|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||

|| ऋग्वेद संहिता (मंडल: 04) ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
[Last updated on: 03-Jun-2025]

[1] त्वांह्यग्नइति विंशत्यृचस्य सूक्तस्य गौतमोवामदेवोग्निर्द्वितीयादिचतसृणामग्निवरुणौ त्रिष्टुप् आद्यास्तिस्रः क्रमेणाष्ट्यतिजगतीधृतयः |{मंडल:4, सूक्त:1}{अनुवाक:1, सूक्त:1}{अष्टक:3, अध्याय:4}
त्वांह्य॑ग्ने॒सद॒मित्‌स॑म॒न्यवो᳚दे॒वासो᳚दे॒वम॑र॒तिंन्ये᳚रि॒रइति॒क्रत्वा᳚न्येरि॒रे |{गौतमो वामदेवः | अग्निः | अष्टिः}

अम॑र्त्यंयजत॒मर्त्ये॒ष्वादे॒वमादे᳚वंजनत॒प्रचे᳚तसं॒विश्व॒मादे᳚वंजनत॒प्रचे᳚तस॒‌म्(स्वाहा᳚) || 1 || वर्ग:12

त्वा‌म्¦हि¦अ॒ग्ने॒¦सद᳚‌म्¦इत्¦स॒ऽम॒न्यवः॑¦दे॒वासः॑¦दे॒व‌म्¦अ॒र॒ति‌म्¦नि॒ऽए॒रि॒रे¦इति॑¦क्रत्वा᳚¦नि॒ऽए॒रि॒रे |
अम॑र्त्य‌म्¦य॒ज॒त॒¦मर्त्ये᳚षु¦आ¦दे॒व‌म्¦आऽदे᳚व‌म्¦ज॒न॒त॒¦प्रऽचे᳚तस‌म्¦विश्व᳚‌म्¦आऽदे᳚व‌म्¦ज॒न॒त॒¦प्रऽचे᳚तस‌म् ||

सभ्रात॑रं॒वरु॑णमग्न॒आव॑वृत्स्वदे॒वाँ,अच्छा᳚सुम॒तीय॒ज्ञव॑नसं॒ज्येष्ठं᳚य॒ज्ञव॑नसम् |{गौतमो वामदेवः | अग्निः वरुणौ | अतिजगती}

ऋ॒तावा᳚नमादि॒त्यंच॑र्षणी॒धृतं॒राजा᳚नंचर्षणी॒धृत॒‌म्(स्वाहा᳚) || 2 ||

सः¦भ्रात॑र‌म्¦वरु॑ण‌म्¦अ॒ग्ने॒¦आ¦व॒वृ॒त्स्व॒¦दे॒वान्¦अच्छ॑¦सु॒ऽम॒ती¦य॒ज्ञऽव॑नस‌म्¦ज्येष्ठ᳚‌म्¦य॒ज्ञऽव॑नस‌म् |
ऋ॒तऽवा᳚न‌म्¦आ॒दि॒त्य‌म्¦च॒र्ष॒णि॒ऽधृत᳚‌म्¦राजा᳚न‌म्¦च॒र्ष॒णि॒ऽधृत᳚‌म् ||

सखे॒सखा᳚यम॒भ्याव॑वृत्स्वा॒शुंनच॒क्रंरथ्ये᳚व॒रंह्या॒स्मभ्यं᳚दस्म॒रंह्या᳚ |{गौतमो वामदेवः | अग्निः वरुणौ | धृतिः}

अग्ने᳚मृळी॒कंवरु॑णे॒सचा᳚विदोम॒रुत्सु॑वि॒श्वभा᳚नुषु |{गौतमो वामदेवः | अग्निः वरुणौ | धृतिः}

तो॒काय॑तु॒जेशु॑शुचान॒शंकृ॑ध्य॒स्मभ्यं᳚दस्म॒शंकृ॑धि॒(स्वाहा᳚) || 3 ||

सखे᳚¦सखा᳚य‌म्¦अ॒भि¦आ¦व॒वृ॒त्स्व॒¦आ॒शु‌म्¦न¦च॒क्र‌म्¦रथ्या᳚ऽ‌इव¦रंह्या᳚¦अ॒स्मभ्य᳚‌म्¦द॒स्म॒¦रंह्या᳚ |
अग्ने᳚¦मृ॒ळी॒क‌म्¦वरु॑णे¦सचा᳚¦वि॒दः॒¦म॒रुत्ऽसु॑¦वि॒श्वऽभा᳚नुषु |
तो॒काय॑¦तु॒जे¦शु॒शु॒चा॒न॒¦श‌म्¦कृ॒धि॒¦अ॒स्मभ्य᳚‌म्¦द॒स्म॒¦श‌म्¦कृ॒धि॒ ||

त्वंनो᳚,अग्ने॒वरु॑णस्यवि॒द्वान्दे॒वस्य॒हेळोऽव॑यासिसीष्ठाः |{गौतमो वामदेवः | अग्निः वरुणौ | त्रिष्टुप्}

यजि॑ष्ठो॒वह्नि॑तमः॒शोशु॑चानो॒विश्वा॒द्वेषां᳚सि॒प्रमु॑मुग्ध्य॒स्मत्(स्वाहा᳚) || 4 ||

त्व‌म्¦नः॒¦अ॒ग्ने॒¦वरु॑णस्य¦वि॒द्वान्¦दे॒वस्य॑¦हेळः॑¦अव॑¦या॒सि॒सी॒ष्ठाः॒ |
यजि॑ष्ठः¦वह्नि॑ऽतमः¦शोशु॑चानः¦विश्वा᳚¦द्वेषां᳚सि¦प्र¦मु॒मु॒ग्धि॒¦अ॒स्मत् ||

सत्वंनो᳚,अग्नेऽव॒मोभ॑वो॒तीनेदि॑ष्ठो,अ॒स्या,उ॒षसो॒व्यु॑ष्टौ |{गौतमो वामदेवः | अग्निः वरुणौ | त्रिष्टुप्}

अव॑यक्ष्वनो॒वरु॑णं॒ररा᳚णोवी॒हिमृ॑ळी॒कंसु॒हवो᳚नएधि॒(स्वाहा᳚) || 5 ||

सः¦त्व‌म्¦नः॒¦अ॒ग्ने॒¦अ॒व॒मः¦भ॒व॒¦ऊ॒ती¦नेदि॑ष्ठः¦अ॒स्याः¦उ॒षसः॑¦वि।औ᳚ष्टौ |
अव॑¦य॒क्ष्व॒¦नः॒¦वरु॑ण‌म्¦ररा᳚णः¦वी॒हि¦मृ॒ळी॒क‌म्¦सु॒ऽहवः॑¦नः॒¦ए॒धि॒ ||

अ॒स्यश्रेष्ठा᳚सु॒भग॑स्यसं॒दृग्दे॒वस्य॑चि॒त्रत॑मा॒मर्त्ये᳚षु |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

शुचि॑घृ॒तंनत॒प्तमघ्न्या᳚याःस्पा॒र्हादे॒वस्य॑मं॒हने᳚वधे॒नोः(स्वाहा᳚) || 6 || वर्ग:13

अ॒स्य¦श्रेष्ठा᳚¦सु॒ऽभग॑स्य¦स॒‌म्ऽदृक्¦दे॒वस्य॑¦चि॒त्रऽत॑मा¦मर्त्ये᳚षु |
शुचि॑¦घृ॒त‌म्¦न¦त॒प्त‌म्¦अघ्न्या᳚याः¦स्पा॒र्हा¦दे॒वस्य॑¦मं॒हना᳚ऽ‌इव¦धे॒नोः ||

त्रिर॑स्य॒ताप॑र॒मास᳚न्तिस॒त्यास्पा॒र्हादे॒वस्य॒जनि॑मान्य॒ग्नेः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अ॒न॒न्ते,अ॒न्तःपरि॑वीत॒आगा॒च्छुचिः॑शु॒क्रो,अ॒र्योरोरु॑चानः॒(स्वाहा᳚) || 7 ||

त्रिः¦अ॒स्य॒¦ता¦प॒र॒मा¦स॒न्ति॒¦स॒त्या¦स्पा॒र्हा¦दे॒वस्य॑¦जनि॑मानि¦अ॒ग्नेः |
अ॒न॒न्ते¦अ॒न्तरिति॑¦परि॑ऽवीतः¦आ¦अ॒गा॒त्¦शुचिः॑¦शु॒क्रः¦अ॒र्यः¦रोरु॑चानः ||

सदू॒तोविश्वेद॒भिव॑ष्टि॒सद्मा॒होता॒हिर᳚ण्यरथो॒रंसु॑जिह्वः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

रो॒हिद॑श्वोवपु॒ष्यो᳚वि॒भावा॒सदा᳚र॒ण्वःपि॑तु॒मती᳚वसं॒सत्(स्वाहा᳚) || 8 ||

सः¦दू॒तः¦विश्वा᳚¦इत्¦अ॒भि¦व॒ष्टि॒¦सद्म॑¦होता᳚¦हिर᳚ण्यऽरथः¦र‌म्ऽसु॑जिह्वः |
रो॒हित्।आ॑श्वः¦व॒पु॒ष्यः॑¦वि॒भाऽवा᳚¦सदा᳚¦र॒ण्वः¦पि॒तु॒मती᳚ऽ‌इव¦स॒‌म्ऽसत् ||

सचे᳚तय॒न्मनु॑षोय॒ज्ञब᳚न्धुः॒प्रतंम॒ह्यार॑श॒नया᳚नयन्ति |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

सक्षे᳚त्यस्य॒दुर्या᳚सु॒साध᳚न्दे॒वोमर्त॑स्यसधनि॒त्वमा᳚प॒(स्वाहा᳚) || 9 ||

सः¦चे॒त॒य॒त्¦मनु॑षः¦य॒ज्ञऽब᳚न्धुः¦प्र¦त‌म्¦म॒ह्या¦र॒श॒नया᳚¦न॒य॒न्ति॒ |
सः¦क्षे॒ति॒¦अ॒स्य॒¦दुर्या᳚सु¦साध॑न्¦दे॒वः¦मर्त॑स्य¦स॒ध॒नि॒ऽत्व‌म्¦आ॒प॒ ||

सतूनो᳚,अ॒ग्निर्न॑यतुप्रजा॒नन्नच्छा॒रत्नं᳚दे॒वभ॑क्तं॒यद॑स्य |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

धि॒यायद्‌विश्वे᳚,अ॒मृता॒,अकृ᳚ण्व॒न्द्यौष्पि॒ताज॑नि॒तास॒त्यमु॑क्ष॒‌न्(स्वाहा᳚) || 10 ||

सः¦तु¦नः॒¦अ॒ग्निः¦न॒य॒तु॒¦प्र॒ऽजा॒नन्¦अच्छ॑¦रत्न᳚‌म्¦दे॒वऽभ॑क्त‌म्¦यत्¦अ॒स्य॒ |
धि॒या¦यत्¦विश्वे᳚¦अ॒मृताः᳚¦अकृ᳚ण्वन्¦द्यौः¦पि॒ता¦ज॒नि॒ता¦स॒त्य‌म्¦उ॒क्ष॒न् ||

सजा᳚यतप्रथ॒मःप॒स्त्या᳚सुम॒होबु॒ध्नेरज॑सो,अ॒स्ययोनौ᳚ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अ॒पाद॑शी॒र्षागु॒हमा᳚नो॒,अन्ता॒योयु॑वानोवृष॒भस्य॑नी॒ळे(स्वाहा᳚) || 11 || वर्ग:14

सः¦जा॒य॒त॒¦प्र॒थ॒मः¦प॒स्त्या᳚सु¦म॒हः¦बु॒ध्ने¦रज॑सः¦अ॒स्य¦योनौ᳚ |
अ॒पात्¦अ॒शी॒र्षा¦गु॒हमा᳚नः¦अन्ता᳚¦आ॒ऽयोयु॑वानः¦वृ॒ष॒भस्य॑¦नी॒ळे ||

प्रशर्ध॑आर्तप्रथ॒मंवि॑प॒न्याँ,ऋ॒तस्य॒योना᳚वृष॒भस्य॑नी॒ळे |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

स्पा॒र्होयुवा᳚वपु॒ष्यो᳚वि॒भावा᳚स॒प्तप्रि॒यासो᳚ऽजनयन्त॒वृष्णे॒(स्वाहा᳚) || 12 ||

प्र¦शर्धः॑¦आ॒र्त॒¦प्र॒थ॒म‌म्¦वि॒प॒न्या¦ऋ॒तस्य॑¦योना᳚¦वृ॒ष॒भस्य॑¦नी॒ळे |
स्पा॒र्हः¦युवा᳚¦व॒पु॒ष्यः॑¦वि॒भाऽवा᳚¦स॒प्त¦प्रि॒यासः॑¦अ॒ज॒न॒य॒न्त॒¦वृष्णे᳚ ||

अ॒स्माक॒मत्र॑पि॒तरो᳚मनु॒ष्या᳚,अ॒भिप्रसे᳚दुरृ॒तमा᳚शुषा॒णाः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अश्म᳚व्रजाःसु॒दुघा᳚व॒व्रे,अ॒न्तरुदु॒स्रा,आ᳚जन्नु॒षसो᳚हुवा॒नाः(स्वाहा᳚) || 13 ||

अ॒स्माक᳚‌म्¦अत्र॑¦पि॒तरः॑¦म॒नु॒ष्याः᳚¦अ॒भि¦प्र¦से॒दुः॒¦ऋ॒त‌म्¦आ॒शु॒षा॒णाः |
अश्म॑ऽव्रजाः¦सु॒ऽदुघाः᳚¦व॒व्रे¦अ॒न्तः¦उत्¦उ॒स्राः¦आ॒ज॒न्¦उ॒षसः॑¦हु॒वा॒नाः ||

तेम᳚र्मृजतददृ॒वांसो॒,अद्रिं॒तदे᳚षाम॒न्ये,अ॒भितो॒विवो᳚चन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

प॒श्वय᳚न्त्रासो,अ॒भिका॒रम॑र्चन्वि॒दन्त॒ज्योति॑श्चकृ॒पन्त॑धी॒भिः(स्वाहा᳚) || 14 ||

ते¦म॒र्मृ॒ज॒त॒¦द॒दृ॒ऽवांसः॑¦अद्रि᳚‌म्¦तत्¦ए॒षा॒‌म्¦अ॒न्ये¦अ॒भितः॑¦वि¦वो॒च॒न् |
प॒श्वऽय᳚न्त्रासः¦अ॒भि¦का॒र‌म्¦अ॒र्च॒न्¦वि॒दन्त॑¦ज्योतिः॑¦च॒कृ॒पन्त॑¦धी॒भिः ||

तेग᳚व्य॒तामन॑सादृ॒ध्रमु॒ब्धंगाये᳚मा॒नंपरि॒षन्त॒मद्रि᳚म् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दृ॒ळ्हंनरो॒वच॑सा॒दैव्ये᳚नव्र॒जंगोम᳚न्तमु॒शिजो॒विव᳚व्रुः॒(स्वाहा᳚) || 15 ||

ते¦ग॒व्य॒ता¦मन॑सा¦दृ॒ध्र‌म्¦उ॒ब्ध‌म्¦गाः¦ये॒मा॒न‌म्¦परि॑¦सन्त᳚‌म्¦अद्रि᳚‌म् |
दृ॒ळ्ह‌म्¦नरः॑¦वच॑सा¦दैव्ये᳚न¦व्र॒ज‌म्¦गोऽम᳚न्त‌म्¦उ॒शिजः॑¦वि¦व॒व्रु॒रिति॑ वव्रुः ||

तेम᳚न्वतप्रथ॒मंनाम॑धे॒नोस्त्रिःस॒प्तमा॒तुःप॑र॒माणि॑विन्दन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

तज्जा᳚न॒तीर॒भ्य॑नूषत॒व्रा,आ॒विर्भु॑वदरु॒णीर्य॒शसा॒गोः(स्वाहा᳚) || 16 || वर्ग:15

ते¦म॒न्व॒त॒¦प्र॒थ॒म‌म्¦नाम॑¦धे॒नोः¦त्रिः¦स॒प्त¦मा॒तुः¦प॒र॒माणि॑¦वि॒न्द॒न् |
तत्¦जा॒न॒तीः¦अ॒भि¦अ॒नू॒ष॒त॒¦व्राः¦आ॒विः¦भु॒व॒त्¦अ॒रु॒णीः¦य॒शसा᳚¦गोः ||

नेश॒त्तमो॒दुधि॑तं॒रोच॑त॒द्यौरुद्दे॒व्या,उ॒षसो᳚भा॒नुर॑र्त |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

आसूर्यो᳚बृह॒तस्ति॑ष्ठ॒दज्राँ᳚,ऋ॒जुमर्ते᳚षुवृजि॒नाच॒पश्य॒न्त्(स्वाहा᳚) || 17 ||

नेश॑त्¦तमः॑¦दुधि॑त‌म्¦रोच॑त¦द्यौः¦उत्¦दे॒व्याः¦उ॒षसः॑¦भा॒नुः¦अ॒र्त॒ |
आ¦सूर्यः॑¦बृ॒ह॒तः¦ति॒ष्ठ॒त्¦अज्रा᳚न्¦ऋ॒जु¦मर्ते᳚षु¦वृ॒जि॒ना¦च॒¦पश्य॑न् ||

आदित्‌प॒श्चाबु॑बुधा॒नाव्य॑ख्य॒न्नादिद्‌रत्नं᳚धारयन्त॒द्युभ॑क्तम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

विश्वे॒विश्वा᳚सु॒दुर्या᳚सुदे॒वामित्र॑धि॒येव॑रुणस॒त्यम॑स्तु॒(स्वाहा᳚) || 18 ||

आत्¦इत्¦प॒श्चा¦बु॒बु॒धा॒नाः¦वि¦अ॒ख्य॒न्¦आत्¦इत्¦रत्न᳚‌म्¦धा॒र॒य॒न्त॒¦द्युऽभ॑क्त‌म् |
विश्वे᳚¦विश्वा᳚सु¦दुर्या᳚सु¦दे॒वाः¦मित्र॑¦धि॒ये¦व॒रु॒ण॒¦स॒त्य‌म्¦अ॒स्तु॒ ||

अच्छा᳚वोचेयशुशुचा॒नम॒ग्निंहोता᳚रंवि॒श्वभ॑रसं॒यजि॑ष्ठम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

शुच्यूधो᳚,अतृण॒न्नगवा॒मन्धो॒नपू॒तंपरि॑षिक्तमं॒शोः(स्वाहा᳚) || 19 ||

अच्छ॑¦वो॒चे॒य॒¦शु॒शु॒चा॒न‌म्¦अ॒ग्नि‌म्¦होता᳚र‌म्¦वि॒श्वऽभ॑रस‌म्¦यजि॑ष्ठ‌म् |
शुचि॑¦ऊधः॑¦अ॒तृ॒ण॒त्¦न¦गवा᳚‌म्¦अन्धः॑¦न¦पू॒त‌म्¦परि॑ऽसिक्त‌म्¦अं॒शोः ||

विश्वे᳚षा॒मदि॑तिर्य॒ज्ञिया᳚नां॒विश्वे᳚षा॒मति॑थि॒र्मानु॑षाणाम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अ॒ग्निर्दे॒वाना॒मव॑आवृणा॒नःसु॑मृळी॒कोभ॑वतुजा॒तवे᳚दाः॒(स्वाहा᳚) || 20 ||

विश्वे᳚षा‌म्¦अदि॑तिः¦य॒ज्ञिया᳚ना‌म्¦विश्वे᳚षा‌म्¦अति॑थिः¦मानु॑षाणा‌म् |
अ॒ग्निः¦दे॒वाना᳚‌म्¦अवः॑¦आ॒ऽवृ॒णा॒नः¦सु॒ऽमृ॒ळी॒कः¦भ॒व॒तु॒¦जा॒तऽवे᳚दाः ||

[2] योमर्त्येष्विति विंशत्यृचस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |{मंडल:4, सूक्त:2}{अनुवाक:1, सूक्त:2}{अष्टक:3, अध्याय:4}
योमर्त्ये᳚ष्व॒मृत॑ऋ॒तावा᳚दे॒वोदे॒वेष्व॑र॒तिर्नि॒धायि॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

होता॒यजि॑ष्ठोम॒ह्नाशु॒चध्यै᳚ह॒व्यैर॒ग्निर्मनु॑षईर॒यध्यै॒(स्वाहा᳚) || 1 || वर्ग:16

यः¦मर्त्ये᳚षु¦अ॒मृतः॑¦ऋ॒तऽवा᳚¦दे॒वः¦दे॒वेषु॑¦अ॒र॒तिः¦नि॒ऽधायि॑ |
होता᳚¦यजि॑ष्ठः¦म॒ह्ना¦शु॒चध्यै᳚¦ह॒व्यैः¦अ॒ग्निः¦मनु॑षः¦ई॒र॒यध्यै᳚ ||

इ॒हत्वंसू᳚नोसहसोनो,अ॒द्यजा॒तोजा॒ताँ,उ॒भयाँ᳚,अ॒न्तर॑ग्ने |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दू॒तई᳚यसेयुयुजा॒नऋ॑ष्वऋजुमु॒ष्कान्‌वृष॑णःशु॒क्राँश्च॒(स्वाहा᳚) || 2 ||

इ॒ह¦त्व‌म्¦सू॒नो॒ इति॑¦स॒ह॒सः॒¦नः॒¦अ॒द्य¦जा॒तः¦जा॒तान्¦उ॒भया᳚न्¦अ॒न्तः¦अ॒ग्ने॒ |
दू॒तः¦ई॒य॒से॒¦यु॒यु॒जा॒नः¦ऋ॒ष्व॒¦ऋ॒जु॒ऽमु॒ष्कान्¦वृष॑णः¦शु॒क्रान्¦च॒ ||

अत्या᳚वृध॒स्नूरोहि॑ताघृ॒तस्नू᳚ऋ॒तस्य॑मन्ये॒मन॑सा॒जवि॑ष्ठा |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अ॒न्तरी᳚यसे,अरु॒षायु॑जा॒नोयु॒ष्माँश्च॑दे॒वान्‌विश॒आच॒मर्ता॒न्त्(स्वाहा᳚) || 3 ||

अत्या᳚¦वृ॒ध॒स्नू इति॑ वृ॒ध॒ऽस्नू¦रोहि॑ता¦घृ॒तस्नू॒ इति॑ घृ॒तऽस्नू᳚¦ऋ॒तस्य॑¦म॒न्ये॒¦मन॑सा¦जवि॑ष्ठा |
अ॒न्तः¦ई॒य॒से॒¦अ॒रु॒षा¦यु॒जा॒नः¦यु॒ष्मान्¦च॒¦दे॒वान्¦विशः॑¦आ¦च॒¦मर्ता॑न् ||

अ॒र्य॒मणं॒वरु॑णंमि॒त्रमे᳚षा॒मिन्द्रा॒विष्णू᳚म॒रुतो᳚,अ॒श्विनो॒त |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

स्वश्वो᳚,अग्नेसु॒रथः॑सु॒राधा॒,एदु॑वहसुह॒विषे॒जना᳚य॒(स्वाहा᳚) || 4 ||

अ॒र्य॒मण᳚‌म्¦वरु॑ण‌म्¦मि॒त्र‌म्¦ए॒षा॒‌म्¦इन्द्रा॒विष्णू॒ इति॑¦म॒रुतः॑¦अ॒श्विना᳚¦उ॒त |
सु॒।आश्वः॑¦अ॒ग्ने॒¦सु॒ऽरथः॑¦सु॒ऽराधाः᳚¦आ¦इत्¦ऊँ॒ इति॑¦व॒ह॒¦सु॒ऽह॒विषे᳚¦जना᳚य ||

गोमाँ᳚,अ॒ग्नेऽवि॑माँ,अ॒श्वीय॒ज्ञोनृ॒वत्स॑खा॒सद॒मिद॑प्रमृ॒ष्यः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

इळा᳚वाँ,ए॒षो,अ॑सुरप्र॒जावा᳚न्दी॒र्घोर॒यिःपृ॑थुबु॒ध्नःस॒भावा॒न्त्(स्वाहा᳚) || 5 ||

गोऽमा᳚न्¦अ॒ग्ने॒¦अवि॑ऽमान्¦अ॒श्वी¦य॒ज्ञः¦नृ॒वत्ऽस॑खा¦सद᳚‌म्¦इत्¦अ॒प्र॒ऽमृ॒ष्यः |
इळा᳚ऽवान्¦ए॒षः¦अ॒सु॒र॒¦प्र॒जाऽवा᳚न्¦दी॒र्घः¦र॒यिः¦पृ॒थु॒ऽबु॒ध्नः¦स॒भाऽवा॑न् ||

यस्त॑इ॒ध्मंज॒भर॑त्‌सिष्विदा॒नोमू॒र्धानं᳚वात॒तप॑तेत्वा॒या |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

भुव॒स्तस्य॒स्वत॑वाँःपा॒युर॑ग्ने॒विश्व॑स्मात्‌सीमघाय॒तउ॑रुष्य॒(स्वाहा᳚) || 6 || वर्ग:17

यः¦ते॒¦इ॒ध्म‌म्¦ज॒भर॑त्¦सि॒स्वि॒दा॒नः¦मू॒र्धान᳚‌म्¦वा॒¦त॒तप॑ते¦त्वा॒ऽया |
भुवः॑¦तस्य॑¦स्वऽत॑वान्¦पा॒युः¦अ॒ग्ने॒¦विश्व॑स्मात्¦सी॒‌म्¦अ॒घ॒ऽय॒तः¦उ॒रु॒ष्य॒ ||

यस्ते॒भरा॒दन्नि॑यतेचि॒दन्नं᳚नि॒शिष᳚न्म॒न्द्रमति॑थिमु॒दीर॑त् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

आदे᳚व॒युरि॒नध॑तेदुरो॒णेतस्मि᳚न्‌र॒यिर्ध्रु॒वो,अ॑स्तु॒दास्वा॒न्त्(स्वाहा᳚) || 7 ||

यः¦ते॒¦भरा᳚त्¦अन्नि॑ऽयते¦चि॒त्¦अन्न᳚‌म्¦नि॒ऽशिष॑त्¦म॒न्द्र‌म्¦अति॑थि‌म्¦उ॒त्ऽईर॑त् |
आ¦दे॒व॒ऽयुः¦इ॒नध॑ते¦दु॒रो॒णे¦तस्मि॑न्¦र॒यिः¦ध्रु॒वः¦अ॒स्तु॒¦दास्वा॑न् ||

यस्त्वा᳚दो॒षायउ॒षसि॑प्र॒शंसा᳚त्प्रि॒यंवा᳚त्वाकृ॒णव॑तेह॒विष्मा॑न् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अश्वो॒नस्वेदम॒आहे॒म्यावा॒न्तमंह॑सःपीपरोदा॒श्वांस॒‌म्(स्वाहा᳚) || 8 ||

यः¦त्वा॒¦दो॒षा¦यः¦उ॒षसि॑¦प्र॒ऽशंसा᳚त्¦प्रि॒य‌म्¦वा॒¦त्वा॒¦कृ॒णव॑ते¦ह॒विष्मा॑न् |
अश्वः॑¦न¦स्वे¦दमे᳚¦आ¦हे॒म्याऽवा᳚न्¦त‌म्¦अंह॑सः¦पी॒प॒रः॒¦दा॒श्वांस᳚‌म् ||

यस्तुभ्य॑मग्ने,अ॒मृता᳚य॒दाश॒द्दुव॒स्त्वेकृ॒णव॑तेय॒तस्रु॑क् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

नसरा॒याश॑शमा॒नोवियो᳚ष॒न्नैन॒मंहः॒परि॑वरदघा॒योः(स्वाहा᳚) || 9 ||

यः¦तुभ्य᳚‌म्¦अ॒ग्ने॒¦अ॒मृता᳚य¦दाश॑त्¦दुवः॑¦त्वे इति॑¦कृ॒णव॑ते¦य॒तऽस्रु॑क् |
न¦सः¦रा॒या¦श॒श॒मा॒नः¦वि¦यो॒ष॒त्¦न¦ए॒न॒‌म्¦अंहः॑¦परि॑¦व॒र॒त्¦अ॒घ॒ऽयोः ||

यस्य॒त्वम॑ग्ने,अध्व॒रंजुजो᳚षोदे॒वोमर्त॑स्य॒सुधि॑तं॒ररा᳚णः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

प्री॒तेद॑स॒द्धोत्रा॒साय॑वि॒ष्ठाऽसा᳚म॒यस्य॑विध॒तोवृ॒धासः॒(स्वाहा᳚) || 10 ||

यस्य॑¦त्व‌म्¦अ॒ग्ने॒¦अ॒ध्व॒र‌म्¦जुजो᳚षः¦दे॒वः¦मर्त॑स्य¦सुऽधि॑त‌म्¦ररा᳚णः |
प्री॒ता¦इत्¦अ॒स॒त्¦होत्रा᳚¦सा¦य॒वि॒ष्ठ॒¦असा᳚म¦यस्य॑¦वि॒ध॒तः¦वृ॒धासः॑ ||

चित्ति॒मचि॑त्तिंचिनव॒द्‌विवि॒द्वान्पृ॒ष्ठेव॑वी॒तावृ॑जि॒नाच॒मर्ता॑न् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

रा॒येच॑नःस्वप॒त्याय॑देव॒दितिं᳚च॒रास्वादि॑तिमुरुष्य॒(स्वाहा᳚) || 11 || वर्ग:18

चित्ति᳚‌म्¦अचि॑त्ति‌म्¦चि॒न॒व॒त्¦वि¦वि॒द्वान्¦पृ॒ष्टाऽ‌इ᳚व¦वी॒ता¦वृ॒जि॒ना¦च॒¦मर्ता॑न् |
रा॒ये¦च॒¦नः॒¦सु॒।आ॒प॒त्याय॑¦दे॒व॒¦दिति᳚‌म्¦च॒¦रास्व॑¦अदि॑ति‌म्¦उ॒रु॒ष्य॒ ||

क॒विंश॑शासुःक॒वयोऽद॑ब्धानिधा॒रय᳚न्तो॒दुर्या᳚स्वा॒योः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अत॒स्त्वंदृश्याँ᳚,अग्नए॒तान्प॒ड्भिःप॑श्ये॒रद्भु॑ताँ,अ॒र्यएवैः᳚(स्वाहा᳚) || 12 ||

क॒वि‌म्¦श॒शा॒सुः॒¦क॒वयः॑¦अद॑ब्धाः¦नि॒ऽधा॒रय᳚न्तः¦दुर्या᳚सु¦आ॒योः |
अतः॑¦त्व‌म्¦दृश्या᳚न्¦अ॒ग्ने॒¦ए॒तान्¦प॒ट्ऽभिः¦प॒श्येः॒¦अद्भु॑तान्¦अ॒र्यः¦एवैः᳚ ||

त्वम॑ग्नेवा॒घते᳚सु॒प्रणी᳚तिःसु॒तसो᳚मायविध॒तेय॑विष्ठ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

रत्नं᳚भरशशमा॒नाय॑घृष्वेपृ॒थुश्च॒न्द्रमव॑सेचर्षणि॒प्राः(स्वाहा᳚) || 13 ||

त्व‌म्¦अ॒ग्ने॒¦वा॒घते᳚¦सु॒ऽप्रनी᳚तिः¦सु॒तऽसो᳚माय¦वि॒ध॒ते¦य॒वि॒ष्ठ॒ |
रत्न᳚‌म्¦भ॒र॒¦श॒श॒मा॒नाय॑¦घृ॒ष्वे॒¦पृ॒थु¦च॒न्द्र‌म्¦अव॑से¦च॒र्ष॒णि॒ऽप्राः ||

अधा᳚ह॒यद्‌व॒यम॑ग्नेत्वा॒याप॒ड्भिर्हस्ते᳚भिश्चकृ॒मात॒नूभिः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

रथं॒नक्रन्तो॒,अप॑साभु॒रिजो᳚रृ॒तंये᳚मुःसु॒ध्य॑आशुषा॒णाः(स्वाहा᳚) || 14 ||

अध॑¦ह॒¦यत्¦व॒य‌म्¦अ॒ग्ने॒¦त्वा॒ऽया¦प॒ट्ऽभिः¦हस्ते᳚भिः¦च॒कृ॒म¦त॒नूभिः॑ |
रथ᳚‌म्¦न¦क्रन्तः॑¦अप॑सा¦भु॒रिजोः᳚¦ऋ॒त‌म्¦ये॒मुः॒¦सु॒ऽध्यः॑¦आ॒शु॒षा॒णाः ||

अधा᳚मा॒तुरु॒षसः॑स॒प्तविप्रा॒जाये᳚महिप्रथ॒मावे॒धसो॒नॄन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दि॒वस्पु॒त्रा,अङ्गि॑रसोभवे॒माऽद्रिं᳚रुजेमध॒निनं᳚शु॒चन्तः॒(स्वाहा᳚) || 15 ||

अध॑¦मा॒तुः¦उ॒षसः॑¦स॒प्त¦विप्राः᳚¦जाये᳚महि¦प्र॒थ॒माः¦वे॒धसः॑¦नॄन् |
दि॒वः¦पु॒त्राः¦अङ्गि॑रसः¦भ॒वे॒म॒¦अद्रि᳚‌म्¦रु॒जे॒म॒¦ध॒निन᳚‌म्¦शु॒चन्तः॑ ||

अधा॒यथा᳚नःपि॒तरः॒परा᳚सःप्र॒त्नासो᳚,अग्नऋ॒तमा᳚शुषा॒णाः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

शुचीद॑य॒न्‌दीधि॑तिमुक्थ॒शासः॒,क्षामा᳚भि॒न्दन्तो᳚,अरु॒णीरप᳚व्र॒‌न्(स्वाहा᳚) || 16 || वर्ग:19

अध॑¦यथा᳚¦नः॒¦पि॒तरः॑¦परा᳚सः¦प्र॒त्नासः॑¦अ॒ग्ने॒¦ऋ॒त‌म्¦आ॒शु॒षा॒णाः |
शुचि॑¦इत्¦अ॒य॒न्¦दीधि॑ति‌म्¦उ॒क्थ॒ऽशसः॑¦क्षाम॑¦भि॒न्दन्तः॑¦अ॒रु॒णीः¦अप॑¦व्र॒न् ||

सु॒कर्मा᳚णःसु॒रुचो᳚देव॒यन्तोऽयो॒नदे॒वाजनि॑मा॒धम᳚न्तः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

शु॒चन्तो᳚,अ॒ग्निंव॑वृ॒धन्त॒इन्द्र॑मू॒र्वंगव्यं᳚परि॒षद᳚न्तो,अग्म॒‌न्(स्वाहा᳚) || 17 ||

सु॒ऽकर्मा᳚णः¦सु॒ऽरुचः॑¦दे॒व॒ऽयन्तः॑¦अयः॑¦न¦दे॒वाः¦जनि॑म¦धम᳚न्तः |
शु॒चन्तः॑¦अ॒ग्नि‌म्¦व॒वृ॒धन्तः॑¦इन्द्र᳚‌म्¦ऊ॒र्व‌म्¦गव्य᳚‌म्¦प॒रि॒ऽसद᳚न्तः¦अ॒ग्म॒न् ||

आयू॒थेव॑क्षु॒मति॑प॒श्वो,अ॑ख्यद्दे॒वानां॒यज्जनि॒मान्त्यु॑ग्र |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

मर्ता᳚नांचिदु॒र्वशी᳚रकृप्रन्वृ॒धेचि॑द॒र्यउप॑रस्या॒योः(स्वाहा᳚) || 18 ||

आ¦यू॒थाऽ‌इ᳚व¦क्षु॒ऽमति॑¦प॒श्वः¦अ॒ख्य॒त्¦दे॒वाना᳚‌म्¦यत्¦ज॒नि॒म¦अन्ति॑¦उ॒ग्र॒ |
मर्ता᳚ना‌म्¦चि॒त्¦उ॒र्वशीः᳚¦अ॒कृ॒प्र॒न्¦वृ॒धे¦चि॒त्¦अ॒र्यः¦उप॑रस्य¦आ॒योः ||

अक᳚र्मते॒स्वप॑सो,अभूमऋ॒तम॑वस्रन्नु॒षसो᳚विभा॒तीः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अनू᳚नम॒ग्निंपु॑रु॒धासु॑श्च॒न्द्रंदे॒वस्य॒मर्मृ॑जत॒श्चारु॒चक्षुः॒(स्वाहा᳚) || 19 ||

अक᳚र्म¦ते॒¦सु॒।आप॑सः¦अ॒भू॒म॒¦ऋ॒त‌म्¦अ॒व॒स्र॒न्¦उ॒षसः॑¦वि॒भा॒तीः |
अनू᳚न‌म्¦अ॒ग्नि‌म्¦पु॒रु॒धा¦सु॒ऽच॒न्द्र‌म्¦दे॒वस्य॑¦मर्मृ॑जतः¦चारु॑¦चक्षुः॑ ||

ए॒ताते᳚,अग्नउ॒चथा᳚निवे॒धोऽवो᳚चामक॒वये॒ताजु॑षस्व |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

उच्छो᳚चस्वकृणु॒हिवस्य॑सोनोम॒होरा॒यःपु॑रुवार॒प्रय᳚न्धि॒(स्वाहा᳚) || 20 ||

ए॒ता¦ते॒¦अ॒ग्ने॒¦उ॒चथा᳚नि¦वे॒धः॒¦अवो᳚चाम¦क॒वये᳚¦ता¦जु॒ष॒स्व॒ |
उत्¦शो॒च॒स्व॒¦कृ॒णु॒हि¦वस्य॑सः¦नः॒¦म॒हः¦रा॒यः¦पु॒रु॒ऽवा॒र॒¦प्र¦य॒न्धि॒ ||

[3] आवोराजानमिति षोडशर्चस्य सूक्तस्य गौतमोवामदेव आद्यायारुद्रोद्वितीयादीनामग्निस्त्रिष्टुप् |{मंडल:4, सूक्त:3}{अनुवाक:1, सूक्त:3}{अष्टक:3, अध्याय:4}
आवो॒राजा᳚नमध्व॒रस्य॑रु॒द्रंहोता᳚रंसत्य॒यजं॒रोद॑स्योः |{गौतमो वामदेवः | रुद्रः, अग्निः | त्रिष्टुप्}

अ॒ग्निंपु॒रात॑नयि॒त्नोर॒चित्ता॒द्धिर᳚ण्यरूप॒मव॑सेकृणुध्व॒‌म्(स्वाहा᳚) || 1 || वर्ग:20

आ¦वः॒¦राजा᳚न‌म्¦अ॒ध्व॒रस्य॑¦रु॒द्र‌म्¦होता᳚र‌म्¦स॒त्य॒ऽयज॒‌म्¦रोद॑स्योः |
अ॒ग्नि‌म्¦पु॒रा¦त॒न॒यि॒त्नोः¦अ॒चित्ता᳚त्¦हिर᳚ण्यऽरूप‌म्¦अव॑से¦कृ॒णु॒ध्व॒‌म् ||

अ॒यंयोनि॑श्चकृ॒मायंव॒यंते᳚जा॒येव॒पत्य॑उश॒तीसु॒वासाः᳚ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अ॒र्वा॒ची॒नःपरि॑वीतो॒निषी᳚दे॒मा,उ॑तेस्वपाकप्रती॒चीः(स्वाहा᳚) || 2 ||

अ॒य‌म्¦योनिः॑¦च॒कृ॒म¦य‌म्¦व॒य‌म्¦ते॒¦जा॒याऽ‌इ᳚व¦पत्ये᳚¦उ॒श॒ती¦सु॒ऽवासाः᳚ |
अ॒र्वा॒ची॒नः¦परि॑ऽवीतः¦नि¦सी॒द॒¦इ॒माः¦ऊँ॒ इति॑¦ते॒¦सु॒।आ॒पा॒क॒¦प्र॒ती॒चीः ||

आ॒शृ॒ण्व॒ते,अदृ॑पिताय॒मन्म॑नृ॒चक्ष॑सेसुमृळी॒काय॑वेधः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दे॒वाय॑श॒स्तिम॒मृता᳚यशंस॒ग्रावे᳚व॒सोता᳚मधु॒षुद्‌यमी॒ळे(स्वाहा᳚) || 3 ||

आ॒ऽशृ॒ण्व॒ते¦अदृ॑पिताय¦मन्म॑¦नृ॒ऽचक्ष॑से¦सु॒ऽमृ॒ळी॒काय॑¦वे॒धः॒ |
दे॒वाय॑¦श॒स्ति‌म्¦अ॒मृता᳚य¦शं॒स॒¦ग्रावा᳚ऽ‌इव¦सोता᳚¦म॒धु॒ऽसुत्¦य‌म्¦ई॒ळे ||

त्वंचि᳚न्नः॒शम्या᳚,अग्ने,अ॒स्या,ऋ॒तस्य॑बोध्यृतचित्‌स्वा॒धीः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

क॒दात॑उ॒क्थास॑ध॒माद्या᳚निक॒दाभ॑वन्तिस॒ख्यागृ॒हेते॒(स्वाहा᳚) || 4 ||

त्व‌म्¦चि॒त्¦नः॒¦शम्यै᳚¦अ॒ग्ने॒¦अ॒स्याः¦ऋ॒तस्य॑¦बो॒धि॒¦ऋ॒त॒ऽचि॒त्¦सु॒ऽआ॒धीः |
क॒दा¦ते॒¦उ॒क्था¦स॒ध॒ऽमाद्या᳚नि¦क॒दा¦भ॒व॒न्ति॒¦स॒ख्या¦गृ॒हे¦ते॒ ||

क॒थाह॒तद्‌वरु॑णाय॒त्वम॑ग्नेक॒थादि॒वेग᳚र्हसे॒कन्न॒आगः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

क॒थामि॒त्राय॑मी॒ळ्हुषे᳚पृथि॒व्यैब्रवः॒कद᳚र्य॒म्णेकद्‌भगा᳚य॒(स्वाहा᳚) || 5 ||

क॒था¦ह॒¦तत्¦वरु॑णाय¦त्व‌म्¦अ॒ग्ने॒¦क॒था¦दि॒वे¦ग॒र्ह॒से॒¦कत्¦नः॒¦आगः॑ |
क॒था¦मि॒त्राय॑¦मी॒ळ्हुषे᳚¦पृ॒थि॒व्यै¦ब्रवः॑¦कत्¦अ॒र्य॒म्णे¦कत्¦भगा᳚य ||

कद्‌धिष्ण्या᳚सुवृधसा॒नो,अ॑ग्ने॒कद्‌वाता᳚य॒प्रत॑वसेशुभं॒ये |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

परि॑ज्मने॒नास॑त्याय॒क्षेब्रवः॒कद॑ग्नेरु॒द्राय॑नृ॒घ्ने(स्वाहा᳚) || 6 || वर्ग:21

कत्¦धिष्ण्या᳚सु¦वृ॒ध॒सा॒नः¦अ॒ग्ने॒¦कत्¦वाता᳚य¦प्रऽत॑वसे¦शु॒भ॒‌म्ऽये |
परि॑ऽज्मने¦नास॑त्याय¦क्षे¦ब्रवः॑¦कत्¦अ॒ग्ने॒¦रु॒द्राय॑¦नृ॒ऽघ्ने ||

क॒थाम॒हेपु॑ष्टिम्भ॒राय॑पू॒ष्णेकद्‌रु॒द्राय॒सुम॑खायहवि॒र्दे |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

कद्‌विष्ण॑वउरुगा॒याय॒रेतो॒ब्रवः॒कद॑ग्ने॒शर॑वेबृह॒त्यै(स्वाहा᳚) || 7 ||

क॒था¦म॒हे¦पु॒ष्टि॒‌म्ऽभ॒राय॑¦पू॒ष्णे¦कत्¦रु॒द्राय॑¦सुऽम॑खाय¦ह॒विः॒ऽदे |
कत्¦विष्ण॑वे¦उ॒रु॒ऽगा॒याय॑¦रेतः॑¦ब्रवः॑¦कत्¦अ॒ग्ने॒¦शर॑वे¦बृ॒ह॒त्यै ||

क॒थाशर्धा᳚यम॒रुता᳚मृ॒ताय॑क॒थासू॒रेबृ॑ह॒तेपृ॒च्छ्यमा᳚नः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

प्रति॑ब्र॒वोऽदि॑तयेतु॒राय॒साधा᳚दि॒वोजा᳚तवेदश्चिकि॒त्वान्(स्वाहा᳚) || 8 ||

क॒था¦शर्धा᳚य¦म॒रुता᳚‌म्¦ऋ॒ताय॑¦क॒था¦सू॒रे¦बृ॒ह॒ते¦पृ॒च्छ्यमा᳚नः |
प्रति॑¦ब्र॒वः॒¦अदि॑तये¦तु॒राय॑¦साध॑¦दि॒वः¦जा॒त॒ऽवे॒दः॒¦चि॒कि॒त्वान् ||

ऋ॒तेन॑ऋ॒तंनिय॑तमीळ॒आगोरा॒मासचा॒मधु॑मत्‌प॒क्वम॑ग्ने |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

कृ॒ष्णास॒तीरुश॑ताधा॒सिनै॒षाजाम᳚र्येण॒पय॑सापीपाय॒(स्वाहा᳚) || 9 ||

ऋ॒तेन॑¦ऋ॒त‌म्¦निऽय॑त‌म्¦ई॒ळे॒¦आ¦गोः¦आ॒मा¦सचा᳚¦मधु॑ऽमत्¦प॒क्व‌म्¦अ॒ग्ने॒ |
कृ॒ष्णा¦स॒ती¦रुश॑ता¦धा॒सिना᳚¦ए॒षा¦जाम᳚र्येण¦पय॑सा¦पी॒पा॒य॒ ||

ऋ॒तेन॒हिष्मा᳚वृष॒भश्चि॑द॒क्तःपुमाँ᳚,अ॒ग्निःपय॑सापृ॒ष्ठ्ये᳚न |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अस्प᳚न्दमानो,अचरद्‌वयो॒धावृषा᳚शु॒क्रंदु॑दुहे॒पृश्नि॒रूधः॒(स्वाहा᳚) || 10 ||

ऋ॒तेनः॑¦हि¦स्म॒¦वृ॒ष॒भः¦चि॒त्¦अ॒क्तः¦पुमा᳚न्¦अ॒ग्निः¦पय॑सा¦पृ॒ष्ठ्ये᳚न |
अस्प᳚न्दमानः¦अ॒च॒र॒त्¦व॒यः॒ऽधाः¦वृषा᳚¦शु॒क्र‌म्¦दु॒दु॒हे॒¦पृश्निः॑¦ऊधः॑ ||

ऋ॒तेनाद्रिं॒व्य॑सन्‌भि॒दन्तः॒समङ्गि॑रसोनवन्त॒गोभिः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

शु॒नंनरः॒परि॑षदन्नु॒षास॑मा॒विःस्व॑रभवज्जा॒ते,अ॒ग्नौ(स्वाहा᳚) || 11 || वर्ग:22

ऋ॒तेन॑¦अद्रि᳚‌म्¦वि¦अ॒स॒न्¦भि॒दन्तः॑¦स‌म्¦अङ्गि॑रसः¦न॒व॒न्त॒¦गोऽभिः॑ |
शु॒न‌म्¦नरः॑¦परि॑¦स॒द॒न्¦उ॒षस᳚‌म्¦आ॒विः¦स्वः॑¦अ॒भ॒व॒त्¦जा॒ते¦अ॒ग्नौ ||

ऋ॒तेन॑दे॒वीर॒मृता॒,अमृ॑क्ता॒,अर्णो᳚भि॒रापो॒मधु॑मद्भिरग्ने |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

वा॒जीनसर्गे᳚षुप्रस्तुभा॒नःप्रसद॒मित्‌स्रवि॑तवेदधन्युः॒(स्वाहा᳚) || 12 ||

ऋ॒तेन॑¦दे॒वीः¦अ॒मृताः᳚¦अमृ॑क्ताः¦अर्णः॑ऽभिः¦आपः॑¦मधु॑मत्ऽभिः¦अ॒ग्ने॒ |
वा॒जी¦न¦सर्गे᳚षु¦प्र॒ऽस्तु॒भा॒नः¦प्र¦सद᳚‌म्¦इत्¦स्रवि॑तवे¦द॒ध॒न्युः॒ ||

माकस्य॑य॒क्षंसद॒मिद्धु॒रोगा॒मावे॒शस्य॑प्रमिन॒तोमापेः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

माभ्रातु॑रग्ने॒,अनृ॑जोरृ॒णंवे॒र्मासख्यु॒र्दक्षं᳚रि॒पोर्भु॑जेम॒(स्वाहा᳚) || 13 ||

मा¦कस्य॑¦य॒क्ष‌म्¦सद᳚‌म्¦इत्¦हु॒रः¦गाः॒¦मा¦वे॒शस्य॑¦प्र॒ऽमि॒न॒तः¦मा¦आ॒पेः |
मा¦भ्रातुः॑¦अ॒ग्ने॒¦अनृ॑जोः¦ऋ॒ण‌म्¦वेः॒¦मा¦सख्युः॑¦दक्ष᳚‌म्¦रि॒पोः¦भु॒जे॒म॒ ||

रक्षा᳚णो,अग्ने॒तव॒रक्ष॑णेभीरारक्षा॒णःसु॑मखप्रीणा॒नः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

प्रति॑ष्फुर॒विरु॑जवी॒ड्वंहो᳚ज॒हिरक्षो॒महि॑चिद्‌वावृधा॒नम्(स्वाहा᳚) || 14 ||

रक्ष॑¦नः॒¦अ॒ग्ने॒¦तव॑¦रक्ष॑णेभिः¦र॒र॒क्षा॒णः¦सु॒ऽम॒ख॒¦प्री॒णा॒नः |
प्रति॑¦स्फु॒र॒¦वि¦रु॒ज॒¦वी॒ळु¦अंहः॑¦ज॒हि¦रक्षः॑¦महि॑¦चि॒त्¦व॒वृ॒धा॒न‌म् ||

ए॒भिर्भ॑वसु॒मना᳚,अग्ने,अ॒र्कैरि॒मान्‌त्स्पृ॑श॒मन्म॑भिःशूर॒वाजा॑न् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

उ॒तब्रह्मा᳚ण्यङ्गिरोजुषस्व॒संते᳚श॒स्तिर्दे॒ववा᳚ताजरेत॒(स्वाहा᳚) || 15 ||

ए॒भिः¦भ॒व॒¦सु॒ऽमनाः᳚¦अ॒ग्ने॒¦अ॒र्कैः¦इ॒मान्¦स्पृ॒श॒¦मन्म॑ऽभिः¦शू॒र॒¦वाजा॑न् |
उ॒त¦ब्रह्मा᳚णि¦अ॒ङ्गि॒रः॒¦जु॒ष॒स्व॒¦स‌म्¦ते॒¦श॒स्तिः¦दे॒वऽवा᳚ता¦ज॒रे॒त॒ ||

ए॒ताविश्वा᳚वि॒दुषे॒तुभ्यं᳚वेधोनी॒थान्य॑ग्नेनि॒ण्यावचां᳚सि |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

नि॒वच॑नाक॒वये॒काव्या॒न्यशं᳚सिषंम॒तिभि॒र्विप्र॑उ॒क्थैः(स्वाहा᳚) || 16 ||

ए॒ता¦विश्वा᳚¦वि॒दुषे᳚¦तुभ्य᳚‌म्¦वे॒धः॒¦नी॒थानि॑¦अ॒ग्ने॒¦नि॒ण्या¦वचां᳚सि |
नि॒ऽवच॑ना¦क॒वये᳚¦काव्या᳚नि¦अशं᳚सिष‌म्¦म॒तिऽभिः॑¦विप्रः॑¦उ॒क्थैः ||

[4] कृणुष्वेति पंचदशर्चस्य सूक्तस्य गौतमोवामदेवोरक्षोहाग्निस्त्रिष्टुप् |{मंडल:4, सूक्त:4}{अनुवाक:1, सूक्त:4}{अष्टक:3, अध्याय:4}
कृ॒णु॒ष्वपाजः॒प्रसि॑तिं॒नपृ॒थ्वींया॒हिराजे॒वाम॑वाँ॒,इभे᳚न |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

तृ॒ष्वीमनु॒प्रसि॑तिंद्रूणा॒नोऽस्ता᳚सि॒विध्य॑र॒क्षस॒स्तपि॑ष्ठैः॒(स्वाहा᳚) || 1 || वर्ग:23

कृ॒णु॒ष्व¦पाजः॑¦प्रऽसि॑ति‌म्¦न¦पृ॒थ्वी‌म्¦या॒हि¦राजा᳚ऽ‌इव¦अम॑ऽवान्¦इभे᳚न |
तृ॒ष्वी‌म्¦अनु॑¦प्रऽसि॑ति‌म्¦द्रू॒णा॒नः¦अस्ता᳚¦अ॒सि॒¦विध्य॑¦र॒क्षसः॑¦तपि॑ष्ठैः ||

तव॑भ्र॒मास॑आशु॒याप॑त॒न्त्यनु॑स्पृशधृष॒ताशोशु॑चानः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

तपूं᳚ष्यग्नेजु॒ह्वा᳚पतं॒गानसं᳚दितो॒विसृ॑ज॒विष्व॑गु॒ल्काः(स्वाहा᳚) || 2 ||

तव॑¦भ्र॒मासः॑¦आ॒शु॒ऽया¦प॒त॒न्ति॒¦अनु॑¦स्पृ॒श॒¦धृ॒ष॒ता¦शोशु॑चानः |
तपूं᳚षि¦अ॒ग्ने॒¦जु॒ह्वा᳚¦प॒त॒ङ्गान्¦अस᳚‌म्ऽदितः¦वि¦सृ॒ज॒¦विष्व॑क्¦उ॒ल्काः ||

प्रति॒स्पशो॒विसृ॑ज॒तूर्णि॑तमो॒भवा᳚पा॒युर्वि॒शो,अ॒स्या,अद॑ब्धः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

योनो᳚दू॒रे,अ॒घशं᳚सो॒यो,अन्त्यग्ने॒माकि॑ष्टे॒व्यथि॒राद॑धर्षी॒‌त्(स्वाहा᳚) || 3 ||

प्रति॑¦स्पशः॑¦वि¦सृ॒ज॒¦तूर्णि॑ऽतमः¦भव॑¦पा॒युः¦वि॒शः¦अ॒स्याः¦अद॑ब्धः |
यः¦नः॒¦दू॒रे¦अ॒घऽशं᳚सः¦यः¦अन्ति॑¦अग्ने᳚¦माकिः॑¦ते॒¦व्यथिः॑¦आ¦द॒ध॒र्षी॒त् ||

उद॑ग्नेतिष्ठ॒प्रत्यात॑नुष्व॒न्य१॑(अ॒)मित्राँ᳚,ओषतात्तिग्महेते |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

योनो॒,अरा᳚तिंसमिधानच॒क्रेनी॒चातंध॑क्ष्यत॒सन्नशुष्क॒‌म्(स्वाहा᳚) || 4 ||

उत्¦अ॒ग्ने॒¦ति॒ष्ठ॒¦प्रति॑¦आ¦त॒नु॒ष्व॒¦नि¦अ॒मित्रा᳚न्¦ओ॒ष॒ता॒त्¦ति॒ग्म॒ऽहे॒ते॒ |
यः¦नः॒¦अरा᳚ति‌म्¦स॒‌म्ऽ‌इ॒धा॒न॒¦च॒क्रे¦नी॒चा¦त‌म्¦ध॒क्षि॒¦अ॒त॒स‌म्¦न¦शुष्क᳚‌म् ||

ऊ॒र्ध्वोभ॑व॒प्रति॑वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒दैव्या᳚न्यग्ने |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

अव॑स्थि॒रात॑नुहियातु॒जूनां᳚जा॒मिमजा᳚मिं॒प्रमृ॑णीहि॒शत्रू॒न्त्(स्वाहा᳚) || 5 ||

ऊ॒र्ध्वः¦भ॒व॒¦प्रति॑¦वि॒ध्य॒¦अधि॑¦अ॒स्मत्¦आ॒विः¦कृ॒णु॒ष्व॒¦दैव्या᳚नि¦अ॒ग्ने॒ |
अव॑¦स्थि॒रा¦त॒नु॒हि॒¦या॒तु॒ऽजूना᳚‌म्¦जा॒मि‌म्¦अजा᳚मि‌म्¦प्र¦मृ॒णी॒हि॒¦शत्रू॑न् ||

सते᳚जानातिसुम॒तिंय॑विष्ठ॒यईव॑ते॒ब्रह्म॑णेगा॒तुमैर॑त् |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

विश्वा᳚न्यस्मैसु॒दिना᳚निरा॒योद्यु॒म्नान्य॒र्योविदुरो᳚,अ॒भिद्यौ॒‌त्(स्वाहा᳚) || 6 || वर्ग:24

सः¦ते॒¦जा॒ना॒ति॒¦सु॒ऽम॒ति‌म्¦य॒वि॒ष्ठ॒¦यः¦ईव॑ते¦ब्रह्म॑णे¦गा॒तु‌म्¦ऐर॑त् |
विश्वा᳚नि¦अ॒स्मै॒¦सु॒ऽदिना᳚नि¦रा॒यः¦द्यु॒म्नानि॑¦अ॒र्यः¦वि¦दुरः॑¦अ॒भि¦द्यौ॒त् ||

सेद॑ग्ने,अस्तुसु॒भगः॑सु॒दानु॒र्यस्त्वा॒नित्ये᳚नह॒विषा॒यउ॒क्थैः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

पिप्री᳚षति॒स्वआयु॑षिदुरो॒णेविश्वेद॑स्मैसु॒दिना॒सास॑दि॒ष्टिः(स्वाहा᳚) || 7 ||

सः¦इत्¦अ॒ग्ने॒¦अ॒स्तु॒¦सु॒ऽभगः॑¦सु॒ऽदानुः॑¦यः¦त्वा॒¦नित्ये᳚न¦ह॒विषा᳚¦यः¦उ॒क्थैः |
पिप्री᳚षति¦स्वे¦आयु॑षि¦दु॒रो॒णे¦विश्वा᳚¦इत्¦अ॒स्मै॒¦सु॒ऽदिना᳚¦सा¦अ॒स॒त्¦इ॒ष्टिः ||

अर्चा᳚मितेसुम॒तिंघोष्य॒र्वाक्संते᳚वा॒वाता᳚जरतामि॒यंगीः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

स्वश्वा᳚स्त्वासु॒रथा᳚मर्जयेमा॒ऽस्मेक्ष॒त्राणि॑धारये॒रनु॒द्यून्(स्वाहा᳚) || 8 ||

अर्चा᳚मि¦ते॒¦सु॒ऽम॒ति‌म्¦घोषि॑¦अ॒र्वाक्¦स‌म्¦ते॒¦व॒वाता᳚¦ज॒र॒ता॒‌म्¦इ॒य‌म्¦गीः |
सु॒।आश्वाः᳚¦त्वा॒¦सु॒ऽरथाः᳚¦म॒र्ज॒ये॒म॒¦अ॒स्मे इति॑¦क्ष॒त्राणि॑¦धा॒र॒येः॒¦अनु॑¦द्यून् ||

इ॒हत्वा॒भूर्याच॑रे॒दुप॒त्मन्दोषा᳚वस्तर्दीदि॒वांस॒मनु॒द्यून् |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

क्रीळ᳚न्तस्त्वासु॒मन॑सःसपेमा॒ऽभिद्यु॒म्नात॑स्थि॒वांसो॒जना᳚ना॒‌म्(स्वाहा᳚) || 9 ||

इ॒ह¦त्वा॒¦भूरि॑¦आ¦च॒रे॒त्¦उप॑¦त्मन्¦दोषा᳚ऽवस्तः¦दी॒दि॒ऽवांस᳚‌म्¦अनु॑¦द्यून् |
क्रीळ᳚न्तः¦त्वा॒¦सु॒ऽमन॑सः¦स॒पे॒म॒¦अ॒भि¦द्यु॒म्ना¦त॒स्थि॒ऽवांसः॑¦जना᳚ना‌म् ||

यस्त्वा॒स्वश्वः॑सुहिर॒ण्यो,अ॑ग्नउप॒याति॒वसु॑मता॒रथे᳚न |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

तस्य॑त्रा॒ताभ॑वसि॒तस्य॒सखा॒यस्त॑आति॒थ्यमा᳚नु॒षग्‌जुजो᳚ष॒‌त्(स्वाहा᳚) || 10 ||

यः¦त्वा॒¦सु॒।आश्वः॑¦सु॒ऽहि॒र॒ण्यः¦अ॒ग्ने॒¦उ॒प॒ऽयाति॑¦वसु॑ऽमता¦रथे᳚न |
तस्य॑¦त्रा॒ता¦भ॒व॒सि॒¦तस्य॑¦सखा᳚¦यः¦ते॒¦आ॒ति॒थ्य‌म्¦आ॒नु॒षक्¦जुजो᳚षत् ||

म॒होरु॑जामिब॒न्धुता॒वचो᳚भि॒स्तन्मा᳚पि॒तुर्गोत॑मा॒दन्वि॑याय |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

त्वंनो᳚,अ॒स्यवच॑सश्चिकिद्धि॒होत᳚र्यविष्ठसुक्रतो॒दमू᳚नाः॒(स्वाहा᳚) || 11 || वर्ग:25

म॒हः¦रु॒जा॒मि॒¦ब॒न्धुता᳚¦वचः॑ऽभिः¦तत्¦मा॒¦पि॒तुः¦गोत॑मात्¦अनु॑¦इ॒या॒य॒ |
त्व‌म्¦नः॒¦अ॒स्य¦वच॑सः¦चि॒कि॒द्धि॒¦होतः॑¦य॒वि॒ष्ठ॒¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो¦दमू᳚नाः ||

अस्व॑प्नजस्त॒रण॑यःसु॒शेवा॒,अत᳚न्द्रासोऽवृ॒का,अश्र॑मिष्ठाः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

तेपा॒यवः॑स॒ध्र्य᳚ञ्चोनि॒षद्याऽग्ने॒तव॑नःपान्त्वमूर॒(स्वाहा᳚) || 12 ||

अस्व॑प्नऽजः¦त॒रण॑यः¦सु॒ऽशेवाः᳚¦अत᳚न्द्रासः¦अ॒वृ॒काः¦अश्र॑मिष्ठाः |
ते¦पा॒यवः॑¦स॒ध्र्यं᳚चः¦नि॒ऽसद्य॑¦अ॒ग्ने॒¦तव॑¦नः॒¦पा॒न्तु॒¦अ॒मू॒र॒ ||

येपा॒यवो᳚मामते॒यंते᳚,अग्ने॒पश्य᳚न्तो,अ॒न्धंदु॑रि॒तादर॑क्षन् |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

र॒रक्ष॒तान्‌त्सु॒कृतो᳚वि॒श्ववे᳚दा॒दिप्स᳚न्त॒इद्‌रि॒पवो॒नाह॑देभुः॒(स्वाहा᳚) || 13 ||

ये¦पा॒यवः॑¦मा॒म॒ते॒य‌म्¦ते॒¦अ॒ग्ने॒¦पश्य᳚न्तः¦अ॒न्ध‌म्¦दुः॒ऽ‌इ॒तात्¦अर॑क्षन् |
र॒रक्ष॑¦तान्¦सु॒ऽकृतः॑¦वि॒श्वऽवे᳚दाः¦दिप्स᳚न्तः¦इत्¦रि॒पवः॑¦न¦अह॑¦दे॒भुः॒ ||

त्वया᳚व॒यंस॑ध॒न्य१॑(अ॒)स्त्वोता॒स्तव॒प्रणी᳚त्यश्याम॒वाजा॑न् |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

उ॒भाशंसा᳚सूदयसत्यतातेऽनुष्ठु॒याकृ॑णुह्यह्रयाण॒(स्वाहा᳚) || 14 ||

त्वया᳚¦व॒य‌म्¦स॒ऽध॒न्यः॑¦त्वाऽऊ᳚ताः¦तव॑¦प्रऽनी᳚ती¦अ॒श्या॒म॒¦वाजा॑न् |
उ॒भा¦शंसा᳚¦सू॒द॒य॒¦स॒त्य॒ऽता॒ते॒¦अ॒नु॒ष्ठु॒या¦कृ॒णु॒हि॒¦अ॒ह्र॒या॒ण॒ ||

अ॒याते᳚,अग्नेस॒मिधा᳚विधेम॒प्रति॒स्तोमं᳚श॒स्यमा᳚नंगृभाय |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

दहा॒शसो᳚र॒क्षसः॑पा॒ह्य१॑(अ॒)स्मान्द्रु॒होनि॒दोमि॑त्रमहो,अव॒द्यात्(स्वाहा᳚) || 15 ||

अ॒या¦ते॒¦अ॒ग्ने॒¦स॒‌म्ऽ‌इधा᳚¦वि॒धे॒म॒¦प्रति॑¦स्तोम᳚‌म्¦श॒स्यमा᳚न‌म्¦गृ॒भा॒य॒ |
दह॑¦अ॒शसः॑¦र॒क्षसः॑¦पा॒हि¦अ॒स्मान्¦द्रु॒हः¦नि॒दः¦मि॒त्र॒ऽम॒हः॒¦अ॒व॒द्यात् ||

[5] वैश्वानरायेतिपंचदशर्चस्य सूक्तस्य गौतमोवामदेवोवैश्वानरोग्निस्त्रिष्टुप् |{मंडल:4, सूक्त:5}{अनुवाक:1, सूक्त:5}{अष्टक:3, अध्याय:5}
वै॒श्वा॒न॒राय॑मी॒ळ्हुषे᳚स॒जोषाः᳚क॒थादा᳚शेमा॒ग्नये᳚बृ॒हद्भाः |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

अनू᳚नेनबृह॒ताव॒क्षथे॒नोप॑स्तभायदुप॒मिन्नरोधः॒(स्वाहा᳚) || 1 || वर्ग:1

वै॒श्वा॒न॒राय॑¦मी॒ळ्हुषे᳚¦स॒ऽजोषाः᳚¦क॒था¦दा॒शे॒म॒¦अ॒ग्नये᳚¦बृ॒हत्¦भाः |
अनू᳚नेन¦बृ॒ह॒ता¦व॒क्षथे᳚न¦उप॑¦स्त॒भा॒य॒त्¦उ॒प॒ऽमित्¦न¦रोधः॑ ||

मानि᳚न्दत॒यइ॒मांमह्यं᳚रा॒तिंदे॒वोद॒दौमर्त्या᳚यस्व॒धावा॑न् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

पाका᳚य॒गृत्सो᳚,अ॒मृतो॒विचे᳚तावैश्वान॒रोनृत॑मोय॒ह्वो,अ॒ग्निः(स्वाहा᳚) || 2 ||

मा¦नि॒न्द॒त॒¦यः¦इ॒मा‌म्¦मह्य᳚‌म्¦रा॒ति‌म्¦दे॒वः¦द॒दौ¦मर्या᳚य¦स्व॒धाऽवा॑न् |
पाका᳚य¦गृत्सः॑¦अ॒मृतः॑¦विऽचे᳚ताः¦वै॒श्वा॒न॒रः¦नृऽत॑मः¦य॒ह्वः¦अ॒ग्निः ||

साम॑द्वि॒बर्हा॒महि॑ति॒ग्मभृ॑ष्टिःस॒हस्र॑रेतावृष॒भस्तुवि॑ष्मान् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

प॒दंनगोरप॑गूळ्हंविवि॒द्वान॒ग्निर्मह्यं॒प्रेदु॑वोचन्मनी॒षाम्(स्वाहा᳚) || 3 ||

साम॑¦द्वि॒ऽबर्हाः᳚¦महि॑¦ति॒ग्मऽभृ॑ष्टिः¦स॒हस्र॑ऽरेताः¦वृ॒ष॒भः¦तुवि॑ष्मान् |
प॒द‌म्¦न¦गोः¦अप॑ऽगूळ्ह‌म्¦वि॒वि॒द्वान्¦अ॒ग्निः¦मह्य᳚‌म्¦प्र¦इत्¦ऊँ॒ इति॑¦वो॒च॒त्¦म॒नी॒षा‌म् ||

प्रताँ,अ॒ग्निर्ब॑भसत्ति॒ग्मज᳚म्भ॒स्तपि॑ष्ठेनशो॒चिषा॒यःसु॒राधाः᳚ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

प्रयेमि॒नन्ति॒वरु॑णस्य॒धाम॑प्रि॒यामि॒त्रस्य॒चेत॑तोध्रु॒वाणि॒(स्वाहा᳚) || 4 ||

प्र¦तान्¦अ॒ग्निः¦ब॒भ॒स॒त्¦ति॒ग्मऽज᳚म्भः¦तपि॑ष्ठेन¦शो॒चिषा᳚¦यः¦सु॒ऽराधाः᳚ |
प्र¦ये¦मि॒नन्ति॑¦वरु॑णस्य¦धाम॑¦प्रि॒या¦मि॒त्रस्य॑¦चेत॑तः¦ध्रु॒वाणि॑ ||

अ॒भ्रा॒तरो॒नयोष॑णो॒व्यन्तः॑पति॒रिपो॒नजन॑योदु॒रेवाः᳚ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

पा॒पासः॒सन्तो᳚,अनृ॒ता,अ॑स॒त्या,इ॒दंप॒दम॑जनतागभी॒रम्(स्वाहा᳚) || 5 ||

अ॒भ्रा॒तरः॑¦न¦योष॑णः¦व्यन्तः॑¦प॒ति॒ऽरिपः॑¦न¦जन॑यः¦दुः॒ऽएवाः᳚ |
पा॒पासः॑¦सन्तः॑¦अ॒नृ॒ताः¦अ॒स॒त्याः¦इ॒द‌म्¦प॒द‌म्¦अ॒ज॒न॒त॒¦ग॒भी॒र‌म् ||

इ॒दंमे᳚,अग्ने॒किय॑तेपाव॒काऽमि॑नतेगु॒रुंभा॒रंनमन्म॑ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

बृ॒हद्द॑धाथधृष॒ताग॑भी॒रंय॒ह्वंपृ॒ष्ठंप्रय॑सास॒प्तधा᳚तु॒(स्वाहा᳚) || 6 || वर्ग:2

इ॒द‌म्¦मे॒¦अ॒ग्ने॒¦किय॑ते¦पा॒व॒क॒¦अमि॑नते¦गु॒रु‌म्¦भा॒र‌म्¦न¦मन्म॑ |
बृ॒हत्¦द॒धा॒थ॒¦धृ॒ष॒ता¦ग॒भी॒र‌म्¦य॒ह्व‌म्¦पृ॒ष्ठ‌म्¦प्रय॑सा¦स॒प्तऽधा᳚तु ||

तमिन्न्वे॒३॑(ए॒)वस॑म॒नास॑मा॒नम॒भिक्रत्वा᳚पुन॒तीधी॒तिर॑श्याः |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

स॒सस्य॒चर्म॒न्नधि॒चारु॒पृश्ने॒रग्रे᳚रु॒पआरु॑पितं॒जबा᳚रु॒(स्वाहा᳚) || 7 ||

त‌म्¦इत्¦नु¦ए॒व¦स॒म॒ना¦स॒मा॒न‌म्¦अ॒भि¦क्रत्वा᳚¦पु॒न॒ती¦धी॒तिः¦अ॒श्याः॒ |
स॒सस्य॑¦चर्म॑न्¦अधि॑¦चारु॑¦पृश्नेः᳚¦अग्ने᳚¦रु॒पः¦अरु॑पित‌म्¦जबा᳚रु ||

प्र॒वाच्यं॒वच॑सः॒किंमे᳚,अ॒स्यगुहा᳚हि॒तमुप॑नि॒णिग्‌व॑दन्ति |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

यदु॒स्रिया᳚णा॒मप॒वारि॑व॒व्रन्पाति॑प्रि॒यंरु॒पो,अग्रं᳚प॒दंवेः(स्वाहा᳚) || 8 ||

प्र॒ऽवाच्य᳚‌म्¦वच॑सः¦कि‌म्¦मे॒¦अ॒स्य¦गुहा᳚¦हि॒त‌म्¦उप॑¦नि॒णिक्¦व॒द॒न्ति॒ |
यत्¦उ॒स्रिया᳚णा‌म्¦अप॑¦वाःऽ‌इ᳚व¦व्रन्¦पाति॑¦प्रि॒य‌म्¦रु॒पः¦अग्र᳚‌म्¦प॒द‌म्¦वेरिति॒ वेः ||

इ॒दमु॒त्यन्महि॑म॒हामनी᳚कं॒यदु॒स्रिया॒सच॑तपू॒र्व्यंगौः |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

ऋ॒तस्य॑प॒दे,अधि॒दीद्या᳚नं॒गुहा᳚रघु॒ष्यद्‌र॑घु॒यद्‌वि॑वेद॒(स्वाहा᳚) || 9 ||

इ॒द‌म्¦ऊँ॒ इति॑¦त्यत्¦महि॑¦म॒हा‌म्¦अनी᳚क‌म्¦यत्¦उ॒स्रिया᳚¦सच॑त¦पू॒र्व्य‌म्¦गौः |
ऋ॒तस्य॑¦प॒दे¦अधि॑¦दीद्या᳚न‌म्¦गुहा᳚¦र॒घु॒ऽस्यत्¦र॒घु॒ऽयत्¦वि॒वे॒द॒ ||

अध॑द्युता॒नःपि॒त्रोःसचा॒साऽम॑नुत॒गुह्यं॒चारु॒पृश्नेः᳚ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

मा॒तुष्प॒देप॑र॒मे,अन्ति॒षद्‌गोर्वृष्णः॑शो॒चिषः॒प्रय॑तस्यजि॒ह्वा(स्वाहा᳚) || 10 ||

अध॑¦द्यु॒ता॒नः¦पि॒त्रोः¦सचा᳚¦आ॒सा¦अम॑नुत¦गुह्य᳚‌म्¦चारु॑¦पृश्नेः᳚ |
मा॒तुः¦प॒दे¦प॒र॒मे¦अन्ति॑¦सत्¦गोः¦वृष्णः॑¦शो॒चिषः॑¦प्रऽय॑तस्य¦जि॒ह्वा ||

ऋ॒तंवो᳚चे॒नम॑सापृ॒च्छ्यमा᳚न॒स्तवा॒शसा᳚जातवेदो॒यदी॒दम् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

त्वम॒स्यक्ष॑यसि॒यद्ध॒विश्वं᳚दि॒वियदु॒द्रवि॑णं॒यत्‌पृ॑थि॒व्याम्(स्वाहा᳚) || 11 || वर्ग:3

ऋ॒त‌म्¦वो॒चे॒¦नम॑सा¦पृ॒च्छ्यमा᳚नः¦तव॑¦आ॒ऽशसा᳚¦जा॒त॒ऽवे॒दः॒¦यदि॑¦इ॒द‌म् |
त्व‌म्¦अ॒स्य¦क्ष॒य॒सि॒¦यत्¦ह॒¦विश्व᳚‌म्¦दि॒वि¦यत्¦ऊँ॒ इति॑¦द्रवि॑ण‌म्¦यत्¦पृ॒थि॒व्या‌म् ||

किंनो᳚,अ॒स्यद्रवि॑णं॒कद्ध॒रत्नं॒विनो᳚वोचोजातवेदश्चिकि॒त्वान् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

गुहाध्व॑नःपर॒मंयन्नो᳚,अ॒स्यरेकु॑प॒दंननि॑दा॒ना,अग᳚न्म॒(स्वाहा᳚) || 12 ||

कि‌म्¦नः॒¦अ॒स्य¦द्रवि॑ण‌म्¦कत्¦ह॒¦रत्न᳚‌म्¦वि¦नः॒¦वो॒चः॒¦जा॒त॒ऽवे॒दः॒¦चि॒कि॒त्वान् |
गुहा᳚¦अध्व॑नः¦प॒र॒म‌म्¦यत्¦नः॒¦अ॒स्य¦रेकु॑¦प॒द‌म्¦न¦नि॒दा॒नाः¦अग᳚न्म ||

काम॒र्यादा᳚व॒युना॒कद्ध॑वा॒ममच्छा᳚गमेमर॒घवो॒नवाज᳚म् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

क॒दानो᳚दे॒वीर॒मृत॑स्य॒पत्नीः॒सूरो॒वर्णे᳚नततनन्नु॒षासः॒(स्वाहा᳚) || 13 ||

का¦म॒र्यादा᳚¦व॒युना᳚¦कत्¦ह॒¦वा॒म‌म्¦अच्छ॑¦ग॒मे॒म॒¦र॒घवः॑¦न¦वाज᳚‌म् |
क॒दा¦नः॒¦दे॒वीः¦अ॒मृत॑स्य¦पत्नीः᳚¦सूरः॑¦वर्णे᳚न¦त॒त॒न॒न्¦उ॒षसः॑ ||

अ॒नि॒रेण॒वच॑साफ॒ल्ग्वे᳚नप्र॒तीत्ये᳚नकृ॒धुना᳚तृ॒पासः॑ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

अधा॒ते,अ॑ग्ने॒किमि॒हाव॑दन्त्यनायु॒धास॒आस॑तासचन्ता॒‌म्(स्वाहा᳚) || 14 ||

अ॒नि॒रेण॑¦वच॑सा¦फ॒ल्ग्वे᳚न¦प्र॒तीत्ये᳚न¦कृ॒धुना᳚¦अ॒तृ॒पासः॑ |
अध॑¦ते¦अ॒ग्ने॒¦कि‌म्¦इ॒ह¦व॒द॒न्ति॒¦अ॒ना॒यु॒धासः॑¦आस॑ता¦स॒च॒न्ता॒‌म् ||

अ॒स्यश्रि॒येस॑मिधा॒नस्य॒वृष्णो॒वसो॒रनी᳚कं॒दम॒आरु॑रोच |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

रुश॒द्‌वसा᳚नःसु॒दृशी᳚करूपः,क्षि॒तिर्नरा॒यापु॑रु॒वारो᳚,अद्यौ॒‌त्(स्वाहा᳚) || 15 ||

अ॒स्य¦श्रि॒ये¦स॒‌म्ऽ‌इ॒धा॒नस्य॑¦वृष्णः॑¦वसोः᳚¦अनी᳚क‌म्¦दमे᳚¦आ¦रु॒रो॒च॒ |
रुश॑त्¦वसा᳚नः¦सु॒दृशी᳚कऽरूपः¦क्षि॒तिः¦न¦रा॒या¦पु॒रु॒ऽवारः॑¦अ॒द्यौ॒त् ||

[6] ऊर्ध्वऊषुणइत्येकादशर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |{मंडल:4, सूक्त:6}{अनुवाक:1, सूक्त:6}{अष्टक:3, अध्याय:5}
ऊ॒र्ध्वऊ॒षुणो᳚,अध्वरस्यहोत॒रग्ने॒तिष्ठ॑दे॒वता᳚ता॒यजी᳚यान् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

त्वंहिविश्व॑म॒भ्यसि॒मन्म॒प्रवे॒धस॑श्चित्तिरसिमनी॒षाम्(स्वाहा᳚) || 1 || वर्ग:4

ऊ॒र्ध्वः¦ऊँ॒ इति॑¦सु¦नः॒¦अ॒ध्व॒र॒स्य॒¦हो॒तः॒¦अग्ने᳚¦तिष्ठ॑¦दे॒वऽता᳚ता¦यजी᳚यान् |
त्व‌म्¦हि¦विश्व᳚‌म्¦अ॒भि¦असि॑¦मन्म॑¦प्र¦वे॒धसः॑¦चि॒त्¦ति॒र॒सि॒¦म॒नी॒षा‌म् ||

अमू᳚रो॒होता॒न्य॑सादिवि॒क्ष्व१॑(अ॒)ग्निर्म॒न्द्रोवि॒दथे᳚षु॒प्रचे᳚ताः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

ऊ॒र्ध्वंभा॒नुंस॑वि॒तेवा᳚श्रे॒न्मेते᳚वधू॒मंस्त॑भाय॒दुप॒द्याम्(स्वाहा᳚) || 2 ||

अमू᳚रः¦होता᳚¦नि¦अ॒सा॒दि॒¦वि॒क्षु¦अ॒ग्निः¦म॒न्द्रः¦वि॒दथे᳚षु¦प्रऽचे᳚ताः |
ऊ॒र्ध्व‌म्¦भा॒नु‌म्¦स॒वि॒ताऽ‌इ᳚व¦अ॒श्रे॒त्¦मेता᳚ऽ‌इव¦धू॒म‌म्¦स्त॒भा॒य॒त्¦उप॑¦द्या‌म् ||

य॒तासु॑जू॒र्णीरा॒तिनी᳚घृ॒ताची᳚प्रदक्षि॒णिद्‌दे॒वता᳚तिमुरा॒णः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

उदु॒स्वरु᳚र्नव॒जानाक्रःप॒श्वो,अ॑नक्ति॒सुधि॑तःसु॒मेकः॒(स्वाहा᳚) || 3 ||

य॒ता¦सु॒ऽजू॒र्णिः¦रा॒तिनी᳚¦घृ॒ताची᳚¦प्र॒ऽद॒क्षि॒णित्¦दे॒वऽता᳚ति‌म्¦उ॒रा॒णः |
उत्¦ऊँ॒ इति॑¦स्वरुः॑¦न॒व॒ऽजाः¦न¦अ॒क्रः¦प॒श्वः¦अ॒न॒क्ति॒¦सुऽधि॑तः¦सु॒ऽमेकः॑ ||

स्ती॒र्णेब॒र्हिषि॑समिधा॒ने,अ॒ग्ना,ऊ॒र्ध्वो,अ॑ध्व॒र्युर्जु॑जुषा॒णो,अ॑स्थात् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

पर्य॒ग्निःप॑शु॒पानहोता᳚त्रिवि॒ष्ट्ये᳚तिप्र॒दिव॑उरा॒णः(स्वाहा᳚) || 4 ||

स्ती॒र्णे¦ब॒र्हिषि॑¦स॒‌म्ऽ‌इ॒धा॒ने¦अ॒ग्नौ¦ऊ॒र्ध्वः¦अ॒ध्व॒र्युः¦जु॒जु॒षा॒णः¦अ॒स्था॒त् |
परि॑¦अ॒ग्निः¦प॒शु॒ऽपाः¦न¦होता᳚¦त्रि॒ऽवि॒ष्टि¦ए॒ति॒¦प्र॒ऽदिवः॑¦उ॒रा॒णः ||

परि॒त्मना᳚मि॒तद्रु॑रेति॒होता॒ऽग्निर्म॒न्द्रोमधु॑वचा,ऋ॒तावा᳚ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

द्रव᳚न्त्यस्यवा॒जिनो॒नशोका॒भय᳚न्ते॒विश्वा॒भुव॑ना॒यदभ्रा᳚ट्॒(स्वाहा᳚) || 5 ||

परि॑¦त्मना᳚¦मि॒तऽद्रुः॑¦ए॒ति॒¦होता᳚¦अ॒ग्निः¦म॒न्द्रः¦मधु॑ऽवचाः¦ऋ॒तऽवा᳚ |
द्रव᳚न्ति¦अ॒स्य॒¦वा॒जिनः॑¦न¦शोकाः᳚¦भय᳚न्ते¦विश्वा᳚¦भुव॑ना¦यत्¦अभ्रा᳚ट् ||

भ॒द्राते᳚,अग्नेस्वनीकसं॒दृग्घो॒रस्य॑स॒तोविषु॑णस्य॒चारुः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

नयत्ते᳚शो॒चिस्तम॑सा॒वर᳚न्त॒नध्व॒स्मान॑स्त॒न्वी॒३॑(ई॒)रेप॒आधुः॒(स्वाहा᳚) || 6 || वर्ग:5

भ॒द्रा¦ते॒¦अ॒ग्ने॒¦सु॒।आ॒नी॒क॒¦स॒‌म्ऽदृक्¦घो॒रस्य॑¦स॒तः¦विषु॑णस्य¦चारुः॑ |
न¦यत्¦ते॒¦शो॒चिः¦तम॑सा¦वर᳚न्त¦न¦ध्व॒स्मानः॑¦त॒न्वि॑¦रेपः॑¦आ¦धु॒रिति॑ धुः ||

नयस्य॒सातु॒र्जनि॑तो॒रवा᳚रि॒नमा॒तरा᳚पि॒तरा॒नूचि॑दि॒ष्टौ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अधा᳚मि॒त्रोनसुधि॑तःपाव॒को॒३॑(ओ॒)ऽग्निर्दी᳚दाय॒मानु॑षीषुवि॒क्षु(स्वाहा᳚) || 7 ||

न¦यस्य॑¦सातुः॑¦जनि॑तोः¦अवा᳚रि¦न¦मा॒तरा᳚पि॒तरा᳚¦नु¦चि॒त्¦इ॒ष्टौ |
अध॑¦मि॒त्रः¦न¦सुऽधि॑तः¦पा॒व॒कः¦अ॒ग्निः¦दी॒दा॒य॒¦मानु॑षीषु¦वि॒क्षु ||

द्विर्यंपञ्च॒जीज॑नन्‌त्सं॒वसा᳚नाः॒स्वसा᳚रो,अ॒ग्निंमानु॑षीषुवि॒क्षु |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

उ॒ष॒र्बुध॑मथ॒र्यो॒३॑(ओ॒)नदन्तं᳚शु॒क्रंस्वासं᳚पर॒शुंनति॒ग्मम्(स्वाहा᳚) || 8 ||

द्विः¦य‌म्¦पंच॑¦जीज॑नन्¦स॒‌म्ऽवसा᳚नाः¦स्वसा᳚रः¦अ॒ग्नि‌म्¦मानु॑षीषु¦वि॒क्षु |
उ॒षः॒ऽबुध᳚‌म्¦अ॒थ॒र्यः॑¦न¦दन्त᳚‌म्¦शु॒क्र‌म्¦सु॒ऽआस᳚‌म्¦प॒र॒शु‌म्¦न¦ति॒ग्म‌म् ||

तव॒त्ये,अ॑ग्नेह॒रितो᳚घृत॒स्नारोहि॑तासऋ॒ज्वञ्चः॒स्वञ्चः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अ॒रु॒षासो॒वृष॑णऋजुमु॒ष्का,आदे॒वता᳚तिमह्वन्तद॒स्माः(स्वाहा᳚) || 9 ||

तव॑¦त्ये¦अ॒ग्ने॒¦ह॒रितः॑¦घृ॒त॒ऽस्नाः¦रोहि॑तासः¦ऋ॒जु॒।आंचः॑¦सु॒।आंचः॑ |
अ॒रु॒षासः॑¦वृष॑णः¦ऋ॒जु॒ऽमु॒ष्काः¦आ¦दे॒वऽता᳚ति‌म्¦अ॒ह्व॒न्त॒¦द॒स्माः ||

येह॒त्येते॒सह॑माना,अ॒यास॑स्त्वे॒षासो᳚,अग्ने,अ॒र्चय॒श्चर᳚न्ति |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

श्ये॒नासो॒नदु॑वस॒नासो॒,अर्थं᳚तुविष्व॒णसो॒मारु॑तं॒नशर्धः॒(स्वाहा᳚) || 10 ||

ये¦ह॒¦त्ये¦ते॒¦सह॑मानाः¦अ॒यासः॑¦त्वे॒षासः॑¦अ॒ग्ने॒¦अ॒र्चयः॑¦चर᳚न्ति |
श्ये॒नासः॑¦न¦दु॒व॒स॒नासः॑¦अर्थ᳚‌म्¦तु॒वि॒ऽस्व॒नसः॑¦मारु॑त‌म्¦न¦शर्धः॑ ||

अका᳚रि॒ब्रह्म॑समिधान॒तुभ्यं॒शंसा᳚त्यु॒क्थंयज॑ते॒व्यू᳚धाः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

होता᳚रम॒ग्निंमनु॑षो॒निषे᳚दुर्नम॒स्यन्त॑उ॒शिजः॒शंस॑मा॒योः(स्वाहा᳚) || 11 ||

अका᳚रि¦ब्रह्म॑¦स॒‌म्ऽ‌इ॒धा॒न॒¦तुभ्य᳚‌म्¦शंसा᳚ति¦उ॒क्थ‌म्¦यज॑ते¦वि¦ऊँ॒ इति॑¦धाः॒ |
होता᳚र‌म्¦अ॒ग्नि‌म्¦मनु॑षः¦नि¦से॒दुः॒¦न॒म॒स्यन्तः॑¦उ॒शिजः॑¦शंस᳚‌म्¦आ॒योः ||

[7] अयमिहेत्येकादशर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् आद्याजगतीद्वितीयाद्यापंचानुष्टुभः |{मंडल:4, सूक्त:7}{अनुवाक:1, सूक्त:7}{अष्टक:3, अध्याय:5}
अ॒यमि॒हप्र॑थ॒मोधा᳚यिधा॒तृभि॒र्होता॒यजि॑ष्ठो,अध्व॒रेष्वीड्यः॑ |{गौतमो वामदेवः | अग्निः | जगती}

यमप्न॑वानो॒भृग॑वोविरुरु॒चुर्वने᳚षुचि॒त्रंवि॒भ्वं᳚वि॒शेवि॑शे॒(स्वाहा᳚) || 1 || वर्ग:6

अ॒य‌म्¦इ॒ह¦प्र॒थ॒मः¦धा॒यि॒¦धा॒तृऽभिः॑¦होता᳚¦यजि॑ष्ठः¦अ॒ध्व॒रेषु॑¦ईड्यः॑ |
य‌म्¦अप्न॑वानः¦भृग॑वः¦वि॒ऽरु॒रु॒चुः¦वने᳚षु¦चि॒त्र‌म्¦वि॒ऽभ्व᳚‌म्¦वि॒शेऽवि॑शे ||

अग्ने᳚क॒दात॑आनु॒षग्भुव॑द्दे॒वस्य॒चेत॑नम् |{गौतमो वामदेवः | अग्निः | अनुष्टुप्}

अधा॒हित्वा᳚जगृभ्रि॒रेमर्ता᳚सोवि॒क्ष्वीड्य॒‌म्(स्वाहा᳚) || 2 ||

अग्ने᳚¦क॒दा¦ते॒¦आ॒नु॒षक्¦भुव॑त्¦दे॒वस्य॑¦चेत॑न‌म् | अध॑¦हि¦त्वा॒¦ज॒गृ॒भ्रि॒रे¦मर्ता᳚सः¦वि॒क्षु¦ईड्य᳚‌म् ||

ऋ॒तावा᳚नं॒विचे᳚तसं॒पश्य᳚न्तो॒द्यामि॑व॒स्तृभिः॑ |{गौतमो वामदेवः | अग्निः | अनुष्टुप्}

विश्वे᳚षामध्व॒राणां᳚हस्क॒र्तारं॒दमे᳚दमे॒(स्वाहा᳚) || 3 ||

ऋ॒तऽवा᳚न‌म्¦विऽचे᳚तस‌म्¦पश्य᳚न्तः¦द्या‌म्ऽ‌इ᳚व¦स्तृऽभिः॑ | विश्वे᳚षा‌म्¦अ॒ध्व॒राणा᳚‌म्¦ह॒स्क॒र्तार᳚‌म्¦दमे᳚ऽदमे ||

आ॒शुंदू॒तंवि॒वस्व॑तो॒विश्वा॒यश्च॑र्ष॒णीर॒भि |{गौतमो वामदेवः | अग्निः | अनुष्टुप्}

आज॑भ्रुःके॒तुमा॒यवो॒भृग॑वाणंवि॒शेवि॑शे॒(स्वाहा᳚) || 4 ||

आ॒शु‌म्¦दू॒त‌म्¦वि॒वस्व॑तः¦विश्वाः᳚¦यः¦च॒र्ष॒णीः¦अ॒भि | आ¦ज॒भ्रुः॒¦के॒तु‌म्¦आ॒यवः॑¦भृग॑वाण‌म्¦वि॒शेऽवि॑शे ||

तमीं॒होता᳚रमानु॒षक्चि॑कि॒त्वांसं॒निषे᳚दिरे |{गौतमो वामदेवः | अग्निः | अनुष्टुप्}

र॒ण्वंपा᳚व॒कशो᳚चिषं॒यजि॑ष्ठंस॒प्तधाम॑भिः॒(स्वाहा᳚) || 5 ||

त‌म्¦ई॒‌म्¦होता᳚र‌म्¦आ॒नु॒षक्¦चि॒कि॒त्वांस᳚‌म्¦नि¦से॒दि॒रे॒ | र॒ण्व‌म्¦पा॒व॒कऽशो᳚चिष‌म्¦यजि॑ष्ठ‌म्¦स॒प्त¦धाम॑ऽभिः ||

तंशश्व॑तीषुमा॒तृषु॒वन॒आवी॒तमश्रि॑तम् |{गौतमो वामदेवः | अग्निः | अनुष्टुप्}

चि॒त्रंसन्तं॒गुहा᳚हि॒तंसु॒वेदं᳚कूचिद॒र्थिन॒‌म्(स्वाहा᳚) || 6 || वर्ग:7

त‌म्¦शश्व॑तीषु¦मा॒तृषु॑¦वने᳚¦आ¦वी॒त‌म्¦अश्रि॑त‌म् | चि॒त्र‌म्¦सन्त᳚‌म्¦गुहा᳚¦हि॒त‌म्¦सु॒ऽवेद᳚‌म्¦कू॒चि॒त्।आ॒र्थिन᳚‌म् ||

स॒सस्य॒यद्‌वियु॑ता॒सस्मि॒न्नूध᳚न्नृ॒तस्य॒धाम᳚न्‌र॒णय᳚न्तदे॒वाः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

म॒हाँ,अ॒ग्निर्नम॑सारा॒तह᳚व्यो॒वेर॑ध्व॒राय॒सद॒मिदृ॒तावा॒(स्वाहा᳚) || 7 ||

स॒सस्य॑¦यत्¦विऽयु॑ता¦सस्मि॑न्¦ऊध॑न्¦ऋ॒तस्य॑¦धाम॑न्¦र॒णय᳚न्त¦दे॒वाः |
म॒हान्¦अ॒ग्निः¦नम॑सा¦रा॒तऽह᳚व्यः¦वेः¦अ॒ध्व॒राय॑¦सद᳚‌म्¦इत्¦ऋ॒तऽवा᳚ ||

वेर॑ध्व॒रस्य॑दू॒त्या᳚निवि॒द्वानु॒भे,अ॒न्तारोद॑सीसंचिकि॒त्वान् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दू॒तई᳚यसेप्र॒दिव॑उरा॒णोवि॒दुष्ट॑रोदि॒वआ॒रोध॑नानि॒(स्वाहा᳚) || 8 ||

वेः¦अ॒ध्व॒रस्य॑¦दू॒त्या᳚नि¦वि॒द्वान्¦उ॒भे इति॑¦अ॒न्तरिति॑¦रोद॑सी॒ इति॑¦स॒‌म्ऽचि॒कि॒त्वान् |
दू॒तः¦ई॒य॒से॒¦प्र॒ऽदिवः॑¦उ॒रा॒णः¦वि॒दुःऽत॑रः¦दि॒वः¦आ॒ऽरोध॑नानि ||

कृ॒ष्णंत॒एम॒रुश॑तःपु॒रोभाश्च॑रि॒ष्ण्व१॑(अ॒)र्चिर्वपु॑षा॒मिदेक᳚म् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

यदप्र॑वीता॒दध॑तेह॒गर्भं᳚स॒द्यश्चि॑ज्जा॒तोभव॒सीदु॑दू॒तः(स्वाहा᳚) || 9 ||

कृ॒ष्ण‌म्¦ते॒¦एम॑¦रुश॑तः¦पु॒रः¦भाः¦च॒रि॒ष्णु¦अ॒र्चिः¦वपु॑षा‌म्¦इत्¦एक᳚‌म् |
यत्¦अप्र॑ऽवीता¦दध॑ते¦ह॒¦गर्भ᳚‌म्¦स॒द्यः¦चि॒त्¦जा॒तः¦भव॑सि¦इत्¦ऊँ॒ इति॑¦दू॒तः ||

स॒द्योजा॒तस्य॒ददृ॑शान॒मोजो॒यद॑स्य॒वातो᳚,अनु॒वाति॑शो॒चिः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

वृ॒णक्ति॑ति॒ग्माम॑त॒सेषु॑जि॒ह्वांस्थि॒राचि॒दन्ना᳚दयते॒विजम्भैः᳚(स्वाहा᳚) || 10 ||

स॒द्यः¦जा॒तस्य॑¦ददृ॑शान‌म्¦ओजः॑¦यत्¦अ॒स्य॒¦वातः॑¦अ॒नु॒ऽवाति॑¦शो॒चिः |
वृ॒णक्ति॑¦ति॒ग्मा‌म्¦अ॒त॒सेषु॑¦जि॒ह्वा‌म्¦स्थि॒रा¦चि॒त्¦अन्ना᳚¦द॒य॒ते॒¦वि¦जम्भैः᳚ ||

तृ॒षुयदन्ना᳚तृ॒षुणा᳚व॒वक्ष॑तृ॒षुंदू॒तंकृ॑णुतेय॒ह्वो,अ॒ग्निः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

वात॑स्यमे॒ळिंस॑चतेनि॒जूर्व᳚न्ना॒शुंनवा᳚जयतेहि॒न्वे,अर्वा॒(स्वाहा᳚) || 11 ||

तृ॒षु¦यत्¦अन्ना᳚¦तृ॒षुणा᳚¦व॒वक्ष॑¦तृ॒षु‌म्¦दू॒त‌म्¦कृ॒णु॒ते॒¦य॒ह्वः¦अ॒ग्निः |
वात॑स्य¦मे॒ळि‌म्¦स॒च॒ते॒¦नि॒ऽजूर्व॑न्¦आ॒शु‌म्¦न¦वा॒ज॒य॒ते॒¦हि॒न्वे¦अर्वा᳚ ||

[8] दूतंवइत्यष्टर्चस्य सूक्तस्य गौतमोवामदेवोग्निर्गायत्री |{मंडल:4, सूक्त:8}{अनुवाक:1, सूक्त:8}{अष्टक:3, अध्याय:5}
दू॒तंवो᳚वि॒श्ववे᳚दसंहव्य॒वाह॒मम॑र्त्यम् |{गौतमो वामदेवः | अग्निः | गायत्री}

यजि॑ष्ठमृञ्जसेगि॒रा(स्वाहा᳚) || 1 || वर्ग:8

दू॒त‌म्¦वः॒¦वि॒श्वऽवे᳚दस‌म्¦ह॒व्य॒ऽवाह᳚‌म्¦अम॑र्त्य‌म् | यजि॑ष्ठ‌म्¦ऋं॒ज॒से॒¦गि॒रा ||

सहिवेदा॒वसु॑धितिंम॒हाँ,आ॒रोध॑नंदि॒वः |{गौतमो वामदेवः | अग्निः | गायत्री}

सदे॒वाँ,एहव॑क्षति॒(स्वाहा᳚) || 2 ||

सः¦हि¦वेद॑¦वसु॑ऽधिति‌म्¦म॒हान्¦आ॒ऽरोध॑न‌म्¦दि॒वः | सः¦दे॒वान्¦आ¦इ॒ह¦व॒क्ष॒ति॒ ||

सवे᳚ददे॒वआ॒नमं᳚दे॒वाँ,ऋ॑ताय॒तेदमे᳚ |{गौतमो वामदेवः | अग्निः | गायत्री}

दाति॑प्रि॒याणि॑चि॒द्वसु॒(स्वाहा᳚) || 3 ||

सः¦वे॒द॒¦दे॒वः¦आ॒ऽनम᳚‌म्¦दे॒वान्¦ऋ॒त॒ऽय॒ते¦दमे᳚ | दाति॑¦प्रि॒याणि॑¦चि॒त्¦वसु॑ ||

सहोता॒सेदु॑दू॒त्यं᳚चिकि॒त्वाँ,अ॒न्तरी᳚यते |{गौतमो वामदेवः | अग्निः | गायत्री}

वि॒द्वाँ,आ॒रोध॑नंदि॒वः(स्वाहा᳚) || 4 ||

सः¦होता᳚¦सः¦इत्¦ऊँ॒ इति॑¦दू॒त्य᳚‌म्¦चि॒कि॒त्वान्¦अ॒न्तः¦ई॒य॒ते॒ | वि॒द्वान्¦आ॒ऽरोध॑न‌म्¦दि॒वः ||

तेस्या᳚म॒ये,अ॒ग्नये᳚ददा॒शुर्ह॒व्यदा᳚तिभिः |{गौतमो वामदेवः | अग्निः | गायत्री}

यईं॒पुष्य᳚न्तइन्ध॒ते(स्वाहा᳚) || 5 ||

ते¦स्या॒म॒¦ये¦अ॒ग्नये᳚¦द॒दा॒शुः¦ह॒व्यदा᳚तिऽभिः | ये¦ई॒‌म्¦पुष्य᳚न्तः¦इ॒न्ध॒ते ||

तेरा॒यातेसु॒वीर्यैः᳚सस॒वांसो॒विशृ᳚ण्विरे |{गौतमो वामदेवः | अग्निः | गायत्री}

ये,अ॒ग्नाद॑धि॒रेदुवः॒(स्वाहा᳚) || 6 ||

ते¦रा॒या¦ते¦सु॒ऽवीर्यैः᳚¦स॒स॒ऽवांसः॑¦वि¦शृ॒ण्वि॒रे॒ | ये¦अ॒ग्ना¦द॒धि॒रे¦दुवः॑ ||

अ॒स्मेरायो᳚दि॒वेदि॑वे॒संच॑रन्तुपुरु॒स्पृहः॑ |{गौतमो वामदेवः | अग्निः | गायत्री}

अ॒स्मेवाजा᳚सईरता॒‌म्(स्वाहा᳚) || 7 ||

अ॒स्मे इति॑¦रायः॑¦दि॒वेऽदि॑वे¦स‌म्¦च॒र॒न्तु॒¦पु॒रु॒ऽस्पृहः॑ | अ॒स्मे इति॑¦वाजा᳚सः¦ई॒र॒ता॒‌म् ||

सविप्र॑श्चर्षणी॒नांशव॑सा॒मानु॑षाणाम् |{गौतमो वामदेवः | अग्निः | गायत्री}

अति॑क्षि॒प्रेव॑विध्यति॒(स्वाहा᳚) || 8 ||

सः¦विप्रः॑¦च॒र्ष॒णी॒ना‌म्¦शव॑सा¦मानु॑षाणा‌म् | अति॑¦क्षि॒प्राऽ‌इ᳚व¦वि॒ध्य॒ति॒ ||

[9] अग्नेमृळेत्यष्टर्चस्य सूक्तस्य गौतमोवामदेवोग्निर्गायत्री |{मंडल:4, सूक्त:9}{अनुवाक:1, सूक्त:9}{अष्टक:3, अध्याय:5}
अग्ने᳚मृ॒ळम॒हाँ,अ॑सि॒यई॒मादे᳚व॒युंजन᳚म् |{गौतमो वामदेवः | अग्निः | गायत्री}

इ॒येथ॑ब॒र्हिरा॒सद॒‌म्(स्वाहा᳚) || 1 || वर्ग:9

अग्ने᳚¦मृ॒ळ¦म॒हान्¦अ॒सि॒¦यः¦ई॒‌म्¦आ¦दे॒व॒ऽयु‌म्¦जन᳚‌म् | इ॒येथ॑¦ब॒र्हिः¦आ॒ऽसद᳚‌म् ||

समानु॑षीषुदू॒ळभो᳚वि॒क्षुप्रा॒वीरम॑र्त्यः |{गौतमो वामदेवः | अग्निः | गायत्री}

दू॒तोविश्वे᳚षांभुव॒‌त्(स्वाहा᳚) || 2 ||

सः¦मानु॑षीषु¦दुः॒ऽदभः॑¦वि॒क्षु¦प्र॒।आ॒वीः¦अम॑र्त्यः | दू॒तः¦विश्वे᳚षा‌म्¦भु॒व॒त् ||

ससद्म॒परि॑णीयते॒होता᳚म॒न्द्रोदिवि॑ष्टिषु |{गौतमो वामदेवः | अग्निः | गायत्री}

उ॒तपोता॒निषी᳚दति॒(स्वाहा᳚) || 3 ||

सः¦सद्म॑¦परि॑¦नी॒य॒ते॒¦होता᳚¦म॒न्द्रः¦दिवि॑ष्टिषु | उ॒त¦पोता᳚¦नि¦सी॒द॒ति॒ ||

उ॒तग्ना,अ॒ग्निर॑ध्व॒रउ॒तोगृ॒हप॑ति॒र्दमे᳚ |{गौतमो वामदेवः | अग्निः | गायत्री}

उ॒तब्र॒ह्मानिषी᳚दति॒(स्वाहा᳚) || 4 ||

उ॒त¦ग्नाः¦अ॒ग्निः¦अ॒ध्व॒रे¦उ॒तो इति॑¦गृ॒हऽप॑तिः¦दमे᳚ | उ॒त¦ब्र॒ह्मा¦नि¦सी॒द॒ति॒ ||

वेषि॒ह्य॑ध्वरीय॒तामु॑पव॒क्ताजना᳚नाम् |{गौतमो वामदेवः | अग्निः | गायत्री}

ह॒व्याच॒मानु॑षाणा॒‌म्(स्वाहा᳚) || 5 ||

वेषि॑¦हि¦अ॒ध्व॒रि॒ऽय॒ता‌म्¦उ॒प॒ऽव॒क्ता¦जना᳚ना‌म् | ह॒व्या¦च॒¦मानु॑षाणा‌म् ||

वेषीद्व॑स्यदू॒त्य१॑(अं॒)यस्य॒जुजो᳚षो,अध्व॒रम् |{गौतमो वामदेवः | अग्निः | गायत्री}

ह॒व्यंमर्त॑स्य॒वोळ्ह॑वे॒(स्वाहा᳚) || 6 ||

वेषि॑¦इत्¦ऊँ॒ इति॑¦अ॒स्य॒¦दू॒त्य᳚‌म्¦यस्य॑¦जुजो᳚षः¦अ॒ध्व॒र‌म् | ह॒व्य‌म्¦मर्त॑स्य¦वोळ्ह॑वे ||

अ॒स्माकं᳚जोष्यध्व॒रम॒स्माकं᳚य॒ज्ञम᳚ङ्गिरः |{गौतमो वामदेवः | अग्निः | गायत्री}

अ॒स्माकं᳚शृणुधी॒हव॒‌म्(स्वाहा᳚) || 7 ||

अ॒स्माक᳚‌म्¦जो॒षि॒¦अ॒ध्व॒र‌म्¦अ॒स्माक᳚‌म्¦य॒ज्ञ‌म्¦अ॒ङ्गि॒रः॒ | अ॒स्माक᳚‌म्¦शृ॒णु॒धि॒¦हव᳚‌म् ||

परि॑तेदू॒ळभो॒रथो॒ऽस्माँ,अ॑श्नोतुवि॒श्वतः॑ |{गौतमो वामदेवः | अग्निः | गायत्री}

येन॒रक्ष॑सिदा॒शुषः॒(स्वाहा᳚) || 8 ||

परि॑¦ते॒¦दुः॒ऽदभः॑¦रथः॑¦अ॒स्मान्¦अ॒श्नो॒तु॒¦वि॒श्वतः॑ | येन॑¦रक्ष॑सि¦दा॒शुषः॑ ||

[10] अग्नेतमद्येत्यष्टर्चस्य सूक्तस्य गौतमोवामदेवोग्निः पदपंक्तिः पंचमीमहापदपंक्तिः अंत्येद्वेउष्णिहौ |{मंडल:4, सूक्त:10}{अनुवाक:1, सूक्त:10}{अष्टक:3, अध्याय:5}
अग्ने॒तम॒द्याऽश्वं॒नस्तोमैः॒क्रतुं॒नभ॒द्रंहृ॑दि॒स्पृश᳚म् |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः}

ऋ॒ध्यामा᳚त॒ओहैः᳚(स्वाहा᳚) || 1 || वर्ग:10

अग्ने᳚¦त‌म्¦अ॒द्य¦अश्व᳚‌म्¦न¦स्तोमैः᳚¦क्रतु᳚‌म्¦न¦भ॒द्र‌म्¦हृ॒दि॒ऽस्पृश᳚‌म् | ऋ॒ध्याम॑¦ते॒¦ओहैः᳚ ||

अधा॒ह्य॑ग्ने॒क्रतो᳚र्भ॒द्रस्य॒दक्ष॑स्यसा॒धोः |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः}

र॒थीरृ॒तस्य॑बृह॒तोब॒भूथ॒(स्वाहा᳚) || 2 ||

अध॑¦हि¦अ॒ग्ने॒¦क्रतोः᳚¦भ॒द्रस्य॑¦दक्ष॑स्य¦सा॒धोः | र॒थीः¦ऋ॒तस्य॑¦बृ॒ह॒तः¦ब॒भूथ॑ ||

ए॒भिर्नो᳚,अ॒र्कैर्भवा᳚नो,अ॒र्वाङ्स्व१॑(अ॒)र्णज्योतिः॑ |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः}

अग्ने॒विश्वे᳚भिःसु॒मना॒,अनी᳚कैः॒(स्वाहा᳚) || 3 ||

ए॒भिः¦नः॒¦अ॒र्कैः¦भव॑¦नः॒¦अ॒र्वाङ्¦स्वः॑¦न¦ज्योतिः॑ | अग्ने᳚¦विश्वे᳚भिः¦सु॒ऽमनाः᳚¦अनी᳚कैः ||

आ॒भिष्टे᳚,अ॒द्यगी॒र्भिर्गृ॒णन्तोऽग्ने॒दाशे᳚म |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः}

प्रते᳚दि॒वोनस्त॑नयन्ति॒शुष्माः᳚(स्वाहा᳚) || 4 ||

आ॒भिः¦ते॒¦अ॒द्य¦गीः॒ऽभिः¦गृ॒णन्तः॑¦अग्ने᳚¦दाशे᳚म | प्र¦ते॒¦दि॒वः¦न¦स्त॒न॒य॒न्ति॒¦शुष्माः᳚ ||

तव॒स्वादि॒ष्ठाऽग्ने॒संदृ॑ष्टिरि॒दाचि॒दह्न॑इ॒दाचि॑द॒क्तोः |{गौतमो वामदेवः | अग्निः | महापदपङ्क्तिः}

श्रि॒येरु॒क्मोनरो᳚चतउपा॒के(स्वाहा᳚) || 5 ||

तव॑¦स्वादि॑ष्ठा¦अग्ने᳚¦स‌म्ऽदृ॑ष्टिः¦इ॒दा¦चि॒त्¦अह्नः॑¦इ॒दा¦चि॒त्¦अ॒क्तोः | श्रि॒ये¦रु॒क्मः¦न¦रो॒च॒ते॒¦उ॒पा॒के ||

घृ॒तंनपू॒तंत॒नूर॑रे॒पाःशुचि॒हिर᳚ण्यम् |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः}

तत्ते᳚रु॒क्मोनरो᳚चतस्वधावः॒(स्वाहा᳚) || 6 ||

घृ॒त‌म्¦न¦पू॒त‌म्¦त॒नूः¦अ॒रे॒पाः¦शुचि॑¦हिर᳚ण्य‌म् | तत्¦ते॒¦रु॒क्मः¦न¦रो॒च॒त॒¦स्व॒धा॒ऽवः॒ ||

कृ॒तंचि॒द्धिष्मा॒सने᳚मि॒द्वेषोऽग्न॑इ॒नोषि॒मर्ता᳚त् |{गौतमो वामदेवः | अग्निः | उष्णिक्}

इ॒त्थायज॑मानादृतावः॒(स्वाहा᳚) || 7 ||

कृ॒त‌म्¦चि॒त्¦हि¦स्म॒¦सने᳚मि¦द्वेषः॑¦अग्ने᳚¦इ॒नोषि॑¦मर्ता᳚त् | इ॒त्था¦यज॑मानात्¦ऋ॒त॒ऽवः॒ ||

शि॒वानः॑स॒ख्यासन्तु॑भ्रा॒त्राऽग्ने᳚दे॒वेषु॑यु॒ष्मे |{गौतमो वामदेवः | अग्निः | उष्णिक्}

सानो॒नाभिः॒सद॑ने॒सस्मि॒न्नूध॒न्त्(स्वाहा᳚) || 8 ||

शि॒वा¦नः॒¦स॒ख्या¦सन्तु॑¦भ्रा॒त्रा¦अग्ने᳚¦दे॒वेषु॑¦यु॒ष्मे इति॑ | सा¦नः॒¦नाभिः॑¦सद॑ने¦सस्मि॑न्¦ऊध᳚‌म् ||

[11] भद्रंतइति षडृचस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |{मंडल:4, सूक्त:11}{अनुवाक:2, सूक्त:1}{अष्टक:3, अध्याय:5}
भ॒द्रंते᳚,अग्नेसहसि॒न्ननी᳚कमुपा॒कआरो᳚चते॒सूर्य॑स्य |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

रुश॑द्‌दृ॒शेद॑दृशेनक्त॒याचि॒दरू᳚क्षितंदृ॒शआरू॒पे,अन्न॒‌म्(स्वाहा᳚) || 1 || वर्ग:11

भ॒द्र‌म्¦ते॒¦अ॒ग्ने॒¦स॒ह॒सि॒न्¦अनी᳚क‌म्¦उ॒पा॒के¦आ¦रो॒च॒ते॒¦सूर्य॑स्य |
रुश॑त्¦दृ॒शे¦द॒दृ॒शे॒¦न॒क्त॒ऽया¦चि॒त्¦अरू᳚क्षित‌म्¦दृ॒शे¦आ¦रू॒पे¦अन्न᳚‌म् ||

विषा᳚ह्यग्नेगृण॒तेम॑नी॒षांखंवेप॑सातुविजात॒स्तवा᳚नः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

विश्वे᳚भि॒र्यद्‌वा॒वनः॑शुक्रदे॒वैस्तन्नो᳚रास्वसुमहो॒भूरि॒मन्म॒(स्वाहा᳚) || 2 ||

वि¦सा॒हि॒¦अ॒ग्ने॒¦गृ॒ण॒ते¦म॒नी॒षा‌म्¦ख‌म्¦वेप॑सा¦तु॒वि॒ऽजा॒त॒¦स्तवा᳚नः |
विश्वे᳚भिः¦यत्¦व॒वनः॑¦शु॒क्र॒¦दे॒वैः¦तत्¦नः॒¦रा॒स्व॒¦सु॒ऽम॒हः॒¦भूरि॑¦मन्म॑ ||

त्वद॑ग्ने॒काव्या॒त्वन्म॑नी॒षास्त्वदु॒क्थाजा᳚यन्ते॒राध्या᳚नि |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

त्वदे᳚ति॒द्रवि॑णंवी॒रपे᳚शा,इ॒त्थाधि॑येदा॒शुषे॒मर्त्या᳚य॒(स्वाहा᳚) || 3 ||

त्वत्¦अ॒ग्ने॒¦काव्या᳚¦त्वत्¦म॒नी॒षाः¦त्वत्¦उ॒क्था¦जा॒य॒न्ते॒¦राध्या᳚नि |
त्वत्¦ए॒ति॒¦द्रवि॑ण‌म्¦वी॒रऽपे᳚शाः¦इ॒त्थाऽधि॑ये¦दा॒शुषे᳚¦मर्त्या᳚य ||

त्वद्वा॒जीवा᳚जम्भ॒रोविहा᳚या,अभिष्टि॒कृज्जा᳚यतेस॒त्यशु॑ष्मः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

त्वद्र॒यिर्दे॒वजू᳚तोमयो॒भुस्त्वदा॒शुर्जू᳚जु॒वाँ,अ॑ग्ने॒,अर्वा॒(स्वाहा᳚) || 4 ||

त्वत्¦वा॒जी¦वा॒ज॒‌म्ऽभ॒रः¦विऽहा᳚याः¦अ॒भि॒ष्टि॒ऽकृत्¦जा॒य॒ते॒¦स॒त्यऽशु॑ष्मः |
त्वत्¦र॒यिः¦दे॒वऽजू᳚तः¦म॒यः॒ऽभुः¦त्वत्¦आ॒शुः¦जू॒जु॒ऽवान्¦अ॒ग्ने॒¦अर्वा᳚ ||

त्वाम॑ग्नेप्रथ॒मंदे᳚व॒यन्तो᳚दे॒वंमर्ता᳚,अमृतम॒न्द्रजि॑ह्वम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

द्वे॒षो॒युत॒मावि॑वासन्तिधी॒भिर्दमू᳚नसंगृ॒हप॑ति॒ममू᳚र॒‌म्(स्वाहा᳚) || 5 ||

त्वा‌म्¦अ॒ग्ने॒¦प्र॒थ॒म‌म्¦दे॒व॒ऽयन्तः॑¦दे॒व‌म्¦मर्ताः᳚¦अ॒मृ॒त॒¦म॒न्द्रऽजि॑ह्व‌म् |
द्वे॒षः॒ऽयुत᳚‌म्¦आ¦वि॒वा॒स॒न्ति॒¦धी॒भिः¦दमू᳚नस‌म्¦गृ॒हऽप॑ति‌म्¦अमू᳚र‌म् ||

आ॒रे,अ॒स्मदम॑तिमा॒रे,अंह॑आ॒रेविश्वां᳚दुर्म॒तिंयन्नि॒पासि॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दो॒षाशि॒वःस॑हसःसूनो,अग्ने॒यंदे॒वआचि॒त्‌सच॑सेस्व॒स्ति(स्वाहा᳚) || 6 ||

आ॒रे¦अ॒स्मत्¦अम॑ति‌म्¦आ॒रे¦अंहः॑¦आ॒रे¦विश्वा᳚‌म्¦दुः॒ऽम॒ति‌म्¦यत्¦नि॒ऽपासि॑ |
दो॒षा¦शि॒वः¦स॒ह॒सः॒¦सू॒नो॒ इति॑¦अ॒ग्ने॒¦य‌म्¦दे॒वः¦आ¦चि॒त्¦सच॑से¦स्व॒स्ति ||

[12] यस्त्वामग्नइति षडृचस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |{मंडल:4, सूक्त:12}{अनुवाक:2, सूक्त:2}{अष्टक:3, अध्याय:5}
यस्त्वाम॑ग्नइ॒नध॑तेय॒तस्रु॒क्त्रिस्ते॒,अन्नं᳚कृ॒णव॒त्‌सस्मि॒न्नह॑न् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

ससुद्यु॒म्नैर॒भ्य॑स्तुप्र॒सक्ष॒त्तव॒क्रत्वा᳚जातवेदश्चिकि॒त्वान्(स्वाहा᳚) || 1 || वर्ग:12

यः¦त्वा‌म्¦अ॒ग्ने॒¦इ॒नध॑ते¦य॒तऽस्रु॑क्¦त्रिः¦ते॒¦अन्न᳚‌म्¦कृ॒णव॑त्¦सस्मि॑न्¦अह॑न् |
सः¦सु¦द्यु॒म्नैः¦अ॒भि¦अ॒स्तु॒¦प्र॒ऽसक्ष॑त्¦तव॑¦क्रत्वा᳚¦जा॒त॒ऽवे॒दः॒¦चि॒कि॒त्वान् ||

इ॒ध्मंयस्ते᳚ज॒भर॑च्छश्रमा॒णोम॒हो,अ॑ग्ने॒,अनी᳚क॒मास॑प॒र्यन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

सइ॑धा॒नःप्रति॑दो॒षामु॒षासं॒पुष्य᳚न्‌र॒यिंस॑चते॒घ्नन्न॒मित्रा॒न्त्(स्वाहा᳚) || 2 ||

इ॒ध्म‌म्¦यः¦ते॒¦ज॒भर॑त्¦श॒श्र॒मा॒णः¦म॒हः¦अ॒ग्ने॒¦अनी᳚क‌म्¦आ¦स॒प॒र्यन् |
सः¦इ॒धा॒नः¦प्रति॑¦दो॒षा‌म्¦उ॒षस᳚‌म्¦पुष्य॑न्¦र॒यि‌म्¦स॒च॒ते॒¦घ्नन्¦अ॒मित्रा॑न् ||

अ॒ग्निरी᳚शेबृह॒तः,क्ष॒त्रिय॑स्या॒ऽग्निर्वाज॑स्यपर॒मस्य॑रा॒यः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दधा᳚ति॒रत्नं᳚विध॒तेयवि॑ष्ठो॒व्या᳚नु॒षङ्मर्त्या᳚यस्व॒धावा॒न्त्(स्वाहा᳚) || 3 ||

अ॒ग्निः¦ई॒शे॒¦बृ॒ह॒तः¦क्ष॒त्रिय॑स्य¦अ॒ग्निः¦वाज॑स्य¦प॒र॒मस्य॑¦रा॒यः |
दधा᳚ति¦रत्न᳚‌म्¦वि॒ध॒ते¦यवि॑ष्ठः¦वि¦आ॒नु॒षक्¦मर्त्या᳚य¦स्व॒धाऽवा॑न् ||

यच्चि॒द्धिते᳚पुरुष॒त्राय॑वि॒ष्ठाऽचि॑त्तिभिश्चकृ॒माकच्चि॒दागः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

कृ॒धीष्व१॑(अ॒)स्माँ,अदि॑ते॒रना᳚गा॒न्व्येनां᳚सिशिश्रथो॒विष्व॑गग्ने॒(स्वाहा᳚) || 4 ||

यत्¦चि॒त्¦हि¦ते॒¦पु॒रु॒ष॒ऽत्रा¦य॒वि॒ष्ठ॒¦अचि॑त्तिऽभिः¦च॒कृ॒म¦कत्¦चि॒त्¦आगः॑ |
कृ॒धि¦सु¦अ॒स्मान्¦अदि॑तेः¦अना᳚गान्¦वि¦एनां᳚सि¦शि॒श्र॒थः॒¦विष्व॑क्¦अ॒ग्ने॒ ||

म॒हश्चि॑दग्न॒एन॑सो,अ॒भीक॑ऊ॒र्वाद्दे॒वाना᳚मु॒तमर्त्या᳚नाम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

माते॒सखा᳚यः॒सद॒मिद्रि॑षाम॒यच्छा᳚तो॒काय॒तन॑याय॒शंयोः(स्वाहा᳚) || 5 ||

म॒हः¦चि॒त्¦अ॒ग्ने॒¦एन॑सः¦अ॒भीके᳚¦ऊ॒र्वात्¦दे॒वाना᳚‌म्¦उ॒त¦मर्त्या᳚ना‌म् |
मा¦ते॒¦सखा᳚यः¦सद᳚‌म्¦इत्¦रि॒षा॒म॒¦यच्छ॑¦तो॒काय॑¦तन॑याय¦श‌म्¦योः ||

यथा᳚ह॒त्यद्‌व॑सवोगौ॒र्यं᳚चित्प॒दिषि॒ताममु᳚ञ्चतायजत्राः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

ए॒वोष्व१॑(अ॒)स्मन्मु᳚ञ्चता॒व्यंहः॒प्रता᳚र्यग्नेप्रत॒रंन॒आयुः॒(स्वाहा᳚) || 6 ||

यथा᳚¦ह॒¦त्यत्¦व॒स॒वः॒¦गौ॒र्य᳚‌म्¦चि॒त्¦प॒दि¦सि॒ता‌म्¦अमुं᳚चत¦य॒ज॒त्राः॒ |
ए॒वो इति॑¦सु¦अ॒स्मत्¦मुं॒च॒त॒¦वि¦अंहः॑¦प्र¦ता॒रि॒¦अ॒ग्ने॒¦प्र॒ऽत॒र‌म्¦नः॒¦आयुः॑ ||

[13] प्रत्यग्निरिति पंचर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |{मंडल:4, सूक्त:13}{अनुवाक:2, सूक्त:3}{अष्टक:3, अध्याय:5}
प्रत्य॒ग्निरु॒षसा॒मग्र॑मख्यद्विभाती॒नांसु॒मना᳚रत्न॒धेय᳚म् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

या॒तम॑श्विनासु॒कृतो᳚दुरो॒णमुत्सूर्यो॒ज्योति॑षादे॒वए᳚ति॒(स्वाहा᳚) || 1 || वर्ग:13

प्रति॑¦अ॒ग्निः¦उ॒षसा᳚‌म्¦अग्र᳚‌म्¦अ॒ख्य॒त्¦वि॒ऽभा॒ती॒ना‌म्¦सु॒ऽमनाः᳚¦र॒त्न॒ऽधेय᳚‌म् |
या॒त‌म्¦अ॒श्वि॒ना॒¦सु॒ऽकृतः॑¦दु॒रो॒ण‌म्¦उत्¦सूर्यः॑¦ज्योति॑षा¦दे॒वः¦ए॒ति॒ ||

ऊ॒र्ध्वंभा॒नुंस॑वि॒तादे॒वो,अ॑श्रेद्द्र॒प्संदवि॑ध्वद्‌गवि॒षोनसत्वा᳚ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अनु᳚व्र॒तंवरु॑णोयन्तिमि॒त्रोयत्सूर्यं᳚दि॒व्या᳚रो॒हय᳚न्ति॒(स्वाहा᳚) || 2 ||

ऊ॒र्ध्व‌म्¦भा॒नु‌म्¦स॒वि॒ता¦दे॒वः¦अ॒श्रे॒त्¦द्र॒प्स‌म्¦दवि॑ध्वत्¦गो॒ऽ‌इ॒षः¦न¦सत्वा᳚ |
अनु॑¦व्र॒त‌म्¦वरु॑णः¦य॒न्ति॒¦मि॒त्रः¦यत्¦सूर्य᳚‌म्¦दि॒वि¦आ॒ऽरो॒हय᳚न्ति ||

यंसी॒मकृ᳚ण्व॒न्‌तम॑सेवि॒पृचे᳚ध्रु॒वक्षे᳚मा॒,अन॑वस्यन्तो॒,अर्थ᳚म् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

तंसूर्यं᳚ह॒रितः॑स॒प्तय॒ह्वीःस्पशं॒विश्व॑स्य॒जग॑तोवहन्ति॒(स्वाहा᳚) || 3 ||

य‌म्¦सी॒‌म्¦अकृ᳚ण्वन्¦तम॑से¦वि॒ऽपृचे᳚¦ध्रु॒वऽक्षे᳚माः¦अन॑वऽस्यन्तः¦अर्थ᳚‌म् |
त‌म्¦सूर्य᳚‌म्¦ह॒रितः॑¦स॒प्त¦य॒ह्वीः¦स्पश᳚‌म्¦विश्व॑स्य¦जग॑तः¦व॒ह॒न्ति॒ ||

वहि॑ष्ठेभिर्वि॒हर᳚न्यासि॒तन्तु॑मव॒व्यय॒न्नसि॑तंदेव॒वस्म॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दवि॑ध्वतोर॒श्मयः॒सूर्य॑स्य॒चर्मे॒वावा᳚धु॒स्तमो᳚,अ॒प्स्व१॑(अ॒)न्तः॒(स्वाहा᳚) || 4 ||

वहि॑ष्ठेभिः¦वि॒ऽहर॑न्¦या॒सि॒¦तन्तु᳚‌म्¦अ॒व॒ऽव्यय॑न्¦असि॑त‌म्¦दे॒व॒¦वस्म॑ |
दवि॑ध्वतः¦र॒श्मयः॑¦सूर्य॑स्य¦चर्म॑ऽ‌इव¦अव॑¦अ॒धुः॒¦तमः॑¦अ॒प्ऽसु¦अ॒न्तरिति॑ ||

अना᳚यतो॒,अनि॑बद्धःक॒थायंन्य᳚ङ्ङुत्ता॒नोऽव॑पद्यते॒न |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

कया᳚यातिस्व॒धया॒कोद॑दर्शदि॒वःस्क॒म्भःसमृ॑तःपाति॒नाक॒‌म्(स्वाहा᳚) || 5 ||

अना᳚यतः¦अनि॑ऽबद्धः¦क॒था¦अ॒य‌म्¦न्य᳚ङ्¦उ॒त्ता॒नः¦अव॑¦प॒द्य॒ते॒¦न |
कया᳚¦या॒ति॒¦स्व॒धया᳚¦कः¦द॒द॒र्श॒¦दि॒वः¦स्क॒म्भः¦स‌म्ऽऋ॑तः¦पा॒ति॒¦नाक᳚‌म् ||

[14] प्रत्यग्निरिति पंचर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् | (अनयोः सूक्तयोः केचिदाचार्यालिङ्गोक्तदेवताआहुःताश्च आद्यसूक्ते आद्यानां तिसृणामग्निः चतुर्थ्याः सवितृवरुणमित्राः पंचम्याः सूर्यः | अपरसूक्तेक्रमेण अग्न्याश्विनः सूर्य उषाअश्व्युषसः सूर्य इत्येवंज्ञेयाः )|{मंडल:4, सूक्त:14}{अनुवाक:2, सूक्त:4}{अष्टक:3, अध्याय:5}
प्रत्य॒ग्निरु॒षसो᳚जा॒तवे᳚दा॒,अख्य॑द्दे॒वोरोच॑माना॒महो᳚भिः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

आना᳚सत्योरुगा॒यारथे᳚ने॒मंय॒ज्ञमुप॑नोयात॒मच्छ॒(स्वाहा᳚) || 1 || वर्ग:14

प्रति॑¦अ॒ग्निः¦उ॒षसः॑¦जा॒तऽवे᳚दाः¦अख्य॑त्¦दे॒वः¦रोच॑मानाः¦महः॑ऽभिः |
आ¦ना॒स॒त्या॒¦उ॒रु॒ऽगा॒या¦रथे᳚न¦इ॒म‌म्¦य॒ज्ञ‌म्¦उप॑¦नः॒¦या॒त॒‌म्¦अच्छ॑ ||

ऊ॒र्ध्वंके॒तुंस॑वि॒तादे॒वो,अ॑श्रे॒ज्ज्योति॒र्विश्व॑स्मै॒भुव॑नायकृ॒ण्वन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

आप्रा॒द्यावा᳚पृथि॒वी,अ॒न्तरि॑क्षं॒विसूर्यो᳚र॒श्मिभि॒श्चेकि॑तानः॒(स्वाहा᳚) || 2 ||

ऊ॒र्ध्व‌म्¦के॒तु‌म्¦स॒वि॒ता¦दे॒वः¦अ॒श्रे॒त्¦ज्योतिः॑¦विश्व॑स्मै¦भुव॑नाय¦कृ॒ण्वन् |
आ¦अ॒प्राः॒¦द्यावा᳚पृथि॒वी इति॑¦अ॒न्तरि॑क्ष‌म्¦वि¦सूर्यः॑¦र॒श्मिऽभिः॑¦चेकि॑तानः ||

आ॒वह᳚न्त्यरु॒णीर्ज्योति॒षागा᳚न्म॒हीचि॒त्रार॒श्मिभि॒श्चेकि॑ताना |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

प्र॒बो॒धय᳚न्तीसुवि॒ताय॑दे॒व्यु१॑(उ॒)षा,ई᳚यतेसु॒युजा॒रथे᳚न॒(स्वाहा᳚) || 3 ||

आ॒ऽवह᳚न्ती¦अ॒रु॒णीः¦ज्योति॑षा¦आ¦अ॒गा॒त्¦म॒ही¦चि॒त्रा¦र॒श्मिऽभिः॑¦चेकि॑ताना |
प्र॒ऽबो॒धय᳚न्ती¦सु॒वि॒ताय॑¦दे॒वी¦उ॒षाः¦ई॒य॒ते॒¦सु॒ऽयुजा᳚¦रथे᳚न ||

आवां॒वहि॑ष्ठा,इ॒हतेव॑हन्तु॒रथा॒,अश्वा᳚सउ॒षसो॒व्यु॑ष्टौ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

इ॒मेहिवां᳚मधु॒पेया᳚य॒सोमा᳚,अ॒स्मिन्‌य॒ज्ञेवृ॑षणामादयेथा॒‌म्(स्वाहा᳚) || 4 ||

आ¦वा॒‌म्¦वहि॑ष्ठाः¦इ॒ह¦ते¦व॒ह॒न्तु॒¦रथाः᳚¦अश्वा᳚सः¦उ॒षसः॑¦वि।औ᳚ष्टौ |
इ॒मे¦हि¦वा॒‌म्¦म॒धु॒ऽपेया᳚य¦सोमाः᳚¦अ॒स्मिन्¦य॒ज्ञे¦वृ॒ष॒णा॒¦मा॒द॒ये॒था॒‌म् ||

अना᳚यतो॒,अनि॑बद्धःक॒थायंन्य᳚ङ्ङुत्ता॒नोऽव॑पद्यते॒न |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

कया᳚यातिस्व॒धया॒कोद॑दर्शदि॒वःस्क॒म्भःसमृ॑तःपाति॒नाक॒‌म्(स्वाहा᳚) || 5 ||

अना᳚यतः¦अनि॑ऽबद्धः¦क॒था¦अ॒य‌म्¦न्य᳚ङ्¦उ॒त्ता॒नः¦अव॑¦प॒द्य॒ते॒¦न |
कया᳚¦या॒ति॒¦स्व॒धया᳚¦कः¦द॒द॒र्श॒¦दि॒वः¦स्क॒म्भः¦स‌म्ऽऋ॑तः¦पा॒ति॒¦नाक᳚‌म् ||

[15] अग्निहोतेति दशर्चस्य सूक्तस्य गौतमोवामदेवोग्निः सप्तम्यष्टम्योःसाहदेव्यःसोमकः अंत्ययोरश्विनौगायत्री |{मंडल:4, सूक्त:15}{अनुवाक:2, सूक्त:5}{अष्टक:3, अध्याय:5}
अ॒ग्निर्होता᳚नो,अध्व॒रेवा॒जीसन्‌परि॑णीयते |{गौतमो वामदेवः | अग्निः | गायत्री}

दे॒वोदे॒वेषु॑य॒ज्ञियः॒(स्वाहा᳚) || 1 || वर्ग:15

अ॒ग्निः¦होता᳚¦नः॒¦अ॒ध्व॒रे¦वा॒जी¦सन्¦परि॑¦नी॒य॒ते॒ | दे॒वः¦दे॒वेषु॑¦य॒ज्ञियः॑ ||

परि॑त्रिवि॒ष्ट्य॑ध्व॒रंयात्य॒ग्नीर॒थीरि॑व |{गौतमो वामदेवः | अग्निः | गायत्री}

आदे॒वेषु॒प्रयो॒दध॒॑‌त्(स्वाहा᳚) || 2 ||

परि॑¦त्रि॒ऽवि॒ष्टि¦अ॒ध्व॒र‌म्¦याति॑¦अ॒ग्निः¦र॒थीःऽ‌इ᳚व | आ¦दे॒वेषु॑¦प्रयः॑¦दध॑त् ||

परि॒वाज॑पतिःक॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् |{गौतमो वामदेवः | अग्निः | गायत्री}

दध॒द्रत्ना᳚निदा॒शुषे॒(स्वाहा᳚) || 3 ||

परि॑¦वाज॑ऽपतिः¦क॒विः¦अ॒ग्निः¦ह॒व्यानि॑¦अ॒क्र॒मी॒त् | दध॑त्¦रत्ना᳚नि¦दा॒शुषे᳚ ||

अ॒यंयःसृञ्ज॑येपु॒रोदै᳚ववा॒तेस॑मि॒ध्यते᳚ |{गौतमो वामदेवः | अग्निः | गायत्री}

द्यु॒माँ,अ॑मित्र॒दम्भ॑नः॒(स्वाहा᳚) || 4 ||

अ॒य‌म्¦यः¦सृंज॑ये¦पु॒रः¦दै॒व॒ऽवा॒ते¦स॒‌म्ऽ‌इ॒ध्यते᳚ | द्यु॒ऽमान्¦अ॒मि॒त्र॒ऽदम्भ॑नः ||

अस्य॑घावी॒रईव॑तो॒ऽग्नेरी᳚शीत॒मर्त्यः॑ |{गौतमो वामदेवः | अग्निः | गायत्री}

ति॒ग्मज᳚म्भस्यमी॒ळ्हुषः॒(स्वाहा᳚) || 5 ||

अस्य॑¦घ॒¦वी॒रः¦ईव॑तः¦अ॒ग्नेः¦ई॒शी॒त॒¦मर्त्यः॑ | ति॒ग्मऽज᳚म्भस्य¦मी॒ळ्हुषः॑ ||

तमर्व᳚न्तं॒नसा᳚न॒सिम॑रु॒षंनदि॒वःशिशु᳚म् |{गौतमो वामदेवः | अग्निः | गायत्री}

म॒र्मृ॒ज्यन्ते᳚दि॒वेदि॑वे॒(स्वाहा᳚) || 6 || वर्ग:16

त‌म्¦अर्व᳚न्त‌म्¦न¦सा॒न॒सि‌म्¦अ॒रु॒ष‌म्¦न¦दि॒वः¦शिशु᳚‌म् | म॒र्मृ॒ज्यन्ते᳚¦दि॒वेऽदि॑वे ||

बोध॒द्यन्मा॒हरि॑भ्यांकुमा॒रःसा᳚हदे॒व्यः |{गौतमो वामदेवः | साहदेव्यः सोमकः | गायत्री}

अच्छा॒नहू॒तउद॑र॒‌म्(स्वाहा᳚) || 7 ||

बोध॑त्¦यत्¦मा॒¦हरि॑ऽभ्या‌म्¦कु॒मा॒रः¦सा॒ह॒ऽदे॒व्यः | अच्छ॑¦न¦हू॒तः¦उत्¦अ॒र॒‌म् ||

उ॒तत्याय॑ज॒ताहरी᳚कुमा॒रात्‌सा᳚हदे॒व्यात् |{गौतमो वामदेवः | साहदेव्यः सोमकः | गायत्री}

प्रय॑तास॒द्यआद॑दे॒(स्वाहा᳚) || 8 ||

उ॒त¦त्या¦य॒ज॒ता¦हरी॒ इति॑¦कु॒मा॒रात्¦सा॒ह॒ऽदे॒व्यात् | प्रऽय॑ता¦स॒द्यः¦आ¦द॒दे॒ ||

ए॒षवां᳚देवावश्विनाकुमा॒रःसा᳚हदे॒व्यः |{गौतमो वामदेवः | अश्विनौ | गायत्री}

दी॒र्घायु॑रस्तु॒सोम॑कः॒(स्वाहा᳚) || 9 ||

ए॒षः¦वा॒‌म्¦दे॒वौ॒¦अ॒श्वि॒ना॒¦कु॒मा॒रः¦सा॒ह॒ऽदे॒व्यः | दी॒र्घऽआ᳚युः¦अ॒स्तु॒¦सोम॑कः ||

तंयु॒वंदे᳚वावश्विनाकुमा॒रंसा᳚हदे॒व्यम् |{गौतमो वामदेवः | अश्विनौ | गायत्री}

दी॒र्घायु॑षंकृणोतन॒(स्वाहा᳚) || 10 ||

त‌म्¦यु॒व‌म्¦दे॒वौ॒¦अ॒श्वि॒ना॒¦कु॒मा॒र‌म्¦सा॒ह॒ऽदे॒व्य‌म् | दी॒र्घऽआ᳚युष‌म्¦कृ॒णो॒त॒न॒ ||

[16] आसत्योयात्वित्येकविंशत्यृचस्य सूक्तस्य गौतमोवामदेवइंद्रस्त्रिष्टुप् |{मंडल:4, सूक्त:16}{अनुवाक:2, सूक्त:6}{अष्टक:3, अध्याय:5}
आस॒त्योया᳚तुम॒घवाँ᳚,ऋजी॒षीद्रव᳚न्त्वस्य॒हर॑य॒उप॑नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

तस्मा॒,इदन्धः॑सुषुमासु॒दक्ष॑मि॒हाभि॑पि॒त्वंक॑रतेगृणा॒नः(स्वाहा᳚) || 1 || वर्ग:17

आ¦स॒त्यः¦या॒तु॒¦म॒घऽवा᳚न्¦ऋ॒जी॒षी¦द्रव᳚न्तु¦अ॒स्य॒¦हर॑यः¦उप॑¦नः॒ |
तस्मै᳚¦इत्¦अन्धः॑¦सु॒सु॒म॒¦सु॒ऽदक्ष᳚‌म्¦इ॒ह¦अ॒भि॒ऽपि॒त्व‌म्¦क॒र॒ते॒¦गृ॒णा॒नः ||

अव॑स्यशू॒राध्व॑नो॒नान्ते॒ऽस्मिन्‌नो᳚,अ॒द्यसव॑नेम॒न्दध्यै᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

शंसा᳚त्यु॒क्थमु॒शने᳚ववे॒धाश्चि॑कि॒तुषे᳚,असु॒र्या᳚य॒मन्म॒(स्वाहा᳚) || 2 ||

अव॑¦स्य॒¦शू॒र॒¦अध्व॑नः¦न¦अन्ते᳚¦अ॒स्मिन्¦नः॒¦अ॒द्य¦सव॑ने¦म॒न्दध्यै᳚ |
शंसा᳚ति¦उ॒क्थ‌म्¦उ॒शना᳚ऽ‌इव¦वे॒धाः¦चि॒कि॒तुषे᳚¦अ॒सु॒र्या᳚य¦मन्म॑ ||

क॒विर्ननि॒ण्यंवि॒दथा᳚नि॒साध॒न्वृषा॒यत्‌सेकं᳚विपिपा॒नो,अर्चा᳚त् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

दि॒वइ॒त्थाजी᳚जनत्‌स॒प्तका॒रूनह्ना᳚चिच्चक्रुर्व॒युना᳚गृ॒णन्तः॒(स्वाहा᳚) || 3 ||

क॒विः¦न¦नि॒ण्य‌म्¦वि॒दथा᳚नि¦साध॑न्¦वृषा᳚¦यत्¦सेक᳚‌म्¦वि॒ऽपि॒पा॒नः¦अर्चा᳚त् |
दि॒वः¦इ॒त्था¦जी॒ज॒न॒त्¦स॒प्त¦का॒रून्¦अह्ना᳚¦चि॒त्¦च॒क्रुः॒¦व॒युना᳚¦गृ॒णन्तः॑ ||

स्व१॑(अ॒)र्यद्‌वेदि॑सु॒दृशी᳚कम॒र्कैर्महि॒ज्योती᳚रुरुचु॒र्यद्ध॒वस्तोः᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अ॒न्धातमां᳚सि॒दुधि॑तावि॒चक्षे॒नृभ्य॑श्चकार॒नृत॑मो,अ॒भिष्टौ॒(स्वाहा᳚) || 4 ||

स्वः॑¦यत्¦वेदि॑¦सु॒ऽदृशी᳚क‌म्¦अ॒र्कैः¦महि॑¦ज्योतिः॑¦रु॒रु॒चुः॒¦यत्¦ह॒¦वस्तोः᳚ |
अ॒न्धा¦तमां᳚सि¦दुधि॑ता¦वि॒ऽचक्षे᳚¦नृऽभ्यः॑¦च॒का॒र॒¦नृऽत॑मः¦अ॒भिष्टौ᳚ ||

व॒व॒क्षइन्द्रो॒,अमि॑तमृजी॒ष्यु१॑(उ॒)भे,आप॑प्रौ॒रोद॑सीमहि॒त्वा |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अत॑श्चिदस्यमहि॒माविरे᳚च्य॒भियोविश्वा॒भुव॑नाब॒भूव॒(स्वाहा᳚) || 5 ||

व॒व॒क्षे¦इन्द्रः॑¦अमि॑त‌म्¦ऋ॒जी॒षी¦उ॒भे इति॑¦आ¦प॒प्रौ॒¦रोद॑सी॒ इति॑¦म॒हि॒ऽत्वा |
अतः॑¦चि॒त्¦अ॒स्य॒¦म॒हि॒मा¦वि¦रे॒चि॒¦अ॒भि¦यः¦विश्वा᳚¦भुव॑ना¦ब॒भूव॑ ||

विश्वा᳚निश॒क्रोनर्या᳚णिवि॒द्वान॒पोरि॑रेच॒सखि॑भि॒र्निका᳚मैः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अश्मा᳚नंचि॒द्येबि॑भि॒दुर्वचो᳚भिर्व्र॒जंगोम᳚न्तमु॒शिजो॒विव᳚व्रुः॒(स्वाहा᳚) || 6 || वर्ग:18

विश्वा᳚नि¦श॒क्रः¦नर्या᳚णि¦वि॒द्वान्¦अ॒पः¦रि॒रे॒च॒¦सखि॑ऽभिः¦निऽका᳚मैः |
अश्मा᳚न‌म्¦चि॒त्¦ये¦बि॒भि॒दुः¦वचः॑ऽभिः¦व्र॒ज‌म्¦गोऽम᳚न्त‌म्¦उ॒शिजः॑¦वि¦व॒व्रु॒रिति॑ वव्रुः ||

अ॒पोवृ॒त्रंव᳚व्रि॒वांसं॒परा᳚ह॒न्प्राव॑त्ते॒वज्रं᳚पृथि॒वीसचे᳚ताः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

प्रार्णां᳚सिसमु॒द्रिया᳚ण्यैनोः॒पति॒र्भव॒ञ्छव॑साशूरधृष्णो॒(स्वाहा᳚) || 7 ||

अ॒पः¦वृ॒त्र‌म्¦व॒व्रि॒ऽवांस᳚‌म्¦परा᳚¦अ॒ह॒न्¦प्र¦आ॒व॒त्¦ते॒¦वज्र᳚‌म्¦पृ॒थि॒वी¦सऽचे᳚ताः |
प्र¦अर्णां᳚सि¦स॒मु॒द्रिया᳚णि¦ऐ॒नोः॒¦पतिः॑¦भव॑न्¦शव॑सा¦शू॒र॒¦धृ॒ष्णो॒ इति॑ ||

अ॒पोयदद्रिं᳚पुरुहूत॒दर्द॑रा॒विर्भु॑वत्‌स॒रमा᳚पू॒र्व्यंते᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

सनो᳚ने॒तावाज॒माद॑र्षि॒भूरिं᳚गो॒त्रारु॒जन्नङ्गि॑रोभिर्गृणा॒नः(स्वाहा᳚) || 8 ||

अ॒पः¦यत्¦अद्रि᳚‌म्¦पु॒रु॒ऽहू॒त॒¦दर्दः॑¦आ॒विः¦भु॒व॒त्¦स॒रमा᳚¦पू॒र्व्य‌म्¦ते॒ |
सः¦नः॒¦ने॒ता¦वाज᳚‌म्¦आ¦द॒र्षि॒¦भूरि᳚‌म्¦गो॒त्रा¦रु॒जन्¦अङ्गि॑रःऽभिः¦गृ॒णा॒नः ||

अच्छा᳚क॒विंनृ॑मणोगा,अ॒भिष्टौ॒स्व॑र्षातामघव॒न्नाध॑मानम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ऊ॒तिभि॒स्तमि॑षणोद्यु॒म्नहू᳚तौ॒निमा॒यावा॒नब्र᳚ह्मा॒दस्यु॑रर्त॒(स्वाहा᳚) || 9 ||

अच्छ॑¦क॒वि‌म्¦नृ॒ऽम॒नः॒¦गाः॒¦अ॒भिष्टौ᳚¦स्वः॑ऽसाता¦म॒घ॒ऽव॒न्¦नाध॑मान‌म् |
ऊ॒तिऽभिः॑¦त‌म्¦इ॒ष॒णः॒¦द्यु॒म्नऽहू᳚तौ¦नि¦मा॒याऽवा᳚न्¦अब्र᳚ह्मा¦दस्युः॑¦अ॒र्त॒ ||

आद॑स्यु॒घ्नामन॑साया॒ह्यस्तं॒भुव॑त्ते॒कुत्सः॑स॒ख्येनिका᳚मः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स्वेयोनौ॒निष॑दतं॒सरू᳚पा॒विवां᳚चिकित्सदृत॒चिद्ध॒नारी॒(स्वाहा᳚) || 10 ||

आ¦द॒स्यु॒ऽघ्ना¦मन॑सा¦या॒हि॒¦अस्त᳚‌म्¦भुव॑त्¦ते॒¦कुत्सः॑¦स॒ख्ये¦निऽका᳚मः |
स्वे¦योनौ᳚¦नि¦स॒द॒त॒‌म्¦सऽरू᳚पा¦वि¦वा॒‌म्¦चि॒कि॒त्स॒त्¦ऋ॒त॒ऽचित्¦ह॒¦नारी᳚ ||

यासि॒कुत्से᳚नस॒रथ॑मव॒स्युस्तो॒दोवात॑स्य॒हर्यो॒रीशा᳚नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ऋ॒ज्रावाजं॒नगध्यं॒युयू᳚षन्क॒विर्यदह॒न्‌पार्या᳚य॒भूषा॒‌त्(स्वाहा᳚) || 11 || वर्ग:19

यासि॑¦कुत्से᳚न¦स॒ऽरथ᳚‌म्¦अ॒व॒स्युः¦तो॒दः¦वात॑स्य¦हर्योः᳚¦ईशा᳚नः |
ऋ॒ज्रा¦वाज᳚‌म्¦न¦गध्य᳚‌म्¦युयू᳚षन्¦क॒विः¦यत्¦अह॑न्¦पार्या᳚य¦भूषा᳚त् ||

कुत्सा᳚य॒शुष्ण॑म॒शुषं॒निब᳚र्हीःप्रपि॒त्वे,अह्नः॒कुय॑वंस॒हस्रा᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स॒द्योदस्यू॒न्‌प्रमृ॑णकु॒त्स्येन॒प्रसूर॑श्च॒क्रंवृ॑हताद॒भीके॒(स्वाहा᳚) || 12 ||

कुत्सा᳚य¦शुष्ण᳚‌म्¦अ॒शुष᳚‌म्¦नि¦ब॒र्हीः॒¦प्र॒ऽपि॒त्वे¦अह्नः॑¦कुय॑व‌म्¦स॒हस्रा᳚ |
स॒द्यः¦दस्यू᳚न्¦प्र¦मृ॒ण॒¦कु॒त्स्येन॑¦प्र¦सूरः॑¦च॒क्र‌म्¦वृ॒ह॒ता॒त्¦अ॒भीके᳚ ||

त्वंपिप्रुं॒मृग॑यंशूशु॒वांस॑मृ॒जिश्व॑नेवैदथि॒नाय॑रन्धीः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

प॒ञ्चा॒शत्‌कृ॒ष्णानिव॑पःस॒हस्राऽत्कं॒नपुरो᳚जरि॒माविद॑र्दः॒(स्वाहा᳚) || 13 ||

त्व‌म्¦पिप्रु᳚‌म्¦मृग॑य‌म्¦शू॒शु॒ऽवांस᳚‌म्¦ऋ॒जिश्व॑ने¦वै॒द॒थि॒नाय॑¦र॒न्धीः॒ |
पं॒चा॒शत्¦कृ॒ष्णा¦नि¦व॒पः॒¦स॒हस्रा᳚¦अत्क᳚‌म्¦न¦पुरः॑¦ज॒रि॒मा¦वि¦द॒र्द॒रिति॑ दर्दः ||

सूर॑उपा॒केत॒न्व१॑(अं॒)दधा᳚नो॒वियत्ते॒चेत्य॒मृत॑स्य॒वर्पः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

मृ॒गोनह॒स्तीतवि॑षीमुषा॒णःसिं॒होनभी॒मआयु॑धानि॒बिभ्र॒॑‌त्(स्वाहा᳚) || 14 ||

सूरः॑¦उ॒पा॒के¦त॒न्व᳚‌म्¦दधा᳚नः¦वि¦यत्¦ते॒¦चेति॑¦अ॒मृत॑स्य¦वर्पः॑ |
मृ॒गः¦न¦ह॒स्ती¦तवि॑षी‌म्¦उ॒षा॒णः¦सिं॒हः¦न¦भी॒मः¦आयु॑धानि¦बिभ्र॑त् ||

इन्द्रं॒कामा᳚वसू॒यन्तो᳚,अग्म॒न्त्स्व᳚र्मीळ्हे॒नसव॑नेचका॒नाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

श्र॒व॒स्यवः॑शशमा॒नास॑उ॒क्थैरोको॒नर॒ण्वासु॒दृशी᳚वपु॒ष्टिः(स्वाहा᳚) || 15 ||

इन्द्र᳚‌म्¦कामाः᳚¦व॒सु॒ऽयन्तः॑¦अ॒ग्म॒न्¦स्वः॑ऽमीळ्हे¦न¦सव॑ने¦च॒का॒नाः |
श्र॒व॒स्यवः॑¦श॒श॒मा॒नासः॑¦उ॒क्थैः¦ओकः॑¦न¦र॒ण्वा¦सु॒दृशी᳚ऽ‌इव¦पु॒ष्टिः ||

तमिद्‌व॒इन्द्रं᳚सु॒हवं᳚हुवेम॒यस्ताच॒कार॒नर्या᳚पु॒रूणि॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

योमाव॑तेजरि॒त्रेगध्यं᳚चिन्म॒क्षूवाजं॒भर॑तिस्पा॒र्हरा᳚धाः॒(स्वाहा᳚) || 16 || वर्ग:20

त‌म्¦इत्¦वः॒¦इन्द्र᳚‌म्¦सु॒ऽहव᳚‌म्¦हु॒वे॒म॒¦यः¦ता¦च॒कार॑¦नर्या᳚¦पु॒रूणि॑ |
यः¦माऽव॑ते¦ज॒रि॒त्रे¦गध्य᳚‌म्¦चि॒त्¦म॒क्षु¦वाज᳚‌म्¦भर॑ति¦स्पा॒र्हऽरा᳚धाः ||

ति॒ग्मायद॒न्तर॒शनिः॒पता᳚ति॒कस्मि᳚ञ्चिच्छूरमुहु॒केजना᳚नाम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

घो॒रायद᳚र्य॒समृ॑ति॒र्भवा॒त्यध॑स्मानस्त॒न्वो᳚बोधिगो॒पाः(स्वाहा᳚) || 17 ||

ति॒ग्मा¦यत्¦अ॒न्तः¦अ॒शनिः॑¦पता᳚ति¦कस्मि॑न्¦चि॒त्¦शू॒र॒¦मु॒हु॒के¦जना᳚ना‌म् |
घो॒रा¦यत्¦अ॒र्य॒¦स‌म्ऽऋ॑तिः¦भवा᳚ति¦अध॑¦स्म॒¦नः॒¦त॒न्वः॑¦बो॒धि॒¦गो॒पाः ||

भुवो᳚ऽवि॒तावा॒मदे᳚वस्यधी॒नांभुवः॒सखा᳚वृ॒कोवाज॑सातौ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

त्वामनु॒प्रम॑ति॒माज॑गन्मोरु॒शंसो᳚जरि॒त्रेवि॒श्वध॑स्याः॒(स्वाहा᳚) || 18 ||

भुवः॑¦अ॒वि॒ता¦वा॒मऽदे᳚वस्य¦धी॒ना‌म्¦भुवः॑¦सखा᳚¦अ॒वृ॒कः¦वाज॑ऽसातौ |
त्वा‌म्¦अनु॑¦प्रऽम॑ति‌म्¦आ¦ज॒ग॒न्म॒¦उ॒रु॒ऽशंसः॑¦ज॒रि॒त्रे¦वि॒श्वध॑¦स्याः॒ ||

ए॒भिर्नृभि॑रिन्द्रत्वा॒युभि॑ष्ट्वाम॒घव॑द्भिर्मघव॒न्‌विश्व॑आ॒जौ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

द्यावो॒नद्यु॒म्नैर॒भिसन्तो᳚,अ॒र्यः,क्ष॒पोम॑देमश॒रद॑श्चपू॒र्वीः(स्वाहा᳚) || 19 ||

ए॒भिः¦नृऽभिः॑¦इ॒न्द्र॒¦त्वा॒युऽभिः॑¦त्वा॒¦म॒घव॑त्ऽभिः¦म॒घ॒ऽव॒न्¦विश्वे᳚¦आ॒जौ |
द्यावः॑¦न¦द्यु॒म्नैः¦अ॒भि¦सन्तः॑¦अ॒र्यः¦क्ष॒पः¦म॒दे॒म॒¦श॒रदः॑¦च॒¦पू॒र्वीः ||

ए॒वेदिन्द्रा᳚यवृष॒भाय॒वृष्णे॒ब्रह्मा᳚कर्म॒भृग॑वो॒नरथ᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

नूचि॒द्‌यथा᳚नःस॒ख्यावि॒योष॒दस᳚न्नउ॒ग्रो᳚ऽवि॒तात॑नू॒पाः(स्वाहा᳚) || 20 ||

ए॒व¦इत्¦इन्द्रा᳚य¦वृ॒ष॒भाय॑¦वृष्णे᳚¦ब्रह्म॑¦अ॒क॒र्म॒¦भृग॑वः¦न¦रथ᳚‌म् |
नु¦चि॒त्¦यथा᳚¦नः॒¦स॒ख्या¦वि॒ऽयोष॑त्¦अस॑त्¦नः॒¦उ॒ग्रः¦अ॒वि॒ता¦त॒नू॒ऽपाः ||

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒नइषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः(स्वाहा᳚) || 21 ||

नु¦स्तु॒तः¦इ॒न्द्र॒¦नु¦गृ॒णा॒नः¦इष᳚‌म्¦ज॒रि॒त्रे¦न॒द्यः॑¦न¦पी॒पे॒रिति॑ पीपेः |
अका᳚रि¦ते॒¦ह॒रि॒ऽवः॒¦ब्रह्म॑¦नव्य᳚‌म्¦धि॒या¦स्या॒म॒¦र॒थ्यः॑¦स॒दा॒ऽसाः ||

[17] त्वंमहानित्येकविंशत्यृचस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् असिक्न्यामित्येकपदाविराट् |{मंडल:4, सूक्त:17}{अनुवाक:2, सूक्त:7}{अष्टक:3, अध्याय:5}
त्वंम॒हाँ,इ᳚न्द्र॒तुभ्यं᳚ह॒क्षा,अनु॑क्ष॒त्रंमं॒हना᳚मन्यत॒द्यौः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

त्वंवृ॒त्रंशव॑साजघ॒न्वान्त्सृ॒जःसिन्धूँ॒रहि॑नाजग्रसा॒नान्(स्वाहा᳚) || 1 || वर्ग:21

त्व‌म्¦म॒हान्¦इ॒न्द्र॒¦तुभ्य᳚‌म्¦ह॒¦क्षाः¦अनु॑¦क्ष॒त्र‌म्¦मं॒हना᳚¦म॒न्य॒त॒¦द्यौः |
त्व‌म्¦वृ॒त्र‌म्¦शव॑सा¦ज॒घ॒न्वान्¦सृ॒जः¦सिन्धू᳚न्¦अहि॑ना¦ज॒ग्र॒सा॒नान् ||

तव॑त्वि॒षोजनि॑मन्‌रेजत॒द्यौरेज॒द्‌भूमि॑र्भि॒यसा॒स्वस्य॑म॒न्योः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ऋ॒घा॒यन्त॑सु॒भ्व१॑(अः॒)पर्व॑तास॒आर्द॒न्‌धन्वा᳚निस॒रय᳚न्त॒आपः॒(स्वाहा᳚) || 2 ||

तव॑¦त्वि॒षः¦जनि॑मन्¦रे॒ज॒त॒¦द्यौः¦रेज॑त्¦भूमिः॑¦भि॒यसा᳚¦स्वस्य॑¦म॒न्योः |
ऋ॒घा॒यन्त॑¦सु॒ऽभ्वः॑¦पर्व॑तासः¦आर्द॑न्¦धन्वा᳚नि¦स॒रय᳚न्ते¦आपः॑ ||

भि॒नद्‌गि॒रिंशव॑सा॒वज्र॑मि॒ष्णन्ना᳚विष्कृण्वा॒नःस॑हसा॒नओजः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

वधी᳚द्‌वृ॒त्रंवज्रे᳚णमन्दसा॒नःसर॒न्नापो॒जव॑साह॒तवृ॑ष्णीः॒(स्वाहा᳚) || 3 ||

भि॒नत्¦गि॒रि‌म्¦शव॑सा¦वज्र᳚‌म्¦इ॒ष्णन्¦आ॒विः॒ऽकृ॒ण्वा॒नः¦स॒ह॒सा॒नः¦ओजः॑ |
वधी᳚त्¦वृ॒त्र‌म्¦वज्रे᳚ण¦म॒न्द॒सा॒नः¦सर॑न्¦आपः॑¦जव॑सा¦ह॒तऽवृ॑ष्णीः ||

सु॒वीर॑स्तेजनि॒ताम᳚न्यत॒द्यौरिन्द्र॑स्यक॒र्तास्वप॑स्तमोभूत् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

यईं᳚ज॒जान॑स्व॒र्यं᳚सु॒वज्र॒मन॑पच्युतं॒सद॑सो॒नभूम॒(स्वाहा᳚) || 4 ||

सु॒ऽवीरः॑¦ते॒¦ज॒नि॒ता¦म॒न्य॒त॒¦द्यौः¦इन्द्र॑स्य¦क॒र्ता¦स्वपः॑ऽतमः¦भू॒त् |
यः¦ई॒‌म्¦ज॒जान॑¦स्व॒र्य᳚‌म्¦सु॒ऽवज्र᳚‌म्¦अन॑पऽच्युत‌म्¦सद॑सः¦न¦भूम॑ ||

यएक॑इच्च्या॒वय॑ति॒प्रभूमा॒राजा᳚कृष्टी॒नांपु॑रुहू॒तइन्द्रः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स॒त्यमे᳚न॒मनु॒विश्वे᳚मदन्तिरा॒तिंदे॒वस्य॑गृण॒तोम॒घोनः॒(स्वाहा᳚) || 5 ||

यः¦एकः॑¦इत्¦च्य॒वय॑ति¦प्र¦भूम॑¦राजा᳚¦कृ॒ष्टी॒ना‌म्¦पु॒रु॒ऽहू॒तः¦इन्द्रः॑ |
स॒त्य‌म्¦ए॒न॒‌म्¦अनु॑¦विश्वे᳚¦म॒द॒न्ति॒¦रा॒ति‌म्¦दे॒वस्य॑¦गृ॒ण॒तः¦म॒घोनः॑ ||

स॒त्रासोमा᳚,अभवन्नस्य॒विश्वे᳚स॒त्रामदा᳚सोबृह॒तोमदि॑ष्ठाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स॒त्राभ॑वो॒वसु॑पति॒र्वसू᳚नां॒दत्रे॒विश्वा᳚,अधिथा,इन्द्रकृ॒ष्टीः(स्वाहा᳚) || 6 || वर्ग:22

स॒त्रा¦सोमाः᳚¦अ॒भ॒व॒न्¦अ॒स्य॒¦विश्वे᳚¦स॒त्रा¦मदा᳚सः¦बृ॒ह॒तः¦मदि॑ष्ठाः |
स॒त्रा¦अ॒भ॒वः॒¦वसु॑ऽपतिः¦वसू᳚ना‌म्¦दत्रे᳚¦विश्वाः᳚¦अ॒धि॒थाः॒¦इ॒न्द्र॒¦कृ॒ष्टीः ||

त्वमध॑प्रथ॒मंजाय॑मा॒नोऽमे॒विश्वा᳚,अधिथा,इन्द्रकृ॒ष्टीः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

त्वंप्रति॑प्र॒वत॑आ॒शया᳚न॒महिं॒वज्रे᳚णमघव॒न्‌विवृ॑श्चः॒(स्वाहा᳚) || 7 ||

त्व‌म्¦अध॑¦प्र॒थ॒म‌म्¦जाय॑मानः¦अमे᳚¦विश्वाः᳚¦अ॒धि॒थाः॒¦इ॒न्द्र॒¦कृ॒ष्टीः |
त्व‌म्¦प्रति॑¦प्र॒ऽवतः॑¦आ॒ऽशया᳚न‌म्¦अहि᳚‌म्¦वज्रे᳚ण¦म॒घ॒ऽव॒न्¦वि¦वृ॒श्चः॒ ||

स॒त्रा॒हणं॒दाधृ॑षिं॒तुम्र॒मिन्द्रं᳚म॒हाम॑पा॒रंवृ॑ष॒भंसु॒वज्र᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

हन्ता॒योवृ॒त्रंसनि॑तो॒तवाजं॒दाता᳚म॒घानि॑म॒घवा᳚सु॒राधाः᳚(स्वाहा᳚) || 8 ||

स॒त्रा॒ऽहन॑न्¦दधृ॑षि‌म्¦तुम्र᳚‌म्¦इन्द्र᳚‌म्¦म॒हा‌म्¦अ॒पा॒र‌म्¦वृ॒ष॒भ‌म्¦सु॒ऽवज्र᳚‌म् |
हन्ता᳚¦यः¦वृ॒त्र‌म्¦सनि॑ता¦उ॒त¦वाज᳚‌म्¦दाता᳚¦म॒घानि॑¦म॒घऽवा᳚¦सु॒ऽराधाः᳚ ||

अ॒यंवृत॑श्चातयतेसमी॒चीर्यआ॒जिषु॑म॒घवा᳚शृ॒ण्वएकः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अ॒यंवाजं᳚भरति॒यंस॒नोत्य॒स्यप्रि॒यासः॑स॒ख्येस्या᳚म॒(स्वाहा᳚) || 9 ||

अ॒य‌म्¦वृतः॑¦चा॒त॒य॒ते॒¦स॒‌म्ऽई॒चीः¦यः¦आ॒जिषु॑¦म॒घऽवा᳚¦शृ॒ण्वे¦एकः॑ |
अ॒य‌म्¦वाज᳚‌म्¦भ॒र॒ति॒¦य‌म्¦स॒नोति॑¦अ॒स्य¦प्रि॒यासः॑¦स॒ख्ये¦स्या॒म॒ ||

अ॒यंशृ᳚ण्वे॒,अध॒जय᳚न्नु॒तघ्नन्न॒यमु॒तप्रकृ॑णुतेयु॒धागाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

य॒दास॒त्यंकृ॑णु॒तेम॒न्युमिन्द्रो॒विश्वं᳚दृ॒ळ्हंभ॑यत॒एज॑दस्मा॒‌त्(स्वाहा᳚) || 10 ||

अ॒य‌म्¦शृ॒ण्वे॒¦अध॑¦जय॑न्¦उ॒त¦घ्नन्¦अ॒य‌म्¦उ॒त¦प्र¦कृ॒णु॒ते॒¦यु॒धा¦गाः |
य॒दा¦स॒त्य‌म्¦कृ॒णु॒ते¦म॒न्यु‌म्¦इन्द्रः॑¦विश्व᳚‌म्¦दृ॒ळ्ह‌म्¦भ॒य॒ते॒¦एज॑त्¦अ॒स्मा॒त् ||

समिन्द्रो॒गा,अ॑जय॒त्‌संहिर᳚ण्या॒सम॑श्वि॒याम॒घवा॒योह॑पू॒र्वीः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ए॒भिर्नृभि॒र्नृत॑मो,अस्यशा॒कैरा॒योवि॑भ॒क्तास᳚म्भ॒रश्च॒वस्वः॒(स्वाहा᳚) || 11 || वर्ग:23

स‌म्¦इन्द्रः॑¦गाः¦अ॒ज॒य॒त्¦स‌म्¦हिर᳚ण्या¦स‌म्¦अ॒श्वि॒या¦म॒घऽवा᳚¦यः¦ह॒¦पू॒र्वीः |
ए॒भिः¦नृऽभिः॑¦नृऽत॑मः¦अ॒स्य॒¦शा॒कैः¦रा॒यः¦वि॒ऽभ॒क्ता¦स॒‌म्ऽभ॒रः¦च॒¦वस्वः॑ ||

किय॑त्‌स्वि॒दिन्द्रो॒,अध्ये᳚तिमा॒तुःकिय॑त्‌पि॒तुर्ज॑नि॒तुर्योज॒जान॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

यो,अ॑स्य॒शुष्मं᳚मुहु॒कैरिय॑र्ति॒वातो॒नजू॒तःस्त॒नय॑द्भिर॒भ्रैः(स्वाहा᳚) || 12 ||

किय॑त्¦स्वि॒त्¦इन्द्रः॑¦अधि॑¦ए॒ति॒¦मा॒तुः¦किय॑त्¦पि॒तुः¦ज॒नि॒तुः¦यः¦ज॒जान॑ |
यः¦अ॒स्य॒¦शुष्म᳚‌म्¦मु॒हु॒कैः¦इय॑र्ति¦वातः॑¦न¦जू॒तः¦स्त॒नय॑त्ऽभिः¦अ॒भ्रैः ||

क्षि॒यन्तं᳚त्व॒मक्षि॑यन्तंकृणो॒तीय॑र्तिरे॒णुंम॒घवा᳚स॒मोह᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

वि॒भ॒ञ्ज॒नुर॒शनि॑माँ,इव॒द्यौरु॒तस्तो॒तारं᳚म॒घवा॒वसौ᳚धा॒‌त्(स्वाहा᳚) || 13 ||

क्षि॒यन्त᳚‌म्¦त्व॒‌म्¦अक्षि॑यन्त‌म्¦कृ॒णो॒ति॒¦इय॑र्ति¦रे॒णु‌म्¦म॒घऽवा᳚¦स॒‌म्ऽओह᳚‌म् |
वि॒ऽभं॒ज॒नुः¦अ॒शनि॑मान्ऽ‌इव¦द्यौः¦उ॒त¦स्तो॒तार᳚‌म्¦म॒घऽवा᳚¦वसौ᳚¦धा॒त् ||

अ॒यंच॒क्रमि॑षण॒त्‌सूर्य॑स्य॒न्येत॑शंरीरमत्‌ससृमा॒णम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

आकृ॒ष्णईं᳚जुहुरा॒णोजि॑घर्तित्व॒चोबु॒ध्नेरज॑सो,अ॒स्ययोनौ॒(स्वाहा᳚) || 14 ||

अ॒य‌म्¦च॒क्र‌म्¦इ॒ष॒ण॒त्¦सूर्य॑स्य¦नि¦एत॑श‌म्¦री॒र॒म॒त्¦स॒सृ॒मा॒ण‌म् |
आ¦कृ॒ष्णः¦ई॒‌म्¦जु॒हु॒रा॒णः¦जि॒घ॒र्ति॒¦त्व॒चः¦बु॒ध्ने¦रज॑सः¦अ॒स्य¦योनौ᳚ ||

असि॑क्न्यां॒यज॑मानो॒नहोता॒(स्वाहा᳚) || {गौतमो वामदेवः | इन्द्रः | एकपदा विराट्}15 ||

असि॑क्न्या‌म्¦यज॑मानः¦न¦होता᳚ ||

ग॒व्यन्त॒इन्द्रं᳚स॒ख्याय॒विप्रा᳚,अश्वा॒यन्तो॒वृष॑णंवा॒जय᳚न्तः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ज॒नी॒यन्तो᳚जनि॒दामक्षि॑तोति॒माच्या᳚वयामोऽव॒तेनकोश॒‌म्(स्वाहा᳚) || 16 || वर्ग:24

ग॒व्यन्तः॑¦इन्द्र᳚‌म्¦स॒ख्याय॑¦विप्राः᳚¦अ॒श्व॒ऽयन्तः॑¦वृष॑ण‌म्¦वा॒जय᳚न्तः |
ज॒नि॒ऽयन्तः॑¦ज॒नि॒ऽदा‌म्¦अक्षि॑तऽऊति‌म्¦आ¦च्य॒व॒या॒मः॒¦अ॒व॒ते¦न¦कोश᳚‌म् ||

त्रा॒तानो᳚बोधि॒ददृ॑शानआ॒पिर॑भिख्या॒ताम॑र्डि॒तासो॒म्याना᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

सखा᳚पि॒तापि॒तृत॑मःपितॄ॒णांकर्ते᳚मुलो॒कमु॑श॒तेव॑यो॒धाः(स्वाहा᳚) || 17 ||

त्रा॒ता¦नः॒¦बो॒धि॒¦ददृ॑शानः¦आ॒पिः¦अ॒भि॒ऽख्या॒ता¦म॒र्डि॒ता¦सो॒म्याना᳚‌म् |
सखा᳚¦पि॒ता¦पि॒तृऽत॑मः¦पि॒तॄ॒णा‌म्¦कर्ता᳚¦ई॒‌म्¦ऊँ॒ इति॑¦लो॒क‌म्¦उ॒श॒ते¦व॒यः॒ऽधाः ||

स॒खी॒य॒ताम॑वि॒ताबो᳚धि॒सखा᳚गृणा॒नइ᳚न्द्रस्तुव॒तेवयो᳚धाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

व॒यंह्याते᳚चकृ॒मास॒बाध॑आ॒भिःशमी᳚भिर्म॒हय᳚न्तइन्द्र॒(स्वाहा᳚) || 18 ||

स॒खि॒ऽय॒ता‌म्¦अ॒वि॒ता¦बो॒धि॒¦सखा᳚¦गृ॒णा॒नः¦इ॒न्द्र॒¦स्तु॒व॒ते¦वयः॑¦धाः॒ |
व॒य‌म्¦हि¦आ¦ते॒¦च॒कृ॒म¦स॒ऽबाधः॑¦आ॒भिः¦शमी᳚भिः¦म॒हय᳚न्तः¦इ॒न्द्र॒ ||

स्तु॒तइन्द्रो᳚म॒घवा॒यद्ध॑वृ॒त्राभूरी॒ण्येको᳚,अप्र॒तीनि॑हन्ति |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अ॒स्यप्रि॒योज॑रि॒तायस्य॒शर्म॒न्नकि॑र्दे॒वावा॒रय᳚न्ते॒नमर्ताः᳚(स्वाहा᳚) || 19 ||

स्तु॒तः¦इन्द्रः॑¦म॒घऽवा᳚¦यत्¦ह॒¦वृ॒त्रा¦भूरी᳚णि¦एकः॑¦अ॒प्र॒तीनि॑¦ह॒न्ति॒ |
अ॒स्य¦प्रि॒यः¦ज॒रि॒ता¦यस्य॑¦शर्म॑न्¦नकिः॑¦दे॒वाः¦वा॒रय᳚न्ते¦न¦मर्ताः᳚ ||

ए॒वान॒इन्द्रो᳚म॒घवा᳚विर॒प्शीकर॑त्‌स॒त्याच॑र्षणी॒धृद॑न॒र्वा |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

त्वंराजा᳚ज॒नुषां᳚धेह्य॒स्मे,अधि॒श्रवो॒माहि॑नं॒यज्ज॑रि॒त्रे(स्वाहा᳚) || 20 ||

ए॒व¦नः॒¦इन्द्रः॑¦म॒घऽवा᳚¦वि॒ऽर॒प्शी¦कर॑त्¦स॒त्या¦च॒र्ष॒णि॒ऽधृत्¦अ॒न॒र्वा |
त्व‌म्¦राजा᳚¦ज॒नुषा᳚‌म्¦धे॒हि॒¦अ॒स्मे इति॑¦अधि॑¦श्रवः॑¦माहि॑न‌म्¦यत्¦ज॒रि॒त्रे ||

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒नइषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः(स्वाहा᳚) || 21 ||

नु¦स्तु॒तः¦इ॒न्द्र॒¦नु¦गृ॒णा॒नः¦इष᳚‌म्¦ज॒रि॒त्रे¦न॒द्यः॑¦न¦पी॒पे॒रिति॑ पीपेः |
अका᳚रि¦ते॒¦ह॒रि॒ऽवः॒¦ब्रह्म॑¦नव्य᳚‌म्¦धि॒या¦स्या॒म॒¦र॒थ्यः॑¦स॒दा॒ऽसाः ||

[18] अयंपंथाइति त्रयोदशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः आद्यायाइंद्रऋषिः नहीन्वस्येत्यादिसार्धतिसृणमदितिरृषिका आद्यायावामदेवोदेवता नाहमतइत्यादिपंचार्धर्चानामंत्यानांषण्णामृचांचेंद्रोदेवता नहीन्वस्येतिसार्धतिसृणांवामदेवोदेवतात्रिष्टुप् |{मंडल:4, सूक्त:18}{अनुवाक:2, सूक्त:8}{अष्टक:3, अध्याय:5}
अ॒यंपन्था॒,अनु॑वित्तःपुरा॒णोयतो᳚दे॒वा,उ॒दजा᳚यन्त॒विश्वे᳚ |{इन्द्रः | वामदेवः | त्रिष्टुप्}

अत॑श्चि॒दाज॑निषीष्ट॒प्रवृ॑द्धो॒मामा॒तर॑ममु॒यापत्त॑वेकः॒(स्वाहा᳚) || 1 || वर्ग:25

अ॒य‌म्¦पन्थाः᳚¦अनु॑ऽवित्तः¦पु॒रा॒णः¦यतः॑¦दे॒वाः¦उ॒त्।आजा᳚यन्त¦विश्वे᳚ |
अतः॑¦चि॒त्¦आ¦ज॒नि॒षी॒ष्ट॒¦प्रऽवृ॑द्धः¦मा¦मा॒तर᳚‌म्¦अ॒मु॒या¦पत्त॑वे¦क॒रिति॑ कः ||

नाहमतो॒निर॑यादु॒र्गहै॒तत्ति॑र॒श्चता᳚पा॒र्श्वान्निर्ग॑माणि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ब॒हूनि॑मे॒,अकृ॑ता॒कर्त्वा᳚नि॒युध्यै᳚त्वेन॒संत्वे᳚नपृच्छै॒(स्वाहा᳚) || 2 ||

न¦अ॒ह‌म्¦अतः॑¦निः¦अ॒य॒¦दुः॒ऽगहा᳚¦ए॒तत्¦ति॒र॒श्चता᳚¦पा॒र्श्वात्¦निः¦ग॒मा॒नि॒ |
ब॒हूनि॑¦मे॒¦अकृ॑ता¦कर्त्वा᳚नि¦युध्यै᳚¦त्वे॒न॒¦स‌म्¦त्वे॒न॒¦पृ॒च्छै॒ ||

प॒रा॒य॒तींमा॒तर॒मन्व॑चष्ट॒ननानु॑गा॒न्यनु॒नूग॑मानि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

त्वष्टु॑र्गृ॒हे,अ॑पिब॒त्‌सोम॒मिन्द्रः॑शतध॒न्यं᳚च॒म्वोः᳚सु॒तस्य॒(स्वाहा᳚) || 3 ||

प॒रा॒ऽय॒ती‌म्¦मा॒तर᳚‌म्¦अनु॑¦अ॒च॒ष्ट॒¦न¦न¦अनु॑¦गा॒नि॒¦अनु॑¦नु¦ग॒मा॒नि॒ |
त्वष्टुः॑¦गृ॒हे¦अ॒पि॒ब॒त्¦सोम᳚‌म्¦इन्द्रः॑¦श॒त॒ऽध॒न्य᳚‌म्¦च॒म्वोः᳚¦सु॒तस्य॑ ||

किंसऋध॑क्‌कृणव॒द्यंस॒हस्रं᳚मा॒सोज॒भार॑श॒रद॑श्चपू॒र्वीः |{१/२: गौतमो वामदेवः २/२:अदितिरृषिका | १/२:इन्द्रः २/२:वामदेवः | त्रिष्टुप्}

न॒हीन्व॑स्यप्रति॒मान॒मस्त्य॒न्तर्जा॒तेषू॒तयेजनि॑त्वाः॒(स्वाहा᳚) || 4 ||

कि‌म्¦सः¦ऋध॑क्¦कृ॒ण॒व॒त्¦य‌म्¦स॒हस्र᳚‌म्¦मा॒सः¦ज॒भार॑¦श॒रदः॑¦च॒¦पू॒र्वीः |
न॒हि¦नु¦आ॒स्य॒¦प्र॒ति॒ऽमान᳚‌म्¦अस्ति॑¦अ॒न्तः¦ज॒तेषु॑¦उ॒त¦ये¦जनि॑ऽत्वाः ||

अ॒व॒द्यमि॑व॒मन्य॑माना॒गुहा᳚क॒रिन्द्रं᳚मा॒तावी॒र्ये᳚णा॒न्यृ॑ष्टम् |{अदितिरृषिका | वामदेवः | त्रिष्टुप्}

अथोद॑स्थात्‌स्व॒यमत्कं॒वसा᳚न॒आरोद॑सी,अपृणा॒ज्जाय॑मानः॒(स्वाहा᳚) || 5 ||

अ॒व॒द्य‌म्ऽ‌इ᳚व¦मन्य॑माना¦गुहा᳚¦अ॒कः॒¦इन्द्र᳚‌म्¦मा॒ता¦वी॒र्ये᳚ण¦निऽऋ॑ष्ट‌म् |
अथ॑¦उत्¦अ॒स्था॒त्¦स्व॒य‌म्¦अत्क᳚‌म्¦वसा᳚नः¦आ¦रोद॑सी॒ इति॑¦अ॒पृ॒णा॒त्¦जाय॑मानः ||

ए॒ता,अ॑र्षन्त्यलला॒भव᳚न्तीरृ॒ताव॑रीरिवसं॒क्रोश॑मानाः |{अदितिरृषिका | वामदेवः | त्रिष्टुप्}

ए॒ताविपृ॑च्छ॒किमि॒दंभ॑नन्ति॒कमापो॒,अद्रिं᳚परि॒धिंरु॑जन्ति॒(स्वाहा᳚) || 6 || वर्ग:26

ए॒ताः¦अ॒र्ष॒न्ति॒¦अ॒ल॒ला॒ऽभव᳚न्तीः¦ऋ॒तव॑रीःऽ‌इव¦स॒‌म्ऽक्रोश॑मानाः |
ए॒ताः¦वि¦पृ॒च्छ॒¦कि‌म्¦इ॒द‌म्¦भ॒न॒न्ति॒¦क‌म्¦आपः॑¦अद्रि᳚‌म्¦प॒रि॒ऽधि‌म्¦रु॒ज॒न्ति॒ ||

किमु॑ष्विदस्मैनि॒विदो᳚भन॒न्तेन्द्र॑स्याव॒द्यंदि॑धिषन्त॒आपः॑ |{अदितिरृषिका | वामदेवः | त्रिष्टुप्}

ममै॒तान्‌पु॒त्रोम॑ह॒ताव॒धेन॑वृ॒त्रंज॑घ॒न्वाँ,अ॑सृज॒द्विसिन्धू॒न्त्(स्वाहा᳚) || 7 ||

कि‌म्¦ऊँ॒ इति॑¦स्वि॒त्¦अ॒स्मै॒¦नि॒ऽविदः॑¦भ॒न॒न्त॒¦इन्द्र॑स्य¦अ॒व॒द्य‌म्¦दि॒धि॒ष॒न्ते॒¦आपः॑ |
मम॑¦ए॒तान्¦पु॒त्रः¦म॒ह॒ता¦व॒धेन॑¦वृ॒त्र‌म्¦ज॒घ॒न्वान्¦अ॒सृ॒ज॒त्¦वि¦सिन्धू॑न् ||

मम॑च्च॒नत्वा᳚युव॒तिःप॒रास॒मम॑च्च॒नत्वा᳚कु॒षवा᳚ज॒गार॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

मम॑च्चि॒दापः॒शिश॑वेममृड्यु॒र्मम॑च्चि॒दिन्द्रः॒सह॒सोद॑तिष्ठ॒‌त्(स्वाहा᳚) || 8 ||

मम॑त्¦च॒न¦त्वा॒¦यु॒व॒तिः¦प॒रा॒ऽआस॑¦मम॑त्¦च॒न¦त्वा॒¦कु॒षवा᳚¦ज॒गार॑ |
मम॑त्¦चि॒त्¦आपः॑¦शिश॑वे¦म॒मृ॒ड्युः॒¦मम॑त्¦चि॒त्¦इन्द्रः॑¦सह॑सा¦उत्¦अ॒ति॒ष्ठ॒त् ||

मम॑च्च॒नते᳚मघव॒न्‌व्यं᳚सोनिविवि॒ध्वाँ,अप॒हनू᳚ज॒घान॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अधा॒निवि॑द्ध॒उत्त॑रोबभू॒वाञ्छिरो᳚दा॒सस्य॒संपि॑णग्व॒धेन॒(स्वाहा᳚) || 9 ||

मम॑त्¦च॒न¦ते॒¦म॒घ॒ऽव॒न्¦वि।आं᳚सः¦नि॒ऽवि॒वि॒ध्वान्¦अप॑¦हनू॒ इति॑¦ज॒घान॑ |
अध॑¦निऽवि॑द्धः¦उत्ऽत॑रः¦ब॒भू॒वान्¦शिरः॑¦दा॒सस्य॑¦स‌म्¦पि॒ण॒क्¦व॒धेन॑ ||

गृ॒ष्टिःस॑सूव॒स्थवि॑रंतवा॒गाम॑नाधृ॒ष्यंवृ॑ष॒भंतुम्र॒मिन्द्र᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अरी᳚ळ्हंव॒त्संच॒रथा᳚यमा॒तास्व॒यंगा॒तुंत॒न्व॑इ॒च्छमा᳚न॒‌म्(स्वाहा᳚) || 10 ||

गृ॒ष्टिः¦स॒सू॒व॒¦स्थवि॑र‌म्¦त॒वा॒गा‌म्¦अ॒ना॒धृ॒ष्य‌म्¦वृ॒ष॒भ‌म्¦तुम्र᳚‌म्¦इन्द्र᳚‌म् |
अरी᳚ळ्ह‌म्¦व॒त्स‌म्¦च॒रथा᳚य¦मा॒ता¦स्व॒य‌म्¦गा॒तु‌म्¦त॒न्वे᳚¦इ॒च्छमा᳚न‌म् ||

उ॒तमा॒ताम॑हि॒षमन्व॑वेनद॒मीत्वा᳚जहतिपुत्रदे॒वाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अथा᳚ब्रवीद्‌वृ॒त्रमिन्द्रो᳚हनि॒ष्यन्त्सखे᳚विष्णोवित॒रंविक्र॑मस्व॒(स्वाहा᳚) || 11 ||

उ॒त¦मा॒ता¦म॒हि॒ष‌म्¦अनु॑¦अ॒वे॒न॒त्¦अ॒मी इति॑¦त्वा॒¦ज॒ह॒ति॒¦पु॒त्र॒¦दे॒वाः |
अथ॑¦अ॒ब्र॒वी॒त्¦वृ॒त्र‌म्¦इन्द्रः॑¦ह॒नि॒ष्यन्¦सखे᳚¦वि॒ष्णो॒ इति॑¦वि॒ऽत॒र‌म्¦वि¦क्र॒म॒स्व॒ ||

कस्ते᳚मा॒तरं᳚वि॒धवा᳚मचक्रच्छ॒युंकस्त्वाम॑जिघांस॒च्चर᳚न्तम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

कस्ते᳚दे॒वो,अधि॑मार्डी॒कआ᳚सी॒द्‌यत्‌प्राक्षि॑णाःपि॒तरं᳚पाद॒गृह्य॒(स्वाहा᳚) || 12 ||

कः¦ते॒¦मा॒तर᳚‌म्¦वि॒धवा᳚‌म्¦अ॒च॒क्र॒त्¦श॒यु‌म्¦कः¦त्वा‌म्¦अ॒जि॒घां॒स॒त्¦चर᳚न्त‌म् |
कः¦ते॒¦दे॒वः¦अधि॑¦मा॒र्डी॒के¦आ॒सी॒त्¦यत्¦प्र¦अक्षि॑णाः¦पि॒तर᳚‌म्¦पा॒द॒ऽगृह्य॑ ||

अव॑र्त्या॒शुन॑आ॒न्त्राणि॑पेचे॒नदे॒वेषु॑विविदेमर्डि॒तार᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अप॑श्यंजा॒यामम॑हीयमाना॒मधा᳚मेश्ये॒नोमध्वाज॑भार॒(स्वाहा᳚) || 13 ||

अव॑र्त्या¦शुनः॑¦आ॒न्त्राणि॑¦पे॒चे॒¦न¦दे॒वेषु॑¦वि॒वि॒दे॒¦म॒र्डि॒तार᳚‌म् |
अप॑श्य‌म्¦जा॒या‌म्¦अम॑हीयमाना‌म्¦अध॑¦मे॒¦श्ये॒नः¦मधु॑¦आ¦ज॒भा॒र॒ ||

[19] एवात्वामित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |{मंडल:4, सूक्त:19}{अनुवाक:2, सूक्त:9}{अष्टक:3, अध्याय:6}
ए॒वात्वामि᳚न्द्रवज्रि॒न्नत्र॒विश्वे᳚दे॒वासः॑सु॒हवा᳚स॒ऊमाः᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

म॒हामु॒भेरोद॑सीवृ॒द्धमृ॒ष्वंनिरेक॒मिद्‌वृ॑णतेवृत्र॒हत्ये॒(स्वाहा᳚) || 1 || वर्ग:1

ए॒व¦त्वा‌म्¦इ॒न्द्र॒¦व॒ज्रि॒न्¦अत्र॑¦विश्वे᳚¦दे॒वासः॑¦सु॒ऽहवा᳚सः¦ऊमाः᳚ |
म॒हा‌म्¦उ॒भे इति॑¦रोद॑सी॒ इति॑¦वृ॒द्ध‌म्¦ऋ॒ष्व‌म्¦निः¦एक᳚‌म्¦इत्¦वृ॒ण॒ते॒¦वृ॒त्र॒ऽहत्ये᳚ ||

अवा᳚सृजन्त॒जिव्र॑यो॒नदे॒वाभुवः॑स॒म्राळि᳚न्द्रस॒त्ययो᳚निः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अह॒न्नहिं᳚परि॒शया᳚न॒मर्णः॒प्रव॑र्त॒नीर॑रदोवि॒श्वधे᳚नाः॒(स्वाहा᳚) || 2 ||

अव॑¦अ॒सृ॒ज॒न्त॒¦जिव्र॑यः¦न¦दे॒वाः¦भुवः॑¦स॒‌म्ऽराट्¦इ॒न्द्र॒¦स॒त्यऽयो᳚निः |
अह॑न्¦अहि᳚‌म्¦प॒रि॒ऽशया᳚न‌म्¦अर्णः॑¦प्र¦व॒र्त॒नीः¦अ॒र॒दः॒¦वि॒श्वऽधे᳚नाः ||

अतृ॑प्णुवन्तं॒विय॑तमबु॒ध्यमबु॑ध्यमानंसुषुपा॒णमि᳚न्द्र |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स॒प्तप्रति॑प्र॒वत॑आ॒शया᳚न॒महिं॒वज्रे᳚ण॒विरि॑णा,अप॒र्वन्(स्वाहा᳚) || 3 ||

अतृ॑प्णुवन्त‌म्¦विऽय॑त‌म्¦अ॒बु॒ध्य‌म्¦अबु॑ध्यमान‌म्¦सु॒सु॒पा॒न‌म्¦इ॒न्द्र॒ |
स॒प्त¦प्रति॑¦प्र॒ऽवतः॑¦आ॒ऽशया᳚न‌म्¦अहि᳚‌म्¦वज्रे᳚ण¦वि¦रि॒णाः॒¦अ॒प॒र्वन् ||

अक्षो᳚दय॒च्छव॑सा॒क्षाम॑बु॒ध्नंवार्णवात॒स्तवि॑षीभि॒रिन्द्रः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

दृ॒ळ्हान्यौ᳚भ्नादु॒शमा᳚न॒ओजोऽवा᳚भिनत्‌क॒कुभः॒पर्व॑ताना॒‌म्(स्वाहा᳚) || 4 ||

अक्षो᳚दयत्¦शव॑सा¦क्षाम॑¦बु॒ध्न‌म्¦वाः¦न¦वातः॑¦तवि॑षीभिः¦इन्द्रः॑ |
दृ॒ळ्हानि॑¦औ॒भ्ना॒त्¦उ॒शमा᳚नः¦ओजः॑¦अव॑¦अ॒भि॒न॒त्¦क॒कुभः॑¦पर्व॑ताना‌म् ||

अ॒भिप्रद॑द्रु॒र्जन॑यो॒नगर्भं॒रथा᳚,इव॒प्रय॑युःसा॒कमद्र॑यः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अत॑र्पयोवि॒सृत॑उ॒ब्जऊ॒र्मीन्त्वंवृ॒ताँ,अ॑रिणा,इन्द्र॒सिन्धू॒न्त्(स्वाहा᳚) || 5 ||

अ॒भि¦प्र¦द॒द्रुः॒¦जन॑यः¦न¦गर्भ᳚‌म्¦रथाः᳚ऽ‌इव¦प्र¦य॒युः॒¦सा॒क‌म्¦अद्र॑यः |
अत॑र्पयः¦वि॒ऽसृतः॑¦उ॒ब्जः¦ऊ॒र्मीन्¦त्व‌म्¦वृ॒तान्¦अ॒रि॒णाः॒¦इ॒न्द्र॒¦सिन्धू॑न् ||

त्वंम॒हीम॒वनिं᳚वि॒श्वधे᳚नांतु॒र्वीत॑येव॒य्या᳚य॒क्षर᳚न्तीम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अर॑मयो॒नम॒सैज॒दर्णः॑सुतर॒णाँ,अ॑कृणोरिन्द्र॒सिन्धू॒न्त्(स्वाहा᳚) || 6 || वर्ग:2

त्व‌म्¦म॒ही‌म्¦अ॒वनि᳚‌म्¦वि॒श्वऽधे᳚ना‌म्¦तु॒र्वीत॑ये¦व॒य्या᳚य¦क्षर᳚न्ती‌म् |
अर॑मयः¦नम॑सा¦एज॑त्¦अर्णः॑¦सु॒ऽत॒र॒णान्¦अ॒कृ॒णोः॒¦इ॒न्द्र॒¦सिन्धू॑न् ||

प्राग्रुवो᳚नभ॒न्वो॒३॑(ओ॒)नवक्वा᳚ध्व॒स्रा,अ॑पिन्वद्‌युव॒तीरृ॑त॒ज्ञाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

धन्वा॒न्यज्राँ᳚,अपृणक्‌तृषा॒णाँ,अधो॒गिन्द्रः॑स्त॒र्यो॒३॑(ओ॒)दंसु॑पत्नीः॒(स्वाहा᳚) || 7 ||

प्र¦अ॒ग्रुवः॑¦न॒भ॒न्वः॑¦न¦वक्वाः᳚¦ध्व॒स्राः¦अ॒पि॒न्व॒त्¦यु॒व॒तीः¦ऋ॒त॒ऽज्ञाः |
धन्वा᳚नि¦अज्रा᳚न्¦अ॒पृ॒ण॒क्¦तृ॒षा॒णान्¦अधो᳚क्¦इन्द्रः॑¦स्त॒र्यः॑¦द‌म्ऽसु॑पत्नीः ||

पू॒र्वीरु॒षसः॑श॒रद॑श्चगू॒र्तावृ॒त्रंज॑घ॒न्वाँ,अ॑सृज॒द्विसिन्धू॑न् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

परि॑ष्ठिता,अतृणद्‌बद्बधा॒नाःसी॒रा,इन्द्रः॒स्रवि॑तवेपृथि॒व्या(स्वाहा᳚) || 8 ||

पू॒र्वीः¦उ॒षसः॑¦श॒रदः॑¦च॒¦गू॒र्ताः¦वृ॒त्र‌म्¦ज॒घ॒न्वान्¦अ॒सृ॒ज॒त्¦वि¦सिन्धू॑न् |
परि॑ऽस्थिताः¦अ॒तृ॒ण॒त्¦ब॒द्ब॒धा॒नाः¦सी॒राः¦इन्द्रः॑¦स्रवि॑तवे¦पृ॒थि॒व्या ||

व॒म्रीभिः॑पु॒त्रम॒ग्रुवो᳚,अदा॒नंनि॒वेश॑नाद्धरिव॒आज॑भर्थ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

व्य१॑(अ॒)न्धो,अ॑ख्य॒दहि॑माददा॒नोनिर्भू᳚दुख॒च्छित्‌सम॑रन्त॒पर्व॒(स्वाहा᳚) || 9 ||

व॒म्रीभिः॑¦पु॒त्र‌म्¦अ॒ग्रुवः॑¦अ॒दा॒न‌म्¦नि॒ऽवेश॑नात्¦ह॒रि॒ऽवः॒¦आ¦ज॒भ॒र्थ॒ |
वि¦अ॒न्धः¦अ॒ख्य॒त्¦अहि᳚‌म्¦आ॒ऽद॒दा॒नः¦निः¦भू॒त्¦उ॒ख॒ऽछित्¦स‌म्¦अ॒र॒न्त॒¦पर्व॑ ||

प्रते॒पूर्वा᳚णि॒कर॑णानिविप्राऽऽवि॒द्वाँ,आ᳚हवि॒दुषे॒करां᳚सि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

यथा᳚यथा॒वृष्ण्या᳚नि॒स्वगू॒र्ताऽपां᳚सिराज॒न्‌नर्यावि॑वेषीः॒(स्वाहा᳚) || 10 ||

प्र¦ते॒¦पूर्वा᳚णि¦कर॑णानि¦वि॒प्र॒¦आ॒ऽवि॒द्वान्¦आ॒ह॒¦वि॒दुषे᳚¦करां᳚सि |
यथा᳚ऽयथा¦वृष्ण्या᳚नि¦स्वऽगू᳚र्ता¦अपां᳚सि¦रा॒ज॒न्¦नर्या᳚¦अवि॑वेषीः ||

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒नइषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः(स्वाहा᳚) || 11 ||

नु¦स्तु॒तः¦इ॒न्द्र॒¦नु¦गृ॒णा॒नः¦इष᳚‌म्¦ज॒रि॒त्रे¦न॒द्यः॑¦न¦पी॒पे॒रिति॑ पीपेः |
अका᳚रि¦ते॒¦ह॒रि॒ऽवः॒¦ब्रह्म॑¦नव्य᳚‌म्¦धि॒या¦स्या॒म॒¦र॒थ्यः॑¦स॒दा॒ऽसाः ||

[20] आनइंद्रइत्येकादशर्चस्य सूक्तस्यगौतमोवामदेव इंद्रस्त्रिष्टुप् |{मंडल:4, सूक्त:20}{अनुवाक:2, सूक्त:10}{अष्टक:3, अध्याय:6}
आन॒इन्द्रो᳚दू॒रादान॑आ॒साद॑भिष्टि॒कृदव॑सेयासदु॒ग्रः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ओजि॑ष्ठेभिर्नृ॒पति॒र्वज्र॑बाहुःसं॒गेस॒मत्सु॑तु॒र्वणिः॑पृत॒न्यून्(स्वाहा᳚) || 1 || वर्ग:3

आ¦नः॒¦इन्द्रः॑¦दू॒रात्¦आ¦नः॒¦आ॒सात्¦अ॒भि॒ष्टि॒ऽकृत्¦अव॑से¦या॒स॒त्¦उ॒ग्रः |
ओजि॑ष्ठेभिः¦नृ॒ऽपतिः॑¦वज्र॑ऽबाहुः¦स॒‌म्ऽगे¦स॒मत्ऽसु॑¦तु॒र्वणिः॑¦पृ॒त॒न्यून् ||

आन॒इन्द्रो॒हरि॑भिर्या॒त्वच्छा᳚ऽर्वाची॒नोऽव॑से॒राध॑सेच |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

तिष्ठा᳚तिव॒ज्रीम॒घवा᳚विर॒प्शीमंय॒ज्ञमनु॑नो॒वाज॑सातौ॒(स्वाहा᳚) || 2 ||

आ¦नः॒¦इन्द्रः॑¦हरि॑ऽभिः¦या॒तु॒¦अच्छ॑¦अ॒र्वा॒ची॒नः¦अव॑से¦राध॑से¦च॒ |
तिष्ठा᳚ति¦व॒ज्री¦म॒घऽवा᳚¦वि॒ऽर॒प्शी¦इ॒म‌म्¦य॒ज्ञ‌म्¦अनु॑¦नः॒¦वाज॑ऽसातौ ||

इ॒मंय॒ज्ञंत्वम॒स्माक॑मिन्द्रपु॒रोदध॑त्‌सनिष्यसि॒क्रतुं᳚नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

श्व॒घ्नीव॑वज्रिन्‌त्स॒नये॒धना᳚नां॒त्वया᳚व॒यम॒र्यआ॒जिंज॑येम॒(स्वाहा᳚) || 3 ||

इ॒म‌म्¦य॒ज्ञ‌म्¦त्व‌म्¦अ॒स्माक᳚‌म्¦इ॒न्द्र॒¦पु॒रः¦दध॑त्¦स॒नि॒ष्य॒सि॒¦क्रतु᳚‌म्¦नः॒ |
श्व॒घ्नीऽ‌इ᳚व¦व॒ज्रि॒न्¦स॒नये᳚¦धना᳚ना‌म्¦त्वया᳚¦व॒य‌म्¦अ॒र्यः¦आ॒जि‌म्¦ज॒ये॒म॒ ||

उ॒शन्नु॒षुणः॑सु॒मना᳚,उपा॒केसोम॑स्य॒नुसुषु॑तस्यस्वधावः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

पा,इ᳚न्द्र॒प्रति॑भृतस्य॒मध्वः॒समन्ध॑साममदःपृ॒ष्ठ्ये᳚न॒(स्वाहा᳚) || 4 ||

उ॒शन्¦ऊँ॒ इति॑¦सु¦नः॒¦सु॒ऽमनाः᳚¦उ॒पा॒के¦सोम॑स्य¦नु¦सुऽसु॑तस्य¦स्व॒धा॒ऽवः॒ |
पाः¦इ॒न्द्र॒¦प्रति॑ऽभृतस्य¦मध्वः॑¦स‌म्¦अन्ध॑सा¦म॒म॒दः॒¦पृ॒ष्ठ्ये᳚न ||

वियोर॑र॒प्शऋषि॑भि॒र्नवे᳚भिर्वृ॒क्षोनप॒क्वःसृण्यो॒नजेता᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

मर्यो॒नयोषा᳚म॒भिमन्य॑मा॒नोऽच्छा᳚विवक्मिपुरुहू॒तमिन्द्र॒‌म्(स्वाहा᳚) || 5 ||

वि¦यः¦र॒र॒प्शे¦ऋषि॑ऽभिः¦नवे᳚भिः¦वृ॒क्षः¦न¦प॒क्वः¦सृण्यः॑¦न¦जेता᳚ |
मर्यः॑¦न¦योषा᳚‌म्¦अ॒भि¦मन्य॑मानः¦अच्छ॑¦वि॒व॒क्मि॒¦पु॒रु॒ऽहू॒त‌म्¦इन्द्र᳚‌म् ||

गि॒रिर्नयःस्वत॑वाँ,ऋ॒ष्वइन्द्रः॑स॒नादे॒वसह॑सेजा॒तउ॒ग्रः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

आद॑र्ता॒वज्रं॒स्थवि॑रं॒नभी॒मउ॒द्नेव॒कोशं॒वसु॑ना॒न्यृ॑ष्ट॒‌म्(स्वाहा᳚) || 6 || वर्ग:4

गि॒रिः¦न¦यः¦स्वऽत॑वान्¦ऋ॒ष्वः¦इन्द्रः॑¦स॒नात्¦ए॒व¦सह॑से¦जा॒तः¦उ॒ग्रः |
आऽद॑र्ता¦वज्र᳚‌म्¦स्थवि॑र‌म्¦न¦भी॒मः¦उ॒द्नाऽ‌इ᳚व¦कोश᳚‌म्¦वसु॑ना¦निऽऋ॑ष्ट‌म् ||

नयस्य॑व॒र्ताज॒नुषा॒न्वस्ति॒नराध॑सआमरी॒ताम॒घस्य॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

उ॒द्वा॒वृ॒षा॒णस्त॑विषीवउग्रा॒ऽस्मभ्यं᳚दद्धिपुरुहूतरा॒यः(स्वाहा᳚) || 7 ||

न¦यस्य॑¦व॒र्ता¦ज॒नुषा᳚¦नु¦अस्ति॑¦न¦राध॑सः¦आ॒ऽम॒री॒ता¦म॒घस्य॑ |
उ॒त्ऽव॒वृ॒षा॒णः¦त॒वि॒षी॒ऽवः॒¦उ॒ग्र॒¦अ॒स्मभ्य᳚‌म्¦द॒द्धि॒¦पु॒रु॒ऽहू॒त॒¦रा॒यः ||

ईक्षे᳚रा॒यः,क्षय॑स्यचर्षणी॒नामु॒तव्र॒जम॑पव॒र्तासि॒गोना᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

शि॒क्षा॒न॒रःस॑मि॒थेषु॑प्र॒हावा॒न्वस्वो᳚रा॒शिम॑भिने॒तासि॒भूरि॒‌म्(स्वाहा᳚) || 8 ||

ईक्षे᳚¦रा॒यः¦क्षय॑स्य¦च॒र्ष॒णी॒ना‌म्¦उ॒त¦व्र॒ज‌म्¦अ॒प॒ऽव॒र्ता¦अ॒सि॒¦गोना᳚‌म् |
शि॒क्षा॒ऽन॒रः¦स॒‌म्ऽ‌इ॒थेषु॑¦प्र॒हाऽवा᳚न्¦वस्वः॑¦रा॒शि‌म्¦अ॒भि॒ऽने॒ता¦अ॒सि॒¦भूरि᳚‌म् ||

कया॒तच्छृ᳚ण्वे॒शच्या॒शचि॑ष्ठो॒यया᳚कृ॒णोति॒मुहु॒काचि॑दृ॒ष्वः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

पु॒रुदा॒शुषे॒विच॑यिष्ठो॒,अंहोऽथा᳚दधाति॒द्रवि॑णंजरि॒त्रे(स्वाहा᳚) || 9 ||

कया᳚¦तत्¦शृ॒ण्वे॒¦शच्या᳚¦शचि॑ष्ठः¦यया᳚¦कृ॒णोति॑¦मुहु॑¦का¦चि॒त्¦ऋ॒ष्वः |
पु॒रु¦दा॒शुषे᳚¦विऽच॑यिष्ठः¦अंहः॑¦अथ॑¦द॒धा॒ति॒¦द्रवि॑ण‌म्¦ज॒रि॒त्रे ||

मानो᳚मर्धी॒राभ॑राद॒द्धितन्नः॒प्रदा॒शुषे॒दात॑वे॒भूरि॒यत्ते᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

नव्ये᳚दे॒ष्णेश॒स्ते,अ॒स्मिन्त॑उ॒क्थेप्रब्र॑वामव॒यमि᳚न्द्रस्तु॒वन्तः॒(स्वाहा᳚) || 10 ||

मा¦नः॒¦म॒र्धीः॒¦आ¦भ॒र॒¦द॒द्धि¦तत्¦नः॒¦प्र¦दा॒शुषे᳚¦दात॑वे¦भूरि॑¦यत्¦ते॒ |
नव्ये᳚¦दे॒ष्णे¦श॒स्ते¦अ॒स्मिन्¦ते॒¦उ॒क्थे¦प्र¦ब्र॒वा॒म॒¦व॒य‌म्¦इ॒न्द्र॒¦स्तु॒वन्तः॑ ||

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒नइषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः(स्वाहा᳚) || 11 ||

नु¦स्तु॒तः¦इ॒न्द्र॒¦नु¦गृ॒णा॒नः¦इष᳚‌म्¦ज॒रि॒त्रे¦न॒द्यः॑¦न¦पी॒पे॒रिति॑ पीपेः |
अका᳚रि¦ते॒¦ह॒रि॒ऽवः॒¦ब्रह्म॑¦नव्य᳚‌म्¦धि॒या¦स्या॒म॒¦र॒थ्यः॑¦स॒दा॒ऽसाः ||

[21] आयात्विंद्र इत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |{मंडल:4, सूक्त:21}{अनुवाक:2, सूक्त:11}{अष्टक:3, अध्याय:6}
आया॒त्विन्द्रोऽव॑स॒उप॑नइ॒हस्तु॒तःस॑ध॒माद॑स्तु॒शूरः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑पू॒र्वीर्द्यौर्नक्ष॒त्रम॒भिभू᳚ति॒पुष्या॒‌त्(स्वाहा᳚) || 1 || वर्ग:5

आ¦या॒तु॒¦इन्द्रः॑¦अव॑से¦उप॑¦नः॒¦इ॒ह¦स्तु॒तः¦स॒ध॒ऽमात्¦अ॒स्तु॒¦शूरः॑ |
व॒वृ॒धा॒नः¦तवि॑षीः¦यस्य॑¦पू॒र्वीः¦द्यौः¦न¦क्ष॒त्र‌म्¦अ॒भिऽभू᳚ति¦पुष्या᳚त् ||

तस्येदि॒हस्त॑वथ॒वृष्ण्या᳚नितुविद्यु॒म्नस्य॑तुवि॒राध॑सो॒नॄन् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

यस्य॒क्रतु᳚र्विद॒थ्यो॒३॑(ओ॒)नस॒म्राट्सा॒ह्वान्‌तरु॑त्रो,अ॒भ्यस्ति॑कृ॒ष्टीः(स्वाहा᳚) || 2 ||

तस्य॑¦इत्¦इ॒ह¦स्त॒व॒थ॒¦वृष्ण्या᳚नि¦तु॒वि॒ऽद्यु॒म्नस्य॑¦तु॒वि॒ऽराध॑सः¦नॄन् |
यस्य॑¦क्रतुः॑¦वि॒द॒थ्यः॑¦न¦स॒‌म्ऽराट्¦स॒ह्वान्¦तरु॑त्रः¦अ॒भि¦अस्ति॑¦कृ॒ष्टीः ||

आया॒त्विन्द्रो᳚दि॒वआपृ॑थि॒व्याम॒क्षूस॑मु॒द्रादु॒तवा॒पुरी᳚षात् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स्व᳚र्णरा॒दव॑सेनोम॒रुत्वा᳚न्परा॒वतो᳚वा॒सद॑नादृ॒तस्य॒(स्वाहा᳚) || 3 ||

आ¦या॒तु॒¦इन्द्रः॑¦दि॒वः¦आ¦पृ॒थि॒व्याः¦म॒क्षु¦स॒मु॒द्रात्¦उ॒त¦वा॒¦पुरी᳚षात् |
स्वः॑ऽनरात्¦अव॑से¦नः॒¦म॒रुत्वा᳚न्¦प॒रा॒ऽवतः॑¦वा॒¦सद॑नात्¦ऋ॒तस्य॑ ||

स्थू॒रस्य॑रा॒योबृ॑ह॒तोयईशे॒तमु॑ष्टवामवि॒दथे॒ष्विन्द्र᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

योवा॒युना॒जय॑ति॒गोम॑तीषु॒प्रधृ॑ष्णु॒यानय॑ति॒वस्यो॒,अच्छ॒(स्वाहा᳚) || 4 ||

स्थू॒रस्य॑¦रा॒यः¦बृ॒ह॒तः¦यः¦ईशे᳚¦त‌म्¦ऊँ॒ इति॑¦स्त॒वा॒म॒¦वि॒दथे᳚षु¦इन्द्र᳚‌म् |
यः¦वा॒युना᳚¦जय॑ति¦गोऽम॑तीषु¦प्र¦धृ॒ष्णु॒ऽया¦नय॑ति¦वस्यः॑¦अच्छ॑ ||

उप॒योनमो॒नम॑सिस्तभा॒यन्निय॑र्ति॒वाचं᳚ज॒नय॒न्‌यज॑ध्यै |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ऋ॒ञ्ज॒सा॒नःपु॑रु॒वार॑उ॒क्थैरेन्द्रं᳚कृण्वीत॒सद॑नेषु॒होता॒(स्वाहा᳚) || 5 ||

उप॑¦यः¦नमः॑¦नम॑सि¦स्त॒भा॒यन्¦इय॑र्ति¦वाच᳚‌म्¦ज॒नय॑न्¦यज॑ध्यै |
ऋं॒ज॒सा॒नः¦पु॒रु॒ऽवारः॑¦उ॒क्थैः¦आ¦इन्द्र᳚‌म्¦कृ॒ण्वी॒त॒¦सद॑नेषु¦होता᳚ ||

धि॒षायदि॑धिष॒ण्यन्तः॑सर॒ण्यान्त्सद᳚न्तो॒,अद्रि॑मौशि॒जस्य॒गोहे᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

आदु॒रोषाः᳚पा॒स्त्यस्य॒होता॒योनो᳚म॒हान्‌त्सं॒वर॑णेषु॒वह्निः॒(स्वाहा᳚) || 6 || वर्ग:6

धि॒षा¦यदि॑¦धि॒ष॒ण्यन्तः॑¦स॒र॒ण्यान्¦सद᳚न्तः¦अद्रि᳚‌म्¦औ॒शि॒जस्य॑¦गोहे᳚ |
आ¦दु॒रोषाः᳚¦पा॒स्त्यस्य॑¦होता᳚¦यः¦नः॒¦म॒हान्¦स॒‌म्ऽवर॑णेषु¦वह्निः॑ ||

स॒त्रायदीं᳚भार्व॒रस्य॒वृष्णः॒सिष॑क्ति॒शुष्मः॑स्तुव॒तेभरा᳚य |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

गुहा॒यदी᳚मौशि॒जस्य॒गोहे॒प्रयद्धि॒येप्राय॑से॒मदा᳚य॒(स्वाहा᳚) || 7 ||

स॒त्रा¦यत्¦इ॒‌म्¦भा॒र्व॒रस्य॑¦वृष्णः॑¦सिस॑क्ति¦शुष्मः॑¦स्तु॒व॒ते¦भरा᳚य |
गुहा᳚¦यत्¦ई॒‌म्¦औ॒शि॒जस्य॑¦गोहे᳚¦प्र¦यत्¦धि॒ये¦प्र¦अय॑से¦मदा᳚य ||

वियद्वरां᳚सि॒पर्व॑तस्यवृ॒ण्वेपयो᳚भिर्जि॒न्वे,अ॒पांजवां᳚सि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

वि॒दद्‌गौ॒रस्य॑गव॒यस्य॒गोहे॒यदी॒वाजा᳚यसु॒ध्यो॒३॑(ओ॒)वह᳚न्ति॒(स्वाहा᳚) || 8 ||

वि¦यत्¦वरां᳚सि¦पर्व॑तस्य¦वृ॒ण्वे¦पयः॑ऽभिः¦जि॒न्वे¦अ॒पा‌म्¦जवां᳚सि |
वि॒दत्¦गौ॒रस्य॑¦ग॒व॒यस्य॑¦गोहे᳚¦यदि॑¦वाजा᳚य¦सु॒ऽध्यः॑¦वह᳚न्ति ||

भ॒द्राते॒हस्ता॒सुकृ॑तो॒तपा॒णीप्र॑य॒न्तारा᳚स्तुव॒तेराध॑इन्द्र |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

काते॒निष॑त्तिः॒किमु॒नोम॑मत्सि॒किंनोदु॑दुहर्षसे॒दात॒वा,उ॒(स्वाहा᳚) || 9 ||

भ॒द्रा¦ते॒¦हस्ता᳚¦सुऽकृ॑ता¦उ॒त¦पा॒णी इति॑¦प्र॒ऽय॒न्तारा᳚¦स्तु॒व॒ते¦राधः॑¦इ॒न्द्र॒ |
का¦ते॒¦निऽस॑त्तिः¦कि‌म्¦ऊँ॒ इति॑¦नो इति॑¦म॒म॒त्सि॒¦कि‌म्¦न¦उत्।औ᳚त्¦ऊँ॒ इति॑¦ह॒र्ष॒से॒¦दात॒वै¦ऊँ॒ इति॑ ||

ए॒वावस्व॒इन्द्रः॑स॒त्यःस॒म्राड्ढन्ता᳚वृ॒त्रंवरि॑वःपू॒रवे᳚कः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

पुरु॑ष्टुत॒क्रत्वा᳚नःशग्धिरा॒योभ॑क्षी॒यतेऽव॑सो॒दैव्य॑स्य॒(स्वाहा᳚) || 10 ||

ए॒व¦वस्वः॑¦इन्द्रः॑¦स॒त्यः¦स॒‌म्ऽराट्¦हन्ता᳚¦वृ॒त्र‌म्¦वरि॑वः¦पू॒रवे᳚¦क॒रिति॑ कः |
पुरु॑ऽस्तुत¦क्रत्वा᳚¦नः॒¦श॒ग्धि॒¦रा॒यः¦भ॒क्षी॒य¦ते॒¦अव॑सः¦दैव्य॑स्य ||

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒नइषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः(स्वाहा᳚) || 11 ||

नु¦स्तु॒तः¦इ॒न्द्र॒¦नु¦गृ॒णा॒नः¦इष᳚‌म्¦ज॒रि॒त्रे¦न॒द्यः॑¦न¦पी॒पे॒रिति॑ पीपेः |
अका᳚रि¦ते॒¦ह॒रि॒ऽवः॒¦ब्रह्म॑¦नव्य᳚‌म्¦धि॒या¦स्या॒म॒¦र॒थ्यः॑¦स॒दा॒ऽसाः ||

[22] यन्नइंद्र इत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |{मंडल:4, सूक्त:22}{अनुवाक:3, सूक्त:1}{अष्टक:3, अध्याय:6}
यन्न॒इन्द्रो᳚जुजु॒षेयच्च॒वष्टि॒तन्नो᳚म॒हान्‌क॑रतिशु॒ष्म्याचि॑त् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ब्रह्म॒स्तोमं᳚म॒घवा॒सोम॑मु॒क्थायो,अश्मा᳚नं॒शव॑सा॒बिभ्र॒देति॒(स्वाहा᳚) || 1 || वर्ग:7

यत्¦नः॒¦इन्द्रः॑¦जु॒जु॒षे¦यत्¦च॒¦व॒ष्टि॒¦तत्¦नः॒¦म॒हान्¦क॒र॒ति॒¦शु॒ष्मी¦आ¦चि॒त् |
ब्रह्म॑¦स्तोम᳚‌म्¦म॒घऽवा᳚¦सोम᳚‌म्¦उ॒क्था¦यः¦अश्मा᳚न‌म्¦शव॑सा¦बिभ्र॑त्¦एति॑ ||

वृषा॒वृष᳚न्धिं॒चतु॑रश्रि॒मस्य᳚न्नु॒ग्रोबा॒हुभ्यां॒नृत॑मः॒शची᳚वान् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

श्रि॒येपरु॑ष्णीमु॒षमा᳚ण॒ऊर्णां॒यस्याः॒पर्वा᳚णिस॒ख्याय॑वि॒व्ये(स्वाहा᳚) || 2 ||

वृषा᳚¦वृष᳚न्धि‌म्¦चतुः॑।आश्रि‌म्¦अस्य॑न्¦उ॒ग्रः¦बा॒हुऽभ्या᳚‌म्¦नृऽत॑मः¦शची᳚ऽवान् |
श्रि॒ये¦परु॑ष्णी‌म्¦उ॒षमा᳚णः¦ऊर्णा᳚‌म्¦यस्याः᳚¦पर्वा᳚णि¦स॒ख्याय॑¦वि॒व्ये ||

योदे॒वोदे॒वत॑मो॒जाय॑मानोम॒होवाजे᳚भिर्म॒हद्भि॑श्च॒शुष्मैः᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

दधा᳚नो॒वज्रं᳚बा॒ह्वोरु॒शन्तं॒द्याममे᳚नरेजय॒त्‌प्रभूम॒(स्वाहा᳚) || 3 ||

यः¦दे॒वः¦दे॒वऽत॑मः¦जाय॑मानः¦म॒हः¦वाजे᳚भिः¦म॒हत्ऽभिः॑¦च॒¦शुष्मैः᳚ |
दधा᳚नः¦वज्र᳚‌म्¦बा॒ह्वोः¦उ॒शन्त᳚‌म्¦द्या‌म्¦अमे᳚न¦रे॒ज॒य॒त्¦प्र¦भूम॑ ||

विश्वा॒रोधां᳚सिप्र॒वत॑श्चपू॒र्वीर्द्यौरृ॒ष्वाज्जनि॑मन्‌रेजत॒क्षाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

आमा॒तरा॒भर॑तिशु॒ष्म्यागोर्नृ॒वत्‌परि॑ज्मन्‌नोनुवन्त॒वाताः᳚(स्वाहा᳚) || 4 ||

विश्वा᳚¦रोधां᳚सि¦प्र॒ऽवतः॑¦च॒¦पू॒र्वीः¦द्यौः¦ऋ॒ष्वात्¦जनि॑मन्¦रे॒ज॒त॒¦क्षाः |
आ¦मा॒तरा᳚¦भर॑ति¦शु॒ष्मी¦आ¦गोः¦नृ॒ऽवत्¦परि॑ऽज्मन्¦नो॒नु॒व॒न्त॒¦वाताः᳚ ||

तातूत॑इन्द्रमह॒तोम॒हानि॒विश्वे॒ष्वित्‌सव॑नेषुप्र॒वाच्या᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

यच्छू᳚रधृष्णोधृष॒ताद॑धृ॒ष्वानहिं॒वज्रे᳚ण॒शव॒सावि॑वेषीः॒(स्वाहा᳚) || 5 ||

ता¦तु¦ते॒¦इ॒न्द्र॒¦म॒ह॒तः¦म॒हानि॑¦विश्वे᳚षु¦इत्¦सव॑नेषु¦प्र॒ऽवाच्या᳚ |
यत्¦शू॒र॒¦धृ॒ष्णो॒ इति॑¦धृ॒ष॒ता¦द॒धृ॒ष्वान्¦अहि᳚‌म्¦वज्रे᳚ण¦शव॑सा¦अवि॑वेषीः ||

तातूते᳚स॒त्यातु॑विनृम्ण॒विश्वा॒प्रधे॒नवः॑सिस्रते॒वृष्ण॒ऊध्नः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अधा᳚ह॒त्वद्‌वृ॑षमणोभिया॒नाःप्रसिन्ध॑वो॒जव॑साचक्रमन्त॒(स्वाहा᳚) || 6 || वर्ग:8

ता¦तु¦ते॒¦स॒त्या¦तु॒वि॒ऽनृ॒म्ण॒¦विश्वा᳚¦प्र¦धे॒नवः॑¦सि॒स्र॒ते॒¦वृष्णः॑¦ऊध्नः॑ |
अध॑¦ह॒¦त्वत्¦वृ॒ष॒ऽम॒नः॒¦भि॒या॒नाः¦प्र¦सिन्ध॑वः¦जव॑सा¦च॒क्र॒म॒न्त॒ ||

अत्राह॑तेहरिव॒स्ता,उ॑दे॒वीरवो᳚भिरिन्द्रस्तवन्त॒स्वसा᳚रः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

यत्सी॒मनु॒प्रमु॒चोब॑द्बधा॒नादी॒र्घामनु॒प्रसि॑तिंस्यन्द॒यध्यै॒(स्वाहा᳚) || 7 ||

अत्र॑¦अह॑¦ते॒¦ह॒रि॒ऽवः॒¦ताः¦ऊँ॒ इति॑¦दे॒वीः¦अवः॑ऽभिः¦इ॒न्द्र॒¦स्त॒व॒न्त॒¦स्वसा᳚रः |
यत्¦सी॒‌म्¦अनु॑¦प्र¦मु॒चः¦ब॒द्ब॒धा॒नाः¦दी॒र्घा‌म्¦अनु॑¦प्रऽसि॑ति‌म्¦स्य॒न्द॒यध्यै᳚ ||

पि॒पी॒ळे,अं॒शुर्मद्यो॒नसिन्धु॒रात्वा॒शमी᳚शशमा॒नस्य॑श॒क्तिः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अ॒स्म॒द्र्य॑क्‌छुशुचा॒नस्य॑यम्या,आ॒शुर्नर॒श्मिंतु॒व्योज॑सं॒गोः(स्वाहा᳚) || 8 ||

पि॒पी॒ळे¦अं॒शुः¦मद्यः॑¦न¦सिन्धुः॑¦आ¦त्वा॒¦शमी᳚¦श॒श॒मा॒नस्य॑¦श॒क्तिः |
अ॒स्म॒द्र्य॑क्¦शु॒शु॒चा॒नस्य॑¦य॒म्याः॒¦आ॒शुः¦न¦र॒श्मि‌म्¦तु॒वि॒ऽओज॑स‌म्¦गोः ||

अ॒स्मेवर्षि॑ष्ठाकृणुहि॒ज्येष्ठा᳚नृ॒म्णानि॑स॒त्रास॑हुरे॒सहां᳚सि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अ॒स्मभ्यं᳚वृ॒त्रासु॒हना᳚निरन्धिज॒हिवध᳚र्व॒नुषो॒मर्त्य॑स्य॒(स्वाहा᳚) || 9 ||

अ॒स्मे इति॑¦वर्षि॑ष्ठा¦कृ॒णु॒हि॒¦ज्येष्ठा᳚¦नृ॒म्णानि॑¦स॒त्रा¦स॒हु॒रे॒¦सहां᳚सि |
अ॒स्मभ्य᳚‌म्¦वृ॒त्रा¦सु॒ऽहना᳚नि¦र॒न्धि॒¦ज॒हि¦वधः॑¦व॒नुषः॑¦मर्त्य॑स्य ||

अ॒स्माक॒मित्‌सुशृ॑णुहि॒त्वमि᳚न्द्रा॒ऽस्मभ्यं᳚चि॒त्राँ,उप॑माहि॒वाजा॑न् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अ॒स्मभ्यं॒विश्वा᳚,इषणः॒पुरं᳚धीर॒स्माकं॒सुम॑घवन्‌बोधिगो॒दाः(स्वाहा᳚) || 10 ||

अ॒स्माक᳚‌म्¦इत्¦सु¦शृ॒णु॒हि॒¦त्व‌म्¦इ॒न्द्र॒¦अ॒स्मभ्य᳚‌म्¦चि॒त्रान्¦उप॑¦मा॒हि॒¦वाजा॑न् |
अ॒स्मभ्य᳚‌म्¦विश्वाः᳚¦इ॒ष॒णः॒¦पुर᳚‌म्ऽधीः¦अ॒स्माक᳚‌म्¦सु¦म॒घ॒ऽव॒न्¦बो॒धि॒¦गो॒ऽदाः ||

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒नइषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः(स्वाहा᳚) || 11 ||

नु¦स्तु॒तः¦इ॒न्द्र॒¦नु¦गृ॒णा॒नः¦इष᳚‌म्¦ज॒रि॒त्रे¦न॒द्यः॑¦न¦पी॒पे॒रिति॑ पीपेः |
अका᳚रि¦ते॒¦ह॒रि॒ऽवः॒¦ब्रह्म॑¦नव्य᳚‌म्¦धि॒या¦स्या॒म॒¦र॒थ्यः॑¦स॒दा॒ऽसाः ||

[23] कथामहामित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् ( अंत्यानांतिसृणांऋतंदेवतावा ) |{मंडल:4, सूक्त:23}{अनुवाक:3, सूक्त:2}{अष्टक:3, अध्याय:6}
क॒थाम॒हाम॑वृध॒त्‌कस्य॒होतु᳚र्य॒ज्ञंजु॑षा॒णो,अ॒भिसोम॒मूधः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

पिब᳚न्नुशा॒नोजु॒षमा᳚णो॒,अन्धो᳚वव॒क्षऋ॒ष्वःशु॑च॒तेधना᳚य॒(स्वाहा᳚) || 1 || वर्ग:9

क॒था¦म॒हा‌म्¦अ॒वृ॒ध॒त्¦कस्य॑¦होतुः॑¦य॒ज्ञ‌म्¦जु॒षा॒णः¦अ॒भि¦सोम᳚‌म्¦ऊधः॑ |
पिब॑न्¦उ॒शा॒नः¦जु॒षमा᳚णः¦अन्धः॑¦व॒व॒क्षे¦ऋ॒ष्वः¦शु॒च॒ते¦धना᳚य ||

को,अ॑स्यवी॒रःस॑ध॒माद॑माप॒समा᳚नंशसुम॒तिभिः॒को,अ॑स्य |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

कद॑स्यचि॒त्रंचि॑किते॒कदू॒तीवृ॒धेभु॑वच्छशमा॒नस्य॒यज्योः᳚(स्वाहा᳚) || 2 ||

कः¦अ॒स्य॒¦वी॒रः¦स॒ध॒ऽमाद᳚‌म्¦आ॒प॒¦स‌म्¦आ॒नं॒श॒¦सु॒म॒तिऽभिः॑¦कः¦अ॒स्य॒ |
कत्¦अ॒स्य॒¦चि॒त्र‌म्¦चि॒कि॒ते॒¦कत्¦ऊ॒ती¦वृ॒धे¦भु॒व॒त्¦श॒श॒मा॒नस्य॑¦यज्योः᳚ ||

क॒थाशृ॑णोतिहू॒यमा᳚न॒मिन्द्रः॑क॒थाशृ॒ण्वन्नव॑सामस्यवेद |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

का,अ॑स्यपू॒र्वीरुप॑मातयोहक॒थैन॑माहुः॒पपु॑रिंजरि॒त्रे(स्वाहा᳚) || 3 ||

क॒था¦शृ॒णो॒ति॒¦हू॒यमा᳚न‌म्¦इन्द्रः॑¦क॒था¦शृ॒ण्वन्¦अव॑सा‌म्¦अ॒स्य॒¦वे॒द॒ |
काः¦अ॒स्य॒¦पू॒र्वीः¦उप॑ऽमातयः¦ह॒¦क॒था¦ए॒न॒‌म्¦आ॒हुः॒¦पपु॑रि‌म्¦ज॒रि॒त्रे ||

क॒थास॒बाधः॑शशमा॒नो,अ॑स्य॒नश॑द॒भिद्रवि॑णं॒दीध्या᳚नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

दे॒वोभु॑व॒न्नवे᳚दामऋ॒तानां॒नमो᳚जगृ॒भ्वाँ,अ॒भियज्जुजो᳚ष॒‌त्(स्वाहा᳚) || 4 ||

क॒था¦स॒ऽबाधः॑¦श॒श॒मा॒नः¦अ॒स्य॒¦नश॑त्¦अ॒भि¦द्रवि॑ण‌म्¦दीध्या᳚नः |
दे॒वः¦भु॒व॒त्¦नवे᳚दाः¦मे॒¦ऋ॒ताना᳚‌म्¦नमः॑¦ज॒गृ॒भ्वान्¦अ॒भि¦यत्¦जुजो᳚षत् ||

क॒थाकद॒स्या,उ॒षसो॒व्यु॑ष्टौदे॒वोमर्त॑स्यस॒ख्यंजु॑जोष |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

क॒थाकद॑स्यस॒ख्यंसखि॑भ्यो॒ये,अ॑स्मि॒न्‌कामं᳚सु॒युजं᳚तत॒स्रे(स्वाहा᳚) || 5 ||

क॒था¦कत्¦अ॒स्याः¦उ॒षसः॑¦वि।औ᳚ष्टौ¦दे॒वः¦मर्त॑स्य¦स॒ख्य‌म्¦जु॒जो॒ष॒ |
क॒था¦कत्¦अ॒स्य॒¦स॒ख्य‌म्¦सखि॑ऽभ्यः¦ये¦अ॒स्मि॒न्¦काम᳚‌म्¦सु॒ऽयुज᳚‌म्¦त॒त॒स्रे ||

किमादम॑त्रंस॒ख्यंसखि॑भ्यःक॒दानुते᳚भ्रा॒त्रंप्रब्र॑वाम |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

श्रि॒येसु॒दृशो॒वपु॑रस्य॒सर्गाः॒स्व१॑(अ॒)र्णचि॒त्रत॑ममिष॒आगोः(स्वाहा᳚) || 6 || वर्ग:10

कि‌म्¦आत्¦अम॑त्र‌म्¦स॒ख्य‌म्¦सखि॑ऽभ्यः¦क॒दा¦नु¦ते॒¦भ्रा॒त्र‌म्¦प्र¦ब्र॒वा॒म॒ |
श्रि॒ये¦सु॒ऽदृशः॑¦वपुः॑¦अ॒स्य॒¦सर्गाः᳚¦स्वः॑¦न¦चि॒त्रऽत॑म‌म्¦इ॒षे॒¦आ¦गोः ||

द्रुहं॒जिघां᳚सन्‌ध्व॒रस॑मनि॒न्द्रांतेति॑क्तेति॒ग्मातु॒जसे॒,अनी᳚का |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ऋ॒णाचि॒द्यत्र॑ऋण॒यान॑उ॒ग्रोदू॒रे,अज्ञा᳚ता,उ॒षसो᳚बबा॒धे(स्वाहा᳚) || 7 ||

द्रुह᳚‌म्¦जिघां᳚सन्¦ध्व॒रस᳚‌म्¦अ॒नि॒न्द्रा‌म्¦तेति॑क्ते¦ति॒ग्मा¦तु॒जसे᳚¦अनी᳚का |
ऋ॒णा¦चि॒त्¦यत्र॑¦ऋ॒ण॒ऽयाः¦नः॒¦उ॒ग्रः¦दू॒रे¦अज्ञा᳚ताः¦उ॒षसः॑¦ब॒बा॒धे ||

ऋ॒तस्य॒हिशु॒रुधः॒सन्ति॑पू॒र्वीरृ॒तस्य॑धी॒तिर्वृ॑जि॒नानि॑हन्ति |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ऋ॒तस्य॒श्लोको᳚बधि॒रात॑तर्द॒कर्णा᳚बुधा॒नःशु॒चमा᳚नआ॒योः(स्वाहा᳚) || 8 ||

ऋ॒तस्य॑¦हि¦शु॒रुधः॑¦सन्ति॑¦पू॒र्वीः¦ऋ॒तस्य॑¦धी॒तिः¦वृ॒जि॒नानि॑¦ह॒न्ति॒ |
ऋ॒तस्य॑¦श्लोकः॑¦ब॒धि॒रा¦त॒त॒र्द॒¦कर्णा᳚¦बु॒धा॒नः¦शु॒चमा᳚नः¦आ॒योः ||

ऋ॒तस्य॑दृ॒ळ्हाध॒रुणा᳚निसन्तिपु॒रूणि॑च॒न्द्रावपु॑षे॒वपूं᳚षि |{गौतमो वामदेवः | इन्द्रऱ्‌ऱितदेवता वा | त्रिष्टुप्}

ऋ॒तेन॑दी॒र्घमि॑षणन्त॒पृक्ष॑ऋ॒तेन॒गाव॑ऋ॒तमावि॑वेशुः॒(स्वाहा᳚) || 9 ||

ऋ॒तस्य॑¦दृ॒ळ्हा¦ध॒रुणा᳚नि¦स॒न्ति॒¦पु॒रूणि॑¦च॒न्द्रा¦वपु॑षे¦वपूं᳚षि |
ऋ॒तेन॑¦दी॒र्घ‌म्¦इ॒ष॒ण॒न्त॒¦पृक्षः॑¦ऋ॒तेन॑¦गावः॑¦ऋ॒त‌म्¦आ¦वि॒वे॒शुः॒ ||

ऋ॒तंये᳚मा॒नऋ॒तमिद्‌व॑नोत्यृ॒तस्य॒शुष्म॑स्तुर॒या,उ॑ग॒व्युः |{गौतमो वामदेवः | इन्द्रऱ्‌ऱितदेवता वा | त्रिष्टुप्}

ऋ॒ताय॑पृ॒थ्वीब॑हु॒लेग॑भी॒रे,ऋ॒ताय॑धे॒नूप॑र॒मेदु॑हाते॒(स्वाहा᳚) || 10 ||

ऋ॒त‌म्¦ये॒मा॒नः¦ऋ॒त‌म्¦इत्¦व॒नो॒ति॒¦ऋ॒तस्य॑¦शुष्मः॑¦तु॒र॒ऽयाः¦ऊँ॒ इति॑¦ग॒व्युः |
ऋ॒ताय॑¦पृ॒थ्वी इति॑¦ब॒हु॒ले इति॑¦ग॒भी॒रे इति॑¦ऋ॒ताय॑¦धे॒नू इति॑¦प॒र॒मे इति॑¦दु॒हा॒ते॒ इति॑ ||

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒नइषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |{गौतमो वामदेवः | इन्द्रऱ्‌ऱितदेवता वा | त्रिष्टुप्}

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः(स्वाहा᳚) || 11 ||

नु¦स्तु॒तः¦इ॒न्द्र॒¦नु¦गृ॒णा॒नः¦इष᳚‌म्¦ज॒रि॒त्रे¦न॒द्यः॑¦न¦पी॒पे॒रिति॑ पीपेः |
अका᳚रि¦ते॒¦ह॒रि॒ऽवः॒¦ब्रह्म॑¦नव्य᳚‌म्¦धि॒या¦स्या॒म॒¦र॒थ्यः॑¦स॒दा॒ऽसाः ||

[24] कासुष्टुतिरित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |{मंडल:4, सूक्त:24}{अनुवाक:3, सूक्त:3}{अष्टक:3, अध्याय:6}
कासु॑ष्टु॒तिःशव॑सःसू॒नुमिन्द्र॑मर्वाची॒नंराध॑स॒आव॑वर्तत् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

द॒दिर्हिवी॒रोगृ॑ण॒तेवसू᳚नि॒सगोप॑तिर्नि॒ष्षिधां᳚नोजनासः॒(स्वाहा᳚) || 1 || वर्ग:11

का¦सु॒ऽस्तु॒तिः¦शव॑सः¦सू॒नु‌म्¦इन्द्र᳚‌म्¦अ॒र्वा॒ची॒न‌म्¦राध॑से¦आ¦व॒व॒र्त॒त् |
द॒दिः¦हि¦वी॒रः¦गृ॒ण॒ते¦वसू᳚नि¦सः¦गोऽप॑तिः¦निः॒ऽसिधा᳚‌म्¦नः॒¦ज॒ना॒सः॒ ||

सवृ॑त्र॒हत्ये॒हव्यः॒सईड्यः॒ससुष्टु॑त॒इन्द्रः॑स॒त्यरा᳚धाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

सयाम॒न्नाम॒घवा॒मर्त्या᳚यब्रह्मण्य॒तेसुष्व॑ये॒वरि॑वोधा॒‌त्(स्वाहा᳚) || 2 ||

सः¦वृ॒त्र॒ऽहत्ये᳚¦हव्यः॑¦सः¦ईड्यः॑¦सः¦सुऽस्तु॑तः¦इन्द्रः॑¦स॒त्यऽरा᳚धाः |
सः¦याम॑न्¦आ¦म॒घऽवा᳚¦मर्त्या᳚य¦ब्र॒ह्म॒ण्य॒ते¦सुस्व॑ये¦वरि॑वः¦धा॒त् ||

तमिन्नरो॒विह्व॑यन्तेसमी॒केरि॑रि॒क्वांस॑स्त॒न्वः॑कृण्वत॒त्राम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

मि॒थोयत्‌त्या॒गमु॒भया᳚सो॒,अग्म॒न्नर॑स्तो॒कस्य॒तन॑यस्यसा॒तौ(स्वाहा᳚) || 3 ||

त‌म्¦इत्¦नरः॑¦वि¦ह्व॒य॒न्ते॒¦स॒‌म्ऽई॒के¦रि॒रि॒क्वांसः॑¦त॒न्वः॑¦कृ॒ण्व॒त॒¦त्रा‌म् |
मि॒थः¦यत्¦त्या॒ग‌म्¦उ॒भया᳚सः¦अग्म॑न्¦नरः॑¦तो॒कस्य॑¦तन॑यस्य¦सा॒तौ ||

क्र॒तू॒यन्ति॑क्षि॒तयो॒योग॑उग्राऽऽशुषा॒णासो᳚मि॒थो,अर्ण॑सातौ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

संयद्विशोऽव॑वृत्रन्तयु॒ध्मा,आदिन्नेम॑इन्द्रयन्ते,अ॒भीके॒(स्वाहा᳚) || 4 ||

क्र॒तु॒ऽयन्ति॑¦क्षि॒तयः॑¦योगे᳚¦उ॒ग्र॒¦आ॒शु॒षा॒णासः॑¦मि॒थः¦अर्ण॑ऽसातौ |
स‌म्¦यत्¦विशः॑¦अव॑वृत्रन्त¦यु॒ध्माः¦आत्¦इत्¦नेमे᳚¦इ॒न्द्र॒य॒न्ते॒¦अ॒भीके᳚ ||

आदिद्ध॒नेम॑इन्द्रि॒यंय॑जन्त॒आदित्‌प॒क्तिःपु॑रो॒ळाशं᳚रिरिच्यात् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

आदित्सोमो॒विप॑पृच्या॒दसु॑ष्वी॒नादिज्जु॑जोषवृष॒भंयज॑ध्यै॒(स्वाहा᳚) || 5 ||

आत्¦इत्¦ह॒¦नेमे᳚¦इ॒न्द्रि॒य‌म्¦य॒ज॒न्ते॒¦आत्¦इत्¦प॒क्तिः¦पु॒रो॒ळाश᳚‌म्¦रि॒रि॒च्या॒त् |
आत्¦इ॒त्¦सोमः॑¦वि¦प॒पृ॒च्या॒त्¦असु॑स्वीन्¦आत्¦इत्¦जु॒जो॒ष॒¦वृ॒ष॒भ‌म्¦यज॑ध्यै ||

कृ॒णोत्य॑स्मै॒वरि॑वो॒यइ॒त्थेन्द्रा᳚य॒सोम॑मुश॒तेसु॒नोति॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स॒ध्री॒चीने᳚न॒मन॒सावि॑वेन॒न्तमित्सखा᳚यंकृणुतेस॒मत्सु॒(स्वाहा᳚) || 6 || वर्ग:12

कृ॒णोति॑¦अ॒स्मै॒¦वरि॑वः¦यः¦इ॒त्था¦इन्द्रा᳚य¦सोम᳚‌म्¦उ॒श॒ते¦सु॒नोति॑ |
स॒ध्री॒चीने᳚न¦मन॑सा¦अवि॑ऽवेनन्¦त‌म्¦इत्¦सखा᳚य‌म्¦कृ॒णु॒ते॒¦स॒मत्ऽसु॑ ||

यइन्द्रा᳚यसु॒नव॒त्‌सोम॑म॒द्यपचा᳚त्‌प॒क्तीरु॒तभृ॒ज्जाति॑धा॒नाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

प्रति॑मना॒योरु॒चथा᳚नि॒हर्य॒न्तस्मि᳚न्‌दध॒द्‌वृष॑णं॒शुष्म॒मिन्द्रः॒(स्वाहा᳚) || 7 ||

यः¦इन्द्रा᳚य¦सु॒नव॑त्¦सोम᳚‌म्¦अ॒द्य¦पचा᳚त्¦प॒क्तीः¦उ॒त¦भृ॒ज्जाति॑¦धा॒नाः |
प्रति॑¦म॒ना॒योः¦उ॒चथा᳚नि¦हर्य॑न्¦तस्मि॑न्¦द॒ध॒त्¦वृष॑ण‌म्¦शुष्म᳚‌म्¦इन्द्रः॑ ||

य॒दास॑म॒र्यंव्यचे॒दृघा᳚वादी॒र्घंयदा॒जिम॒भ्यख्य॑द॒र्यः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अचि॑क्रद॒द्‌वृष॑णं॒पत्न्यच्छा᳚दुरो॒णआनिशि॑तंसोम॒सुद्भिः॒(स्वाहा᳚) || 8 ||

य॒दा¦स॒ऽम॒र्य‌म्¦वि¦अचे᳚त्¦ऋघा᳚वा¦दी॒र्घ‌म्¦यत्¦आ॒जि‌म्¦अ॒भि¦अख्य॑त्¦अ॒र्यः |
अचि॑क्रदत्¦वृष॑ण‌म्¦पत्नी᳚¦अच्छ॑¦दु॒रो॒णे¦आ¦निऽशि॑त‌म्¦सो॒म॒सुत्ऽभिः॑ ||

भूय॑साव॒स्नम॑चर॒त्‌कनी॒योऽवि॑क्रीतो,अकानिषं॒पुन॒र्यन् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

सभूय॑सा॒कनी᳚यो॒नारि॑रेचीद्दी॒नादक्षा॒विदु॑हन्ति॒प्रवा॒णम्(स्वाहा᳚) || 9 ||

भूय॑सा¦व॒स्न‌म्¦अ॒च॒र॒त्¦क॒नी॒यः¦अवि॑ऽक्रीतः¦अ॒का॒नि॒ष॒‌म्¦पुनः॑¦यन् |
सः¦भूय॑सा¦कनी᳚यः¦न¦अ॒रि॒रे॒ची॒त्¦दी॒नाः¦दक्षाः᳚¦वि¦दु॒ह॒न्ति॒¦प्र¦वा॒ण‌म् ||

कइ॒मंद॒शभि॒र्ममेन्द्रं᳚क्रीणातिधे॒नुभिः॑ |{गौतमो वामदेवः | इन्द्रः | अनुष्टुप्}

य॒दावृ॒त्राणि॒जङ्घ॑न॒दथै᳚नंमे॒पुन॑र्दद॒‌त्(स्वाहा᳚) || 10 ||

कः¦इ॒म‌म्¦द॒शऽभिः॑¦मम॑¦इन्द्र᳚‌म्¦क्री॒णा॒ति॒¦धे॒नुऽभिः॑ | य॒दा¦वृ॒त्राणि॑¦जङ्घ॑नत्¦अथ॑¦ए॒न॒‌म्¦मे॒¦पुनः॑¦द॒द॒त् ||

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒नइषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः(स्वाहा᳚) || 11 ||

नु¦स्तु॒तः¦इ॒न्द्र॒¦नु¦गृ॒णा॒नः¦इष᳚‌म्¦ज॒रि॒त्रे¦न॒द्यः॑¦न¦पी॒पे॒रिति॑ पीपेः |
अका᳚रि¦ते॒¦ह॒रि॒ऽवः॒¦ब्रह्म॑¦नव्य᳚‌म्¦धि॒या¦स्या॒म॒¦र॒थ्यः॑¦स॒दा॒ऽसाः ||

[25] कोअद्येत्यष्टर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |{मंडल:4, सूक्त:25}{अनुवाक:3, सूक्त:4}{अष्टक:3, अध्याय:6}
को,अ॒द्यनर्यो᳚दे॒वका᳚मउ॒शन्निन्द्र॑स्यस॒ख्यंजु॑जोष |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

कोवा᳚म॒हेऽव॑से॒पार्या᳚य॒समि॑द्धे,अ॒ग्नौसु॒तसो᳚मईट्टे॒(स्वाहा᳚) || 1 || वर्ग:13

कः¦अ॒द्य¦नर्यः॑¦दे॒वऽका᳚मः¦उ॒शन्¦इन्द्र॑स्य¦स॒ख्य‌म्¦जु॒जो॒ष॒ |
कः¦वा॒¦म॒हे¦अव॑से¦पार्या᳚य¦स‌म्ऽ‌इ᳚द्धे¦अ॒ग्नौ¦सु॒तऽसो᳚मः¦ई॒ट्टे॒ ||

कोना᳚नाम॒वच॑सासो॒म्याय॑मना॒युर्वा᳚भवति॒वस्त॑उ॒स्राः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

कइन्द्र॑स्य॒युज्यं॒कःस॑खि॒त्वंकोभ्रा॒त्रंव॑ष्टिक॒वये॒कऊ॒ती(स्वाहा᳚) || 2 ||

कः¦न॒ना॒म॒¦वच॑सा¦सो॒म्याय॑¦म॒ना॒युः¦वा॒¦भ॒व॒ति॒¦वस्ते᳚¦उ॒स्राः |
कः¦इन्द्र॑स्य¦युज्य᳚‌म्¦कः¦स॒खि॒ऽत्व‌म्¦कः¦भ्रा॒त्र‌म्¦व॒ष्टि॒¦क॒वये᳚¦कः¦ऊ॒ती ||

कोदे॒वाना॒मवो᳚,अ॒द्यावृ॑णीते॒कआ᳚दि॒त्याँ,अदि॑तिं॒ज्योति॑रीट्टे |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

कस्या॒श्विना॒विन्द्रो᳚,अ॒ग्निःसु॒तस्यां॒ऽशोःपि॑बन्ति॒मन॒सावि॑वेन॒‌म्(स्वाहा᳚) || 3 ||

कः¦दे॒वाना᳚‌म्¦अवः॑¦अ॒द्य¦वृ॒णी॒ते॒¦कः¦आ॒दि॒त्यान्¦अदि॑ति‌म्¦ज्योतिः॑¦ई॒ट्टे॒ |
कस्य॑¦अ॒श्विनौ᳚¦इन्द्रः॑¦अ॒ग्निः¦सु॒तस्य॑¦अं॒शोः¦पि॒ब॒न्ति॒¦मन॑सा¦अवि॑ऽवेन‌म् ||

तस्मा᳚,अ॒ग्निर्भार॑तः॒शर्म॑यंस॒ज्ज्योक्‌प॑श्या॒त्‌सूर्य॑मु॒च्चर᳚न्तम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

यइन्द्रा᳚यसु॒नवा॒मेत्याह॒नरे॒नर्या᳚य॒नृत॑मायनृ॒णाम्(स्वाहा᳚) || 4 ||

तस्मै᳚¦अ॒ग्निः¦भार॑तः¦शर्म॑¦यं॒स॒त्¦ज्योक्¦प॒श्या॒त्¦सूर्य᳚‌म्¦उ॒त्ऽचर᳚न्त‌म् |
यः¦इन्द्रा᳚य¦सु॒नवा᳚म¦इति॑¦आह॑¦नरे᳚¦नर्या᳚य¦नृऽत॑माय¦नृ॒णा‌म् ||

नतंजि॑नन्तिब॒हवो॒नद॒भ्रा,उ॒र्व॑स्मा॒,अदि॑तिः॒शर्म॑यंसत् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

प्रि॒यःसु॒कृत्‌प्रि॒यइन्द्रे᳚मना॒युःप्रि॒यःसु॑प्रा॒वीःप्रि॒यो,अ॑स्यसो॒मी(स्वाहा᳚) || 5 ||

न¦त‌म्¦जि॒न॒न्ति॒¦ब॒हवः॑¦न¦द॒भ्राः¦उ॒रु¦अ॒स्मै॒¦अदि॑तिः¦शर्म॑¦यं॒स॒त् |
प्रि॒यः¦सु॒ऽकृत्¦प्रि॒यः¦इन्द्रे᳚¦म॒ना॒युः¦प्रि॒यः¦सु॒प्र॒।आ॒वीः¦प्रि॒यः¦अ॒स्य॒¦सो॒मी ||

सु॒प्रा॒व्यः॑प्राशु॒षाळे॒षवी॒रःसुष्वेः᳚प॒क्तिंकृ॑णुते॒केव॒लेन्द्रः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

नासु॑ष्वेरा॒पिर्नसखा॒नजा॒मिर्दु॑ष्प्रा॒व्यो᳚ऽवह॒न्तेदवा᳚चः॒(स्वाहा᳚) || 6 || वर्ग:14

सु॒प्र॒।आ॒व्यः॑¦प्रा॒शु॒षाट्¦ए॒षः¦वी॒रः¦सुस्वेः᳚¦प॒क्ति‌म्¦कृ॒णु॒ते॒¦केव॑ला¦इन्द्रः॑ |
न¦असु॑स्वेः¦आ॒पिः¦न¦सखा᳚¦न¦जा॒मिः¦दुः॒प्र॒।आ॒व्यः॑¦अ॒व॒ऽह॒न्ता¦इत्¦अवा᳚चः ||

नरे॒वता᳚प॒णिना᳚स॒ख्यमिन्द्रोऽसु᳚न्वतासुत॒पाःसंगृ॑णीते |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

आस्य॒वेदः॑खि॒दति॒हन्ति॑न॒ग्नंविसुष्व॑येप॒क्तये॒केव॑लोभू॒‌त्(स्वाहा᳚) || 7 ||

न¦रे॒वता᳚¦प॒णिना᳚¦स॒ख्य‌म्¦इन्द्रः॑¦असु᳚न्वता¦सु॒त॒ऽपाः¦स‌म्¦गृ॒णी॒ते॒ |
आ¦अ॒स्य॒¦वेदः॑¦खि॒दति॑¦हन्ति॑¦न॒ग्न‌म्¦वि¦सुस्व॑ये¦प॒क्तये᳚¦केव॑लः¦भूत् ||

इन्द्रं॒परेऽव॑रेमध्य॒मास॒इन्द्रं॒यान्तोऽव॑सितास॒इन्द्र᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

इन्द्रं᳚क्षि॒यन्त॑उ॒तयुध्य॑माना॒,इन्द्रं॒नरो᳚वाज॒यन्तो᳚हवन्ते॒(स्वाहा᳚) || 8 ||

इन्द्र᳚‌म्¦परे᳚¦अव॑रे¦म॒ध्य॒मासः॑¦इन्द्र᳚‌म्¦यान्तः॑¦अव॑ऽसितासः¦इन्द्र᳚‌म् |
इन्द्र᳚‌म्¦क्षि॒यन्तः॑¦उ॒त¦युध्य॑मानाः¦इन्द्र᳚‌म्¦नरः॑¦वा॒ज॒यन्तः॑¦ह॒व॒न्ते॒ ||

[26] अहंमनुरिति सप्तर्चस्य सूक्तस्य गौतमोवामदेवःआद्यानांतिसृणामात्मा देवता अंत्यानांचतसृणांश्येनस्त्रिष्टुप् (आद्यतृचेवामदेवेंद्रयोरृषित्वविकल्पमाहुः केचित्) |{मंडल:4, सूक्त:26}{अनुवाक:3, सूक्त:5}{अष्टक:3, अध्याय:6}
अ॒हंमनु॑रभवं॒सूर्य॑श्चा॒ऽहंक॒क्षीवाँ॒,ऋषि॑रस्मि॒विप्रः॑ |{गौतमो वामदेवः, इन्द्रः | इन्द्रः, आत्माः | त्रिष्टुप्}

अ॒हंकुत्स॑मार्जुने॒यंन्यृ᳚ञ्जे॒ऽहंक॒विरु॒शना॒पश्य॑तामा॒(स्वाहा᳚) || 1 || वर्ग:15

अ॒ह‌म्¦मनुः॑¦अ॒भ॒व॒‌म्¦सूर्यः॑¦च॒¦अ॒ह‌म्¦क॒क्षीवा᳚न्¦ऋषिः॑¦अ॒स्मि॒¦विप्रः॑ |
अ॒ह‌म्¦कुत्स᳚‌म्¦आ॒र्जु॒ने॒य‌म्¦नि¦ऋं॒जे॒¦अ॒ह‌म्¦क॒विः¦उ॒शना᳚¦पश्य॑त¦मा॒ ||

अ॒हंभूमि॑मददा॒मार्या᳚या॒ऽहंवृ॒ष्टिंदा॒शुषे॒मर्त्या᳚य |{गौतमो वामदेवः, इन्द्रः | इन्द्रः, आत्माः | त्रिष्टुप्}

अ॒हम॒पो,अ॑नयंवावशा॒नामम॑दे॒वासो॒,अनु॒केत॑माय॒‌न्(स्वाहा᳚) || 2 ||

अ॒ह‌म्¦भूमि᳚‌म्¦अ॒द॒दा॒‌म्¦आर्या᳚य¦अ॒ह‌म्¦वृ॒ष्टि‌म्¦दा॒शुषे᳚¦मर्त्या᳚य |
अ॒ह‌म्¦अ॒पः¦अ॒न॒य॒‌म्¦वा॒व॒शा॒नाः¦मम॑¦दे॒वासः॑¦अनु॑¦केत᳚‌म्¦आ॒य॒न् ||

अ॒हंपुरो᳚मन्दसा॒नोव्यै᳚रं॒नव॑सा॒कंन॑व॒तीःशम्ब॑रस्य |{गौतमो वामदेवः, इन्द्रः | इन्द्रः, आत्माः | त्रिष्टुप्}

श॒त॒त॒मंवे॒श्यं᳚स॒र्वता᳚ता॒दिवो᳚दासमतिथि॒ग्वंयदाव॒‌म्(स्वाहा᳚) || 3 ||

अ॒ह‌म्¦पुरः॑¦म॒न्द॒सा॒नः¦वि¦ऐ॒र॒‌म्¦नव॑¦सा॒क‌म्¦न॒व॒तीः¦शम्ब॑रस्य |
श॒त॒ऽत॒म‌म्¦वे॒श्य᳚‌म्¦स॒र्वऽता᳚ता¦दिवः॑ऽदास‌म्¦अ॒ति॒थि॒ऽग्व‌म्¦यत्¦आव᳚‌म् ||

प्रसुषविभ्यो᳚मरुतो॒विर॑स्तु॒प्रश्ये॒नःश्ये॒नेभ्य॑आशु॒पत्वा᳚ |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

अ॒च॒क्रया॒यत्‌स्व॒धया᳚सुप॒र्णोह॒व्यंभर॒न्मन॑वेदे॒वजु॑ष्ट॒‌म्(स्वाहा᳚) || 4 ||

प्र¦सु¦सः¦विऽभ्यः॑¦म॒रु॒तः॒¦विः¦अ॒स्तु॒¦प्र¦श्ये॒नः¦श्ये॒नेभ्यः॑¦आ॒शु॒ऽपत्वा᳚ |
अ॒च॒क्रया᳚¦यत्¦स्व॒धया᳚¦सु॒ऽप॒र्णः¦ह॒व्य‌म्¦भर॑त्¦मन॑वे¦दे॒वऽजु॑ष्ट‌म् ||

भर॒द्यदि॒विरतो॒वेवि॑जानःप॒थोरुणा॒मनो᳚जवा,असर्जि |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

तूयं᳚ययौ॒मधु॑नासो॒म्येनो॒तश्रवो᳚विविदेश्ये॒नो,अत्र॒(स्वाहा᳚) || 5 ||

भर॑त्¦यदि॑¦विः¦अतः॑¦वेवि॑जानः¦प॒था¦उ॒रुणा᳚¦मनः॑ऽजवाः¦अ॒स॒र्जि॒ |
तूय᳚‌म्¦य॒यौ॒¦मधु॑ना¦सो॒म्येन॑¦उ॒त¦श्रवः॑¦वि॒वि॒दे॒¦श्ये॒नः¦अत्र॑ ||

ऋ॒जी॒पीश्ये॒नोदद॑मानो,अं॒शुंप॑रा॒वतः॑शकु॒नोम॒न्द्रंमद᳚म् |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

सोमं᳚भरद्‌दादृहा॒णोदे॒वावा᳚न्दि॒वो,अ॒मुष्मा॒दुत्त॑रादा॒दाय॒(स्वाहा᳚) || 6 ||

ऋ॒जी॒पी¦श्ये॒नः¦दद॑मानः¦अं॒शु‌म्¦प॒रा॒ऽवतः॑¦श॒कु॒नः¦म॒न्द्र‌म्¦मद᳚‌म् |
सोम᳚‌म्¦भ॒र॒त्¦द॒दृ॒हा॒णः¦दे॒वऽवा᳚न्¦दि॒वः¦अ॒मुष्मा᳚त्¦उत्ऽत॑रात्¦आ॒ऽदाय॑ ||

आ॒दाय॑श्ये॒नो,अ॑भर॒त्‌सोमं᳚स॒हस्रं᳚स॒वाँ,अ॒युतं᳚चसा॒कम् |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

अत्रा॒पुरं᳚धिरजहा॒दरा᳚ती॒र्मदे॒सोम॑स्यमू॒रा,अमू᳚रः॒(स्वाहा᳚) || 7 ||

आ॒ऽदाय॑¦श्ये॒नः¦अ॒भ॒र॒त्¦सोम᳚‌म्¦स॒हस्र᳚‌म्¦स॒वान्¦अ॒युत᳚‌म्¦च॒¦सा॒क‌म् |
अत्र॑¦पुर᳚‌म्ऽधिः¦अ॒ज॒हा॒त्¦अरा᳚तीः¦मदे᳚¦सोम॑स्य¦मू॒राः¦अमू᳚रः ||

[27] गर्भेन्विति पंचर्चस्य सूक्तस्य गौतमोवामदेवः श्येनस्त्रिष्टुबन्त्याशक्वरी (परानवाष्टौवेत्यनुक्रमण्या मुक्तेरधश्वेतमित्यस्यां पाक्षिकींद्रदेवता यदिश्येनदेवतायाअष्टर्चत्वंस्वीकृतंचेत्) |{मंडल:4, सूक्त:27}{अनुवाक:3, सूक्त:6}{अष्टक:3, अध्याय:6}
गर्भे॒नुसन्नन्वे᳚षामवेदम॒हंदे॒वानां॒जनि॑मानि॒विश्वा᳚ |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

श॒तंमा॒पुर॒आय॑सीररक्ष॒न्नध॑श्ये॒नोज॒वसा॒निर॑दीय॒‌म्(स्वाहा᳚) || 1 || वर्ग:16

गर्भे᳚¦नु¦सन्¦अनु॑¦ए॒षा॒‌म्¦अ॒वे॒द॒‌म्¦अ॒ह‌म्¦दे॒वाना᳚‌म्¦जनि॑मानि¦विश्वा᳚ |
श॒त‌म्¦मा॒¦पुरः॑¦आय॑सीः¦अ॒र॒क्ष॒न्¦अध॑¦श्ये॒नः¦ज॒वसा᳚¦निः¦अ॒दी॒य॒‌म् ||

नघा॒समामप॒जोषं᳚जभारा॒ऽभीमा᳚स॒त्वक्ष॑सावी॒र्ये᳚ण |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

ई॒र्मापुरं᳚धिरजहा॒दरा᳚तीरु॒तवाताँ᳚,अतर॒च्छूशु॑वानः॒(स्वाहा᳚) || 2 ||

न¦घ॒¦सः¦मा‌म्¦अप॑¦जोष᳚‌म्¦ज॒भा॒र॒¦अ॒भि¦ई॒‌म्¦आ॒स॒¦त्वक्ष॑सा¦वी॒र्ये᳚ण |
ई॒र्मा¦पुर᳚‌म्ऽधिः¦अ॒ज॒हा॒त्¦अरा᳚तीः¦उ॒त¦वाता᳚न्¦अ॒त॒र॒त्¦शूशु॑वानः ||

अव॒यच्छ्ये॒नो,अस्व॑नी॒दध॒द्योर्वियद्यदि॒वात॑ऊ॒हुःपुरं᳚धिम् |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

सृ॒जद्यद॑स्मा॒,अव॑हक्षि॒पज्ज्यांकृ॒शानु॒रस्ता॒मन॑साभुर॒ण्यन्(स्वाहा᳚) || 3 ||

अव॑¦यत्¦श्ये॒नः¦अस्व॑नीत्¦अध॑¦द्योः¦वि¦यत्¦यदि॑¦वा॒¦अतः॑¦ऊ॒हुः¦पुर᳚‌म्ऽधि‌म् |
सृ॒जत्¦यत्¦अ॒स्मै॒¦अव॑¦ह॒¦क्षि॒पत्¦ज्या‌म्¦कृ॒शानुः॑¦अस्ता᳚¦मन॑सा¦भु॒र॒ण्यन् ||

ऋ॒जि॒प्यई॒मिन्द्रा᳚वतो॒नभु॒ज्युंश्ये॒नोज॑भारबृह॒तो,अधि॒ष्णोः |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

अ॒न्तःप॑तत्‌पत॒त्र्य॑स्यप॒र्णमध॒याम॑नि॒प्रसि॑तस्य॒तद्वेः(स्वाहा᳚) || 4 ||

ऋ॒जि॒प्यः¦ई॒‌म्¦इन्द्र॑ऽवतः¦न¦भु॒ज्यु‌म्¦श्ये॒नः¦ज॒भा॒र॒¦बृ॒ह॒तः¦अधि॑¦स्नोः |
अ॒न्तरिति॑¦प॒त॒त्¦प॒त॒त्रि¦अ॒स्य॒¦प॒र्ण‌म्¦अध॑¦याम॑नि¦प्रऽसि॑तस्य¦तत्¦वेरिति॒ वेः ||

अध॑श्वे॒तंक॒लशं॒गोभि॑र॒क्तमा᳚पिप्या॒नंम॒घवा᳚शु॒क्रमन्धः॑ |{गौतमो वामदेवः | श्येनः, इन्द्रः | शक्वरी}

अ॒ध्व॒र्युभिः॒प्रय॑तं॒मध्वो॒,अग्र॒मिन्द्रो॒मदा᳚य॒प्रति॑ध॒त्‌पिब॑ध्यै॒शूरो॒मदा᳚य॒प्रति॑ध॒त्‌पिब॑ध्यै॒(स्वाहा᳚) || 5 ||

अध॑¦श्वे॒त‌म्¦क॒लश᳚‌म्¦गोभिः॑¦अ॒क्त‌म्¦आ॒ऽपि॒प्या॒न‌म्¦म॒घऽवा᳚¦शु॒क्र‌म्¦अन्धः॑ |
अ॒ध्व॒र्युऽभिः॑¦प्रऽय॑त‌म्¦मध्वः॑¦अग्र᳚‌म्¦इन्द्रः॑¦मदा᳚य¦प्रति॑¦ध॒त्¦पिब॑ध्यै¦शूरः॑¦मदा᳚य¦प्रति॑¦ध॒त्¦पिब॑ध्यै ||

[28] त्वायुजेति पंचर्चस्य सूक्तस्य गौतमोवामदेव इंद्रत्रिष्टुप् (इंद्रासोमौवा देवते) |{मंडल:4, सूक्त:28}{अनुवाक:3, सूक्त:7}{अष्टक:3, अध्याय:6}
त्वायु॒जातव॒तत्‌सो᳚मस॒ख्यइन्द्रो᳚,अ॒पोमन॑वेस॒स्रुत॑स्कः |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्}

अह॒न्नहि॒मरि॑णात्‌स॒प्तसिन्धू॒नपा᳚वृणो॒दपि॑हितेव॒खानि॒(स्वाहा᳚) || 1 || वर्ग:17

त्वा¦यु॒जा¦तव॑¦तत्¦सो॒म॒¦स॒ख्ये¦इन्द्रः॑¦अ॒पः¦मन॑वे¦स॒ऽस्रुतः॑¦क॒रिति॑ कः |
अह॑न्¦अहि᳚‌म्¦अरि॑णात्¦स॒प्त¦सिन्धू᳚न्¦अप॑¦अ॒वृ॒णो॒त्¦अपि॑हिताऽ‌इव¦खानि॑ ||

त्वायु॒जानिखि॑द॒त्‌सूर्य॒स्येन्द्र॑श्च॒क्रंसह॑सास॒द्यइ᳚न्दो |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्}

अधि॒ष्णुना᳚बृह॒तावर्त॑मानंम॒होद्रु॒हो,अप॑वि॒श्वायु॑धायि॒(स्वाहा᳚) || 2 ||

त्वा¦यु॒जा¦नि¦खि॒द॒त्¦सूर्य॑स्य¦इन्द्रः॑¦च॒क्र‌म्¦सह॑सा¦स॒द्यः¦इ॒न्दो॒ इति॑ |
अधि॑¦स्नुना᳚¦बृ॒ह॒ता¦वर्त॑मान‌म्¦म॒हः¦द्रु॒हः¦अप॑¦वि॒श्वऽआ᳚यु¦धा॒यि॒ ||

अह॒न्निन्द्रो॒,अद॑हद॒ग्निरि᳚न्दोपु॒रादस्यू᳚न्‌म॒ध्यंदि॑नाद॒भीके᳚ |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्}

दु॒र्गेदु॑रो॒णेक्रत्वा॒नया॒तांपु॒रूस॒हस्रा॒शर्वा॒निब᳚र्ही॒‌त्(स्वाहा᳚) || 3 ||

अह॑न्¦इन्द्रः॑¦अद॑हत्¦अ॒ग्निः¦इ॒न्दो॒ इति॑¦पु॒रा¦दस्यू᳚न्¦म॒ध्यंदि॑नात्¦अ॒भीके᳚ |
दुः॒ऽगे¦दु॒रो॒णे¦क्रत्वा᳚¦न¦या॒ता‌म्¦पु॒रु¦स॒हस्रा᳚¦शर्वा᳚¦नि¦ब॒र्ही॒त् ||

विश्व॑स्मात्‌सीमध॒माँ,इ᳚न्द्र॒दस्यू॒न्विशो॒दासी᳚रकृणोरप्रश॒स्ताः |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्}

अबा᳚धेथा॒ममृ॑णतं॒निशत्रू॒नवि᳚न्देथा॒मप॑चितिं॒वध॑त्रैः॒(स्वाहा᳚) || 4 ||

विश्व॑स्मात्¦सी॒‌म्¦अ॒ध॒मान्¦इ॒न्द्र॒¦दस्यू᳚न्¦विशः॑¦दासीः᳚¦अ॒कृ॒णोः॒¦अ॒प्र॒ऽश॒स्ताः |
अबा᳚धेथा‌म्¦अमृ॑णत‌म्¦नि¦शत्रू᳚न्¦अवि᳚न्देथा‌म्¦अप॑ऽचिति‌म्¦वध॑त्रैः ||

ए॒वास॒त्यंम॑घवानायु॒वंतदिन्द्र॑श्चसोमो॒र्वमश्व्यं॒गोः |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्}

आद॑र्दृत॒मपि॑हिता॒न्यश्ना᳚रिरि॒चथुः॒,क्षाश्चि॑त्‌ततृदा॒ना(स्वाहा᳚) || 5 ||

ए॒व¦स॒त्य‌म्¦म॒घ॒ऽवा॒ना॒¦यु॒व‌म्¦तत्¦इन्द्रः॑¦च॒¦सो॒म॒¦ऊ॒र्व‌म्¦अश्व्य᳚‌म्¦गोः |
आ¦अ॒द॒र्दृ॒त॒‌म्¦अपि॑ऽहितानि¦अश्ना᳚¦रि॒रि॒चथुः॑¦क्षाः¦चि॒त्¦त॒तृ॒दा॒ना ||

[29] आनःस्तुतइति पंचर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |{मंडल:4, सूक्त:29}{अनुवाक:3, सूक्त:8}{अष्टक:3, अध्याय:6}
आनः॑स्तु॒तउप॒वाजे᳚भिरू॒ती,इन्द्र॑या॒हिहरि॑भिर्मन्दसा॒नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ति॒रश्चि॑द॒र्यःसव॑नापु॒रूण्या᳚ङ्गू॒षेभि॑र्गृणा॒नःस॒त्यरा᳚धाः॒(स्वाहा᳚) || 1 || वर्ग:18

आ¦नः॒¦स्तु॒तः¦उप॑¦वाजे᳚भिः¦ऊ॒ती¦इन्द्र॑¦या॒हि¦हरि॑ऽभिः¦म॒न्द॒सा॒नः |
ति॒रः¦चि॒त्¦अ॒र्यः¦सव॑ना¦पु॒रूणि॑¦आ॒ङ्गू॒षेभिः॑¦गृ॒णा॒नः¦स॒त्यऽरा᳚धाः ||

आहिष्मा॒याति॒नर्य॑श्चिकि॒त्वान्हू॒यमा᳚नःसो॒तृभि॒रुप॑य॒ज्ञम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स्वश्वो॒यो,अभी᳚रु॒र्मन्य॑मानःसुष्वा॒णेभि॒र्मद॑ति॒संह॑वी॒रैः(स्वाहा᳚) || 2 ||

आ¦हि¦स्म॒¦याति॑¦नर्यः॑¦चि॒कि॒त्वान्¦हू॒यमा᳚नः¦सो॒तृऽभिः॑¦उप॑¦य॒ज्ञ‌म् |
सु॒।आश्वः॑¦यः¦अभी᳚रुः¦मन्य॑मानः¦सु॒स्वा॒णेभिः॑¦मद॑ति¦स‌म्¦ह॒¦वी॒रैः ||

श्रा॒वयेद॑स्य॒कर्णा᳚वाज॒यध्यै॒जुष्टा॒मनु॒प्रदिशं᳚मन्द॒यध्यै᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

उ॒द्वा॒वृ॒षा॒णोराध॑से॒तुवि॑ष्मा॒न्कर᳚न्न॒इन्द्रः॑सुती॒र्थाभ॑यंच॒(स्वाहा᳚) || 3 ||

श्र॒वय॑¦इत्¦अ॒स्य॒¦कर्णा᳚¦वा॒ज॒यध्यै᳚¦जुष्टा᳚‌म्¦अनु॑¦प्र¦दिश᳚‌म्¦म॒न्द॒यध्यै᳚ |
उ॒त्ऽव॒वृ॒षा॒णः¦राध॑से¦तुवि॑ष्मान्¦कर॑त्¦नः॒¦इन्द्रः॑¦सु॒ऽती॒र्था¦अभ॑य‌म्¦च॒ ||

अच्छा॒योगन्ता॒नाध॑मानमू॒ती,इ॒त्थाविप्रं॒हव॑मानंगृ॒णन्त᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

उप॒त्मनि॒दधा᳚नोधु॒र्या॒३॑(आ॒)शून्त्स॒हस्रा᳚णिश॒तानि॒वज्र॑बाहुः॒(स्वाहा᳚) || 4 ||

अच्छ॑¦यः¦गन्ता᳚¦नाध॑मान‌म्¦ऊ॒ती¦इ॒त्था¦विप्र᳚‌म्¦हव॑मान‌म्¦गृ॒णन्त᳚‌म् |
उप॑¦त्मनि॑¦दधा᳚नः¦धु॒रि¦आ॒शून्¦स॒हस्रा᳚णि¦श॒तानि॑¦वज्र॑ऽबाहुः ||

त्वोता᳚सोमघवन्निन्द्र॒विप्रा᳚व॒यंते᳚स्यामसू॒रयो᳚गृ॒णन्तः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

भे॒जा॒नासो᳚बृ॒हद्दि॑वस्यरा॒यआ᳚का॒य्य॑स्यदा॒वने᳚पुरु॒क्षोः(स्वाहा᳚) || 5 ||

त्वाऽऊ᳚तासः¦म॒घ॒ऽव॒न्¦इ॒न्द्र॒¦विप्राः᳚¦व॒य‌म्¦ते॒¦स्या॒म॒¦सू॒रयः॑¦गृ॒णन्तः॑ |
भे॒जा॒नासः॑¦बृ॒हत्ऽदि॑वस्य¦रा॒यः¦आ॒ऽका॒य्य॑स्य¦दा॒वने᳚¦पु॒रु॒ऽक्षोः ||

[30] नकिरिंद्रेति चतुर्विंशत्यृचस्य सूक्तस्य गौतमोवामदेवइन्द्रः नवम्यादितिसृणामिंद्रोषसौगायत्री अष्टम्यंत्ये अनुष्टुभौ |{मंडल:4, सूक्त:30}{अनुवाक:3, सूक्त:9}{अष्टक:3, अध्याय:6}
नकि॑रिन्द्र॒त्वदुत्त॑रो॒नज्यायाँ᳚,अस्तिवृत्रहन् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

नकि॑रे॒वायथा॒त्वम्(स्वाहा᳚) || 1 || वर्ग:19

नकिः॑¦इ॒न्द्र॒¦त्वत्¦उत्ऽत॑रः¦न¦ज्याया᳚न्¦अ॒स्ति॒¦वृ॒त्र॒ऽह॒न् | नकिः॑¦ए॒व¦यथा᳚¦त्व‌म् ||

स॒त्राते॒,अनु॑कृ॒ष्टयो॒विश्वा᳚च॒क्रेव॑वावृतुः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

स॒त्राम॒हाँ,अ॑सिश्रु॒तः(स्वाहा᳚) || 2 ||

स॒त्रा¦ते॒¦अनु॑¦कृ॒ष्टयः॑¦विश्वा᳚¦च॒क्राऽ‌इ᳚व¦व॒वृ॒तुः॒ | स॒त्रा¦म॒हान्¦अ॒सि॒¦श्रु॒तः ||

विश्वे᳚च॒नेद॒नात्वा᳚दे॒वास॑इन्द्रयुयुधुः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

यदहा॒नक्त॒माति॑रः॒(स्वाहा᳚) || 3 ||

विश्वे᳚¦च॒न¦इत्¦अ॒ना¦त्वा॒¦दे॒वासः॑¦इ॒न्द्र॒¦यु॒यु॒धुः॒ | यत्¦अहा᳚¦नक्त᳚‌म्¦आ¦अति॑रः ||

यत्रो॒तबा᳚धि॒तेभ्य॑श्च॒क्रंकुत्सा᳚य॒युध्य॑ते |{गौतमो वामदेवः | इन्द्रः | गायत्री}

मु॒षा॒यइ᳚न्द्र॒सूर्य॒‌म्(स्वाहा᳚) || 4 ||

यत्र॑¦उ॒त¦बा॒धि॒तेभ्यः॑¦च॒क्र‌म्¦कुत्सा᳚य¦युध्य॑ते | मु॒षा॒यः¦इ॒न्द्र॒¦सूर्य᳚‌म् ||

यत्र॑दे॒वाँ,ऋ॑घाय॒तोविश्वाँ॒,अयु॑ध्य॒एक॒इत् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

त्वमि᳚न्द्रव॒नूँरह॒न्त्(स्वाहा᳚) || 5 ||

यत्र॑¦दे॒वान्¦ऋ॒घा॒य॒तः¦विश्वा᳚न्¦अयु॑ध्यः¦एकः॑¦इत् | त्व‌म्¦इ॒न्द्र॒¦व॒नून्¦अह॑न् ||

यत्रो॒तमर्त्या᳚य॒कमरि॑णा,इन्द्र॒सूर्य᳚म् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

प्रावः॒शची᳚भि॒रेत॑श॒‌म्(स्वाहा᳚) || 6 || वर्ग:20

यत्र॑¦उ॒त¦मर्त्या᳚य¦क‌म्¦अरि॑णाः¦इ॒न्द्र॒¦सूर्य᳚‌म् | प्र¦आ॒वः॒¦शची᳚भिः¦एत॑श‌म् ||

किमादु॒तासि॑वृत्रह॒न्मघ॑वन्‌मन्यु॒मत्त॑मः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अत्राह॒दानु॒माति॑रः॒(स्वाहा᳚) || 7 ||

कि‌म्¦आत्¦उ॒त¦अ॒सि॒¦वृ॒त्र॒ऽह॒न्¦मघ॑ऽवन्¦म॒न्यु॒मत्ऽत॑मः | अत्र॑¦अह॑¦दानु᳚‌म्¦आ¦अ॒ति॒रः॒ ||

ए॒तद्घेदु॒तवी॒र्य१॑(अ॒)मिन्द्र॑च॒कर्थ॒पौंस्य᳚म् |{गौतमो वामदेवः | इन्द्रः | अनुष्टुप्}

स्त्रियं॒यद्‌दु᳚र्हणा॒युवं॒वधी᳚र्दुहि॒तरं᳚दि॒वः(स्वाहा᳚) || 8 ||

ए॒तत्¦घ॒¦इत्¦उ॒त¦वी॒र्य᳚‌म्¦इन्द्र॑¦च॒कर्थ॑¦पौंस्य᳚‌म् | स्त्रिय᳚‌म्¦यत्¦दुः॒ऽह॒ना॒युव᳚‌म्¦वधीः᳚¦दु॒हि॒तर᳚‌म्¦दि॒वः ||

दि॒वश्चि॑द्घादुहि॒तरं᳚म॒हान्‌म॑ही॒यमा᳚नाम् |{गौतमो वामदेवः | इंद्रोषसौ | गायत्री}

उ॒षास॑मिन्द्र॒संपि॑णक्॒(स्वाहा᳚) || 9 ||

दि॒वः¦चि॒त्¦घ॒¦दु॒हि॒तर᳚‌म्¦म॒हान्¦म॒ही॒यमा᳚ना‌म् | उ॒षस᳚‌म्¦इ॒न्द्र॒¦स‌म्¦पि॒ण॒क् ||

अपो॒षा,अन॑सःसर॒त्सम्पि॑ष्टा॒दह॑बि॒भ्युषी᳚ |{गौतमो वामदेवः | इंद्रोषसौ | गायत्री}

नियत्सीं᳚शि॒श्नथ॒द्‌वृषा॒(स्वाहा᳚) || 10 ||

अप॑¦उ॒षाः¦अन॑सः¦सर॑त्¦स‌म्ऽपि॑ष्टात्¦अह॑¦बि॒भ्युषी᳚ | नि¦यत्¦सी॒‌म्¦शि॒श्नथ॑त्¦वृषा᳚ ||

ए॒तद॑स्या॒,अनः॑शये॒सुस᳚म्पिष्टं॒विपा॒श्या |{गौतमो वामदेवः | इंद्रोषसौ | गायत्री}

स॒सार॑सींपरा॒वतः॒(स्वाहा᳚) || 11 || वर्ग:21

ए॒तत्¦अ॒स्याः॒¦अनः॑¦श॒ये॒¦सुऽसं᳚पिष्ट‌म्¦विऽपा᳚शि¦आ | स॒सार॑¦सी॒‌म्¦प॒रा॒ऽवतः॑ ||

उ॒तसिन्धुं᳚विबा॒ल्यं᳚वितस्था॒नामधि॒क्षमि॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

परि॑ष्ठा,इन्द्रमा॒यया॒(स्वाहा᳚) || 12 ||

उ॒त¦सिन्धु᳚‌म्¦वि॒ऽबा॒ल्य᳚‌म्¦वि॒ऽत॒स्था॒ना‌म्¦अधि॑¦क्षमि॑ | परि॑¦स्थाः॒¦इ॒न्द्र॒¦मा॒यया᳚ ||

उ॒तशुष्ण॑स्यधृष्णु॒याप्रमृ॑क्षो,अ॒भिवेद॑नम् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

पुरो॒यद॑स्यसम्पि॒णक्(स्वाहा᳚) || 13 ||

उ॒त¦शुष्ण॑स्य¦धृ॒ष्णु॒ऽया¦प्र¦मृ॒क्षः॒¦अ॒भि¦वेद॑न‌म् | पुरः॑¦यत्¦अ॒स्य॒¦स॒‌म्ऽपि॒णक् ||

उ॒तदा॒संकौ᳚लित॒रंबृ॑ह॒तःपर्व॑ता॒दधि॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अवा᳚हन्निन्द्र॒शम्ब॑र॒‌म्(स्वाहा᳚) || 14 ||

उ॒त¦दा॒स‌म्¦कौ॒लि॒ऽत॒र‌म्¦बृ॒ह॒तः¦पर्व॑तात्¦अधि॑ | अव॑¦अ॒ह॒न्¦इ॒न्द्र॒¦शम्ब॑र‌म् ||

उ॒तदा॒सस्य॑व॒र्चिनः॑स॒हस्रा᳚णिश॒ताव॑धीः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अधि॒पञ्च॑प्र॒धीँरि॑व॒(स्वाहा᳚) || 15 ||

उ॒त¦दा॒सस्य॑¦व॒र्चिनः॑¦स॒हस्रा᳚णि¦श॒ता¦अ॒व॒धीः॒ | अधि॑¦पंच॑¦प्र॒धीन्ऽ‌इ᳚व ||

उ॒तत्यंपु॒त्रम॒ग्रुवः॒परा᳚वृक्तंश॒तक्र॑तुः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

उ॒क्थेष्विन्द्र॒आभ॑ज॒‌त्(स्वाहा᳚) || 16 || वर्ग:22

उ॒त¦त्य‌म्¦पु॒त्र‌म्¦अ॒ग्रुवः॑¦परा᳚ऽवृक्त‌म्¦श॒तऽक्र॑तुः | उ॒क्थेषु॑¦इन्द्रः॑¦आ¦अ॒भ॒ज॒त् ||

उ॒तत्यातु॒र्वशा॒यदू᳚,अस्ना॒तारा॒शची॒पतिः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

इन्द्रो᳚वि॒द्वाँ,अ॑पारय॒‌त्(स्वाहा᳚) || 17 ||

उ॒त¦त्या¦तु॒र्वशा॒यदू॒ इति॑¦अ॒स्ना॒तारा᳚¦शची॒३॒॑ऽपतिः॑ | इन्द्रः॑¦वि॒द्वान्¦अ॒पा॒र॒य॒त् ||

उ॒तत्यास॒द्यआर्या᳚स॒रयो᳚रिन्द्रपा॒रतः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अर्णा᳚चि॒त्रर॑थावधीः॒(स्वाहा᳚) || 18 ||

उ॒त¦त्या¦स॒द्यः¦आर्या᳚¦स॒रयोः᳚¦इ॒न्द्र॒¦पा॒रतः॑ | अर्णा᳚चि॒त्रर॑था¦अ॒व॒धीः॒ ||

अनु॒द्वाज॑हि॒तान॑यो॒ऽन्धंश्रो॒णंच॑वृत्रहन् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

नतत्ते᳚सु॒म्नमष्ट॑वे॒(स्वाहा᳚) || 19 ||

अनु॑¦द्वा¦ज॒हि॒ता¦न॒यः॒¦अ॒न्ध‌म्¦श्रो॒ण‌म्¦च॒¦वृ॒त्र॒ऽह॒न् | न¦तत्¦ते॒¦सु॒म्न‌म्¦अष्ट॑वे ||

श॒तम॑श्म॒न्‌मयी᳚नांपु॒रामिन्द्रो॒व्या᳚स्यत् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

दिवो᳚दासायदा॒शुषे॒(स्वाहा᳚) || 20 ||

श॒त‌म्¦अ॒श्म॒न्ऽमयी᳚ना‌म्¦पु॒रा‌म्¦इन्द्रः॑¦वि¦आ॒स्य॒त् | दिवः॑ऽदासाय¦दा॒शुषे᳚ ||

अस्वा᳚पयद्‌द॒भीत॑येस॒हस्रा᳚त्रिं॒शतं॒हथैः᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

दा॒साना॒मिन्द्रो᳚मा॒यया॒(स्वाहा᳚) || 21 || वर्ग:23

अस्वा᳚पयत्¦द॒भीत॑ये¦स॒हस्रा᳚¦त्रिं॒शत᳚‌म्¦हथैः᳚ | दा॒साना᳚‌म्¦इन्द्रः॑¦मा॒यया᳚ ||

सघेदु॒तासि॑वृत्रहन्त्समा॒नइ᳚न्द्र॒गोप॑तिः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

यस्ताविश्वा᳚निचिच्यु॒षे(स्वाहा᳚) || 22 ||

सः¦घ॒¦इत्¦उ॒त¦अ॒सि॒¦वृ॒त्र॒ऽह॒न्¦स॒मा॒नः¦इ॒न्द्र॒¦गोऽप॑तिः | यः¦ता¦विश्वा᳚नि¦चि॒च्यु॒षे ||

उ॒तनू॒नंयदि᳚न्द्रि॒यंक॑रि॒ष्या,इ᳚न्द्र॒पौंस्य᳚म् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अ॒द्यानकि॒ष्टदामि॑न॒‌त्(स्वाहा᳚) || 23 ||

उ॒त¦नू॒न‌म्¦यत्¦इ॒न्द्रि॒य‌म्¦क॒रि॒ष्याः¦इ॒न्द्र॒¦पौंस्य᳚‌म् | अ॒द्य¦नकिः॑¦तत्¦आ¦मि॒न॒त् ||

वा॒मंवा᳚मंतआदुरेदे॒वोद॑दात्वर्य॒मा |{गौतमो वामदेवः | इन्द्रः | अनुष्टुप्}

वा॒मंपू॒षावा॒मंभगो᳚वा॒मंदे॒वःकरू᳚ळती॒(स्वाहा᳚) || 24 ||

वा॒म‌म्ऽवा᳚म‌म्¦ते॒¦आ॒ऽदु॒रे॒¦दे॒वः¦द॒दा॒तु॒¦अ॒र्य॒मा | वा॒म‌म्¦पू॒षा¦वा॒म‌म्¦भगः॑¦वा॒म‌म्¦दे॒वः¦करू᳚ळती ||

[31] कयानइति पंचदशर्चस्य सूक्तस्य गौतमोवामदेवइंद्रोगायत्री तृतीयापादनिचृत् |{मंडल:4, सूक्त:31}{अनुवाक:3, सूक्त:10}{अष्टक:3, अध्याय:6}
कया᳚नश्चि॒त्रआभु॑वदू॒तीस॒दावृ॑धः॒सखा᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

कया॒शचि॑ष्ठयावृ॒ता(स्वाहा᳚) || 1 || वर्ग:24

कया᳚¦नः॒¦चि॒त्रः¦आ¦भु॒व॒त्¦ऊ॒ती¦स॒दाऽवृ॑धः¦सखा᳚ | कया᳚¦शचि॑ष्ठया¦वृ॒ता ||

कस्त्वा᳚स॒त्योमदा᳚नां॒मंहि॑ष्ठोमत्स॒दन्ध॑सः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

दृ॒ळ्हाचि॑दा॒रुजे॒वसु॒(स्वाहा᳚) || 2 ||

कः¦त्वा॒¦स॒त्यः¦मदा᳚ना‌म्¦मंहि॑ष्ठः¦म॒त्स॒त्¦अन्ध॑सः | दृ॒ळ्हा¦चि॒त्¦आ॒ऽरुजे᳚¦वसु॑ ||

अ॒भीषुणः॒सखी᳚नामवि॒ताज॑रितॄ॒णाम् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

श॒तंभ॑वास्यू॒तिभिः॒(स्वाहा᳚) || 3 ||

अ॒भि¦सु¦नः॒¦सखी᳚ना‌म्¦अ॒वि॒ता¦ज॒रि॒तॄ॒णा‌म् | श॒त‌म्¦भ॒वा॒सि॒¦ऊ॒तिऽभिः॑ ||

अ॒भीन॒आव॑वृत्स्वच॒क्रंनवृ॒त्तमर्व॑तः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

नि॒युद्भि॑श्चर्षणी॒नाम्(स्वाहा᳚) || 4 ||

अ॒भि¦नः॒¦आ¦व॒वृ॒त्स्व॒¦च॒क्र‌म्¦न¦वृ॒त्त‌म्¦अर्व॑तः | नि॒युत्ऽभिः॑¦च॒र्ष॒णी॒ना‌म् ||

प्र॒वता॒हिक्रतू᳚ना॒माहा᳚प॒देव॒गच्छ॑सि |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अभ॑क्षि॒सूर्ये॒सचा॒(स्वाहा᳚) || 5 ||

प्र॒ऽवता᳚¦हि¦क्रतू᳚ना‌म्¦आ¦ह॒¦प॒दाऽ‌इ᳚व¦गच्छ॑सि | अभ॑क्षि¦सूर्ये᳚¦सचा᳚ ||

संयत्त॑इन्द्रम॒न्यवः॒संच॒क्राणि॑दधन्वि॒रे |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अध॒त्वे,अध॒सूर्ये॒(स्वाहा᳚) || 6 || वर्ग:25

स‌म्¦यत्¦ते॒¦इ॒न्द्र॒¦म॒न्यवः॑¦स‌म्¦च॒क्राणि॑¦द॒ध॒न्वि॒रे | अध॑¦त्वे इति॑¦अध॑¦सूर्ये᳚ ||

उ॒तस्मा॒हित्वामा॒हुरिन्म॒घवा᳚नंशचीपते |{गौतमो वामदेवः | इन्द्रः | गायत्री}

दाता᳚र॒मवि॑दीधयु॒‌म्(स्वाहा᳚) || 7 ||

उ॒त¦स्म॒¦हि¦त्वा‌म्¦आ॒हुः¦इत्¦म॒घऽवा᳚न‌म्¦श॒ची॒ऽप॒ते॒ | दाता᳚र‌म्¦अवि॑ऽदीधयु‌म् ||

उ॒तस्मा᳚स॒द्यइत्‌परि॑शशमा॒नाय॑सुन्व॒ते |{गौतमो वामदेवः | इन्द्रः | गायत्री}

पु॒रूचि᳚न्मंहसे॒वसु॒(स्वाहा᳚) || 8 ||

उ॒त¦स्म॒¦स॒द्यः¦इत्¦परि॑¦श॒श॒मा॒नाय॑¦सु॒न्व॒ते | पु॒रु¦चि॒त्¦मं॒ह॒से॒¦वसु॑ ||

न॒हिष्मा᳚तेश॒तंच॒नराधो॒वर᳚न्तआ॒मुरः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

नच्यौ॒त्नानि॑करिष्य॒तः(स्वाहा᳚) || 9 ||

न॒हि¦स्म॒¦ते॒¦श॒त‌म्¦च॒न¦राधः॑¦वर᳚न्ते¦आ॒ऽमुरः॑ | न¦च्यौ॒त्नानि॑¦क॒रि॒ष्य॒तः ||

अ॒स्माँ,अ॑वन्तुतेश॒तम॒स्मान्‌त्स॒हस्र॑मू॒तयः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अ॒स्मान्‌विश्वा᳚,अ॒भिष्ट॑यः॒(स्वाहा᳚) || 10 ||

अ॒स्मान्¦अ॒व॒न्तु॒¦ते॒¦श॒त‌म्¦अ॒स्मान्¦स॒हस्र᳚‌म्¦ऊ॒तयः॑ | अ॒स्मान्¦विश्वाः᳚¦अ॒भिष्ट॑यः ||

अ॒स्माँ,इ॒हावृ॑णीष्वस॒ख्याय॑स्व॒स्तये᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

म॒होरा॒येदि॒वित्म॑ते॒(स्वाहा᳚) || 11 || वर्ग:26

अ॒स्मान्¦इ॒ह¦वृ॒णी॒ष्व॒¦स॒ख्याय॑¦स्व॒स्तये᳚ | म॒हः¦रा॒ये¦दि॒वित्म॑ते ||

अ॒स्माँ,अ॑विड्ढिवि॒श्वहेन्द्र॑रा॒यापरी᳚णसा |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अ॒स्मान्‌विश्वा᳚भिरू॒तिभिः॒(स्वाहा᳚) || 12 ||

अ॒स्मान्¦अ॒वि॒ड्ढि॒¦वि॒श्वहा᳚¦इन्द्र॑¦रा॒या¦परी᳚णसा | अ॒स्मान्¦विश्वा᳚भिः¦ऊ॒तिऽभिः॑ ||

अ॒स्मभ्यं॒ताँ,अपा᳚वृधिव्र॒जाँ,अस्ते᳚व॒गोम॑तः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

नवा᳚भिरिन्द्रो॒तिभिः॒(स्वाहा᳚) || 13 ||

अ॒स्मभ्य᳚‌म्¦तान्¦अप॑¦वृ॒धि॒¦व्र॒जान्¦अस्ता᳚ऽ‌इव¦गोऽम॑तः | नवा᳚भिः¦इ॒न्द्र॒¦ऊ॒तिऽभिः॑ ||

अ॒स्माकं᳚धृष्णु॒यारथो᳚द्यु॒माँ,इ॒न्द्रान॑पच्युतः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

ग॒व्युर॑श्व॒युरी᳚यते॒(स्वाहा᳚) || 14 ||

अ॒स्माक᳚‌म्¦धृ॒ष्णु॒ऽया¦रथः॑¦द्यु॒ऽमान्¦इ॒न्द्र॒¦अन॑पऽच्युतः | ग॒व्युः¦अ॒श्व॒ऽयुः¦ई॒य॒ते॒ ||

अ॒स्माक॑मुत्त॒मंकृ॑धि॒श्रवो᳚दे॒वेषु॑सूर्य |{गौतमो वामदेवः | इन्द्रः | गायत्री}

वर्षि॑ष्ठं॒द्यामि॑वो॒परि॒(स्वाहा᳚) || 15 ||

अ॒स्माक᳚‌म्¦उ॒त्ऽत॒म‌म्¦कृ॒धि॒¦श्रवः॑¦दे॒वेषु॑¦सू॒र्य॒ | वर्षि॑ष्ठ‌म्¦द्या‌म्ऽ‌इ᳚व¦उ॒परि॑ ||

[32] आतूनइति चतुर्विंशत्यृचस्य सूक्तस्य गौतमोवामदेव इंद्रोंत्ययोरिंद्राश्वौगायत्री |{मंडल:4, सूक्त:32}{अनुवाक:3, सूक्त:11}{अष्टक:3, अध्याय:6}
आतून॑इन्द्रवृत्रहन्न॒स्माक॑म॒र्धमाग॑हि |{गौतमो वामदेवः | इन्द्रः | गायत्री}

म॒हान्‌म॒हीभि॑रू॒तिभिः॒(स्वाहा᳚) || 1 || वर्ग:27

आ¦तु¦नः॒¦इ॒न्द्र॒¦वृ॒त्र॒ऽह॒न्¦अ॒स्माक᳚‌म्¦अ॒र्ध‌म्¦आ¦ग॒हि॒ | म॒हान्¦म॒हीभिः॑¦ऊ॒तिऽभिः॑ ||

भृमि॑श्चिद्‌घासि॒तूतु॑जि॒राचि॑त्रचि॒त्रिणी॒ष्वा |{गौतमो वामदेवः | इन्द्रः | गायत्री}

चि॒त्रंकृ॑णोष्यू॒तये॒(स्वाहा᳚) || 2 ||

भृमिः॑¦चि॒त्¦घ॒¦अ॒सि॒¦तूतु॑जिः¦आ¦चि॒त्र॒¦चि॒त्रिणी᳚षु¦आ | चि॒त्र‌म्¦कृ॒णो॒षि॒¦ऊ॒तये᳚ ||

द॒भ्रेभि॑श्चि॒च्छशी᳚यांसं॒हंसि॒व्राध᳚न्त॒मोज॑सा |{गौतमो वामदेवः | इन्द्रः | गायत्री}

सखि॑भि॒र्येत्वेसचा॒(स्वाहा᳚) || 3 ||

द॒भ्रेभिः॑¦चि॒त्¦शशी᳚यांस‌म्¦हंसि॑¦व्राध᳚न्त‌म्¦ओज॑सा | सखि॑ऽभिः¦ये¦त्वे इति॑¦सचा᳚ ||

व॒यमि᳚न्द्र॒त्वेसचा᳚व॒यंत्वा॒भिनो᳚नुमः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अ॒स्माँअ॑स्माँ॒,इदुद॑व॒(स्वाहा᳚) || 4 ||

व॒य‌म्¦इ॒न्द्र॒¦त्वे इति॑¦सचा᳚¦व॒य‌म्¦त्वा॒¦अ॒भि¦नो॒नु॒मः॒ | अ॒स्मान्।आ॑स्मान्¦इत्¦उत्¦अ॒व॒ ||

सन॑श्चि॒त्राभि॑रद्रिवोऽनव॒द्याभि॑रू॒तिभिः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अना᳚धृष्टाभि॒राग॑हि॒(स्वाहा᳚) || 5 ||

सः¦नः॒¦चि॒त्राभिः॑¦अ॒द्रि॒ऽवः॒¦अ॒न॒व॒द्याभिः॑¦ऊ॒तिऽभिः॑ | अना᳚धृष्टाभिः¦आ¦ग॒हि॒ ||

भू॒यामो॒षुत्वाव॑तः॒सखा᳚यइन्द्र॒गोम॑तः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

युजो॒वाजा᳚य॒घृष्व॑ये॒(स्वाहा᳚) || 6 || वर्ग:28

भू॒यामो॒ इति॑¦सु¦त्वाऽव॑तः¦सखा᳚यः¦इ॒न्द्र॒¦गोऽम॑तः | युजः॑¦वाजा᳚य¦घृष्व॑ये ||

त्वंह्येक॒ईशि॑ष॒इन्द्र॒वाज॑स्य॒गोम॑तः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

सनो᳚यन्धिम॒हीमिष॒‌म्(स्वाहा᳚) || 7 ||

त्व‌म्¦हि¦एकः॑¦ईशि॑षे¦इन्द्र॑¦वाज॑स्य¦गोऽम॑तः | सः¦नः॒¦य॒न्धि॒¦म॒ही‌म्¦इष᳚‌म् ||

नत्वा᳚वरन्ते,अ॒न्यथा॒यद्दित्स॑सिस्तु॒तोम॒घम् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

स्तो॒तृभ्य॑इन्द्रगिर्वणः॒(स्वाहा᳚) || 8 ||

न¦त्वा॒¦व॒र॒न्ते॒¦अ॒न्यथा᳚¦यत्¦दित्स॑सि¦स्तु॒तः¦म॒घ‌म् | स्तो॒तृऽभ्यः॑¦इ॒न्द्र॒¦गि॒र्व॒णः॒ ||

अ॒भित्वा॒गोत॑मागि॒राऽनू᳚षत॒प्रदा॒वने᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

इन्द्र॒वाजा᳚य॒घृष्व॑ये॒(स्वाहा᳚) || 9 ||

अ॒भि¦त्वा॒¦गोत॑माः¦गि॒रा¦अनू᳚षत¦प्र¦दा॒वने᳚ | इन्द्र॑¦वाजा᳚य¦घृष्व॑ये ||

प्रते᳚वोचामवी॒र्या॒३॑(आ॒)याम᳚न्दसा॒नआरु॑जः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

पुरो॒दासी᳚र॒भीत्य॒(स्वाहा᳚) || 10 ||

प्र¦ते॒¦वो॒चा॒म॒¦वी॒र्या᳚¦याः¦म॒न्द॒सा॒नः¦आ¦अरु॑जः | पुरः॑¦दासीः᳚¦अ॒भि॒ऽ‌इत्य॑ ||

ताते᳚गृणन्तिवे॒धसो॒यानि॑च॒कर्थ॒पौंस्या᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

सु॒तेष्वि᳚न्द्रगिर्वणः॒(स्वाहा᳚) || 11 || वर्ग:29

ता¦ते॒¦गृ॒ण॒न्ति॒¦वे॒धसः॑¦यानि॑¦च॒कर्थ॑¦पौंस्या᳚ | सु॒तेषु॑¦इ॒न्द्र॒¦गि॒र्व॒णः॒ ||

अवी᳚वृधन्त॒गोत॑मा॒,इन्द्र॒त्वेस्तोम॑वाहसः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

ऐषु॑धावी॒रव॒द्यशः॒(स्वाहा᳚) || 12 ||

अवी᳚वृधन्त¦गोत॑माः¦इन्द्र॑¦त्वे इति॑¦स्तोम॑ऽवाहसः | आ¦ए॒षु॒¦धाः॒¦वी॒रऽव॑त्¦यशः॑ ||

यच्चि॒द्धिशश्व॑ता॒मसीन्द्र॒साधा᳚रण॒स्त्वम् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

तंत्वा᳚व॒यंह॑वामहे॒(स्वाहा᳚) || 13 ||

यत्¦चि॒त्¦हि¦शश्व॑ता‌म्¦असि॑¦इन्द्र॑¦साधा᳚रणः¦त्व‌म् | त‌म्¦त्वा॒¦व॒य‌म्¦ह॒वा॒म॒हे॒ ||

अ॒र्वा॒ची॒नोव॑सोभवा॒ऽस्मेसुम॒त्स्वान्ध॑सः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

सोमा᳚नामिन्द्रसोमपाः॒(स्वाहा᳚) || 14 ||

अ॒र्वा॒ची॒नः¦व॒सो॒ इति॑¦भ॒व॒¦अ॒स्मे इति॑¦सु¦म॒त्स्व॒¦अन्ध॑सः | सोमा᳚ना‌म्¦इ॒न्द्र॒¦सो॒म॒ऽपाः॒ ||

अ॒स्माकं᳚त्वामती॒नामास्तोम॑इन्द्रयच्छतु |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अ॒र्वागाव॑र्तया॒हरी॒(स्वाहा᳚) || 15 ||

अ॒स्माक᳚‌म्¦त्वा॒¦म॒ती॒ना‌म्¦आ¦स्तोमः॑¦इ॒न्द्र॒¦य॒च्छ॒तु॒ | अ॒र्वाक्¦आ¦व॒र्त॒य॒¦हरी॒ इति॑ ||

पु॒रो॒ळाशं᳚चनो॒घसो᳚जो॒षया᳚से॒गिर॑श्चनः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

व॒धू॒युरि॑व॒योष॑णा॒‌म्(स्वाहा᳚) || 16 ||

पु॒रो॒ळाश᳚‌म्¦च॒¦नः॒¦घसः॑¦जो॒षया᳚से¦गिरः॑¦च॒¦नः॒ | व॒धू॒युःऽ‌इ᳚व¦योष॑णा‌म् ||

स॒हस्रं॒व्यती᳚नांयु॒क्ताना॒मिन्द्र॑मीमहे |{गौतमो वामदेवः | इन्द्रः | गायत्री}

श॒तंसोम॑स्यखा॒र्य॑१(अः॒)(स्वाहा᳚) || 17 || वर्ग:30

स॒हस्र᳚‌म्¦व्यती᳚ना‌म्¦यु॒क्ताना᳚‌म्¦इन्द्र᳚‌म्¦ई॒म॒हे॒ | श॒त‌म्¦सोम॑स्य¦खा॒र्यः॑ ||

स॒हस्रा᳚तेश॒ताव॒यंगवा॒माच्या᳚वयामसि |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अ॒स्म॒त्राराध॑एतुते॒(स्वाहा᳚) || 18 ||

स॒हस्रा᳚¦ते॒¦श॒ता¦व॒य‌म्¦गवा᳚‌म्¦आ¦च्य॒व॒या॒म॒सि॒ | अ॒स्म॒ऽत्रा¦राधः॑¦ए॒तु॒¦ते॒ ||

दश॑तेक॒लशा᳚नां॒हिर᳚ण्यानामधीमहि |{गौतमो वामदेवः | इन्द्रः | गायत्री}

भू॒रि॒दा,अ॑सिवृत्रह॒‌न्(स्वाहा᳚) || 19 ||

दश॑¦ते॒¦क॒लशा᳚ना‌म्¦हिर᳚ण्याना‌म्¦अ॒धी॒म॒हि॒ | भू॒रि॒ऽदाः¦अ॒सि॒¦वृ॒त्र॒ऽह॒न् ||

भूरि॑दा॒भूरि॑देहिनो॒माद॒भ्रंभूर्याभ॑र |{गौतमो वामदेवः | इन्द्रः | गायत्री}

भूरि॒घेदि᳚न्द्रदित्ससि॒(स्वाहा᳚) || 20 ||

भूरि॑ऽदाः¦भूरि॑¦दे॒हि॒¦नः॒¦मा¦द॒भ्र‌म्¦भूरि॑¦आ¦भ॒र॒ | भूरि॑¦घ॒¦इत्¦इ॒न्द्र॒¦दि॒त्स॒सि॒ ||

भू॒रि॒दाह्यसि॑श्रु॒तःपु॑रु॒त्राशू᳚रवृत्रहन् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

आनो᳚भजस्व॒राध॑सि॒(स्वाहा᳚) || 21 ||

भू॒रि॒ऽदाः¦हि¦असि॑¦श्रु॒तः¦पु॒रु॒ऽत्रा¦शू॒र॒¦वृ॒त्र॒ऽह॒न् | आ¦नः॒¦भ॒ज॒स्व॒¦राध॑सि ||

प्रते᳚ब॒भ्रूवि॑चक्षण॒शंसा᳚मिगोषणोनपात् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

माभ्यां॒गा,अनु॑शिश्रथः॒(स्वाहा᳚) || 22 ||

प्र¦ते॒¦ब॒भ्रू इति॑¦वि॒ऽच॒क्ष॒ण॒¦शंसा᳚मि¦गो॒ऽस॒नः॒¦न॒पा॒त् | मा¦आ॒भ्या॒‌म्¦गाः¦अनु॑¦शि॒श्र॒थः॒ ||

क॒नी॒न॒केव॑विद्र॒धेनवे᳚द्रुप॒दे,अ॑र्भ॒के |{गौतमो वामदेवः | इन्द्राश्वौ | गायत्री}

ब॒भ्रूयामे᳚षुशोभेते॒(स्वाहा᳚) || 23 ||

क॒नी॒न॒काऽ‌इ᳚व¦वि॒द्र॒धे¦नवे᳚¦द्रु॒ऽप॒दे¦अ॒र्भ॒के | ब॒भ्रू इति॑¦यामे᳚षु¦शो॒भे॒ते॒ इति॑ ||

अरं᳚मउ॒स्रया॒म्णेऽर॒मनु॑स्रयाम्णे |{गौतमो वामदेवः | इन्द्राश्वौ | गायत्री}

ब॒भ्रूयामे᳚ष्व॒स्रिधा॒(स्वाहा᳚) || 24 ||

अर᳚‌म्¦मे॒¦उ॒स्रऽया᳚म्ने¦अर᳚‌म्¦अनु॑स्रऽयाम्ने | ब॒भ्रू इति॑¦यामे᳚षु¦अ॒स्रिधा᳚ ||

[33] प्रऋभुभ्यइत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव ऋभवस्त्रिष्टुप् |{मंडल:4, सूक्त:33}{अनुवाक:4, सूक्त:1}{अष्टक:3, अध्याय:7}
प्रऋ॒भुभ्यो᳚दू॒तमि॑व॒वाच॑मिष्यउप॒स्तिरे॒श्वैत॑रींधे॒नुमी᳚ळे |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

येवात॑जूतास्त॒रणि॑भि॒रेवैः॒परि॒द्यांस॒द्यो,अ॒पसो᳚बभू॒वुः(स्वाहा᳚) || 1 || वर्ग:1

प्र¦ऋ॒भुऽभ्यः॑¦दू॒त‌म्ऽ‌इ᳚व¦वाच᳚‌म्¦इ॒ष्ये॒¦उ॒प॒ऽस्तिरे᳚¦श्वैत॑री‌म्¦धे॒नु‌म्¦ई॒ळे॒ |
ये¦वात॑ऽजूताः¦त॒रणि॑ऽभिः¦एवैः᳚¦परि॑¦द्या‌म्¦स॒द्यः¦अ॒पसः॑¦ब॒भू॒वुः ||

य॒दार॒मक्र᳚न्नृ॒भवः॑पि॒तृभ्यां॒परि॑विष्टीवे॒षणा᳚दं॒सना᳚भिः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

आदिद्दे॒वाना॒मुप॑स॒ख्यमा᳚य॒न्धीरा᳚सःपु॒ष्टिम॑वहन्‌म॒नायै॒(स्वाहा᳚) || 2 ||

य॒दा¦अर᳚‌म्¦अक्र॑न्¦ऋ॒भवः॑¦पि॒तृऽभ्या᳚‌म्¦परि॑ऽविष्टी¦वे॒षणा᳚¦दं॒सना᳚भिः |
आत्¦इत्¦दे॒वाना᳚‌म्¦उप॑¦स॒ख्य‌म्¦आ॒य॒न्¦धीरा᳚सः¦पु॒ष्टि‌म्¦अ॒व॒ह॒न्¦म॒नायै᳚ ||

पुन॒र्येच॒क्रुःपि॒तरा॒युवा᳚ना॒सना॒यूपे᳚वजर॒णाशया᳚ना |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

तेवाजो॒विभ्वाँ᳚,ऋ॒भुरिन्द्र॑वन्तो॒मधु॑प्सरसोनोऽवन्तुय॒ज्ञ॒‌म्(स्वाहा᳚) || 3 ||

पुनः॑¦ये¦च॒क्रुः¦पि॒तरा᳚¦युवा᳚ना¦सना᳚¦यूपा᳚ऽ‌इव¦ज॒र॒णा¦शया᳚ना |
ते¦वाजः॑¦विऽभ्वा᳚¦ऋ॒भुः¦इन्द्र॑ऽवन्तः¦मधु॑ऽप्सरसः¦नः॒¦अ॒व॒न्तु॒¦य॒ज्ञ‌म् ||

यत्‌सं॒वत्स॑मृ॒भवो॒गामर॑क्ष॒न्यत्‌सं॒वत्स॑मृ॒भवो॒मा,अपिं᳚शन् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

यत्‌सं॒वत्स॒मभ॑र॒न्‌भासो᳚,अस्या॒स्ताभिः॒शमी᳚भिरमृत॒त्वमा᳚शुः॒(स्वाहा᳚) || 4 ||

यत्¦स॒‌म्ऽवत्स᳚‌म्¦ऋ॒भवः॑¦गा‌म्¦अर॑क्षन्¦यत्¦स॒‌म्ऽवत्स᳚‌म्¦ऋ॒भवः॑¦माः¦अपिं᳚शन् |
यत्¦स॒‌म्ऽवत्स᳚‌म्¦अभ॑रन्¦भासः॑¦अ॒स्याः॒¦ताभिः॑¦शमी᳚भिः¦अ॒मृ॒त॒ऽत्व‌म्¦आ॒शुः॒ ||

ज्ये॒ष्ठआ᳚हचम॒साद्वाक॒रेति॒कनी᳚या॒न्‌त्रीन्‌कृ॑णवा॒मेत्या᳚ह |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

क॒नि॒ष्ठआ᳚हच॒तुर॑स्क॒रेति॒त्वष्ट॑ऋभव॒स्तत्‌प॑नय॒द्‌वचो᳚वः॒(स्वाहा᳚) || 5 ||

ज्ये॒ष्ठः¦आ॒ह॒¦च॒म॒सा¦द्वा¦क॒र॒¦इति॑¦कनी᳚यान्¦त्रीन्¦कृ॒ण॒वा॒म॒¦इति॑¦आ॒ह॒ |
क॒नि॒ष्ठः¦आ॒ह॒¦च॒तुरः॑¦क॒र॒¦इति॑¦त्वष्टा᳚¦ऋ॒भ॒वः॒¦तत्¦प॒न॒य॒त्¦वचः॑¦वः॒ ||

स॒त्यमू᳚चु॒र्नर॑ए॒वाहिच॒क्रुरनु॑स्व॒धामृ॒भवो᳚जग्मुरे॒ताम् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

वि॒भ्राज॑मानाँश्चम॒साँ,अहे॒वावे᳚न॒त्‌त्वष्टा᳚च॒तुरो᳚ददृ॒श्वान्(स्वाहा᳚) || 6 || वर्ग:2

स॒त्य‌म्¦ऊ॒चुः॒¦नरः॑¦ए॒व¦हि¦च॒क्रुः¦अनु॑¦स्व॒धा‌म्¦ऋ॒भवः॑¦ज॒ग्मुः॒¦ए॒ता‌म् |
वि॒ऽभ्राज॑मानान्¦च॒म॒सान्¦अहा᳚ऽ‌इव¦अवे᳚नत्¦त्वष्टा᳚¦च॒तुरः॑¦द॒दृ॒श्वान् ||

द्वाद॑श॒द्यून्‌यदगो᳚ह्यस्याऽऽति॒थ्येरण᳚न्नृ॒भवः॑स॒सन्तः॑ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

सु॒क्षेत्रा᳚कृण्व॒न्नन॑यन्त॒सिन्धू॒न्धन्वाति॑ष्ठ॒न्नोष॑धीर्नि॒म्नमापः॒(स्वाहा᳚) || 7 ||

द्वाद॑श¦द्यून्¦यत्¦अगो᳚ह्यस्य¦आ॒ति॒थ्ये¦रण॑न्¦ऋ॒भवः॑¦स॒सन्तः॑ |
सु॒ऽक्षेत्रा᳚¦अ॒कृ॒ण्व॒न्¦अन॑यन्त¦सिन्धू᳚न्¦धन्व॑¦आ¦अ॒ति॒ष्ठ॒न्¦ओष॑धीः¦नि॒म्न‌म्¦आपः॑ ||

रथं॒येच॒क्रुःसु॒वृतं᳚नरे॒ष्ठांयेधे॒नुंवि॑श्व॒जुवं᳚वि॒श्वरू᳚पाम् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

तआत॑क्षन्त्वृ॒भवो᳚र॒यिंनः॒स्वव॑सः॒स्वप॑सःसु॒हस्ताः᳚(स्वाहा᳚) || 8 ||

रथ᳚‌म्¦ये¦च॒क्रुः¦सु॒ऽवृत᳚‌म्¦न॒रे॒ऽस्था‌म्¦ये¦धे॒नु‌म्¦वि॒श्व॒ऽजुव᳚‌म्¦वि॒श्वऽरू᳚पा‌म् |
ते¦आ¦त॒क्ष॒न्तु॒¦ऋ॒भवः॑¦र॒यि‌म्¦नः॒¦सु॒।आव॑सः¦सु॒।आप॑सः¦सु॒ऽहस्ताः᳚ ||

अपो॒ह्ये᳚षा॒मजु॑षन्तदे॒वा,अ॒भिक्रत्वा॒मन॑सा॒दीध्या᳚नाः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

वाजो᳚दे॒वाना᳚मभवत्‌सु॒कर्मेन्द्र॑स्यऋभु॒क्षावरु॑णस्य॒विभ्वा॒(स्वाहा᳚) || 9 ||

अपः॑¦हि¦ए॒षा॒‌म्¦अजु॑षन्त¦दे॒वाः¦अ॒भि¦क्रत्वा᳚¦मन॑सा¦दीध्या᳚नाः |
वाजः॑¦दे॒वाना᳚‌म्¦अ॒भ॒व॒त्¦सु॒ऽकर्मा᳚¦इन्द्र॑स्य¦ऋ॒भु॒क्षाः¦वरु॑णस्य¦विऽभ्वा᳚ ||

येहरी᳚मे॒धयो॒क्थामद᳚न्त॒इन्द्रा᳚यच॒क्रुःसु॒युजा॒ये,अश्वा᳚ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

तेरा॒यस्पोषं॒द्रवि॑णान्य॒स्मेध॒त्तऋ॑भवः,क्षेम॒यन्तो॒नमि॒त्रम्(स्वाहा᳚) || 10 ||

ये¦हरी॒ इति॑¦मे॒धया᳚¦उ॒क्था¦मद᳚न्तः¦इन्द्रा᳚य¦च॒क्रुः¦सु॒ऽयुजा᳚¦ये¦अश्वा᳚ |
ते¦रा॒यः¦पोष᳚‌म्¦द्रवि॑णानि¦अ॒स्मे इति॑¦ध॒त्त¦ऋ॒भ॒वः॒¦क्षे॒म॒ऽयन्तः॑¦न¦मि॒त्र‌म् ||

इ॒दाह्नः॑पी॒तिमु॒तवो॒मदं᳚धु॒र्नऋ॒तेश्रा॒न्तस्य॑स॒ख्याय॑दे॒वाः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

तेनू॒नम॒स्मे,ऋ॑भवो॒वसू᳚नितृ॒तीये᳚,अ॒स्मिन्‌त्सव॑नेदधात॒(स्वाहा᳚) || 11 ||

इ॒दा¦अह्नः॑¦पी॒ति‌म्¦उ॒त¦वः॒¦मद᳚‌म्¦धुः॒¦न¦ऋ॒ते¦श्रा॒न्तस्य॑¦स॒ख्याय॑¦दे॒वाः |
ते¦नू॒न‌म्¦अ॒स्मे इति॑¦ऋ॒भ॒वः॒¦वसू᳚नि¦तृ॒तीये᳚¦अ॒स्मिन्¦सव॑ने¦द॒धा॒त॒ ||

[34] ऋभुर्विभ्वेत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव ऋभवस्त्रिष्टुप् |{मंडल:4, सूक्त:34}{अनुवाक:4, सूक्त:2}{अष्टक:3, अध्याय:7}
ऋ॒भुर्विभ्वा॒वाज॒इन्द्रो᳚नो॒,अच्छे॒मंय॒ज्ञंर॑त्न॒धेयोप॑यात |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

इ॒दाहिवो᳚धि॒षणा᳚दे॒व्यह्ना॒मधा᳚त्‌पी॒तिंसंमदा᳚,अग्मतावः॒(स्वाहा᳚) || 1 || वर्ग:3

ऋ॒भुः¦विऽभ्वा᳚¦वाजः॑¦इन्द्रः॑¦नः॒¦अच्छ॑¦इ॒म‌म्¦य॒ज्ञ‌म्¦र॒त्न॒ऽधेया᳚¦उप॑¦या॒त॒ |
इ॒दा¦हि¦वः॒¦धि॒षणा᳚¦दे॒वी¦अह्ना᳚‌म्¦अधा᳚त्¦पी॒ति‌म्¦स‌म्¦मदाः᳚¦अ॒ग्म॒त॒¦वः॒ ||

वि॒दा॒नासो॒जन्म॑नोवाजरत्ना,उ॒तऋ॒तुभि᳚रृभवोमादयध्वम् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

संवो॒मदा॒,अग्म॑त॒संपुरं᳚धिःसु॒वीरा᳚म॒स्मेर॒यिमेर॑यध्व॒‌म्(स्वाहा᳚) || 2 ||

वि॒दा॒नासः॑¦जन्म॑नः¦वा॒ज॒ऽर॒त्नाः॒¦उ॒त¦ऋ॒तुऽभिः॑¦ऋ॒भ॒वः॒¦मा॒द॒य॒ध्व॒‌म् |
स‌म्¦वः॒¦मदाः᳚¦अग्म॑त¦स‌म्¦पुर᳚‌म्ऽधिः¦सु॒ऽवीरा᳚‌म्¦अ॒स्मे इति॑¦र॒यि‌म्¦आ¦ई॒र॒य॒ध्व॒‌म् ||

अ॒यंवो᳚य॒ज्ञऋ॑भवोऽकारि॒यमाम॑नु॒ष्वत्‌प्र॒दिवो᳚दधि॒ध्वे |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

प्रवोऽच्छा᳚जुजुषा॒णासो᳚,अस्थु॒रभू᳚त॒विश्वे᳚,अग्रि॒योतवा᳚जाः॒(स्वाहा᳚) || 3 ||

अ॒य‌म्¦वः॒¦य॒ज्ञः¦ऋ॒भ॒वः॒¦अ॒का॒रि॒¦य‌म्¦आ¦म॒नु॒ष्वत्¦प्र॒ऽदिवः॑¦द॒धि॒ध्वे |
प्र¦वः॒¦अच्छ॑¦जु॒जु॒षा॒णासः॑¦अ॒स्थुः॒¦अभू᳚त¦विश्वे᳚¦अ॒ग्रि॒या¦उ॒त¦वा॒जाः॒ ||

अभू᳚दुवोविध॒तेर॑त्न॒धेय॑मि॒दान॑रोदा॒शुषे॒मर्त्या᳚य |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

पिब॑तवाजा,ऋभवोद॒देवो॒महि॑तृ॒तीयं॒सव॑नं॒मदा᳚य॒(स्वाहा᳚) || 4 ||

अभू᳚त्¦ऊँ॒ इति॑¦वः॒¦वि॒ध॒ते¦र॒त्न॒ऽधेय᳚‌म्¦इ॒दा¦न॒रः॒¦दा॒शुषे᳚¦मर्त्या᳚य |
पिब॑त¦वा॒जाः॒¦ऋ॒भ॒वः॒¦द॒दे¦वः॒¦महि॑¦तृ॒तीय᳚‌म्¦सव॑न‌म्¦मदा᳚य ||

आवा᳚जाया॒तोप॑नऋभुक्षाम॒होन॑रो॒द्रवि॑णसोगृणा॒नाः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

आवः॑पी॒तयो᳚ऽभिपि॒त्वे,अह्ना᳚मि॒मा,अस्तं᳚नव॒स्व॑इवग्म॒‌न्(स्वाहा᳚) || 5 ||

आ¦वा॒जाः॒¦या॒त॒¦उप॑¦नः॒¦ऋ॒भु॒क्षाः॒¦म॒हः¦न॒रः॒¦द्रवि॑णसः¦गृ॒णा॒नाः |
आ¦वः॒¦पी॒तयः॑¦अ॒भि॒ऽपि॒त्वे¦अह्ना᳚‌म्¦इ॒माः¦अस्त᳚‌म्¦न॒व॒स्वः॑ऽ‌इव¦ग्म॒न् ||

आन॑पातःशवसोयात॒नोपे॒मंय॒ज्ञंनम॑साहू॒यमा᳚नाः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

स॒जोष॑सःसूरयो॒यस्य॑च॒स्थमध्वः॑पातरत्न॒धा,इन्द्र॑वन्तः॒(स्वाहा᳚) || 6 || वर्ग:4

आ¦न॒पा॒तः॒¦श॒व॒सः॒¦या॒त॒न॒¦उप॑¦इ॒म‌म्¦य॒ज्ञ‌म्¦नम॑सा¦हू॒यमा᳚नाः |
स॒ऽजोष॑सः¦सू॒र॒यः॒¦यस्य॑¦च॒¦स्थ¦मध्वः॑¦पा॒त॒¦र॒त्न॒ऽधाः¦इन्द्र॑ऽवन्तः ||

स॒जोषा᳚,इन्द्र॒वरु॑णेन॒सोमं᳚स॒जोषाः᳚पाहिगिर्वणोम॒रुद्भिः॑ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

अ॒ग्रे॒पाभि᳚रृतु॒पाभिः॑स॒जोषा॒ग्नास्पत्नी᳚भीरत्न॒धाभिः॑स॒जोषाः᳚(स्वाहा᳚) || 7 ||

स॒ऽजोषाः᳚¦इ॒न्द्र॒¦वरु॑णेन¦सोम᳚‌म्¦स॒ऽजोषाः᳚¦पा॒हि॒¦गि॒र्व॒णः॒¦म॒रुत्ऽभिः॑ |
अ॒ग्रे॒ऽपाभिः॑¦ऋ॒तु॒ऽपाभिः॑¦स॒ऽजोषाः᳚¦ग्नाःपत्नी᳚भिः¦र॒त्न॒ऽधाभिः॑¦स॒ऽजोषाः᳚ ||

स॒जोष॑सआदि॒त्यैर्मा᳚दयध्वंस॒जोष॑सऋभवः॒पर्व॑तेभिः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

स॒जोष॑सो॒दैव्ये᳚नासवि॒त्रास॒जोष॑सः॒सिन्धु॑भीरत्न॒धेभिः॒(स्वाहा᳚) || 8 ||

स॒ऽजोष॑सः¦आ॒दि॒त्यैः¦मा॒द॒य॒ध्व॒‌म्¦स॒ऽजोष॑सः¦ऋ॒भ॒वः॒¦पर्व॑तेभिः |
स॒ऽजोष॑सः¦दैव्ये᳚न¦स॒वि॒त्रा¦स॒ऽजोष॑सः¦सिन्धु॑ऽभिः¦र॒त्न॒ऽधेभिः॑ ||

ये,अ॒श्विना॒येपि॒तरा॒यऊ॒तीधे॒नुंत॑त॒क्षुरृ॒भवो॒ये,अश्वा᳚ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

ये,अंस॑त्रा॒यऋध॒ग्रोद॑सी॒येविभ्वो॒नरः॑स्वप॒त्यानि॑च॒क्रुः(स्वाहा᳚) || 9 ||

ये¦अ॒श्विना᳚¦ये¦पि॒तरा᳚¦ये¦ऊ॒ती¦धे॒नु‌म्¦त॒त॒क्षुः¦ऋ॒भवः॑¦ये¦अश्वा᳚ |
ये¦अंस॑त्रा¦ये¦ऋध॑क्¦रोद॑सी॒ इति॑¦ये¦विऽभ्वः॑¦नरः॑¦सु॒।आ॒प॒त्यानि॑¦च॒क्रुः ||

येगोम᳚न्तं॒वाज॑वन्तंसु॒वीरं᳚र॒यिंध॒त्थवसु॑मन्तंपुरु॒क्षुम् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

ते,अ॑ग्रे॒पा,ऋ॑भवोमन्दसा॒ना,अ॒स्मेध॑त्त॒येच॑रा॒तिंगृ॒णन्ति॒(स्वाहा᳚) || 10 ||

ये¦गोऽम᳚न्त‌म्¦वाज॑ऽवन्त‌म्¦सु॒ऽवीर᳚‌म्¦र॒यि‌म्¦ध॒त्थ¦वसु॑ऽमन्त‌म्¦पु॒रु॒ऽक्षु‌म् |
ते¦अ॒ग्रे॒ऽपाः¦ऋ॒भ॒वः॒¦म॒न्द॒सा॒नाः¦अ॒स्मे इति॑¦ध॒त्त॒¦ये¦च॒¦रा॒ति‌म्¦गृ॒णन्ति॑ ||

नापा᳚भूत॒नवो᳚ऽतीतृषा॒माऽनिः॑शस्ता,ऋभवोय॒ज्ञे,अ॒स्मिन् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

समिन्द्रे᳚ण॒मद॑थ॒संम॒रुद्भिः॒संराज॑भीरत्न॒धेया᳚यदेवाः॒(स्वाहा᳚) || 11 ||

न¦अप॑¦अ॒भू॒त॒¦न¦वः॒¦अ॒ती॒तृ॒षा॒म॒¦अनिः॑ऽशस्ताः¦ऋ॒भ॒वः॒¦य॒ज्ञे¦अ॒स्मिन् |
स‌म्¦इन्द्रे᳚ण¦मद॑थ¦स‌म्¦म॒रुत्ऽभिः॑¦स‌म्¦राज॑ऽभिः¦र॒त्न॒ऽधेया᳚य¦दे॒वाः॒ ||

[35] इहोपेति नवर्चस्य सूक्तस्य गौतमोवामदेवऋभवस्त्रिष्टुप् |{मंडल:4, सूक्त:35}{अनुवाक:4, सूक्त:3}{अष्टक:3, अध्याय:7}
इ॒होप॑यातशवसोनपातः॒सौध᳚न्वना,ऋभवो॒माप॑भूत |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

अ॒स्मिन्‌हिवः॒सव॑नेरत्न॒धेयं॒गम॒न्त्विन्द्र॒मनु॑वो॒मदा᳚सः॒(स्वाहा᳚) || 1 || वर्ग:5

इ॒ह¦उप॑¦या॒त॒¦श॒व॒सः॒¦न॒पा॒तः॒¦सौध᳚न्वनाः¦ऋ॒भ॒वः॒¦मा¦अप॑¦भू॒त॒ |
अ॒स्मिन्¦हि¦वः॒¦सव॑ने¦र॒त्न॒ऽधेय᳚‌म्¦गम᳚न्तु¦इन्द्र᳚‌म्¦अनु॑¦वः॒¦मदा᳚सः ||

आग᳚न्नृभू॒णामि॒हर॑त्न॒धेय॒मभू॒त्‌सोम॑स्य॒सुषु॑तस्यपी॒तिः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

सु॒कृ॒त्यया॒यत्‌स्व॑प॒स्यया᳚चँ॒,एकं᳚विच॒क्रच॑म॒संच॑तु॒र्धा(स्वाहा᳚) || 2 ||

आ¦अ॒ग॒न्¦ऋ॒भू॒णा‌म्¦इ॒ह¦र॒त्न॒ऽधेय᳚‌म्¦अभू᳚त्¦सोम॑स्य¦सुऽसु॑तस्य¦पी॒तिः |
सु॒ऽकृ॒त्यया᳚¦यत्¦सु॒।आ॒प॒स्यया᳚¦च॒¦एक᳚‌म्¦वि॒ऽच॒क्र¦च॒म॒स‌म्¦च॒तुः॒ऽधा ||

व्य॑कृणोतचम॒संच॑तु॒र्धासखे॒विशि॒क्षेत्य॑ब्रवीत |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

अथै᳚तवाजा,अ॒मृत॑स्य॒पन्थां᳚ग॒णंदे॒वाना᳚मृभवःसुहस्ताः॒(स्वाहा᳚) || 3 ||

वि¦अ॒कृ॒णो॒त॒¦च॒म॒स‌म्¦च॒तुः॒ऽधा¦सखे᳚¦वि¦शि॒क्ष॒¦इति॑¦अ॒ब्र॒वी॒त॒ |
अथ॑¦ऐ॒त॒¦वा॒जाः॒¦अ॒मृत॑स्य¦पन्था᳚‌म्¦ग॒ण‌म्¦दे॒वाना᳚‌म्¦ऋ॒भ॒वः॒¦सु॒ऽह॒स्ताः॒ ||

कि॒म्मयः॑स्विच्चम॒सए॒षआ᳚स॒यंकाव्ये᳚नच॒तुरो᳚विच॒क्र |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

अथा᳚सुनुध्वं॒सव॑नं॒मदा᳚यपा॒तऋ॑भवो॒मधु॑नःसो॒म्यस्य॒(स्वाहा᳚) || 4 ||

कि॒‌म्ऽमयः॑¦स्वि॒त्¦च॒म॒सः¦ए॒षः¦आ॒स॒¦य‌म्¦काव्ये᳚न¦च॒तुरः॑¦वि॒ऽच॒क्र |
अथ॑¦सु॒नु॒ध्व॒‌म्¦सव॑न‌म्¦मदा᳚य¦पा॒त¦ऋ॒भ॒वः॒¦मधु॑नः¦सो॒म्यस्य॑ ||

शच्या᳚कर्तपि॒तरा॒युवा᳚ना॒शच्या᳚कर्तचम॒संदे᳚व॒पान᳚म् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

शच्या॒हरी॒धनु॑तरावतष्टेन्द्र॒वाहा᳚वृभवोवाजरत्नाः॒(स्वाहा᳚) || 5 ||

शच्या᳚¦अ॒क॒र्त॒¦पि॒तरा᳚¦युवा᳚ना¦शच्या᳚¦अ॒क॒र्त॒¦च॒म॒स‌म्¦दे॒व॒ऽपान᳚‌म् |
शच्या᳚¦हरी॒ इति॑¦धनु॑ऽतरौ¦अ॒त॒ष्ट॒¦इ॒न्द्र॒ऽवाहौ᳚¦ऋ॒भ॒वः॒¦वा॒ज॒ऽर॒त्नाः॒ ||

योवः॑सु॒नोत्य॑भिपि॒त्वे,अह्नां᳚ती॒व्रंवा᳚जासः॒सव॑नं॒मदा᳚य |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

तस्मै᳚र॒यिमृ॑भवः॒सर्व॑वीर॒मात॑क्षतवृषणोमन्दसा॒नाः(स्वाहा᳚) || 6 || वर्ग:6

यः¦वः॒¦सु॒नोति॑¦अ॒भि॒ऽपि॒त्वे¦अह्ना᳚‌म्¦ती॒व्र‌म्¦वा॒जा॒सः॒¦सव॑न‌म्¦मदा᳚य |
तस्मै᳚¦र॒यि‌म्¦ऋ॒भ॒वः॒¦सर्व॑ऽवीर‌म्¦आ¦त॒क्ष॒त॒¦वृ॒ष॒णः॒¦म॒न्द॒सा॒नाः ||

प्रा॒तःसु॒तम॑पिबोहर्यश्व॒माध्यं᳚दिनं॒सव॑नं॒केव॑लंते |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

समृ॒भुभिः॑पिबस्वरत्न॒धेभिः॒सखीँ॒र्याँ,इ᳚न्द्रचकृ॒षेसु॑कृ॒त्या(स्वाहा᳚) || 7 ||

प्रा॒तरिति॑¦सु॒त‌म्¦अ॒पि॒बः॒¦ह॒रि॒।आ॒श्व॒¦माध्यं᳚दिन‌म्¦सव॑न‌म्¦केव॑ल‌म्¦ते॒ |
स‌म्¦ऋ॒भुऽभिः॑¦पि॒ब॒स्व॒¦र॒त्न॒ऽधेभिः॑¦सखी᳚न्¦यान्¦इ॒न्द्र॒¦च॒कृ॒षे¦सु॒ऽकृ॒त्या ||

येदे॒वासो॒,अभ॑वतासुकृ॒त्याश्ये॒ना,इ॒वेदधि॑दि॒विनि॑षे॒द |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

तेरत्नं᳚धातशवसोनपातः॒सौध᳚न्वना॒,अभ॑वता॒मृता᳚सः॒(स्वाहा᳚) || 8 ||

ये¦दे॒वासः॑¦अभ॑वत¦सु॒ऽकृ॒त्या¦श्ये॒नाःऽ‌इ᳚व¦इत्¦अधि॑¦दि॒वि¦नि॒ऽसे॒द |
ते¦रत्न᳚‌म्¦धा॒त॒¦श॒व॒सः॒¦न॒पा॒तः॒¦सौध᳚न्वनाः¦अभ॑वत¦अ॒मृता᳚सः ||

यत्‌तृ॒तीयं॒सव॑नंरत्न॒धेय॒मकृ॑णुध्वंस्वप॒स्यासु॑हस्ताः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

तदृ॑भवः॒परि॑षिक्तंवए॒तत्संमदे᳚भिरिन्द्रि॒येभिः॑पिबध्व॒‌म्(स्वाहा᳚) || 9 ||

यत्¦तृ॒तीय᳚‌म्¦सव॑न‌म्¦र॒त्न॒ऽधेय᳚‌म्¦अकृ॑णुध्व‌म्¦सु॒।आ॒प॒स्या¦सु॒ऽह॒स्ताः॒ |
तत्¦ऋ॒भ॒वः॒¦परि॑ऽसिक्त‌म्¦वः॒¦ए॒तत्¦स‌म्¦मदे᳚भिः¦इ॒न्द्रि॒येभिः॑¦पि॒ब॒ध्व॒‌म् ||

[36] अनश्वोजातइति नवर्चस्य सूक्तस्य गौतमोवामदेव ऋभवो जगत्यंत्यात्रिष्टुप् |{मंडल:4, सूक्त:36}{अनुवाक:4, सूक्त:4}{अष्टक:3, अध्याय:7}
अ॒न॒श्वोजा॒तो,अ॑नभी॒शुरु॒क्थ्यो॒३॑(ओ॒)रथ॑स्त्रिच॒क्रःपरि॑वर्तते॒रजः॑ |{गौतमो वामदेवः | ऋभवः | जगती}

म॒हत्तद्वो᳚दे॒व्य॑स्यप्र॒वाच॑नं॒द्यामृ॑भवःपृथि॒वींयच्च॒पुष्य॑थ॒(स्वाहा᳚) || 1 || वर्ग:7

अ॒न॒श्वः¦जा॒तः¦अ॒न॒भी॒शुः¦उ॒क्थ्यः॑¦रथः॑¦त्रि॒ऽच॒क्रः¦परि॑¦व॒र्त॒ते॒¦रजः॑ |
म॒हत्¦तत्¦वः॒¦दे॒व्य॑स्य¦प्र॒ऽवाच॑न‌म्¦द्या‌म्¦ऋ॒भ॒वः॒¦पृ॒थि॒वी‌म्¦यत्¦च॒¦पुष्य॑थ ||

रथं॒येच॒क्रुःसु॒वृतं᳚सु॒चेत॒सोऽवि॑ह्वरन्तं॒मन॑स॒स्परि॒ध्यया᳚ |{गौतमो वामदेवः | ऋभवः | जगती}

ताँ,ऊ॒न्व१॑(अ॒)स्यसव॑नस्यपी॒तय॒आवो᳚वाजा,ऋभवोवेदयामसि॒(स्वाहा᳚) || 2 ||

रथ᳚‌म्¦ये¦च॒क्रुः¦सु॒ऽवृत᳚‌म्¦सु॒ऽचेत॑सः¦अवि॑ऽह्वरन्त‌म्¦मन॑सः¦परि॑¦ध्यया᳚ |
तान्¦ऊँ॒ इति॑¦नु¦अ॒स्य¦सव॑नस्य¦पी॒तये᳚¦आ¦वः॒¦वा॒जाः॒¦ऋ॒भ॒वः॒¦वे॒द॒या॒म॒सि॒ ||

तद्वो᳚वाजा,ऋभवःसुप्रवाच॒नंदे॒वेषु॑विभ्वो,अभवन्महित्व॒नम् |{गौतमो वामदेवः | ऋभवः | जगती}

जिव्री॒यत्सन्ता᳚पि॒तरा᳚सना॒जुरा॒पुन॒र्युवा᳚नाच॒रथा᳚य॒तक्ष॑थ॒(स्वाहा᳚) || 3 ||

तत्¦वः॒¦वा॒जाः॒¦ऋ॒भ॒वः॒¦सु॒ऽप्र॒वा॒च॒न‌म्¦दे॒वेषु॑¦वि॒ऽभ्वः॒¦अ॒भ॒व॒त्¦म॒हि॒ऽत्व॒न‌म् |
जिव्री॒ इति॑¦यत्¦सन्ता᳚¦पि॒तरा᳚¦स॒ना॒ऽजुरा᳚¦पुनः॑¦युवा᳚ना¦च॒रथा᳚य¦तक्ष॑थ ||

एकं॒विच॑क्रचम॒संचतु᳚र्वयं॒निश्चर्म॑णो॒गाम॑रिणीतधी॒तिभिः॑ |{गौतमो वामदेवः | ऋभवः | जगती}

अथा᳚दे॒वेष्व॑मृत॒त्वमा᳚नशश्रु॒ष्टीवा᳚जा,ऋभव॒स्तद्व॑उ॒क्थ्य॑१(अं॒)(स्वाहा᳚) || 4 ||

एक᳚‌म्¦वि¦च॒क्र॒¦च॒म॒स‌म्¦चतुः॑ऽवय‌म्¦निः¦चर्म॑णः¦गा‌म्¦अ॒रि॒णी॒त॒¦धी॒तिऽभिः॑ |
अथ॑¦दे॒वेषु॑¦अ॒मृ॒त॒ऽत्व‌म्¦आ॒न॒श॒¦श्रु॒ष्टी¦वा॒जाः॒¦ऋ॒भ॒वः॒¦तत्¦वः॒¦उ॒क्थ्य᳚‌म् ||

ऋ॒भु॒तोर॒यिःप्र॑थ॒मश्र॑वस्तमो॒वाज॑श्रुतासो॒यमजी᳚जन॒न्नरः॑ |{गौतमो वामदेवः | ऋभवः | जगती}

वि॒भ्व॒त॒ष्टोवि॒दथे᳚षुप्र॒वाच्यो॒यंदे᳚वा॒सोऽव॑था॒सविच॑र्षणिः॒(स्वाहा᳚) || 5 ||

ऋ॒भु॒तः¦र॒यिः¦प्र॒थ॒मश्र॑वःऽतमः¦वाज॑ऽश्रुतासः¦य‌म्¦अजी᳚जनन्¦नरः॑ |
वि॒भ्व॒ऽत॒ष्टः¦वि॒दथे᳚षु¦प्र॒ऽवाच्यः॑¦य‌म्¦दे॒वा॒सः¦अव॑थ¦सः¦विऽच॑र्षणिः ||

सवा॒ज्यर्वा॒सऋषि᳚र्वच॒स्यया॒सशूरो॒,अस्ता॒पृत॑नासुदु॒ष्टरः॑ |{गौतमो वामदेवः | ऋभवः | जगती}

सरा॒यस्पोषं॒ससु॒वीर्यं᳚दधे॒यंवाजो॒विभ्वाँ᳚,ऋ॒भवो॒यमावि॑षुः॒(स्वाहा᳚) || 6 || वर्ग:8

सः¦वा॒जी¦अर्वा᳚¦सः¦ऋषिः॑¦व॒च॒स्यया᳚¦सः¦शूरः॑¦अस्ता᳚¦पृत॑नासु¦दु॒स्तरः॑ |
सः¦रा॒यः¦पोष᳚‌म्¦सः¦सु॒ऽवीर्य᳚‌म्¦द॒धे॒¦य‌म्¦वाजः॑¦विऽभ्वा᳚¦ऋ॒भवः॑¦य‌म्¦आवि॑षुः ||

श्रेष्ठं᳚वः॒पेशो॒,अधि॑धायिदर्श॒तंस्तोमो᳚वाजा,ऋभव॒स्तंजु॑जुष्टन |{गौतमो वामदेवः | ऋभवः | जगती}

धीरा᳚सो॒हिष्ठाक॒वयो᳚विप॒श्चित॒स्तान्व॑ए॒नाब्रह्म॒णावे᳚दयामसि॒(स्वाहा᳚) || 7 ||

श्रेष्ठ᳚‌म्¦वः॒¦पेशः॑¦अधि॑¦धा॒यि॒¦द॒र्श॒त‌म्¦स्तोमः॑¦वा॒जाः॒¦ऋ॒भ॒वः॒¦त‌म्¦जु॒जु॒ष्ट॒न॒ |
धीरा᳚सः¦हि¦स्थ¦क॒वयः॑¦वि॒पः॒ऽचितः॑¦तान्¦वः॒¦ए॒ना¦ब्रह्म॑णा¦आ¦वे॒द॒या॒म॒सि॒ ||

यू॒यम॒स्मभ्यं᳚धि॒षणा᳚भ्य॒स्परि॑वि॒द्वांसो॒विश्वा॒नर्या᳚णि॒भोज॑ना |{गौतमो वामदेवः | ऋभवः | जगती}

द्यु॒मन्तं॒वाजं॒वृष॑शुष्ममुत्त॒ममानो᳚र॒यिमृ॑भवस्तक्ष॒तावयः॒(स्वाहा᳚) || 8 ||

यू॒य‌म्¦अ॒स्मभ्य᳚‌म्¦धि॒षणा᳚भ्यः¦परि॑¦वि॒द्वांसः॑¦विश्वा᳚¦नर्या᳚णि¦भोज॑ना |
द्यु॒ऽमन्त᳚‌म्¦वाज᳚‌म्¦वृष॑ऽशुष्म‌म्¦उ॒त्ऽत॒म‌म्¦आ¦नः॒¦र॒यि‌म्¦ऋ॒भ॒वः॒¦त॒क्ष॒त॒¦आ¦वयः॑ ||

इ॒हप्र॒जामि॒हर॒यिंररा᳚णा,इ॒हश्रवो᳚वी॒रव॑त्‌तक्षतानः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

येन॑व॒यंचि॒तये॒मात्य॒न्यान्तंवाजं᳚चि॒त्रमृ॑भवोददानः॒(स्वाहा᳚) || 9 ||

इ॒ह¦प्र॒ऽजा‌म्¦इ॒ह¦र॒यि‌म्¦ररा᳚णाः¦इ॒ह¦श्रवः॑¦वी॒रऽव॑त्¦त॒क्ष॒त॒¦नः॒ |
येन॑¦व॒य‌म्¦चि॒तये᳚म¦अति॑¦अ॒न्यान्¦त‌म्¦वाज᳚‌म्¦चि॒त्र‌म्¦ऋ॒भ॒वः॒¦द॒द॒¦नः॒ ||

[37] उपनइत्यष्टर्चस्य ऊक्तस्य गौतमोवामदेवऋभवस्त्रिष्टुप् अंत्याश्चतस्रोनुष्टुभः |{मंडल:4, सूक्त:37}{अनुवाक:4, सूक्त:5}{अष्टक:3, अध्याय:7}
उप॑नोवाजा,अध्व॒रमृ॑भुक्षा॒देवा᳚या॒तप॒थिभि॑र्देव॒यानैः᳚ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

यथा᳚य॒ज्ञंमनु॑षोवि॒क्ष्वा॒३॑(आ॒)सुद॑धि॒ध्वेर᳚ण्वाःसु॒दिने॒ष्वह्ना॒‌म्(स्वाहा᳚) || 1 || वर्ग:9

उप॑¦नः॒¦वा॒जाः॒¦अ॒ध्व॒र‌म्¦ऋ॒भु॒क्षाः॒¦देवाः᳚¦या॒त¦प॒थिऽभिः॑¦दे॒व॒ऽयानैः᳚ |
यथा᳚¦य॒ज्ञ‌म्¦मनु॑षः¦वि॒क्षु¦आ॒सु¦द॒धि॒ध्वे¦र॒ण्वाः॒¦सु॒ऽदिने᳚षु¦अह्ना᳚‌म् ||

तेवो᳚हृ॒देमन॑सेसन्तुय॒ज्ञाजुष्टा᳚सो,अ॒द्यघृ॒तनि᳚र्णिजोगुः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

प्रवः॑सु॒तासो᳚हरयन्तपू॒र्णाःक्रत्वे॒दक्षा᳚यहर्षयन्तपी॒ताः(स्वाहा᳚) || 2 ||

ते¦वः॒¦हृ॒दे¦मन॑से¦स॒न्तु॒¦य॒ज्ञाः¦जुष्टा᳚सः¦अ॒द्य¦घृ॒तऽनि᳚र्निजः¦गुः॒ |
प्र¦वः॒¦सु॒तासः॑¦ह॒र॒य॒न्त॒¦पू॒र्णाः¦क्रत्वे᳚¦दक्षा᳚य¦ह॒र्ष॒य॒न्त॒¦पी॒ताः ||

त्र्यु॒दा॒यंदे॒वहि॑तं॒यथा᳚वः॒स्तोमो᳚वाजा,ऋभुक्षणोद॒देवः॑ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

जु॒ह्वेम॑नु॒ष्वदुप॑रासुवि॒क्षुयु॒ष्मेसचा᳚बृ॒हद्दि॑वेषु॒सोम॒‌म्(स्वाहा᳚) || 3 ||

त्रि॒।औ॒दा॒य‌म्¦दे॒वऽहि॑त‌म्¦यथा᳚¦वः॒¦स्तोमः॑¦वा॒जाः॒¦ऋ॒भु॒क्ष॒णः॒¦द॒दे¦वः॒ |
जु॒ह्वे¦म॒नु॒ष्वत्¦उप॑रासु¦वि॒क्षु¦यु॒ष्मे इति॑¦सचा᳚¦बृ॒हत्ऽदि॑वेषु¦सोम᳚‌म् ||

पीवो᳚अश्वाःशु॒चद्र॑था॒हिभू॒ताऽयः॑शिप्रावाजिनःसुनि॒ष्काः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

इन्द्र॑स्यसूनोशवसोनपा॒तोऽनु॑वश्चेत्यग्रि॒यंमदा᳚य॒(स्वाहा᳚) || 4 ||

पीवः॑।आश्वाः¦शु॒चत्ऽर॑थाः¦हि¦भू॒त¦आयः॑ऽशिप्राः¦वा॒जि॒नः॒¦सु॒ऽनि॒ष्काः |
इन्द्र॑स्य¦सू॒नो॒ इति॑¦श॒व॒सः॒¦न॒पा॒तः॒¦अनु॑¦वः॒¦चे॒ति॒¦अ॒ग्रि॒य‌म्¦मदा᳚य ||

ऋ॒भुमृ॑भुक्षणोर॒यिंवाजे᳚वा॒जिन्त॑मं॒युज᳚म् |{गौतमो वामदेवः | ऋभवः | अनुष्टुप्}

इन्द्र॑स्वन्तंहवामहेसदा॒सात॑मम॒श्विन॒‌म्(स्वाहा᳚) || 5 ||

ऋ॒भु‌म्¦ऋ॒भु॒क्ष॒णः॒¦र॒यि‌म्¦वाजे᳚¦वा॒जिन्ऽत॑म‌म्¦युज᳚‌म् | इन्द्र॑स्वन्त‌म्¦ह॒वा॒म॒हे॒¦स॒दा॒ऽसात॑म‌म्¦अ॒श्विन᳚‌म् ||

सेदृ॑भवो॒यमव॑थयू॒यमिन्द्र॑श्च॒मर्त्य᳚म् |{गौतमो वामदेवः | ऋभवः | अनुष्टुप्}

सधी॒भिर॑स्तु॒सनि॑तामे॒धसा᳚ता॒सो,अर्व॑ता॒(स्वाहा᳚) || 6 || वर्ग:10

सः¦इत्¦ऋ॒भ॒वः॒¦य‌म्¦अव॑थ¦यू॒य‌म्¦इन्द्रः॑¦च॒¦मर्त्य᳚‌म् | सः¦धी॒भिः¦अ॒स्तु॒¦सनि॑ता¦मे॒धऽसा᳚ता¦सः¦अर्व॑ता ||

विनो᳚वाजा,ऋभुक्षणःप॒थश्चि॑तन॒यष्ट॑वे |{गौतमो वामदेवः | ऋभवः | अनुष्टुप्}

अ॒स्मभ्यं᳚सूरयःस्तु॒ताविश्वा॒,आशा᳚स्तरी॒षणि॒(स्वाहा᳚) || 7 ||

वि¦नः॒¦वा॒जाः॒¦ऋ॒भु॒क्ष॒णः॒¦प॒थः¦चि॒त॒न॒¦यष्ट॑वे | अ॒स्मभ्य᳚‌म्¦सू॒र॒यः॒¦स्तु॒ताः¦विश्वाः᳚¦आशाः᳚¦त॒री॒षणि॑ ||

तंनो᳚वाजा,ऋभुक्षण॒इन्द्र॒नास॑त्यार॒यिम् |{गौतमो वामदेवः | ऋभवः | अनुष्टुप्}

समश्वं᳚चर्ष॒णिभ्य॒आपु॒रुश॑स्तम॒घत्त॑ये॒(स्वाहा᳚) || 8 ||

त‌म्¦नः॒¦वा॒जाः॒¦ऋ॒भु॒क्ष॒णः॒¦इन्द्र॑¦नास॑त्या¦र॒यि‌म् | स‌म्¦अश्व᳚‌म्¦च॒र्ष॒णिऽभ्यः॑¦आ¦पु॒रु¦श॒स्त॒¦म॒घत्त॑ये ||

[38] उतोहीति दशर्चस्य सूक्तस्य गौतमोवामदेवोदधिक्रावा आद्यायाद्यावापृथिवीत्रिष्टुप् {मंडल:4, सूक्त:38}{अनुवाक:4, सूक्त:6}{अष्टक:3, अध्याय:7}
उ॒तोहिवां᳚दा॒त्रासन्ति॒पूर्वा॒यापू॒रुभ्य॑स्त्र॒सद॑स्युर्नितो॒शे |{गौतमो वामदेवः | द्यावापृथिवी | त्रिष्टुप्}

क्षे॒त्रा॒सांद॑दथुरुर्वरा॒सांघ॒नंदस्यु॑भ्यो,अ॒भिभू᳚तिमु॒ग्रम्(स्वाहा᳚) || 1 || वर्ग:11

उ॒तो इति॑¦हि¦वा॒‌म्¦दा॒त्रा¦सन्ति॑¦पूर्वा᳚¦या¦पू॒रुऽभ्यः॑¦त्र॒सद॑स्युः¦नि॒ऽतो॒शे |
क्षे॒त्र॒ऽसा‌म्¦द॒द॒थुः॒¦उ॒र्व॒रा॒ऽसा‌म्¦घ॒न‌म्¦दस्यु॑ऽभ्यः¦अ॒भिऽभू᳚ति‌म्¦उ॒ग्र‌म् ||

उ॒तवा॒जिनं᳚पुरुनि॒ष्षिध्वा᳚नंदधि॒क्रामु॑ददथुर्वि॒श्वकृ॑ष्टिम् |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

ऋ॒जि॒प्यंश्ये॒नंप्रु॑षि॒तप्सु॑मा॒शुंच॒र्कृत्य॑म॒र्योनृ॒पतिं॒नशूर॒‌म्(स्वाहा᳚) || 2 ||

उ॒त¦वा॒जिन᳚‌म्¦पु॒रु॒निः॒ऽसिध्वा᳚न‌म्¦द॒धि॒ऽक्रा‌म्¦ऊँ॒ इति॑¦द॒द॒थुः॒¦वि॒श्वऽकृ॑ष्टि‌म् |
ऋ॒जि॒प्य‌म्¦श्ये॒न‌म्¦प्रु॒षि॒तऽप्सु᳚‌म्¦आ॒शु‌म्¦च॒र्कृत्य᳚‌म्¦अ॒र्यः¦नृ॒ऽपति᳚‌म्¦न¦शूर᳚‌म् ||

यंसी॒मनु॑प्र॒वते᳚व॒द्रव᳚न्तं॒विश्वः॑पू॒रुर्मद॑ति॒हर्ष॑माणः |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

प॒ड्भिर्गृध्य᳚न्तंमेध॒युंनशूरं᳚रथ॒तुरं॒वात॑मिव॒ध्रज᳚न्त॒‌म्(स्वाहा᳚) || 3 ||

य‌म्¦सी॒‌म्¦अनु॑¦प्र॒वता᳚ऽ‌इव¦द्रव᳚न्त‌म्¦विश्वः॑¦पू॒रुः¦मद॑ति¦हर्ष॑माणः |
प॒ट्ऽभिः¦गृध्य᳚न्त‌म्¦मे॒ध॒ऽयु‌म्¦न¦शूर᳚‌म्¦र॒थ॒ऽतुर᳚‌म्¦वात᳚‌म्ऽ‌इव¦ध्रज᳚न्त‌म् ||

यःस्मा᳚रुन्धा॒नोगध्या᳚स॒मत्सु॒सनु॑तर॒श्चर॑ति॒गोषु॒गच्छ॑न् |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

आ॒विरृ॑जीकोवि॒दथा᳚नि॒चिक्य॑त्ति॒रो,अ॑र॒तिंपर्याप॑आ॒योः(स्वाहा᳚) || 4 ||

यः¦स्म॒¦आ॒ऽरु॒न्धा॒नः¦गध्या᳚¦स॒मत्ऽसु॑¦सनु॑ऽतरः¦चर॑ति¦गोषु॑¦गच्छ॑न् |
आ॒विःऽऋ॑जीकः¦वि॒दथा᳚¦नि॒ऽचिक्य॑त्¦ति॒रः¦अ॒र॒ति‌म्¦परि॑¦आपः॑¦आ॒योः ||

उ॒तस्मै᳚नंवस्त्र॒मथिं॒नता॒युमनु॑क्रोशन्तिक्षि॒तयो॒भरे᳚षु |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

नी॒चाय॑मानं॒जसु॑रिं॒नश्ये॒नंश्रव॒श्चाच्छा᳚पशु॒मच्च॑यू॒थम्(स्वाहा᳚) || 5 ||

उ॒त¦स्म॒¦ए॒न॒‌म्¦व॒स्त्र॒ऽमथि᳚‌म्¦न¦ता॒यु‌म्¦अनु॑¦क्रो॒श॒न्ति॒¦क्षि॒तयः॑¦भरे᳚षु |
नी॒चा¦अय॑मान‌म्¦जसु॑रि‌म्¦न¦श्ये॒न‌म्¦श्रवः॑¦च॒¦अच्छ॑¦प॒शु॒ऽमत्¦च॒¦यू॒थ‌म् ||

उ॒तस्मा᳚सुप्रथ॒मःस॑रि॒ष्यन्निवे᳚वेति॒श्रेणि॑भी॒रथा᳚नाम् |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

स्रजं᳚कृण्वा॒नोजन्यो॒नशुभ्वा᳚रे॒णुंरेरि॑हत्‌कि॒रणं᳚दद॒श्वान्(स्वाहा᳚) || 6 || वर्ग:12

उ॒त¦स्म॒¦आ॒सु¦प्र॒थ॒मः¦स॒रि॒ष्यन्¦नि¦वे॒वे॒ति॒¦श्रेणि॑ऽभिः¦रथा᳚ना‌म् |
स्रज᳚‌म्¦कृ॒ण्वा॒नः¦जन्यः॑¦न¦शुभ्वा᳚¦रे॒णु‌म्¦रेरि॑हत्¦कि॒रण᳚‌म्¦द॒द॒श्वान् ||

उ॒तस्यवा॒जीसहु॑रिरृ॒तावा॒शुश्रू᳚षमाणस्त॒न्वा᳚सम॒र्ये |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

तुरं᳚य॒तीषु॑तु॒रय᳚न्नृजि॒प्योऽधि॑भ्रु॒वोःकि॑रतेरे॒णुमृ॒ञ्ज॒‌न्(स्वाहा᳚) || 7 ||

उ॒त¦स्यः¦वा॒जी¦सहु॑रिः¦ऋ॒तऽवा᳚¦शुश्रू᳚षमाणः¦त॒न्वा᳚¦स॒ऽम॒र्ये |
तुर᳚‌म्¦य॒तीषु॑¦तु॒रय॑न्¦ऋ॒जि॒प्यः¦अधि॑¦भ्रु॒वोः¦कि॒र॒ते॒¦रे॒णु‌म्¦ऋं॒जन् ||

उ॒तस्मा᳚स्यतन्य॒तोरि॑व॒द्योरृ॑घाय॒तो,अ॑भि॒युजो᳚भयन्ते |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

य॒दास॒हस्र॑म॒भिषी॒मयो᳚धीद्दु॒र्वर्तुः॑स्माभवतिभी॒मऋ॒ञ्ज॒‌न्(स्वाहा᳚) || 8 ||

उ॒त¦स्म॒¦अ॒स्य॒¦त॒न्य॒तोःऽ‌इ᳚व¦द्योः¦ऋ॒घा॒य॒तः¦अ॒भि॒ऽयुजः॑¦भ॒य॒न्ते॒ |
य॒दा¦स॒हस्र᳚‌म्¦अ॒भि¦सी॒‌म्¦अयो᳚धीत्¦दुः॒ऽवर्तुः॑¦स्म॒¦भ॒व॒ति॒¦भी॒मः¦ऋं॒जन् ||

उ॒तस्मा᳚स्यपनयन्ति॒जना᳚जू॒तिंकृ॑ष्टि॒प्रो,अ॒भिभू᳚तिमा॒शोः |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

उ॒तैन॑माहुःसमि॒थेवि॒यन्तः॒परा᳚दधि॒क्रा,अ॑सरत्‌स॒हस्रैः᳚(स्वाहा᳚) || 9 ||

उ॒त¦स्म॒¦अ॒स्य॒¦प॒न॒य॒न्ति॒¦जनाः᳚¦जू॒ति‌म्¦कृ॒ष्टि॒ऽप्रः¦अ॒भिऽभू᳚ति‌म्¦आ॒शोः |
उ॒त¦ए॒न॒‌म्¦आ॒हुः॒¦स॒‌म्ऽ‌इ॒थे¦वि॒ऽयन्तः॑¦परा᳚¦द॒धि॒ऽक्राः¦अ॒स॒र॒त्¦स॒हस्रैः᳚ ||

आद॑धि॒क्राःशव॑सा॒पञ्च॑कृ॒ष्टीःसूर्य॑इव॒ज्योति॑षा॒पस्त॑तान |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

स॒ह॒स्र॒साःश॑त॒सावा॒ज्यर्वा᳚पृ॒णक्तु॒मध्वा॒समि॒मावचां᳚सि॒(स्वाहा᳚) || 10 ||

आ¦द॒धि॒ऽक्राः¦शव॑सा¦पंच॑¦कृ॒ष्टीः¦सूर्यः॑ऽ‌इव¦ज्योति॑षा¦अ॒पः¦त॒ता॒न॒ |
स॒ह॒स्र॒ऽसाः¦श॒त॒ऽसाः¦वा॒जी¦अर्वा᳚¦पृ॒णक्तु॑¦मध्वा᳚¦स‌म्¦इ॒मा¦वचां᳚सि ||

[39] आशुमिति षडृचस्य सूक्तस्य गौतमोवामदेवोदधिक्रावात्रिष्टुबन्त्यानुष्टुप् |{मंडल:4, सूक्त:39}{अनुवाक:4, सूक्त:7}{अष्टक:3, अध्याय:7}
आ॒शुंद॑धि॒क्रांतमु॒नुष्ट॑वामदि॒वस्पृ॑थि॒व्या,उ॒तच॑र्किराम |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

उ॒च्छन्ती॒र्मामु॒षसः॑सूदय॒न्त्वति॒विश्वा᳚निदुरि॒तानि॑पर्ष॒‌न्(स्वाहा᳚) || 1 || वर्ग:13

आ॒शु‌म्¦द॒धि॒ऽक्रा‌म्¦त‌म्¦ऊँ॒ इति॑¦नु¦स्त॒वा॒म॒¦दि॒वः¦पृ॒थि॒व्याः¦उ॒त¦च॒र्कि॒रा॒म॒ |
उ॒च्छन्तीः᳚¦मा‌म्¦उ॒षसः॑¦सू॒द॒य॒न्तु॒¦अति॑¦विश्वा᳚नि¦दुः॒ऽ‌इ॒तानि॑¦प॒र्ष॒न् ||

म॒हश्च॑र्क॒र्म्यर्व॑तःक्रतु॒प्राद॑धि॒क्राव्णः॑पुरु॒वार॑स्य॒वृष्णः॑ |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

यंपू॒रुभ्यो᳚दीदि॒वांसं॒नाग्निंद॒दथु᳚र्मित्रावरुणा॒ततु॑रि॒‌म्(स्वाहा᳚) || 2 ||

म॒हः¦च॒र्क॒र्मि॒¦अर्व॑तः¦क्र॒तु॒ऽप्राः¦द॒धि॒ऽक्राव्णः॑¦पु॒रु॒ऽवार॑स्य¦वृष्णः॑ |
य‌म्¦पू॒रुऽभ्यः॑¦दी॒दि॒ऽवांस᳚‌म्¦न¦अ॒ग्नि‌म्¦द॒दथुः॑¦मि॒त्रा॒व॒रु॒णा॒¦ततु॑रि‌म् ||

यो,अश्व॑स्यदधि॒क्राव्णो॒,अका᳚री॒त्समि॑द्धे,अ॒ग्ना,उ॒षसो॒व्यु॑ष्टौ |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

अना᳚गसं॒तमदि॑तिःकृणोतु॒समि॒त्रेण॒वरु॑णेनास॒जोषाः᳚(स्वाहा᳚) || 3 ||

यः¦अश्व॑स्य¦द॒धि॒ऽक्राव्णः॑¦अका᳚रीत्¦स‌म्ऽ‌इ᳚द्धे¦अ॒ग्नौ¦उ॒षसः॑¦वि।औ᳚ष्टौ |
अना᳚गस‌म्¦त‌म्¦अदि॑तिः¦कृ॒णो॒तु॒¦सः¦मि॒त्रेण॑¦वरु॑णेन¦स॒ऽजोषाः᳚ ||

द॒धि॒क्राव्ण॑इ॒षऊ॒र्जोम॒होयदम᳚न्महिम॒रुतां॒नाम॑भ॒द्रम् |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

स्व॒स्तये॒वरु॑णंमि॒त्रम॒ग्निंहवा᳚मह॒इन्द्रं॒वज्र॑बाहु॒‌म्(स्वाहा᳚) || 4 ||

द॒धि॒ऽक्राव्णः॑¦इ॒षः¦ऊ॒र्जः¦म॒हः¦यत्¦अम᳚न्महि¦म॒रुता᳚‌म्¦नाम॑¦भ॒द्र‌म् |
स्व॒स्तये᳚¦वरु॑ण‌म्¦मि॒त्र‌म्¦अ॒ग्नि‌म्¦हवा᳚महे¦इन्द्र᳚‌म्¦वज्र॑ऽबाहु‌म् ||

इन्द्र॑मि॒वेदु॒भये॒विह्व॑यन्तउ॒दीरा᳚णाय॒ज्ञमु॑पप्र॒यन्तः॑ |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

द॒धि॒क्रामु॒सूद॑नं॒मर्त्या᳚यद॒दथु᳚र्मित्रावरुणानो॒,अश्व॒‌म्(स्वाहा᳚) || 5 ||

इन्द्र᳚‌म्ऽ‌इव¦इत्¦उ॒भये᳚¦वि¦ह्व॒य॒न्ते॒¦उ॒त्ऽईरा᳚णाः¦य॒ज्ञ‌म्¦उ॒प॒ऽप्र॒यन्तः॑ |
द॒धि॒ऽक्रा‌म्¦ऊँ॒ इति॑¦सूद॑न‌म्¦मर्त्या᳚य¦द॒दथुः॑¦मि॒त्रा॒व॒रु॒णा॒¦नः॒¦अश्व᳚‌म् ||

द॒धि॒क्राव्णो᳚,अकारिषंजि॒ष्णोरश्व॑स्यवा॒जिनः॑ |{गौतमो वामदेवः | दधिक्राः | अनुष्टुप्}

सु॒र॒भिनो॒मुखा᳚कर॒त्प्रण॒आयूं᳚षितारिष॒‌त्(स्वाहा᳚) || 6 ||

द॒धि॒ऽक्राव्णः॑¦अ॒का॒रि॒ष॒‌म्¦जि॒ष्णोः¦अश्व॑स्य¦वा॒जिनः॑ | सु॒र॒भि¦नः॒¦मुखा᳚¦क॒र॒त्¦प्र¦नः॒¦आयूं᳚षि¦ता॒रि॒ष॒त् ||

[40] दधिक्राव्णइति पंचर्चस्य सूक्तस्य गौतमोवामदेवदधिक्रावा अंत्यायाः सूर्यस्त्रिष्टुप् अंत्याश्चतस्रोजगत्यः{मंडल:4, सूक्त:40}{अनुवाक:4, सूक्त:8}{अष्टक:3, अध्याय:7}
द॒धि॒क्राव्ण॒इदु॒नुच॑र्किराम॒विश्वा॒,इन्मामु॒षसः॑सूदयन्तु |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

अ॒पाम॒ग्नेरु॒षसः॒सूर्य॑स्य॒बृह॒स्पते᳚राङ्गिर॒सस्य॑जि॒ष्णोः(स्वाहा᳚) || 1 || वर्ग:14

द॒धि॒ऽक्राव्णः॑¦इत्¦ऊँ॒ इति॑¦नु¦चा॒र्कि॒रा॒म॒¦विश्वाः᳚¦इत्¦मा‌म्¦उ॒षसः॑¦सू॒द॒य॒न्तु॒ |
अ॒पा‌म्¦अ॒ग्नेः¦उ॒षसः॑¦सूर्य॑स्य¦बृह॒स्पतेः᳚¦आ॒ङ्गि॒र॒सस्य॑¦जि॒ष्णोः ||

सत्वा᳚भरि॒षोग॑वि॒षोदु॑वन्य॒सच्छ्र॑व॒स्यादि॒षउ॒षस॑स्तुरण्य॒सत् |{गौतमो वामदेवः | दधिक्राः | जगती}

स॒त्योद्र॒वोद्र॑व॒रःप॑तंग॒रोद॑धि॒क्रावेष॒मूर्जं॒स्व॑र्जन॒‌त्(स्वाहा᳚) || 2 ||

सत्वा᳚¦भ॒रि॒षः¦गो॒ऽ‌इ॒षः¦दु॒व॒न्य॒ऽसत्¦श्र॒व॒स्यात्¦इ॒षः¦उ॒षसः॑¦तु॒र॒ण्य॒ऽसत् |
स॒त्यः¦द्र॒वः¦द्र॒व॒रः¦प॒त॒ङ्ग॒रः¦द॒धि॒ऽक्रावा᳚¦इष᳚‌म्¦ऊर्ज᳚‌म्¦स्वः॑¦ज॒न॒त् ||

उ॒तस्मा᳚स्य॒द्रव॑तस्तुरण्य॒तःप॒र्णंनवेरनु॑वातिप्रग॒र्धिनः॑ |{गौतमो वामदेवः | दधिक्राः | जगती}

श्ये॒नस्ये᳚व॒ध्रज॑तो,अङ्क॒संपरि॑दधि॒क्राव्णः॑स॒होर्जातरि॑त्रतः॒(स्वाहा᳚) || 3 ||

उ॒त¦स्म॒¦अ॒स्य॒¦द्रव॑तः¦तु॒र॒ण्य॒तः¦प॒र्ण‌म्¦न¦वेः¦अनु॑¦वा॒ति॒¦प्र॒ऽग॒र्धिनः॑ |
श्ये॒नस्य॑ऽ‌इव¦ध्रज॑तः¦अ॒ङ्क॒स‌म्¦परि॑¦द॒धि॒ऽक्राव्णः॑¦स॒ह¦ऊ॒र्जा¦तरि॑त्रतः ||

उ॒तस्यवा॒जीक्षि॑प॒णिंतु॑रण्यतिग्री॒वायां᳚ब॒द्धो,अ॑पिक॒क्षआ॒सनि॑ |{गौतमो वामदेवः | दधिक्राः | जगती}

क्रतुं᳚दधि॒क्रा,अनु॑सं॒तवी᳚त्वत्प॒थामङ्कां॒स्यन्वा॒पनी᳚फण॒‌त्(स्वाहा᳚) || 4 ||

उ॒त¦स्यः¦वा॒जी¦क्षि॒प॒णि‌म्¦तु॒र॒ण्य॒ति॒¦ग्री॒वाया᳚‌म्¦ब॒द्धः¦अ॒पि॒ऽक॒क्षे¦आ॒सनि॑ |
क्रतु᳚‌म्¦द॒धि॒ऽक्राः¦अनु॑¦स॒‌म्ऽतवी᳚त्वत्¦प॒था‌म्¦अङ्कां᳚सि¦अनु॑¦आ॒ऽपनी᳚फणत् ||

हं॒सःशु॑चि॒षद्‌वसु॑रन्तरिक्ष॒सद्धोता᳚वेदि॒षदति॑थिर्दुरोण॒सत् |{गौतमो वामदेवः | सूर्यः | जगती}

नृ॒षद्‌व॑र॒सदृ॑त॒सद्‌व्यो᳚म॒सद॒ब्जागो॒जा,ऋ॑त॒जा,अ॑द्रि॒जा,ऋ॒तम्(स्वाहा᳚) || 5 ||

हं॒सः¦शु॒चि॒ऽसत्¦वसुः॑¦अ॒न्त॒रि॒क्ष॒ऽसत्¦होता᳚¦वे॒दि॒ऽसत्¦अति॑थिः¦दु॒रो॒ण॒ऽसत् |
नृ॒ऽसत्¦व॒र॒ऽसत्¦ऋ॒त॒ऽसत्¦व्यो॒म॒ऽसत्¦अ॒प्ऽजाः¦गो॒ऽजाः¦ऋ॒त॒ऽजाः¦अ॒द्रि॒ऽजाः¦ऋ॒त‌म् ||

[41] इंद्राकोवामित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रावरुणौत्रिष्टुप्{मंडल:4, सूक्त:41}{अनुवाक:4, सूक्त:9}{अष्टक:3, अध्याय:7}
इन्द्रा॒कोवां᳚वरुणासु॒म्नमा᳚प॒स्तोमो᳚ह॒विष्माँ᳚,अ॒मृतो॒नहोता᳚ |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

योवां᳚हृ॒दिक्रतु॑माँ,अ॒स्मदु॒क्तःप॒स्पर्श॑दिन्द्रावरुणा॒नम॑स्वा॒‌न्(स्वाहा᳚) || 1 || वर्ग:15

इन्द्रा᳚¦कः¦वा॒‌म्¦व॒रु॒णा॒¦सु॒म्न‌म्¦आ॒प॒¦स्तोमः॑¦ह॒विष्मा᳚न्¦अ॒मृतः॑¦न¦होता᳚ |
यः¦वा॒‌म्¦हृ॒दि¦क्रतु॑ऽमान्¦अ॒स्मत्¦उ॒क्तः¦प॒स्पर्श॑त्¦इ॒न्द्रा॒व॒रु॒णा॒¦नम॑स्वान् ||

इन्द्रा᳚ह॒योवरु॑णाच॒क्रआ॒पीदे॒वौमर्तः॑स॒ख्याय॒प्रय॑स्वान् |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

सह᳚न्तिवृ॒त्रास॑मि॒थेषु॒शत्रू॒नवो᳚भिर्वाम॒हद्भिः॒सप्रशृ᳚ण्वे॒(स्वाहा᳚) || 2 ||

इन्द्रा᳚¦ह॒¦यः¦वरु॑णा¦च॒क्रे¦आ॒पी इति॑¦दे॒वौ¦मर्तः॑¦स॒ख्याय॑¦प्रय॑स्वान् |
सः¦ह॒न्ति॒¦वृ॒त्रा¦स॒‌म्ऽ‌इ॒थेषु॑¦शत्रू᳚न्¦अवः॑ऽभिः¦वा॒¦म॒हत्ऽभिः॑¦सः¦प्र¦शृ॒ण्वे॒ ||

इन्द्रा᳚ह॒रत्नं॒वरु॑णा॒धेष्ठे॒त्थानृभ्यः॑शशमा॒नेभ्य॒स्ता |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

यदी॒सखा᳚यास॒ख्याय॒सोमैः᳚सु॒तेभिः॑सुप्र॒यसा᳚मा॒दयै᳚ते॒(स्वाहा᳚) || 3 ||

इन्द्रा᳚¦ह॒¦रत्न᳚‌म्¦वरु॑णा¦धेष्ठा᳚¦इ॒त्था¦नृऽभ्यः॑¦श॒श॒मा॒नेभ्यः॑¦ता |
यदि॑¦सखा᳚या¦स॒ख्याय॑¦सोमैः᳚¦सु॒तेभिः॑¦सु॒ऽप्र॒यसा᳚¦मा॒दयै᳚ते॒ इति॑ ||

इन्द्रा᳚यु॒वंव॑रुणादि॒द्युम॑स्मि॒न्नोजि॑ष्ठमुग्रा॒निव॑धिष्टं॒वज्र᳚म् |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

योनो᳚दु॒रेवो᳚वृ॒कति॑र्द॒भीति॒स्तस्मि᳚न्‌मिमाथाम॒भिभू॒त्योजः॒(स्वाहा᳚) || 4 ||

इन्द्रा᳚¦यु॒व‌म्¦व॒रु॒णा॒¦दि॒द्यु‌म्¦अ॒स्मि॒न्¦ओजि॑ष्ठ‌म्¦उ॒ग्रा॒¦नि¦व॒धि॒ष्ट॒‌म्¦वज्र᳚‌म् |
यः¦नः॒¦दुः॒ऽएवः॑¦वृ॒कतिः॑¦द॒भीतिः॑¦तस्मि॑न्¦मि॒मा॒था॒‌म्¦अ॒भिऽभू᳚ति¦ओजः॑ ||

इन्द्रा᳚यु॒वंव॑रुणाभू॒तम॒स्याधि॒यःप्रे॒तारा᳚वृष॒भेव॑धे॒नोः |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

सानो᳚दुहीय॒द्यव॑सेवग॒त्वीस॒हस्र॑धारा॒पय॑साम॒हीगौः(स्वाहा᳚) || 5 ||

इन्द्रा᳚¦यु॒व‌म्¦व॒रु॒णा॒¦भू॒त‌म्¦अ॒स्याः¦धि॒यः¦प्रे॒तारा᳚¦वृ॒ष॒भाऽ‌इ᳚व¦धे॒नोः |
सा¦नः॒¦दु॒ही॒य॒त्¦यव॑साऽ‌इव¦ग॒त्वी¦स॒हस्र॑ऽधारा¦पय॑सा¦म॒ही¦गौः ||

तो॒केहि॒तेतन॑यउ॒र्वरा᳚सु॒सूरो॒दृशी᳚के॒वृष॑णश्च॒पौंस्ये᳚ |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

इन्द्रा᳚नो॒,अत्र॒वरु॑णास्याता॒मवो᳚भिर्द॒स्मापरि॑तक्म्याया॒‌म्(स्वाहा᳚) || 6 || वर्ग:16

तो॒के¦हि॒ते¦तन॑ये¦उ॒र्वरा᳚सु¦सूरः॑¦दृशी᳚के¦वृष॑णः¦च॒¦पौंस्ये᳚ |
इन्द्रा᳚¦नः॒¦अत्र॑¦वरु॑णा¦स्या॒ता॒‌म्¦अवः॑ऽभिः¦द॒स्मा¦परि॑ऽतक्म्याया‌म् ||

यु॒वामिद्ध्यव॑सेपू॒र्व्याय॒परि॒प्रभू᳚तीग॒विषः॑स्वापी |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

वृ॒णी॒महे᳚स॒ख्याय॑प्रि॒याय॒शूरा॒मंहि॑ष्ठापि॒तरे᳚वश॒म्भू(स्वाहा᳚) || 7 ||

यु॒वा‌म्¦इत्¦हि¦अव॑से¦पू॒र्व्याय॑¦परि॑¦प्रभू᳚ती॒ इति॒ प्रऽभू᳚ती¦गो॒ऽ‌इषः॑¦स्वा॒पी॒ इति॑ सुऽआपी |
वृ॒णी॒महे᳚¦स॒ख्याय॑¦प्रि॒याय॑¦शूरा᳚¦मंहि॑ष्ठा¦पि॒तरा᳚ऽ‌इव¦शं॒भू इति॑ श॒‌म्ऽभू ||

तावां॒धियोऽव॑सेवाज॒यन्ती᳚रा॒जिंनज॑ग्मुर्युव॒यूःसु॑दानू |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

श्रि॒येनगाव॒उप॒सोम॑मस्थु॒रिन्द्रं॒गिरो॒वरु॑णंमेमनी॒षाः(स्वाहा᳚) || 8 ||

ताः¦वा॒‌म्¦धियः॑¦अव॑से¦वा॒ज॒ऽयन्तीः᳚¦आ॒जि‌म्¦न¦ज॒ग्मुः॒¦यु॒व॒ऽयूः¦सु॒दा॒नू॒ इति॑ सुऽदानू |
श्रि॒ये¦न¦गावः॑¦उप॑¦सोम᳚‌म्¦अ॒स्थुः॒¦इन्द्र᳚‌म्¦गिरः॑¦वरु॑ण‌म्¦मे॒¦म॒नी॒षाः ||

इ॒मा,इन्द्रं॒वरु॑णंमेमनी॒षा,अग्म॒न्नुप॒द्रवि॑णमि॒च्छमा᳚नाः |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

उपे᳚मस्थुर्जो॒ष्टार॑इव॒वस्वो᳚र॒घ्वीरि॑व॒श्रव॑सो॒भिक्ष॑माणाः॒(स्वाहा᳚) || 9 ||

इ॒माः¦इन्द्र᳚‌म्¦वरु॑ण‌म्¦मे॒¦म॒नी॒षाः¦अग्म॑न्¦उप॑¦द्रवि॑ण‌म्¦इ॒च्छमा᳚नाः |
उप॑¦ई॒‌म्¦अ॒स्थुः॒¦जो॒ष्टारः॑ऽ‌इव¦वस्वः॑¦र॒घ्वीःऽ‌इ᳚व¦श्रव॑सः¦भिक्ष॑माणाः ||

अश्व्य॑स्य॒त्मना॒रथ्य॑स्यपु॒ष्टेर्नित्य॑स्यरा॒यःपत॑यःस्याम |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

ताच॑क्रा॒णा,ऊ॒तिभि॒र्नव्य॑सीभिरस्म॒त्रारायो᳚नि॒युतः॑सचन्ता॒‌म्(स्वाहा᳚) || 10 ||

अश्व्य॑स्य¦त्मना᳚¦रथ्य॑स्य¦पु॒ष्टेः¦नित्य॑स्य¦रा॒यः¦पत॑यः¦स्या॒म॒ |
ता¦च॒क्रा॒णौ¦ऊ॒तिऽभिः॑¦नव्य॑सीभिः¦अ॒स्म॒ऽत्रा¦रायः॑¦नि॒ऽयुतः॑¦स॒च॒न्ता॒‌म् ||

आनो᳚बृहन्ताबृह॒तीभि॑रू॒ती,इन्द्र॑या॒तंव॑रुण॒वाज॑सातौ |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

यद्दि॒द्यवः॒पृत॑नासुप्र॒क्रीळा॒न्तस्य॑वांस्यामसनि॒तार॑आ॒जेः(स्वाहा᳚) || 11 ||

आ¦नः॒¦बृ॒ह॒न्ता॒¦बृ॒ह॒तीभिः॑¦ऊ॒ती¦इन्द्र॑¦या॒त‌म्¦व॒रु॒ण॒¦वाज॑ऽसातौ |
यत्¦दि॒द्यवः॑¦पृत॑नासु¦प्र॒ऽक्रीळा᳚न्¦तस्य॑¦वा‌म्¦स्या॒म॒¦स॒नि॒तारः॑¦आ॒जेः ||

[42] ममद्वितेति दशर्चस्य सूक्तस्य पौरुकुत्स्यस्त्रसदस्युः आद्यानांषण्णांत्रसदस्युर्देवता अंत्यानांचतसृणामिंद्रावरुणौत्रिष्टुप्{मंडल:4, सूक्त:42}{अनुवाक:4, सूक्त:10}{अष्टक:3, अध्याय:7}
मम॑द्वि॒तारा॒ष्ट्रंक्ष॒त्रिय॑स्यवि॒श्वायो॒र्विश्वे᳚,अ॒मृता॒यथा᳚नः |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्}

क्रतुं᳚सचन्ते॒वरु॑णस्यदे॒वाराजा᳚मिकृ॒ष्टेरु॑प॒मस्य॑व॒व्रेः(स्वाहा᳚) || 1 || वर्ग:17

मम॑¦द्वि॒ता¦रा॒ष्ट्र‌म्¦क्ष॒त्रिय॑स्य¦वि॒श्वऽआ᳚योः¦विश्वे᳚¦अ॒मृताः᳚¦यथा᳚¦नः॒ |
क्रतु᳚‌म्¦स॒च॒न्ते॒¦वरु॑णस्य¦दे॒वाः¦राजा᳚मि¦कृ॒ष्टेः¦उ॒प॒मस्य॑¦व॒व्रेः ||

अ॒हंराजा॒वरु॑णो॒मह्यं॒तान्य॑सु॒र्या᳚णिप्रथ॒माधा᳚रयन्त |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्}

क्रतुं᳚सचन्ते॒वरु॑णस्यदे॒वाराजा᳚मिकृ॒ष्टेरु॑प॒मस्य॑व॒व्रेः(स्वाहा᳚) || 2 ||

अ॒ह‌म्¦राजा᳚¦वरु॑णः¦मह्य᳚‌म्¦तानि॑¦अ॒सु॒र्या᳚णि¦प्र॒थ॒मा¦धा॒र॒य॒न्त॒ |
क्रतु᳚‌म्¦स॒च॒न्ते॒¦वरु॑णस्य¦दे॒वाः¦राजा᳚मि¦कृ॒ष्टेः¦उ॒प॒मस्य॑¦व॒व्रेः ||

अ॒हमिन्द्रो॒वरु॑ण॒स्तेम॑हि॒त्वोर्वीग॑भी॒रेरज॑सीसु॒मेके᳚ |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्}

त्वष्टे᳚व॒विश्वा॒भुव॑नानिवि॒द्वान्त्समै᳚रयं॒रोद॑सीधा॒रयं᳚च॒(स्वाहा᳚) || 3 ||

अ॒ह‌म्¦इन्द्रः॑¦वरु॑णः¦ते इति॑¦म॒हि॒ऽत्वा¦उ॒र्वी इति॑¦ग॒भी॒रे इति॑¦रज॑सी॒ इति॑¦सु॒मेके॒ इति॑ सु॒ऽमेके᳚ |
त्वष्टा᳚ऽ‌इव¦विश्वा᳚¦भुव॑नानि¦वि॒द्वान्¦स‌म्¦ऐ॒र॒य॒‌म्¦रोद॑सी॒ इति॑¦धा॒रय᳚‌म्¦च॒ ||

अ॒हम॒पो,अ॑पिन्वमु॒क्षमा᳚णाधा॒रयं॒दिवं॒सद॑नऋ॒तस्य॑ |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्}

ऋ॒तेन॑पु॒त्रो,अदि॑तेरृ॒तावो॒तत्रि॒धातु॑प्रथय॒द्विभूम॒(स्वाहा᳚) || 4 ||

अ॒ह‌म्¦अ॒पः¦अ॒पि॒न्व॒‌म्¦उ॒क्षमा᳚णाः¦ध॒रय᳚‌म्¦दिव᳚‌म्¦सद॑ने¦ऋ॒तस्य॑ |
ऋ॒तेन॑¦पु॒त्रः¦अदि॑तेः¦ऋ॒तऽवा᳚¦उ॒त¦त्रि॒ऽधातु॑¦प्र॒थ॒य॒त्¦वि¦भूम॑ ||

मांनरः॒स्वश्वा᳚वा॒जय᳚न्तो॒मांवृ॒ताःस॒मर॑णेहवन्ते |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्}

कृ॒णोम्या॒जिंम॒घवा॒हमिन्द्र॒इय᳚र्मिरे॒णुम॒भिभू᳚त्योजाः॒(स्वाहा᳚) || 5 ||

मा‌म्¦नरः॑¦सु॒।आश्वाः᳚¦वा॒जय᳚न्तः¦मा‌म्¦वृ॒ताः¦स॒‌म्।आर॑णे¦ह॒व॒न्ते॒ |
कृ॒णोमि॑¦आ॒जि‌म्¦म॒घऽवा᳚¦अ॒ह‌म्¦इन्द्रः॑¦इय᳚र्मि¦रे॒णु‌म्¦अ॒भिभू᳚तिऽओजाः ||

अ॒हंताविश्वा᳚चकरं॒नकि᳚र्मा॒दैव्यं॒सहो᳚वरते॒,अप्र॑तीतम् |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्}

यन्मा॒सोमा᳚सोम॒मद॒न्यदु॒क्थोभेभ॑येते॒रज॑सी,अपा॒रे(स्वाहा᳚) || 6 || वर्ग:18

अ॒ह‌म्¦ता¦विश्वा᳚¦च॒क॒र॒‌म्¦नकिः॑¦मा॒¦दैव्य᳚‌म्¦सहः॑¦व॒र॒ते॒¦अप्र॑तिऽ‌इत‌म् |
यत्¦मा॒¦सोमा᳚सः¦म॒मद॑न्¦यत्¦उ॒क्था¦उ॒भे इति॑¦भ॒ये॒ते॒ इति॑¦रज॑सी॒ इति॑¦अ॒पा॒रे इति॑ ||

वि॒दुष्टे॒विश्वा॒भुव॑नानि॒तस्य॒ताप्रब्र॑वीषि॒वरु॑णायवेधः |{पौरुकुत्स्यः त्रसदस्युः | इन्द्रावरुणौ | त्रिष्टुप्}

त्वंवृ॒त्राणि॑शृण्विषेजघ॒न्वान्त्वंवृ॒ताँ,अ॑रिणा,इन्द्र॒सिन्धू॒न्त्(स्वाहा᳚) || 7 ||

वि॒दुः¦ते॒¦विश्वा᳚¦भुव॑नानि¦तस्य॑¦ता¦प्र¦ब्र॒वी॒षि॒¦वरु॑णाय¦वे॒धः॒ |
त्व‌म्¦वृ॒त्राणि॑¦शृ॒ण्वि॒षे॒¦ज॒घ॒न्वान्¦त्व‌म्¦वृ॒तान्¦अ॒रि॒णाः॒¦इ॒न्द्र॒¦सिन्धू॑न् ||

अ॒स्माक॒मत्र॑पि॒तर॒स्तआ᳚सन्त्स॒प्तऋष॑योदौर्ग॒हेब॒ध्यमा᳚ने |{पौरुकुत्स्यः त्रसदस्युः | इन्द्रावरुणौ | त्रिष्टुप्}

तआय॑जन्तत्र॒सद॑स्युमस्या॒,इन्द्रं॒नवृ॑त्र॒तुर॑मर्धदे॒वम्(स्वाहा᳚) || 8 ||

अ॒स्माक᳚‌म्¦अत्र॑¦पि॒तरः॑¦ते¦आ॒स॒न्¦स॒प्त¦ऋष॑यः¦दौः॒ऽग॒हे¦ब॒ध्यमा᳚ने |
ते¦आ¦अ॒य॒ज॒न्त॒¦त्र॒सद॑स्यु‌म्¦अ॒स्याः॒¦इन्द्र᳚‌म्¦न¦वृ॒त्र॒ऽतुर᳚‌म्¦अ॒र्ध॒ऽदे॒व‌म् ||

पु॒रु॒कुत्सा᳚नी॒हिवा॒मदा᳚शद्ध॒व्येभि॑रिन्द्रावरुणा॒नमो᳚भिः |{पौरुकुत्स्यः त्रसदस्युः | इन्द्रावरुणौ | त्रिष्टुप्}

अथा॒राजा᳚नंत्र॒सद॑स्युमस्यावृत्र॒हणं᳚ददथुरर्धदे॒वम्(स्वाहा᳚) || 9 ||

पु॒रु॒ऽकुत्सा᳚नी¦हि¦वा॒‌म्¦अदा᳚शत्¦ह॒व्येभिः॑¦इ॒न्द्रा॒व॒रु॒णा॒¦नमः॑ऽभिः |
अथ॑¦राजा᳚न‌म्¦त्र॒सद॑स्यु‌म्¦अ॒स्याः॒¦वृ॒त्र॒ऽहन᳚‌म्¦द॒द॒थुः॒¦अ॒र्ध॒ऽदे॒व‌म् ||

रा॒याव॒यंस॑स॒वांसो᳚मदेमह॒व्येन॑दे॒वायव॑सेन॒गावः॑ |{पौरुकुत्स्यः त्रसदस्युः | इन्द्रावरुणौ | त्रिष्टुप्}

तांधे॒नुमि᳚न्द्रावरुणायु॒वंनो᳚वि॒श्वाहा᳚धत्त॒मन॑पस्फुरन्ती॒‌म्(स्वाहा᳚) || 10 ||

रा॒या¦व॒य‌म्¦स॒स॒ऽवांसः॑¦म॒दे॒म॒¦ह॒व्येन॑¦दे॒वाः¦यव॑सेन¦गावः॑ |
ता‌म्¦धे॒नु‌म्¦इ॒न्द्रा॒व॒रु॒णा॒¦यु॒व‌म्¦नः॒¦वि॒श्वाहा᳚¦ध॒त्त॒‌म्¦अन॑पऽस्फुरन्ती‌म् ||

[43] कउश्रवदिति सप्तर्चस्य सूक्तस्य सौहोत्रौ पुरुमीळ्हाजमीळ्हावश्विनौत्रिष्टुप् |{मंडल:4, सूक्त:43}{अनुवाक:4, सूक्त:11}{अष्टक:3, अध्याय:7}
कउ॑श्रवत्‌कत॒मोय॒ज्ञिया᳚नांव॒न्दारु॑दे॒वःक॑त॒मोजु॑षाते |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

कस्ये॒मांदे॒वीम॒मृते᳚षु॒प्रेष्ठां᳚हृ॒दिश्रे᳚षामसुष्टु॒तिंसु॑ह॒व्याम्(स्वाहा᳚) || 1 || वर्ग:19

कः¦ऊँ॒ इति॑¦श्र॒व॒त्¦क॒त॒मः¦य॒ज्ञिया᳚ना‌म्¦व॒न्दारु॑¦दे॒वः¦क॒त॒मः¦जु॒षा॒ते॒ |
कस्य॑¦इ॒मा‌म्¦दे॒वी‌म्¦अ॒मृते᳚षु¦प्रेष्ठा᳚‌म्¦हृ॒दि¦श्रे॒षा॒म॒¦सु॒ऽस्तु॒ति‌म्¦सु॒ऽह॒व्या‌म् ||

कोमृ॑ळातिकत॒मआग॑मिष्ठोदे॒वाना᳚मुकत॒मःशम्भ॑विष्ठः |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

रथं॒कमा᳚हुर्द्र॒वद॑श्वमा॒शुंयंसूर्य॑स्यदुहि॒तावृ॑णीत॒(स्वाहा᳚) || 2 ||

कः¦मृ॒ळा॒ति॒¦क॒त॒मः¦आऽग॑मिष्ठः¦दे॒वाना᳚‌म्¦ऊँ॒ इति॑¦क॒त॒मः¦श‌म्ऽभ॑विष्ठः |
रथ᳚‌म्¦क‌म्¦आ॒हुः॒¦द्र॒वत्।आ॑श्व‌म्¦आ॒शु‌म्¦य‌म्¦सूर्य॑स्य¦दु॒हि॒ता¦अवृ॑णीत ||

म॒क्षूहिष्मा॒गच्छ॑थ॒ईव॑तो॒द्यूनिन्द्रो॒नश॒क्तिंपरि॑तक्म्यायाम् |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

दि॒वआजा᳚तादि॒व्यासु॑प॒र्णाकया॒शची᳚नांभवथः॒शचि॑ष्ठा॒(स्वाहा᳚) || 3 ||

म॒क्षु¦हि¦स्म॒¦गच्छ॑थः¦ईव॑तः¦द्यून्¦इन्द्रः॑¦न¦श॒क्ति‌म्¦परि॑ऽतक्म्याया‌म् |
दि॒वः¦आऽजा᳚ता¦दि॒व्या¦सु॒ऽप॒र्णा¦कया᳚¦शची᳚ना‌म्¦भ॒व॒थः॒¦शचि॑ष्ठा ||

कावां᳚भू॒दुप॑मातिः॒कया᳚न॒आश्वि॑नागमथोहू॒यमा᳚ना |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

कोवां᳚म॒हश्चि॒त्‌त्यज॑सो,अ॒भीक॑उरु॒ष्यतं᳚माध्वीदस्रानऊ॒ती(स्वाहा᳚) || 4 ||

का¦वा॒‌म्¦भू॒त्¦उप॑ऽमातिः¦कया᳚¦नः॒¦आ¦अ॒श्वि॒ना॒¦ग॒म॒थः॒¦हू॒यमा᳚ना |
कः¦वा॒‌म्¦म॒हः¦चि॒त्¦त्यज॑सः¦अ॒भीके᳚¦उ॒रु॒ष्यत᳚‌म्¦मा॒ध्वी॒ इति॑¦द॒स्रा॒¦नः॒¦ऊ॒ती ||

उ॒रुवां॒रथः॒परि॑नक्षति॒द्यामायत्‌स॑मु॒द्राद॒भिवर्त॑तेवाम् |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

मध्वा᳚माध्वी॒मधु॑वांप्रुषाय॒न्यत्सीं᳚वां॒पृक्षो᳚भु॒रज᳚न्तप॒क्वाः(स्वाहा᳚) || 5 ||

उ॒रु¦वा॒‌म्¦रथः॑¦परि॑¦न॒क्ष॒ति॒¦द्या‌म्¦आ¦यत्¦स॒मु॒द्रात्¦अ॒भि¦वर्त॑ते¦वा॒‌म् |
मध्वा᳚¦मा॒ध्वी॒ इति॑¦मधु॑¦वा॒‌म्¦प्रु॒षा॒य॒न्¦यत्¦सी॒‌म्¦वा॒‌म्¦पृक्षः॑¦भु॒रज᳚न्त¦प॒क्वाः ||

सिन्धु᳚र्हवांर॒सया᳚सिञ्च॒दश्वा᳚न्घृ॒णावयो᳚ऽरु॒षासः॒परि॑ग्मन् |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

तदू॒षुवा᳚मजि॒रंचे᳚ति॒यानं॒येन॒पती॒भव॑थःसू॒र्यायाः᳚(स्वाहा᳚) || 6 ||

सिन्धुः॑¦ह॒¦वा॒‌म्¦र॒सया᳚¦सिं॒च॒त्¦अश्वा᳚न्¦घृ॒णा¦वयः॑¦अ॒रु॒षासः॑¦परि॑¦ग्म॒न् |
तत्¦ऊँ॒ इति॑¦सु¦वा॒‌म्¦अ॒जि॒र‌म्¦चे॒ति॒¦यान᳚‌म्¦येन॑¦पती॒ इति॑¦भव॑थः¦सू॒र्यायाः᳚ ||

इ॒हेह॒यद्वां᳚सम॒नाप॑पृ॒क्षेसेयम॒स्मेसु॑म॒तिर्वा᳚जरत्ना |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

उ॒रु॒ष्यतं᳚जरि॒तारं᳚यु॒वंह॑श्रि॒तःकामो᳚नासत्यायुव॒द्रिक्(स्वाहा᳚) || 7 ||

इ॒हऽ‌इ᳚ह¦यत्¦वा॒‌म्¦स॒म॒ना¦प॒पृ॒क्षे¦सा¦इ॒य‌म्¦अ॒स्मे इति॑¦सु॒ऽम॒तिः¦वा॒ज॒ऽर॒त्ना॒ |
उ॒रु॒ष्यत᳚‌म्¦ज॒रि॒तार᳚‌म्¦यु॒व‌म्¦ह॒¦श्रि॒तः¦कामः॑¦ना॒स॒त्या॒¦यु॒व॒द्रिक् ||

[44] तंवामिति सप्तर्चस्य सूक्तस्य सौहोत्रौ पुरुमीळ्हाजमीळ्हावश्विनौत्रिष्टुप् |{मंडल:4, सूक्त:44}{अनुवाक:4, सूक्त:12}{अष्टक:3, अध्याय:7}
तंवां॒रथं᳚व॒यम॒द्याहु॑वेमपृथु॒ज्रय॑मश्विना॒संग॑तिं॒गोः |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

यःसू॒र्यांवह॑तिवन्धुरा॒युर्गिर्वा᳚हसंपुरु॒तमं᳚वसू॒युम्(स्वाहा᳚) || 1 || वर्ग:20

त‌म्¦वा॒‌म्¦रथ᳚‌म्¦व॒य‌म्¦अ॒द्य¦हु॒वे॒म॒¦पृ॒थु॒ऽज्रय᳚‌म्¦अ॒श्वि॒ना॒¦स‌म्ऽग॑ति‌म्¦गोः |
यः¦सू॒र्या‌म्¦वह॑ति¦व॒न्धु॒र॒ऽयुः¦गिर्वा᳚हस‌म्¦पु॒रु॒ऽतम᳚‌म्¦व॒सु॒ऽयु‌म् ||

यु॒वंश्रिय॑मश्विनादे॒वता॒तांदिवो᳚नपातावनथः॒शची᳚भिः |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

यु॒वोर्वपु॑र॒भिपृक्षः॑सचन्ते॒वह᳚न्ति॒यत्‌क॑कु॒हासो॒रथे᳚वा॒‌म्(स्वाहा᳚) || 2 ||

यु॒व‌म्¦श्रिय᳚‌म्¦अ॒श्वि॒ना॒¦दे॒वता᳚¦ता‌म्¦दिवः॑¦न॒पा॒ता॒¦व॒न॒थः॒¦शची᳚भिः |
यु॒वोः¦वपुः॑¦अ॒भि¦पृक्षः॑¦स॒च॒न्ते॒¦वह᳚न्ति¦यत्¦क॒कु॒हासः॑¦रथे᳚¦वा॒‌म् ||

कोवा᳚म॒द्याक॑रतेरा॒तह᳚व्यऊ॒तये᳚वासुत॒पेया᳚यवा॒र्कैः |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

ऋ॒तस्य॑वाव॒नुषे᳚पू॒र्व्याय॒नमो᳚येमा॒नो,अ॑श्वि॒नाव॑वर्त॒‌त्(स्वाहा᳚) || 3 ||

कः¦वा॒‌म्¦अ॒द्य¦क॒र॒ते॒¦रा॒तऽह᳚व्यः¦ऊ॒तये᳚¦वा॒¦सु॒त॒ऽपेया᳚य¦वा॒¦अ॒र्कैः |
ऋ॒तस्य॑¦वा॒¦व॒नुषे᳚¦पू॒र्व्याय॑¦नमः॑¦ये॒मा॒नः¦अ॒श्वि॒ना॒¦आ¦व॒व॒र्त॒त् ||

हि॒र॒ण्यये᳚नपुरुभू॒रथे᳚ने॒मंय॒ज्ञंना᳚स॒त्योप॑यातम् |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

पिबा᳚थ॒इन्मधु॑नःसो॒म्यस्य॒दध॑थो॒रत्नं᳚विध॒तेजना᳚य॒(स्वाहा᳚) || 4 ||

हि॒र॒ण्यये᳚न¦पु॒रु॒भू॒ इति॑ पुरुऽभू¦रथे᳚न¦इ॒म‌म्¦य॒ज्ञ‌म्¦ना॒स॒त्या॒¦उप॑¦या॒त॒‌म् |
पिबा᳚थः¦इत्¦मधु॑नः¦सो॒म्यस्य॑¦दध॑थः¦रत्न᳚‌म्¦वि॒ध॒ते¦जना᳚य ||

आनो᳚यातंदि॒वो,अच्छा᳚पृथि॒व्याहि॑र॒ण्यये᳚नसु॒वृता॒रथे᳚न |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

मावा᳚म॒न्येनिय॑मन्‌देव॒यन्तः॒संयद्द॒देनाभिः॑पू॒र्व्यावा॒‌म्(स्वाहा᳚) || 5 ||

आ¦नः॒¦या॒त॒‌म्¦दि॒वः¦अच्छ॑¦पृ॒थि॒व्याः¦हि॒र॒ण्यये᳚न¦सु॒ऽवृता᳚¦रथे᳚न |
मा¦वा॒‌म्¦अ॒न्ये¦नि¦य॒म॒न्¦दे॒व॒ऽयन्तः॑¦स‌म्¦यत्¦द॒दे¦नाभिः॑¦पू॒र्व्या¦वा॒‌म् ||

नूनो᳚र॒यिंपु॑रु॒वीरं᳚बृ॒हन्तं॒दस्रा॒मिमा᳚थामु॒भये᳚ष्व॒स्मे |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

नरो॒यद्वा᳚मश्विना॒स्तोम॒माव᳚न्त्स॒धस्तु॑तिमाजमी॒ळ्हासो᳚,अग्म॒‌न्(स्वाहा᳚) || 6 ||

नु¦नः॒¦र॒यि‌म्¦पु॒रु॒ऽवीर᳚‌म्¦बृ॒हन्त᳚‌म्¦द॒स्रा॒¦मिमा᳚था‌म्¦उ॒भये᳚षु¦अ॒स्मे इति॑ |
नरः॑¦यत्¦वा॒‌म्¦अ॒श्वि॒ना॒¦स्तोम᳚‌म्¦आव॑न्¦स॒धऽस्तु॑ति‌म्¦आ॒ज॒ऽमी॒ळ्हासः॑¦अ॒ग्म॒न् ||

इ॒हेह॒यद्वां᳚सम॒नाप॑पृ॒क्षेसेयम॒स्मेसु॑म॒तिर्वा᳚जरत्ना |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

उ॒रु॒ष्यतं᳚जरि॒तारं᳚यु॒वंह॑श्रि॒तःकामो᳚नासत्यायुव॒द्रिक्(स्वाहा᳚) || 7 ||

इ॒हऽ‌इ᳚ह¦यत्¦वा॒‌म्¦स॒म॒ना¦प॒पृ॒क्षे¦सा¦इ॒य‌म्¦अ॒स्मे इति॑¦सु॒ऽम॒तिः¦वा॒ज॒ऽर॒त्ना॒ |
उ॒रु॒ष्यत᳚‌म्¦ज॒रि॒तार᳚‌म्¦यु॒व‌म्¦ह॒¦श्रि॒तः¦कामः॑¦ना॒स॒त्या॒¦यु॒व॒द्रिक् ||

[45] एषस्यइति सप्तर्चस्य सूक्तस्य गौतमो वामदेवोश्विनौ जगत्यंत्यात्रिष्टुप् |{मंडल:4, सूक्त:45}{अनुवाक:4, सूक्त:13}{अष्टक:3, अध्याय:7}
ए॒षस्यभा॒नुरुदि॑यर्तियु॒ज्यते॒रथः॒परि॑ज्मादि॒वो,अ॒स्यसान॑वि |{गौतमो वामदेवः | अश्विनौ | जगती}

पृ॒क्षासो᳚,अस्मिन्‌मिथु॒ना,अधि॒त्रयो॒दृति॑स्तु॒रीयो॒मधु॑नो॒विर॑प्शते॒(स्वाहा᳚) || 1 || वर्ग:21

ए॒षः¦स्यः¦भा॒नुः¦उत्¦इ॒य॒र्ति॒¦यु॒ज्यते᳚¦रथः॑¦परि॑ऽज्मा¦दि॒वः¦अ॒स्य¦सान॑वि |
पृ॒क्षासः॑¦अ॒स्मि॒न्¦मि॒थु॒नाः¦अधि॑¦त्रयः॑¦दृतिः॑¦तु॒रीयः॑¦मधु॑नः¦वि¦र॒प्श॒ते॒ ||

उद्वां᳚पृ॒क्षासो॒मधु॑मन्तईरते॒रथा॒,अश्वा᳚सउ॒षसो॒व्यु॑ष्टिषु |{गौतमो वामदेवः | अश्विनौ | जगती}

अ॒पो॒र्णु॒वन्त॒स्तम॒आपरी᳚वृतं॒स्व१॑(अ॒)र्णशु॒क्रंत॒न्वन्त॒आरजः॒(स्वाहा᳚) || 2 ||

उत्¦वा॒‌म्¦पृ॒क्षासः॑¦मधु॑ऽमन्तः¦ई॒र॒ते॒¦रथाः᳚¦अश्वा᳚सः¦उ॒षसः॑¦वि।औ᳚ष्टिषु |
अ॒प॒ऽऊ॒र्णु॒वन्तः॑¦तमः॑¦आ¦परि॑ऽवृत‌म्¦स्वः॑¦न¦शु॒क्र‌म्¦त॒न्वन्तः॑¦आ¦रजः॑ ||

मध्वः॑पिबतंमधु॒पेभि॑रा॒सभि॑रु॒तप्रि॒यंमधु॑नेयुञ्जाथां॒रथ᳚म् |{गौतमो वामदेवः | अश्विनौ | जगती}

आव॑र्त॒निंमधु॑नाजिन्वथस्प॒थोदृतिं᳚वहेथे॒मधु॑मन्तमश्विना॒(स्वाहा᳚) || 3 ||

मध्वः॑¦पि॒ब॒त॒‌म्¦म॒धु॒ऽपेभिः॑¦आ॒सऽभिः॑¦उ॒त¦प्रि॒य‌म्¦मधु॑ने¦युं॒जा॒था॒‌म्¦रथ᳚‌म् |
आ¦व॒र्त॒नि‌म्¦मधु॑ना¦जि॒न्व॒थः॒¦प॒थः¦दृति᳚‌म्¦व॒हे॒थे॒ इति॑¦मधु॑ऽमन्त‌म्¦अ॒श्वि॒ना॒ ||

हं॒सासो॒येवां॒मधु॑मन्तो,अ॒स्रिधो॒हिर᳚ण्यपर्णा,उ॒हुव॑उष॒र्बुधः॑ |{गौतमो वामदेवः | अश्विनौ | जगती}

उ॒द॒प्रुतो᳚म॒न्दिनो᳚मन्दिनि॒स्पृशो॒मध्वो॒नमक्षः॒सव॑नानिगच्छथः॒(स्वाहा᳚) || 4 ||

हं॒सासः॑¦ये¦वा॒‌म्¦मधु॑ऽमन्तः¦अ॒स्रिधः॑¦हिर᳚ण्यऽपर्णाः¦उ॒हुवः॑¦उ॒षः॒ऽबुधः॑ |
उ॒द॒ऽप्रुतः॑¦म॒न्दिनः॑¦म॒न्दि॒ऽनि॒स्पृशः॑¦मध्वः॑¦न¦मक्षः॑¦सव॑नानि¦ग॒च्छ॒थः॒ ||

स्व॒ध्व॒रासो॒मधु॑मन्तो,अ॒ग्नय॑उ॒स्राज॑रन्ते॒प्रति॒वस्तो᳚र॒श्विना᳚ |{गौतमो वामदेवः | अश्विनौ | जगती}

यन्नि॒क्तह॑स्तस्त॒रणि᳚र्विचक्ष॒णःसोमं᳚सु॒षाव॒मधु॑मन्त॒मद्रि॑भिः॒(स्वाहा᳚) || 5 ||

सु॒।आ॒ध्च॒रासः॑¦मधु॑ऽमन्तः¦अ॒ग्नयः॑¦उ॒स्रा¦ज॒र॒न्ते॒¦प्रति॑¦वस्तोः᳚¦अ॒श्विना᳚ |
यत्¦नि॒क्तऽह॑स्तः¦त॒रणिः॑¦वि॒ऽच॒क्ष॒णः¦सोम᳚‌म्¦सु॒साव॑¦मधु॑ऽमन्त‌म्¦अद्रि॑ऽभिः ||

आ॒के॒नि॒पासो॒,अह॑भि॒र्दवि॑ध्वतः॒स्व१॑(अ॒)र्णशु॒क्रंत॒न्वन्त॒आरजः॑ |{गौतमो वामदेवः | अश्विनौ | जगती}

सूर॑श्चि॒दश्वा᳚न्‌युयुजा॒नई᳚यते॒विश्वाँ॒,अनु॑स्व॒धया᳚चेतथस्प॒थः(स्वाहा᳚) || 6 ||

आ॒के॒ऽनि॒पासः॑¦अह॑ऽभिः¦दवि॑ध्वतः¦स्वः॑¦न¦शु॒क्र‌म्¦त॒न्वन्तः॑¦आ¦रजः॑ |
सूरः॑¦चि॒त्¦अश्वा᳚न्¦यु॒यु॒जा॒नः¦ई॒य॒ते॒¦विश्वा᳚न्¦अनु॑¦स्व॒धया᳚¦चे॒त॒थः॒¦प॒थः ||

प्रवा᳚मवोचमश्विनाधियं॒धारथः॒स्वश्वो᳚,अ॒जरो॒यो,अस्ति॑ |{गौतमो वामदेवः | अश्विनौ | त्रिष्टुप्}

येन॑स॒द्यःपरि॒रजां᳚सिया॒थोह॒विष्म᳚न्तंत॒रणिं᳚भो॒जमच्छ॒(स्वाहा᳚) || 7 ||

प्र¦वा॒‌म्¦अ॒वो॒च॒‌म्¦अ॒श्वि॒ना॒¦धि॒य॒‌म्ऽधाः¦रथः॑¦सु॒।आश्वः॑¦अ॒जरः॑¦यः¦अस्ति॑ |
येन॑¦स॒द्यः¦परि॑¦रजां᳚सि¦या॒थः¦ह॒विष्म᳚न्त‌म्¦त॒रणि᳚‌म्¦भो॒ज‌म्¦अच्छ॑ ||

[46] अग्रम्पिबेति सप्तर्चस्य सूक्तस्य गौतमोवामदेव इंद्रवायू आद्यायावायुर्गायत्री |{मंडल:4, सूक्त:46}{अनुवाक:5, सूक्त:1}{अष्टक:3, अध्याय:7}
अग्रं᳚पिबा॒मधू᳚नांसु॒तंवा᳚यो॒दिवि॑ष्टिषु |{गौतमो वामदेवः | वायुः | गायत्री}

त्वंहिपू᳚र्व॒पा,असि॒(स्वाहा᳚) || 1 || वर्ग:22

अग्र᳚‌म्¦पि॒ब॒¦मधू᳚ना‌म्¦सु॒त‌म्¦व॒यो॒ इति॑¦दिवि॑ष्टिषु | त्व‌म्¦हि¦पू॒र्व॒ऽपाः¦असि॑ ||

श॒तेना᳚नो,अ॒भिष्टि॑भिर्नि॒युत्वाँ॒,इन्द्र॑सारथिः |{गौतमो वामदेवः | इंद्रवायू | गायत्री}

वायो᳚सु॒तस्य॑तृम्पत॒‌म्(स्वाहा᳚) || 2 ||

श॒तेन॑¦नः॒¦अ॒भिष्टि॑ऽभिः¦नि॒युत्वा᳚न्¦इन्द्र॑ऽसारथिः | वायो॒ इति॑¦सु॒तस्य॑¦तृ॒म्प॒त॒‌म् ||

आवां᳚स॒हस्रं॒हर॑य॒इन्द्र॑वायू,अ॒भिप्रयः॑ |{गौतमो वामदेवः | इंद्रवायू | गायत्री}

वह᳚न्तु॒सोम॑पीतये॒(स्वाहा᳚) || 3 ||

आ¦वा॒‌म्¦स॒हस्र᳚‌म्¦हर॑यः¦इन्द्र॑वायू॒ इति॑¦अ॒भि¦प्रयः॑ | वह᳚न्तु¦सोम॑ऽपीतये ||

रथं॒हिर᳚ण्यवन्धुर॒मिन्द्र॑वायूस्वध्व॒रम् |{गौतमो वामदेवः | इंद्रवायू | गायत्री}

आहिस्थाथो᳚दिवि॒स्पृश॒‌म्(स्वाहा᳚) || 4 ||

रथ᳚‌म्¦हिर᳚ण्यऽवन्धुर‌म्¦इन्द्र॑वायू॒ इति॑¦सु॒।आ॒ध्व॒र‌म् | आ¦हि¦स्थाथः॑¦दि॒वि॒ऽस्पृश᳚‌म् ||

रथे᳚नपृथु॒पाज॑सादा॒श्वांस॒मुप॑गच्छतम् |{गौतमो वामदेवः | इंद्रवायू | गायत्री}

इन्द्र॑वायू,इ॒हाग॑त॒‌म्(स्वाहा᳚) || 5 ||

रथे᳚न¦पृ॒थु॒ऽपाज॑सा¦दा॒श्वांस᳚‌म्¦उप॑¦ग॒च्छ॒त॒‌म् | इन्द्र॑वायू॒ इति॑¦इ॒ह¦आ¦ग॒त॒‌म् ||

इन्द्र॑वायू,अ॒यंसु॒तस्तंदे॒वेभिः॑स॒जोष॑सा |{गौतमो वामदेवः | इंद्रवायू | गायत्री}

पिब॑तंदा॒शुषो᳚गृ॒हे(स्वाहा᳚) || 6 ||

इन्द्र॑वायू॒ इति॑¦अ॒य‌म्¦सु॒तः¦त‌म्¦दे॒वेभिः॑¦स॒ऽजोष॑सा | पिब॑त‌म्¦दा॒शुषः॑¦गृ॒हे ||

इ॒हप्र॒याण॑मस्तुवा॒मिन्द्र॑वायूवि॒मोच॑नम् |{गौतमो वामदेवः | इंद्रवायू | गायत्री}

इ॒हवां॒सोम॑पीतये॒(स्वाहा᳚) || 7 ||

इ॒ह¦प्र॒ऽयान᳚‌म्¦अ॒स्तु॒¦वा॒‌म्¦इन्द्र॑वायू॒ इति॑¦वि॒ऽमोच॑न‌म् | इ॒ह¦वा॒‌म्¦सोम॑ऽपीतये ||

[47] वायोशुक्रइति चतुरृचस्य सूक्तस्य गौतमोवामदेव इंद्रवायू आद्यायावायुरनुष्टुप् |{मंडल:4, सूक्त:47}{अनुवाक:5, सूक्त:2}{अष्टक:3, अध्याय:7}
वायो᳚शु॒क्रो,अ॑यामिते॒मध्वो॒,अग्रं॒दिवि॑ष्टिषु |{गौतमो वामदेवः | वायुः | अनुष्टुप्}

आया᳚हि॒सोम॑पीतयेस्पा॒र्होदे᳚वनि॒युत्व॑ता॒(स्वाहा᳚) || 1 || वर्ग:23

वायो॒ इति॑¦शु॒क्रः¦अ॒या॒मि॒¦ते॒¦मध्वः॑¦अग्र᳚‌म्¦दिवि॑ष्टिषु | आ¦या॒हि॒¦सोम॑ऽपीतये¦स्पा॒र्हः¦दे॒व॒¦नि॒युत्व॑ता ||

इन्द्र॑श्चवायवेषां॒सोमा᳚नांपी॒तिम᳚र्हथः |{गौतमो वामदेवः | इंद्रवायू | अनुष्टुप्}

यु॒वांहियन्तीन्द॑वोनि॒म्नमापो॒नस॒ध्र्य॑१(अ॒)क्(स्वाहा᳚) || 2 ||

इन्द्रः॑¦च॒¦वा॒यो॒ इति॑¦ए॒षा॒‌म्¦सोमा᳚ना‌म्¦पी॒ति‌म्¦अ॒र्ह॒थः॒ | यु॒वा‌म्¦हि¦यन्ति॑¦इन्द॑वः¦नि॒म्न‌म्¦आपः॑¦न¦स॒ध्र्य॑क् ||

वाय॒विन्द्र॑श्चशु॒ष्मिणा᳚स॒रथं᳚शवसस्पती |{गौतमो वामदेवः | इंद्रवायू | अनुष्टुप्}

नि॒युत्व᳚न्तानऊ॒तय॒आया᳚तं॒सोम॑पीतये॒(स्वाहा᳚) || 3 ||

वायो॒ इति॑¦इन्द्रः॑¦च॒¦शु॒ष्मिणा᳚¦स॒ऽरथ᳚‌म्¦श॒व॒सः॒¦प॒ती॒ इति॑ | नि॒युत्व᳚न्ता¦नः॒¦ऊ॒तये᳚¦आ¦या॒त॒‌म्¦सोम॑ऽपीतये ||

यावां॒सन्ति॑पुरु॒स्पृहो᳚नि॒युतो᳚दा॒शुषे᳚नरा |{गौतमो वामदेवः | इंद्रवायू | अनुष्टुप्}

अ॒स्मेताय॑ज्ञवाह॒सेन्द्र॑वायू॒निय॑च्छत॒‌म्(स्वाहा᳚) || 4 ||

याः¦वा॒‌म्¦सन्ति॑¦पु॒रु॒ऽस्पृहः॑¦नि॒ऽयुतः॑¦दा॒शुषे᳚¦न॒रा॒ | अ॒स्मे इति॑¦ताः¦य॒ज्ञ॒ऽवा॒ह॒सा॒¦इन्द्र॑वायू॒ इति॑¦नि¦य॒च्छ॒त॒‌म् ||

[48] विहिहोत्राइति पंचर्चस्य सूक्तस्य गौतमोवामदेवोवायुरनुष्टुप् |{मंडल:4, सूक्त:48}{अनुवाक:5, सूक्त:3}{अष्टक:3, अध्याय:7}
वि॒हिहोत्रा॒,अवी᳚ता॒विपो॒नरायो᳚,अ॒र्यः |{गौतमो वामदेवः | वायुः | अनुष्टुप्}

वाय॒वाच॒न्द्रेण॒रथे᳚नया॒हिसु॒तस्य॑पी॒तये॒(स्वाहा᳚) || 1 || वर्ग:24

वि॒हि¦होत्रा᳚¦अवी᳚ताः¦विपः॑¦न¦रायः॑¦अ॒र्यः | वायो॒ इति॑¦आ¦च॒न्द्रेण॑¦रथे᳚न¦या॒हि¦सु॒तस्य॑¦पी॒तये᳚ ||

नि॒र्यु॒वा॒णो,अश॑स्तीर्नि॒युत्वाँ॒,इन्द्र॑सारथिः |{गौतमो वामदेवः | वायुः | अनुष्टुप्}

वाय॒वाच॒न्द्रेण॒रथे᳚नया॒हिसु॒तस्य॑पी॒तये॒(स्वाहा᳚) || 2 ||

निः॒ऽयु॒वा॒नः¦अश॑स्तीः¦नि॒युत्वा᳚न्¦इन्द्र॑ऽसारथिः | वायो॒ इति॑¦आ¦च॒न्द्रेण॑¦रथे᳚न¦या॒हि¦सु॒तस्य॑¦पी॒तये᳚ ||

अनु॑कृ॒ष्णेवसु॑धितीये॒माते᳚वि॒श्वपे᳚शसा |{गौतमो वामदेवः | वायुः | अनुष्टुप्}

वाय॒वाच॒न्द्रेण॒रथे᳚नया॒हिसु॒तस्य॑पी॒तये॒(स्वाहा᳚) || 3 ||

अनु॑¦कृ॒ष्णे इति॑¦वसु॑धिती॒ इति॒ वसु॑ऽधिती¦ये॒माते॒ इति॑¦वि॒श्वऽपे᳚शसा | वायो॒ इति॑¦आ¦च॒न्द्रेण॑¦रथे᳚न¦या॒हि¦सु॒तस्य॑¦पी॒तये᳚ ||

वह᳚न्तुत्वामनो॒युजो᳚यु॒क्तासो᳚नव॒तिर्नव॑ |{गौतमो वामदेवः | वायुः | अनुष्टुप्}

वाय॒वाच॒न्द्रेण॒रथे᳚नया॒हिसु॒तस्य॑पी॒तये॒(स्वाहा᳚) || 4 ||

वह᳚न्तु¦त्वा॒¦म॒नः॒ऽयुजः॑¦यु॒क्तासः॑¦न॒व॒तिः¦नव॑ | वायो॒ इति॑¦आ¦च॒न्द्रेण॑¦रथे᳚न¦या॒हि¦सु॒तस्य॑¦पी॒तये᳚ ||

वायो᳚श॒तंहरी᳚णांयु॒वस्व॒पोष्या᳚णाम् |{गौतमो वामदेवः | वायुः | अनुष्टुप्}

उ॒तवा᳚तेसह॒स्रिणो॒रथ॒आया᳚तु॒पाज॑सा॒(स्वाहा᳚) || 5 ||

वायो॒ इति॑¦श॒त‌म्¦हरी᳚णा‌म्¦यु॒वस्व॑¦पोष्या᳚णा‌म् | उ॒त¦वा॒¦ते॒¦स॒ह॒स्रिणः॑¦रथः॑¦आ¦या॒तु॒¦पाज॑सा ||

[49] इदंवामिति षडृचस्य सूक्तस्य गौतमोवामदेव इंद्राबृहस्पतीगायत्री{मंडल:4, सूक्त:49}{अनुवाक:5, सूक्त:4}{अष्टक:3, अध्याय:7}
इ॒दंवा᳚मा॒स्ये᳚ह॒विःप्रि॒यमि᳚न्द्राबृहस्पती |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री}

उ॒क्थंमद॑श्चशस्यते॒(स्वाहा᳚) || 1 || वर्ग:25

इ॒द‌म्¦वा॒‌म्¦आ॒स्ये᳚¦ह॒विः¦प्रि॒य‌म्¦इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ | उ॒क्थ‌म्¦मदः॑¦च॒¦श॒स्य॒ते॒ ||

अ॒यंवां॒परि॑षिच्यते॒सोम॑इन्द्राबृहस्पती |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री}

चारु॒र्मदा᳚यपी॒तये॒(स्वाहा᳚) || 2 ||

अ॒य‌म्¦वा॒‌म्¦परि॑¦सि॒च्य॒ते॒¦सोमः॑¦इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ | चारुः॒¦मदा᳚य¦पी॒तये᳚ ||

आन॑इन्द्राबृहस्पतीगृ॒हमिन्द्र॑श्चगच्छतम् |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री}

सो॒म॒पासोम॑पीतये॒(स्वाहा᳚) || 3 ||

आ¦नः॒¦इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑¦गृ॒ह‌म्¦इन्द्रः॑¦च॒¦ग॒च्छ॒त॒‌म् | सो॒म॒ऽपा¦सोम॑ऽपीतये ||

अ॒स्मे,इ᳚न्द्राबृहस्पतीर॒यिंध॑त्तंशत॒ग्विन᳚म् |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री}

अश्वा᳚वन्तंसह॒स्रिण॒‌म्(स्वाहा᳚) || 4 ||

अ॒स्मे इति॑¦इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑¦र॒यि‌म्¦ध॒त्त॒‌म्¦श॒त॒ऽग्विन᳚‌म् | अश्व॑ऽवन्त‌म्¦स॒ह॒स्रिण᳚‌म् ||

इन्द्रा॒बृह॒स्पती᳚व॒यंसु॒तेगी॒र्भिर्ह॑वामहे |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री}

अ॒स्यसोम॑स्यपी॒तये॒(स्वाहा᳚) || 5 ||

इन्द्रा॒बृह॒स्पती॒ इति॑¦व॒य‌म्¦सु॒ते¦गीः॒ऽभिः¦ह॒वा॒म॒हे॒ | अ॒स्य¦सोम॑स्य¦पी॒तये᳚ ||

सोम॑मिन्द्राबृहस्पती॒पिब॑तंदा॒शुषो᳚गृ॒हे |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री}

मा॒दये᳚थां॒तदो᳚कसा॒(स्वाहा᳚) || 6 ||

सोम᳚‌म्¦इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑¦पिब॑त‌म्¦दा॒शुषः॑¦गृ॒हे | मा॒दये᳚था‌म्¦तत्ऽओ᳚कसा ||

[50] यस्तस्तंभेत्येकादशर्चस्य सूक्तस्य गौतमोवामदेवो बृहस्पतिरंत्ययोर्द्वयोरिंद्राबृहस्पतीत्रिष्टुप्‌दशमी जगती |{मंडल:4, सूक्त:50}{अनुवाक:5, सूक्त:5}{अष्टक:3, अध्याय:7}
यस्त॒स्तम्भ॒सह॑सा॒विज्मो,अन्ता॒न्बृह॒स्पति॑स्त्रिषध॒स्थोरवे᳚ण |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

तंप्र॒त्नास॒ऋष॑यो॒दीध्या᳚नाःपु॒रोविप्रा᳚दधिरेम॒न्द्रजि॑ह्व॒‌म्(स्वाहा᳚) || 1 || वर्ग:26

यः¦त॒स्तम्भ॑¦सह॑सा¦वि¦ज्मः¦अन्ता᳚न्¦बृह॒स्पतिः॑¦त्रि॒ऽस॒ध॒स्थः¦रवे᳚ण |
त‌म्¦प्र॒त्नासः॑¦ऋष॑यः¦दीध्या᳚नाः¦पु॒रः¦विप्राः᳚¦द॒धि॒रे॒¦म॒न्द्रऽजि॑ह्व‌म् ||

धु॒नेत॑यःसुप्रके॒तंमद᳚न्तो॒बृह॑स्पते,अ॒भियेन॑स्तत॒स्रे |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

पृष᳚न्तंसृ॒प्रमद॑ब्धमू॒र्वंबृह॑स्पते॒रक्ष॑तादस्य॒योनि॒‌म्(स्वाहा᳚) || 2 ||

धु॒नऽ‌इ᳚तयः¦सु॒ऽप्र॒के॒त‌म्¦मद᳚न्तः¦बृह॑स्पते¦अ॒भि¦ये¦नः॒¦त॒त॒स्रे |
पृष᳚न्त‌म्¦सृ॒प्र‌म्¦अद॑ब्ध‌म्¦ऊ॒र्व‌म्¦बृह॑स्पते¦रक्ष॑तात्¦अ॒स्य॒¦योनि᳚‌म् ||

बृह॑स्पते॒याप॑र॒माप॑रा॒वदत॒आत॑ऋत॒स्पृशो॒निषे᳚दुः |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

तुभ्यं᳚खा॒ता,अ॑व॒ता,अद्रि॑दुग्धा॒मध्वः॑श्चोतन्त्य॒भितो᳚विर॒प्शम्(स्वाहा᳚) || 3 ||

बृह॑स्पते¦या¦प॒र॒मा¦प॒रा॒ऽवत्¦अतः॑¦आ¦ते॒¦ऋ॒त॒ऽस्पृशः॑¦नि¦से॒दुः॒ |
तुभ्य᳚‌म्¦खा॒ताः¦अ॒व॒ताः¦अद्रि॑ऽदुग्धाः¦मध्वः॑¦श्चो॒त॒न्ति॒¦अ॒भितः॑¦वि॒ऽर॒प्श‌म् ||

बृह॒स्पतिः॑प्रथ॒मंजाय॑मानोम॒होज्योति॑षःपर॒मेव्यो᳚मन् |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

स॒प्तास्य॑स्तुविजा॒तोरवे᳚ण॒विस॒प्तर॑श्मिरधम॒त्तमां᳚सि॒(स्वाहा᳚) || 4 ||

बृह॒स्पतिः॑¦प्र॒थ॒म‌म्¦जाय॑मानः¦म॒हः¦ज्योति॑षः¦प॒र॒मे¦विऽओ᳚मन् |
स॒प्तऽआ᳚स्यः¦तु॒वि॒ऽजा॒तः¦रवे᳚ण¦वि¦स॒प्तऽर॑श्मिः¦अ॒ध॒म॒त्¦तमां᳚सि ||

ससु॒ष्टुभा॒सऋक्व॑ताग॒णेन॑व॒लंरु॑रोजफलि॒गंरवे᳚ण |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति॑रु॒स्रिया᳚हव्य॒सूदः॒कनि॑क्रद॒द्‌वाव॑शती॒रुदा᳚ज॒‌त्(स्वाहा᳚) || 5 ||

सः¦सु॒ऽस्तुभा᳚¦सः¦ऋक्व॑ता¦ग॒णेन॑¦व॒ल‌म्¦रु॒रो॒ज॒¦फ॒लि॒ऽग‌म्¦रवे᳚ण |
बृह॒स्पतिः॑¦उ॒स्रियाः᳚¦ह॒व्य॒ऽसूदः॑¦कनि॑क्रदत्¦वाव॑शतीः¦उत्¦आ॒ज॒त् ||

ए॒वापि॒त्रेवि॒श्वदे᳚वाय॒वृष्णे᳚य॒ज्ञैर्वि॑धेम॒नम॑साह॒विर्भिः॑ |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

बृह॑स्पतेसुप्र॒जावी॒रव᳚न्तोव॒यंस्या᳚म॒पत॑योरयी॒णाम्(स्वाहा᳚) || 6 || वर्ग:27

ए॒व¦पि॒त्रे¦वि॒श्वऽदे᳚वाय¦वृष्णे᳚¦य॒ज्ञैः¦वि॒धे॒म॒¦नम॑सा¦ह॒विःऽभिः॑ |
बृह॑स्पते¦सु॒ऽप्र॒जाः¦वी॒रऽव᳚न्तः¦व॒य‌म्¦स्या॒म॒¦पत॑यः¦र॒यी॒णा‌म् ||

सइद्‌राजा॒प्रति॑जन्यानि॒विश्वा॒शुष्मे᳚णतस्थाव॒भिवी॒र्ये᳚ण |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पतिं॒यःसुभृ॑तंबि॒भर्ति॑वल्गू॒यति॒वन्द॑तेपूर्व॒भाज॒‌म्(स्वाहा᳚) || 7 ||

सः¦इत्¦राजा᳚¦प्रति॑ऽजन्यानि¦विश्वा᳚¦शुष्मे᳚ण¦त॒स्थौ॒¦अ॒भि¦वी॒र्ये᳚ण |
बृह॒स्पति᳚‌म्¦यः¦सुऽभृ॑त‌म्¦बि॒भर्ति॑¦व॒ल्गु॒ऽयति॑¦वन्द॑ते¦पू॒र्व॒ऽभाज᳚‌म् ||

सइत्‌क्षे᳚ति॒सुधि॑त॒ओक॑सि॒स्वेतस्मा॒,इळा᳚पिन्वतेविश्व॒दानी᳚म् |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

तस्मै॒विशः॑स्व॒यमे॒वान॑मन्ते॒यस्मि᳚न्‌ब्र॒ह्माराज॑नि॒पूर्व॒एति॒(स्वाहा᳚) || 8 ||

सः¦इत्¦क्षे॒ति॒¦सुऽधि॑तः¦ओक॑सि¦स्वे¦तस्मै᳚¦इळा᳚¦पि॒न्व॒ते॒¦वि॒श्व॒ऽदानी᳚‌म् |
तस्मै᳚¦विशः॑¦स्व॒य‌म्¦ए॒व¦न॒म॒न्ते॒¦यस्मि॑न्¦ब्र॒ह्मा¦राज॑नि¦पूर्वः॑¦एति॑ ||

अप्र॑तीतोजयति॒संधना᳚नि॒प्रति॑जन्यान्यु॒तयासज᳚न्या |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

अ॒व॒स्यवे॒योवरि॑वःकृ॒णोति॑ब्र॒ह्मणे॒राजा॒तम॑वन्तिदे॒वाः(स्वाहा᳚) || 9 ||

अप्र॑तिऽ‌इतः¦ज॒य॒ति॒¦स‌म्¦धना᳚नि¦प्रति॑ऽजन्यानि¦उ॒त¦या¦सऽज᳚न्या |
अ॒व॒स्यवे᳚¦यः¦वरि॑वः¦कृ॒णोति॑¦ब्र॒ह्मणे᳚¦राजा᳚¦त‌म्¦अ॒व॒न्ति॒¦दे॒वाः ||

इन्द्र॑श्च॒सोमं᳚पिबतंबृहस्पते॒ऽस्मिन्‌य॒ज्ञेम᳚न्दसा॒नावृ॑षण्वसू |{गौतमो वामदेवः | इंद्राबृहस्पती | जगती}

आवां᳚विश॒न्त्विन्द॑वःस्वा॒भुवो॒ऽस्मेर॒यिंसर्व॑वीरं॒निय॑च्छत॒‌म्(स्वाहा᳚) || 10 ||

इन्द्रः॑¦च॒¦सोम᳚‌म्¦पि॒ब॒त॒‌म्¦बृ॒ह॒स्प॒ते॒¦अ॒स्मिन्¦य॒ज्ञे¦म॒न्द॒सा॒ना¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू |
आ¦वा॒‌म्¦वि॒श॒न्तु॒¦इन्द॑वः¦सु॒ऽआ॒भुवः॑¦अ॒स्मे इति॑¦र॒यि‌म्¦सर्व॑ऽवीर‌म्¦नि¦य॒च्छ॒त॒‌म् ||

बृह॑स्पतइन्द्र॒वर्ध॑तंनः॒सचा॒सावां᳚सुम॒तिर्भू᳚त्व॒स्मे |{गौतमो वामदेवः | इंद्राबृहस्पती | त्रिष्टुप्}

अ॒वि॒ष्टंधियो᳚जिगृ॒तंपुरं᳚धीर्जज॒स्तम॒र्योव॒नुषा॒मरा᳚तीः॒(स्वाहा᳚) || 11 ||

बृह॑स्पते¦इ॒न्द्र॒¦वर्ध॑त‌म्¦नः॒¦सचा᳚¦सा¦वा॒‌म्¦सु॒ऽम॒तिः¦भू॒तु॒¦अ॒स्मे इति॑ |
अ॒वि॒ष्ट‌म्¦धियः॑¦जि॒गृ॒त‌म्¦पुर᳚‌म्ऽधीः¦ज॒ज॒स्त‌म्¦अ॒र्यः¦व॒नुषा᳚‌म्¦अरा᳚तीः ||

[51] इदमुत्यदित्येकादशर्चस्य सूक्तस्य गौतमोवामदेवउषास्त्रिष्टुप् |{मंडल:4, सूक्त:51}{अनुवाक:5, सूक्त:6}{अष्टक:3, अध्याय:8}
इ॒दमु॒त्यत्‌पु॑रु॒तमं᳚पु॒रस्ता॒ज्ज्योति॒स्तम॑सोव॒युना᳚वदस्थात् |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

नू॒नंदि॒वोदु॑हि॒तरो᳚विभा॒तीर्गा॒तुंकृ॑णवन्नु॒षसो॒जना᳚य॒(स्वाहा᳚) || 1 || वर्ग:1

इ॒द‌म्¦ऊँ॒ इति॑¦त्यत्¦पु॒रु॒ऽतम᳚‌म्¦पु॒रस्ता᳚त्¦ज्योतिः॑¦तम॑सः¦व॒युन॑ऽवत्¦अ॒स्था॒त् |
नू॒न‌म्¦दि॒वः¦दु॒हि॒तरः॑¦वि॒ऽभा॒तीः¦गा॒तु‌म्¦कृ॒ण॒व॒न्¦उ॒षसः॑¦जना᳚य ||

अस्थु॑रुचि॒त्रा,उ॒षसः॑पु॒रस्ता᳚न्मि॒ता,इ॑व॒स्वर॑वोऽध्व॒रेषु॑ |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

व्यू᳚व्र॒जस्य॒तम॑सो॒द्वारो॒च्छन्ती᳚रव्र॒ञ्छुच॑यःपाव॒काः(स्वाहा᳚) || 2 ||

अस्थुः॑¦ऊँ॒ इति॑¦चि॒त्राः¦उ॒षसः॑¦पु॒रस्ता᳚त्¦मि॒ताःऽ‌इ᳚व¦स्वर॑वः¦अ॒ध्व॒रेषु॑ |
वि¦ऊँ॒ इति॑¦व्र॒जस्य॑¦तम॑सः¦द्वारा᳚¦उ॒च्छन्तीः᳚¦अ॒व्र॒न्¦शुच॑यः¦पा॒व॒काः ||

उ॒च्छन्ती᳚र॒द्यचि॑तयन्तभो॒जान्‌रा᳚धो॒देया᳚यो॒षसो᳚म॒घोनीः᳚ |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

अ॒चि॒त्रे,अ॒न्तःप॒णयः॑सस॒न्त्वबु॑ध्यमाना॒स्तम॑सो॒विम॑ध्ये॒(स्वाहा᳚) || 3 ||

उ॒च्छन्तीः᳚¦अ॒द्य¦चि॒त॒य॒न्त॒¦भो॒जान्¦रा॒धः॒ऽदेया᳚य¦उ॒षसः॑¦म॒घोनीः᳚ |
अ॒चि॒त्रे¦अ॒न्तरिति॑¦प॒णयः॑¦स॒स॒न्तु॒¦अबु॑ध्यमानाः¦तम॑सः¦विऽम॑ध्ये ||

कु॒वित्सदे᳚वीःस॒नयो॒नवो᳚वा॒यामो᳚बभू॒यादु॑षसोवो,अ॒द्य |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

येना॒नव॑ग्वे॒,अङ्गि॑रे॒दश॑ग्वेस॒प्तास्ये᳚रेवतीरे॒वदू॒ष(स्वाहा᳚) || 4 ||

कु॒वित्¦सः¦दे॒वीः॒¦स॒नयः॑¦नवः॑¦वा॒¦यामः॑¦ब॒भू॒यात्¦उ॒ष॒सः॒¦वः॒¦अ॒द्य |
येन॑¦नव॑ऽग्वे¦अङ्गि॑रे¦दश॑ऽग्वे¦स॒प्तऽआ᳚स्ये¦रे॒व॒तीः॒¦रे॒वत्¦ऊ॒ष ||

यू॒यंहिदे᳚वीरृत॒युग्भि॒रश्वैः᳚परिप्रया॒थभुव॑नानिस॒द्यः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

प्र॒बो॒धय᳚न्तीरुषसःस॒सन्तं᳚द्वि॒पाच्चतु॑ष्पाच्च॒रथा᳚यजी॒वम्(स्वाहा᳚) || 5 ||

यू॒य‌म्¦हि¦दे॒वीः॒¦ऋ॒त॒युक्ऽभिः॑¦अश्वैः᳚¦प॒रि॒ऽप्र॒या॒थ¦भुव॑नानि¦स॒द्यः |
प्र॒ऽबो॒धय᳚न्तीः¦उ॒ष॒सः॒¦स॒सन्त᳚‌म्¦द्वि॒ऽपात्¦चतुः॑ऽपात्¦च॒रथा᳚य¦जी॒व‌म् ||

क्व॑स्विदासांकत॒मापु॑रा॒णीयया᳚वि॒धाना᳚विद॒धुरृ॑भू॒णाम् |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

शुभं॒यच्छु॒भ्रा,उ॒षस॒श्चर᳚न्ति॒नविज्ञा᳚यन्तेस॒दृशी᳚रजु॒र्याः(स्वाहा᳚) || 6 || वर्ग:2

क्व॑¦स्वि॒त्¦आ॒सा॒‌म्¦क॒त॒मा¦पु॒रा॒णी¦यया᳚¦वि॒ऽधाना᳚¦वि॒ऽद॒धुः¦ऋ॒भू॒णा‌म् |
शुभ᳚‌म्¦यत्¦शु॒भ्राः¦उ॒षसः॑¦चर᳚न्ति¦न¦वि¦ज्ञा॒य॒न्ते॒¦स॒ऽदृशीः᳚¦अ॒जु॒र्याः ||

ताघा॒ताभ॒द्रा,उ॒षसः॑पु॒रासु॑रभि॒ष्टिद्यु᳚म्ना,ऋ॒तजा᳚तसत्याः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

यास्वी᳚जा॒नःश॑शमा॒नउ॒क्थैःस्तु॒वञ्छंस॒न्‌द्रवि॑णंस॒द्यआप॒(स्वाहा᳚) || 7 ||

ताः¦घ॒¦ताः¦भ॒द्राः¦उ॒षसः॑¦पु॒रा¦आ॒सुः॒¦अ॒भि॒ष्टिऽद्यु᳚म्नाः¦ऋ॒तजा᳚तऽसत्याः |
यासु॑¦ई॒जा॒नः¦श॒श॒मा॒नः¦उ॒क्थैः¦स्तु॒वन्¦शंस॑न्¦द्रवि॑ण‌म्¦स॒द्यः¦आप॑ ||

ता,आच॑रन्तिसम॒नापु॒रस्ता᳚त्समा॒नतः॑सम॒नाप॑प्रथा॒नाः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

ऋ॒तस्य॑दे॒वीःसद॑सोबुधा॒नागवां॒नसर्गा᳚,उ॒षसो᳚जरन्ते॒(स्वाहा᳚) || 8 ||

ताः¦आ¦च॒र॒न्ति॒¦स॒म॒ना¦पु॒रस्ता᳚त्¦स॒मा॒नतः॑¦स॒म॒ना¦प॒प्र॒था॒नाः |
ऋ॒तस्य॑¦दे॒वीः¦सद॑सः¦बु॒धा॒नाः¦गवा᳚‌म्¦न¦सर्गाः᳚¦उ॒षसः॑¦ज॒र॒न्ते॒ ||

ता,इन्न्वे॒३॑(ए॒)वस॑म॒नास॑मा॒नीरमी᳚तवर्णा,उ॒षस॑श्चरन्ति |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

गूह᳚न्ती॒रभ्व॒मसि॑तं॒रुश॑द्भिःशु॒क्रास्त॒नूभिः॒शुच॑योरुचा॒नाः(स्वाहा᳚) || 9 ||

ताः¦इत्¦नु¦ए॒व¦स॒म॒ना¦स॒मा॒नीः¦अमी᳚तऽवर्णाः¦उ॒षसः॑¦च॒र॒न्ति॒ |
गूह᳚न्तीः¦अभ्व᳚‌म्¦असि॑त‌म्¦रुश॑त्ऽभिः¦शु॒क्राः¦त॒नूभिः॑¦शुच॑यः¦रु॒चा॒नाः ||

र॒यिंदि॑वोदुहितरोविभा॒तीःप्र॒जाव᳚न्तंयच्छता॒स्मासु॑देवीः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

स्यो॒नादावः॑प्रति॒बुध्य॑मानाःसु॒वीर्य॑स्य॒पत॑यःस्याम॒(स्वाहा᳚) || 10 ||

र॒यि‌म्¦दि॒वः॒¦दु॒हि॒त॒रः॒¦वि॒ऽभा॒तीः¦प्र॒जाऽव᳚न्त‌म्¦य॒च्छ॒त॒¦अ॒स्मासु॑¦दे॒वीः॒ |
स्यो॒नात्¦आ¦वः॒¦प्र॒ति॒ऽबुध्य॑मानाः¦सु॒ऽवीर्य॑स्य¦पत॑यः¦स्या॒म॒ ||

तद्वो᳚दिवोदुहितरोविभा॒तीरुप॑ब्रुवउषसोय॒ज्ञके᳚तुः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

व॒यंस्या᳚मय॒शसो॒जने᳚षु॒तद्द्यौश्च॑ध॒त्तांपृ॑थि॒वीच॑दे॒वी(स्वाहा᳚) || 11 ||

तत्¦वः॒¦दि॒वः॒¦दु॒हि॒त॒रः॒¦वि॒ऽभा॒तीः¦उप॑¦ब्रु॒वे॒¦उ॒ष॒सः॒¦य॒ज्ञऽके᳚तुः |
व॒य‌म्¦स्या॒म॒¦य॒शसः॑¦जने᳚षु¦तत्¦द्यौः¦च॒¦ध॒त्ता‌म्¦पृ॒थि॒वी¦च॒¦दे॒वी ||

[52] प्रतिष्येति सप्तर्चस्य सूक्तस्य गौतमोवामदेव उषागायत्री |{मंडल:4, सूक्त:52}{अनुवाक:5, सूक्त:7}{अष्टक:3, अध्याय:8}
प्रति॒ष्यासू॒नरी॒जनी᳚व्यु॒च्छन्ती॒परि॒स्वसुः॑ |{गौतमो वामदेवः | उषाः | गायत्री}

दि॒वो,अ॑दर्शिदुहि॒ता(स्वाहा᳚) || 1 || वर्ग:3

प्रति॑¦स्या¦सू॒नरी᳚¦जनी᳚¦वि॒।औ॒च्छन्ती᳚¦परि॑¦स्वसुः॑ | दि॒वः¦अ॒द॒र्शि॒¦दु॒हि॒ता ||

अश्वे᳚वचि॒त्रारु॑षीमा॒तागवा᳚मृ॒ताव॑री |{गौतमो वामदेवः | उषाः | गायत्री}

सखा᳚भूद॒श्विनो᳚रु॒षाः(स्वाहा᳚) || 2 ||

अश्वा᳚ऽ‌इव¦चि॒त्रा¦अरु॑षी¦मा॒ता¦गवा᳚‌म्¦ऋ॒तऽव॑री | सखा᳚¦अ॒भू॒त्¦अ॒श्विनोः᳚¦उ॒षाः ||

उ॒तसखा᳚स्य॒श्विनो᳚रु॒तमा॒तागवा᳚मसि |{गौतमो वामदेवः | उषाः | गायत्री}

उ॒तोषो॒वस्व॑ईशिषे॒(स्वाहा᳚) || 3 ||

उ॒त¦सखा᳚¦अ॒सि॒¦अ॒श्विनोः᳚¦उ॒त¦मा॒ता¦गवा᳚‌म्¦अ॒सि॒ | उ॒त¦उ॒षः॒¦वस्वः॑¦ई॒शि॒षे॒ ||

या॒व॒यद्द्वे᳚षसंत्वाचिकि॒त्वित्सू᳚नृतावरि |{गौतमो वामदेवः | उषाः | गायत्री}

प्रति॒स्तोमै᳚रभुत्स्महि॒(स्वाहा᳚) || 4 ||

य॒व॒यत्ऽद्वे᳚षस‌म्¦त्वा॒¦चि॒कि॒त्वित्¦सू॒नृ॒ता॒ऽव॒रि॒ | प्रति॑¦स्तोमैः᳚¦अ॒भु॒त्स्म॒हि॒ ||

प्रति॑भ॒द्रा,अ॑दृक्षत॒गवां॒सर्गा॒नर॒श्मयः॑ |{गौतमो वामदेवः | उषाः | गायत्री}

ओषा,अ॑प्रा,उ॒रुज्रयः॒(स्वाहा᳚) || 5 ||

प्रति॑¦भ॒द्राः¦अ॒दृ॒क्ष॒त॒¦गवा᳚‌म्¦सर्गाः᳚¦न¦र॒श्मयः॑ | आ¦उ॒षाः¦अ॒प्राः॒¦उ॒रु¦ज्रयः॑ ||

आ॒प॒प्रुषी᳚विभावरि॒व्या᳚व॒र्ज्योति॑षा॒तमः॑ |{गौतमो वामदेवः | उषाः | गायत्री}

उषो॒,अनु॑स्व॒धाम॑व॒(स्वाहा᳚) || 6 ||

आ॒ऽप॒प्रुषी᳚¦वि॒भा॒ऽव॒रि॒¦वि¦आ॒वः॒¦ज्योति॑षा¦तमः॑ | उषः॑¦अनु॑¦स्व॒धा‌म्¦अ॒व॒ ||

आद्यांत॑नोषिर॒श्मिभि॒रान्तरि॑क्षमु॒रुप्रि॒यम् |{गौतमो वामदेवः | उषाः | गायत्री}

उषः॑शु॒क्रेण॑शो॒चिषा॒(स्वाहा᳚) || 7 ||

आ¦द्या‌म्¦त॒नो॒षि॒¦र॒श्मिऽभिः॑¦आ¦अ॒न्तरि॑क्ष‌म्¦उ॒रु¦प्रि॒य‌म् | उषः॑¦शु॒क्रेण॑¦शो॒चिषा᳚ ||

[53] तद्देवस्येति सप्तर्चस्य सूक्तस्य गौतमोवामदेवः सविताजगती |{मंडल:4, सूक्त:53}{अनुवाक:5, सूक्त:8}{अष्टक:3, अध्याय:8}
तद्दे॒वस्य॑सवि॒तुर्वार्यं᳚म॒हद्वृ॑णी॒महे॒,असु॑रस्य॒प्रचे᳚तसः |{गौतमो वामदेवः | सविता | जगती}

छ॒र्दिर्येन॑दा॒शुषे॒यच्छ॑ति॒त्मना॒तन्नो᳚म॒हाँ,उद॑यान्‌दे॒वो,अ॒क्तुभिः॒(स्वाहा᳚) || 1 || वर्ग:4

तत्¦दे॒वस्य॑¦स॒वि॒तुः¦वार्य᳚‌म्¦म॒हत्¦वृ॒णी॒महे᳚¦असु॑रस्य¦प्रऽचे᳚तसः |
छ॒र्दिः¦येन॑¦दा॒शुषे᳚¦यच्छ॑ति¦त्मना᳚¦तत्¦नः॒¦म॒हान्¦उत्¦अ॒या॒न्¦दे॒वः¦अ॒क्तुऽभिः॑ ||

दि॒वोध॒र्ताभुव॑नस्यप्र॒जाप॑तिःपि॒शङ्गं᳚द्रा॒पिंप्रति॑मुञ्चतेक॒विः |{गौतमो वामदेवः | सविता | जगती}

वि॒च॒क्ष॒णःप्र॒थय᳚न्नापृ॒णन्नु॒र्वजी᳚जनत्‌सवि॒तासु॒म्नमु॒क्थ्य॑१(अं॒)(स्वाहा᳚) || 2 ||

दि॒वः¦ध॒र्ता¦भुव॑नस्य¦प्र॒जाऽप॑तिः¦पि॒शङ्ग᳚‌म्¦द्रा॒पि‌म्¦प्रति॑¦मुं॒च॒ते॒¦क॒विः |
वि॒ऽच॒क्ष॒णः¦प्र॒थय॑न्¦आ॒ऽपृ॒णन्¦उ॒रु¦अजी᳚जनत्¦स॒वि॒ता¦सु॒म्न‌म्¦उ॒क्थ्य᳚‌म् ||

आप्रा॒रजां᳚सिदि॒व्यानि॒पार्थि॑वा॒श्लोकं᳚दे॒वःकृ॑णुते॒स्वाय॒धर्म॑णे |{गौतमो वामदेवः | सविता | जगती}

प्रबा॒हू,अ॑स्राक्‌सवि॒तासवी᳚मनिनिवे॒शय᳚न्‌प्रसु॒वन्न॒क्तुभि॒र्जग॒॑‌त्(स्वाहा᳚) || 3 ||

आ¦अ॒प्राः॒¦रजां᳚सि¦दि॒व्यानि॑¦पार्थि॑वा¦श्लोक᳚‌म्¦दे॒वः¦कृ॒णु॒ते॒¦स्वाय॑¦धर्म॑णे |
प्र¦बा॒हू इति॑¦अ॒स्रा॒क्¦स॒वि॒ता¦सवी᳚मनि¦नि॒ऽवे॒शय॑न्¦प्र॒ऽसु॒वन्¦अ॒क्तुऽभिः॑¦जग॑त् ||

अदा᳚भ्यो॒भुव॑नानिप्र॒चाक॑शद्व्र॒तानि॑दे॒वःस॑वि॒ताभिर॑क्षते |{गौतमो वामदेवः | सविता | जगती}

प्रास्रा᳚ग्बा॒हूभुव॑नस्यप्र॒जाभ्यो᳚धृ॒तव्र॑तोम॒हो,अज्म॑स्यराजति॒(स्वाहा᳚) || 4 ||

अदा᳚भ्यः¦भुव॑नानि¦प्र॒ऽचाक॑शत्¦व्र॒तानि॑¦दे॒वः¦स॒वि॒ता¦अ॒भि¦र॒क्ष॒ते॒ |
प्र¦अ॒स्रा॒क्¦बा॒हू इति॑¦भुव॑नस्य¦प्र॒ऽजाभ्यः॑¦धृ॒तऽव्र॑तः¦म॒हः¦अज्म॑स्य¦रा॒ज॒ति॒ ||

त्रिर॒न्तरि॑क्षंसवि॒ताम॑हित्व॒नात्रीरजां᳚सिपरि॒भूस्त्रीणि॑रोच॒ना |{गौतमो वामदेवः | सविता | जगती}

ति॒स्रोदिवः॑पृथि॒वीस्ति॒स्रइ᳚न्वतित्रि॒भिर्व्र॒तैर॒भिनो᳚रक्षति॒त्मना॒(स्वाहा᳚) || 5 ||

त्रिः¦अ॒न्तरि॑क्ष‌म्¦स॒वि॒ता¦म॒हि॒ऽत्व॒ना¦त्री¦रजां᳚सि¦प॒रि॒ऽभूः¦त्रीणि॑¦रो॒च॒ना |
ति॒स्रः¦दिवः॑¦पृ॒थि॒वीः¦ति॒स्रः¦इ॒न्व॒ति॒¦त्रि॒ऽभिः¦व्र॒तैः¦अ॒भि¦नः॒¦र॒क्ष॒ति॒¦त्मना᳚ ||

बृ॒हत्सु᳚म्नःप्रसवी॒तानि॒वेश॑नो॒जग॑तःस्था॒तुरु॒भय॑स्य॒योव॒शी |{गौतमो वामदेवः | सविता | जगती}

सनो᳚दे॒वःस॑वि॒ताशर्म॑यच्छत्व॒स्मेक्षया᳚यत्रि॒वरू᳚थ॒मंह॑सः॒(स्वाहा᳚) || 6 ||

बृ॒हत्ऽसु᳚म्नः¦प्र॒ऽस॒वि॒ता¦नि॒ऽवेश॑नः¦जग॑तः¦स्था॒तुः¦उ॒भय॑स्य¦यः¦व॒शी |
सः¦नः॒¦दे॒वः¦स॒वि॒ता¦शर्म॑¦य॒च्छ॒तु॒¦अ॒स्मे इति॑¦क्षया᳚य¦त्रि॒ऽवरू᳚थ‌म्¦अंह॑सः ||

आग᳚न्दे॒वऋ॒तुभि॒र्वर्ध॑तु॒क्षयं॒दधा᳚तुनःसवि॒तासु॑प्र॒जामिष᳚म् |{गौतमो वामदेवः | सविता | जगती}

सनः॑,क्ष॒पाभि॒रह॑भिश्चजिन्वतुप्र॒जाव᳚न्तंर॒यिम॒स्मेसमि᳚न्वतु॒(स्वाहा᳚) || 7 ||

आ¦अ॒ग॒न्¦दे॒वः¦ऋ॒तुऽभिः॑¦वर्ध॑तु¦क्षय᳚‌म्¦दधा᳚तु¦नः॒¦स॒वि॒ता¦सु॒ऽप्र॒जा‌म्¦इष᳚‌म् |
सः¦नः॒¦क्ष॒पाभिः॑¦अह॑ऽभिः¦च॒¦जि॒न्व॒तु॒¦प्र॒जाऽव᳚न्त‌म्¦र॒यि‌म्¦अ॒स्मे इति॑¦स‌म्¦इ॒न्व॒तु॒ ||

[54] अभूद्देवइति षडृचस्य सूक्तस्य गौतमो वामदेवः सविताजगत्यंत्यात्रिष्टुप् |{मंडल:4, सूक्त:54}{अनुवाक:5, सूक्त:9}{अष्टक:3, अध्याय:8}
अभू᳚द्दे॒वःस॑वि॒तावन्द्यो॒नुन॑इ॒दानी॒मह्न॑उप॒वाच्यो॒नृभिः॑ |{गौतमो वामदेवः | सविता | जगती}

वियोरत्ना॒भज॑तिमान॒वेभ्यः॒श्रेष्ठं᳚नो॒,अत्र॒द्रवि॑णं॒यथा॒दध॒॑‌त्(स्वाहा᳚) || 1 || वर्ग:5

अभू᳚त्¦दे॒वः¦स॒वि॒ता¦वन्द्यः॑¦नु¦नः॒¦इ॒दानी᳚‌म्¦अह्नः॑¦उ॒प॒ऽवाच्यः॑¦नृऽभिः॑ |
वि¦यः¦रत्ना᳚¦भज॑ति¦मा॒न॒वेभ्यः॑¦श्रेष्ठ᳚‌म्¦नः॒¦अत्र॑¦द्रवि॑ण‌म्¦यथा᳚¦दध॑त् ||

दे॒वेभ्यो॒हिप्र॑थ॒मंय॒ज्ञिये᳚भ्योऽमृत॒त्वंसु॒वसि॑भा॒गमु॑त्त॒मम् |{गौतमो वामदेवः | सविता | जगती}

आदिद्दा॒मानं᳚सवित॒र्व्यू᳚र्णुषेऽनूची॒नाजी᳚वि॒तामानु॑षेभ्यः॒(स्वाहा᳚) || 2 ||

दे॒वेभ्यः॑¦हि¦प्र॒थ॒म‌म्¦य॒ज्ञिये᳚भ्यः¦अ॒मृ॒त॒ऽत्व‌म्¦सु॒वसि॑¦भा॒ग‌म्¦उ॒त्ऽत॒म‌म् |
आत्¦इत्¦दा॒मान᳚‌म्¦स॒वि॒तः॒¦वि¦ऊ॒र्णु॒षे॒¦अ॒नू॒ची॒ना¦जी॒वि॒ता¦मानु॑षेभ्यः ||

अचि॑त्ती॒यच्च॑कृ॒मादैव्ये॒जने᳚दी॒नैर्दक्षैः॒प्रभू᳚तीपूरुष॒त्वता᳚ |{गौतमो वामदेवः | सविता | जगती}

दे॒वेषु॑चसवित॒र्मानु॑षेषुच॒त्वंनो॒,अत्र॑सुवता॒दना᳚गसः॒(स्वाहा᳚) || 3 ||

अचि॑त्ती¦यत्¦च॒कृ॒म¦दैव्ये᳚¦जने᳚¦दी॒नैः¦दक्षः॑¦प्रऽभू᳚ती¦पु॒रु॒ष॒त्वता᳚ |
दे॒वेषु॑¦च॒¦स॒वि॒तः॒¦मानु॑षेषु¦च॒¦त्व‌म्¦नः॒¦अत्र॑¦सु॒व॒ता॒त्¦अना᳚गसः ||

नप्र॒मिये᳚सवि॒तुर्दैव्य॑स्य॒तद्‌यथा॒विश्वं॒भुव॑नंधारयि॒ष्यति॑ |{गौतमो वामदेवः | सविता | जगती}

यत्‌पृ॑थि॒व्यावरि॑म॒न्नास्व᳚ङ्गु॒रिर्वर्ष्म᳚न्‌दि॒वःसु॒वति॑स॒त्यम॑स्य॒तत्(स्वाहा᳚) || 4 ||

न¦प्र॒ऽमिये᳚¦स॒वि॒तुः¦दैव्य॑स्य¦तत्¦यथा᳚¦विश्व᳚‌म्¦भुव॑न‌म्¦धा॒र॒यि॒ष्यति॑ |
यत्¦पृ॒थि॒व्याः¦वरि॑मन्¦आ¦सु॒।आ॒ङ्गु॒रिः¦वर्ष्म॑न्¦दि॒वः¦सु॒वति॑¦स॒त्य‌म्¦अ॒स्य॒¦तत् ||

इन्द्र॑ज्येष्ठान्‌बृ॒हद्भ्यः॒पर्व॑तेभ्यः॒,क्षयाँ᳚,एभ्यःसुवसिप॒स्त्या᳚वतः |{गौतमो वामदेवः | सविता | जगती}

यथा᳚यथाप॒तय᳚न्तोवियेमि॒रए॒वैवत॑स्थुःसवितःस॒वाय॑ते॒(स्वाहा᳚) || 5 ||

इन्द्र॑ऽज्येष्ठान्¦बृ॒हत्ऽभ्यः॑¦पर्व॑तेभ्यः¦क्षया᳚न्¦ए॒भ्यः॒¦सु॒व॒सि॒¦प॒स्त्य॑ऽवतः |
यथा᳚ऽयथा¦प॒तय᳚न्तः¦वि॒ऽये॒मि॒रे¦ए॒व¦ए॒व¦त॒स्थुः॒¦स॒वि॒त॒रिति॑¦स॒वाय॑¦ते॒ ||

येते॒त्रिरह᳚न्‌त्सवितःस॒वासो᳚दि॒वेदि॑वे॒सौभ॑गमासु॒वन्ति॑ |{गौतमो वामदेवः | सविता | त्रिष्टुप्}

इन्द्रो॒द्यावा᳚पृथि॒वीसिन्धु॑र॒द्भिरा᳚दि॒त्यैर्नो॒,अदि॑तिः॒शर्म॑यंस॒‌त्(स्वाहा᳚) || 6 ||

ये¦ते॒¦त्रिः¦अह॑न्¦स॒वि॒त॒रिति॑¦स॒वासः॑¦दि॒वेऽदि॑वे¦सौभ॑ग‌म्¦आ॒ऽसु॒वन्ति॑ |
इन्द्रः॑¦द्यावा᳚पृथि॒वी इति॑¦सिन्धुः॑¦अ॒त्ऽभिः¦आ॒दि॒त्यैः¦नः॒¦अदि॑तिः¦शर्म॑¦यं॒स॒त् ||

[55] कोवस्त्रातेति दशर्चस्य सूक्तस्य गौतमोवामदेवो विश्वेदेवास्त्रिष्टुप् अंत्यास्तिस्रो गायत्र्यः । (भेदपक्षे - विश्वेदेवाः ७ अग्निः १ उषाः १ विश्वेदेवाः १ एवंदश) |{मंडल:4, सूक्त:55}{अनुवाक:5, सूक्त:10}{अष्टक:3, अध्याय:8}
कोव॑स्त्रा॒ताव॑सवः॒कोव॑रू॒ताद्यावा᳚भूमी,अदिते॒त्रासी᳚थांनः |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्}

सही᳚यसोवरुणमित्र॒मर्ता॒त्कोवो᳚ऽध्व॒रेवरि॑वोधातिदेवाः॒(स्वाहा᳚) || 1 || वर्ग:6

कः¦वः॒¦त्रा॒ता¦व॒स॒वः॒¦कः¦व॒रू॒ता¦द्यावा᳚भूमी॒ इति॑¦अ॒दि॒ते॒¦त्रासी᳚था‌म्¦नः॒ |
सही᳚यसः¦व॒रु॒ण॒¦मि॒त्र॒¦मर्ता᳚त्¦कः¦वः॒¦अ॒ध्व॒रे¦वरि॑वः¦धा॒ति॒¦दे॒वाः॒ ||

प्रयेधामा᳚निपू॒र्व्याण्यर्चा॒न्वियदु॒च्छान्‌वि॑यो॒तारो॒,अमू᳚राः |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्}

वि॒धा॒तारो॒वितेद॑धु॒रज॑स्रा,ऋ॒तधी᳚तयोरुरुचन्तद॒स्माः(स्वाहा᳚) || 2 ||

प्र¦ये¦धामा᳚नि¦पू॒र्व्याणि॑¦अर्चा᳚न्¦वि¦यत्¦उ॒च्छान्¦वि॒ऽयो॒तारः॑¦अमू᳚राः |
वि॒ऽधा॒तारः॑¦वि¦ते¦द॒धुः॒¦अज॑स्राः¦ऋ॒तऽधी᳚तयः¦रु॒रु॒च॒न्त॒¦द॒स्माः ||

प्रप॒स्त्या॒३॑(आ॒)मदि॑तिं॒सिन्धु॑म॒र्कैःस्व॒स्तिमी᳚ळेस॒ख्याय॑दे॒वीम् |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्}

उ॒भेयथा᳚नो॒,अह॑नीनि॒पात॑उ॒षासा॒नक्ता᳚करता॒मद॑ब्धे॒(स्वाहा᳚) || 3 ||

प्र¦प॒स्त्या᳚‌म्¦अदि॑ति‌म्¦सिन्धु᳚‌म्¦अ॒र्कैः¦स्व॒स्ति‌म्¦ई॒ळे॒¦स॒ख्याय॑¦दे॒वी‌म् |
उ॒भे इति॑¦यथा᳚¦नः॒¦अह॑नी॒ इति॑¦नि॒ऽपातः॑¦उ॒षसा॒नक्ता᳚¦क॒र॒ता॒‌म्¦अद॑ब्धे॒ इति॑ ||

व्य᳚र्य॒मावरु॑णश्चेति॒पन्था᳚मि॒षस्पतिः॑सुवि॒तंगा॒तुम॒ग्निः |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्}

इन्द्रा᳚विष्णूनृ॒वदु॒षुस्तवा᳚ना॒शर्म॑नोयन्त॒मम॑व॒द्वरू᳚थ॒‌म्(स्वाहा᳚) || 4 ||

वि¦अ॒र्य॒मा¦वरु॑णः¦चे॒ति॒¦पन्था᳚‌म्¦इ॒षः¦पतिः॑¦सु॒वि॒त‌म्¦गा॒तु‌म्¦अ॒ग्निः |
इन्द्रा᳚विष्णू॒ इति॑¦नृ॒ऽवत्¦ऊँ॒ इति॑¦सु¦स्तवा᳚ना¦शर्म॑¦नः॒¦य॒न्त॒‌म्¦अम॑ऽवत्¦वरू᳚थ‌म् ||

आपर्व॑तस्यम॒रुता॒मवां᳚सिदे॒वस्य॑त्रा॒तुर᳚व्रि॒भग॑स्य |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्}

पात्‌पति॒र्जन्या॒दंह॑सोनोमि॒त्रोमि॒त्रिया᳚दु॒तन॑उरुष्ये॒‌त्(स्वाहा᳚) || 5 ||

आ¦पर्व॑तस्य¦म॒रुता᳚‌म्¦अवां᳚सि¦दे॒वस्य॑¦त्रा॒तुः¦अ॒व्रि॒¦भग॑स्य |
पात्¦पतिः॑¦जन्या᳚त्¦अंह॑सः¦नः॒¦मि॒त्रः¦मि॒त्रिया᳚त्¦उ॒त¦नः॒¦उ॒रु॒ष्ये॒त् ||

नूरो᳚दसी॒,अहि॑नाबु॒ध्न्ये᳚नस्तुवी॒तदे᳚वी॒,अप्ये᳚भिरि॒ष्टैः |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्}

स॒मु॒द्रंनसं॒चर॑णेसनि॒ष्यवो᳚घ॒र्मस्व॑रसोन॒द्यो॒३॑(ओ॒)अप᳚व्र॒‌न्(स्वाहा᳚) || 6 || वर्ग:7

नु¦रो॒द॒सी॒ इति॑¦अहि॑ना¦बु॒ध्न्ये᳚न¦स्तु॒वी॒त¦दे॒वी॒ इति॑¦अप्ये᳚भिः¦इ॒ष्टैः |
स॒मु॒द्र‌म्¦न¦स॒‌म्ऽचर॑णे¦स॒नि॒ष्यवः॑¦घ॒र्मऽस्व॑रसः¦न॒द्यः॑¦अप॑¦व्र॒न् ||

दे॒वैर्नो᳚दे॒व्यदि॑ति॒र्निपा᳚तुदे॒वस्त्रा॒तात्रा᳚यता॒मप्र॑युच्छन् |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्}

न॒हिमि॒त्रस्य॒वरु॑णस्यधा॒सिमर्हा᳚मसिप्र॒मियं॒सान्व॒ग्नेः(स्वाहा᳚) || 7 ||

दे॒वैः¦नः॒¦दे॒वी¦अदि॑तिः¦नि¦पा॒तु॒¦दे॒वः¦त्रा॒ता¦त्रा॒य॒ता॒‌म्¦अप्र॑ऽयुच्छन् |
न॒हि¦मि॒त्रस्य॑¦वरु॑णस्य¦धा॒सि‌म्¦अर्हा᳚मसि¦प्र॒ऽमिय᳚‌म्¦सानु॑¦अ॒ग्नेः ||

अ॒ग्निरी᳚शेवस॒व्य॑स्या॒ऽग्निर्म॒हःसौभ॑गस्य |{गौतमो वामदेवः | विश्वदेवाः | गायत्री}

तान्य॒स्मभ्यं᳚रासते॒(स्वाहा᳚) || 8 ||

अ॒ग्निः¦ई॒शे॒¦व॒स॒व्य॑स्य¦अ॒ग्निः¦म॒हः¦सौभ॑गस्य | तानि॑¦अ॒स्मभ्य᳚‌म्¦रा॒स॒ते॒ ||

उषो᳚मघो॒न्याव॑ह॒सूनृ॑ते॒वार्या᳚पु॒रु |{गौतमो वामदेवः | विश्वदेवाः | गायत्री}

अ॒स्मभ्यं᳚वाजिनीवति॒(स्वाहा᳚) || 9 ||

उषः॑¦म॒घो॒नि॒¦आ¦व॒ह॒¦सूनृ॑ते¦वार्या᳚¦पु॒रु | अ॒स्मभ्य᳚‌म्¦वा॒जि॒नी॒ऽव॒ति॒ ||

तत्सुनः॑सवि॒ताभगो॒वरु॑णोमि॒त्रो,अ᳚र्य॒मा |{गौतमो वामदेवः | विश्वदेवाः | गायत्री}

इन्द्रो᳚नो॒राध॒साग॑म॒‌त्(स्वाहा᳚) || 10 ||

तत्¦सु¦नः॒¦स॒वि॒ता¦भगः॑¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा | इन्द्रः॑¦नः॒¦राध॑सा¦आ¦ग॒म॒त् ||

[56] महीइति सप्तर्चस्य सूक्तस्य गौतमो वामदेवोद्यावापृथिवीत्रिष्टुप् अंत्यास्तिस्रो गायत्र्यः |{मंडल:4, सूक्त:56}{अनुवाक:5, सूक्त:11}{अष्टक:3, अध्याय:8}
म॒हीद्यावा᳚पृथि॒वी,इ॒हज्येष्ठे᳚रु॒चाभ॑वतांशु॒चय॑द्भिर॒र्कैः |{गौतमो वामदेवः | द्यावापृथिव्यौ | त्रिष्टुप्}

यत्सीं॒वरि॑ष्ठेबृह॒तीवि॑मि॒न्वन्रु॒वद्धो॒क्षाप॑प्रथा॒नेभि॒रेवैः᳚(स्वाहा᳚) || 1 || वर्ग:8

म॒ही इति॑¦द्यावा᳚पृथि॒वी इति॑¦इ॒ह¦ज्येष्ठे॒ इति॑¦रु॒चा¦भ॒व॒ता॒‌म्¦शु॒चय॑त्ऽभिः¦अ॒र्कैः |
यत्¦सी॒‌म्¦वरि॑ष्ठे॒ इति॑¦बृ॒ह॒ती इति॑¦वि॒ऽमि॒न्वन्¦रु॒वत्¦ह॒¦उ॒क्षा¦प॒प्र॒था॒नेभिः॑¦एवैः᳚ ||

दे॒वीदे॒वेभि᳚र्यज॒तेयज॑त्रै॒रमि॑नतीतस्थतुरु॒क्षमा᳚णे |{गौतमो वामदेवः | द्यावापृथिव्यौ | त्रिष्टुप्}

ऋ॒ताव॑री,अ॒द्रुहा᳚दे॒वपु॑त्रेय॒ज्ञस्य॑ने॒त्रीशु॒चय॑द्भिर॒र्कैः(स्वाहा᳚) || 2 ||

दे॒वी इति॑¦दे॒वेभिः॑¦य॒ज॒ते इति॑¦यज॑त्रैः¦अमि॑नती॒ इति॑¦त॒स्थ॒तुः॒¦उ॒क्षमा᳚णे॒ इति॑ |
ऋ॒तव॑री॒ इत्यृ॒तऽव॑री¦अ॒द्रुहा᳚¦दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे¦य॒ज्ञस्य॑¦ने॒त्री इति॑¦शु॒चय॑त्ऽभिः¦अ॒र्कैः ||

सइत्‌स्वपा॒भुव॑नेष्वास॒यइ॒मेद्यावा᳚पृथि॒वीज॒जान॑ |{गौतमो वामदेवः | द्यावापृथिव्यौ | त्रिष्टुप्}

उ॒र्वीग॑भी॒रेरज॑सीसु॒मेके᳚,अवं॒शेधीरः॒शच्या॒समै᳚र॒‌त्(स्वाहा᳚) || 3 ||

सः¦इत्¦सु॒।आपाः᳚¦भुव॑नेषु¦आ॒स॒¦यः¦इ॒मे इति॑¦द्यावा᳚पृथि॒वी इति॑¦ज॒जान॑ |
उ॒र्वी इति॑¦ग॒भी॒रे इति॑¦रज॑सी॒ इति॑¦सु॒मेके॒ इति॑ सु॒ऽमेके᳚¦अ॒वं॒शे¦धीरः॑¦शच्या᳚¦स‌म्¦ऐ॒र॒त् ||

नूरो᳚दसीबृ॒हद्भि᳚र्नो॒वरू᳚थैः॒पत्नी᳚वद्भिरि॒षय᳚न्तीस॒जोषाः᳚ |{गौतमो वामदेवः | द्यावापृथिव्यौ | त्रिष्टुप्}

उ॒रू॒चीविश्वे᳚यज॒तेनिपा᳚तंधि॒यास्या᳚मर॒थ्यः॑सदा॒साः(स्वाहा᳚) || 4 ||

नु¦रो॒द॒सी॒ इति॑¦बृ॒हत्ऽभिः॑¦नः॒¦वरू᳚थैः¦पत्नी᳚वत्ऽभिः¦इ॒षय᳚न्ती॒ इति॑¦स॒ऽजोषाः᳚ |
उ॒रू॒ची इति॑¦विश्वे॒ इति॑¦या॒ज॒ते इति॑¦नि¦पा॒त॒‌म्¦धि॒या¦स्या॒म॒¦र॒थ्यः॑¦स॒दा॒ऽसाः ||

प्रवां॒महि॒द्यवी᳚,अ॒भ्युप॑स्तुतिंभरामहे |{गौतमो वामदेवः | द्यावापृथिव्यौ | गायत्री}

शुची॒,उप॒प्रश॑स्तये॒(स्वाहा᳚) || 5 ||

प्र¦वा॒‌म्¦महि॑¦द्यवी॒ इति॑¦अ॒भि¦उप॑ऽस्तुति‌म्¦भ॒रा॒म॒हे॒ | शुची॒ इति॑¦उप॑¦प्रऽश॑स्तये ||

पु॒ना॒नेत॒न्वा᳚मि॒थःस्वेन॒दक्षे᳚णराजथः |{गौतमो वामदेवः | द्यावापृथिव्यौ | गायत्री}

ऊ॒ह्याथे᳚स॒नादृ॒तम्(स्वाहा᳚) || 6 ||

पु॒ना॒ने इति॑¦त॒न्वा᳚¦मि॒थः¦स्वेन॑¦दक्षे᳚ण¦रा॒ज॒थः॒ | ऊ॒ह्याथे॒ इति॑¦स॒नात्¦ऋ॒त‌म् ||

म॒हीमि॒त्रस्य॑साधथ॒स्तर᳚न्ती॒पिप्र॑ती,ऋ॒तम् |{गौतमो वामदेवः | द्यावापृथिव्यौ | गायत्री}

परि॑य॒ज्ञंनिषे᳚दथुः॒(स्वाहा᳚) || 7 ||

म॒ही इति॑¦मि॒त्रस्य॑¦सा॒ध॒थः॒¦तर᳚न्ती॒ इति॑¦पिप्र॑ती॒ इति॑¦ऋ॒त‌म् | परि॑¦य॒ज्ञ‌म्¦नि¦से॒द॒थुः॒ ||

[57] क्षेत्रस्येत्यष्टर्चस्य सूक्तस्य गौतमोवामदेव आद्यानांतिसृणां क्षेत्रपतिर्देवता चतुर्थ्याःशुनः पंचम्यष्टम्योः शुनासीरौ षष्ठीसप्तम्योः सीता आद्याचतुर्थीषष्ठीसप्तम्योनुष्टुभः पंचमीपुरउष्णिक् शेषास्त्रिष्टुभः (अत्रचतुर्थ्याः शुनोऽदंतः | तथाशुनासीरावित्यत्र केचिद्वाय्वादित्या वित्युञ्चारयन्तितन्नचतुरस्रं यतः वायुः शुनः सूर्य एवात्रसीरः शुनासीरौवायुसूर्योवदंति | शुनासीरंयास्कइंद्रतुमेने सूर्येद्रौ तौमन्यतेशाकपूर्णि रितिशुनासीरस्वरूपेशौनकेनाचार्यमतदर्शनव्याजेनवैविध्यंप्रतिपादितं तस्मात्प्रकृतिभूतशुनासीरशब्देनोच्चारणंयुक्तं) |{मंडल:4, सूक्त:57}{अनुवाक:5, सूक्त:12}{अष्टक:3, अध्याय:8}
क्षेत्र॑स्य॒पति॑नाव॒यंहि॒तेने᳚वजयामसि |{गौतमो वामदेवः | क्षेत्रपतिः | अनुष्टुप्}

गामश्वं᳚पोषयि॒त्न्वासनो᳚मृळाती॒दृशे॒(स्वाहा᳚) || 1 || वर्ग:9

क्षेत्र॑स्य¦पति॑ना¦व॒य‌म्¦हि॒तेन॑ऽ‌इव¦ज॒या॒म॒सि॒ | गा‌म्¦अश्व᳚‌म्¦पो॒ष॒यि॒त्नु¦आ¦सः¦नः॒¦मृ॒ळा॒ति॒¦ई॒दृशे᳚ ||

क्षेत्र॑स्यपते॒मधु॑मन्तमू॒र्मिंधे॒नुरि॑व॒पयो᳚,अ॒स्मासु॑धुक्ष्व |{गौतमो वामदेवः | क्षेत्रपतिः | त्रिष्टुप्}

म॒धु॒श्चुतं᳚घृ॒तमि॑व॒सुपू᳚तमृ॒तस्य॑नः॒पत॑योमृळयन्तु॒(स्वाहा᳚) || 2 ||

क्षेत्र॑स्य¦प॒ते॒¦मधु॑ऽमन्त‌म्¦ऊ॒र्मि‌म्¦धे॒नुःऽ‌इ᳚व¦पयः॑¦अ॒स्मासु॑¦धु॒क्ष्व॒ |
म॒धु॒ऽश्चुत᳚‌म्¦घृ॒त‌म्ऽ‌इ᳚व¦सुऽपू᳚त‌म्¦ऋ॒तस्य॑¦नः॒¦पत॑यः¦मृ॒ळ॒य॒न्तु॒ ||

मधु॑मती॒रोष॑धी॒र्द्याव॒आपो॒मधु॑मन्नोभवत्व॒न्तरि॑क्षम् |{गौतमो वामदेवः | क्षेत्रपतिः | त्रिष्टुप्}

क्षेत्र॑स्य॒पति॒र्मधु॑मान्‌नो,अ॒स्त्वरि॑ष्यन्तो॒,अन्वे᳚नंचरेम॒(स्वाहा᳚) || 3 ||

मधु॑ऽमतीः¦ओष॑धीः¦द्यावः॑¦आपः॑¦मधु॑ऽमत्¦नः॒¦भ॒व॒तु॒¦अ॒न्तरि॑क्ष‌म् |
क्षेत्र॑स्य¦पतिः॑¦मधु॑ऽमान्¦नः॒¦अ॒स्तु॒¦अरि॑ष्यन्तः¦अनु॑¦ए॒न॒‌म्¦च॒रे॒म॒ ||

शु॒नंवा॒हाःशु॒नंनरः॑शु॒नंकृ॑षतु॒लाङ्ग॑लम् |{गौतमो वामदेवः | शुनः | अनुष्टुप्}

शु॒नंव॑र॒त्राब॑ध्यन्तांशु॒नमष्ट्रा॒मुदि᳚ङ्गय॒(स्वाहा᳚) || 4 ||

शु॒न‌म्¦वा॒हाः¦शु॒न‌म्¦नरः॑¦शु॒न‌म्¦कृ॒ष॒तु॒¦लाङ्ग॑ल‌म् | शु॒न‌म्¦व॒र॒त्राः¦ब॒ध्य॒न्ता॒‌म्¦शु॒न‌म्¦अष्ट्रा᳚‌म्¦उत्¦इ॒ङ्ग॒य॒ ||

शुना᳚सीरावि॒मांवाचं᳚जुषेथां॒यद्दि॒विच॒क्रथुः॒पयः॑ |{गौतमो वामदेवः | शुनासीरौ | पुर उष्णिक्}

तेने॒मामुप॑सिञ्चत॒‌म्(स्वाहा᳚) || 5 ||

शुना᳚सीरौ¦इ॒मा‌म्¦वाच᳚‌म्¦जु॒षे॒था॒‌म्¦यत्¦दि॒वि¦च॒क्रथुः॑¦पयः॑ | तेन॑¦इ॒मा‌म्¦उप॑¦सिं॒च॒त॒‌म् ||

अ॒र्वाची᳚सुभगेभव॒सीते॒वन्दा᳚महेत्वा |{गौतमो वामदेवः | सीता | अनुष्टुप्}

यथा᳚नःसु॒भगास॑सि॒यथा᳚नःसु॒फलास॑सि॒(स्वाहा᳚) || 6 ||

अ॒र्वाची᳚¦सु॒ऽभ॒गे॒¦भ॒व॒¦सीते᳚¦वन्दा᳚महे¦त्वा॒ | यथा᳚¦नः॒¦सु॒ऽभगा᳚¦अस॑सि¦यथा᳚¦नः॒¦सु॒ऽफला᳚¦अस॑सि ||

इन्द्रः॒सीतां॒निगृ᳚ह्णातु॒तांपू॒षानु॑यच्छतु |{गौतमो वामदेवः | सीता | अनुष्टुप्}

सानः॒पय॑स्वतीदुहा॒मुत्त॑रामुत्तरां॒समा॒‌म्(स्वाहा᳚) || 7 ||

इन्द्रः॑¦सीता᳚‌म्¦नि¦गृ॒ह्णा॒तु॒¦ता‌म्¦पू॒षा¦अनु॑¦य॒च्छ॒तु॒ | सा¦नः॒¦पय॑स्वती¦दु॒हा॒‌म्¦उत्त॑रा‌म्।औत्तरा‌म्¦समा᳚‌म् ||

शु॒नंनः॒फाला॒विकृ॑षन्तु॒भूमिं᳚शु॒नंकी॒नाशा᳚,अ॒भिय᳚न्तुवा॒हैः |{गौतमो वामदेवः | शुनासीरौ | त्रिष्टुप्}

शु॒नंप॒र्जन्यो॒मधु॑ना॒पयो᳚भिः॒शुना᳚सीराशु॒नम॒स्मासु॑धत्त॒‌म्(स्वाहा᳚) || 8 ||

शु॒न‌म्¦नः॒¦फालाः᳚¦वि¦कृ॒ष॒न्तु॒¦भूमि᳚‌म्¦शु॒न‌म्¦की॒नाशाः᳚¦अ॒भि¦य॒न्तु॒¦वा॒हैः |
शु॒न‌म्¦प॒र्जन्यः॑¦मधु॑ना¦पयः॑ऽभिः¦शुना᳚सीरा¦शु॒न‌म्¦अ॒स्मासु॑¦ध॒त्त॒‌म् ||

[58] समुद्रादूर्मिरित्येकादशर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुबंत्याजगती | (सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता) |{मंडल:4, सूक्त:58}{अनुवाक:5, सूक्त:13}{अष्टक:3, अध्याय:8}
स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒,उदा᳚र॒दुपां॒शुना॒सम॑मृत॒त्वमा᳚नट् |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

घृ॒तस्य॒नाम॒गुह्यं॒यदस्ति॑जि॒ह्वादे॒वाना᳚म॒मृत॑स्य॒नाभिः॒(स्वाहा᳚) || 1 || वर्ग:10

स॒मु॒द्रात्¦ऊ॒र्मिः¦मधु॑ऽमान्¦उत्¦आ॒र॒त्¦उप॑¦अं॒शुना᳚¦स‌म्¦अ॒मृ॒त॒ऽत्व‌म्¦आ॒न॒ट् |
घृ॒तस्य॑¦नाम॑¦गुह्य᳚‌म्¦यत्¦अस्ति॑¦जि॒ह्वा¦दे॒वाना᳚‌म्¦अ॒मृत॑स्य¦नाभिः॑ ||

व॒यंनाम॒प्रब्र॑वामाघृ॒तस्या॒स्मिन्‌य॒ज्ञेधा᳚रयामा॒नमो᳚भिः |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

उप॑ब्र॒ह्माशृ॑णवच्छ॒स्यमा᳚नं॒चतुः॑शृङ्गोऽवमीद्‌गौ॒रए॒तत्(स्वाहा᳚) || 2 ||

व॒य‌म्¦नाम॑¦प्र¦ब्र॒वा॒म॒¦घृ॒तस्य॑¦अ॒स्मिन्¦य॒ज्ञे¦धा॒र॒या॒म॒¦नमः॑ऽभिः |
उप॑¦ब्र॒ह्मा¦शृ॒ण॒व॒त्¦श॒स्यमा᳚न‌म्¦चतुः॑ऽशृङ्गः¦अ॒व॒मी॒त्¦गौ॒रः¦ए॒तत् ||

च॒त्वारि॒शृङ्गा॒त्रयो᳚,अस्य॒पादा॒द्वेशी॒र्षेस॒प्तहस्ता᳚सो,अस्य |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

त्रिधा᳚ब॒द्धोवृ॑ष॒भोरो᳚रवीतिम॒होदे॒वोमर्त्याँ॒,आवि॑वेश॒(स्वाहा᳚) || 3 ||

च॒त्वारि॑¦शृङ्गा᳚¦त्रयः॑¦अ॒स्य॒¦पादाः᳚¦द्वे इति॑¦शी॒र्षे इति॑¦स॒प्त¦हस्ता᳚सः¦अ॒स्य॒ |
त्रिधा᳚¦ब॒द्धः¦वृ॒ष॒भः¦रो॒र॒वी॒ति॒¦म॒हः¦दे॒वः¦मर्त्या᳚न्¦आ¦वि॒वे॒श॒ ||

त्रिधा᳚हि॒तंप॒णिभि॑र्गु॒ह्यमा᳚नं॒गवि॑दे॒वासो᳚घृ॒तमन्व॑विन्दन् |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

इन्द्र॒एकं॒सूर्य॒एकं᳚जजानवे॒नादेकं᳚स्व॒धया॒निष्ट॑तक्षुः॒(स्वाहा᳚) || 4 ||

त्रिधा᳚¦हि॒त‌म्¦प॒णिऽभिः॑¦गु॒ह्यमा᳚न‌म्¦गवि॑¦दे॒वासः॑¦घृ॒त‌म्¦अनु॑¦अ॒वि॒न्द॒न् |
इन्द्रः॑¦एक᳚‌म्¦सूर्यः॑¦एक᳚‌म्¦ज॒जा॒न॒¦वे॒नात्¦एक᳚‌म्¦स्व॒धया᳚¦निः¦त॒त॒क्षुः॒ ||

ए॒ता,अ॑र्षन्ति॒हृद्या᳚त्‌समु॒द्राच्छ॒तव्र॑जारि॒पुणा॒नाव॒चक्षे᳚ |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

घृ॒तस्य॒धारा᳚,अ॒भिचा᳚कशीमिहिर॒ण्ययो᳚वेत॒सोमध्य॑आसा॒‌म्(स्वाहा᳚) || 5 ||

ए॒ताः¦अ॒र्ष॒न्ति॒¦हृद्या᳚त्¦स॒मु॒द्रात्¦श॒तऽव्र॑जाः¦रि॒पुणा᳚¦न¦अ॒व॒ऽचक्षे᳚ |
घृ॒तस्य॑¦धाराः᳚¦अ॒भि¦चा॒क॒शी॒मि॒¦हि॒र॒ण्ययः॑¦वे॒त॒सः¦मध्ये᳚¦आ॒सा॒‌म् ||

स॒म्यक्‌स्र॑वन्तिस॒रितो॒नधेना᳚,अ॒न्तर्हृ॒दामन॑सापू॒यमा᳚नाः |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

ए॒ते,अ॑र्षन्त्यू॒र्मयो᳚घृ॒तस्य॑मृ॒गा,इ॑वक्षिप॒णोरीष॑माणाः॒(स्वाहा᳚) || 6 || वर्ग:11

स॒म्यक्¦स्र॒व॒न्ति॒¦स॒रितः॑¦न¦धेनाः᳚¦अ॒न्तः¦हृ॒दा¦मन॑सा¦पू॒यमा᳚नाः |
ए॒ते¦अ॒र्ष॒न्ति॒¦ऊ॒र्मयः॑¦घृ॒तस्य॑¦मृ॒गाःऽ‌इ᳚व¦क्षि॒प॒णोः¦ईष॑माणाः ||

सिन्धो᳚रिवप्राध्व॒नेशू᳚घ॒नासो॒वात॑प्रमियःपतयन्तिय॒ह्वाः |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

घृ॒तस्य॒धारा᳚,अरु॒षोनवा॒जीकाष्ठा᳚भि॒न्दन्नू॒र्मिभिः॒पिन्व॑मानः॒(स्वाहा᳚) || 7 ||

सिन्धोः᳚ऽ‌इव¦प्र॒।आ॒ध्व॒ने¦शू॒घ॒नासः॑¦वात॑ऽप्रमियः¦प॒त॒य॒न्ति॒¦य॒ह्वाः |
घृ॒तस्य॑¦धाराः᳚¦अ॒रु॒षः¦न¦वा॒जी¦काष्ठाः᳚¦भि॒न्दन्¦ऊ॒र्मिऽभिः॑¦पिन्व॑मानः ||

अ॒भिप्र॑वन्त॒सम॑नेव॒योषाः᳚कल्या॒ण्य१॑(अः॒)स्मय॑मानासो,अ॒ग्निम् |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

घृ॒तस्य॒धाराः᳚स॒मिधो᳚नसन्त॒ताजु॑षा॒णोह᳚र्यतिजा॒तवे᳚दाः॒(स्वाहा᳚) || 8 ||

अ॒भि¦प्र॒व॒न्त॒¦सम॑नाऽ‌इव¦योषाः᳚¦क॒ल्या॒ण्यः॑¦स्मय॑मानासः¦अ॒ग्नि‌म् |
घृ॒तस्य॑¦धाराः᳚¦स॒‌म्ऽ‌इधः॑¦न॒स॒न्त॒¦ताः¦जु॒षा॒णः¦ह॒र्य॒ति॒¦जा॒तऽवे᳚दाः ||

क॒न्या᳚,इववह॒तुमेत॒वा,उ॑अ॒ञ्ज्य᳚ञ्जा॒ना,अ॒भिचा᳚कशीमि |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

यत्र॒सोमः॑सू॒यते॒यत्र॑य॒ज्ञोघृ॒तस्य॒धारा᳚,अ॒भितत्‌प॑वन्ते॒(स्वाहा᳚) || 9 ||

क॒न्याः᳚ऽ‌इव¦व॒ह॒तु‌म्¦एत॒वै¦ऊँ॒ इति॑¦अं॒जि¦अं॒जा॒नाः¦अ॒भि¦चा॒क॒शी॒मि॒ |
यत्र॑¦सोमः॑¦सू॒यते᳚¦यत्र॑¦य॒ज्ञः¦घृ॒तस्य॑¦धाराः᳚¦अ॒भि¦तत्¦प॒व॒न्ते॒ ||

अ॒भ्य॑र्षतसुष्टु॒तिंगव्य॑मा॒जिम॒स्मासु॑भ॒द्राद्रवि॑णानिधत्त |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

इ॒मंय॒ज्ञंन॑यतदे॒वता᳚नोघृ॒तस्य॒धारा॒मधु॑मत्‌पवन्ते॒(स्वाहा᳚) || 10 ||

अ॒भि¦अ॒र्ष॒त॒¦सु॒ऽस्तु॒ति‌म्¦गव्य᳚‌म्¦आ॒जि‌म्¦अ॒स्मासु॑¦भ॒द्रा¦द्रवि॑णानि¦ध॒त्त॒ |
इ॒म‌म्¦य॒ज्ञ‌म्¦न॒य॒त॒¦दे॒वता᳚¦नः॒¦घृ॒तस्य॑¦धाराः᳚¦मधु॑ऽमत्¦प॒व॒न्ते॒ ||

धाम᳚न्‌ते॒विश्वं॒भुव॑न॒मधि॑श्रि॒तम॒न्तःस॑मु॒द्रेहृ॒द्य१॑(अ॒)न्तरायु॑षि |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | जगती}

अ॒पामनी᳚केसमि॒थेयआभृ॑त॒स्तम॑श्याम॒मधु॑मन्तंतऊ॒र्मिम्(स्वाहा᳚) || 11 ||

धाम॑न्¦ते॒¦विश्व᳚‌म्¦भुव॑न‌म्¦अधि॑¦श्रि॒त‌म्¦अ॒न्तरिति॑¦स॒मु॒द्रे¦हृ॒दि¦अ॒न्तः¦आयु॑षि |
अ॒पा‌म्¦अनी᳚के¦स॒‌म्ऽ‌इ॒थे¦यः¦आऽभृ॑तः¦त‌म्¦अ॒श्या॒म॒¦मधु॑ऽमन्त‌म्¦ते॒¦ऊ॒र्मि‌म् ||