¦वृतौ᳚ ||

यागौर्व॑र्त॒निंप॒र्येति॑निष्कृ॒तंपयो॒दुहा᳚नाव्रत॒नीर॑वा॒रतः॑ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

साप्र॑ब्रुवा॒णावरु॑णायदा॒शुषे᳚दे॒वेभ्यो᳚दाशद्ध॒विषा᳚वि॒वस्व॑ते || {6/15}{10.65.6}{10.5.5.6}{8.2.10.1}{685, 902, 9483}

या¦गौः¦व॒र्त॒नि‌म्¦प॒रि॒ऽएति॑¦निः॒ऽकृ॒त‌म्¦पयः॑¦दुहा᳚ना¦व्र॒त॒ऽनीः¦अ॒वा॒रतः॑ |
सा¦प्र॒ऽब्रु॒वा॒णा¦वरु॑णाय¦दा॒शुषे᳚¦दे॒वेभ्यः॑¦दा॒श॒त्¦ह॒विषा᳚¦वि॒वस्व॑ते ||

दि॒वक्ष॑सो,अग्निजि॒ह्वा,ऋ॑ता॒वृध॑ऋ॒तस्य॒योनिं᳚विमृ॒शन्त॑आसते |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

द्यांस्क॑भि॒त्व्य१॑(अ॒)पच॑क्रु॒रोज॑साय॒ज्ञंज॑नि॒त्वीत॒न्वी॒३॑(ई॒)निमा᳚मृजुः || {7/15}{10.65.7}{10.5.5.7}{8.2.10.2}{686, 902, 9484}

दि॒वक्ष॑सः¦अ॒ग्नि॒ऽजि॒ह्वाः¦ऋ॒त॒ऽवृधः॑¦ऋ॒तस्य॑¦योनि᳚‌म्¦वि॒ऽमृ॒शन्तः॑¦आ॒स॒ते॒ |
द्या‌म्¦स्क॒भि॒त्वी¦अ॒पः¦आ¦च॒क्रुः॒¦ओज॑सा¦य॒ज्ञ‌म्¦ज॒नि॒त्वी¦त॒न्वि॑¦नि¦म॒मृ॒जुः॒ ||

प॒रि॒क्षिता᳚पि॒तरा᳚पूर्व॒जाव॑री,ऋ॒तस्य॒योना᳚क्षयतः॒समो᳚कसा |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

द्यावा᳚पृथि॒वीवरु॑णाय॒सव्र॑तेघृ॒तव॒त्पयो᳚महि॒षाय॑पिन्वतः || {8/15}{10.65.8}{10.5.5.8}{8.2.10.3}{687, 902, 9485}

प॒रि॒ऽक्षिता᳚¦पि॒तरा᳚¦पू॒र्व॒जाव॑री॒ इति॑ पूर्व॒ऽजाव॑री¦ऋ॒तस्य॑¦योना᳚¦क्ष॒य॒तः॒¦स‌म्ऽओ᳚कसा |
द्यावा᳚पृथि॒वी इति॑¦वरु॑णाय¦सव्र॑ते॒ इति॒ सऽव्र॑ते¦घृ॒तऽव॑त्¦पयः॑¦म॒हि॒षाय॑¦पि॒न्व॒तः॒ ||

प॒र्जन्या॒वाता᳚वृष॒भापु॑री॒षिणे᳚न्द्रवा॒यूवरु॑णोमि॒त्रो,अ᳚र्य॒मा |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

दे॒वाँ,आ᳚दि॒त्याँ,अदि॑तिंहवामहे॒येपार्थि॑वासोदि॒व्यासो᳚,अ॒प्सुये || {9/15}{10.65.9}{10.5.5.9}{8.2.10.4}{688, 902, 9486}

प॒र्जन्या॒वाता᳚¦वृ॒ष॒भा¦पु॒री॒षिणा᳚¦इ॒न्द्र॒वा॒यू इति॑¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा |
दे॒वान्¦आ॒दि॒त्यान्¦अदि॑ति‌म्¦ह॒वा॒म॒हे॒¦ये¦पार्थि॑वासः¦दि॒व्यासः॑¦अ॒प्ऽसु¦ये ||

त्वष्टा᳚रंवा॒युमृ॑भवो॒ओह॑ते॒दैव्या॒होता᳚रा,उ॒षसं᳚स्व॒स्तये᳚ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

बृह॒स्पतिं᳚वृत्रखा॒दंसु॑मे॒धस॑मिन्द्रि॒यंसोमं᳚धन॒सा,उ॑ईमहे || {10/15}{10.65.10}{10.5.5.10}{8.2.10.5}{689, 902, 9487}

त्वष्टा᳚र‌म्¦वा॒यु‌म्¦ऋ॒भ॒वः॒¦यः¦ओह॑ते¦दैव्या᳚¦होता᳚रौ¦उ॒षस᳚‌म्¦स्व॒स्तये᳚ |
बृह॒स्पति᳚‌म्¦वृ॒त्र॒ऽखा॒द‌म्¦सु॒ऽमे॒धस᳚‌म्¦इ॒न्द्रि॒य‌म्¦सोम᳚‌म्¦ध॒न॒ऽसाः¦ऊँ॒ इति॑¦ई॒म॒हे॒ ||

ब्रह्म॒गामश्वं᳚ज॒नय᳚न्त॒ओष॑धी॒र्वन॒स्पती᳚न्‌पृथि॒वींपर्व॑ताँ,अ॒पः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

सूर्यं᳚दि॒विरो॒हय᳚न्तःसु॒दान॑व॒आर्या᳚व्र॒तावि॑सृ॒जन्तो॒,अधि॒क्षमि॑ || {11/15}{10.65.11}{10.5.5.11}{8.2.11.1}{690, 902, 9488}

ब्रह्म॑¦गा‌म्¦अश्व᳚‌म्¦ज॒नय᳚न्तः¦ओष॑धीः¦वन॒स्पती᳚न्¦पृ॒थि॒वी‌म्¦पर्व॑तान्¦अ॒पः |
सूर्य॑¦दि॒वि¦रो॒हय᳚न्तः¦सु॒ऽदान॑वः¦आर्या᳚¦व्र॒ता¦वि॒ऽसृ॒जन्तः॑¦अधि॑¦क्षमि॑ ||

भु॒ज्युमंह॑सःपिपृथो॒निर॑श्विना॒श्यावं᳚पु॒त्रंव॑ध्रिम॒त्या,अ॑जिन्वतम् |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

क॒म॒द्युवं᳚विम॒दायो᳚हथुर्यु॒वंवि॑ष्णा॒प्व१॑(अं॒)विश्व॑का॒याव॑सृजथः || {12/15}{10.65.12}{10.5.5.12}{8.2.11.2}{691, 902, 9489}

भु॒ज्यु‌म्¦अंह॑सः¦पि॒पृ॒थः॒¦निः¦अ॒श्वि॒ना॒¦श्याव᳚‌म्¦पु॒त्र‌म्¦व॒ध्रि॒ऽम॒त्याः¦अ॒जि॒न्व॒त॒‌म् |
क॒म॒ऽद्युव᳚‌म्¦वि॒ऽम॒दाय॑¦ऊ॒ह॒थुः॒¦यु॒व‌म्¦वि॒ष्णा॒प्व᳚‌म्¦विश्व॑काय¦अव॑¦सृ॒ज॒थः॒ ||

पावी᳚रवीतन्य॒तुरेक॑पाद॒जोदि॒वोध॒र्तासिन्धु॒रापः॑समु॒द्रियः॑ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

विश्वे᳚दे॒वासः॑शृणव॒न्वचां᳚सिमे॒सर॑स्वतीस॒हधी॒भिःपुरं᳚ध्या || {13/15}{10.65.13}{10.5.5.13}{8.2.11.3}{692, 902, 9490}

पावी᳚रवी¦त॒न्य॒तुः¦एक॑ऽपात्¦अ॒जः¦दि॒वः¦ध॒र्ता¦सिन्धुः॑¦आपः॑¦स॒मु॒द्रियः॑ |
विश्वे᳚¦दे॒वासः॑¦शृ॒ण॒व॒न्¦वचां᳚सि¦मे॒¦सर॑स्वती¦स॒ह¦धी॒भिः¦पुर᳚‌म्ऽध्या ||

विश्वे᳚दे॒वाःस॒हधी॒भिःपुरं᳚ध्या॒मनो॒र्यज॑त्रा,अ॒मृता᳚ऋत॒ज्ञाः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

रा॒ति॒षाचो᳚,अभि॒षाचः॑स्व॒र्विदः॒स्व१॑(अ॒)र्गिरो॒ब्रह्म॑सू॒क्तंजु॑षेरत || {14/15}{10.65.14}{10.5.5.14}{8.2.11.4}{693, 902, 9491}

विश्वे᳚¦दे॒वाः¦स॒ह¦धी॒भिः¦पुर᳚‌म्ऽध्या¦मनोः᳚¦यज॑त्राः¦अ॒मृताः᳚¦ऋ॒त॒ऽज्ञाः |
रा॒ति॒ऽसाचः॑¦अ॒भि॒ऽसाचः॑¦स्वः॒ऽविदः॑¦स्वः॑¦गिरः॑¦ब्रह्म॑¦सु॒।औ॒क्त‌म्¦जु॒षे॒र॒त॒ ||

दे॒वान्‌वसि॑ष्ठो,अ॒मृता᳚न्ववन्दे॒येविश्वा॒भुव॑ना॒भिप्र॑त॒स्थुः |{वसुकर्णो वासुक्रः | विश्वदेवाः | त्रिष्टुप्}

तेनो᳚रासन्तामुरुगा॒यम॒द्ययू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {15/15}{10.65.15}{10.5.5.15}{8.2.11.5}{694, 902, 9492}

दे॒वान्¦वसि॑ष्ठः¦अ॒मृता᳚न्¦व॒व॒न्दे॒¦ये¦विश्वा᳚¦भुव॑ना¦अ॒भि¦प्र॒ऽत॒स्थुः |
ते¦नः॒¦रा॒स॒न्ता॒‌म्¦उ॒रु॒ऽगा॒य‌म्¦अ॒द्य¦यू॒य‌म्¦पा॒त॒¦स्व॒स्तिऽभिः॑¦सदा᳚¦नः॒ ||

[66] देवान्हुवइति पंचदशर्चस्य सूक्तस्य वासुक्रोवसुकर्णो विश्वेदेवाजगत्यंत्यात्रिष्टुप् (पक्षे-विश्वेदेवाः ६ अग्नीषोमौ १ विश्वेदेवाः ८ एवं १५) |
दे॒वान्‌हु॑वेबृ॒हच्छ्र॑वसःस्व॒स्तये᳚ज्योति॒ष्कृतो᳚,अध्व॒रस्य॒प्रचे᳚तसः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

येवा᳚वृ॒धुःप्र॑त॒रंवि॒श्ववे᳚दस॒इन्द्र॑ज्येष्ठासो,अ॒मृता᳚ऋता॒वृधः॑ || {1/15}{10.66.1}{10.5.6.1}{8.2.12.1}{695, 903, 9493}

दे॒वान्¦हु॒वे॒¦बृ॒हत्ऽश्र॑वसः¦स्व॒स्तये᳚¦ज्यो॒तिः॒ऽकृतः॑¦अ॒ध्व॒रस्य॑¦प्रऽचे᳚तसः |
ये¦व॒वृ॒धुः¦प्र॒ऽत॒र‌म्¦वि॒श्वऽवे᳚दसः¦इन्द्र॑ऽज्येष्ठासः¦अ॒मृताः᳚¦ऋ॒त॒ऽवृधः॑ ||

इन्द्र॑प्रसूता॒वरु॑णप्रशिष्टा॒येसूर्य॑स्य॒ज्योति॑षोभा॒गमा᳚न॒शुः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

म॒रुद्ग॑णेवृ॒जने॒मन्म॑धीमहि॒माघो᳚नेय॒ज्ञंज॑नयन्तसू॒रयः॑ || {2/15}{10.66.2}{10.5.6.2}{8.2.12.2}{696, 903, 9494}

इन्द्र॑ऽप्रसूताः¦वरु॑णऽप्रशिष्टाः¦ये¦सूर्य॑स्य¦ज्योति॑षः¦भा॒ग‌म्¦आ॒न॒शुः |
म॒रुत्ऽग॑णे¦वृ॒जने᳚¦मन्म॑¦धी॒म॒हि॒¦माघो᳚ने¦य॒ज्ञ‌म्¦ज॒न॒य॒न्त॒¦सू॒रयः॑ ||

इन्द्रो॒वसु॑भिः॒परि॑पातुनो॒गय॑मादि॒त्यैर्नो॒,अदि॑तिः॒शर्म॑यच्छतु |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

रु॒द्रोरु॒द्रेभि॑र्दे॒वोमृ॑ळयातिन॒स्त्वष्टा᳚नो॒ग्नाभिः॑सुवि॒ताय॑जिन्वतु || {3/15}{10.66.3}{10.5.6.3}{8.2.12.3}{697, 903, 9495}

इन्द्रः॑¦वसु॑ऽभिः¦परि॑¦पा॒तु॒¦नः॒¦गय᳚‌म्¦आ॒दि॒त्यैः¦नः॒¦अदि॑तिः¦शर्म॑¦य॒च्छ॒तु॒ |
रु॒द्रः¦रु॒द्रेभिः॑¦दे॒वः¦मृ॒ळ॒या॒ति॒¦नः॒¦त्वष्टा᳚¦नः॒¦ग्नाभिः॑¦सु॒वि॒ताय॑¦जि॒न्व॒तु॒ ||

अदि॑ति॒र्द्यावा᳚पृथि॒वी,ऋ॒तंम॒हदिन्द्रा॒विष्णू᳚म॒रुतः॒स्व॑र्बृ॒हत् |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

दे॒वाँ,आ᳚दि॒त्याँ,अव॑सेहवामहे॒वसू᳚न्‌रु॒द्रान्‌त्स॑वि॒तारं᳚सु॒दंस॑सम् || {4/15}{10.66.4}{10.5.6.4}{8.2.12.4}{698, 903, 9496}

अदि॑तिः¦द्यावा᳚पृथि॒वी इति॑¦ऋ॒त‌म्¦म॒हत्¦इन्द्रा॒विष्णू॒ इति॑¦म॒रुतः॒¦स्वः॑¦बृ॒हत् |
दे॒वान्¦आ॒दि॒त्यान्¦अव॑से¦ह॒वा॒म॒हे॒¦वसू᳚न्¦रु॒द्रान्¦स॒वि॒तार᳚‌म्¦सु॒ऽदंस॑स‌म् ||

सर॑स्वान्धी॒भिर्वरु॑णोधृ॒तव्र॑तःपू॒षाविष्णु᳚र्महि॒मावा॒युर॒श्विना᳚ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

ब्र॒ह्म॒कृतो᳚,अ॒मृता᳚वि॒श्ववे᳚दसः॒शर्म॑नोयंसन्त्रि॒वरू᳚थ॒मंह॑सः || {5/15}{10.66.5}{10.5.6.5}{8.2.12.5}{699, 903, 9497}

सर॑स्वान्¦धी॒भिः¦वरु॑णः¦धृ॒तऽव्र॑तः¦पू॒षा¦विष्णुः॑¦म॒हि॒मा¦वा॒युः¦अ॒श्विना᳚ |
ब्र॒ह्म॒ऽकृतः॑¦अ॒मृताः᳚¦वि॒श्वऽवे᳚दसः¦शर्म॑¦नः॒¦यं॒स॒न्¦त्रि॒ऽवरू᳚थ‌म्¦अंह॑सः ||

वृषा᳚य॒ज्ञोवृष॑णःसन्तुय॒ज्ञिया॒वृष॑णोदे॒वावृष॑णोहवि॒ष्कृतः॑ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

वृष॑णा॒द्यावा᳚पृथि॒वी,ऋ॒ताव॑री॒वृषा᳚प॒र्जन्यो॒वृष॑णोवृष॒स्तुभः॑ || {6/15}{10.66.6}{10.5.6.6}{8.2.13.1}{700, 903, 9498}

वृषा᳚¦य॒ज्ञः¦वृष॑णः¦स॒न्तु॒¦य॒ज्ञियाः᳚¦वृष॑णः¦दे॒वाः¦वृष॑णः¦ह॒विः॒ऽकृतः॑ |
वृष॑णा¦द्यावा᳚पृथि॒वी इति॑¦ऋ॒तव॑री॒ इत्यृ॒तऽव॑री¦वृषा᳚¦प॒र्जन्यः॑¦वृष॑णः¦वृ॒ष॒ऽस्तुभः॑ ||

अ॒ग्नीषोमा॒वृष॑णा॒वाज॑सातयेपुरुप्रश॒स्तावृष॑णा॒,उप॑ब्रुवे |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

यावी᳚जि॒रेवृष॑णोदेवय॒ज्यया॒तानः॒शर्म॑त्रि॒वरू᳚थं॒वियं᳚सतः || {7/15}{10.66.7}{10.5.6.7}{8.2.13.2}{701, 903, 9499}

अ॒ग्नीषोमा᳚¦वृष॑णा¦वाज॑ऽसातये¦पु॒रु॒ऽप्र॒श॒स्ता¦वृष॑णौ¦उप॑¦ब्रु॒वे॒ |
यौ¦ई॒जि॒रे¦वृष॑णः¦दे॒व॒ऽय॒ज्यया᳚¦ता¦नः॒¦शर्म॑¦त्रि॒ऽवरू᳚थ‌म्¦वि¦यां॒स॒तः॒ ||

धृ॒तव्र॑ताः,क्ष॒त्रिया᳚यज्ञनि॒ष्कृतो᳚बृहद्दि॒वा,अ॑ध्व॒राणा᳚मभि॒श्रियः॑ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

अ॒ग्निहो᳚तारऋत॒सापो᳚,अ॒द्रुहो॒ऽपो,अ॑सृज॒न्ननु॑वृत्र॒तूर्ये᳚ || {8/15}{10.66.8}{10.5.6.8}{8.2.13.3}{702, 903, 9500}

धृ॒तऽव्र॑ताः¦क्ष॒त्रियाः᳚¦य॒ज्ञ॒निः॒ऽकृतः॑¦बृ॒ह॒त्ऽदि॒वाः¦अ॒ध्व॒राणा᳚‌म्¦अ॒भि॒ऽश्रियः॑ |
अ॒ग्निऽहो᳚तारः¦ऋ॒त॒ऽसापः॑¦अ॒द्रुहः॑¦अ॒पः¦अ॒सृज॒न्¦अनु॑¦वृ॒त्र॒ऽतूर्ये᳚ ||

द्यावा᳚पृथि॒वीज॑नयन्न॒भिव्र॒ताप॒ओष॑धीर्व॒निना᳚निय॒ज्ञिया᳚ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

अ॒न्तरि॑क्षं॒स्व१॑(अ॒)राप॑प्रुरू॒तये॒वशं᳚दे॒वास॑स्त॒न्वी॒३॑(ई॒)निमा᳚मृजुः || {9/15}{10.66.9}{10.5.6.9}{8.2.13.4}{703, 903, 9501}

द्यावा᳚पृथि॒वी इति॑¦ज॒न॒य॒न्¦अ॒भि¦व्र॒ता¦आपः॑¦ओष॑धीः¦व॒निना᳚नि¦य॒ज्ञिया᳚ |
अ॒न्तरि॑क्ष‌म्¦स्वः॑¦आ¦प॒प्रुः॒¦ऊ॒तये᳚¦वश᳚‌म्¦दे॒वासः॑¦त॒न्वि॑¦नि¦म॒मृ॒जुः॒ ||

ध॒र्तारो᳚दि॒वऋ॒भवः॑सु॒हस्ता᳚वातापर्ज॒न्याम॑हि॒षस्य॑तन्य॒तोः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

आप॒ओष॑धीः॒प्रति॑रन्तुनो॒गिरो॒भगो᳚रा॒तिर्वा॒जिनो᳚यन्तुमे॒हव᳚म् || {10/15}{10.66.10}{10.5.6.10}{8.2.13.5}{704, 903, 9502}

ध॒र्तारः॑¦दि॒वः¦ऋ॒भवः॑¦सु॒ऽहस्ताः᳚¦वा॒ता॒प॒र्ज॒न्या¦म॒हि॒षस्य॑¦त॒न्य॒तोः |
आपः॑¦ओष॑धीः¦प्र¦ति॒र॒न्तु॒¦नः॒¦गिरः॒¦भगः॑¦रा॒तिः¦वा॒जिनः॑¦य॒न्तु॒¦मे॒¦हव᳚‌म् ||

स॒मु॒द्रःसिन्धू॒रजो᳚,अ॒न्तरि॑क्षम॒जएक॑पात्तनयि॒त्नुर᳚र्ण॒वः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

अहि॑र्बु॒ध्न्यः॑शृणव॒द्वचां᳚सिमे॒विश्वे᳚दे॒वास॑उ॒तसू॒रयो॒मम॑ || {11/15}{10.66.11}{10.5.6.11}{8.2.14.1}{705, 903, 9503}

स॒मु॒द्रः¦सिन्धुः॑¦रजः॑¦अ॒न्तरि॑क्ष‌म्¦अ॒जः¦एक॑ऽपात्¦त॒न॒यि॒त्नुः¦अ॒र्ण॒वः |
अहिः॑¦बु॒ध्न्यः॑¦शृ॒ण॒व॒त्¦वचां᳚सि¦मे॒¦विश्वे᳚¦दे॒वासः॑¦उ॒त¦सू॒रयः॑¦मम॑ ||

स्याम॑वो॒मन॑वोदे॒ववी᳚तये॒प्राञ्चं᳚नोय॒ज्ञंप्रण॑यतसाधु॒या |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

आदि॑त्या॒रुद्रा॒वस॑वः॒सुदा᳚नवइ॒माब्रह्म॑श॒स्यमा᳚नानिजिन्वत || {12/15}{10.66.12}{10.5.6.12}{8.2.14.2}{706, 903, 9504}

स्याम॑¦वः॒¦मन॑वः¦दे॒वऽवी᳚तये¦प्रांच᳚‌म्¦नः॒¦य॒ज्ञ‌म्¦प्र¦न॒य॒त॒¦सा॒धु॒ऽया |
आदि॑त्याः¦रुद्राः᳚¦वस॑वः¦सुऽदा᳚नवः¦इ॒मा¦ब्रह्म॑¦श॒स्यमा᳚नानि¦जि॒न्व॒त॒ ||

दैव्या॒होता᳚राप्रथ॒मापु॒रोहि॑तऋ॒तस्य॒पन्था॒मन्वे᳚मिसाधु॒या |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

क्षेत्र॑स्य॒पतिं॒प्रति॑वेशमीमहे॒विश्वा᳚न्दे॒वाँ,अ॒मृताँ॒,अप्र॑युच्छतः || {13/15}{10.66.13}{10.5.6.13}{8.2.14.3}{707, 903, 9505}

दैव्या᳚¦होता᳚रा¦प्र॒थ॒मा¦पु॒रःऽहि॑ता¦ऋ॒तस्य॑¦पन्था᳚‌म्¦अनु॑¦ए॒मि॒¦सा॒धु॒ऽया |
क्षेत्र॑स्य¦पति᳚‌म्¦प्रति॑ऽवेश‌म्¦ई॒म॒हे॒¦विश्वा᳚न्¦दे॒वान्¦अ॒मृता᳚न्¦अप्र॑ऽयुच्छतः ||

वसि॑ष्ठासःपितृ॒वद्वाच॑मक्रतदे॒वाँ,ईळा᳚ना,ऋषि॒वत्स्व॒स्तये᳚ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

प्री॒ता,इ॑वज्ञा॒तयः॒काम॒मेत्या॒स्मेदे᳚वा॒सोऽव॑धूनुता॒वसु॑ || {14/15}{10.66.14}{10.5.6.14}{8.2.14.4}{708, 903, 9506}

वसि॑ष्ठासः¦पि॒तृ॒ऽवत्¦वाच᳚‌म्¦अ॒क्र॒त॒¦दे॒वान्¦ईळा᳚नाः¦ऋ॒षि॒ऽवत्¦स्व॒स्तये᳚ |
प्री॒ताःऽ‌इ᳚व¦ज्ञा॒तयः॑¦काम᳚‌म्¦आ॒ऽ‌इत्य॑¦अ॒स्मे इति॑¦दे॒वा॒सः¦अव॑¦धू॒नु॒त॒¦वसु॑ ||

दे॒वान्‌वसि॑ष्ठो,अ॒मृता᳚न्ववन्दे॒येविश्वा॒भुव॑ना॒भिप्र॑त॒स्थुः |{वसुकर्णो वासुक्रः | विश्वदेवाः | त्रिष्टुप्}

तेनो᳚रासन्तामुरुगा॒यम॒द्ययू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {15/15}{10.66.15}{10.5.6.15}{8.2.14.5}{709, 903, 9507}

दे॒वान्¦वसि॑ष्ठः¦अ॒मृता᳚न्¦व॒व॒न्दे॒¦ये¦विश्वा᳚¦भुव॑ना¦अ॒भि¦प्र॒ऽत॒स्थुः |
ते¦नः॒¦रा॒स॒न्ता॒‌म्¦उ॒रु॒ऽगा॒य‌म्¦अ॒द्य¦यू॒य‌म्¦पा॒त॒¦स्व॒स्तिऽभिः॑¦सदा᳚¦नः॒ ||

[67] इमांधियमिति द्वादशर्चस्य सूक्तस्यांगिरसोऽयास्यो बृहस्पतिस्त्रिष्टुप् |
इ॒मांधियं᳚स॒प्तशी᳚र्ष्णींपि॒तान॑ऋ॒तप्र॑जातांबृह॒तीम॑विन्दत् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

तु॒रीयं᳚स्विज्जनयद्वि॒श्वज᳚न्यो॒ऽयास्य॑उ॒क्थमिन्द्रा᳚य॒शंस॑न् || {1/12}{10.67.1}{10.5.7.1}{8.2.15.1}{710, 904, 9508}

इ॒मा‌म्¦धिय᳚‌म्¦स॒प्तऽशी᳚र्ष्णी‌म्¦पि॒ता¦नः॒¦ऋ॒तऽप्र॑जाता‌म्¦बृ॒ह॒ती‌म्¦अ॒वि॒न्द॒त् |
तु॒रीय᳚‌म्¦स्वि॒त्¦ज॒न॒य॒त्¦वि॒श्वऽज᳚न्यः¦अ॒यास्यः॑¦उ॒क्थ‌म्¦इन्द्रा᳚य¦शंस॑न् ||

ऋ॒तंशंस᳚न्तऋ॒जुदीध्या᳚नादि॒वस्पु॒त्रासो॒,असु॑रस्यवी॒राः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

विप्रं᳚प॒दमङ्गि॑रसो॒दधा᳚नाय॒ज्ञस्य॒धाम॑प्रथ॒मंम॑नन्त || {2/12}{10.67.2}{10.5.7.2}{8.2.15.2}{711, 904, 9509}

ऋ॒त‌म्¦शंस᳚न्तः¦ऋ॒जु¦दीध्या᳚नाः¦दि॒वः¦पु॒त्रासः॑¦असु॑रस्य¦वी॒राः |
विप्र᳚‌म्¦प॒द‌म्¦अङ्गि॑रसः¦दधा᳚नाः¦य॒ज्ञस्य॑¦धाम॑¦प्र॒थ॒म‌म्¦म॒न॒न्त॒ ||

हं॒सैरि॑व॒सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया᳚नि॒नह॑ना॒व्यस्य॑न् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गा,उ॒तप्रास्तौ॒दुच्च॑वि॒द्वाँ,अ॑गायत् || {3/12}{10.67.3}{10.5.7.3}{8.2.15.3}{712, 904, 9510}

हं॒सैःऽ‌इ᳚व¦सखि॑ऽभिः¦वाव॑दत्ऽभिः¦अ॒श्म॒न्ऽमया᳚नि¦नह॑ना¦वि॒।आस्य॑न् |
बृह॒स्पतिः॑¦अ॒भि॒ऽकनि॑क्रदत्¦गाः¦उ॒त¦प्र¦अ॒स्तौ॒त्¦उत्¦च॒¦वि॒द्वान्¦अ॒गा॒य॒त् ||

अ॒वोद्वाभ्यां᳚प॒रएक॑या॒गागुहा॒तिष्ठ᳚न्ती॒रनृ॑तस्य॒सेतौ᳚ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति॒स्तम॑सि॒ज्योति॑रि॒च्छन्नुदु॒स्रा,आक॒र्विहिति॒स्रआवः॑ || {4/12}{10.67.4}{10.5.7.4}{8.2.15.4}{713, 904, 9511}

अ॒वः¦द्वाभ्या᳚‌म्¦प॒रः¦एक॑या¦गाः¦गुहा᳚¦तिष्ठ᳚न्तीः¦अनृ॑तस्य¦सेतौ᳚ |
बृह॒स्पतिः॑¦तम॑सि¦ज्योतिः॑¦इ॒च्छन्¦उत्¦उ॒स्राः¦आ¦अ॒कः॒¦वि¦हि¦ति॒श्रः¦आव॒रित्यावः॑ ||

वि॒भिद्या॒पुरं᳚श॒यथे॒मपा᳚चीं॒निस्त्रीणि॑सा॒कमु॑द॒धेर॑कृन्तत् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति॑रु॒षसं॒सूर्यं॒गाम॒र्कंवि॑वेदस्त॒नय᳚न्निव॒द्यौः || {5/12}{10.67.5}{10.5.7.5}{8.2.15.5}{714, 904, 9512}

वि॒ऽभिद्य॑¦पुर᳚‌म्¦श॒यथा᳚¦ई॒‌म्¦अपा᳚ची‌म्¦निः¦त्रीणि॑¦सा॒क‌म्¦उ॒द॒ऽधेः¦अ॒कृ॒न्त॒त् |
बृह॒स्पतिः॑¦उ॒षस᳚‌म्¦सूर्य᳚‌म्¦गा‌म्¦अ॒र्क‌म्¦वि॒वे॒द॒¦स्त॒नय॑न्ऽ‌इव¦द्यौः ||

इन्द्रो᳚व॒लंर॑क्षि॒तारं॒दुघा᳚नांक॒रेणे᳚व॒विच॑कर्ता॒रवे᳚ण |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

स्वेदा᳚ञ्जिभिरा॒शिर॑मि॒च्छमा॒नोऽरो᳚दयत्प॒णिमागा,अ॑मुष्णात् || {6/12}{10.67.6}{10.5.7.6}{8.2.15.6}{715, 904, 9513}

इन्द्रः॑¦व॒ल‌म्¦र॒क्षि॒तार᳚‌म्¦दुघा᳚ना‌म्¦क॒रेण॑ऽ‌इव¦वि¦च॒क॒र्त॒¦रवे᳚ण |
स्वेदां᳚जिऽभिः¦आ॒ऽशिर᳚‌म्¦इ॒च्छमा᳚नः¦अरो᳚दयत्¦प॒णि‌म्¦आ¦गाः¦अ॒मु॒ष्णा॒त् ||

ईं᳚स॒त्येभिः॒सखि॑भिःशु॒चद्भि॒र्गोधा᳚यसं॒विध॑न॒सैर॑दर्दः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहै᳚र्घ॒र्मस्वे᳚देभि॒र्द्रवि॑णं॒व्या᳚नट् || {7/12}{10.67.7}{10.5.7.7}{8.2.16.1}{716, 904, 9514}

सः¦ई॒‌म्¦स॒त्येभिः॑¦सखि॑ऽभिः¦शु॒चत्ऽभिः॑¦गोऽधा᳚यस‌म्¦वि¦ध॒न॒ऽसैः¦अ॒द॒र्द॒रित्य॑दर्दः |
ब्रह्म॑णः¦पतिः॑¦वृष॑ऽभिः¦व॒राहैः᳚¦घ॒र्मऽस्वे᳚देभिः¦द्रवि॑ण‌म्¦वि¦आ॒न॒ट् ||

तेस॒त्येन॒मन॑सा॒गोप॑तिं॒गा,इ॑या॒नास॑इषणयन्तधी॒भिः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति᳚र्मि॒थो,अ॑वद्यपेभि॒रुदु॒स्रिया᳚,असृजतस्व॒युग्भिः॑ || {8/12}{10.67.8}{10.5.7.8}{8.2.16.2}{717, 904, 9515}

ते¦स॒त्येन॑¦मन॑सा¦गोऽप॑ति‌म्¦गाः¦इ॒या॒नासः॑¦इ॒ष॒ण॒य॒न्त॒¦धी॒भिः |
बृह॒स्पतिः॑¦मि॒थः।आ॑वद्यपेभिः¦उत्¦उ॒स्रियाः᳚¦अ॒सृ॒ज॒त॒¦स्व॒युक्ऽभिः॑ ||

तंव॒र्धय᳚न्तोम॒तिभिः॑शि॒वाभिः॑सिं॒हमि॑व॒नान॑दतंस॒धस्थे᳚ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पतिं॒वृष॑णं॒शूर॑सातौ॒भरे᳚भरे॒,अनु॑मदेमजि॒ष्णुम् || {9/12}{10.67.9}{10.5.7.9}{8.2.16.3}{718, 904, 9516}

त‌म्¦व॒र्धय᳚न्तः¦म॒तिऽभिः॑¦शि॒वाभिः॑¦सिं॒ह‌म्ऽ‌इ᳚व¦नान॑दत‌म्¦स॒धऽस्थे᳚ |
बृह॒स्पति॒‌म्¦वृष॑ण‌म्¦शूर॑ऽसातौ¦भरे᳚ऽभरे¦अनु॑¦म॒दे॒म॒¦जि॒ष्णु‌म् ||

य॒दावाज॒मस॑नद्वि॒श्वरू᳚प॒माद्यामरु॑क्ष॒दुत्त॑राणि॒सद्म॑ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पतिं॒वृष॑णंव॒र्धय᳚न्तो॒नाना॒सन्तो॒बिभ्र॑तो॒ज्योति॑रा॒सा || {10/12}{10.67.10}{10.5.7.10}{8.2.16.4}{719, 904, 9517}

य॒दा¦वाज᳚‌म्¦अस॑नत्¦वि॒श्वऽरू᳚प‌म्¦आ¦द्या‌म्¦अरु॑क्षत्¦उत्ऽत॑राणि¦सद्म॑ |
बृह॒स्पति᳚‌म्¦वृष॑ण‌म्¦व॒र्धय᳚न्तः¦नाना᳚¦सन्तः॑¦बिभ्र॑तः¦ज्योतिः॑¦आ॒सा ||

स॒त्यामा॒शिषं᳚कृणुतावयो॒धैकी॒रिंचि॒द्ध्यव॑थ॒स्वेभि॒रेवैः᳚ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

प॒श्चामृधो॒,अप॑भवन्तु॒विश्वा॒स्तद्रो᳚दसीशृणुतंविश्वमि॒न्वे || {11/12}{10.67.11}{10.5.7.11}{8.2.16.5}{720, 904, 9518}

स॒त्या‌म्¦आ॒ऽशिष᳚‌म्¦कृ॒णु॒त॒¦व॒यः॒ऽधै¦की॒रि‌म्¦चि॒त्¦हि¦अव॑थ¦स्वेभिः॑¦एवैः᳚ |
प॒श्चा¦मृधः॑¦अप॑¦भ॒व॒न्तु॒¦विश्वाः᳚¦तत्¦रो॒द॒सी॒ इति॑¦शृ॒णु॒त॒‌म्¦वि॒श्व॒मि॒न्वे इति॑ वि॒श्व॒‌म्ऽ‌इ॒न्वे ||

इन्द्रो᳚म॒ह्नाम॑ह॒तो,अ᳚र्ण॒वस्य॒विमू॒र्धान॑मभिनदर्बु॒दस्य॑ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

अह॒न्नहि॒मरि॑णात्स॒प्तसिन्धू᳚न्दे॒वैर्द्या᳚वापृथिवी॒प्राव॑तंनः || {12/12}{10.67.12}{10.5.7.12}{8.2.16.6}{721, 904, 9519}

इन्द्रः॑¦म॒ह्ना¦म॒ह॒तः¦अ॒र्ण॒वस्य॑¦वि¦मू॒र्धान᳚‌म्¦अ॒भि॒न॒त्¦अ॒र्बु॒दस्य॑ |
अह॑न्¦अहि᳚‌म्¦अरि॑णात्¦स॒प्त¦सिन्धू᳚न्¦दे॒वैः¦द्या॒वा॒पृ॒थि॒वी॒ इति॑¦प्र¦अ॒व॒त॒‌म्¦नः॒ ||

[68] उदप्रुतइति द्वादशर्चस्य सूक्तस्यांगिरसोयास्योबृहस्पतिस्त्रिष्टुप् |
उ॒द॒प्रुतो॒वयो॒रक्ष॑माणा॒वाव॑दतो,अ॒भ्रिय॑स्येव॒घोषाः᳚ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

गि॒रि॒भ्रजो॒नोर्मयो॒मद᳚न्तो॒बृह॒स्पति॑म॒भ्य१॑(अ॒)र्का,अ॑नावन् || {1/12}{10.68.1}{10.5.8.1}{8.2.17.1}{722, 905, 9520}

उ॒द॒ऽप्रुतः॑¦न¦वयः॑¦रक्ष॑माणाः¦वाव॑दतः¦अ॒भ्रिय॑स्यऽ‌इव¦घोषाः᳚ |
गि॒रि॒ऽभ्रजः॑¦न¦ऊ॒र्मयः॑¦मद᳚न्तः¦बृहस्पति᳚‌म्¦अ॒भि¦अ॒र्काः¦अ॒ना॒व॒न् ||

संगोभि॑राङ्गिर॒सोनक्ष॑माणो॒भग॑इ॒वेद᳚र्य॒मणं᳚निनाय |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

जने᳚मि॒त्रोदम्प॑ती,अनक्ति॒बृह॑स्पतेवा॒जया॒शूँरि॑वा॒जौ || {2/12}{10.68.2}{10.5.8.2}{8.2.17.2}{723, 905, 9521}

स‌म्¦गोभिः॑¦आ॒ङ्गि॒र॒सः¦नक्ष॑माणः¦भगः॑ऽ‌इव¦इत्¦अ॒र्य॒मण᳚‌म्¦नि॒ना॒य॒ |
जने᳚¦मि॒त्रः¦न¦दंप॑ती॒ इति॒ द‌म्ऽप॑ती¦अ॒न॒क्ति॒¦बृह॑स्पते¦वा॒जय॑¦आ॒शून्ऽ‌इ᳚व¦आ॒जौ ||

सा॒ध्व॒र्या,अ॑ति॒थिनी᳚रिषि॒राःस्पा॒र्हाःसु॒वर्णा᳚,अनव॒द्यरू᳚पाः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पतिः॒पर्व॑तेभ्योवि॒तूर्या॒निर्गा,ऊ᳚पे॒यव॑मिवस्थि॒विभ्यः॑ || {3/12}{10.68.3}{10.5.8.3}{8.2.17.3}{724, 905, 9522}

सा॒धु॒।आ॒र्याः¦अ॒ति॒थिनीः᳚¦इ॒षि॒राः¦स्पा॒र्हाः¦सु॒ऽवर्णाः᳚¦अ॒न॒व॒द्यऽरू᳚पाः |
बृह॒स्पतिः॑¦पर्व॑तेभ्यः¦वि॒ऽतूर्य॑¦निः¦गाः¦ऊ॒पे॒¦यव᳚‌म्ऽ‌इव¦स्थि॒विऽभ्यः॑ ||

आ॒प्रु॒षा॒यन्मधु॑नऋ॒तस्य॒योनि॑मवक्षि॒पन्न॒र्कउ॒ल्कामि॑व॒द्योः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति॑रु॒द्धर॒न्नश्म॑नो॒गाभूम्या᳚,उ॒द्नेव॒वित्वचं᳚बिभेद || {4/12}{10.68.4}{10.5.8.4}{8.2.17.4}{725, 905, 9523}

आ॒ऽप्रु॒षा॒यन्¦मधु॑ना¦ऋ॒तस्य॑¦योनि᳚‌म्¦अ॒व॒ऽक्षि॒पन्¦अ॒र्कः¦उ॒ल्का‌म्ऽ‌इ᳚व¦द्योः |
बृह॒स्पतिः॑¦उ॒द्धर॑न्¦अश्म॑नः¦गाः¦भूम्याः᳚¦उ॒द्नाऽ‌इ᳚व¦वि¦त्वच᳚‌म्¦बि॒भे॒द॒ ||

अप॒ज्योति॑षा॒तमो᳚,अ॒न्तरि॑क्षादु॒द्नःशीपा᳚लमिव॒वात॑आजत् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति॑रनु॒मृश्या᳚व॒लस्या॒भ्रमि॑व॒वात॒च॑क्र॒गाः || {5/12}{10.68.5}{10.5.8.5}{8.2.17.5}{726, 905, 9524}

अप॑¦ज्योति॑षा¦तमः॑¦अ॒न्तरि॑क्षात्¦उ॒द्नः¦शीपा᳚ल‌म्ऽ‌इव¦वातः॑¦आ॒ज॒त् |
बृह॒स्पतिः॑¦अ॒नु॒ऽमृश्य॑¦व॒लस्य॑¦अ॒भ्र‌म्ऽ‌इ᳚व¦वातः॑¦आ¦च॒क्रे॒¦आ¦गाः ||

य॒दाव॒लस्य॒पीय॑तो॒जसुं॒भेद्बृह॒स्पति॑रग्नि॒तपो᳚भिर॒र्कैः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

द॒द्भिर्नजि॒ह्वापरि॑विष्ट॒माद॑दा॒विर्नि॒धीँर॑कृणोदु॒स्रिया᳚णाम् || {6/12}{10.68.6}{10.5.8.6}{8.2.17.6}{727, 905, 9525}

य॒दा¦व॒लस्य॑¦पीय॑तः¦जसु᳚‌म्¦भेत्¦बृह॒स्पतिः॑¦अ॒ग्नि॒तपः॑ऽभिः¦अ॒र्कैः |
द॒त्ऽभिः¦न¦जि॒ह्वा¦परि॑ऽविष्ट‌म्¦आद॑त्¦आ॒विः¦नि॒धीन्¦अ॒कृ॒णो॒त्¦उ॒स्रिया᳚णा‌म् ||

बृह॒स्पति॒रम॑त॒हित्यदा᳚सां॒नाम॑स्व॒रीणां॒सद॑ने॒गुहा॒यत् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

आ॒ण्डेव॑भि॒त्‌त्वाश॑कु॒नस्य॒गर्भ॒मुदु॒स्रियाः॒पर्व॑तस्य॒त्मना᳚जत् || {7/12}{10.68.7}{10.5.8.7}{8.2.18.1}{728, 905, 9526}

बृह॒स्पतिः॑¦अम॑त¦हि¦त्यत्¦आ॒सा॒‌म्¦नाम॑¦स्व॒रीणा᳚‌म्¦सद॑ने¦गुहा᳚¦यत् |
आ॒ण्डाऽ‌इ᳚व¦भि॒त्‌ त्वा¦श॒कु॒नस्य॑¦गर्भ᳚‌म्¦उत्¦उ॒स्रियाः᳚¦पर्व॑तस्य¦त्मना᳚¦आ॒ज॒त् ||

अश्नापि॑नद्धं॒मधु॒पर्य॑पश्य॒न्मत्स्यं॒दी॒नउ॒दनि॑क्षि॒यन्त᳚म् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

निष्टज्ज॑भारचम॒संवृ॒क्षाद्बृह॒स्पति᳚र्विर॒वेणा᳚वि॒कृत्य॑ || {8/12}{10.68.8}{10.5.8.8}{8.2.18.2}{729, 905, 9527}

अश्ना᳚¦अपि॑ऽनद्ध‌म्¦मधु॑¦परि॑¦अ॒प॒श्य॒त्¦मत्स्य᳚‌म्¦न¦दी॒ने¦उ॒दनि॑¦क्षि॒यन्त᳚‌म् |
निः¦तत्¦ज॒भा॒र॒¦च॒म॒स‌म्¦न¦वृ॒क्षात्¦बृह॒स्पतिः॑¦वि॒ऽर॒वेण॑¦वि॒ऽकृत्य॑ ||

सोषाम॑विन्द॒त्सस्व१॑(अः॒)सो,अ॒ग्निंसो,अ॒र्केण॒विब॑बाधे॒तमां᳚सि |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति॒र्गोव॑पुषोव॒लस्य॒निर्म॒ज्जानं॒पर्व॑णोजभार || {9/12}{10.68.9}{10.5.8.9}{8.2.18.3}{730, 905, 9528}

सः¦उ॒षा‌म्¦अ॒वि॒न्द॒त्¦सः¦स्व१॒॑रिति॒ स्वः॑¦सः¦अ॒ग्नि‌म्¦सः¦अ॒र्केण॑¦वि¦ब॒बा॒धे॒¦तमां᳚सि |
बृह॒स्पतिः॑¦गोऽव॑पुषः¦व॒लस्य॑¦निः¦म॒ज्जान᳚‌म्¦न¦पर्व॑णः¦ज॒भा॒र॒ ||

हि॒मेव॑प॒र्णामु॑षि॒तावना᳚नि॒बृह॒स्पति॑नाकृपयद्व॒लोगाः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

अ॒ना॒नु॒कृ॒त्यम॑पु॒नश्च॑कार॒यात्सूर्या॒मासा᳚मि॒थउ॒च्चरा᳚तः || {10/12}{10.68.10}{10.5.8.10}{8.2.18.4}{731, 905, 9529}

हि॒माऽ‌इ᳚व¦प॒र्णा¦मु॒षि॒ता¦वना᳚नि¦बृह॒स्पति॑ना¦अ॒कृ॒प॒य॒त्¦व॒लः¦गाः |
अ॒न॒नु॒ऽकृ॒त्य‌म्¦अ॒पु॒नरिति॑¦च॒का॒र॒¦यात्¦सूर्या॒मासा᳚¦मि॒थः¦उ॒त्ऽचरा᳚तः ||

अ॒भिश्या॒वंकृश॑नेभि॒रश्वं॒नक्ष॑त्रेभिःपि॒तरो॒द्याम॑पिंशन् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

रात्र्यां॒तमो॒,अद॑धु॒र्ज्योति॒रह॒न्‌बृह॒स्पति॑र्भि॒नदद्रिं᳚वि॒दद्गाः || {11/12}{10.68.11}{10.5.8.11}{8.2.18.5}{732, 905, 9530}

अ॒भि¦श्या॒व‌म्¦न¦कृश॑नेभिः¦अश्व᳚‌म्¦नक्ष॑त्रेभिः¦पि॒तरः॑¦द्या‌म्¦अ॒पिं॒श॒न् |
रात्र्या᳚‌म्¦तमः॑¦अद॑धुः¦ज्योतिः॑¦अह॑न्¦बृह॒स्पतिः॑¦भि॒नत्¦अद्रि᳚‌म्¦वि॒दत्¦गाः ||

इ॒दम॑कर्म॒नमो᳚,अभ्रि॒याय॒यःपू॒र्वीरन्वा॒नोन॑वीति |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पतिः॒हिगोभिः॒सो,अश्वैः॒वी॒रेभिः॒नृभि᳚र्नो॒वयो᳚धात् || {12/12}{10.68.12}{10.5.8.12}{8.2.18.6}{733, 905, 9531}

इ॒द‌म्¦अ॒क॒र्म॒¦नमः॑¦अ॒भ्रि॒याय॑¦यः¦पू॒र्वीः¦अनु॑¦आ॒ऽनोन॑वीति |
बृह॒स्पतिः॑¦सः¦हि¦गोभिः॑¦सः¦अश्वः॑¦सः¦वी॒रेभिः॑¦सः¦नृऽभिः॑¦नः॒¦वयः॑¦धा॒त् ||

[69] भद्राअग्नेरिति द्वादशर्चस्य सूक्तस्य वाध्र्यश्वः सुमित्रोग्निस्त्रिष्टुबाद्येद्वेजगत्यौ |
भ॒द्रा,अ॒ग्नेर्व॑ध्र्य॒श्वस्य॑सं॒दृशो᳚वा॒मीप्रणी᳚तिःसु॒रणा॒,उपे᳚तयः |{वाध्र्यश्वः सुमित्रः | अग्निः | जगती}

यदीं᳚सुमि॒त्राविशो॒,अग्र॑इ॒न्धते᳚घृ॒तेनाहु॑तोजरते॒दवि॑द्युतत् || {1/12}{10.69.1}{10.6.1.1}{8.2.19.1}{734, 906, 9532}

भ॒द्राः¦अ॒ग्नेः¦व॒ध्रि॒।आ॒श्वस्य॑¦स॒‌म्ऽदृशः॑¦वा॒मी¦प्रऽणी᳚तिः¦सु॒ऽरणाः᳚¦उप॑ऽ‌इतयः |
यत्¦ई॒‌म्¦सु॒ऽमि॒त्राः¦विशः॑¦अग्रे᳚¦इ॒न्धते᳚¦घृ॒तेन॑¦आऽहु॑तः¦ज॒र॒ते॒¦दवि॑द्युतत् ||

घृ॒तम॒ग्नेर्व॑ध्र्य॒श्वस्य॒वर्ध॑नंघृ॒तमन्नं᳚घृ॒तम्व॑स्य॒मेद॑नम् |{वाध्र्यश्वः सुमित्रः | अग्निः | जगती}

घृ॒तेनाहु॑तउर्वि॒याविप॑प्रथे॒सूर्य॑इवरोचतेस॒र्पिरा᳚सुतिः || {2/12}{10.69.2}{10.6.1.2}{8.2.19.2}{735, 906, 9533}

घृ॒त‌म्¦अ॒ग्नेः¦व॒ध्रि॒।आ॒श्वस्य॑¦वर्ध॑न‌म्¦घृ॒त‌म्¦अन्न᳚‌म्¦घृ॒त‌म्¦ऊँ॒ इति॑¦अ॒स्य॒¦भेद॑न‌म् |
घृ॒तेन॑¦आऽहु॑तः¦उ॒र्वि॒या¦वि¦प॒प्र॒थे॒¦सूर्यः॑ऽ‌इव¦रो॒च॒ते॒¦स॒र्पिःऽआ᳚सुतिः ||

यत्ते॒मनु॒र्यदनी᳚कंसुमि॒त्रःस॑मी॒धे,अ॑ग्ने॒तदि॒दंनवी᳚यः |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

रे॒वच्छो᳚च॒गिरो᳚जुषस्व॒वाजं᳚दर्षि॒इ॒हश्रवो᳚धाः || {3/12}{10.69.3}{10.6.1.3}{8.2.19.3}{736, 906, 9534}

यत्¦ते॒¦मनुः॑¦यत्¦अनी᳚क‌म्¦सु॒ऽमि॒त्रः¦स॒‌म्ऽई॒धे¦अ॒ग्ने॒¦तत्¦इ॒द‌म्¦नवी᳚यः |
सः¦रे॒वत्¦शो॒च॒¦सः¦गिरः॑¦जु॒ष॒स्व॒¦सः¦वाज᳚‌म्¦द॒र्षि॒¦सः¦इ॒ह¦श्रवः॑¦धाः॒ ||

यंत्वा॒पूर्व॑मीळि॒तोव॑ध्र्य॒श्वःस॑मी॒धे,अ॑ग्ने॒इ॒दंजु॑षस्व |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

नः॑स्ति॒पा,उ॒तभ॑वातनू॒पादा॒त्रंर॑क्षस्व॒यदि॒दंते᳚,अ॒स्मे || {4/12}{10.69.4}{10.6.1.4}{8.2.19.4}{737, 906, 9535}

य‌म्¦त्वा॒¦पूर्व᳚‌म्¦ई॒ळि॒तः¦व॒ध्रि॒।आ॒श्वः¦स॒‌म्ऽई॒धे¦अ॒ग्ने॒¦सः¦इ॒द‌म्¦जु॒ष॒स्व॒ |
सः¦नः॒¦स्ति॒ऽपाः¦उ॒त¦भ॒व॒¦त॒नू॒ऽपाः¦दा॒त्र‌म्¦र॒क्ष॒स्व॒¦यत्¦इ॒द‌म्¦ते॒¦अ॒स्मे इति॑ ||

भवा᳚द्यु॒म्नीवा᳚ध्र्यश्वो॒तगो॒पामात्वा᳚तारीद॒भिमा᳚ति॒र्जना᳚नाम् |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

शूर॑इवधृ॒ष्णुश्च्यव॑नःसुमि॒त्रःप्रनुवो᳚चं॒वाध्र्य॑श्वस्य॒नाम॑ || {5/12}{10.69.5}{10.6.1.5}{8.2.19.5}{738, 906, 9536}

भव॑¦द्यु॒म्नी¦वा॒ध्रि॒।आ॒श्व॒¦उ॒त¦गो॒पाः¦मा¦त्वा॒¦ता॒री॒त्¦अ॒भिऽमा᳚तिः¦जना᳚ना‌म् |
शूरः॑ऽ‌इव¦घृ॒ष्णुः¦च्यव॑नः¦सु॒ऽमि॒त्रः¦प्र¦नु¦वो॒च॒‌म्¦वाध्रि॑।आश्वस्य¦नाम॑ ||

सम॒ज्र्या᳚पर्व॒त्या॒३॑(आ॒)वसू᳚नि॒दासा᳚वृ॒त्राण्यार्या᳚जिगेथ |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

शूर॑इवधृ॒ष्णुश्च्यव॑नो॒जना᳚नां॒त्वम॑ग्नेपृतना॒यूँर॒भिष्याः᳚ || {6/12}{10.69.6}{10.6.1.6}{8.2.19.6}{739, 906, 9537}

स‌म्¦अ॒ज्र्या᳚¦प॒र्व॒त्या᳚¦वसू᳚नि¦दासा᳚¦वृ॒त्राणि॑¦आर्या᳚¦जि॒गे॒थ॒ |
शूरः॑ऽ‌इव¦घृ॒ष्णुः¦च्यव॑नः¦जना᳚ना‌म्¦त्व‌म्¦अ॒ग्ने॒¦पृ॒त॒ना॒ऽयून्¦अ॒भि¦स्याः॒ ||

दी॒र्घत᳚न्तुर्बृ॒हदु॑क्षा॒यम॒ग्निःस॒हस्र॑स्तरीःश॒तनी᳚थ॒ऋभ्वा᳚ |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

द्यु॒मान्द्यु॒मत्सु॒नृभि᳚र्मृ॒ज्यमा᳚नःसुमि॒त्रेषु॑दीदयोदेव॒यत्सु॑ || {7/12}{10.69.7}{10.6.1.7}{8.2.20.1}{740, 906, 9538}

दी॒र्घऽत᳚न्तुः¦बृ॒हत्।औ᳚क्षा¦अ॒य‌म्¦अ॒ग्निः¦स॒हस्र॑ऽस्तरीः¦श॒तऽनी᳚थः¦ऋभ्वा᳚ |
द्यु॒ऽमान्¦द्यु॒मत्ऽसु॑¦नृऽभिः॑¦मृ॒ज्यमा᳚नः¦सु॒ऽमि॒त्रेषु॑¦दी॒द॒यः॒¦दे॒व॒यत्ऽसु॑ ||

त्वेधे॒नुःसु॒दुघा᳚जातवेदोऽस॒श्चते᳚वसम॒नास॑ब॒र्धुक् |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

त्वंनृभि॒र्दक्षि॑णावद्भिरग्नेसुमि॒त्रेभि॑रिध्यसेदेव॒यद्भिः॑ || {8/12}{10.69.8}{10.6.1.8}{8.2.20.2}{741, 906, 9539}

त्वे इति॑¦धे॒नुः¦सु॒ऽदुघा᳚¦जा॒त॒वे॒दः॒¦अ॒स॒श्चता᳚ऽ‌इव¦स॒म॒ना¦स॒बः॒ऽधुक् |
त्व‌म्¦नृऽभिः॑¦दक्षि॑णावत्ऽभिः¦अ॒ग्ने॒¦सु॒ऽमि॒त्रेभिः॑¦इ॒ध्य॒से॒¦दे॒व॒यत्ऽभिः॑ ||

दे॒वाश्चि॑त्ते,अ॒मृता᳚जातवेदोमहि॒मानं᳚वाध्र्यश्व॒प्रवो᳚चन् |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

यत्स॒म्पृच्छं॒मानु॑षी॒र्विश॒आय॒न्त्वंनृभि॑रजय॒स्त्वावृ॑धेभिः || {9/12}{10.69.9}{10.6.1.9}{8.2.20.3}{742, 906, 9540}

दे॒वाः¦चि॒त्¦ते॒¦अ॒मृताः᳚¦जा॒त॒ऽवे॒दः॒¦म॒हि॒मान᳚‌म्¦वा॒धि॒।आ॒श्व॒¦प्र¦वो॒च॒न् |
यत्¦स॒‌म्ऽपृच्छ᳚‌म्¦मानु॑षीः¦विशः॑¦आय॑न्¦त्व‌म्¦नृऽभिः॑¦अ॒ज॒यः॒¦त्वाऽवृ॑धेभिः ||

पि॒तेव॑पु॒त्रम॑बिभरु॒पस्थे॒त्वाम॑ग्नेवध्र्य॒श्वःस॑प॒र्यन् |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

जु॒षा॒णो,अ॑स्यस॒मिधं᳚यविष्ठो॒तपूर्वाँ᳚,अवनो॒र्व्राध॑तश्चित् || {10/12}{10.69.10}{10.6.1.10}{8.2.20.4}{743, 906, 9541}

पि॒ताऽ‌इ᳚व¦पु॒त्र‌म्¦अ॒बि॒भः॒¦उ॒पऽस्थे᳚¦त्वा‌म्¦अ॒ग्ने॒¦व॒ध्रि॒।आ॒श्वः¦स॒प॒र्यन् |
जु॒षा॒णः¦अ॒स्य॒¦स॒‌म्ऽ‌इध᳚‌म्¦य॒वि॒ष्ठ॒¦उ॒त¦पूर्वा᳚न्¦अ॒व॒नोः॒¦व्राध॑तः¦चि॒त् ||

शश्व॑द॒ग्निर्व॑ध्र्य॒श्वस्य॒शत्रू॒न्नृभि॑र्जिगायसु॒तसो᳚मवद्भिः |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

सम॑नंचिददहश्चित्रभा॒नोऽव॒व्राध᳚न्तमभिनद्वृ॒धश्चि॑त् || {11/12}{10.69.11}{10.6.1.11}{8.2.20.5}{744, 906, 9542}

शश्व॑त्¦अ॒ग्निः¦व॒ध्रि॒।आ॒श्वस्य॑¦शत्रू᳚न्¦नृऽभिः॑¦जि॒गा॒य॒¦सु॒तसो᳚मवत्ऽभिः |
सम॑न‌म्¦चि॒त्¦अ॒द॒हः॒¦चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो¦अव॑¦व्राध᳚न्त‌म्¦अ॒भि॒न॒त्¦वृ॒धः¦चि॒त् ||

अ॒यम॒ग्निर्व॑ध्र्य॒श्वस्य॑वृत्र॒हास॑न॒कात्प्रेद्धो॒नम॑सोपवा॒क्यः॑ |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

नो॒,अजा᳚मीँरु॒तवा॒विजा᳚मीन॒भिति॑ष्ठ॒शर्ध॑तोवाध्र्यश्व || {12/12}{10.69.12}{10.6.1.12}{8.2.20.6}{745, 906, 9543}

अ॒य‌म्¦अ॒ग्निः¦व॒ध्रि॒।आ॒श्वस्य॑¦वृ॒त्र॒ऽहा¦स॒न॒कात्¦प्रऽ‌इ᳚द्धः¦नम॑सा¦उ॒प॒ऽवा॒क्यः॑ |
सः¦नः॒¦अजा᳚मीन्¦उ॒त¦वा॒¦विऽजा᳚मीन्¦अ॒भि¦ति॒ष्ठ॒¦शर्ध॑तः¦वा॒ध्रि॒।आ॒श्व॒ ||

[70] इमांमइत्येकादशर्चस्य सूक्तस्य वाध्र्यश्वः सुमित्रइध्मोनराशंस इळो बर्हिर्देवीर्द्वार उषासानक्ता दैव्यौहोतारौप्रचेतसौ सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिः स्वाहाकृतयस्त्रिष्टुप् |
इ॒मांमे᳚,अग्नेस॒मिधं᳚जुषस्वे॒ळस्प॒देप्रति॑हर्याघृ॒ताची᳚म् |{वाध्र्यश्वः सुमित्रः | इध्मः | त्रिष्टुप्}

वर्ष्म᳚न्‌पृथि॒व्याःसु॑दिन॒त्वे,अह्ना᳚मू॒र्ध्वोभ॑वसुक्रतोदेवय॒ज्या || {1/11}{10.70.1}{10.6.2.1}{8.2.21.1}{746, 907, 9544}

इ॒मा‌म्¦मे॒¦अ॒ग्ने॒¦स॒‌म्ऽ‌इध᳚‌म्¦जु॒ष॒स्व॒¦इ॒ळः¦प॒दे¦प्रति॑¦ह॒र्य॒¦घृ॒ताची᳚‌म् |
वर्ष्म॑न्¦पृ॒थि॒व्याः¦सु॒दि॒न॒ऽत्वे¦अह्ना᳚‌म्¦ऊ॒र्ध्वः¦भ॒व॒¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो¦दे॒व॒ऽय॒ज्या ||

दे॒वाना᳚मग्र॒यावे॒हया᳚तु॒नरा॒शंसो᳚वि॒श्वरू᳚पेभि॒रश्वैः᳚ |{वाध्र्यश्वः सुमित्रः | नराशंसः | त्रिष्टुप्}

ऋ॒तस्य॑प॒थानम॑सामि॒येधो᳚दे॒वेभ्यो᳚दे॒वत॑मःसुषूदत् || {2/11}{10.70.2}{10.6.2.2}{8.2.21.2}{747, 907, 9545}

आ¦दे॒वाना᳚‌म्¦अ॒ग्र॒ऽयावा᳚¦इ॒ह¦या॒तु॒¦नरा॒शंसः॑¦वि॒श्वऽरू᳚पेभिः¦अश्वैः᳚ |
ऋ॒तस्य॑¦प॒था¦नम॑सा¦मि॒येधः॑¦दे॒वेभ्यः॑¦दे॒वऽत॑मः¦सु॒सू॒द॒त् ||

श॒श्व॒त्त॒ममी᳚ळतेदू॒त्या᳚यह॒विष्म᳚न्तोमनु॒ष्या᳚सो,अ॒ग्निम् |{वाध्र्यश्वः सुमित्रः | इळः | त्रिष्टुप्}

वहि॑ष्ठै॒रश्वैः᳚सु॒वृता॒रथे॒नादे॒वान्‌व॑क्षि॒निष॑दे॒हहोता᳚ || {3/11}{10.70.3}{10.6.2.3}{8.2.21.3}{748, 907, 9546}

श॒श्व॒त्ऽत॒म‌म्¦ई॒ळ॒ते॒¦दू॒त्या᳚य¦ह॒विष्म᳚न्तः¦म॒नु॒ष्या᳚सः¦अ॒ग्नि‌म् |
वहि॑ष्ठैः¦अश्वैः᳚¦सु॒ऽवृता᳚¦रथे᳚न¦आ¦दे॒वान्¦व॒क्षि॒¦नि¦स॒द॒¦इ॒ह¦होता᳚ ||

विप्र॑थतांदे॒वजु॑ष्टंतिर॒श्चादी॒र्घंद्रा॒घ्मासु॑र॒भिभू᳚त्व॒स्मे |{वाध्र्यश्वः सुमित्रः | बर्हिः | त्रिष्टुप्}

अहे᳚ळता॒मन॑सादेवबर्हि॒रिन्द्र॑ज्येष्ठाँ,उश॒तोय॑क्षिदे॒वान् || {4/11}{10.70.4}{10.6.2.4}{8.2.21.4}{749, 907, 9547}

वि¦प्र॒थ॒ता॒‌म्¦दे॒वऽजु॑ष्ट‌म्¦ति॒र॒श्चा¦दी॒र्घ‌म्¦द्रा॒घ्मा¦सु॒र॒भि¦भू॒तु॒¦अ॒स्मे इति॑ |
अहे᳚ळत¦मन॑सा¦दे॒व॒¦ब॒र्हिः॒¦इन्द्र॑ऽज्येष्ठान्¦उ॒श॒तः¦य॒क्षि॒¦दे॒वान् ||

दि॒वोवा॒सानु॑स्पृ॒शता॒वरी᳚यःपृथि॒व्यावा॒मात्र॑या॒विश्र॑यध्वम् |{वाध्र्यश्वः सुमित्रः | देवीर्द्वार | त्रिष्टुप्}

उ॒श॒तीर्द्वा᳚रोमहि॒नाम॒हद्भि॑र्दे॒वंरथं᳚रथ॒युर्धा᳚रयध्वम् || {5/11}{10.70.5}{10.6.2.5}{8.2.21.5}{750, 907, 9548}

दि॒वः¦वा॒¦सानु॑¦स्पृ॒शत॑¦वरी᳚यः¦पृ॒थि॒व्या¦वा॒¦मात्र॑या¦वि¦श्र॒य॒ध्व॒‌म् |
उ॒श॒तीः¦द्वा॒रः॒¦म॒हि॒ना¦म॒हत्ऽभिः॑¦दे॒व‌म्¦रथ᳚‌म्¦र॒थ॒ऽयुः¦धा॒र॒य॒ध्व॒‌म् ||

दे॒वीदि॒वोदु॑हि॒तरा᳚सुशि॒ल्पे,उ॒षासा॒नक्ता᳚सदतां॒नियोनौ᳚ |{वाध्र्यश्वः सुमित्रः | उषासानक्ता | त्रिष्टुप्}

वां᳚दे॒वास॑उशती,उ॒शन्त॑उ॒रौसी᳚दन्तुसुभगे,उ॒पस्थे᳚ || {6/11}{10.70.6}{10.6.2.6}{8.2.22.1}{751, 907, 9549}

दे॒वी इति॑¦दि॒वः¦दु॒हि॒तरा᳚¦सु॒शि॒ल्पे इति॑ सु॒ऽशि॒ल्पे¦उ॒षसा॒नक्ता᳚¦स॒द॒ता॒‌म्¦नि¦योनौ᳚ |
आ¦वा॒‌म्¦दे॒वासः॑¦उ॒श॒ती॒ इति॑¦उ॒शन्तः॑¦उ॒रौ¦सी॒द॒न्तु॒¦सु॒भ॒गे॒ इति॑ सुऽभगे¦उ॒पऽस्थे᳚ ||

ऊ॒र्ध्वोग्रावा᳚बृ॒हद॒ग्निःसमि॑द्धःप्रि॒याधामा॒न्यदि॑तेरु॒पस्थे᳚ |{वाध्र्यश्वः सुमित्रः | दैव्यौहोतारौप्रचेतसौ | त्रिष्टुप्}

पु॒रोहि॑तावृत्विजाय॒ज्ञे,अ॒स्मिन्‌वि॒दुष्ट॑रा॒द्रवि॑ण॒माय॑जेथाम् || {7/11}{10.70.7}{10.6.2.7}{8.2.22.2}{752, 907, 9550}

ऊ॒र्ध्वः¦ग्रावा᳚¦बृ॒हत्¦अ॒ग्निः¦स‌म्ऽ‌इ᳚द्धः¦प्रि॒या¦धामा᳚नि¦अदि॑तेः¦उ॒पऽस्थे᳚ |
पु॒रःऽहि॑तौ¦ऋ॒त्वि॒जा॒¦य॒ज्ञे¦अ॒स्मिन्¦वि॒दुःऽत॑रा¦द्रवि॑ण‌म्¦आ¦य॒जे॒था॒‌म् ||

तिस्रो᳚देवीर्ब॒र्हिरि॒दंवरी᳚य॒सी᳚दतचकृ॒मावः॑स्यो॒नम् |{वाध्र्यश्वः सुमित्रः | सरस्वती | त्रिष्टुप्}

म॒नु॒ष्वद्‌य॒ज्ञंसुधि॑ताह॒वींषीळा᳚दे॒वीघृ॒तप॑दीजुषन्त || {8/11}{10.70.8}{10.6.2.8}{8.2.22.3}{753, 907, 9551}

तिस्रः॑¦दे॒वीः॒¦ब॒र्हिः¦इ॒द‌म्¦वरी᳚यः¦आ¦सी॒द॒त॒¦च॒कृ॒म¦वः॒¦स्यो॒न‌म् |
म॒नु॒ष्वत्¦य॒ज्ञ‌म्¦सुऽधि॑ता¦ह॒वींषि॑¦इळा᳚¦दे॒वी¦घृ॒तऽप॑दी¦जु॒ष॒न्त॒ ||

देव॑त्वष्ट॒र्यद्ध॑चारु॒त्वमान॒ड्यदङ्गि॑रसा॒मभ॑वःसचा॒भूः |{वाध्र्यश्वः सुमित्रः | वष्टा | त्रिष्टुप्}

दे॒वानां॒पाथ॒उप॒प्रवि॒द्वाँ,उ॒शन्य॑क्षिद्रविणोदःसु॒रत्नः॑ || {9/11}{10.70.9}{10.6.2.9}{8.2.22.4}{754, 907, 9552}

देव॑¦त्व॒ष्टः॒¦यत्¦ह॒¦चा॒रु॒ऽत्व‌म्¦आन॑ट्¦यत्¦अङ्गि॑रसा‌म्¦अभ॑वः¦स॒चा॒ऽभूः |
सः¦दे॒वाना᳚‌म्¦पाथः॑¦उप॑¦प्र¦वि॒द्वान्¦उ॒शन्¦य॒क्षि॒¦द्र॒वि॒णः॒ऽदः॒¦सु॒ऽरत्नः॑ ||

वन॑स्पतेरश॒नया᳚नि॒यूया᳚दे॒वानां॒पाथ॒उप॑वक्षिवि॒द्वान् |{वाध्र्यश्वः सुमित्रः | वनस्पतिः | त्रिष्टुप्}

स्वदा᳚तिदे॒वःकृ॒णव॑द्ध॒वींष्यव॑तां॒द्यावा᳚पृथि॒वीहवं᳚मे || {10/11}{10.70.10}{10.6.2.10}{8.2.22.5}{755, 907, 9553}

वन॑स्पते¦र॒श॒नया᳚¦नि॒ऽयूय॑¦दे॒वाना᳚‌म्¦पाथः॑¦उप॑¦व॒क्षि॒¦वि॒द्वान् |
स्वदा᳚ति¦दे॒वः¦कृ॒णव॑त्¦ह॒वींषि॑¦अव॑ता‌म्¦द्यावा᳚पृथि॒वी इति॑¦हव᳚‌म्¦मे॒ ||

आग्ने᳚वह॒वरु॑णमि॒ष्टये᳚न॒इन्द्रं᳚दि॒वोम॒रुतो᳚,अ॒न्तरि॑क्षात् |{वाध्र्यश्वः सुमित्रः | स्वाहाकृतयः | त्रिष्टुप्}

सीद᳚न्तुब॒र्हिर्विश्व॒यज॑त्राः॒स्वाहा᳚दे॒वा,अ॒मृता᳚मादयन्ताम् || {11/11}{10.70.11}{10.6.2.11}{8.2.22.6}{756, 907, 9554}

आ¦अ॒ग्ने॒¦व॒ह॒¦वरु॑ण‌म्¦इ॒ष्टये᳚¦नः॒¦इन्द्र᳚‌म्¦दि॒वः¦म॒रुतः॑¦अ॒न्तरि॑क्षात् |
सीद᳚न्तु¦ब॒र्हिः¦विश्वे᳚¦आ¦यज॑त्राः¦स्वाहा᳚¦दे॒वाः¦अ॒मृताः᳚¦मा॒द॒य॒न्ता॒‌म् ||

[71] बृहस्पतइत्येकादशर्चस्य सूक्तस्यांगिरसो बृहस्पतिर्ज्ञानंत्रिष्टुप् नवमी जगती |
बृह॑स्पतेप्रथ॒मंवा॒चो,अग्रं॒यत्प्रैर॑तनाम॒धेयं॒दधा᳚नाः |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

यदे᳚षां॒श्रेष्ठं॒यद॑रि॒प्रमासी᳚त्प्रे॒णातदे᳚षां॒निहि॑तं॒गुहा॒विः || {1/11}{10.71.1}{10.6.3.1}{8.2.23.1}{757, 908, 9555}

बृह॑स्पते¦प्र॒थ॒म‌म्¦वा॒चः¦अग्र᳚‌म्¦यत्¦प्र¦ऐर॑त¦ना॒म॒ऽधेय᳚‌म्¦दधा᳚नाः |
यत्¦ए॒षा॒‌म्¦श्रेष्ठ᳚‌म्¦यत्¦अ॒रि॒प्र‌म्¦आसी᳚त्¦प्रे॒णा¦तत्¦ए॒षा॒‌म्¦निऽहि॑त‌म्¦गुहा᳚¦आ॒विः ||

सक्तु॑मिव॒तित॑उनापु॒नन्तो॒¦यत्र॒धीरा॒मन॑सा॒वाच॒मक्र॑त |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

अत्रा॒सखा᳚यःस॒ख्यानि॑जानते¦भ॒द्रैषां᳚ल॒क्ष्मीर्निहि॒ताधि॑वा॒चि || {2/11}{10.71.2}{10.6.3.2}{8.2.23.2}{758, 908, 9556}

सक्तु᳚‌म्ऽ‌इव¦तित॑उना¦पु॒नन्तः॑¦यत्र॑¦धीराः᳚¦मन॑सा¦वाच᳚‌म्¦अक्र॑त |
अत्र॑¦सखा᳚यः¦स॒ख्यानि॑¦जा॒न॒ते॒¦भ॒द्रा¦ए॒षा॒‌म्¦ल॒क्ष्मीः¦निहि॑ता¦अधि॑¦वा॒चि ||

य॒ज्ञेन॑वा॒चःप॑द॒वीय॑माय॒न्तामन्व॑विन्द॒न्नृषि॑षु॒प्रवि॑ष्टाम् |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

तामा॒भृत्या॒व्य॑दधुःपुरु॒त्रातांस॒प्तरे॒भा,अ॒भिसंन॑वन्ते || {3/11}{10.71.3}{10.6.3.3}{8.2.23.3}{759, 908, 9557}

य॒ज्ञेन॑¦वा॒चः¦प॒द॒ऽवीय᳚‌म्¦आ॒य॒न्¦ता‌म्¦अनु॑¦अ॒वि॒न्द॒न्¦ऋषि॑षु¦प्रऽवि॑ष्टा‌म् |
ता‌म्¦आ॒ऽभृत्य॑¦वि¦अ॒द॒धुः॒¦पु॒रु॒ऽत्रा¦ता‌म्¦स॒प्त¦रे॒भाः¦अ॒भि¦स‌म्¦न॒व॒न्ते॒ ||

उ॒तत्वः॒पश्य॒न्नद॑दर्श॒वाच॑मु॒तत्वः॑शृ॒ण्वन्नशृ॑णोत्येनाम् |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

उ॒तोत्व॑स्मैत॒न्व१॑(अं॒)विस॑स्रेजा॒येव॒पत्य॑उश॒तीसु॒वासाः᳚ || {4/11}{10.71.4}{10.6.3.4}{8.2.23.4}{760, 908, 9558}

उ॒त¦त्वः॒¦पश्य॑न्¦न¦द॒द॒र्श॒¦वाच᳚‌म्¦उ॒त¦त्वः॒¦शृ॒ण्वन्¦न¦शृ॒णो॒ति॒¦ए॒ना॒‌म् |
उ॒तो इति॑¦त्व॒स्मै॒¦त॒न्व᳚‌म्¦वि¦स॒स्रे॒¦जा॒याऽ‌इ᳚व¦पत्ये᳚¦उ॒श॒ती¦सु॒ऽवासाः᳚ ||

उ॒तत्वं᳚स॒ख्येस्थि॒रपी᳚तमाहु॒र्नैनं᳚हिन्व॒न्त्यपि॒वाजि॑नेषु |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

अधे᳚न्वाचरतिमा॒ययै॒षवाचं᳚शुश्रु॒वाँ,अ॑फ॒लाम॑पु॒ष्पाम् || {5/11}{10.71.5}{10.6.3.5}{8.2.23.5}{761, 908, 9559}

उ॒त¦त्व॒‌म्¦स॒ख्ये¦स्थि॒रऽपी᳚त‌म्¦आहुः॑¦न¦ए॒न॒‌म्¦हि॒न्व॒न्ति॒¦अपि॑¦वाजि॑नेषु |
अधे᳚न्वा¦च॒र॒ति॒¦मा॒यया᳚¦ए॒षः¦वाच᳚‌म्¦शु॒श्रु॒ऽवान्¦अ॒फ॒ला‌म्¦आ॒पु॒ष्पा‌म् ||

यस्ति॒त्याज॑सचि॒विदं॒सखा᳚यं॒तस्य॑वा॒च्यपि॑भा॒गो,अ॑स्ति |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

यदीं᳚शृ॒णोत्यल॑कंशृणोतिन॒हिप्र॒वेद॑सुकृ॒तस्य॒पन्था᳚म् || {6/11}{10.71.6}{10.6.3.6}{8.2.24.1}{762, 908, 9560}

यः¦ति॒त्याज॑¦स॒चि॒ऽविद᳚‌म्¦सखा᳚य‌म्¦न¦तस्य॑¦वा॒चि¦अपि॑¦भा॒गः¦अ॒स्ति॒ |
यत्¦ई॒‌म्¦शृ॒णोति॑¦अल॑क‌म्¦शृ॒णो॒ति॒¦न॒हि¦प्र॒ऽवेद॑¦सु॒ऽकृ॒तस्य॑¦पन्था᳚‌म् ||

अ॒क्ष॒ण्वन्तः॒कर्ण॑वन्तः॒सखा᳚योमनोज॒वेष्वस॑माबभूवुः |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

आ॒द॒घ्नास॑उपक॒क्षास॑त्वेह्र॒दा,इ॑व॒स्नात्वा᳚,त्वेददृश्रे || {7/11}{10.71.7}{10.6.3.7}{8.2.24.2}{763, 908, 9561}

अ॒क्ष॒ण्ऽवन्तः॑¦कर्ण॑ऽवन्तः¦सखा᳚यः¦म॒नः॒ऽज॒वेषु॑¦अस॑माः¦ब॒भू॒वुः॒ |
आ॒द॒घ्नासः॑¦उ॒प॒ऽक॒क्षासः॑¦ऊँ॒ इति॑¦त्वे॒¦ह्र॒दाःऽ‌इ᳚व¦स्नात्वाः᳚¦ऊँ॒ इति॑¦त्वे॒¦द॒दृ॒श्रे॒ ||

हृ॒दात॒ष्टेषु॒मन॑सोज॒वेषु॒यद्ब्रा᳚ह्म॒णाःसं॒यज᳚न्ते॒सखा᳚यः |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

अत्राह॑त्वं॒विज॑हुर्वे॒द्याभि॒रोह॑ब्रह्माणो॒विच॑रन्त्युत्वे || {8/11}{10.71.8}{10.6.3.8}{8.2.24.3}{764, 908, 9562}

हृ॒दा¦त॒ष्टेषु॑¦मन॑सः¦ज॒वेषु॑¦यत्¦ब्रा॒ह्म॒णाः¦स॒‌म्ऽयज᳚न्ते¦सखा᳚यः |
अत्र॑¦अह॑¦त्व॒‌म्¦वि¦ज॒हुः॒¦वे॒द्याभिः॑¦ओह॑ऽब्रह्माणः¦वि¦च॒र॒न्ति॒¦ऊँ॒ इति॑¦त्वे॒ ||

इ॒मेयेनार्वाङ्नप॒रश्चर᳚न्ति॒ब्रा᳚ह्म॒णासो॒सु॒तेक॑रासः |{बृहस्पतिः | ज्ञानम् | जगती}

ए॒तेवाच॑मभि॒पद्य॑पा॒पया᳚सि॒रीस्तन्त्रं᳚तन्वते॒,अप्र॑जज्ञयः || {9/11}{10.71.9}{10.6.3.9}{8.2.24.4}{765, 908, 9563}

इ॒मे¦ये¦न¦अ॒र्वाक्¦न¦प॒रः¦चर᳚न्ति¦न¦ब्रा॒ह्म॒णासः॑¦न¦सु॒तेऽक॑रासः |
ते¦ए॒ते¦वाच᳚‌म्¦अ॒भि॒ऽपद्य॑¦पा॒पया᳚¦सि॒रीः¦तन्त्र᳚‌म्¦त॒न्व॒ते॒¦अप्र॑ऽजज्ञयः ||

सर्वे᳚नन्दन्तिय॒शसाग॑तेनसभासा॒हेन॒सख्या॒सखा᳚यः |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

कि॒ल्बि॒ष॒स्पृत्पि॑तु॒षणि॒र्ह्ये᳚षा॒मरं᳚हि॒तोभव॑ति॒वाजि॑नाय || {10/11}{10.71.10}{10.6.3.10}{8.2.24.5}{766, 908, 9564}

सर्वे᳚¦न॒न्द॒न्ति॒¦य॒शसा᳚¦आऽग॑तेन¦स॒भा॒ऽसा॒हेन॑¦सख्या᳚¦सखा᳚यः |
कि॒ल्बि॒ष॒ऽस्पृत्¦पि॒तु॒ऽसणिः॑¦हि¦ए॒षा॒‌म्¦अर᳚‌म्¦हि॒तः¦भव॑ति¦वाजि॑नाय ||

ऋ॒चांत्वः॒पोष॑मास्तेपुपु॒ष्वान्‌गा᳚य॒त्रंत्वो᳚गायति॒शक्व॑रीषु |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

ब्र॒ह्मात्वो॒वद॑तिजातवि॒द्यांय॒ज्ञस्य॒मात्रां॒विमि॑मीतत्वः || {11/11}{10.71.11}{10.6.3.11}{8.2.24.6}{767, 908, 9565}

ऋ॒चा‌म्¦त्वः॒¦पोष᳚‌म्¦आ॒स्ते॒¦पु॒पु॒ष्वान्¦गा॒य॒त्र‌म्¦त्वः॒¦गा॒य॒ति॒¦शक्व॑रीषु |
ब्र॒ह्मा¦त्वः॒¦वद॑ति¦जा॒त॒ऽवि॒द्या‌म्¦य॒ज्ञस्य॑¦मात्रा᳚‌म्¦वि¦मि॒मी॒ते॒¦ऊँ॒ इति॑¦त्वः॒ ||

[72] देवानामिति नवर्चस्य सूक्तस्य लौक्योबृहस्पतिर्देवाअनुष्टुप् | (आंगिरसोवा बृहस्पतिऋषिर्दाक्षायण्यदितिर्वाऋषिका)|
दे॒वानां॒नुव॒यंजाना॒प्रवो᳚चामविप॒न्यया᳚ |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

उ॒क्थेषु॑श॒स्यमा᳚नेषु॒यःपश्या॒दुत्त॑रेयु॒गे || {1/9}{10.72.1}{10.6.4.1}{8.3.1.1}{768, 909, 9566}

दे॒वाना᳚‌म्¦नु¦व॒य‌म्¦जाना᳚¦प्र¦वो॒चा॒म॒¦वि॒प॒न्यया᳚ | उ॒क्थेषु॑¦श॒स्यमा᳚नेषु¦यः¦पश्या᳚त्¦उत्ऽत॑रे¦यु॒गे ||

ब्रह्म॑ण॒स्पति॑रे॒तासंक॒र्मार॑इवाधमत् |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

दे॒वानां᳚पू॒र्व्येयु॒गेऽस॑तः॒सद॑जायत || {2/9}{10.72.2}{10.6.4.2}{8.3.1.2}{769, 909, 9567}

ब्रह्म॑णः¦पतिः॑¦ए॒ता¦स‌म्¦क॒र्मारः॑ऽ‌इव¦अ॒ध॒म॒त् | दे॒वाना᳚‌म्¦पू॒र्व्ये¦यु॒गे¦अस॑तः¦सत्¦अ॒जा॒य॒त॒ ||

दे॒वानां᳚यु॒गेप्र॑थ॒मेऽस॑तः॒सद॑जायत |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

तदाशा॒,अन्व॑जायन्त॒तदु॑त्ता॒नप॑द॒स्परि॑ || {3/9}{10.72.3}{10.6.4.3}{8.3.1.3}{770, 909, 9568}

दे॒वाना᳚‌म्¦यु॒गे¦प्र॒थ॒मे¦अस॑तः¦सत्¦अ॒जा॒य॒त॒ | तत्¦आशाः᳚¦अनु॑¦अ॒जा॒य॒न्त॒¦तत्¦उ॒त्ता॒नऽप॑दः¦परि॑ ||

भूर्ज॑ज्ञउत्ता॒नप॑दोभु॒वआशा᳚,अजायन्त |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

अदि॑ते॒र्दक्षो᳚,अजायत॒दक्षा॒द्वदि॑तिः॒परि॑ || {4/9}{10.72.4}{10.6.4.4}{8.3.1.4}{771, 909, 9569}

भूः¦ज॒ज्ञे॒¦उ॒त्ता॒नऽप॑दः¦भु॒वः¦आशाः᳚¦अ॒जा॒य॒न्त॒ | अदि॑तेः¦दक्षः॑¦अ॒जा॒य॒त॒¦दक्षा᳚त्¦ऊँ॒ इति॑¦अदि॑तिः¦परि॑ ||

अदि॑ति॒र्ह्यज॑निष्ट॒दक्ष॒यादु॑हि॒तातव॑ |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

तांदे॒वा,अन्व॑जायन्तभ॒द्रा,अ॒मृत॑बन्धवः || {5/9}{10.72.5}{10.6.4.5}{8.3.1.5}{772, 909, 9570}

अदि॑तिः¦हि¦अज॑निष्ट¦दक्ष॑¦या¦दु॒हि॒ता¦तव॑ | ता‌म्¦दे॒वाः¦अनु॑¦अ॒जा॒य॒न्त॒¦भ॒द्राः¦अ॒मृत॑ऽबन्धवः ||

यद्दे᳚वा,अ॒दःस॑लि॒लेसुसं᳚रब्धा॒,अति॑ष्ठत |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

अत्रा᳚वो॒नृत्य॑तामिवती॒व्रोरे॒णुरपा᳚यत || {6/9}{10.72.6}{10.6.4.6}{8.3.2.1}{773, 909, 9571}

यत्¦दे॒वाः॒¦अ॒दः¦स॒लि॒ले¦सुऽसं᳚रब्धाः¦अति॑ष्ठत | अत्र॑¦वः॒¦नृत्य॑ता‌म्ऽ‌इव¦ती॒व्रः¦रे॒णुः¦अप॑¦आ॒य॒त॒ ||

यद्दे᳚वा॒यत॑योयथा॒भुव॑ना॒न्यपि᳚न्वत |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

अत्रा᳚समु॒द्रगू॒ळ्हमासूर्य॑मजभर्तन || {7/9}{10.72.7}{10.6.4.7}{8.3.2.2}{774, 909, 9572}

यत्¦दे॒वाः॒¦यत॑यः¦य॒था॒¦भुव॑नानि¦अपि᳚न्वत | अत्र॑¦स॒मु॒द्रे¦आ¦गू॒ळ्ह‌म्¦आ¦सूर्य᳚‌म्¦अ॒ज॒भ॒र्त॒न॒ ||

अ॒ष्टौपु॒त्रासो॒,अदि॑ते॒र्येजा॒तास्त॒न्व१॑(अ॒)स्परि॑ |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

दे॒वाँ,उप॒प्रैत्स॒प्तभिः॒परा᳚मार्ता॒ण्डमा᳚स्यत् || {8/9}{10.72.8}{10.6.4.8}{8.3.2.3}{775, 909, 9573}

अ॒ष्टौ¦पु॒त्रासः॑¦अदि॑तेः¦ये¦जा॒ताः¦त॒न्वः॑¦परि॑ | दे॒वान्¦उप॑¦प्र¦ऐ॒त्¦स॒प्तऽभिः॑¦परा᳚¦मा॒र्ता॒ण्ड‌म्¦आ॒स्य॒त् ||

स॒प्तभिः॑पु॒त्रैरदि॑ति॒रुप॒प्रैत्पू॒र्व्यंयु॒गम् |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

प्र॒जायै᳚मृ॒त्यवे᳚त्व॒त्पुन᳚र्मार्ता॒ण्डमाभ॑रत् || {9/9}{10.72.9}{10.6.4.9}{8.3.2.4}{776, 909, 9574}

स॒प्तऽभिः॑¦पु॒त्रैः¦अदि॑तिः¦उप॑¦प्र¦ऐ॒त्¦पू॒र्व्य‌म्¦यु॒ग‌म् | प्र॒ऽजायै᳚¦मृ॒त्यवे᳚¦त्व॒त्¦पुनः॑¦मा॒र्ता॒ण्ड‌म्¦आ¦अ॒भ॒र॒त् ||

[73] जनिष्ठाइत्येकादशर्चस्य सूक्तस्य शाक्त्यो गौरिवीतिरिंद्रस्त्रिष्टुप् |
जनि॑ष्ठा,उ॒ग्रःसह॑सेतु॒राय॑म॒न्द्रओजि॑ष्ठोबहु॒लाभि॑मानः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अव॑र्ध॒न्निन्द्रं᳚म॒रुत॑श्चि॒दत्र॑मा॒तायद्वी॒रंद॒धन॒द्धनि॑ष्ठा || {1/11}{10.73.1}{10.6.5.1}{8.3.3.1}{777, 910, 9575}

जनि॑ष्ठाः¦उ॒ग्रः¦सह॑से¦तु॒राय॑¦म॒न्द्रः¦ओजि॑ष्ठः¦ब॒हु॒ल।आ॑भिमानः |
अव॑र्धन्¦इन्द्र᳚‌म्¦म॒रुतः॑¦चि॒त्¦अत्र॑¦मा॒ता¦यत्¦वी॒र‌म्¦द॒धन॑त्¦धनि॑ष्ठा ||

द्रु॒होनिष॑त्तापृश॒नीचि॒देवैः᳚पु॒रूशंसे᳚नवावृधु॒ष्टइन्द्र᳚म् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अ॒भीवृ॑तेव॒ताम॑हाप॒देन॑ध्वा॒न्तात्प्र॑पि॒त्वादुद॑रन्त॒गर्भाः᳚ || {2/11}{10.73.2}{10.6.5.2}{8.3.3.2}{778, 910, 9576}

द्रु॒हः¦निऽस॑त्ता¦पृ॒श॒नी¦चि॒त्¦एवैः᳚¦पु॒रु¦शंसे᳚न¦व॒वृ॒धुः॒¦ते¦इन्द्र᳚‌म् |
अ॒भिवृ॑ताऽ‌इव¦ता¦म॒हा॒ऽप॒देन॑¦ध्वा॒न्तात्¦प्र॒ऽपि॒त्वात्¦उत्¦अ॒र॒न्त॒¦गर्भाः᳚ ||

ऋ॒ष्वाते॒पादा॒प्रयज्जिगा॒स्यव॑र्ध॒न्वाजा᳚,उ॒तयेचि॒दत्र॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

त्वमि᳚न्द्रसालावृ॒कान्‌त्स॒हस्र॑मा॒सन्द॑धिषे,अ॒श्विनाव॑वृत्याः || {3/11}{10.73.3}{10.6.5.3}{8.3.3.3}{779, 910, 9577}

ऋ॒ष्वा¦ते॒¦पादा᳚¦प्र¦यत्¦जिगा᳚सि¦अव॑र्धन्¦वाजाः᳚¦उ॒त¦ये¦चि॒त्¦अत्र॑ |
त्व‌म्¦इ॒न्द्र॒¦सा॒ला॒वृ॒कान्¦स॒हस्र᳚‌म्¦आ॒सन्¦द॒धि॒षे॒¦अ॒श्विना᳚¦आ¦व॒वृ॒त्याः॒ ||

स॒म॒नातूर्णि॒रुप॑यासिय॒ज्ञमानास॑त्यास॒ख्याय॑वक्षि |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

व॒साव्या᳚मिन्द्रधारयःस॒हस्रा॒श्विना᳚शूरददतुर्म॒घानि॑ || {4/11}{10.73.4}{10.6.5.4}{8.3.3.4}{780, 910, 9578}

स॒म॒ना¦तूर्णिः॑¦उप॑¦या॒सि॒¦य॒ज्ञ‌म्¦आ¦नास॑त्या¦स॒ख्याय॑¦व॒क्षि॒ |
व॒साव्या᳚‌म्¦इ॒न्द्र॒¦धा॒र॒यः॒¦स॒हस्रा᳚¦अ॒श्विना᳚¦शू॒र॒¦द॒द॒तुः॒¦म॒घानि॑ ||

मन्द॑मानऋ॒तादधि॑प्र॒जायै॒सखि॑भि॒रिन्द्र॑इषि॒रेभि॒रर्थ᳚म् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

आभि॒र्हिमा॒या,उप॒दस्यु॒मागा॒न्मिहः॒प्रत॒म्रा,अ॑वप॒त्तमां᳚सि || {5/11}{10.73.5}{10.6.5.5}{8.3.3.5}{781, 910, 9579}

मन्द॑मानः¦ऋ॒तात्¦अधि॑¦प्र॒ऽजायै᳚¦सखि॑ऽभिः¦इन्द्रः॑¦इ॒षि॒रेभिः॑¦अर्थ᳚‌म् |
आ¦आ॒भिः॒¦हि¦मा॒याः¦उप॑¦दस्यु᳚‌म्¦आ¦अगा᳚त्¦मिहः॑¦प्र¦त॒म्राः¦अ॒व॒प॒त्¦तमां᳚सि ||

सना᳚मानाचिद्ध्वसयो॒न्य॑स्मा॒,अवा᳚ह॒न्निन्द्र॑उ॒षसो॒यथानः॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

ऋ॒ष्वैर॑गच्छः॒सखि॑भि॒र्निका᳚मैःसा॒कंप्र॑ति॒ष्ठाहृद्या᳚जघन्थ || {6/11}{10.73.6}{10.6.5.6}{8.3.4.1}{782, 910, 9580}

सऽना᳚माना¦चि॒त्¦ध्व॒स॒यः॒¦नि¦अ॒स्मै॒¦अव॑¦अ॒ह॒न्¦इन्द्रः॑¦उ॒षसः॑¦यथा᳚¦अनः॑ |
ऋ॒ष्वैः¦अ॒ग॒च्छः॒¦सखि॑ऽभिः¦निऽका᳚मैः¦सा॒क‌म्¦प्र॒ति॒ऽस्था¦हृद्या᳚¦ज॒घ॒न्थ॒ ||

त्वंज॑घन्थ॒नमु॑चिंमख॒स्युंदासं᳚कृण्वा॒नऋष॑ये॒विमा᳚यम् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

त्वंच॑कर्थ॒मन॑वेस्यो॒नान्‌प॒थोदे᳚व॒त्राञ्ज॑सेव॒याना॑न् || {7/11}{10.73.7}{10.6.5.7}{8.3.4.2}{783, 910, 9581}

त्व‌म्¦जा॒घ॒न्थ॒¦नमु॑चि‌म्¦म॒ख॒स्यु‌म्¦दास᳚‌म्¦कृ॒ण्वा॒नः¦ऋष॑ये¦विऽमा᳚य‌म् |
त्व‌म्¦च॒क॒र्थ॒¦मन॑वे¦स्यो॒नान्¦प॒थः¦दे॒व॒ऽत्रा¦अंज॑साऽ‌इव¦याना॑न् ||

त्वमे॒तानि॑पप्रिषे॒विनामेशा᳚नइन्द्रदधिषे॒गभ॑स्तौ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अनु॑त्वादे॒वाःशव॑सामदन्त्यु॒परि॑बुध्नान्व॒निन॑श्चकर्थ || {8/11}{10.73.8}{10.6.5.8}{8.3.4.3}{784, 910, 9582}

त्व‌म्¦ए॒तानि॑¦प॒प्रि॒षे॒¦वि¦नाम॑¦ईशा᳚नः¦इ॒न्द्र॒¦द॒धि॒षे॒¦गभ॑स्तौ |
अनु॑¦त्वा॒¦दे॒वाः¦शव॑सा¦म॒द॒न्ति॒¦उ॒परि॑ऽबुध्नान्¦व॒निनः॑¦च॒क॒र्थ॒ ||

च॒क्रंयद॑स्या॒प्स्वानिष॑त्तमु॒तोतद॑स्मै॒मध्विच्च॑च्छद्यात् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

पृ॒थि॒व्यामति॑षितं॒यदूधः॒पयो॒गोष्वद॑धा॒,ओष॑धीषु || {9/11}{10.73.9}{10.6.5.9}{8.3.4.4}{785, 910, 9583}

च॒क्र‌म्¦यत्¦अ॒स्य॒¦अ॒प्ऽसु¦आ¦निऽस॑त्त‌म्¦उ॒तो इति॑¦तत्¦अ॒स्मै॒¦मधु॑¦इत्¦च॒च्छ॒द्या॒त् |
पृ॒थि॒व्या‌म्¦अति॑ऽसित‌म्¦यत्¦ऊधः॑¦पयः॑¦गोषु॑¦अद॑धाः¦ओष॑धीषु ||

अश्वा᳚दिया॒येति॒यद्वद॒न्त्योज॑सोजा॒तमु॒तम᳚न्यएनम् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

म॒न्योरि॑यायह॒र्म्येषु॑तस्थौ॒यतः॑प्रज॒ज्ञइन्द्रो᳚,अस्यवेद || {10/11}{10.73.10}{10.6.5.10}{8.3.4.5}{786, 910, 9584}

अश्वा᳚त्¦इ॒या॒य॒¦इति॑¦यत्¦वद᳚न्ति¦ओज॑सः¦जा॒त‌म्¦उ॒त¦म॒न्ये॒¦ए॒न॒‌म् |
म॒न्योः¦इ॒या॒य॒¦ह॒र्म्येषु॑¦त॒स्थौ॒¦यतः॑¦प्र॒ऽज॒ज्ञे¦इन्द्रः॑¦अ॒स्य॒¦वे॒द॒ ||

वयः॑सुप॒र्णा,उप॑सेदु॒रिन्द्रं᳚प्रि॒यमे᳚धा॒ऋष॑यो॒नाध॑मानाः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अप॑ध्वा॒न्तमू᳚र्णु॒हिपू॒र्धिचक्षु᳚र्मुमु॒ग्ध्य१॑(अ॒)स्मान्नि॒धये᳚वब॒द्धान् || {11/11}{10.73.11}{10.6.5.11}{8.3.4.6}{787, 910, 9585}

वयः॑¦सु॒ऽप॒र्णाः¦उप॑¦से॒दुः॒¦इन्द्र᳚‌म्¦प्रि॒यऽमे᳚धाः¦ऋष॑यः¦नाध॑मानाः |
अप॑¦ध्वा॒न्त‌म्¦ऊ॒र्णु॒हि¦पू॒र्धि¦चक्षुः॑¦मु॒मु॒ग्धि¦अ॒स्मान्¦नि॒धया᳚ऽ‌इव¦ब॒द्धान् ||

[74] वसूनामिति षडृचस्य सूक्तस्य शाक्त्यो गौरिवीतिरिंद्रस्त्रिष्टुप् |
वसू᳚नांवाचर्कृष॒इय॑क्षन्धि॒यावा᳚य॒ज्ञैर्वा॒रोद॑स्योः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अर्व᳚न्तोवा॒येर॑यि॒मन्तः॑सा॒तौव॒नुंवा॒येसु॒श्रुणं᳚सु॒श्रुतो॒धुः || {1/6}{10.74.1}{10.6.6.1}{8.3.5.1}{788, 911, 9586}

वसू᳚ना‌म्¦वा॒¦च॒र्कृ॒षे॒¦इय॑क्षन्¦धि॒या¦वा॒¦य॒ज्ञैः¦वा॒¦रोद॑स्योः |
अर्व᳚न्तः¦वा॒¦ये¦र॒यि॒ऽमन्तः॑¦सा॒तौ¦व॒नु‌म्¦वा॒¦ये¦सु॒ऽश्रुण᳚‌म्¦सु॒ऽश्रुतः॑¦धुरिति॒ धुः ||

हव॑एषा॒मसु॑रोनक्षत॒द्यांश्र॑वस्य॒तामन॑सानिंसत॒क्षाम् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

चक्षा᳚णा॒यत्र॑सुवि॒ताय॑दे॒वाद्यौर्नवारे᳚भिःकृ॒णव᳚न्त॒स्वैः || {2/6}{10.74.2}{10.6.6.2}{8.3.5.2}{789, 911, 9587}

हवः॑¦ए॒षा॒‌म्¦असु॑रः¦न॒क्ष॒त॒¦द्या‌म्¦श्र॒व॒स्य॒ता¦मन॑सा¦निं॒स॒त॒¦क्षा‌म् |
चक्षा᳚णाः¦यत्र॑¦सु॒वि॒ताय॑¦दे॒वाः¦द्यौः¦न¦वारे᳚भिः¦कृ॒णव᳚न्त¦स्वैः ||

इ॒यमे᳚षाम॒मृता᳚नां॒गीःस॒र्वता᳚ता॒येकृ॒पण᳚न्त॒रत्न᳚म् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

धियं᳚य॒ज्ञंच॒साध᳚न्त॒स्तेनो᳚धान्तुवस॒व्य१॑(अ॒)मसा᳚मि || {3/6}{10.74.3}{10.6.6.3}{8.3.5.3}{790, 911, 9588}

इ॒य‌म्¦ए॒षा॒‌म्¦अ॒मृता᳚ना‌म्¦गीः¦स॒र्वऽता᳚ता¦ये¦कृ॒पण᳚न्त¦रत्न᳚‌म् |
धिय᳚‌म्¦च॒¦य॒ज्ञ‌म्¦च॒¦साध᳚न्तः¦ते¦नः॒¦धा॒न्तु॒¦व॒स॒व्य᳚‌म्¦असा᳚मि ||

तत्त॑इन्द्रा॒यवः॑पनन्ता॒भिऊ॒र्वंगोम᳚न्तं॒तितृ॑त्सान् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

स॒कृ॒त्स्व१॑(अं॒)येपु॑रुपु॒त्रांम॒हींस॒हस्र॑धारांबृह॒तींदुदु॑क्षन् || {4/6}{10.74.4}{10.6.6.4}{8.3.5.4}{791, 911, 9589}

आ¦तत्¦ते॒¦इ॒न्द्र॒¦आ॒यवः॑¦प॒न॒न्त॒¦अ॒भि¦ये¦ऊ॒र्व‌म्¦गोऽम᳚न्त‌म्¦तितृ॑त्सान् |
स॒कृ॒त्ऽस्व᳚‌म्¦ये¦पु॒रु॒ऽपु॒त्रा‌म्¦म॒ही‌म्¦स॒हस्र॑ऽधारा‌म्¦बृ॒ह॒ती‌म्¦दुधु॑क्षन् ||

शची᳚व॒इन्द्र॒मव॑सेकृणुध्व॒मना᳚नतंद॒मय᳚न्तंपृत॒न्यून् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

ऋ॒भु॒क्षणं᳚म॒घवा᳚नंसुवृ॒क्तिंभर्ता॒योवज्रं॒नर्यं᳚पुरु॒क्षुः || {5/6}{10.74.5}{10.6.6.5}{8.3.5.5}{792, 911, 9590}

शची᳚ऽवः¦इन्द्र᳚‌म्¦अव॑से¦कृ॒णु॒ध्व॒‌म्¦अना᳚नत‌म्¦द॒मय᳚न्त‌म्¦पृ॒त॒न्यून् |
ऋ॒भु॒क्षण᳚‌म्¦म॒घऽवा᳚न‌म्¦सु॒ऽवृ॒क्ति‌म्¦भर्ता᳚¦यः¦वज्र᳚‌म्¦नर्य᳚‌म्¦पु॒रु॒ऽक्षुः ||

यद्वा॒वान॑पुरु॒तमं᳚पुरा॒षाळावृ॑त्र॒हेन्द्रो॒नामा᳚न्यप्राः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अचे᳚तिप्रा॒सह॒स्पति॒स्तुवि॑ष्मा॒न्यदी᳚मु॒श्मसि॒कर्त॑वे॒कर॒त्तत् || {6/6}{10.74.6}{10.6.6.6}{8.3.5.6}{793, 911, 9591}

यत्¦व॒वान॑¦पु॒रु॒ऽतम᳚‌म्¦पु॒रा॒षाट्¦आ¦वृ॒त्र॒ऽहा¦इन्द्रः॑¦नामा᳚नि¦अ॒प्राः॒ |
अचे᳚ति¦प्र॒ऽसहः॑¦पतिः॑¦तुवि॑ष्मान्¦यत्¦ई॒‌म्¦उ॒श्मसि॑¦कर्त॑वे¦कर॑त्¦तत् ||

[75] प्रसुवइति नवर्चस्य सूक्तस्य प्रैयमेधः सिंधुक्षिन्नद्योजगती |
प्रसुव॑आपोमहि॒मान॑मुत्त॒मंका॒रुर्वो᳚चाति॒सद॑नेवि॒वस्व॑तः |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

प्रस॒प्तस॑प्तत्रे॒धाहिच॑क्र॒मुःप्रसृत्व॑रीणा॒मति॒सिन्धु॒रोज॑सा || {1/9}{10.75.1}{10.6.7.1}{8.3.6.1}{794, 912, 9592}

प्र¦सु¦वः॒¦आ॒पः॒¦म॒हि॒मान᳚‌म्¦उ॒त्ऽत॒म‌म्¦का॒रुः¦वो॒चा॒ति॒¦सद॑ने¦वि॒वस्व॑तः |
प्र¦स॒प्तऽस॑प्त¦त्रे॒धा¦हि¦च॒क्र॒मुः¦प्र¦सृत्व॑रीणा‌म्¦अति॑¦सिन्धुः॑¦ओज॑सा ||

प्रते᳚ऽरद॒द्वरु॑णो॒यात॑वेप॒थःसिन्धो॒यद्वाजाँ᳚,अ॒भ्यद्र॑व॒स्त्वम् |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

भूम्या॒,अधि॑प्र॒वता᳚यासि॒सानु॑ना॒यदे᳚षा॒मग्रं॒जग॑तामिर॒ज्यसि॑ || {2/9}{10.75.2}{10.6.7.2}{8.3.6.2}{795, 912, 9593}

प्र¦ते॒¦अ॒र॒द॒त्¦वरु॑णः¦यात॑वे¦प॒थः¦सिन्धो॒ इति॑¦यत्¦वाजा᳚न्¦अ॒भि¦अद्र॑वः¦त्व‌म् |
भूम्याः᳚¦अधि॑¦प्र॒ऽवता᳚¦या॒सि॒¦सानु॑ना¦यत्¦ए॒षा॒‌म्¦अग्र᳚‌म्¦जग॑ता‌म्¦इ॒र॒ज्यसि॑ ||

दि॒विस्व॒नोय॑तते॒भूम्यो॒पर्य॑न॒न्तंशुष्म॒मुदि॑यर्तिभा॒नुना᳚ |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

अ॒भ्रादि॑व॒प्रस्त॑नयन्तिवृ॒ष्टयः॒सिन्धु॒र्यदेति॑वृष॒भोरोरु॑वत् || {3/9}{10.75.3}{10.6.7.3}{8.3.6.3}{796, 912, 9594}

दि॒वि¦स्व॒नः¦य॒त॒ते॒¦भूम्या᳚¦उ॒परि॑¦अ॒न॒न्त‌म्¦शुष्म᳚‌म्¦उत्¦इ॒य॒र्ति॒¦भा॒नुना᳚ |
अ॒भ्रात्ऽ‌इ᳚व¦प्र¦स्त॒न॒य॒न्ति॒¦वृ॒ष्टयः॑¦सिन्धुः॑¦यत्¦एति॑¦वृ॒ष॒भः¦न¦रोरु॑वत् ||

अ॒भित्वा᳚सिन्धो॒शिशु॒मिन्नमा॒तरो᳚वा॒श्रा,अ॑र्षन्ति॒पय॑सेवधे॒नवः॑ |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

राजे᳚व॒युध्वा᳚नयसि॒त्वमित्सिचौ॒यदा᳚सा॒मग्रं᳚प्र॒वता॒मिन॑क्षसि || {4/9}{10.75.4}{10.6.7.4}{8.3.6.4}{797, 912, 9595}

अ॒भि¦त्वा॒¦सिन्धो॒ इति॑¦शिशु᳚‌म्¦इत्¦न¦मा॒तरः॑¦वा॒श्राः¦अ॒र्ष॒न्ति॒¦पय॑साऽ‌इव¦धे॒नवः॑ |
राजा᳚ऽ‌इव¦युध्वा᳚¦न॒य॒सि॒¦त्व‌म्¦इत्¦सिचौ᳚¦यत्¦आ॒सा॒‌म्¦अग्र᳚‌म्¦प्र॒ऽवता᳚‌म्¦इन॑क्षसि ||

इ॒मंमे᳚गङ्गेयमुनेसरस्वति॒¦शुतु॑द्रि॒स्तोमं᳚सचता॒परु॒ष्ण्या |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

अ॒सि॒क्न्याम॑रुद्वृधेवि॒तस्त॒या¦ऽऽर्जी᳚कीयेशृणु॒ह्यासु॒षोम॑या || {5/9}{10.75.5}{10.6.7.5}{8.3.6.5}{798, 912, 9596}

इ॒म‌म्¦मे॒¦ग॒ङ्गे॒¦य॒मु॒ने॒¦स॒र॒स्व॒ति॒¦शुतु॑द्रि¦स्तोम᳚‌म्¦स॒च॒त॒¦परु॑ष्णि¦आ |
अ॒सि॒क्न्या¦म॒रु॒त्ऽवृ॒धे॒¦वि॒तस्त॑या¦आर्जी᳚कीये¦शृ॒णु॒हि¦आ¦सु॒ऽसोम॑या ||

तृ॒ष्टाम॑याप्रथ॒मंयात॑वेस॒जूःसु॒सर्त्वा᳚र॒सया᳚श्वे॒त्यात्या |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

त्वंसि᳚न्धो॒कुभ॑यागोम॒तींक्रुमुं᳚मेह॒त्न्वास॒रथं॒याभि॒रीय॑से || {6/9}{10.75.6}{10.6.7.6}{8.3.7.1}{799, 912, 9597}

तृ॒ष्ट।आ॑मया¦प्र॒थ॒म‌म्¦यात॑वे¦स॒ऽजूः¦सु॒ऽसर्त्वा᳚¦र॒सया᳚¦श्वे॒त्या¦त्या |
त्व‌म्¦सि॒न्धो॒ इति॑¦कुभ॑या¦गो॒ऽम॒ती‌म्¦क्रुमु᳚‌म्¦मे॒ह॒त्न्वा¦स॒ऽरथ᳚‌म्¦याभिः॑¦ईय॑से ||

ऋजी॒त्येनी॒रुश॑तीमहि॒त्वापरि॒ज्रयां᳚सिभरते॒रजां᳚सि |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

अद॑ब्धा॒सिन्धु॑र॒पसा᳚म॒पस्त॒माश्वा॒चि॒त्रावपु॑षीवदर्श॒ता || {7/9}{10.75.7}{10.6.7.7}{8.3.7.2}{800, 912, 9598}

ऋजी᳚ती¦एनी᳚¦रुश॑ती¦म॒हि॒ऽत्वा¦परि॑¦ज्रयां᳚सि¦भ॒र॒ते॒¦रजां᳚सि |
अद॑ब्धा¦सिन्धुः॑¦अ॒पसा᳚‌म्¦अ॒पःऽत॑मा¦अश्वा᳚¦न¦चि॒त्रा¦वपु॑षीऽ‌इव¦द॒र्श॒ता ||

स्वश्वा॒सिन्धुः॑सु॒रथा᳚सु॒वासा᳚हिर॒ण्ययी॒सुकृ॑तावा॒जिनी᳚वती |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

ऊर्णा᳚वतीयुव॒तिःसी॒लमा᳚वत्यु॒ताधि॑वस्तेसु॒भगा᳚मधु॒वृध᳚म् || {8/9}{10.75.8}{10.6.7.8}{8.3.7.3}{801, 912, 9599}

सु॒।आश्वा᳚¦सिन्धुः॑¦सु॒ऽरथा᳚¦सु॒ऽवासाः᳚¦हि॒र॒ण्ययी᳚¦सुऽकृ॑ता¦वा॒जिनी᳚ऽवती |
ऊर्णा᳚ऽवती¦यु॒व॒तिः¦सी॒लमा᳚ऽवती¦उ॒त¦अधि॑¦व॒स्ते॒¦सु॒ऽभगा᳚¦म॒धु॒ऽवृध᳚‌म् ||

सु॒खंरथं᳚युयुजे॒सिन्धु॑र॒श्विनं॒तेन॒वाजं᳚सनिषद॒स्मिन्ना॒जौ |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

म॒हान्ह्य॑स्यमहि॒माप॑न॒स्यतेऽद॑ब्धस्य॒स्वय॑शसोविर॒प्शिनः॑ || {9/9}{10.75.9}{10.6.7.9}{8.3.7.4}{802, 912, 9600}

सु॒ख‌म्¦रथ᳚‌म्¦यु॒यु॒जे॒¦सिन्धुः॑¦अ॒श्विन᳚‌म्¦तेन॑¦वाज᳚‌म्¦स॒नि॒ष॒त्¦अ॒स्मिन्¦आ॒जौ |
म॒हान्¦हि¦अ॒स्य॒¦म॒हि॒मा¦प॒न॒स्यते᳚¦अद॑ब्धस्य¦स्वऽय॑शसः¦वि॒ऽर॒प्शिनः॑ ||

[76] आवऋंजसइत्यष्टर्चस्य सूक्तस्यैरावतो जरत्कर्णः सर्पोग्रावाणोजगती |
व॑ऋञ्जसऊ॒र्जांव्यु॑ष्टि॒ष्विन्द्रं᳚म॒रुतो॒रोद॑सी,अनक्तन |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

उ॒भेयथा᳚नो॒,अह॑नीसचा॒भुवा॒सदः॑सदोवरिव॒स्यात॑उ॒द्भिदा᳚ || {1/8}{10.76.1}{10.6.8.1}{8.3.8.1}{803, 913, 9601}

आ¦वः॒¦ऋं॒ज॒से॒¦ऊ॒र्जा‌म्¦वि।औ᳚ष्टिषु¦इन्द्र᳚‌म्¦म॒रुतः॑¦रोद॑सी॒ इति॑¦अ॒न॒क्त॒न॒ |
उ॒भे इति॑¦यथा᳚¦नः॒¦अह॑नी॒ इति॑¦स॒चा॒ऽभुवा᳚¦सदः॑ऽसदः¦व॒रि॒व॒स्यातः॑¦उ॒त्ऽभिदा᳚ ||

तदु॒श्रेष्ठं॒सव॑नंसुनोत॒नात्यो॒हस्त॑यतो॒,अद्रिः॑सो॒तरि॑ |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

वि॒दद्ध्य१॑(अ॒)र्यो,अ॒भिभू᳚ति॒पौंस्यं᳚म॒होरा॒येचि॑त्तरुते॒यदर्व॑तः || {2/8}{10.76.2}{10.6.8.2}{8.3.8.2}{804, 913, 9602}

तत्¦ऊँ॒ इति॑¦श्रेष्ठ᳚‌म्¦सव॑न‌म्¦सु॒नो॒त॒न॒¦अत्यः॑¦न¦हस्त॑ऽयतः¦अद्रिः॑¦सो॒तरि॑ |
वि॒दत्¦हि¦अ॒र्यः¦अ॒भिऽभू᳚ति¦पौंस्य᳚‌म्¦म॒हः¦रा॒ये¦चि॒त्¦त॒रु॒ते॒¦यत्¦अर्व॑तः ||

तदिद्ध्य॑स्य॒सव॑नंवि॒वेर॒पोयथा᳚पु॒रामन॑वेगा॒तुमश्रे᳚त् |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

गो,अ᳚र्णसित्वा॒ष्ट्रे,अश्व॑निर्णिजि॒प्रेम॑ध्व॒रेष्व॑ध्व॒राँ,अ॑शिश्रयुः || {3/8}{10.76.3}{10.6.8.3}{8.3.8.3}{805, 913, 9603}

तत्¦इत्¦हि¦अ॒स्य॒¦सव॑न‌म्¦वि॒वेः¦अ॒पः¦यथा᳚¦पु॒रा¦मन॑वे¦गा॒तु‌म्¦अश्रे᳚त् |
गो।आ᳚र्णसि¦त्वा॒ष्ट्रे¦अश्व॑ऽनिर्निजि¦प्र¦ई॒‌म्¦अ॒ध्व॒रेषु॑¦अ॒ध्व॒रान्¦अ॒शि॒श्र॒युः॒ ||

अप॑हतर॒क्षसो᳚भङ्गु॒राव॑तःस्कभा॒यत॒निरृ॑तिं॒सेध॒ताम॑तिम् |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

नो᳚र॒यिंसर्व॑वीरंसुनोतनदेवा॒व्यं᳚भरत॒श्लोक॑मद्रयः || {4/8}{10.76.4}{10.6.8.4}{8.3.8.4}{806, 913, 9604}

अप॑¦ह॒त॒¦र॒क्षसः॑¦भ॒ङ्गु॒रऽव॑तः¦स्क॒भा॒यत॑¦निःऽऋ॑ति‌म्¦सेध॑त¦अम॑ति‌म् |
आ¦नः॒¦र॒यि‌म्¦सर्व॑ऽवीर‌म्¦सु॒नो॒त॒न॒¦दे॒व॒।आ॒व्य᳚‌म्¦भ॒र॒त॒¦श्लोक᳚‌म्¦अ॒द्र॒यः॒ ||

दि॒वश्चि॒दावोऽम॑वत्तरेभ्योवि॒भ्वना᳚चिदा॒श्व॑पस्तरेभ्यः |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

वा॒योश्चि॒दासोम॑रभस्तरेभ्यो॒ऽग्नेश्चि॑दर्चपितु॒कृत्त॑रेभ्यः || {5/8}{10.76.5}{10.6.8.5}{8.3.8.5}{807, 913, 9605}

दि॒वः¦चि॒त्¦आ¦वः॒¦अम॑वत्ऽतरेभ्यः¦वि॒ऽभ्वना᳚¦चि॒त्¦आ॒श्व॑पःऽतरेभ्यः |
वा॒योः¦चि॒त्¦आ¦सोम॑रभःऽतरेभ्यः¦अ॒ग्नेः¦चि॒त्¦अ॒र्च॒¦पि॒तु॒कृत्ऽत॑रेभ्यः ||

भु॒रन्तु॑नोय॒शसः॒सोत्वन्ध॑सो॒ग्रावा᳚णोवा॒चादि॒विता᳚दि॒वित्म॑ता |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

नरो॒यत्र॑दुह॒तेकाम्यं॒मध्वा᳚घो॒षय᳚न्तो,अ॒भितो᳚मिथ॒स्तुरः॑ || {6/8}{10.76.6}{10.6.8.6}{8.3.9.1}{808, 913, 9606}

भु॒रन्तु॑¦नः॒¦य॒शसः॑¦सोतु॑¦अन्ध॑सः¦ग्रावा᳚णः¦वा॒चा¦दि॒विता᳚¦दि॒वित्म॑ता |
नरः॑¦यत्र॑¦दु॒ह॒ते¦काम्य᳚‌म्¦मधु॑¦आ॒ऽघो॒षय᳚न्तः¦अ॒भितः॑¦मि॒थः॒ऽतुरः॑ ||

सु॒न्वन्ति॒सोमं᳚रथि॒रासो॒,अद्र॑यो॒निर॑स्य॒रसं᳚ग॒विषो᳚दुहन्ति॒ते |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

दु॒हन्त्यूध॑रुप॒सेच॑नाय॒कंनरो᳚ह॒व्याम॑र्जयन्तआ॒सभिः॑ || {7/8}{10.76.7}{10.6.8.7}{8.3.9.2}{809, 913, 9607}

सु॒न्वन्ति॑¦सोम᳚‌म्¦र॒थि॒रासः॑¦अद्र॑यः¦निः¦अ॒स्य॒¦रस᳚‌म्¦गो॒ऽ‌इषः॑¦दु॒ह॒न्ति॒¦ते |
दु॒हन्ति॑¦ऊधः॑¦उ॒प॒ऽसेच॑नाय¦क‌म्¦नरः॑¦ह॒व्या¦न¦म॒र्ज॒य॒न्ते॒¦आ॒सऽभिः॑ ||

ए॒तेन॑रः॒स्वप॑सो,अभूतन॒इन्द्रा᳚यसुनु॒थसोम॑मद्रयः |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

वा॒मंवा᳚मंवोदि॒व्याय॒धाम्ने॒वसु॑वसुवः॒पार्थि॑वायसुन्व॒ते || {8/8}{10.76.8}{10.6.8.8}{8.3.9.3}{810, 913, 9608}

ए॒ते¦न॒रः॒¦सु॒।आप॑सः¦अ॒भू॒त॒न॒¦ये¦इन्द्रा᳚य¦सु॒नु॒थ¦सोम᳚‌म्¦अ॒द्र॒यः॒ |
वा॒म‌म्ऽवा᳚म‌म्¦वः॒¦दि॒व्याय॑¦धाम्ने᳚¦वसु॑ऽवसु¦वः॒¦पार्थि॑वाय¦सु॒न्व॒ते ||

[77] अभ्रप्रुषइत्यष्टर्चस्य सूक्तस्य भार्गवः स्यूमरश्मिर्मरुतस्त्रिष्टुप् पंचमी जगती |
अ॒भ्र॒प्रुषो॒वा॒चाप्रु॑षा॒वसु॑ह॒विष्म᳚न्तो॒य॒ज्ञावि॑जा॒नुषः॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

सु॒मारु॑तं॒ब्र॒ह्माण॑म॒र्हसे᳚ग॒णम॑स्तोष्येषां॒शो॒भसे᳚ || {1/8}{10.77.1}{10.6.9.1}{8.3.10.1}{811, 914, 9609}

अ॒भ्र॒ऽप्रुषः॑¦न¦वा॒चा¦प्रु॒ष॒¦वसु॑¦ह॒विष्म᳚न्तः¦न¦य॒ज्ञाः¦वि॒ऽजा॒नुषः॑ |
सु॒ऽमारु॑त‌म्¦न¦ब्र॒ह्माण᳚‌म्¦अ॒र्हसे᳚¦ग॒ण‌म्¦अ॒स्तो॒षि॒¦ए॒षा॒‌म्¦न¦शो॒भसे᳚ ||

श्रि॒येमर्या᳚सो,अ॒ञ्जीँर॑कृण्वतसु॒मारु॑तं॒पू॒र्वीरति॒क्षपः॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

दि॒वस्पु॒त्रास॒एता॒ये᳚तिरआदि॒त्यास॒स्ते,अ॒क्रावा᳚वृधुः || {2/8}{10.77.2}{10.6.9.2}{8.3.10.2}{812, 914, 9610}

श्रि॒ये¦मर्या᳚सः¦अं॒जीन्¦अ॒कृ॒ण्व॒त॒¦सु॒ऽमारु॑त‌म्¦न¦पू॒र्वीः¦अति॑¦क्षपः॑ |
दि॒वः¦पु॒त्रासः॑¦एताः᳚¦न¦ये॒ति॒रे॒¦आ॒दि॒त्यासः॑¦ते¦अ॒क्राः¦न¦व॒वृ॒धुः॒ ||

प्रयेदि॒वःपृ॑थि॒व्याब॒र्हणा॒त्मना᳚रिरि॒च्रे,अ॒भ्रान्नसूर्यः॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

पाज॑स्वन्तो॒वी॒राःप॑न॒स्यवो᳚रि॒शाद॑सो॒मर्या᳚,अ॒भिद्य॑वः || {3/8}{10.77.3}{10.6.9.3}{8.3.10.3}{813, 914, 9611}

प्र¦ये¦दि॒वः¦पृ॒थि॒व्याः¦न¦ब॒र्हणा᳚¦त्मना᳚¦रि॒रि॒च्रे¦अ॒भ्रात्¦न¦सूर्यः॑ |
पाज॑स्वन्तः¦न¦वी॒राः¦प॒न॒स्यवः॑¦रि॒शाद॑सः¦न¦मर्याः᳚¦अ॒भिऽद्य॑वः ||

यु॒ष्माकं᳚बु॒ध्ने,अ॒पांयाम॑निविथु॒र्यति॒म॒हीश्र॑थ॒र्यति॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

वि॒श्वप्सु᳚र्य॒ज्ञो,अ॒र्वाग॒यंसुवः॒प्रय॑स्वन्तो॒स॒त्राच॒ग॑त || {4/8}{10.77.4}{10.6.9.4}{8.3.10.4}{814, 914, 9612}

यु॒ष्माक᳚‌म्¦बु॒ध्ने¦अ॒पा‌म्¦न¦याम॑नि¦वि॒थु॒र्यति॑¦न¦म॒ही¦श्र॒थ॒र्यति॑ |
वि॒श्वऽप्सुः॑¦य॒ज्ञः¦अ॒र्वाक्¦अ॒य‌म्¦सु¦वः॒¦प्रय॑स्वन्तः¦न¦स॒त्राचः॑¦आ¦ग॒त॒ ||

यू॒यंधू॒र्षुप्र॒युजो॒र॒श्मिभि॒र्ज्योति॑ष्मन्तो॒भा॒साव्यु॑ष्टिषु |{भार्गवः स्यूमरश्मिः | मरुतः | जगती}

श्ये॒नासो॒स्वय॑शसोरि॒शाद॑सःप्र॒वासो॒प्रसि॑तासःपरि॒प्रुषः॑ || {5/8}{10.77.5}{10.6.9.5}{8.3.10.5}{815, 914, 9613}

यू॒य‌म्¦धूः॒ऽसु¦प्र॒ऽयुजः॑¦न¦र॒श्मिऽभिः॑¦ज्योति॑ष्मन्तः¦न¦भा॒सा¦वि।औ᳚ष्टिषु |
श्ये॒नासः॑¦न¦स्वऽय॑शसः¦रि॒शाद॑सः¦प्र॒वासः॑¦न¦प्रऽसि॑तासः¦प॒रि॒ऽप्रुषः॑ ||

प्रयद्वह॑ध्वेमरुतःपरा॒काद्यू॒यंम॒हःसं॒वर॑णस्य॒वस्वः॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

वि॒दा॒नासो᳚वसवो॒राध्य॑स्या॒राच्चि॒द्द्वेषः॑सनु॒तर्यु॑योत || {6/8}{10.77.6}{10.6.9.6}{8.3.11.1}{816, 914, 9614}

प्र¦यत्¦वह॑ध्वे¦म॒रु॒तः॒¦प॒रा॒कात्¦यू॒य‌म्¦म॒हः¦स॒‌म्ऽवर॑णस्य¦वस्वः॑ |
वि॒दा॒नासः॑¦व॒स॒वः॒¦राध्य॑स्य¦आ॒रात्¦चि॒त्¦द्वेषः॑¦स॒नु॒तः¦यु॒यो॒त॒ ||

उ॒दृचि॑य॒ज्ञे,अ॑ध्वरे॒ष्ठाम॒रुद्भ्यो॒मानु॑षो॒ददा᳚शत् |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

रे॒वत्सवयो᳚दधतेसु॒वीरं॒दे॒वाना॒मपि॑गोपी॒थे,अ॑स्तु || {7/8}{10.77.7}{10.6.9.7}{8.3.11.2}{817, 914, 9615}

यः¦उ॒त्ऽऋचि॑¦य॒ज्ञे¦अ॒ध्व॒रे॒ऽस्थाः¦म॒रुत्ऽभ्यः॑¦न¦मानु॑षः¦ददा᳚शत् |
रे॒वत्¦सः¦वयः॑¦द॒ध॒ते॒¦सु॒ऽवीर᳚‌म्¦सः¦दे॒वाना᳚‌म्¦अपि॑¦गो॒ऽपी॒थे¦अ॒स्तु॒ ||

तेहिय॒ज्ञेषु॑य॒ज्ञिया᳚स॒ऊमा᳚,आदि॒त्येन॒नाम्ना॒शम्भ॑विष्ठाः |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

तेनो᳚ऽवन्तुरथ॒तूर्म॑नी॒षांम॒हश्च॒याम᳚न्नध्व॒रेच॑का॒नाः || {8/8}{10.77.8}{10.6.9.8}{8.3.11.3}{818, 914, 9616}

ते¦हि¦य॒ज्ञेषु॑¦य॒ज्ञिया᳚सः¦ऊमाः᳚¦आ॒दि॒त्येन॑¦नाम्ना᳚¦श‌म्ऽभ॑विष्ठाः |
ते¦नः॒¦अ॒व॒न्तु॒¦र॒थ॒ऽतूः¦म॒नी॒षा‌म्¦म॒हः¦च॒¦याम॑न्¦अ॒ध्व॒रे¦च॒का॒नाः ||

[78] विप्रासइत्यष्टर्चस्य सूक्तस्य भार्गवः स्यूमरश्मिर्मरुतस्त्रिष्टुप् द्वितीयापंचम्याद्याश्चतस्रश्चजगत्यः |
विप्रा᳚सो॒मन्म॑भिःस्वा॒ध्यो᳚देवा॒व्यो॒३॑(ओ॒)य॒ज्ञैःस्वप्न॑सः |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

राजा᳚नो॒चि॒त्राःसु॑सं॒दृशः॑,क्षिती॒नांमर्या᳚,अरे॒पसः॑ || {1/8}{10.78.1}{10.6.10.1}{8.3.12.1}{819, 915, 9617}

विप्रा᳚सः¦न¦मन्म॑ऽभिः¦सु॒ऽआ॒ध्यः॑¦दे॒व॒।आ॒व्यः॑¦न¦य॒ज्ञैः¦सु॒।आप्न॑सः |
राजा᳚नः¦न¦चि॒त्राः¦सु॒ऽस॒न्दृशः॑¦क्षि॒ती॒ना‌म्¦न¦मर्याः᳚¦अ॒रे॒पसः॑ ||

अ॒ग्निर्नयेभ्राज॑सारु॒क्मव॑क्षसो॒वाता᳚सो॒स्व॒युजः॑स॒द्यऊ᳚तयः |{भार्गवः स्यूमरश्मिः | मरुतः | जगती}

प्र॒ज्ञा॒तारो॒ज्येष्ठाः᳚सुनी॒तयः॑सु॒शर्मा᳚णो॒सोमा᳚ऋ॒तंय॒ते || {2/8}{10.78.2}{10.6.10.2}{8.3.12.2}{820, 915, 9618}

अ॒ग्निः¦न¦ये¦भ्राज॑सा¦रु॒क्मऽव॑क्षसः¦वाता᳚सः¦न¦स्व॒ऽयुजः॑¦स॒द्यःऽऊ᳚तयः |
प्र॒ऽज्ञा॒तारः॑¦न¦ज्येष्ठाः᳚¦सु॒ऽनी॒तयः॑¦सु॒ऽशर्मा᳚णः¦न¦सोमाः᳚¦ऋ॒त‌म्¦य॒ते ||

वाता᳚सो॒येधुन॑योजिग॒त्नवो᳚ऽग्नी॒नांजि॒ह्वावि॑रो॒किणः॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

वर्म᳚ण्वन्तो॒यो॒धाःशिमी᳚वन्तःपितॄ॒णांशंसाः᳚सुरा॒तयः॑ || {3/8}{10.78.3}{10.6.10.3}{8.3.12.3}{821, 915, 9619}

वाता᳚सः¦न¦ये¦धुन॑यः¦जि॒ग॒त्नवः॑¦अ॒ग्नी॒ना‌म्¦न¦जि॒ह्वाः¦वि॒ऽरो॒किणः॑ |
वर्म॑ण्ऽवन्तः¦न¦यो॒धाः¦शिमी᳚ऽवन्तः¦पि॒तॄ॒णा‌म्¦न¦शंसाः᳚¦सु॒ऽरा॒तयः॑ ||

रथा᳚नां॒ये॒३॑(ए॒)ऽराःसना᳚भयोजिगी॒वांसो॒शूरा᳚,अ॒भिद्य॑वः |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

व॒रे॒यवो॒मर्या᳚घृत॒प्रुषो᳚ऽभिस्व॒र्तारो᳚,अ॒र्कंसु॒ष्टुभः॑ || {4/8}{10.78.4}{10.6.10.4}{8.3.12.4}{822, 915, 9620}

रथा᳚ना‌म्¦न¦ये¦अ॒राः¦सऽना᳚भयः¦जि॒गी॒वांसः॑¦न¦शूराः᳚¦अ॒भिऽद्य॑वः |
व॒रे॒ऽयवः॑¦न¦मर्याः᳚¦घृ॒त॒ऽप्रुषः॑¦अ॒भि॒ऽस्व॒र्तारः॑¦अ॒र्क‌म्¦न¦सु॒ऽस्तुभः॑ ||

अश्वा᳚सो॒येज्येष्ठा᳚सआ॒शवो᳚दिधि॒षवो॒र॒थ्यः॑सु॒दान॑वः |{भार्गवः स्यूमरश्मिः | मरुतः | जगती}

आपो॒नि॒म्नैरु॒दभि॑र्जिग॒त्नवो᳚वि॒श्वरू᳚पा॒,अङ्गि॑रसो॒साम॑भिः || {5/8}{10.78.5}{10.6.10.5}{8.3.12.5}{823, 915, 9621}

अश्वा᳚सः¦न¦ये¦ज्येष्ठा᳚सः¦आ॒शवः॑¦दि॒धि॒षवः॑¦न¦र॒थ्यः॑¦सु॒ऽदान॑वः |
आपः॑¦न¦नि॒म्नैः¦उ॒दऽभिः॑¦जि॒ग॒त्नवः॑¦वि॒श्वऽरू᳚पाः¦अङ्गि॑रसः¦न¦साम॑ऽभिः ||

ग्रावा᳚णो॒सू॒रयः॒सिन्धु॑मातरआदर्दि॒रासो॒,अद्र॑यो॒वि॒श्वहा᳚ |{भार्गवः स्यूमरश्मिः | मरुतः | जगती}

शि॒शूला॒क्री॒ळयः॑सुमा॒तरो᳚महाग्रा॒मोयाम᳚न्नु॒तत्वि॒षा || {6/8}{10.78.6}{10.6.10.6}{8.3.13.1}{824, 915, 9622}

ग्रावा᳚णः¦न¦सू॒रयः॑¦सिन्धु॑ऽमातरः¦आ॒ऽद॒र्दि॒रासः॑¦अद्र॑यः¦न¦वि॒श्वहा᳚ |
शि॒शूलाः᳚¦न¦क्री॒ळयः॑¦सु॒ऽमा॒तरः॑¦म॒हा॒ऽग्रा॒मः¦न¦याम॑न्¦उ॒त¦त्वि॒षा ||

उ॒षसां॒के॒तवो᳚ऽध्वर॒श्रियः॑शुभं॒यवो॒नाञ्जिभि॒र्व्य॑श्वितन् |{भार्गवः स्यूमरश्मिः | मरुतः | जगती}

सिन्ध॑वो॒य॒यियो॒भ्राज॑दृष्टयःपरा॒वतो॒योज॑नानिममिरे || {7/8}{10.78.7}{10.6.10.7}{8.3.13.2}{825, 915, 9623}

उ॒षसा᳚‌म्¦न¦के॒तवः॑¦अ॒ध्व॒र॒ऽश्रियः॑¦शु॒भ॒‌म्ऽयवः॑¦न¦अं॒जिऽभिः॑¦वि¦अ॒श्वि॒त॒न् |
सिन्ध॑वः¦न¦य॒यियः॑¦भ्राज॑त्ऽऋष्टयः¦प॒रा॒ऽवतः॑¦न¦योज॑नानि¦म॒मि॒रे॒ ||

सु॒भा॒गान्नो᳚देवाःकृणुतासु॒रत्ना᳚न॒स्मान्‌त्स्तो॒तॄन्म॑रुतोवावृधा॒नाः |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

अधि॑स्तो॒त्रस्य॑स॒ख्यस्य॑गातस॒नाद्धिवो᳚रत्न॒धेया᳚नि॒सन्ति॑ || {8/8}{10.78.8}{10.6.10.8}{8.3.13.3}{826, 915, 9624}

सु॒ऽभा॒गान्¦नः॒¦दे॒वाः॒¦कृ॒णु॒त॒¦सु॒ऽरत्ना᳚न्¦अ॒स्मान्¦स्तो॒तॄन्¦म॒रु॒तः॒¦व॒वृ॒धा॒नाः |
अधि॑¦स्तो॒त्रस्य॑¦स॒ख्यस्य॑¦गा॒त॒¦स॒नात्¦हि¦वः॒¦र॒त्न॒ऽधेया᳚नि¦सन्ति॑ ||

[79] अपश्यमिति सप्तर्चस्य सूक्तस्य सौचीकोग्निरग्नित्रिष्टुप् (वैश्वानरोग्निर्वाजंभरः सप्तिरितीमावृषीपाक्षिकौ) |
अप॑श्यमस्यमह॒तोम॑हि॒त्वमम॑र्त्यस्य॒मर्त्या᳚सुवि॒क्षु |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

नाना॒हनू॒विभृ॑ते॒संभ॑रेते॒,असि᳚न्वती॒बप्स॑ती॒भूर्य॑त्तः || {1/7}{10.79.1}{10.6.11.1}{8.3.14.1}{827, 916, 9625}

अप॑श्य‌म्¦अ॒स्य॒¦म॒ह॒तः¦म॒हि॒ऽत्व‌म्¦अम॑र्त्यस्य¦मर्त्या᳚सु¦वि॒क्षु |
नाना᳚¦हनू॒ इति॑¦विभृ॑ते॒ इति॒ विऽभृ॑ते¦स‌म्¦भ॒रे॒ते॒ इति॑¦असि᳚न्वती॒ इति॑¦बप्स॑ती॒ इति॑¦भूरि॑¦अ॒त्तः॒ ||

गुहा॒शिरो॒निहि॑त॒मृध॑ग॒क्षी,असि᳚न्वन्नत्तिजि॒ह्वया॒वना᳚नि |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अत्रा᳚ण्यस्मैप॒ड्भिःसंभ॑रन्त्युत्ता॒नह॑स्ता॒नम॒साधि॑वि॒क्षु || {2/7}{10.79.2}{10.6.11.2}{8.3.14.2}{828, 916, 9626}

गुहा᳚¦शिरः॑¦निऽहि॑त‌म्¦ऋध॑क्¦अ॒क्षी इति॑¦असि᳚न्वन्¦अ॒त्ति॒¦जि॒ह्वया᳚¦वना᳚नि |
अत्रा᳚णि¦अ॒स्मै॒¦प॒ट्ऽभिः¦स‌म्¦भ॒र॒न्ति॒¦उ॒त्ता॒नऽह॑स्ताः¦नम॑सा¦अधि॑¦वि॒क्षु ||

प्रमा॒तुःप्र॑त॒रंगुह्य॑मि॒च्छन्‌कु॑मा॒रोवी॒रुधः॑सर्पदु॒र्वीः |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

स॒संप॒क्वम॑विदच्छु॒चन्तं᳚रिरि॒ह्वांसं᳚रि॒पउ॒पस्थे᳚,अ॒न्तः || {3/7}{10.79.3}{10.6.11.3}{8.3.14.3}{829, 916, 9627}

प्र¦मा॒तुः¦प्र॒ऽत॒र‌म्¦गुह्य᳚‌म्¦इ॒च्छन्¦कु॒मा॒रः¦न¦वी॒रुधः॑¦स॒र्प॒त्¦उ॒र्वीः |
स॒म‌म्¦न¦प॒क्व‌म्¦अ॒वि॒द॒त्¦शु॒चन्त᳚‌म्¦रि॒रि॒ह्वांस᳚‌म्¦रि॒पः¦उ॒पऽस्थे᳚¦अ॒न्तरिति॑ ||

तद्वा᳚मृ॒तंरो᳚दसी॒प्रब्र॑वीमि॒जाय॑मानोमा॒तरा॒गर्भो᳚,अत्ति |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

नाहंदे॒वस्य॒मर्त्य॑श्चिकेता॒ग्निर॒ङ्गविचे᳚ताः॒प्रचे᳚ताः || {4/7}{10.79.4}{10.6.11.4}{8.3.14.4}{830, 916, 9628}

तत्¦वा॒‌म्¦ऋ॒त‌म्¦रो॒द॒सी॒ इति॑¦प्र¦ब्र॒वी॒मि॒¦जाय॑मानः¦मा॒तरा᳚¦गर्भः॑¦अ॒त्ति॒ |
न¦अ॒ह‌म्¦दे॒वस्य॑¦मर्त्यः॑¦चि॒के॒त॒¦अ॒ग्निः¦अ॒ङ्ग¦विऽचे᳚ताः¦सः¦प्रऽचे᳚ताः ||

यो,अ॑स्मा॒,अन्नं᳚तृ॒ष्वा॒३॑(आ॒)दधा॒त्याज्यै᳚र्घृ॒तैर्जु॒होति॒पुष्य॑ति |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

तस्मै᳚स॒हस्र॑म॒क्षभि॒र्विच॒क्षेऽग्ने᳚वि॒श्वतः॑प्र॒त्यङ्ङ॑सि॒त्वम् || {5/7}{10.79.5}{10.6.11.5}{8.3.14.5}{831, 916, 9629}

यः¦अ॒स्मै॒¦अन्न᳚‌म्¦तृ॒षु¦आ॒ऽदधा᳚ति¦आज्यैः᳚¦घृ॒तैः¦जु॒होति॑¦पुष्य॑ति |
तस्मै᳚¦स॒हस्र᳚‌म्¦अ॒क्षऽभिः॑¦वि¦च॒क्षे॒¦अग्ने᳚¦वि॒श्वतः॑¦प्र॒त्यङ्¦अ॒सि॒¦त्व‌म् ||

किंदे॒वेषु॒त्यज॒एन॑श्चक॒र्थाग्ने᳚पृ॒च्छामि॒नुत्वामवि॑द्वान् |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अक्री᳚ळ॒न्‌क्रीळ॒न्हरि॒रत्त॑वे॒ऽदन्‌विप᳚र्व॒शश्च॑कर्त॒गामि॑वा॒सिः || {6/7}{10.79.6}{10.6.11.6}{8.3.14.6}{832, 916, 9630}

कि‌म्¦दे॒वेषु॑¦त्यजः॑¦एनः॑¦च॒क॒र्थ॒¦अग्ने᳚¦पृ॒च्छामि॑¦नु¦त्वा‌म्¦अवि॑द्वान् |
अक्री᳚ळन्¦क्रीळ॑न्¦हरिः॑¦अत्त॑वे¦अ॒दन्¦वि¦प॒र्व॒ऽशः¦च॒क॒र्त॒¦गा‌म्ऽ‌इ᳚व¦अ॒सिः ||

विषू᳚चो॒,अश्वा᳚न्युयुजेवने॒जा,ऋजी᳚तिभीरश॒नाभि॑र्गृभी॒तान् |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

च॒क्ष॒देमि॒त्रोवसु॑भिः॒सुजा᳚तः॒समा᳚नृधे॒पर्व॑भिर्वावृधा॒नः || {7/7}{10.79.7}{10.6.11.7}{8.3.14.7}{833, 916, 9631}

विषू᳚चः¦अश्वा᳚न्¦यु॒यु॒जे॒¦व॒ने॒ऽजाः¦ऋजी᳚तिऽभिः¦र॒श॒नाभिः॑¦गृ॒भी॒तान् |
च॒क्ष॒दे¦मि॒त्रः¦वसु॑ऽभिः¦सुऽजा᳚तः¦स‌म्¦आ॒नृ॒धे॒¦पर्व॑ऽभिः¦व॒वृ॒धा॒नः ||

[80] अग्निःसप्तिमिति सप्तर्चस्य सूक्तस्य सौचीकोग्निरग्नित्रिष्टुप् (वैश्वानरोग्निर्वाजंभरः सप्तिरितीमावृषीपाक्षिकौ) |
अ॒ग्निःसप्तिं᳚वाजम्भ॒रंद॑दा¦त्य॒ग्निर्वी॒रंश्रुत्यं᳚कर्मनिः॒ष्ठाम् |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अ॒ग्नीरोद॑सी॒विच॑रत्‌सम॒ञ्ज¦न्न॒ग्निर्नारीं᳚वी॒रकु॑क्षिं॒पुरं᳚धिम् || {1/7}{10.80.1}{10.6.12.1}{8.3.15.1}{834, 917, 9632}

अ॒ग्निः¦सप्ति᳚‌म्¦वा॒ज॒‌म्ऽभ॒र‌म्¦द॒दा॒ति॒¦अ॒ग्निः¦वी॒र‌म्¦श्रुत्य᳚‌म्¦क॒र्म॒निः॒ऽस्था‌म् |
अ॒ग्निः¦रोद॑सी॒ इति॑¦वि¦च॒र॒त्¦स॒‌म्।आं॒जन्¦अ॒ग्निः¦नारी᳚‌म्¦वी॒रऽकु॑क्षि‌म्¦पुर᳚‌म्ऽधि‌म् ||

अ॒ग्नेरप्न॑सःस॒मिद॑स्तुभ॒द्रा¦ऽग्निर्म॒हीरोद॑सी॒,वि॑वेश |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अ॒ग्निरेकं᳚चोदयत्‌स॒म¦त्स्व॒ग्निर्वृ॒त्राणि॑दयतेपु॒रूणि॑ || {2/7}{10.80.2}{10.6.12.2}{8.3.15.2}{835, 917, 9633}

अ॒ग्नेः¦अप्न॑सः¦स॒‌म्ऽ‌इत्¦अ॒स्तु॒¦भ॒द्रा¦अ॒ग्निः¦म॒ही इति॑¦रोद॑सी॒ इति॑¦आ¦वि॒वे॒श॒ |
अ॒ग्निः¦एक᳚‌म्¦चो॒द॒य॒त्¦स॒मत्ऽसु॑¦अ॒ग्निः¦वृ॒त्राणि॑¦द॒य॒ते॒¦पु॒रूणि॑ ||

अ॒ग्निर्ह॒त्यंजर॑तः॒कर्ण॑मावा॒¦ऽग्निर॒द्भ्योनिर॑दह॒ज्जरू᳚थम् |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अ॒ग्निरत्रिं᳚घ॒र्मउ॑रुष्यद॒न्त¦र॒ग्निर्नृ॒मेधं᳚प्र॒जया᳚सृज॒त्सम् || {3/7}{10.80.3}{10.6.12.3}{8.3.15.3}{836, 917, 9634}

अ॒ग्निः¦ह॒¦त्य‌म्¦जर॑तः¦कर्ण᳚‌म्¦आ॒व॒¦अ॒ग्निः¦अ॒त्ऽभ्यः¦निः¦अ॒द॒ह॒त्¦जरू᳚थ‌म् |
अ॒ग्निः¦अत्रि᳚‌म्¦घ॒र्मे¦उ॒रु॒ष्य॒त्¦अ॒न्तः¦अ॒ग्निः¦नृ॒ऽमेध᳚‌म्¦प्र॒ऽजया᳚¦अ॒सृ॒ज॒त्¦स‌म् ||

अ॒ग्निर्दा॒द्द्रवि॑णंवी॒रपे᳚शा¦,अ॒ग्निरृषिं॒यःस॒हस्रा᳚स॒नोति॑ |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अ॒ग्निर्दि॒विह॒व्यमात॑ताना॒¦ऽग्नेर्धामा᳚नि॒विभृ॑तापुरु॒त्रा || {4/7}{10.80.4}{10.6.12.4}{8.3.15.4}{837, 917, 9635}

अ॒ग्निः¦दा॒त्¦द्रवि॑ण‌म्¦वी॒रऽपे᳚शाः¦अ॒ग्निः¦ऋषि᳚‌म्¦यः¦स॒हस्रा᳚¦स॒नोति॑ |
अ॒ग्निः¦दि॒वि¦ह॒व्य‌म्¦आ¦त॒ता॒न॒¦अ॒ग्नेः¦धामा᳚नि¦विऽभृ॑ता¦पु॒रु॒ऽत्रा ||

अ॒ग्निमु॒क्थैरृष॑यो॒विह्व॑यन्ते॒¦ऽग्निंनरो॒याम॑निबाधि॒तासः॑ |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अ॒ग्निंवयो᳚,अ॒न्तरि॑क्षे॒पत᳚न्तो॒¦ऽग्निःस॒हस्रा॒परि॑याति॒गोना᳚म् || {5/7}{10.80.5}{10.6.12.5}{8.3.15.5}{838, 917, 9636}

अ॒ग्नि‌म्¦उ॒क्थैः¦ऋष॑यः¦वि¦ह्व॒य॒न्ते॒¦अ॒ग्नि‌म्¦नरः॑¦याम॑नि¦बा॒धि॒तासः॑ |
अ॒ग्नि‌म्¦वयः॑¦अ॒न्तरि॑क्षे¦पत᳚न्तः¦अ॒ग्निः¦स॒हस्रा᳚¦परि॑¦या॒ति॒¦गोना᳚‌म् ||

अ॒ग्निंविश॑ईळते॒मानु॑षी॒र्या¦,अ॒ग्निंमनु॑षो॒नहु॑षो॒विजा॒ताः |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अ॒ग्निर्गान्ध᳚र्वींप॒थ्या᳚मृ॒तस्या॒¦ऽग्नेर्गव्यू᳚तिर्घृ॒तनिष॑त्ता || {6/7}{10.80.6}{10.6.12.6}{8.3.15.6}{839, 917, 9637}

अ॒ग्नि‌म्¦विशः॑¦ई॒ळ॒ते॒¦मानु॑षीः¦याः¦अ॒ग्नि‌म्¦मनु॑षः¦नहु॑षः¦वि¦जा॒ताः |
अ॒ग्निः¦गान्ध᳚र्वी‌म्¦प॒थ्या᳚‌म्¦ऋ॒तस्य॑¦अ॒ग्नेः¦गव्यू᳚तिः¦घृ॒ते¦आ¦निऽस॑त्ता ||

अ॒ग्नये॒ब्रह्म॑ऋ॒भव॑स्ततक्षुर॒¦ग्निंम॒हाम॑वोचामासुवृ॒क्तिम् |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अग्ने॒प्राव॑जरि॒तारं᳚यवि॒ष्ठा¦ऽग्ने॒महि॒द्रवि॑ण॒माय॑जस्व || {7/7}{10.80.7}{10.6.12.7}{8.3.15.7}{840, 917, 9638}

अ॒ग्नये᳚¦ब्रह्म॑¦ऋ॒भवः॑¦त॒त॒क्षुः॒¦अ॒ग्नि‌म्¦म॒हा‌म्¦अ॒वो॒चा॒म॒¦सु॒ऽवृ॒क्ति‌म् |
अग्ने᳚¦प्र¦अ॒व॒¦ज॒रि॒तार᳚‌म्¦य॒वि॒ष्ठ॒¦अग्ने᳚¦महि॑¦द्रवि॑ण‌म्¦आ¦य॒ज॒स्व॒ ||

[81] यइमाविश्वेति सप्तर्चस्य सूक्तस्य भौवनोविश्वकर्माविश्वकर्मात्रिष्टुप्‌ द्वितीयाविराड्‌रूपा |
इ॒माविश्वा॒भुव॑नानि॒जुह्व॒दृषि॒र्होता॒न्यसी᳚दत्पि॒तानः॑ |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

आ॒शिषा॒द्रवि॑णमि॒च्छमा᳚नःप्रथम॒च्छदव॑राँ॒,वि॑वेश || {1/7}{10.81.1}{10.6.13.1}{8.3.16.1}{841, 918, 9639}

यः¦इ॒मा¦विश्वा᳚¦भुव॑नानि¦जुह्व॑त्¦ऋषिः॑¦होता᳚¦नि¦असी᳚दत्¦पि॒ता¦नः॒ |
सः¦आ॒ऽशिषा᳚¦द्रवि॑ण‌म्¦इ॒च्छमा᳚नः¦प्र॒थ॒म॒ऽच्छत्¦अव॑रान्¦आ¦वि॒वे॒श॒ ||

किंस्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णंकत॒मत्स्वि॑त्क॒थासी᳚त् |{भौवनो विश्वकर्माः | विश्वकर्मा | विराड्‌रूपा}

यतो॒भूमिं᳚ज॒नय᳚न्‌वि॒श्वक᳚र्मा॒विद्यामौर्णो᳚न्महि॒नावि॒श्वच॑क्षाः || {2/7}{10.81.2}{10.6.13.2}{8.3.16.2}{842, 918, 9640}

कि‌म्¦स्वि॒त्¦आ॒सी॒त्¦अ॒धि॒ऽस्थान᳚‌म्¦आ॒ऽरम्भ॑ण‌म्¦क॒त॒मत्¦स्वि॒त्¦क॒था¦आ॒सी॒त् |
यतः॑¦भूमि᳚‌म्¦ज॒नय॑न्¦वि॒श्वऽक᳚र्मा¦वि¦द्या‌म्¦और्णो᳚त्¦म॒हि॒ना¦वि॒श्वऽच॑क्षाः ||

वि॒श्वत॑श्चक्षुरु॒तवि॒श्वतो᳚मुखो¦वि॒श्वतो᳚बाहुरु॒तवि॒श्वत॑स्पात् |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

संबा॒हुभ्यां॒धम॑ति॒संपत॑त्रै॒¦र्द्यावा॒भूमी᳚ज॒नय᳚न्‌दे॒वएकः॑ || {3/7}{10.81.3}{10.6.13.3}{8.3.16.3}{843, 918, 9641}

वि॒श्वतः॑ऽचक्षुः¦उ॒त¦वि॒श्वतः॑ऽमुखः¦वि॒श्वतः॑ऽबाहुः¦उ॒त¦वि॒श्वतः॑ऽपात् |
स‌म्¦बा॒हुऽभ्या᳚‌म्¦धम॑ति¦स‌म्¦पत॑त्रैः¦द्यावा॒भूमी॒ इति॑¦ज॒नय॑न्¦दे॒वः¦एकः॑ ||

किंस्वि॒द्वनं॒उ॒वृ॒क्षआ᳚स॒यतो॒द्यावा᳚पृथि॒वीनि॑ष्टत॒क्षुः |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

मनी᳚षिणो॒मन॑सापृ॒च्छतेदु॒तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानिधा॒रय॑न् || {4/7}{10.81.4}{10.6.13.4}{8.3.16.4}{844, 918, 9642}

कि‌म्¦स्वि॒त्¦वन᳚‌म्¦कः¦ऊँ॒ इति॑¦सः¦वृ॒क्षः¦आ॒स॒¦यतः॑¦द्यावा᳚पृथि॒वी इति॑¦निः॒ऽत॒त॒क्षुः |
मनी᳚षिणः¦मन॑सा¦पृ॒च्छत॑¦इत्¦ऊँ॒ इति॑¦तत्¦यत्¦अ॒धि॒।आति॑ष्ठत्¦भुव॑नानि¦धा॒रय॑न् ||

याते॒धामा᳚निपर॒माणि॒याव॒मायाम॑ध्य॒मावि॑श्वकर्मन्नु॒तेमा |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

शिक्षा॒सखि॑भ्योह॒विषि॑स्वधावःस्व॒यंय॑जस्वत॒न्वं᳚वृधा॒नः || {5/7}{10.81.5}{10.6.13.5}{8.3.16.5}{845, 918, 9643}

या¦ते॒¦धामा᳚नि¦प॒र॒माणि॑¦या¦अ॒व॒मा¦या¦म॒ध्य॒मा¦वि॒श्व॒ऽक॒र्म॒न्¦उ॒त¦इ॒मा |
शिक्ष॑¦सखि॑ऽभ्यः¦ह॒विषि॑¦स्व॒धा॒ऽवः॒¦स्व॒य‌म्¦य॒ज॒स्व॒¦त॒न्व᳚‌म्¦वृ॒धा॒नः ||

विश्व॑कर्मन्ह॒विषा᳚वावृधा॒नःस्व॒यंय॑जस्वपृथि॒वीमु॒तद्याम् |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

मुह्य᳚न्त्व॒न्ये,अ॒भितो॒जना᳚सइ॒हास्माकं᳚म॒घवा᳚सू॒रिर॑स्तु || {6/7}{10.81.6}{10.6.13.6}{8.3.16.6}{846, 918, 9644}

विश्व॑ऽकर्मन्¦ह॒विषा᳚¦व॒वृ॒धा॒नः¦स्व॒य‌म्¦य॒ज॒स्व॒¦पृ॒थि॒वी‌म्¦उ॒त¦द्या‌म् |
मुह्य᳚न्तु¦अ॒न्ये¦अ॒भितः॑¦जना᳚सः¦इ॒ह¦अ॒स्माक᳚‌म्¦म॒घऽवा᳚¦सू॒रिः¦अ॒स्तु॒ ||

वा॒चस्पतिं᳚वि॒श्वक᳚र्माणमू॒तये᳚मनो॒जुवं॒वाजे᳚,अ॒द्याहु॑वेम |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

नो॒विश्वा᳚नि॒हव॑नानिजोषद्वि॒श्वश᳚म्भू॒रव॑सेसा॒धुक᳚र्मा || {7/7}{10.81.7}{10.6.13.7}{8.3.16.7}{847, 918, 9645}

वा॒चः¦पति᳚‌म्¦वि॒श्वऽक᳚र्माण‌म्¦ऊ॒तये᳚¦म॒नः॒ऽजुव᳚‌म्¦वाजे᳚¦अ॒द्य¦हु॒वे॒म॒ |
सः¦नः॒¦विश्वा᳚नि¦हव॑नानि¦जो॒ष॒त्¦वि॒श्वऽश᳚म्भूः¦अव॑से¦सा॒धुऽक᳚र्मा ||

[82] चक्षुषइति सप्तर्चस्य सूक्तस्य भौवनोविश्वकर्माविश्वकर्मात्रिष्टुप् |
चक्षु॑षःपि॒तामन॑सा॒हिधीरो᳚घृ॒तमे᳚ने,अजन॒न्नन्न॑माने |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

य॒देदन्ता॒,अद॑दृहन्त॒पूर्व॒आदिद्द्यावा᳚पृथि॒वी,अ॑प्रथेताम् || {1/7}{10.82.1}{10.6.14.1}{8.3.17.1}{848, 919, 9646}

चक्षु॑षः¦पि॒ता¦मन॑सा¦हि¦धीरः॑¦घृ॒त‌म्¦ए॒ने॒¦अ॒ज॒न॒त्¦नम्न॑माने॒ इति॑ |
य॒दा¦इत्¦अन्ताः᳚¦अद॑दृहन्त¦पूर्वे᳚¦आत्¦इत्¦द्यावा᳚पृथि॒वी इति॑¦अ॒प्र॒थे॒ता॒‌म् ||

वि॒श्वक᳚र्मा॒विम॑ना॒,आद्विहा᳚याधा॒तावि॑धा॒ताप॑र॒मोतसं॒दृक् |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

तेषा᳚मि॒ष्टानि॒समि॒षाम॑दन्ति॒यत्रा᳚सप्तऋ॒षीन्‌प॒रएक॑मा॒हुः || {2/7}{10.82.2}{10.6.14.2}{8.3.17.2}{849, 919, 9647}

वि॒श्वऽक᳚र्मा¦विऽम॑नाः¦आत्¦विऽहा᳚याः¦धा॒ता¦वि॒ऽधा॒ता¦प॒र॒मा¦उ॒त¦स॒‌म्ऽदृक् |
तेषा᳚‌म्¦इ॒ष्टानि॑¦स‌म्¦इ॒षा¦म॒द॒न्ति॒¦यत्र॑¦स॒प्त॒ऽऋ॒षीन्¦प॒रः¦एक᳚‌म्¦आ॒हुः ||

योनः॑पि॒ताज॑नि॒तायोवि॑धा॒ताधामा᳚नि॒वेद॒भुव॑नानि॒विश्वा᳚ |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

योदे॒वानां᳚नाम॒धा,एक॑ए॒वतंस᳚म्प्र॒श्नंभुव॑नायन्त्य॒न्या || {3/7}{10.82.3}{10.6.14.3}{8.3.17.3}{850, 919, 9648}

यः¦नः॒¦पि॒ता¦ज॒नि॒ता¦यः¦वि॒ऽधा॒ता¦धामा᳚नि¦वेद॑¦भुव॑नानि¦विश्वा᳚ |
यः¦दे॒वाना᳚‌म्¦ना॒म॒ऽधाः¦एकः॑¦ए॒व¦त‌म्¦स॒‌म्ऽप्र॒श्न‌म्¦भुव॑ना¦य॒न्ति॒¦अ॒न्या ||

आय॑जन्त॒द्रवि॑णं॒सम॑स्मा॒ऋष॑यः॒पूर्वे᳚जरि॒तारो॒भू॒ना |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

अ॒सूर्ते॒सूर्ते॒रज॑सिनिष॒त्तेयेभू॒तानि॑स॒मकृ᳚ण्वन्नि॒मानि॑ || {4/7}{10.82.4}{10.6.14.4}{8.3.17.4}{851, 919, 9649}

ते¦आ¦अ॒य॒ज॒न्त॒¦द्रवि॑ण‌म्¦स‌म्¦अ॒स्मै॒¦ऋष॑यः¦पूर्वे᳚¦ज॒रि॒तारः॑¦न¦भू॒ना |
अ॒सूर्ते᳚¦सूर्ते᳚¦रज॑सि¦नि॒ऽस॒त्ते¦ये¦भू॒तानि॑¦स॒‌म्।आकृ᳚ण्वन्¦इ॒मानि॑ ||

प॒रोदि॒वाप॒रए॒नापृ॑थि॒व्याप॒रोदे॒वेभि॒रसु॑रै॒र्यदस्ति॑ |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

कंस्वि॒द्गर्भं᳚प्रथ॒मंद॑ध्र॒आपो॒यत्र॑दे॒वाःस॒मप॑श्यन्त॒विश्वे᳚ || {5/7}{10.82.5}{10.6.14.5}{8.3.17.5}{852, 919, 9650}

प॒रः¦दि॒वा¦प॒रः¦ए॒ना¦पृ॒थि॒व्या¦प॒रः¦दे॒वेभिः॑¦असु॑रैः¦यत्¦अस्ति॑ |
क‌म्¦स्वि॒त्¦गर्भ᳚‌म्¦प्र॒थ॒म‌म्¦द॒ध्रे॒¦आपः॑¦यत्र॑¦दे॒वाः¦स॒‌म्।आप॑श्यन्त¦विश्वे᳚ ||

तमिद्गर्भं᳚प्रथ॒मंद॑ध्र॒आपो॒यत्र॑दे॒वाःस॒मग॑च्छन्त॒विश्वे᳚ |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

अ॒जस्य॒नाभा॒वध्येक॒मर्पि॑तं॒यस्मि॒न्‌विश्वा᳚नि॒भुव॑नानित॒स्थुः || {6/7}{10.82.6}{10.6.14.6}{8.3.17.6}{853, 919, 9651}

त‌म्¦इत्¦गर्भ᳚‌म्¦प्र॒थ॒म‌म्¦द॒ध्रे॒¦आपः॑¦यत्र॑¦दे॒वाः¦स॒‌म्।आग॑च्छन्त¦विश्वे᳚ |
अ॒जस्य॑¦नाभौ᳚¦अधि॑¦एक᳚‌म्¦अर्पि॑त‌म्¦यस्मि॑न्¦विश्वा᳚नि¦भुव॑नानि¦त॒स्थुः ||

तंवि॑दाथ॒इ॒माज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रंबभूव |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

नी॒हा॒रेण॒प्रावृ॑ता॒जल्प्या᳚चासु॒तृप॑उक्थ॒शास॑श्चरन्ति || {7/7}{10.82.7}{10.6.14.7}{8.3.17.7}{854, 919, 9652}

न¦त‌म्¦वि॒दा॒थ॒¦यः¦इ॒मा¦ज॒जान॑¦अ॒न्यत्¦यु॒ष्माक᳚‌म्¦अन्त॑र‌म्¦ब॒भू॒व॒ |
नी॒हा॒रेण॑¦प्रावृ॑ताः¦जल्प्या᳚¦च॒¦अ॒सु॒ऽतृपः॑¦उ॒क्थ॒ऽशासः॑¦च॒र॒न्ति॒ ||

[83] यस्तेमन्यविति सप्तर्चस्य सूक्तस्य तापसो मन्युर्मन्युस्त्रिष्टुबाद्याजगती |
यस्ते᳚म॒न्योऽवि॑धद्वज्रसायक॒¦सह॒ओजः॑पुष्यति॒विश्व॑मानु॒षक् |{तापसो मन्युः | मन्युः | जगती}

सा॒ह्याम॒दास॒मार्यं॒त्वया᳚यु॒जा¦सह॑स्कृतेन॒सह॑सा॒सह॑स्वता || {1/7}{10.83.1}{10.6.15.1}{8.3.18.1}{855, 920, 9653}

यः¦ते॒¦म॒न्यो॒ इति॑¦अवि॑धत्¦व॒ज्र॒¦सा॒य॒क॒¦सहः॑¦ओजः॑¦पु॒ष्य॒ति॒¦विश्व᳚‌म्¦आ॒नु॒षक् |
सा॒ह्याम॑¦दास᳚‌म्¦आर्य᳚‌म्¦त्वया᳚¦यु॒जा¦सहः॑ऽकृतेन¦सह॑सा¦सह॑स्वता ||

म॒न्युरिन्द्रो᳚म॒न्युरे॒वास॑दे॒वो¦म॒न्युर्होता॒वरु॑णोजा॒तवे᳚दाः |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

म॒न्युंविश॑ईळते॒मानु॑षी॒र्याः¦पा॒हिनो᳚मन्यो॒तप॑सास॒जोषाः᳚ || {2/7}{10.83.2}{10.6.15.2}{8.3.18.2}{856, 920, 9654}

म॒न्युः¦इन्द्रः॑¦म॒न्युः¦ए॒व¦आ॒स॒¦दे॒वः¦म॒न्युः¦होता᳚¦वरु॑णः¦जा॒तऽवे᳚दाः |
म॒न्यु‌म्¦विशः॑¦ई॒ळ॒ते॒¦मानु॑षीः¦याः¦पा॒हि¦नः॒¦म॒न्यो॒ इति॑¦तप॑सा¦स॒ऽजोषाः᳚ ||

अ॒भी᳚हिमन्योत॒वस॒स्तवी᳚या॒न्¦तप॑सायु॒जाविज॑हि॒शत्रू॑न् |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

अ॒मि॒त्र॒हावृ॑त्र॒हाद॑स्यु॒हाच॒¦विश्वा॒वसू॒न्याभ॑रा॒त्वंनः॑ || {3/7}{10.83.3}{10.6.15.3}{8.3.18.3}{857, 920, 9655}

अ॒भि¦इ॒हि॒¦म॒न्यो॒ इति॑¦त॒वसः॑¦तवी᳚यान्¦तप॑सा¦यु॒जा¦वि¦ज॒हि॒¦शत्रू॑न् |
अ॒मि॒त्र॒ऽहा¦वृ॒त्र॒ऽहा¦द॒स्यु॒ऽहा¦च॒¦विश्वा᳚¦वसू᳚नि¦आ¦भ॒र॒¦त्व‌म्¦नः॒ ||

त्वंहिम᳚न्यो,अ॒भिभू᳚त्योजाः¦स्वय॒म्भूर्भामो᳚,अभिमातिषा॒हः |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

वि॒श्वच॑र्षणिः॒सहु॑रिः॒सहा᳚वा¦न॒स्मास्वोजः॒पृत॑नासुधेहि || {4/7}{10.83.4}{10.6.15.4}{8.3.18.4}{858, 920, 9656}

त्व‌म्¦हि¦म॒न्यो॒ इति॑¦अ॒भिभू᳚तिऽओजाः¦स्व॒य॒‌म्ऽभूः¦भामः॑¦अ॒भि॒मा॒ति॒ऽस॒हः |
वि॒श्वऽच॑र्षणिः¦सहु॑रिः¦सहा᳚वान्¦अ॒स्मासु॑¦ओजः॑¦पृत॑नासु¦धे॒हि॒ ||

अ॒भा॒गःसन्नप॒परे᳚तो,अस्मि॒¦तव॒क्रत्वा᳚तवि॒षस्य॑प्रचेतः |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

तंत्वा᳚मन्यो,अक्र॒तुर्जि॑हीळा॒¦हंस्वात॒नूर्ब॑ल॒देया᳚य॒मेहि॑ || {5/7}{10.83.5}{10.6.15.5}{8.3.18.5}{859, 920, 9657}

अ॒भा॒गः¦सन्¦अप॑¦परा᳚ऽ‌इतः¦अ॒स्मि॒¦तव॑¦क्रत्वा᳚¦त॒वि॒षस्य॑¦प्र॒चे॒त॒ इति॑ प्रऽचेतः |
त‌म्¦त्वा॒¦म॒न्यो॒ इति॑¦अ॒क्र॒तुः¦जि॒ही॒ळ॒¦अ॒ह‌म्¦स्वा¦त॒नूः¦ब॒ल॒ऽदेया᳚य¦मा॒¦आ¦इ॒हि॒ ||

अ॒यंते᳚,अ॒स्म्युप॒मेह्य॒र्वाङ्¦प्र॑तीची॒नःस॑हुरेविश्वधायः |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

मन्यो᳚वज्रिन्न॒भिमामाव॑वृत्स्व॒¦हना᳚व॒दस्यूँ᳚रु॒तबो᳚ध्या॒पेः || {6/7}{10.83.6}{10.6.15.6}{8.3.18.6}{860, 920, 9658}

अ॒य‌म्¦ते॒¦अ॒स्मि॒¦उप॑¦मा॒¦आ¦इ॒हि॒¦अ॒र्वाङ्¦प्र॒ती॒ची॒नः¦स॒हु॒रे॒¦वि॒श्व॒ऽधा॒यः॒ |
मन्यो॒ इति॑¦व॒ज्रि॒न्¦अ॒भि¦मा‌म्¦आ¦व॒वृ॒त्स्व॒¦हना᳚व¦दस्यू᳚न्¦उ॒त¦बो॒धि॒¦आ॒पेः ||

अ॒भिप्रेहि॑दक्षिण॒तोभ॑वा॒मे¦ऽधा᳚वृ॒त्राणि॑जङ्घनाव॒भूरि॑ |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

जु॒होमि॑तेध॒रुणं॒मध्वो॒,अग्र॑¦मु॒भा,उ॑पां॒शुप्र॑थ॒मापि॑बाव || {7/7}{10.83.7}{10.6.15.7}{8.3.18.7}{861, 920, 9659}

अ॒भि¦प्र¦इ॒हि॒¦द॒क्षि॒ण॒तः¦भ॒व॒¦मे॒¦अध॑¦वृ॒त्राणि॑¦ज॒ङ्घ॒ना॒व॒¦भूरि॑ |
जु॒होमि॑¦ते॒¦ध॒रुण᳚‌म्¦मध्वः॑¦अग्र᳚‌म्¦उ॒भौ¦उ॒प॒।आं॒शु¦प्र॒थ॒मा¦पि॒बा॒व॒ ||

[84] त्वयामन्यविति सप्तर्चस्य सूक्तस्य तापसो मन्युर्मन्युर्जगती आद्यास्तिस्रस्त्रिष्टुभः |
त्वया᳚मन्योस॒रथ॑मारु॒जन्तो॒¦हर्ष॑माणासोधृषि॒ताम॑रुत्वः |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

ति॒ग्मेष॑व॒आयु॑धासं॒शिशा᳚ना¦,अ॒भिप्रय᳚न्तु॒नरो᳚,अ॒ग्निरू᳚पाः || {1/7}{10.84.1}{10.6.16.1}{8.3.19.1}{862, 921, 9660}

त्वया᳚¦म॒न्यो॒ इति॑¦स॒ऽरथ᳚‌म्¦आ॒ऽरु॒जन्तः॑¦हर्ष॑मानासः¦धृ॒षि॒ताः¦म॒रु॒त्वः॒ |
ति॒ग्मऽ‌इ᳚षवः¦आयु॑धा¦स॒‌म्ऽशिशा᳚नाः¦अ॒भि¦प्र¦य॒न्तु॒¦नरः॑¦अ॒ग्निऽरू᳚पाः ||

अ॒ग्निरि॑वमन्योत्विषि॒तःस॑हस्व¦सेना॒नीर्नः॑सहुरेहू॒तए᳚धि |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

ह॒त्वाय॒शत्रू॒न्‌विभ॑जस्व॒वेद॒¦ओजो॒मिमा᳚नो॒विमृधो᳚नुदस्व || {2/7}{10.84.2}{10.6.16.2}{8.3.19.2}{863, 921, 9661}

अ॒ग्निःऽ‌इ᳚व¦म॒न्यो॒ इति॑¦त्वि॒षि॒तः¦स॒ह॒स्व॒¦से॒ना॒ऽनीः¦नः॒¦स॒हु॒रे॒¦हू॒तः¦ए॒धि॒ |
ह॒त्वाय॑¦शत्रू᳚न्¦वि¦भ॒ज॒स्व॒¦वेदः॑¦ओजः॑¦मिमा᳚नः¦वि¦मृधः॑¦नु॒द॒स्व॒ ||

सह॑स्वमन्यो,अ॒भिमा᳚तिम॒स्मे¦रु॒जन्‌मृ॒णन्‌प्र॑मृ॒णन्‌प्रेहि॒शत्रू॑न् |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

उ॒ग्रंते॒पाजो᳚न॒न्वारु॑रुध्रे¦व॒शीवशं᳚नयसएकज॒त्वम् || {3/7}{10.84.3}{10.6.16.3}{8.3.19.3}{864, 921, 9662}

सह॑स्व¦म॒न्यो॒ इति॑¦अ॒भिऽमा᳚ति‌म्¦अ॒स्मे इति॑¦रु॒जन्¦मृ॒णन्¦प्र॒ऽमृ॒णन्¦प्र¦इ॒हि॒¦शत्रू॑न् |
उ॒ग्र‌म्¦ते॒¦पाजः॑¦न॒नु¦आ¦रु॒रु॒ध्रे॒¦व॒शी¦वश᳚‌म्¦न॒य॒से॒¦ए॒क॒ऽज॒¦त्व‌म् ||

एको᳚बहू॒नाम॑सिमन्यवीळि॒तो¦विशं᳚विशंयु॒धये॒संशि॑शाधि |{तापसो मन्युः | मन्युः | जगती}

अकृ॑त्तरु॒क्त्वया᳚यु॒जाव॒यं¦द्यु॒मन्तं॒घोषं᳚विज॒याय॑कृण्महे || {4/7}{10.84.4}{10.6.16.4}{8.3.19.4}{865, 921, 9663}

एकः॑¦ब॒हू॒ना‌म्¦अ॒सि॒¦म॒न्यो॒ इति॑¦ई॒ळि॒तः¦विश᳚‌म्ऽविश‌म्¦यु॒धये᳚¦स‌म्¦शि॒शा॒धि॒ |
अकृ॑त्तऽरुक्¦त्वया᳚¦यु॒जा¦व॒य‌म्¦द्यु॒ऽमन्त᳚‌म्¦घोष᳚‌म्¦वि॒ऽज॒याय॑¦कृ॒ण्म॒हे॒ ||

वि॒जे॒ष॒कृदिन्द्र॑इवानवब्र॒वो॒३॑(ओ॒)¦ऽस्माकं᳚मन्यो,अधि॒पाभ॑वे॒ह |{तापसो मन्युः | मन्युः | जगती}

प्रि॒यंते॒नाम॑सहुरेगृणीमसि¦वि॒द्मातमुत्सं॒यत॑आब॒भूथ॑ || {5/7}{10.84.5}{10.6.16.5}{8.3.19.5}{866, 921, 9664}

वि॒जे॒ष॒ऽकृत्¦इन्द्रः॑ऽ‌इव¦अ॒न॒व॒ऽब्र॒वः¦अ॒स्माक᳚‌म्¦म॒न्यो॒ इति॑¦अ॒धि॒ऽपाः¦भ॒व॒¦इ॒ह |
प्रि॒य‌म्¦ते॒¦नाम॑¦स॒हु॒रे॒¦गृ॒णी॒म॒सि॒¦वि॒द्म¦त‌म्¦उत्स᳚‌म्¦यतः॑¦आ॒ऽब॒भूथ॑ ||

आभू᳚त्यासह॒जाव॑ज्रसायक॒¦सहो᳚बिभर्ष्यभिभूत॒उत्त॑रम् |{तापसो मन्युः | मन्युः | जगती}

क्रत्वा᳚नोमन्योस॒हमे॒द्ये᳚धि¦महाध॒नस्य॑पुरुहूतसं॒सृजि॑ || {6/7}{10.84.6}{10.6.16.6}{8.3.19.6}{867, 921, 9665}

आऽभू᳚त्या¦स॒ह॒ऽजाः¦व॒ज्र॒¦सा॒य॒क॒¦सहः॑¦बि॒भ॒र्षि॒¦अ॒भि॒ऽभू॒ते॒¦उत्ऽत॑र‌म् |
क्रत्वा᳚¦नः॒¦म॒न्यो॒ इति॑¦स॒ह¦मे॒दी¦ए॒धि॒¦म॒हा॒ऽध॒नस्य॑¦पु॒रु॒ऽहू॒त॒¦स॒‌म्ऽसृजि॑ ||

संसृ॑ष्टं॒धन॑मु॒भयं᳚स॒माकृ॑त¦म॒स्मभ्यं᳚दत्तां॒वरु॑णश्चम॒न्युः |{तापसो मन्युः | मन्युः | जगती}

भियं॒दधा᳚ना॒हृद॑येषु॒शत्र॑वः॒¦परा᳚जितासो॒,अप॒निल॑यन्ताम् || {7/7}{10.84.7}{10.6.16.7}{8.3.19.7}{868, 921, 9666}

स‌म्ऽसृ॑ष्ट‌म्¦धन᳚‌म्¦उ॒भय᳚‌म्¦स॒‌म्ऽआकृ॑त‌म्¦अ॒स्मभ्य᳚‌म्¦द॒त्ता॒‌म्¦वरु॑णः¦च॒¦म॒न्युः |
भिय᳚‌म्¦दधा᳚नाः¦हृद॑येषु¦शत्र॑वः¦परा᳚ऽजितासः¦अप॑¦नि¦ल॒य॒न्ता॒‌म् ||

[85] सत्येनेति सप्तचत्वारिंशदृचस्य सूक्तस्य सूर्यासावित्रीऋषिका पंचानांसोमोदेवता ततएकादशानां सूर्याविवाहः सप्तदश्यादेवाः अष्टादश्याः सोमार्कौ एकोनविंश्याश्चंद्रमाः ततोनवानांनृणां विवाह मंत्राआशीः प्रायाः ततोद्वयोर्वधूर्वासोदेवता एकत्रिंश्यायक्ष्महा शिष्टानामृचसूर्यांसावित्री अनुष्टुप्‌चतुर्दशीएकोनविंश्यादि तिस्रस्रयोविंशी चतुर्विंशीषड्विंशी षट्‌त्रिंशी सप्तत्रिंशी चतुश्चत्वारिंश्यश्चत्रिष्टुभः अष्टादशी सप्तविंशीत्रिचत्वारिंश्यश्च जगत्यः चतुस्त्रिंश्युरोबृहती |
स॒त्येनोत्त॑भिता॒भूमिः॒¦सूर्ये॒णोत्त॑भिता॒द्यौः |{सूर्या सावित्री | सोमः | अनुष्टुप्}

ऋ॒तेना᳚दि॒त्यास्ति॑ष्ठन्ति¦दि॒विसोमो॒,अधि॑श्रि॒तः || {1/47}{10.85.1}{10.7.1.1}{8.3.20.1}{869, 922, 9667}

स॒त्येन॑¦उत्त॑भिता¦भूमिः॑¦सूर्ये᳚ण¦उत्त॑भिता¦द्यौः | ऋ॒तेन॑¦आ॒दि॒त्याः¦ति॒ष्ठ॒न्ति॒¦दि॒वि¦सोमः॑¦अधि॑¦श्रि॒तः ||

सोमे᳚नादि॒त्याब॒लिनः॒¦सोमे᳚नपृथि॒वीम॒ही |{सूर्या सावित्री | सोमः | अनुष्टुप्}

अथो॒नक्ष॑त्राणामे॒षा¦मु॒पस्थे॒सोम॒आहि॑तः || {2/47}{10.85.2}{10.7.1.2}{8.3.20.2}{870, 922, 9668}

सोमे᳚न¦आ॒दि॒त्याः¦ब॒लिनः॑¦सोमे᳚न¦पृ॒थि॒वी¦म॒ही | अथो॒ इति॑¦नक्ष॑त्राणा‌म्¦ए॒षा‌म्¦उ॒पऽस्थे᳚¦सोमः॑¦आऽहि॑तः ||

सोमं᳚मन्यतेपपि॒वान्¦यत्‌स᳚म्पिं॒षन्त्योष॑धिम् |{सूर्या सावित्री | सोमः | अनुष्टुप्}

सोमं॒यंब्र॒ह्माणो᳚वि॒दु¦र्नतस्या᳚श्नाति॒कश्च॒न || {3/47}{10.85.3}{10.7.1.3}{8.3.20.3}{871, 922, 9669}

सोम᳚‌म्¦म॒न्य॒ते॒¦प॒पि॒ऽवान्¦यत्¦स॒‌म्ऽपिं॒षन्ति॑¦ओष॑धि‌म् | सोम᳚‌म्¦य‌म्¦ब्र॒ह्माणः॑¦वि॒दुः¦न¦तस्य॑¦अ॒श्ना॒ति॒¦कः¦च॒न ||

आ॒च्छद्वि॑धानैर्गुपि॒तो¦बार्ह॑तैःसोमरक्षि॒तः |{सूर्या सावित्री | सोमः | अनुष्टुप्}

ग्राव्णा॒मिच्छृ॒ण्वन्ति॑ष्ठसि॒¦ते᳚,अश्नाति॒पार्थि॑वः || {4/47}{10.85.4}{10.7.1.4}{8.3.20.4}{872, 922, 9670}

आ॒च्छत्ऽवि॑धानैः¦गु॒पि॒तः¦बार्ह॑तैः¦सो॒म॒¦र॒क्षि॒तः | ग्राव्णा᳚‌म्¦इत्¦शृ॒ण्वन्¦ति॒ष्ठ॒सि॒¦न¦ते॒¦अ॒श्ना॒ति॒¦पार्थि॑वः ||

यत्‌त्वा᳚देवप्र॒पिब᳚न्ति॒¦तत॒प्या᳚यसे॒पुनः॑ |{सूर्या सावित्री | सोमः | अनुष्टुप्}

वा॒युःसोम॑स्यरक्षि॒ता¦समा᳚नां॒मास॒आकृ॑तिः || {5/47}{10.85.5}{10.7.1.5}{8.3.20.5}{873, 922, 9671}

यत्¦त्वा॒¦दे॒व॒¦प्र॒ऽपिब᳚न्ति¦ततः॑¦आ¦प्या॒य॒से॒¦पुन॒रिति॑ | वा॒युः¦सोम॑स्य¦र॒क्षि॒ता¦समा᳚ना‌म्¦मासः॑¦आऽकृ॑तिः ||

रैभ्या᳚सीदनु॒देयी᳚¦नाराशं॒सीन्योच॑नी |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

सू॒र्याया᳚भ॒द्रमिद्वासो॒¦गाथ॑यैति॒परि॑ष्कृतम् || {6/47}{10.85.6}{10.7.1.6}{8.3.21.1}{874, 922, 9672}

रैभी᳚¦आ॒सी॒त्¦अ॒नु॒ऽदेयी᳚¦ना॒रा॒शं॒सी¦नि॒ऽओच॑नी | सू॒र्यायाः᳚¦भ॒द्र‌म्¦इत्¦वासः॑¦गाथ॑या¦ए॒ति॒¦परि॑ऽकृत‌म् ||

चित्ति॑रा,उप॒बर्ह॑णं॒¦चक्षु॑रा,अ॒भ्यञ्ज॑नम् |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

द्यौर्भूमिः॒कोश॑आसी॒द्¦यदया᳚त्‌सू॒र्यापति᳚म् || {7/47}{10.85.7}{10.7.1.7}{8.3.21.2}{875, 922, 9673}

चित्तिः॑¦आः॒¦उ॒प॒ऽबर्ह॑ण‌म्¦चक्षुः॑¦आः॒¦अ॒भि॒।आंज॑न‌म् | द्यौः¦भूमिः॑¦कोशः॑¦आ॒सी॒त्¦यत्¦अया᳚त्¦सू॒र्या¦पति᳚‌म् ||

स्तोमा᳚,आसन्‌प्रति॒धयः॑¦कु॒रीरं॒छन्द॑ओप॒शः |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

सू॒र्याया᳚,अ॒श्विना᳚व॒रा¦ऽग्निरा᳚सीत्‌पुरोग॒वः || {8/47}{10.85.8}{10.7.1.8}{8.3.21.3}{876, 922, 9674}

स्तोमाः᳚¦आ॒स॒न्¦प्र॒ति॒ऽधयः॑¦कु॒रीर᳚‌म्¦छन्दः॑¦ओ॒प॒शः | सू॒र्यायाः᳚¦अ॒श्विना᳚¦व॒रा¦अ॒ग्निः¦आ॒सी॒त्¦पु॒रः॒ऽग॒वः ||

सोमो᳚वधू॒युर॑भव¦द॒श्विना᳚स्तामु॒भाव॒रा |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

सू॒र्यांयत्‌पत्ये॒शंस᳚न्तीं॒¦मन॑सासवि॒ताद॑दात् || {9/47}{10.85.9}{10.7.1.9}{8.3.21.4}{877, 922, 9675}

सोमः॑¦व॒धू॒ऽयुः¦अ॒भ॒व॒त्¦अ॒श्विना᳚¦आ॒स्ता॒‌म्¦उ॒भा¦व॒रा | सू॒र्या‌म्¦यत्¦पत्ये᳚¦शंस᳚न्ती‌म्¦मन॑सा¦स॒वि॒ता¦अद॑दात् ||

मनो᳚,अस्या॒,अन॑आसी॒द्¦द्यौरा᳚सीदु॒तच्छ॒दिः |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

शु॒क्राव॑न॒ड्वाहा᳚वास्तां॒¦यदया᳚त्‌सू॒र्यागृ॒हम् || {10/47}{10.85.10}{10.7.1.10}{8.3.21.5}{878, 922, 9676}

मनः॑¦अ॒स्याः॒¦अनः॑¦आ॒सी॒त्¦द्यौः¦आ॒सी॒त्¦उ॒त¦छ॒दिः | शु॒क्रौ¦अ॒न॒ड्वाहौ᳚¦आ॒स्ता॒‌म्¦यत्¦अया᳚त्¦सू॒र्या¦गृ॒ह‌म् ||

ऋ॒क्सा॒माभ्या᳚म॒भिहि॑तौ॒¦गावौ᳚तेसाम॒नावि॑तः |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

श्रोत्रं᳚तेच॒क्रे,आ᳚स्तां¦दि॒विपन्था᳚श्चराचा॒रः || {11/47}{10.85.11}{10.7.1.11}{8.3.22.1}{879, 922, 9677}

ऋ॒क्ऽसा॒माभ्या᳚‌म्¦अ॒भिऽहि॑तौ¦गावौ᳚¦ते॒¦सा॒म॒नौ¦इ॒तः॒ | श्रोत्र᳚‌म्¦ते॒¦च॒क्रे इति॑¦आ॒स्ता॒‌म्¦दि॒वि¦पन्थाः᳚¦च॒रा॒च॒रः ||

शुची᳚तेच॒क्रेया॒त्या¦व्या॒नो,अक्ष॒आह॑तः |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

अनो᳚मन॒स्मयं᳚सू॒र्या¦ऽऽरो᳚हत्‌प्रय॒तीपति᳚म् || {12/47}{10.85.12}{10.7.1.12}{8.3.22.2}{880, 922, 9678}

शुची᳚¦ते॒¦च॒क्रे इति॑¦या॒त्याः¦वि॒ऽआ॒नः¦अक्षः॑¦आऽह॑तः | अनः॑¦म॒न॒स्मय᳚‌म्¦सू॒र्या¦आ¦अ॒रो॒ह॒त्¦प्र॒ऽय॒ती¦पति᳚‌म् ||

सू॒र्याया᳚वह॒तुःप्रागा᳚त्¦सवि॒तायम॒वासृ॑जत् |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

अ॒घासु॑हन्यन्ते॒गावो¦ऽर्जु᳚न्योः॒पर्यु॑ह्यते || {13/47}{10.85.13}{10.7.1.13}{8.3.22.3}{881, 922, 9679}

सू॒र्यायाः᳚¦व॒ह॒तुः¦प्र¦अ॒गा॒त्¦स॒वि॒ता¦य‌म्¦अ॒व॒।आसृ॑जत् | अ॒घासु॑¦ह॒न्य॒न्ते॒¦गावः॑¦अर्जु᳚न्योः¦परि॑¦उ॒ह्य॒ते॒ ||

यद॑श्विनापृ॒च्छमा᳚ना॒वया᳚तं¦त्रिच॒क्रेण॑वह॒तुंसू॒र्यायाः᳚ |{सूर्या सावित्री | सूर्याविवाहः | त्रिष्टुप्}

विश्वे᳚दे॒वा,अनु॒तद्वा᳚मजानन्¦पु॒त्रःपि॒तरा᳚ववृणीतपू॒षा || {14/47}{10.85.14}{10.7.1.14}{8.3.22.4}{882, 922, 9680}

यत्¦अ॒श्वि॒ना॒¦पृ॒च्छमा᳚नौ¦अया᳚त‌म्¦त्रि॒ऽच॒क्रेण॑¦व॒ह॒तु‌म्¦सू॒र्यायाः᳚ |
विश्वे᳚¦दे॒वाः¦अनु॑¦तत्¦वा॒‌म्¦अ॒जा॒न॒न्¦पु॒त्रः¦पि॒तरौ᳚¦अ॒वृ॒णी॒त॒¦पू॒षा ||

यदया᳚तंशुभस्पती¦वरे॒यंसू॒र्यामुप॑ |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

क्वैकं᳚च॒क्रंवा᳚मासी॒त्¦क्व॑दे॒ष्ट्राय॑तस्थथुः || {15/47}{10.85.15}{10.7.1.15}{8.3.22.5}{883, 922, 9681}

यत्¦अया᳚त‌म्¦शु॒भः॒¦प॒ती॒ इति॑¦व॒रे॒ऽय‌म्¦सू॒र्या‌म्¦उप॑ | क्व॑¦एक᳚‌म्¦च॒क्र‌म्¦वा॒‌म्¦आ॒सी॒त्¦क्व॑¦दे॒ष्ट्राय॑¦त॒स्थ॒थुः॒ ||

द्वेते᳚च॒क्रेसू᳚र्ये¦ब्र॒ह्माण॑ऋतु॒थावि॑दुः |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

अथैकं᳚च॒क्रंयद्गुहा॒¦तद॑द्धा॒तय॒इद्वि॑दुः || {16/47}{10.85.16}{10.7.1.16}{8.3.23.1}{884, 922, 9682}

द्वे इति॑¦ते॒¦च॒क्रे इति॑¦सू॒र्ये॒¦ब्र॒ह्माणः॑¦ऋ॒तु॒ऽथा¦वि॒दुः॒ | अथ॑¦एक᳚‌म्¦च॒क्र‌म्¦यत्¦गुहा᳚¦तत्¦अ॒द्धा॒तयः॑¦इत्¦वि॒दुः॒ ||

सू॒र्यायै᳚दे॒वेभ्यो᳚¦मि॒त्राय॒वरु॑णाय |{सूर्या सावित्री | देवाः | अनुष्टुप्}

येभू॒तस्य॒प्रचे᳚तस¦इ॒दंतेभ्यो᳚ऽकरं॒नमः॑ || {17/47}{10.85.17}{10.7.1.17}{8.3.23.2}{885, 922, 9683}

सू॒र्यायै᳚¦दे॒वेभ्यः॑¦मि॒त्राय॑¦वरु॑णाय¦च॒ | ये¦भू॒तस्य॑¦प्रऽचे᳚तसः¦इ॒द‌म्¦तेभ्यः॑¦अ॒क॒र॒‌म्¦नमः॑ ||

पू॒र्वा॒प॒रंच॑रतोमा॒ययै॒तौ¦शिशू॒क्रीळ᳚न्तौ॒परि॑यातो,अध्व॒रम् |{सूर्या सावित्री | सोमार्कौ | जगती}

विश्वा᳚न्य॒न्योभुव॑नाभि॒चष्ट॑¦ऋ॒तूँर॒न्योवि॒दध॑ज्जायते॒पुनः॑ || {18/47}{10.85.18}{10.7.1.18}{8.3.23.3}{886, 922, 9684}

पू॒र्व॒।आ॒प॒र‌म्¦च॒र॒तः॒¦मा॒यया᳚¦ए॒तौ¦शिशू॒ इति॑¦क्रीळ᳚न्तौ¦परि॑¦या॒तः॒¦अ॒ध्व॒र‌म् |
विश्वा᳚नि¦अ॒न्यः¦भुव॑ना¦अ॒भि॒ऽचष्टे᳚¦ऋ॒तून्¦अ॒न्यः¦वि॒ऽदध॑त्¦जा॒य॒ते॒¦पुन॒रिति॑ ||

नवो᳚नवोभवति॒जाय॑मा॒नो¦ऽह्नां᳚के॒तुरु॒षसा᳚मे॒त्यग्र᳚म् |{सूर्या सावित्री | चन्द्रमाः | त्रिष्टुप्}

भा॒गंदे॒वेभ्यो॒विद॑धात्या॒यन्¦प्रच॒न्द्रमा᳚स्तिरतेदी॒र्घमायुः॑ || {19/47}{10.85.19}{10.7.1.19}{8.3.23.4}{887, 922, 9685}

नवः॑ऽनवः¦भ॒व॒ति॒¦जाय॑मानः¦अह्ना᳚‌म्¦के॒तुः¦उ॒षसा᳚‌म्¦ए॒ति॒¦अग्र᳚‌म् |
भा॒ग‌म्¦दे॒वेभ्यः॑¦वि¦द॒धा॒ति॒¦आ॒ऽयन्¦प्र¦च॒न्द्रमाः᳚¦ति॒र॒ते॒¦दी॒र्घ‌म्¦आयुः॑ ||

सु॒किं॒शु॒कंश॑ल्म॒लिंवि॒श्वरू᳚पं॒¦हिर᳚ण्यवर्णंसु॒वृतं᳚सुच॒क्रम् |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्}

रो᳚हसूर्ये,अ॒मृत॑स्यलो॒कं¦स्यो॒नंपत्ये᳚वह॒तुंकृ॑णुष्व || {20/47}{10.85.20}{10.7.1.20}{8.3.23.5}{888, 922, 9686}

सु॒ऽकिं॒शु॒क‌म्¦श॒ल्म॒लि‌म्¦वि॒श्वऽरू᳚प‌म्¦हिर᳚ण्यऽवर्ण‌म्¦सु॒ऽवृत᳚‌म्¦सु॒ऽच॒क्र‌म् |
आ¦रो॒ह॒¦सू॒र्ये॒¦अ॒मृत॑स्य¦लो॒क‌म्¦स्यो॒न‌म्¦पत्ये᳚¦व॒ह॒तु‌म्¦कृ॒णु॒ष्व॒ ||

उदी॒र्ष्वातः॒पति॑वती॒ह्ये॒३॑(ए॒)षा¦वि॒श्वाव॑सुं॒नम॑सागी॒र्भिरी᳚ळे |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्}

अ॒न्यामि॑च्छपितृ॒षदं॒व्य॑क्तां॒¦ते᳚भा॒गोज॒नुषा॒तस्य॑विद्धि || {21/47}{10.85.21}{10.7.1.21}{8.3.24.1}{889, 922, 9687}

उत्¦ई॒र्ष्व॒¦अतः॑¦पति॑ऽवती¦हि¦ए॒षा¦वि॒श्वऽव॑सु‌म्¦नम॑सा¦गीः॒ऽभिः¦ई॒ळे॒ |
अ॒न्या‌म्¦इ॒च्छ॒¦पि॒तृ॒ऽसद᳚‌म्¦वि।आ॑क्ता‌म्¦सः¦ते॒¦भा॒गः¦ज॒नुषा᳚¦तस्य॑¦वि॒द्धि॒ ||

उदी॒र्ष्वातो᳚विश्वावसो॒¦नम॑सेळामहेत्वा |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | अनुष्टुप्}

अ॒न्यामि॑च्छप्रफ॒र्व्य१॑(अं॒)¦संजा॒यांपत्या᳚सृज || {22/47}{10.85.22}{10.7.1.22}{8.3.24.2}{890, 922, 9688}

उत्¦ई॒र्ष्व॒¦अतः॑¦वि॒श्व॒व॒सो॒ इति॑ विश्वऽवसो¦नम॑सा¦ई॒ळा॒म॒हे॒¦त्वा | अ॒न्या‌म्¦इ॒च्छ॒¦प्र॒ऽफ॒र्व्य᳚‌म्¦स‌म्¦जा॒या‌म्¦पत्या᳚¦सृ॒ज॒ ||

अ॒नृ॒क्ष॒रा,ऋ॒जवः॑सन्तु॒पन्था॒¦येभिः॒सखा᳚यो॒यन्ति॑नोवरे॒यम् |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्}

सम᳚र्य॒मासंभगो᳚नोनिनीया॒त्¦संजा᳚स्प॒त्यंसु॒यम॑मस्तुदेवाः || {23/47}{10.85.23}{10.7.1.23}{8.3.24.3}{891, 922, 9689}

अ॒नृ॒क्ष॒राः¦ऋ॒जवः॑¦स॒न्तु॒¦पन्थाः᳚¦येभिः॑¦सखा᳚यः¦यन्ति॑¦नः॒¦व॒रे॒ऽय‌म् |
स‌म्¦अ॒र्य॒मा¦स‌म्¦भगः॑¦नः॒¦नि॒नी॒या॒त्¦स‌म्¦जाः॒प॒त्य‌म्¦सु॒ऽयम᳚‌म्¦अ॒स्तु॒¦दे॒वाः॒ ||

प्रत्वा᳚मुञ्चामि॒वरु॑णस्य॒पाशा॒द्¦येन॒त्वाब॑ध्नात्‌सवि॒तासु॒शेवः॑ |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्}

ऋ॒तस्य॒योनौ᳚सुकृ॒तस्य॑लो॒के¦ऽरि॑ष्टांत्वास॒हपत्या᳚दधामि || {24/47}{10.85.24}{10.7.1.24}{8.3.24.4}{892, 922, 9690}

प्र¦त्वा॒¦मुं॒चा॒मि॒¦वरु॑णस्य¦पाशा᳚त्¦येन॑¦त्वा॒¦अब॑ध्नात्¦स॒वि॒ता¦सु॒ऽशेवः॑ |
ऋ॒तस्य॑¦योनौ᳚¦सु॒ऽकृ॒तस्य॑¦लो॒के¦अरि॑ष्टा‌म्¦त्वा॒¦स॒ह¦पत्या᳚¦द॒धा॒मि॒ ||

प्रेतोमु॒ञ्चामि॒नामुतः॑¦सुब॒द्धाम॒मुत॑स्करम् |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | अनुष्टुप्}

यथे॒यमि᳚न्द्रमीढ्वः¦सुपु॒त्रासु॒भगास॑ति || {25/47}{10.85.25}{10.7.1.25}{8.3.24.5}{893, 922, 9691}

प्र¦इ॒तः¦मुं॒चामि॑¦न¦अ॒मुतः॑¦सु॒ऽब॒द्धा‌म्¦अ॒मुतः॑¦क॒र॒‌म् | यथा᳚¦इ॒य‌म्¦इ॒न्द्र॒¦मी॒ढ्वः॒¦सु॒ऽपु॒त्रा¦सु॒ऽभगा᳚¦अस॑ति ||

पू॒षात्वे॒तोन॑यतुहस्त॒गृह्या॒¦श्विना᳚त्वा॒प्रव॑हतां॒रथे᳚न |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्}

गृ॒हान्‌ग॑च्छगृ॒हप॑त्नी॒यथासो᳚¦व॒शिनी॒त्वंवि॒दथ॒माव॑दासि || {26/47}{10.85.26}{10.7.1.26}{8.3.25.1}{894, 922, 9692}

पू॒षा¦त्वा॒¦इ॒तः¦न॒य॒तु॒¦ह॒स्त॒ऽगृह्य॑¦अ॒श्विना᳚¦त्वा॒¦प्र¦व॒ह॒ता॒‌म्¦रथे᳚न |
गृ॒हान्¦ग॒च्छ॒¦गृ॒हऽप॑त्नी¦यथा᳚¦असः॑¦व॒शिनी᳚¦त्व‌म्¦वि॒दथ᳚‌म्¦आ¦व॒दा॒सि॒ ||

इ॒हप्रि॒यंप्र॒जया᳚ते॒समृ॑ध्यता¦म॒स्मिन्‌गृ॒हेगार्ह॑पत्यायजागृहि |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्}

ए॒नापत्या᳚त॒न्व१॑(अं॒)संसृ॑ज॒स्वा¦ऽधा॒जिव्री᳚वि॒दथ॒माव॑दाथः || {27/47}{10.85.27}{10.7.1.27}{8.3.25.2}{895, 922, 9693}

इ॒ह¦प्रि॒य‌म्¦प्र॒ऽजया᳚¦ते॒¦स‌म्¦ऋ॒ध्य॒ता॒‌म्¦अ॒स्मिन्¦गृ॒हे¦गार्ह॑ऽपत्याय¦जा॒गृ॒हि॒ |
ए॒ना¦पत्या᳚¦त॒न्व᳚‌म्¦स‌म्¦सृ॒ज॒स्व॒¦अध॑¦जिव्री॒ इति॑¦वि॒दथ᳚‌म्¦आ¦व॒दा॒थः॒ ||

नी॒ल॒लो॒हि॒तंभ॑वति¦कृ॒त्यास॒क्तिर्व्य॑ज्यते |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | अनुष्टुप्}

एध᳚न्ते,अस्याज्ञा॒तयः॒¦पति॑र्ब॒न्धेषु॑बध्यते || {28/47}{10.85.28}{10.7.1.28}{8.3.25.3}{896, 922, 9694}

नी॒ल॒ऽलो॒हि॒त‌म्¦भ॒व॒ति॒¦कृ॒त्या¦आ॒स॒क्तिः¦वि¦अ॒ज्य॒ते॒ | एध᳚न्ते¦अ॒स्याः॒¦ज्ञा॒तयः॑¦पतिः॑¦ब॒न्धेषु॑¦ब॒ध्य॒ते॒ ||

परा᳚देहिशामु॒ल्यं᳚¦ब्र॒ह्मभ्यो॒विभ॑जा॒वसु॑ |{सूर्या सावित्री | धूर्वासः | अनुष्टुप्}

कृ॒त्यैषाप॒द्वती᳚भू॒त्व्या¦जा॒यावि॑शते॒पति᳚म् || {29/47}{10.85.29}{10.7.1.29}{8.3.25.4}{897, 922, 9695}

परा᳚¦दे॒हि॒¦शा॒मु॒ल्य᳚‌म्¦ब्र॒ह्मऽभ्यः॑¦वि¦भ॒ज॒¦वसु॑ | कृ॒त्या¦ए॒षा¦प॒त्ऽवती᳚¦भू॒त्वी¦आ¦जा॒या¦वि॒श॒ते॒¦पति᳚‌म् ||

अ॒श्री॒रात॒नूर्भ॑वति॒¦रुश॑तीपा॒पया᳚मु॒या |{सूर्या सावित्री | धूर्वासः | अनुष्टुप्}

पति॒र्यद्व॒ध्वो॒३॑(ओ॒)वास॑सा॒¦स्वमङ्ग॑मभि॒धित्स॑ते || {30/47}{10.85.30}{10.7.1.30}{8.3.25.5}{898, 922, 9696}

अ॒श्री॒रा¦त॒नूः¦भ॒व॒ति॒¦रुश॑ती¦पा॒पया᳚¦अ॒मु॒या | पतिः॑¦यत्¦व॒ध्वः॑¦वास॑सा¦स्व‌म्¦अङ्ग᳚‌म्¦अ॒भि॒ऽधित्स॑ते ||

येव॒ध्व॑श्च॒न्द्रंव॑ह॒तुं¦यक्ष्मा॒यन्ति॒जना॒दनु॑ |{सूर्या सावित्री | यायक्ष्महा | अनुष्टुप्}

पुन॒स्तान्‌य॒ज्ञिया᳚दे॒वा¦नय᳚न्तु॒यत॒आग॑ताः || {31/47}{10.85.31}{10.7.1.31}{8.3.26.1}{899, 922, 9697}

ये¦व॒ध्वः॑¦च॒न्द्र‌म्¦व॒ह॒तु‌म्¦यक्ष्माः᳚¦यन्ति॑¦जना᳚त्¦अनु॑ | पुन॒रिति॑¦तान्¦य॒ज्ञियाः᳚¦दे॒वाः¦नय᳚न्तु¦यतः॑¦आऽग॑ताः ||

मावि॑दन्‌परिप॒न्थिनो॒¦आ॒सीद᳚न्ति॒दम्प॑ती |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

सु॒गेभि॑र्दु॒र्गमती᳚ता॒¦मप॑द्रा॒न्त्वरा᳚तयः || {32/47}{10.85.32}{10.7.1.32}{8.3.26.2}{900, 922, 9698}

मा¦वि॒द॒न्¦प॒रि॒ऽप॒न्थिनः॑¦ये¦आ॒ऽसीद᳚न्ति¦दंप॑ती॒ इति॒ द‌म्ऽप॑ती | सु॒ऽगेभिः॑¦दुः॒ऽग‌म्¦अति॑¦इ॒ता॒‌म्¦अप॑¦द्रा॒न्तु॒¦अरा᳚तयः ||

सु॒म॒ङ्ग॒लीरि॒यंव॒धू¦रि॒मांस॒मेत॒पश्य॑त |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

सौभा᳚ग्यमस्यैद॒त्‌त्वाया¦ऽथास्तं॒विपरे᳚तन || {33/47}{10.85.33}{10.7.1.33}{8.3.26.3}{901, 922, 9699}

सु॒ऽम॒ङ्ग॒लीः¦इ॒य‌म्¦व॒धूः¦इ॒मा‌म्¦स॒‌म्ऽएत॑¦पश्य॑त | सौभा᳚ग्य‌म्¦अ॒स्यै॒¦द॒त्‌ त्वाय॑¦अथ॑¦अस्त᳚‌म्¦वि¦परा᳚¦इ॒त॒न॒ ||

तृ॒ष्टमे॒तत्‌कटु॑कमे॒त¦द॑पा॒ष्ठव॑द्वि॒षव॒न्नैतदत्त॑वे |{सूर्या सावित्री | सूर्या | बृहती}

सू॒र्यांयोब्र॒ह्मावि॒द्यात्¦इद्वाधू᳚यमर्हति || {34/47}{10.85.34}{10.7.1.34}{8.3.26.4}{902, 922, 9700}

तृ॒ष्ट‌म्¦ए॒तत्¦कटु॑क‌म्¦ए॒तत्¦अ॒पा॒ष्ठऽव॑त्¦वि॒षऽव॑त्¦न¦ए॒तत्¦अत्त॑वे |
सू॒र्या‌म्¦यः¦ब्र॒ह्मा¦वि॒द्यात्¦सः¦इत्¦वाधू᳚ऽय‌म्¦अ॒र्ह॒ति॒ ||

आ॒शस॑नंवि॒शस॑न॒¦मथो᳚,अधिवि॒कर्त॑नम् |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

सू॒र्यायाः᳚पश्यरू॒पाणि॒¦तानि॑ब्र॒ह्मातुशु᳚न्धति || {35/47}{10.85.35}{10.7.1.35}{8.3.26.5}{903, 922, 9701}

आ॒ऽशस॑न‌म्¦वि॒ऽशस॑न‌म्¦अथो॒ इति॑¦अ॒धि॒ऽवि॒कर्त॑न‌म् | सू॒र्यायाः᳚¦प॒श्य॒¦रू॒पाणि॑¦तानि॑¦ब्र॒ह्मा¦तु¦शु॒न्ध॒ति॒ ||

गृ॒भ्णामि॑तेसौभग॒त्वाय॒हस्तं॒¦मया॒पत्या᳚ज॒रद॑ष्टि॒र्यथासः॑ |{सूर्या सावित्री | सूर्या | त्रिष्टुप्}

भगो᳚,अर्य॒मास॑वि॒तापुरं᳚धि॒¦र्मह्यं᳚त्वादु॒र्गार्ह॑पत्यायदे॒वाः || {36/47}{10.85.36}{10.7.1.36}{8.3.27.1}{904, 922, 9702}

गृ॒भ्णामि॑¦ते॒¦सौ॒भ॒ग॒ऽत्वाय॑¦हस्त᳚‌म्¦मया᳚¦पत्या᳚¦ज॒रत्।आ॑ष्टिः¦यथा᳚¦असः॑ |
भगः॑¦अ॒र्य॒मा¦स॒वि॒ता¦पुर᳚‌म्ऽधिः¦मह्य᳚‌म्¦त्वा॒¦अ॒दुः॒¦गार्ह॑ऽपत्याय¦दे॒वाः ||

तांपू᳚षञ्छि॒वत॑मा॒मेर॑यस्व॒¦यस्यां॒बीजं᳚मनु॒ष्या॒३॑(आ॒)वप᳚न्ति |{सूर्या सावित्री | सूर्या | त्रिष्टुप्}

यान॑ऊ॒रू,उ॑श॒तीवि॒श्रया᳚ते॒¦यस्या᳚मु॒शन्तः॑प्र॒हरा᳚म॒शेप᳚म् || {37/47}{10.85.37}{10.7.1.37}{8.3.27.2}{905, 922, 9703}

ता‌म्¦पू॒ष॒न्¦शि॒वऽत॑मा‌म्¦आ¦ई॒र॒य॒स्व॒¦यस्या᳚‌म्¦बीज᳚‌म्¦म॒नु॒ष्याः᳚¦वप᳚न्ति |
या¦नः॒¦ऊ॒रू इति॑¦उ॒श॒ती¦वि॒ऽश्रया᳚ते¦यस्या᳚‌म्¦उ॒शन्तः॑¦प्र॒ऽहरा᳚म¦शेप᳚‌म् ||

तुभ्य॒मग्रे॒पर्य॑वहन्¦त्सू॒र्यांव॑ह॒तुना᳚स॒ह |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

पुनः॒पति॑भ्योजा॒यांदा¦,अ॑ग्नेप्र॒जया᳚स॒ह || {38/47}{10.85.38}{10.7.1.38}{8.3.27.3}{906, 922, 9704}

तुभ्य᳚‌म्¦अग्रे᳚¦परि॑¦अ॒व॒ह॒न्¦सू॒र्या‌म्¦व॒ह॒तुना᳚¦स॒ह | पुन॒रिति॑¦पति॑ऽभ्यः¦जा॒या‌म्¦दाः¦अ॒ग्ने॒¦प्र॒ऽजया᳚¦स॒ह ||

पुनः॒पत्नी᳚म॒ग्निर॑दा॒¦दायु॑षास॒हवर्च॑सा |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

दी॒र्घायु॑रस्या॒यःपति॒¦र्जीवा᳚तिश॒रदः॑श॒तम् || {39/47}{10.85.39}{10.7.1.39}{8.3.27.4}{907, 922, 9705}

पुन॒रिति॑¦पत्नी᳚‌म्¦अ॒ग्निः¦अ॒दा॒त्¦आयु॑षा¦स॒ह¦वर्च॑सा | दी॒र्घऽआ᳚युः¦अ॒स्याः॒¦यः¦पतिः॑¦जीवा᳚ति¦श॒रदः॑¦श॒त‌म् ||

सोमः॑प्रथ॒मोवि॑विदे¦गन्ध॒र्वोवि॑विद॒उत्त॑रः |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

तृ॒तीयो᳚,अ॒ग्निष्टे॒पति॑¦स्तु॒रीय॑स्तेमनुष्य॒जाः || {40/47}{10.85.40}{10.7.1.40}{8.3.27.5}{908, 922, 9706}

सोमः॑¦प्र॒थ॒मः¦वि॒वि॒दे॒¦ग॒न्ध॒र्वः¦वि॒वि॒दे॒¦उत्ऽत॑रः | तृ॒तीयः॑¦अ॒ग्निः¦ते॒¦पतिः॑¦तु॒रीयः॑¦ते॒¦म॒नु॒ष्य॒ऽजाः ||

सोमो᳚ददद्गन्ध॒र्वाय॑¦गन्ध॒र्वोद॑दद॒ग्नये᳚ |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

र॒यिंच॑पु॒त्राँश्चा᳚दा¦द॒ग्निर्मह्य॒मथो᳚,इ॒माम् || {41/47}{10.85.41}{10.7.1.41}{8.3.28.1}{909, 922, 9707}

सोमः॑¦द॒द॒त्¦ग॒न्ध॒र्वाय॑¦ग॒न्ध॒र्वः¦द॒द॒त्¦अ॒ग्नये᳚ | र॒यि‌म्¦च॒¦पु॒त्रान्¦च॒¦अ॒दा॒त्¦अ॒ग्निः¦मह्य᳚‌म्¦अथो॒ इति॑¦इ॒मा‌म् ||

इ॒हैवस्तं॒मावियौ᳚ष्टं॒¦विश्व॒मायु॒र्व्य॑श्नुतम् |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

क्रीळ᳚न्तौपु॒त्रैर्नप्तृ॑भि॒¦र्मोद॑मानौ॒स्वेगृ॒हे || {42/47}{10.85.42}{10.7.1.42}{8.3.28.2}{910, 922, 9708}

इ॒ह¦ए॒व¦स्त॒‌म्¦मा¦वि¦यौ॒ष्ट॒‌म्¦विश्व᳚‌म्¦आयुः॑¦वि¦अ॒श्नु॒त॒‌म् | क्रीळ᳚न्तौ¦पु॒त्रैः¦नप्तृ॑ऽभिः¦मोद॑मानौ¦स्वे¦गृ॒हे ||

नः॑प्र॒जांज॑नयतुप्र॒जाप॑ति¦राजर॒साय॒सम॑नक्त्वर्य॒मा |{सूर्या सावित्री | सूर्या | जगती}

अदु᳚र्मङ्गलीःपतिलो॒कमावि॑श॒¦शंनो᳚भवद्वि॒पदे॒शंचतु॑ष्पदे || {43/47}{10.85.43}{10.7.1.43}{8.3.28.3}{911, 922, 9709}

आ¦नः॒¦प्र॒ऽजा‌म्¦ज॒न॒य॒तु॒¦प्र॒जाऽप॑तिः¦आ॒ऽज॒र॒साय॑¦स‌म्¦अ॒न॒क्तु॒¦अ॒र्य॒मा |
अदुः॑ऽमङ्गलीः¦प॒ति॒ऽलो॒क‌म्¦आ¦वि॒श॒¦श‌म्¦नः॒¦भ॒व॒¦द्वि॒ऽपदे᳚¦श‌म्¦चतुः॑ऽपदे ||

अघो᳚रचक्षु॒रप॑तिघ्न्येधि¦शि॒वाप॒शुभ्यः॑सु॒मनाः᳚सु॒वर्चाः᳚ |{सूर्या सावित्री | सूर्या | त्रिष्टुप्}

वी॒र॒सूर्दे॒वका᳚मास्यो॒ना¦शंनो᳚भवद्वि॒पदे॒शंचतु॑ष्पदे || {44/47}{10.85.44}{10.7.1.44}{8.3.28.4}{912, 922, 9710}

अघो᳚रऽचक्षुः¦अप॑तिऽघ्नी¦ए॒धि॒¦शि॒वा¦प॒शुऽभ्यः॑¦सु॒ऽमनाः᳚¦सु॒ऽवर्चाः᳚ |
वी॒र॒ऽसूः¦दे॒वऽका᳚मा¦स्यो॒ना¦श‌म्¦नः॒¦भ॒व॒¦द्वि॒ऽपदे᳚¦श‌म्¦चतुः॑ऽपदे ||

इ॒मांत्वमि᳚न्द्रमीढ्वः¦सुपु॒त्रांसु॒भगां᳚कृणु |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

दशा᳚स्यांपु॒त्रानाधे᳚हि॒¦पति॑मेकाद॒शंकृ॑धि || {45/47}{10.85.45}{10.7.1.45}{8.3.28.5}{913, 922, 9711}

इ॒मा‌म्¦त्व‌म्¦इ॒न्द्र॒¦मी॒ढ्वः॒¦सु॒ऽपु॒त्रा‌म्¦सु॒ऽभगा᳚‌म्¦कृ॒णु॒ | दश॑¦अ॒स्या॒‌म्¦पु॒त्रान्¦आ¦धे॒हि॒¦पति᳚‌म्¦ए॒का॒द॒श‌म्¦कृ॒धि॒ ||

स॒म्राज्ञी॒श्वशु॑रेभव¦स॒म्राज्ञी᳚श्व॒श्र्वांभ॑व |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

नना᳚न्दरिस॒म्राज्ञी᳚भव¦स॒म्राज्ञी॒,अधि॑दे॒वृषु॑ || {46/47}{10.85.46}{10.7.1.46}{8.3.28.6}{914, 922, 9712}

स॒‌म्ऽराज्ञी᳚¦श्वशु॑रे¦भ॒व॒¦स॒‌म्ऽराज्ञी᳚¦श्व॒श्र्वा‌म्¦भ॒व॒ | नना᳚न्दरि¦स॒‌म्ऽराज्ञी᳚¦भ॒व॒¦स॒‌म्ऽराज्ञी᳚¦अधि॑¦दे॒वृषु॑ ||

सम᳚ञ्जन्तु॒विश्वे᳚दे॒वाः¦समापो॒हृद॑यानिनौ |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

संमा᳚त॒रिश्वा॒संधा॒ता¦समु॒देष्ट्री᳚दधातुनौ || {47/47}{10.85.47}{10.7.1.47}{8.3.28.7}{915, 922, 9713}

स‌म्¦अं॒ज॒न्तु॒¦विश्वे᳚¦दे॒वाः¦स‌म्¦आपः॑¦हृद॑यानि¦नौ॒ | स‌म्¦मा॒त॒रिश्वा᳚¦स‌म्¦धा॒ता¦स‌म्¦ऊँ॒ इति॑¦देष्ट्री᳚¦द॒धा॒तु॒¦नौ॒ ||

[86] विहिसोतोरिति त्रयोविंशत्यृचस्य सूक्तस्य आद्याष्टम्येकादशी द्वादशीचतुर्दशीनामेकोनविंश्यादिचतसृणांचेंद्र ऋषिः सप्तमीत्रयोदशीत्रयोविंशीनामैंद्रो वृषाकपि ऋषिः शिष्टानामेकादशर्चामिंद्राणी ऋषिकाइंद्रः पंक्तिः | (अत्रयस्य वाक्यमिति परिभाषां स्वीकृत्य इंद्रेंद्राणी वृषाकपीनांविभागशोदेवतात्वं केचिन्मन्यंते तद्भाष्यकारादिविरुद्धं) |
विहिसोतो॒रसृ॑क्षत॒नेन्द्रं᳚दे॒वम॑मंसत |{एंद्रः | वरुणः | पङ्क्तिः}

यत्राम॑दद्‌वृ॒षाक॑पिर॒र्यःपु॒ष्टेषु॒मत्स॑खा॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || {1/23}{10.86.1}{10.7.2.1}{8.4.1.1}{916, 923, 9714}

वि¦हि¦सोतोः᳚¦असृ॑क्षत¦न¦इन्द्र᳚‌म्¦दे॒व‌म्¦अ॒मं॒स॒त॒ |
यत्र॑¦अम॑दत्¦वृ॒षाक॑पिः¦अ॒र्यः¦पु॒ष्टेषु॑¦मत्ऽस॑खा¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

परा॒ही᳚न्द्र॒धाव॑सिवृ॒षाक॑पे॒रति॒व्यथिः॑ |{इंद्राणी | वरुणः | पङ्क्तिः}

नो,अह॒प्रवि᳚न्दस्य॒न्यत्र॒सोम॑पीतये॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || {2/23}{10.86.2}{10.7.2.2}{8.4.1.2}{917, 923, 9715}

परा᳚¦हि¦इ॒न्द्र॒¦धाव॑सि¦वृ॒षाक॑पेः¦अति॑¦व्यथिः॑ |
नो इति॑¦अह॑¦प्र¦वि॒न्द॒सि॒¦अ॒न्यत्र॑¦सोम॑ऽपीतये¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

किम॒यंत्वांवृ॒षाक॑पिश्च॒कार॒हरि॑तोमृ॒गः |{एंद्रः | वरुणः | पङ्क्तिः}

यस्मा᳚,इर॒स्यसीदु॒न्व१॑(अ॒)र्योवा᳚पुष्टि॒मद्वसु॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || {3/23}{10.86.3}{10.7.2.3}{8.4.1.3}{918, 923, 9716}

कि‌म्¦अ॒य‌म्¦त्वा‌म्¦वृ॒षाक॑पिः¦च॒कार॑¦हरि॑तः¦मृ॒गः |
यस्मै᳚¦इ॒र॒स्यसि॑¦इत्¦ऊँ॒ इति॑¦नु¦अ॒र्यः¦वा॒¦पु॒ष्टि॒ऽमत्¦वसु॑¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

यमि॒मंत्वंवृ॒षाक॑पिंप्रि॒यमि᳚न्द्राभि॒रक्ष॑सि |{इंद्राणी | वरुणः | पङ्क्तिः}

श्वान्व॑स्यजम्भिष॒दपि॒कर्णे᳚वराह॒युर्विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || {4/23}{10.86.4}{10.7.2.4}{8.4.1.4}{919, 923, 9717}

य‌म्¦इ॒म‌म्¦त्व‌म्¦वृ॒षाक॑पि‌म्¦प्रि॒य‌म्¦इ॒न्द्र॒¦अ॒भि॒ऽरक्ष॑सि |
श्वा¦नु¦अ॒स्य॒¦ज॒म्भि॒ष॒त्¦अपि॑¦कर्णे᳚¦व॒रा॒ह॒ऽयुः¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

प्रि॒यात॒ष्टानि॑मेक॒पिर्व्य॑क्ता॒व्य॑दूदुषत् |{इंद्राणी | वरुणः | पङ्क्तिः}

शिरो॒न्व॑स्यराविषं॒सु॒गंदु॒ष्कृते᳚भुवं॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || {5/23}{10.86.5}{10.7.2.5}{8.4.1.5}{920, 923, 9718}

प्रि॒या¦त॒ष्टानि॑¦मे॒¦क॒पिः¦वि।आ॑क्ता¦वि¦अ॒दू॒दु॒ष॒त् |
शिरः॑¦नु¦अ॒स्य॒¦रा॒वि॒ष॒‌म्¦न¦सु॒ऽग‌म्¦दुः॒ऽकृते᳚¦भु॒व॒‌म्¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

मत्‌स्त्रीसु॑भ॒सत्त॑रा॒सु॒याशु॑तराभुवत् |{इंद्राणी | वरुणः | पङ्क्तिः}

मत्प्रति॑च्यवीयसी॒सक्थ्युद्य॑मीयसी॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || {6/23}{10.86.6}{10.7.2.6}{8.4.2.1}{921, 923, 9719}

न¦मत्¦स्त्री¦सु॒भ॒सत्ऽत॑रा¦न¦सु॒याशु॑ऽतरा¦भु॒व॒त् |
न¦मत्¦प्रति॑ऽच्यवीयसी¦न¦सक्थि॑¦उत्ऽय॑मीयसी¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

उ॒वे,अ᳚म्बसुलाभिके॒यथे᳚वा॒ङ्गभ॑वि॒ष्यति॑ |{इंद्रो वृषाकपि | वरुणः | पङ्क्तिः}

भ॒सन्मे᳚,अम्ब॒सक्थि॑मे॒शिरो᳚मे॒वी᳚वहृष्यति॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || {7/23}{10.86.7}{10.7.2.7}{8.4.2.2}{922, 923, 9720}

सु॒वे¦अ॒म्ब॒¦सु॒ला॒भि॒के॒¦यथा᳚ऽ‌इव¦अ॒ङ्ग¦भ॒वि॒ष्यति॑ |
भ॒सत्¦मे॒¦अ॒म्ब॒¦सक्थि॑¦मे॒¦शिरः॑¦मे॒¦विऽ‌इ᳚व¦हृ॒ष्य॒ति॒¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

किंसु॑बाहोस्वङ्गुरे॒पृथु॑ष्टो॒पृथु॑जाघने |{इंद्राणी | वरुणः | पङ्क्तिः}

किंशू᳚रपत्निन॒स्त्वम॒भ्य॑मीषिवृ॒षाक॑पिं॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || {8/23}{10.86.8}{10.7.2.8}{8.4.2.3}{923, 923, 9721}

कि‌म्¦सु॒बा॒हो॒ इति॑ सुऽबाहो¦सु॒।आ॒ङ्गु॒रे॒¦पृथु॑स्तो॒ इति॒ पृथु॑ऽस्तो¦पृथु॑ऽजघने |
कि‌म्¦शू॒र॒ऽप॒त्नि॒¦नः॒¦त्व‌म्¦अ॒भि¦अ॒मी॒षि॒¦वृ॒षाक॑पि‌म्¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

अ॒वीरा᳚मिव॒माम॒यंश॒रारु॑र॒भिम᳚न्यते |{इंद्राणी | वरुणः | पङ्क्तिः}

उ॒ताहम॑स्मिवी॒रिणीन्द्र॑पत्नीम॒रुत्स॑खा॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || {9/23}{10.86.9}{10.7.2.9}{8.4.2.4}{924, 923, 9722}

अ॒वीरा᳚‌म्ऽ‌इव¦मा‌म्¦अ॒य‌म्¦श॒रारुः॑¦अ॒भि¦म॒न्य॒ते॒ |
उ॒त¦अ॒ह‌म्¦अ॒स्मि॒¦वी॒रिणी᳚¦इन्द्र॑ऽपत्नी¦म॒रुत्ऽस॑खा¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

सं॒हो॒त्रंस्म॑पु॒रानारी॒सम॑नं॒वाव॑गच्छति |{इंद्राणी | वरुणः | पङ्क्तिः}

वे॒धा,ऋ॒तस्य॑वी॒रिणीन्द्र॑पत्नीमहीयते॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || {10/23}{10.86.10}{10.7.2.10}{8.4.2.5}{925, 923, 9723}

स॒‌म्ऽहो॒त्र‌म्¦स्म॒¦पु॒रा¦नारी᳚¦सम॑न‌म्¦वा॒¦अव॑¦ग॒च्छ॒ति॒ |
वे॒धाः¦ऋ॒तस्य॑¦वी॒रिणी᳚¦इन्द्र॑ऽपत्नी¦म॒ही॒य॒ते॒¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

इ॒न्द्रा॒णीमा॒सुनारि॑षु¦सु॒भगा᳚म॒हम॑श्रवम् |{एंद्रः | वरुणः | पङ्क्तिः}

न॒ह्य॑स्या,अप॒रंच॒न¦ज॒रसा॒मर॑ते॒पति॒¦र्विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || {11/23}{10.86.11}{10.7.2.11}{8.4.3.1}{926, 923, 9724}

इ॒न्द्रा॒णी‌म्¦आ॒सु¦नारि॑षु¦सु॒ऽभगा᳚‌म्¦अ॒ह‌म्¦अ॒श्र॒व॒‌म् |
न॒हि¦अ॒स्याः॒¦अ॒प॒र‌म्¦च॒न¦ज॒रसा᳚¦मर॑ते¦पतिः॑¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

नाहमि᳚न्द्राणिरारण॒सख्यु᳚र्वृ॒षाक॑पेरृ॒ते |{एंद्रः | वरुणः | पङ्क्तिः}

यस्ये॒दमप्यं᳚ह॒विःप्रि॒यंदे॒वेषु॒गच्छ॑ति॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || {12/23}{10.86.12}{10.7.2.12}{8.4.3.2}{927, 923, 9725}

न¦अ॒ह‌म्¦इ॒न्द्रा॒णि॒¦र॒र॒ण॒¦सख्युः॑¦वृ॒षाक॑पेः¦ऋ॒ते |
यस्य॑¦इ॒द‌म्¦अप्य᳚‌म्¦ह॒विः¦प्रि॒य‌म्¦दे॒वेषु॑¦गच्छ॑ति¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

वृषा᳚कपायि॒रेव॑ति॒सुपु॑त्र॒आदु॒सुस्नु॑षे |{इंद्रो वृषाकपि | वरुणः | पङ्क्तिः}

घस॑त्त॒इन्द्र॑उ॒क्षणः॑प्रि॒यंका᳚चित्क॒रंह॒विर्विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || {13/23}{10.86.13}{10.7.2.13}{8.4.3.3}{928, 923, 9726}

वृषा᳚कपायि¦रेव॑ति¦सुऽपु॑त्रे¦आत्¦ऊँ॒ इति॑¦सुऽस्नु॑षे |
घस॑त्¦ते॒¦इन्द्रः॑¦उ॒क्षणः॑¦प्रि॒य‌म्¦का॒चि॒त्ऽक॒र‌म्¦ह॒विः¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

उ॒क्ष्णोहिमे॒पञ्च॑दशसा॒कंपच᳚न्तिविंश॒तिम् |{इंद्राणी | वरुणः | पङ्क्तिः}

उ॒ताहम॑द्मि॒पीव॒इदु॒भाकु॒क्षीपृ॑णन्तिमे॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || {14/23}{10.86.14}{10.7.2.14}{8.4.3.4}{929, 923, 9727}

उ॒क्ष्णः¦हि¦मे॒¦पंच॑ऽदश¦सा॒क‌म्¦पच᳚न्ति¦विं॒श॒ति‌म् |
उ॒त¦अ॒ह‌म्¦अ॒द्मि॒¦पीवः॑¦इत्¦उ॒भा¦कु॒क्षी इति॑¦पृ॒ण॒न्ति॒¦मे॒¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

वृ॒ष॒भोति॒ग्मशृ᳚ङ्गो॒ऽन्तर्यू॒थेषु॒रोरु॑वत् |{इंद्राणी | वरुणः | पङ्क्तिः}

म॒न्थस्त॑इन्द्र॒शंहृ॒देयंते᳚सु॒नोति॑भाव॒युर्विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || {15/23}{10.86.15}{10.7.2.15}{8.4.3.5}{930, 923, 9728}

वृ॒ष॒भः¦न¦ति॒ग्मऽशृ᳚ङ्गः¦अ॒न्तः¦यू॒थेषु॑¦रोरु॑वत् |
म॒न्थः¦ते॒¦इ॒न्द्र॒¦श‌म्¦हृ॒दे¦य‌म्¦ते॒¦सु॒नोति॑¦भा॒व॒युः¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

सेशे॒यस्य॒रम्ब॑तेऽन्त॒रास॒क्थ्या॒३॑(आ॒)कपृ॑त् |{इंद्राणी | वरुणः | पङ्क्तिः}

सेदी᳚शे॒यस्य॑रोम॒शंनि॑षे॒दुषो᳚वि॒जृम्भ॑ते॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || {16/23}{10.86.16}{10.7.2.16}{8.4.4.1}{931, 923, 9729}

न¦सः¦ई॒शे॒¦यस्य॑¦रम्ब॑ते¦अ॒न्त॒रा¦स॒क्थ्या᳚¦कपृ॑त् |
सः¦इत्¦ई॒शे॒¦यस्य॑¦रो॒म॒श‌म्¦नि॒ऽसे॒दुषः॑¦वि॒ऽजृम्भ॑ते¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

सेशे॒यस्य॑रोम॒शंनि॑षे॒दुषो᳚वि॒जृम्भ॑ते |{इंद्राणी | वरुणः | पङ्क्तिः}

सेदी᳚शे॒यस्य॒रम्ब॑तेऽन्त॒रास॒क्थ्या॒३॑(आ॒)कपृ॒द्विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || {17/23}{10.86.17}{10.7.2.17}{8.4.4.2}{932, 923, 9730}

न¦सः¦ई॒शे॒¦यस्य॑¦रो॒म॒श‌म्¦नि॒ऽसे॒दुषः॑¦वि॒ऽजृम्भ॑ते |
सः¦इत्¦ई॒शे॒¦यस्य॑¦रम्ब॑ते¦अ॒न्त॒रा¦स॒क्थ्या᳚¦कपृ॑त्¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

अ॒यमि᳚न्द्रवृ॒षाक॑पिः॒पर॑स्वन्तंह॒तंवि॑दत् |{इंद्राणी | वरुणः | पङ्क्तिः}

अ॒सिंसू॒नांनवं᳚च॒रुमादेध॒स्यान॒आचि॑तं॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || {18/23}{10.86.18}{10.7.2.18}{8.4.4.3}{933, 923, 9731}

अ॒य‌म्¦इ॒न्द्र॒¦वृ॒षाक॑पिः¦पर॑स्वन्त‌म्¦ह॒त‌म्¦वि॒द॒त् |
अ॒सि‌म्¦सू॒ना‌म्¦नव᳚‌म्¦च॒रु‌म्¦आत्¦एध॑स्य¦अनः॑¦आऽचि॑त‌म्¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

अ॒यमे᳚मिवि॒चाक॑शद्विचि॒न्वन्दास॒मार्य᳚म् |{एंद्रः | वरुणः | पङ्क्तिः}

पिबा᳚मिपाक॒सुत्व॑नो॒ऽभिधीर॑मचाकशं॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || {19/23}{10.86.19}{10.7.2.19}{8.4.4.4}{934, 923, 9732}

अ॒य‌म्¦ए॒मि॒¦वि॒ऽचाक॑शत्¦वि॒ऽचि॒न्वन्¦दास᳚‌म्¦आर्य᳚‌म् |
पिबा᳚मि¦पा॒क॒ऽसुत्व॑नः¦अ॒भि¦धीर᳚‌म्¦अ॒चा॒क॒श॒‌म्¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

धन्व॑च॒यत्कृ॒न्तत्रं᳚च॒कति॑स्वि॒त्तावियोज॑ना |{एंद्रः | वरुणः | पङ्क्तिः}

नेदी᳚यसोवृषाक॒पेऽस्त॒मेहि॑गृ॒हाँ,उप॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || {20/23}{10.86.20}{10.7.2.20}{8.4.4.5}{935, 923, 9733}

धन्व॑¦च॒¦यत्¦कृ॒न्तत्र᳚‌म्¦च॒¦कति॑¦स्वि॒त्¦ता¦वि¦योज॑ना |
नेदी᳚यसः¦वृ॒षा॒क॒पे॒¦अस्त᳚‌म्¦आ¦इ॒हि॒¦गृ॒हान्¦उप॑¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

पुन॒रेहि॑वृषाकपेसुवि॒ताक॑ल्पयावहै |{एंद्रः | वरुणः | पङ्क्तिः}

ए॒षस्व॑प्न॒नंश॒नोऽस्त॒मेषि॑प॒थापुन॒र्विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || {21/23}{10.86.21}{10.7.2.21}{8.4.4.6}{936, 923, 9734}

पुनः॑¦आ¦इ॒हि॒¦वृ॒षा॒क॒पे॒¦सु॒वि॒ता¦क॒ल्प॒या॒व॒है॒ |
यः¦ए॒षः¦स्व॒प्न॒ऽनंश॑नः¦अस्त᳚‌म्¦एषि॑¦प॒था¦पुनः॑¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

यदुद᳚ञ्चोवृषाकपेगृ॒हमि॒न्द्राज॑गन्तन |{एंद्रः | वरुणः | पङ्क्तिः}

क्व१॑(अ॒)स्यपु॑ल्व॒घोमृ॒गःकम॑गञ्जन॒योप॑नो॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || {22/23}{10.86.22}{10.7.2.22}{8.4.4.7}{937, 923, 9735}

यत्¦उदं᳚चः¦वृ॒षा॒क॒पे॒¦गृ॒ह‌म्¦इ॒न्द्र॒¦अज॑गन्तन |
क्व॑¦स्यः¦पु॒ल्व॒घः¦मृ॒गः¦क‌म्¦अ॒ग॒न्¦ज॒न॒ऽयोप॑नः¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

पर्शु᳚र्ह॒नाम॑मान॒वीसा॒कंस॑सूवविंश॒तिम् |{इंद्रो वृषाकपि | वरुणः | पङ्क्तिः}

भ॒द्रंभ॑ल॒त्यस्या᳚,अभू॒द्यस्या᳚,उ॒दर॒माम॑य॒द्विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || {23/23}{10.86.23}{10.7.2.23}{8.4.4.8}{938, 923, 9736}

पशुः॑¦ह॒¦नाम॑¦मा॒न॒वी¦सा॒क‌म्¦स॒सू॒व॒¦विं॒श॒ति‌म् |
भ॒द्र‌म्¦भ॒ल॒¦त्यस्यै᳚¦अ॒भू॒त्¦यस्याः᳚¦उ॒दर᳚‌म्¦आम॑यत्¦विश्व॑स्मात्¦इन्द्रः॑¦उत्ऽत॑रः ||

[87] रक्षोहणमिति पंचविंशत्यृचस्य सूक्तस्य भारद्वाजःपायूरक्षोहाग्निस्त्रिष्टुप् अंत्याश्चतस्रोनुष्टुभः |
र॒क्षो॒हणं᳚वा॒जिन॒माजि॑घर्मिमि॒त्रंप्रथि॑ष्ठ॒मुप॑यामि॒शर्म॑ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

शिशा᳚नो,अ॒ग्निःक्रतु॑भिः॒समि॑द्धः॒नो॒दिवा॒रि॒षःपा᳚तु॒नक्त᳚म् || {1/25}{10.87.1}{10.7.3.1}{8.4.5.1}{939, 924, 9737}

र॒क्षः॒ऽहन᳚‌म्¦वा॒जिन᳚‌म्¦आ¦जि॒घ॒र्मि॒¦मि॒त्र‌म्¦प्रथि॑ष्ठ‌म्¦उप॑¦या॒मि॒¦शर्म॑ |
शिशा᳚नः¦अ॒ग्निः¦क्रतु॑ऽभिः¦स‌म्ऽ‌इ᳚द्धः¦सः¦नः॒¦दिवा᳚¦सः¦रि॒षः¦पा॒तु॒¦नक्त᳚‌म् ||

अयो᳚दंष्ट्रो,अ॒र्चिषा᳚यातु॒धाना॒नुप॑स्पृशजातवेदः॒समि॑द्धः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

जि॒ह्वया॒मूर॑देवान्‌रभस्वक्र॒व्यादो᳚वृ॒क्त्व्यपि॑धत्स्वा॒सन् || {2/25}{10.87.2}{10.7.3.2}{8.4.5.2}{940, 924, 9738}

अयः॑ऽदंष्ट्रः¦अ॒र्चिषा᳚¦या॒तु॒ऽधाना᳚न्¦उप॑¦स्पृ॒श॒¦जा॒त॒ऽवे॒दः॒¦स‌म्ऽ‌इ᳚द्धः |
आ¦जि॒ह्वया᳚¦मूर॑ऽदेवान्¦र॒भ॒स्व॒¦क्र॒व्य॒।आदः॑¦वृ॒क्त्वी¦अपि॑¦ध॒त्स्व॒¦आ॒सन् ||

उ॒भोभ॑यावि॒न्नुप॑धेहि॒दंष्ट्रा᳚हिं॒स्रःशिशा॒नोऽव॑रं॒परं᳚ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

उ॒तान्तरि॑क्षे॒परि॑याहिराज॒ञ्जम्भैः॒संधे᳚ह्य॒भिया᳚तु॒धाना॑न् || {3/25}{10.87.3}{10.7.3.3}{8.4.5.3}{941, 924, 9739}

उ॒भा¦उ॒भ॒या॒वि॒न्¦उप॑¦धे॒हि॒¦दंष्ट्रा᳚¦हिं॒स्रः¦शिशा᳚नः¦अव॑र‌म्¦पर᳚‌म्¦च॒ |
उ॒त¦अ॒न्तरि॑क्षे¦परि॑¦या॒हि॒¦रा॒ज॒न्¦जम्भैः᳚¦स‌म्¦धे॒हि॒¦अ॒भि¦या॒तु॒ऽधाना॑न् ||

य॒ज्ञैरिषूः᳚सं॒नम॑मानो,अग्नेवा॒चाश॒ल्याँ,अ॒शनि॑भिर्दिहा॒नः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

ताभि᳚र्विध्य॒हृद॑येयातु॒धाना᳚न्‌प्रती॒चोबा॒हून्‌प्रति॑भङ्ध्येषाम् || {4/25}{10.87.4}{10.7.3.4}{8.4.5.4}{942, 924, 9740}

य॒ज्ञैः¦इषूः᳚¦स॒‌म्ऽनम॑मानः¦अ॒ग्ने॒¦वा॒चा¦श॒ल्यान्¦अ॒शनि॑ऽभिः¦दि॒हा॒नः |
ताभिः॑¦वि॒ध्य॒¦हृद॑ये¦या॒तु॒ऽधाना᳚न्¦प्र॒ती॒चः¦बा॒हून्¦प्रति॑¦भ॒ङ्धि॒¦ए॒षा॒‌म् ||

अग्ने॒त्वचं᳚यातु॒धान॑स्यभिन्धिहिं॒स्राशनि॒र्हर॑साहन्त्वेनम् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

प्रपर्वा᳚णिजातवेदःशृणीहिक्र॒व्यात्क्र॑वि॒ष्णुर्विचि॑नोतुवृ॒क्णम् || {5/25}{10.87.5}{10.7.3.5}{8.4.5.5}{943, 924, 9741}

अग्ने᳚¦त्वच᳚‌म्¦या॒तु॒ऽधान॑स्य¦भि॒न्धि॒¦हिं॒स्रा¦अ॒शनिः॑¦हर॑सा¦ह॒न्तु॒¦ए॒न॒‌म् |
प्र¦पर्वा᳚णि¦जा॒त॒ऽवे॒दः॒¦शृ॒णी॒हि॒¦क्र॒व्यात्¦क्र॒वि॒ष्णुः¦वि¦चि॒नो॒तु॒¦वृ॒क्ण‌म् ||

यत्रे॒दानीं॒पश्य॑सिजातवेद॒स्तिष्ठ᳚न्तमग्नउ॒तवा॒चर᳚न्तम् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

यद्वा॒न्तरि॑क्षेप॒थिभिः॒पत᳚न्तं॒तमस्ता᳚विध्य॒शर्वा॒शिशा᳚नः || {6/25}{10.87.6}{10.7.3.6}{8.4.6.1}{944, 924, 9742}

यत्र॑¦इ॒दानी᳚‌म्¦पश्य॑सि¦जा॒त॒ऽवे॒दः॒¦तिष्ठ᳚न्त‌म्¦अ॒ग्ने॒¦उ॒त¦वा॒¦चर᳚न्त‌म् |
यत्¦वा॒¦अ॒न्तरि॑क्षे¦प॒थिऽभिः॑¦पत᳚न्त‌म्¦त‌म्¦अस्ता᳚¦वि॒ध्य॒¦शर्वा᳚¦शिशा᳚नः ||

उ॒ताल॑ब्धंस्पृणुहिजातवेदआलेभा॒नादृ॒ष्टिभि᳚र्यातु॒धाना᳚त् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

अग्ने॒पूर्वो॒निज॑हि॒शोशु॑चानआ॒मादः॒,क्ष्विङ्का॒स्तम॑द॒न्त्वेनीः᳚ || {7/25}{10.87.7}{10.7.3.7}{8.4.6.2}{945, 924, 9743}

उ॒त¦आऽल॑ब्ध‌म्¦स्पृ॒णु॒हि॒¦जा॒त॒ऽवे॒दः॒¦आ॒ऽले॒भा॒नात्¦ऋ॒ष्टिऽभिः॑¦या॒तु॒ऽधाना᳚त् |
अग्ने᳚¦पूर्वः॑¦नि¦ज॒हि॒¦शोशु॑चानः¦आ॒म॒।आदः॑¦क्ष्विङ्काः᳚¦त‌म्¦अ॒द॒न्तु॒¦एनीः᳚ ||

इ॒हप्रब्रू᳚हियत॒मःसो,अ॑ग्ने॒योया᳚तु॒धानो॒इ॒दंकृ॒णोति॑ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

तमार॑भस्वस॒मिधा᳚यविष्ठनृ॒चक्ष॑स॒श्चक्षु॑षेरन्धयैनम् || {8/25}{10.87.8}{10.7.3.8}{8.4.6.3}{946, 924, 9744}

इ॒ह¦प्र¦ब्रू॒हि॒¦य॒त॒मः¦सः¦अ॒ग्ने॒¦यः¦या॒तु॒ऽधानः॑¦यः¦इ॒द‌म्¦कृ॒णोति॑ |
त‌म्¦आ¦र॒भ॒स्व॒¦स॒‌म्ऽ‌इधा᳚¦य॒वि॒ष्ठ॒¦नृ॒ऽचक्ष॑सः¦चक्षु॑षे¦र॒न्ध॒य॒¦ए॒न॒‌म् ||

ती॒क्ष्णेना᳚ग्ने॒चक्षु॑षारक्षय॒ज्ञंप्राञ्चं॒वसु॑भ्यः॒प्रण॑यप्रचेतः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

हिं॒स्रंरक्षां᳚स्य॒भिशोशु॑चानं॒मात्वा᳚दभन्यातु॒धाना᳚नृचक्षः || {9/25}{10.87.9}{10.7.3.9}{8.4.6.4}{947, 924, 9745}

ती॒क्ष्णेन॑¦अ॒ग्ने॒¦चक्षु॑षा¦र॒क्ष॒¦य॒ज्ञ‌म्¦प्रांच᳚‌म्¦वसु॑ऽभ्यः¦प्र¦न॒य॒¦प्र॒ऽचे॒तः॒ |
हिं॒स्र‌म्¦रक्षां᳚सि¦अ॒भि¦शोशु॑चान‌म्¦मा¦त्वा॒¦द॒भ॒न्¦या॒तु॒ऽधानाः᳚¦नृ॒ऽच॒क्षः॒ ||

नृ॒चक्षा॒रक्षः॒परि॑पश्यवि॒क्षुतस्य॒त्रीणि॒प्रति॑शृणी॒ह्यग्रा᳚ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

तस्या᳚ग्नेपृ॒ष्टीर्हर॑साशृणीहित्रे॒धामूलं᳚यातु॒धान॑स्यवृश्च || {10/25}{10.87.10}{10.7.3.10}{8.4.6.5}{948, 924, 9746}

नृ॒ऽचक्षाः᳚¦रक्षः॑¦परि॑¦प॒श्य॒¦वि॒क्षु¦तस्य॑¦त्रीणि॑¦प्रति॑¦शृ॒णी॒हि॒¦अग्रा᳚ |
तस्य॑¦अ॒ग्ने॒¦पृ॒ष्टीः¦हर॑सा¦शृ॒णी॒हि॒¦त्रे॒धा¦मूल᳚‌म्¦या॒तु॒ऽधान॑स्य¦वृ॒श्च॒ ||

त्रिर्या᳚तु॒धानः॒प्रसि॑तिंएत्वृ॒तंयो,अ॑ग्ने॒,अनृ॑तेन॒हन्ति॑ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

तम॒र्चिषा᳚स्फू॒र्जय᳚ञ्जातवेदःसम॒क्षमे᳚नंगृण॒तेनिवृ᳚ङ्धि || {11/25}{10.87.11}{10.7.3.11}{8.4.7.1}{949, 924, 9747}

त्रिः¦या॒तु॒ऽधानः॑¦प्रऽसि॑ति‌म्¦ते॒¦ए॒तु॒¦ऋ॒त‌म्¦यः¦अ॒ग्ने॒¦अनृ॑तेन¦हन्ति॑ |
त‌म्¦अ॒र्चिषा᳚¦स्फू॒र्जय॑न्¦जा॒त॒ऽवे॒दः॒¦स॒‌म्।आ॒क्ष‌म्¦ए॒न॒‌म्¦गृ॒ण॒ते¦नि¦वृ॒ङ्धि॒ ||

तद॑ग्ने॒चक्षुः॒प्रति॑धेहिरे॒भेश॑फा॒रुजं॒येन॒पश्य॑सियातु॒धान᳚म् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

अ॒थ॒र्व॒वज्ज्योति॑षा॒दैव्ये᳚नस॒त्यंधूर्व᳚न्तम॒चितं॒न्यो᳚ष || {12/25}{10.87.12}{10.7.3.12}{8.4.7.2}{950, 924, 9748}

तत्¦अ॒ग्ने॒¦चक्षुः॑¦प्रति॑¦धे॒हि॒¦रे॒भे¦श॒फ॒ऽआ॒रुज᳚‌म्¦येन॑¦पश्य॑सि¦या॒तु॒ऽधान᳚‌म् |
अ॒थ॒र्व॒ऽवत्¦ज्योति॑षा¦दैव्ये᳚न¦स॒त्य‌म्¦धूर्व᳚न्त‌म्¦अ॒चित᳚‌म्¦नि¦ओ॒ष॒ ||

यद॑ग्ने,अ॒द्यमि॑थु॒नाशपा᳚तो॒यद्वा॒चस्तृ॒ष्टंज॒नय᳚न्तरे॒भाः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

म॒न्योर्मन॑सःशर॒व्या॒३॑(आ॒)जाय॑ते॒यातया᳚विध्य॒हृद॑येयातु॒धाना॑न् || {13/25}{10.87.13}{10.7.3.13}{8.4.7.3}{951, 924, 9749}

यत्¦अ॒ग्ने॒¦अ॒द्य¦मि॒थु॒ना¦शपा᳚तः¦यत्¦वा॒चः¦तृ॒ष्ट‌म्¦ज॒नय᳚न्त¦रे॒भाः |
म॒न्योः¦मन॑सः¦श॒र॒व्या᳚¦जाय॑ते¦या¦तया᳚¦वि॒ध्य॒¦हृद॑ये¦या॒तु॒ऽधाना॑न् ||

परा᳚शृणीहि॒तप॑सायातु॒धाना॒न्‌परा᳚ग्ने॒रक्षो॒हर॑साशृणीहि |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

परा॒र्चिषा॒मूर॑देवाञ्छृणीहि॒परा᳚सु॒तृपो᳚,अ॒भिशोशु॑चानः || {14/25}{10.87.14}{10.7.3.14}{8.4.7.4}{952, 924, 9750}

परा᳚¦शृ॒णी॒हि॒¦तप॑सा¦या॒तु॒ऽधाना᳚न्¦परा᳚¦अ॒ग्ने॒¦रक्षः॑¦हर॑सा¦शृ॒णी॒हि॒ |
परा᳚¦अ॒र्चिषा᳚¦मूर॑ऽदेवान्¦शृ॒णी॒हि॒¦परा᳚¦अ॒सु॒ऽतृपः॑¦अ॒भि¦शोशु॑चानः ||

परा॒द्यदे॒वावृ॑जि॒नंशृ॑णन्तुप्र॒त्यगे᳚नंश॒पथा᳚यन्तुतृ॒ष्टाः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

वा॒चास्ते᳚नं॒शर॑वऋच्छन्तु॒मर्म॒न्‌विश्व॑स्यैतु॒प्रसि॑तिंयातु॒धानः॑ || {15/25}{10.87.15}{10.7.3.15}{8.4.7.5}{953, 924, 9751}

परा᳚¦अ॒द्य¦दे॒वाः¦वृ॒जि॒न‌म्¦शृ॒ण॒न्तु॒¦प्र॒त्यक्¦ए॒न॒‌म्¦श॒पथाः᳚¦य॒न्तु॒¦तृ॒ष्टाः |
वा॒चाऽस्ते᳚न‌म्¦शर॑वः¦ऋ॒च्छ॒न्तु॒¦मर्म॑न्¦विश्व॑स्य¦ए॒तु॒¦प्रऽसि॑ति‌म्¦या॒तु॒ऽधानः॑ ||

यःपौरु॑षेयेणक्र॒विषा᳚सम॒ङ्क्तेयो,अश्व्ये᳚नप॒शुना᳚यातु॒धानः॑ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

यो,अ॒घ्न्याया॒भर॑तिक्षी॒रम॑ग्ने॒तेषां᳚शी॒र्षाणि॒हर॒सापि॑वृश्च || {16/25}{10.87.16}{10.7.3.16}{8.4.8.1}{954, 924, 9752}

यः¦पौरु॑षेयेण¦क्र॒विषा᳚¦स॒‌म्।आ॒ङ्क्ते¦यः¦अश्व्ये᳚न¦प॒शुना᳚¦या॒तु॒ऽधानः॑ |
यः¦अ॒घ्न्यायाः᳚¦भर॑ति¦क्षी॒र‌म्¦अ॒ग्ने॒¦तेषा᳚‌म्¦शी॒र्षाणि॑¦हर॑सा¦अपि॑¦वृ॒श्च॒ ||

सं॒व॒त्स॒रीणं॒पय॑उ॒स्रिया᳚या॒स्तस्य॒माशी᳚द्यातु॒धानो᳚नृचक्षः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

पी॒यूष॑मग्नेयत॒मस्तितृ॑प्सा॒त्तंप्र॒त्यञ्च॑म॒र्चिषा᳚विध्य॒मर्म॑न् || {17/25}{10.87.17}{10.7.3.17}{8.4.8.2}{955, 924, 9753}

सं॒व॒त्स॒रीण᳚‌म्¦पयः॑¦उ॒स्रिया᳚याः¦तस्य॑¦मा¦अ॒शी॒त्¦या॒तु॒ऽधानः॑¦नृ॒ऽच॒क्षः॒ |
पी॒यूष᳚‌म्¦अ॒ग्ने॒¦य॒त॒मः¦तितृ॑प्सात्¦त‌म्¦प्र॒त्यंच᳚‌म्¦अ॒र्चिषा᳚¦वि॒ध्य॒¦मर्म॑न् ||

वि॒षंगवां᳚यातु॒धानाः᳚पिब॒न्त्वावृ॑श्च्यन्ता॒मदि॑तयेदु॒रेवाः᳚ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

परै᳚नान्दे॒वःस॑वि॒ताद॑दातु॒परा᳚भा॒गमोष॑धीनांजयन्ताम् || {18/25}{10.87.18}{10.7.3.18}{8.4.8.3}{956, 924, 9754}

वि॒ष‌म्¦गवा᳚‌म्¦या॒तु॒ऽधानाः᳚¦पि॒ब॒न्तु॒¦आ¦वृ॒श्च्य॒न्ता॒‌म्¦अदि॑तये¦दुः॒ऽएवाः᳚ |
परा᳚¦ए॒ना॒न्¦दे॒वः¦स॒वि॒ता¦द॒दा॒तु॒¦परा᳚¦भा॒ग‌म्¦ओष॑धीना‌म्¦ज॒य॒न्ता॒‌म् ||

स॒नाद॑ग्नेमृणसियातु॒धाना॒न्नत्वा॒रक्षां᳚सि॒पृत॑नासुजिग्युः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

अनु॑दहस॒हमू᳚रान्‌क्र॒व्यादो॒माते᳚हे॒त्यामु॑क्षत॒दैव्या᳚याः || {19/25}{10.87.19}{10.7.3.19}{8.4.8.4}{957, 924, 9755}

स॒नात्¦अ॒ग्ने॒¦मृ॒ण॒सि॒¦या॒तु॒ऽधाना᳚न्¦न¦त्वा॒¦रक्षां᳚सि¦पृत॑नासु¦जि॒ग्युः॒ |
अनु॑¦द॒ह॒¦स॒हऽमू᳚रान्¦क्र॒व्य॒।आदः॑¦मा¦ते॒¦हे॒त्याः¦मु॒क्ष॒त॒¦दैव्या᳚याः ||

त्वंनो᳚,अग्ने,अध॒रादुद॑क्ता॒त्‌त्वंप॒श्चादु॒तर॑क्षापु॒रस्ता᳚त् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

प्रति॒तेते᳚,अ॒जरा᳚स॒स्तपि॑ष्ठा,अ॒घशं᳚सं॒शोशु॑चतोदहन्तु || {20/25}{10.87.20}{10.7.3.20}{8.4.8.5}{958, 924, 9756}

त्व‌म्¦नः॒¦अ॒ग्ने॒¦अ॒ध॒रात्¦उद॑क्तात्¦त्व‌म्¦प॒श्चात्¦उ॒त¦र॒क्ष॒¦पु॒रस्ता᳚त् |
प्रति॑¦ते¦ते॒¦अ॒जरा᳚सः¦तपि॑ष्ठाः¦अ॒घऽशं᳚स‌म्¦शोशु॑चतः¦द॒ह॒न्तु॒ ||

प॒श्चात्पु॒रस्ता᳚दध॒रादुद॑क्तात्क॒विःकाव्ये᳚न॒परि॑पाहिराजन् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

सखे॒सखा᳚यम॒जरो᳚जरि॒म्णेऽग्ने॒मर्ताँ॒,अम॑र्त्य॒स्त्वंनः॑ || {21/25}{10.87.21}{10.7.3.21}{8.4.9.1}{959, 924, 9757}

प॒श्चात्¦पु॒रस्ता᳚त्¦अ॒ध॒रात्¦उद॑क्तात्¦क॒विः¦काव्ये᳚न¦परि॑¦पा॒हि॒¦रा॒ज॒न् |
सखे᳚¦सखा᳚य‌म्¦अ॒जरः॑¦ज॒रि॒म्णे¦अग्ने᳚¦मर्ता᳚न्¦अम॑र्त्यः¦त्व‌म्¦नः॒ ||

परि॑त्वाग्ने॒पुरं᳚व॒यंविप्रं᳚सहस्यधीमहि |{भारद्वाजः पायूः | रक्षोहाग्निः | अनुष्टुप्}

धृ॒षद्व᳚र्णंदि॒वेदि॑वेह॒न्तारं᳚भङ्गु॒राव॑ताम् || {22/25}{10.87.22}{10.7.3.22}{8.4.9.2}{960, 924, 9758}

परि॑¦त्वा॒¦अ॒ग्ने॒¦पुर᳚‌म्¦व॒य‌म्¦विप्र᳚‌म्¦स॒ह॒स्य॒¦धी॒म॒हि॒ | धृ॒षत्ऽव᳚र्ण‌म्¦दि॒वेऽदि॑वे¦ह॒न्तार᳚‌म्¦भ॒ङ्गु॒रऽव॑ता‌म् ||

वि॒षेण॑भङ्गु॒राव॑तः॒प्रति॑ष्मर॒क्षसो᳚दह |{भारद्वाजः पायूः | रक्षोहाग्निः | अनुष्टुप्}

अग्ने᳚ति॒ग्मेन॑शो॒चिषा॒तपु॑रग्राभिरृ॒ष्टिभिः॑ || {23/25}{10.87.23}{10.7.3.23}{8.4.9.3}{961, 924, 9759}

वि॒षेण॑¦भ॒ङ्गु॒रऽव॑तः¦प्रति॑¦स्म॒¦र॒क्षसः॑¦द॒ह॒ | अग्ने᳚¦ति॒ग्मेन॑¦शो॒चिषा᳚¦तपुः॑।आग्राभिः¦ऋ॒ष्टिऽभिः॑ ||

प्रत्य॑ग्नेमिथु॒नाद॑हयातु॒धाना᳚किमी॒दिना᳚ |{भारद्वाजः पायूः | रक्षोहाग्निः | अनुष्टुप्}

संत्वा᳚शिशामिजागृ॒ह्यद॑ब्धंविप्र॒मन्म॑भिः || {24/25}{10.87.24}{10.7.3.24}{8.4.9.4}{962, 924, 9760}

प्रति॑¦अ॒ग्ने॒¦मि॒थु॒ना¦द॒ह॒¦या॒तु॒ऽधाना᳚¦कि॒मी॒दिना᳚ | स‌म्¦त्वा॒¦शि॒शा॒मि॒¦जा॒गृ॒हि¦अद॑ब्ध‌म्¦वि॒प्र॒¦मन्म॑ऽभिः ||

प्रत्य॑ग्ने॒हर॑सा॒हरः॑शृणी॒हिवि॒श्वतः॒प्रति॑ |{भारद्वाजः पायूः | रक्षोहाग्निः | अनुष्टुप्}

या॒तु॒धान॑स्यर॒क्षसो॒बलं॒विरु॑जवी॒र्य᳚म् || {25/25}{10.87.25}{10.7.3.25}{8.4.9.5}{963, 924, 9761}

प्रति॑¦अ॒ग्ने॒¦हर॑सा¦हरः॑¦शृ॒णी॒हि¦वि॒श्वतः॑¦प्रति॑ | या॒तु॒ऽधान॑स्य¦र॒क्षसः॑¦बल᳚‌म्¦वि¦रु॒ज॒¦वी॒र्य᳚‌म् ||

[88] हनिष्पांतमित्येकोन विंशत्यृचस्य सूक्तस्यांगिरसोमूर्धन्वान्सूर्यवैश्वानरौत्रिष्टुप् | (मरीचिः - हविष्पांतद्विदैवत्यं सौर्यवैश्वानरी यकमितिद्वेदेवतेअत्र । तेनसूर्यवैश्वानरइत्यग्नेर्गुणइतिवदंतः परास्ताः ) |
ह॒विष्पान्त॑म॒जरं᳚स्व॒र्विदि॑दिवि॒स्पृश्याहु॑तं॒जुष्ट॑म॒ग्नौ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

तस्य॒भर्म॑णे॒भुव॑नायदे॒वाधर्म॑णे॒कंस्व॒धया᳚पप्रथन्त || {1/19}{10.88.1}{10.7.4.1}{8.4.10.1}{964, 925, 9762}

ह॒विः¦पान्त᳚‌म्¦अ॒जर᳚‌म्¦स्वः॒ऽविदि॑¦दि॒वि॒ऽस्पृशि॑¦आऽहु॑त‌म्¦जुष्ट᳚‌म्¦अ॒ग्नौ |
तस्य॑¦भर्म॑णे¦भुव॑नाय¦दे॒वाः¦धर्म॑णे¦क‌म्¦स्व॒धया᳚¦प॒प्र॒थ॒न्त॒ ||

गी॒र्णंभुव॑नं॒तम॒साप॑गूळ्हमा॒विःस्व॑रभवज्जा॒ते,अ॒ग्नौ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

तस्य॑दे॒वाःपृ॑थि॒वीद्यौरु॒तापोऽर॑णय॒न्नोष॑धीःस॒ख्ये,अ॑स्य || {2/19}{10.88.2}{10.7.4.2}{8.4.10.2}{965, 925, 9763}

गी॒र्ण‌म्¦भुव॑न‌म्¦तम॑सा¦अप॑ऽगूळ्ह‌म्¦आ॒विः¦स्वः॑¦अ॒भ॒व॒त्¦जा॒ते¦अ॒ग्नौ |
तस्य॑¦दे॒वाः¦पृ॒थि॒वी¦द्यौः¦उ॒त¦आपः॑¦अर॑णयन्¦ओष॑धीः¦स॒ख्ये¦अ॒स्य॒ ||

दे॒वेभि॒र्न्‌वि॑षि॒तोय॒ज्ञिये᳚भिर॒ग्निंस्तो᳚षाण्य॒जरं᳚बृ॒हन्त᳚म् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

योभा॒नुना᳚पृथि॒वींद्यामु॒तेमामा᳚त॒तान॒रोद॑सी,अ॒न्तरि॑क्षम् || {3/19}{10.88.3}{10.7.4.3}{8.4.10.3}{966, 925, 9764}

दे॒वेभिः॑¦नु¦इ॒षि॒तः¦य॒ज्ञिये᳚भिः¦अ॒ग्नि‌म्¦स्तो॒षा॒णि॒¦अ॒जर᳚‌म्¦बृ॒हन्त᳚‌म् |
यः¦भा॒नुना᳚¦पृ॒थि॒वी‌म्¦द्या‌म्¦उ॒त¦इ॒मा‌म्¦आ॒त॒तान॑¦रोद॑सी॒ इति॑¦अ॒न्तरि॑क्ष‌म् ||

योहोतासी᳚त्प्रथ॒मोदे॒वजु॑ष्टो॒यंस॒माञ्ज॒न्नाज्ये᳚नावृणा॒नाः |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

प॑त॒त्री᳚त्व॒रंस्थाजग॒द्यच्छ्वा॒त्रम॒ग्निर॑कृणोज्जा॒तवे᳚दाः || {4/19}{10.88.4}{10.7.4.4}{8.4.10.4}{967, 925, 9765}

यः¦होता᳚¦आसी᳚त्¦प्र॒थ॒मः¦दे॒वऽजु॑ष्टः¦य‌म्¦स॒‌म्ऽआंज॑न्¦आज्ये᳚न¦वृ॒णा॒नाः |
सः¦प॒त॒त्रि¦इ॒त्व॒र‌म्¦स्थाः¦जग॑त्¦यत्¦श्वा॒त्र‌म्¦अ॒ग्निः¦अ॒कृ॒णो॒त्¦जा॒तऽवे᳚दाः ||

यज्जा᳚तवेदो॒भुव॑नस्यमू॒र्धन्नति॑ष्ठो,अग्नेस॒हरो᳚च॒नेन॑ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

तंत्वा᳚हेमम॒तिभि॑र्गी॒र्भिरु॒क्थैःय॒ज्ञियो᳚,अभवोरोदसि॒प्राः || {5/19}{10.88.5}{10.7.4.5}{8.4.10.5}{968, 925, 9766}

यत्¦जा॒त॒ऽवे॒दः॒¦भुव॑नस्य¦मू॒र्धन्¦अति॑ष्ठः¦अ॒ग्ने॒¦स॒ह¦रो॒च॒नेन॑ |
त‌म्¦त्वा॒¦अ॒हे॒म॒¦म॒तिऽभिः॑¦गीः॒ऽभिः¦उ॒क्थैः¦सः¦य॒ज्ञियः॑¦अ॒भ॒वः॒¦रो॒द॒सि॒ऽप्राः ||

मू॒र्धाभु॒वोभ॑वति॒नक्त॑म॒ग्निस्ततः॒सूर्यो᳚जायतेप्रा॒तरु॒द्यन् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

मा॒यामू॒तुय॒ज्ञिया᳚नामे॒तामपो॒यत्‌तूर्णि॒श्चर॑तिप्रजा॒नन् || {6/19}{10.88.6}{10.7.4.6}{8.4.11.1}{969, 925, 9767}

मू॒र्धा¦भु॒वः¦भ॒व॒ति॒¦नक्त᳚‌म्¦अ॒ग्निः¦ततः॑¦सूर्यः॑¦जा॒य॒ते॒¦प्रा॒तः¦उ॒त्ऽयन् |
मा॒या‌म्¦ऊँ॒ इति॑¦तु¦य॒ज्ञिया᳚ना‌म्¦ए॒ता‌म्¦अपः॑¦यत्¦तूर्णिः॑¦चर॑ति¦प्र॒ऽजा॒नन् ||

दृ॒शेन्यो॒योम॑हि॒नासमि॒द्धोऽरो᳚चतदि॒वियो᳚निर्वि॒भावा᳚ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

तस्मि᳚न्न॒ग्नौसू᳚क्तवा॒केन॑दे॒वाह॒विर्विश्व॒आजु॑हवुस्तनू॒पाः || {7/19}{10.88.7}{10.7.4.7}{8.4.11.2}{970, 925, 9768}

दृ॒शेन्यः॑¦यः¦म॒हि॒ना¦स‌म्ऽ‌इ᳚द्धः¦अरो᳚चत¦दि॒विऽयो᳚निः¦वि॒भाऽवा᳚ |
तस्मि॑न्¦अ॒ग्नौ¦सू॒क्त॒ऽवा॒केन॑¦दे॒वाः¦ह॒विः¦विश्वे᳚¦आ¦अ॒जु॒ह॒वुः॒¦त॒नू॒ऽपाः ||

सू॒क्त॒वा॒कंप्र॑थ॒ममादिद॒ग्निमादिद्ध॒विर॑जनयन्तदे॒वाः |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

ए᳚षांय॒ज्ञो,अ॑भवत्तनू॒पास्तंद्यौर्वे᳚द॒तंपृ॑थि॒वीतमापः॑ || {8/19}{10.88.8}{10.7.4.8}{8.4.11.3}{971, 925, 9769}

सू॒क्त॒ऽवा॒क‌म्¦प्र॒थ॒म‌म्¦आत्¦इत्¦अ॒ग्नि‌म्¦आत्¦इत्¦ह॒विः¦अ॒ज॒न॒य॒न्त॒¦दे॒वाः |
सः¦ए॒षा॒‌म्¦य॒ज्ञः¦अ॒भ॒व॒त्¦त॒नू॒ऽपाः¦त‌म्¦द्यौः¦वे॒द॒¦त‌म्¦पृ॒थि॒वी¦त‌म्¦आपः॑ ||

यंदे॒वासोऽज॑नयन्ता॒ग्निंयस्मि॒न्नाजु॑हवु॒र्भुव॑नानि॒विश्वा᳚ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

सो,अ॒र्चिषा᳚पृथि॒वींद्यामु॒तेमामृ॑जू॒यमा᳚नो,अतपन्महि॒त्वा || {9/19}{10.88.9}{10.7.4.9}{8.4.11.4}{972, 925, 9770}

य‌म्¦दे॒वासः॑¦अज॑नयन्त¦अ॒ग्नि‌म्¦यस्मि॑न्¦आ¦अजु॑हवुः¦भुव॑नानि¦विश्वा᳚ |
सः¦अ॒र्चिषा᳚¦पृ॒थि॒वी‌म्¦द्या‌म्¦उ॒त¦इ॒मा‌म्¦ऋ॒जु॒ऽयमा᳚नः¦अ॒त॒प॒त्¦म॒हि॒ऽत्वा ||

स्तोमे᳚न॒हिदि॒विदे॒वासो᳚,अ॒ग्निमजी᳚जन॒ञ्छक्ति॑भीरोदसि॒प्राम् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

तमू᳚,अकृण्वन्त्रे॒धाभु॒वेकंओष॑धीःपचतिवि॒श्वरू᳚पाः || {10/19}{10.88.10}{10.7.4.10}{8.4.11.5}{973, 925, 9771}

स्तोमे᳚न¦हि¦दि॒वि¦दे॒वासः॑¦अ॒ग्नि‌म्¦अजी᳚जनन्¦शक्ति॑ऽभिः¦रो॒द॒सि॒ऽप्रा‌म् |
त‌म्¦ऊँ॒ इति॑¦अ॒कृ॒ण्व॒न्¦त्रे॒धा¦भु॒वे¦क‌म्¦सः¦ओष॑धीः¦प॒च॒ति॒¦वि॒श्वऽरू᳚पाः ||

य॒देदे᳚न॒मद॑धुर्य॒ज्ञिया᳚सोदि॒विदे॒वाःसूर्य॑मादिते॒यम् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

य॒दाच॑रि॒ष्णूमि॑थु॒नावभू᳚ता॒मादित्प्राप॑श्य॒न्‌भुव॑नानि॒विश्वा᳚ || {11/19}{10.88.11}{10.7.4.11}{8.4.12.1}{974, 925, 9772}

य॒दा¦इत्¦ए॒न॒‌म्¦अद॑धुः¦य॒ज्ञिया᳚सः¦दि॒वि¦दे॒वाः¦सूर्य᳚‌म्¦आ॒दि॒ते॒य‌म् |
य॒दा¦च॒रि॒ष्णू इति॑¦मि॒थु॒नौ¦अभू᳚ता‌म्¦आत्¦इत्¦प्र¦अ॒प॒श्य॒न्¦भुव॑नानि¦विश्वा᳚ ||

विश्व॑स्मा,अ॒ग्निंभुव॑नायदे॒वावै᳚श्वान॒रंके॒तुमह्ना᳚मकृण्वन् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

यस्त॒तानो॒षसो᳚विभा॒तीरपो᳚,ऊर्णोति॒तमो᳚,अ॒र्चिषा॒यन् || {12/19}{10.88.12}{10.7.4.12}{8.4.12.2}{975, 925, 9773}

विश्व॑स्मै¦अ॒ग्नि‌म्¦भुव॑नाय¦दे॒वाः¦वै॒श्वा॒न॒र‌म्¦के॒तु‌म्¦अह्ना᳚‌म्¦अ॒कृ॒ण्व॒न् |
आ¦यः¦त॒तान॑¦उ॒षसः॑¦वि॒ऽभा॒तीः¦अपो॒ इति॑¦ऊ॒र्णो॒ति॒¦तमः॑¦अ॒र्चिषा᳚¦यन् ||

वै॒श्वा॒न॒रंक॒वयो᳚य॒ज्ञिया᳚सो॒ऽग्निंदे॒वा,अ॑जनयन्नजु॒र्यम् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

नक्ष॑त्रंप्र॒त्नममि॑नच्चरि॒ष्णुय॒क्षस्याध्य॑क्षंतवि॒षंबृ॒हन्त᳚म् || {13/19}{10.88.13}{10.7.4.13}{8.4.12.3}{976, 925, 9774}

वै॒श्वा॒न॒र‌म्¦क॒वयः॑¦य॒ज्ञियाः᳚¦अ॒ग्नि‌म्¦दे॒वाः¦अ॒ज॒न॒य॒न्¦अ॒जु॒र्य‌म् |
नक्ष॑त्र‌म्¦प्र॒त्न‌म्¦अमि॑नत्¦च॒रि॒ष्णु¦य॒क्षस्य॑¦अधि॑।आक्ष‌म्¦त॒वि॒ष‌म्¦बृ॒हन्त᳚‌म् ||

वै॒श्वा॒न॒रंवि॒श्वहा᳚दीदि॒वांसं॒मन्त्रै᳚र॒ग्निंक॒विमच्छा᳚वदामः |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

योम॑हि॒म्नाप॑रिब॒भूवो॒र्वी,उ॒तावस्ता᳚दु॒तदे॒वःप॒रस्ता᳚त् || {14/19}{10.88.14}{10.7.4.14}{8.4.12.4}{977, 925, 9775}

वै॒श्वा॒न॒र‌म्¦वि॒श्वहा᳚¦दी॒दि॒ऽवांस᳚‌म्¦मन्त्रैः᳚¦अ॒ग्नि‌म्¦क॒वि‌म्¦अच्छ॑¦व॒दा॒मः॒ |
यः¦म॒हि॒म्ना¦प॒रि॒ऽब॒भूव॑¦उ॒र्वी इति॑¦उ॒त¦अ॒वस्ता᳚त्¦उ॒त¦दे॒वः¦प॒रस्ता᳚त् ||

द्वेस्रु॒ती,अ॑शृणवंपितॄ॒णाम॒हंदे॒वाना᳚मु॒तमर्त्या᳚नाम् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

ताभ्या᳚मि॒दंविश्व॒मेज॒त्समे᳚ति॒यद᳚न्त॒रापि॒तरं᳚मा॒तरं᳚ || {15/19}{10.88.15}{10.7.4.15}{8.4.12.5}{978, 925, 9776}

द्वे इति॑¦स्रु॒ती इति॑¦अ॒शृ॒ण॒व॒‌म्¦पि॒तॄ॒णा‌म्¦अ॒ह‌म्¦दे॒वाना᳚‌म्¦उ॒त¦मर्त्या᳚ना‌म् |
ताभ्या᳚‌म्¦इ॒द‌म्¦विश्व᳚‌म्¦एज॑त्¦स‌म्¦ए॒ति॒¦यत्¦अ॒न्त॒रा¦पि॒तर᳚‌म्¦मा॒तर᳚‌म्¦च॒ ||

द्वेस॑मी॒चीबि॑भृत॒श्चर᳚न्तंशीर्ष॒तोजा॒तंमन॑सा॒विमृ॑ष्टम् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

प्र॒त्यङ्विश्वा॒भुव॑नानितस्था॒वप्र॑युच्छन्त॒रणि॒र्भ्राज॑मानः || {16/19}{10.88.16}{10.7.4.16}{8.4.13.1}{979, 925, 9777}

द्वे इति॑¦स॒मी॒ची इति॑ स‌म्ऽई॒ची¦बि॒भृ॒तः॒¦चर᳚न्त‌म्¦शी॒र्ष॒तः¦जा॒त‌म्¦मन॑सा¦विऽमृ॑ष्ट‌म् |
सः¦प्र॒त्यङ्¦विश्वा᳚¦भुव॑नानि¦त॒स्थौ॒¦अप्र॑ऽयुच्छन्¦त॒रणिः॑¦भ्राज॑मानः ||

यत्रा॒वदे᳚ते॒,अव॑रः॒पर॑श्चयज्ञ॒न्योः᳚कत॒रोनौ॒विवे᳚द |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

शे᳚कु॒रित्स॑ध॒मादं॒सखा᳚यो॒नक्ष᳚न्तय॒ज्ञंइ॒दंविवो᳚चत् || {17/19}{10.88.17}{10.7.4.17}{8.4.13.2}{980, 925, 9778}

यत्र॑¦वदे᳚ते॒ इति॑¦अव॑रः¦परः॑¦च॒¦य॒ज्ञ॒ऽन्योः᳚¦क॒त॒रः¦नौ॒¦वि¦वे॒द॒ |
आ¦शे॒कुः॒¦इत्¦स॒ध॒ऽमाद᳚‌म्¦सखा᳚यः¦नक्ष᳚न्त¦य॒ज्ञ‌म्¦कः¦इ॒द‌म्¦वि¦वो॒च॒त् ||

कत्य॒ग्नयः॒कति॒सूर्या᳚सः॒कत्यु॒षासः॒कत्यु॑स्वि॒दापः॑ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

नोप॒स्पिजं᳚वःपितरोवदामिपृ॒च्छामि॑वःकवयोवि॒द्मने॒कम् || {18/19}{10.88.18}{10.7.4.18}{8.4.13.3}{981, 925, 9779}

कति॑¦अ॒ग्नयः॑¦कति॑¦सूर्या᳚सः¦कति॑¦उ॒षसः॑¦कति॑¦ऊँ॒ इति॑¦स्वि॒त्¦आपः॑ |
न¦उ॒प॒ऽस्पिज᳚‌म्¦वः॒¦पि॒त॒रः॒¦व॒दा॒मि॒¦पृ॒च्छामि॑¦वः॒¦क॒व॒यः॒¦वि॒द्मने᳚¦क‌म् ||

या॒व॒न्मा॒त्रमु॒षसो॒प्रती᳚कंसुप॒र्ण्यो॒३॑(ओ॒)वस॑तेमातरिश्वः |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

ताव॑द्दधा॒त्युप॑य॒ज्ञमा॒यन्‌ब्रा᳚ह्म॒णोहोतु॒रव॑रोनि॒षीद॑न् || {19/19}{10.88.19}{10.7.4.19}{8.4.13.4}{982, 925, 9780}

या॒व॒त्ऽमा॒त्र‌म्¦उ॒षसः॑¦न¦प्रती᳚क‌म्¦सु॒ऽप॒र्ण्यः॑¦वस॑ते¦मा॒त॒रि॒श्वः॒ |
ताव॑त्¦द॒धा॒ति॒¦उप॑¦य॒ज्ञ‌म्¦आ॒ऽयन्¦ब्रा॒ह्म॒णः¦होतुः॑¦अव॑रः¦नि॒ऽसीद॑न् ||

[89] इंद्रस्तवेत्यष्टादशर्चस्य सूक्तस्य वैश्वामित्रोरेणुरिंद्रः पंचम्याइंद्रासोमौत्रिष्टुप् |
इन्द्रं᳚स्तवा॒नृत॑मं॒यस्य॑म॒ह्नावि॑बबा॒धेरो᳚च॒नाविज्मो,अन्ता॑न् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

यःप॒प्रौच॑र्षणी॒धृद्वरो᳚भिः॒प्रसिन्धु॑भ्योरिरिचा॒नोम॑हि॒त्वा || {1/18}{10.89.1}{10.7.5.1}{8.4.14.1}{983, 926, 9781}

इन्द्र᳚‌म्¦स्त॒व॒¦नृऽत॑म‌म्¦यस्य॑¦म॒ह्ना¦वि॒ऽब॒बा॒धे¦रो॒च॒ना¦वि¦ज्मः¦अन्ता॑न् |
आ¦यः¦प॒प्रौ¦च॒र्ष॒णि॒ऽधृत्¦वरः॑ऽभिः¦प्र¦सिन्धु॑ऽभ्यः¦रि॒रि॒चा॒नः¦म॒हि॒ऽत्वा ||

सूर्यः॒पर्यु॒रूवरां॒स्येन्द्रो᳚ववृत्या॒द्रथ्ये᳚वच॒क्रा |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

अति॑ष्ठन्तमप॒स्य१॑(अं॒)सर्गं᳚कृ॒ष्णातमां᳚सि॒त्विष्या᳚जघान || {2/18}{10.89.2}{10.7.5.2}{8.4.14.2}{984, 926, 9782}

सः¦सूर्यः॑¦परि॑¦उ॒रु¦वरां᳚सि¦आ¦इन्द्रः॑¦व॒वृ॒त्या॒त्¦रथ्या᳚ऽ‌इव¦च॒क्रा |
अति॑ष्ठन्त‌म्¦अ॒प॒स्य᳚‌म्¦न¦सर्ग᳚‌म्¦कृ॒ष्णा¦तमां᳚सि¦त्विष्या᳚¦ज॒घा॒न॒ ||

स॒मा॒नम॑स्मा॒,अन॑पावृदर्चक्ष्म॒यादि॒वो,अस॑मं॒ब्रह्म॒नव्य᳚म् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

वियःपृ॒ष्ठेव॒जनि॑मान्य॒र्यइन्द्र॑श्चि॒काय॒सखा᳚यमी॒षे || {3/18}{10.89.3}{10.7.5.3}{8.4.14.3}{985, 926, 9783}

स॒मा॒न‌म्¦अ॒स्मै॒¦अन॑पऽवृत्¦अ॒र्च॒¦क्ष्म॒या¦दि॒वः¦अस॑म‌म्¦ब्रह्म॑¦नव्य᳚‌म् |
वि¦यः¦पृ॒ष्ठाऽ‌इ᳚व¦जनि॑मानि¦अ॒र्यः¦इन्द्रः॑¦चि॒काय॑¦न¦सखा᳚य‌म्¦ई॒षे ||

इन्द्रा᳚य॒गिरो॒,अनि॑शितसर्गा,अ॒पःप्रेर॑यं॒सग॑रस्यबु॒ध्नात् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

यो,अक्षे᳚णेवच॒क्रिया॒शची᳚भि॒र्विष्व॑क्त॒स्तम्भ॑पृथि॒वीमु॒तद्याम् || {4/18}{10.89.4}{10.7.5.4}{8.4.14.4}{986, 926, 9784}

इन्द्रा᳚य¦गिरः॑¦अनि॑शितऽसर्गाः¦अ॒पः¦प्र¦ई॒र॒य॒‌म्¦सग॑रस्य¦बु॒ध्नात् |
यः¦अक्षे᳚णऽ‌इव¦च॒क्रिया᳚¦शची᳚भिः¦विष्व॑क्¦त॒स्तम्भ॑¦पृ॒थि॒वी‌म्¦उ॒त¦द्या‌म् ||

आपा᳚न्तमन्युस्तृ॒पल॑प्रभर्मा॒धुनिः॒शिमी᳚वा॒ञ्छरु॑माँ,ऋजी॒षी |{वैश्वामित्रो रेणुः | इन्द्रासोमौ | त्रिष्टुप्}

सोमो॒विश्वा᳚न्यत॒सावना᳚नि॒नार्वागिन्द्रं᳚प्रति॒माना᳚निदेभुः || {5/18}{10.89.5}{10.7.5.5}{8.4.14.5}{987, 926, 9785}

आपा᳚न्तऽमन्युः¦तृ॒पल॑ऽप्रभर्मा¦धुनिः॑¦शिमी᳚ऽवान्¦शरु॑ऽमान्¦ऋ॒जी॒षी |
सोमः॑¦विश्वा᳚नि¦अ॒त॒सा¦वना᳚नि¦न¦अ॒र्वाक्¦इन्द्र᳚‌म्¦प्र॒ति॒ऽमाना᳚नि¦दे॒भुः॒ ||

यस्य॒द्यावा᳚पृथि॒वीधन्व॒नान्तरि॑क्षं॒नाद्र॑यः॒सोमो᳚,अक्षाः |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

यद॑स्यम॒न्युर॑धिनी॒यमा᳚नःशृ॒णाति॑वी॒ळुरु॒जति॑स्थि॒राणि॑ || {6/18}{10.89.6}{10.7.5.6}{8.4.15.1}{988, 926, 9786}

न¦यस्य॑¦द्यावा᳚पृथि॒वी इति॑¦न¦धन्व॑¦न¦अ॒न्तरि॑क्ष‌म्¦न¦अद्र॑यः¦सोमः॑¦अ॒क्षा॒रिति॑ |
यत्¦अ॒स्य॒¦म॒न्युः¦अ॒धि॒ऽनी॒यमा᳚नः¦शृ॒णाति॑¦वी॒ळु¦रु॒जति॑¦स्थि॒राणि॑ ||

ज॒घान॑वृ॒त्रंस्वधि॑ति॒र्वने᳚वरु॒रोज॒पुरो॒,अर॑द॒न्नसिन्धू॑न् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

बि॒भेद॑गि॒रिंनव॒मिन्नकु॒म्भमागा,इन्द्रो᳚,अकृणुतस्व॒युग्भिः॑ || {7/18}{10.89.7}{10.7.5.7}{8.4.15.2}{989, 926, 9787}

ज॒घान॑¦वृ॒त्र‌म्¦स्वऽधि॑तिः¦वना᳚ऽ‌इव¦रु॒रोज॑¦पुरः॑¦अर॑दत्¦न¦सिन्धू॑न् |
बि॒भेद॑¦गि॒रि‌म्¦नव᳚‌म्¦इत्¦न¦कु॒म्भ‌म्¦आ¦गाः¦इन्द्रः॑¦अ॒कृ॒णु॒त॒¦स्व॒युक्ऽभिः॑ ||

त्वंह॒त्यदृ॑ण॒या,इ᳚न्द्र॒धीरो॒ऽसिर्नपर्व॑वृजि॒नाशृ॑णासि |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

प्रयेमि॒त्रस्य॒वरु॑णस्य॒धाम॒युजं॒जना᳚मि॒नन्ति॑मि॒त्रम् || {8/18}{10.89.8}{10.7.5.8}{8.4.15.3}{990, 926, 9788}

त्व‌म्¦ह॒¦त्यत्¦ऋ॒ण॒ऽयाः¦इ॒न्द्र॒¦धीरः॑¦अ॒सिः¦न¦पर्व॑¦वृ॒जि॒ना¦शृ॒णा॒सि॒ |
प्र¦ये¦मि॒त्रस्य॑¦वरु॑णस्य¦धाम॑¦युज᳚‌म्¦न¦जनाः᳚¦मि॒नन्ति॑¦मि॒त्र‌म् ||

प्रयेमि॒त्रंप्रार्य॒मणं᳚दु॒रेवाः॒प्रसं॒गिरः॒प्रवरु॑णंमि॒नन्ति॑ |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

न्य१॑(अ॒)मित्रे᳚षुव॒धमि᳚न्द्र॒तुम्रं॒वृष॒न्‌वृषा᳚णमरु॒षंशि॑शीहि || {9/18}{10.89.9}{10.7.5.9}{8.4.15.4}{991, 926, 9789}

प्र¦ये¦मि॒त्र‌म्¦प्र¦अ॒र्य॒मण᳚‌म्¦दुः॒ऽएवाः᳚¦प्र¦स॒‌म्ऽगिरः॑¦प्र¦वरु॑ण‌म्¦मि॒नन्ति॑ |
नि¦अ॒मित्रे᳚षु¦व॒ध‌म्¦इ॒न्द्र॒¦तुम्र᳚‌म्¦वृष॑न्¦वृषा᳚ण‌म्¦अ॒रु॒ष‌म्¦शि॒शी॒हि॒ ||

इन्द्रो᳚दि॒वइन्द्र॑ईशेपृथि॒व्या,इन्द्रो᳚,अ॒पामिन्द्र॒इत्पर्व॑तानाम् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

इन्द्रो᳚वृ॒धामिन्द्र॒इन्मेधि॑राणा॒मिन्द्रः॒,क्षेमे॒योगे॒हव्य॒इन्द्रः॑ || {10/18}{10.89.10}{10.7.5.10}{8.4.15.5}{992, 926, 9790}

इन्द्रः॑¦दि॒वः¦इन्द्रः॑¦ई॒शे॒¦पृ॒थि॒व्याः¦इन्द्रः॑¦अ॒पा‌म्¦इन्द्रः॑¦इत्¦पर्व॑ताना‌म् |
इन्द्रः॑¦वृ॒धा‌म्¦इन्द्रः॑¦इत्¦मेधि॑राणा‌म्¦इन्द्रः॑¦क्षेमे᳚¦योगे᳚¦हव्यः॑¦इन्द्रः॑ ||

प्राक्तुभ्य॒इन्द्रः॒प्रवृ॒धो,अह॑भ्यः॒प्रान्तरि॑क्षा॒त्प्रस॑मु॒द्रस्य॑धा॒सेः |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

प्रवात॑स्य॒प्रथ॑सः॒प्रज्मो,अन्ता॒त्प्रसिन्धु॑भ्योरिरिचे॒प्रक्षि॒तिभ्यः॑ || {11/18}{10.89.11}{10.7.5.11}{8.4.16.1}{993, 926, 9791}

प्र¦अ॒क्तुऽभ्यः॑¦इन्द्रः॑¦प्र¦वृ॒धः¦अह॑ऽभ्यः¦प्र¦अ॒न्तरि॑क्षात्¦प्र¦स॒मु॒द्रस्य॑¦धा॒सेः |
प्र¦वात॑स्य¦प्रथ॑सः¦प्र¦ज्मः¦अन्ता᳚त्¦प्र¦सिन्धु॑ऽभ्यः¦रि॒रि॒चे॒¦प्र¦क्षि॒तिऽभ्यः॑ ||

प्रशोशु॑चत्या,उ॒षसो॒के॒तुर॑सि॒न्वाते᳚वर्ततामिन्द्रहे॒तिः |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

अश्मे᳚वविध्यदि॒वसृ॑जा॒नस्तपि॑ष्ठेन॒हेष॑सा॒द्रोघ॑मित्रान् || {12/18}{10.89.12}{10.7.5.12}{8.4.16.2}{994, 926, 9792}

प्र¦शोशु॑चत्याः¦उ॒षसः॑¦न¦के॒तुः¦अ॒सि॒न्वा¦ते॒¦व॒र्त॒ता॒‌म्¦इ॒न्द्र॒¦हे॒तिः |
अश्मा᳚ऽ‌इव¦वि॒ध्य॒¦दि॒वः¦आ¦सृ॒जा॒नः¦तपि॑ष्ठेन¦हेष॑सा¦द्रोघ॑ऽमित्रान् ||

अन्वह॒मासा॒,अन्‌विद्वना॒न्यन्वोष॑धी॒रनु॒पर्व॑तासः |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

अन्‌विन्द्रं॒रोद॑सीवावशा॒ने,अन्वापो᳚,अजिहत॒जाय॑मानम् || {13/18}{10.89.13}{10.7.5.13}{8.4.16.3}{995, 926, 9793}

अनु॑¦अह॑¦मासाः᳚¦अनु॑¦इत्¦वना᳚नि¦अनु॑¦ओष॑धीः¦अनु॑¦पर्व॑तासः |
अनु॑¦इन्द्र᳚‌म्¦रोद॑सी॒ इति॑¦वा॒व॒शा॒ने इति॑¦अनु॑¦आपः॑¦अ॒जि॒ह॒त॒¦जाय॑मान‌म् ||

कर्हि॑स्वि॒त्सात॑इन्द्रचे॒त्यास॑द॒घस्य॒यद्भि॒नदो॒रक्ष॒एष॑त् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

मि॒त्र॒क्रुवो॒यच्छस॑ने॒गावः॑पृथि॒व्या,आ॒पृग॑मु॒याशय᳚न्ते || {14/18}{10.89.14}{10.7.5.14}{8.4.16.4}{996, 926, 9794}

कर्हि॑¦स्वि॒त्¦सा¦ते॒¦इ॒न्द्र॒¦चे॒त्या¦अ॒स॒त्¦अ॒घस्य॑¦यत्¦भि॒नदः॑¦रक्षः॑¦आ॒ऽईष॑त् |
मि॒त्र॒ऽक्रुवः॑¦यत्¦शस॑ने¦न¦गावः॑¦पृ॒थि॒व्याः¦आ॒ऽपृक्¦अ॒मु॒या¦शय᳚न्ते ||

श॒त्रू॒यन्तो᳚,अ॒भियेन॑स्तत॒स्रेमहि॒व्राध᳚न्तओग॒णास॑इन्द्र |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

अ॒न्धेना॒मित्रा॒स्तम॑सासचन्तांसुज्यो॒तिषो᳚,अ॒क्तव॒स्ताँ,अ॒भिष्युः॑ || {15/18}{10.89.15}{10.7.5.15}{8.4.16.5}{997, 926, 9795}

श॒त्रु॒ऽयन्तः॑¦अ॒भि¦ये¦नः॒¦त॒त॒स्रे¦महि॑¦व्राध᳚न्तः¦ओ॒ग॒णासः॑¦इ॒न्द्र॒ |
अ॒न्धेन॑¦अ॒मित्राः᳚¦तम॑सा¦स॒च॒न्ता॒‌म्¦सु॒ऽज्यो॒तिषः॑¦अ॒क्तवः॑¦तान्¦अ॒भि¦स्यु॒रिति॑ स्युः ||

पु॒रूणि॒हित्वा॒सव॑ना॒जना᳚नां॒ब्रह्मा᳚णि॒मन्द॑न्‌गृण॒तामृषी᳚णाम् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

इ॒मामा॒घोष॒न्नव॑सा॒सहू᳚तिंति॒रोविश्वाँ॒,अर्च॑तोयाह्य॒र्वाङ् || {16/18}{10.89.16}{10.7.5.16}{8.4.16.6}{998, 926, 9796}

पु॒रूणि॑¦हि¦त्वा॒¦सव॑ना¦जना᳚ना‌म्¦ब्रह्मा᳚णि¦मन्द॑न्¦गृ॒ण॒ता‌म्¦ऋषी᳚णा‌म् |
इ॒मा‌म्¦आ॒ऽघोष॑न्¦अव॑सा¦सऽहू᳚ति‌म्¦ति॒रः¦विश्वा᳚न्¦अर्च॑तः¦या॒हि॒¦अ॒र्वाङ् ||

ए॒वाते᳚व॒यमि᳚न्द्रभुञ्जती॒नांवि॒द्याम॑सुमती॒नांनवा᳚नाम् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

वि॒द्याम॒वस्तो॒रव॑सागृ॒णन्तो᳚वि॒श्वामि॑त्रा,उ॒तत॑इन्द्रनू॒नम् || {17/18}{10.89.17}{10.7.5.17}{8.4.16.7}{999, 926, 9797}

ए॒व¦ते॒¦व॒य‌म्¦इ॒न्द्र॒¦भुं॒ज॒ती॒ना‌म्¦वि॒द्याम॑¦सु॒ऽम॒ती॒ना‌म्¦नवा᳚ना‌म् |
वि॒द्याम॑¦वस्तोः᳚¦अव॑सा¦गृ॒णन्तः॑¦वि॒श्वामि॑त्राः¦उ॒त¦ते॒¦इ॒न्द्र॒¦नू॒न‌म् ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {18/18}{10.89.18}{10.7.5.18}{8.4.16.8}{1000, 926, 9798}

शु॒न‌म्¦हु॒वे॒म॒¦म॒घऽवा᳚न‌म्¦इन्द्र᳚‌म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑म‌म्¦वाज॑ऽसातौ |
शृ॒ण्वन्त᳚‌म्¦उ॒ग्र‌म्¦ऊ॒तये᳚¦स॒मत्ऽसु॑¦घ्नन्त᳚‌म्¦वृ॒त्राणि॑¦स॒‌म्ऽजित᳚‌म्¦धना᳚ना‌म् ||

[90] सहस्रशीर्षेति षोळशर्चस्य सूक्तस्य नारायणः पुरुषोनुष्टुबंत्यात्रिष्टुप् |
स॒हस्र॑शीर्षा॒पुरु॑षः¦सहस्रा॒क्षःस॒हस्र॑पात् |{नारायणः | पुरुषः | अनुष्टुप्}

भूमिं᳚वि॒श्वतो᳚वृ॒त्वा¦ऽत्य॑तिष्ठद्दशाङ्गु॒लम् || {1/16}{10.90.1}{10.7.6.1}{8.4.17.1}{1001, 927, 9799}

स॒हस्र॑ऽशीर्षा¦पुरु॑षः¦स॒ह॒स्र॒।आ॒क्षः¦स॒हस्र॑ऽपात् | सः¦भूमि᳚‌म्¦वि॒श्वतः॑¦वृ॒त्वा¦अति॑¦अ॒ति॒ष्ठ॒त्¦द॒श॒।आ॒ङ्गु॒ल‌म् ||

पुरु॑षए॒वेदंसर्वं॒¦यद्भू॒तंयच्च॒भव्य᳚म् |{नारायणः | पुरुषः | अनुष्टुप्}

उ॒तामृ॑त॒त्वस्येशा᳚नो॒¦यदन्ने᳚नाति॒रोह॑ति || {2/16}{10.90.2}{10.7.6.2}{8.4.17.2}{1002, 927, 9800}

पुरु॑षः¦ए॒व¦इ॒द‌म्¦सर्व᳚‌म्¦यत्¦भू॒त‌म्¦यत्¦च॒¦भव्य᳚‌म् | उ॒त¦अ॒मृ॒त॒ऽत्वस्य॑¦ईशा᳚नः¦यत्¦अन्ने᳚न¦अ॒ति॒ऽरोह॑ति ||

ए॒तावा᳚नस्यमहि॒मा¦ऽतो॒ज्यायाँ᳚श्च॒पूरु॑षः |{नारायणः | पुरुषः | अनुष्टुप्}

पादो᳚ऽस्य॒विश्वा᳚भू॒तानि॑¦त्रि॒पाद॑स्या॒मृतं᳚दि॒वि || {3/16}{10.90.3}{10.7.6.3}{8.4.17.3}{1003, 927, 9801}

ए॒तावा᳚न्¦अ॒स्य॒¦म॒हि॒मा¦अतः॑¦ज्याया᳚न्¦च॒¦पुरु॑षः | पादः॑¦अ॒स्य॒¦विश्वा᳚¦भू॒तानि॑¦त्रि॒ऽपात्¦अ॒स्य॒¦अ॒मृत᳚‌म्¦दि॒वि ||

त्रि॒पादू॒र्ध्वउदै॒त्‌पुरु॑षः॒¦पादो᳚ऽस्ये॒हाभ॑व॒त्‌पुनः॑ |{नारायणः | पुरुषः | अनुष्टुप्}

ततो॒विष्व॒ङ्‌व्य॑क्रामत्¦साशनानश॒ने,अ॒भि || {4/16}{10.90.4}{10.7.6.4}{8.4.17.4}{1004, 927, 9802}

त्रि॒ऽपात्¦ऊ॒र्ध्व¦उत्¦ऐ॒त्¦पुरु॑षः¦पादः॑¦अ॒स्य॒¦इ॒ह¦अ॒भ॒व॒त्¦पुन॒रिति॑ | ततः॑¦विष्व᳚ङ्¦वि¦अ॒क्रा॒म॒त्¦सा॒श॒ना॒न॒श॒ने इति॑¦अ॒भि ||

तस्मा᳚द्वि॒राळ॑जायत¦वि॒राजो॒,अधि॒पूरु॑षः |{नारायणः | पुरुषः | अनुष्टुप्}

जा॒तो,अत्य॑रिच्यत¦प॒श्चाद्भूमि॒मथो᳚पु॒रः || {5/16}{10.90.5}{10.7.6.5}{8.4.17.5}{1005, 927, 9803}

तस्मा᳚त्¦वि॒राट्¦अ॒जा॒य॒त॒¦वि॒ऽराजः॑¦अधि॑¦पुरु॑षः | सः¦जा॒तः¦अति॑¦अ॒रि॒च्य॒त॒¦प॒श्चात्¦भूमि᳚‌म्¦अथो॒ इति॑¦पु॒रः ||

यत्‌पुरु॑षेणह॒विषा᳚¦दे॒वाय॒ज्ञमत᳚न्वत |{नारायणः | पुरुषः | अनुष्टुप्}

व॒स॒न्तो,अ॑स्यासी॒दाज्यं᳚¦ग्री॒ष्मइ॒ध्मःश॒रद्ध॒विः || {6/16}{10.90.6}{10.7.6.6}{8.4.18.1}{1006, 927, 9804}

यत्¦पुरु॑षेण¦ह॒विषा᳚¦दे॒वाः¦य॒ज्ञ‌म्¦अत᳚न्वत | व॒स॒न्तः¦अ॒स्य॒¦आ॒सी॒त्¦आज्य᳚‌म्¦ग्री॒ष्मः¦इ॒द्मः¦श॒रत्¦ह॒विः ||

तंय॒ज्ञंब॒र्हिषि॒प्रौक्ष॒न्¦पुरु॑षंजा॒तम॑ग्र॒तः |{नारायणः | पुरुषः | अनुष्टुप्}

तेन॑दे॒वा,अ॑यजन्त¦सा॒ध्या,ऋष॑यश्च॒ये || {7/16}{10.90.7}{10.7.6.7}{8.4.18.2}{1007, 927, 9805}

त‌म्¦य॒ज्ञ‌म्¦ब॒र्हिषि॑¦प्र¦औ॒क्ष॒न्¦पुरु॑ष‌म्¦जा॒त‌म्¦अ॒ग्र॒तः | तेन॑¦दे॒वाः¦अ॒य॒ज॒न्त॒¦सा॒ध्याः¦ऋष॑यः¦च॒¦ये ||

तस्मा᳚द्य॒ज्ञात्‌स᳚र्व॒हुतः॒¦सम्भृ॑तंपृषदा॒ज्यम् |{नारायणः | पुरुषः | अनुष्टुप्}

प॒शून्‌ताँश्च॑क्रेवाय॒व्या᳚¦नार॒ण्यान्‌ग्रा॒म्याश्च॒ये || {8/16}{10.90.8}{10.7.6.8}{8.4.18.3}{1008, 927, 9806}

तस्मा᳚त्¦य॒ज्ञात्¦स॒र्व॒ऽहुतः॑¦स‌म्ऽभृ॑त‌म्¦पृ॒ष॒त्ऽआ॒ज्य‌म् | प॒शून्¦तान्¦च॒क्रे॒¦वा॒य॒व्या᳚न्¦आ॒र॒ण्यान्¦ग्रा॒म्याः¦च॒¦ये ||

तस्मा᳚द्य॒ज्ञात्‌स᳚र्व॒हुत॒¦ऋचः॒सामा᳚निजज्ञिरे |{नारायणः | पुरुषः | अनुष्टुप्}

छन्दां᳚सिजज्ञिरे॒तस्मा॒¦द्यजु॒स्तस्मा᳚दजायत || {9/16}{10.90.9}{10.7.6.9}{8.4.18.4}{1009, 927, 9807}

तस्मा᳚त्¦य॒ज्ञात्¦स॒र्व॒ऽहुतः॑¦ऋचः॑¦सामा᳚नि¦ज॒ज्ञि॒रे॒ | छन्दां᳚सि¦ज॒ज्ञि॒रे॒¦तस्मा᳚त्¦यजुः॑¦तस्मा᳚त्¦अ॒जा॒य॒त॒ ||

तस्मा॒दश्वा᳚,अजायन्त॒¦येकेचो᳚भ॒याद॑तः |{नारायणः | पुरुषः | अनुष्टुप्}

गावो᳚जज्ञिरे॒तस्मा॒त्¦तस्मा᳚ज्जा॒ता,अ॑जा॒वयः॑ || {10/16}{10.90.10}{10.7.6.10}{8.4.18.5}{1010, 927, 9808}

तस्मा᳚त्¦अश्वाः᳚¦अ॒जा॒य॒न्त॒¦ये¦के¦च॒¦उ॒भ॒याद॑तः | गावः॑¦ह॒¦ज॒ज्ञि॒रे॒¦तस्मा᳚त्¦तस्मा᳚त्¦जा॒ताः¦अ॒जा॒वयः॑ ||

यत्पुरु॑षं॒व्यद॑धुः¦कति॒धाव्य॑कल्पयन् |{नारायणः | पुरुषः | अनुष्टुप्}

मुखं॒किम॑स्य॒कौबा॒हू¦का,ऊ॒रूपादा᳚,उच्येते || {11/16}{10.90.11}{10.7.6.11}{8.4.19.1}{1011, 927, 9809}

यत्¦पुरु॑ष‌म्¦वि¦अद॑धुः¦क॒ति॒धा¦वि¦अ॒क॒ल्प॒य॒न् | मुख᳚‌म्¦कि‌म्¦अ॒स्य॒¦कौ¦बा॒हू इति॑¦कौ¦ऊ॒रू इति॑¦पादौ᳚¦उ॒च्ये॒ते॒ इति॑ ||

ब्रा॒ह्म॒णो᳚स्य॒मुख॑मासी¦द्बा॒हूरा᳚ज॒न्यः॑कृ॒तः |{नारायणः | पुरुषः | अनुष्टुप्}

ऊ॒रूतद॑स्य॒यद्वैश्यः॑¦प॒द्भ्यांशू॒द्रो,अ॑जायत || {12/16}{10.90.12}{10.7.6.12}{8.4.19.2}{1012, 927, 9810}

ब्रा॒ह्म॒णः¦अ॒स्य॒¦मुख᳚‌म्¦आ॒सी॒त्¦बा॒हू इति॑¦रा॒ज॒न्यः॑¦कृ॒तः | ऊ॒रू इति॑¦तत्¦अ॒स्य॒¦यत्¦वैश्यः॑¦प॒त्ऽभ्या‌म्¦शू॒द्रः¦अ॒जा॒य॒त॒ ||

च॒न्द्रमा॒मन॑सोजा॒त¦श्चक्षोः॒सूर्यो᳚,अजायत |{नारायणः | पुरुषः | अनुष्टुप्}

मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑¦प्रा॒णाद्वा॒युर॑जायत || {13/16}{10.90.13}{10.7.6.13}{8.4.19.3}{1013, 927, 9811}

च॒न्द्रमाः᳚¦मन॑सः¦जा॒तः¦चक्षोः᳚¦सूर्यः॑¦अ॒जा॒य॒त॒ | मुखा᳚त्¦इन्द्रः॑¦च॒¦अ॒ग्निः¦च॒¦प्रा॒णात्¦वा॒युः¦अ॒जा॒य॒त॒ ||

नाभ्या᳚,आसीद॒न्तरि॑क्षं¦शी॒र्ष्णोद्यौःसम॑वर्तत |{नारायणः | पुरुषः | अनुष्टुप्}

प॒द्भ्यांभूमि॒र्दिशः॒श्रोत्रा॒त्¦तथा᳚लो॒काँ,अ॑कल्पयन् || {14/16}{10.90.14}{10.7.6.14}{8.4.19.4}{1014, 927, 9812}

नाभ्याः᳚¦आ॒सी॒त्¦अ॒न्तरि॑क्ष‌म्¦शी॒र्ष्णः¦द्यौः¦स‌म्¦अ॒व॒र्त॒त॒ | प॒त्ऽभ्या‌म्¦भूमिः॑¦दिशः॑¦श्रोत्रा᳚त्¦तथा᳚¦लो॒कान्¦अ॒क॒ल्प॒य॒न् ||

स॒प्तास्या᳚सन्‌परि॒धय॒¦स्त्रिःस॒प्तस॒मिधः॑कृ॒ताः |{नारायणः | पुरुषः | अनुष्टुप्}

दे॒वायद्य॒ज्ञंत᳚न्वा॒ना¦,अब॑ध्न॒न्‌पुरु॑षंप॒शुम् || {15/16}{10.90.15}{10.7.6.15}{8.4.19.5}{1015, 927, 9813}

स॒प्त¦अ॒स्य॒¦आ॒स॒न्¦प॒रि॒ऽधयः॑¦त्रिः¦स॒प्त¦स॒‌म्ऽ‌इधः॑¦कृ॒ताः | दे॒वाः¦यत्¦य॒ज्ञ‌म्¦त॒न्वा॒नाः¦अब॑ध्नन्¦पुरु॑ष‌म्¦प॒शु‌म् ||

य॒ज्ञेन॑य॒ज्ञम॑यजन्तदे॒वा¦स्तानि॒धर्मा᳚णिप्रथ॒मान्या᳚सन् |{नारायणः | पुरुषः | त्रिष्टुप्}

तेह॒नाकं᳚महि॒मानः॑सचन्त॒¦यत्र॒पूर्वे᳚सा॒ध्याःसन्ति॑दे॒वाः || {16/16}{10.90.16}{10.7.6.16}{8.4.19.6}{1016, 927, 9814}

य॒ज्ञेन॑¦य॒ज्ञ‌म्¦अ॒य॒ज॒न्त॒¦दे॒वाः¦तानि॑¦धर्मा᳚णि¦प्र॒थ॒मानि॑¦आ॒स॒न् |
ते¦ह॒¦नाक᳚‌म्¦म॒हि॒मानः॑¦स॒च॒न्त॒¦यत्र॑¦पूर्वे᳚¦सा॒ध्याः¦सन्ति॑¦दे॒वाः ||

[91] संजागृवद्भिरिति पंचदशर्चस्य सूक्तस्य वैतहव्योरुणोग्निर्जगत्यंयात्रिष्टुप् |
संजा᳚गृ॒वद्भि॒र्जर॑माणइध्यते॒दमे॒दमू᳚ना,इ॒षय᳚न्नि॒ळस्प॒दे |{वैतहव्यो रुणः | अग्निः | जगती}

विश्व॑स्य॒होता᳚ह॒विषो॒वरे᳚ण्योवि॒भुर्वि॒भावा᳚सु॒षखा᳚सखीय॒ते || {1/15}{10.91.1}{10.8.1.1}{8.4.20.1}{1017, 928, 9815}

स‌म्¦जा॒गृ॒वत्ऽभिः॑¦जर॑माणः¦इ॒द्य॒ते॒¦दमे᳚¦दमू᳚नाः¦इ॒षय॑न्¦इ॒ळः¦प॒दे |
विश्व॑स्य¦होता᳚¦ह॒विषः॑¦वरे᳚ण्यः¦वि॒ऽभुः¦वि॒भाऽवा᳚¦सु॒ऽसखा᳚¦स॒खि॒ऽय॒ते ||

द॑र्शत॒श्रीरति॑थिर्गृ॒हेगृ॑हे॒वने᳚वनेशिश्रियेतक्व॒वीरि॑व |{वैतहव्यो रुणः | अग्निः | जगती}

जनं᳚जनं॒जन्यो॒नाति॑मन्यते॒विश॒क्षे᳚तिवि॒श्यो॒३॑(ओ॒)विशं᳚विशम् || {2/15}{10.91.2}{10.8.1.2}{8.4.20.2}{1018, 928, 9816}

सः¦द॒र्श॒त॒ऽश्रीः¦अति॑थिः¦गृ॒हेऽगृ॑हे¦वने᳚ऽवने¦शि॒श्रि॒ये॒¦त॒क्व॒वीःऽ‌इ᳚व |
जन᳚‌म्ऽजन‌म्¦जन्यः॑¦न¦अति॑¦म॒न्य॒ते॒¦विशः॑¦आ¦क्षे॒ति॒¦वि॒श्यः॑¦विश᳚‌म्ऽविश‌म् ||

सु॒दक्षो॒दक्षैः॒क्रतु॑नासिसु॒क्रतु॒रग्ने᳚क॒विःकाव्ये᳚नासिविश्व॒वित् |{वैतहव्यो रुणः | अग्निः | जगती}

वसु॒र्वसू᳚नांक्षयसि॒त्वमेक॒इद्द्यावा᳚च॒यानि॑पृथि॒वीच॒पुष्य॑तः || {3/15}{10.91.3}{10.8.1.3}{8.4.20.3}{1019, 928, 9817}

सु॒ऽदक्षः॑¦दक्षः॑¦क्रतु॑ना¦अ॒सि॒¦सु॒ऽक्रतुः॑¦अग्ने᳚¦क॒विः¦काव्ये᳚न¦अ॒सि॒¦वि॒श्व॒ऽवित् |
वसुः॑¦वसू᳚ना‌म्¦क्ष॒य॒सि॒¦त्व‌म्¦एकः॑¦इत्¦द्यावा᳚¦च॒¦यानि॑¦पृ॒थि॒वी इति॑¦च॒¦पुष्य॑तः ||

प्र॒जा॒नन्न॑ग्ने॒तव॒योनि॑मृ॒त्विय॒मिळा᳚यास्प॒देघृ॒तव᳚न्त॒मास॑दः |{वैतहव्यो रुणः | अग्निः | जगती}

ते᳚चिकित्रउ॒षसा᳚मि॒वेत॑योऽरे॒पसः॒सूर्य॑स्येवर॒श्मयः॑ || {4/15}{10.91.4}{10.8.1.4}{8.4.20.4}{1020, 928, 9818}

प्र॒ऽजा॒नन्¦अ॒ग्ने॒¦तव॑¦योनि᳚‌म्¦ऋ॒त्विय᳚‌म्¦इळा᳚याः¦प॒दे¦घृ॒तऽव᳚न्त‌म्¦आ¦अ॒स॒दः॒ |
आ¦ते॒¦चि॒कि॒त्रे॒¦उ॒षसा᳚‌म्ऽ‌इव¦एत॑यः¦अ॒रे॒पसः॑¦सूर्य॑स्यऽ‌इव¦र॒श्मयः॑ ||

तव॒श्रियो᳚व॒र्ष्य॑स्येववि॒द्युत॑श्चि॒त्राश्चि॑कित्रउ॒षसां॒के॒तवः॑ |{वैतहव्यो रुणः | अग्निः | जगती}

यदोष॑धीर॒भिसृ॑ष्टो॒वना᳚निच॒परि॑स्व॒यंचि॑नु॒षे,अन्न॑मा॒स्ये᳚ || {5/15}{10.91.5}{10.8.1.5}{8.4.20.5}{1021, 928, 9819}

तव॑¦श्रियः॑¦व॒र्ष्य॑स्यऽ‌इव¦वि॒ऽद्युतः॑¦चि॒त्राः¦चि॒कि॒त्रे॒¦उ॒षसा᳚‌म्¦न¦के॒तवः॑ |
यत्¦ओष॑धीः¦अ॒भिऽसृ॑ष्टः¦वना᳚नि¦च॒¦परि॑¦स्व॒य‌म्¦चि॒नु॒षे¦अन्न᳚‌म्¦आ॒स्ये᳚ ||

तमोष॑धीर्दधिरे॒गर्भ॑मृ॒त्वियं॒तमापो᳚,अ॒ग्निंज॑नयन्तमा॒तरः॑ |{वैतहव्यो रुणः | अग्निः | जगती}

तमित्स॑मा॒नंव॒निन॑श्चवी॒रुधो॒ऽन्तर्व॑तीश्च॒सुव॑तेवि॒श्वहा᳚ || {6/15}{10.91.6}{10.8.1.6}{8.4.21.1}{1022, 928, 9820}

त‌म्¦ओष॑धीः¦द॒धि॒रे॒¦गर्भ᳚‌म्¦ऋ॒त्विय᳚‌म्¦त‌म्¦आपः॑¦अ॒ग्नि‌म्¦ज॒न॒य॒न्त॒¦मा॒तरः॑ |
त‌म्¦इत्¦स॒मा॒न‌म्¦व॒निनः॑¦च॒¦वी॒रुधः॑¦अ॒न्तःऽव॑तीः¦च॒¦सुव॑ते¦च॒¦वि॒श्वहा᳚ ||

वातो᳚पधूतइषि॒तोवशाँ॒,अनु॑तृ॒षुयदन्ना॒वेवि॑षद्वि॒तिष्ठ॑से |{वैतहव्यो रुणः | अग्निः | जगती}

ते᳚यतन्तेर॒थ्यो॒३॑(ओ॒)यथा॒पृथ॒क्छर्धां᳚स्यग्ने,अ॒जरा᳚णि॒धक्ष॑तः || {7/15}{10.91.7}{10.8.1.7}{8.4.21.2}{1023, 928, 9821}

वात॑।औपधूतः¦इ॒षि॒तः¦वशा᳚न्¦अनु॑¦तृ॒षु¦यत्¦अन्ना᳚¦वेवि॑षत्¦व्ऽतिष्ठ॑से |
आ¦ते॒¦य॒त॒न्ते॒¦र॒थ्यः॑¦यथा᳚¦पृथ॑क्¦शर्धां᳚सि¦अ॒ग्ने॒¦अ॒जरा᳚णि¦धक्ष॑तः ||

मे॒धा॒का॒रंवि॒दथ॑स्यप्र॒साध॑नम॒ग्निंहोता᳚रंपरि॒भूत॑मंम॒तिम् |{वैतहव्यो रुणः | अग्निः | जगती}

तमिदर्भे᳚ह॒विष्यास॑मा॒नमित्तमिन्म॒हेवृ॑णते॒नान्यंत्वत् || {8/15}{10.91.8}{10.8.1.8}{8.4.21.3}{1024, 928, 9822}

मे॒धा॒ऽका॒र‌म्¦वि॒दथ॑स्य¦प्र॒ऽसाध॑न‌म्¦अ॒ग्नि‌म्¦होता᳚र‌म्¦प॒रि॒ऽभूत॑म‌म्¦म॒ति‌म् |
त‌म्¦इत्¦अर्भे᳚¦ह॒विषि॑¦आ¦स॒मा॒न‌म्¦इत्¦त‌म्¦इत्¦म॒हे¦वृ॒ण॒ते॒¦न¦अ॒न्य‌म्¦त्वत् ||

त्वामिदत्र॑वृणतेत्वा॒यवो॒होता᳚रमग्नेवि॒दथे᳚षुवे॒धसः॑ |{वैतहव्यो रुणः | अग्निः | जगती}

यद्दे᳚व॒यन्तो॒दध॑ति॒प्रयां᳚सितेह॒विष्म᳚न्तो॒मन॑वोवृ॒क्तब᳚र्हिषः || {9/15}{10.91.9}{10.8.1.9}{8.4.21.4}{1025, 928, 9823}

त्वा‌म्¦इत्¦अत्र॑¦वृ॒ण॒ते॒¦त्वा॒ऽयवः॑¦होता᳚र‌म्¦अ॒ग्ने॒¦वि॒दथे᳚षु¦वे॒धसः॑ |
यत्¦दे॒व॒ऽयन्तः॑¦दध॑ति¦प्रयां᳚सि¦ते॒¦ह॒विष्म᳚न्तः¦मन॑वः¦वृ॒क्तऽब॑र्हिषः ||

तवा᳚ग्नेहो॒त्रंतव॑पो॒त्रमृ॒त्वियं॒तव॑ने॒ष्ट्रंत्वम॒ग्निदृ॑ताय॒तः |{वैतहव्यो रुणः | अग्निः | जगती}

तव॑प्रशा॒स्त्रंत्वम॑ध्वरीयसिब्र॒ह्माचासि॑गृ॒हप॑तिश्चनो॒दमे᳚ || {10/15}{10.91.10}{10.8.1.10}{8.4.21.5}{1026, 928, 9824}

तव॑¦अ॒ग्ने॒¦हो॒त्र‌म्¦तव॑¦पो॒त्र‌म्¦ऋ॒त्विय᳚‌म्¦तव॑¦ने॒ष्ट्र‌म्¦त्व‌म्¦अ॒ग्नित्¦ऋ॒त॒ऽय॒तः |
तव॑¦प्र॒ऽशा॒स्त्र‌म्¦त्व‌म्¦अ॒ध्व॒रि॒ऽय॒सि॒¦ब्र॒ह्मा¦च॒¦असि॑¦गृ॒हऽप॑तिः¦च॒¦नः॒¦दमे᳚ ||

यस्तुभ्य॑मग्ने,अ॒मृता᳚य॒मर्त्यः॑स॒मिधा॒दाश॑दु॒तवा᳚ह॒विष्कृ॑ति |{वैतहव्यो रुणः | अग्निः | जगती}

तस्य॒होता᳚भवसि॒यासि॑दू॒त्य१॑(अ॒)मुप॑ब्रूषे॒यज॑स्यध्वरी॒यसि॑ || {11/15}{10.91.11}{10.8.1.11}{8.4.22.1}{1027, 928, 9825}

यः¦तुभ्य᳚‌म्¦अ॒ग्ने॒¦अ॒मृता᳚य¦मर्त्यः॑¦स॒‌म्ऽ‌इधा᳚¦दाश॑त्¦उ॒त¦वा॒¦ह॒विःऽकृ॑ति |
तस्य॑¦होता᳚¦भ॒व॒सि॒¦यासि॑¦दू॒त्य᳚‌म्¦उप॑¦ब्रू॒षे॒¦यज॑सि¦अ॒ध्व॒रि॒ऽयसि॑ ||

इ॒मा,अ॑स्मैम॒तयो॒वाचो᳚,अ॒स्मदाँ,ऋचो॒गिरः॑सुष्टु॒तयः॒सम॑ग्मत |{वैतहव्यो रुणः | अग्निः | जगती}

व॒सू॒यवो॒वस॑वेजा॒तवे᳚दसेवृ॒द्धासु॑चि॒द्वर्ध॑नो॒यासु॑चा॒कन॑त् || {12/15}{10.91.12}{10.8.1.12}{8.4.22.2}{1028, 928, 9826}

इ॒माः¦अ॒स्मै॒¦म॒तयः॑¦वाचः॑¦अ॒स्मत्¦आ¦ऋचः॑¦गिरः॑¦सु॒ऽस्तु॒तयः॑¦स‌म्¦अ॒ग्म॒त॒ |
व॒सु॒ऽयवः॑¦वस॑वे¦जा॒तऽवे᳚दः¦वृ॒द्धासु॑¦चि॒त्¦वर्ध॑नः¦यासु॑¦चा॒कन॑त् ||

इ॒मांप्र॒त्नाय॑सुष्टु॒तिंनवी᳚यसींवो॒चेय॑मस्मा,उश॒तेशृ॒णोतु॑नः |{वैतहव्यो रुणः | अग्निः | जगती}

भू॒या,अन्त॑राहृ॒द्य॑स्यनि॒स्पृशे᳚जा॒येव॒पत्य॑उश॒तीसु॒वासाः᳚ || {13/15}{10.91.13}{10.8.1.13}{8.4.22.3}{1029, 928, 9827}

इ॒मा‌म्¦प्र॒त्नाय॑¦सु॒ऽस्तु॒ति‌म्¦नवी᳚यसी‌म्¦वो॒चेय᳚‌म्¦अ॒स्मै॒¦उ॒श॒ते¦शृ॒णोतु॑¦नः॒ |
भू॒याः¦अन्त॑रा¦हृ॒दि¦अ॒स्य॒¦नि॒ऽस्पृशे᳚¦जा॒याऽ‌इ᳚व¦पत्ये᳚¦उ॒श॒ती¦सु॒ऽवासाः᳚ ||

यस्मि॒न्नश्वा᳚सऋष॒भास॑उ॒क्षणो᳚व॒शामे॒षा,अ॑वसृ॒ष्टास॒आहु॑ताः |{वैतहव्यो रुणः | अग्निः | जगती}

की॒ला॒ल॒पेसोम॑पृष्ठायवे॒धसे᳚हृ॒दाम॒तिंज॑नये॒चारु॑म॒ग्नये᳚ || {14/15}{10.91.14}{10.8.1.14}{8.4.22.4}{1030, 928, 9828}

यस्मि॑न्¦अश्वा᳚सः¦ऋ॒ष॒भासः॑¦उ॒क्षणः॑¦व॒शाः¦मे॒षाः¦अ॒व॒ऽसृ॒ष्टासः॑¦आऽहु॑ताः |
की॒ला॒ल॒ऽपे¦सोम॑ऽपृष्ठाय¦वे॒धसे᳚¦हृ॒दा¦म॒ति‌म्¦ज॒न॒ये॒¦चारु᳚‌म्¦अ॒ग्नये᳚ ||

अहा᳚व्यग्नेह॒विरा॒स्ये᳚तेस्रु॒ची᳚वघृ॒तंच॒म्वी᳚व॒सोमः॑ |{वैतहव्यो रुणः | अग्निः | त्रिष्टुप्}

वा॒ज॒सनिं᳚र॒यिम॒स्मेसु॒वीरं᳚प्रश॒स्तंधे᳚हिय॒शसं᳚बृ॒हन्त᳚म् || {15/15}{10.91.15}{10.8.1.15}{8.4.22.5}{1031, 928, 9829}

अहा᳚वि¦अ॒ग्ने॒¦ह॒विः¦आ॒स्ये᳚¦ते॒¦स्रु॒चिऽ‌इ᳚व¦घृ॒त‌म्¦च॒म्वि॑ऽ‌इव¦सोमः॑ |
वा॒ज॒ऽसनि᳚‌म्¦र॒यि‌म्¦अ॒स्मे इति॑¦सु॒ऽवीर᳚‌म्¦प्र॒ऽश॒स्त‌म्¦धे॒हि॒¦य॒शस᳚‌म्¦बृ॒हन्त᳚‌म् ||

[92] यज्ञस्येति पंचदशर्चस्य सूक्तस्य मानवःशार्यातोविश्वेदेवाजगती |
य॒ज्ञस्य॑वोर॒थ्यं᳚वि॒श्पतिं᳚वि॒शांहोता᳚रम॒क्तोरति॑थिंवि॒भाव॑सुम् |{मानवो शार्यातः | विश्वदेवाः | जगती}

शोच॒ञ्छुष्का᳚सु॒हरि॑णीषु॒जर्भु॑र॒द्वृषा᳚के॒तुर्य॑ज॒तोद्याम॑शायत || {1/15}{10.92.1}{10.8.2.1}{8.4.23.1}{1032, 929, 9830}

य॒ज्ञस्य॑¦वः॒¦र॒थ्य᳚‌म्¦वि॒श्पति᳚‌म्¦वि॒शा‌म्¦होता᳚र‌म्¦अ॒क्तोः¦अति॑थि‌म्¦वि॒भाऽव॑सु‌म् |
शोच॑न्¦शुष्का᳚सु¦हरि॑णीषु¦जर्भु॑रत्¦वृषा᳚¦के॒तुः¦य॒ज॒तः¦द्या‌म्¦अ॒शा॒य॒त॒ ||

इ॒मम᳚ञ्ज॒स्पामु॒भये᳚,अकृण्वतध॒र्माण॑म॒ग्निंवि॒दथ॑स्य॒साध॑नम् |{मानवो शार्यातः | विश्वदेवाः | जगती}

अ॒क्तुंय॒ह्वमु॒षसः॑पु॒रोहि॑तं॒तनू॒नपा᳚तमरु॒षस्य॑निंसते || {2/15}{10.92.2}{10.8.2.2}{8.4.23.2}{1033, 929, 9831}

इ॒म‌म्¦अं॒जः॒ऽपा‌म्¦उ॒भये᳚¦अ॒कृ॒ण्व॒त॒¦ध॒र्माण᳚‌म्¦अ॒ग्नि‌म्¦वि॒दथ॑स्य¦साध॑न‌म् |
अ॒क्तु‌म्¦न¦य॒ह्व‌म्¦उ॒षसः॑¦पु॒रःऽहि॑त‌म्¦तनू॒३॒॑ऽनपा᳚त‌म्¦अ॒रु॒षस्य॑¦निं॒स॒ते॒ ||

बळ॑स्यनी॒थाविप॒णेश्च॑मन्महेव॒या,अ॑स्य॒प्रहु॑ता,आसु॒रत्त॑वे |{मानवो शार्यातः | विश्वदेवाः | जगती}

य॒दाघो॒रासो᳚,अमृत॒त्वमाश॒तादिज्जन॑स्य॒दैव्य॑स्यचर्किरन् || {3/15}{10.92.3}{10.8.2.3}{8.4.23.3}{1034, 929, 9832}

बट्¦अ॒स्य॒¦नी॒था¦वि¦प॒णेः¦च॒¦म॒न्म॒हे॒¦व॒याः¦अ॒स्य॒¦प्रऽहु॑ताः¦आ॒सुः॒¦अत्त॑वे |
य॒दा¦घो॒रासः॑¦अ॒मृ॒त॒ऽत्व‌म्¦आश॑त¦आत्¦इत्¦जन॑स्य¦दैव्य॑स्य¦च॒र्कि॒र॒न् ||

ऋ॒तस्य॒हिप्रसि॑ति॒र्द्यौरु॒रुव्यचो॒नमो᳚म॒ह्य१॑(अ॒)रम॑तिः॒पनी᳚यसी |{मानवो शार्यातः | विश्वदेवाः | जगती}

इन्द्रो᳚मि॒त्रोवरु॑णः॒संचि॑कित्रि॒रेऽथो॒भगः॑सवि॒तापू॒तद॑क्षसः || {4/15}{10.92.4}{10.8.2.4}{8.4.23.4}{1035, 929, 9833}

ऋ॒तस्य॑¦हि¦प्रऽसि॑तिः¦द्यौः¦उ॒रु¦व्यचः॑¦नमः॑¦म॒ही¦अ॒रम॑तिः¦पना᳚यसी |
इन्द्रः॑¦मि॒त्रः¦वरु॑णः¦स‌म्¦चि॒कि॒त्रि॒रे¦अथो॒ इति॑¦भगः॑¦स॒वि॒ता¦पू॒तऽद॑क्षसः ||

प्ररु॒द्रेण॑य॒यिना᳚यन्ति॒सिन्ध॑वस्ति॒रोम॒हीम॒रम॑तिंदधन्‌विरे |{मानवो शार्यातः | विश्वदेवाः | जगती}

येभिः॒परि॑ज्मापरि॒यन्नु॒रुज्रयो॒विरोरु॑वज्ज॒ठरे॒विश्व॑मु॒क्षते᳚ || {5/15}{10.92.5}{10.8.2.5}{8.4.23.5}{1036, 929, 9834}

प्र¦रु॒द्रेण॑¦य॒यिना᳚¦य॒न्ति॒¦सिन्ध॑वः¦ति॒रः¦म॒ही‌म्¦अ॒रम॑ति‌म्¦द॒ध॒न्वि॒रे॒ |
येभिः॑¦परि॑ऽज्मा¦प॒रि॒ऽयन्¦उ॒रु¦ज्रयः॑¦वि¦रोरु॑वत्¦ज॒ठरे᳚¦विश्व᳚‌म्¦उ॒क्षते᳚ ||

क्रा॒णारु॒द्राम॒रुतो᳚वि॒श्वकृ॑ष्टयोदि॒वःश्ये॒नासो॒,असु॑रस्यनी॒ळयः॑ |{मानवो शार्यातः | विश्वदेवाः | जगती}

तेभि॑श्चष्टे॒वरु॑णोमि॒त्रो,अ᳚र्य॒मेन्द्रो᳚दे॒वेभि॑रर्व॒शेभि॒रर्व॑शः || {6/15}{10.92.6}{10.8.2.6}{8.4.24.1}{1037, 929, 9835}

क्रा॒णाः¦रु॒द्राः¦म॒रुतः॑¦वि॒श्वऽकृ॑ष्टयः¦दि॒वः¦श्ये॒नासः॑¦असु॑रस्य¦नी॒ळयः॑ |
तेभिः॑¦च॒ष्टे॒¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा¦इन्द्रः॑¦दे॒वेभिः॑¦अ॒र्व॒शेभिः॑¦अर्व॑शः ||

इन्द्रे॒भुजं᳚शशमा॒नास॑आशत॒सूरो॒दृशी᳚के॒वृष॑णश्च॒पौंस्ये᳚ |{मानवो शार्यातः | विश्वदेवाः | जगती}

प्रयेन्व॑स्या॒र्हणा᳚ततक्षि॒रेयुजं॒वज्रं᳚नृ॒षद॑नेषुका॒रवः॑ || {7/15}{10.92.7}{10.8.2.7}{8.4.24.2}{1038, 929, 9836}

इन्द्रे᳚¦भुज᳚‌म्¦श॒श॒मा॒नासः॑¦आ॒श॒त॒¦सूरः॑¦दृशी᳚के¦वृष॑णः¦च॒¦पौंस्ये᳚ |
प्र¦ये¦नु¦अ॒स्य॒¦अ॒र्हणा᳚¦त॒त॒क्षि॒रे¦युज᳚‌म्¦वज्र᳚‌म्¦नृ॒ऽसद॑नेषु¦का॒रवः॑ ||

सूर॑श्चि॒दाह॒रितो᳚,अस्यरीरम॒दिन्द्रा॒दाकश्चि॑द्भयते॒तवी᳚यसः |{मानवो शार्यातः | विश्वदेवाः | जगती}

भी॒मस्य॒वृष्णो᳚ज॒ठरा᳚दभि॒श्वसो᳚दि॒वेदि॑वे॒सहु॑रिःस्त॒न्नबा᳚धितः || {8/15}{10.92.8}{10.8.2.8}{8.4.24.3}{1039, 929, 9837}

सूरः॑¦चि॒त्¦आ¦ह॒रितः॑¦अ॒स्य॒¦री॒र॒म॒त्¦इन्द्रा᳚त्¦आ¦कः¦चि॒त्¦भ॒य॒ते॒¦तवी᳚यसः |
भी॒मस्य॑¦वृष्णः॑¦ज॒ठरा᳚त्¦अ॒भि॒ऽश्वसः॑¦दि॒वेऽदि॑वे¦सहु॑रिः¦स्त॒न्¦अबा᳚धितः ||

स्तोमं᳚वो,अ॒द्यरु॒द्राय॒शिक्व॑सेक्ष॒यद्वी᳚राय॒नम॑सादिदिष्टन |{मानवो शार्यातः | विश्वदेवाः | जगती}

येभिः॑शि॒वःस्ववाँ᳚,एव॒याव॑भिर्दि॒वःसिष॑क्ति॒स्वय॑शा॒निका᳚मभिः || {9/15}{10.92.9}{10.8.2.9}{8.4.24.4}{1040, 929, 9838}

स्तोम᳚‌म्¦वः॒¦अ॒द्य¦रु॒द्राय॑¦शिक्व॑से¦क्ष॒यत्ऽवी᳚राय¦नम॑सा¦दि॒दि॒ष्ट॒न॒ |
येभिः॑¦शि॒वः¦स्वऽवा᳚न्¦ए॒व॒याव॑ऽभिः¦दि॒वः¦सिस॑क्ति¦स्वऽय॑शाः¦निका᳚मऽभिः ||

तेहिप्र॒जाया॒,अभ॑रन्त॒विश्रवो॒बृह॒स्पति᳚र्वृष॒भःसोम॑जामयः |{मानवो शार्यातः | विश्वदेवाः | जगती}

य॒ज्ञैरथ᳚र्वाप्रथ॒मोविधा᳚रयद्दे॒वादक्षै॒र्भृग॑वः॒संचि॑कित्रिरे || {10/15}{10.92.10}{10.8.2.10}{8.4.24.5}{1041, 929, 9839}

ते¦हि¦प्र॒ऽजायाः᳚¦अभ॑रन्त¦वि¦श्रवः॑¦बृह॒स्पतिः॑¦वृ॒ष॒भः¦सोम॑ऽजामयः |
य॒ज्ञैः¦अथ᳚र्वा¦प्र॒थ॒मः¦वि¦धा॒र॒य॒त्¦दे॒वाः¦दक्षैः᳚¦भृग॑वः¦स‌म्¦चि॒कि॒त्रि॒रे॒ ||

तेहिद्यावा᳚पृथि॒वीभूरि॑रेतसा॒नरा॒शंस॒श्चतु॑रङ्गोय॒मोऽदि॑तिः |{मानवो शार्यातः | विश्वदेवाः | जगती}

दे॒वस्त्वष्टा᳚द्रविणो॒दा,ऋ॑भु॒क्षणः॒प्ररो᳚द॒सीम॒रुतो॒विष्णु॑रर्हिरे || {11/15}{10.92.11}{10.8.2.11}{8.4.25.1}{1042, 929, 9840}

ते¦हि¦द्यावा᳚पृथि॒वी इति॑¦भूरि॑ऽरेतसा¦नरा॒शंसः॑¦चतुः॑।आङ्गः¦य॒मः¦अदि॑तिः |
दे॒वः¦त्वष्टा᳚¦द्र॒वि॒णः॒ऽदाः¦ऋ॒भु॒क्षणः॑¦प्र¦रो॒द॒सी इति॑¦म॒रुतः॑¦विष्णुः॑¦अ॒र्हि॒रे॒ ||

उ॒तस्यन॑उ॒शिजा᳚मुर्वि॒याक॒विरहिः॑शृणोतुबु॒ध्न्यो॒३॑(ओ॒)हवी᳚मनि |{मानवो शार्यातः | विश्वदेवाः | जगती}

सूर्या॒मासा᳚वि॒चर᳚न्तादिवि॒क्षिता᳚धि॒याश॑मीनहुषी,अ॒स्यबो᳚धतम् || {12/15}{10.92.12}{10.8.2.12}{8.4.25.2}{1043, 929, 9841}

उ॒त¦स्यः¦नः॒¦उ॒शिजा᳚‌म्¦उ॒र्वि॒या¦क॒विः¦अहिः॑¦शृ॒णो॒तु॒¦बु॒ध्न्यः॑¦हवी᳚मनि |
सूर्या॒मासा᳚¦वि॒ऽचर᳚न्ता¦दि॒वि॒ऽक्षिता᳚¦धि॒या¦श॒मी॒न॒हु॒षी॒ इति॑¦अ॒स्य¦बो॒ध॒त॒‌म् ||

प्रनः॑पू॒षाच॒रथं᳚वि॒श्वदे᳚व्यो॒ऽपांनपा᳚दवतुवा॒युरि॒ष्टये᳚ |{मानवो शार्यातः | विश्वदेवाः | जगती}

आ॒त्मानं॒वस्यो᳚,अ॒भिवात॑मर्चत॒तद॑श्विनासुहवा॒याम॑निश्रुतम् || {13/15}{10.92.13}{10.8.2.13}{8.4.25.3}{1044, 929, 9842}

प्र¦नः॒¦पू॒षा¦च॒रथ᳚‌म्¦वि॒श्वऽदे᳚व्यः¦अ॒पा‌म्¦नपा᳚त्¦अ॒व॒तु॒¦वा॒युः¦इ॒ष्टये᳚ |
आ॒त्मान᳚‌म्¦वस्यः॑¦अ॒भि¦वात᳚‌म्¦अ॒र्च॒त॒¦तत्¦अ॒श्वि॒ना॒¦सु॒ऽह॒वा॒¦याम॑नि¦श्रु॒त॒‌म् ||

वि॒शामा॒सामभ॑यानामधि॒क्षितं᳚गी॒र्भिरु॒स्वय॑शसंगृणीमसि |{मानवो शार्यातः | विश्वदेवाः | जगती}

ग्नाभि॒र्विश्वा᳚भि॒रदि॑तिमन॒र्वण॑म॒क्तोर्युवा᳚नंनृ॒मणा॒,अधा॒पति᳚म् || {14/15}{10.92.14}{10.8.2.14}{8.4.25.4}{1045, 929, 9843}

वि॒शा‌म्¦आ॒सा‌म्¦अभ॑याना‌म्¦अ॒धि॒ऽक्षित᳚‌म्¦गीः॒ऽभिः¦ऊँ॒ इति॑¦स्वऽय॑शस‌म्¦गृ॒णी॒म॒सि॒ |
ग्नाभिः॑¦विश्वा᳚भिः¦अदि॑ति‌म्¦अ॒न॒र्वण᳚‌म्¦अ॒क्तोः¦युवा᳚न‌म्¦नृ॒ऽमनाः᳚¦अध॑¦पति᳚‌म् ||

रेभ॒दत्र॑ज॒नुषा॒पूर्वो॒,अङ्गि॑रा॒ग्रावा᳚णऊ॒र्ध्वा,अ॒भिच॑क्षुरध्व॒रम् |{मानवो शार्यातः | विश्वदेवाः | जगती}

येभि॒र्विहा᳚या॒,अभ॑वद्विचक्ष॒णःपाथः॑सु॒मेकं॒स्वधि॑ति॒र्वन᳚न्वति || {15/15}{10.92.15}{10.8.2.15}{8.4.25.5}{1046, 929, 9844}

रेभ॑त्¦अत्र॑¦ज॒नुषा᳚¦पूर्वः॑¦अङ्गि॑राः¦ग्रावा᳚णः¦ऊ॒र्ध्वाः᳚¦अ॒भि¦च॒क्षुः॒¦अ॒ध्व॒र‌म् |
येभिः॑¦विऽहा᳚याः¦अभ॑वत्¦वि॒ऽच॒क्ष॒णः¦पाथः॑¦सु॒ऽमेक᳚‌म्¦स्वऽधि॑तिः¦वन॑न्ऽवति ||

[93] महीति पंचदशर्चस्य सूक्तस्य पार्थ्यस्तान्वो विश्वेदेवाः प्रस्तारपंक्तिर्द्वितीयात्रयोदश्यनुष्टुभौ नवम्यक्षरौपंक्तिरेकादशीन्यं कुसारिण्यंत्यापुरस्ताद्बृहती |
महि॑द्यावापृथिवीभूतमु॒र्वीनारी᳚य॒ह्वीरोद॑सी॒सदं᳚नः |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

तेभि᳚र्नःपातं॒सह्य॑सए॒भिर्नः॑पातंशू॒षणि॑ || {1/15}{10.93.1}{10.8.3.1}{8.4.26.1}{1047, 930, 9845}

महि॑¦द्या॒वा॒पृ॒थि॒वी॒ इति॑¦भू॒त॒‌म्¦उ॒र्वी इति॑¦नारी॒ इति॑¦य॒ह्वी इति॑¦न¦रोद॑सी॒ इति॑¦सद᳚‌म्¦नः॒ |
तेभिः॑¦नः॒¦पा॒त॒‌म्¦सह्य॑सः¦ए॒भिः¦नः॒¦पा॒त॒‌म्¦शू॒षणि॑ ||

य॒ज्ञेय॑ज्ञे॒मर्त्यो᳚दे॒वान्‌त्स॑पर्यति |{पार्थ्यस्तान्वः | विश्वदेवाः | अनुष्टुप्}

यःसु॒म्नैर्दी᳚र्घ॒श्रुत्त॑मआ॒विवा᳚सत्येनान् || {2/15}{10.93.2}{10.8.3.2}{8.4.26.2}{1048, 930, 9846}

य॒ज्ञेऽय॑ज्ञे¦सः¦मर्त्यः॑¦दे॒वान्¦स॒प॒र्य॒ति॒ | यः¦सु॒म्नैः¦दी॒र्घ॒श्रुत्ऽत॑मः¦आ॒ऽविवा᳚साति¦ए॒ना॒न् ||

विश्वे᳚षामिरज्यवोदे॒वानां॒वार्म॒हः |{पार्थ्यस्तान्वः | विश्वदेवाः | अनुष्टुप्}

विश्वे॒हिवि॒श्वम॑हसो॒विश्वे᳚य॒ज्ञेषु॑य॒ज्ञियाः᳚ || {3/15}{10.93.3}{10.8.3.3}{8.4.26.3}{1049, 930, 9847}

विश्वे᳚षा‌म्¦इ॒र॒ज्य॒वः॒¦दे॒वाना᳚‌म्¦वाः¦म॒हः | विश्वे᳚¦हि¦वि॒श्वऽम॑हसः¦विश्वे᳚¦य॒ज्ञेषु॑¦य॒ज्ञियाः᳚ ||

तेघा॒राजा᳚नो,अ॒मृत॑स्यम॒न्द्रा,अ᳚र्य॒मामि॒त्रोवरु॑णः॒परि॑ज्मा |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

कद्रु॒द्रोनृ॒णांस्तु॒तोम॒रुतः॑पू॒षणो॒भगः॑ || {4/15}{10.93.4}{10.8.3.4}{8.4.26.4}{1050, 930, 9848}

ते¦घ॒¦राजा᳚नः¦अ॒मृत॑स्य¦म॒न्द्राः¦अ॒र्य॒मा¦मि॒त्रः¦वरु॑णः¦परि॑ऽज्मा |
कत्¦रु॒द्रः¦नृ॒णा‌म्¦स्तु॒तः¦म॒रुतः॑¦पू॒षणः॑¦भगः॑ ||

उ॒तनो॒नक्त॑म॒पांवृ॑षण्वसू॒सूर्या॒मासा॒सद॑नायसध॒न्या᳚ |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

सचा॒यत्साद्ये᳚षा॒महि॑र्बु॒ध्नेषु॑बु॒ध्न्यः॑ || {5/15}{10.93.5}{10.8.3.5}{8.4.26.5}{1051, 930, 9849}

उ॒त¦नः॒¦नक्त᳚‌म्¦अ॒पा‌म्¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू¦सूर्या॒मासा᳚¦सद॑नाय¦स॒ऽध॒न्या᳚ |
सचा᳚¦यत्¦सादि॑¦ए॒षा॒‌म्¦अहिः॑¦बु॒ध्नेषु॑¦बु॒ध्न्यः॑ ||

उ॒तनो᳚दे॒वाव॒श्विना᳚शु॒भस्पती॒धाम॑भिर्मि॒त्रावरु॑णा,उरुष्यताम् |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

म॒हःरा॒यएष॒तेऽति॒धन्वे᳚वदुरि॒ता || {6/15}{10.93.6}{10.8.3.6}{8.4.27.1}{1052, 930, 9850}

उ॒त¦नः॒¦दे॒वौ¦अ॒श्विना᳚¦शु॒भः¦पती॒ इति॑¦धाम॑ऽभिः¦मि॒त्रावरु॑णौ¦उ॒रु॒ष्य॒ता॒‌म् |
म॒हः¦सः¦रा॒यः¦आ¦ई॒ष॒ते॒¦अति॑¦धन्वा᳚ऽ‌इव¦दुः॒ऽ‌इ॒ता ||

उ॒तनो᳚रु॒द्राचि᳚न्‌मृळताम॒श्विना॒विश्वे᳚दे॒वासो॒रथ॒स्पति॒र्भगः॑ |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

ऋ॒भुर्वाज॑ऋभुक्षणः॒परि॑ज्माविश्ववेदसः || {7/15}{10.93.7}{10.8.3.7}{8.4.27.2}{1053, 930, 9851}

उ॒त¦नः॒¦रु॒द्रा¦चि॒त्¦मृ॒ळ॒ता॒‌म्¦अ॒श्विना᳚¦विश्वे᳚¦दे॒वासः॑¦रथः॒पतिः॑¦भगः॑ |
ऋ॒भुः¦वाजः॑¦ऋ॒भु॒क्ष॒णः॒¦परि॑ऽज्मा¦वि॒श्व॒ऽवे॒द॒सः॒ ||

ऋ॒भुरृ॑भु॒क्षा,ऋ॒भुर्वि॑ध॒तोमद॒ते॒हरी᳚जूजुवा॒नस्य॑वा॒जिना᳚ |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

दु॒ष्टरं॒यस्य॒साम॑चि॒दृध॑ग्य॒ज्ञोमानु॑षः || {8/15}{10.93.8}{10.8.3.8}{8.4.27.3}{1054, 930, 9852}

ऋ॒भुः¦ऋ॒भु॒क्षाः¦ऋ॒भुः¦वि॒ध॒तः¦मदः॑¦आ¦ते॒¦हरी॒ इति॑¦जू॒जु॒वा॒नस्य॑¦वा॒जिना᳚ |
दु॒स्तर᳚‌म्¦यस्य॑¦साम॑¦चि॒त्¦ऋध॑क्¦य॒ज्ञः¦न¦मानु॑षः ||

कृ॒धीनो॒,अह्र॑योदेवसवितः॒च॑स्तुषेम॒घोना᳚म् |{पार्थ्यस्तान्वः | विश्वदेवाः | पङ्क्ति}

स॒होन॒इन्द्रो॒वह्नि॑भि॒र्न्ये᳚षांचर्षणी॒नांच॒क्रंर॒श्मिंयो᳚युवे || {9/15}{10.93.9}{10.8.3.9}{8.4.27.4}{1055, 930, 9853}

कृ॒धि¦नः॒¦अह्र॑यः¦दे॒व॒¦स॒वि॒त॒रिति॑¦सः¦च॒¦स्तु॒षे॒¦म॒घोना᳚‌म् |
स॒हो इति॑¦नः॒¦इन्द्रः॑¦वह्नि॑ऽभिः¦नि¦ए॒षा॒‌म्¦च॒र्ष॒णी॒ना‌म्¦च॒क्र‌म्¦र॒श्मि‌म्¦न¦यो॒यु॒वे॒ ||

ऐषु॑द्यावापृथिवीधातंम॒हद॒स्मेवी॒रेषु॑वि॒श्वच॑र्षणि॒श्रवः॑ |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

पृ॒क्षंवाज॑स्यसा॒तये᳚पृ॒क्षंरा॒योततु॒र्वणे᳚ || {10/15}{10.93.10}{10.8.3.10}{8.4.27.5}{1056, 930, 9854}

आ¦ए॒षु॒¦द्या॒वा॒पृ॒थि॒वी॒ इति॑¦धा॒त॒‌म्¦म॒हत्¦अ॒स्मे इति॑¦वी॒रेषु॑¦वि॒श्वऽच॑र्षणि¦श्रवः॑ |
पृ॒क्ष‌म्¦वाज॑स्य¦सा॒तये᳚¦पृ॒क्ष‌म्¦रा॒या¦उ॒त¦तु॒र्वणे᳚ ||

ए॒तंशंस॑मिन्द्रास्म॒युष्ट्वंकूचि॒त्सन्तं᳚सहसावन्न॒भिष्ट॑ये |{पार्थ्यस्तान्वः | विश्वदेवाः | सारिणी बृहती}

सदा᳚पाह्य॒भिष्ट॑येमे॒दतां᳚वे॒दता᳚वसो || {11/15}{10.93.11}{10.8.3.11}{8.4.28.1}{1057, 930, 9855}

ए॒त‌म्¦शंस᳚‌म्¦इ॒न्द्र॒¦अ॒स्म॒ऽयुः¦त्व‌म्¦कूऽचि॑त्¦सन्त᳚‌म्¦स॒ह॒सा॒ऽव॒न्¦अ॒भिष्ट॑ये¦सदा᳚¦पा॒हि॒¦अ॒भिष्ट॑ये |
मे॒दता᳚‌म्¦वे॒दता᳚¦व॒सो॒ इति॑ ||

ए॒तंमे॒स्तोमं᳚त॒नासूर्ये᳚द्यु॒तद्या᳚मानंवावृधन्तनृ॒णाम् |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

सं॒वन॑नं॒नाश्व्यं॒तष्टे॒वान॑पच्युतम् || {12/15}{10.93.12}{10.8.3.12}{8.4.28.2}{1058, 930, 9856}

ए॒त‌म्¦मे॒¦स्तोम᳚‌म्¦त॒ना¦न¦सूर्ये᳚¦द्यु॒तत्ऽया᳚मान‌म्¦व॒वृ॒ध॒न्त॒¦नृ॒णा‌म् |
स॒‌म्ऽवन॑न‌म्¦न¦अस्व्य᳚‌म्¦तष्टा᳚ऽ‌इव¦अन॑पऽच्युत‌म् ||

वा॒वर्त॒येषां᳚रा॒यायु॒क्तैषां᳚हिर॒ण्ययी᳚ |{पार्थ्यस्तान्वः | विश्वदेवाः | अनुष्टुप्}

ने॒मधि॑ता॒पौंस्या॒वृथे᳚ववि॒ष्टान्ता᳚ || {13/15}{10.93.13}{10.8.3.13}{8.4.28.3}{1059, 930, 9857}

व॒वर्त॑¦येषा᳚‌म्¦रा॒या¦यु॒क्ता¦ए॒षा॒‌म्¦हि॒र॒ण्ययी᳚ | ने॒मऽधि॑ता¦न¦पौंस्या᳚¦वृथा᳚ऽ‌इव¦वि॒ष्ट।आ᳚न्ता ||

प्रतद्दुः॒शीमे॒पृथ॑वानेवे॒नेप्ररा॒मेवो᳚च॒मसु॑रेम॒घव॑त्सु |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

येयु॒क्त्वाय॒पञ्च॑श॒तास्म॒युप॒थावि॒श्राव्ये᳚षाम् || {14/15}{10.93.14}{10.8.3.14}{8.4.28.4}{1060, 930, 9858}

प्र¦तत्¦दुः॒ऽशीमे᳚¦पृथ॑वाने¦वे॒ने¦प्र¦रा॒मे¦वो॒च॒‌म्¦असु॑रे¦म॒घव॑त्ऽसु |
ये¦यु॒क्त्वाय॑¦पंच॑¦श॒ता¦अ॒स्म॒ऽयु¦प॒था¦वि॒ऽश्रावि॑¦ए॒षा॒‌म् ||

अधीन्न्वत्र॑सप्त॒तिंच॑स॒प्तच॑ |{पार्थ्यस्तान्वः | विश्वदेवाः | बृहती}

स॒द्योदि॑दिष्ट॒तान्वः॑स॒द्योदि॑दिष्टपा॒र्थ्यःस॒द्योदि॑दिष्टमाय॒वः || {15/15}{10.93.15}{10.8.3.15}{8.4.28.5}{1061, 930, 9859}

अधि॑¦इत्¦नु¦अत्र॑¦स॒प्त॒ति‌म्¦च॒¦स॒प्त¦च॒ |
स॒द्यः¦दि॒दि॒ष्ट॒¦तान्वः॑¦स॒द्यः¦दि॒दि॒ष्ट॒¦पा॒र्थ्यः¦स॒द्यः¦दि॒दि॒ष्ट॒¦मा॒य॒वः ||

[94] प्रैतइति चतुर्दशर्चस्य सूक्तस्य काद्रवेयोर्बुदः सर्पोग्रावाणोजगती पंचमीसप्तमीचर्तुदृश्यस्त्रिष्टुभः |
प्रैतेव॑दन्तु॒प्रव॒यंव॑दाम॒ग्राव॑भ्यो॒वाचं᳚वदता॒वद॑द्भ्यः |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

यद॑द्रयःपर्वताःसा॒कमा॒शवः॒श्लोकं॒घोषं॒भर॒थेन्द्रा᳚यसो॒मिनः॑ || {1/14}{10.94.1}{10.8.4.1}{8.4.29.1}{1062, 931, 9860}

प्र¦ए॒ते¦व॒द॒न्तु॒¦प्र¦व॒य‌म्¦व॒दा॒म॒¦ग्राव॑ऽभ्यः¦वाच᳚‌म्¦व॒द॒त॒¦वद॑त्ऽभ्यः |
यत्¦अ॒द्र॒यः॒¦प॒र्व॒ताः॒¦सा॒क‌म्¦आ॒शवः॒¦श्लोक᳚‌म्¦घोष᳚‌म्¦भर॑थ¦इन्द्रा᳚य¦सो॒मिनः॑ ||

ए॒तेव॑दन्तिश॒तव॑त्स॒हस्र॑वद॒भिक्र᳚न्दन्ति॒हरि॑तेभिरा॒सभिः॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

वि॒ष्ट्वीग्रावा᳚णःसु॒कृतः॑सुकृ॒त्यया॒होतु॑श्चि॒त्पूर्वे᳚हवि॒रद्य॑माशत || {2/14}{10.94.2}{10.8.4.2}{8.4.29.2}{1063, 931, 9861}

ए॒ते¦व॒द॒न्ति॒¦श॒तऽव॑त्¦स॒हस्र॑ऽवत्¦अ॒भि¦क्र॒न्द॒न्ति॒¦हरि॑तेभिः¦आ॒सऽभिः॑ |
वि॒ष्ट्वी¦ग्रावा᳚णः¦सु॒ऽकृतः॑¦सु॒ऽकृ॒त्यया᳚¦होतुः॑¦चि॒त्¦पूर्वे᳚¦ह॒विः॒।आद्य᳚‌म्¦आ॒श॒त॒ ||

ए॒तेव॑द॒न्त्यवि॑दन्न॒नामधु॒न्यू᳚ङ्खयन्ते॒,अधि॑प॒क्वआमि॑षि |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

वृ॒क्षस्य॒शाखा᳚मरु॒णस्य॒बप्स॑त॒स्तेसूभ᳚र्वावृष॒भाःप्रेम॑राविषुः || {3/14}{10.94.3}{10.8.4.3}{8.4.29.3}{1064, 931, 9862}

ए॒ते¦व॒द॒न्ति॒¦अवि॑दन्¦अ॒ना¦मधु॑¦नि¦ऊ॒ङ्ख॒य॒न्ते॒¦अधि॑¦प॒क्वे¦आमि॑षि |
वृ॒क्षस्य॑¦शाखा᳚‌म्¦अ॒रु॒णस्य॑¦बप्स॑तः¦ते॒¦सूभ᳚र्वाः¦वृ॒ष॒भाः¦प्र¦ई॒‌म्¦अ॒रा॒वि॒षुः॒ ||

बृ॒हद्व॑दन्तिमदि॒रेण॑म॒न्दिनेन्द्रं॒क्रोश᳚न्तोऽविदन्न॒नामधु॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

सं॒रभ्या॒धीराः॒स्वसृ॑भिरनर्तिषुराघो॒षय᳚न्तःपृथि॒वीमु॑प॒ब्दिभिः॑ || {4/14}{10.94.4}{10.8.4.4}{8.4.29.4}{1065, 931, 9863}

बृ॒हत्¦व॒द॒न्ति॒¦म॒दि॒रेण॑¦म॒न्दिना᳚¦इन्द्र᳚‌म्¦क्रोश᳚न्तः¦अ॒वि॒द॒न्¦अ॒ना¦मधु॑ |
स॒‌म्ऽरभ्य॑¦धीराः᳚¦स्वसृ॑ऽभिः¦अ॒न॒र्ति॒षुः॒¦आ॒ऽघो॒षय᳚न्तः¦पृ॒थि॒वी‌म्¦उ॒प॒ब्दिऽभिः॑ ||

सु॒प॒र्णावाच॑मक्र॒तोप॒द्यव्या᳚ख॒रेकृष्णा᳚,इषि॒रा,अ॑नर्तिषुः |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | त्रिष्टुप्}

न्य१॑(अ॒)ङ्निय॒न्त्युप॑रस्यनिष्कृ॒तंपु॒रूरेतो᳚दधिरेसूर्य॒श्वितः॑ || {5/14}{10.94.5}{10.8.4.5}{8.4.29.5}{1066, 931, 9864}

सु॒ऽप॒र्णाः¦वाच᳚‌म्¦अ॒क्र॒त॒¦उप॑¦द्यवि॑¦आ॒ऽख॒रे¦कृष्णाः᳚¦इ॒षि॒राः¦अ॒न॒र्ति॒षुः॒ |
न्य॑क्¦नि¦य॒न्ति॒¦उप॑रस्य¦निः॒ऽकृ॒त‌म्¦पु॒रु¦रेतः॑¦द॒धि॒रे॒¦सू॒र्य॒ऽश्वितः॑ ||

उ॒ग्रा,इ॑वप्र॒वह᳚न्तःस॒माय॑मुःसा॒कंयु॒क्तावृष॑णो॒बिभ्र॑तो॒धुरः॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

यच्छ्व॒सन्तो᳚जग्रसा॒ना,अरा᳚विषुःशृ॒ण्वए᳚षांप्रो॒थथो॒,अर्व॑तामिव || {6/14}{10.94.6}{10.8.4.6}{8.4.30.1}{1067, 931, 9865}

उ॒ग्राःऽ‌इ᳚व¦प्र॒ऽवह᳚न्तः¦स॒‌म्ऽआय॑मुः¦सा॒क‌म्¦यु॒क्ताः¦वृष॑णः¦बिभ्र॑तः¦धुरः॑ |
यद्¦श्व॒सन्तः॑¦ज॒ग्र॒सा॒नाः¦अरा᳚विषुः¦शृ॒ण्वे¦ए॒षा॒‌म्¦प्रो॒थथः॑¦अर्व॑ता‌म्ऽ‌इव ||

दशा᳚वनिभ्यो॒दश॑कक्ष्येभ्यो॒दश॑योक्त्रेभ्यो॒दश॑योजनेभ्यः |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | त्रिष्टुप्}

दशा᳚भीशुभ्यो,अर्चता॒जरे᳚भ्यो॒दश॒धुरो॒दश॑यु॒क्तावह॑द्भ्यः || {7/14}{10.94.7}{10.8.4.7}{8.4.30.2}{1068, 931, 9866}

दशा᳚वनिऽभ्यः¦दश॑कक्ष्येभ्यः¦दश॑ऽयोक्त्रेभ्यः¦दश॑ऽयोजनेभ्यः |
दशा᳚भीशुऽभ्यः¦अ॒र्च॒त॒¦अ॒जरे᳚भ्यः¦दश॑¦धुरः॑¦दश॑¦यु॒क्ताः¦वह॑त्ऽभ्यः ||

ते,अद्र॑यो॒दश॑यन्त्रासआ॒शव॒स्तेषा᳚मा॒धानं॒पर्ये᳚तिहर्य॒तम् |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

ऊ᳚सु॒तस्य॑सो॒म्यस्यान्ध॑सों॒ऽशोःपी॒यूषं᳚प्रथ॒मस्य॑भेजिरे || {8/14}{10.94.8}{10.8.4.8}{8.4.30.3}{1069, 931, 9867}

ते¦अद्र॑यः¦दश॑ऽयन्त्रासः¦आ॒शवः॑¦तेषा᳚‌म्¦आ॒ऽधान᳚‌म्¦परि॑¦ए॒ति॒¦ह॒र्य॒त‌म् |
ते¦ऊँ॒ इति॑¦सु॒तस्य॑¦सो॒म्यस्य॑¦अन्ध॑सः¦अं॒शोः¦पी॒यूष᳚‌म्¦प्र॒थ॒मस्य॑¦भे॒जि॒रे॒ ||

तेसो॒मादो॒हरी॒,इन्द्र॑स्यनिंसतें॒ऽशुंदु॒हन्तो॒,अध्या᳚सते॒गवि॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

तेभि॑र्दु॒ग्धंप॑पि॒वान्‌त्सो॒म्यंमध्विन्द्रो᳚वर्धते॒प्रथ॑तेवृषा॒यते᳚ || {9/14}{10.94.9}{10.8.4.9}{8.4.30.4}{1070, 931, 9868}

ते¦सो॒म॒।आदः॑¦हरी॒ इति॑¦इन्द्र॑स्य¦निं॒स॒ते॒¦अं॒शु‌म्¦दु॒हन्तः॑¦अधि॑¦आ॒स॒ते॒¦गवि॑ |
तेभिः॑¦दु॒ग्ध‌म्¦प॒पि॒ऽवान्¦सो॒म्य‌म्¦मधु॑¦इन्द्रः॑¦व॒र्ध॒ते॒¦प्रथ॑ते¦वृ॒ष॒ऽयते᳚ ||

वृषा᳚वो,अं॒शुर्नकिला᳚रिषाथ॒नेळा᳚वन्तः॒सद॒मित्‌स्थ॒नाशि॑ताः |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

रै॒व॒त्येव॒मह॑सा॒चार॑वःस्थन॒यस्य॑ग्रावाणो॒,अजु॑षध्वमध्व॒रम् || {10/14}{10.94.10}{10.8.4.10}{8.4.30.5}{1071, 931, 9869}

वृषा᳚¦वः॒¦अं॒शुः¦न¦किल॑¦रि॒षा॒थ॒न॒¦इळा᳚ऽवन्तः¦सद᳚‌म्¦इत्¦स्थ॒न॒¦आशि॑ताः |
रै॒व॒त्याऽ‌इ᳚व¦मह॑सा¦चार॑वः¦स्थ॒न॒¦यस्य॑¦ग्रा॒वा॒णः॒¦अजु॑षध्व‌म्¦अ॒ध्व॒र‌म् ||

तृ॒दि॒ला,अतृ॑दिलासो॒,अद्र॑योऽश्रम॒णा,अशृ॑थिता॒,अमृ॑त्यवः |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

अ॒ना॒तु॒रा,अ॒जराः॒स्थाम॑विष्णवःसुपी॒वसो॒,अतृ॑षिता॒,अतृ॑ष्णजः || {11/14}{10.94.11}{10.8.4.11}{8.4.31.1}{1072, 931, 9870}

तृ॒दि॒लाः¦अतृ॑दिलासः¦अद्र॑यः¦अ॒श्र॒म॒णाः¦अशृ॑थिताः¦अमृ॑त्यवः |
अ॒ना॒तु॒राः¦अ॒जराः᳚¦स्थ¦अम॑विष्णवः¦सु॒ऽपी॒वसः॑¦अतृ॑षिताः¦अतृ॑ष्णऽजः ||

ध्रु॒वा,ए॒ववः॑पि॒तरो᳚यु॒गेयु॑गे॒क्षेम॑कामासः॒सद॑सो॒यु᳚ञ्जते |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

अ॒जु॒र्यासो᳚हरि॒षाचो᳚ह॒रिद्र॑व॒द्यांरवे᳚णपृथि॒वीम॑शुश्रवुः || {12/14}{10.94.12}{10.8.4.12}{8.4.31.2}{1073, 931, 9871}

ध्रु॒वाः¦ए॒व¦वः॒¦पि॒तरः॑¦यु॒गेऽयु॑गे¦क्षेम॑ऽकामासः¦सद॑सः¦न¦युं॒ज॒ते॒ |
अ॒जु॒र्यासः॑¦ह॒रि॒ऽसाचः॑¦ह॒रिद्र॑वः¦आ¦द्या‌म्¦रवे᳚ण¦पृ॒थि॒वी‌म्¦अ॒शु॒श्र॒वुः॒ ||

तदिद्व॑द॒न्त्यद्र॑योवि॒मोच॑ने॒याम᳚न्नञ्ज॒स्पा,इ॑व॒घेदु॑प॒ब्दिभिः॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

वप᳚न्तो॒बीज॑मिवधान्या॒कृतः॑पृ॒ञ्चन्ति॒सोमं॒मि॑नन्ति॒बप्स॑तः || {13/14}{10.94.13}{10.8.4.13}{8.4.31.3}{1074, 931, 9872}

तत्¦इत्¦व॒द॒न्ति॒¦अद्र॑यः¦वि॒ऽमोच॑ने¦याम॑न्¦अं॒जः॒पाःऽ‌इ᳚व¦घ॒¦इत्¦उ॒प॒ब्दिऽभिः॑ |
वप᳚न्तः¦बीज᳚‌म्ऽ‌इव¦धा॒न्य॒ऽकृतः॑¦पृं॒चन्ति॑¦सोम᳚‌म्¦न¦मि॒न॒न्ति॒¦बप्स॑तः ||

सु॒ते,अ॑ध्व॒रे,अधि॒वाच॑मक्र॒ताक्री॒ळयो॒मा॒तरं᳚तु॒दन्तः॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | त्रिष्टुप्}

विषूमु᳚ञ्चासुषु॒वुषो᳚मनी॒षांविव॑र्तन्ता॒मद्र॑य॒श्चाय॑मानाः || {14/14}{10.94.14}{10.8.4.14}{8.4.31.4}{1075, 931, 9873}

सु॒ते¦अ॒ध्व॒रे¦अधि॑¦वाच᳚‌म्¦अ॒क्र॒त॒¦आ¦क्री॒ळयः॑¦न¦मा॒तर᳚‌म्¦तु॒दन्तः॑ |
वि¦सु¦मुं॒च॒¦सु॒सु॒ऽवुषः॑¦म॒नी॒षा‌म्¦वि¦व॒र्त॒न्ता॒‌म्¦अद्र॑यः¦चाय॑मानाः ||

[95] हयेजाये इत्यष्टादशर्चस्य सूक्तस्य आद्यातृतीयाषष्ठीनवम्यादिचतसृणां चतुर्दशी सप्तदशीत्येवं नवानामैलः पुरूरवाऋषिरुर्वशी देवता शिष्टानामुर्वशीऋषिका पुरूरवादेवतात्रिष्टुप् |
ह॒येजाये॒मन॑सा॒तिष्ठ॑घोरे॒वचां᳚सिमि॒श्राकृ॑णवावहै॒नु |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

नौ॒मन्त्रा॒,अनु॑दितासए॒तेमय॑स्कर॒न्‌पर॑तरेच॒नाह॑न् || {1/18}{10.95.1}{10.8.5.1}{8.5.1.1}{1076, 932, 9874}

ह॒ये¦जाये᳚¦मन॑सा¦तिष्ठ॑¦घोरे᳚¦वचां᳚सि¦मि॒श्रा¦कृ॒ण॒वा॒व॒है॒¦नु |
न¦नौ॒¦मन्त्राः᳚¦अनु॑दितासः¦ए॒ते¦मयः॑¦क॒र॒न्¦पर॑ऽतरे¦च॒न¦अह॑न् ||

किमे॒तावा॒चाकृ॑णवा॒तवा॒हंप्राक्र॑मिषमु॒षसा᳚मग्रि॒येव॑ |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

पुरू᳚रवः॒पुन॒रस्तं॒परे᳚हिदुराप॒नावात॑इवा॒हम॑स्मि || {2/18}{10.95.2}{10.8.5.2}{8.5.1.2}{1077, 932, 9875}

कि‌म्¦ए॒ता¦वा॒चा¦कृ॒ण॒व॒¦तव॑¦अ॒ह‌म्¦प्र¦अ॒क्र॒मि॒ष॒‌म्¦उ॒षसा᳚‌म्¦अ॒ग्रि॒याऽ‌इ᳚व |
पुरू᳚रवः¦पुनः॑¦अस्त᳚‌म्¦परा᳚¦इ॒हि॒¦दुः॒ऽआ॒प॒ना¦वातः॑ऽ‌इव¦अ॒ह‌म्¦अ॒स्मि॒ ||

इषु॒र्नश्रि॒यइ॑षु॒धेर॑स॒नागो॒षाःश॑त॒सारंहिः॑ |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

अ॒वीरे॒क्रतौ॒विद॑विद्युत॒न्नोरा॒मा॒युंचि॑तयन्त॒धुन॑यः || {3/18}{10.95.3}{10.8.5.3}{8.5.1.3}{1078, 932, 9876}

इषुः॑¦न¦श्रि॒ये¦इ॒षु॒ऽधेः¦अ॒स॒ना¦गो॒ऽसाः¦श॒त॒ऽसाः¦न¦रंहिः॑ |
अ॒वीरे᳚¦क्रतौ᳚¦वि¦द॒वि॒द्यु॒त॒त्¦न¦उरा᳚¦न¦मा॒यु‌म्¦चि॒त॒य॒न्त॒¦धुन॑यः ||

सावसु॒दध॑ती॒श्वशु॑राय॒वय॒उषो॒यदि॒वष्ट्यन्ति॑गृहात् |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

अस्तं᳚ननक्षे॒यस्मि᳚ञ्चा॒कन्दिवा॒नक्तं᳚श्नथि॒तावै᳚त॒सेन॑ || {4/18}{10.95.4}{10.8.5.4}{8.5.1.4}{1079, 932, 9877}

सा¦वसु॑¦दध॑ती¦श्वशु॑राय¦वयः॑¦उषः॑¦यदि॑¦वष्टि॑¦अन्ति॑ऽगृहात् |
अस्त᳚‌म्¦न॒न॒क्षे॒¦यस्मि॑न्¦चा॒कन्¦दिवा᳚¦नक्त᳚‌म्¦श्न॒थि॒ता¦वै॒त॒सेन॑ ||

त्रिःस्म॒माह्नः॑श्नथयोवैत॒सेनो॒तस्म॒मेऽव्य॑त्यैपृणासि |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

पुरू᳚र॒वोऽनु॑ते॒केत॑मायं॒राजा᳚मेवीरत॒न्व१॑(अ॒)स्तदा᳚सीः || {5/18}{10.95.5}{10.8.5.5}{8.5.1.5}{1080, 932, 9878}

त्रिः¦स्म॒¦मा॒¦अह्नः॑¦श्न॒थ॒यः॒¦वै॒त॒सेन॑¦उ॒त¦स्म॒¦मे॒¦अव्य॑त्यै¦पृ॒णा॒सि॒ |
पुरू᳚रवः¦अनु॑¦ते॒¦केत᳚‌म्¦आ॒य॒‌म्¦राजा᳚¦मे॒¦वी॒र॒¦त॒न्वः॑¦तत्¦आ॒सीः॒ ||

यासु॑जू॒र्णिःश्रेणिः॑सु॒म्नआ᳚पिर्ह्र॒देच॑क्षु॒र्नग्र॒न्थिनी᳚चर॒ण्युः |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

ता,अ॒ञ्जयो᳚ऽरु॒णयो॒स॑स्रुःश्रि॒येगावो॒धे॒नवो᳚ऽनवन्त || {6/18}{10.95.6}{10.8.5.6}{8.5.2.1}{1081, 932, 9879}

या¦सु॒ऽजू॒र्णिः¦श्रेणिः॑¦सु॒म्नेऽआ᳚पिः¦ह्र॒देऽच॑क्षुः¦न¦ग्र॒न्थिनी᳚¦च॒र॒ण्युः |
ताः¦अं॒जयः॑¦अ॒रु॒णयः॑¦न¦स॒स्रुः॒¦श्रि॒ये¦गावः॑¦न¦धे॒नवः॑¦अ॒न॒व॒न्त॒ ||

सम॑स्मि॒ञ्जाय॑मानआसत॒ग्ना,उ॒तेम॑वर्धन्न॒द्य१॑(अः॒)स्वगू᳚र्ताः |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

म॒हेयत्‌त्वा᳚पुरूरवो॒रणा॒याव॑र्धयन्दस्यु॒हत्या᳚यदे॒वाः || {7/18}{10.95.7}{10.8.5.7}{8.5.2.2}{1082, 932, 9880}

स‌म्¦अ॒स्मि॒न्¦जाय॑माने¦आ॒स॒त॒¦ग्नाः¦उ॒त¦ई॒‌म्¦अ॒व॒र्ध॒न्¦न॒द्यः॑¦स्वऽगू᳚र्ताः |
म॒हे¦यत्¦त्वा॒¦पु॒रू॒र॒वः॒¦रणा᳚य¦अव॑र्धयन्¦द॒स्यु॒ऽहत्या᳚य¦दे॒वाः ||

सचा॒यदा᳚सु॒जह॑ती॒ष्वत्क॒ममा᳚नुषीषु॒मानु॑षोनि॒षेवे᳚ |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

अप॑स्म॒मत्त॒रस᳚न्ती॒भु॒ज्युस्ता,अ॑त्रसन्‌रथ॒स्पृशो॒नाश्वाः᳚ || {8/18}{10.95.8}{10.8.5.8}{8.5.2.3}{1083, 932, 9881}

सचा᳚¦यत्¦आ॒सु॒¦जह॑तीषु¦अत्क᳚‌म्¦अमा᳚नुषीषु¦मानु॑षः¦नि॒ऽसेवे᳚ |
अप॑¦स्म॒¦मत्¦त॒रस᳚न्ती¦न¦भु॒ज्युः¦ताः¦अ॒त्र॒स॒न्¦र॒थ॒ऽस्पृशः॑¦न¦अश्वाः᳚ ||

यदा᳚सु॒मर्तो᳚,अ॒मृता᳚सुनि॒स्पृक्संक्षो॒णीभिः॒क्रतु॑भि॒र्नपृ॒ङ्क्ते |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

ता,आ॒तयो॒त॒न्वः॑शुम्भत॒स्वा,अश्वा᳚सो॒क्री॒ळयो॒दन्द॑शानाः || {9/18}{10.95.9}{10.8.5.9}{8.5.2.4}{1084, 932, 9882}

यत्¦आ॒सु॒¦मर्तः॑¦अ॒मृता᳚सु¦नि॒ऽस्पृक्¦स‌म्¦क्षो॒णीभिः॑¦क्रतु॑ऽभिः¦न¦पृ॒ङ्क्ते |
ताः¦आ॒तयः॑¦न¦त॒न्वः॑¦शु॒म्भ॒त॒¦स्वाः¦अश्वा᳚सः¦न¦क्री॒ळयः॑¦दन्द॑शानाः ||

वि॒द्युन्नयापत᳚न्ती॒दवि॑द्यो॒द्भर᳚न्तीमे॒,अप्या॒काम्या᳚नि |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

जनि॑ष्टो,अ॒पोनर्यः॒सुजा᳚तः॒प्रोर्वशी᳚तिरतदी॒र्घमायुः॑ || {10/18}{10.95.10}{10.8.5.10}{8.5.2.5}{1085, 932, 9883}

वि॒ऽद्युत्¦न¦या¦पत᳚न्ती¦दवि॑द्योत्¦भर᳚न्ती¦मे॒¦अप्या᳚¦काम्या᳚नि |
जनि॑ष्टो॒ इति॑¦अ॒पः¦नर्यः॑¦सुऽजा᳚तः¦प्र¦उ॒र्वशी᳚¦ति॒र॒त॒¦दी॒र्घ‌म्¦आयुः॑ ||

ज॒ज्ञि॒षइ॒त्थागो॒पीथ्या᳚य॒हिद॒धाथ॒तत्‌पु॑रूरवोम॒ओजः॑ |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

अशा᳚संत्वावि॒दुषी॒सस्मि॒न्नह॒न्नम॒आशृ॑णोः॒किम॒भुग्व॑दासि || {11/18}{10.95.11}{10.8.5.11}{8.5.3.1}{1086, 932, 9884}

ज॒ज्ञि॒षे¦इ॒त्था¦गो॒ऽपीथ्या᳚य¦हि¦द॒धाथ॑¦तत्¦पु॒रू॒र॒वः॒¦मे॒¦ओजः॑ |
अशा᳚स‌म्¦त्वा॒¦वि॒दुषी᳚¦सस्मि॑न्¦अह॑न्¦न¦मे॒¦आ¦अ॒शृ॒णोः॒¦कि‌म्¦अ॒भुक्¦व॒दा॒सि॒ ||

क॒दासू॒नुःपि॒तरं᳚जा॒तइ॑च्छाच्च॒क्रन्नाश्रु॑वर्तयद्विजा॒नन् |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

कोदम्प॑ती॒सम॑नसा॒वियू᳚यो॒दध॒यद॒ग्निःश्वशु॑रेषु॒दीद॑यत् || {12/18}{10.95.12}{10.8.5.12}{8.5.3.2}{1087, 932, 9885}

क॒दा¦सू॒नुः¦पि॒तर᳚‌म्¦जा॒तः¦इ॒च्छा॒त्¦च॒क्रन्¦न¦अश्रु॑¦व॒र्त॒य॒त्¦वि॒ऽजा॒नन् |
कः¦दंप॑ती॒ इति॒ द‌म्ऽप॑ती¦सऽम॑नसा¦वि¦यू॒यो॒त्¦अध॑¦यत्¦अ॒ग्निः¦श्वशु॑रेषु¦दीद॑यत् ||

प्रति॑ब्रवाणिव॒र्तय॑ते॒,अश्रु॑च॒क्रन्नक्र᳚न्ददा॒ध्ये᳚शि॒वायै᳚ |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

प्रतत्ते᳚हिनवा॒यत्ते᳚,अ॒स्मेपरे॒ह्यस्तं᳚न॒हिमू᳚र॒मापः॑ || {13/18}{10.95.13}{10.8.5.13}{8.5.3.3}{1088, 932, 9886}

प्रति॑¦ब्र॒वा॒णि॒¦व॒र्तय॑ते¦अश्रु॑¦च॒क्रन्¦न¦क्र॒न्द॒त्¦आ॒ऽध्ये᳚¦शि॒वायै᳚ |
प्र¦तत्¦ते॒¦हि॒न॒व॒¦यत्¦ते॒¦अ॒स्मे इति॑¦परा᳚¦इ॒हि॒¦अस्त᳚‌म्¦न॒हि¦मू॒र॒¦मा॒¦आपः॑ ||

सु॒दे॒वो,अ॒द्यप्र॒पते॒दना᳚वृत्परा॒वतं᳚पर॒मांगन्त॒वा,उ॑ |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

अधा॒शयी᳚त॒निरृ॑तेरु॒पस्थेऽधै᳚नं॒वृका᳚रभ॒सासो᳚,अ॒द्युः || {14/18}{10.95.14}{10.8.5.14}{8.5.3.4}{1089, 932, 9887}

सु॒ऽदे॒वः¦अ॒द्य¦प्र॒ऽपते᳚त्¦अना᳚वृत्¦प॒रा॒ऽवत᳚‌म्¦प॒र॒मा‌म्¦गन्त॒वै¦ऊँ॒ इति॑ |
अध॑¦शयी᳚त¦निःऽऋ॑तेः¦उ॒पऽस्थे᳚¦अध॑¦ए॒न॒‌म्¦वृकाः᳚¦र॒भ॒सासः॑¦अ॒द्युः ||

पुरू᳚रवो॒मामृ॑था॒माप्रप॑प्तो॒मात्वा॒वृका᳚सो॒,अशि॑वासक्षन् |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

वैस्त्रैणा᳚निस॒ख्यानि॑सन्तिसालावृ॒काणां॒हृद॑यान्ये॒ता || {15/18}{10.95.15}{10.8.5.15}{8.5.3.5}{1090, 932, 9888}

पुरू᳚रवः¦मा¦मृ॒थाः॒¦मा¦प्र¦प॒प्तः॒¦मा¦त्वा॒¦वृका᳚सः¦अशि॑वासः¦ऊँ॒ इति॑¦क्ष॒न् |
न¦वै¦स्त्रैणा᳚नि¦स॒ख्यानि॑¦स॒न्ति॒¦सा॒ला॒वृ॒काणा᳚‌म्¦हृद॑यानि¦ए॒ता ||

यद्विरू॒पाच॑रं॒मर्त्ये॒ष्वव॑सं॒रात्रीः᳚श॒रद॒श्चत॑स्रः |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

घृ॒तस्य॑स्तो॒कंस॒कृदह्न॑आश्नां॒तादे॒वेदंता᳚तृपा॒णाच॑रामि || {16/18}{10.95.16}{10.8.5.16}{8.5.4.1}{1091, 932, 9889}

यत्¦विऽरू᳚पा¦अच॑र‌म्¦मर्त्ये᳚षु¦अव॑स‌म्¦रात्रीः᳚¦श॒रदः॑¦चत॑स्रः |
घृ॒तस्य॑¦स्तो॒क‌म्¦स॒कृत्¦अह्नः॑¦आ॒श्ना॒‌म्¦तात्¦ए॒व¦इ॒द‌म्¦त॒तृ॒पा॒णा¦च॒रा॒मि॒ ||

अ॒न्त॒रि॒क्ष॒प्रांरज॑सोवि॒मानी॒मुप॑शिक्षाम्यु॒र्वशीं॒वसि॑ष्ठः |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

उप॑त्वारा॒तिःसु॑कृ॒तस्य॒तिष्ठा॒न्निव॑र्तस्व॒हृद॑यंतप्यतेमे || {17/18}{10.95.17}{10.8.5.17}{8.5.4.2}{1092, 932, 9890}

अ॒न्त॒रि॒क्ष॒ऽप्रा‌म्¦रज॑सः¦वि॒ऽमानी᳚‌म्¦उप॑¦शि॒क्षा॒मि॒¦उ॒र्वशी᳚‌म्¦वसि॑ष्ठः |
उप॑¦त्वा॒¦रा॒तिः¦सु॒ऽकृ॒तस्य॑¦तिष्ठा᳚त्¦नि¦व॒र्त॒स्व॒¦हृद॑य‌म्¦त॒प्य॒ते॒¦मे॒ ||

इति॑त्वादे॒वा,इ॒मआ᳚हुरैळ॒यथे᳚मे॒तद्‌भव॑सिमृ॒त्युब᳚न्धुः |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

प्र॒जाते᳚दे॒वान्‌ह॒विषा᳚यजातिस्व॒र्गउ॒त्वमपि॑मादयासे || {18/18}{10.95.18}{10.8.5.18}{8.5.4.3}{1093, 932, 9891}

इति॑¦त्वा॒¦दे॒वाः¦इ॒मे¦आ॒हुः॒¦ऐ॒ळ॒¦यथा᳚¦ई॒‌म्¦ए॒तत्¦भव॑सि¦मृ॒त्युऽब᳚न्धुः |
प्र॒ऽजा¦ते॒¦दे॒वान्¦ह॒विषा᳚¦य॒जा॒ति॒¦स्वः॒ऽगे¦ऊँ॒ इति॑¦त्व‌म्¦अपि॑¦मा॒द॒या॒से॒ ||

[96] प्रतइति त्रयोदशर्चस्य सूक्तस्यांगिरसोबरुर्हरिर्जगत्यंत्येद्वेत्रिष्टुभौ ( ऐंद्रः सर्वहरिर्वर्षिरत्र | हरिरितींद्रनाम | शौनकस्तु मुखतएवैतत्सूक्तर्मेंद्रमित्याह । हरिरितींद्राश्वनामेतिचकश्चित् । एवंहरिशब्दार्थे विप्रतिपत्तावप्याकरो दितरिशब्दोच्चारणंयुक्तमुत्पश्यामः) |
प्रते᳚म॒हेवि॒दथे᳚शंसिषं॒हरी॒प्रते᳚वन्वेव॒नुषो᳚हर्य॒तंमद᳚म् |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

घृ॒तंयोहरि॑भि॒श्चारु॒सेच॑त॒त्वा᳚विशन्तु॒हरि॑वर्पसं॒गिरः॑ || {1/13}{10.96.1}{10.8.6.1}{8.5.5.1}{1094, 933, 9892}

प्र¦ते॒¦म॒हे¦वि॒दथे᳚¦श॒म्सि॒ष॒‌म्¦हरी॒ इति॑¦प्र¦ते॒¦व॒न्वे॒¦व॒नुषः॑¦ह॒र्य॒त‌म्¦मद᳚‌म् |
घृ॒त‌म्¦न¦यः¦हरि॑ऽभिः¦चारु॑¦सेच॑ते¦आ¦त्वा॒¦वि॒श॒न्तु॒¦हरि॑ऽवर्पस‌म्¦गिरः॑ ||

हरिं॒हियोनि॑म॒भियेस॒मस्व॑रन्हि॒न्वन्तो॒हरी᳚दि॒व्यंयथा॒सदः॑ |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

यंपृ॒णन्ति॒हरि॑भि॒र्नधे॒नव॒इन्द्रा᳚यशू॒षंहरि॑वन्तमर्चत || {2/13}{10.96.2}{10.8.6.2}{8.5.5.2}{1095, 933, 9893}

हरि᳚‌म्¦हि¦योनि᳚‌म्¦अ॒भि¦ये¦स॒‌म्।आस्व॑रन्¦हि॒न्वन्तः॑¦हरी॒ इति॑¦दि॒व्य‌म्¦यथा᳚¦सदः॑ |
आ¦य‌म्¦पृ॒णन्ति॑¦हरि॑ऽभिः¦न¦धे॒नवः॑¦इन्द्रा᳚य¦शू॒ष‌म्¦हरि॑ऽवन्त‌म्¦अ॒र्च॒त॒ ||

सो,अ॑स्य॒वज्रो॒हरि॑तो॒आ᳚य॒सोहरि॒र्निका᳚मो॒हरि॒रागभ॑स्त्योः |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

द्यु॒म्नीसु॑शि॒प्रोहरि॑मन्युसायक॒इन्द्रे॒निरू॒पाहरि॑तामिमिक्षिरे || {3/13}{10.96.3}{10.8.6.3}{8.5.5.3}{1096, 933, 9894}

सः¦अ॒स्य॒¦वज्रः॑¦हरि॑तः¦यः¦आ॒य॒सः¦हरिः॑¦निऽका᳚मः¦हरिः॑¦आ¦गभ॑स्त्योः |
द्यु॒म्नी¦सु॒ऽशि॒प्रः¦हरि॑मन्युऽसायकः¦इन्द्रे᳚¦नि¦रू॒पा¦हरि॑ता¦मि॒मि॒क्षि॒रे॒ ||

दि॒विके॒तुरधि॑धायिहर्य॒तोवि॒व्यच॒द्वज्रो॒हरि॑तो॒रंह्या᳚ |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

तु॒ददहिं॒हरि॑शिप्रो॒आ᳚य॒सःस॒हस्र॑शोका,अभवद्धरिम्भ॒रः || {4/13}{10.96.4}{10.8.6.4}{8.5.5.4}{1097, 933, 9895}

दि॒वि¦न¦के॒तुः¦अधि॑¦धा॒यि॒¦ह॒र्य॒तः¦वि॒व्यच॑त्¦वज्रः॑¦हरि॑तः¦न¦रंह्या᳚ |
तु॒दत्¦अहि᳚‌म्¦हरि॑ऽशिप्रः¦यः¦आ॒य॒सः¦स॒हस्र॑ऽशोकाः¦अ॒भ॒व॒त्¦ह॒रि॒‌म्ऽभ॒रः ||

त्वंत्व॑महर्यथा॒,उप॑स्तुतः॒पूर्वे᳚भिरिन्द्रहरिकेश॒यज्व॑भिः |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

त्वंह᳚र्यसि॒तव॒विश्व॑मु॒क्थ्य१॑(अ॒)मसा᳚मि॒राधो᳚हरिजातहर्य॒तम् || {5/13}{10.96.5}{10.8.6.5}{8.5.5.5}{1098, 933, 9896}

त्व‌म्ऽत्व᳚‌म्¦अ॒ह॒र्य॒थाः॒¦उप॑ऽस्तुतः¦पूर्वे᳚भिः¦इ॒न्द्र॒¦ह॒रि॒ऽके॒श॒¦यज्व॑ऽभिः |
त्व‌म्¦ह॒र्य॒सि॒¦तव॑¦विश्व᳚‌म्¦उ॒क्थ्य᳚‌म्¦असा᳚मि¦राधः॑¦ह॒रि॒ऽजा॒त॒¦ह॒र्य॒त‌म् ||

ताव॒ज्रिणं᳚म॒न्दिनं॒स्तोम्यं॒मद॒इन्द्रं॒रथे᳚वहतोहर्य॒ताहरी᳚ |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

पु॒रूण्य॑स्मै॒सव॑नानि॒हर्य॑त॒इन्द्रा᳚य॒सोमा॒हर॑योदधन्‌विरे || {6/13}{10.96.6}{10.8.6.6}{8.5.6.1}{1099, 933, 9897}

ता¦व॒ज्रिण᳚‌म्¦म॒न्दिन᳚‌म्¦स्तोम्य᳚‌म्¦मदे᳚¦इन्द्र᳚‌म्¦रथे᳚¦व॒ह॒तः॒¦ह॒र्य॒ता¦हरी॒ इति॑ |
पु॒रूणि॑¦अ॒स्मै॒¦सव॑नानि¦हर्य॑ते¦इन्द्रा᳚य¦सोमाः᳚¦हर॑यः¦द॒ध॒न्वि॒रे॒ ||

अरं॒कामा᳚य॒हर॑योदधन्‌विरेस्थि॒राय॑हिन्व॒न्हर॑यो॒हरी᳚तु॒रा |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

अर्व॑द्भि॒र्योहरि॑भि॒र्जोष॒मीय॑ते॒सो,अ॑स्य॒कामं॒हरि॑वन्तमानशे || {7/13}{10.96.7}{10.8.6.7}{8.5.6.2}{1100, 933, 9898}

अर᳚‌म्¦कामा᳚य¦हर॑यः¦द॒ध॒न्वि॒रे॒¦स्थि॒राय॑¦हि॒न्व॒न्¦हर॑यः¦हरी॒ इति॑¦तु॒रा |
अर्व॑त्ऽभिः¦यः¦हरि॑ऽभिः¦जोष᳚‌म्¦ईय॑ते¦सः¦अ॒स्य॒¦काम᳚‌म्¦हरि॑ऽवन्त‌म्¦आ॒न॒शे॒ ||

हरि॑श्मशारु॒र्हरि॑केशआय॒सस्तु॑र॒स्पेये॒योह॑रि॒पा,अव॑र्धत |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

अर्व॑द्भि॒र्योहरि॑भिर्वा॒जिनी᳚वसु॒रति॒विश्वा᳚दुरि॒तापारि॑ष॒द्धरी᳚ || {8/13}{10.96.8}{10.8.6.8}{8.5.6.3}{1101, 933, 9899}

हरि॑ऽश्मशारुः¦हरि॑ऽकेशः¦आ॒य॒सः¦तु॒रः॒ऽपेये᳚¦यः¦ह॒रि॒ऽपाः¦अव॑र्धत |
अर्व॑त्ऽभिः¦यः¦हरि॑ऽभिः¦वा॒जिनी᳚ऽवसुः¦अति॑¦विश्वा᳚¦दुः॒ऽ‌इ॒ता¦पारि॑षत्¦हरी॒ इति॑ ||

स्रुवे᳚व॒यस्य॒हरि॑णीविपे॒ततुः॒शिप्रे॒वाजा᳚य॒हरि॑णी॒दवि॑ध्वतः |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

प्रयत्कृ॒तेच॑म॒सेमर्मृ॑ज॒द्धरी᳚पी॒त्वामद॑स्यहर्य॒तस्यान्ध॑सः || {9/13}{10.96.9}{10.8.6.9}{8.5.6.4}{1102, 933, 9900}

स्रुवा᳚ऽ‌इव¦यस्य॑¦हरि॑णी॒ इति॑¦वि॒ऽपे॒ततुः॑¦शिप्रे॒ इति॑¦वाजा᳚य¦हरि॑णी॒ इति॑¦दवि॑ध्वतः |
प्र¦यत्¦कृ॒ते¦च॒म॒से¦मर्मृ॑जत्¦हरी॒ इति॑¦पी॒त्वा¦मद॑स्य¦ह॒र्य॒तस्य॑¦अन्ध॑सः ||

उ॒तस्म॒सद्म॑हर्य॒तस्य॑प॒स्त्यो॒३॑(ओ॒)रत्यो॒वाजं॒हरि॑वाँ,अचिक्रदत् |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

म॒हीचि॒द्धिधि॒षणाह᳚र्य॒दोज॑साबृ॒हद्वयो᳚दधिषेहर्य॒तश्चि॒दा || {10/13}{10.96.10}{10.8.6.10}{8.5.6.5}{1103, 933, 9901}

उ॒त¦स्म॒¦सद्म॑¦ह॒र्य॒तस्य॑¦प॒स्त्योः᳚¦अत्यः॑¦न¦वाज᳚‌म्¦हरि॑ऽवान्¦अ॒चि॒क्र॒द॒त् |
म॒ही¦चि॒त्¦हि¦धि॒षणा᳚¦अह᳚र्यत्¦ओज॑सा¦बृ॒हत्¦वयः॑¦द॒धि॒षे॒¦ह॒र्य॒तः¦चि॒त्¦आ ||

रोद॑सी॒हर्य॑माणोमहि॒त्वानव्यं᳚नव्यंहर्यसि॒मन्म॒नुप्रि॒यम् |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

प्रप॒स्त्य॑मसुरहर्य॒तंगोरा॒विष्कृ॑धि॒हर॑ये॒सूर्या᳚य || {11/13}{10.96.11}{10.8.6.11}{8.5.7.1}{1104, 933, 9902}

आ¦रोद॑सी॒ इति॑¦हर्य॑माणः¦म॒हि॒ऽत्वा¦नव्य᳚‌म्ऽनव्य‌म्¦ह॒र्य॒सि॒¦मन्म॑¦नु¦प्रि॒य‌म् |
प्र¦प॒स्त्य᳚‌म्¦अ॒सु॒र॒¦ह॒र्य॒त‌म्¦गोः¦आ॒विः¦कृ॒धि॒¦हर॑ये¦सूर्या᳚य ||

त्वा᳚ह॒र्यन्तं᳚प्र॒युजो॒जना᳚नां॒रथे᳚वहन्तु॒हरि॑शिप्रमिन्द्र |{आङ्गिरसो बरुः | हरिस्तुतिः | त्रिष्टुप्}

पिबा॒यथा॒प्रति॑भृतस्य॒मध्वो॒हर्य᳚न्‌य॒ज्ञंस॑ध॒मादे॒दशो᳚णिम् || {12/13}{10.96.12}{10.8.6.12}{8.5.7.2}{1105, 933, 9903}

आ¦त्वा॒¦ह॒र्यन्त᳚‌म्¦प्र॒ऽयुजः॑¦जना᳚ना‌म्¦रथे᳚¦व॒ह॒न्तु॒¦हरि॑ऽशिप्र‌म्¦इ॒न्द्र॒ |
पिब॑¦यथा᳚¦प्रति॑ऽभृतस्य¦मध्वः॑¦हर्य॑न्¦य॒ज्ञ‌म्¦स॒ध॒ऽमादे᳚¦दश॑ऽओणि‌म् ||

अपाः॒पूर्वे᳚षांहरिवःसु॒ताना॒मथो᳚,इ॒दंसव॑नं॒केव॑लंते |{आङ्गिरसो बरुः | हरिस्तुतिः | त्रिष्टुप्}

म॒म॒द्धिसोमं॒मधु॑मन्तमिन्द्रस॒त्रावृ॑षञ्ज॒ठर॒वृ॑षस्व || {13/13}{10.96.13}{10.8.6.13}{8.5.7.3}{1106, 933, 9904}

अपाः᳚¦पूर्वे᳚षा‌म्¦ह॒रि॒ऽवः॒¦सु॒ताना᳚‌म्¦अथो॒ इति॑¦इ॒द‌म्¦सव॑न‌म्¦केव॑ल‌म्¦ते॒ |
म॒म॒द्धि¦सोम᳚‌म्¦मधु॑ऽमन्त‌म्¦इ॒न्द्र॒¦स॒त्रा¦वृ॒ष॒न्¦ज॒ठरे᳚¦आ¦वृ॒ष॒स्व॒ ||

[97] याओषधीरिति त्रयोविंशत्यृचस्य सूक्तस्याथर्वणोभिषगोषधयोनुष्टुप् |
या,ओष॑धीः॒पूर्वा᳚जा॒तादे॒वेभ्य॑स्त्रियु॒गंपु॒रा |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

मनै॒नुब॒भ्रूणा᳚म॒हंश॒तंधामा᳚निस॒प्तच॑ || {1/23}{10.97.1}{10.8.7.1}{8.5.8.1}{1107, 934, 9905}

याः¦ओष॑धीः¦पूर्वाः᳚¦जा॒ताः¦दे॒वेभ्यः॑¦त्रि॒ऽयु॒ग‌म्¦पु॒रा | मनै᳚¦नु¦ब॒भ्रूणा᳚‌म्¦अ॒ह‌म्¦श॒त‌म्¦धामा᳚नि¦स॒प्त¦च॒ ||

श॒तंवो᳚,अम्ब॒धामा᳚निस॒हस्र॑मु॒तवो॒रुहः॑ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

अधा᳚शतक्रत्वोयू॒यमि॒मंमे᳚,अग॒दंकृ॑त || {2/23}{10.97.2}{10.8.7.2}{8.5.8.2}{1108, 934, 9906}

श॒त‌म्¦वः॒¦अ॒म्ब॒¦धामा᳚नि¦स॒हस्र᳚‌म्¦उ॒त¦वः॒¦रुहः॑ | अध॑¦श॒त॒ऽक्र॒त्वः॒¦यू॒य‌म्¦इ॒म‌म्¦मे॒¦अ॒ग॒द‌म्¦कृ॒त॒ ||

ओष॑धीः॒प्रति॑मोदध्वं॒पुष्प॑वतीःप्र॒सूव॑रीः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

अश्वा᳚,इवस॒जित्व॑रीर्वी॒रुधः॑पारयि॒ष्ण्वः॑ || {3/23}{10.97.3}{10.8.7.3}{8.5.8.3}{1109, 934, 9907}

ओष॑धीः¦प्रति॑¦मो॒द॒ध्व॒‌म्¦पुष्प॑ऽवतीः¦प्र॒ऽसूव॑रीः | अश्वाः᳚ऽ‌इव¦स॒ऽजित्व॑रीः¦वी॒रुधः॑¦पा॒र॒यि॒ष्ण्वः॑ ||

ओष॑धी॒रिति॑मातर॒स्तद्वो᳚देवी॒रुप॑ब्रुवे |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

स॒नेय॒मश्वं॒गांवास॑आ॒त्मानं॒तव॑पूरुष || {4/23}{10.97.4}{10.8.7.4}{8.5.8.4}{1110, 934, 9908}

ओष॑धीः¦इति॑¦मा॒त॒रः॒¦तत्¦वः॒¦दे॒वीः॒¦उप॑¦ब्रु॒वे॒ | स॒नेय᳚‌म्¦अश्व᳚‌म्¦गा‌म्¦वासः॑¦आ॒त्मान᳚‌म्¦तव॑¦पु॒रु॒ष॒ ||

अ॒श्व॒त्थेवो᳚नि॒षद॑नंप॒र्णेवो᳚वस॒तिष्कृ॒ता |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

गो॒भाज॒इत्किला᳚सथ॒यत्स॒नव॑थ॒पूरु॑षम् || {5/23}{10.97.5}{10.8.7.5}{8.5.8.5}{1111, 934, 9909}

अ॒श्व॒त्थे¦वः॒¦नि॒ऽसद॑न‌म्¦प॒र्णे¦वः॒¦व॒स॒तिः¦कृ॒ता | गो॒ऽभाजः॑¦इत्¦किल॑¦अ॒स॒थ॒¦यत्¦स॒नव॑थ¦पुरु॑ष‌म् ||

यत्रौष॑धीःस॒मग्म॑त॒राजा᳚नः॒समि॑ताविव |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

विप्रः॒उ॑च्यतेभि॒षग्र॑क्षो॒हामी᳚व॒चात॑नः || {6/23}{10.97.6}{10.8.7.6}{8.5.9.1}{1112, 934, 9910}

यत्र॑¦ओष॑धीः¦स॒‌म्।आग्म॑त¦राजा᳚नः¦समि॑तौऽ‌इव | विप्रः॑¦सः¦उ॒च्य॒ते॒¦भि॒षक्¦र॒क्षः॒ऽहा¦अ॒मी॒व॒ऽचात॑नः ||

अ॒श्वा॒व॒तींसो᳚माव॒तीमू॒र्जय᳚न्ती॒मुदो᳚जसम् |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

आवि॑त्सि॒सर्वा॒,ओष॑धीर॒स्मा,अ॑रि॒ष्टता᳚तये || {7/23}{10.97.7}{10.8.7.7}{8.5.9.2}{1113, 934, 9911}

अ॒श्व॒ऽव॒ती‌म्¦स॒म॒ऽव॒ती‌म्¦ऊ॒र्जय᳚न्ती‌म्¦उत्ऽओ᳚जस‌म् | आ¦अ॒वि॒त्सि॒¦सर्वाः᳚¦ओष॑धीः¦अ॒स्मै¦अ॒रि॒ष्टऽता᳚तये ||

उच्छुष्मा॒,ओष॑धीनां॒गावो᳚गो॒ष्ठादि॑वेरते |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

धनं᳚सनि॒ष्यन्ती᳚नामा॒त्मानं॒तव॑पूरुष || {8/23}{10.97.8}{10.8.7.8}{8.5.9.3}{1114, 934, 9912}

उत्¦शुष्माः᳚¦ओष॑धीना‌म्¦गावः॑¦गो॒स्थात्ऽ‌इ᳚व¦ई॒र॒ते॒ | धन᳚‌म्¦स॒नि॒ष्यन्ती᳚ना‌म्¦आ॒त्मान᳚‌म्¦तव॑¦पु॒रु॒ष॒ ||

इष्कृ॑ति॒र्नाम॑वोमा॒ताथो᳚यू॒यंस्थ॒निष्कृ॑तीः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

सी॒राःप॑त॒त्रिणीः᳚स्थन॒यदा॒मय॑ति॒निष्कृ॑थ || {9/23}{10.97.9}{10.8.7.9}{8.5.9.4}{1115, 934, 9913}

इष्कृ॑तिः¦नाम॑¦वः॒¦मा॒ता¦अथो॒ इति॑¦यू॒य‌म्¦स्थ॒¦निःऽकृ॑तीः | सी॒राः¦प॒त॒त्रिणीः᳚¦स्थ॒न॒¦यत्¦आ॒मय॑ति¦निः¦कृ॒थ॒ ||

अति॒विश्वाः᳚परि॒ष्ठाःस्ते॒नइ॑वव्र॒जम॑क्रमुः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

ओष॑धीः॒प्राचु॑च्यवु॒र्यत्किंच॑त॒न्वो॒३॑(ओ॒)रपः॑ || {10/23}{10.97.10}{10.8.7.10}{8.5.9.5}{1116, 934, 9914}

अति॑¦विश्वाः᳚¦प॒रि॒ऽस्थाः¦स्ते॒नःऽ‌इ᳚व¦व्र॒ज‌म्¦अ॒क्र॒मुः॒ | ओष॑धीः¦प्र¦अ॒चु॒च्य॒वुः॒¦यत्¦कि‌म्¦च॒¦त॒न्वः॑¦रपः॑ ||

यदि॒मावा॒जय᳚न्न॒हमोष॑धी॒र्हस्त॑आद॒धे |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

आ॒त्मायक्ष्म॑स्यनश्यतिपु॒राजी᳚व॒गृभो᳚यथा || {11/23}{10.97.11}{10.8.7.11}{8.5.10.1}{1117, 934, 9915}

यत्¦इ॒माः¦वा॒जय॑न्¦अ॒ह‌म्¦ओष॑धीः¦हस्ते᳚¦आ॒ऽद॒धे | आ॒त्मा¦यक्ष्म॑स्य¦न॒श्य॒ति॒¦पु॒रा¦जी॒व॒ऽगृभः॑¦य॒था॒ ||

यस्यौ᳚षधीःप्र॒सर्प॒थाङ्ग॑मङ्गं॒परु॑ष्परुः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

ततो॒यक्ष्मं॒विबा᳚धध्वउ॒ग्रोम॑ध्यम॒शीरि॑व || {12/23}{10.97.12}{10.8.7.12}{8.5.10.2}{1118, 934, 9916}

यस्य॑¦ओ॒ष॒धीः॒¦प्र॒ऽसर्प॑थ¦अङ्ग᳚‌म्।आङ्ग‌म्¦परुः॑ऽपरुः | ततः॑¦यक्ष्म᳚‌म्¦वि¦बा॒ध॒ध्वे॒¦उ॒ग्रः¦म॒ध्य॒म॒शीःऽ‌इ᳚व ||

सा॒कंय॑क्ष्म॒प्रप॑त॒चाषे᳚णकिकिदी॒विना᳚ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

सा॒कंवात॑स्य॒ध्राज्या᳚सा॒कंन॑श्यनि॒हाक॑या || {13/23}{10.97.13}{10.8.7.13}{8.5.10.3}{1119, 934, 9917}

सा॒क‌म्¦य॒क्ष्म॒¦प्र¦प॒त॒¦चाषे᳚ण¦कि॒कि॒दी॒विना᳚ | सा॒क‌म्¦वात॑स्य¦ध्राज्या᳚¦सा॒क‌म्¦न॒श्य॒¦नि॒ऽहाक॑या ||

अ॒न्यावो᳚,अ॒न्याम॑वत्व॒न्यान्यस्या॒,उपा᳚वत |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

ताःसर्वाः᳚संविदा॒ना,इ॒दंमे॒प्राव॑ता॒वचः॑ || {14/23}{10.97.14}{10.8.7.14}{8.5.10.4}{1120, 934, 9918}

अ॒न्या¦वः॒¦अ॒न्या‌म्¦अ॒व॒तु॒¦अ॒न्या¦अ॒न्यस्याः᳚¦उप॑¦अ॒व॒त॒ | ताः¦सर्वाः᳚¦स॒‌म्ऽवि॒दा॒नाः¦इ॒द‌म्¦मे॒¦प्र¦अ॒व॒त॒¦वचः॑ ||

याःफ॒लिनी॒र्या,अ॑फ॒ला¦,अ॑पु॒ष्पायाश्च॑पु॒ष्पिणीः᳚ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

बृह॒स्पति॑प्रसूता॒¦स्तानो᳚मुञ्च॒न्त्वंह॑सः || {15/23}{10.97.15}{10.8.7.15}{8.5.10.5}{1121, 934, 9919}

याः¦फ॒लिनीः᳚¦याः¦अ॒फ॒लाः¦अ॒पु॒ष्पाः¦याः¦च॒¦पु॒ष्पिणीः᳚ | बृह॒स्पति॑ऽप्रसूताः¦ताः¦नः॒¦मुं॒च॒न्तु॒¦अंह॑सः ||

मु॒ञ्चन्तु॑माशप॒थ्या॒३॑(आ॒)दथो᳚वरु॒ण्या᳚दु॒त |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

अथो᳚य॒मस्य॒पड्बी᳚शा॒त्सर्व॑स्माद्देवकिल्बि॒षात् || {16/23}{10.97.16}{10.8.7.16}{8.5.11.1}{1122, 934, 9920}

मुं॒चन्तु॑¦मा॒¦श॒प॒थ्या᳚त्¦अथो॒ इति॑¦व॒रु॒ण्या᳚त्¦उ॒त | अथो॒ इति॑¦य॒मस्य॑¦पड्बी᳚शात्¦सर्व॑स्मात्¦दे॒व॒ऽकि॒ल्बि॒षात् ||

अ॒व॒पत᳚न्तीरवदन्दि॒वओष॑धय॒स्परि॑ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

यंजी॒वम॒श्नवा᳚महै॒रि॑ष्याति॒पूरु॑षः || {17/23}{10.97.17}{10.8.7.17}{8.5.11.2}{1123, 934, 9921}

अ॒व॒ऽपत᳚न्तीः¦अ॒व॒द॒न्¦दि॒वः¦ओष॑धयः¦परि॑ | य‌म्¦जी॒व‌म्¦अ॒श्नवा᳚महै¦न¦सः¦रि॒ष्या॒ति॒¦पुरु॑षः ||

या,ओष॑धीः॒सोम॑राज्ञीर्ब॒ह्वीःश॒तवि॑चक्षणाः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

तासां॒त्वम॑स्युत्त॒मारं॒कामा᳚य॒शंहृ॒दे || {18/23}{10.97.18}{10.8.7.18}{8.5.11.3}{1124, 934, 9922}

याः¦ओष॑धीः¦सोम॑ऽराज्ञीः¦ब॒ह्वीः¦श॒तऽवि॑चक्षणाः | तासा᳚‌म्¦त्व‌म्¦अ॒सि॒¦उ॒त्ऽत॒मा¦अर᳚‌म्¦कामा᳚य¦श‌म्¦हृ॒दे ||

या,ओष॑धीः॒सोम॑राज्ञी॒र्विष्ठि॑ताःपृथि॒वीमनु॑ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

बृह॒स्पति॑प्रसूता,अ॒स्यैसंद॑त्तवी॒र्य᳚म् || {19/23}{10.97.19}{10.8.7.19}{8.5.11.4}{1125, 934, 9923}

याः¦ओष॑धीः¦सोम॑ऽराज्ञीः¦विऽस्थि॑ताः¦पृ॒थि॒वी‌म्¦अनु॑ | बृ॒ह॒स्पति॑ऽप्रसूताः¦अ॒स्यै¦स‌म्¦द॒त्त॒¦वी॒र्य᳚‌म् ||

मावो᳚रिषत्खनि॒तायस्मै᳚चा॒हंखना᳚मिवः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

द्वि॒पच्चतु॑ष्पद॒स्माकं॒सर्व॑मस्त्वनातु॒रम् || {20/23}{10.97.20}{10.8.7.20}{8.5.11.5}{1126, 934, 9924}

मा¦वः॒¦रि॒ष॒त्¦ख॒नि॒ता¦यस्मै᳚¦च॒¦अ॒ह‌म्¦खना᳚मि¦वः॒ | द्वि॒ऽपत्¦चतुः॑ऽपत्¦अ॒स्माक᳚‌म्¦सर्व᳚‌म्¦अ॒स्तु॒¦अ॒ना॒तु॒र‌म् ||

याश्चे॒दमु॑पशृ॒ण्वन्ति॒याश्च॑दू॒रंपरा᳚गताः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

सर्वाः᳚सं॒गत्य॑वीरुधो॒ऽस्यैसंद॑त्तवी॒र्य᳚म् || {21/23}{10.97.21}{10.8.7.21}{8.5.11.6}{1127, 934, 9925}

याः¦च॒¦इ॒द‌म्¦उ॒प॒ऽशृ॒ण्वन्ति॑¦याः¦च॒¦दू॒र‌म्¦परा᳚ऽगताः | सर्वाः᳚¦स॒‌म्ऽगत्य॑¦वी॒रु॒धः॒¦अ॒स्यै¦स‌म्¦द॒त्त॒¦वी॒र्य᳚‌म् ||

ओष॑धयः॒संव॑दन्ते॒सोमे᳚नस॒हराज्ञा᳚ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

यस्मै᳚कृ॒णोति॑ब्राह्म॒णस्तंरा᳚जन्‌पारयामसि || {22/23}{10.97.22}{10.8.7.22}{8.5.11.7}{1128, 934, 9926}

ओष॑धयः¦स‌म्¦व॒द॒न्ते॒¦सोमे᳚न¦स॒ह¦राज्ञा᳚ | यस्मै᳚¦कृ॒णोति॑¦ब्रा॒ह्म॒णः¦त‌म्¦रा॒ज॒न्¦पा॒र॒या॒म॒सि॒ ||

त्वमु॑त्त॒मास्यो᳚षधे॒तव॑वृ॒क्षा,उप॑स्तयः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

उप॑स्तिरस्तु॒सो॒३॑(ओ॒)ऽस्माकं॒यो,अ॒स्माँ,अ॑भि॒दास॑ति || {23/23}{10.97.23}{10.8.7.23}{8.5.11.8}{1129, 934, 9927}

त्व‌म्¦उ॒त्ऽत॒मा¦अ॒सि॒¦ओ॒ष॒धे॒¦तव॑¦वृ॒क्षाः¦उप॑स्तयः | उप॑स्तिः¦अ॒स्तु॒¦सः¦अ॒स्माक᳚‌म्¦यः¦अ॒स्मान्¦अ॒भि॒ऽदास॑ति ||

[98] बृहस्पत इति द्वादशर्चस्य सूक्तस्यार्ष्टिषेणो देवापिर्देवास्त्रिष्टुप् | (शौनकस्त्वस्मिन्सूक्ते आद्यानांचतसृणां बृहस्पतिस्ततश्चतसृणां देवास्ततः पंचानामग्निरित्येवं देवताव्यवस्थामाह) |
बृह॑स्पते॒प्रति॑मेदे॒वता᳚मिहिमि॒त्रोवा॒यद्वरु॑णो॒वासि॑पू॒षा |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

आ॒दि॒त्यैर्वा॒यद्वसु॑भिर्म॒रुत्वा॒न्‌त्सप॒र्जन्यं॒शंत॑नवेवृषाय || {1/12}{10.98.1}{10.8.8.1}{8.5.12.1}{1130, 935, 9928}

बृह॑स्पते¦प्रति॑¦मे॒¦दे॒वता᳚‌म्¦इ॒हि॒¦मि॒त्रः¦वा॒¦यत्¦वरु॑णः¦वा॒¦अ॒सि॒¦पू॒षा |
आ॒दि॒त्यैः¦वा॒¦यत्¦वसु॑ऽभिः¦म॒रुत्वा᳚न्¦सः¦प॒र्जन्य᳚‌म्¦श‌म्ऽत॑नवे¦वृ॒ष॒य॒ ||

दे॒वोदू॒तो,अ॑जि॒रश्चि॑कि॒त्वान्‌त्वद्दे᳚वापे,अ॒भिमाम॑गच्छत् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

प्र॒ती॒ची॒नःप्रति॒मामाव॑वृत्स्व॒दधा᳚मितेद्यु॒मतीं॒वाच॑मा॒सन् || {2/12}{10.98.2}{10.8.8.2}{8.5.12.2}{1131, 935, 9929}

आ¦दे॒वः¦दू॒तः¦अ॒जि॒रः¦चि॒कि॒त्वान्¦त्वत्¦दे॒व॒ऽआ॒पे॒¦अ॒भि¦मा‌म्¦अ॒ग॒च्छ॒त् |
प्र॒ती॒ची॒नः¦प्रति॑¦मा‌म्¦आ¦व॒वृ॒त्स्व॒¦दधा᳚मि¦ते॒¦द्यु॒ऽमती᳚‌म्¦वाच᳚‌म्¦आ॒सन् ||

अ॒स्मेधे᳚हिद्यु॒मतीं॒वाच॑मा॒सन्‌बृह॑स्पते,अनमी॒वामि॑षि॒राम् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

यया᳚वृ॒ष्टिंशंत॑नवे॒वना᳚वदि॒वोद्र॒प्सोमधु॑माँ॒,वि॑वेश || {3/12}{10.98.3}{10.8.8.3}{8.5.12.3}{1132, 935, 9930}

अ॒स्मे इति॑¦धे॒हि॒¦द्यु॒ऽमती᳚‌म्¦वाच᳚‌म्¦आ॒सन्¦बृह॑स्पते¦अ॒न॒मी॒वा‌म्¦इ॒षि॒रा‌म् |
यया᳚¦वृ॒ष्टि‌म्¦श‌म्ऽत॑नवे¦वना᳚व¦दि॒वः¦द्र॒प्सः¦मधु॑ऽमान्¦आ¦वि॒वे॒श॒ ||

नो᳚द्र॒प्सामधु॑मन्तोविश॒न्त्विन्द्र॑दे॒ह्यधि॑रथंस॒हस्र᳚म् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

निषी᳚दहो॒त्रमृ॑तु॒थाय॑जस्वदे॒वान्‌दे᳚वापेह॒विषा᳚सपर्य || {4/12}{10.98.4}{10.8.8.4}{8.5.12.4}{1133, 935, 9931}

आ¦नः॒¦द्र॒प्साः¦मधु॑ऽमन्तः¦वि॒श॒न्तु॒¦इन्द्र॑¦दे॒हि¦अधि॑ऽरथ‌म्¦स॒हस्र᳚‌म् |
नि¦सी॒द॒¦हो॒त्र‌म्¦ऋ॒तु॒ऽथा¦य॒ज॒स्व॒¦दे॒वान्¦दे॒व॒ऽआ॒पे॒¦ह॒विषा᳚¦स॒प॒र्य॒ ||

आ॒र्ष्टि॒षे॒णोहो॒त्रमृषि᳚र्नि॒षीद᳚न्दे॒वापि॑र्देवसुम॒तिंचि॑कि॒त्वान् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

उत्त॑रस्मा॒दध॑रंसमु॒द्रम॒पोदि॒व्या,अ॑सृजद्व॒र्ष्या᳚,अ॒भि || {5/12}{10.98.5}{10.8.8.5}{8.5.12.5}{1134, 935, 9932}

आ॒र्ष्टि॒षे॒णः¦हो॒त्र‌म्¦ऋषिः॑¦नि॒ऽसीद॑न्¦दे॒वऽआ᳚पिः¦दे॒व॒ऽसु॒म॒ति‌म्¦चि॒कि॒त्वान् |
सः¦उत्ऽत॑रस्मात्¦अध॑र‌म्¦स॒मु॒द्र‌म्¦अ॒पः¦दि॒व्याः¦अ॒सृ॒ज॒त्¦व॒र्ष्याः᳚¦अ॒भि ||

अ॒स्मिन्‌त्स॑मु॒द्रे,अध्युत्त॑रस्मि॒न्नापो᳚दे॒वेभि॒र्निवृ॑ता,अतिष्ठन् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

ता,अ॑द्रवन्नार्ष्टिषे॒णेन॑सृ॒ष्टादे॒वापि॑ना॒प्रेषि॑तामृ॒क्षिणी᳚षु || {6/12}{10.98.6}{10.8.8.6}{8.5.12.6}{1135, 935, 9933}

अ॒स्मिन्¦स॒मु॒द्रे¦अधि॑¦उत्ऽत॑रस्मिन्¦आपः॑¦दे॒वेभिः॑¦निऽवृ॑ताः¦अ॒ति॒ष्ठ॒न् |
ताः¦अ॒द्र॒व॒न्¦आ॒र्ष्टि॒षे॒णेन॑¦सृ॒ष्टाः¦दे॒वऽआ᳚पिना¦प्रऽ‌इ᳚षिताः¦मृ॒क्षिणी᳚षु ||

यद्दे॒वापिः॒शंत॑नवेपु॒रोहि॑तोहो॒त्राय॑वृ॒तःकृ॒पय॒न्नदी᳚धेत् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

दे॒व॒श्रुतं᳚वृष्टि॒वनिं॒ररा᳚णो॒बृह॒स्पति॒र्वाच॑मस्मा,अयच्छत् || {7/12}{10.98.7}{10.8.8.7}{8.5.13.1}{1136, 935, 9934}

यत्¦दे॒वऽआ᳚पिः¦श‌म्ऽत॑नवे¦पु॒रःऽहि॑तः¦हो॒त्राय॑¦वृ॒तः¦कृ॒पय॑न्¦अदी᳚धेत् |
दे॒व॒ऽश्रुत᳚‌म्¦वृ॒ष्टि॒ऽवनि᳚‌म्¦ररा᳚णः¦बृह॒स्पतिः॑¦वाच᳚‌म्¦अ॒स्मै॒¦अ॒य॒च्छ॒त् ||

यंत्वा᳚दे॒वापिः॑शुशुचा॒नो,अ॑ग्नआर्ष्टिषे॒णोम॑नु॒ष्यः॑समी॒धे |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

विश्वे᳚भिर्दे॒वैर॑नुम॒द्यमा᳚नः॒प्रप॒र्जन्य॑मीरयावृष्टि॒मन्त᳚म् || {8/12}{10.98.8}{10.8.8.8}{8.5.13.2}{1137, 935, 9935}

य‌म्¦त्वा॒¦दे॒वऽआ᳚पिः¦शु॒शु॒चा॒नः¦अ॒ग्ने॒¦आ॒र्ष्टि॒षे॒णः¦म॒नु॒ष्यः॑¦स॒‌म्ऽई॒धे |
विश्वे᳚भिः¦दे॒वैः¦अ॒नु॒ऽम॒द्यमा᳚नः¦प्र¦प॒र्जन्य᳚‌म्¦ई॒र॒य॒¦वृ॒ष्टि॒ऽमन्त᳚‌म् ||

त्वांपूर्व॒ऋष॑योगी॒र्भिरा᳚य॒न्त्वाम॑ध्व॒रेषु॑पुरुहूत॒विश्वे᳚ |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

स॒हस्रा॒ण्यधि॑रथान्य॒स्मे,नो᳚य॒ज्ञंरो᳚हिद॒श्वोप॑याहि || {9/12}{10.98.9}{10.8.8.9}{8.5.13.3}{1138, 935, 9936}

त्वा‌म्¦पूर्वे᳚¦ऋष॑यः¦गीः॒ऽभिः¦आ॒य॒न्¦त्वा‌म्¦अ॒ध्व॒रेषु॑¦पु॒रु॒ऽहू॒त॒¦विश्वे᳚ |
स॒हस्रा᳚णि¦अधि॑ऽरथानि¦अ॒स्मे इति॑¦आ¦नः॒¦य॒ज्ञ‌म्¦रि॒हि॒त्।आ॒श्वा¦उप॑¦या॒हि॒ ||

ए॒तान्य॑ग्नेनव॒तिर्नव॒त्वे,आहु॑ता॒न्यधि॑रथास॒हस्रा᳚ |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

तेभि᳚र्वर्धस्वत॒न्वः॑शूरपू॒र्वीर्दि॒वोनो᳚वृ॒ष्टिमि॑षि॒तोरि॑रीहि || {10/12}{10.98.10}{10.8.8.10}{8.5.13.4}{1139, 935, 9937}

ए॒तानि॑¦अ॒ग्ने॒¦न॒व॒तिः¦नव॑¦त्वे इति॑¦आऽहु॑तानि¦अधि॑ऽरथा¦स॒हस्रा᳚ |
तेभिः॑¦व॒र्ध॒स्व॒¦त॒न्वः॑¦शू॒र॒¦पू॒र्वीः¦दि॒वः¦नः॒¦वृ॒ष्टि‌म्¦इ॒षि॒तः¦रि॒री॒हि॒ ||

ए॒तान्य॑ग्नेनव॒तिंस॒हस्रा॒संप्रय॑च्छ॒वृष्ण॒इन्द्रा᳚यभा॒गम् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

वि॒द्वान्‌प॒थऋ॑तु॒शोदे᳚व॒याना॒नप्यौ᳚ला॒नंदि॒विदे॒वेषु॑धेहि || {11/12}{10.98.11}{10.8.8.11}{8.5.13.5}{1140, 935, 9938}

ए॒तानि॑¦अ॒ग्ने॒¦न॒व॒ति‌म्¦स॒हस्रा᳚¦स‌म्¦प्र¦य॒च्छ॒¦वृष्णे᳚¦इन्द्रा᳚य¦भा॒ग‌म् |
वि॒द्वान्¦प॒थः¦ऋ॒तु॒ऽशः¦दे॒व॒ऽयाना᳚न्¦अपि॑¦औ॒ला॒न‌म्¦दि॒वि¦दे॒वेषु॑¦धे॒हि॒ ||

अग्ने॒बाध॑स्व॒विमृधो॒विदु॒र्गहापामी᳚वा॒मप॒रक्षां᳚सिसेध |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

अ॒स्मात्स॑मु॒द्राद्बृ॑ह॒तोदि॒वोनो॒ऽपांभू॒मान॒मुप॑नःसृजे॒ह || {12/12}{10.98.12}{10.8.8.12}{8.5.13.6}{1141, 935, 9939}

अग्ने᳚¦बाध॑स्व¦वि¦मृधः॑¦वि¦दुः॒ऽगहा᳚¦अप॑¦अमी᳚वा‌म्¦अप॑¦रक्षां᳚सि¦से॒ध॒ |
अ॒स्मात्¦स॒मु॒द्रात्¦बृ॒ह॒तः¦दि॒वः¦नः॒¦अ॒पा‌म्¦भू॒मान᳚‌म्¦उप॑¦नः॒¦सृ॒ज॒¦इ॒ह ||

[99] कन्नइति द्वादशर्चस्य सूक्तस्य वैखानसोवम्र इंद्रस्त्रिष्टुप् |
कंन॑श्चि॒त्रमि॑षण्यसिचिकि॒त्वान्‌पृ॑थु॒ग्मानं᳚वा॒श्रंवा᳚वृ॒धध्यै᳚ |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

कत्तस्य॒दातु॒शव॑सो॒व्यु॑ष्टौ॒तक्ष॒द्वज्रं᳚वृत्र॒तुर॒मपि᳚न्वत् || {1/12}{10.99.1}{10.8.9.1}{8.5.14.1}{1142, 936, 9940}

क‌म्¦नः॒¦चि॒त्र‌म्¦इ॒ष॒ण्य॒सि॒¦चि॒कि॒त्वान्¦पृ॒थु॒ऽग्मान᳚‌म्¦वा॒श्र‌म्¦व॒वृ॒धध्यै᳚ |
कत्¦तस्य॑¦दातु॑¦शव॑सः¦वि।औ᳚ष्टौ¦तक्ष॑त्¦वज्र᳚‌म्¦वृ॒त्र॒ऽतुर᳚‌म्¦अपि᳚न्वत् ||

हिद्यु॒तावि॒द्युता॒वेति॒साम॑पृ॒थुंयोनि॑मसुर॒त्वास॑साद |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

सनी᳚ळेभिःप्रसहा॒नो,अ॑स्य॒भ्रातु॒र्नऋ॒तेस॒प्तथ॑स्यमा॒याः || {2/12}{10.99.2}{10.8.9.2}{8.5.14.2}{1143, 936, 9941}

सः¦हि¦द्यु॒ता¦वि॒ऽद्युता᳚¦वेति॑¦साम॑¦पृ॒थु‌म्¦योनि᳚‌म्¦अ॒सु॒र॒ऽत्वा¦आ¦स॒सा॒द॒ |
सः¦सऽनी᳚ळेभिः¦प्र॒ऽस॒हा॒नः¦अ॒स्य॒¦भ्रातुः॑¦न¦ऋ॒ते¦स॒प्तथ॑स्य¦मा॒याः ||

वाजं॒याताप॑दुष्पदा॒यन्‌त्स्व॑र्षाता॒परि॑षदत्सनि॒ष्यन् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

अ॒न॒र्वायच्छ॒तदु॑रस्य॒वेदो॒घ्नञ्छि॒श्नदे᳚वाँ,अ॒भिवर्प॑सा॒भूत् || {3/12}{10.99.3}{10.8.9.3}{8.5.14.3}{1144, 936, 9942}

सः¦वाज᳚‌म्¦याता᳚¦अप॑दुःऽपदा¦यन्¦स्वः॑ऽसाता¦परि॑¦स॒द॒त्¦स॒नि॒ष्यन् |
अ॒न॒र्वा¦यत्¦श॒तऽदु॑रस्य¦वेदः॑¦घ्नन्¦शि॒श्नऽदे᳚वान्¦अ॒भि¦वर्प॑सा¦भूत् ||

य॒ह्व्यो॒३॑(ओ॒)ऽवनी॒र्गोष्वर्वाजु॑होतिप्रध॒न्या᳚सु॒सस्रिः॑ |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

अ॒पादो॒यत्र॒युज्या᳚सोऽर॒थाद्रो॒ण्य॑श्वास॒ईर॑तेघृ॒तंवाः || {4/12}{10.99.4}{10.8.9.4}{8.5.14.4}{1145, 936, 9943}

सः¦य॒ह्व्यः॑¦अ॒वनीः᳚¦गोषु॑¦अर्वा᳚¦आ¦जु॒हो॒ति॒¦प्र॒ऽध॒न्या᳚सु¦सस्रिः॑ |
अ॒पादः॑¦यत्र॑¦युज्या᳚सः¦अ॒र॒थाः¦द्रो॒णि।आ॑श्वासः¦ईर॑ते¦घृ॒त‌म्¦वाः ||

रु॒द्रेभि॒रश॑स्तवार॒ऋभ्वा᳚हि॒त्वीगय॑मा॒रे,अ॑वद्य॒आगा᳚त् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

व॒म्रस्य॑मन्येमिथु॒नाविव᳚व्री॒,अन्न॑म॒भीत्या᳚रोदयन्मुषा॒यन् || {5/12}{10.99.5}{10.8.9.5}{8.5.14.5}{1146, 936, 9944}

सः¦रु॒द्रेभिः॑¦अश॑स्तऽवारः¦ऋभ्वा᳚¦हि॒त्वी¦गय᳚‌म्¦आ॒रे।आ॑वद्यः¦आ¦अ॒गा॒त् |
व॒म्रस्य॑¦म॒न्ये॒¦मि॒थु॒ना¦विव᳚व्री॒ इति॒ विऽव᳚व्री¦अन्न᳚‌म्¦अ॒भि॒ऽ‌इत्य॑¦अ॒रो॒द॒य॒त्¦मु॒षा॒यन् ||

इद्दासं᳚तुवी॒रवं॒पति॒र्दन्ष॑ळ॒क्षंत्रि॑शी॒र्षाणं᳚दमन्यत् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

अ॒स्यत्रि॒तोन्वोज॑सावृधा॒नोवि॒पाव॑रा॒हमयो᳚अग्रयाहन् || {6/12}{10.99.6}{10.8.9.6}{8.5.14.6}{1147, 936, 9945}

सः¦इत्¦दास᳚‌म्¦तु॒वि॒ऽरव᳚‌म्¦पतिः॑¦दन्¦ष॒ट्।आ॒क्ष‌म्¦त्रि॒ऽशी॒र्षाण᳚‌म्¦द॒म॒न्य॒त् |
अ॒स्य¦त्रि॒तः¦नु¦ओज॑सा¦वृ॒धा॒नः¦वि॒पा¦व॒रा॒ह‌म्¦अयः॑।आग्रया¦ह॒न्निति॑ हन् ||

द्रुह्व॑णे॒मनु॑षऊर्ध्वसा॒नसा᳚विषदर्शसा॒नाय॒शरु᳚म् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

नृत॑मो॒नहु॑षो॒ऽस्मत्सुजा᳚तः॒पुरो᳚ऽभिन॒दर्ह᳚न्दस्यु॒हत्ये᳚ || {7/12}{10.99.7}{10.8.9.7}{8.5.15.1}{1148, 936, 9946}

सः¦द्रुह्व॑णे¦मनु॑षे¦ऊ॒र्ध्व॒सा॒नः¦आ¦सा॒वि॒ष॒त्¦अ॒र्श॒सा॒नाय॑¦शरु᳚‌म् |
सः¦नृऽत॑मः¦नहु॑षः¦अ॒स्मत्¦सुऽजा᳚तः¦पुरः॑¦अ॒भि॒न॒त्¦अर्ह॑न्¦द॒स्यु॒ऽहत्ये᳚ ||

सो,अ॒भ्रियो॒यव॑सउद॒न्यन्‌क्षया᳚यगा॒तुंवि॒दन्नो᳚,अ॒स्मे |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

उप॒यत्सीद॒दिन्दुं॒शरी᳚रैःश्ये॒नोऽयो᳚पाष्टिर्हन्ति॒दस्यू॑न् || {8/12}{10.99.8}{10.8.9.8}{8.5.15.2}{1149, 936, 9947}

सः¦अ॒भ्रियः॑¦न¦यव॑से¦उ॒द॒न्यन्¦क्षया᳚य¦गा॒तु‌म्¦वि॒दत्¦नः॒¦अ॒स्मे इति॑ |
उप॑¦यत्¦सीद॑त्¦इन्दु᳚‌म्¦शरी᳚रैः¦श्ये॒नः¦अयः॑।आपाष्टिः¦ह॒न्ति॒¦दस्यू॑न् ||

व्राध॑तःशवसा॒नेभि॑रस्य॒कुत्सा᳚य॒शुष्णं᳚कृ॒पणे॒परा᳚दात् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

अ॒यंक॒विम॑नयच्छ॒स्यमा᳚न॒मत्कं॒यो,अ॑स्य॒सनि॑तो॒तनृ॒णाम् || {9/12}{10.99.9}{10.8.9.9}{8.5.15.3}{1150, 936, 9948}

सः¦व्राध॑तः¦श॒व॒सा॒नेभिः॑¦अ॒स्य॒¦कुत्सा᳚य¦शुष्ण᳚‌म्¦कृ॒पणे᳚¦परा᳚¦अ॒दा॒त् |
अ॒य‌म्¦क॒वि‌म्¦अ॒न॒य॒त्¦श॒स्यमा᳚न‌म्¦अत्क᳚‌म्¦यः¦अ॒स्य॒¦सनि॑ता¦उ॒त¦नृ॒णा‌म् ||

अ॒यंद॑श॒स्यन्नर्ये᳚भिरस्यद॒स्मोदे॒वेभि॒र्वरु॑णो॒मा॒यी |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

अ॒यंक॒नीन॑ऋतु॒पा,अ॑वे॒द्यमि॑मीता॒ररुं॒यश्चतु॑ष्पात् || {10/12}{10.99.10}{10.8.9.10}{8.5.15.4}{1151, 936, 9949}

अ॒य‌म्¦द॒श॒स्यन्¦नर्ये᳚भिः¦अ॒स्य॒¦द॒स्मः¦दे॒वेभिः॑¦वरु॑णः¦न¦मा॒यी |
अ॒य‌म्¦क॒नीनः॑¦ऋ॒तु॒ऽपाः¦अ॒वे॒दि॒¦अमि॑मीत¦अ॒ररु᳚‌म्¦यः¦चतुः॑ऽपात् ||

अ॒स्यस्तोमे᳚भिरौशि॒जऋ॒जिश्वा᳚व्र॒जंद॑रयद्वृष॒भेण॒पिप्रोः᳚ |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

सुत्वा॒यद्य॑ज॒तोदी॒दय॒द्गीःपुर॑इया॒नो,अ॒भिवर्प॑सा॒भूत् || {11/12}{10.99.11}{10.8.9.11}{8.5.15.5}{1152, 936, 9950}

अ॒स्य¦स्तोमे᳚भिः¦औ॒शि॒जः¦ऋ॒जिश्वा᳚¦व्र॒ज‌म्¦द॒र॒य॒त्¦वृ॒ष॒भेण॑¦पिप्रोः᳚ |
सुत्वा᳚¦यत्¦य॒ज॒तः¦दी॒दय॑त्¦गीः¦पुरः॑¦इ॒या॒नः¦अ॒भि¦वर्प॑सा¦भूत् ||

ए॒वाम॒हो,अ॑सुरव॒क्षथा᳚यवम्र॒कःप॒ड्भिरुप॑सर्प॒दिन्द्र᳚म् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

इ॑या॒नःक॑रतिस्व॒स्तिम॑स्मा॒,इष॒मूर्जं᳚सुक्षि॒तिंविश्व॒माभाः᳚ || {12/12}{10.99.12}{10.8.9.12}{8.5.15.6}{1153, 936, 9951}

ए॒व¦म॒हः¦अ॒सु॒र॒¦व॒क्षथा᳚य¦व॒म्र॒कः¦प॒ट्ऽभिः¦उप॑¦स॒र्प॒त्¦इन्द्र᳚‌म् |
सः¦इ॒या॒नः¦क॒र॒ति॒¦स्व॒स्ति‌म्¦अ॒स्मै॒¦इष᳚‌म्¦ऊर्ज᳚‌म्¦सु॒ऽक्षि॒ति‌म्¦विश्व᳚‌म्¦आ¦अ॒भा॒रित्य॑भाः ||

[100] इंद्रदृह्येति द्वादशर्चस्य सूक्तस्य वांदनोदुवस्युर्विश्वेदेवाजगत्यंत्यात्रिष्टुप् (भेदपक्षे - विश्वेदेवाः १० इंद्रादिती १ इंद्र: १ एवं १२) |
इन्द्र॒दृह्य॑मघव॒न्त्वाव॒दिद्भु॒जइ॒हस्तु॒तःसु॑त॒पाबो᳚धिनोवृ॒धे |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

दे॒वेभि᳚र्नःसवि॒ताप्राव॑तुश्रु॒तमास॒र्वता᳚ति॒मदि॑तिंवृणीमहे || {1/12}{10.100.1}{10.9.1.1}{8.5.16.1}{1154, 937, 9952}

इन्द्र॑¦दृह्य॑¦म॒घ॒ऽव॒न्¦त्वाऽव॑त्¦इत्¦भु॒जे¦इ॒ह¦स्तु॒तः¦सु॒त॒ऽपाः¦बो॒धि॒¦नः॒¦वृ॒धे |
दे॒वेभिः॑¦नः॒¦स॒वि॒ता¦प्र¦अ॒व॒तु॒¦श्रु॒त‌म्¦आ¦स॒र्वऽता᳚ति‌म्¦अदि॑ति‌म्¦वृ॒णी॒म॒हे॒ ||

भरा᳚य॒सुभ॑रतभा॒गमृ॒त्वियं॒प्रवा॒यवे᳚शुचि॒पेक्र॒न्ददि॑ष्टये |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

गौ॒रस्य॒यःपय॑सःपी॒तिमा᳚न॒शस॒र्वता᳚ति॒मदि॑तिंवृणीमहे || {2/12}{10.100.2}{10.9.1.2}{8.5.16.2}{1155, 937, 9953}

भरा᳚य¦सु¦भ॒र॒त॒¦भा॒ग‌म्¦ऋ॒त्विय᳚‌म्¦प्र¦वा॒यवे᳚¦शु॒चि॒ऽपे¦क्र॒न्दत्ऽ‌इ᳚ष्टये |
गौ॒रस्य॑¦यः¦पय॑सः¦पी॒ति‌म्¦आ॒न॒शे¦आ¦स॒र्वऽता᳚ति‌म्¦अदि॑ति‌म्¦वृ॒णी॒म॒हे॒ ||

नो᳚दे॒वःस॑वि॒तासा᳚विष॒द्वय॑ऋजूय॒तेयज॑मानायसुन्व॒ते |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

यथा᳚दे॒वान्‌प्र॑ति॒भूषे᳚मपाक॒वदास॒र्वता᳚ति॒मदि॑तिंवृणीमहे || {3/12}{10.100.3}{10.9.1.3}{8.5.16.3}{1156, 937, 9954}

आ¦नः॒¦दे॒वः¦स॒वि॒ता¦सा॒वि॒ष॒त्¦वयः॑¦ऋ॒जु॒ऽय॒ते¦यज॑मानाय¦सु॒न्व॒ते |
यथा᳚¦दे॒वान्¦प्र॒ति॒ऽभूषे᳚म¦पा॒क॒ऽवत्¦आ¦स॒र्वऽता᳚ति‌म्¦अदि॑ति‌म्¦वृ॒णी॒म॒हे॒ ||

इन्द्रो᳚,अ॒स्मेसु॒मना᳚,अस्तुवि॒श्वहा॒राजा॒सोमः॑सुवि॒तस्याध्ये᳚तुनः |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

यथा᳚यथामि॒त्रधि॑तानिसंद॒धुरास॒र्वता᳚ति॒मदि॑तिंवृणीमहे || {4/12}{10.100.4}{10.9.1.4}{8.5.16.4}{1157, 937, 9955}

इन्द्रः॑¦अ॒स्मे इति॑¦सु॒ऽमनाः᳚¦अ॒स्तु॒¦वि॒श्वहा᳚¦राजा᳚¦सोमः॑¦सु॒वि॒तस्य॑¦अधि॑¦ए॒तु॒¦नः॒ |
यथा᳚ऽयथा¦मि॒त्रऽधि॑तानि¦स॒‌म्ऽद॒धुः¦आ¦स॒र्वऽता᳚ति‌म्¦अदि॑ति‌म्¦वृ॒णी॒म॒हे॒ ||

इन्द्र॑उ॒क्थेन॒शव॑सा॒परु॑र्दधे॒बृह॑स्पतेप्रतरी॒तास्यायु॑षः |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

य॒ज्ञोमनुः॒प्रम॑तिर्नःपि॒ताहिक॒मास॒र्वता᳚ति॒मदि॑तिंवृणीमहे || {5/12}{10.100.5}{10.9.1.5}{8.5.16.5}{1158, 937, 9956}

इन्द्रः॑¦उ॒क्थेन॑¦शव॑सा¦परुः॑¦द॒धे॒¦बृह॑स्पते¦प्र॒ऽत॒री॒ता¦अ॒सि॒¦आयु॑षः |
य॒ज्ञः¦मनुः॑¦प्रऽम॑तिः¦नः॒¦पि॒ता¦हि¦क॒‌म्¦आ¦स॒र्वऽता᳚ति‌म्¦अदि॑ति‌म्¦वृ॒णी॒म॒हे॒ ||

इन्द्र॑स्य॒नुसुकृ॑तं॒दैव्यं॒सहो॒ऽग्निर्गृ॒हेज॑रि॒तामेधि॑रःक॒विः |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

य॒ज्ञश्च॑भूद्वि॒दथे॒चारु॒रन्त॑म॒स॒र्वता᳚ति॒मदि॑तिंवृणीमहे || {6/12}{10.100.6}{10.9.1.6}{8.5.16.6}{1159, 937, 9957}

इन्द्र॑स्य¦नु¦सुऽकृ॑त‌म्¦दैव्य᳚‌म्¦सहः॑¦अ॒ग्निः¦गृ॒हे¦ज॒रि॒ता¦मेधि॑रः¦क॒विः |
य॒ज्ञः¦च॒¦भू॒त्¦वि॒दथे᳚¦चारुः॑¦अन्त॑मः¦आ¦स॒र्वऽता᳚ति‌म्¦अदि॑ति‌म्¦वृ॒णी॒म॒हे॒ ||

वो॒गुहा᳚चकृम॒भूरि॑दुष्कृ॒तंनाविष्ट्यं᳚वसवोदेव॒हेळ॑नम् |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

माकि᳚र्नोदेवा॒,अनृ॑तस्य॒वर्प॑स॒स॒र्वता᳚ति॒मदि॑तिंवृणीमहे || {7/12}{10.100.7}{10.9.1.7}{8.5.17.1}{1160, 937, 9958}

न¦वः॒¦गुहा᳚¦च॒कृ॒म॒¦भूरि॑¦दुः॒ऽकृ॒त‌म्¦न¦आ॒विःऽत्य᳚‌म्¦व॒स॒वः॒¦दे॒व॒ऽहेळ॑न‌म् |
माकिः॑¦नः॒¦दे॒वाः॒¦अनृ॑तस्य¦वर्प॑सः¦आ¦स॒र्वऽता᳚ति‌म्¦अदि॑ति‌म्¦वृ॒णी॒म॒हे॒ ||

अपामी᳚वांसवि॒तासा᳚विष॒न्न्य१॑(अ॒)ग्वरी᳚य॒इदप॑सेध॒न्त्वद्र॑यः |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

ग्रावा॒यत्र॑मधु॒षुदु॒च्यते᳚बृ॒हदास॒र्वता᳚ति॒मदि॑तिंवृणीमहे || {8/12}{10.100.8}{10.9.1.8}{8.5.17.2}{1161, 937, 9959}

अप॑¦अमी᳚वा‌म्¦स॒वि॒ता¦सा॒वि॒ष॒त्¦न्य॑क्¦वरी᳚यः¦इत्¦अप॑¦से॒ध॒न्तु॒¦अद्र॑यः |
ग्रावा᳚¦यत्र॑¦म॒धु॒ऽसुत्¦उ॒च्यते᳚¦बृ॒हत्¦आ¦स॒र्वऽता᳚ति‌म्¦अदि॑ति‌म्¦वृ॒णी॒म॒हे॒ ||

ऊ॒र्ध्वोग्रावा᳚वसवोऽस्तुसो॒तरि॒विश्वा॒द्वेषां᳚सिसनु॒तर्यु॑योत |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

नो᳚दे॒वःस॑वि॒तापा॒युरीड्य॒स॒र्वता᳚ति॒मदि॑तिंवृणीमहे || {9/12}{10.100.9}{10.9.1.9}{8.5.17.3}{1162, 937, 9960}

ऊ॒र्ध्वः¦ग्रावा᳚¦व॒स॒वः॒¦अ॒स्तु॒¦सो॒तरि॑¦विश्वा᳚¦द्वेषां᳚सि¦स॒नु॒तः¦यु॒यो॒त॒ |
सः¦नः॒¦दे॒वः¦स॒वि॒ता¦पा॒युः¦ईड्यः॑¦आ¦स॒र्वऽता᳚ति‌म्¦अदि॑ति‌म्¦वृ॒णी॒म॒हे॒ ||

ऊर्जं᳚गावो॒यव॑से॒पीवो᳚,अत्तनऋ॒तस्य॒याःसद॑ने॒कोशे᳚,अ॒ङ्ग्ध्वे |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

त॒नूरे॒वत॒न्वो᳚,अस्तुभेष॒जमास॒र्वता᳚ति॒मदि॑तिंवृणीमहे || {10/12}{10.100.10}{10.9.1.10}{8.5.17.4}{1163, 937, 9961}

ऊर्ज᳚‌म्¦गा॒वः॒¦यव॑से¦पीवः॑¦अ॒त्त॒न॒¦ऋ॒तस्य॑¦याः¦सद॑ने¦कोशे᳚¦अ॒ङ्ध्वे |
त॒नूः¦ए॒व¦त॒न्वः॑¦अ॒स्तु॒¦भे॒ष॒ज‌म्¦आ¦स॒र्वऽता᳚ति‌म्¦अदि॑ति‌म्¦वृ॒णी॒म॒हे॒ ||

क्र॒तु॒प्रावा᳚जरि॒ताशश्व॑ता॒मव॒इन्द्र॒इद्भ॒द्राप्रम॑तिःसु॒ताव॑ताम् |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

पू॒र्णमूध॑र्दि॒व्यंयस्य॑सि॒क्तय॒स॒र्वता᳚ति॒मदि॑तिंवृणीमहे || {11/12}{10.100.11}{10.9.1.11}{8.5.17.5}{1164, 937, 9962}

क्र॒तु॒ऽप्रावा᳚¦ज॒रि॒ता¦शश्व॑ता‌म्¦अवः॑¦इन्द्रः॑¦इत्¦भ॒द्रा¦प्रऽम॑तिः¦सु॒तऽव॑ता‌म् |
पू॒र्ण‌म्¦ऊधः॑¦दि॒व्य‌म्¦यस्य॑¦सि॒क्तये᳚¦आ¦स॒र्वऽता᳚ति‌म्¦अदि॑ति‌म्¦वृ॒णी॒म॒हे॒ ||

चि॒त्रस्ते᳚भा॒नुःक्र॑तु॒प्रा,अ॑भि॒ष्टिःसन्ति॒स्पृधो᳚जरणि॒प्रा,अधृ॑ष्टाः |{वांदनो दुवस्युः | विश्वदेवाः | त्रिष्टुप्}

रजि॑ष्ठया॒रज्या᳚प॒श्वगोस्तूतू᳚र्षति॒पर्यग्रं᳚दुव॒स्युः || {12/12}{10.100.12}{10.9.1.12}{8.5.17.6}{1165, 937, 9963}

चि॒त्रः¦ते॒¦भा॒नुः¦क्र॒तु॒ऽप्राः¦अ॒भि॒ष्टिः¦सन्ति॑¦स्पृधः॑¦ज॒र॒णि॒ऽप्राः¦अधृ॑ष्टाः |
रजि॑ष्टया¦रज्या᳚¦प॒श्वः¦आ¦गोः¦तूतू᳚र्षति¦परि॑¦अग्र᳚‌म्¦दु॒व॒स्युः ||

[101] उद्बुध्यध्वमिति द्वादशर्चस्य सूक्तस्य सौम्योबुधो विश्वेदेवास्त्रिप् चतुर्थीषष्ठ्यौगायत्र्यौ पंचमीबृहती नवमीद्वादश्यौजगत्यौ (ऋत्विजोदेवतावा) |
उद्बु॑ध्यध्वं॒सम॑नसःसखायः॒¦सम॒ग्निमि᳚न्ध्वंब॒हवः॒सनी᳚ळाः |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्}

द॒धि॒क्राम॒ग्निमु॒षसं᳚दे॒वी¦मिन्द्रा᳚व॒तोऽव॑से॒निह्व॑येवः || {1/12}{10.101.1}{10.9.2.1}{8.5.18.1}{1166, 938, 9964}

उत्¦बु॒ध्य॒ध्व॒‌म्¦सऽम॑नसः¦स॒खा॒यः॒¦स‌म्¦अ॒ग्नि‌म्¦इ॒न्ध्व॒‌म्¦ब॒हवः॑¦सऽनी᳚ळाः |
द॒धि॒ऽक्रा‌म्¦अ॒ग्नि‌म्¦उ॒षस᳚‌म्¦च॒¦दे॒वी‌म्¦इ॒न्द्र॒ऽव॒तः¦अव॑से¦नि¦ह्व॒ये॒¦वः॒ ||

म॒न्द्राकृ॑णुध्वं॒धिय॒त॑नुध्वं॒नाव॑मरित्र॒पर॑णींकृणुध्वम् |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्}

इष्कृ॑णुध्व॒मायु॒धारं᳚कृणुध्वं॒प्राञ्चं᳚य॒ज्ञंप्रण॑यतासखायः || {2/12}{10.101.2}{10.9.2.2}{8.5.18.2}{1167, 938, 9965}

म॒न्द्रा¦कृ॒णु॒ध्व॒‌म्¦धियः॑¦आ¦त॒नु॒ध्व॒‌म्¦नाव᳚‌म्¦अ॒रि॒त्र॒ऽपर॑णी‌म्¦कृ॒णु॒ध्व॒‌म् |
इष्कृ॑णुध्व‌म्¦आयु॑धा¦अर᳚‌म्¦कृ॒णु॒ध्व॒‌म्¦प्रांच᳚‌म्¦य॒ज्ञ‌म्¦प्र¦न॒य॒त॒¦स॒खा॒यः॒ ||

यु॒नक्त॒सीरा॒वियु॒गात॑नुध्वंकृ॒तेयोनौ᳚वपते॒हबीज᳚म् |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्}

गि॒राच॑श्रु॒ष्टिःसभ॑रा॒,अस᳚न्नो॒नेदी᳚य॒इत्सृ॒ण्यः॑प॒क्वमेया᳚त् || {3/12}{10.101.3}{10.9.2.3}{8.5.18.3}{1168, 938, 9966}

यु॒नक्त॑¦सीरा᳚¦वि¦यु॒गा¦त॒नु॒ध्व॒‌म्¦कृ॒ते¦योनौ᳚¦व॒प॒त॒¦इ॒ह¦बीज᳚‌म् |
गि॒रा¦च॒¦श्रु॒ष्टिः¦सऽभ॑राः¦अस॑त्¦नः॒¦नेदी᳚यः¦इत्¦सृ॒ण्यः॑¦प॒क्व‌म्¦आ¦इ॒या॒त् ||

सीरा᳚युञ्जन्तिक॒वयो᳚यु॒गावित᳚न्वते॒पृथ॑क् |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | गायत्री}

धीरा᳚दे॒वेषु॑सुम्न॒या || {4/12}{10.101.4}{10.9.2.4}{8.5.18.4}{1169, 938, 9967}

सीरा᳚¦युं॒ज॒न्ति॒¦क॒वयः॑¦यु॒गा¦वि¦त॒न्व॒ते॒¦पृथ॑क् | धीराः᳚¦दे॒वेषु॑¦सु॒म्न॒ऽया ||

निरा᳚हा॒वान्‌कृ॑णोतन॒संव॑र॒त्राद॑धातन |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | बृहती}

सि॒ञ्चाम॑हा,अव॒तमु॒द्रिणं᳚व॒यंसु॒षेक॒मनु॑पक्षितम् || {5/12}{10.101.5}{10.9.2.5}{8.5.18.5}{1170, 938, 9968}

निः¦आ॒ऽहा॒वान्¦कृ॒णो॒त॒न॒¦स‌म्¦व॒र॒त्राः¦द॒धा॒त॒न॒ |
सिं॒चाम॑है¦अ॒व॒त‌म्¦उ॒द्रिण᳚‌म्¦व॒य‌म्¦सु॒ऽसेक᳚‌म्¦अनु॑पऽक्षित‌म् ||

इष्कृ॑ताहावमव॒तंसु॑वर॒त्रंसु॑षेच॒नम् |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | गायत्री}

उ॒द्रिणं᳚सिञ्चे॒,अक्षि॑तम् || {6/12}{10.101.6}{10.9.2.6}{8.5.18.6}{1171, 938, 9969}

इष्कृ॑तऽआहाव‌म्¦अ॒व॒त‌म्¦सु॒ऽव॒र॒त्र‌म्¦सु॒ऽसे॒च॒न‌म् | उ॒द्रिण᳚‌म्¦सिं॒चे॒¦अक्षि॑त‌म् ||

प्री॒णी॒ताश्वा᳚न्हि॒तंज॑याथस्वस्ति॒वाहं॒रथ॒मित्कृ॑णुध्वम् |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | पादत्रिष्टुप्}

द्रोणा᳚हावमव॒तमश्म॑चक्र॒मंस॑त्रकोशंसिञ्चतानृ॒पाण᳚म् || {7/12}{10.101.7}{10.9.2.7}{8.5.19.1}{1172, 938, 9970}

प्री॒णी॒त¦अश्वा᳚न्¦हि॒त‌म्¦ज॒या॒थ॒¦स्व॒स्ति॒ऽवाह᳚‌म्¦रथ᳚‌म्¦इत्¦कृ॒णु॒ध्व॒‌म् |
द्रोण॑ऽआहाव‌म्¦अ॒व॒त‌म्¦अश्म॑ऽचक्र‌म्¦अंस॑त्रऽकोश‌म्¦सिं॒च॒त॒¦नृ॒ऽपान᳚‌म् ||

व्र॒जंकृ॑णुध्वं॒हिवो᳚नृ॒पाणो॒वर्म॑सीव्यध्वंबहु॒लापृ॒थूनि॑ |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्}

पुरः॑कृणुध्व॒माय॑सी॒रधृ॑ष्टा॒मावः॑सुस्रोच्चम॒सोदृंह॑ता॒तम् || {8/12}{10.101.8}{10.9.2.8}{8.5.19.2}{1173, 938, 9971}

व्र॒ज‌म्¦कृ॒णु॒ध्व॒‌म्¦सः¦हि¦वः॒¦नृ॒ऽपानः॑¦वर्म॑¦सी॒व्य॒ध्व॒‌म्¦ब॒हु॒ला¦पृ॒थूनि॑ |
पुरः॑¦कृ॒णु॒ध्व॒‌म्¦आय॑सीः¦अधृ॑ष्टाः¦मा¦वः॒¦सु॒स्रो॒त्¦च॒म॒सः¦दृंह॑त¦त‌म् ||

वो॒धियं᳚य॒ज्ञियां᳚वर्तऊ॒तये॒देवा᳚दे॒वींय॑ज॒तांय॒ज्ञिया᳚मि॒ह |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | जगती}

सानो᳚दुहीय॒द्यव॑सेवग॒त्वीस॒हस्र॑धारा॒पय॑साम॒हीगौः || {9/12}{10.101.9}{10.9.2.9}{8.5.19.3}{1174, 938, 9972}

आ¦वः॒¦धिय᳚‌म्¦य॒ज्ञिया᳚‌म्¦व॒र्ते॒¦ऊ॒तये᳚¦देवाः᳚¦दे॒वी‌म्¦य॒ज॒ता‌म्¦य॒ज्ञिया᳚‌म्¦इ॒ह |
सा¦नः॒¦दु॒ही॒य॒त्¦यव॑साऽ‌इव¦ग॒त्वी¦स॒हस्र॑ऽधारा¦पय॑सा¦म॒ही¦गौः ||

तूषि᳚ञ्च॒हरि॑मीं॒द्रोरु॒पस्थे॒वाशी᳚भिस्तक्षताश्म॒न्मयी᳚भिः |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्}

परि॑ष्वजध्वं॒दश॑क॒क्ष्या᳚भिरु॒भेधुरौ॒प्रति॒वह्निं᳚युनक्त || {10/12}{10.101.10}{10.9.2.10}{8.5.19.4}{1175, 938, 9973}

आ¦तु¦सिं॒च॒¦हरि᳚‌म्¦ई॒‌म्¦द्रोः¦उ॒पऽस्थे᳚¦वाशी᳚भिः¦त॒क्ष॒त॒¦अ॒श्म॒न्ऽमयी᳚भिः |
परि॑¦स्व॒ज॒ध्व॒‌म्¦दश॑¦क॒क्ष्या᳚भिः¦उ॒भे इति॑¦धुरौ᳚¦प्रति॑¦वह्नि᳚‌म्¦यु॒न॒क्त॒ ||

उ॒भेधुरौ॒वह्नि॑रा॒पिब्द॑मानो॒ऽन्तर्योने᳚वचरतिद्वि॒जानिः॑ |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्}

वन॒स्पतिं॒वन॒आस्था᳚पयध्वं॒निषूद॑धिध्व॒मख॑नन्त॒उत्स᳚म् || {11/12}{10.101.11}{10.9.2.11}{8.5.19.5}{1176, 938, 9974}

उ॒भे इति॑¦धुरौ᳚¦वह्निः॑¦आ॒ऽपिब्द॑मानः¦अ॒न्तः¦योना᳚ऽ‌इव¦च॒र॒ति॒¦द्वि॒ऽजानिः॑ |
वन॒स्पति᳚‌म्¦वने᳚¦आ¦अ॒स्था॒प॒य॒ध्व॒‌म्¦नि¦सु¦द॒धि॒ध्व॒‌म्¦अख॑नन्तः¦उत्स᳚‌म् ||

कपृ᳚न्नरःकपृ॒थमुद्द॑धातनचो॒दय॑तखु॒दत॒वाज॑सातये |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | जगती}

नि॒ष्टि॒ग्र्यः॑पु॒त्रमाच्या᳚वयो॒तय॒इन्द्रं᳚स॒बाध॑इ॒हसोम॑पीतये || {12/12}{10.101.12}{10.9.2.12}{8.5.19.6}{1177, 938, 9975}

कपृ॑त्¦न॒रः॒¦क॒पृ॒थ‌म्¦उत्¦द॒धा॒त॒न॒¦चो॒दय॑त¦खु॒दत॑¦वाज॑ऽसातये |
नि॒ष्टि॒ग्र्यः॑¦पु॒त्र‌म्¦आ¦च्या॒व॒य॒¦ऊ॒तये᳚¦इन्द्र᳚‌म्¦स॒ऽबाधः॑¦इ॒ह¦सोम॑ऽपीतये ||

[102] प्रतेरथमिति द्वादशर्चस्य सूक्तस्य भार्म्यश्वो मुद्गलो द्रुघणस्त्रिष्टुप् आद्यातृतीयांत्याबृहत्यः | (प्रतेरथमिति सूक्तदेवतात्वे विप्रतिपत्तिः परस्परमाचार्याणां | उक्तंचशौनकेन - प्रेतीतिहाससूक्तंतुमन्यतेशाकटायनः | यास्कोद्रौघणमैंद्रंवा वैश्वदेवंतुशौनकः | आजानवेनंभार्म्यश्व इंद्रासोमौतुमुद्गलइति) |
प्रते॒रथं᳚मिथू॒कृत॒मिन्द्रो᳚ऽवतुधृष्णु॒या |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | ऋहती}

अ॒स्मिन्ना॒जौपु॑रुहूतश्र॒वाय्ये᳚धनभ॒क्षेषु॑नोऽव || {1/12}{10.102.1}{10.9.3.1}{8.5.20.1}{1178, 939, 9976}

प्र¦ते॒¦रथ᳚‌म्¦मि॒थु॒ऽकृत᳚‌म्¦इन्द्रः॑¦अ॒व॒तु॒¦धृ॒ष्णु॒ऽया |
अ॒स्मिन्¦आ॒जौ¦पु॒रु॒ऽहू॒त॒¦श्र॒वाय्ये᳚¦ध॒न॒ऽभ॒क्षेषु॑¦नः॒¦अ॒व॒ ||

उत्स्म॒वातो᳚वहति॒वासो᳚ऽस्या॒,अधि॑रथं॒यदज॑यत्स॒हस्र᳚म् |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

र॒थीर॑भून्मुद्ग॒लानी॒गवि॑ष्टौ॒भरे᳚कृ॒तंव्य॑चेदिन्द्रसे॒ना || {2/12}{10.102.2}{10.9.3.2}{8.5.20.2}{1179, 939, 9977}

उत्¦स्म॒¦वातः॑¦व॒ह॒ति॒¦वासः॑¦अ॒स्याः॒¦अधि॑ऽरथ‌म्¦यत्¦अज॑यत्¦स॒हस्र᳚‌म् |
र॒थीः¦अ॒भू॒त्¦मु॒द्ग॒लानी᳚¦गवि॑ष्टौ¦भरे᳚¦कृ॒त‌म्¦वि¦अ॒चे॒त्¦इ॒न्द्र॒ऽसे॒ना ||

अ॒न्तर्य॑च्छ॒जिघां᳚सतो॒वज्र॑मिन्द्राभि॒दास॑तः |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | बृहती}

दास॑स्यवामघव॒न्नार्य॑स्यवासनु॒तर्य॑वयाव॒धम् || {3/12}{10.102.3}{10.9.3.3}{8.5.20.3}{1180, 939, 9978}

अ॒न्तः¦य॒च्छ॒¦जिघां᳚सतः¦वज्र᳚‌म्¦इ॒न्द्र॒¦अ॒भि॒ऽदास॑तः |
दास॑स्य¦वा॒¦म॒घ॒ऽव॒न्¦आर्य॑स्य¦वा॒¦स॒नु॒तः¦य॒व॒य॒¦व॒ध‌म् ||

उ॒द्नोह्र॒दम॑पिब॒ज्जर्हृ॑षाणः॒कूटं᳚स्मतृं॒हद॒भिमा᳚तिमेति |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

प्रमु॒ष्कभा᳚रः॒श्रव॑इ॒च्छमा᳚नोऽजि॒रंबा॒हू,अ॑भर॒त्सिषा᳚सन् || {4/12}{10.102.4}{10.9.3.4}{8.5.20.4}{1181, 939, 9979}

उ॒द्नः¦ह्र॒द‌म्¦अ॒पि॒ब॒त्¦जर्हृ॑षाणः¦कूट᳚‌म्¦स्म॒¦तृं॒हत्¦अ॒भिऽमा᳚ति‌म्¦ए॒ति॒ |
प्र¦मु॒ष्कऽभा᳚रः¦श्रवः॑¦इ॒च्छमा᳚नः¦अ॒जि॒र‌म्¦बा॒हू इति॑¦अ॒भ॒र॒त्¦सिसा᳚सन् ||

न्य॑क्रन्दयन्नुप॒यन्त॑एन॒ममे᳚हयन्‌वृष॒भंमध्य॑आ॒जेः |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

तेन॒सूभ᳚र्वंश॒तव॑त्स॒हस्रं॒गवां॒मुद्ग॑लःप्र॒धने᳚जिगाय || {5/12}{10.102.5}{10.9.3.5}{8.5.20.5}{1182, 939, 9980}

नि¦अ॒क्र॒न्द॒य॒न्¦उ॒प॒ऽयन्तः॑¦ए॒न॒‌म्¦अमे᳚हयन्¦वृ॒ष॒भ‌म्¦मध्ये᳚¦आ॒जेः |
तेन॑¦सूभ᳚र्व‌म्¦श॒तऽव॑त्¦स॒हस्र᳚‌म्¦गवा᳚‌म्¦मुद्ग॑लः¦प्र॒ऽधने᳚¦जि॒गा॒य॒ ||

क॒कर्द॑वेवृष॒भोयु॒क्तआ᳚सी॒दवा᳚वची॒त्सार॑थिरस्यके॒शी |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

दुधे᳚र्यु॒क्तस्य॒द्रव॑तःस॒हान॑सऋ॒च्छन्ति॑ष्मानि॒ष्पदो᳚मुद्ग॒लानी᳚म् || {6/12}{10.102.6}{10.9.3.6}{8.5.20.6}{1183, 939, 9981}

क॒कर्द॑वे¦वृ॒ष॒भः¦यु॒क्तः¦आ॒सी॒त्¦अवा᳚वचीत्¦सार॑थिः¦अ॒स्य॒¦के॒शी |
दुधेः᳚¦यु॒क्तस्य॑¦द्रव॑तः¦स॒ह¦अन॑सा¦ऋ॒च्छन्ति॑¦स्म॒¦निः॒ऽपदः॑¦मु॒द्ग॒लानी᳚‌म् ||

उ॒तप्र॒धिमुद॑हन्नस्यवि॒द्वानुपा᳚युन॒ग्वंस॑ग॒मत्र॒शिक्ष॑न् |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

इन्द्र॒उदा᳚व॒त्पति॒मघ्न्या᳚ना॒मरं᳚हत॒पद्या᳚भिःक॒कुद्मा॑न् || {7/12}{10.102.7}{10.9.3.7}{8.5.21.1}{1184, 939, 9982}

उ॒त¦प्र॒ऽधि‌म्¦उत्¦अ॒ह॒न्¦अ॒स्य॒¦वि॒द्वान्¦उप॑¦अ॒यु॒न॒क्¦वंस॑ग‌म्¦अत्र॑¦शिक्ष॑न् |
इन्द्रः॑¦उत्¦आ॒व॒त्¦पति᳚‌म्¦अघ्न्या᳚ना‌म्¦अरं᳚हत¦पद्या᳚भिः¦क॒कुत्ऽमा॑न् ||

शु॒नम॑ष्ट्रा॒व्य॑चरत्कप॒र्दीव॑र॒त्रायां॒दार्वा॒नह्य॑मानः |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

नृ॒म्णानि॑कृ॒ण्वन्‌ब॒हवे॒जना᳚य॒गाःप॑स्पशा॒नस्तवि॑षीरधत्त || {8/12}{10.102.8}{10.9.3.8}{8.5.21.2}{1185, 939, 9983}

शु॒न‌म्¦अ॒ष्ट्रा॒ऽवी¦अ॒च॒र॒त्¦क॒प॒र्दी¦व॒र॒त्राया᳚‌म्¦दारु॑¦आ॒ऽनह्य॑मानः |
नृ॒म्नानि॑¦कृ॒ण्वन्¦ब॒हवे᳚¦जना᳚य¦गाः¦प॒स्प॒शा॒नः¦तवि॑षीः¦अ॒ध॒त्त॒ ||

इ॒मंतंप॑श्यवृष॒भस्य॒युञ्जं॒काष्ठा᳚या॒मध्ये᳚द्रुघ॒णंशया᳚नम् |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

येन॑जि॒गाय॑श॒तव॑त्स॒हस्रं॒गवां॒मुद्ग॑लःपृत॒नाज्ये᳚षु || {9/12}{10.102.9}{10.9.3.9}{8.5.21.3}{1186, 939, 9984}

इ॒म‌म्¦त‌म्¦प॒श्य॒¦वृ॒ष॒भस्य॑¦युंज᳚‌म्¦काष्ठा᳚याः¦मध्ये᳚¦द्रु॒ऽघ॒ण‌म्¦शया᳚न‌म् |
येन॑¦जि॒गाय॑¦श॒तऽव॑त्¦स॒हस्र᳚‌म्¦गवा᳚‌म्¦मुद्ग॑लः¦पृ॒त॒नाज्ये᳚षु ||

आ॒रे,अ॒घाकोन्‌वि१॑(इ॒)त्थाद॑दर्श॒यंयु॒ञ्जन्ति॒तम्वास्था᳚पयन्ति |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

नास्मै॒तृणं॒नोद॒कमाभ॑र॒न्त्युत्त॑रोधु॒रोव॑हतिप्र॒देदि॑शत् || {10/12}{10.102.10}{10.9.3.10}{8.5.21.4}{1187, 939, 9985}

आ॒रे¦अ॒घा¦कः¦नु¦इ॒त्था¦द॒द॒र्श॒¦य‌म्¦युं॒जन्ति॑¦त‌म्¦ऊँ॒ इति॑¦आ¦स्था॒प॒य॒न्ति॒ |
न¦अ॒स्मै॒¦तृण᳚‌म्¦न¦उ॒द॒क‌म्¦आ¦भ॒र॒न्ति॒¦उत्ऽत॑रः¦धु॒रः¦व॒ह॒ति॒¦प्र॒ऽदेदि॑शत् ||

प॒रि॒वृ॒क्तेव॑पति॒विद्य॑मान॒ट्पीप्या᳚ना॒कूच॑क्रेणेवसि॒ञ्चन् |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

ए॒षै॒ष्या᳚चिद्र॒थ्या᳚जयेमसुम॒ङ्गलं॒सिन॑वदस्तुसा॒तम् || {11/12}{10.102.11}{10.9.3.11}{8.5.21.5}{1188, 939, 9986}

प॒रि॒वृ॒क्ताऽ‌इ᳚व¦प॒ति॒ऽविद्य᳚‌म्¦आ॒न॒ट्¦पीप्या᳚ना¦कूच॑क्रेणऽ‌इव¦सिं॒चन् |
ए॒ष॒ऽए॒ष्या᳚¦चि॒त्¦र॒थ्या᳚¦ज॒ये॒म॒¦सु॒ऽम॒ङ्गल᳚‌म्¦सिन॑ऽवत्¦अ॒स्तु॒¦सा॒त‌म् ||

त्वंविश्व॑स्य॒जग॑त॒श्चक्षु॑रिन्द्रासि॒चक्षु॑षः |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | ऋहती}

वृषा॒यदा॒जिंवृष॑णा॒सिषा᳚ससिचो॒दय॒न्वध्रि॑णायु॒जा || {12/12}{10.102.12}{10.9.3.12}{8.5.21.6}{1189, 939, 9987}

त्व‌म्¦विश्व॑स्य¦जग॑तः¦चक्षुः॑¦इ॒न्द्र॒¦अ॒सि॒¦चक्षु॑षः |
वृषा᳚¦यत्¦आ॒जि‌म्¦वृष॑णा¦सिसा᳚ससि¦चो॒दय॑न्¦वध्रि॑णा¦यु॒जा ||

[103] आशुःशिशानइति त्रयोदशर्चस्य सूक्तस्यैंद्रो प्रतिरथइंद्रश्चतुर्थ्यां बृहस्पतिर्द्वादश्याअप्वादेव्यंत्यायामरुतस्त्रिष्टुबंत्यानुष्टुप् | (आशुः शिशानः सूक्तोपांत्यायाआप्वादेवीत्यनुक्रमण्यां मप्वादेवीतिशौनकीये)
आ॒शुःशिशा᳚नोवृष॒भोभी॒मोघ॑नाघ॒नः,क्षोभ॑णश्चर्षणी॒नाम् |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

सं॒क्रन्द॑नोऽनिमि॒षए᳚कवी॒रःश॒तंसेना᳚,अजयत्सा॒कमिन्द्रः॑ || {1/13}{10.103.1}{10.9.4.1}{8.5.22.1}{1190, 940, 9988}

आ॒शुः¦शिशा᳚नः¦वृ॒ष॒भः¦न¦भी॒मः¦घ॒ना॒घ॒नः¦क्षोभ॑णः¦च॒र्ष॒णी॒ना‌म् |
स॒‌म्ऽक्रन्द॑नः¦अ॒नि॒ऽमि॒षः¦ए॒क॒ऽवी॒रः¦श॒त‌म्¦सेनाः᳚¦अ॒ज॒य॒त्¦सा॒क‌म्¦इन्द्रः॑ ||

सं॒क्रन्द॑नेनानिमि॒षेण॑जि॒ष्णुना᳚युत्का॒रेण॑दुश्च्यव॒नेन॑धृ॒ष्णुना᳚ |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

तदिन्द्रे᳚णजयत॒तत्स॑हध्वं॒युधो᳚नर॒इषु॑हस्तेन॒वृष्णा᳚ || {2/13}{10.103.2}{10.9.4.2}{8.5.22.2}{1191, 940, 9989}

स॒‌म्ऽक्रन्द॑नेन¦अ॒नि॒ऽमि॒षेण॑¦जि॒ष्णुना᳚¦यु॒त्ऽका॒रेण॑¦दुः॒ऽच्य॒व॒नेन॑¦धृ॒ष्णुना᳚ |
तत्¦इन्द्रे᳚ण¦ज॒य॒त॒¦तत्¦स॒ह॒ध्व॒‌म्¦युधः॑¦न॒रः॒¦इषु॑ऽहस्तेन¦वृष्णा᳚ ||

इषु॑हस्तैः॒नि॑ष॒ङ्गिभि᳚र्व॒शीसंस्र॑ष्टा॒युध॒इन्द्रो᳚ग॒णेन॑ |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

सं॒सृ॒ष्ट॒जित्सो᳚म॒पाबा᳚हुश॒र्ध्यु१॑(उ॒)ग्रध᳚न्वा॒प्रति॑हिताभि॒रस्ता᳚ || {3/13}{10.103.3}{10.9.4.3}{8.5.22.3}{1192, 940, 9990}

सः¦इषु॑ऽहस्तैः¦सः¦नि॒ष॒ङ्गिऽभिः॑¦व॒शी¦स‌म्ऽस्र॑ष्टा¦सः¦युधः॑¦इन्द्रः॑¦ग॒णेन॑ |
सं॒सृ॒ष्ट॒ऽजित्¦सो॒म॒ऽपाः¦बा॒हु॒ऽश॒र्धी¦उ॒ग्रऽध᳚न्वा¦प्रति॑ऽहिताभिः¦अस्ता᳚ ||

बृह॑स्पते॒परि॑दीया॒रथे᳚नरक्षो॒हामित्राँ᳚,अप॒बाध॑मानः |{इंद्रो प्रतिरथः | बृहस्पतिः | त्रिष्टुप्}

प्र॒भ॒ञ्जन्‌त्सेनाः᳚प्रमृ॒णोयु॒धाजय᳚न्न॒स्माक॑मेध्यवि॒तारथा᳚नाम् || {4/13}{10.103.4}{10.9.4.4}{8.5.22.4}{1193, 940, 9991}

बृह॑स्पते¦परि॑¦दी॒य॒¦रथे᳚न¦र॒क्षः॒ऽहा¦अ॒मित्रा᳚न्¦अ॒प॒ऽबाध॑मानः |
प्र॒ऽभं॒जन्¦सेनाः᳚¦प्र॒ऽमृ॒णः¦यु॒धा¦जय॑न्¦अ॒स्माक᳚‌म्¦ए॒धि॒¦अ॒वि॒ता¦रथा᳚ना‌म् ||

ब॒ल॒वि॒ज्ञा॒यःस्थवि॑रः॒प्रवी᳚रः॒सह॑स्वान्‌वा॒जीसह॑मानउ॒ग्रः |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

अ॒भिवी᳚रो,अ॒भिस॑त्वासहो॒जाजैत्र॑मिन्द्र॒रथ॒माति॑ष्ठगो॒वित् || {5/13}{10.103.5}{10.9.4.5}{8.5.22.5}{1194, 940, 9992}

ब॒ल॒ऽवि॒ज्ञा॒यः¦स्थवि॑रः¦प्रऽवी᳚रः¦सह॑स्वान्¦वा॒जी¦सह॑मानः¦उ॒ग्रः |
अ॒भिऽवी᳚रः¦अ॒भिऽस॑त्वा¦स॒हः॒ऽजाः¦जैत्र᳚‌म्¦इ॒न्द्र॒¦रथ᳚‌म्¦आ¦ति॒ष्ठ॒¦गो॒ऽवित् ||

गो॒त्र॒भिदं᳚गो॒विदं॒वज्र॑बाहुं॒जय᳚न्त॒मज्म॑प्रमृ॒णन्त॒मोज॑सा |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

इ॒मंस॑जाता॒,अनु॑वीरयध्व॒मिन्द्रं᳚सखायो॒,अनु॒संर॑भध्वम् || {6/13}{10.103.6}{10.9.4.6}{8.5.22.6}{1195, 940, 9993}

गो॒त्र॒ऽभिद᳚‌म्¦गो॒ऽविद᳚‌म्¦वज्र॑ऽबाहु‌म्¦जय᳚न्त‌म्¦अज्म॑¦प्र॒ऽमृ॒णन्त᳚‌म्¦ओज॑सा |
इ॒म‌म्¦स॒ऽजा॒ताः॒¦अनु॑¦वी॒र॒य॒ध्व॒‌म्¦इन्द्र᳚‌म्¦स॒खा॒यः॒¦अनु॑¦स‌म्¦र॒भ॒ध्व॒‌म् ||

अ॒भिगो॒त्राणि॒सह॑सा॒गाह॑मानोऽद॒योवी॒रःश॒तम᳚न्यु॒रिन्द्रः॑ |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

दु॒श्च्य॒व॒नःपृ॑तना॒षाळ॑यु॒ध्यो॒३॑(ओ॒)ऽस्माकं॒सेना᳚,अवतु॒प्रयु॒त्सु || {7/13}{10.103.7}{10.9.4.7}{8.5.23.1}{1196, 940, 9994}

अ॒भि¦गो॒त्राणि॑¦सह॑सा¦गाह॑मानः¦अ॒द॒यः¦वी॒रः¦श॒तऽम᳚न्युः¦इन्द्रः॑ |
दुः॒ऽच्य॒व॒नः¦पृ॒त॒ना॒षाट्¦अ॒यु॒ध्यः¦अ॒स्माक᳚‌म्¦सेनाः᳚¦अ॒व॒तु॒¦प्र¦यु॒त्ऽसु ||

इन्द्र॑आसांने॒ताबृह॒स्पति॒र्दक्षि॑णाय॒ज्ञःपु॒रए᳚तु॒सोमः॑ |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

दे॒व॒से॒नाना᳚मभिभञ्जती॒नांजय᳚न्तीनांम॒रुतो᳚य॒न्त्वग्र᳚म् || {8/13}{10.103.8}{10.9.4.8}{8.5.23.2}{1197, 940, 9995}

इन्द्रः॑¦आ॒सा॒‌म्¦ने॒ता¦बृह॒स्पतिः॑¦दक्षि॑णा¦य॒ज्ञः¦पु॒रः¦ए॒तु॒¦सोमः॑ |
दे॒व॒ऽसे॒नाना᳚‌म्¦अ॒भि॒ऽभं॒ज॒ती॒ना‌म्¦जय᳚न्तीना‌म्¦म॒रुतः॑¦य॒न्तु॒¦अग्र᳚‌म् ||

इन्द्र॑स्य॒वृष्णो॒वरु॑णस्य॒राज्ञ॑आदि॒त्यानां᳚म॒रुतां॒शर्ध॑उ॒ग्रम् |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

म॒हाम॑नसांभुवनच्य॒वानां॒घोषो᳚दे॒वानां॒जय॑ता॒मुद॑स्थात् || {9/13}{10.103.9}{10.9.4.9}{8.5.23.3}{1198, 940, 9996}

इन्द्र॑स्य¦वृष्णः॑¦वरु॑णस्य¦राज्ञः॑¦आ॒दि॒त्याना᳚‌म्¦म॒रुता᳚‌म्¦शर्धः॑¦उ॒ग्र‌म् |
म॒हाऽम॑नसा‌म्¦भु॒व॒न॒ऽच्य॒वाना᳚‌म्¦घोषः॑¦दे॒वाना᳚‌म्¦जय॑ता‌म्¦उत्¦अ॒स्था॒त् ||

उद्ध॑र्षयमघव॒न्नायु॑धा॒न्युत्सत्व॑नांमाम॒कानां॒मनां᳚सि |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

उद्वृ॑त्रहन्वा॒जिनां॒वाजि॑ना॒न्युद्रथा᳚नां॒जय॑तांयन्तु॒घोषाः᳚ || {10/13}{10.103.10}{10.9.4.10}{8.5.23.4}{1199, 940, 9997}

उत्¦ह॒र्ष॒य॒¦म॒घ॒ऽव॒न्¦आयु॑धानि¦उत्¦सत्व॑ना‌म्¦मा॒म॒काना᳚‌म्¦मनां᳚सि |
उत्¦वृ॒त्र॒ऽह॒न्¦वा॒जिना᳚‌म्¦वाजि॑नानि¦उत्¦रथा᳚ना‌म्¦जय॑ता‌म्¦य॒न्तु॒¦घोषाः᳚ ||

अ॒स्माक॒मिन्द्रः॒समृ॑तेषुध्व॒जेष्व॒स्माकं॒या,इष॑व॒स्ताज॑यन्तु |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

अ॒स्माकं᳚वी॒रा,उत्त॑रेभवन्त्व॒स्माँ,उ॑देवा,अवता॒हवे᳚षु || {11/13}{10.103.11}{10.9.4.11}{8.5.23.5}{1200, 940, 9998}

अ॒स्माक᳚‌म्¦इन्द्रः॑¦स‌म्ऽऋ॑तेषु¦ध्व॒जेषु॑¦अ॒स्माक᳚‌म्¦याः¦इष॑वः¦ताः¦ज॒य॒न्तु॒ |
अ॒स्माक᳚‌म्¦वी॒राः¦उत्ऽत॑रे¦भ॒व॒न्तु॒¦अ॒स्मान्¦ऊँ॒ इति॑¦दे॒वाः॒¦अ॒व॒त॒¦हवे᳚षु ||

अ॒मीषां᳚चि॒त्तंप्र॑तिलो॒भय᳚न्तीगृहा॒णाङ्गा᳚न्यप्वे॒परे᳚हि |{इंद्रो प्रतिरथः | अप्वा | त्रिष्टुप्}

अ॒भिप्रेहि॒निर्द॑हहृ॒त्सुशोकै᳚र॒न्धेना॒मित्रा॒स्तम॑सासचन्ताम् || {12/13}{10.103.12}{10.9.4.12}{8.5.23.6}{1201, 940, 9999}

अ॒मीषा᳚‌म्¦चि॒त्त‌म्¦प्र॒ति॒ऽलो॒भय᳚न्ती¦गृ॒हा॒ण¦अङ्गा᳚नि¦अ॒प्वे॒¦परा᳚¦इ॒हि॒ |
अ॒भि¦प्र¦इ॒हि॒¦निः¦द॒ह॒¦हृ॒त्ऽसु¦शोकैः᳚¦अ॒न्धेन॑¦अ॒मित्राः᳚¦तम॑सा¦स॒च॒न्ता॒‌म् ||

प्रेता॒जय॑तानर॒इन्द्रो᳚वः॒शर्म॑यच्छतु |{इंद्रो प्रतिरथः | इन्द्रो मरुतो वा | अनुष्टुप्}

उ॒ग्रावः॑सन्तुबा॒हवो᳚ऽनाधृ॒ष्यायथास॑थ || {13/13}{10.103.13}{10.9.4.13}{8.5.23.7}{1202, 940, 10000}

प्र¦इ॒त॒¦जय॑त¦न॒रः॒¦इन्द्रः॑¦वः॒¦शर्म॑¦य॒च्छ॒तु॒ | उ॒ग्राः¦वः॒¦स॒न्तु॒¦बा॒हवः॑¦अ॒ना॒धृ॒ष्याः¦यथा᳚¦अस॑थ ||

[104] असावीत्येकादशर्चस्य सूक्तस्य वैश्वामित्रोष्टकइंद्रस्त्रिष्टुप् |
असा᳚वि॒सोमः॑पुरुहूत॒तुभ्यं॒हरि॑भ्यांय॒ज्ञमुप॑याहि॒तूय᳚म् |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

तुभ्यं॒गिरो॒विप्र॑वीरा,इया॒नाद॑धन्‌वि॒रइ᳚न्द्र॒पिबा᳚सु॒तस्य॑ || {1/11}{10.104.1}{10.9.5.1}{8.5.24.1}{1203, 941, 10001}

असा᳚वि¦सोमः॑¦पु॒रु॒ऽहू॒त॒¦तुभ्य᳚‌म्¦हरि॑ऽभ्या‌म्¦य॒ज्ञ‌म्¦उप॑¦या॒हि॒¦तूय᳚‌म् |
तुभ्य᳚‌म्¦गिरः॑¦विप्र॑ऽवीराः¦इ॒या॒नाः¦द॒ध॒न्वि॒रे¦इ॒न्द्र॒¦पिब॑¦सु॒तस्य॑ ||

अ॒प्सुधू॒तस्य॑हरिवः॒पिबे॒हनृभिः॑सु॒तस्य॑ज॒ठरं᳚पृणस्व |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

मि॒मि॒क्षुर्यमद्र॑यइन्द्र॒तुभ्यं॒तेभि᳚र्वर्धस्व॒मद॑मुक्थवाहः || {2/11}{10.104.2}{10.9.5.2}{8.5.24.2}{1204, 941, 10002}

अ॒प्ऽसु¦धू॒तस्य॑¦ह॒रि॒ऽवः॒¦पिब॑¦इ॒ह¦नृऽभिः॑¦सु॒तस्य॑¦ज॒ठर᳚‌म्¦पृ॒ण॒स्व॒ |
मि॒मि॒क्षुः¦य‌म्¦अद्र॑यः¦इ॒न्द्र॒¦तुभ्य᳚‌म्¦तेभिः॑¦व॒र्ध॒स्व॒¦मद᳚‌म्¦उ॒क्थ॒ऽवा॒हः॒ ||

प्रोग्रांपी॒तिंवृष्ण॑इयर्मिस॒त्यांप्र॒यैसु॒तस्य॑हर्यश्व॒तुभ्य᳚म् |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

इन्द्र॒धेना᳚भिरि॒हमा᳚दयस्वधी॒भिर्विश्वा᳚भिः॒शच्या᳚गृणा॒नः || {3/11}{10.104.3}{10.9.5.3}{8.5.24.3}{1205, 941, 10003}

प्र¦उ॒ग्रा‌म्¦पी॒ति‌म्¦वृष्णे᳚¦इ॒य॒र्मि॒¦स॒त्या‌म्¦प्र॒ऽयै¦सु॒तस्य॑¦ह॒रि॒।आ॒श्व॒¦तुभ्य᳚‌म् |
इन्द्र॑¦धेना᳚भिः¦इ॒ह¦मा॒द॒य॒स्व॒¦धी॒भिः¦विश्वा᳚भिः¦शच्या᳚¦गृ॒णा॒नः ||

ऊ॒तीश॑चीव॒स्तव॑वी॒र्ये᳚ण॒वयो॒दधा᳚ना,उ॒शिज॑ऋत॒ज्ञाः |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

प्र॒जाव॑दिन्द्र॒मनु॑षोदुरो॒णेत॒स्थुर्गृ॒णन्तः॑सध॒माद्या᳚सः || {4/11}{10.104.4}{10.9.5.4}{8.5.24.4}{1206, 941, 10004}

ऊ॒ती¦श॒ची॒ऽवः॒¦तव॑¦वी॒र्ये᳚ण¦वयः॑¦दधा᳚नाः¦उ॒शिजः॑¦ऋ॒त॒ऽज्ञाः |
प्र॒जाऽव॑त्¦इ॒न्द्र॒¦मनु॑षः¦दु॒रो॒णे¦त॒स्थुः¦गृ॒णन्तः॑¦स॒ध॒ऽमाद्या᳚सः ||

प्रणी᳚तिभिष्टेहर्यश्वसु॒ष्टोःसु॑षु॒म्नस्य॑पुरु॒रुचो॒जना᳚सः |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

मंहि॑ष्ठामू॒तिंवि॒तिरे॒दधा᳚नाःस्तो॒तार॑इन्द्र॒तव॑सू॒नृता᳚भिः || {5/11}{10.104.5}{10.9.5.5}{8.5.24.5}{1207, 941, 10005}

प्रनी᳚तिऽभिः¦ते॒¦ह॒रि॒।आ॒श्व॒¦सु॒ऽस्तोः¦सु॒ऽसु॒म्नस्य॑¦पु॒रु॒ऽरुचः॑¦जना᳚सः |
मंहि॑ष्ठा‌म्¦ऊ॒ति‌म्¦वि॒ऽतिरे᳚¦दधा᳚नाः¦स्तो॒तारः॑¦इ॒न्द्र॒¦तव॑¦सू॒नृता᳚भिः ||

उप॒ब्रह्मा᳚णिहरिवो॒हरि॑भ्यां॒सोम॑स्ययाहिपी॒तये᳚सु॒तस्य॑ |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

इन्द्र॑त्वाय॒ज्ञः,क्षम॑माणमानड्दा॒श्वाँ,अ॑स्यध्व॒रस्य॑प्रके॒तः || {6/11}{10.104.6}{10.9.5.6}{8.5.25.1}{1208, 941, 10006}

उप॑¦ब्रह्मा᳚णि¦ह॒रि॒ऽवः॒¦हरि॑ऽभ्या‌म्¦सोम॑स्य¦या॒हि॒¦पी॒तये᳚¦सु॒तस्य॑ |
इन्द्र॑¦त्वा॒¦य॒ज्ञः¦क्षम॑माण‌म्¦आ॒न॒ट्¦दा॒श्वान्¦अ॒सि॒¦अ॒ध्व॒रस्य॑¦प्र॒ऽके॒तः ||

स॒हस्र॑वाजमभिमाति॒षाहं᳚सु॒तेर॑णंम॒घवा᳚नंसुवृ॒क्तिम् |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

उप॑भूषन्ति॒गिरो॒,अप्र॑तीत॒मिन्द्रं᳚नम॒स्याज॑रि॒तुःप॑नन्त || {7/11}{10.104.7}{10.9.5.7}{8.5.25.2}{1209, 941, 10007}

स॒हस्र॑ऽवाज‌म्¦अ॒भि॒मा॒ति॒ऽसह᳚‌म्¦सु॒तेऽर॑ण‌म्¦म॒घऽवा᳚न‌म्¦सु॒ऽवृ॒क्ति‌म् |
उप॑¦भू॒ष॒न्ति॒¦गिरः॑¦अप्र॑तिऽ‌इत‌म्¦इन्द्र᳚‌म्¦न॒म॒स्याः¦ज॒रि॒तुः¦प॒न॒न्त॒ ||

स॒प्तापो᳚दे॒वीःसु॒रणा॒,अमृ॑क्ता॒याभिः॒सिन्धु॒मत॑रइन्द्रपू॒र्भित् |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

न॒व॒तिंस्रो॒त्यानव॑च॒स्रव᳚न्तीर्दे॒वेभ्यो᳚गा॒तुंमनु॑षेविन्दः || {8/11}{10.104.8}{10.9.5.8}{8.5.25.3}{1210, 941, 10008}

स॒प्त¦आपः॑¦दे॒वीः¦सु॒ऽरणाः᳚¦अमृ॑क्ताः¦याभिः॑¦सिन्धु᳚‌म्¦अत॑रः¦इ॒न्द्र॒¦पूः॒ऽभित् |
न॒व॒ति‌म्¦स्रो॒त्याः¦नव॑¦च॒¦स्रव᳚न्तीः¦दे॒वेभ्यः॑¦गा॒तु‌म्¦मनु॑षे¦च॒¦वि॒न्दः॒ ||

अ॒पोम॒हीर॒भिश॑स्तेरमु॒ञ्चोऽजा᳚गरा॒स्वधि॑दे॒वएकः॑ |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

इन्द्र॒यास्त्वंवृ॑त्र॒तूर्ये᳚च॒कर्थ॒ताभि᳚र्वि॒श्वायु॑स्त॒न्वं᳚पुपुष्याः || {9/11}{10.104.9}{10.9.5.9}{8.5.25.4}{1211, 941, 10009}

अ॒पः¦म॒हीः¦अ॒भिऽश॑स्तेः¦अ॒मुं॒चः॒¦अजा᳚गः¦आ॒सु॒¦अधि॑¦दे॒वः¦एकः॑ |
इन्द्र॑¦याः¦त्व‌म्¦वृ॒त्र॒ऽतूर्ये᳚¦च॒कर्थ॑¦ताभिः॑¦वि॒श्वऽआ᳚युः¦त॒न्व᳚‌म्¦पु॒पु॒ष्याः॒ ||

वी॒रेण्यः॒क्रतु॒रिन्द्रः॑सुश॒स्तिरु॒तापि॒धेना᳚पुरुहू॒तमी᳚ट्टे |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

आर्द॑यद्वृ॒त्रमकृ॑णोदुलो॒कंस॑सा॒हेश॒क्रःपृत॑ना,अभि॒ष्टिः || {10/11}{10.104.10}{10.9.5.10}{8.5.25.5}{1212, 941, 10010}

वी॒रेण्यः॑¦क्रतुः॑¦इन्द्रः॑¦सु॒ऽश॒स्तिः¦उ॒त¦अपि॑¦धेना᳚¦पु॒रु॒ऽहू॒त‌म्¦ई॒ट्टे॒ |
आर्द॑यत्¦वृ॒त्र‌म्¦अकृ॑णोत्¦ऊँ॒ इति॑¦लोक᳚‌म्¦स॒स॒हे¦श॒क्रः¦पृत॑नाः¦अ॒भि॒ष्टिः ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {11/11}{10.104.11}{10.9.5.11}{8.5.25.6}{1213, 941, 10011}

शु॒न‌म्¦हु॒वे॒म॒¦म॒घऽवा᳚न‌म्¦इन्द्र᳚‌म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑म‌म्¦वाज॑ऽसातौ |
शृ॒ण्वन्त᳚‌म्¦उ॒ग्र‌म्¦ऊ॒तये᳚¦स॒मत्ऽसु॑¦घ्नन्त᳚‌म्¦वृ॒त्राणि॑¦स॒‌म्ऽजित᳚‌म्¦धना᳚ना‌म् ||

[105] कदेत्येकादशर्चस्य सूक्तस्य कौत्सोदुर्मित्र इंद्र उष्णिक् आद्यागायत्रीवा द्वितीयासप्तम्यौपिपीलिकमध्येअंत्यात्रिष्टुप् |
क॒दाव॑सोस्तो॒त्रंहर्य॑त॒आव॑श्म॒शारु॑ध॒द्वाः |{कौत्सो दुर्मित्रः | इन्द्रः | गायत्री}

दी॒र्घंसु॒तंवा॒ताप्या᳚य || {1/11}{10.105.1}{10.9.6.1}{8.5.26.1}{1214, 942, 10012}

क॒दा¦व॒सो॒ इति॑¦स्तो॒त्र‌म्¦हर्य॑ते¦आ¦अव॑¦श्म॒शा¦रु॒ध॒त्¦वारिति॒ वाः | दी॒र्घ‌म्¦सु॒त‌म्¦वा॒ताप्या᳚य ||

हरी॒यस्य॑सु॒युजा॒विव्र॑ता॒वेरर्व॒न्तानु॒शेपा᳚ |{कौत्सो दुर्मित्रः | इन्द्रः | गायत्री}

उ॒भार॒जीके॒शिना॒पति॒र्दन् || {2/11}{10.105.2}{10.9.6.2}{8.5.26.2}{1215, 942, 10013}

हरी॒ इति॑¦यस्य॑¦सु॒ऽयुजा᳚¦विऽव्र॑ता¦वेः¦अर्व᳚न्ता¦अनु॑¦शेपा᳚ | उ॒भा¦र॒जी इति॑¦न¦के॒शिना᳚¦पतिः॑¦द॒न् ||

अप॒योरिन्द्रः॒पाप॑ज॒मर्तो॒श॑श्रमा॒णोबि॑भी॒वान् |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्}

शु॒भेयद्यु॑यु॒जेतवि॑षीवान् || {3/11}{10.105.3}{10.9.6.3}{8.5.26.3}{1216, 942, 10014}

अप॑¦योः¦इन्द्रः॑¦पाप॑जे¦आ¦मर्तः॑¦न¦श॒श्र॒मा॒णः¦बि॒भी॒वान् | शु॒भे¦यत्¦यु॒यु॒जे¦तवि॑षीऽवान् ||

सचा॒योरिन्द्र॒श्चर्कृ॑ष॒आँ,उ॑पान॒सःस॑प॒र्यन् |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्}

न॒दयो॒र्विव्र॑तयोः॒शूर॒इन्द्रः॑ || {4/11}{10.105.4}{10.9.6.4}{8.5.26.4}{1217, 942, 10015}

सचा᳚¦आ॒योः¦इन्द्रः॑¦चर्कृ॑षे¦आ¦उ॒पा॒न॒सः¦स॒प॒र्यन् | न॒दयोः᳚¦विऽव्र॑तयोः¦शूरः॑¦इन्द्रः॑ ||

अधि॒यस्त॒स्थौकेश॑वन्ता॒व्यच॑स्वन्ता॒पु॒ष्ट्यै |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्}

व॒नोति॒शिप्रा᳚भ्यांशि॒प्रिणी᳚वान् || {5/11}{10.105.5}{10.9.6.5}{8.5.26.5}{1218, 942, 10016}

अधि॑¦यः¦त॒स्थौ¦केष॑ऽवन्ता¦व्यच॑स्वन्ता¦न¦पु॒ष्ट्यै | व॒नोति॑¦शिप्रा᳚भ्या‌म्¦शि॒प्रिणी᳚ऽवान् ||

प्रास्तौ᳚दृ॒ष्वौजा᳚ऋ॒ष्वेभि॑स्त॒तक्ष॒शूरः॒शव॑सा |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्}

ऋ॒भुर्नक्रतु॑भिर्मात॒रिश्वा᳚ || {6/11}{10.105.6}{10.9.6.6}{8.5.27.1}{1219, 942, 10017}

प्र¦अ॒स्तौ॒त्¦ऋ॒ष्वऽओ᳚जाः॒¦ऋ॒ष्वेभिः॑¦त॒तक्ष॑¦शूरः॑¦शव॑सा | ऋ॒भुः¦न¦क्रतु॑ऽभिः¦मा॒त॒रिश्वा᳚ ||

वज्रं॒यश्च॒क्रेसु॒हना᳚य॒दस्य॑वेहिरीम॒शोहिरी᳚मान् |{कौत्सो दुर्मित्रः | इन्द्रः | गायत्री}

अरु॑तहनु॒रद्भु॑तं॒रजः॑ || {7/11}{10.105.7}{10.9.6.7}{8.5.27.2}{1220, 942, 10018}

वज्र᳚‌म्¦यः¦च॒क्रे¦सु॒ऽहना᳚य¦दस्य॑वे¦हि॒री॒म॒शः¦हिरी᳚मान् | अरु॑तऽहनुः¦अद्भु॑त‌म्¦न¦रजः॑ ||

अव॑नोवृजि॒नाशि॑शीह्यृ॒चाव॑नेमा॒नृचः॑ |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्}

नाब्र᳚ह्माय॒ज्ञऋध॒ग्जोष॑ति॒त्वे || {8/11}{10.105.8}{10.9.6.8}{8.5.27.3}{1221, 942, 10019}

अव॑¦नः॒¦वृ॒जि॒ना¦शि॒शी॒हि॒¦ऋ॒चा¦व॒ने॒म॒¦अ॒नृचः॑ | न¦अब्र᳚ह्मा¦य॒ज्ञः¦ऋध॑क्¦जोष॑ति¦त्वे इति॑ ||

ऊ॒र्ध्वायत्ते᳚त्रे॒तिनी॒भूद्‌य॒ज्ञस्य॑धू॒र्षुसद्म॑न् |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्}

स॒जूर्नावं॒स्वय॑शसं॒सचा॒योः || {9/11}{10.105.9}{10.9.6.9}{8.5.27.4}{1222, 942, 10020}

ऊ॒र्ध्वा¦यत्¦ते॒¦त्रे॒तिनी᳚¦भूत्¦य॒ज्ञस्य॑¦धूः॒ऽसु¦सद्म॑न् | स॒ऽजूः¦नाव᳚‌म्¦स्वऽय॑शस‌म्¦सचा᳚¦आ॒योः ||

श्रि॒येते॒पृश्नि॑रुप॒सेच॑नीभूच्छ्रि॒येदर्वि॑ररे॒पाः |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्}

यया॒स्वेपात्रे᳚सि॒ञ्चस॒उत् || {10/11}{10.105.10}{10.9.6.10}{8.5.27.5}{1223, 942, 10021}

श्रि॒ये¦ते॒¦पृश्निः॑¦उ॒प॒ऽसेच॑नी¦भू॒त्¦श्रि॒ये¦दर्विः॑¦अ॒रे॒पाः | यया᳚¦स्वे¦पात्रे᳚¦सिं॒चसे᳚¦उत् ||

श॒तंवा॒यद॑सुर्य॒प्रति॑त्वासुमि॒त्रइ॒त्थास्तौ᳚द्दुर्मि॒त्रइ॒त्थास्तौ᳚त् |{कौत्सो दुर्मित्रः | इन्द्रः | त्रिष्टुप्}

आवो॒यद्द॑स्यु॒हत्ये᳚कुत्सपु॒त्रंप्रावो॒यद्द॑स्यु॒हत्ये᳚कुत्सव॒त्सम् || {11/11}{10.105.11}{10.9.6.11}{8.5.27.6}{1224, 942, 10022}

श॒त‌म्¦वा॒¦यत्¦अ॒सु॒र्य॒¦प्रति॑¦त्वा॒¦सु॒ऽमि॒त्रः¦इ॒त्था¦अ॒स्तौ॒त्¦दुः॒ऽमि॒त्रः¦इ॒त्था¦अ॒स्तौ॒त् |
आवः॑¦यत्¦द॒स्यु॒ऽहत्ये᳚¦कु॒त्स॒ऽपु॒त्र‌म्¦प्र¦आवः॑¦यत्¦द॒स्यु॒ऽहत्ये᳚¦कु॒त्स॒ऽव॒त्स‌म् ||

[106] उभाउनूनमित्येकादशर्चस्य सूक्तस्य काश्यपोभूतांशोश्विनौत्रिष्टुप् |
उ॒भा,उ॑नू॒नंतदिद॑र्थयेथे॒वित᳚न्वाथे॒धियो॒वस्त्रा॒पसे᳚व |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

स॒ध्री॒ची॒नायात॑वे॒प्रेम॑जीगःसु॒दिने᳚व॒पृक्ष॒तं᳚सयेथे || {1/11}{10.106.1}{10.9.7.1}{8.6.1.1}{1225, 943, 10023}

उ॒भौ¦ऊँ॒ इति॑¦नू॒न‌म्¦तत्¦इत्¦अ॒र्थ॒ये॒थे॒ इति॑¦वि¦त॒न्वा॒थे॒ इति॑¦धियः॑¦वस्त्रा᳚¦अ॒पसा᳚ऽ‌इव |
स॒ध्री॒ची॒ना¦यात॑वे¦प्र¦ई॒‌म्¦अ॒जी॒ग॒रिति॑¦सु॒दिना᳚ऽ‌इव¦पृक्षः॑¦आ¦तं॒स॒ये॒थे॒ इति॑ ||

उ॒ष्टारे᳚व॒फर्व॑रेषुश्रयेथेप्रायो॒गेव॒श्वात्र्या॒शासु॒रेथः॑ |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

दू॒तेव॒हिष्ठोय॒शसा॒जने᳚षु॒माप॑स्थातंमहि॒षेवा᳚व॒पाना᳚त् || {2/11}{10.106.2}{10.9.7.2}{8.6.1.2}{1226, 943, 10024}

उ॒ष्टारा᳚ऽ‌इव¦फर्व॑रेषु¦श्र॒ये॒थे॒ इति॑¦प्रा॒यो॒गाऽ‌इ᳚व¦श्वात्र्या᳚¦शासुः॑¦आ¦इ॒थः॒ |
दू॒ताऽ‌इ᳚व¦हि¦स्थः¦य॒शसा᳚¦जने᳚षु¦मा¦अप॑¦स्था॒त॒‌म्¦म॒हि॒षाऽ‌इ᳚व¦अ॒व॒ऽपाना᳚त् ||

सा॒कं॒युजा᳚शकु॒नस्ये᳚वप॒क्षाप॒श्वेव॑चि॒त्रायजु॒राग॑मिष्टम् |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

अ॒ग्निरि॑वदेव॒योर्दी᳚दि॒वांसा॒परि॑ज्मानेवयजथःपुरु॒त्रा || {3/11}{10.106.3}{10.9.7.3}{8.6.1.3}{1227, 943, 10025}

सा॒क॒‌म्ऽयुजा᳚¦श॒कु॒नस्य॑ऽ‌इव¦प॒क्षा¦प॒श्वाऽ‌इ᳚व¦चि॒त्रा¦यजुः॑¦आ¦ग॒मि॒ष्ट॒‌म् |
अ॒ग्निःऽ‌इ᳚व¦दे॒व॒ऽयोः¦दी॒दि॒ऽवांसा᳚¦परि॑ज्मानाऽ‌इव¦य॒ज॒थः॒¦पु॒रु॒ऽत्रा ||

आ॒पीवो᳚,अ॒स्मेपि॒तरे᳚वपु॒त्रोग्रेव॑रु॒चानृ॒पती᳚वतु॒र्यै |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

इर्ये᳚वपु॒ष्ट्यैकि॒रणे᳚वभु॒ज्यैश्रु॑ष्टी॒वाने᳚व॒हव॒माग॑मिष्टम् || {4/11}{10.106.4}{10.9.7.4}{8.6.1.4}{1228, 943, 10026}

आ॒पी इति॑¦वः॒¦अ॒स्मे इति॑¦पि॒तरा᳚ऽ‌इव¦पु॒त्रा¦उ॒ग्राऽ‌इ᳚व¦रु॒चा¦नृ॒पती᳚ इ॒वेति॑ नृ॒पती᳚ऽ‌इव¦तु॒र्यै |
इर्या᳚ऽ‌इव¦पु॒ष्ट्यै¦कि॒रणा᳚ऽ‌इव¦भु॒ज्यै¦श्रु॒ष्टी॒वाना᳚ऽ‌इव¦हव᳚‌म्¦आ¦ग॒मि॒ष्ट॒‌म् ||

वंस॑गेवपूष॒र्या᳚शि॒म्बाता᳚मि॒त्रेव॑ऋ॒ताश॒तरा॒शात॑पन्ता |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

वाजे᳚वो॒च्चावय॑साघर्म्ये॒ष्ठामेषे᳚वे॒षास॑प॒र्या॒३॑(आ॒)पुरी᳚षा || {5/11}{10.106.5}{10.9.7.5}{8.6.1.5}{1229, 943, 10027}

वंस॑गाऽ‌इव¦पू॒ष॒र्या᳚¦शि॒म्बाता᳚¦मि॒त्राऽ‌इ᳚व¦ऋ॒ता¦श॒तरा᳚¦शात॑पन्ता |
वाजा᳚ऽ‌इव¦उ॒च्चा¦वय॑सा¦घ॒र्म्ये॒ऽस्था¦मेषा᳚ऽ‌इव¦इ॒षा¦स॒प॒र्या᳚¦पुरी᳚षा ||

सृ॒ण्ये᳚वज॒र्भरी᳚तु॒र्फरी᳚तूनैतो॒शेव॑तु॒र्फरी᳚पर्फ॒रीका᳚ |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

उ॒द॒न्य॒जेव॒जेम॑नामदे॒रूतामे᳚ज॒राय्व॒जरं᳚म॒रायु॑ || {6/11}{10.106.6}{10.9.7.6}{8.6.2.1}{1230, 943, 10028}

सृ॒ण्या᳚ऽ‌इव¦ज॒र्भरी॒ इति॑¦तु॒र्फरी᳚तू॒ इति॑¦नै॒तो॒शाऽ‌इ᳚व¦तु॒र्फरी॒ इति॑¦प॒र्फ॒रीका᳚ |
उ॒द॒न्य॒जाऽ‌इ᳚व¦जेम॑ना¦म॒दे॒रू इति॑¦ता¦मे॒¦ज॒रायु॑¦अ॒जर᳚‌म्¦म॒रायु॑ ||

प॒ज्रेव॒चर्च॑रं॒जारं᳚म॒रायु॒क्षद्मे॒वार्थे᳚षुतर्तरीथउग्रा |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

ऋ॒भूनाप॑त्खरम॒ज्राख॒रज्रु᳚र्वा॒युर्नप॑र्फरत्‌क्षयद्रयी॒णाम् || {7/11}{10.106.7}{10.9.7.7}{8.6.2.2}{1231, 943, 10029}

प॒ज्राऽ‌इ᳚व¦चर्च॑र‌म्¦जार᳚‌म्¦म॒रायु॑¦क्षद्म॑ऽ‌इव¦अर्थे᳚षु¦त॒र्त॒री॒थः॒¦उ॒ग्रा॒ |
ऋ॒भू इति॑¦न¦आ॒प॒त्¦ख॒र॒म॒ज्रा¦ख॒रऽज्रुः॑¦वा॒युः¦न¦प॒र्फ॒र॒त्¦क्ष॒य॒त्¦र॒यी॒णा‌म् ||

घ॒र्मेव॒मधु॑ज॒ठरे᳚स॒नेरू॒भगे᳚वितातु॒र्फरी॒फारि॒वार᳚म् |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

प॒त॒रेव॑चच॒राच॒न्द्रनि᳚र्णि॒ङ्मन॑ऋङ्गामन॒न्या॒३॑(आ॒)जग्मी᳚ || {8/11}{10.106.8}{10.9.7.8}{8.6.2.3}{1232, 943, 10030}

घ॒र्माऽ‌इ᳚व¦मधु॑¦ज॒ठरे᳚¦स॒नेरू॒ इति॑¦भगे᳚।आविता¦तु॒र्फरी॒ इति॑¦फारि॑वा¦अर᳚‌म् |
प॒त॒राऽ‌इ᳚व¦च॒च॒रा¦च॒न्द्रऽनि᳚र्निक्¦मनः॑ऽऋङ्गा¦म॒न॒न्या᳚¦न¦जग्मी॒ इति॑ ||

बृ॒हन्ते᳚वग॒म्भरे᳚षुप्रति॒ष्ठांपादे᳚वगा॒धंतर॑तेविदाथः |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

कर्णे᳚व॒शासु॒रनु॒हिस्मरा॒थोंऽशे᳚वनोभजतंचि॒त्रमप्नः॑ || {9/11}{10.106.9}{10.9.7.9}{8.6.2.4}{1233, 943, 10031}

बृ॒हन्ता᳚ऽ‌इव¦ग॒म्भरे᳚षु¦प्र॒ति॒ऽस्था‌म्¦पादा᳚ऽ‌इव¦गा॒ध‌म्¦तर॑ते¦वि॒दा॒थः॒ |
कर्णा᳚ऽ‌इव¦शासुः॑¦अनु॑¦हि¦स्मरा᳚थः¦अंशा᳚ऽ‌इव¦नः॒¦भ॒ज॒त॒‌म्¦चि॒त्र‌म्¦अप्नः॑ ||

आ॒र॒ङ्ग॒रेव॒मध्वेर॑येथेसार॒घेव॒गवि॑नी॒चीन॑बारे |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

की॒नारे᳚व॒स्वेद॑मासिष्विदा॒नाक्षामे᳚वो॒र्जासू᳚यव॒सात्स॑चेथे || {10/11}{10.106.10}{10.9.7.10}{8.6.2.5}{1234, 943, 10032}

आ॒र॒ङ्ग॒राऽ‌इ᳚व¦मधु॑¦आ¦ई॒र॒ये॒थे॒ इति॑¦सा॒र॒घाऽ‌इ᳚व¦गवि॑¦नी॒चीन॑ऽबारे |
की॒नारा᳚ऽ‌इव¦स्वेद᳚‌म्¦आ॒ऽसि॒स्वि॒दा॒ना¦क्षाम॑ऽ‌इव¦ऊ॒र्जा¦सु॒य॒व॒स॒।आत्¦स॒चे॒थे॒ इति॑ ||

ऋ॒ध्याम॒स्तोमं᳚सनु॒याम॒वाज॒¦मानो॒मन्त्रं᳚स॒रथे॒होप॑यातम् |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

यशो॒प॒क्वंमधु॒गोष्व॒न्त¦राभू॒तांशो᳚,अ॒श्विनोः॒काम॑मप्राः || {11/11}{10.106.11}{10.9.7.11}{8.6.2.6}{1235, 943, 10033}

ऋ॒ध्याम॑¦स्तोम᳚‌म्¦स॒नु॒याम॑¦वाज᳚‌म्¦आ¦नः॒¦मन्त्र᳚‌म्¦स॒ऽरथा᳚¦इ॒ह¦उप॑¦या॒त॒‌म् |
यशः॑¦न¦प॒क्व‌म्¦मधु॑¦गोषु॑¦अ॒न्तः¦आ¦भू॒त।आं᳚शः¦अ॒श्विनोः᳚¦काम᳚‌म्¦अ॒प्राः॒ ||

[107] आविरित्येका दशर्चस्य सूक्तस्यांगिरसोदिव्योदक्षिणात्रिष्टुप् चतुर्थीजगती | (प्राजापत्यादक्षिणानामग्निरृषिका वा दक्षिणादातारोवा देवता) |
आ॒विर॑भू॒न्महि॒माघो᳚नमेषां॒विश्वं᳚जी॒वंतम॑सो॒निर॑मोचि |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

महि॒ज्योतिः॑पि॒तृभि॑र्द॒त्तमागा᳚दु॒रुःपन्था॒दक्षि॑णाया,अदर्शि || {1/11}{10.107.1}{10.9.8.1}{8.6.3.1}{1236, 944, 10034}

आ॒विः¦अ॒भू॒त्¦महि॑¦माघो᳚न‌म्¦ए॒षा॒‌म्¦विश्व᳚‌म्¦जी॒व‌म्¦तम॑सः¦निः¦अ॒मो॒चि॒ |
महि॑¦ज्योतिः॑¦पि॒तृऽभिः॑¦द॒त्त‌म्¦आ¦अ॒गा॒त्¦उ॒रुः¦पन्थाः᳚¦दक्षि॑णायाः¦अ॒द॒र्शि॒ ||

उ॒च्चादि॒विदक्षि॑णावन्तो,अस्थु॒र्ये,अ॑श्व॒दाःस॒हतेसूर्ये᳚ण |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

हि॒र॒ण्य॒दा,अ॑मृत॒त्वंभ॑जन्तेवासो॒दाःसो᳚म॒प्रति॑रन्त॒आयुः॑ || {2/11}{10.107.2}{10.9.8.2}{8.6.3.2}{1237, 944, 10035}

उ॒च्चा¦दि॒वि¦दक्षि॑णाऽवन्तः¦अ॒स्थुः॒¦ये¦अ॒श्व॒ऽदाः¦स॒ह¦ते¦सूर्ये᳚ण |
हि॒र॒ण्य॒ऽदाः¦अ॒मृ॒त॒ऽत्व‌म्¦भ॒ज॒न्ते॒¦वा॒सः॒ऽदाः¦सो॒म॒¦प्र¦ति॒र॒न्ते॒¦आयुः॑ ||

दैवी᳚पू॒र्तिर्दक्षि॑णादेवय॒ज्याक॑वा॒रिभ्यो᳚न॒हितेपृ॒णन्ति॑ |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

अथा॒नरः॒प्रय॑तदक्षिणासोऽवद्यभि॒याब॒हवः॑पृणन्ति || {3/11}{10.107.3}{10.9.8.3}{8.6.3.3}{1238, 944, 10036}

दैवी᳚¦पू॒र्तिः¦दक्षि॑णा¦दे॒व॒ऽय॒ज्या¦न¦क॒व॒।आ॒रिभ्यः॑¦न॒हि¦ते¦पृ॒णन्ति॑ |
अथ॑¦नरः॑¦प्रय॑तऽदक्षिणासः¦अ॒व॒द्य॒ऽभि॒या¦ब॒हवः॑¦पृ॒ण॒न्ति॒ ||

श॒तधा᳚रंवा॒युम॒र्कंस्व॒र्विदं᳚नृ॒चक्ष॑स॒स्ते,अ॒भिच॑क्षतेह॒विः |{आङ्गिरसो दिव्यः | दक्षिणाः | जगती}

येपृ॒णन्ति॒प्रच॒यच्छ᳚न्तिसंग॒मेतेदक्षि॑णांदुहतेस॒प्तमा᳚तरम् || {4/11}{10.107.4}{10.9.8.4}{8.6.3.4}{1239, 944, 10037}

श॒तऽधा᳚र‌म्¦वा॒यु‌म्¦अ॒र्क‌म्¦स्वः॒ऽविद᳚‌म्¦नृ॒ऽचक्ष॑सः¦ते॒¦अ॒भि¦च॒क्ष॒ते॒¦ह॒विः |
ये¦पृ॒णन्ति॑¦प्र¦च॒¦यच्छ᳚न्ति¦स॒‌म्ऽग॒मे¦ते¦दक्षि॑णा‌म्¦दु॒ह॒ते॒¦स॒प्तऽमा᳚तर‌म् ||

दक्षि॑णावान्‌प्रथ॒मोहू॒तए᳚ति॒दक्षि॑णावान्‌ग्राम॒णीरग्र॑मेति |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

तमे॒वम᳚न्येनृ॒पतिं॒जना᳚नां॒यःप्र॑थ॒मोदक्षि॑णामावि॒वाय॑ || {5/11}{10.107.5}{10.9.8.5}{8.6.3.5}{1240, 944, 10038}

दक्षि॑णाऽवान्¦प्र॒थ॒मः¦हू॒तः¦ए॒ति॒¦दक्षि॑णाऽवान्¦ग्रा॒म॒ऽनीः¦अग्र᳚‌म्¦ए॒ति॒ |
त‌म्¦ए॒व¦म॒न्ये॒¦नृ॒ऽपति᳚‌म्¦जना᳚ना‌म्¦यः¦प्र॒थ॒मः¦दक्षि॑णा‌म्¦आ॒ऽवि॒वाय॑ ||

तमे॒वऋषिं॒तमु॑ब्र॒ह्माण॑माहुर्यज्ञ॒न्यं᳚साम॒गामु॑क्थ॒शास᳚म् |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

शु॒क्रस्य॑त॒न्वो᳚वेदति॒स्रोयःप्र॑थ॒मोदक्षि॑णयार॒राध॑ || {6/11}{10.107.6}{10.9.8.6}{8.6.4.1}{1241, 944, 10039}

त‌म्¦ए॒व¦ऋषि᳚‌म्¦त‌म्¦ऊँ॒ इति॑¦ब्र॒ह्माण᳚‌म्¦आ॒हुः॒¦य॒ज्ञ॒ऽन्य᳚‌म्¦सा॒म॒ऽगा‌म्¦उ॒क्थ॒ऽशास᳚‌म् |
सः¦शु॒क्रस्य॑¦त॒न्वः॑¦वे॒द॒¦ति॒स्रः¦यः¦प्र॒थ॒मः¦दक्षि॑णया¦र॒राध॑ ||

दक्षि॒णाश्वं॒दक्षि॑णा॒गांद॑दाति॒¦दक्षि॑णाच॒न्द्रमु॒तयद्धिर᳚ण्यम् |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

दक्षि॒णान्नं᳚वनुते॒योन॑आ॒त्मा¦दक्षि॑णां॒वर्म॑कृणुतेविजा॒नन् || {7/11}{10.107.7}{10.9.8.7}{8.6.4.2}{1242, 944, 10040}

दक्षि॑णा¦अश्व᳚‌म्¦दक्षि॑णा¦गा‌म्¦द॒दा॒ति॒¦दक्षि॑णा¦च॒न्द्र‌म्¦उ॒त¦यत्¦हिर᳚ण्य‌म् |
दक्षि॑णा¦अन्न᳚‌म्¦व॒नु॒ते॒¦यः¦नः॒¦आ॒त्मा¦दक्षि॑णा‌म्¦वर्म॑¦कृ॒णु॒ते॒¦वि॒ऽजा॒नन् ||

भो॒जाम᳚म्रु॒र्नन्य॒र्थमी᳚यु॒र्नरि॑ष्यन्ति॒व्य॑थन्तेभो॒जाः |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

इ॒दंयद्विश्वं॒भुव॑नं॒स्व॑श्चै॒तत्सर्वं॒दक्षि॑णैभ्योददाति || {8/11}{10.107.8}{10.9.8.8}{8.6.4.3}{1243, 944, 10041}

न¦भो॒जाः¦म॒म्रुः॒¦न¦नि॒।आ॒र्थ‌म्¦ई॒युः॒¦न¦रि॒ष्य॒न्ति॒¦न¦व्य॒थ॒न्ते॒¦ह॒¦भो॒जाः |
इ॒द‌म्¦यत्¦विश्व᳚‌म्¦भुव॑न‌म्¦स्वः॑¦च॒¦ए॒तत्¦सर्व᳚‌म्¦दक्षि॑णा¦ए॒भ्यः॒¦द॒दा॒ति॒ ||

भो॒जाजि॑ग्युःसुर॒भिंयोनि॒मग्रे᳚भो॒जाजि॑ग्युर्व॒ध्व१॑(अं॒)यासु॒वासाः᳚ |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

भो॒जाजि॑ग्युरन्तः॒पेयं॒सुरा᳚याभो॒जाजि॑ग्यु॒र्ये,अहू᳚ताःप्र॒यन्ति॑ || {9/11}{10.107.9}{10.9.8.9}{8.6.4.4}{1244, 944, 10042}

भो॒जाः¦जि॒ग्युः॒¦सु॒र॒भि‌म्¦योनि᳚‌म्¦अग्रे᳚¦भो॒जाः¦जि॒ग्युः॒¦व॒ध्व᳚‌म्¦या¦सु॒ऽवासाः᳚ |
भो॒जाः¦जि॒ग्युः॒¦अ॒न्तः॒ऽपेय᳚‌म्¦सुरा᳚याः¦भो॒जाः¦जि॒ग्युः॒¦ये¦अहू᳚ताः¦प्र॒ऽयन्ति॑ ||

भो॒जायाश्वं॒संमृ॑जन्त्या॒शुंभो॒जाया᳚स्तेक॒न्या॒३॑(आ॒)शुम्भ॑माना |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

भो॒जस्ये॒दंपु॑ष्क॒रिणी᳚व॒वेश्म॒परि॑ष्कृतंदेवमा॒नेव॑चि॒त्रम् || {10/11}{10.107.10}{10.9.8.10}{8.6.4.5}{1245, 944, 10043}

भो॒जाय॑¦अश्व᳚‌म्¦स‌म्¦मृ॒ज॒न्ति॒¦आ॒शु‌म्¦भो॒जाय॑¦आ॒स्ते॒¦क॒न्या᳚¦शुम्भ॑माना |
भो॒जस्य॑¦इ॒द‌म्¦पु॒ष्क॒रिणी᳚ऽ‌इव¦वेश्म॑¦परि॑ऽकृत‌म्¦दे॒व॒मा॒नाऽ‌इ᳚व¦चि॒त्र‌म् ||

भो॒जमश्वाः᳚सुष्ठु॒वाहो᳚वहन्तिसु॒वृद्रथो᳚वर्तते॒दक्षि॑णायाः |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

भो॒जंदे᳚वासोऽवता॒भरे᳚षुभो॒जःशत्रू᳚न्‌त्समनी॒केषु॒जेता᳚ || {11/11}{10.107.11}{10.9.8.11}{8.6.4.6}{1246, 944, 10044}

भो॒ज‌म्¦अश्वाः᳚¦सु॒ष्ठु॒ऽवाहः॑¦व॒ह॒न्ति॒¦सु॒ऽवृत्¦रथः॑¦व॒र्त॒ते॒¦दक्षि॑णायाः |
भो॒ज‌म्¦दे॒वा॒सः॒¦अ॒व॒त॒¦भरे᳚षु¦भो॒जः¦शत्रू᳚न्¦स॒‌म्।आ॒नी॒केषु॑¦जेता᳚ ||

[108] किमिच्छंतीत्येकादशर्चस्य सूक्तस्यायुजां पणिनामासुराऋषयः युजामेकादश्याश्च सरमानाग्नीदेवशुनीऋषिका अयुजांसरमादेवता युजामेकादश्याश्चपणयस्त्रिष्टुप् |
किमि॒च्छन्ती᳚स॒रमा॒प्रेदमा᳚नड्दू॒रेह्यध्वा॒जगु॑रिःपरा॒चैः |{पणिनामासुराः | सरमा | त्रिष्टुप्}

कास्मेहि॑तिः॒कापरि॑तक्म्यासीत्क॒थंर॒साया᳚,अतरः॒पयां᳚सि || {1/11}{10.108.1}{10.9.9.1}{8.6.5.1}{1247, 945, 10045}

कि‌म्¦इ॒च्छन्ती᳚¦स॒रमा᳚¦प्र¦इ॒द‌म्¦आ॒न॒ट्¦दू॒रे¦हि¦अध्वा᳚¦जगु॑रिः¦प॒रा॒चैः |
का¦अ॒स्मेऽहि॑तिः¦का¦परि॑ऽतक्म्या¦आ॒सी॒त्¦क॒थ‌म्¦र॒सायाः᳚¦अ॒त॒रः॒¦पयां᳚सि ||

इन्द्र॑स्यदू॒तीरि॑षि॒ताच॑रामिम॒हइ॒च्छन्ती᳚पणयोनि॒धीन्वः॑ |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्}

अ॒ति॒ष्कदो᳚भि॒यसा॒तन्न॑आव॒त्तथा᳚र॒साया᳚,अतरं॒पयां᳚सि || {2/11}{10.108.2}{10.9.9.2}{8.6.5.2}{1248, 945, 10046}

इन्द्र॑स्य¦दू॒तीः¦इ॒षि॒ता¦च॒रा॒मि॒¦म॒हः¦इ॒च्छन्ती᳚¦प॒ण॒यः॒¦नि॒ऽधीन्¦वः॒ |
अ॒ति॒ऽस्कदः॑¦भि॒यसा᳚¦तत्¦नः॒¦आ॒व॒त्¦तथा᳚¦र॒सायाः᳚¦अ॒त॒र॒‌म्¦पयां᳚सि ||

की॒दृङ्ङिन्द्रः॑सरमे॒कादृ॑शी॒कायस्ये॒दंदू॒तीरस॑रःपरा॒कात् |{पणिनामासुराः | सरमा | त्रिष्टुप्}

च॒गच्छा᳚न्मि॒त्रमे᳚नादधा॒माथा॒गवां॒गोप॑तिर्नोभवाति || {3/11}{10.108.3}{10.9.9.3}{8.6.5.3}{1249, 945, 10047}

की॒दृक्¦इन्द्रः॑¦स॒र॒मे॒¦का¦दृ॒शी॒का¦यस्य॑¦इ॒द‌म्¦दू॒तीः¦अस॑रः¦प॒रा॒कात् |
आ¦च॒¦गच्छा᳚त्¦मि॒त्र‌म्¦ए॒न॒¦द॒धा॒म॒¦अथ॑¦गवा᳚‌म्¦गोऽप॑तिः¦नः॒¦भ॒वा॒ति॒ ||

नाहंतंवे᳚द॒दभ्यं॒दभ॒त्सयस्ये॒दंदू॒तीरस॑रंपरा॒कात् |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्}

तंगू᳚हन्तिस्र॒वतो᳚गभी॒राह॒ता,इन्द्रे᳚णपणयःशयध्वे || {4/11}{10.108.4}{10.9.9.4}{8.6.5.4}{1250, 945, 10048}

न¦अ॒ह‌म्¦त‌म्¦वे॒द॒¦दभ्य᳚‌म्¦दभ॑त्¦सः¦यस्य॑¦इ॒द‌म्¦दू॒तीः¦अस॑र‌म्¦प॒रा॒कात् |
न¦त‌म्¦गू॒ह॒न्ति॒¦स्र॒वतः॑¦ग॒भी॒राः¦ह॒ताः¦इन्द्रे᳚ण¦प॒ण॒यः॒¦श॒य॒ध्वे॒ ||

इ॒मागावः॑सरमे॒या,ऐच्छः॒परि॑दि॒वो,अन्ता᳚न्‌त्सुभगे॒पत᳚न्ती |{पणिनामासुराः | सरमा | त्रिष्टुप्}

कस्त॑एना॒,अव॑सृजा॒दयु॑ध्व्यु॒तास्माक॒मायु॑धासन्तिति॒ग्मा || {5/11}{10.108.5}{10.9.9.5}{8.6.5.5}{1251, 945, 10049}

इ॒माः¦गावः॑¦स॒र॒मे॒¦याः¦ऐच्छः॑¦परि॑¦दि॒वः¦अन्ता᳚न्¦सु॒ऽभ॒गे॒¦पत᳚न्ती |
कः¦ते॒¦ए॒नाः॒¦अव॑¦सृ॒जा॒त्¦अयु॑ध्वी¦उ॒त¦अ॒स्माक᳚‌म्¦आयु॑धा¦स॒न्ति॒¦ति॒ग्मा ||

अ॒से॒न्यावः॑पणयो॒वचां᳚स्यनिष॒व्यास्त॒न्वः॑सन्तुपा॒पीः |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्}

अधृ॑ष्टोव॒एत॒वा,अ॑स्तु॒पन्था॒बृह॒स्पति᳚र्वउभ॒यामृ॑ळात् || {6/11}{10.108.6}{10.9.9.6}{8.6.6.1}{1252, 945, 10050}

अ॒से॒न्या¦वः॒¦प॒ण॒यः॒¦वचां᳚सि¦अ॒नि॒ष॒व्याः¦त॒न्वः॑¦स॒न्तु॒¦पा॒पीः |
अधृ॑ष्टः¦वः॒¦एत॒वै¦अ॒स्तु॒¦पन्थाः᳚¦बृह॒स्पतिः॑¦वः॒¦उ॒भ॒या¦न¦मृ॒ळा॒त् ||

अ॒यंनि॒धिःस॑रमे॒,अद्रि॑बुध्नो॒¦गोभि॒रश्वे᳚भि॒र्वसु॑भि॒र्न्यृ॑ष्टः |{पणिनामासुराः | सरमा | त्रिष्टुप्}

रक्ष᳚न्ति॒तंप॒णयो॒येसु॑गो॒पा¦रेकु॑प॒दमल॑क॒माज॑गन्थ || {7/11}{10.108.7}{10.9.9.7}{8.6.6.2}{1253, 945, 10051}

अ॒य‌म्¦नि॒ऽधिः¦स॒र॒मे॒¦अद्रि॑ऽबुध्नः¦गोभिः॑¦अश्वे᳚भिः¦वसु॑ऽभिः¦निऽऋ॑ष्टः |
रक्ष᳚न्ति¦त‌म्¦प॒णयः॑¦ये¦सु॒ऽगो॒पाः¦रेकु॑¦प॒द‌म्¦अल॑क‌म्¦आ¦ज॒ग॒न्थ॒ ||

एहग॑म॒न्नृष॑यः॒सोम॑शिता,अ॒यास्यो॒,अङ्गि॑रसो॒नव॑ग्वाः |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्}

ए॒तमू॒र्वंविभ॑जन्त॒गोना॒मथै॒तद्वचः॑प॒णयो॒वम॒न्नित् || {8/11}{10.108.8}{10.9.9.8}{8.6.6.3}{1254, 945, 10052}

आ¦इ॒ह¦ग॒म॒न्¦ऋष॑यः¦सोम॑ऽशिताः¦अ॒यास्यः॑¦अङ्गि॑रसः¦नव॑ऽग्वाः |
ते¦ए॒त‌म्¦ऊ॒र्व‌म्¦वि¦भ॒ज॒न्त॒¦गोना᳚‌म्¦अथ॑¦ए॒तत्¦वचः॑¦प॒णयः॑¦वम॑न्¦इत् ||

ए॒वाच॒त्वंस॑रमआज॒गन्थ॒प्रबा᳚धिता॒सह॑सा॒दैव्ये᳚न |{पणिनामासुराः | सरमा | त्रिष्टुप्}

स्वसा᳚रंत्वाकृणवै॒मापुन॑र्गा॒,अप॑ते॒गवां᳚सुभगेभजाम || {9/11}{10.108.9}{10.9.9.9}{8.6.6.4}{1255, 945, 10053}

ए॒व¦च॒¦त्व‌म्¦स॒र॒मे॒¦आ॒ऽज॒गन्थ॑¦प्रऽबा᳚धिता¦सह॑सा¦दैव्ये᳚न |
स्वसा᳚र‌म्¦त्वा॒¦कृ॒ण॒वै॒¦मा¦पुनः॑¦गाः॒¦अप॑¦ते॒¦गवा᳚‌म्¦सु॒ऽभ॒गे॒¦भ॒जा॒म॒ ||

नाहंवे᳚दभ्रातृ॒त्वंनोस्व॑सृ॒त्वमिन्द्रो᳚विदु॒रङ्गि॑रसश्चघो॒राः |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्}

गोका᳚मामे,अच्छदय॒न्यदाय॒मपात॑इतपणयो॒वरी᳚यः || {10/11}{10.108.10}{10.9.9.10}{8.6.6.5}{1256, 945, 10054}

न¦अ॒ह‌म्¦वे॒द॒¦भ्रा॒तृ॒ऽत्व‌म्¦नो इति॑¦स्व॒सृ॒ऽत्व‌म्¦इन्द्रः॑¦वि॒दुः॒¦अङ्गि॑रसः¦च॒¦घो॒राः |
गोऽका᳚माः¦मे॒¦अ॒च्छ॒द॒य॒न्¦यत्¦आय᳚‌म्¦अप॑¦अतः॑¦इ॒त॒¦प॒ण॒यः॒¦वरी᳚यः ||

दू॒रमि॑तपणयो॒वरी᳚य॒उद्गावो᳚यन्तुमिन॒तीरृ॒तेन॑ |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्}

बृह॒स्पति॒र्या,अवि᳚न्द॒न्निगू᳚ळ्हाः॒सोमो॒ग्रावा᳚ण॒ऋष॑यश्च॒विप्राः᳚ || {11/11}{10.108.11}{10.9.9.11}{8.6.6.6}{1257, 945, 10055}

दू॒र‌म्¦इ॒त॒¦प॒ण॒यः॒¦वरी᳚यः¦उत्¦गावः॑¦य॒न्तु॒¦मि॒न॒तीः¦ऋ॒तेन॑ |
बृह॒स्पतिः॑¦याः¦अवि᳚न्दत्¦निऽगू᳚ळ्हाः¦सोमः॑¦ग्रावा᳚नः¦ऋष॑यः¦च॒¦विप्राः᳚ ||

[109] तेवदन्निति सप्तर्चस्य सूक्तस्य ब्रह्मजायाजुहूर्विश्वेदेवास्त्रिष्टुबंत्येद्वेअनुष्टुभौ | (ब्राह्मोवोर्ध्वनाभऋषिः) |
ते᳚ऽवदन्‌प्रथ॒माब्र᳚ह्मकिल्बि॒षे¦ऽकू᳚पारःसलि॒लोमा᳚त॒रिश्वा᳚ |{ब्रह्मजायाजुहू | विश्वदेवाः | त्रिष्टुप्}

वी॒ळुह॑रा॒स्तप॑उ॒ग्रोम॑यो॒भू¦रापो᳚दे॒वीःप्र॑थम॒जा,ऋ॒तेन॑ || {1/7}{10.109.1}{10.9.10.1}{8.6.7.1}{1258, 946, 10056}

ते¦अ॒व॒द॒न्¦प्र॒थ॒माः¦ब्र॒ह्म॒ऽकि॒ल्बि॒षे¦अकू᳚पारः¦स॒लि॒लः¦मा॒त॒रिश्वा᳚ |
वी॒ळुऽह॑राः¦तपः॑¦उ॒ग्रः¦म॒यः॒ऽभूः¦आपः॑¦दे॒वीः¦प्र॒थ॒म॒ऽजाः¦ऋ॒तेन॑ ||

सोमो॒राजा᳚प्रथ॒मोब्र᳚ह्मजा॒यां¦पुनः॒प्राय॑च्छ॒दहृ॑णीयमानः |{ब्रह्मजायाजुहू | विश्वदेवाः | त्रिष्टुप्}

अ॒न्व॒र्ति॒तावरु॑णोमि॒त्रआ᳚सी¦द॒ग्निर्होता᳚हस्त॒गृह्यानि॑नाय || {2/7}{10.109.2}{10.9.10.2}{8.6.7.2}{1259, 946, 10057}

सोमः॑¦राजा᳚¦प्र॒थ॒मः¦ब्र॒ह्म॒ऽजा॒या‌म्¦पुन॒रिति॑¦प्र¦अ॒य॒च्छ॒त्¦अहृ॑णीयमानः |
अ॒नु॒।आ॒र्ति॒ता¦वरु॑णः¦मि॒त्रः¦आ॒सी॒त्¦अ॒ग्निः¦होता᳚¦ह॒स्त॒ऽगृह्य॑¦आ¦नि॒ना॒य॒ ||

हस्ते᳚नै॒वग्रा॒ह्य॑आ॒धिर॑स्या¦ब्रह्मजा॒येयमिति॒चेदवो᳚चन् |{ब्रह्मजायाजुहू | विश्वदेवाः | त्रिष्टुप्}

दू॒ताय॑प्र॒ह्ये᳚तस्थए॒षा¦तथा᳚रा॒ष्ट्रंगु॑पि॒तंक्ष॒त्रिय॑स्य || {3/7}{10.109.3}{10.9.10.3}{8.6.7.3}{1260, 946, 10058}

हस्ते᳚न¦ए॒व¦ग्रा॒ह्यः॑¦आ॒ऽधिः¦अ॒स्याः॒¦ब्र॒ह्म॒ऽजा॒या¦इ॒य‌म्¦इति॑¦च॒¦इत्¦अवो᳚चन् |
न¦दू॒ताय॑¦प्र॒ऽह्ये᳚¦त॒स्थे॒¦ए॒षा¦तथा᳚¦रा॒ष्ट्र‌म्¦गु॒पि॒त‌म्¦क्ष॒त्रिय॑स्य ||

दे॒वा,ए॒तस्या᳚मवदन्त॒पूर्वे᳚¦सप्तऋ॒षय॒स्तप॑से॒येनि॑षे॒दुः |{ब्रह्मजायाजुहू | विश्वदेवाः | त्रिष्टुप्}

भी॒माजा॒याब्रा᳚ह्म॒णस्योप॑नीता¦दु॒र्धांद॑धातिपर॒मेव्यो᳚मन् || {4/7}{10.109.4}{10.9.10.4}{8.6.7.4}{1261, 946, 10059}

दे॒वाः¦ए॒तस्या᳚‌म्¦अ॒व॒द॒न्त॒¦पूर्वे᳚¦स॒प्त॒ऽऋ॒षयः॑¦तप॑से¦ये¦नि॒ऽसे॒दुः |
भी॒मा¦जा॒या¦ब्रा॒ह्म॒णस्य॑¦उप॑ऽनीता¦दुः॒ऽधा‌म्¦द॒धा॒ति॒¦प॒र॒मे¦विऽओ᳚मन् ||

ब्र॒ह्म॒चा॒रीच॑रति॒वेवि॑ष॒द्विषः॒¦दे॒वानां᳚भव॒त्येक॒मङ्ग᳚म् |{ब्रह्मजायाजुहू | विश्वदेवाः | त्रिष्टुप्}

तेन॑जा॒यामन्व॑विन्द॒द्बृह॒स्पतिः॒¦सोमे᳚ननी॒तांजु॒ह्व१॑(अं॒)दे᳚वाः || {5/7}{10.109.5}{10.9.10.5}{8.6.7.5}{1262, 946, 10060}

ब्र॒ह्म॒ऽचा॒री¦च॒र॒ति॒¦वेवि॑षत्¦विषः॑¦सः¦दे॒वाना᳚‌म्¦भ॒व॒ति॒¦एक᳚‌म्¦अङ्ग᳚‌म् |
तेन॑¦जा॒या‌म्¦अनु॑¦अ॒वि॒न्द॒त्¦बृह॒स्पतिः॑¦सोमे᳚न¦नी॒ता‌म्¦जु॒ह्व᳚‌म्¦न¦दे॒वाः॒ ||

पुन॒र्वैदे॒वा,अ॑ददुः॒¦पुन᳚र्मनु॒ष्या᳚,उ॒त |{ब्रह्मजायाजुहू | विश्वदेवाः | अनुष्टुप्}

राजा᳚नःस॒त्यंकृ᳚ण्वा॒ना¦ब्र᳚ह्मजा॒यांपुन॑र्ददुः || {6/7}{10.109.6}{10.9.10.6}{8.6.7.6}{1263, 946, 10061}

पुनः॑¦वै¦दे॒वाः¦अ॒द॒दुः॒¦पुनः॑¦म॒नु॒ष्याः᳚¦उ॒त | राजा᳚नः¦स॒त्य‌म्¦कृ॒ण्वा॒नाः¦ब्र॒ह्म॒ऽजा॒या‌म्¦पुनः॑¦द॒दुः॒ ||

पु॒न॒र्दाय॑ब्रह्मजा॒यां¦कृ॒त्वीदे॒वैर्नि॑किल्बि॒षम् |{ब्रह्मजायाजुहू | विश्वदेवाः | अनुष्टुप्}

ऊर्जं᳚पृथि॒व्याभ॒क्त्वायो᳚¦रुगा॒यमुपा᳚सते || {7/7}{10.109.7}{10.9.10.7}{8.6.7.7}{1264, 946, 10062}

पु॒नः॒ऽदाय॑¦ब्र॒ह्म॒ऽजा॒या‌म्¦कृ॒त्वी¦दे॒वैः¦नि॒ऽकि॒ल्बि॒ष‌म् | ऊर्ज᳚‌म्¦पृ॒थि॒व्याः¦भ॒क्त्वाय॑¦उ॒रु॒ऽगा॒य‌म्¦उप॑¦आ॒स॒ते॒ ||

[110] समिद्धइत्येकादशर्चस्य सूक्तस्य भार्गवो जमदग्निरिध्म स्तनूनपाद् इळो बर्हिर्देवीर्द्वारउषासानक्ता दैव्यौहोतारौसरस्वतीळाभारत्यस्त्वष्टावनस्पति स्वाहाकृतयस्त्रिष्टुप् | (जामदग्नि: परशुरामोवा)|
समि॑द्धो,अ॒द्यमनु॑षोदुरो॒णेदे॒वोदे॒वान्‌य॑जसिजातवेदः |{भार्गवो जमदग्निः | इध्मः | त्रिष्टुप्}

च॒वह॑मित्रमहश्चिकि॒त्वान्‌त्वंदू॒तःक॒विर॑सि॒प्रचे᳚ताः || {1/11}{10.110.1}{10.9.11.1}{8.6.8.1}{1265, 947, 10063}

स‌म्ऽ‌इ᳚द्धः¦अ॒द्य¦मनु॑षः¦दु॒रो॒णे¦दे॒वः¦दे॒वान्¦य॒ज॒सि॒¦जा॒त॒ऽवे॒दः॒ |
आ¦च॒¦वह॑¦मि॒त्र॒ऽम॒हः॒¦चि॒कि॒त्वान्¦त्व‌म्¦दू॒तः¦क॒विः¦अ॒सि॒¦प्रऽचे᳚ताः ||

तनू᳚नपात्प॒थऋ॒तस्य॒याना॒न्मध्वा᳚सम॒ञ्जन्‌त्स्व॑दयासुजिह्व |{भार्गवो जमदग्निः | तनूनपाद् | त्रिष्टुप्}

मन्मा᳚निधी॒भिरु॒तय॒ज्ञमृ॒न्धन्दे᳚व॒त्राच॑कृणुह्यध्व॒रंनः॑ || {2/11}{10.110.2}{10.9.11.2}{8.6.8.2}{1266, 947, 10064}

तनू᳚ऽनपात्¦प॒थः¦ऋ॒तस्य॑¦याना᳚न्¦मध्वा᳚¦स॒‌म्।आं॒जन्¦स्व॒द॒य॒¦सु॒ऽजि॒ह्व॒ |
मन्मा᳚नि¦धी॒भिः¦उ॒त¦य॒ज्ञ‌म्¦ऋ॒न्धन्¦दे॒व॒ऽत्रा¦च॒¦कृ॒णु॒हि॒¦अ॒ध्व॒र‌म्¦नः॒ ||

आ॒जुह्वा᳚न॒ईड्यो॒वन्द्य॒श्चाया᳚ह्यग्ने॒वसु॑भिःस॒जोषाः᳚ |{भार्गवो जमदग्निः | इळः | त्रिष्टुप्}

त्वंदे॒वाना᳚मसियह्व॒होता॒ए᳚नान्यक्षीषि॒तोयजी᳚यान् || {3/11}{10.110.3}{10.9.11.3}{8.6.8.3}{1267, 947, 10065}

आ॒ऽजुह्वा᳚नः¦ईड्यः॑¦वन्द्यः॑¦च॒¦आ¦या॒हि॒¦अ॒ग्ने॒¦वसु॑ऽभिः¦स॒ऽजोषाः᳚ |
त्व‌म्¦दे॒वाना᳚‌म्¦अ॒सि॒¦य॒ह्व॒¦होता᳚¦सः¦ए॒ता॒न्¦य॒क्षि॒¦इ॒षि॒तः¦यजी᳚यान् ||

प्रा॒चीनं᳚ब॒र्हिःप्र॒दिशा᳚पृथि॒व्यावस्तो᳚र॒स्यावृ॑ज्यते॒,अग्रे॒,अह्ना᳚म् |{भार्गवो जमदग्निः | बर्हिः | त्रिष्टुप्}

व्यु॑प्रथतेवित॒रंवरी᳚योदे॒वेभ्यो॒,अदि॑तयेस्यो॒नम् || {4/11}{10.110.4}{10.9.11.4}{8.6.8.4}{1268, 947, 10066}

प्रा॒चीन᳚‌म्¦ब॒र्हिः¦प्र॒ऽदिशा᳚¦पृ॒थि॒व्याः¦वस्तोः᳚¦अ॒स्याः¦वृ॒ज्य॒ते॒¦अग्रे᳚¦अह्ना᳚‌म् |
वि¦ऊँ॒ इति॑¦प्र॒थ॒ते॒¦वि॒ऽत॒र‌म्¦वरी᳚यः¦दे॒वेभ्यः॑¦अदि॑तये¦स्यो॒न‌म् ||

व्यच॑स्वतीरुर्वि॒याविश्र॑यन्तां॒पति॑भ्यो॒जन॑यः॒शुम्भ॑मानाः |{भार्गवो जमदग्निः | देवीर्द्वार | त्रिष्टुप्}

देवी᳚र्द्वारोबृहतीर्विश्वमिन्वादे॒वेभ्यो᳚भवतसुप्राय॒णाः || {5/11}{10.110.5}{10.9.11.5}{8.6.8.5}{1269, 947, 10067}

व्यच॑स्वतीः¦उ॒र्वि॒या¦वि¦श्र॒य॒न्ता॒‌म्¦पति॑ऽभ्यः¦न¦जन॑यः¦शुम्भ॑मानाः |
देवीः᳚¦द्वा॒रः॒¦बृ॒ह॒तीः॒¦वि॒श्व॒‌म्ऽ‌इ॒न्वाः॒¦दे॒वेभ्यः॑¦भ॒व॒त॒¦सु॒प्र॒।आ॒य॒णाः ||

सु॒ष्वय᳚न्तीयज॒ते,उपा᳚के,उ॒षासा॒नक्ता᳚सदतां॒नियोनौ᳚ |{भार्गवो जमदग्निः | उषासानक्ता | त्रिष्टुप्}

दि॒व्येयोष॑णेबृह॒तीसु॑रु॒क्मे,अधि॒श्रियं᳚शुक्र॒पिशं॒दधा᳚ने || {6/11}{10.110.6}{10.9.11.6}{8.6.9.1}{1270, 947, 10068}

आ¦सु॒स्वय᳚न्ती॒ इति॑¦य॒ज॒ते इति॑¦उपा᳚के॒ इति॑¦उ॒षसा॒नक्ता᳚¦स॒द॒ता॒‌म्¦नि¦योनौ᳚ |
दि॒व्ये¦योष॑णे॒ इति॑¦बृ॒ह॒ती इति॑¦सु॒रु॒क्मे इति॑ सु॒ऽरु॒क्मे¦अधि॑¦श्रिय᳚‌म्¦शु॒क्र॒ऽपिश᳚‌म्¦दधा᳚ने ||

दैव्या॒होता᳚राप्रथ॒मासु॒वाचा॒मिमा᳚नाय॒ज्ञंमनु॑षो॒यज॑ध्यै |{भार्गवो जमदग्निः | दैव्यौहोतारौ | त्रिष्टुप्}

प्र॒चो॒दय᳚न्तावि॒दथे᳚षुका॒रूप्रा॒चीनं॒ज्योतिः॑प्र॒दिशा᳚दि॒शन्ता᳚ || {7/11}{10.110.7}{10.9.11.7}{8.6.9.2}{1271, 947, 10069}

दैव्या᳚¦होता᳚रा¦प्र॒थ॒मा¦सु॒ऽवाचा᳚¦मिमा᳚ना¦य॒ज्ञ‌म्¦मनु॑षः¦यज॑ध्यै |
प्र॒ऽचो॒दय᳚न्ता¦वि॒दथे᳚षु¦का॒रू इति॑¦प्रा॒चीन᳚‌म्¦ज्योतिः॑¦प्र॒ऽदिशा᳚¦दि॒शन्ता᳚ ||

नो᳚य॒ज्ञंभार॑ती॒तूय॑मे॒त्विळा᳚मनु॒ष्वदि॒हचे॒तय᳚न्ती |{भार्गवो जमदग्निः | सरस्वतीळाभारत्यः | त्रिष्टुप्}

ति॒स्रोदे॒वीर्ब॒र्हिरेदंस्यो॒नंसर॑स्वती॒स्वप॑सःसदन्तु || {8/11}{10.110.8}{10.9.11.8}{8.6.9.3}{1272, 947, 10070}

आ¦नः॒¦य॒ज्ञ‌म्¦भार॑ती¦तूय᳚‌म्¦ए॒तु॒¦इळा᳚¦म॒नु॒ष्वत्¦इ॒ह¦चे॒तय᳚न्ती |
ति॒स्रः¦दे॒वीः¦ब॒र्हिः¦आ¦इ॒द‌म्¦स्यो॒न‌म्¦सर॑स्वती¦सु॒।आप॑सः¦स॒द॒न्तु॒ ||

इ॒मेद्यावा᳚पृथि॒वीजनि॑त्रीरू॒पैरपिं᳚श॒द्भुव॑नानि॒विश्वा᳚ |{भार्गवो जमदग्निः | वष्टा | त्रिष्टुप्}

तम॒द्यहो᳚तरिषि॒तोयजी᳚यान्दे॒वंत्वष्टा᳚रमि॒हय॑क्षिवि॒द्वान् || {9/11}{10.110.9}{10.9.11.9}{8.6.9.4}{1273, 947, 10071}

यः¦इ॒मे इति॑¦द्यावा᳚पृथि॒वी इति॑¦जनि॑त्री॒ इति॑¦रू॒पैः¦अपिं᳚शत्¦भुव॑नानि¦विश्वा᳚ |
त‌म्¦अ॒द्य¦हो॒तः॒¦इ॒षि॒तः¦यजी᳚यान्¦दे॒व‌म्¦त्वष्टा᳚र‌म्¦इ॒ह¦य॒क्षि॒¦वि॒द्वान् ||

उ॒पाव॑सृज॒त्मन्या᳚सम॒ञ्जन्दे॒वानां॒पाथ॑ऋतु॒थाह॒वींषि॑ |{भार्गवो जमदग्निः | वनस्पतिः | त्रिष्टुप्}

वन॒स्पतिः॑शमि॒तादे॒वो,अ॒ग्निःस्वद᳚न्तुह॒व्यंमधु॑नाघृ॒तेन॑ || {10/11}{10.110.10}{10.9.11.10}{8.6.9.5}{1274, 947, 10072}

उ॒प॒।आव॑सृज¦त्मन्या᳚¦स॒‌म्।आं॒जन्¦दे॒वाना᳚‌म्¦पाथः॑¦ऋ॒तु॒ऽथा¦ह॒वींषि॑ |
वन॒स्पतिः॑¦श॒मि॒ता¦दे॒वः¦अ॒ग्निः¦स्वद᳚न्तु¦ह॒व्य‌म्¦मधु॑ना¦घृ॒तेन॑ ||

स॒द्योजा॒तोव्य॑मिमीतय॒ज्ञम॒ग्निर्दे॒वाना᳚मभवत्पुरो॒गाः |{भार्गवो जमदग्निः | स्वाहाकृतयः | त्रिष्टुप्}

अ॒स्यहोतुः॑प्र॒दिश्यृ॒तस्य॑वा॒चिस्वाहा᳚कृतंह॒विर॑दन्तुदे॒वाः || {11/11}{10.110.11}{10.9.11.11}{8.6.9.6}{1275, 947, 10073}

स॒द्यः¦जा॒तः¦वि¦अ॒मि॒मी॒त॒¦य॒ज्ञ‌म्¦अ॒ग्निः¦दे॒वाना᳚‌म्¦अ॒भ॒व॒त्¦पु॒रः॒ऽगाः |
अ॒स्य¦होतुः॑¦प्र॒ऽदिशि॑¦ऋ॒तस्य॑¦वा॒चि¦स्वाहा᳚ऽकृत‌म्¦ह॒विः¦अ॒द॒न्तु॒¦दे॒वाः ||

[111] मनीषिणइति दशर्चस्य सुक्तस्य वैरूपोष्टादंष्त्रः इंद्रत्रिष्टुप् |
मनी᳚षिणः॒प्रभ॑रध्वंमनी॒षांयथा᳚यथाम॒तयः॒सन्ति॑नृ॒णाम् |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

इन्द्रं᳚स॒त्यैरेर॑यामाकृ॒तेभिः॒हिवी॒रोगि᳚र्वण॒स्युर्विदा᳚नः || {1/10}{10.111.1}{10.9.12.1}{8.6.10.1}{1276, 948, 10074}

मनी᳚षिणः¦प्र¦भ॒र॒ध्व॒‌म्¦म॒नी॒षा‌म्¦यथा᳚ऽयथा¦म॒तयः॑¦सन्ति॑¦नृ॒णा‌म् |
इन्द्र᳚‌म्¦स॒त्यैः¦आ¦ई॒र॒या॒म॒¦कृ॒तेभिः॑¦सः¦हि¦वी॒रः¦गि॒र्व॒ण॒स्युः¦विदा᳚नः ||

ऋ॒तस्य॒हिसद॑सोधी॒तिरद्यौ॒त्संगा᳚र्ष्टे॒योवृ॑ष॒भोगोभि॑रानट् |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

उद॑तिष्ठत्तवि॒षेणा॒रवे᳚णम॒हान्ति॑चि॒त्संवि᳚व्याचा॒रजां᳚सि || {2/10}{10.111.2}{10.9.12.2}{8.6.10.2}{1277, 948, 10075}

ऋ॒तस्य॑¦हि¦सद॑सः¦धी॒तिः¦अद्यौ᳚त्¦स‌म्¦गा॒र्ष्टे॒यः¦वृ॒ष॒भः¦गोभिः॑¦आ॒न॒ट् |
उत्¦अ॒ति॒ष्ठ॒त्¦त॒वि॒षेण॑¦रवे᳚ण¦म॒हान्ति॑¦चि॒त्¦स‌म्¦वि॒व्या॒च॒¦रजां᳚सि ||

इन्द्रः॒किल॒श्रुत्या᳚,अ॒स्यवे᳚द॒हिजि॒ष्णुःप॑थि॒कृत्सूर्या᳚य |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

आन्मेनां᳚कृ॒ण्वन्नच्यु॑तो॒भुव॒द्गोःपति॑र्दि॒वःस॑न॒जा,अप्र॑तीतः || {3/10}{10.111.3}{10.9.12.3}{8.6.10.3}{1278, 948, 10076}

इन्द्रः॑¦किल॑¦श्रुत्यै᳚¦अ॒स्य¦वे॒द॒¦सः¦हि¦जि॒ष्णुः¦प॒थि॒ऽकृत्¦सूर्या᳚य |
आत्¦मेना᳚‌म्¦कृ॒ण्वन्¦अच्यु॑तः¦भुव॑त्¦गोः¦पतिः॑¦दि॒वः¦स॒न॒ऽजाः¦अप्र॑तिऽ‌इतः ||

इन्द्रो᳚म॒ह्नाम॑ह॒तो,अ᳚र्ण॒वस्य᳚व्र॒तामि॑ना॒दङ्गि॑रोभिर्गृणा॒नः |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

पु॒रूणि॑चि॒न्नित॑ताना॒रजां᳚सिदा॒धार॒योध॒रुणं᳚स॒त्यता᳚ता || {4/10}{10.111.4}{10.9.12.4}{8.6.10.4}{1279, 948, 10077}

इन्द्रः॑¦म॒ह्ना¦म॒ह॒तः¦अ॒र्ण॒वस्य॑¦व्र॒ता¦अ॒मि॒ना॒त्¦अङ्गि॑रःऽभिः¦गृ॒णा॒नः |
पु॒रूणि॑¦चि॒त्¦नि¦त॒ता॒न॒¦रजां᳚सि¦दा॒धार॑¦यः¦ध॒रुण᳚‌म्¦स॒त्यऽता᳚ता ||

इन्द्रो᳚दि॒वःप्र॑ति॒मानं᳚पृथि॒व्याविश्वा᳚वेद॒सव॑ना॒हन्ति॒शुष्ण᳚म् |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

म॒हींचि॒द्द्यामात॑नो॒त्सूर्ये᳚णचा॒स्कम्भ॑चि॒त्कम्भ॑नेन॒स्कभी᳚यान् || {5/10}{10.111.5}{10.9.12.5}{8.6.10.5}{1280, 948, 10078}

इन्द्रः॑¦दि॒वः¦प्र॒ति॒ऽमान᳚‌म्¦पृ॒थि॒व्याः¦विश्वा᳚¦वे॒द॒¦सव॑ना¦हन्ति॑¦शुष्ण᳚‌म् |
म॒ही‌म्¦चि॒त्¦द्या‌म्¦आ¦अ॒त॒नो॒त्¦सूर्ये᳚ण¦चा॒स्कम्भ॑¦चि॒त्¦कम्भ॑नेन¦स्कभी᳚यान् ||

वज्रे᳚ण॒हिवृ॑त्र॒हावृ॒त्रमस्त॒रदे᳚वस्य॒शूशु॑वानस्यमा॒याः |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

विधृ॑ष्णो॒,अत्र॑धृष॒ताज॑घ॒न्थाथा᳚भवोमघवन्‌बा॒ह्वो᳚जाः || {6/10}{10.111.6}{10.9.12.6}{8.6.11.1}{1281, 948, 10079}

वज्रे᳚ण¦हि¦वृ॒त्र॒ऽहा¦वृ॒त्र‌म्¦अस्तः॑¦अदे᳚वस्य¦शूशु॑वानस्य¦मा॒याः |
वि¦धृ॒ष्णो॒ इति॑¦अत्र॑¦धृ॒ष॒ता¦ज॒घ॒न्थ॒¦अथ॑¦अ॒भ॒वः॒¦म॒घ॒ऽव॒न्¦बा॒ह्वुऽओ᳚जाः ||

सच᳚न्त॒यदु॒षसः॒सूर्ये᳚णचि॒त्राम॑स्यके॒तवो॒राम॑विन्दन् |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

यन्नक्ष॑त्रं॒ददृ॑शेदि॒वोपुन᳚र्य॒तोनकि॑र॒द्धानुवे᳚द || {7/10}{10.111.7}{10.9.12.7}{8.6.11.2}{1282, 948, 10080}

सच᳚न्त¦यत्¦उ॒षसः॑¦सूर्ये᳚ण¦चि॒त्रा‌म्¦अ॒स्य॒¦के॒तवः॑¦रा‌म्¦अ॒वि॒न्द॒न् |
आ¦यत्¦नक्ष॑त्र‌म्¦ददृ॑शे¦दि॒वः¦न¦पुनः॑¦य॒तः¦नकिः॑¦अ॒द्धा¦नु¦वे॒द॒ ||

दू॒रंकिल॑प्रथ॒माज॑ग्मुरासा॒मिन्द्र॑स्य॒याःप्र॑स॒वेस॒स्रुरापः॑ |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

क्व॑स्वि॒दग्रं॒क्व॑बु॒ध्नआ᳚सा॒मापो॒मध्यं॒क्व॑वोनू॒नमन्तः॑ || {8/10}{10.111.8}{10.9.12.8}{8.6.11.3}{1283, 948, 10081}

दू॒र‌म्¦किल॑¦प्र॒थ॒माः¦ज॒ग्मुः॒¦आ॒सा॒‌म्¦इन्द्र॑स्य¦याः¦प्र॒ऽस॒वे¦स॒स्रुः¦आपः॑ |
क्व॑¦स्वि॒त्¦अग्र᳚‌म्¦क्व॑¦बु॒ध्नः¦आ॒सा॒‌म्¦आपः॑¦मध्य᳚‌म्¦क्व॑¦वः॒¦नू॒न‌म्¦अन्तः॑ ||

सृ॒जःसिन्धूँ॒रहि॑नाजग्रसा॒नाँ,आदिदे॒ताःप्रवि॑विज्रेज॒वेन॑ |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

मुमु॑क्षमाणा,उ॒तयामु॑मु॒च्रेऽधेदे॒तार॑मन्ते॒निति॑क्ताः || {9/10}{10.111.9}{10.9.12.9}{8.6.11.4}{1284, 948, 10082}

सृ॒जः¦सिन्धू᳚न्¦अहि॑ना¦ज॒ग्र॒सा॒नान्¦आत्¦इत्¦ए॒ताः¦प्र¦वि॒वि॒ज्रे॒¦ज॒वेन॑ |
मुमु॑क्षमाणाः¦उ॒त¦याः¦मु॒मु॒च्रे¦अध॑¦इत्¦ए॒ताः¦न¦र॒म॒न्ते॒¦निऽति॑क्ताः ||

स॒ध्रीचीः॒सिन्धु॑मुश॒तीरि॑वायन्‌त्स॒नाज्जा॒रआ᳚रि॒तःपू॒र्भिदा᳚साम् |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

अस्त॒माते॒पार्थि॑वा॒वसू᳚न्य॒स्मेज॑ग्मुःसू॒नृता᳚,इन्द्रपू॒र्वीः || {10/10}{10.111.10}{10.9.12.10}{8.6.11.5}{1285, 948, 10083}

स॒ध्रीचीः᳚¦सिन्धु᳚‌म्¦उ॒श॒तीःऽ‌इ᳚व¦आ॒य॒न्¦स॒नात्¦जा॒रः¦आ॒रि॒तः¦पूः॒ऽभित्¦आ॒सा॒‌म् |
अस्त᳚‌म्¦आ¦ते॒¦पार्थि॑वा¦वसू᳚नि¦अ॒स्मे इति॑¦ज॒ग्मुः॒¦सू॒नृताः᳚¦इ॒न्द्र॒¦पू॒र्वीः ||

[112] इंद्रपिबेति दशर्चस्य सूक्तस्य वैरूपोनभः प्रभेदनइंद्रस्त्रिष्टुप् |
इन्द्र॒पिब॑प्रतिका॒मंसु॒तस्य॑प्रातःसा॒वस्तव॒हिपू॒र्वपी᳚तिः |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

हर्ष॑स्व॒हन्त॑वेशूर॒शत्रू᳚नु॒क्थेभि॑ष्टेवी॒र्या॒३॑(आ॒)प्रब्र॑वाम || {1/10}{10.112.1}{10.9.13.1}{8.6.12.1}{1286, 949, 10084}

इन्द्र॑¦पिब॑¦प्र॒ति॒ऽका॒म‌म्¦सु॒तस्य॑¦प्रा॒तः॒ऽसा॒वः¦तव॑¦हि¦पू॒र्वऽपी᳚तिः |
हर्ष॑स्व¦हन्त॑वे¦शू॒र॒¦शत्रू᳚न्¦उ॒क्थेभिः॑¦ते॒¦वी॒र्या᳚¦प्र¦ब्र॒वा॒म॒ ||

यस्ते॒रथो॒मन॑सो॒जवी᳚या॒नेन्द्र॒तेन॑सोम॒पेया᳚ययाहि |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

तूय॒माते॒हर॑यः॒प्रद्र॑वन्तु॒येभि॒र्यासि॒वृष॑भि॒र्मन्द॑मानः || {2/10}{10.112.2}{10.9.13.2}{8.6.12.2}{1287, 949, 10085}

यः¦ते॒¦रथः॑¦मन॑सः¦जवी᳚यान्¦आ॒¦इ॒न्द्र॒¦तेन॑¦सो॒म॒ऽपेया᳚य¦या॒हि॒ |
तूय᳚‌म्¦आ¦ते॒¦हर॑यः¦प्र¦द्र॒व॒न्तु॒¦येभिः॑¦यासि॑¦वृष॑ऽभिः¦मन्द॑मानः ||

हरि॑त्वता॒वर्च॑सा॒सूर्य॑स्य॒श्रेष्ठै᳚रू॒पैस्त॒न्वं᳚स्पर्शयस्व |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

अ॒स्माभि॑रिन्द्र॒सखि॑भिर्हुवा॒नःस॑ध्रीची॒नोमा᳚दयस्वानि॒षद्य॑ || {3/10}{10.112.3}{10.9.13.3}{8.6.12.3}{1288, 949, 10086}

हरि॑त्वता¦वर्च॑सा¦सूर्य॑स्य¦श्रेष्ठैः᳚¦रू॒पैः¦त॒न्व᳚‌म्¦स्प॒र्श॒य॒स्व॒ |
अ॒स्माभिः॑¦इ॒न्द्र॒¦सखि॑ऽभिः¦हु॒वा॒नः¦स॒ध्री॒ची॒नः¦मा॒द॒य॒स्व॒¦नि॒ऽसद्य॑ ||

यस्य॒त्यत्ते᳚महि॒मानं॒मदे᳚ष्वि॒मेम॒हीरोद॑सी॒नावि॑विक्ताम् |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

तदोक॒हरि॑भिरिन्द्रयु॒क्तैःप्रि॒येभि᳚र्याहिप्रि॒यमन्न॒मच्छ॑ || {4/10}{10.112.4}{10.9.13.4}{8.6.12.4}{1289, 949, 10087}

यस्य॑¦त्यत्¦ते॒¦म॒हि॒मान᳚‌म्¦मदे᳚षु¦इ॒मे इति॑¦म॒ही इति॑¦रोद॑सी॒ इति॑¦न¦अवि॑विक्ता‌म् |
तत्¦ओकः॑¦आ¦हरि॑ऽभिः¦इ॒न्द्र॒¦यु॒क्तैः¦प्रि॒येभिः॑¦या॒हि॒¦प्रि॒य‌म्¦अन्न᳚‌म्¦अच्छ॑ ||

यस्य॒शश्व॑त्पपि॒वाँ,इ᳚न्द्र॒शत्रू᳚ननानुकृ॒त्यारण्या᳚च॒कर्थ॑ |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

ते॒पुरं᳚धिं॒तवि॑षीमियर्ति॒ते॒मदा᳚यसु॒तइ᳚न्द्र॒सोमः॑ || {5/10}{10.112.5}{10.9.13.5}{8.6.12.5}{1290, 949, 10088}

यस्य॑¦शश्व॑त्¦प॒पि॒ऽवान्¦इ॒न्द्र॒¦शत्रू᳚न्¦अ॒न॒नु॒ऽकृ॒त्या¦रण्या᳚¦च॒कर्थ॑ |
सः¦ते॒¦पुर᳚‌म्ऽधि‌म्¦तवि॑षी‌म्¦इ॒य॒र्ति॒¦सः¦ते॒¦मदा᳚य¦सु॒तः¦इ॒न्द्र॒¦सोमः॑ ||

इ॒दंते॒पात्रं॒सन॑वित्तमिन्द्र॒पिबा॒सोम॑मे॒नाश॑तक्रतो |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

पू॒र्णआ᳚हा॒वोम॑दि॒रस्य॒मध्वो॒यंविश्व॒इद॑भि॒हर्य᳚न्तिदे॒वाः || {6/10}{10.112.6}{10.9.13.6}{8.6.13.1}{1291, 949, 10089}

इ॒द‌म्¦ते॒¦पात्र᳚‌म्¦सन॑ऽवित्त‌म्¦इ॒न्द्र॒¦पिब॑¦सोम᳚‌म्¦ए॒ना¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो |
पू॒र्णः¦आ॒ऽहा॒वः¦म॒दि॒रस्य॑¦मध्वः॑¦य‌म्¦विश्वे᳚¦इत्¦अ॒भि॒ऽहर्य᳚न्ति¦दे॒वाः ||

विहित्वामि᳚न्द्रपुरु॒धाजना᳚सोहि॒तप्र॑यसोवृषभ॒ह्वय᳚न्ते |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

अ॒स्माकं᳚ते॒मधु॑मत्तमानी॒माभु॑व॒न्‌त्सव॑ना॒तेषु॑हर्य || {7/10}{10.112.7}{10.9.13.7}{8.6.13.2}{1292, 949, 10090}

वि¦हि¦त्वा‌म्¦इ॒न्द्र॒¦पु॒रु॒धा¦जना᳚सः¦हि॒तऽप्र॑यसः¦वृ॒ष॒भ॒¦ह्वय᳚न्ते |
अ॒स्माक᳚‌म्¦ते॒¦मधु॑मत्ऽतमानि¦इ॒मा¦भु॒व॒न्¦सव॑ना¦तेषु॑¦ह॒र्य॒ ||

प्रत॑इन्द्रपू॒र्व्याणि॒प्रनू॒नंवी॒र्या᳚वोचंप्रथ॒माकृ॒तानि॑ |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

स॒ती॒नम᳚न्युरश्रथायो॒,अद्रिं᳚सुवेद॒नाम॑कृणो॒र्ब्रह्म॑णे॒गाम् || {8/10}{10.112.8}{10.9.13.8}{8.6.13.3}{1293, 949, 10091}

प्र¦ते॒¦इ॒न्द्र॒¦पू॒र्व्याणि॑¦प्र¦नू॒न‌म्¦वी॒र्या᳚¦वो॒च॒‌म्¦प्र॒थ॒मा¦कृ॒तानि॑ |
स॒ती॒नऽम᳚न्युः¦अ॒श्र॒थ॒यः॒¦अद्रि᳚‌म्¦सु॒ऽवे॒द॒ना‌म्¦अ॒कृ॒णोः॒¦ब्रह्म॑णे¦गा‌म् ||

निषुसी᳚दगणपतेग॒णेषु॒¦त्वामा᳚हु॒र्विप्र॑तमंकवी॒नाम् |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

ऋ॒तेत्वत्‌क्रि॑यते॒किंच॒नारे¦म॒हाम॒र्कंम॑घवञ्चि॒त्रम॑र्च || {9/10}{10.112.9}{10.9.13.9}{8.6.13.4}{1294, 949, 10092}

नि¦सु¦सी॒द॒¦ग॒ण॒ऽप॒ते॒¦ग॒णेषु॑¦त्वा‌म्¦आ॒हुः॒¦विप्र॑ऽतम‌म्¦क॒वी॒ना‌म् |
न¦ऋ॒ते¦त्वत्¦क्रि॒य॒ते॒¦कि‌म्¦च॒न¦आ॒रे¦म॒हा‌म्¦अ॒र्क‌म्¦म॒घ॒ऽव॒न्¦चि॒त्र‌म्¦अ॒र्च॒ ||

अ॒भि॒ख्यानो᳚मघव॒न्‌नाध॑माना॒न्¦त्सखे᳚बो॒धिव॑सुपते॒सखी᳚नाम् |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

रणं᳚कृधिरणकृत्‌सत्यशु॒ष्मा¦भ॑क्तेचि॒दाभ॑जारा॒ये,अ॒स्मान् || {10/10}{10.112.10}{10.9.13.10}{8.6.13.5}{1295, 949, 10093}

अ॒भि॒ऽख्या¦नः॒¦म॒घ॒ऽव॒न्¦नाध॑मानान्¦सखे᳚¦बो॒धि¦व॒सु॒ऽप॒ते॒¦सखी᳚ना‌म् |
रण᳚‌म्¦कृ॒धि॒¦र॒ण॒ऽकृ॒त्¦स॒त्य॒ऽशु॒ष्म॒¦अभ॑क्ते¦चि॒त्¦आ¦भ॒ज॒¦रा॒ये¦अ॒स्मान् ||

[113] तमस्येति दशर्चस्य सूक्तस्य वैरूपः शतप्रभेदनइंद्रजगत्यंत्या त्रिष्टुप् |
तम॑स्य॒द्यावा᳚पृथि॒वीसचे᳚तसा॒विश्वे᳚भिर्दे॒वैरनु॒शुष्म॑मावताम् |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

यदैत्कृ᳚ण्वा॒नोम॑हि॒मान॑मिन्द्रि॒यंपी॒त्वीसोम॑स्य॒क्रतु॑माँ,अवर्धत || {1/10}{10.113.1}{10.10.1.1}{8.6.14.1}{1296, 950, 10094}

त‌म्¦अ॒स्य॒¦द्यावा᳚पृथि॒वी इति॑¦सऽचे᳚तसा¦विश्वे᳚भिः¦दे॒वैः¦अनु॑¦शुष्म᳚‌म्¦आ॒व॒ता॒‌म् |
यत्¦ऐत्¦कृ॒ण्वा॒नः¦म॒हि॒मान᳚‌म्¦इ॒न्द्रि॒य‌म्¦पी॒त्वी¦सोम॑स्य¦क्रतु॑ऽमान्¦अ॒व॒र्ध॒त॒ ||

तम॑स्य॒विष्णु᳚र्महि॒मान॒मोज॑सां॒शुंद॑ध॒न्वान्‌मधु॑नो॒विर॑प्शते |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

दे॒वेभि॒रिन्द्रो᳚म॒घवा᳚स॒याव॑भिर्वृ॒त्रंज॑घ॒न्वाँ,अ॑भव॒द्वरे᳚ण्यः || {2/10}{10.113.2}{10.10.1.2}{8.6.14.2}{1297, 950, 10095}

त‌म्¦अ॒स्य॒¦विष्णुः॑¦म॒हि॒मान᳚‌म्¦ओज॑सा¦अं॒शु‌म्¦द॒ध॒न्वान्¦मधु॑नः¦वि¦र॒प्श॒ते॒ |
दे॒वेभिः॑¦इन्द्रः॑¦म॒घऽवा᳚¦स॒याव॑ऽभिः¦वृ॒त्र‌म्¦ज॒घ॒न्वान्¦अ॒भ॒व॒त्¦वरे᳚ण्यः ||

वृ॒त्रेण॒यदहि॑ना॒बिभ्र॒दायु॑धास॒मस्थि॑थायु॒धये॒शंस॑मा॒विदे᳚ |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

विश्वे᳚ते॒,अत्र॑म॒रुतः॑स॒हत्मनाव॑र्धन्नुग्रमहि॒मान॑मिन्द्रि॒यम् || {3/10}{10.113.3}{10.10.1.3}{8.6.14.3}{1298, 950, 10096}

वृ॒त्रेण॑¦यत्¦अहि॑ना¦बिभ्र॑त्¦आयु॑धा¦स॒‌म्।आस्थि॑थाः¦यु॒धये᳚¦शंस᳚‌म्¦आ॒ऽविदे᳚ |
विश्वे᳚¦ते॒¦अत्र॑¦म॒रुतः॑¦स॒ह¦त्मना᳚¦अव॑र्धन्¦उ॒ग्र॒¦म॒हि॒मान᳚‌म्¦इ॒न्द्रि॒य‌म् ||

ज॒ज्ञा॒नए॒वव्य॑बाधत॒स्पृधः॒प्राप॑श्यद्वी॒रो,अ॒भिपौंस्यं॒रण᳚म् |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

अवृ॑श्च॒दद्रि॒मव॑स॒स्यदः॑सृज॒दस्त॑भ्ना॒न्नाकं᳚स्वप॒स्यया᳚पृ॒थुम् || {4/10}{10.113.4}{10.10.1.4}{8.6.14.4}{1299, 950, 10097}

ज॒ज्ञा॒नः¦ए॒व¦वि¦अ॒बा॒ध॒त॒¦स्पृधः॑¦प्र¦अ॒प॒श्य॒त्¦वी॒रः¦अ॒भि¦पौंस्य᳚‌म्¦रण᳚‌म् |
अवृ॑श्चत्¦अद्रि᳚‌म्¦अव॑¦स॒ऽस्यदः॑¦सृ॒ज॒त्¦अस्त॑भ्नात्¦नाक᳚‌म्¦सु॒।आ॒प॒स्यया᳚¦पृ॒थु‌म् ||

आदिन्द्रः॑स॒त्रातवि॑षीरपत्यत॒वरी᳚यो॒द्यावा᳚पृथि॒वी,अ॑बाधत |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

अवा᳚भरद्धृषि॒तोवज्र॑माय॒संशेवं᳚मि॒त्राय॒वरु॑णायदा॒शुषे᳚ || {5/10}{10.113.5}{10.10.1.5}{8.6.14.5}{1300, 950, 10098}

आत्¦इन्द्रः॑¦स॒त्रा¦तवि॑षीः¦अ॒प॒त्य॒त॒¦वरी᳚यः¦द्यावा᳚पृथि॒वी इति॑¦अ॒बा॒ध॒त॒ |
अव॑¦अ॒भ॒र॒त्¦धृ॒षि॒तः¦वज्र᳚‌म्¦आ॒य॒स‌म्¦शेव᳚‌म्¦मि॒त्राय॑¦वरु॑णाय¦दा॒शुषे᳚ ||

इन्द्र॒स्यात्र॒तवि॑षीभ्योविर॒प्शिन॑ऋघाय॒तो,अ॑रंहयन्तम॒न्यवे᳚ |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

वृ॒त्रंयदु॒ग्रोव्यवृ॑श्च॒दोज॑सा॒पोबिभ्र॑तं॒तम॑सा॒परी᳚वृतम् || {6/10}{10.113.6}{10.10.1.6}{8.6.15.1}{1301, 950, 10099}

इन्द्र॑स्य¦अत्र॑¦तवि॑षीभ्यः¦वि॒ऽर॒प्शिनः॑¦ऋ॒घा॒य॒तः¦अ॒रं॒ह॒य॒न्त॒¦म॒न्यवे᳚ |
वृ॒त्र‌म्¦यत्¦उ॒ग्रः¦वि¦अवृ॑श्चत्¦ओज॑सा¦अ॒पः¦बिभ्र॑त‌म्¦तम॑सा¦परि॑ऽवृत‌म् ||

यावी॒र्या᳚णिप्रथ॒मानि॒कर्त्वा᳚महि॒त्वेभि॒र्यत॑मानौसमी॒यतुः॑ |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

ध्वा॒न्तंतमोऽव॑दध्वसेह॒तइन्द्रो᳚म॒ह्नापू॒र्वहू᳚तावपत्यत || {7/10}{10.113.7}{10.10.1.7}{8.6.15.2}{1302, 950, 10100}

या¦वी॒र्या᳚णि¦प्र॒थ॒मानि॑¦कर्त्वा᳚¦म॒हि॒ऽत्वेभिः॑¦यत॑मानौ¦स॒‌म्ऽई॒यतुः॑ |
ध्वा॒न्त‌म्¦तमः॑¦अव॑¦द॒ध्व॒से॒¦ह॒ते¦इन्द्रः॑¦म॒ह्ना¦पू॒र्वऽहू᳚तौ¦अ॒प॒त्य॒त॒ ||

विश्वे᳚दे॒वासो॒,अध॒वृष्ण्या᳚नि॒तेऽव॑र्धय॒न्‌त्सोम॑वत्यावच॒स्यया᳚ |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

र॒द्धंवृ॒त्रमहि॒मिन्द्र॑स्य॒हन्म॑ना॒ग्निर्नजम्भै᳚स्तृ॒ष्वन्न॑मावयत् || {8/10}{10.113.8}{10.10.1.8}{8.6.15.3}{1303, 950, 10101}

विश्वे᳚¦दे॒वासः॑¦अध॑¦वृष्ण्या᳚नि¦ते¦अव॑र्धयन्¦सोम॑ऽवत्या¦व॒च॒स्यया᳚ |
र॒द्ध‌म्¦वृ॒त्र‌म्¦अहि᳚‌म्¦इन्द्र॑स्य¦हन्म॑ना¦अ॒ग्निः¦न¦जम्भैः᳚¦तृ॒षु¦अन्न᳚‌म्¦आ॒व॒य॒त् ||

भूरि॒दक्षे᳚भिर्वच॒नेभि॒रृक्व॑भिःस॒ख्येभिः॑स॒ख्यानि॒प्रवो᳚चत |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

इन्द्रो॒धुनिं᳚च॒चुमु॑रिंद॒म्भय᳚ञ्छ्रद्धामन॒स्याशृ॑णुतेद॒भीत॑ये || {9/10}{10.113.9}{10.10.1.9}{8.6.15.4}{1304, 950, 10102}

भूरि॑¦दक्षे᳚भिः¦व॒च॒नेभिः॑¦ऋक्व॑ऽभिः¦स॒ख्येभिः॑¦स॒ख्यानि॑¦प्र¦वो॒च॒त॒ |
इन्द्रः॑¦धुनि᳚‌म्¦च॒¦चुमु॑रि‌म्¦च॒¦द॒म्भय॑न्¦श्र॒द्धा॒ऽम॒न॒स्या¦शृ॒णु॒ते॒¦द॒भीत॑ये ||

त्वंपु॒रूण्याभ॑रा॒स्वश्व्या॒येभि॒र्मंसै᳚नि॒वच॑नानि॒शंस॑न् |{वैरूपः शतप्रभेदः | इन्द्रः | त्रिष्टुप्}

सु॒गेभि॒र्विश्वा᳚दुरि॒तात॑रेमवि॒दोषुण॑उर्वि॒यागा॒धम॒द्य || {10/10}{10.113.10}{10.10.1.10}{8.6.15.5}{1305, 950, 10103}

त्व‌म्¦पु॒रूणि॑¦आ¦भ॒र॒¦सु॒।आश्व्या᳚¦येभिः॑¦मंसै᳚¦नि॒ऽवच॑नानि¦शंस॑न् |
सु॒ऽगेभिः॑¦विश्वा᳚¦दुः॒ऽ‌इ॒ता¦त॒रे॒म॒¦वि॒दो इति॑¦सु¦नः॒¦उ॒र्वि॒या¦गा॒ध‌म्¦अ॒द्य ||

[114] घर्मेति दशर्चस्य सूक्तस्य वैरूपः सघ्निर्विश्वेदेवास्त्रिष्टुष्चतुर्थीजगती | ( तापसोघर्मोवाऋषिः) |
घ॒र्मासम᳚न्तात्रि॒वृतं॒व्या᳚पतु॒स्तयो॒र्जुष्टिं᳚मात॒रिश्वा᳚जगाम |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

दि॒वस्पयो॒दिधि॑षाणा,अवेषन्‌वि॒दुर्दे॒वाःस॒हसा᳚मानम॒र्कम् || {1/10}{10.114.1}{10.10.2.1}{8.6.16.1}{1306, 951, 10104}

घ॒र्मा¦स‌म्।आ᳚न्ता¦त्रि॒ऽवृत᳚‌म्¦वि¦आ॒प॒तुः॒¦तयोः᳚¦जुष्टि᳚‌म्¦मा॒त॒रिश्वा᳚¦ज॒गा॒म॒ |
दि॒वः¦पयः॑¦दिधि॑षाणाः¦अ॒वे॒ष॒न्¦वि॒दुः¦दे॒वाः¦स॒हऽसा᳚मान‌म्¦अ॒र्क‌म् ||

ति॒स्रोदे॒ष्ट्राय॒निरृ॑ती॒रुपा᳚सतेदीर्घ॒श्रुतो॒विहिजा॒नन्ति॒वह्न॑यः |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

तासां॒निचि॑क्युःक॒वयो᳚नि॒दानं॒परे᳚षु॒यागुह्ये᳚षुव्र॒तेषु॑ || {2/10}{10.114.2}{10.10.2.2}{8.6.16.2}{1307, 951, 10105}

ति॒स्रः¦दे॒ष्ट्राय॑¦निःऽऋ॑तीः¦उप॑¦आ॒स॒ते॒¦दी॒र्घ॒ऽश्रुतः॑¦वि¦हि¦जा॒नन्ति॑¦वह्न॑यः |
तासा᳚‌म्¦नि¦चि॒क्युः॒¦क॒वयः॑¦नि॒ऽदान᳚‌म्¦परे᳚षु¦याः¦गुह्ये᳚षु¦व्र॒तेषु॑ ||

चतु॑ष्कपर्दायुव॒तिःसु॒पेशा᳚घृ॒तप्र॑तीकाव॒युना᳚निवस्ते |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

तस्यां᳚सुप॒र्णावृष॑णा॒निषे᳚दतु॒र्यत्र॑दे॒वाद॑धि॒रेभा᳚ग॒धेय᳚म् || {3/10}{10.114.3}{10.10.2.3}{8.6.16.3}{1308, 951, 10106}

चतुः॑ऽकपर्दा¦यु॒व॒तिः¦सु॒ऽपेशाः᳚¦घृ॒तऽप्र॑तीका¦व॒युना᳚नि¦व॒स्ते॒ |
तस्या᳚‌म्¦सु॒ऽप॒र्णा¦वृष॑णा¦नि¦से॒द॒तुः॒¦यत्र॑¦दे॒वाः¦द॒धि॒रे¦भा॒ग॒ऽधेय᳚‌म् ||

एकः॑सुप॒र्णःस॑मु॒द्रमावि॑वेश॒इ॒दंविश्वं॒भुव॑नं॒विच॑ष्टे |{वैरूपः सघ्निः | विश्वदेवाः | जगती}

तंपाके᳚न॒मन॑सापश्य॒मन्ति॑त॒स्तंमा॒तारे᳚ळ्हि॒उ॑रेळ्हिमा॒तर᳚म् || {4/10}{10.114.4}{10.10.2.4}{8.6.16.4}{1309, 951, 10107}

एकः॑¦सु॒ऽप॒र्णः¦सः¦स॒मु॒द्र‌म्¦आ¦वि॒वे॒श॒¦सः¦इ॒द‌म्¦विश्व᳚‌म्¦भुव॑न‌म्¦वि¦च॒ष्टे॒ |
त‌म्¦पाके᳚न¦मन॑सा¦अ॒प॒श्य॒‌म्¦अन्ति॑तः¦त‌म्¦मा॒ता¦रे॒ळ्हि॒¦सः¦ऊँ॒ इति॑¦रे॒ळ्हि॒¦मा॒तर᳚‌म् ||

सु॒प॒र्णंविप्राः᳚क॒वयो॒वचो᳚भि॒रेकं॒सन्तं᳚बहु॒धाक॑ल्पयन्ति |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

छन्दां᳚सिच॒दध॑तो,अध्व॒रेषु॒ग्रहा॒न्‌त्सोम॑स्यमिमते॒द्वाद॑श || {5/10}{10.114.5}{10.10.2.5}{8.6.16.5}{1310, 951, 10108}

सु॒ऽप॒र्ण‌म्¦विप्रा᳚¦क॒वयः॑¦वचः॑ऽभिः¦एक᳚‌म्¦सन्त᳚‌म्¦ब॒हु॒धा¦क॒ल्प॒य॒न्ति॒ |
छन्दां᳚सि¦च॒¦दध॑तः¦अ॒ध्व॒रेषु॑¦ग्रहा᳚न्¦सोम॑स्य¦मि॒म॒ते॒¦द्वाद॑श ||

ष॒ट्त्रिं॒शाँश्च॑च॒तुरः॑क॒ल्पय᳚न्त॒श्छन्दां᳚सिच॒दध॑तआद्वाद॒शम् |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

य॒ज्ञंवि॒माय॑क॒वयो᳚मनी॒षऋ॑क्सा॒माभ्यां॒प्ररथं᳚वर्तयन्ति || {6/10}{10.114.6}{10.10.2.6}{8.6.17.1}{1311, 951, 10109}

ष॒ट्ऽत्रिं॒शान्¦च॒¦च॒तुरः॑¦क॒ल्पय᳚न्तः¦छन्दां᳚सि¦च॒¦दध॑तः¦आ॒ऽद्वा॒द॒श‌म् |
य॒ज्ञ‌म्¦वि॒ऽमाय॑¦क॒वयः॑¦म॒नी॒षा¦ऋ॒क्ऽसा॒माभ्या᳚‌म्¦प्र¦रथ᳚‌म्¦व॒र्त॒य॒न्ति॒ ||

चतु॑र्दशा॒न्येम॑हि॒मानो᳚,अस्य॒तंधीरा᳚वा॒चाप्रण॑यन्तिस॒प्त |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

आप्ना᳚नंती॒र्थंइ॒हप्रवो᳚च॒द्येन॑प॒थाप्र॒पिब᳚न्तेसु॒तस्य॑ || {7/10}{10.114.7}{10.10.2.7}{8.6.17.2}{1312, 951, 10110}

चतुः॑ऽदश¦अ॒न्ये¦म॒हि॒मानः॑¦अ॒स्य॒¦त‌म्¦धीराः᳚¦वा॒चा¦प्र¦न॒य॒न्ति॒¦स॒प्त |
आप्ना᳚न‌म्¦ती॒र्थ‌म्¦कः¦इ॒ह¦प्र¦वो॒च॒त्¦येन॑¦प॒था¦प्र॒ऽपिब᳚न्ते¦सु॒तस्य॑ ||

स॒ह॒स्र॒धाप᳚ञ्चद॒शान्यु॒क्थायाव॒द्द्यावा᳚पृथि॒वीताव॒दित्तत् |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

स॒ह॒स्र॒धाम॑हि॒मानः॑स॒हस्रं॒याव॒द्ब्रह्म॒विष्ठि॑तं॒ताव॑ती॒वाक् || {8/10}{10.114.8}{10.10.2.8}{8.6.17.3}{1313, 951, 10111}

स॒ह॒स्र॒धा¦पं॒च॒ऽद॒शानि॑¦उ॒क्था¦याव॑त्¦द्यावा᳚पृथि॒वी इति॑¦ताव॑त्¦इत्¦तत् |
स॒ह॒स्र॒धा¦म॒हि॒मानः॑¦स॒हस्र᳚‌म्¦याव॑त्¦ब्रह्म॑¦विऽस्थि॑त‌म्¦ताव॑ती¦वाक् ||

कश्छन्द॑सां॒योग॒मावे᳚द॒धीरः॒कोधिष्ण्यां॒प्रति॒वाचं᳚पपाद |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

कमृ॒त्विजा᳚मष्ट॒मंशूर॑माहु॒र्हरी॒,इन्द्र॑स्य॒निचि॑काय॒कःस्वि॑त् || {9/10}{10.114.9}{10.10.2.9}{8.6.17.4}{1314, 951, 10112}

कः¦छन्द॑सा‌म्¦योग᳚‌म्¦आ¦वे॒द॒¦धीरः॑¦कः¦धिष्ण्या᳚‌म्¦प्रति॑¦वाच᳚‌म्¦प॒पा॒द॒ |
क‌म्¦ऋ॒त्विजा᳚‌म्¦अ॒ष्ट॒म‌म्¦शूर᳚‌म्¦आ॒हुः॒¦हरी॒ इति॑¦इन्द्र॑स्य¦नि¦चि॒का॒य॒¦कः¦स्वि॒त् ||

भूम्या॒,अन्तं॒पर्येके᳚चरन्ति॒रथ॑स्यधू॒र्षुयु॒क्तासो᳚,अस्थुः |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

श्रम॑स्यदा॒यंविभ॑जन्त्येभ्योय॒दाय॒मोभव॑तिह॒र्म्येहि॒तः || {10/10}{10.114.10}{10.10.2.10}{8.6.17.5}{1315, 951, 10113}

भूम्याः᳚¦अन्त᳚‌म्¦परि॑¦एके᳚¦च॒र॒न्ति॒¦रथ॑स्य¦धूः॒ऽसु¦यु॒क्तासः॑¦अ॒स्थुः॒ |
श्रम॑स्य¦दा॒य‌म्¦वि¦भ॒ज॒न्ति॒¦ए॒भ्यः॒¦य॒दा¦य॒मः¦भव॑ति¦ह॒र्म्ये¦हि॒तः ||

[115] चित्रइति नवर्चस्य सूक्तस्य वार्ष्तिहव्य उपस्तुतोग्निर्जगती अष्टमीनवम्यौ त्रिष्टुप्‌शक्वर्यौ |
चि॒त्रइच्छिशो॒स्तरु॑णस्यव॒क्षथो॒योमा॒तरा᳚व॒प्येति॒धात॑वे |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती}

अ॒नू॒धायदि॒जीज॑न॒दधा᳚च॒नुव॒वक्ष॑स॒द्योमहि॑दू॒त्य१॑(अं॒)चर॑न् || {1/9}{10.115.1}{10.10.3.1}{8.6.18.1}{1316, 952, 10114}

चि॒त्रः¦इत्¦शिशोः᳚¦तरु॑णस्य¦व॒क्षथः॑¦न¦यः¦मा॒तरौ᳚¦अ॒पि॒ऽएति॑¦धात॑वे |
अ॒नू॒धाः¦यदि॑¦जीज॑नत्¦अधा᳚¦च॒¦नु¦व॒वक्ष॑¦स॒द्यः¦महि॑¦दू॒त्य᳚‌म्¦चर॑न् ||

अ॒ग्निर्ह॒नाम॑धायि॒दन्न॒पस्त॑मः॒संयोवना᳚यु॒वते॒भस्म॑नाद॒ता |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती}

अ॒भि॒प्र॒मुरा᳚जु॒ह्वा᳚स्वध्व॒रइ॒नोप्रोथ॑मानो॒यव॑से॒वृषा᳚ || {2/9}{10.115.2}{10.10.3.2}{8.6.18.2}{1317, 952, 10115}

अ॒ग्निः¦ह॒¦नाम॑¦धा॒यि॒¦दन्¦अ॒पःऽत॑मः¦स‌म्¦यः¦वना᳚¦यु॒वते᳚¦भस्म॑ना¦द॒ता |
अ॒भि॒ऽप्र॒मुरा᳚¦जु॒ह्वा᳚¦सु॒।आ॒ध्व॒रः¦इ॒नः¦न¦प्रोथ॑मानः¦यव॑से¦वृषा᳚ ||

तंवो॒विंद्रु॒षदं᳚दे॒वमन्ध॑स॒इन्दुं॒प्रोथ᳚न्तंप्र॒वप᳚न्तमर्ण॒वम् |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती}

आ॒सावह्निं॒शो॒चिषा᳚विर॒प्शिनं॒महि᳚व्रतं॒स॒रज᳚न्त॒मध्व॑नः || {3/9}{10.115.3}{10.10.3.3}{8.6.18.3}{1318, 952, 10116}

त‌म्¦वः॒¦वि‌म्¦न¦द्रु॒ऽसद᳚‌म्¦दे॒व‌म्¦अन्ध॑सः¦इन्दु᳚‌म्¦प्रोथ᳚न्त‌म्¦प्र॒ऽवप᳚न्त‌म्¦अ॒र्ण॒व‌म् |
आ॒सा¦वह्नि᳚‌म्¦न¦शो॒चिषा᳚¦वि॒ऽर॒प्शिन᳚‌म्¦महि॑ऽव्रत‌म्¦न¦स॒रज᳚न्त‌म्¦अध्व॑नः ||

वियस्य॑तेज्रयसा॒नस्या᳚जर॒धक्षो॒र्नवाताः॒परि॒सन्त्यच्यु॑ताः |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती}

र॒ण्वासो॒युयु॑धयो॒स॑त्व॒नंत्रि॒तंन॑शन्त॒प्रशि॒षन्त॑इ॒ष्टये᳚ || {4/9}{10.115.4}{10.10.3.4}{8.6.18.4}{1319, 952, 10117}

वि¦यस्य॑¦ते॒¦ज्र॒य॒सा॒नस्य॑¦अ॒ज॒र॒¦धक्षोः᳚¦न¦वाताः᳚¦परि॑¦सन्ति॑¦अच्यु॑ताः |
आ¦र॒ण्वासः॑¦युयु॑धयः¦न¦स॒त्व॒न‌म्¦त्रि॒त‌म्¦न॒श॒न्त॒¦प्र¦शि॒षन्तः॑¦इ॒ष्टये᳚ ||

इद॒ग्निःकण्व॑तमः॒कण्व॑सखा॒र्यःपर॒स्यान्त॑रस्य॒तरु॑षः |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती}

अ॒ग्निःपा᳚तुगृण॒तो,अ॒ग्निःसू॒रीन॒ग्निर्द॑दातु॒तेषा॒मवो᳚नः || {5/9}{10.115.5}{10.10.3.5}{8.6.18.5}{1320, 952, 10118}

सः¦इत्¦अ॒ग्निः¦कण्व॑ऽतमः¦कण्व॑ऽसखा¦अ॒र्यः¦पर॑स्य¦अन्त॑रस्य¦तरु॑षः |
अ॒ग्निः¦पा॒तु॒¦गृ॒ण॒तः¦अ॒ग्निः¦सू॒रीन्¦अ॒ग्निः¦द॒दा॒तु॒¦तेषा᳚‌म्¦अवः॑¦नः॒ ||

वा॒जिन्त॑माय॒सह्य॑सेसुपित्र्यतृ॒षुच्यवा᳚नो॒,अनु॑जा॒तवे᳚दसे |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती}

अ॒नु॒द्रेचि॒द्योधृ॑ष॒तावरं᳚स॒तेम॒हिन्त॑माय॒धन्व॒नेद॑विष्य॒ते || {6/9}{10.115.6}{10.10.3.6}{8.6.19.1}{1321, 952, 10119}

वा॒जिन्ऽत॑माय¦सह्य॑से¦सु॒ऽपि॒त्र्य॒¦तृ॒षु¦च्यवा᳚नः¦अनु॑¦जा॒तऽवे᳚दसे |
अ॒नु॒द्रे¦चि॒त्¦यः¦धृ॒ष॒ता¦वर᳚‌म्¦स॒ते¦म॒हिन्ऽत॑माय¦धन्व॑ना¦इत्¦अ॒वि॒ष्य॒ते॒ ||

ए॒वाग्निर्मर्तैः᳚स॒हसू॒रिभि॒र्वसुः॑ष्टवे॒सह॑सःसू॒नरो॒नृभिः॑ |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती}

मि॒त्रासो॒येसुधि॑ता,ऋता॒यवो॒द्यावो॒द्यु॒म्नैर॒भिसन्ति॒मानु॑षान् || {7/9}{10.115.7}{10.10.3.7}{8.6.19.2}{1322, 952, 10120}

ए॒व¦अ॒ग्निः¦मर्तैः᳚¦स॒ह¦सू॒रिऽभिः॑¦वसुः॑¦स्त॒वे॒¦सह॑सः¦सू॒नरः॑¦नृऽभिः॑ |
मि॒त्रासः॑¦न¦ये¦सुऽधि॑ताः¦ऋ॒त॒ऽयवः॑¦द्यावः॑¦न¦द्यु॒म्नैः¦अ॒भि¦स॒न्ति॒¦मानु॑षान् ||

ऊर्जो᳚नपात्सहसाव॒न्निति॑त्वोपस्तु॒तस्य॑वन्दते॒वृषा॒वाक् |{वार्ष्तिहव्य उपस्तुतः | अग्निः | त्रिष्टुप्}

त्वांस्तो᳚षाम॒त्वया᳚सु॒वीरा॒द्राघी᳚य॒आयुः॑प्रत॒रंदधा᳚नाः || {8/9}{10.115.8}{10.10.3.8}{8.6.19.3}{1323, 952, 10121}

ऊर्जः॑¦न॒पा॒त्¦स॒ह॒सा॒ऽव॒न्¦इति॑¦त्वा॒¦उ॒प॒ऽस्तु॒तस्य॑¦व॒न्द॒ते॒¦वृषा᳚¦वाक् |
त्वा‌म्¦स्तो॒षा॒म॒¦त्वया᳚¦सु॒ऽवीराः᳚¦द्राघी᳚यः¦आयुः॑¦प्र॒ऽत॒र‌म्¦दधा᳚नाः ||

इति॑त्वाग्नेवृष्टि॒हव्य॑स्यपु॒त्रा,उ॑पस्तु॒तास॒ऋष॑योऽवोचन् |{वार्ष्तिहव्य उपस्तुतः | अग्निः | शक्वरी}

ताँश्च॑पा॒हिगृ॑ण॒तश्च॑सू॒रीन्वष॒ड्वष॒ळित्यू॒र्ध्वासो᳚,अनक्ष॒न्नमो॒नम॒इत्यू॒र्ध्वासो᳚,अनक्षन् || {9/9}{10.115.9}{10.10.3.9}{8.6.19.4}{1324, 952, 10122}

इति॑¦त्वा॒¦अ॒ग्ने॒¦वृ॒ष्टि॒ऽहव्य॑स्य¦पु॒त्राः¦उ॒प॒ऽस्तु॒तासः॑¦ऋष॑यः¦अ॒वो॒च॒न् |
तान्¦च॒¦पा॒हि¦गृ॒ण॒तः¦च॒¦सू॒रीन्¦वष॑ट्¦वष॑ट्¦इति॑¦ऊ॒र्ध्वासः॑¦अ॒न॒क्ष॒न्¦नमः॑¦नमः॑¦इति॑¦ऊ॒र्ध्वासः॑¦अ॒न॒क्ष॒न् ||

[116] पिबेति नवर्चस्य सूक्तस्य स्थौरोग्नियुत इंद्रस्त्रिष्टुप् | (अग्नियूपोवा ऋषिः) |
पिबा॒सोमं᳚मह॒तइ᳚न्द्रि॒याय॒पिबा᳚वृ॒त्राय॒हन्त॑वेशविष्ठ |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

पिब॑रा॒येशव॑सेहू॒यमा᳚नः॒पिब॒मध्व॑स्तृ॒पदि॒न्द्रावृ॑षस्व || {1/9}{10.116.1}{10.10.4.1}{8.6.20.1}{1325, 953, 10123}

पिब॑¦सोम᳚‌म्¦म॒ह॒ते¦इ॒न्द्रि॒याय॑¦पिब॑¦वृ॒त्राय॑¦हन्त॑वे¦श॒वि॒ष्ठ॒ |
पिब॑¦रा॒ये¦शव॑से¦हू॒यमा᳚नः¦पिब॑¦मध्वः॑¦तृ॒पत्¦इ॒न्द्र॒¦आ¦वृ॒ष॒स्व॒ ||

अ॒स्यपि॑बक्षु॒मतः॒प्रस्थि॑त॒स्येन्द्र॒सोम॑स्य॒वर॒मासु॒तस्य॑ |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

स्व॒स्ति॒दामन॑सामादयस्वार्वाची॒नोरे॒वते॒सौभ॑गाय || {2/9}{10.116.2}{10.10.4.2}{8.6.20.2}{1326, 953, 10124}

अ॒स्य¦पि॒ब॒¦क्षु॒ऽमतः॑¦प्रऽस्थि॑तस्य¦इन्द्र॑¦सोम॑स्य¦वर᳚‌म्¦आ¦सु॒तस्य॑ |
स्व॒स्ति॒ऽदाः¦मन॑सा¦मा॒द॒य॒स्व॒¦अ॒र्वा॒ची॒नः¦रे॒वते᳚¦सौभ॑गाय ||

म॒मत्तु॑त्वादि॒व्यःसोम॑इन्द्रम॒मत्तु॒यःसू॒यते॒पार्थि॑वेषु |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

म॒मत्तु॒येन॒वरि॑वश्च॒कर्थ॑म॒मत्तु॒येन॑निरि॒णासि॒शत्रू॑न् || {3/9}{10.116.3}{10.10.4.3}{8.6.20.3}{1327, 953, 10125}

म॒मत्तु॑¦त्वा॒¦दि॒व्यः¦सोमः॑¦इ॒न्द्र॒¦म॒मत्तु॑¦यः¦सू॒यते᳚¦पार्थि॑वेषु |
म॒मत्तु॑¦येन॑¦वरि॑ऽवः¦च॒कर्थ॑¦म॒मत्तु॑¦येन॑¦नि॒ऽरि॒णासि॑¦शत्रू॑न् ||

द्वि॒बर्हा᳚,अमि॒नोया॒त्विन्द्रो॒वृषा॒हरि॑भ्यां॒परि॑षिक्त॒मन्धः॑ |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

गव्यासु॒तस्य॒प्रभृ॑तस्य॒मध्वः॑स॒त्राखेदा᳚मरुश॒हावृ॑षस्व || {4/9}{10.116.4}{10.10.4.4}{8.6.20.4}{1328, 953, 10126}

आ¦द्वि॒ऽबर्हाः᳚¦अ॒मि॒नः¦या॒तु॒¦इन्द्रः॑¦वृषा᳚¦हरि॑ऽभ्या‌म्¦परि॑ऽसिक्त‌म्¦अन्धः॑ |
गवि॑¦आ¦सु॒तस्य॑¦प्रऽभृ॑तस्य¦मध्वः॑¦स॒त्रा¦खेदा᳚‌म्¦अ॒रु॒श॒ऽहा¦आ¦वृ॒ष॒स्व॒ ||

निति॒ग्मानि॑भ्रा॒शय॒न्‌भ्राश्या॒न्यव॑स्थि॒रात॑नुहियातु॒जूना᳚म् |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

उ॒ग्राय॑ते॒सहो॒बलं᳚ददामिप्र॒तीत्या॒शत्रू᳚न्‌विग॒देषु॑वृश्च || {5/9}{10.116.5}{10.10.4.5}{8.6.20.5}{1329, 953, 10127}

नि¦ति॒ग्मानि॑¦भ्रा॒शय॑न्¦भ्राश्या᳚नि¦अव॑¦स्थि॒रा¦त॒नु॒हि॒¦या॒तु॒ऽजूना᳚‌म् |
उ॒ग्राय॑¦ते॒¦सहः॑¦बल᳚‌म्¦द॒दा॒मि॒¦प्र॒ति॒ऽ‌इत्य॑¦शत्रू᳚न्¦वि॒ऽग॒देषु॑¦वृ॒श्च॒ ||

व्य१॑(अ॒)र्यइ᳚न्द्रतनुहि॒श्रवां॒स्योजः॑स्थि॒रेव॒धन्व॑नो॒ऽभिमा᳚तीः |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

अ॒स्म॒द्र्य॑ग्वावृधा॒नःसहो᳚भि॒रनि॑भृष्टस्त॒न्वं᳚वावृधस्व || {6/9}{10.116.6}{10.10.4.6}{8.6.21.1}{1330, 953, 10128}

वि¦अ॒र्यः¦इ॒न्द्र॒¦त॒नु॒हि॒¦श्रवां᳚सि¦ओजः॑¦स्थि॒राऽ‌इ᳚व¦धन्व॑नः¦अ॒भिऽमा᳚तीः |
अ॒स्म॒द्र्य॑क्¦व॒वृ॒धा॒नः¦सहः॑ऽभिः¦अनि॑ऽभृष्टः¦त॒न्व᳚‌म्¦व॒वृ॒ध॒स्व॒ ||

इ॒दंह॒विर्म॑घव॒न्तुभ्यं᳚रा॒तंप्रति॑सम्रा॒ळहृ॑णानोगृभाय |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

तुभ्यं᳚सु॒तोम॑घव॒न्तुभ्यं᳚प॒क्वो॒३॑(ओ॒)ऽद्धी᳚न्द्र॒पिब॑च॒प्रस्थि॑तस्य || {7/9}{10.116.7}{10.10.4.7}{8.6.21.2}{1331, 953, 10129}

इ॒द‌म्¦ह॒विः¦म॒घ॒ऽव॒न्¦तुभ्य᳚‌म्¦रा॒त‌म्¦प्रति॑¦स‌म्ऽरा᳚ट्¦अहृ॑णानः¦गृ॒भा॒य॒ |
तुभ्य᳚‌म्¦सु॒तः¦म॒घ॒ऽव॒न्¦तुभ्य᳚‌म्¦प॒क्वः॑¦अ॒द्धि¦इ॒न्द्र॒¦पिब॑¦च॒¦प्रऽस्थि॑तस्य ||

अ॒द्धीदि᳚न्द्र॒प्रस्थि॑ते॒माह॒वींषि॒चनो᳚दधिष्वपच॒तोतसोम᳚म् |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

प्रय॑स्वन्तः॒प्रति॑हर्यामसित्वास॒त्याःस᳚न्तु॒यज॑मानस्य॒कामाः᳚ || {8/9}{10.116.8}{10.10.4.8}{8.6.21.3}{1332, 953, 10130}

अ॒द्धि¦इत्¦इ॒न्द्र॒¦प्रऽस्थि॑ता¦इ॒मा¦ह॒वींषि॑¦चनः॑¦द॒धि॒ष्व॒¦प॒च॒ता¦उ॒त¦सोम᳚‌म् |
प्रय॑स्वन्तः¦प्रति॑¦ह॒र्या॒म॒सि॒¦त्वा॒¦स॒त्याः¦स॒न्तु॒¦यज॑मानस्य¦कामाः᳚ ||

प्रेन्द्रा॒ग्निभ्यां᳚सुवच॒स्यामि॑यर्मि॒सिन्धा᳚विव॒प्रेर॑यं॒नाव॑म॒र्कैः |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

अया᳚,इव॒परि॑चरन्तिदे॒वाये,अ॒स्मभ्यं᳚धन॒दा,उ॒द्भिद॑श्च || {9/9}{10.116.9}{10.10.4.9}{8.6.21.4}{1333, 953, 10131}

प्र¦इ॒न्द्रा॒ग्निऽभ्या᳚‌म्¦सु॒ऽव॒च॒स्या‌म्¦इ॒य॒र्मि॒¦सिन्धौ᳚ऽ‌इव¦प्र¦ई॒र॒य॒‌म्¦नाव᳚‌म्¦अ॒र्कैः |
अयाः᳚ऽ‌इव¦परि॑¦च॒र॒न्ति॒¦दे॒वाः¦ये¦अ॒स्मभ्य᳚‌म्¦ध॒न॒ऽदाः¦उ॒त्ऽभिदः॑¦च॒ ||

[117] नवाइति नवर्चस्य सूक्तस्यांगिरसो भिक्षुर्धनान्नदानंत्रिष्टुबाद्येजगत्यौ |
वा,उ॑दे॒वाः,क्षुध॒मिद्व॒धंद॑दुरु॒ताशि॑त॒मुप॑गच्छन्तिमृ॒त्यवः॑ |{आंगिरसो भिक्षुः | धनान्नदानः | जगती}

उ॒तोर॒यिःपृ॑ण॒तोनोप॑दस्यत्यु॒तापृ॑णन्मर्डि॒तारं॒वि᳚न्दते || {1/9}{10.117.1}{10.10.5.1}{8.6.22.1}{1334, 954, 10132}

न¦वै¦ऊँ॒ इति॑¦दे॒वाः¦क्षुध᳚‌म्¦इत्¦व॒ध‌म्¦द॒दुः॒¦उ॒त¦आशि॑त‌म्¦उप॑¦ग॒च्छ॒न्ति॒¦मृ॒त्यवः॑ |
उ॒तो इति॑¦र॒यिः¦पृ॒ण॒तः¦न¦उप॑¦द॒स्य॒ति॒¦उ॒त¦अपृ॑णन्¦म॒र्डि॒तार᳚‌म्¦न¦वि॒न्द॒ते॒ ||

आ॒ध्राय॑चकमा॒नाय॑पि॒त्वोऽन्न॑वा॒न्‌त्सन्‌र॑फि॒तायो᳚पज॒ग्मुषे᳚ |{आंगिरसो भिक्षुः | धनान्नदानः | जगती}

स्थि॒रंमनः॑कृणु॒तेसेव॑तेपु॒रोतोचि॒त्सम॑र्डि॒तारं॒वि᳚न्दते || {2/9}{10.117.2}{10.10.5.2}{8.6.22.2}{1335, 954, 10133}

यः¦आ॒ध्राय॑¦च॒क॒मा॒नाय॑¦पि॒त्वः¦अन्न॑ऽवान्¦सन्¦र॒फि॒ताय॑¦उ॒प॒ऽज॒ग्मुषे᳚ |
स्थि॒र‌म्¦मनः॑¦कृ॒णु॒ते¦सेव॑ते¦पु॒रा¦उ॒तो इति॑¦चि॒त्¦सः¦म॒र्डि॒तार᳚‌म्¦न¦वि॒न्द॒ते॒ ||

इद्भो॒जोयोगृ॒हवे॒ददा॒त्यन्न॑कामाय॒चर॑तेकृ॒शाय॑ |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्}

अर॑मस्मैभवति॒याम॑हूता,उ॒ताप॒रीषु॑कृणुते॒सखा᳚यम् || {3/9}{10.117.3}{10.10.5.3}{8.6.22.3}{1336, 954, 10134}

सः¦इत्¦भो॒जः¦यः¦गृ॒हवे᳚¦ददा᳚ति¦अन्न॑ऽकामाय¦चर॑ते¦कृ॒शाय॑ |
अर᳚‌म्¦अ॒स्मै॒¦भ॒व॒ति॒¦याम॑ऽहूतौ¦उ॒त¦अ॒प॒रीषु॑¦कृ॒णु॒ते॒¦सखा᳚य‌म् ||

सखा॒योददा᳚ति॒सख्ये᳚सचा॒भुवे॒सच॑मानायपि॒त्वः |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्}

अपा᳚स्मा॒त्प्रेया॒न्नतदोको᳚,अस्तिपृ॒णन्त॑म॒न्यमर॑णंचिदिच्छेत् || {4/9}{10.117.4}{10.10.5.4}{8.6.22.4}{1337, 954, 10135}

न¦सः¦सखा᳚¦यः¦न¦ददा᳚ति¦सख्ये᳚¦स॒चा॒ऽभुवे᳚¦सच॑मानाय¦पि॒त्वः |
अप॑¦अ॒स्मा॒त्¦प्र¦इ॒या॒त्¦न¦तत्¦ओकः॑¦अ॒स्ति॒¦पृ॒णन्त᳚‌म्¦अ॒न्य‌म्¦अर॑ण‌म्¦चि॒त्¦इ॒च्छे॒त् ||

पृ॒णी॒यादिन्नाध॑मानाय॒तव्या॒न्द्राघी᳚यांस॒मनु॑पश्येत॒पन्था᳚म् |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्}

हिवर्त᳚न्ते॒रथ्ये᳚वच॒क्रान्यम᳚न्य॒मुप॑तिष्ठन्त॒रायः॑ || {5/9}{10.117.5}{10.10.5.5}{8.6.22.5}{1338, 954, 10136}

पृ॒णी॒यात्¦इत्¦नाध॑मानाय¦तव्या᳚न्¦द्राघी᳚यांस‌म्¦अनु॑¦प॒श्ये॒त॒¦पन्था᳚‌म् |
ओ इति॑¦हि¦व॒र्त॒न्ते॒¦रथ्या᳚ऽ‌इव¦च॒क्रा¦अ॒न्य‌म्।आ᳚न्य‌म्¦उप॑¦ति॒ष्ठ॒न्त॒¦रायः॑ ||

मोघ॒मन्नं᳚विन्दते॒,अप्र॑चेताःस॒त्यंब्र॑वीमिव॒धइत्सतस्य॑ |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्}

नार्य॒मणं॒पुष्य॑ति॒नोसखा᳚यं॒केव॑लाघोभवतिकेवला॒दी || {6/9}{10.117.6}{10.10.5.6}{8.6.23.1}{1339, 954, 10137}

मोघ᳚‌म्¦अन्न᳚‌म्¦वि॒न्द॒ते॒¦अप्र॑ऽचेताः¦स॒त्य‌म्¦ब्र॒वी॒मि॒¦व॒धः¦इत्¦सः¦तस्य॑ |
न¦अ॒र्य॒मण᳚‌म्¦पुष्य॑ति¦नो इति॑¦सखा᳚य‌म्¦केव॑ल।आघः¦भ॒व॒ति॒¦के॒व॒ल॒ऽआ॒दी ||

कृ॒षन्नित्फाल॒आशि॑तंकृणोति॒यन्नध्वा᳚न॒मप॑वृङ्क्तेच॒रित्रैः᳚ |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्}

वद᳚न्‌ब्र॒ह्माव॑दतो॒वनी᳚यान्‌पृ॒णन्ना॒पिरपृ॑णन्तम॒भिष्या᳚त् || {7/9}{10.117.7}{10.10.5.7}{8.6.23.2}{1340, 954, 10138}

कृ॒षन्¦इत्¦फालः॑¦आशि॑त‌म्¦कृ॒णो॒ति॒¦यन्¦अध्वा᳚न‌म्¦अप॑¦वृ॒ङ्क्ते॒¦च॒रित्रैः᳚ |
वद॑न्¦ब्र॒ह्मा¦अव॑दतः¦वनी᳚यान्¦पृ॒णन्¦आ॒पिः¦अपृ॑णन्त‌म्¦अ॒भि¦स्या॒त् ||

एक॑पा॒द्भूयो᳚द्वि॒पदो॒विच॑क्रमेद्वि॒पात्त्रि॒पाद॑म॒भ्ये᳚तिप॒श्चात् |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्}

चतु॑ष्पादेतिद्वि॒पदा᳚मभिस्व॒रेस॒म्पश्य᳚न्‌प॒ङ्क्तीरु॑प॒तिष्ठ॑मानः || {8/9}{10.117.8}{10.10.5.8}{8.6.23.3}{1341, 954, 10139}

एक॑ऽपात्¦भूयः॑¦द्वि॒ऽपदः॑¦वि¦च॒क्र॒मे॒¦द्वि॒ऽपात्¦त्रि॒ऽपाद᳚‌म्¦अ॒भि¦ए॒ति॒¦प॒श्चात् |
चतुः॑ऽपात्¦ए॒ति॒¦द्वि॒ऽपदा᳚‌म्¦अ॒भि॒ऽस्व॒रे¦स॒‌म्ऽपश्य॑न्¦प॒ङ्क्तीः¦उ॒प॒ऽतिष्ठ॑मानः ||

स॒मौचि॒द्धस्तौ॒स॒मंवि॑विष्टःसम्मा॒तरा᳚चि॒न्नस॒मंदु॑हाते |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्}

य॒मयो᳚श्चि॒न्नस॒मावी॒र्या᳚णिज्ञा॒तीचि॒त्सन्तौ॒स॒मंपृ॑णीतः || {9/9}{10.117.9}{10.10.5.9}{8.6.23.4}{1342, 954, 10140}

स॒मौ¦चि॒त्¦हस्तौ᳚¦न¦स॒म‌म्¦वि॒वि॒ष्टः¦स॒‌म्ऽमा॒तरा᳚¦चि॒त्¦न¦स॒म‌म्¦दु॒हा॒ते॒ इति॑ |
य॒मयोः᳚¦चि॒त्¦न¦स॒मा¦वी॒र्या᳚णि¦ज्ञा॒ती इति॑¦चि॒त्¦सन्तौ᳚¦न¦स॒म‌म्¦पृ॒णी॒तः॒ ||

[118] अग्नेहंसीति नवर्चस्य सूक्तस्यामहीयव उरुक्षयोरक्षोहाग्निर्गायत्री |
अग्ने॒हंसि॒न्य१॑(अ॒)त्रिणं॒दीद्य॒न्मर्त्ये॒ष्वा |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

स्वेक्षये᳚शुचिव्रत || {1/9}{10.118.1}{10.10.6.1}{8.6.24.1}{1343, 955, 10141}

अग्ने᳚¦हंसि॑¦नि¦अ॒त्रिण᳚‌म्¦दीद्य॑त्¦मर्त्ये᳚षु¦आ | स्वे¦क्षये᳚¦शु॒चि॒ऽव्र॒त॒ ||

उत्ति॑ष्ठसि॒स्वा᳚हुतोघृ॒तानि॒प्रति॑मोदसे |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

यत्‌त्वा॒स्रुचः॑स॒मस्थि॑रन् || {2/9}{10.118.2}{10.10.6.2}{8.6.24.2}{1344, 955, 10142}

उत्¦ति॒ष्ठ॒सि॒¦सुऽआ᳚हुतः¦घृ॒तानि॑¦प्रति॑¦मो॒द॒से॒ | यत्¦त्वा॒¦स्रुचः॑¦स॒‌म्।आस्थि॑रन् ||

आहु॑तो॒विरो᳚चते॒ऽग्निरी॒ळेन्यो᳚गि॒रा |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

स्रु॒चाप्रती᳚कमज्यते || {3/9}{10.118.3}{10.10.6.3}{8.6.24.3}{1345, 955, 10143}

सः¦आऽहु॑तः¦वि¦रो॒च॒ते॒¦अ॒ग्निः¦ई॒ळेन्यः॑¦गि॒रा | स्रु॒चा¦प्रती᳚क‌म्¦अ॒ज्य॒ते॒ ||

घृ॒तेना॒ग्निःसम॑ज्यते॒मधु॑प्रतीक॒आहु॑तः |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

रोच॑मानोवि॒भाव॑सुः || {4/9}{10.118.4}{10.10.6.4}{8.6.24.4}{1346, 955, 10144}

घृ॒तेन॑¦अ॒ग्निः¦स‌म्¦अ॒ज्य॒ते॒¦मधु॑ऽप्रतीकः¦आऽहु॑तः | रोच॑मानः¦वि॒भाऽव॑सुः ||

जर॑माणः॒समि॑ध्यसेदे॒वेभ्यो᳚हव्यवाहन |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

तंत्वा᳚हवन्त॒मर्त्याः᳚ || {5/9}{10.118.5}{10.10.6.5}{8.6.24.5}{1347, 955, 10145}

जर॑माणः¦स‌म्¦इ॒ध्य॒से॒¦दे॒वेभ्यः॑¦ह॒व्य॒ऽवा॒ह॒न॒ | त‌म्¦त्वा॒¦ह॒व॒न्त॒¦मर्त्याः᳚ ||

तंम॑र्ता॒,अम॑र्त्यंघृ॒तेना॒ग्निंस॑पर्यत |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

अदा᳚भ्यंगृ॒हप॑तिम् || {6/9}{10.118.6}{10.10.6.6}{8.6.25.1}{1348, 955, 10146}

त‌म्¦म॒र्ताः॒¦अम॑र्त्य‌म्¦घृ॒तेन॑¦अ॒ग्नि‌म्¦स॒प॒र्य॒त॒ | अदा᳚भ्य‌म्¦गृ॒हऽप॑ति‌म् ||

अदा᳚भ्येनशो॒चिषाग्ने॒रक्ष॒स्त्वंद॑ह |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

गो॒पा,ऋ॒तस्य॑दीदिहि || {7/9}{10.118.7}{10.10.6.7}{8.6.25.2}{1349, 955, 10147}

अदा᳚भ्येन¦शो॒चिषा᳚¦अग्ने᳚¦रक्षः॑¦त्व‌म्¦द॒ह॒ | गो॒पाः¦ऋ॒तस्य॑¦दी॒दि॒हि॒ ||

त्वम॑ग्ने॒प्रती᳚केन॒प्रत्यो᳚षयातुधा॒न्यः॑ |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

उ॒रु॒क्षये᳚षु॒दीद्य॑त् || {8/9}{10.118.8}{10.10.6.8}{8.6.25.3}{1350, 955, 10148}

सः¦त्व‌म्¦अ॒ग्ने॒¦प्रती᳚केन¦प्रति॑¦ओ॒ष॒¦या॒तु॒ऽधा॒न्यः॑ | उ॒रु॒ऽक्षये᳚षु¦दीद्य॑त् ||

तंत्वा᳚गी॒र्भिरु॑रु॒क्षया᳚हव्य॒वाहं॒समी᳚धिरे |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

यजि॑ष्ठं॒मानु॑षे॒जने᳚ || {9/9}{10.118.9}{10.10.6.9}{8.6.25.4}{1351, 955, 10149}

त‌म्¦त्वा॒¦गीः॒ऽभिः¦उ॒रु॒ऽक्षयाः᳚¦ह॒व्य॒ऽवाह᳚‌म्¦स‌म्¦ई॒धि॒रे॒ | यजि॑ष्ठ‌म्¦मानु॑षे¦जने᳚ ||

[119] इतिवाइति त्रयोदशर्चस्य सूक्तस्यैंद्रो लबोगायत्री |
इति॒वा,इति॑मे॒मनो॒¦गामश्वं᳚सनुया॒मिति॑ |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ || {1/13}{10.119.1}{10.10.7.1}{8.6.26.1}{1352, 956, 10150}

इति॑¦वै¦इति॑¦मे॒¦मनः॑¦गा‌म्¦अश्व᳚‌म्¦स॒नु॒या॒‌म्¦इति॑ | कु॒वित्¦सोम॑स्य¦अपा᳚‌म्¦इति॑ ||

प्रवाता᳚,इव॒दोध॑त॒¦उन्मा᳚पी॒ता,अ॑यंसत |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ || {2/13}{10.119.2}{10.10.7.2}{8.6.26.2}{1353, 956, 10151}

प्र¦वाताः᳚ऽ‌इव¦दोध॑तः¦उत्¦मा॒¦पी॒ताः¦अ॒यं॒स॒त॒ | कु॒वित्¦सोम॑स्य¦अपा᳚‌म्¦इति॑ ||

उन्मा᳚पी॒ता,अ॑यंसत॒¦रथ॒मश्वा᳚,इवा॒शवः॑ |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ || {3/13}{10.119.3}{10.10.7.3}{8.6.26.3}{1354, 956, 10152}

उत्¦मा॒¦पी॒ताः¦अ॒यं॒स॒त॒¦रथ᳚‌म्¦अश्वाः᳚ऽ‌इव¦आ॒शवः॑ | कु॒वित्¦सोम॑स्य¦अपा᳚‌म्¦इति॑ ||

उप॑माम॒तिर॑स्थित¦वा॒श्रापु॒त्रमि॑वप्रि॒यम् |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ || {4/13}{10.119.4}{10.10.7.4}{8.6.26.4}{1355, 956, 10153}

उप॑¦मा¦म॒तिः¦अ॒स्थि॒त॒¦वा॒श्रा¦पु॒त्र‌म्ऽ‌इ᳚व¦प्रि॒य‌म् | कु॒वित्¦सोम॑स्य¦अपा᳚‌म्¦इति॑ ||

अ॒हंतष्टे᳚वव॒न्धुरं॒¦पर्य॑चामिहृ॒दाम॒तिम् |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ || {5/13}{10.119.5}{10.10.7.5}{8.6.26.5}{1356, 956, 10154}

अ॒ह‌म्¦तष्टा᳚ऽ‌इव¦व॒न्धुर᳚‌म्¦परि॑¦अ॒चा॒मि॒¦हृ॒दा¦म॒ति‌म् | कु॒वित्¦सोम॑स्य¦अपा᳚‌म्¦इति॑ ||

न॒हिमे᳚,अक्षि॒पच्च॒ना¦ऽच्छा᳚न्‌त्सुः॒पञ्च॑कृ॒ष्टयः॑ |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ || {6/13}{10.119.6}{10.10.7.6}{8.6.26.6}{1357, 956, 10155}

न॒हि¦मे॒¦अ॒क्षि॒ऽपत्¦च॒न¦अच्छा᳚न्त्सुः¦पंच॑¦कृ॒ष्टयः॑ | कु॒वित्¦सोम॑स्य¦अपा᳚‌म्¦इति॑ ||

न॒हिमे॒रोद॑सी,उ॒भे¦,अ॒न्यंप॒क्षंच॒नप्रति॑ |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ || {7/13}{10.119.7}{10.10.7.7}{8.6.27.1}{1358, 956, 10156}

न॒हि¦मे॒¦रोद॑सी॒ इति॑¦उ॒भे इति॑¦अ॒न्य‌म्¦प॒क्ष‌म्¦च॒न¦प्रति॑ | कु॒वित्¦सोम॑स्य¦अपा᳚‌म्¦इति॑ ||

अ॒भिद्यांम॑हि॒नाभु॑व¦म॒भी॒३॑(ई॒)मांपृ॑थि॒वींम॒हीम् |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ || {8/13}{10.119.8}{10.10.7.8}{8.6.27.2}{1359, 956, 10157}

अ॒भि¦द्या‌म्¦म॒हि॒ना¦भु॒व॒‌म्¦अ॒भि¦इ॒मा‌म्¦पृ॒थि॒वी‌म्¦म॒ही‌म् | कु॒वित्¦सोम॑स्य¦अपा᳚‌म्¦इति॑ ||

हन्ता॒हंपृ॑थि॒वीमि॒मां¦निद॑धानी॒हवे॒हवा᳚ |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ || {9/13}{10.119.9}{10.10.7.9}{8.6.27.3}{1360, 956, 10158}

हन्त॑¦अ॒ह‌म्¦पृ॒थि॒वी‌म्¦इ॒मा‌म्¦नि¦द॒धा॒नि॒¦इ॒ह¦वा॒¦इ॒ह¦वा॒ | कु॒वित्¦सोम॑स्य¦अपा᳚‌म्¦इति॑ ||

ओ॒षमित्‌पृ॑थि॒वीम॒हं¦ज॒ङ्घना᳚नी॒हवे॒हवा᳚ |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ || {10/13}{10.119.10}{10.10.7.10}{8.6.27.4}{1361, 956, 10159}

ओ॒ष‌म्¦इत्¦पृ॒थि॒वी‌म्¦अ॒ह‌म्¦ज॒ङ्घना᳚नि¦इ॒ह¦वा॒¦इ॒ह¦वा॒ | कु॒वित्¦सोम॑स्य¦अपा᳚‌म्¦इति॑ ||

दि॒विमे᳚,अ॒न्यःप॒क्षो॒३॑(ओ॒)¦ऽधो,अ॒न्यम॑चीकृषम् |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ || {11/13}{10.119.11}{10.10.7.11}{8.6.27.5}{1362, 956, 10160}

दि॒वि¦मे॒¦अ॒न्यः¦प॒क्षः¦अ॒धः¦अ॒न्य‌म्¦अ॒ची॒कृ॒ष॒‌म् | कु॒वित्¦सोम॑स्य¦अपा᳚‌म्¦इति॑ ||

अ॒हम॑स्मिमहाम॒हो᳚¦ऽभिन॒भ्यमुदी᳚षितः |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ || {12/13}{10.119.12}{10.10.7.12}{8.6.27.6}{1363, 956, 10161}

अ॒ह‌म्¦अ॒स्मि॒¦म॒हा॒ऽम॒हः¦अ॒भि॒ऽन॒भ्य‌म्¦उत्ऽई᳚षितः | कु॒वित्¦सोम॑स्य¦अपा᳚‌म्¦इति॑ ||

गृ॒होया॒म्यरं᳚कृतो¦दे॒वेभ्यो᳚हव्य॒वाह॑नः |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ || {13/13}{10.119.13}{10.10.7.13}{8.6.27.7}{1364, 956, 10162}

गृ॒हः¦या॒मि॒¦अर᳚‌म्ऽकृतः¦दे॒वेभ्यः॑¦ह॒व्य॒ऽवाह॑नः | कु॒वित्¦सोम॑स्य¦अपा᳚‌म्¦इति॑ ||

[120] तदिदिति नवर्चस्य सूक्तस्याथर्वणोबृहद्दिवइंद्रस्त्रिष्टुप् |
तदिदा᳚स॒भुव॑नेषु॒ज्येष्ठं॒यतो᳚ज॒ज्ञउ॒ग्रस्त्वे॒षनृ᳚म्णः |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

स॒द्योज॑ज्ञा॒नोनिरि॑णाति॒शत्रू॒ननु॒यंविश्वे॒मद॒न्त्यूमाः᳚ || {1/9}{10.120.1}{10.10.8.1}{8.7.1.1}{1365, 957, 10163}

तत्¦इत्¦आ॒स॒¦भुव॑नेषु¦ज्येष्ठ᳚‌म्¦यतः॑¦ज॒ज्ञे¦उ॒ग्रः¦त्वे॒षऽनृ᳚म्णः |
स॒द्यः¦ज॒ज्ञा॒नः¦नि¦रि॒णा॒ति॒¦शत्रू᳚न्¦अनु॑¦य‌म्¦विश्वे᳚¦मद᳚न्ति¦ऊमाः᳚ ||

वा॒वृ॒धा॒नःशव॑सा॒भूर्यो᳚जाः॒शत्रु॑र्दा॒साय॑भि॒यसं᳚दधाति |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

अव्य॑नच्चव्य॒नच्च॒सस्नि॒संते᳚नवन्त॒प्रभृ॑ता॒मदे᳚षु || {2/9}{10.120.2}{10.10.8.2}{8.7.1.2}{1366, 957, 10164}

व॒वृ॒धा॒नः¦शव॑सा¦भूरि॑ऽओजाः¦शत्रुः॑¦दा॒साय॑¦भि॒यस᳚‌म्¦द॒धा॒ति॒ |
अवि॑।आनत्¦च॒¦वि॒।आ॒नत्¦च॒¦सस्नि॑¦स‌म्¦ते॒¦न॒व॒न्त॒¦प्रऽभृ॑ता¦मदे᳚षु ||

त्वेक्रतु॒मपि॑वृञ्जन्ति॒विश्वे॒द्विर्यदे॒तेत्रिर्भव॒न्त्यूमाः᳚ |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

स्वा॒दोःस्वादी᳚यःस्वा॒दुना᳚सृजा॒सम॒दःसुमधु॒मधु॑ना॒भियो᳚धीः || {3/9}{10.120.3}{10.10.8.3}{8.7.1.3}{1367, 957, 10165}

त्वे इति॑¦क्रतु᳚‌म्¦अपि॑¦वृं॒ज॒न्ति॒¦विश्वे᳚¦द्विः¦यत्¦ए॒ते¦त्रिः¦भव᳚न्ति¦ऊमाः᳚ |
स्वा॒दोः¦स्वादी᳚यः¦स्वा॒दुना᳚¦सृ॒ज॒¦स‌म्¦अ॒दः¦सु¦मधु॑¦मधु॑ना¦अ॒भि¦यो॒धीः॒ ||

इति॑चि॒द्धित्वा॒धना॒जय᳚न्तं॒मदे᳚मदे,अनु॒मद᳚न्ति॒विप्राः᳚ |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

ओजी᳚योधृष्णोस्थि॒रमात॑नुष्व॒मात्वा᳚दभन्यातु॒धाना᳚दु॒रेवाः᳚ || {4/9}{10.120.4}{10.10.8.4}{8.7.1.4}{1368, 957, 10166}

इति॑¦चि॒त्¦हि¦त्वा॒¦धना᳚¦जय᳚न्त‌म्¦मदे᳚ऽमदे¦अ॒नु॒ऽमद᳚न्ति¦विप्राः᳚ |
ओजी᳚यः¦धृ॒ष्णो॒ इति॑¦स्थि॒र‌म्¦आ¦त॒नु॒ष्व॒¦मा¦त्वा॒¦द॒भ॒न्¦या॒तु॒ऽधानाः᳚¦दुः॒ऽएवाः᳚ ||

त्वया᳚व॒यंशा᳚शद्महे॒रणे᳚षुप्र॒पश्य᳚न्तोयु॒धेन्या᳚नि॒भूरि॑ |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

चो॒दया᳚मित॒आयु॑धा॒वचो᳚भिः॒संते᳚शिशामि॒ब्रह्म॑णा॒वयां᳚सि || {5/9}{10.120.5}{10.10.8.5}{8.7.1.5}{1369, 957, 10167}

त्वया᳚¦व॒य‌म्¦शा॒श॒द्म॒हे॒¦रणे᳚षु¦प्र॒ऽपश्य᳚न्तः¦यु॒धेन्या᳚नि¦भूरि॑ |
चो॒दया᳚मि¦ते॒¦आयु॑धा¦वचः॑ऽभिः¦स‌म्¦ते॒¦शि॒शा॒मि॒¦ब्रह्म॑णा¦वयां᳚सि ||

स्तु॒षेय्यं᳚पुरु॒वर्प॑स॒मृभ्व॑मि॒नत॑ममा॒प्त्यमा॒प्त्याना᳚म् |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

द॑र्षते॒शव॑सास॒प्तदानू॒न्‌प्रसा᳚क्षतेप्रति॒माना᳚नि॒भूरि॑ || {6/9}{10.120.6}{10.10.8.6}{8.7.2.1}{1370, 957, 10168}

स्तु॒षेय्य᳚‌म्¦पु॒रु॒ऽवर्प॑स‌म्¦ऋभ्व᳚‌म्¦इ॒नऽत॑म‌म्¦आ॒प्त्य‌म्¦आ॒प्त्याना᳚‌म् |
आ¦द॒र्ष॒ते॒¦शव॑सा¦स॒प्त¦दानू᳚न्¦प्र¦सा॒क्ष॒ते॒¦प्र॒ति॒ऽमाना᳚नि¦भूरि॑ ||

नितद्द॑धि॒षेऽव॑रं॒परं᳚च॒यस्मि॒न्नावि॒थाव॑सादुरो॒णे |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

मा॒तरा᳚स्थापयसेजिग॒त्नू,अत॑इनोषि॒कर्व॑रापु॒रूणि॑ || {7/9}{10.120.7}{10.10.8.7}{8.7.2.2}{1371, 957, 10169}

नि¦तत्¦द॒धि॒षे॒¦अव॑र‌म्¦पर᳚‌म्¦च॒¦यस्मि॑न्¦आवि॑थ¦अव॑सा¦दु॒रो॒णे |
आ¦मा॒तरा᳚¦स्था॒प॒य॒से॒¦जि॒ग॒त्नू इति॑¦अतः॑¦इ॒नो॒षि॒¦कर्व॑रा¦पु॒रूणि॑ ||

इ॒माब्रह्म॑बृ॒हद्दि॑वोविव॒क्तीन्द्रा᳚यशू॒षम॑ग्रि॒यःस्व॒र्षाः |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

म॒होगो॒त्रस्य॑क्षयतिस्व॒राजो॒दुर॑श्च॒विश्वा᳚,अवृणो॒दप॒स्वाः || {8/9}{10.120.8}{10.10.8.8}{8.7.2.3}{1372, 957, 10170}

इ॒मा¦ब्रह्म॑¦बृ॒हत्ऽदि॑वः¦वि॒व॒क्ति॒¦इन्द्रा᳚य¦शू॒ष‌म्¦अ॒ग्रि॒यः¦स्वः॒ऽसाः |
म॒हः¦गो॒त्रस्य॑¦क्ष॒य॒ति॒¦स्व॒ऽराजः॑¦दुरः॑¦च॒¦विश्वाः᳚¦अ॒वृ॒णो॒त्¦अप॑¦स्वाः ||

ए॒वाम॒हान्‌बृ॒हद्दि॑वो॒,अथ॒र्वावो᳚च॒त्स्वांत॒न्व१॑(अ॒)मिन्द्र॑मे॒व |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

स्वसा᳚रोमात॒रिभ्व॑रीररि॒प्राहि॒न्वन्ति॑च॒शव॑साव॒र्धय᳚न्ति || {9/9}{10.120.9}{10.10.8.9}{8.7.2.4}{1373, 957, 10171}

ए॒व¦म॒हान्¦बृ॒हत्ऽदि॑वः¦अथ᳚र्वा¦अवो᳚चत्¦स्वा‌म्¦त॒न्व᳚‌म्¦इन्द्र᳚‌म्¦ए॒व |
स्वसा᳚रः¦मा॒त॒रिभ्व॑रीः¦अ॒रि॒प्राः¦हि॒न्वन्ति॑¦च॒¦शव॑सा¦व॒र्धय᳚न्ति¦च॒ ||

[121] हिरण्यगर्भइति दशर्चस्य सूक्तस्य प्राजापत्योहिरण्यगर्भः प्रजापतिस्त्रिष्टुप् |
हि॒र॒ण्य॒ग॒र्भःसम॑वर्त॒ताग्रे᳚¦भू॒तस्य॑जा॒तःपति॒रेक॑आसीत् |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

दा᳚धारपृथि॒वींद्यामु॒तेमां¦कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम || {1/10}{10.121.1}{10.10.9.1}{8.7.3.1}{1374, 958, 10172}

हि॒र॒ण्य॒ऽग॒र्भः¦स‌म्¦अ॒व॒र्त॒त॒¦अग्रे᳚¦भू॒तस्य॑¦जा॒तः¦पतिः॑¦एकः॑¦आ॒सी॒त् |
सः¦दा॒धा॒र॒¦पृ॒थि॒वी‌म्¦द्या‌म्¦उ॒त¦इ॒मा‌म्¦कस्मै᳚¦दे॒वाय॑¦ह॒विषा᳚¦वि॒धे॒म॒ ||

आ᳚त्म॒दाब॑ल॒दायस्य॒विश्व॑¦उ॒पास॑तेप्र॒शिषं॒यस्य॑दे॒वाः |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

यस्य॑छा॒यामृतं॒यस्य॑मृ॒त्युः¦कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम || {2/10}{10.121.2}{10.10.9.2}{8.7.3.2}{1375, 958, 10173}

यः¦आ॒त्म॒ऽदाः¦ब॒ल॒ऽदाः¦यस्य॑¦विश्वे᳚¦उ॒प॒ऽआस॑ते¦प्र॒ऽशिष᳚‌म्¦यस्य॑¦दे॒वाः |
यस्य॑¦छा॒या‌म्¦ऋत᳚‌म्¦यस्य॑¦मृ॒त्युः¦कस्मै᳚¦दे॒वाय॑¦ह॒विषा᳚¦वि॒धे॒म॒ ||

यःप्रा᳚ण॒तोनि॑मिष॒तोम॑हि॒त्वै¦क॒इद्राजा॒जग॑तोब॒भूव॑ |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

ईशे᳚,अ॒स्यद्वि॒पद॒श्चतु॑ष्पदः॒¦कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम || {3/10}{10.121.3}{10.10.9.3}{8.7.3.3}{1376, 958, 10174}

यः¦प्रा॒ण॒तः¦नि॒ऽमि॒ष॒तः¦म॒हि॒ऽत्वा¦एकः॑¦इत्¦राजा᳚¦जग॑तः¦ब॒भूव॑ |
यः¦ईशे᳚¦अ॒स्य¦द्वि॒ऽपदः॑¦चतुः॑ऽपदः¦कस्मै᳚¦दे॒वाय॑¦ह॒विषा᳚¦वि॒धे॒म॒ ||

यस्ये॒मेहि॒मव᳚न्तोमहि॒त्वा¦यस्य॑समु॒द्रंर॒सया᳚स॒हाहुः |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

यस्ये॒माःप्र॒दिशो॒यस्य॑बा॒हू¦कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम || {4/10}{10.121.4}{10.10.9.4}{8.7.3.4}{1377, 958, 10175}

यस्य॑¦इ॒मे¦हि॒मऽव᳚न्तः¦म॒हि॒ऽत्वा¦यस्य॑¦स॒मु॒द्र‌म्¦र॒सया᳚¦स॒ह¦आ॒हुः॒ |
यस्य॑¦इ॒माः¦प्र॒ऽदिशः॑¦यस्य॑¦बा॒हू इति॑¦कस्मै᳚¦दे॒वाय॑¦ह॒विषा᳚¦वि॒धे॒म॒ ||

येन॒द्यौरु॒ग्रापृ॑थि॒वीच॑दृ॒ळ्हा¦येन॒स्वः॑स्तभि॒तंयेन॒नाकः॑ |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

यो,अ॒न्तरि॑क्षे॒रज॑सोवि॒मानः॒¦कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम || {5/10}{10.121.5}{10.10.9.5}{8.7.3.5}{1378, 958, 10176}

येन॑¦द्यौः¦उ॒ग्रा¦पृ॒थि॒वी¦च॒¦दृ॒ळ्हा¦येन॑¦स्व१॒॑रिति॒ स्वः॑¦स्त॒भि॒त‌म्¦येन॑¦नाकः॑ |
यः¦अ॒न्तरि॑क्षे¦रज॑सः¦वि॒ऽमानः॑¦कस्मै᳚¦दे॒वाय॑¦ह॒विषा᳚¦वि॒धे॒म॒ ||

यंक्रन्द॑सी॒,अव॑सातस्तभा॒ने¦,अ॒भ्यैक्षे᳚तां॒मन॑सा॒रेज॑माने |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

यत्राधि॒सूर॒उदि॑तोवि॒भाति॒¦कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम || {6/10}{10.121.6}{10.10.9.6}{8.7.4.1}{1379, 958, 10177}

य‌म्¦क्रन्द॑सी॒ इति॑¦अव॑सा¦त॒स्त॒भा॒ने इति॑¦अ॒भि¦ऐक्षे᳚ता‌म्¦मन॑सा¦रेज॑माने |
यत्र॑¦अधि॑¦सूरः॑¦उत्ऽ‌इ᳚तः¦वि॒ऽभाति॑¦कस्मै᳚¦दे॒वाय॑¦ह॒विषा᳚¦वि॒धे॒म॒ ||

आपो᳚ह॒यद्‌बृ॑ह॒तीर्विश्व॒माय॒न्¦गर्भं॒दधा᳚नाज॒नय᳚न्तीर॒ग्निम् |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

ततो᳚दे॒वानां॒सम॑वर्त॒तासु॒रेकः॒¦कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम || {7/10}{10.121.7}{10.10.9.7}{8.7.4.2}{1380, 958, 10178}

आपः॑¦ह॒¦यत्¦बृ॒ह॒तीः¦विश्व᳚‌म्¦आय॑न्¦गर्भ᳚‌म्¦दधा᳚नाः¦ज॒नय᳚न्तीः¦अ॒ग्नि‌म् |
ततः॑¦दे॒वाना᳚‌म्¦स‌म्¦अ॒व॒र्त॒त॒¦असुः॑¦एकः॑¦कस्मै᳚¦दे॒वाय॑¦ह॒विषा᳚¦वि॒धे॒म॒ ||

यश्चि॒दापो᳚महि॒नाप॒र्यप॑श्य॒द्¦दक्षं॒दधा᳚नाज॒नय᳚न्तीर्य॒ज्ञम् |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

योदे॒वेष्वधि॑दे॒वएक॒आसी॒त्¦कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम || {8/10}{10.121.8}{10.10.9.8}{8.7.4.3}{1381, 958, 10179}

यः¦चि॒त्¦आपः॑¦म॒हि॒ना¦प॒रि॒।आप॑श्यत्¦दक्ष᳚‌म्¦दधा᳚नाः¦ज॒नय᳚न्तीः¦य॒ज्ञ‌म् |
यः¦दे॒वेषु॑¦अधि॑¦दे॒वः¦एकः॑¦आसी᳚त्¦कस्मै᳚¦दे॒वाय॑¦ह॒विषा᳚¦वि॒धे॒म॒ ||

मानो᳚हिंसीज्जनि॒तायःपृ॑थि॒व्या¦योवा॒दिवं᳚स॒त्यध᳚र्माज॒जान॑ |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

यश्चा॒पश्च॒न्द्राबृ॑ह॒तीर्ज॒जान॒¦कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम || {9/10}{10.121.9}{10.10.9.9}{8.7.4.4}{1382, 958, 10180}

मा¦नः॒¦हिं॒सी॒त्¦ज॒नि॒ता¦यः¦पृ॒थि॒व्याः¦यः¦वा॒¦दिव᳚‌म्¦स॒त्यऽध᳚र्मा¦ज॒जान॑ |
यः¦च॒¦अ॒पः¦च॒न्द्राः¦बृ॒ह॒तीः¦ज॒जान॑¦कस्मै᳚¦दे॒वाय॑¦ह॒विषा᳚¦वि॒धे॒म॒ ||

प्रजा᳚पते॒त्वदे॒तान्य॒न्यो¦विश्वा᳚जा॒तानि॒परि॒ताब॑भूव |{प्राजापत्यो हिरण्यगर्भः | प्रजापति | त्रिष्टुप्}

यत्‌का᳚मास्तेजुहु॒मस्तन्नो᳚,अस्तु¦व॒यंस्या᳚म॒पत॑योरयी॒णाम् || {10/10}{10.121.10}{10.10.9.10}{8.7.4.5}{1383, 958, 10181}

प्रजा᳚ऽपते¦न¦त्वत्¦ए॒तानि॑¦अ॒न्यः¦विश्वा᳚¦जा॒तानि॑¦परि॑¦ता¦ब॒भू॒व॒ |
यत्ऽका᳚माः¦ते॒¦जु॒हु॒मः¦तत्¦नः॒¦अ॒स्तु॒¦व॒य‌म्¦स्या॒म॒¦पत॑यः¦र॒यी॒णा‌म् ||

[122] वसुमित्यष्टर्चस्य सूक्तस्य वासिष्ठश्चित्रमहाअग्निर्जगती आद्यापंचम्यौत्रिष्टुभौ |
वसुं॒चि॒त्रम॑हसंगृणीषेवा॒मंशेव॒मति॑थिमद्विषे॒ण्यम् |{वासिष्ठश्चित्रमहा | अग्निः | त्रिष्टुप्}

रा᳚सतेशु॒रुधो᳚वि॒श्वधा᳚यसो॒ऽग्निर्होता᳚गृ॒हप॑तिःसु॒वीर्य᳚म् || {1/8}{10.122.1}{10.10.10.1}{8.7.5.1}{1384, 959, 10182}

वसु᳚‌म्¦न¦चि॒त्रऽम॑हस‌म्¦गृ॒णी॒षे॒¦वा॒म‌म्¦शेव᳚‌म्¦अति॑थि‌म्¦अ॒द्वि॒षे॒ण्य‌म् |
सः¦रा॒स॒ते॒¦शु॒रुधः॑¦वि॒श्वऽधा᳚यसः¦अ॒ग्निः¦होता᳚¦गृ॒हऽप॑तिः¦सु॒ऽवीर्य᳚‌म् ||

जु॒षा॒णो,अ॑ग्ने॒प्रति॑हर्यमे॒वचो॒विश्वा᳚निवि॒द्वान्‌व॒युना᳚निसुक्रतो |{वासिष्ठश्चित्रमहा | अग्निः | त्रिष्टुप्}

घृत॑निर्णि॒ग्ब्रह्म॑णेगा॒तुमेर॑य॒तव॑दे॒वा,अ॑जनय॒न्ननु᳚व्र॒तम् || {2/8}{10.122.2}{10.10.10.2}{8.7.5.2}{1385, 959, 10183}

जु॒षा॒णः¦अ॒ग्ने॒¦प्रति॑¦ह॒र्य॒¦मे॒¦वचः॑¦विश्वा᳚नि¦वि॒द्वान्¦व॒युना᳚नि¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो |
घृत॑ऽनिर्निक्¦ब्रह्म॑णे¦गा॒तु‌म्¦आ¦ई॒र॒य॒¦तव॑¦दे॒वाः¦अ॒ज॒न॒य॒न्¦अनु॑¦व्र॒त‌म् ||

स॒प्तधामा᳚निपरि॒यन्नम॑र्त्यो॒दाश॑द्दा॒शुषे᳚सु॒कृते᳚मामहस्व |{वासिष्ठश्चित्रमहा | अग्निः | त्रिष्टुप्}

सु॒वीरे᳚णर॒यिणा᳚ग्नेस्वा॒भुवा॒यस्त॒आन॑ट्स॒मिधा॒तंजु॑षस्व || {3/8}{10.122.3}{10.10.10.3}{8.7.5.3}{1386, 959, 10184}

स॒प्त¦धामा᳚नि¦प॒रि॒ऽयन्¦अम॑र्त्यः¦दाश॑त्¦दा॒शुषे᳚¦सु॒ऽकृते᳚¦म॒म॒ह॒स्व॒ |
सु॒ऽवीरे᳚ण¦र॒यिणा᳚¦अ॒ग्ने॒¦सु॒ऽआ॒भुवा᳚¦यः¦ते॒¦आन॑ट्¦स॒‌म्ऽ‌इधा᳚¦त‌म्¦जु॒ष॒स्व॒ ||

य॒ज्ञस्य॑के॒तुंप्र॑थ॒मंपु॒रोहि॑तंह॒विष्म᳚न्तईळतेस॒प्तवा॒जिन᳚म् |{वासिष्ठश्चित्रमहा | अग्निः | त्रिष्टुप्}

शृ॒ण्वन्त॑म॒ग्निंघृ॒तपृ॑ष्ठमु॒क्षणं᳚पृ॒णन्तं᳚दे॒वंपृ॑ण॒तेसु॒वीर्य᳚म् || {4/8}{10.122.4}{10.10.10.4}{8.7.5.4}{1387, 959, 10185}

य॒ज्ञस्य॑¦के॒तु‌म्¦प्र॒थ॒म‌म्¦पु॒रःऽहि॑त‌म्¦ह॒विष्म᳚न्तः¦ई॒ळ॒ते॒¦स॒प्त¦वा॒जिन᳚‌म् |
शृ॒ण्वन्त᳚‌म्¦अ॒ग्नि‌म्¦घृ॒तऽपृ॑ष्ठ‌म्¦उ॒क्षण᳚‌म्¦पृ॒णन्त᳚‌म्¦दे॒व‌म्¦पृ॒ण॒ते¦सु॒ऽवीर्य᳚‌म् ||

त्वंदू॒तःप्र॑थ॒मोवरे᳚ण्यः॒हू॒यमा᳚नो,अ॒मृता᳚यमत्स्व |{वासिष्ठश्चित्रमहा | अग्निः | त्रिष्टुप्}

त्वांम॑र्जयन्म॒रुतो᳚दा॒शुषो᳚गृ॒हेत्वांस्तोमे᳚भि॒र्भृग॑वो॒विरु॑रुचुः || {5/8}{10.122.5}{10.10.10.5}{8.7.5.5}{1388, 959, 10186}

त्व‌म्¦दू॒तः¦प्र॒थ॒मः¦वरे᳚ण्यः¦सः¦हू॒यमा᳚नः¦अ॒मृता᳚य¦म॒त्स्व॒ |
त्वा‌म्¦म॒र्ज॒य॒न्¦म॒रुतः॑¦दा॒शुषः॑¦गृ॒हे¦त्वा‌म्¦स्तोमे᳚भिः¦भृग॑वः¦वि¦रि॒रु॒चुः॒ ||

इषं᳚दु॒हन्‌त्सु॒दुघां᳚वि॒श्वधा᳚यसंयज्ञ॒प्रिये॒यज॑मानायसुक्रतो |{वासिष्ठश्चित्रमहा | अग्निः | जगती}

अग्ने᳚घृ॒तस्नु॒स्त्रिरृ॒तानि॒दीद्य॑द्व॒र्तिर्य॒ज्ञंप॑रि॒यन्‌त्सु॑क्रतूयसे || {6/8}{10.122.6}{10.10.10.6}{8.7.6.1}{1389, 959, 10187}

इष᳚‌म्¦दु॒हन्¦सु॒ऽदुघा᳚‌म्¦वि॒श्वऽधा᳚यस‌म्¦य॒ज्ञ॒ऽप्रिये᳚¦यज॑मानाय¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो |
अग्रे᳚¦घृ॒तऽस्नुः॑¦त्रिः¦ऋ॒तानि॑¦दीद्य॑त्¦व॒र्तिः¦य॒ज्ञ‌म्¦प॒रि॒ऽयन्¦सु॒क्र॒तु॒ऽय॒से॒ ||

त्वामिद॒स्या,उ॒षसो॒व्यु॑ष्टिषुदू॒तंकृ᳚ण्वा॒ना,अ॑यजन्त॒मानु॑षाः |{वासिष्ठश्चित्रमहा | अग्निः | जगती}

त्वांदे॒वाम॑ह॒याय्या᳚यवावृधु॒राज्य॑मग्नेनिमृ॒जन्तो᳚,अध्व॒रे || {7/8}{10.122.7}{10.10.10.7}{8.7.6.2}{1390, 959, 10188}

त्वा‌म्¦इत्¦अ॒स्याः¦उ॒षसः॑¦वि।औ᳚ष्टिषु¦दू॒त‌म्¦कृ॒ण्वा॒नाः¦अ॒य॒ज॒न्त॒¦मानु॑षाः |
त्वा‌म्¦दे॒वाः¦म॒ह॒याय्या᳚य¦व॒वृ॒धुः॒¦आज्य᳚‌म्¦अ॒ग्ने॒¦नि॒ऽमृ॒जन्तः॑¦अ॒ध्व॒रे ||

नित्वा॒वसि॑ष्ठा,अह्वन्तवा॒जिनं᳚गृ॒णन्तो᳚,अग्नेवि॒दथे᳚षुवे॒धसः॑ |{वासिष्ठश्चित्रमहा | अग्निः | जगती}

रा॒यस्पोषं॒यज॑मानेषुधारययू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {8/8}{10.122.8}{10.10.10.8}{8.7.6.3}{1391, 959, 10189}

नि¦त्वा॒¦वसि॑ष्ठाः¦अ॒ह्व॒न्त॒¦वा॒जिन᳚‌म्¦गृ॒णन्तः॑¦अ॒ग्ने॒¦वि॒दथे᳚षु¦वे॒धसः॑ |
रा॒यः¦पोष᳚‌म्¦यज॑मानेषु¦धा॒र॒य॒¦यू॒य‌म्¦पा॒त॒¦स्व॒स्तिऽभिः॑¦सदा᳚¦नः॒ ||

[123] अयमित्यष्टर्चस्यसूक्तस्य भार्गवोवेनोवेनस्त्रिष्टुप् |
अ॒यंवे॒नश्चो᳚दय॒त्‌पृश्नि॑गर्भा॒ज्योति॑र्जरायू॒रज॑सोवि॒माने᳚ |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

इ॒मम॒पांसं᳚ग॒मेसूर्य॑स्य॒शिशुं॒विप्रा᳚म॒तिभी᳚रिहन्ति || {1/8}{10.123.1}{10.10.11.1}{8.7.7.1}{1392, 960, 10190}

अ॒य‌म्¦वे॒नः¦चो॒द॒य॒त्¦पृश्नि॑ऽगर्भाः¦ज्योतिः॑ऽजरायुः¦रज॑सः¦वि॒ऽमाने᳚ |
इ॒म‌म्¦अ॒पा‌म्¦स॒‌म्ऽग॒मे¦सूर्य॑स्य¦शिशु᳚‌म्¦न¦विप्राः᳚¦म॒तिऽभिः॑¦रि॒ह॒न्ति॒ ||

स॒मु॒द्रादू॒र्मिमुदि॑यर्तिवे॒नोन॑भो॒जाःपृ॒ष्ठंह᳚र्य॒तस्य॑दर्शि |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

ऋ॒तस्य॒साना॒वधि॑वि॒ष्टपि॒भ्राट्स॑मा॒नंयोनि॑म॒भ्य॑नूषत॒व्राः || {2/8}{10.123.2}{10.10.11.2}{8.7.7.2}{1393, 960, 10191}

स॒मु॒द्रात्¦ऊ॒र्मि‌म्¦उत्¦इ॒य॒र्ति॒¦वे॒नः¦न॒भः॒ऽजाः¦पृ॒ष्ठ‌म्¦ह॒र्य॒तस्य॑¦द॒र्शि॒ |
ऋ॒तस्य॑¦सानौ᳚¦अधि॑¦वि॒ष्टपि॑¦भ्राट्¦स॒मा॒न‌म्¦योनि᳚‌म्¦अ॒भि¦अ॒नू॒ष॒त॒¦व्राः ||

स॒मा॒नंपू॒र्वीर॒भिवा᳚वशा॒नास्तिष्ठ᳚न्व॒त्सस्य॑मा॒तरः॒सनी᳚ळाः |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

ऋ॒तस्य॒साना॒वधि॑चक्रमा॒णारि॒हन्ति॒मध्वो᳚,अ॒मृत॑स्य॒वाणीः᳚ || {3/8}{10.123.3}{10.10.11.3}{8.7.7.3}{1394, 960, 10192}

स॒मा॒न‌म्¦पू॒र्वीः¦अ॒भि¦व॒व॒शा॒नाः¦तिष्ठ॑न्¦व॒त्सस्य॑¦मा॒तरः॑¦सऽनी᳚ळाः |
ऋ॒तस्य॑¦सानौ᳚¦अधि॑¦च॒क्र॒मा॒णाः¦रि॒हन्ति॑¦मध्वः॑¦अ॒मृत॑स्य¦वाणीः᳚ ||

जा॒नन्तो᳚रू॒पम॑कृपन्त॒विप्रा᳚मृ॒गस्य॒घोषं᳚महि॒षस्य॒हिग्मन् |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

ऋ॒तेन॒यन्तो॒,अधि॒सिन्धु॑मस्थुर्वि॒दद्ग᳚न्ध॒र्वो,अ॒मृता᳚नि॒नाम॑ || {4/8}{10.123.4}{10.10.11.4}{8.7.7.4}{1395, 960, 10193}

जा॒नन्तः॑¦रू॒प‌म्¦अ॒कृ॒प॒न्त॒¦विप्राः᳚¦मृ॒गस्य॑¦घोष᳚‌म्¦म॒हि॒षस्य॑¦हि¦ग्मन् |
ऋ॒तेन॑¦यन्तः॑¦अधि॑¦सिन्धु᳚‌म्¦अ॒स्थुः॒¦वि॒दत्¦ग॒न्ध॒र्वः¦अ॒मृता᳚नि¦नाम॑ ||

अ॒प्स॒राजा॒रमु॑पसिष्मिया॒णायोषा᳚बिभर्तिपर॒मेव्यो᳚मन् |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

चर॑त्प्रि॒यस्य॒योनि॑षुप्रि॒यःसन्‌त्सीद॑त्प॒क्षेहि॑र॒ण्यये॒वे॒नः || {5/8}{10.123.5}{10.10.11.5}{8.7.7.5}{1396, 960, 10194}

अ॒प्स॒राः¦जा॒र‌म्¦उ॒प॒ऽसि॒ष्मि॒या॒णा¦योषा᳚¦बि॒भ॒र्ति॒¦प॒र॒मे¦विऽओ᳚मन् |
चर॑त्¦प्रि॒यस्य॑¦योनि॑षु¦प्रि॒यः¦सन्¦सीद॑त्¦प॒क्षे¦हि॒र॒ण्यये᳚¦सः¦वे॒नः ||

नाके᳚सुप॒र्णमुप॒यत्‌पत᳚न्तं¦हृ॒दावेन᳚न्तो,अ॒भ्यच॑क्षतत्वा |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

हिर᳚ण्यपक्षं॒वरु॑णस्यदू॒तं¦य॒मस्य॒योनौ᳚शकु॒नंभु॑र॒ण्युम् || {6/8}{10.123.6}{10.10.11.6}{8.7.8.1}{1397, 960, 10195}

नाके᳚¦सु॒ऽप॒र्ण‌म्¦उप॑¦यत्¦पत᳚न्त‌म्¦हृ॒दा¦वेन᳚न्तः¦अ॒भि¦अच॑क्षत¦त्वा॒ |
हिर᳚ण्यऽपक्ष‌म्¦वरु॑णस्य¦दू॒त‌म्¦य॒मस्य॑¦योनौ᳚¦श॒कु॒न‌म्¦भु॒र॒ण्यु‌म् ||

ऊ॒र्ध्वोग᳚न्ध॒र्वो,अधि॒नाके᳚,अस्थात्प्र॒त्यङ्चि॒त्राबिभ्र॑द॒स्यायु॑धानि |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

वसा᳚नो॒,अत्कं᳚सुर॒भिंदृ॒शेकंस्व१॑(अ॒)र्णनाम॑जनतप्रि॒याणि॑ || {7/8}{10.123.7}{10.10.11.7}{8.7.8.2}{1398, 960, 10196}

ऊ॒र्ध्वः¦ग॒न्ध॒र्वः¦अधि॑¦नाके᳚¦अ॒स्था॒त्¦प्र॒त्यङ्¦चि॒त्रा¦बिभ्र॑त्¦अ॒स्य॒¦आयु॑धानि |
वसा᳚नः¦अत्क᳚‌म्¦सु॒ऽर॒भि‌म्¦दृ॒शे¦क‌म्¦स्वः॑¦न¦नाम॑¦ज॒न॒त॒¦प्रि॒याणि॑ ||

द्र॒प्सःस॑मु॒द्रम॒भियज्जिगा᳚ति॒पश्य॒न्‌गृध्र॑स्य॒चक्ष॑सा॒विध᳚र्मन् |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

भा॒नुःशु॒क्रेण॑शो॒चिषा᳚चका॒नस्तृ॒तीये᳚चक्रे॒रज॑सिप्रि॒याणि॑ || {8/8}{10.123.8}{10.10.11.8}{8.7.8.3}{1399, 960, 10197}

द्र॒प्सः¦स॒मु॒द्र‌म्¦अ॒भि¦यत्¦जिगा᳚ति¦पश्य॑न्¦गृध्र॑स्य¦चक्ष॑सा¦विऽध᳚र्मन् |
भा॒नुः¦शु॒क्रेण॑¦शो॒चिषा᳚¦च॒का॒नः¦तृ॒तीये᳚¦च॒क्रे॒¦रज॑सि¦प्रि॒याणि॑ ||

[124] इमंनइति नवर्चस्य सूक्तस्याद्यायाः पंचम्यादिचतसृणांचाग्निवरुणसोमाऋषयः द्वितीयादितिसृणामग्निरृषिः आद्यानांचतसृणामग्निः पंचमीसप्तम्यष्टमीनांवरुणः षष्ठ्याः सोमो नवम्याः सोमेंद्रौत्रिष्टुप् सप्तमीजगती |
इ॒मंनो᳚,अग्न॒उप॑य॒ज्ञमेहि॒पञ्च॑यामंत्रि॒वृतं᳚स॒प्तत᳚न्तुम् |{अग्नि वरुण सोमाः | अग्निः | त्रिष्टुप्}

असो᳚हव्य॒वाळु॒तनः॑पुरो॒गाज्योगे॒वदी॒र्घंतम॒आश॑यिष्ठाः || {1/9}{10.124.1}{10.10.12.1}{8.7.9.1}{1400, 961, 10198}

इ॒म‌म्¦नः॒¦अ॒ग्ने॒¦उप॑¦य॒ज्ञ‌म्¦आ¦इ॒हि॒¦पंच॑ऽयाम‌म्¦त्रि॒ऽवृत᳚‌म्¦स॒प्तऽत᳚न्तु‌म् |
असः॑¦ह॒व्य॒ऽवाट्¦उ॒त¦नः॒¦पु॒रः॒ऽगाः¦ज्योक्¦ए॒व¦दी॒र्घ‌म्¦तमः॑¦आ¦अ॒श॒यि॒ष्ठाः॒ ||

अदे᳚वाद्दे॒वःप्र॒चता॒गुहा॒यन्‌प्र॒पश्य॑मानो,अमृत॒त्वमे᳚मि |{अग्निः | अग्निः | त्रिष्टुप्}

शि॒वंयत्सन्त॒मशि॑वो॒जहा᳚मि॒स्वात्स॒ख्यादर॑णीं॒नाभि॑मेमि || {2/9}{10.124.2}{10.10.12.2}{8.7.9.2}{1401, 961, 10199}

अदे᳚वात्¦दे॒वः¦प्र॒ऽचता᳚¦गुहा᳚¦यन्¦प्र॒ऽपश्य॑मानः¦अ॒मृ॒त॒ऽत्व‌म्¦ए॒मि॒ |
शि॒व‌म्¦यत्¦सन्त᳚‌म्¦अशि॑वः¦जहा᳚मि¦स्वात्¦स॒ख्यात्¦अर॑णी‌म्¦नाभि᳚‌म्¦ए॒मि॒ ||

पश्य᳚न्न॒न्यस्या॒,अति॑थिंव॒याया᳚ऋ॒तस्य॒धाम॒विमि॑मेपु॒रूणि॑ |{अग्निः | अग्निः | त्रिष्टुप्}

शंसा᳚मिपि॒त्रे,असु॑राय॒शेव॑मयज्ञि॒याद्‌य॒ज्ञियं᳚भा॒गमे᳚मि || {3/9}{10.124.3}{10.10.12.3}{8.7.9.3}{1402, 961, 10200}

पश्य॑न्¦अ॒न्यस्याः᳚¦अति॑थि‌म्¦व॒यायाः᳚¦ऋ॒तस्य॑¦धाम॑¦वि¦मि॒मे॒¦पु॒रूणि॑ |
शंसा᳚मि¦पि॒त्रे¦असु॑राय¦शेव᳚‌म्¦अ॒य॒ज्ञि॒यात्¦य॒ज्ञिय᳚‌म्¦भा॒ग‌म्¦ए॒मि॒ ||

ब॒ह्वीःसमा᳚,अकरम॒न्तर॑स्मि॒न्निन्द्रं᳚वृणा॒नःपि॒तरं᳚जहामि |{अग्निः | अग्निः | त्रिष्टुप्}

अ॒ग्निःसोमो॒वरु॑ण॒स्तेच्य॑वन्तेप॒र्याव॑र्द्रा॒ष्ट्रंतद॑वाम्या॒यन् || {4/9}{10.124.4}{10.10.12.4}{8.7.9.4}{1403, 961, 10201}

ब॒ह्वीः¦समाः᳚¦अ॒क॒र॒‌म्¦अ॒न्तः¦अ॒स्मि॒न्¦इन्द्र᳚‌म्¦वृ॒णा॒नः¦पि॒तर᳚‌म्¦ज॒हा॒मि॒ |
अ॒ग्निः¦सोमः॑¦वरु॑णः¦ते¦च्य॒व॒न्ते॒¦प॒रि॒ऽआव॑र्त्¦रा॒ष्ट्र‌म्¦तत्¦अ॒वा॒मि॒¦आ॒ऽयन् ||

निर्मा᳚या,उ॒त्ये,असु॑रा,अभूव॒न्त्वंच॑मावरुणका॒मया᳚से |{अग्नि वरुण सोमाः | वरुणः | त्रिष्टुप्}

ऋ॒तेन॑राज॒न्ननृ॑तंविवि॒ञ्चन्मम॑रा॒ष्ट्रस्याधि॑पत्य॒मेहि॑ || {5/9}{10.124.5}{10.10.12.5}{8.7.9.5}{1404, 961, 10202}

निःऽमा᳚याः¦ऊँ॒ इति॑¦त्ये¦असु॑राः¦अ॒भू॒व॒न्¦त्व‌म्¦च॒¦मा॒¦व॒रु॒ण॒¦का॒मया᳚से |
ऋ॒तेन॑¦रा॒ज॒न्¦अनृ॑त‌म्¦वि॒ऽविं॒चन्¦मम॑¦रा॒ष्ट्रस्य॑¦अधि॑ऽपत्य‌म्¦आ¦इ॒हि॒ ||

इ॒दंस्व॑रि॒दमिदा᳚सवा॒मम॒यंप्र॑का॒शउ॒र्व१॑(अ॒)न्तरि॑क्षम् |{अग्नि वरुण सोमाः | सोमः | त्रिष्टुप्}

हना᳚ववृ॒त्रंनि॒रेहि॑सोमह॒विष्ट्वा॒सन्तं᳚ह॒विषा᳚यजाम || {6/9}{10.124.6}{10.10.12.6}{8.7.10.1}{1405, 961, 10203}

इ॒द‌म्¦स्वः॑¦इ॒द‌म्¦इत्¦आ॒स॒¦वा॒म‌म्¦अ॒य‌म्¦प्र॒ऽका॒शः¦उ॒रु¦अ॒न्तरि॑क्ष‌म् |
हना᳚व¦वृ॒त्र‌म्¦निः॒ऽएहि॑¦सो॒म॒¦ह॒विः¦त्वा॒¦सन्त᳚‌म्¦ह॒विषा᳚¦य॒जा॒म॒ ||

क॒विःक॑वि॒त्वादि॒विरू॒पमास॑ज॒दप्र॑भूती॒वरु॑णो॒निर॒पःसृ॑जत् |{अग्नि वरुण सोमाः | वरुणः | त्रिष्टुप्}

क्षेमं᳚कृण्वा॒नाजन॑यो॒सिन्ध॑व॒स्ता,अ॑स्य॒वर्णं॒शुच॑योभरिभ्रति || {7/9}{10.124.7}{10.10.12.7}{8.7.10.2}{1406, 961, 10204}

क॒विः¦क॒वि॒ऽत्वा¦दि॒वि¦रू॒प‌म्¦आ¦अ॒स॒ज॒त्¦अप्र॑ऽभूती¦वरु॑णः¦निः¦अ॒पः¦सृ॒ज॒त् |
क्षेम᳚‌म्¦कृ॒ण्वा॒नाः¦जन॑यः¦न¦सिन्ध॑वः¦ताः¦अ॒स्य॒¦वर्ण᳚‌म्¦शुच॑यः¦भ॒रि॒भ्र॒ति॒ ||

ता,अ॑स्य॒ज्येष्ठ॑मिन्द्रि॒यंस॑चन्ते॒ता,ई॒माक्षे᳚तिस्व॒धया॒मद᳚न्तीः |{अग्नि वरुण सोमाः | वरुणः | त्रिष्टुप्}

ता,ईं॒विशो॒राजा᳚नंवृणा॒नाबी᳚भ॒त्सुवो॒,अप॑वृ॒त्राद॑तिष्ठन् || {8/9}{10.124.8}{10.10.12.8}{8.7.10.3}{1407, 961, 10205}

ताः¦अ॒स्य॒¦ज्येष्ठ᳚‌म्¦इ॒न्द्रि॒य‌म्¦स॒च॒न्ते॒¦ताः¦ई॒‌म्¦आ¦क्षे॒ति॒¦स्व॒धया᳚¦मद᳚न्तीः |
ताः¦ई॒‌म्¦विशः॑¦न¦राजा᳚न‌म्¦वृ॒णा॒नाः¦बी॒भ॒त्सुवः॑¦अप॑¦वृ॒त्रात्¦अ॒ति॒ष्ठ॒न् ||

बी॒भ॒त्सूनां᳚स॒युजं᳚हं॒समा᳚हुर॒पांदि॒व्यानां᳚स॒ख्येचर᳚न्तम् |{अग्नि वरुण सोमाः | सोमेंद्रौ | त्रिष्टुप्}

अ॒नु॒ष्टुभ॒मनु॑चर्चू॒र्यमा᳚ण॒मिन्द्रं॒निचि॑क्युःक॒वयो᳚मनी॒षा || {9/9}{10.124.9}{10.10.12.9}{8.7.10.4}{1408, 961, 10206}

बी॒भ॒त्सूना᳚‌म्¦स॒ऽयुज᳚‌म्¦हं॒स‌म्¦आ॒हुः॒¦अ॒पा‌म्¦दि॒व्याना᳚‌म्¦स॒ख्ये¦चर᳚न्त‌म् |
अ॒नु॒ऽस्तुभ᳚‌म्¦अनु॑¦च॒र्चू॒र्यमा᳚ण‌म्¦इन्द्र᳚‌म्¦नि¦चि॒क्युः॒¦क॒वयः॑¦म॒नी॒षा ||

[125] अहंरुद्रेभिरित्यष्टर्चस्य सूक्तस्यांभृणिर्वागांभृणिर्वाक्‌त्रिष्टुप्‌द्वितीयाजगती |
अ॒हंरु॒द्रेभि॒र्वसु॑भिश्चरा¦म्य॒हमा᳚दि॒त्यैरु॒तवि॒श्वदे᳚वैः |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

अ॒हंमि॒त्रावरु॑णो॒भाबि॑भ¦र्म्य॒हमि᳚न्द्रा॒ग्नी,अ॒हम॒श्विनो॒भा || {1/8}{10.125.1}{10.10.13.1}{8.7.11.1}{1409, 962, 10207}

अ॒ह‌म्¦रु॒द्रेभिः॑¦वसु॑ऽभिः¦च॒रा॒मि॒¦अ॒ह‌म्¦आ॒दि॒त्यैः¦उ॒त¦वि॒श्वऽदे᳚वैः |
अ॒ह‌म्¦मि॒त्रावरु॑णा¦उ॒भा¦बि॒भ॒र्मि॒¦अ॒ह‌म्¦इ॒न्द्रा॒ग्नी इति॑¦अ॒ह‌म्¦अ॒श्विना᳚¦उ॒भा ||

अ॒हंसोम॑माह॒नसं᳚बिभ¦र्म्य॒हंत्वष्टा᳚रमु॒तपू॒षणं॒भग᳚म् |{आंभृणिर्वागांभृणि | वाक् | जगती}

अ॒हंद॑धामि॒द्रवि॑णंह॒विष्म॑ते¦सुप्रा॒व्ये॒३॑(ए॒)यज॑मानायसुन्व॒ते || {2/8}{10.125.2}{10.10.13.2}{8.7.11.2}{1410, 962, 10208}

अ॒ह‌म्¦सोम᳚‌म्¦आ॒ह॒नस᳚‌म्¦बि॒भ॒र्मि॒¦अ॒ह‌म्¦त्वष्टा᳚र‌म्¦उ॒त¦पू॒षण᳚‌म्¦भग᳚‌म् |
अ॒ह‌म्¦द॒धा॒मि॒¦द्रवि॑ण‌म्¦ह॒विष्म॑ते¦सु॒प्र॒।आ॒व्ये᳚¦यज॑मानाय¦सु॒न्व॒ते ||

अ॒हंराष्ट्री᳚सं॒गम॑नी॒वसू᳚नां¦चिकि॒तुषी᳚प्रथ॒माय॒ज्ञिया᳚नाम् |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

तांमा᳚दे॒वाव्य॑दधुःपुरु॒त्रा¦भूरि॑स्थात्रां॒भूर्या᳚वे॒शय᳚न्तीम् || {3/8}{10.125.3}{10.10.13.3}{8.7.11.3}{1411, 962, 10209}

अ॒ह‌म्¦राष्ट्री᳚¦स॒‌म्ऽगम॑नी¦वसू᳚ना‌म्¦चि॒कि॒तुषी᳚¦प्र॒थ॒मा¦य॒ज्ञिया᳚ना‌म् |
ता‌म्¦मा॒¦दे॒वाः¦वि¦अ॒द॒धुः॒¦पु॒रु॒ऽत्रा¦भूरि॑ऽस्थात्रा‌म्¦भूरि॑¦आ॒ऽवे॒शय᳚न्ती‌म् ||

मया॒सो,अन्न॑मत्ति॒योवि॒पश्य॑ति॒¦यःप्राणि॑ति॒ईं᳚शृ॒णोत्यु॒क्तम् |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

अ॒म॒न्तवो॒मांउप॑क्षियन्ति¦श्रु॒धिश्रु॑तश्रद्धि॒वंते᳚वदामि || {4/8}{10.125.4}{10.10.13.4}{8.7.11.4}{1412, 962, 10210}

मया᳚¦सः¦अन्न᳚‌म्¦अ॒त्ति॒¦यः¦वि॒ऽपश्य॑ति¦यः¦प्राणि॑ति¦यः¦ई॒‌म्¦शृ॒णोति॑¦उ॒क्त‌म् |
अ॒म॒न्तवः॑¦मा‌म्¦ते¦उप॑¦क्षि॒य॒न्ति॒¦श्रु॒धि¦श्रु॒त॒¦श्र॒द्धि॒ऽव‌म्¦ते॒¦व॒दा॒मि॒ ||

अ॒हमे॒वस्व॒यमि॒दंव॑दामि॒¦जुष्टं᳚दे॒वेभि॑रु॒तमानु॑षेभिः |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

यंका॒मये॒तंत॑मु॒ग्रंकृ॑णोमि॒¦तंब्र॒ह्माणं॒तमृषिं॒तंसु॑मे॒धाम् || {5/8}{10.125.5}{10.10.13.5}{8.7.11.5}{1413, 962, 10211}

अ॒ह‌म्¦ए॒व¦स्व॒य‌म्¦इ॒द‌म्¦व॒दा॒मि॒¦जुष्ट᳚‌म्¦दे॒वेभिः॑¦उ॒त¦मानु॑षेभिः |
य‌म्¦का॒मये᳚¦त‌म्ऽत᳚‌म्¦उ॒ग्र‌म्¦कृ॒णो॒मि॒¦त‌म्¦ब्र॒ह्माण᳚‌म्¦त‌म्¦ऋषि᳚‌म्¦त‌म्¦सु॒ऽमे॒धा‌म् ||

अ॒हंरु॒द्राय॒धनु॒रात॑नोमि¦ब्रह्म॒द्विषे॒शर॑वे॒हन्त॒वा,उ॑ |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

अ॒हंजना᳚यस॒मदं᳚कृणो¦म्य॒हंद्यावा᳚पृथि॒वी,वि॑वेश || {6/8}{10.125.6}{10.10.13.6}{8.7.12.1}{1414, 962, 10212}

अ॒ह‌म्¦रु॒द्राय॑¦धनुः॑¦आ¦त॒नो॒मि॒¦ब्र॒ह्म॒ऽद्विषे᳚¦शर॑वे¦हन्त॒वै¦ऊँ॒ इति॑ |
अ॒ह‌म्¦जना᳚य¦स॒ऽमद᳚‌म्¦कृ॒णो॒मि॒¦अ॒ह‌म्¦द्यावा᳚पृथि॒वी इति॑¦आ¦वि॒वे॒श॒ ||

अ॒हंसु॑वेपि॒तर॑मस्यमू॒र्धन्¦मम॒योनि॑र॒प्स्व१॑(अ॒)न्तःस॑मु॒द्रे |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

ततो॒विति॑ष्ठे॒भुव॒नानु॒विश्वो॒¦तामूंद्यांव॒र्ष्मणोप॑स्पृशामि || {7/8}{10.125.7}{10.10.13.7}{8.7.12.2}{1415, 962, 10213}

अ॒ह‌म्¦सु॒वे॒¦पि॒तर᳚‌म्¦अ॒स्य॒¦मू॒र्धन्¦मम॑¦योनिः॑¦अ॒प्ऽसु¦अ॒न्तरिति॑¦स॒मु॒द्रे |
ततः॑¦वि¦ति॒ष्ठे॒¦भुव॑ना¦अनु॑¦विश्वा᳚¦उ॒त¦अ॒मू‌म्¦द्या‌म्¦व॒र्ष्मणा᳚¦उप॑¦स्पृ॒शा॒मि॒ ||

अ॒हमे॒ववात॑इव॒प्रवा᳚म्या॒¦रभ॑माणा॒भुव॑नानि॒विश्वा᳚ |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

प॒रोदि॒वाप॒रए॒नापृ॑थि॒व्यै¦ताव॑तीमहि॒नासंब॑भूव || {8/8}{10.125.8}{10.10.13.8}{8.7.12.3}{1416, 962, 10214}

अ॒ह‌म्¦ए॒व¦वातः॑ऽ‌इव¦प्र¦वा॒मि॒¦आ॒ऽरभ॑माणा¦भुव॑नानि¦विश्वा᳚ |
प॒रः¦दि॒वा¦प॒रः¦ए॒ना¦पृ॒थि॒व्या¦ए॒ताव॑ती¦म॒हि॒ना¦स‌म्¦ब॒भू॒व॒ ||

[126] नतमित्यष्टर्चस्य सूक्तस्य शैलूषिः कुल्मलबर्हिषो विश्वेदेवाउपरिष्टाद्बृहत्यंत्यात्रिष्टुप् | (अत्रवामदेव्यहोमुक्पाक्षिकऋषिः । कुल्मलबर्हिषइत्यदंतं प्रातिपदिकं) |
तमंहो॒दु॑रि॒तं¦देवा᳚सो,अष्ट॒मर्त्य᳚म् |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती}

स॒जोष॑सो॒यम᳚र्य॒मा¦मि॒त्रोनय᳚न्ति॒वरु॑णो॒,अति॒द्विषः॑ || {1/8}{10.126.1}{10.10.14.1}{8.7.13.1}{1417, 963, 10215}

न¦त‌म्¦अंहः॑¦न¦दुः॒ऽ‌इ॒त‌म्¦देवा᳚सः¦अष्ट॑¦मर्त्य᳚‌म् |
स॒ऽजोष॑सः¦य‌म्¦अ॒र्य॒मा¦मि॒त्रः¦नय᳚न्ति¦वरु॑णः¦अति॑¦द्विषः॑ ||

तद्धिव॒यंवृ॑णी॒महे॒¦वरु॑ण॒मित्रार्य॑मन् |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती}

येना॒निरंह॑सोयू॒यं¦पा॒थने॒थाच॒मर्त्य॒मति॒द्विषः॑ || {2/8}{10.126.2}{10.10.14.2}{8.7.13.2}{1418, 963, 10216}

तत्¦हि¦व॒य‌म्¦वृ॒णी॒महे᳚¦वरु॑ण¦मित्र॑¦अर्य॑मन् |
येन॑¦निः¦अंह॑सः¦यू॒य‌म्¦पा॒थ¦ने॒थ¦च॒¦मर्त्य᳚‌म्¦अति॑¦द्विषः॑ ||

तेनू॒नंनो॒ऽयमू॒तये॒¦वरु॑णोमि॒त्रो,अ᳚र्य॒मा |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती}

नयि॑ष्ठा,नोने॒षणि॒¦पर्षि॑ष्ठा,नःप॒र्षण्यति॒द्विषः॑ || {3/8}{10.126.3}{10.10.14.3}{8.7.13.3}{1419, 963, 10217}

ते¦नू॒न‌म्¦नः॒¦अ॒य‌म्¦ऊ॒तये᳚¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा |
नयि॑ष्ठाः¦ऊँ॒ इति॑¦नः॒¦ने॒षणि॑¦पर्षि॑ष्ठाः¦ऊँ॒ इति॑¦नः॒¦प॒र्षणि॑¦अति॑¦द्विषः॑ ||

यू॒यंविश्वं॒परि॑पाथ॒¦वरु॑णोमि॒त्रो,अ᳚र्य॒मा |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती}

यु॒ष्माकं॒शर्म॑णिप्रि॒ये¦स्याम॑सुप्रणीत॒योऽति॒द्विषः॑ || {4/8}{10.126.4}{10.10.14.4}{8.7.13.4}{1420, 963, 10218}

यू॒य‌म्¦विश्व᳚‌म्¦परि॑¦पा॒थ॒¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा |
यु॒ष्माक᳚‌म्¦शर्म॑णि¦प्रि॒ये¦स्याम॑¦सु॒ऽप्र॒नी॒त॒यः॒¦अति॑¦द्विषः॑ ||

आ॒दि॒त्यासो॒,अति॒स्रिधो॒¦वरु॑णोमि॒त्रो,अ᳚र्य॒मा |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती}

उ॒ग्रंम॒रुद्भी᳚रु॒द्रंहु॑वे॒मे¦न्द्र॑म॒ग्निंस्व॒स्तयेऽति॒द्विषः॑ || {5/8}{10.126.5}{10.10.14.5}{8.7.13.5}{1421, 963, 10219}

आ॒दि॒त्यासः॑¦अति॑¦स्रिधः॑¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा |
उ॒ग्र‌म्¦म॒रुत्ऽभिः॑¦रु॒द्र‌म्¦हु॒वे॒म॒¦इन्द्र᳚‌म्¦अ॒ग्नि‌म्¦स्व॒स्तये᳚¦अति॑¦द्विषः॑ ||

नेता᳚रऊ॒षुण॑स्ति॒रो¦वरु॑णोमि॒त्रो,अ᳚र्य॒मा |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती}

अति॒विश्वा᳚निदुरि॒ता¦राजा᳚नश्चर्षणी॒नामति॒द्विषः॑ || {6/8}{10.126.6}{10.10.14.6}{8.7.13.6}{1422, 963, 10220}

नेता᳚रः¦ऊँ॒ इति॑¦सु¦नः॒¦ति॒रः¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा |
अति॑¦विश्वा᳚नि¦दुः॒ऽ‌इ॒ता¦राजा᳚नः¦च॒र्ष॒णी॒ना‌म्¦अति॑¦द्विषः॑ ||

शु॒नम॒स्मभ्य॑मू॒तये॒¦वरु॑णोमि॒त्रो,अ᳚र्य॒मा |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती}

शर्म॑यच्छन्तुस॒प्रथ॑¦आदि॒त्यासो॒यदीम॑हे॒,अति॒द्विषः॑ || {7/8}{10.126.7}{10.10.14.7}{8.7.13.7}{1423, 963, 10221}

शु॒न‌म्¦अ॒स्मभ्य᳚‌म्¦ऊ॒तये᳚¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा |
शर्म॑¦य॒च्छ॒न्तु॒¦स॒ऽप्रथः॑¦आ॒दि॒त्यासः॑¦यत्¦ईम॑हे¦अति॑¦द्विषः॑ ||

यथा᳚ह॒त्यद्व॑सवोगौ॒र्यं᳚चित्¦प॒दिषि॒ताममु᳚ञ्चतायजत्राः |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | त्रिष्टुप्}

ए॒वोष्व१॑(अ॒)स्मन्मु᳚ञ्चता॒व्यंहः॒¦प्रता᳚र्यग्नेप्रत॒रंन॒आयुः॑ || {8/8}{10.126.8}{10.10.14.8}{8.7.13.8}{1424, 963, 10222}

यथा᳚¦ह॒¦त्यत्¦व॒स॒वः॒¦गौ॒र्य᳚‌म्¦चि॒त्¦प॒दि¦सि॒ता‌म्¦अमुं᳚चत¦य॒ज॒त्राः॒ |
ए॒वो इति॑¦सु¦अ॒स्मत्¦मुं॒च॒त॒¦वि¦अंहः॑¦प्र¦ता॒रि॒¦अ॒ग्ने॒¦प्र॒ऽत॒र‌म्¦नः॒¦आयुः॑ ||

[127] रात्रीत्यष्टर्चस्य सूक्तस्य सौभरः कुशिकोरात्रिर्गायत्री (अत्रभारद्वाजीरात्रिऋषिकापाक्षिकी) |
रात्री॒व्य॑ख्यदाय॒तीपु॑रु॒त्रादे॒व्य१॑(अ॒)क्षभिः॑ |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

विश्वा॒,अधि॒श्रियो᳚ऽधित || {1/8}{10.127.1}{10.10.15.1}{8.7.14.1}{1425, 964, 10223}

रात्री᳚¦वि¦अ॒ख्य॒त्¦आ॒ऽय॒ती¦पु॒रु॒ऽत्रा¦दे॒वी¦अ॒क्षऽभिः॑ | विश्वाः᳚¦अधि॑¦श्रियः॑¦अ॒धि॒त॒ ||

ओर्व॑प्रा॒,अम॑र्त्यानि॒वतो᳚दे॒व्यु१॑(उ॒)द्वतः॑ |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

ज्योति॑षाबाधते॒तमः॑ || {2/8}{10.127.2}{10.10.15.2}{8.7.14.2}{1426, 964, 10224}

आ¦उ॒रु¦अ॒प्राः॒¦अम॑र्त्या¦नि॒ऽवतः॑¦दे॒वी¦उ॒त्ऽवतः॑ | ज्योति॑षा¦बा॒ध॒ते॒¦तमः॑ ||

निरु॒स्वसा᳚रमस्कृतो॒षसं᳚दे॒व्या᳚य॒ती |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

अपेदु॑हासते॒तमः॑ || {3/8}{10.127.3}{10.10.15.3}{8.7.14.3}{1427, 964, 10225}

निः¦ऊँ॒ इति॑¦स्वसा᳚र‌म्¦अ॒कृ॒त॒¦उ॒षस᳚‌म्¦दे॒वी¦आ॒ऽय॒ती | अप॑¦इत्¦ऊँ॒ इति॑¦हा॒स॒ते॒¦तमः॑ ||

सानो᳚,अ॒द्ययस्या᳚व॒यंनिते॒याम॒न्नवि॑क्ष्महि |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

वृ॒क्षेव॑स॒तिंवयः॑ || {4/8}{10.127.4}{10.10.15.4}{8.7.14.4}{1428, 964, 10226}

सा¦नः॒¦अ॒द्य¦यस्याः᳚¦व॒य‌म्¦नि¦ते॒¦याम॑न्¦अवि॑क्ष्महि | वृ॒क्षे¦न¦व॒स॒ति‌म्¦वयः॑ ||

निग्रामा᳚सो,अविक्षत॒निप॒द्वन्तो॒निप॒क्षिणः॑ |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

निश्ये॒नास॑श्चिद॒र्थिनः॑ || {5/8}{10.127.5}{10.10.15.5}{8.7.14.5}{1429, 964, 10227}

नि¦ग्रामा᳚सः¦अ॒वि॒क्ष॒त॒¦नि¦प॒त्ऽवन्तः॑¦नि¦प॒क्षिणः॑ | नि¦श्ये॒नासः॑¦चि॒त्¦अ॒र्थिनः॑ ||

या॒वया᳚वृ॒क्य१॑(अं॒)वृकं᳚य॒वय॑स्ते॒नमू᳚र्म्ये |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

अथा᳚नःसु॒तरा᳚भव || {6/8}{10.127.6}{10.10.15.6}{8.7.14.6}{1430, 964, 10228}

य॒वय॑¦वृ॒क्य᳚‌म्¦वृक᳚‌म्¦य॒वय॑¦स्ते॒न‌म्¦ऊ॒र्म्ये॒ | अथ॑¦नः॒¦सु॒ऽतरा᳚¦भ॒व॒ ||

उप॑मा॒पेपि॑श॒त्तमः॑कृ॒ष्णंव्य॑क्तमस्थित |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

उष॑ऋ॒णेव॑यातय || {7/8}{10.127.7}{10.10.15.7}{8.7.14.7}{1431, 964, 10229}

उप॑¦मा॒¦पेपि॑शत्¦तमः॑¦कृ॒ष्ण‌म्¦वि।आ॑क्त‌म्¦अ॒स्थि॒त॒ | उषः॑¦ऋ॒णाऽ‌इ᳚व¦या॒त॒य॒ ||

उप॑ते॒गा,इ॒वाक॑रंवृणी॒ष्वदु॑हितर्दिवः |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

रात्रि॒स्तोमं॒जि॒ग्युषे᳚ || {8/8}{10.127.8}{10.10.15.8}{8.7.14.8}{1432, 964, 10230}

उप॑¦ते॒¦गाःऽ‌इ᳚व¦आ¦अ॒क॒र॒‌म्¦वृ॒णी॒ष्व¦दु॒हि॒तः॒¦दि॒वः॒ | रात्रि॑¦स्तोम᳚‌म्¦न¦जि॒ग्युषे᳚ ||

[128] ममाग्नइति नवर्चस्य सूक्तस्यांगिरसोविहव्यो विश्वेदेवास्त्रिष्टुबंत्याजगती |
ममा᳚ग्ने॒वर्चो᳚विह॒वेष्व॑स्तुव॒यंत्वेन्धा᳚नास्त॒न्वं᳚पुषेम |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

मह्यं᳚नमन्तांप्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒पृत॑नाजयेम || {1/9}{10.128.1}{10.10.16.1}{8.7.15.1}{1433, 965, 10231}

मम॑¦अ॒ग्ने॒¦वर्चः॑¦वि॒ऽह॒वेषु॑¦अ॒स्तु॒¦व॒य‌म्¦त्वा॒¦इन्धा᳚नाः¦त॒न्व᳚‌म्¦पु॒षे॒म॒ |
मह्य᳚‌म्¦न॒म॒न्ता॒‌म्¦प्र॒ऽदिशः॑¦चत॑स्रः¦त्वया᳚¦अधि॑।आक्षेण¦पृत॑नाः¦ज॒ये॒म॒ ||

मम॑दे॒वावि॑ह॒वेस᳚न्तु॒सर्व॒इन्द्र॑वन्तोम॒रुतो॒विष्णु॑र॒ग्निः |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

ममा॒न्तरि॑क्षमु॒रुलो᳚कमस्तु॒मह्यं॒वातः॑पवतां॒कामे᳚,अ॒स्मिन् || {2/9}{10.128.2}{10.10.16.2}{8.7.15.2}{1434, 965, 10232}

मम॑¦दे॒वाः¦वि॒ऽह॒वे¦स॒न्तु॒¦सर्वे᳚¦इन्द्र॑ऽवन्तः¦म॒रुतः॑¦विष्णुः॑¦अ॒ग्निः |
मम॑¦अ॒न्तरि॑क्ष‌म्¦उ॒रुऽलो᳚क‌म्¦अ॒स्तु॒¦मह्य᳚‌म्¦वातः॑¦प॒व॒ता॒‌म्¦कामे᳚¦अ॒स्मिन् ||

मयि॑दे॒वाद्रवि॑ण॒माय॑जन्तां॒मय्या॒शीर॑स्तु॒मयि॑दे॒वहू᳚तिः |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

दैव्या॒होता᳚रोवनुषन्त॒पूर्वेऽरि॑ष्टाःस्यामत॒न्वा᳚सु॒वीराः᳚ || {3/9}{10.128.3}{10.10.16.3}{8.7.15.3}{1435, 965, 10233}

मयि॑¦दे॒वाः¦द्रवि॑ण‌म्¦आ¦य॒ज॒न्ता॒‌म्¦मयि॑¦आ॒ऽशीः¦अ॒स्तु॒¦मयि॑¦दे॒वऽहू᳚तिः |
दैव्याः᳚¦होता᳚रः¦व॒नु॒ष॒न्त॒¦पूर्वे᳚¦अरि॑ष्टाः¦स्या॒म¦त॒न्वा᳚¦सु॒ऽवीराः᳚ ||

मह्यं᳚यजन्तु॒मम॒यानि॑ह॒व्याकू᳚तिःस॒त्यामन॑सोमे,अस्तु |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

एनो॒मानिगां᳚कत॒मच्च॒नाहंविश्वे᳚देवासो॒,अधि॑वोचतानः || {4/9}{10.128.4}{10.10.16.4}{8.7.15.4}{1436, 965, 10234}

मह्य᳚‌म्¦य॒ज॒न्तु॒¦मम॑¦यानि॑¦ह॒व्या¦आऽकू᳚तिः¦स॒त्या¦मन॑सः¦मे॒¦अ॒स्तु॒ |
एनः॑¦मा¦नि¦गा॒‌म्¦क॒त॒मत्¦च॒न¦अ॒ह‌म्¦विश्वे᳚¦दे॒वा॒सः॒¦अधि॑¦वो॒च॒त॒¦नः॒ ||

देवीः᳚षळुर्वीरु॒रुनः॑कृणोत॒विश्वे᳚देवासइ॒हवी᳚रयध्वम् |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

माहा᳚स्महिप्र॒जया॒मात॒नूभि॒र्मार॑धामद्विष॒तेसो᳚मराजन् || {5/9}{10.128.5}{10.10.16.5}{8.7.15.5}{1437, 965, 10235}

देवीः᳚¦षट्¦उ॒र्वीः॒¦उ॒रु¦नः॒¦कृ॒णो॒त॒¦विश्वे᳚¦दे॒वा॒सः॒¦इ॒ह¦वी॒र॒य॒ध्व॒‌म् |
मा¦हा॒स्म॒हि॒¦प्र॒ऽजया᳚¦मा¦त॒नूभिः॑¦मा¦र॒धा॒म॒¦द्वि॒ष॒ते¦सो॒म॒¦रा॒ज॒न् ||

अग्ने᳚म॒न्युंप्र॑तिनु॒दन्‌परे᳚षा॒मद॑ब्धोगो॒पाःपरि॑पाहिन॒स्त्वम् |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

प्र॒त्यञ्चो᳚यन्तुनि॒गुतः॒पुन॒स्ते॒३॑(ए॒)ऽमैषां᳚चि॒त्तंप्र॒बुधां॒विने᳚शत् || {6/9}{10.128.6}{10.10.16.6}{8.7.16.1}{1438, 965, 10236}

अग्ने᳚¦म॒न्यु‌म्¦प्र॒ति॒ऽनु॒दन्¦परे᳚षा‌म्¦अद॑ब्धः¦गो॒पाः¦परि॑¦पा॒हि॒¦नः॒¦त्व‌म् |
प्र॒त्यंचः॑¦य॒न्तु॒¦नि॒ऽगुतः॑¦पुन॒रिति॑¦ते¦अ॒मा¦ए॒षा॒‌म्¦चि॒त्त‌म्¦प्र॒ऽबुधा᳚‌म्¦वि¦ने॒श॒त् ||

धा॒ताधा᳚तॄ॒णांभुव॑नस्य॒यस्पति॑र्दे॒वंत्रा॒तार॑मभिमातिषा॒हम् |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

इ॒मंय॒ज्ञम॒श्विनो॒भाबृह॒स्पति॑र्दे॒वाःपा᳚न्तु॒यज॑मानंन्य॒र्थात् || {7/9}{10.128.7}{10.10.16.7}{8.7.16.2}{1439, 965, 10237}

धा॒ता¦धा॒तॄ॒णा‌म्¦भुव॑नस्य¦यः¦पतिः॑¦दे॒व‌म्¦त्रा॒तार᳚‌म्¦अ॒भि॒मा॒ति॒ऽस॒ह‌म् |
इ॒म‌म्¦य॒ज्ञ‌म्¦अ॒श्विना᳚¦उ॒भा¦बृह॒स्पतिः॑¦दे॒वाः¦पा॒न्तु॒¦यज॑मान‌म्¦नि॒।आ॒र्थात् ||

उ॒रु॒व्यचा᳚नोमहि॒षःशर्म॑यंसद॒स्मिन्हवे᳚पुरुहू॒तःपु॑रु॒क्षुः |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

नः॑प्र॒जायै᳚हर्यश्वमृळ॒येन्द्र॒मानो᳚रीरिषो॒मापरा᳚दाः || {8/9}{10.128.8}{10.10.16.8}{8.7.16.3}{1440, 965, 10238}

उ॒रु॒ऽव्यचाः᳚¦नः॒¦म॒हि॒षः¦शर्म॑¦यं॒स॒त्¦अ॒स्मिन्¦हवे᳚¦पु॒रु॒ऽहू॒तः¦पु॒रु॒ऽक्षुः |
सः¦नः॒¦प्र॒ऽजायै᳚¦ह॒रि॒।आ॒श्व॒¦मृ॒ळ॒य॒¦इन्द्र॑¦मा¦नः॒¦रि॒रि॒षः॒¦मा¦परा᳚¦दाः॒ ||

येनः॑स॒पत्ना॒,अप॒तेभ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑बाधामहे॒तान् |{आंगिरसो विहव्यः | विश्वदेवाः | जगती}

वस॑वोरु॒द्रा,आ᳚दि॒त्या,उ॑परि॒स्पृशं᳚मो॒ग्रंचेत्ता᳚रमधिरा॒जम॑क्रन् || {9/9}{10.128.9}{10.10.16.9}{8.7.16.4}{1441, 965, 10239}

ये¦नः॒¦स॒ऽपत्नाः᳚¦अप॑¦ते¦भ॒व॒न्तु॒¦इ॒न्द्रा॒ग्निऽभ्या᳚‌म्¦अव॑¦बा॒धा॒म॒हे॒¦तान् |
वस॑वः¦रु॒द्राः¦आ॒दि॒त्याः¦उ॒प॒रि॒ऽस्पृश᳚‌म्¦मा॒¦उ॒ग्र‌म्¦चेत्ता᳚र‌म्¦अ॒धि॒ऽरा॒ज‌म्¦अ॒क्र॒न् ||

[129] नासदिति सप्तर्चस्य सूक्तस्य परमेष्ठी प्रजापतिर्भाववृत्तिस्त्रिष्टुप् |
नास॑दासी॒न्नोसदा᳚सीत्त॒दानीं॒¦नासी॒द्रजो॒नोव्यो᳚माप॒रोयत् |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्}

किमाव॑रीवः॒कुह॒कस्य॒शर्म॒¦न्नम्भः॒किमा᳚सी॒द्गह॑नंगभी॒रम् || {1/7}{10.129.1}{10.11.1.1}{8.7.17.1}{1442, 966, 10240}

न¦अस॑त्¦आ॒सी॒त्¦नो इति॑¦सत्¦आ॒सी॒त्¦त॒दानी᳚‌म्¦न¦आ॒सी॒त्¦रजः॑¦नो इति॑¦विऽओ᳚म¦प॒रः¦यत् |
कि‌म्¦आ¦अ॒व॒री॒व॒रिति॑¦कुह॑¦कस्य॑¦शर्म॑न्¦अम्भः॑¦कि‌म्¦आ॒सी॒त्¦गह॑न‌म्¦ग॒भी॒र‌म् ||

मृ॒त्युरा᳚सीद॒मृतं॒तर्हि॒¦रात्र्या॒,अह्न॑आसीत्‌प्रके॒तः |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्}

आनी᳚दवा॒तंस्व॒धया॒तदेकं॒¦तस्मा᳚द्धा॒न्यन्नप॒रःकिंच॒नास॑ || {2/7}{10.129.2}{10.11.1.2}{8.7.17.2}{1443, 966, 10241}

न¦मृ॒त्युः¦आ॒सी॒त्¦अ॒मृत᳚‌म्¦न¦तर्हि॑¦न¦रात्र्याः᳚¦अह्नः॑¦आ॒सी॒त्¦प्र॒ऽके॒तः |
आनी᳚त्¦अ॒वा॒त‌म्¦स्व॒धया᳚¦तत्¦एक᳚‌म्¦तस्मा᳚त्¦ह॒¦अ॒न्यत्¦न¦प॒रः¦कि‌म्¦च॒न¦आ॒स॒ ||

तम॑आसी॒त्तम॑सागू॒ळ्हमग्रे᳚¦ऽप्रके॒तंस॑लि॒लंसर्व॑मा,इ॒दम् |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्}

तु॒च्छ्येना॒भ्वपि॑हितं॒यदासी॒त्¦तप॑स॒स्तन्म॑हि॒नाजा᳚य॒तैक᳚म् || {3/7}{10.129.3}{10.11.1.3}{8.7.17.3}{1444, 966, 10242}

तमः॑¦आ॒सी॒त्¦तम॑सा¦गू॒ळ्ह‌म्¦अग्रे᳚¦अ॒प्र॒ऽके॒त‌म्¦स॒लि॒ल‌म्¦सर्व᳚‌म्¦आः॒¦इ॒द‌म् |
तु॒च्छ्येन॑¦आ॒भु¦अपि॑ऽहित‌म्¦यत्¦आसी᳚त्¦तप॑सः¦तत्¦म॒हि॒ना¦अ॒जा॒य॒त॒¦एक᳚‌म् ||

काम॒स्तदग्रे॒सम॑वर्त॒ताधि॒¦मन॑सो॒रेतः॑प्रथ॒मंयदासी᳚त् |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्}

स॒तोबन्धु॒मस॑ति॒निर॑विन्दन्¦हृ॒दिप्र॒तीष्या᳚क॒वयो᳚मनी॒षा || {4/7}{10.129.4}{10.11.1.4}{8.7.17.4}{1445, 966, 10243}

कामः॑¦तत्¦अग्रे᳚¦स‌म्¦अ॒व॒र्त॒त॒¦अधि॑¦मन॑सः¦रेतः॑¦प्र॒थ॒म‌म्¦यत्¦आसी᳚त् |
स॒तः¦बन्धु᳚‌म्¦अस॑ति¦निः¦अ॒वि॒न्द॒न्¦हृ॒दि¦प्र॒तीष्या᳚¦क॒वयः॑¦म॒नी॒षा ||

ति॒र॒श्चीनो॒वित॑तोर॒श्मिरे᳚षा¦म॒धःस्वि॑दा॒सी३दु॒परि॑स्विदासी३त् |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्}

रे॒तो॒धा,आ᳚सन्‌महि॒मान॑आसन्¦त्स्व॒धा,अ॒वस्ता॒त्‌प्रय॑तिःप॒रस्ता᳚त् || {5/7}{10.129.5}{10.11.1.5}{8.7.17.5}{1446, 966, 10244}

ति॒र॒श्चीनः॑¦विऽत॑तः¦र॒श्मिः¦ए॒षा॒‌म्¦अ॒धः¦स्वि॒त्¦आ॒सी३त्¦उ॒परि॑¦स्वि॒त्¦आ॒सी॒३त् |
रे॒तः॒ऽधाः¦आ॒स॒न्¦म॒हि॒मानः॑¦आ॒स॒न्¦स्व॒धा¦अ॒वस्ता᳚त्¦प्रऽय॑तिः¦प॒रस्ता᳚त् ||

को,अ॒द्धावे᳚द॒इ॒हप्रवो᳚च॒त्¦कुत॒आजा᳚ता॒कुत॑इ॒यंविसृ॑ष्टिः |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्}

अ॒र्वाग्दे॒वा,अ॒स्यवि॒सर्ज॑ने॒ना¦था॒कोवे᳚द॒यत॑आब॒भूव॑ || {6/7}{10.129.6}{10.11.1.6}{8.7.17.6}{1447, 966, 10245}

कः¦अ॒द्धा¦वे॒द॒¦कः¦इ॒ह¦प्र¦वो॒च॒त्¦कुतः॑¦आऽजा᳚ता¦कुतः॑¦इ॒य‌म्¦विऽसृ॑ष्टिः |
अ॒र्वाक्¦दे॒वाः¦अ॒स्य¦वि॒ऽसर्ज॑नेन¦अथ॑¦कः¦वे॒द॒¦यतः॑¦आ॒ऽब॒भूव॑ ||

इ॒यंविसृ॑ष्टि॒र्यत॑आब॒भूव॒¦यदि॑वाद॒धेयदि॑वा॒ |{परमेष्ठी प्रजापतिः | भाववृत्तिः | पादत्रिष्टुप्}

यो,अ॒स्याध्य॑क्षःपर॒मेव्यो᳚म॒न्¦त्सो,अ॒ङ्गवे᳚द॒यदि॑वा॒वेद॑ || {7/7}{10.129.7}{10.11.1.7}{8.7.17.7}{1448, 966, 10246}

इ॒य‌म्¦विऽसृ॑ष्टिः¦यतः॑¦आ॒ऽब॒भूव॑¦यदि॑¦वा॒¦द॒धे¦यदि॑¦वा॒¦न |
यः¦अ॒स्य॒¦अधि॑।आक्षः¦प॒र॒मे¦विऽओ᳚मन्¦सः¦अ॒ङ्ग¦वे॒द॒¦यदि॑¦वा॒¦न¦वेद॑ ||

[130] योयज्ञइति सप्तर्चस्य सूक्तस्य प्राजापत्योयज्ञोभाववृत्तिस्त्रिष्टुबाद्याजगती |
योय॒ज्ञोवि॒श्वत॒स्तन्तु॑भिस्त॒तएक॑शतंदेवक॒र्मेभि॒राय॑तः |{प्राजापत्यो यज्ञः | भाववृत्तिः | जगती}

इ॒मेव॑यन्तिपि॒तरो॒आ᳚य॒युःप्रव॒याप॑व॒येत्या᳚सतेत॒ते || {1/7}{10.130.1}{10.11.2.1}{8.7.18.1}{1449, 967, 10247}

यः¦य॒ज्ञः¦वि॒श्वतः॑¦तन्तु॑ऽभिः¦त॒तः¦एक॑ऽशत‌म्¦दे॒व॒ऽक॒र्मेभिः॑¦आऽय॑तः |
इ॒मे¦व॒य॒न्ति॒¦पि॒तरः॑¦ये¦आ॒ऽय॒युः¦प्र¦व॒य॒¦अप॑¦व॒य॒¦इति॑¦आ॒स॒ते॒¦त॒ते ||

पुमाँ᳚,एनंतनुत॒उत्कृ॑णत्ति॒पुमा॒न्‌वित॑त्ने॒,अधि॒नाके᳚,अ॒स्मिन् |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्}

इ॒मेम॒यूखा॒,उप॑सेदुरू॒सदः॒सामा᳚निचक्रु॒स्तस॑रा॒ण्योत॑वे || {2/7}{10.130.2}{10.11.2.2}{8.7.18.2}{1450, 967, 10248}

पुमा᳚न्¦ए॒न॒‌म्¦त॒नु॒ते॒¦उत्¦कृ॒ण॒त्ति॒¦पुमा᳚न्¦वि¦त॒त्ने॒¦अधि॑¦नाके᳚¦अ॒स्मिन् |
इ॒मे¦म॒यूखाः᳚¦उप॑¦से॒दुः॒¦ऊँ॒ इति॑¦सदः॑¦सामा᳚नि¦च॒क्रुः॒¦तस॑राणि¦ओत॑वे ||

कासी᳚त्प्र॒माप्र॑ति॒माकिंनि॒दान॒माज्यं॒किमा᳚सीत्परि॒धिःआ᳚सीत् |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्}

छन्दः॒किमा᳚सी॒त्प्रौ᳚गं॒किमु॒क्थंयद्दे॒वादे॒वमय॑जन्त॒विश्वे᳚ || {3/7}{10.130.3}{10.11.2.3}{8.7.18.3}{1451, 967, 10249}

का¦आ॒सी॒त्¦प्र॒ऽमा¦प्र॒ति॒ऽमा¦कि‌म्¦नि॒ऽदान᳚‌म्¦आज्य᳚‌म्¦कि‌म्¦आ॒सी॒त्¦प॒रि॒ऽधिः¦कः¦आ॒सी॒त् |
छन्दः॑¦कि‌म्¦आ॒सी॒त्¦प्रउ॑ग‌म्¦कि‌म्¦उ॒क्थ‌म्¦यत्¦दे॒वाः¦दे॒व‌म्¦अय॑जन्त¦विश्वे᳚ ||

अ॒ग्नेर्गा᳚य॒त्र्य॑भवत्स॒युग्वो॒ष्णिह॑यासवि॒तासंब॑भूव |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्}

अ॒नु॒ष्टुभा॒सोम॑उ॒क्थैर्मह॑स्वा॒न्‌बृह॒स्पते᳚र्बृह॒तीवाच॑मावत् || {4/7}{10.130.4}{10.11.2.4}{8.7.18.4}{1452, 967, 10250}

अ॒ग्नेः¦गा॒य॒त्री¦अ॒भ॒व॒त्¦स॒ऽयुग्वा᳚¦उ॒ष्णिह॑या¦स॒वि॒ता¦स‌म्¦ब॒भू॒व॒ |
अ॒नु॒ऽस्तुभा᳚¦सोमः॑¦उ॒क्थैः¦मह॑स्वान्¦बृह॒स्पतेः᳚¦बृ॒ह॒ती¦वाच᳚‌म्¦आ॒व॒त् ||

वि॒राण्मि॒त्रावरु॑णयोरभि॒श्रीरिन्द्र॑स्यत्रि॒ष्टुबि॒हभा॒गो,अह्नः॑ |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्}

विश्वा᳚न्दे॒वाञ्जग॒त्यावि॑वेश॒तेन॑चाकॢप्र॒ऋष॑योमनु॒ष्याः᳚ || {5/7}{10.130.5}{10.11.2.5}{8.7.18.5}{1453, 967, 10251}

वि॒राट्¦मि॒त्रावरु॑णयोः¦अ॒भि॒ऽश्रीः¦इन्द्र॑स्य¦त्रि॒ऽस्तुप्¦इ॒ह¦भा॒गः¦अह्नः॑ |
विश्वा᳚न्¦दे॒वान्¦जग॑ती¦आ¦वि॒वे॒श॒¦तेन॑¦चा॒कॢ॒प्रे॒¦ऋष॑यः¦म॒नु॒ष्याः᳚ ||

चा॒कॢ॒प्रेतेन॒ऋष॑योमनु॒ष्या᳚य॒ज्ञेजा॒तेपि॒तरो᳚नःपुरा॒णे |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्}

पश्य᳚न्मन्ये॒मन॑सा॒चक्ष॑सा॒तान्यइ॒मंय॒ज्ञमय॑जन्त॒पूर्वे᳚ || {6/7}{10.130.6}{10.11.2.6}{8.7.18.6}{1454, 967, 10252}

चा॒कॢ॒प्रे¦तेन॑¦ऋष॑यः¦म॒नु॒ष्याः᳚¦य॒ज्ञे¦जा॒ते¦पि॒तरः॑¦नः॒¦पु॒रा॒णे |
पश्य॑न्¦म॒न्ये॒¦मन॑सा¦चक्ष॑सा¦तान्¦ये¦इ॒म‌म्¦य॒ज्ञ‌म्¦अय॑जन्त¦पूर्वे᳚ ||

स॒हस्तो᳚माःस॒हछ᳚न्दसआ॒वृतः॑स॒हप्र॑मा॒ऋष॑यःस॒प्तदैव्याः᳚ |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्}

पूर्वे᳚षां॒पन्था᳚मनु॒दृश्य॒धीरा᳚,अ॒न्वाले᳚भिरेर॒थ्यो॒३॑(ओ॒)र॒श्मीन् || {7/7}{10.130.7}{10.11.2.7}{8.7.18.7}{1455, 967, 10253}

स॒हऽस्तो᳚माः¦स॒हऽछ᳚न्दसः¦आ॒ऽवृतः॑¦स॒हऽप्र॑माः¦ऋष॑यः¦स॒प्त¦दैव्याः᳚ |
पूर्वे᳚षा‌म्¦पन्था᳚‌म्¦अ॒नु॒ऽदृश्य॑¦धीराः᳚¦अ॒नु॒ऽआले᳚भिरे¦र॒थ्यः॑¦न¦र॒श्मीन् ||

[131] अपप्राचइति सप्तर्चस्य सूक्तस्य काक्षीवतः सुकीर्तिरिंद्रश्चतुर्थीपंचम्योरश्विनौत्रिष्टुप् चतुर्थ्यनुष्टुप् |
अप॒प्राच॑इन्द्र॒विश्वाँ᳚,अ॒मित्रा॒नपापा᳚चो,अभिभूतेनुदस्व |{काक्षीवतः सुकीर्तिः | इन्द्रः | त्रिष्टुप्}

अपोदी᳚चो॒,अप॑शूराध॒राच॑उ॒रौयथा॒तव॒शर्म॒न्मदे᳚म || {1/7}{10.131.1}{10.11.3.1}{8.7.19.1}{1456, 968, 10254}

अप॑¦प्राचः॑¦इ॒न्द्र॒¦विश्वा᳚न्¦अ॒मित्रा᳚न्¦अप॑¦अपा᳚चः¦अ॒भि॒ऽभू॒ते॒¦नु॒द॒स्व॒ |
अप॑¦उदी᳚चः¦अप॑¦शू॒र॒¦अ॒ध॒राचः॑¦उ॒रौ¦यथा᳚¦तव॑¦शर्म॑न्¦मदे᳚म ||

कु॒विद॒ङ्गयव॑मन्तो॒यवं᳚चि॒द्यथा॒दान्त्य॑नुपू॒र्वंवि॒यूय॑ |{काक्षीवतः सुकीर्तिः | इन्द्रः | त्रिष्टुप्}

इ॒हेहै᳚षांकृणुहि॒भोज॑नानि॒येब॒र्हिषो॒नमो᳚वृक्तिं॒ज॒ग्मुः || {2/7}{10.131.2}{10.11.3.2}{8.7.19.2}{1457, 968, 10255}

कु॒वित्¦अ॒ङ्ग¦यव॑ऽमन्तः¦यव᳚‌म्¦चि॒त्¦यथा᳚¦दान्ति॑¦अ॒नु॒ऽपू॒र्व‌म्¦वि॒ऽयूय॑ |
इ॒हऽ‌इ᳚ह¦ए॒षा॒‌म्¦कृ॒णु॒हि॒¦भोज॑नानि¦ये¦ब॒र्हिषः॑¦नमः॑ऽवृक्ति‌म्¦न¦ज॒ग्मुः ||

न॒हिस्थूर्यृ॑तु॒थाया॒तमस्ति॒नोतश्रवो᳚विविदेसंग॒मेषु॑ |{काक्षीवतः सुकीर्तिः | इन्द्रः | त्रिष्टुप्}

ग॒व्यन्त॒इन्द्रं᳚स॒ख्याय॒विप्रा᳚,अश्वा॒यन्तो॒वृष॑णंवा॒जय᳚न्तः || {3/7}{10.131.3}{10.11.3.3}{8.7.19.3}{1458, 968, 10256}

न॒हि¦स्थूरि॑¦ऋ॒तु॒ऽथा¦या॒त‌म्¦अस्ति॑¦न¦उ॒त¦श्रवः॑¦वि॒वि॒दे॒¦स॒‌म्ऽग॒मेषु॑ |
ग॒व्यन्तः॑¦इन्द्र᳚‌म्¦स॒ख्याय॑¦विप्राः᳚¦अ॒श्व॒ऽयन्तः॑¦वृष॑ण‌म्¦वा॒जऽय᳚न्तः ||

यु॒वंसु॒राम॑मश्विना॒नमु॑चावासु॒रेसचा᳚ |{काक्षीवतः सुकीर्तिः | अश्विनौ | अनुष्टुप्}

वि॒पि॒पा॒नाशु॑भस्पती॒,इन्द्रं॒कर्म॑स्वावतम् || {4/7}{10.131.4}{10.11.3.4}{8.7.19.4}{1459, 968, 10257}

यु॒व‌म्¦सु॒राम᳚‌म्¦अ॒श्वि॒ना॒¦नमु॑चौ¦आ॒सु॒रे¦सचा᳚ | वि॒ऽपि॒पा॒ना¦शु॒भः॒¦प॒ती॒ इति॑¦इन्द्र᳚‌म्¦कर्म॑ऽसु¦आ॒व॒त॒‌म् ||

पु॒त्रमि॑वपि॒तरा᳚व॒श्विनो॒भेन्द्रा॒वथुः॒काव्यै᳚र्दं॒सना᳚भिः |{काक्षीवतः सुकीर्तिः | अश्विनौ | त्रिष्टुप्}

यत्सु॒रामं॒व्यपि॑बः॒शची᳚भिः॒सर॑स्वतीत्वामघवन्नभिष्णक् || {5/7}{10.131.5}{10.11.3.5}{8.7.19.5}{1460, 968, 10258}

पु॒त्र‌म्ऽ‌इ᳚व¦पि॒तरौ᳚¦अ॒श्विना᳚¦उ॒भा¦इन्द्र॑¦आ॒वथुः॑¦काव्यैः᳚¦दं॒सना᳚भिः |
यत्¦सु॒राम᳚‌म्¦वि¦अपि॑बः¦शची᳚भिः¦सर॑स्वती¦त्वा॒¦म॒घ॒ऽव॒न्¦अ॒भि॒ष्ण॒क् ||

इन्द्रः॑सु॒त्रामा॒स्ववाँ॒,अवो᳚भिःसुमृळी॒कोभ॑वतुवि॒श्ववे᳚दाः |{काक्षीवतः सुकीर्तिः | इन्द्रः | त्रिष्टुप्}

बाध॑तां॒द्वेषो॒,अभ॑यंकृणोतुसु॒वीर्य॑स्य॒पत॑यःस्याम || {6/7}{10.131.6}{10.11.3.6}{8.7.19.6}{1461, 968, 10259}

इन्द्रः॑¦सु॒ऽत्रामा᳚¦स्वऽवा᳚न्¦अवः॑ऽभिः¦सु॒ऽमृ॒ळी॒कः¦भ॒व॒तु॒¦वि॒श्वऽवे᳚दाः |
बाध॑ता‌म्¦द्वेषः॑¦अभ॑य‌म्¦कृ॒णो॒तु॒¦सु॒ऽवीर्य॑स्य¦पत॑यः¦स्या॒म॒ ||

तस्य॑व॒यंसु॑म॒तौय॒ज्ञिय॒स्यापि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म |{काक्षीवतः सुकीर्तिः | इन्द्रः | त्रिष्टुप्}

सु॒त्रामा॒स्ववाँ॒,इन्द्रो᳚,अ॒स्मे,आ॒राच्चि॒द्द्वेषः॑सनु॒तर्यु॑योतु || {7/7}{10.131.7}{10.11.3.7}{8.7.19.7}{1462, 968, 10260}

तस्य॑¦व॒य‌म्¦सु॒ऽम॒तौ¦य॒ज्ञिय॑स्य¦अपि॑¦भ॒द्रे¦सौ॒म॒न॒से¦स्या॒म॒ |
सः¦सु॒त्रामा᳚¦स्वऽवा᳚न्¦इन्द्रः॑¦अ॒स्मे इति॑¦आ॒रात्¦चि॒त्¦द्वेषः॑¦स॒नु॒त¦यु॒यो॒तु॒ ||

[132] ईजानमिति सप्तर्चस्य सूक्तस्य नार्मेधः शकपूतो मित्रावरुणावाद्यायाद्युभूम्यश्विनोविराड्‌रूपाः आद्यान्यंकुसारिणी द्वितीयाषष्ठ्यौ प्रस्तारपंक्ती अंत्यामहासतोबृहती |
ई॒जा॒नमिद्द्यौर्गू॒र्ताव॑सुरीजा॒नंभूमि॑र॒भिप्र॑भू॒षणि॑ |{नार्मेधः शकपूतः | द्युभूम्यश्विनः | अंकुसारिणी}

ई॒जा॒नंदे॒वाव॒श्विना᳚व॒भिसु॒म्नैर॑वर्धताम् || {1/7}{10.132.1}{10.11.4.1}{8.7.20.1}{1463, 969, 10261}

ई॒जा॒न‌म्¦इत्¦द्यौः¦गू॒र्तऽव॑सुः¦ई॒जा॒न‌म्¦भूमिः॑¦अ॒भि¦प्र॒ऽभू॒षणि॑ |
ई॒जा॒न‌म्¦दे॒वौ¦अ॒श्विनौ᳚¦अ॒भि¦सु॒म्नैः¦अ॒व॒र्ध॒ता॒‌म् ||

तावां᳚मित्रावरुणाधार॒यत्‌क्षि॑तीसुषु॒म्नेषि॑त॒त्वता᳚यजामसि |{नार्मेधः शकपूतः | मित्रावरुणौ | प्रस्तारपंक्ती}

यु॒वोःक्रा॒णाय॑स॒ख्यैर॒भिष्या᳚मर॒क्षसः॑ || {2/7}{10.132.2}{10.11.4.2}{8.7.20.2}{1464, 969, 10262}

ता¦वा॒‌म्¦मि॒त्रा॒व॒रु॒णा॒¦धा॒र॒यत्‌ क्षि॑ती॒ इति॑ धा॒र॒यत्ऽक्षि॑ती¦सु॒ऽसु॒म्ना¦इ॒षि॒त॒त्वता᳚¦य॒जा॒म॒सि॒ |
यु॒वोः¦क्रा॒णाय॑¦स॒ख्यैः¦अ॒भि¦स्या॒म॒¦र॒क्षसः॑ ||

अधा᳚चि॒न्नुयद्दिधि॑षामहेवाम॒भिप्रि॒यंरेक्णः॒पत्य॑मानाः |{नार्मेधः शकपूतः | मित्रावरुणौ | विराड्रूपा}

द॒द्वाँऽवा॒यत्पुष्य॑ति॒रेक्णः॒सम्वा᳚र॒न्नकि॑रस्यम॒घानि॑ || {3/7}{10.132.3}{10.11.4.3}{8.7.20.3}{1465, 969, 10263}

अध॑¦चि॒त्¦नु¦यत्¦दधि॑षामहे¦वा॒‌म्¦अ॒भि¦प्रि॒य‌म्¦रेक्णः॑¦पत्य॑मानाः |
द॒द्वान्¦वा॒¦यत्¦पुष्य॑ति¦रेक्णः॑¦स‌म्¦ऊँ॒ इति॑¦आ॒र॒न्¦नकिः॑¦अ॒स्य॒¦म॒घानि॑ ||

अ॒साव॒न्यो,अ॑सुरसूयत॒द्यौस्त्वंविश्वे᳚षांवरुणासि॒राजा᳚ |{नार्मेधः शकपूतः | मित्रावरुणौ | पादपङ्क्तिः}

मू॒र्धारथ॑स्यचाक॒न्नैताव॒तैन॑सान्तक॒ध्रुक् || {4/7}{10.132.4}{10.11.4.4}{8.7.20.4}{1466, 969, 10264}

अ॒सौ¦अ॒न्यः¦अ॒सु॒र॒¦सू॒य॒त॒¦द्यौः¦त्व‌म्¦विश्वे᳚षा‌म्¦व॒रु॒ण॒¦अ॒सि॒¦राजा᳚ |
मू॒र्धा¦रथ॑स्य¦चा॒क॒न्¦न¦ए॒ताव॑ता¦एन॑सा¦अ॒न्त॒क॒ऽध्रुक् ||

अ॒स्मिन्‌त्स्वे॒३॑(ए॒)तच्छक॑पूत॒एनो᳚हि॒तेमि॒त्रेनिग॑तान्हन्तिवी॒रान् |{नार्मेधः शकपूतः | मित्रावरुणौ | विराड्रूपा}

अ॒वोर्वा॒यद्धात्त॒नूष्ववः॑प्रि॒यासु॑य॒ज्ञिया॒स्वर्वा᳚ || {5/7}{10.132.5}{10.11.4.5}{8.7.20.5}{1467, 969, 10265}

अ॒स्मिन्¦सु¦ए॒तत्¦शक॑ऽपूते¦एनः॑¦हि॒ते¦मि॒त्रे¦निऽग॑तान्¦ह॒न्ति॒¦वी॒रान् |
अ॒वोः¦वा॒¦यत्¦धात्¦त॒नूषु॑¦अवः॑¦प्रि॒यासु॑¦य॒ज्ञिया᳚सु¦अर्वा᳚ ||

यु॒वोर्हिमा॒तादि॑तिर्विचेतसा॒द्यौर्नभूमिः॒पय॑सापुपू॒तनि॑ |{नार्मेधः शकपूतः | मित्रावरुणौ | प्रस्तारपंक्ती}

अव॑प्रि॒यादि॑दिष्टन॒सूरो᳚निनिक्तर॒श्मिभिः॑ || {6/7}{10.132.6}{10.11.4.6}{8.7.20.6}{1468, 969, 10266}

यु॒वोः¦हि¦मा॒ता¦अदि॑तिः¦वि॒ऽचे॒त॒सा॒¦द्यौः¦न¦भूमिः॑¦पय॑सा¦पु॒पू॒तनि॑ |
अव॑¦प्रि॒या¦दि॒दि॒ष्ट॒न॒¦सूरः॑¦नि॒नि॒क्त॒¦र॒श्मिऽभिः॑ ||

यु॒वंह्य॑प्न॒राजा॒वसी᳚दतं॒तिष्ठ॒द्रथं॒धू॒र्षदं᳚वन॒र्षद᳚म् |{नार्मेधः शकपूतः | मित्रावरुणौ | महासतोबृहती}

तानः॑कणूक॒यन्ती᳚र्नृ॒मेध॑स्तत्रे॒,अंह॑सःसु॒मेध॑स्तत्रे॒,अंह॑सः || {7/7}{10.132.7}{10.11.4.7}{8.7.20.7}{1469, 969, 10267}

यु॒व‌म्¦हि¦अ॒प्न॒ऽराजौ᳚¦असी᳚दत‌म्¦तिष्ठ॑त्¦रथ᳚‌म्¦न¦धूः॒ऽसद᳚‌म्¦व॒न॒ऽसद᳚‌म् |
ताः¦नः॒¦क॒णू॒क॒ऽयन्तीः᳚¦नृ॒ऽमेधः॑¦त॒त्रे॒¦अंह॑सः¦सु॒ऽमेधः॑¦त॒त्रे॒¦अंह॑सः ||

[133] प्रोष्विति सप्तर्चस्य सूक्तस्य सुदाः पैजवनइंद्रः शक्वरीचतुर्थ्यादितिस्रो महापंक्तयोत्यात्रिष्टुप् |
प्रोष्व॑स्मैपुरोर॒थमिन्द्रा᳚यशू॒षम॑र्चत |{सुदाः पैजवनः | इन्द्रः | शक्वरी}

अ॒भीके᳚चिदुलोक॒कृत्सं॒गेस॒मत्सु॑वृत्र॒हास्माकं᳚बोधिचोदि॒तानभ᳚न्तामन्य॒केषां᳚ज्या॒का,अधि॒धन्व॑सु || {1/7}{10.133.1}{10.11.5.1}{8.7.21.1}{1470, 970, 10268}

प्रो इति॑¦सु¦अ॒स्मै॒¦पु॒रः॒ऽर॒थ‌म्¦इन्द्रा᳚य¦शू॒ष‌म्¦अ॒र्च॒त॒ |
अ॒भीके᳚¦चि॒त्¦ऊँ॒ इति॑¦लो॒क॒ऽकृत्¦स॒‌म्ऽगे¦स॒मत्ऽसु॑¦वृ॒त्र॒ऽहा¦अ॒स्माक᳚‌म्¦बो॒धि॒¦चो॒दि॒ता¦नभ᳚न्ता‌म्¦अ॒न्य॒केषा᳚‌म्¦ज्या॒काः¦अधि॑¦धन्व॑ऽसु ||

त्वंसिन्धूँ॒रवा᳚सृजोऽध॒राचो॒,अह॒न्नहि᳚म् |{सुदाः पैजवनः | इन्द्रः | शक्वरी}

अ॒श॒त्रुरि᳚न्द्रजज्ञिषे॒विश्वं᳚पुष्यसि॒वार्यं॒तंत्वा॒परि॑ष्वजामहे॒नभ᳚न्तामन्य॒केषां᳚ज्या॒का,अधि॒धन्व॑सु || {2/7}{10.133.2}{10.11.5.2}{8.7.21.2}{1471, 970, 10269}

त्व‌म्¦सिन्धू᳚न्¦अव॑¦अ॒सृ॒जः॒¦अ॒ध॒राचः॑¦अह॑न्¦अहि᳚‌म् |
अ॒श॒त्रुः¦इ॒न्द्र॒¦ज॒ज्ञि॒षे॒¦विश्व᳚‌म्¦पु॒ष्य॒सि॒¦वार्य᳚‌म्¦त‌म्¦त्वा॒¦परि॑¦स्व॒जा॒म॒हे॒¦नभ᳚न्ता‌म्¦अ॒न्य॒केषा᳚‌म्¦ज्या॒काः¦अधि॑¦धन्व॑ऽसु ||

विषुविश्वा॒,अरा᳚तयो॒ऽर्योन॑शन्तनो॒धियः॑ |{सुदाः पैजवनः | इन्द्रः | शक्वरी}

अस्ता᳚सि॒शत्र॑वेव॒धंयोन॑इन्द्र॒जिघां᳚सति॒याते᳚रा॒तिर्द॒दिर्वसु॒नभ᳚न्तामन्य॒केषां᳚ज्या॒का,अधि॒धन्व॑सु || {3/7}{10.133.3}{10.11.5.3}{8.7.21.3}{1472, 970, 10270}

वि¦सु¦विश्वा᳚¦अरा᳚तयः¦अ॒र्यः¦न॒श॒न्त॒¦नः॒¦धियः॑ |
अस्ता᳚¦अ॒सि॒¦शत्र॑वे¦व॒ध‌म्¦यः¦नः॒¦इ॒न्द्र॒¦जिघां᳚सति¦या¦ते॒¦रा॒तिः¦द॒दिः¦वसु॑¦नभ᳚न्ता‌म्¦अ॒न्य॒केषा᳚‌म्¦ज्या॒काः¦अधि॑¦धन्व॑ऽसु ||

योन॑इन्द्रा॒भितो॒जनो᳚वृका॒युरा॒दिदे᳚शति |{सुदाः पैजवनः | इन्द्रः | महापङ्क्तिः}

अ॒ध॒स्प॒दंतमीं᳚कृधिविबा॒धो,अ॑सिसास॒हिर्नभ᳚न्तामन्य॒केषां᳚ज्या॒का,अधि॒धन्व॑सु || {4/7}{10.133.4}{10.11.5.4}{8.7.21.4}{1473, 970, 10271}

यः¦नः॒¦इ॒न्द्र॒¦अ॒भितः॑¦जनः॑¦वृ॒क॒ऽयुः¦आ॒ऽदिदे᳚शति |
अ॒धः॒ऽप॒द‌म्¦त‌म्¦ई॒‌म्¦कृ॒धि॒¦वि॒ऽबा॒धः¦अ॒सि॒¦स॒स॒हिः¦नभ᳚न्ता‌म्¦अ॒न्य॒केषा᳚‌म्¦ज्या॒काः¦अधि॑¦धन्व॑ऽसु ||

योन॑इन्द्राभि॒दास॑ति॒सना᳚भि॒र्यश्च॒निष्ट्यः॑ |{सुदाः पैजवनः | इन्द्रः | महापङ्क्तिः}

अव॒तस्य॒बलं᳚तिरम॒हीव॒द्यौरध॒त्मना॒नभ᳚न्तामन्य॒केषां᳚ज्या॒का,अधि॒धन्व॑सु || {5/7}{10.133.5}{10.11.5.5}{8.7.21.5}{1474, 970, 10272}

यः¦नः॒¦इ॒न्द्र॒¦अ॒भि॒ऽदास॑ति¦सऽना᳚भिः¦यः¦च॒¦निष्ट्यः॑ |
अव॑¦तस्य॑¦बल᳚‌म्¦ति॒र॒¦म॒हीऽ‌इ᳚व¦द्यौः¦अध॑¦त्मना᳚¦नभ᳚न्ता‌म्¦अ॒न्य॒केषा᳚‌म्¦ज्या॒काः¦अधि॑¦धन्व॑ऽसु ||

व॒यमि᳚न्द्रत्वा॒यवः॑सखि॒त्वमार॑भामहे |{सुदाः पैजवनः | इन्द्रः | महापङ्क्तिः}

ऋ॒तस्य॑नःप॒थान॒याति॒विश्वा᳚निदुरि॒तानभ᳚न्तामन्य॒केषां᳚ज्या॒का,अधि॒धन्व॑सु || {6/7}{10.133.6}{10.11.5.6}{8.7.21.6}{1475, 970, 10273}

व॒य‌म्¦इ॒न्द्र॒¦त्वा॒ऽयवः॑¦स॒खि॒ऽत्व‌म्¦आ¦र॒भा॒म॒हे॒ |
ऋ॒तस्य॑¦नः॒¦प॒था¦न॒य॒¦अति॑¦विश्वा᳚नि¦दुः॒ऽ‌इ॒ता¦नभ᳚न्ता‌म्¦अ॒न्य॒केषा᳚‌म्¦ज्या॒काः¦अधि॑¦धन्व॑ऽसु ||

अ॒स्मभ्यं॒सुत्वमि᳚न्द्र॒तांशि॑क्ष॒यादोह॑ते॒प्रति॒वरं᳚जरि॒त्रे |{सुदाः पैजवनः | इन्द्रः | त्रिष्टुप्}

अच्छि॑द्रोध्नीपी॒पय॒द्यथा᳚नःस॒हस्र॑धारा॒पय॑साम॒हीगौः || {7/7}{10.133.7}{10.11.5.7}{8.7.21.7}{1476, 970, 10274}

अ॒स्मभ्य᳚‌म्¦सु¦त्व‌म्¦इ॒न्द्र॒¦ता‌म्¦शि॒क्ष॒¦या¦दोह॑ते¦प्रति॑¦वर᳚‌म्¦ज॒रि॒त्रे |
अच्छि॑द्रऽऊध्नी¦पी॒पय॑त्¦यथा᳚¦नः॒¦स॒हस्र॑ऽधारा¦पय॑सा¦म॒ही¦गौः ||

[134] उभेयदिति सप्तर्चस्य सूक्तस्य यौवनाश्वोमांधातेंद्रः अंत्यानां तिसृणामर्धर्चागोधेंद्रो महापंक्तिरंत्यापंक्तिः |
उ॒भेयदि᳚न्द्र॒रोद॑सी,आप॒प्राथो॒षा,इ॑व |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः}

म॒हान्तं᳚त्वाम॒हीनां᳚स॒म्राजं᳚चर्षणी॒नांदे॒वीजनि॑त्र्यजीजनद्भ॒द्राजनि॑त्र्यजीजनत् || {1/7}{10.134.1}{10.11.6.1}{8.7.22.1}{1477, 971, 10275}

उ॒भे इति॑¦यत्¦इ॒न्द्र॒¦रोद॑सी॒ इति॑¦आ॒ऽप॒प्राथ॑¦उ॒षाःऽ‌इ᳚व |
म॒हान्त᳚‌म्¦त्वा॒¦म॒हीना᳚‌म्¦स॒‌म्ऽराज᳚‌म्¦च॒र्ष॒णी॒ना‌म्¦दे॒वी¦जनि॑त्री¦अ॒जी॒ज॒न॒त्¦भ॒द्रा¦जनि॑त्री¦अ॒जी॒ज॒न॒त् ||

अव॑स्मदुर्हणाय॒तोमर्त॑स्यतनुहिस्थि॒रम् |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः}

अ॒ध॒स्प॒दंतमीं᳚कृधि॒यो,अ॒स्माँ,आ॒दिदे᳚शतिदे॒वीजनि॑त्र्यजीजनद्भ॒द्राजनि॑त्र्यजीजनत् || {2/7}{10.134.2}{10.11.6.2}{8.7.22.2}{1478, 971, 10276}

अव॑¦स्म॒¦दुः॒ऽह॒ना॒य॒तः¦मर्त॑स्य¦त॒नु॒हि॒¦स्थि॒र‌म् |
अ॒धः॒ऽप॒द‌म्¦त‌म्¦ई॒‌म्¦कृ॒धि॒¦यः¦अ॒स्मान्¦आ॒ऽदिदे᳚शति¦दे॒वी¦जनि॑त्री¦अ॒जी॒ज॒न॒त्¦भ॒द्रा¦जनि॑त्री¦अ॒जी॒ज॒न॒त् ||

अव॒त्याबृ॑ह॒तीरिषो᳚वि॒श्वश्च᳚न्द्रा,अमित्रहन् |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः}

शची᳚भिःशक्रधूनु॒हीन्द्र॒विश्वा᳚भिरू॒तिभि॑र्दे॒वीजनि॑त्र्यजीजनद्भ॒द्राजनि॑त्र्यजीजनत् || {3/7}{10.134.3}{10.11.6.3}{8.7.22.3}{1479, 971, 10277}

अव॑¦त्याः¦बृ॒ह॒तीः¦इषः॑¦वि॒श्वऽच᳚न्द्राः¦अ॒मि॒त्र॒ऽह॒न् |
शची᳚भिः¦श॒क्र॒¦धू॒नु॒हि॒¦इन्द्र॑¦विश्वा᳚भिः¦ऊ॒तिऽभिः॑¦दे॒वी¦जनि॑त्री¦अ॒जी॒ज॒न॒त्¦भ॒द्रा¦जनि॑त्री¦अ॒जी॒ज॒न॒त् ||

अव॒यत्‌त्वंश॑तक्रत॒विन्द्र॒विश्वा᳚निधूनु॒षे |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः}

र॒यिंसु᳚न्व॒तेसचा᳚सह॒स्रिणी᳚भिरू॒तिभि॑र्दे॒वीजनि॑त्र्यजीजनद्भ॒द्राजनि॑त्र्यजीजनत् || {4/7}{10.134.4}{10.11.6.4}{8.7.22.4}{1480, 971, 10278}

अव॑¦यत्¦त्व‌म्¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो¦इन्द्र॑¦विश्वा᳚नि¦धू॒नु॒षे |
र॒यि‌म्¦न¦सु॒न्व॒ते¦सचा᳚¦स॒ह॒स्रिणी᳚भिः¦ऊ॒तिऽभिः॑¦दे॒वी¦जनि॑त्री¦अ॒जी॒ज॒न॒त्¦भ॒द्रा¦जनि॑त्री¦अ॒जी॒ज॒न॒त् ||

अव॒स्वेदा᳚,इवा॒भितो॒विष्व॑क्पतन्तुदि॒द्यवः॑ |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः}

दूर्वा᳚या,इव॒तन्त॑वो॒व्य१॑(अ॒)स्मदे᳚तुदुर्म॒तिर्दे॒वीजनि॑त्र्यजीजनद्भ॒द्राजनि॑त्र्यजीजनत् || {5/7}{10.134.5}{10.11.6.5}{8.7.22.5}{1481, 971, 10279}

अव॑¦स्वेदाः᳚ऽ‌इव¦अ॒भितः॑¦विष्व॑क्¦प॒त॒न्तु॒¦दि॒द्यवः॑ |
दूर्वा᳚याःऽ‌इव¦तन्त॑वः¦वि¦अ॒स्मत्¦ए॒तु॒¦दुः॒ऽम॒तिः¦दे॒वी¦जनि॑त्री¦अ॒जी॒ज॒न॒त्¦भ॒द्रा¦जनि॑त्री¦अ॒जी॒ज॒न॒त् ||

दी॒र्घंह्य᳚ङ्कु॒शंय॑था॒शक्तिं॒बिभ॑र्षिमन्तुमः |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः}

पूर्वे᳚णमघवन्‌प॒दाजोव॒यांयथा᳚यमोदे॒वीजनि॑त्र्यजीजनद्भ॒द्राजनि॑त्र्यजीजनत् || {6/7}{10.134.6}{10.11.6.6}{8.7.22.6}{1482, 971, 10280}

दी॒र्घ‌म्¦हि¦अ॒ङ्कु॒श‌म्¦य॒था॒¦शक्ति᳚‌म्¦बिभ॑र्षि¦म॒न्तु॒ऽमः॒ |
पूर्वे᳚ण¦म॒घ॒ऽव॒न्¦प॒दा¦अ॒जः¦व॒या‌म्¦यथा᳚¦य॒मः॒¦दे॒वी¦जनि॑त्री¦अ॒जी॒ज॒न॒त्¦भ॒द्रा¦जनि॑त्री¦अ॒जी॒ज॒न॒त् ||

नकि॑र्देवामिनीमसि॒नकि॒रायो᳚पयामसिमन्त्र॒श्रुत्यं᳚चरामसि |{गोधा, यौवनाश्वोमांधातेंद्रः | इन्द्रः | पङ्क्तिः}

प॒क्षेभि॑रपिक॒क्षेभि॒रत्रा॒भिसंर॑भामहे || {7/7}{10.134.7}{10.11.6.7}{8.7.22.7}{1483, 971, 10281}

नकिः॑¦दे॒वाः॒¦मि॒नी॒म॒सि॒¦नकिः॑¦आ¦यो॒प॒या॒म॒सि॒¦म॒न्त्र॒ऽश्रुत्य᳚‌म्¦च॒रा॒म॒सि॒ |
प॒क्षेभिः॑¦अ॒पि॒ऽक॒क्षेभिः॑¦अत्र॑¦अ॒भि¦स‌म्¦र॒भा॒म॒हे॒ ||

[135] यस्मिन्निति सप्तर्चस्य सूक्तस्य यामायनः कुमारोयमोनुष्टुप् |
यस्मि᳚न्‌वृ॒क्षेसु॑पला॒शेदे॒वैःस॒म्पिब॑तेय॒मः |{यामायनः कुमारः | यमः | अनुष्टुप्}

अत्रा᳚नोवि॒श्पतिः॑पि॒तापु॑रा॒णाँ,अनु॑वेनति || {1/7}{10.135.1}{10.11.7.1}{8.7.23.1}{1484, 972, 10282}

यस्मि॑न्¦वृ॒क्षे¦सु॒ऽप॒ला॒शे¦दे॒वैः¦स॒‌म्ऽपिब॑ते¦य॒मः | अत्र॑¦नः॒¦वि॒श्पतिः॑¦पि॒ता¦पु॒रा॒णान्¦अनु॑¦वे॒न॒ति॒ ||

पु॒रा॒णाँ,अ॑नु॒वेन᳚न्तं॒चर᳚न्तंपा॒पया᳚मु॒या |{यामायनः कुमारः | यमः | अनुष्टुप्}

अ॒सू॒यन्न॒भ्य॑चाकशं॒तस्मा᳚,अस्पृहयं॒पुनः॑ || {2/7}{10.135.2}{10.11.7.2}{8.7.23.2}{1485, 972, 10283}

पु॒रा॒णा᳚न्¦अ॒नु॒ऽवेन᳚न्त‌म्¦चर᳚न्त‌म्¦पा॒पया᳚¦अ॒मु॒या | अ॒सू॒यन्¦अ॒भि¦अ॒चा॒क॒श॒‌म्¦तस्मै᳚¦अ॒स्पृ॒ह॒य॒‌म्¦पुन॒रिति॑ ||

यंकु॑मार॒नवं॒रथ॑मच॒क्रंमन॒साकृ॑णोः |{यामायनः कुमारः | यमः | अनुष्टुप्}

एके᳚षंवि॒श्वतः॒प्राञ्च॒मप॑श्य॒न्नधि॑तिष्ठसि || {3/7}{10.135.3}{10.11.7.3}{8.7.23.3}{1486, 972, 10284}

य‌म्¦कु॒मा॒र॒¦नव᳚‌म्¦रथ᳚‌म्¦अ॒च॒क्र‌म्¦मन॑सा¦अकृ॑णोः | एक॑ऽईष‌म्¦वि॒श्वतः॑¦प्रांच᳚‌म्¦अप॑श्यन्¦अधि॑¦ति॒ष्ठ॒सि॒ ||

यंकु॑मार॒प्राव॑र्तयो॒रथं॒विप्रे᳚भ्य॒स्परि॑ |{यामायनः कुमारः | यमः | अनुष्टुप्}

तंसामानु॒प्राव॑र्तत॒समि॒तोना॒व्याहि॑तम् || {4/7}{10.135.4}{10.11.7.4}{8.7.23.4}{1487, 972, 10285}

य‌म्¦कु॒मा॒र॒¦प्र¦अव॑र्तयः¦रथ᳚‌म्¦विप्रे᳚भ्यः¦परि॑ | त‌म्¦साम॑¦अनु॑¦प्र¦अ॒व॒र्त॒त॒¦स‌म्¦इ॒तः¦ना॒वि¦आऽहि॑त‌म् ||

कःकु॑मा॒रम॑जनय॒द्रथं॒कोनिर॑वर्तयत् |{यामायनः कुमारः | यमः | अनुष्टुप्}

कःस्वि॒त्तद॒द्यनो᳚ब्रूयादनु॒देयी॒यथाभ॑वत् || {5/7}{10.135.5}{10.11.7.5}{8.7.23.5}{1488, 972, 10286}

कः¦कु॒मा॒र‌म्¦अ॒ज॒न॒य॒त्¦रथ᳚‌म्¦कः¦निः¦अ॒व॒र्त॒य॒त् | कः¦स्वि॒त्¦तत्¦अ॒द्य¦नः॒¦ब्रू॒या॒त्¦अ॒नु॒ऽदेयी᳚¦यथा᳚¦अभ॑वत् ||

यथाभ॑वदनु॒देयी॒ततो॒,अग्र॑मजायत |{यामायनः कुमारः | यमः | अनुष्टुप्}

पु॒रस्ता᳚द्बु॒ध्नआत॑तःप॒श्चान्नि॒रय॑णंकृ॒तम् || {6/7}{10.135.6}{10.11.7.6}{8.7.23.6}{1489, 972, 10287}

यथा᳚¦अभ॑वत्¦अ॒नु॒ऽदेयी᳚¦ततः॑¦अग्र᳚‌म्¦अ॒जा॒य॒त॒ | पु॒रस्ता᳚त्¦बु॒ध्नः¦आऽत॑तः¦प॒श्चात्¦निः॒।आय॑न‌म्¦कृ॒त‌म् ||

इ॒दंय॒मस्य॒साद॑नंदेवमा॒नंयदु॒च्यते᳚ |{यामायनः कुमारः | यमः | अनुष्टुप्}

इ॒यम॑स्यधम्यतेना॒ळीर॒यंगी॒र्भिःपरि॑ष्कृतः || {7/7}{10.135.7}{10.11.7.7}{8.7.23.7}{1490, 972, 10288}

इ॒द‌म्¦य॒मस्य॑¦सद॑न‌म्¦दे॒व॒ऽमा॒न‌म्¦यत्¦उ॒च्यते᳚ | इ॒य‌म्¦अ॒स्य॒¦ध॒म्य॒ते॒¦ना॒ळीः¦अ॒य‌म्¦गीः॒ऽभिः¦परि॑ऽकृतः ||

[136] केशीति सप्तर्चस्य सूक्तस्य वातरशना जूतिर्वातजूतिर्विप्र जूतिर्वृषाणकः करिक्रत एतशऋष्यशृंग इति क्रमेणैकर्चाऋषयः | केश्यग्निसूर्यवायवोदेवताअनुष्टुप् |
के॒श्य१॑(अ॒)ग्निंके॒शीवि॒षंके॒शीबि॑भर्ति॒रोद॑सी |{जूतिः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्}

के॒शीविश्वं॒स्व॑र्दृ॒शेके॒शीदंज्योति॑रुच्यते || {1/7}{10.136.1}{10.11.8.1}{8.7.24.1}{1491, 973, 10289}

के॒शी¦अ॒ग्नि‌म्¦के॒शी¦वि॒ष‌म्¦के॒शी¦बि॒भ॒र्ति॒¦रोद॑सी॒ इति॑ | के॒शी¦विश्व᳚‌म्¦स्वः॑¦दृ॒शे¦के॒शी¦इ॒द‌म्¦ज्योतिः॑¦उ॒च्य॒ते॒ ||

मुन॑यो॒वात॑रशनाःपि॒शङ्गा᳚वसते॒मला᳚ |{वातजूतिः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्}

वात॒स्यानु॒ध्राजिं᳚यन्ति॒यद्दे॒वासो॒,अवि॑क्षत || {2/7}{10.136.2}{10.11.8.2}{8.7.24.2}{1492, 973, 10290}

मुन॑यः¦वात॑ऽरशनाः¦पि॒शङ्गाः᳚¦व॒स॒ते॒¦मला᳚ | वात॑स्य¦अनु॑¦ध्राजि᳚‌म्¦यन्ति॑¦यत्¦दे॒वासः॑¦अवि॑क्षत ||

उन्म॑दिता॒मौने᳚येन॒वाताँ॒,त॑स्थिमाव॒यम् |{विप्र जूतिः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्}

शरी॒रेद॒स्माकं᳚यू॒यंमर्ता᳚सो,अ॒भिप॑श्यथ || {3/7}{10.136.3}{10.11.8.3}{8.7.24.3}{1493, 973, 10291}

उत्ऽम॑दिताः¦मौने᳚येन¦वाता᳚न्¦आ¦त॒स्थि॒म॒¦व॒य‌म् | शरी᳚रा¦इत्¦अ॒स्माक᳚‌म्¦यू॒य‌म्¦मर्ता᳚सः¦अ॒भि¦प॒श्य॒थ॒ ||

अ॒न्तरि॑क्षेणपतति॒विश्वा᳚रू॒पाव॒चाक॑शत् |{ऋषाणकः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्}

मुनि॑र्दे॒वस्य॑देवस्य॒सौकृ॑त्याय॒सखा᳚हि॒तः || {4/7}{10.136.4}{10.11.8.4}{8.7.24.4}{1494, 973, 10292}

अ॒न्तरि॑क्षेण¦प॒त॒ति॒¦विश्वा᳚¦रू॒पा¦अ॒व॒ऽचाक॑शत् | मुनिः॑¦दे॒वस्य॑ऽदेवस्य¦सौकृ॑त्याय¦सखा᳚¦हि॒तः ||

वात॒स्याश्वो᳚वा॒योःसखाथो᳚दे॒वेषि॑तो॒मुनिः॑ |{करिक्रतः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्}

उ॒भौस॑मु॒द्रावाक्षे᳚ति॒यश्च॒पूर्व॑उ॒ताप॑रः || {5/7}{10.136.5}{10.11.8.5}{8.7.24.5}{1495, 973, 10293}

वात॑स्य¦अश्वः॑¦वा॒योः¦सखा᳚¦अथो॒ इति॑¦दे॒वऽ‌इ᳚षितः¦मुनिः॑ | उ॒भौ¦स॒मु॒द्रौ¦आ¦क्षे॒ति॒¦यः¦च॒¦पूर्वः॑¦उ॒त¦अप॑रः ||

अ॒प्स॒रसां᳚गन्ध॒र्वाणां᳚मृ॒गाणां॒चर॑णे॒चर॑न् |{एतशः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्}

के॒शीकेत॑स्यवि॒द्वान्‌त्सखा᳚स्वा॒दुर्म॒दिन्त॑मः || {6/7}{10.136.6}{10.11.8.6}{8.7.24.6}{1496, 973, 10294}

अ॒प्स॒रसा᳚‌म्¦ग॒न्ध॒र्वाणा᳚‌म्¦मृ॒गाणा᳚‌म्¦चर॑णे¦चर॑न् | के॒शी¦केत॑स्य¦वि॒द्वान्¦सखा᳚¦स्वा॒दुः¦म॒दिन्ऽत॑मः ||

वा॒युर॑स्मा॒,उपा᳚मन्थत्पि॒नष्टि॑स्माकुनन्न॒मा |{ऋष्यशृंगः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्}

के॒शीवि॒षस्य॒पात्रे᳚ण॒यद्रु॒द्रेणापि॑बत्स॒ह || {7/7}{10.136.7}{10.11.8.7}{8.7.24.7}{1497, 973, 10295}

वा॒युर्¦अ॒स्मै॒¦उप॑¦अ॒म॒न्थ॒त्¦पि॒नष्टि॑¦स्म॒¦कु॒न॒न्न॒मा | के॒शी¦वि॒षस्य॑¦पात्रे᳚ण¦यत्¦रु॒द्रेण॑¦अपि॑बत्¦स॒ह ||

[137] उतेति सप्तर्चस्य सूक्तस्य भरद्वाजः कश्यपोगौतमोत्रिर्विश्वामित्रोजमदग्निर्वसिष्ठ इतिक्रमेणैकर्चाऋषयो विश्वेदेवा अनुष्टुप् (भेदपक्षे-देवाः १ वातः ३ विश्वेदेवाः १ आपः २ एवं ७) |
उ॒तदे᳚वा॒,अव॑हितं॒देवा॒,उन्न॑यथा॒पुनः॑ |{भरद्वाजः | विश्वदेवाः | अनुष्टुप्}

उ॒ताग॑श्च॒क्रुषं᳚देवा॒देवा᳚जी॒वय॑था॒पुनः॑ || {1/7}{10.137.1}{10.11.9.1}{8.7.25.1}{1498, 974, 10296}

उ॒त¦दे॒वाः॒¦अव॑ऽहित‌म्¦देवाः᳚¦उत्¦न॒य॒थ॒¦पुन॒रिति॑ | उ॒त¦आगः॑¦च॒क्रुष᳚‌म्¦दे॒वः॒¦देवाः᳚¦जी॒वय॑थ¦पुन॒रिति॑ ||

द्वावि॒मौवातौ᳚वात॒सिन्धो॒राप॑रा॒वतः॑ |{कश्यपः | विश्वदेवाः | अनुष्टुप्}

दक्षं᳚ते,अ॒न्यवा᳚तु॒परा॒न्योवा᳚तु॒यद्रपः॑ || {2/7}{10.137.2}{10.11.9.2}{8.7.25.2}{1499, 974, 10297}

द्वौ¦इ॒मौ¦वातौ᳚¦वा॒तः॒¦आ¦सिन्धोः᳚¦आ¦प॒रा॒ऽवतः॑ | दक्ष᳚‌म्¦ते॒¦अ॒न्यः¦आ¦वा॒तु॒¦परा᳚¦अ॒न्यः¦वा॒तु॒¦यत्¦रपः॑ ||

वा᳚तवाहिभेष॒जंविवा᳚तवाहि॒यद्रपः॑ |{गोतमः | विश्वदेवाः | अनुष्टुप्}

त्वंहिवि॒श्वभे᳚षजोदे॒वानां᳚दू॒तईय॑से || {3/7}{10.137.3}{10.11.9.3}{8.7.25.3}{1500, 974, 10298}

आ¦वा॒त॒¦वा॒हि॒¦भे॒ष॒ज‌म्¦वि¦वा॒त॒¦वा॒हि॒¦यत्¦रपः॑ | त्व‌म्¦हि¦वि॒श्वऽभे᳚षजः¦दे॒वाना᳚‌म्¦दू॒तः¦ईय॑से ||

त्वा᳚गमं॒शंता᳚तिभि॒रथो᳚,अरि॒ष्टता᳚तिभिः |{अत्रिः | विश्वदेवाः | अनुष्टुप्}

दक्षं᳚तेभ॒द्रमाभा᳚र्षं॒परा॒यक्ष्मं᳚सुवामिते || {4/7}{10.137.4}{10.11.9.4}{8.7.25.4}{1501, 974, 10299}

आ¦त्वा॒¦अ॒ग॒म॒‌म्¦शन्ता᳚तिऽभिः¦अथो॒ इति॑¦अ॒रि॒ष्टता᳚तिऽभिः | दक्ष᳚‌म्¦ते॒¦भ॒द्र‌म्¦आ¦अ॒भा॒र्ष॒‌म्¦परा᳚¦यक्ष्म᳚‌म्¦सु॒वा॒मि॒¦ते ||

त्राय᳚न्तामि॒हदे॒वा¦स्त्राय॑तांम॒रुतां᳚ग॒णः |{विश्वामित्रः | विश्वदेवाः | अनुष्टुप्}

त्राय᳚न्तां॒विश्वा᳚भू॒तानि॒¦यथा॒यम॑र॒पा,अस॑त् || {5/7}{10.137.5}{10.11.9.5}{8.7.25.5}{1502, 974, 10300}

त्राय᳚न्ता‌म्¦इ॒ह¦दे॒वाः¦त्राय॑ता‌म्¦म॒रुता᳚‌म्¦ग॒णः | त्राय᳚न्ता‌म्¦विश्वा᳚¦भू॒तानि॑¦यथा᳚¦अ॒य‌म्¦अ॒र॒पाः¦अस॑त् ||

आप॒इद्वा,उ॑भेष॒जी¦रापो᳚,अमीव॒चात॑नीः |{जमदग्निः | विश्वदेवाः | अनुष्टुप्}

आपः॒सर्व॑स्यभेष॒जी¦स्तास्ते᳚कृण्वन्तुभेष॒जम् || {6/7}{10.137.6}{10.11.9.6}{8.7.25.6}{1503, 974, 10301}

आपः॑¦इत्¦वा॒¦ऊँ॒ इति॑¦भे॒ष॒जीः¦आपः॑¦अ॒मी॒व॒ऽचात॑नीः | आपः॑¦सर्व॑स्य¦भे॒ष॒जीः¦ताः¦ते॒¦कृ॒ण्व॒न्तु॒¦भे॒ष॒ज‌म् ||

हस्ता᳚भ्यां॒दश॑शाखाभ्यां¦जि॒ह्वावा॒चःपु॑रोग॒वी |{वसिष्ठः | विश्वदेवाः | अनुष्टुप्}

अ॒ना॒म॒यि॒त्नुभ्यां᳚त्वा॒¦ताभ्यां॒त्वोप॑स्पृशामसि || {7/7}{10.137.7}{10.11.9.7}{8.7.25.7}{1504, 974, 10302}

हस्ता᳚भ्या‌म्¦दश॑ऽशाखाभ्या‌म्¦जि॒ह्वा¦वा॒चः¦पु॒रः॒ऽग॒वी | अ॒ना॒म॒यि॒त्नुऽभ्या᳚‌म्¦त्वा॒¦ताभ्या᳚‌म्¦त्वा॒¦उप॑¦स्पृ॒शा॒म॒सि॒ ||

[138] तवत्यइति षडृचस्य सूक्तस्यौरवोंग इंद्रोजगती |
तव॒त्यइ᳚न्द्रस॒ख्येषु॒वह्न॑यऋ॒तंम᳚न्वा॒नाव्य॑दर्दिरुर्व॒लम् |{औरवोंगः | इन्द्रः | जगती}

यत्रा᳚दश॒स्यन्नु॒षसो᳚रि॒णन्न॒पःकुत्सा᳚य॒मन्म᳚न्न॒ह्य॑श्चदं॒सयः॑ || {1/6}{10.138.1}{10.11.10.1}{8.7.26.1}{1505, 975, 10303}

तव॑¦त्ये¦इ॒न्द्र॒¦स॒ख्येषु॑¦वह्न॑यः¦ऋ॒त‌म्¦म॒न्वा॒नाः¦वि¦अ॒द॒र्दि॒रुः॒¦व॒ल‌म् |
यत्र॑¦द॒श॒स्यन्¦उ॒षसः॑¦रि॒णन्¦आ॒पः¦कुत्सा᳚य¦मन्म॑न्¦अ॒ह्यः॑¦च॒¦दं॒सयः॑ ||

अवा᳚सृजःप्र॒स्वः॑श्व॒ञ्चयो᳚गि॒रीनुदा᳚जउ॒स्रा,अपि॑बो॒मधु॑प्रि॒यम् |{औरवोंगः | इन्द्रः | जगती}

अव॑र्धयोव॒निनो᳚,अस्य॒दंस॑साशु॒शोच॒सूर्य॑ऋ॒तजा᳚तयागि॒रा || {2/6}{10.138.2}{10.11.10.2}{8.7.26.2}{1506, 975, 10304}

अव॑¦अ॒सृ॒जः॒¦प्र॒ऽस्वः॑¦श्वं॒चयः॑¦गि॒रीन्¦उत्¦आ॒जः॒¦उ॒स्राः¦अपि॑बः¦मधु॑¦प्रि॒य‌म् |
अव॑र्धयः¦व॒निनः॑¦अ॒स्य॒¦दंस॑सा¦शु॒शोच॑¦सूर्यः॑¦ऋ॒तऽजा᳚तया᳚¦गि॒रा ||

विसूर्यो॒मध्ये᳚,अमुच॒द्रथं᳚दि॒वोवि॒दद्दा॒साय॑प्रति॒मान॒मार्यः॑ |{औरवोंगः | इन्द्रः | जगती}

दृ॒ळ्हानि॒पिप्रो॒रसु॑रस्यमा॒यिन॒इन्द्रो॒व्या᳚स्यच्चकृ॒वाँ,ऋ॒जिश्व॑ना || {3/6}{10.138.3}{10.11.10.3}{8.7.26.3}{1507, 975, 10305}

वि¦सूर्यः॑¦मध्ये᳚¦अ॒मु॒च॒त्¦रथ᳚‌म्¦दि॒वः¦वि॒दत्¦दा॒साय॑¦प्र॒ति॒ऽमान᳚‌म्¦आर्यः॑ |
दृ॒ळ्हानि॑¦पिप्रोः᳚¦असु॑रस्य¦मा॒यिनः॑¦इन्द्रः॑¦वि¦आ॒स्य॒त्¦च॒कृ॒ऽवान्¦ऋ॒जिश्व॑ना ||

अना᳚धृष्टानिधृषि॒तोव्या᳚स्यन्नि॒धीँरदे᳚वाँ,अमृणद॒यास्यः॑ |{औरवोंगः | इन्द्रः | जगती}

मा॒सेव॒सूर्यो॒वसु॒पुर्य॒माद॑देगृणा॒नःशत्रूँ᳚रशृणाद्वि॒रुक्म॑ता || {4/6}{10.138.4}{10.11.10.4}{8.7.26.4}{1508, 975, 10306}

अना᳚धृष्टानि¦धृ॒षि॒तः¦वि¦आ॒स्य॒त्¦नि॒ऽधीन्¦अदे᳚वान्¦अ॒मृ॒ण॒त्¦अ॒यास्यः॑ |
मा॒साऽ‌इ᳚व¦सूर्यः॑¦वसु॑¦पुर्य᳚‌म्¦आ¦द॒दे॒¦गृ॒णा॒नः¦शत्रू᳚न्¦अ॒शृ॒णा॒त्¦वि॒ऽरुक्म॑ता ||

अयु॑द्धसेनोवि॒भ्वा᳚विभिन्द॒तादाश॑द्वृत्र॒हातुज्या᳚नितेजते |{औरवोंगः | इन्द्रः | जगती}

इन्द्र॑स्य॒वज्रा᳚दबिभेदभि॒श्नथः॒प्राक्रा᳚मच्छु॒न्ध्यूरज॑हादु॒षा,अनः॑ || {5/6}{10.138.5}{10.11.10.5}{8.7.26.5}{1509, 975, 10307}

अयु॑द्धऽसेनः¦वि॒ऽभ्वा᳚¦वि॒ऽभि॒न्द॒ता¦दाश॑त्¦वृ॒त्र॒ऽहा¦तुज्या᳚नि¦ते॒ज॒ते॒ |
इन्द्र॑स्य¦वज्रा᳚त्¦अ॒बि॒भे॒त्¦अ॒भि॒ऽश्नथः॑¦प्र¦अ॒क्रा॒म॒त्¦शु॒न्ध्यूः¦अज॑हात्¦उ॒षाः¦अनः॑ ||

ए॒तात्याते॒श्रुत्या᳚नि॒केव॑ला॒यदेक॒एक॒मकृ॑णोरय॒ज्ञम् |{औरवोंगः | इन्द्रः | जगती}

मा॒सांवि॒धान॑मदधा॒,अधि॒द्यवि॒त्वया॒विभि᳚न्नंभरतिप्र॒धिंपि॒ता || {6/6}{10.138.6}{10.11.10.6}{8.7.26.6}{1510, 975, 10308}

ए॒ता¦त्या¦ते॒¦श्रुत्या᳚नि¦केव॑ला¦यत्¦एकः॑¦एक᳚‌म्¦अकृ॑णोः¦अ॒य॒ज्ञ‌म् |
मा॒सा‌म्¦वि॒ऽधान᳚‌म्¦अ॒द॒धाः॒¦अधि॑¦द्यवि॑¦त्वया᳚¦विऽभि᳚न्न‌म्¦भ॒र॒ति॒¦प्र॒ऽधि‌म्¦पि॒ता ||

[139] सूर्यरश्मिरिति षडृचस्य सूक्तस्य देवगंधर्वोविश्वावसुः सवितांत्यतिसृणां देवगंधर्वोविश्वावसुस्त्रिष्टुप् |
सूर्य॑रश्मि॒र्हरि॑केशःपु॒रस्ता᳚त्सवि॒ताज्योति॒रुद॑याँ॒,अज॑स्रम् |{देवगंधर्वोविश्वावसुः | सविता | त्रिष्टुप्}

तस्य॑पू॒षाप्र॑स॒वेया᳚तिवि॒द्वान्‌त्स॒म्पश्य॒न्‌विश्वा॒भुव॑नानिगो॒पाः || {1/6}{10.139.1}{10.11.11.1}{8.7.27.1}{1511, 976, 10309}

सूर्य॑ऽरश्मिः¦हरि॑ऽकेशः¦पु॒रस्ता᳚त्¦स॒वि॒ता¦ज्योतिः॑¦उत्¦अ॒या॒न्¦अज॑स्र‌म् |
तस्य॑¦पू॒षा¦प्र॒ऽस॒वे¦या॒ति¦वि॒द्वान्¦स॒‌म्ऽपश्य॑न्¦विश्वा᳚¦भुव॑नानि¦गो॒पाः ||

नृ॒चक्षा᳚,ए॒षदि॒वोमध्य॑आस्तआपप्रि॒वान्‌रोद॑सी,अ॒न्तरि॑क्षम् |{देवगंधर्वोविश्वावसुः | सविता | त्रिष्टुप्}

वि॒श्वाची᳚र॒भिच॑ष्टेघृ॒ताची᳚रन्त॒रापूर्व॒मप॑रंके॒तुम् || {2/6}{10.139.2}{10.11.11.2}{8.7.27.2}{1512, 976, 10310}

नृ॒ऽचक्षाः᳚¦ए॒षः¦दि॒वः¦मध्ये᳚¦आ॒स्ते॒¦आ॒प॒प्रि॒ऽवान्¦रोद॑सी॒ इति॑¦अ॒न्तरि॑क्ष‌म् |
सः¦वि॒श्वाचीः᳚¦अ॒भि¦च॒ष्टि॒¦घृ॒ताचीः᳚¦अ॒न्त॒रा¦पूर्व᳚‌म्¦अप॑र‌म्¦च॒¦के॒तु‌म् ||

रा॒योबु॒ध्नःसं॒गम॑नो॒वसू᳚नां॒विश्वा᳚रू॒पाभिच॑ष्टे॒शची᳚भिः |{देवगंधर्वोविश्वावसुः | सविता | त्रिष्टुप्}

दे॒वइ॑वसवि॒तास॒त्यध॒र्मेन्द्रो॒त॑स्थौसम॒रेधना᳚नाम् || {3/6}{10.139.3}{10.11.11.3}{8.7.27.3}{1513, 976, 10311}

रा॒यः¦बु॒ध्नः¦स॒‌म्ऽगम॑नः¦वसू᳚ना‌म्¦विश्वा᳚¦रू॒पा¦अ॒भि¦च॒ष्टे॒¦शची᳚भिः |
दे॒वःऽ‌इ᳚व¦स॒वि॒ता¦स॒त्यऽध᳚र्मा¦इन्द्रः॑¦न¦त॒स्थौ॒¦स॒‌म्।आ॒रे¦धना᳚ना‌म् ||

वि॒श्वाव॑सुंसोमगन्ध॒र्वमापो᳚ददृ॒शुषी॒स्तदृ॒तेना॒व्या᳚यन् |{देवगंधर्वोविश्वावसुः | देवगंधर्वोविश्वावसुः | त्रिष्टुप्}

तद॒न्ववै॒दिन्द्रो᳚रारहा॒णआ᳚सां॒परि॒सूर्य॑स्यपरि॒धीँर॑पश्यत् || {4/6}{10.139.4}{10.11.11.4}{8.7.27.4}{1514, 976, 10312}

वि॒श्वऽव॑सु‌म्¦सो॒म॒¦ग॒न्ध॒र्व‌म्¦आपः॑¦द॒दृ॒शुषीः᳚¦तत्¦ऋ॒तेन॑¦वि¦आ॒य॒न् |
तत्¦अ॒नु॒।आवै᳚त्¦इन्द्रः॑¦र॒र॒हा॒णः¦आ॒सा॒‌म्¦परि॑¦सूर्य॑स्य¦प॒रि॒ऽधीन्¦अ॒प॒श्य॒त् ||

वि॒श्वाव॑सुर॒भितन्नो᳚गृणातुदि॒व्योग᳚न्ध॒र्वोरज॑सोवि॒मानः॑ |{देवगंधर्वोविश्वावसुः | देवगंधर्वोविश्वावसुः | त्रिष्टुप्}

यद्वा᳚घास॒त्यमु॒तयन्नवि॒द्मधियो᳚हिन्वा॒नोधिय॒इन्नो᳚,अव्याः || {5/6}{10.139.5}{10.11.11.5}{8.7.27.5}{1515, 976, 10313}

वि॒श्वऽव॑सुः¦अ॒भि¦तत्¦नः॒¦गृ॒णा॒तु॒¦दि॒व्यः¦ग॒न्ध॒र्वः¦रज॑सः¦वि॒ऽमानः॑ |
यत्¦वा॒¦घ॒¦स॒त्य‌म्¦उ॒त¦यत्¦न¦वि॒द्म¦धियः॑¦हि॒न्वा॒नः¦धियः॑¦इत्¦नः॒¦अ॒व्याः॒ ||

सस्नि॑मविन्द॒च्चर॑णेन॒दीना॒मपा᳚वृणो॒द्दुरो॒,अश्म᳚व्रजानाम् |{देवगंधर्वोविश्वावसुः | देवगंधर्वोविश्वावसुः | त्रिष्टुप्}

प्रासां᳚गन्ध॒र्वो,अ॒मृता᳚निवोच॒दिन्द्रो॒दक्षं॒परि॑जानाद॒हीना᳚म् || {6/6}{10.139.6}{10.11.11.6}{8.7.27.6}{1516, 976, 10314}

सस्नि᳚‌म्¦अ॒वि॒न्द॒त्¦चर॑णे¦न॒दीना᳚‌म्¦अप॑¦अ॒वृ॒णो॒त्¦दुरः॑¦अश्म॑ऽव्रजाना‌म् |
प्र¦आ॒सा॒‌म्¦ग॒न्ध॒र्वः¦अ॒मृता᳚नि¦वो॒च॒त्¦इन्द्रः॑¦दक्ष᳚‌म्¦परि॑¦जा॒ना॒त्¦अ॒हीना᳚‌म् ||

[140] अग्नेतवेति षडृचस्य सूक्तस्य पावकोग्निरग्निः सतोबृहती आध्येविष्टारपंक्ती अंत्योपरिष्टाज्ज्योतिः |
अग्ने॒तव॒श्रवो॒वयो॒महि॑भ्राजन्ते,अ॒र्चयो᳚विभावसो |{पावकोग्निः | अग्निः | विष्टारपङ्क्तिः}

बृह॑द्भानो॒शव॑सा॒वाज॑मु॒क्थ्य१॑(अं॒)दधा᳚सिदा॒शुषे᳚कवे || {1/6}{10.140.1}{10.11.12.1}{8.7.28.1}{1517, 977, 10315}

अग्ने᳚¦तव॑¦श्रवः॑¦वयः॑¦महि॑¦भ्रा॒ज॒न्ते॒¦अ॒र्चयः॑¦वि॒भा॒व॒सो॒ इति॑ विभाऽवसो |
बृह॑द्भानो॒ इति॒ बृह॑त्ऽभानो¦शव॑सा¦वाज᳚‌म्¦उ॒क्थ्य᳚‌म्¦दधा᳚सि¦दा॒शुषे᳚¦क॒वे॒ ||

पा॒व॒कव॑र्चाःशु॒क्रव॑र्चा॒,अनू᳚नवर्चा॒,उदि॑यर्षिभा॒नुना᳚ |{पावकोग्निः | अग्निः | विष्टारपङ्क्तिः}

पु॒त्रोमा॒तरा᳚वि॒चर॒न्नुपा᳚वसिपृ॒णक्षि॒रोद॑सी,उ॒भे || {2/6}{10.140.2}{10.11.12.2}{8.7.28.2}{1518, 977, 10316}

पा॒व॒कऽव॑र्चाः¦शु॒क्रऽव॑र्चाः¦अनू᳚नऽवर्चाः¦उत्¦इ॒य॒र्षि॒¦भा॒नुना᳚ |
पु॒त्रः¦मा॒तरा᳚¦वि॒ऽचर॑न्¦उ॒प॑¦अ॒व॒सि॒¦पृ॒णक्षि॑¦रोद॑सी॒ इति॑¦उ॒भे इति॑ ||

ऊर्जो᳚नपाज्जातवेदःसुश॒स्तिभि॒र्मन्द॑स्वधी॒तिभि᳚र्हि॒तः |{पावकोग्निः | अग्निः | सतोबृहती}

त्वे,इषः॒संद॑धु॒र्भूरि॑वर्पसश्चि॒त्रोत॑योवा॒मजा᳚ताः || {3/6}{10.140.3}{10.11.12.3}{8.7.28.3}{1519, 977, 10317}

ऊर्जः॑¦न॒पा॒त्¦जा॒त॒ऽवे॒दः॒¦सु॒श॒स्तिऽभिः॑¦मन्द॑स्व¦धी॒तिऽभिः॑¦हि॒तः |
त्वे इति॑¦इषः॑¦स‌म्¦द॒धुः॒¦भूरि॑ऽवर्पसः¦चि॒त्रऽऊ᳚तयः¦वा॒मऽजा᳚ताः ||

इ॒र॒ज्यन्न॑ग्नेप्रथयस्वज॒न्तुभि॑र॒स्मेरायो᳚,अमर्त्य |{पावकोग्निः | अग्निः | सतोबृहती}

द॑र्श॒तस्य॒वपु॑षो॒विरा᳚जसिपृ॒णक्षि॑सान॒सिंक्रतु᳚म् || {4/6}{10.140.4}{10.11.12.4}{8.7.28.4}{1520, 977, 10318}

इ॒र॒ज्यन्¦अ॒ग्ने॒¦प्र॒थ॒य॒स्व॒¦ज॒न्तुऽभिः॑¦अ॒स्मे इति॑¦रायः॑¦अ॒म॒र्त्य॒ |
सः¦द॒र्श॒तस्य॑¦वपु॑षः¦वि¦रा॒ज॒सि॒¦पृ॒णक्षि॑¦सा॒न॒सि‌म्¦क्रतु᳚‌म् ||

इ॒ष्क॒र्तार॑मध्व॒रस्य॒प्रचे᳚तसं॒क्षय᳚न्तं॒राध॑सोम॒हः |{पावकोग्निः | अग्निः | सतोबृहती}

रा॒तिंवा॒मस्य॑सु॒भगां᳚म॒हीमिषं॒दधा᳚सिसान॒सिंर॒यिम् || {5/6}{10.140.5}{10.11.12.5}{8.7.28.5}{1521, 977, 10319}

इ॒ष्क॒र्तार᳚‌म्¦अ॒ध्व॒रस्य॑¦प्रऽचे᳚तस‌म्¦क्षय᳚न्त‌म्¦राध॑सः¦म॒हः |
रा॒ति‌म्¦वा॒मस्य॑¦सु॒ऽभगा᳚‌म्¦म॒ही‌म्¦इष᳚‌म्¦दधा᳚सि¦सा॒न॒सि‌म्¦र॒यि‌म् ||

ऋ॒तावा᳚नंमहि॒षंवि॒श्वद॑र्शतम॒ग्निंसु॒म्नाय॑दधिरेपु॒रोजनाः᳚ |{पावकोग्निः | अग्निः | परिष्टाज्ज्योतिः}

श्रुत्क᳚र्णंस॒प्रथ॑स्तमंत्वागि॒रादैव्यं॒मानु॑षायु॒गा || {6/6}{10.140.6}{10.11.12.6}{8.7.28.6}{1522, 977, 10320}

ऋ॒तऽवा᳚न‌म्¦म॒हि॒ष‌म्¦वि॒श्वऽद॑र्शत‌म्¦अ॒ग्नि‌म्¦सु॒म्नाय॑¦द॒धि॒रे॒¦पु॒रः¦जनाः᳚ |
श्रुत्ऽक᳚र्ण‌म्¦स॒प्रथः॑ऽतम‌म्¦त्वा॒¦गि॒रा¦दैव्य᳚‌म्¦मानु॑षा¦यु॒गा ||

[141] अग्नेअच्छेति षडृचस्य सूक्तस्य तापसोग्निर्विश्वेदेवा अनुष्टुप् |
अग्ने॒,अच्छा᳚वदे॒हनः॑प्र॒त्यङ्नः॑सु॒मना᳚भव |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्}

प्रनो᳚यच्छविशस्पतेधन॒दा,अ॑सिन॒स्त्वम् || {1/6}{10.141.1}{10.11.13.1}{8.7.29.1}{1523, 978, 10321}

अग्ने᳚¦अच्छ॑¦व॒द॒¦इ॒ह¦नः॒¦प्र॒त्यङ्¦नः॒¦सु॒ऽमनाः᳚¦भ॒व॒ | प्र¦नः॒¦य॒च्छ॒¦वि॒शः॒¦प॒ते॒¦ध॒न॒ऽदाः¦अ॒सि॒¦नः॒¦त्व‌म् ||

प्रनो᳚यच्छत्वर्य॒माप्रभगः॒प्रबृह॒स्पतिः॑ |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्}

प्रदे॒वाःप्रोतसू॒नृता᳚रा॒योदे॒वीद॑दातुनः || {2/6}{10.141.2}{10.11.13.2}{8.7.29.2}{1524, 978, 10322}

प्र¦नः॒¦य॒च्छ॒तु॒¦अ॒र्य॒मा¦प्र¦भगः॑¦प्र¦बृह॒स्पतिः॑ | प्र¦दे॒वाः¦प्र¦उ॒त¦सू॒नृता᳚¦रा॒यः¦दे॒वी¦द॒दा॒तु॒¦नः॒ ||

सोमं॒राजा᳚न॒मव॑से॒ऽग्निंगी॒र्भिर्ह॑वामहे |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्}

आ॒दि॒त्यान्‌विष्णुं॒सूर्यं᳚ब्र॒ह्माणं᳚च॒बृह॒स्पति᳚म् || {3/6}{10.141.3}{10.11.13.3}{8.7.29.3}{1525, 978, 10323}

सोम᳚‌म्¦राजा᳚न‌म्¦अव॑से¦अ॒ग्नि‌म्¦गीः॒ऽभिः¦ह॒वा॒म॒हे॒ | आ॒दि॒त्यान्¦विष्णु᳚‌म्¦सूर्य᳚‌म्¦ब्र॒ह्माण᳚‌म्¦च॒¦बृह॒स्पति᳚‌म् ||

इ॒न्द्र॒वा॒यूबृह॒स्पतिं᳚सु॒हवे॒हह॑वामहे |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्}

यथा᳚नः॒सर्व॒इज्जनः॒संग॑त्यांसु॒मना॒,अस॑त् || {4/6}{10.141.4}{10.11.13.4}{8.7.29.4}{1526, 978, 10324}

इ॒न्द्र॒वा॒यू इति॑¦बृह॒स्पति᳚‌म्¦सु॒ऽहवा᳚¦इ॒ह¦ह॒वा॒म॒हे॒ | यथा᳚¦नः॒¦सर्वः॑¦इत्¦जनः॑¦स‌म्ऽग॑त्या‌म्¦सु॒ऽमनाः᳚¦अस॑त् ||

अ॒र्य॒मणं॒बृह॒स्पति॒मिन्द्रं॒दाना᳚यचोदय |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्}

वातं॒विष्णुं॒सर॑स्वतींसवि॒तारं᳚वा॒जिन᳚म् || {5/6}{10.141.5}{10.11.13.5}{8.7.29.5}{1527, 978, 10325}

अ॒र्य॒मण᳚‌म्¦बृह॒स्पति᳚‌म्¦इन्द्र᳚‌म्¦दाना᳚य¦चो॒द॒य॒ | वात᳚‌म्¦विष्णु᳚‌म्¦सर॑स्वती‌म्¦स॒वि॒तार᳚‌म्¦च॒¦वा॒जिन᳚‌म् ||

त्वंनो᳚,अग्ने,अ॒ग्निभि॒र्ब्रह्म॑य॒ज्ञंच॑वर्धय |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्}

त्वंनो᳚दे॒वता᳚तयेरा॒योदाना᳚यचोदय || {6/6}{10.141.6}{10.11.13.6}{8.7.29.6}{1528, 978, 10326}

त्व‌म्¦नः॒¦अ॒ग्ने॒¦अ॒ग्निऽभिः॑¦ब्रह्म॑¦य॒ज्ञ‌म्¦च॒¦व॒र्ध॒य॒ | त्व‌म्¦नः॒¦दे॒वऽता᳚तये¦रा॒यः¦दाना᳚य¦चो॒द॒य॒ ||

[142] अयमग्नइत्यष्टर्चस्य सूक्तस्य प्रथमयोः शार्ङ्गोजरिता तृतीयाचतुर्थ्योः शार्ङ्गोद्रोणः पंचमीषष्ट्योः शार्ङ्गःसारिसृक्कः सप्तम्यष्टम्योः शार्ङ्गस्तम्बमित्रोग्निस्त्रिष्टुप् आद्येजगत्यावंत्येअनुष्टुभौ |
अ॒यम॑ग्नेजरि॒तात्वे,अ॑भू॒दपि॒सह॑सःसूनोन॒ह्य१॑(अ॒)न्यदस्त्याप्य᳚म् |{शार्ङ्गोजरिताः | अग्निः | जगती}

भ॒द्रंहिशर्म॑त्रि॒वरू᳚थ॒मस्ति॑आ॒रेहिंसा᳚ना॒मप॑दि॒द्युमाकृ॑धि || {1/8}{10.142.1}{10.11.14.1}{8.7.30.1}{1529, 979, 10327}

अ॒य‌म्¦अ॒ग्ने॒¦ज॒रि॒ता¦त्वे इति॑¦अ॒भू॒त्¦अपि॑¦सह॑सः¦सू॒नो॒ इति॑¦न॒हि¦अ॒न्यत्¦अस्ति॑¦आप्य᳚‌म् |
भ॒द्र‌म्¦हि¦शर्म॑¦त्रि॒ऽवरू᳚थ‌म्¦अस्ति॑¦ते॒¦आ॒रे¦हिंसा᳚ना‌म्¦अप॑¦दि॒द्यु‌म्¦आ¦कृ॒धि॒ ||

प्र॒वत्ते᳚,अग्ने॒जनि॑मापितूय॒तःसा॒चीव॒विश्वा॒भुव॑ना॒न्यृ᳚ञ्जसे |{शार्ङ्गोजरिताः | अग्निः | जगती}

प्रसप्त॑यः॒प्रस॑निषन्तनो॒धियः॑पु॒रश्च॑रन्तिपशु॒पा,इ॑व॒त्मना᳚ || {2/8}{10.142.2}{10.11.14.2}{8.7.30.2}{1530, 979, 10328}

प्र॒ऽवत्¦ते॒¦अ॒ग्ने॒¦जनि॑म¦पि॒तु॒ऽय॒तः¦सा॒चीऽ‌इ᳚व¦विश्वा᳚¦भुव॑ना¦नि¦ऋं॒ज॒से॒ |
प्र¦सप्त॑यः¦प्र¦स॒नि॒ष॒न्त॒¦नः॒¦धियः॑¦पु॒रः¦च॒र॒न्ति॒¦प॒शु॒ऽपाःऽ‌इ᳚व¦त्मना᳚ ||

उ॒तवा,उ॒परि॑वृणक्षि॒बप्स॑द्ब॒होर॑ग्न॒उल॑पस्यस्वधावः |{शार्ङ्गोद्रोणः | अग्निः | त्रिष्टुप्}

उ॒तखि॒ल्या,उ॒र्वरा᳚णांभवन्ति॒माते᳚हे॒तिंतवि॑षींचुक्रुधाम || {3/8}{10.142.3}{10.11.14.3}{8.7.30.3}{1531, 979, 10329}

उ॒त¦वा॒¦ऊँ॒ इति॑¦परि॑¦वृ॒ण॒क्षि॒¦बप्स॑त्¦ब॒होः¦अ॒ग्ने॒¦उल॑पस्य¦स्व॒धा॒ऽवः॒ |
उ॒त¦खि॒ल्याः¦उ॒र्वरा᳚णा‌म्¦भ॒व॒न्ति॒¦मा¦ते॒¦हे॒ति‌म्¦तवि॑षी‌म्¦चु॒क्रु॒धा॒म॒ ||

यदु॒द्वतो᳚नि॒वतो॒यासि॒बप्स॒त्‌पृथ॑गेषिप्रग॒र्धिनी᳚व॒सेना᳚ |{शार्ङ्गोद्रोणः | अग्निः | त्रिष्टुप्}

य॒दाते॒वातो᳚,अनु॒वाति॑शो॒चिर्वप्ते᳚व॒श्मश्रु॑वपसि॒प्रभूम॑ || {4/8}{10.142.4}{10.11.14.4}{8.7.30.4}{1532, 979, 10330}

यत्¦उ॒त्ऽवतः॑¦नि॒ऽवतः॑¦या॒सि॒¦बप्स॑त्¦पृथ॑क्¦ए॒षि॒¦प्र॒ग॒र्धिनी᳚ऽ‌इव¦सेना᳚ |
य॒दा¦ते॒¦वातः॑¦अ॒नु॒ऽवाति॑¦शो॒चिः¦वप्ता᳚ऽ‌इव¦श्मश्रु॑¦व॒प॒सि॒¦प्र¦भूम॑ ||

प्रत्य॑स्य॒श्रेण॑योददृश्र॒एकं᳚नि॒यानं᳚ब॒हवो॒रथा᳚सः |{शार्ङ्गःसारिसृक्कः | अग्निः | त्रिष्टुप्}

बा॒हूयद॑ग्ने,अनु॒मर्मृ॑जानो॒न्य᳚ङ्ङुत्ता॒नाम॒न्वेषि॒भूमि᳚म् || {5/8}{10.142.5}{10.11.14.5}{8.7.30.5}{1533, 979, 10331}

प्रति॑¦अ॒स्य॒¦श्रेण॑यः¦द॒दृ॒श्रे॒¦एक᳚‌म्¦नि॒ऽयान᳚‌म्¦ब॒हवः॑¦रथा᳚सः |
बा॒हू इति॑¦यत्¦अ॒ग्ने॒¦अ॒नु॒ऽमर्मृ॑जानः¦न्य᳚ङ्¦उ॒त्ता॒ना‌म्¦अ॒नु॒ऽएषि॑¦भूमि᳚‌म् ||

उत्ते॒शुष्मा᳚जिहता॒मुत्ते᳚,अ॒र्चिरुत्ते᳚,अग्नेशशमा॒नस्य॒वाजाः᳚ |{शार्ङ्गःसारिसृक्कः | अग्निः | त्रिष्टुप्}

उच्छ्व᳚ञ्चस्व॒निन॑म॒वर्ध॑मान॒त्वा॒द्यविश्वे॒वस॑वःसदन्तु || {6/8}{10.142.6}{10.11.14.6}{8.7.30.6}{1534, 979, 10332}

उत्¦ते॒¦शुष्माः᳚¦जि॒ह॒ता॒‌म्¦उत्¦ते॒¦अ॒र्चिः¦उत्¦ते॒¦अ॒ग्ने॒¦श॒श॒मा॒नस्य॑¦वाजाः᳚ |
उत्¦श्वं॒च॒स्व॒¦नि¦न॒म॒¦वर्ध॑मानः¦आ¦त्वा॒¦अ॒द्य¦विश्वे᳚¦वस॑वः¦स॒द॒न्तु॒ ||

अ॒पामि॒दंन्यय॑नंसमु॒द्रस्य॑नि॒वेश॑नम् |{शार्ङ्गस्तम्बमित्रः | अग्निः | अनुष्टुप्}

अ॒न्यंकृ॑णुष्वे॒तःपन्थां॒तेन॑याहि॒वशाँ॒,अनु॑ || {7/8}{10.142.7}{10.11.14.7}{8.7.30.7}{1535, 979, 10333}

अ॒पा‌म्¦इ॒द‌म्¦नि॒।आय॑न‌म्¦स॒मु॒द्रस्य॑¦नि॒ऽवेश॑न‌म् | अ॒न्य‌म्¦कृ॒णु॒ष्व॒¦इ॒तः¦पन्था᳚‌म्¦तेन॑¦या॒हि॒¦वशा᳚न्¦अनु॑ ||

आय॑नेतेप॒राय॑णे॒¦दूर्वा᳚रोहन्तुपु॒ष्पिणीः᳚ |{शार्ङ्गस्तम्बमित्रः | अग्निः | अनुष्टुप्}

ह्र॒दाश्च॑पु॒ण्डरी᳚काणि¦समु॒द्रस्य॑गृ॒हा,इ॒मे || {8/8}{10.142.8}{10.11.14.8}{8.7.30.8}{1536, 979, 10334}

आ॒।आय॑ने¦ते॒¦प॒रा॒।आय॑ने¦दूर्वाः᳚¦रो॒ह॒न्तु॒¦पु॒ष्पिणीः᳚ | ह्र॒दाः¦च॒¦पु॒ण्डरी᳚काणि¦स॒मु॒द्रस्य॑¦गृ॒हाः¦इ॒मे ||

[143] त्यंचिदिति षडृचस्य सूक्तस्य सांख्योत्रिरश्विनावनुष्टुप् |
त्यंचि॒दत्रि॑मृत॒जुर॒मर्थ॒मश्वं॒यात॑वे |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्}

क॒क्षीव᳚न्तं॒यदी॒पुना॒रथं॒कृ॑णु॒थोनव᳚म् || {1/6}{10.143.1}{10.11.15.1}{8.8.1.1}{1537, 980, 10335}

त्य‌म्¦चि॒त्¦अत्रि᳚‌म्¦ऋ॒त॒ऽजुर᳚‌म्¦अर्थ᳚‌म्¦अश्व᳚‌म्¦न¦यात॑वे | क॒क्षीव᳚न्त‌म्¦यदि॑¦पुन॒रिति॑¦रथ᳚‌म्¦न¦कृ॒णु॒थः¦नव᳚‌म् ||

त्यंचि॒दश्वं॒वा॒जिन॑मरे॒णवो॒यमत्न॑त |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्}

दृ॒ळ्हंग्र॒न्थिंविष्य॑त॒मत्रिं॒यवि॑ष्ठ॒मारजः॑ || {2/6}{10.143.2}{10.11.15.2}{8.8.1.2}{1538, 980, 10336}

त्य‌म्¦चि॒त्¦अश्व᳚‌म्¦न¦वा॒जिन᳚‌म्¦अ॒रे॒णवः॑¦य‌म्¦अत्न॑त | दृ॒ळ्ह‌म्¦ग्र॒न्थि‌म्¦न¦वि¦स्य॒त॒‌म्¦अत्रि᳚‌म्¦यवि॑ष्ठ‌म्¦आ¦रजः॑ ||

नरा॒दंसि॑ष्ठा॒वत्र॑ये॒शुभ्रा॒सिषा᳚सतं॒धियः॑ |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्}

अथा॒हिवां᳚दि॒वोन॑रा॒पुनः॒स्तोमो॒वि॒शसे᳚ || {3/6}{10.143.3}{10.11.15.3}{8.8.1.3}{1539, 980, 10337}

नरा᳚¦दंसि॑ष्ठौ¦अत्र॑ये¦शुभ्रा᳚¦सिसा᳚सत‌म्¦धियः॑ | अथ॑¦हि¦वा॒‌म्¦दि॒वः¦न॒रा॒¦पुन॒रिति॑¦स्तोमः॑¦न¦वि॒शसे᳚ ||

चि॒तेतद्वां᳚सुराधसारा॒तिःसु॑म॒तिर॑श्विना |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्}

यन्नः॒सद॑नेपृ॒थौसम॑ने॒पर्ष॑थोनरा || {4/6}{10.143.4}{10.11.15.4}{8.8.1.4}{1540, 980, 10338}

चि॒ते¦तत्¦वा॒‌म्¦सु॒ऽरा॒ध॒सा॒¦रा॒तिः¦सु॒ऽम॒तिः¦अ॒श्वि॒ना॒ | आ¦यत्¦नः॒¦सद॑ने¦पृ॒थौ¦सम॑ने¦पर्ष॑थः¦न॒रा॒ ||

यु॒वंभु॒ज्युंस॑मु॒द्ररज॑सःपा॒रई᳚ङ्खि॒तम् |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्}

या॒तमच्छा᳚पत॒त्रिभि॒र्नास॑त्यासा॒तये᳚कृतम् || {5/6}{10.143.5}{10.11.15.5}{8.8.1.5}{1541, 980, 10339}

यु॒व‌म्¦भु॒ज्यु‌म्¦स॒मु॒द्रे¦आ¦रज॑सः¦पा॒रे¦ई॒ङ्खि॒त‌म् | या॒त‌म्¦अच्छ॑¦प॒त॒त्रिऽभिः॑¦नास॑त्या¦सा॒तये᳚¦कृ॒त॒‌म् ||

वां᳚सु॒म्नैःशं॒यू,इ॑व॒मंहि॑ष्ठा॒विश्व॑वेदसा |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्}

सम॒स्मेभू᳚षतंन॒रोत्सं॒पि॒प्युषी॒रिषः॑ || {6/6}{10.143.6}{10.11.15.6}{8.8.1.6}{1542, 980, 10340}

आ¦वा॒‌म्¦सु॒म्नैः¦शं॒यू इ॒वेति॑ शं॒यूऽ‌इ᳚व¦मंहि॑ष्ठा¦विश्व॑ऽवेदसा | स‌म्¦अ॒स्मे इति॑¦भू॒ष॒त॒‌म्¦न॒रा॒¦उत्स᳚‌म्¦न¦पि॒प्युषीः᳚¦इषः॑ ||

[144] अयंहीति षडृचस्य सूक्तस्य तार्क्ष्यपुत्रः सुपर्णइंद्रो गायत्री द्वितीयाबृहती पंचमीसतोबृहती षष्ठीविष्टारपंक्तिः (यामायन ऊर्ध्वकृशनोवात्रऋषिः) |
अ॒यंहिते॒,अम॑र्त्य॒इन्दु॒रत्यो॒पत्य॑ते |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | गायत्री}

दक्षो᳚वि॒श्वायु᳚र्वे॒धसे᳚ || {1/6}{10.144.1}{10.11.16.1}{8.8.2.1}{1543, 981, 10341}

अ॒य‌म्¦हि¦ते॒¦अम॑र्त्यः¦इन्दुः॑¦अत्यः॑¦न¦पत्य॑ते | दक्षः॑¦वि॒श्वऽआ᳚युः¦वे॒धसे᳚ ||

अ॒यम॒स्मासु॒काव्य॑ऋ॒भुर्वज्रो॒दास्व॑ते |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | बृहती^इहती}

अ॒यंबि॑भर्त्यू॒र्ध्वकृ॑शनं॒मद॑मृ॒भुर्नकृत्व्यं॒मद᳚म् || {2/6}{10.144.2}{10.11.16.2}{8.8.2.2}{1544, 981, 10342}

अ॒य‌म्¦अ॒स्मासु॑¦काव्यः॑¦ऋ॒भुः¦वज्रः॑¦दास्व॑ते |
अ॒य‌म्¦बि॒भ॒र्ति॒¦ऊ॒र्ध्वऽकृ॑शन‌म्¦मद᳚‌म्¦ऋ॒भुः¦न¦कृत्व्य᳚‌म्¦मद᳚‌म् ||

घृषुः॑श्ये॒नाय॒कृत्व॑नआ॒सुस्वासु॒वंस॑गः |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | गायत्री}

अव॑दीधेदही॒शुवः॑ || {3/6}{10.144.3}{10.11.16.3}{8.8.2.3}{1545, 981, 10343}

घृषुः॑¦श्ये॒नाय॑¦कृत्व॑ने¦आ॒सु¦स्वासु॑¦वंस॑गः | अव॑¦दी॒धे॒त्¦अ॒ही॒शुवः॑ ||

यंसु॑प॒र्णःप॑रा॒वतः॑श्ये॒नस्य॑पु॒त्रआभ॑रत् |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | गायत्री}

श॒तच॑क्रं॒यो॒३॑(ओ॒)ऽह्यो᳚वर्त॒निः || {4/6}{10.144.4}{10.11.16.4}{8.8.2.4}{1546, 981, 10344}

य‌म्¦सु॒ऽप॒र्णः¦प॒रा॒ऽवतः॑¦श्ये॒नस्य॑¦पु॒त्रः¦आ¦अभ॑रत् | श॒तऽच॑क्र‌म्¦यः¦अ॒ह्यः॑¦व॒र्त॒निः ||

यंते᳚श्ये॒नश्चारु॑मवृ॒कंप॒दाभ॑रदरु॒णंमा॒नमन्ध॑सः |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | सतोबृहती}

ए॒नावयो॒विता॒र्यायु॑र्जी॒वस॑ए॒नाजा᳚गारब॒न्धुता᳚ || {5/6}{10.144.5}{10.11.16.5}{8.8.2.5}{1547, 981, 10345}

य‌म्¦ते॒¦श्ये॒नः¦चारु᳚‌म्¦अ॒वृ॒क‌म्¦प॒दा¦आ¦अभ॑रत्¦अ॒रु॒ण‌म्¦मा॒न‌म्¦अन्ध॑सः |
ए॒ना¦वयः॑¦वि¦ता॒रि॒¦आयुः॑¦जी॒वसे᳚¦ए॒ना¦जा॒गा॒र॒¦ब॒न्धुता᳚ ||

ए॒वातदिन्द्र॒इन्दु॑नादे॒वेषु॑चिद्धारयाते॒महि॒त्यजः॑ |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | विष्टारपङ्क्तिः}

क्रत्वा॒वयो॒विता॒र्यायुः॑सुक्रतो॒क्रत्वा॒यम॒स्मदासु॒तः || {6/6}{10.144.6}{10.11.16.6}{8.8.2.6}{1548, 981, 10346}

ए॒व¦तत्¦इन्द्रः॑¦इन्दु॑ना¦दे॒वेषु॑¦चि॒त्¦धा॒र॒या॒ते॒¦महि॑¦त्यजः॑ |
क्रत्वा᳚¦वयः॑¦वि¦ता॒रि॒¦आयुः॑¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो¦क्रत्वा᳚¦अ॒य‌म्¦अ॒स्मत्¦आ¦सु॒तः ||

[145] इमामिति षडृचस्य सूक्तस्येंद्राणीसपत्नीनाशनमनुष्टुबंत्यापंक्तिः |
इ॒मांख॑ना॒म्योष॑धिंवी॒रुधं॒बल॑वत्तमाम् |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | अनुष्टुप्}

यया᳚स॒पत्नीं॒बाध॑ते॒यया᳚संवि॒न्दते॒पति᳚म् || {1/6}{10.145.1}{10.11.17.1}{8.8.3.1}{1549, 982, 10347}

इ॒मा‌म्¦ख॒ना॒मि॒¦ओष॑धि‌म्¦वी॒रुध᳚‌म्¦बल॑वत्ऽतमा‌म् | यया᳚¦स॒ऽपत्नी᳚‌म्¦बाध॑ते¦यया᳚¦स॒‌म्ऽवि॒न्दते᳚¦पति᳚‌म् ||

उत्ता᳚नपर्णे॒सुभ॑गे॒देव॑जूते॒सह॑स्वति |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | अनुष्टुप्}

स॒पत्नीं᳚मे॒परा᳚धम॒पतिं᳚मे॒केव॑लंकुरु || {2/6}{10.145.2}{10.11.17.2}{8.8.3.2}{1550, 982, 10348}

उत्ता᳚नऽपर्णे¦सुऽभ॑गे¦देव॑ऽजूते¦सह॑स्वति | स॒ऽपत्नी᳚‌म्¦मे॒¦परा᳚¦ध॒म॒¦पति᳚‌म्¦मे॒¦केव॑ल‌म्¦कु॒रु॒ ||

उत्त॑रा॒हमु॑त्तर॒उत्त॒रेदुत्त॑राभ्यः |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | अनुष्टुप्}

अथा᳚स॒पत्नी॒याममाध॑रा॒साध॑राभ्यः || {3/6}{10.145.3}{10.11.17.3}{8.8.3.3}{1551, 982, 10349}

उत्ऽत॑रा¦अ॒ह‌म्¦उ॒त्ऽत॒रे॒¦उ॒त्ऽत॒रा¦इत्¦उत्ऽत॑राभ्यः | अथ॑¦स॒ऽपत्नी᳚¦या¦मम॑¦अध॑रा¦सा¦अध॑राभ्यः ||

न॒ह्य॑स्या॒नाम॑गृ॒भ्णामि॒नो,अ॒स्मिन्‌र॑मते॒जने᳚ |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | अनुष्टुप्}

परा᳚मे॒वप॑रा॒वतं᳚स॒पत्नीं᳚गमयामसि || {4/6}{10.145.4}{10.11.17.4}{8.8.3.4}{1552, 982, 10350}

न॒हि¦अ॒स्याः॒¦नाम॑¦गृ॒भ्णामि॑¦नो इति॑¦अ॒स्मिन्¦र॒म॒ते॒¦जने᳚ | परा᳚‌म्¦ए॒व¦प॒रा॒ऽवत᳚‌म्¦स॒ऽपत्नी᳚‌म्¦ग॒म॒या॒म॒सि॒ ||

अ॒हम॑स्मि॒सह॑मा॒नाथ॒त्वम॑सिसास॒हिः |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | अनुष्टुप्}

उ॒भेसह॑स्वतीभू॒त्वीस॒पत्नीं᳚मेसहावहै || {5/6}{10.145.5}{10.11.17.5}{8.8.3.5}{1553, 982, 10351}

अ॒ह‌म्¦अ॒स्मि॒¦सह॑माना¦अथ॑¦त्व‌म्¦अ॒सि॒¦स॒स॒हिः | उ॒भे इति॑¦सह॑स्वती॒ इति॑¦भू॒त्वी¦स॒ऽपत्नी᳚‌म्¦मे॒¦स॒हा॒व॒है॒ ||

उप॑तेऽधां॒सह॑मानाम॒भित्वा᳚धां॒सही᳚यसा |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | पङ्क्तिः}

मामनु॒प्रते॒मनो᳚व॒त्संगौरि॑वधावतुप॒थावारि॑वधावतु || {6/6}{10.145.6}{10.11.17.6}{8.8.3.6}{1554, 982, 10352}

उप॑¦ते॒¦अ॒धा॒‌म्¦सह॑माना‌म्¦अ॒भि¦त्वा॒¦अ॒धा॒‌म्¦सही᳚यसा |
मा‌म्¦अनु॑¦प्र¦ते॒¦मनः॑¦व॒त्स‌म्¦गौःऽ‌इ᳚व¦धा॒व॒तु॒¦प॒था¦वाःऽ‌इ᳚व¦धा॒व॒तु॒ ||

[146] अरण्यानीति षडृचस्य सूक्तस्यैरंमदोदेवमुनिररण्यान्यनुष्टुप् |
अर᳚ण्या॒न्यर᳚ण्यान्य॒सौयाप्रेव॒नश्य॑सि |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्}

क॒थाग्रामं॒पृ॑च्छसि॒त्वा॒भीरि॑वविन्दती३ँ || {1/6}{10.146.1}{10.11.18.1}{8.8.4.1}{1555, 983, 10353}

अर᳚ण्यानि¦अर᳚ण्यान्यि¦अ॒सौ¦या¦प्रऽ‌इ᳚व¦नश्य॑सि | क॒था¦ग्राम᳚‌म्¦न¦पृ॒च्छ॒सि॒¦न¦त्वा॒¦भीःऽ‌इ᳚व¦वि॒न्द॒तीँ॒३ ||

वृ॒षा॒र॒वाय॒वद॑ते॒यदु॒पाव॑तिचिच्चि॒कः |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्}

आ॒घा॒टिभि॑रिवधा॒वय᳚न्नरण्या॒निर्म॑हीयते || {2/6}{10.146.2}{10.11.18.2}{8.8.4.2}{1556, 983, 10354}

वृ॒षा॒ऽर॒वाय॑¦वद॑ते¦यत्¦उ॒प॒।आव॑ति¦चि॒च्चि॒कः | आ॒घा॒टिभिः॑ऽ‌इव¦धा॒वय॑न्¦अ॒र॒ण्या॒निः¦म॒ही॒य॒ते॒ ||

उ॒तगाव॑इवादन्त्यु॒तवेश्मे᳚वदृश्यते |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्}

उ॒तो,अ॑रण्या॒निःसा॒यंश॑क॒टीरि॑वसर्जति || {3/6}{10.146.3}{10.11.18.3}{8.8.4.3}{1557, 983, 10355}

उ॒त¦गावः॑ऽ‌इव¦अ॒द॒न्ति॒¦उ॒त¦वेश्म॑ऽ‌इव¦दृ॒श्य॒ते॒ | उ॒तो इति॑¦अ॒र॒ण्या॒निः¦सा॒य‌म्¦श॒क॒टीःऽ‌इ᳚व¦स॒र्ज॒ति॒ ||

गाम॒ङ्गैषह्व॑यति॒दार्व॒ङ्गैषो,अपा᳚वधीत् |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्}

वस᳚न्नरण्या॒न्यांसा॒यमक्रु॑क्ष॒दिति॑मन्यते || {4/6}{10.146.4}{10.11.18.4}{8.8.4.4}{1558, 983, 10356}

गा‌म्¦अ॒ङ्ग¦ए॒षः¦आ¦ह्व॒य॒ति॒¦दारु॑¦अ॒ङ्ग¦ए॒षः¦अप॑¦अ॒व॒धी॒त् | वस॑न्¦अ॒र॒ण्या॒न्या‌म्¦सा॒य‌म्¦अक्रु॑क्षत्¦इति॑¦म॒न्य॒ते॒ ||

वा,अ॑रण्या॒निर्ह᳚न्त्य॒न्यश्चेन्नाभि॒गच्छ॑ति |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्}

स्वा॒दोःफल॑स्यज॒ग्ध्वाय॑यथा॒कामं॒निप॑द्यते || {5/6}{10.146.5}{10.11.18.5}{8.8.4.5}{1559, 983, 10357}

न¦वै¦अ॒र॒ण्या॒निः¦ह॒न्ति॒¦अ॒न्यः¦च॒¦इत्¦न¦अ॒भि॒ऽगच्छ॑ति | स्वा॒दोः¦फल॑स्य¦ज॒ग्ध्वाय॑¦य॒था॒ऽकाम᳚‌म्¦नि¦प॒द्य॒ते॒ ||

आञ्ज॑नगन्धिंसुर॒भिंब॑ह्व॒न्नामकृ॑षीवलाम् |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्}

प्राहंमृ॒गाणां᳚मा॒तर॑मरण्या॒निम॑शंसिषम् || {6/6}{10.146.6}{10.11.18.6}{8.8.4.6}{1560, 983, 10358}

आंज॑नऽगन्धि‌म्¦सु॒र॒भि‌म्¦ब॒हु॒।आ॒न्ना‌म्¦अकृ॑षिऽवला‌म् | प्र¦अ॒ह‌म्¦मृ॒गाणा᳚‌म्¦मा॒तर᳚‌म्¦अ॒र॒ण्या॒नि‌म्¦अ॒शं॒सि॒ष॒‌म् ||

[147] श्रत्तइति पंचर्चस्य सूक्तस्य शैरीषिः सुवेदाइंद्रोजगत्यंत्यात्रिष्टुप् |
श्रत्ते᳚दधामिप्रथ॒माय॑म॒न्यवेऽह॒न्यद्वृ॒त्रंनर्यं᳚वि॒वेर॒पः |{शैरीषिः सुवेदाः | इन्द्रः | जगती}

उ॒भेयत्‌त्वा॒भव॑तो॒रोद॑सी॒,अनु॒रेज॑ते॒शुष्मा᳚त्‌पृथि॒वीचि॑दद्रिवः || {1/5}{10.147.1}{10.11.19.1}{8.8.5.1}{1561, 984, 10359}

श्रत्¦ते॒¦द॒धा॒मि॒¦प्र॒थ॒माय॑¦म॒न्यवे᳚¦अह॑न्¦यत्¦वृ॒त्र‌म्¦नर्य᳚‌म्¦वि॒वेः¦अ॒पः |
उ॒भे इति॑¦यत्¦त्वा॒¦भव॑तः¦रोद॑सी॒ इति॑¦अनु॑¦रेज॑ते¦शुष्मा᳚त्¦पृ॒थि॒वी¦चि॒त्¦अ॒द्रि॒ऽवः॒ ||

त्वंमा॒याभि॑रनवद्यमा॒यिनं᳚श्रवस्य॒तामन॑सावृ॒त्रम॑र्दयः |{शैरीषिः सुवेदाः | इन्द्रः | जगती}

त्वामिन्नरो᳚वृणते॒गवि॑ष्टिषु॒त्वांविश्वा᳚सु॒हव्या॒स्विष्टि॑षु || {2/5}{10.147.2}{10.11.19.2}{8.8.5.2}{1562, 984, 10360}

त्व‌म्¦मा॒याभिः॑¦अ॒न॒व॒द्य॒¦मा॒यिन᳚‌म्¦श्र॒व॒स्य॒ता¦मन॑सा¦वृ॒त्र‌म्¦अ॒र्द॒य॒ |
त्वा‌म्¦इत्¦नरः॑¦वृ॒ण॒ते॒¦गवि॑ष्टिषु¦त्वा‌म्¦विश्वा᳚सु¦हव्या᳚सु¦इष्टि॑षु ||

ऐषु॑चाकन्धिपुरुहूतसू॒रिषु॑वृ॒धासो॒येम॑घवन्नान॒शुर्म॒घम् |{शैरीषिः सुवेदाः | इन्द्रः | जगती}

अर्च᳚न्तितो॒केतन॑ये॒परि॑ष्टिषुमे॒धसा᳚तावा॒जिन॒मह्र॑ये॒धने᳚ || {3/5}{10.147.3}{10.11.19.3}{8.8.5.3}{1563, 984, 10361}

आ¦ए॒षु॒¦चा॒क॒न्धि॒¦पु॒रु॒ऽहू॒त॒¦सू॒रिषु॑¦वृ॒धासः॑¦ये¦म॒घ॒ऽव॒न्¦आ॒न॒शुः¦म॒घ‌म् |
अर्च᳚न्ति¦तो॒के¦तन॑ये¦परि॑ष्टिषु¦मे॒धऽसा᳚ता¦वा॒जिन᳚‌म्¦अह्व॑ये¦धने᳚ ||

इन्नुरा॒यःसुभृ॑तस्यचाकन॒न्मदं॒यो,अ॑स्य॒रंह्यं॒चिके᳚तति |{शैरीषिः सुवेदाः | इन्द्रः | जगती}

त्वावृ॑धोमघवन्दा॒श्व॑ध्वरोम॒क्षूवाजं᳚भरते॒धना॒नृभिः॑ || {4/5}{10.147.4}{10.11.19.4}{8.8.5.4}{1564, 984, 10362}

सः¦इत्¦नु¦रा॒यः¦सुऽभृ॑तस्य¦चा॒क॒न॒त्¦मद᳚‌म्¦यः¦अ॒स्य॒¦रंह्य᳚‌म्¦चिके᳚तति |
त्वाऽवृ॑धः¦म॒घ॒ऽव॒न्¦दा॒शु।आ॑ध्वरः¦म॒क्षु¦सः¦वाज᳚‌म्¦भ॒र॒ते॒¦धना᳚¦नृऽभिः॑ ||

त्वंशर्धा᳚यमहि॒नागृ॑णा॒नउ॒रुकृ॑धिमघवञ्छ॒ग्धिरा॒यः |{शैरीषिः सुवेदाः | इन्द्रः | त्रिष्टुप्}

त्वंनो᳚मि॒त्रोवरु॑णो॒मा॒यीपि॒त्वोद॑स्मदयसेविभ॒क्ता || {5/5}{10.147.5}{10.11.19.5}{8.8.5.5}{1565, 984, 10363}

त्व‌म्¦शर्धा᳚य¦म॒हि॒ना¦गृ॒णा॒नः¦उ॒रु¦कृ॒धि॒¦म॒घ॒ऽव॒न्¦श॒ग्धि¦रा॒यः |
त्व‌म्¦नः॒¦मि॒त्रः¦वरु॑णः¦न¦मा॒यी¦पि॒त्वः¦न¦द॒स्म॒¦द॒य॒से॒¦वि॒ऽभ॒क्ता ||

[148] सुष्वाणासइति पंचर्चस्य सूक्तस्य वैन्यः पृथुरिंद्रस्त्रिष्टुप् |
सु॒ष्वा॒णास॑इन्द्रस्तु॒मसि॑त्वासस॒वांस॑श्चतुविनृम्ण॒वाज᳚म् |{वैन्यः पृथुः | इन्द्रः | त्रिष्टुप्}

नो᳚भरसुवि॒तंयस्य॑चा॒कन्त्मना॒तना᳚सनुयाम॒त्वोताः᳚ || {1/5}{10.148.1}{10.11.20.1}{8.8.6.1}{1566, 985, 10364}

सु॒स्वा॒नासः॑¦इ॒न्द्र॒¦स्तु॒मसि॑¦त्वा॒¦स॒स॒ऽवांसः॑¦च॒¦तु॒वि॒ऽनृ॒म्ण॒¦वाज᳚‌म् |
आ¦नः॒¦भ॒र॒¦सु॒वि॒त‌म्¦यस्य॑¦चा॒कन्¦त्मना᳚¦तना᳚¦स॒नु॒या॒म॒¦त्वाऽऊ᳚ताः ||

ऋ॒ष्वस्त्वमि᳚न्द्रशूरजा॒तोदासी॒र्विशः॒सूर्ये᳚णसह्याः |{वैन्यः पृथुः | इन्द्रः | त्रिष्टुप्}

गुहा᳚हि॒तंगुह्यं᳚गू॒ळ्हम॒प्सुबि॑भृ॒मसि॑प्र॒स्रव॑णे॒सोम᳚म् || {2/5}{10.148.2}{10.11.20.2}{8.8.6.2}{1567, 985, 10365}

ऋ॒ष्वः¦त्व‌म्¦इ॒न्द्र॒¦शू॒र॒¦जा॒तः¦दासीः᳚¦विशः॑¦सूर्ये᳚ण¦स॒ह्याः॒ |
गुहा᳚¦हि॒त‌म्¦गुह्य᳚‌म्¦गू॒ळ्ह‌म्¦अ॒प्ऽसु¦बि॒भृ॒मसि॑¦प्र॒ऽस्रव॑णे¦न¦सोम᳚‌म् ||

अ॒र्योवा॒गिरो᳚,अ॒भ्य॑र्चवि॒द्वानृषी᳚णां॒विप्रः॑सुम॒तिंच॑का॒नः |{वैन्यः पृथुः | इन्द्रः | त्रिष्टुप्}

तेस्या᳚म॒येर॒णय᳚न्त॒सोमै᳚रे॒नोततुभ्यं᳚रथोळ्हभ॒क्षैः || {3/5}{10.148.3}{10.11.20.3}{8.8.6.3}{1568, 985, 10366}

अ॒र्यः¦वा॒¦गिरः॑¦अ॒भि¦अ॒र्च॒¦वि॒द्वान्¦ऋषी᳚णा‌म्¦विप्रः॑¦सु॒ऽम॒ति‌म्¦च॒का॒नः |
ते¦स्या॒म॒¦ये¦र॒णय᳚न्त¦सोमैः᳚¦ए॒ना¦उ॒त¦तुभ्य᳚‌म्¦र॒थ॒ऽओ॒ळ्ह॒¦भ॒क्षैः ||

इ॒माब्रह्मे᳚न्द्र॒तुभ्यं᳚शंसि॒दानृभ्यो᳚नृ॒णांशू᳚र॒शवः॑ |{वैन्यः पृथुः | इन्द्रः | त्रिष्टुप्}

तेभि॑र्भव॒सक्र॑तु॒र्येषु॑चा॒कन्नु॒तत्रा᳚यस्वगृण॒तउ॒तस्तीन् || {4/5}{10.148.4}{10.11.20.4}{8.8.6.4}{1569, 985, 10367}

इ॒मा¦ब्रह्म॑¦इ॒न्द्र॒¦तुभ्य᳚‌म्¦शं॒सि॒¦दाः¦नृऽभ्यः॑¦नृ॒णा‌म्¦शू॒र॒¦शवः॑ |
तेभिः॑¦भ॒व॒¦सऽक्र॑तुः¦येषु॑¦चा॒कन्¦उ॒त¦त्रा॒य॒स्व॒¦गृ॒ण॒तः¦उ॒त¦स्तीन् ||

श्रु॒धीहव॑मिन्द्रशूर॒पृथ्या᳚,उ॒तस्त॑वसेवे॒न्यस्या॒र्कैः |{वैन्यः पृथुः | इन्द्रः | त्रिष्टुप्}

यस्ते॒योनिं᳚घृ॒तव᳚न्त॒मस्वा᳚रू॒र्मिर्ननिम्नैर्द्र॑वयन्त॒वक्वाः᳚ || {5/5}{10.148.5}{10.11.20.5}{8.8.6.5}{1570, 985, 10368}

श्रु॒धि¦हव᳚‌म्¦इ॒न्द्र॒¦शू॒र॒¦पृथ्याः᳚¦उ॒त¦स्त॒व॒ते॒¦वे॒न्यस्य॑¦अ॒र्कैः |
आ¦यः¦ते॒¦योनि᳚‌म्¦घृ॒तऽव᳚न्त‌म्¦अस्वाः᳚¦ऊ॒र्मिः¦न¦नि॒म्नैः¦द्र॒व॒य॒न्त॒¦वक्वाः᳚ ||

[149] सवितेति पंचर्चस्य सूक्तस्य हैरण्यस्तूपोर्चन्न सवितात्रिष्टुप् |
स॒वि॒ताय॒न्त्रैःपृ॑थि॒वीम॑रम्णादस्कम्भ॒नेस॑वि॒ताद्याम॑दृंहत् |{हैरण्य स्तूपोर्चन्नः | सविता | त्रिष्टुप्}

अश्व॑मिवाधुक्ष॒द्धुनि॑म॒न्तरि॑क्षम॒तूर्ते᳚ब॒द्धंस॑वि॒तास॑मु॒द्रम् || {1/5}{10.149.1}{10.11.21.1}{8.8.7.1}{1571, 986, 10369}

स॒वि॒ता¦य॒न्त्रैः¦पृ॒थि॒वी‌म्¦अ॒र॒म्णा॒त्¦अ॒स्क॒म्भ॒ने¦स॒वि॒ता¦द्या‌म्¦अ॒दृं॒ह॒त् |
अश्व᳚‌म्ऽ‌इव¦अ॒धु॒क्ष॒त्¦धुनि᳚‌म्¦अ॒न्तरि॑क्ष‌म्¦अ॒तूर्ते᳚¦ब॒द्ध‌म्¦स॒वि॒ता¦स॒मु॒द्र‌म् ||

यत्रा᳚समु॒द्रःस्क॑भि॒तोव्यौन॒दपां᳚नपात्सवि॒तातस्य॑वेद |{हैरण्य स्तूपोर्चन्नः | सविता | त्रिष्टुप्}

अतो॒भूरत॑आ॒,उत्थि॑तं॒रजोऽतो॒द्यावा᳚पृथि॒वी,अ॑प्रथेताम् || {2/5}{10.149.2}{10.11.21.2}{8.8.7.2}{1572, 986, 10370}

यत्र॑¦स॒मु॒द्रः¦स्क॒भि॒तः¦वि¦औन॑त्¦अपा᳚‌म्¦न॒पा॒त्¦स॒वि॒ता¦तस्य॑¦वे॒द॒ |
अतः॑¦भूः¦अतः॑¦आः॒¦उत्थि॑त‌म्¦रजः॑¦अतः॑¦द्यावा᳚पृथि॒वी इति॑¦अ॒प्र॒थे॒ता॒‌म् ||

प॒श्चेदम॒न्यद॑भव॒द्यज॑त्र॒मम॑र्त्यस्य॒भुव॑नस्यभू॒ना |{हैरण्य स्तूपोर्चन्नः | सविता | त्रिष्टुप्}

सु॒प॒र्णो,अ॒ङ्गस॑वि॒तुर्ग॒रुत्मा॒न्‌पूर्वो᳚जा॒तःउ॑अ॒स्यानु॒धर्म॑ || {3/5}{10.149.3}{10.11.21.3}{8.8.7.3}{1573, 986, 10371}

प॒श्चा¦इ॒द‌म्¦अ॒न्यत्¦अ॒भ॒व॒त्¦यज॑त्र‌म्¦अम॑र्त्यस्य¦भुव॑नस्य¦भू॒ना |
सु॒ऽप॒र्णः¦अ॒ङ्ग¦स॒वि॒तुः¦ग॒रुत्मा᳚न्¦पूर्वः॑¦जा॒तः¦सः¦ऊँ॒ इति॑¦अ॒स्य॒¦अनु॑¦धर्म॑ ||

गाव॑इव॒ग्रामं॒यूयु॑धिरि॒वाश्वा᳚न्वा॒श्रेव॑व॒त्संसु॒मना॒दुहा᳚ना |{हैरण्य स्तूपोर्चन्नः | सविता | त्रिष्टुप्}

पति॑रिवजा॒याम॒भिनो॒न्ये᳚तुध॒र्तादि॒वःस॑वि॒तावि॒श्ववा᳚रः || {4/5}{10.149.4}{10.11.21.4}{8.8.7.4}{1574, 986, 10372}

गावः॑ऽ‌इव¦ग्राम᳚‌म्¦यूयु॑धिःऽ‌इव¦अश्वा᳚न्¦वा॒श्राऽ‌इ᳚व¦व॒त्स‌म्¦सु॒ऽमनाः᳚¦दुहा᳚ना |
पतिः॑ऽ‌इव¦जा॒या‌म्¦अ॒भि¦नः॒¦नि¦ए॒तु॒¦ध॒र्ता¦दि॒वः¦स॒वि॒ता¦वि॒श्वऽवा᳚रः ||

हिर᳚ण्यस्तूपःसवित॒र्यथा᳚त्वाङ्गिर॒सोजु॒ह्वेवाजे᳚,अ॒स्मिन् |{हैरण्य स्तूपोर्चन्नः | सविता | त्रिष्टुप्}

ए॒वात्वार्च॒न्नव॑से॒वन्द॑मानः॒सोम॑स्येवां॒शुंप्रति॑जागरा॒हम् || {5/5}{10.149.5}{10.11.21.5}{8.8.7.5}{1575, 986, 10373}

हिर᳚ण्यऽस्तूपः¦स॒वि॒तः॒¦यथा᳚¦त्वा॒¦आ॒ङ्गि॒र॒सः¦जु॒ह्वे¦वाजे᳚¦अ॒स्मिन् |
ए॒व¦त्वा॒¦अर्च॑न्¦अव॑से¦वन्द॑मानः¦सोम॑स्यऽ‌इव¦अं॒शु‌म्¦प्रति॑¦जा॒ग॒र॒¦अ॒ह‌म् ||

[150] समिद्धइति पंचर्चस्य सूक्तस्य वासिष्ठोमृळीकोग्निर्बृहती अंत्येद्वेउपरिष्टाज्ज्योतिषी (उपांत्या जगतीवा) |
समि॑द्धश्चि॒त्समि॑ध्यसेदे॒वेभ्यो᳚हव्यवाहन |{वासिष्ठो मृळीकः | अग्निः | बृहती}

आ॒दि॒त्यैरु॒द्रैर्वसु॑भिर्न॒ग॑हिमृळी॒काय॑न॒ग॑हि || {1/5}{10.150.1}{10.11.22.1}{8.8.8.1}{1576, 987, 10374}

स‌म्ऽ‌इ᳚द्धः¦चि॒त्¦स‌म्¦इ॒ध्य॒से॒¦दे॒वेभ्यः॑¦ह॒व्य॒ऽवा॒ह॒न॒ |
आ॒दि॒त्यैः¦रु॒द्रैः¦वसु॑ऽभिः¦नः॒¦आ¦ग॒हि॒¦मृ॒ळी॒काय॑¦नः॒¦आ¦ग॒हि॒ ||

इ॒मंय॒ज्ञमि॒दंवचो᳚जुजुषा॒णउ॒पाग॑हि |{वासिष्ठो मृळीकः | अग्निः | बृहती}

मर्ता᳚सस्त्वासमिधानहवामहेमृळी॒काय॑हवामहे || {2/5}{10.150.2}{10.11.22.2}{8.8.8.2}{1577, 987, 10375}

इ॒म‌म्¦य॒ज्ञ‌म्¦इ॒द‌म्¦वचः॑¦जु॒जु॒षा॒णः¦उ॒प॒ऽआग॑हि |
मर्ता᳚सः¦त्वा॒¦स॒‌म्ऽ‌इ॒धा॒न॒¦ह॒वा॒म॒हे॒¦मृ॒ळी॒काय॑¦ह॒वा॒म॒हे॒ ||

त्वामु॑जा॒तवे᳚दसंवि॒श्ववा᳚रंगृणेधि॒या |{वासिष्ठो मृळीकः | अग्निः | बृहती}

अग्ने᳚दे॒वाँ,व॑हनःप्रि॒यव्र॑तान्‌मृळी॒काय॑प्रि॒यव्र॑तान् || {3/5}{10.150.3}{10.11.22.3}{8.8.8.3}{1578, 987, 10376}

त्वा‌म्¦ऊँ॒ इति॑¦जा॒तऽवे᳚दस‌म्¦वि॒श्वऽवा᳚र‌म्¦गृ॒णे॒¦धि॒या |
अग्ने᳚¦दे॒वान्¦आ¦व॒ह॒¦नः॒¦प्रि॒यऽव्र॑तान्¦मृ॒ळी॒काय॑¦प्रि॒यऽव्र॑तान् ||

अ॒ग्निर्दे॒वोदे॒वाना᳚मभवत्पु॒रोहि॑तो॒ऽग्निंम॑नु॒ष्या॒३॑(आ॒)ऋष॑यः॒समी᳚धिरे |{वासिष्ठो मृळीकः | अग्निः | उपरिष्टाज्योति}

अ॒ग्निंम॒होधन॑साताव॒हंहु॑वेमृळी॒कंधन॑सातये || {4/5}{10.150.4}{10.11.22.4}{8.8.8.4}{1579, 987, 10377}

अ॒ग्निः¦दे॒वः¦दे॒वाना᳚‌म्¦अ॒भ॒व॒त्¦पु॒रःऽहि॑तः¦अ॒ग्नि‌म्¦म॒नु॒ष्याः᳚¦ऋष॑यः¦स‌म्¦ई॒धि॒रे॒ |
अ॒ग्नि‌म्¦म॒हः¦धन॑ऽसातौ¦अ॒ह‌म्¦हु॒वे॒¦मृ॒ळी॒क‌म्¦धन॑ऽसातये ||

अ॒ग्निरत्रिं᳚भ॒रद्वा᳚जं॒गवि॑ष्ठिरं॒प्राव᳚न्नः॒कण्वं᳚त्र॒सद॑स्युमाह॒वे |{वासिष्ठो मृळीकः | अग्निः | उपरिष्टाज्योति}

अ॒ग्निंवसि॑ष्ठोहवतेपु॒रोहि॑तोमृळी॒काय॑पु॒रोहि॑तः || {5/5}{10.150.5}{10.11.22.5}{8.8.8.5}{1580, 987, 10378}

अ॒ग्निः¦अत्रि᳚‌म्¦भ॒रत्ऽवा᳚ज‌म्¦गवि॑ष्ठिर‌म्¦प्र¦आ॒व॒त्¦नः॒¦कण्व᳚‌म्¦त्र॒सद॑स्यु‌म्¦आ॒ऽह॒वे |
अ॒ग्नि‌म्¦वसि॑ष्ठः¦ह॒व॒ते॒¦पु॒रःऽहि॑तः¦मृ॒ळी॒काय॑¦पु॒रःऽहि॑तः ||

[151] श्रद्धयेति पंचर्चस्य सूक्तस्य श्रद्धाकामायनीश्रद्धानुष्टुप् |
श्र॒द्धया॒ग्निःसमि॑ध्यते¦श्र॒द्धया᳚हूयतेह॒विः |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्}

श्र॒द्धांभग॑स्यमू॒र्धनि॒¦वच॒सावे᳚दयामसि || {1/5}{10.151.1}{10.11.23.1}{8.8.9.1}{1581, 988, 10379}

श्र॒द्धया᳚¦अ॒ग्निः¦स‌म्¦इ॒ध्य॒ते॒¦श्र॒द्धया᳚¦हू॒य॒ते॒¦ह॒विः | श्र॒द्धा‌म्¦भग॑स्य¦मू॒र्धनि॑¦वच॑सा¦आ¦वे॒द॒या॒म॒सि॒ ||

प्रि॒यंश्र॑द्धे॒दद॑तः¦प्रि॒यंश्र॑द्धे॒दिदा᳚सतः |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्}

प्रि॒यंभो॒जेषु॒यज्व॑स्वि॒¦दंम॑उदि॒तंकृ॑धि || {2/5}{10.151.2}{10.11.23.2}{8.8.9.2}{1582, 988, 10380}

प्रि॒य‌म्¦श्र॒द्धे॒¦दद॑तः¦प्रि॒य‌म्¦श्र॒द्धे॒¦दिदा᳚सतः | प्रि॒य‌म्¦भो॒जेषु॑¦यज्व॑सु¦इ॒द‌म्¦मे॒¦उ॒दि॒त‌म्¦कृ॒धि॒ ||

यथा᳚दे॒वा,असु॑रेषु¦श्र॒द्धामु॒ग्रेषु॑चक्रि॒रे |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्}

ए॒वंभो॒जेषु॒यज्व॑स्व॒¦स्माक॑मुदि॒तंकृ॑धि || {3/5}{10.151.3}{10.11.23.3}{8.8.9.3}{1583, 988, 10381}

यथा᳚¦दे॒वाः¦असु॑रेषु¦श्र॒द्धा‌म्¦उ॒ग्रेषु॑¦च॒क्रि॒रे | ए॒व‌म्¦भो॒जेषु॑¦यज्व॑ऽसु¦अ॒स्माक᳚‌म्¦उ॒दि॒त‌म्¦कृ॒धि॒ ||

श्र॒द्धांदे॒वायज॑माना¦वा॒युगो᳚पा॒,उपा᳚सते |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्}

श्र॒द्धांहृ॑द॒य्य१॑(अ॒)याकू᳚त्या¦श्र॒द्धया᳚विन्दते॒वसु॑ || {4/5}{10.151.4}{10.11.23.4}{8.8.9.4}{1584, 988, 10382}

श्र॒द्धा‌म्¦दे॒वाः¦यज॑मानाः¦वा॒युऽगो᳚पाः¦उप॑¦आ॒स॒ते॒ | श्र॒द्धा‌म्¦हृ॒द॒य्य॑या¦आऽकू᳚त्या¦श्र॒द्धया᳚¦वि॒न्द॒ते॒¦वसु॑ ||

श्र॒द्धांप्रा॒तर्ह॑वामहे¦श्र॒द्धांम॒ध्यंदि॑नं॒परि॑ |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्}

श्र॒द्धांसूर्य॑स्यनि॒म्रुचि॒¦श्रद्धे॒श्रद्धा᳚पये॒हनः॑ || {5/5}{10.151.5}{10.11.23.5}{8.8.9.5}{1585, 988, 10383}

श्र॒द्धा‌म्¦प्रा॒तः¦ह॒वा॒म॒हे॒¦श्र॒द्धा‌म्¦म॒ध्यंदि॑न‌म्¦परि॑ | श्र॒द्धा‌म्¦सूर्य॑स्य¦नि॒ऽम्रुचि॑¦श्रद्धे᳚¦श्रत्¦धा॒प॒य॒¦इ॒ह¦नः॒ ||

[152] शासइति पंचर्चस्य सूक्तस्य भारद्वाजः शासइंद्रोनुष्टुप् |
शा॒सइ॒त्थाम॒हाँ,अ॑स्यमित्रखा॒दो,अद्भु॑तः |{भारद्वाजः शासः | इन्द्रः | अनुष्टुप्}

यस्य॑ह॒न्यते॒सखा॒जीय॑ते॒कदा᳚च॒न || {1/5}{10.152.1}{10.12.1.1}{8.8.10.1}{1586, 989, 10384}

शा॒सः¦इ॒त्था¦म॒हान्¦अ॒सि॒¦अ॒मि॒त्र॒ऽखा॒दः¦अद्भु॑तः | न¦यस्य॑¦ह॒न्यते᳚¦सखा᳚¦न¦जीय॑ते¦कदा᳚¦च॒न ||

स्व॒स्ति॒दावि॒शस्पति᳚र्वृत्र॒हावि॑मृ॒धोव॒शी |{भारद्वाजः शासः | इन्द्रः | अनुष्टुप्}

वृषेन्द्रः॑पु॒रए᳚तुनःसोम॒पा,अ॑भयंक॒रः || {2/5}{10.152.2}{10.12.1.2}{8.8.10.2}{1587, 989, 10385}

स्व॒स्ति॒ऽदाः¦वि॒शः¦पतिः॑¦वृ॒त्र॒ऽहा¦वि॒ऽमृ॒धः¦व॒शी | वृषा᳚¦इन्द्रः॑¦पु॒रः¦ए॒तु॒¦नः॒¦सो॒म॒ऽपाः¦अ॒भ॒य॒‌म्ऽक॒रः ||

विरक्षो॒विमृधो᳚जहि॒विवृ॒त्रस्य॒हनू᳚रुज |{भारद्वाजः शासः | इन्द्रः | अनुष्टुप्}

विम॒न्युमि᳚न्द्रवृत्रहन्न॒मित्र॑स्याभि॒दास॑तः || {3/5}{10.152.3}{10.12.1.3}{8.8.10.3}{1588, 989, 10386}

वि¦रक्षः॑¦वि¦मृधः॑¦ज॒हि॒¦वि¦वृ॒त्रस्य॑¦हनू॒ इति॑¦रु॒ज॒ | वि¦म॒न्यु‌म्¦इ॒न्द्र॒¦वृ॒त्र॒ऽह॒न्¦अ॒मित्र॑स्य¦अ॒भि॒ऽदास॑तः ||

विन॑इन्द्र॒मृधो᳚जहिनी॒चाय॑च्छपृतन्य॒तः |{भारद्वाजः शासः | इन्द्रः | अनुष्टुप्}

यो,अ॒स्माँ,अ॑भि॒दास॒त्यध॑रंगमया॒तमः॑ || {4/5}{10.152.4}{10.12.1.4}{8.8.10.4}{1589, 989, 10387}

वि¦नः॒¦इ॒न्द्र॒¦मृधः॑¦ज॒हि॒¦नी॒चा¦य॒च्छ॒¦पृ॒त॒न्य॒तः | यः¦अ॒स्मान्¦अ॒भि॒ऽदास॑ति¦अध॑र‌म्¦ग॒म॒य॒¦तमः॑ ||

अपे᳚न्द्रद्विष॒तोमनोऽप॒जिज्या᳚सतोव॒धम् |{भारद्वाजः शासः | इन्द्रः | अनुष्टुप्}

विम॒न्योःशर्म॑यच्छ॒वरी᳚योयवयाव॒धम् || {5/5}{10.152.5}{10.12.1.5}{8.8.10.5}{1590, 989, 10388}

अप॑¦इ॒न्द्र॒¦द्वि॒ष॒तः¦मनः॑¦अप॑¦जिज्या᳚सतः¦व॒ध‌म् | वि¦म॒न्योः¦शर्म॑¦य॒च्छ॒¦वरी᳚यः¦य॒व॒य॒¦व॒ध‌म् ||

[153] ईंखयंतीरिति पंचर्चस्य सूक्तस्य देवजामयइंद्रमातरइंद्रोगायत्री |
ई॒ङ्खय᳚न्तीरप॒स्युव॒इन्द्रं᳚जा॒तमुपा᳚सते |{देवजामयइंद्रमातरः | इन्द्रः | गायत्री}

भे॒जा॒नासः॑सु॒वीर्य᳚म् || {1/5}{10.153.1}{10.12.2.1}{8.8.11.1}{1591, 990, 10389}

ई॒ङ्खय᳚न्तीः¦अ॒प॒स्युवः॑¦इन्द्र᳚‌म्¦जा॒त‌म्¦उप॑¦आ॒स॒ते॒ | भे॒जा॒नासः॑¦सु॒ऽवीर्य᳚‌म् ||

त्वमि᳚न्द्र॒बला॒दधि॒सह॑सोजा॒तओज॑सः |{देवजामयइंद्रमातरः | इन्द्रः | गायत्री}

त्वंवृ॑ष॒न्‌वृषेद॑सि || {2/5}{10.153.2}{10.12.2.2}{8.8.11.2}{1592, 990, 10390}

त्व‌म्¦इ॒न्द्र॒¦बला᳚त्¦अधि॑¦सह॑सः¦जा॒तः¦ओज॑सः | त्व‌म्¦वृ॒ष॒न्¦वृषा᳚¦इत्¦अ॒सि॒ ||

त्वमि᳚न्द्रासिवृत्र॒हाव्य१॑(अ॒)न्तरि॑क्षमतिरः |{देवजामयइंद्रमातरः | इन्द्रः | गायत्री}

उद्द्याम॑स्तभ्ना॒,ओज॑सा || {3/5}{10.153.3}{10.12.2.3}{8.8.11.3}{1593, 990, 10391}

त्व‌म्¦इ॒न्द्र॒¦अ॒सि॒¦वृ॒त्र॒ऽहा¦वि¦अ॒न्तरि॑क्ष‌म्¦अ॒ति॒रः॒ | उत्¦द्या‌म्¦अ॒स्त॒भ्नाः॒¦ओज॑सा ||

त्वमि᳚न्द्रस॒जोष॑सम॒र्कंबि॑भर्षिबा॒ह्वोः |{देवजामयइंद्रमातरः | इन्द्रः | गायत्री}

वज्रं॒शिशा᳚न॒ओज॑सा || {4/5}{10.153.4}{10.12.2.4}{8.8.11.4}{1594, 990, 10392}

त्व‌म्¦इ॒न्द्र॒¦स॒ऽजोष॑स‌म्¦अ॒र्क‌म्¦बि॒भ॒र्षि॒¦बा॒ह्वोः | वज्र᳚‌म्¦शिशा᳚नः¦ओज॑सा ||

त्वमि᳚न्द्राभि॒भूर॑सि॒विश्वा᳚जा॒तान्योज॑सा |{देवजामयइंद्रमातरः | इन्द्रः | गायत्री}

विश्वा॒भुव॒आभ॑वः || {5/5}{10.153.5}{10.12.2.5}{8.8.11.5}{1595, 990, 10393}

त्व‌म्¦इ॒न्द्र॒¦अ॒भि॒ऽभूः¦अ॒सि॒¦विश्वा᳚¦जा॒तानि॑¦ओज॑सा | सः¦विश्वाः᳚¦भुवः॑¦आ¦अ॒भ॒वः॒ ||

[154] सोमइति पंचर्चस्य सूक्तस्य वैवस्वती यमी भाववृत्तिरनुष्टुप् |
सोम॒एके᳚भ्यःपवतेघृ॒तमेक॒उपा᳚सते |{वैवस्वती यमी | भाववृत्तिः | अनुष्टुप्}

येभ्यो॒मधु॑प्र॒धाव॑ति॒ताँश्चि॑दे॒वापि॑गच्छतात् || {1/5}{10.154.1}{10.12.3.1}{8.8.12.1}{1596, 991, 10394}

सोमः॑¦एके᳚भ्यः¦प॒व॒ते॒¦घृ॒त‌म्¦एके᳚¦उप॑¦आ॒स॒ते॒ | येभ्यः॑¦मधु॑¦प्र॒ऽधाव॑ति¦तान्¦चि॒त्¦ए॒व¦अपि॑¦ग॒च्छ॒ता॒त् ||

तप॑सा॒ये,अ॑नाधृ॒ष्यास्तप॑सा॒येस्व᳚र्य॒युः |{वैवस्वती यमी | भाववृत्तिः | अनुष्टुप्}

तपो॒येच॑क्रि॒रेमह॒स्ताँश्चि॑दे॒वापि॑गच्छतात् || {2/5}{10.154.2}{10.12.3.2}{8.8.12.2}{1597, 991, 10395}

तप॑सा¦ये¦अ॒ना॒धृ॒ष्याः¦तप॑सा¦ये¦स्वः॑¦य॒युः | तपः॑¦ये¦च॒क्रि॒रे¦महः॑¦तान्¦चि॒त्¦ए॒व¦अपि॑¦ग॒च्छ॒ता॒त् ||

येयुध्य᳚न्तेप्र॒धने᳚षु॒शूरा᳚सो॒येत॑नू॒त्यजः॑ |{वैवस्वती यमी | भाववृत्तिः | अनुष्टुप्}

येवा᳚स॒हस्र॑दक्षिणा॒स्ताँश्चि॑दे॒वापि॑गच्छतात् || {3/5}{10.154.3}{10.12.3.3}{8.8.12.3}{1598, 991, 10396}

ये¦युध्य᳚न्ते¦प्र॒ऽधने᳚षु¦शूरा᳚सः¦ये¦त॒नू॒ऽत्यजः॑ | ये¦वा॒¦स॒हस्र॑ऽदक्षिणाः¦तान्¦चि॒त्¦ए॒व¦अपि॑¦ग॒च्छ॒ता॒त् ||

येचि॒त्पूर्व॑ऋत॒साप॑ऋ॒तावा᳚नऋता॒वृधः॑ |{वैवस्वती यमी | भाववृत्तिः | अनुष्टुप्}

पि॒तॄन्‌तप॑स्वतोयम॒ताँश्चि॑दे॒वापि॑गच्छतात् || {4/5}{10.154.4}{10.12.3.4}{8.8.12.4}{1599, 991, 10397}

ये¦चि॒त्¦पूर्वे᳚¦ऋ॒त॒ऽसापः॑¦ऋ॒तऽवा᳚नः¦ऋ॒त॒ऽवृधः॑ | पि॒तॄन्¦तप॑स्वतः¦य॒म॒¦तान्¦चि॒त्¦ए॒व¦अपि॑¦ग॒च्छ॒ता॒त् ||

स॒हस्र॑णीथाःक॒वयो॒येगो᳚पा॒यन्ति॒सूर्य᳚म् |{वैवस्वती यमी | भाववृत्तिः | अनुष्टुप्}

ऋषी॒न्‌तप॑स्वतोयमतपो॒जाँ,अपि॑गच्छतात् || {5/5}{10.154.5}{10.12.3.5}{8.8.12.5}{1600, 991, 10398}

स॒हस्र॑ऽनीथाः¦क॒वयः॑¦ये¦गो॒पा॒यन्ति॑¦सूर्य᳚‌म् | ऋषी᳚न्¦तप॑स्वतः¦य॒म॒¦त॒पः॒ऽजान्¦अपि॑¦ग॒च्छ॒ता॒त् ||

[155] अरायीति पंचर्चस्य सूक्तस्य भारद्वाजः शिरिंबिठोऽलक्ष्मीनाशनो द्वितीयातृतीययोर्ब्रह्मणस्पतिरंत्याया विश्वेदेवाअनुष्टुप् |
अरा᳚यि॒काणे॒विक॑टेगि॒रिंग॑च्छसदान्वे |{भारद्वाजो शिरिंबिठः | अलक्ष्मीनाशनः | अनुष्टुप्}

शि॒रिम्बि॑ठस्य॒सत्व॑भि॒स्तेभि॑ष्ट्वाचातयामसि || {1/5}{10.155.1}{10.12.4.1}{8.8.13.1}{1601, 992, 10399}

अरा᳚यि¦काणे᳚¦विऽक॑टे¦गि॒रि‌म्¦ग॒च्छ॒¦स॒दा॒न्वे॒ | शि॒रिम्बि॑ठस्य¦सत्व॑ऽभिः¦तेभिः॑¦त्वा॒¦चा॒त॒या॒म॒सि॒ ||

च॒त्तो,इ॒तश्च॒त्तामुतः॒¦सर्वा᳚भ्रू॒णान्या॒रुषी᳚ |{भारद्वाजो शिरिंबिठः | ब्रह्मणस्पतिः | अनुष्टुप्}

अ॒रा॒य्यं᳚ब्रह्मणस्पते॒¦तीक्ष्ण॑शृण्गोदृ॒षन्नि॑हि || {2/5}{10.155.2}{10.12.4.2}{8.8.13.2}{1602, 992, 10400}

च॒त्तो इति॑¦इ॒तः¦च॒त्ता¦अ॒मुतः॑¦सर्वा᳚¦भ्रू॒णानि॑¦आ॒रुषी᳚ | अ॒रा॒य्य᳚‌म्¦ब्र॒ह्म॒णः॒¦प॒ते॒¦तीक्ष्ण॑ऽशृङ्ग¦उ॒त्ऽऋ॒षन्¦इ॒हि॒ ||

अ॒दोयद्दारु॒प्लव॑ते॒¦सिन्धोः᳚पा॒रे,अ॑पूरु॒षम् |{भारद्वाजो शिरिंबिठः | ब्रह्मणस्पतिः | अनुष्टुप्}

तदार॑भस्वदुर्हणो॒¦तेन॑गच्छपरस्त॒रम् || {3/5}{10.155.3}{10.12.4.3}{8.8.13.3}{1603, 992, 10401}

अ॒दः¦यत्¦दारु॑¦प्लव॑ते¦सिन्धोः᳚¦पा॒रे¦अ॒पु॒रु॒ष‌म् | तत्¦आ¦र॒भ॒स्व॒¦दु॒र्ह॒नो॒ इति॑ दुःऽहनो¦तेन॑¦ग॒च्छ॒¦प॒रः॒ऽत॒र‌म् ||

यद्ध॒प्राची॒रज॑ग॒न्तोरो᳚मण्डूरधाणिकीः |{भारद्वाजो शिरिंबिठः | अलक्ष्मीनाशनः | अनुष्टुप्}

ह॒ता,इन्द्र॑स्य॒शत्र॑वः॒सर्वे᳚बुद्बु॒दया᳚शवः || {4/5}{10.155.4}{10.12.4.4}{8.8.13.4}{1604, 992, 10402}

यत्¦ह॒¦प्राचीः᳚¦अज॑गन्त¦उरः॑¦म॒ण्डू॒र॒ऽधा॒णि॒कीः॒ | ह॒ताः¦इन्द्र॑स्य¦शत्र॑वः¦सर्वे᳚¦बु॒द्बु॒दऽया᳚शवः ||

परी॒मेगाम॑नेषत॒पर्य॒ग्निम॑हृषत |{भारद्वाजो शिरिंबिठः | विश्वदेवाः | अनुष्टुप्}

दे॒वेष्व॑क्रत॒श्रवः॒इ॒माँ,द॑धर्षति || {5/5}{10.155.5}{10.12.4.5}{8.8.13.5}{1605, 992, 10403}

परि॑¦इ॒मे¦गा‌म्¦अ॒ने॒ष॒त॒¦परि॑¦अ॒ग्नि‌म्¦अ॒हृ॒ष॒त॒ | दे॒वेषु॑¦अ॒क्र॒त॒¦श्रवः॑¦कः¦इ॒मान्¦आ¦द॒ध॒र्ष॒ति॒ ||

[156] अग्निमिति पंचर्चस्य सूक्तस्याग्नेयः केतुरग्निर्गायत्री |
अ॒ग्निंहि᳚न्वन्तुनो॒धियः॒सप्ति॑मा॒शुमि॑वा॒जिषु॑ |{आग्नेयः केतुः | अग्निः | गायत्री}

तेन॑जेष्म॒धनं᳚धनम् || {1/5}{10.156.1}{10.12.5.1}{8.8.14.1}{1606, 993, 10404}

अ॒ग्नि‌म्¦हि॒न्व॒न्तु॒¦नः॒¦धियः॑¦सप्ति᳚‌म्¦आ॒शु‌म्ऽ‌इ᳚व¦आ॒जिषु॑ | तेन॑¦जे॒ष्म॒¦धन᳚‌म्ऽधन‌म् ||

यया॒गा,आ॒करा᳚महे॒सेन॑याग्ने॒तवो॒त्या |{आग्नेयः केतुः | अग्निः | गायत्री}

तांनो᳚हिन्वम॒घत्त॑ये || {2/5}{10.156.2}{10.12.5.2}{8.8.14.2}{1607, 993, 10405}

यया᳚¦गाः¦आ॒ऽकरा᳚महे¦सेन॑या¦अ॒ग्ने॒¦तव॑¦ऊ॒त्या | ता‌म्¦नः॒¦हि॒न्व॒¦म॒घत्त॑ये ||

आग्ने᳚स्थू॒रंर॒यिंभ॑रपृ॒थुंगोम᳚न्तम॒श्विन᳚म् |{आग्नेयः केतुः | अग्निः | गायत्री}

अ॒ङ्धिखंव॒र्तया᳚प॒णिम् || {3/5}{10.156.3}{10.12.5.3}{8.8.14.3}{1608, 993, 10406}

आ¦अ॒ग्ने॒¦स्थू॒र‌म्¦र॒यि‌म्¦भ॒र॒¦पृ॒थु‌म्¦गोऽम᳚न्त‌म्¦अ॒श्विन᳚‌म् | अ॒ङ्धि¦ख‌म्¦व॒र्तय॑¦प॒णि‌म् ||

अग्ने॒नक्ष॑त्रम॒जर॒मासूर्यं᳚रोहयोदि॒वि |{आग्नेयः केतुः | अग्निः | गायत्री}

दध॒ज्ज्योति॒र्जने᳚भ्यः || {4/5}{10.156.4}{10.12.5.4}{8.8.14.4}{1609, 993, 10407}

अग्ने᳚¦नक्ष॑त्र‌म्¦अ॒जर᳚‌म्¦आ¦सूर्य᳚‌म्¦रो॒ह॒यः॒¦दि॒वि | दध॑त्¦ज्योतिः॑¦जने᳚भ्यः ||

अग्ने᳚के॒तुर्वि॒शाम॑सि॒प्रेष्ठः॒श्रेष्ठ॑उपस्थ॒सत् |{आग्नेयः केतुः | अग्निः | गायत्री}

बोधा᳚स्तो॒त्रेवयो॒दध॑त् || {5/5}{10.156.5}{10.12.5.5}{8.8.14.5}{1610, 993, 10408}

अग्ने᳚¦के॒तुः¦वि॒शा‌म्¦अ॒सि॒¦प्रेष्ठः॑¦श्रेष्ठः॑¦उ॒प॒स्थ॒ऽसत् | बोध॑¦स्तो॒त्रे¦वयः॑¦दध॑त् ||

[157] इमान्विति पंचर्चस्य सूक्तस्याप्त्यो भुवनो विश्वेदेवाद्विपदात्रिष्टुप् | (अत्रभौवनः साधनोवैकल्पिकः)
इ॒मानुकं॒भुव॑नासीषधा॒मेन्द्र॑श्च॒विश्वे᳚दे॒वाः || {आप्त्यो भुवनः | विश्वदेवाः | त्रिष्टुप्}{1/5}{10.157.1}{10.12.6.1}{8.8.15.1}{1611, 994, 10409}
य॒ज्ञंच॑नस्त॒न्वं᳚प्र॒जांचा᳚दि॒त्यैरिन्द्रः॑स॒हची᳚कॢपाति || {आप्त्यो भुवनः | विश्वदेवाः | त्रिष्टुप्}{2/5}{10.157.2}{10.12.6.2}{8.8.15.2}{1612, 994, 10410}
आ॒दि॒त्यैरिन्द्रः॒सग॑णोम॒रुद्भि॑र॒स्माकं᳚भूत्ववि॒तात॒नूना᳚म् || {आप्त्यो भुवनः | विश्वदेवाः | त्रिष्टुप्}{3/5}{10.157.3}{10.12.6.3}{8.8.15.3}{1613, 994, 10411}
ह॒त्वाय॑दे॒वा,असु॑रा॒न्यदाय᳚न्दे॒वादे᳚व॒त्वम॑भि॒रक्ष॑माणाः || {आप्त्यो भुवनः | विश्वदेवाः | त्रिष्टुप्}{4/5}{10.157.4}{10.12.6.4}{8.8.15.4}{1614, 994, 10412}
प्र॒त्यञ्च॑म॒र्कम॑नय॒ञ्छची᳚भि॒रादित्स्व॒धामि॑षि॒रांपर्य॑पश्यन् || {आप्त्यो भुवनः | विश्वदेवाः | त्रिष्टुप्}{5/5}{10.157.5}{10.12.6.5}{8.8.15.5}{1615, 994, 10413}
[158] सूर्योन इति पंचर्चस्य सूक्तस्य सौर्यश्चक्षुर्मानवः सूर्यो गायत्री |
सूर्यो᳚नोदि॒वस्पा᳚तु॒¦वातो᳚,अ॒न्तरि॑क्षात् |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री}

अ॒ग्निर्नः॒पार्थि॑वेभ्यः || {1/5}{10.158.1}{10.12.7.1}{8.8.16.1}{1616, 995, 10414}

सूर्यः॑¦नः॒¦दि॒वः¦पा॒तु॒¦वातः॑¦अ॒न्तरि॑क्षात् | अ॒ग्निः¦नः॒¦पार्थि॑वेभ्यः ||

जोषा᳚सवित॒र्यस्य॑ते॒हरः॑¦श॒तंस॒वाँ,अर्ह॑ति |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री}

पा॒हिनो᳚दि॒द्युतः॒पत᳚न्त्याः || {2/5}{10.158.2}{10.12.7.2}{8.8.16.2}{1617, 995, 10415}

जोष॑¦स॒वि॒तः॒¦यस्य॑¦ते॒¦हरः॑¦श॒त‌म्¦स॒वान्¦अर्ह॑ति | पा॒हि¦नः॒¦दि॒द्युतः॑¦पत᳚न्त्याः ||

चक्षु᳚र्नोदे॒वःस॑वि॒ता¦चक्षु᳚र्नउ॒तपर्व॑तः |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री}

चक्षु॑र्धा॒ताद॑धातुनः || {3/5}{10.158.3}{10.12.7.3}{8.8.16.3}{1618, 995, 10416}

चक्षुः॑¦नः॒¦दे॒वः¦स॒वि॒ता¦चक्षुः॑¦नः॒¦उ॒त¦पर्व॑तः | चक्षुः॑¦धा॒ता¦द॒धा॒तु॒¦नः॒ ||

चक्षु᳚र्नोधेहि॒चक्षु॑षे॒¦चक्षु᳚र्वि॒ख्यैत॒नूभ्यः॑ |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री}

संचे॒दंविच॑पश्येम || {4/5}{10.158.4}{10.12.7.4}{8.8.16.4}{1619, 995, 10417}

चक्षुः॑¦नः॒¦धे॒हि॒¦चक्षु॑षे¦चक्षुः॑¦वि॒ऽख्यै¦त॒नूभ्यः॑ | स‌म्¦च॒¦इ॒द‌म्¦वि¦च॒¦प॒श्ये॒म॒ ||

सु॒सं॒दृशं᳚त्वाव॒यं¦प्रति॑पश्येमसूर्य |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री}

विप॑श्येमनृ॒चक्ष॑सः || {5/5}{10.158.5}{10.12.7.5}{8.8.16.5}{1620, 995, 10418}

सु॒ऽस॒न्दृश᳚‌म्¦त्वा॒¦व॒य‌म्¦प्रति॑¦प॒श्ये॒म॒¦सू॒र्य॒ | वि¦प॒श्ये॒म॒¦नृ॒ऽचक्ष॑सः ||

[159] उदसाविति षढचस्य सूक्तस्य पौलोमी शचीशच्यनुष्टुप् |
उद॒सौसूर्यो᳚,अगा॒दुद॒यंमा᳚म॒कोभगः॑ |{पौलोमी शचीः | शची | अनुष्टुप्}

अ॒हंतद्वि॑द्व॒लापति॑म॒भ्य॑साक्षिविषास॒हिः || {1/6}{10.159.1}{10.12.8.1}{8.8.17.1}{1621, 996, 10419}

उत्¦अ॒सौ¦सूर्यः॑¦अ॒गा॒त्¦उत्¦अ॒य‌म्¦मा॒म॒कः¦भगः॑ | अ॒ह‌म्¦तत्¦वि॒द्व॒ला¦पति᳚‌म्¦अ॒भि¦आ॒सा॒क्षि॒¦वि॒ऽस॒स॒हिः ||

अ॒हंके॒तुर॒हंमू॒र्धाहमु॒ग्रावि॒वाच॑नी |{पौलोमी शचीः | शची | अनुष्टुप्}

ममेदनु॒क्रतुं॒पतिः॑सेहा॒नाया᳚,उ॒पाच॑रेत् || {2/6}{10.159.2}{10.12.8.2}{8.8.17.2}{1622, 996, 10420}

अ॒ह‌म्¦के॒तुः¦अ॒ह‌म्¦मू॒र्धा¦अ॒ह‌म्¦उ॒ग्रा¦वि॒ऽवाच॑नी | मम॑¦इत्¦अनु॑¦क्रतु᳚‌म्¦पतिः॑¦से॒हा॒नायाः᳚¦उ॒प॒ऽआच॑रेत् ||

मम॑पु॒त्राःश॑त्रु॒हणोऽथो᳚मेदुहि॒तावि॒राट् |{पौलोमी शचीः | शची | अनुष्टुप्}

उ॒ताहम॑स्मिसंज॒यापत्यौ᳚मे॒श्लोक॑उत्त॒मः || {3/6}{10.159.3}{10.12.8.3}{8.8.17.3}{1623, 996, 10421}

मम॑¦पु॒त्राः¦श॒त्रु॒ऽहनः॑¦अथो॒ इति॑¦मे॒¦दु॒हि॒ता¦वि॒राट् | उ॒त¦अ॒ह‌म्¦अ॒स्मि॒¦स॒‌म्ऽज॒या¦पत्यौ᳚¦मे॒¦श्लोकः॑¦उ॒त्ऽत॒मः ||

येनेन्द्रो᳚ह॒विषा᳚कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः |{पौलोमी शचीः | शची | अनुष्टुप्}

इ॒दंतद॑क्रिदेवा,असप॒त्नाकिला᳚भुवम् || {4/6}{10.159.4}{10.12.8.4}{8.8.17.4}{1624, 996, 10422}

येन॑¦इन्द्रः॑¦ह॒विषा᳚¦कृ॒त्वी¦अभ॑वत्¦द्यु॒म्नी¦उ॒त्ऽत॒मः | इ॒दन्‌म्¦तत्¦अ॒क्रि॒¦दे॒वाः॒¦अ॒स॒प॒त्ना¦किल॑¦अ॒भु॒व॒‌म् ||

अ॒स॒प॒त्नास॑पत्न॒घ्नीजय᳚न्त्यभि॒भूव॑री |{पौलोमी शचीः | शची | अनुष्टुप्}

आवृ॑क्षम॒न्यासां॒वर्चो॒राधो॒,अस्थे᳚यसामिव || {5/6}{10.159.5}{10.12.8.5}{8.8.17.5}{1625, 996, 10423}

अ॒स॒प॒त्ना¦स॒प॒त्न॒ऽघ्नी¦जय᳚न्ती¦अ॒भि॒ऽभूव॑री | आ¦अ॒वृ॒क्ष॒‌म्¦अ॒न्यासा᳚‌म्¦वर्चः॑¦राधः॑¦अस्थे᳚यसा‌म्ऽ‌इव ||

सम॑जैषमि॒मा,अ॒हंस॒पत्नी᳚रभि॒भूव॑री |{पौलोमी शचीः | शची | अनुष्टुप्}

यथा॒हम॒स्यवी॒रस्य॑वि॒राजा᳚नि॒जन॑स्य || {6/6}{10.159.6}{10.12.8.6}{8.8.17.6}{1626, 996, 10424}

स‌म्¦अ॒जै॒ष॒‌म्¦इ॒माः¦अ॒ह‌म्¦स॒ऽपत्नीः᳚¦अ॒भि॒ऽभूव॑री | यथा᳚¦अ॒ह‌म्¦अ॒स्य¦वी॒रस्य॑¦वि॒ऽराजा᳚नि¦जन॑स्य¦च॒ ||

[160] तीव्रस्येति पंचर्चस्य सूक्तस्य वैश्वामित्रः पूरणइंद्रस्त्रिष्टुप् |
ती॒व्रस्या॒भिव॑यसो,अ॒स्यपा᳚हिसर्वर॒थाविहरी᳚,इ॒हमु᳚ञ्च |{वैश्वामित्रः पूरणः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒मात्वा॒यज॑मानासो,अ॒न्येनिरी᳚रम॒न्तुभ्य॑मि॒मेसु॒तासः॑ || {1/5}{10.160.1}{10.12.9.1}{8.8.18.1}{1627, 997, 10425}

ती॒व्रस्य॑¦अ॒भिऽव॑यसः¦अ॒स्य¦पा॒हि॒¦स॒र्व॒ऽर॒था¦वि¦हरी॒ इति॑¦इ॒ह¦मुं॒च॒ |
इन्द्र॑¦मा¦त्वा॒¦यज॑मानासः¦अ॒न्ये¦नि¦री॒र॒म॒न्¦तुभ्य᳚‌म्¦इ॒मे¦सु॒तासः॑ ||

तुभ्यं᳚सु॒तास्तुभ्य॑मु॒सोत्वा᳚स॒स्त्वांगिरः॒श्वात्र्या॒,ह्व॑यन्ति |{वैश्वामित्रः पूरणः | इन्द्रः | त्रिष्टुप्}

इन्द्रे॒दम॒द्यसव॑नंजुषा॒णोविश्व॑स्यवि॒द्वाँ,इ॒हपा᳚हि॒सोम᳚म् || {2/5}{10.160.2}{10.12.9.2}{8.8.18.2}{1628, 997, 10426}

तुभ्य᳚‌म्¦सु॒ताः¦तुभ्य᳚‌म्¦ऊँ॒ इति॑¦सोत्वा᳚सः¦त्वा‌म्¦गिरः॑¦श्वात्र्याः᳚¦आ¦ह्व॒य॒न्ति॒ |
इन्द्र॑¦इ॒द‌म्¦अ॒द्य¦सव॑न‌म्¦जु॒षा॒णः¦विश्व॑स्य¦वि॒द्वान्¦इ॒ह¦पा॒हि॒¦सोम᳚‌म् ||

उ॑श॒तामन॑सा॒सोम॑मस्मैसर्वहृ॒दादे॒वका᳚मःसु॒नोति॑ |{वैश्वामित्रः पूरणः | इन्द्रः | त्रिष्टुप्}

गा,इन्द्र॒स्तस्य॒परा᳚ददातिप्रश॒स्तमिच्चारु॑मस्मैकृणोति || {3/5}{10.160.3}{10.12.9.3}{8.8.18.3}{1629, 997, 10427}

यः¦उ॒श॒ता¦मन॑सा¦सोम᳚‌म्¦अ॒स्मै॒¦स॒र्व॒ऽहृ॒दा¦दे॒वऽका᳚मः¦सु॒नोति॑ |
न¦गाः¦इन्द्रः॑¦तस्य॑¦परा᳚¦द॒दा॒ति॒¦प्र॒ऽश॒स्त‌म्¦इत्¦चारु᳚‌म्¦अ॒स्मै॒¦कृ॒णो॒ति॒ ||

अनु॑स्पष्टोभवत्ये॒षो,अ॑स्य॒यो,अ॑स्मैरे॒वान्नसु॒नोति॒सोम᳚म् |{वैश्वामित्रः पूरणः | इन्द्रः | त्रिष्टुप्}

निर॑र॒त्नौम॒घवा॒तंद॑धातिब्रह्म॒द्विषो᳚ह॒न्त्यना᳚नुदिष्टः || {4/5}{10.160.4}{10.12.9.4}{8.8.18.4}{1630, 997, 10428}

अनु॑ऽस्पष्टः¦भ॒व॒ति॒¦ए॒षः¦अ॒स्य॒¦यः¦अ॒स्मै॒¦रे॒वान्¦न¦सु॒नोति॑¦सोम᳚‌म् |
निः¦अ॒र॒त्नौ¦म॒घऽवा᳚¦त‌म्¦द॒धा॒ति॒¦ब्र॒ह्म॒ऽद्विषः॑¦ह॒न्ति॒¦अन॑नुऽदिष्टः ||

अ॒श्वा॒यन्तो᳚ग॒व्यन्तो᳚वा॒जय᳚न्तो॒हवा᳚महे॒त्वोप॑गन्त॒वा,उ॑ |{वैश्वामित्रः पूरणः | इन्द्रः | त्रिष्टुप्}

आ॒भूष᳚न्तस्तेसुम॒तौनवा᳚यांव॒यमि᳚न्द्रत्वाशु॒नंहु॑वेम || {5/5}{10.160.5}{10.12.9.5}{8.8.18.5}{1631, 997, 10429}

अ॒श्व॒यन्तः॑¦ग॒व्यन्तः॑¦वा॒जय᳚न्तः¦हवा᳚महे¦त्वा॒¦उप॑ऽग॒न्त॒वै¦ऊँ॒ इति॑ |
आ॒ऽभूष᳚न्तः¦ते॒¦सु॒ऽम॒तौ¦नवा᳚या‌म्¦व॒य‌म्¦इ॒न्द्र॒¦त्वा॒¦शु॒न‌म्¦हु॒वे॒म॒ ||

[161] मुंचामित्वेति पंचर्चस्य सूक्तस्य प्राजापत्यो यक्ष्मनाशन इंद्राग्नीत्रिष्टुबंत्यानुष्टुप् | (मुंचामीति सूक्ते राज यक्ष्मघ्नमित्युक्ते राजयक्ष्मनाशनो देवतेतिकेचित् अन्येप्रजापतिमाहुः इंद्राग्नीइतितुयास्कः इत्थंमतवैविध्येपि 'षळाहुतिश्चरुर्मुंचामित्वाहविषा जीवनायकमित्येतेनेति' गृह्यसूत्रानुसारिवृत्तिकृत्कारिका कारादिभिरस्य सूक्तस्यैंद्राग्नि (देवतात्वनिर्देशत्ते‌एवस्माभिरुक्ते)
मु॒ञ्चामि॑त्वाह॒विषा॒जीव॑नाय॒क¦म॑ज्ञातय॒क्ष्मादु॒तरा᳚जय॒क्ष्मात् |{प्राजापत्यो यक्ष्मनाशनः | इन्द्राग्नी राजयक्ष्मघ्नरूपोर्थो वा देवता | त्रिष्टुप्}

ग्राहि॑र्ज॒ग्राह॒यदि॑वै॒तदे᳚नं॒¦तस्या᳚,इन्द्राग्नी॒प्रमु॑मुक्तमेनम् || {1/5}{10.161.1}{10.12.10.1}{8.8.19.1}{1632, 998, 10430}

मुं॒चामि॑¦त्वा॒¦ह॒विषा᳚¦जीव॑नाय¦क‌म्¦अ॒ज्ञा॒त॒ऽय॒क्ष्मात्¦उ॒त¦रा॒ज॒ऽय॒क्ष्मात् |
ग्राहिः॑¦ज॒ग्राह॑¦यदि॑¦वा॒¦ए॒तत्¦ए॒न॒‌म्¦तस्याः᳚¦इ॒न्द्रा॒ग्नी॒ इति॑¦प्र¦मु॒मु॒क्त॒‌म्¦ए॒न॒‌म् ||

यदि॑क्षि॒तायु॒र्यदि॑वा॒परे᳚तो॒¦यदि॑मृ॒त्योर᳚न्ति॒कंनी᳚तए॒व |{प्राजापत्यो यक्ष्मनाशनः | इन्द्राग्नी राजयक्ष्मघ्नरूपोर्थो वा देवता | त्रिष्टुप्}

तमाह॑रामि॒निरृ॑तेरु॒पस्था॒¦दस्पा᳚र्षमेनंश॒तशा᳚रदाय || {2/5}{10.161.2}{10.12.10.2}{8.8.19.2}{1633, 998, 10431}

यदि॑¦क्षि॒तऽआ᳚युः¦यदि॑¦वा॒¦परा᳚ऽ‌इतः¦यदि॑¦मृ॒त्योः¦अ॒न्ति॒क‌म्¦निऽ‌इ᳚तः¦ए॒व |
त‌म्¦आ¦ह॒रा॒मि॒¦निःऽऋ॑तेः¦उ॒पऽस्था᳚त्¦अस्पा᳚र्ष‌म्¦ए॒न॒‌म्¦श॒तऽशा᳚रदाय ||

स॒ह॒स्रा॒क्षेण॑श॒तशा᳚रदेन¦श॒तायु॑षाह॒विषाहा᳚र्षमेनम् |{प्राजापत्यो यक्ष्मनाशनः | इन्द्राग्नी राजयक्ष्मघ्नरूपोर्थो वा देवता | त्रिष्टुप्}

श॒तंयथे॒मंश॒रदो॒नया॒ती¦न्द्रो॒विश्व॑स्यदुरि॒तस्य॑पा॒रम् || {3/5}{10.161.3}{10.12.10.3}{8.8.19.3}{1634, 998, 10432}

स॒ह॒स्र॒।आ॒क्षेण॑¦श॒तऽशा᳚रदेन¦श॒तऽआ᳚युषा¦ह॒विषा᳚¦आ¦अ॒हा॒र्ष॒‌म्¦ए॒न॒‌म् |
श॒त‌म्¦यथा᳚¦इ॒म‌म्¦श॒रदः॑¦नया᳚ति¦इन्द्रः॑¦विश्व॑स्य¦दुः॒ऽ‌इ॒तस्य॑¦पा॒र‌म् ||

श॒तंजी᳚वश॒रदो॒वर्ध॑मानः¦श॒तंहे᳚म॒न्ताञ्छ॒तमु॑वस॒न्तान् |{प्राजापत्यो यक्ष्मनाशनः | इन्द्राग्नी राजयक्ष्मघ्नरूपोर्थो वा देवता | त्रिष्टुप्}

श॒तमि᳚न्द्रा॒ग्नीस॑वि॒ताबृह॒स्पतिः॑¦श॒तायु॑षाह॒विषे॒मंपुन॑र्दुः || {4/5}{10.161.4}{10.12.10.4}{8.8.19.4}{1635, 998, 10433}

श॒त‌म्¦जी॒व॒¦श॒रदः॑¦वर्ध॑मानः¦श॒त‌म्¦हे॒म॒न्तान्¦श॒त‌म्¦ऊँ॒ इति॑¦व॒स॒न्तान् |
श॒त‌म्¦इ॒न्द्रा॒ग्नी इति॑¦स॒वि॒ता¦बृह॒स्पतिः॑¦श॒तऽआ᳚युषा¦ह॒विषा᳚¦इ॒म‌म्¦पुनः॑¦दुः॒ ||

आहा᳚र्षं॒त्वावि॑दंत्वा॒¦पुन॒रागाः᳚पुनर्नव |{प्राजापत्यो यक्ष्मनाशनः | इन्द्राग्नी राजयक्ष्मघ्नरूपोर्थो वा देवता | अनुष्टुप्}

सर्वा᳚ङ्ग॒सर्वं᳚ते॒चक्षुः॒¦सर्व॒मायु॑श्चतेऽविदम् || {5/5}{10.161.5}{10.12.10.5}{8.8.19.5}{1636, 998, 10434}

आ¦अ॒हा॒र्ष॒‌म्¦त्वा॒¦अवि॑द‌म्¦त्वा॒¦पुनः॑¦आ¦अ॒गाः॒¦पु॒नः॒ऽन॒व॒ | सर्व॑।आङ्ग¦सर्व᳚‌म्¦ते॒¦चक्षुः॑¦सर्व᳚‌म्¦आयुः॑¦च॒¦ते॒¦अ॒वि॒द॒‌म् ||

[162] ब्रह्मणाग्रिरिति षडृचस्य सूक्तस्य ब्राह्मोरक्षोहा प्रजापतिरनुष्टुप् | (अत्रसूक्तेऽनुक्रमण्यवष्टंभेनदेवतानिर्णयोनभवति | यतस्तत्र गर्भस्रावे प्रायश्चित्तिरित्युक्तं तेनसूक्तस्य प्रभावमात्रंद्योत्यतेनतुदेवता | अतोत्रप्रजापतिर्देवताग्राह्या | तथाच शौनकः 'मंत्रेषुह्यनिरुक्तेषु देवतांकर्मतोवदेत् | मंत्रतः कर्मणाचैव प्रजापतिरसंभवे' इति | भाष्यकारैरपिप्रजापतिरेवोक्तः | बृहद्देवतायांतु राक्षोघ्नाग्नेयमित्युक्तं तत्रयुक्तायुक्तंसद्भिर्विचारणीयम् ) |
ब्रह्म॑णा॒ग्निःसं᳚विदा॒नोर॑क्षो॒हाबा᳚धतामि॒तः |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्}

अमी᳚वा॒यस्ते॒गर्भं᳚दु॒र्णामा॒योनि॑मा॒शये᳚ || {1/6}{10.162.1}{10.12.11.1}{8.8.20.1}{1637, 999, 10435}

ब्रह्म॑णा¦अ॒ग्निः¦सा॒‌म्ऽवि॒दा॒नः¦र॒क्षः॒ऽहा¦बा॒ध॒ता॒‌म्¦इ॒तः | अमी᳚वा¦यः¦ते॒¦गर्भ᳚‌म्¦दुः॒ऽनामा᳚¦योनि᳚‌म्¦आ॒शये᳚ ||

यस्ते॒गर्भ॒ममी᳚वादु॒र्णामा॒योनि॑मा॒शये᳚ |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्}

अ॒ग्निष्टंब्रह्म॑णास॒हनिष्क्र॒व्याद॑मनीनशत् || {2/6}{10.162.2}{10.12.11.2}{8.8.20.2}{1638, 999, 10436}

यः¦ते॒¦गर्भ᳚‌म्¦अमी᳚वा¦दुः॒ऽनामा᳚¦योनि᳚‌म्¦आ॒ऽशये᳚ | अ॒ग्निः¦त‌म्¦ब्रह्म॑णा¦स॒ह¦निः¦क्र॒व्य॒।आद᳚‌म्¦अ॒नी॒न॒श॒त् ||

यस्ते॒हन्ति॑प॒तय᳚न्तंनिष॒त्स्नुंयःस॑रीसृ॒पम् |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्}

जा॒तंयस्ते॒जिघां᳚सति॒तमि॒तोना᳚शयामसि || {3/6}{10.162.3}{10.12.11.3}{8.8.20.3}{1639, 999, 10437}

यः¦ते॒¦हन्ति॑¦प॒तय᳚न्त‌म्¦नि॒ऽस॒त्स्नु‌म्¦यः¦स॒री॒सृ॒प‌म् | जा॒त‌म्¦यः¦ते॒¦जिघां᳚सति¦त‌म्¦इ॒तः¦ना॒श॒या॒म॒सि॒ ||

यस्त॑ऊ॒रूवि॒हर॑त्यन्त॒रादम्प॑ती॒शये᳚ |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्}

योनिं॒यो,अ॒न्तरा॒रेळ्हि॒तमि॒तोना᳚शयामसि || {4/6}{10.162.4}{10.12.11.4}{8.8.20.4}{1640, 999, 10438}

यः¦ते॒¦ऊ॒रू इति॑¦वि॒ऽहर॑ति¦अ॒न्त॒रा¦दंप॑ती॒ इति॒ द‌म्ऽप॑ती¦शये᳚ | योनि᳚‌म्¦यः¦अ॒न्तः¦आ॒ऽरेळ्हि॑¦त‌म्¦इ॒तः¦ना॒श॒या॒म॒सि॒ ||

यस्त्वा॒भ्राता॒पति॑र्भू॒त्वाजा॒रोभू॒त्वानि॒पद्य॑ते |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्}

प्र॒जांयस्ते॒जिघां᳚सति॒तमि॒तोना᳚शयामसि || {5/6}{10.162.5}{10.12.11.5}{8.8.20.5}{1641, 999, 10439}

यः¦त्वा॒¦भ्राता᳚¦पतिः॑¦भू॒त्वा¦जा॒रः¦भू॒त्वा¦नि॒ऽपद्य॑ते | प्र॒ऽजा‌म्¦यः¦ते॒¦जिघां᳚सति¦त‌म्¦इ॒तः¦ना॒श॒या॒म॒सि॒ ||

यस्त्वा॒स्वप्ने᳚न॒तम॑सामोहयि॒त्वानि॒पद्य॑ते |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्}

प्र॒जांयस्ते॒जिघां᳚सति॒तमि॒तोना᳚शयामसि || {6/6}{10.162.6}{10.12.11.6}{8.8.20.6}{1642, 999, 10440}

यः¦त्वा॒¦स्वप्ने᳚न¦तम॑सा¦मो॒ह॒यि॒त्वा¦नि॒ऽपद्य॑ते | प्र॒ऽजा‌म्¦यः¦ते॒¦जिघां᳚सति¦त‌म्¦इ॒तः¦ना॒श॒या॒म॒सि॒ ||

[163] अक्षीभ्यामिति षडृचस्य सूक्तस्य काश्यपोविवृहायक्ष्महानुष्टुप् |
अ॒क्षीभ्यां᳚ते॒नासि॑काभ्यां॒कर्णा᳚भ्यां॒छुबु॑का॒दधि॑ |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्}

यक्ष्मं᳚शीर्ष॒ण्यं᳚म॒स्तिष्का᳚ज्जि॒ह्वाया॒विवृ॑हामिते || {1/6}{10.163.1}{10.12.12.1}{8.8.21.1}{1643, 1000, 10441}

अ॒क्षीभ्या᳚‌म्¦ते॒¦नासि॑काभ्या‌म्¦कर्णा᳚भ्या‌म्¦छुबु॑कात्¦अधि॑ | यक्ष्म᳚‌म्¦शी॒र्ष॒ण्य᳚‌म्¦म॒स्तिष्का᳚त्¦जि॒ह्वायाः᳚¦वि¦वृ॒हा॒मि॒¦ते॒ ||

ग्री॒वाभ्य॑स्तउ॒ष्णिहा᳚भ्यः॒कीक॑साभ्यो,अनू॒क्या᳚त् |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्}

यक्ष्मं᳚दोष॒ण्य१॑(अ॒)मंसा᳚भ्यांबा॒हुभ्यां॒विवृ॑हामिते || {2/6}{10.163.2}{10.12.12.2}{8.8.21.2}{1644, 1000, 10442}

ग्री॒वाभ्यः॑¦ते॒¦उ॒ष्णिहा᳚भ्यः¦कीक॑साभ्यः¦अ॒नू॒क्या᳚त् | यक्ष्म᳚‌म्¦दो॒ष॒ण्य᳚‌म्¦अंसा᳚भ्या‌म्¦बा॒हुऽभ्या᳚‌म्¦वि¦वृ॒हा॒मि॒¦ते॒ ||

आ॒न्त्रेभ्य॑स्ते॒गुदा᳚भ्योवनि॒ष्ठोर्हृद॑या॒दधि॑ |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्}

यक्ष्मं॒मत॑स्नाभ्यांय॒क्नःप्ला॒शिभ्यो॒विवृ॑हामिते || {3/6}{10.163.3}{10.12.12.3}{8.8.21.3}{1645, 1000, 10443}

आ॒न्त्रेभ्यः॑¦ते॒¦गुदा᳚भ्यः¦व॒नि॒ष्ठोः¦हृद॑यात्¦अधि॑ | यक्ष्म᳚‌म्¦मत॑स्नाभ्या‌म्¦य॒क्नः¦प्ला॒शिऽभ्यः॑¦वि¦वृ॒हा॒मि॒¦ते॒ ||

ऊ॒रुभ्यां᳚ते,अष्ठी॒वद्भ्यां॒पार्ष्णि॑भ्यां॒प्रप॑दाभ्याम् |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्}

यक्ष्मं॒श्रोणि॑भ्यां॒भास॑दा॒द्भंस॑सो॒विवृ॑हामिते || {4/6}{10.163.4}{10.12.12.4}{8.8.21.4}{1646, 1000, 10444}

ऊ॒रुऽभ्या᳚‌म्¦ते॒¦अ॒ष्ठी॒वत्ऽभ्या᳚‌म्¦पार्ष्णि॑ऽभ्या‌म्¦प्रऽप॑दाभ्या‌म् | यक्ष्म᳚‌म्¦श्रोणि॑ऽभ्य्‌म्¦भास॑दात्¦भंस॑सः¦वि¦वृ॒हा॒मि॒¦ते॒ ||

मेह॑नाद्वनं॒कर॑णा॒ल्लोम॑भ्यस्तेन॒खेभ्यः॑ |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्}

यक्ष्मं॒सर्व॑स्मादा॒त्मन॒स्तमि॒दंविवृ॑हामिते || {5/6}{10.163.5}{10.12.12.5}{8.8.21.5}{1647, 1000, 10445}

मेह॑नात्¦व॒न॒‌म्ऽकर॑णात्¦लोम॑ऽभ्यः¦ते॒¦न॒खेभ्यः॑ | यक्ष्म᳚‌म्¦सर्व॑स्मात्¦आ॒त्मनः॑¦त‌म्¦इ॒द‌म्¦वि¦वृ॒हा॒मि॒¦ते॒ ||

अङ्गा᳚दङ्गा॒ल्लोम्नो᳚लोम्नोजा॒तंपर्व॑णिपर्वणि |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्}

यक्ष्मं॒सर्व॑स्मादा॒त्मन॒स्तमि॒दंविवृ॑हामिते || {6/6}{10.163.6}{10.12.12.6}{8.8.21.6}{1648, 1000, 10446}

अङ्गा᳚त्।आङ्गात्¦लोम्नः॑ऽलोम्नः¦जा॒त‌म्¦पर्व॑णिऽपर्वणि | यक्ष्म᳚‌म्¦सर्व॑स्मात्¦आ॒त्मनः॑¦त‌म्¦इ॒द‌म्¦वि¦वृ॒हा॒मि॒¦ते॒ ||

[164] अपेहीति पंचर्चस्य सूक्तस्यांगिरसः प्रचेता दुःस्वप्ननाशनोनुष्टुप् तृतीया त्रिष्टुप्‌ अंत्यापंक्तिः |
अपे᳚हिमनसस्प॒तेऽप॑क्रामप॒रश्च॑र |{आंगिरसः प्रचेतादुः | दुःस्वप्ननाशनः | अनुष्टुप्}

प॒रोनिरृ॑त्या॒,च॑क्ष्वबहु॒धाजीव॑तो॒मनः॑ || {1/5}{10.164.1}{10.12.13.1}{8.8.22.1}{1649, 1001, 10447}

अप॑¦इ॒हि॒¦म॒न॒सः॒¦प॒ते॒¦अप॑¦क्रा॒म॒¦प॒रः¦च॒र॒ | प॒रः¦निःऽऋ॑त्यै¦आ¦च॒क्ष्व॒¦ब॒हु॒धा¦जीव॑तः¦मनः॑ ||

भ॒द्रंवैवरं᳚वृणतेभ॒द्रंयु᳚ञ्जन्ति॒दक्षि॑णम् |{आंगिरसः प्रचेतादुः | दुःस्वप्ननाशनः | अनुष्टुप्}

भ॒द्रंवै᳚वस्व॒तेचक्षु॑र्बहु॒त्राजीव॑तो॒मनः॑ || {2/5}{10.164.2}{10.12.13.2}{8.8.22.2}{1650, 1001, 10448}

भ॒द्र‌म्¦वै¦वर᳚‌म्¦वृ॒ण॒ते॒¦भ॒द्र‌म्¦युं॒ज॒न्ति॒¦दक्षि॑ण‌म् | भ॒द्र‌म्¦वै॒व॒स्व॒ते¦चक्षुः॑¦ब॒हु॒ऽत्रा¦जीव॑तः¦मनः॑ ||

यदा॒शसा᳚निः॒शसा᳚भि॒शसो᳚पारि॒मजाग्र॑तो॒यत्स्व॒पन्तः॑ |{आंगिरसः प्रचेतादुः | दुःस्वप्ननाशनः | त्रिष्टुप्}

अ॒ग्निर्विश्वा॒न्यप॑दुष्कृ॒तान्यजु॑ष्टान्या॒रे,अ॒स्मद्द॑धातु || {3/5}{10.164.3}{10.12.13.3}{8.8.22.3}{1651, 1001, 10449}

यत्¦आ॒ऽशसा᳚¦निः॒ऽशसा᳚¦अ॒भि॒ऽशसा᳚¦उ॒प॒ऽआ॒रि॒म¦जाग्र॑तः¦यत्¦स्व॒पन्तः॑ |
अ॒ग्निः¦विश्वा᳚नि¦अप॑¦दुः॒ऽकृ॒तानि॑¦अजु॑ष्टानि¦आ॒रे¦अ॒स्मत्¦दा॒धा॒तु॒ ||

यदि᳚न्द्रब्रह्मणस्पते¦ऽभिद्रो॒हंचरा᳚मसि |{आंगिरसः प्रचेतादुः | दुःस्वप्ननाशनः | अनुष्टुप्}

प्रचे᳚ताआङ्गिर॒सो¦द्वि॑ष॒तांपा॒त्वंह॑सः || {4/5}{10.164.4}{10.12.13.4}{8.8.22.4}{1652, 1001, 10450}

यत्¦इ॒न्द्र॒¦ब्र॒ह्म॒णः॒¦प॒ते॒¦अ॒भि॒ऽद्रो॒ह‌म्¦चरा᳚मसि | प्रऽचे᳚ताः¦नः॒¦आ॒ङ्गि॒र॒सः¦द्वि॒ष॒ता‌म्¦पा॒तु॒¦अंह॑सः ||

अजै᳚ष्मा॒द्यास॑नाम॒चाभू॒माना᳚गसोव॒यम् |{आंगिरसः प्रचेतादुः | दुःस्वप्ननाशनः | पङ्क्तिः}

जा॒ग्र॒त्स्व॒प्नःसं᳚क॒ल्पःपा॒पोयंद्वि॒ष्मस्तंऋ॑च्छतु॒योनो॒द्वेष्टि॒तमृ॑च्छतु || {5/5}{10.164.5}{10.12.13.5}{8.8.22.5}{1653, 1001, 10451}

अजै᳚ष्म¦अ॒द्य¦अस॑नाम¦च॒¦अभू᳚म¦अना᳚गसः¦व॒य‌म् |
जा॒ग्र॒त्ऽस्व॒प्नः¦स॒‌म्ऽक॒ल्पः¦पा॒पः¦य‌म्¦द्वि॒ष्मः¦त‌म्¦सः¦ऋ॒च्छ॒तु॒¦यः¦नः॒¦द्वे॒ष्टि॒¦त‌म्¦ऋ॒च्छ॒तु॒ ||

[165] देवाइति पंचर्चस्य सूक्तस्य नैरृतः कपोतोर्विश्वेदेवास्त्रिष्टुप् |
देवाः᳚क॒पोत॑इषि॒तोयदि॒च्छन्दू॒तोनिरृ॑त्या,इ॒दमा᳚ज॒गाम॑ |{नैरृतः कपोतः | विश्वेदेवाः | त्रिष्टुप्}

तस्मा᳚,अर्चामकृ॒णवा᳚म॒निष्कृ॑तिं॒शंनो᳚,अस्तुद्वि॒पदे॒शंचतु॑ष्पदे || {1/5}{10.165.1}{10.12.14.1}{8.8.23.1}{1654, 1002, 10452}

देवाः᳚¦क॒पोतः॑¦इ॒षि॒तः¦यत्¦इ॒च्छन्¦दू॒तः¦निःऽऋ॑त्याः¦इ॒द‌म्¦आ॒ऽज॒गाम॑ |
तस्मै᳚¦अ॒र्चा॒म॒¦कृ॒णवा᳚म¦निःऽकृ॑ति‌म्¦श‌म्¦नः॒¦अ॒स्तु॒¦द्वि॒ऽपदे᳚¦श‌म्¦चतुः॑ऽपदे ||

शि॒वःक॒पोत॑इषि॒तोनो᳚,अस्त्वना॒गादे᳚वाःशकु॒नोगृ॒हेषु॑ |{नैरृतः कपोतः | विश्वेदेवाः | त्रिष्टुप्}

अ॒ग्निर्हिविप्रो᳚जु॒षतां᳚ह॒विर्नः॒परि॑हे॒तिःप॒क्षिणी᳚नोवृणक्तु || {2/5}{10.165.2}{10.12.14.2}{8.8.23.2}{1655, 1002, 10453}

शि॒वः¦क॒पोतः॑¦इ॒षि॒तः¦नः॒¦अ॒स्तु॒¦अ॒ना॒गाः¦दे॒वाः॒¦श॒कु॒नः¦गृ॒हेषु॑ |
अ॒ग्निः¦हि¦विप्रः॑¦जु॒षता᳚‌म्¦ह॒विः¦नः॒¦परि॑¦हे॒तिः¦प॒क्षिणी᳚¦नः॒¦वृ॒ण॒क्तु॒ ||

हे॒तिःप॒क्षिणी॒द॑भात्य॒स्माना॒ष्ट्र्यांप॒दंकृ॑णुते,अग्नि॒धाने᳚ |{नैरृतः कपोतः | विश्वेदेवाः | त्रिष्टुप्}

शंनो॒गोभ्य॑श्च॒पुरु॑षेभ्यश्चास्तु॒मानो᳚हिंसीदि॒हदे᳚वाःक॒पोतः॑ || {3/5}{10.165.3}{10.12.14.3}{8.8.23.3}{1656, 1002, 10454}

हे॒तिः¦प॒क्षिणी᳚¦न¦द॒भा॒ति॒¦अ॒स्मान्¦आ॒ष्ट्र्या‌म्¦प॒द‌म्¦कृ॒णु॒ते॒¦अ॒ग्नि॒ऽधाने᳚ |
श‌म्¦नः॒¦गोभ्यः॑¦च॒¦पुरु॑षेभ्यः¦च॒¦अ॒स्तु॒¦मा¦नः॒¦हिं॒सी॒त्¦इ॒ह¦दे॒वाः॒¦क॒पोतः॑ ||

यदुलू᳚को॒वद॑तिमो॒घमे॒तद्यत्क॒पोतः॑प॒दम॒ग्नौकृ॒णोति॑ |{नैरृतः कपोतः | विश्वेदेवाः | त्रिष्टुप्}

यस्य॑दू॒तःप्रहि॑तए॒षए॒तत्तस्मै᳚य॒माय॒नमो᳚,अस्तुमृ॒त्यवे᳚ || {4/5}{10.165.4}{10.12.14.4}{8.8.23.4}{1657, 1002, 10455}

यत्¦उलू᳚कः¦वद॑ति¦मो॒घ‌म्¦ए॒तत्¦यत्¦क॒पोतः॑¦प॒द‌म्¦अ॒ग्नौ¦कृ॒णोति॑ |
यस्य॑¦दू॒तः¦प्रऽहि॑तः¦ए॒षः¦ए॒तत्¦तस्मै᳚¦य॒माय॑¦नमः॑¦अ॒स्तु॒¦मृ॒त्यवे᳚ ||

ऋ॒चाक॒पोतं᳚नुदतप्र॒णोद॒मिषं॒मद᳚न्तः॒परि॒गांन॑यध्वम् |{नैरृतः कपोतः | विश्वेदेवाः | त्रिष्टुप्}

सं॒यो॒पय᳚न्तोदुरि॒तानि॒विश्वा᳚हि॒त्वान॒ऊर्जं॒प्रप॑ता॒त्पति॑ष्ठः || {5/5}{10.165.5}{10.12.14.5}{8.8.23.5}{1658, 1002, 10456}

ऋ॒चा¦क॒पोत᳚‌म्¦नु॒द॒त॒¦प्र॒ऽनोद᳚‌म्¦इष᳚‌म्¦मद᳚न्तः¦परि॑¦गा‌म्¦न॒य॒ध्व॒‌म् |
स॒‌म्ऽयो॒पय᳚न्तः¦दुः॒ऽ‌इ॒तानि॑¦विश्वा᳚¦हि॒त्वा¦नः॒¦ऊर्ज᳚‌म्¦प्र¦प॒ता॒त्¦पति॑ष्ठः ||

[166] ऋषभमिति पंचर्चस्य सूक्तस्य वैराजऋषभः सपत्ननाशनोनुष्ठुबंत्या महापंक्तिः | (शाक्वरोवाऋषिः)|
ऋ॒ष॒भंमा᳚समा॒नानां᳚स॒पत्ना᳚नांविषास॒हिम् |{वैराजऋषभः | सपत्ननाशनः | अनुष्टुप्}

ह॒न्तारं॒शत्रू᳚णांकृधिवि॒राजं॒गोप॑तिं॒गवा᳚म् || {1/5}{10.166.1}{10.12.15.1}{8.8.24.1}{1659, 1003, 10457}

ऋ॒ष॒भ‌म्¦मा॒¦स॒मा॒नाना᳚‌म्¦स॒ऽपत्ना᳚ना‌म्¦वि॒ऽस॒स॒हि‌म् | ह॒न्तार᳚‌म्¦शत्रू᳚णा‌म्¦कृ॒धि॒¦वि॒ऽराज᳚‌म्¦गोऽप॑ति‌म्¦गवा᳚‌म् ||

अ॒हम॑स्मिसपत्न॒हेन्द्र॑इ॒वारि॑ष्टो॒,अक्ष॑तः |{वैराजऋषभः | सपत्ननाशनः | अनुष्टुप्}

अ॒धःस॒पत्ना᳚मेप॒दोरि॒मेसर्वे᳚,अ॒भिष्ठि॑ताः || {2/5}{10.166.2}{10.12.15.2}{8.8.24.2}{1660, 1003, 10458}

अ॒ह‌म्¦अ॒स्मि॒¦स॒प॒त्न॒ऽहा¦इन्द्रः॑ऽ‌इव¦अरि॑ष्टः¦अक्ष॑तः | अ॒धः¦स॒ऽपत्नाः᳚¦मे॒¦प॒दोः¦इ॒मे¦सर्वे᳚¦अ॒भिऽस्थि॑ताः ||

अत्रै॒ववोऽपि॑नह्याम्यु॒भे,आर्त्नी᳚,इव॒ज्यया᳚ |{वैराजऋषभः | सपत्ननाशनः | अनुष्टुप्}

वाच॑स्पते॒निषे᳚धे॒मान्यथा॒मदध॑रं॒वदा॑न् || {3/5}{10.166.3}{10.12.15.3}{8.8.24.3}{1661, 1003, 10459}

अत्र॑¦ए॒व¦वः॒¦अपि॑¦न॒ह्या॒मि॒¦उ॒भे इति॑¦आर्त्नी᳚ इ॒वेत्यार्त्नी᳚ऽ‌इव¦ज्यया᳚ | वाचः॑¦प॒ते॒¦नि¦से॒ध॒¦इ॒मान्¦यथा᳚¦मत्¦अध॑र‌म्¦वदा॑न् ||

अ॒भि॒भूर॒हमाग॑मंवि॒श्वक᳚र्मेण॒धाम्ना᳚ |{वैराजऋषभः | सपत्ननाशनः | अनुष्टुप्}

व॑श्चि॒त्तमावो᳚व्र॒तमावो॒ऽहंसमि॑तिंददे || {4/5}{10.166.4}{10.12.15.4}{8.8.24.4}{1662, 1003, 10460}

अ॒भि॒ऽभूः¦अ॒ह‌म्¦आ¦अ॒ग॒म॒‌म्¦वि॒श्वऽक᳚र्मेण¦धाम्ना᳚ | आ¦वः॒¦चि॒त्त‌म्¦आ¦वः॒¦व्र॒त‌म्¦आ¦वः॒¦अ॒ह‌म्¦स‌म्ऽ‌इ᳚ति‌म्¦द॒दे॒ ||

यो॒ग॒क्षे॒मंव॑आ॒दाया॒हंभू᳚यासमुत्त॒मवो᳚मू॒र्धान॑मक्रमीम् |{वैराजऋषभः | सपत्ननाशनः | महापङ्क्तिः}

अ॒ध॒स्प॒दान्म॒उद्व॑दतम॒ण्डूका᳚,इवोद॒कान्म॒ण्डूका᳚,उद॒कादि॑व || {5/5}{10.166.5}{10.12.15.5}{8.8.24.5}{1663, 1003, 10461}

यो॒ग॒ऽक्षे॒म‌म्¦वः॒¦आ॒ऽदाय॑¦अ॒ह‌म्¦भू॒या॒स॒‌म्¦उ॒त्ऽत॒मः¦आ¦वः॒¦मू॒र्धान᳚‌म्¦अ॒क्र॒मी॒‌म् |
अ॒धः॒ऽप॒दात्¦मे॒¦उत्¦व॒द॒त॒¦म॒ण्डूकाः᳚ऽ‌इव¦उ॒द॒कात्¦म॒ण्डूकाः᳚¦उ॒द॒कात्ऽ‌इ᳚व ||

[167] तुभ्येदमिति चतुरृचस्य सूक्तस्य गाथिभार्गवौ विश्वामित्र जमदग्नी इंद्रस्त्रतीयायाः सोमवरुण बृहस्पत्यनुमतिधातृविधातारोजगती |
तुभ्ये॒दमि᳚न्द्र॒परि॑षिच्यते॒मधु॒त्वंसु॒तस्य॑क॒लश॑स्यराजसि |{गाथिभार्गवौ विश्वामित्र जमदग्नी | इन्द्रः | जगती}

त्वंर॒यिंपु॑रु॒वीरा᳚मुनस्कृधि॒त्वंतपः॑परि॒तप्या᳚जयः॒स्वः॑ || {1/4}{10.167.1}{10.12.16.1}{8.8.25.1}{1664, 1004, 10462}

तुभ्य॑¦इ॒द‌म्¦इ॒न्द्र॒¦परि॑¦सि॒च्य॒ते॒¦मधु॑¦त्व‌म्¦सु॒तस्य॑¦क॒लश॑स्य¦रा॒ज॒सि॒ |
त्व‌म्¦र॒यि‌म्¦पु॒रु॒ऽवीरा᳚‌म्¦ऊँ॒ इति॑¦नः॒¦कृ॒धि॒¦त्व‌म्¦तपः॑¦प॒रि॒ऽतप्य॑¦अ॒ज॒यः॒¦स्व१॒॑रिति॒ स्वः॑ ||

स्व॒र्जितं॒महि॑मन्दा॒नमन्ध॑सो॒हवा᳚महे॒परि॑श॒क्रंसु॒ताँ,उप॑ |{गाथिभार्गवौ विश्वामित्र जमदग्नी | इन्द्रः | जगती}

इ॒मंनो᳚य॒ज्ञमि॒हबो॒ध्याग॑हि॒स्पृधो॒जय᳚न्तंम॒घवा᳚नमीमहे || {2/4}{10.167.2}{10.12.16.2}{8.8.25.2}{1665, 1004, 10463}

स्वः॒ऽजित᳚‌म्¦महि॑¦म॒न्दा॒न‌म्¦अन्ध॑सः¦हवा᳚महे¦परि॑¦श॒क्र‌म्¦सु॒तान्¦उप॑ |
इ॒म‌म्¦नः॒¦य॒ज्ञ‌म्¦इ॒ह¦बो॒धि॒¦आ¦ग॒हि॒¦स्पृधः॑¦जय᳚न्त‌म्¦म॒घऽवा᳚न‌म्¦ई॒म॒हे॒ ||

सोम॑स्य॒राज्ञो॒वरु॑णस्य॒धर्म॑णि॒बृह॒स्पते॒रनु॑मत्या,उ॒शर्म॑णि |{गाथिभार्गवौ विश्वामित्र जमदग्नी | सोमवरुण बृहस्पत्यनुमतिधातृविधातारः | जगती}

तवा॒हम॒द्यम॑घव॒न्नुप॑स्तुतौ॒धात॒र्विधा᳚तःक॒लशाँ᳚,अभक्षयम् || {3/4}{10.167.3}{10.12.16.3}{8.8.25.3}{1666, 1004, 10464}

सोम॑स्य¦राज्ञः॑¦वरु॑णस्य¦धर्म॑णि¦बृह॒स्पतेः᳚¦अनु॑ऽमत्याः¦ऊँ॒ इति॑¦शर्म॑णि |
तव॑¦अ॒ह‌म्¦अ॒द्य¦म॒घ॒ऽव॒न्¦उप॑ऽस्तुतौ¦धातः॑¦विधा᳚त॒रिति॒ विऽधा᳚तः¦क॒लशा᳚न्¦अ॒भ॒क्ष॒य॒‌म् ||

प्रसू᳚तोभ॒क्षम॑करंच॒रावपि॒स्तोमं᳚चे॒मंप्र॑थ॒मःसू॒रिरुन्‌मृ॑जे |{गाथिभार्गवौ विश्वामित्र जमदग्नी | इन्द्रः | जगती}

सु॒तेसा॒तेन॒यद्याग॑मंवां॒प्रति॑विश्वामित्रजमदग्नी॒दमे᳚ || {4/4}{10.167.4}{10.12.16.4}{8.8.25.4}{1667, 1004, 10465}

प्रऽसू᳚तः¦भ॒क्ष‌म्¦अ॒क॒र॒‌म्¦च॒रौ¦अपि॑¦स्तोम᳚‌म्¦च॒¦इ॒म‌म्¦प्र॒थ॒मः¦सू॒रिः¦उत्¦मृ॒जे॒ |
सु॒ते¦सा॒तेन॑¦यदि॑¦आ¦अग॑म‌म्¦वा॒‌म्¦प्रति॑¦वि॒श्वा॒मि॒त्र॒ज॒म॒द॒ग्नी॒ इति॑¦दमे᳚ ||

[168] वातस्येति चतुरृचस्य सूक्तस्य वातायनोनिलोवायुस्त्रिष्टुप् |
वात॑स्य॒नुम॑हि॒मानं॒रथ॑स्यरु॒जन्ने᳚तिस्त॒नय᳚न्नस्य॒घोषः॑ |{वातायनो निलः | वायुः | त्रिष्टुप्}

दि॒वि॒स्पृग्या᳚त्यरु॒णानि॑कृ॒ण्वन्नु॒तो,ए᳚तिपृथि॒व्यारे॒णुमस्य॑न् || {1/4}{10.168.1}{10.12.17.1}{8.8.26.1}{1668, 1005, 10466}

वात॑स्य¦नु¦म॒हि॒मान᳚‌म्¦रथ॑स्य¦रु॒जन्¦ए॒ति॒¦स्त॒नय॑न्¦अ॒स्य॒¦घोषः॑ |
दि॒वि॒ऽस्पृक्¦या॒ति॒¦अ॒रु॒णानि॑¦कृ॒ण्वन्¦उ॒तो इति॑¦ए॒ति॒¦पृ॒थि॒व्या¦रे॒णु‌म्¦अस्य॑न् ||

संप्रेर॑ते॒,अनु॒वात॑स्यवि॒ष्ठा,ऐनं᳚गच्छन्ति॒सम॑नं॒योषाः᳚ |{वातायनो निलः | वायुः | त्रिष्टुप्}

ताभिः॑स॒युक्स॒रथं᳚दे॒वई᳚यते॒ऽस्यविश्व॑स्य॒भुव॑नस्य॒राजा᳚ || {2/4}{10.168.2}{10.12.17.2}{8.8.26.2}{1669, 1005, 10467}

स‌म्¦प्र¦ई॒र॒ते॒¦अनु॑¦वात॑स्य¦वि॒ऽस्थाः¦आ¦ए॒न॒‌म्¦ग॒च्छ॒न्ति॒¦सम॑न‌म्¦न¦योषाः᳚ |
ताभिः॑¦स॒ऽयुक्¦स॒ऽरथ᳚‌म्¦दे॒वः¦ई॒य॒ते॒¦अ॒स्य¦विश्व॑स्य¦भुव॑नस्य¦राजा᳚ ||

अ॒न्तरि॑क्षेप॒थिभि॒रीय॑मानो॒निवि॑शतेकत॒मच्च॒नाहः॑ |{वातायनो निलः | वायुः | त्रिष्टुप्}

अ॒पांसखा᳚प्रथम॒जा,ऋ॒तावा॒क्व॑स्विज्जा॒तःकुत॒ब॑भूव || {3/4}{10.168.3}{10.12.17.3}{8.8.26.3}{1670, 1005, 10468}

अ॒न्तरि॑क्षे¦प॒थिऽभिः॑¦ईय॑मानः¦न¦नि¦वि॒श॒ते॒¦क॒त॒मत्¦च॒न¦अह॒रिति॑ |
अ॒पा‌म्¦सखा᳚¦प्र॒थ॒म॒ऽजाः¦ऋ॒तऽवा᳚¦क्व॑¦स्वि॒त्¦जा॒तः¦कुतः॑¦आ¦ब॒भू॒व॒ ||

आ॒त्मादे॒वानां॒भुव॑नस्य॒गर्भो᳚यथाव॒शंच॑रतिदे॒वए॒षः |{वातायनो निलः | वायुः | त्रिष्टुप्}

घोषा॒,इद॑स्यशृण्विरे॒रू॒पंतस्मै॒वाता᳚यह॒विषा᳚विधेम || {4/4}{10.168.4}{10.12.17.4}{8.8.26.4}{1671, 1005, 10469}

आ॒त्मा¦दे॒वाना᳚‌म्¦भुव॑नस्य¦गर्भः॑¦य॒था॒ऽव॒श‌म्¦च॒र॒ति॒¦दे॒वः¦ए॒षः |
घोषाः᳚¦इत्¦अ॒स्य॒¦शृ॒ण्वि॒रे॒¦न¦रू॒प‌म्¦तस्मै᳚¦वाता᳚य¦ह॒विषा᳚¦वि॒धे॒म॒ ||

[169] मयोभूरिति चतुरृचस्य सूक्तस्य काक्षीवतः शंबरोगावस्त्रिष्टुप् |
म॒यो॒भूर्वातो᳚,अ॒भिवा᳚तू॒स्रा,ऊर्ज॑स्वती॒रोष॑धी॒रारि॑शन्ताम् |{काक्षीवतः शंबरः | गावः | त्रिष्टुप्}

पीव॑स्वतीर्जी॒वध᳚न्याःपिबन्त्वव॒साय॑प॒द्वते᳚रुद्रमृळ || {1/4}{10.169.1}{10.12.18.1}{8.8.27.1}{1672, 1006, 10470}

म॒यः॒ऽभूः¦वातः॑¦अ॒भि¦वा॒तु॒¦उ॒स्राः¦ऊर्ज॑स्वतीः¦ओष॑धीः¦आ¦रि॒श॒न्ता॒‌म् |
पीव॑स्वतीः¦जी॒वऽध᳚न्याः¦पि॒ब॒न्तु॒¦अ॒व॒साय॑¦प॒त्ऽवते᳚¦रु॒द्र॒¦मृ॒ळ॒ ||

याःसरू᳚पा॒विरू᳚पा॒,एक॑रूपा॒यासा᳚म॒ग्निरिष्ट्या॒नामा᳚नि॒वेद॑ |{काक्षीवतः शंबरः | गावः | त्रिष्टुप्}

या,अङ्गि॑रस॒स्तप॑से॒हच॒क्रुस्ताभ्यः॑पर्जन्य॒महि॒शर्म॑यच्छ || {2/4}{10.169.2}{10.12.18.2}{8.8.27.2}{1673, 1006, 10471}

याः¦सऽरू᳚पाः¦विऽरू᳚पाः¦एक॑ऽरूपाः¦यासा᳚‌म्¦अ॒ग्निः¦इष्ट्या᳚¦नामा᳚नि¦वेद॑ |
याः¦अङ्गि॑रसः¦तप॑सा¦इ॒ह¦च॒क्रुः¦ताभ्यः॑¦प॒र्ज॒न्य॒¦महि॑¦शर्म॑¦य॒च्छ॒ ||

यादे॒वेषु॑त॒न्व१॑(अ॒)मैर॑यन्त॒यासां॒सोमो॒विश्वा᳚रू॒पाणि॒वेद॑ |{काक्षीवतः शंबरः | गावः | त्रिष्टुप्}

ता,अ॒स्मभ्यं॒पय॑सा॒पिन्व॑मानाःप्र॒जाव॑तीरिन्द्रगो॒ष्ठेरि॑रीहि || {3/4}{10.169.3}{10.12.18.3}{8.8.27.3}{1674, 1006, 10472}

याः¦दे॒वेषु॑¦त॒न्व᳚‌म्¦ऐर॑यन्त¦यासा᳚‌म्¦सोमः॑¦विश्वा᳚¦रू॒पाणि॑¦वेद॑ |
ताः¦अ॒स्मभ्य᳚‌म्¦पय॑सा¦पिन्व॑मानाः¦प्र॒जाऽव॑तीः¦इ॒न्द्र॒¦गो॒ऽस्थे¦रि॒री॒हि॒ ||

प्र॒जाप॑ति॒र्मह्य॑मे॒ताररा᳚णो॒विश्वै᳚र्दे॒वैःपि॒तृभिः॑संविदा॒नः |{काक्षीवतः शंबरः | गावः | त्रिष्टुप्}

शि॒वाःस॒तीरुप॑नोगो॒ष्ठमाक॒स्तासां᳚व॒यंप्र॒जया॒संस॑देम || {4/4}{10.169.4}{10.12.18.4}{8.8.27.4}{1675, 1006, 10473}

प्र॒जाऽप॑तिः¦मह्य᳚‌म्¦ए॒ताः¦ररा᳚णः¦विश्वैः᳚¦दे॒वैः¦पि॒तृऽभिः॑¦स॒‌म्ऽवि॒दा॒नः |
शि॒वाः¦स॒तीः¦उप॑¦नः॒¦गो॒ऽस्थ‌म्¦आ¦अ॒क॒रित्य॑कः¦तासा᳚‌म्¦व॒य‌म्¦प्र॒ऽजया᳚¦स‌म्¦स॒दे॒म॒ ||

[170] विभ्राडिति चतुरृचस्य सूक्तस्य सौर्यो विभ्राट् सूर्योजगत्यंयास्तारपंक्तिः |
वि॒भ्राड्‌बृ॒हत्‌पि॑बतुसो॒म्यं¦मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतम् |{सौर्यो विभ्राट् | सूर्यः | जगती}

वात॑जूतो॒यो,अ॑भि॒रक्ष॑ति॒त्मना᳚¦प्र॒जाःपु॑पोषपुरु॒धाविरा᳚जति || {1/4}{10.170.1}{10.12.19.1}{8.8.28.1}{1676, 1007, 10474}

वि॒ऽभ्राट्¦बृ॒हत्¦पि॒ब॒तु॒¦सो॒म्य‌म्¦मधु॑¦आयुः॑¦दध॑त्¦य॒ज्ञऽप॑तौ¦अवि॑ऽहुत‌म् |
वात॑ऽजूतः¦यः¦अ॒भि॒ऽरक्ष॑ति¦त्मना᳚¦प्र॒ऽजाः¦पु॒पो॒ष॒¦पु॒रु॒धा¦वि¦रा॒ज॒ति॒ ||

वि॒भ्राड्‌बृ॒हत्‌सुभृ॑तंवाज॒सात॑मं॒¦धर्म᳚न्‌दि॒वोध॒रुणे᳚स॒त्यमर्पि॑तम् |{सौर्यो विभ्राट् | सूर्यः | जगती}

अ॒मि॒त्र॒हावृ॑त्र॒हाद॑स्यु॒हन्त॑मं॒¦ज्योति॑र्जज्ञे,असुर॒हास॑पत्न॒हा || {2/4}{10.170.2}{10.12.19.2}{8.8.28.2}{1677, 1007, 10475}

वि॒ऽभ्राट्¦बृ॒हत्¦सुऽभृ॑त‌म्¦वा॒ज॒ऽसात॑म‌म्¦धर्म᳚‌म्¦दि॒वः¦ध॒रुणे᳚¦स॒त्य‌म्¦अर्पि॑त‌म् |
अ॒मि॒त्र॒ऽहा¦वृ॒त्र॒ऽहा¦द॒स्यु॒ह‌म्ऽत॑म‌म्¦ज्योतिः॑¦ज॒ज्ञे॒¦अ॒सु॒र॒ऽहा¦स॒प॒त्न॒ऽहा ||

इ॒दंश्रेष्ठं॒ज्योति॑षां॒ज्योति॑रुत्त॒मं¦वि॑श्व॒जिद्ध॑न॒जिदु॑च्यतेबृ॒हत् |{सौर्यो विभ्राट् | सूर्यः | जगती}

वि॒श्व॒भ्राड्‌भ्रा॒जोमहि॒सूर्यो᳚दृ॒श¦उ॒रुप॑प्रथे॒सह॒ओजो॒,अच्यु॑तम् || {3/4}{10.170.3}{10.12.19.3}{8.8.28.3}{1678, 1007, 10476}

इ॒द‌म्¦श्रेष्ठ᳚‌म्¦ज्योति॑षा‌म्¦ज्योतिः॑¦उ॒त्ऽत॒म‌म्¦वि॒श्व॒ऽजित्¦ध॒न॒ऽजित्¦उ॒च्य॒ते॒¦बृ॒हत् |
वि॒श्व॒ऽभ्राट्¦भ्रा॒जः¦महि॑¦सूर्यः॑¦दृ॒शे¦उ॒रु¦प॒प्र॒थे॒¦सहः॑¦ओजः॑¦अच्यु॑त‌म् ||

वि॒भ्राज॒ञ्ज्योति॑षा॒स्व१॑(अ॒)¦रग॑च्छोरोच॒नंदि॒वः |{सौर्यो विभ्राट् | सूर्यः | आस्तारपङ्क्ति}

येने॒माविश्वा॒भुव॑ना॒न्याभृ॑ता¦वि॒श्वक᳚र्मणावि॒श्वदे᳚व्यावता || {4/4}{10.170.4}{10.12.19.4}{8.8.28.4}{1679, 1007, 10477}

वि॒ऽभ्राज᳚‌म्¦ज्योति॑षा¦स्वः॑¦अग॑च्छः¦रो॒च॒न‌म्¦दि॒वः |
येन॑¦इ॒मा¦विश्वा᳚¦भुव॑नानि¦आऽभृ॑ता¦वि॒श्वऽक᳚र्मणा¦वि॒श्वदे᳚व्यऽवता ||

[171] त्वंत्यमिति चतुर्भचस्य सूक्तस्य भार्गवइटइंद्रोगायत्री |
त्वंत्यमि॒टतो॒रथ॒मिन्द्र॒प्रावः॑सु॒ताव॑तः |{भार्गव इटः | इन्द्रः | गायत्री}

अशृ॑णोःसो॒मिनो॒हव᳚म् || {1/4}{10.171.1}{10.12.20.1}{8.8.29.1}{1680, 1008, 10478}

त्व‌म्¦त्य‌म्¦इ॒टतः॑¦रथ᳚‌म्¦इन्द्र॑¦प्र¦आ॒वः॒¦सु॒तऽव॑तः | अशृ॑णोः¦सो॒मिन॑¦हव᳚‌म् ||

त्वंम॒खस्य॒दोध॑तः॒शिरोऽव॑त्व॒चोभ॑रः |{भार्गव इटः | इन्द्रः | गायत्री}

अग॑च्छःसो॒मिनो᳚गृ॒हम् || {2/4}{10.171.2}{10.12.20.2}{8.8.29.2}{1681, 1008, 10479}

त्व‌म्¦म॒खस्य॑¦दोध॑तः¦शिरः॑¦अव॑¦त्व॒चः¦भ॒रः॒ | अग॑च्छः¦सो॒मिनः॑¦गृ॒ह‌म् ||

त्वंत्यमि᳚न्द्र॒मर्त्य॑मास्त्रबु॒ध्नाय॑वे॒न्यम् |{भार्गव इटः | इन्द्रः | गायत्री}

मुहुः॑श्रथ्नामन॒स्यवे᳚ || {3/4}{10.171.3}{10.12.20.3}{8.8.29.3}{1682, 1008, 10480}

त्व‌म्¦त्य‌म्¦इ॒न्द्र॒¦मर्त्य᳚‌म्¦आ॒स्त्र॒ऽबु॒ध्नाय॑¦वे॒न्य‌म् | मुहुः॑¦श्र॒थ्नाः॒¦म॒न॒स्यवे᳚ ||

त्वंत्यमि᳚न्द्र॒सूर्यं᳚प॒श्चासन्तं᳚पु॒रस्कृ॑धि |{भार्गव इटः | इन्द्रः | गायत्री}

दे॒वानां᳚चित्ति॒रोवश᳚म् || {4/4}{10.171.4}{10.12.20.4}{8.8.29.4}{1683, 1008, 10481}

त्व‌म्¦त्य‌म्¦इ॒न्द्र॒¦सूर्य᳚‌म्¦प॒श्चा¦सन्त᳚‌म्¦पु॒रः¦कृ॒धि॒ | दे॒वाना᳚‌म्¦चि॒त्¦ति॒रः¦वश᳚‌म् ||

[172] आयाहीति चतुरृचस्य सूक्तस्यांगिरसः संवर्त उषाद्विपदाविराट् |
या᳚हि॒वन॑सास॒हगावः॑सचन्तवर्त॒निंयदूध॑भिः || {आङ्गिरसः संवर्तः | उषाः | द्विपदाविराट्}{1/4}{10.172.1}{10.12.21.1}{8.8.30.1}{1684, 1009, 10482}

आ¦या॒हि॒¦वन॑सा¦स॒ह¦गावः॑¦स॒च॒न्त॒¦व॒र्त॒नि‌म्¦यत्¦ऊध॑ऽभिः ||

या᳚हि॒वस्व्या᳚धि॒यामंहि॑ष्ठोजार॒यन्म॑खःसु॒दानु॑भिः || {आङ्गिरसः संवर्तः | उषाः | द्विपदाविराट्}{2/4}{10.172.2}{10.12.21.2}{8.8.30.2}{1685, 1009, 10483}

आ¦या॒हि॒¦वस्व्या᳚¦धि॒या¦मंहि॑ष्ठः¦जा॒र॒यत्ऽम॑खः¦सु॒दानु॑ऽभिः ||

पि॒तु॒भृतो॒तन्तु॒मित्सु॒दान॑वः॒प्रति॑दध्मो॒यजा᳚मसि || {आङ्गिरसः संवर्तः | उषाः | द्विपदाविराट्}{3/4}{10.172.3}{10.12.21.3}{8.8.30.3}{1686, 1009, 10484}

पि॒तु॒ऽभृतः॑¦न¦तन्तु᳚‌म्¦इत्¦सु॒ऽदान॑वः¦प्रति॑¦द॒ध्मः॒¦यजा᳚मसि ||

उ॒षा,अप॒स्वसु॒स्तमः॒संव॑र्तयतिवर्त॒निंसु॑जा॒तता᳚ || {आङ्गिरसः संवर्तः | उषाः | द्विपदाविराट्}{4/4}{10.172.4}{10.12.21.4}{8.8.30.4}{1687, 1009, 10485}

उ॒षाः¦अप॑¦स्वसुः॑¦तमः॑¦स‌म्¦व॒र्त॒य॒ति॒¦व॒र्त॒नि‌म्¦सु॒ऽजा॒तता᳚ ||

[173] आत्वेति षडृचस्य सूक्तस्यांगिरसोध्रुवोराजानुष्टुप् |
त्वा᳚हार्षम॒न्तरे᳚धिध्रु॒वस्ति॒ष्ठावि॑चाचलिः |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्}

विश॑स्त्वा॒सर्वा᳚वाञ्छन्तु॒मात्वद्रा॒ष्ट्रमधि॑भ्रशत् || {1/6}{10.173.1}{10.12.22.1}{8.8.31.1}{1688, 1010, 10486}

आ¦त्वा॒¦अ॒हा॒र्ष॒‌म्¦अ॒न्तः¦ए॒धि॒¦ध्रु॒वः¦ति॒ष्ठ॒¦अवि॑ऽचाचलिः | विशः॑¦त्वा॒¦सर्वाः᳚¦वां॒छ॒न्तु॒¦मा¦त्वत्¦रा॒ष्ट्र‌म्¦अधि॑¦भ्र॒श॒त् ||

इ॒हैवैधि॒माप॑च्योष्ठाः॒पर्व॑तइ॒वावि॑चाचलिः |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्}

इन्द्र॑इवे॒हध्रु॒वस्ति॑ष्ठे॒हरा॒ष्ट्रमु॑धारय || {2/6}{10.173.2}{10.12.22.2}{8.8.31.2}{1689, 1010, 10487}

इ॒ह¦ए॒व¦ए॒धि॒¦मा¦अप॑¦च्यो॒ष्ठाः॒¦पर्व॑तःऽ‌इव¦अवि॑ऽचाचलिः | इन्द्र॑ऽ‌इव¦इ॒ह¦ध्रु॒वः¦ति॒ष्ठ॒¦इ॒ह¦रा॒ष्ट्र‌म्¦ऊँ॒ इति॑¦धा॒र॒य॒ ||

इ॒ममिन्द्रो᳚,अदीधरद्ध्रु॒वंध्रु॒वेण॑ह॒विषा᳚ |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्}

तस्मै॒सोमो॒,अधि॑ब्रव॒त्तस्मा᳚,उ॒ब्रह्म॑ण॒स्पतिः॑ || {3/6}{10.173.3}{10.12.22.3}{8.8.31.3}{1690, 1010, 10488}

इ॒म‌म्¦इन्द्रः॑¦अ॒दी॒ध॒र॒त्¦ध्रु॒व‌म्¦ध्रु॒वेण॑¦ह॒विषा᳚ | तस्मै᳚¦सोमः॑¦अधि॑¦ब्र॒व॒त्¦तस्मै᳚¦ऊँ॒ इति॑¦ब्रह्म॑णः¦पतिः॑ ||

ध्रु॒वाद्यौर्ध्रु॒वापृ॑थि॒वी¦ध्रु॒वासः॒पर्व॑ता,इ॒मे |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्}

ध्रु॒वंविश्व॑मि॒दंजग॑द्¦ध्रु॒वोराजा᳚वि॒शाम॒यम् || {4/6}{10.173.4}{10.12.22.4}{8.8.31.4}{1691, 1010, 10489}

ध्रु॒वा¦द्यौः¦ध्रु॒वा¦पृ॒थि॒वी¦ध्रु॒वासः॑¦पर्व॑ताः¦इ॒मे | ध्रु॒व‌म्¦विश्व᳚‌म्¦इ॒द‌म्¦जग॑त्¦ध्रु॒वः¦राजा᳚¦वि॒शा‌म्¦अ॒य‌म् ||

ध्रु॒वंते॒राजा॒वरु॑णो¦ध्रु॒वंदे॒वोबृह॒स्पतिः॑ |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्}

ध्रु॒वंत॒इन्द्र॑श्चा॒ग्निश्च॑¦रा॒ष्ट्रंधा᳚रयतांध्रु॒वम् || {5/6}{10.173.5}{10.12.22.5}{8.8.31.5}{1692, 1010, 10490}

ध्रु॒व‌म्¦ते॒¦राजा᳚¦वरु॑णः¦ध्रु॒व‌म्¦दे॒वः¦बृह॒स्पतिः॑ | ध्रु॒व‌म्¦ते॒¦इन्द्रः॑¦च॒¦अ॒ग्निः¦च॒¦रा॒ष्ट्र‌म्¦धा॒र॒य॒ता॒‌म्¦ध्रु॒व‌म् ||

ध्रु॒वंध्रु॒वेण॑ह॒विषा॒¦ऽभिसोमं᳚मृशामसि |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्}

अथो᳚त॒इन्द्रः॒केव॑ली॒¦र्विशो᳚बलि॒हृत॑स्करत् || {6/6}{10.173.6}{10.12.22.6}{8.8.31.6}{1693, 1010, 10491}

ध्रु॒व‌म्¦ध्रु॒वेण॑¦ह॒विषा᳚¦अ॒भि¦सोम᳚‌म्¦मृ॒शा॒म॒सि॒ | अथो॒ इति॑¦ते॒¦इन्द्रः॑¦केव॑लीः¦विशः॑¦ब॒लि॒ऽहृतः॑¦क॒र॒त् ||

[174] अभीवर्तेनेति पंचर्चस्य सूक्तस्यांगिरसोभीवर्तो राजानुष्टुप् |
अ॒भी॒व॒र्तेन॑ह॒विषा॒येनेन्द्रो᳚,अभिवावृ॒ते |{आङ्गिरसो भीवर्तः | राजाः | अनुष्टुप्}

तेना॒स्मान्‌ब्र᳚ह्मणस्पते॒ऽभिरा॒ष्ट्राय॑वर्तय || {1/5}{10.174.1}{10.12.23.1}{8.8.32.1}{1694, 1011, 10492}

अ॒भि॒ऽव॒र्तेन॑¦ह॒विषा᳚¦येन॑¦इन्द्रः॑¦अ॒भि॒ऽव॒वृ॒ते | तेन॑¦अ॒स्मान्¦ब्र॒ह्म॒णः॒¦प॒ते॒¦अ॒भि¦रा॒ष्ट्राय॑¦व॒र्त॒य॒ ||

अ॒भि॒वृत्य॑स॒पत्ना᳚न॒भियानो॒,अरा᳚तयः |{आङ्गिरसो भीवर्तः | राजाः | अनुष्टुप्}

अ॒भिपृ॑त॒न्यन्तं᳚तिष्ठा॒भियोन॑इर॒स्यति॑ || {2/5}{10.174.2}{10.12.23.2}{8.8.32.2}{1695, 1011, 10493}

अ॒भि॒ऽवृत्य॑¦स॒ऽपत्ना᳚न्¦अ॒भि¦याः¦नः॒¦अरा᳚तयः | अ॒भि¦पृ॒त॒न्यन्त᳚‌म्¦ति॒ष्ठ॒¦अ॒भि¦यः¦नः॒¦इ॒र॒स्यति॑ ||

अ॒भित्वा᳚दे॒वःस॑वि॒ताभिसोमो᳚,अवीवृतत् |{आङ्गिरसो भीवर्तः | राजाः | अनुष्टुप्}

अ॒भित्वा॒विश्वा᳚भू॒तान्य॑भीव॒र्तोयथास॑सि || {3/5}{10.174.3}{10.12.23.3}{8.8.32.3}{1696, 1011, 10494}

अ॒भि¦त्वा᳚¦दे॒वः¦स॒वि॒ता¦अ॒भि¦सोमः॑¦अ॒वी॒वृ॒त॒त् | अ॒भि¦त्वा॒¦विश्वा᳚¦भू॒तानि॑¦अ॒भि॒ऽव॒र्तः¦यथा᳚¦अस॑सि ||

येनेन्द्रो᳚ह॒विषा᳚कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः |{आङ्गिरसो भीवर्तः | राजाः | अनुष्टुप्}

इ॒दंतद॑क्रिदेवा,असप॒त्नःकिला᳚भुवम् || {4/5}{10.174.4}{10.12.23.4}{8.8.32.4}{1697, 1011, 10495}

येन॑¦इन्द्रः॑¦ह॒विषा᳚¦कृ॒त्वी¦अभ॑वत्¦द्यु॒म्नी¦उ॒त्ऽत॒मः | इ॒द‌म्¦तत्¦अ॒क्रि॒¦दे॒वाः॒¦अ॒स॒प॒त्नः¦किल॑¦अ॒भु॒व॒‌म् ||

अ॒स॒प॒त्नःस॑पत्न॒हाभिरा᳚ष्ट्रोविषास॒हिः |{आङ्गिरसो भीवर्तः | राजाः | अनुष्टुप्}

यथा॒हमे᳚षांभू॒तानां᳚वि॒राजा᳚नि॒जन॑स्य || {5/5}{10.174.5}{10.12.23.5}{8.8.32.5}{1698, 1011, 10496}

अ॒स॒प॒त्नः¦स॒प॒त्न॒ऽहा¦अ॒भिऽरा᳚ष्ट्रः¦वि॒ऽस॒स॒हिः | यथा᳚¦अ॒ह‌म्¦ए॒षा‌म्¦भू॒ताना᳚‌म्¦वि॒ऽराजा᳚नि¦जन॑स्य¦च॒ ||

[175] प्रवइति चतुरृचस्य सूक्तस्योर्ध्वग्रावार्बुदः सर्पऋषिपुत्रोग्रावाणोगायत्री |
प्रवो᳚ग्रावाणःसवि॒तादे॒वःसु॑वतु॒धर्म॑णा |{ऊर्ध्वग्रावार्बुदः | ग्रावाणः | गायत्री}

धू॒र्षुयु॑ज्यध्वंसुनु॒त || {1/4}{10.175.1}{10.12.24.1}{8.8.33.1}{1699, 1012, 10497}

प्र¦वः॒¦ग्रा॒वा॒णः॒¦स॒वि॒ता¦दे॒वः¦सु॒व॒तु॒¦धर्म॑णा | धूः॒ऽसु¦यु॒ज्य॒ध्व॒‌म्¦सु॒नु॒त ||

ग्रावा᳚णो॒,अप॑दु॒च्छुना॒मप॑सेधतदुर्म॒तिम् |{ऊर्ध्वग्रावार्बुदः | ग्रावाणः | गायत्री}

उ॒स्राःक॑र्तनभेष॒जम् || {2/4}{10.175.2}{10.12.24.2}{8.8.33.2}{1700, 1012, 10498}

ग्रावा᳚णः¦अप॑¦दु॒च्छुना᳚‌म्¦अप॑¦से॒ध॒त॒¦दुः॒ऽम॒ति‌म् | उ॒स्राः¦क॒र्त॒न॒¦भे॒ष॒ज‌म् ||

ग्रावा᳚ण॒उप॑रे॒ष्वाम॑ही॒यन्ते᳚स॒जोष॑सः |{ऊर्ध्वग्रावार्बुदः | ग्रावाणः | गायत्री}

वृष्णे॒दध॑तो॒वृष्ण्य᳚म् || {3/4}{10.175.3}{10.12.24.3}{8.8.33.3}{1701, 1012, 10499}

ग्रावा᳚णः¦उप॑रेषु¦आ¦म॒ही॒यन्ते᳚¦स॒ऽजोष॑सः | वृ॒ष्णे॒¦दध॑तः¦वृष्ण्य᳚‌म् ||

ग्रावा᳚णःसवि॒तानुवो᳚दे॒वःसु॑वतु॒धर्म॑णा |{ऊर्ध्वग्रावार्बुदः | ग्रावाणः | गायत्री}

यज॑मानायसुन्व॒ते || {4/4}{10.175.4}{10.12.24.4}{8.8.33.4}{1702, 1012, 10500}

ग्रावा᳚णः¦स॒वि॒ता¦नु¦वः॒¦दे॒वः¦सु॒व॒तु॒¦धर्म॑णा | यज॑मानाय¦सु॒न्व॒ते ||

[176] प्रसूनवइति चतुरृचस्य सूक्तस्यार्भवः सूनुरग्निराद्यायाऋभवोनुष्टुप् द्वितीया गायत्री |
प्रसू॒नव॑ऋभू॒णांबृ॒हन्न॑वन्तवृ॒जना᳚ |{सूनुरार्भवः | ऋभवः | अनुष्टुप्}

क्षामा॒येवि॒श्वधा᳚य॒सोऽश्न᳚न्धे॒नुंमा॒तर᳚म् || {1/4}{10.176.1}{10.12.25.1}{8.8.34.1}{1703, 1013, 10501}

प्र¦सू॒नवः॑¦ऋ॒भू॒णा‌म्¦बृ॒हत्¦न॒व॒न्त॒¦वृ॒जना᳚ | क्षाम॑¦ये¦वि॒श्वऽधा᳚यसः¦अश्न॑न्¦धे॒नु‌म्¦न¦मा॒तर᳚‌म् ||

प्रदे॒वंदे॒व्याधि॒याभर॑ताजा॒तवे᳚दसम् |{सूनुरार्भवः | अग्निः | गायत्री}

ह॒व्यानो᳚वक्षदानु॒षक् || {2/4}{10.176.2}{10.12.25.2}{8.8.34.2}{1704, 1013, 10502}

प्र¦दे॒व‌म्¦दे॒व्या¦धि॒या¦भर॑त¦जा॒तऽवे᳚दस‌म् | ह॒व्या¦नः॒¦व॒क्ष॒त्¦आ॒नु॒षक् ||

अ॒यमु॒ष्यप्रदे᳚व॒युर्होता᳚य॒ज्ञाय॑नीयते |{सूनुरार्भवः | अग्निः | अनुष्टुप्}

रथो॒योर॒भीवृ॑तो॒घृणी᳚वाञ्चेतति॒त्मना᳚ || {3/4}{10.176.3}{10.12.25.3}{8.8.34.3}{1705, 1013, 10503}

अ॒य‌म्¦ऊँ॒ इति॑¦स्यः¦प्र¦दे॒व॒ऽयुः¦होता᳚¦य॒ज्ञाय॑¦नी॒य॒ते॒ | रथः॑¦न¦योः¦अ॒भिऽवृ॑तः¦घृणि॑ऽवान्¦चे॒त॒ति॒¦त्मना᳚ ||

अ॒यम॒ग्निरु॑रुष्यत्य॒मृता᳚दिव॒जन्म॑नः |{सूनुरार्भवः | अग्निः | अनुष्टुप्}

सह॑सश्चि॒त्सही᳚यान्दे॒वोजी॒वात॑वेकृ॒तः || {4/4}{10.176.4}{10.12.25.4}{8.8.34.4}{1706, 1013, 10504}

अ॒य‌म्¦अ॒ग्निः¦उ॒रु॒ष्य॒ति॒¦अ॒मृता᳚त्ऽ‌इव¦जन्म॑नः | सह॑सः¦चि॒त्¦सही᳚यान्¦दे॒वः¦जी॒वात॑वे¦कृ॒तः ||

[177] पतंगमिति तृचस्य सूक्तस्य प्राजापत्यः पतंगोमायाभेदस्त्रिष्टुप् आद्याजगती |
प॒तं॒गम॒क्तमसु॑रस्यमा॒यया᳚हृ॒दाप॑श्यन्ति॒मन॑साविप॒श्चितः॑ |{प्राजापत्यः पतंगः | मायाभेदः | जगती}

स॒मु॒द्रे,अ॒न्तःक॒वयो॒विच॑क्षते॒मरी᳚चीनांप॒दमि॑च्छन्तिवे॒धसः॑ || {1/3}{10.177.1}{10.12.26.1}{8.8.35.1}{1707, 1014, 10505}

प॒त॒ङ्ग‌म्¦अ॒क्त‌म्¦असु॑रस्य¦मा॒यया᳚¦हृ॒दा¦प॒श्य॒न्ति॒¦मन॑सा¦वि॒पः॒ऽचितः॑ |
स॒मु॒द्रे¦अ॒न्तरिति॑¦क॒वयः॑¦वि¦च॒क्ष॒ते॒¦मरी᳚चीना‌म्¦प॒द‌म्¦इ॒च्छ॒न्ति॒¦वे॒धसः॑ ||

प॒तं॒गोवाचं॒मन॑साबिभर्ति॒तांग᳚न्ध॒र्वो᳚ऽवद॒द्गर्भे᳚,अ॒न्तः |{प्राजापत्यः पतंगः | मायाभेदः | त्रिष्टुप्}

तांद्योत॑मानांस्व॒र्यं᳚मनी॒षामृ॒तस्य॑प॒देक॒वयो॒निपा᳚न्ति || {2/3}{10.177.2}{10.12.26.2}{8.8.35.2}{1708, 1014, 10506}

प॒त॒ङ्गः¦वाच᳚‌म्¦मन॑सा¦बि॒भ॒र्ति॒¦तान्¦ग॒न्ध॒र्वः¦अ॒व॒द॒त्¦गर्भे᳚¦अ॒न्तरिति॑ |
ता‌म्¦द्योत॑माना‌म्¦स्व॒र्य᳚‌म्¦म॒नी॒षा‌म्¦ऋ॒तस्य॑¦प॒दे¦क॒वयः॑¦नि¦पा॒न्ति॒ ||

अप॑श्यंगो॒पामनि॑पद्यमान॒माच॒परा᳚प॒थिभि॒श्चर᳚न्तम् |{प्राजापत्यः पतंगः | मायाभेदः | त्रिष्टुप्}

स॒ध्रीचीः॒विषू᳚ची॒र्वसा᳚न॒व॑रीवर्ति॒भुव॑नेष्व॒न्तः || {3/3}{10.177.3}{10.12.26.3}{8.8.35.3}{1709, 1014, 10507}

अप॑श्य‌म्¦गो॒पा‌म्¦अनि॑ऽपद्यमान‌म्¦आ¦च॒¦परा᳚¦च॒¦प॒थिऽभिः॑¦चर᳚न्त‌म् |
सः¦स॒ध्रीचीः᳚¦सः¦विषू᳚चीः¦वसा᳚नः¦आ¦व॒री॒व॒र्ति॒¦भुव॑नेषु¦अ॒न्तरिति॑ ||

[178] त्यमूष्विति तृचस्य सूक्तस्य तार्क्ष्योरिष्टनेमिस्तार्क्ष्यस्त्रिष्टुप् |
त्यमू॒षुवा॒जिनं᳚दे॒वजू᳚तंस॒हावा᳚नंतरु॒तारं॒रथा᳚नाम् |{तार्क्ष्योरिष्टनेमिः | तार्क्ष्यः | त्रिष्टुप्}

अरि॑ष्टनेमिंपृत॒नाज॑मा॒शुंस्व॒स्तये॒तार्क्ष्य॑मि॒हाहु॑वेम || {1/3}{10.178.1}{10.12.27.1}{8.8.36.1}{1710, 1015, 10508}

त्य‌म्¦ऊँ॒ इति॑¦सु¦वा॒जिन᳚‌म्¦दे॒वऽजू᳚त‌म्¦स॒हऽवा᳚न‌म्¦त॒रु॒ऽतार᳚‌म्¦रथा᳚ना‌म् |
अरि॑ष्टऽनेमि‌म्¦पृ॒त॒नाज᳚‌म्¦आ॒शु‌म्¦स्व॒स्तये᳚¦तार्क्ष्य᳚‌म्¦इ॒ह¦हु॒वे॒म॒ ||

इन्द्र॑स्येवरा॒तिमा॒जोहु॑वानाःस्व॒स्तये॒नाव॑मि॒वारु॑हेम |{तार्क्ष्योरिष्टनेमिः | तार्क्ष्यः | त्रिष्टुप्}

उर्वी॒पृथ्वी॒बहु॑ले॒गभी᳚रे॒मावा॒मेतौ॒मापरे᳚तौरिषाम || {2/3}{10.178.2}{10.12.27.2}{8.8.36.2}{1711, 1015, 10509}

इन्द्र॑स्यऽ‌इव¦रा॒ति‌म्¦आ॒ऽजोहु॑वानाः¦स्व॒स्तये᳚¦नाव᳚‌म्ऽ‌इव¦आ¦रु॒हे॒म॒ |
उर्वी॒ इति॑¦न¦पृथ्वी॒ इति॑¦बहु॑ले॒ इति॑¦गभी᳚रे॒ इति॑¦मा¦वा॒‌म्¦आऽ‌इ᳚तौ¦मा¦परा᳚ऽ‌इतौ¦रि॒षा॒म॒ ||

स॒द्यश्चि॒द्यःशव॑सा॒पञ्च॑कृ॒ष्टीःसूर्य॑इव॒ज्योति॑षा॒पस्त॒तान॑ |{तार्क्ष्योरिष्टनेमिः | तार्क्ष्यः | त्रिष्टुप्}

स॒ह॒स्र॒साःश॑त॒सा,अ॑स्य॒रंहि॒र्नस्मा᳚वरन्तेयुव॒तिंशर्या᳚म् || {3/3}{10.178.3}{10.12.27.3}{8.8.36.3}{1712, 1015, 10510}

स॒द्यः¦चि॒त्¦यः¦शव॑सा¦पंच॑¦कृ॒ष्टीः¦सूर्यः॑ऽ‌इव¦ज्योति॑षा¦अ॒पः¦त॒तान॑ |
स॒ह॒स्र॒ऽसाः¦श॒त॒ऽसाः¦अ॒स्य॒¦रंहिः॑¦न¦स्म॒¦व॒र॒न्ते॒¦यु॒व॒ति‌म्¦न¦शर्या᳚‌म् ||

[179] उत्तिष्ठतेति तृचस्य सूक्तस्यौशीनरः शिबिः १ काशिराजः प्रतर्दनो रोहिदश्ववसुमना३ इर्तिक्रर्मेणैकर्चा इंद्रत्रिष्टुबाद्यानुष्टुप् |
उत्ति॑ष्ठ॒ताव॑पश्य॒तेन्द्र॑स्यभा॒गमृ॒त्विय᳚म् |{शिबिरौशीनरः | इन्द्रः | अनुष्टुप्}

यदि॑श्रा॒तोजु॒होत॑न॒यद्यश्रा᳚तोमम॒त्तन॑ || {1/3}{10.179.1}{10.12.28.1}{8.8.37.1}{1713, 1016, 10511}

उत्¦ति॒ष्ठ॒त॒¦अव॑¦प॒श्य॒त॒¦इन्द्र॑स्य¦भा॒ग‌म्¦ऋ॒त्विय᳚‌म् | यदि॑¦श्रा॒तः¦जु॒होत॑न¦यदि॑¦अश्रा᳚तः¦म॒म॒त्तन॑ ||

श्रा॒तंह॒विरोष्वि᳚न्द्र॒प्रया᳚हिज॒गाम॒सूरो॒,अध्व॑नो॒विम॑ध्यम् |{प्रतर्दनः काशिराजः | इन्द्रः | त्रिष्टुप्}

परि॑त्वासतेनि॒धिभिः॒सखा᳚यःकुल॒पाव्रा॒जप॑तिं॒चर᳚न्तम् || {2/3}{10.179.2}{10.12.28.2}{8.8.37.2}{1714, 1016, 10512}

श्रा॒त‌म्¦ह॒विः¦ओ इति॑¦सु¦इ॒न्द्र॒¦प्र¦या॒हि॒¦ज॒गाम॑¦सूरः॑¦अध्व॑नः¦विऽम॑ध्य‌म् |
परि॑¦त्वा॒¦आ॒स॒ते॒¦नि॒धिऽभिः॑¦सखा᳚यः¦कु॒ल॒ऽपाः¦न¦व्रा॒जऽप॑ति‌म्¦चर᳚न्त‌म् ||

श्रा॒तंम᳚न्य॒ऊध॑निश्रा॒तम॒ग्नौसुश्रा᳚तंमन्ये॒तदृ॒तंनवी᳚यः |{वसुमना रौहिदश्वः | इन्द्रः | त्रिष्टुप्}

माध्यं᳚दिनस्य॒सव॑नस्यद॒ध्नःपिबे᳚न्द्रवज्रिन्‌पुरुकृज्जुषा॒णः || {3/3}{10.179.3}{10.12.28.3}{8.8.37.3}{1715, 1016, 10513}

श्रा॒त‌म्¦म॒न्ये॒¦ऊध॑नि¦श्रा॒त‌म्¦अ॒ग्नौ¦सुऽश्रा᳚त‌म्¦म॒न्ये॒¦तत्¦ऋ॒त‌म्¦नवी᳚यः |
माध्य᳚न्दिनस्य¦सव॑नस्य¦द॒ध्नः¦पिब॑¦इ॒न्द्र॒¦व॒ज्रि॒न्¦पु॒रु॒ऽकृ॒त्¦जु॒षा॒णः ||

[180] प्रससाहिषइति तृचस्य सूक्तस्यैंद्रिर्जयइंद्रस्त्रिष्टुप् |
प्रस॑साहिषेपुरुहूत॒शत्रू॒ञ्ज्येष्ठ॑स्ते॒शुष्म॑इ॒हरा॒तिर॑स्तु |{जयः | इन्द्रः | त्रिष्टुप्}

इन्द्राभ॑र॒दक्षि॑णेना॒वसू᳚नि॒पतिः॒सिन्धू᳚नामसिरे॒वती᳚नाम् || {1/3}{10.180.1}{10.12.29.1}{8.8.38.1}{1716, 1017, 10514}

प्र¦स॒स॒हि॒षे॒¦पु॒रु॒ऽहू॒त॒¦शत्रू᳚न्¦ज्येष्ठः॑¦ते॒¦शुष्मः॑¦इ॒ह¦रा॒तिः¦अ॒स्तु॒ |
इन्द्र॑¦आ¦भ॒र॒¦दक्षि॑णेन¦वसू᳚नि¦पतिः॑¦सिन्धू᳚ना‌म्¦अ॒सि॒¦रे॒वती᳚ना‌म् ||

मृ॒गोभी॒मःकु॑च॒रोगि॑रि॒ष्ठाःप॑रा॒वत॒ज॑गन्था॒पर॑स्याः |{जयः | इन्द्रः | त्रिष्टुप्}

सृ॒कंसं॒शाय॑प॒विमि᳚न्द्रति॒ग्मंविशत्रू᳚न्ताळ्हि॒विमृधो᳚नुदस्व || {2/3}{10.180.2}{10.12.29.2}{8.8.38.2}{1717, 1017, 10515}

मृ॒गः¦न¦भी॒मः¦कु॒च॒रः¦गि॒रि॒ऽस्थाः¦प॒रा॒ऽवतः॑¦आ¦ज॒ग॒न्थ॒¦पर॑स्याः |
सृ॒क‌म्¦स॒‌म्ऽशाय॑¦प॒वि‌म्¦इ॒न्द्र॒¦ति॒ग्म‌म्¦वि¦शत्रू᳚न्¦ता॒ळ्हि॒¦वि¦मृधः॑¦नु॒द॒स्व॒ ||

इन्द्र॑क्ष॒त्रम॒भिवा॒ममोजोऽजा᳚यथावृषभचर्षणी॒नाम् |{जयः | इन्द्रः | त्रिष्टुप्}

अपा᳚नुदो॒जन॑ममित्र॒यन्त॑मु॒रुंदे॒वेभ्यो᳚,अकृणोरुलो॒कम् || {3/3}{10.180.3}{10.12.29.3}{8.8.38.3}{1718, 1017, 10516}

इन्द्र॑¦क्ष॒त्र‌म्¦अ॒भि¦वा॒म‌म्¦ओजः॑¦अजा᳚यथाः¦वृ॒ष॒भ॒¦च॒र्ष॒णी॒ना‌म् |
अप॑¦अ॒नु॒दः॒¦जन᳚‌म्¦अ॒मि॒त्र॒ऽयन्त᳚‌म्¦उ॒रु‌म्¦दे॒वेभ्यः॑¦अ॒कृ॒णोः॒¦ऊँ॒ इति॑¦लो॒क‌म् ||

[181] प्रथेश्चेति तृचस्य सूक्तस्य वासिष्ठः प्रथो १। भारद्वाजःसप्रथ२ सौर्याघर्म३ कर्चाविश्वेदेवास्त्रिष्टुप् |
प्रथ॑श्च॒यस्य॑स॒प्रथ॑श्च॒नामानु॑ष्टुभस्यह॒विषो᳚ह॒विर्यत् |{प्रथो वासिष्ठः | विश्वदेवाः | त्रिष्टुप्}

धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒विष्णो᳚रथंत॒रमाज॑भारा॒वसि॑ष्ठः || {1/3}{10.181.1}{10.12.30.1}{8.8.39.1}{1719, 1018, 10517}

प्रथः॑¦च॒¦यस्य॑¦स॒ऽप्रथः॑¦च॒¦नाम॑¦आनु॑ऽस्तुभस्य¦ह॒विषः॑¦ह॒विः¦यत् |
धा॒तुः¦द्युता᳚नात्¦स॒वि॒तुः¦च॒¦विष्णोः᳚¦र॒थ॒‌म्ऽत॒र‌म्¦आ¦ज॒भा॒र॒¦वसि॑ष्ठः ||

अवि᳚न्द॒न्ते,अति॑हितं॒यदासी᳚द्‌य॒ज्ञस्य॒धाम॑पर॒मंगुहा॒यत् |{सप्रथो भारद्वाजः | विश्वदेवाः | त्रिष्टुप्}

धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒विष्णो᳚र्भ॒रद्वा᳚जोबृ॒हदाच॑क्रे,अ॒ग्नेः || {2/3}{10.181.2}{10.12.30.2}{8.8.39.2}{1720, 1018, 10518}

अवि᳚न्दन्¦ते¦अति॑ऽहित‌म्¦यत्¦आसी᳚त्¦य॒ज्ञस्य॑¦धाम॑¦प॒र॒म‌म्¦गुहा᳚¦यत् |
धा॒तुः¦द्युता᳚नात्¦स॒वि॒तुः¦च॒¦विष्णोः᳚¦भ॒रत्ऽवा᳚जः¦बृ॒हत्¦आ¦च॒क्रे॒¦अ॒ग्नेः ||

ते᳚ऽविन्द॒न्मन॑सा॒दीध्या᳚ना॒यजुः॑ष्क॒न्नंप्र॑थ॒मंदे᳚व॒यान᳚म् |{धर्मः सौर्यः | विश्वदेवाः | पादत्रिष्टुप्}

धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒विष्णो॒रासूर्या᳚दभरन्‌घ॒र्ममे॒ते || {3/3}{10.181.3}{10.12.30.3}{8.8.39.3}{1721, 1018, 10519}

ते¦अ॒वि॒न्द॒न्¦मन॑सा¦दीध्या᳚नाः¦यजुः॑¦स्क॒न्न‌म्¦प्र॒थ॒म‌म्¦दे॒व॒ऽयान᳚‌म् |
धा॒तुः¦द्युता᳚नात्¦स॒वि॒तुः¦च॒¦विष्णोः᳚¦आ¦सूर्या᳚त्¦अ॒भ॒र॒न्¦घ॒र्म‌म्¦ए॒ते ||

[182] बृहस्पतिरिति तृचस्य सूक्तस्य बार्हस्पत्यस्त पुर्मूर्धा बृहस्पतिस्त्रिष्टुप् |
बृह॒स्पति᳚र्नयतुदु॒र्गहा᳚ति॒रःपुन᳚र्नेषद॒घशं᳚साय॒मन्म॑ |{बार्हस्पत्यस्तः पुर्मूर्धाः | बृहस्पतिः | त्रिष्टुप्}

क्षि॒पदश॑स्ति॒मप॑दुर्म॒तिंह॒न्नथा᳚कर॒द्यज॑मानाय॒शंयोः || {1/3}{10.182.1}{10.12.31.1}{8.8.40.1}{1722, 1019, 10520}

बृह॒स्पतिः॑¦न॒य॒तु॒¦दुः॒ऽगहा᳚¦ति॒रः¦पुनः॑¦ने॒ष॒त्¦अ॒घऽशं᳚साय¦मन्म॑ |
क्षि॒पत्¦अश॑स्ति‌म्¦अप॑¦दुः॒ऽम॒ति‌म्¦ह॒न्¦अथ॑¦क॒र॒त्¦यज॑मानाय¦श‌म्¦योः ||

नरा॒शंसो᳚नोऽवतुप्रया॒जेशंनो᳚,अस्त्वनुया॒जोहवे᳚षु |{बार्हस्पत्यस्तः पुर्मूर्धाः | बृहस्पतिः | त्रिष्टुप्}

क्षि॒पदश॑स्ति॒मप॑दुर्म॒तिंह॒न्नथा᳚कर॒द्यज॑मानाय॒शंयोः || {2/3}{10.182.2}{10.12.31.2}{8.8.40.2}{1723, 1019, 10521}

नरा॒शंसः॑¦नः॒¦अ॒व॒तु॒¦प्र॒ऽया॒जे¦श‌म्¦नः॒¦अ॒स्तु॒¦अ॒नु॒ऽया॒जः¦हवे᳚षु |
क्षि॒पत्¦अश॑स्ति‌म्¦अप॑¦दुः॒ऽम॒ति‌म्¦ह॒न्¦अथ॑¦क॒र॒त्¦यज॑मानाय¦श‌म्¦योः ||

तपु᳚र्मूर्धातपतुर॒क्षसो॒येब्र᳚ह्म॒द्विषः॒शर॑वे॒हन्त॒वा,उ॑ |{बार्हस्पत्यस्तः पुर्मूर्धाः | बृहस्पतिः | त्रिष्टुप्}

क्षि॒पदश॑स्ति॒मप॑दुर्म॒तिंह॒न्नथा᳚कर॒द्यज॑मानाय॒शंयोः || {3/3}{10.182.3}{10.12.31.3}{8.8.40.3}{1724, 1019, 10522}

तपुः॑ऽमूर्धा¦त॒प॒तु॒¦र॒क्षसः॑¦ये¦ब्र॒ह्म॒ऽद्विषः॑¦शर॑वे¦हन्त॒वै¦ऊँ॒ इति॑ |
क्षि॒पत्¦अश॑स्ति‌म्¦अप॑¦दुः॒ऽम॒ति‌म्¦ह॒न्¦अथ॑¦क॒र॒त्¦यज॑मानाय¦श‌म्¦योः ||

[183] अपश्यमिति तृचस्य सूक्तस्य प्राजापत्यः प्रजावानृषिः यजमानोयजमानपत्नीहोता इतिक्रमेणदेवतास्त्रिष्टुप् | (अपश्यंत्वेत्येतस्याद्य यायजमानमीक्षते द्वितीयया पत्नींतृतीययात्मानं आ। श्रौ।)
अप॑श्यंत्वा॒मन॑सा॒चेकि॑तानं॒तप॑सोजा॒तंतप॑सो॒विभू᳚तम् |{प्राजापत्यः प्रजावान् | यजमानः | त्रिष्टुप्}

इ॒हप्र॒जामि॒हर॒यिंररा᳚णः॒प्रजा᳚यस्वप्र॒जया᳚पुत्रकाम || {1/3}{10.183.1}{10.12.32.1}{8.8.41.1}{1725, 1020, 10523}

अप॑श्य‌म्¦त्वा॒¦मन॑सा¦चेकि॑तान‌म्¦तप॑सः¦जा॒त‌म्¦तप॑सः¦विऽभू᳚त‌म् |
इ॒ह¦प्र॒ऽजा‌म्¦इ॒ह¦र॒यि‌म्¦ररा᳚णः¦प्र¦जा॒य॒स्व॒¦प्र॒ऽजया᳚¦पु॒त्र॒ऽका॒म॒ ||

अप॑श्यंत्वा॒मन॑सा॒दीध्या᳚नां॒स्वायां᳚त॒नू,ऋत्व्ये॒नाध॑मानाम् |{प्राजापत्यः प्रजावान् | यजमानपत्नी | त्रिष्टुप्}

उप॒मामु॒च्चायु॑व॒तिर्ब॑भूयाः॒प्रजा᳚यस्वप्र॒जया᳚पुत्रकामे || {2/3}{10.183.2}{10.12.32.2}{8.8.41.2}{1726, 1020, 10524}

अप॑श्य‌म्¦त्वा॒¦मन॑सा¦दीध्या᳚ना‌म्¦स्वाया᳚‌म्¦त॒नू इति॑¦ऋत्व्ये᳚¦नाध॑माना‌म् |
उप॑¦मा‌म्¦उ॒च्चा¦यु॒व॒तिः¦ब॒भू॒याः॒¦प्र¦जा॒य॒स्व॒¦प्र॒ऽजया᳚¦पु॒त्र॒ऽका॒म॒ ||

अ॒हंगर्भ॑मदधा॒मोष॑धीष्व॒हंविश्वे᳚षु॒भुव॑नेष्व॒न्तः |{प्राजापत्यः प्रजावान् | होता | त्रिष्टुप्}

अ॒हंप्र॒जा,अ॑जनयंपृथि॒व्याम॒हंजनि॑भ्यो,अप॒रीषु॑पु॒त्रान् || {3/3}{10.183.3}{10.12.32.3}{8.8.41.3}{1727, 1020, 10525}

अ॒ह‌म्¦गर्भ᳚‌म्¦अ॒द॒धा॒‌म्¦ओष॑धीषु¦अ॒ह‌म्¦विश्वे᳚षु¦भुव॑नेषु¦अ॒न्तरिति॑ |
अ॒ह‌म्¦प्र॒ऽजाः¦अ॒ज॒न॒य॒‌म्¦पृ॒थि॒व्या‌म्¦अ॒ह‌म्¦जनि॑ऽभ्यः¦अ॒प॒रीषु॑¦पु॒त्रान् ||

[184] विष्णुरिति तृचस्य सूक्तस्य गर्भकर्तात्वष्टा आद्याया विष्णुत्वष्टृप्रजापतिधातारो द्वितीयायाः सिनीवालि सरस्वत्यश्विनस्तृतीयायाअश्विनावनुष्टुप् | (प्राजापत्योविष्णुर्वाऋषिः) |
विष्णु॒र्योनिं᳚कल्पयतु॒त्वष्टा᳚रू॒पाणि॑पिंशतु |{गर्भकर्तात्वष्टाः | विष्णुत्वष्टृप्रजापतिधातारः | अनुष्टुप्}

सि᳚ञ्चतुप्र॒जाप॑तिर्धा॒तागर्भं᳚दधातुते || {1/3}{10.184.1}{10.12.33.1}{8.8.42.1}{1728, 1021, 10526}

विष्णुः॑¦योनि᳚‌म्¦क॒ल्प॒य॒तु॒¦त्वष्टा᳚¦रू॒पाणि॑¦पिं॒श॒तु॒ | आ¦सिं॒च॒तु॒¦प्र॒जाऽप॑तिः¦धा॒ता¦गर्भ᳚‌म्¦द॒धा॒तु॒¦ते॒ ||

गर्भं᳚धेहिसिनीवालि॒गर्भं᳚धेहिसरस्वति |{गर्भकर्तात्वष्टाः | सिनीवालीसरस्वत्यश्विनः | अनुष्टुप्}

गर्भं᳚ते,अ॒श्विनौ᳚दे॒वावाध॑त्तां॒पुष्क॑रस्रजा || {2/3}{10.184.2}{10.12.33.2}{8.8.42.2}{1729, 1021, 10527}

गर्भ᳚‌म्¦धे॒हि॒¦सि॒नी॒वा॒लि॒¦गर्भ᳚‌म्¦धे॒हि॒¦स॒र॒स्व॒ति॒ | गर्भ᳚‌म्¦ते॒¦अ॒श्विनौ᳚¦दे॒वौ¦आ¦ध॒त्ता॒‌म्¦पुष्क॑रऽस्रजा ||

हि॒र॒ण्ययी᳚,अ॒रणी॒यंनि॒र्मन्थ॑तो,अ॒श्विना᳚ |{गर्भकर्तात्वष्टाः | अश्विनौ | अनुष्टुप्}

तंते॒गर्भं᳚हवामहेदश॒मेमा॒सिसूत॑वे || {3/3}{10.184.3}{10.12.33.3}{8.8.42.3}{1730, 1021, 10528}

हि॒र॒ण्ययी॒ इति॑¦अ॒रणी॒ इति॑¦य‌म्¦निः॒ऽमन्थ॑तः¦अ॒श्विना᳚ | त‌म्¦ते॒¦गर्भ᳚‌म्¦ह॒वा॒म॒हे॒¦द॒श॒मे¦मा॒सि¦सूत॑वे ||

[185] महीति तृचस्य सूक्तस्य वारुणिः सत्यधृतिरादित्या गायत्री | (महि सत्यधृतिर्वारुणिरादित्यं स्वस्त्ययनमित्यनुक्रमण्या अदितिर्देवतायस्येत्यादित्यं आदित्योदेवतायस्येत्यादित्यमिति द्वैविध्येनप्राप्ता वप्यत्रादित्यानामेवदेवतात्वंनादितेः 'माहित्रंयन्महित्रीणामादित्यानांस्तुतिर्विदुः' इतिशौनकोक्तेः)|
महि॑त्री॒णामवो᳚ऽस्तुद्यु॒क्षंमि॒त्रस्या᳚र्य॒म्णः |{वारुणिः सत्यधृतिः | आदित्या | गायत्री}

दु॒रा॒धर्षं॒वरु॑णस्य || {1/3}{10.185.1}{10.12.34.1}{8.8.43.1}{1731, 1022, 10529}

महि॑¦त्री॒णा‌म्¦अवः॑¦अ॒स्तु॒¦द्यु॒क्ष‌म्¦मि॒त्रस्य॑¦अ॒र्य॒म्णः | दुः॒ऽआ॒धर्ष᳚‌म्¦वरु॑णस्य ||

न॒हितेषा᳚म॒माच॒ननाध्व॑सुवार॒णेषु॑ |{वारुणिः सत्यधृतिः | आदित्या | गायत्री}

ईशे᳚रि॒पुर॒घशं᳚सः || {2/3}{10.185.2}{10.12.34.2}{8.8.43.2}{1732, 1022, 10530}

न॒हि¦तेषा᳚‌म्¦अ॒मा¦च॒न¦न¦अध्व॑ऽसु¦वा॒र॒णेषु॑ | ईशे᳚¦रि॒पुः¦अ॒घऽशं᳚सः ||

यस्मै᳚पु॒त्रासो॒,अदि॑तेः॒प्रजी॒वसे॒मर्त्या᳚य |{वारुणिः सत्यधृतिः | आदित्या | गायत्री}

ज्योति॒र्यच्छ॒न्त्यज॑स्रम् || {3/3}{10.185.3}{10.12.34.3}{8.8.43.3}{1733, 1022, 10531}

यस्मै᳚¦पु॒त्रासः॑¦अदि॑तेः¦प्र¦जी॒वसे᳚¦मर्त्या᳚य | ज्योतिः॑¦यच्छ᳚न्ति¦अज॑स्र‌म् ||

[186] वातइति तृचस्य सूकस्य वातायनउलोवायुर्गायत्री |
वात॒वा᳚तुभेष॒जंश॒म्भुम॑यो॒भुनो᳚हृ॒दे |{वातायन उलः | वायुः | गायत्री}

प्रण॒आयूं᳚षितारिषत् || {1/3}{10.186.1}{10.12.35.1}{8.8.44.1}{1734, 1023, 10532}

वातः॑¦आ¦वा॒तु॒¦भे॒ष॒ज‌म्¦श॒‌म्ऽभु¦मा॒यः॒ऽभु¦नः॒¦हृ॒दे | प्र¦नः॒¦आयूं᳚षि¦ता॒रि॒ष॒त् ||

उ॒तवा᳚तपि॒तासि॑उ॒तभ्रातो॒तनः॒सखा᳚ |{वातायन उलः | वायुः | गायत्री}

नो᳚जी॒वात॑वेकृधि || {2/3}{10.186.2}{10.12.35.2}{8.8.44.2}{1735, 1023, 10533}

उ॒त¦वा॒त॒¦पि॒ता¦अ॒सि॒¦नः॒¦उ॒त¦भ्राता᳚¦उ॒त¦नः॒¦सखा᳚ | सः¦नः॒¦जी॒वात॑वे¦कृ॒धि॒ ||

यद॒दोवा᳚ततेगृ॒हे॒३॑(ए॒)ऽमृत॑स्यनि॒धिर्हि॒तः |{वातायन उलः | वायुः | गायत्री}

ततो᳚नोदेहिजी॒वसे᳚ || {3/3}{10.186.3}{10.12.35.3}{8.8.44.3}{1736, 1023, 10534}

यत्¦अ॒दः¦वा॒त॒¦ते॒¦गृ॒हे¦अ॒मृत॑स्य¦नि॒धिः¦हि॒तः | ततः॑¦नः॒¦दे॒हि॒¦जी॒वसे᳚ ||

[187] प्राग्नयइति पंचर्चस्य सूक्तस्याग्नेयोवत्सोग्निर्गायत्री |
प्राग्नये॒वाच॑मीरयवृष॒भाय॑क्षिती॒नाम् |{आग्नेयो वत्सः | अग्निः | गायत्री}

नः॑पर्ष॒दति॒द्विषः॑ || {1/5}{10.187.1}{10.12.36.1}{8.8.45.1}{1737, 1024, 10535}

प्र¦अ॒ग्नये᳚¦वाच᳚‌म्¦ई॒र॒य॒¦वृ॒ष॒भाय॑¦क्षि॒ती॒ना‌म् | सः¦नः॒¦प॒र्ष॒त्¦अति॑¦द्विषः॑ ||

यःपर॑स्याःपरा॒वत॑स्ति॒रोधन्वा᳚ति॒रोच॑ते |{आग्नेयो वत्सः | अग्निः | गायत्री}

नः॑पर्ष॒दति॒द्विषः॑ || {2/5}{10.187.2}{10.12.36.2}{8.8.45.2}{1738, 1024, 10536}

यः¦पर॑स्याः¦प॒रा॒ऽवतः॑¦ति॒रः¦धन्व॑¦अ॒ति॒ऽरोच॑ते | सः¦नः॒¦प॒र्ष॒त्¦अति॑¦द्विषः॑ ||

योरक्षां᳚सिनि॒जूर्व॑ति॒वृषा᳚शु॒क्रेण॑शो॒चिषा᳚ |{आग्नेयो वत्सः | अग्निः | गायत्री}

नः॑पर्ष॒दति॒द्विषः॑ || {3/5}{10.187.3}{10.12.36.3}{8.8.45.3}{1739, 1024, 10537}

यः¦रक्षां᳚सि¦नि॒ऽजूर्व॑ति¦वृषा᳚¦शु॒क्रेण॑¦शो॒चिषा᳚ | सः¦नः॒¦प॒र्ष॒त्¦अति॑¦द्विषः॑ ||

योविश्वा॒भिवि॒पश्य॑ति॒भुव॑ना॒संच॒पश्य॑ति |{आग्नेयो वत्सः | अग्निः | गायत्री}

नः॑पर्ष॒दति॒द्विषः॑ || {4/5}{10.187.4}{10.12.36.4}{8.8.45.4}{1740, 1024, 10538}

यः¦विश्वा᳚¦अ॒भि¦वि॒ऽपश्य॑ति¦भुव॑ना¦स‌म्¦च॒¦पश्य॑ति | सः¦नः॒¦प॒र्ष॒त्¦अति॑¦द्विषः॑ ||

यो,अ॒स्यपा॒रेरज॑सःशु॒क्रो,अ॒ग्निरजा᳚यत |{आग्नेयो वत्सः | अग्निः | गायत्री}

नः॑पर्ष॒दति॒द्विषः॑ || {5/5}{10.187.5}{10.12.36.5}{8.8.45.5}{1741, 1024, 10539}

यः¦अ॒स्य¦पा॒रे¦रज॑सः¦शु॒क्रः¦अ॒ग्निः¦अजा᳚यत | सः¦नः॒¦प॒र्ष॒त्¦अति॑¦द्विषः॑ ||

[188] प्रनूनमिति तृचस्य सूक्तस्याग्नेयः श्येनोजातवेदाअग्निर्गायत्री |
प्रनू॒नंजा॒तवे᳚दस॒मश्वं᳚हिनोतवा॒जिन᳚म् |{श्येनः | अग्निर्जातवेदाः | गायत्री}

इ॒दंनो᳚ब॒र्हिरा॒सदे᳚ || {1/3}{10.188.1}{10.12.37.1}{8.8.46.1}{1742, 1025, 10540}

प्र¦नू॒न‌म्¦जा॒तऽवे᳚दस‌म्¦अश्व᳚‌म्¦हि॒नो॒त॒¦वा॒जिन᳚‌म् | इ॒द‌म्¦नः॒¦ब॒र्हिः¦आ॒ऽसदे᳚ ||

अ॒स्यप्रजा॒तवे᳚दसो॒विप्र॑वीरस्यमी॒ळ्हुषः॑ |{श्येनः | अग्निर्जातवेदाः | गायत्री}

म॒हीमि॑यर्मिसुष्टु॒तिम् || {2/3}{10.188.2}{10.12.37.2}{8.8.46.2}{1743, 1025, 10541}

अ॒स्य¦प्र¦जा॒तऽवे᳚दसः¦विप्र॑ऽवीरस्य¦मी॒ळ्हुषः॑ | म॒ही‌म्¦इ॒य॒र्मि॒¦सु॒ऽस्तु॒ति‌म् ||

यारुचो᳚जा॒तवे᳚दसोदेव॒त्राह᳚व्य॒वाह॑नीः |{श्येनः | अग्निर्जातवेदाः | गायत्री}

ताभि᳚र्नोय॒ज्ञमि᳚न्वतु || {3/3}{10.188.3}{10.12.37.3}{8.8.46.3}{1744, 1025, 10542}

याः¦रुचः॑¦जा॒तऽवे᳚दसः¦दे॒व॒ऽत्रा¦ह॒व्य॒ऽवाह॑नीः | ताभिः॑¦नः॒¦य॒ज्ञ‌म्¦इ॒न्व॒तु॒ ||

[189] आयंगौरिति तृचस्य सूक्तस्य सार्पराज्ञी सूर्यगायत्री । (अत्रयद्यपि सार्पराज्ञ्यात्मदैवतमित्यनेनप्रकृतासार्पराज्ञीदेवताप्राप्नोति तथापि प्रयोक्तृभिः सूर्यस्यग्रहणात्पाक्षिकोपिसूर्योस्माभि रुपाक्तः
आयंगौःपृश्नि॑रक्रमी॒¦दस॑दन्‌मा॒तरं᳚पु॒रः |{सार्पराज्ञी | सार्पराज्ञी सूर्यो वा | गायत्री}

पि॒तरं᳚प्र॒यन्‌त्स्वः॑ || {1/3}{10.189.1}{10.12.38.1}{8.8.47.1}{1745, 1026, 10543}

आ¦अ॒य‌म्¦गौः¦पृश्निः॑¦अ॒क्र॒मी॒त्¦अस॑दत्¦मा॒तर᳚‌म्¦पु॒रः | पि॒तर᳚‌म्¦च॒¦प्र॒ऽयन्¦स्व१॒॑रिति॒ स्वः॑ ||

अ॒न्तश्च॑रतिरोच॒ना¦स्यप्रा॒णाद॑पान॒ती |{सार्पराज्ञी | सार्पराज्ञी सूर्यो वा | गायत्री}

व्य॑ख्यन्‌महि॒षोदिव᳚म् || {2/3}{10.189.2}{10.12.38.2}{8.8.47.2}{1746, 1026, 10544}

अ॒न्तरिति॑¦च॒र॒ति॒¦रो॒च॒ना¦अ॒स्य¦प्रा॒णात्¦अ॒प॒।आ॒न॒ती | वि¦अ॒ख्य॒त्¦म॒हि॒षः¦दिव᳚‌म् ||

त्रिं॒शद्धाम॒विरा᳚जति॒¦वाक्‌प॑तं॒गाय॑धीयते |{सार्पराज्ञी | सार्पराज्ञी सूर्यो वा | गायत्री}

प्रति॒वस्तो॒रह॒द्युभिः॑ || {3/3}{10.189.3}{10.12.38.3}{8.8.47.3}{1747, 1026, 10545}

त्रिं॒शत्¦धाम॑¦वि¦रा॒ज॒ति॒¦वाक्¦प॒तं॒गाय॑¦धी॒य॒ते॒ | प्रति॑¦वस्तोः᳚¦अह॑¦द्युऽभिः॑ ||

[190] ऋतंचेति तृचस्य सूक्तस्य माधुच्छंदसोघमर्षणोभाववृत्तिरनुष्टुप् |
ऋ॒तंच॑स॒त्यंचा॒भी᳚द्धा॒त्¦तप॒सोऽध्य॑जायत |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्}

ततो॒रात्र्य॑जायत॒¦ततः॑समु॒द्रो,अ᳚र्ण॒वः || {1/3}{10.190.1}{10.12.39.1}{8.8.48.1}{1748, 1027, 10546}

ऋ॒त‌म्¦च॒¦स॒त्य‌म्¦च॒¦अ॒भिऽ‌इ᳚द्धात्¦तप॑सः¦अधि॑¦अ॒जा॒य॒त॒ | ततः॑¦रात्री᳚¦अ॒जा॒य॒त॒¦ततः॑¦स॒मु॒द्रः¦अ॒र्ण॒वः ||

स॒मु॒द्राद᳚र्ण॒वादधि॑¦संवत्स॒रो,अ॑जायत |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्}

अ॒हो॒रा॒त्राणि॑वि॒दध॒¦द्विश्व॑स्यमिष॒तोव॒शी || {2/3}{10.190.2}{10.12.39.2}{8.8.48.2}{1749, 1027, 10547}

स॒मु॒द्रात्¦अ॒र्ण॒वात्¦अधि॑¦सं॒व॒त्स॒रः¦अ॒जा॒य॒त॒ | अ॒हो॒रा॒त्राणि॑¦वि॒ऽदध॑त्¦विश्व॑स्य¦मि॒ष॒तः¦व॒शी ||

सू॒र्या॒च॒न्द्र॒मसौ᳚धा॒ता¦य॑थापू॒र्वम॑कल्पयत् |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्}

दिवं᳚पृथि॒वींचा॒¦ऽन्तरि॑क्ष॒मथो॒स्वः॑ || {3/3}{10.190.3}{10.12.39.3}{8.8.48.3}{1750, 1027, 10548}

सू॒र्या॒च॒न्द्र॒मसौ᳚¦धा॒ता¦य॒था॒पू॒र्व‌म्¦अ॒क॒ल्प॒य॒त् | दिव᳚‌म्¦च॒¦पृ॒थि॒वी‌म्¦च॒¦अ॒न्तरि॑क्ष‌म्¦अथो॒ इति॑¦स्वः॑ ||

[191] संसमिति चतुरृचस्य सूक्तस्यांगिरसः संवननः आद्याया अग्निस्ततस्तिसृणां संज्ञानमनुष्टुप् तृतीयात्रिष्टुप् |
संस॒मिद्यु॑वसेवृष॒¦न्नग्ने॒विश्वा᳚न्य॒र्य |{आङ्गिरसः संवननः | अग्निः | अनुष्टुप्}

इ॒ळस्प॒देसमि॑ध्यसे॒¦नो॒वसू॒न्याभ॑र || {1/4}{10.191.1}{10.12.40.1}{8.8.49.1}{1751, 1028, 10549}

स‌म्ऽस᳚‌म्¦इत्¦यु॒व॒से॒¦वृ॒ष॒न्¦अग्ने᳚¦विश्वा᳚नि¦अ॒र्यः¦आ | इ॒ळः¦प॒दे¦स‌म्¦इ॒ध्य॒से॒¦सः¦नः॒¦वसू᳚नि¦आ¦भ॒र॒ ||

संग॑च्छध्वं॒संव॑दध्वं॒¦संवो॒मनां᳚सिजानताम् |{आङ्गिरसः संवननः | संज्ञानम् | अनुष्टुप्}

दे॒वाभा॒गंयथा॒पूर्वे᳚¦संजाना॒ना,उ॒पास॑ते || {2/4}{10.191.2}{10.12.40.2}{8.8.49.2}{1752, 1028, 10550}

स‌म्¦ग॒च्छ॒ध्व॒‌म्¦स‌म्¦व॒द॒ध्व॒‌म्¦स‌म्¦वः॒¦मनां᳚सि¦जा॒न॒ता॒‌म् | दे॒वाः¦भा॒ग‌म्¦यथा᳚¦पूर्वे᳚¦स॒‌म्ऽजा॒ना॒नाः¦उ॒प॒ऽआस॑ते ||

स॒मा॒नोमन्त्रः॒समि॑तिःसमा॒नी¦स॑मा॒नंमनः॑स॒हचि॒त्तमे᳚षाम् |{आङ्गिरसः संवननः | संज्ञानम् | त्रिष्टुप्}

स॒मा॒नंमन्त्र॑म॒भिम᳚न्त्रयेवः¦समा॒नेन॑वोह॒विषा᳚जुहोमि || {3/4}{10.191.3}{10.12.40.3}{8.8.49.3}{1753, 1028, 10551}

स॒मा॒नः¦मन्त्रः॑¦स‌म्ऽ‌इ᳚तिः¦स॒मा॒नी¦स॒मा॒न‌म्¦मनः॑¦स॒ह¦चि॒त्त‌म्¦ए॒षा॒‌म् |
स॒मा॒न‌म्¦मन्त्र᳚‌म्¦अ॒भि¦म॒न्त्र॒ये॒¦वः॒¦स॒मा॒नेन॑¦वः॒¦ह॒विषा᳚¦जु॒हो॒मि॒ ||

स॒मा॒नीव॒आकू᳚तिः¦समा॒नाहृद॑यानिवः |{आङ्गिरसः संवननः | संज्ञानम् | अनुष्टुप्}

स॒मा॒नम॑स्तुवो॒मनो॒¦यथा᳚वः॒सुस॒हास॑ति || {4/4}{10.191.4}{10.12.40.4}{8.8.49.4}{1754, 1028, 10552}

स॒मा॒नी¦वः॒¦आऽकू᳚तिः¦स॒मा॒ना¦हृद॑यानि¦वः॒ | स॒मा॒न‌म्¦अ॒स्तु॒¦वः॒¦मनः॑¦यथा᳚¦वः॒¦सुऽस॑ह¦अस॑ति ||