[1] सोमस्यमेति त्रयोविंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् |{मंडल:3, सूक्त:1}{अनुवाक:1, सूक्त:1}{अष्टक:2, अध्याय:8} |
सोम॑स्यमात॒वसं॒वक्ष्य॑ग्ने॒वह्निं᳚चकर्थवि॒दथे॒यज॑ध्यै |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दे॒वाँ,अच्छा॒दीद्य॑द्यु॒ञ्जे,अद्रिं᳚शमा॒ये,अ॑ग्नेत॒न्वं᳚जुषस्व॒(स्वाहा᳚) || 1 || वर्ग:13 सोम॑स्य¦मा॒¦त॒वस᳚म्¦वक्षि॑¦अ॒ग्ने॒¦वह्नि᳚म्¦च॒क॒र्थ॒¦वि॒दथे᳚¦यज॑ध्यै | |
प्राञ्चं᳚य॒ज्ञंच॑कृम॒वर्ध॑तां॒गीःस॒मिद्भि॑र॒ग्निंनम॑सादुवस्यन् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दि॒वःश॑शासुर्वि॒दथा᳚कवी॒नांगृत्सा᳚यचित्त॒वसे᳚गा॒तुमी᳚षुः॒(स्वाहा᳚) || 2 || प्रांच᳚म्¦य॒ज्ञम्¦च॒कृ॒म॒¦वर्ध॑ताम्¦गीः¦स॒मित्ऽभिः॑¦अ॒ग्निम्¦नम॑सा¦दु॒व॒स्य॒न् | |
मयो᳚दधे॒मेधि॑रःपू॒तद॑क्षोदि॒वःसु॒बन्धु॑र्ज॒नुषा᳚पृथि॒व्याः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अवि᳚न्दन्नुदर्श॒तम॒प्स्व१॑(अ॒)न्तर्दे॒वासो᳚,अ॒ग्निम॒पसि॒स्वसॄ᳚णा॒म्(स्वाहा᳚) || 3 || मयः॑¦द॒धे॒¦मेधि॑रः¦पू॒तऽद॑क्षः¦दि॒वः¦सु॒ऽबन्धुः॑¦ज॒नुषा᳚¦पृ॒थि॒व्याः | |
अव॑र्धयन्त्सु॒भगं᳚स॒प्तय॒ह्वीःश्वे॒तंज॑ज्ञा॒नम॑रु॒षंम॑हि॒त्वा |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} शिशुं॒नजा॒तम॒भ्या᳚रु॒रश्वा᳚दे॒वासो᳚,अ॒ग्निंजनि॑मन्वपुष्य॒न्(स्वाहा᳚) || 4 || अव॑र्धयन्¦सु॒ऽभग᳚म्¦स॒प्त¦य॒ह्वीः¦श्वे॒तम्¦ज॒ज्ञा॒नम्¦अ॒रु॒षम्¦म॒हि॒ऽत्वा | |
शु॒क्रेभि॒रङ्गै॒रज॑आतत॒न्वान्क्रतुं᳚पुना॒नःक॒विभिः॑प॒वित्रैः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} शो॒चिर्वसा᳚नः॒पर्यायु॑र॒पांश्रियो᳚मिमीतेबृह॒तीरनू᳚नाः॒(स्वाहा᳚) || 5 || शु॒क्रेभिः॑¦अङ्गैः᳚¦रजः॑¦आ॒ऽत॒त॒न्वान्¦क्रतु᳚म्¦पु॒ना॒नः¦क॒विऽभिः॑¦प॒वित्रैः᳚ | |
व॒व्राजा᳚सी॒मन॑दती॒रद॑ब्धादि॒वोय॒ह्वीरव॑साना॒,अन॑ग्नाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} सना॒,अत्र॑युव॒तयः॒सयो᳚नी॒रेकं॒गर्भं᳚दधिरेस॒प्तवाणीः᳚(स्वाहा᳚) || 6 || वर्ग:14 व॒व्राज॑¦सी॒म्¦अन॑दतीः¦अद॑ब्धाः¦दि॒वः¦य॒ह्वीः¦अव॑सानाः¦अन॑ग्नाः | |
स्ती॒र्णा,अ॑स्यसं॒हतो᳚वि॒श्वरू᳚पाघृ॒तस्य॒योनौ᳚स्र॒वथे॒मधू᳚नाम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अस्थु॒रत्र॑धे॒नवः॒पिन्व॑मानाम॒हीद॒स्मस्य॑मा॒तरा᳚समी॒ची(स्वाहा᳚) || 7 || स्ती॒र्णाः¦अ॒स्य॒¦स॒म्ऽहतः॑¦वि॒श्वऽरू᳚पाः¦घृ॒तस्य॑¦योनौ᳚¦स्र॒वथे᳚¦मधू᳚नाम् | |
ब॒भ्रा॒णःसू᳚नोसहसो॒व्य॑द्यौ॒द्दधा᳚नःशु॒क्रार॑भ॒सावपूं᳚षि |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} श्चोत᳚न्ति॒धारा॒मधु॑नोघृ॒तस्य॒वृषा॒यत्र॑वावृ॒धेकाव्ये᳚न॒(स्वाहा᳚) || 8 || ब॒भ्रा॒णः¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦वि¦अ॒द्यौ॒त्¦दधा᳚नः¦शु॒क्रा¦र॒भ॒सा¦वपूं᳚षि | |
पि॒तुश्चि॒दूध॑र्ज॒नुषा᳚विवेद॒व्य॑स्य॒धारा᳚,असृज॒द्विधेनाः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} गुहा॒चर᳚न्तं॒सखि॑भिःशि॒वेभि॑र्दि॒वोय॒ह्वीभि॒र्नगुहा᳚बभूव॒(स्वाहा᳚) || 9 || पि॒तुः¦चि॒त्¦ऊधः॑¦ज॒नुषा᳚¦वि॒वे॒द॒¦वि¦अ॒स्य॒¦धाराः᳚¦अ॒सृ॒ज॒त्¦वि¦धेनाः᳚ | |
पि॒तुश्च॒गर्भं᳚जनि॒तुश्च॑बभ्रेपू॒र्वीरेको᳚,अधय॒त्पीप्या᳚नाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} वृष्णे᳚स॒पत्नी॒शुच॑ये॒सब᳚न्धू,उ॒भे,अ॑स्मैमनु॒ष्ये॒३॑(ए॒)निपा᳚हि॒(स्वाहा᳚) || 10 || पि॒तुः¦च॒¦गर्भ᳚म्¦ज॒नि॒तुः¦च॒¦ब॒भ्रे॒¦पू॒र्वीः¦एकः॑¦अ॒ध॒य॒त्¦पीप्या᳚नाः | |
उ॒रौम॒हाँ,अ॑निबा॒धेव॑व॒र्धाऽऽपो᳚,अ॒ग्निंय॒शसः॒संहिपू॒र्वीः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} ऋ॒तस्य॒योना᳚वशय॒द्दमू᳚नाजामी॒नाम॒ग्निर॒पसि॒स्वसॄ᳚णा॒म्(स्वाहा᳚) || 11 || वर्ग:15 उ॒रौ¦म॒हान्¦अ॒नि॒ऽबा॒धे¦व॒व॒र्ध॒¦आपः॑¦अ॒ग्निम्¦य॒शसः॑¦सम्¦हि¦पू॒र्वीः | |
अ॒क्रोनब॒भ्रिःस॑मि॒थेम॒हीनां᳚दिदृ॒क्षेयः॑सू॒नवे॒भा,ऋ॑जीकः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} उदु॒स्रिया॒जनि॑ता॒योज॒जाना॒पांगर्भो॒नृत॑मोय॒ह्वो,अ॒ग्निः(स्वाहा᳚) || 12 || अ॒क्रः¦न¦ब॒भ्रिः¦स॒म्ऽइ॒थे¦म॒हीना᳚म्¦दि॒दृ॒क्षेयः॑¦सू॒नवे᳚¦भाःऽऋ॑जीकः | |
अ॒पांगर्भं᳚दर्श॒तमोष॑धीनां॒वना᳚जजानसु॒भगा॒विरू᳚पम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दे॒वास॑श्चि॒न्मन॑सा॒संहिज॒ग्मुःपनि॑ष्ठंजा॒तंत॒वसं᳚दुवस्य॒न्(स्वाहा᳚) || 13 || अ॒पाम्¦गर्भ᳚म्¦द॒र्श॒तम्¦ओष॑धीनाम्¦वना᳚¦ज॒जा॒न॒¦सु॒ऽभगा᳚¦विऽरू᳚पम् | |
बृ॒हन्त॒इद्भा॒नवो॒भा,ऋ॑जीकम॒ग्निंस॑चन्तवि॒द्युतो॒नशु॒क्राः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} गुहे᳚ववृ॒द्धंसद॑सि॒स्वे,अ॒न्तर॑पा॒रऊ॒र्वे,अ॒मृतं॒दुहा᳚नाः॒(स्वाहा᳚) || 14 || बृ॒हन्तः॑¦इत्¦भा॒नवः॑¦भाःऽऋ॑जीकम्¦अ॒ग्निम्¦स॒च॒न्त॒¦वि॒ऽद्युतः॑¦न¦शु॒क्राः | |
ईळे᳚चत्वा॒यज॑मानोह॒विर्भि॒रीळे᳚सखि॒त्वंसु॑म॒तिंनिका᳚मः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दे॒वैरवो᳚मिमीहि॒संज॑रि॒त्रेरक्षा᳚चनो॒दम्ये᳚भि॒रनी᳚कैः॒(स्वाहा᳚) || 15 || ईळे᳚¦च॒¦त्वा॒¦यज॑मानः¦ह॒विःऽभिः॑¦ईळे᳚¦स॒खि॒ऽत्वम्¦सु॒ऽम॒तिम्¦निऽका᳚मः | |
उ॒प॒क्षे॒तार॒स्तव॑सुप्रणी॒तेऽग्ने॒विश्वा᳚नि॒धन्या॒दधा᳚नाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} सु॒रेत॑सा॒श्रव॑सा॒तुञ्ज॑माना,अ॒भिष्या᳚मपृतना॒यूँरदे᳚वा॒न्(स्वाहा᳚) || 16 || वर्ग:16 उ॒प॒ऽक्षे॒तारः॑¦तव॑¦सु॒ऽप्र॒नी॒ते॒¦अग्ने᳚¦विश्वा᳚नि¦धन्या᳚¦दधा᳚नाः | |
आदे॒वाना᳚मभवःके॒तुर॑ग्नेम॒न्द्रोविश्वा᳚नि॒काव्या᳚निवि॒द्वान् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} प्रति॒मर्ताँ᳚,अवासयो॒दमू᳚ना॒,अनु॑दे॒वान्र॑थि॒रोया᳚सि॒साध॒न्त्(स्वाहा᳚) || 17 || आ¦दे॒वाना᳚म्¦अ॒भ॒वः॒¦के॒तुः¦अ॒ग्ने॒¦म॒न्द्रः¦विश्वा᳚नि¦काव्या᳚नि¦वि॒द्वान् | |
निदु॑रो॒णे,अ॒मृतो॒मर्त्या᳚नां॒राजा᳚ससादवि॒दथा᳚नि॒साध॑न् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} घृ॒तप्र॑तीकउर्वि॒याव्य॑द्यौद॒ग्निर्विश्वा᳚नि॒काव्या᳚निवि॒द्वान्(स्वाहा᳚) || 18 || नि¦दु॒रो॒णे¦अ॒मृतः॑¦मर्त्या᳚नाम्¦राजा᳚¦स॒सा॒द॒¦वि॒दथा᳚नि¦साध॑न् | |
आनो᳚गहिस॒ख्येभिः॑शि॒वेभि᳚र्म॒हान्म॒हीभि॑रू॒तिभिः॑सर॒ण्यन् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अ॒स्मेर॒यिंब॑हु॒लंसंत॑रुत्रंसु॒वाचं᳚भा॒गंय॒शसं᳚कृधीनः॒(स्वाहा᳚) || 19 || आ¦नः॒¦ग॒हि॒¦स॒ख्येभिः॑¦शि॒वेभिः॑¦म॒हान्¦म॒हीभिः॑¦ऊ॒तिऽभिः॑¦स॒र॒ण्यन् | |
ए॒ताते᳚,अग्ने॒जनि॑मा॒सना᳚नि॒प्रपू॒र्व्याय॒नूत॑नानिवोचम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} म॒हान्ति॒वृष्णे॒सव॑नाकृ॒तेमाजन्म᳚ञ्जन्म॒न्निहि॑तोजा॒तवे᳚दाः॒(स्वाहा᳚) || 20 || ए॒ता¦ते॒¦अ॒ग्ने॒¦जनि॑म¦सना᳚नि¦प्र¦पू॒र्व्याय॑¦नूत॑नानि¦वो॒च॒म् | |
जन्म᳚ञ्जन्म॒न्निहि॑तोजा॒तवे᳚दावि॒श्वामि॑त्रेभिरिध्यते॒,अज॑स्रः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} तस्य॑व॒यंसु॑म॒तौय॒ज्ञिय॒स्यापि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म॒(स्वाहा᳚) || 21 || जन्म॑न्ऽजन्मन्¦निऽहि॑तः¦जा॒तऽवे᳚दाः¦वि॒श्वामि॑त्रेभिः¦इ॒ध्य॒ते॒¦अज॑स्रः | |
इ॒मंय॒ज्ञंस॑हसाव॒न्त्वंनो᳚देव॒त्राधे᳚हिसुक्रतो॒ररा᳚णः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} प्रयं᳚सिहोतर्बृह॒तीरिषो॒नोऽग्ने॒महि॒द्रवि॑ण॒माय॑जस्व॒(स्वाहा᳚) || 22 || इ॒मम्¦य॒ज्ञम्¦स॒ह॒सा॒ऽव॒न्¦त्वम्¦नः॒¦दे॒व॒ऽत्रा¦धे॒हि॒¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो¦ररा᳚णः | |
इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे(स्वाहा᳚) || 23 || इळा᳚म्¦अ॒ग्ने॒¦पु॒रु॒ऽदंस᳚म्¦स॒निम्¦गोः¦श॒श्व॒त्ऽत॒मम्¦हव॑मानाय¦सा॒ध॒ | |
[2] वैश्वानरायेति पंचदशर्चस्य सूक्तस्य गाथिनो विश्वामित्रो वैश्वानरोग्निर्जगती |{मंडल:3, सूक्त:2}{अनुवाक:1, सूक्त:2}{अष्टक:2, अध्याय:8} |
वै॒श्वा॒न॒राय॑धि॒षणा᳚मृता॒वृधे᳚घृ॒तंनपू॒तम॒ग्नये᳚जनामसि |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} द्वि॒ताहोता᳚रं॒मनु॑षश्चवा॒घतो᳚धि॒यारथं॒नकुलि॑शः॒समृ᳚ण्वति॒(स्वाहा᳚) || 1 || वर्ग:17 वै॒श्वा॒न॒राय॑¦धि॒षणा᳚म्¦ऋ॒त॒ऽवृधे᳚¦घृ॒तम्¦न¦पू॒तम्¦अ॒ग्नये᳚¦ज॒ना॒म॒सि॒ | |
सरो᳚चयज्ज॒नुषा॒रोद॑सी,उ॒भेसमा॒त्रोर॑भवत्पु॒त्रईड्यः॑ |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} ह॒व्य॒वाळ॒ग्निर॒जर॒श्चनो᳚हितोदू॒ळभो᳚वि॒शामति॑थिर्वि॒भाव॑सुः॒(स्वाहा᳚) || 2 || सः¦रो॒च॒य॒त्¦ज॒नुषा᳚¦रोद॑सी॒ इति॑¦उ॒भे इति॑¦सः¦मा॒त्रोः¦अ॒भ॒व॒त्¦पु॒त्रः¦ईड्यः॑ | |
क्रत्वा॒दक्ष॑स्य॒तरु॑षो॒विध᳚र्मणिदे॒वासो᳚,अ॒ग्निंज॑नयन्त॒चित्ति॑भिः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} रु॒रु॒चा॒नंभा॒नुना॒ज्योति॑षाम॒हामत्यं॒नवाजं᳚सनि॒ष्यन्नुप॑ब्रुवे॒(स्वाहा᳚) || 3 || क्रत्वा᳚¦दक्ष॑स्य¦तरु॑षः¦विऽध᳚र्मणि¦दे॒वासः॑¦अ॒ग्निम्¦ज॒न॒य॒न्त॒¦चित्ति॑ऽभिः | |
आम॒न्द्रस्य॑सनि॒ष्यन्तो॒वरे᳚ण्यंवृणी॒महे॒,अह्र॑यं॒वाज॑मृ॒ग्मिय᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} रा॒तिंभृगू᳚णामु॒शिजं᳚क॒विक्र॑तुम॒ग्निंराज᳚न्तंदि॒व्येन॑शो॒चिषा॒(स्वाहा᳚) || 4 || आ¦म॒न्द्रस्य॑¦स॒नि॒ष्यन्तः॑¦वरे᳚ण्यम्¦वृ॒णी॒महे᳚¦अह्र॑यम्¦वाज᳚म्¦ऋ॒ग्मिय᳚म् | |
अ॒ग्निंसु॒म्नाय॑दधिरेपु॒रोजना॒वाज॑श्रवसमि॒हवृ॒क्तब᳚र्हिषः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} य॒तस्रु॑चःसु॒रुचं᳚वि॒श्वदे᳚व्यंरु॒द्रंय॒ज्ञानां॒साध॑दिष्टिम॒पसा॒म्(स्वाहा᳚) || 5 || अ॒ग्निम्¦सु॒म्नाय॑¦द॒धि॒रे॒¦पु॒रः¦जनाः᳚¦वाज॑ऽश्रवसम्¦इ॒ह¦वृ॒क्तऽब॑र्हिषः | |
पाव॑कशोचे॒तव॒हिक्षयं॒परि॒होत᳚र्य॒ज्ञेषु॑वृ॒क्तब᳚र्हिषो॒नरः॑ |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} अग्ने॒दुव॑इ॒च्छमा᳚नास॒आप्य॒मुपा᳚सते॒द्रवि॑णंधेहि॒तेभ्यः॒(स्वाहा᳚) || 6 || वर्ग:18 पाव॑कऽशोचे¦तव॑¦हि¦क्षय᳚म्¦परि॑¦होतः॑¦य॒ज्ञेषु॑¦वृ॒क्तऽब॑र्हिषः¦नरः॑ | |
आरोद॑सी,अपृण॒दास्व᳚र्म॒हज्जा॒तंयदे᳚नम॒पसो॒,अधा᳚रयन् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} सो,अ॑ध्व॒राय॒परि॑णीयतेक॒विरत्यो॒नवाज॑सातये॒चनो᳚हितः॒(स्वाहा᳚) || 7 || आ¦रोद॑सी॒ इति॑¦अ॒पृ॒ण॒त्¦आ¦स्वः॑¦म॒हत्¦जा॒तम्¦यत्¦ए॒न॒म्¦अ॒पसः॑¦अधा᳚रयन् | |
न॒म॒स्यत॑ह॒व्यदा᳚तिंस्वध्व॒रंदु॑व॒स्यत॒दम्यं᳚जा॒तवे᳚दसम् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} र॒थीरृ॒तस्य॑बृह॒तोविच॑र्षणिर॒ग्निर्दे॒वाना᳚मभवत्पु॒रोहि॑तः॒(स्वाहा᳚) || 8 || न॒म॒स्यत॑¦ह॒व्यऽदा᳚तिम्¦सु॒।आ॒ध्व॒रम्¦दु॒व॒स्यत॑¦दम्य᳚म्¦जा॒तऽवे᳚दसम् | |
ति॒स्रोय॒ह्वस्य॑स॒मिधः॒परि॑ज्मनो॒ऽग्नेर॑पुनन्नु॒शिजो॒,अमृ॑त्यवः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} तासा॒मेका॒मद॑धु॒र्मर्त्ये॒भुज॑मुलो॒कमु॒द्वे,उप॑जा॒मिमी᳚यतुः॒(स्वाहा᳚) || 9 || ति॒स्रः¦य॒ह्वस्य॑¦स॒म्ऽइधः॑¦परि॑ऽज्मनः¦अ॒ग्नेः¦अ॒पु॒न॒न्¦उ॒शिजः॑¦अमृ॑त्यवः | |
वि॒शांक॒विंवि॒श्पतिं॒मानु॑षी॒रिषः॒संसी᳚मकृण्व॒न्त्स्वधि॑तिं॒नतेज॑से |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} सउ॒द्वतो᳚नि॒वतो᳚याति॒वेवि॑ष॒त्सगर्भ॑मे॒षुभुव॑नेषुदीधर॒त्(स्वाहा᳚) || 10 || वि॒शाम्¦क॒विम्¦वि॒श्पति᳚म्¦मानु॑षीः¦इषः॑¦सम्¦सी॒म्¦अ॒कृ॒ण्व॒न्¦स्वऽधि॑तिम्¦न¦तेज॑से | |
सजि᳚न्वतेज॒ठरे᳚षुप्रजज्ञि॒वान्वृषा᳚चि॒त्रेषु॒नान॑द॒न्नसिं॒हः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} वै॒श्वा॒न॒रःपृ॑थु॒पाजा॒,अम॑र्त्यो॒वसु॒रत्ना॒दय॑मानो॒विदा॒शुषे॒(स्वाहा᳚) || 11 || वर्ग:19 सः¦जि॒न्व॒ते॒¦ज॒ठरे᳚षु¦प्र॒ज॒ज्ञि॒ऽवान्¦वृषा᳚¦चि॒त्रेषु॑¦नान॑दत्¦न¦सिं॒हः | |
वै॒श्वा॒न॒रःप्र॒त्नथा॒नाक॒मारु॑हद्दि॒वस्पृ॒ष्ठंभन्द॑मानःसु॒मन्म॑भिः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} सपू᳚र्व॒वज्ज॒नय᳚ञ्ज॒न्तवे॒धनं᳚समा॒नमज्मं॒पर्ये᳚ति॒जागृ॑विः॒(स्वाहा᳚) || 12 || वै॒श्वा॒न॒रः¦प्र॒त्नऽथा᳚¦नाक᳚म्¦आ¦अ॒रु॒ह॒त्¦दि॒वः¦पृ॒ष्ठम्¦भन्द॑मानः¦सु॒मन्म॑ऽभिः | |
ऋ॒तावा᳚नंय॒ज्ञियं॒विप्र॑मु॒क्थ्य१॑(अ॒)मायंद॒धेमा᳚त॒रिश्वा᳚दि॒विक्षय᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} तंचि॒त्रया᳚मं॒हरि॑केशमीमहेसुदी॒तिम॒ग्निंसु॑वि॒ताय॒नव्य॑से॒(स्वाहा᳚) || 13 || ऋ॒तऽवा᳚नम्¦य॒ज्ञिय᳚म्¦विप्र᳚म्¦उ॒क्थ्य᳚म्¦आ¦यम्¦द॒धे¦मा॒त॒रिश्वा᳚¦दि॒वि¦क्षय᳚म् | |
शुचिं॒नयाम᳚न्निषि॒रंस्व॒र्दृशं᳚के॒तुंदि॒वोरो᳚चन॒स्थामु॑ष॒र्बुध᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} अ॒ग्निंमू॒र्धानं᳚दि॒वो,अप्र॑तिष्कुतं॒तमी᳚महे॒नम॑सावा॒जिनं᳚बृ॒हत्(स्वाहा᳚) || 14 || शुचि᳚म्¦न¦याम॑न्¦इ॒षि॒रम्¦स्वः॒ऽदृश᳚म्¦के॒तुम्¦दि॒वः¦रो॒च॒न॒ऽस्थाम्¦उ॒षः॒ऽबुध᳚म् | |
म॒न्द्रंहोता᳚रं॒शुचि॒मद्व॑याविनं॒दमू᳚नसमु॒क्थ्यं᳚वि॒श्वच॑र्षणिम् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} रथं॒नचि॒त्रंवपु॑षायदर्श॒तंमनु᳚र्हितं॒सद॒मिद्रा॒यई᳚महे॒(स्वाहा᳚) || 15 || म॒न्द्रम्¦होता᳚रम्¦शुचि᳚म्¦अद्व॑याविनम्¦दमू᳚नसम्¦उ॒क्थ्य᳚म्¦वि॒श्वऽच॑र्षणिम् | |
[3] वैश्वानरायेत्येकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्रो वैश्वानरोग्निर्जगती |{मंडल:3, सूक्त:3}{अनुवाक:1, सूक्त:3}{अष्टक:2, अध्याय:8} |
वै॒श्वा॒न॒राय॑पृथु॒पाज॑से॒विपो॒रत्ना᳚विधन्तध॒रुणे᳚षु॒गात॑वे |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} अ॒ग्निर्हिदे॒वाँ,अ॒मृतो᳚दुव॒स्यत्यथा॒धर्मा᳚णिस॒नता॒नदू᳚दुष॒त्(स्वाहा᳚) || 1 || वर्ग:20 वै॒श्वा॒न॒राय॑¦पृ॒थु॒ऽपाज॑से¦विपः॑¦रत्ना᳚¦वि॒ध॒न्त॒¦ध॒रुणे᳚षु¦गात॑वे | |
अ॒न्तर्दू॒तोरोद॑सीद॒स्मई᳚यते॒होता॒निष॑त्तो॒मनु॑षःपु॒रोहि॑तः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} क्षयं᳚बृ॒हन्तं॒परि॑भूषति॒द्युभि॑र्दे॒वेभि॑र॒ग्निरि॑षि॒तोधि॒याव॑सुः॒(स्वाहा᳚) || 2 || अ॒न्तः¦दू॒तः¦रोद॑सी॒ इति॑¦द॒स्मः¦ई॒य॒ते॒¦होता᳚¦निऽस॑त्तः¦मनु॑षः¦पु॒रःऽहि॑तः | |
के॒तुंय॒ज्ञानां᳚वि॒दथ॑स्य॒साध॑नं॒विप्रा᳚सो,अ॒ग्निंम॑हयन्त॒चित्ति॑भिः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} अपां᳚सि॒यस्मि॒न्नधि॑संद॒धुर्गिर॒स्तस्मि᳚न्त्सु॒म्नानि॒यज॑मान॒आच॑के॒(स्वाहा᳚) || 3 || के॒तुम्¦य॒ज्ञाना᳚म्¦वि॒दथ॑स्य¦साध॑नम्¦विप्रा᳚सः¦अ॒ग्निम्¦म॒ह॒य॒न्त॒¦चित्ति॑ऽभिः | |
पि॒ताय॒ज्ञाना॒मसु॑रोविप॒श्चितां᳚वि॒मान॑म॒ग्निर्व॒युनं᳚चवा॒घता᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} आवि॑वेश॒रोद॑सी॒भूरि॑वर्पसापुरुप्रि॒योभ᳚न्दते॒धाम॑भिःक॒विः(स्वाहा᳚) || 4 || पि॒ता¦य॒ज्ञाना᳚म्¦असु॑रः¦वि॒पः॒ऽचिता᳚म्¦वि॒ऽमान᳚म्¦अ॒ग्निः¦व॒युन᳚म्¦च॒¦वा॒घता᳚म् | |
च॒न्द्रम॒ग्निंच॒न्द्रर॑थं॒हरि᳚व्रतंवैश्वान॒रम॑प्सु॒षदं᳚स्व॒र्विद᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} वि॒गा॒हंतूर्णिं॒तवि॑षीभि॒रावृ॑तं॒भूर्णिं᳚दे॒वास॑इ॒हसु॒श्रियं᳚दधुः॒(स्वाहा᳚) || 5 || च॒न्द्रम्¦अ॒ग्निम्¦च॒न्द्रऽर॑थम्¦हरि॑ऽव्रतम्¦वै॒श्वा॒न॒रम्¦अ॒प्सु॒ऽसद᳚म्¦स्वः॒ऽविद᳚म् | |
अ॒ग्निर्दे॒वेभि॒र्मनु॑षश्चज॒न्तुभि॑स्तन्वा॒नोय॒ज्ञंपु॑रु॒पेश॑संधि॒या |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} र॒थीर॒न्तरी᳚यते॒साध॑दिष्टिभिर्जी॒रोदमू᳚ना,अभिशस्ति॒चात॑नः॒(स्वाहा᳚) || 6 || वर्ग:21 अ॒ग्निः¦दे॒वेभिः॑¦मनु॑षः¦च॒¦ज॒न्तुऽभिः॑¦त॒न्वा॒नः¦य॒ज्ञम्¦पु॒रु॒ऽपेश॑सम्¦धि॒या | |
अग्ने॒जर॑स्वस्वप॒त्यआयु᳚न्यू॒र्जापि᳚न्वस्व॒समिषो᳚दिदीहिनः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} वयां᳚सिजिन्वबृह॒तश्च॑जागृवउ॒शिग्दे॒वाना॒मसि॑सु॒क्रतु᳚र्वि॒पाम्(स्वाहा᳚) || 7 || अग्ने᳚¦जर॑स्व¦सु॒।आ॒प॒त्ये¦आयु॑नि¦ऊ॒र्जा¦पि॒न्व॒स्व॒¦सम्¦इषः॑¦दि॒दी॒हि॒¦नः॒ | |
वि॒श्पतिं᳚य॒ह्वमति॑थिं॒नरः॒सदा᳚य॒न्तारं᳚धी॒नामु॒शिजं᳚चवा॒घता᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} अ॒ध्व॒राणां॒चेत॑नंजा॒तवे᳚दसं॒प्रशं᳚सन्ति॒नम॑साजू॒तिभि᳚र्वृ॒धे(स्वाहा᳚) || 8 || वि॒श्पति᳚म्¦य॒ह्वम्¦अति॑थिम्¦नरः॑¦सदा᳚¦य॒न्तार᳚म्¦धी॒नाम्¦उ॒शिज᳚म्¦च॒¦वा॒घता᳚म् | |
वि॒भावा᳚दे॒वःसु॒रणः॒परि॑क्षि॒तीर॒ग्निर्ब॑भूव॒शव॑सासु॒मद्र॑थः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} तस्य᳚व्र॒तानि॑भूरिपो॒षिणो᳚व॒यमुप॑भूषेम॒दम॒आसु॑वृ॒क्तिभिः॒(स्वाहा᳚) || 9 || वि॒भाऽवा᳚¦दे॒वः¦सु॒ऽरणः॑¦परि॑¦क्षि॒तीः¦अ॒ग्निः¦ब॒भू॒व॒¦शव॑सा¦सु॒मत्ऽर॑थः | |
वैश्वा᳚नर॒तव॒धामा॒न्याच॑के॒येभिः॑स्व॒र्विदभ॑वोविचक्षण |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} जा॒तआपृ॑णो॒भुव॑नानि॒रोद॑सी॒,अग्ने॒ताविश्वा᳚परि॒भूर॑सि॒त्मना॒(स्वाहा᳚) || 10 || वैश्वा᳚नर¦तव॑¦धामा᳚नि¦आ¦च॒क्रे॒¦येभिः॑¦स्वः॒ऽवित्¦अभ॑वः¦वि॒ऽच॒क्ष॒ण॒ | |
वै॒श्वा॒न॒रस्य॑दं॒सना᳚भ्योबृ॒हदरि॑णा॒देकः॑स्वप॒स्यया᳚क॒विः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} उ॒भापि॒तरा᳚म॒हय᳚न्नजायता॒ग्निर्द्यावा᳚पृथि॒वीभूरि॑रेतसा॒(स्वाहा᳚) || 11 || वै॒श्वा॒न॒रस्य॑¦दं॒सना᳚भ्यः¦बृ॒हत्¦अरि॑णात्¦एकः॑¦सु॒।आ॒प॒स्यया᳚¦क॒विः | |
[4] समित्समिदित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रइध्मस्तनूनपादिळोबर्हिर्देवीर्द्वारउषासानक्तादैव्यौ होतारौ सरस्वतीळाभारत्यस्त्वष्टावनस्पतिस्वाहाकृतयइतिक्रमेणदेवतास्त्रिष्टुप् |{मंडल:3, सूक्त:4}{अनुवाक:1, सूक्त:4}{अष्टक:2, अध्याय:8} |
स॒मित्स॑मित्सु॒मना᳚बोध्य॒स्मेशु॒चाशु॑चासुम॒तिंरा᳚सि॒वस्वः॑ |{गाथिनो विश्वामित्रः | इध्मः समिद्धोऽग्निर्वा | त्रिष्टुप्} आदे᳚वदे॒वान्य॒जथा᳚यवक्षि॒सखा॒सखी᳚न्त्सु॒मना᳚यक्ष्यग्ने॒(स्वाहा᳚) || 1 || वर्ग:22 स॒मित्ऽस॑मित्¦सु॒ऽमनाः᳚¦बो॒धि॒¦अ॒स्मे इति॑¦शु॒चाऽशु॑चा¦सु॒ऽम॒तिम्¦रा॒सि॒¦वस्वः॑ | |
यंदे॒वास॒स्त्रिरह᳚न्ना॒यज᳚न्तेदि॒वेदि॑वे॒वरु॑णोमि॒त्रो,अ॒ग्निः |{गाथिनो विश्वामित्रः | तनूनपात् | त्रिष्टुप्} सेमंय॒ज्ञंमधु॑मन्तंकृधीन॒स्तनू᳚नपाद्घृ॒तयो᳚निंवि॒धन्त॒म्(स्वाहा᳚) || 2 || यम्¦दे॒वासः॑¦त्रिः¦अह॑न्¦आ॒ऽयज᳚न्ते¦दि॒वेऽदि॑वे¦वरु॑णः¦मि॒त्रः¦अ॒ग्निः | |
प्रदीधि॑तिर्वि॒श्ववा᳚राजिगाति॒होता᳚रमि॒ळःप्र॑थ॒मंयज॑ध्यै |{गाथिनो विश्वामित्रः | इळः | त्रिष्टुप्} अच्छा॒नमो᳚भिर्वृष॒भंव॒न्दध्यै॒सदे॒वान्य॑क्षदिषि॒तोयजी᳚या॒न्(स्वाहा᳚) || 3 || प्र¦दीधि॑तिः¦वि॒श्वऽवा᳚रा¦जि॒गा॒ति॒¦होता᳚रम्¦इ॒ळः¦प्र॒थ॒मम्¦यज॑ध्यै | |
ऊ॒र्ध्वोवां᳚गा॒तुर॑ध्व॒रे,अ॑कार्यू॒र्ध्वाशो॒चींषि॒प्रस्थि॑ता॒रजां᳚सि |{गाथिनो विश्वामित्रः | बर्हिः | त्रिष्टुप्} दि॒वोवा॒नाभा॒न्य॑सादि॒होता᳚स्तृणी॒महि॑दे॒वव्य॑चा॒विब॒र्हिः(स्वाहा᳚) || 4 || ऊ॒र्ध्वः¦वा॒म्¦गा॒तुः¦अ॒ध्व॒रे¦अ॒का॒रि॒¦ऊ॒र्ध्वा¦शो॒चींषि॑¦प्रऽस्थि॑ता¦रजां᳚सि | |
स॒प्तहो॒त्राणि॒मन॑सावृणा॒ना,इन्व᳚न्तो॒विश्वं॒प्रति॑यन्नृ॒तेन॑ |{गाथिनो विश्वामित्रः | देवीर्द्वारः | त्रिष्टुप्} नृ॒पेश॑सोवि॒दथे᳚षु॒प्रजा॒ता,अ॒भी॒३॑(ई॒)मंय॒ज्ञंविच॑रन्तपू॒र्वीः(स्वाहा᳚) || 5 || स॒प्त¦हो॒त्राणि॑¦मन॑सा¦वृ॒णा॒नाः¦इन्व᳚न्तः¦विश्व᳚म्¦प्रति॑¦य॒न्¦ऋ॒तेन॑ | |
आभन्द॑माने,उ॒षसा॒,उपा᳚के,उ॒तस्म॑येतेत॒न्वा॒३॑(आ॒)विरू᳚पे |{गाथिनो विश्वामित्रः | उषासानक्ता | त्रिष्टुप्} यथा᳚नोमि॒त्रोवरु॑णो॒जुजो᳚ष॒दिन्द्रो᳚म॒रुत्वाँ᳚,उ॒तवा॒महो᳚भिः॒(स्वाहा᳚) || 6 || वर्ग:23 आ¦भन्द॑माने॒ इति॑¦उ॒षसौ᳚¦उपा᳚के॒ इति॑¦उ॒त¦स्म॒ये॒ते॒ इति॑¦त॒न्वा᳚¦विरू᳚पे॒ इति॒ विऽरू᳚पे | |
दैव्या॒होता᳚राप्रथ॒मान्यृ᳚ञ्जेस॒प्तपृ॒क्षासः॑स्व॒धया᳚मदन्ति |{गाथिनो विश्वामित्रः | दैव्यौ होतारौ प्रचेतसौ | त्रिष्टुप्} ऋ॒तंशंस᳚न्तऋ॒तमित्तआ᳚हु॒रनु᳚व्र॒तंव्र॑त॒पादीध्या᳚नाः॒(स्वाहा᳚) || 7 || दैव्या᳚¦होता᳚रा¦प्र॒थ॒मा¦नि¦ऋं॒जे॒¦स॒प्त¦पृ॒क्षासः॑¦स्व॒धया᳚¦म॒द॒न्ति॒ | |
आभार॑ती॒भार॑तीभिःस॒जोषा॒,इळा᳚दे॒वैर्म॑नु॒ष्ये᳚भिर॒ग्निः |{गाथिनो विश्वामित्रः | तिस्रो देव्यः सरस्वतीळाभारत्यः | त्रिष्टुप्} सर॑स्वतीसारस्व॒तेभि॑र॒र्वाक्ति॒स्रोदे॒वीर्ब॒र्हिरेदंस॑दन्तु॒(स्वाहा᳚) || 8 || आ¦भार॑ती¦भार॑तीभिः¦स॒ऽजोषाः᳚¦इळाः᳚¦दे॒वैः¦म॒नु॒ष्ये᳚भिः¦अ॒ग्निः | |
तन्न॑स्तु॒रीप॒मध॑पोषयि॒त्नुदेव॑त्वष्ट॒र्विर॑रा॒णःस्य॑स्व |{गाथिनो विश्वामित्रः | त्वष्टाः | त्रिष्टुप्} यतो᳚वी॒रःक᳚र्म॒ण्यः॑सु॒दक्षो᳚यु॒क्तग्रा᳚वा॒जाय॑तेदे॒वका᳚मः॒(स्वाहा᳚) || 9 || तत्¦नः॒¦तु॒रीप᳚म्¦अध॑¦पो॒ष॒यि॒त्नु¦देव॑¦त्व॒ष्टः॒¦वि¦र॒रा॒णः¦स्य॒स्वेति॑ स्यस्व | |
वन॑स्प॒तेऽव॑सृ॒जोप॑दे॒वान॒ग्निर्ह॒विःश॑मि॒तासू᳚दयाति |{गाथिनो विश्वामित्रः | वनस्पतिः | त्रिष्टुप्} सेदु॒होता᳚स॒त्यत॑रोयजाति॒यथा᳚दे॒वानां॒जनि॑मानि॒वेद॒(स्वाहा᳚) || 10 || वन॑स्पते¦अव॑¦सृ॒ज॒¦उप॑¦दे॒वान्¦अ॒ग्निः¦ह॒विः¦श॒मि॒ता¦सू॒द॒या॒ति॒ | |
आया᳚ह्यग्नेसमिधा॒नो,अ॒र्वाङिन्द्रे᳚णदे॒वैःस॒रथं᳚तु॒रेभिः॑ |{गाथिनो विश्वामित्रः | स्वाहाकृतयः | त्रिष्टुप्} ब॒र्हिर्न॒आस्ता॒मदि॑तिःसुपु॒त्रास्वाहा᳚दे॒वा,अ॒मृता᳚मादयन्ता॒म्(स्वाहा᳚) || 11 || आ¦या॒हि॒¦अ॒ग्ने॒¦स॒म्ऽइ॒धा॒नः¦अ॒र्वाङ्¦इन्द्रे᳚ण¦दे॒वैः¦स॒ऽरथ᳚म्¦तु॒रेभिः॑ | |
[5] प्रत्यग्निरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् (प्रत्यग्निःप्रकारवः सूक्तयोरन्त्यासांद्यावापृथिव्यादीनांनिपातादृश्यन्तेअतस्तयोर्लिंगोक्तादेवताः पाक्षिकाः) |{मंडल:3, सूक्त:5}{अनुवाक:1, सूक्त:5}{अष्टक:2, अध्याय:8} |
प्रत्य॒ग्निरु॒षस॒श्चेकि॑ता॒नोऽबो᳚धि॒विप्रः॑पद॒वीःक॑वी॒नाम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} पृ॒थु॒पाजा᳚देव॒यद्भिः॒समि॒द्धोऽप॒द्वारा॒तम॑सो॒वह्नि॑रावः॒(स्वाहा᳚) || 1 || वर्ग:24 प्रति॑¦अ॒ग्निः¦उ॒षसः॑¦चेकि॑तानः¦अबो᳚धि¦विप्रः॑¦प॒द॒ऽवीः¦क॒वी॒नाम् | |
प्रेद्व॒ग्निर्वा᳚वृधे॒स्तोमे᳚भिर्गी॒र्भिःस्तो᳚तॄ॒णांन॑म॒स्य॑उ॒क्थैः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} पू॒र्वीरृ॒तस्य॑सं॒दृश॑श्चका॒नःसंदू॒तो,अ॑द्यौदु॒षसो᳚विरो॒के(स्वाहा᳚) || 2 || प्र¦इत्¦ऊँ॒ इति॑¦अ॒ग्निः¦व॒वृ॒धे॒¦स्तोमे᳚भिः¦गीः॒ऽभिः¦स्तो॒तॄ॒णाम्¦न॒म॒स्यः॑¦उ॒क्थैः | |
अधा᳚य्य॒ग्निर्मानु॑षीषुवि॒क्ष्व१॑(अ॒)पांगर्भो᳚मि॒त्रऋ॒तेन॒साध॑न् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} आह᳚र्य॒तोय॑ज॒तःसान्व॑स्था॒दभू᳚दु॒विप्रो॒हव्यो᳚मती॒नाम्(स्वाहा᳚) || 3 || अधा᳚यि¦अ॒ग्निः¦मानु॑षीषु¦वि॒क्षु¦अ॒पाम्¦गर्भः॑¦मि॒त्रः¦ऋ॒तेन॑¦साध॑न् | |
मि॒त्रो,अ॒ग्निर्भ॑वति॒यत्समि॑द्धोमि॒त्रोहोता॒वरु॑णोजा॒तवे᳚दाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} मि॒त्रो,अ॑ध्व॒र्युरि॑षि॒रोदमू᳚नामि॒त्रःसिन्धू᳚नामु॒तपर्व॑ताना॒म्(स्वाहा᳚) || 4 || मि॒त्रः¦अ॒ग्निः¦भ॒व॒ति॒¦यत्¦सम्ऽइ᳚द्धः¦मि॒त्रः¦होता᳚¦वरु॑णः¦जा॒तऽवे᳚दाः | |
पाति॑प्रि॒यंरि॒पो,अग्रं᳚प॒दंवेःपाति॑य॒ह्वश्चर॑णं॒सूर्य॑स्य |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} पाति॒नाभा᳚स॒प्तशी᳚र्षाणम॒ग्निःपाति॑दे॒वाना᳚मुप॒माद॑मृ॒ष्वः(स्वाहा᳚) || 5 || पाति॑¦प्रि॒यम्¦रि॒पः¦अग्र᳚म्¦प॒दम्¦वेः¦पाति॑¦य॒ह्वः¦चर॑णम्¦सूर्य॑स्य | |
ऋ॒भुश्च॑क्र॒ईड्यं॒चारु॒नाम॒विश्वा᳚निदे॒वोव॒युना᳚निवि॒द्वान् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} स॒सस्य॒चर्म॑घृ॒तव॑त्प॒दंवेस्तदिद॒ग्नीर॑क्ष॒त्यप्र॑युच्छ॒न्(स्वाहा᳚) || 6 || वर्ग:25 ऋ॒भुः¦च॒क्रे॒¦ईड्य᳚म्¦चारु॑¦नाम॑¦विश्वा᳚नि¦दे॒वः¦व॒युना᳚नि¦वि॒द्वान् | |
आयोनि॑म॒ग्निर्घृ॒तव᳚न्तमस्थात्पृ॒थुप्र॑गाणमु॒शन्त॑मुशा॒नः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दीद्या᳚नः॒शुचि᳚रृ॒ष्वःपा᳚व॒कःपुनः॑पुनर्मा॒तरा॒नव्य॑सीकः॒(स्वाहा᳚) || 7 || आ¦योनि᳚म्¦अ॒ग्निः¦घृ॒तऽव᳚न्तम्¦अ॒स्था॒त्¦पृ॒थुऽप्र॑गानम्¦उ॒शन्त᳚म्¦उ॒शा॒नः | |
स॒द्योजा॒तओष॑धीभिर्ववक्षे॒यदी॒वर्ध᳚न्तिप्र॒स्वो᳚घृ॒तेन॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} आप॑इवप्र॒वता॒शुम्भ॑माना,उरु॒ष्यद॒ग्निःपि॒त्रोरु॒पस्थे॒(स्वाहा᳚) || 8 || स॒द्यः¦जा॒तः¦ओष॑धीभिः¦व॒व॒क्षे॒¦यदि॑¦वर्ध᳚न्ति¦प्र॒ऽस्वः॑¦घृ॒तेन॑ | |
उदु॑ष्टु॒तःस॒मिधा᳚य॒ह्वो,अ॑द्यौ॒द्वर्ष्म᳚न्दि॒वो,अधि॒नाभा᳚पृथि॒व्याः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} मि॒त्रो,अ॒ग्निरीड्यो᳚मात॒रिश्वाऽऽदू॒तोव॑क्षद्य॒जथा᳚यदे॒वान्(स्वाहा᳚) || 9 || उत्¦ऊँ॒ इति॑| स्तु॒तः¦स॒म्ऽइधा᳚¦य॒ह्वः¦अ॒द्यौ॒त्¦वर्ष्म॑न्¦दि॒वः¦अधि॑¦नाभा᳚¦पृ॒थि॒व्याः | |
उद॑स्तम्भीत्स॒मिधा॒नाक॑मृ॒ष्वो॒३॑(ओ॒)ऽग्निर्भव᳚न्नुत्त॒मोरो᳚च॒नाना᳚म् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} यदी॒भृगु॑भ्यः॒परि॑मात॒रिश्वा॒गुहा॒सन्तं᳚हव्य॒वाहं᳚समी॒धे(स्वाहा᳚) || 10 || उत्¦अ॒स्त॒म्भी॒त्¦स॒म्ऽइधा᳚¦नाक᳚म्¦ऋ॒ष्वः¦अ॒ग्निः¦भव॑न्¦उ॒त्ऽत॒मः¦रो॒च॒नाना᳚म् | |
इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे(स्वाहा᳚) || 11 || इळा᳚म्¦अ॒ग्ने॒¦पु॒रु॒ऽदंस᳚म्¦स॒निम्¦गोः¦श॒श्व॒त्ऽत॒मम्¦हव॑मानाय¦सा॒ध॒ | |
[6] प्रकारवइत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् |{मंडल:3, सूक्त:6}{अनुवाक:1, सूक्त:6}{अष्टक:2, अध्याय:8} |
प्रका᳚रवोमन॒नाव॒च्यमा᳚नादेव॒द्रीचीं᳚नयतदेव॒यन्तः॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} द॒क्षि॒णा॒वाड्वा॒जिनी॒प्राच्ये᳚तिह॒विर्भर᳚न्त्य॒ग्नये᳚घृ॒ताची॒(स्वाहा᳚) || 1 || वर्ग:26 प्र¦का॒र॒वः॒¦म॒न॒ना¦व॒च्यमा᳚नाः¦दे॒व॒द्रीची᳚म्¦न॒य॒त॒¦दे॒व॒ऽयन्तः॑ | |
आरोद॑सी,अपृणा॒जाय॑मानउ॒तप्ररि॑क्था॒,अध॒नुप्र॑यज्यो |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दि॒वश्चि॑दग्नेमहि॒नापृ॑थि॒व्याव॒च्यन्तां᳚ते॒वह्न॑यःस॒प्तजि॑ह्वाः॒(स्वाहा᳚) || 2 || आ¦रोद॑सी॒ इति॑¦अ॒पृ॒णाः॒¦जाय॑मानः¦उ॒त¦प्र¦रि॒क्थाः॒¦अध॑¦नु¦प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो | |
द्यौश्च॑त्वापृथि॒वीय॒ज्ञिया᳚सो॒निहोता᳚रंसादयन्ते॒दमा᳚य |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} यदी॒विशो॒मानु॑षीर्देव॒यन्तीः॒प्रय॑स्वती॒रीळ॑तेशु॒क्रम॒र्चिः(स्वाहा᳚) || 3 || द्यौः¦च॒¦त्वा॒¦पृ॒थि॒वी¦य॒ज्ञिया᳚सः¦नि¦होता᳚रम्¦सा॒द॒य॒न्ते॒¦दमा᳚य | |
म॒हान्त्स॒धस्थे᳚ध्रु॒वआनिष॑त्तो॒ऽन्तर्द्यावा॒माहि॑ने॒हर्य॑माणः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} आस्क्रे᳚स॒पत्नी᳚,अ॒जरे॒,अमृ॑क्तेसब॒र्दुघे᳚,उरुगा॒यस्य॑धे॒नू(स्वाहा᳚) || 4 || म॒हान्¦स॒धऽस्थे᳚¦ध्रु॒वः¦आ¦निऽस॑त्तः¦अ॒न्तः¦द्यावा᳚¦माहि॑ने॒ इति॑¦हर्य॑माणः | |
व्र॒ताते᳚,अग्नेमह॒तोम॒हानि॒तव॒क्रत्वा॒रोद॑सी॒,आत॑तन्थ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} त्वंदू॒तो,अ॑भवो॒जाय॑मान॒स्त्वंने॒तावृ॑षभचर्षणी॒नाम्(स्वाहा᳚) || 5 || व्र॒ता¦ते॒¦अ॒ग्ने॒¦म॒ह॒तः¦म॒हानि॑¦तव॑¦क्रत्वा᳚¦रोद॑सी॒ इति॑¦आ¦त॒त॒न्थ॒ | |
ऋ॒तस्य॑वाके॒शिना᳚यो॒ग्याभि॑र्घृत॒स्नुवा॒रोहि॑ताधु॒रिधि॑ष्व |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अथाव॑हदे॒वान्दे᳚व॒विश्वा᳚न्त्स्वध्व॒राकृ॑णुहिजातवेदः॒(स्वाहा᳚) || 6 || वर्ग:27 ऋ॒तस्य॑¦वा॒¦के॒शिना᳚¦यो॒ग्याभिः॑¦घृ॒त॒ऽस्नुवा᳚¦रोहि॑ता¦धु॒रि¦धि॒ष्व॒ | |
दि॒वश्चि॒दाते᳚रुचयन्तरो॒का,उ॒षोवि॑भा॒तीरनु॑भासिपू॒र्वीः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अ॒पोयद॑ग्नउ॒शध॒ग्वने᳚षु॒होतु᳚र्म॒न्द्रस्य॑प॒नय᳚न्तदे॒वाः(स्वाहा᳚) || 7 || दि॒वः¦चि॒त्¦आ¦ते॒¦रु॒च॒य॒न्त॒¦रो॒काः¦उ॒षः¦वि॒ऽभा॒तीः¦अनु॑¦भा॒सि॒¦पू॒र्वीः | |
उ॒रौवा॒ये,अ॒न्तरि॑क्षे॒मद᳚न्तिदि॒वोवा॒येरो᳚च॒नेसन्ति॑दे॒वाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} ऊमा᳚वा॒येसु॒हवा᳚सो॒यज॑त्रा,आयेमि॒रेर॒थ्यो᳚,अग्ने॒,अश्वाः᳚(स्वाहा᳚) || 8 || उ॒रौ¦वा॒¦ये¦अ॒न्तरि॑क्षे¦मद᳚न्ति¦दि॒वः¦वा॒¦ये¦रो॒च॒ने¦सन्ति॑¦दे॒वाः | |
ऐभि॑रग्नेस॒रथं᳚याह्य॒र्वाङ्ना᳚नार॒थंवा᳚वि॒भवो॒ह्यश्वाः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} पत्नी᳚वतस्त्रिं॒शतं॒त्रींश्च॑दे॒वान॑नुष्व॒धमाव॑हमा॒दय॑स्व॒(स्वाहा᳚) || 9 || आ¦ए॒भिः॒¦अ॒ग्ने॒¦स॒ऽरथ᳚म्¦या॒हि॒¦अ॒र्वाङ्¦ना॒ना॒ऽर॒थम्¦वा॒¦वि॒ऽभवः॑¦हि¦अश्वाः᳚ | |
सहोता॒यस्य॒रोद॑सीचिदु॒र्वीय॒ज्ञंय॑ज्ञम॒भिवृ॒धेगृ॑णी॒तः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} प्राची᳚,अध्व॒रेव॑तस्थतुःसु॒मेके᳚ऋ॒ताव॑री,ऋ॒तजा᳚तस्यस॒त्ये(स्वाहा᳚) || 10 || सः¦होता᳚¦यस्य॑¦रोद॑सी॒ इति॑¦चि॒त्¦उ॒र्वी इति॑¦य॒ज्ञम्ऽय॑ज्ञम्¦अ॒भि¦वृ॒धे¦गृ॒णी॒तः | |
इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे(स्वाहा᳚) || 11 || इळा᳚म्¦अ॒ग्ने॒¦पु॒रु॒ऽदंस᳚म्¦स॒निम्¦गोः¦श॒श्व॒त्ऽत॒मम्¦हव॑मानाय¦सा॒ध॒ | |
[7] प्रयआरुरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् |{मंडल:3, सूक्त:7}{अनुवाक:1, सूक्त:7}{अष्टक:3, अध्याय:1} |
प्रयआ॒रुःशि॑तिपृ॒ष्ठस्य॑धा॒सेरामा॒तरा᳚विविशुःस॒प्तवाणीः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} प॒रि॒क्षिता᳚पि॒तरा॒संच॑रेते॒प्रस॑र्स्रातेदी॒र्घमायुः॑प्र॒यक्षे॒(स्वाहा᳚) || 1 || वर्ग:1 प्र¦ये¦आ॒रुः¦शि॒ति॒ऽपृ॒ष्ठस्य॑¦धा॒सेः¦आ¦मा॒तरा᳚¦वि॒वि॒शुः॒¦स॒प्त¦वाणीः᳚ | |
दि॒वक्ष॑सोधे॒नवो॒वृष्णो॒,अश्वा᳚दे॒वीरात॑स्थौ॒मधु॑म॒द्वह᳚न्तीः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} ऋ॒तस्य॑त्वा॒सद॑सिक्षेम॒यन्तं॒पर्येका᳚चरतिवर्त॒निंगौः(स्वाहा᳚) || 2 || दि॒वक्ष॑सः¦धे॒नवः॑¦वृष्णः॑¦अश्वाः᳚¦दे॒वीः¦आ¦त॒स्थौ॒¦मधु॑ऽमत्¦वह᳚न्तीः | |
आसी᳚मरोहत्सु॒यमा॒भव᳚न्तीः॒पति॑श्चिकि॒त्वान्र॑यि॒विद्र॑यी॒णाम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} प्रनील॑पृष्ठो,अत॒सस्य॑धा॒सेस्ता,अ॑वासयत्पुरु॒धप्र॑तीकः॒(स्वाहा᳚) || 3 || आ¦सी॒म्¦अ॒रो॒ह॒त्¦सु॒ऽयमाः᳚¦भव᳚न्तीः¦पतिः॑¦चि॒कि॒त्वान्¦र॒यि॒ऽवित्¦र॒यी॒णाम् | |
महि॑त्वा॒ष्ट्रमू॒र्जय᳚न्तीरजु॒र्यंस्त॑भू॒यमा᳚नंव॒हतो᳚वहन्ति |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} व्यङ्गे᳚भिर्दिद्युता॒नःस॒धस्थ॒एका᳚मिव॒रोद॑सी॒,आवि॑वेश॒(स्वाहा᳚) || 4 || महि॑¦त्वा॒ष्ट्रम्¦ऊ॒र्जय᳚न्तीः¦अ॒जु॒र्यम्¦स्त॒भु॒ऽयमा᳚नम्¦व॒हतः॑¦व॒ह॒न्ति॒ | |
जा॒नन्ति॒वृष्णो᳚,अरु॒षस्य॒शेव॑मु॒तब्र॒ध्नस्य॒शास॑नेरणन्ति |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दि॒वो॒रुचः॑सु॒रुचो॒रोच॑माना॒,इळा॒येषां॒गण्या॒माहि॑ना॒गीः(स्वाहा᳚) || 5 || जा॒नन्ति॑¦वृष्णः॑¦अ॒रु॒षस्य॑¦शेव᳚म्¦उ॒त¦ब्र॒ध्नस्य॑¦शास॑ने¦र॒ण॒न्ति॒ | |
उ॒तोपि॒तृभ्यां᳚प्र॒विदानु॒घोषं᳚म॒होम॒हद्भ्या᳚मनयन्तशू॒षम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} उ॒क्षाह॒यत्र॒परि॒धान॑म॒क्तोरनु॒स्वंधाम॑जरि॒तुर्व॒वक्ष॒(स्वाहा᳚) || 6 || वर्ग:2 उ॒तो इति॑¦पि॒तृऽभ्या᳚म्¦प्र॒ऽविदा᳚¦अनु॑¦घोष᳚म्¦म॒हः¦म॒हत्ऽभ्या᳚म्¦अ॒न॒य॒न्त॒¦शू॒षम् | |
अ॒ध्व॒र्युभिः॑प॒ञ्चभिः॑स॒प्तविप्राः᳚प्रि॒यंर॑क्षन्ते॒निहि॑तंप॒दंवेः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} प्राञ्चो᳚मदन्त्यु॒क्षणो᳚,अजु॒र्यादे॒वादे॒वाना॒मनु॒हिव्र॒तागुः(स्वाहा᳚) || 7 || अ॒ध्व॒र्युऽभिः॑¦पं॒चऽभिः॑¦स॒प्त¦विप्राः᳚¦प्रि॒यम्¦र॒क्ष॒न्ते॒¦निऽहि॑तम्¦प॒दम्¦वेरिति॒ वेः | |
दैव्या॒होता᳚राप्रथ॒मान्यृ᳚ञ्जेस॒प्तपृ॒क्षासः॑स्व॒धया᳚मदन्ति |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} ऋ॒तंशंस᳚न्तऋ॒तमित्तआ᳚हु॒रनु᳚व्र॒तंव्र॑त॒पादीध्या᳚नाः॒(स्वाहा᳚) || 8 || दैव्या᳚¦होता᳚रा¦प्र॒थ॒मा¦नि¦ऋं॒जे॒¦स॒प्त¦पृ॒क्षासः॑¦स्व॒धया᳚¦म॒द॒न्ति॒ | |
वृ॒षा॒यन्ते᳚म॒हे,अत्या᳚यपू॒र्वीर्वृष्णे᳚चि॒त्राय॑र॒श्मयः॑सुया॒माः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} देव॑होतर्म॒न्द्रत॑रश्चिकि॒त्वान्म॒होदे॒वान्रोद॑सी॒,एहव॑क्षि॒(स्वाहा᳚) || 9 || वृ॒ष॒ऽयन्ते᳚¦म॒हे¦अत्या᳚य¦पू॒र्वीः¦वृष्णे᳚¦चि॒त्राय॑¦र॒श्मयः॑¦सु॒ऽया॒माः | |
पृ॒क्षप्र॑यजोद्रविणःसु॒वाचः॑सुके॒तव॑उ॒षसो᳚रे॒वदू᳚षुः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} उ॒तोचि॑दग्नेमहि॒नापृ॑थि॒व्याःकृ॒तंचि॒देनः॒संम॒हेद॑शस्य॒(स्वाहा᳚) || 10 || पृ॒क्षऽप्र॑यजः¦द्र॒वि॒णः॒¦सु॒ऽवाचः॑¦सु॒ऽके॒तवः॑¦उ॒षसः॑¦रे॒वत्¦ऊ॒षुः॒ | |
इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे(स्वाहा᳚) || 11 || इळा᳚म्¦अ॒ग्ने॒¦पु॒रु॒ऽदंस᳚म्¦स॒निम्¦गोः¦श॒श्व॒त्ऽत॒मम्¦हव॑मानाय¦सा॒ध॒ | |
[8] अंजंतीत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोयूपः षष्ठ्यादिपंचानांयूपाः (अष्टम्याविश्वेदेवावा) अंत्ययाव्रश्चन त्रिष्टुप् तृतीयासप्तम्यावनुष्टुभौ |{मंडल:3, सूक्त:8}{अनुवाक:1, सूक्त:8}{अष्टक:3, अध्याय:1} |
अ॒ञ्जन्ति॒त्वाम॑ध्व॒रेदे᳚व॒यन्तो॒वन॑स्पते॒मधु॑ना॒दैव्ये᳚न |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्} यदू॒र्ध्वस्तिष्ठा॒द्रवि॑णे॒हध॑त्ता॒द्यद्वा॒क्षयो᳚मा॒तुर॒स्या,उ॒पस्थे॒(स्वाहा᳚) || 1 || वर्ग:3 अं॒जन्ति॑¦त्वाम्¦अ॒ध्व॒रे¦दे॒व॒ऽयन्तः॑¦वन॑स्पते¦मधु॑ना¦दैव्ये᳚न | |
समि॑द्धस्य॒श्रय॑माणःपु॒रस्ता॒द्ब्रह्म॑वन्वा॒नो,अ॒जरं᳚सु॒वीर᳚म् |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्} आ॒रे,अ॒स्मदम॑तिं॒बाध॑मान॒उच्छ्र॑यस्वमह॒तेसौभ॑गाय॒(स्वाहा᳚) || 2 || सम्ऽइ᳚द्धस्य¦श्रय॑माणः¦पु॒रस्ता᳚त्¦ब्रह्म॑¦व॒न्वा॒नः¦अ॒जर᳚म्¦सु॒ऽवीर᳚म् | |
उच्छ्र॑यस्ववनस्पते॒वर्ष्म᳚न्पृथि॒व्या,अधि॑ |{गाथिनो विश्वामित्रः | यूपः | अनुष्टुप्} सुमि॑तीमी॒यमा᳚नो॒वर्चो᳚धाय॒ज्ञवा᳚हसे॒(स्वाहा᳚) || 3 || उत्¦श्र॒य॒स्व॒¦व॒न॒स्प॒ते॒¦वर्ष्म॑न्¦पृ॒थि॒व्याः¦अधि॑ | सुऽमि॑ती¦मी॒यमा᳚नः¦वर्चः॑¦धाः॒¦य॒ज्ञऽवा᳚हसे || |
युवा᳚सु॒वासाः॒परि॑वीत॒आगा॒त्सउ॒श्रेया᳚न्भवति॒जाय॑मानः |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्} तंधीरा᳚सःक॒वय॒उन्न॑यन्तिस्वा॒ध्यो॒३॑(ओ॒)मन॑सादेव॒यन्तः॒(स्वाहा᳚) || 4 || युवा᳚¦सु॒ऽवासाः᳚¦परि॑ऽवीतः¦आ¦अ॒गा॒त्¦सः¦ऊँ॒ इति॑¦श्रेया᳚न्¦भ॒व॒ति॒¦जाय॑मानः | |
जा॒तोजा᳚यतेसुदिन॒त्वे,अह्नां᳚सम॒र्यआवि॒दथे॒वर्ध॑मानः |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्} पु॒नन्ति॒धीरा᳚,अ॒पसो᳚मनी॒षादे᳚व॒याविप्र॒उदि॑यर्ति॒वाच॒म्(स्वाहा᳚) || 5 || जा॒तः¦जा॒य॒ते॒¦सु॒दि॒न॒ऽत्वे¦अह्ना᳚म्¦स॒ऽम॒र्ये¦आ¦वि॒दथे᳚¦वर्ध॑मानः | |
यान्वो॒नरो᳚देव॒यन्तो᳚निमि॒म्युर्वन॑स्पते॒स्वधि॑तिर्वात॒तक्ष॑ |{गाथिनो विश्वामित्रः | यूपाः | त्रिष्टुप्} तेदे॒वासः॒स्वर॑वस्तस्थि॒वांसः॑प्र॒जाव॑द॒स्मेदि॑धिषन्तु॒रत्न॒म्(स्वाहा᳚) || 6 || वर्ग:4 यान्¦वः॒¦नरः॑¦दे॒व॒ऽयन्तः॑¦नि॒ऽमि॒म्युः¦वन॑स्पते¦स्वऽधि॑तिः¦वा॒¦त॒तक्ष॑ | |
येवृ॒क्णासो॒,अधि॒क्षमि॒निमि॑तासोय॒तस्रु॑चः |{गाथिनो विश्वामित्रः | यूपाः | अनुष्टुप्} तेनो᳚व्यन्तु॒वार्यं᳚देव॒त्राक्षे᳚त्र॒साध॑सः॒(स्वाहा᳚) || 7 || ये¦वृ॒क्णासः॑¦अधि॑¦क्षमि॑¦निऽमि॑तासः¦य॒तऽस्रु॑चः | ते¦नः॒¦व्य॒न्तु॒¦वार्य᳚म्¦दे॒व॒ऽत्रा¦क्षे॒त्र॒ऽसाध॑सः || |
आ॒दि॒त्यारु॒द्रावस॑वःसुनी॒थाद्यावा॒क्षामा᳚पृथि॒वी,अ॒न्तरि॑क्षम् |{गाथिनो विश्वामित्रः | विश्वेदेवा | त्रिष्टुप्} स॒जोष॑सोय॒ज्ञम॑वन्तुदे॒वा,ऊ॒र्ध्वंकृ᳚ण्वन्त्वध्व॒रस्य॑के॒तुम्(स्वाहा᳚) || 8 || आ॒दि॒त्याः¦रु॒द्राः¦वस॑वः¦सु॒ऽनी॒थाः¦द्यावा॒क्षामा᳚¦पृ॒थि॒वी¦अ॒न्तरि॑क्षम् | |
हं॒सा,इ॑वश्रेणि॒शोयता᳚नाःशु॒क्रावसा᳚नाः॒स्वर॑वोन॒आगुः॑ |{गाथिनो विश्वामित्रः | यूपाः | त्रिष्टुप्} उ॒न्नी॒यमा᳚नाःक॒विभिः॑पु॒रस्ता᳚द्दे॒वादे॒वाना॒मपि॑यन्ति॒पाथः॒(स्वाहा᳚) || 9 || हं॒साःऽइ᳚व¦श्रे॒णि॒ऽशः¦यता᳚नाः¦शु॒क्रा¦वसा᳚नाः¦स्वर॑वः¦नः॒¦आ¦अ॒गुः॒ | |
शृङ्गा᳚णी॒वेच्छृ॒ङ्गिणां॒संद॑दृश्रेच॒षाल॑वन्तः॒स्वर॑वःपृथि॒व्याम् |{गाथिनो विश्वामित्रः | यूपाः | त्रिष्टुप्} वा॒घद्भि᳚र्वाविह॒वेश्रोष॑माणा,अ॒स्माँ,अ॑वन्तुपृत॒नाज्ये᳚षु॒(स्वाहा᳚) || 10 || शृङ्गा᳚णिऽइव¦इत्¦शृ॒ङ्गिणा᳚म्¦सम्¦द॒दृ॒श्रे॒¦च॒षाल॑ऽवन्तः¦स्वर॑वः¦पृ॒थि॒व्याम् | |
वन॑स्पतेश॒तव᳚ल्शो॒विरो᳚हस॒हस्र॑वल्शा॒विव॒यंरु॑हेम |{गाथिनो विश्वामित्रः | व्रश्चनः | त्रिष्टुप्} यंत्वाम॒यंस्वधि॑ति॒स्तेज॑मानःप्रणि॒नाय॑मह॒तेसौभ॑गाय॒(स्वाहा᳚) || 11 || वन॑स्पते¦श॒तऽव॑ल्शः¦वि¦रो॒ह॒¦स॒हस्र॑ऽवल्शाः¦वि¦व॒यम्¦रु॒हे॒म॒ | |
[9] सखायइति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्बृहत्यंत्यात्रिष्टुप् |{मंडल:3, सूक्त:9}{अनुवाक:1, सूक्त:9}{अष्टक:3, अध्याय:1} |
सखा᳚यस्त्वाववृमहेदे॒वंमर्ता᳚सऊ॒तये᳚ |{गाथिनो विश्वामित्रः | अग्निः | बृहती} अ॒पांनपा᳚तंसु॒भगं᳚सु॒दीदि॑तिंसु॒प्रतू᳚र्तिमने॒हस॒म्(स्वाहा᳚) || 1 || वर्ग:5 सखा᳚यः¦त्वा॒¦व॒वृ॒म॒हे॒¦दे॒वम्¦मर्ता᳚सः¦ऊ॒तये᳚ | |
काय॑मानोव॒नात्वंयन्मा॒तॄरज॑गन्न॒पः |{गाथिनो विश्वामित्रः | अग्निः | बृहती} नतत्ते᳚,अग्नेप्र॒मृषे᳚नि॒वर्त॑नं॒यद्दू॒रेसन्नि॒हाभ॑वः॒(स्वाहा᳚) || 2 || काय॑मानः¦व॒ना¦त्वम्¦यत्¦मा॒तॄः¦अज॑गन्¦अ॒पः | |
अति॑तृ॒ष्टंव॑वक्षि॒थाथै॒वसु॒मना᳚,असि |{गाथिनो विश्वामित्रः | अग्निः | बृहती} प्रप्रा॒न्येयन्ति॒पर्य॒न्यआ᳚सते॒येषां᳚स॒ख्ये,असि॑श्रि॒तः(स्वाहा᳚) || 3 || अति॑¦तृ॒ष्टम्¦व॒व॒क्षि॒थ॒¦अथ॑¦ए॒व¦सु॒ऽमनाः᳚¦अ॒सि॒ | |
ई॒यि॒वांस॒मति॒स्रिधः॒शश्व॑ती॒रति॑स॒श्चतः॑ |{गाथिनो विश्वामित्रः | अग्निः | बृहती} अन्वी᳚मविन्दन्निचि॒रासो᳚,अ॒द्रुहो॒ऽप्सुसिं॒हमि॑वश्रि॒तम्(स्वाहा᳚) || 4 || ई॒यि॒ऽवांस᳚म्¦अति॑¦स्रिधः॑¦शश्व॑तीः¦अति॑¦स॒श्चतः॑ | |
स॒सृ॒वांस॑मिव॒त्मना॒ग्निमि॒त्थाति॒रोहि॑तम् |{गाथिनो विश्वामित्रः | अग्निः | बृहती} ऐनं᳚नयन्मात॒रिश्वा᳚परा॒वतो᳚दे॒वेभ्यो᳚मथि॒तंपरि॒(स्वाहा᳚) || 5 || स॒सृ॒वांस᳚म्ऽइव¦त्मना᳚¦अ॒ग्निम्¦इ॒त्था¦ति॒रःऽहि॑तम् | |
तंत्वा॒मर्ता᳚,अगृभ्णतदे॒वेभ्यो᳚हव्यवाहन |{गाथिनो विश्वामित्रः | अग्निः | बृहती} विश्वा॒न्यद्य॒ज्ञाँ,अ॑भि॒पासि॑मानुष॒तव॒क्रत्वा᳚यविष्ठ्य॒(स्वाहा᳚) || 6 || वर्ग:6 तम्¦त्वा॒¦मर्ताः᳚¦अ॒गृ॒भ्ण॒त॒¦दे॒वेभ्यः॑¦ह॒व्य॒ऽवा॒ह॒न॒ | |
तद्भ॒द्रंतव॑दं॒सना॒पाका᳚यचिच्छदयति |{गाथिनो विश्वामित्रः | अग्निः | बृहती} त्वांयद॑ग्नेप॒शवः॑स॒मास॑ते॒समि॑द्धमपिशर्व॒रे(स्वाहा᳚) || 7 || तत्¦भ॒द्रम्¦तव॑¦दं॒सना᳚¦पाका᳚य¦चि॒त्¦छ॒द॒य॒ति॒ | |
आजु॑होतास्वध्व॒रंशी॒रंपा᳚व॒कशो᳚चिषम् |{गाथिनो विश्वामित्रः | अग्निः | बृहती} आ॒शुंदू॒तम॑जि॒रंप्र॒त्नमीड्यं᳚श्रु॒ष्टीदे॒वंस॑पर्यत॒(स्वाहा᳚) || 8 || आ¦जु॒हो॒त॒¦सु॒।आ॒ध्व॒रम्¦शी॒रम्¦पा॒व॒कऽशो᳚चिषम् | |
त्रीणि॑श॒तात्रीस॒हस्रा᳚ण्य॒ग्निंत्रिं॒शच्च॑दे॒वानव॑चासपर्यन् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} औक्ष॑न्घृ॒तैरस्तृ॑णन्ब॒र्हिर॑स्मा॒,आदिद्धोता᳚रं॒न्य॑सादयन्त॒(स्वाहा᳚) || 9 || त्रीणि॑¦श॒ता¦त्री¦स॒हस्रा᳚णि¦अ॒ग्निम्¦त्रिं॒शत्¦च॒¦दे॒वाः¦नव॑¦च॒¦अ॒स॒प॒र्य॒न् | |
[10] त्वामग्नइतिनवर्चस्यसूक्तस्यगाथिनोविश्वामित्रोग्निरुष्णिक् |{मंडल:3, सूक्त:10}{अनुवाक:1, सूक्त:10}{अष्टक:3, अध्याय:1} |
त्वाम॑ग्नेमनी॒षिणः॑स॒म्राजं᳚चर्षणी॒नाम् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} दे॒वंमर्ता᳚सइन्धते॒सम॑ध्व॒रे(स्वाहा᳚) || 1 || वर्ग:7 त्वाम्¦अ॒ग्ने॒¦म॒नी॒षिणः॑¦स॒म्ऽराज᳚म्¦च॒र्ष॒णी॒नाम् | दे॒वम्¦मर्ता᳚सः¦इ॒न्ध॒ते॒¦सम्¦अ॒ध्व॒रे || |
त्वांय॒ज्ञेष्वृ॒त्विज॒मग्ने॒होता᳚रमीळते |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} गो॒पा,ऋ॒तस्य॑दीदिहि॒स्वेदमे॒(स्वाहा᳚) || 2 || त्वाम्¦य॒ज्ञेषु॑¦ऋ॒त्विज᳚म्¦अग्ने᳚¦होता᳚रम्¦ई॒ळ॒ते॒ | गो॒पाः¦ऋ॒तस्य॑¦दी॒दि॒हि॒¦स्वे¦दमे᳚ || |
सघा॒यस्ते॒ददा᳚शतिस॒मिधा᳚जा॒तवे᳚दसे |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} सो,अ॑ग्नेधत्तेसु॒वीर्यं॒सपु॑ष्यति॒(स्वाहा᳚) || 3 || सः¦घ॒¦यः¦ते॒¦ददा᳚शति¦स॒म्ऽइधा᳚¦जा॒तऽवे᳚दसे | सः¦अ॒ग्ने॒¦ध॒त्ते॒¦सु॒ऽवीर्य᳚म्¦सः¦पु॒ष्य॒ति॒ || |
सके॒तुर॑ध्व॒राणा᳚म॒ग्निर्दे॒वेभि॒राग॑मत् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} अ॒ञ्जा॒नःस॒प्तहोतृ॑भिर्ह॒विष्म॑ते॒(स्वाहा᳚) || 4 || सः¦के॒तुः¦अ॒ध्व॒राणा᳚म्¦अ॒ग्निः¦दे॒वेभिः॑¦आ¦ग॒म॒त् | अं॒जा॒नः¦स॒प्त¦होतृ॑ऽभिः¦ह॒विष्म॑ते || |
प्रहोत्रे᳚पू॒र्व्यंवचो॒ऽग्नये᳚भरताबृ॒हत् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} वि॒पांज्योतीं᳚षि॒बिभ्र॑ते॒नवे॒धसे॒(स्वाहा᳚) || 5 || प्र¦होत्रे᳚¦पू॒र्व्यम्¦वचः॑¦अ॒ग्नये᳚¦भ॒र॒त॒¦बृ॒हत् | वि॒पाम्¦ज्योतीं᳚षि¦बिभ्र॑ते¦न¦वे॒धसे᳚ || |
अ॒ग्निंव॑र्धन्तुनो॒गिरो॒यतो॒जाय॑तउ॒क्थ्यः॑ |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} म॒हेवाजा᳚य॒द्रवि॑णायदर्श॒तः(स्वाहा᳚) || 6 || वर्ग:8 अ॒ग्निम्¦व॒र्ध॒न्तु॒¦नः॒¦गिरः॑¦यतः॑¦जाय॑ते¦उ॒क्थ्यः॑ | म॒हे¦वाजा᳚य¦द्रवि॑णाय¦द॒र्श॒तः || |
अग्ने॒यजि॑ष्ठो,अध्व॒रेदे॒वान्दे᳚वय॒तेय॑ज |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} होता᳚म॒न्द्रोविरा᳚ज॒स्यति॒स्रिधः॒(स्वाहा᳚) || 7 || अग्ने᳚¦यजि॑ष्ठः¦अ॒ध्व॒रे¦दे॒वान्¦दे॒व॒ऽय॒ते¦य॒ज॒ | होता᳚¦म॒न्द्रः¦वि¦रा॒ज॒सि॒¦अति॑¦स्रिधः॑ || |
सनः॑पावकदीदिहिद्यु॒मद॒स्मेसु॒वीर्य᳚म् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} भवा᳚स्तो॒तृभ्यो॒,अन्त॑मःस्व॒स्तये॒(स्वाहा᳚) || 8 || सः¦नः॒¦पा॒व॒क॒¦दी॒दि॒हि॒¦द्यु॒ऽमत्¦अ॒स्मे इति॑¦सु॒ऽवीर्य᳚म् | भव॑¦स्तो॒तृऽभ्यः॑¦अन्त॑मः¦स्व॒स्तये᳚ || |
तंत्वा॒विप्रा᳚विप॒न्यवो᳚जागृ॒वांसः॒समि᳚न्धते |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} ह॒व्य॒वाह॒मम॑र्त्यंसहो॒वृध॒म्(स्वाहा᳚) || 9 || तम्¦त्वा॒¦विप्राः᳚¦वि॒प॒न्यवः॑¦जा॒गृ॒ऽवांसः॑¦सम्¦इ॒न्ध॒ते॒ | ह॒व्य॒ऽवाह᳚म्¦अम॑र्त्यम्¦स॒हः॒ऽवृध᳚म् || |
[11] अग्निर्होतेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्गायत्री |{मंडल:3, सूक्त:11}{अनुवाक:1, सूक्त:11}{अष्टक:3, अध्याय:1} |
अ॒ग्निर्होता᳚पु॒रोहि॑तोऽध्व॒रस्य॒विच॑र्षणिः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} सवे᳚दय॒ज्ञमा᳚नु॒षक्(स्वाहा᳚) || 1 || वर्ग:9 अ॒ग्निः¦होता᳚¦पु॒रःऽहि॑तः¦अ॒ध्व॒रस्य॑¦विऽच॑र्षणिः | सः¦वे॒द॒¦य॒ज्ञम्¦आ॒नु॒षक् || |
सह᳚व्य॒वाळम॑र्त्यउ॒शिग्दू॒तश्चनो᳚हितः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अ॒ग्निर्धि॒यासमृ᳚ण्वति॒(स्वाहा᳚) || 2 || सः¦ह॒व्य॒ऽवाट्¦अम॑र्त्यः¦उ॒शिक्¦दू॒तः¦चनः॑ऽहितः | अ॒ग्निः¦धि॒या¦सम्¦ऋ॒ण्व॒ति॒ || |
अ॒ग्निर्धि॒यासचे᳚ततिके॒तुर्य॒ज्ञस्य॑पू॒र्व्यः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अर्थं॒ह्य॑स्यत॒रणि॒(स्वाहा᳚) || 3 || अ॒ग्निः¦धि॒या¦सः¦चे॒त॒ति॒¦के॒तुः¦य॒ज्ञस्य॑¦पू॒र्व्यः | अर्थ᳚म्¦हि¦अ॒स्य॒¦त॒रणि॑ || |
अ॒ग्निंसू॒नुंसन॑श्रुतं॒सह॑सोजा॒तवे᳚दसम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} वह्निं᳚दे॒वा,अ॑कृण्वत॒(स्वाहा᳚) || 4 || अ॒ग्निम्¦सू॒नुम्¦सन॑ऽश्रुतम्¦सह॑सः¦जा॒तऽवे᳚दसम् | वह्नि᳚म्¦दे॒वाः¦अ॒कृ॒ण्व॒त॒ || |
अदा᳚भ्यःपुरए॒तावि॒शाम॒ग्निर्मानु॑षीणाम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} तूर्णी॒रथः॒सदा॒नवः॒(स्वाहा᳚) || 5 || अदा᳚भ्यः¦पु॒रः॒ऽए॒ता¦वि॒शाम्¦अ॒ग्निः¦मानु॑षीणाम् | तूर्णिः॑¦रथः॑¦सदा᳚¦नवः॑ || |
सा॒ह्वान्विश्वा᳚,अभि॒युजः॒क्रतु॑र्दे॒वाना॒ममृ॑क्तः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अ॒ग्निस्तु॒विश्र॑वस्तमः॒(स्वाहा᳚) || 6 || वर्ग:10 स॒ह्वान्¦विश्वाः᳚¦अ॒भि॒ऽयुजः॑¦क्रतुः॑¦दे॒वाना᳚म्¦अमृ॑क्तः | अ॒ग्निः¦तु॒विश्र॑वःऽतमः || |
अ॒भिप्रयां᳚सि॒वाह॑सादा॒श्वाँ,अ॑श्नोति॒मर्त्यः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} क्षयं᳚पाव॒कशो᳚चिषः॒(स्वाहा᳚) || 7 || अ॒भि¦प्रयां᳚सि¦वाह॑सा¦दा॒श्वान्¦अ॒श्नो॒ति॒¦मर्त्यः॑ | क्षय᳚म्¦पा॒व॒कऽशो᳚चिषः || |
परि॒विश्वा᳚नि॒सुधि॑ता॒ऽग्नेर॑श्याम॒मन्म॑भिः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} विप्रा᳚सोजा॒तवे᳚दसः॒(स्वाहा᳚) || 8 || परि॑¦विश्वा᳚नि¦सुऽधि॑ता¦अ॒ग्नेः¦अ॒श्या॒म॒¦मन्म॑ऽभिः | विप्रा᳚सः¦जा॒तऽवे᳚दसः || |
अग्ने॒विश्वा᳚नि॒वार्या॒वाजे᳚षुसनिषामहे |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} त्वेदे॒वास॒एरि॑रे॒(स्वाहा᳚) || 9 || अग्ने᳚¦विश्वा᳚नि¦वार्या᳚¦वाजे᳚षु¦स॒नि॒षा॒म॒हे॒ | त्वे इति॑¦दे॒वासः॑¦आ¦ई॒रि॒रे॒ || |
[12] इंद्राग्नीइतिनवर्चस्य सूक्तस्य गाथिनो विश्वामित्रइंद्राग्नीगायत्री |{मंडल:3, सूक्त:12}{अनुवाक:1, सूक्त:12}{अष्टक:3, अध्याय:1} |
इन्द्रा᳚ग्नी॒,आग॑तंसु॒तंगी॒र्भिर्नभो॒वरे᳚ण्यम् |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} अ॒स्यपा᳚तंधि॒येषि॒ता(स्वाहा᳚) || 1 || वर्ग:11 इन्द्रा᳚ग्नी॒ इति॑¦आ¦ग॒त॒म्¦सु॒तम्¦गीः॒ऽभिः¦नभः॑¦वरे᳚ण्यम् | अ॒स्य¦पा॒त॒म्¦धि॒या¦इ॒षि॒ता || |
इन्द्रा᳚ग्नीजरि॒तुःसचा᳚य॒ज्ञोजि॑गाति॒चेत॑नः |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} अ॒यापा᳚तमि॒मंसु॒तम्(स्वाहा᳚) || 2 || इन्द्रा᳚ग्नी॒ इति॑¦ज॒रि॒तुः¦सचा᳚¦य॒ज्ञः¦जि॒गा॒ति॒¦चेत॑नः | अ॒या¦पा॒त॒म्¦इ॒मम्¦सु॒तम् || |
इन्द्र॑म॒ग्निंक॑वि॒च्छदा᳚य॒ज्ञस्य॑जू॒त्यावृ॑णे |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} तासोम॑स्ये॒हतृ᳚म्पता॒म्(स्वाहा᳚) || 3 || इन्द्र᳚म्¦अ॒ग्निम्¦क॒वि॒ऽछदा᳚¦य॒ज्ञस्य॑¦जू॒त्या¦वृ॒णे॒ | ता¦सोम॑स्य¦इ॒ह¦तृ॒म्प॒ता॒म् || |
तो॒शावृ॑त्र॒हणा᳚हुवेस॒जित्वा॒नाप॑राजिता |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} इ॒न्द्रा॒ग्नीवा᳚ज॒सात॑मा॒(स्वाहा᳚) || 4 || तो॒शा¦वृ॒त्र॒ऽहना᳚¦हु॒वे॒¦स॒ऽजित्वा᳚ना¦अप॑राऽजिता | इ॒न्द्रा॒ग्नी इति॑¦वा॒ज॒ऽसात॑मा || |
प्रवा᳚मर्चन्त्यु॒क्थिनो᳚नीथा॒विदो᳚जरि॒तारः॑ |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} इन्द्रा᳚ग्नी॒,इष॒आवृ॑णे॒(स्वाहा᳚) || 5 || प्र¦वा॒म्¦अ॒र्च॒न्ति॒¦उ॒क्थिनः॑¦नी॒थ॒ऽविदः॑¦ज॒रि॒तारः॑ | इन्द्रा᳚ग्नी॒ इति॑¦इषः॑¦आ¦वृ॒णे॒ || |
इन्द्रा᳚ग्नीनव॒तिंपुरो᳚दा॒सप॑त्नीरधूनुतम् |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} सा॒कमेके᳚न॒कर्म॑णा॒(स्वाहा᳚) || 6 || वर्ग:12 इन्द्रा᳚ग्नी॒ इति॑¦न॒व॒तिम्¦पुरः॑¦दा॒सऽप॑त्नीः¦अ॒धू॒नु॒त॒म् | सा॒कम्¦एके᳚न¦कर्म॑णा || |
इन्द्रा᳚ग्नी॒,अप॑स॒स्पर्युप॒प्रय᳚न्तिधी॒तयः॑ |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} ऋ॒तस्य॑प॒थ्या॒३॑(आ॒)अनु॒(स्वाहा᳚) || 7 || इन्द्रा᳚ग्नी॒ इति॑¦अप॑सः¦परि॑¦उप॑¦प्र¦य॒न्ति॒¦धी॒तयः॑ | ऋ॒तस्य॑¦प॒थ्याः᳚¦अनु॑ || |
इन्द्रा᳚ग्नीतवि॒षाणि॑वांस॒धस्था᳚नि॒प्रयां᳚सिच |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} यु॒वोर॒प्तूर्यं᳚हि॒तम्(स्वाहा᳚) || 8 || इन्द्रा᳚ग्नी॒ इति॑¦त॒वि॒षाणि॑¦वा॒म्¦स॒धऽस्था᳚नि¦प्रयां᳚सि¦च॒ | यु॒वोः¦अ॒प्ऽतूर्य᳚म्¦हि॒तम् || |
इन्द्रा᳚ग्नीरोच॒नादि॒वःपरि॒वाजे᳚षुभूषथः |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} तद्वां᳚चेति॒प्रवी॒र्य॑१(अं॒)(स्वाहा᳚) || 9 || इन्द्रा᳚ग्नी॒ इति॑¦रो॒च॒ना¦दि॒वः¦परि॑¦वाजे᳚षु¦भू॒ष॒थः॒ | तत्¦वा॒म्¦चे॒ति॒¦प्र¦वी॒र्य᳚म् || |
[13] प्रवोदेवायेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभोग्निरनुष्टुप् |{मंडल:3, सूक्त:13}{अनुवाक:2, सूक्त:1}{अष्टक:3, अध्याय:1} |
प्रवो᳚दे॒वाया॒ग्नये॒बर्हि॑ष्ठमर्चास्मै |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} गम॑द्दे॒वेभि॒रासनो॒यजि॑ष्ठोब॒र्हिरास॑द॒त्(स्वाहा᳚) || 1 || वर्ग:13 प्र¦वः॒¦दे॒वाय॑¦अ॒ग्नये᳚¦बर्हि॑ष्ठम्¦अ॒र्च॒¦अ॒स्मै॒ | गम॑त्¦दे॒वेभिः॑¦आ¦सः¦नः॒¦यजि॑ष्ठः¦ब॒र्हिः¦आ¦स॒द॒त् || |
ऋ॒तावा॒यस्य॒रोद॑सी॒दक्षं॒सच᳚न्तऊ॒तयः॑ |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} ह॒विष्म᳚न्त॒स्तमी᳚ळते॒तंस॑नि॒ष्यन्तोऽव॑से॒(स्वाहा᳚) || 2 || ऋ॒तऽवा᳚¦यस्य॑¦रोद॑सी॒ इति॑¦दक्ष᳚म्¦सच᳚न्ते¦ऊ॒तयः॑ | ह॒विष्म᳚न्तः¦तम्¦ई॒ळ॒ते॒¦तम्¦स॒नि॒ष्यन्तः॑¦अव॑से || |
सय॒न्ताविप्र॑एषां॒सय॒ज्ञाना॒मथा॒हिषः |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} अ॒ग्निंतंवो᳚दुवस्यत॒दाता॒योवनि॑ताम॒घम्(स्वाहा᳚) || 3 || सः¦य॒न्ता¦विप्रः॑¦ए॒षा॒म्¦सः¦य॒ज्ञाना᳚म्¦अथ॑¦हि¦सः | अ॒ग्निम्¦तम्¦वः॒¦दु॒व॒स्य॒त॒¦दाता᳚¦यः¦वनि॑ता¦म॒घम् || |
सनः॒शर्मा᳚णिवी॒तये॒ऽग्निर्य॑च्छतु॒शंत॑मा |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} यतो᳚नःप्रु॒ष्णव॒द्वसु॑दि॒विक्षि॒तिभ्यो᳚,अ॒प्स्वा(स्वाहा᳚) || 4 || सः¦नः॒¦शर्मा᳚णि¦वी॒तये᳚¦अ॒ग्निः¦य॒च्छ॒तु॒¦शम्ऽत॑मा | यतः॑¦नः॒¦प्रु॒ष्णव॑त्¦वसु॑¦दि॒वि¦क्षि॒तिऽभ्यः॑¦अ॒प्ऽसु¦आ || |
दी॒दि॒वांस॒मपू᳚र्व्यं॒वस्वी᳚भिरस्यधी॒तिभिः॑ |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} ऋक्वा᳚णो,अ॒ग्निमि᳚न्धते॒होता᳚रंवि॒श्पतिं᳚वि॒शाम्(स्वाहा᳚) || 5 || दी॒दि॒ऽवांस᳚म्¦अपू᳚र्व्यम्¦वस्वी᳚भिः¦अ॒स्य॒¦धी॒तिऽभिः॑ | ऋक्वा᳚णः¦अ॒ग्निम्¦इ॒न्ध॒ते॒¦होता᳚रम्¦वि॒श्पति᳚म्¦वि॒शाम् || |
उ॒तनो॒ब्रह्म᳚न्नविषउ॒क्थेषु॑देव॒हूत॑मः |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} शंनः॑शोचाम॒रुद्वृ॒धोऽग्ने᳚सहस्र॒सात॑मः॒(स्वाहा᳚) || 6 || उ॒त¦नः॒¦ब्रह्म॑न्¦अ॒वि॒षः॒¦उ॒क्थेषु॑¦दे॒व॒ऽहूत॑मः | शम्¦नः॒¦शो॒च॒¦म॒रुत्ऽवृ॑धः¦अग्ने᳚¦स॒ह॒स्र॒ऽसात॑मः || |
नूनो᳚रास्वस॒हस्र॑वत्तो॒कव॑त्पुष्टि॒मद्वसु॑ |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} द्यु॒मद॑ग्नेसु॒वीर्यं॒वर्षि॑ष्ठ॒मनु॑पक्षित॒म्(स्वाहा᳚) || 7 || नु¦नः॒¦रा॒स्व॒¦स॒हस्र॑ऽवत्¦तो॒कऽव॑त्¦पु॒ष्टि॒ऽमत्¦वसु॑ | द्यु॒ऽमत्¦अ॒ग्ने॒¦सु॒ऽवीर्य᳚म्¦वर्षि॑ष्ठम्¦अनु॑पऽक्षितम् || |
[14] आहोतेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभोग्निस्त्रिष्टुप् |{मंडल:3, सूक्त:14}{अनुवाक:2, सूक्त:2}{अष्टक:3, अध्याय:1} |
आहोता᳚म॒न्द्रोवि॒दथा᳚न्यस्थात्स॒त्योयज्वा᳚क॒वित॑मः॒सवे॒धाः |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} वि॒द्युद्र॑थः॒सह॑सस्पु॒त्रो,अ॒ग्निःशो॒चिष्के᳚शःपृथि॒व्यांपाजो᳚,अश्रे॒त्(स्वाहा᳚) || 1 || वर्ग:14 आ¦होता᳚¦म॒न्द्रः¦व॒दथा᳚नि¦अ॒स्था॒त्¦स॒त्यः¦यज्वा᳚¦क॒विऽत॑मः¦सः¦वे॒धाः | |
अया᳚मिते॒नम॑उक्तिंजुषस्व॒ऋता᳚व॒स्तुभ्यं॒चेत॑तेसहस्वः |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} वि॒द्वाँ,आव॑क्षिवि॒दुषो॒निष॑त्सि॒मध्य॒आब॒र्हिरू॒तये᳚यजत्र॒(स्वाहा᳚) || 2 || अया᳚मि¦ते॒¦नमः॑।औक्तिम्¦जु॒ष॒स्व॒¦ऋत॑ऽवः¦तुभ्य᳚म्¦चेत॑ते¦स॒ह॒स्वः॒ | |
द्रव॑तांतउ॒षसा᳚वा॒जय᳚न्ती॒,अग्ने॒वात॑स्यप॒थ्या᳚भि॒रच्छ॑ |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} यत्सी᳚म॒ञ्जन्ति॑पू॒र्व्यंह॒विर्भि॒राव॒न्धुरे᳚वतस्थतुर्दुरो॒णे(स्वाहा᳚) || 3 || द्रव॑ताम्¦ते॒¦उ॒षसा᳚¦वा॒जय᳚न्ती॒ इति॑¦अग्ने᳚¦वात॑स्य¦प॒थ्या᳚भिः¦अच्छ॑ | |
मि॒त्रश्च॒तुभ्यं॒वरु॑णःसह॒स्वोऽग्ने॒विश्वे᳚म॒रुतः॑सु॒म्नम॑र्चन् |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} यच्छो॒चिषा᳚सहसस्पुत्र॒तिष्ठा᳚,अ॒भिक्षि॒तीःप्र॒थय॒न्त्सूर्यो॒नॄ॒न्(स्वाहा᳚) || 4 || मि॒त्रः¦च॒¦तुभ्य᳚म्¦वरु॑णः¦स॒ह॒स्वः॒¦अग्ने᳚¦विश्वे᳚¦म॒रुतः॑¦सु॒म्नम्¦अ॒र्च॒न् | |
व॒यंते᳚,अ॒द्यर॑रि॒माहिकाम॑मुत्ता॒नह॑स्ता॒नम॑सोप॒सद्य॑ |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} यजि॑ष्ठेन॒मन॑सायक्षिदे॒वानस्रे᳚धता॒मन्म॑ना॒विप्रो᳚,अग्ने॒(स्वाहा᳚) || 5 || व॒यम्¦ते॒¦अ॒द्य¦र॒रि॒म॒¦हि¦काम᳚म्¦उ॒त्ता॒नऽह॑स्ताः¦नम॑सा¦उ॒प॒ऽसद्य॑ | |
त्वद्धिपु॑त्रसहसो॒विपू॒र्वीर्दे॒वस्य॒यन्त्यू॒तयो॒विवाजाः᳚ |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} त्वंदे᳚हिसह॒स्रिणं᳚र॒यिंनो᳚ऽद्रो॒घेण॒वच॑सास॒त्यम॑ग्ने॒(स्वाहा᳚) || 6 || त्वत्¦हि¦पु॒त्र॒¦स॒ह॒सः॒¦वि¦पू॒र्वीः¦दे॒वस्य॑¦यन्ति॑¦ऊ॒तयः॑¦वि¦वाजाः᳚ | |
तुभ्यं᳚दक्षकविक्रतो॒यानी॒मादेव॒मर्ता᳚सो,अध्व॒रे,अक᳚र्म |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} त्वंविश्व॑स्यसु॒रथ॑स्यबोधि॒सर्वं॒तद॑ग्ने,अमृतस्वदे॒ह(स्वाहा᳚) || 7 || तुभ्य᳚म्¦द॒क्ष॒¦क॒वि॒क्र॒तो॒ इति॑ कविऽक्रतो¦यानि॑¦इ॒मा¦देव॑¦मर्ता᳚सः¦अ॒ध्व॒रे¦अक᳚र्म | |
[15] विपाजसेतिसप्तर्चस्य सूक्तस्य कात्य उत्कीलोग्निस्त्रिष्टुप् |{मंडल:3, सूक्त:15}{अनुवाक:2, सूक्त:3}{अष्टक:3, अध्याय:1} |
विपाज॑सापृ॒थुना॒शोशु॑चानो॒बाध॑स्वद्वि॒षोर॒क्षसो॒,अमी᳚वाः |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} सु॒शर्म॑णोबृह॒तःशर्म॑णिस्याम॒ग्नेर॒हंसु॒हव॑स्य॒प्रणी᳚तौ॒(स्वाहा᳚) || 1 || वर्ग:15 वि¦पाज॑सा¦पृ॒थुना᳚¦शोशु॑चानः¦बाध॑स्व¦द्वि॒षः¦र॒क्षसः॑¦अमी᳚वाः | |
त्वंनो᳚,अ॒स्या,उ॒षसो॒व्यु॑ष्टौ॒त्वंसूर॒उदि॑तेबोधिगो॒पाः |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} जन्मे᳚व॒नित्यं॒तन॑यंजुषस्व॒स्तोमं᳚मे,अग्नेत॒न्वा᳚सुजात॒(स्वाहा᳚) || 2 || त्वम्¦नः॒¦अ॒स्याः¦उ॒षसः॑¦वि।औ᳚ष्टौ¦त्वम्¦सूरे᳚¦उत्ऽइ᳚ते¦बो॒धि॒¦गो॒पाः | |
त्वंनृ॒चक्षा᳚वृष॒भानु॑पू॒र्वीःकृ॒ष्णास्व॑ग्ने,अरु॒षोविभा᳚हि |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} वसो॒नेषि॑च॒पर्षि॒चात्यंहः॑कृ॒धीनो᳚रा॒यउ॒शिजो᳚यविष्ठ॒(स्वाहा᳚) || 3 || त्वम्¦नृ॒ऽचक्षाः᳚¦वृ॒ष॒भ॒¦अनु॑¦पू॒र्वीः¦कृ॒ष्णासु॑¦अ॒ग्ने॒¦अ॒रु॒षः¦वि¦भा॒हि॒ | |
अषा᳚ळ्हो,अग्नेवृष॒भोदि॑दीहि॒पुरो॒विश्वाः॒सौभ॑गासंजिगी॒वान् |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} य॒ज्ञस्य॑ने॒ताप्र॑थ॒मस्य॑पा॒योर्जात॑वेदोबृह॒तःसु॑प्रणीते॒(स्वाहा᳚) || 4 || अषा᳚ळ्हः¦अ॒ग्ने॒¦वृ॒ष॒भः¦दि॒दी॒हि॒¦पुरः॑¦विश्वाः᳚¦सौभ॑गा¦स॒म्ऽजि॒गी॒वान् | |
अच्छि॑द्रा॒शर्म॑जरितःपु॒रूणि॑दे॒वाँ,अच्छा॒दीद्या᳚नःसुमे॒धाः |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} रथो॒नसस्नि॑र॒भिव॑क्षि॒वाज॒मग्ने॒त्वंरोद॑सीनःसु॒मेके॒(स्वाहा᳚) || 5 || अच्छि॑द्रा¦शर्म॑¦ज॒रि॒त॒रिति॑¦पु॒रूणि॑¦दे॒वान्¦अच्छ॑¦दीद्या᳚नः¦सु॒ऽमे॒धाः | |
प्रपी᳚पयवृषभ॒जिन्व॒वाजा॒नग्ने॒त्वंरोद॑सीनःसु॒दोघे᳚ |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} दे॒वेभि॑र्देवसु॒रुचा᳚रुचा॒नोमानो॒मर्त॑स्यदुर्म॒तिःपरि॑ष्ठा॒त्(स्वाहा᳚) || 6 || प्र¦पी॒प॒य॒¦वृ॒ष॒भ॒¦जिन्व॑¦वाजा᳚न्¦अग्ने᳚¦त्वम्¦रोद॑सी॒ इति॑¦नः॒¦सु॒दोघे॒ इति॑ सु॒ऽदोघे᳚ | |
इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे(स्वाहा᳚) || 7 || इळा᳚म्¦अ॒ग्ने॒¦पु॒रु॒ऽदंस᳚म्¦स॒निम्¦गोः¦श॒श्व॒त्ऽत॒मम्¦हव॑मानाय¦सा॒ध॒ | |
[16] अयमग्निरितिषडृचस्य सूक्तस्य कात्य उत्कीलोग्निः आद्यातृतीयापंचम्योबृहत्यः द्वितीयाचतुर्थीषष्ठ्यः सतोबृहत्यः{मंडल:3, सूक्त:16}{अनुवाक:2, सूक्त:4}{अष्टक:3, अध्याय:1} |
अ॒यम॒ग्निःसु॒वीर्य॒स्येशे᳚म॒हःसौभ॑गस्य |{कात्य उत्कीलः | अग्निः | बृहत्यः} रा॒यई᳚शेस्वप॒त्यस्य॒गोम॑त॒ईशे᳚वृत्र॒हथा᳚ना॒म्(स्वाहा᳚) || 1 || वर्ग:16 अ॒यम्¦अ॒ग्निः¦सु॒ऽवीर्य॑स्य¦ईशे᳚¦म॒हः¦सौभ॑गस्य | |
इ॒मंन॑रोमरुतःसश्चता॒वृधं॒यस्मि॒न्रायः॒शेवृ॑धासः |{कात्य उत्कीलः | अग्निः | सतोबृहत्यः} अ॒भियेसन्ति॒पृत॑नासुदू॒ढ्यो᳚वि॒श्वाहा॒शत्रु॑माद॒भुः(स्वाहा᳚) || 2 || इ॒मम्¦न॒रः॒¦म॒रु॒तः॒¦स॒श्च॒त॒¦वृध᳚म्¦यस्मि॑न्¦रायः॑¦शेऽवृ॑धासः | |
सत्वंनो᳚रा॒यःशि॑शीहि॒मीढ्वो᳚,अग्नेसु॒वीर्य॑स्य |{कात्य उत्कीलः | अग्निः | बृहत्यः} तुवि॑द्युम्न॒वर्षि॑ष्ठस्यप्र॒जाव॑तोऽनमी॒वस्य॑शु॒ष्मिणः॒(स्वाहा᳚) || 3 || सः¦त्वम्¦नः॒¦रा॒यः¦शि॒शी॒हि॒¦मीढ्वः॑¦अ॒ग्ने॒¦सु॒ऽवीर्य॑स्य | |
चक्रि॒र्योविश्वा॒भुव॑ना॒भिसा᳚स॒हिश्चक्रि॑र्दे॒वेष्वादुवः॑ |{कात्य उत्कीलः | अग्निः | सतोबृहत्यः} आदे॒वेषु॒यत॑त॒आसु॒वीर्य॒आशंस॑उ॒तनृ॒णाम्(स्वाहा᳚) || 4 || चक्रिः॑¦यः¦विश्वा᳚¦भुव॑ना¦अ॒भि¦स॒स॒हिः¦चक्रिः॑¦दे॒वेषु॑¦आ¦दुवः॑ | |
मानो᳚,अ॒ग्नेऽम॑तये॒मावीर॑तायैरीरधः |{कात्य उत्कीलः | अग्निः | बृहत्यः} मागोता᳚यैसहसस्पुत्र॒मानि॒देऽप॒द्वेषां॒स्याकृ॑धि॒(स्वाहा᳚) || 5 || मा¦नः॒¦अ॒ग्ने॒¦अम॑तये¦मा¦अ॒वीर॑तायै¦री॒र॒धः॒ | |
श॒ग्धिवाज॑स्यसुभगप्र॒जाव॒तोऽग्ने᳚बृह॒तो,अ॑ध्व॒रे |{कात्य उत्कीलः | अग्निः | सतोबृहत्यः} संरा॒याभूय॑सासृजमयो॒भुना॒तुवि॑द्युम्न॒यश॑स्वता॒(स्वाहा᳚) || 6 || श॒ग्धि¦वाज॑स्य¦सु॒ऽभ॒ग॒¦प्र॒जाऽव॑तः¦अग्ने᳚¦बृ॒ह॒तः¦अ॒ध्व॒रे | |
[17] समिध्यमानइतिपंचर्चस्य सूक्तस्य वैश्वामित्रः कतोग्निस्त्रिष्टुप् |{मंडल:3, सूक्त:17}{अनुवाक:2, सूक्त:5}{अष्टक:3, अध्याय:1} |
स॒मि॒ध्यमा᳚नःप्रथ॒मानु॒धर्मा॒सम॒क्तुभि॑रज्यतेवि॒श्ववा᳚रः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} शो॒चिष्के᳚शोघृ॒तनि᳚र्णिक्पाव॒कःसु॑य॒ज्ञो,अ॒ग्निर्य॒जथा᳚यदे॒वान्(स्वाहा᳚) || 1 || वर्ग:17 स॒म्ऽइ॒ध्यमा᳚नः¦प्र॒थ॒मा¦अनु॑¦धर्म॑¦सम्¦अ॒क्तुऽभिः॑¦अ॒ज्य॒ते॒¦वि॒श्वऽवा᳚रः | |
यथाय॑जोहो॒त्रम॑ग्नेपृथि॒व्यायथा᳚दि॒वोजा᳚तवेदश्चिकि॒त्वान् |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} ए॒वानेन॑ह॒विषा᳚यक्षिदे॒वान्म॑नु॒ष्वद्य॒ज्ञंप्रति॑रे॒मम॒द्य(स्वाहा᳚) || 2 || यथा᳚¦अय॑जः¦हो॒त्रम्¦अ॒ग्ने॒¦पृ॒थि॒व्याः¦यथा᳚¦दि॒वः¦जा॒त॒ऽवे॒दः॒¦चि॒कि॒त्वान् | |
त्रीण्यायूं᳚षि॒तव॑जातवेदस्ति॒स्रआ॒जानी᳚रु॒षस॑स्ते,अग्ने |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} ताभि॑र्दे॒वाना॒मवो᳚यक्षिवि॒द्वानथा᳚भव॒यज॑मानाय॒शंयोः(स्वाहा᳚) || 3 || त्रीणि॑¦आयूं᳚षि¦तव॑¦जा॒त॒ऽवे॒दः॒¦ति॒स्रः¦आ॒ऽजानीः᳚¦उ॒षसः॑¦ते॒¦अ॒ग्ने॒ | |
अ॒ग्निंसु॑दी॒तिंसु॒दृशं᳚गृ॒णन्तो᳚नम॒स्याम॒स्त्वेड्यं᳚जातवेदः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} त्वांदू॒तम॑र॒तिंह᳚व्य॒वाहं᳚दे॒वा,अ॑कृण्वन्न॒मृत॑स्य॒नाभि॒म्(स्वाहा᳚) || 4 || अ॒ग्निम्¦सु॒ऽदी॒तिम्¦सु॒ऽदृश᳚म्¦गृ॒णन्तः॑¦न॒म॒स्यामः॑¦त्वा॒¦ईड्य᳚म्¦जा॒त॒ऽवे॒दः॒ | |
यस्त्वद्धोता॒पूर्वो᳚,अग्ने॒यजी᳚यान्द्वि॒ताच॒सत्ता᳚स्व॒धया᳚चश॒म्भुः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} तस्यानु॒धर्म॒प्रय॑जाचिकि॒त्वोथा᳚नोधा,अध्व॒रंदे॒ववी᳚तौ॒(स्वाहा᳚) || 5 || यः¦त्वत्¦होता᳚¦पूर्वः॑¦अ॒ग्ने॒¦यजी᳚यान्¦द्वि॒ता¦च॒¦सत्ता᳚¦स्व॒धया᳚¦च॒¦श॒म्ऽभुः | |
[18] भवानइतिपंचर्चस्य सूक्तस्य वैश्वामित्रः कतोग्निस्त्रिष्टुप् |{मंडल:3, सूक्त:18}{अनुवाक:2, सूक्त:6}{अष्टक:3, अध्याय:1} |
भवा᳚नो,अग्नेसु॒मना॒,उपे᳚तौ॒सखे᳚व॒सख्ये᳚पि॒तरे᳚वसा॒धुः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} पु॒रु॒द्रुहो॒हिक्षि॒तयो॒जना᳚नां॒प्रति॑प्रती॒चीर्द॑हता॒दरा᳚तीः॒(स्वाहा᳚) || 1 || वर्ग:18 भव॑¦नः॒¦अ॒ग्ने॒¦सु॒ऽमनाः᳚¦उप॑ऽइतौ¦सखा᳚ऽइव¦सख्ये᳚¦पि॒तरा᳚ऽइव¦सा॒धुः | |
तपो॒ष्व॑ग्ने॒,अन्त॑राँ,अ॒मित्रा॒न्तपा॒शंस॒मर॑रुषः॒पर॑स्य |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} तपो᳚वसोचिकिता॒नो,अ॒चित्ता॒न्विते᳚तिष्ठन्ताम॒जरा᳚,अ॒यासः॒(स्वाहा᳚) || 2 || तपो॒ इति॑¦सु¦अ॒ग्ने॒¦अन्त॑रान्¦अ॒मित्रा᳚न्¦तप॑¦शंस᳚म्¦अर॑रुषः¦पर॑स्य | |
इ॒ध्मेना᳚ग्नइ॒च्छमा᳚नोघृ॒तेन॑जु॒होमि॑ह॒व्यंतर॑से॒बला᳚य |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} याव॒दीशे॒ब्रह्म॑णा॒वन्द॑मानइ॒मांधियं᳚शत॒सेया᳚यदे॒वीम्(स्वाहा᳚) || 3 || इ॒ध्मेन॑¦अ॒ग्ने॒¦इ॒च्छमा᳚नः¦घृ॒तेन॑¦जु॒होमि॑¦ह॒व्यम्¦तर॑से¦बला᳚य | |
उच्छो॒चिषा᳚सहसस्पुत्रस्तु॒तोबृ॒हद्वयः॑शशमा॒नेषु॑धेहि |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} रे॒वद॑ग्नेवि॒श्वामि॑त्रेषु॒शंयोर्म᳚र्मृ॒ज्माते᳚त॒न्व१॑(अं॒)भूरि॒कृत्वः॒(स्वाहा᳚) || 4 || उत्¦शो॒चिषा᳚¦स॒ह॒सः॒¦पु॒त्र॒¦स्तु॒तः¦बृ॒हत्¦वयः॑¦श॒श॒मा॒नेषु॑¦धे॒हि॒ | |
कृ॒धिरत्नं᳚सुसनित॒र्धना᳚नां॒सघेद॑ग्नेभवसि॒यत्समि॑द्धः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} स्तो॒तुर्दु॑रो॒णेसु॒भग॑स्यरे॒वत्सृ॒प्राक॒रस्ना᳚दधिषे॒वपूं᳚षि॒(स्वाहा᳚) || 5 || कृ॒धि¦रत्न᳚म्¦सु॒ऽस॒नि॒तः॒¦धना᳚नाम्¦सः¦घ॒¦इत्¦अ॒ग्ने॒¦भ॒व॒सि॒¦यत्¦सम्ऽइ᳚द्धः | |
[19] अग्निंहोतारमिति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निस्त्रिष्टुप् |{मंडल:3, सूक्त:19}{अनुवाक:2, सूक्त:7}{अष्टक:3, अध्याय:1} |
अ॒ग्निंहोता᳚रं॒प्रवृ॑णेमि॒येधे॒गृत्सं᳚क॒विंवि॑श्व॒विद॒ममू᳚रम् |{कौशिको गाथी | अग्निः | त्रिष्टुप्} सनो᳚यक्षद्दे॒वता᳚ता॒यजी᳚यान्रा॒येवाजा᳚यवनतेम॒घानि॒(स्वाहा᳚) || 1 || वर्ग:19 अ॒ग्निम्¦होता᳚रम्¦प्र¦वृ॒णे॒¦मि॒येधे᳚¦गृत्स᳚म्¦क॒विम्¦वि॒श्व॒ऽविद᳚म्¦अमू᳚रम् | |
प्रते᳚,अग्नेह॒विष्म॑तीमिय॒र्म्यच्छा᳚सुद्यु॒म्नांरा॒तिनीं᳚घृ॒ताची᳚म् |{कौशिको गाथी | अग्निः | त्रिष्टुप्} प्र॒द॒क्षि॒णिद्दे॒वता᳚तिमुरा॒णःसंरा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रे॒त्(स्वाहा᳚) || 2 || प्र¦ते॒¦अ॒ग्ने॒¦ह॒विष्म॑तीम्¦इ॒य॒र्मि॒¦अच्छ॑¦सु॒ऽद्यु॒म्नाम्¦रा॒तिनी᳚म्¦घृ॒ताची᳚म् | |
सतेजी᳚यसा॒मन॑सा॒त्वोत॑उ॒तशि॑क्षस्वप॒त्यस्य॑शि॒क्षोः |{कौशिको गाथी | अग्निः | त्रिष्टुप्} अग्ने᳚रा॒योनृत॑मस्य॒प्रभू᳚तौभू॒याम॑तेसुष्टु॒तय॑श्च॒वस्वः॒(स्वाहा᳚) || 3 || सः¦तेजी᳚यसा¦मन॑सा¦त्वाऽऊ᳚तः¦उ॒त¦शि॒क्ष॒¦सु॒।आ॒प॒त्यस्य॑¦शि॒क्षोः | |
भूरी᳚णि॒हित्वेद॑धि॒रे,अनी॒काग्ने᳚दे॒वस्य॒यज्य॑वो॒जना᳚सः |{कौशिको गाथी | अग्निः | त्रिष्टुप्} सआव॑हदे॒वता᳚तिंयविष्ठ॒शर्धो॒यद॒द्यदि॒व्यंयजा᳚सि॒(स्वाहा᳚) || 4 || भूरी᳚णि¦हि¦त्वे इति॑¦द॒धि॒रे¦अनी᳚का¦अग्ने᳚¦दे॒वस्य॑¦यज्य॑वः¦जना᳚सः | |
यत्त्वा॒होता᳚रम॒नज᳚न्मि॒येधे᳚निषा॒दय᳚न्तोय॒जथा᳚यदे॒वाः |{कौशिको गाथी | अग्निः | त्रिष्टुप्} सत्वंनो᳚,अग्नेऽवि॒तेहबो॒ध्यधि॒श्रवां᳚सिधेहिनस्त॒नूषु॒(स्वाहा᳚) || 5 || यत्¦त्वा॒¦होता᳚रम्¦अ॒नज॑न्¦मि॒येधे᳚¦नि॒ऽसा॒दय᳚न्तः¦य॒जथा᳚य¦दे॒वाः | |
[20] अग्निमुषसमिति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निः आद्यांत्ययोर्विश्वेदेवास्त्रिष्टुप् |{मंडल:3, सूक्त:20}{अनुवाक:2, सूक्त:8}{अष्टक:3, अध्याय:1} |
अ॒ग्निमु॒षस॑म॒श्विना᳚दधि॒क्रांव्यु॑ष्टिषुहवते॒वह्नि॑रु॒क्थैः |{कौशिको गाथी | विश्वदेवाः | त्रिष्टुप्} सु॒ज्योति॑षोनःशृण्वन्तुदे॒वाःस॒जोष॑सो,अध्व॒रंवा᳚वशा॒नाः(स्वाहा᳚) || 1 || वर्ग:20 अ॒ग्निम्¦उ॒षस᳚म्¦अ॒श्विना᳚¦द॒धि॒ऽक्राम्¦वि।औ᳚ष्टिषु¦ह॒व॒ते॒¦वह्निः॑¦उ॒क्थैः | |
अग्ने॒त्रीते॒वाजि॑ना॒त्रीष॒धस्था᳚ति॒स्रस्ते᳚जि॒ह्वा,ऋ॑तजातपू॒र्वीः |{कौशिको गाथी | अग्निः | त्रिष्टुप्} ति॒स्रउ॑तेत॒न्वो᳚दे॒ववा᳚ता॒स्ताभि᳚र्नःपाहि॒गिरो॒,अप्र॑युच्छ॒न्(स्वाहा᳚) || 2 || अग्ने᳚¦त्री¦ते॒¦वाजि॑ना¦त्री¦स॒धऽस्था᳚¦ति॒स्रः¦ते॒¦जि॒ह्वाः¦ऋ॒त॒ऽजा॒त॒¦पू॒र्वीः | |
अग्ने॒भूरी᳚णि॒तव॑जातवेदो॒देव॑स्वधावो॒ऽमृत॑स्य॒नाम॑ |{कौशिको गाथी | अग्निः | त्रिष्टुप्} याश्च॑मा॒यामा॒यिनां᳚विश्वमिन्व॒त्वेपू॒र्वीःसं᳚द॒धुःपृ॑ष्टबन्धो॒(स्वाहा᳚) || 3 || अग्ने᳚¦भूरी᳚णि¦तव॑¦जा॒त॒ऽवे॒दः॒¦देव॑¦स्व॒धा॒ऽवः॒¦अ॒मृत॑स्य¦नाम॑ | |
अ॒ग्निर्ने॒ताभग॑इवक्षिती॒नांदैवी᳚नांदे॒वऋ॑तु॒पा,ऋ॒तावा᳚ |{कौशिको गाथी | अग्निः | त्रिष्टुप्} सवृ॑त्र॒हास॒नयो᳚वि॒श्ववे᳚दाः॒पर्ष॒द्विश्वाति॑दुरि॒तागृ॒णन्त॒म्(स्वाहा᳚) || 4 || अ॒ग्निः¦ने॒ता¦भगः॑ऽइव¦क्षि॒ती॒नाम्¦दैवी᳚नाम्¦दे॒वः¦ऋ॒तु॒ऽपाः¦ऋ॒तऽवा᳚ | |
द॒धि॒क्राम॒ग्निमु॒षसं᳚चदे॒वींबृह॒स्पतिं᳚सवि॒तारं᳚चदे॒वम् |{कौशिको गाथी | विश्वदेवाः | त्रिष्टुप्} अ॒श्विना᳚मि॒त्रावरु॑णा॒भगं᳚च॒वसू᳚न्रु॒द्राँ,आ᳚दि॒त्याँ,इ॒हहु॑वे॒(स्वाहा᳚) || 5 || द॒धि॒ऽक्राम्¦अ॒ग्निम्¦उ॒षस᳚म्¦च॒¦दे॒वीम्¦बृह॒स्पति᳚म्¦स॒वि॒तार᳚म्¦च॒¦दे॒वम् | |
[21] इमंनइति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निः आद्यात्रिष्टुप् द्वितीयातृतीयेनुष्टुभौ चतुर्थीविराड्रूपांत्यासतोबृहती |{मंडल:3, सूक्त:21}{अनुवाक:2, सूक्त:9}{अष्टक:3, अध्याय:1} |
इ॒मंनो᳚य॒ज्ञम॒मृते᳚षुधेही॒माह॒व्याजा᳚तवेदोजुषस्व |{कौशिको गाथी | अग्निः | त्रिष्टुप्} स्तो॒काना᳚मग्ने॒मेद॑सोघृ॒तस्य॒होतः॒प्राशा᳚नप्रथ॒मोनि॒षद्य॒(स्वाहा᳚) || 1 || वर्ग:21 इ॒मम्¦नः॒¦य॒ज्ञम्¦अ॒मृते᳚षु¦धे॒हि॒¦ई॒मा¦ह॒व्या¦जा॒त॒ऽवे॒दः॒¦जु॒ष॒स्व॒ | |
घृ॒तव᳚न्तःपावकतेस्तो॒काःश्चो᳚तन्ति॒मेद॑सः |{कौशिको गाथी | अग्निः | अनुष्टुप्} स्वध᳚र्मन्दे॒ववी᳚तये॒श्रेष्ठं᳚नोधेहि॒वार्य॒म्(स्वाहा᳚) || 2 || घृ॒तऽव᳚न्तः¦पा॒व॒क॒¦ते॒¦स्तो॒काः¦श्चो॒त॒न्ति॒¦मेद॑सः | स्वऽध᳚र्मन्¦दे॒वऽवी᳚तये¦श्रेष्ठ᳚म्¦नः॒¦धे॒हि॒¦वार्य᳚म् || |
तुभ्यं᳚स्तो॒काघृ॑त॒श्चुतोऽग्ने॒विप्रा᳚यसन्त्य |{कौशिको गाथी | अग्निः | अनुष्टुप्} ऋषिः॒श्रेष्ठः॒समि॑ध्यसेय॒ज्ञस्य॑प्रावि॒ताभ॑व॒(स्वाहा᳚) || 3 || तुभ्य᳚म्¦स्तो॒काः¦घृ॒त॒ऽश्चुतः॑¦अग्ने᳚¦विप्रा᳚य¦स॒न्त्य॒ | ऋषिः॑¦श्रेष्ठः॑¦सम्¦इ॒ध्य॒से॒¦य॒ज्ञस्य॑¦प्र॒।आ॒वि॒ता¦भ॒व॒ || |
तुभ्यं᳚श्चोतन्त्यध्रिगोशचीवःस्तो॒कासो᳚,अग्ने॒मेद॑सोघृ॒तस्य॑ |{कौशिको गाथी | अग्निः | विराड्रूपा} क॒वि॒श॒स्तोबृ॑ह॒ताभा॒नुनागा᳚ह॒व्याजु॑षस्वमेधिर॒(स्वाहा᳚) || 4 || तुभ्य᳚म्¦श्चो॒त॒न्ति॒¦अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो¦श॒ची॒ऽवः॒¦स्तो॒कासः॑¦अ॒ग्ने॒¦मेद॑सः¦घृ॒तस्य॑ | |
ओजि॑ष्ठंतेमध्य॒तोमेद॒उद्भृ॑तं॒प्रते᳚व॒यंद॑दामहे |{कौशिको गाथी | अग्निः | सतोबृहती} श्चोत᳚न्तितेवसोस्तो॒का,अधि॑त्व॒चिप्रति॒तान्दे᳚व॒शोवि॑हि॒(स्वाहा᳚) || 5 || ओजि॑ष्ठम्¦ते॒¦म॒ध्य॒तः¦मेदः॑¦उत्ऽभृ॑तम्¦प्र¦ते॒¦व॒यम्¦द॒दा॒म॒हे॒ | |
[22] अयंसइति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निरूपांत्यायाः पुरीष्याग्नयस्त्रिष्टुप् चतुर्थ्यनुष्टुप् |{मंडल:3, सूक्त:22}{अनुवाक:2, सूक्त:10}{अष्टक:3, अध्याय:1} |
अ॒यंसो,अ॒ग्निर्यस्मि॒न्त्सोम॒मिन्द्रः॑सु॒तंद॒धेज॒ठरे᳚वावशा॒नः |{कौशिको गाथी | अग्निः | त्रिष्टुप्} स॒ह॒स्रिणं॒वाज॒मत्यं॒नसप्तिं᳚सस॒वान्त्सन्त्स्तू᳚यसेजातवेदः॒(स्वाहा᳚) || 1 || वर्ग:22 अ॒यम्¦सः¦अ॒ग्निः¦यस्मि॑न्¦सोम᳚म्¦इन्द्रः॑¦सु॒तम्¦द॒धे¦ज॒ठरे᳚¦वा॒व॒शा॒नः | |
अग्ने॒यत्ते᳚दि॒विवर्चः॑पृथि॒व्यांयदोष॑धीष्व॒प्स्वाय॑जत्र |{कौशिको गाथी | अग्निः | त्रिष्टुप्} येना॒न्तरि॑क्षमु॒र्वा᳚त॒तन्थ॑त्वे॒षःसभा॒नुर᳚र्ण॒वोनृ॒चक्षाः᳚(स्वाहा᳚) || 2 || अग्ने᳚¦यत्¦ते॒¦दि॒वि¦वर्चः॑¦पृ॒थि॒व्याम्¦यत्¦ओष॑धीषु¦अ॒प्ऽसु¦आ¦य॒ज॒त्र॒ | |
अग्ने᳚दि॒वो,अर्ण॒मच्छा᳚जिगा॒स्यच्छा᳚दे॒वाँ,ऊ᳚चिषे॒धिष्ण्या॒ये |{कौशिको गाथी | अग्निः | त्रिष्टुप्} यारो᳚च॒नेप॒रस्ता॒त्सूर्य॑स्य॒याश्चा॒वस्ता᳚दुप॒तिष्ठ᳚न्त॒आपः॒(स्वाहा᳚) || 3 || अग्ने᳚¦दि॒वः¦अर्ण᳚म्¦अच्छ॑¦जि॒गा॒सि॒¦अच्छ॑¦दे॒वान्¦ऊ॒चि॒षे॒¦धिष्ण्याः᳚¦ये | |
पु॒री॒ष्या᳚सो,अ॒ग्नयः॑प्राव॒णेभिः॑स॒जोष॑सः |{कौशिको गाथी | पुरीष्या अग्नयः | अनुष्टुप्} जु॒षन्तां᳚य॒ज्ञम॒द्रुहो᳚ऽनमी॒वा,इषो᳚म॒हीः(स्वाहा᳚) || 4 || पु॒री॒ष्या᳚सः¦अ॒ग्नयः॑¦प्र॒व॒णेभिः॑¦स॒ऽजोष॑सः | जु॒षन्ता᳚म्¦य॒ज्ञम्¦अ॒द्रुहः॑¦अ॒न॒मी॒वाः¦इषः॑¦म॒हीः || |
इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |{कौशिको गाथी | अग्निः | त्रिष्टुप्} स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे(स्वाहा᳚) || 5 || इळा᳚म्¦अ॒ग्ने॒¦पु॒रु॒ऽदंस᳚म्¦स॒निम्¦गोः¦श॒श्व॒त्ऽत॒मम्¦हव॑मानाय¦सा॒ध॒ | |
[23] निर्मथितइति पंचर्चस्य सूक्तस्य भारतौदेवश्रवोदेववातावग्निस्त्रिष्टुप् तृतीयासतोबृहती |{मंडल:3, सूक्त:23}{अनुवाक:2, सूक्त:11}{अष्टक:3, अध्याय:1} |
निर्म॑थितः॒सुधि॑त॒आस॒धस्थे॒युवा᳚क॒विर॑ध्व॒रस्य॑प्रणे॒ता |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्} जूर्य॑त्स्व॒ग्निर॒जरो॒वने॒ष्वत्रा᳚दधे,अ॒मृतं᳚जा॒तवे᳚दाः॒(स्वाहा᳚) || 1 || वर्ग:23 निःऽम॑थितः¦सुऽधि॑तः¦आ¦स॒धऽस्थे᳚¦युवा᳚¦क॒विः¦अ॒ध्व॒रस्य॑¦प्र॒ऽने॒ता | |
अम᳚न्थिष्टां॒भार॑तारे॒वद॒ग्निंदे॒वश्र॑वादे॒ववा᳚तःसु॒दक्ष᳚म् |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्} अग्ने॒विप॑श्यबृह॒ताभिरा॒येषांनो᳚ने॒ताभ॑वता॒दनु॒द्यून्(स्वाहा᳚) || 2 || अम᳚न्थिष्टाम्¦भार॑ता¦रे॒वत्¦अ॒ग्निम्¦दे॒वऽश्र॑वाः¦दे॒वऽवा᳚तः¦सु॒ऽदक्ष᳚म् | |
दश॒क्षिपः॑पू॒र्व्यंसी᳚मजीजन॒न्त्सुजा᳚तंमा॒तृषु॑प्रि॒यम् |{भारतौ देवश्रवोदेववातौ | अग्निः | सतोबृहती} अ॒ग्निंस्तु॑हिदैववा॒तंदे᳚वश्रवो॒योजना᳚ना॒मस॑द्व॒शी(स्वाहा᳚) || 3 || दश॑¦क्षिपः॑¦पू॒र्व्यम्¦सी॒म्¦अ॒जी॒ज॒न॒न्¦सुऽजा᳚तम्¦मा॒तृषु॑¦प्रि॒यम् | |
नित्वा᳚दधे॒वर॒आपृ॑थि॒व्या,इळा᳚यास्प॒देसु॑दिन॒त्वे,अह्ना᳚म् |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्} दृ॒षद्व॑त्यां॒मानु॑षआप॒यायां॒सर॑स्वत्यांरे॒वद॑ग्नेदिदीहि॒(स्वाहा᳚) || 4 || नि¦त्वा॒¦द॒धे॒¦वरे᳚¦आ¦पृ॒थि॒व्याः¦इळा᳚याः¦प॒दे¦सु॒दि॒न॒ऽत्वे¦अह्ना᳚म् | |
इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्} स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे(स्वाहा᳚) || 5 || इळा᳚म्¦अ॒ग्ने॒¦पु॒रु॒ऽदंस᳚म्¦स॒निम्¦गोः¦श॒श्व॒त्ऽत॒मम्¦हव॑मानाय¦सा॒ध॒ | |
[24] अग्नेसहस्वेति पंचर्चस्य सूक्तस्य गाथिनो विश्वामित्रोग्निर्गायत्री आद्यानुष्टुप् |{मंडल:3, सूक्त:24}{अनुवाक:2, सूक्त:12}{अष्टक:3, अध्याय:1} |
अग्ने॒सह॑स्व॒पृत॑ना,अ॒भिमा᳚ती॒रपा᳚स्य |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्} दु॒ष्टर॒स्तर॒न्नरा᳚ती॒र्वर्चो᳚धाय॒ज्ञवा᳚हसे॒(स्वाहा᳚) || 1 || वर्ग:24 अग्ने᳚¦सह॑स्व¦पृत॑नाः¦अ॒भिऽमा᳚तीः¦अप॑¦अ॒स्य॒ | दु॒स्तरः॑¦तर॑न्¦अरा᳚तीः¦वर्चः॑¦धाः॒¦य॒ज्ञऽवा᳚हसे || |
अग्न॑इ॒ळासमि॑ध्यसेवी॒तिहो᳚त्रो॒,अम॑र्त्यः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} जु॒षस्व॒सूनो᳚,अध्व॒रम्(स्वाहा᳚) || 2 || अग्ने᳚¦इ॒ळा¦सम्¦इ॒ध्य॒से॒¦वी॒तिऽहो᳚त्रः¦अम॑र्त्यः | जु॒षस्व॑¦सु¦नः॒¦अ॒ध्व॒रम् || |
अग्ने᳚द्यु॒म्नेन॑जागृवे॒सह॑सःसूनवाहुत |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} एदंब॒र्हिःस॑दो॒मम॒(स्वाहा᳚) || 3 || अग्ने᳚¦द्यु॒म्नेन॑¦जा॒गृ॒वे॒¦सह॑सः¦सू॒नो॒ इति॑¦आ॒ऽहु॒त॒ | आ¦इ॒दम्¦ब॒र्हिः¦स॒दः॒¦मम॑ || |
अग्ने॒विश्वे᳚भिर॒ग्निभि॑र्दे॒वेभि᳚र्महया॒गिरः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} य॒ज्ञेषु॒यउ॑चा॒यवः॒(स्वाहा᳚) || 4 || अग्ने᳚¦विश्वे᳚भिः¦अ॒ग्निऽभिः॑¦दे॒वेभिः॑¦म॒ह॒य॒¦गिरः॑ | य॒ज्ञेषु॑¦ये¦ऊँ॒ इति॑¦चा॒यवः॑ || |
अग्ने॒दादा॒शुषे᳚र॒यिंवी॒रव᳚न्तं॒परी᳚णसम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} शि॒शी॒हिनः॑सूनु॒मतः॒(स्वाहा᳚) || 5 || अग्ने᳚¦दाः¦दा॒शुषे᳚¦र॒यिम्¦वी॒रऽव᳚न्तम्¦परी᳚णसम् | शि॒शी॒हि¦नः॒¦सू॒नु॒ऽमतः॑ || |
[25] अग्नेदिवइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निश्चतुर्थ्या इंद्राग्नीविराट् |{मंडल:3, सूक्त:25}{अनुवाक:2, सूक्त:13}{अष्टक:3, अध्याय:1} |
अग्ने᳚दि॒वःसू॒नुर॑सि॒प्रचे᳚ता॒स्तना᳚पृथि॒व्या,उ॒तवि॒श्ववे᳚दाः |{गाथिनो विश्वामित्रः | अग्निः | विराट्} ऋध॑ग्दे॒वाँ,इ॒हय॑जाचिकित्वः॒(स्वाहा᳚) || 1 || वर्ग:25 अग्ने᳚¦दि॒वः¦सू॒नुः¦अ॒सि॒¦प्रऽचे᳚ताः¦तना᳚¦पृ॒थि॒व्याः¦उ॒त¦वि॒श्वऽवे᳚दाः | ऋध॑क्¦दे॒वान्¦इ॒ह¦य॒ज॒¦चि॒कि॒त्वः॒ || |
अ॒ग्निःस॑नोतिवी॒र्या᳚णिवि॒द्वान्त्स॒नोति॒वाज॑म॒मृता᳚य॒भूष॑न् |{गाथिनो विश्वामित्रः | अग्निः | विराट्} सनो᳚दे॒वाँ,एहव॑हापुरुक्षो॒(स्वाहा᳚) || 2 || अ॒ग्निः¦स॒नो॒ति॒¦वी॒र्या᳚णि¦वि॒द्वान्¦स॒नोति॑¦वाज᳚म्¦अ॒मृता᳚य¦भूष॑न् | सः¦नः॒¦दे॒वान्¦आ¦इ॒ह¦व॒ह॒¦पु॒रु॒क्षो॒ इति॑ पुरुऽक्षो || |
अ॒ग्निर्द्यावा᳚पृथि॒वीवि॒श्वज᳚न्ये॒,आभा᳚तिदे॒वी,अ॒मृते॒,अमू᳚रः |{गाथिनो विश्वामित्रः | अग्निः | विराट्} क्षय॒न्वाजैः᳚पुरुश्च॒न्द्रोनमो᳚भिः॒(स्वाहा᳚) || 3 || अ॒ग्निः¦द्यावा᳚पृथि॒वी इति॑¦वि॒श्वज᳚न्ये॒ इति॑ वि॒श्वऽज᳚न्ये¦आ¦भा॒ति॒¦दे॒वी इति॑¦अ॒मृते॒ इति॑¦अमू᳚रः | क्षय॑न्¦वाजैः᳚¦पु॒रु॒ऽच॒न्द्रः¦नमः॑ऽभिः || |
अग्न॒इन्द्र॑श्चदा॒शुषो᳚दुरो॒णेसु॒ताव॑तोय॒ज्ञमि॒होप॑यातम् |{गाथिनो विश्वामित्रः | अग्नीन्द्रौ | विराट्} अम॑र्धन्तासोम॒पेया᳚यदेवा॒(स्वाहा᳚) || 4 || अग्ने᳚¦इन्द्रः॑¦च॒¦दा॒शुषः॑¦दु॒रो॒णे¦सु॒तऽव॑तः¦य॒ज्ञम्¦इ॒ह¦उप॑¦या॒त॒म् | अम॑र्धन्ता¦सो॒म॒ऽपेया᳚य¦दे॒वा॒ || |
अग्ने᳚,अ॒पांसमि॑ध्यसेदुरो॒णेनित्यः॑सूनोसहसोजातवेदः |{गाथिनो विश्वामित्रः | अग्निः | विराट्} स॒धस्था᳚निम॒हय॑मानऊ॒ती(स्वाहा᳚) || 5 || अग्ने᳚¦अ॒पाम्¦सम्¦इ॒ध्य॒से॒¦दु॒रो॒णे¦नित्यः॑¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦जा॒त॒ऽवे॒दः॒ | स॒धऽस्था᳚नि¦म॒हय॑मानः¦ऊ॒ती || |
[26] वैश्वानरमिति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्रः आद्यानांतिसृणां वैश्वानरोग्निश्चतुर्थ्यादितिसृणांमरुतः सप्तम्यष्टम्योरात्मा अंत्याया उपाध्यायः आध्याःषट्जगत्योंत्यास्तिस्रस्त्रिष्टुभः |{मंडल:3, सूक्त:26}{अनुवाक:2, सूक्त:14}{अष्टक:3, अध्याय:1} |
वै॒श्वा॒न॒रंमन॑सा॒ग्निंनि॒चाय्या᳚ह॒विष्म᳚न्तो,अनुष॒त्यंस्व॒र्विद᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोग्निः | जगती} सु॒दानुं᳚दे॒वंर॑थि॒रंव॑सू॒यवो᳚गी॒र्भीर॒ण्वंकु॑शि॒कासो᳚हवामहे॒(स्वाहा᳚) || 1 || वर्ग:26 वै॒श्वा॒न॒रम्¦मन॑सा¦अ॒ग्निम्¦नि॒ऽचाय्य॑¦ह॒विष्म᳚न्तः¦अ॒नु॒ऽस॒त्यम्¦स्वः॒ऽविद᳚म् | |
तंशु॒भ्रम॒ग्निमव॑सेहवामहेवैश्वान॒रंमा᳚त॒रिश्वा᳚नमु॒क्थ्य᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोग्निः | जगती} बृह॒स्पतिं॒मनु॑षोदे॒वता᳚तये॒विप्रं॒श्रोता᳚र॒मति॑थिंरघु॒ष्यद॒म्(स्वाहा᳚) || 2 || तम्¦शु॒भ्रम्¦अ॒ग्निम्¦अव॑से¦ह॒वा॒म॒हे॒¦वै॒श्वा॒न॒रम्¦मा॒त॒रिश्वा᳚नम्¦उ॒क्थ्य᳚म् | |
अश्वो॒नक्रन्द॒ञ्जनि॑भिः॒समि॑ध्यतेवैश्वान॒रःकु॑शि॒केभि᳚र्यु॒गेयु॑गे |{गाथिनो विश्वामित्रः | वैश्वानरोग्निः | जगती} सनो᳚,अ॒ग्निःसु॒वीर्यं॒स्वश्व्यं॒दधा᳚तु॒रत्न॑म॒मृते᳚षु॒जागृ॑विः॒(स्वाहा᳚) || 3 || अश्वः॑¦न¦क्रन्द॑न्¦जनि॑ऽभिः¦सम्¦इ॒ध्य॒ते॒¦वै॒श्वा॒न॒रः¦कु॒शि॒केभिः॑¦यु॒गेऽयु॑गे | |
प्रय᳚न्तु॒वाजा॒स्तवि॑षीभिर॒ग्नयः॑शु॒भेसम्मि॑श्लाः॒पृष॑तीरयुक्षत |{गाथिनो विश्वामित्रः | मरुतः | जगती} बृ॒ह॒दुक्षो᳚म॒रुतो᳚वि॒श्ववे᳚दसः॒प्रवे᳚पयन्ति॒पर्व॑ताँ॒,अदा᳚भ्याः॒(स्वाहा᳚) || 4 || प्र¦य॒न्तु॒¦वाजाः᳚¦तवि॑षीभिः¦अ॒ग्नयः॑¦शु॒भे¦सम्ऽमि॑श्लाः¦पृष॑तीः¦अ॒यु॒क्ष॒त॒ | |
अ॒ग्नि॒श्रियो᳚म॒रुतो᳚वि॒श्वकृ॑ष्टय॒आत्वे॒षमु॒ग्रमव॑ईमहेव॒यम् |{गाथिनो विश्वामित्रः | मरुतः | जगती} तेस्वा॒निनो᳚रु॒द्रिया᳚व॒र्षनि᳚र्णिजःसिं॒हानहे॒षक्र॑तवःसु॒दान॑वः॒(स्वाहा᳚) || 5 || अ॒ग्नि॒ऽश्रियः॑¦म॒रुतः॑¦वि॒श्वऽकृ॑ष्टयः¦आ¦त्वे॒षम्¦उ॒ग्रम्¦अवः॑¦ई॒म॒हे॒¦व॒यम् | |
व्रातं᳚व्रातंग॒णंग॑णंसुश॒स्तिभि॑र॒ग्नेर्भामं᳚म॒रुता॒मोज॑ईमहे |{गाथिनो विश्वामित्रः | मरुतः | जगती} पृष॑दश्वासो,अनव॒भ्ररा᳚धसो॒गन्ता᳚रोय॒ज्ञंवि॒दथे᳚षु॒धीराः᳚(स्वाहा᳚) || 6 || वर्ग:27 व्रात᳚म्ऽव्रातम्¦ग॒णम्ऽग॑णम्¦सु॒श॒स्तिऽभिः॑¦अ॒ग्नेः¦भाम᳚म्¦म॒रुता᳚म्¦ओजः॑¦ई॒म॒हे॒ | |
अ॒ग्निर॑स्मि॒जन्म॑नाजा॒तवे᳚दाघृ॒तंमे॒चक्षु॑र॒मृतं᳚मआ॒सन् |{गाथिनो विश्वामित्रः | आत्मा (अग्निर्वा) | त्रिष्टुप्} अ॒र्कस्त्रि॒धातू॒रज॑सोवि॒मानोऽज॑स्रोघ॒र्मोह॒विर॑स्मि॒नाम॒(स्वाहा᳚) || 7 || अ॒ग्निः¦अ॒स्मि॒¦जन्म॑ना¦जा॒तऽवे᳚दाः¦घृ॒तम्¦मे॒¦चक्षुः॑¦अ॒मृत᳚म्¦मे॒¦आ॒सन् | |
त्रि॒भिःप॒वित्रै॒रपु॑पो॒द्ध्य१॑(अ॒)र्कंहृ॒दाम॒तिंज्योति॒रनु॑प्रजा॒नन् |{गाथिनो विश्वामित्रः | आत्मा (अग्निर्वा) | त्रिष्टुप्} वर्षि॑ष्ठं॒रत्न॑मकृतस्व॒धाभि॒रादिद्द्यावा᳚पृथि॒वीपर्य॑पश्य॒त्(स्वाहा᳚) || 8 || त्रि॒ऽभिः¦प॒वित्रैः᳚¦अपु॑पोत्¦हि¦अ॒र्कम्¦हृ॒दा¦म॒तिम्¦ज्योतिः॑¦अनु॑¦प्र॒ऽजा॒नन् | |
श॒तधा᳚र॒मुत्स॒मक्षी᳚यमाणंविप॒श्चितं᳚पि॒तरं॒वक्त्वा᳚नाम् |{गाथिनो विश्वामित्रः | उपाध्यायः | त्रिष्टुप्} मे॒ळिंमद᳚न्तंपि॒त्रोरु॒पस्थे॒तंरो᳚दसीपिपृतंसत्य॒वाच॒म्(स्वाहा᳚) || 9 || श॒तऽधा᳚रम्¦उत्स᳚म्¦अक्षी᳚यमाणम्¦वि॒पः॒ऽचित᳚म्¦पि॒तर᳚म्¦वक्त्वा᳚नाम् | |
[27] प्रवोवाजाइति पंचदशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निः आद्यायाऋतवोवागायत्री |{मंडल:3, सूक्त:27}{अनुवाक:2, सूक्त:15}{अष्टक:3, अध्याय:1} |
प्रवो॒वाजा᳚,अ॒भिद्य॑वोह॒विष्म᳚न्तोघृ॒ताच्या᳚ |{गाथिनो विश्वामित्रः | ऋतवोऽग्निर्वा | गायत्री} दे॒वाञ्जि॑गातिसुम्न॒युः(स्वाहा᳚) || 1 || वर्ग:28 प्र¦वः॒¦वाजाः᳚¦अ॒भिऽद्य॑वः¦ह॒विष्म᳚न्तः¦घृ॒ताच्या᳚ | दे॒वान्¦जि॒गा॒ति॒¦सु॒म्न॒युः || |
ईळे᳚,अ॒ग्निंवि॑प॒श्चितं᳚गि॒राय॒ज्ञस्य॒साध॑नम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} श्रु॒ष्टी॒वानं᳚धि॒तावा᳚न॒म्(स्वाहा᳚) || 2 || ईळे᳚¦अ॒ग्निम्¦वि॒पः॒ऽचित᳚म्¦गि॒रा¦य॒ज्ञस्य॑¦साध॑नम् | श्रु॒ष्टी॒ऽवान᳚म्¦धि॒तऽवा᳚नम् || |
अग्ने᳚श॒केम॑तेव॒यंयमं᳚दे॒वस्य॑वा॒जिनः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अति॒द्वेषां᳚सितरेम॒(स्वाहा᳚) || 3 || अग्ने᳚¦श॒केम॑¦ते॒¦व॒यम्¦यम᳚म्¦दे॒वस्य॑¦वा॒जिनः॑ | अति॑¦द्वेषां᳚सि¦त॒रे॒म॒ || |
स॒मि॒ध्यमा᳚नो,अध्व॒रे॒३॑(ए॒)ऽग्निःपा᳚व॒कईड्यः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} शो॒चिष्के᳚श॒स्तमी᳚महे॒(स्वाहा᳚) || 4 || स॒म्ऽइ॒ध्यमा᳚नः¦अ॒ध्व॒रे¦अ॒ग्निः¦पा॒व॒कः¦ईड्यः॑ | शो॒चिःऽके᳚शः¦तम्¦ई॒म॒हे॒ || |
पृ॒थु॒पाजा॒,अम॑र्त्योघृ॒तनि᳚र्णि॒क्स्वा᳚हुतः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अ॒ग्निर्य॒ज्ञस्य॑हव्य॒वाट्(स्वाहा᳚) || 5 || पृ॒थु॒ऽपाजाः᳚¦अम॑र्त्यः¦घृ॒तऽनि᳚र्निक्¦सुऽआ᳚हुतः | अ॒ग्निः¦य॒ज्ञस्य॑¦ह॒व्य॒ऽवाट् || |
तंस॒बाधो᳚य॒तस्रु॑चइ॒त्थाधि॒याय॒ज्ञव᳚न्तः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} आच॑क्रुर॒ग्निमू॒तये॒(स्वाहा᳚) || 6 || वर्ग:29 तम्¦स॒ऽबाधः॑¦य॒तऽस्रु॑चः¦इ॒त्था¦धि॒या¦य॒ज्ञऽव᳚न्तः | आ¦च॒क्रुः॒¦अ॒ग्निम्¦ऊ॒तये᳚ || |
होता᳚दे॒वो,अम॑र्त्यःपु॒रस्ता᳚देतिमा॒यया᳚ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} वि॒दथा᳚निप्रचो॒दय॒न्त्(स्वाहा᳚) || 7 || होता᳚¦दे॒वः¦अम॑र्त्यः¦पु॒रस्ता᳚त्¦ए॒ति॒¦मा॒यया᳚ | वि॒दथा᳚नि¦प्र॒ऽचो॒दय॑न् || |
वा॒जीवाजे᳚षुधीयतेऽध्व॒रेषु॒प्रणी᳚यते |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} विप्रो᳚य॒ज्ञस्य॒साध॑नः॒(स्वाहा᳚) || 8 || वा॒जी¦वाजे᳚षु¦धी॒य॒ते॒¦अ॒ध्व॒रेषु॑¦प्र¦नी॒य॒ते॒ | विप्रः॑¦य॒ज्ञस्य॑¦साध॑नः || |
धि॒याच॑क्रे॒वरे᳚ण्योभू॒तानां॒गर्भ॒माद॑धे |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} दक्ष॑स्यपि॒तरं॒तना॒(स्वाहा᳚) || 9 || धि॒या¦च॒क्रे॒¦वरे᳚ण्यः¦भू॒ताना᳚म्¦गर्भ᳚म्¦आ¦द॒धे॒ | दक्ष॑स्य¦पि॒तर᳚म्¦तना᳚ || |
नित्वा᳚दधे॒वरे᳚ण्यं॒दक्ष॑स्ये॒ळास॑हस्कृत |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अग्ने᳚सुदी॒तिमु॒शिज॒म्(स्वाहा᳚) || 10 || नि¦त्वा॒¦द॒धे॒¦वरे᳚ण्यम्¦दक्ष॑स्य¦इ॒ळा¦स॒हः॒ऽकृ॒त॒ | अग्ने᳚¦सु॒ऽदी॒तिम्¦उ॒शिज᳚म् || |
अ॒ग्निंय॒न्तुर॑म॒प्तुर॑मृ॒तस्य॒योगे᳚व॒नुषः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} विप्रा॒वाजैः॒समि᳚न्धते॒(स्वाहा᳚) || 11 || वर्ग:30 अ॒ग्निम्¦य॒न्तुर᳚म्¦अ॒प्ऽतुर᳚म्¦ऋ॒तस्य॑¦योगे᳚¦व॒नुषः॑ | विप्राः᳚¦वाजैः᳚¦सम्¦इ॒न्ध॒ते॒ || |
ऊ॒र्जोनपा᳚तमध्व॒रेदी᳚दि॒वांस॒मुप॒द्यवि॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अ॒ग्निमी᳚ळेक॒विक्र॑तु॒म्(स्वाहा᳚) || 12 || ऊ॒र्जः¦नपा᳚तम्¦अ॒ध्व॒रे¦दी॒दि॒ऽवांस᳚म्¦उप॑¦द्यवि॑ | अ॒ग्निम्¦ई॒ळे॒¦क॒विऽक्र॑तुम् || |
ई॒ळेन्यो᳚नम॒स्य॑स्ति॒रस्तमां᳚सिदर्श॒तः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} सम॒ग्निरि॑ध्यते॒वृषा॒(स्वाहा᳚) || 13 || ई॒ळेन्यः॑¦न॒म॒स्यः॑¦ति॒रः¦तमां᳚सि¦द॒र्श॒तः | सम्¦अ॒ग्निः¦इ॒ध्य॒ते॒¦वृषा᳚ || |
वृषो᳚,अ॒ग्निःसमि॑ध्य॒तेऽश्वो॒नदे᳚व॒वाह॑नः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} तंह॒विष्म᳚न्तईळते॒(स्वाहा᳚) || 14 || वृषो॒ इति॑¦अ॒ग्निः¦सम्¦इ॒ध्य॒ते॒¦अश्वः॑¦न¦दे॒व॒ऽवाह॑नः | तम्¦ह॒विष्म᳚न्तः¦ई॒ळ॒ते॒ || |
वृष॑णंत्वाव॒यंवृ॑ष॒न्वृष॑णः॒समि॑धीमहि |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अग्ने॒दीद्य॑तंबृ॒हत्(स्वाहा᳚) || 15 || वृष॑णम्¦त्वा॒¦व॒यम्¦वृ॒ष॒न्¦वृष॑णः¦सम्¦इ॒धी॒म॒हि॒ | अग्ने᳚¦दीद्य॑तम्¦बृ॒हत् || |
[28] अग्नेजुषस्वेति षडृचस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्गायत्री तृतीयोष्णिक् चतुर्थीत्रिष्टुप् पंचमीजगती |{मंडल:3, सूक्त:28}{अनुवाक:2, सूक्त:16}{अष्टक:3, अध्याय:1} |
अग्ने᳚जु॒षस्व॑नोह॒विःपु॑रो॒ळाशं᳚जातवेदः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} प्रा॒तः॒सा॒वेधि॑यावसो॒(स्वाहा᳚) || 1 || वर्ग:31 अग्ने᳚¦जु॒षस्व॑¦नः॒¦ह॒विः¦पु॒रो॒ळाश᳚म्¦जा॒त॒ऽवे॒दः॒ | प्रा॒तः॒ऽसा॒वे¦धि॒या॒व॒सो॒ इति॑ धियाऽवसो || |
पु॒रो॒ळा,अ॑ग्नेपच॒तस्तुभ्यं᳚वाघा॒परि॑ष्कृतः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} तंजु॑षस्वयविष्ठ्य॒(स्वाहा᳚) || 2 || पु॒रो॒ळाः¦अ॒ग्ने॒¦प॒च॒तः¦तुभ्य᳚म्¦वा॒¦घ॒¦परि॑ऽकृतः | तम्¦जु॒ष॒स्व॒¦य॒वि॒ष्ठ्य॒ || |
अग्ने᳚वी॒हिपु॑रो॒ळाश॒माहु॑तंति॒रो,अ᳚ह्न्यम् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} सह॑सःसू॒नुर॑स्यध्व॒रेहि॒तः(स्वाहा᳚) || 3 || अग्ने᳚¦वी॒हि¦पु॒रो॒ळाश᳚म्¦आऽहु॑तम्¦ति॒रः।आ᳚ह्न्यम् | सह॑सः¦सू॒नुः¦अ॒सि॒¦अ॒ध्व॒रे¦हि॒तः || |
माध्यं᳚दिने॒सव॑नेजातवेदःपुरो॒ळाश॑मि॒हक॑वेजुषस्व |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अग्ने᳚य॒ह्वस्य॒तव॑भाग॒धेयं॒नप्रमि॑नन्तिवि॒दथे᳚षु॒धीराः᳚(स्वाहा᳚) || 4 || माध्यं᳚दिने¦सव॑ने¦जा॒त॒ऽवे॒दः॒¦पु॒रो॒ळाश᳚म्¦इ॒ह¦क॒वे॒¦जु॒ष॒स्व॒ | |
अग्ने᳚तृ॒तीये॒सव॑ने॒हिकानि॑षःपुरो॒ळाशं᳚सहसःसून॒वाहु॑तम् |{गाथिनो विश्वामित्रः | अग्निः | जगती} अथा᳚दे॒वेष्व॑ध्व॒रंवि॑प॒न्यया॒धारत्न॑वन्तम॒मृते᳚षु॒जागृ॑वि॒म्(स्वाहा᳚) || 5 || अग्ने᳚¦तृ॒तीये᳚¦सव॑ने¦हि¦कानि॑षः¦पु॒रो॒ळाश᳚म्¦स॒ह॒सः॒¦सू॒नो॒ इति॑¦आऽहु॑तम् | |
अग्ने᳚वृधा॒नआहु॑तिंपुरो॒ळाशं᳚जातवेदः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} जु॒षस्व॑ति॒रो,अ᳚ह्न्य॒म्(स्वाहा᳚) || 6 || अग्ने᳚¦वृ॒धा॒नः¦आऽहु॑तिम्¦पु॒रो॒ळाश᳚म्¦जा॒त॒ऽवे॒दः॒ | जु॒षस्व॑¦ति॒रः।आ᳚ह्न्यम् || |
[29] अस्तीदमिति षोळशर्चस्य सूक्तस्य गाथिनो विश्वामित्रोग्निस्त्रिष्टुप् ( पंचम्याऋत्विजोवा) आद्य चतुर्थीदशमीद्वादश्योनुष्टुभः षष्ठ्येकादशी पंचदश्योजगत्यः |{मंडल:3, सूक्त:29}{अनुवाक:2, सूक्त:17}{अष्टक:3, अध्याय:1} |
अस्ती॒दम॑धि॒मन्थ॑न॒मस्ति॑प्र॒जन॑नंकृ॒तम् |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्} ए॒तांवि॒श्पत्नी॒माभ॑रा॒ग्निंम᳚न्थामपू॒र्वथा॒(स्वाहा᳚) || 1 || वर्ग:32 अस्ति॑¦इ॒दम्¦अ॒धि॒ऽमन्थ॑नम्¦अस्ति॑¦प्र॒ऽजन॑नम्¦कृ॒तम् | ए॒ताम्¦वि॒श्पत्नी᳚म्¦आ¦भ॒र॒¦अ॒ग्निम्¦म॒न्था॒म॒¦पू॒र्वऽथा᳚ || |
अ॒रण्यो॒र्निहि॑तोजा॒तवे᳚दा॒गर्भ॑इव॒सुधि॑तोग॒र्भिणी᳚षु |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दि॒वेदि॑व॒ईड्यो᳚जागृ॒वद्भि᳚र्ह॒विष्म॑द्भिर्मनु॒ष्ये᳚भिर॒ग्निः(स्वाहा᳚) || 2 || अ॒रण्योः᳚¦निऽहि॑तः¦जा॒तऽवे᳚दाः¦गर्भः॑ऽइव¦सुऽधि॑तः¦ग॒र्भिणी᳚षु | |
उ॒त्ता॒नाया॒मव॑भराचिकि॒त्वान्त्स॒द्यःप्रवी᳚ता॒वृष॑णंजजान |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अ॒रु॒षस्तू᳚पो॒रुश॑दस्य॒पाज॒इळा᳚यास्पु॒त्रोव॒युने᳚ऽजनिष्ट॒(स्वाहा᳚) || 3 || उ॒त्ता॒नाया᳚म्¦अव॑¦भ॒र॒¦चि॒कि॒त्वान्¦स॒द्यः¦प्रऽवी᳚ता¦वृष॑णम्¦ज॒जा॒न॒ | |
इळा᳚यास्त्वाप॒देव॒यंनाभा᳚पृथि॒व्या,अधि॑ |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्} जात॑वेदो॒निधी᳚म॒ह्यग्ने᳚ह॒व्याय॒वोळ्ह॑वे॒(स्वाहा᳚) || 4 || इळा᳚याः¦त्वा॒¦प॒दे¦व॒यम्¦नाभा᳚¦पृ॒थि॒व्याः¦अधि॑ | जात॑ऽवेदः¦नि¦धी॒म॒हि॒¦अग्ने᳚¦ह॒व्याय॑¦वोळ्ह॑वे || |
मन्थ॑तानरःक॒विमद्व॑यन्तं॒प्रचे᳚तसम॒मृतं᳚सु॒प्रती᳚कम् |{गाथिनो विश्वामित्रः | ऋत्विजोऽग्निर्वा | त्रिष्टुप्} य॒ज्ञस्य॑के॒तुंप्र॑थ॒मंपु॒रस्ता᳚द॒ग्निंन॑रोजनयतासु॒शेव॒म्(स्वाहा᳚) || 5 || मन्थ॑त¦न॒रः॒¦क॒विम्¦अद्व॑यन्तम्¦प्रऽचे᳚तसम्¦अ॒मृत᳚म्¦सु॒ऽप्रती᳚कम् | |
यदी॒मन्थ᳚न्तिबा॒हुभि॒र्विरो᳚च॒तेऽश्वो॒नवा॒ज्य॑रु॒षोवने॒ष्वा |{गाथिनो विश्वामित्रः | अग्निः | जगती} चि॒त्रोनयाम᳚न्न॒श्विनो॒रनि॑वृतः॒परि॑वृण॒क्त्यश्म॑न॒स्तृणा॒दह॒न्त्(स्वाहा᳚) || 6 || वर्ग:33 यदि॑¦मन्थ᳚न्ति¦बा॒हुऽभिः॑¦वि¦रो॒च॒ते॒¦अश्वः॑¦न¦वा॒जी¦अ॒रु॒षः¦वने᳚षु¦आ | |
जा॒तो,अ॒ग्नीरो᳚चते॒चेकि॑तानोवा॒जीविप्रः॑कविश॒स्तःसु॒दानुः॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} यंदे॒वास॒ईड्यं᳚विश्व॒विदं᳚हव्य॒वाह॒मद॑धुरध्व॒रेषु॒(स्वाहा᳚) || 7 || जा॒तः¦अ॒ग्निः¦रो॒च॒ते॒¦चेकि॑तानः¦वा॒जी¦विप्रः॑¦क॒वि॒ऽश॒स्तः¦सु॒ऽदानुः॑ | |
सीद॑होतः॒स्वउ॑लो॒केचि॑कि॒त्वान्त्सा॒दया᳚य॒ज्ञंसु॑कृ॒तस्य॒योनौ᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दे॒वा॒वीर्दे॒वान्ह॒विषा᳚यजा॒स्यग्ने᳚बृ॒हद्यज॑माने॒वयो᳚धाः॒(स्वाहा᳚) || 8 || सीद॑¦हो॒त॒रिति॑¦स्वे¦ऊँ॒ इति॑¦लो॒के¦चि॒कि॒त्वान्¦सा॒दय॑¦य॒ज्ञम्¦सु॒ऽकृ॒तस्य॑¦योनौ᳚ | |
कृ॒णोत॑धू॒मंवृष॑णंसखा॒योऽस्रे᳚धन्तइतन॒वाज॒मच्छ॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अ॒यम॒ग्निःपृ॑तना॒षाट्सु॒वीरो॒ऽयेन॑दे॒वासो॒,अस॑हन्त॒दस्यू॒न्त्(स्वाहा᳚) || 9 || कृ॒णोत॑¦धू॒मम्¦वृष॑णम्¦स॒खा॒यः॒¦अस्रे᳚धन्तः¦इ॒त॒न॒¦वाज᳚म्¦अच्छ॑ | |
अ॒यंते॒योनि᳚रृ॒त्वियो॒यतो᳚जा॒तो,अरो᳚चथाः |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्} तंजा॒नन्न॑ग्न॒आसी॒दाथा᳚नोवर्धया॒गिरः॒(स्वाहा᳚) || 10 || अ॒यम्¦ते॒¦योनिः॑¦ऋ॒त्वियः॑¦यतः॑¦जा॒तः¦अरो᳚चथाः | तम्¦जा॒नन्¦अ॒ग्ने॒¦आ¦सी॒द॒¦अथ॑¦नः॒¦व॒र्ध॒य॒¦गिरः॑ || |
तनू॒नपा᳚दुच्यते॒गर्भ॑आसु॒रोनरा॒शंसो᳚भवति॒यद्वि॒जाय॑ते |{गाथिनो विश्वामित्रः | अग्निः | जगती} मा॒त॒रिश्वा॒यदमि॑मीतमा॒तरि॒वात॑स्य॒सर्गो᳚,अभव॒त्सरी᳚मणि॒(स्वाहा᳚) || 11 || वर्ग:34 तनू॒३॒॑ऽनपा᳚त्¦उ॒च्य॒ते॒¦गर्भः॑¦आ॒सु॒रः¦नरा॒शंसः॑¦भ॒व॒ति॒¦यत्¦वि॒ऽजाय॑ते | |
सु॒नि॒र्मथा॒निर्म॑थितःसुनि॒धानिहि॑तःक॒विः |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्} अग्ने᳚स्वध्व॒राकृ॑णुदे॒वान्दे᳚वय॒तेय॑ज॒(स्वाहा᳚) || 12 || सु॒निः॒ऽमथा᳚¦निःऽम॑थितः¦सु॒ऽनि॒धा¦निऽहि॑तः¦क॒विः | अग्ने᳚¦सु॒।आ॒ध्व॒रा¦कृ॒णु॒¦दे॒वान्¦दे॒व॒ऽय॒ते¦य॒ज॒ || |
अजी᳚जनन्न॒मृतं॒मर्त्या᳚सोऽस्रे॒माणं᳚त॒रणिं᳚वी॒ळुज᳚म्भम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दश॒स्वसा᳚रो,अ॒ग्रुवः॑समी॒चीःपुमां᳚संजा॒तम॒भिसंर॑भन्ते॒(स्वाहा᳚) || 13 || अजी᳚जनन्¦अ॒मृत᳚म्¦मर्त्या᳚सः¦अ॒स्रे॒माण᳚म्¦त॒रणि᳚म्¦वी॒ळुऽज᳚म्भम् | |
प्रस॒प्तहो᳚तासन॒काद॑रोचतमा॒तुरु॒पस्थे॒यदशो᳚च॒दूध॑नि |{गाथिनो विश्वामित्रः | अग्निः | जगती} ननिमि॑षतिसु॒रणो᳚दि॒वेदि॑वे॒यदसु॑रस्यज॒ठरा॒दजा᳚यत॒(स्वाहा᳚) || 14 || प्र¦स॒प्तऽहो᳚ता¦स॒न॒कात्¦अ॒रो॒च॒त॒¦मा॒तुः¦उ॒पऽस्थे᳚¦यत्¦अशो᳚चत्¦ऊध॑नि | |
अ॒मि॒त्रा॒युधो᳚म॒रुता᳚मिवप्र॒याःप्र॑थम॒जाब्रह्म॑णो॒विश्व॒मिद्वि॑दुः |{गाथिनो विश्वामित्रः | अग्निः | जगती} द्यु॒म्नव॒द्ब्रह्म॑कुशि॒कास॒एरि॑र॒एक॑एको॒दमे᳚,अ॒ग्निंसमी᳚धिरे॒(स्वाहा᳚) || 15 || अ॒मि॒त्र॒ऽयुधः॑¦म॒रुता᳚म्ऽइव¦प्र॒ऽयाः¦प्र॒थ॒म॒ऽजाः¦ब्रह्म॑णः¦विश्व᳚म्¦इत्¦वि॒दुः॒ | |
यद॒द्यत्वा᳚प्रय॒तिय॒ज्ञे,अ॒स्मिन्होत॑श्चिकि॒त्वोऽवृ॑णीमही॒ह |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} ध्रु॒वम॑याध्रु॒वमु॒ताश॑मिष्ठाःप्रजा॒नन्वि॒द्वाँ,उप॑याहि॒सोम॒म्(स्वाहा᳚) || 16 || यत्¦अ॒द्य¦त्वा॒¦प्र॒ऽय॒ति¦य॒ज्ञे¦अ॒स्मिन्¦होत॒रिति॑¦चि॒कि॒त्वः॒¦अवृ॑णीमहि¦इ॒ह | |
[30] इच्छंतित्वेति द्वाविंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:30}{अनुवाक:3, सूक्त:1}{अष्टक:3, अध्याय:2} |
इ॒च्छन्ति॑त्वासो॒म्यासः॒सखा᳚यःसु॒न्वन्ति॒सोमं॒दध॑ति॒प्रयां᳚सि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तिति॑क्षन्ते,अ॒भिश॑स्तिं॒जना᳚ना॒मिन्द्र॒त्वदाकश्च॒नहिप्र॑के॒तः(स्वाहा᳚) || 1 || वर्ग:1 इ॒च्छन्ति॑¦त्वा॒¦सो॒म्यासः॑¦सखा᳚यः¦सु॒न्वन्ति॑¦सोम᳚म्¦दध॑ति¦प्रयां᳚सि | |
नते᳚दू॒रेप॑र॒माचि॒द्रजां॒स्यातुप्रया᳚हिहरिवो॒हरि॑भ्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स्थि॒राय॒वृष्णे॒सव॑नाकृ॒तेमायु॒क्ताग्रावा᳚णःसमिधा॒ने,अ॒ग्नौ(स्वाहा᳚) || 2 || न¦ते॒¦दू॒रे¦प॒र॒मा¦चि॒त्¦रजां᳚सि¦आ¦तु¦प्र¦या॒हि॒¦ह॒रि॒ऽवः॒¦हरि॑ऽभ्याम् | |
इन्द्रः॑सु॒शिप्रो᳚म॒घवा॒तरु॑त्रोम॒हाव्रा᳚तस्तुविकू॒र्मिरृघा᳚वान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यदु॒ग्रोधाबा᳚धि॒तोमर्त्ये᳚षु॒क्व१॑(अ॒)त्याते᳚वृषभवी॒र्या᳚णि॒(स्वाहा᳚) || 3 || इन्द्रः॑¦सु॒ऽशिप्रः॑¦म॒घऽवा᳚¦तरु॑त्रः¦म॒हाऽव्रा᳚तः¦तु॒वि॒ऽकू॒र्मिः¦ऋघा᳚वान् | |
त्वंहिष्मा᳚च्या॒वय॒न्नच्यु॑ता॒न्येको᳚वृ॒त्राचर॑सि॒जिघ्न॑मानः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तव॒द्यावा᳚पृथि॒वीपर्व॑ता॒सोनु᳚व्र॒ताय॒निमि॑तेवतस्थुः॒(स्वाहा᳚) || 4 || त्वम्¦हि¦स्म॒¦च्य॒वय॑न्¦अच्यु॑तानि¦एकः॑¦वृ॒त्रा¦चर॑सि¦जिघ्न॑मानः | |
उ॒ताभ॑येपुरुहूत॒श्रवो᳚भि॒रेको᳚दृ॒ळ्हम॑वदोवृत्र॒हासन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒मेचि॑दिन्द्र॒रोद॑सी,अपा॒रेयत्सं᳚गृ॒भ्णाम॑घवन्का॒शिरित्ते॒(स्वाहा᳚) || 5 || उ॒त¦अभ॑ये¦पु॒रु॒ऽहू॒त॒¦श्रवः॑ऽभिः¦एकः॑¦दृ॒ळ्हम्¦अ॒व॒दः॒¦वृ॒त्र॒ऽहा¦सन् | |
प्रसूत॑इन्द्रप्र॒वता॒हरि॑भ्यां॒प्रते॒वज्रः॑प्रमृ॒णन्ने᳚तु॒शत्रू॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ज॒हिप्र॑ती॒चो,अ॑नू॒चःपरा᳚चो॒विश्वं᳚स॒त्यंकृ॑णुहिवि॒ष्टम॑स्तु॒(स्वाहा᳚) || 6 || वर्ग:2 प्र¦सु¦ते॒¦इ॒न्द्र॒¦प्र॒ऽवता᳚¦हरि॑ऽभ्याम्¦प्र¦ते॒¦वज्रः॑¦प्र॒ऽमृ॒णन्¦ए॒तु॒¦शत्रू॑न् | |
यस्मै॒धायु॒रद॑धा॒मर्त्या॒याभ॑क्तंचिद्भजतेगे॒ह्य१॑(अं॒)सः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} भ॒द्रात॑इन्द्रसुम॒तिर्घृ॒ताची᳚स॒हस्र॑दानापुरुहूतरा॒तिः(स्वाहा᳚) || 7 || यस्मै᳚¦धायुः॑¦अद॑धाः¦मर्त्या᳚य¦अभ॑क्तम्¦चि॒त्¦भ॒ज॒ते॒¦गे॒ह्य᳚म्¦सः | |
स॒हदा᳚नुंपुरुहूतक्षि॒यन्त॑मह॒स्तमि᳚न्द्र॒संपि॑ण॒क्कुणा᳚रुम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒भिवृ॒त्रंवर्ध॑मानं॒पिया᳚रुम॒पाद॑मिन्द्रत॒वसा᳚जघन्थ॒(स्वाहा᳚) || 8 || स॒हऽदा᳚नुम्¦पु॒रु॒ऽहू॒त॒¦क्षि॒यन्त᳚म्¦अ॒ह॒स्तम्¦इ॒न्द्र॒¦सम्¦पि॒ण॒क्¦कुणा᳚रुम् | |
निसा᳚म॒नामि॑षि॒रामि᳚न्द्र॒भूमिं᳚म॒हीम॑पा॒रांसद॑नेससत्थ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अस्त॑भ्ना॒द्द्यांवृ॑ष॒भो,अ॒न्तरि॑क्ष॒मर्ष॒न्त्वाप॒स्त्वये॒हप्रसू᳚ताः॒(स्वाहा᳚) || 9 || नि¦सा॒म॒नाम्¦इ॒षि॒राम्¦इ॒न्द्र॒¦भूमि᳚म्¦म॒हीम्¦अ॒पा॒राम्¦सद॑ने¦स॒स॒त्थ॒ | |
अ॒ला॒तृ॒णोव॒लइ᳚न्द्रव्र॒जोगोःपु॒राहन्तो॒र्भय॑मानो॒व्या᳚र |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} सु॒गान्प॒थो,अ॑कृणोन्नि॒रजे॒गाःप्राव॒न्वाणीः᳚पुरुहू॒तंधम᳚न्तीः॒(स्वाहा᳚) || 10 || अ॒ला॒तृ॒णः¦व॒लः¦इ॒न्द्र॒¦व्र॒जः¦गोः¦पु॒रा¦हन्तोः᳚¦भय॑मानः¦वि¦आ॒र॒ | |
एको॒द्वेवसु॑मतीसमी॒ची,इन्द्र॒आप॑प्रौपृथि॒वीमु॒तद्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} उ॒तान्तरि॑क्षाद॒भिनः॑समी॒कइ॒षोर॒थीःस॒युजः॑शूर॒वाजा॒न्त्(स्वाहा᳚) || 11 || वर्ग:3 एकः॑¦द्वे इति॑¦वसु॑मती॒ इति॒ वसु॑ऽमती¦स॒मी॒ची इति॑ स॒म्ऽई॒ची¦इन्द्रः॑¦आ¦प॒प्रौ॒¦पृ॒थि॒वीम्¦उ॒त¦द्याम् | |
दिशः॒सूर्यो॒नमि॑नाति॒प्रदि॑ष्टादि॒वेदि॑वे॒हर्य॑श्वप्रसूताः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} संयदान॒ळध्व॑न॒आदिदश्वै᳚र्वि॒मोच॑नंकृणुते॒तत्त्व॑स्य॒(स्वाहा᳚) || 12 || दिशः॑¦सूर्यः॑¦न¦मि॒ना॒ति॒¦प्रऽदि॑ष्टाः¦दि॒वेऽदि॑वे¦हर्य॑श्वऽप्रसूताः | |
दिदृ॑क्षन्तउ॒षसो॒याम᳚न्न॒क्तोर्वि॒वस्व॑त्या॒महि॑चि॒त्रमनी᳚कम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} विश्वे᳚जानन्तिमहि॒नायदागा॒दिन्द्र॑स्य॒कर्म॒सुकृ॑तापु॒रूणि॒(स्वाहा᳚) || 13 || दिदृ॑क्षन्ते¦उ॒षसः॑¦याम॑न्¦अ॒क्तोः¦वि॒वस्व॑त्याः¦महि॑¦चि॒त्रम्¦अनी᳚कम् | |
महि॒ज्योति॒र्निहि॑तंव॒क्षणा᳚स्वा॒माप॒क्वंच॑रति॒बिभ्र॑ती॒गौः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} विश्वं॒स्वाद्म॒सम्भृ॑तमु॒स्रिया᳚यां॒यत्सी॒मिन्द्रो॒,अद॑धा॒द्भोज॑नाय॒(स्वाहा᳚) || 14 || महि॑¦ज्योतिः॑¦निऽहि॑तम्¦व॒क्षणा᳚सु¦आ॒मा¦प॒क्वम्¦च॒र॒ति॒¦बिभ्र॑ती¦गौः | |
इन्द्र॒दृह्य॑यामको॒शा,अ॑भूवन्य॒ज्ञाय॑शिक्षगृण॒तेसखि॑भ्यः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} दु॒र्मा॒यवो᳚दु॒रेवा॒मर्त्या᳚सोनिष॒ङ्गिणो᳚रि॒पवो॒हन्त्वा᳚सः॒(स्वाहा᳚) || 15 || इन्द्र॑¦दृह्य॑¦या॒म॒ऽको॒शाः¦अ॒भू॒व॒न्¦य॒ज्ञाय॑¦शि॒क्ष॒¦गृ॒ण॒ते¦सखि॑ऽभ्यः | |
संघोषः॑शृण्वेऽव॒मैर॒मित्रै᳚र्ज॒हीन्ये᳚ष्व॒शनिं॒तपि॑ष्ठाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वृ॒श्चेम॒धस्ता॒द्विरु॑जा॒सह॑स्वज॒हिरक्षो᳚मघवन्र॒न्धय॑स्व॒(स्वाहा᳚) || 16 || वर्ग:4 सम्¦घोषः॑¦शृ॒ण्वे॒¦अ॒व॒मैः¦अ॒मित्रैः᳚¦ज॒हि¦नि¦ए॒षु॒¦अ॒शनि᳚म्¦तपि॑ष्ठाम् | |
उद्वृ॑ह॒रक्षः॑स॒हमू᳚लमिन्द्रवृ॒श्चामध्यं॒प्रत्यग्रं᳚शृणीहि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} आकीव॑तःसल॒लूकं᳚चकर्थब्रह्म॒द्विषे॒तपु॑षिंहे॒तिम॑स्य॒(स्वाहा᳚) || 17 || उत्¦वृ॒ह॒¦रक्षः॑¦स॒हऽमू᳚लम्¦इ॒न्द्र॒¦वृ॒श्च¦मध्य᳚म्¦प्रति॑¦अग्र᳚म्¦शृ॒णी॒हि॒ | |
स्व॒स्तये᳚वा॒जिभि॑श्चप्रणेतः॒संयन्म॒हीरिष॑आ॒सत्सि॑पू॒र्वीः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} रा॒योव॒न्तारो᳚बृह॒तःस्या᳚मा॒स्मे,अ॑स्तु॒भग॑इन्द्रप्र॒जावा॒न्त्(स्वाहा᳚) || 18 || स्व॒स्तये᳚¦वा॒जिऽभिः॑¦च॒¦प्र॒ने॒त॒रिति॑ प्रऽनेतः¦सम्¦यत्¦म॒हीः¦इषः॑¦आ॒ऽसत्सि॑¦पू॒र्वीः | |
आनो᳚भर॒भग॑मिन्द्रद्यु॒मन्तं॒निते᳚दे॒ष्णस्य॑धीमहिप्ररे॒के |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ऊ॒र्वइ॑वपप्रथे॒कामो᳚,अ॒स्मेतमापृ॑णवसुपते॒वसू᳚ना॒म्(स्वाहा᳚) || 19 || आ¦नः॒¦भ॒र॒¦भग᳚म्¦इ॒न्द्र॒¦द्यु॒ऽमन्त᳚म्¦नि¦ते॒¦दे॒ष्णस्य॑¦धी॒म॒हि॒¦प्र॒ऽरे॒के | |
इ॒मंकामं᳚मन्दया॒गोभि॒रश्वै᳚श्च॒न्द्रव॑ता॒राध॑साप॒प्रथ॑श्च |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स्व॒र्यवो᳚म॒तिभि॒स्तुभ्यं॒विप्रा॒,इन्द्रा᳚य॒वाहः॑कुशि॒कासो᳚,अक्र॒न्(स्वाहा᳚) || 20 || इ॒मम्¦काम᳚म्¦म॒न्द॒य॒¦गोऽभिः॑¦अश्वैः᳚¦च॒न्द्रऽव॑ता¦राध॑सा¦प॒प्रथः॑¦च॒ | |
आनो᳚गो॒त्राद॑र्दृहिगोपते॒गाःसम॒स्मभ्यं᳚स॒नयो᳚यन्तु॒वाजाः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} दि॒वक्षा᳚,असिवृषभस॒त्यशु॑ष्मो॒ऽस्मभ्यं॒सुम॑घवन्बोधिगो॒दाः(स्वाहा᳚) || 21 || आ¦नः॒¦गो॒त्रा¦द॒र्दृ॒हि॒¦गो॒ऽप॒ते॒¦गाः¦सम्¦अ॒स्मभ्य᳚म्¦स॒नयः॑¦य॒न्तु॒¦वाजाः᳚ | |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚ना॒म्(स्वाहा᳚) || 22 || शु॒नम्¦हु॒वे॒म॒¦म॒घऽवा᳚नम्¦इन्द्र᳚म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑मम्¦वाज॑ऽसातौ | |
[31] शासद्वह्निरिति द्वाविंशत्यृचस्य सूक्तस्य इषीरथिः कुशिक इंद्रत्रिष्टुप् |{मंडल:3, सूक्त:31}{अनुवाक:3, सूक्त:2}{अष्टक:3, अध्याय:2} |
शास॒द्वह्नि॑र्दुहि॒तुर्न॒प्त्यं᳚गाद्वि॒द्वाँ,ऋ॒तस्य॒दीधि॑तिंसप॒र्यन् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} पि॒तायत्र॑दुहि॒तुःसेक॑मृ॒ञ्जन्त्संश॒ग्म्ये᳚न॒मन॑सादध॒न्वे(स्वाहा᳚) || 1 || वर्ग:5 शास॑त्¦वह्निः॑¦दु॒हि॒तुः¦न॒प्त्य᳚म्¦गा॒त्¦वि॒द्वान्¦ऋ॒तस्य॑¦दीधि॑तिम्¦स॒प॒र्यन् | |
नजा॒मये॒तान्वो᳚रि॒क्थमा᳚रैक्च॒कार॒गर्भं᳚सनि॒तुर्नि॒धान᳚म् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} यदी᳚मा॒तरो᳚ज॒नय᳚न्त॒वह्नि॑म॒न्यःक॒र्तासु॒कृतो᳚र॒न्यऋ॒न्धन्(स्वाहा᳚) || 2 || न¦जा॒मये᳚¦तान्वः॑¦रि॒क्थम्¦अ॒रै॒क्¦च॒कार॑¦गर्भ᳚म्¦स॒नि॒तुः¦नि॒ऽधान᳚म् | |
अ॒ग्निर्ज॑ज्ञेजु॒ह्वा॒३॑(आ॒)रेज॑मानोम॒हस्पु॒त्राँ,अ॑रु॒षस्य॑प्र॒यक्षे᳚ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} म॒हान्गर्भो॒मह्याजा॒तमे᳚षांम॒हीप्र॒वृद्धर्य॑श्वस्यय॒ज्ञैः॒(स्वाहा᳚) || 3 || अ॒ग्निः¦ज॒ज्ञे॒¦जु॒ह्वा᳚¦रेज॑मानः¦म॒हः¦पु॒त्रान्¦अ॒रु॒षस्य॑¦प्र॒ऽयक्षे᳚ | |
अ॒भिजैत्री᳚रसचन्तस्पृधा॒नंमहि॒ज्योति॒स्तम॑सो॒निर॑जानन् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} तंजा᳚न॒तीःप्रत्युदा᳚यन्नु॒षासः॒पति॒र्गवा᳚मभव॒देक॒इन्द्रः॒(स्वाहा᳚) || 4 || अ॒भि¦जैत्रीः᳚¦अ॒स॒च॒न्त॒¦स्पृ॒धा॒नम्¦महि॑¦ज्योतिः॑¦तम॑सः¦निः¦अ॒जा॒न॒न् | |
वी॒ळौस॒तीर॒भिधीरा᳚,अतृन्दन्प्रा॒चाहि᳚न्व॒न्मन॑सास॒प्तविप्राः᳚ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} विश्वा᳚मविन्दन्प॒थ्या᳚मृ॒तस्य॑प्रजा॒नन्नित्तानम॒सावि॑वेश॒(स्वाहा᳚) || 5 || वी॒ळौ¦स॒तीः¦अ॒भि¦धीराः᳚¦अ॒तृ॒न्द॒न्¦प्रा॒चा¦अ॒हि॒न्व॒न्¦मन॑सा¦स॒प्त¦विप्राः᳚ | |
वि॒दद्यदी᳚स॒रमा᳚रु॒ग्णमद्रे॒र्महि॒पाथः॑पू॒र्व्यंस॒ध्र्य॑क्कः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} अग्रं᳚नयत्सु॒पद्यक्ष॑राणा॒मच्छा॒रवं᳚प्रथ॒माजा᳚न॒तीगा॒त्(स्वाहा᳚) || 6 || वर्ग:6 वि॒दत्¦यदि॑¦स॒रमा᳚¦रु॒ग्णम्¦अद्रेः᳚¦महि॑¦पाथः॑¦पू॒र्व्यम्¦स॒ध्र्य॑क्¦क॒रिति॑ कः | |
अग॑च्छदु॒विप्र॑तमःसखी॒यन्नसू᳚दयत्सु॒कृते॒गर्भ॒मद्रिः॑ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} स॒सान॒मर्यो॒युव॑भिर्मख॒स्यन्नथा᳚भव॒दङ्गि॑राःस॒द्यो,अर्च॒न्त्(स्वाहा᳚) || 7 || अग॑च्छत्¦ऊँ॒ इति॑¦विप्र॑ऽतमः¦स॒खि॒ऽयन्¦असू᳚दयत्¦सु॒ऽकृते᳚¦गर्भ᳚म्¦अद्रिः॑ | |
स॒तःस॑तःप्रति॒मानं᳚पुरो॒भूर्विश्वा᳚वेद॒जनि॑मा॒हन्ति॒शुष्ण᳚म् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} प्रणो᳚दि॒वःप॑द॒वीर्ग॒व्युरर्च॒न्त्सखा॒सखीँ᳚रमुञ्च॒न्निर॑व॒द्यात्(स्वाहा᳚) || 8 || स॒तःऽस॑तः¦प्र॒ति॒ऽमान᳚म्¦पु॒रः॒ऽभूः¦विश्वा᳚¦वे॒द॒¦जनि॑म¦हन्ति॑¦शुष्ण᳚म् | |
निग᳚व्य॒तामन॑सासेदुर॒र्कैःकृ᳚ण्वा॒नासो᳚,अमृत॒त्वाय॑गा॒तुम् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} इ॒दंचि॒न्नुसद॑नं॒भूर्ये᳚षां॒येन॒मासाँ॒,असि॑षासन्नृ॒तेन॒(स्वाहा᳚) || 9 || नि¦ग॒व्य॒ता¦मन॑सा¦से॒दुः॒¦अ॒र्कैः¦कृ॒ण्वा॒नासः॑¦अ॒मृ॒त॒ऽत्वाय॑¦गा॒तुम् | |
स॒म्पश्य॑माना,अमदन्न॒भिस्वंपयः॑प्र॒त्नस्य॒रेत॑सो॒दुघा᳚नाः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} विरोद॑सी,अतप॒द्घोष॑एषांजा॒तेनि॒ष्ठामद॑धु॒र्गोषु॑वी॒रान्(स्वाहा᳚) || 10 || स॒म्ऽपश्य॑मानाः¦अ॒म॒द॒न्¦अ॒भि¦स्वम्¦पयः॑¦प्र॒त्नस्य॑¦रेत॑सः¦दुघा᳚नाः | |
सजा॒तेभि᳚र्वृत्र॒हासेदु॑ह॒व्यैरुदु॒स्रिया᳚,असृज॒दिन्द्रो᳚,अ॒र्कैः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} उ॒रू॒च्य॑स्मैघृ॒तव॒द्भर᳚न्ती॒मधु॒स्वाद्म॑दुदुहे॒जेन्या॒गौः(स्वाहा᳚) || 11 || वर्ग:7 सः¦जा॒तेभिः॑¦वृ॒त्र॒ऽहा¦सः¦इत्¦ऊँ॒ इति॑¦ह॒व्यैः¦उत्¦उ॒स्रियाः᳚¦अ॒सृ॒ज॒त्¦इन्द्रः॑¦अ॒र्कैः | |
पि॒त्रेचि॑च्चक्रुः॒सद॑नं॒सम॑स्मै॒महि॒त्विषी᳚मत्सु॒कृतो॒विहिख्यन् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} वि॒ष्क॒भ्नन्तः॒स्कम्भ॑नेना॒जनि॑त्री॒,आसी᳚ना,ऊ॒र्ध्वंर॑भ॒संविमि᳚न्व॒न्(स्वाहा᳚) || 12 || पि॒त्रे¦चि॒त्¦च॒क्रुः॒¦सद॑नम्¦सम्¦अ॒स्मै॒¦महि॑¦त्विषि॑ऽमत्¦सु॒ऽकृतः॑¦वि¦हि¦ख्यन् | |
म॒हीयदि॑धि॒षणा᳚शि॒श्नथे॒धात्स॑द्यो॒वृधं᳚वि॒भ्व१॑(अं॒)रोद॑स्योः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} गिरो॒यस्मि᳚न्ननव॒द्याःस॑मी॒चीर्विश्वा॒,इन्द्रा᳚य॒तवि॑षी॒रनु॑त्ताः॒(स्वाहा᳚) || 13 || म॒ही¦यदि॑¦धि॒षणा᳚¦शि॒श्नथे᳚¦धात्¦स॒द्यः॒ऽवृध᳚म्¦वि॒ऽभ्व᳚म्¦रोद॑स्योः | |
मह्याते᳚स॒ख्यंव॑श्मिश॒क्तीरावृ॑त्र॒घ्नेनि॒युतो᳚यन्तिपू॒र्वीः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} महि॑स्तो॒त्रमव॒आग᳚न्मसू॒रेर॒स्माकं॒सुम॑घवन्बोधिगो॒पाः(स्वाहा᳚) || 14 || महि॑¦आ¦ते॒¦स॒ख्यम्¦व॒श्मि॒¦श॒क्तीः¦आ¦वृ॒त्र॒ऽघ्ने¦नि॒ऽयुतः॑¦य॒न्ति॒¦पू॒र्वीः | |
महि॒क्षेत्रं᳚पु॒रुश्च॒न्द्रंवि॑वि॒द्वानादित्सखि॑भ्यश्च॒रथं॒समै᳚रत् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} इन्द्रो॒नृभि॑रजन॒द्दीद्या᳚नःसा॒कंसूर्य॑मु॒षसं᳚गा॒तुम॒ग्निम्(स्वाहा᳚) || 15 || महि॑¦क्षेत्र᳚म्¦पु॒रु¦च॒न्द्रम्¦वि॒वि॒द्वान्¦आत्¦इत्¦सखि॑ऽभ्यः¦च॒रथ᳚म्¦सम्¦ऐ॒रत् | |
अ॒पश्चि॑दे॒षवि॒भ्वो॒३॑(ओ॒)दमू᳚नाः॒प्रस॒ध्रीची᳚रसृजद्वि॒श्वश्च᳚न्द्राः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} मध्वः॑पुना॒नाःक॒विभिः॑प॒वित्रै॒र्द्युभि᳚र्हिन्वन्त्य॒क्तुभि॒र्धनु॑त्रीः॒(स्वाहा᳚) || 16 || वर्ग:8 अ॒पः¦चि॒त्¦ए॒षः¦वि॒ऽभ्वः॑¦दमू᳚नाः¦प्र¦स॒ध्रीचीः᳚¦अ॒सृ॒ज॒त्¦वि॒श्वऽच᳚न्द्राः | |
अनु॑कृ॒ष्णेवसु॑धितीजिहाते,उ॒भेसूर्य॑स्यमं॒हना॒यज॑त्रे |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} परि॒यत्ते᳚महि॒मानं᳚वृ॒जध्यै॒सखा᳚यइन्द्र॒काम्या᳚ऋजि॒प्याः(स्वाहा᳚) || 17 || अनु॑¦कृ॒ष्णे इति॑¦वसु॑धिती॒ इति॒ वसु॑ऽधिती¦जि॒हा॒ते॒ इति॑¦उ॒भे इति॑¦सूर्य॑स्य¦मं॒हना᳚¦यज॑त्रे॒ इति॑ | |
पति॑र्भववृत्रहन्त्सू॒नृता᳚नांगि॒रांवि॒श्वायु᳚र्वृष॒भोव॑यो॒धाः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} आनो᳚गहिस॒ख्येभिः॑शि॒वेभि᳚र्म॒हान्म॒हीभि॑रू॒तिभिः॑सर॒ण्यन्(स्वाहा᳚) || 18 || पतिः॑¦भ॒व॒¦वृ॒त्र॒ऽह॒न्¦सू॒नृता᳚नाम्¦गि॒राम्¦वि॒श्वऽआ᳚युः¦वृ॒ष॒भः¦व॒यः॒ऽधाः | |
तम᳚ङ्गिर॒स्वन्नम॑सासप॒र्यन्नव्यं᳚कृणोमि॒सन्य॑सेपुरा॒जाम् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} द्रुहो॒विया᳚हिबहु॒ला,अदे᳚वीः॒स्व॑श्चनोमघवन्त्सा॒तये᳚धाः॒(स्वाहा᳚) || 19 || तम्¦अ॒ङ्गि॒र॒स्वत्¦नम॑सा¦स॒प॒र्यन्¦नव्य᳚म्¦कृ॒णो॒मि॒¦सन्य॑से¦पु॒रा॒ऽजाम् | |
मिहः॑पाव॒काःप्रत॑ता,अभूवन्त्स्व॒स्तिनः॑पिपृहिपा॒रमा᳚साम् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} इन्द्र॒त्वंर॑थि॒रःपा᳚हिनोरि॒षोम॒क्षूम॑क्षूकृणुहिगो॒जितो᳚नः॒(स्वाहा᳚) || 20 || मिहः॑¦पा॒व॒काः¦प्रऽत॑ताः¦अ॒भू॒व॒न्¦स्व॒स्ति¦नः॒¦पि॒पृ॒हि॒¦पा॒रम्¦आ॒सा॒म् | |
अदे᳚दिष्टवृत्र॒हागोप॑ति॒र्गा,अ॒न्तःकृ॒ष्णाँ,अ॑रु॒षैर्धाम॑भिर्गात् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} प्रसू॒नृता᳚दि॒शमा᳚नऋ॒तेन॒दुर॑श्च॒विश्वा᳚,अवृणो॒दप॒स्वाः(स्वाहा᳚) || 21 || अदे᳚दिष्ट¦वृ॒त्र॒ऽहा¦गोऽप॑तिः¦गाः¦अ॒न्तरिति॑¦कृ॒ष्णान्¦अ॒रु॒षैः¦धाम॑ऽभिः¦गा॒त् | |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚ना॒म्(स्वाहा᳚) || 22 || शु॒नम्¦हु॒वे॒म॒¦म॒घऽवा᳚नम्¦इन्द्र᳚म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑मम्¦वाज॑ऽसातौ | |
[32] इंद्रसोममिति सप्तदशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:32}{अनुवाक:3, सूक्त:3}{अष्टक:3, अध्याय:2} |
इन्द्र॒सोमं᳚सोमपते॒पिबे॒मंमाध्यं᳚दिनं॒सव॑नं॒चारु॒यत्ते᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्र॒प्रुथ्या॒शिप्रे᳚मघवन्नृजीषिन्वि॒मुच्या॒हरी᳚,इ॒हमा᳚दयस्व॒(स्वाहा᳚) || 1 || वर्ग:9 इन्द्र॑¦सोम᳚म्¦सो॒म॒ऽप॒ते॒¦पिब॑¦इ॒मम्¦माध्यं᳚दिनम्¦सव॑नम्¦चारु॑¦यत्¦ते॒ | |
गवा᳚शिरंम॒न्थिन॑मिन्द्रशु॒क्रंपिबा॒सोमं᳚ररि॒माते॒मदा᳚य |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ब्र॒ह्म॒कृता॒मारु॑तेनाग॒णेन॑स॒जोषा᳚रु॒द्रैस्तृ॒पदावृ॑षस्व॒(स्वाहा᳚) || 2 || गोऽआ᳚शिरम्¦म॒न्थिन᳚म्¦इ॒न्द्र॒¦शु॒क्रम्¦पिब॑¦सोम᳚म्¦र॒रि॒म¦ते॒¦मदा᳚य | |
येते॒शुष्मं॒येतवि॑षी॒मव॑र्ध॒न्नर्च᳚न्तइन्द्रम॒रुत॑स्त॒ओजः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} माध्यं᳚दिने॒सव॑नेवज्रहस्त॒पिबा᳚रु॒द्रेभिः॒सग॑णःसुशिप्र॒(स्वाहा᳚) || 3 || ये¦ते॒¦शुष्म᳚म्¦ये¦तवि॑षीम्¦अव॑र्धन्¦अर्च᳚न्तः¦इ॒न्द्र॒¦म॒रुतः॑¦ते॒¦ओजः॑ | |
तइन्न्व॑स्य॒मधु॑मद्विविप्र॒इन्द्र॑स्य॒शर्धो᳚म॒रुतो॒यआस॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} येभि᳚र्वृ॒त्रस्ये᳚षि॒तोवि॒वेदा᳚म॒र्मणो॒मन्य॑मानस्य॒मर्म॒(स्वाहा᳚) || 4 || ते¦इत्¦नु¦अ॒स्य॒¦मधु॑ऽमत्¦वि॒वि॒प्रे॒¦इन्द्र॑स्य¦शर्धः॑¦म॒रुतः॑¦ये¦आस॑न् | |
म॒नु॒ष्वदि᳚न्द्र॒सव॑नंजुषा॒णःपिबा॒सोमं॒शश्व॑तेवी॒र्या᳚य |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} सआव॑वृत्स्वहर्यश्वय॒ज्ञैःस॑र॒ण्युभि॑र॒पो,अर्णा᳚सिसर्षि॒(स्वाहा᳚) || 5 || म॒नु॒ष्वत्¦इ॒न्द्र॒¦सव॑नम्¦जु॒षा॒णः¦पिब॑¦सोम᳚म्¦शश्व॑ते¦वी॒र्या᳚य | |
त्वम॒पोयद्ध॑वृ॒त्रंज॑घ॒न्वाँ,अत्याँ᳚,इव॒प्रासृ॑जः॒सर्त॒वाजौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शया᳚नमिन्द्र॒चर॑ताव॒धेन॑वव्रि॒वांसं॒परि॑दे॒वीरदे᳚व॒म्(स्वाहा᳚) || 6 || वर्ग:10 त्वम्¦अ॒पः¦यत्¦ह॒¦वृ॒त्रम्¦ज॒घ॒न्वान्¦अत्या᳚न्ऽइव¦प्र¦असृ॑जः¦सर्त॒वै¦आ॒जौ | |
यजा᳚म॒इन्नम॑सावृ॒द्धमिन्द्रं᳚बृ॒हन्त॑मृ॒ष्वम॒जरं॒युवा᳚नम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यस्य॑प्रि॒येम॒मतु᳚र्य॒ज्ञिय॑स्य॒नरोद॑सीमहि॒मानं᳚म॒माते॒(स्वाहा᳚) || 7 || यजा᳚मः¦इत्¦नम॑सा¦वृ॒द्धम्¦इन्द्र᳚म्¦बृ॒हन्त᳚म्¦ऋ॒ष्वम्¦अ॒जर᳚म्¦युवा᳚नम् | |
इन्द्र॑स्य॒कर्म॒सुकृ॑तापु॒रूणि᳚व्र॒तानि॑दे॒वानमि॑नन्ति॒विश्वे᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} दा॒धार॒यःपृ॑थि॒वींद्यामु॒तेमांज॒जान॒सूर्य॑मु॒षसं᳚सु॒दंसाः᳚(स्वाहा᳚) || 8 || इन्द्र॑स्य¦कर्म॑¦सुऽकृ॑ता¦पु॒रूणि॑¦व्र॒तानि॑¦दे॒वाः¦न¦मि॒न॒न्ति॒¦विश्वे᳚ | |
अद्रो᳚घस॒त्यंतव॒तन्म॑हि॒त्वंस॒द्योयज्जा॒तो,अपि॑बोह॒सोम᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} नद्याव॑इन्द्रत॒वस॑स्त॒ओजो॒नाहा॒नमासाः᳚श॒रदो᳚वरन्त॒(स्वाहा᳚) || 9 || अद्रो᳚घ¦स॒त्यम्¦तव॑¦तत्¦म॒हि॒ऽत्वम्¦स॒द्यः¦यत्¦जा॒तः¦अपि॑बः¦ह॒¦सोम᳚म् | |
त्वंस॒द्यो,अ॑पिबोजा॒तइ᳚न्द्र॒मदा᳚य॒सोमं᳚पर॒मेव्यो᳚मन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यद्ध॒द्यावा᳚पृथि॒वी,आवि॑वेशी॒रथा᳚भवःपू॒र्व्यःका॒रुधा᳚याः॒(स्वाहा᳚) || 10 || त्वम्¦स॒द्यः¦अ॒पि॒बः॒¦जा॒तः¦इ॒न्द्र॒¦मदा᳚य¦सोम᳚म्¦प॒र॒मे¦विऽओ᳚मन् | |
अह॒न्नहिं᳚परि॒शया᳚न॒मर्ण॑ओजा॒यमा᳚नंतुविजात॒तव्या॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} नते᳚महि॒त्वमनु॑भू॒दध॒द्यौर्यद॒न्यया᳚स्फि॒ग्या॒३॑(आ॒)क्षामव॑स्थाः॒(स्वाहा᳚) || 11 || वर्ग:11 अह॑न्¦अहि᳚म्¦प॒रि॒ऽशया᳚नम्¦अर्णः॑¦ओ॒जा॒यमा᳚नम्¦तु॒वि॒ऽजा॒त॒¦तव्या॑न् | |
य॒ज्ञोहित॑इन्द्र॒वर्ध॑नो॒भूदु॒तप्रि॒यःसु॒तसो᳚मोमि॒येधः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} य॒ज्ञेन॑य॒ज्ञम॑वय॒ज्ञियः॒सन्य॒ज्ञस्ते॒वज्र॑महि॒हत्य॑आव॒त्(स्वाहा᳚) || 12 || य॒ज्ञः¦हि¦ते॒¦इ॒न्द्र॒¦वर्ध॑नः¦भूत्¦उ॒त¦प्रि॒यः¦सु॒तऽसो᳚मः¦मि॒येधः॑ | |
य॒ज्ञेनेन्द्र॒मव॒साच॑क्रे,अ॒र्वागैनं᳚सु॒म्नाय॒नव्य॑सेववृत्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यःस्तोमे᳚भिर्वावृ॒धेपू॒र्व्येभि॒र्योम॑ध्य॒मेभि॑रु॒तनूत॑नेभिः॒(स्वाहा᳚) || 13 || य॒ज्ञेन॑¦इन्द्र᳚म्¦अव॑सा¦आ¦च॒क्रे॒¦अ॒र्वाक्¦आ¦ए॒न॒म्¦सु॒म्नाय॑¦नव्य॑से¦व॒वृ॒त्या॒म् | |
वि॒वेष॒यन्मा᳚धि॒षणा᳚ज॒जान॒स्तवै᳚पु॒रापार्या॒दिन्द्र॒मह्नः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अंह॑सो॒यत्र॑पी॒पर॒द्यथा᳚नोना॒वेव॒यान्त॑मु॒भये᳚हवन्ते॒(स्वाहा᳚) || 14 || वि॒वेष॑¦यत्¦मा॒¦धि॒षणा᳚¦ज॒जान॑¦स्तवै᳚¦पु॒रा¦पार्या᳚त्¦इन्द्र᳚म्¦अह्नः॑ | |
आपू᳚र्णो,अस्यक॒लशः॒स्वाहा॒सेक्ते᳚व॒कोशं᳚सिसिचे॒पिब॑ध्यै |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} समु॑प्रि॒या,आव॑वृत्र॒न्मदा᳚यप्रदक्षि॒णिद॒भिसोमा᳚स॒इन्द्र॑म् || 15 || आऽपू᳚र्णः¦अ॒स्य॒¦क॒लशः॑¦स्वाहा᳚¦सेक्ता᳚ऽइव¦कोश᳚म्¦सि॒सि॒चे॒¦पिब॑ध्यै | |
नत्वा᳚गभी॒रःपु॑रुहूत॒सिन्धु॒र्नाद्र॑यः॒परि॒षन्तो᳚वरन्त |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒त्थासखि॑भ्यइषि॒तोयदि॒न्द्राऽऽदृ॒ळ्हंचि॒दरु॑जो॒गव्य॑मू॒र्वम्(स्वाहा᳚) || 16 || न¦त्वा॒¦ग॒भी॒रः¦पु॒रु॒ऽहू॒त॒¦सिन्धुः॑¦न¦अद्र॑यः¦परि॑¦सन्तः॑¦व॒र॒न्त॒ | |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚ना॒म्(स्वाहा᳚) || 17 || शु॒नम्¦हु॒वे॒म॒¦म॒घऽवा᳚नम्¦इन्द्र᳚म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑मम्¦वाज॑ऽसातौ | |
[33] प्रपर्वतानामिति त्रयोदशर्चस्य सूक्तस्य गाथिनोविश्वामित्रः चतुर्थी षष्ठ्यष्टमीदशमीनांनदीऋषिकानद्योदेवताः एनावयमेतद्वच आतेकारोरितितिसृणांविश्वामित्रोदेवता इंद्रोअस्मानितिद्वयोरिंद्रस्त्रिष्टुबन्त्यानुष्टुप् |{मंडल:3, सूक्त:33}{अनुवाक:3, सूक्त:4}{अष्टक:3, अध्याय:2} |
प्रपर्व॑तानामुश॒ती,उ॒पस्था॒दश्वे᳚,इव॒विषि॑ते॒हास॑माने |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} गावे᳚वशु॒भ्रेमा॒तरा᳚रिहा॒णेविपा᳚ट्छुतु॒द्रीपय॑साजवेते॒(स्वाहा᳚) || 1 || वर्ग:12 प्र¦पर्व॑तानाम्¦उ॒श॒ती इति॑¦उ॒पऽस्था᳚त्¦अश्वे᳚ इ॒वेत्यश्वे᳚ऽइव¦विसि॑ते॒ इति॒ विऽसि॑ते¦हास॑माने॒ इति॑ | |
इन्द्रे᳚षितेप्रस॒वंभिक्ष॑माणे॒,अच्छा᳚समु॒द्रंर॒थ्ये᳚वयाथः |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} स॒मा॒रा॒णे,ऊ॒र्मिभिः॒पिन्व॑माने,अ॒न्यावा᳚म॒न्यामप्ये᳚तिशुभ्रे॒(स्वाहा᳚) || 2 || इन्द्रे᳚षिते॒ इतीन्द्र॑ऽइषिते¦प्र॒ऽस॒वम्¦भिक्ष॑माणे॒ इति॑¦अच्छ॑¦स॒मु॒द्रम्¦र॒थ्या᳚ऽइव¦या॒थः॒ | |
अच्छा॒सिन्धुं᳚मा॒तृत॑मामयासं॒विपा᳚शमु॒र्वींसु॒भगा᳚मगन्म |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} व॒त्समि॑वमा॒तरा᳚संरिहा॒णेस॑मा॒नंयोनि॒मनु॑सं॒चर᳚न्ती॒(स्वाहा᳚) || 3 || अच्छ॑¦सिन्धु᳚म्¦मा॒तृऽत॑माम्¦अ॒या॒स॒म्¦विऽपा᳚शम्¦उ॒र्वीम्¦सु॒ऽभगा᳚म्¦अ॒ग॒न्म॒ | |
ए॒नाव॒यंपय॑सा॒पिन्व॑माना॒,अनु॒योनिं᳚दे॒वकृ॑तं॒चर᳚न्तीः |{नद्यः ऋषिक | विश्वामित्रः | त्रिष्टुप्} नवर्त॑वेप्रस॒वःसर्ग॑तक्तःकिं॒युर्विप्रो᳚न॒द्यो᳚जोहवीति॒(स्वाहा᳚) || 4 || ए॒ना¦व॒यम्¦पय॑सा¦पिन्व॑मानाः¦अनु॑¦योनि᳚म्¦दे॒वऽकृ॑तम्¦चर᳚न्तीः | |
रम॑ध्वंमे॒वच॑सेसो॒म्याय॒ऋता᳚वरी॒रुप॑मुहू॒र्तमेवैः᳚ |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} प्रसिन्धु॒मच्छा᳚बृह॒तीम॑नी॒षाव॒स्युर॑ह्वेकुशि॒कस्य॑सू॒नुः(स्वाहा᳚) || 5 || रम॑ध्वम्¦मे॒¦वच॑से¦सो॒म्याय॑¦ऋत॑ऽवरीः¦उप॑¦मु॒हू॒र्तम्¦एवैः᳚ | |
इन्द्रो᳚,अ॒स्माँ,अ॑रद॒द्वज्र॑बाहु॒रपा᳚हन्वृ॒त्रंप॑रि॒धिंन॒दीना᳚म् |{नद्यः ऋषिक | इन्द्रः | त्रिष्टुप्} दे॒वो᳚ऽनयत्सवि॒तासु॑पा॒णिस्तस्य॑व॒यंप्र॑स॒वेया᳚मउ॒र्वीः(स्वाहा᳚) || 6 || वर्ग:13 इन्द्रः॑¦अ॒स्मान्¦अ॒र॒द॒त्¦वज्र॑ऽबाहुः¦अप॑¦अ॒ह॒न्¦वृ॒त्रम्¦प॒रि॒ऽधिम्¦न॒दीना᳚म् | |
प्र॒वाच्यं᳚शश्व॒धावी॒र्य१॑(अं॒)तदिन्द्र॑स्य॒कर्म॒यदहिं᳚विवृ॒श्चत् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} विवज्रे᳚णपरि॒षदो᳚जघा॒नाय॒न्नापोऽय॑नमि॒च्छमा᳚नाः॒(स्वाहा᳚) || 7 || प्र॒ऽवाच्य᳚म्¦श॒श्व॒धा¦वी॒र्य᳚म्¦तत्¦इन्द्र॑स्य¦कर्म॑¦यत्¦अहि᳚म्¦वि॒ऽवृ॒श्चत् | |
ए॒तद्वचो᳚जरित॒र्मापि॑मृष्ठा॒,आयत्ते॒घोषा॒नुत्त॑रायु॒गानि॑ |{नद्यः ऋषिक | विश्वामित्रः | त्रिष्टुप्} उ॒क्थेषु॑कारो॒प्रति॑नोजुषस्व॒मानो॒निकः॑पुरुष॒त्रानम॑स्ते॒(स्वाहा᳚) || 8 || ए॒तत्¦वचः॑¦ज॒रि॒तः॒¦मा¦अपि॑¦मृ॒ष्ठाः॒¦आ¦यत्¦ते॒¦घोषा᳚न्¦उत्ऽत॑रा¦यु॒गानि॑ | |
ओषुस्व॑सारःका॒रवे᳚शृणोतय॒यौवो᳚दू॒रादन॑सा॒रथे᳚न |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} निषून॑मध्वं॒भव॑तासुपा॒रा,अ॑धो।आ॒क्षाःसि᳚न्धवःस्रो॒त्याभिः॒(स्वाहा᳚) || 9 || ओ इति॑¦सु¦स्व॒सा॒रः॒¦का॒रवे᳚¦शृ॒णो॒त॒¦य॒यौ¦वः॒¦दू॒रात्¦अन॑सा¦रथे᳚न | |
आते᳚कारोशृणवामा॒वचां᳚सिय॒याथ॑दू॒रादन॑सा॒रथे᳚न |{नद्यः ऋषिक | विश्वामित्रः | त्रिष्टुप्} निते᳚नंसैपीप्या॒नेव॒योषा॒मर्या᳚येवक॒न्या᳚शश्व॒चैते॒(स्वाहा᳚) || 10 || आ¦ते॒¦का॒रो॒ इति॑¦शृ॒ण॒वा॒म॒¦वचां᳚सि¦य॒याथ॑¦दू॒रात्¦अन॑सा¦रथे᳚न | |
यद॒ङ्गत्वा᳚भर॒ताःसं॒तरे᳚युर्ग॒व्यन्ग्राम॑इषि॒तइन्द्र॑जूतः |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} अर्षा॒दह॑प्रस॒वःसर्ग॑तक्त॒आवो᳚वृणेसुम॒तिंय॒ज्ञिया᳚ना॒म्(स्वाहा᳚) || 11 || वर्ग:14 यत्¦अ॒ङ्ग¦त्वा॒¦भ॒र॒ताः¦स॒म्ऽतरे᳚युः¦ग॒व्यन्¦ग्रामः॑¦इ॒षि॒तः¦इन्द्र॑ऽजूतः | |
अता᳚रिषुर्भर॒ताग॒व्यवः॒समभ॑क्त॒विप्रः॑सुम॒तिंन॒दीना᳚म् |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} प्रपि᳚न्वध्वमि॒षय᳚न्तीःसु॒राधा॒,आव॒क्षणाः᳚पृ॒णध्वं᳚या॒तशीभ॒म्(स्वाहा᳚) || 12 || अता᳚रिषुः¦भ॒र॒ताः¦ग॒व्यवः॑¦सम्¦अभ॑क्त¦विप्रः॑¦सु॒ऽम॒तिम्¦न॒दीना᳚म् | |
उद्व॑ऊ॒र्मिःशम्या᳚ह॒न्त्वापो॒योक्त्रा᳚णिमुञ्चत |{गाथिनो विश्वामित्रः | नद्यः | अनुष्टुप्} मादु॑ष्कृतौ॒व्ये᳚नसा॒ऽघ्न्यौशून॒मार॑ता॒म्(स्वाहा᳚) || 13 || उत्¦वः॒¦ऊ॒र्मिः¦शम्याः᳚¦ह॒न्तु॒¦आपः॑¦योक्त्रा᳚णि¦मुं॒च॒त॒ | मा¦अदुः॑ऽकृतौ¦विऽए᳚नसा¦अ॒घ्न्यौ¦शून᳚म्¦आ¦अ॒र॒ता॒म् || |
[34] इंद्रःपूर्भिरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:34}{अनुवाक:3, सूक्त:5}{अष्टक:3, अध्याय:2} |
इन्द्रः॑पू॒र्भिदाति॑र॒द्दास॑म॒र्कैर्वि॒दद्व॑सु॒र्दय॑मानो॒विशत्रू॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ब्रह्म॑जूतस्त॒न्वा᳚वावृधा॒नोभूरि॑दात्र॒आपृ॑ण॒द्रोद॑सी,उ॒भे(स्वाहा᳚) || 1 || वर्ग:15 इन्द्रः॑¦पूः॒ऽभित्¦आ¦अ॒ति॒र॒त्¦दास᳚म्¦अ॒र्कैः¦वि॒दत्ऽव॑सुः¦दय॑मानः¦वि¦शत्रू॑न् | |
म॒खस्य॑तेतवि॒षस्य॒प्रजू॒तिमिय᳚र्मि॒वाच॑म॒मृता᳚य॒भूष॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्र॑क्षिती॒नाम॑सि॒मानु॑षीणांवि॒शांदैवी᳚नामु॒तपू᳚र्व॒यावा॒(स्वाहा᳚) || 2 || म॒खस्य॑¦ते॒¦त॒वि॒षस्य॑¦प्र¦जू॒तिम्¦इय᳚र्मि¦वाच᳚म्¦अ॒मृता᳚य¦भूष॑न् | |
इन्द्रो᳚वृ॒त्रम॑वृणो॒च्छर्ध॑नीतिः॒प्रमा॒यिना᳚ममिना॒द्वर्प॑णीतिः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अह॒न्व्यं᳚समु॒शध॒ग्वने᳚ष्वा॒विर्धेना᳚,अकृणोद्रा॒म्याणा॒म्(स्वाहा᳚) || 3 || इन्द्रः॑¦वृ॒त्रम्¦अ॒वृ॒णो॒त्¦शर्ध॑ऽनीतिः¦प्र¦मा॒यिना᳚म्¦अ॒मि॒ना॒त्¦वर्प॑ऽनीतिः | |
इन्द्रः॑स्व॒र्षाज॒नय॒न्नहा᳚निजि॒गायो॒शिग्भिः॒पृत॑ना,अभि॒ष्टिः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्रारो᳚चय॒न्मन॑वेके॒तुमह्ना॒मवि᳚न्द॒ज्ज्योति॑र्बृह॒तेरणा᳚य॒(स्वाहा᳚) || 4 || इन्द्रः॑¦स्वः॒ऽसाः¦ज॒नय॑न्¦अहा᳚नि¦जि॒गाय॑¦उ॒शिक्ऽभिः॑¦पृत॑नाः¦अ॒भि॒ष्टिः | |
इन्द्र॒स्तुजो᳚ब॒र्हणा॒,आवि॑वेशनृ॒वद्दधा᳚नो॒नर्या᳚पु॒रूणि॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अचे᳚तय॒द्धिय॑इ॒माज॑रि॒त्रेप्रेमंवर्ण॑मतिरच्छु॒क्रमा᳚सा॒म्(स्वाहा᳚) || 5 || इन्द्रः॑¦तुजः॑¦ब॒र्हणाः᳚¦आ¦वि॒वे॒श॒¦नृ॒ऽवत्¦दधा᳚नः¦नर्या᳚¦पु॒रूणि॑ | |
म॒होम॒हानि॑पनयन्त्य॒स्येन्द्र॑स्य॒कर्म॒सुकृ॑तापु॒रूणि॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वृ॒जने᳚नवृजि॒नान्त्संपि॑पेषमा॒याभि॒र्दस्यूँ᳚र॒भिभू᳚त्योजाः॒(स्वाहा᳚) || 6 || वर्ग:16 म॒हः¦म॒हानि॑¦प॒न॒य॒न्ति॒¦अ॒स्य॒¦इन्द्र॑स्य¦कर्म॑¦सुऽकृ॑ता¦पु॒रूणि॑ | |
यु॒धेन्द्रो᳚म॒ह्नावरि॑वश्चकारदे॒वेभ्यः॒सत्प॑तिश्चर्षणि॒प्राः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वि॒वस्व॑तः॒सद॑ने,अस्य॒तानि॒विप्रा᳚,उ॒क्थेभिः॑क॒वयो᳚गृणन्ति॒(स्वाहा᳚) || 7 || यु॒धा¦इन्द्रः॑¦म॒ह्ना¦वरि॑वः¦च॒का॒र॒¦दे॒वेभ्यः॑¦सत्ऽप॑तिः¦च॒र्ष॒णि॒ऽप्राः | |
स॒त्रा॒साहं॒वरे᳚ण्यंसहो॒दांस॑स॒वांसं॒स्व॑र॒पश्च॑दे॒वीः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स॒सान॒यःपृ॑थि॒वींद्यामु॒तेमामिन्द्रं᳚मद॒न्त्यनु॒धीर॑णासः॒(स्वाहा᳚) || 8 || स॒त्रा॒ऽसह᳚म्¦वरे᳚ण्यम्¦स॒हः॒ऽदाम्¦स॒स॒वांस᳚म्¦स्वः॑¦अ॒पः¦च॒¦दे॒वीः | |
स॒सानात्याँ᳚,उ॒तसूर्यं᳚ससा॒नेन्द्रः॑ससानपुरु॒भोज॑सं॒गाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} हि॒र॒ण्यय॑मु॒तभोगं᳚ससानह॒त्वीदस्यू॒न्प्रार्यं॒वर्ण॑माव॒त्(स्वाहा᳚) || 9 || स॒सान॑¦अत्या᳚न्¦उ॒त¦सूर्य᳚म्¦स॒सा॒न॒¦इन्द्रः॑¦स॒सा॒न॒¦पु॒रु॒ऽभोज॑सम्¦गाम् | |
इन्द्र॒ओष॑धीरसनो॒दहा᳚नि॒वन॒स्पतीँ᳚रसनोद॒न्तरि॑क्षम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} बि॒भेद॑व॒लंनु॑नु॒देविवा॒चोऽथा᳚भवद्दमि॒ताभिक्र॑तूना॒म्(स्वाहा᳚) || 10 || इन्द्रः॑¦ओष॑धीः¦अ॒स॒नो॒त्¦अहा᳚नि¦वन॒स्पती᳚न्¦अ॒स॒नो॒त्¦अ॒न्तरि॑क्षम् | |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚ना॒म्(स्वाहा᳚) || 11 || शु॒नम्¦हु॒वे॒म॒¦म॒घऽवा᳚नम्¦इन्द्र᳚म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑मम्¦वाज॑ऽसातौ | |
[35] तिष्ठाहरीइत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:35}{अनुवाक:3, सूक्त:6}{अष्टक:3, अध्याय:2} |
तिष्ठा॒हरी॒रथ॒आयु॒ज्यमा᳚नाया॒हिवा॒युर्ननि॒युतो᳚नो॒,अच्छ॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} पिबा॒स्यन्धो᳚,अ॒भिसृ॑ष्टो,अ॒स्मे,इन्द्र॒स्वाहा᳚ररि॒माते॒मदा᳚य॒(स्वाहा᳚) || 1 || वर्ग:17 तिष्ठ॑¦हरी॒ इति॑¦रथे᳚¦आ¦यु॒ज्यमा᳚ना¦या॒हि¦वा॒युः¦न¦नि॒ऽयुतः॑¦नः॒¦अच्छ॑ | |
उपा᳚जि॒रापु॑रुहू॒ताय॒सप्ती॒हरी॒रथ॑स्यधू॒र्ष्वायु॑नज्मि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} द्र॒वद्यथा॒सम्भृ॑तंवि॒श्वत॑श्चि॒दुपे॒मंय॒ज्ञमाव॑हात॒इन्द्र॒म्(स्वाहा᳚) || 2 || उप॑¦अ॒जि॒रा¦पु॒रु॒ऽहू॒ताय॑¦सप्ती॒ इति॑¦हरी॒ इति॑¦रथ॑स्य¦धूः॒ऽसु¦आ¦यु॒न॒ज्मि॒ | |
उपो᳚नयस्व॒वृष॑णातपु॒ष्पोतेम॑व॒त्वंवृ॑षभस्वधावः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ग्रसे᳚ता॒मश्वा॒विमु॑चे॒हशोणा᳚दि॒वेदि॑वेस॒दृशी᳚रद्धिधा॒नाः(स्वाहा᳚) || 3 || उपो॒ इति॑¦न॒य॒स्व॒¦वृष॑णा¦त॒पुः॒ऽपा¦उ॒त¦ई॒म्¦अ॒व॒¦त्वम्¦वृ॒ष॒भ॒¦स्व॒धा॒ऽवः॒ | |
ब्रह्म॑णातेब्रह्म॒युजा᳚युनज्मि॒हरी॒सखा᳚यासध॒माद॑आ॒शू |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स्थि॒रंरथं᳚सु॒खमि᳚न्द्राधि॒तिष्ठ᳚न्प्रजा॒नन्वि॒द्वाँ,उप॑याहि॒सोम॒म्(स्वाहा᳚) || 4 || ब्रह्म॑णा¦ते॒¦ब्र॒ह्म॒ऽयुजा᳚¦यु॒न॒ज्मि॒¦हरी॒ इति॑¦सखा᳚या¦स॒ध॒ऽमादे᳚¦आ॒शू इति॑ | |
माते॒हरी॒वृष॑णावी॒तपृ॑ष्ठा॒निरी᳚रम॒न्यज॑मानासो,अ॒न्ये |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒त्याया᳚हि॒शश्व॑तोव॒यंतेरं᳚सु॒तेभिः॑कृणवाम॒सोमैः᳚(स्वाहा᳚) || 5 || मा¦ते॒¦हरी॒ इति॑¦वृष॑णा¦वी॒तऽपृ॑ष्ठा¦नि¦री॒र॒म॒न्¦यज॑मानासः¦अ॒न्ये | |
तवा॒यंसोम॒स्त्वमेह्य॒र्वाङ्श॑श्वत्त॒मंसु॒मना᳚,अ॒स्यपा᳚हि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒स्मिन्य॒ज्ञेब॒र्हिष्यानि॒षद्या᳚दधि॒ष्वेमंज॒ठर॒इन्दु॑मिन्द्र॒(स्वाहा᳚) || 6 || वर्ग:18 तव॑¦अ॒यम्¦सोमः॑¦त्वम्¦आ¦इ॒हि॒¦अ॒र्वाङ्¦श॒श्व॒त्ऽत॒मम्¦सु॒ऽमनाः᳚¦अ॒स्य¦पा॒हि॒ | |
स्ती॒र्णंते᳚ब॒र्हिःसु॒तइ᳚न्द्र॒सोमः॑कृ॒ताधा॒ना,अत्त॑वेते॒हरि॑भ्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तदो᳚कसेपुरु॒शाका᳚य॒वृष्णे᳚म॒रुत्व॑ते॒तुभ्यं᳚रा॒ताह॒वींषि॒(स्वाहा᳚) || 7 || स्ती॒र्णम्¦ते॒¦ब॒र्हिः¦सु॒तः¦इ॒न्द्र॒¦सोमः॑¦कृ॒ताः¦धा॒नाः¦अत्त॑वे¦ते॒¦हरि॑ऽभ्याम् | |
इ॒मंनरः॒पर्व॑ता॒ऽस्तुभ्य॒मापः॒समि᳚न्द्र॒गोभि॒र्मधु॑मन्तमक्रन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तस्या॒गत्या᳚सु॒मना᳚ऋष्वपाहिप्रजा॒नन्वि॒द्वान्प॒थ्या॒३॑(आ॒)अनु॒स्वाः(स्वाहा᳚) || 8 || इ॒मम्¦नरः॑¦पर्व॑ताः¦तुभ्य᳚म्¦आपः॑¦सम्¦इ॒न्द्र॒¦गोभिः॑¦मधु॑ऽमन्तम्¦अ॒क्र॒न् | |
याँ,आभ॑जोम॒रुत॑इन्द्र॒सोमे॒येत्वामव॑र्ध॒न्नभ॑वन्ग॒णस्ते᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तेभि॑रे॒तंस॒जोषा᳚वावशा॒नो॒३॑(ओ॒)ऽग्नेःपि॑बजि॒ह्वया॒सोम॑मिन्द्र॒(स्वाहा᳚) || 9 || यान्¦आ¦अभ॑जः¦म॒रुतः॑¦इ॒न्द्र॒¦सोमे᳚¦ये¦त्वाम्¦अव॑र्धन्¦अभ॑वन्¦ग॒णः¦ते॒ | |
इन्द्र॒पिब॑स्व॒धया᳚चित्सु॒तस्या॒ऽग्नेर्वा᳚पाहिजि॒ह्वया᳚यजत्र |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒ध्व॒र्योर्वा॒प्रय॑तंशक्र॒हस्ता॒द्धोतु᳚र्वाय॒ज्ञंह॒विषो᳚जुषस्व॒(स्वाहा᳚) || 10 || इन्द्र॑¦पिब॑¦स्व॒धया᳚¦चि॒त्¦सु॒तस्य॑¦अ॒ग्नेः¦वा॒¦पा॒हि॒¦जि॒ह्वया᳚¦य॒ज॒त्र॒ | |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚ना॒म्(स्वाहा᳚) || 11 || शु॒नम्¦हु॒वे॒म॒¦म॒घऽवा᳚नम्¦इन्द्र᳚म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑मम्¦वाज॑ऽसातौ | |
[36] इमामूष्वित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोदशम्याआंगिरसोघोरइंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:36}{अनुवाक:3, सूक्त:7}{अष्टक:3, अध्याय:2} |
इ॒मामू॒षुप्रभृ॑तिंसा॒तये᳚धाः॒शश्व॑च्छश्वदू॒तिभि॒र्याद॑मानः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} सु॒तेसु॑तेवावृधे॒वर्ध॑नेभि॒र्यःकर्म॑भिर्म॒हद्भिः॒सुश्रु॑तो॒भूत्(स्वाहा᳚) || 1 || वर्ग:19 इ॒माम्¦ऊँ॒ इति॑¦सु¦प्रऽभृ॑तिम्¦सा॒तये᳚¦धाः॒¦शश्व॑त्ऽशश्वत्¦ऊ॒तिऽभिः॑¦याद॑मानः | |
इन्द्रा᳚य॒सोमाः᳚प्र॒दिवो॒विदा᳚ना,ऋ॒भुर्येभि॒र्वृष॑पर्वा॒विहा᳚याः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्र॒य॒म्यमा᳚ना॒न्प्रति॒षूगृ॑भा॒येन्द्र॒पिब॒वृष॑धूतस्य॒वृष्णः॒(स्वाहा᳚) || 2 || इन्द्रा᳚य¦सोमाः᳚¦प्र॒ऽदिवः॑¦विदा᳚नाः¦ऋ॒भुः¦येभिः॑¦वृष॑ऽपर्वा¦विऽहा᳚याः | |
पिबा॒वर्ध॑स्व॒तव॑घासु॒तास॒इन्द्र॒सोमा᳚सःप्रथ॒मा,उ॒तेमे |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यथापि॑बःपू॒र्व्याँ,इ᳚न्द्र॒सोमाँ᳚,ए॒वापा᳚हि॒पन्यो᳚,अ॒द्यानवी᳚या॒न्(स्वाहा᳚) || 3 || पिब॑¦वर्ध॑स्व¦तव॑¦घ॒¦सु॒तासः॑¦इन्द्र॑¦सोमा᳚सः¦प्र॒थ॒माः¦उ॒त¦इ॒मे | |
म॒हाँ,अम॑त्रोवृ॒जने᳚विर॒प्श्यु१॑(उ॒)ग्रंशवः॑पत्यतेधृ॒ष्ण्वोजः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} नाह॑विव्याचपृथि॒वीच॒नैनं॒यत्सोमा᳚सो॒हर्य॑श्व॒मम᳚न्द॒न्(स्वाहा᳚) || 4 || म॒हान्¦अम॑त्रः¦वृ॒जने᳚¦वि॒ऽर॒प्शी¦उ॒ग्रम्¦शवः॑¦प॒त्य॒ते॒¦धृ॒ष्णु¦ओजः॑ | |
म॒हाँ,उ॒ग्रोवा᳚वृधेवी॒र्या᳚यस॒माच॑क्रेवृष॒भःकाव्ये᳚न |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्रो॒भगो᳚वाज॒दा,अ॑स्य॒गावः॒प्रजा᳚यन्ते॒दक्षि॑णा,अस्यपू॒र्वीः(स्वाहा᳚) || 5 || म॒हान्¦उ॒ग्रः¦व॒वृ॒धे॒¦वी॒र्या᳚य¦स॒म्ऽआच॑क्रे¦वृ॒ष॒भः¦काव्ये᳚न | |
प्रयत्सिन्ध॑वःप्रस॒वंयथाय॒न्नापः॑समु॒द्रंर॒थ्ये᳚वजग्मुः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अत॑श्चि॒दिन्द्रः॒सद॑सो॒वरी᳚या॒न्यदीं॒सोमः॑पृ॒णति॑दु॒ग्धो,अं॒शुः(स्वाहा᳚) || 6 || वर्ग:20 प्र¦यत्¦सिन्ध॑वः¦प्र॒ऽस॒वम्¦यथा᳚¦आय॑न्¦आपः॑¦स॒मु॒द्रम्¦र॒थ्या᳚ऽइव¦ज॒ग्मुः॒ | |
स॒मु॒द्रेण॒सिन्ध॑वो॒याद॑माना॒,इन्द्रा᳚य॒सोमं॒सुषु॑तं॒भर᳚न्तः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अं॒शुंदु॑हन्तिह॒स्तिनो᳚भ॒रित्रै॒र्मध्वः॑पुनन्ति॒धार॑याप॒वित्रैः᳚(स्वाहा᳚) || 7 || स॒मु॒द्रेण॑¦सिन्ध॑वः¦याद॑मानाः¦इन्द्रा᳚य¦सोम᳚म्¦सुऽसु॑तम्¦भर᳚न्तः | |
ह्र॒दा,इ॑वकु॒क्षयः॑सोम॒धानाः॒समी᳚विव्याच॒सव॑नापु॒रूणि॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अन्ना॒यदिन्द्रः॑प्रथ॒माव्याश॑वृ॒त्रंज॑घ॒न्वाँ,अ॑वृणीत॒सोम॒म्(स्वाहा᳚) || 8 || ह्र॒दाःऽइ᳚व¦कु॒क्षयः॑¦सो॒म॒ऽधानाः᳚¦सम्¦ई॒मिति॑¦वि॒व्या॒च॒¦सव॑ना¦पु॒रूणि॑ | |
आतूभ॑र॒माकि॑रे॒तत्परि॑ष्ठाद्वि॒द्माहित्वा॒वसु॑पतिं॒वसू᳚नाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्र॒यत्ते॒माहि॑नं॒दत्र॒मस्त्य॒स्मभ्यं॒तद्ध᳚र्यश्व॒प्रय᳚न्धि॒(स्वाहा᳚) || 9 || आ¦तु¦भ॒र॒¦माकिः॑¦ए॒तत्¦परि॑¦स्था॒त्¦वि॒द्म¦हि¦त्वा॒¦वसु॑ऽपतिम्¦वसू᳚नाम् | |
अ॒स्मेप्रय᳚न्धिमघवन्नृजीषि॒न्निन्द्र॑रा॒योवि॒श्ववा᳚रस्य॒भूरेः᳚ |{आङ्गिरसो घोरः | इन्द्रः | त्रिष्टुप्} अ॒स्मेश॒तंश॒रदो᳚जी॒वसे᳚धा,अ॒स्मेवी॒राञ्छश्व॑तइन्द्रशिप्रि॒न्(स्वाहा᳚) || 10 || अ॒स्मे इति॑¦प्र¦य॒न्धि॒¦म॒घ॒ऽव॒न्¦ऋ॒जी॒षि॒न्¦इन्द्र॑¦रा॒यः¦वि॒श्वऽवा᳚रस्य¦भूरेः᳚ | |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚ना॒म्(स्वाहा᳚) || 11 || शु॒नम्¦हु॒वे॒म॒¦म॒घऽवा᳚नम्¦इन्द्र᳚म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑मम्¦वाज॑ऽसातौ | |
[37] वार्त्रहत्यायेत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री अंत्यानुष्टुप् |{मंडल:3, सूक्त:37}{अनुवाक:3, सूक्त:8}{अष्टक:3, अध्याय:2} |
वार्त्र॑हत्याय॒शव॑सेपृतना॒षाह्या᳚यच |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒त्वाव॑र्तयामसि॒(स्वाहा᳚) || 1 || वर्ग:21 वार्त्र॑ऽहत्याय¦शव॑से¦पृ॒त॒ना॒ऽसह्या᳚य¦च॒ | इन्द्र॑¦त्वा॒¦आ¦व॒र्त॒या॒म॒सि॒ || |
अ॒र्वा॒चीनं॒सुते॒मन॑उ॒तचक्षुः॑शतक्रतो |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॑कृ॒ण्वन्तु॑वा॒घतः॒(स्वाहा᳚) || 2 || अ॒र्वा॒चीन᳚म्¦सु¦ते॒¦मनः॑¦उ॒त¦चक्षुः॑¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | इन्द्र॑¦कृ॒ण्वन्तु॑¦वा॒घतः॑ || |
नामा᳚नितेशतक्रतो॒विश्वा᳚भिर्गी॒र्भिरी᳚महे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्रा᳚भिमाति॒षाह्ये॒(स्वाहा᳚) || 3 || नामा᳚नि¦ते॒¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो¦विश्वा᳚भिः¦गीः॒ऽभिः¦ई॒म॒हे॒ | इन्द्र॑¦अ॒भि॒मा॒ति॒ऽसह्ये᳚ || |
पु॒रु॒ष्टु॒तस्य॒धाम॑भिःश॒तेन॑महयामसि |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॑स्यचर्षणी॒धृतः॒(स्वाहा᳚) || 4 || पु॒रु॒ऽस्तु॒तस्य॑¦धाम॑ऽभिः¦श॒तेन॑¦म॒ह॒या॒म॒सि॒ | इन्द्र॑स्य¦च॒र्ष॒णि॒ऽधृतः॑ || |
इन्द्रं᳚वृ॒त्राय॒हन्त॑वेपुरुहू॒तमुप॑ब्रुवे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} भरे᳚षु॒वाज॑सातये॒(स्वाहा᳚) || 5 || इन्द्र᳚म्¦वृ॒त्राय॑¦हन्त॑वे¦पु॒रु॒ऽहू॒तम्¦उप॑¦ब्रु॒वे॒ | भरे᳚षु¦वाज॑ऽसातये || |
वाजे᳚षुसास॒हिर्भ॑व॒त्वामी᳚महेशतक्रतो |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॑वृ॒त्राय॒हन्त॑वे॒(स्वाहा᳚) || 6 || वर्ग:22 वाजे᳚षु¦स॒स॒हिः¦भ॒व॒¦त्वाम्¦ई॒म॒हे॒¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | इन्द्र॑¦वृ॒त्राय॑¦हन्त॑वे || |
द्यु॒म्नेषु॑पृत॒नाज्ये᳚पृत्सु॒तूर्षु॒श्रव॑स्सुच |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒साक्ष्वा॒भिमा᳚तिषु॒(स्वाहा᳚) || 7 || द्यु॒म्नेषु॑¦पृ॒त॒नाज्ये᳚¦पृ॒त्सु॒तूर्षु॑¦श्रवः॑ऽसु¦च॒ | इन्द्र॑¦साक्ष्व॑¦अ॒भिऽमा᳚तिषु || |
शु॒ष्मिन्त॑मंनऊ॒तये᳚द्यु॒म्निनं᳚पाहि॒जागृ॑विम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒सोमं᳚शतक्रतो॒(स्वाहा᳚) || 8 || शु॒ष्मिन्ऽत॑मम्¦नः॒¦ऊ॒तये᳚¦द्यु॒म्निन᳚म्¦पा॒हि॒¦जागृ॑विम् | इन्द्र॑¦सोम᳚म्¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो || |
इ॒न्द्रि॒याणि॑शतक्रतो॒याते॒जने᳚षुप॒ञ्चसु॑ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒तानि॑त॒आवृ॑णे॒(स्वाहा᳚) || 9 || इ॒न्द्रि॒याणि॑¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो¦या¦ते॒¦जने᳚षु¦पं॒चऽसु॑ | इन्द्र॑¦तानि॑¦ते॒¦आ¦वृ॒णे॒ || |
अग᳚न्निन्द्र॒श्रवो᳚बृ॒हद्द्यु॒म्नंद॑धिष्वदु॒ष्टर᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} उत्ते॒शुष्मं᳚तिरामसि॒(स्वाहा᳚) || 10 || अग॑न्¦इ॒न्द्र॒¦श्रवः॑¦बृ॒हत्¦द्यु॒म्नम्¦द॒धि॒ष्व॒¦दु॒स्तर᳚म् | उत्¦ते॒¦शुष्म᳚म्¦ति॒रा॒म॒सि॒ || |
अ॒र्वा॒वतो᳚न॒आग॒ह्यथो᳚शक्रपरा॒वतः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | अनुष्टुप्} उ॒लो॒कोयस्ते᳚,अद्रिव॒इन्द्रे॒हतत॒आग॑हि॒(स्वाहा᳚) || 11 || अ॒र्वा॒ऽवतः॑¦नः॒¦आ¦ग॒हि॒¦अथो॒ इति॑¦श॒क्र॒¦प॒रा॒ऽवतः॑ | ऊँ॒ इति॑¦लो॒कः¦यः¦ते॒¦अ॒द्रि॒ऽवः॒¦इन्द्र॑¦इ॒ह¦ततः॑¦आ¦ग॒हि॒ || |
[38] अभितष्ठेवेति दशर्चस्य सूक्तस्य वैश्वामित्रः प्रजापतिरिंद्रस्त्रिष्टुप् (वाच्यः प्रजापतिर्वा विश्वामित्रोवा) |{मंडल:3, सूक्त:38}{अनुवाक:3, सूक्त:9}{अष्टक:3, अध्याय:2} |
अ॒भितष्टे᳚वदीधयामनी॒षामत्यो॒नवा॒जीसु॒धुरो॒जिहा᳚नः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} अ॒भिप्रि॒याणि॒मर्मृ॑श॒त्परा᳚णिक॒वीँरि॑च्छामिसं॒दृशे᳚सुमे॒धाः(स्वाहा᳚) || 1 || वर्ग:23 अ॒भि¦तष्टा᳚ऽइव¦दी॒ध॒य॒¦म॒नी॒षाम्¦अत्यः॑¦न¦वा॒जी¦सु॒ऽधुरः॑¦जिहा᳚नः | |
इ॒नोतपृ॑च्छ॒जनि॑माकवी॒नांम॑नो॒धृतः॑सु॒कृत॑स्तक्षत॒द्याम् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} इ॒मा,उ॑तेप्र॒ण्यो॒३॑(ओ॒)वर्ध॑माना॒मनो᳚वाता॒,अध॒नुधर्म॑णिग्म॒न्(स्वाहा᳚) || 2 || इ॒ना¦उ॒त¦पृ॒च्छ॒¦जनि॑म¦क॒वी॒नाम्¦म॒नः॒ऽधृतः॑¦सु॒ऽकृतः॑¦त॒क्ष॒त॒¦द्याम् | |
निषी॒मिदत्र॒गुह्या॒दधा᳚ना,उ॒तक्ष॒त्राय॒रोद॑सी॒सम᳚ञ्जन् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} संमात्रा᳚भिर्ममि॒रेये॒मुरु॒र्वी,अ॒न्तर्म॒हीसमृ॑ते॒धाय॑सेधुः॒(स्वाहा᳚) || 3 || नि¦सी॒म्¦इत्¦अत्र॑¦गुह्या᳚¦दधा᳚नाः¦उ॒त¦क्ष॒त्राय॑¦रोद॑सी॒ इति॑¦सम्¦अं॒ज॒न् | |
आ॒तिष्ठ᳚न्तं॒परि॒विश्वे᳚,अभूष॒ञ्छ्रियो॒वसा᳚नश्चरति॒स्वरो᳚चिः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} म॒हत्तद्वृष्णो॒,असु॑रस्य॒नामाऽऽवि॒श्वरू᳚पो,अ॒मृता᳚नितस्थौ॒(स्वाहा᳚) || 4 || आ॒ऽतिष्ठ᳚न्तम्¦परि॑¦विश्वे᳚¦अ॒भू॒ष॒न्¦श्रियः॑¦वसा᳚नः¦च॒र॒ति॒¦स्वऽरो᳚चिः | |
असू᳚त॒पूर्वो᳚वृष॒भोज्याया᳚नि॒मा,अ॑स्यशु॒रुधः॑सन्तिपू॒र्वीः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} दिवो᳚नपातावि॒दथ॑स्यधी॒भिः,क्ष॒त्रंरा᳚जानाप्र॒दिवो᳚दधाथे॒(स्वाहा᳚) || 5 || असू᳚त¦पूर्वः॑¦वृ॒ष॒भः¦ज्याया᳚न्¦इ॒माः¦अ॒स्य॒¦शु॒रुधः॑¦स॒न्ति॒¦पू॒र्वीः | |
त्रीणि॑राजानावि॒दथे᳚पु॒रूणि॒परि॒विश्वा᳚निभूषथः॒सदां᳚सि |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} अप॑श्य॒मत्र॒मन॑साजग॒न्वान्व्र॒तेग᳚न्ध॒र्वाँ,अपि॑वा॒युके᳚शा॒न्(स्वाहा᳚) || 6 || वर्ग:24 त्रीणि॑¦रा॒जा॒ना॒¦वि॒दथे᳚¦पु॒रूणि॑¦परि॑¦विश्वा᳚नि¦भू॒ष॒थः॒¦सदां᳚सि | |
तदिन्न्व॑स्यवृष॒भस्य॑धे॒नोरानाम॑भिर्ममिरे॒सक्म्यं॒गोः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} अ॒न्यद᳚न्यदसु॒र्य१॑(अं॒)वसा᳚ना॒निमा॒यिनो᳚ममिरेरू॒पम॑स्मि॒न्(स्वाहा᳚) || 7 || तत्¦इत्¦नु¦अ॒स्य॒¦वृ॒ष॒भस्य॑¦धे॒नोः¦आ¦नाम॑ऽभिः¦म॒मि॒रे॒¦सक्म्य᳚म्¦गोः | |
तदिन्न्व॑स्यसवि॒तुर्नकि᳚र्मेहिर॒ण्ययी᳚म॒मतिं॒यामशि॑श्रेत् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} आसु॑ष्टु॒तीरोद॑सीविश्वमि॒न्वे,अपी᳚व॒योषा॒जनि॑मानिवव्रे॒(स्वाहा᳚) || 8 || तत्¦इत्¦नु¦अ॒स्य॒¦स॒वि॒तुः¦नकिः॑¦मे॒¦हि॒र॒ण्ययी᳚म्¦अ॒मति᳚म्¦याम्¦अशि॑श्रेत् | |
यु॒वंप्र॒त्नस्य॑साधथोम॒होयद्दैवी᳚स्व॒स्तिःपरि॑णःस्यातम् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} गो॒पाजि॑ह्वस्यत॒स्थुषो॒विरू᳚पा॒विश्वे᳚पश्यन्तिमा॒यिनः॑कृ॒तानि॒(स्वाहा᳚) || 9 || यु॒वम्¦प्र॒त्नस्य॑¦सा॒ध॒थः॒¦म॒हः¦यत्¦दैवी᳚¦स्व॒स्तिः¦परि॑¦नः॒¦स्या॒त॒म् | |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚ना॒म्(स्वाहा᳚) || 10 || शु॒नम्¦हु॒वे॒म॒¦म॒घऽवा᳚नम्¦इन्द्र᳚म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑मम्¦वाज॑ऽसातौ | |
[39] इंद्रंमतिरिति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:39}{अनुवाक:4, सूक्त:1}{अष्टक:3, अध्याय:2} |
इन्द्रं᳚म॒तिर्हृ॒दआव॒च्यमा॒नाच्छा॒पतिं॒स्तोम॑तष्टाजिगाति |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} याजागृ॑विर्वि॒दथे᳚श॒स्यमा॒नेन्द्र॒यत्ते॒जाय॑तेवि॒द्धितस्य॒(स्वाहा᳚) || 1 || वर्ग:25 इन्द्र᳚म्¦म॒तिः¦हृ॒दः¦आ¦व॒च्यमा᳚ना¦अच्छ॑¦पति᳚म्¦स्तोम॑ऽतष्टा¦जि॒गा॒ति॒ | |
दि॒वश्चि॒दापू॒र्व्याजाय॑माना॒विजागृ॑विर्वि॒दथे᳚श॒स्यमा᳚ना |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} भ॒द्रावस्त्रा॒ण्यर्जु॑ना॒वसा᳚ना॒सेयम॒स्मेस॑न॒जापित्र्या॒धीः(स्वाहा᳚) || 2 || दि॒वः¦चि॒त्¦आ¦पू॒र्व्या¦जाय॑माना¦वि¦जागृ॑विः¦वि॒दथे᳚¦श॒स्यमा᳚ना | |
य॒माचि॒दत्र॑यम॒सूर॑सूतजि॒ह्वाया॒,अग्रं॒पत॒दाह्यस्था᳚त् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वपूं᳚षिजा॒तामि॑थु॒नास॑चेतेतमो॒हना॒तपु॑षोबु॒ध्नएता॒(स्वाहा᳚) || 3 || य॒मा¦चि॒त्¦अत्र॑¦य॒म॒ऽसूः¦अ॒सू॒त॒¦जि॒ह्वायाः᳚¦अग्र᳚म्¦पत॑त्¦आ¦हि¦अस्था᳚त् | |
नकि॑रेषांनिन्दि॒तामर्त्ये᳚षु॒ये,अ॒स्माकं᳚पि॒तरो॒गोषु॑यो॒धाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्र॑एषांदृंहि॒तामाहि॑नावा॒नुद्गो॒त्राणि॑ससृजेदं॒सना᳚वा॒न्(स्वाहा᳚) || 4 || नकिः॑¦ए॒षा॒म्¦नि॒न्दि॒ता¦मर्त्ये᳚षु¦ये¦अ॒स्माक᳚म्¦पि॒तरः॑¦गोषु॑¦यो॒धाः | |
सखा᳚ह॒यत्र॒सखि॑भि॒र्नव॑ग्वैरभि॒ज्ञ्वासत्व॑भि॒र्गा,अ॑नु॒ग्मन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स॒त्यंतदिन्द्रो᳚द॒शभि॒र्दश॑ग्वैः॒सूर्यं᳚विवेद॒तम॑सिक्षि॒यन्त॒म्(स्वाहा᳚) || 5 || सखा᳚¦ह॒¦यत्र॑¦सखि॑ऽभिः¦नव॑ऽग्वैः¦अ॒भि॒ऽज्ञु¦आ¦सत्व॑ऽभिः¦गाः¦अ॒नु॒ऽग्मन् | |
इन्द्रो॒मधु॒सम्भृ॑तमु॒स्रिया᳚यांप॒द्वद्वि॑वेदश॒फव॒न्नमे॒गोः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} गुहा᳚हि॒तंगुह्यं᳚गू॒ळ्हम॒प्सुहस्ते᳚दधे॒दक्षि॑णे॒दक्षि॑णावा॒न्(स्वाहा᳚) || 6 || वर्ग:26 इन्द्रः॑¦मधु॑¦सम्ऽभृ॑तम्¦उ॒स्रिया᳚याम्¦प॒त्ऽवत्¦वि॒वे॒द॒¦श॒फऽव॑त्¦नमे᳚¦गोः | |
ज्योति᳚र्वृणीत॒तम॑सोविजा॒नन्ना॒रेस्या᳚मदुरि॒ताद॒भीके᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒मागिरः॑सोमपाःसोमवृद्धजु॒षस्वे᳚न्द्रपुरु॒तम॑स्यका॒रोः(स्वाहा᳚) || 7 || ज्योतिः॑¦वृ॒णी॒त॒¦तम॑सः¦वि॒ऽजा॒नन्¦आ॒रे¦स्या॒म॒¦दुः॒ऽइ॒तात्¦अ॒भीके᳚ | |
ज्योति᳚र्य॒ज्ञाय॒रोद॑सी॒,अनु॑ष्यादा॒रेस्या᳚मदुरि॒तस्य॒भूरेः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} भूरि॑चि॒द्धितु॑ज॒तोमर्त्य॑स्यसुपा॒रासो᳚वसवोब॒र्हणा᳚व॒त्(स्वाहा᳚) || 8 || ज्योतिः॑¦य॒ज्ञाय॑¦रोद॑सी॒ इति॑¦अनु॑¦स्या॒त्¦आ॒रे¦स्या॒म॒¦दुः॒ऽइ॒तस्य॑¦भूरेः᳚ | |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚ना॒म्(स्वाहा᳚) || 9 || शु॒नम्¦हु॒वे॒म॒¦म॒घऽवा᳚नम्¦इन्द्र᳚म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑मम्¦वाज॑ऽसातौ | |
[40] इंद्रत्वेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री |{मंडल:3, सूक्त:40}{अनुवाक:4, सूक्त:2}{अष्टक:3, अध्याय:3} |
इन्द्र॑त्वावृष॒भंव॒यंसु॒तेसोमे᳚हवामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} सपा᳚हि॒मध्वो॒,अन्ध॑सः॒(स्वाहा᳚) || 1 || वर्ग:1 इन्द्र॑¦त्वा॒¦वृ॒ष॒भम्¦व॒यम्¦सु॒ते¦सोमे᳚¦ह॒वा॒म॒हे॒ | सः¦पा॒हि॒¦मध्वः॑¦अन्ध॑सः || |
इन्द्र॑क्रतु॒विदं᳚सु॒तंसोमं᳚हर्यपुरुष्टुत |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} पिबावृ॑षस्व॒तातृ॑पि॒म्(स्वाहा᳚) || 2 || इन्द्र॑¦क्र॒तु॒ऽविद᳚म्¦सु॒तम्¦सोम᳚म्¦ह॒र्य॒¦पु॒रु॒ऽस्तु॒त॒ | पिब॑¦आ¦वृ॒ष॒स्व॒¦ततृ॑पिम् || |
इन्द्र॒प्रणो᳚धि॒तावा᳚नंय॒ज्ञंविश्वे᳚भिर्दे॒वेभिः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} ति॒रस्त॑वानविश्पते॒(स्वाहा᳚) || 3 || इन्द्र॑¦प्र¦नः॒¦धि॒तऽवा᳚नम्¦य॒ज्ञम्¦विश्वे᳚भिः¦दे॒वेभिः॑ | ति॒र¦स्त॒वा॒न॒¦वि॒श्प॒ते॒ || |
इन्द्र॒सोमाः᳚सु॒ता,इ॒मेतव॒प्रय᳚न्तिसत्पते |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} क्षयं᳚च॒न्द्रास॒इन्द॑वः॒(स्वाहा᳚) || 4 || इन्द्र॑¦सोमाः᳚¦सु॒ताः¦इ॒मे¦तव॑¦प्र¦य॒न्ति॒¦स॒त्ऽप॒ते॒ | क्षय᳚म्¦च॒न्द्रासः॑¦इन्द॑वः || |
द॒धि॒ष्वाज॒ठरे᳚सु॒तंसोम॑मिन्द्र॒वरे᳚ण्यम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} तव॑द्यु॒क्षास॒इन्द॑वः॒(स्वाहा᳚) || 5 || द॒धि॒ष्व¦ज॒ठरे᳚¦सु॒तम्¦सोम᳚म्¦इ॒न्द्र॒¦वरे᳚ण्यम् | तव॑¦द्यु॒क्षासः॑¦इन्द॑वः || |
गिर्व॑णःपा॒हिनः॑सु॒तंमधो॒र्धारा᳚भिरज्यसे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒त्वादा᳚त॒मिद्यशः॒(स्वाहा᳚) || 6 || वर्ग:2 गिर्व॑णः¦पा॒हि¦नः॒¦सु॒तम्¦मधोः᳚¦धारा᳚भिः¦अ॒ज्य॒से॒ | इन्द्र॑¦त्वाऽदा᳚तम्¦इत्¦यशः॑ || |
अ॒भिद्यु॒म्नानि॑व॒निन॒इन्द्रं᳚सचन्ते॒,अक्षि॑ता |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} पी॒त्वीसोम॑स्यवावृधे॒(स्वाहा᳚) || 7 || अ॒भि¦द्यु॒म्नानि॑¦व॒निनः॑¦इन्द्र᳚म्¦स॒च॒न्ते॒¦अक्षि॑ता | पी॒त्वी¦सोम॑स्य¦व॒वृ॒धे॒ || |
अ॒र्वा॒वतो᳚न॒आग॑हिपरा॒वत॑श्चवृत्रहन् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इ॒माजु॑षस्वनो॒गिरः॒(स्वाहा᳚) || 8 || अ॒र्वा॒ऽवतः॑¦नः॒¦आ¦ग॒हि॒¦प॒रा॒ऽवतः॑¦च॒¦वृ॒त्र॒ऽह॒न् | इ॒माः¦जु॒ष॒स्व॒¦नः॒¦गिरः॑ || |
यद᳚न्त॒राप॑रा॒वत॑मर्वा॒वतं᳚चहू॒यसे᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्रे॒हतत॒आग॑हि॒(स्वाहा᳚) || 9 || यत्¦अ॒न्त॒रा¦प॒रा॒ऽवत᳚म्¦अ॒र्वा॒ऽवत᳚म्¦च॒¦हू॒यसे᳚ | इन्द्र॑¦इ॒ह¦ततः॑¦आ¦ग॒हि॒ || |
[41] आतूनइंद्रेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री |{मंडल:3, सूक्त:41}{अनुवाक:4, सूक्त:3}{अष्टक:3, अध्याय:3} |
आतून॑इन्द्रम॒द्र्य॑ग्घुवा॒नःसोम॑पीतये |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} हरि॑भ्यांयाह्यद्रिवः॒(स्वाहा᳚) || 1 || वर्ग:3 आ¦तु¦नः॒¦इ॒न्द्र॒¦म॒द्र्य॑क्¦हु॒वा॒नः¦सोम॑ऽपीतये | हरि॑ऽभ्याम्¦या॒हि॒¦अ॒द्रि॒ऽवः॒ || |
स॒त्तोहोता᳚नऋ॒त्विय॑स्तिस्ति॒रेब॒र्हिरा᳚नु॒षक् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} अयु॑ज्रन्प्रा॒तरद्र॑यः॒(स्वाहा᳚) || 2 || स॒त्तः¦होता᳚¦नः॒¦ऋ॒त्वियः॑¦ति॒स्ति॒रे¦ब॒र्हिः¦आ॒नु॒षक् | अयु॑ज्रन्¦प्रा॒तः¦अद्र॑यः || |
इ॒माब्रह्म॑ब्रह्मवाहःक्रि॒यन्त॒आब॒र्हिःसी᳚द |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} वी॒हिशू᳚रपुरो॒ळाश॒म्(स्वाहा᳚) || 3 || इ॒मा¦ब्रह्म॑¦ब्र॒ह्म॒ऽवा॒हः॒¦क्रि॒यन्ते᳚¦आ¦ब॒र्हिः¦सी॒द॒ | वी॒हि¦शू॒र॒¦पु॒रो॒ळाश᳚म् || |
रा॒र॒न्धिसव॑नेषुणए॒षुस्तोमे᳚षुवृत्रहन् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} उ॒क्थेष्वि᳚न्द्रगिर्वणः॒(स्वाहा᳚) || 4 || र॒र॒न्धि¦सव॑नेषु¦नः॒¦ए॒षु¦स्तोमे᳚षु¦वृ॒त्र॒ऽह॒न् | उ॒क्थेषु॑¦इ॒न्द्र॒¦गि॒र्व॒णः॒ || |
म॒तयः॑सोम॒पामु॒रुंरि॒हन्ति॒शव॑स॒स्पति᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्रं᳚व॒त्संनमा॒तरः॒(स्वाहा᳚) || 5 || म॒तयः॑¦सो॒म॒ऽपाम्¦उ॒रुम्¦रि॒हन्ति॑¦शव॑सः¦पति᳚म् | इन्द्र᳚म्¦व॒त्सम्¦न¦मा॒तरः॑ || |
सम᳚न्दस्वा॒ह्यन्ध॑सो॒राध॑सेत॒न्वा᳚म॒हे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} नस्तो॒तारं᳚नि॒देक॑रः॒(स्वाहा᳚) || 6 || वर्ग:4 सः¦म॒न्द॒स्व॒¦हि¦अन्ध॑सः¦राध॑से¦त॒न्वा᳚¦म॒हे | न¦स्तो॒तार᳚म्¦नि॒दे¦क॒रः॒ || |
व॒यमि᳚न्द्रत्वा॒यवो᳚ह॒विष्म᳚न्तोजरामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} उ॒तत्वम॑स्म॒युर्व॑सो॒(स्वाहा᳚) || 7 || व॒यम्¦इ॒न्द्र॒¦त्वा॒ऽयवः॑¦ह॒विष्म᳚न्तः¦ज॒रा॒म॒हे॒ | उ॒त¦त्वम्¦अ॒स्म॒ऽयुः¦व॒सो॒ इति॑ || |
मारे,अ॒स्मद्विमु॑मुचो॒हरि॑प्रिया॒र्वाङ्या᳚हि |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॑स्वधावो॒मत्स्वे॒ह(स्वाहा᳚) || 8 || मा¦आ॒रे¦अ॒स्मत्¦वि¦मु॒मु॒चः॒¦हरि॑ऽप्रिय¦आ॒र्वाङ्¦या॒हि॒ | इन्द्र॑¦स्व॒धा॒ऽवः॒¦मत्स्व॑¦इ॒ह || |
अ॒र्वाञ्चं᳚त्वासु॒खेरथे॒वह॑तामिन्द्रके॒शिना᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} घृ॒तस्नू᳚ब॒र्हिरा॒सदे॒(स्वाहा᳚) || 9 || अ॒र्वांच᳚म्¦त्वा॒¦सु॒ऽखे¦रथे᳚¦वह॑ताम्¦इ॒न्द्र॒¦के॒शिना᳚ | घृ॒तस्नू॒ इति॑ घृ॒तऽस्नू᳚¦ब॒र्हिः¦आ॒ऽसदे᳚ || |
[42] उपनइति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र इंद्रोगायत्री |{मंडल:3, सूक्त:42}{अनुवाक:4, सूक्त:4}{अष्टक:3, अध्याय:3} |
उप॑नःसु॒तमाग॑हि॒सोम॑मिन्द्र॒गवा᳚शिरम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} हरि॑भ्यां॒यस्ते᳚,अस्म॒युः(स्वाहा᳚) || 1 || वर्ग:5 उप॑¦नः॒¦सु॒तम्¦आ¦ग॒हि॒¦सोम᳚म्¦इ॒न्द्र॒¦गोऽआ᳚शिरम् | हरि॑ऽभ्याम्¦यः¦ते॒¦अ॒स्म॒ऽयुः || |
तमि᳚न्द्र॒मद॒माग॑हिबर्हिः॒ष्ठांग्राव॑भिःसु॒तम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} कु॒विन्न्व॑स्यतृ॒प्णवः॒(स्वाहा᳚) || 2 || तम्¦इ॒न्द्र॒¦मद᳚म्¦आ¦ग॒हि॒¦ब॒र्हिः॒ऽस्थाम्¦ग्राव॑ऽभिः¦सु॒तम् | कु॒वित्¦नु¦अ॒स्य॒¦तृ॒ष्णवः॑ || |
इन्द्र॑मि॒त्थागिरो॒ममाच्छा᳚गुरिषि॒ता,इ॒तः |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} आ॒वृते॒सोम॑पीतये॒(स्वाहा᳚) || 3 || इन्द्र᳚म्¦इ॒त्था¦गिरः॑¦मम॑¦अच्छ॑¦अ॒गुः॒¦इ॒षि॒ताः¦इ॒तः | आ॒ऽवृते᳚¦सोम॑ऽपीतये || |
इन्द्रं॒सोम॑स्यपी॒तये॒स्तोमै᳚रि॒हह॑वामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} उ॒क्थेभिः॑कु॒विदा॒गम॒॑त्(स्वाहा᳚) || 4 || इन्द्र᳚म्¦सोम॑स्य¦पी॒तये᳚¦स्तोमैः᳚¦इ॒ह¦ह॒वा॒म॒हे॒ | उ॒क्थेभिः॑¦कु॒वित्¦आ॒ऽगम॑त् || |
इन्द्र॒सोमाः᳚सु॒ता,इ॒मेतान्द॑धिष्वशतक्रतो |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} ज॒ठरे᳚वाजिनीवसो॒(स्वाहा᳚) || 5 || इन्द्र॑¦सोमाः᳚¦सु॒ताः¦इ॒मे¦तान्¦द॒धि॒ष्व॒¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | ज॒ठरे᳚¦वा॒जि॒नी॒व॒सो॒ इति॑ वाजिनीऽवसो || |
वि॒द्माहित्वा᳚धनंज॒यंवाजे᳚षुदधृ॒षंक॑वे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} अधा᳚तेसु॒म्नमी᳚महे॒(स्वाहा᳚) || 6 || वर्ग:6 वि॒द्म¦हि¦त्वा॒¦ध॒न॒म्ऽज॒यम्¦वाजे᳚षु¦द॒धृ॒षम्¦क॒वे॒ | अध॑¦ते॒¦सु॒म्नम्¦ई॒म॒हे॒ || |
इ॒ममि᳚न्द्र॒गवा᳚शिरं॒यवा᳚शिरंचनःपिब |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} आ॒गत्या॒वृष॑भिःसु॒तम्(स्वाहा᳚) || 7 || इ॒मम्¦इ॒न्द्र॒¦गोऽआ᳚शिरम्¦यव॑ऽआशिरम्¦च॒¦नः॒¦पि॒ब॒ | आ॒ऽगत्य॑¦वृष॑ऽभिः¦सु॒तम् || |
तुभ्येदि᳚न्द्र॒स्वओ॒क्ये॒३॑(ए॒)सोमं᳚चोदामिपी॒तये᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} ए॒षरा᳚रन्तुतेहृ॒दि(स्वाहा᳚) || 8 || तुभ्य॑¦इत्¦इ॒न्द्र॒¦स्वे¦ओ॒क्ये᳚¦सोम᳚म्¦चो॒दा॒मि॒¦पी॒तये᳚ | ए॒षः¦र॒र॒न्तु॒¦ते॒¦हृ॒दि || |
त्वांसु॒तस्य॑पी॒तये᳚प्र॒त्नमि᳚न्द्रहवामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} कु॒शि॒कासो᳚,अव॒स्यवः॒(स्वाहा᳚) || 9 || त्वाम्¦सु॒तस्य॑¦पी॒तये᳚¦प्र॒त्नम्¦इ॒न्द्र॒¦ह॒वा॒म॒हे॒ | कु॒शि॒कासः॑¦अ॒व॒स्यवः॑ || |
[43] आयाह्यर्वाङित्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:43}{अनुवाक:4, सूक्त:5}{अष्टक:3, अध्याय:3} |
आया᳚ह्य॒र्वाङुप॑वन्धुरे॒ष्ठास्तवेदनु॑प्र॒दिवः॑सोम॒पेय᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्रि॒यासखा᳚या॒विमु॒चोप॑ब॒र्हिस्त्वामि॒मेह᳚व्य॒वाहो᳚हवन्ते॒(स्वाहा᳚) || 1 || वर्ग:7 आ¦या॒हि॒¦अ॒र्वाङ्¦उप॑¦व॒न्धु॒रे॒ऽस्थाः¦तव॑¦इत्¦अनु॑¦प्र॒ऽदिवः॑¦सो॒म॒ऽपेय᳚म् | |
आया᳚हिपू॒र्वीरति॑चर्ष॒णीराँ,अ॒र्यआ॒शिष॒उप॑नो॒हरि॑भ्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒माहित्वा᳚म॒तयः॒स्तोम॑तष्टा॒,इन्द्र॒हव᳚न्तेस॒ख्यंजु॑षा॒णाः(स्वाहा᳚) || 2 || आ¦या॒हि॒¦पू॒र्वीः¦अति॑¦च॒र्ष॒णीः¦आ¦अ॒र्यः¦आ॒ऽशिषः॑¦उप॑¦नः॒¦हरि॑ऽभ्याम् | |
आनो᳚य॒ज्ञंन॑मो॒वृधं᳚स॒जोषा॒,इन्द्र॑देव॒हरि॑भिर्याहि॒तूय᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒हंहित्वा᳚म॒तिभि॒र्जोह॑वीमिघृ॒तप्र॑याःसध॒मादे॒मधू᳚ना॒म्(स्वाहा᳚) || 3 || आ¦नः॒¦य॒ज्ञम्¦न॒मः॒ऽवृध᳚म्¦स॒ऽजोषाः᳚¦इन्द्र॑¦दे॒व॒¦हरि॑ऽभिः¦या॒हि॒¦तूय᳚म् | |
आच॒त्वामे॒तावृष॑णा॒वहा᳚तो॒हरी॒सखा᳚यासु॒धुरा॒स्वङ्गा᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} धा॒नाव॒दिन्द्रः॒सव॑नंजुषा॒णःसखा॒सख्युः॑शृणव॒द्वन्द॑नानि॒(स्वाहा᳚) || 4 || आ¦च॒¦त्वाम्¦ए॒ता¦वृष॑णा¦वहा᳚तः¦हरी॒ इति॑¦सखा᳚या¦सु॒ऽधुरा᳚¦सु॒।आङ्गा᳚ | |
कु॒विन्मा᳚गो॒पांकर॑से॒जन॑स्यकु॒विद्राजा᳚नंमघवन्नृजीषिन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} कु॒विन्म॒ऋषिं᳚पपि॒वांसं᳚सु॒तस्य॑कु॒विन्मे॒वस्वो᳚,अ॒मृत॑स्य॒शिक्षाः᳚(स्वाहा᳚) || 5 || कु॒वित्¦मा॒¦गो॒पाम्¦कर॑से¦जन॑स्य¦कु॒वित्¦राजा᳚नम्¦म॒घ॒ऽव॒न्¦ऋ॒जी॒षि॒न् | |
आत्वा᳚बृ॒हन्तो॒हर॑योयुजा॒ना,अ॒र्वागि᳚न्द्रसध॒मादो᳚वहन्तु |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्रयेद्वि॒तादि॒वऋ॒ञ्जन्त्याताः॒सुस᳚म्मृष्टासोवृष॒भस्य॑मू॒राः(स्वाहा᳚) || 6 || आ¦त्वा॒¦बृ॒हन्तः॑¦हर॑यः¦यु॒जा॒नाः¦अ॒र्वाक्¦इ॒न्द्र॒¦स॒ध॒ऽमादः॑¦व॒ह॒न्तु॒ | |
इन्द्र॒पिब॒वृष॑धूतस्य॒वृष्ण॒आयंते᳚श्ये॒नउ॑श॒तेज॒भार॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यस्य॒मदे᳚च्या॒वय॑सि॒प्रकृ॒ष्टीर्यस्य॒मदे॒,अप॑गो॒त्राव॒वर्थ॒(स्वाहा᳚) || 7 || इन्द्र॑¦पिब॑¦वृष॑ऽधूतस्य¦वृष्णः॑¦आ¦यम्¦ते॒¦श्ये॒नः¦उ॒श॒ते¦ज॒भार॑ | |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚ना॒म्(स्वाहा᳚) || 8 || शु॒नम्¦हु॒वे॒म॒¦म॒घऽवा᳚नम्¦इन्द्र᳚म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑मम्¦वाज॑ऽसातौ | |
[44] अयंतइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोबृहती |{मंडल:3, सूक्त:44}{अनुवाक:4, सूक्त:6}{अष्टक:3, अध्याय:3} |
अ॒यंते᳚,अस्तुहर्य॒तःसोम॒आहरि॑भिःसु॒तः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} जु॒षा॒णइ᳚न्द्र॒हरि॑भिर्न॒आग॒ह्याति॑ष्ठ॒हरि॑तं॒रथ॒म्(स्वाहा᳚) || 1 || वर्ग:8 अ॒यम्¦ते॒¦अ॒स्तु॒¦ह॒र्य॒तः¦सोमः॑¦आ¦हरि॑ऽभिः¦सु॒तः | |
ह॒र्यन्नु॒षस॑मर्चयः॒सूर्यं᳚ह॒र्यन्न॑रोचयः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} वि॒द्वाँश्चि॑कि॒त्वान्ह᳚र्यश्ववर्धस॒इन्द्र॒विश्वा᳚,अ॒भिश्रियः॒(स्वाहा᳚) || 2 || ह॒र्यन्¦उ॒षस᳚म्¦अ॒र्च॒यः॒¦सूर्य᳚म्¦ह॒र्यन्¦अ॒रो॒च॒यः॒ | |
द्यामिन्द्रो॒हरि॑धायसंपृथि॒वींहरि॑वर्पसम् |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} अधा᳚रयद्ध॒रितो॒र्भूरि॒भोज॑नं॒ययो᳚र॒न्तर्हरि॒श्चर॒॑त्(स्वाहा᳚) || 3 || द्याम्¦इन्द्रः॑¦हरि॑ऽधायसम्¦पृ॒थि॒वीम्¦हरि॑ऽवर्पसम् | |
ज॒ज्ञा॒नोहरि॑तो॒वृषा॒विश्व॒माभा᳚तिरोच॒नम् |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} हर्य॑श्वो॒हरि॑तंधत्त॒आयु॑ध॒मावज्रं᳚बा॒ह्वोर्हरि॒म्(स्वाहा᳚) || 4 || ज॒ज्ञा॒नः¦हरि॑तः¦वृषा᳚¦विश्व᳚म्¦आ¦भा॒ति॒¦रो॒च॒नम् | |
इन्द्रो᳚ह॒र्यन्त॒मर्जु॑नं॒वज्रं᳚शु॒क्रैर॒भीवृ॑तम् |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} अपा᳚वृणो॒द्धरि॑भि॒रद्रि॑भिःसु॒तमुद्गाहरि॑भिराजत॒(स्वाहा᳚) || 5 || इन्द्रः॑¦ह॒र्यन्त᳚म्¦अर्जु॑नम्¦वज्र᳚म्¦शु॒क्रैः¦अ॒भिऽवृ॑तम् | |
[45] आमंद्रैरिति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोबृहती |{मंडल:3, सूक्त:45}{अनुवाक:4, सूक्त:7}{अष्टक:3, अध्याय:3} |
आम॒न्द्रैरि᳚न्द्र॒हरि॑भिर्या॒हिम॒यूर॑रोमभिः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} मात्वा॒केचि॒न्निय॑म॒न्विंनपा॒शिनोऽति॒धन्वे᳚व॒ताँ,इ॑हि॒(स्वाहा᳚) || 1 || वर्ग:9 आ¦म॒न्द्रैः¦इ॒न्द्र॒¦हरि॑ऽभिः¦या॒हि¦म॒यूर॑रोमऽभिः | |
वृ॒त्र॒खा॒दोव॑लंरु॒जःपु॒रांद॒र्मो,अ॒पाम॒जः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} स्थाता॒रथ॑स्य॒हर्यो᳚रभिस्व॒रइन्द्रो᳚दृ॒ळ्हाचि॑दारु॒जः(स्वाहा᳚) || 2 || वृ॒त्र॒ऽखा॒दः¦व॒ल॒म्ऽरु॒जः¦पु॒राम्¦द॒र्मः¦अ॒पाम्¦अ॒जः | |
ग॒म्भी॒राँ,उ॑द॒धीँरि॑व॒क्रतुं᳚पुष्यसि॒गा,इ॑व |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} प्रसु॑गो॒पायव॑संधे॒नवो᳚यथाऽह्र॒दंकु॒ल्या,इ॑वाशत॒(स्वाहा᳚) || 3 || ग॒म्भी॒रान्¦उ॒द॒धीन्ऽइ᳚व¦क्रतु᳚म्¦पु॒ष्य॒सि॒¦गाःऽइ᳚व | |
आन॒स्तुजं᳚र॒यिंभ॒रांशं॒नप्र॑तिजान॒ते |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} वृ॒क्षंप॒क्वंफल॑म॒ङ्कीव॑धूनु॒हीन्द्र॑स॒म्पार॑णं॒वसु॒(स्वाहा᳚) || 4 || आ¦नः॒¦तुज᳚म्¦र॒यिम्¦भ॒र॒¦अंश᳚म्¦न¦प्र॒ति॒ऽजा॒न॒ते | |
स्व॒युरि᳚न्द्रस्व॒राळ॑सि॒स्मद्दि॑ष्टिः॒स्वय॑शस्तरः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} सवा᳚वृधा॒नओज॑सापुरुष्टुत॒भवा᳚नःसु॒श्रव॑स्तमः॒(स्वाहा᳚) || 5 || स्व॒ऽयुः¦इ॒न्द्र॒¦स्व॒ऽराट्¦अ॒सि॒¦स्मत्ऽदि॑ष्टिः¦स्वय॑शःऽतरः | |
[46] युध्मस्यतइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रत्रिष्टुप् |{मंडल:3, सूक्त:46}{अनुवाक:4, सूक्त:8}{अष्टक:3, अध्याय:3} |
यु॒ध्मस्य॑तेवृष॒भस्य॑स्व॒राज॑उ॒ग्रस्य॒यूनः॒स्थवि॑रस्य॒घृष्वेः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अजू᳚र्यतोव॒ज्रिणो᳚वी॒र्या॒३॑(आ॒)णीन्द्र॑श्रु॒तस्य॑मह॒तोम॒हानि॒(स्वाहा᳚) || 1 || वर्ग:10 यु॒ध्मस्य॑¦ते॒¦वृ॒ष॒भस्य॑¦स्व॒ऽराजः॑¦उ॒ग्रस्य॑¦यूनः॑¦स्थवि॑रस्य¦घृष्वेः᳚ | |
म॒हाँ,अ॑सिमहिष॒वृष्ण्ये᳚भिर्धन॒स्पृदु॑ग्र॒सह॑मानो,अ॒न्यान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} एको॒विश्व॑स्य॒भुव॑नस्य॒राजा॒सयो॒धया᳚चक्ष॒यया᳚च॒जना॒न्त्(स्वाहा᳚) || 2 || म॒हान्¦अ॒सि॒¦म॒हि॒ष॒¦वृष्ण्ये᳚भिः¦ध॒न॒ऽस्पृत्¦उ॒ग्र॒¦सह॑मानः¦अ॒न्यान् | |
प्रमात्रा᳚भीरिरिचे॒रोच॑मानः॒प्रदे॒वेभि᳚र्वि॒श्वतो॒,अप्र॑तीतः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्रम॒ज्मना᳚दि॒वइन्द्रः॑पृथि॒व्याःप्रोरोर्म॒हो,अ॒न्तरि॑क्षादृजी॒षी(स्वाहा᳚) || 3 || प्र¦मात्रा᳚भिः¦रि॒रि॒चे॒¦रोच॑मानः¦प्र¦दे॒वेभिः॑¦वि॒श्वतः॑¦अप्र॑तिऽइतः | |
उ॒रुंग॑भी॒रंज॒नुषा॒भ्यु१॑(उ॒)ग्रंवि॒श्वव्य॑चसमव॒तंम॑ती॒नाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्रं॒सोमा᳚सःप्र॒दिवि॑सु॒तासः॑समु॒द्रंनस्र॒वत॒आवि॑शन्ति॒(स्वाहा᳚) || 4 || उ॒रुम्¦ग॒भी॒रम्¦ज॒नुषा᳚¦अ॒भि¦उ॒ग्रम्¦वि॒श्वऽव्य॑चसम्¦अ॒व॒तम्¦म॒ती॒नाम् | |
यंसोम॑मिन्द्रपृथि॒वीद्यावा॒गर्भं॒नमा॒ताबि॑भृ॒तस्त्वा॒या |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तंते᳚हिन्वन्ति॒तमु॑तेमृजन्त्यध्व॒र्यवो᳚वृषभ॒पात॒वा,उ॒(स्वाहा᳚) || 5 || यम्¦सोम᳚म्¦इ॒न्द्र॒¦पृ॒थि॒वीद्यावा᳚¦गर्भ᳚म्¦न¦मा॒ता¦बि॒भृ॒तः¦त्वा॒ऽया | |
[47] मरुत्वाँइंद्रेति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:47}{अनुवाक:4, सूक्त:9}{अष्टक:3, अध्याय:3} |
म॒रुत्वाँ᳚,इन्द्रवृष॒भोरणा᳚य॒पिबा॒सोम॑मनुष्व॒धंमदा᳚य |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} आसि᳚ञ्चस्वज॒ठरे॒मध्व॑ऊ॒र्मिंत्वंराजा᳚सिप्र॒दिवः॑सु॒ताना॒म्(स्वाहा᳚) || 1 || वर्ग:11 म॒रुत्वा᳚न्¦इ॒न्द्र॒¦वृ॒ष॒भः¦रणा᳚य¦पिब॑¦सोम᳚म्¦अ॒नु॒ऽस्व॒धम्¦मदा᳚य | |
स॒जोषा᳚,इन्द्र॒सग॑णोम॒रुद्भिः॒सोमं᳚पिबवृत्र॒हाशू᳚रवि॒द्वान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ज॒हिशत्रूँ॒रप॒मृधो᳚नुद॒स्वाथाभ॑यंकृणुहिवि॒श्वतो᳚नः॒(स्वाहा᳚) || 2 || स॒ऽजोषाः᳚¦इ॒न्द्र॒¦सऽग॑णः¦म॒रुत्ऽभिः॑¦सोम᳚म्¦पि॒ब॒¦वृ॒त्र॒ऽहा¦शू॒र॒¦वि॒द्वान् | |
उ॒तऋ॒तुभि᳚रृतुपाःपाहि॒सोम॒मिन्द्र॑दे॒वेभिः॒सखि॑भिःसु॒तंनः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} याँ,आभ॑जोम॒रुतो॒येत्वान्वह᳚न्वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॒(स्वाहा᳚) || 3 || उ॒त¦ऋ॒तुऽभिः॑¦ऋ॒तु॒ऽपाः¦पा॒हि॒¦सोम᳚म्¦इन्द्र॑¦दे॒वेभिः॑¦सखि॑ऽभिः¦सु॒तम्¦नः॒ | |
येत्वा᳚हि॒हत्ये᳚मघव॒न्नव॑र्ध॒न्येशा᳚म्ब॒रेह॑रिवो॒येगवि॑ष्टौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} येत्वा᳚नू॒नम॑नु॒मद᳚न्ति॒विप्राः॒पिबे᳚न्द्र॒सोमं॒सग॑णोम॒रुद्भिः॒(स्वाहा᳚) || 4 || ये¦त्वा॒¦अ॒हि॒ऽहत्ये᳚¦म॒घ॒ऽव॒न्¦अव॑र्धन्¦ये¦शा॒म्ब॒रे¦ह॒रि॒ऽवः॒¦ये¦गोऽइ᳚ष्टौ | |
म॒रुत्व᳚न्तंवृष॒भंवा᳚वृधा॒नमक॑वारिंदि॒व्यंशा॒समिन्द्र᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वि॒श्वा॒साह॒मव॑से॒नूत॑नायो॒ग्रंस॑हो॒दामि॒हतंहु॑वेम॒(स्वाहा᳚) || 5 || म॒रुत्व᳚न्तम्¦वृ॒ष॒भम्¦व॒वृ॒धा॒नम्¦अक॑व।आरिम्¦दि॒व्यम्¦शा॒सम्¦इन्द्र᳚म् | |
[48] सद्योहजातइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:48}{अनुवाक:4, सूक्त:10}{अष्टक:3, अध्याय:3} |
स॒द्योह॑जा॒तोवृ॑ष॒भःक॒नीनः॒प्रभ॑र्तुमाव॒दन्ध॑सःसु॒तस्य॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} सा॒धोःपि॑बप्रतिका॒मंयथा᳚ते॒रसा᳚शिरःप्रथ॒मंसो॒म्यस्य॒(स्वाहा᳚) || 1 || वर्ग:12 स॒द्यः¦ह॒¦जा॒तः¦वृ॒ष॒भः¦क॒नीनः॑¦प्रऽभ॑र्तुम्¦आ॒व॒त्¦अन्ध॑सः¦सु॒तस्य॑ | |
यज्जाय॑था॒स्तदह॑रस्य॒कामें॒शोःपी॒यूष॑मपिबोगिरि॒ष्ठाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तंते᳚मा॒तापरि॒योषा॒जनि॑त्रीम॒हःपि॒तुर्दम॒आसि᳚ञ्च॒दग्रे॒(स्वाहा᳚) || 2 || यत्¦जाय॑थाः¦तत्¦अहः॑¦अ॒स्य॒¦कामे᳚¦अं॒शोः¦पी॒यूष᳚म्¦अ॒पि॒बः॒¦गि॒रि॒ऽस्थाम् | |
उ॒प॒स्थाय॑मा॒तर॒मन्न॑मैट्टति॒ग्मम॑पश्यद॒भिसोम॒मूधः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्र॒या॒वय᳚न्नचर॒द्गृत्सो᳚,अ॒न्यान्म॒हानि॑चक्रेपुरु॒धप्र॑तीकः॒(स्वाहा᳚) || 3 || उ॒प॒ऽस्थाय॑¦मा॒तर᳚म्¦अन्न᳚म्¦ऐ॒ट्ट॒¦ति॒ग्मम्¦अ॒प॒श्य॒त्¦अ॒भि¦सोम᳚म्¦ऊधः॑ | |
उ॒ग्रस्तु॑रा॒षाळ॒भिभू᳚त्योजायथाव॒शंत॒न्वं᳚चक्रए॒षः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} त्वष्टा᳚र॒मिन्द्रो᳚ज॒नुषा᳚भि॒भूया॒मुष्या॒सोम॑मपिबच्च॒मूषु॒(स्वाहा᳚) || 4 || उ॒ग्रः¦तु॒रा॒षाट्¦अ॒भिभू᳚तिऽओजाः¦य॒था॒ऽव॒शम्¦त॒न्व᳚म्¦च॒क्रे॒¦ए॒षः | |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚ना॒म्(स्वाहा᳚) || 5 || शु॒नम्¦हु॒वे॒म॒¦म॒घऽवा᳚नम्¦इन्द्र᳚म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑मम्¦वाज॑ऽसातौ | |
[49] शंसामद्दामिति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:49}{अनुवाक:4, सूक्त:11}{अष्टक:3, अध्याय:3} |
शंसा᳚म॒हामिन्द्रं॒यस्मि॒न्विश्वा॒,आकृ॒ष्टयः॑सोम॒पाःकाम॒मव्य॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यंसु॒क्रतुं᳚धि॒षणे᳚विभ्वत॒ष्टंघ॒नंवृ॒त्राणां᳚ज॒नय᳚न्तदे॒वाः(स्वाहा᳚) || 1 || वर्ग:13 शंस॑¦म॒हाम्¦इन्द्र᳚म्¦यस्मि॑न्¦विश्वाः᳚¦आ¦कृ॒ष्टयः॑¦सो॒म॒ऽपाः¦काम᳚म्¦अव्य॑न् | |
यंनुनकिः॒पृत॑नासुस्व॒राजं᳚द्वि॒तातर॑ति॒नृत॑मंहरि॒ष्ठाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒नत॑मः॒सत्व॑भि॒र्योह॑शू॒षैःपृ॑थु॒ज्रया᳚,अमिना॒दायु॒र्दस्योः᳚(स्वाहा᳚) || 2 || यम्¦नु¦नकिः॑¦पृत॑नासु¦स्व॒ऽराज᳚म्¦द्वि॒ता¦तर॑ति¦नृऽत॑मम्¦ह॒रि॒ऽस्थाम् | |
स॒हावा᳚पृ॒त्सुत॒रणि॒र्नार्वा᳚व्यान॒शीरोद॑सीमे॒हना᳚वान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} भगो॒नका॒रेहव्यो᳚मती॒नांपि॒तेव॒चारुः॑सु॒हवो᳚वयो॒धाः(स्वाहा᳚) || 3 || स॒हऽवा᳚¦पृ॒त्ऽसु¦त॒रणिः॑¦न¦अर्वा᳚¦वि॒ऽआ॒न॒शिः¦रोद॑सी॒ इति॑¦मे॒हना᳚ऽवान् | |
ध॒र्तादि॒वोरज॑सस्पृ॒ष्टऊ॒र्ध्वोरथो॒नवा॒युर्वसु॑भिर्नि॒युत्वा॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} क्ष॒पांव॒स्ताज॑नि॒तासूर्य॑स्य॒विभ॑क्ताभा॒गंधि॒षणे᳚व॒वाज॒म्(स्वाहा᳚) || 4 || ध॒र्ता¦दि॒वः¦रज॑सः¦पृ॒ष्टः¦ऊ॒र्ध्वः¦रथः॑¦न¦वा॒युः¦वसु॑ऽभिः¦नि॒युत्वा॑न् | |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚ना॒म्(स्वाहा᳚) || 5 || शु॒नम्¦हु॒वे॒म॒¦म॒घऽवा᳚नम्¦इन्द्र᳚म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑मम्¦वाज॑ऽसातौ | |
[50] इंद्रः स्वाहेति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:50}{अनुवाक:4, सूक्त:12}{अष्टक:3, अध्याय:3} |
इन्द्रः॒स्वाहा᳚पिबतु॒यस्य॒सोम॑आ॒गत्या॒तुम्रो᳚वृष॒भोम॒रुत्वा॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ओरु॒व्यचाः᳚पृणतामे॒भिरन्नै॒रास्य॑ह॒विस्त॒न्व१॑(अः॒)काम॑मृध्याः॒(स्वाहा᳚) || 1 || वर्ग:14 इन्द्रः॑¦स्वाहा᳚¦पि॒ब॒तु॒¦यस्य॑¦सोमः॑¦आ॒ऽगत्य॑¦तुम्रः॑¦वृ॒ष॒भः¦म॒रुत्वा॑न् | |
आते᳚सप॒र्यूज॒वसे᳚युनज्मि॒ययो॒रनु॑प्र॒दिवः॑श्रु॒ष्टिमावः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒हत्वा᳚धेयु॒र्हर॑यःसुशिप्र॒पिबा॒त्व१॑(अ॒)स्यसुषु॑तस्य॒चारोः᳚(स्वाहा᳚) || 2 || आ¦ते॒¦स॒प॒र्यू इति॑¦ज॒वसे᳚¦यु॒न॒ज्मि॒¦ययोः᳚¦अनु॑¦प्र॒ऽदिवः॑¦श्रु॒ष्टिम्¦आवः॑ | |
गोभि᳚र्मिमि॒क्षुंद॑धिरेसुपा॒रमिन्द्रं॒ज्यैष्ठ्या᳚य॒धाय॑सेगृणा॒नाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} म॒न्दा॒नःसोमं᳚पपि॒वाँ,ऋ॑जीषि॒न्त्सम॒स्मभ्यं᳚पुरु॒धागा,इ॑षण्य॒(स्वाहा᳚) || 3 || गोभिः॑¦मि॒मि॒क्षुम्¦द॒धि॒रे॒¦सु॒ऽपा॒रम्¦इन्द्र᳚म्¦ज्यैष्ठ्या᳚य¦धाय॑से¦गृ॒णा॒नाः | |
इ॒मंकामं᳚मन्दया॒गोभि॒रश्वै᳚श्च॒न्द्रव॑ता॒राध॑साप॒प्रथ॑श्च |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स्व॒र्यवो᳚म॒तिभि॒स्तुभ्यं॒विप्रा॒,इन्द्रा᳚य॒वाहः॑कुशि॒कासो᳚,अक्र॒न्(स्वाहा᳚) || 4 || इ॒मम्¦काम᳚म्¦म॒न्द॒य॒¦गोभिः॑¦अश्वैः᳚¦च॒न्द्रऽव॑ता¦राध॑सा¦प॒प्रथः॑¦च॒ | |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚ना॒म्(स्वाहा᳚) || 5 || शु॒नम्¦हु॒वे॒म॒¦म॒घऽवा᳚नम्¦इन्द्र᳚म्¦अ॒स्मिन्¦भरे᳚¦नृऽत॑मम्¦वाज॑ऽसातौ | |
[51] चर्षणीधृतमिति द्वादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् आद्यास्तिस्रोजगत्यः अंत्यास्तिस्रोगायत्र्यः |{मंडल:3, सूक्त:51}{अनुवाक:4, सूक्त:13}{अष्टक:3, अध्याय:3} |
च॒र्ष॒णी॒धृतं᳚म॒घवा᳚नमु॒क्थ्य१॑(अ॒)मिन्द्रं॒गिरो᳚बृह॒तीर॒भ्य॑नूषत |{गाथिनो विश्वामित्रः | इन्द्रः | जगती} वा॒वृ॒धा॒नंपु॑रुहू॒तंसु॑वृ॒क्तिभि॒रम॑र्त्यं॒जर॑माणंदि॒वेदि॑वे॒(स्वाहा᳚) || 1 || वर्ग:15 च॒र्ष॒णि॒ऽधृत᳚म्¦म॒घऽवा᳚नम्¦उ॒क्थ्य᳚म्¦इन्द्र᳚म्¦गिरः॑¦बृ॒ह॒तीः¦अ॒भि¦अ॒नू॒ष॒त॒ | |
श॒तक्र॑तुमर्ण॒वंशा॒किनं॒नरं॒गिरो᳚म॒इन्द्र॒मुप॑यन्तिवि॒श्वतः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | जगती} वा॒ज॒सनिं᳚पू॒र्भिदं॒तूर्णि॑म॒प्तुरं᳚धाम॒साच॑मभि॒षाचं᳚स्व॒र्विद॒म्(स्वाहा᳚) || 2 || श॒तऽक्र॑तुम्¦अ॒र्ण॒वम्¦शा॒किन᳚म्¦नर᳚म्¦गिरः॑¦मे॒¦इन्द्र᳚म्¦उप॑¦य॒न्ति॒¦वि॒श्वतः॑ | |
आ॒क॒रेवसो᳚र्जरि॒ताप॑नस्यतेऽने॒हसः॒स्तुभ॒इन्द्रो᳚दुवस्यति |{गाथिनो विश्वामित्रः | इन्द्रः | जगती} वि॒वस्व॑तः॒सद॑न॒आहिपि॑प्रि॒येस॑त्रा॒साह॑मभिमाति॒हनं᳚स्तुहि॒(स्वाहा᳚) || 3 || आ॒ऽक॒रे¦वसोः᳚¦ज॒रि॒ता¦प॒न॒स्य॒ते॒¦अ॒ने॒हसः॑¦स्तुभः॑¦इन्द्रः॑¦दु॒व॒स्य॒ति॒ | |
नृ॒णामु॑त्वा॒नृत॑मंगी॒र्भिरु॒क्थैर॒भिप्रवी॒रम॑र्चतास॒बाधः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} संसह॑सेपुरुमा॒योजि॑हीते॒नमो᳚,अस्यप्र॒दिव॒एक॑ईशे॒(स्वाहा᳚) || 4 || नृ॒णाम्¦ऊँ॒ इति॑¦त्वा॒¦नृऽत॑मम्¦गीः॒ऽभिः¦उ॒क्थैः¦अ॒भि¦प्र¦वी॒रम्¦अ॒र्च॒त॒¦स॒ऽबाधः॑ | |
पू॒र्वीर॑स्यनि॒ष्षिधो॒मर्त्ये᳚षुपु॒रूवसू᳚निपृथि॒वीबि॑भर्ति |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्रा᳚य॒द्याव॒ओष॑धीरु॒तापो᳚र॒यिंर॑क्षन्तिजी॒रयो॒वना᳚नि॒(स्वाहा᳚) || 5 || पू॒र्वीः¦अ॒स्य॒¦निः॒ऽसिधः॑¦मर्त्ये᳚षु¦पु॒रु¦वसू᳚नि¦पृ॒थि॒वी¦बि॒भ॒र्ति॒ | |
तुभ्यं॒ब्रह्मा᳚णि॒गिर॑इन्द्र॒तुभ्यं᳚स॒त्राद॑धिरेहरिवोजु॒षस्व॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} बो॒ध्या॒३॑(आ॒)पिरव॑सो॒नूत॑नस्य॒सखे᳚वसोजरि॒तृभ्यो॒वयो᳚धाः॒(स्वाहा᳚) || 6 || वर्ग:16 तुभ्य᳚म्¦ब्रह्मा᳚णि¦गिरः॑¦इ॒न्द्र॒¦तुभ्य᳚म्¦स॒त्रा¦द॒धि॒रे॒¦ह॒रि॒ऽवः॒¦जु॒षस्व॑ | |
इन्द्र॑मरुत्वइ॒हपा᳚हि॒सोमं॒यथा᳚शार्या॒ते,अपि॑बःसु॒तस्य॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तव॒प्रणी᳚ती॒तव॑शूर॒शर्म॒न्नावि॑वासन्तिक॒वयः॑सुय॒ज्ञाः॒(स्वाहा᳚) || 7 || इन्द्र॑¦म॒रु॒त्वः॒¦इ॒ह¦पा॒हि॒¦सोम᳚म्¦यथा᳚¦शा॒र्या॒ते¦अपि॑बः¦सु॒तस्य॑ | |
सवा᳚वशा॒नइ॒हपा᳚हि॒सोमं᳚म॒रुद्भि॑रिन्द्र॒सखि॑भिःसु॒तंनः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} जा॒तंयत्त्वा॒परि॑दे॒वा,अभू᳚षन्म॒हेभरा᳚यपुरुहूत॒विश्वे॒(स्वाहा᳚) || 8 || सः¦वा॒व॒शा॒नः¦इ॒ह¦पा॒हि॒¦सोम᳚म्¦म॒रुत्ऽभिः॑¦इ॒न्द्र॒¦सखि॑ऽभिः¦सु॒तम्¦नः॒ | |
अ॒प्तूर्ये᳚मरुतआ॒पिरे॒षोऽम᳚न्द॒न्निन्द्र॒मनु॒दाति॑वाराः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तेभिः॑सा॒कंपि॑बतुवृत्रखा॒दःसु॒तंसोमं᳚दा॒शुषः॒स्वेस॒धस्थे॒(स्वाहा᳚) || 9 || अ॒प्ऽतूर्ये᳚¦म॒रु॒तः॒¦आ॒पिः¦ए॒षः¦अम᳚न्दन्¦इन्द्र᳚म्¦अनु॑¦दाति॑ऽवाराः | |
इ॒दंह्यन्वोज॑सासु॒तंरा᳚धानांपते |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} पिबा॒त्व१॑(अ॒)स्यगि᳚र्वणः॒(स्वाहा᳚) || 10 || इ॒दम्¦हि¦अनु॑¦ओज॑सा¦सु॒तम्¦रा॒धा॒ना॒म्¦प॒ते॒ | पिब॑¦तु¦अ॒स्य¦गि॒र्व॒णः॒ || |
यस्ते॒,अनु॑स्व॒धामस॑त्सु॒तेनिय॑च्छत॒न्व᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} सत्वा᳚ममत्तुसो॒म्यम्(स्वाहा᳚) || 11 || यः¦ते॒¦अनु॑¦स्व॒धाम्¦अस॑त्¦सु॒ते¦नि¦य॒च्छ॒¦त॒न्व᳚म् | सः¦त्वा॒¦म॒म॒त्तु॒¦सो॒म्यम् || |
प्रते᳚,अश्नोतुकु॒क्ष्योःप्रेन्द्र॒ब्रह्म॑णा॒शिरः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} प्रबा॒हूशू᳚र॒राध॑से॒(स्वाहा᳚) || 12 || प्र¦ते॒¦अ॒श्नो॒तु॒¦कु॒क्ष्योः¦प्र¦इ॒न्द्र॒¦ब्रह्म॑णा¦शिरः॑ | प्र¦बा॒हू इति॑¦शू॒र॒¦राध॑से || |
[52] धानावंतमित्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् अध्याश्चतस्रोगायत्र्यः षष्ठीजगती |{मंडल:3, सूक्त:52}{अनुवाक:4, सूक्त:14}{अष्टक:3, अध्याय:3} |
धा॒नाव᳚न्तंकर॒म्भिण॑मपू॒पव᳚न्तमु॒क्थिन᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॑प्रा॒तर्जु॑षस्वनः॒(स्वाहा᳚) || 1 || वर्ग:17 धा॒नाऽव᳚न्तम्¦क॒र॒म्भिण᳚म्¦अ॒पू॒पऽव᳚न्तम्¦उ॒क्थिन᳚म् | इन्द्र॑¦प्रा॒तः¦जु॒ष॒स्व॒¦नः॒ || |
पु॒रो॒ळाशं᳚पच॒त्यं᳚जु॒षस्वे॒न्द्रागु॑रस्वच |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} तुभ्यं᳚ह॒व्यानि॑सिस्रते॒(स्वाहा᳚) || 2 || पु॒रो॒ळाश᳚म्¦प॒च॒त्य᳚म्¦जु॒षस्व॑¦इ॒न्द्र॒¦आ¦गु॒र॒स्व॒¦च॒ | तुभ्य᳚म्¦ह॒व्यानि॑¦सि॒स्र॒ते॒ || |
पु॒रो॒ळाशं᳚चनो॒घसो᳚जो॒षया᳚से॒गिर॑श्चनः |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} व॒धू॒युरि॑व॒योष॑णा॒म्(स्वाहा᳚) || 3 || पु॒रो॒ळाश᳚म्¦च॒¦नः॒¦घसः॑¦जो॒षया᳚से¦गिरः॑¦च॒¦नः॒ | व॒धू॒युःऽइ᳚व¦योष॑णाम् || |
पु॒रो॒ळाशं᳚सनश्रुतप्रातःसा॒वेजु॑षस्वनः |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒क्रतु॒र्हिते᳚बृ॒हन्(स्वाहा᳚) || 4 || पु॒रो॒ळाश᳚म्¦स॒न॒ऽश्रु॒त॒¦प्रा॒तः॒ऽसा॒वे¦जु॒ष॒स्व॒¦नः॒ | इन्द्र॑¦क्रतुः॑¦हि¦ते॒¦बृ॒हन् || |
माध्यं᳚दिनस्य॒सव॑नस्यधा॒नाःपु॑रो॒ळाश॑मिन्द्रकृष्वे॒हचारु᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्रयत्स्तो॒ताज॑रि॒तातूर्ण्य॑र्थोवृषा॒यमा᳚ण॒उप॑गी॒र्भिरीट्टे॒(स्वाहा᳚) || 5 || माध्यं᳚दिनस्य¦सव॑नस्य¦धा॒नाः¦पु॒रो॒ळाश᳚म्¦इ॒न्द्र॒¦कृ॒ष्व॒¦इ॒ह¦चारु᳚म् | |
तृ॒तीये᳚धा॒नाःसव॑नेपुरुष्टुतपुरो॒ळाश॒माहु॑तंमामहस्वनः |{गाथिनो विश्वामित्रः | इन्द्रः | जगती} ऋ॒भु॒मन्तं॒वाज॑वन्तंत्वाकवे॒प्रय॑स्वन्त॒उप॑शिक्षेमधी॒तिभिः॒(स्वाहा᳚) || 6 || वर्ग:18 तृ॒तीये᳚¦धा॒नाः¦सव॑ने¦पु॒रु॒ऽस्तु॒त॒¦पु॒रो॒ळाश᳚म्¦आऽहु॑तम्¦म॒म॒ह॒स्व॒¦नः॒ | |
पू॒ष॒ण्वते᳚तेचकृमाकर॒म्भंहरि॑वते॒हर्य॑श्वायधा॒नाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒पू॒पम॑द्धि॒सग॑णोम॒रुद्भिः॒सोमं᳚पिबवृत्र॒हाशू᳚रवि॒द्वान्(स्वाहा᳚) || 7 || पू॒ष॒ण्ऽवते᳚¦ते॒¦च॒कृ॒म॒¦क॒र॒म्भम्¦हरि॑ऽवते¦हरि॑।आश्वाय¦धा॒नाः | |
प्रति॑धा॒नाभ॑रत॒तूय॑मस्मैपुरो॒ळाशं᳚वी॒रत॑मायनृ॒णाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} दि॒वेदि॑वेस॒दृशी᳚रिन्द्र॒तुभ्यं॒वर्ध᳚न्तुत्वासोम॒पेया᳚यधृष्णो॒(स्वाहा᳚) || 8 || प्रति॑¦धा॒नाः¦भ॒र॒त॒¦तूय᳚म्¦अ॒स्मै॒¦पु॒रो॒ळाश᳚म्¦वी॒रऽत॑माय¦नृ॒णाम् | |
[53] इंद्रापर्वतेति चतुर्विंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्र ऋषिरिंद्रोदेवता आद्यायाइंद्रापर्वतौ पंचदश्यादिद्वयोः ससर्परीवाक् ततश्चतसृणांरथांगानित्रिष्टुप् दशमीषोळश्यौजगत्यौ द्वादशीद्वाविंश्योनुष्टुभः त्रयोदशीगायत्री अष्टादशीबृहती |{मंडल:3, सूक्त:53}{अनुवाक:4, सूक्त:15}{अष्टक:3, अध्याय:3} |
इन्द्रा᳚पर्वताबृह॒तारथे᳚नवा॒मीरिष॒आव॑हतंसु॒वीराः᳚ |{गाथिनो विश्वामित्रः | इन्द्रापर्वतौ | त्रिष्टुप्} वी॒तंह॒व्यान्य॑ध्व॒रेषु॑देवा॒वर्धे᳚थांगी॒र्भिरिळ॑या॒मद᳚न्ता॒(स्वाहा᳚) || 1 || वर्ग:19 इन्द्रा᳚पर्वता¦बृ॒ह॒ता¦रथे᳚न¦वा॒मीः¦इषः॑¦आ¦व॒ह॒त॒म्¦सु॒ऽवीराः᳚ | |
तिष्ठा॒सुकं᳚मघव॒न्मापरा᳚गाः॒सोम॑स्य॒नुत्वा॒सुषु॑तस्ययक्षि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} पि॒तुर्नपु॒त्रःसिच॒मार॑भेत॒इन्द्र॒स्वादि॑ष्ठयागि॒राश॑चीवः॒(स्वाहा᳚) || 2 || तिष्ठ॑¦सु¦क॒म्¦म॒घ॒ऽव॒न्¦मा¦परा᳚¦गाः॒¦सोम॑स्य¦नु¦त्वा॒¦सुऽसु॑तस्य¦य॒क्षि॒ | |
शंसा᳚वाध्वर्यो॒प्रति॑मेगृणी॒हीन्द्रा᳚य॒वाहः॑कृणवाव॒जुष्ट᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} एदंब॒र्हिर्यज॑मानस्यसी॒दाथा᳚चभूदु॒क्थमिन्द्रा᳚यश॒स्तम्(स्वाहा᳚) || 3 || शंसा᳚व¦अ॒ध्व॒र्यो॒ इति॑¦प्रति॑¦मे॒¦गृ॒णी॒हि॒¦इन्द्रा᳚य¦वाहः॑¦कृ॒ण॒वा॒व॒¦जुष्ट᳚म् | |
जा॒येदस्तं᳚मघव॒न्त्सेदु॒योनि॒स्तदित्त्वा᳚यु॒क्ताहर॑योवहन्तु |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} य॒दाक॒दाच॑सु॒नवा᳚म॒सोम॑म॒ग्निष्ट्वा᳚दू॒तोध᳚न्वा॒त्यच्छ॒(स्वाहा᳚) || 4 || जा॒या¦इत्¦अस्त᳚म्¦म॒घ॒ऽव॒न्¦सा¦इत्¦ऊँ॒ इति॑¦योनिः॑¦तत्¦इत्¦त्वा॒¦यु॒क्ताः¦हर॑यः¦व॒ह॒न्तु॒ | |
परा᳚याहिमघव॒न्नाच॑या॒हीन्द्र॑भ्रातरुभ॒यत्रा᳚ते॒,अर्थ᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यत्रा॒रथ॑स्यबृह॒तोनि॒धानं᳚वि॒मोच॑नंवा॒जिनो॒रास॑भस्य॒(स्वाहा᳚) || 5 || परा᳚¦या॒हि॒¦म॒घ॒ऽव॒न्¦आ¦च॒¦या॒हि॒¦इन्द्र॑¦भ्रा॒तः॒¦उ॒भ॒यत्र॑¦ते॒¦अर्थ᳚म् | |
अपाः॒सोम॒मस्त॑मिन्द्र॒प्रया᳚हिकल्या॒णीर्जा॒यासु॒रणं᳚गृ॒हेते᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यत्रा॒रथ॑स्यबृह॒तोनि॒धानं᳚वि॒मोच॑नंवा॒जिनो॒दक्षि॑णाव॒त्(स्वाहा᳚) || 6 || वर्ग:20 अपाः᳚¦सोम᳚म्¦अस्त᳚म्¦इ॒न्द्र॒¦प्र¦या॒हि॒¦क॒ल्या॒णीः¦जा॒या¦सु॒ऽरण᳚म्¦गृ॒हे¦ते॒ | |
इ॒मेभो॒जा,अङ्गि॑रसो॒विरू᳚पादि॒वस्पु॒त्रासो॒,असु॑रस्यवी॒राः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वि॒श्वामि॑त्राय॒दद॑तोम॒घानि॑सहस्रसा॒वेप्रति॑रन्त॒आयुः॒(स्वाहा᳚) || 7 || इ॒मे¦भो॒जाः¦अङ्गि॑रसः¦विऽरू᳚पाः¦दि॒वः¦पु॒त्रासः॑¦असु॑रस्य¦वी॒राः | |
रू॒पंरू᳚पंम॒घवा᳚बोभवीतिमा॒याःकृ᳚ण्वा॒नस्त॒न्व१॑(अं॒)परि॒स्वाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} त्रिर्यद्दि॒वःपरि॑मुहू॒र्तमागा॒त्स्वैर्मन्त्रै॒रनृ॑तुपा,ऋ॒तावा॒(स्वाहा᳚) || 8 || रू॒पम्ऽरू᳚पम्¦म॒घऽवा᳚¦बो॒भ॒वी॒ति॒¦मा॒याः¦कृ॒ण्वा॒नः¦त॒न्व᳚म्¦परि॑¦स्वाम् | |
म॒हाँ,ऋषि॑र्देव॒जादे॒वजू॒तोऽस्त॑भ्ना॒त्सिन्धु॑मर्ण॒वंनृ॒चक्षाः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वि॒श्वामि॑त्रो॒यदव॑हत्सु॒दास॒मप्रि॑यायतकुशि॒केभि॒रिन्द्रः॒(स्वाहा᳚) || 9 || म॒हान्¦ऋषिः॑¦दे॒व॒ऽजाः¦दे॒वऽजू᳚तः¦अस्त॑भ्नात्¦सिन्धु᳚म्¦अ॒र्ण॒वम्¦नृ॒ऽचक्षाः᳚ | |
हं॒सा,इ॑वकृणुथ॒श्लोक॒मद्रि॑भि॒र्मद᳚न्तोगी॒र्भिर॑ध्व॒रेसु॒तेसचा᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | जगती} दे॒वेभि᳚र्विप्रा,ऋषयोनृचक्षसो॒विपि॑बध्वंकुशिकाःसो॒म्यंमधु॒(स्वाहा᳚) || 10 || हं॒साःऽइ᳚व¦कृ॒णु॒थ॒¦श्लोक᳚म्¦अद्रि॑ऽभिः¦मद᳚न्तः¦गीः॒ऽभिः¦अ॒ध्व॒रे¦सु॒ते¦सचा᳚ | |
उप॒प्रेत॑कुशिकाश्चे॒तय॑ध्व॒मश्वं᳚रा॒येप्रमु᳚ञ्चतासु॒दासः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} राजा᳚वृ॒त्रंज᳚ङ्घन॒त्प्रागपा॒गुद॒गथा᳚यजाते॒वर॒आपृ॑थि॒व्याः(स्वाहा᳚) || 11 || वर्ग:21 उप॑¦प्र¦इ॒त॒¦कु॒शि॒काः॒¦चे॒तय॑ध्वम्¦अश्व᳚म्¦रा॒ये¦प्र¦मुं॒च॒त॒¦सु॒ऽदासः॑ | |
यइ॒मेरोद॑सी,उ॒भे,अ॒हमिन्द्र॒मतु॑ष्टवम् |{गाथिनो विश्वामित्रः | इन्द्रः | अनुष्टुप्} वि॒श्वामि॑त्रस्यरक्षति॒ब्रह्मे॒दंभार॑तं॒जन॒म्(स्वाहा᳚) || 12 || यः¦इ॒मे इति॑¦रोद॑सी॒ इति॑¦उ॒भे इति॑¦अ॒हम्¦इन्द्र᳚म्¦अतु॑स्तवम् | वि॒श्वामि॑त्रस्य¦र॒क्ष॒ति॒¦ब्रह्म॑¦इ॒दम्¦भार॑तम्¦जन᳚म् || |
वि॒श्वामि॑त्रा,अरासत॒ब्रह्मेन्द्रा᳚यव॒ज्रिणे᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} कर॒दिन्नः॑सु॒राध॑सः॒(स्वाहा᳚) || 13 || वि॒श्वामि॑त्राः¦अ॒रा॒स॒त॒¦ब्रह्म॑¦इन्द्रा᳚य¦व॒ज्रिणे᳚ | कर॑त्¦इत्¦नः॒¦सु॒ऽराध॑सः || |
किंते᳚कृण्वन्ति॒कीक॑टेषु॒गावो॒नाशिरं᳚दु॒ह्रेनत॑पन्तिघ॒र्मम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} आनो᳚भर॒प्रम॑गन्दस्य॒वेदो᳚नैचाशा॒खंम॑घवन्रन्धयानः॒(स्वाहा᳚) || 14 || किम्¦ते॒¦कृ॒ण्व॒न्ति॒¦कीक॑टेषु¦गावः॑¦न¦आ॒ऽशिर॑न्¦दु॒ह्रे¦न¦त॒प॒न्ति॒¦घ॒र्मम् | |
स॒स॒र्प॒रीरम॑तिं॒बाध॑मानाबृ॒हन्मि॑मायज॒मद॑ग्निदत्ता |{गाथिनो विश्वामित्रः | ससर्परी वाक् | त्रिष्टुप्} आसूर्य॑स्यदुहि॒तात॑तान॒श्रवो᳚दे॒वेष्व॒मृत॑मजु॒र्यम्(स्वाहा᳚) || 15 || स॒स॒र्प॒रीः¦अम॑तिम्¦बाध॑माना¦बृ॒हत्¦मि॒मा॒य॒¦ज॒मद॑ग्निऽदत्ता | |
स॒स॒र्प॒रीर॑भर॒त्तूय॑मे॒भ्योऽधि॒श्रवः॒पाञ्च॑जन्यासुकृ॒ष्टिषु॑ |{गाथिनो विश्वामित्रः | ससर्परी वाक् | जगती} साप॒क्ष्या॒३॑(आ॒)नव्य॒मायु॒र्दधा᳚ना॒यांमे᳚पलस्तिजमद॒ग्नयो᳚द॒दुः(स्वाहा᳚) || 16 || वर्ग:22 स॒स॒र्प॒रीः¦अ॒भ॒र॒त्¦तूय᳚म्¦ए॒भ्यः॒¦अधि॑¦श्रवः॑¦पांच॑ऽजन्यासु¦कृ॒ष्टिषु॑ | |
स्थि॒रौगावौ᳚भवतांवी॒ळुरक्षो॒मेषाविव᳚र्हि॒मायु॒गंविशा᳚रि |{गाथिनो विश्वामित्रः | रथाङ्गानि | त्रिष्टुप्} इन्द्रः॑पात॒ल्ये᳚ददतां॒शरी᳚तो॒ररि॑ष्टनेमे,अ॒भिनः॑सचस्व॒(स्वाहा᳚) || 17 || स्थि॒रौ¦गावौ᳚¦भ॒व॒ता॒म्¦वी॒ळुः¦अक्षः॑¦मा¦ई॒षा¦वि¦व॒र्हि॒¦मा¦यु॒गम्¦वि¦शा॒रि॒ | |
बलं᳚धेहित॒नूषु॑नो॒बल॑मिन्द्रान॒ळुत्सु॑नः |{गाथिनो विश्वामित्रः | रथाङ्गानि | बृहती} बलं᳚तो॒काय॒तन॑यायजी॒वसे॒त्वंहिब॑ल॒दा,असि॒(स्वाहा᳚) || 18 || बल᳚म्¦धे॒हि॒¦त॒नूषु॑¦नः॒¦बल᳚म्¦इ॒न्द्र॒¦अ॒न॒ळुत्ऽसु॑¦नः॒ | |
अ॒भिव्य॑यस्वखदि॒रस्य॒सार॒मोजो᳚धेहिस्पन्द॒नेशिं॒शपा᳚याम् |{गाथिनो विश्वामित्रः | रथाङ्गानि | त्रिष्टुप्} अक्ष॑वीळोवीळितवी॒ळय॑स्व॒मायामा᳚द॒स्मादव॑जीहिपोनः॒(स्वाहा᳚) || 19 || अ॒भि¦व्य॒य॒स्व॒¦ख॒दि॒रस्य॑¦सार᳚म्¦ओजः॑¦धे॒हि॒¦स्प॒न्द॒ने¦शिं॒शपा᳚याम् | |
अ॒यम॒स्मान्वन॒स्पति॒र्माच॒हामाच॑रीरिषत् |{गाथिनो विश्वामित्रः | रथाङ्गानि | अनुष्टुप्} स्व॒स्त्यागृ॒हेभ्य॒आव॒सा,आवि॒मोच॑ना॒त्(स्वाहा᳚) || 20 || अ॒यम्¦अ॒स्मान्¦वन॒स्पतिः॑¦मा¦च॒¦हाः¦मा¦च॒¦रि॒रि॒ष॒त् | स्व॒स्ति¦आ¦गृ॒हेभ्यः॑¦आ¦अ॒व॒ऽसै¦आ¦वि॒ऽमोच॑नात् || |
इन्द्रो॒तिभि॑र्बहु॒लाभि᳚र्नो,अ॒द्यया᳚च्छ्रे॒ष्ठाभि᳚र्मघवञ्छूरजिन्व |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} योनो॒द्वेष्ट्यध॑रः॒सस्प॑दीष्ट॒यमु॑द्वि॒ष्मस्तमु॑प्रा॒णोज॑हातु॒(स्वाहा᳚) || 21 || वर्ग:23 इन्द्र॑¦ऊ॒तिऽभिः॑¦ब॒हु॒लाभिः॑¦नः॒¦अ॒द्य¦या॒त्ऽश्रे॒ष्ठाभिः॑¦म॒घ॒ऽव॒न्¦शू॒र॒¦जि॒न्व॒ | |
प॒र॒शुंचि॒द्वित॑पतिशिम्ब॒लंचि॒द्विवृ॑श्चति |{गाथिनो विश्वामित्रः | इन्द्रः | अनुष्टुप्} उ॒खाचि॑दिन्द्र॒येष᳚न्ती॒प्रय॑स्ता॒फेन॑मस्यति॒(स्वाहा᳚) || 22 || प॒र॒शुम्¦चि॒त्¦वि¦त॒प॒ति॒¦शि॒म्ब॒लम्¦चि॒त्¦वि¦वृ॒श्च॒ति॒ | उ॒खा¦चि॒त्¦इ॒न्द्र॒ ¦येष᳚न्ती¦प्रऽय॑स्ता¦फेन᳚म्¦अ॒स्य॒ति॒ || |
नसाय॑कस्यचिकितेजनासोलो॒धंन॑यन्ति॒पशु॒मन्य॑मानाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} नावा᳚जिनंवा॒जिना᳚हासयन्ति॒नग॑र्द॒भंपु॒रो,अश्वा᳚न्नयन्ति॒(स्वाहा᳚) || 23 || न¦साय॑कस्य¦चि॒कि॒ते॒¦ज॒ना॒सः॒¦लो॒धम्¦न॒य॒न्ति॒¦पशु॑¦मन्य॑मानाः | |
इ॒मइ᳚न्द्रभर॒तस्य॑पु॒त्रा,अ॑पपि॒त्वंचि॑कितु॒र्नप्र॑पि॒त्वम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} हि॒न्वन्त्यश्व॒मर॑णं॒ननित्यं॒ज्या᳚वाजं॒परि॑णयन्त्या॒जौ(स्वाहा᳚) || 24 || इ॒मे¦इ॒न्द्र॒¦भ॒र॒तस्य॑¦पु॒त्राः¦अ॒प॒ऽपि॒त्वम्¦चि॒कि॒तुः॒¦न¦प्र॒ऽपि॒त्वम् | |
[54] इमंमहइति द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रःप्रजापतिर्विश्वेदेवास्त्रिष्टुप् (सूक्तभेदप्रयोगपक्षेदेवताः क्रमेण - अग्निः १ विश्वेदेवाः २ द्यावापृथिवी १ विश्वे। १ सूर्यद्यावापृथिव्यः १ द्यावापृथिवी २ द्यौः १ विश्वेदेवाः १ सविता १ विश्वे। २ विष्णुः १ इंद्रः १ अश्विनौ १ विश्वेदेवाः ५ अग्निः १ एवं २२ उत्तरसूक्तेअखिला अपिविश्वेदेवाः)|{मंडल:3, सूक्त:54}{अनुवाक:5, सूक्त:1}{अष्टक:3, अध्याय:3} |
इ॒मंम॒हेवि॑द॒थ्या᳚यशू॒षंशश्व॒त्कृत्व॒ईड्या᳚य॒प्रज॑भ्रुः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} शृ॒णोतु॑नो॒दम्ये᳚भि॒रनी᳚कैःशृ॒णोत्व॒ग्निर्दि॒व्यैरज॑स्रः॒(स्वाहा᳚) || 1 || वर्ग:24 इ॒मम्¦म॒हे¦वि॒द॒थ्या᳚य¦शू॒षम्¦शश्व॑त्¦कृत्वः॑¦ईड्या᳚य¦प्र¦ज॒भ्रुः॒ | |
महि॑म॒हेदि॒वे,अ॑र्चापृथि॒व्यैकामो᳚मइ॒च्छञ्च॑रतिप्रजा॒नन् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} ययो᳚र्ह॒स्तोमे᳚वि॒दथे᳚षुदे॒वाःस॑प॒र्यवो᳚मा॒दय᳚न्ते॒सचा॒योः(स्वाहा᳚) || 2 || महि॑¦म॒हे¦दि॒वे¦अ॒र्च॒¦पृ॒थि॒व्यै¦कामः॑¦मे॒¦इ॒च्छन्¦च॒र॒ति॒¦प्र॒ऽजा॒नन् | |
यु॒वोरृ॒तंरो᳚दसीस॒त्यम॑स्तुम॒हेषुणः॑सुवि॒ताय॒प्रभू᳚तम् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} इ॒दंदि॒वेनमो᳚,अग्नेपृथि॒व्यैस॑प॒र्यामि॒प्रय॑सा॒यामि॒रत्न॒म्(स्वाहा᳚) || 3 || यु॒वोः¦ऋ॒तम्¦रो॒द॒सी॒ इति॑¦स॒त्यम्¦अ॒स्तु॒¦म॒हे¦सु¦नः॒¦सु॒ऽवि॒ताय॑¦प्र¦भू॒त॒म् | |
उ॒तोहिवां᳚पू॒र्व्या,आ᳚विवि॒द्रऋता᳚वरीरोदसीसत्य॒वाचः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} नर॑श्चिद्वांसमि॒थेशूर॑सातौववन्दि॒रेपृ॑थिवि॒वेवि॑दानाः॒(स्वाहा᳚) || 4 || उ॒तो इति॑¦हि¦वा॒म्¦पू॒र्व्याः¦आ॒ऽवि॒वि॒द्रे¦ऋत॑वरी॒ इत्यृत॑ऽवरी¦रो॒द॒सी॒ इति॑¦स॒त्य॒ऽवाचः॑ | |
को,अ॒द्धावे᳚द॒कइ॒हप्रवो᳚चद्दे॒वाँ,अच्छा᳚प॒थ्या॒३॑(आ॒)कासमे᳚ति |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} ददृ॑श्रएषामव॒मासदां᳚सि॒परे᳚षु॒यागुह्ये᳚षुव्र॒तेषु॒(स्वाहा᳚) || 5 || कः¦अ॒द्धा¦वे॒द॒¦कः¦इ॒ह¦प्र¦वो॒च॒त्¦दे॒वान्¦अच्छ॑¦प॒थ्या᳚¦का¦सम्¦ए॒ति॒ | |
क॒विर्नृ॒चक्षा᳚,अ॒भिषी᳚मचष्टऋ॒तस्य॒योना॒विघृ॑ते॒मद᳚न्ती |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} नाना᳚चक्राते॒सद॑नं॒यथा॒वेःस॑मा॒नेन॒क्रतु॑नासंविदा॒ने(स्वाहा᳚) || 6 || वर्ग:25 क॒विः¦नृ॒ऽचक्षाः᳚¦अ॒भि¦सी॒म्¦अ॒च॒ष्ट॒¦ऋ॒तस्य॑¦योना᳚¦विघृ॑ते॒ इति॒ विऽघृ॑ते¦मद᳚न्ती॒ इति॑ | |
स॒मा॒न्यावियु॑तेदू॒रे,अ᳚न्तेध्रु॒वेप॒देत॑स्थतुर्जाग॒रूके᳚ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} उ॒तस्वसा᳚रायुव॒तीभव᳚न्ती॒,आदु॑ब्रुवातेमिथु॒नानि॒नाम॒(स्वाहा᳚) || 7 || स॒मा॒न्या¦वियु॑ते॒ इति॒ विऽयु॑ते¦दू॒रेअ᳚न्ते॒ इति॑ दू॒रे।आ᳚न्ते¦ध्रु॒वे¦प॒दे¦त॒स्थ॒तुः॒¦जा॒ग॒रूके᳚ | |
विश्वेदे॒तेजनि॑मा॒संवि॑विक्तोम॒होदे॒वान्बिभ्र॑ती॒नव्य॑थेते |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} एज॑द्ध्रु॒वंप॑त्यते॒विश्व॒मेकं॒चर॑त्पत॒त्रिविषु॑णं॒विजा॒तम्(स्वाहा᳚) || 8 || विश्वा᳚¦इत्¦ए॒ते इति॑¦जनि॑म¦सम्¦वि॒वि॒क्तः॒¦म॒हः¦दे॒वान्¦बिभ्र॑ती॒ इति॑¦न¦व्य॒थे॒ते॒ इति॑ | |
सना᳚पुरा॒णमध्ये᳚म्या॒रान्म॒हःपि॒तुर्ज॑नि॒तुर्जा॒मितन्नः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} दे॒वासो॒यत्र॑पनि॒तार॒एवै᳚रु॒रौप॒थिव्यु॑तेत॒स्थुर॒न्तः(स्वाहा᳚) || 9 || सना᳚¦पु॒रा॒णम्¦अधि॑¦ए॒मि॒¦आ॒रात्¦म॒हः¦पि॒तुः¦ज॒नि॒तुः¦जा॒मि¦तत्¦नः॒ | |
इ॒मंस्तोमं᳚रोदसी॒प्रब्र॑वीम्यृदू॒दराः᳚शृणवन्नग्निजि॒ह्वाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} मि॒त्रःस॒म्राजो॒वरु॑णो॒युवा᳚नआदि॒त्यासः॑क॒वयः॑पप्रथा॒नाः(स्वाहा᳚) || 10 || इ॒मम्¦स्तोम᳚म्¦रो॒द॒सी॒ इति॑¦प्र¦ब्र॒वी॒मि॒¦ऋ॒दू॒दराः᳚¦शृ॒ण॒व॒न्¦अ॒ग्नि॒ऽजि॒ह्वाः | |
हिर᳚ण्यपाणिःसवि॒तासु॑जि॒ह्वस्त्रिरादि॒वोवि॒दथे॒पत्य॑मानः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} दे॒वेषु॑चसवितः॒श्लोक॒मश्रे॒राद॒स्मभ्य॒मासु॑वस॒र्वता᳚ति॒म्(स्वाहा᳚) || 11 || वर्ग:26 हिर᳚ण्यऽपाणिः¦स॒वि॒ता¦सु॒ऽजि॒ह्वः¦त्रिः¦आ¦दि॒वः¦वि॒दथे᳚¦पत्य॑मानः | |
सु॒कृत्सु॑पा॒णिःस्ववाँ᳚,ऋ॒तावा᳚दे॒वस्त्वष्टाव॑से॒तानि॑नोधात् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} पू॒ष॒ण्वन्त॑ऋभवोमादयध्वमू॒र्ध्वग्रा᳚वाणो,अध्व॒रम॑तष्ट॒(स्वाहा᳚) || 12 || सु॒ऽकृत्¦सु॒ऽपा॒णिः¦स्वऽवा᳚न्¦ऋ॒तऽवा᳚¦दे॒वः¦त्वष्टा᳚¦अव॑से¦तानि॑¦नः॒¦धा॒त् | |
वि॒द्युद्र॑थाम॒रुत॑ऋष्टि॒मन्तो᳚दि॒वोमर्या᳚ऋ॒तजा᳚ता,अ॒यासः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} सर॑स्वतीशृणवन्य॒ज्ञिया᳚सो॒धाता᳚र॒यिंस॒हवी᳚रंतुरासः॒(स्वाहा᳚) || 13 || वि॒द्युत्ऽर॑थाः¦म॒रुतः॑¦ऋ॒ष्टि॒ऽमन्तः॑¦दि॒वः¦मर्याः᳚¦ऋ॒तऽजा᳚ताः¦अ॒यासः॑ | |
विष्णुं॒स्तोमा᳚सःपुरुद॒स्मम॒र्काभग॑स्येवका॒रिणो॒याम॑निग्मन् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} उ॒रु॒क्र॒मःक॑कु॒होयस्य॑पू॒र्वीर्नम॑र्धन्तियुव॒तयो॒जनि॑त्रीः॒(स्वाहा᳚) || 14 || विष्णु᳚म्¦स्तोमा᳚सः¦पु॒रु॒ऽद॒स्मम्¦अ॒र्काः¦भग॑स्यऽइव¦का॒रिणः॑¦याम॑नि¦ग्म॒न् | |
इन्द्रो॒विश्वै᳚र्वी॒र्यै॒३॑(ऐः॒)पत्य॑मानउ॒भे,आप॑प्रौ॒रोद॑सीमहि॒त्वा |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} पु॒रं॒द॒रोवृ॑त्र॒हाधृ॒ष्णुषे᳚णःसं॒गृभ्या᳚न॒आभ॑रा॒भूरि॑प॒श्वः(स्वाहा᳚) || 15 || इन्द्रः॑¦विश्वैः᳚¦वी॒र्यैः᳚¦पत्य॑मानः¦उ॒भे इति॑¦आ¦प॒प्रौ॒¦रोद॑सी॒ इति॑¦म॒हि॒ऽत्वा | |
नास॑त्यामेपि॒तरा᳚बन्धु॒पृच्छा᳚सजा॒त्य॑म॒श्विनो॒श्चारु॒नाम॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} यु॒वंहिस्थोर॑यि॒दौनो᳚रयी॒णांदा॒त्रंर॑क्षेथे॒,अक॑वै॒रद॑ब्धा॒(स्वाहा᳚) || 16 || वर्ग:27 नास॑त्या¦मे॒¦पि॒तरा᳚¦ब॒न्धु॒ऽपृच्छा᳚¦स॒ऽजा॒त्य᳚म्¦अ॒श्विनोः᳚¦चारु॑¦नाम॑ | |
म॒हत्तद्वः॑कवय॒श्चारु॒नाम॒यद्ध॑देवा॒भव॑थ॒विश्व॒इन्द्रे᳚ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} सख॑ऋ॒भुभिः॑पुरुहूतप्रि॒येभि॑रि॒मांधियं᳚सा॒तये᳚तक्षतानः॒(स्वाहा᳚) || 17 || म॒हत्¦तत्¦वः॒¦क॒व॒यः॒¦चारु॑¦नाम॑¦यत्¦ह॒¦दे॒वाः॒¦भव॑थ¦विश्वे᳚¦इन्द्रे᳚ | |
अ॒र्य॒माणो॒,अदि॑तिर्य॒ज्ञिया॒सोऽद॑ब्धानि॒वरु॑णस्यव्र॒तानि॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} यु॒योत॑नो,अनप॒त्यानि॒गन्तोः᳚प्र॒जावा᳚न्नःपशु॒माँ,अ॑स्तुगा॒तुः(स्वाहा᳚) || 18 || अ॒र्य॒मा¦नः॒¦अदि॑तिः¦य॒ज्ञिया᳚सः¦अद॑ब्धानि¦वरु॑णस्य¦व्र॒तानि॑ | |
दे॒वानां᳚दू॒तःपु॑रु॒धप्रसू॒तोऽना᳚गान्नोवोचतुस॒र्वता᳚ता |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} शृ॒णोतु॑नःपृथि॒वीद्यौरु॒तापः॒सूर्यो॒नक्ष॑त्रैरु॒र्व१॑(अ॒)न्तरि॑क्ष॒म्(स्वाहा᳚) || 19 || दे॒वाना᳚म्¦दू॒तः¦पु॒रु॒ध¦प्रऽसू᳚तः¦अना᳚गान्¦नः॒¦वो॒च॒तु॒¦स॒र्वऽता᳚ता | |
शृ॒ण्वन्तु॑नो॒वृष॑णः॒पर्व॑तासोध्रु॒वक्षे᳚मास॒इळ॑या॒मद᳚न्तः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} आ॒दि॒त्यैर्नो॒,अदि॑तिःशृणोतु॒यच्छ᳚न्तुनोम॒रुतः॒शर्म॑भ॒द्रम्(स्वाहा᳚) || 20 || शृ॒ण्वन्तु॑¦नः॒¦वृष॑णः¦पर्व॑तासः¦ध्रु॒वऽक्षे᳚मासः¦इळ॑या¦मद᳚न्तः | |
सदा᳚सु॒गःपि॑तु॒माँ,अ॑स्तु॒पन्था॒मध्वा᳚देवा॒,ओष॑धीः॒संपि॑पृक्त |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} भगो᳚मे,अग्नेस॒ख्येनमृ॑ध्या॒,उद्रा॒यो,अ॑श्यां॒सद॑नंपुरु॒क्षोः(स्वाहा᳚) || 21 || सदा᳚¦सु॒ऽगः¦पि॒तु॒ऽमान्¦अ॒स्तु॒¦पन्था᳚¦मध्वा᳚¦दे॒वाः॒¦ओष॑धीः¦सम्¦पि॒पृ॒क्त॒ | |
स्वद॑स्वह॒व्यासमिषो᳚दिदीह्यस्म॒द्र्य१॑(अ॒)क्संमि॑मीहि॒श्रवां᳚सि |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} विश्वाँ᳚,अग्नेपृ॒त्सुताञ्जे᳚षि॒शत्रू॒नहा॒विश्वा᳚सु॒मना᳚दीदिहीनः॒(स्वाहा᳚) || 22 || स्वद॑स्व¦ह॒व्या¦सम्¦इषः॑¦दि॒दी॒हि॒¦अ॒स्म॒द्र्य॑क्¦सम्¦मि॒मी॒हि॒¦श्रवां᳚सि | |
[55] उषसइति द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रःप्रजापतिर्विश्वेदेवास्त्रिष्टुप् |{मंडल:3, सूक्त:55}{अनुवाक:5, सूक्त:2}{अष्टक:3, अध्याय:3} |
उ॒षसः॒पूर्वा॒,अध॒यद्व्यू॒षुर्म॒हद्विज॑ज्ञे,अ॒क्षरं᳚प॒देगोः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} व्र॒तादे॒वाना॒मुप॒नुप्र॒भूष᳚न्म॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 1 || वर्ग:28 उ॒षसः॑¦पूर्वाः᳚¦अध॑¦यत्¦वि॒ऽऊ॒षुः¦म॒हत्¦वि¦ज॒ज्ञे॒¦अ॒क्षर᳚म्¦प॒दे¦गोः | |
मोषूणो॒,अत्र॑जुहुरन्तदे॒वामापूर्वे᳚,अग्नेपि॒तरः॑पद॒ज्ञाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} पु॒रा॒ण्योःसद्म॑नोःके॒तुर॒न्तर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 2 || मो इति॑¦सु¦नः॒¦अत्र॑¦जु॒हु॒र॒न्त॒¦दे॒वाः¦मा¦पूर्वे᳚¦अ॒ग्ने॒¦पि॒तरः॑¦प॒द॒ऽज्ञाः | |
विमे᳚पुरु॒त्राप॑तयन्ति॒कामाः॒शम्यच्छा᳚दीद्येपू॒र्व्याणि॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} समि॑द्धे,अ॒ग्नावृ॒तमिद्व॑देमम॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 3 || वि¦मे॒¦पु॒रु॒ऽत्रा¦प॒त॒य॒न्ति॒¦कामाः᳚¦शमि॑¦अच्छ॑¦दी॒द्ये॒¦पू॒र्व्याणि॑ | |
स॒मा॒नोराजा॒विभृ॑तःपुरु॒त्राशये᳚श॒यासु॒प्रयु॑तो॒वनानु॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} अ॒न्याव॒त्संभर॑ति॒क्षेति॑मा॒ताम॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 4 || स॒मा॒नः¦राजा᳚¦विऽभृ॑तः¦पु॒रु॒ऽत्रा¦शये᳚¦श॒यासु॑¦प्रऽयु॑तः¦वना᳚¦अनु॑ | |
आ॒क्षित्पूर्वा॒स्वप॑रा,अनू॒रुत्स॒द्योजा॒तासु॒तरु॑णीष्व॒न्तः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} अ॒न्तर्व॑तीःसुवते॒,अप्र॑वीताम॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 5 || आ॒ऽक्षित्¦पूर्वा᳚सु¦अप॑राः¦अ॒नू॒रुत्¦स॒द्यः¦जा॒तासु॑¦तरु॑णीषु¦अ॒न्तरिति॑ | |
श॒युःप॒रस्ता॒दध॒नुद्वि॑मा॒ताब᳚न्ध॒नश्च॑रतिव॒त्सएकः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} मि॒त्रस्य॒तावरु॑णस्यव्र॒तानि॑म॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 6 || वर्ग:29 श॒युः¦प॒रस्ता᳚त्¦अध॑¦नु¦द्वि॒ऽमा॒ता¦अ॒ब॒न्ध॒नः¦च॒र॒ति॒¦व॒त्सः¦एकः॑ | |
द्वि॒मा॒ताहोता᳚वि॒दथे᳚षुस॒म्राळन्वग्रं॒चर॑ति॒क्षेति॑बु॒ध्नः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} प्ररण्या᳚निरण्य॒वाचो᳚भरन्तेम॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 7 || द्वि॒ऽमा॒ता¦होता᳚¦वि॒दथे᳚षु¦स॒म्ऽराट्¦अनु॑¦अग्र᳚म्¦चर॑ति¦क्षेति॑¦बु॒ध्नः | |
शूर॑स्येव॒युध्य॑तो,अन्त॒मस्य॑प्रती॒चीनं᳚ददृशे॒विश्व॑मा॒यत् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} अ॒न्तर्म॒तिश्च॑रतिनि॒ष्षिधं॒गोर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 8 || शूर॑स्यऽइव¦युध्य॑तः¦अ॒न्त॒मस्य॑¦प्र॒ती॒चीन᳚म्¦द॒दृ॒शे॒¦विश्व᳚म्¦आ॒ऽयत् | |
निवे᳚वेतिपलि॒तोदू॒तआ᳚स्व॒न्तर्म॒हाँश्च॑रतिरोच॒नेन॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} वपूं᳚षि॒बिभ्र॑द॒भिनो॒विच॑ष्टेम॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 9 || नि¦वे॒वे॒ति॒¦प॒लि॒तः¦दू॒तः¦आ॒सु॒¦अ॒न्तः¦म॒हान्¦च॒र॒ति॒¦रो॒च॒नेन॑ | |
विष्णु॑र्गो॒पाःप॑र॒मंपा᳚ति॒पाथः॑प्रि॒याधामा᳚न्य॒मृता॒दधा᳚नः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} अ॒ग्निष्टाविश्वा॒भुव॑नानिवेदम॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 10 || विष्णुः॑¦गो॒पाः¦प॒र॒मम्¦पा॒ति॒¦पाथः॑¦प्रि॒या¦धामा᳚नि¦अ॒मृता᳚¦दधा᳚नः | |
नाना᳚चक्रातेय॒म्या॒३॑(आ॒)वपूं᳚षि॒तयो᳚र॒न्यद्रोच॑तेकृ॒ष्णम॒न्यत् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} श्यावी᳚च॒यदरु॑षीच॒स्वसा᳚रौम॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 11 || वर्ग:30 नाना᳚¦च॒क्रा॒ते॒ इति॑¦य॒म्या᳚¦वपूं᳚षि¦तयोः᳚¦अ॒न्यत्¦रोच॑ते¦कृ॒ष्णम्¦अ॒न्यत् | |
मा॒ताच॒यत्र॑दुहि॒ताच॑धे॒नूस॑ब॒र्दुघे᳚धा॒पये᳚तेसमी॒ची |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} ऋ॒तस्य॒तेसद॑सीळे,अ॒न्तर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 12 || मा॒ता¦च॒¦यत्र॑¦दु॒हि॒ता¦च॒¦धे॒नू इति॑¦स॒ब॒र्दुघे॒ इति॑ स॒बः॒ऽदुघे᳚¦धा॒पये᳚ते॒ इति॑¦स॒मी॒ची इति॑ स॒म्ऽई॒ची | |
अ॒न्यस्या᳚व॒त्संरि॑ह॒तीमि॑माय॒कया᳚भु॒वानिद॑धेधे॒नुरूधः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} ऋ॒तस्य॒सापय॑सापिन्व॒तेळा᳚म॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 13 || अ॒न्यस्याः᳚¦व॒त्सम्¦रि॒ह॒ती¦मि॒मा॒य॒¦कया᳚¦भु॒वा¦नि¦द॒धे॒¦धे॒नुः¦ऊधः॑ | |
पद्या᳚वस्तेपुरु॒रूपा॒वपूं᳚ष्यू॒र्ध्वात॑स्थौ॒त्र्यविं॒रेरि॑हाणा |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} ऋ॒तस्य॒सद्म॒विच॑रामिवि॒द्वान्म॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 14 || पद्या᳚¦व॒स्ते॒¦पु॒रु॒ऽरूपा᳚¦वपूं᳚षि¦ऊ॒र्ध्वा¦त॒स्थौ॒¦त्रि॒।आवि᳚म्¦रेरि॑हाणा | |
प॒दे,इ॑व॒निहि॑तेद॒स्मे,अ॒न्तस्तयो᳚र॒न्यद्गुह्य॑मा॒विर॒न्यत् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} स॒ध्री॒ची॒नाप॒थ्या॒३॑(आ॒)साविषू᳚चीम॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 15 || प॒दे इ॒वेति॑ प॒देऽइ᳚व¦निहि॑ते॒ इति॒ निऽहि॑ते¦द॒स्मे¦अ॒न्तरिति॑¦तयोः᳚¦अ॒न्यत्¦गुह्य᳚म्¦आ॒विः¦अ॒न्यत् | |
आधे॒नवो᳚धुनयन्ता॒मशि॑श्वीःसब॒र्दुघाः᳚शश॒या,अप्र॑दुग्धाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} नव्या᳚नव्यायुव॒तयो॒भव᳚न्तीर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 16 || वर्ग:31 आ¦धे॒नवः॑¦धु॒न॒य॒न्ता॒म्¦अशि॑श्वीः¦स॒बः॒ऽदुघाः᳚¦श॒श॒याः¦अप्र॑ऽदुग्धाः | |
यद॒न्यासु॑वृष॒भोरोर॑वीति॒सो,अ॒न्यस्मि᳚न्यू॒थेनिद॑धाति॒रेतः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} सहिक्षपा᳚वा॒न्त्सभगः॒सराजा᳚म॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 17 || यत्¦अ॒न्यासु॑¦वृ॒ष॒भः¦रोर॑वीति¦सः¦अ॒न्यस्मि॑न्¦यू॒थे¦नि¦द॒धा॒ति॒¦रेतः॑ | |
वी॒रस्य॒नुस्वश्व्यं᳚जनासः॒प्रनुवो᳚चामवि॒दुर॑स्यदे॒वाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} षो॒ळ्हायु॒क्ताःपञ्च॑प॒ञ्चाव॑हन्तिम॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 18 || वी॒रस्य॑¦नु¦सु॒।आश्व्य᳚म्¦ज॒ना॒सः॒¦प्र¦नु¦वो॒चा॒म॒¦वि॒दुः¦अ॒स्य॒¦दे॒वाः | |
दे॒वस्त्वष्टा᳚सवि॒तावि॒श्वरू᳚पःपु॒पोष॑प्र॒जाःपु॑रु॒धाज॑जान |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} इ॒माच॒विश्वा॒भुव॑नान्यस्यम॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 19 || दे॒वः¦त्वष्टा᳚¦स॒वि॒ता¦वि॒श्वऽरू᳚पः¦पु॒पोष॑¦प्र॒ऽजाः¦पु॒रु॒धा¦ज॒जा॒न॒ | |
म॒हीसमै᳚रच्च॒म्वा᳚समी॒ची,उ॒भेते,अ॑स्य॒वसु॑ना॒न्यृ॑ष्टे |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} शृ॒ण्वेवी॒रोवि॒न्दमा᳚नो॒वसू᳚निम॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 20 || म॒ही इति॑¦सम्¦ऐ॒र॒त्¦च॒म्वा᳚¦स॒मी॒ची इति॑ स॒म्ऽई॒ची¦उ॒भे इति॑¦ते इति॑¦अ॒स्य॒¦वसु॑ना¦न्यृ॑ष्टे॒ इति॒ निऽऋ॑ष्टे | |
इ॒मांच॑नःपृथि॒वींवि॒श्वधा᳚या॒,उप॑क्षेतिहि॒तमि॑त्रो॒नराजा᳚ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} पु॒रः॒सदः॑शर्म॒सदो॒नवी॒राम॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 21 || इ॒माम्¦च॒¦नः॒¦पृ॒थि॒वीम्¦वि॒श्वऽधा᳚याः¦उप॑¦क्षे॒ति॒¦हि॒तऽमि॑त्रः¦न¦राजा᳚ | |
नि॒ष्षिध्व॑रीस्त॒ओष॑धीरु॒तापो᳚र॒यिंत॑इन्द्रपृथि॒वीबि॑भर्ति |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} सखा᳚यस्तेवाम॒भाजः॑स्यामम॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 22 || निः॒ऽसिध्व॑रीः¦ते॒¦ओष॑धीः¦उ॒त¦आपः॑¦र॒यिम्¦ते॒¦इ॒न्द्र॒¦पृ॒थि॒वी¦बि॒भ॒र्ति॒ | |
[56] नतामिनंतीत्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्रो विश्वेदेवास्त्रिष्टुप् (भेदपक्षेविभागः क्रमेण - विश्वेदेवाः १ संवत्सरादित्याः सिंधवः १ सविता १ विश्वेदेवाः २ एवमष्टौ)|{मंडल:3, सूक्त:56}{अनुवाक:5, सूक्त:3}{अष्टक:3, अध्याय:4} |
नतामि॑नन्तिमा॒यिनो॒नधीरा᳚व्र॒तादे॒वानां᳚प्रथ॒माध्रु॒वाणि॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} नरोद॑सी,अ॒द्रुहा᳚वे॒द्याभि॒र्नपर्व॑तानि॒नमे᳚तस्थि॒वांसः॒(स्वाहा᳚) || 1 || वर्ग:1 न¦ता¦मि॒न॒न्ति॒¦मा॒यिनः॑¦न¦धीराः᳚¦व्र॒ता¦दे॒वाना᳚म्¦प्र॒थ॒मा¦ध्रु॒वाणि॑ | |
षड्भा॒राँ,एको॒,अच॑रन्बिभर्त्यृ॒तंवर्षि॑ष्ठ॒मुप॒गाव॒आगुः॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} ति॒स्रोम॒हीरुप॑रास्तस्थु॒रत्या॒गुहा॒द्वेनिहि॑ते॒दर्श्येका॒(स्वाहा᳚) || 2 || षट्¦भा॒रान्¦एकः॑¦अच॑रन्¦बि॒भ॒र्ति॒¦ऋ॒तम्¦वर्षि॑ष्ठम्¦उप॑¦गावः॑¦आ¦अ॒गुः॒ | |
त्रि॒पा॒ज॒स्योवृ॑ष॒भोवि॒श्वरू᳚पउ॒तत्र्यु॒धापु॑रु॒धप्र॒जावा॑न् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} त्र्य॒नी॒कःप॑त्यते॒माहि॑नावा॒न्त्सरे᳚तो॒धावृ॑ष॒भःशश्व॑तीना॒म्(स्वाहा᳚) || 3 || त्रि॒ऽपा॒ज॒स्यः¦वृ॒ष॒भः¦वि॒श्वऽरू᳚पः¦उ॒त¦त्रि॒।औ॒धा¦पु॒रु॒ध¦प्र॒जाऽवा॑न् | |
अ॒भीक॑आसांपद॒वीर॑बोध्यादि॒त्याना᳚मह्वे॒चारु॒नाम॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} आप॑श्चिदस्मा,अरमन्तदे॒वीःपृथ॒ग्व्रज᳚न्तीः॒परि॑षीमवृञ्ज॒न्(स्वाहा᳚) || 4 || अ॒भीके᳚¦आ॒सा॒म्¦प॒द॒ऽवीः¦अ॒बो॒धि॒¦आ॒दि॒त्याना᳚म्¦अ॒ह्वे॒¦चारु॑¦नाम॑ | |
त्रीष॒धस्था᳚सिन्धव॒स्त्रिःक॑वी॒नामु॒तत्रि॑मा॒तावि॒दथे᳚षुस॒म्राट् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} ऋ॒ताव॑री॒र्योष॑णास्ति॒स्रो,अप्या॒स्त्रिरादि॒वोवि॒दथे॒पत्य॑मानाः॒(स्वाहा᳚) || 5 || त्री¦स॒धऽस्था᳚¦सि॒न्ध॒वः॒¦त्रिः¦क॒वी॒नाम्¦उ॒त¦त्रि॒ऽमा॒ता¦वि॒दथे᳚षु¦स॒म्ऽराट् | |
त्रिरादि॒वःस॑वित॒र्वार्या᳚णिदि॒वेदि॑व॒आसु॑व॒त्रिर्नो॒,अह्नः॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} त्रि॒धातु॑रा॒यआसु॑वा॒वसू᳚नि॒भग॑त्रातर्धिषणेसा॒तये᳚धाः॒(स्वाहा᳚) || 6 || त्रिः¦आ¦दि॒वः¦स॒वि॒तः॒¦वार्या᳚णि¦दि॒वेऽदि॑वे¦आ¦सु॒व॒¦त्रिः¦नः॒¦अह्नः॑ | |
त्रिरादि॒वःस॑वि॒तासो᳚षवीति॒राजा᳚नामि॒त्रावरु॑णासुपा॒णी |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} आप॑श्चिदस्य॒रोद॑सीचिदु॒र्वीरत्नं᳚भिक्षन्तसवि॒तुःस॒वाय॒(स्वाहा᳚) || 7 || त्रिः¦आ¦दि॒वः¦स॒वि॒ता¦सो॒स॒वी॒ति॒¦राजा᳚ना¦मि॒त्रावरु॑णा¦सु॒पा॒णी इति॑ सु॒ऽपा॒णी | |
त्रिरु॑त्त॒मादू॒णशा᳚रोच॒नानि॒त्रयो᳚राज॒न्त्यसु॑रस्यवी॒राः |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} ऋ॒तावा᳚नइषि॒रादू॒ळभा᳚स॒स्त्रिरादि॒वोवि॒दथे᳚सन्तुदे॒वाः(स्वाहा᳚) || 8 || त्रिः¦उ॒त्ऽत॒मा¦दुः॒ऽनशा᳚¦रो॒च॒नानि॑¦त्रयः॑¦रा॒ज॒न्ति॒¦असु॑रस्य¦वी॒राः | |
[57] प्रमेविविक्वानिति षडृचस्य सूक्तस्य गाथिनोविश्वामित्रोविश्वेदेवास्त्रिष्टुप् (भेदपक्षेविश्वेदेवाः ४ अग्निः २ एवंषट्) |{मंडल:3, सूक्त:57}{अनुवाक:5, सूक्त:4}{अष्टक:3, अध्याय:4} |
प्रमे᳚विवि॒क्वाँ,अ॑विदन्मनी॒षांधे॒नुंचर᳚न्तीं॒प्रयु॑ता॒मगो᳚पाम् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} स॒द्यश्चि॒द्यादु॑दु॒हेभूरि॑धा॒सेरिन्द्र॒स्तद॒ग्निःप॑नि॒तारो᳚,अस्याः॒(स्वाहा᳚) || 1 || वर्ग:2 प्र¦मे॒¦वि॒वि॒क्वान्¦अ॒वि॒द॒त्¦म॒नी॒षाम्¦धे॒नुम्¦चर᳚न्तीम्¦प्रऽयु॑ताम्¦अगो᳚पाम् | |
इन्द्रः॒सुपू॒षावृष॑णासु॒हस्ता᳚दि॒वोनप्री॒ताःश॑श॒यंदु॑दुह्रे |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} विश्वे॒यद॑स्यांर॒णय᳚न्तदे॒वाःप्रवोत्र॑वसवःसु॒म्नम॑श्या॒म्(स्वाहा᳚) || 2 || इन्द्रः॑¦सु¦पू॒षा¦वृष॑णा¦सु॒ऽहस्ता᳚¦दि॒वः¦न¦प्री॒ताः¦श॒श॒यम्¦दु॒दु॒ह्रे॒ | |
याजा॒मयो॒वृष्ण॑इ॒च्छन्ति॑श॒क्तिंन॑म॒स्यन्ती᳚र्जानते॒गर्भ॑मस्मिन् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} अच्छा᳚पु॒त्रंधे॒नवो᳚वावशा॒नाम॒हश्च॑रन्ति॒बिभ्र॑तं॒वपूं᳚षि॒(स्वाहा᳚) || 3 || याः¦जा॒मयः॑¦वृष्णे᳚¦इ॒च्छन्ति॑¦श॒क्तिम्¦न॒म॒स्यन्तीः᳚¦जा॒न॒ते॒¦गर्भ᳚म्¦अ॒स्मि॒न् | |
अच्छा᳚विवक्मि॒रोद॑सीसु॒मेके॒ग्राव्णो᳚युजा॒नो,अ॑ध्व॒रेम॑नी॒षा |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} इ॒मा,उ॑ते॒मन॑वे॒भूरि॑वारा,ऊ॒र्ध्वाभ॑वन्तिदर्श॒तायज॑त्राः॒(स्वाहा᳚) || 4 || अच्छ॑¦वि॒व॒क्मि॒¦रोद॑सी॒ इति॑¦सु॒मेके॒ इति॑ सु॒ऽमेके᳚¦ग्राव्णः॑¦यु॒जा॒नः¦अ॒ध्व॒रे¦म॒नी॒षा | |
याते᳚जि॒ह्वामधु॑मतीसुमे॒धा,अग्ने᳚दे॒वेषू॒च्यत॑उरू॒ची |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} तये॒हविश्वाँ॒,अव॑से॒यज॑त्रा॒नासा᳚दयपा॒यया᳚चा॒मधू᳚नि॒(स्वाहा᳚) || 5 || या¦ते॒¦जि॒ह्वा¦मधु॑ऽमती¦सु॒ऽमे॒धाः¦अग्ने᳚¦दे॒वेषु॑¦उ॒च्यते᳚¦उ॒रू॒ची | |
याते᳚,अग्ने॒पर्व॑तस्येव॒धारास॑श्चन्तीपी॒पय॑द्देवचि॒त्रा |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} ताम॒स्मभ्यं॒प्रम॑तिंजातवेदो॒वसो॒रास्व॑सुम॒तिंवि॒श्वज᳚न्या॒म्(स्वाहा᳚) || 6 || या¦ते॒¦अ॒ग्ने॒¦पर्व॑तस्यऽइव¦धारा᳚¦अस॑श्चन्ती¦पी॒पय॑त्¦दे॒व॒¦चि॒त्रा | |
[58] धेनुःप्रत्नस्येति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोश्विनौत्रिष्टुप् |{मंडल:3, सूक्त:58}{अनुवाक:5, सूक्त:5}{अष्टक:3, अध्याय:4} |
धे॒नुःप्र॒त्नस्य॒काम्यं॒दुहा᳚ना॒ऽन्तःपु॒त्रश्च॑रति॒दक्षि॑णायाः |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} आद्यो᳚त॒निंव॑हतिशु॒भ्रया᳚मो॒षसः॒स्तोमो᳚,अ॒श्विना᳚वजीगः॒(स्वाहा᳚) || 1 || वर्ग:3 धे॒नुः¦प्र॒त्नस्य॑¦काम्य᳚म्¦दुहा᳚ना¦अ॒न्तरिति॑¦पु॒त्रः¦च॒र॒ति॒¦दक्षि॑णायाः | |
सु॒युग्व॑हन्ति॒प्रति॑वामृ॒तेनो॒र्ध्वाभ॑वन्तिपि॒तरे᳚व॒मेधाः᳚ |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} जरे᳚थाम॒स्मद्विप॒णेर्म॑नी॒षांयु॒वोरव॑श्चकृ॒माया᳚तम॒र्वाक्(स्वाहा᳚) || 2 || सु॒ऽयुक्¦व॒ह॒न्ति॒¦प्रति॑¦वा॒म्¦ऋ॒तेन॑¦ऊ॒र्ध्वाः¦भ॒व॒न्ति॒¦पि॒तरा᳚ऽइव¦मेधाः᳚ | |
सु॒युग्भि॒रश्वैः᳚सु॒वृता॒रथे᳚न॒दस्रा᳚वि॒मंशृ॑णुतं॒श्लोक॒मद्रेः᳚ |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} किम॒ङ्गवां॒प्रत्यव॑र्तिं॒गमि॑ष्ठा॒ऽऽहुर्विप्रा᳚सो,अश्विनापुरा॒जाः(स्वाहा᳚) || 3 || सु॒युक्ऽभिः॑¦अश्वैः᳚¦सु॒ऽवृता᳚¦रथे᳚न¦दस्रौ᳚¦इ॒मम्¦शृ॒णु॒त॒म्¦श्लोक᳚म्¦अद्रेः᳚ | |
आम᳚न्येथा॒माग॑तं॒कच्चि॒देवै॒र्विश्वे॒जना᳚सो,अ॒श्विना᳚हवन्ते |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} इ॒माहिवां॒गो,ऋ॑जीका॒मधू᳚नि॒प्रमि॒त्रासो॒नद॒दुरु॒स्रो,अग्रे॒(स्वाहा᳚) || 4 || आ¦म॒न्ये॒था॒म्¦आ¦ग॒त॒म्¦कत्¦चि॒त्¦एवैः᳚¦विश्वे᳚¦जना᳚सः¦अ॒श्विना᳚¦ह॒व॒न्ते॒ | |
ति॒रःपु॒रूचि॑दश्विना॒रजां᳚स्याङ्गू॒षोवां᳚मघवाना॒जने᳚षु |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} एहया᳚तंप॒थिभि॑र्देव॒यानै॒र्दस्रा᳚वि॒मेवां᳚नि॒धयो॒मधू᳚ना॒म्(स्वाहा᳚) || 5 || ति॒रः¦पु॒रु¦चि॒त्¦अ॒श्वि॒ना॒¦रजां᳚सि¦आ॒ङ्गू॒षः¦वा॒म्¦म॒घ॒ऽवा॒ना॒¦जने᳚षु | |
पु॒रा॒णमोकः॑स॒ख्यंशि॒वंवां᳚यु॒वोर्न॑रा॒द्रवि॑णंज॒ह्नाव्या᳚म् |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} पुनः॑कृण्वा॒नाःस॒ख्याशि॒वानि॒मध्वा᳚मदेमस॒हनूस॑मा॒नाः(स्वाहा᳚) || 6 || वर्ग:4 पु॒रा॒णम्¦ओकः॑¦स॒ख्यम्¦शि॒वम्¦वा॒म्¦यु॒वोः¦न॒रा॒¦द्रवि॑णम्¦ज॒ह्नाव्या᳚म् | |
अश्वि॑नावा॒युना᳚यु॒वंसु॑दक्षानि॒युद्भि॑ष्चस॒जोष॑सायुवाना |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} नास॑त्याति॒रो,अ᳚ह्न्यंजुषा॒णासोमं᳚पिबतम॒स्रिधा᳚सुदानू॒(स्वाहा᳚) || 7 || अश्वि॑ना¦वा॒युना᳚¦यु॒वम्¦सु॒ऽद॒क्षा॒¦नि॒युत्ऽभिः॑¦च॒¦स॒ऽजोष॑सा¦यु॒वा॒ना॒ | |
अश्वि॑ना॒परि॑वा॒मिषः॑पुरू॒चीरी॒युर्गी॒र्भिर्यत॑माना॒,अमृ॑ध्राः |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} रथो᳚हवामृत॒जा,अद्रि॑जूतः॒परि॒द्यावा᳚पृथि॒वीया᳚तिस॒द्यः(स्वाहा᳚) || 8 || अश्वि॑ना¦परि॑¦वा॒म्¦इषः॑¦पु॒रू॒चीः¦ई॒युः¦गीः॒ऽभिः¦यत॑मानाः¦अमृ॑ध्राः | |
अश्वि॑नामधु॒षुत्त॑मोयु॒वाकुः॒सोम॒स्तंपा᳚त॒माग॑तंदुरो॒णे |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} रथो᳚हवां॒भूरि॒वर्पः॒करि॑क्रत्सु॒ताव॑तोनिष्कृ॒तमाग॑मिष्ठः॒(स्वाहा᳚) || 9 || अश्वि॑ना¦म॒धु॒सुत्ऽत॑मः¦यु॒वाकुः॑¦सोमः॑¦तम्¦पा॒त॒म्¦आ¦ग॒त॒म्¦दु॒रो॒णे | |
[59] मित्रोजनानिति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रो मित्रस्त्रिष्टुप् अंत्याश्चतस्रोगायत्र्यः{मंडल:3, सूक्त:59}{अनुवाक:5, सूक्त:6}{अष्टक:3, अध्याय:4} |
मि॒त्रोजना᳚न्यातयतिब्रुवा॒णोमि॒त्रोदा᳚धारपृथि॒वीमु॒तद्याम् |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} मि॒त्रःकृ॒ष्टीरनि॑मिषा॒भिच॑ष्टेमि॒त्राय॑ह॒व्यंघृ॒तव॑ज्जुहोत॒(स्वाहा᳚) || 1 || वर्ग:5 मि॒त्रः¦जना᳚न्¦या॒त॒य॒ति॒¦ब्रु॒वा॒णः¦मि॒त्रः¦दा॒धा॒र॒¦पृ॒थि॒वीम्¦उ॒त¦द्याम् | |
प्रसमि॑त्र॒मर्तो᳚,अस्तु॒प्रय॑स्वा॒न्यस्त॑आदित्य॒शिक्ष॑तिव्र॒तेन॑ |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} नह᳚न्यते॒नजी᳚यते॒त्वोतो॒नैन॒मंहो᳚,अश्नो॒त्यन्ति॑तो॒नदू॒रात्(स्वाहा᳚) || 2 || प्र¦सः¦मि॒त्र॒¦मर्तः॑¦अ॒स्तु॒¦प्रय॑स्वान्¦यः¦ते॒¦आ॒दि॒त्य॒¦शिक्ष॑ति¦व्र॒तेन॑ | |
अ॒न॒मी॒वास॒इळ॑या॒मद᳚न्तोमि॒तज्ञ॑वो॒वरि॑म॒न्नापृ॑थि॒व्याः |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} आ॒दि॒त्यस्य᳚व्र॒तमु॑पक्षि॒यन्तो᳚व॒यंमि॒त्रस्य॑सुम॒तौस्या᳚म॒(स्वाहा᳚) || 3 || अ॒न॒मी॒वासः॑¦इळ॑या¦मद᳚न्तः¦मि॒तऽज्ञ॑वः¦वरि॑मन्¦आ¦पृ॒थि॒व्याः | |
अ॒यंमि॒त्रोन॑म॒स्यः॑सु॒शेवो॒राजा᳚सुक्ष॒त्रो,अ॑जनिष्टवे॒धाः |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} तस्य॑व॒यंसु॑म॒तौय॒ज्ञिय॒स्यापि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म॒(स्वाहा᳚) || 4 || अ॒यम्¦मि॒त्रः¦न॒म॒स्यः॑¦सु॒ऽशेवः॑¦राजा᳚¦सु॒ऽक्ष॒त्रः¦अ॒ज॒नि॒ष्ट॒¦वे॒धाः | |
म॒हाँ,आ᳚दि॒त्योनम॑सोप॒सद्यो᳚यात॒यज्ज॑नोगृण॒तेसु॒शेवः॑ |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} तस्मा᳚,ए॒तत्पन्य॑तमाय॒जुष्ट॑म॒ग्नौमि॒त्राय॑ह॒विराजु॑होत॒(स्वाहा᳚) || 5 || म॒हान्¦आ॒दि॒त्यः¦नम॑सा¦उ॒प॒ऽसद्यः॑¦या॒त॒यत्ऽज॑नः¦गृ॒ण॒ते¦सु॒ऽशेवः॑ | |
मि॒त्रस्य॑चर्षणी॒धृतोवो᳚दे॒वस्य॑सान॒सि |{गाथिनो विश्वामित्रः | मित्रः | गायत्री} द्यु॒म्नंचि॒त्रश्र॑वस्तम॒म्(स्वाहा᳚) || 6 || वर्ग:6 मि॒त्रस्य॑¦च॒र्ष॒णि॒ऽधृतः॑¦अवः॑¦दे॒वस्य॑¦सा॒न॒सि | द्यु॒म्नम्¦चि॒त्रश्र॑वःऽतमम् || |
अ॒भियोम॑हि॒नादिवं᳚मि॒त्रोब॒भूव॑स॒प्रथाः᳚ |{गाथिनो विश्वामित्रः | मित्रः | गायत्री} अ॒भिश्रवो᳚भिःपृथि॒वीम्(स्वाहा᳚) || 7 || अ॒भि¦यः¦म॒हि॒ना¦दिव᳚म्¦मि॒त्रः¦ब॒भूव॑¦स॒ऽप्रथाः᳚ | अ॒भि¦श्रवः॑ऽभिः¦पृ॒थि॒वीम् || |
मि॒त्राय॒पञ्च॑येमिरे॒जना᳚,अ॒भिष्टि॑शवसे |{गाथिनो विश्वामित्रः | मित्रः | गायत्री} सदे॒वान्विश्वा᳚न्बिभर्ति॒(स्वाहा᳚) || 8 || मि॒त्राय॑¦पंच॑¦ये॒मि॒रे॒¦जनाः᳚¦अ॒भिष्टि॑ऽशवसे | सः¦दे॒वान्¦विश्वा᳚न्¦बि॒भ॒र्ति॒ || |
मि॒त्रोदे॒वेष्वा॒युषु॒जना᳚यवृ॒क्तब᳚र्हिषे |{गाथिनो विश्वामित्रः | मित्रः | गायत्री} इष॑इ॒ष्टव्र॑ता,अकः॒(स्वाहा᳚) || 9 || मि॒त्रः¦दे॒वेषु॑¦आ॒युषु॑¦जना᳚य¦वृ॒क्तऽब॑र्हिषे | इषः॑¦इ॒ष्टऽव्र॑ताः¦अ॒क॒रित्य॑कः || |
[60] इहेहवइति सप्तर्चस्य सूक्तस्य गाथिनोविश्वामित्रऋभवः अंत्यानांतिसृणामिंद्रऋभवोजगती |{मंडल:3, सूक्त:60}{अनुवाक:5, सूक्त:7}{अष्टक:3, अध्याय:4} |
इ॒हेह॑वो॒मन॑साब॒न्धुता᳚नरउ॒शिजो᳚जग्मुर॒भितानि॒वेद॑सा |{गाथिनो विश्वामित्रः | ऋभवः | जगती} याभि᳚र्मा॒याभिः॒प्रति॑जूतिवर्पसः॒सौध᳚न्वनाय॒ज्ञियं᳚भा॒गमा᳚न॒श(स्वाहा᳚) || 1 || वर्ग:7 इ॒हऽइ᳚ह¦वः॒¦मन॑सा¦ब॒न्धुता᳚¦न॒रः॒¦उ॒शिजः॑¦ज॒ग्मुः॒¦अ॒भि¦तानि॑¦वेद॑सा | |
याभिः॒शची᳚भिश्चम॒साँ,अपिं᳚शत॒यया᳚धि॒यागामरि॑णीत॒चर्म॑णः |{गाथिनो विश्वामित्रः | ऋभवः | जगती} येन॒हरी॒मन॑सानि॒रत॑क्षत॒तेन॑देव॒त्वमृ॑भवः॒समा᳚नश॒(स्वाहा᳚) || 2 || याभिः॑¦शची᳚भिः¦च॒म॒सान्¦अपिं᳚शत¦यया᳚¦धि॒या¦गाम्¦अरि॑णीत¦चर्म॑णः | |
इन्द्र॑स्यस॒ख्यमृ॒भवः॒समा᳚नशु॒र्मनो॒र्नपा᳚तो,अ॒पसो᳚दधन्विरे |{गाथिनो विश्वामित्रः | ऋभवः | जगती} सौ॒ध॒न्व॒नासो᳚,अमृत॒त्वमेरि॑रेवि॒ष्ट्वीशमी᳚भिःसु॒कृतः॑सुकृ॒त्यया॒(स्वाहा᳚) || 3 || इन्द्र॑स्य¦स॒ख्यम्¦ऋ॒भवः॑¦सम्¦आ॒न॒शुः॒¦मनोः᳚¦नपा᳚तः¦अ॒पसः॑¦द॒ध॒न्वि॒रे॒ | |
इन्द्रे᳚णयाथस॒रथं᳚सु॒तेसचाँ॒,अथो॒वशा᳚नांभवथास॒हश्रि॒या |{गाथिनो विश्वामित्रः | ऋभवः | जगती} नवः॑प्रति॒मैसु॑कृ॒तानि॑वाघतः॒सौध᳚न्वना,ऋभवोवी॒र्या᳚णिच॒(स्वाहा᳚) || 4 || इन्द्रे᳚ण¦या॒थ॒¦स॒ऽरथ᳚म्¦सु॒ते¦सचा᳚¦अथो॒ इति॑¦वशा᳚नाम्¦भ॒व॒थ॒¦स॒ह¦श्रि॒या | |
इन्द्र॑ऋ॒भुभि॒र्वाज॑वद्भिः॒समु॑क्षितंसु॒तंसोम॒मावृ॑षस्वा॒गभ॑स्त्योः |{गाथिनो विश्वामित्रः | इन्द्रः, ऋभवः | जगती} धि॒येषि॒तोम॑घवन्दा॒शुषो᳚गृ॒हेसौ᳚धन्व॒नेभिः॑स॒हम॑त्स्वा॒नृभिः॒(स्वाहा᳚) || 5 || इन्द्र॑¦ऋ॒भुऽभिः॑¦वाज॑वत्ऽभिः¦सम्।औ᳚क्षितम्¦सु॒तम्¦सोम᳚म्¦आ¦वृ॒ष॒स्व॒¦गभ॑स्त्योः | |
इन्द्र॑ऋभु॒मान्वाज॑वान्मत्स्वे॒हनो॒ऽस्मिन्त्सव॑ने॒शच्या᳚पुरुष्टुत |{गाथिनो विश्वामित्रः | इन्द्रः, ऋभवः | जगती} इ॒मानि॒तुभ्यं॒स्वस॑राणियेमिरेव्र॒तादे॒वानां॒मनु॑षश्च॒धर्म॑भिः॒(स्वाहा᳚) || 6 || इन्द्र॑¦ऋ॒भु॒ऽमान्¦वाज॑ऽवान्¦म॒त्स्व॒¦इ॒ह¦नः॒¦अ॒स्मिन्¦सव॑ने¦शच्या᳚¦पु॒रु॒ऽस्तु॒त॒ | |
इन्द्र॑ऋ॒भुभि᳚र्वा॒जिभि᳚र्वा॒जय᳚न्नि॒हस्तोमं᳚जरि॒तुरुप॑याहिय॒ज्ञिय᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः, ऋभवः | जगती} श॒तंकेते᳚भिरिषि॒रेभि॑रा॒यवे᳚स॒हस्र॑णीथो,अध्व॒रस्य॒होम॑नि॒(स्वाहा᳚) || 7 || इन्द्र॑¦ऋ॒भुऽभिः॑¦वा॒जिऽभिः॑¦वा॒जय॑न्¦इ॒ह¦स्तोम᳚म्¦ज॒रि॒तुः¦उप॑¦या॒हि॒¦य॒ज्ञिय᳚म् | |
[61] उषोवाजेनेति सप्तर्चस्य सूक्तस्य गाथिनोविश्वामित्रउषास्त्रिष्टुप् |{मंडल:3, सूक्त:61}{अनुवाक:5, सूक्त:8}{अष्टक:3, अध्याय:4} |
उषो॒वाजे᳚नवाजिनि॒प्रचे᳚ताः॒स्तोमं᳚जुषस्वगृण॒तोम॑घोनि |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} पु॒रा॒णीदे᳚वियुव॒तिःपुरं᳚धि॒रनु᳚व्र॒तंच॑रसिविश्ववारे॒(स्वाहा᳚) || 1 || वर्ग:8 उषः॑¦वाजे᳚न¦वा॒जि॒नि॒¦प्रऽचे᳚ताः¦स्तोम᳚म्¦जु॒ष॒स्व॒¦गृ॒ण॒तः¦म॒घो॒नि॒ | |
उषो᳚दे॒व्यम॑र्त्या॒विभा᳚हिच॒न्द्रर॑थासू॒नृता᳚,ई॒रय᳚न्ती |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} आत्वा᳚वहन्तुसु॒यमा᳚सो॒,अश्वा॒हिर᳚ण्यवर्णांपृथु॒पाज॑सो॒ये(स्वाहा᳚) || 2 || उषः॑¦दे॒वि॒¦अम॑र्त्या¦वि¦भा॒हि॒¦च॒न्द्रऽर॑था¦सू॒नृताः᳚¦ई॒रय᳚न्ती | |
उषः॑प्रती॒चीभुव॑नानि॒विश्वो॒र्ध्वाति॑ष्ठस्य॒मृत॑स्यके॒तुः |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} स॒मा॒नमर्थं᳚चरणी॒यमा᳚नाच॒क्रमि॑वनव्य॒स्याव॑वृत्स्व॒(स्वाहा᳚) || 3 || उषः॑¦प्र॒ती॒ची¦भुव॑नानि¦विश्वा᳚¦ऊ॒र्ध्वा¦ति॒ष्ठ॒सि॒¦अ॒मृत॑स्य¦के॒तुः | |
अव॒स्यूमे᳚वचिन्व॒तीम॒घोन्यु॒षाया᳚ति॒स्वस॑रस्य॒पत्नी᳚ |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} स्व१॑(अ॒)र्जन᳚न्तीसु॒भगा᳚सु॒दंसा॒,आन्ता᳚द्दि॒वःप॑प्रथ॒आपृ॑थि॒व्याः(स्वाहा᳚) || 4 || अव॑¦स्यूम॑ऽइव¦चि॒न्व॒ती¦म॒घोनी᳚¦उ॒षाः¦या॒ति॒¦स्वस॑रस्य¦पत्नी᳚ | |
अच्छा᳚वोदे॒वीमु॒षसं᳚विभा॒तींप्रवो᳚भरध्वं॒नम॑सासुवृ॒क्तिम् |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} ऊ॒र्ध्वंम॑धु॒धादि॒विपाजो᳚,अश्रे॒त्प्ररो᳚च॒नारु॑रुचेर॒ण्वसं᳚दृक्॒(स्वाहा᳚) || 5 || अच्छ॑¦वः॒¦दे॒वीम्¦उ॒षस᳚म्¦वि॒ऽभा॒तीम्¦प्र¦वः॒¦भ॒र॒ध्व॒म्¦नम॑सा¦सु॒ऽवृ॒क्तिम् | |
ऋ॒ताव॑रीदि॒वो,अ॒र्कैर॑बो॒ध्यारे॒वती॒रोद॑सीचि॒त्रम॑स्थात् |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} आ॒य॒तीम॑ग्नउ॒षसं᳚विभा॒तींवा॒ममे᳚षि॒द्रवि॑णं॒भिक्ष॑माणः॒(स्वाहा᳚) || 6 || ऋ॒तऽव॑री¦दि॒वः¦अ॒र्कैः¦अ॒बो॒धि॒¦आ¦रे॒वती᳚¦रोद॑सी॒ इति॑¦चि॒त्रम्¦आ॒स्था॒त् | |
ऋ॒तस्य॑बु॒ध्नउ॒षसा᳚मिष॒ण्यन्वृषा᳚म॒हीरोद॑सी॒,आवि॑वेश |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} म॒हीमि॒त्रस्य॒वरु॑णस्यमा॒याच॒न्द्रेव॑भा॒नुंविद॑धेपुरु॒त्रा(स्वाहा᳚) || 7 || ऋ॒तस्य॑¦बु॒ध्ने¦उ॒षसा᳚म्¦इ॒ष॒ण्यन्¦वृषा᳚¦म॒ही इति॑¦रोद॑सी॒ इति॑¦आ¦वि॒वे॒श॒ | |
[62] इमाउवामित्यष्टादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रः ( अंत्यतृचस्य जमदग्निर्वा) आद्यतिसृणामिंद्रावरुणौ चतुर्थ्यादितिसृणांबृहस्पतिः इयंतइत्यादितिसृणांपूषा तत्सवितुरित्यादितिसृणांसविता सोमइत्यादितिसृणांसोम आनइत्यादितिसृणांमित्रावरुणौदेवताः आद्यास्तिस्रत्रिष्टुभः शिष्टाः पञ्चदशगायत्र्यः |{मंडल:3, सूक्त:62}{अनुवाक:5, सूक्त:9}{अष्टक:3, अध्याय:4} |
इ॒मा,उ॑वांभृ॒मयो॒मन्य॑मानायु॒वाव॑ते॒नतुज्या᳚,अभूवन् |{गाथिनो विश्वामित्रः | इन्द्रावरुणौ | त्रिष्टुप्} क्व१॑(अ॒)त्यदि᳚न्द्रावरुणा॒यशो᳚वां॒येन॑स्मा॒सिनं॒भर॑थः॒सखि॑भ्यः॒(स्वाहा᳚) || 1 || वर्ग:9 इ॒माः¦ऊँ॒ इति॑¦वा॒म्¦भृ॒मयः॑¦मन्य॑मानाः¦यु॒वाऽव॑ते¦न¦तुज्याः᳚¦अ॒भू॒व॒न् | |
अ॒यमु॑वांपुरु॒तमो᳚रयी॒यञ्छ॑श्वत्त॒ममव॑सेजोहवीति |{गाथिनो विश्वामित्रः | इन्द्रावरुणौ | त्रिष्टुप्} स॒जोषा᳚विन्द्रावरुणाम॒रुद्भि॑र्दि॒वापृ॑थि॒व्याशृ॑णुतं॒हवं᳚मे॒(स्वाहा᳚) || 2 || अ॒यम्¦ऊँ॒ इति॑¦वा॒म्¦पु॒रु॒ऽतमः॑¦र॒यि॒ऽयन्¦श॒श्व॒त्ऽत॒मम्¦अव॑से¦जो॒ह॒वी॒ति॒ | |
अ॒स्मेतदि᳚न्द्रावरुणा॒वसु॑ष्याद॒स्मेर॒यिर्म॑रुतः॒सर्व॑वीरः |{गाथिनो विश्वामित्रः | इन्द्रावरुणौ | त्रिष्टुप्} अ॒स्मान्वरू᳚त्रीःशर॒णैर॑वन्त्व॒स्मान्होत्रा॒भार॑ती॒दक्षि॑णाभिः॒(स्वाहा᳚) || 3 || अ॒स्मे इति॑¦तत्¦इ॒न्द्रा॒व॒रु॒णा॒¦वसु॑¦स्या॒त्¦अ॒स्मे इति॑¦र॒यिः¦म॒रु॒तः॒¦सर्व॑ऽवीरः | |
बृह॑स्पतेजु॒षस्व॑नोह॒व्यानि॑विश्वदेव्य |{गाथिनो विश्वामित्रः | बृहस्पतिः | गायत्री} रास्व॒रत्ना᳚निदा॒शुषे॒(स्वाहा᳚) || 4 || बृह॑स्पते¦जु॒षस्व॑¦नः॒¦ह॒व्यानि॑¦वि॒श्व॒ऽदे॒व्य॒ | रास्व॑¦रत्ना᳚नि¦दा॒शुषे᳚ || |
शुचि॑म॒र्कैर्बृह॒स्पति॑मध्व॒रेषु॑नमस्यत |{गाथिनो विश्वामित्रः | बृहस्पतिः | गायत्री} अना॒म्योज॒आच॑के॒(स्वाहा᳚) || 5 || शुचि᳚म्¦अ॒र्कैः¦बृह॒स्पति᳚म्¦अ॒ध्व॒रेषु॑¦न॒म॒स्य॒त॒ | अना᳚मि¦ओजः॑¦आ¦च॒के॒ || |
वृ॒ष॒भंच॑र्षणी॒नांवि॒श्वरू᳚प॒मदा᳚भ्यम् |{गाथिनो विश्वामित्रः | बृहस्पतिः | गायत्री} बृह॒स्पतिं॒वरे᳚ण्य॒म्(स्वाहा᳚) || 6 || वर्ग:10 वृ॒ष॒भम्¦च॒र्ष॒णी॒नाम्¦वि॒श्वऽरू᳚पम्¦अदा᳚भ्यम् | बृह॒स्पति᳚म्¦वरे᳚ण्यम् || |
इ॒यंते᳚पूषन्नाघृणेसुष्टु॒तिर्दे᳚व॒नव्य॑सी |{गाथिनो विश्वामित्रः | पूषा | गायत्री} अ॒स्माभि॒स्तुभ्यं᳚शस्यते॒(स्वाहा᳚) || 7 || इ॒यम्¦ते॒¦पू॒ष॒न्¦आ॒घृ॒णे॒¦सु॒ऽस्तु॒तिः¦दे॒व॒¦नव्य॑सी | अ॒स्माभिः॑¦तुभ्य᳚म्¦श॒स्य॒ते॒ || |
तांजु॑षस्व॒गिरं॒मम॑वाज॒यन्ती᳚मवा॒धिय᳚म् |{गाथिनो विश्वामित्रः | पूषा | गायत्री} व॒धू॒युरि॑व॒योष॑णा॒म्(स्वाहा᳚) || 8 || ताम्¦जु॒ष॒स्व॒¦गिर᳚म्¦मम॑¦वा॒ज॒ऽयन्ती᳚म्¦अ॒व॒¦धिय᳚म् | व॒धू॒युःऽइ᳚व¦योष॑णाम् || |
योविश्वा॒भिवि॒पश्य॑ति॒भुव॑ना॒संच॒पश्य॑ति |{गाथिनो विश्वामित्रः | पूषा | गायत्री} सनः॑पू॒षावि॒ताभु॑व॒त्(स्वाहा᳚) || 9 || यः¦विश्वा᳚¦अ॒भि¦वि॒ऽपश्य॑ति¦भुव॑ना¦सम्¦च॒¦पश्य॑ति | सः¦नः॒¦पू॒षा¦अ॒वि॒ता¦भु॒व॒त् || |
तत्स॑वि॒तुर्वरे᳚ण्यं॒भर्गो᳚दे॒वस्य॑धीमहि |{गाथिनो विश्वामित्रः | सविता | गायत्री} धियो॒योनः॑प्रचो॒दया॒त्(स्वाहा᳚) || 10 || तत्¦स॒वि॒तुः¦वरे᳚ण्यम्¦भर्गः॑¦दे॒वस्य॑¦धी॒म॒हि॒ | धियः॑¦यः¦नः॒¦प्र॒ऽचो॒दया᳚त् || |
दे॒वस्य॑सवि॒तुर्व॒यंवा᳚ज॒यन्तः॒पुरं᳚ध्या |{गाथिनो विश्वामित्रः | सविता | गायत्री} भग॑स्यरा॒तिमी᳚महे॒(स्वाहा᳚) || 11 || वर्ग:11 दे॒वस्य॑¦स॒वि॒तुः¦व॒यम्¦वा॒ज॒ऽयन्तः॑¦पुर᳚म्ऽध्या | भग॑स्य¦रा॒तिम्¦ई॒म॒हे॒ || |
दे॒वंनरः॑सवि॒तारं॒विप्रा᳚य॒ज्ञैःसु॑वृ॒क्तिभिः॑ |{गाथिनो विश्वामित्रः | सविता | गायत्री} न॒म॒स्यन्ति॑धि॒येषि॒ताः(स्वाहा᳚) || 12 || दे॒वम्¦नरः॑¦स॒वि॒तार᳚म्¦विप्राः᳚¦य॒ज्ञैः¦सु॒वृ॒क्तिऽभिः॑ | न॒म॒स्यन्ति॑¦धि॒या¦इ॒षि॒ताः || |
सोमो᳚जिगातिगातु॒विद्दे॒वाना᳚मेतिनिष्कृ॒तम् |{गाथिनो विश्वामित्रः | सोमः | गायत्री} ऋ॒तस्य॒योनि॑मा॒सद॒म्(स्वाहा᳚) || 13 || सोमः॑¦जि॒गा॒ति॒¦गा॒तु॒ऽवित्¦दे॒वाना᳚म्¦ए॒ति॒¦निः॒ऽकृ॒तम् | ऋ॒तस्य॑¦योनि᳚म्¦आ॒ऽसद᳚म् || |
सोमो᳚,अ॒स्मभ्यं᳚द्वि॒पदे॒चतु॑ष्पदेचप॒शवे᳚ |{गाथिनो विश्वामित्रः | सोमः | गायत्री} अ॒न॒मी॒वा,इष॑स्कर॒त्(स्वाहा᳚) || 14 || सोमः॑¦अ॒स्मभ्य᳚म्¦द्वि॒ऽपदे᳚¦चतुः॑ऽपदे¦च॒¦प॒शवे᳚ | अ॒न॒मी॒वाः¦इषः॑¦क॒र॒त् || |
अ॒स्माक॒मायु᳚र्व॒र्धय᳚न्न॒भिमा᳚तीः॒सह॑मानः |{गाथिनो विश्वामित्रः | सोमः | गायत्री} सोमः॑स॒धस्थ॒मास॑द॒त्(स्वाहा᳚) || 15 || अ॒स्माक᳚म्¦आयुः॑¦व॒र्धय॑न्¦अ॒भिऽमा᳚तीः¦सह॑मानः | सोमः॑¦स॒धऽस्थ᳚म्¦आ¦अ॒स॒द॒त् || |
आनो᳚मित्रावरुणाघृ॒तैर्गव्यू᳚तिमुक्षतम् |{विश्वामित्रो जमदग्निर्वा | मित्रावरुणौ | गायत्री} मध्वा॒रजां᳚सिसुक्रतू॒(स्वाहा᳚) || 16 || आ¦नः॒¦मि॒त्रा॒व॒रु॒णा॒¦घृ॒तैः¦गव्यू᳚तिम्¦उ॒क्ष॒त॒म् | मध्वा᳚¦रजां᳚सि¦सु॒क्र॒तू॒ इति॑ सुऽक्रतू || |
उ॒रु॒शंसा᳚नमो॒वृधा᳚म॒ह्नादक्ष॑स्यराजथः |{विश्वामित्रो जमदग्निर्वा | मित्रावरुणौ | गायत्री} द्राघि॑ष्ठाभिःशुचिव्रता॒(स्वाहा᳚) || 17 || उ॒रु॒ऽशंसा᳚¦न॒मः॒ऽवृधा᳚¦म॒ह्ना¦दक्ष॑स्य¦रा॒ज॒थः॒ | द्राघि॑ष्ठाभिः¦शु॒चि॒ऽव्र॒ता॒ || |
गृ॒णा॒नाज॒मद॑ग्निना॒योना᳚वृ॒तस्य॑सीदतम् |{विश्वामित्रो जमदग्निर्वा | मित्रावरुणौ | गायत्री} पा॒तंसोम॑मृतावृधा॒(स्वाहा᳚) || 18 || गृ॒णा॒ना¦ज॒मत्।आ॑ग्निना¦योनौ᳚¦ऋ॒तस्य॑¦सी॒द॒त॒म् | पा॒तम्¦सोम᳚म्¦ऋ॒त॒ऽवृ॒धा॒ || |