|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||

|| ऋग्वेद संहिता (मंडल: 04) ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
[Last updated on: 16-Mar-2025]

[1] त्वांह्यग्नइति विंशत्यृचस्य सूक्तस्य गौतमोवामदेवोग्निर्द्वितीयादिचतसृणामग्निवरुणौ त्रिष्टुप् आद्यास्तिस्रः क्रमेणाष्ट्यतिजगतीधृतयः |{मंडल:4, सूक्त:1}{अनुवाक:1, सूक्त:1}{अष्टक:3, अध्याय:4}
त्वांह्य॑ग्ने॒सद॒मित्‌स॑म॒न्यवो᳚दे॒वासो᳚दे॒वम॑र॒तिंन्ये᳚रि॒रइति॒क्रत्वा᳚न्येरि॒रे |{गौतमो वामदेवः | अग्निः | अष्टिः}

अम॑र्त्यंयजत॒मर्त्ये॒ष्वादे॒वमादे᳚वंजनत॒प्रचे᳚तसं॒विश्व॒मादे᳚वंजनत॒प्रचे᳚तस॒‌म्(स्वाहा᳚) || 1 || वर्ग:12

सभ्रात॑रं॒वरु॑णमग्न॒आव॑वृत्स्वदे॒वाँ,अच्छा᳚सुम॒तीय॒ज्ञव॑नसं॒ज्येष्ठं᳚य॒ज्ञव॑नसम् |{गौतमो वामदेवः | अग्निः वरुणौ | अतिजगती}

ऋ॒तावा᳚नमादि॒त्यंच॑र्षणी॒धृतं॒राजा᳚नंचर्षणी॒धृत॒‌म्(स्वाहा᳚) || 2 ||

सखे॒सखा᳚यम॒भ्याव॑वृत्स्वा॒शुंनच॒क्रंरथ्ये᳚व॒रंह्या॒स्मभ्यं᳚दस्म॒रंह्या᳚ |{गौतमो वामदेवः | अग्निः वरुणौ | धृतिः}

अग्ने᳚मृळी॒कंवरु॑णे॒सचा᳚विदोम॒रुत्सु॑वि॒श्वभा᳚नुषु |{गौतमो वामदेवः | अग्निः वरुणौ | धृतिः}

तो॒काय॑तु॒जेशु॑शुचान॒शंकृ॑ध्य॒स्मभ्यं᳚दस्म॒शंकृ॑धि॒(स्वाहा᳚) || 3 ||

त्वंनो᳚,अग्ने॒वरु॑णस्यवि॒द्वान्दे॒वस्य॒हेळोऽव॑यासिसीष्ठाः |{गौतमो वामदेवः | अग्निः वरुणौ | त्रिष्टुप्}

यजि॑ष्ठो॒वह्नि॑तमः॒शोशु॑चानो॒विश्वा॒द्वेषां᳚सि॒प्रमु॑मुग्ध्य॒स्मत्(स्वाहा᳚) || 4 ||

सत्वंनो᳚,अग्नेऽव॒मोभ॑वो॒तीनेदि॑ष्ठो,अ॒स्या,उ॒षसो॒व्यु॑ष्टौ |{गौतमो वामदेवः | अग्निः वरुणौ | त्रिष्टुप्}

अव॑यक्ष्वनो॒वरु॑णं॒ररा᳚णोवी॒हिमृ॑ळी॒कंसु॒हवो᳚नएधि॒(स्वाहा᳚) || 5 ||

अ॒स्यश्रेष्ठा᳚सु॒भग॑स्यसं॒दृग्दे॒वस्य॑चि॒त्रत॑मा॒मर्त्ये᳚षु |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

शुचि॑घृ॒तंनत॒प्तमघ्न्या᳚याःस्पा॒र्हादे॒वस्य॑मं॒हने᳚वधे॒नोः(स्वाहा᳚) || 6 || वर्ग:13

त्रिर॑स्य॒ताप॑र॒मास᳚न्तिस॒त्यास्पा॒र्हादे॒वस्य॒जनि॑मान्य॒ग्नेः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अ॒न॒न्ते,अ॒न्तःपरि॑वीत॒आगा॒च्छुचिः॑शु॒क्रो,अ॒र्योरोरु॑चानः॒(स्वाहा᳚) || 7 ||

सदू॒तोविश्वेद॒भिव॑ष्टि॒सद्मा॒होता॒हिर᳚ण्यरथो॒रंसु॑जिह्वः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

रो॒हिद॑श्वोवपु॒ष्यो᳚वि॒भावा॒सदा᳚र॒ण्वःपि॑तु॒मती᳚वसं॒सत्(स्वाहा᳚) || 8 ||

सचे᳚तय॒न्मनु॑षोय॒ज्ञब᳚न्धुः॒प्रतंम॒ह्यार॑श॒नया᳚नयन्ति |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

सक्षे᳚त्यस्य॒दुर्या᳚सु॒साध᳚न्दे॒वोमर्त॑स्यसधनि॒त्वमा᳚प॒(स्वाहा᳚) || 9 ||

सतूनो᳚,अ॒ग्निर्न॑यतुप्रजा॒नन्नच्छा॒रत्नं᳚दे॒वभ॑क्तं॒यद॑स्य |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

धि॒यायद्‌विश्वे᳚,अ॒मृता॒,अकृ᳚ण्व॒न्द्यौष्पि॒ताज॑नि॒तास॒त्यमु॑क्ष॒‌न्(स्वाहा᳚) || 10 ||

सजा᳚यतप्रथ॒मःप॒स्त्या᳚सुम॒होबु॒ध्नेरज॑सो,अ॒स्ययोनौ᳚ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अ॒पाद॑शी॒र्षागु॒हमा᳚नो॒,अन्ता॒योयु॑वानोवृष॒भस्य॑नी॒ळे(स्वाहा᳚) || 11 || वर्ग:14

प्रशर्ध॑आर्तप्रथ॒मंवि॑प॒न्याँ,ऋ॒तस्य॒योना᳚वृष॒भस्य॑नी॒ळे |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

स्पा॒र्होयुवा᳚वपु॒ष्यो᳚वि॒भावा᳚स॒प्तप्रि॒यासो᳚ऽजनयन्त॒वृष्णे॒(स्वाहा᳚) || 12 ||

अ॒स्माक॒मत्र॑पि॒तरो᳚मनु॒ष्या᳚,अ॒भिप्रसे᳚दुरृ॒तमा᳚शुषा॒णाः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अश्म᳚व्रजाःसु॒दुघा᳚व॒व्रे,अ॒न्तरुदु॒स्रा,आ᳚जन्नु॒षसो᳚हुवा॒नाः(स्वाहा᳚) || 13 ||

तेम᳚र्मृजतददृ॒वांसो॒,अद्रिं॒तदे᳚षाम॒न्ये,अ॒भितो॒विवो᳚चन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

प॒श्वय᳚न्त्रासो,अ॒भिका॒रम॑र्चन्वि॒दन्त॒ज्योति॑श्चकृ॒पन्त॑धी॒भिः(स्वाहा᳚) || 14 ||

तेग᳚व्य॒तामन॑सादृ॒ध्रमु॒ब्धंगाये᳚मा॒नंपरि॒षन्त॒मद्रि᳚म् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दृ॒ळ्हंनरो॒वच॑सा॒दैव्ये᳚नव्र॒जंगोम᳚न्तमु॒शिजो॒विव᳚व्रुः॒(स्वाहा᳚) || 15 ||

तेम᳚न्वतप्रथ॒मंनाम॑धे॒नोस्त्रिःस॒प्तमा॒तुःप॑र॒माणि॑विन्दन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

तज्जा᳚न॒तीर॒भ्य॑नूषत॒व्रा,आ॒विर्भु॑वदरु॒णीर्य॒शसा॒गोः(स्वाहा᳚) || 16 || वर्ग:15

नेश॒त्तमो॒दुधि॑तं॒रोच॑त॒द्यौरुद्दे॒व्या,उ॒षसो᳚भा॒नुर॑र्त |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

आसूर्यो᳚बृह॒तस्ति॑ष्ठ॒दज्राँ᳚,ऋ॒जुमर्ते᳚षुवृजि॒नाच॒पश्य॒न्त्(स्वाहा᳚) || 17 ||

आदित्‌प॒श्चाबु॑बुधा॒नाव्य॑ख्य॒न्नादिद्‌रत्नं᳚धारयन्त॒द्युभ॑क्तम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

विश्वे॒विश्वा᳚सु॒दुर्या᳚सुदे॒वामित्र॑धि॒येव॑रुणस॒त्यम॑स्तु॒(स्वाहा᳚) || 18 ||

अच्छा᳚वोचेयशुशुचा॒नम॒ग्निंहोता᳚रंवि॒श्वभ॑रसं॒यजि॑ष्ठम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

शुच्यूधो᳚,अतृण॒न्नगवा॒मन्धो॒नपू॒तंपरि॑षिक्तमं॒शोः(स्वाहा᳚) || 19 ||

विश्वे᳚षा॒मदि॑तिर्य॒ज्ञिया᳚नां॒विश्वे᳚षा॒मति॑थि॒र्मानु॑षाणाम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अ॒ग्निर्दे॒वाना॒मव॑आवृणा॒नःसु॑मृळी॒कोभ॑वतुजा॒तवे᳚दाः॒(स्वाहा᳚) || 20 ||

[2] योमर्त्येष्विति विंशत्यृचस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |{मंडल:4, सूक्त:2}{अनुवाक:1, सूक्त:2}{अष्टक:3, अध्याय:4}
योमर्त्ये᳚ष्व॒मृत॑ऋ॒तावा᳚दे॒वोदे॒वेष्व॑र॒तिर्नि॒धायि॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

होता॒यजि॑ष्ठोम॒ह्नाशु॒चध्यै᳚ह॒व्यैर॒ग्निर्मनु॑षईर॒यध्यै॒(स्वाहा᳚) || 1 || वर्ग:16

इ॒हत्वंसू᳚नोसहसोनो,अ॒द्यजा॒तोजा॒ताँ,उ॒भयाँ᳚,अ॒न्तर॑ग्ने |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दू॒तई᳚यसेयुयुजा॒नऋ॑ष्वऋजुमु॒ष्कान्‌वृष॑णःशु॒क्राँश्च॒(स्वाहा᳚) || 2 ||

अत्या᳚वृध॒स्नूरोहि॑ताघृ॒तस्नू᳚ऋ॒तस्य॑मन्ये॒मन॑सा॒जवि॑ष्ठा |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अ॒न्तरी᳚यसे,अरु॒षायु॑जा॒नोयु॒ष्माँश्च॑दे॒वान्‌विश॒आच॒मर्ता॒न्त्(स्वाहा᳚) || 3 ||

अ॒र्य॒मणं॒वरु॑णंमि॒त्रमे᳚षा॒मिन्द्रा॒विष्णू᳚म॒रुतो᳚,अ॒श्विनो॒त |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

स्वश्वो᳚,अग्नेसु॒रथः॑सु॒राधा॒,एदु॑वहसुह॒विषे॒जना᳚य॒(स्वाहा᳚) || 4 ||

गोमाँ᳚,अ॒ग्नेऽवि॑माँ,अ॒श्वीय॒ज्ञोनृ॒वत्स॑खा॒सद॒मिद॑प्रमृ॒ष्यः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

इळा᳚वाँ,ए॒षो,अ॑सुरप्र॒जावा᳚न्दी॒र्घोर॒यिःपृ॑थुबु॒ध्नःस॒भावा॒न्त्(स्वाहा᳚) || 5 ||

यस्त॑इ॒ध्मंज॒भर॑त्‌सिष्विदा॒नोमू॒र्धानं᳚वात॒तप॑तेत्वा॒या |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

भुव॒स्तस्य॒स्वत॑वाँःपा॒युर॑ग्ने॒विश्व॑स्मात्‌सीमघाय॒तउ॑रुष्य॒(स्वाहा᳚) || 6 || वर्ग:17

यस्ते॒भरा॒दन्नि॑यतेचि॒दन्नं᳚नि॒शिष᳚न्म॒न्द्रमति॑थिमु॒दीर॑त् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

आदे᳚व॒युरि॒नध॑तेदुरो॒णेतस्मि᳚न्‌र॒यिर्ध्रु॒वो,अ॑स्तु॒दास्वा॒न्त्(स्वाहा᳚) || 7 ||

यस्त्वा᳚दो॒षायउ॒षसि॑प्र॒शंसा᳚त्प्रि॒यंवा᳚त्वाकृ॒णव॑तेह॒विष्मा॑न् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अश्वो॒नस्वेदम॒आहे॒म्यावा॒न्तमंह॑सःपीपरोदा॒श्वांस॒‌म्(स्वाहा᳚) || 8 ||

यस्तुभ्य॑मग्ने,अ॒मृता᳚य॒दाश॒द्दुव॒स्त्वेकृ॒णव॑तेय॒तस्रु॑क् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

नसरा॒याश॑शमा॒नोवियो᳚ष॒न्नैन॒मंहः॒परि॑वरदघा॒योः(स्वाहा᳚) || 9 ||

यस्य॒त्वम॑ग्ने,अध्व॒रंजुजो᳚षोदे॒वोमर्त॑स्य॒सुधि॑तं॒ररा᳚णः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

प्री॒तेद॑स॒द्धोत्रा॒साय॑वि॒ष्ठाऽसा᳚म॒यस्य॑विध॒तोवृ॒धासः॒(स्वाहा᳚) || 10 ||

चित्ति॒मचि॑त्तिंचिनव॒द्‌विवि॒द्वान्पृ॒ष्ठेव॑वी॒तावृ॑जि॒नाच॒मर्ता॑न् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

रा॒येच॑नःस्वप॒त्याय॑देव॒दितिं᳚च॒रास्वादि॑तिमुरुष्य॒(स्वाहा᳚) || 11 || वर्ग:18

क॒विंश॑शासुःक॒वयोऽद॑ब्धानिधा॒रय᳚न्तो॒दुर्या᳚स्वा॒योः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अत॒स्त्वंदृश्याँ᳚,अग्नए॒तान्प॒ड्भिःप॑श्ये॒रद्भु॑ताँ,अ॒र्यएवैः᳚(स्वाहा᳚) || 12 ||

त्वम॑ग्नेवा॒घते᳚सु॒प्रणी᳚तिःसु॒तसो᳚मायविध॒तेय॑विष्ठ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

रत्नं᳚भरशशमा॒नाय॑घृष्वेपृ॒थुश्च॒न्द्रमव॑सेचर्षणि॒प्राः(स्वाहा᳚) || 13 ||

अधा᳚ह॒यद्‌व॒यम॑ग्नेत्वा॒याप॒ड्भिर्हस्ते᳚भिश्चकृ॒मात॒नूभिः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

रथं॒नक्रन्तो॒,अप॑साभु॒रिजो᳚रृ॒तंये᳚मुःसु॒ध्य॑आशुषा॒णाः(स्वाहा᳚) || 14 ||

अधा᳚मा॒तुरु॒षसः॑स॒प्तविप्रा॒जाये᳚महिप्रथ॒मावे॒धसो॒नॄन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दि॒वस्पु॒त्रा,अङ्गि॑रसोभवे॒माऽद्रिं᳚रुजेमध॒निनं᳚शु॒चन्तः॒(स्वाहा᳚) || 15 ||

अधा॒यथा᳚नःपि॒तरः॒परा᳚सःप्र॒त्नासो᳚,अग्नऋ॒तमा᳚शुषा॒णाः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

शुचीद॑य॒न्‌दीधि॑तिमुक्थ॒शासः॒,क्षामा᳚भि॒न्दन्तो᳚,अरु॒णीरप᳚व्र॒‌न्(स्वाहा᳚) || 16 || वर्ग:19

सु॒कर्मा᳚णःसु॒रुचो᳚देव॒यन्तोऽयो॒नदे॒वाजनि॑मा॒धम᳚न्तः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

शु॒चन्तो᳚,अ॒ग्निंव॑वृ॒धन्त॒इन्द्र॑मू॒र्वंगव्यं᳚परि॒षद᳚न्तो,अग्म॒‌न्(स्वाहा᳚) || 17 ||

आयू॒थेव॑क्षु॒मति॑प॒श्वो,अ॑ख्यद्दे॒वानां॒यज्जनि॒मान्त्यु॑ग्र |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

मर्ता᳚नांचिदु॒र्वशी᳚रकृप्रन्वृ॒धेचि॑द॒र्यउप॑रस्या॒योः(स्वाहा᳚) || 18 ||

अक᳚र्मते॒स्वप॑सो,अभूमऋ॒तम॑वस्रन्नु॒षसो᳚विभा॒तीः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अनू᳚नम॒ग्निंपु॑रु॒धासु॑श्च॒न्द्रंदे॒वस्य॒मर्मृ॑जत॒श्चारु॒चक्षुः॒(स्वाहा᳚) || 19 ||

ए॒ताते᳚,अग्नउ॒चथा᳚निवे॒धोऽवो᳚चामक॒वये॒ताजु॑षस्व |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

उच्छो᳚चस्वकृणु॒हिवस्य॑सोनोम॒होरा॒यःपु॑रुवार॒प्रय᳚न्धि॒(स्वाहा᳚) || 20 ||

[3] आवोराजानमिति षोडशर्चस्य सूक्तस्य गौतमोवामदेव आद्यायारुद्रोद्वितीयादीनामग्निस्त्रिष्टुप् |{मंडल:4, सूक्त:3}{अनुवाक:1, सूक्त:3}{अष्टक:3, अध्याय:4}
आवो॒राजा᳚नमध्व॒रस्य॑रु॒द्रंहोता᳚रंसत्य॒यजं॒रोद॑स्योः |{गौतमो वामदेवः | रुद्रः, अग्निः | त्रिष्टुप्}

अ॒ग्निंपु॒रात॑नयि॒त्नोर॒चित्ता॒द्धिर᳚ण्यरूप॒मव॑सेकृणुध्व॒‌म्(स्वाहा᳚) || 1 || वर्ग:20

अ॒यंयोनि॑श्चकृ॒मायंव॒यंते᳚जा॒येव॒पत्य॑उश॒तीसु॒वासाः᳚ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अ॒र्वा॒ची॒नःपरि॑वीतो॒निषी᳚दे॒मा,उ॑तेस्वपाकप्रती॒चीः(स्वाहा᳚) || 2 ||

आ॒शृ॒ण्व॒ते,अदृ॑पिताय॒मन्म॑नृ॒चक्ष॑सेसुमृळी॒काय॑वेधः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दे॒वाय॑श॒स्तिम॒मृता᳚यशंस॒ग्रावे᳚व॒सोता᳚मधु॒षुद्‌यमी॒ळे(स्वाहा᳚) || 3 ||

त्वंचि᳚न्नः॒शम्या᳚,अग्ने,अ॒स्या,ऋ॒तस्य॑बोध्यृतचित्‌स्वा॒धीः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

क॒दात॑उ॒क्थास॑ध॒माद्या᳚निक॒दाभ॑वन्तिस॒ख्यागृ॒हेते॒(स्वाहा᳚) || 4 ||

क॒थाह॒तद्‌वरु॑णाय॒त्वम॑ग्नेक॒थादि॒वेग᳚र्हसे॒कन्न॒आगः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

क॒थामि॒त्राय॑मी॒ळ्हुषे᳚पृथि॒व्यैब्रवः॒कद᳚र्य॒म्णेकद्‌भगा᳚य॒(स्वाहा᳚) || 5 ||

कद्‌धिष्ण्या᳚सुवृधसा॒नो,अ॑ग्ने॒कद्‌वाता᳚य॒प्रत॑वसेशुभं॒ये |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

परि॑ज्मने॒नास॑त्याय॒क्षेब्रवः॒कद॑ग्नेरु॒द्राय॑नृ॒घ्ने(स्वाहा᳚) || 6 || वर्ग:21

क॒थाम॒हेपु॑ष्टिम्भ॒राय॑पू॒ष्णेकद्‌रु॒द्राय॒सुम॑खायहवि॒र्दे |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

कद्‌विष्ण॑वउरुगा॒याय॒रेतो॒ब्रवः॒कद॑ग्ने॒शर॑वेबृह॒त्यै(स्वाहा᳚) || 7 ||

क॒थाशर्धा᳚यम॒रुता᳚मृ॒ताय॑क॒थासू॒रेबृ॑ह॒तेपृ॒च्छ्यमा᳚नः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

प्रति॑ब्र॒वोऽदि॑तयेतु॒राय॒साधा᳚दि॒वोजा᳚तवेदश्चिकि॒त्वान्(स्वाहा᳚) || 8 ||

ऋ॒तेन॑ऋ॒तंनिय॑तमीळ॒आगोरा॒मासचा॒मधु॑मत्‌प॒क्वम॑ग्ने |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

कृ॒ष्णास॒तीरुश॑ताधा॒सिनै॒षाजाम᳚र्येण॒पय॑सापीपाय॒(स्वाहा᳚) || 9 ||

ऋ॒तेन॒हिष्मा᳚वृष॒भश्चि॑द॒क्तःपुमाँ᳚,अ॒ग्निःपय॑सापृ॒ष्ठ्ये᳚न |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अस्प᳚न्दमानो,अचरद्‌वयो॒धावृषा᳚शु॒क्रंदु॑दुहे॒पृश्नि॒रूधः॒(स्वाहा᳚) || 10 ||

ऋ॒तेनाद्रिं॒व्य॑सन्‌भि॒दन्तः॒समङ्गि॑रसोनवन्त॒गोभिः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

शु॒नंनरः॒परि॑षदन्नु॒षास॑मा॒विःस्व॑रभवज्जा॒ते,अ॒ग्नौ(स्वाहा᳚) || 11 || वर्ग:22

ऋ॒तेन॑दे॒वीर॒मृता॒,अमृ॑क्ता॒,अर्णो᳚भि॒रापो॒मधु॑मद्भिरग्ने |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

वा॒जीनसर्गे᳚षुप्रस्तुभा॒नःप्रसद॒मित्‌स्रवि॑तवेदधन्युः॒(स्वाहा᳚) || 12 ||

माकस्य॑य॒क्षंसद॒मिद्धु॒रोगा॒मावे॒शस्य॑प्रमिन॒तोमापेः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

माभ्रातु॑रग्ने॒,अनृ॑जोरृ॒णंवे॒र्मासख्यु॒र्दक्षं᳚रि॒पोर्भु॑जेम॒(स्वाहा᳚) || 13 ||

रक्षा᳚णो,अग्ने॒तव॒रक्ष॑णेभीरारक्षा॒णःसु॑मखप्रीणा॒नः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

प्रति॑ष्फुर॒विरु॑जवी॒ड्वंहो᳚ज॒हिरक्षो॒महि॑चिद्‌वावृधा॒नम्(स्वाहा᳚) || 14 ||

ए॒भिर्भ॑वसु॒मना᳚,अग्ने,अ॒र्कैरि॒मान्‌त्स्पृ॑श॒मन्म॑भिःशूर॒वाजा॑न् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

उ॒तब्रह्मा᳚ण्यङ्गिरोजुषस्व॒संते᳚श॒स्तिर्दे॒ववा᳚ताजरेत॒(स्वाहा᳚) || 15 ||

ए॒ताविश्वा᳚वि॒दुषे॒तुभ्यं᳚वेधोनी॒थान्य॑ग्नेनि॒ण्यावचां᳚सि |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

नि॒वच॑नाक॒वये॒काव्या॒न्यशं᳚सिषंम॒तिभि॒र्विप्र॑उ॒क्थैः(स्वाहा᳚) || 16 ||

[4] कृणुष्वेति पंचदशर्चस्य सूक्तस्य गौतमोवामदेवोरक्षोहाग्निस्त्रिष्टुप् |{मंडल:4, सूक्त:4}{अनुवाक:1, सूक्त:4}{अष्टक:3, अध्याय:4}
कृ॒णु॒ष्वपाजः॒प्रसि॑तिं॒नपृ॒थ्वींया॒हिराजे॒वाम॑वाँ॒,इभे᳚न |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

तृ॒ष्वीमनु॒प्रसि॑तिंद्रूणा॒नोऽस्ता᳚सि॒विध्य॑र॒क्षस॒स्तपि॑ष्ठैः॒(स्वाहा᳚) || 1 || वर्ग:23

तव॑भ्र॒मास॑आशु॒याप॑त॒न्त्यनु॑स्पृशधृष॒ताशोशु॑चानः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

तपूं᳚ष्यग्नेजु॒ह्वा᳚पतं॒गानसं᳚दितो॒विसृ॑ज॒विष्व॑गु॒ल्काः(स्वाहा᳚) || 2 ||

प्रति॒स्पशो॒विसृ॑ज॒तूर्णि॑तमो॒भवा᳚पा॒युर्वि॒शो,अ॒स्या,अद॑ब्धः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

योनो᳚दू॒रे,अ॒घशं᳚सो॒यो,अन्त्यग्ने॒माकि॑ष्टे॒व्यथि॒राद॑धर्षी॒‌त्(स्वाहा᳚) || 3 ||

उद॑ग्नेतिष्ठ॒प्रत्यात॑नुष्व॒न्य१॑(अ॒)मित्राँ᳚,ओषतात्तिग्महेते |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

योनो॒,अरा᳚तिंसमिधानच॒क्रेनी॒चातंध॑क्ष्यत॒सन्नशुष्क॒‌म्(स्वाहा᳚) || 4 ||

ऊ॒र्ध्वोभ॑व॒प्रति॑वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒दैव्या᳚न्यग्ने |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

अव॑स्थि॒रात॑नुहियातु॒जूनां᳚जा॒मिमजा᳚मिं॒प्रमृ॑णीहि॒शत्रू॒न्त्(स्वाहा᳚) || 5 ||

सते᳚जानातिसुम॒तिंय॑विष्ठ॒यईव॑ते॒ब्रह्म॑णेगा॒तुमैर॑त् |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

विश्वा᳚न्यस्मैसु॒दिना᳚निरा॒योद्यु॒म्नान्य॒र्योविदुरो᳚,अ॒भिद्यौ॒‌त्(स्वाहा᳚) || 6 || वर्ग:24

सेद॑ग्ने,अस्तुसु॒भगः॑सु॒दानु॒र्यस्त्वा॒नित्ये᳚नह॒विषा॒यउ॒क्थैः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

पिप्री᳚षति॒स्वआयु॑षिदुरो॒णेविश्वेद॑स्मैसु॒दिना॒सास॑दि॒ष्टिः(स्वाहा᳚) || 7 ||

अर्चा᳚मितेसुम॒तिंघोष्य॒र्वाक्संते᳚वा॒वाता᳚जरतामि॒यंगीः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

स्वश्वा᳚स्त्वासु॒रथा᳚मर्जयेमा॒ऽस्मेक्ष॒त्राणि॑धारये॒रनु॒द्यून्(स्वाहा᳚) || 8 ||

इ॒हत्वा॒भूर्याच॑रे॒दुप॒त्मन्दोषा᳚वस्तर्दीदि॒वांस॒मनु॒द्यून् |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

क्रीळ᳚न्तस्त्वासु॒मन॑सःसपेमा॒ऽभिद्यु॒म्नात॑स्थि॒वांसो॒जना᳚ना॒‌म्(स्वाहा᳚) || 9 ||

यस्त्वा॒स्वश्वः॑सुहिर॒ण्यो,अ॑ग्नउप॒याति॒वसु॑मता॒रथे᳚न |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

तस्य॑त्रा॒ताभ॑वसि॒तस्य॒सखा॒यस्त॑आति॒थ्यमा᳚नु॒षग्‌जुजो᳚ष॒‌त्(स्वाहा᳚) || 10 ||

म॒होरु॑जामिब॒न्धुता॒वचो᳚भि॒स्तन्मा᳚पि॒तुर्गोत॑मा॒दन्वि॑याय |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

त्वंनो᳚,अ॒स्यवच॑सश्चिकिद्धि॒होत᳚र्यविष्ठसुक्रतो॒दमू᳚नाः॒(स्वाहा᳚) || 11 || वर्ग:25

अस्व॑प्नजस्त॒रण॑यःसु॒शेवा॒,अत᳚न्द्रासोऽवृ॒का,अश्र॑मिष्ठाः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

तेपा॒यवः॑स॒ध्र्य᳚ञ्चोनि॒षद्याऽग्ने॒तव॑नःपान्त्वमूर॒(स्वाहा᳚) || 12 ||

येपा॒यवो᳚मामते॒यंते᳚,अग्ने॒पश्य᳚न्तो,अ॒न्धंदु॑रि॒तादर॑क्षन् |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

र॒रक्ष॒तान्‌त्सु॒कृतो᳚वि॒श्ववे᳚दा॒दिप्स᳚न्त॒इद्‌रि॒पवो॒नाह॑देभुः॒(स्वाहा᳚) || 13 ||

त्वया᳚व॒यंस॑ध॒न्य१॑(अ॒)स्त्वोता॒स्तव॒प्रणी᳚त्यश्याम॒वाजा॑न् |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

उ॒भाशंसा᳚सूदयसत्यतातेऽनुष्ठु॒याकृ॑णुह्यह्रयाण॒(स्वाहा᳚) || 14 ||

अ॒याते᳚,अग्नेस॒मिधा᳚विधेम॒प्रति॒स्तोमं᳚श॒स्यमा᳚नंगृभाय |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

दहा॒शसो᳚र॒क्षसः॑पा॒ह्य१॑(अ॒)स्मान्द्रु॒होनि॒दोमि॑त्रमहो,अव॒द्यात्(स्वाहा᳚) || 15 ||

[5] वैश्वानरायेतिपंचदशर्चस्य सूक्तस्य गौतमोवामदेवोवैश्वानरोग्निस्त्रिष्टुप् |{मंडल:4, सूक्त:5}{अनुवाक:1, सूक्त:5}{अष्टक:3, अध्याय:5}
वै॒श्वा॒न॒राय॑मी॒ळ्हुषे᳚स॒जोषाः᳚क॒थादा᳚शेमा॒ग्नये᳚बृ॒हद्भाः |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

अनू᳚नेनबृह॒ताव॒क्षथे॒नोप॑स्तभायदुप॒मिन्नरोधः॒(स्वाहा᳚) || 1 || वर्ग:1

मानि᳚न्दत॒यइ॒मांमह्यं᳚रा॒तिंदे॒वोद॒दौमर्त्या᳚यस्व॒धावा॑न् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

पाका᳚य॒गृत्सो᳚,अ॒मृतो॒विचे᳚तावैश्वान॒रोनृत॑मोय॒ह्वो,अ॒ग्निः(स्वाहा᳚) || 2 ||

साम॑द्वि॒बर्हा॒महि॑ति॒ग्मभृ॑ष्टिःस॒हस्र॑रेतावृष॒भस्तुवि॑ष्मान् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

प॒दंनगोरप॑गूळ्हंविवि॒द्वान॒ग्निर्मह्यं॒प्रेदु॑वोचन्मनी॒षाम्(स्वाहा᳚) || 3 ||

प्रताँ,अ॒ग्निर्ब॑भसत्ति॒ग्मज᳚म्भ॒स्तपि॑ष्ठेनशो॒चिषा॒यःसु॒राधाः᳚ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

प्रयेमि॒नन्ति॒वरु॑णस्य॒धाम॑प्रि॒यामि॒त्रस्य॒चेत॑तोध्रु॒वाणि॒(स्वाहा᳚) || 4 ||

अ॒भ्रा॒तरो॒नयोष॑णो॒व्यन्तः॑पति॒रिपो॒नजन॑योदु॒रेवाः᳚ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

पा॒पासः॒सन्तो᳚,अनृ॒ता,अ॑स॒त्या,इ॒दंप॒दम॑जनतागभी॒रम्(स्वाहा᳚) || 5 ||

इ॒दंमे᳚,अग्ने॒किय॑तेपाव॒काऽमि॑नतेगु॒रुंभा॒रंनमन्म॑ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

बृ॒हद्द॑धाथधृष॒ताग॑भी॒रंय॒ह्वंपृ॒ष्ठंप्रय॑सास॒प्तधा᳚तु॒(स्वाहा᳚) || 6 || वर्ग:2

तमिन्न्वे॒३॑(ए॒)वस॑म॒नास॑मा॒नम॒भिक्रत्वा᳚पुन॒तीधी॒तिर॑श्याः |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

स॒सस्य॒चर्म॒न्नधि॒चारु॒पृश्ने॒रग्रे᳚रु॒पआरु॑पितं॒जबा᳚रु॒(स्वाहा᳚) || 7 ||

प्र॒वाच्यं॒वच॑सः॒किंमे᳚,अ॒स्यगुहा᳚हि॒तमुप॑नि॒णिग्‌व॑दन्ति |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

यदु॒स्रिया᳚णा॒मप॒वारि॑व॒व्रन्पाति॑प्रि॒यंरु॒पो,अग्रं᳚प॒दंवेः(स्वाहा᳚) || 8 ||

इ॒दमु॒त्यन्महि॑म॒हामनी᳚कं॒यदु॒स्रिया॒सच॑तपू॒र्व्यंगौः |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

ऋ॒तस्य॑प॒दे,अधि॒दीद्या᳚नं॒गुहा᳚रघु॒ष्यद्‌र॑घु॒यद्‌वि॑वेद॒(स्वाहा᳚) || 9 ||

अध॑द्युता॒नःपि॒त्रोःसचा॒साऽम॑नुत॒गुह्यं॒चारु॒पृश्नेः᳚ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

मा॒तुष्प॒देप॑र॒मे,अन्ति॒षद्‌गोर्वृष्णः॑शो॒चिषः॒प्रय॑तस्यजि॒ह्वा(स्वाहा᳚) || 10 ||

ऋ॒तंवो᳚चे॒नम॑सापृ॒च्छ्यमा᳚न॒स्तवा॒शसा᳚जातवेदो॒यदी॒दम् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

त्वम॒स्यक्ष॑यसि॒यद्ध॒विश्वं᳚दि॒वियदु॒द्रवि॑णं॒यत्‌पृ॑थि॒व्याम्(स्वाहा᳚) || 11 || वर्ग:3

किंनो᳚,अ॒स्यद्रवि॑णं॒कद्ध॒रत्नं॒विनो᳚वोचोजातवेदश्चिकि॒त्वान् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

गुहाध्व॑नःपर॒मंयन्नो᳚,अ॒स्यरेकु॑प॒दंननि॑दा॒ना,अग᳚न्म॒(स्वाहा᳚) || 12 ||

काम॒र्यादा᳚व॒युना॒कद्ध॑वा॒ममच्छा᳚गमेमर॒घवो॒नवाज᳚म् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

क॒दानो᳚दे॒वीर॒मृत॑स्य॒पत्नीः॒सूरो॒वर्णे᳚नततनन्नु॒षासः॒(स्वाहा᳚) || 13 ||

अ॒नि॒रेण॒वच॑साफ॒ल्ग्वे᳚नप्र॒तीत्ये᳚नकृ॒धुना᳚तृ॒पासः॑ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

अधा॒ते,अ॑ग्ने॒किमि॒हाव॑दन्त्यनायु॒धास॒आस॑तासचन्ता॒‌म्(स्वाहा᳚) || 14 ||

अ॒स्यश्रि॒येस॑मिधा॒नस्य॒वृष्णो॒वसो॒रनी᳚कं॒दम॒आरु॑रोच |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

रुश॒द्‌वसा᳚नःसु॒दृशी᳚करूपः,क्षि॒तिर्नरा॒यापु॑रु॒वारो᳚,अद्यौ॒‌त्(स्वाहा᳚) || 15 ||

[6] ऊर्ध्वऊषुणइत्येकादशर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |{मंडल:4, सूक्त:6}{अनुवाक:1, सूक्त:6}{अष्टक:3, अध्याय:5}
ऊ॒र्ध्वऊ॒षुणो᳚,अध्वरस्यहोत॒रग्ने॒तिष्ठ॑दे॒वता᳚ता॒यजी᳚यान् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

त्वंहिविश्व॑म॒भ्यसि॒मन्म॒प्रवे॒धस॑श्चित्तिरसिमनी॒षाम्(स्वाहा᳚) || 1 || वर्ग:4

अमू᳚रो॒होता॒न्य॑सादिवि॒क्ष्व१॑(अ॒)ग्निर्म॒न्द्रोवि॒दथे᳚षु॒प्रचे᳚ताः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

ऊ॒र्ध्वंभा॒नुंस॑वि॒तेवा᳚श्रे॒न्मेते᳚वधू॒मंस्त॑भाय॒दुप॒द्याम्(स्वाहा᳚) || 2 ||

य॒तासु॑जू॒र्णीरा॒तिनी᳚घृ॒ताची᳚प्रदक्षि॒णिद्‌दे॒वता᳚तिमुरा॒णः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

उदु॒स्वरु᳚र्नव॒जानाक्रःप॒श्वो,अ॑नक्ति॒सुधि॑तःसु॒मेकः॒(स्वाहा᳚) || 3 ||

स्ती॒र्णेब॒र्हिषि॑समिधा॒ने,अ॒ग्ना,ऊ॒र्ध्वो,अ॑ध्व॒र्युर्जु॑जुषा॒णो,अ॑स्थात् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

पर्य॒ग्निःप॑शु॒पानहोता᳚त्रिवि॒ष्ट्ये᳚तिप्र॒दिव॑उरा॒णः(स्वाहा᳚) || 4 ||

परि॒त्मना᳚मि॒तद्रु॑रेति॒होता॒ऽग्निर्म॒न्द्रोमधु॑वचा,ऋ॒तावा᳚ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

द्रव᳚न्त्यस्यवा॒जिनो॒नशोका॒भय᳚न्ते॒विश्वा॒भुव॑ना॒यदभ्रा᳚ट्॒(स्वाहा᳚) || 5 ||

भ॒द्राते᳚,अग्नेस्वनीकसं॒दृग्घो॒रस्य॑स॒तोविषु॑णस्य॒चारुः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

नयत्ते᳚शो॒चिस्तम॑सा॒वर᳚न्त॒नध्व॒स्मान॑स्त॒न्वी॒३॑(ई॒)रेप॒आधुः॒(स्वाहा᳚) || 6 || वर्ग:5

नयस्य॒सातु॒र्जनि॑तो॒रवा᳚रि॒नमा॒तरा᳚पि॒तरा॒नूचि॑दि॒ष्टौ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अधा᳚मि॒त्रोनसुधि॑तःपाव॒को॒३॑(ओ॒)ऽग्निर्दी᳚दाय॒मानु॑षीषुवि॒क्षु(स्वाहा᳚) || 7 ||

द्विर्यंपञ्च॒जीज॑नन्‌त्सं॒वसा᳚नाः॒स्वसा᳚रो,अ॒ग्निंमानु॑षीषुवि॒क्षु |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

उ॒ष॒र्बुध॑मथ॒र्यो॒३॑(ओ॒)नदन्तं᳚शु॒क्रंस्वासं᳚पर॒शुंनति॒ग्मम्(स्वाहा᳚) || 8 ||

तव॒त्ये,अ॑ग्नेह॒रितो᳚घृत॒स्नारोहि॑तासऋ॒ज्वञ्चः॒स्वञ्चः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अ॒रु॒षासो॒वृष॑णऋजुमु॒ष्का,आदे॒वता᳚तिमह्वन्तद॒स्माः(स्वाहा᳚) || 9 ||

येह॒त्येते॒सह॑माना,अ॒यास॑स्त्वे॒षासो᳚,अग्ने,अ॒र्चय॒श्चर᳚न्ति |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

श्ये॒नासो॒नदु॑वस॒नासो॒,अर्थं᳚तुविष्व॒णसो॒मारु॑तं॒नशर्धः॒(स्वाहा᳚) || 10 ||

अका᳚रि॒ब्रह्म॑समिधान॒तुभ्यं॒शंसा᳚त्यु॒क्थंयज॑ते॒व्यू᳚धाः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

होता᳚रम॒ग्निंमनु॑षो॒निषे᳚दुर्नम॒स्यन्त॑उ॒शिजः॒शंस॑मा॒योः(स्वाहा᳚) || 11 ||

[7] अयमिहेत्येकादशर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् आद्याजगतीद्वितीयाद्यापंचानुष्टुभः |{मंडल:4, सूक्त:7}{अनुवाक:1, सूक्त:7}{अष्टक:3, अध्याय:5}
अ॒यमि॒हप्र॑थ॒मोधा᳚यिधा॒तृभि॒र्होता॒यजि॑ष्ठो,अध्व॒रेष्वीड्यः॑ |{गौतमो वामदेवः | अग्निः | जगती}

यमप्न॑वानो॒भृग॑वोविरुरु॒चुर्वने᳚षुचि॒त्रंवि॒भ्वं᳚वि॒शेवि॑शे॒(स्वाहा᳚) || 1 || वर्ग:6

अग्ने᳚क॒दात॑आनु॒षग्भुव॑द्दे॒वस्य॒चेत॑नम् |{गौतमो वामदेवः | अग्निः | अनुष्टुप्}

अधा॒हित्वा᳚जगृभ्रि॒रेमर्ता᳚सोवि॒क्ष्वीड्य॒‌म्(स्वाहा᳚) || 2 ||

ऋ॒तावा᳚नं॒विचे᳚तसं॒पश्य᳚न्तो॒द्यामि॑व॒स्तृभिः॑ |{गौतमो वामदेवः | अग्निः | अनुष्टुप्}

विश्वे᳚षामध्व॒राणां᳚हस्क॒र्तारं॒दमे᳚दमे॒(स्वाहा᳚) || 3 ||

आ॒शुंदू॒तंवि॒वस्व॑तो॒विश्वा॒यश्च॑र्ष॒णीर॒भि |{गौतमो वामदेवः | अग्निः | अनुष्टुप्}

आज॑भ्रुःके॒तुमा॒यवो॒भृग॑वाणंवि॒शेवि॑शे॒(स्वाहा᳚) || 4 ||

तमीं॒होता᳚रमानु॒षक्चि॑कि॒त्वांसं॒निषे᳚दिरे |{गौतमो वामदेवः | अग्निः | अनुष्टुप्}

र॒ण्वंपा᳚व॒कशो᳚चिषं॒यजि॑ष्ठंस॒प्तधाम॑भिः॒(स्वाहा᳚) || 5 ||

तंशश्व॑तीषुमा॒तृषु॒वन॒आवी॒तमश्रि॑तम् |{गौतमो वामदेवः | अग्निः | अनुष्टुप्}

चि॒त्रंसन्तं॒गुहा᳚हि॒तंसु॒वेदं᳚कूचिद॒र्थिन॒‌म्(स्वाहा᳚) || 6 || वर्ग:7

स॒सस्य॒यद्‌वियु॑ता॒सस्मि॒न्नूध᳚न्नृ॒तस्य॒धाम᳚न्‌र॒णय᳚न्तदे॒वाः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

म॒हाँ,अ॒ग्निर्नम॑सारा॒तह᳚व्यो॒वेर॑ध्व॒राय॒सद॒मिदृ॒तावा॒(स्वाहा᳚) || 7 ||

वेर॑ध्व॒रस्य॑दू॒त्या᳚निवि॒द्वानु॒भे,अ॒न्तारोद॑सीसंचिकि॒त्वान् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दू॒तई᳚यसेप्र॒दिव॑उरा॒णोवि॒दुष्ट॑रोदि॒वआ॒रोध॑नानि॒(स्वाहा᳚) || 8 ||

कृ॒ष्णंत॒एम॒रुश॑तःपु॒रोभाश्च॑रि॒ष्ण्व१॑(अ॒)र्चिर्वपु॑षा॒मिदेक᳚म् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

यदप्र॑वीता॒दध॑तेह॒गर्भं᳚स॒द्यश्चि॑ज्जा॒तोभव॒सीदु॑दू॒तः(स्वाहा᳚) || 9 ||

स॒द्योजा॒तस्य॒ददृ॑शान॒मोजो॒यद॑स्य॒वातो᳚,अनु॒वाति॑शो॒चिः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

वृ॒णक्ति॑ति॒ग्माम॑त॒सेषु॑जि॒ह्वांस्थि॒राचि॒दन्ना᳚दयते॒विजम्भैः᳚(स्वाहा᳚) || 10 ||

तृ॒षुयदन्ना᳚तृ॒षुणा᳚व॒वक्ष॑तृ॒षुंदू॒तंकृ॑णुतेय॒ह्वो,अ॒ग्निः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

वात॑स्यमे॒ळिंस॑चतेनि॒जूर्व᳚न्ना॒शुंनवा᳚जयतेहि॒न्वे,अर्वा॒(स्वाहा᳚) || 11 ||

[8] दूतंवइत्यष्टर्चस्य सूक्तस्य गौतमोवामदेवोग्निर्गायत्री |{मंडल:4, सूक्त:8}{अनुवाक:1, सूक्त:8}{अष्टक:3, अध्याय:5}
दू॒तंवो᳚वि॒श्ववे᳚दसंहव्य॒वाह॒मम॑र्त्यम् |{गौतमो वामदेवः | अग्निः | गायत्री}

यजि॑ष्ठमृञ्जसेगि॒रा(स्वाहा᳚) || 1 || वर्ग:8

सहिवेदा॒वसु॑धितिंम॒हाँ,आ॒रोध॑नंदि॒वः |{गौतमो वामदेवः | अग्निः | गायत्री}

सदे॒वाँ,एहव॑क्षति॒(स्वाहा᳚) || 2 ||

सवे᳚ददे॒वआ॒नमं᳚दे॒वाँ,ऋ॑ताय॒तेदमे᳚ |{गौतमो वामदेवः | अग्निः | गायत्री}

दाति॑प्रि॒याणि॑चि॒द्वसु॒(स्वाहा᳚) || 3 ||

सहोता॒सेदु॑दू॒त्यं᳚चिकि॒त्वाँ,अ॒न्तरी᳚यते |{गौतमो वामदेवः | अग्निः | गायत्री}

वि॒द्वाँ,आ॒रोध॑नंदि॒वः(स्वाहा᳚) || 4 ||

तेस्या᳚म॒ये,अ॒ग्नये᳚ददा॒शुर्ह॒व्यदा᳚तिभिः |{गौतमो वामदेवः | अग्निः | गायत्री}

यईं॒पुष्य᳚न्तइन्ध॒ते(स्वाहा᳚) || 5 ||

तेरा॒यातेसु॒वीर्यैः᳚सस॒वांसो॒विशृ᳚ण्विरे |{गौतमो वामदेवः | अग्निः | गायत्री}

ये,अ॒ग्नाद॑धि॒रेदुवः॒(स्वाहा᳚) || 6 ||

अ॒स्मेरायो᳚दि॒वेदि॑वे॒संच॑रन्तुपुरु॒स्पृहः॑ |{गौतमो वामदेवः | अग्निः | गायत्री}

अ॒स्मेवाजा᳚सईरता॒‌म्(स्वाहा᳚) || 7 ||

सविप्र॑श्चर्षणी॒नांशव॑सा॒मानु॑षाणाम् |{गौतमो वामदेवः | अग्निः | गायत्री}

अति॑क्षि॒प्रेव॑विध्यति॒(स्वाहा᳚) || 8 ||

[9] अग्नेमृळेत्यष्टर्चस्य सूक्तस्य गौतमोवामदेवोग्निर्गायत्री |{मंडल:4, सूक्त:9}{अनुवाक:1, सूक्त:9}{अष्टक:3, अध्याय:5}
अग्ने᳚मृ॒ळम॒हाँ,अ॑सि॒यई॒मादे᳚व॒युंजन᳚म् |{गौतमो वामदेवः | अग्निः | गायत्री}

इ॒येथ॑ब॒र्हिरा॒सद॒‌म्(स्वाहा᳚) || 1 || वर्ग:9

समानु॑षीषुदू॒ळभो᳚वि॒क्षुप्रा॒वीरम॑र्त्यः |{गौतमो वामदेवः | अग्निः | गायत्री}

दू॒तोविश्वे᳚षांभुव॒‌त्(स्वाहा᳚) || 2 ||

ससद्म॒परि॑णीयते॒होता᳚म॒न्द्रोदिवि॑ष्टिषु |{गौतमो वामदेवः | अग्निः | गायत्री}

उ॒तपोता॒निषी᳚दति॒(स्वाहा᳚) || 3 ||

उ॒तग्ना,अ॒ग्निर॑ध्व॒रउ॒तोगृ॒हप॑ति॒र्दमे᳚ |{गौतमो वामदेवः | अग्निः | गायत्री}

उ॒तब्र॒ह्मानिषी᳚दति॒(स्वाहा᳚) || 4 ||

वेषि॒ह्य॑ध्वरीय॒तामु॑पव॒क्ताजना᳚नाम् |{गौतमो वामदेवः | अग्निः | गायत्री}

ह॒व्याच॒मानु॑षाणा॒‌म्(स्वाहा᳚) || 5 ||

वेषीद्व॑स्यदू॒त्य१॑(अं॒)यस्य॒जुजो᳚षो,अध्व॒रम् |{गौतमो वामदेवः | अग्निः | गायत्री}

ह॒व्यंमर्त॑स्य॒वोळ्ह॑वे॒(स्वाहा᳚) || 6 ||

अ॒स्माकं᳚जोष्यध्व॒रम॒स्माकं᳚य॒ज्ञम᳚ङ्गिरः |{गौतमो वामदेवः | अग्निः | गायत्री}

अ॒स्माकं᳚शृणुधी॒हव॒‌म्(स्वाहा᳚) || 7 ||

परि॑तेदू॒ळभो॒रथो॒ऽस्माँ,अ॑श्नोतुवि॒श्वतः॑ |{गौतमो वामदेवः | अग्निः | गायत्री}

येन॒रक्ष॑सिदा॒शुषः॒(स्वाहा᳚) || 8 ||

[10] अग्नेतमद्येत्यष्टर्चस्य सूक्तस्य गौतमोवामदेवोग्निः पदपंक्तिः पंचमीमहापदपंक्तिः अंत्येद्वेउष्णिहौ |{मंडल:4, सूक्त:10}{अनुवाक:1, सूक्त:10}{अष्टक:3, अध्याय:5}
अग्ने॒तम॒द्याऽश्वं॒नस्तोमैः॒क्रतुं॒नभ॒द्रंहृ॑दि॒स्पृश᳚म् |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः}

ऋ॒ध्यामा᳚त॒ओहैः᳚(स्वाहा᳚) || 1 || वर्ग:10

अधा॒ह्य॑ग्ने॒क्रतो᳚र्भ॒द्रस्य॒दक्ष॑स्यसा॒धोः |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः}

र॒थीरृ॒तस्य॑बृह॒तोब॒भूथ॒(स्वाहा᳚) || 2 ||

ए॒भिर्नो᳚,अ॒र्कैर्भवा᳚नो,अ॒र्वाङ्स्व१॑(अ॒)र्णज्योतिः॑ |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः}

अग्ने॒विश्वे᳚भिःसु॒मना॒,अनी᳚कैः॒(स्वाहा᳚) || 3 ||

आ॒भिष्टे᳚,अ॒द्यगी॒र्भिर्गृ॒णन्तोऽग्ने॒दाशे᳚म |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः}

प्रते᳚दि॒वोनस्त॑नयन्ति॒शुष्माः᳚(स्वाहा᳚) || 4 ||

तव॒स्वादि॒ष्ठाऽग्ने॒संदृ॑ष्टिरि॒दाचि॒दह्न॑इ॒दाचि॑द॒क्तोः |{गौतमो वामदेवः | अग्निः | महापदपङ्क्तिः}

श्रि॒येरु॒क्मोनरो᳚चतउपा॒के(स्वाहा᳚) || 5 ||

घृ॒तंनपू॒तंत॒नूर॑रे॒पाःशुचि॒हिर᳚ण्यम् |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः}

तत्ते᳚रु॒क्मोनरो᳚चतस्वधावः॒(स्वाहा᳚) || 6 ||

कृ॒तंचि॒द्धिष्मा॒सने᳚मि॒द्वेषोऽग्न॑इ॒नोषि॒मर्ता᳚त् |{गौतमो वामदेवः | अग्निः | उष्णिक्}

इ॒त्थायज॑मानादृतावः॒(स्वाहा᳚) || 7 ||

शि॒वानः॑स॒ख्यासन्तु॑भ्रा॒त्राऽग्ने᳚दे॒वेषु॑यु॒ष्मे |{गौतमो वामदेवः | अग्निः | उष्णिक्}

सानो॒नाभिः॒सद॑ने॒सस्मि॒न्नूध॒न्त्(स्वाहा᳚) || 8 ||

[11] भद्रंतइति षडृचस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |{मंडल:4, सूक्त:11}{अनुवाक:2, सूक्त:1}{अष्टक:3, अध्याय:5}
भ॒द्रंते᳚,अग्नेसहसि॒न्ननी᳚कमुपा॒कआरो᳚चते॒सूर्य॑स्य |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

रुश॑द्‌दृ॒शेद॑दृशेनक्त॒याचि॒दरू᳚क्षितंदृ॒शआरू॒पे,अन्न॒‌म्(स्वाहा᳚) || 1 || वर्ग:11

विषा᳚ह्यग्नेगृण॒तेम॑नी॒षांखंवेप॑सातुविजात॒स्तवा᳚नः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

विश्वे᳚भि॒र्यद्‌वा॒वनः॑शुक्रदे॒वैस्तन्नो᳚रास्वसुमहो॒भूरि॒मन्म॒(स्वाहा᳚) || 2 ||

त्वद॑ग्ने॒काव्या॒त्वन्म॑नी॒षास्त्वदु॒क्थाजा᳚यन्ते॒राध्या᳚नि |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

त्वदे᳚ति॒द्रवि॑णंवी॒रपे᳚शा,इ॒त्थाधि॑येदा॒शुषे॒मर्त्या᳚य॒(स्वाहा᳚) || 3 ||

त्वद्वा॒जीवा᳚जम्भ॒रोविहा᳚या,अभिष्टि॒कृज्जा᳚यतेस॒त्यशु॑ष्मः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

त्वद्र॒यिर्दे॒वजू᳚तोमयो॒भुस्त्वदा॒शुर्जू᳚जु॒वाँ,अ॑ग्ने॒,अर्वा॒(स्वाहा᳚) || 4 ||

त्वाम॑ग्नेप्रथ॒मंदे᳚व॒यन्तो᳚दे॒वंमर्ता᳚,अमृतम॒न्द्रजि॑ह्वम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

द्वे॒षो॒युत॒मावि॑वासन्तिधी॒भिर्दमू᳚नसंगृ॒हप॑ति॒ममू᳚र॒‌म्(स्वाहा᳚) || 5 ||

आ॒रे,अ॒स्मदम॑तिमा॒रे,अंह॑आ॒रेविश्वां᳚दुर्म॒तिंयन्नि॒पासि॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दो॒षाशि॒वःस॑हसःसूनो,अग्ने॒यंदे॒वआचि॒त्‌सच॑सेस्व॒स्ति(स्वाहा᳚) || 6 ||

[12] यस्त्वामग्नइति षडृचस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |{मंडल:4, सूक्त:12}{अनुवाक:2, सूक्त:2}{अष्टक:3, अध्याय:5}
यस्त्वाम॑ग्नइ॒नध॑तेय॒तस्रु॒क्त्रिस्ते॒,अन्नं᳚कृ॒णव॒त्‌सस्मि॒न्नह॑न् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

ससुद्यु॒म्नैर॒भ्य॑स्तुप्र॒सक्ष॒त्तव॒क्रत्वा᳚जातवेदश्चिकि॒त्वान्(स्वाहा᳚) || 1 || वर्ग:12

इ॒ध्मंयस्ते᳚ज॒भर॑च्छश्रमा॒णोम॒हो,अ॑ग्ने॒,अनी᳚क॒मास॑प॒र्यन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

सइ॑धा॒नःप्रति॑दो॒षामु॒षासं॒पुष्य᳚न्‌र॒यिंस॑चते॒घ्नन्न॒मित्रा॒न्त्(स्वाहा᳚) || 2 ||

अ॒ग्निरी᳚शेबृह॒तः,क्ष॒त्रिय॑स्या॒ऽग्निर्वाज॑स्यपर॒मस्य॑रा॒यः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दधा᳚ति॒रत्नं᳚विध॒तेयवि॑ष्ठो॒व्या᳚नु॒षङ्मर्त्या᳚यस्व॒धावा॒न्त्(स्वाहा᳚) || 3 ||

यच्चि॒द्धिते᳚पुरुष॒त्राय॑वि॒ष्ठाऽचि॑त्तिभिश्चकृ॒माकच्चि॒दागः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

कृ॒धीष्व१॑(अ॒)स्माँ,अदि॑ते॒रना᳚गा॒न्व्येनां᳚सिशिश्रथो॒विष्व॑गग्ने॒(स्वाहा᳚) || 4 ||

म॒हश्चि॑दग्न॒एन॑सो,अ॒भीक॑ऊ॒र्वाद्दे॒वाना᳚मु॒तमर्त्या᳚नाम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

माते॒सखा᳚यः॒सद॒मिद्रि॑षाम॒यच्छा᳚तो॒काय॒तन॑याय॒शंयोः(स्वाहा᳚) || 5 ||

यथा᳚ह॒त्यद्‌व॑सवोगौ॒र्यं᳚चित्प॒दिषि॒ताममु᳚ञ्चतायजत्राः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

ए॒वोष्व१॑(अ॒)स्मन्मु᳚ञ्चता॒व्यंहः॒प्रता᳚र्यग्नेप्रत॒रंन॒आयुः॒(स्वाहा᳚) || 6 ||

[13] प्रत्यग्निरिति पंचर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |{मंडल:4, सूक्त:13}{अनुवाक:2, सूक्त:3}{अष्टक:3, अध्याय:5}
प्रत्य॒ग्निरु॒षसा॒मग्र॑मख्यद्विभाती॒नांसु॒मना᳚रत्न॒धेय᳚म् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

या॒तम॑श्विनासु॒कृतो᳚दुरो॒णमुत्सूर्यो॒ज्योति॑षादे॒वए᳚ति॒(स्वाहा᳚) || 1 || वर्ग:13

ऊ॒र्ध्वंभा॒नुंस॑वि॒तादे॒वो,अ॑श्रेद्द्र॒प्संदवि॑ध्वद्‌गवि॒षोनसत्वा᳚ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अनु᳚व्र॒तंवरु॑णोयन्तिमि॒त्रोयत्सूर्यं᳚दि॒व्या᳚रो॒हय᳚न्ति॒(स्वाहा᳚) || 2 ||

यंसी॒मकृ᳚ण्व॒न्‌तम॑सेवि॒पृचे᳚ध्रु॒वक्षे᳚मा॒,अन॑वस्यन्तो॒,अर्थ᳚म् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

तंसूर्यं᳚ह॒रितः॑स॒प्तय॒ह्वीःस्पशं॒विश्व॑स्य॒जग॑तोवहन्ति॒(स्वाहा᳚) || 3 ||

वहि॑ष्ठेभिर्वि॒हर᳚न्यासि॒तन्तु॑मव॒व्यय॒न्नसि॑तंदेव॒वस्म॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दवि॑ध्वतोर॒श्मयः॒सूर्य॑स्य॒चर्मे॒वावा᳚धु॒स्तमो᳚,अ॒प्स्व१॑(अ॒)न्तः॒(स्वाहा᳚) || 4 ||

अना᳚यतो॒,अनि॑बद्धःक॒थायंन्य᳚ङ्ङुत्ता॒नोऽव॑पद्यते॒न |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

कया᳚यातिस्व॒धया॒कोद॑दर्शदि॒वःस्क॒म्भःसमृ॑तःपाति॒नाक॒‌म्(स्वाहा᳚) || 5 ||

[14] प्रत्यग्निरिति पंचर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् | (अनयोः सूक्तयोः केचिदाचार्यालिङ्गोक्तदेवताआहुःताश्च आद्यसूक्ते आद्यानां तिसृणामग्निः चतुर्थ्याः सवितृवरुणमित्राः पंचम्याः सूर्यः | अपरसूक्तेक्रमेण अग्न्याश्विनः सूर्य उषाअश्व्युषसः सूर्य इत्येवंज्ञेयाः )|{मंडल:4, सूक्त:14}{अनुवाक:2, सूक्त:4}{अष्टक:3, अध्याय:5}
प्रत्य॒ग्निरु॒षसो᳚जा॒तवे᳚दा॒,अख्य॑द्दे॒वोरोच॑माना॒महो᳚भिः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

आना᳚सत्योरुगा॒यारथे᳚ने॒मंय॒ज्ञमुप॑नोयात॒मच्छ॒(स्वाहा᳚) || 1 || वर्ग:14

ऊ॒र्ध्वंके॒तुंस॑वि॒तादे॒वो,अ॑श्रे॒ज्ज्योति॒र्विश्व॑स्मै॒भुव॑नायकृ॒ण्वन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

आप्रा॒द्यावा᳚पृथि॒वी,अ॒न्तरि॑क्षं॒विसूर्यो᳚र॒श्मिभि॒श्चेकि॑तानः॒(स्वाहा᳚) || 2 ||

आ॒वह᳚न्त्यरु॒णीर्ज्योति॒षागा᳚न्म॒हीचि॒त्रार॒श्मिभि॒श्चेकि॑ताना |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

प्र॒बो॒धय᳚न्तीसुवि॒ताय॑दे॒व्यु१॑(उ॒)षा,ई᳚यतेसु॒युजा॒रथे᳚न॒(स्वाहा᳚) || 3 ||

आवां॒वहि॑ष्ठा,इ॒हतेव॑हन्तु॒रथा॒,अश्वा᳚सउ॒षसो॒व्यु॑ष्टौ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

इ॒मेहिवां᳚मधु॒पेया᳚य॒सोमा᳚,अ॒स्मिन्‌य॒ज्ञेवृ॑षणामादयेथा॒‌म्(स्वाहा᳚) || 4 ||

अना᳚यतो॒,अनि॑बद्धःक॒थायंन्य᳚ङ्ङुत्ता॒नोऽव॑पद्यते॒न |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

कया᳚यातिस्व॒धया॒कोद॑दर्शदि॒वःस्क॒म्भःसमृ॑तःपाति॒नाक॒‌म्(स्वाहा᳚) || 5 ||

[15] अग्निहोतेति दशर्चस्य सूक्तस्य गौतमोवामदेवोग्निः सप्तम्यष्टम्योःसाहदेव्यःसोमकः अंत्ययोरश्विनौगायत्री |{मंडल:4, सूक्त:15}{अनुवाक:2, सूक्त:5}{अष्टक:3, अध्याय:5}
अ॒ग्निर्होता᳚नो,अध्व॒रेवा॒जीसन्‌परि॑णीयते |{गौतमो वामदेवः | अग्निः | गायत्री}

दे॒वोदे॒वेषु॑य॒ज्ञियः॒(स्वाहा᳚) || 1 || वर्ग:15

परि॑त्रिवि॒ष्ट्य॑ध्व॒रंयात्य॒ग्नीर॒थीरि॑व |{गौतमो वामदेवः | अग्निः | गायत्री}

आदे॒वेषु॒प्रयो॒दध॒॑‌त्(स्वाहा᳚) || 2 ||

परि॒वाज॑पतिःक॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् |{गौतमो वामदेवः | अग्निः | गायत्री}

दध॒द्रत्ना᳚निदा॒शुषे॒(स्वाहा᳚) || 3 ||

अ॒यंयःसृञ्ज॑येपु॒रोदै᳚ववा॒तेस॑मि॒ध्यते᳚ |{गौतमो वामदेवः | अग्निः | गायत्री}

द्यु॒माँ,अ॑मित्र॒दम्भ॑नः॒(स्वाहा᳚) || 4 ||

अस्य॑घावी॒रईव॑तो॒ऽग्नेरी᳚शीत॒मर्त्यः॑ |{गौतमो वामदेवः | अग्निः | गायत्री}

ति॒ग्मज᳚म्भस्यमी॒ळ्हुषः॒(स्वाहा᳚) || 5 ||

तमर्व᳚न्तं॒नसा᳚न॒सिम॑रु॒षंनदि॒वःशिशु᳚म् |{गौतमो वामदेवः | अग्निः | गायत्री}

म॒र्मृ॒ज्यन्ते᳚दि॒वेदि॑वे॒(स्वाहा᳚) || 6 || वर्ग:16

बोध॒द्यन्मा॒हरि॑भ्यांकुमा॒रःसा᳚हदे॒व्यः |{गौतमो वामदेवः | साहदेव्यः सोमकः | गायत्री}

अच्छा॒नहू॒तउद॑र॒‌म्(स्वाहा᳚) || 7 ||

उ॒तत्याय॑ज॒ताहरी᳚कुमा॒रात्‌सा᳚हदे॒व्यात् |{गौतमो वामदेवः | साहदेव्यः सोमकः | गायत्री}

प्रय॑तास॒द्यआद॑दे॒(स्वाहा᳚) || 8 ||

ए॒षवां᳚देवावश्विनाकुमा॒रःसा᳚हदे॒व्यः |{गौतमो वामदेवः | अश्विनौ | गायत्री}

दी॒र्घायु॑रस्तु॒सोम॑कः॒(स्वाहा᳚) || 9 ||

तंयु॒वंदे᳚वावश्विनाकुमा॒रंसा᳚हदे॒व्यम् |{गौतमो वामदेवः | अश्विनौ | गायत्री}

दी॒र्घायु॑षंकृणोतन॒(स्वाहा᳚) || 10 ||

[16] आसत्योयात्वित्येकविंशत्यृचस्य सूक्तस्य गौतमोवामदेवइंद्रस्त्रिष्टुप् |{मंडल:4, सूक्त:16}{अनुवाक:2, सूक्त:6}{अष्टक:3, अध्याय:5}
आस॒त्योया᳚तुम॒घवाँ᳚,ऋजी॒षीद्रव᳚न्त्वस्य॒हर॑य॒उप॑नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

तस्मा॒,इदन्धः॑सुषुमासु॒दक्ष॑मि॒हाभि॑पि॒त्वंक॑रतेगृणा॒नः(स्वाहा᳚) || 1 || वर्ग:17

अव॑स्यशू॒राध्व॑नो॒नान्ते॒ऽस्मिन्‌नो᳚,अ॒द्यसव॑नेम॒न्दध्यै᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

शंसा᳚त्यु॒क्थमु॒शने᳚ववे॒धाश्चि॑कि॒तुषे᳚,असु॒र्या᳚य॒मन्म॒(स्वाहा᳚) || 2 ||

क॒विर्ननि॒ण्यंवि॒दथा᳚नि॒साध॒न्वृषा॒यत्‌सेकं᳚विपिपा॒नो,अर्चा᳚त् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

दि॒वइ॒त्थाजी᳚जनत्‌स॒प्तका॒रूनह्ना᳚चिच्चक्रुर्व॒युना᳚गृ॒णन्तः॒(स्वाहा᳚) || 3 ||

स्व१॑(अ॒)र्यद्‌वेदि॑सु॒दृशी᳚कम॒र्कैर्महि॒ज्योती᳚रुरुचु॒र्यद्ध॒वस्तोः᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अ॒न्धातमां᳚सि॒दुधि॑तावि॒चक्षे॒नृभ्य॑श्चकार॒नृत॑मो,अ॒भिष्टौ॒(स्वाहा᳚) || 4 ||

व॒व॒क्षइन्द्रो॒,अमि॑तमृजी॒ष्यु१॑(उ॒)भे,आप॑प्रौ॒रोद॑सीमहि॒त्वा |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अत॑श्चिदस्यमहि॒माविरे᳚च्य॒भियोविश्वा॒भुव॑नाब॒भूव॒(स्वाहा᳚) || 5 ||

विश्वा᳚निश॒क्रोनर्या᳚णिवि॒द्वान॒पोरि॑रेच॒सखि॑भि॒र्निका᳚मैः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अश्मा᳚नंचि॒द्येबि॑भि॒दुर्वचो᳚भिर्व्र॒जंगोम᳚न्तमु॒शिजो॒विव᳚व्रुः॒(स्वाहा᳚) || 6 || वर्ग:18

अ॒पोवृ॒त्रंव᳚व्रि॒वांसं॒परा᳚ह॒न्प्राव॑त्ते॒वज्रं᳚पृथि॒वीसचे᳚ताः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

प्रार्णां᳚सिसमु॒द्रिया᳚ण्यैनोः॒पति॒र्भव॒ञ्छव॑साशूरधृष्णो॒(स्वाहा᳚) || 7 ||

अ॒पोयदद्रिं᳚पुरुहूत॒दर्द॑रा॒विर्भु॑वत्‌स॒रमा᳚पू॒र्व्यंते᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

सनो᳚ने॒तावाज॒माद॑र्षि॒भूरिं᳚गो॒त्रारु॒जन्नङ्गि॑रोभिर्गृणा॒नः(स्वाहा᳚) || 8 ||

अच्छा᳚क॒विंनृ॑मणोगा,अ॒भिष्टौ॒स्व॑र्षातामघव॒न्नाध॑मानम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ऊ॒तिभि॒स्तमि॑षणोद्यु॒म्नहू᳚तौ॒निमा॒यावा॒नब्र᳚ह्मा॒दस्यु॑रर्त॒(स्वाहा᳚) || 9 ||

आद॑स्यु॒घ्नामन॑साया॒ह्यस्तं॒भुव॑त्ते॒कुत्सः॑स॒ख्येनिका᳚मः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स्वेयोनौ॒निष॑दतं॒सरू᳚पा॒विवां᳚चिकित्सदृत॒चिद्ध॒नारी॒(स्वाहा᳚) || 10 ||

यासि॒कुत्से᳚नस॒रथ॑मव॒स्युस्तो॒दोवात॑स्य॒हर्यो॒रीशा᳚नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ऋ॒ज्रावाजं॒नगध्यं॒युयू᳚षन्क॒विर्यदह॒न्‌पार्या᳚य॒भूषा॒‌त्(स्वाहा᳚) || 11 || वर्ग:19

कुत्सा᳚य॒शुष्ण॑म॒शुषं॒निब᳚र्हीःप्रपि॒त्वे,अह्नः॒कुय॑वंस॒हस्रा᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स॒द्योदस्यू॒न्‌प्रमृ॑णकु॒त्स्येन॒प्रसूर॑श्च॒क्रंवृ॑हताद॒भीके॒(स्वाहा᳚) || 12 ||

त्वंपिप्रुं॒मृग॑यंशूशु॒वांस॑मृ॒जिश्व॑नेवैदथि॒नाय॑रन्धीः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

प॒ञ्चा॒शत्‌कृ॒ष्णानिव॑पःस॒हस्राऽत्कं॒नपुरो᳚जरि॒माविद॑र्दः॒(स्वाहा᳚) || 13 ||

सूर॑उपा॒केत॒न्व१॑(अं॒)दधा᳚नो॒वियत्ते॒चेत्य॒मृत॑स्य॒वर्पः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

मृ॒गोनह॒स्तीतवि॑षीमुषा॒णःसिं॒होनभी॒मआयु॑धानि॒बिभ्र॒॑‌त्(स्वाहा᳚) || 14 ||

इन्द्रं॒कामा᳚वसू॒यन्तो᳚,अग्म॒न्त्स्व᳚र्मीळ्हे॒नसव॑नेचका॒नाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

श्र॒व॒स्यवः॑शशमा॒नास॑उ॒क्थैरोको॒नर॒ण्वासु॒दृशी᳚वपु॒ष्टिः(स्वाहा᳚) || 15 ||

तमिद्‌व॒इन्द्रं᳚सु॒हवं᳚हुवेम॒यस्ताच॒कार॒नर्या᳚पु॒रूणि॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

योमाव॑तेजरि॒त्रेगध्यं᳚चिन्म॒क्षूवाजं॒भर॑तिस्पा॒र्हरा᳚धाः॒(स्वाहा᳚) || 16 || वर्ग:20

ति॒ग्मायद॒न्तर॒शनिः॒पता᳚ति॒कस्मि᳚ञ्चिच्छूरमुहु॒केजना᳚नाम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

घो॒रायद᳚र्य॒समृ॑ति॒र्भवा॒त्यध॑स्मानस्त॒न्वो᳚बोधिगो॒पाः(स्वाहा᳚) || 17 ||

भुवो᳚ऽवि॒तावा॒मदे᳚वस्यधी॒नांभुवः॒सखा᳚वृ॒कोवाज॑सातौ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

त्वामनु॒प्रम॑ति॒माज॑गन्मोरु॒शंसो᳚जरि॒त्रेवि॒श्वध॑स्याः॒(स्वाहा᳚) || 18 ||

ए॒भिर्नृभि॑रिन्द्रत्वा॒युभि॑ष्ट्वाम॒घव॑द्भिर्मघव॒न्‌विश्व॑आ॒जौ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

द्यावो॒नद्यु॒म्नैर॒भिसन्तो᳚,अ॒र्यः,क्ष॒पोम॑देमश॒रद॑श्चपू॒र्वीः(स्वाहा᳚) || 19 ||

ए॒वेदिन्द्रा᳚यवृष॒भाय॒वृष्णे॒ब्रह्मा᳚कर्म॒भृग॑वो॒नरथ᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

नूचि॒द्‌यथा᳚नःस॒ख्यावि॒योष॒दस᳚न्नउ॒ग्रो᳚ऽवि॒तात॑नू॒पाः(स्वाहा᳚) || 20 ||

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒नइषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः(स्वाहा᳚) || 21 ||

[17] त्वंमहानित्येकविंशत्यृचस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् असिक्न्यामित्येकपदाविराट् |{मंडल:4, सूक्त:17}{अनुवाक:2, सूक्त:7}{अष्टक:3, अध्याय:5}
त्वंम॒हाँ,इ᳚न्द्र॒तुभ्यं᳚ह॒क्षा,अनु॑क्ष॒त्रंमं॒हना᳚मन्यत॒द्यौः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

त्वंवृ॒त्रंशव॑साजघ॒न्वान्त्सृ॒जःसिन्धूँ॒रहि॑नाजग्रसा॒नान्(स्वाहा᳚) || 1 || वर्ग:21

तव॑त्वि॒षोजनि॑मन्‌रेजत॒द्यौरेज॒द्‌भूमि॑र्भि॒यसा॒स्वस्य॑म॒न्योः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ऋ॒घा॒यन्त॑सु॒भ्व१॑(अः॒)पर्व॑तास॒आर्द॒न्‌धन्वा᳚निस॒रय᳚न्त॒आपः॒(स्वाहा᳚) || 2 ||

भि॒नद्‌गि॒रिंशव॑सा॒वज्र॑मि॒ष्णन्ना᳚विष्कृण्वा॒नःस॑हसा॒नओजः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

वधी᳚द्‌वृ॒त्रंवज्रे᳚णमन्दसा॒नःसर॒न्नापो॒जव॑साह॒तवृ॑ष्णीः॒(स्वाहा᳚) || 3 ||

सु॒वीर॑स्तेजनि॒ताम᳚न्यत॒द्यौरिन्द्र॑स्यक॒र्तास्वप॑स्तमोभूत् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

यईं᳚ज॒जान॑स्व॒र्यं᳚सु॒वज्र॒मन॑पच्युतं॒सद॑सो॒नभूम॒(स्वाहा᳚) || 4 ||

यएक॑इच्च्या॒वय॑ति॒प्रभूमा॒राजा᳚कृष्टी॒नांपु॑रुहू॒तइन्द्रः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स॒त्यमे᳚न॒मनु॒विश्वे᳚मदन्तिरा॒तिंदे॒वस्य॑गृण॒तोम॒घोनः॒(स्वाहा᳚) || 5 ||

स॒त्रासोमा᳚,अभवन्नस्य॒विश्वे᳚स॒त्रामदा᳚सोबृह॒तोमदि॑ष्ठाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स॒त्राभ॑वो॒वसु॑पति॒र्वसू᳚नां॒दत्रे॒विश्वा᳚,अधिथा,इन्द्रकृ॒ष्टीः(स्वाहा᳚) || 6 || वर्ग:22

त्वमध॑प्रथ॒मंजाय॑मा॒नोऽमे॒विश्वा᳚,अधिथा,इन्द्रकृ॒ष्टीः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

त्वंप्रति॑प्र॒वत॑आ॒शया᳚न॒महिं॒वज्रे᳚णमघव॒न्‌विवृ॑श्चः॒(स्वाहा᳚) || 7 ||

स॒त्रा॒हणं॒दाधृ॑षिं॒तुम्र॒मिन्द्रं᳚म॒हाम॑पा॒रंवृ॑ष॒भंसु॒वज्र᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

हन्ता॒योवृ॒त्रंसनि॑तो॒तवाजं॒दाता᳚म॒घानि॑म॒घवा᳚सु॒राधाः᳚(स्वाहा᳚) || 8 ||

अ॒यंवृत॑श्चातयतेसमी॒चीर्यआ॒जिषु॑म॒घवा᳚शृ॒ण्वएकः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अ॒यंवाजं᳚भरति॒यंस॒नोत्य॒स्यप्रि॒यासः॑स॒ख्येस्या᳚म॒(स्वाहा᳚) || 9 ||

अ॒यंशृ᳚ण्वे॒,अध॒जय᳚न्नु॒तघ्नन्न॒यमु॒तप्रकृ॑णुतेयु॒धागाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

य॒दास॒त्यंकृ॑णु॒तेम॒न्युमिन्द्रो॒विश्वं᳚दृ॒ळ्हंभ॑यत॒एज॑दस्मा॒‌त्(स्वाहा᳚) || 10 ||

समिन्द्रो॒गा,अ॑जय॒त्‌संहिर᳚ण्या॒सम॑श्वि॒याम॒घवा॒योह॑पू॒र्वीः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ए॒भिर्नृभि॒र्नृत॑मो,अस्यशा॒कैरा॒योवि॑भ॒क्तास᳚म्भ॒रश्च॒वस्वः॒(स्वाहा᳚) || 11 || वर्ग:23

किय॑त्‌स्वि॒दिन्द्रो॒,अध्ये᳚तिमा॒तुःकिय॑त्‌पि॒तुर्ज॑नि॒तुर्योज॒जान॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

यो,अ॑स्य॒शुष्मं᳚मुहु॒कैरिय॑र्ति॒वातो॒नजू॒तःस्त॒नय॑द्भिर॒भ्रैः(स्वाहा᳚) || 12 ||

क्षि॒यन्तं᳚त्व॒मक्षि॑यन्तंकृणो॒तीय॑र्तिरे॒णुंम॒घवा᳚स॒मोह᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

वि॒भ॒ञ्ज॒नुर॒शनि॑माँ,इव॒द्यौरु॒तस्तो॒तारं᳚म॒घवा॒वसौ᳚धा॒‌त्(स्वाहा᳚) || 13 ||

अ॒यंच॒क्रमि॑षण॒त्‌सूर्य॑स्य॒न्येत॑शंरीरमत्‌ससृमा॒णम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

आकृ॒ष्णईं᳚जुहुरा॒णोजि॑घर्तित्व॒चोबु॒ध्नेरज॑सो,अ॒स्ययोनौ॒(स्वाहा᳚) || 14 ||

असि॑क्न्यां॒यज॑मानो॒नहोता॒(स्वाहा᳚) || {गौतमो वामदेवः | इन्द्रः | एकपदा विराट्}15 ||
ग॒व्यन्त॒इन्द्रं᳚स॒ख्याय॒विप्रा᳚,अश्वा॒यन्तो॒वृष॑णंवा॒जय᳚न्तः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ज॒नी॒यन्तो᳚जनि॒दामक्षि॑तोति॒माच्या᳚वयामोऽव॒तेनकोश॒‌म्(स्वाहा᳚) || 16 || वर्ग:24

त्रा॒तानो᳚बोधि॒ददृ॑शानआ॒पिर॑भिख्या॒ताम॑र्डि॒तासो॒म्याना᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

सखा᳚पि॒तापि॒तृत॑मःपितॄ॒णांकर्ते᳚मुलो॒कमु॑श॒तेव॑यो॒धाः(स्वाहा᳚) || 17 ||

स॒खी॒य॒ताम॑वि॒ताबो᳚धि॒सखा᳚गृणा॒नइ᳚न्द्रस्तुव॒तेवयो᳚धाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

व॒यंह्याते᳚चकृ॒मास॒बाध॑आ॒भिःशमी᳚भिर्म॒हय᳚न्तइन्द्र॒(स्वाहा᳚) || 18 ||

स्तु॒तइन्द्रो᳚म॒घवा॒यद्ध॑वृ॒त्राभूरी॒ण्येको᳚,अप्र॒तीनि॑हन्ति |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अ॒स्यप्रि॒योज॑रि॒तायस्य॒शर्म॒न्नकि॑र्दे॒वावा॒रय᳚न्ते॒नमर्ताः᳚(स्वाहा᳚) || 19 ||

ए॒वान॒इन्द्रो᳚म॒घवा᳚विर॒प्शीकर॑त्‌स॒त्याच॑र्षणी॒धृद॑न॒र्वा |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

त्वंराजा᳚ज॒नुषां᳚धेह्य॒स्मे,अधि॒श्रवो॒माहि॑नं॒यज्ज॑रि॒त्रे(स्वाहा᳚) || 20 ||

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒नइषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः(स्वाहा᳚) || 21 ||

[18] अयंपंथाइति त्रयोदशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः आद्यायाइंद्रऋषिः नहीन्वस्येत्यादिसार्धतिसृणमदितिरृषिका आद्यायावामदेवोदेवता नाहमतइत्यादिपंचार्धर्चानामंत्यानांषण्णामृचांचेंद्रोदेवता नहीन्वस्येतिसार्धतिसृणांवामदेवोदेवतात्रिष्टुप् |{मंडल:4, सूक्त:18}{अनुवाक:2, सूक्त:8}{अष्टक:3, अध्याय:5}
अ॒यंपन्था॒,अनु॑वित्तःपुरा॒णोयतो᳚दे॒वा,उ॒दजा᳚यन्त॒विश्वे᳚ |{इन्द्रः | वामदेवः | त्रिष्टुप्}

अत॑श्चि॒दाज॑निषीष्ट॒प्रवृ॑द्धो॒मामा॒तर॑ममु॒यापत्त॑वेकः॒(स्वाहा᳚) || 1 || वर्ग:25

नाहमतो॒निर॑यादु॒र्गहै॒तत्ति॑र॒श्चता᳚पा॒र्श्वान्निर्ग॑माणि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ब॒हूनि॑मे॒,अकृ॑ता॒कर्त्वा᳚नि॒युध्यै᳚त्वेन॒संत्वे᳚नपृच्छै॒(स्वाहा᳚) || 2 ||

प॒रा॒य॒तींमा॒तर॒मन्व॑चष्ट॒ननानु॑गा॒न्यनु॒नूग॑मानि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

त्वष्टु॑र्गृ॒हे,अ॑पिब॒त्‌सोम॒मिन्द्रः॑शतध॒न्यं᳚च॒म्वोः᳚सु॒तस्य॒(स्वाहा᳚) || 3 ||

किंसऋध॑क्‌कृणव॒द्यंस॒हस्रं᳚मा॒सोज॒भार॑श॒रद॑श्चपू॒र्वीः |{१/२: गौतमो वामदेवः २/२:अदितिरृषिका | १/२:इन्द्रः २/२:वामदेवः | त्रिष्टुप्}

न॒हीन्व॑स्यप्रति॒मान॒मस्त्य॒न्तर्जा॒तेषू॒तयेजनि॑त्वाः॒(स्वाहा᳚) || 4 ||

अ॒व॒द्यमि॑व॒मन्य॑माना॒गुहा᳚क॒रिन्द्रं᳚मा॒तावी॒र्ये᳚णा॒न्यृ॑ष्टम् |{अदितिरृषिका | वामदेवः | त्रिष्टुप्}

अथोद॑स्थात्‌स्व॒यमत्कं॒वसा᳚न॒आरोद॑सी,अपृणा॒ज्जाय॑मानः॒(स्वाहा᳚) || 5 ||

ए॒ता,अ॑र्षन्त्यलला॒भव᳚न्तीरृ॒ताव॑रीरिवसं॒क्रोश॑मानाः |{अदितिरृषिका | वामदेवः | त्रिष्टुप्}

ए॒ताविपृ॑च्छ॒किमि॒दंभ॑नन्ति॒कमापो॒,अद्रिं᳚परि॒धिंरु॑जन्ति॒(स्वाहा᳚) || 6 || वर्ग:26

किमु॑ष्विदस्मैनि॒विदो᳚भन॒न्तेन्द्र॑स्याव॒द्यंदि॑धिषन्त॒आपः॑ |{अदितिरृषिका | वामदेवः | त्रिष्टुप्}

ममै॒तान्‌पु॒त्रोम॑ह॒ताव॒धेन॑वृ॒त्रंज॑घ॒न्वाँ,अ॑सृज॒द्विसिन्धू॒न्त्(स्वाहा᳚) || 7 ||

मम॑च्च॒नत्वा᳚युव॒तिःप॒रास॒मम॑च्च॒नत्वा᳚कु॒षवा᳚ज॒गार॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

मम॑च्चि॒दापः॒शिश॑वेममृड्यु॒र्मम॑च्चि॒दिन्द्रः॒सह॒सोद॑तिष्ठ॒‌त्(स्वाहा᳚) || 8 ||

मम॑च्च॒नते᳚मघव॒न्‌व्यं᳚सोनिविवि॒ध्वाँ,अप॒हनू᳚ज॒घान॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अधा॒निवि॑द्ध॒उत्त॑रोबभू॒वाञ्छिरो᳚दा॒सस्य॒संपि॑णग्व॒धेन॒(स्वाहा᳚) || 9 ||

गृ॒ष्टिःस॑सूव॒स्थवि॑रंतवा॒गाम॑नाधृ॒ष्यंवृ॑ष॒भंतुम्र॒मिन्द्र᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अरी᳚ळ्हंव॒त्संच॒रथा᳚यमा॒तास्व॒यंगा॒तुंत॒न्व॑इ॒च्छमा᳚न॒‌म्(स्वाहा᳚) || 10 ||

उ॒तमा॒ताम॑हि॒षमन्व॑वेनद॒मीत्वा᳚जहतिपुत्रदे॒वाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अथा᳚ब्रवीद्‌वृ॒त्रमिन्द्रो᳚हनि॒ष्यन्त्सखे᳚विष्णोवित॒रंविक्र॑मस्व॒(स्वाहा᳚) || 11 ||

कस्ते᳚मा॒तरं᳚वि॒धवा᳚मचक्रच्छ॒युंकस्त्वाम॑जिघांस॒च्चर᳚न्तम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

कस्ते᳚दे॒वो,अधि॑मार्डी॒कआ᳚सी॒द्‌यत्‌प्राक्षि॑णाःपि॒तरं᳚पाद॒गृह्य॒(स्वाहा᳚) || 12 ||

अव॑र्त्या॒शुन॑आ॒न्त्राणि॑पेचे॒नदे॒वेषु॑विविदेमर्डि॒तार᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अप॑श्यंजा॒यामम॑हीयमाना॒मधा᳚मेश्ये॒नोमध्वाज॑भार॒(स्वाहा᳚) || 13 ||

[19] एवात्वामित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |{मंडल:4, सूक्त:19}{अनुवाक:2, सूक्त:9}{अष्टक:3, अध्याय:6}
ए॒वात्वामि᳚न्द्रवज्रि॒न्नत्र॒विश्वे᳚दे॒वासः॑सु॒हवा᳚स॒ऊमाः᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

म॒हामु॒भेरोद॑सीवृ॒द्धमृ॒ष्वंनिरेक॒मिद्‌वृ॑णतेवृत्र॒हत्ये॒(स्वाहा᳚) || 1 || वर्ग:1

अवा᳚सृजन्त॒जिव्र॑यो॒नदे॒वाभुवः॑स॒म्राळि᳚न्द्रस॒त्ययो᳚निः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अह॒न्नहिं᳚परि॒शया᳚न॒मर्णः॒प्रव॑र्त॒नीर॑रदोवि॒श्वधे᳚नाः॒(स्वाहा᳚) || 2 ||

अतृ॑प्णुवन्तं॒विय॑तमबु॒ध्यमबु॑ध्यमानंसुषुपा॒णमि᳚न्द्र |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स॒प्तप्रति॑प्र॒वत॑आ॒शया᳚न॒महिं॒वज्रे᳚ण॒विरि॑णा,अप॒र्वन्(स्वाहा᳚) || 3 ||

अक्षो᳚दय॒च्छव॑सा॒क्षाम॑बु॒ध्नंवार्णवात॒स्तवि॑षीभि॒रिन्द्रः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

दृ॒ळ्हान्यौ᳚भ्नादु॒शमा᳚न॒ओजोऽवा᳚भिनत्‌क॒कुभः॒पर्व॑ताना॒‌म्(स्वाहा᳚) || 4 ||

अ॒भिप्रद॑द्रु॒र्जन॑यो॒नगर्भं॒रथा᳚,इव॒प्रय॑युःसा॒कमद्र॑यः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अत॑र्पयोवि॒सृत॑उ॒ब्जऊ॒र्मीन्त्वंवृ॒ताँ,अ॑रिणा,इन्द्र॒सिन्धू॒न्त्(स्वाहा᳚) || 5 ||

त्वंम॒हीम॒वनिं᳚वि॒श्वधे᳚नांतु॒र्वीत॑येव॒य्या᳚य॒क्षर᳚न्तीम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अर॑मयो॒नम॒सैज॒दर्णः॑सुतर॒णाँ,अ॑कृणोरिन्द्र॒सिन्धू॒न्त्(स्वाहा᳚) || 6 || वर्ग:2

प्राग्रुवो᳚नभ॒न्वो॒३॑(ओ॒)नवक्वा᳚ध्व॒स्रा,अ॑पिन्वद्‌युव॒तीरृ॑त॒ज्ञाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

धन्वा॒न्यज्राँ᳚,अपृणक्‌तृषा॒णाँ,अधो॒गिन्द्रः॑स्त॒र्यो॒३॑(ओ॒)दंसु॑पत्नीः॒(स्वाहा᳚) || 7 ||

पू॒र्वीरु॒षसः॑श॒रद॑श्चगू॒र्तावृ॒त्रंज॑घ॒न्वाँ,अ॑सृज॒द्विसिन्धू॑न् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

परि॑ष्ठिता,अतृणद्‌बद्बधा॒नाःसी॒रा,इन्द्रः॒स्रवि॑तवेपृथि॒व्या(स्वाहा᳚) || 8 ||

व॒म्रीभिः॑पु॒त्रम॒ग्रुवो᳚,अदा॒नंनि॒वेश॑नाद्धरिव॒आज॑भर्थ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

व्य१॑(अ॒)न्धो,अ॑ख्य॒दहि॑माददा॒नोनिर्भू᳚दुख॒च्छित्‌सम॑रन्त॒पर्व॒(स्वाहा᳚) || 9 ||

प्रते॒पूर्वा᳚णि॒कर॑णानिविप्राऽऽवि॒द्वाँ,आ᳚हवि॒दुषे॒करां᳚सि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

यथा᳚यथा॒वृष्ण्या᳚नि॒स्वगू॒र्ताऽपां᳚सिराज॒न्‌नर्यावि॑वेषीः॒(स्वाहा᳚) || 10 ||

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒नइषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः(स्वाहा᳚) || 11 ||

[20] आनइंद्रइत्येकादशर्चस्य सूक्तस्यगौतमोवामदेव इंद्रस्त्रिष्टुप् |{मंडल:4, सूक्त:20}{अनुवाक:2, सूक्त:10}{अष्टक:3, अध्याय:6}
आन॒इन्द्रो᳚दू॒रादान॑आ॒साद॑भिष्टि॒कृदव॑सेयासदु॒ग्रः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ओजि॑ष्ठेभिर्नृ॒पति॒र्वज्र॑बाहुःसं॒गेस॒मत्सु॑तु॒र्वणिः॑पृत॒न्यून्(स्वाहा᳚) || 1 || वर्ग:3

आन॒इन्द्रो॒हरि॑भिर्या॒त्वच्छा᳚ऽर्वाची॒नोऽव॑से॒राध॑सेच |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

तिष्ठा᳚तिव॒ज्रीम॒घवा᳚विर॒प्शीमंय॒ज्ञमनु॑नो॒वाज॑सातौ॒(स्वाहा᳚) || 2 ||

इ॒मंय॒ज्ञंत्वम॒स्माक॑मिन्द्रपु॒रोदध॑त्‌सनिष्यसि॒क्रतुं᳚नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

श्व॒घ्नीव॑वज्रिन्‌त्स॒नये॒धना᳚नां॒त्वया᳚व॒यम॒र्यआ॒जिंज॑येम॒(स्वाहा᳚) || 3 ||

उ॒शन्नु॒षुणः॑सु॒मना᳚,उपा॒केसोम॑स्य॒नुसुषु॑तस्यस्वधावः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

पा,इ᳚न्द्र॒प्रति॑भृतस्य॒मध्वः॒समन्ध॑साममदःपृ॒ष्ठ्ये᳚न॒(स्वाहा᳚) || 4 ||

वियोर॑र॒प्शऋषि॑भि॒र्नवे᳚भिर्वृ॒क्षोनप॒क्वःसृण्यो॒नजेता᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

मर्यो॒नयोषा᳚म॒भिमन्य॑मा॒नोऽच्छा᳚विवक्मिपुरुहू॒तमिन्द्र॒‌म्(स्वाहा᳚) || 5 ||

गि॒रिर्नयःस्वत॑वाँ,ऋ॒ष्वइन्द्रः॑स॒नादे॒वसह॑सेजा॒तउ॒ग्रः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

आद॑र्ता॒वज्रं॒स्थवि॑रं॒नभी॒मउ॒द्नेव॒कोशं॒वसु॑ना॒न्यृ॑ष्ट॒‌म्(स्वाहा᳚) || 6 || वर्ग:4

नयस्य॑व॒र्ताज॒नुषा॒न्वस्ति॒नराध॑सआमरी॒ताम॒घस्य॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

उ॒द्वा॒वृ॒षा॒णस्त॑विषीवउग्रा॒ऽस्मभ्यं᳚दद्धिपुरुहूतरा॒यः(स्वाहा᳚) || 7 ||

ईक्षे᳚रा॒यः,क्षय॑स्यचर्षणी॒नामु॒तव्र॒जम॑पव॒र्तासि॒गोना᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

शि॒क्षा॒न॒रःस॑मि॒थेषु॑प्र॒हावा॒न्वस्वो᳚रा॒शिम॑भिने॒तासि॒भूरि॒‌म्(स्वाहा᳚) || 8 ||

कया॒तच्छृ᳚ण्वे॒शच्या॒शचि॑ष्ठो॒यया᳚कृ॒णोति॒मुहु॒काचि॑दृ॒ष्वः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

पु॒रुदा॒शुषे॒विच॑यिष्ठो॒,अंहोऽथा᳚दधाति॒द्रवि॑णंजरि॒त्रे(स्वाहा᳚) || 9 ||

मानो᳚मर्धी॒राभ॑राद॒द्धितन्नः॒प्रदा॒शुषे॒दात॑वे॒भूरि॒यत्ते᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

नव्ये᳚दे॒ष्णेश॒स्ते,अ॒स्मिन्त॑उ॒क्थेप्रब्र॑वामव॒यमि᳚न्द्रस्तु॒वन्तः॒(स्वाहा᳚) || 10 ||

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒नइषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः(स्वाहा᳚) || 11 ||

[21] आयात्विंद्र इत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |{मंडल:4, सूक्त:21}{अनुवाक:2, सूक्त:11}{अष्टक:3, अध्याय:6}
आया॒त्विन्द्रोऽव॑स॒उप॑नइ॒हस्तु॒तःस॑ध॒माद॑स्तु॒शूरः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑पू॒र्वीर्द्यौर्नक्ष॒त्रम॒भिभू᳚ति॒पुष्या॒‌त्(स्वाहा᳚) || 1 || वर्ग:5

तस्येदि॒हस्त॑वथ॒वृष्ण्या᳚नितुविद्यु॒म्नस्य॑तुवि॒राध॑सो॒नॄन् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

यस्य॒क्रतु᳚र्विद॒थ्यो॒३॑(ओ॒)नस॒म्राट्सा॒ह्वान्‌तरु॑त्रो,अ॒भ्यस्ति॑कृ॒ष्टीः(स्वाहा᳚) || 2 ||

आया॒त्विन्द्रो᳚दि॒वआपृ॑थि॒व्याम॒क्षूस॑मु॒द्रादु॒तवा॒पुरी᳚षात् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स्व᳚र्णरा॒दव॑सेनोम॒रुत्वा᳚न्परा॒वतो᳚वा॒सद॑नादृ॒तस्य॒(स्वाहा᳚) || 3 ||

स्थू॒रस्य॑रा॒योबृ॑ह॒तोयईशे॒तमु॑ष्टवामवि॒दथे॒ष्विन्द्र᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

योवा॒युना॒जय॑ति॒गोम॑तीषु॒प्रधृ॑ष्णु॒यानय॑ति॒वस्यो॒,अच्छ॒(स्वाहा᳚) || 4 ||

उप॒योनमो॒नम॑सिस्तभा॒यन्निय॑र्ति॒वाचं᳚ज॒नय॒न्‌यज॑ध्यै |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ऋ॒ञ्ज॒सा॒नःपु॑रु॒वार॑उ॒क्थैरेन्द्रं᳚कृण्वीत॒सद॑नेषु॒होता॒(स्वाहा᳚) || 5 ||

धि॒षायदि॑धिष॒ण्यन्तः॑सर॒ण्यान्त्सद᳚न्तो॒,अद्रि॑मौशि॒जस्य॒गोहे᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

आदु॒रोषाः᳚पा॒स्त्यस्य॒होता॒योनो᳚म॒हान्‌त्सं॒वर॑णेषु॒वह्निः॒(स्वाहा᳚) || 6 || वर्ग:6

स॒त्रायदीं᳚भार्व॒रस्य॒वृष्णः॒सिष॑क्ति॒शुष्मः॑स्तुव॒तेभरा᳚य |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

गुहा॒यदी᳚मौशि॒जस्य॒गोहे॒प्रयद्धि॒येप्राय॑से॒मदा᳚य॒(स्वाहा᳚) || 7 ||

वियद्वरां᳚सि॒पर्व॑तस्यवृ॒ण्वेपयो᳚भिर्जि॒न्वे,अ॒पांजवां᳚सि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

वि॒दद्‌गौ॒रस्य॑गव॒यस्य॒गोहे॒यदी॒वाजा᳚यसु॒ध्यो॒३॑(ओ॒)वह᳚न्ति॒(स्वाहा᳚) || 8 ||

भ॒द्राते॒हस्ता॒सुकृ॑तो॒तपा॒णीप्र॑य॒न्तारा᳚स्तुव॒तेराध॑इन्द्र |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

काते॒निष॑त्तिः॒किमु॒नोम॑मत्सि॒किंनोदु॑दुहर्षसे॒दात॒वा,उ॒(स्वाहा᳚) || 9 ||

ए॒वावस्व॒इन्द्रः॑स॒त्यःस॒म्राड्ढन्ता᳚वृ॒त्रंवरि॑वःपू॒रवे᳚कः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

पुरु॑ष्टुत॒क्रत्वा᳚नःशग्धिरा॒योभ॑क्षी॒यतेऽव॑सो॒दैव्य॑स्य॒(स्वाहा᳚) || 10 ||

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒नइषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः(स्वाहा᳚) || 11 ||

[22] यन्नइंद्र इत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |{मंडल:4, सूक्त:22}{अनुवाक:3, सूक्त:1}{अष्टक:3, अध्याय:6}
यन्न॒इन्द्रो᳚जुजु॒षेयच्च॒वष्टि॒तन्नो᳚म॒हान्‌क॑रतिशु॒ष्म्याचि॑त् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ब्रह्म॒स्तोमं᳚म॒घवा॒सोम॑मु॒क्थायो,अश्मा᳚नं॒शव॑सा॒बिभ्र॒देति॒(स्वाहा᳚) || 1 || वर्ग:7

वृषा॒वृष᳚न्धिं॒चतु॑रश्रि॒मस्य᳚न्नु॒ग्रोबा॒हुभ्यां॒नृत॑मः॒शची᳚वान् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

श्रि॒येपरु॑ष्णीमु॒षमा᳚ण॒ऊर्णां॒यस्याः॒पर्वा᳚णिस॒ख्याय॑वि॒व्ये(स्वाहा᳚) || 2 ||

योदे॒वोदे॒वत॑मो॒जाय॑मानोम॒होवाजे᳚भिर्म॒हद्भि॑श्च॒शुष्मैः᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

दधा᳚नो॒वज्रं᳚बा॒ह्वोरु॒शन्तं॒द्याममे᳚नरेजय॒त्‌प्रभूम॒(स्वाहा᳚) || 3 ||

विश्वा॒रोधां᳚सिप्र॒वत॑श्चपू॒र्वीर्द्यौरृ॒ष्वाज्जनि॑मन्‌रेजत॒क्षाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

आमा॒तरा॒भर॑तिशु॒ष्म्यागोर्नृ॒वत्‌परि॑ज्मन्‌नोनुवन्त॒वाताः᳚(स्वाहा᳚) || 4 ||

तातूत॑इन्द्रमह॒तोम॒हानि॒विश्वे॒ष्वित्‌सव॑नेषुप्र॒वाच्या᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

यच्छू᳚रधृष्णोधृष॒ताद॑धृ॒ष्वानहिं॒वज्रे᳚ण॒शव॒सावि॑वेषीः॒(स्वाहा᳚) || 5 ||

तातूते᳚स॒त्यातु॑विनृम्ण॒विश्वा॒प्रधे॒नवः॑सिस्रते॒वृष्ण॒ऊध्नः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अधा᳚ह॒त्वद्‌वृ॑षमणोभिया॒नाःप्रसिन्ध॑वो॒जव॑साचक्रमन्त॒(स्वाहा᳚) || 6 || वर्ग:8

अत्राह॑तेहरिव॒स्ता,उ॑दे॒वीरवो᳚भिरिन्द्रस्तवन्त॒स्वसा᳚रः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

यत्सी॒मनु॒प्रमु॒चोब॑द्बधा॒नादी॒र्घामनु॒प्रसि॑तिंस्यन्द॒यध्यै॒(स्वाहा᳚) || 7 ||

पि॒पी॒ळे,अं॒शुर्मद्यो॒नसिन्धु॒रात्वा॒शमी᳚शशमा॒नस्य॑श॒क्तिः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अ॒स्म॒द्र्य॑क्‌छुशुचा॒नस्य॑यम्या,आ॒शुर्नर॒श्मिंतु॒व्योज॑सं॒गोः(स्वाहा᳚) || 8 ||

अ॒स्मेवर्षि॑ष्ठाकृणुहि॒ज्येष्ठा᳚नृ॒म्णानि॑स॒त्रास॑हुरे॒सहां᳚सि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अ॒स्मभ्यं᳚वृ॒त्रासु॒हना᳚निरन्धिज॒हिवध᳚र्व॒नुषो॒मर्त्य॑स्य॒(स्वाहा᳚) || 9 ||

अ॒स्माक॒मित्‌सुशृ॑णुहि॒त्वमि᳚न्द्रा॒ऽस्मभ्यं᳚चि॒त्राँ,उप॑माहि॒वाजा॑न् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अ॒स्मभ्यं॒विश्वा᳚,इषणः॒पुरं᳚धीर॒स्माकं॒सुम॑घवन्‌बोधिगो॒दाः(स्वाहा᳚) || 10 ||

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒नइषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः(स्वाहा᳚) || 11 ||

[23] कथामहामित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् ( अंत्यानांतिसृणांऋतंदेवतावा ) |{मंडल:4, सूक्त:23}{अनुवाक:3, सूक्त:2}{अष्टक:3, अध्याय:6}
क॒थाम॒हाम॑वृध॒त्‌कस्य॒होतु᳚र्य॒ज्ञंजु॑षा॒णो,अ॒भिसोम॒मूधः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

पिब᳚न्नुशा॒नोजु॒षमा᳚णो॒,अन्धो᳚वव॒क्षऋ॒ष्वःशु॑च॒तेधना᳚य॒(स्वाहा᳚) || 1 || वर्ग:9

को,अ॑स्यवी॒रःस॑ध॒माद॑माप॒समा᳚नंशसुम॒तिभिः॒को,अ॑स्य |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

कद॑स्यचि॒त्रंचि॑किते॒कदू॒तीवृ॒धेभु॑वच्छशमा॒नस्य॒यज्योः᳚(स्वाहा᳚) || 2 ||

क॒थाशृ॑णोतिहू॒यमा᳚न॒मिन्द्रः॑क॒थाशृ॒ण्वन्नव॑सामस्यवेद |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

का,अ॑स्यपू॒र्वीरुप॑मातयोहक॒थैन॑माहुः॒पपु॑रिंजरि॒त्रे(स्वाहा᳚) || 3 ||

क॒थास॒बाधः॑शशमा॒नो,अ॑स्य॒नश॑द॒भिद्रवि॑णं॒दीध्या᳚नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

दे॒वोभु॑व॒न्नवे᳚दामऋ॒तानां॒नमो᳚जगृ॒भ्वाँ,अ॒भियज्जुजो᳚ष॒‌त्(स्वाहा᳚) || 4 ||

क॒थाकद॒स्या,उ॒षसो॒व्यु॑ष्टौदे॒वोमर्त॑स्यस॒ख्यंजु॑जोष |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

क॒थाकद॑स्यस॒ख्यंसखि॑भ्यो॒ये,अ॑स्मि॒न्‌कामं᳚सु॒युजं᳚तत॒स्रे(स्वाहा᳚) || 5 ||

किमादम॑त्रंस॒ख्यंसखि॑भ्यःक॒दानुते᳚भ्रा॒त्रंप्रब्र॑वाम |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

श्रि॒येसु॒दृशो॒वपु॑रस्य॒सर्गाः॒स्व१॑(अ॒)र्णचि॒त्रत॑ममिष॒आगोः(स्वाहा᳚) || 6 || वर्ग:10

द्रुहं॒जिघां᳚सन्‌ध्व॒रस॑मनि॒न्द्रांतेति॑क्तेति॒ग्मातु॒जसे॒,अनी᳚का |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ऋ॒णाचि॒द्यत्र॑ऋण॒यान॑उ॒ग्रोदू॒रे,अज्ञा᳚ता,उ॒षसो᳚बबा॒धे(स्वाहा᳚) || 7 ||

ऋ॒तस्य॒हिशु॒रुधः॒सन्ति॑पू॒र्वीरृ॒तस्य॑धी॒तिर्वृ॑जि॒नानि॑हन्ति |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ऋ॒तस्य॒श्लोको᳚बधि॒रात॑तर्द॒कर्णा᳚बुधा॒नःशु॒चमा᳚नआ॒योः(स्वाहा᳚) || 8 ||

ऋ॒तस्य॑दृ॒ळ्हाध॒रुणा᳚निसन्तिपु॒रूणि॑च॒न्द्रावपु॑षे॒वपूं᳚षि |{गौतमो वामदेवः | इन्द्रऱ्‌ऱितदेवता वा | त्रिष्टुप्}

ऋ॒तेन॑दी॒र्घमि॑षणन्त॒पृक्ष॑ऋ॒तेन॒गाव॑ऋ॒तमावि॑वेशुः॒(स्वाहा᳚) || 9 ||

ऋ॒तंये᳚मा॒नऋ॒तमिद्‌व॑नोत्यृ॒तस्य॒शुष्म॑स्तुर॒या,उ॑ग॒व्युः |{गौतमो वामदेवः | इन्द्रऱ्‌ऱितदेवता वा | त्रिष्टुप्}

ऋ॒ताय॑पृ॒थ्वीब॑हु॒लेग॑भी॒रे,ऋ॒ताय॑धे॒नूप॑र॒मेदु॑हाते॒(स्वाहा᳚) || 10 ||

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒नइषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |{गौतमो वामदेवः | इन्द्रऱ्‌ऱितदेवता वा | त्रिष्टुप्}

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः(स्वाहा᳚) || 11 ||

[24] कासुष्टुतिरित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |{मंडल:4, सूक्त:24}{अनुवाक:3, सूक्त:3}{अष्टक:3, अध्याय:6}
कासु॑ष्टु॒तिःशव॑सःसू॒नुमिन्द्र॑मर्वाची॒नंराध॑स॒आव॑वर्तत् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

द॒दिर्हिवी॒रोगृ॑ण॒तेवसू᳚नि॒सगोप॑तिर्नि॒ष्षिधां᳚नोजनासः॒(स्वाहा᳚) || 1 || वर्ग:11

सवृ॑त्र॒हत्ये॒हव्यः॒सईड्यः॒ससुष्टु॑त॒इन्द्रः॑स॒त्यरा᳚धाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

सयाम॒न्नाम॒घवा॒मर्त्या᳚यब्रह्मण्य॒तेसुष्व॑ये॒वरि॑वोधा॒‌त्(स्वाहा᳚) || 2 ||

तमिन्नरो॒विह्व॑यन्तेसमी॒केरि॑रि॒क्वांस॑स्त॒न्वः॑कृण्वत॒त्राम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

मि॒थोयत्‌त्या॒गमु॒भया᳚सो॒,अग्म॒न्नर॑स्तो॒कस्य॒तन॑यस्यसा॒तौ(स्वाहा᳚) || 3 ||

क्र॒तू॒यन्ति॑क्षि॒तयो॒योग॑उग्राऽऽशुषा॒णासो᳚मि॒थो,अर्ण॑सातौ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

संयद्विशोऽव॑वृत्रन्तयु॒ध्मा,आदिन्नेम॑इन्द्रयन्ते,अ॒भीके॒(स्वाहा᳚) || 4 ||

आदिद्ध॒नेम॑इन्द्रि॒यंय॑जन्त॒आदित्‌प॒क्तिःपु॑रो॒ळाशं᳚रिरिच्यात् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

आदित्सोमो॒विप॑पृच्या॒दसु॑ष्वी॒नादिज्जु॑जोषवृष॒भंयज॑ध्यै॒(स्वाहा᳚) || 5 ||

कृ॒णोत्य॑स्मै॒वरि॑वो॒यइ॒त्थेन्द्रा᳚य॒सोम॑मुश॒तेसु॒नोति॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स॒ध्री॒चीने᳚न॒मन॒सावि॑वेन॒न्तमित्सखा᳚यंकृणुतेस॒मत्सु॒(स्वाहा᳚) || 6 || वर्ग:12

यइन्द्रा᳚यसु॒नव॒त्‌सोम॑म॒द्यपचा᳚त्‌प॒क्तीरु॒तभृ॒ज्जाति॑धा॒नाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

प्रति॑मना॒योरु॒चथा᳚नि॒हर्य॒न्तस्मि᳚न्‌दध॒द्‌वृष॑णं॒शुष्म॒मिन्द्रः॒(स्वाहा᳚) || 7 ||

य॒दास॑म॒र्यंव्यचे॒दृघा᳚वादी॒र्घंयदा॒जिम॒भ्यख्य॑द॒र्यः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अचि॑क्रद॒द्‌वृष॑णं॒पत्न्यच्छा᳚दुरो॒णआनिशि॑तंसोम॒सुद्भिः॒(स्वाहा᳚) || 8 ||

भूय॑साव॒स्नम॑चर॒त्‌कनी॒योऽवि॑क्रीतो,अकानिषं॒पुन॒र्यन् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

सभूय॑सा॒कनी᳚यो॒नारि॑रेचीद्दी॒नादक्षा॒विदु॑हन्ति॒प्रवा॒णम्(स्वाहा᳚) || 9 ||

कइ॒मंद॒शभि॒र्ममेन्द्रं᳚क्रीणातिधे॒नुभिः॑ |{गौतमो वामदेवः | इन्द्रः | अनुष्टुप्}

य॒दावृ॒त्राणि॒जङ्घ॑न॒दथै᳚नंमे॒पुन॑र्दद॒‌त्(स्वाहा᳚) || 10 ||

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒नइषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः(स्वाहा᳚) || 11 ||

[25] कोअद्येत्यष्टर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |{मंडल:4, सूक्त:25}{अनुवाक:3, सूक्त:4}{अष्टक:3, अध्याय:6}
को,अ॒द्यनर्यो᳚दे॒वका᳚मउ॒शन्निन्द्र॑स्यस॒ख्यंजु॑जोष |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

कोवा᳚म॒हेऽव॑से॒पार्या᳚य॒समि॑द्धे,अ॒ग्नौसु॒तसो᳚मईट्टे॒(स्वाहा᳚) || 1 || वर्ग:13

कोना᳚नाम॒वच॑सासो॒म्याय॑मना॒युर्वा᳚भवति॒वस्त॑उ॒स्राः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

कइन्द्र॑स्य॒युज्यं॒कःस॑खि॒त्वंकोभ्रा॒त्रंव॑ष्टिक॒वये॒कऊ॒ती(स्वाहा᳚) || 2 ||

कोदे॒वाना॒मवो᳚,अ॒द्यावृ॑णीते॒कआ᳚दि॒त्याँ,अदि॑तिं॒ज्योति॑रीट्टे |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

कस्या॒श्विना॒विन्द्रो᳚,अ॒ग्निःसु॒तस्यां॒ऽशोःपि॑बन्ति॒मन॒सावि॑वेन॒‌म्(स्वाहा᳚) || 3 ||

तस्मा᳚,अ॒ग्निर्भार॑तः॒शर्म॑यंस॒ज्ज्योक्‌प॑श्या॒त्‌सूर्य॑मु॒च्चर᳚न्तम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

यइन्द्रा᳚यसु॒नवा॒मेत्याह॒नरे॒नर्या᳚य॒नृत॑मायनृ॒णाम्(स्वाहा᳚) || 4 ||

नतंजि॑नन्तिब॒हवो॒नद॒भ्रा,उ॒र्व॑स्मा॒,अदि॑तिः॒शर्म॑यंसत् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

प्रि॒यःसु॒कृत्‌प्रि॒यइन्द्रे᳚मना॒युःप्रि॒यःसु॑प्रा॒वीःप्रि॒यो,अ॑स्यसो॒मी(स्वाहा᳚) || 5 ||

सु॒प्रा॒व्यः॑प्राशु॒षाळे॒षवी॒रःसुष्वेः᳚प॒क्तिंकृ॑णुते॒केव॒लेन्द्रः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

नासु॑ष्वेरा॒पिर्नसखा॒नजा॒मिर्दु॑ष्प्रा॒व्यो᳚ऽवह॒न्तेदवा᳚चः॒(स्वाहा᳚) || 6 || वर्ग:14

नरे॒वता᳚प॒णिना᳚स॒ख्यमिन्द्रोऽसु᳚न्वतासुत॒पाःसंगृ॑णीते |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

आस्य॒वेदः॑खि॒दति॒हन्ति॑न॒ग्नंविसुष्व॑येप॒क्तये॒केव॑लोभू॒‌त्(स्वाहा᳚) || 7 ||

इन्द्रं॒परेऽव॑रेमध्य॒मास॒इन्द्रं॒यान्तोऽव॑सितास॒इन्द्र᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

इन्द्रं᳚क्षि॒यन्त॑उ॒तयुध्य॑माना॒,इन्द्रं॒नरो᳚वाज॒यन्तो᳚हवन्ते॒(स्वाहा᳚) || 8 ||

[26] अहंमनुरिति सप्तर्चस्य सूक्तस्य गौतमोवामदेवःआद्यानांतिसृणामात्मा देवता अंत्यानांचतसृणांश्येनस्त्रिष्टुप् (आद्यतृचेवामदेवेंद्रयोरृषित्वविकल्पमाहुः केचित्) |{मंडल:4, सूक्त:26}{अनुवाक:3, सूक्त:5}{अष्टक:3, अध्याय:6}
अ॒हंमनु॑रभवं॒सूर्य॑श्चा॒ऽहंक॒क्षीवाँ॒,ऋषि॑रस्मि॒विप्रः॑ |{गौतमो वामदेवः, इन्द्रः | इन्द्रः, आत्माः | त्रिष्टुप्}

अ॒हंकुत्स॑मार्जुने॒यंन्यृ᳚ञ्जे॒ऽहंक॒विरु॒शना॒पश्य॑तामा॒(स्वाहा᳚) || 1 || वर्ग:15

अ॒हंभूमि॑मददा॒मार्या᳚या॒ऽहंवृ॒ष्टिंदा॒शुषे॒मर्त्या᳚य |{गौतमो वामदेवः, इन्द्रः | इन्द्रः, आत्माः | त्रिष्टुप्}

अ॒हम॒पो,अ॑नयंवावशा॒नामम॑दे॒वासो॒,अनु॒केत॑माय॒‌न्(स्वाहा᳚) || 2 ||

अ॒हंपुरो᳚मन्दसा॒नोव्यै᳚रं॒नव॑सा॒कंन॑व॒तीःशम्ब॑रस्य |{गौतमो वामदेवः, इन्द्रः | इन्द्रः, आत्माः | त्रिष्टुप्}

श॒त॒त॒मंवे॒श्यं᳚स॒र्वता᳚ता॒दिवो᳚दासमतिथि॒ग्वंयदाव॒‌म्(स्वाहा᳚) || 3 ||

प्रसुषविभ्यो᳚मरुतो॒विर॑स्तु॒प्रश्ये॒नःश्ये॒नेभ्य॑आशु॒पत्वा᳚ |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

अ॒च॒क्रया॒यत्‌स्व॒धया᳚सुप॒र्णोह॒व्यंभर॒न्मन॑वेदे॒वजु॑ष्ट॒‌म्(स्वाहा᳚) || 4 ||

भर॒द्यदि॒विरतो॒वेवि॑जानःप॒थोरुणा॒मनो᳚जवा,असर्जि |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

तूयं᳚ययौ॒मधु॑नासो॒म्येनो॒तश्रवो᳚विविदेश्ये॒नो,अत्र॒(स्वाहा᳚) || 5 ||

ऋ॒जी॒पीश्ये॒नोदद॑मानो,अं॒शुंप॑रा॒वतः॑शकु॒नोम॒न्द्रंमद᳚म् |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

सोमं᳚भरद्‌दादृहा॒णोदे॒वावा᳚न्दि॒वो,अ॒मुष्मा॒दुत्त॑रादा॒दाय॒(स्वाहा᳚) || 6 ||

आ॒दाय॑श्ये॒नो,अ॑भर॒त्‌सोमं᳚स॒हस्रं᳚स॒वाँ,अ॒युतं᳚चसा॒कम् |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

अत्रा॒पुरं᳚धिरजहा॒दरा᳚ती॒र्मदे॒सोम॑स्यमू॒रा,अमू᳚रः॒(स्वाहा᳚) || 7 ||

[27] गर्भेन्विति पंचर्चस्य सूक्तस्य गौतमोवामदेवः श्येनस्त्रिष्टुबन्त्याशक्वरी (परानवाष्टौवेत्यनुक्रमण्या मुक्तेरधश्वेतमित्यस्यां पाक्षिकींद्रदेवता यदिश्येनदेवतायाअष्टर्चत्वंस्वीकृतंचेत्) |{मंडल:4, सूक्त:27}{अनुवाक:3, सूक्त:6}{अष्टक:3, अध्याय:6}
गर्भे॒नुसन्नन्वे᳚षामवेदम॒हंदे॒वानां॒जनि॑मानि॒विश्वा᳚ |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

श॒तंमा॒पुर॒आय॑सीररक्ष॒न्नध॑श्ये॒नोज॒वसा॒निर॑दीय॒‌म्(स्वाहा᳚) || 1 || वर्ग:16

नघा॒समामप॒जोषं᳚जभारा॒ऽभीमा᳚स॒त्वक्ष॑सावी॒र्ये᳚ण |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

ई॒र्मापुरं᳚धिरजहा॒दरा᳚तीरु॒तवाताँ᳚,अतर॒च्छूशु॑वानः॒(स्वाहा᳚) || 2 ||

अव॒यच्छ्ये॒नो,अस्व॑नी॒दध॒द्योर्वियद्यदि॒वात॑ऊ॒हुःपुरं᳚धिम् |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

सृ॒जद्यद॑स्मा॒,अव॑हक्षि॒पज्ज्यांकृ॒शानु॒रस्ता॒मन॑साभुर॒ण्यन्(स्वाहा᳚) || 3 ||

ऋ॒जि॒प्यई॒मिन्द्रा᳚वतो॒नभु॒ज्युंश्ये॒नोज॑भारबृह॒तो,अधि॒ष्णोः |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

अ॒न्तःप॑तत्‌पत॒त्र्य॑स्यप॒र्णमध॒याम॑नि॒प्रसि॑तस्य॒तद्वेः(स्वाहा᳚) || 4 ||

अध॑श्वे॒तंक॒लशं॒गोभि॑र॒क्तमा᳚पिप्या॒नंम॒घवा᳚शु॒क्रमन्धः॑ |{गौतमो वामदेवः | श्येनः, इन्द्रः | शक्वरी}

अ॒ध्व॒र्युभिः॒प्रय॑तं॒मध्वो॒,अग्र॒मिन्द्रो॒मदा᳚य॒प्रति॑ध॒त्‌पिब॑ध्यै॒शूरो॒मदा᳚य॒प्रति॑ध॒त्‌पिब॑ध्यै॒(स्वाहा᳚) || 5 ||

[28] त्वायुजेति पंचर्चस्य सूक्तस्य गौतमोवामदेव इंद्रत्रिष्टुप् (इंद्रासोमौवा देवते) |{मंडल:4, सूक्त:28}{अनुवाक:3, सूक्त:7}{अष्टक:3, अध्याय:6}
त्वायु॒जातव॒तत्‌सो᳚मस॒ख्यइन्द्रो᳚,अ॒पोमन॑वेस॒स्रुत॑स्कः |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्}

अह॒न्नहि॒मरि॑णात्‌स॒प्तसिन्धू॒नपा᳚वृणो॒दपि॑हितेव॒खानि॒(स्वाहा᳚) || 1 || वर्ग:17

त्वायु॒जानिखि॑द॒त्‌सूर्य॒स्येन्द्र॑श्च॒क्रंसह॑सास॒द्यइ᳚न्दो |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्}

अधि॒ष्णुना᳚बृह॒तावर्त॑मानंम॒होद्रु॒हो,अप॑वि॒श्वायु॑धायि॒(स्वाहा᳚) || 2 ||

अह॒न्निन्द्रो॒,अद॑हद॒ग्निरि᳚न्दोपु॒रादस्यू᳚न्‌म॒ध्यंदि॑नाद॒भीके᳚ |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्}

दु॒र्गेदु॑रो॒णेक्रत्वा॒नया॒तांपु॒रूस॒हस्रा॒शर्वा॒निब᳚र्ही॒‌त्(स्वाहा᳚) || 3 ||

विश्व॑स्मात्‌सीमध॒माँ,इ᳚न्द्र॒दस्यू॒न्विशो॒दासी᳚रकृणोरप्रश॒स्ताः |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्}

अबा᳚धेथा॒ममृ॑णतं॒निशत्रू॒नवि᳚न्देथा॒मप॑चितिं॒वध॑त्रैः॒(स्वाहा᳚) || 4 ||

ए॒वास॒त्यंम॑घवानायु॒वंतदिन्द्र॑श्चसोमो॒र्वमश्व्यं॒गोः |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्}

आद॑र्दृत॒मपि॑हिता॒न्यश्ना᳚रिरि॒चथुः॒,क्षाश्चि॑त्‌ततृदा॒ना(स्वाहा᳚) || 5 ||

[29] आनःस्तुतइति पंचर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |{मंडल:4, सूक्त:29}{अनुवाक:3, सूक्त:8}{अष्टक:3, अध्याय:6}
आनः॑स्तु॒तउप॒वाजे᳚भिरू॒ती,इन्द्र॑या॒हिहरि॑भिर्मन्दसा॒नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ति॒रश्चि॑द॒र्यःसव॑नापु॒रूण्या᳚ङ्गू॒षेभि॑र्गृणा॒नःस॒त्यरा᳚धाः॒(स्वाहा᳚) || 1 || वर्ग:18

आहिष्मा॒याति॒नर्य॑श्चिकि॒त्वान्हू॒यमा᳚नःसो॒तृभि॒रुप॑य॒ज्ञम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स्वश्वो॒यो,अभी᳚रु॒र्मन्य॑मानःसुष्वा॒णेभि॒र्मद॑ति॒संह॑वी॒रैः(स्वाहा᳚) || 2 ||

श्रा॒वयेद॑स्य॒कर्णा᳚वाज॒यध्यै॒जुष्टा॒मनु॒प्रदिशं᳚मन्द॒यध्यै᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

उ॒द्वा॒वृ॒षा॒णोराध॑से॒तुवि॑ष्मा॒न्कर᳚न्न॒इन्द्रः॑सुती॒र्थाभ॑यंच॒(स्वाहा᳚) || 3 ||

अच्छा॒योगन्ता॒नाध॑मानमू॒ती,इ॒त्थाविप्रं॒हव॑मानंगृ॒णन्त᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

उप॒त्मनि॒दधा᳚नोधु॒र्या॒३॑(आ॒)शून्त्स॒हस्रा᳚णिश॒तानि॒वज्र॑बाहुः॒(स्वाहा᳚) || 4 ||

त्वोता᳚सोमघवन्निन्द्र॒विप्रा᳚व॒यंते᳚स्यामसू॒रयो᳚गृ॒णन्तः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

भे॒जा॒नासो᳚बृ॒हद्दि॑वस्यरा॒यआ᳚का॒य्य॑स्यदा॒वने᳚पुरु॒क्षोः(स्वाहा᳚) || 5 ||

[30] नकिरिंद्रेति चतुर्विंशत्यृचस्य सूक्तस्य गौतमोवामदेवइन्द्रः नवम्यादितिसृणामिंद्रोषसौगायत्री अष्टम्यंत्ये अनुष्टुभौ |{मंडल:4, सूक्त:30}{अनुवाक:3, सूक्त:9}{अष्टक:3, अध्याय:6}
नकि॑रिन्द्र॒त्वदुत्त॑रो॒नज्यायाँ᳚,अस्तिवृत्रहन् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

नकि॑रे॒वायथा॒त्वम्(स्वाहा᳚) || 1 || वर्ग:19

स॒त्राते॒,अनु॑कृ॒ष्टयो॒विश्वा᳚च॒क्रेव॑वावृतुः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

स॒त्राम॒हाँ,अ॑सिश्रु॒तः(स्वाहा᳚) || 2 ||

विश्वे᳚च॒नेद॒नात्वा᳚दे॒वास॑इन्द्रयुयुधुः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

यदहा॒नक्त॒माति॑रः॒(स्वाहा᳚) || 3 ||

यत्रो॒तबा᳚धि॒तेभ्य॑श्च॒क्रंकुत्सा᳚य॒युध्य॑ते |{गौतमो वामदेवः | इन्द्रः | गायत्री}

मु॒षा॒यइ᳚न्द्र॒सूर्य॒‌म्(स्वाहा᳚) || 4 ||

यत्र॑दे॒वाँ,ऋ॑घाय॒तोविश्वाँ॒,अयु॑ध्य॒एक॒इत् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

त्वमि᳚न्द्रव॒नूँरह॒न्त्(स्वाहा᳚) || 5 ||

यत्रो॒तमर्त्या᳚य॒कमरि॑णा,इन्द्र॒सूर्य᳚म् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

प्रावः॒शची᳚भि॒रेत॑श॒‌म्(स्वाहा᳚) || 6 || वर्ग:20

किमादु॒तासि॑वृत्रह॒न्मघ॑वन्‌मन्यु॒मत्त॑मः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अत्राह॒दानु॒माति॑रः॒(स्वाहा᳚) || 7 ||

ए॒तद्घेदु॒तवी॒र्य१॑(अ॒)मिन्द्र॑च॒कर्थ॒पौंस्य᳚म् |{गौतमो वामदेवः | इन्द्रः | अनुष्टुप्}

स्त्रियं॒यद्‌दु᳚र्हणा॒युवं॒वधी᳚र्दुहि॒तरं᳚दि॒वः(स्वाहा᳚) || 8 ||

दि॒वश्चि॑द्घादुहि॒तरं᳚म॒हान्‌म॑ही॒यमा᳚नाम् |{गौतमो वामदेवः | इंद्रोषसौ | गायत्री}

उ॒षास॑मिन्द्र॒संपि॑णक्॒(स्वाहा᳚) || 9 ||

अपो॒षा,अन॑सःसर॒त्सम्पि॑ष्टा॒दह॑बि॒भ्युषी᳚ |{गौतमो वामदेवः | इंद्रोषसौ | गायत्री}

नियत्सीं᳚शि॒श्नथ॒द्‌वृषा॒(स्वाहा᳚) || 10 ||

ए॒तद॑स्या॒,अनः॑शये॒सुस᳚म्पिष्टं॒विपा॒श्या |{गौतमो वामदेवः | इंद्रोषसौ | गायत्री}

स॒सार॑सींपरा॒वतः॒(स्वाहा᳚) || 11 || वर्ग:21

उ॒तसिन्धुं᳚विबा॒ल्यं᳚वितस्था॒नामधि॒क्षमि॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

परि॑ष्ठा,इन्द्रमा॒यया॒(स्वाहा᳚) || 12 ||

उ॒तशुष्ण॑स्यधृष्णु॒याप्रमृ॑क्षो,अ॒भिवेद॑नम् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

पुरो॒यद॑स्यसम्पि॒णक्(स्वाहा᳚) || 13 ||

उ॒तदा॒संकौ᳚लित॒रंबृ॑ह॒तःपर्व॑ता॒दधि॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अवा᳚हन्निन्द्र॒शम्ब॑र॒‌म्(स्वाहा᳚) || 14 ||

उ॒तदा॒सस्य॑व॒र्चिनः॑स॒हस्रा᳚णिश॒ताव॑धीः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अधि॒पञ्च॑प्र॒धीँरि॑व॒(स्वाहा᳚) || 15 ||

उ॒तत्यंपु॒त्रम॒ग्रुवः॒परा᳚वृक्तंश॒तक्र॑तुः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

उ॒क्थेष्विन्द्र॒आभ॑ज॒‌त्(स्वाहा᳚) || 16 || वर्ग:22

उ॒तत्यातु॒र्वशा॒यदू᳚,अस्ना॒तारा॒शची॒पतिः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

इन्द्रो᳚वि॒द्वाँ,अ॑पारय॒‌त्(स्वाहा᳚) || 17 ||

उ॒तत्यास॒द्यआर्या᳚स॒रयो᳚रिन्द्रपा॒रतः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अर्णा᳚चि॒त्रर॑थावधीः॒(स्वाहा᳚) || 18 ||

अनु॒द्वाज॑हि॒तान॑यो॒ऽन्धंश्रो॒णंच॑वृत्रहन् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

नतत्ते᳚सु॒म्नमष्ट॑वे॒(स्वाहा᳚) || 19 ||

श॒तम॑श्म॒न्‌मयी᳚नांपु॒रामिन्द्रो॒व्या᳚स्यत् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

दिवो᳚दासायदा॒शुषे॒(स्वाहा᳚) || 20 ||

अस्वा᳚पयद्‌द॒भीत॑येस॒हस्रा᳚त्रिं॒शतं॒हथैः᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

दा॒साना॒मिन्द्रो᳚मा॒यया॒(स्वाहा᳚) || 21 || वर्ग:23

सघेदु॒तासि॑वृत्रहन्त्समा॒नइ᳚न्द्र॒गोप॑तिः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

यस्ताविश्वा᳚निचिच्यु॒षे(स्वाहा᳚) || 22 ||

उ॒तनू॒नंयदि᳚न्द्रि॒यंक॑रि॒ष्या,इ᳚न्द्र॒पौंस्य᳚म् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अ॒द्यानकि॒ष्टदामि॑न॒‌त्(स्वाहा᳚) || 23 ||

वा॒मंवा᳚मंतआदुरेदे॒वोद॑दात्वर्य॒मा |{गौतमो वामदेवः | इन्द्रः | अनुष्टुप्}

वा॒मंपू॒षावा॒मंभगो᳚वा॒मंदे॒वःकरू᳚ळती॒(स्वाहा᳚) || 24 ||

[31] कयानइति पंचदशर्चस्य सूक्तस्य गौतमोवामदेवइंद्रोगायत्री तृतीयापादनिचृत् |{मंडल:4, सूक्त:31}{अनुवाक:3, सूक्त:10}{अष्टक:3, अध्याय:6}
कया᳚नश्चि॒त्रआभु॑वदू॒तीस॒दावृ॑धः॒सखा᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

कया॒शचि॑ष्ठयावृ॒ता(स्वाहा᳚) || 1 || वर्ग:24

कस्त्वा᳚स॒त्योमदा᳚नां॒मंहि॑ष्ठोमत्स॒दन्ध॑सः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

दृ॒ळ्हाचि॑दा॒रुजे॒वसु॒(स्वाहा᳚) || 2 ||

अ॒भीषुणः॒सखी᳚नामवि॒ताज॑रितॄ॒णाम् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

श॒तंभ॑वास्यू॒तिभिः॒(स्वाहा᳚) || 3 ||

अ॒भीन॒आव॑वृत्स्वच॒क्रंनवृ॒त्तमर्व॑तः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

नि॒युद्भि॑श्चर्षणी॒नाम्(स्वाहा᳚) || 4 ||

प्र॒वता॒हिक्रतू᳚ना॒माहा᳚प॒देव॒गच्छ॑सि |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अभ॑क्षि॒सूर्ये॒सचा॒(स्वाहा᳚) || 5 ||

संयत्त॑इन्द्रम॒न्यवः॒संच॒क्राणि॑दधन्वि॒रे |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अध॒त्वे,अध॒सूर्ये॒(स्वाहा᳚) || 6 || वर्ग:25

उ॒तस्मा॒हित्वामा॒हुरिन्म॒घवा᳚नंशचीपते |{गौतमो वामदेवः | इन्द्रः | गायत्री}

दाता᳚र॒मवि॑दीधयु॒‌म्(स्वाहा᳚) || 7 ||

उ॒तस्मा᳚स॒द्यइत्‌परि॑शशमा॒नाय॑सुन्व॒ते |{गौतमो वामदेवः | इन्द्रः | गायत्री}

पु॒रूचि᳚न्मंहसे॒वसु॒(स्वाहा᳚) || 8 ||

न॒हिष्मा᳚तेश॒तंच॒नराधो॒वर᳚न्तआ॒मुरः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

नच्यौ॒त्नानि॑करिष्य॒तः(स्वाहा᳚) || 9 ||

अ॒स्माँ,अ॑वन्तुतेश॒तम॒स्मान्‌त्स॒हस्र॑मू॒तयः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अ॒स्मान्‌विश्वा᳚,अ॒भिष्ट॑यः॒(स्वाहा᳚) || 10 ||

अ॒स्माँ,इ॒हावृ॑णीष्वस॒ख्याय॑स्व॒स्तये᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

म॒होरा॒येदि॒वित्म॑ते॒(स्वाहा᳚) || 11 || वर्ग:26

अ॒स्माँ,अ॑विड्ढिवि॒श्वहेन्द्र॑रा॒यापरी᳚णसा |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अ॒स्मान्‌विश्वा᳚भिरू॒तिभिः॒(स्वाहा᳚) || 12 ||

अ॒स्मभ्यं॒ताँ,अपा᳚वृधिव्र॒जाँ,अस्ते᳚व॒गोम॑तः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

नवा᳚भिरिन्द्रो॒तिभिः॒(स्वाहा᳚) || 13 ||

अ॒स्माकं᳚धृष्णु॒यारथो᳚द्यु॒माँ,इ॒न्द्रान॑पच्युतः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

ग॒व्युर॑श्व॒युरी᳚यते॒(स्वाहा᳚) || 14 ||

अ॒स्माक॑मुत्त॒मंकृ॑धि॒श्रवो᳚दे॒वेषु॑सूर्य |{गौतमो वामदेवः | इन्द्रः | गायत्री}

वर्षि॑ष्ठं॒द्यामि॑वो॒परि॒(स्वाहा᳚) || 15 ||

[32] आतूनइति चतुर्विंशत्यृचस्य सूक्तस्य गौतमोवामदेव इंद्रोंत्ययोरिंद्राश्वौगायत्री |{मंडल:4, सूक्त:32}{अनुवाक:3, सूक्त:11}{अष्टक:3, अध्याय:6}
आतून॑इन्द्रवृत्रहन्न॒स्माक॑म॒र्धमाग॑हि |{गौतमो वामदेवः | इन्द्रः | गायत्री}

म॒हान्‌म॒हीभि॑रू॒तिभिः॒(स्वाहा᳚) || 1 || वर्ग:27

भृमि॑श्चिद्‌घासि॒तूतु॑जि॒राचि॑त्रचि॒त्रिणी॒ष्वा |{गौतमो वामदेवः | इन्द्रः | गायत्री}

चि॒त्रंकृ॑णोष्यू॒तये॒(स्वाहा᳚) || 2 ||

द॒भ्रेभि॑श्चि॒च्छशी᳚यांसं॒हंसि॒व्राध᳚न्त॒मोज॑सा |{गौतमो वामदेवः | इन्द्रः | गायत्री}

सखि॑भि॒र्येत्वेसचा॒(स्वाहा᳚) || 3 ||

व॒यमि᳚न्द्र॒त्वेसचा᳚व॒यंत्वा॒भिनो᳚नुमः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अ॒स्माँअ॑स्माँ॒,इदुद॑व॒(स्वाहा᳚) || 4 ||

सन॑श्चि॒त्राभि॑रद्रिवोऽनव॒द्याभि॑रू॒तिभिः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अना᳚धृष्टाभि॒राग॑हि॒(स्वाहा᳚) || 5 ||

भू॒यामो॒षुत्वाव॑तः॒सखा᳚यइन्द्र॒गोम॑तः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

युजो॒वाजा᳚य॒घृष्व॑ये॒(स्वाहा᳚) || 6 || वर्ग:28

त्वंह्येक॒ईशि॑ष॒इन्द्र॒वाज॑स्य॒गोम॑तः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

सनो᳚यन्धिम॒हीमिष॒‌म्(स्वाहा᳚) || 7 ||

नत्वा᳚वरन्ते,अ॒न्यथा॒यद्दित्स॑सिस्तु॒तोम॒घम् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

स्तो॒तृभ्य॑इन्द्रगिर्वणः॒(स्वाहा᳚) || 8 ||

अ॒भित्वा॒गोत॑मागि॒राऽनू᳚षत॒प्रदा॒वने᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

इन्द्र॒वाजा᳚य॒घृष्व॑ये॒(स्वाहा᳚) || 9 ||

प्रते᳚वोचामवी॒र्या॒३॑(आ॒)याम᳚न्दसा॒नआरु॑जः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

पुरो॒दासी᳚र॒भीत्य॒(स्वाहा᳚) || 10 ||

ताते᳚गृणन्तिवे॒धसो॒यानि॑च॒कर्थ॒पौंस्या᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

सु॒तेष्वि᳚न्द्रगिर्वणः॒(स्वाहा᳚) || 11 || वर्ग:29

अवी᳚वृधन्त॒गोत॑मा॒,इन्द्र॒त्वेस्तोम॑वाहसः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

ऐषु॑धावी॒रव॒द्यशः॒(स्वाहा᳚) || 12 ||

यच्चि॒द्धिशश्व॑ता॒मसीन्द्र॒साधा᳚रण॒स्त्वम् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

तंत्वा᳚व॒यंह॑वामहे॒(स्वाहा᳚) || 13 ||

अ॒र्वा॒ची॒नोव॑सोभवा॒ऽस्मेसुम॒त्स्वान्ध॑सः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

सोमा᳚नामिन्द्रसोमपाः॒(स्वाहा᳚) || 14 ||

अ॒स्माकं᳚त्वामती॒नामास्तोम॑इन्द्रयच्छतु |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अ॒र्वागाव॑र्तया॒हरी॒(स्वाहा᳚) || 15 ||

पु॒रो॒ळाशं᳚चनो॒घसो᳚जो॒षया᳚से॒गिर॑श्चनः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

व॒धू॒युरि॑व॒योष॑णा॒‌म्(स्वाहा᳚) || 16 ||

स॒हस्रं॒व्यती᳚नांयु॒क्ताना॒मिन्द्र॑मीमहे |{गौतमो वामदेवः | इन्द्रः | गायत्री}

श॒तंसोम॑स्यखा॒र्य॑१(अः॒)(स्वाहा᳚) || 17 || वर्ग:30

स॒हस्रा᳚तेश॒ताव॒यंगवा॒माच्या᳚वयामसि |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अ॒स्म॒त्राराध॑एतुते॒(स्वाहा᳚) || 18 ||

दश॑तेक॒लशा᳚नां॒हिर᳚ण्यानामधीमहि |{गौतमो वामदेवः | इन्द्रः | गायत्री}

भू॒रि॒दा,अ॑सिवृत्रह॒‌न्(स्वाहा᳚) || 19 ||

भूरि॑दा॒भूरि॑देहिनो॒माद॒भ्रंभूर्याभ॑र |{गौतमो वामदेवः | इन्द्रः | गायत्री}

भूरि॒घेदि᳚न्द्रदित्ससि॒(स्वाहा᳚) || 20 ||

भू॒रि॒दाह्यसि॑श्रु॒तःपु॑रु॒त्राशू᳚रवृत्रहन् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

आनो᳚भजस्व॒राध॑सि॒(स्वाहा᳚) || 21 ||

प्रते᳚ब॒भ्रूवि॑चक्षण॒शंसा᳚मिगोषणोनपात् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

माभ्यां॒गा,अनु॑शिश्रथः॒(स्वाहा᳚) || 22 ||

क॒नी॒न॒केव॑विद्र॒धेनवे᳚द्रुप॒दे,अ॑र्भ॒के |{गौतमो वामदेवः | इन्द्राश्वौ | गायत्री}

ब॒भ्रूयामे᳚षुशोभेते॒(स्वाहा᳚) || 23 ||

अरं᳚मउ॒स्रया॒म्णेऽर॒मनु॑स्रयाम्णे |{गौतमो वामदेवः | इन्द्राश्वौ | गायत्री}

ब॒भ्रूयामे᳚ष्व॒स्रिधा॒(स्वाहा᳚) || 24 ||

[33] प्रऋभुभ्यइत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव ऋभवस्त्रिष्टुप् |{मंडल:4, सूक्त:33}{अनुवाक:4, सूक्त:1}{अष्टक:3, अध्याय:7}
प्रऋ॒भुभ्यो᳚दू॒तमि॑व॒वाच॑मिष्यउप॒स्तिरे॒श्वैत॑रींधे॒नुमी᳚ळे |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

येवात॑जूतास्त॒रणि॑भि॒रेवैः॒परि॒द्यांस॒द्यो,अ॒पसो᳚बभू॒वुः(स्वाहा᳚) || 1 || वर्ग:1

य॒दार॒मक्र᳚न्नृ॒भवः॑पि॒तृभ्यां॒परि॑विष्टीवे॒षणा᳚दं॒सना᳚भिः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

आदिद्दे॒वाना॒मुप॑स॒ख्यमा᳚य॒न्धीरा᳚सःपु॒ष्टिम॑वहन्‌म॒नायै॒(स्वाहा᳚) || 2 ||

पुन॒र्येच॒क्रुःपि॒तरा॒युवा᳚ना॒सना॒यूपे᳚वजर॒णाशया᳚ना |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

तेवाजो॒विभ्वाँ᳚,ऋ॒भुरिन्द्र॑वन्तो॒मधु॑प्सरसोनोऽवन्तुय॒ज्ञ॒‌म्(स्वाहा᳚) || 3 ||

यत्‌सं॒वत्स॑मृ॒भवो॒गामर॑क्ष॒न्यत्‌सं॒वत्स॑मृ॒भवो॒मा,अपिं᳚शन् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

यत्‌सं॒वत्स॒मभ॑र॒न्‌भासो᳚,अस्या॒स्ताभिः॒शमी᳚भिरमृत॒त्वमा᳚शुः॒(स्वाहा᳚) || 4 ||

ज्ये॒ष्ठआ᳚हचम॒साद्वाक॒रेति॒कनी᳚या॒न्‌त्रीन्‌कृ॑णवा॒मेत्या᳚ह |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

क॒नि॒ष्ठआ᳚हच॒तुर॑स्क॒रेति॒त्वष्ट॑ऋभव॒स्तत्‌प॑नय॒द्‌वचो᳚वः॒(स्वाहा᳚) || 5 ||

स॒त्यमू᳚चु॒र्नर॑ए॒वाहिच॒क्रुरनु॑स्व॒धामृ॒भवो᳚जग्मुरे॒ताम् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

वि॒भ्राज॑मानाँश्चम॒साँ,अहे॒वावे᳚न॒त्‌त्वष्टा᳚च॒तुरो᳚ददृ॒श्वान्(स्वाहा᳚) || 6 || वर्ग:2

द्वाद॑श॒द्यून्‌यदगो᳚ह्यस्याऽऽति॒थ्येरण᳚न्नृ॒भवः॑स॒सन्तः॑ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

सु॒क्षेत्रा᳚कृण्व॒न्नन॑यन्त॒सिन्धू॒न्धन्वाति॑ष्ठ॒न्नोष॑धीर्नि॒म्नमापः॒(स्वाहा᳚) || 7 ||

रथं॒येच॒क्रुःसु॒वृतं᳚नरे॒ष्ठांयेधे॒नुंवि॑श्व॒जुवं᳚वि॒श्वरू᳚पाम् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

तआत॑क्षन्त्वृ॒भवो᳚र॒यिंनः॒स्वव॑सः॒स्वप॑सःसु॒हस्ताः᳚(स्वाहा᳚) || 8 ||

अपो॒ह्ये᳚षा॒मजु॑षन्तदे॒वा,अ॒भिक्रत्वा॒मन॑सा॒दीध्या᳚नाः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

वाजो᳚दे॒वाना᳚मभवत्‌सु॒कर्मेन्द्र॑स्यऋभु॒क्षावरु॑णस्य॒विभ्वा॒(स्वाहा᳚) || 9 ||

येहरी᳚मे॒धयो॒क्थामद᳚न्त॒इन्द्रा᳚यच॒क्रुःसु॒युजा॒ये,अश्वा᳚ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

तेरा॒यस्पोषं॒द्रवि॑णान्य॒स्मेध॒त्तऋ॑भवः,क्षेम॒यन्तो॒नमि॒त्रम्(स्वाहा᳚) || 10 ||

इ॒दाह्नः॑पी॒तिमु॒तवो॒मदं᳚धु॒र्नऋ॒तेश्रा॒न्तस्य॑स॒ख्याय॑दे॒वाः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

तेनू॒नम॒स्मे,ऋ॑भवो॒वसू᳚नितृ॒तीये᳚,अ॒स्मिन्‌त्सव॑नेदधात॒(स्वाहा᳚) || 11 ||

[34] ऋभुर्विभ्वेत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव ऋभवस्त्रिष्टुप् |{मंडल:4, सूक्त:34}{अनुवाक:4, सूक्त:2}{अष्टक:3, अध्याय:7}
ऋ॒भुर्विभ्वा॒वाज॒इन्द्रो᳚नो॒,अच्छे॒मंय॒ज्ञंर॑त्न॒धेयोप॑यात |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

इ॒दाहिवो᳚धि॒षणा᳚दे॒व्यह्ना॒मधा᳚त्‌पी॒तिंसंमदा᳚,अग्मतावः॒(स्वाहा᳚) || 1 || वर्ग:3

वि॒दा॒नासो॒जन्म॑नोवाजरत्ना,उ॒तऋ॒तुभि᳚रृभवोमादयध्वम् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

संवो॒मदा॒,अग्म॑त॒संपुरं᳚धिःसु॒वीरा᳚म॒स्मेर॒यिमेर॑यध्व॒‌म्(स्वाहा᳚) || 2 ||

अ॒यंवो᳚य॒ज्ञऋ॑भवोऽकारि॒यमाम॑नु॒ष्वत्‌प्र॒दिवो᳚दधि॒ध्वे |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

प्रवोऽच्छा᳚जुजुषा॒णासो᳚,अस्थु॒रभू᳚त॒विश्वे᳚,अग्रि॒योतवा᳚जाः॒(स्वाहा᳚) || 3 ||

अभू᳚दुवोविध॒तेर॑त्न॒धेय॑मि॒दान॑रोदा॒शुषे॒मर्त्या᳚य |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

पिब॑तवाजा,ऋभवोद॒देवो॒महि॑तृ॒तीयं॒सव॑नं॒मदा᳚य॒(स्वाहा᳚) || 4 ||

आवा᳚जाया॒तोप॑नऋभुक्षाम॒होन॑रो॒द्रवि॑णसोगृणा॒नाः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

आवः॑पी॒तयो᳚ऽभिपि॒त्वे,अह्ना᳚मि॒मा,अस्तं᳚नव॒स्व॑इवग्म॒‌न्(स्वाहा᳚) || 5 ||

आन॑पातःशवसोयात॒नोपे॒मंय॒ज्ञंनम॑साहू॒यमा᳚नाः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

स॒जोष॑सःसूरयो॒यस्य॑च॒स्थमध्वः॑पातरत्न॒धा,इन्द्र॑वन्तः॒(स्वाहा᳚) || 6 || वर्ग:4

स॒जोषा᳚,इन्द्र॒वरु॑णेन॒सोमं᳚स॒जोषाः᳚पाहिगिर्वणोम॒रुद्भिः॑ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

अ॒ग्रे॒पाभि᳚रृतु॒पाभिः॑स॒जोषा॒ग्नास्पत्नी᳚भीरत्न॒धाभिः॑स॒जोषाः᳚(स्वाहा᳚) || 7 ||

स॒जोष॑सआदि॒त्यैर्मा᳚दयध्वंस॒जोष॑सऋभवः॒पर्व॑तेभिः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

स॒जोष॑सो॒दैव्ये᳚नासवि॒त्रास॒जोष॑सः॒सिन्धु॑भीरत्न॒धेभिः॒(स्वाहा᳚) || 8 ||

ये,अ॒श्विना॒येपि॒तरा॒यऊ॒तीधे॒नुंत॑त॒क्षुरृ॒भवो॒ये,अश्वा᳚ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

ये,अंस॑त्रा॒यऋध॒ग्रोद॑सी॒येविभ्वो॒नरः॑स्वप॒त्यानि॑च॒क्रुः(स्वाहा᳚) || 9 ||

येगोम᳚न्तं॒वाज॑वन्तंसु॒वीरं᳚र॒यिंध॒त्थवसु॑मन्तंपुरु॒क्षुम् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

ते,अ॑ग्रे॒पा,ऋ॑भवोमन्दसा॒ना,अ॒स्मेध॑त्त॒येच॑रा॒तिंगृ॒णन्ति॒(स्वाहा᳚) || 10 ||

नापा᳚भूत॒नवो᳚ऽतीतृषा॒माऽनिः॑शस्ता,ऋभवोय॒ज्ञे,अ॒स्मिन् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

समिन्द्रे᳚ण॒मद॑थ॒संम॒रुद्भिः॒संराज॑भीरत्न॒धेया᳚यदेवाः॒(स्वाहा᳚) || 11 ||

[35] इहोपेति नवर्चस्य सूक्तस्य गौतमोवामदेवऋभवस्त्रिष्टुप् |{मंडल:4, सूक्त:35}{अनुवाक:4, सूक्त:3}{अष्टक:3, अध्याय:7}
इ॒होप॑यातशवसोनपातः॒सौध᳚न्वना,ऋभवो॒माप॑भूत |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

अ॒स्मिन्‌हिवः॒सव॑नेरत्न॒धेयं॒गम॒न्त्विन्द्र॒मनु॑वो॒मदा᳚सः॒(स्वाहा᳚) || 1 || वर्ग:5

आग᳚न्नृभू॒णामि॒हर॑त्न॒धेय॒मभू॒त्‌सोम॑स्य॒सुषु॑तस्यपी॒तिः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

सु॒कृ॒त्यया॒यत्‌स्व॑प॒स्यया᳚चँ॒,एकं᳚विच॒क्रच॑म॒संच॑तु॒र्धा(स्वाहा᳚) || 2 ||

व्य॑कृणोतचम॒संच॑तु॒र्धासखे॒विशि॒क्षेत्य॑ब्रवीत |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

अथै᳚तवाजा,अ॒मृत॑स्य॒पन्थां᳚ग॒णंदे॒वाना᳚मृभवःसुहस्ताः॒(स्वाहा᳚) || 3 ||

कि॒म्मयः॑स्विच्चम॒सए॒षआ᳚स॒यंकाव्ये᳚नच॒तुरो᳚विच॒क्र |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

अथा᳚सुनुध्वं॒सव॑नं॒मदा᳚यपा॒तऋ॑भवो॒मधु॑नःसो॒म्यस्य॒(स्वाहा᳚) || 4 ||

शच्या᳚कर्तपि॒तरा॒युवा᳚ना॒शच्या᳚कर्तचम॒संदे᳚व॒पान᳚म् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

शच्या॒हरी॒धनु॑तरावतष्टेन्द्र॒वाहा᳚वृभवोवाजरत्नाः॒(स्वाहा᳚) || 5 ||

योवः॑सु॒नोत्य॑भिपि॒त्वे,अह्नां᳚ती॒व्रंवा᳚जासः॒सव॑नं॒मदा᳚य |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

तस्मै᳚र॒यिमृ॑भवः॒सर्व॑वीर॒मात॑क्षतवृषणोमन्दसा॒नाः(स्वाहा᳚) || 6 || वर्ग:6

प्रा॒तःसु॒तम॑पिबोहर्यश्व॒माध्यं᳚दिनं॒सव॑नं॒केव॑लंते |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

समृ॒भुभिः॑पिबस्वरत्न॒धेभिः॒सखीँ॒र्याँ,इ᳚न्द्रचकृ॒षेसु॑कृ॒त्या(स्वाहा᳚) || 7 ||

येदे॒वासो॒,अभ॑वतासुकृ॒त्याश्ये॒ना,इ॒वेदधि॑दि॒विनि॑षे॒द |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

तेरत्नं᳚धातशवसोनपातः॒सौध᳚न्वना॒,अभ॑वता॒मृता᳚सः॒(स्वाहा᳚) || 8 ||

यत्‌तृ॒तीयं॒सव॑नंरत्न॒धेय॒मकृ॑णुध्वंस्वप॒स्यासु॑हस्ताः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

तदृ॑भवः॒परि॑षिक्तंवए॒तत्संमदे᳚भिरिन्द्रि॒येभिः॑पिबध्व॒‌म्(स्वाहा᳚) || 9 ||

[36] अनश्वोजातइति नवर्चस्य सूक्तस्य गौतमोवामदेव ऋभवो जगत्यंत्यात्रिष्टुप् |{मंडल:4, सूक्त:36}{अनुवाक:4, सूक्त:4}{अष्टक:3, अध्याय:7}
अ॒न॒श्वोजा॒तो,अ॑नभी॒शुरु॒क्थ्यो॒३॑(ओ॒)रथ॑स्त्रिच॒क्रःपरि॑वर्तते॒रजः॑ |{गौतमो वामदेवः | ऋभवः | जगती}

म॒हत्तद्वो᳚दे॒व्य॑स्यप्र॒वाच॑नं॒द्यामृ॑भवःपृथि॒वींयच्च॒पुष्य॑थ॒(स्वाहा᳚) || 1 || वर्ग:7

रथं॒येच॒क्रुःसु॒वृतं᳚सु॒चेत॒सोऽवि॑ह्वरन्तं॒मन॑स॒स्परि॒ध्यया᳚ |{गौतमो वामदेवः | ऋभवः | जगती}

ताँ,ऊ॒न्व१॑(अ॒)स्यसव॑नस्यपी॒तय॒आवो᳚वाजा,ऋभवोवेदयामसि॒(स्वाहा᳚) || 2 ||

तद्वो᳚वाजा,ऋभवःसुप्रवाच॒नंदे॒वेषु॑विभ्वो,अभवन्महित्व॒नम् |{गौतमो वामदेवः | ऋभवः | जगती}

जिव्री॒यत्सन्ता᳚पि॒तरा᳚सना॒जुरा॒पुन॒र्युवा᳚नाच॒रथा᳚य॒तक्ष॑थ॒(स्वाहा᳚) || 3 ||

एकं॒विच॑क्रचम॒संचतु᳚र्वयं॒निश्चर्म॑णो॒गाम॑रिणीतधी॒तिभिः॑ |{गौतमो वामदेवः | ऋभवः | जगती}

अथा᳚दे॒वेष्व॑मृत॒त्वमा᳚नशश्रु॒ष्टीवा᳚जा,ऋभव॒स्तद्व॑उ॒क्थ्य॑१(अं॒)(स्वाहा᳚) || 4 ||

ऋ॒भु॒तोर॒यिःप्र॑थ॒मश्र॑वस्तमो॒वाज॑श्रुतासो॒यमजी᳚जन॒न्नरः॑ |{गौतमो वामदेवः | ऋभवः | जगती}

वि॒भ्व॒त॒ष्टोवि॒दथे᳚षुप्र॒वाच्यो॒यंदे᳚वा॒सोऽव॑था॒सविच॑र्षणिः॒(स्वाहा᳚) || 5 ||

सवा॒ज्यर्वा॒सऋषि᳚र्वच॒स्यया॒सशूरो॒,अस्ता॒पृत॑नासुदु॒ष्टरः॑ |{गौतमो वामदेवः | ऋभवः | जगती}

सरा॒यस्पोषं॒ससु॒वीर्यं᳚दधे॒यंवाजो॒विभ्वाँ᳚,ऋ॒भवो॒यमावि॑षुः॒(स्वाहा᳚) || 6 || वर्ग:8

श्रेष्ठं᳚वः॒पेशो॒,अधि॑धायिदर्श॒तंस्तोमो᳚वाजा,ऋभव॒स्तंजु॑जुष्टन |{गौतमो वामदेवः | ऋभवः | जगती}

धीरा᳚सो॒हिष्ठाक॒वयो᳚विप॒श्चित॒स्तान्व॑ए॒नाब्रह्म॒णावे᳚दयामसि॒(स्वाहा᳚) || 7 ||

यू॒यम॒स्मभ्यं᳚धि॒षणा᳚भ्य॒स्परि॑वि॒द्वांसो॒विश्वा॒नर्या᳚णि॒भोज॑ना |{गौतमो वामदेवः | ऋभवः | जगती}

द्यु॒मन्तं॒वाजं॒वृष॑शुष्ममुत्त॒ममानो᳚र॒यिमृ॑भवस्तक्ष॒तावयः॒(स्वाहा᳚) || 8 ||

इ॒हप्र॒जामि॒हर॒यिंररा᳚णा,इ॒हश्रवो᳚वी॒रव॑त्‌तक्षतानः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

येन॑व॒यंचि॒तये॒मात्य॒न्यान्तंवाजं᳚चि॒त्रमृ॑भवोददानः॒(स्वाहा᳚) || 9 ||

[37] उपनइत्यष्टर्चस्य ऊक्तस्य गौतमोवामदेवऋभवस्त्रिष्टुप् अंत्याश्चतस्रोनुष्टुभः |{मंडल:4, सूक्त:37}{अनुवाक:4, सूक्त:5}{अष्टक:3, अध्याय:7}
उप॑नोवाजा,अध्व॒रमृ॑भुक्षा॒देवा᳚या॒तप॒थिभि॑र्देव॒यानैः᳚ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

यथा᳚य॒ज्ञंमनु॑षोवि॒क्ष्वा॒३॑(आ॒)सुद॑धि॒ध्वेर᳚ण्वाःसु॒दिने॒ष्वह्ना॒‌म्(स्वाहा᳚) || 1 || वर्ग:9

तेवो᳚हृ॒देमन॑सेसन्तुय॒ज्ञाजुष्टा᳚सो,अ॒द्यघृ॒तनि᳚र्णिजोगुः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

प्रवः॑सु॒तासो᳚हरयन्तपू॒र्णाःक्रत्वे॒दक्षा᳚यहर्षयन्तपी॒ताः(स्वाहा᳚) || 2 ||

त्र्यु॒दा॒यंदे॒वहि॑तं॒यथा᳚वः॒स्तोमो᳚वाजा,ऋभुक्षणोद॒देवः॑ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

जु॒ह्वेम॑नु॒ष्वदुप॑रासुवि॒क्षुयु॒ष्मेसचा᳚बृ॒हद्दि॑वेषु॒सोम॒‌म्(स्वाहा᳚) || 3 ||

पीवो᳚अश्वाःशु॒चद्र॑था॒हिभू॒ताऽयः॑शिप्रावाजिनःसुनि॒ष्काः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

इन्द्र॑स्यसूनोशवसोनपा॒तोऽनु॑वश्चेत्यग्रि॒यंमदा᳚य॒(स्वाहा᳚) || 4 ||

ऋ॒भुमृ॑भुक्षणोर॒यिंवाजे᳚वा॒जिन्त॑मं॒युज᳚म् |{गौतमो वामदेवः | ऋभवः | अनुष्टुप्}

इन्द्र॑स्वन्तंहवामहेसदा॒सात॑मम॒श्विन॒‌म्(स्वाहा᳚) || 5 ||

सेदृ॑भवो॒यमव॑थयू॒यमिन्द्र॑श्च॒मर्त्य᳚म् |{गौतमो वामदेवः | ऋभवः | अनुष्टुप्}

सधी॒भिर॑स्तु॒सनि॑तामे॒धसा᳚ता॒सो,अर्व॑ता॒(स्वाहा᳚) || 6 || वर्ग:10

विनो᳚वाजा,ऋभुक्षणःप॒थश्चि॑तन॒यष्ट॑वे |{गौतमो वामदेवः | ऋभवः | अनुष्टुप्}

अ॒स्मभ्यं᳚सूरयःस्तु॒ताविश्वा॒,आशा᳚स्तरी॒षणि॒(स्वाहा᳚) || 7 ||

तंनो᳚वाजा,ऋभुक्षण॒इन्द्र॒नास॑त्यार॒यिम् |{गौतमो वामदेवः | ऋभवः | अनुष्टुप्}

समश्वं᳚चर्ष॒णिभ्य॒आपु॒रुश॑स्तम॒घत्त॑ये॒(स्वाहा᳚) || 8 ||

[38] उतोहीति दशर्चस्य सूक्तस्य गौतमोवामदेवोदधिक्रावा आद्यायाद्यावापृथिवीत्रिष्टुप् {मंडल:4, सूक्त:38}{अनुवाक:4, सूक्त:6}{अष्टक:3, अध्याय:7}
उ॒तोहिवां᳚दा॒त्रासन्ति॒पूर्वा॒यापू॒रुभ्य॑स्त्र॒सद॑स्युर्नितो॒शे |{गौतमो वामदेवः | द्यावापृथिवी | त्रिष्टुप्}

क्षे॒त्रा॒सांद॑दथुरुर्वरा॒सांघ॒नंदस्यु॑भ्यो,अ॒भिभू᳚तिमु॒ग्रम्(स्वाहा᳚) || 1 || वर्ग:11

उ॒तवा॒जिनं᳚पुरुनि॒ष्षिध्वा᳚नंदधि॒क्रामु॑ददथुर्वि॒श्वकृ॑ष्टिम् |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

ऋ॒जि॒प्यंश्ये॒नंप्रु॑षि॒तप्सु॑मा॒शुंच॒र्कृत्य॑म॒र्योनृ॒पतिं॒नशूर॒‌म्(स्वाहा᳚) || 2 ||

यंसी॒मनु॑प्र॒वते᳚व॒द्रव᳚न्तं॒विश्वः॑पू॒रुर्मद॑ति॒हर्ष॑माणः |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

प॒ड्भिर्गृध्य᳚न्तंमेध॒युंनशूरं᳚रथ॒तुरं॒वात॑मिव॒ध्रज᳚न्त॒‌म्(स्वाहा᳚) || 3 ||

यःस्मा᳚रुन्धा॒नोगध्या᳚स॒मत्सु॒सनु॑तर॒श्चर॑ति॒गोषु॒गच्छ॑न् |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

आ॒विरृ॑जीकोवि॒दथा᳚नि॒चिक्य॑त्ति॒रो,अ॑र॒तिंपर्याप॑आ॒योः(स्वाहा᳚) || 4 ||

उ॒तस्मै᳚नंवस्त्र॒मथिं॒नता॒युमनु॑क्रोशन्तिक्षि॒तयो॒भरे᳚षु |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

नी॒चाय॑मानं॒जसु॑रिं॒नश्ये॒नंश्रव॒श्चाच्छा᳚पशु॒मच्च॑यू॒थम्(स्वाहा᳚) || 5 ||

उ॒तस्मा᳚सुप्रथ॒मःस॑रि॒ष्यन्निवे᳚वेति॒श्रेणि॑भी॒रथा᳚नाम् |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

स्रजं᳚कृण्वा॒नोजन्यो॒नशुभ्वा᳚रे॒णुंरेरि॑हत्‌कि॒रणं᳚दद॒श्वान्(स्वाहा᳚) || 6 || वर्ग:12

उ॒तस्यवा॒जीसहु॑रिरृ॒तावा॒शुश्रू᳚षमाणस्त॒न्वा᳚सम॒र्ये |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

तुरं᳚य॒तीषु॑तु॒रय᳚न्नृजि॒प्योऽधि॑भ्रु॒वोःकि॑रतेरे॒णुमृ॒ञ्ज॒‌न्(स्वाहा᳚) || 7 ||

उ॒तस्मा᳚स्यतन्य॒तोरि॑व॒द्योरृ॑घाय॒तो,अ॑भि॒युजो᳚भयन्ते |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

य॒दास॒हस्र॑म॒भिषी॒मयो᳚धीद्दु॒र्वर्तुः॑स्माभवतिभी॒मऋ॒ञ्ज॒‌न्(स्वाहा᳚) || 8 ||

उ॒तस्मा᳚स्यपनयन्ति॒जना᳚जू॒तिंकृ॑ष्टि॒प्रो,अ॒भिभू᳚तिमा॒शोः |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

उ॒तैन॑माहुःसमि॒थेवि॒यन्तः॒परा᳚दधि॒क्रा,अ॑सरत्‌स॒हस्रैः᳚(स्वाहा᳚) || 9 ||

आद॑धि॒क्राःशव॑सा॒पञ्च॑कृ॒ष्टीःसूर्य॑इव॒ज्योति॑षा॒पस्त॑तान |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

स॒ह॒स्र॒साःश॑त॒सावा॒ज्यर्वा᳚पृ॒णक्तु॒मध्वा॒समि॒मावचां᳚सि॒(स्वाहा᳚) || 10 ||

[39] आशुमिति षडृचस्य सूक्तस्य गौतमोवामदेवोदधिक्रावात्रिष्टुबन्त्यानुष्टुप् |{मंडल:4, सूक्त:39}{अनुवाक:4, सूक्त:7}{अष्टक:3, अध्याय:7}
आ॒शुंद॑धि॒क्रांतमु॒नुष्ट॑वामदि॒वस्पृ॑थि॒व्या,उ॒तच॑र्किराम |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

उ॒च्छन्ती॒र्मामु॒षसः॑सूदय॒न्त्वति॒विश्वा᳚निदुरि॒तानि॑पर्ष॒‌न्(स्वाहा᳚) || 1 || वर्ग:13

म॒हश्च॑र्क॒र्म्यर्व॑तःक्रतु॒प्राद॑धि॒क्राव्णः॑पुरु॒वार॑स्य॒वृष्णः॑ |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

यंपू॒रुभ्यो᳚दीदि॒वांसं॒नाग्निंद॒दथु᳚र्मित्रावरुणा॒ततु॑रि॒‌म्(स्वाहा᳚) || 2 ||

यो,अश्व॑स्यदधि॒क्राव्णो॒,अका᳚री॒त्समि॑द्धे,अ॒ग्ना,उ॒षसो॒व्यु॑ष्टौ |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

अना᳚गसं॒तमदि॑तिःकृणोतु॒समि॒त्रेण॒वरु॑णेनास॒जोषाः᳚(स्वाहा᳚) || 3 ||

द॒धि॒क्राव्ण॑इ॒षऊ॒र्जोम॒होयदम᳚न्महिम॒रुतां॒नाम॑भ॒द्रम् |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

स्व॒स्तये॒वरु॑णंमि॒त्रम॒ग्निंहवा᳚मह॒इन्द्रं॒वज्र॑बाहु॒‌म्(स्वाहा᳚) || 4 ||

इन्द्र॑मि॒वेदु॒भये॒विह्व॑यन्तउ॒दीरा᳚णाय॒ज्ञमु॑पप्र॒यन्तः॑ |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

द॒धि॒क्रामु॒सूद॑नं॒मर्त्या᳚यद॒दथु᳚र्मित्रावरुणानो॒,अश्व॒‌म्(स्वाहा᳚) || 5 ||

द॒धि॒क्राव्णो᳚,अकारिषंजि॒ष्णोरश्व॑स्यवा॒जिनः॑ |{गौतमो वामदेवः | दधिक्राः | अनुष्टुप्}

सु॒र॒भिनो॒मुखा᳚कर॒त्प्रण॒आयूं᳚षितारिष॒‌त्(स्वाहा᳚) || 6 ||

[40] दधिक्राव्णइति पंचर्चस्य सूक्तस्य गौतमोवामदेवदधिक्रावा अंत्यायाः सूर्यस्त्रिष्टुप् अंत्याश्चतस्रोजगत्यः{मंडल:4, सूक्त:40}{अनुवाक:4, सूक्त:8}{अष्टक:3, अध्याय:7}
द॒धि॒क्राव्ण॒इदु॒नुच॑र्किराम॒विश्वा॒,इन्मामु॒षसः॑सूदयन्तु |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

अ॒पाम॒ग्नेरु॒षसः॒सूर्य॑स्य॒बृह॒स्पते᳚राङ्गिर॒सस्य॑जि॒ष्णोः(स्वाहा᳚) || 1 || वर्ग:14

सत्वा᳚भरि॒षोग॑वि॒षोदु॑वन्य॒सच्छ्र॑व॒स्यादि॒षउ॒षस॑स्तुरण्य॒सत् |{गौतमो वामदेवः | दधिक्राः | जगती}

स॒त्योद्र॒वोद्र॑व॒रःप॑तंग॒रोद॑धि॒क्रावेष॒मूर्जं॒स्व॑र्जन॒‌त्(स्वाहा᳚) || 2 ||

उ॒तस्मा᳚स्य॒द्रव॑तस्तुरण्य॒तःप॒र्णंनवेरनु॑वातिप्रग॒र्धिनः॑ |{गौतमो वामदेवः | दधिक्राः | जगती}

श्ये॒नस्ये᳚व॒ध्रज॑तो,अङ्क॒संपरि॑दधि॒क्राव्णः॑स॒होर्जातरि॑त्रतः॒(स्वाहा᳚) || 3 ||

उ॒तस्यवा॒जीक्षि॑प॒णिंतु॑रण्यतिग्री॒वायां᳚ब॒द्धो,अ॑पिक॒क्षआ॒सनि॑ |{गौतमो वामदेवः | दधिक्राः | जगती}

क्रतुं᳚दधि॒क्रा,अनु॑सं॒तवी᳚त्वत्प॒थामङ्कां॒स्यन्वा॒पनी᳚फण॒‌त्(स्वाहा᳚) || 4 ||

हं॒सःशु॑चि॒षद्‌वसु॑रन्तरिक्ष॒सद्धोता᳚वेदि॒षदति॑थिर्दुरोण॒सत् |{गौतमो वामदेवः | सूर्यः | जगती}

नृ॒षद्‌व॑र॒सदृ॑त॒सद्‌व्यो᳚म॒सद॒ब्जागो॒जा,ऋ॑त॒जा,अ॑द्रि॒जा,ऋ॒तम्(स्वाहा᳚) || 5 ||

[41] इंद्राकोवामित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रावरुणौत्रिष्टुप्{मंडल:4, सूक्त:41}{अनुवाक:4, सूक्त:9}{अष्टक:3, अध्याय:7}
इन्द्रा॒कोवां᳚वरुणासु॒म्नमा᳚प॒स्तोमो᳚ह॒विष्माँ᳚,अ॒मृतो॒नहोता᳚ |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

योवां᳚हृ॒दिक्रतु॑माँ,अ॒स्मदु॒क्तःप॒स्पर्श॑दिन्द्रावरुणा॒नम॑स्वा॒‌न्(स्वाहा᳚) || 1 || वर्ग:15

इन्द्रा᳚ह॒योवरु॑णाच॒क्रआ॒पीदे॒वौमर्तः॑स॒ख्याय॒प्रय॑स्वान् |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

सह᳚न्तिवृ॒त्रास॑मि॒थेषु॒शत्रू॒नवो᳚भिर्वाम॒हद्भिः॒सप्रशृ᳚ण्वे॒(स्वाहा᳚) || 2 ||

इन्द्रा᳚ह॒रत्नं॒वरु॑णा॒धेष्ठे॒त्थानृभ्यः॑शशमा॒नेभ्य॒स्ता |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

यदी॒सखा᳚यास॒ख्याय॒सोमैः᳚सु॒तेभिः॑सुप्र॒यसा᳚मा॒दयै᳚ते॒(स्वाहा᳚) || 3 ||

इन्द्रा᳚यु॒वंव॑रुणादि॒द्युम॑स्मि॒न्नोजि॑ष्ठमुग्रा॒निव॑धिष्टं॒वज्र᳚म् |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

योनो᳚दु॒रेवो᳚वृ॒कति॑र्द॒भीति॒स्तस्मि᳚न्‌मिमाथाम॒भिभू॒त्योजः॒(स्वाहा᳚) || 4 ||

इन्द्रा᳚यु॒वंव॑रुणाभू॒तम॒स्याधि॒यःप्रे॒तारा᳚वृष॒भेव॑धे॒नोः |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

सानो᳚दुहीय॒द्यव॑सेवग॒त्वीस॒हस्र॑धारा॒पय॑साम॒हीगौः(स्वाहा᳚) || 5 ||

तो॒केहि॒तेतन॑यउ॒र्वरा᳚सु॒सूरो॒दृशी᳚के॒वृष॑णश्च॒पौंस्ये᳚ |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

इन्द्रा᳚नो॒,अत्र॒वरु॑णास्याता॒मवो᳚भिर्द॒स्मापरि॑तक्म्याया॒‌म्(स्वाहा᳚) || 6 || वर्ग:16

यु॒वामिद्ध्यव॑सेपू॒र्व्याय॒परि॒प्रभू᳚तीग॒विषः॑स्वापी |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

वृ॒णी॒महे᳚स॒ख्याय॑प्रि॒याय॒शूरा॒मंहि॑ष्ठापि॒तरे᳚वश॒म्भू(स्वाहा᳚) || 7 ||

तावां॒धियोऽव॑सेवाज॒यन्ती᳚रा॒जिंनज॑ग्मुर्युव॒यूःसु॑दानू |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

श्रि॒येनगाव॒उप॒सोम॑मस्थु॒रिन्द्रं॒गिरो॒वरु॑णंमेमनी॒षाः(स्वाहा᳚) || 8 ||

इ॒मा,इन्द्रं॒वरु॑णंमेमनी॒षा,अग्म॒न्नुप॒द्रवि॑णमि॒च्छमा᳚नाः |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

उपे᳚मस्थुर्जो॒ष्टार॑इव॒वस्वो᳚र॒घ्वीरि॑व॒श्रव॑सो॒भिक्ष॑माणाः॒(स्वाहा᳚) || 9 ||

अश्व्य॑स्य॒त्मना॒रथ्य॑स्यपु॒ष्टेर्नित्य॑स्यरा॒यःपत॑यःस्याम |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

ताच॑क्रा॒णा,ऊ॒तिभि॒र्नव्य॑सीभिरस्म॒त्रारायो᳚नि॒युतः॑सचन्ता॒‌म्(स्वाहा᳚) || 10 ||

आनो᳚बृहन्ताबृह॒तीभि॑रू॒ती,इन्द्र॑या॒तंव॑रुण॒वाज॑सातौ |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

यद्दि॒द्यवः॒पृत॑नासुप्र॒क्रीळा॒न्तस्य॑वांस्यामसनि॒तार॑आ॒जेः(स्वाहा᳚) || 11 ||

[42] ममद्वितेति दशर्चस्य सूक्तस्य पौरुकुत्स्यस्त्रसदस्युः आद्यानांषण्णांत्रसदस्युर्देवता अंत्यानांचतसृणामिंद्रावरुणौत्रिष्टुप्{मंडल:4, सूक्त:42}{अनुवाक:4, सूक्त:10}{अष्टक:3, अध्याय:7}
मम॑द्वि॒तारा॒ष्ट्रंक्ष॒त्रिय॑स्यवि॒श्वायो॒र्विश्वे᳚,अ॒मृता॒यथा᳚नः |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्}

क्रतुं᳚सचन्ते॒वरु॑णस्यदे॒वाराजा᳚मिकृ॒ष्टेरु॑प॒मस्य॑व॒व्रेः(स्वाहा᳚) || 1 || वर्ग:17

अ॒हंराजा॒वरु॑णो॒मह्यं॒तान्य॑सु॒र्या᳚णिप्रथ॒माधा᳚रयन्त |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्}

क्रतुं᳚सचन्ते॒वरु॑णस्यदे॒वाराजा᳚मिकृ॒ष्टेरु॑प॒मस्य॑व॒व्रेः(स्वाहा᳚) || 2 ||

अ॒हमिन्द्रो॒वरु॑ण॒स्तेम॑हि॒त्वोर्वीग॑भी॒रेरज॑सीसु॒मेके᳚ |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्}

त्वष्टे᳚व॒विश्वा॒भुव॑नानिवि॒द्वान्त्समै᳚रयं॒रोद॑सीधा॒रयं᳚च॒(स्वाहा᳚) || 3 ||

अ॒हम॒पो,अ॑पिन्वमु॒क्षमा᳚णाधा॒रयं॒दिवं॒सद॑नऋ॒तस्य॑ |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्}

ऋ॒तेन॑पु॒त्रो,अदि॑तेरृ॒तावो॒तत्रि॒धातु॑प्रथय॒द्विभूम॒(स्वाहा᳚) || 4 ||

मांनरः॒स्वश्वा᳚वा॒जय᳚न्तो॒मांवृ॒ताःस॒मर॑णेहवन्ते |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्}

कृ॒णोम्या॒जिंम॒घवा॒हमिन्द्र॒इय᳚र्मिरे॒णुम॒भिभू᳚त्योजाः॒(स्वाहा᳚) || 5 ||

अ॒हंताविश्वा᳚चकरं॒नकि᳚र्मा॒दैव्यं॒सहो᳚वरते॒,अप्र॑तीतम् |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्}

यन्मा॒सोमा᳚सोम॒मद॒न्यदु॒क्थोभेभ॑येते॒रज॑सी,अपा॒रे(स्वाहा᳚) || 6 || वर्ग:18

वि॒दुष्टे॒विश्वा॒भुव॑नानि॒तस्य॒ताप्रब्र॑वीषि॒वरु॑णायवेधः |{पौरुकुत्स्यः त्रसदस्युः | इन्द्रावरुणौ | त्रिष्टुप्}

त्वंवृ॒त्राणि॑शृण्विषेजघ॒न्वान्त्वंवृ॒ताँ,अ॑रिणा,इन्द्र॒सिन्धू॒न्त्(स्वाहा᳚) || 7 ||

अ॒स्माक॒मत्र॑पि॒तर॒स्तआ᳚सन्त्स॒प्तऋष॑योदौर्ग॒हेब॒ध्यमा᳚ने |{पौरुकुत्स्यः त्रसदस्युः | इन्द्रावरुणौ | त्रिष्टुप्}

तआय॑जन्तत्र॒सद॑स्युमस्या॒,इन्द्रं॒नवृ॑त्र॒तुर॑मर्धदे॒वम्(स्वाहा᳚) || 8 ||

पु॒रु॒कुत्सा᳚नी॒हिवा॒मदा᳚शद्ध॒व्येभि॑रिन्द्रावरुणा॒नमो᳚भिः |{पौरुकुत्स्यः त्रसदस्युः | इन्द्रावरुणौ | त्रिष्टुप्}

अथा॒राजा᳚नंत्र॒सद॑स्युमस्यावृत्र॒हणं᳚ददथुरर्धदे॒वम्(स्वाहा᳚) || 9 ||

रा॒याव॒यंस॑स॒वांसो᳚मदेमह॒व्येन॑दे॒वायव॑सेन॒गावः॑ |{पौरुकुत्स्यः त्रसदस्युः | इन्द्रावरुणौ | त्रिष्टुप्}

तांधे॒नुमि᳚न्द्रावरुणायु॒वंनो᳚वि॒श्वाहा᳚धत्त॒मन॑पस्फुरन्ती॒‌म्(स्वाहा᳚) || 10 ||

[43] कउश्रवदिति सप्तर्चस्य सूक्तस्य सौहोत्रौ पुरुमीळ्हाजमीळ्हावश्विनौत्रिष्टुप् |{मंडल:4, सूक्त:43}{अनुवाक:4, सूक्त:11}{अष्टक:3, अध्याय:7}
कउ॑श्रवत्‌कत॒मोय॒ज्ञिया᳚नांव॒न्दारु॑दे॒वःक॑त॒मोजु॑षाते |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

कस्ये॒मांदे॒वीम॒मृते᳚षु॒प्रेष्ठां᳚हृ॒दिश्रे᳚षामसुष्टु॒तिंसु॑ह॒व्याम्(स्वाहा᳚) || 1 || वर्ग:19

कोमृ॑ळातिकत॒मआग॑मिष्ठोदे॒वाना᳚मुकत॒मःशम्भ॑विष्ठः |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

रथं॒कमा᳚हुर्द्र॒वद॑श्वमा॒शुंयंसूर्य॑स्यदुहि॒तावृ॑णीत॒(स्वाहा᳚) || 2 ||

म॒क्षूहिष्मा॒गच्छ॑थ॒ईव॑तो॒द्यूनिन्द्रो॒नश॒क्तिंपरि॑तक्म्यायाम् |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

दि॒वआजा᳚तादि॒व्यासु॑प॒र्णाकया॒शची᳚नांभवथः॒शचि॑ष्ठा॒(स्वाहा᳚) || 3 ||

कावां᳚भू॒दुप॑मातिः॒कया᳚न॒आश्वि॑नागमथोहू॒यमा᳚ना |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

कोवां᳚म॒हश्चि॒त्‌त्यज॑सो,अ॒भीक॑उरु॒ष्यतं᳚माध्वीदस्रानऊ॒ती(स्वाहा᳚) || 4 ||

उ॒रुवां॒रथः॒परि॑नक्षति॒द्यामायत्‌स॑मु॒द्राद॒भिवर्त॑तेवाम् |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

मध्वा᳚माध्वी॒मधु॑वांप्रुषाय॒न्यत्सीं᳚वां॒पृक्षो᳚भु॒रज᳚न्तप॒क्वाः(स्वाहा᳚) || 5 ||

सिन्धु᳚र्हवांर॒सया᳚सिञ्च॒दश्वा᳚न्घृ॒णावयो᳚ऽरु॒षासः॒परि॑ग्मन् |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

तदू॒षुवा᳚मजि॒रंचे᳚ति॒यानं॒येन॒पती॒भव॑थःसू॒र्यायाः᳚(स्वाहा᳚) || 6 ||

इ॒हेह॒यद्वां᳚सम॒नाप॑पृ॒क्षेसेयम॒स्मेसु॑म॒तिर्वा᳚जरत्ना |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

उ॒रु॒ष्यतं᳚जरि॒तारं᳚यु॒वंह॑श्रि॒तःकामो᳚नासत्यायुव॒द्रिक्(स्वाहा᳚) || 7 ||

[44] तंवामिति सप्तर्चस्य सूक्तस्य सौहोत्रौ पुरुमीळ्हाजमीळ्हावश्विनौत्रिष्टुप् |{मंडल:4, सूक्त:44}{अनुवाक:4, सूक्त:12}{अष्टक:3, अध्याय:7}
तंवां॒रथं᳚व॒यम॒द्याहु॑वेमपृथु॒ज्रय॑मश्विना॒संग॑तिं॒गोः |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

यःसू॒र्यांवह॑तिवन्धुरा॒युर्गिर्वा᳚हसंपुरु॒तमं᳚वसू॒युम्(स्वाहा᳚) || 1 || वर्ग:20

यु॒वंश्रिय॑मश्विनादे॒वता॒तांदिवो᳚नपातावनथः॒शची᳚भिः |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

यु॒वोर्वपु॑र॒भिपृक्षः॑सचन्ते॒वह᳚न्ति॒यत्‌क॑कु॒हासो॒रथे᳚वा॒‌म्(स्वाहा᳚) || 2 ||

कोवा᳚म॒द्याक॑रतेरा॒तह᳚व्यऊ॒तये᳚वासुत॒पेया᳚यवा॒र्कैः |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

ऋ॒तस्य॑वाव॒नुषे᳚पू॒र्व्याय॒नमो᳚येमा॒नो,अ॑श्वि॒नाव॑वर्त॒‌त्(स्वाहा᳚) || 3 ||

हि॒र॒ण्यये᳚नपुरुभू॒रथे᳚ने॒मंय॒ज्ञंना᳚स॒त्योप॑यातम् |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

पिबा᳚थ॒इन्मधु॑नःसो॒म्यस्य॒दध॑थो॒रत्नं᳚विध॒तेजना᳚य॒(स्वाहा᳚) || 4 ||

आनो᳚यातंदि॒वो,अच्छा᳚पृथि॒व्याहि॑र॒ण्यये᳚नसु॒वृता॒रथे᳚न |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

मावा᳚म॒न्येनिय॑मन्‌देव॒यन्तः॒संयद्द॒देनाभिः॑पू॒र्व्यावा॒‌म्(स्वाहा᳚) || 5 ||

नूनो᳚र॒यिंपु॑रु॒वीरं᳚बृ॒हन्तं॒दस्रा॒मिमा᳚थामु॒भये᳚ष्व॒स्मे |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

नरो॒यद्वा᳚मश्विना॒स्तोम॒माव᳚न्त्स॒धस्तु॑तिमाजमी॒ळ्हासो᳚,अग्म॒‌न्(स्वाहा᳚) || 6 ||

इ॒हेह॒यद्वां᳚सम॒नाप॑पृ॒क्षेसेयम॒स्मेसु॑म॒तिर्वा᳚जरत्ना |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

उ॒रु॒ष्यतं᳚जरि॒तारं᳚यु॒वंह॑श्रि॒तःकामो᳚नासत्यायुव॒द्रिक्(स्वाहा᳚) || 7 ||

[45] एषस्यइति सप्तर्चस्य सूक्तस्य गौतमो वामदेवोश्विनौ जगत्यंत्यात्रिष्टुप् |{मंडल:4, सूक्त:45}{अनुवाक:4, सूक्त:13}{अष्टक:3, अध्याय:7}
ए॒षस्यभा॒नुरुदि॑यर्तियु॒ज्यते॒रथः॒परि॑ज्मादि॒वो,अ॒स्यसान॑वि |{गौतमो वामदेवः | अश्विनौ | जगती}

पृ॒क्षासो᳚,अस्मिन्‌मिथु॒ना,अधि॒त्रयो॒दृति॑स्तु॒रीयो॒मधु॑नो॒विर॑प्शते॒(स्वाहा᳚) || 1 || वर्ग:21

उद्वां᳚पृ॒क्षासो॒मधु॑मन्तईरते॒रथा॒,अश्वा᳚सउ॒षसो॒व्यु॑ष्टिषु |{गौतमो वामदेवः | अश्विनौ | जगती}

अ॒पो॒र्णु॒वन्त॒स्तम॒आपरी᳚वृतं॒स्व१॑(अ॒)र्णशु॒क्रंत॒न्वन्त॒आरजः॒(स्वाहा᳚) || 2 ||

मध्वः॑पिबतंमधु॒पेभि॑रा॒सभि॑रु॒तप्रि॒यंमधु॑नेयुञ्जाथां॒रथ᳚म् |{गौतमो वामदेवः | अश्विनौ | जगती}

आव॑र्त॒निंमधु॑नाजिन्वथस्प॒थोदृतिं᳚वहेथे॒मधु॑मन्तमश्विना॒(स्वाहा᳚) || 3 ||

हं॒सासो॒येवां॒मधु॑मन्तो,अ॒स्रिधो॒हिर᳚ण्यपर्णा,उ॒हुव॑उष॒र्बुधः॑ |{गौतमो वामदेवः | अश्विनौ | जगती}

उ॒द॒प्रुतो᳚म॒न्दिनो᳚मन्दिनि॒स्पृशो॒मध्वो॒नमक्षः॒सव॑नानिगच्छथः॒(स्वाहा᳚) || 4 ||

स्व॒ध्व॒रासो॒मधु॑मन्तो,अ॒ग्नय॑उ॒स्राज॑रन्ते॒प्रति॒वस्तो᳚र॒श्विना᳚ |{गौतमो वामदेवः | अश्विनौ | जगती}

यन्नि॒क्तह॑स्तस्त॒रणि᳚र्विचक्ष॒णःसोमं᳚सु॒षाव॒मधु॑मन्त॒मद्रि॑भिः॒(स्वाहा᳚) || 5 ||

आ॒के॒नि॒पासो॒,अह॑भि॒र्दवि॑ध्वतः॒स्व१॑(अ॒)र्णशु॒क्रंत॒न्वन्त॒आरजः॑ |{गौतमो वामदेवः | अश्विनौ | जगती}

सूर॑श्चि॒दश्वा᳚न्‌युयुजा॒नई᳚यते॒विश्वाँ॒,अनु॑स्व॒धया᳚चेतथस्प॒थः(स्वाहा᳚) || 6 ||

प्रवा᳚मवोचमश्विनाधियं॒धारथः॒स्वश्वो᳚,अ॒जरो॒यो,अस्ति॑ |{गौतमो वामदेवः | अश्विनौ | त्रिष्टुप्}

येन॑स॒द्यःपरि॒रजां᳚सिया॒थोह॒विष्म᳚न्तंत॒रणिं᳚भो॒जमच्छ॒(स्वाहा᳚) || 7 ||

[46] अग्रम्पिबेति सप्तर्चस्य सूक्तस्य गौतमोवामदेव इंद्रवायू आद्यायावायुर्गायत्री |{मंडल:4, सूक्त:46}{अनुवाक:5, सूक्त:1}{अष्टक:3, अध्याय:7}
अग्रं᳚पिबा॒मधू᳚नांसु॒तंवा᳚यो॒दिवि॑ष्टिषु |{गौतमो वामदेवः | वायुः | गायत्री}

त्वंहिपू᳚र्व॒पा,असि॒(स्वाहा᳚) || 1 || वर्ग:22

श॒तेना᳚नो,अ॒भिष्टि॑भिर्नि॒युत्वाँ॒,इन्द्र॑सारथिः |{गौतमो वामदेवः | इंद्रवायू | गायत्री}

वायो᳚सु॒तस्य॑तृम्पत॒‌म्(स्वाहा᳚) || 2 ||

आवां᳚स॒हस्रं॒हर॑य॒इन्द्र॑वायू,अ॒भिप्रयः॑ |{गौतमो वामदेवः | इंद्रवायू | गायत्री}

वह᳚न्तु॒सोम॑पीतये॒(स्वाहा᳚) || 3 ||

रथं॒हिर᳚ण्यवन्धुर॒मिन्द्र॑वायूस्वध्व॒रम् |{गौतमो वामदेवः | इंद्रवायू | गायत्री}

आहिस्थाथो᳚दिवि॒स्पृश॒‌म्(स्वाहा᳚) || 4 ||

रथे᳚नपृथु॒पाज॑सादा॒श्वांस॒मुप॑गच्छतम् |{गौतमो वामदेवः | इंद्रवायू | गायत्री}

इन्द्र॑वायू,इ॒हाग॑त॒‌म्(स्वाहा᳚) || 5 ||

इन्द्र॑वायू,अ॒यंसु॒तस्तंदे॒वेभिः॑स॒जोष॑सा |{गौतमो वामदेवः | इंद्रवायू | गायत्री}

पिब॑तंदा॒शुषो᳚गृ॒हे(स्वाहा᳚) || 6 ||

इ॒हप्र॒याण॑मस्तुवा॒मिन्द्र॑वायूवि॒मोच॑नम् |{गौतमो वामदेवः | इंद्रवायू | गायत्री}

इ॒हवां॒सोम॑पीतये॒(स्वाहा᳚) || 7 ||

[47] वायोशुक्रइति चतुरृचस्य सूक्तस्य गौतमोवामदेव इंद्रवायू आद्यायावायुरनुष्टुप् |{मंडल:4, सूक्त:47}{अनुवाक:5, सूक्त:2}{अष्टक:3, अध्याय:7}
वायो᳚शु॒क्रो,अ॑यामिते॒मध्वो॒,अग्रं॒दिवि॑ष्टिषु |{गौतमो वामदेवः | वायुः | अनुष्टुप्}

आया᳚हि॒सोम॑पीतयेस्पा॒र्होदे᳚वनि॒युत्व॑ता॒(स्वाहा᳚) || 1 || वर्ग:23

इन्द्र॑श्चवायवेषां॒सोमा᳚नांपी॒तिम᳚र्हथः |{गौतमो वामदेवः | इंद्रवायू | अनुष्टुप्}

यु॒वांहियन्तीन्द॑वोनि॒म्नमापो॒नस॒ध्र्य॑१(अ॒)क्(स्वाहा᳚) || 2 ||

वाय॒विन्द्र॑श्चशु॒ष्मिणा᳚स॒रथं᳚शवसस्पती |{गौतमो वामदेवः | इंद्रवायू | अनुष्टुप्}

नि॒युत्व᳚न्तानऊ॒तय॒आया᳚तं॒सोम॑पीतये॒(स्वाहा᳚) || 3 ||

यावां॒सन्ति॑पुरु॒स्पृहो᳚नि॒युतो᳚दा॒शुषे᳚नरा |{गौतमो वामदेवः | इंद्रवायू | अनुष्टुप्}

अ॒स्मेताय॑ज्ञवाह॒सेन्द्र॑वायू॒निय॑च्छत॒‌म्(स्वाहा᳚) || 4 ||

[48] विहिहोत्राइति पंचर्चस्य सूक्तस्य गौतमोवामदेवोवायुरनुष्टुप् |{मंडल:4, सूक्त:48}{अनुवाक:5, सूक्त:3}{अष्टक:3, अध्याय:7}
वि॒हिहोत्रा॒,अवी᳚ता॒विपो॒नरायो᳚,अ॒र्यः |{गौतमो वामदेवः | वायुः | अनुष्टुप्}

वाय॒वाच॒न्द्रेण॒रथे᳚नया॒हिसु॒तस्य॑पी॒तये॒(स्वाहा᳚) || 1 || वर्ग:24

नि॒र्यु॒वा॒णो,अश॑स्तीर्नि॒युत्वाँ॒,इन्द्र॑सारथिः |{गौतमो वामदेवः | वायुः | अनुष्टुप्}

वाय॒वाच॒न्द्रेण॒रथे᳚नया॒हिसु॒तस्य॑पी॒तये॒(स्वाहा᳚) || 2 ||

अनु॑कृ॒ष्णेवसु॑धितीये॒माते᳚वि॒श्वपे᳚शसा |{गौतमो वामदेवः | वायुः | अनुष्टुप्}

वाय॒वाच॒न्द्रेण॒रथे᳚नया॒हिसु॒तस्य॑पी॒तये॒(स्वाहा᳚) || 3 ||

वह᳚न्तुत्वामनो॒युजो᳚यु॒क्तासो᳚नव॒तिर्नव॑ |{गौतमो वामदेवः | वायुः | अनुष्टुप्}

वाय॒वाच॒न्द्रेण॒रथे᳚नया॒हिसु॒तस्य॑पी॒तये॒(स्वाहा᳚) || 4 ||

वायो᳚श॒तंहरी᳚णांयु॒वस्व॒पोष्या᳚णाम् |{गौतमो वामदेवः | वायुः | अनुष्टुप्}

उ॒तवा᳚तेसह॒स्रिणो॒रथ॒आया᳚तु॒पाज॑सा॒(स्वाहा᳚) || 5 ||

[49] इदंवामिति षडृचस्य सूक्तस्य गौतमोवामदेव इंद्राबृहस्पतीगायत्री{मंडल:4, सूक्त:49}{अनुवाक:5, सूक्त:4}{अष्टक:3, अध्याय:7}
इ॒दंवा᳚मा॒स्ये᳚ह॒विःप्रि॒यमि᳚न्द्राबृहस्पती |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री}

उ॒क्थंमद॑श्चशस्यते॒(स्वाहा᳚) || 1 || वर्ग:25

अ॒यंवां॒परि॑षिच्यते॒सोम॑इन्द्राबृहस्पती |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री}

चारु॒र्मदा᳚यपी॒तये॒(स्वाहा᳚) || 2 ||

आन॑इन्द्राबृहस्पतीगृ॒हमिन्द्र॑श्चगच्छतम् |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री}

सो॒म॒पासोम॑पीतये॒(स्वाहा᳚) || 3 ||

अ॒स्मे,इ᳚न्द्राबृहस्पतीर॒यिंध॑त्तंशत॒ग्विन᳚म् |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री}

अश्वा᳚वन्तंसह॒स्रिण॒‌म्(स्वाहा᳚) || 4 ||

इन्द्रा॒बृह॒स्पती᳚व॒यंसु॒तेगी॒र्भिर्ह॑वामहे |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री}

अ॒स्यसोम॑स्यपी॒तये॒(स्वाहा᳚) || 5 ||

सोम॑मिन्द्राबृहस्पती॒पिब॑तंदा॒शुषो᳚गृ॒हे |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री}

मा॒दये᳚थां॒तदो᳚कसा॒(स्वाहा᳚) || 6 ||

[50] यस्तस्तंभेत्येकादशर्चस्य सूक्तस्य गौतमोवामदेवो बृहस्पतिरंत्ययोर्द्वयोरिंद्राबृहस्पतीत्रिष्टुप्‌दशमी जगती |{मंडल:4, सूक्त:50}{अनुवाक:5, सूक्त:5}{अष्टक:3, अध्याय:7}
यस्त॒स्तम्भ॒सह॑सा॒विज्मो,अन्ता॒न्बृह॒स्पति॑स्त्रिषध॒स्थोरवे᳚ण |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

तंप्र॒त्नास॒ऋष॑यो॒दीध्या᳚नाःपु॒रोविप्रा᳚दधिरेम॒न्द्रजि॑ह्व॒‌म्(स्वाहा᳚) || 1 || वर्ग:26

धु॒नेत॑यःसुप्रके॒तंमद᳚न्तो॒बृह॑स्पते,अ॒भियेन॑स्तत॒स्रे |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

पृष᳚न्तंसृ॒प्रमद॑ब्धमू॒र्वंबृह॑स्पते॒रक्ष॑तादस्य॒योनि॒‌म्(स्वाहा᳚) || 2 ||

बृह॑स्पते॒याप॑र॒माप॑रा॒वदत॒आत॑ऋत॒स्पृशो॒निषे᳚दुः |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

तुभ्यं᳚खा॒ता,अ॑व॒ता,अद्रि॑दुग्धा॒मध्वः॑श्चोतन्त्य॒भितो᳚विर॒प्शम्(स्वाहा᳚) || 3 ||

बृह॒स्पतिः॑प्रथ॒मंजाय॑मानोम॒होज्योति॑षःपर॒मेव्यो᳚मन् |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

स॒प्तास्य॑स्तुविजा॒तोरवे᳚ण॒विस॒प्तर॑श्मिरधम॒त्तमां᳚सि॒(स्वाहा᳚) || 4 ||

ससु॒ष्टुभा॒सऋक्व॑ताग॒णेन॑व॒लंरु॑रोजफलि॒गंरवे᳚ण |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति॑रु॒स्रिया᳚हव्य॒सूदः॒कनि॑क्रद॒द्‌वाव॑शती॒रुदा᳚ज॒‌त्(स्वाहा᳚) || 5 ||

ए॒वापि॒त्रेवि॒श्वदे᳚वाय॒वृष्णे᳚य॒ज्ञैर्वि॑धेम॒नम॑साह॒विर्भिः॑ |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

बृह॑स्पतेसुप्र॒जावी॒रव᳚न्तोव॒यंस्या᳚म॒पत॑योरयी॒णाम्(स्वाहा᳚) || 6 || वर्ग:27

सइद्‌राजा॒प्रति॑जन्यानि॒विश्वा॒शुष्मे᳚णतस्थाव॒भिवी॒र्ये᳚ण |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पतिं॒यःसुभृ॑तंबि॒भर्ति॑वल्गू॒यति॒वन्द॑तेपूर्व॒भाज॒‌म्(स्वाहा᳚) || 7 ||

सइत्‌क्षे᳚ति॒सुधि॑त॒ओक॑सि॒स्वेतस्मा॒,इळा᳚पिन्वतेविश्व॒दानी᳚म् |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

तस्मै॒विशः॑स्व॒यमे॒वान॑मन्ते॒यस्मि᳚न्‌ब्र॒ह्माराज॑नि॒पूर्व॒एति॒(स्वाहा᳚) || 8 ||

अप्र॑तीतोजयति॒संधना᳚नि॒प्रति॑जन्यान्यु॒तयासज᳚न्या |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

अ॒व॒स्यवे॒योवरि॑वःकृ॒णोति॑ब्र॒ह्मणे॒राजा॒तम॑वन्तिदे॒वाः(स्वाहा᳚) || 9 ||

इन्द्र॑श्च॒सोमं᳚पिबतंबृहस्पते॒ऽस्मिन्‌य॒ज्ञेम᳚न्दसा॒नावृ॑षण्वसू |{गौतमो वामदेवः | इंद्राबृहस्पती | जगती}

आवां᳚विश॒न्त्विन्द॑वःस्वा॒भुवो॒ऽस्मेर॒यिंसर्व॑वीरं॒निय॑च्छत॒‌म्(स्वाहा᳚) || 10 ||

बृह॑स्पतइन्द्र॒वर्ध॑तंनः॒सचा॒सावां᳚सुम॒तिर्भू᳚त्व॒स्मे |{गौतमो वामदेवः | इंद्राबृहस्पती | त्रिष्टुप्}

अ॒वि॒ष्टंधियो᳚जिगृ॒तंपुरं᳚धीर्जज॒स्तम॒र्योव॒नुषा॒मरा᳚तीः॒(स्वाहा᳚) || 11 ||

[51] इदमुत्यदित्येकादशर्चस्य सूक्तस्य गौतमोवामदेवउषास्त्रिष्टुप् |{मंडल:4, सूक्त:51}{अनुवाक:5, सूक्त:6}{अष्टक:3, अध्याय:8}
इ॒दमु॒त्यत्‌पु॑रु॒तमं᳚पु॒रस्ता॒ज्ज्योति॒स्तम॑सोव॒युना᳚वदस्थात् |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

नू॒नंदि॒वोदु॑हि॒तरो᳚विभा॒तीर्गा॒तुंकृ॑णवन्नु॒षसो॒जना᳚य॒(स्वाहा᳚) || 1 || वर्ग:1

अस्थु॑रुचि॒त्रा,उ॒षसः॑पु॒रस्ता᳚न्मि॒ता,इ॑व॒स्वर॑वोऽध्व॒रेषु॑ |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

व्यू᳚व्र॒जस्य॒तम॑सो॒द्वारो॒च्छन्ती᳚रव्र॒ञ्छुच॑यःपाव॒काः(स्वाहा᳚) || 2 ||

उ॒च्छन्ती᳚र॒द्यचि॑तयन्तभो॒जान्‌रा᳚धो॒देया᳚यो॒षसो᳚म॒घोनीः᳚ |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

अ॒चि॒त्रे,अ॒न्तःप॒णयः॑सस॒न्त्वबु॑ध्यमाना॒स्तम॑सो॒विम॑ध्ये॒(स्वाहा᳚) || 3 ||

कु॒वित्सदे᳚वीःस॒नयो॒नवो᳚वा॒यामो᳚बभू॒यादु॑षसोवो,अ॒द्य |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

येना॒नव॑ग्वे॒,अङ्गि॑रे॒दश॑ग्वेस॒प्तास्ये᳚रेवतीरे॒वदू॒ष(स्वाहा᳚) || 4 ||

यू॒यंहिदे᳚वीरृत॒युग्भि॒रश्वैः᳚परिप्रया॒थभुव॑नानिस॒द्यः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

प्र॒बो॒धय᳚न्तीरुषसःस॒सन्तं᳚द्वि॒पाच्चतु॑ष्पाच्च॒रथा᳚यजी॒वम्(स्वाहा᳚) || 5 ||

क्व॑स्विदासांकत॒मापु॑रा॒णीयया᳚वि॒धाना᳚विद॒धुरृ॑भू॒णाम् |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

शुभं॒यच्छु॒भ्रा,उ॒षस॒श्चर᳚न्ति॒नविज्ञा᳚यन्तेस॒दृशी᳚रजु॒र्याः(स्वाहा᳚) || 6 || वर्ग:2

ताघा॒ताभ॒द्रा,उ॒षसः॑पु॒रासु॑रभि॒ष्टिद्यु᳚म्ना,ऋ॒तजा᳚तसत्याः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

यास्वी᳚जा॒नःश॑शमा॒नउ॒क्थैःस्तु॒वञ्छंस॒न्‌द्रवि॑णंस॒द्यआप॒(स्वाहा᳚) || 7 ||

ता,आच॑रन्तिसम॒नापु॒रस्ता᳚त्समा॒नतः॑सम॒नाप॑प्रथा॒नाः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

ऋ॒तस्य॑दे॒वीःसद॑सोबुधा॒नागवां॒नसर्गा᳚,उ॒षसो᳚जरन्ते॒(स्वाहा᳚) || 8 ||

ता,इन्न्वे॒३॑(ए॒)वस॑म॒नास॑मा॒नीरमी᳚तवर्णा,उ॒षस॑श्चरन्ति |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

गूह᳚न्ती॒रभ्व॒मसि॑तं॒रुश॑द्भिःशु॒क्रास्त॒नूभिः॒शुच॑योरुचा॒नाः(स्वाहा᳚) || 9 ||

र॒यिंदि॑वोदुहितरोविभा॒तीःप्र॒जाव᳚न्तंयच्छता॒स्मासु॑देवीः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

स्यो॒नादावः॑प्रति॒बुध्य॑मानाःसु॒वीर्य॑स्य॒पत॑यःस्याम॒(स्वाहा᳚) || 10 ||

तद्वो᳚दिवोदुहितरोविभा॒तीरुप॑ब्रुवउषसोय॒ज्ञके᳚तुः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

व॒यंस्या᳚मय॒शसो॒जने᳚षु॒तद्द्यौश्च॑ध॒त्तांपृ॑थि॒वीच॑दे॒वी(स्वाहा᳚) || 11 ||

[52] प्रतिष्येति सप्तर्चस्य सूक्तस्य गौतमोवामदेव उषागायत्री |{मंडल:4, सूक्त:52}{अनुवाक:5, सूक्त:7}{अष्टक:3, अध्याय:8}
प्रति॒ष्यासू॒नरी॒जनी᳚व्यु॒च्छन्ती॒परि॒स्वसुः॑ |{गौतमो वामदेवः | उषाः | गायत्री}

दि॒वो,अ॑दर्शिदुहि॒ता(स्वाहा᳚) || 1 || वर्ग:3

अश्वे᳚वचि॒त्रारु॑षीमा॒तागवा᳚मृ॒ताव॑री |{गौतमो वामदेवः | उषाः | गायत्री}

सखा᳚भूद॒श्विनो᳚रु॒षाः(स्वाहा᳚) || 2 ||

उ॒तसखा᳚स्य॒श्विनो᳚रु॒तमा॒तागवा᳚मसि |{गौतमो वामदेवः | उषाः | गायत्री}

उ॒तोषो॒वस्व॑ईशिषे॒(स्वाहा᳚) || 3 ||

या॒व॒यद्द्वे᳚षसंत्वाचिकि॒त्वित्सू᳚नृतावरि |{गौतमो वामदेवः | उषाः | गायत्री}

प्रति॒स्तोमै᳚रभुत्स्महि॒(स्वाहा᳚) || 4 ||

प्रति॑भ॒द्रा,अ॑दृक्षत॒गवां॒सर्गा॒नर॒श्मयः॑ |{गौतमो वामदेवः | उषाः | गायत्री}

ओषा,अ॑प्रा,उ॒रुज्रयः॒(स्वाहा᳚) || 5 ||

आ॒प॒प्रुषी᳚विभावरि॒व्या᳚व॒र्ज्योति॑षा॒तमः॑ |{गौतमो वामदेवः | उषाः | गायत्री}

उषो॒,अनु॑स्व॒धाम॑व॒(स्वाहा᳚) || 6 ||

आद्यांत॑नोषिर॒श्मिभि॒रान्तरि॑क्षमु॒रुप्रि॒यम् |{गौतमो वामदेवः | उषाः | गायत्री}

उषः॑शु॒क्रेण॑शो॒चिषा॒(स्वाहा᳚) || 7 ||

[53] तद्देवस्येति सप्तर्चस्य सूक्तस्य गौतमोवामदेवः सविताजगती |{मंडल:4, सूक्त:53}{अनुवाक:5, सूक्त:8}{अष्टक:3, अध्याय:8}
तद्दे॒वस्य॑सवि॒तुर्वार्यं᳚म॒हद्वृ॑णी॒महे॒,असु॑रस्य॒प्रचे᳚तसः |{गौतमो वामदेवः | सविता | जगती}

छ॒र्दिर्येन॑दा॒शुषे॒यच्छ॑ति॒त्मना॒तन्नो᳚म॒हाँ,उद॑यान्‌दे॒वो,अ॒क्तुभिः॒(स्वाहा᳚) || 1 || वर्ग:4

दि॒वोध॒र्ताभुव॑नस्यप्र॒जाप॑तिःपि॒शङ्गं᳚द्रा॒पिंप्रति॑मुञ्चतेक॒विः |{गौतमो वामदेवः | सविता | जगती}

वि॒च॒क्ष॒णःप्र॒थय᳚न्नापृ॒णन्नु॒र्वजी᳚जनत्‌सवि॒तासु॒म्नमु॒क्थ्य॑१(अं॒)(स्वाहा᳚) || 2 ||

आप्रा॒रजां᳚सिदि॒व्यानि॒पार्थि॑वा॒श्लोकं᳚दे॒वःकृ॑णुते॒स्वाय॒धर्म॑णे |{गौतमो वामदेवः | सविता | जगती}

प्रबा॒हू,अ॑स्राक्‌सवि॒तासवी᳚मनिनिवे॒शय᳚न्‌प्रसु॒वन्न॒क्तुभि॒र्जग॒॑‌त्(स्वाहा᳚) || 3 ||

अदा᳚भ्यो॒भुव॑नानिप्र॒चाक॑शद्व्र॒तानि॑दे॒वःस॑वि॒ताभिर॑क्षते |{गौतमो वामदेवः | सविता | जगती}

प्रास्रा᳚ग्बा॒हूभुव॑नस्यप्र॒जाभ्यो᳚धृ॒तव्र॑तोम॒हो,अज्म॑स्यराजति॒(स्वाहा᳚) || 4 ||

त्रिर॒न्तरि॑क्षंसवि॒ताम॑हित्व॒नात्रीरजां᳚सिपरि॒भूस्त्रीणि॑रोच॒ना |{गौतमो वामदेवः | सविता | जगती}

ति॒स्रोदिवः॑पृथि॒वीस्ति॒स्रइ᳚न्वतित्रि॒भिर्व्र॒तैर॒भिनो᳚रक्षति॒त्मना॒(स्वाहा᳚) || 5 ||

बृ॒हत्सु᳚म्नःप्रसवी॒तानि॒वेश॑नो॒जग॑तःस्था॒तुरु॒भय॑स्य॒योव॒शी |{गौतमो वामदेवः | सविता | जगती}

सनो᳚दे॒वःस॑वि॒ताशर्म॑यच्छत्व॒स्मेक्षया᳚यत्रि॒वरू᳚थ॒मंह॑सः॒(स्वाहा᳚) || 6 ||

आग᳚न्दे॒वऋ॒तुभि॒र्वर्ध॑तु॒क्षयं॒दधा᳚तुनःसवि॒तासु॑प्र॒जामिष᳚म् |{गौतमो वामदेवः | सविता | जगती}

सनः॑,क्ष॒पाभि॒रह॑भिश्चजिन्वतुप्र॒जाव᳚न्तंर॒यिम॒स्मेसमि᳚न्वतु॒(स्वाहा᳚) || 7 ||

[54] अभूद्देवइति षडृचस्य सूक्तस्य गौतमो वामदेवः सविताजगत्यंत्यात्रिष्टुप् |{मंडल:4, सूक्त:54}{अनुवाक:5, सूक्त:9}{अष्टक:3, अध्याय:8}
अभू᳚द्दे॒वःस॑वि॒तावन्द्यो॒नुन॑इ॒दानी॒मह्न॑उप॒वाच्यो॒नृभिः॑ |{गौतमो वामदेवः | सविता | जगती}

वियोरत्ना॒भज॑तिमान॒वेभ्यः॒श्रेष्ठं᳚नो॒,अत्र॒द्रवि॑णं॒यथा॒दध॒॑‌त्(स्वाहा᳚) || 1 || वर्ग:5

दे॒वेभ्यो॒हिप्र॑थ॒मंय॒ज्ञिये᳚भ्योऽमृत॒त्वंसु॒वसि॑भा॒गमु॑त्त॒मम् |{गौतमो वामदेवः | सविता | जगती}

आदिद्दा॒मानं᳚सवित॒र्व्यू᳚र्णुषेऽनूची॒नाजी᳚वि॒तामानु॑षेभ्यः॒(स्वाहा᳚) || 2 ||

अचि॑त्ती॒यच्च॑कृ॒मादैव्ये॒जने᳚दी॒नैर्दक्षैः॒प्रभू᳚तीपूरुष॒त्वता᳚ |{गौतमो वामदेवः | सविता | जगती}

दे॒वेषु॑चसवित॒र्मानु॑षेषुच॒त्वंनो॒,अत्र॑सुवता॒दना᳚गसः॒(स्वाहा᳚) || 3 ||

नप्र॒मिये᳚सवि॒तुर्दैव्य॑स्य॒तद्‌यथा॒विश्वं॒भुव॑नंधारयि॒ष्यति॑ |{गौतमो वामदेवः | सविता | जगती}

यत्‌पृ॑थि॒व्यावरि॑म॒न्नास्व᳚ङ्गु॒रिर्वर्ष्म᳚न्‌दि॒वःसु॒वति॑स॒त्यम॑स्य॒तत्(स्वाहा᳚) || 4 ||

इन्द्र॑ज्येष्ठान्‌बृ॒हद्भ्यः॒पर्व॑तेभ्यः॒,क्षयाँ᳚,एभ्यःसुवसिप॒स्त्या᳚वतः |{गौतमो वामदेवः | सविता | जगती}

यथा᳚यथाप॒तय᳚न्तोवियेमि॒रए॒वैवत॑स्थुःसवितःस॒वाय॑ते॒(स्वाहा᳚) || 5 ||

येते॒त्रिरह᳚न्‌त्सवितःस॒वासो᳚दि॒वेदि॑वे॒सौभ॑गमासु॒वन्ति॑ |{गौतमो वामदेवः | सविता | त्रिष्टुप्}

इन्द्रो॒द्यावा᳚पृथि॒वीसिन्धु॑र॒द्भिरा᳚दि॒त्यैर्नो॒,अदि॑तिः॒शर्म॑यंस॒‌त्(स्वाहा᳚) || 6 ||

[55] कोवस्त्रातेति दशर्चस्य सूक्तस्य गौतमोवामदेवो विश्वेदेवास्त्रिष्टुप् अंत्यास्तिस्रो गायत्र्यः । (भेदपक्षे - विश्वेदेवाः ७ अग्निः १ उषाः १ विश्वेदेवाः १ एवंदश) |{मंडल:4, सूक्त:55}{अनुवाक:5, सूक्त:10}{अष्टक:3, अध्याय:8}
कोव॑स्त्रा॒ताव॑सवः॒कोव॑रू॒ताद्यावा᳚भूमी,अदिते॒त्रासी᳚थांनः |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्}

सही᳚यसोवरुणमित्र॒मर्ता॒त्कोवो᳚ऽध्व॒रेवरि॑वोधातिदेवाः॒(स्वाहा᳚) || 1 || वर्ग:6

प्रयेधामा᳚निपू॒र्व्याण्यर्चा॒न्वियदु॒च्छान्‌वि॑यो॒तारो॒,अमू᳚राः |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्}

वि॒धा॒तारो॒वितेद॑धु॒रज॑स्रा,ऋ॒तधी᳚तयोरुरुचन्तद॒स्माः(स्वाहा᳚) || 2 ||

प्रप॒स्त्या॒३॑(आ॒)मदि॑तिं॒सिन्धु॑म॒र्कैःस्व॒स्तिमी᳚ळेस॒ख्याय॑दे॒वीम् |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्}

उ॒भेयथा᳚नो॒,अह॑नीनि॒पात॑उ॒षासा॒नक्ता᳚करता॒मद॑ब्धे॒(स्वाहा᳚) || 3 ||

व्य᳚र्य॒मावरु॑णश्चेति॒पन्था᳚मि॒षस्पतिः॑सुवि॒तंगा॒तुम॒ग्निः |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्}

इन्द्रा᳚विष्णूनृ॒वदु॒षुस्तवा᳚ना॒शर्म॑नोयन्त॒मम॑व॒द्वरू᳚थ॒‌म्(स्वाहा᳚) || 4 ||

आपर्व॑तस्यम॒रुता॒मवां᳚सिदे॒वस्य॑त्रा॒तुर᳚व्रि॒भग॑स्य |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्}

पात्‌पति॒र्जन्या॒दंह॑सोनोमि॒त्रोमि॒त्रिया᳚दु॒तन॑उरुष्ये॒‌त्(स्वाहा᳚) || 5 ||

नूरो᳚दसी॒,अहि॑नाबु॒ध्न्ये᳚नस्तुवी॒तदे᳚वी॒,अप्ये᳚भिरि॒ष्टैः |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्}

स॒मु॒द्रंनसं॒चर॑णेसनि॒ष्यवो᳚घ॒र्मस्व॑रसोन॒द्यो॒३॑(ओ॒)अप᳚व्र॒‌न्(स्वाहा᳚) || 6 || वर्ग:7

दे॒वैर्नो᳚दे॒व्यदि॑ति॒र्निपा᳚तुदे॒वस्त्रा॒तात्रा᳚यता॒मप्र॑युच्छन् |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्}

न॒हिमि॒त्रस्य॒वरु॑णस्यधा॒सिमर्हा᳚मसिप्र॒मियं॒सान्व॒ग्नेः(स्वाहा᳚) || 7 ||

अ॒ग्निरी᳚शेवस॒व्य॑स्या॒ऽग्निर्म॒हःसौभ॑गस्य |{गौतमो वामदेवः | विश्वदेवाः | गायत्री}

तान्य॒स्मभ्यं᳚रासते॒(स्वाहा᳚) || 8 ||

उषो᳚मघो॒न्याव॑ह॒सूनृ॑ते॒वार्या᳚पु॒रु |{गौतमो वामदेवः | विश्वदेवाः | गायत्री}

अ॒स्मभ्यं᳚वाजिनीवति॒(स्वाहा᳚) || 9 ||

तत्सुनः॑सवि॒ताभगो॒वरु॑णोमि॒त्रो,अ᳚र्य॒मा |{गौतमो वामदेवः | विश्वदेवाः | गायत्री}

इन्द्रो᳚नो॒राध॒साग॑म॒‌त्(स्वाहा᳚) || 10 ||

[56] महीइति सप्तर्चस्य सूक्तस्य गौतमो वामदेवोद्यावापृथिवीत्रिष्टुप् अंत्यास्तिस्रो गायत्र्यः |{मंडल:4, सूक्त:56}{अनुवाक:5, सूक्त:11}{अष्टक:3, अध्याय:8}
म॒हीद्यावा᳚पृथि॒वी,इ॒हज्येष्ठे᳚रु॒चाभ॑वतांशु॒चय॑द्भिर॒र्कैः |{गौतमो वामदेवः | द्यावापृथिव्यौ | त्रिष्टुप्}

यत्सीं॒वरि॑ष्ठेबृह॒तीवि॑मि॒न्वन्रु॒वद्धो॒क्षाप॑प्रथा॒नेभि॒रेवैः᳚(स्वाहा᳚) || 1 || वर्ग:8

दे॒वीदे॒वेभि᳚र्यज॒तेयज॑त्रै॒रमि॑नतीतस्थतुरु॒क्षमा᳚णे |{गौतमो वामदेवः | द्यावापृथिव्यौ | त्रिष्टुप्}

ऋ॒ताव॑री,अ॒द्रुहा᳚दे॒वपु॑त्रेय॒ज्ञस्य॑ने॒त्रीशु॒चय॑द्भिर॒र्कैः(स्वाहा᳚) || 2 ||

सइत्‌स्वपा॒भुव॑नेष्वास॒यइ॒मेद्यावा᳚पृथि॒वीज॒जान॑ |{गौतमो वामदेवः | द्यावापृथिव्यौ | त्रिष्टुप्}

उ॒र्वीग॑भी॒रेरज॑सीसु॒मेके᳚,अवं॒शेधीरः॒शच्या॒समै᳚र॒‌त्(स्वाहा᳚) || 3 ||

नूरो᳚दसीबृ॒हद्भि᳚र्नो॒वरू᳚थैः॒पत्नी᳚वद्भिरि॒षय᳚न्तीस॒जोषाः᳚ |{गौतमो वामदेवः | द्यावापृथिव्यौ | त्रिष्टुप्}

उ॒रू॒चीविश्वे᳚यज॒तेनिपा᳚तंधि॒यास्या᳚मर॒थ्यः॑सदा॒साः(स्वाहा᳚) || 4 ||

प्रवां॒महि॒द्यवी᳚,अ॒भ्युप॑स्तुतिंभरामहे |{गौतमो वामदेवः | द्यावापृथिव्यौ | गायत्री}

शुची॒,उप॒प्रश॑स्तये॒(स्वाहा᳚) || 5 ||

पु॒ना॒नेत॒न्वा᳚मि॒थःस्वेन॒दक्षे᳚णराजथः |{गौतमो वामदेवः | द्यावापृथिव्यौ | गायत्री}

ऊ॒ह्याथे᳚स॒नादृ॒तम्(स्वाहा᳚) || 6 ||

म॒हीमि॒त्रस्य॑साधथ॒स्तर᳚न्ती॒पिप्र॑ती,ऋ॒तम् |{गौतमो वामदेवः | द्यावापृथिव्यौ | गायत्री}

परि॑य॒ज्ञंनिषे᳚दथुः॒(स्वाहा᳚) || 7 ||

[57] क्षेत्रस्येत्यष्टर्चस्य सूक्तस्य गौतमोवामदेव आद्यानांतिसृणां क्षेत्रपतिर्देवता चतुर्थ्याःशुनः पंचम्यष्टम्योः शुनासीरौ षष्ठीसप्तम्योः सीता आद्याचतुर्थीषष्ठीसप्तम्योनुष्टुभः पंचमीपुरउष्णिक् शेषास्त्रिष्टुभः (अत्रचतुर्थ्याः शुनोऽदंतः | तथाशुनासीरावित्यत्र केचिद्वाय्वादित्या वित्युञ्चारयन्तितन्नचतुरस्रं यतः वायुः शुनः सूर्य एवात्रसीरः शुनासीरौवायुसूर्योवदंति | शुनासीरंयास्कइंद्रतुमेने सूर्येद्रौ तौमन्यतेशाकपूर्णि रितिशुनासीरस्वरूपेशौनकेनाचार्यमतदर्शनव्याजेनवैविध्यंप्रतिपादितं तस्मात्प्रकृतिभूतशुनासीरशब्देनोच्चारणंयुक्तं) |{मंडल:4, सूक्त:57}{अनुवाक:5, सूक्त:12}{अष्टक:3, अध्याय:8}
क्षेत्र॑स्य॒पति॑नाव॒यंहि॒तेने᳚वजयामसि |{गौतमो वामदेवः | क्षेत्रपतिः | अनुष्टुप्}

गामश्वं᳚पोषयि॒त्न्वासनो᳚मृळाती॒दृशे॒(स्वाहा᳚) || 1 || वर्ग:9

क्षेत्र॑स्यपते॒मधु॑मन्तमू॒र्मिंधे॒नुरि॑व॒पयो᳚,अ॒स्मासु॑धुक्ष्व |{गौतमो वामदेवः | क्षेत्रपतिः | त्रिष्टुप्}

म॒धु॒श्चुतं᳚घृ॒तमि॑व॒सुपू᳚तमृ॒तस्य॑नः॒पत॑योमृळयन्तु॒(स्वाहा᳚) || 2 ||

मधु॑मती॒रोष॑धी॒र्द्याव॒आपो॒मधु॑मन्नोभवत्व॒न्तरि॑क्षम् |{गौतमो वामदेवः | क्षेत्रपतिः | त्रिष्टुप्}

क्षेत्र॑स्य॒पति॒र्मधु॑मान्‌नो,अ॒स्त्वरि॑ष्यन्तो॒,अन्वे᳚नंचरेम॒(स्वाहा᳚) || 3 ||

शु॒नंवा॒हाःशु॒नंनरः॑शु॒नंकृ॑षतु॒लाङ्ग॑लम् |{गौतमो वामदेवः | शुनः | अनुष्टुप्}

शु॒नंव॑र॒त्राब॑ध्यन्तांशु॒नमष्ट्रा॒मुदि᳚ङ्गय॒(स्वाहा᳚) || 4 ||

शुना᳚सीरावि॒मांवाचं᳚जुषेथां॒यद्दि॒विच॒क्रथुः॒पयः॑ |{गौतमो वामदेवः | शुनासीरौ | पुर उष्णिक्}

तेने॒मामुप॑सिञ्चत॒‌म्(स्वाहा᳚) || 5 ||

अ॒र्वाची᳚सुभगेभव॒सीते॒वन्दा᳚महेत्वा |{गौतमो वामदेवः | सीता | अनुष्टुप्}

यथा᳚नःसु॒भगास॑सि॒यथा᳚नःसु॒फलास॑सि॒(स्वाहा᳚) || 6 ||

इन्द्रः॒सीतां॒निगृ᳚ह्णातु॒तांपू॒षानु॑यच्छतु |{गौतमो वामदेवः | सीता | अनुष्टुप्}

सानः॒पय॑स्वतीदुहा॒मुत्त॑रामुत्तरां॒समा॒‌म्(स्वाहा᳚) || 7 ||

शु॒नंनः॒फाला॒विकृ॑षन्तु॒भूमिं᳚शु॒नंकी॒नाशा᳚,अ॒भिय᳚न्तुवा॒हैः |{गौतमो वामदेवः | शुनासीरौ | त्रिष्टुप्}

शु॒नंप॒र्जन्यो॒मधु॑ना॒पयो᳚भिः॒शुना᳚सीराशु॒नम॒स्मासु॑धत्त॒‌म्(स्वाहा᳚) || 8 ||

[58] समुद्रादूर्मिरित्येकादशर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुबंत्याजगती | (सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता) |{मंडल:4, सूक्त:58}{अनुवाक:5, सूक्त:13}{अष्टक:3, अध्याय:8}
स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒,उदा᳚र॒दुपां॒शुना॒सम॑मृत॒त्वमा᳚नट् |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

घृ॒तस्य॒नाम॒गुह्यं॒यदस्ति॑जि॒ह्वादे॒वाना᳚म॒मृत॑स्य॒नाभिः॒(स्वाहा᳚) || 1 || वर्ग:10

व॒यंनाम॒प्रब्र॑वामाघृ॒तस्या॒स्मिन्‌य॒ज्ञेधा᳚रयामा॒नमो᳚भिः |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

उप॑ब्र॒ह्माशृ॑णवच्छ॒स्यमा᳚नं॒चतुः॑शृङ्गोऽवमीद्‌गौ॒रए॒तत्(स्वाहा᳚) || 2 ||

च॒त्वारि॒शृङ्गा॒त्रयो᳚,अस्य॒पादा॒द्वेशी॒र्षेस॒प्तहस्ता᳚सो,अस्य |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

त्रिधा᳚ब॒द्धोवृ॑ष॒भोरो᳚रवीतिम॒होदे॒वोमर्त्याँ॒,आवि॑वेश॒(स्वाहा᳚) || 3 ||

त्रिधा᳚हि॒तंप॒णिभि॑र्गु॒ह्यमा᳚नं॒गवि॑दे॒वासो᳚घृ॒तमन्व॑विन्दन् |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

इन्द्र॒एकं॒सूर्य॒एकं᳚जजानवे॒नादेकं᳚स्व॒धया॒निष्ट॑तक्षुः॒(स्वाहा᳚) || 4 ||

ए॒ता,अ॑र्षन्ति॒हृद्या᳚त्‌समु॒द्राच्छ॒तव्र॑जारि॒पुणा॒नाव॒चक्षे᳚ |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

घृ॒तस्य॒धारा᳚,अ॒भिचा᳚कशीमिहिर॒ण्ययो᳚वेत॒सोमध्य॑आसा॒‌म्(स्वाहा᳚) || 5 ||

स॒म्यक्‌स्र॑वन्तिस॒रितो॒नधेना᳚,अ॒न्तर्हृ॒दामन॑सापू॒यमा᳚नाः |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

ए॒ते,अ॑र्षन्त्यू॒र्मयो᳚घृ॒तस्य॑मृ॒गा,इ॑वक्षिप॒णोरीष॑माणाः॒(स्वाहा᳚) || 6 || वर्ग:11

सिन्धो᳚रिवप्राध्व॒नेशू᳚घ॒नासो॒वात॑प्रमियःपतयन्तिय॒ह्वाः |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

घृ॒तस्य॒धारा᳚,अरु॒षोनवा॒जीकाष्ठा᳚भि॒न्दन्नू॒र्मिभिः॒पिन्व॑मानः॒(स्वाहा᳚) || 7 ||

अ॒भिप्र॑वन्त॒सम॑नेव॒योषाः᳚कल्या॒ण्य१॑(अः॒)स्मय॑मानासो,अ॒ग्निम् |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

घृ॒तस्य॒धाराः᳚स॒मिधो᳚नसन्त॒ताजु॑षा॒णोह᳚र्यतिजा॒तवे᳚दाः॒(स्वाहा᳚) || 8 ||

क॒न्या᳚,इववह॒तुमेत॒वा,उ॑अ॒ञ्ज्य᳚ञ्जा॒ना,अ॒भिचा᳚कशीमि |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

यत्र॒सोमः॑सू॒यते॒यत्र॑य॒ज्ञोघृ॒तस्य॒धारा᳚,अ॒भितत्‌प॑वन्ते॒(स्वाहा᳚) || 9 ||

अ॒भ्य॑र्षतसुष्टु॒तिंगव्य॑मा॒जिम॒स्मासु॑भ॒द्राद्रवि॑णानिधत्त |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

इ॒मंय॒ज्ञंन॑यतदे॒वता᳚नोघृ॒तस्य॒धारा॒मधु॑मत्‌पवन्ते॒(स्वाहा᳚) || 10 ||

धाम᳚न्‌ते॒विश्वं॒भुव॑न॒मधि॑श्रि॒तम॒न्तःस॑मु॒द्रेहृ॒द्य१॑(अ॒)न्तरायु॑षि |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | जगती}

अ॒पामनी᳚केसमि॒थेयआभृ॑त॒स्तम॑श्याम॒मधु॑मन्तंतऊ॒र्मिम्(स्वाहा᳚) || 11 ||