|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||

|| ऋग्वेद संहिता (मंडल: 05) ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
[Last updated on: 03-Jun-2025]

[1] अबोधीति द्वादशर्चस्य सूक्तस्यात्रेयौ बुधगविष्ठिरावग्निस्त्रिष्टुप् |{मंडल:5, सूक्त:1}{अनुवाक:1, सूक्त:1}{अष्टक:3, अध्याय:8}
अबो᳚ध्य॒ग्निःस॒मिधा॒जना᳚नां॒प्रति॑धे॒नुमि॑वाय॒तीमु॒षास᳚म् |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

य॒ह्वा,इ॑व॒प्रव॒यामु॒ज्जिहा᳚नाः॒प्रभा॒नवः॑सिस्रते॒नाक॒मच्छ॒(स्वाहा᳚) || 1 || वर्ग:12

अबो᳚धि¦अ॒ग्निः¦स॒‌म्ऽ‌इधा᳚¦जना᳚ना‌म्¦प्रति॑¦धे॒नु‌म्ऽ‌इ᳚व¦आ॒ऽय॒ती‌म्¦उ॒षस᳚‌म् |
य॒ह्वाःऽ‌इ᳚व¦प्र¦व॒या‌म्¦उ॒त्ऽजिहा᳚नाः¦प्र¦भा॒नवः॑¦सि॒स्र॒ते॒¦नाक᳚‌म्¦अच्छ॑ ||

अबो᳚धि॒होता᳚य॒जथा᳚यदे॒वानू॒र्ध्वो,अ॒ग्निःसु॒मनाः᳚प्रा॒तर॑स्थात् |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

समि॑द्धस्य॒रुश॑ददर्शि॒पाजो᳚म॒हान्‌दे॒वस्तम॑सो॒निर॑मोचि॒(स्वाहा᳚) || 2 ||

अबो᳚धि¦होता᳚¦य॒जथा᳚य¦दे॒वान्¦ऊ॒र्ध्वः¦अ॒ग्निः¦सु॒ऽमनाः᳚¦प्रा॒तः¦अ॒स्था॒त् |
स‌म्ऽ‌इ᳚द्धस्य¦रुश॑त्¦अ॒द॒र्शि॒¦पाजः॑¦म॒हान्¦दे॒वः¦तम॑सः¦निः¦अ॒मो॒चि॒ ||

यदीं᳚ग॒णस्य॑रश॒नामजी᳚गः॒शुचि॑रङ्क्ते॒शुचि॑भि॒र्गोभि॑र॒ग्निः |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

आद्दक्षि॑णायुज्यतेवाज॒यन्त्यु॑त्ता॒नामू॒र्ध्वो,अ॑धयज्जु॒हूभिः॒(स्वाहा᳚) || 3 ||

यत्¦ई॒‌म्¦ग॒णस्य॑¦र॒श॒ना‌म्¦अजी᳚ग॒रिति॑¦शुचिः॑¦अ॒ङ्क्ते॒¦शुचि॑ऽभिः¦गोभिः॑¦अ॒ग्निः |
आत्¦दक्षि॑णा¦यु॒ज्य॒ते॒¦वा॒ज॒ऽयन्ती᳚¦उ॒त्ता॒ना‌म्¦ऊ॒र्ध्वः¦अ॒ध॒य॒त्¦जु॒हूभिः॑ ||

अ॒ग्निमच्छा᳚देवय॒तांमनां᳚सि॒चक्षूं᳚षीव॒सूर्ये॒संच॑रन्ति |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

यदीं॒सुवा᳚ते,उ॒षसा॒विरू᳚पेश्वे॒तोवा॒जीजा᳚यते॒,अग्रे॒,अह्ना॒‌म्(स्वाहा᳚) || 4 ||

अ॒ग्नि‌म्¦अच्छ॑¦दे॒व॒ऽय॒ता‌म्¦मनां᳚सि¦चक्षूं᳚षिऽ‌इव¦सूर्ये᳚¦स‌म्¦च॒र॒न्ति॒ |
यत्¦ई॒‌म्¦सुवा᳚ते॒ इति॑¦उ॒षसा᳚¦विरू᳚पे॒ इति॒ विऽरू᳚पे¦श्वे॒तः¦वा॒जी¦जा॒य॒ते॒¦अग्रे᳚¦अह्ना᳚‌म् ||

जनि॑ष्ट॒हिजेन्यो॒,अग्रे॒,अह्नां᳚हि॒तोहि॒तेष्व॑रु॒षोवने᳚षु |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

दमे᳚दमेस॒प्तरत्ना॒दधा᳚नो॒ऽग्निर्होता॒निष॑सादा॒यजी᳚या॒‌न्(स्वाहा᳚) || 5 ||

जनि॑ष्ट¦हि¦जेन्यः॑¦अग्रे᳚¦अह्ना᳚‌म्¦हि॒तः¦हि॒तेषु॑¦अ॒रु॒षः¦वने᳚षु |
दमे᳚ऽदमे¦स॒प्त¦रत्ना᳚¦दधा᳚नः¦अ॒ग्निः¦होता᳚¦नि¦स॒सा॒द॒¦यजी᳚यान् ||

अ॒ग्निर्होता॒न्य॑सीद॒द्‌यजी᳚यानु॒पस्थे᳚मा॒तुःसु॑र॒भा,उ॑लो॒के |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

युवा᳚क॒विःपु॑रुनि॒ष्ठऋ॒तावा᳚ध॒र्ताकृ॑ष्टी॒नामु॒तमध्य॑इ॒द्धः(स्वाहा᳚) || 6 ||

अ॒ग्निः¦होता᳚¦नि¦अ॒सी॒द॒त्¦यजी᳚यान्¦उ॒पऽस्थे᳚¦मा॒तुः¦सु॒र॒भौ¦ऊँ॒ इति॑¦लो॒के |
युवा᳚¦क॒विः¦पु॒रु॒निः॒ऽस्थः¦ऋ॒तऽवा᳚¦ध॒र्ता¦कृ॒ष्टी॒ना‌म्¦उ॒त¦मध्ये᳚¦इ॒द्धः ||

प्रणुत्यंविप्र॑मध्व॒रेषु॑सा॒धुम॒ग्निंहोता᳚रमीळते॒नमो᳚भिः |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

आयस्त॒तान॒रोद॑सी,ऋ॒तेन॒नित्यं᳚मृजन्तिवा॒जिनं᳚घृ॒तेन॒(स्वाहा᳚) || 7 || वर्ग:13

प्र¦नु¦त्य‌म्¦विप्र᳚‌म्¦अ॒ध्व॒रेषु॑¦सा॒धु‌म्¦अ॒ग्नि‌म्¦होता᳚र‌म्¦ई॒ळ॒ते॒¦नमः॑ऽभिः |
आ¦यः¦त॒तान॑¦रोद॑सी॒ इति॑¦ऋ॒तेन॑¦नित्य᳚‌म्¦मृ॒ज॒न्ति॒¦वा॒जिन᳚‌म्¦घृ॒तेन॑ ||

मा॒र्जा॒ल्यो᳚मृज्यते॒स्वेदमू᳚नाःकविप्रश॒स्तो,अति॑थिःशि॒वोनः॑ |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

स॒हस्र॑शृङ्गोवृष॒भस्तदो᳚जा॒विश्वाँ᳚,अग्ने॒सह॑सा॒प्रास्य॒न्यान्(स्वाहा᳚) || 8 ||

मा॒र्जा॒ल्यः॑¦मृ॒ज्य॒ते॒¦स्वे¦दमू᳚नाः¦क॒वि॒ऽप्र॒श॒स्तः¦अति॑थिः¦शि॒वः¦नः॒ |
स॒हस्र॑ऽशृङ्गः¦वृ॒ष॒भः¦तत्ऽओ᳚जाः¦विश्वा᳚न्¦अ॒ग्ने॒¦सह॑सा¦प्र¦अ॒सि॒¦अ॒न्यान् ||

प्रस॒द्यो,अ॑ग्ने॒,अत्ये᳚ष्य॒न्याना॒विर्यस्मै॒चारु॑तमोब॒भूथ॑ |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

ई॒ळेन्यो᳚वपु॒ष्यो᳚वि॒भावा᳚प्रि॒योवि॒शामति॑थि॒र्मानु॑षीणा॒‌म्(स्वाहा᳚) || 9 ||

प्र¦स॒द्यः¦अ॒ग्ने॒¦अति॑¦ए॒षि॒¦अ॒न्यान्¦आ॒विः¦यस्मै᳚¦चारु॑ऽतमः¦ब॒भूथ॑ |
ई॒ळेन्यः॑¦व॒पु॒ष्यः॑¦वि॒भाऽवा᳚¦प्रि॒यः¦वि॒शा‌म्¦अति॑थिः¦मानु॑षीणा‌म् ||

तुभ्यं᳚भरन्तिक्षि॒तयो᳚यविष्ठब॒लिम॑ग्ने॒,अन्ति॑त॒ओतदू॒रात् |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

आभन्दि॑ष्ठस्यसुम॒तिंचि॑किद्धिबृ॒हत्ते᳚,अग्ने॒महि॒शर्म॑भ॒द्रम्(स्वाहा᳚) || 10 ||

तुभ्य᳚‌म्¦भ॒र॒न्ति॒¦क्षि॒तयः॑¦य॒वि॒ष्ठ॒¦ब॒लि‌म्¦अ॒ग्ने॒¦अन्ति॑तः¦आ¦उ॒त¦दू॒रात् |
आ¦भन्दि॑ष्ठस्य¦सु॒ऽम॒ति‌म्¦चि॒कि॒द्धि॒¦बृ॒हत्¦ते॒¦अ॒ग्ने॒¦महि॑¦शर्म॑¦भ॒द्र‌म् ||

आद्यरथं᳚भानुमोभानु॒मन्त॒मग्ने॒तिष्ठ॑यज॒तेभिः॒सम᳚न्तम् |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

वि॒द्वान्‌प॑थी॒नामु॒र्व१॑(अ॒)न्तरि॑क्ष॒मेहदे॒वान्‌ह॑वि॒रद्या᳚यवक्षि॒(स्वाहा᳚) || 11 ||

आ¦अ॒द्य¦रथ᳚‌म्¦भा॒नु॒ऽमः॒¦भा॒नु॒ऽमन्त᳚‌म्¦अग्ने᳚¦तिष्ठ॑¦य॒ज॒तेभिः॑¦स‌म्।आ᳚न्त‌म् |
वि॒द्वान्¦प॒थी॒ना‌म्¦उ॒रु¦अ॒न्तरि॑क्ष‌म्¦आ¦इ॒ह¦दे॒वान्¦ह॒विः॒।आद्या᳚य¦व॒क्षि॒ ||

अवो᳚चामक॒वये॒मेध्या᳚य॒वचो᳚व॒न्दारु॑वृष॒भाय॒वृष्णे᳚ |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

गवि॑ष्ठिरो॒नम॑सा॒स्तोम॑म॒ग्नौदि॒वी᳚वरु॒क्ममु॑रु॒व्यञ्च॑मश्रे॒‌त्(स्वाहा᳚) || 12 ||

अवो᳚चाम¦क॒वये᳚¦मेध्या᳚य¦वचः॑¦व॒न्दारु॑¦वृ॒ष॒भाय॑¦वृष्णे᳚ |
गवि॑ष्ठिरः¦नम॑सा¦स्तोम᳚‌म्¦अ॒ग्नौ¦दि॒विऽ‌इ᳚व¦रु॒क्म‌म्¦उ॒रु॒ऽव्यंच᳚‌म्¦अ॒श्रे॒त् ||

[2] कुमारमिति द्वादशर्चस्य सूक्तस्य आत्रेयःकुमारः कमेतंविज्योतिषेत्यनयोर्जानोवृशोग्निस्त्रिष्टुप् अंत्याशक्वरी ( पाक्षिकोजरोवृशः सर्वसूक्तेपि । अत्रसर्वानुक्रमभाष्येजननाम्नऋषेः पुत्रोजानइत्येवनिर्णीतम् । जरनाग्नऋषेः पुत्रोजारोवृशइतितुसायनभाष्यम् । ){मंडल:5, सूक्त:2}{अनुवाक:1, सूक्त:2}{अष्टक:3, अध्याय:8}
कु॒मा॒रंमा॒तायु॑व॒तिःसमु॑ब्धं॒गुहा᳚बिभर्ति॒नद॑दातिपि॒त्रे |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्}

अनी᳚कमस्य॒नमि॒नज्जना᳚सःपु॒रःप॑श्यन्ति॒निहि॑तमर॒तौ(स्वाहा᳚) || 1 || वर्ग:14

कु॒मा॒र‌म्¦मा॒ता¦यु॒व॒तिः¦स‌म्।औ᳚ब्ध‌म्¦गुहा᳚¦बि॒भ॒र्ति॒¦न¦द॒दा॒ति॒¦पि॒त्रे |
अनी᳚क‌म्¦अ॒स्य॒¦न¦मि॒नत्¦जना᳚सः¦पु॒रः¦प॒श्य॒न्ति॒¦निऽहि॑त‌म्¦अ॒र॒तौ ||

कमे॒तंत्वंयु॑वतेकुमा॒रंपेषी᳚बिभर्षि॒महि॑षीजजान |{जानोवृशः | अग्निः | त्रिष्टुप्}

पू॒र्वीर्हिगर्भः॑श॒रदो᳚व॒वर्धाऽप॑श्यंजा॒तंयदसू᳚तमा॒ता(स्वाहा᳚) || 2 ||

क‌म्¦ए॒त‌म्¦त्व‌म्¦यु॒व॒ते॒¦कु॒मा॒र‌म्¦पेषी᳚¦बि॒भ॒र्षि॒¦महि॑षी¦ज॒जा॒न॒ |
पू॒र्वीः¦हि¦गर्भः॑¦श॒रदः॑¦व॒वर्ध॑¦अप॑श्य‌म्¦जा॒त‌म्¦यत्¦असू᳚त¦मा॒ता ||

हिर᳚ण्यदन्तं॒शुचि॑वर्णमा॒रात्क्षेत्रा᳚दपश्य॒मायु॑धा॒मिमा᳚नम् |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्}

द॒दा॒नो,अ॑स्मा,अ॒मृतं᳚वि॒पृक्व॒त्किंमाम॑नि॒न्द्राःकृ॑णवन्ननु॒क्थाः(स्वाहा᳚) || 3 ||

हिर᳚ण्यऽदन्त‌म्¦शुचि॑ऽवर्ण‌म्¦आ॒रात्¦क्षेत्रा᳚त्¦अ॒प॒श्य॒‌म्¦आयु॑धा¦मिमा᳚न‌म् |
द॒दा॒नः¦अ॒स्मै॒¦अ॒मृत᳚‌म्¦वि॒पृक्व॑त्¦कि‌म्¦मा‌म्¦अ॒नि॒न्द्राः¦कृ॒ण॒व॒न्¦अ॒नु॒क्थाः ||

क्षेत्रा᳚दपश्यंसनु॒तश्चर᳚न्तंसु॒मद्‌यू॒थंनपु॒रुशोभ॑मानम् |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्}

नता,अ॑गृभ्र॒न्नज॑निष्ट॒हिषःपलि॑क्नी॒रिद्‌यु॑व॒तयो᳚भवन्ति॒(स्वाहा᳚) || 4 ||

क्षेत्रा᳚त्¦अ॒प॒श्य॒‌म्¦स॒नु॒तरिति॑¦चर᳚न्त‌म्¦सु॒ऽमत्¦यू॒थ‌म्¦न¦पु॒रु¦शोभ॑मान‌म् |
न¦ताः¦अ॒गृ॒भ्र॒न्¦अज॑निष्ट¦हि¦सः¦पलि॑क्नीः¦इत्¦यु॒व॒तयः॑¦भ॒व॒न्ति॒ ||

केमे᳚मर्य॒कंविय॑वन्त॒गोभि॒र्नयेषां᳚गो॒पा,अर॑णश्चि॒दास॑ |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्}

यईं᳚जगृ॒भुरव॒तेसृ॑ज॒न्त्वाजा᳚तिप॒श्वउप॑नश्चिकि॒त्वान्(स्वाहा᳚) || 5 ||

के¦मे॒¦म॒र्य॒क‌म्¦वि¦य॒व॒न्त॒¦गोभिः॑¦न¦येषा᳚‌म्¦गो॒पाः¦अर॑णः¦चि॒त्¦आस॑ |
ये¦ई॒‌म्¦ज॒गृ॒भुः¦अव॑¦ते¦सृ॒ज॒न्तु¦आ¦अ॒जा॒ति॒¦प॒श्वः¦उप॑¦नः॒¦चि॒कि॒त्वान् ||

व॒सांराजा᳚नंवस॒तिंजना᳚ना॒मरा᳚तयो॒निद॑धु॒र्मर्त्ये᳚षु |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्}

ब्रह्मा॒ण्यत्रे॒रव॒तंसृ॑जन्तुनिन्दि॒तारो॒निन्द्या᳚सोभवन्तु॒(स्वाहा᳚) || 6 ||

व॒सा‌म्¦राजा᳚न‌म्¦व॒स॒ति‌म्¦जना᳚ना‌म्¦अरा᳚तयः¦नि¦द॒धुः॒¦मर्त्ये᳚षु |
ब्रह्मा᳚णि¦अत्रेः᳚¦अव॑¦त‌म्¦सृ॒ज॒न्तु॒¦नि॒न्दि॒तारः॑¦निन्द्या᳚सः¦भ॒व॒न्तु॒ ||

शुन॑श्चि॒च्छेपं॒निदि॑तंस॒हस्रा॒द्‌यूपा᳚दमुञ्चो॒,अश॑मिष्ट॒हिषः |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्}

ए॒वास्मद॑ग्ने॒विमु॑मुग्धि॒पाशा॒न्होत॑श्चिकित्वइ॒हतूनि॒षद्य॒(स्वाहा᳚) || 7 || वर्ग:15

शुनः॒ऽशेप᳚‌म्¦चि॒त्¦निऽदि॑त‌म्¦स॒हस्रा᳚त्¦यूपा᳚त्¦अ॒मुं॒चः॒¦अश॑मिष्ट¦हि¦सः |
ए॒व¦अ॒स्मत्¦अ॒ग्ने॒¦वि¦मु॒मु॒ग्धि॒¦पासा᳚न्¦होत॒रिति॑¦चि॒कि॒त्वः॒¦इ॒ह¦तु¦नि॒ऽसद्य॑ ||

हृ॒णी॒यमा᳚नो॒,अप॒हिमदैयेः॒प्रमे᳚दे॒वानां᳚व्रत॒पा,उ॑वाच |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्}

इन्द्रो᳚वि॒द्वाँ,अनु॒हित्वा᳚च॒चक्ष॒तेना॒हम॑ग्ने॒,अनु॑शिष्ट॒आगा॒‌म्(स्वाहा᳚) || 8 ||

हृ॒णी॒यमा᳚नः¦अप॑¦हि¦मत्¦ऐयेः᳚¦प्र¦मे॒¦दे॒वाना᳚‌म्¦व्र॒त॒ऽपाः¦उ॒वा॒च॒ |
इन्द्रः॑¦वि॒द्वान्¦अनु॑¦हि¦त्वा॒¦च॒चक्ष॑¦तेन॑¦अ॒ह‌म्¦अ॒ग्ने॒¦अनु॑ऽशिष्टः¦आ¦अ॒गा॒‌म् ||

विज्योति॑षाबृह॒ताभा᳚त्य॒ग्निरा॒विर्विश्वा᳚निकृणुतेमहि॒त्वा |{जानोवृशः | अग्निः | त्रिष्टुप्}

प्रादे᳚वीर्मा॒याःस॑हतेदु॒रेवाः॒शिशी᳚ते॒शृङ्गे॒रक्ष॑सेवि॒निक्षे॒(स्वाहा᳚) || 9 ||

वि¦ज्योति॑षा¦बृ॒ह॒ता¦भा॒ति॒¦अ॒ग्निः¦आ॒विः¦विश्वा᳚नि¦कृ॒णु॒ते॒¦म॒हि॒ऽत्वा |
प्र¦अदे᳚वीः¦मा॒याः¦स॒ह॒ते॒¦दुः॒ऽएवाः᳚¦शिशी᳚ते¦शृङ्गे॒ इति॑¦रक्ष॑से¦वि॒ऽनिक्षे᳚ ||

उ॒तस्वा॒नासो᳚दि॒विष᳚न्त्व॒ग्नेस्ति॒ग्मायु॑धा॒रक्ष॑से॒हन्त॒वा,उ॑ |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्}

मदे᳚चिदस्य॒प्ररु॑जन्ति॒भामा॒नव॑रन्तेपरि॒बाधो॒,अदे᳚वीः॒(स्वाहा᳚) || 10 ||

उ॒त¦स्वा॒नासः॑¦दि॒वि¦स॒न्तु॒¦अ॒ग्नेः¦ति॒ग्मऽआ᳚युधाः¦रक्ष॑से¦हन्त॒वै¦ऊँ॒ इति॑ |
मदे᳚¦चि॒त्¦अ॒स्य॒¦प्र¦रु॒ज॒न्ति॒¦भामाः᳚¦न¦व॒र॒न्ते॒¦प॒रि॒ऽबाधः॑¦अदे᳚वीः ||

ए॒तंते॒स्तोमं᳚तुविजात॒विप्रो॒रथं॒नधीरः॒स्वपा᳚,अतक्षम् |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्}

यदीद॑ग्ने॒प्रति॒त्वंदे᳚व॒हर्याः॒स्व᳚र्वतीर॒पए᳚नाजयेम॒(स्वाहा᳚) || 11 ||

ए॒त‌म्¦ते॒¦स्तोम᳚‌म्¦तु॒वि॒ऽजा॒त॒¦विप्रः॑¦रथ᳚‌म्¦न¦धीरः॑¦सु॒।आपाः᳚¦अ॒त॒क्ष॒‌म् |
यदि॑¦इत्¦अ॒ग्ने॒¦प्रति॑¦त्व‌म्¦दे॒व॒¦हर्याः᳚¦स्वः॑ऽवतीः¦अ॒पः¦ए॒न॒¦ज॒ये॒म॒ ||

तु॒वि॒ग्रीवो᳚वृष॒भोवा᳚वृधा॒नो᳚ऽश॒त्र्व१॑(अ॒)र्यःसम॑जाति॒वेदः॑ |{आत्रेयःकुमारः | अग्निः | शक्वरी}

इती॒मम॒ग्निम॒मृता᳚,अवोचन्ब॒र्हिष्म॑ते॒मन॑वे॒शर्म॑यंसद्ध॒विष्म॑ते॒मन॑वे॒शर्म॑यंस॒‌त्(स्वाहा᳚) || 12 ||

तु॒वि॒ऽग्रीवः॑¦वृ॒ष॒भः¦व॒वृ॒धा॒नः¦अ॒श॒त्रु¦अ॒र्यः¦स‌म्¦अ॒जा॒ति॒¦वेदः॑ |
इति॑¦इ॒म‌म्¦अ॒ग्नि‌म्¦अ॒मृताः᳚¦अ॒वो॒च॒न्¦ब॒र्हिष्म॑ते¦मन॑वे¦शर्म॑¦यं॒स॒त्¦ह॒विष्म॑ते¦मन॑वे¦शर्म॑¦यं॒स॒त् ||

[3] त्वमग्नइतिद्वादशर्चस्य सूक्तस्यात्रेयोवसुश्रुतोग्निस्तृतीयायामरुद्रुद्रविष्णवस्त्रिष्टुबाद्याविराट् |{मंडल:5, सूक्त:3}{अनुवाक:1, सूक्त:3}{अष्टक:3, अध्याय:8}
त्वम॑ग्ने॒वरु॑णो॒जाय॑से॒यत्त्वंमि॒त्रोभ॑वसि॒यत्समि॑द्धः |{आत्रेयो वसुश्रुतः | अग्निः | विराट्}

त्वेविश्वे᳚सहसस्पुत्रदे॒वास्त्वमिन्द्रो᳚दा॒शुषे॒मर्त्या᳚य॒(स्वाहा᳚) || 1 || वर्ग:16

त्व‌म्¦अ॒ग्ने॒¦वरु॑णः¦जाय॑से¦यत्¦त्व‌म्¦मि॒त्रः¦भ॒व॒सि॒¦यत्¦स‌म्ऽ‌इ᳚द्धः | त्वे इति॑¦विश्वे᳚¦स॒ह॒सः॒¦पु॒त्र॒¦दे॒वाः¦त्व‌म्¦इन्द्रः॑¦दा॒शुषे᳚¦मर्त्या᳚य ||

त्वम᳚र्य॒माभ॑वसि॒यत्‌क॒नीनां॒नाम॑स्वधाव॒न्‌गुह्यं᳚बिभर्षि |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

अ॒ञ्जन्ति॑मि॒त्रंसुधि॑तं॒नगोभि॒र्यद्‌दम्प॑ती॒सम॑नसाकृ॒णोषि॒(स्वाहा᳚) || 2 ||

त्व‌म्¦अ॒र्य॒मा¦भ॒व॒सि॒¦यत्¦क॒नीना᳚‌म्¦नाम॑¦स्व॒धा॒ऽव॒न्¦गुह्य᳚‌म्¦बि॒भ॒र्षि॒ |
अं॒जन्ति॑¦मि॒त्र‌म्¦सुऽधि॑त‌म्¦न¦गोभिः॑¦यत्¦दंप॑ती॒ इति॒ द‌म्ऽप॑ती¦सऽम॑नसा¦कृ॒णोषि॑ ||

तव॑श्रि॒येम॒रुतो᳚मर्जयन्त॒रुद्र॒यत्ते॒जनि॑म॒चारु॑चि॒त्रम् |{आत्रेयो वसुश्रुतः | मरुद्रुद्रविष्णवः | त्रिष्टुप्}

प॒दंयद्विष्णो᳚रुप॒मंनि॒धायि॒तेन॑पासि॒गुह्यं॒नाम॒गोना॒‌म्(स्वाहा᳚) || 3 ||

तव॑¦श्रि॒ये¦म॒रुतः॑¦म॒र्ज॒य॒न्त॒¦रुद्र॑¦यत्¦ते॒¦जनि॑म¦चारु॑¦चि॒त्र‌म् |
प॒द‌म्¦यत्¦विष्णोः᳚¦उ॒प॒ऽम‌म्¦नि॒ऽधायि॑¦तेन॑¦पा॒सि॒¦गुह्य᳚‌म्¦नाम॑¦गोना᳚‌म् ||

तव॑श्रि॒यासु॒दृशो᳚देवदे॒वाःपु॒रूदधा᳚ना,अ॒मृतं᳚सपन्त |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

होता᳚रम॒ग्निंमनु॑षो॒निषे᳚दुर्दश॒स्यन्त॑उ॒शिजः॒शंस॑मा॒योः(स्वाहा᳚) || 4 ||

तव॑¦श्रि॒या¦सु॒ऽदृशः॑¦दे॒व॒¦दे॒वाः¦पु॒रु¦दधा᳚नाः¦अ॒मृत᳚‌म्¦स॒प॒न्त॒ |
होता᳚र‌म्¦अ॒ग्नि‌म्¦मनु॑षः¦नि¦से॒दुः॒¦द॒श॒स्यन्तः॑¦उ॒शिजः॑¦शंस᳚‌म्¦आ॒योः ||

नत्वद्धोता॒पूर्वो᳚,अग्ने॒यजी᳚या॒न्नकाव्यैः᳚प॒रो,अ॑स्तिस्वधावः |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

वि॒शश्च॒यस्या॒,अति॑थि॒र्भवा᳚सि॒सय॒ज्ञेन॑वनवद्देव॒मर्ता॒न्त्(स्वाहा᳚) || 5 ||

न¦त्वत्¦होता᳚¦पूर्वः॑¦अ॒ग्ने॒¦यजी᳚यान्¦न¦काव्यैः᳚¦प॒रः¦अ॒स्ति॒¦स्व॒धा॒ऽवः॒ |
वि॒शः¦च॒¦यस्याः᳚¦अति॑थिः¦भवा᳚सि¦सः¦य॒ज्ञेन॑¦व॒न॒व॒त्¦दे॒व॒¦मर्ता॑न् ||

व॒यम॑ग्नेवनुयाम॒त्वोता᳚वसू॒यवो᳚ह॒विषा॒बुध्य॑मानाः |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

व॒यंस॑म॒र्येवि॒दथे॒ष्वह्नां᳚व॒यंरा॒यास॑हसस्पुत्र॒मर्ता॒न्त्(स्वाहा᳚) || 6 ||

व॒य‌म्¦अ॒ग्ने॒¦व॒नु॒या॒म॒¦त्वाऽऊ᳚ताः¦व॒सु॒ऽयवः॑¦ह॒विषा᳚¦बुध्य॑मानाः |
व॒य‌म्¦स॒ऽम॒र्ये¦वि॒दथे᳚षु¦अह्ना᳚‌म्¦व॒य‌म्¦रा॒या¦स॒ह॒सः॒¦पु॒त्र॒¦मर्ता॑न् ||

योन॒आगो᳚,अ॒भ्येनो॒भरा॒त्यधीद॒घम॒घशं᳚सेदधात |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

ज॒हीचि॑कित्वो,अ॒भिश॑स्तिमे॒तामग्ने॒योनो᳚म॒र्चय॑तिद्व॒येन॒(स्वाहा᳚) || 7 || वर्ग:17

यः¦नः॒¦आगः॑¦अ॒भि¦एनः॑¦भरा᳚ति¦अधि॑¦इत्¦अ॒घ‌म्¦अ॒घऽशं᳚से¦द॒धा॒त॒ |
ज॒हि¦चि॒कि॒त्वः॒¦अ॒भिऽश॑स्ति‌म्¦ए॒ता‌म्¦अग्ने᳚¦यः¦नः॒¦म॒र्चय॑ति¦द्व॒येन॑ ||

त्वाम॒स्याव्युषि॑देव॒पूर्वे᳚दू॒तंकृ᳚ण्वा॒ना,अ॑यजन्तह॒व्यैः |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

सं॒स्थेयद॑ग्न॒ईय॑सेरयी॒णांदे॒वोमर्तै॒र्वसु॑भिरि॒ध्यमा᳚नः॒(स्वाहा᳚) || 8 ||

त्वा‌म्¦अ॒स्याः¦वि॒।औषि॑¦दे॒व॒¦पूर्वे᳚¦दू॒त‌म्¦कृ॒ण्वा॒नाः¦अ॒य॒ज॒न्त॒¦ह॒व्यैः |
स॒‌म्ऽस्थे¦यत्¦अ॒ग्ने॒¦ईय॑से¦र॒यी॒णा‌म्¦दे॒वः¦मर्तैः᳚¦वसु॑ऽभिः¦इ॒ध्यमा᳚नः ||

अव॑स्पृधिपि॒तरं॒योधि॑वि॒द्वान्पु॒त्रोयस्ते᳚सहसःसूनऊ॒हे |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

क॒दाचि॑कित्वो,अ॒भिच॑क्षसे॒नोऽग्ने᳚क॒दाँ,ऋ॑त॒चिद्‌या᳚तयासे॒(स्वाहा᳚) || 9 ||

अव॑¦स्पृ॒धि॒¦पि॒तर᳚‌म्¦योधि॑¦वि॒द्वान्¦पु॒त्रः¦यः¦ते॒¦स॒ह॒सः॒¦सू॒नो॒ इति॑¦ऊ॒हे |
क॒दा¦चि॒कि॒त्वः॒¦अ॒भि¦च॒क्ष॒से॒¦नः॒¦अ॒ग्ने॒¦क॒दा¦ऋ॒त॒ऽचित्¦या॒त॒या॒से॒ ||

भूरि॒नाम॒वन्द॑मानोदधातिपि॒ताव॑सो॒यदि॒तज्जो॒षया᳚से |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

कु॒विद्दे॒वस्य॒सह॑साचका॒नःसु॒म्नम॒ग्निर्व॑नतेवावृधा॒नः(स्वाहा᳚) || 10 ||

भूरि॑¦नाम॑¦वन्द॑मानः¦द॒धा॒ति॒¦पि॒ता¦व॒सो॒ इति॑¦यदि॑¦तत्¦जो॒षया᳚से |
कु॒वित्¦दे॒वस्य॑¦सह॑सा¦च॒का॒नः¦सु॒म्न‌म्¦अ॒ग्निः¦व॒न॒ते॒¦व॒वृ॒धा॒नः ||

त्वम॒ङ्गज॑रि॒तारं᳚यविष्ठ॒विश्वा᳚न्यग्नेदुरि॒ताति॑पर्षि |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

स्ते॒ना,अ॑दृश्रन्‌रि॒पवो॒जना॒सोऽज्ञा᳚तकेतावृजि॒ना,अ॑भूव॒‌न्(स्वाहा᳚) || 11 ||

त्व‌म्¦अ॒ङ्ग¦ज॒रि॒तार᳚‌म्¦य॒वि॒ष्ठ॒¦विश्वा᳚नि¦अ॒ग्ने॒¦दुः॒ऽ‌इ॒ता¦अति॑¦प॒र्षि |
स्ते॒नाः¦अ॒दृ॒श्र॒न्¦रि॒पवः॑¦जना᳚सः¦अज्ञा᳚तऽकेताः¦वृ॒जि॒नाः¦अ॒भू॒व॒न् ||

इ॒मेयामा᳚सस्त्व॒द्रिग॑भूव॒न्वस॑वेवा॒तदिदागो᳚,अवाचि |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

नाहा॒यम॒ग्निर॒भिश॑स्तयेनो॒नरीष॑तेवावृधा॒नःपरा᳚दा॒‌त्(स्वाहा᳚) || 12 ||

इ॒मे¦यामा᳚सः¦त्व॒द्रिक्¦अ॒भू॒व॒न्¦वस॑वे¦वा॒¦तत्¦इत्¦आगः॑¦अ॒वा॒चि॒ |
न¦अह॑¦अ॒य‌म्¦अ॒ग्निः¦अ॒भिऽश॑स्तये¦नः॒¦न¦रिष॑ते¦व॒वृ॒धा॒नः¦परा᳚¦दा॒त् ||

[4] त्वामग्नइत्येकादशर्चस्य सूक्तस्यात्रेयोवसुश्रुतोग्निस्त्रिष्टुप् |{मंडल:5, सूक्त:4}{अनुवाक:1, सूक्त:4}{अष्टक:3, अध्याय:8}
त्वाम॑ग्ने॒वसु॑पतिं॒वसू᳚नाम॒भिप्रम᳚न्दे,अध्व॒रेषु॑राजन् |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

त्वया॒वाजं᳚वाज॒यन्तो᳚जयेमा॒ऽभिष्या᳚मपृत्सु॒तीर्मर्त्या᳚ना॒‌म्(स्वाहा᳚) || 1 || वर्ग:18

त्वा‌म्¦अ॒ग्ने॒¦वसु॑ऽपति‌म्¦वसू᳚ना‌म्¦अ॒भि¦प्र¦म॒न्दे॒¦अ॒ध्व॒रेषु॑¦रा॒ज॒न् |
त्वया᳚¦वाज᳚‌म्¦वा॒ज॒ऽयन्तः॑¦ज॒ये॒म॒¦अ॒भि¦स्या॒म॒¦पृ॒त्सु॒तीः¦मर्त्या᳚ना‌म् ||

ह॒व्य॒वाळ॒ग्निर॒जरः॑पि॒तानो᳚वि॒भुर्वि॒भावा᳚सु॒दृशी᳚को,अ॒स्मे |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

सु॒गा॒र्ह॒प॒त्याःसमिषो᳚दिदीह्यस्म॒द्र्य१॑(अ॒)क्‌संमि॑मीहि॒श्रवां᳚सि॒(स्वाहा᳚) || 2 ||

ह॒व्य॒ऽवाट्¦अ॒ग्निः¦अ॒जरः॑¦पि॒ता¦नः॒¦वि॒ऽभुः¦वि॒भाऽवा᳚¦सु॒ऽदृशी᳚कः¦अ॒स्मे इति॑ |
सु॒ऽगा॒र्ह॒प॒त्याः¦स‌म्¦इषः॑¦दि॒दी॒हि॒¦अ॒स्म॒द्र्य॑क्¦स‌म्¦मि॒मी॒हि॒¦श्रवां᳚सि ||

वि॒शांक॒विंवि॒श्पतिं॒मानु॑षीणां॒शुचिं᳚पाव॒कंघृ॒तपृ॑ष्ठम॒ग्निम् |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

निहोता᳚रंविश्व॒विदं᳚दधिध्वे॒सदे॒वेषु॑वनते॒वार्या᳚णि॒(स्वाहा᳚) || 3 ||

वि॒शा‌म्¦क॒वि‌म्¦वि॒श्पति᳚‌म्¦मानु॑षीणा‌म्¦शुचि᳚‌म्¦पा॒व॒क‌म्¦घृ॒तऽपृ॑ष्ठ‌म्¦अ॒ग्नि‌म् |
नि¦होता᳚र‌म्¦वि॒श्व॒ऽविद᳚‌म्¦द॒धि॒ध्वे॒¦सः¦दे॒वेषु॑¦व॒न॒ते॒¦वार्या᳚णि ||

जु॒षस्वा᳚ग्न॒इळ॑यास॒जोषा॒यत॑मानोर॒श्मिभिः॒सूर्य॑स्य |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

जु॒षस्व॑नःस॒मिधं᳚जातवेद॒आच॑दे॒वान्‌ह॑वि॒रद्या᳚यवक्षि॒(स्वाहा᳚) || 4 ||

जु॒षस्व॑¦अ॒ग्ने॒¦इळ॑या¦स॒ऽजोषाः᳚¦यत॑मानः¦र॒श्मिऽभिः॑¦सूर्य॑स्य |
जु॒षस्व॑¦नः॒¦स॒‌म्ऽ‌इध᳚‌म्¦जा॒त॒ऽवे॒दः॒¦आ¦च॒¦दे॒वान्¦ह॒विः॒।आद्या᳚य¦व॒क्षि॒ ||

जुष्टो॒दमू᳚ना॒,अति॑थिर्दुरो॒णइ॒मंनो᳚य॒ज्ञमुप॑याहिवि॒द्वान् |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

विश्वा᳚,अग्ने,अभि॒युजो᳚वि॒हत्या᳚शत्रूय॒तामाभ॑रा॒भोज॑नानि॒(स्वाहा᳚) || 5 ||

जुष्टः॑¦दमू᳚नाः¦अति॑थिः¦दु॒रो॒णे¦इ॒म‌म्¦नः॒¦य॒ज्ञ‌म्¦उप॑¦या॒हि॒¦वि॒द्वान् |
विश्वाः᳚¦अ॒ग्ने॒¦अ॒भि॒ऽयुजः॑¦वि॒ऽहत्य॑¦श॒त्रु॒ऽय॒ता‌म्¦आ¦भ॒र॒¦भोज॑नानि ||

व॒धेन॒दस्युं॒प्रहिचा॒तय॑स्व॒वयः॑कृण्वा॒नस्त॒न्वे॒३॑(ए॒)स्वायै᳚ |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

पिप॑र्षि॒यत्‌स॑हसस्पुत्रदे॒वान्त्सो,अ॑ग्नेपाहिनृतम॒वाजे᳚,अ॒स्मान्(स्वाहा᳚) || 6 || वर्ग:19

वे॒धेन॑¦दस्यु᳚‌म्¦प्र¦हि¦चा॒तय॑स्व¦वयः॑¦कृ॒ण्वा॒नः¦त॒न्वे᳚¦स्वायै᳚ |
पिप॑र्षि¦यत्¦स॒ह॒सः॒¦पु॒त्र॒¦दे॒वान्¦सः¦अ॒ग्ने॒¦पा॒हि॒¦नृ॒ऽत॒म॒¦वाजे᳚¦अ॒स्मान् ||

व॒यंते᳚,अग्नउ॒क्थैर्वि॑धेमव॒यंह॒व्यैःपा᳚वकभद्रशोचे |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

अ॒स्मेर॒यिंवि॒श्ववा᳚रं॒समि᳚न्वा॒स्मेविश्वा᳚नि॒द्रवि॑णानिधेहि॒(स्वाहा᳚) || 7 ||

व॒य‌म्¦ते॒¦अ॒ग्ने॒¦उ॒क्थैः¦वि॒धे॒म॒¦व॒य‌म्¦ह॒व्यैः¦पा॒व॒क॒¦भ॒द्र॒ऽशो॒चे॒ |
अ॒स्मे इति॑¦र॒यि‌म्¦वि॒श्वऽवा᳚र‌म्¦स‌म्¦इ॒न्व॒¦अ॒स्मे इति॑¦विश्वा᳚नि¦द्रवि॑णानि¦धे॒हि॒ ||

अ॒स्माक॑मग्ने,अध्व॒रंजु॑षस्व॒सह॑सःसूनोत्रिषधस्थह॒व्यम् |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

व॒यंदे॒वेषु॑सु॒कृतः॑स्याम॒शर्म॑णानस्त्रि॒वरू᳚थेनपाहि॒(स्वाहा᳚) || 8 ||

अ॒स्माक᳚‌म्¦अ॒ग्ने॒¦अ॒ध्व॒र‌म्¦जु॒ष॒स्व॒¦सह॑सः¦सू॒नो॒ इति॑¦त्रि॒ऽस॒ध॒स्थ॒¦ह॒व्य‌म् |
व॒य‌म्¦दे॒वेषु॑¦सु॒ऽकृतः॑¦स्या॒म॒¦शर्म॑णा¦नः॒¦त्रि॒ऽवरू᳚थेन¦पा॒हि॒ ||

विश्वा᳚निनोदु॒र्गहा᳚जातवेदः॒सिन्धुं॒नना॒वादु॑रि॒ताति॑पर्षि |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

अग्ने᳚,अत्रि॒वन्नम॑सागृणा॒नो॒३॑(ओ॒)ऽस्माकं᳚बोध्यवि॒तात॒नूना॒‌म्(स्वाहा᳚) || 9 ||

विश्वा᳚नि¦नः॒¦दुः॒ऽगहा᳚¦जा॒त॒ऽवे॒दः॒¦सिन्धु᳚‌म्¦न¦ना॒वा¦दुः॒ऽ‌इ॒ता¦अति॑¦प॒र्षि॒ |
अग्ने᳚¦अ॒त्रि॒ऽवत्¦नम॑सा¦गृ॒णा॒नः¦अ॒स्माक᳚‌म्¦बो॒धि॒¦अ॒वि॒ता¦त॒नूना᳚‌म् ||

यस्त्वा᳚हृ॒दाकी॒रिणा॒मन्य॑मा॒नोऽम॑र्त्यं॒मर्त्यो॒जोह॑वीमि |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

जात॑वेदो॒यशो᳚,अ॒स्मासु॑धेहिप्र॒जाभि॑रग्ने,अमृत॒त्वम॑श्या॒‌म्(स्वाहा᳚) || 10 ||

यः¦त्वा॒¦हृ॒दा¦की॒रिणा᳚¦मन्य॑मानः¦अम॑र्त्य‌म्¦मर्त्यः॑¦जोह॑वीमि |
जात॑ऽवेदः¦यशः॑¦अ॒स्मासु॑¦धे॒हि॒¦प्र॒ऽजाभिः॑¦अ॒ग्ने॒¦अ॒मृ॒त॒ऽत्व‌म्¦अ॒श्या॒‌म् ||

यस्मै॒त्वंसु॒कृते᳚जातवेदउलो॒कम॑ग्नेकृ॒णवः॑स्यो॒नम् |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

अ॒श्विनं॒सपु॒त्रिणं᳚वी॒रव᳚न्तं॒गोम᳚न्तंर॒यिंन॑शतेस्व॒स्ति(स्वाहा᳚) || 11 ||

यस्मै᳚¦त्व‌म्¦सु॒ऽकृते᳚¦जा॒त॒ऽवे॒दः॒¦ऊँ॒ इति॑¦लो॒क‌म्¦अ॒ग्ने॒¦कृ॒णवः॑¦स्यो॒न‌म् |
अ॒श्विन᳚‌म्¦सः¦पु॒त्रिण᳚‌म्¦वी॒रऽव᳚न्त‌म्¦गोऽम᳚न्त‌म्¦र॒यि‌म्¦न॒श॒ते॒¦स्व॒स्ति ||

[5] सुसमिद्धायेत्येकादशर्चस्य सूक्तस्यात्रेयो वसुश्रुतः इध्मोनराशंस इळोबर्हिर्देवीर्द्वार उषासानक्तादैव्यौहोतारौ सरस्वतीळाभारत्यस्त्वष्टा वनस्पति स्वाहाकृतयो गायत्री |{मंडल:5, सूक्त:5}{अनुवाक:1, सूक्त:5}{अष्टक:3, अध्याय:8}
सुस॑मिद्धायशो॒चिषे᳚घृ॒तंती॒व्रंजु॑होतन |{आत्रेयो वसुश्रुतः | इध्मः समिद्धोऽग्निर्वा | गायत्री}

अ॒ग्नये᳚जा॒तवे᳚दसे॒(स्वाहा᳚) || 1 || वर्ग:20

सुऽस॑मिद्धाय¦शो॒चिषे᳚¦घृ॒त‌म्¦ती॒व्र‌म्¦जु॒हो॒त॒न॒ | अ॒ग्नये᳚¦जा॒तऽवे᳚दसे ||

नरा॒शंसः॑सुषूदती॒मंय॒ज्ञमदा᳚भ्यः |{आत्रेयो वसुश्रुतः | नराशंसः | गायत्री}

क॒विर्हिमधु॑हस्त्यः॒(स्वाहा᳚) || 2 ||

नरा॒शंसः॑¦सु॒सू॒द॒ति॒¦इ॒म‌म्¦य॒ज्ञ‌म्¦अदा᳚भ्यः | क॒विः¦हि¦मधु॑ऽहस्त्यः ||

ई॒ळि॒तो,अ॑ग्न॒आव॒हेन्द्रं᳚चि॒त्रमि॒हप्रि॒यम् |{आत्रेयो वसुश्रुतः | इळः | गायत्री}

सु॒खैरथे᳚भिरू॒तये॒(स्वाहा᳚) || 3 ||

ई॒ळि॒तः¦अ॒ग्ने॒¦आ¦व॒ह॒¦इन्द्र᳚‌म्¦चि॒त्र‌म्¦इ॒ह¦प्रि॒य‌म् | सु॒ऽखैः¦रथे᳚भिः¦ऊ॒तये᳚ ||

ऊर्ण᳚म्रदा॒विप्र॑थस्वा॒ऽभ्य१॑(अ॒)र्का,अ॑नूषत |{आत्रेयो वसुश्रुतः | बर्हिः | गायत्री}

भवा᳚नःशुभ्रसा॒तये॒(स्वाहा᳚) || 4 ||

ऊर्ण॑ऽम्रदाः¦वि¦प्र॒थ॒स्व॒¦अ॒भि¦अ॒र्काः¦अ॒नू॒ष॒त॒ | भव॑¦नः॒¦शु॒भ्र॒¦सा॒तये᳚ ||

देवी᳚र्द्वारो॒विश्र॑यध्वंसुप्राय॒णान॑ऊ॒तये᳚ |{आत्रेयो वसुश्रुतः | देवीर्द्वारः | गायत्री}

प्रप्र॑य॒ज्ञंपृ॑णीतन॒(स्वाहा᳚) || 5 ||

देवीः᳚¦द्वा॒रः॒¦वि¦श्र॒य॒ध्व॒‌म्¦सु॒प्र॒।आ॒य॒नाः¦नः॒¦ऊ॒तये᳚ | प्रऽप्र॑¦य॒ज्ञ‌म्¦पृ॒णी॒त॒न॒ ||

सु॒प्रती᳚केवयो॒वृधा᳚य॒ह्वी,ऋ॒तस्य॑मा॒तरा᳚ |{आत्रेयो वसुश्रुतः | उषसानक्ता | गायत्री}

दो॒षामु॒षास॑मीमहे॒(स्वाहा᳚) || 6 || वर्ग:21

सु॒प्रती᳚के॒ इति॑ सु॒ऽप्रती᳚के¦व॒यः॒ऽवृधा᳚¦य॒ह्वी इति॑¦ऋ॒तस्य॑¦मा॒तरा᳚ | दो॒षा‌म्¦उ॒षस᳚‌म्¦ई॒म॒हे॒ ||

वात॑स्य॒पत्म᳚न्नीळि॒तादैव्या॒होता᳚रा॒मनु॑षः |{आत्रेयो वसुश्रुतः | दैव्यौ होतारौ प्रचेतसौ | गायत्री}

इ॒मंनो᳚य॒ज्ञमाग॑त॒‌म्(स्वाहा᳚) || 7 ||

वात॑स्य¦पत्म॑न्¦ई॒ळि॒ता¦दैव्या᳚¦होता᳚रा¦मनु॑षः | इ॒म‌म्¦नः॒¦य॒ज्ञ‌म्¦आ¦ग॒त॒‌म् ||

इळा॒सर॑स्वतीम॒हीति॒स्रोदे॒वीर्म॑यो॒भुवः॑ |{आत्रेयो वसुश्रुतः | तिस्रो देव्यः सरस्वतीळाभारत्यः | गायत्री}

ब॒र्हिःसी᳚दन्त्व॒स्रिधः॒(स्वाहा᳚) || 8 ||

इळा᳚¦सर॑स्वती¦म॒ही¦ति॒स्रः¦दे॒वीः¦म॒यः॒ऽभुवः॑ | ब॒र्हिः¦सी॒द॒न्तु॒¦अ॒स्रिधः॑ ||

शि॒वस्त्व॑ष्टरि॒हाग॑हिवि॒भुःपोष॑उ॒तत्मना᳚ |{आत्रेयो वसुश्रुतः | त्वष्टा | गायत्री}

य॒ज्ञेय॑ज्ञेन॒उद॑व॒(स्वाहा᳚) || 9 ||

शि॒वः¦त्व॒ष्टः॒¦इ॒ह¦आ॒¦ग॒हि॒¦वि॒ऽभुः¦पोषे᳚¦उ॒त¦त्मना᳚ | य॒ज्ञेऽय॑ज्ञे¦नः॒¦उत्¦अ॒व॒ ||

यत्र॒वेत्थ॑वनस्पतेदे॒वानां॒गुह्या॒नामा᳚नि |{आत्रेयो वसुश्रुतः | वनस्पतिः | गायत्री}

तत्र॑ह॒व्यानि॑गामय॒(स्वाहा᳚) || 10 ||

यत्र॑¦वेत्थ॑¦व॒न॒स्प॒ते॒¦दे॒वाना᳚‌म्¦गुह्या᳚¦नामा᳚नि | तत्र॑¦ह॒व्यानि॑¦ग॒म॒य॒ ||

स्वाहा॒ग्नये॒वरु॑णाय॒स्वाहेन्द्रा᳚यम॒रुद्भ्यः॑ |{आत्रेयो वसुश्रुतः | स्वाहाकृतयः | गायत्री}

स्वाहा᳚दे॒वेभ्यो᳚ह॒विः(स्वाहा᳚) || 11 ||

स्वाहा᳚¦अ॒ग्नये᳚¦वरु॑णाय¦स्वाहा᳚¦इन्द्रा᳚य¦म॒रुत्ऽभ्यः॑ | स्वाहा᳚¦दे॒वेभ्यः॑¦ह॒विः ||

[6] अग्निंतमिति दशर्चर्स्य सूक्तस्यात्रेयोवसुश्रुतोग्निपङ्क्तिः |{मंडल:5, सूक्त:6}{अनुवाक:1, सूक्त:6}{अष्टक:3, अध्याय:8}
अ॒ग्निंतंम᳚न्ये॒योवसु॒रस्तं॒यंयन्ति॑धे॒नवः॑ |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

अस्त॒मर्व᳚न्तआ॒शवोऽस्तं॒नित्या᳚सोवा॒जिन॒इषं᳚स्तो॒तृभ्य॒आभ॑र॒(स्वाहा᳚) || 1 || वर्ग:22

अ॒ग्नि‌म्¦त‌म्¦म॒न्ये॒¦यः¦वसुः॑¦अस्त᳚‌म्¦य‌म्¦यन्ति॑¦धे॒नवः॑ |
अस्त᳚‌म्¦अर्व᳚न्तः¦आ॒शवः॑¦अस्त᳚‌म्¦नित्या᳚सः¦वा॒जिनः॑¦इष᳚‌म्¦स्तो॒तृऽभ्यः॑¦आ¦भ॒र॒ ||

सो,अ॒ग्निर्योवसु॑र्गृ॒णेसंयमा॒यन्ति॑धे॒नवः॑ |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

समर्व᳚न्तोरघु॒द्रुवः॒संसु॑जा॒तासः॑सू॒रय॒इषं᳚स्तो॒तृभ्य॒आभ॑र॒(स्वाहा᳚) || 2 ||

सः¦अ॒ग्निः¦यः¦वसुः॑¦गृ॒णे¦स‌म्¦य‌म्¦आ॒ऽयन्ति॑¦धे॒नवः॑ |
स‌म्¦अर्व᳚न्तः¦र॒घु॒ऽद्रुवः॑¦स‌म्¦सु॒ऽजा॒तासः॑¦सू॒रय॑¦इष᳚‌म्¦स्तो॒तृऽभ्यः॑¦आ¦भ॒र॒ ||

अ॒ग्निर्हिवा॒जिनं᳚वि॒शेददा᳚तिवि॒श्वच॑र्षणिः |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

अ॒ग्नीरा॒येस्वा॒भुवं॒सप्री॒तोया᳚ति॒वार्य॒मिषं᳚स्तो॒तृभ्य॒आभ॑र॒(स्वाहा᳚) || 3 ||

अ॒ग्निः¦हि¦वा॒जिन᳚‌म्¦वि॒शे¦ददा᳚ति¦वि॒श्वऽच॑र्षणिः |
अ॒ग्निः¦रा॒ये¦सु॒ऽआ॒भुव᳚‌म्¦सः¦प्री॒तः¦या॒ति॒¦वार्य᳚‌म्¦इष᳚‌म्¦स्तो॒तृऽभ्यः॑¦आ¦भ॒र॒ ||

आते᳚,अग्नइधीमहिद्यु॒मन्तं᳚देवा॒जर᳚म् |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

यद्ध॒स्याते॒पनी᳚यसीस॒मिद्‌दी॒दय॑ति॒द्यवीषं᳚स्तो॒तृभ्य॒आभ॑र॒(स्वाहा᳚) || 4 ||

आ¦ते॒¦अ॒ग्ने॒¦इ॒धी॒म॒हि॒¦द्यु॒ऽमन्त᳚‌म्¦दे॒व॒¦अ॒जर᳚‌म् |
यत्¦ह॒¦स्या¦ते॒¦पनी᳚यसी¦स॒‌म्ऽ‌इत्¦दी॒दय॑ति¦द्यवि॑¦इष᳚‌म्¦स्तो॒तृऽभ्यः॑¦आ¦भ॒र॒ ||

आते᳚,अग्नऋ॒चाह॒विःशुक्र॑स्यशोचिषस्पते |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

सुश्च᳚न्द्र॒दस्म॒विश्प॑ते॒हव्य॑वा॒ट्‌तुभ्यं᳚हूयत॒इषं᳚स्तो॒तृभ्य॒आभ॑र॒(स्वाहा᳚) || 5 ||

आ¦ते॒¦अ॒ग्ने॒¦ऋ॒चा¦ह॒विः¦शुक्र॑स्य¦शो॒चि॒षः॒¦प॒ते॒ |
सुऽच᳚न्द्र¦दस्म॑¦विश्प॑ते¦हव्य॑ऽवाट्¦तुभ्य᳚‌म्¦हू॒य॒ते॒¦इष᳚‌म्¦स्तो॒तृऽभ्यः॑¦आ¦भ॒र॒ ||

प्रोत्ये,अ॒ग्नयो॒ऽग्निषु॒विश्वं᳚पुष्यन्ति॒वार्य᳚म् |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

तेहि᳚न्विरे॒तइ᳚न्विरे॒तइ॑षण्यन्त्यानु॒षगिषं᳚स्तो॒तृभ्य॒आभ॑र॒(स्वाहा᳚) || 6 || वर्ग:23

प्रो इति॑¦त्ये¦अ॒ग्नयः॑¦अ॒ग्निषु॑¦विश्व᳚‌म्¦पु॒ष्य॒न्ति॒¦वार्य᳚‌म् |
ते¦हि॒न्वि॒रे॒¦ते¦इ॒न्वि॒रे॒¦ते¦इ॒ष॒ण्य॒न्ति॒¦आ॒नु॒षक्¦इष᳚‌म्¦स्तो॒तृऽभ्यः॑¦आ¦भ॒र॒ ||

तव॒त्ये,अ॑ग्ने,अ॒र्चयो॒महि᳚व्राधन्तवा॒जिनः॑ |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

येपत्व॑भिःश॒फानां᳚व्र॒जाभु॒रन्त॒गोना॒मिषं᳚स्तो॒तृभ्य॒आभ॑र॒(स्वाहा᳚) || 7 ||

तव॑¦त्ये¦अ॒ग्ने॒¦अ॒र्चयः॑¦महि॑¦व्रा॒ध॒न्त॒¦वा॒जिनः॑ |
ये¦पत्व॑ऽभिः¦श॒फाना᳚‌म्¦व्र॒जा¦भु॒रन्त॑¦गोना᳚‌म्¦इष᳚‌म्¦स्तो॒तृऽभ्यः॑¦आ¦भ॒र॒ ||

नवा᳚नो,अग्न॒आभ॑रस्तो॒तृभ्यः॑सुक्षि॒तीरिषः॑ |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

तेस्या᳚म॒यआ᳚नृ॒चुस्त्वादू᳚तासो॒दमे᳚दम॒इषं᳚स्तो॒तृभ्य॒आभ॑र॒(स्वाहा᳚) || 8 ||

नवाः᳚¦नः॒¦अ॒ग्ने॒¦आ¦भ॒र॒¦स्तो॒तृऽभ्यः॑¦सु॒ऽक्षि॒तीः¦इषः॑ |
ते¦स्या॒म॒¦ये¦आ॒नृ॒चुः¦त्वाऽदू᳚तासः¦दमे᳚ऽदमे¦इष᳚‌म्¦स्तो॒तृऽभ्यः॑¦आ¦भ॒र॒ ||

उ॒भेसु॑श्चन्द्रस॒र्पिषो॒दर्वी᳚श्रीणीषआ॒सनि॑ |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

उ॒तोन॒उत्‌पु॑पूर्या,उ॒क्थेषु॑शवसस्पत॒इषं᳚स्तो॒तृभ्य॒आभ॑र॒(स्वाहा᳚) || 9 ||

उ॒भे इति॑¦सु॒ऽच॒न्द्र॒¦स॒र्पिषः॑¦दर्वी॒ इति॑¦श्री॒णी॒षे॒¦आ॒सनि॑ |
उ॒तो इति॑¦नः॒¦उत्¦पु॒पू॒र्याः॒¦उ॒क्थेषु॑¦श॒व॒सः॒¦प॒ते॒¦इष᳚‌म्¦स्तो॒तृऽभ्यः॑¦आ¦भ॒र॒ ||

ए॒वाँ,अ॒ग्निम॑जुर्यमुर्गी॒र्भिर्य॒ज्ञेभि॑रानु॒षक् |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

दध॑द॒स्मेसु॒वीर्य॑मु॒तत्यदा॒श्वश्व्य॒मिषं᳚स्तो॒तृभ्य॒आभ॑र॒(स्वाहा᳚) || 10 ||

ए॒व¦अ॒ग्नि‌म्¦अ॒जु॒र्य॒मुः॒¦गीः॒ऽभिः¦य॒ज्ञेभिः॑¦आ॒नु॒षक् |
दध॑त्¦अ॒स्मे इति॑¦सु॒ऽवीर्य᳚‌म्¦उ॒त¦त्यत्¦आ॒शु॒।आश्व्य᳚‌म्¦इष᳚‌म्¦स्तो॒तृऽभ्यः॑¦आ¦भ॒र॒ ||

[7] सखायःसागिति दशर्चस्य सूक्तस्यात्रेयइषोग्निरनुष्टुबन्त्यापङ्क्तिः |{मंडल:5, सूक्त:7}{अनुवाक:1, सूक्त:7}{अष्टक:3, अध्याय:8}
सखा᳚यः॒संवः॑स॒म्यञ्च॒मिषं॒स्तोमं᳚चा॒ग्नये᳚ |{आत्रेय इषः | अग्निः | अनुष्टुप्}

वर्षि॑ष्ठायक्षिती॒नामू॒र्जोनप्त्रे॒सह॑स्वते॒(स्वाहा᳚) || 1 || वर्ग:24

सखा᳚यः¦स‌म्¦वः॒¦स॒म्यंच᳚‌म्¦इष᳚‌म्¦स्तोम᳚‌म्¦च॒¦अ॒ग्नये᳚ | वर्षि॑ष्ठाय¦क्षि॒ती॒ना‌म्¦ऊ॒र्जः¦नप्त्रे᳚¦सह॑स्वते ||

कुत्रा᳚चि॒द्यस्य॒समृ॑तौर॒ण्वानरो᳚नृ॒षद॑ने |{आत्रेय इषः | अग्निः | अनुष्टुप्}

अर्ह᳚न्तश्चि॒द्‌यमि᳚न्ध॒तेसं᳚ज॒नय᳚न्तिज॒न्तवः॒(स्वाहा᳚) || 2 ||

कुत्र॑¦चि॒त्¦यस्य॑¦स‌म्ऽऋ॑तौ¦र॒ण्वाः¦नरः॑¦नृ॒ऽसद॑ने | अर्ह᳚न्तः¦चि॒त्¦य‌म्¦इ॒न्ध॒ते¦स॒‌म्ऽज॒नय᳚न्ति¦ज॒न्तवः॑ ||

संयदि॒षोवना᳚महे॒संह॒व्यामानु॑षाणाम् |{आत्रेय इषः | अग्निः | अनुष्टुप्}

उ॒तद्यु॒म्नस्य॒शव॑सऋ॒तस्य॑र॒श्मिमाद॑दे॒(स्वाहा᳚) || 3 ||

स‌म्¦यत्¦इ॒षः¦वना᳚महे¦स‌म्¦ह॒व्या¦मानु॑षाणा‌म् | उ॒त¦द्यु॒म्नस्य॑¦शव॑सा¦ऋ॒तस्य॑¦र॒श्मि‌म्¦आ¦द॒दे॒ ||

सस्मा᳚कृणोतिके॒तुमानक्तं᳚चिद्दू॒रआस॒ते |{आत्रेय इषः | अग्निः | अनुष्टुप्}

पा॒व॒कोयद्‌वन॒स्पती॒न्प्रस्मा᳚मि॒नात्य॒जरः॒(स्वाहा᳚) || 4 ||

सः¦स्म॒¦कृ॒णो॒ति॒¦के॒तु‌म्¦आ¦नक्त᳚‌म्¦चि॒त्¦दू॒रे¦आ¦स॒ते | पा॒व॒कः¦यत्¦वन॒स्पती᳚न्¦प्र¦स्म॒¦मि॒नाति॑¦अ॒जरः॑ ||

अव॑स्म॒यस्य॒वेष॑णे॒स्वेदं᳚प॒थिषु॒जुह्व॑ति |{आत्रेय इषः | अग्निः | अनुष्टुप्}

अ॒भीमह॒स्वजे᳚न्यं॒भूमा᳚पृ॒ष्ठेव॑रुरुहुः॒(स्वाहा᳚) || 5 ||

अव॑¦स्म॒¦यस्य॑¦वेष॑णे¦स्वेद᳚‌म्¦प॒थिषु॑¦जुह्व॑ति | अ॒भि¦ई॒‌म्¦अह॑¦स्वऽजे᳚न्य‌म्¦भूम॑¦पृ॒ष्ठाऽ‌इ᳚व¦रु॒रु॒हुः॒ ||

यंमर्त्यः॑पुरु॒स्पृहं᳚वि॒दद्‌विश्व॑स्य॒धाय॑से |{आत्रेय इषः | अग्निः | अनुष्टुप्}

प्रस्वाद॑नंपितू॒नामस्त॑तातिंचिदा॒यवे॒(स्वाहा᳚) || 6 || वर्ग:25

य‌म्¦मर्त्यः॑¦पु॒रु॒ऽस्पृह᳚‌म्¦वि॒दत्¦विश्व॑स्य¦धाय॑से | प्र¦स्वाद॑न‌म्¦पि॒तू॒ना‌म्¦अस्त॑ऽताति‌म्¦चि॒त्¦आ॒यवे᳚ ||

सहिष्मा॒धन्वाक्षि॑तं॒दाता॒नदात्याप॒शुः |{आत्रेय इषः | अग्निः | अनुष्टुप्}

हिरि॑श्मश्रुः॒शुचि॑दन्नृ॒भुरनि॑भृष्टतविषिः॒(स्वाहा᳚) || 7 ||

सः¦हि¦स्म॒¦धन्व॑¦आऽक्षि॑त‌म्¦दाता᳚¦न¦दाति॑¦आ¦प॒शुः | हिरि॑ऽश्मश्रुः¦शुचि॑ऽदन्¦ऋ॒भुः¦अनि॑भृष्टऽतविषिः ||

शुचिः॑ष्म॒यस्मा᳚,अत्रि॒वत्प्रस्वधि॑तीव॒रीय॑ते |{आत्रेय इषः | अग्निः | अनुष्टुप्}

सु॒षूर॑सूतमा॒ताक्रा॒णायदा᳚न॒शेभग॒‌म्(स्वाहा᳚) || 8 ||

शुचिः॑¦स्म॒¦यस्मै᳚¦अ॒त्रि॒ऽवत्¦प्र¦स्वधि॑तिःऽ‌इव¦रीय॑ते | सु॒ऽसूः¦अ॒सू॒त॒¦मा॒ता¦क्रा॒णा¦यत्¦आ॒न॒शे¦भग᳚‌म् ||

आयस्ते᳚सर्पिरासु॒तेऽग्ने॒शमस्ति॒धाय॑से |{आत्रेय इषः | अग्निः | अनुष्टुप्}

ऐषु॑द्यु॒म्नमु॒तश्रव॒आचि॒त्तंमर्त्ये᳚षुधाः॒(स्वाहा᳚) || 9 ||

आ¦यः¦ते॒¦स॒र्पिः॒ऽआ॒सु॒ते॒¦अग्ने᳚¦श‌म्¦अस्ति॑¦धाय॑से | आ¦ए॒षु॒¦द्यु॒म्न‌म्¦उ॒त¦श्रवः॑¦आ¦चि॒त्त‌म्¦मर्त्ये᳚षु¦धाः॒ ||

इति॑चिन्म॒न्युम॒ध्रिज॒स्त्वादा᳚त॒माप॒शुंद॑दे |{आत्रेय इषः | अग्निः | पङ्क्तिः}

आद॑ग्ने॒,अपृ॑ण॒तोऽत्रिः॑सासह्या॒द्‌दस्यू᳚नि॒षःसा᳚सह्या॒न्नॄ॒‌न्(स्वाहा᳚) || 10 ||

इति॑¦चि॒त्¦म॒न्यु‌म्¦अ॒ध्रिजः॑¦त्वाऽदा᳚त‌म्¦आ¦प॒शु‌म्¦द॒दे॒ |
आत्¦अ॒ग्ने॒¦अपृ॑णतः¦अत्रिः॑¦स॒स॒ह्या॒त्¦दस्यू᳚न्¦इ॒षः¦स॒स॒ह्या॒त्¦नॄन् ||

[8] त्वामग्नऋतायवइति सप्तर्चस्य सूक्तस्यात्रेय इषोग्निर्जगती |{मंडल:5, सूक्त:8}{अनुवाक:1, सूक्त:8}{अष्टक:3, अध्याय:8}
त्वाम॑ग्नऋता॒यवः॒समी᳚धिरेप्र॒त्नंप्र॒त्नास॑ऊ॒तये᳚सहस्कृत |{आत्रेय इषः | अग्निः | जगती}

पु॒रु॒श्च॒न्द्रंय॑ज॒तंवि॒श्वधा᳚यसं॒दमू᳚नसंगृ॒हप॑तिं॒वरे᳚ण्य॒‌म्(स्वाहा᳚) || 1 || वर्ग:26

त्वा‌म्¦अ॒ग्ने॒¦ऋ॒त॒ऽयवः॑¦स‌म्¦ई॒धि॒रे॒¦प्र॒त्न‌म्¦प्र॒त्नासः॑¦ऊ॒तये᳚¦स॒हः॒ऽकृ॒त॒ |
पु॒रु॒ऽच॒न्द्र‌म्¦य॒ज॒त‌म्¦वि॒श्वऽधा᳚यस‌म्¦दमू᳚नस‌म्¦गृ॒हऽप॑ति‌म्¦वरे᳚ण्य‌म् ||

त्वाम॑ग्ने॒,अति॑थिंपू॒र्व्यंविशः॑शो॒चिष्के᳚शंगृ॒हप॑तिं॒निषे᳚दिरे |{आत्रेय इषः | अग्निः | जगती}

बृ॒हत्के᳚तुंपुरु॒रूपं᳚धन॒स्पृतं᳚सु॒शर्मा᳚णं॒स्वव॑संजर॒द्विष॒‌म्(स्वाहा᳚) || 2 ||

त्वा‌म्¦अ॒ग्ने॒¦अति॑थि‌म्¦पू॒र्व्य‌म्¦विशः॑¦शो॒चिःऽके᳚श‌म्¦गृ॒हऽप॑ति‌म्¦नि¦से॒दि॒रे॒ |
बृ॒हत्ऽके᳚तु‌म्¦पु॒रु॒ऽरूप᳚‌म्¦ध॒न॒ऽस्पृत᳚‌म्¦सु॒ऽशर्मा᳚ण‌म्¦सु॒।आव॑स‌म्¦ज॒र॒त्ऽविष᳚‌म् ||

त्वाम॑ग्ने॒मानु॑षीरीळते॒विशो᳚होत्रा॒विदं॒विवि॑चिंरत्न॒धात॑मम् |{आत्रेय इषः | अग्निः | जगती}

गुहा॒सन्तं᳚सुभगवि॒श्वद॑र्शतंतुविष्व॒णसं᳚सु॒यजं᳚घृत॒श्रिय॒‌म्(स्वाहा᳚) || 3 ||

त्वा‌म्¦अ॒ग्ने॒¦मानु॑षीः¦ई॒ळ॒ते॒¦विशः॑¦हो॒त्रा॒ऽविद᳚‌म्¦विवि॑चि‌म्¦र॒त्न॒ऽधात॑म‌म् |
गुहा᳚¦सन्त᳚‌म्¦सु॒ऽभ॒ग॒¦वि॒श्वऽद॑र्शत‌म्¦तु॒वि॒ऽस्व॒णस᳚‌म्¦सु॒ऽयज᳚‌म्¦घृ॒त॒ऽश्रिय᳚‌म् ||

त्वाम॑ग्नेधर्ण॒सिंवि॒श्वधा᳚व॒यंगी॒र्भिर्गृ॒णन्तो॒नम॒सोप॑सेदिम |{आत्रेय इषः | अग्निः | जगती}

सनो᳚जुषस्वसमिधा॒नो,अ᳚ङ्गिरोदे॒वोमर्त॑स्यय॒शसा᳚सुदी॒तिभिः॒(स्वाहा᳚) || 4 ||

त्वा‌म्¦अ॒ग्ने॒¦ध॒र्ण॒सि‌म्¦वि॒श्वधा᳚¦व॒य‌म्¦गीः॒ऽभिः¦गृ॒णन्तः॑¦नम॑सा¦उप॑¦से॒दि॒म॒ |
सः¦नः॒¦जु॒ष॒स्व॒¦स॒‌म्ऽ‌इ॒धा॒नः¦अ॒ङ्गि॒रः॒¦दे॒वः¦मर्त॑स्य¦य॒शसा᳚¦सु॒दी॒तिऽभिः॑ ||

त्वम॑ग्नेपुरु॒रूपो᳚वि॒शेवि॑शे॒वयो᳚दधासिप्र॒त्नथा᳚पुरुष्टुत |{आत्रेय इषः | अग्निः | जगती}

पु॒रूण्यन्ना॒सह॑सा॒विरा᳚जसि॒त्विषिः॒साते᳚तित्विषा॒णस्य॒नाधृषे॒(स्वाहा᳚) || 5 ||

त्व‌म्¦अ॒ग्ने॒¦पु॒रु॒ऽरूपः॑¦वि॒शेऽवि॑शे¦वयः॑¦द॒धा॒सि॒¦प्र॒त्नऽथा᳚¦पु॒रु॒ऽस्तु॒त॒ |
पु॒रूणि॑¦अन्ना᳚¦सह॑सा¦वि¦रा॒ज॒सि॒¦त्विषिः॑¦सा¦ते॒¦ति॒त्वि॒षा॒णस्य॑¦न¦आ॒ऽधृषे᳚ ||

त्वाम॑ग्नेसमिधा॒नंय॑विष्ठ्यदे॒वादू॒तंच॑क्रिरेहव्य॒वाह॑नम् |{आत्रेय इषः | अग्निः | जगती}

उ॒रु॒ज्रय॑संघृ॒तयो᳚नि॒माहु॑तंत्वे॒षंचक्षु॑र्दधिरेचोद॒यन्म॑ति॒(स्वाहा᳚) || 6 ||

त्वा‌म्¦अ॒ग्ने॒¦स॒‌म्ऽ‌इ॒धा॒न‌म्¦य॒वि॒ष्ठ्य॒¦दे॒वाः¦दू॒त‌म्¦च॒क्रि॒रे॒¦ह॒व्य॒ऽवाह॑न‌म् |
उ॒रु॒ऽज्रय॑स‌म्¦घृ॒तऽयो᳚नि‌म्¦आऽहु॑त‌म्¦त्वे॒ष‌म्¦चक्षुः॑¦द॒धि॒रे॒¦चो॒द॒यत्ऽम॑ति ||

त्वाम॑ग्नेप्र॒दिव॒आहु॑तंघृ॒तैःसु᳚म्ना॒यवः॑सुष॒मिधा॒समी᳚धिरे |{आत्रेय इषः | अग्निः | जगती}

सवा᳚वृधा॒नओष॑धीभिरुक्षि॒तो॒३॑(ओ॒)ऽभिज्रयां᳚सि॒पार्थि॑वा॒विति॑ष्ठसे॒(स्वाहा᳚) || 7 ||

त्वा‌म्¦अ॒ग्ने॒¦प्र॒ऽदिवः॑¦आऽहु॑त‌म्¦घृ॒तैः¦सु॒म्न॒ऽयवः॑¦सु॒ऽस॒मिधा᳚¦स‌म्¦ई॒धि॒रे॒ |
सः¦व॒वृ॒धा॒नः¦ओष॑धीभिः¦उ॒क्षि॒तः¦अ॒भि¦ज्रयां᳚सि¦पार्थि॑वा¦वि¦ति॒ष्ठ॒से॒ ||

[9] त्वामग्नइति सप्तर्चस्य सूक्तस्यात्रेयोगयोग्निरनुष्टुप्‌ पंचमी सप्तम्यौपङ्क्ती |{मंडल:5, सूक्त:9}{अनुवाक:1, सूक्त:9}{अष्टक:4, अध्याय:1}
त्वाम॑ग्नेह॒विष्म᳚न्तोदे॒वंमर्ता᳚सईळते |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

मन्ये᳚त्वाजा॒तवे᳚दसं॒सह॒व्याव॑क्ष्यानु॒षक्(स्वाहा᳚) || 1 || वर्ग:1

त्वा‌म्¦अ॒ग्ने॒¦ह॒विष्म᳚न्तः¦दे॒व‌म्¦मर्ता᳚सः¦ई॒ळ॒ते॒ | मन्ये᳚¦त्वा॒¦जा॒तऽवे᳚दस‌म्¦सः¦ह॒व्या¦व॒क्षि॒¦आ॒नु॒षक् ||

अ॒ग्निर्होता॒दास्व॑तः॒,क्षय॑स्यवृ॒क्तब᳚र्हिषः |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

संय॒ज्ञास॒श्चर᳚न्ति॒यंसंवाजा᳚सःश्रव॒स्यवः॒(स्वाहा᳚) || 2 ||

अ॒ग्निः¦होता᳚¦दास्व॑तः¦क्षय॑स्य¦वृ॒क्तऽब॑र्हिषः | स‌म्¦य॒ज्ञासः॑¦चर᳚न्ति¦य‌म्¦स‌म्¦वाजा᳚सः¦श्र॒व॒स्यवः॑ ||

उ॒तस्म॒यंशिशुं᳚यथा॒नवं॒जनि॑ष्टा॒रणी᳚ |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

ध॒र्तारं॒मानु॑षीणांवि॒शाम॒ग्निंस्व॑ध्व॒रम्(स्वाहा᳚) || 3 ||

उ॒त¦स्म॒¦य‌म्¦शिशु᳚‌म्¦य॒था॒¦नव᳚‌म्¦जनि॑ष्ट¦अ॒रणी॒ इति॑ | ध॒र्तार᳚‌म्¦मानु॑षीणा‌म्¦वि॒शा‌म्¦अ॒ग्नि‌म्¦सु॒।आ॒ध्व॒र‌म् ||

उ॒तस्म॑दुर्गृभीयसेपु॒त्रोनह्वा॒र्याणा᳚म् |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

पु॒रूयोदग्धासि॒वनाऽग्ने᳚प॒शुर्नयव॑से॒(स्वाहा᳚) || 4 ||

उ॒त¦स्म॒¦दुः॒ऽगृ॒भी॒य॒से॒¦पु॒त्रः¦न¦ह्वा॒र्याणा᳚‌म् | पु॒रु¦यः¦दग्धा᳚¦असि॑¦वना᳚¦अग्ने᳚¦प॒शुः¦न¦यव॑से ||

अध॑स्म॒यस्या॒र्चयः॑स॒म्यक्‌सं॒यन्ति॑धू॒मिनः॑ |{आत्रेयो गयः | अग्निः | पङ्क्तिः}

यदी॒मह॑त्रि॒तोदि॒व्युप॒ध्माते᳚व॒धम॑ति॒शिशी᳚तेध्मा॒तरी᳚यथा॒(स्वाहा᳚) || 5 ||

अध॑¦स्म॒¦यस्य॑¦अ॒र्चयः॑¦स॒म्यक्¦स॒‌म्ऽयन्ति॑¦धू॒मिनः॑ |
यत्¦ई॒‌म्¦अह॑¦त्रि॒तः¦दि॒वि¦उप॑¦ध्माता᳚ऽ‌इव¦धम॑ति¦शिशी᳚ते¦ध्मा॒तरि॑¦य॒था॒ ||

तवा॒हम॑ग्नऊ॒तिभि᳚र्मि॒त्रस्य॑च॒प्रश॑स्तिभिः |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

द्वे॒षो॒युतो॒नदु॑रि॒तातु॒र्याम॒मर्त्या᳚ना॒‌म्(स्वाहा᳚) || 6 ||

तव॑¦अ॒ह‌म्¦अ॒ग्ने॒¦ऊ॒तिऽभिः॑¦मि॒त्रस्य॑¦च॒¦प्रश॑स्तिऽभिः | द्वे॒षः॒ऽयुतः॑¦न¦दुः॒ऽ‌इ॒ता¦तु॒र्याम॑¦मर्त्या᳚ना‌म् ||

तंनो᳚,अग्ने,अ॒भीनरो᳚र॒यिंस॑हस्व॒आभ॑र |{आत्रेयो गयः | अग्निः | पङ्क्तिः}

सक्षे᳚पय॒त्‌सपो᳚षय॒द्भुव॒द्‌वाज॑स्यसा॒तय॑उ॒तैधि॑पृ॒त्सुनो᳚वृ॒धे(स्वाहा᳚) || 7 ||

त‌म्¦नः॒¦अ॒ग्ने॒¦अ॒भि¦नरः॑¦र॒यि‌म्¦स॒ह॒स्वः॒¦आ¦भ॒र॒ |
सः¦क्षे॒प॒य॒त्¦सः¦पो॒ष॒य॒त्¦भुव॑त्¦वाज॑स्य¦सा॒तये᳚¦उ॒त¦ए॒धि॒¦पृ॒त्सु¦नः॒¦वृ॒धे ||

[10] अग्नओजिष्टमिति सप्तर्चस्य सूक्तस्यात्रेयोगयोग्निरनुष्टुप्‌ चतुर्थीसप्तम्यौपङ्क्ती |{मंडल:5, सूक्त:10}{अनुवाक:1, सूक्त:10}{अष्टक:4, अध्याय:1}
अग्न॒ओजि॑ष्ठ॒माभ॑रद्यु॒म्नम॒स्मभ्य॑मध्रिगो |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

प्रनो᳚रा॒यापरी᳚णसा॒रत्सि॒वाजा᳚य॒पन्था॒‌म्(स्वाहा᳚) || 1 || वर्ग:2

अग्ने᳚¦ओजि॑ष्ठ‌म्¦आ¦भ॒र॒¦द्यु॒म्न‌म्¦अ॒स्मभ्य᳚‌म्¦अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो | प्र¦नः॒¦रा॒या¦परी᳚णसा¦रत्सि॑¦वाजा᳚य¦पन्था᳚‌म् ||

त्वंनो᳚,अग्ने,अद्भुत॒क्रत्वा॒दक्ष॑स्यमं॒हना᳚ |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

त्वे,अ॑सु॒र्य१॑(अ॒)मारु॑हत्क्रा॒णामि॒त्रोनय॒ज्ञियः॒(स्वाहा᳚) || 2 ||

त्व‌म्¦नः॒¦अ॒ग्ने॒¦अ॒द्भु॒त॒¦क्रत्वा᳚¦दक्ष॑स्य¦मं॒हना᳚ | त्वे इति॑¦अ॒सु॒र्य᳚‌म्¦आ¦अ॒रु॒ह॒त्¦क्रा॒णा¦मि॒त्रः¦न¦य॒ज्ञियः॑ ||

त्वंनो᳚,अग्नएषां॒गयं᳚पु॒ष्टिंच॑वर्धय |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

येस्तोमे᳚भिः॒प्रसू॒रयो॒नरो᳚म॒घान्या᳚न॒शुः(स्वाहा᳚) || 3 ||

त्व‌म्¦नः॒¦अ॒ग्ने॒¦ए॒षा॒‌म्¦गय᳚‌म्¦पु॒ष्टि‌म्¦च॒¦व॒र्ध॒य॒ | ये¦स्तोमे᳚भिः¦प्र¦सू॒रयः॑¦नरः॑¦म॒घानि॑¦आ॒न॒शुः ||

ये,अ॑ग्नेचन्द्रते॒गिरः॑शु॒म्भन्त्यश्व॑राधसः |{आत्रेयो गयः | अग्निः | पङ्क्तिः}

शुष्मे᳚भिःशु॒ष्मिणो॒नरो᳚दि॒वश्चि॒द्‌येषां᳚बृ॒हत्सु॑की॒र्तिर्बोध॑ति॒त्मना॒(स्वाहा᳚) || 4 ||

ये¦अ॒ग्ने॒¦च॒न्द्र॒¦ते॒¦गिरः॑¦शु॒म्भन्ति॑¦अश्व॑ऽराधसः |
शुष्मे᳚भिः¦शु॒ष्मिणः॑¦नरः॑¦दि॒वः¦चि॒त्¦येषा᳚‌म्¦बृ॒हत्¦सु॒ऽकी॒र्तिः¦बोध॑ति¦त्मना᳚ ||

तव॒त्ये,अ॑ग्ने,अ॒र्चयो॒भ्राज᳚न्तोयन्तिधृष्णु॒या |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

परि॑ज्मानो॒नवि॒द्युतः॑स्वा॒नोरथो॒नवा᳚ज॒युः(स्वाहा᳚) || 5 ||

तव॑¦त्ये¦अ॒ग्ने॒¦अ॒र्चयः॑¦भ्राज᳚न्तः¦य॒न्ति॒¦धृ॒ष्णु॒ऽया | परि॑ऽज्मानः¦न¦वि॒ऽद्युतः॑¦स्वा॒नः¦रथः॑¦न¦वा॒ज॒ऽयुः ||

नूनो᳚,अग्नऊ॒तये᳚स॒बाध॑सश्चरा॒तये᳚ |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

अ॒स्माका᳚सश्चसू॒रयो॒विश्वा॒,आशा᳚स्तरी॒षणि॒(स्वाहा᳚) || 6 ||

नु¦नः॒¦अ॒ग्ने॒¦ऊ॒तये᳚¦स॒ऽबाध॑सः¦च॒¦रा॒तये᳚ | अ॒स्माका᳚सः¦च॒¦सू॒रयः॑¦विश्वाः᳚¦आशाः᳚¦त॒री॒षणि॑ ||

त्वंनो᳚,अग्ने,अङ्गिरःस्तु॒तःस्तवा᳚न॒आभ॑र |{आत्रेयो गयः | अग्निः | पङ्क्तिः}

होत᳚र्विभ्वा॒सहं᳚र॒यिंस्तो॒तृभ्यः॒स्तव॑सेचनउ॒तैधि॑पृ॒त्सुनो᳚वृ॒धे(स्वाहा᳚) || 7 ||

त्व‌म्¦नः॒¦अ॒ग्ने॒¦अ॒ङ्गि॒रः॒¦स्तु॒तः¦स्तवा᳚नः¦आ¦भ॒र॒ |
होतः॑¦वि॒भ्व॒ऽसह᳚‌म्¦र॒यि‌म्¦स्तो॒तृऽभ्यः॑¦स्तव॑से¦च॒¦नः॒¦उ॒त¦ए॒धि॒¦पृ॒त्ऽसु¦नः॒¦वृ॒धे ||

[11] जनस्येति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निर्जगती |{मंडल:5, सूक्त:11}{अनुवाक:1, सूक्त:11}{अष्टक:4, अध्याय:1}
जन॑स्यगो॒पा,अ॑जनिष्ट॒जागृ॑विर॒ग्निःसु॒दक्षः॑सुवि॒ताय॒नव्य॑से |{आत्रेयः सुतम्भरः | अग्निः | जगती}

घृ॒तप्र॑तीकोबृह॒तादि॑वि॒स्पृशा᳚द्यु॒मद्‌विभा᳚तिभर॒तेभ्यः॒शुचिः॒(स्वाहा᳚) || 1 || वर्ग:3

जन॑स्य¦गो॒पाः¦अ॒ज॒नि॒ष्ट॒¦जागृ॑विः¦अ॒ग्निः¦सु॒ऽदक्षः॑¦सु॒वि॒ताय॑¦नव्य॑से |
घृ॒तऽप्र॑तीकः¦बृ॒ह॒ता¦दि॒वि॒ऽस्पृशा᳚¦द्यु॒ऽमत्¦वि¦भा॒ति॒¦भ॒र॒तेभ्यः॑¦शुचिः॑ ||

य॒ज्ञस्य॑के॒तुंप्र॑थ॒मंपु॒रोहि॑तम॒ग्निंनर॑स्त्रिषध॒स्थेसमी᳚धिरे |{आत्रेयः सुतम्भरः | अग्निः | जगती}

इन्द्रे᳚णदे॒वैःस॒रथं॒सब॒र्हिषि॒सीद॒न्निहोता᳚य॒जथा᳚यसु॒क्रतुः॒(स्वाहा᳚) || 2 ||

य॒ज्ञस्य॑¦के॒तु‌म्¦प्र॒थ॒म‌म्¦पु॒रःऽहि॑त‌म्¦अ॒ग्नि‌म्¦नरः॑¦त्रि॒ऽस॒ध॒स्थे¦स‌म्¦ई॒धि॒रे॒ |
इन्द्रे᳚ण¦दे॒वैः¦स॒ऽरथ᳚‌म्¦सः¦ब॒र्हिषि॑¦सीद॑त्¦नि¦होता᳚¦य॒जथा᳚य¦सु॒ऽक्रतुः॑ ||

अस᳚म्मृष्टोजायसेमा॒त्रोःशुचि᳚र्म॒न्द्रःक॒विरुद॑तिष्ठोवि॒वस्व॑तः |{आत्रेयः सुतम्भरः | अग्निः | जगती}

घृ॒तेन॑त्वावर्धयन्नग्नआहुतधू॒मस्ते᳚के॒तुर॑भवद्‌दि॒विश्रि॒तः(स्वाहा᳚) || 3 ||

अस᳚‌म्ऽमृष्टः¦जा॒य॒से॒¦मा॒त्रोः¦शुचिः॑¦म॒न्द्रः¦क॒विः¦उत्¦अ॒ति॒ष्ठः॒¦वि॒वस्व॑तः |
घृ॒तेन॑¦त्वा॒¦अ॒व॒र्ध॒य॒न्¦अ॒ग्ने॒¦आ॒ऽहु॒त॒¦धू॒मः¦ते॒¦के॒तुः¦अ॒भ॒व॒त्¦दि॒वि¦श्रि॒तः ||

अ॒ग्निर्नो᳚य॒ज्ञमुप॑वेतुसाधु॒याऽग्निंनरो॒विभ॑रन्तेगृ॒हेगृ॑हे |{आत्रेयः सुतम्भरः | अग्निः | जगती}

अ॒ग्निर्दू॒तो,अ॑भवद्धव्य॒वाह॑नो॒ऽग्निंवृ॑णा॒नावृ॑णतेक॒विक्र॑तु॒‌म्(स्वाहा᳚) || 4 ||

अ॒ग्निः¦नः॒¦य॒ज्ञ‌म्¦उप॑¦वे॒तु॒¦सा॒धु॒ऽया¦अ॒ग्नि‌म्¦नरः॑¦वि¦भ॒र॒न्ते॒¦गृ॒हेऽगृ॑हे |
अ॒ग्निः¦दू॒तः¦अ॒भ॒व॒त्¦ह॒व्य॒ऽवाह॑नः¦अ॒ग्नि‌म्¦वृ॒णा॒नाः¦वृ॒ण॒ते॒¦क॒विऽक्र॑तु‌म् ||

तुभ्ये॒दम॑ग्ने॒मधु॑मत्तमं॒वच॒स्तुभ्यं᳚मनी॒षा,इ॒यम॑स्तु॒शंहृ॒दे |{आत्रेयः सुतम्भरः | अग्निः | जगती}

त्वांगिरः॒सिन्धु॑मिवा॒वनी᳚र्म॒हीरापृ॑णन्ति॒शव॑साव॒र्धय᳚न्तिच॒(स्वाहा᳚) || 5 ||

तुभ्य॑¦इ॒द‌म्¦अ॒ग्ने॒¦मधु॑मत्ऽतम‌म्¦वचः॑¦तुभ्य᳚‌म्¦म॒नी॒षा¦इ॒य‌म्¦अ॒स्तु॒¦श‌म्¦हृ॒दे |
त्वा‌म्¦गिरः॑¦सिन्धु᳚‌म्ऽ‌इव¦अ॒वनीः᳚¦म॒हीः¦आ¦पृ॒ण॒न्ति॒¦शव॑सा¦व॒र्धय᳚न्ति¦च॒ ||

त्वाम॑ग्ने॒,अङ्गि॑रसो॒गुहा᳚हि॒तमन्व॑विन्दञ्छिश्रिया॒णंवने᳚वने |{आत्रेयः सुतम्भरः | अग्निः | जगती}

सजा᳚यसेम॒थ्यमा᳚नः॒सहो᳚म॒हत्त्वामा᳚हुः॒सह॑सस्पु॒त्रम᳚ङ्गिरः॒(स्वाहा᳚) || 6 ||

त्वा‌म्¦अ॒ग्ने॒¦अङ्गि॑रसः¦गुहा᳚¦हि॒त‌म्¦अनु॑¦अ॒वि॒न्द॒न्¦शि॒श्रि॒या॒ण‌म्¦वने᳚ऽवने |
सः¦जा॒य॒से॒¦म॒थ्यमा᳚नः¦सहः॑¦म॒हत्¦त्वा‌म्¦आ॒हुः॒¦सह॑सः¦पु॒त्र‌म्¦अ॒ङ्गि॒रः॒ ||

[12] प्राग्नयइति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निस्त्रिष्टुप् |{मंडल:5, सूक्त:12}{अनुवाक:1, सूक्त:12}{अष्टक:4, अध्याय:1}
प्राग्नये᳚बृह॒तेय॒ज्ञिया᳚यऋ॒तस्य॒वृष्णे॒,असु॑राय॒मन्म॑ |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

घृ॒तंनय॒ज्ञआ॒स्ये॒३॑(ए॒)सुपू᳚तं॒गिरं᳚भरेवृष॒भाय॑प्रती॒चीम्(स्वाहा᳚) || 1 || वर्ग:4

प्र¦अ॒ग्नये᳚¦बृ॒ह॒ते¦य॒ज्ञिया᳚य¦ऋ॒तस्य॑¦वृष्णे᳚¦असु॑राय¦मन्म॑ |
घृ॒त‌म्¦न¦य॒ज्ञे¦आ॒स्ये᳚¦सुऽपू᳚त‌म्¦गिर᳚‌म्¦भ॒रे॒¦वृ॒ष॒भाय॑¦प्र॒ती॒ची‌म् ||

ऋ॒तंचि॑कित्वऋ॒तमिच्चि॑किद्ध्यृ॒तस्य॒धारा॒,अनु॑तृन्धिपू॒र्वीः |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

नाहंया॒तुंसह॑सा॒नद्व॒येन॑ऋ॒तंस॑पाम्यरु॒षस्य॒वृष्णः॒(स्वाहा᳚) || 2 ||

ऋ॒त‌म्¦चि॒कि॒त्वः॒¦ऋ॒त‌म्¦इत्¦चि॒कि॒द्धि॒¦ऋ॒तस्य॑¦धाराः᳚¦अनु॑¦तृ॒न्धि॒¦पू॒र्वीः |
न¦अ॒ह‌म्¦या॒तु‌म्¦सह॑सा¦न¦द्व॒येन॑¦ऋ॒त‌म्¦स॒पा॒मि॒¦अ॒रु॒षस्य॑¦वृष्णः॑ ||

कया᳚नो,अग्नऋ॒तय᳚न्नृ॒तेन॒भुवो॒नवे᳚दा,उ॒चथ॑स्य॒नव्यः॑ |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

वेदा᳚मेदे॒वऋ॑तु॒पा,ऋ॑तू॒नांनाहंपतिं᳚सनि॒तुर॒स्यरा॒यः(स्वाहा᳚) || 3 ||

कया᳚¦नः॒¦अ॒ग्ने॒¦ऋ॒तय॑न्¦ऋ॒तेन॑¦भुवः॑¦नवे᳚दाः¦उ॒चथ॑स्य¦नव्यः॑ |
वेद॑¦मे॒¦दे॒वः¦ऋ॒तु॒ऽपाः¦ऋ॒तू॒ना‌म्¦न¦अ॒ह‌म्¦पति᳚‌म्¦स॒नि॒तुः॒¦अ॒स्य¦रा॒यः ||

केते᳚,अग्नेरि॒पवे॒बन्ध॑नासः॒केपा॒यवः॑सनिषन्तद्यु॒मन्तः॑ |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

केधा॒सिम॑ग्ने॒,अनृ॑तस्यपान्ति॒कआस॑तो॒वच॑सःसन्तिगो॒पाः(स्वाहा᳚) || 4 ||

के¦ते॒¦अ॒ग्ने॒¦रि॒पवे᳚¦बन्ध॑नासः¦के¦पा॒यवः॑¦स॒नि॒ष॒न्त॒¦द्यु॒ऽमन्तः॑ |
के¦धा॒सि‌म्¦अ॒ग्ने॒¦अनृ॑तस्य¦पा॒न्ति॒¦के¦अस॑तः¦वच॑सः¦स॒न्ति॒¦गो॒पाः ||

सखा᳚यस्ते॒विषु॑णा,अग्नए॒तेशि॒वासः॒सन्तो॒,अशि॑वा,अभूवन् |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

अधू᳚र्षतस्व॒यमे॒तेवचो᳚भिरृजूय॒तेवृ॑जि॒नानि॑ब्रु॒वन्तः॒(स्वाहा᳚) || 5 ||

सखा᳚यः¦ते॒¦विषु॑णाः¦अ॒ग्ने॒¦ए॒ते¦शि॒वासः॑¦सन्तः॑¦अशि॑वाः¦अ॒भू॒व॒न् |
अधू᳚र्षत¦स्व॒य‌म्¦ए॒ते¦वचः॑ऽभिः¦ऋ॒जु॒ऽय॒ते¦वृ॒जि॒नानि॑¦ब्रु॒वन्तः॑ ||

यस्ते᳚,अग्ने॒नम॑साय॒ज्ञमीट्ट॑ऋ॒तंसपा᳚त्यरु॒षस्य॒वृष्णः॑ |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

तस्य॒क्षयः॑पृ॒थुरासा॒धुरे᳚तुप्र॒सर्स्रा᳚णस्य॒नहु॑षस्य॒शेषः॒(स्वाहा᳚) || 6 ||

यः¦ते॒¦अ॒ग्ने॒¦नम॑सा¦य॒ज्ञ‌म्¦ईट्टे᳚¦ऋ॒त‌म्¦सः¦पा॒ति॒¦अ॒रु॒षस्य॑¦वृष्णः॑ |
तस्य॑¦क्षयः॑¦पृ॒थुः¦आ¦सा॒धुः¦ए॒तु॒¦प्र॒ऽसर्स्रा᳚णस्य¦नहु॑षस्य¦शेषः॑ ||

[13] अर्चतइति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निर्गायत्री |{मंडल:5, सूक्त:13}{अनुवाक:1, सूक्त:13}{अष्टक:4, अध्याय:1}
अर्च᳚न्तस्त्वाहवाम॒हेऽर्च᳚न्तः॒समि॑धीमहि |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

अग्ने॒,अर्च᳚न्तऊ॒तये॒(स्वाहा᳚) || 1 || वर्ग:5

अर्च᳚न्तः¦त्वा॒¦ह॒वा॒म॒हे॒¦अर्च᳚न्तः¦स‌म्¦इ॒धी॒म॒हि॒ | अग्ने᳚¦अर्च᳚न्तः¦ऊ॒तये᳚ ||

अ॒ग्नेःस्तोमं᳚मनामहेसि॒ध्रम॒द्यदि॑वि॒स्पृशः॑ |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

दे॒वस्य॑द्रविण॒स्यवः॒(स्वाहा᳚) || 2 ||

अ॒ग्नेः¦स्तोम᳚‌म्¦म॒ना॒म॒हे॒¦सि॒ध्र‌म्¦अ॒द्य¦दि॒वि॒ऽस्पृशः॑ | दे॒वस्य॑¦द्र॒वि॒ण॒स्यवः॑ ||

अ॒ग्निर्जु॑षतनो॒गिरो॒होता॒योमानु॑षे॒ष्वा |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

सय॑क्ष॒द्‌दैव्यं॒जन॒‌म्(स्वाहा᳚) || 3 ||

अ॒ग्निः¦जु॒ष॒त॒¦नः॒¦गिरः॑¦होता᳚¦यः¦मानु॑षेषु¦आ | सः¦य॒क्ष॒त्¦दैव्य᳚‌म्¦जन᳚‌म् ||

त्वम॑ग्नेस॒प्रथा᳚,असि॒जुष्टो॒होता॒वरे᳚ण्यः |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

त्वया᳚य॒ज्ञंवित᳚न्वते॒(स्वाहा᳚) || 4 ||

त्व‌म्¦अ॒ग्ने॒¦स॒ऽप्रथाः᳚¦अ॒सि॒¦जुष्टः॑¦होता᳚¦वरे᳚ण्यः | त्वया᳚¦य॒ज्ञ‌म्¦वि¦त॒न्व॒ते॒ ||

त्वाम॑ग्नेवाज॒सात॑मं॒विप्रा᳚वर्धन्ति॒सुष्टु॑तम् |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

सनो᳚रास्वसु॒वीर्य॒‌म्(स्वाहा᳚) || 5 ||

त्वा‌म्¦अ॒ग्ने॒¦वा॒ज॒ऽसात॑म‌म्¦विप्राः᳚¦व॒र्ध॒न्ति॒¦सुऽस्तु॑त‌म् | सः¦नः॒¦रा॒स्व॒¦सु॒ऽवीर्य᳚‌म् ||

अग्ने᳚ने॒मिर॒राँ,इ॑वदे॒वाँस्त्वंप॑रि॒भूर॑सि |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

आराध॑श्चि॒त्रमृ᳚ञ्जसे॒(स्वाहा᳚) || 6 ||

अग्ने᳚¦ने॒मिः¦अ॒रान्ऽ‌इ᳚व¦दे॒वान्¦त्व‌म्¦प॒रि॒ऽभूः¦अ॒सि॒ | आ¦राधः॑¦चि॒त्र‌म्¦ऋं॒ज॒से॒ ||

[14] अग्निंस्तोमेनेति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निर्गायत्री |{मंडल:5, सूक्त:14}{अनुवाक:1, सूक्त:14}{अष्टक:4, अध्याय:1}
अ॒ग्निंस्तोमे᳚नबोधयसमिधा॒नो,अम॑र्त्यम् |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

ह॒व्यादे॒वेषु॑नोदध॒‌त्(स्वाहा᳚) || 1 || वर्ग:6

अ॒ग्नि‌म्¦स्तोमे᳚न¦बो॒ध॒य॒¦स॒‌म्ऽ‌इ॒धा॒नः¦अम॑र्त्य‌म् | ह॒व्या¦दे॒वेषु॑¦नः॒¦द॒ध॒त् ||

तम॑ध्व॒रेष्वी᳚ळतेदे॒वंमर्ता॒,अम॑र्त्यम् |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

यजि॑ष्ठं॒मानु॑षे॒जने॒(स्वाहा᳚) || 2 ||

त‌म्¦अ॒ध्व॒रेषु॑¦ई॒ळ॒ते॒¦दे॒व‌म्¦मर्ताः᳚¦अम॑र्त्य‌म् | यजि॑ष्ठ‌म्¦मानु॑षे¦जने᳚ ||

तंहिशश्व᳚न्त॒ईळ॑तेस्रु॒चादे॒वंघृ॑त॒श्चुता᳚ |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

अ॒ग्निंह॒व्याय॒वोळ्ह॑वे॒(स्वाहा᳚) || 3 ||

त‌म्¦हि¦शश्व᳚न्तः¦ईळ॑ते¦स्रु॒चा¦दे॒व‌म्¦घृ॒त॒ऽश्चुता᳚ | अ॒ग्नि‌म्¦ह॒व्याय॑¦वोळ्ह॑वे ||

अ॒ग्निर्जा॒तो,अ॑रोचत॒घ्नन्‌दस्यू॒ञ्ज्योति॑षा॒तमः॑ |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

अवि᳚न्द॒द्‌गा,अ॒पःस्वः॒(स्वाहा᳚) || 4 ||

अ॒ग्निः¦जा॒तः¦अ॒रो॒च॒त॒¦घ्नन्¦दस्यू᳚न्¦ज्योति॑षा¦तमः॑ | अवि᳚न्दत्¦गाः¦अ॒पः¦स्व१॒॑रिति॒ स्वः॑ ||

अ॒ग्निमी॒ळेन्यं᳚क॒विंघृ॒तपृ॑ष्ठंसपर्यत |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

वेतु॑मेशृ॒णव॒द्धव॒‌म्(स्वाहा᳚) || 5 ||

अ॒ग्नि‌म्¦ई॒ळेन्य᳚‌म्¦क॒वि‌म्¦घृ॒तऽपृ॑ष्ठ‌म्¦स॒प॒र्य॒त॒ | वेतु॑¦मे॒¦शृ॒णव॑त्¦हव᳚‌म् ||

अ॒ग्निंघृ॒तेन॑वावृधुः॒स्तोमे᳚भिर्वि॒श्वच॑र्षणिम् |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

स्वा॒धीभि᳚र्वच॒स्युभिः॒(स्वाहा᳚) || 6 ||

अ॒ग्नि‌म्¦घृ॒तेन॑¦व॒वृ॒धुः॒¦स्तोमे᳚भिः¦वि॒श्वऽच॑र्षणि‌म् | सु॒ऽआ॒धीभिः॑¦व॒च॒स्युऽभिः॑ ||

[15] प्रवेधसइति पंचर्चस्य सूक्तस्यांगिरसोधरुणोऽग्निस्त्रिष्टुप् |{मंडल:5, सूक्त:15}{अनुवाक:2, सूक्त:1}{अष्टक:4, अध्याय:1}
प्रवे॒धसे᳚क॒वये॒वेद्या᳚य॒गिरं᳚भरेय॒शसे᳚पू॒र्व्याय॑ |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्}

घृ॒तप्र॑सत्तो॒,असु॑रःसु॒शेवो᳚रा॒योध॒र्ताध॒रुणो॒वस्वो᳚,अ॒ग्निः(स्वाहा᳚) || 1 || वर्ग:7

प्र¦वे॒धसे᳚¦क॒वये᳚¦वेद्या᳚य¦गिर᳚‌म्¦भ॒रे॒¦य॒शसे᳚¦पू॒र्व्याय॑ |
घृ॒तऽप्र॑सत्तः¦असु॑रः¦सु॒ऽशेवः॑¦रा॒यः¦ध॒र्ता¦ध॒रुणः॑¦वस्वः॑¦अ॒ग्निः ||

ऋ॒तेन॑ऋ॒तंध॒रुणं᳚धारयन्तय॒ज्ञस्य॑शा॒केप॑र॒मेव्यो᳚मन् |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्}

दि॒वोधर्म᳚न्‌ध॒रुणे᳚से॒दुषो॒नॄञ्जा॒तैरजा᳚ताँ,अ॒भियेन॑न॒क्षुः(स्वाहा᳚) || 2 ||

ऋ॒तेन॑¦ऋ॒त‌म्¦ध॒रुण᳚‌म्¦धा॒र॒य॒न्त॒¦य॒ज्ञस्य॑¦शो॒के¦प॒र॒मे¦विऽओ᳚मन् |
दि॒वः¦धर्म॑न्¦ध॒रुणे᳚¦से॒दुषः॑¦नॄन्¦जा॒तैः¦अजा᳚तान्¦अ॒भि¦ये¦न॒न॒क्षुः ||

अं॒हो॒युव॑स्त॒न्व॑स्तन्वते॒विवयो᳚म॒हद्‌दु॒ष्टरं᳚पू॒र्व्याय॑ |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्}

ससं॒वतो॒नव॑जातस्तुतुर्यात्सिं॒हंनक्रु॒द्धम॒भितः॒परि॑ष्ठुः॒(स्वाहा᳚) || 3 ||

अं॒हः॒ऽयुवः॑¦त॒न्वः॑¦त॒न्व॒ते॒¦वि¦वयः॑¦म॒हत्¦दु॒स्तर᳚‌म्¦पू॒र्व्याय॑ |
सः¦स॒‌म्ऽवतः॑¦नव॑ऽजातः¦तु॒तु॒र्या॒त्¦सिं॒ह‌म्¦न¦क्रु॒द्ध‌म्¦अ॒भितः॑¦परि॑¦स्थुः॒ ||

मा॒तेव॒यद्‌भर॑सेपप्रथा॒नोजनं᳚जनं॒धाय॑से॒चक्ष॑सेच |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्}

वयो᳚वयोजरसे॒यद्‌दधा᳚नः॒परि॒त्मना॒विषु॑रूपोजिगासि॒(स्वाहा᳚) || 4 ||

मा॒ताऽ‌इ᳚व¦यत्¦भर॑से¦प॒प्र॒था॒नः¦जन᳚‌म्ऽजन‌म्¦धाय॑से¦चक्ष॑से¦च॒ |
वयः॑ऽवयः¦ज॒र॒से॒¦यत्¦दधा᳚नः¦परि॑¦त्मना᳚¦विषु॑ऽरूपः¦जि॒गा॒सि॒ ||

वाजो॒नुते॒शव॑सस्पा॒त्वन्त॑मु॒रुंदोघं᳚ध॒रुणं᳚देवरा॒यः |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्}

प॒दंनता॒युर्गुहा॒दधा᳚नोम॒होरा॒येचि॒तय॒न्नत्रि॑मस्पः॒(स्वाहा᳚) || 5 ||

वाजः॑¦नु¦ते॒¦शव॑सः¦पा॒तु॒¦अन्त᳚‌म्¦उ॒रु‌म्¦दोघ᳚‌म्¦ध॒रुण᳚‌म्¦दे॒व॒¦रा॒यः |
प॒द‌म्¦न¦ता॒युः¦गुहा᳚¦दधा᳚नः¦म॒हः¦रा॒ये¦चि॒तय॑न्¦अत्रि᳚‌म्¦अ॒स्प॒रित्य॑स्पः ||

[16] बृहद्वयइति पंचर्चस्य सूक्तस्यात्रेयः पूरुरग्निरनुष्टुप्‌ अंत्या पङ्क्तिः |{मंडल:5, सूक्त:16}{अनुवाक:2, सूक्त:2}{अष्टक:4, अध्याय:1}
बृ॒हद्वयो॒हिभा॒नवेऽर्चा᳚दे॒वाया॒ग्नये᳚ |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

यंमि॒त्रंनप्रश॑स्तिभि॒र्मर्ता᳚सोदधि॒रेपु॒रः(स्वाहा᳚) || 1 || वर्ग:8

बृ॒हत्¦वयः॑¦हि¦भा॒नवे᳚¦अर्च॑¦दे॒वाय॑¦अ॒ग्नये᳚ | य‌म्¦मि॒त्र‌म्¦न¦प्रश॑स्तिऽभिः¦मर्ता᳚सः¦द॒धि॒रे¦पु॒रः ||

सहिद्युभि॒र्जना᳚नां॒होता॒दक्ष॑स्यबा॒ह्वोः |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

विह॒व्यम॒ग्निरा᳚नु॒षग्भगो॒नवार॑मृण्वति॒(स्वाहा᳚) || 2 ||

सः¦हि¦द्युऽभिः॑¦जना᳚ना‌म्¦होता᳚¦दक्ष॑स्य¦बा॒ह्वोः | वि¦ह॒व्य‌म्¦अ॒ग्निः¦आ॒नु॒षक्¦भगः॑¦न¦वार᳚‌म्¦ऋ॒ण्व॒ति॒ ||

अ॒स्यस्तोमे᳚म॒घोनः॑स॒ख्येवृ॒द्धशो᳚चिषः |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

विश्वा॒यस्मि᳚न्‌तुवि॒ष्वणि॒सम॒र्येशुष्म॑माद॒धुः(स्वाहा᳚) || 3 ||

अ॒स्य¦स्तोमे᳚¦म॒घोनः॑¦स॒ख्ये¦वृ॒द्धऽशो᳚चिषः | विश्वा᳚¦यस्मि॑न्¦तु॒वि॒ऽस्वणि॑¦स‌म्¦अ॒र्ये¦शुष्म᳚‌म्¦आ॒ऽद॒धुः ||

अधा॒ह्य॑ग्नएषांसु॒वीर्य॑स्यमं॒हना᳚ |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

तमिद्‌य॒ह्वंनरोद॑सी॒परि॒श्रवो᳚बभूवतुः॒(स्वाहा᳚) || 4 ||

अध॑¦हि¦अ॒ग्ने॒¦ए॒षा॒‌म्¦सु॒ऽवीर्य॑स्य¦मं॒हना᳚ | त‌म्¦इत्¦य॒ह्व‌म्¦न¦रोद॑सी॒ इति॑¦परि॑¦श्रवः॑¦ब॒भू॒व॒तुः॒ ||

नून॒एहि॒वार्य॒मग्ने᳚गृणा॒नआभ॑र |{आत्रेयः पूरुः | अग्निः | पङ्क्तिः}

येव॒यंयेच॑सू॒रयः॑स्व॒स्तिधाम॑हे॒सचो॒तैधि॑पृ॒त्सुनो᳚वृ॒धे(स्वाहा᳚) || 5 ||

नु¦नः॒¦आ¦इ॒हि॒¦वार्य᳚‌म्¦अग्ने᳚¦गृ॒णा॒नः¦आ¦भ॒र॒ |
ये¦व॒य‌म्¦ये¦च॒¦सू॒रयः॑¦स्व॒स्ति¦धाम॑हे¦सचा᳚¦उ॒त¦ए॒धि॒¦पृ॒त्ऽसु¦नः॒¦वृ॒धे ||

[17] आयज्ञैरिति पंचर्चस्य सूक्तस्यात्रेयः पूरुरग्निरनुष्टुप्‌ अंत्या पङ्क्तिः |{मंडल:5, सूक्त:17}{अनुवाक:2, सूक्त:3}{अष्टक:4, अध्याय:1}
आय॒ज्ञैर्दे᳚व॒मर्त्य॑इ॒त्थातव्यां᳚समू॒तये᳚ |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

अ॒ग्निंकृ॒तेस्व॑ध्व॒रेपू॒रुरी᳚ळी॒ताव॑से॒(स्वाहा᳚) || 1 || वर्ग:9

आ¦य॒ज्ञैः¦दे॒व॒¦मर्त्यः॑¦इ॒त्था¦तव्यां᳚स‌म्¦ऊ॒तये᳚ | अ॒ग्नि‌म्¦कृ॒ते¦सु॒।आ॒ध्व॒रे¦पू॒रुः¦ई॒ळी॒त॒¦अव॑से ||

अस्य॒हिस्वय॑शस्तरआ॒सावि॑धर्म॒न्‌मन्य॑से |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

तंनाकं᳚चि॒त्रशो᳚चिषंम॒न्द्रंप॒रोम॑नी॒षया॒(स्वाहा᳚) || 2 ||

अस्य॑¦हि¦स्वय॑शःऽतरः¦आ॒सा¦वि॒ऽध॒र्म॒न्¦मन्य॑से | त‌म्¦नाक᳚‌म्¦चि॒त्रऽशो᳚चिष‌म्¦म॒न्द्र‌म्¦प॒रः¦म॒नी॒षया᳚ ||

अ॒स्यवासा,उ॑अ॒र्चिषा॒यआयु॑क्ततु॒जागि॒रा |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

दि॒वोनयस्य॒रेत॑साबृ॒हच्छोच᳚न्त्य॒र्चयः॒(स्वाहा᳚) || 3 ||

अ॒स्य¦वै¦अ॒सौ¦ऊँ॒ इति॑¦अ॒र्चिषा᳚¦यः¦अयु॑क्त¦तु॒जा¦गि॒रा | दि॒वः¦न¦यस्य॑¦रेत॑सा¦बृ॒हत्¦शोच᳚न्ति¦अ॒र्चयः॑ ||

अ॒स्यक्रत्वा॒विचे᳚तसोद॒स्मस्य॒वसु॒रथ॒आ |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

अधा॒विश्वा᳚सु॒हव्यो॒ऽग्निर्वि॒क्षुप्रश॑स्यते॒(स्वाहा᳚) || 4 ||

अ॒स्य¦क्रत्वा᳚¦विऽचे᳚तसः¦द॒स्मस्य॑¦वसु॑¦रथे᳚¦आ | अध॑¦विश्वा᳚सु¦हव्यः॑¦अ॒ग्निः¦वि॒क्षु¦प्र¦श॒स्य॒ते॒ ||

नून॒इद्धिवार्य॑मा॒सास॑चन्तसू॒रयः॑ |{आत्रेयः पूरुः | अग्निः | पङ्क्तिः}

ऊर्जो᳚नपाद॒भिष्ट॑येपा॒हिश॒ग्धिस्व॒स्तय॑उ॒तैधि॑पृ॒त्सुनो᳚वृ॒धे(स्वाहा᳚) || 5 ||

नु¦नः॒¦इत्¦हि¦वार्य᳚‌म्¦आ॒सा¦स॒च॒न्त॒¦सू॒रयः॑ |
ऊर्जः॑¦न॒पा॒त्¦अ॒भिष्ट॑ये¦पा॒हि¦श॒ग्धि¦स्व॒स्तये᳚¦उ॒त¦ए॒धि॒¦पृ॒त्ऽसु¦नः॒¦वृ॒धे ||

[18] प्रातरग्निरिति पंचर्चस्य सूक्तस्यात्रेयोमृक्तवाहाद्वितोग्निरनुष्टुप् अंत्या पङ्क्तिः |{मंडल:5, सूक्त:18}{अनुवाक:2, सूक्त:4}{अष्टक:4, अध्याय:1}
प्रा॒तर॒ग्निःपु॑रुप्रि॒योवि॒शःस्त॑वे॒ताति॑थिः |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | अनुष्टुप्}

विश्वा᳚नि॒यो,अम॑र्त्योह॒व्यामर्ते᳚षु॒रण्य॑ति॒(स्वाहा᳚) || 1 || वर्ग:10

प्रा॒तः¦अ॒ग्निः¦पु॒रु॒ऽप्रि॒यः¦वि॒शः¦स्त॒वे॒त॒¦अति॑थिः | विश्वा᳚नि¦यः¦अम॑र्त्यः¦ह॒व्या¦मर्ते᳚षु¦रण्य॑ति ||

द्वि॒ताय॑मृ॒क्तवा᳚हसे॒स्वस्य॒दक्ष॑स्यमं॒हना᳚ |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | अनुष्टुप्}

इन्दुं॒सध॑त्तआनु॒षक्स्तो॒ताचि॑त्ते,अमर्त्य॒(स्वाहा᳚) || 2 ||

द्वि॒ताय॑¦मृ॒क्तऽवा᳚हसे¦स्वस्य॑¦दक्ष॑स्य¦मं॒हना᳚ | इन्दु॒‌म्¦सः¦ध॒त्ते॒¦आ॒नु॒षक्¦स्तो॒ता¦चि॒त्¦ते॒¦अ॒म॒र्त्य॒ ||

तंवो᳚दी॒र्घायु॑शोचिषंगि॒राहु॑वेम॒घोना᳚म् |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | अनुष्टुप्}

अरि॑ष्टो॒येषां॒रथो॒व्य॑श्वदाव॒न्नीय॑ते॒(स्वाहा᳚) || 3 ||

त‌म्¦वः॒¦दी॒र्घायु॑ऽशोचिष‌म्¦गि॒रा¦हु॒वे॒¦म॒घोना᳚‌म् | अरि॑ष्टः¦येषा᳚‌म्¦रथः॑¦वि¦अ॒श्व॒ऽदा॒व॒न्¦ईय॑ते ||

चि॒त्रावा॒येषु॒दीधि॑तिरा॒सन्नु॒क्थापान्ति॒ये |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | अनुष्टुप्}

स्ती॒र्णंब॒र्हिःस्व᳚र्णरे॒श्रवां᳚सिदधिरे॒परि॒(स्वाहा᳚) || 4 ||

चि॒त्रा¦वा॒¦येषु॑¦दीधि॑तिः¦आ॒सन्¦उ॒क्था¦पान्ति॑¦ये | स्ती॒र्ण‌म्¦ब॒र्हिः¦स्वः॑ऽनरे¦श्रवां᳚सि¦द॒धि॒रे॒¦परि॑ ||

येमे᳚पञ्चा॒शतं᳚द॒दुरश्वा᳚नांस॒धस्तु॑ति |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | पङ्क्तिः}

द्यु॒मद॑ग्ने॒महि॒श्रवो᳚बृ॒हत्‌कृ॑धिम॒घोनां᳚नृ॒वद॑मृतनृ॒णाम्(स्वाहा᳚) || 5 ||

ये¦मे॒¦पं॒चा॒शत᳚‌म्¦द॒दुः¦अश्वा᳚ना‌म्¦स॒धऽस्तु॑ति |
द्यु॒ऽमत्¦अ॒ग्ने॒¦महि॑¦श्रवः॑¦बृ॒हत्¦कृ॒धि॒¦म॒घोना᳚‌म्¦नृ॒ऽवत्¦अ॒मृ॒त॒¦नृ॒णा‌म् ||

[19] अभ्यवस्थाइति पंचर्चस्य सूक्तस्यात्रेयोवव्रिरग्निः आद्येद्वेगायत्र्यौ तृतीया चतुर्थ्यां वनुष्टुभौ पंचमीविराड्रूपा |{मंडल:5, सूक्त:19}{अनुवाक:2, सूक्त:5}{अष्टक:4, अध्याय:1}
अ॒भ्य॑व॒स्थाःप्रजा᳚यन्ते॒प्रव॒व्रेर्व॒व्रिश्चि॑केत |{आत्रेयो वव्रिः | अग्निः | गायत्री}

उ॒पस्थे᳚मा॒तुर्विच॑ष्टे॒(स्वाहा᳚) || 1 || वर्ग:11

अ॒भि¦अ॒व॒ऽस्थाः¦प्र¦जा॒य॒न्ते॒¦प्र¦व॒व्रेः¦व॒व्रिः¦चि॒के॒त॒ | उ॒पऽस्थे᳚¦मा॒तुः¦वि¦च॒ष्टे॒ ||

जु॒हु॒रेविचि॒तय॒न्तोऽनि॑मिषंनृ॒म्णंपा᳚न्ति |{आत्रेयो वव्रिः | अग्निः | गायत्री}

आदृ॒ळ्हांपुरं᳚विविशुः॒(स्वाहा᳚) || 2 ||

जु॒हु॒रे¦वि¦चि॒तय᳚न्तः¦अनि॑ऽमिष‌म्¦नृ॒म्ण‌म्¦पा॒न्ति॒ | आ¦दृ॒ळ्हा‌म्¦पुर᳚‌म्¦वि॒वि॒शुः॒ ||

आश्वै᳚त्रे॒यस्य॑ज॒न्तवो᳚द्यु॒मद्‌व॑र्धन्तकृ॒ष्टयः॑ |{आत्रेयो वव्रिः | अग्निः | अनुष्टुप्}

नि॒ष्कग्री᳚वोबृ॒हदु॑क्थए॒नामध्वा॒नवा᳚ज॒युः(स्वाहा᳚) || 3 ||

आ¦श्वै॒त्रे॒यस्य॑¦ज॒न्तवः॑¦द्यु॒ऽमत्¦व॒र्ध॒न्त॒¦कृ॒ष्टयः॑ | नि॒ष्कऽग्री᳚वः¦बृ॒हत्।औ᳚क्थः¦ए॒ना¦मध्वा᳚¦न¦वा॒ज॒ऽयुः ||

प्रि॒यंदु॒ग्धंनकाम्य॒मजा᳚मिजा॒म्योःसचा᳚ |{आत्रेयो वव्रिः | अग्निः | अनुष्टुप्}

घ॒र्मोनवाज॑जठ॒रोऽद॑ब्धः॒शश्व॑तो॒दभः॒(स्वाहा᳚) || 4 ||

प्रि॒य‌म्¦दु॒ग्ध‌म्¦न¦काम्य᳚‌म्¦अजा᳚मि¦जा॒म्योः¦सचा᳚ | घ॒र्मः¦न¦वाज॑ऽजठरः¦अद॑ब्धः¦शश्व॑तः¦दभः॑ ||

क्रीळ᳚न्नोरश्म॒आभु॑वः॒संभस्म॑नावा॒युना॒वेवि॑दानः |{आत्रेयो वव्रिः | अग्निः | विराड्रूपा}

ता,अ॑स्यसन्‌धृ॒षजो॒नति॒ग्माःसुसं᳚शिताव॒क्ष्यो᳚वक्षणे॒स्थाः(स्वाहा᳚) || 5 ||

क्रीळ॑न्¦नः॒¦र॒श्मे॒¦आ¦भु॒वः॒¦स‌म्¦भस्म॑ना¦वा॒युना᳚¦वेवि॑दानः |
ताः¦अ॒स्य॒¦स॒न्¦धृ॒षजः॑¦न¦ति॒ग्माः¦सुऽसं᳚शिताः¦व॒क्ष्यः॑¦व॒क्ष॒णे॒ऽस्थाः ||

[20] यमग्न इति चतुरृचस्य सूक्तस्यात्रेयः प्रयस्वंतोग्निरनुष्टुप् अंत्या पङ्क्तिः |{मंडल:5, सूक्त:20}{अनुवाक:2, सूक्त:6}{अष्टक:4, अध्याय:1}
यम॑ग्नेवाजसातम॒त्वंचि॒न्‌मन्य॑सेर॒यिम् |{आत्रेयः प्रयस्वंतः | अग्निः | अनुष्टुप्}

तंनो᳚गी॒र्भिःश्र॒वाय्यं᳚देव॒त्राप॑नया॒युज॒‌म्(स्वाहा᳚) || 1 || वर्ग:12

य‌म्¦अ॒ग्ने॒¦वा॒ज॒ऽसा॒त॒म॒¦त्व‌म्¦चि॒त्¦मन्य॑से¦र॒यि‌म् | त‌म्¦नः॒¦गीः॒ऽभिः¦श्र॒वाय्य᳚‌म्¦दे॒व॒ऽत्रा¦प॒न॒य॒¦युज᳚‌म् ||

ये,अ॑ग्ने॒नेरय᳚न्तितेवृ॒द्धा,उ॒ग्रस्य॒शव॑सः |{आत्रेयः प्रयस्वंतः | अग्निः | अनुष्टुप्}

अप॒द्वेषो॒,अप॒ह्वरो॒ऽन्यव्र॑तस्यसश्चिरे॒(स्वाहा᳚) || 2 ||

ये¦अ॒ग्ने॒¦न¦ई॒रय᳚न्ति¦ते॒¦वृ॒द्धाः¦उ॒ग्रस्य॑¦शव॑सः | अप॑¦द्वेषः॑¦अप॑¦ह्वरः॑¦अ॒न्यऽव्र॑तस्य¦स॒श्चि॒रे॒ ||

होता᳚रंत्वावृणीम॒हेऽग्ने॒दक्ष॑स्य॒साध॑नम् |{आत्रेयः प्रयस्वंतः | अग्निः | अनुष्टुप्}

य॒ज्ञेषु॑पू॒र्व्यंगि॒राप्रय॑स्वन्तोहवामहे॒(स्वाहा᳚) || 3 ||

होता᳚र‌म्¦त्वा॒¦वृ॒णी॒म॒हे॒¦अग्ने᳚¦दक्ष॑स्य¦साध॑न‌म् | य॒ज्ञेषु॑¦पू॒र्व्य‌म्¦गि॒रा¦प्रय॑स्वन्तः¦ह॒वा॒म॒हे॒ ||

इ॒त्थायथा᳚तऊ॒तये॒सह॑सावन्‌दि॒वेदि॑वे |{आत्रेयः प्रयस्वंतः | अग्निः | पङ्क्तिः}

रा॒यऋ॒ताय॑सुक्रतो॒गोभिः॑ष्यामसध॒मादो᳚वी॒रैःस्या᳚मसध॒मादः॒(स्वाहा᳚) || 4 ||

इ॒त्था¦यथा᳚¦ते॒¦ऊ॒तये᳚¦सह॑साऽवन्¦दि॒वेऽदि॑वे |
रा॒ये¦ऋ॒ताय॑¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो¦गोभिः॑¦स्या॒म॒¦स॒ध॒ऽमादः॑¦वी॒रैः¦स्या॒म॒¦स॒ध॒ऽमादः॑ ||

[21] मनुष्वदिति चतुरृचस्य सूक्तस्यात्रेयःससोग्निरनुष्टुप् अंत्या पङ्क्तिः |{मंडल:5, सूक्त:21}{अनुवाक:2, सूक्त:7}{अष्टक:4, अध्याय:1}
म॒नु॒ष्वत्‌त्वा॒निधी᳚महिमनु॒ष्वत्‌समि॑धीमहि |{आत्रेयः ससः | अग्निः | अनुष्टुप्}

अग्ने᳚मनु॒ष्वद᳚ङ्गिरोदे॒वान्‌दे᳚वय॒तेय॑ज॒(स्वाहा᳚) || 1 || वर्ग:13

म॒नु॒ष्वत्¦त्वा॒¦नि¦धी॒म॒हि॒¦म॒नु॒ष्वत्¦स‌म्¦इ॒धी॒म॒हि॒ | अग्ने᳚¦म॒नु॒ष्वत्¦अ॒ङ्गि॒रः॒¦दे॒वान्¦दे॒व॒ऽय॒ते¦य॒ज॒ ||

त्वंहिमानु॑षे॒जनेऽग्ने॒सुप्री᳚तइ॒ध्यसे᳚ |{आत्रेयः ससः | अग्निः | अनुष्टुप्}

स्रुच॑स्त्वायन्त्यानु॒षक्सुजा᳚त॒सर्पि॑रासुते॒(स्वाहा᳚) || 2 ||

त्व‌म्¦हि¦मानु॑षे¦जने᳚¦अग्ने᳚¦सुऽप्री᳚तः¦इ॒ध्यसे᳚ | स्रुचः॑¦त्वा॒¦य॒न्ति॒¦आ॒नु॒षक्¦सुऽजा᳚त¦सर्पिः॑ऽआसुते ||

त्वांविश्वे᳚स॒जोष॑सोदे॒वासो᳚दू॒तम॑क्रत |{आत्रेयः ससः | अग्निः | अनुष्टुप्}

स॒प॒र्यन्त॑स्त्वाकवेय॒ज्ञेषु॑दे॒वमी᳚ळते॒(स्वाहा᳚) || 3 ||

त्वा‌म्¦विश्वे᳚¦स॒ऽजोष॑सः¦दे॒वासः॑¦दू॒त‌म्¦अ॒क्र॒त॒ | स॒प॒र्यन्तः॑¦त्वा॒¦क॒वे॒¦य॒ज्ञेषु॑¦दे॒व‌म्¦ई॒ळ॒ते॒ ||

दे॒वंवो᳚देवय॒ज्यया॒ऽग्निमी᳚ळीत॒मर्त्यः॑ |{आत्रेयः ससः | अग्निः | पङ्क्तिः}

समि॑द्धःशुक्रदीदिह्यृ॒तस्य॒योनि॒मास॑दःस॒सस्य॒योनि॒मास॑दः॒(स्वाहा᳚) || 4 ||

दे॒व‌म्¦वः॒¦दे॒व॒ऽय॒ज्यया᳚¦अ॒ग्नि‌म्¦ई॒ळी॒त॒¦मर्त्यः॑ |
स‌म्ऽ‌इ᳚द्धः¦शु॒क्र॒¦दी॒दि॒हि॒¦ऋ॒तस्य॑¦योनि᳚‌म्¦आ¦अ॒स॒दः॒¦स॒सस्य॑¦योनि᳚‌म्¦आ¦अ॒स॒दः॒ ||

[22] प्रविश्वसामन्निति चतुरृचस्य सूक्तस्यात्रेयोविश्वसामाग्निरनुष्टुप् अंत्या पङ्क्तिः |{मंडल:5, सूक्त:22}{अनुवाक:2, सूक्त:8}{अष्टक:4, अध्याय:1}
प्रवि॑श्वसामन्नत्रि॒वदर्चा᳚पाव॒कशो᳚चिषे |{आत्रेयो विश्वसामा | अग्निः | अनुष्टुप्}

यो,अ॑ध्व॒रेष्वीड्यो॒होता᳚म॒न्द्रत॑मोवि॒शि(स्वाहा᳚) || 1 || वर्ग:14

प्र¦वि॒श्व॒ऽसा॒म॒न्¦अ॒त्रि॒ऽवत्¦अर्च॑¦पा॒व॒कऽशो᳚चिषे | यः¦अ॒ध्व॒रेषु॑¦ईड्यः॑¦होता᳚¦म॒न्द्रऽत॑मः¦वि॒शि ||

न्य१॑(अ॒)ग्निंजा॒तवे᳚दसं॒दधा᳚तादे॒वमृ॒त्विज᳚म् |{आत्रेयो विश्वसामा | अग्निः | अनुष्टुप्}

प्रय॒ज्ञए᳚त्वानु॒षग॒द्यादे॒वव्य॑चस्तमः॒(स्वाहा᳚) || 2 ||

नि¦अ॒ग्नि‌म्¦जा॒तऽवे᳚दस‌म्¦दधा᳚त¦दे॒व‌म्¦ऋ॒त्विज᳚‌म् | प्र¦य॒ज्ञः¦ए॒तु॒¦आ॒नु॒षक्¦अ॒द्य¦दे॒वव्य॑चःऽतमः ||

चि॒कि॒त्विन्म॑नसंत्वादे॒वंमर्ता᳚सऊ॒तये᳚ |{आत्रेयो विश्वसामा | अग्निः | अनुष्टुप्}

वरे᳚ण्यस्य॒तेऽव॑सइया॒नासो᳚,अमन्महि॒(स्वाहा᳚) || 3 ||

चि॒कि॒त्वित्ऽम॑नस‌म्¦त्वा॒¦दे॒व‌म्¦मर्ता᳚सः¦ऊ॒तये᳚ | वरे᳚ण्यस्य¦ते॒¦अव॑सः¦इ॒या॒नासः॑¦अ॒म॒न्म॒हि॒ ||

अग्ने᳚चिकि॒द्ध्य१॑(अ॒)स्यन॑इ॒दंवचः॑सहस्य |{आत्रेयो विश्वसामा | अग्निः | पङ्क्तिः}

तंत्वा᳚सुशिप्रदम्पते॒स्तोमै᳚र्वर्ध॒न्त्यत्र॑योगी॒र्भिःशु᳚म्भ॒न्त्यत्र॑यः॒(स्वाहा᳚) || 4 ||

अग्ने᳚¦चि॒कि॒द्धि¦अ॒स्य¦नः॒¦इ॒द‌म्¦वचः॑¦स॒ह॒स्य॒ |
त‌म्¦त्वा॒¦सु॒ऽशि॒प्र॒¦द॒‌म्ऽप॒ते॒¦स्तोमैः᳚¦व॒र्ध॒न्ति॒¦अत्र॑यः¦गीः॒ऽभिः¦शु॒म्भ॒न्ति॒¦अत्र॑यः ||

[23] अग्नेसहंतमिति चतुरृचस्य सूक्तस्यात्रेयोद्युम्नोविश्वचर्षणिरग्निरनुष्टुप् अंत्या पङ्क्तिः |{मंडल:5, सूक्त:23}{अनुवाक:2, सूक्त:9}{अष्टक:4, अध्याय:1}
अग्ने॒सह᳚न्त॒माभ॑रद्यु॒म्नस्य॑प्रा॒सहा᳚र॒यिम् |{आत्रेयो द्युम्नो विश्वचर्षणिः | अग्निः | अनुष्टुप्}

विश्वा॒यश्च॑र्ष॒णीर॒भ्या॒३॑(आ॒)सावाजे᳚षुसा॒सह॒॑‌त्(स्वाहा᳚) || 1 || वर्ग:15

अग्ने᳚¦सह᳚न्त‌म्¦आ¦भ॒र॒¦द्यु॒म्नस्य॑¦प्र॒ऽसहा᳚¦र॒यि‌म् | विश्वाः᳚¦यः¦च॒र्ष॒णीः¦अ॒भि¦आ॒सा¦वाजे᳚षु¦स॒सह॑त् ||

तम॑ग्नेपृतना॒षहं᳚र॒यिंस॑हस्व॒आभ॑र |{आत्रेयो द्युम्नो विश्वचर्षणिः | अग्निः | अनुष्टुप्}

त्वंहिस॒त्यो,अद्भु॑तोदा॒तावाज॑स्य॒गोम॑तः॒(स्वाहा᳚) || 2 ||

त‌म्¦अ॒ग्ने॒¦पृ॒त॒ना॒ऽसह᳚‌म्¦र॒यि‌म्¦स॒ह॒स्वः॒¦आ¦भ॒र॒ | त्व‌म्¦हि¦स॒त्यः¦अद्भु॑तः¦दा॒ता¦वाज॑स्य¦गोऽम॑तः ||

विश्वे॒हित्वा᳚स॒जोष॑सो॒जना᳚सोवृ॒क्तब᳚र्हिषः |{आत्रेयो द्युम्नो विश्वचर्षणिः | अग्निः | अनुष्टुप्}

होता᳚रं॒सद्म॑सुप्रि॒यंव्यन्ति॒वार्या᳚पु॒रु(स्वाहा᳚) || 3 ||

विश्वे᳚¦हि¦त्वा॒¦स॒ऽजोष॑सः¦जना᳚सः¦वृ॒क्तऽब॑र्हिषः | होता᳚र‌म्¦सद्म॑ऽसु¦प्रि॒य‌म्¦व्यन्ति॑¦वार्या᳚¦पु॒रु ||

सहिष्मा᳚वि॒श्वच॑र्षणिर॒भिमा᳚ति॒सहो᳚द॒धे |{आत्रेयो द्युम्नो विश्वचर्षणिः | अग्निः | पङ्क्तिः}

अग्न॑ए॒षुक्षये॒ष्वारे॒वन्नः॑शुक्रदीदिहिद्यु॒मत्‌पा᳚वकदीदिहि॒(स्वाहा᳚) || 4 ||

सः¦हि¦स्म॒¦वि॒श्वऽच॑र्षणिः¦अ॒भिऽमा᳚ति¦सहः॑¦द॒धे |
अग्ने᳚¦ए॒षु¦क्षये᳚षु¦आ¦रे॒वत्¦नः॒¦शु॒क्र॒¦दी॒दि॒हि॒¦द्यु॒ऽमत्¦पा॒व॒क॒¦दी॒दि॒हि॒ ||

[24] अग्नेत्वंनइति चतुरृचस्य सूक्तस्य गौपायना लौपायनावाबंधुः सुबंधुः श्रुतबंधुर्विप्रबंधुश्चक्रमेणर्षयोऽग्निर्द्विपदा विराट् |{मंडल:5, सूक्त:24}{अनुवाक:2, सूक्त:10}{अष्टक:4, अध्याय:1}
अग्ने॒त्वंनो॒,अन्त॑मउ॒तत्रा॒ताशि॒वोभ॑वावरू॒थ्य॑१(अः॒)(स्वाहा᳚) || {गौपायना लौपायनावाबंधुः | अग्निः | द्विपदाविराट्}1 || वर्ग:16

अग्ने᳚¦त्व‌म्¦नः॒¦अन्त॑मः¦उ॒त¦त्रा॒ता¦शि॒वः¦भ॒व॒¦व॒रू॒थ्यः॑ ||

वसु॑र॒ग्निर्वसु॑श्रवा॒,अच्छा᳚नक्षिद्यु॒मत्त॑मंर॒यिंदाः᳚(स्वाहा᳚) || {गौपायना लौपायनावा सुबंधुः | अग्निः | द्विपदाविराट्}2 ||

वसुः॑¦अ॒ग्निः¦वसु॑ऽश्रवाः¦अच्छ॑¦न॒क्षि॒¦द्यु॒मत्ऽत॑म‌म्¦र॒यि‌म्¦दाः॒ ||

सनो᳚बोधिश्रु॒धीहव॑मुरु॒ष्याणो᳚,अघाय॒तःस॑मस्मा॒‌त्(स्वाहा᳚) || {गौपायना लौपायनावा श्रुतबंधुः | अग्निः | द्विपदाविराट्}3 ||

सः¦नः॒¦बो॒धि॒¦श्रु॒धि¦हव᳚‌म्¦उ॒रु॒ष्य¦नः॒¦अ॒घ॒ऽय॒तः¦स॒म॒स्मा॒त् ||

तंत्वा᳚शोचिष्ठदीदिवःसु॒म्नाय॑नू॒नमी᳚महे॒सखि॑भ्यः॒(स्वाहा᳚) || {गौपायना लौपायनावा विप्रबंधुः | अग्निः | द्विपदाविराट्}4 ||

त‌म्¦त्वा॒¦शो॒चि॒ष्ठ॒¦दी॒दि॒ऽवः॒¦सु॒म्नाय॑¦नू॒न‌म्¦ई॒म॒हे॒¦सखि॑ऽभ्यः ||

[25] अच्छावइति नवर्चस्य सूक्तस्यात्रेयो वसूयवोग्निरनुष्टुप् |{मंडल:5, सूक्त:25}{अनुवाक:2, सूक्त:11}{अष्टक:4, अध्याय:1}
अच्छा᳚वो,अ॒ग्निमव॑सेदे॒वंगा᳚सि॒सनो॒वसुः॑ |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

रास॑त्‌पु॒त्रऋ॑षू॒णामृ॒तावा᳚पर्षतिद्वि॒षः(स्वाहा᳚) || 1 || वर्ग:17

अच्छ॑¦वः॒¦अ॒ग्नि‌म्¦अव॑से¦दे॒व‌म्¦गा॒सि॒¦सः¦नः॒¦वसुः॑ | रास॑त्¦पु॒त्रः¦ऋ॒षू॒णा‌म्¦ऋ॒तऽवा᳚¦प॒र्ष॒ति॒¦द्वि॒षः ||

सहिस॒त्योयंपूर्वे᳚चिद्दे॒वास॑श्चि॒द्‌यमी᳚धि॒रे |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

होता᳚रंम॒न्द्रजि॑ह्व॒मित्सु॑दी॒तिभि᳚र्वि॒भाव॑सु॒‌म्(स्वाहा᳚) || 2 ||

सः¦हि¦स॒त्यः¦य‌म्¦पूर्वे᳚¦चि॒त्¦दे॒वासः॑¦चि॒त्¦य‌म्¦ई॒धि॒रे | होता᳚र‌म्¦म॒न्द्रऽजि॑ह्व‌म्¦इत्¦सु॒दी॒तिऽभिः॑¦वि॒भाऽव॑सु‌म् ||

सनो᳚धी॒तीवरि॑ष्ठया॒श्रेष्ठ॑याचसुम॒त्या |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

अग्ने᳚रा॒योदि॑दीहिनःसुवृ॒क्तिभि᳚र्वरेण्य॒(स्वाहा᳚) || 3 ||

सः¦नः॒¦धी॒ती¦वरि॑ष्ठया¦श्रेष्ठ॑या¦च॒¦सु॒ऽम॒त्या | अग्ने᳚¦रा॒यः¦दि॒दी॒हि॒¦नः॒¦सु॒वृ॒क्तिऽभिः॑¦व॒रे॒ण्य॒ ||

अ॒ग्निर्दे॒वेषु॑राजत्य॒ग्निर्मर्ते᳚ष्वावि॒शन् |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

अ॒ग्निर्नो᳚हव्य॒वाह॑नो॒ऽग्निंधी॒भिःस॑पर्यत॒(स्वाहा᳚) || 4 ||

अ॒ग्निः¦दे॒वेषु॑¦रा॒ज॒ति॒¦अ॒ग्निः¦मर्ते᳚षु¦आ॒ऽवि॒शन् | अ॒ग्निः¦नः॒¦ह॒व्य॒ऽवाह॑नः¦अ॒ग्नि‌म्¦धी॒भिः¦स॒प॒र्य॒त॒ ||

अ॒ग्निस्तु॒विश्र॑वस्तमंतु॒विब्र᳚ह्माणमुत्त॒मम् |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

अ॒तूर्तं᳚श्राव॒यत्प॑तिंपु॒त्रंद॑दातिदा॒शुषे॒(स्वाहा᳚) || 5 ||

अ॒ग्निः¦तु॒विश्र॑वःऽतम‌म्¦तु॒विऽब्र᳚ह्माण‌म्¦उ॒त्ऽत॒म‌म् | अ॒तूर्त᳚‌म्¦श्र॒व॒यत्ऽप॑ति‌म्¦पु॒त्र‌म्¦द॒दा॒ति॒¦दा॒शुषे᳚ ||

अ॒ग्निर्द॑दाति॒सत्प॑तिंसा॒साह॒योयु॒धानृभिः॑ |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

अ॒ग्निरत्यं᳚रघु॒ष्यदं॒जेता᳚र॒मप॑राजित॒‌म्(स्वाहा᳚) || 6 || वर्ग:18

अ॒ग्निः¦द॒दा॒ति॒¦सत्ऽप॑ति‌म्¦स॒साह॑¦यः¦यु॒धा¦नृऽभिः॑ | अ॒ग्निः¦अत्य᳚‌म्¦र॒घु॒ऽस्यद᳚‌म्¦जेता᳚र‌म्¦अप॑राऽजित‌म् ||

यद्वाहि॑ष्ठं॒तद॒ग्नये᳚बृ॒हद॑र्चविभावसो |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

महि॑षीव॒त्वद्‌र॒यिस्त्वद्‌वाजा॒,उदी᳚रते॒(स्वाहा᳚) || 7 ||

यत्¦वाहि॑ष्ठ‌म्¦तत्¦अ॒ग्नये᳚¦बृ॒हत्¦अ॒र्च॒¦वि॒भा॒व॒सो॒ इति॑ विभाऽवसो | महि॑षीऽ‌इव¦त्वत्¦र॒यिः¦त्वत्¦वाजाः᳚¦उत्¦ई॒र॒ते॒ ||

तव॑द्यु॒मन्तो᳚,अ॒र्चयो॒ग्रावे᳚वोच्यतेबृ॒हत् |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

उ॒तोते᳚तन्य॒तुर्य॑थास्वा॒नो,अ॑र्त॒त्मना᳚दि॒वः(स्वाहा᳚) || 8 ||

तव॑¦द्यु॒ऽमन्तः॑¦अ॒र्चयः॑¦ग्रावा᳚ऽ‌इव¦उ॒च्य॒ते॒¦बृ॒हत् | उ॒तो इति॑¦ते॒¦त॒न्य॒तुः¦य॒था॒¦स्वा॒नः¦अ॒र्त॒¦त्मना᳚¦दि॒वः ||

ए॒वाँ,अ॒ग्निंव॑सू॒यवः॑सहसा॒नंव॑वन्दिम |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

सनो॒विश्वा॒,अति॒द्विषः॒पर्ष᳚न्ना॒वेव॑सु॒क्रतुः॒(स्वाहा᳚) || 9 ||

ए॒व¦अ॒ग्नि‌म्¦व॒सु॒ऽयवः॑¦स॒ह॒सा॒न‌म्¦व॒व॒न्दि॒म॒ | सः¦नः॒¦विश्वाः᳚¦अति॑¦द्विषः॑¦पर्ष॑त्¦ना॒वाऽ‌इ᳚व¦सु॒ऽक्रतुः॑ ||

[26] अग्नेपावकेति नवर्चस्य सूक्तस्यात्रेयोवसूयवोग्निरंत्यायाविश्वेदेवागायत्री |{मंडल:5, सूक्त:26}{अनुवाक:2, सूक्त:12}{अष्टक:4, अध्याय:1}
अग्ने᳚पावकरो॒चिषा᳚म॒न्द्रया᳚देवजि॒ह्वया᳚ |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

आदे॒वान्‌व॑क्षि॒यक्षि॑च॒(स्वाहा᳚) || 1 || वर्ग:19

अग्ने᳚¦पा॒व॒क॒¦रो॒चिषा᳚¦म॒न्द्रया᳚¦दे॒व॒¦जि॒ह्वया᳚ | आ¦दे॒वान्¦व॒क्षि॒¦यक्षि॑¦च॒ ||

तंत्वा᳚घृतस्नवीमहे॒चित्र॑भानोस्व॒र्दृश᳚म् |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

दे॒वाँ,आवी॒तये᳚वह॒(स्वाहा᳚) || 2 ||

त‌म्¦त्वा॒¦घृ॒त॒स्नो॒ इति॑ घृतऽस्नो¦ई॒म॒हे॒¦चित्र॑भानो॒ इति॒ चित्र॑ऽभानो¦स्वः॒ऽदृश᳚‌म् | दे॒वान्¦आ¦वी॒तये᳚¦व॒ह॒ ||

वी॒तिहो᳚त्रंत्वाकवेद्यु॒मन्तं॒समि॑धीमहि |{आत्रेयो वसूयवः | अग्निः | गायत्री}

अग्ने᳚बृ॒हन्त॑मध्व॒रे(स्वाहा᳚) || 3 ||

वी॒तिऽहो᳚त्र‌म्¦त्वा॒¦क॒वे॒¦द्यु॒ऽमन्त᳚‌म्¦स‌म्¦इ॒धी॒म॒हि॒ | अग्ने᳚¦बृ॒हन्त᳚‌म्¦अ॒ध्व॒रे ||

अग्ने॒विश्वे᳚भि॒राग॑हिदे॒वेभि᳚र्ह॒व्यदा᳚तये |{आत्रेयो वसूयवः | अग्निः | गायत्री}

होता᳚रंत्वावृणीमहे॒(स्वाहा᳚) || 4 ||

अग्ने᳚¦विश्वे᳚ऽभिः¦आ¦ग॒हि॒¦दे॒वेभिः॑¦ह॒व्यऽदा᳚तये | होता᳚र‌म्¦त्वा॒¦वृ॒णी॒म॒हे॒ ||

यज॑मानायसुन्व॒तआग्ने᳚सु॒वीर्यं᳚वह |{आत्रेयो वसूयवः | अग्निः | गायत्री}

दे॒वैरास॑त्सिब॒र्हिषि॒(स्वाहा᳚) || 5 ||

यज॑मानाय¦सु॒न्व॒ते¦आ¦अ॒ग्ने॒¦सु॒ऽवीर्य᳚‌म्¦व॒ह॒ | दे॒वैः¦आ¦स॒त्सि॒¦ब॒र्हिषि॑ ||

स॒मि॒धा॒नःस॑हस्रजि॒दग्ने॒धर्मा᳚णिपुष्यसि |{आत्रेयो वसूयवः | अग्निः | गायत्री}

दे॒वानां᳚दू॒तउ॒क्थ्य॑१(अः॒)(स्वाहा᳚) || 6 || वर्ग:20

स॒‌म्ऽ‌इ॒धा॒नः¦स॒ह॒स्र॒ऽजि॒त्¦अग्ने᳚¦धर्मा᳚णि¦पु॒ष्य॒सि॒ | दे॒वाना᳚‌म्¦दू॒तः¦उ॒क्थ्यः॑ ||

न्य१॑(अ॒)ग्निंजा॒तवे᳚दसंहोत्र॒वाहं॒यवि॑ष्ठ्यम् |{आत्रेयो वसूयवः | अग्निः | गायत्री}

दधा᳚तादे॒वमृ॒त्विज॒‌म्(स्वाहा᳚) || 7 ||

नि¦अ॒ग्नि‌म्¦जा॒तऽवे᳚दस‌म्¦हो॒त्र॒ऽवाह᳚‌म्¦यवि॑ष्ठ्य‌म् | दधा᳚त¦दे॒व‌म्¦ऋ॒त्विज᳚‌म् ||

प्रय॒ज्ञए᳚त्वानु॒षग॒द्यादे॒वव्य॑चस्तमः |{आत्रेयो वसूयवः | अग्निः | गायत्री}

स्तृ॒णी॒तब॒र्हिरा॒सदे॒(स्वाहा᳚) || 8 ||

प्र¦य॒ज्ञः¦ए॒तु॒¦आ॒नु॒षक्¦अ॒द्य¦दे॒वव्य॑चःऽतमः | स्तृ॒णी॒त¦ब॒र्हिः¦आ॒ऽसदे᳚ ||

एदंम॒रुतो᳚,अ॒श्विना᳚मि॒त्रःसी᳚दन्तु॒वरु॑णः |{आत्रेयो वसूयवः | विश्वेदेवाः | गायत्री}

दे॒वासः॒सर्व॑यावि॒शा(स्वाहा᳚) || 9 ||

आ¦इ॒द‌म्¦म॒रुतः॑¦अ॒श्विना᳚¦मि॒त्रः¦सी॒द॒न्तु॒¦वरु॑णः | दे॒वासः॑¦सर्व॑या¦वि॒शा ||

[27] अनस्वंतेति षडृचस्य सूक्तस्य त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्चैतेऋषयोऽग्निरंत्यायाइंद्राग्नीत्रिष्टुप् अंत्यास्तिस्रोनुष्टुभः | ( अस्मिन्सूक्तेभौमोत्रिरेवदेवतेतिकेचित् अन्यथायोमेशताचविंशतिंचगोनामित्यादिदातृ क्रियायाअनुपपक्तेः | नैतदन्ये मन्यंतेआत्माध्यासपक्षस्वीकारेणतथाप्युपपक्तेः){मंडल:5, सूक्त:27}{अनुवाक:2, सूक्त:13}{अष्टक:4, अध्याय:1}
अन॑स्वन्ता॒सत्प॑तिर्मामहेमे॒गावा॒चेति॑ष्ठो॒,असु॑रोम॒घोनः॑ |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | त्रिष्टुप्}

त्रै॒वृ॒ष्णो,अ॑ग्नेद॒शभिः॑स॒हस्रै॒र्वैश्वा᳚नर॒त्र्य॑रुणश्चिकेत॒(स्वाहा᳚) || 1 || वर्ग:21

अन॑स्वन्ता¦सत्ऽप॑तिः¦म॒म॒हे॒¦मे॒¦गावा᳚¦चेति॑ष्ठः¦असु॑रः¦म॒घोनः॑ |
त्रै॒वृ॒ष्णः¦अ॒ग्ने॒¦द॒शऽभिः॑¦स॒हस्रैः᳚¦वैश्वा᳚नर¦त्रि।आ॑रुणः¦चि॒के॒त॒ ||

योमे᳚श॒ताच॑विंश॒तिंच॒गोनां॒हरी᳚चयु॒क्तासु॒धुरा॒ददा᳚ति |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | त्रिष्टुप्}

वैश्वा᳚नर॒सुष्टु॑तोवावृधा॒नोऽग्ने॒यच्छ॒त्र्य॑रुणाय॒शर्म॒(स्वाहा᳚) || 2 ||

यः¦मे॒¦श॒ता¦च॒¦विं॒श॒ति‌म्¦च॒¦गोना᳚‌म्¦हरी॒ इति॑¦च॒¦यु॒क्ता¦सु॒ऽधुरा᳚¦ददा᳚ति |
वैश्वा᳚नर¦सुऽस्तु॑तः¦व॒वृ॒धा॒नः¦अग्ने᳚¦यच्छ॑¦त्रि।आ॑रुणाय¦शर्म॑ ||

ए॒वाते᳚,अग्नेसुम॒तिंच॑का॒नोनवि॑ष्ठायनव॒मंत्र॒सद॑स्युः |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | त्रिष्टुप्}

योमे॒गिर॑स्तुविजा॒तस्य॑पू॒र्वीर्यु॒क्तेना॒भित्र्य॑रुणोगृ॒णाति॒(स्वाहा᳚) || 3 ||

ए॒व¦ते॒¦अ॒ग्ने॒¦सु॒ऽम॒ति‌म्¦च॒का॒नः¦नवि॑ष्ठाय¦न॒व॒म‌म्¦त्र॒सद॑स्युः |
यः¦मे॒¦गिरः॑¦तु॒वि॒ऽजा॒तस्य॑¦पू॒र्वीः¦यु॒क्तेन॑¦अ॒भि¦त्रि।आ॑रुणः¦गृ॒णाति॑ ||

योम॒इति॑प्र॒वोच॒त्यश्व॑मेधायसू॒रये᳚ |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | अनुष्टुप्}

दद॑दृ॒चास॒निंय॒तेदद᳚न्मे॒धामृ॑ताय॒ते(स्वाहा᳚) || 4 ||

यः¦मे॒¦इति॑¦प्र॒ऽवोच॑ति¦अश्व॑ऽमेधाय¦सू॒रये᳚ | दद॑त्¦ऋ॒चा¦स॒नि‌म्¦य॒ते¦दद॑त्¦मे॒धा‌म्¦ऋ॒त॒ऽय॒ते ||

यस्य॑मापरु॒षाःश॒तमु॑द्ध॒र्षय᳚न्त्यु॒क्षणः॑ |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | अनुष्टुप्}

अश्व॑मेधस्य॒दानाः॒सोमा᳚,इव॒त्र्या᳚शिरः॒(स्वाहा᳚) || 5 ||

यस्य॑¦मा॒¦प॒रु॒षाः¦श॒त‌म्¦उ॒त्ऽह॒र्षय᳚न्ति¦उ॒क्षणः॑ | अश्व॑ऽमेधस्य¦दानाः᳚¦सोमाः᳚ऽ‌इव¦त्रिऽआ᳚शिरः ||

इन्द्रा᳚ग्नीशत॒दाव्न्यश्व॑मेधेसु॒वीर्य᳚म् |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | इन्द्राग्नी | अनुष्टुप्}

क्ष॒त्रंधा᳚रयतंबृ॒हद्दि॒विसूर्य॑मिवा॒जर॒‌म्(स्वाहा᳚) || 6 ||

इन्द्रा᳚ग्नी॒ इति॑¦श॒त॒ऽदाव्नि॑¦अश्व॑ऽमेधे¦सु॒ऽवीर्य᳚‌म् | क्ष॒त्र‌म्¦धा॒र॒य॒त॒‌म्¦बृ॒हत्¦दि॒वि¦सूर्य᳚‌म्ऽ‌इव¦अ॒जर᳚‌म् ||

[28] समिद्धइति षडृचस्य सूक्तस्यात्रेयी विश्ववाराऋषिकाग्निः आद्याःक्रमेणत्रिष्टुब्जगतीत्रिष्टुबनुष्टुभः अंत्येद्वेगायत्र्यौ |{मंडल:5, सूक्त:28}{अनुवाक:2, सूक्त:14}{अष्टक:4, अध्याय:1}
समि॑द्धो,अ॒ग्निर्दि॒विशो॒चिर॑श्रेत्प्र॒त्यङ्ङु॒षस॑मुर्वि॒याविभा᳚ति |{आत्रेयी विश्ववारा ऋषिका | अग्निः | त्रिष्टुप्}

एति॒प्राची᳚वि॒श्ववा᳚रा॒नमो᳚भिर्दे॒वाँ,ईळा᳚नाह॒विषा᳚घृ॒ताची॒(स्वाहा᳚) || 1 || वर्ग:22

स‌म्ऽ‌इ᳚द्धः¦अ॒ग्निः¦दि॒वि¦शो॒चिः¦अ॒श्रे॒त्¦प्र॒त्यङ्¦उ॒षस᳚‌म्¦उ॒र्वि॒या¦वि¦भा॒ति॒ |
एति॑¦प्राची᳚¦वि॒श्वऽवा᳚रा¦नमः॑ऽभिः¦दे॒वान्¦ईळा᳚ना¦ह॒विषा᳚¦घृ॒ताची᳚ ||

स॒मि॒ध्यमा᳚नो,अ॒मृत॑स्यराजसिह॒विष्कृ॒ण्वन्तं᳚सचसेस्व॒स्तये᳚ |{आत्रेयी विश्ववारा ऋषिका | अग्निः | जगती}

विश्वं॒सध॑त्ते॒द्रवि॑णं॒यमिन्व॑स्याति॒थ्यम॑ग्ने॒निच॑धत्त॒इत्‌पु॒रः(स्वाहा᳚) || 2 ||

स॒‌म्ऽ‌इ॒ध्यमा᳚नः¦अ॒मृत॑स्य¦रा॒ज॒सि॒¦ह॒विः¦कृ॒ण्वन्त᳚‌म्¦स॒च॒से॒¦स्व॒स्तये᳚ |
विश्व᳚‌म्¦सः¦ध॒त्ते॒¦द्रवि॑ण‌म्¦य‌म्¦इन्व॑सि¦आ॒ति॒थ्य‌म्¦अ॒ग्ने॒¦नि¦च॒¦ध॒त्ते॒¦इत्¦पु॒रः ||

अग्ने॒शर्ध॑मह॒तेसौभ॑गाय॒तव॑द्यु॒म्नान्यु॑त्त॒मानि॑सन्तु |{आत्रेयी विश्ववारा ऋषिका | अग्निः | त्रिष्टुप्}

संजा᳚स्प॒त्यंसु॒यम॒माकृ॑णुष्वशत्रूय॒ताम॒भिति॑ष्ठा॒महां᳚सि॒(स्वाहा᳚) || 3 ||

अग्ने᳚¦शर्ध॑¦म॒ह॒ते¦सौभ॑गाय¦तव॑¦द्यु॒म्नानि॑¦उ॒त्ऽत॒मानि॑¦स॒न्तु॒ |
स‌म्¦जाः॒ऽप॒त्य‌म्¦सु॒ऽयम᳚‌म्¦आ¦कृ॒णु॒ष्व॒¦श॒त्रु॒ऽय॒ता‌म्¦अ॒भि¦ति॒ष्ठ॒¦महां᳚सि ||

समि॑द्धस्य॒प्रम॑ह॒सोऽग्ने॒वन्दे॒तव॒श्रिय᳚म् |{आत्रेयी विश्ववारा ऋषिका | अग्निः | अनुष्टुप्}

वृ॒ष॒भोद्यु॒म्नवाँ᳚,असि॒सम॑ध्व॒रेष्वि॑ध्यसे॒(स्वाहा᳚) || 4 ||

स‌म्ऽ‌इ᳚द्धस्य¦प्रऽम॑हसः¦अ॒ग्ने॒¦वन्दे᳚¦तव॑¦श्रिय᳚‌म् | वृ॒ष॒भः¦द्यु॒म्नऽवा᳚न्¦अ॒सि॒¦स‌म्¦अ॒ध्व॒रेषु॑¦इ॒ध्य॒से॒ ||

समि॑द्धो,अग्नआहुतदे॒वान्‌य॑क्षिस्वध्वर |{आत्रेयी विश्ववारा ऋषिका | अग्निः | गायत्री}

त्वंहिह᳚व्य॒वाळसि॒(स्वाहा᳚) || 5 ||

स‌म्ऽ‌इ᳚द्धः¦अ॒ग्ने॒¦आ॒ऽहु॒त॒¦दे॒वान्¦य॒क्षि॒¦सु॒।आ॒ध्व॒र॒ | त्व‌म्¦हि¦ह॒व्य॒ऽवाट्¦असि॑ ||

आजु॑होतादुव॒स्यता॒ऽग्निंप्र॑य॒त्य॑ध्व॒रे |{आत्रेयी विश्ववारा ऋषिका | अग्निः | गायत्री}

वृ॒णी॒ध्वंह᳚व्य॒वाह॑न॒‌म्(स्वाहा᳚) || 6 ||

आ¦जु॒हो॒त॒¦दु॒व॒स्यत॑¦अ॒ग्नि‌म्¦प्र॒ऽय॒ति¦अ॒ध्व॒रे | वृ॒णी॒ध्व‌म्¦ह॒व्य॒ऽवाह॑न‌म् ||

[29] त्र्यर्यमेति पंचदशर्चस्य सूक्तस्य शाक्त्योगौरिवीतिरिंद्रः (उशनायदितिपादस्योशनावा) त्रिष्टुप् |{मंडल:5, सूक्त:29}{अनुवाक:2, सूक्त:15}{अष्टक:4, अध्याय:1}
त्र्य᳚र्य॒मामनु॑षोदे॒वता᳚ता॒त्रीरो᳚च॒नादि॒व्याधा᳚रयन्त |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अर्च᳚न्तित्वाम॒रुतः॑पू॒तद॑क्षा॒स्त्वमे᳚षा॒मृषि॑रिन्द्रासि॒धीरः॒(स्वाहा᳚) || 1 || वर्ग:23

त्री¦अ॒र्य॒मा¦मनु॑षः¦दे॒वऽता᳚ता¦त्री¦रो॒च॒ना¦दि॒व्या¦धा॒र॒य॒न्त॒ |
अर्च᳚न्ति¦त्वा॒¦म॒रुतः॑¦पू॒तऽद॑क्षाः¦त्व‌म्¦ए॒षा॒‌म्¦ऋषिः॑¦इ॒न्द्र॒¦अ॒सि॒¦धीरः॑ ||

अनु॒यदीं᳚म॒रुतो᳚मन्दसा॒नमार्च॒न्निन्द्रं᳚पपि॒वांसं᳚सु॒तस्य॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

आद॑त्त॒वज्र॑म॒भियदहिं॒हन्न॒पोय॒ह्वीर॑सृज॒त्‌सर्त॒वा,उ॒(स्वाहा᳚) || 2 ||

अनु॑¦यत्¦ई॒‌म्¦म॒रुतः॑¦म॒न्द॒सा॒न‌म्¦आर्च॑न्¦इन्द्र᳚‌म्¦प॒पि॒ऽवांस᳚‌म्¦सु॒तस्य॑ |
आ¦अ॒द॒त्त॒¦वज्र᳚‌म्¦अ॒भि¦यत्¦अहि᳚‌म्¦हन्¦अ॒पः¦य॒ह्वीः¦अ॒सृ॒ज॒त्¦सर्त॒वै¦ऊँ॒ इति॑ ||

उ॒तब्र᳚ह्माणोमरुतोमे,अ॒स्येन्द्रः॒सोम॑स्य॒सुषु॑तस्यपेयाः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

तद्धिह॒व्यंमनु॑षे॒गा,अवि᳚न्द॒दह॒न्नहिं᳚पपि॒वाँ,इन्द्रो᳚,अस्य॒(स्वाहा᳚) || 3 ||

उ॒त¦ब्र॒ह्मा॒णः॒¦म॒रु॒तः॒¦मे॒¦अ॒स्य¦इन्द्रः॑¦सोम॑स्य¦सुऽसु॑तस्य¦पे॒याः॒ |
तत्¦हि¦ह॒व्य‌म्¦मनु॑षे¦गाः¦अवि᳚न्दत्¦अह॑न्¦अहि᳚‌म्¦प॒पि॒ऽवान्¦इन्द्रः॑¦अ॒स्य॒ ||

आद्रोद॑सीवित॒रंविष्क॑भायत्संविव्या॒नश्चि॑द्‌भि॒यसे᳚मृ॒गंकः॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

जिग॑र्ति॒मिन्द्रो᳚,अप॒जर्गु॑राणः॒प्रति॑श्व॒सन्त॒मव॑दान॒वंह॒न्त्(स्वाहा᳚) || 4 ||

आत्¦रोद॑सी॒ इति॑¦वि॒ऽत॒र‌म्¦वि¦स्क॒भा॒य॒त्¦स॒‌म्ऽवि॒व्या॒नः¦चि॒त्¦भि॒यसे᳚¦मृ॒ग‌म्¦क॒रिति॑ कः |
जिग॑र्ति‌म्¦इन्द्रः॑¦अ॒प॒ऽजर्गु॑राणः¦प्रति॑¦श्व॒सन्त᳚‌म्¦अव॑¦दा॒न॒व‌म्¦ह॒न्निति॑ हन् ||

अध॒क्रत्वा᳚मघव॒न्‌तुभ्यं᳚दे॒वा,अनु॒विश्वे᳚,अददुःसोम॒पेय᳚म् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

यत्सूर्य॑स्यह॒रितः॒पत᳚न्तीःपु॒रःस॒तीरुप॑रा॒,एत॑शे॒कः(स्वाहा᳚) || 5 ||

अध॑¦क्रत्वा᳚¦म॒घ॒ऽव॒न्¦तुभ्य᳚‌म्¦दे॒वाः¦अनु॑¦विश्वे᳚¦अ॒द॒दुः॒¦सो॒म॒ऽपेय᳚‌म् |
यत्¦सूर्य॑स्य¦ह॒रितः॑¦पत᳚न्तीः¦पु॒रः¦स॒तीः¦उप॑राः¦एत॑शे¦करिति॒ कः ||

नव॒यद॑स्यनव॒तिंच॑भो॒गान्त्सा॒कंवज्रे᳚णम॒घवा᳚विवृ॒श्चत् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अर्च॒न्तीन्द्रं᳚म॒रुतः॑स॒धस्थे॒त्रैष्टु॑भेन॒वच॑साबाधत॒द्याम्(स्वाहा᳚) || 6 || वर्ग:24

नव॑¦यत्¦अ॒स्य॒¦न॒व॒ति‌म्¦च॒¦भो॒गान्¦सा॒क‌म्¦वज्रे᳚ण¦म॒घऽवा᳚¦वि॒वृ॒श्चत् |
अर्च᳚न्ति¦इन्द्र᳚‌म्¦म॒रुतः॑¦स॒धऽस्थे᳚¦त्रैस्तु॑भेन¦वच॑सा¦बा॒ध॒त॒¦द्या‌म् ||

सखा॒सख्ये᳚,अपच॒त्‌तूय॑म॒ग्निर॒स्यक्रत्वा᳚महि॒षात्रीश॒तानि॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

त्रीसा॒कमिन्द्रो॒मनु॑षः॒सरां᳚सिसु॒तंपि॑बद्‌वृत्र॒हत्या᳚य॒सोम॒‌म्(स्वाहा᳚) || 7 ||

सखा᳚¦सख्ये᳚¦अ॒प॒च॒त्¦तूय᳚‌म्¦अ॒ग्निः¦अ॒स्य¦क्रत्वा᳚¦म॒हि॒षा¦त्री¦श॒तानि॑ |
त्री¦सा॒क‌म्¦इन्द्रः॑¦मनु॑षः¦सरां᳚सि¦सु॒त‌म्¦पि॒ब॒त्¦वृ॒त्र॒ऽहत्या᳚य¦सोम᳚‌म् ||

त्रीयच्छ॒ताम॑हि॒षाणा॒मघो॒मास्त्रीसरां᳚सिम॒घवा᳚सो॒म्यापाः᳚ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

का॒रंनविश्वे᳚,अह्वन्तदे॒वाभर॒मिन्द्रा᳚य॒यदहिं᳚ज॒घान॒(स्वाहा᳚) || 8 ||

त्री¦यत्¦श॒ता¦म॒हि॒षाणा᳚‌म्¦अघः॑¦माः¦त्री¦सरां᳚सि¦म॒घऽवा᳚¦सो॒म्या¦अपाः᳚ |
का॒र‌म्¦न¦विश्वे᳚¦अ॒ह्व॒न्त॒¦दे॒वाः¦भर᳚‌म्¦इन्द्रा᳚य¦यत्¦अहि᳚‌म्¦ज॒घान॑ ||

उ॒शना॒यत्स॑ह॒स्यै॒३॑(ऐ॒)रया᳚तंगृ॒हमि᳚न्द्रजूजुवा॒नेभि॒रश्वैः᳚ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

व॒न्वा॒नो,अत्र॑स॒रथं᳚ययाथ॒कुत्से᳚नदे॒वैरव॑नोर्ह॒शुष्ण॒‌म्(स्वाहा᳚) || 9 ||

उ॒शना᳚¦यत्¦स॒ह॒स्यैः᳚¦अया᳚त‌म्¦गृ॒ह‌म्¦इ॒न्द्र॒¦जू॒जु॒वा॒नेभिः॑¦अश्वैः᳚ |
व॒न्वा॒नः¦अत्र॑¦स॒ऽरथ᳚‌म्¦य॒या॒थ॒¦कुत्से᳚न¦दे॒वैः¦अव॑नोः¦ह॒¦शुष्ण᳚‌म् ||

प्रान्यच्च॒क्रम॑वृहः॒सूर्य॑स्य॒कुत्सा᳚या॒न्यद्वरि॑वो॒यात॑वेऽकः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अ॒नासो॒दस्यूँ᳚रमृणोव॒धेन॒निदु᳚र्यो॒णआ᳚वृणङ्‌मृ॒ध्रवा᳚चः॒(स्वाहा᳚) || 10 ||

प्र¦अ॒न्यत्¦च॒क्र‌म्¦अ॒वृ॒हः॒¦सूर्य॑स्य¦कुत्सा᳚य¦अ॒न्यत्¦वरि॑वः¦यात॑वे¦अ॒क॒रित्य॑कः |
अ॒नासः॑¦दस्यू᳚न्¦अ॒मृ॒णः॒¦व॒धेन॑¦नि¦दु॒र्यो॒णे¦अ॒वृ॒ण॒क्¦मृ॒ध्रऽवा᳚चः ||

स्तोमा᳚सस्त्वा॒गौरि॑वीतेरवर्ध॒न्नर᳚न्धयोवैदथि॒नाय॒पिप्रु᳚म् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

आत्वामृ॒जिश्वा᳚स॒ख्याय॑चक्रे॒पच᳚न्‌प॒क्तीरपि॑बः॒सोम॑मस्य॒(स्वाहा᳚) || 11 || वर्ग:25

स्तोमा᳚सः¦त्वा॒¦गौरि॑ऽवीतेः¦अ॒व॒र्ध॒न्¦अर᳚न्धयः¦वै॒द॒थि॒नाय॑¦पिप्रु᳚‌म् |
आ¦त्वा‌म्¦ऋ॒जिश्वा᳚¦स॒ख्याय॑¦च॒क्रे॒¦पच॑न्¦प॒क्तीः¦अपि॑बः¦सोम᳚‌म्¦अ॒स्य॒ ||

नव॑ग्वासःसु॒तसो᳚मास॒इन्द्रं॒दश॑ग्वासो,अ॒भ्य॑र्चन्त्य॒र्कैः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

गव्यं᳚चिदू॒र्वम॑पि॒धान॑वन्तं॒तंचि॒न्नरः॑शशमा॒ना,अप᳚व्र॒‌न्(स्वाहा᳚) || 12 ||

नव॑ऽग्वासः¦सु॒तऽसो᳚मासः¦इन्द्र᳚‌म्¦दश॑ऽग्वासः¦अ॒भि¦अ॒र्च॒न्ति॒¦अ॒र्कैः |
गव्य᳚‌म्¦चि॒त्¦ऊ॒र्व‌म्¦अ॒पि॒धान॑ऽवन्त‌म्¦त‌म्¦चि॒त्¦नरः॑¦श॒श॒मा॒नाः¦अप॑¦व्र॒न् ||

क॒थोनुते॒परि॑चराणिवि॒द्वान्वी॒र्या᳚मघव॒न्याच॒कर्थ॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

याचो॒नुनव्या᳚कृ॒णवः॑शविष्ठ॒प्रेदु॒ताते᳚वि॒दथे᳚षुब्रवाम॒(स्वाहा᳚) || 13 ||

क॒थो इति॑¦नु¦ते॒¦परि॑¦च॒रा॒णि॒¦वि॒द्वान्¦वी॒र्या᳚¦म॒घ॒ऽव॒न्¦या¦च॒कर्थ॑ |
या¦चो॒ इति॑¦नु¦नव्या᳚¦कृ॒णवः॑¦श॒वि॒ष्ठ॒¦प्र¦इत्¦ऊँ॒ इति॑¦ता¦ते॒¦वि॒दथे᳚षु¦ब्र॒वा॒म॒ ||

ए॒ताविश्वा᳚चकृ॒वाँ,इ᳚न्द्र॒भूर्यप॑रीतोज॒नुषा᳚वी॒र्ये᳚ण |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

याचि॒न्नुव॑ज्रिन्‌कृ॒णवो᳚दधृ॒ष्वान्नते᳚व॒र्तातवि॑ष्या,अस्ति॒तस्याः᳚(स्वाहा᳚) || 14 ||

ए॒ता¦विश्वा᳚¦च॒कृ॒ऽवान्¦इ॒न्द्र॒¦भूरि॑¦अप॑रिऽ‌इतः¦ज॒नुषा᳚¦वी॒र्ये᳚ण |
या¦चि॒त्¦नु¦व॒ज्रि॒न्¦कृ॒णवः॑¦द॒धृ॒ष्वान्¦न¦ते॒¦व॒र्ता¦तवि॑ष्याः¦अ॒स्ति॒¦तस्याः᳚ ||

इन्द्र॒ब्रह्म॑क्रि॒यमा᳚णाजुषस्व॒याते᳚शविष्ठ॒नव्या॒,अक᳚र्म |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

वस्त्रे᳚वभ॒द्रासुकृ॑तावसू॒यूरथं॒नधीरः॒स्वपा᳚,अतक्ष॒‌म्(स्वाहा᳚) || 15 ||

इन्द्र॑¦ब्रह्म॑¦क्रि॒यमा᳚णा¦जु॒ष॒स्व॒¦या¦ते॒¦श॒वि॒ष्ठ॒¦नव्याः᳚¦अक᳚र्म |
वस्त्रा᳚ऽ‌इव¦भ॒द्रा¦सुऽकृ॑ता¦व॒सु॒ऽयुः¦रथ᳚‌म्¦न¦धीरः॑¦सु॒।आपाः᳚¦अ॒त॒क्ष॒‌म् ||

[30] क्वस्येति पंचदशर्चस्य सूक्तस्यात्रेयोबभ्रुरिंद्रोंत्यानांचतसृणामृणंचयेंद्रौदेवतेत्रिष्टुप् |{मंडल:5, सूक्त:30}{अनुवाक:2, सूक्त:16}{अष्टक:4, अध्याय:1}
क्व१॑(अ॒)स्यवी॒रःको,अ॑पश्य॒दिन्द्रं᳚सु॒खर॑थ॒मीय॑मानं॒हरि॑भ्याम् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

योरा॒याव॒ज्रीसु॒तसो᳚ममि॒च्छन्तदोको॒गन्ता᳚पुरुहू॒तऊ॒ती(स्वाहा᳚) || 1 || वर्ग:26

क्व॑¦स्यः¦वी॒रः¦कः¦अ॒प॒श्य॒त्¦इन्द्र᳚‌म्¦सु॒खऽर॑थ‌म्¦ईय॑मान‌म्¦हरि॑ऽभ्या‌म् |
यः¦रा॒या¦व॒ज्री¦सु॒तऽसो᳚म‌म्¦इ॒च्छन्¦तत्¦ओकः॑¦गन्ता᳚¦पु॒रु॒ऽहू॒तः¦ऊ॒ती ||

अवा᳚चचक्षंप॒दम॑स्यस॒स्वरु॒ग्रंनि॑धा॒तुरन्वा᳚यमि॒च्छन् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अपृ॑च्छम॒न्याँ,उ॒ततेम॑आहु॒रिन्द्रं॒नरो᳚बुबुधा॒ना,अ॑शेम॒(स्वाहा᳚) || 2 ||

अव॑¦अ॒च॒च॒क्ष॒‌म्¦प॒द‌म्¦अ॒स्य॒¦स॒स्वः¦उ॒ग्र‌म्¦नि॒ऽधा॒तुः¦अनु॑¦आ॒य॒‌म्¦इ॒च्छन् |
अपृ॑च्छ‌म्¦अ॒न्यान्¦उ॒त¦ते¦मे॒¦आ॒हुः॒¦इन्द्र᳚‌म्¦नरः॑¦बु॒बु॒धा॒नाः¦अ॒शे॒म॒ ||

प्रनुव॒यंसु॒तेयाते᳚कृ॒तानीन्द्र॒ब्रवा᳚म॒यानि॑नो॒जुजो᳚षः |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

वेद॒दवि॑द्वाञ्छृ॒णव॑च्चवि॒द्वान्वह॑ते॒ऽयंम॒घवा॒सर्व॑सेनः॒(स्वाहा᳚) || 3 ||

प्र¦नु¦व॒य‌म्¦सु॒ते¦या¦ते॒¦कृ॒तानि॑¦इन्द्र॑¦ब्रवा᳚म¦यानि॑¦नः॒¦जुजो᳚षः |
वेद॑त्¦अवि॑द्वान्¦शृ॒णव॑त्¦च॒¦वि॒द्वान्¦वह॑ते¦अ॒य‌म्¦म॒घऽवा᳚¦सर्व॑ऽसेनः ||

स्थि॒रंमन॑श्चकृषेजा॒तइ᳚न्द्र॒वेषीदेको᳚यु॒धये॒भूय॑सश्चित् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अश्मा᳚नंचि॒च्छव॑सादिद्युतो॒विवि॒दोगवा᳚मू॒र्वमु॒स्रिया᳚णा॒‌म्(स्वाहा᳚) || 4 ||

स्थि॒र‌म्¦मनः॑¦च॒कृ॒षे॒¦जा॒तः¦इ॒न्द्र॒¦वेषि॑¦इत्¦एकः॑¦यु॒धये᳚¦भूय॑सः¦चि॒त् |
अश्मा᳚न‌म्¦चि॒त्¦शव॑सा¦दि॒द्यु॒तः॒¦वि¦वि॒दः¦गवा᳚‌म्¦ऊ॒र्व‌म्¦उ॒स्रिया᳚णा‌म् ||

प॒रोयत्‌त्वंप॑र॒मआ॒जनि॑ष्ठाःपरा॒वति॒श्रुत्यं॒नाम॒बिभ्र॑त् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अत॑श्चि॒दिन्द्रा᳚दभयन्तदे॒वाविश्वा᳚,अ॒पो,अ॑जयद्‌दा॒सप॑त्नीः॒(स्वाहा᳚) || 5 ||

प॒रः¦यत्¦त्व‌म्¦प॒र॒मः¦आ॒ऽजनि॑ष्ठाः¦प॒रा॒ऽवति॑¦श्रुत्य᳚‌म्¦नाम॑¦बिभ्र॑त् |
अतः॑¦चि॒त्¦इन्द्रा᳚त्¦अ॒भ॒य॒न्त॒¦दे॒वाः¦विश्वाः᳚¦अ॒पः¦अ॒ज॒य॒त्¦दा॒सऽप॑त्नीः ||

तुभ्येदे॒तेम॒रुतः॑सु॒शेवा॒,अर्च᳚न्त्य॒र्कंसु॒न्वन्त्यन्धः॑ |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अहि॑मोहा॒नम॒पआ॒शया᳚नं॒प्रमा॒याभि᳚र्मा॒यिनं᳚सक्ष॒दिन्द्रः॒(स्वाहा᳚) || 6 || वर्ग:27

तुभ्य॑¦इत्¦ए॒ते¦म॒रुतः॑¦सु॒ऽशेवाः᳚¦अर्च᳚न्ति¦अ॒र्क‌म्¦सु॒न्वन्ति॑¦अन्धः॑ |
अहि᳚‌म्¦ओ॒हा॒न‌म्¦अ॒पः¦आ॒ऽशया᳚न‌म्¦प्र¦मा॒याभिः॑¦मा॒यिन᳚‌म्¦स॒क्ष॒त्¦इन्द्रः॑ ||

विषूमृधो᳚ज॒नुषा॒दान॒मिन्व॒न्नह॒न्‌गवा᳚मघवन्‌त्संचका॒नः |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अत्रा᳚दा॒सस्य॒नमु॑चेः॒शिरो॒यदव॑र्तयो॒मन॑वेगा॒तुमि॒च्छन्(स्वाहा᳚) || 7 ||

वि¦सु¦मृधः॑¦ज॒नुषा᳚¦दान᳚‌म्¦इन्व॑न्¦अह॑न्¦गवा᳚¦म॒घ॒ऽव॒न्¦स॒‌म्ऽच॒का॒नः |
अत्र॑¦दा॒सस्य॑¦नमु॑चेः¦शिरः॑¦यत्¦अव॑र्तयः¦मन॑वे¦गा॒तु‌म्¦इ॒च्छन् ||

युजं॒हिमामकृ॑था॒,आदिदि᳚न्द्र॒शिरो᳚दा॒सस्य॒नमु॑चेर्मथा॒यन् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अश्मा᳚नंचित्‌स्व॒र्य१॑(अं॒)वर्त॑मानं॒प्रच॒क्रिये᳚व॒रोद॑सीम॒रुद्भ्यः॒(स्वाहा᳚) || 8 ||

युज᳚‌म्¦हि¦मा‌म्¦अकृ॑थाः¦आत्¦इत्¦इ॒न्द्र॒¦शिरः॑¦दा॒सस्य॑¦नमु॑चेः¦म॒था॒यन् |
अश्मा᳚न‌म्¦चि॒त्¦स्व॒र्य᳚‌म्¦वर्त॑मान‌म्¦प्र¦च॒क्रिया᳚ऽ‌इव¦रोद॑सी॒ इति॑¦म॒रुत्ऽभ्यः॑ ||

स्त्रियो॒हिदा॒सआयु॑धानिच॒क्रेकिंमा᳚करन्नब॒ला,अ॑स्य॒सेनाः᳚ |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अ॒न्तर्ह्यख्य॑दु॒भे,अ॑स्य॒धेने॒,अथोप॒प्रैद्‌यु॒धये॒दस्यु॒मिन्द्रः॒(स्वाहा᳚) || 9 ||

स्त्रियः॑¦हि¦दा॒सः¦आयु॑धानि¦च॒क्रे¦कि‌म्¦मा॒¦क॒र॒न्¦अ॒ब॒लाः¦अ॒स्य॒¦सेनाः᳚ |
अ॒न्तः¦हि¦अख्य॑त्¦उ॒भे इति॑¦अ॒स्य॒¦धेने॒ इति॑¦अथ॑¦उप॑¦प्र¦ऐ॒त्¦यु॒धये᳚¦दस्यु᳚‌म्¦इन्द्रः॑ ||

समत्र॒गावो॒ऽभितो᳚ऽनवन्ते॒हेह॑व॒त्सैर्वियु॑ता॒यदास॑न् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

संता,इन्द्रो᳚,असृजदस्यशा॒कैर्यदीं॒सोमा᳚सः॒सुषु॑ता॒,अम᳚न्द॒‌न्(स्वाहा᳚) || 10 ||

स‌म्¦अत्र॑¦गावः॑¦अ॒भितः॑¦अ॒न॒व॒न्त॒¦इ॒हऽ‌इ᳚ह¦व॒त्सैः¦विऽयु॑ताः¦यत्¦आस॑न् |
स‌म्¦ताः¦इन्द्रः॑¦अ॒सृ॒ज॒त्¦अ॒स्य॒¦शा॒कैः¦यत्¦ई॒‌म्¦सोमा᳚सः¦सुऽसु॑ताः¦अम᳚न्दन् ||

यदीं॒सोमा᳚ब॒भ्रुधू᳚ता॒,अम᳚न्द॒न्नरो᳚रवीद्‌वृष॒भःसाद॑नेषु |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

पु॒रं॒द॒रःप॑पि॒वाँ,इन्द्रो᳚,अस्य॒पुन॒र्गवा᳚मददादु॒स्रिया᳚णा॒‌म्(स्वाहा᳚) || 11 || वर्ग:28

यत्¦ई॒‌म्¦सोमाः᳚¦ब॒भ्रुऽधू᳚ताः¦अम᳚न्दन्¦अरो᳚रवीत्¦वृ॒ष॒भः¦साद॑नेषु |
पु॒र॒‌म्ऽद॒रः¦प॒पि॒ऽवान्¦इन्द्रः॑¦अ॒स्य॒¦पुनः॑¦गवा᳚‌म्¦अ॒द॒दा॒त्¦उ॒स्रिया᳚णा‌म् ||

भ॒द्रमि॒दंरु॒शमा᳚,अग्ने,अक्र॒न्गवां᳚च॒त्वारि॒दद॑तःस॒हस्रा᳚ |{आत्रेयो बभ्रुः | ऋणामृणंचयेंद्रौ | त्रिष्टुप्}

ऋ॒णं॒च॒यस्य॒प्रय॑ताम॒घानि॒प्रत्य॑ग्रभीष्म॒नृत॑मस्यनृ॒णाम्(स्वाहा᳚) || 12 ||

भ॒द्र‌म्¦इ॒द‌म्¦रु॒शमाः᳚¦अ॒ग्ने॒¦अ॒क्र॒न्¦गवा᳚‌म्¦च॒त्वारि॑¦दद॑तः¦स॒हस्रा᳚ |
ऋ॒ण॒‌म्ऽच॒यस्य॑¦प्रऽय॑ता¦म॒घानि॑¦प्रति॑¦अ॒ग्र॒भी॒ष्म॒¦नृऽत॑मस्य¦नृ॒णा‌म् ||

सु॒पेश॑सं॒माव॑सृज॒न्त्यस्तं॒गवां᳚स॒हस्रै᳚रु॒शमा᳚सो,अग्ने |{आत्रेयो बभ्रुः | ऋणामृणंचयेंद्रौ | त्रिष्टुप्}

ती॒व्रा,इन्द्र॑मममन्दुःसु॒तासो॒ऽक्तोर्व्यु॑ष्टौ॒परि॑तक्म्यायाः॒(स्वाहा᳚) || 13 ||

सु॒ऽपेश॑स‌म्¦मा॒¦अव॑¦सृ॒ज॒न्ति॒¦अस्त᳚‌म्¦गवा᳚‌म्¦स॒हस्रैः᳚¦रु॒शमा᳚सः¦अ॒ग्ने॒ |
ती॒व्राः¦इन्द्र᳚‌म्¦अ॒म॒म॒न्दुः॒¦सु॒तासः॑¦अ॒क्तोः¦वि।औ᳚ष्टौ¦परि॑ऽतक्म्यायाः ||

औच्छ॒त्सारात्री॒परि॑तक्म्या॒याँ,ऋ॑णंच॒येराज॑निरु॒शमा᳚नाम् |{आत्रेयो बभ्रुः | ऋणामृणंचयेंद्रौ | त्रिष्टुप्}

अत्यो॒नवा॒जीर॒घुर॒ज्यमा᳚नोब॒भ्रुश्च॒त्वार्य॑सनत्‌स॒हस्रा॒(स्वाहा᳚) || 14 ||

औच्छ॑त्¦सा¦रात्री᳚¦परि॑ऽतक्म्या¦या¦ऋ॒ण॒‌म्ऽच॒ये¦राज॑नि¦रु॒शमा᳚ना‌म् |
अत्यः॑¦न¦वा॒जी¦र॒घुः¦अ॒ज्यमा᳚नः¦ब॒भ्रुः¦च॒त्वारि॑¦अ॒स॒न॒त्¦स॒हस्रा᳚ ||

चतुः॑सहस्रं॒गव्य॑स्यप॒श्वःप्रत्य॑ग्रभीष्मरु॒शमे᳚ष्वग्ने |{आत्रेयो बभ्रुः | ऋणामृणंचयेंद्रौ | त्रिष्टुप्}

घ॒र्मश्चि॑त्‌त॒प्तःप्र॒वृजे॒यआसी᳚दय॒स्मय॒स्तम्वादा᳚म॒विप्राः᳚(स्वाहा᳚) || 15 ||

चतुः॑ऽसहस्र‌म्¦गव्य॑स्य¦प॒श्वः¦प्रति॑¦अ॒ग्र॒भी॒ष्म॒¦रु॒शमे᳚षु¦अ॒ग्ने॒ |
घ॒र्मः¦चि॒त्¦त॒प्तः¦प्र॒ऽवृजे᳚¦यः¦आसी᳚त्¦अ॒य॒स्मयः॑¦त‌म्¦ऊँ॒ इति॑¦आदा᳚म¦विप्राः᳚ ||

[31] इंद्रोरथायेति त्रयोदशर्चस्य सूक्तस्यात्रेयोवस्युरिंद्रः | ( उग्रमयातमित्यादि पादौ कुत्सदैवत्यौ‌उशनोदैवत्यौवा) नवम्या इंद्रा कुत्सौत्रिष्टुप् |{मंडल:5, सूक्त:31}{अनुवाक:2, सूक्त:17}{अष्टक:4, अध्याय:1}
इन्द्रो॒रथा᳚यप्र॒वतं᳚कृणोति॒यम॒ध्यस्था᳚न्म॒घवा᳚वाज॒यन्त᳚म् |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

यू॒थेव॑प॒श्वोव्यु॑नोतिगो॒पा,अरि॑ष्टोयातिप्रथ॒मःसिषा᳚स॒‌न्(स्वाहा᳚) || 1 || वर्ग:29

इन्द्रः॑¦रथा᳚य¦प्र॒ऽवत᳚‌म्¦कृ॒णो॒ति॒¦य‌म्¦अ॒धि॒।आस्था᳚त्¦म॒घऽवा᳚¦वा॒ज॒ऽयन्त᳚‌म् |
यू॒थाऽ‌इ᳚व¦प॒श्वः¦वि¦उ॒नो॒ति॒¦गो॒पाः¦अरि॑ष्टः¦या॒ति॒¦प्र॒थ॒मः¦सिसा᳚सन् ||

आप्रद्र॑वहरिवो॒माविवे᳚नः॒पिश᳚ङ्गराते,अ॒भिनः॑सचस्व |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

न॒हित्वदि᳚न्द्र॒वस्यो᳚,अ॒न्यदस्त्य॑मे॒नाँश्चि॒ज्जनि॑वतश्चकर्थ॒(स्वाहा᳚) || 2 ||

आ¦प्र¦द्र॒व॒¦ह॒रि॒ऽवः॒¦मा¦वि¦वे॒नः॒¦पिश᳚ङ्गऽराते¦अ॒भि¦नः॒¦स॒च॒स्व॒ |
न॒हि¦त्वत्¦इ॒न्द्र॒¦वस्यः॑¦अ॒न्यत्¦अस्ति॑¦अ॒मे॒नान्¦चि॒त्¦जनि॑ऽवतः¦च॒क॒र्थ॒ ||

उद्यत्‌सहः॒सह॑स॒आज॑निष्ट॒देदि॑ष्ट॒इन्द्र॑इन्द्रि॒याणि॒विश्वा᳚ |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

प्राचो᳚दयत्‌सु॒दुघा᳚व॒व्रे,अ॒न्तर्विज्योति॑षासंववृ॒त्वत्‌तमो᳚ऽवः॒(स्वाहा᳚) || 3 ||

उत्¦यत्¦सहः॑¦सह॑सः¦आ¦अज॑निष्ट¦देदि॑ष्टे¦इन्द्रः॑¦इ॒न्द्रि॒याणि॑¦विश्वा᳚ |
प्र¦अ॒चो॒द॒य॒त्¦सु॒ऽदुघाः᳚¦व॒व्रे¦अ॒न्तः¦वि¦ज्योति॑षा¦स॒‌म्ऽव॒वृ॒त्वत्¦तमः॑¦अ॒व॒रित्य॑वः ||

अन॑वस्ते॒रथ॒मश्वा᳚यतक्ष॒न्त्वष्टा॒वज्रं᳚पुरुहूतद्यु॒मन्त᳚म् |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

ब्र॒ह्माण॒इन्द्रं᳚म॒हय᳚न्तो,अ॒र्कैरव॑र्धय॒न्नह॑ये॒हन्त॒वा,उ॒(स्वाहा᳚) || 4 ||

अन॑वः¦ते॒¦रथ᳚‌म्¦अश्वा᳚य¦त॒क्ष॒न्¦त्वष्टा᳚¦वज्र᳚‌म्¦पु॒रु॒ऽहू॒त॒¦द्यु॒ऽमन्त᳚‌म् |
ब्र॒ह्माणः॑¦इन्द्र᳚‌म्¦म॒हय᳚न्तः¦अ॒र्कैः¦अव॑र्धयन्¦अह॑ये¦हन्त॒वै¦ऊँ॒ इति॑ ||

वृष्णे॒यत्ते॒वृष॑णो,अ॒र्कमर्चा॒निन्द्र॒ग्रावा᳚णो॒,अदि॑तिःस॒जोषाः᳚ |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

अ॒न॒श्वासो॒येप॒वयो᳚ऽर॒था,इन्द्रे᳚षिता,अ॒भ्यव॑र्तन्त॒दस्यू॒न्त्(स्वाहा᳚) || 5 ||

वृष्णे᳚¦यत्¦ते॒¦वृष॑णः¦अ॒र्क‌म्¦अर्चा᳚न्¦इन्द्र॑¦ग्रावा᳚णः¦अदि॑तिः¦स॒ऽजोषाः᳚ |
अ॒न॒श्वासः॑¦ये¦प॒वयः॑¦अ॒र॒थाः¦इन्द्र॑ऽ‌इषिताः¦अ॒भि¦अव॑र्तन्त¦दस्यू॑न् ||

प्रते॒पूर्वा᳚णि॒कर॑णानिवोचं॒प्रनूत॑नामघव॒न्याच॒कर्थ॑ |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

शक्ती᳚वो॒यद्‌वि॒भरा॒रोद॑सी,उ॒भेजय᳚न्न॒पोमन॑वे॒दानु॑चित्राः॒(स्वाहा᳚) || 6 || वर्ग:30

प्र¦ते॒¦पूर्वा᳚णि¦कर॑णानि¦वो॒च॒‌म्¦प्र¦नूत॑ना¦म॒घ॒ऽव॒न्¦या¦च॒कर्थ॑ |
शक्ति॑ऽवः¦यत्¦वि॒ऽभराः᳚¦रोद॑सी॒ इति॑¦उ॒भे इति॑¦जय॑न्¦अ॒पः¦मन॑वे¦दानु॑ऽचित्राः ||

तदिन्नुते॒कर॑णंदस्मवि॒प्राहिं॒यद्‌घ्नन्नोजो॒,अत्रामि॑मीथाः |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

शुष्ण॑स्यचि॒त्‌परि॑मा॒या,अ॑गृभ्णाःप्रपि॒त्वंयन्नप॒दस्यूँ᳚रसेधः॒(स्वाहा᳚) || 7 ||

तत्¦इत्¦नु¦ते॒¦कर॑ण‌म्¦द॒स्म॒¦वि॒प्र॒¦अहि᳚‌म्¦यत्¦घ्नन्¦ओजः॑¦अत्र॑¦अमि॑मीथाः |
शुष्ण॑स्य¦चि॒त्¦परि॑¦मा॒याः¦अ॒गृ॒भ्णाः॒¦प्र॒ऽपि॒त्व‌म्¦यन्¦अप॑¦दस्यू᳚न्¦अ॒से॒धः॒ ||

त्वम॒पोयद॑वेतु॒र्वशा॒याऽर॑मयःसु॒दुघाः᳚पा॒रइ᳚न्द्र |{आत्रेयो वस्युः | १/२:इन्द्रः, २/२:इन्द्र कुत्सो वा, इन्द्र उशना वा | त्रिष्टुप्}

उ॒ग्रम॑यात॒मव॑होह॒कुत्सं॒संह॒यद्वा᳚मु॒शनार᳚न्तदे॒वाः(स्वाहा᳚) || 8 ||

त्व‌म्¦अ॒पः¦यद॑वे¦तु॒र्वशा॒य¦अर॑मयः¦सु॒ऽदुघाः᳚¦पा॒रः¦इ॒न्द्र॒ |
उ॒ग्र‌म्¦अ॒या॒त॒‌म्¦अव॑हः¦ह॒¦कुत्स᳚‌म्¦स‌म्¦ह॒¦यत्¦वा॒‌म्¦उ॒शना᳚¦अर᳚न्त¦दे॒वाः ||

इन्द्रा᳚कुत्सा॒वह॑माना॒रथे॒नावा॒मत्या॒,अपि॒कर्णे᳚वहन्तु |{आत्रेयो वस्युः | इन्द्र कुत्सो वा | त्रिष्टुप्}

निःषी᳚म॒द्भ्योधम॑थो॒निःष॒धस्था᳚न्म॒घोनो᳚हृ॒दोव॑रथ॒स्तमां᳚सि॒(स्वाहा᳚) || 9 ||

इन्द्रा᳚कुत्सा¦वह॑माना¦रथे᳚न¦आ¦वा॒‌म्¦अत्याः᳚¦अपि॑¦कर्णे᳚¦व॒ह॒न्तु॒ |
निः¦सी॒‌म्¦अ॒त्ऽभ्यः¦धम॑थः¦निः¦स॒धऽस्था᳚त्¦म॒घोनः॑¦हृ॒दः¦व॒र॒थः॒¦तमां᳚सि ||

वात॑स्ययु॒क्तान्‌त्सु॒युज॑श्चि॒दश्वा᳚न्क॒विश्चि॑दे॒षो,अ॑जगन्नव॒स्युः |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

विश्वे᳚ते॒,अत्र॑म॒रुतः॒सखा᳚य॒इन्द्र॒ब्रह्मा᳚णि॒तवि॑षीमवर्ध॒‌न्(स्वाहा᳚) || 10 ||

वात॑स्य¦यु॒क्तान्¦सु॒ऽयुजः॑¦चि॒त्¦अश्वा᳚न्¦क॒विः¦चि॒त्¦ए॒षः¦अ॒ज॒ग॒न्¦अ॒व॒स्युः |
विश्वे᳚¦ते॒¦अत्र॑¦म॒रुतः॑¦सखा᳚यः¦इन्द्र॑¦ब्रह्मा᳚णि¦तवि॑षी‌म्¦अ॒व॒र्ध॒न् ||

सूर॑श्चि॒द्रथं॒परि॑तक्म्यायां॒पूर्वं᳚कर॒दुप॑रंजूजु॒वांस᳚म् |{आत्रेयो वस्युः | इन्द्रः कुत्सश्च | त्रिष्टुप्}

भर॑च्च॒क्रमेत॑शः॒संरि॑णातिपु॒रोदध॑त्‌सनिष्यति॒क्रतुं᳚नः॒(स्वाहा᳚) || 11 || वर्ग:31

सूरः॑¦चि॒त्¦रथ᳚‌म्¦परि॑ऽतक्म्याया‌म्¦पूर्व᳚‌म्¦क॒र॒त्¦उप॑र‌म्¦जू॒जु॒ऽवांस᳚‌म् |
भर॑त्¦च॒क्र‌म्¦एत॑शः¦स‌म्¦रि॒णा॒ति॒¦पु॒रः¦दध॑त्¦स॒नि॒ष्य॒ति॒¦क्रतु᳚‌म्¦नः॒ ||

आयंज॑ना,अभि॒चक्षे᳚जगा॒मेन्द्रः॒सखा᳚यंसु॒तसो᳚ममि॒च्छन् |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

वद॒न्‌ग्रावाव॒वेदिं᳚भ्रियाते॒यस्य॑जी॒रम॑ध्व॒र्यव॒श्चर᳚न्ति॒(स्वाहा᳚) || 12 ||

आ¦अ॒य‌म्¦ज॒नाः॒¦अ॒भि॒ऽचक्षे᳚¦ज॒गा॒म॒¦इन्द्रः॑¦सखा᳚य‌म्¦सु॒तऽसो᳚म‌म्¦इ॒च्छन् |
वद॑न्¦ग्रावा᳚¦अव॑¦वेदि᳚‌म्¦भ्रि॒या॒ते॒¦यस्य॑¦जी॒र‌म्¦अ॒ध्व॒र्यवः॑¦चर᳚न्ति ||

येचा॒कन᳚न्तचा॒कन᳚न्त॒नूतेमर्ता᳚,अमृत॒मोते,अंह॒आर॑न् |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

वा॒व॒न्धियज्यूँ᳚रु॒ततेषु॑धे॒ह्योजो॒जने᳚षु॒येषु॑ते॒स्याम॒(स्वाहा᳚) || 13 ||

ये¦चा॒कन᳚न्त¦चा॒कन᳚न्त¦नु¦ते¦मर्ताः᳚¦अ॒मृ॒त॒¦मो इति॑¦ते¦अंहः॑¦आ¦अ॒र॒न् |
व॒व॒न्धि¦यज्यू᳚न्¦उ॒त¦तेषु॑¦धे॒हि॒¦ओजः॑¦जने᳚षु¦येषु॑¦ते॒¦स्याम॑ ||

[32] अदुर्दरुत्समिति द्वादशर्चस्य सूक्तस्यात्रेयोगातुरिंद्रस्त्रिष्टुप् |{मंडल:5, सूक्त:32}{अनुवाक:2, सूक्त:18}{अष्टक:4, अध्याय:1}
अद॑र्द॒रुत्स॒मसृ॑जो॒विखानि॒त्वम᳚र्ण॒वान्‌ब॑द्बधा॒नाँ,अ॑रम्णाः |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

म॒हान्त॑मिन्द्र॒पर्व॑तं॒वियद्‌वःसृ॒जोविधारा॒,अव॑दान॒वंह॒न्त्(स्वाहा᳚) || 1 || वर्ग:32

अद॑र्दः¦उत्स᳚‌म्¦असृ॑जः¦वि¦खानि॑¦त्व‌म्¦अ॒र्ण॒वान्¦ब॒द्ब॒धा॒नान्¦अर᳚म्णाः |
म॒हान्त᳚‌म्¦इ॒न्द्र॒¦पर्व॑त‌म्¦वि¦यत्¦वरिति॒ वः¦सृ॒जः¦वि¦धाराः᳚¦अव॑¦दा॒न॒व‌म्¦ह॒न्निति॑ हन् ||

त्वमुत्साँ᳚,ऋ॒तुभि॑र्बद्बधा॒नाँ,अरं᳚ह॒ऊधः॒पर्व॑तस्यवज्रिन् |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

अहिं᳚चिदुग्र॒प्रयु॑तं॒शया᳚नंजघ॒न्वाँ,इ᳚न्द्र॒तवि॑षीमधत्थाः॒(स्वाहा᳚) || 2 ||

त्व‌म्¦उत्सा᳚न्¦ऋ॒तुऽभिः॑¦ब॒द्ब॒धा॒नान्¦अरं᳚हः¦ऊधः॑¦पर्व॑तस्य¦व॒ज्रि॒न् |
अहि᳚‌म्¦चि॒त्¦उ॒ग्र॒¦प्रऽयु॑त‌म्¦शया᳚न‌म्¦ज॒घ॒न्वान्¦इ॒न्द्र॒¦तवि॑षी‌म्¦अ॒ध॒त्थाः॒ ||

त्यस्य॑चिन्मह॒तोनिर्मृ॒गस्य॒वध॑र्जघान॒तवि॑षीभि॒रिन्द्रः॑ |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

यएक॒इद॑प्र॒तिर्मन्य॑मान॒आद॑स्माद॒न्यो,अ॑जनिष्ट॒तव्या॒न्त्(स्वाहा᳚) || 3 ||

त्यस्य॑¦चि॒त्¦म॒ह॒तः¦निः¦मृ॒गस्य॑¦वधः॑¦ज॒घा॒न॒¦तवि॑षीभिः¦इन्द्रः॑ |
यः¦एकः॑¦इत्¦अ॒प्र॒तिः¦मन्य॑मानः¦आत्¦अ॒स्मा॒त्¦अ॒न्यः¦अ॒ज॒नि॒ष्ट॒¦तव्या॑न् ||

त्यंचि॑देषांस्व॒धया॒मद᳚न्तंमि॒होनपा᳚तंसु॒वृधं᳚तमो॒गाम् |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

वृष॑प्रभर्मादान॒वस्य॒भामं॒वज्रे᳚णव॒ज्रीनिज॑घान॒शुष्ण॒‌म्(स्वाहा᳚) || 4 ||

त्य‌म्¦चि॒त्¦ए॒षा॒‌म्¦स्व॒धया᳚¦मद᳚न्त‌म्¦मि॒हः¦नपा᳚त‌म्¦सु॒ऽवृध᳚‌म्¦त॒मः॒ऽगा‌म् |
वृष॑ऽप्रभर्मा¦दा॒न॒वस्य॑¦भाम᳚‌म्¦वज्रे᳚ण¦व॒ज्री¦नि¦ज॒घा॒न॒¦शुष्ण᳚‌म् ||

त्यंचि॑दस्य॒क्रतु॑भि॒र्निष॑त्तमम॒र्मणो᳚वि॒ददिद॑स्य॒मर्म॑ |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

यदीं᳚सुक्षत्र॒प्रभृ॑ता॒मद॑स्य॒युयु॑त्सन्तं॒तम॑सिह॒र्म्येधाः(स्वाहा᳚) || 5 ||

त्य‌म्¦चि॒त्¦अ॒स्य॒¦क्रतु॑ऽभिः¦निऽस॑त्त‌म्¦अ॒म॒र्मणः॑¦वि॒दत्¦इत्¦अ॒स्य॒¦मर्म॑ |
यत्¦ई॒‌म्¦सु॒ऽक्ष॒त्र॒¦प्रऽभृ॑ता¦मद॑स्य¦युयु॑त्सन्त‌म्¦तम॑सि¦ह॒र्म्ये¦धाः ||

त्यंचि॑दि॒त्थाक॑त्प॒यंशया᳚नमसू॒र्येतम॑सिवावृधा॒नम् |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

तंचि᳚न्मन्दा॒नोवृ॑ष॒भःसु॒तस्यो॒च्चैरिन्द्रो᳚,अप॒गूर्या᳚जघान॒(स्वाहा᳚) || 6 ||

त्य‌म्¦चि॒त्¦इ॒त्था¦क॒त्प॒य‌म्¦शया᳚न‌म्¦अ॒सू॒र्ये¦तम॑सि¦व॒वृ॒धा॒न‌म् |
त‌म्¦चि॒त्¦म॒न्दा॒नः¦वृ॒ष॒भः¦सु॒तस्य॑¦उ॒च्चैः¦इन्द्रः॑¦अ॒प॒ऽगूर्य॑¦ज॒घा॒न॒ ||

उद्‌यदिन्द्रो᳚मह॒तेदा᳚न॒वाय॒वध॒र्यमि॑ष्ट॒सहो॒,अप्र॑तीतम् |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

यदीं॒वज्र॑स्य॒प्रभृ॑तौद॒दाभ॒विश्व॑स्यज॒न्तोर॑ध॒मंच॑कार॒(स्वाहा᳚) || 7 || वर्ग:33

उत्¦यत्¦इन्द्रः॑¦म॒ह॒ते¦दा॒न॒वाय॑¦वधः॑¦यमि॑ष्ट¦सहः॑¦अप्र॑तिऽ‌इत‌म् |
यत्¦ई॒‌म्¦वज्र॑स्य¦प्रऽभृ॑तौ¦द॒दाभ॑¦विश्व॑स्य¦ज॒न्तोः¦अ॒ध॒म‌म्¦च॒का॒र॒ ||

त्यंचि॒दर्णं᳚मधु॒पंशया᳚नमसि॒न्वंव॒व्रंमह्याद॑दु॒ग्रः |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

अ॒पाद॑म॒त्रंम॑ह॒ताव॒धेन॒निदु᳚र्यो॒णआ᳚वृणङ्‌मृ॒ध्रवा᳚च॒‌म्(स्वाहा᳚) || 8 ||

त्य‌म्¦चि॒त्¦अर्ण᳚‌म्¦म॒धु॒ऽप‌म्¦शया᳚न‌म्¦अ॒सि॒न्व‌म्¦व॒व्र‌म्¦महि॑¦आद॑त्¦उ॒ग्रः |
अ॒पाद᳚‌म्¦अ॒त्र‌म्¦म॒ह॒ता¦व॒धेन॑¦नि¦दु॒र्यो॒णे¦अ॒वृ॒ण॒क्¦मृ॒ध्रऽवा᳚च‌म् ||

को,अ॑स्य॒शुष्मं॒तवि॑षींवरात॒एको॒धना᳚भरते॒,अप्र॑तीतः |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

इ॒मेचि॑दस्य॒ज्रय॑सो॒नुदे॒वी,इन्द्र॒स्यौज॑सोभि॒यसा᳚जिहाते॒(स्वाहा᳚) || 9 ||

कः¦अ॒स्य॒¦शुष्म᳚‌म्¦तवि॑षी‌म्¦व॒रा॒ते॒¦एकः॑¦धना᳚¦भ॒र॒ते॒¦अप्र॑तिऽ‌इतः |
इ॒मे इति॑¦चि॒त्¦अ॒स्य॒¦ज्रय॑सः¦नु¦दे॒वी इति॑¦इन्द्र॑स्य¦ओज॑सः¦भि॒यसा᳚¦जि॒हा॒ते॒ इति॑ ||

न्य॑स्मैदे॒वीस्वधि॑तिर्जिहीत॒इन्द्रा᳚यगा॒तुरु॑श॒तीव॑येमे |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

संयदोजो᳚यु॒वते॒विश्व॑माभि॒रनु॑स्व॒धाव्ने᳚क्षि॒तयो᳚नमन्त॒(स्वाहा᳚) || 10 ||

नि¦अ॒स्मै॒¦दे॒वी¦स्वऽधि॑तिः¦जि॒ही॒ते॒¦इन्द्रा᳚य¦गा॒तुः¦उ॒श॒तीऽ‌इ᳚व¦ये॒मे॒ |
स‌म्¦यत्¦ओजः॑¦यु॒वते᳚¦विश्व᳚‌म्¦आ॒भिः॒¦अनु॑¦स्व॒धाऽव्ने᳚¦क्षि॒तयः॑¦न॒म॒न्त॒ ||

एकं॒नुत्वा॒सत्प॑तिं॒पाञ्च॑जन्यंजा॒तंशृ॑णोमिय॒शसं॒जने᳚षु |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

तंमे᳚जगृभ्रआ॒शसो॒नवि॑ष्ठंदो॒षावस्तो॒र्हव॑मानास॒इन्द्र॒‌म्(स्वाहा᳚) || 11 ||

एक॒‌म्¦नु¦त्वा॒¦सत्ऽप॑ति‌म्¦पांच॑ऽजन्य‌म्¦जा॒त‌म्¦शृ॒णो॒मि॒¦य॒शस᳚‌म्¦जने᳚षु |
त‌म्¦मे॒¦ज॒गृ॒भ्रे॒¦आ॒ऽशसः॑¦नवि॑ष्ठ‌म्¦दो॒षा¦वस्तोः᳚¦हव॑मानासः¦इन्द्र᳚‌म् ||

ए॒वाहित्वामृ॑तु॒थाया॒तय᳚न्तंम॒घाविप्रे᳚भ्यो॒दद॑तंशृ॒णोमि॑ |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

किंते᳚ब्र॒ह्माणो᳚गृहते॒सखा᳚यो॒येत्वा॒यानि॑द॒धुःकाम॑मिन्द्र॒(स्वाहा᳚) || 12 ||

ए॒व¦हि¦त्वा‌म्¦ऋ॒तु॒ऽथा¦या॒तय᳚न्त‌म्¦म॒घा¦विप्रे᳚भ्यः¦दद॑त‌म्¦शृ॒णोमि॑ |
कि‌म्¦ते॒¦ब्र॒ह्माणः॑¦गृ॒ह॒ते॒¦सखा᳚यः¦ये¦त्वा॒ऽया¦नि॒ऽद॒धुः¦काम᳚‌म्¦इ॒न्द्र॒ ||

[33] महिमहइति दशर्चस्य सूक्तस्य प्राजापत्यः संवरणइंद्रस्त्रिष्टुप् |{मंडल:5, सूक्त:33}{अनुवाक:3, सूक्त:1}{अष्टक:4, अध्याय:2}
महि॑म॒हेत॒वसे᳚दीध्ये॒नॄनिन्द्रा᳚ये॒त्थात॒वसे॒,अत᳚व्यान् |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

यो,अ॑स्मैसुम॒तिंवाज॑सातौस्तु॒तोजने᳚सम॒र्य॑श्चि॒केत॒(स्वाहा᳚) || 1 || वर्ग:1

महि॑¦म॒हे¦त॒वसे᳚¦दी॒ध्ये॒¦नॄन्¦इन्द्रा᳚य¦इ॒त्था¦त॒वसे᳚¦अत᳚व्यान् |
यः¦अ॒स्मै॒¦सु॒ऽम॒ति‌म्¦वाज॑ऽसातौ¦स्तु॒तः¦जने᳚¦स॒ऽम॒र्यः॑¦चि॒केत॑ ||

सत्वंन॑इन्द्रधियसा॒नो,अ॒र्कैर्हरी᳚णांवृष॒न्‌योक्त्र॑मश्रेः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

या,इ॒त्थाम॑घव॒न्ननु॒जोषं॒वक्षो᳚,अ॒भिप्रार्यःस॑क्षि॒जना॒न्त्(स्वाहा᳚) || 2 ||

सः¦त्व‌म्¦नः॒¦इ॒न्द्र॒¦धि॒य॒सा॒नः¦अ॒र्कैः¦हरी᳚णा‌म्¦वृ॒ष॒न्¦योक्त्र᳚‌म्¦अ॒श्रेः॒ |
याः¦इ॒त्था¦म॒घ॒ऽव॒न्¦अनु॑¦जोष᳚‌म्¦वक्षः॑¦अ॒भि¦प्र¦अ॒र्यः¦स॒क्षि॒¦जना॑न् ||

नतेत॑इन्द्रा॒भ्य१॑(अ॒)स्मदृ॒ष्वाऽयु॑क्तासो,अब्र॒ह्मता॒यदस॑न् |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

तिष्ठा॒रथ॒मधि॒तंव॑ज्रह॒स्तार॒श्मिंदे᳚वयमसे॒स्वश्वः॒(स्वाहा᳚) || 3 ||

न¦ते¦ते॒¦इ॒न्द्र॒¦अ॒भि¦अ॒स्मत्¦ऋ॒ष्व॒¦अयु॑क्तासः¦अ॒ब्र॒ह्मता᳚¦यत्¦अस॑न् |
तिष्ठ॑¦रथ᳚‌म्¦अधि॑¦त‌म्¦व॒ज्र॒ऽह॒स्त॒¦आ¦र॒श्मि‌म्¦दे॒व॒¦य॒म॒से॒¦सु॒।आश्वः॑ ||

पु॒रूयत्त॑इन्द्र॒सन्त्यु॒क्थागवे᳚च॒कर्थो॒र्वरा᳚सु॒युध्य॑न् |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

त॒त॒क्षेसूर्या᳚यचि॒दोक॑सि॒स्वेवृषा᳚स॒मत्सु॑दा॒सस्य॒नाम॑चि॒‌त्(स्वाहा᳚) || 4 ||

पु॒रु¦यत्¦ते॒¦इ॒न्द्र॒¦सन्ति॑¦उ॒क्था¦गवे᳚¦च॒कर्थ॑¦उ॒र्वरा᳚सु¦युध्य॑न् |
त॒त॒क्षे¦सूर्या᳚य¦चि॒त्¦ओक॑सि¦स्वे¦वृषा᳚¦स॒मत्ऽसु॑¦दा॒सस्य॑¦नाम॑¦चि॒त् ||

व॒यंतेत॑इन्द्र॒येच॒नरः॒शर्धो᳚जज्ञा॒नाया॒ताश्च॒रथाः᳚ |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

आस्माञ्ज॑गम्यादहिशुष्म॒सत्वा॒भगो॒नहव्यः॑प्रभृ॒थेषु॒चारुः॒(स्वाहा᳚) || 5 ||

व॒य‌म्¦ते¦ते॒¦इ॒न्द्र॒¦ये¦च॒¦नरः॑¦शर्धः॑¦ज॒ज्ञा॒नाः¦या॒ताः¦च॒¦रथाः᳚ |
आ¦अ॒स्मान्¦ज॒ग॒म्या॒त्¦अ॒हि॒ऽशु॒ष्म॒¦सत्वा᳚¦भगः॑¦न¦हव्यः॑¦प्र॒ऽभृ॒थेषु॑¦चारुः॑ ||

प॒पृ॒क्षेण्य॑मिन्द्र॒त्वेह्योजो᳚नृ॒म्णानि॑चनृ॒तमा᳚नो॒,अम॑र्तः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

सन॒एनीं᳚वसवानोर॒यिंदाः॒प्रार्यःस्तु॑षेतुविम॒घस्य॒दान॒‌म्(स्वाहा᳚) || 6 || वर्ग:2

प॒पृ॒क्षेण्य᳚‌म्¦इ॒न्द्र॒¦त्वे इति॑¦हि¦ओजः॑¦नृ॒म्णानि॑¦च॒¦नृ॒तमा᳚नः¦अम॑र्तः |
सः¦नः॒¦एनी᳚‌म्¦व॒स॒वा॒नः॒¦र॒यि‌म्¦दाः॒¦प्र¦अ॒र्यः¦स्तु॒षे॒¦तु॒वि॒ऽम॒घस्य॑¦दान᳚‌म् ||

ए॒वान॑इन्द्रो॒तिभि॑रवपा॒हिगृ॑ण॒तःशू᳚रका॒रून् |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

उ॒तत्वचं॒दद॑तो॒वाज॑सातौपिप्री॒हिमध्वः॒सुषु॑तस्य॒चारोः᳚(स्वाहा᳚) || 7 ||

ए॒व¦नः॒¦इ॒न्द्र॒¦ऊ॒तिऽभिः॑¦अ॒व॒¦पा॒हि¦गृ॒ण॒तः¦शू॒र॒¦का॒रून् |
उ॒त¦त्वच᳚‌म्¦दद॑तः¦वाज॑ऽसातौ¦पि॒प्री॒हि¦मध्वः॑¦सुऽसु॑तस्य¦चारोः᳚ ||

उ॒तत्येमा᳚पौरुकु॒त्स्यस्य॑सू॒रेस्त्र॒सद॑स्योर्हिर॒णिनो॒ररा᳚णाः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

वह᳚न्तुमा॒दश॒श्येता᳚सो,अस्यगैरिक्षि॒तस्य॒क्रतु॑भि॒र्नुस॑श्चे॒(स्वाहा᳚) || 8 ||

उ॒त¦त्ये¦मा॒¦पौ॒रु॒ऽकु॒त्स्यस्य॑¦सू॒रेः¦त्र॒सद॑स्योः¦हि॒र॒णिनः॑¦ररा᳚णाः |
वह᳚न्तु¦मा॒¦दश॑¦श्येता᳚सः¦अ॒स्य॒¦गै॒रि॒ऽक्षि॒तस्य॑¦क्रतु॑ऽभिः¦नु¦स॒श्चे॒ ||

उ॒तत्येमा᳚मारु॒ताश्व॑स्य॒शोणाः॒क्रत्वा᳚मघासोवि॒दथ॑स्यरा॒तौ |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

स॒हस्रा᳚मे॒च्यव॑तानो॒ददा᳚नआनू॒कम॒र्योवपु॑षे॒नार्च॒॑‌त्(स्वाहा᳚) || 9 ||

उ॒त¦त्ये¦मा॒¦मा॒रु॒त।आ॑श्वस्य¦शोणाः᳚¦क्रत्वा᳚ऽमघासः¦वि॒दथ॑स्य¦रा॒तौ |
स॒हस्रा᳚¦मे॒¦च्यव॑तानः¦ददा᳚नः¦आ॒नू॒क‌म्¦अ॒र्यः¦वपु॑षे¦न¦आ॒र्च॒त् ||

उ॒तत्येमा᳚ध्व॒न्य॑स्य॒जुष्टा᳚लक्ष्म॒ण्य॑स्यसु॒रुचो॒यता᳚नाः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

म॒ह्नारा॒यःसं॒वर॑णस्य॒ऋषे᳚र्व्र॒जंनगावः॒प्रय॑ता॒,अपि॑ग्म॒‌न्(स्वाहा᳚) || 10 ||

उ॒त¦त्ये¦मा॒¦ध्व॒न्य॑स्य¦जुष्टाः᳚¦ल॒क्ष्म॒ण्य॑स्य¦सु॒ऽरुचः॑¦यता᳚नाः |
म॒ह्ना¦रा॒यः¦स॒‌म्ऽवर॑णस्य¦ऋषेः᳚¦व्र॒ज‌म्¦न¦गावः॑¦प्रऽय॑ताः¦अपि॑¦ग्म॒न् ||

[34] अजातशत्रुमिति नवर्चस्य सूक्तस्य प्राजापत्यः संवरणइंद्रोजगत्यंत्यात्रिष्टुप् |{मंडल:5, सूक्त:34}{अनुवाक:3, सूक्त:2}{अष्टक:4, अध्याय:2}
अजा᳚तशत्रुम॒जरा॒स्व᳚र्व॒त्यनु॑स्व॒धामि॑ताद॒स्ममी᳚यते |{प्राजापत्यः संवरण | इन्द्रः | जगती}

सु॒नोत॑न॒पच॑त॒ब्रह्म॑वाहसेपुरुष्टु॒ताय॑प्रत॒रंद॑धातन॒(स्वाहा᳚) || 1 || वर्ग:3

अजा᳚तऽशत्रु‌म्¦अ॒जरा᳚¦स्वः॑ऽवती¦अनु॑¦स्व॒धा¦अमि॑ता¦द॒स्म‌म्¦ई॒य॒ते॒ |
सु॒नोत॑न¦पच॑त¦ब्रह्म॑ऽवाहसे¦पु॒रु॒ऽस्तु॒ताय॑¦प्र॒ऽत॒र‌म्¦द॒धा॒त॒न॒ ||

आयःसोमे᳚नज॒ठर॒मपि॑प्र॒ताऽम᳚न्दतम॒घवा॒मध्वो॒,अन्ध॑सः |{प्राजापत्यः संवरण | इन्द्रः | जगती}

यदीं᳚मृ॒गाय॒हन्त॑वेम॒हाव॑धःस॒हस्र॑भृष्टिमु॒शना᳚व॒धंयम॒॑‌त्(स्वाहा᳚) || 2 ||

आ¦यः¦सोमे᳚न¦ज॒ठर᳚‌म्¦अपि॑प्रत¦अम᳚न्दत¦म॒घऽवा᳚¦मध्वः॑¦अन्ध॑सः |
यत्¦ई॒‌म्¦मृ॒गाय॑¦हन्त॑वे¦म॒हाऽव॑धः¦स॒हस्र॑ऽभृष्टि‌म्¦उ॒शना᳚¦व॒ध‌म्¦यम॑त् ||

यो,अ॑स्मैघ्रं॒सउ॒तवा॒यऊध॑नि॒सोमं᳚सु॒नोति॒भव॑तिद्यु॒माँ,अह॑ |{प्राजापत्यः संवरण | इन्द्रः | जगती}

अपा᳚पश॒क्रस्त॑त॒नुष्टि॑मूहतित॒नूशु॑भ्रंम॒घवा॒यःक॑वास॒खः(स्वाहा᳚) || 3 ||

यः¦अ॒स्मै॒¦घ्रं॒से¦उ॒त¦वा॒¦यः¦ऊध॑नि¦सोम᳚‌म्¦सु॒नोति॑¦भव॑ति¦द्यु॒ऽमान्¦अह॑ |
अप॑।आप¦श॒क्रः¦त॒त॒नुष्टि᳚‌म्¦ऊ॒ह॒ति॒¦त॒नूऽशु॑भ्र‌म्¦म॒घऽवा᳚¦यः¦क॒व॒ऽस॒खः ||

यस्याव॑धीत्‌पि॒तरं॒यस्य॑मा॒तरं॒यस्य॑श॒क्रोभ्रात॑रं॒नात॑ईषते |{प्राजापत्यः संवरण | इन्द्रः | जगती}

वेतीद्व॑स्य॒प्रय॑तायतंक॒रोनकिल्बि॑षादीषते॒वस्व॑आक॒रः(स्वाहा᳚) || 4 ||

यस्य॑¦अव॑धीत्¦पि॒तर᳚‌म्¦यस्य॑¦मा॒तर᳚‌म्¦यस्य॑¦श॒क्रः¦भ्रात॑र‌म्¦न¦अतः॑¦ई॒ष॒ते॒ |
वेति॑¦इत्¦ऊँ॒ इति॑¦अ॒स्य॒¦प्रऽय॑ता¦य॒त॒‌म्ऽक॒रः¦न¦किल्बि॑षात्¦ई॒ष॒ते॒¦वस्वः॑¦आ॒ऽक॒रः ||

नप॒ञ्चभि॑र्द॒शभि᳚र्वष्ट्या॒रभं॒नासु᳚न्वतासचते॒पुष्य॑ताच॒न |{प्राजापत्यः संवरण | इन्द्रः | जगती}

जि॒नाति॒वेद॑मु॒याहन्ति॑वा॒धुनि॒रादे᳚व॒युंभ॑जति॒गोम॑तिव्र॒जे(स्वाहा᳚) || 5 ||

न¦पं॒चऽभिः॑¦द॒शऽभिः॑¦व॒ष्टि॒¦आ॒ऽरभ᳚‌म्¦न¦असु᳚न्वता¦स॒च॒ते॒¦पुष्य॑ता¦च॒न |
जि॒नाति॑¦वा॒¦इत्¦अ॒मु॒या¦हन्ति॑¦वा॒¦धुनिः॑¦आ¦दे॒व॒ऽयु‌म्¦भ॒ज॒ति॒¦गोऽम॑ति¦व्र॒जे ||

वि॒त्वक्ष॑णः॒समृ॑तौचक्रमास॒जोऽसु᳚न्वतो॒विषु॑णःसुन्व॒तोवृ॒धः |{प्राजापत्यः संवरण | इन्द्रः | जगती}

इन्द्रो॒विश्व॑स्यदमि॒तावि॒भीष॑णोयथाव॒शंन॑यति॒दास॒मार्यः॒(स्वाहा᳚) || 6 || वर्ग:4

वि॒ऽत्वक्ष॑णः¦स‌म्ऽऋ॑तौ¦च॒क्र॒‌म्ऽआ॒स॒जः¦असु᳚न्वतः¦विषु॑णः¦सु॒न्व॒तः¦वृ॒धः |
इन्द्रः॑¦विश्व॑स्य¦द॒मि॒ता¦वि॒ऽभीष॑णः¦य॒था॒ऽव॒श‌म्¦न॒य॒ति॒¦दास᳚‌म्¦आर्यः॑ ||

समीं᳚प॒णेर॑जति॒भोज॑नंमु॒षेविदा॒शुषे᳚भजतिसू॒नरं॒वसु॑ |{प्राजापत्यः संवरण | इन्द्रः | जगती}

दु॒र्गेच॒नध्रि॑यते॒विश्व॒आपु॒रुजनो॒यो,अ॑स्य॒तवि॑षी॒मचु॑क्रुध॒‌त्(स्वाहा᳚) || 7 ||

स‌म्¦ई॒‌म्¦प॒णेः¦अ॒ज॒ति॒¦भोज॑न‌म्¦मु॒षे¦वि¦दा॒शुषे᳚¦भ॒ज॒ति॒¦सू॒नर᳚‌म्¦वसु॑ |
दुः॒ऽगे¦च॒न¦ध्रि॒य॒ते॒¦विश्वः॑¦आ¦पु॒रु¦जनः॑¦यः¦अ॒स्य॒¦तवि॑षी‌म्¦अचु॑क्रुधत् ||

संयज्जनौ᳚सु॒धनौ᳚वि॒श्वश॑र्धसा॒ववे॒दिन्द्रो᳚म॒घवा॒गोषु॑शु॒भ्रिषु॑ |{प्राजापत्यः संवरण | इन्द्रः | जगती}

युजं॒ह्य१॑(अ॒)न्यमकृ॑तप्रवेप॒न्युदीं॒गव्यं᳚सृजते॒सत्व॑भि॒र्धुनिः॒(स्वाहा᳚) || 8 ||

स‌म्¦यत्¦जनौ᳚¦सु॒ऽधनौ᳚¦वि॒श्वऽश॑र्धसौ¦अवे᳚त्¦इन्द्रः॑¦म॒घऽवा᳚¦गोषु॑¦शु॒भ्रिषु॑ |
युज᳚‌म्¦हि¦अ॒न्य‌म्¦अकृ॑त¦प्र॒ऽवे॒प॒नी¦उत्¦ई॒‌म्¦गव्य᳚‌म्¦सृ॒ज॒ते॒¦सत्व॑ऽभिः¦धुनिः॑ ||

स॒ह॒स्र॒सामाग्नि॑वेशिंगृणीषे॒शत्रि॑मग्नउप॒मांके॒तुम॒र्यः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

तस्मा॒,आपः॑सं॒यतः॑पीपयन्त॒तस्मि᳚न्‌क्ष॒त्रमम॑वत्‌त्वे॒षम॑स्तु॒(स्वाहा᳚) || 9 ||

स॒ह॒स्र॒ऽसा‌म्¦आग्नि॑ऽवेशि‌म्¦गृ॒णी॒षे॒¦शत्रि᳚‌म्¦अ॒ग्ने॒¦उ॒प॒ऽमा‌म्¦के॒तु‌म्¦अ॒र्यः |
तस्मै᳚¦आपः॑¦स॒‌म्ऽयतः॑¦पी॒प॒य॒न्त॒¦तस्मि॑न्¦क्ष॒त्र‌म्¦अम॑ऽवत्¦त्वे॒ष‌म्¦अ॒स्तु॒ ||

[35] यस्तेसाधिष्टइत्यष्टर्चस्य सूक्तस्याङ्गिरसः प्रभूवसुरिंद्रोनुष्टुबंत्यापंक्तिः |{मंडल:5, सूक्त:35}{अनुवाक:3, सूक्त:3}{अष्टक:4, अध्याय:2}
यस्ते॒साधि॒ष्ठोऽव॑स॒इन्द्र॒क्रतु॒ष्टमाभ॑र |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

अ॒स्मभ्यं᳚चर्षणी॒सहं॒सस्निं॒वाजे᳚षुदु॒ष्टर॒‌म्(स्वाहा᳚) || 1 || वर्ग:5

यः¦ते॒¦साधि॑ष्ठः¦अव॑से¦इन्द्र॑¦क्रतुः॑¦त‌म्¦आ¦भ॒र॒ | अ॒स्मभ्य᳚‌म्¦च॒र्ष॒णि॒ऽसह᳚‌म्¦सस्नि᳚‌म्¦वाजे᳚षु¦दु॒स्तर᳚‌म् ||

यदि᳚न्द्रते॒चत॑स्रो॒यच्छू᳚र॒सन्ति॑ति॒स्रः |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

यद्वा॒पञ्च॑क्षिती॒नामव॒स्तत्‌सुन॒आभ॑र॒(स्वाहा᳚) || 2 ||

यत्¦इ॒न्द्र॒¦ते॒¦चत॑स्रः¦यत्¦शू॒र॒¦सन्ति॑¦ति॒स्रः | यत्¦वा॒¦पंच॑¦क्षि॒ती॒ना‌म्¦अवः॑¦तत्¦सु¦नः॒¦आ¦भ॒र॒ ||

आतेऽवो॒वरे᳚ण्यं॒वृष᳚न्तमस्यहूमहे |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

वृष॑जूति॒र्हिज॑ज्ञि॒षआ॒भूभि॑रिन्द्रतु॒र्वणिः॒(स्वाहा᳚) || 3 ||

आ¦ते॒¦अवः॑¦वरे᳚ण्य‌म्¦वृष॑न्ऽतमस्य¦हू॒म॒हे॒ | वृष॑ऽजूतिः¦हि¦ज॒ज्ञि॒षे¦आ॒ऽभूभिः॑¦इ॒न्द्र॒¦तु॒र्वणिः॑ ||

वृषा॒ह्यसि॒राध॑सेजज्ञि॒षेवृष्णि॑ते॒शवः॑ |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

स्वक्ष॑त्रंतेधृ॒षन्मनः॑सत्रा॒हमि᳚न्द्र॒पौंस्य॒‌म्(स्वाहा᳚) || 4 ||

वृषा᳚¦हि¦असि॑¦राध॑से¦ज॒ज्ञि॒षे¦वृष्णि॑¦ते॒¦शवः॑ | स्वऽक्ष॑त्र‌म्¦ते॒¦धृ॒षत्¦मनः॑¦स॒त्रा॒ऽह‌म्¦इ॒न्द्र॒¦पौंस्य᳚‌म् ||

त्वंतमि᳚न्द्र॒मर्त्य॑ममित्र॒यन्त॑मद्रिवः |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

स॒र्व॒र॒थाश॑तक्रतो॒निया᳚हिशवसस्पते॒(स्वाहा᳚) || 5 ||

त्व‌म्¦त‌म्¦इ॒न्द्र॒¦मर्त्य᳚‌म्¦अ॒मि॒त्र॒ऽयन्त᳚‌म्¦अ॒द्रि॒ऽवः॒ | स॒र्व॒ऽर॒था¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो¦नि¦या॒हि॒¦श॒व॒सः॒¦प॒ते॒ ||

त्वामिद्‌वृ॑त्रहन्तम॒जना᳚सोवृ॒क्तब᳚र्हिषः |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

उ॒ग्रंपू॒र्वीषु॑पू॒र्व्यंहव᳚न्ते॒वाज॑सातये॒(स्वाहा᳚) || 6 || वर्ग:6

त्वा‌म्¦इत्¦वृ॒त्र॒ह॒न्ऽत॒म॒¦जना᳚सः¦वृ॒क्तऽब॑र्हिषः | उ॒ग्र‌म्¦पू॒र्वीषु॑¦पू॒र्व्य‌म्¦हव᳚न्ते¦वाज॑ऽसातये ||

अ॒स्माक॑मिन्द्रदु॒ष्टरं᳚पुरो॒यावा᳚नमा॒जिषु॑ |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

स॒यावा᳚नं॒धने᳚धनेवाज॒यन्त॑मवा॒रथ॒‌म्(स्वाहा᳚) || 7 ||

अ॒स्माक᳚‌म्¦इ॒न्द्र॒¦दु॒स्तर᳚‌म्¦पु॒रः॒ऽयावा᳚न‌म्¦आ॒जिषु॑ | स॒ऽयावा᳚न‌म्¦धने᳚ऽधने¦वा॒ज॒ऽयन्त᳚‌म्¦अ॒व॒¦रथ᳚‌म् ||

अ॒स्माक॑मि॒न्द्रेहि॑नो॒रथ॑मवा॒पुरं᳚ध्या |{आंगिरसः प्रभूवसुः | इन्द्रः | पङ्क्तिः}

व॒यंश॑विष्ठ॒वार्यं᳚दि॒विश्रवो᳚दधीमहिदि॒विस्तोमं᳚मनामहे॒(स्वाहा᳚) || 8 ||

अ॒स्माक᳚‌म्¦इ॒न्द्र॒¦आ¦इ॒हि॒¦नः॒¦रथ᳚‌म्¦अ॒व॒¦पुर᳚‌म्ऽध्या |
व॒य‌म्¦श॒वि॒ष्ठ॒¦वार्य᳚‌म्¦दि॒वि¦श्रवः॑¦द॒धी॒म॒हि॒¦दि॒वि¦स्तोम᳚‌म्¦म॒ना॒म॒हे॒ ||

[36] सआगमदिति षडृचस्य सूक्तस्याङ्गिरसःप्रभूवसुरिंद्रस्त्रिष्टुप् तृतीयाजगती |{मंडल:5, सूक्त:36}{अनुवाक:3, सूक्त:4}{अष्टक:4, अध्याय:2}
सआग॑म॒दिन्द्रो॒योवसू᳚नां॒चिके᳚त॒द्‌दातुं॒दाम॑नोरयी॒णाम् |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्}

ध॒न्व॒च॒रोनवंस॑गस्तृषा॒णश्च॑कमा॒नःपि॑बतुदु॒ग्धमं॒शुम्(स्वाहा᳚) || 1 || वर्ग:7

सः¦आ¦ग॒म॒त्¦इन्द्रः॑¦यः¦वसू᳚ना‌म्¦चिके᳚तत्¦दातु᳚‌म्¦दाम॑नः¦र॒यी॒णा‌म् |
ध॒न्व॒ऽच॒रः¦न¦वंस॑गः¦तृ॒षा॒णः¦च॒क॒मा॒नः¦पि॒ब॒तु॒¦दु॒ग्ध‌म्¦अं॒शु‌म् ||

आते॒हनू᳚हरिवःशूर॒शिप्रे॒रुह॒त्‌सोमो॒नपर्व॑तस्यपृ॒ष्ठे |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्}

अनु॑त्वाराज॒न्नर्व॑तो॒नहि॒न्वन्गी॒र्भिर्म॑देमपुरुहूत॒विश्वे॒(स्वाहा᳚) || 2 ||

आ¦ते॒¦हनू॒ इति॑¦ह॒रि॒ऽवः॒¦शू॒र॒¦शिप्रे॒ इति॑¦रुह॑त्¦सोमः॑¦न¦पर्व॑तस्य¦पृ॒ष्ठे |
अनु॑¦त्वा॒¦रा॒ज॒न्¦अर्व॑तः¦न¦हि॒न्वन्¦गीः॒ऽभिः¦म॒दे॒म॒¦पु॒रु॒ऽहू॒त॒¦विश्वे᳚ ||

च॒क्रंनवृ॒त्तंपु॑रुहूतवेपते॒मनो᳚भि॒यामे॒,अम॑ते॒रिद॑द्रिवः |{आंगिरसः प्रभूवसुः | इन्द्रः | जगती}

रथा॒दधि॑त्वाजरि॒तास॑दावृधकु॒विन्नुस्तो᳚षन्मघवन्‌पुरू॒वसुः॒(स्वाहा᳚) || 3 ||

च॒क्र‌म्¦न¦वृ॒त्त‌म्¦पु॒रु॒ऽहू॒त॒¦वे॒प॒ते॒¦मनः॑¦भि॒या¦मे॒¦अम॑तेः¦इत्¦अ॒द्रि॒ऽवः॒ |
रथा᳚त्¦अधि॑¦त्वा॒¦ज॒रि॒ता¦स॒दा॒ऽवृ॒ध॒¦कु॒वित्¦नु¦स्तो॒ष॒त्¦म॒घ॒ऽव॒न्¦पु॒रु॒ऽवसुः॑ ||

ए॒षग्रावे᳚वजरि॒तात॑इ॒न्द्रेय॑र्ति॒वाचं᳚बृ॒हदा᳚शुषा॒णः |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्}

प्रस॒व्येन॑मघव॒न्‌यंसि॑रा॒यःप्रद॑क्षि॒णिद्ध॑रिवो॒माविवे᳚नः॒(स्वाहा᳚) || 4 ||

ए॒षः¦ग्रावा᳚ऽ‌इव¦ज॒रि॒ता¦ते॒¦इ॒न्द्र॒¦इय॑र्ति¦वाच᳚‌म्¦बृ॒हत्¦आ॒शु॒षा॒णः |
प्र¦स॒व्येन॑¦म॒घ॒ऽव॒न्¦यंसि॑¦रा॒यः¦प्र¦द॒क्षि॒णित्¦ह॒रि॒ऽवः॒¦मा¦वि¦वे॒नः॒ ||

वृषा᳚त्वा॒वृष॑णंवर्धतु॒द्यौर्वृषा॒वृष॑भ्यांवहसे॒हरि॑भ्याम् |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्}

सनो॒वृषा॒वृष॑रथःसुशिप्र॒वृष॑क्रतो॒वृषा᳚वज्रि॒न्‌भरे᳚धाः॒(स्वाहा᳚) || 5 ||

वृषा᳚¦त्वा॒¦वृष॑ण‌म्¦व॒र्ध॒तु॒¦द्यौः¦वृषा᳚¦वृष॑ऽभ्या‌म्¦व॒ह॒से॒¦हरि॑ऽभ्या‌म् |
सः¦नः॒¦वृषा᳚¦वृष॑ऽरथः¦सु॒ऽशि॒प्र॒¦वृष॑क्रतो॒ इति॒ वृष॑ऽक्रतो¦वृषा᳚¦वज्रि॒न्¦भरे᳚¦धाः॒ ||

योरोहि॑तौवा॒जिनौ᳚वा॒जिनी᳚वान्त्रि॒भिःश॒तैःसच॑माना॒वदि॑ष्ट |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्}

यूने॒सम॑स्मैक्षि॒तयो᳚नमन्तांश्रु॒तर॑थायमरुतोदुवो॒या(स्वाहा᳚) || 6 ||

यः¦रोहि॑तौ¦वा॒जिनौ᳚¦वा॒जिनी᳚ऽवान्¦त्रि॒ऽभिः¦श॒तैः¦सच॑मानौ¦अदि॑ष्ट |
यूने᳚¦स‌म्¦अ॒स्मै॒¦क्षि॒तयः॑¦न॒म॒न्ता॒‌म्¦श्रु॒तऽर॑थाय¦म॒रु॒तः॒¦दु॒वः॒ऽया ||

[37] संभानुनेति पंचर्चस्य सूक्तस्य भौमोत्रिरिंद्रस्त्रिष्टुप् |{मंडल:5, सूक्त:37}{अनुवाक:3, सूक्त:5}{अष्टक:4, अध्याय:2}
संभा॒नुना᳚यतते॒सूर्य॑स्या॒ऽऽजुह्वा᳚नोघृ॒तपृ॑ष्ठः॒स्वञ्चाः᳚ |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

तस्मा॒,अमृ॑ध्रा,उ॒षसो॒व्यु॑च्छा॒न्यइन्द्रा᳚यसु॒नवा॒मेत्याह॒(स्वाहा᳚) || 1 || वर्ग:8

स‌म्¦भा॒नुना᳚¦य॒त॒ते॒¦सूर्य॑स्य¦आ॒ऽजुह्वा᳚नः¦घृ॒तऽपृ॑ष्ठः¦सु॒।आंचाः᳚ |
तस्मै᳚¦अमृ॑ध्राः¦उ॒षसः॑¦वि¦उ॒च्छा॒न्¦यः¦इन्द्रा᳚य¦सु॒नवा᳚म¦इति॑¦आह॑ ||

समि॑द्धाग्निर्वनवत्‌स्ती॒र्णब᳚र्हिर्यु॒क्तग्रा᳚वासु॒तसो᳚मोजराते |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

ग्रावा᳚णो॒यस्ये᳚षि॒रंवद॒न्त्यय॑दध्व॒र्युर्ह॒विषाव॒सिन्धु॒‌म्(स्वाहा᳚) || 2 ||

समि॑द्ध।आग्निः¦व॒न॒व॒त्¦स्ती॒र्णऽब॑र्हिः¦यु॒क्तऽग्रा᳚वा¦सु॒तऽसो᳚मः¦ज॒रा॒ते॒ |
ग्रावा᳚णः¦यस्य॑¦इ॒षि॒र‌म्¦वद᳚न्ति¦अय॑त्¦अ॒ध्व॒र्युः¦ह॒विषा᳚¦अव॑¦सिन्धु᳚‌म् ||

व॒धूरि॒यंपति॑मि॒च्छन्त्ये᳚ति॒यईं॒वहा᳚ते॒महि॑षीमिषि॒राम् |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

आस्य॑श्रवस्या॒द्‌रथ॒आच॑घोषात्पु॒रूस॒हस्रा॒परि॑वर्तयाते॒(स्वाहा᳚) || 3 ||

व॒धूः¦इ॒य‌म्¦पति᳚‌म्¦इ॒च्छन्ती᳚¦ए॒ति॒¦यः¦ई॒‌म्¦वहा᳚ते¦महि॑षी‌म्¦इ॒षि॒रा‌म् |
आ¦अ॒स्य॒¦श्र॒व॒स्या॒त्¦रथः॑¦आ¦च॒¦घो॒षा॒त्¦पु॒रु¦स॒हस्रा᳚¦परि॑¦व॒र्त॒या॒ते॒ ||

नसराजा᳚व्यथते॒यस्मि॒न्निन्द्र॑स्ती॒व्रंसोमं॒पिब॑ति॒गोस॑खायम् |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

आस॑त्व॒नैरज॑ति॒हन्ति॑वृ॒त्रंक्षेति॑क्षि॒तीःसु॒भगो॒नाम॒पुष्य॒न्त्(स्वाहा᳚) || 4 ||

न¦सः¦राजा᳚¦व्य॒थ॒ते॒¦यस्मि॑न्¦इन्द्रः॑¦ती॒व्र‌म्¦सोम᳚‌म्¦पिब॑ति¦गोऽस॑खाय‌म् |
आ¦स॒त्व॒नैः¦अज॑ति¦हन्ति॑¦वृ॒त्र‌म्¦क्षेति॑¦क्षि॒तीः¦सु॒ऽभगः॑¦नाम॑¦पुष्य॑न् ||

पुष्या॒त्‌क्षेमे᳚,अ॒भियोगे᳚भवात्यु॒भेवृतौ᳚संय॒तीसंज॑याति |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

प्रि॒यःसूर्ये᳚प्रि॒यो,अ॒ग्नाभ॑वाति॒यइन्द्रा᳚यसु॒तसो᳚मो॒ददा᳚श॒‌त्(स्वाहा᳚) || 5 ||

पुष्या᳚त्¦क्षेमे᳚¦अ॒भि¦योगे᳚¦भ॒वा॒ति॒¦उ॒भे इति॑¦वृतौ᳚¦सं॒य॒ती इति॑ स॒‌म्ऽय॒ती¦स‌म्¦ज॒या॒ति॒ |
प्रि॒यः¦सूर्ये᳚¦प्रि॒यः¦अ॒ग्ना¦भ॒वा॒ति॒¦यः¦इन्द्रा᳚य¦सु॒तऽसो᳚मः¦ददा᳚शत् ||

[38] उरोष्टइति पंचर्चस्य सूक्तस्य भौमोत्रिरिंद्रोनुष्टुप् |{मंडल:5, सूक्त:38}{अनुवाक:3, सूक्त:6}{अष्टक:4, अध्याय:2}
उ॒रोष्ट॑इन्द्र॒राध॑सोवि॒भ्वीरा॒तिःश॑तक्रतो |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

अधा᳚नोविश्वचर्षणेद्यु॒म्नासु॑क्षत्रमंहय॒(स्वाहा᳚) || 1 || वर्ग:9

उ॒रोः¦ते॒¦इ॒न्द्र॒¦राध॑सः¦वि॒ऽभ्वी¦रा॒तिः¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | अध॑¦नः॒¦वि॒श्व॒ऽच॒र्ष॒णे॒¦द्यु॒म्ना¦सु॒ऽक्ष॒त्र॒¦मं॒ह॒य॒ ||

यदी᳚मिन्द्रश्र॒वाय्य॒मिषं᳚शविष्ठदधि॒षे |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

प॒प्र॒थेदी᳚र्घ॒श्रुत्त॑मं॒हिर᳚ण्यवर्णदु॒ष्टर॒‌म्(स्वाहा᳚) || 2 ||

यत्¦ई॒‌म्¦इ॒न्द्र॒¦श्र॒वाय्य᳚‌म्¦इष᳚‌म्¦श॒वि॒ष्ठ॒¦द॒धि॒षे | प॒प्र॒थे¦दी॒र्घ॒श्रुत्ऽत॑म‌म्¦हिर᳚ण्यऽवर्ण¦दु॒स्तर᳚‌म् ||

शुष्मा᳚सो॒येते᳚,अद्रिवोमे॒हना᳚केत॒सापः॑ |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

उ॒भादे॒वाव॒भिष्ट॑येदि॒वश्च॒ग्मश्च॑राजथः॒(स्वाहा᳚) || 3 ||

शुष्मा᳚सः¦ये¦ते॒¦अ॒द्रि॒ऽवः॒¦मे॒हना᳚¦के॒त॒ऽसापः॑ | उ॒भा¦दे॒वौ¦अ॒भिष्ट॑ये¦दि॒वः¦च॒¦ग्मः¦च॒¦रा॒ज॒थः॒ ||

उ॒तोनो᳚,अ॒स्यकस्य॑चि॒द्दक्ष॑स्य॒तव॑वृत्रहन् |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

अ॒स्मभ्यं᳚नृ॒म्णमाभ॑रा॒ऽस्मभ्यं᳚नृमणस्यसे॒(स्वाहा᳚) || 4 ||

उ॒तो इति॑¦नः॒¦अ॒स्य¦कस्य॑¦चि॒त्¦दक्ष॑स्य¦तव॑¦वृ॒त्र॒ऽह॒न् | अ॒स्मभ्य᳚‌म्¦नृ॒म्ण‌म्¦आ¦भ॒र॒¦अ॒स्मभ्य᳚‌म्¦नृ॒ऽम॒न॒स्य॒से॒ ||

नूत॑आ॒भिर॒भिष्टि॑भि॒स्तव॒शर्म᳚ञ्छतक्रतो |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

इन्द्र॒स्याम॑सुगो॒पाःशूर॒स्याम॑सुगो॒पाः(स्वाहा᳚) || 5 ||

नु¦ते॒¦आ॒भिः¦अ॒भिष्टि॑ऽभिः¦तव॑¦शर्म॑न्¦श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो | इन्द्र॑¦स्याम॑¦सु॒ऽगो॒पाः¦शूर॑¦स्याम॑¦सु॒ऽगो॒पाः ||

[39] यदिंद्रेति पंचर्चस्य सूक्तस्य भौमोत्रिरिंद्रोनुष्ठुबंत्यापंक्तिः |{मंडल:5, सूक्त:39}{अनुवाक:3, सूक्त:7}{अष्टक:4, अध्याय:2}
यदि᳚न्द्रचित्रमे॒हनाऽस्ति॒त्वादा᳚तमद्रिवः |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

राध॒स्तन्नो᳚विदद्वसउभयाह॒स्त्याभ॑र॒(स्वाहा᳚) || 1 || वर्ग:10

यत्¦इ॒न्द्र॒¦चि॒त्र॒¦मे॒हना᳚¦अस्ति॑¦त्वाऽदा᳚त‌म्¦अ॒द्रि॒ऽवः॒ | राधः॑¦तत्¦नः॒¦वि॒द॒द्व॒सो॒ इति॑ विदत्ऽवसो¦उ॒भ॒या॒ह॒स्ति¦आ¦भ॒र॒ ||

यन्मन्य॑से॒वरे᳚ण्य॒मिन्द्र॑द्यु॒क्षंतदाभ॑र |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

वि॒द्याम॒तस्य॑तेव॒यमकू᳚पारस्यदा॒वने॒(स्वाहा᳚) || 2 ||

यत्¦मन्य॑से¦वरे᳚ण्य‌म्¦इन्द्र॑¦द्यु॒क्ष‌म्¦तत्¦आ¦भ॒र॒ | वि॒द्याम॑¦तस्य॑¦ते॒¦व॒य‌म्¦अकू᳚पारस्य¦दा॒वने᳚ ||

यत्ते᳚दि॒त्सुप्र॒राध्यं॒मनो॒,अस्ति॑श्रु॒तंबृ॒हत् |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

तेन॑दृ॒ळ्हाचि॑दद्रिव॒आवाजं᳚दर्षिसा॒तये॒(स्वाहा᳚) || 3 ||

यत्¦ते॒¦दि॒त्सु¦प्र॒ऽराध्य᳚‌म्¦मनः॑¦अस्ति॑¦श्रु॒त‌म्¦बृ॒हत् | तेन॑¦दृ॒ळ्हा¦चि॒त्¦अ॒द्रि॒ऽवः॒¦आ¦वाज᳚‌म्¦द॒र्षि॒¦सा॒तये᳚ ||

मंहि॑ष्ठंवोम॒घोनां॒राजा᳚नंचर्षणी॒नाम् |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

इन्द्र॒मुप॒प्रश॑स्तयेपू॒र्वीभि॑र्जुजुषे॒गिरः॒(स्वाहा᳚) || 4 ||

मंहि॑ष्ठ‌म्¦वः॒¦म॒घोना᳚‌म्¦राजा᳚न‌म्¦च॒र्ष॒णी॒ना‌म् | इन्द्र᳚‌म्¦उप॑¦प्रऽश॑स्तये¦पू॒र्वीभिः॑¦जु॒जु॒षे॒¦गिरः॑ ||

अस्मा॒,इत्‌काव्यं॒वच॑उ॒क्थमिन्द्रा᳚य॒शंस्य᳚म् |{भौमोत्रिः | इन्द्रः | पङ्क्तिः}

तस्मा᳚,उ॒ब्रह्म॑वाहसे॒गिरो᳚वर्ध॒न्त्यत्र॑यो॒गिरः॑शुम्भ॒न्त्यत्र॑यः॒(स्वाहा᳚) || 5 ||

अस्मै᳚¦इत्¦काव्य᳚‌म्¦वचः॑¦उ॒क्थ‌म्¦इन्द्रा᳚य¦शंस्य᳚‌म् |
तस्मै᳚¦ऊँ॒ इति॑¦ब्रह्म॑ऽवाहसे¦गिरः॑¦व॒र्ध॒न्ति॒¦अत्र॑यः¦गिरः॑¦शु॒म्भ॒न्ति॒¦अत्र॑यः ||

[40] आयाहीति नवर्चस्य सूक्तस्य भौमोत्रिः आद्यानांचतसृणामिंद्रः पंचम्याःसूर्यः षष्ट्यादिचतसृणामत्रिर्देवता आद्यास्तिस्रउष्णिहः पंचम्यंत्येऽनुष्टुभौ शिष्टास्त्रिष्टुभः |{मंडल:5, सूक्त:40}{अनुवाक:3, सूक्त:8}{अष्टक:4, अध्याय:2}
आया॒ह्यद्रि॑भिःसु॒तंसोमं᳚सोमपतेपिब |{भौमोत्रिः | इन्द्रः | उष्णिक्}

वृष᳚न्निन्द्र॒वृष॑भिर्वृत्रहन्तम॒(स्वाहा᳚) || 1 || वर्ग:11

आ¦या॒हि॒¦अद्रि॑ऽभिः¦सु॒त‌म्¦सोम᳚‌म्¦सो॒म॒ऽप॒ते॒¦पि॒ब॒ | वृष॑न्¦इ॒न्द्र॒¦वृष॑ऽभिः¦वृ॒त्र॒ह॒न्ऽत॒म॒ ||

वृषा॒ग्रावा॒वृषा॒मदो॒वृषा॒सोमो᳚,अ॒यंसु॒तः |{भौमोत्रिः | इन्द्रः | उष्णिक्}

वृष᳚न्निन्द्र॒वृष॑भिर्वृत्रहन्तम॒(स्वाहा᳚) || 2 ||

वृषा᳚¦ग्रावा᳚¦वृषा᳚¦मदः॑¦वृषा᳚¦सोमः॑¦अ॒य‌म्¦सु॒तः | वृष॑न्¦इ॒न्द्र॒¦वृष॑ऽभिः¦वृ॒त्र॒ह॒न्ऽत॒म॒ ||

वृषा᳚त्वा॒वृष॑णंहुवे॒वज्रि᳚ञ्चि॒त्राभि॑रू॒तिभिः॑ |{भौमोत्रिः | इन्द्रः | उष्णिक्}

वृष᳚न्निन्द्र॒वृष॑भिर्वृत्रहन्तम॒(स्वाहा᳚) || 3 ||

वृषा᳚¦त्वा॒¦वृष॑ण‌म्¦हु॒वे॒¦वज्रि॑न्¦चि॒त्राभिः॑¦ऊ॒तिऽभिः॑ | वृष॑न्¦इ॒न्द्र॒¦वृष॑ऽभिः¦वृ॒त्र॒ह॒न्ऽत॒म॒ ||

ऋ॒जी॒षीव॒ज्रीवृ॑ष॒भस्तु॑रा॒षाट्छु॒ष्मीराजा᳚वृत्र॒हासो᳚म॒पावा᳚ |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

यु॒क्त्वाहरि॑भ्या॒मुप॑यासद॒र्वाङ्माध्यं᳚दिने॒सव॑नेमत्स॒दिन्द्रः॒(स्वाहा᳚) || 4 ||

ऋ॒जी॒षी¦व॒ज्री¦वृ॒ष॒भः¦तु॒रा॒षाट्¦शु॒ष्मी¦राजा᳚¦वृ॒त्र॒ऽहा¦सो॒म॒ऽपावा᳚ |
यु॒क्त्वा¦हरि॑ऽभ्या‌म्¦उप॑¦या॒स॒त्¦अ॒र्वाङ्¦माध्य᳚न्दिने¦सव॑ने¦म॒त्स॒त्¦इन्द्रः॑ ||

यत्‌त्वा᳚सूर्य॒स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः |{भौमोत्रिः | सूर्यः | अनुष्टुप्}

अक्षे᳚त्रवि॒द्‌यथा᳚मु॒ग्धोभुव॑नान्यदीधयुः॒(स्वाहा᳚) || 5 ||

यत्¦त्वा॒¦सू॒र्य॒¦स्वः॑ऽभानुः¦तम॑सा¦अवि॑ध्यत्¦आ॒सु॒रः | अक्षे᳚त्रऽवित्¦यथा᳚¦मु॒ग्धः¦भुव॑नानि¦अ॒दी॒ध॒युः॒ ||

स्व॑र्भानो॒रध॒यदि᳚न्द्रमा॒या,अ॒वोदि॒वोवर्त॑माना,अ॒वाह॑न् |{भौमोत्रिः | अत्रिः | त्रिष्टुप्}

गू॒ळ्हंसूर्यं॒तम॒साप᳚व्रतेनतु॒रीये᳚ण॒ब्रह्म॑णाविन्द॒दत्रिः॒(स्वाहा᳚) || 6 || वर्ग:12

स्वः॑ऽभानोः¦अध॑¦यत्¦इ॒न्द्र॒¦मा॒याः¦अ॒वः¦दि॒वः¦वर्त॑मानाः¦अ॒व॒।आह॑न् |
गू॒ळ्ह‌म्¦सूर्य᳚‌म्¦तम॑सा¦अप॑ऽव्रतेन¦तु॒रीये᳚ण¦ब्रह्म॑णा¦अ॒वि॒न्द॒त्¦अत्रिः॑ ||

मामामि॒मंतव॒सन्त॑मत्रइर॒स्याद्रु॒ग्धोभि॒यसा॒निगा᳚रीत् |{भौमोत्रिः | अत्रिः | त्रिष्टुप्}

त्वंमि॒त्रो,अ॑सिस॒त्यरा᳚धा॒स्तौमे॒हाव॑तं॒वरु॑णश्च॒राजा॒(स्वाहा᳚) || 7 ||

मा¦मा‌म्¦इ॒म‌म्¦तव॑¦सन्त᳚‌म्¦अ॒त्रे॒¦इ॒र॒स्या¦द्रु॒ग्धः¦भि॒यसा᳚¦नि¦गा॒री॒त् |
त्व‌म्¦मि॒त्रः¦अ॒सि॒¦स॒त्यऽरा᳚धाः¦तौ¦मा॒¦इ॒ह¦अ॒व॒त॒‌म्¦वरु॑णः¦च॒¦राजा᳚ ||

ग्राव्णो᳚ब्र॒ह्मायु॑युजा॒नःस॑प॒र्यन्की॒रिणा᳚दे॒वान्‌नम॑सोप॒शिक्ष॑न् |{भौमोत्रिः | अत्रिः | त्रिष्टुप्}

अत्रिः॒सूर्य॑स्यदि॒विचक्षु॒राधा॒त्स्व॑र्भानो॒रप॑मा॒या,अ॑घुक्ष॒‌त्(स्वाहा᳚) || 8 ||

ग्राव्णः॑¦ब्र॒ह्मा¦यु॒यु॒जा॒नः¦स॒प॒र्यन्¦की॒रिणा᳚¦दे॒वान्¦नम॑सा¦उ॒प॒ऽशिक्ष॑न् |
अत्रिः॑¦सूर्य॑स्य¦दि॒वि¦चक्षुः॑¦आ¦अ॒धा॒त्¦स्वः॑ऽभानोः¦अप॑¦मा॒याः¦अ॒घु॒क्ष॒त् ||

यंवैसूर्यं॒स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः |{भौमोत्रिः | अत्रिः | अनुष्टुप्}

अत्र॑य॒स्तमन्व॑विन्दन्न॒ह्य१॑(अ॒)न्ये,अश॑क्नुव॒‌न्(स्वाहा᳚) || 9 ||

य‌म्¦वै¦सूर्य᳚‌म्¦स्वः॑ऽभानुः¦तम॑सा¦अवि॑ध्यत्¦आ॒सु॒रः | अत्र॑यः¦त‌म्¦अनु॑¦अ॒वि॒न्द॒न्¦न॒हि¦अ॒न्ये¦अश॑क्नुवन् ||

[41] कोनुवामिति विंशत्यृचस्य सूक्तस्य भौमोत्रिर्विश्वेदेवास्त्रिष्टुप्‌ षोडशीसप्तदश्यावतिजगत्यावन्त्यैकपदा | (भेदपक्षे - मित्रावरुणौ १ विश्वेदेवाः १ अश्विनौ १ विश्वेदेवाः १ मरुतः १ विश्वेदेवाः १ उषासानक्ते १ विश्वेदेवाः २ अग्निः १ | विश्वेदेवाः २ मरुतः १ विश्वेदेवाः १ भूमिः १ विश्वेदेवाः ३ भूमिः १ विश्वेदेवाः १ एवं २०)|{मंडल:5, सूक्त:41}{अनुवाक:3, सूक्त:9}{अष्टक:4, अध्याय:2}
कोनुवां᳚मित्रावरुणावृता॒यन्दि॒वोवा᳚म॒हःपार्थि॑वस्यवा॒दे |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒तस्य॑वा॒सद॑सि॒त्रासी᳚थांनोयज्ञाय॒तेवा᳚पशु॒षोनवाजा॒न्त्(स्वाहा᳚) || 1 || वर्ग:13

कः¦नु¦वा॒‌म्¦मि॒त्रा॒व॒रु॒णौ॒¦ऋ॒त॒ऽयन्¦दि॒वः¦वा॒¦म॒हः¦पार्थि॑वस्य¦वा॒¦दे |
ऋ॒तस्य॑¦वा॒¦सद॑सि¦त्रासी᳚था‌म्¦नः॒¦य॒ज्ञ॒ऽय॒ते¦वा॒¦प॒शु॒ऽसः¦न¦वाजा॑न् ||

तेनो᳚मि॒त्रोवरु॑णो,अर्य॒मायुरिन्द्र॑ऋभु॒क्षाम॒रुतो᳚जुषन्त |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

नमो᳚भिर्वा॒येदध॑तेसुवृ॒क्तिंस्तोमं᳚रु॒द्राय॑मी॒ळ्हुषे᳚स॒जोषाः᳚(स्वाहा᳚) || 2 ||

ते¦नः॒¦मि॒त्रः¦वरु॑णः¦अ॒र्य॒मा¦आ॒युः¦इन्द्रः॑¦ऋ॒भु॒क्षाः¦म॒रुतः॑¦जु॒ष॒न्त॒ |
नमः॑ऽभिः¦वा॒¦ये¦दध॑ते¦सु॒ऽवृ॒क्ति‌म्¦स्तोम᳚‌म्¦रु॒द्राय॑¦मी॒ळ्हुषे᳚¦स॒ऽजोषाः᳚ ||

आवां॒येष्ठा᳚श्विनाहु॒वध्यै॒वात॑स्य॒पत्म॒न्‌रथ्य॑स्यपु॒ष्टौ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

उ॒तवा᳚दि॒वो,असु॑राय॒मन्म॒प्रान्धां᳚सीव॒यज्य॑वेभरध्व॒‌म्(स्वाहा᳚) || 3 ||

आ¦वा॒‌म्¦येष्ठा᳚¦अ॒श्वि॒ना॒¦हु॒वध्यै᳚¦वात॑स्य¦पत्म॑न्¦रथ्य॑स्य¦पु॒ष्टौ |
उ॒त¦वा॒¦दि॒वः¦असु॑राय¦मन्म॑¦प्र¦अन्धां᳚सिऽ‌इव¦यज्य॑वे¦भ॒र॒ध्व॒‌म् ||

प्रस॒क्षणो᳚दि॒व्यःकण्व॑होतात्रि॒तोदि॒वःस॒जोषा॒वातो᳚,अ॒ग्निः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

पू॒षाभगः॑प्रभृ॒थेवि॒श्वभो᳚जा,आ॒जिंनज॑ग्मुरा॒श्व॑श्वतमाः॒(स्वाहा᳚) || 4 ||

प्र¦स॒क्षणः॑¦दि॒व्यः¦कण्व॑ऽहोता¦त्रि॒तः¦दि॒वः¦स॒ऽजोषाः᳚¦वातः॑¦अ॒ग्निः |
पू॒षा¦भगः॑¦प्र॒ऽभृ॒थे¦वि॒श्वऽभो᳚जाः¦आ॒जि‌म्¦न¦ज॒ग्मुः॒¦आ॒श्व॑श्वऽतमाः ||

प्रवो᳚र॒यिंयु॒क्ताश्वं᳚भरध्वंरा॒यएषेऽव॑सेदधीत॒धीः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सु॒शेव॒एवै᳚रौशि॒जस्य॒होता॒येव॒एवा᳚मरुतस्तु॒राणा॒‌म्(स्वाहा᳚) || 5 ||

प्र¦वः॒¦र॒यि‌म्¦यु॒क्त।आ॑श्व‌म्¦भ॒र॒ध्व॒‌म्¦रा॒यः¦एषे᳚¦अव॑से¦द॒धी॒त॒¦धीः |
सु॒ऽशेवः॑¦एवैः᳚¦औ॒शि॒जस्य॑¦होता᳚¦ये¦वः॒¦एवाः᳚¦म॒रु॒तः॒¦तु॒राणा᳚‌म् ||

प्रवो᳚वा॒युंर॑थ॒युजं᳚कृणुध्वं॒प्रदे॒वंविप्रं᳚पनि॒तार॑म॒र्कैः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

इ॒षु॒ध्यव॑ऋत॒सापः॒पुरं᳚धी॒र्वस्वी᳚र्नो॒,अत्र॒पत्नी॒राधि॒येधुः॒(स्वाहा᳚) || 6 || वर्ग:14

प्र¦वः॒¦वा॒यु‌म्¦र॒थ॒ऽयुज᳚‌म्¦कृ॒णु॒ध्व॒‌म्¦प्र¦दे॒व‌म्¦विप्र᳚‌म्¦प॒नि॒तार᳚‌म्¦अ॒र्कैः |
इ॒षु॒ध्यवः॑¦ऋ॒त॒ऽसापः॑¦पुर᳚‌म्ऽधीः¦वस्वीः᳚¦नः॒¦अत्र॑¦पत्नीः᳚¦आ¦धि॒ये¦धु॒रिति॑ धुः ||

उप॑व॒एषे॒वन्द्ये᳚भिःशू॒षैःप्रय॒ह्वीदि॒वश्चि॒तय॑द्भिर॒र्कैः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

उ॒षासा॒नक्ता᳚वि॒दुषी᳚व॒विश्व॒माहा᳚वहतो॒मर्त्या᳚यय॒ज्ञ॒‌म्(स्वाहा᳚) || 7 ||

उप॑¦वः॒¦एषे᳚¦वन्द्ये᳚भिः¦शू॒षैः¦प्र¦य॒ह्वी इति॑¦दि॒वः¦चि॒तय॑त्ऽभिः¦अ॒र्कैः |
उ॒षसा॒नक्ता᳚¦वि॒दुषी᳚ इ॒वेति॑ वि॒दुषी᳚ऽ‌इव¦विश्व᳚‌म्¦आ¦ह॒¦व॒ह॒तः॒¦मर्त्या᳚य¦य॒ज्ञ‌म् ||

अ॒भिवो᳚,अर्चेपो॒ष्याव॑तो॒नॄन्वास्तो॒ष्पतिं॒त्वष्टा᳚रं॒ररा᳚णः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

धन्या᳚स॒जोषा᳚धि॒षणा॒नमो᳚भि॒र्वन॒स्पतीँ॒रोष॑धीरा॒यएषे॒(स्वाहा᳚) || 8 ||

अ॒भि¦वः॒¦अ॒र्चे॒¦पो॒ष्याऽव॑तः¦नॄन्¦वास्तोः᳚¦पति᳚‌म्¦त्वष्टा᳚र‌म्¦ररा᳚णः |
धन्या᳚¦स॒ऽजोषाः᳚¦धि॒षणा᳚¦नमः॑ऽभिः¦वन॒स्पती᳚न्¦ओष॑धीः¦रा॒यः¦एषे᳚ ||

तु॒जेन॒स्तने॒पर्व॑ताःसन्तु॒स्वैत॑वो॒येवस॑वो॒नवी॒राः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

प॒नि॒तआ॒प्त्योय॑ज॒तःसदा᳚नो॒वर्धा᳚न्नः॒शंसं॒नर्यो᳚,अ॒भिष्टौ॒(स्वाहा᳚) || 9 ||

तु॒जे¦नः॒¦तने᳚¦पर्व॑ताः¦स॒न्तु॒¦स्वऽए᳚तवः¦ये¦वस॑वः¦न¦वी॒राः |
प॒नि॒तः¦आ॒प्त्यः¦य॒ज॒तः¦सदा᳚¦नः॒¦वर्धा᳚त्¦नः॒¦शंस᳚‌म्¦नर्यः॑¦अ॒भिष्टौ᳚ ||

वृष्णो᳚,अस्तोषिभू॒म्यस्य॒गर्भं᳚त्रि॒तोनपा᳚तम॒पांसु॑वृ॒क्ति |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

गृ॒णी॒ते,अ॒ग्निरे॒तरी॒नशू॒षैःशो॒चिष्के᳚शो॒निरि॑णाति॒वना॒(स्वाहा᳚) || 10 ||

वृष्णः॑¦अ॒स्तो॒षि॒¦भू॒म्यस्य॑¦गर्भ᳚‌म्¦त्रि॒तः¦नपा᳚त‌म्¦अ॒पा‌म्¦सु॒ऽवृ॒क्ति |
गृ॒णी॒ते¦अ॒ग्निः¦ए॒तरि॑¦न¦शू॒षैः¦शो॒चिःऽके᳚शः¦नि¦रि॒णा॒ति॒¦वना᳚ ||

क॒थाम॒हेरु॒द्रिया᳚यब्रवाम॒कद्रा॒येचि॑कि॒तुषे॒भगा᳚य |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

आप॒ओष॑धीरु॒तनो᳚ऽवन्तु॒द्यौर्वना᳚गि॒रयो᳚वृ॒क्षके᳚शाः॒(स्वाहा᳚) || 11 || वर्ग:15

क॒था¦म॒हे¦रु॒द्रिया᳚य¦ब्र॒वा॒म॒¦कत्¦रा॒ये¦चि॒कि॒तुषे᳚¦भगा᳚य |
आपः॑¦ओष॑धीः¦उ॒त¦नः॒¦अ॒व॒न्तु॒¦द्यौः¦वना᳚¦गि॒रयः॑¦वृ॒क्षऽके᳚शाः ||

शृ॒णोतु॑नऊ॒र्जांपति॒र्गिरः॒सनभ॒स्तरी᳚याँ,इषि॒रःपरि॑ज्मा |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

शृ॒ण्वन्त्वापः॒पुरो॒नशु॒भ्राःपरि॒स्रुचो᳚बबृहा॒णस्याद्रेः᳚(स्वाहा᳚) || 12 ||

शृ॒णोतु॑¦नः॒¦ऊ॒र्जा‌म्¦पतिः॑¦गिरः॑¦सः¦नभः॑¦तरी᳚यान्¦इ॒षि॒रः¦परि॑ऽज्मा |
शृ॒ण्वन्तु॑¦आपः॑¦पुरः॑¦न¦शु॒भ्राः¦परि॑¦स्रुचः॑¦ब॒बृ॒हा॒णस्य॑¦अद्रेः᳚ ||

वि॒दाचि॒न्नुम॑हान्तो॒येव॒एवा॒ब्रवा᳚मदस्मा॒वार्यं॒दधा᳚नाः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

वय॑श्च॒नसु॒भ्व१॑(अ॒)आव॑यन्तिक्षु॒भामर्त॒मनु॑यतंवध॒स्नैः(स्वाहा᳚) || 13 ||

वि॒द¦चि॒त्¦नु¦म॒हा॒न्तः॒¦ये¦वः॒¦एवाः᳚¦ब्रवा᳚म¦द॒स्माः॒¦वार्य᳚‌म्¦दधा᳚नाः |
वयः॑¦च॒न¦सु॒ऽभ्वः॑¦आ¦अव॑¦य॒न्ति॒¦क्षु॒भा¦मर्त᳚‌म्¦अनु॑ऽयत‌म्¦व॒ध॒ऽस्नैः ||

आदैव्या᳚नि॒पार्थि॑वानि॒जन्मा॒ऽपश्चाच्छा॒सुम॑खायवोचम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

वर्ध᳚न्तां॒द्यावो॒गिर॑श्च॒न्द्राग्रा᳚,उ॒दाव॑र्धन्ताम॒भिषा᳚ता॒,अर्णाः᳚(स्वाहा᳚) || 14 ||

आ¦दैव्या᳚नि¦पार्थि॑वानि¦जन्म॑¦अ॒पः¦च॒¦अच्छ॑¦सुऽम॑खाय¦वो॒च॒‌म् |
वर्ध᳚न्ता‌म्¦द्यावः॑¦गिरः॑¦च॒न्द्र।आ॑ग्राः¦उ॒दा¦व॒र्ध॒न्ता॒‌म्¦अ॒भिऽसा᳚ताः¦अर्णाः᳚ ||

प॒देप॑देमेजरि॒मानिधा᳚यि॒वरू᳚त्रीवाश॒क्रायापा॒युभि॑श्च |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सिष॑क्तुमा॒ताम॒हीर॒सानः॒स्मत्‌सू॒रिभि᳚रृजु॒हस्त॑ऋजु॒वनिः॒(स्वाहा᳚) || 15 ||

प॒देऽप॑दे¦मे॒¦ज॒रि॒मा¦नि¦धा॒यि॒¦वरू᳚त्री¦वा॒¦श॒क्रा¦या¦पा॒युऽभिः॑¦च॒ |
सिस॑क्तु¦मा॒ता¦म॒ही¦र॒सा¦नः॒¦स्मत्¦सू॒रिऽभिः॑¦ऋ॒जु॒ऽहस्ता᳚¦ऋ॒जु॒ऽवनिः॑ ||

क॒थादा᳚शेम॒नम॑सासु॒दानू᳚नेव॒याम॒रुतो॒,अच्छो᳚क्तौ॒प्रश्र॑वसोम॒रुतो॒,अच्छो᳚क्तौ |{भौमोत्रिः | विश्वदेवाः | अतिजगती}

मानोऽहि॑र्बु॒ध्न्यो᳚रि॒षेधा᳚द॒स्माकं᳚भूदुपमाति॒वनिः॒(स्वाहा᳚) || 16 || वर्ग:16

क॒था¦दा॒शे॒म॒¦नम॑सा¦सु॒ऽदानू᳚न्¦ए॒व॒ऽया¦म॒रुतः॑¦अच्छ॑।औक्तौ¦प्रऽश्र॑वसः¦म॒रुतः॑¦अच्छ॑।औक्तौ |
मा¦नः॒¦अहिः॑¦बु॒ध्न्यः॑¦रि॒षे¦धा॒त्¦अ॒स्माक᳚‌म्¦भू॒त्¦उ॒प॒मा॒ति॒ऽवनिः॑ ||

इति॑चि॒न्नुप्र॒जायै᳚पशु॒मत्यै॒देवा᳚सो॒वन॑ते॒मर्त्यो᳚व॒आदे᳚वासोवनते॒मर्त्यो᳚वः |{भौमोत्रिः | विश्वदेवाः | अतिजगती}

अत्रा᳚शि॒वांत॒न्वो᳚धा॒सिम॒स्याज॒रांचि᳚न्मे॒निरृ॑तिर्जग्रसीत॒(स्वाहा᳚) || 17 ||

इति॑¦चि॒त्¦नु¦प्र॒ऽजायै᳚¦प॒शु॒ऽमत्यै᳚¦देवा᳚सः¦वन॑ते¦मर्त्यः॑¦वः॒¦आ¦दे॒वा॒सः॒¦व॒न॒ते॒¦मर्त्यः॑¦वः॒ |
अत्र॑¦शि॒वा‌म्¦त॒न्वः॑¦धा॒सि‌म्¦अ॒स्याः¦ज॒रा‌म्¦चि॒त्¦मे॒¦निःऽऋ॑तिः¦ज॒ग्र॒सी॒त॒ ||

तांवो᳚देवाःसुम॒तिमू॒र्जय᳚न्ती॒मिष॑मश्यामवसवः॒शसा॒गोः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सानः॑सु॒दानु᳚र्मृ॒ळय᳚न्तीदे॒वीप्रति॒द्रव᳚न्तीसुवि॒ताय॑गम्याः॒(स्वाहा᳚) || 18 ||

ता‌म्¦वः॒¦दे॒वाः॒¦सु॒ऽम॒ति‌म्¦ऊ॒र्जय᳚न्ती‌म्¦इष᳚‌म्¦अ॒श्या॒म॒¦व॒स॒वः॒¦शसा᳚¦गोः |
सा¦नः॒¦सु॒ऽदानुः॑¦मृ॒ळय᳚न्ती¦दे॒वी¦प्रति॑¦द्रव᳚न्ती¦सु॒वि॒ताय॑¦ग॒म्याः॒ ||

अ॒भिन॒इळा᳚यू॒थस्य॑मा॒तास्मन्न॒दीभि॑रु॒र्वशी᳚वागृणातु |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

उ॒र्वशी᳚वाबृहद्दि॒वागृ॑णा॒नाऽभ्यू᳚र्ण्वा॒नाप्र॑भृ॒थस्या॒योः(स्वाहा᳚) || 19 ||

अ॒भि¦नः॒¦इळा᳚¦यू॒थस्य॑¦मा॒ता¦स्मत्¦न॒दीभिः॑¦उ॒र्वशी᳚¦वा॒¦गृ॒णा॒तु॒ |
उ॒र्वशी᳚¦वा॒¦बृ॒ह॒त्ऽदि॒वा¦गृ॒णा॒ना¦अ॒भि॒ऽऊ॒र्ण्वा॒ना¦प्र॒ऽभृ॒थस्य॑¦आ॒योः ||

सिष॑क्तुनऊर्ज॒व्य॑स्यपु॒ष्टेः(स्वाहा᳚) || {भौमोत्रिः | विश्वदेवाः | एकपदाविराट्}20 ||

सिस॑क्तु¦नः॒¦ऊ॒र्ज॒व्य॑स्य¦पु॒ष्टेः ||

[42] प्रशंतमेत्यष्टादशर्चस्य सूक्तस्य भौमोत्रिर्विश्वेदेवाः एकादश्यारुद्रत्रिष्टुप् सप्तदश्येकपदा | (भेदपक्षे - विश्वेदेवाः २ सविता १ इंद्रः १ विश्वेदेवाः ९ इंद्रः १ बृहस्पतिः ३ मरुतः १ रुद्रः १ विश्वेदेवाः ९ पर्जन्यः २ मरुतः १ विश्वेदेवाः २ अश्विनौ १ एवं १८) |{मंडल:5, सूक्त:42}{अनुवाक:3, सूक्त:10}{अष्टक:4, अध्याय:2}
प्रशंत॑मा॒वरु॑णं॒दीधि॑ती॒गीर्मि॒त्रंभग॒मदि॑तिंनू॒नम॑श्याः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

पृष॑द्योनिः॒पञ्च॑होताशृणो॒त्वतू᳚र्तपन्था॒,असु॑रोमयो॒भुः(स्वाहा᳚) || 1 || वर्ग:17

प्र¦श‌म्ऽत॑मा¦वरु॑ण‌म्¦दीधि॑ती¦गीः¦मि॒त्र‌म्¦भग᳚‌म्¦अदि॑ति‌म्¦नू॒न‌म्¦अ॒श्याः॒ |
पृष॑त्ऽयोनिः¦पंच॑ऽहोता¦शृ॒णो॒तु॒¦अतू᳚र्तऽपन्थाः¦असु॑रः¦म॒यः॒ऽभुः ||

प्रति॑मे॒स्तोम॒मदि॑तिर्जगृभ्यात्सू॒नुंनमा॒ताहृद्यं᳚सु॒शेव᳚म् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुपि}

ब्रह्म॑प्रि॒यंदे॒वहि॑तं॒यदस्त्य॒हंमि॒त्रेवरु॑णे॒यन्म॑यो॒भु(स्वाहा᳚) || 2 ||

प्रति॑¦मे॒¦स्तोम᳚‌म्¦अदि॑तिः¦ज॒गृ॒भ्या॒त्¦सू॒नु‌म्¦न¦मा॒ता¦हृद्य᳚‌म्¦सु॒ऽशेव᳚‌म् |
ब्रह्म॑¦प्रि॒य‌म्¦दे॒वऽहि॑त‌म्¦यत्¦अस्ति॑¦अ॒ह‌म्¦मि॒त्रे¦वरु॑णे¦यत्¦म॒यः॒ऽभुः ||

उदी᳚रयक॒वित॑मंकवी॒नामु॒नत्तै᳚नम॒भिमध्वा᳚घृ॒तेन॑ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सनो॒वसू᳚नि॒प्रय॑ताहि॒तानि॑च॒न्द्राणि॑दे॒वःस॑वि॒तासु॑वाति॒(स्वाहा᳚) || 3 ||

उत्¦ई॒र॒य॒¦क॒विऽत॑म‌म्¦क॒वी॒ना‌म्¦उ॒नत्त॑¦ए॒न॒‌म्¦अ॒भि¦मध्वा᳚¦घृ॒तेन॑ |
सः¦नः॒¦वसू᳚नि¦प्रऽय॑ता¦हि॒तानि॑¦च॒न्द्राणि॑¦दे॒वः¦स॒वि॒ता¦सु॒वा॒ति॒ ||

समि᳚न्द्रणो॒मन॑सानेषि॒गोभिः॒संसू॒रिभि᳚र्हरिवः॒संस्व॒स्ति |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

संब्रह्म॑णादे॒वहि॑तं॒यदस्ति॒संदे॒वानां᳚सुम॒त्याय॒ज्ञिया᳚ना॒‌म्(स्वाहा᳚) || 4 ||

स‌म्¦इ॒न्द्र॒¦नः॒¦मन॑सा¦ने॒षि॒¦गोभिः॑¦स‌म्¦सू॒रिऽभिः॑¦ह॒रि॒ऽवः॒¦स‌म्¦स्व॒स्ति |
स‌म्¦ब्रह्म॑णा¦दे॒वऽहि॑त‌म्¦यत्¦अस्ति॑¦स‌म्¦दे॒वाना᳚‌म्¦सु॒ऽम॒त्या¦य॒ज्ञिया᳚ना‌म् ||

दे॒वोभगः॑सवि॒तारा॒यो,अंश॒इन्द्रो᳚वृ॒त्रस्य॑सं॒जितो॒धना᳚नाम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒भु॒क्षावाज॑उ॒तवा॒पुरं᳚धि॒रव᳚न्तुनो,अ॒मृता᳚सस्तु॒रासः॒(स्वाहा᳚) || 5 ||

दे॒वः¦भगः॑¦स॒वि॒ता¦रा॒यः¦अंशः॑¦इन्द्रः॑¦वृ॒त्रस्य॑¦स॒‌म्ऽजितः॑¦धना᳚ना‌म् |
ऋ॒भु॒क्षाः¦वाजः॑¦उ॒त¦वा॒¦पुर᳚‌म्ऽधिः¦अव᳚न्तु¦नः॒¦अ॒मृता᳚सः¦तु॒रासः॑ ||

म॒रुत्व॑तो॒,अप्र॑तीतस्यजि॒ष्णोरजू᳚र्यतः॒प्रब्र॑वामाकृ॒तानि॑ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

नते॒पूर्वे᳚मघव॒न्‌नाप॑रासो॒नवी॒र्य१॑(अं॒)नूत॑नः॒कश्च॒नाप॒(स्वाहा᳚) || 6 || वर्ग:18

म॒रुत्व॑तः¦अप्र॑तिऽ‌इतस्य¦जि॒ष्णोः¦अजू᳚र्यतः¦प्र¦ब्र॒वा॒म॒¦कृ॒तानि॑ |
न¦ते॒¦पूर्वे᳚¦म॒घ॒ऽव॒न्¦न¦अप॑रासः¦न¦वी॒र्य᳚‌म्¦नूत॑नः¦कः¦च॒न¦आ॒प॒ ||

उप॑स्तुहिप्रथ॒मंर॑त्न॒धेयं॒बृह॒स्पतिं᳚सनि॒तारं॒धना᳚नाम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

यःशंस॑तेस्तुव॒तेशम्भ॑विष्ठःपुरू॒वसु॑रा॒गम॒ज्जोहु॑वान॒‌म्(स्वाहा᳚) || 7 ||

उप॑¦स्तु॒हि॒¦प्र॒थ॒म‌म्¦र॒त्न॒ऽधेय᳚‌म्¦बृह॒स्पति᳚‌म्¦स॒नि॒तार᳚‌म्¦धना᳚ना‌म् |
यः¦शंस॑ते¦स्तु॒व॒ते¦श‌म्ऽभ॑विष्ठः¦पु॒रु॒ऽवसुः॑¦आ॒ऽगम॑त्¦जोहु॑वान‌म् ||

तवो॒तिभिः॒सच॑माना॒,अरि॑ष्टा॒बृह॑स्पतेम॒घवा᳚नःसु॒वीराः᳚ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

ये,अ॑श्व॒दा,उ॒तवा॒सन्ति॑गो॒दायेव॑स्त्र॒दाःसु॒भगा॒स्तेषु॒रायः॒(स्वाहा᳚) || 8 ||

तव॑¦ऊ॒तिऽभिः॑¦सच॑मानाः¦अरि॑ष्टाः¦बृह॑स्पते¦म॒घऽवा᳚नः¦सु॒ऽवीराः᳚ |
ये¦अ॒श्व॒ऽदाः¦उ॒त¦वा॒¦सन्ति॑¦गो॒ऽदाः¦ये¦व॒स्त्र॒ऽदाः¦सु॒ऽभगाः᳚¦तेषु॑¦रायः॑ ||

वि॒स॒र्माणं᳚कृणुहिवि॒त्तमे᳚षां॒येभु॒ञ्जते॒,अपृ॑णन्तोनउ॒क्थैः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

अप᳚व्रतान्‌प्रस॒वेवा᳚वृधा॒नान्ब्र᳚ह्म॒द्विषः॒सूर्या᳚द्‌यावयस्व॒(स्वाहा᳚) || 9 ||

वि॒ऽस॒र्माण᳚‌म्¦कृ॒णु॒हि॒¦वि॒त्त‌म्¦ए॒षा॒‌म्¦ये¦भुं॒जते᳚¦अपृ॑णन्तः¦नः॒¦उ॒क्थैः |
अप॑ऽव्रतान्¦प्र॒ऽस॒वे¦व॒वृ॒धा॒नान्¦ब्र॒ह्म॒ऽद्विषः॑¦सूर्या᳚त्¦य॒व॒य॒स्व॒ ||

यओह॑तेर॒क्षसो᳚दे॒ववी᳚तावच॒क्रेभि॒स्तंम॑रुतो॒निया᳚त |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

योवः॒शमीं᳚शशमा॒नस्य॒निन्दा᳚त्तु॒च्छ्यान्‌कामा᳚न्‌करतेसिष्विदा॒नः(स्वाहा᳚) || 10 ||

यः¦ओह॑ते¦र॒क्षसः॑¦दे॒वऽवी᳚तौ¦अ॒च॒क्रेभिः॑¦त‌म्¦म॒रु॒तः॒¦नि¦या॒त॒ |
यः¦वः॒¦शमी᳚‌म्¦श॒श॒मा॒नस्य॑¦निन्दा᳚त्¦तु॒च्छ्यान्¦कामा᳚न्¦क॒र॒ते॒¦सि॒स्वि॒दा॒नः ||

तमु॑ष्टुहि॒यःस्वि॒षुःसु॒धन्वा॒योविश्व॑स्य॒क्षय॑तिभेष॒जस्य॑ |{भौमोत्रिः | रुद्रः | त्रिष्टुप्}

यक्ष्वा᳚म॒हेसौ᳚मन॒साय॑रु॒द्रंनमो᳚भिर्दे॒वमसु॑रंदुवस्य॒(स्वाहा᳚) || 11 || वर्ग:19

त‌म्¦ऊँ॒ इति॑¦स्तु॒हि॒¦यः¦सु॒ऽ‌इ॒षुः¦सु॒ऽधन्वा᳚¦यः¦विश्व॑स्य¦क्षय॑ति¦भे॒ष॒जस्य॑ |
यक्ष्व॑¦म॒हे¦सौ॒म॒न॒साय॑¦रु॒द्र‌म्¦नमः॑ऽभिः¦दे॒व‌म्¦असु॑र‌म्¦दु॒व॒स्य॒ ||

दमू᳚नसो,अ॒पसो॒येसु॒हस्ता॒वृष्णः॒पत्नी᳚र्न॒द्यो᳚विभ्वत॒ष्टाः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सर॑स्वतीबृहद्दि॒वोतरा॒काद॑श॒स्यन्ती᳚र्वरिवस्यन्तुशु॒भ्राः(स्वाहा᳚) || 12 ||

दमू᳚नसः¦अ॒पसः॑¦ये¦सु॒ऽहस्ताः᳚¦वृष्णः॑¦पत्नीः᳚¦न॒द्यः॑¦वि॒भ्व॒ऽत॒ष्टाः |
सर॑स्वती¦बृ॒ह॒त्ऽदि॒वा¦उ॒त¦रा॒का¦द॒श॒स्यन्तीः᳚¦व॒रि॒व॒स्य॒न्तु॒¦शु॒भ्राः ||

प्रसूम॒हेसु॑शर॒णाय॑मे॒धांगिरं᳚भरे॒नव्य॑सीं॒जाय॑मानाम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

यआ᳚ह॒नादु॑हि॒तुर्व॒क्षणा᳚सुरू॒पामि॑ना॒नो,अकृ॑णोदि॒दंनः॒(स्वाहा᳚) || 13 ||

प्र¦सु¦म॒हे¦सु॒ऽश॒र॒णाय॑¦मे॒धा‌म्¦गिर᳚‌म्¦भ॒रे॒¦नव्य॑सी‌म्¦जाय॑माना‌म् |
यः¦आ॒ह॒नाः¦दु॒हि॒तुः¦व॒क्षणा᳚सु¦रू॒पा¦मि॒ना॒नः¦अकृ॑णोत्¦इ॒द‌म्¦नः॒ ||

प्रसु॑ष्टु॒तिःस्त॒नय᳚न्तंरु॒वन्त॑मि॒ळस्पतिं᳚जरितर्नू॒नम॑श्याः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

यो,अ॑ब्दि॒माँ,उ॑दनि॒माँ,इय॑र्ति॒प्रवि॒द्युता॒रोद॑सी,उ॒क्षमा᳚णः॒(स्वाहा᳚) || 14 ||

प्र¦सु॒ऽस्तु॒तिः¦स्त॒नय᳚न्त‌म्¦रु॒वन्त᳚‌म्¦इ॒ळः¦पति᳚‌म्¦ज॒रि॒तः॒¦नू॒न‌म्¦अ॒श्याः॒ |
यः¦अ॒ब्दि॒ऽमान्¦उ॒द॒नि॒ऽमान्¦इय॑र्ति¦प्र¦वि॒ऽद्युता᳚¦रोद॑सी॒ इति॑¦उ॒क्षमा᳚णः ||

ए॒षस्तोमो॒मारु॑तं॒शर्धो॒,अच्छा᳚रु॒द्रस्य॑सू॒नूँर्यु॑व॒न्यूँरुद॑श्याः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

कामो᳚रा॒येह॑वतेमास्व॒स्त्युप॑स्तुहि॒पृष॑दश्वाँ,अ॒यासः॒(स्वाहा᳚) || 15 ||

ए॒षः¦स्तोमः॑¦मारु॑त‌म्¦शर्धः॑¦अच्छ॑¦रु॒द्रस्य॑¦सू॒नून्¦यु॒व॒न्यून्¦उत्¦अ॒श्याः॒ |
कामः॑¦रा॒ये¦ह॒व॒ते॒¦मा॒¦स्व॒स्ति¦उप॑¦स्तु॒हि॒¦पृष॑त्।आश्वान्¦अ॒यासः॑ ||

प्रैषस्तोमः॑पृथि॒वीम॒न्तरि॑क्षं॒वन॒स्पतीँ॒रोष॑धीरा॒ये,अ॑श्याः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

दे॒वोदे᳚वःसु॒हवो᳚भूतु॒मह्यं॒मानो᳚मा॒तापृ॑थि॒वीदु᳚र्म॒तौधा॒‌त्(स्वाहा᳚) || 16 ||

प्र¦ए॒षः¦स्तोमः॑¦पृ॒थि॒वी‌म्¦अ॒न्तरि॑क्ष‌म्¦वन॒स्पती᳚न्¦ओष॑धीः¦रा॒ये¦अ॒श्याः॒ |
दे॒वःऽदे᳚वः¦सु॒ऽहवः॑¦भू॒तु॒¦मह्य᳚‌म्¦मा¦नः॒¦मा॒ता¦पृ॒थि॒वी¦दुः॒ऽम॒तौ¦धा॒त् ||

उ॒रौदे᳚वा,अनिबा॒धेस्या᳚म॒(स्वाहा᳚) || {भौमोत्रिः | विश्वदेवाः | एकपदाविराट्}17 ||

उ॒रौ¦दे॒वाः॒¦अ॒नि॒ऽबा॒धे¦स्या॒म॒ ||

सम॒श्विनो॒रव॑सा॒नूत॑नेनमयो॒भुवा᳚सु॒प्रणी᳚तीगमेम |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

आनो᳚र॒यिंव॑हत॒मोतवी॒रानाविश्वा᳚न्यमृता॒सौभ॑गानि॒(स्वाहा᳚) || 18 ||

स‌म्¦अ॒श्विनोः᳚¦अव॑सा¦नूत॑नेन¦म॒यः॒ऽभुवा᳚¦सु॒ऽप्रनी᳚ती¦ग॒मे॒म॒ |
आ¦नः॒¦र॒यि‌म्¦व॒ह॒त॒‌म्¦आ¦उ॒त¦वी॒रान्¦आ¦विश्वा᳚नि¦अ॒मृ॒ता॒¦सौभ॑गानि ||

[43] आधेनवइति सप्तदशर्चस्य सूक्तस्य भौमोत्रिर्विश्वेदेवास्त्रिष्टुप् षोडश्येकपदाविराट् (भेदपक्षे - नदी १ द्यावापृथिवी १ वायुः १ सोमः १ इंद्रः १ अग्निः १ धर्मः १ अश्विनौ १ विश्वेदेवाः २ सरस्वती १ बृहस्पतिः १ अग्निः ३ विश्वेदेवाः १ अश्विनौ १ एवं १७) |{मंडल:5, सूक्त:43}{अनुवाक:3, सूक्त:11}{अष्टक:4, अध्याय:2}
आधे॒नवः॒पय॑सा॒तूर्ण्य॑र्था॒,अम॑र्धन्ती॒रुप॑नोयन्तु॒मध्वा᳚ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

म॒होरा॒येबृ॑ह॒तीःस॒प्तविप्रो᳚मयो॒भुवो᳚जरि॒ताजो᳚हवीति॒(स्वाहा᳚) || 1 || वर्ग:20

आ¦धे॒नवः॑¦पय॑सा¦तूर्णि॑।आर्थाः¦अम॑र्धन्तीः¦उप॑¦नः॒¦य॒न्तु॒¦मध्वा᳚ |
म॒हः¦रा॒ये¦बृ॒ह॒तीः¦स॒प्त¦विप्रः॑¦म॒यः॒ऽभुवः॑¦ज॒रि॒ता¦जो॒ह॒वी॒ति॒ ||

आसु॑ष्टु॒तीनम॑सावर्त॒यध्यै॒द्यावा॒वाजा᳚यपृथि॒वी,अमृ॑ध्रे |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

पि॒तामा॒तामधु॑वचाःसु॒हस्ता॒भरे᳚भरेनोय॒शसा᳚वविष्टा॒‌म्(स्वाहा᳚) || 2 ||

आ¦सु॒ऽस्तु॒ती¦नम॑सा¦व॒र्त॒यध्यै᳚¦द्यावा᳚¦वाजा᳚य¦पृ॒थि॒वी इति॑¦अमृ॑ध्रे॒ इति॑ |
पि॒ता¦मा॒ता¦मधु॑ऽवचाः¦सु॒ऽहस्ता᳚¦भरे᳚ऽभरे¦नः॒¦य॒शसौ᳚¦अ॒वि॒ष्टा॒‌म् ||

अध्व᳚र्यवश्चकृ॒वांसो॒मधू᳚नि॒प्रवा॒यवे᳚भरत॒चारु॑शु॒क्रम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

होते᳚वनःप्रथ॒मःपा᳚ह्य॒स्यदेव॒मध्वो᳚ररि॒माते॒मदा᳚य॒(स्वाहा᳚) || 3 ||

अध्व᳚र्यवः¦च॒कृ॒ऽवांसः॑¦मधू᳚नि¦प्र¦वा॒यवे᳚¦भ॒र॒त॒¦चारु॑¦शु॒क्र‌म् |
होता᳚ऽ‌इव¦नः॒¦प्र॒थ॒मः¦पा॒हि॒¦अ॒स्य¦देव॑¦मध्वः॑¦र॒रि॒म¦ते॒¦मदा᳚य ||

दश॒क्षिपो᳚युञ्जतेबा॒हू,अद्रिं॒सोम॑स्य॒याश॑मि॒तारा᳚सु॒हस्ता᳚ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

मध्वो॒रसं᳚सु॒गभ॑स्तिर्गिरि॒ष्ठांचनि॑श्चदद्‌दुदुहेशु॒क्रमं॒शुः(स्वाहा᳚) || 4 ||

दश॑¦क्षिपः॑¦युं॒ज॒ते॒¦बा॒हू इति॑¦अद्रि᳚‌म्¦सोम॑स्य¦या¦श॒मि॒तारा᳚¦सु॒ऽहस्ता᳚ |
मध्वः॑¦रस᳚‌म्¦सु॒ऽगभ॑स्तिः¦गि॒रि॒ऽस्था‌म्¦चनि॑श्चदत्¦दु॒दु॒हे॒¦शु॒क्र‌म्¦अं॒शुः ||

असा᳚वितेजुजुषा॒णाय॒सोमः॒क्रत्वे॒दक्षा᳚यबृह॒तेमदा᳚य |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

हरी॒रथे᳚सु॒धुरा॒योगे᳚,अ॒र्वागिन्द्र॑प्रि॒याकृ॑णुहिहू॒यमा᳚नः॒(स्वाहा᳚) || 5 ||

असा᳚वि¦ते॒¦जु॒जु॒षा॒णाय॑¦सोमः॑¦क्रत्वे᳚¦दक्षा᳚य¦बृ॒ह॒ते¦मदा᳚य |
हरी॒ इति॑¦रथे᳚¦सु॒ऽधुरा᳚¦योगे᳚¦अ॒र्वाक्¦इन्द्र॑¦प्रि॒या¦कृ॒णु॒हि॒¦हू॒यमा᳚नः ||

आनो᳚म॒हीम॒रम॑तिंस॒जोषा॒ग्नांदे॒वींनम॑सारा॒तह᳚व्याम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

मधो॒र्मदा᳚यबृह॒तीमृ॑त॒ज्ञामाग्ने᳚वहप॒थिभि॑र्देव॒यानैः᳚(स्वाहा᳚) || 6 || वर्ग:21

आ¦नः॒¦म॒ही‌म्¦अ॒रम॑ति‌म्¦स॒ऽजोषाः᳚¦ग्ना‌म्¦दे॒वी‌म्¦नम॑सा¦रा॒तऽह᳚व्या‌म् |
मधोः᳚¦मदा᳚य¦बृ॒ह॒ती‌म्¦ऋ॒त॒ऽज्ञा‌म्¦आ¦अ॒ग्ने॒¦व॒ह॒¦प॒थिऽभिः॑¦दे॒व॒ऽयानैः᳚ ||

अ॒ञ्जन्ति॒यंप्र॒थय᳚न्तो॒नविप्रा᳚व॒पाव᳚न्तं॒नाग्निना॒तप᳚न्तः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

पि॒तुर्नपु॒त्रउ॒पसि॒प्रेष्ठ॒आघ॒र्मो,अ॒ग्निमृ॒तय᳚न्नसादि॒(स्वाहा᳚) || 7 ||

अं॒जन्ति॑¦य‌म्¦प्र॒थय᳚न्तः¦न¦विप्राः᳚¦व॒पाऽव᳚न्त‌म्¦न¦अ॒ग्निना᳚¦तप᳚न्तः |
पि॒तुः¦न¦पु॒त्रः¦उ॒पसि॑¦प्रेष्ठः॑¦आ¦घ॒र्मः¦अ॒ग्नि‌म्¦ऋ॒तय॑न्¦अ॒सा॒दि॒ ||

अच्छा᳚म॒हीबृ॑ह॒तीशंत॑मा॒गीर्दू॒तोनग᳚न्त्व॒श्विना᳚हु॒वध्यै᳚ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

म॒यो॒भुवा᳚स॒रथाया᳚तम॒र्वाग्ग॒न्तंनि॒धिंधुर॑मा॒णिर्ननाभि॒‌म्(स्वाहा᳚) || 8 ||

अच्छ॑¦म॒ही¦बृ॒ह॒ती¦श‌म्ऽत॑मा¦गीः¦दू॒तः¦न¦ग॒न्तु॒¦अ॒श्विना᳚¦हु॒वध्यै᳚ |
म॒यः॒ऽभुवा᳚¦स॒ऽरथा᳚¦आ¦या॒त॒‌म्¦अ॒र्वाक्¦ग॒न्त‌म्¦नि॒ऽधि‌म्¦धुर᳚‌म्¦आ॒णिः¦न¦नाभि᳚‌म् ||

प्रतव्य॑सो॒नम॑उक्तिंतु॒रस्या॒ऽहंपू॒ष्णउ॒तवा॒योर॑दिक्षि |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

याराध॑साचोदि॒तारा᳚मती॒नांयावाज॑स्यद्रविणो॒दा,उ॒तत्मन्(स्वाहा᳚) || 9 ||

प्र¦तव्य॑सः¦नमः॑।औक्ति‌म्¦तु॒रस्य॑¦अ॒ह‌म्¦पू॒ष्णः¦उ॒त¦वा॒योः¦अ॒दि॒क्षि॒ |
या¦राध॑सा¦चो॒दि॒तारा᳚¦म॒ती॒ना‌म्¦या¦वाज॑स्य¦द्र॒वि॒णः॒ऽदौ¦उ॒त¦त्मन् ||

आनाम॑भिर्म॒रुतो᳚वक्षि॒विश्वा॒नारू॒पेभि॑र्जातवेदोहुवा॒नः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

य॒ज्ञंगिरो᳚जरि॒तुःसु॑ष्टु॒तिंच॒विश्वे᳚गन्तमरुतो॒विश्व॑ऊ॒ती(स्वाहा᳚) || 10 ||

आ¦नाम॑ऽभिः¦म॒रुतः॑¦व॒क्षि॒¦विश्वा᳚न्¦आ¦रू॒पेभिः॑¦जा॒त॒ऽवे॒दः॒¦हु॒वा॒नः |
य॒ज्ञ‌म्¦गिरः॑¦ज॒रि॒तुः¦सु॒ऽस्तु॒ति‌म्¦च॒¦विश्वे᳚¦ग॒न्त॒¦म॒रु॒तः॒¦विश्वे᳚¦ऊ॒ती ||

आनो᳚दि॒वोबृ॑ह॒तःपर्व॑ता॒दासर॑स्वतीयज॒ताग᳚न्तुय॒ज्ञम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

हवं᳚दे॒वीजु॑जुषा॒णाघृ॒ताची᳚श॒ग्मांनो॒वाच॑मुश॒तीशृ॑णोतु॒(स्वाहा᳚) || 11 || वर्ग:22

आ¦नः॒¦दि॒वः¦बृ॒ह॒तः¦पर्व॑तात्¦आ¦सर॑स्वती¦य॒ज॒ता¦ग॒न्तु॒¦य॒ज्ञ‌म् |
हव᳚‌म्¦दे॒वी¦जु॒जु॒षा॒णा¦घृ॒ताची᳚¦श॒ग्मा‌म्¦नः॒¦वाच᳚‌म्¦उ॒श॒ती¦शृ॒णो॒तु॒ ||

आवे॒धसं॒नील॑पृष्ठंबृ॒हन्तं॒बृह॒स्पतिं॒सद॑नेसादयध्वम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सा॒दद्यो᳚निं॒दम॒आदी᳚दि॒वांसं॒हिर᳚ण्यवर्णमरु॒षंस॑पेम॒(स्वाहा᳚) || 12 ||

आ¦वे॒धस᳚‌म्¦नील॑ऽपृष्ठ‌म्¦बृ॒हन्त᳚‌म्¦बृह॒स्पति᳚‌म्¦सद॑ने¦सा॒द॒य॒ध्व॒‌म् |
सा॒दत्ऽयो᳚नि‌म्¦दमे᳚¦आ¦दी॒दि॒ऽवांस᳚‌म्¦हिर᳚ण्यऽवर्ण‌म्¦अ॒रु॒ष‌म्¦स॒पे॒म॒ ||

आध᳚र्ण॒सिर्बृ॒हद्दि॑वो॒ररा᳚णो॒विश्वे᳚भिर्ग॒न्त्वोम॑भिर्हुवा॒नः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

ग्नावसा᳚न॒ओष॑धी॒रमृ॑ध्रस्त्रि॒धातु॑शृङ्गोवृष॒भोव॑यो॒धाः(स्वाहा᳚) || 13 ||

आ¦ध॒र्ण॒सिः¦बृ॒हत्ऽदि॑वः¦ररा᳚णः¦विश्वे᳚भिः¦ग॒न्तु॒¦ओम॑ऽभिः¦हु॒वा॒नः |
ग्नाः¦वसा᳚नः¦ओष॑धीः¦अमृ॑ध्रः¦त्रि॒धातु॑ऽशृङ्गः¦वृ॒ष॒भः¦व॒यः॒ऽधाः ||

मा॒तुष्प॒देप॑र॒मेशु॒क्रआ॒योर्वि॑प॒न्यवो᳚रास्पि॒रासो᳚,अग्मन् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सु॒शेव्यं॒नम॑सारा॒तह᳚व्याः॒शिशुं᳚मृजन्त्या॒यवो॒नवा॒से(स्वाहा᳚) || 14 ||

मा॒तुः¦प॒दे¦प॒र॒मे¦शु॒क्रे¦आ॒योः¦वि॒प॒न्यवः॑¦रा॒स्पि॒रासः॑¦अ॒ग्म॒न् |
सु॒ऽशेव्य᳚‌म्¦नम॑सा¦रा॒तऽह᳚व्याः¦शिशु᳚‌म्¦मृ॒ज॒न्ति॒¦आ॒यवः॑¦न¦वा॒से ||

बृ॒हद्वयो᳚बृह॒तेतुभ्य॑मग्नेधिया॒जुरो᳚मिथु॒नासः॑सचन्त |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

दे॒वोदे᳚वःसु॒हवो᳚भूतु॒मह्यं॒मानो᳚मा॒तापृ॑थि॒वीदु᳚र्म॒तौधा॒‌त्(स्वाहा᳚) || 15 ||

बृ॒हत्¦वयः॑¦बृ॒ह॒ते¦तुभ्य᳚‌म्¦अ॒ग्ने॒¦धि॒या॒ऽजुरः॑¦मि॒थु॒नासः॑¦स॒च॒न्त॒ |
दे॒वःऽदे᳚वः¦सु॒ऽहवः॑¦भू॒तु॒¦मह्य᳚‌म्¦मा¦नः॒¦मा॒ता¦पृ॒थि॒वी¦दुः॒ऽम॒तौ¦धा॒त् ||

उ॒रौदे᳚वा,अनिबा॒धेस्या᳚म॒(स्वाहा᳚) || {भौमोत्रिः | विश्वदेवाः | एकपदाविराट्}16 ||

उ॒रौ¦दे॒वाः॒¦अ॒नि॒ऽबा॒धे¦स्या॒म॒ ||

सम॒श्विनो॒रव॑सा॒नूत॑नेनमयो॒भुवा᳚सु॒प्रणी᳚तीगमेम |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

आनो᳚र॒यिंव॑हत॒मोतवी॒रानाविश्वा᳚न्यमृता॒सौभ॑गानि॒(स्वाहा᳚) || 17 ||

स‌म्¦अ॒श्विनोः᳚¦अव॑सा¦नूत॑नेन¦म॒यः॒ऽभुवा᳚¦सु॒ऽप्रनी᳚ती¦ग॒मे॒म॒ |
आ¦नः॒¦र॒यि‌म्¦व॒ह॒त॒‌म्¦आ¦उ॒त¦वी॒रान्¦आ¦विश्वा᳚नि¦अ॒मृ॒ता॒¦सौभ॑गानि ||

[44] तंप्रत्नथेति पंचदशर्चस्य सूक्तस्य काश्यपोवत्सारोविश्वेदेवाजगत्यंत्येद्वेत्रिष्टुभौ (भेदपक्षे - इंद्रः २ अग्निः १ सूर्यः १ अग्निः १ विश्वेदेवाः १ सूर्यः १ अग्निः १ सूर्यः २ विश्वेदेवाः २ सुतंभरः १ अग्निः २ एवं १५) |{मंडल:5, सूक्त:44}{अनुवाक:3, सूक्त:12}{अष्टक:4, अध्याय:2}
तंप्र॒त्नथा᳚पू॒र्वथा᳚वि॒श्वथे॒मथा᳚ज्ये॒ष्ठता᳚तिंबर्हि॒षदं᳚स्व॒र्विद᳚म् |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

प्र॒ती॒ची॒नंवृ॒जनं᳚दोहसेगि॒राऽऽशुंजय᳚न्त॒मनु॒यासु॒वर्ध॑से॒(स्वाहा᳚) || 1 || वर्ग:23

त‌म्¦प्र॒त्नऽथा᳚¦पू॒र्वऽथा᳚¦वि॒श्वऽथा᳚¦इ॒‌म्।आथा᳚¦ज्ये॒ष्ठऽता᳚ति‌म्¦ब॒र्हि॒ऽसद᳚‌म्¦स्वः॒ऽविद᳚‌म् |
प्र॒ती॒ची॒न‌म्¦वृ॒जन᳚‌म्¦दो॒ह॒से॒¦गि॒रा¦आ॒शु‌म्¦जय᳚न्त‌म्¦अनु॑¦यासु॑¦वर्ध॑से ||

श्रि॒येसु॒दृशी॒रुप॑रस्य॒याःस्व᳚र्वि॒रोच॑मानःक॒कुभा᳚मचो॒दते᳚ |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

सु॒गो॒पा,अ॑सि॒नदभा᳚यसुक्रतोप॒रोमा॒याभि᳚रृ॒तआ᳚स॒नाम॑ते॒(स्वाहा᳚) || 2 ||

श्रि॒ये¦सु॒ऽदृशीः᳚¦उप॑रस्य¦याः¦स्वः॑¦वि॒ऽरोच॑मानः¦क॒कुभा᳚‌म्¦अ॒चो॒दते᳚ |
सु॒ऽगो॒पाः¦अ॒सि॒¦न¦दभा᳚य¦सु॒क्र॒तो॒ इति॑ सुऽक्रतो¦प॒रः¦मा॒याभिः॑¦ऋ॒ते¦आ॒स॒¦नाम॑¦ते॒ ||

अत्यं᳚ह॒विःस॑चते॒सच्च॒धातु॒चारि॑ष्टगातुः॒सहोता᳚सहो॒भरिः॑ |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

प्र॒सर्स्रा᳚णो॒,अनु॑ब॒र्हिर्वृषा॒शिशु॒र्मध्ये॒युवा॒जरो᳚वि॒स्रुहा᳚हि॒तः(स्वाहा᳚) || 3 ||

अत्य᳚‌म्¦ह॒विः¦स॒च॒ते॒¦सत्¦च॒¦धातु॑¦च॒¦अरि॑ष्टऽगातुः¦सः¦होता᳚¦स॒हः॒ऽभरिः॑ |
प्र॒ऽसर्स्रा᳚णः¦अनु॑¦ब॒र्हिः¦वृषा᳚¦शिशुः॑¦मध्ये᳚¦युवा᳚¦अ॒जरः॑¦वि॒ऽस्रुहा᳚¦हि॒तः ||

प्रव॑ए॒तेसु॒युजो॒याम᳚न्नि॒ष्टये॒नीची᳚र॒मुष्मै᳚य॒म्य॑ऋता॒वृधः॑ |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

सु॒यन्तु॑भिःसर्वशा॒सैर॒भीशु॑भिः॒क्रिवि॒र्नामा᳚निप्रव॒णेमु॑षायति॒(स्वाहा᳚) || 4 ||

प्र¦वः॒¦ए॒ते¦सु॒ऽयुजः॑¦याम॑न्¦इ॒ष्टये᳚¦नीचीः᳚¦अ॒मुष्मै᳚¦य॒म्यः॑¦ऋ॒त॒ऽवृधः॑ |
सु॒यन्तु॑ऽभिः¦स॒र्व॒ऽशा॒सैः¦अ॒भीशु॑ऽभिः¦क्रिविः॑¦नामा᳚नि¦प्र॒व॒णे¦मु॒षा॒य॒ति॒ ||

सं॒जर्भु॑राण॒स्तरु॑भिःसुते॒गृभं᳚वया॒किनं᳚चि॒त्तग॑र्भासुसु॒स्वरुः॑ |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

धा॒र॒वा॒केष्वृ॑जुगाथशोभसे॒वर्ध॑स्व॒पत्नी᳚र॒भिजी॒वो,अ॑ध्व॒रे(स्वाहा᳚) || 5 ||

स॒‌म्ऽजर्भु॑राणः¦तरु॑ऽभिः¦सु॒ते॒ऽगृभ᳚‌म्¦व॒या॒किन᳚‌म्¦चि॒त्तऽग॑र्भासु¦सु॒ऽस्वरुः॑ |
धा॒र॒ऽवा॒केषु॑¦ऋ॒जु॒ऽगा॒थ॒¦शो॒भ॒से॒¦वर्ध॑स्व¦पत्नीः᳚¦अ॒भि¦जी॒वः¦अ॒ध्व॒रे ||

या॒दृगे॒वददृ॑शेता॒दृगु॑च्यते॒संछा॒यया᳚दधिरेसि॒ध्रया॒प्स्वा |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

म॒हीम॒स्मभ्य॑मुरु॒षामु॒रुज्रयो᳚बृ॒हत्‌सु॒वीर॒मन॑पच्युतं॒सहः॒(स्वाहा᳚) || 6 || वर्ग:24

या॒दृक्¦ए॒व¦ददृ॑शे¦ता॒दृक्¦उ॒च्य॒ते॒¦स‌म्¦छा॒यया᳚¦द॒धि॒रे॒¦सि॒ध्रया᳚¦अ॒प्ऽसु¦आ |
म॒ही‌म्¦अ॒स्मभ्य᳚‌म्¦उ॒रु॒ऽसा‌म्¦उ॒रु¦ज्रयः॑¦बृ॒हत्¦सु॒ऽवीर᳚‌म्¦अन॑पऽच्युत‌म्¦सहः॑ ||

वेत्यग्रु॒र्जनि॑वा॒न्‌वा,अति॒स्पृधः॑समर्य॒तामन॑सा॒सूर्यः॑क॒विः |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

घ्रं॒संरक्ष᳚न्तं॒परि॑वि॒श्वतो॒गय॑म॒स्माकं॒शर्म॑वनव॒त्‌स्वाव॑सुः॒(स्वाहा᳚) || 7 ||

वेति॑¦अग्रुः॑¦जनि॑ऽवान्¦वै¦अति॑¦स्पृधः॑¦स॒ऽम॒र्य॒ता¦मन॑सा¦सूर्यः॑¦क॒विः |
घ्रं॒स‌म्¦रक्ष᳚न्त‌म्¦परि॑¦वि॒श्वतः॑¦गय᳚‌म्¦अ॒स्माक᳚‌म्¦शर्म॑¦व॒न॒व॒त्¦स्वऽव॑सुः ||

ज्यायां᳚सम॒स्यय॒तुन॑स्यके॒तुन॑ऋषिस्व॒रंच॑रति॒यासु॒नाम॑ते |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

या॒दृश्मि॒न्‌धायि॒तम॑प॒स्यया᳚विद॒द्‌यउ॑स्व॒यंवह॑ते॒सो,अरं᳚कर॒‌त्(स्वाहा᳚) || 8 ||

ज्यायां᳚स‌म्¦अ॒स्य¦य॒तुन॑स्य¦के॒तुना᳚¦ऋ॒षि॒ऽस्व॒र‌म्¦च॒र॒ति॒¦यासु॑¦नाम॑¦ते॒ |
या॒दृश्मि॑न्¦धा॒यि॒¦त‌म्¦अ॒प॒स्यया᳚¦वि॒द॒त्¦यः¦ऊँ॒ इति॑¦स्व॒य‌म्¦वह॑ते¦सः¦अर᳚‌म्¦क॒र॒त् ||

स॒मु॒द्रमा᳚सा॒मव॑तस्थे,अग्रि॒मानरि॑ष्यति॒सव॑नं॒यस्मि॒न्नाय॑ता |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

अत्रा॒नहार्दि॑क्रव॒णस्य॑रेजते॒यत्रा᳚म॒तिर्वि॒द्यते᳚पूत॒बन्ध॑नी॒(स्वाहा᳚) || 9 ||

स॒मु॒द्र‌म्¦आ॒सा॒‌म्¦अव॑¦त॒स्थे॒¦अ॒ग्रि॒मा¦न¦रि॒ष्य॒ति॒¦सव॑न‌म्¦यस्मि॑न्¦आऽय॑ता |
अत्र॑¦न¦हार्दि॑¦क्र॒व॒णस्य॑¦रे॒ज॒ते॒¦यत्र॑¦म॒तिः¦वि॒द्यते᳚¦पू॒त॒ऽबन्ध॑नी ||

सहिक्ष॒त्रस्य॑मन॒सस्य॒चित्ति॑भिरेवाव॒दस्य॑यज॒तस्य॒सध्रेः᳚ |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

अ॒व॒त्सा॒रस्य॑स्पृणवाम॒रण्व॑भिः॒शवि॑ष्ठं॒वाजं᳚वि॒दुषा᳚चि॒दर्ध्य॒‌म्(स्वाहा᳚) || 10 ||

सः¦हि¦क्ष॒त्रस्य॑¦म॒न॒सस्य॑¦चित्ति॑ऽभिः¦ए॒व॒ऽव॒दस्य॑¦य॒ज॒तस्य॑¦सध्रेः᳚ |
अ॒व॒ऽत्सा॒रस्य॑¦स्पृ॒ण॒वा॒म॒¦रण्व॑ऽभिः¦शवि॑ष्ठ‌म्¦वाज᳚‌म्¦वि॒दुषा᳚¦चि॒त्¦अर्ध्य᳚‌म् ||

श्ये॒नआ᳚सा॒मदि॑तिःक॒क्ष्यो॒३॑(ओ॒)मदो᳚वि॒श्ववा᳚रस्ययज॒तस्य॑मा॒यिनः॑ |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

सम॒न्यम᳚न्यमर्थय॒न्त्येत॑वेवि॒दुर्वि॒षाणं᳚परि॒पान॒मन्ति॒ते(स्वाहा᳚) || 11 || वर्ग:25

श्ये॒नः¦आ॒सा॒‌म्¦अदि॑तिः¦क॒क्ष्यः॑¦मदः॑¦वि॒श्वऽवा᳚रस्य¦य॒ज॒तस्य॑¦मा॒यिनः॑ |
स‌म्¦अ॒न्य‌म्।आ᳚न्य‌म्¦अ॒र्थ॒य॒न्ति॒¦एत॑वे¦वि॒दुः¦वि॒ऽसाण᳚‌म्¦प॒रि॒ऽपान᳚‌म्¦अन्ति॑¦ते॒ ||

स॒दा॒पृ॒णोय॑ज॒तोविद्विषो᳚वधीद्बाहुवृ॒क्तःश्रु॑त॒वित्तर्यो᳚वः॒सचा᳚ |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

उ॒भासवरा॒प्रत्ये᳚ति॒भाति॑च॒यदीं᳚ग॒णंभज॑तेसुप्र॒याव॑भिः॒(स्वाहा᳚) || 12 ||

स॒दा॒ऽपृ॒णः¦य॒ज॒तः¦वि¦द्विषः॑¦व॒धी॒त्¦बा॒हु॒ऽवृ॒क्तः¦श्रु॒त॒ऽवित्¦तर्यः॑¦वः॒¦सचा᳚ |
उ॒भा¦सः¦वरा᳚¦प्रति॑¦ए॒ति॒¦भाति॑¦च॒¦यत्¦ई॒‌म्¦ग॒ण‌म्¦भज॑ते¦सु॒प्र॒याव॑ऽभिः ||

सु॒त॒म्भ॒रोयज॑मानस्य॒सत्प॑ति॒र्विश्वा᳚सा॒मूधः॒सधि॒यामु॒दञ्च॑नः |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

भर॑द्‌धे॒नूरस॑वच्छिश्रिये॒पयो᳚ऽनुब्रुवा॒णो,अध्ये᳚ति॒नस्व॒पन्(स्वाहा᳚) || 13 ||

सु॒त॒‌म्ऽभ॒रः¦यज॑मानस्य¦सत्ऽप॑तिः¦विश्वा᳚सा‌म्¦ऊधः॑¦सः¦धि॒या‌म्¦उ॒त्।आंच॑नः |
भर॑त्¦धे॒नुः¦रस॑ऽवत्¦शि॒श्रि॒ये॒¦पयः॑¦अ॒नु॒ऽब्रु॒वा॒णः¦अधि॑¦ए॒ति॒¦न¦स्व॒पन् ||

योजा॒गार॒तमृचः॑कामयन्ते॒योजा॒गार॒तमु॒सामा᳚नियन्ति |{काश्यपो वत्सारः | विश्वदेवाः | त्रिष्टुप्}

योजा॒गार॒तम॒यंसोम॑आह॒तवा॒हम॑स्मिस॒ख्येन्यो᳚काः॒(स्वाहा᳚) || 14 ||

यः¦जा॒गार॑¦त‌म्¦ऋचः॑¦का॒म॒य॒न्ते॒¦यः¦जा॒गार॑¦त‌म्¦ऊँ॒ इति॑¦सामा᳚नि¦य॒न्ति॒ |
यः¦जा॒गार॑¦त‌म्¦अ॒य‌म्¦सोमः॑¦आ॒ह॒¦तव॑¦अ॒ह‌म्¦अ॒स्मि॒¦स॒ख्ये¦निऽओ᳚काः ||

अ॒ग्निर्जा᳚गार॒तमृचः॑कामयन्ते॒ऽग्निर्जा᳚गार॒तमु॒सामा᳚नियन्ति |{काश्यपो वत्सारः | विश्वदेवाः | त्रिष्टुप्}

अ॒ग्निर्जा᳚गार॒तम॒यंसोम॑आह॒तवा॒हम॑स्मिस॒ख्येन्यो᳚काः॒(स्वाहा᳚) || 15 ||

अ॒ग्निः¦जा॒गा॒र॒¦त‌म्¦ऋचः॑¦का॒म॒य॒न्ते॒¦अ॒ग्निः¦जा॒गा॒र॒¦त‌म्¦ऊँ॒ इति॑¦सामा᳚नि¦य॒न्ति॒ |
अ॒ग्निः¦जा॒गा॒र॒¦त‌म्¦अ॒य‌म्¦सोमः॑¦आ॒ह॒¦तव॑¦अ॒ह‌म्¦अ॒स्मि॒¦स॒ख्ये¦निऽओ᳚काः ||

[45] विदादिवइत्येकादशर्चस्य सूक्तस्यात्रेयः सदापृणो विश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - इंद्रसूर्यौ १ विश्वेदेवाः २ इंद्राग्नी १ विश्वेदेवाः ६ आपः १ एवं ११ (अत्रसूक्ते सदापृणर्षेर्यजतइत्यादि लिंगोक्तऋषिभिः समुच्चयइति केचित्) |{मंडल:5, सूक्त:45}{अनुवाक:4, सूक्त:1}{अष्टक:4, अध्याय:2}
वि॒दादि॒वोवि॒ष्यन्नद्रि॑मु॒क्थैरा᳚य॒त्या,उ॒षसो᳚,अ॒र्चिनो᳚गुः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

अपा᳚वृतव्र॒जिनी॒रुत्‌स्व॑र्गा॒द्विदुरो॒मानु॑षीर्दे॒वआ᳚वः॒(स्वाहा᳚) || 1 || वर्ग:26

वि॒दाः¦दि॒वः¦वि॒ऽस्यन्¦अद्रि᳚‌म्¦उ॒क्थैः¦आ॒ऽय॒त्याः¦उ॒षसः॑¦अ॒र्चिनः॑¦गुः॒ |
अप॑¦अ॒वृ॒त॒¦व्र॒जिनीः᳚¦उत्¦स्वः॑¦गा॒त्¦वि¦दुरः॑¦मानु॑षीः¦दे॒वः¦आ॒व॒रित्या᳚वः ||

विसूर्यो᳚,अ॒मतिं॒नश्रियं᳚सा॒दोर्वाद्‌गवां᳚मा॒ताजा᳚न॒तीगा᳚त् |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

धन्व᳚र्णसोन॒द्य१॑(अः॒)खादो᳚अर्णाः॒स्थूणे᳚व॒सुमि॑तादृंहत॒द्यौः(स्वाहा᳚) || 2 ||

वि¦सूर्यः॑¦अ॒मति᳚‌म्¦न¦श्रिय᳚‌म्¦सा॒त्¦आ¦ऊ॒र्वात्¦गवा᳚‌म्¦मा॒ता¦जा॒न॒ती¦गा॒त् |
धन्व॑।आर्णसः¦न॒द्यः॑¦खादः॑।आर्णाः¦स्थूणा᳚ऽ‌इव¦सुऽमि॑ता¦दृं॒ह॒त॒¦द्यौः ||

अ॒स्मा,उ॒क्थाय॒पर्व॑तस्य॒गर्भो᳚म॒हीनां᳚ज॒नुषे᳚पू॒र्व्याय॑ |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

विपर्व॑तो॒जिही᳚त॒साध॑त॒द्यौरा॒विवा᳚सन्तोदसयन्त॒भूम॒(स्वाहा᳚) || 3 ||

अ॒स्मै¦उ॒क्थाय॑¦पर्व॑तस्य¦गर्भः॑¦म॒हीना᳚‌म्¦ज॒नुषे᳚¦पू॒र्व्याय॑ |
वि¦पर्व॑तः¦जिही᳚त¦साध॑त¦द्यौः¦आ॒ऽविवा᳚सन्तः¦द॒स॒य॒न्त॒¦भूम॑ ||

सू॒क्तेभि᳚र्वो॒वचो᳚भिर्दे॒वजु॑ष्टै॒रिन्द्रा॒न्व१॑(अ॒)ग्नी,अव॑सेहु॒वध्यै᳚ |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

उ॒क्थेभि॒र्हिष्मा᳚क॒वयः॑सुय॒ज्ञा,आ॒विवा᳚सन्तोम॒रुतो॒यज᳚न्ति॒(स्वाहा᳚) || 4 ||

सु॒।औ॒क्तेभिः॑¦वः॒¦वचः॑ऽभिः¦दे॒वऽजु॑ष्टैः¦इन्द्रा᳚¦नु¦अ॒ग्नी इति॑¦अव॑से¦हु॒वध्यै᳚ |
उ॒क्थेभिः॑¦हि¦स्म॒¦क॒वयः॑¦सु॒ऽय॒ज्ञाः¦आ॒ऽविवा᳚सन्तः¦म॒रुतः॑¦यज᳚न्ति ||

एतो॒न्व१॑(अ॒)द्यसु॒ध्यो॒३॑(ओ॒)भवा᳚म॒प्रदु॒च्छुना᳚मिनवामा॒वरी᳚यः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

आ॒रेद्वेषां᳚सिसनु॒तर्द॑धा॒माऽया᳚म॒प्राञ्चो॒यज॑मान॒मच्छ॒(स्वाहा᳚) || 5 ||

एतो॒ इति॑¦नु¦अ॒द्य¦सु॒ऽध्यः॑¦भवा᳚म¦प्र¦दु॒च्छुनाः᳚¦मि॒न॒वा॒म॒¦वरी᳚यः |
आ॒रे¦द्वेषां᳚सि¦स॒नु॒तः¦द॒धा॒म॒¦अया᳚म¦प्रांचः॑¦यज॑मान‌म्¦अच्छ॑ ||

एता॒धियं᳚कृ॒णवा᳚मासखा॒योऽप॒यामा॒ताँ,ऋ॑णु॒तव्र॒जंगोः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

यया॒मनु᳚र्विशिशि॒प्रंजि॒गाय॒यया᳚व॒णिग्व॒ङ्कुरापा॒पुरी᳚ष॒‌म्(स्वाहा᳚) || 6 || वर्ग:27

आ¦इ॒त॒¦धिय᳚‌म्¦कृ॒णवा᳚म¦स॒खा॒यः॒¦अप॑¦या¦मा॒ता¦ऋ॒णु॒त¦व्र॒ज‌म्¦गोः |
यया᳚¦मनुः॑¦वि॒शि॒ऽशि॒प्र‌म्¦जि॒गाय॑¦यया᳚¦व॒णिक्¦व॒ङ्कुः¦आप॑¦पुरी᳚ष‌म् ||

अनू᳚नो॒दत्र॒हस्त॑यतो॒,अद्रि॒रार्च॒न्‌येन॒दश॑मा॒सोनव॑ग्वाः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒तंय॒तीस॒रमा॒गा,अ॑विन्द॒द्विश्वा᳚निस॒त्याङ्गि॑राश्चकार॒(स्वाहा᳚) || 7 ||

अनू᳚नोत्¦अत्र॑¦हस्त॑ऽयतः¦अद्रिः॑¦आर्च॑न्¦येन॑¦दश॑¦मा॒सः¦नव॑ऽग्वाः |
ऋ॒त‌म्¦य॒ती¦स॒रमा᳚¦गाः¦अ॒वि॒न्द॒त्¦विश्वा᳚नि¦स॒त्या¦अङ्गि॑राः¦च॒का॒र॒ ||

विश्वे᳚,अ॒स्याव्युषि॒माहि॑नायाः॒संयद्‌गोभि॒रङ्गि॑रसो॒नव᳚न्त |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

उत्स॑आसांपर॒मेस॒धस्थ॑ऋ॒तस्य॑प॒थास॒रमा᳚विद॒द्‌गाः॒(स्वाहा᳚) || 8 ||

विश्वे᳚¦अ॒स्याः¦वि॒।औषि॑¦माहि॑नायाः¦स‌म्¦यत्¦गोभिः॑¦अङ्गि॑रसः¦नव᳚न्त |
उत्सः॑¦आ॒सा॒‌म्¦प॒र॒मे¦स॒धऽस्थे᳚¦ऋ॒तस्य॑¦प॒था¦स॒रमा᳚¦वि॒द॒त्¦गाः ||

आसूर्यो᳚यातुस॒प्ताश्वः॒,क्षेत्रं॒यद॑स्योर्वि॒यादी᳚र्घया॒थे |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

र॒घुःश्ये॒नःप॑तय॒दन्धो॒,अच्छा॒युवा᳚क॒विर्दी᳚दय॒द्‌गोषु॒गच्छ॒न्त्(स्वाहा᳚) || 9 ||

आ¦सूर्यः॑¦या॒तु॒¦स॒प्त।आ॑श्वः¦क्षेत्र᳚‌म्¦यत्¦अ॒स्य॒¦उ॒र्वि॒या¦दी॒र्घ॒ऽया॒थे |
र॒घुः¦श्ये॒नः¦प॒त॒य॒त्¦अन्धः॑¦अच्छ॑¦युवा᳚¦क॒विः¦दी॒द॒य॒त्¦गोषु॑¦गच्छ॑न् ||

आसूर्यो᳚,अरुहच्छु॒क्रमर्णोऽयु॑क्त॒यद्ध॒रितो᳚वी॒तपृ॑ष्ठाः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

उ॒द्नाननाव॑मनयन्त॒धीरा᳚,आशृण्व॒तीरापो᳚,अ॒र्वाग॑तिष्ठ॒‌न्(स्वाहा᳚) || 10 ||

आ¦सूर्यः॑¦अ॒रु॒ह॒त्¦शु॒क्र‌म्¦अर्णः॑¦अयु॑क्त¦यत्¦ह॒रितः॑¦वी॒तऽपृ॑ष्ठाः |
उ॒द्ना¦न¦नाव᳚‌म्¦अ॒न॒य॒न्त॒¦धीराः᳚¦आ॒ऽशृ॒ण्व॒तीः¦आपः॑¦अ॒र्वाक्¦अ॒ति॒ष्ठ॒न् ||

धियं᳚वो,अ॒प्सुद॑धिषेस्व॒र्षांययात॑र॒न्‌दश॑मा॒सोनव॑ग्वाः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

अ॒याधि॒यास्या᳚मदे॒वगो᳚पा,अ॒याधि॒यातु॑तुर्या॒मात्यंहः॒(स्वाहा᳚) || 11 ||

धिय᳚‌म्¦वः॒¦अ॒प्ऽसु¦द॒धि॒षे॒¦स्वः॒ऽसा‌म्¦यया᳚¦अत॑रन्¦दश॑¦मा॒सः¦नव॑ऽग्वाः |
अ॒या¦धि॒या¦स्या॒म॒¦दे॒वऽगो᳚पाः¦अ॒या¦धि॒या¦तु॒तु॒र्या॒म॒¦अति॑¦अंहः॑ ||

[46] हयोनेत्यष्टर्चस्यसूक्तस्यात्रेयःप्रतिक्षत्रोविश्वेदेवाजगती सप्तम्यष्टम्योर्देवपत्न्यः द्वितीयांत्येत्रिष्टुभौ | (भेदपक्षे-विश्वेदेवाः ६ देवपत्न्यः २ एवं ८) |{मंडल:5, सूक्त:46}{अनुवाक:4, सूक्त:2}{अष्टक:4, अध्याय:2}
हयो॒नवि॒द्वाँ,अ॑युजिस्व॒यंधु॒रितांव॑हामिप्र॒तर॑णीमव॒स्युव᳚म् |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती}

नास्या᳚वश्मिवि॒मुचं॒नावृतं॒पुन᳚र्वि॒द्वान्‌प॒थःपु॑रए॒तऋ॒जुने᳚षति॒(स्वाहा᳚) || 1 || वर्ग:28

हयः॑¦न¦वि॒द्वान्¦अ॒यु॒जि॒¦स्व॒य‌म्¦धु॒रि¦ता‌म्¦व॒हा॒मि॒¦प्र॒ऽतर॑णी‌म्¦अ॒व॒स्युव᳚‌म् |
न¦अ॒स्याः॒¦व॒श्मि॒¦वि॒ऽमुच᳚‌म्¦न¦आ॒ऽवृत᳚‌म्¦पुनः॑¦वि॒द्वान्¦प॒थः¦पु॒रः॒ऽए॒ता¦ऋ॒जु¦ने॒ष॒ति॒ ||

अग्न॒इन्द्र॒वरु॑ण॒मित्र॒देवाः॒शर्धः॒प्रय᳚न्त॒मारु॑तो॒तवि॑ष्णो |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | त्रिष्टुप्}

उ॒भानास॑त्यारु॒द्रो,अध॒ग्नाःपू॒षाभगः॒सर॑स्वतीजुषन्त॒(स्वाहा᳚) || 2 ||

अग्ने᳚¦इन्द्र॑¦वरु॑ण¦मित्र॑¦देवाः᳚¦शर्धः॑¦प्र¦य॒न्त॒¦मारु॑त¦उ॒त¦वि॒ष्णो॒ इति॑ |
उ॒भा¦नास॑त्या¦रु॒द्रः¦अध॑¦ग्नाः¦पू॒षा¦भगः॑¦सर॑स्वती¦जु॒ष॒न्त॒ ||

इ॒न्द्रा॒ग्नीमि॒त्रावरु॒णादि॑तिं॒स्वः॑पृथि॒वींद्यांम॒रुतः॒पर्व॑ताँ,अ॒पः |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती}

हु॒वेविष्णुं᳚पू॒षणं॒ब्रह्म॑ण॒स्पतिं॒भगं॒नुशंसं᳚सवि॒तार॑मू॒तये॒(स्वाहा᳚) || 3 ||

इ॒न्द्रा॒ग्नी इति॑¦मि॒त्रावरु॑णा¦अदि॑ति‌म्¦स्व१॒॑रिति॒ स्वः॑¦पृ॒थि॒वी‌म्¦द्या‌म्¦म॒रुतः॑¦पर्व॑तान्¦अ॒पः |
हु॒वे¦विष्णु᳚‌म्¦पू॒षण᳚‌म्¦ब्रह्म॑णः¦पति᳚‌म्¦भग᳚‌म्¦नु¦शंस᳚‌म्¦स॒वि॒तार᳚‌म्¦ऊ॒तये᳚ ||

उ॒तनो॒विष्णु॑रु॒तवातो᳚,अ॒स्रिधो᳚द्रविणो॒दा,उ॒तसोमो॒मय॑स्करत् |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती}

उ॒तऋ॒भव॑उ॒तरा॒येनो᳚,अ॒श्विनो॒तत्वष्टो॒तविभ्वानु॑मंसते॒(स्वाहा᳚) || 4 ||

उ॒त¦नः॒¦विष्णुः॑¦उ॒त¦वातः॑¦अ॒स्रिधः॑¦द्र॒वि॒णः॒ऽदाः¦उ॒त¦सोमः॑¦मयः॑¦क॒र॒त् |
उ॒त¦ऋ॒भवः॑¦उ॒त¦रा॒ये¦नः॒¦अ॒श्विना᳚¦उ॒त¦त्वष्टा᳚¦उ॒त¦विऽभ्वा᳚¦अनु॑¦मं॒स॒ते॒ ||

उ॒तत्यन्नो॒मारु॑तं॒शर्ध॒आग॑मद्दिविक्ष॒यंय॑ज॒तंब॒र्हिरा॒सदे᳚ |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती}

बृह॒स्पतिः॒शर्म॑पू॒षोतनो᳚यमद्वरू॒थ्य१॑(अं॒)वरु॑णोमि॒त्रो,अ᳚र्य॒मा(स्वाहा᳚) || 5 ||

उ॒त¦त्यत्¦नः॒¦मारु॑त‌म्¦शर्धः॑¦आ¦ग॒म॒त्¦दि॒वि॒ऽक्ष॒य‌म्¦य॒ज॒त‌म्¦ब॒र्हिः¦आ॒ऽसदे᳚ |
बृह॒स्पतिः॑¦शर्म॑¦पू॒षा¦उ॒त¦नः॒¦य॒म॒त्¦व॒रू॒थ्य᳚‌म्¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा ||

उ॒तत्येनः॒पर्व॑तासःसुश॒स्तयः॑सुदी॒तयो᳚न॒द्य१॑(अ॒)स्त्राम॑णेभुवन् |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती}

भगो᳚विभ॒क्ताशव॒साव॒साग॑मदुरु॒व्यचा॒,अदि॑तिःश्रोतुमे॒हव॒‌म्(स्वाहा᳚) || 6 ||

उ॒त¦त्ये¦नः॒¦पर्व॑तासः¦सु॒ऽश॒स्तयः॑¦सु॒ऽदी॒तयः॑¦न॒द्यः॑¦त्राम॑णे¦भु॒व॒न् |
भगः॑¦वि॒ऽभ॒क्ता¦शव॑सा¦अव॑सा¦आ¦ग॒म॒त्¦उ॒रु॒ऽव्यचाः᳚¦अदि॑तिः¦श्रो॒तु॒¦मे॒¦हव᳚‌म् ||

दे॒वानां॒पत्नी᳚रुश॒तीर॑वन्तुनः॒प्राव᳚न्तुनस्तु॒जये॒वाज॑सातये |{आत्रेयः प्रतिक्षत्रः | देवपत्न्यः | जगती}

याःपार्थि॑वासो॒या,अ॒पामपि᳚व्र॒तेतानो᳚देवीःसुहवाः॒शर्म॑यच्छत॒(स्वाहा᳚) || 7 ||

दे॒वाना᳚‌म्¦पत्नीः᳚¦उ॒श॒तीः¦अ॒व॒न्तु॒¦नः॒¦प्र¦अ॒व॒न्तु॒¦नः॒¦तु॒जये᳚¦वाज॑ऽसातये |
याः¦पार्थि॑वासः¦याः¦अ॒पा‌म्¦अपि॑¦व्र॒ते¦ताः¦नः॒¦दे॒वीः॒¦सु॒ऽह॒वाः॒¦शर्म॑¦य॒च्छ॒त॒ ||

उ॒तग्नाव्य᳚न्तुदे॒वप॑त्नीरिन्द्रा॒ण्य१॑(अ॒)ग्नाय्य॒श्विनी॒राट् |{आत्रेयः प्रतिक्षत्रः | देवपत्न्यः | त्रिष्टुप्}

आरोद॑सीवरुणा॒नीशृ॑णोतु॒व्यन्तु॑दे॒वीर्यऋ॒तुर्जनी᳚ना॒‌म्(स्वाहा᳚) || 8 ||

उ॒त¦ग्नाः¦व्य॒न्तु॒¦दे॒वऽप॑त्नीः¦इ॒न्द्रा॒णी¦अ॒ग्नायी᳚¦अ॒श्विनी᳚¦राट् |
आ¦रोद॑सी॒ इति॑¦व॒रु॒णा॒नी¦शृ॒णो॒तु॒¦व्यन्तु॑¦दे॒वीः¦यः¦ऋ॒तुः¦जनी᳚ना‌म् ||

[47] प्रयुंजतीति सप्तर्चस्य सूक्तस्यात्रेयः प्रतिरथोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - उषाः १ सूर्यरश्मयः १ सूर्यः ३ विश्वेदेवाः १ मित्रावरुणाग्नयः १ एवं ७) |{मंडल:5, सूक्त:47}{अनुवाक:4, सूक्त:3}{अष्टक:4, अध्याय:3}
प्र॒यु॒ञ्ज॒तीदि॒वए᳚तिब्रुवा॒णाम॒हीमा॒तादु॑हि॒तुर्बो॒धय᳚न्ती |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

आ॒विवा᳚सन्तीयुव॒तिर्म॑नी॒षापि॒तृभ्य॒आसद॑ने॒जोहु॑वाना॒(स्वाहा᳚) || 1 || वर्ग:1

प्र॒ऽयुं॒ज॒ती¦दि॒वः¦ए॒ति॒¦ब्रु॒वा॒णा¦म॒ही¦मा॒ता¦दु॒हि॒तुः¦बो॒धय᳚न्ती |
आ॒ऽविवा᳚सन्ती¦यु॒व॒तिः¦म॒नी॒षा¦पि॒तृऽभ्यः॑¦आ¦सद॑ने¦जोहु॑वाना ||

अ॒जि॒रास॒स्तद॑प॒ईय॑माना,आतस्थि॒वांसो᳚,अ॒मृत॑स्य॒नाभि᳚म् |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

अ॒न॒न्तास॑उ॒रवो᳚वि॒श्वतः॑सीं॒परि॒द्यावा᳚पृथि॒वीय᳚न्ति॒पन्थाः᳚(स्वाहा᳚) || 2 ||

अ॒जि॒रासः॑¦तत्।आ॑पः¦ईय॑मानाः¦आ॒त॒स्थि॒ऽवांसः॑¦अ॒मृत॑स्य¦नाभि᳚‌म् |
अ॒न॒न्तासः॑¦उ॒रवः॑¦वि॒श्वतः॑¦सी॒‌म्¦परि॑¦द्यावा᳚पृथि॒वी इति॑¦य॒न्ति॒¦पन्थाः᳚ ||

उ॒क्षास॑मु॒द्रो,अ॑रु॒षःसु॑प॒र्णःपूर्व॑स्य॒योनिं᳚पि॒तुरावि॑वेश |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

मध्ये᳚दि॒वोनिहि॑तः॒पृश्नि॒रश्मा॒विच॑क्रमे॒रज॑सस्पा॒त्यन्तौ॒(स्वाहा᳚) || 3 ||

उ॒क्षा¦स॒मु॒द्रः¦अ॒रु॒षः¦सु॒ऽप॒र्णः¦पूर्व॑स्य¦योनि᳚‌म्¦पि॒तुः¦आ¦वि॒वे॒श॒ |
मध्ये᳚¦दि॒वः¦निऽहि॑तः¦पृश्निः॑¦अश्मा᳚¦वि¦च॒क्र॒मे॒¦रज॑सः¦पा॒ति॒¦अन्तौ᳚ ||

च॒त्वार॑ईंबिभ्रतिक्षेम॒यन्तो॒दश॒गर्भं᳚च॒रसे᳚धापयन्ते |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

त्रि॒धात॑वःपर॒मा,अ॑स्य॒गावो᳚दि॒वश्च॑रन्ति॒परि॑स॒द्यो,अन्ता॒न्त्(स्वाहा᳚) || 4 ||

च॒त्वारः॑¦ई॒‌म्¦बि॒भ्र॒ति॒¦क्षे॒म॒ऽयन्तः॑¦दश॑¦गर्भ᳚‌म्¦च॒रसे᳚¦धा॒प॒य॒न्ते॒ |
त्रि॒ऽधात॑वः¦प॒र॒माः¦अ॒स्य॒¦गावः॑¦दि॒वः¦च॒र॒न्ति॒¦परि॑¦स॒द्यः¦अन्ता॑न् ||

इ॒दंवपु᳚र्नि॒वच॑नंजनास॒श्चर᳚न्ति॒यन्न॒द्य॑स्त॒स्थुरापः॑ |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

द्वेयदीं᳚बिभृ॒तोमा॒तुर॒न्ये,इ॒हेह॑जा॒तेय॒म्या॒३॑(आ॒)सब᳚न्धू॒(स्वाहा᳚) || 5 ||

इ॒द‌म्¦वपुः॑¦नि॒ऽवच॑न‌म्¦ज॒ना॒सः॒¦चर᳚न्ति¦यत्¦न॒द्यः॑¦त॒स्थुः¦आपः॑ |
द्वे इति॑¦यत्¦ई॒‌म्¦बि॒भृ॒तः¦मा॒तुः¦अ॒न्ये इति॑¦इ॒हऽ‌इ᳚ह¦जा॒ते इति॑¦य॒म्या᳚¦सब᳚न्धू॒ इति॒ सऽब᳚न्धू ||

वित᳚न्वते॒धियो᳚,अस्मा॒,अपां᳚सि॒वस्त्रा᳚पु॒त्राय॑मा॒तरो᳚वयन्ति |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

उ॒प॒प्र॒क्षेवृष॑णो॒मोद॑मानादि॒वस्प॒थाव॒ध्वो᳚य॒न्त्यच्छ॒(स्वाहा᳚) || 6 ||

वि¦त॒न्व॒ते॒¦धियः॑¦अ॒स्मै॒¦अपां᳚सि¦वस्त्रा᳚¦पु॒त्राय॑¦मा॒तरः॑¦व॒य॒न्ति॒ |
उ॒प॒ऽप्र॒क्षे¦वृष॑णः¦मोद॑मानाः¦दि॒वः¦प॒था¦व॒ध्वः॑¦य॒न्ति॒¦अच्छ॑ ||

तद॑स्तुमित्रावरुणा॒तद॑ग्ने॒शंयोर॒स्मभ्य॑मि॒दम॑स्तुश॒स्तम् |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

अ॒शी॒महि॑गा॒धमु॒तप्र॑ति॒ष्ठांनमो᳚दि॒वेबृ॑ह॒तेसाद॑नाय॒(स्वाहा᳚) || 7 ||

तत्¦अ॒स्तु॒¦मि॒त्रा॒व॒रु॒णा॒¦तत्¦अ॒ग्ने॒¦श‌म्¦योः¦अ॒स्मभ्य᳚‌म्¦इ॒द‌म्¦अ॒स्तु॒¦श॒स्त‌म् |
अ॒शी॒महि॑¦गा॒ध‌म्¦उ॒त¦प्र॒ति॒ऽस्था‌म्¦नमः॑¦दि॒वे¦बृ॒ह॒ते¦साद॑नाय ||

[48] कदुप्रियायेति पंचर्चस्य सूक्तस्यात्रेयः प्रतिभानुर्विश्वेदेवाजगती | (भेदपक्षे - विद्युतोग्निः १ उषाः १ इंद्रसूर्यौ १ अग्निः २ एवं ५) |{मंडल:5, सूक्त:48}{अनुवाक:4, सूक्त:4}{अष्टक:4, अध्याय:3}
कदु॑प्रि॒याय॒धाम्ने᳚मनामहे॒स्वक्ष॑त्राय॒स्वय॑शसेम॒हेव॒यम् |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती}

आ॒मे॒न्यस्य॒रज॑सो॒यद॒भ्रआँ,अ॒पोवृ॑णा॒नावि॑त॒नोति॑मा॒यिनी॒(स्वाहा᳚) || 1 || वर्ग:2

कत्¦ऊँ॒ इति॑¦प्रि॒याय॑¦धाम्ने᳚¦म॒ना॒म॒हे॒¦स्वऽक्ष॑त्राय¦स्वऽय॑शसे¦म॒हे¦व॒य‌म् |
आ॒ऽमे॒न्यस्य॑¦रज॑सः¦यत्¦अ॒भ्रे¦आ¦अ॒पः¦वृ॒णा॒ना¦वि॒ऽत॒नोति॑¦मा॒यिनी᳚ ||

ता,अ॑त्नतव॒युनं᳚वी॒रव॑क्षणंसमा॒न्यावृ॒तया॒विश्व॒मारजः॑ |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती}

अपो॒,अपा᳚ची॒रप॑रा॒,अपे᳚जते॒प्रपूर्वा᳚भिस्तिरतेदेव॒युर्जनः॒(स्वाहा᳚) || 2 ||

ताः¦अ॒त्न॒त॒¦व॒युन᳚‌म्¦वी॒रऽव॑क्षण‌म्¦स॒मा॒न्या¦वृ॒तया᳚¦विश्व᳚‌म्¦आ¦रजः॑ |
अपो॒ इति॑¦अपा᳚चीः¦अप॑राः¦अप॑¦ई॒ज॒ते॒¦प्र¦पूर्वा᳚भिः¦ति॒र॒ते॒¦दे॒व॒ऽयुः¦जनः॑ ||

आग्राव॑भिरह॒न्ये᳚भिर॒क्तुभि॒र्वरि॑ष्ठं॒वज्र॒माजि॑घर्तिमा॒यिनि॑ |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती}

श॒तंवा॒यस्य॑प्र॒चर॒न्‌त्स्वेदमे᳚संव॒र्तय᳚न्तो॒विच॑वर्तय॒न्नहा॒(स्वाहा᳚) || 3 ||

आ¦ग्राव॑ऽभिः¦अ॒ह॒न्ये᳚भिः¦अ॒क्तुऽभिः॑¦वरि॑ष्ठ‌म्¦वज्र᳚‌म्¦आ¦जि॒घ॒र्ति॒¦मा॒यिनि॑ |
श॒त‌म्¦वा॒¦यस्य॑¦प्र॒ऽचर॑न्¦स्वे¦दमे᳚¦स॒‌म्ऽव॒र्तय᳚न्तः¦वि¦च॒¦व॒र्त॒य॒न्¦अहा᳚ ||

ताम॑स्यरी॒तिंप॑र॒शोरि॑व॒प्रत्यनी᳚कमख्यंभु॒जे,अ॑स्य॒वर्प॑सः |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती}

सचा॒यदि॑पितु॒मन्त॑मिव॒क्षयं॒रत्नं॒दधा᳚ति॒भर॑हूतयेवि॒शे(स्वाहा᳚) || 4 ||

ता‌म्¦अ॒स्य॒¦री॒ति‌म्¦प॒र॒शोःऽ‌इ᳚व¦प्रति॑¦अनी᳚क‌म्¦अ॒ख्य॒‌म्¦भु॒जे¦अ॒स्य॒¦वर्प॑सः |
सचा᳚¦यदि॑¦पि॒तु॒मन्त᳚‌म्ऽ‌इव¦क्षय᳚‌म्¦रत्न᳚‌म्¦दधा᳚ति¦भर॑ऽहूतये¦वि॒शे ||

सजि॒ह्वया॒चतु॑रनीकऋञ्जते॒चारु॒वसा᳚नो॒वरु॑णो॒यत᳚न्न॒रिम् |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती}

नतस्य॑विद्मपुरुष॒त्वता᳚व॒यंयतो॒भगः॑सवि॒तादाति॒वार्य॒‌म्(स्वाहा᳚) || 5 ||

सः¦जि॒ह्वया᳚¦चतुः॑।आनीकः¦ऋं॒ज॒ते॒¦चारु॑¦वसा᳚नः¦वरु॑णः¦यत॑न्¦अ॒रि‌म् |
न¦तस्य॑¦वि॒द्म॒¦पु॒रु॒ष॒त्वता᳚¦व॒य‌म्¦यतः॑¦भगः॑¦स॒वि॒ता¦दाति॑¦वार्य᳚‌म् ||

[49] देवंवइति पंचर्चस्य सूक्तस्यात्रेयः प्रतिप्रभुर्विश्वेदेवास्त्रिष्टुप् अंत्यातृणपाणिः | (भेदपक्षे - विश्वेदेवाः १ सूर्यः १ विश्वेदेवाः ३ एवं ५) |{मंडल:5, सूक्त:49}{अनुवाक:4, सूक्त:5}{अष्टक:4, अध्याय:3}
दे॒वंवो᳚,अ॒द्यस॑वि॒तार॒मेषे॒भगं᳚च॒रत्नं᳚वि॒भज᳚न्तमा॒योः |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | त्रिष्टुप्}

आवां᳚नरापुरुभुजाववृत्यांदि॒वेदि॑वेचिदश्विनासखी॒यन्(स्वाहा᳚) || 1 || वर्ग:3

दे॒व‌म्¦वः॒¦अ॒द्य¦स॒वि॒तार᳚‌म्¦आ¦ई॒षे॒¦भग᳚‌म्¦च॒¦रत्न᳚‌म्¦वि॒ऽभज᳚न्त‌म्¦आ॒योः |
आ¦वा॒‌म्¦न॒रा॒¦पु॒रु॒ऽभु॒जा॒¦व॒वृ॒त्या॒‌म्¦दि॒वेऽदि॑वे¦चि॒त्¦अ॒श्वि॒ना॒¦स॒खि॒ऽयन् ||

प्रति॑प्र॒याण॒मसु॑रस्यवि॒द्वान्त्सू॒क्तैर्दे॒वंस॑वि॒तारं᳚दुवस्य |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | त्रिष्टुप्}

उप॑ब्रुवीत॒नम॑साविजा॒नञ्ज्येष्ठं᳚च॒रत्नं᳚वि॒भज᳚न्तमा॒योः(स्वाहा᳚) || 2 ||

प्रति॑¦प्र॒ऽयान᳚‌म्¦असु॑रस्य¦वि॒द्वान्¦सु॒।औ॒क्तैः¦दे॒व‌म्¦स॒वि॒तार᳚‌म्¦दु॒व॒स्य॒ |
उप॑¦ब्रु॒वी॒त॒¦नम॑सा¦वि॒ऽजा॒नन्¦ज्येष्ठ᳚‌म्¦च॒¦रत्न᳚‌म्¦वि॒ऽभज᳚न्त‌म्¦आ॒योः ||

अ॒द॒त्र॒याद॑यते॒वार्या᳚णिपू॒षाभगो॒,अदि॑ति॒र्वस्त॑उ॒स्रः |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | त्रिष्टुप्}

इन्द्रो॒विष्णु॒र्वरु॑णोमि॒त्रो,अ॒ग्निरहा᳚निभ॒द्राज॑नयन्तद॒स्माः(स्वाहा᳚) || 3 ||

अ॒द॒त्र॒ऽया¦द॒य॒ते॒¦वार्या᳚णि¦पू॒षा¦भगः॑¦अदि॑तिः¦वस्ते᳚¦उ॒स्रः |
इन्द्रः॑¦विष्णुः॑¦वरु॑णः¦मि॒त्रः¦अ॒ग्निः¦अहा᳚नि¦भ॒द्रा¦ज॒न॒य॒न्त॒¦द॒स्माः ||

तन्नो᳚,अन॒र्वास॑वि॒तावरू᳚थं॒तत्‌सिन्ध॑वइ॒षय᳚न्तो॒,अनु॑ग्मन् |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | त्रिष्टुप्}

उप॒यद्‌वोचे᳚,अध्व॒रस्य॒होता᳚रा॒यःस्या᳚म॒पत॑यो॒वाज॑रत्नाः॒(स्वाहा᳚) || 4 ||

तत्¦नः॒¦अ॒न॒र्वा¦स॒वि॒ता¦वरू᳚थ‌म्¦तत्¦सिन्ध॑वः¦इ॒षय᳚न्तः¦अनु॑¦ग्म॒न् |
उप॑¦यत्¦वोचे᳚¦अ॒ध्व॒रस्य॑¦होता᳚¦रा॒यः¦स्या॒म॒¦पत॑यः¦वाज॑ऽरत्नाः ||

प्रयेवसु॑भ्य॒ईव॒दानमो॒दुर्येमि॒त्रेवरु॑णेसू॒क्तवा᳚चः |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | तृणपाणिः}

अवै॒त्वभ्वं᳚कृणु॒तावरी᳚योदि॒वस्पृ॑थि॒व्योरव॑सामदेम॒(स्वाहा᳚) || 5 ||

प्र¦ये¦वसु॑ऽभ्यः¦ईव॑त्¦आ¦नमः॑¦दुः¦ये¦मि॒त्रे¦वरु॑णे¦सू॒क्तऽवा᳚चः |
अव॑¦ए॒तु॒¦अभ्व᳚‌म्¦कृ॒णु॒त¦वरी᳚यः¦दि॒वःपृ॑थि॒व्योः¦अव॑सा¦म॒दे॒म॒ ||

[50] विश्वोदेवस्येति पंचर्चस्य सूक्तस्य स्वस्त्यात्रेयोविश्वेदेवाअनुष्टुप्‌अंत्यापङ्क्तिः | (भेदपक्षे - सविता २ विश्वेदेवाः १ सविता २ एवं ५) |{मंडल:5, सूक्त:50}{अनुवाक:4, सूक्त:6}{अष्टक:4, अध्याय:3}
विश्वो᳚दे॒वस्य॑ने॒तुर्मर्तो᳚वुरीतस॒ख्यम् |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

विश्वो᳚रा॒यइ॑षुध्यतिद्यु॒म्नंवृ॑णीतपु॒ष्यसे॒(स्वाहा᳚) || 1 || वर्ग:4

विश्वः॑¦दे॒वस्य॑¦ने॒तुः¦मर्तः॑¦वु॒री॒त॒¦स॒ख्य‌म् | विश्वः॑¦रा॒ये¦इ॒षु॒ध्य॒ति॒¦द्यु॒म्न‌म्¦वृ॒णी॒त॒¦पु॒ष्यसे᳚ ||

तेते᳚देवनेत॒र्येचे॒माँ,अ॑नु॒शसे᳚ |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

तेरा॒यातेह्या॒३॑(आ॒)पृचे॒सचे᳚महिसच॒थ्यैः᳚(स्वाहा᳚) || 2 ||

ते¦ते॒¦दे॒व॒¦ने॒तः॒¦ये¦च॒¦इ॒मान्¦अ॒नु॒ऽशसे᳚ | ते¦रा॒या¦ते¦हि¦आ॒ऽपृचे᳚¦सचे᳚महि¦स॒च॒थ्यैः᳚ ||

अतो᳚न॒आनॄनति॑थी॒नतः॒पत्नी᳚र्दशस्यत |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

आ॒रेविश्वं᳚पथे॒ष्ठांद्वि॒षोयु॑योतु॒यूयु॑विः॒(स्वाहा᳚) || 3 ||

अतः॑¦नः॒¦आ¦नॄन्¦अति॑थीन्¦अतः॑¦पत्नीः᳚¦द॒श॒स्य॒त॒ | आ॒रे¦विश्व᳚‌म्¦प॒थे॒ऽस्था‌म्¦द्वि॒षः¦यु॒यो॒तु॒¦युयु॑विः ||

यत्र॒वह्नि॑र॒भिहि॑तोदु॒द्रव॒द्‌द्रोण्यः॑प॒शुः |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

नृ॒मणा᳚वी॒रप॒स्त्योऽर्णा॒धीरे᳚व॒सनि॑ता॒(स्वाहा᳚) || 4 ||

यत्र॑¦वह्निः॑¦अ॒भिऽहि॑तः¦दु॒द्रव॑त्¦द्रोण्यः॑¦प॒शुः | नृ॒ऽमनाः᳚¦वी॒रऽप॑स्त्यः¦अर्णा᳚¦धीरा᳚ऽ‌इव¦सनि॑ता ||

ए॒षते᳚देवनेता॒रथ॒स्पतिः॒शंर॒यिः |{स्वस्त्यात्रेयः | विश्वदेवाः | पङ्क्तिः}

शंरा॒येशंस्व॒स्तय॑इषः॒स्तुतो᳚मनामहेदेव॒स्तुतो᳚मनामहे॒(स्वाहा᳚) || 5 ||

ए॒षः¦ते॒¦दे॒व॒¦ने॒त॒रिति॑¦रथः॒पतिः॑¦श‌म्¦र॒यिः |
श‌म्¦रा॒ये¦श‌म्¦स्व॒स्तये᳚¦इ॒षः॒ऽस्तुतः॑¦म॒ना॒म॒हे॒¦दे॒व॒ऽस्तुतः॑¦म॒ना॒म॒हे॒ ||

[51] अग्नेसुतस्येति पंचदशर्चस्य सूक्तस्य स्वस्त्यात्रेयो विश्वेदेवाश्चतुर्थीषष्टीसप्तमीनामिंद्रवायू पंचम्यावायुः आद्याश्चतस्रो गायत्र्यः पंचम्यादिषळुष्णिहः एकादश्यादितिस्रोजगत्यः (त्रिष्टुभोवा) अंत्येद्वेअनुष्टुभौ | (भेदपक्षे - अग्निः २ विश्वेदेवाः १ इंद्रवायू १ वायुः १ इंद्रवायू २ अग्निः ३ विश्वेदेवाः ५ एवं १५) |{मंडल:5, सूक्त:51}{अनुवाक:4, सूक्त:7}{अष्टक:4, अध्याय:3}
अग्ने᳚सु॒तस्य॑पी॒तये॒विश्वै॒रूमे᳚भि॒राग॑हि |{स्वस्त्यात्रेयः | विश्वदेवाः | गायत्री}

दे॒वेभि᳚र्ह॒व्यदा᳚तये॒(स्वाहा᳚) || 1 || वर्ग:5

अग्ने᳚¦सु॒तस्य॑¦पी॒तये᳚¦विश्वैः᳚¦ऊमे᳚भिः¦आ¦ग॒हि॒ | दे॒वेभिः॑¦ह॒व्यऽदा᳚तये ||

ऋत॑धीतय॒आग॑त॒सत्य॑धर्माणो,अध्व॒रम् |{स्वस्त्यात्रेयः | विश्वदेवाः | गायत्री}

अ॒ग्नेःपि॑बतजि॒ह्वया॒(स्वाहा᳚) || 2 ||

ऋत॑ऽधीतयः¦आ¦ग॒त॒¦सत्य॑ऽधर्माणः¦अ॒ध्व॒र‌म् | अ॒ग्नेः¦पि॒ब॒त॒¦जि॒ह्वया᳚ ||

विप्रे᳚भिर्विप्रसन्त्यप्रात॒र्याव॑भि॒राग॑हि |{स्वस्त्यात्रेयः | विश्वदेवाः | गायत्री}

दे॒वेभिः॒सोम॑पीतये॒(स्वाहा᳚) || 3 ||

विप्रे᳚भिः¦वि॒प्र॒¦स॒न्त्य॒¦प्रा॒त॒र्याव॑ऽभिः¦आ¦ग॒हि॒ | दे॒वेभिः॑¦सोम॑ऽपीतये ||

अ॒यंसोम॑श्च॒मूसु॒तोऽम॑त्रे॒परि॑षिच्यते |{स्वस्त्यात्रेयः | इंद्रवायू | गायत्री}

प्रि॒यइन्द्रा᳚यवा॒यवे॒(स्वाहा᳚) || 4 ||

अ॒य‌म्¦सोमः॑¦च॒मू इति॑¦सु॒तः¦अम॑त्रे¦परि॑¦सि॒च्य॒ते॒ | प्रि॒यः¦इन्द्रा᳚य¦वा॒यवे᳚ ||

वाय॒वाया᳚हिवी॒तये᳚जुषा॒णोह॒व्यदा᳚तये |{स्वस्त्यात्रेयः | वायुः | उष्णिक्}

पिबा᳚सु॒तस्यान्ध॑सो,अ॒भिप्रयः॒(स्वाहा᳚) || 5 ||

वायो॒ इति॑¦आ¦या॒हि॒¦वी॒तये᳚¦जु॒षा॒णः¦ह॒व्यऽदा᳚तये | पिब॑¦सु॒तस्य॑¦अन्ध॑सः¦अ॒भि¦प्रयः॑ ||

इन्द्र॑श्चवायवेषांसु॒तानां᳚पी॒तिम᳚र्हथः |{स्वस्त्यात्रेयः | इंद्रवायू | उष्णिक्}

ताञ्जु॑षेथामरे॒पसा᳚व॒भिप्रयः॒(स्वाहा᳚) || 6 || वर्ग:6

इन्द्रः॑¦च॒¦वा॒यो॒ इति॑¦ए॒षा॒‌म्¦सु॒ताना᳚‌म्¦पी॒ति‌म्¦अ॒र्ह॒थः॒ | तान्¦जु॒षे॒था॒‌म्¦अ॒रे॒पसौ᳚¦अ॒भि¦प्रयः॑ ||

सु॒ता,इन्द्रा᳚यवा॒यवे॒सोमा᳚सो॒दध्या᳚शिरः |{स्वस्त्यात्रेयः | इंद्रवायू | उष्णिक्}

नि॒म्नंनय᳚न्ति॒सिन्ध॑वो॒ऽभिप्रयः॒(स्वाहा᳚) || 7 ||

सु॒ताः¦इन्द्रा᳚य¦वा॒यवे᳚¦सोमा᳚सः¦दधि॑ऽआशिरः | नि॒म्न‌म्¦न¦य॒न्ति॒¦सिन्ध॑वः¦अ॒भि¦प्रयः॑ ||

स॒जूर्विश्वे᳚भिर्दे॒वेभि॑र॒श्विभ्या᳚मु॒षसा᳚स॒जूः |{स्वस्त्यात्रेयः | विश्वदेवाः | उष्णिक्}

आया᳚ह्यग्ने,अत्रि॒वत्सु॒तेर॑ण॒(स्वाहा᳚) || 8 ||

स॒ऽजूः¦विश्वे᳚भिः¦दे॒वेभिः॑¦अ॒श्विऽभ्या᳚‌म्¦उ॒षसा᳚¦स॒ऽजूः | आ¦या॒हि॒¦अ॒ग्ने॒¦अ॒त्रि॒ऽवत्¦सु॒ते¦रण॒ ||

स॒जूर्मि॒त्रावरु॑णाभ्यांस॒जूःसोमे᳚न॒विष्णु॑ना |{स्वस्त्यात्रेयः | विश्वदेवाः | उष्णिक्}

आया᳚ह्यग्ने,अत्रि॒वत्सु॒तेर॑ण॒(स्वाहा᳚) || 9 ||

स॒ऽजूः¦मि॒त्रावरु॑णाभ्या‌म्¦स॒ऽजूः¦सोमे᳚न¦विष्णु॑ना | आ¦या॒हि॒¦अ॒ग्ने॒¦अ॒त्रि॒ऽवत्¦सु॒ते¦रण॒ ||

स॒जूरा᳚दि॒त्यैर्वसु॑भिःस॒जूरिन्द्रे᳚णवा॒युना᳚ |{स्वस्त्यात्रेयः | विश्वदेवाः | उष्णिक्}

आया᳚ह्यग्ने,अत्रि॒वत्सु॒तेर॑ण॒(स्वाहा᳚) || 10 ||

स॒ऽजूः¦आ॒दि॒त्यैः¦वसु॑ऽभिः¦स॒ऽजूः¦इन्द्रे᳚ण¦वा॒युना᳚ | आ¦या॒हि॒¦अ॒ग्ने॒¦अ॒त्रि॒ऽवत्¦सु॒ते¦रण॒ ||

स्व॒स्तिनो᳚मिमीताम॒श्विना॒भगः॑स्व॒स्तिदे॒व्यदि॑तिरन॒र्वणः॑ |{स्वस्त्यात्रेयः | विश्वदेवाः | जगती त्रिष्टुभोवा}

स्व॒स्तिपू॒षा,असु॑रोदधातुनःस्व॒स्तिद्यावा᳚पृथि॒वीसु॑चे॒तुना॒(स्वाहा᳚) || 11 || वर्ग:7

स्व॒स्ति¦नः॒¦मि॒मी॒ता॒‌म्¦अ॒श्विना᳚¦भगः॑¦स्व॒स्ति¦दे॒वी¦अदि॑तिः¦अ॒न॒र्वणः॑ |
स्व॒स्ति¦पू॒षा¦असु॑रः¦द॒धा॒तु॒¦नः॒¦स्व॒स्ति¦द्यावा᳚पृथि॒वी इति॑¦सु॒ऽचे॒तुना᳚ ||

स्व॒स्तये᳚वा॒युमुप॑ब्रवामहै॒सोमं᳚स्व॒स्तिभुव॑नस्य॒यस्पतिः॑ |{स्वस्त्यात्रेयः | विश्वदेवाः | जगती त्रिष्टुभोवा}

बृह॒स्पतिं॒सर्व॑गणंस्व॒स्तये᳚स्व॒स्तय॑आदि॒त्यासो᳚भवन्तुनः॒(स्वाहा᳚) || 12 ||

स्व॒स्तये᳚¦वा॒यु‌म्¦उप॑¦ब्र॒वा॒म॒है॒¦सोम᳚‌म्¦स्व॒स्ति¦भुव॑नस्य¦यः¦पतिः॑ |
बृह॒स्पति᳚‌म्¦सर्व॑ऽगण‌म्¦स्व॒स्तये᳚¦स्व॒स्तये᳚¦आ॒दि॒त्यासः॑¦भ॒व॒न्तु॒¦नः॒ ||

विश्वे᳚दे॒वानो᳚,अ॒द्यास्व॒स्तये᳚वैश्वान॒रोवसु॑र॒ग्निःस्व॒स्तये᳚ |{स्वस्त्यात्रेयः | विश्वदेवाः | जगती त्रिष्टुभोवा}

दे॒वा,अ॑वन्त्वृ॒भवः॑स्व॒स्तये᳚स्व॒स्तिनो᳚रु॒द्रःपा॒त्वंह॑सः॒(स्वाहा᳚) || 13 ||

विश्वे᳚¦दे॒वाः¦नः॒¦अ॒द्य¦स्व॒स्तये᳚¦वै॒श्वा॒न॒रः¦वसुः॑¦अ॒ग्निः¦स्व॒स्तये᳚ |
दे॒वाः¦अ॒व॒न्तु॒¦ऋ॒भवः॑¦स्व॒स्तये᳚¦स्व॒स्ति¦नः॒¦रु॒द्रः¦पा॒तु॒¦अंह॑सः ||

स्व॒स्तिमि॑त्रावरुणास्व॒स्तिप॑थ्येरेवति |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

स्व॒स्तिन॒इन्द्र॑श्चा॒ग्निश्च॑स्व॒स्तिनो᳚,अदितेकृधि॒(स्वाहा᳚) || 14 ||

स्व॒स्ति¦मि॒त्रा॒व॒रु॒णा॒¦स्व॒स्ति¦प॒थ्ये॒¦रे॒व॒ति॒ | स्व॒स्ति¦नः॒¦इन्द्रः॑¦च॒¦अ॒ग्निः¦च॒¦स्व॒स्ति¦नः॒¦अ॒दि॒ते॒¦कृ॒धि॒ ||

स्व॒स्तिपन्था॒मनु॑चरेमसूर्याचन्द्र॒मसा᳚विव |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

पुन॒र्दद॒ताघ्न॑ताजान॒तासंग॑मेमहि॒(स्वाहा᳚) || 15 ||

स्व॒स्ति¦पन्था᳚‌म्¦अनु॑¦च॒रे॒म॒¦सू॒र्या॒च॒न्द्र॒मसौ᳚ऽ‌इव | पुनः॑¦दद॑ता¦अघ्न॑ता¦जा॒न॒ता¦स‌म्¦ग॒मे॒म॒हि॒ ||

[52] प्रश्यावाश्वेति सप्तदशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतोनुष्टुप् षष्ठीषोडशीसप्तदश्यःपंक्त्यः |{मंडल:5, सूक्त:52}{अनुवाक:4, सूक्त:8}{अष्टक:4, अध्याय:3}
प्रश्या᳚वाश्वधृष्णु॒याऽर्चा᳚म॒रुद्भि॒रृक्व॑भिः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

ये,अ॑द्रो॒घम॑नुष्व॒धंश्रवो॒मद᳚न्तिय॒ज्ञियाः᳚(स्वाहा᳚) || 1 || वर्ग:8

प्र¦श्या॒व॒।आ॒श्व॒¦धृ॒ष्णु॒ऽया¦अर्च॑¦म॒रुत्ऽभिः॑¦ऋक्व॑ऽभिः | ये¦अ॒द्रो॒घ‌म्¦अ॒नु॒ऽस्व॒ध‌म्¦श्रवः॑¦मद᳚न्ति¦य॒ज्ञियाः᳚ ||

तेहिस्थि॒रस्य॒शव॑सः॒सखा᳚यः॒सन्ति॑धृष्णु॒या |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

तेयाम॒न्नाधृ॑ष॒द्विन॒स्त्मना᳚पान्ति॒शश्व॑तः॒(स्वाहा᳚) || 2 ||

ते¦हि¦स्थि॒रस्य॑¦शव॑सः¦सखा᳚यः¦सन्ति॑¦धृ॒ष्णु॒ऽया | ते¦याम॑न्¦आ¦धृ॒ष॒त्ऽविनः॑¦त्मना᳚¦पा॒न्ति॒¦शश्व॑तः ||

तेस्प॒न्द्रासो॒नोक्षणोऽति॑ष्कन्दन्ति॒शर्व॑रीः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

म॒रुता॒मधा॒महो᳚दि॒विक्ष॒माच॑मन्महे॒(स्वाहा᳚) || 3 ||

ते¦स्प॒न्द्रासः॑¦न¦उ॒क्षणः॑¦अति॑¦स्क॒न्द॒न्ति॒¦शर्व॑रीः | म॒रुता᳚‌म्¦अध॑¦महः॑¦दि॒वि¦क्ष॒मा¦च॒¦म॒न्म॒हे॒ ||

म॒रुत्सु॑वोदधीमहि॒स्तोमं᳚य॒ज्ञंच॑धृष्णु॒या |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

विश्वे॒येमानु॑षायु॒गापान्ति॒मर्त्यं᳚रि॒षः(स्वाहा᳚) || 4 ||

म॒रुत्ऽसु॑¦वः॒¦द॒धी॒म॒हि॒¦स्तोम᳚‌म्¦य॒ज्ञ‌म्¦च॒¦धृ॒ष्णु॒ऽया | विश्वे᳚¦ये¦मानु॑षा¦यु॒गा¦पान्ति॑¦मर्त्य᳚‌म्¦रि॒षः ||

अर्ह᳚न्तो॒येसु॒दान॑वो॒नरो॒,असा᳚मिशवसः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

प्रय॒ज्ञंय॒ज्ञिये᳚भ्योदि॒वो,अ॑र्चाम॒रुद्भ्यः॒(स्वाहा᳚) || 5 ||

अर्ह᳚न्तः¦ये¦सु॒ऽदान॑वः¦नरः॑¦असा᳚मिऽशवसः | प्र¦य॒ज्ञ‌म्¦य॒ज्ञिये᳚भ्यः¦दि॒वः¦अ॒र्च॒¦म॒रुत्ऽभ्यः॑ ||

आरु॒क्मैरायु॒धानर॑ऋ॒ष्वा,ऋ॒ष्टीर॑सृक्षत |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

अन्वे᳚नाँ॒,अह॑वि॒द्युतो᳚म॒रुतो॒जज्झ॑तीरिवभा॒नुर॑र्त॒त्मना᳚दि॒वः(स्वाहा᳚) || 6 || वर्ग:9

आ¦रु॒क्मैः¦आ¦यु॒धा¦नरः॑¦ऋ॒ष्वाः¦ऋ॒ष्टीः¦अ॒सृ॒क्ष॒त॒ | अनु॑¦ए॒ना॒न्¦अह॑¦वि॒ऽद्युतः॑¦म॒रुतः॑¦जज्झ॑तीःऽ‌इव¦भा॒नुः¦अ॒र्त॒¦त्मना᳚¦दि॒वः ||

येवा᳚वृ॒धन्त॒पार्थि॑वा॒यउ॒राव॒न्तरि॑क्ष॒आ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

वृ॒जने᳚वान॒दीनां᳚स॒धस्थे᳚वाम॒होदि॒वः(स्वाहा᳚) || 7 ||

ये¦व॒वृ॒धन्त॑¦पार्थि॑वाः¦ये¦उ॒रौ¦अ॒न्तरि॑क्षे¦आ | वृ॒जने᳚¦वा॒¦न॒दीना᳚‌म्¦स॒धऽस्थे᳚¦वा॒¦म॒हः¦दि॒वः ||

शर्धो॒मारु॑त॒मुच्छं᳚सस॒त्यश॑वस॒मृभ्व॑सम् |{आत्रेयः श्यावाश्वः | मरुतः | पङ्क्तिः}

उ॒तस्म॒तेशु॒भेनरः॒प्रस्प॒न्द्रायु॑जत॒त्मना॒(स्वाहा᳚) || 8 ||

शर्धः॑¦मारु॑त‌म्¦उत्¦शं॒स॒¦स॒त्यऽश॑वस‌म्¦ऋभ्व॑स‌म् |
उ॒त¦स्म॒¦ते¦शु॒भे¦नरः॑¦प्र¦स्प॒न्द्राः¦यु॒ज॒त॒¦त्मना᳚ ||

उ॒तस्म॒तेपरु॑ष्ण्या॒मूर्णा᳚वसतशु॒न्ध्यवः॑ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

उ॒तप॒व्यारथा᳚ना॒मद्रिं᳚भिन्द॒न्त्योज॑सा॒(स्वाहा᳚) || 9 ||

उ॒त¦स्म॒¦ते¦परु॑ष्ण्या‌म्¦ऊर्णाः᳚¦व॒स॒त॒¦शु॒न्ध्यवः॑ | उ॒त¦प॒व्या¦रथा᳚ना‌म्¦अद्रि᳚‌म्¦भि॒न्द॒न्ति॒¦ओज॑सा ||

आप॑थयो॒विप॑थ॒योऽन्त॑स्पथा॒,अनु॑पथाः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

ए॒तेभि॒र्मह्यं॒नाम॑भिर्य॒ज्ञंवि॑ष्टा॒रओ᳚हते॒(स्वाहा᳚) || 10 ||

आप॑थयः¦विऽप॑थयः¦अन्तः॑ऽपथाः¦अनु॑ऽपथाः | ए॒तेभिः॑¦मह्य᳚‌म्¦नाम॑ऽभिः¦य॒ज्ञ‌म्¦वि॒ऽस्ता॒रः¦ओ॒ह॒ते॒ ||

अधा॒नरो॒न्यो᳚ह॒तेऽधा᳚नि॒युत॑ओहते |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

अधा॒पारा᳚वता॒,इति॑चि॒त्रारू॒पाणि॒दर्श्या॒(स्वाहा᳚) || 11 || वर्ग:10

अध॑¦नरः॑¦नि¦ओ॒ह॒ते॒¦अध॑¦नि॒ऽयुतः॑¦ओ॒ह॒ते॒ | अध॑¦पारा᳚वताः¦इति॑¦चि॒त्रा¦रू॒पाणि॑¦दर्श्या᳚ ||

छ॒न्दः॒स्तुभः॑कुभ॒न्यव॒उत्स॒माकी॒रिणो᳚नृतुः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

तेमे॒केचि॒न्नता॒यव॒ऊमा᳚,आसन्‌दृ॒शित्वि॒षे(स्वाहा᳚) || 12 ||

छ॒न्दः॒ऽस्तुभः॑¦कु॒भ॒न्यवः॑¦उत्स᳚‌म्¦आ¦की॒रिणः॑¦नृ॒तुः॒ | ते¦मे॒¦के¦चि॒त्¦न¦ता॒यवः॑¦ऊमाः᳚¦आ॒स॒न्¦दृ॒शि¦त्वि॒षे ||

यऋ॒ष्वा,ऋ॒ष्टिवि॑द्युतःक॒वयः॒सन्ति॑वे॒धसः॑ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

तमृ॑षे॒मारु॑तंग॒णंन॑म॒स्यार॒मया᳚गि॒रा(स्वाहा᳚) || 13 ||

ये¦ऋ॒ष्वाः¦ऋ॒ष्टिऽवि॑द्युतः¦क॒वयः॑¦सन्ति॑¦वे॒धसः॑ | त‌म्¦ऋ॒षे॒¦मारु॑त‌म्¦ग॒ण‌म्¦न॒म॒स्य¦र॒मय॑¦गि॒रा ||

अच्छ॑ऋषे॒मारु॑तंग॒णंदा॒नामि॒त्रंनयो॒षणा᳚ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

दि॒वोवा᳚धृष्णव॒ओज॑सास्तु॒ताधी॒भिरि॑षण्यत॒(स्वाहा᳚) || 14 ||

अच्छ॑¦ऋ॒षे॒¦मारु॑त‌म्¦ग॒ण‌म्¦दा॒ना¦मि॒त्र‌म्¦न¦यो॒षणा᳚ | दि॒वः¦वा॒¦धृ॒ष्ण॒वः॒¦ओज॑सा¦स्तु॒ताः¦धी॒भिः¦इ॒ष॒ण्य॒त॒ ||

नूम᳚न्वा॒नए᳚षांदे॒वाँ,अच्छा॒नव॒क्षणा᳚ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

दा॒नास॑चेतसू॒रिभि॒र्याम॑श्रुतेभिर॒ञ्जिभिः॒(स्वाहा᳚) || 15 ||

नु¦म॒न्वा॒नः¦ए॒षा॒‌म्¦दे॒वान्¦अच्छ॑¦न¦व॒क्षणा᳚ | दा॒ना¦स॒चे॒त॒¦सू॒रिऽभिः॑¦याम॑ऽश्रुतेभिः¦अं॒जिऽभिः॑ ||

प्रयेमे᳚बन्ध्वे॒षेगांवोच᳚न्तसू॒रयः॒पृश्निं᳚वोचन्तमा॒तर᳚म् |{आत्रेयः श्यावाश्वः | मरुतः | पङ्क्तिः}

अधा᳚पि॒तर॑मि॒ष्मिणं᳚रु॒द्रंवो᳚चन्त॒शिक्व॑सः॒(स्वाहा᳚) || 16 ||

प्र¦ये¦मे॒¦ब॒न्धु॒ऽए॒षे¦गा‌म्¦वोच᳚न्त¦सू॒रयः॑¦पृश्नि᳚‌म्¦वो॒च॒न्त॒¦मा॒तर᳚‌म् |
अध॑¦पि॒तर᳚‌म्¦इ॒ष्मिण᳚‌म्¦रु॒द्र‌म्¦वो॒च॒न्त॒¦शिक्व॑सः ||

स॒प्तमे᳚स॒प्तशा॒किन॒एक॑मेकाश॒ताद॑दुः |{आत्रेयः श्यावाश्वः | मरुतः | पङ्क्तिः}

य॒मुना᳚या॒मधि॑श्रु॒तमुद्राधो॒गव्यं᳚मृजे॒निराधो॒,अश्व्यं᳚मृजे॒(स्वाहा᳚) || 17 ||

स॒प्त¦मे॒¦स॒प्त¦शा॒किनः॑¦एक᳚‌म्ऽएका¦श॒ता¦द॒दुः॒ |
य॒मुना᳚या‌म्¦अधि॑¦श्रु॒त‌म्¦उत्¦राधः॑¦गव्य᳚‌म्¦मृ॒जे॒¦नि¦राधः॑¦अश्व्य᳚‌म्¦मृ॒जे॒ ||

[53] कोवेदेति षोळशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतः क्रमेणककुप्‌बृहत्यनुष्टुप्पुर‌उष्णिक्ककुप्‌ सतोबृहती सतोबृहती गायत्री सतोबृहती ककुप्‌ककुब्गायत्री सतोबृहती सतोबृहती ककुप्‌ सतोबृहत्यः |{मंडल:5, सूक्त:53}{अनुवाक:4, सूक्त:9}{अष्टक:4, अध्याय:3}
कोवे᳚द॒जान॑मेषां॒कोवा᳚पु॒रासु॒म्नेष्वा᳚सम॒रुता᳚म् |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्}

यद्‌यु॑यु॒ज्रेकि॑ला॒स्य॑१(अः॒)(स्वाहा᳚) || 1 || वर्ग:11

कः¦वे॒द॒¦जान᳚‌म्¦ए॒षा॒‌म्¦कः¦वा॒¦पु॒रा¦सु॒म्नेषु॑¦आ॒स॒¦म॒रुता᳚‌म् | यत्¦यु॒यु॒ज्रे¦कि॒ला॒स्यः॑ ||

ऐतान्‌रथे᳚षुत॒स्थुषः॒कःशु॑श्रावक॒थाय॑युः |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

कस्मै᳚सस्रुःसु॒दासे॒,अन्वा॒पय॒इळा᳚भिर्वृ॒ष्टयः॑स॒ह(स्वाहा᳚) || 2 ||

आ¦ए॒तान्¦रथे᳚षु¦त॒स्थुषः॑¦कः¦शु॒श्रा॒व॒¦क॒था¦य॒युः॒ |
कस्मै᳚¦स॒स्रुः॒¦सु॒ऽदासे᳚¦अनु॑¦आ॒पयः॑¦इळा᳚भिः¦वृ॒ष्टयः॑¦स॒ह ||

तेम॑आहु॒र्यआ᳚य॒युरुप॒द्युभि॒र्विभि॒र्मदे᳚ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

नरो॒मर्या᳚,अरे॒पस॑इ॒मान्‌पश्य॒न्निति॑ष्टुहि॒(स्वाहा᳚) || 3 ||

ते¦मे॒¦आ॒हुः॒¦ये¦आ॒ऽय॒युः¦उप॑¦द्युऽभिः॑¦विऽभिः॑¦मदे᳚ | नरः॑¦मर्याः᳚¦अ॒रे॒पसः॑¦इ॒मान्¦पश्य॑न्¦इति॑¦स्तु॒हि॒ ||

ये,अ॒ञ्जिषु॒येवाशी᳚षु॒स्वभा᳚नवःस्र॒क्षुरु॒क्मेषु॑खा॒दिषु॑ |{आत्रेयः श्यावाश्वः | मरुतः | पुरउष्णिक्}

श्रा॒यारथे᳚षु॒धन्व॑सु॒(स्वाहा᳚) || 4 ||

ये¦अं॒जिषु॑¦ये¦वाशी᳚षु¦स्वऽभा᳚नवः¦स्र॒क्षु¦रु॒क्मेषु॑¦खा॒दिषु॑ | श्रा॒याः¦रथे᳚षु¦धन्व॑ऽसु ||

यु॒ष्माकं᳚स्मा॒रथाँ॒,अनु॑मु॒देद॑धेमरुतोजीरदानवः |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्}

वृ॒ष्टीद्यावो᳚य॒तीरि॑व॒(स्वाहा᳚) || 5 ||

यु॒ष्माक᳚‌म्¦स्म॒¦रथा᳚न्¦अनु॑¦मु॒दे¦द॒धे॒¦म॒रु॒तः॒¦जी॒र॒ऽदा॒न॒वः॒ | वृ॒ष्टी¦द्यावः॑¦य॒तीःऽ‌इ᳚व ||

आयंनरः॑सु॒दान॑वोददा॒शुषे᳚दि॒वःकोश॒मचु॑च्यवुः |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

विप॒र्जन्यं᳚सृजन्ति॒रोद॑सी॒,अनु॒धन्व॑नायन्तिवृ॒ष्टयः॒(स्वाहा᳚) || 6 || वर्ग:12

आ¦य‌म्¦नरः॑¦सु॒ऽदान॑वः¦द॒दा॒शुषे᳚¦दि॒वः¦कोश᳚‌म्¦अचु॑च्यवुः |
वि¦प॒र्जन्य᳚‌म्¦सृ॒ज॒न्ति॒¦रोद॑सी॒ इति॑¦अनु॑¦धन्व॑ना¦य॒न्ति॒¦वृ॒ष्टयः॑ ||

त॒तृ॒दा॒नाःसिन्ध॑वः॒,क्षोद॑सा॒रजः॒प्रस॑स्रुर्धे॒नवो᳚यथा |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

स्य॒न्ना,अश्वा᳚,इ॒वाध्व॑नोवि॒मोच॑ने॒वियद्‌वर्त᳚न्तए॒न्य॑१(अः॒)(स्वाहा᳚) || 7 ||

त॒तृ॒दा॒नाः¦सिन्ध॑वः¦क्षोद॑सा¦रजः॑¦प्र¦स॒स्रुः॒¦धे॒नवः॑¦य॒था॒ |
स्य॒न्नाः¦अश्वाः᳚ऽ‌इव¦अध्व॑नः¦वि॒ऽमोच॑ने¦वि¦यत्¦वर्त᳚न्ते¦ए॒न्यः॑ ||

आया᳚तमरुतोदि॒वआन्तरि॑क्षाद॒मादु॒त |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

माव॑स्थातपरा॒वतः॒(स्वाहा᳚) || 8 ||

आ¦या॒त॒¦म॒रु॒तः॒¦दि॒वः¦आ¦अ॒न्तरि॑क्षात्¦अ॒मात्¦उ॒त | मा¦अव॑¦स्था॒त॒¦प॒रा॒ऽवतः॑ ||

मावो᳚र॒सानि॑तभा॒कुभा॒क्रुमु॒र्मावः॒सिन्धु॒र्निरी᳚रमत् |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

मावः॒परि॑ष्ठात्‌स॒रयुः॑पुरी॒षिण्य॒स्मे,इत्‌सु॒म्नम॑स्तुवः॒(स्वाहा᳚) || 9 ||

मा¦वः॒¦र॒सा¦अनि॑तभा¦कुभा᳚¦क्रुमुः॑¦मा¦वः॒¦सिन्धुः॑¦नि¦री॒र॒म॒त् |
मा¦वः॒¦परि॑¦स्था॒त्¦स॒रयुः॑¦पु॒री॒षिणी᳚¦अ॒स्मे इति॑¦इत्¦सु॒म्न‌म्¦अ॒स्तु॒¦वः॒ ||

तंवः॒शर्धं॒रथा᳚नांत्वे॒षंग॒णंमारु॑तं॒नव्य॑सीनाम् |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्}

अनु॒प्रय᳚न्तिवृ॒ष्टयः॒(स्वाहा᳚) || 10 ||

त‌म्¦वः॒¦शर्ध᳚‌म्¦रथा᳚ना‌म्¦त्वे॒ष‌म्¦ग॒ण‌म्¦मारु॑त‌म्¦नव्य॑सीना‌म् | अनु॑¦प्र¦य॒न्ति॒¦वृ॒ष्टयः॑ ||

शर्धं᳚शर्धंवएषां॒व्रातं᳚व्रातंग॒णंग॑णंसुश॒स्तिभिः॑ |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्}

अनु॑क्रामेमधी॒तिभिः॒(स्वाहा᳚) || 11 || वर्ग:13

शर्ध᳚‌म्ऽशर्ध‌म्¦वः॒¦ए॒षा॒‌म्¦व्रात᳚‌म्ऽव्रात‌म्¦ग॒ण‌म्ऽग॑ण‌म्¦सु॒श॒स्तिऽभिः॑ | अनु॑¦क्रा॒मे॒म॒¦धी॒तिऽभिः॑ ||

कस्मा᳚,अ॒द्यसुजा᳚तायरा॒तह᳚व्याय॒प्रय॑युः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

ए॒नायामे᳚नम॒रुतः॒(स्वाहा᳚) || 12 ||

कस्मै᳚¦अ॒द्य¦सुऽजा᳚ताय¦रा॒तऽह᳚व्याय¦प्र¦य॒युः॒ | ए॒ना¦यामे᳚न¦म॒रुतः॑ ||

येन॑तो॒काय॒तन॑यायधा॒न्य१॑(अं॒)बीजं॒वह॑ध्वे॒,अक्षि॑तम् |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

अ॒स्मभ्यं॒तद्‌ध॑त्तन॒यद्व॒ईम॑हे॒राधो᳚वि॒श्वायु॒सौभ॑ग॒‌म्(स्वाहा᳚) || 13 ||

येन॑¦तो॒काय॑¦तन॑याय¦धा॒न्य᳚‌म्¦बीज᳚‌म्¦वह॑ध्वे¦अक्षि॑त‌म् |
अ॒स्मभ्य᳚‌म्¦तत्¦ध॒त्त॒न॒¦यत्¦वः॒¦ईम॑हे¦राधः॑¦वि॒श्वऽआ᳚यु¦सौभ॑ग‌म् ||

अती᳚यामनि॒दस्ति॒रःस्व॒स्तिभि᳚र्हि॒त्वाव॒द्यमरा᳚तीः |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

वृ॒ष्ट्वीशंयोराप॑उ॒स्रिभे᳚ष॒जंस्याम॑मरुतःस॒ह(स्वाहा᳚) || 14 ||

अति॑¦इ॒या॒म॒¦नि॒दः¦ति॒रः¦स्व॒स्तिऽभिः॑¦हि॒त्वा¦अ॒व॒द्य‌म्¦अरा᳚तीः |
वृ॒ष्ट्वी¦स‌म्¦योः¦आपः॑¦उ॒स्रि¦भे॒ष॒ज‌म्¦स्याम॑¦म॒रु॒तः॒¦स॒ह ||

सु॒दे॒वःस॑महासतिसु॒वीरो᳚नरोमरुतः॒समर्त्यः॑ |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्}

यंत्राय॑ध्वे॒स्याम॒ते(स्वाहा᳚) || 15 ||

सु॒ऽदे॒वः¦स॒म॒ह॒¦अ॒स॒ति॒¦सु॒ऽवीरः॑¦न॒रः॒¦म॒रु॒तः॒¦सः¦मर्त्यः॑ | य‌म्¦त्राय॑ध्वे¦स्याम॑¦ते ||

स्तु॒हिभो॒जान्‌त्स्तु॑व॒तो,अ॑स्य॒याम॑नि॒रण॒न्‌गावो॒नयव॑से |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

य॒तःपूर्वाँ᳚,इव॒सखीँ॒रनु॑ह्वयगि॒रागृ॑णीहिका॒मिनः॒(स्वाहा᳚) || 16 ||

स्तु॒हि¦भो॒जान्¦स्तु॒व॒तः¦अ॒स्य॒¦याम॑नि¦रण॑न्¦गावः॑¦न¦यव॑से |
य॒तः¦पूर्वा᳚न्ऽ‌इव¦सखी᳚न्¦अनु॑¦ह्व॒य॒¦गि॒रा¦गृ॒णी॒हि॒¦का॒मिनः॑ ||

[54] प्रशर्धायेति पंचदशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतोजगती चतुर्दशीत्रिष्टुप् |{मंडल:5, सूक्त:54}{अनुवाक:4, सूक्त:10}{अष्टक:4, अध्याय:3}
प्रशर्धा᳚य॒मारु॑ताय॒स्वभा᳚नवइ॒मांवाच॑मनजापर्वत॒च्युते᳚ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

घ॒र्म॒स्तुभे᳚दि॒वआपृ॑ष्ठ॒यज्व॑नेद्यु॒म्नश्र॑वसे॒महि॑नृ॒म्णम॑र्चत॒(स्वाहा᳚) || 1 || वर्ग:14

प्र¦शर्धा᳚य¦मारु॑ताय¦स्वऽभा᳚नवे¦इ॒मा‌म्¦वाच᳚‌म्¦अ॒न॒ज॒¦प॒र्व॒त॒ऽच्युते᳚ |
घ॒र्म॒ऽस्तुभे᳚¦दि॒वः¦आ¦पृ॒ष्ठ॒ऽयज्व॑ने¦द्यु॒म्नऽश्र॑वसे¦महि॑¦नृ॒म्ण‌म्¦अ॒र्च॒त॒ ||

प्रवो᳚मरुतस्तवि॒षा,उ॑द॒न्यवो᳚वयो॒वृधो᳚,अश्व॒युजः॒परि॑ज्रयः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

संवि॒द्युता॒दध॑ति॒वाश॑तित्रि॒तःस्वर॒न्त्यापो॒ऽवना॒परि॑ज्रयः॒(स्वाहा᳚) || 2 ||

प्र¦वः॒¦म॒रु॒तः॒¦त॒वि॒षाः¦उ॒द॒न्यवः॑¦व॒यः॒ऽवृधः॑¦अ॒श्व॒ऽयुजः॑¦परि॑ऽज्रयः |
स‌म्¦वि॒ऽद्युता᳚¦दध॑ति¦वाश॑ति¦त्रि॒तः¦स्वर᳚न्ति¦आपः॑¦अ॒वना᳚¦परि॑ऽज्रयः ||

वि॒द्युन्म॑हसो॒नरो॒,अश्म॑दिद्यवो॒वात॑त्विषोम॒रुतः॑पर्वत॒च्युतः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अ॒ब्द॒याचि॒न्मुहु॒राह्रा᳚दुनी॒वृतः॑स्त॒नय॑दमारभ॒सा,उदो᳚जसः॒(स्वाहा᳚) || 3 ||

वि॒द्युत्ऽम॑हसः¦नरः॑¦अश्म॑ऽदिद्यवः¦वात॑ऽत्विषः¦म॒रुतः॑¦प॒र्व॒त॒ऽच्युतः॑ |
अ॒ब्द॒ऽया¦चि॒त्¦मुहुः॑¦आ¦ह्रा॒दु॒नि॒ऽवृतः॑¦स्त॒नय॑त्।आमाः¦र॒भ॒साः¦उत्ऽओ᳚जसः ||

व्य१॑(अ॒)क्तून्‌रु॑द्रा॒व्यहा᳚निशिक्वसो॒व्य१॑(अ॒)न्तरि॑क्षं॒विरजां᳚सिधूतयः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

वियदज्राँ॒,अज॑थ॒नाव॑ईंयथा॒विदु॒र्गाणि॑मरुतो॒नाह॑रिष्यथ॒(स्वाहा᳚) || 4 ||

वि¦अ॒क्तून्¦रु॒द्राः॒¦वि¦अहा᳚नि¦शि॒क्व॒सः॒¦वि¦अ॒न्तरि॑क्ष‌म्¦वि¦रजां᳚सि¦धू॒त॒यः॒ |
वि¦यत्¦अज्रा᳚न्¦अज॑थ¦नावः॑¦ई॒‌म्¦य॒था॒¦वि¦दुः॒ऽगानि॑¦म॒रु॒तः॒¦न¦अह॑¦रि॒ष्य॒थ॒ ||

तद्‌वी॒र्यं᳚वोमरुतोमहित्व॒नंदी॒र्घंत॑तान॒सूर्यो॒नयोज॑नम् |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

एता॒नयामे॒,अगृ॑भीतशोचि॒षोऽन॑श्वदां॒यन्न्यया᳚तनागि॒रिम्(स्वाहा᳚) || 5 ||

तत्¦वी॒र्य᳚‌म्¦वः॒¦म॒रु॒तः॒¦म॒हि॒ऽत्व॒न‌म्¦दी॒र्घ‌म्¦त॒ता॒न॒¦सूर्यः॑¦न¦योज॑न‌म् |
एताः᳚¦न¦यामे᳚¦अगृ॑भीतऽशोचिषः¦अन॑श्वऽदा‌म्¦यत्¦नि¦अया᳚तन¦गि॒रि‌म् ||

अभ्रा᳚जि॒शर्धो᳚मरुतो॒यद᳚र्ण॒संमोष॑थावृ॒क्षंक॑प॒नेव॑वेधसः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अध॑स्मानो,अ॒रम॑तिंसजोषस॒श्चक्षु॑रिव॒यन्त॒मनु॑नेषथासु॒गम्(स्वाहा᳚) || 6 || वर्ग:15

अभ्रा᳚जि¦शर्धः॑¦म॒रु॒तः॒¦यत्¦अ॒र्ण॒स‌म्¦मोष॑थ¦वृ॒क्ष‌म्¦क॒प॒नाऽ‌इ᳚व¦वे॒ध॒सः॒ |
अध॑¦स्म॒¦नः॒¦अ॒रम॑ति‌म्¦स॒ऽजो॒ष॒सः॒¦चक्षुः॑ऽ‌इव¦यन्त᳚‌म्¦अनु॑¦ने॒ष॒थ॒¦सु॒ऽग‌म् ||

नसजी᳚यतेमरुतो॒नह᳚न्यते॒नस्रे᳚धति॒नव्य॑थते॒नरि॑ष्यति |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

नास्य॒राय॒उप॑दस्यन्ति॒नोतय॒ऋषिं᳚वा॒यंराजा᳚नंवा॒सुषू᳚दथ॒(स्वाहा᳚) || 7 ||

न¦सः¦जी॒य॒ते॒¦म॒रु॒तः॒¦न¦ह॒न्य॒ते॒¦न¦स्रे॒ध॒ति॒¦न¦व्य॒थ॒ते॒¦न¦रि॒ष्य॒ति॒ |
न¦अ॒स्य॒¦रायः॑¦उप॑¦द॒स्य॒न्ति॒¦न¦ऊ॒तयः॑¦ऋषि᳚‌म्¦वा॒¦य‌म्¦राजा᳚न‌म्¦वा॒¦सुसू᳚दथ ||

नि॒युत्व᳚न्तोग्राम॒जितो॒यथा॒नरो᳚ऽर्य॒मणो॒नम॒रुतः॑कब॒न्धिनः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

पिन्व॒न्त्युत्सं॒यदि॒नासो॒,अस्व॑र॒न्व्यु᳚न्दन्तिपृथि॒वींमध्वो॒,अन्ध॑सा॒(स्वाहा᳚) || 8 ||

नि॒युत्व᳚न्तः¦ग्रा॒म॒ऽजितः॑¦यथा᳚¦नरः॑¦अ॒र्य॒मणः॑¦न¦म॒रुतः॑¦क॒व॒न्धिनः॑ |
पिन्व᳚न्ति¦उत्स᳚‌म्¦यत्¦इ॒नासः॑¦अस्व॑रन्¦वि¦उ॒न्द॒न्ति॒¦पृ॒थि॒वी‌म्¦मध्वः॑¦अन्ध॑सा ||

प्र॒वत्व॑ती॒यंपृ॑थि॒वीम॒रुद्भ्यः॑प्र॒वत्व॑ती॒द्यौर्भ॑वतिप्र॒यद्भ्यः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

प्र॒वत्व॑तीःप॒थ्या᳚,अ॒न्तरि॑क्ष्याःप्र॒वत्व᳚न्तः॒पर्व॑ताजी॒रदा᳚नवः॒(स्वाहा᳚) || 9 ||

प्र॒वत्व॑ती¦इ॒य‌म्¦पृ॒थि॒वी¦म॒रुत्ऽभ्यः॑¦प्र॒वत्व॑ती¦द्यौः¦भ॒व॒ति॒¦प्र॒यत्ऽभ्यः॑ |
प्र॒वत्व॑तीः¦प॒थ्याः᳚¦अ॒न्तरि॑क्ष्याः¦प्र॒वत्व᳚न्तः¦पर्व॑ताः¦जी॒रऽदा᳚नवः ||

यन्म॑रुतःसभरसःस्वर्णरः॒सूर्य॒उदि॑ते॒मद॑थादिवोनरः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

नवोऽश्वाः᳚श्रथय॒न्ताह॒सिस्र॑तःस॒द्यो,अ॒स्याध्व॑नःपा॒रम॑श्नुथ॒(स्वाहा᳚) || 10 ||

यत्¦म॒रु॒तः॒¦स॒ऽभ॒र॒सः॒¦स्वः॒ऽन॒रः॒¦सूर्ये᳚¦उत्ऽ‌इ᳚ते¦मद॑थ¦दि॒वः॒¦न॒रः॒ |
न¦वः॒¦अश्वाः᳚¦श्र॒थ॒य॒न्त॒¦अह॑¦सिस्र॑तः¦स॒द्यः¦अ॒स्य¦अध्व॑नः¦पा॒र‌म्¦अ॒श्नु॒थ॒ ||

अंसे᳚षुवऋ॒ष्टयः॑प॒त्सुखा॒दयो॒वक्ष॑स्सुरु॒क्माम॑रुतो॒रथे॒शुभः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अ॒ग्निभ्रा᳚जसोवि॒द्युतो॒गभ॑स्त्योः॒शिप्राः᳚शी॒र्षसु॒वित॑ताहिर॒ण्ययीः᳚(स्वाहा᳚) || 11 || वर्ग:16

अंसे᳚षु¦वः॒¦ऋ॒ष्टयः॑¦प॒त्ऽसु¦खा॒दयः॑¦वक्षः॑ऽसु¦रु॒क्माः¦म॒रु॒तः॒¦रथे᳚¦शुभः॑ |
अ॒ग्निऽभ्रा᳚जसः¦वि॒ऽद्युतः॑¦गभ॑स्त्योः¦शिप्राः᳚¦शी॒र्षऽसु॑¦विऽत॑ताः¦हि॒र॒ण्ययीः᳚ ||

तंनाक॑म॒र्यो,अगृ॑भीतशोचिषं॒रुश॒त्‌पिप्प॑लंमरुतो॒विधू᳚नुथ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

सम॑च्यन्तवृ॒जनाति॑त्विषन्त॒यत्स्वर᳚न्ति॒घोषं॒वित॑तमृता॒यवः॒(स्वाहा᳚) || 12 ||

त‌म्¦नाक᳚‌म्¦अ॒र्यः¦अगृ॑भीतऽशोचिष‌म्¦रुश॑त्¦पिप्प॑ल‌म्¦म॒रु॒तः॒¦वि¦धू॒नु॒थ॒ |
स‌म्¦अ॒च्य॒न्त॒¦वृ॒जना᳚¦अति॑त्विषन्त¦यत्¦स्वर᳚न्ति¦घोष᳚‌म्¦विऽत॑त‌म्¦ऋ॒त॒ऽयवः॑ ||

यु॒ष्माद॑त्तस्यमरुतोविचेतसोरा॒यःस्या᳚मर॒थ्यो॒३॑(ओ॒)वय॑स्वतः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

नयोयुच्छ॑तिति॒ष्यो॒३॑(ओ॒)यथा᳚दि॒वो॒३॑(ओ॒)ऽस्मेरा᳚रन्तमरुतःसह॒स्रिण॒‌म्(स्वाहा᳚) || 13 ||

यु॒ष्माऽद॑त्तस्य¦म॒रु॒तः॒¦वि॒ऽचे॒त॒सः॒¦रा॒यः¦स्या॒म॒¦र॒थ्यः॑¦वय॑स्वतः |
न¦यः¦युच्छ॑ति¦ति॒ष्यः॑¦यथा᳚¦दि॒वः¦अ॒स्मे इति॑¦र॒र॒न्त॒¦म॒रु॒तः॒¦स॒ह॒स्रिण᳚‌म् ||

यू॒यंर॒यिंम॑रुतःस्पा॒र्हवी᳚रंयू॒यमृषि॑मवथ॒साम॑विप्रम् |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

यू॒यमर्व᳚न्तंभर॒ताय॒वाजं᳚यू॒यंध॑त्थ॒राजा᳚नंश्रुष्टि॒मन्त॒‌म्(स्वाहा᳚) || 14 ||

यू॒य‌म्¦र॒यि‌म्¦म॒रु॒तः॒¦स्पा॒र्हऽवी᳚र‌म्¦यू॒य‌म्¦ऋषि᳚‌म्¦अ॒व॒थ॒¦साम॑ऽविप्र‌म् |
यू॒य‌म्¦अर्व᳚न्त‌म्¦भ॒र॒ताय॑¦वाज᳚‌म्¦यू॒य‌म्¦ध॒त्थ॒¦राजा᳚न‌म्¦श्रु॒ष्टि॒ऽमन्त᳚‌म् ||

तद्‌वो᳚यामि॒द्रवि॑णंसद्यऊतयो॒येना॒स्व१॑(अ॒)र्णत॒तना᳚म॒नॄँर॒भि |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

इ॒दंसुमे᳚मरुतोहर्यता॒वचो॒यस्य॒तरे᳚म॒तर॑साश॒तंहिमाः᳚(स्वाहा᳚) || 15 ||

तत्¦वः॒¦या॒मि॒¦द्रवि॑ण‌म्¦स॒द्यः॒ऽऊ॒त॒यः॒¦येन॑¦स्वः॑¦न¦त॒तना᳚म¦नॄन्¦अ॒भि |
इ॒द‌म्¦सु¦मे॒¦म॒रु॒तः॒¦ह॒र्य॒त॒¦वचः॑¦यस्य॑¦तरे᳚म¦तर॑सा¦श॒त‌म्¦हिमाः᳚ ||

[55] प्रयज्यवइति दशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतो जगत्यंत्यात्रिष्टुप् |{मंडल:5, सूक्त:55}{अनुवाक:4, सूक्त:11}{अष्टक:4, अध्याय:3}
प्रय॑ज्यवोम॒रुतो॒भ्राज॑दृष्टयोबृ॒हद्वयो᳚दधिरेरु॒क्मव॑क्षसः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

ईय᳚न्ते॒,अश्वैः᳚सु॒यमे᳚भिरा॒शुभिः॒शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत॒(स्वाहा᳚) || 1 || वर्ग:17

प्रऽय॑ज्यवः¦म॒रुतः॑¦भ्राज॑त्ऽऋष्टयः¦बृ॒हत्¦वयः॑¦द॒धि॒रे॒¦रु॒क्मऽव॑क्षसः |
ईय᳚न्ते¦अश्वैः᳚¦सु॒ऽयमे᳚भिः¦आ॒शुऽभिः॑¦शुभ᳚‌म्¦या॒ता‌म्¦अनु॑¦रथाः᳚¦अ॒वृ॒त्स॒त॒ ||

स्व॒यंद॑धिध्वे॒तवि॑षीं॒यथा᳚वि॒दबृ॒हन्म॑हान्तउर्वि॒याविरा᳚जथ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

उ॒तान्तरि॑क्षंममिरे॒व्योज॑सा॒शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत॒(स्वाहा᳚) || 2 ||

स्व॒य‌म्¦द॒धि॒ध्वे॒¦तवि॑षी‌म्¦यथा᳚¦वि॒द¦बृ॒हत्¦म॒हा॒न्तः॒¦उ॒र्वि॒या¦वि¦रा॒ज॒थ॒ |
उ॒त¦अ॒न्तरि॑क्ष‌म्¦म॒मि॒रे॒¦वि¦ओज॑सा¦शुभ᳚‌म्¦या॒ता‌म्¦अनु॑¦रथाः᳚¦अ॒वृ॒त्स॒त॒ ||

सा॒कंजा॒ताःसु॒भ्वः॑सा॒कमु॑क्षि॒ताःश्रि॒येचि॒दाप्र॑त॒रंवा᳚वृधु॒र्नरः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

वि॒रो॒किणः॒सूर्य॑स्येवर॒श्मयः॒शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत॒(स्वाहा᳚) || 3 ||

सा॒क‌म्¦जा॒ताः¦सु॒ऽभ्वः॑¦सा॒क‌म्¦उ॒क्षि॒ताः¦श्रि॒ये¦चि॒त्¦आ¦प्र॒ऽत॒र‌म्¦व॒वृ॒धुः॒¦नरः॑ |
वि॒ऽरो॒किणः॑¦सूर्य॑स्यऽ‌इव¦र॒श्मयः॑¦शुभ᳚‌म्¦या॒ता‌म्¦अनु॑¦रथाः᳚¦अ॒वृ॒त्स॒त॒ ||

आ॒भू॒षेण्यं᳚वोमरुतोमहित्व॒नंदि॑दृ॒क्षेण्यं॒सूर्य॑स्येव॒चक्ष॑णम् |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

उ॒तो,अ॒स्माँ,अ॑मृत॒त्वेद॑धातन॒शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत॒(स्वाहा᳚) || 4 ||

आ॒ऽभू॒षेण्य᳚‌म्¦वः॒¦म॒रु॒तः॒¦म॒हि॒ऽत्व॒न‌म्¦दि॒दृ॒क्षेण्य᳚‌म्¦सूर्य॑स्यऽ‌इव¦चक्ष॑ण‌म् |
उ॒तो इति॑¦अ॒स्मान्¦अ॒मृ॒त॒ऽत्वे¦द॒धा॒त॒न॒¦शुभ᳚‌म्¦या॒ता‌म्¦अनु॑¦रथाः᳚¦अ॒वृ॒त्स॒त॒ ||

उदी᳚रयथामरुतःसमुद्र॒तोयू॒यंवृ॒ष्टिंव॑र्षयथापुरीषिणः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

नवो᳚दस्रा॒,उप॑दस्यन्तिधे॒नवः॒शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत॒(स्वाहा᳚) || 5 ||

उत्¦ई॒र॒य॒थ॒¦म॒रु॒तः॒¦स॒मु॒द्र॒तः¦यू॒य‌म्¦वृ॒ष्टि‌म्¦व॒र्ष॒य॒थ॒¦पु॒री॒षि॒णः॒ |
न¦वः॒¦द॒स्रा॒¦उप॑¦द॒स्य॒न्ति॒¦धे॒नवः॑¦शुभ᳚‌म्¦या॒ता‌म्¦अनु॑¦रथाः᳚¦अ॒वृ॒त्स॒त॒ ||

यदश्वा᳚न्‌धू॒र्षुपृष॑ती॒रयु॑ग्ध्वंहिर॒ण्यया॒न्‌प्रत्यत्काँ॒,अमु॑ग्ध्वम् |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

विश्वा॒,इत्‌स्पृधो᳚मरुतो॒व्य॑स्यथ॒शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत॒(स्वाहा᳚) || 6 || वर्ग:18

यत्¦अश्वा᳚न्¦धूः॒ऽसु¦पृष॑तीः¦अयु॑ग्ध्व‌म्¦हि॒र॒ण्यया᳚न्¦प्रति॑¦अत्का᳚न्¦अमु॑ग्ध्व‌म् |
विश्वाः᳚¦इत्¦स्पृधः॑¦म॒रु॒तः॒¦वि¦अ॒स्य॒थ॒¦शुभ᳚‌म्¦या॒ता‌म्¦अनु॑¦रथाः᳚¦अ॒वृ॒त्स॒त॒ ||

नपर्व॑ता॒नन॒द्यो᳚वरन्तवो॒यत्राचि॑ध्वंमरुतो॒गच्छ॒थेदु॒तत् |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

उ॒तद्यावा᳚पृथि॒वीया᳚थना॒परि॒शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत॒(स्वाहा᳚) || 7 ||

न¦पर्व॑ताः¦न¦न॒द्यः॑¦व॒र॒न्त॒¦वः॒¦यत्र॑¦अचि॑ध्व‌म्¦म॒रु॒तः॒¦गच्छ॑थ¦इत्¦ऊँ॒ इति॑¦तत् |
उ॒त¦द्यावा᳚पृथि॒वी इति॑¦या॒थ॒न॒¦परि॑¦शुभ᳚‌म्¦या॒ता‌म्¦अनु॑¦रथाः᳚¦अ॒वृ॒त्स॒त॒ ||

यत्‌पू॒र्व्यंम॑रुतो॒यच्च॒नूत॑नं॒यदु॒द्यते᳚वसवो॒यच्च॑श॒स्यते᳚ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

विश्व॑स्य॒तस्य॑भवथा॒नवे᳚दसः॒शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत॒(स्वाहा᳚) || 8 ||

यत्¦पू॒र्व्य‌म्¦म॒रु॒तः॒¦यत्¦च॒¦नूत॑न‌म्¦यत्¦उ॒द्यते᳚¦व॒स॒वः॒¦यत्¦च॒¦श॒स्यते᳚ |
विश्व॑स्य¦तस्य॑¦भ॒व॒थ॒¦नवे᳚दसः¦शुभ᳚‌म्¦या॒ता‌म्¦अनु॑¦रथाः᳚¦अ॒वृ॒त्स॒त॒ ||

मृ॒ळत॑नोमरुतो॒माव॑धिष्टना॒ऽस्मभ्यं॒शर्म॑बहु॒लंविय᳚न्तन |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अधि॑स्तो॒त्रस्य॑स॒ख्यस्य॑गातन॒शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत॒(स्वाहा᳚) || 9 ||

मृ॒ळत॑¦नः॒¦म॒रु॒तः॒¦मा¦व॒धि॒ष्ट॒न॒¦अ॒स्मभ्य᳚‌म्¦शर्म॑¦ब॒हु॒ल‌म्¦वि¦य॒न्त॒न॒ |
अधि॑¦स्तो॒त्रस्य॑¦स॒ख्यस्य॑¦गा॒त॒न॒¦शुभ᳚‌म्¦या॒ता‌म्¦अनु॑¦रथाः᳚¦अ॒वृ॒त्स॒त॒ ||

यू॒यम॒स्मान्‌न॑यत॒वस्यो॒,अच्छा॒निरं᳚ह॒तिभ्यो᳚मरुतोगृणा॒नाः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

जु॒षध्वं᳚नोह॒व्यदा᳚तिंयजत्राव॒यंस्या᳚म॒पत॑योरयी॒णाम्(स्वाहा᳚) || 10 ||

यू॒य‌म्¦अ॒स्मान्¦न॒य॒त॒¦वस्यः॑¦अच्छ॑¦निः¦अं॒ह॒तिऽभ्यः॑¦म॒रु॒तः॒¦गृ॒णा॒नाः |
जु॒षध्व᳚‌म्¦नः॒¦ह॒व्यऽदा᳚ति‌म्¦य॒ज॒त्राः॒¦व॒य‌म्¦स्या॒म॒¦पत॑यः¦र॒यी॒णा‌म् ||

[56] अग्नेशर्धंतमिति नवर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतोबृहती तृतीया सप्तम्यौसतोबृहत्यौ |{मंडल:5, सूक्त:56}{अनुवाक:4, सूक्त:12}{अष्टक:4, अध्याय:3}
अग्ने॒शर्ध᳚न्त॒माग॒णंपि॒ष्टंरु॒क्मेभि॑र॒ञ्जिभिः॑ |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

विशो᳚,अ॒द्यम॒रुता॒मव॑ह्वयेदि॒वश्चि॑द्‌रोच॒नादधि॒(स्वाहा᳚) || 1 || वर्ग:19

अग्ने᳚¦शर्ध᳚न्त‌म्¦आ¦ग॒ण‌म्¦पि॒ष्ट‌म्¦रु॒क्मेभिः॑¦अं॒जिऽभिः॑ |
विशः॑¦अ॒द्य¦म॒रुता᳚‌म्¦अव॑¦ह्व॒ये॒¦दि॒वः¦चि॒त्¦रो॒च॒नात्¦अधि॑ ||

यथा᳚चि॒न्मन्य॑सेहृ॒दातदिन्मे᳚जग्मुरा॒शसः॑ |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

येते॒नेदि॑ष्ठं॒हव॑नान्या॒गम॒न्तान्व॑र्धभी॒मसं᳚दृशः॒(स्वाहा᳚) || 2 ||

यथा᳚¦चि॒त्¦मन्य॑से¦हृ॒दा¦तत्¦इत्¦मे॒¦ज॒ग्मुः॒¦आ॒ऽशसः॑ |
ये¦ते॒¦नेदि॑ष्ठ‌म्¦हव॑नानि¦आ॒ऽगम॑न्¦तान्¦व॒र्ध॒¦भी॒मऽसं᳚दृशः ||

मी॒ळ्हुष्म॑तीवपृथि॒वीपरा᳚हता॒मद᳚न्त्येत्य॒स्मदा |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

ऋक्षो॒नवो᳚मरुतः॒शिमी᳚वाँ॒,अमो᳚दु॒ध्रोगौरि॑वभीम॒युः(स्वाहा᳚) || 3 ||

मी॒ळ्हुष्म॑तीऽ‌इव¦पृ॒थि॒वी¦परा᳚ऽहता¦मद᳚न्ती¦ए॒ति॒¦अ॒स्मत्¦आ |
ऋक्षः॑¦न¦वः॒¦म॒रु॒तः॒¦शिमी᳚ऽवान्¦अमः॑¦दु॒ध्रः¦गौःऽ‌इ᳚व¦भी॒म॒ऽयुः ||

नियेरि॒णन्त्योज॑सा॒वृथा॒गावो॒नदु॒र्धुरः॑ |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

अश्मा᳚नंचित्‌स्व॒र्य१॑(अं॒)पर्व॑तंगि॒रिंप्रच्या᳚वयन्ति॒याम॑भिः॒(स्वाहा᳚) || 4 ||

नि¦ये¦रि॒णन्ति॑¦ओज॑सा¦वृथा᳚¦गावः॑¦न¦दुः॒ऽधुरः॑ |
अश्मा᳚न‌म्¦चि॒त्¦स्व॒र्य᳚‌म्¦पर्व॑त‌म्¦गि॒रि‌म्¦प्र¦च्य॒व॒य॒न्ति॒¦याम॑ऽभिः ||

उत्ति॑ष्ठनू॒नमे᳚षां॒स्तोमैः॒समु॑क्षितानाम् |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

म॒रुतां᳚पुरु॒तम॒मपू᳚र्व्यं॒गवां॒सर्ग॑मिवह्वये॒(स्वाहा᳚) || 5 ||

उत्¦ति॒ष्ठ॒¦नू॒न‌म्¦ए॒षा॒‌म्¦स्तोमैः᳚¦स‌म्।औ᳚क्षिताना‌म् |
म॒रुता᳚‌म्¦पु॒रु॒ऽतम᳚‌म्¦अपू᳚र्व्य‌म्¦गवा᳚‌म्¦सर्ग᳚‌म्ऽ‌इव¦ह्व॒ये॒ ||

यु॒ङ्ग्ध्वंह्यरु॑षी॒रथे᳚यु॒ङ्ग्ध्वंरथे᳚षुरो॒हितः॑ |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

यु॒ङ्ग्ध्वंहरी᳚,अजि॒राधु॒रिवोळ्ह॑वे॒वहि॑ष्ठाधु॒रिवोळ्ह॑वे॒(स्वाहा᳚) || 6 || वर्ग:20

यु॒ङ्ग्ध्व‌म्¦हि¦अरु॑षीः¦रथे᳚¦यु॒ङ्ग्ध्व‌म्¦रथे᳚षु¦रो॒हितः॑ |
यु॒ङ्ग्ध्व‌म्¦हरी॒ इति॑¦अ॒जि॒रा¦धु॒रि¦वोळ्ह॑वे¦वहि॑ष्ठा¦धु॒रि¦वोळ्ह॑वे ||

उ॒तस्यवा॒ज्य॑रु॒षस्तु॑वि॒ष्वणि॑रि॒हस्म॑धायिदर्श॒तः |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

मावो॒यामे᳚षुमरुतश्चि॒रंक॑र॒त्प्रतंरथे᳚षुचोदत॒(स्वाहा᳚) || 7 ||

उ॒त¦स्यः¦वा॒जी¦अ॒रु॒षः¦तु॒वि॒ऽस्वणिः॑¦इ॒ह¦स्म॒¦धा॒यि॒¦द॒र्श॒तः |
मा¦वः॒¦यामे᳚षु¦म॒रु॒तः॒¦चि॒र‌म्¦क॒र॒त्¦प्र¦त‌म्¦रथे᳚षु¦चो॒द॒त॒ ||

रथं॒नुमारु॑तंव॒यंश्र॑व॒स्युमाहु॑वामहे |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

आयस्मि᳚न्‌त॒स्थौसु॒रणा᳚नि॒बिभ्र॑ती॒सचा᳚म॒रुत्सु॑रोद॒सी(स्वाहा᳚) || 8 ||

रथ᳚‌म्¦नु¦मारु॑त‌म्¦व॒य‌म्¦श्र॒व॒स्यु‌म्¦आ¦हु॒वा॒म॒हे॒ |
आ¦यस्मि॑न्¦त॒स्थौ¦सु॒ऽरणा᳚नि¦बिभ्र॑ती¦सचा᳚¦म॒रुत्ऽसु॑¦रो॒द॒सी ||

तंवः॒शर्धं᳚रथे॒शुभं᳚त्वे॒षंप॑न॒स्युमाहु॑वे |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

यस्मि॒न्‌त्सुजा᳚तासु॒भगा᳚मही॒यते॒सचा᳚म॒रुत्सु॑मीळ्हु॒षी(स्वाहा᳚) || 9 ||

त‌म्¦वः॒¦शर्ध᳚‌म्¦र॒थे॒ऽशुभ᳚‌म्¦त्वे॒ष‌म्¦प॒न॒स्यु‌म्¦आ¦हु॒वे॒ |
यस्मि॑न्¦सुऽजा᳚ता¦सु॒ऽभगा᳚¦म॒ही॒यते᳚¦सचा᳚¦म॒रुत्ऽसु॑¦मी॒ळ्हु॒षी ||

[57] आरुद्रासइत्यष्टर्चस्यसूक्तस्यात्रेयः श्यावाश्वोमरुतोजगत्यंत्येद्वेत्रिष्टुभौ |{मंडल:5, सूक्त:57}{अनुवाक:5, सूक्त:1}{अष्टक:4, अध्याय:3}
आरु॑द्रास॒इन्द्र॑वन्तःस॒जोष॑सो॒हिर᳚ण्यरथाःसुवि॒ताय॑गन्तन |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

इ॒यंवो᳚,अ॒स्मत्‌प्रति॑हर्यतेम॒तिस्तृ॒ष्णजे॒नदि॒वउत्सा᳚,उद॒न्यवे॒(स्वाहा᳚) || 1 || वर्ग:21

आ¦रु॒द्रा॒सः॒¦इन्द्र॑ऽवन्तः¦स॒ऽजोष॑सः¦हिर᳚ण्यऽरथाः¦सु॒वि॒ताय॑¦ग॒न्त॒न॒ |
इ॒य‌म्¦वः॒¦अ॒स्मत्¦प्रति॑¦ह॒र्य॒ते॒¦म॒तिः¦तृ॒ष्णऽजे᳚¦न¦दि॒वः¦उत्साः᳚¦उ॒द॒न्यवे᳚ ||

वाशी᳚मन्तऋष्टि॒मन्तो᳚मनी॒षिणः॑सु॒धन्वा᳚न॒इषु॑मन्तोनिष॒ङ्गिणः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

स्वश्वाः᳚स्थसु॒रथाः᳚पृश्निमातरःस्वायु॒धाम॑रुतोयाथना॒शुभ॒‌म्(स्वाहा᳚) || 2 ||

वाशी᳚ऽमन्तः¦ऋ॒ष्टि॒ऽमन्तः॑¦म॒नी॒षिणः॑¦सु॒ऽधन्वा᳚नः¦इषु॑ऽमन्तः¦नि॒ष॒ङ्गिणः॑ |
सु॒।आश्वाः᳚¦स्थ॒¦सु॒ऽरथाः᳚¦पृ॒श्नि॒ऽमा॒त॒रः॒¦सु॒ऽआ॒यु॒धाः¦म॒रु॒तः॒¦या॒थ॒न॒¦शुभ᳚‌म् ||

धू॒नु॒थद्यांपर्व॑तान्दा॒शुषे॒वसु॒निवो॒वना᳚जिहते॒याम॑नोभि॒या |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

को॒पय॑थपृथि॒वींपृ॑श्निमातरःशु॒भेयदु॑ग्राः॒पृष॑ती॒रयु॑ग्ध्व॒‌म्(स्वाहा᳚) || 3 ||

धू॒नु॒थ¦द्या‌म्¦पर्व॑तान्¦दा॒शुषे᳚¦वसु॑¦नि¦वः॒¦वना᳚¦जि॒ह॒ते॒¦याम॑नः¦भि॒या |
को॒पय॑थ¦पृ॒थि॒वी‌म्¦पृ॒श्नि॒ऽमा॒त॒रः॒¦शु॒भे¦यत्¦उ॒ग्राः॒¦पृष॑तीः¦अयु॑ग्ध्व‌म् ||

वात॑त्विषोम॒रुतो᳚व॒र्षनि᳚र्णिजोय॒मा,इ॑व॒सुस॑दृशःसु॒पेश॑सः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

पि॒शङ्गा᳚श्वा,अरु॒णाश्वा᳚,अरे॒पसः॒प्रत्व॑क्षसोमहि॒नाद्यौरि॑वो॒रवः॒(स्वाहा᳚) || 4 ||

वात॑ऽत्विषः¦म॒रुतः॑¦व॒र्षऽनि᳚र्निजः¦य॒माःऽ‌इ᳚व¦सुऽस॑दृशः¦सु॒ऽपेश॑सः |
पि॒शङ्ग॑।आश्वाः¦अ॒रु॒ण।आ॑श्वाः¦अ॒रे॒पसः॑¦प्रऽत्व॑क्षसः¦म॒हि॒ना¦द्यौःऽ‌इ᳚व¦उ॒रवः॑ ||

पु॒रु॒द्र॒प्सा,अ᳚ञ्जि॒मन्तः॑सु॒दान॑वस्त्वे॒षसं᳚दृशो,अनव॒भ्ररा᳚धसः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

सु॒जा॒तासो᳚ज॒नुषा᳚रु॒क्मव॑क्षसोदि॒वो,अ॒र्का,अ॒मृतं॒नाम॑भेजिरे॒(स्वाहा᳚) || 5 ||

पु॒रु॒ऽद्र॒प्साः¦अं॒जि॒ऽमन्तः॑¦सु॒ऽदान॑वः¦त्वे॒षऽसं᳚दृशः¦अ॒न॒व॒भ्रऽरा᳚धसः |
सु॒ऽजा॒तासः॑¦ज॒नुषा᳚¦रु॒क्मऽव॑क्षसः¦दि॒वः¦अ॒र्काः¦अ॒मृत᳚‌म्¦नाम॑¦भे॒जि॒रे॒ ||

ऋ॒ष्टयो᳚वोमरुतो॒,अंस॑यो॒रधि॒सह॒ओजो᳚बा॒ह्वोर्वो॒बलं᳚हि॒तम् |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

नृ॒म्णाशी॒र्षस्वायु॑धा॒रथे᳚षुवो॒विश्वा᳚वः॒श्रीरधि॑त॒नूषु॑पिपिशे॒(स्वाहा᳚) || 6 || वर्ग:22

ऋ॒ष्टयः॑¦वः॒¦म॒रु॒तः॒¦अंस॑योः¦अधि॑¦सहः॑¦ओजः॑¦बा॒ह्वोः¦वः॒¦बल᳚‌म्¦हि॒त‌म् |
नृ॒म्णा¦शी॒र्षऽसु॑¦आयु॑धा¦रथे᳚षु¦वः॒¦विश्वा᳚¦वः॒¦श्रीः¦अधि॑¦त॒नूषु॑¦पि॒पि॒शे॒ ||

गोम॒दश्वा᳚व॒द्‌रथ॑वत्‌सु॒वीरं᳚च॒न्द्रव॒द्‌राधो᳚मरुतोददानः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

प्रश॑स्तिंनःकृणुतरुद्रियासोभक्षी॒यवोऽव॑सो॒दैव्य॑स्य॒(स्वाहा᳚) || 7 ||

गोऽम॑त्¦अश्व॑ऽवत्¦रथ॑ऽवत्¦सु॒ऽवीर᳚‌म्¦च॒न्द्रऽव॑त्¦राधः॑¦म॒रु॒तः॒¦द॒द॒¦नः॒ |
प्रऽश॑स्ति‌म्¦नः॒¦कृ॒णु॒त॒¦रु॒द्रि॒या॒सः॒¦भ॒क्षी॒य¦वः॒¦अव॑सः¦दैव्य॑स्य ||

ह॒येनरो॒मरु॑तोमृ॒ळता᳚न॒स्तुवी᳚मघासो॒,अमृ॑ता॒ऋत॑ज्ञाः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

सत्य॑श्रुतः॒कव॑यो॒युवा᳚नो॒बृह॑द्गिरयोबृ॒हदु॒क्षमा᳚णाः॒(स्वाहा᳚) || 8 ||

ह॒ये¦नरः॑¦मरु॑तः¦मृ॒ळत॑¦नः॒¦तुवि॑ऽमघासः¦अमृ॑ताः¦ऋत॑ऽज्ञाः |
सत्य॑ऽश्रुतः¦कव॑यः¦युवा᳚नः¦बृह॑त्ऽगिरयः¦बृ॒हत्¦उ॒क्षमा᳚णाः ||

[58] तमुनूनमित्यष्टर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतस्त्रिष्टुप् |{मंडल:5, सूक्त:58}{अनुवाक:5, सूक्त:2}{अष्टक:4, अध्याय:3}
तमु॑नू॒नंतवि॑षीमन्तमेषांस्तु॒षेग॒णंमारु॑तं॒नव्य॑सीनाम् |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

यआ॒श्व॑श्वा॒,अम॑व॒द्‌वह᳚न्तउ॒तेशि॑रे,अ॒मृत॑स्यस्व॒राजः॒(स्वाहा᳚) || 1 || वर्ग:23

त‌म्¦ऊँ॒ इति॑¦नू॒न‌म्¦तवि॑षीऽमन्त‌म्¦ए॒षा॒‌म्¦स्तु॒षे¦ग॒ण‌म्¦मारु॑त‌म्¦नव्य॑सीना‌म् |
ये¦आ॒शु।आ॑श्वाः¦अम॑ऽवत्¦वह᳚न्ते¦उ॒त¦ई॒शि॒रे॒¦अ॒मृत॑स्य¦स्व॒ऽराजः॑ ||

त्वे॒षंग॒णंत॒वसं॒खादि॑हस्तं॒धुनि᳚व्रतंमा॒यिनं॒दाति॑वारम् |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

म॒यो॒भुवो॒ये,अमि॑तामहि॒त्वावन्द॑स्वविप्रतुवि॒राध॑सो॒नॄ॒‌न्(स्वाहा᳚) || 2 ||

त्वे॒ष‌म्¦ग॒ण‌म्¦त॒वस᳚‌म्¦खादि॑ऽहस्त‌म्¦धुनि॑ऽव्रत‌म्¦मा॒यिन᳚‌म्¦दाति॑ऽवार‌म् |
म॒यः॒ऽभुवः॑¦ये¦अमि॑ताः¦म॒हि॒ऽत्वा¦वन्द॑स्व¦वि॒प्र॒¦तु॒वि॒ऽराध॑सः¦नॄन् ||

आवो᳚यन्तूदवा॒हासो᳚,अ॒द्यवृ॒ष्टिंयेविश्वे᳚म॒रुतो᳚जु॒नन्ति॑ |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

अ॒यंयो,अ॒ग्निर्म॑रुतः॒समि॑द्धए॒तंजु॑षध्वंकवयोयुवानः॒(स्वाहा᳚) || 3 ||

आ¦वः॒¦य॒न्तु॒¦उ॒द॒ऽवा॒हासः॑¦अ॒द्य¦वृ॒ष्टि‌म्¦ये¦विश्वे᳚¦म॒रुतः॑¦जु॒नन्ति॑ |
अ॒य‌म्¦यः¦अ॒ग्निः¦म॒रु॒तः॒¦स‌म्ऽ‌इ᳚द्धः¦ए॒त‌म्¦जु॒ष॒ध्व॒‌म्¦क॒व॒यः॒¦यु॒वा॒नः॒ ||

यू॒यंराजा᳚न॒मिर्यं॒जना᳚यविभ्वत॒ष्टंज॑नयथायजत्राः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

यु॒ष्मदे᳚तिमुष्टि॒हाबा॒हुजू᳚तोयु॒ष्मत्‌सद॑श्वोमरुतःसु॒वीरः॒(स्वाहा᳚) || 4 ||

यू॒य‌म्¦राजा᳚न‌म्¦इर्य᳚‌म्¦जना᳚य¦वि॒भ्व॒ऽत॒ष्ट‌म्¦ज॒न॒य॒थ॒¦य॒ज॒त्राः॒ |
यु॒ष्मत्¦ए॒ति॒¦मु॒ष्टि॒ऽहा¦बा॒हुऽजू᳚तः¦यु॒ष्मत्¦सत्।आ॑श्वः¦म॒रु॒तः॒¦सु॒ऽवीरः॑ ||

अ॒रा,इ॒वेदच॑रमा॒,अहे᳚व॒प्रप्र॑जायन्ते॒,अक॑वा॒महो᳚भिः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

पृश्नेः᳚पु॒त्रा,उ॑प॒मासो॒रभि॑ष्ठाः॒स्वया᳚म॒त्याम॒रुतः॒संमि॑मिक्षुः॒(स्वाहा᳚) || 5 ||

अ॒राःऽ‌इ᳚व¦इत्¦अच॑रमाः¦अहा᳚ऽ‌इव¦प्रऽप्र॑¦जा॒य॒न्ते॒¦अक॑वाः¦महः॑ऽभिः |
पृश्नेः᳚¦पु॒त्राः¦उ॒प॒ऽमासः॑¦रभि॑ष्ठाः¦स्वया᳚¦म॒त्या¦म॒रुतः॑¦स‌म्¦मि॒मि॒क्षुः॒ ||

यत्‌प्राया᳚सिष्ट॒पृष॑तीभि॒रश्वै᳚र्वीळुप॒विभि᳚र्मरुतो॒रथे᳚भिः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

क्षोद᳚न्त॒आपो᳚रिण॒तेवना॒न्यवो॒स्रियो᳚वृष॒भःक्र᳚न्दतु॒द्यौः(स्वाहा᳚) || 6 ||

यत्¦प्र¦अया᳚सिष्ट¦पृष॑तीभिः¦अश्वैः᳚¦वी॒ळु॒प॒विऽभिः॑¦म॒रु॒तः॒¦रथे᳚भिः |
क्षोद᳚न्ते¦आपः॑¦रि॒ण॒ते¦वना᳚नि¦अव॑¦उ॒स्रियः॑¦वृ॒ष॒भः¦क्र॒न्द॒तु॒¦द्यौः ||

प्रथि॑ष्ट॒याम᳚न्‌पृथि॒वीचि॑देषां॒भर्ते᳚व॒गर्भं॒स्वमिच्छवो᳚धुः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

वाता॒न्‌ह्यश्वा᳚न्‌धु॒र्या᳚युयु॒ज्रेव॒र्षंस्वेदं᳚चक्रिरेरु॒द्रिया᳚सः॒(स्वाहा᳚) || 7 ||

प्रथि॑ष्ट¦याम॑न्¦पृ॒थि॒वी¦चि॒त्¦ए॒षा॒‌म्¦भर्ता᳚ऽ‌इव¦गर्भ᳚‌म्¦स्व‌म्¦इत्¦शवः॑¦धुः॒ |
वाता᳚न्¦हि¦अश्वा᳚न्¦धु॒रि¦आ॒ऽयु॒यु॒ज्रे¦व॒र्ष‌म्¦स्वेद᳚‌म्¦च॒क्रि॒रे॒¦रु॒द्रिया᳚सः ||

ह॒येनरो॒मरु॑तोमृ॒ळता᳚न॒स्तुवी᳚मघासो॒,अमृ॑ता॒ऋत॑ज्ञाः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

सत्य॑श्रुतः॒कव॑यो॒युवा᳚नो॒बृह॑द्गिरयोबृ॒हदु॒क्षमा᳚णाः॒(स्वाहा᳚) || 8 ||

ह॒ये¦नरः॑¦मरु॑तः¦मृ॒ळत॑¦नः॒¦तुवि॑ऽमघासः¦अमृ॑ताः¦ऋत॑ऽज्ञाः |
सत्य॑ऽश्रुतः¦कव॑यः¦युवा᳚नः¦बृह॑त्ऽगिरयः¦बृ॒हत्¦उ॒क्षमा᳚णाः ||

[59] प्रवःस्पळित्यष्टर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतो जगत्यंत्या त्रिष्टुप् |{मंडल:5, सूक्त:59}{अनुवाक:5, सूक्त:3}{अष्टक:4, अध्याय:3}
प्रवः॒स्पळ॑क्रन्‌त्सुवि॒ताय॑दा॒वनेऽर्चा᳚दि॒वेप्रपृ॑थि॒व्या,ऋ॒तंभ॑रे |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

उ॒क्षन्ते॒,अश्वा॒न्‌तरु॑षन्त॒आरजोऽनु॒स्वंभा॒नुंश्र॑थयन्ते,अर्ण॒वैः(स्वाहा᳚) || 1 || वर्ग:24

प्र¦वः॒¦स्पट्¦अ॒क्र॒न्¦सु॒वि॒ताय॑¦दा॒वने᳚¦अर्च॑¦दि॒वे¦प्र¦पृ॒थि॒व्यै¦ऋ॒त‌म्¦भ॒रे॒ |
उ॒क्षन्ते᳚¦अश्वा᳚न्¦तरु॑षन्ते¦आ¦रजः॑¦अनु॑¦स्व‌म्¦भा॒नु‌म्¦श्र॒थ॒य॒न्ते॒¦अ॒र्ण॒वैः ||

अमा᳚देषांभि॒यसा॒भूमि॑रेजति॒नौर्नपू॒र्णाक्ष॑रति॒व्यथि᳚र्य॒ती |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

दू॒रे॒दृशो॒येचि॒तय᳚न्त॒एम॑भिर॒न्तर्म॒हेवि॒दथे᳚येतिरे॒नरः॒(स्वाहा᳚) || 2 ||

अमा᳚त्¦ए॒षा॒‌म्¦भि॒यसा᳚¦भूमिः॑¦ए॒ज॒ति॒¦नौः¦न¦पू॒र्णा¦क्ष॒र॒ति॒¦व्यथिः॑¦य॒ती |
दू॒रे॒ऽदृशः॑¦ये¦चि॒तय᳚न्ते¦एम॑ऽभिः¦अ॒न्तः¦म॒हे¦वि॒दथे᳚¦ये॒ति॒रे॒¦नरः॑ ||

गवा᳚मिवश्रि॒यसे॒शृङ्ग॑मुत्त॒मंसूर्यो॒नचक्षू॒रज॑सोवि॒सर्ज॑ने |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अत्या᳚,इवसु॒भ्व१॑(अ॒)श्चार॑वःस्थन॒मर्या᳚,इवश्रि॒यसे᳚चेतथानरः॒(स्वाहा᳚) || 3 ||

गवा᳚‌म्ऽ‌इव¦श्रि॒यसे᳚¦शृङ्ग᳚‌म्¦उ॒त्ऽत॒म‌म्¦सूर्यः॑¦न¦चक्षुः॑¦रज॑सः¦वि॒ऽसर्ज॑ने |
अत्याः᳚ऽ‌इव¦सु॒ऽभ्वः॑¦चार॑वः¦स्थ॒न॒¦मर्याः᳚ऽ‌इव¦श्रि॒यसे᳚¦चे॒त॒थ॒¦न॒रः॒ ||

कोवो᳚म॒हान्ति॑मह॒तामुद॑श्नव॒त्कस्काव्या᳚मरुतः॒कोह॒पौंस्या᳚ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

यू॒यंह॒भूमिं᳚कि॒रणं॒नरे᳚जथ॒प्रयद्‌भर॑ध्वेसुवि॒ताय॑दा॒वने॒(स्वाहा᳚) || 4 ||

कः¦वः॒¦म॒हान्ति॑¦म॒ह॒ता‌म्¦उत्¦अ॒श्न॒व॒त्¦कः¦काव्या᳚¦म॒रु॒तः॒¦कः¦ह॒¦पौंस्या᳚ |
यू॒य‌म्¦ह॒¦भूमि᳚‌म्¦कि॒रण᳚‌म्¦न¦रे॒ज॒थ॒¦प्र¦यत्¦भर॑ध्वे¦सु॒वि॒ताय॑¦दा॒वने᳚ ||

अश्वा᳚,इ॒वेद॑रु॒षासः॒सब᳚न्धवः॒शूरा᳚,इवप्र॒युधः॒प्रोतयु॑युधुः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

मर्या᳚,इवसु॒वृधो᳚वावृधु॒र्नरः॒सूर्य॑स्य॒चक्षुः॒प्रमि॑नन्तिवृ॒ष्टिभिः॒(स्वाहा᳚) || 5 ||

अश्वाः᳚ऽ‌इव¦इत्¦अ॒रु॒षासः॑¦सऽब᳚न्धवः¦शूराः᳚ऽ‌इव¦प्र॒ऽयुधः॑¦प्र¦उ॒त¦यु॒यु॒धुः॒ |
मर्याः᳚ऽ‌इव¦सु॒ऽवृधः॑¦व॒वृ॒धुः॒¦नरः॑¦सूर्य॑स्य¦चक्षुः॑¦प्र¦मि॒न॒न्ति॒¦वृ॒ष्टिऽभिः॑ ||

ते,अ॑ज्ये॒ष्ठा,अक॑निष्ठासउ॒द्भिदोऽम॑ध्यमासो॒मह॑सा॒विवा᳚वृधुः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

सु॒जा॒तासो᳚ज॒नुषा॒पृश्नि॑मातरोदि॒वोमर्या॒,आनो॒,अच्छा᳚जिगातन॒(स्वाहा᳚) || 6 ||

ते¦अ॒ज्ये॒ष्ठाः¦अक॑निष्ठासः¦उ॒त्ऽभिदः॑¦अम॑ध्यमासः¦मह॑सा¦वि¦व॒वृ॒धुः॒ |
सु॒ऽजा॒तासः॑¦ज॒नुषा᳚¦पृश्नि॑ऽमातरः¦दि॒वः¦मर्याः᳚¦आ¦नः॒¦अच्छ॑¦जि॒गा॒त॒न॒ ||

वयो॒नयेश्रेणीः᳚प॒प्तुरोज॒साऽन्ता᳚न्दि॒वोबृ॑ह॒तःसानु॑न॒स्परि॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अश्वा᳚सएषामु॒भये॒यथा᳚वि॒दुःप्रपर्व॑तस्यनभ॒नूँर॑चुच्यवुः॒(स्वाहा᳚) || 7 ||

वयः॑¦न¦ये¦श्रेणीः᳚¦प॒प्तुः¦ओज॑सा¦अन्ता᳚न्¦दि॒वः¦बृ॒ह॒तः¦सानु॑नः¦परि॑ |
अश्वा᳚सः¦ए॒षा॒‌म्¦उ॒भये᳚¦यथा᳚¦वि॒दुः¦प्र¦पर्व॑तस्य¦न॒भ॒नून्¦अ॒चु॒च्य॒वुः॒ ||

मिमा᳚तु॒द्यौरदि॑तिर्वी॒तये᳚नः॒संदानु॑चित्रा,उ॒षसो᳚यतन्ताम् |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

आचु॑च्यवुर्दि॒व्यंकोश॑मे॒तऋषे᳚रु॒द्रस्य॑म॒रुतो᳚गृणा॒नाः(स्वाहा᳚) || 8 ||

मिमा᳚तु¦द्यौः¦अदि॑तिः¦वी॒तये᳚¦नः॒¦स‌म्¦दानु॑ऽचित्राः¦उ॒षसः॑¦य॒त॒न्ता॒‌म् |
आ¦अ॒चु॒च्य॒वुः॒¦दि॒व्य‌म्¦कोश᳚‌म्¦ए॒ते¦ऋषे᳚¦रु॒द्रस्य॑¦म॒रुतः॑¦गृ॒णा॒नाः ||

[60] ईळेअग्निमित्यष्टर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतस्त्रिष्टुबंत्येद्वेजगत्यौ | (आग्नेयं च वेत्यनुक्रमण्युक्तेरग्रामरुतोवा) |{मंडल:5, सूक्त:60}{अनुवाक:5, सूक्त:4}{अष्टक:4, अध्याय:3}
ईळे᳚,अ॒ग्निंस्वव॑सं॒नमो᳚भिरि॒हप्र॑स॒त्तोविच॑यत्‌कृ॒तंनः॑ |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

रथै᳚रिव॒प्रभ॑रेवाज॒यद्भिः॑प्रदक्षि॒णिन्म॒रुतां॒स्तोम॑मृध्या॒‌म्(स्वाहा᳚) || 1 || वर्ग:25

इळे᳚¦अ॒ग्नि‌म्¦सु॒।आव॑स‌म्¦नमः॑ऽभिः¦इ॒ह¦प्र॒ऽस॒त्तः¦वि¦च॒य॒त्¦कृ॒त‌म्¦नः॒ |
रथैः᳚ऽ‌इव¦प्र¦भ॒रे॒¦वा॒ज॒यत्ऽभिः॑¦प्र॒ऽद॒क्षि॒णित्¦म॒रुता᳚‌म्¦स्तोम᳚‌म्¦ऋ॒ध्या॒‌म् ||

आयेत॒स्थुःपृष॑तीषुश्रु॒तासु॑सु॒खेषु॑रु॒द्राम॒रुतो॒रथे᳚षु |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

वना᳚चिदुग्राजिहते॒निवो᳚भि॒यापृ॑थि॒वीचि॑द्‌रेजते॒पर्व॑तश्चि॒‌त्(स्वाहा᳚) || 2 ||

आ¦ये¦त॒स्थुः¦पृष॑तीषु¦श्रु॒तासु॑¦सु॒ऽखेषु॑¦रु॒द्राः¦म॒रुतः॑¦रथे᳚षु |
वना᳚¦चि॒त्¦उ॒ग्राः॒¦जि॒ह॒ते॒¦नि¦वः॒¦भि॒या¦पृ॒थि॒वी¦चि॒त्¦रे॒ज॒ते॒¦पर्व॑तः¦चि॒त् ||

पर्व॑तश्चि॒न्महि॑वृ॒द्धोबि॑भायदि॒वश्चि॒त्‌सानु॑रेजतस्व॒नेवः॑ |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

यत्‌क्रीळ॑थमरुतऋष्टि॒मन्त॒आप॑इवस॒ध्र्य᳚ञ्चोधवध्वे॒(स्वाहा᳚) || 3 ||

पर्व॑तः¦चि॒त्¦महि॑¦वृ॒द्धः¦बि॒भा॒य॒¦दि॒वः¦चि॒त्¦सानु॑¦रे॒ज॒त॒¦स्व॒ने¦वः॒ |
यत्¦क्रीळ॑थ¦म॒रु॒तः॒¦ऋ॒ष्टि॒ऽमन्तः॑¦आपः॑ऽ‌इव¦स॒ध्र्यं᳚चः¦ध॒व॒ध्वे॒ ||

व॒रा,इ॒वेद्‌रै᳚व॒तासो॒हिर᳚ण्यैर॒भिस्व॒धाभि॑स्त॒न्वः॑पिपिश्रे |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

श्रि॒येश्रेयां᳚सस्त॒वसो॒रथे᳚षुस॒त्रामहां᳚सिचक्रिरेत॒नूषु॒(स्वाहा᳚) || 4 ||

व॒राःऽ‌इ᳚व¦इत्¦रै॒व॒तासः॑¦हिर᳚ण्यैः¦अ॒भि¦स्व॒धाभिः॑¦त॒न्वः॑¦पि॒पि॒श्रे॒ |
श्रि॒ये¦श्रेयां᳚सः¦त॒वसः॑¦रथे᳚षु¦स॒त्रा¦महां᳚सि¦च॒क्रि॒रे॒¦त॒नूषु॑ ||

अ॒ज्ये॒ष्ठासो॒,अक॑निष्ठासए॒तेसंभ्रात॑रोवावृधुः॒सौभ॑गाय |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

युवा᳚पि॒तास्वपा᳚रु॒द्रए᳚षांसु॒दुघा॒पृश्निः॑सु॒दिना᳚म॒रुद्भ्यः॒(स्वाहा᳚) || 5 ||

अ॒ज्ये॒ष्ठासः॑¦अक॑निष्ठासः¦ए॒ते¦स‌म्¦भ्रात॑रः¦व॒वृ॒धुः॒¦सौभ॑गाय |
युवा᳚¦पि॒ता¦सु॒।आपा᳚¦रु॒द्रः¦ए॒षा॒‌म्¦सु॒ऽदुघा᳚¦पृश्निः॑¦सु॒ऽदिना᳚¦म॒रुत्ऽभ्यः॑ ||

यदु॑त्त॒मेम॑रुतोमध्य॒मेवा॒यद्‌वा᳚व॒मेसु॑भगासोदि॒विष्ठ |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

अतो᳚नोरुद्रा,उ॒तवा॒न्व१॑(अ॒)स्याऽग्ने᳚वि॒त्ताद्ध॒विषो॒यद्‌यजा᳚म॒(स्वाहा᳚) || 6 ||

यत्¦उ॒त्ऽत॒मे¦म॒रु॒तः॒¦म॒ध्य॒मे¦वा॒¦यत्¦वा॒¦अ॒व॒मे¦सु॒ऽभ॒गा॒सः॒¦दि॒वि¦स्थ |
अतः॑¦नः॒¦रु॒द्राः॒¦उ॒त¦वा॒¦नु¦अ॒स्य॒¦अग्ने᳚¦वि॒त्तात्¦ह॒विषः॑¦यत्¦यजा᳚म ||

अ॒ग्निश्च॒यन्म॑रुतोविश्ववेदसोदि॒वोवह॑ध्व॒उत्त॑रा॒दधि॒ष्णुभिः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

तेम᳚न्दसा॒नाधुन॑योरिशादसोवा॒मंध॑त्त॒यज॑मानायसुन्व॒ते(स्वाहा᳚) || 7 ||

अ॒ग्निः¦च॒¦यत्¦म॒रु॒तः॒¦वि॒श्व॒ऽवे॒द॒सः॒¦दि॒वः¦वह॑ध्वे¦उत्ऽत॑रात्¦अधि॑¦स्नुऽभिः॑ |
ते¦म॒न्द॒सा॒नाः¦धुन॑यः¦रि॒शा॒द॒सः॒¦वा॒म‌म्¦ध॒त्त॒¦यज॑मानाय¦सु॒न्व॒ते ||

अग्ने᳚म॒रुद्भिः॑शु॒भय॑द्भि॒रृक्व॑भिः॒सोमं᳚पिबमन्दसा॒नोग॑ण॒श्रिभिः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

पा॒व॒केभि᳚र्विश्वमि॒न्वेभि॑रा॒युभि॒र्वैश्वा᳚नरप्र॒दिवा᳚के॒तुना᳚स॒जूः(स्वाहा᳚) || 8 ||

अग्ने᳚¦म॒रुत्ऽभिः॑¦शु॒भय॑त्ऽभिः¦ऋक्व॑ऽभिः¦सोम᳚‌म्¦पि॒ब॒¦म॒न्द॒सा॒नः¦ग॒ण॒श्रिऽभिः॑ |
पा॒व॒केभिः॑¦वि॒श्व॒‌म्ऽ‌इ॒न्वेभिः॑¦आ॒युऽभिः॑¦वैश्वा᳚नर¦प्र॒ऽदिवा᳚¦के॒तुना᳚¦स॒ऽजूः ||

[61] केष्ठानरइत्येकोनविंशत्यृचस्य सूक्तस्यश्यावाश्वः आद्यानांचतसृणां यईम्‌वहन्तइत्यादिषण्णांचमरुतः पंचम्यादिचतसृणांतरंतमहिषीशशीयसी उतमेरपदित्यस्याः पुरुमीळ्होयोमेधेनूनामित्यस्यास्तरंतः एतंमेस्तोममित्यादि तिसृणांरथवीतिर्गायत्री पंचम्यनुष्टुप्‌नवमीसतोबृहती (अवत्यौपुरुमीळ्हतरं तौवैददश्वी रथवीतिर्दार्भ्यः) |{मंडल:5, सूक्त:61}{अनुवाक:5, सूक्त:5}{अष्टक:4, अध्याय:3}
केष्ठा᳚नरः॒श्रेष्ठ॑तमा॒यएक॑एकआय॒य |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

प॒र॒मस्याः᳚परा॒वतः॒(स्वाहा᳚) || 1 || वर्ग:26

के¦स्थ॒¦न॒रः॒¦श्रेष्ठ॑ऽतमाः¦ये¦एकः॑ऽएकः¦आ॒ऽय॒य | प॒र॒मस्याः᳚¦प॒रा॒ऽवतः॑ ||

क्व१॑(अ॒)वोऽश्वाः॒क्वा॒३॑(आ॒)भीश॑वःक॒थंशे᳚कक॒थाय॑य |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

पृ॒ष्ठेसदो᳚न॒सोर्यमः॒(स्वाहा᳚) || 2 ||

क्व॑¦वः॒¦अश्वाः᳚¦क्व॑¦अ॒भीश॑वः¦क॒थ‌म्¦शे॒क॒¦क॒था¦य॒य॒ | पृ॒ष्ठे¦सदः॑¦न॒सोः¦यमः॑ ||

ज॒घने॒चोद॑एषां॒विस॒क्थानि॒नरो᳚यमुः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

पु॒त्र॒कृ॒थेनजन॑यः॒(स्वाहा᳚) || 3 ||

ज॒घने᳚¦चोदः॑¦ए॒षा॒‌म्¦वि¦स॒क्थानि॑¦नरः॑¦य॒मुः॒ | पु॒त्र॒ऽकृ॒थे¦न¦जन॑यः ||

परा᳚वीरासएतन॒मर्या᳚सो॒भद्र॑जानयः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

अ॒ग्नि॒तपो॒यथास॑थ॒(स्वाहा᳚) || 4 ||

परा᳚¦वी॒रा॒सः॒¦इ॒त॒न॒¦मर्या᳚सः¦भद्र॑ऽजानयः | अ॒ग्नि॒ऽतपः॑¦यथा᳚¦अस॑थ ||

सन॒त्‌साश्व्यं᳚प॒शुमु॒तगव्यं᳚श॒ताव॑यम् |{आत्रेयः श्यावाश्वः | तरन्तमहिषी शशीयसी | अनुष्टुप्}

श्या॒वाश्व॑स्तुताय॒यादोर्वी॒रायो᳚प॒बर्बृ॑ह॒‌त्(स्वाहा᳚) || 5 ||

सन॑त्¦सा¦अश्व्य᳚‌म्¦प॒शु‌म्¦उ॒त¦गव्य᳚‌म्¦श॒त।आ॑वय‌म् | श्या॒वाश्व॑ऽस्तुताय¦या¦दोः¦वी॒राय॑¦उ॒प॒ऽबर्बृ॑हत् ||

उ॒तत्वा॒स्त्रीशशी᳚यसीपुं॒सोभ॑वति॒वस्य॑सी |{आत्रेयः श्यावाश्वः | तरन्तमहिषी शशीयसी | गायत्री}

अदे᳚वत्रादरा॒धसः॒(स्वाहा᳚) || 6 || वर्ग:27

उ॒त¦त्वा॒¦स्त्री¦शशी᳚यसी¦पुं॒सः¦भ॒व॒ति॒¦वस्य॑सी | अदे᳚वऽत्रात्¦अ॒रा॒धसः॑ ||

वियाजा॒नाति॒जसु॑रिं॒वितृष्य᳚न्तं॒विका॒मिन᳚म् |{आत्रेयः श्यावाश्वः | तरन्तमहिषी शशीयसी | गायत्री}

दे॒व॒त्राकृ॑णु॒तेमनः॒(स्वाहा᳚) || 7 ||

वि¦या¦जा॒नाति॑¦जसु॑रि‌म्¦वि¦तृष्य᳚न्त‌म्¦वि¦का॒मिन᳚‌म् | दे॒व॒ऽत्रा¦कृ॒णु॒ते¦मनः॑ ||

उ॒तघा॒नेमो॒,अस्तु॑तः॒पुमाँ॒,इति॑ब्रुवेप॒णिः |{आत्रेयः श्यावाश्वः | तरन्तमहिषी शशीयसी | गायत्री}

सवैर॑देय॒इत्स॒मः(स्वाहा᳚) || 8 ||

उ॒त¦घ॒¦नेमः॑¦अस्तु॑तः¦पुमा᳚न्¦इति॑¦ब्रु॒वे॒¦प॒णिः | सः¦वैर॑ऽदेये¦इत्¦स॒मः ||

उ॒तमे᳚ऽरपद्‌युव॒तिर्म॑म॒न्दुषी॒प्रति॑श्या॒वाय॑वर्त॒निम् |{आत्रेयः श्यावाश्वः | वैददश्विः पुरुमीळ्हः | सतोबृहती}

विरोहि॑तापुरुमी॒ळ्हाय॑येमतु॒र्विप्रा᳚यदी॒र्घय॑शसे॒(स्वाहा᳚) || 9 ||

उ॒त¦मे॒¦अ॒र॒प॒त्¦यु॒व॒तिः¦म॒म॒न्दुषी᳚¦प्रति॑¦श्या॒वाय॑¦व॒र्त॒नि‌म् |
वि¦रोहि॑ता¦पु॒रु॒ऽमी॒ळ्हाय॑¦ये॒म॒तुः॒¦विप्रा᳚य¦दी॒र्घऽय॑शसे ||

योमे᳚धेनू॒नांश॒तंवैद॑दश्वि॒र्यथा॒दद॑त् |{आत्रेयः श्यावाश्वः | वैददश्विस्तरन्तः | गायत्री}

त॒र॒न्तइ॑वमं॒हना॒(स्वाहा᳚) || 10 ||

यः¦मे॒¦धे॒नू॒ना‌म्¦श॒त‌म्¦वैद॑त्।आश्विः¦यथा᳚¦दद॑त् | त॒र॒न्तःऽ‌इ᳚व¦मं॒हना᳚ ||

यईं॒वह᳚न्तआ॒शुभिः॒पिब᳚न्तोमदि॒रंमधु॑ |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

अत्र॒श्रवां᳚सिदधिरे॒(स्वाहा᳚) || 11 || वर्ग:28

ये¦ई॒‌म्¦वह᳚न्ते¦आ॒शुऽभिः॑¦पिब᳚न्तः¦म॒दि॒र‌म्¦मधु॑ | अत्र॑¦श्रवां᳚सि¦द॒धि॒रे॒ ||

येषां᳚श्रि॒याधि॒रोद॑सीवि॒भ्राज᳚न्ते॒रथे॒ष्वा |{आत्रेयः श्यावाश्वः | तरन्तो वैददश्विः | गायत्री}

दि॒विरु॒क्मइ॑वो॒परि॒(स्वाहा᳚) || 12 ||

येषा᳚‌म्¦श्रि॒या¦अधि॑¦रोद॑सी॒ इति॑¦वि॒ऽभ्राज᳚न्ते¦रथे᳚षु¦आ | दि॒वि¦रु॒क्मःऽ‌इ᳚व¦उ॒परि॑ ||

युवा॒समारु॑तोग॒णस्त्वे॒षर॑थो॒,अने᳚द्यः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

शु॒भं॒यावाप्र॑तिष्कुतः॒(स्वाहा᳚) || 13 ||

युवा᳚¦सः¦मारु॑तः¦ग॒णः¦त्वे॒षऽर॑थः¦अने᳚द्यः | शु॒भ॒‌म्ऽयावा᳚¦अप्र॑तिऽस्कुतः ||

कोवे᳚दनू॒नमे᳚षां॒यत्रा॒मद᳚न्ति॒धूत॑यः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

ऋ॒तजा᳚ता,अरे॒पसः॒(स्वाहा᳚) || 14 ||

कः¦वे॒द॒¦नू॒न‌म्¦ए॒षा॒‌म्¦यत्र॑¦मद᳚न्ति¦धूत॑यः | ऋ॒तऽजा᳚ताः¦अ॒रे॒पसः॑ ||

यू॒यंमर्तं᳚विपन्यवःप्रणे॒तार॑इ॒त्थाधि॒या |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

श्रोता᳚रो॒याम॑हूतिषु॒(स्वाहा᳚) || 15 ||

यू॒य‌म्¦मर्त᳚‌म्¦वि॒प॒न्य॒वः॒¦प्र॒ऽने॒तारः॑¦इ॒त्था¦धि॒या | श्रोता᳚रः¦याम॑ऽहूतिषु ||

तेनो॒वसू᳚नि॒काम्या᳚पुरुश्च॒न्द्रारि॑शादसः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

आय॑ज्ञियासोववृत्तन॒(स्वाहा᳚) || 16 || वर्ग:29

ते¦नः॒¦वसू᳚नि¦काम्या᳚¦पु॒रु॒ऽच॒न्द्राः¦रि॒शा॒द॒सः॒ | आ¦य॒ज्ञि॒या॒सः॒¦व॒वृ॒त्त॒न॒ ||

ए॒तंमे॒स्तोम॑मूर्म्येदा॒र्भ्याय॒परा᳚वह |{आत्रेयः श्यावाश्वः | दार्भ्यो रथवीतिः | गायत्री}

गिरो᳚देविर॒थीरि॑व॒(स्वाहा᳚) || 17 ||

ए॒त‌म्¦मे॒¦स्तोम᳚‌म्¦ऊ॒र्म्ये¦दा॒र्भ्याय॑¦परा᳚¦व॒ह॒ | गिरः॑¦दे॒वि॒¦र॒थीःऽ‌इ᳚व ||

उ॒तमे᳚वोचता॒दिति॑सु॒तसो᳚मे॒रथ॑वीतौ |{आत्रेयः श्यावाश्वः | दार्भ्यो रथवीतिः | गायत्री}

नकामो॒,अप॑वेतिमे॒(स्वाहा᳚) || 18 ||

उ॒त¦मे॒¦वो॒च॒ता॒त्¦इति॑¦सु॒तऽसो᳚मे¦रथ॑ऽवीतौ | न¦कामः॑¦अप॑¦वे॒ति॒¦मे॒ ||

ए॒षक्षे᳚ति॒रथ॑वीतिर्म॒घवा॒गोम॑ती॒रनु॑ |{आत्रेयः श्यावाश्वः | दार्भ्यो रथवीतिः | गायत्री}

पर्व॑ते॒ष्वप॑श्रितः॒(स्वाहा᳚) || 19 ||

ए॒षः¦क्षे॒ति॒¦रथ॑ऽवीतिः¦म॒घऽवा᳚¦गोऽम॑तीः¦अनु॑ | पर्व॑तेषु¦अप॑ऽश्रितः ||

[62] ऋतेनऋतमिति नवर्चस्य सूक्तस्यात्रेयः श्रुतविन्मित्रवारुणौत्रिष्टुप् |{मंडल:5, सूक्त:62}{अनुवाक:5, सूक्त:6}{अष्टक:4, अध्याय:3}
ऋ॒तेन॑ऋ॒तमपि॑हितंध्रु॒वंवां॒सूर्य॑स्य॒यत्र॑विमु॒चन्त्यश्वा॑न् |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

दश॑श॒तास॒हत॑स्थु॒स्तदेकं᳚दे॒वानां॒श्रेष्ठं॒वपु॑षामपश्य॒‌म्(स्वाहा᳚) || 1 || वर्ग:30

ऋ॒तेन॑¦ऋ॒त‌म्¦अपि॑ऽहित‌म्¦ध्रु॒व‌म्¦वा॒‌म्¦सूर्य॑स्य¦यत्र॑¦वि॒ऽमु॒चन्ति॑¦अश्वा॑न् |
दश॑¦श॒ता¦स॒ह¦त॒स्थुः॒¦तत्¦एक᳚‌म्¦दे॒वाना᳚‌म्¦श्रेष्ठ᳚‌म्¦वपु॑षा‌म्¦अ॒प॒श्य॒‌म् ||

तत्सुवां᳚मित्रावरुणामहि॒त्वमी॒र्मात॒स्थुषी॒रह॑भिर्दुदुह्रे |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

विश्वाः᳚पिन्वथः॒स्वस॑रस्य॒धेना॒,अनु॑वा॒मेकः॑प॒विराव॑वर्त॒(स्वाहा᳚) || 2 ||

तत्¦सु¦वा॒‌म्¦मि॒त्रा॒व॒रु॒णा॒¦म॒हि॒ऽत्व‌म्¦ई॒र्मा¦त॒स्थुषीः᳚¦अह॑ऽभिः¦दु॒दु॒ह्रे॒ |
विश्वाः᳚¦पि॒न्व॒थः॒¦स्वस॑रस्य¦धेनाः᳚¦अनु॑¦वा॒‌म्¦एकः॑¦प॒विः¦आ¦व॒व॒र्त॒ ||

अधा᳚रयतंपृथि॒वीमु॒तद्यांमित्र॑राजानावरुणा॒महो᳚भिः |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

व॒र्धय॑त॒मोष॑धीः॒पिन्व॑तं॒गा,अव॑वृ॒ष्टिंसृ॑जतंजीरदानू॒(स्वाहा᳚) || 3 ||

अधा᳚रयत‌म्¦पृ॒थि॒वी‌म्¦उ॒त¦द्या‌म्¦मित्र॑ऽराजाना¦व॒रु॒णा॒¦महः॑ऽभिः |
व॒र्धय॑त‌म्¦ओष॑धीः¦पिन्व॑त‌म्¦गाः¦अव॑¦वृ॒ष्टि‌म्¦सृ॒ज॒त॒‌म्¦जी॒र॒दा॒नू॒ इति॑ जीरऽदानू ||

आवा॒मश्वा᳚सःसु॒युजो᳚वहन्तुय॒तर॑श्मय॒उप॑यन्त्व॒र्वाक् |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

घृ॒तस्य॑नि॒र्णिगनु॑वर्ततेवा॒मुप॒सिन्ध॑वःप्र॒दिवि॑क्षरन्ति॒(स्वाहा᳚) || 4 ||

आ¦वा॒‌म्¦अश्वा᳚सः¦सु॒ऽयुजः॑¦व॒ह॒न्तु॒¦य॒तऽर॑श्मयः¦उप॑¦य॒न्तु॒¦अ॒र्वाक् |
घृ॒तस्य॑¦निः॒ऽनिक्¦अनु॑¦व॒र्त॒ते॒¦वा॒‌म्¦उप॑¦सिन्ध॑वः¦प्र॒ऽदिवि॑¦क्ष॒र॒न्ति॒ ||

अनु॑श्रु॒ताम॒मतिं॒वर्ध॑दु॒र्वींब॒र्हिरि॑व॒यजु॑षा॒रक्ष॑माणा |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

नम॑स्वन्ताधृतद॒क्षाधि॒गर्ते॒मित्रासा᳚थेवरु॒णेळा᳚स्व॒न्तः(स्वाहा᳚) || 5 ||

अनु॑¦श्रु॒ता‌म्¦अ॒मति᳚‌म्¦वर्ध॑त्¦उ॒र्वी‌म्¦ब॒र्हिःऽ‌इ᳚व¦यजु॑षा¦रक्ष॑माणा |
नम॑स्वन्ता¦धृ॒त॒ऽद॒क्षा॒¦अधि॑¦गर्ते᳚¦मित्र॑¦आसा᳚थे॒ इति॑¦व॒रु॒ण॒¦इळा᳚सु¦अ॒न्तरिति॑ ||

अक्र॑विहस्तासु॒कृते᳚पर॒स्पायंत्रासा᳚थेवरु॒णेळा᳚स्व॒न्तः |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

राजा᳚नाक्ष॒त्रमहृ॑णीयमानास॒हस्र॑स्थूणंबिभृथःस॒हद्वौ(स्वाहा᳚) || 6 || वर्ग:31

अक्र॑विऽहस्ता¦सु॒ऽकृते᳚¦प॒रः॒ऽपा¦य‌म्¦त्रासा᳚थे॒ इति॑¦व॒रु॒णा॒¦इळा᳚सु¦अ॒न्तरिति॑ |
राजा᳚ना¦क्ष॒त्र‌म्¦अहृ॑णीयमाना¦स॒हस्र॑ऽस्थूण‌म्¦बि॒भृ॒थः॒¦स॒ह¦द्वौ ||

हिर᳚ण्यनिर्णि॒गयो᳚,अस्य॒स्थूणा॒विभ्रा᳚जतेदि॒व्य१॑(अ॒)श्वाज॑नीव |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

भ॒द्रेक्षेत्रे॒निमि॑ता॒तिल्वि॑लेवास॒नेम॒मध्वो॒,अधि॑गर्त्यस्य॒(स्वाहा᳚) || 7 ||

हिर᳚ण्यऽनिर्निक्¦अयः॑¦अ॒स्य॒¦स्थूणा᳚¦वि¦भ्रा॒ज॒ते॒¦दि॒वि¦अ॒श्वाज॑नीऽ‌इव |
भ॒द्रे¦क्षेत्रे᳚¦निऽमि॑ता¦तल्वि॑ले¦वा॒¦स॒नेम॑¦मध्वः॑¦अधि॑ऽगर्त्यस्य ||

हिर᳚ण्यरूपमु॒षसो॒व्यु॑ष्टा॒वयः॑स्थूण॒मुदि॑ता॒सूर्य॑स्य |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

आरो᳚हथोवरुणमित्र॒गर्त॒मत॑श्चक्षाथे॒,अदि॑तिं॒दितिं᳚च॒(स्वाहा᳚) || 8 ||

हिर᳚ण्यऽरूप‌म्¦उ॒षसः॑¦वि।औ᳚ष्टौ¦अयः॑ऽस्थूण‌म्¦उत्ऽ‌इ᳚ता¦सूर्य॑स्य |
आ¦रो॒ह॒थः॒¦व॒रु॒ण॒¦मि॒त्र॒¦गर्त᳚‌म्¦अतः॑¦च॒क्षा॒थे॒ इति॑¦अदि॑ति‌म्¦दिति᳚‌म्¦च॒ ||

यद्‌बंहि॑ष्ठं॒नाति॒विधे᳚सुदानू॒,अच्छि॑द्रं॒शर्म॑भुवनस्यगोपा |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

तेन॑नोमित्रावरुणावविष्टं॒सिषा᳚सन्तोजिगी॒वांसः॑स्याम॒(स्वाहा᳚) || 9 ||

यत्¦बंहि॑ष्ठ‌म्¦न¦अ॒ति॒ऽविधे᳚¦सु॒दा॒नू॒ इति॑ सुऽदानू¦अच्छि॑द्र‌म्¦शर्म॑¦भु॒व॒न॒स्य॒¦गो॒पा॒ |
तेन॑¦नः॒¦मि॒त्रा॒व॒रु॒णौ॒¦अ॒वि॒ष्ट॒‌म्¦सिसा᳚सन्तः¦जि॒गी॒वांसः॑¦स्या॒म॒ ||

[63] ऋतस्यगोपाविति सप्तर्चस्य सूक्तस्यात्रेयोर्चनानामित्रावरुणौजगती |{मंडल:5, सूक्त:63}{अनुवाक:5, सूक्त:7}{अष्टक:4, अध्याय:4}
ऋत॑स्यगोपा॒वधि॑तिष्ठथो॒रथं॒सत्य॑धर्माणापर॒मेव्यो᳚मनि |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

यमत्र॑मित्रावरु॒णाव॑थोयु॒वंतस्मै᳚वृ॒ष्टिर्मधु॑मत्‌पिन्वतेदि॒वः(स्वाहा᳚) || 1 || वर्ग:1

ऋत॑स्य¦गो॒पौ॒¦अधि॑¦ति॒ष्ठ॒थः॒¦रथ᳚‌म्¦सत्य॑ऽधर्माणा¦प॒र॒मे¦विऽओ᳚मनि |
य‌म्¦अत्र॑¦मि॒त्रा॒व॒रु॒णा॒¦अव॑थः¦यु॒व‌म्¦तस्मै᳚¦वृ॒ष्टिः¦मधु॑ऽमत्¦पि॒न्व॒ते॒¦दि॒वः ||

स॒म्राजा᳚व॒स्यभुव॑नस्यराजथो॒मित्रा᳚वरुणावि॒दथे᳚स्व॒र्दृशा᳚ |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

वृ॒ष्टिंवां॒राधो᳚,अमृत॒त्वमी᳚महे॒द्यावा᳚पृथि॒वीविच॑रन्तित॒न्यवः॒(स्वाहा᳚) || 2 ||

स॒‌म्ऽराजौ᳚¦अ॒स्य¦भुव॑नस्य¦रा॒ज॒थः॒¦मित्रा᳚वरुणा¦वि॒दथे᳚¦स्वः॒ऽदृशा᳚ |
वृ॒ष्टि‌म्¦वा॒‌म्¦राधः॑¦अ॒मृ॒त॒ऽत्व‌म्¦ई॒म॒हे॒¦द्यावा᳚पृथि॒वी इति॑¦वि¦च॒र॒न्ति॒¦त॒न्यवः॑ ||

स॒म्राजा᳚,उ॒ग्रावृ॑ष॒भादि॒वस्पती᳚पृथि॒व्यामि॒त्रावरु॑णा॒विच॑र्षणी |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

चि॒त्रेभि॑र॒भ्रैरुप॑तिष्ठथो॒रवं॒द्यांव॑र्षयथो॒,असु॑रस्यमा॒यया॒(स्वाहा᳚) || 3 ||

स॒‌म्ऽराजौ᳚¦उ॒ग्रा¦वृ॒ष॒भा¦दि॒वः¦पती॒ इति॑¦पृ॒थि॒व्याः¦मि॒त्रावरु॑णा¦विच॑र्षणी॒ इति॒ विऽच॑र्षणी |
चि॒त्रेभिः॑¦अ॒भ्रैः¦उप॑¦ति॒ष्ठ॒थः॒¦रव᳚‌म्¦द्या‌म्¦व॒र्ष॒य॒थः॒¦असु॑रस्य¦मा॒यया᳚ ||

मा॒यावां᳚मित्रावरुणादि॒विश्रि॒तासूर्यो॒ज्योति॑श्चरतिचि॒त्रमायु॑धम् |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

तम॒भ्रेण॑वृ॒ष्ट्यागू᳚हथोदि॒विपर्ज᳚न्यद्र॒प्सामधु॑मन्तईरते॒(स्वाहा᳚) || 4 ||

मा॒या¦वा॒‌म्¦मि॒त्रा॒व॒रु॒णा॒¦दि॒वि¦श्रि॒ता¦सूर्यः॑¦ज्योतिः॑¦च॒र॒ति॒¦चि॒त्र‌म्¦आयु॑ध‌म् |
त‌म्¦अ॒भ्रेण॑¦वृ॒ष्ट्या¦गू॒ह॒थः॒¦दि॒वि¦पर्ज᳚न्य¦द्र॒प्साः¦मधु॑ऽमन्तः¦ई॒र॒ते॒ ||

रथं᳚युञ्जतेम॒रुतः॑शु॒भेसु॒खंशूरो॒नमि॑त्रावरुणा॒गवि॑ष्टिषु |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

रजां᳚सिचि॒त्राविच॑रन्तित॒न्यवो᳚दि॒वःस᳚म्राजा॒पय॑सानउक्षत॒‌म्(स्वाहा᳚) || 5 ||

रथ᳚‌म्¦युं॒ज॒ते॒¦म॒रुतः॑¦शु॒भे¦सु॒ऽख‌म्¦शूरः॑¦न¦मि॒त्रा॒व॒रु॒णा॒¦गोऽ‌इ᳚ष्टिषु |
रजां᳚सि¦चि॒त्रा¦वि¦च॒र॒न्ति॒¦त॒न्यवः॑¦दि॒वः¦स॒‌म्ऽरा॒जा॒¦पय॑सा¦नः॒¦उ॒क्ष॒त॒‌म् ||

वाचं॒सुमि॑त्रावरुणा॒विरा᳚वतींप॒र्जन्य॑श्चि॒त्रांव॑दति॒त्विषी᳚मतीम् |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

अ॒भ्राव॑सतम॒रुतः॒सुमा॒यया॒द्यांव॑र्षयतमरु॒णाम॑रे॒पस॒‌म्(स्वाहा᳚) || 6 ||

वाच᳚‌म्¦सु¦मि॒त्रा॒व॒रु॒णौ॒¦इरा᳚ऽवती‌म्¦प॒र्जन्यः॑¦चि॒त्रा‌म्¦व॒द॒ति॒¦त्विषि॑ऽमती‌म् |
अ॒भ्रा¦व॒स॒त॒¦म॒रुतः॑¦सु¦मा॒यया᳚¦द्या‌म्¦व॒र्ष॒य॒त॒‌म्¦अ॒रु॒णा‌म्¦अ॒रे॒पस᳚‌म् ||

धर्म॑णामित्रावरुणाविपश्चिताव्र॒तार॑क्षेथे॒,असु॑रस्यमा॒यया᳚ |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

ऋ॒तेन॒विश्वं॒भुव॑नं॒विरा᳚जथः॒सूर्य॒माध॑त्थोदि॒विचित्र्यं॒रथ॒‌म्(स्वाहा᳚) || 7 ||

धर्म॑णा¦मि॒त्रा॒व॒रु॒णा॒¦वि॒पः॒ऽचि॒ता॒¦व्र॒ता¦र॒क्षे॒थे॒ इति॑¦असु॑रस्य¦मा॒यया᳚ |
ऋ॒तेन॑¦विश्व᳚‌म्¦भुव॑न‌म्¦वि¦रा॒ज॒थः॒¦सूर्य᳚‌म्¦आ¦ध॒त्थः॒¦दि॒वि¦चित्र्य᳚‌म्¦रथ᳚‌म् ||

[64] वरुणंवइति सप्तर्चस्य सूक्तस्यार्चनाना मित्रावरुणावनुष्टुबंत्यापंक्तिः |{मंडल:5, सूक्त:64}{अनुवाक:5, सूक्त:8}{अष्टक:4, अध्याय:4}
वरु॑णंवोरि॒शाद॑समृ॒चामि॒त्रंह॑वामहे |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

परि᳚व्र॒जेव॑बा॒ह्वोर्ज॑ग॒न्वांसा॒स्व᳚र्णर॒‌म्(स्वाहा᳚) || 1 || वर्ग:2

वरु॑ण‌म्¦वः॒¦रि॒शाद॑स‌म्¦ऋ॒चा¦मि॒त्र‌म्¦ह॒वा॒म॒हे॒ | परि॑¦व्र॒जाऽ‌इ᳚व¦बा॒ह्वोः¦ज॒ग॒न्वांसा᳚¦स्वः॑ऽनर‌म् ||

ताबा॒हवा᳚सुचे॒तुना॒प्रय᳚न्तमस्मा॒,अर्च॑ते |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

शेवं॒हिजा॒र्यं᳚वां॒विश्वा᳚सु॒क्षासु॒जोगु॑वे॒(स्वाहा᳚) || 2 ||

ता¦बा॒हवा᳚¦सु॒ऽचे॒तुना᳚¦प्र¦य॒न्त॒‌म्¦अ॒स्मै॒¦अर्च॑ते | शेव᳚‌म्¦हि¦जा॒र्य᳚‌म्¦वा॒‌म्¦विश्वा᳚सु¦क्षासु॑¦जोगु॑वे ||

यन्नू॒नम॒श्यांगतिं᳚मि॒त्रस्य॑यायांप॒था |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

अस्य॑प्रि॒यस्य॒शर्म॒ण्यहिं᳚सानस्यसश्चिरे॒(स्वाहा᳚) || 3 ||

यत्¦नू॒न‌म्¦अ॒श्या‌म्¦गति᳚‌म्¦मि॒त्रस्य॑¦या॒या॒‌म्¦प॒था | अस्य॑¦प्रि॒यस्य॑¦शर्म॑णि¦अहिं᳚सानस्य¦स॒श्चि॒रे॒ ||

यु॒वाभ्यां᳚मित्रावरुणोप॒मंधे᳚यामृ॒चा |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

यद्ध॒क्षये᳚म॒घोनां᳚स्तोतॄ॒णांच॑स्पू॒र्धसे॒(स्वाहा᳚) || 4 ||

यु॒वाभ्या᳚‌म्¦मि॒त्रा॒व॒रु॒णा॒¦उ॒प॒ऽम‌म्¦धे॒या॒‌म्¦ऋ॒चा | यत्¦ह॒¦क्षये᳚¦म॒घोना᳚‌म्¦स्तो॒तॄ॒णा‌म्¦च॒¦स्पू॒र्धसे᳚ ||

आनो᳚मित्रसुदी॒तिभि॒र्वरु॑णश्चस॒धस्थ॒आ |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

स्वेक्षये᳚म॒घोनां॒सखी᳚नांचवृ॒धसे॒(स्वाहा᳚) || 5 ||

आ¦नः॒¦मि॒त्र॒¦सु॒दी॒तिऽभिः॑¦वरु॑णः¦च॒¦स॒धऽस्थे᳚¦आ | स्वे¦क्षये᳚¦म॒घोना᳚‌म्¦सखी᳚ना‌म्¦च॒¦वृ॒धसे᳚ ||

यु॒वंनो॒येषु॑वरुणक्ष॒त्रंबृ॒हच्च॑बिभृ॒थः |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

उ॒रुणो॒वाज॑सातयेकृ॒तंरा॒येस्व॒स्तये॒(स्वाहा᳚) || 6 ||

यु॒व‌म्¦नः॒¦येषु॑¦व॒रु॒णा॒¦क्ष॒त्र‌म्¦बृ॒हत्¦च॒¦बि॒भृ॒थः | उ॒रु¦नः॒¦वाज॑ऽसातये¦कृ॒त‌म्¦रा॒ये¦स्व॒स्तये᳚ ||

उ॒च्छन्त्यां᳚मेयज॒तादे॒वक्ष॑त्रे॒रुश॑द्गवि |{आत्रेयोर्चनाना | मित्रावरुणौ | पङ्क्तिः}

सु॒तंसोमं॒नह॒स्तिभि॒राप॒ड्भिर्धा᳚वतंनरा॒बिभ्र॑तावर्च॒नान॑स॒‌म्(स्वाहा᳚) || 7 ||

उ॒च्छन्त्या᳚‌म्¦मे॒¦य॒ज॒ता¦दे॒वऽक्ष॑त्रे¦रुश॑त्ऽगवि |
सु॒त‌म्¦सोम᳚‌म्¦न¦ह॒स्तिऽभिः॑¦आ¦प॒ट्ऽभिः¦धा॒व॒त॒‌म्¦न॒रा॒¦बिभ्र॑तौ¦अ॒र्च॒नान॑स‌म् ||

[65] यश्चिकेतेति षडृचस्य सूक्तस्यात्रेयोरातहव्योमित्रावरुणावनुष्टुबन्त्यापंक्तिः |{मंडल:5, सूक्त:65}{अनुवाक:5, सूक्त:9}{अष्टक:4, अध्याय:4}
यश्चि॒केत॒ससु॒क्रतु॑र्देव॒त्रासब्र॑वीतुनः |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

वरु॑णो॒यस्य॑दर्श॒तोमि॒त्रोवा॒वन॑ते॒गिरः॒(स्वाहा᳚) || 1 || वर्ग:3

यः¦चि॒केत॑¦सः¦सु॒ऽक्रतुः॑¦दे॒व॒ऽत्रा¦सः¦ब्र॒वी॒तु॒¦नः॒ | वरु॑णः¦यस्य॑¦द॒र्श॒तः¦मि॒त्रः¦वा॒¦वन॑ते¦गिरः॑ ||

ताहिश्रेष्ठ॑वर्चसा॒राजा᳚नादीर्घ॒श्रुत्त॑मा |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

तासत्प॑ती,ऋता॒वृध॑ऋ॒तावा᳚ना॒जने᳚जने॒(स्वाहा᳚) || 2 ||

ता¦हि¦श्रेष्ठ॑ऽवर्चसा¦राजा᳚ना¦दी॒र्घ॒श्रुत्ऽत॑मा | ता¦सत्प॑ती॒ इति॒ सत्ऽप॑ती¦ऋ॒त॒ऽवृधा᳚¦ऋ॒तऽवा᳚ना¦जने᳚ऽजने ||

तावा᳚मिया॒नोऽव॑से॒पूर्वा॒,उप॑ब्रुवे॒सचा᳚ |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

स्वश्वा᳚सः॒सुचे॒तुना॒वाजाँ᳚,अ॒भिप्रदा॒वने॒(स्वाहा᳚) || 3 ||

ता¦वा॒‌म्¦इ॒या॒नः¦अव॑से¦पूर्वौ᳚¦उप॑¦ब्रु॒वे॒¦सचा᳚ | सु॒।आश्वा᳚सः¦सु¦चे॒तुना᳚¦वाजा᳚न्¦अ॒भि¦प्र¦दा॒वने᳚ ||

मि॒त्रो,अं॒होश्चि॒दादु॒रुक्षया᳚यगा॒तुंव॑नते |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

मि॒त्रस्य॒हिप्र॒तूर्व॑तःसुम॒तिरस्ति॑विध॒तः(स्वाहा᳚) || 4 ||

मि॒त्रः¦अं॒होः¦चि॒त्¦आत्¦उ॒रु¦क्षया᳚य¦गा॒तु‌म्¦व॒न॒ते॒ | मि॒त्रस्य॑¦हि¦प्र॒ऽतूर्व॑तः¦सु॒ऽम॒तिः¦अस्ति॑¦वि॒ध॒तः ||

व॒यंमि॒त्रस्याव॑सि॒स्याम॑स॒प्रथ॑स्तमे |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

अ॒ने॒हस॒स्त्वोत॑यःस॒त्रावरु॑णशेषसः॒(स्वाहा᳚) || 5 ||

व॒य‌म्¦मि॒त्रस्य॑¦अव॑सि¦स्याम॑¦स॒प्रथः॑ऽतमे | अ॒ने॒हसः॑¦त्वाऽऊ᳚तयः¦स॒त्रा¦वरु॑णऽशेषसः ||

यु॒वंमि॑त्रे॒मंजनं॒यत॑थः॒संच॑नयथः |{आत्रेयो रातहव्यः | मित्रावरुणौ | पङ्क्तिः}

माम॒घोनः॒परि॑ख्यतं॒मो,अ॒स्माक॒मृषी᳚णांगोपी॒थेन॑उरुष्यत॒‌म्(स्वाहा᳚) || 6 ||

यु॒व‌म्¦मि॒त्रा॒¦इ॒म‌म्¦जन᳚‌म्¦यत॑थः¦स‌म्¦च॒¦न॒य॒थः॒ |
मा¦म॒घोनः॑¦परि॑¦ख्य॒त॒‌म्¦मो इति॑¦अ॒स्माक᳚‌म्¦ऋषी᳚णा‌म्¦गो॒ऽपी॒थे¦नः॒¦उ॒रु॒ष्य॒त॒‌म् ||

[66] आचिकितानेति षडृचस्य सूक्तस्यात्रेयोरातहव्योमित्रावरुणावनुष्टुप् |{मंडल:5, सूक्त:66}{अनुवाक:5, सूक्त:10}{अष्टक:4, अध्याय:4}
आचि॑कितानसु॒क्रतू᳚दे॒वौम॑र्तरि॒शाद॑सा |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

वरु॑णायऋ॒तपे᳚शसेदधी॒तप्रय॑सेम॒हे(स्वाहा᳚) || 1 || वर्ग:4

आ¦चि॒कि॒ता॒न॒¦सु॒क्रतू॒ इति॑ सु॒ऽक्रतू᳚¦दे॒वौ¦म॒र्त॒¦रि॒शाद॑सा | वरु॑णाय¦ऋ॒तऽपे᳚शसे¦द॒धी॒त¦प्रय॑से¦म॒हे ||

ताहिक्ष॒त्रमवि॑ह्रुतंस॒म्यग॑सु॒र्य१॑(अ॒)माशा᳚ते |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

अध᳚व्र॒तेव॒मानु॑षं॒स्व१॑(अ॒)र्णधा᳚यिदर्श॒तम्(स्वाहा᳚) || 2 ||

ता¦हि¦क्ष॒त्र‌म्¦अवि॑ऽह्रुत‌म्¦स॒म्यक्¦अ॒सु॒र्य᳚‌म्¦आशा᳚ते॒ इति॑ | अध॑¦व्र॒ताऽ‌इ᳚व¦मानु॑ष‌म्¦स्वः॑¦न¦धा॒यि॒¦द॒र्श॒त‌म् ||

तावा॒मेषे॒रथा᳚नामु॒र्वींगव्यू᳚तिमेषाम् |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

रा॒तह᳚व्यस्यसुष्टु॒तिंद॒धृक्‌स्तोमै᳚र्मनामहे॒(स्वाहा᳚) || 3 ||

ता¦वा॒‌म्¦एषे᳚¦रथा᳚ना‌म्¦उ॒र्वी‌म्¦गव्यू᳚ति‌म्¦ए॒षा॒‌म् | रा॒तऽह᳚व्यस्य¦सु॒ऽस्तु॒ति‌म्¦द॒धृक्¦स्तोमैः᳚¦म॒ना॒म॒हे॒ ||

अधा॒हिकाव्या᳚यु॒वंदक्ष॑स्यपू॒र्भिर॑द्भुता |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

निके॒तुना॒जना᳚नांचि॒केथे᳚पूतदक्षसा॒(स्वाहा᳚) || 4 ||

अध॑¦हि¦काव्या᳚¦यु॒व‌म्¦दक्ष॑स्य¦पूः॒ऽभिः¦अ॒द्भु॒ता॒ | नि¦के॒तुना᳚¦जना᳚ना‌म्¦चि॒केथे॒ इति॑¦पू॒त॒ऽद॒क्ष॒सा॒ ||

तदृ॒तंपृ॑थिविबृ॒हच्छ्र॑वए॒षऋषी᳚णाम् |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

ज्र॒य॒सा॒नावरं᳚पृ॒थ्वति॑क्षरन्ति॒याम॑भिः॒(स्वाहा᳚) || 5 ||

तत्¦ऋ॒त‌म्¦पृ॒थि॒वि॒¦बृ॒हत्¦श्र॒वः॒ऽए॒षे¦ऋषी᳚णा‌म् | ज्र॒य॒सा॒नौ¦अर᳚‌म्¦पृ॒थु¦अति॑¦क्ष॒र॒न्ति॒¦याम॑ऽभिः ||

आयद्‌वा᳚मीयचक्षसा॒मित्र॑व॒यंच॑सू॒रयः॑ |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

व्यचि॑ष्ठेबहु॒पाय्ये॒यते᳚महिस्व॒राज्ये॒(स्वाहा᳚) || 6 ||

आ¦यत्¦वा॒‌म्¦ई॒य॒ऽच॒क्ष॒सा॒¦मित्रा᳚¦व॒य‌म्¦च॒¦सू॒रयः॑ | व्यचि॑ष्ठे¦ब॒हु॒ऽपाय्ये᳚¦यते᳚महि¦स्व॒ऽराज्ये᳚ ||

[67] बळित्थादेवेति पंचर्चस्य सूक्तस्यात्रेयोयजतो मित्रावरुणावनुष्टुप् |{मंडल:5, सूक्त:67}{अनुवाक:5, सूक्त:11}{अष्टक:4, अध्याय:4}
बळि॒त्थादे᳚वनिष्कृ॒तमादि॑त्यायज॒तंबृ॒हत् |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्}

वरु॑ण॒मित्रार्य॑म॒न्वर्षि॑ष्ठंक्ष॒त्रमा᳚शाथे॒(स्वाहा᳚) || 1 || वर्ग:5

बट्¦इ॒त्था¦दे॒वा॒¦निः॒ऽकृ॒त‌म्¦आदि॑त्या¦य॒ज॒त‌म्¦बृ॒हत् | वरु॑ण¦मित्र॑¦अर्य॑मन्¦वर्षि॑ष्ठ‌म्¦क्ष॒त्र‌म्¦आ॒शा॒थे॒ इति॑ ||

आयद्‌योनिं᳚हिर॒ण्ययं॒वरु॑ण॒मित्र॒सद॑थः |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्}

ध॒र्तारा᳚चर्षणी॒नांय॒न्तंसु॒म्नंरि॑शादसा॒(स्वाहा᳚) || 2 ||

आ¦यत्¦योनि᳚‌म्¦हि॒र॒ण्यय᳚‌म्¦वरु॑ण¦मित्र॑¦सद॑थः | ध॒र्तारा᳚¦च॒र्ष॒णी॒ना‌म्¦य॒न्त‌म्¦सु॒म्न‌म्¦रि॒शा॒द॒सा॒ ||

विश्वे॒हिवि॒श्ववे᳚दसो॒वरु॑णोमि॒त्रो,अ᳚र्य॒मा |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्}

व्र॒ताप॒देव॑सश्चिरे॒पान्ति॒मर्त्यं᳚रि॒षः(स्वाहा᳚) || 3 ||

विश्वे᳚¦हि¦वि॒श्वऽवे᳚दसः¦वरु॑णः¦मि॒त्रः¦अ॒र्य॒मा | व्र॒ता¦प॒दाऽ‌इ᳚व¦स॒श्चि॒रे॒¦पान्ति॑¦मर्त्य᳚‌म्¦रि॒षः ||

तेहिस॒त्या,ऋ॑त॒स्पृश॑ऋ॒तावा᳚नो॒जने᳚जने |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्}

सु॒नी॒थासः॑सु॒दान॑वों॒ऽहोश्चि॑दुरु॒चक्र॑यः॒(स्वाहा᳚) || 4 ||

ते¦हि¦स॒त्याः¦ऋ॒त॒ऽस्पृशः॑¦ऋ॒तऽवा᳚नः¦जने᳚ऽजने | सु॒ऽनी॒थासः॑¦सु॒ऽदान॑वः¦अं॒होः¦चि॒त्¦उ॒रु॒ऽचक्र॑यः ||

कोनुवां᳚मि॒त्रास्तु॑तो॒वरु॑णोवात॒नूना᳚म् |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्}

तत्सुवा॒मेष॑तेम॒तिरत्रि॑भ्य॒एष॑तेम॒तिः(स्वाहा᳚) || 5 ||

कः¦नु¦वा॒‌म्¦मि॒त्र॒¦अस्तु॑तः¦वरु॑णः¦वा॒¦त॒नूना᳚‌म् | तत्¦सु¦वा॒‌म्¦आ¦ई॒ष॒ते॒¦म॒तिः¦अत्रि॑ऽभ्यः¦आ¦ई॒ष॒ते॒¦म॒तिः ||

[68] प्रवोमित्रायेति पंचर्चस्य सूक्तस्यात्रेयो यजतोमित्रावरुणौगायत्री |{मंडल:5, सूक्त:68}{अनुवाक:5, सूक्त:12}{अष्टक:4, अध्याय:4}
प्रवो᳚मि॒त्राय॑गायत॒वरु॑णायवि॒पागि॒रा |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री}

महि॑क्षत्रावृ॒तंबृ॒हत्(स्वाहा᳚) || 1 || वर्ग:6

प्र¦वः॒¦मि॒त्राय॑¦गा॒य॒त॒¦वरु॑णाय¦वि॒पा¦गि॒रा | महि॑ऽक्षत्रौ¦ऋ॒त‌म्¦बृ॒हत् ||

स॒म्राजा॒याघृ॒तयो᳚नीमि॒त्रश्चो॒भावरु॑णश्च |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री}

दे॒वादे॒वेषु॑प्रश॒स्ता(स्वाहा᳚) || 2 ||

स॒‌म्ऽराजा᳚¦या¦घृ॒तयो᳚नी॒ इति॑ घृ॒तऽयो᳚नी¦मि॒त्रः¦च॒¦उ॒भा¦वरु॑णः¦च॒ | दे॒वा¦दे॒वेषु॑¦प्र॒ऽश॒स्ता ||

तानः॑शक्तं॒पार्थि॑वस्यम॒होरा॒योदि॒व्यस्य॑ |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री}

महि॑वांक्ष॒त्रंदे॒वेषु॒(स्वाहा᳚) || 3 ||

ता¦नः॒¦श॒क्त॒‌म्¦पार्थि॑वस्य¦म॒हः¦रा॒यः¦दि॒व्यस्य॑ | महि॑¦वा॒‌म्¦क्ष॒त्र‌म्¦दे॒वेषु॑ ||

ऋ॒तमृ॒तेन॒सप᳚न्तेषि॒रंदक्ष॑माशाते |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री}

अ॒द्रुहा᳚दे॒वौव॑र्धेते॒(स्वाहा᳚) || 4 ||

ऋ॒त‌म्¦ऋ॒तेन॑¦सप᳚न्ता¦इ॒षि॒र‌म्¦दक्ष᳚‌म्¦आ॒शा॒ते॒ इति॑ | अ॒द्रुहा᳚¦दे॒वौ¦व॒र्धे॒ते॒ इति॑ ||

वृ॒ष्टिद्या᳚वारी॒त्या᳚पे॒षस्पती॒दानु॑मत्याः |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री}

बृ॒हन्तं॒गर्त॑माशाते॒(स्वाहा᳚) || 5 ||

वृ॒ष्टिऽद्या᳚वा¦री॒तिऽआ᳚पा¦इ॒षः¦पती॒ इति॑¦दानु॑ऽमत्याः | बृ॒हन्त᳚‌म्¦गर्त᳚‌म्¦आ॒शा॒ते॒ इति॑ ||

[69] त्रीरोचनेति चतुरृचस्य सूक्तस्यात्रेय उरुचक्रिर्मित्रावरुणौत्रिष्टुप् |{मंडल:5, सूक्त:69}{अनुवाक:5, सूक्त:13}{अष्टक:4, अध्याय:4}
त्रीरो᳚च॒नाव॑रुण॒त्रीँरु॒तद्यून्त्रीणि॑मित्रधारयथो॒रजां᳚सि |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्}

वा॒वृ॒धा॒नाव॒मतिं᳚क्ष॒त्रिय॒स्याऽनु᳚व्र॒तंरक्ष॑माणावजु॒र्यम्(स्वाहा᳚) || 1 || वर्ग:7

त्री¦रो॒च॒ना¦व॒रु॒ण॒¦त्रीन्¦उ॒त¦द्यून्¦त्रीणि॑¦मि॒त्र॒¦धा॒र॒य॒थः॒¦रजां᳚सि |
व॒वृ॒धा॒नौ¦अ॒मति᳚‌म्¦क्ष॒त्रिय॑स्य¦अनु॑¦व्र॒त‌म्¦रक्ष॑माणौ¦अ॒जु॒र्य‌म् ||

इरा᳚वतीर्वरुणधे॒नवो᳚वां॒मधु॑मद्वां॒सिन्ध॑वोमित्रदुह्रे |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्}

त्रय॑स्तस्थुर्वृष॒भास॑स्तिसॄ॒णांधि॒षणा᳚नांरेतो॒धाविद्यु॒मन्तः॒(स्वाहा᳚) || 2 ||

इरा᳚ऽवतीः¦व॒रु॒ण॒¦धे॒नवः॑¦वा॒‌म्¦मधु॑ऽमत्¦वा॒‌म्¦सिन्ध॑वः¦मि॒त्र॒¦दु॒ह्रे॒ |
त्रयः॑¦त॒स्थुः॒¦वृ॒ष॒भासः॑¦ति॒सॄ॒णा‌म्¦धि॒षणा᳚ना‌म्¦रे॒तः॒ऽधाः¦वि¦द्यु॒ऽमन्तः॑ ||

प्रा॒तर्दे॒वीमदि॑तिंजोहवीमिम॒ध्यंदि॑न॒उदि॑ता॒सूर्य॑स्य |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्}

रा॒येमि॑त्रावरुणास॒र्वता॒तेळे᳚तो॒काय॒तन॑याय॒शंयोः(स्वाहा᳚) || 3 ||

प्रा॒तः¦दे॒वी‌म्¦अदि॑ति‌म्¦जो॒ह॒वी॒मि॒¦म॒ध्यंदि॑ने¦उत्ऽ‌इ᳚ता¦सूर्य॑स्य |
रा॒ये¦मि॒त्रा॒व॒रु॒णा॒¦स॒र्वऽता᳚ता¦ईळे᳚¦तो॒काय॑¦तन॑याय¦श‌म्¦योः ||

याध॒र्तारा॒रज॑सोरोच॒नस्यो॒तादि॒त्यादि॒व्यापार्थि॑वस्य |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्}

नवां᳚दे॒वा,अ॒मृता॒,आमि॑नन्तिव्र॒तानि॑मित्रावरुणाध्रु॒वाणि॒(स्वाहा᳚) || 4 ||

या¦ध॒र्तारा᳚¦रज॑सः¦रो॒च॒नस्य॑¦उ॒त¦आ॒दि॒त्या¦दि॒व्या¦पार्थि॑वस्य |
न¦वा॒‌म्¦दे॒वाः¦अ॒मृताः᳚¦आ¦मि॒न॒न्ति॒¦व्र॒तानि॑¦मि॒त्रा॒व॒रु॒णा॒¦ध्रु॒वाणि॑ ||

[70] पुरुरुणेति चतुरृचस्य सूक्तस्यात्रेय उरुचक्रिर्मित्रावरुणौगायत्री |{मंडल:5, सूक्त:70}{अनुवाक:5, सूक्त:14}{अष्टक:4, अध्याय:4}
पु॒रू॒रुणा᳚चि॒द्ध्यस्त्यवो᳚नू॒नंवां᳚वरुण |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | गायत्री}

मित्र॒वंसि॑वांसुम॒तिम्(स्वाहा᳚) || 1 || वर्ग:8

पु॒रु॒।औ॒रुणा᳚¦चि॒त्¦हि¦अस्ति॑¦अवः॑¦नू॒न‌म्¦वा॒‌म्¦व॒रु॒ण॒ | मित्र॑¦वंसि॑¦वा॒‌म्¦सु॒ऽम॒ति‌म् ||

तावां᳚स॒म्यग॑द्रुह्वा॒णेष॑मश्याम॒धाय॑से |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | गायत्री}

व॒यंतेरु॑द्रास्याम॒(स्वाहा᳚) || 2 ||

ता¦वा॒‌म्¦स॒म्यक्¦अ॒द्रु॒ह्वा॒णा॒¦इष᳚‌म्¦अ॒श्या॒म॒¦धाय॑से | व॒य‌म्¦ते¦रु॒द्रा॒¦स्या॒म॒ ||

पा॒तंनो᳚रुद्रापा॒युभि॑रु॒तत्रा᳚येथांसुत्रा॒त्रा |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | गायत्री}

तु॒र्याम॒दस्यू᳚न्‌त॒नूभिः॒(स्वाहा᳚) || 3 ||

पा॒त‌म्¦नः॒¦रु॒द्रा॒¦पा॒युऽभिः॑¦उ॒त¦त्रा॒ये॒था॒‌म्¦सु॒ऽत्रा॒त्रा | तु॒र्याम॑¦दस्यू᳚न्¦त॒नूभिः॑ ||

माकस्या᳚द्भुतक्रतूय॒क्षंभु॑जेमात॒नूभिः॑ |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | गायत्री}

माशेष॑सा॒मातन॑सा॒(स्वाहा᳚) || 4 ||

मा¦कस्य॑¦अ॒द्भु॒त॒क्र॒तू॒ इत्य॑द्भुतऽक्रतू¦य॒क्ष‌म्¦भु॒जे॒म॒¦त॒नूभिः॑ | मा¦शेष॑सा¦मा¦तन॑सा ||

[71] आनोगंतरिति तृचस्य सूक्तस्यात्रेयोबाहुवृक्तोमित्रावरुणौगायत्री |{मंडल:5, सूक्त:71}{अनुवाक:5, सूक्त:15}{अष्टक:4, अध्याय:4}
आनो᳚गन्तंरिशादसा॒वरु॑ण॒मित्र॑ब॒र्हणा᳚ |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | गायत्री}

उपे॒मंचारु॑मध्व॒रम्(स्वाहा᳚) || 1 || वर्ग:9

आ¦नः॒¦ग॒न्त॒‌म्¦रि॒शा॒द॒सा॒¦वरु॑ण¦मित्र॑¦ब॒र्हणा᳚ | उप॑¦इ॒म‌म्¦चारु᳚‌म्¦अ॒ध्व॒र‌म् ||

विश्व॑स्य॒हिप्र॑चेतसा॒वरु॑ण॒मित्र॒राज॑थः |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | गायत्री}

ई॒शा॒नापि॑प्यतं॒धियः॒(स्वाहा᳚) || 2 ||

विश्व॑स्य¦हि¦प्र॒ऽचे॒त॒सा॒¦वरु॑ण¦मित्र॑¦राज॑थः | ई॒शा॒ना¦पि॒प्य॒त॒‌म्¦धियः॑ ||

उप॑नःसु॒तमाग॑तं॒वरु॑ण॒मित्र॑दा॒शुषः॑ |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | गायत्री}

अ॒स्यसोम॑स्यपी॒तये॒(स्वाहा᳚) || 3 ||

उप॑¦नः॒¦सु॒त‌म्¦आ¦ग॒त॒‌म्¦वरु॑ण¦मित्र॑¦दा॒शुषः॑ | अ॒स्य¦सोम॑स्य¦पी॒तये᳚ ||

[72] आमित्रइति तृचस्य सूक्तस्यात्रेयोबाहुवृक्तोमित्रावरुणावुष्णिक् |{मंडल:5, सूक्त:72}{अनुवाक:5, सूक्त:16}{अष्टक:4, अध्याय:4}
आमि॒त्रेवरु॑णेव॒यंगी॒र्भिर्जु॑हुमो,अत्रि॒वत् |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | उष्णिक्}

निब॒र्हिषि॑सदतं॒सोम॑पीतये॒(स्वाहा᳚) || 1 || वर्ग:10

आ¦मि॒त्रे¦वरु॑णे¦व॒य‌म्¦गीः॒ऽभिः¦जु॒हु॒मः॒¦अ॒त्रि॒ऽवत् | नि¦ब॒र्हिषि॑¦स॒द॒त॒‌म्¦सोम॑ऽपीतये ||

व्र॒तेन॑स्थोध्रु॒वक्षे᳚मा॒धर्म॑णायात॒यज्ज॑ना |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | उष्णिक्}

निब॒र्हिषि॑सदतं॒सोम॑पीतये॒(स्वाहा᳚) || 2 ||

व्र॒तेन॑¦स्थः॒¦ध्रु॒वऽक्षे᳚मा¦धर्म॑णा¦या॒त॒यत्ऽज॑ना | नि¦ब॒र्हिषि॑¦स॒द॒त॒‌म्¦सोम॑ऽपीतये ||

मि॒त्रश्च॑नो॒वरु॑णश्चजु॒षेतां᳚य॒ज्ञमि॒ष्टये᳚ |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | उष्णिक्}

निब॒र्हिषि॑सदतां॒सोम॑पीतये॒(स्वाहा᳚) || 3 ||

मि॒त्रः¦च॒¦नः॒¦वरु॑णः¦च॒¦जु॒षेता᳚‌म्¦य॒ज्ञ‌म्¦इ॒ष्टये᳚ | नि¦ब॒र्हिषि॑¦स॒द॒त॒‌म्¦सोम॑ऽपीतये ||

[73] यदद्यस्थइति दशर्चस्यसूतस्यात्रेयः पौरोश्विनावनुष्टुप् |{मंडल:5, सूक्त:73}{अनुवाक:6, सूक्त:1}{अष्टक:4, अध्याय:4}
यद॒द्यस्थःप॑रा॒वति॒यद᳚र्वा॒वत्य॑श्विना |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

यद्‌वा᳚पु॒रूपु॑रुभुजा॒यद॒न्तरि॑क्ष॒आग॑त॒‌म्(स्वाहा᳚) || 1 || वर्ग:11

यत्¦अ॒द्य¦स्थः¦पा॒रा॒ऽवति॑¦यत्¦आ॒र्वा॒ऽवति॑¦अ॒श्वि॒ना॒ | यत्¦वा॒¦पु॒रु¦पु॒रु॒ऽभु॒जा॒¦यत्¦अ॒न्तरि॑क्षे¦आ¦ग॒त॒‌म् ||

इ॒हत्यापु॑रु॒भूत॑मापु॒रूदंसां᳚सि॒बिभ्र॑ता |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

व॒र॒स्याया॒म्यध्रि॑गूहु॒वेतु॒विष्ट॑माभु॒जे(स्वाहा᳚) || 2 ||

इ॒ह¦त्या¦पु॒रु॒ऽभूत॑मा¦पु॒रु¦दंसां᳚सि¦बिभ्र॑ता | व॒र॒स्या¦या॒मि॒¦अध्रि॑गू॒ इत्यध्रि॑ऽगू¦हु॒वे¦तु॒विःऽत॑मा¦भु॒जे ||

ई॒र्मान्यद्‌वपु॑षे॒वपु॑श्च॒क्रंरथ॑स्ययेमथुः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

पर्य॒न्यानाहु॑षायु॒गाम॒ह्नारजां᳚सिदीयथः॒(स्वाहा᳚) || 3 ||

ई॒र्मा¦अ॒न्यत्¦वपु॑षे¦वपुः॑¦च॒क्र‌म्¦रथ॑स्य¦ये॒म॒थुः॒ | परि॑¦अ॒न्या¦नाहु॑षा¦यु॒गा¦म॒ह्ना¦रजां᳚सि¦दी॒य॒थः॒ ||

तदू॒षुवा᳚मे॒नाकृ॒तंविश्वा॒यद्‌वा॒मनु॒ष्टवे᳚ |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

नाना᳚जा॒ताव॑रे॒पसा॒सम॒स्मेबन्धु॒मेय॑थुः॒(स्वाहा᳚) || 4 ||

तत्¦ऊँ॒ इति॑¦सु¦वा॒‌म्¦ए॒ना¦कृ॒त‌म्¦विश्वा᳚¦यत्¦वा॒‌म्¦अनु॑¦स्तवे᳚ | नाना᳚¦जा॒तौ¦अ॒रे॒पसा᳚¦स‌म्¦अ॒स्मे इति॑¦बन्धु᳚‌म्¦आ¦ई॒य॒थुः॒ ||

आयद्‌वां᳚सू॒र्यारथं॒तिष्ठ॑द्‌रघु॒ष्यदं॒सदा᳚ |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

परि॑वामरु॒षावयो᳚घृ॒णाव॑रन्तआ॒तपः॒(स्वाहा᳚) || 5 ||

आ¦यत्¦वा॒‌म्¦सू॒र्या¦रथ᳚‌म्¦तिष्ठ॑त्¦र॒घु॒ऽस्यद᳚‌म्¦सदा᳚ | परि॑¦वा॒‌म्¦अ॒रु॒षाः¦वयः॑¦घृ॒णा¦व॒र॒न्ते॒¦आ॒ऽतपः॑ ||

यु॒वोरत्रि॑श्चिकेतति॒नरा᳚सु॒म्नेन॒चेत॑सा |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

घ॒र्मंयद्‌वा᳚मरे॒पसं॒नास॑त्या॒स्नाभु॑र॒ण्यति॒(स्वाहा᳚) || 6 || वर्ग:12

यु॒वोः¦अत्रिः॑¦चि॒के॒त॒ति॒¦नरा᳚¦सु॒म्नेन॑¦चेत॑सा | घ॒र्म‌म्¦यत्¦वा॒‌म्¦अ॒रे॒पस᳚‌म्¦नास॑त्या¦आ॒स्ना¦भु॒र॒ण्यति॑ ||

उ॒ग्रोवां᳚ककु॒होय॒यिःशृ॒ण्वेयामे᳚षुसंत॒निः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

यद्‌वां॒दंसो᳚भिरश्वि॒नाऽत्रि᳚र्नराव॒वर्त॑ति॒(स्वाहा᳚) || 7 ||

उ॒ग्रः¦वा॒‌म्¦क॒कु॒हः¦य॒यिः¦शृ॒ण्वे¦यामे᳚षु¦स॒‌म्ऽत॒निः | यत्¦वा॒‌म्¦दंसः॑ऽभिः¦अ॒श्वि॒ना॒¦अत्रिः॑¦न॒रा॒¦आ॒ऽव॒वर्त॑ति ||

मध्व॑ऊ॒षुम॑धूयुवा॒रुद्रा॒सिष॑क्तिपि॒प्युषी᳚ |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

यत्‌स॑मु॒द्राति॒पर्ष॑थःप॒क्वाःपृक्षो᳚भरन्तवा॒‌म्(स्वाहा᳚) || 8 ||

मध्वः॑¦ऊँ॒ इति॑¦सु¦म॒धु॒ऽयु॒वा॒¦रुद्रा᳚¦सिस॑क्ति¦पि॒प्युषी᳚ | यत्¦स॒मु॒द्रा¦अति॑¦पर्ष॑थः¦प॒क्वाः¦पृक्षः॑¦भ॒र॒न्त॒¦वा॒‌म् ||

स॒त्यमिद्‌वा,उ॑अश्विनायु॒वामा᳚हुर्मयो॒भुवा᳚ |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

तायाम᳚न्‌याम॒हूत॑मा॒याम॒न्नामृ॑ळ॒यत्त॑मा॒(स्वाहा᳚) || 9 ||

स॒त्य‌म्¦इत्¦वै¦ऊँ॒ इति॑¦अ॒श्वि॒ना॒¦यु॒वा‌म्¦आ॒हुः॒¦म॒यः॒ऽभुवा᳚ | ता¦याम॑न्¦या॒म॒ऽहूत॑मा¦याम॑न्¦आ¦मृ॒ळ॒यत्ऽत॑मा ||

इ॒माब्रह्मा᳚णि॒वर्ध॑ना॒ऽश्विभ्यां᳚सन्तु॒शंत॑मा |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

यातक्षा᳚म॒रथाँ᳚,इ॒वाऽवो᳚चामबृ॒हन्नमः॒(स्वाहा᳚) || 10 ||

इ॒मा¦ब्रह्मा᳚णि¦वर्ध॑ना¦अ॒श्विऽभ्या᳚‌म्¦स॒न्तु॒¦श‌म्ऽत॑मा | या¦तक्षा᳚म¦रथा᳚न्ऽ‌इव¦अवो᳚चाम¦बृ॒हत्¦नमः॑ ||

[74] कूष्ठोदेवाविति दशर्चस्य सूक्तस्यात्रेयः पौरोश्विनावनुष्टुप् |{मंडल:5, सूक्त:74}{अनुवाक:6, सूक्त:2}{अष्टक:4, अध्याय:4}
कूष्ठो᳚देवावश्विना॒ऽद्यादि॒वोम॑नावसू |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

तच्छ्र॑वथोवृषण्वसू॒,अत्रि᳚र्वा॒मावि॑वासति॒(स्वाहा᳚) || 1 || वर्ग:13

कूऽस्थः॑¦दे॒वौ॒¦अ॒श्वि॒ना॒¦अ॒द्य¦दि॒वः¦म॒ना॒व॒सू॒ इति॑ | तत्¦श्र॒व॒थः॒¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू¦अत्रिः॑¦वा॒‌म्¦आ¦वि॒वा॒स॒ति॒ ||

कुह॒त्याकुह॒नुश्रु॒तादि॒विदे॒वानास॑त्या |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

कस्मि॒न्नाय॑तथो॒जने॒कोवां᳚न॒दीनां॒सचा॒(स्वाहा᳚) || 2 ||

कुह॑¦त्या¦कुह॑¦नु¦श्रु॒ता¦दि॒वि¦दे॒वा¦नास॑त्या | कस्मि॑न्¦आ¦य॒त॒थः॒¦जने᳚¦कः¦वा॒‌म्¦न॒दीना᳚‌म्¦सचा᳚ ||

कंया᳚थः॒कंह॑गच्छथः॒कमच्छा᳚युञ्जाथे॒रथ᳚म् |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

कस्य॒ब्रह्मा᳚णिरण्यथोव॒यंवा᳚मुश्मसी॒ष्टये॒(स्वाहा᳚) || 3 ||

क‌म्¦या॒थः॒¦क‌म्¦ह॒¦ग॒च्छ॒थः॒¦क‌म्¦अच्छ॑¦युं॒जा॒थे॒ इति॑¦रथ᳚‌म् | कस्य॑¦ब्रह्मा᳚णि¦र॒ण्य॒थः॒¦व॒य‌म्¦वा॒‌म्¦उ॒श्म॒सि॒¦इ॒ष्टये᳚ ||

पौ॒रंचि॒द्ध्यु॑द॒प्रुतं॒पौर॑पौ॒राय॒जिन्व॑थः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

यदीं᳚गृभी॒तता᳚तयेसिं॒हमि॑वद्रु॒हस्प॒दे(स्वाहा᳚) || 4 ||

पौ॒र‌म्¦चि॒त्¦हि¦उ॒द॒ऽप्रुत᳚‌म्¦पौर॑¦पौ॒राय॑¦जिन्व॑थः | यत्¦ई॒‌म्¦गृ॒भी॒तऽता᳚तये¦सिं॒ह‌म्ऽ‌इ᳚व¦द्रु॒हः¦प॒दे ||

प्रच्यवा᳚नाज्जुजु॒रुषो᳚व॒व्रिमत्कं॒नमु᳚ञ्चथः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

युवा॒यदी᳚कृ॒थःपुन॒राकाम॑मृण्वेव॒ध्व॑१(अः॒)(स्वाहा᳚) || 5 ||

प्र¦च्यवा᳚नात्¦जु॒जु॒रुषः॑¦व॒व्रि‌म्¦अत्क᳚‌म्¦न¦मुं॒च॒थः॒ | युवा᳚¦यदि॑¦कृ॒थः¦पुनः॑¦आ¦काम᳚‌म्¦ऋ॒ण्वे॒¦व॒ध्वः॑ ||

अस्ति॒हिवा᳚मि॒हस्तो॒तास्मसि॑वांसं॒दृशि॑श्रि॒ये |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

नूश्रु॒तंम॒आग॑त॒मवो᳚भिर्वाजिनीवसू॒(स्वाहा᳚) || 6 || वर्ग:14

अस्ति॑¦हि¦वा॒‌म्¦इ॒ह¦स्तो॒ता¦स्मसि॑¦वा॒‌म्¦स॒‌म्ऽदृशि॑¦श्रि॒ये | नु¦श्रु॒त‌म्¦मे॒¦आ¦ग॒त॒‌म्¦अवः॑ऽभिः¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ||

कोवा᳚म॒द्यपु॑रू॒णामाव᳚व्ने॒मर्त्या᳚नाम् |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

कोविप्रो᳚विप्रवाहसा॒कोय॒ज्ञैर्वा᳚जिनीवसू॒(स्वाहा᳚) || 7 ||

कः¦वा॒‌म्¦अ॒द्य¦पु॒रू॒णा‌म्¦आ¦व॒व्ने॒¦मर्त्या᳚ना‌म् | कः¦विप्रः॑¦वि॒प्र॒ऽवा॒ह॒सा॒¦कः¦य॒ज्ञैः¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ||

आवां॒रथो॒रथा᳚नां॒येष्ठो᳚यात्वश्विना |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

पु॒रूचि॑दस्म॒युस्ति॒रआ᳚ङ्गू॒षोमर्त्ये॒ष्वा(स्वाहा᳚) || 8 ||

आ¦वा॒‌म्¦रथः॑¦रथा᳚ना‌म्¦येष्ठः॑¦या॒तु॒¦अ॒श्वि॒ना॒ | पु॒रु¦चि॒त्¦अ॒स्म॒ऽयुः¦ति॒रः¦आ॒ङ्गू॒षः¦मर्त्ये᳚षु¦आ ||

शमू॒षुवां᳚मधूयुवा॒ऽस्माक॑मस्तुचर्कृ॒तिः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

अ॒र्वा॒ची॒नावि॑चेतसा॒विभिः॑श्ये॒नेव॑दीयत॒‌म्(स्वाहा᳚) || 9 ||

श‌म्¦ऊँ॒ इति॑¦सु¦वा॒‌म्¦म॒धु॒ऽयु॒वा॒¦अ॒स्माक᳚‌म्¦अ॒स्तु॒¦च॒र्कृ॒तिः | अ॒र्वा॒ची॒ना¦वि॒ऽचे॒त॒सा॒¦विऽभिः॑¦श्ये॒नाऽ‌इ᳚व¦दी॒य॒त॒‌म् ||

अश्वि॑ना॒यद्ध॒कर्हि॑चिच्छुश्रू॒यात॑मि॒मंहव᳚म् |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

वस्वी᳚रू॒षुवां॒भुजः॑पृ॒ञ्चन्ति॒सुवां॒पृचः॒(स्वाहा᳚) || 10 ||

अश्वि॑ना¦यत्¦ह॒¦कर्हि॑¦चि॒त्¦शु॒श्रु॒यात᳚‌म्¦इ॒म‌म्¦हव᳚‌म् | वस्वीः᳚¦ऊँ॒ इति॑¦सु¦वा॒‌म्¦भुजः॑¦पृं॒चन्ति॑¦सु¦वा॒‌म्¦पृचः॑ ||

[75] प्रतिप्रियतममिति नवर्चस्य सूक्तस्यात्रेयोवस्युरश्विनौपङ्क्तिः |{मंडल:5, सूक्त:75}{अनुवाक:6, सूक्त:3}{अष्टक:4, अध्याय:4}
प्रति॑प्रि॒यत॑मं॒रथं॒वृष॑णंवसु॒वाह॑नम् |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

स्तो॒तावा᳚मश्विना॒वृषिः॒स्तोमे᳚न॒प्रति॑भूषति॒माध्वी॒मम॑श्रुतं॒हव॒‌म्(स्वाहा᳚) || 1 || वर्ग:15

प्रति॑¦प्रि॒यऽत॑म‌म्¦रथ᳚‌म्¦वृष॑ण‌म्¦व॒सु॒ऽवाह॑न‌म् |
स्तो॒ता¦वा॒‌म्¦अ॒श्वि॒नौ॒¦ऋषिः॑¦स्तोमे᳚न¦प्रति॑¦भू॒ष॒ति॒¦माध्वी॒ इति॑¦मम॑¦श्रुत᳚‌म्¦हव᳚‌म् ||

अ॒त्याया᳚तमश्विनाति॒रोविश्वा᳚,अ॒हंसना᳚ |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

दस्रा॒हिर᳚ण्यवर्तनी॒सुषु᳚म्ना॒सिन्धु॑वाहसा॒माध्वी॒मम॑श्रुतं॒हव॒‌म्(स्वाहा᳚) || 2 ||

अ॒ति॒ऽआया᳚त‌म्¦अ॒श्वि॒ना॒¦ति॒रः¦विश्वाः᳚¦अ॒ह‌म्¦सना᳚ |
दस्रा᳚¦हिर᳚ण्यवर्तनी॒ इति॒ हिर᳚ण्यऽवर्तनी¦सुऽसु᳚म्ना¦सिन्धु॑ऽवाहसा¦माध्वी॒ इति॑¦मम॑¦श्रुत᳚‌म्¦हव᳚‌म् ||

आनो॒रत्ना᳚नि॒बिभ्र॑ता॒वश्वि॑ना॒गच्छ॑तंयु॒वम् |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

रुद्रा॒हिर᳚ण्यवर्तनीजुषा॒णावा᳚जिनीवसू॒माध्वी॒मम॑श्रुतं॒हव॒‌म्(स्वाहा᳚) || 3 ||

आ¦नः॒¦रत्ना᳚नि¦बिभ्र॑तौ¦अश्वि॑ना¦गच्छ॑त‌म्¦यु॒व‌म् |
रुद्रा᳚¦हिर᳚ण्यवर्तनी॒ इति॒ हिर᳚ण्यऽवर्तनी¦जु॒षा॒णा¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू¦माध्वी॒ इति॑¦मम॑¦श्रुत᳚‌म्¦हव᳚‌म् ||

सु॒ष्टुभो᳚वांवृषण्वसू॒रथे॒वाणी॒च्याहि॑ता |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

उ॒तवां᳚ककु॒होमृ॒गःपृक्षः॑कृणोतिवापु॒षोमाध्वी॒मम॑श्रुतं॒हव॒‌म्(स्वाहा᳚) || 4 ||

सु॒ऽस्तुभः॑¦वा॒‌म्¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू¦रथे᳚¦वाणी᳚ची¦आऽहि॑ता |
उ॒त¦वा॒‌म्¦क॒कु॒हः¦मृ॒गः¦पृक्षः॑¦कृ॒णो॒ति॒¦वा॒पु॒षः¦माध्वी॒ इति॑¦मम॑¦श्रु॒त॒‌म्¦हव᳚‌म् ||

बो॒धिन्म॑नसार॒थ्ये᳚षि॒राह॑वन॒श्रुता᳚ |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

विभि॒श्च्यवा᳚नमश्विना॒निया᳚थो॒,अद्व॑याविनं॒माध्वी॒मम॑श्रुतं॒हव॒‌म्(स्वाहा᳚) || 5 ||

बो॒धित्ऽम॑नसा¦र॒थ्या᳚¦इ॒षि॒रा¦ह॒व॒न॒ऽश्रुता᳚ |
विऽभिः॑¦च्यवा᳚न‌म्¦अ॒श्वि॒ना॒¦नि¦या॒थः॒¦अद्व॑याविन‌म्¦माध्वी॒ इति॑¦मम॑¦श्रु॒त॒‌म्¦हव᳚‌म् ||

आवां᳚नरामनो॒युजोऽश्वा᳚सःप्रुषि॒तप्स॑वः |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

वयो᳚वहन्तुपी॒तये᳚स॒हसु॒म्नेभि॑रश्विना॒माध्वी॒मम॑श्रुतं॒हव॒‌म्(स्वाहा᳚) || 6 || वर्ग:16

आ¦वा॒‌म्¦न॒रा॒¦म॒नः॒ऽयुजः॑¦अश्वा᳚सः¦प्रु॒षि॒तऽप्स॑वः |
वयः॑¦व॒ह॒न्तु॒¦पी॒तये᳚¦स॒ह¦सु॒म्नेभिः॑¦अ॒श्वि॒ना॒¦माध्वी॒ इति॑¦मम॑¦श्रु॒त॒‌म्¦हव᳚‌म् ||

अश्वि॑ना॒वेहग॑च्छतं॒नास॑त्या॒माविवे᳚नतम् |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

ति॒रश्चि॑दर्य॒यापरि॑व॒र्तिर्या᳚तमदाभ्या॒माध्वी॒मम॑श्रुतं॒हव॒‌म्(स्वाहा᳚) || 7 ||

अश्वि॑नौ¦आ¦इ॒ह¦ग॒च्छ॒त॒‌म्¦नास॑त्या¦मा¦वि¦वे॒न॒त॒‌म् |
ति॒रः¦चि॒त्¦अ॒र्य॒ऽया¦परि॑¦व॒र्तिः¦या॒त॒‌म्¦अ॒दा॒भ्या॒¦माध्वी॒ इति॑¦मम॑¦श्रु॒त॒‌म्¦हव᳚‌म् ||

अ॒स्मिन्‌य॒ज्ञे,अ॑दाभ्याजरि॒तारं᳚शुभस्पती |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

अ॒व॒स्युम॑श्विनायु॒वंगृ॒णन्त॒मुप॑भूषथो॒माध्वी॒मम॑श्रुतं॒हव॒‌म्(स्वाहा᳚) || 8 ||

अ॒स्मिन्¦य॒ज्ञे¦अ॒दा॒भ्या॒¦ज॒रि॒तार᳚‌म्¦शु॒भः॒¦प॒ती॒ इति॑ |
अ॒व॒स्यु‌म्¦अ॒श्वि॒ना॒¦यु॒व‌म्¦गृ॒णन्त᳚‌म्¦उप॑¦भू॒ष॒थः॒¦माध्वी॒ इति॑¦मम॑¦श्रु॒त॒‌म्¦हव᳚‌म् ||

अभू᳚दु॒षारुश॑त्पशु॒राग्निर॑धाय्यृ॒त्वियः॑ |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

अयो᳚जिवांवृषण्वसू॒रथो᳚दस्रा॒वम॑र्त्यो॒माध्वी॒मम॑श्रुतं॒हव॒‌म्(स्वाहा᳚) || 9 ||

अभू᳚त्¦उ॒षाः¦रुश॑त्ऽपशुः¦आ¦अ॒ग्निः¦अ॒धा॒यि॒¦ऋ॒त्वियः॑ |
अयो᳚जि¦वा॒‌म्¦वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू¦रथः॑¦द॒स्रौ॒¦अम॑र्त्यः¦माध्वी॒ इति॑¦मम॑¦श्रु॒त॒‌म्¦हव᳚‌म् ||

[76] आभात्यग्निरिति पंचर्चस्य सूक्तस्य भौमोत्रिरश्विनौत्रिष्टुप् |{मंडल:5, सूक्त:76}{अनुवाक:6, सूक्त:4}{अष्टक:4, अध्याय:4}
आभा᳚त्य॒ग्निरु॒षसा॒मनी᳚क॒मुद्‌विप्रा᳚णांदेव॒यावाचो᳚,अस्थुः |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

अ॒र्वाञ्चा᳚नू॒नंर॑थ्ये॒हया᳚तंपीपि॒वांस॑मश्विनाघ॒र्ममच्छ॒(स्वाहा᳚) || 1 || वर्ग:17

आ¦भा॒ति॒¦अ॒ग्निः¦उ॒षसा᳚‌म्¦अनी᳚क‌म्¦उत्¦विप्रा᳚णा‌म्¦दे॒व॒ऽयाः¦वाचः॑¦अ॒स्थुः॒ |
अ॒र्वांचा᳚¦नू॒न‌म्¦र॒थ्या॒¦इ॒ह¦या॒त॒‌म्¦पी॒पि॒ऽवांस᳚‌म्¦अ॒श्वि॒ना॒¦घ॒र्म‌म्¦अच्छ॑ ||

नसं᳚स्कृ॒तंप्रमि॑मीतो॒गमि॒ष्ठाऽन्ति॑नू॒नम॒श्विनोप॑स्तुते॒ह |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

दिवा᳚भिपि॒त्वेऽव॒साग॑मिष्ठा॒प्रत्यव॑र्तिंदा॒शुषे॒शम्भ॑विष्ठा॒(स्वाहा᳚) || 2 ||

न¦सं॒स्कृ॒त‌म्¦प्र¦मि॒मी॒तः॒¦गमि॑ष्ठा¦अन्ति॑¦नू॒न‌म्¦अ॒श्विना᳚¦उप॑ऽस्तुता¦इ॒ह |
दि॒वा᳚¦अ॒भि॒ऽपि॒त्वे¦अव॑सा¦आऽग॑मिष्ठा¦प्रति॑¦अव॑र्ति‌म्¦दा॒शुषे᳚¦श‌म्ऽभ॑विष्ठा ||

उ॒ताया᳚तंसंग॒वेप्रा॒तरह्नो᳚म॒ध्यंदि॑न॒उदि॑ता॒सूर्य॑स्य |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

दिवा॒नक्त॒मव॑सा॒शंत॑मेन॒नेदानीं᳚पी॒तिर॒श्विनात॑तान॒(स्वाहा᳚) || 3 ||

उ॒त¦आ¦या॒त॒‌म्¦स॒‌म्ऽग॒वे¦प्रा॒तः¦अह्नः॑¦म॒ध्यंदि॑ने¦उत्ऽ‌इ᳚ता¦सूर्य॑स्य |
दिवा᳚¦नक्त᳚‌म्¦अव॑सा¦श‌म्ऽत॑मेन¦न¦इ॒दानी᳚‌म्¦पी॒तिः¦अ॒श्विना᳚¦आ¦त॒ता॒न॒ ||

इ॒दंहिवां᳚प्र॒दिवि॒स्थान॒मोक॑इ॒मेगृ॒हा,अ॑श्विने॒दंदु॑रो॒णम् |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

आनो᳚दि॒वोबृ॑ह॒तःपर्व॑ता॒दाऽद्भ्योया᳚त॒मिष॒मूर्जं॒वह᳚न्ता॒(स्वाहा᳚) || 4 ||

इ॒द‌म्¦हि¦वा॒‌म्¦प्र॒ऽदिवि॑¦स्थान᳚‌म्¦ओकः॑¦इ॒मे¦गृ॒हाः¦अ॒श्वि॒ना॒¦इ॒द‌म्¦दु॒रो॒ण‌म् |
आ¦नः॒¦दि॒वः¦बृ॒ह॒तः¦पर्व॑तात्¦आ¦अ॒त्ऽभ्यः¦या॒त॒‌म्¦इष᳚‌म्¦ऊर्ज᳚‌म्¦वह᳚न्ता ||

सम॒श्विनो॒रव॑सा॒नूत॑नेनमयो॒भुवा᳚सु॒प्रणी᳚तीगमेम |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

आनो᳚र॒यिंव॑हत॒मोतवी॒रानाविश्वा᳚न्यमृता॒सौभ॑गानि॒(स्वाहा᳚) || 5 ||

स‌म्¦अ॒श्विनोः᳚¦अव॑सा¦नूत॑नेन¦म॒यः॒ऽभुवा᳚¦सु॒ऽप्रनी᳚ती¦ग॒मे॒म॒ |
आ¦नः॒¦र॒यि‌म्¦व॒ह॒त॒‌म्¦आ¦उ॒त¦वी॒रान्¦आ¦विश्वा᳚नि¦अ॒मृ॒ता॒¦सौभ॑गानि ||

[77] प्रातर्यावाणेति पंचर्चस्य सूक्तस्य भौमोत्रिरश्विनौत्रिष्टुप् |{मंडल:5, सूक्त:77}{अनुवाक:6, सूक्त:5}{अष्टक:4, अध्याय:4}
प्रा॒त॒र्यावा᳚णाप्रथ॒माय॑जध्वंपु॒रागृध्रा॒दर॑रुषःपिबातः |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

प्रा॒तर्हिय॒ज्ञम॒श्विना᳚द॒धाते॒प्रशं᳚सन्तिक॒वयः॑पूर्व॒भाजः॒(स्वाहा᳚) || 1 || वर्ग:18

प्रा॒तः॒ऽयावा᳚ना¦प्र॒थ॒मा¦य॒ज॒ध्व॒‌म्¦पु॒रा¦गृध्रा᳚त्¦अर॑रुषः¦पि॒बा॒तः॒ |
प्रा॒तः¦हि¦य॒ज्ञ‌म्¦अ॒श्विना᳚¦द॒धाते॒ इति॑¦प्र¦शं॒स॒न्ति॒¦क॒वयः॑¦पू॒र्व॒ऽभाजः॑ ||

प्रा॒तर्य॑जध्वम॒श्विना᳚हिनोत॒नसा॒यम॑स्तिदेव॒या,अजु॑ष्टम् |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

उ॒तान्यो,अ॒स्मद्‌य॑जते॒विचावः॒पूर्वः॑पूर्वो॒यज॑मानो॒वनी᳚या॒‌न्(स्वाहा᳚) || 2 ||

प्रा॒तः¦य॒ज॒ध्व॒‌म्¦अ॒श्विना᳚¦हि॒नो॒त॒¦न¦सा॒य‌म्¦अ॒स्ति॒¦दे॒व॒ऽयाः¦अजु॑ष्ट‌म् |
उ॒त¦अ॒न्यः¦अ॒स्मत्¦य॒ज॒ते॒¦वि¦च॒¦आवः॑¦पूर्वः॑ऽपूर्वः¦यज॑मानः¦वनी᳚यान् ||

हिर᳚ण्यत्व॒ङ्मधु॑वर्णोघृ॒तस्नुः॒पृक्षो॒वह॒न्नारथो᳚वर्ततेवाम् |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

मनो᳚जवा,अश्विना॒वात॑रंहा॒येना᳚तिया॒थोदु॑रि॒तानि॒विश्वा॒(स्वाहा᳚) || 3 ||

हिर᳚ण्यऽत्वक्¦मधु॑ऽवर्णः¦घृ॒तऽस्नुः॑¦पृक्षः॑¦वह॑न्¦आ¦रथः॑¦व॒र्त॒ते॒¦वा॒‌म् |
मनः॑ऽजवाः¦अ॒श्वि॒ना॒¦वात॑ऽरंहाः¦येन॑¦अ॒ति॒ऽया॒थः¦दुः॒ऽ‌इ॒तानि॑¦विश्वा᳚ ||

योभूयि॑ष्ठं॒नास॑त्याभ्यांवि॒वेष॒चनि॑ष्ठंपि॒त्वोरर॑तेविभा॒गे |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

सतो॒कम॑स्यपीपर॒च्छमी᳚भि॒रनू᳚र्ध्वभासः॒सद॒मित्‌तु॑तुर्या॒‌त्(स्वाहा᳚) || 4 ||

यः¦भूयि॑ष्ठ‌म्¦नास॑त्याभ्या‌म्¦वि॒वेष॑¦चनि॑ष्ठ‌म्¦पि॒त्वः¦रर॑ते¦वि॒ऽभा॒गे |
सः¦तो॒क‌म्¦अ॒स्य॒¦पी॒प॒र॒त्¦शमी᳚भिः¦अनू᳚र्ध्वऽभासः¦सद᳚‌म्¦इत्¦तु॒तु॒र्या॒त् ||

सम॒श्विनो॒रव॑सा॒नूत॑नेनमयो॒भुवा᳚सु॒प्रणी᳚तीगमेम |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

आनो᳚र॒यिंव॑हत॒मोतवी॒रानाविश्वा᳚न्यमृता॒सौभ॑गानि॒(स्वाहा᳚) || 5 ||

स‌म्¦अ॒श्विनोः᳚¦अव॑सा¦नूत॑नेन¦म॒यः॒ऽभुवा᳚¦सु॒ऽप्रनी᳚ती¦ग॒मे॒म॒ |
आ¦नः॒¦र॒यि‌म्¦व॒ह॒त॒‌म्¦आ¦उ॒त¦वी॒रान्¦आ¦विश्वा᳚नि¦अ॒मृ॒ता॒¦सौभ॑गानि ||

[78] अश्विनाविति नवर्चस्य सूक्तस्यात्रेयःसप्तवध्रिरश्विनावनुष्टुप् आद्यास्तिस्रउष्णिहश्चतुर्थीत्रिष्टुप् ( पंचम्यादिपंचगर्भस्राविण्यउपनिषदः ) |{मंडल:5, सूक्त:78}{अनुवाक:6, सूक्त:6}{अष्टक:4, अध्याय:4}
अश्वि॑ना॒वेहग॑च्छतं॒नास॑त्या॒माविवे᳚नतम् |{आत्रेयः सप्तवध्रिः | अश्विनौ | उष्णिक्}

हं॒सावि॑वपतत॒मासु॒ताँ,उप॒(स्वाहा᳚) || 1 || वर्ग:19

अश्वि॑नौ¦आ¦इ॒ह¦ग॒च्छ॒त॒‌म्¦नास॑त्या¦मा¦वि¦वे॒न॒त॒‌म् | हं॒सौऽ‌इ᳚व¦प॒त॒त॒‌म्¦आ¦सु॒तान्¦उप॑ ||

अश्वि॑नाहरि॒णावि॑वगौ॒रावि॒वानु॒यव॑सम् |{आत्रेयः सप्तवध्रिः | अश्विनौ | उष्णिक्}

हं॒सावि॑वपतत॒मासु॒ताँ,उप॒(स्वाहा᳚) || 2 ||

अश्वि॑ना¦ह॒रि॒णौऽ‌इ᳚व¦गौ॒रौऽ‌इ᳚व¦अनु॑¦यव॑स‌म् | हं॒सौऽ‌इ᳚व¦प॒त॒त॒‌म्¦आ¦सु॒तान्¦उप॑ ||

अश्वि॑नावाजिनीवसूजु॒षेथां᳚य॒ज्ञमि॒ष्टये᳚ |{आत्रेयः सप्तवध्रिः | अश्विनौ | उष्णिक्}

हं॒सावि॑वपतत॒मासु॒ताँ,उप॒(स्वाहा᳚) || 3 ||

अश्वि॑ना¦वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू¦जु॒षेथा᳚‌म्¦य॒ज्ञ‌म्¦इ॒ष्टये᳚ | हं॒सौऽ‌इ᳚व¦प॒त॒त॒‌म्¦आ¦सु॒तान्¦उप॑ ||

अत्रि॒र्यद्‌वा᳚मव॒रोह᳚न्नृ॒बीस॒मजो᳚हवी॒न्नाध॑मानेव॒योषा᳚ |{आत्रेयः सप्तवध्रिः | अश्विनौ | त्रिष्टुप्}

श्ये॒नस्य॑चि॒ज्जव॑सा॒नूत॑ने॒नाऽऽग॑च्छतमश्विना॒शंत॑मेन॒(स्वाहा᳚) || 4 ||

अत्रिः॑¦यत्¦वा॒‌म्¦अ॒व॒ऽरोह॑न्¦ऋ॒बीस᳚‌म्¦अजो᳚हवीत्¦नाध॑मानाऽ‌इव¦योषा᳚ |
श्ये॒नस्य॑¦चि॒त्¦जव॑सा¦नूत॑नेन¦आ¦अ॒ग॒च्छ॒त॒‌म्¦अ॒श्वि॒ना॒¦श‌म्ऽत॑मेन ||

विजि॑हीष्ववनस्पते॒योनिः॒सूष्य᳚न्त्या,इव |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्}

श्रु॒तंमे᳚,अश्विना॒हवं᳚स॒प्तव॑ध्रिंचमुञ्चत॒‌म्(स्वाहा᳚) || 5 || वर्ग:20

वि¦जि॒ही॒ष्व॒¦व॒न॒स्प॒ते॒¦योनिः॑¦सूष्य᳚न्त्याःऽ‌इव | श्रु॒त‌म्¦मे॒¦अ॒श्वि॒ना॒¦हव᳚‌म्¦स॒प्तऽव॑ध्रि‌म्¦च॒¦मुं॒च॒त॒‌म् ||

भी॒ताय॒नाध॑मानाय॒ऋष॑येस॒प्तव॑ध्रये |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्}

मा॒याभि॑रश्विनायु॒वंवृ॒क्षंसंच॒विचा᳚चथः॒(स्वाहा᳚) || 6 ||

भी॒ताय॑¦नाध॑मानाय¦ऋष॑ये¦स॒प्तऽव॑ध्रये | मा॒याभिः॑¦अ॒श्वि॒ना॒¦यु॒व‌म्¦वृ॒क्ष‌म्¦स‌म्¦च॒¦वि¦च॒¦अ॒च॒थः॒ ||

यथा॒वातः॑पुष्क॒रिणीं᳚समि॒ङ्गय॑तिस॒र्वतः॑ |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्}

ए॒वाते॒गर्भ॑एजतुनि॒रैतु॒दश॑मास्यः॒(स्वाहा᳚) || 7 ||

यथा᳚¦वातः॑¦पु॒ष्क॒रिणी᳚‌म्¦स॒‌म्ऽ‌इ॒ङ्गय॑ति¦स॒र्वतः॑ | ए॒व¦ते॒¦गर्भः॑¦ए॒ज॒तु॒¦निः॒।आइतु॑¦दश॑ऽमास्यः ||

यथा॒वातो॒यथा॒वनं॒यथा᳚समु॒द्रएज॑ति |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्}

ए॒वात्वंद॑शमास्यस॒हावे᳚हिज॒रायु॑णा॒(स्वाहा᳚) || 8 ||

यथा᳚¦वातः॑¦यथा᳚¦वन᳚‌म्¦यथा᳚¦स॒मु॒द्रः¦एज॑ति | ए॒व¦त्व‌म्¦द॒श॒ऽमा॒स्य॒¦स॒ह¦अव॑¦इ॒हि॒¦ज॒रायु॑णा ||

दश॒मासा᳚ञ्छशया॒नःकु॑मा॒रो,अधि॑मा॒तरि॑ |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्}

नि॒रैतु॑जी॒वो,अक्ष॑तोजी॒वोजीव᳚न्त्या॒,अधि॒(स्वाहा᳚) || 9 ||

दश॑¦मासा᳚न्¦श॒श॒या॒नः¦कु॒मा॒रः¦अधि॑¦मा॒तरि॑ | निः॒।आइतु॑¦जी॒वः¦अक्ष॑तः¦जी॒वः¦जीव᳚न्त्याः¦अधि॑ ||

[79] महेनइति दशर्चस्य सूक्तस्यात्रेयःसत्यश्रवाउषाःपंक्तिः |{मंडल:5, सूक्त:79}{अनुवाक:6, सूक्त:7}{अष्टक:4, अध्याय:4}
म॒हेनो᳚,अ॒द्यबो᳚ध॒योषो᳚रा॒येदि॒वित्म॑ती |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

यथा᳚चिन्नो॒,अबो᳚धयःस॒त्यश्र॑वसिवा॒य्येसुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 1 || वर्ग:21

म॒हे¦नः॒¦अ॒द्य¦बो॒ध॒य॒¦उषः॑¦रा॒ये¦दि॒वित्म॑ती |
यथा᳚¦चि॒त्¦नः॒¦अबो᳚धयः¦स॒त्यऽश्र॑वसि¦वा॒य्ये¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

यासु॑नी॒थेशौ᳚चद्र॒थेव्यौच्छो᳚दुहितर्दिवः |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

साव्यु॑च्छ॒सही᳚यसिस॒त्यश्र॑वसिवा॒य्येसुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 2 ||

या¦सु॒ऽनी॒थे¦शौ॒च॒त्ऽर॒थे¦वि¦औच्छः॑¦दु॒हि॒तः॒¦दि॒वः॒ |
सा¦वि¦उ॒च्छ॒¦सही᳚यसि¦स॒त्यऽश्र॑वसि¦वा॒य्ये¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

सानो᳚,अ॒द्याभ॒रद्व॑सु॒र्व्यु॑च्छादुहितर्दिवः |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

योव्यौच्छः॒सही᳚यसिस॒त्यश्र॑वसिवा॒य्येसुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 3 ||

सा¦नः॒¦अ॒द्य¦आ॒भ॒रत्ऽव॑सुः¦वि¦उ॒च्छ॒¦दु॒हि॒तः॒¦दि॒वः॒ |
यो इति॑¦वि¦औच्छः॑¦सही᳚यसि¦स॒त्यऽश्र॑वसि¦वा॒य्ये¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

अ॒भियेत्वा᳚विभावरि॒स्तोमै᳚र्गृ॒णन्ति॒वह्न॑यः |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

म॒घैर्म॑घोनिसु॒श्रियो॒दाम᳚न्वन्तःसुरा॒तयः॒सुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 4 ||

अ॒भि¦ये¦त्वा॒¦वि॒भा॒ऽव॒रि॒¦स्तोमैः᳚¦गृ॒णन्ति॑¦वह्न॑यः |
म॒घैः¦म॒घो॒नि॒¦सु॒ऽश्रियः॑¦दाम॑न्ऽवन्तः¦सु॒ऽरा॒तयः॑¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

यच्चि॒द्धिते᳚ग॒णा,इ॒मेछ॒दय᳚न्तिम॒घत्त॑ये |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

परि॑चि॒द्‌वष्ट॑योदधु॒र्दद॑तो॒राधो॒,अह्र॑यं॒सुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 5 ||

यत्¦चि॒त्¦हि¦ते॒¦ग॒णाः¦इ॒मे¦छ॒दय᳚न्ति¦म॒घत्त॑ये |
परि॑¦चि॒त्¦वष्ट॑यः¦द॒धुः॒¦दद॑तः¦राधः॑¦अह्र॑य‌म्¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

ऐषु॑धावी॒रव॒द्‌यश॒उषो᳚मघोनिसू॒रिषु॑ |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

येनो॒राधां॒स्यह्र॑याम॒घवा᳚नो॒,अरा᳚सत॒सुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 6 || वर्ग:22

आ¦ए॒षु॒¦धाः॒¦वी॒रऽव॑त्¦यशः॑¦उषः॑¦म॒घो॒नि॒¦सू॒रिषु॑ |
ये¦नः॒¦राधां᳚सि¦अह्र॑या¦म॒घऽवा᳚नः¦अरा᳚सत¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

तेभ्यो᳚द्यु॒म्नंबृ॒हद्‌यश॒उषो᳚मघो॒न्याव॑ह |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

येनो॒राधां॒स्यश्व्या᳚ग॒व्याभज᳚न्तसू॒रयः॒सुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 7 ||

तेभ्यः॑¦द्यु॒म्न‌म्¦बृ॒हत्¦यशः॑¦उषः॑¦म॒घो॒नि॒¦आ¦व॒ह॒ |
ये¦नः॒¦राधां᳚सि¦अश्व्या᳚¦ग॒व्या¦भज᳚न्त¦सू॒रयः॑¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

उ॒तनो॒गोम॑ती॒रिष॒आव॑हादुहितर्दिवः |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

सा॒कंसूर्य॑स्यर॒श्मिभिः॑शु॒क्रैःशोच॑द्भिर॒र्चिभिः॒सुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 8 ||

उ॒त¦नः॒¦गोऽम॑तीः¦इषः॑¦आ¦व॒ह॒¦दु॒हि॒तः॒¦दि॒वः॒ |
सा॒क‌म्¦सूर्य॑स्य¦र॒श्मिऽभिः॑¦शु॒क्रैः¦शोच॑त्ऽभिः¦अ॒र्चिऽभिः॑¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

व्यु॑च्छादुहितर्दिवो॒माचि॒रंत॑नुथा॒,अपः॑ |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

नेत्‌त्वा᳚स्ते॒नंयथा᳚रि॒पुंतपा᳚ति॒सूरो᳚,अ॒र्चिषा॒सुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 9 ||

वि¦उ॒च्छ॒¦दु॒हि॒तः॒¦दि॒वः॒¦मा¦चि॒र‌म्¦त॒नु॒थाः॒¦अपः॑ |
न¦इत्¦त्वा॒¦स्ते॒न‌म्¦यथा᳚¦रि॒पु‌म्¦तपा᳚ति¦सूरः॑¦अ॒र्चिषा᳚¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

ए॒ताव॒द्‌वेदु॑ष॒स्त्वंभूयो᳚वा॒दातु॑मर्हसि |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

यास्तो॒तृभ्यो᳚विभावर्यु॒च्छन्ती॒नप्र॒मीय॑से॒सुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 10 ||

ए॒ताव॑त्¦वा॒¦इत्¦उ॒षः॒¦त्व‌म्¦भूयः॑¦वा॒¦दातु᳚‌म्¦अ॒र्ह॒सि॒ |
या¦स्तो॒तृऽभ्यः॑¦वि॒भा॒ऽव॒रि॒¦उ॒च्छन्ती᳚¦न¦प्र॒ऽमीय॑से¦सुऽजा᳚ते¦अश्व॑ऽसूनृते ||

[80] द्युतद्यामानमिति षडृचस्य सूक्तस्यात्रेयःसत्यश्रवाउषास्त्रिष्टुप् |{मंडल:5, सूक्त:80}{अनुवाक:6, सूक्त:8}{अष्टक:4, अध्याय:4}
द्यु॒तद्या᳚मानंबृह॒तीमृ॒तेन॑ऋ॒ताव॑रीमरु॒णप्सुं᳚विभा॒तीम् |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

दे॒वीमु॒षसं॒स्व॑रा॒वह᳚न्तीं॒प्रति॒विप्रा᳚सोम॒तिभि॑र्जरन्ते॒(स्वाहा᳚) || 1 || वर्ग:23

द्यु॒तत्ऽया᳚मान‌म्¦बृ॒ह॒ती‌म्¦ऋ॒तेन॑¦ऋ॒तऽव॑री‌म्¦अ॒रु॒णऽप्सु᳚‌म्¦वि॒ऽभा॒ती‌म् |
दे॒वी‌म्¦उ॒षस᳚‌म्¦स्वः॑¦आ॒ऽवह᳚न्ती‌म्¦प्रति॑¦विप्रा᳚सः¦म॒तिऽभिः॑¦ज॒र॒न्ते॒ ||

ए॒षाजनं᳚दर्श॒ताबो॒धय᳚न्तीसु॒गान्‌प॒थःकृ᳚ण्व॒तीया॒त्यग्रे᳚ |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

बृ॒ह॒द्र॒थाबृ॑ह॒तीवि॑श्वमि॒न्वोषाज्योति᳚र्यच्छ॒त्यग्रे॒,अह्ना॒‌म्(स्वाहा᳚) || 2 ||

ए॒षा¦जन᳚‌म्¦द॒र्श॒ता¦बो॒धय᳚न्ती¦सु॒ऽमान्¦प॒थः¦कृ॒ण्व॒ती¦या॒ति॒¦अग्रे᳚ |
बृ॒ह॒त्ऽर॒था¦बृ॒ह॒ती¦वि॒श्व॒‌म्ऽ‌इ॒न्वा¦उ॒षाः¦ज्योतिः॑¦य॒च्छ॒ति॒¦अग्रे᳚¦अह्ना᳚‌म् ||

ए॒षागोभि॑ररु॒णेभि᳚र्युजा॒नाऽस्रे᳚धन्तीर॒यिमप्रा᳚युचक्रे |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

प॒थोरद᳚न्तीसुवि॒ताय॑दे॒वीपु॑रुष्टु॒तावि॒श्ववा᳚रा॒विभा᳚ति॒(स्वाहा᳚) || 3 ||

ए॒षा¦गोभिः॑¦अ॒रु॒णेभिः॑¦यु॒जा॒ना¦अस्रे᳚धन्ती¦र॒यि‌म्¦अप्र॑ऽआयु¦च॒क्रे॒ |
प॒थः¦रद᳚न्ती¦सु॒वि॒ताय॑¦दे॒वी¦पु॒रु॒ऽस्तु॒ता¦वि॒श्वऽवा᳚रा¦वि¦भा॒ति॒ ||

ए॒षाव्ये᳚नीभवतिद्वि॒बर्हा᳚,आविष्कृण्वा॒नात॒न्वं᳚पु॒रस्ता᳚त् |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

ऋ॒तस्य॒पन्था॒मन्वे᳚तिसा॒धुप्र॑जान॒तीव॒नदिशो᳚मिनाति॒(स्वाहा᳚) || 4 ||

ए॒षा¦विऽए᳚नी¦भ॒व॒ति॒¦द्वि॒ऽबर्हाः᳚¦आ॒विः॒ऽकृ॒ण्वा॒ना¦त॒न्व᳚‌म्¦पु॒रस्ता᳚त् |
ऋ॒तस्य॑¦पन्था᳚‌म्¦अनु॑¦ए॒ति॒¦सा॒धु¦प्र॒जा॒न॒तीऽ‌इ᳚व¦न¦दिशः॑¦मि॒ना॒ति॒ ||

ए॒षाशु॒भ्रानत॒न्वो᳚विदा॒नोर्ध्वेव॑स्ना॒तीदृ॒शये᳚नो,अस्थात् |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

अप॒द्वेषो॒बाध॑माना॒तमां᳚स्यु॒षादि॒वोदु॑हि॒ताज्योति॒षागा॒‌त्(स्वाहा᳚) || 5 ||

ए॒षा¦शु॒भ्रा¦न¦त॒न्वः॑¦वि॒दा॒ना¦ऊ॒र्ध्वाऽ‌इ᳚व¦स्ना॒ती¦दृ॒शये᳚¦नः॒¦अ॒स्था॒त् |
अप॑¦द्वेषः॑¦बाध॑माना¦तमां᳚सि¦उ॒षाः¦दि॒वः¦दु॒हि॒ता¦ज्योति॑षा¦आ¦अ॒गा॒त् ||

ए॒षाप्र॑ती॒चीदु॑हि॒तादि॒वोनॄन्योषे᳚वभ॒द्रानिरि॑णीते॒,अप्सः॑ |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

व्यू॒र्ण्व॒तीदा॒शुषे॒वार्या᳚णि॒पुन॒र्ज्योति᳚र्युव॒तिःपू॒र्वथा᳚कः॒(स्वाहा᳚) || 6 ||

ए॒षा¦प्र॒ती॒ची¦दु॒हि॒ता¦दि॒वः¦नॄन्¦योषा᳚ऽ‌इव¦भ॒द्रा¦नि¦रि॒णी॒ते॒¦अप्सः॑ |
वि॒ऽऊ॒र्ण्व॒ती¦दा॒शुषे᳚¦वार्या᳚णि¦पुनः॑¦ज्योतिः॑¦यु॒व॒तिः¦पू॒र्वऽथा᳚¦अ॒क॒रित्य॑कः ||

[81] युंजतेमनइति पंचर्चस्य सूक्तस्यात्रेयः श्यावाश्वः सविताजगती |{मंडल:5, सूक्त:81}{अनुवाक:6, सूक्त:9}{अष्टक:4, अध्याय:4}
यु॒ञ्जते॒मन॑उ॒तयु᳚ञ्जते॒धियो॒विप्रा॒विप्र॑स्यबृह॒तोवि॑प॒श्चितः॑ |{आत्रेयः श्यावाश्वः | सविता | जगती}

विहोत्रा᳚दधेवयुना॒विदेक॒इन्म॒हीदे॒वस्य॑सवि॒तुःपरि॑ष्टुतिः॒(स्वाहा᳚) || 1 || वर्ग:24

युं॒जते᳚¦मनः॑¦उ॒त¦युं॒जते᳚¦धियः॑¦विप्राः᳚¦विप्र॑स्य¦बृ॒ह॒तः¦वि॒पः॒ऽचितः॑ |
वि¦होत्राः᳚¦द॒धे॒¦व॒यु॒न॒ऽवित्¦एकः॑¦इत्¦म॒ही¦दे॒वस्य॑¦स॒वि॒तुः¦परि॑ऽस्तुतिः ||

विश्वा᳚रू॒पाणि॒प्रति॑मुञ्चतेक॒विःप्रासा᳚वीद्‌भ॒द्रंद्वि॒पदे॒चतु॑ष्पदे |{आत्रेयः श्यावाश्वः | सविता | जगती}

विनाक॑मख्यत्‌सवि॒तावरे॒ण्योऽनु॑प्र॒याण॑मु॒षसो॒विरा᳚जति॒(स्वाहा᳚) || 2 ||

विश्वा᳚¦रू॒पाणि॑¦प्रति॑¦मुं॒च॒ते॒¦क॒विः¦प्र¦अ॒सा॒वी॒त्¦भ॒द्र‌म्¦द्वि॒ऽपदे᳚¦चतुः॑ऽपदे |
वि¦नाक᳚‌म्¦अ॒ख्य॒त्¦स॒वि॒ता¦वरे᳚ण्यः¦अनु॑¦प्र॒ऽयान᳚‌म्¦उ॒षसः॑¦वि¦रा॒ज॒ति॒ ||

यस्य॑प्र॒याण॒मन्व॒न्यइद्‌य॒युर्दे॒वादे॒वस्य॑महि॒मान॒मोज॑सा |{आत्रेयः श्यावाश्वः | सविता | जगती}

यःपार्थि॑वानिविम॒मेसएत॑शो॒रजां᳚सिदे॒वःस॑वि॒ताम॑हित्व॒ना(स्वाहा᳚) || 3 ||

यस्य॑¦प्र॒ऽयान᳚‌म्¦अनु॑¦अ॒न्ये¦इत्¦य॒युः¦दे॒वाः¦दे॒वस्य॑¦म॒हि॒मान᳚‌म्¦ओज॑सा |
यः¦पार्थि॑वानि¦वि॒ऽम॒मे¦सः¦एत॑शः¦रजां᳚सि¦दे॒वः¦स॒वि॒ता¦म॒हि॒ऽत्व॒ना ||

उ॒तया᳚सिसवित॒स्त्रीणि॑रोच॒नोतसूर्य॑स्यर॒श्मिभिः॒समु॑च्यसि |{आत्रेयः श्यावाश्वः | सविता | जगती}

उ॒तरात्री᳚मुभ॒यतः॒परी᳚यसउ॒तमि॒त्रोभ॑वसिदेव॒धर्म॑भिः॒(स्वाहा᳚) || 4 ||

उ॒त¦या॒सि॒¦स॒वि॒त॒रिति॑¦त्रीणि॑¦रो॒च॒ना¦उ॒त¦सूर्य॑स्य¦र॒श्मिऽभिः॑¦स‌म्¦उ॒च्य॒सि॒ |
उ॒त¦रात्री᳚‌म्¦उ॒भ॒यतः॑¦परि॑¦ई॒य॒से॒¦उ॒त¦मि॒त्रः¦भ॒व॒सि॒¦दे॒व॒¦धर्म॑ऽभिः ||

उ॒तेशि॑षेप्रस॒वस्य॒त्वमेक॒इदु॒तपू॒षाभ॑वसिदेव॒याम॑भिः |{आत्रेयः श्यावाश्वः | सविता | जगती}

उ॒तेदंविश्वं॒भुव॑नं॒विरा᳚जसिश्या॒वाश्व॑स्तेसवितः॒स्तोम॑मानशे॒(स्वाहा᳚) || 5 ||

उ॒त¦ई॒शि॒षे॒¦प्र॒ऽस॒वस्य॑¦त्व‌म्¦एकः॑¦इत्¦उ॒त¦पू॒षा¦भ॒व॒सि॒¦दे॒व॒¦याम॑ऽभिः |
उ॒त¦इ॒द‌म्¦विश्व᳚‌म्¦भुव॑न‌म्¦वि¦रा॒ज॒सि॒¦श्या॒व।आ॑श्वः¦ते॒¦स॒वि॒त॒रिति॑¦स्तोम᳚‌म्¦आ॒न॒शे॒ ||

[82] तत्सवितुरिति नवर्चस्य सूक्तस्यात्रेयःश्यावाश्वः सवितागायत्री आद्यानुष्टुप् |{मंडल:5, सूक्त:82}{अनुवाक:6, सूक्त:10}{अष्टक:4, अध्याय:4}
तत्‌स॑वि॒तुर्वृ॑णीमहेव॒यंदे॒वस्य॒भोज॑नम् |{आत्रेयः श्यावाश्वः | सविता | अनुष्टुप्}

श्रेष्ठं᳚सर्व॒धात॑मं॒तुरं॒भग॑स्यधीमहि॒(स्वाहा᳚) || 1 || वर्ग:25

तत्¦स॒वि॒तुः¦वृ॒णी॒म॒हे॒¦व॒य‌म्¦दे॒वस्य॑¦भोज॑न‌म् | श्रेष्ठ᳚‌म्¦स॒र्व॒ऽधात॑म‌म्¦तुर᳚‌म्¦भग॑स्य¦धी॒म॒हि॒ ||

अस्य॒हिस्वय॑शस्तरंसवि॒तुःकच्च॒नप्रि॒यम् |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

नमि॒नन्ति॑स्व॒राज्य॒‌म्(स्वाहा᳚) || 2 ||

अस्य॑¦हि¦स्वय॑शःऽतर‌म्¦स॒वि॒तुः¦कत्¦च॒न¦प्रि॒य‌म् | न¦मि॒नन्ति॑¦स्व॒ऽराज्य᳚‌म् ||

सहिरत्ना᳚निदा॒शुषे᳚सु॒वाति॑सवि॒ताभगः॑ |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

तंभा॒गंचि॒त्रमी᳚महे॒(स्वाहा᳚) || 3 ||

सः¦हि¦रत्ना᳚नि¦दा॒शुषे᳚¦सु॒वाति॑¦स॒वि॒ता¦भगः॑ | त‌म्¦भा॒ग‌म्¦चि॒त्र‌म्¦ई॒म॒हे॒ ||

अ॒द्यानो᳚देवसवितःप्र॒जाव॑त्‌सावीः॒सौभ॑गम् |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

परा᳚दु॒ष्ष्वप्न्यं᳚सुव॒(स्वाहा᳚) || 4 ||

अ॒द्य¦नः॒¦दे॒व॒¦स॒वि॒त॒रिति॑¦प्र॒जाऽव॑त्¦सा॒वीः॒¦सौभ॑ग‌म् | परा᳚¦दुः॒ऽस्वप्न्य᳚‌म्¦सु॒व॒ ||

विश्वा᳚निदेवसवितर्दुरि॒तानि॒परा᳚सुव |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

यद्‌भ॒द्रंतन्न॒आसु॑व॒(स्वाहा᳚) || 5 ||

विश्वा᳚नि¦दे॒व॒¦स॒वि॒तः॒¦दुः॒ऽ‌इ॒तानि॑¦परा᳚¦सु॒व॒ | यत्¦भ॒द्र‌म्¦तत्¦नः॒¦आ¦सु॒व॒ ||

अना᳚गसो॒,अदि॑तयेदे॒वस्य॑सवि॒तुःस॒वे |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

विश्वा᳚वा॒मानि॑धीमहि॒(स्वाहा᳚) || 6 || वर्ग:26

अना᳚गसः¦अदि॑तये¦दे॒वस्य॑¦स॒वि॒तुः¦स॒वे | विश्वा᳚¦वा॒मानि॑¦धी॒म॒हि॒ ||

आवि॒श्वदे᳚वं॒सत्प॑तिंसू॒क्तैर॒द्यावृ॑णीमहे |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

स॒त्यस॑वंसवि॒तार॒‌म्(स्वाहा᳚) || 7 ||

आ¦वि॒श्वऽदे᳚व‌म्¦सत्ऽप॑ति‌म्¦सु॒।औ॒क्तैः¦अ॒द्य¦वृ॒णी॒म॒हे॒ | स॒त्यऽस॑व‌म्¦स॒वि॒तार᳚‌म् ||

यइ॒मे,उ॒भे,अह॑नीपु॒रएत्यप्र॑युच्छन् |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

स्वा॒धीर्दे॒वःस॑वि॒ता(स्वाहा᳚) || 8 ||

यः¦इ॒मे इति॑¦उ॒भे इति॑¦अह॑नी॒ इति॑¦पु॒रः¦एति॑¦अप्र॑ऽयुच्छन् | सु॒ऽआ॒धीः¦दे॒वः¦स॒वि॒ता ||

यइ॒माविश्वा᳚जा॒तान्या᳚श्रा॒वय॑ति॒श्लोके᳚न |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

प्रच॑सु॒वाति॑सवि॒ता(स्वाहा᳚) || 9 ||

यः¦इ॒मा¦विश्वा᳚¦जा॒तानि॑¦आ॒ऽश्र॒वय॑ति¦श्लोके᳚न | प्र¦च॒¦सु॒वाति॑¦स॒वि॒ता ||

[83] अच्छावदेति दशर्चस्य सूक्तस्य भौमोत्रिः पर्जन्यस्त्रिष्टुप्‌ द्वितीयादितिस्रोजगत्यो नवम्यनुष्टुप् |{मंडल:5, सूक्त:83}{अनुवाक:6, सूक्त:11}{अष्टक:4, अध्याय:4}
अच्छा᳚वदत॒वसं᳚गी॒र्भिरा॒भिःस्तु॒हिप॒र्जन्यं॒नम॒सावि॑वास |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्}

कनि॑क्रदद्‌वृष॒भोजी॒रदा᳚नू॒रेतो᳚दधा॒त्योष॑धीषु॒गर्भ॒‌म्(स्वाहा᳚) || 1 || वर्ग:27

अच्छ॑¦व॒द॒¦त॒वस᳚‌म्¦गीः॒ऽभिः¦आ॒भिः¦स्तु॒हि¦प॒र्जन्य᳚‌म्¦नम॑सा¦आ |वि॒वा॒स॒ |
कनि॑क्रदत्¦वृ॒ष॒भः¦जी॒रऽदा᳚नुः¦रेतः॑¦द॒धा॒ति॒¦ओष॑धीषु¦गर्भ᳚‌म् ||

विवृ॒क्षान्‌ह᳚न्त्यु॒तह᳚न्तिर॒क्षसो॒विश्वं᳚बिभाय॒भुव॑नंम॒हाव॑धात् |{भौमोत्रिः | पर्जन्यः | जगती}

उ॒ताना᳚गा,ईषते॒वृष्ण्या᳚वतो॒यत्‌प॒र्जन्यः॑स्त॒नय॒न्‌हन्ति॑दु॒ष्कृतः॒(स्वाहा᳚) || 2 ||

वि¦वृ॒क्षान्¦ह॒न्ति॒¦उ॒त¦ह॒न्ति॒¦र॒क्षसः॑¦विश्व᳚‌म्¦बि॒भा॒य॒¦भुव॑न‌म्¦म॒हाऽव॑धात् |
उ॒त¦अना᳚गाः¦ई॒ष॒ते॒¦वृष्ण्य॑ऽवतः¦यत्¦प॒र्जन्यः॑¦स्त॒नय॑न्¦हन्ति॑¦दुः॒ऽकृतः॑ ||

र॒थीव॒कश॒याश्वाँ᳚,अभिक्षि॒पन्ना॒विर्दू॒तान्‌कृ॑णुतेव॒र्ष्या॒३॑(आँ॒)अह॑ |{भौमोत्रिः | पर्जन्यः | जगती}

दू॒रात्‌सिं॒हस्य॑स्त॒नथा॒,उदी᳚रते॒यत्‌प॒र्जन्यः॑कृणु॒तेव॒र्ष्य१॑(अं॒)नभः॒(स्वाहा᳚) || 3 ||

र॒थीऽ‌इ᳚व¦कश॑या¦अश्वा᳚न्¦अ॒भि॒ऽक्षि॒पन्¦आ॒विः¦दू॒तान्¦कृ॒णु॒ते॒¦व॒र्ष्या᳚न्¦अह॑ |
दू॒रात्¦सिं॒हस्य॑¦स्त॒नथाः᳚¦उत्¦ई॒र॒ते॒¦यत्¦प॒र्जन्यः॑¦कृ॒णु॒ते¦व॒र्ष्य᳚‌म्¦नभः॑ ||

प्रवाता॒वान्ति॑प॒तय᳚न्तिवि॒द्युत॒उदोष॑धी॒र्जिह॑ते॒पिन्व॑ते॒स्वः॑ |{भौमोत्रिः | पर्जन्यः | जगती}

इरा॒विश्व॑स्मै॒भुव॑नायजायते॒यत्‌प॒र्जन्यः॑पृथि॒वींरेत॒साव॑ति॒(स्वाहा᳚) || 4 ||

प्र¦वाताः᳚¦वान्ति॑¦प॒तय᳚न्ति¦वि॒ऽद्युतः॑¦उत्¦ओष॑धीः¦जिह॑ते¦पिन्व॑ते¦स्व१॒॑रिति॒ स्वः॑ |
इरा᳚¦विश्व॑स्मै¦भुव॑नाय¦जा॒य॒ते॒¦यत्¦प॒र्जन्यः॑¦पृ॒थि॒वी‌म्¦रेत॑सा¦अव॑ति ||

यस्य᳚व्र॒तेपृ॑थि॒वीनन्न॑मीति॒यस्य᳚व्र॒तेश॒फव॒ज्जर्भु॑रीति |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्}

यस्य᳚व्र॒तओष॑धीर्वि॒श्वरू᳚पाः॒सनः॑पर्जन्य॒महि॒शर्म॑यच्छ॒(स्वाहा᳚) || 5 ||

यस्य॑¦व्र॒ते¦पृ॒थि॒वी¦नन्न॑मीति¦यस्य॑¦व्र॒ते¦श॒फऽव॑त्¦जर्भु॑रीति |
यस्य॑¦व्र॒ते¦ओष॑धीः¦वि॒श्वऽरू᳚पाः¦सः¦नः॒¦प॒र्ज॒न्य॒¦महि॑¦शर्म॑¦य॒च्छ॒ ||

दि॒वोनो᳚वृ॒ष्टिंम॑रुतोररीध्वं॒प्रपि᳚न्वत॒वृष्णो॒,अश्व॑स्य॒धाराः᳚ |{भौमोत्रिः | पर्जन्यः | जगती}

अ॒र्वाङे॒तेन॑स्तनयि॒त्नुनेह्य॒पोनि॑षि॒ञ्चन्नसु॑रःपि॒तानः॒(स्वाहा᳚) || 6 || वर्ग:28

दि॒वः¦नः॒¦वृ॒ष्टि‌म्¦म॒रु॒तः॒¦र॒री॒ध्व॒‌म्¦प्र¦पि॒न्व॒त॒¦वृष्णः॑¦अश्व॑स्य¦धाराः᳚ |
अ॒र्वाङ्¦ए॒तेन॑¦स्त॒न॒यि॒त्नुना᳚¦आ¦इ॒हि॒¦अ॒पः¦नि॒ऽसिं॒चन्¦असु॑रः¦पि॒ता¦नाः॒ ||

अ॒भिक्र᳚न्दस्त॒नय॒गर्भ॒माधा᳚,उद॒न्वता॒परि॑दीया॒रथे᳚न |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्}

दृतिं॒सुक॑र्ष॒विषि॑तं॒न्य᳚ञ्चंस॒माभ॑वन्तू॒द्वतो᳚निपा॒दाः(स्वाहा᳚) || 7 ||

अ॒भि¦क्र॒न्द॒¦स्त॒नय॑¦गर्भ᳚‌म्¦आ¦धाः॒¦उ॒द॒न्ऽवता᳚¦परि॑¦दी॒य॒¦रथे᳚न |
दृति᳚‌म्¦सु¦क॒र्ष॒¦विऽसि॑त‌म्¦न्यं᳚च‌म्¦स॒माः¦भ॒व॒न्तु॒¦उ॒त्ऽवतः॑¦नि॒ऽपा॒दाः ||

म॒हान्तं॒कोश॒मुद॑चा॒निषि᳚ञ्च॒स्यन्द᳚न्तांकु॒ल्याविषि॑ताःपु॒रस्ता᳚त् |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्}

घृ॒तेन॒द्यावा᳚पृथि॒वीव्यु᳚न्धिसुप्रपा॒णंभ॑वत्व॒घ्न्याभ्यः॒(स्वाहा᳚) || 8 ||

म॒हान्त᳚‌म्¦कोश᳚‌म्¦उत्¦अ॒च॒¦नि¦सिं॒च॒¦स्यन्द᳚न्ता‌म्¦कु॒ल्याः¦विऽसि॑ताः¦पु॒रस्ता᳚त् |
घृ॒तेन॑¦द्यावा᳚पृथि॒वी इति॑¦वि¦उ॒न्धि॒¦सु॒ऽप्र॒पा॒न‌म्¦भ॒व॒तु॒¦अ॒घ्न्याभ्यः॑ ||

यत्‌प॑र्जन्य॒कनि॑क्रदत्स्त॒नय॒न्‌हंसि॑दु॒ष्कृतः॑ |{भौमोत्रिः | पर्जन्यः | अनुष्टुप्}

प्रती॒दंविश्वं᳚मोदते॒यत्‌किंच॑पृथि॒व्यामधि॒(स्वाहा᳚) || 9 ||

यत्¦प॒र्ज॒न्य॒¦कनि॑क्रदत्¦स्त॒नय॑न्¦हंसि॑¦दुः॒ऽकृतः॑ | प्रति॑¦इ॒द‌म्¦विश्व᳚‌म्¦मो॒द॒ते॒¦यत्¦कि‌म्¦च॒¦पृ॒थि॒व्या‌म्¦अधि॑ ||

अव॑र्षीर्व॒र्षमुदु॒षूगृ॑भा॒याऽक॒र्धन्वा॒न्यत्ये᳚त॒वा,उ॑ |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्}

अजी᳚जन॒ओष॑धी॒र्भोज॑नाय॒कमु॒तप्र॒जाभ्यो᳚ऽविदोमनी॒षाम्(स्वाहा᳚) || 10 ||

अव॑र्षीः¦व॒र्ष‌म्¦उत्¦ऊँ॒ इति॑¦सु¦गृ॒भा॒य॒¦अकः॑¦धन्वा᳚नि¦अति॑ऽए॒त॒वै¦ऊँ॒ इति॑ |
अजी᳚जनः¦ओष॑धीः¦भोज॑नाय¦क‌म्¦उ॒त¦प्र॒ऽजाभ्यः॑¦अ॒वि॒दः॒¦म॒नी॒षा‌म् ||

[84] बळित्थेति तृचस्य सूक्तस्य भौमोत्रिःपृथिव्यनुष्टुप् |{मंडल:5, सूक्त:84}{अनुवाक:6, सूक्त:12}{अष्टक:4, अध्याय:4}
बळि॒त्थापर्व॑तानांखि॒द्रंबि॑भर्षिपृथिवि |{भौमोत्रिः | पृथिवी | अनुष्टुप्}

प्रयाभूमिं᳚प्रवत्वतिम॒ह्नाजि॒नोषि॑महिनि॒(स्वाहा᳚) || 1 || वर्ग:29

बट्¦इ॒त्था¦पर्व॑ताना‌म्¦खि॒द्र‌म्¦बि॒भ॒र्षि॒¦पृ॒थि॒वि॒ | प्र¦या¦भूमि᳚‌म्¦प्र॒व॒त्व॒ति॒¦म॒ह्ना¦जि॒नोषि॑¦म॒हि॒नि॒ ||

स्तोमा᳚सस्त्वाविचारिणि॒प्रति॑ष्टोभन्त्य॒क्तुभिः॑ |{भौमोत्रिः | पृथिवी | अनुष्टुप्}

प्रयावाजं॒नहेष᳚न्तंपे॒रुमस्य॑स्यर्जुनि॒(स्वाहा᳚) || 2 ||

स्तोमा᳚सः¦त्वा॒¦वि॒ऽचा॒रि॒णि॒¦प्रति॑¦स्तो॒भ॒न्ति॒¦अ॒क्तुऽभिः॑ | प्र¦या¦वाज᳚‌म्¦न¦हेष᳚न्त‌म्¦पे॒रु‌म्¦अस्य॑सि¦अ॒र्जु॒नि॒ ||

दृ॒ळ्हाचि॒द्‌यावन॒स्पती᳚न्क्ष्म॒यादर्ध॒र्ष्योज॑सा |{भौमोत्रिः | पृथिवी | अनुष्टुप्}

यत्ते᳚,अ॒भ्रस्य॑वि॒द्युतो᳚दि॒वोवर्ष᳚न्तिवृ॒ष्टयः॒(स्वाहा᳚) || 3 ||

दृ॒ळ्हा¦चि॒त्¦या¦वन॒स्पती᳚न्¦क्ष्म॒या¦दर्ध॑र्षि¦ओज॑सा | यत्¦ते॒¦अ॒भ्रस्य॑¦वि॒ऽद्युतः॑¦दि॒वः¦वर्ष᳚न्ति¦वृ॒ष्टयः॑ ||

[85] प्रसम्राजइत्यष्टर्चस्य सूक्तस्य भौमोत्रिर्वरुणत्रिष्टुप् |{मंडल:5, सूक्त:85}{अनुवाक:6, सूक्त:13}{अष्टक:4, अध्याय:4}
प्रस॒म्राजे᳚बृ॒हद॑र्चागभी॒रंब्रह्म॑प्रि॒यंवरु॑णायश्रु॒ताय॑ |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

वियोज॒घान॑शमि॒तेव॒चर्मो᳚प॒स्तिरे᳚पृथि॒वींसूर्या᳚य॒(स्वाहा᳚) || 1 || वर्ग:30

प्र¦स॒‌म्ऽराजे᳚¦बृ॒हत्¦अ॒र्च॒¦ग॒भी॒र‌म्¦ब्रह्म॑¦प्रि॒य‌म्¦वरु॑णाय¦श्रु॒ताय॑ |
वि¦यः¦ज॒घान॑¦श॒मि॒ताऽ‌इ᳚व¦चर्म॑¦उ॒प॒ऽस्तिरे᳚¦पृ॒थि॒वी‌म्¦सूर्या᳚य ||

वने᳚षु॒व्य१॑(अ॒)न्तरि॑क्षंततान॒वाज॒मर्व॑त्सु॒पय॑उ॒स्रिया᳚सु |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

हृ॒त्सुक्रतुं॒वरु॑णो,अ॒प्स्व१॑(अ॒)ग्निंदि॒विसूर्य॑मदधा॒त्‌सोम॒मद्रौ॒(स्वाहा᳚) || 2 ||

वने᳚षु¦वि¦अ॒न्तरि॑क्ष‌म्¦त॒ता॒न॒¦वाज᳚‌म्¦अर्व॑त्ऽसु¦पयः॑¦उ॒स्रिया᳚सु |
हृ॒त्ऽसु¦क्रतु᳚‌म्¦वरु॑णः¦अ॒प्ऽसु¦अ॒ग्नि‌म्¦दि॒वि¦सूर्य᳚‌म्¦अ॒द॒धा॒त्¦सोम᳚‌म्¦अद्रौ᳚ ||

नी॒चीन॑बारं॒वरु॑णः॒कव᳚न्धं॒प्रस॑सर्ज॒रोद॑सी,अ॒न्तरि॑क्षम् |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

तेन॒विश्व॑स्य॒भुव॑नस्य॒राजा॒यवं॒नवृ॒ष्टिर्व्यु॑नत्ति॒भूम॒(स्वाहा᳚) || 3 ||

नी॒चीन॑ऽबार‌म्¦वरु॑णः¦कव᳚न्ध‌म्¦प्र¦स॒स॒र्ज॒¦रोद॑सी॒ इति॑¦अ॒न्तरि॑क्ष‌म् |
तेन॑¦विश्व॑स्य¦भुव॑नस्य¦राजा᳚¦यव᳚‌म्¦न¦वृ॒ष्टिः¦वि¦उ॒न॒त्ति॒¦भूम॑ ||

उ॒नत्ति॒भूमिं᳚पृथि॒वीमु॒तद्यांय॒दादु॒ग्धंवरु॑णो॒वष्ट्यादित् |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

सम॒भ्रेण॑वसत॒पर्व॑तासस्तविषी॒यन्तः॑श्रथयन्तवी॒राः(स्वाहा᳚) || 4 ||

उ॒नत्ति॑¦भूमि᳚‌म्¦पृ॒थि॒वी‌म्¦उ॒त¦द्या‌म्¦य॒दा¦दु॒ग्ध‌म्¦वरु॑णः¦वष्टि॑¦आत्¦इत् |
स‌म्¦अ॒भ्रेण॑¦व॒स॒त॒¦पर्व॑तासः¦त॒वि॒षी॒ऽयन्तः॑¦श्र॒थ॒य॒न्त॒¦वी॒राः ||

इ॒मामू॒ष्वा᳚सु॒रस्य॑श्रु॒तस्य॑म॒हींमा॒यांवरु॑णस्य॒प्रवो᳚चम् |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

माने᳚नेवतस्थि॒वाँ,अ॒न्तरि॑क्षे॒वियोम॒मेपृ॑थि॒वींसूर्ये᳚ण॒(स्वाहा᳚) || 5 ||

इ॒मा‌म्¦ऊँ॒ इति॑¦सु¦आ॒सु॒रस्य॑¦श्रु॒तस्य॑¦म॒ही‌म्¦मा॒या‌म्¦वरु॑णस्य¦प्र¦वो॒च॒‌म् |
माने᳚नऽ‌इव¦त॒स्थि॒ऽवान्¦अ॒न्तरि॑क्षे¦वि¦यः¦म॒मे¦पृ॒थि॒वी‌म्¦सूर्ये᳚ण ||

इ॒मामू॒नुक॒वित॑मस्यमा॒यांम॒हींदे॒वस्य॒नकि॒राद॑धर्ष |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

एकं॒यदु॒द्नानपृ॒णन्त्येनी᳚रासि॒ञ्चन्ती᳚र॒वन॑यःसमु॒द्रम्(स्वाहा᳚) || 6 || वर्ग:31

इ॒मा‌म्¦ऊँ॒ इति॑¦नु¦क॒विऽत॑मस्य¦मा॒या‌म्¦म॒ही‌म्¦दे॒वस्य॑¦नकिः॑¦आ¦द॒ध॒र्ष॒ |
एक᳚‌म्¦यत्¦उ॒द्ना¦न¦पृ॒णन्ति॑¦एनीः᳚¦आ॒ऽसिं॒चन्तीः᳚¦अ॒वन॑यः¦स॒मु॒द्र‌म् ||

अ॒र्य॒म्यं᳚वरुणमि॒त्र्यं᳚वा॒सखा᳚यंवा॒सद॒मिद्‌भ्रात॑रंवा |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

वे॒शंवा॒नित्यं᳚वरु॒णार॑णंवा॒यत्‌सी॒माग॑श्चकृ॒माशि॒श्रथ॒स्तत्(स्वाहा᳚) || 7 ||

अ॒र्य॒म्य᳚‌म्¦व॒रु॒ण॒¦मि॒त्र्य᳚‌म्¦वा॒¦सखा᳚य‌म्¦वा॒¦सद᳚‌म्¦इत्¦भ्रात॑र‌म्¦वा॒ |
वे॒श‌म्¦वा॒¦नित्य᳚‌म्¦व॒रु॒ण॒¦अर॑ण‌म्¦वा॒¦यत्¦सी॒‌म्¦आगः॑¦च॒कृ॒म¦शि॒श्रथः॑¦तत् ||

कि॒त॒वासो॒यद्‌रि॑रि॒पुर्नदी॒वियद्‌वा᳚घास॒त्यमु॒तयन्नवि॒द्म |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

सर्वा॒ताविष्य॑शिथि॒रेव॑दे॒वाऽधा᳚तेस्यामवरुणप्रि॒यासः॒(स्वाहा᳚) || 8 ||

कि॒त॒वासः॑¦यत्¦रि॒रि॒पुः¦न¦दी॒वि¦यत्¦वा॒¦घ॒¦स॒त्य‌म्¦उ॒त¦यत्¦न¦वि॒द्म |
सर्वा᳚¦ता¦वि¦स्य॒¦शि॒थि॒राऽ‌इ᳚व¦दे॒व॒¦अध॑¦ते॒¦स्या॒म॒¦व॒रु॒ण॒¦प्रि॒यासः॑ ||

[86] इंद्राग्नीयमिति षडृचस्य सूक्तस्य भौमोत्रिरिंद्राग्न्यनुष्टुप् अंत्याविराट्‌पूर्वापंक्त्युत्तरावा |{मंडल:5, सूक्त:86}{अनुवाक:6, सूक्त:14}{अष्टक:4, अध्याय:4}
इन्द्रा᳚ग्नी॒यमव॑थउ॒भावाजे᳚षु॒मर्त्य᳚म् |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्}

दृ॒ळ्हाचि॒त्‌सप्रभे᳚दतिद्यु॒म्नावाणी᳚रिवत्रि॒तः(स्वाहा᳚) || 1 || वर्ग:32

इन्द्रा᳚ग्नी॒ इति॑¦य‌म्¦अव॑थः¦उ॒भा¦वाजे᳚षु¦मर्त्य᳚‌म् | दृ॒ळ्हा¦चि॒त्¦सः¦प्र¦भे॒द॒ति॒¦द्यु॒म्ना¦वाणीः᳚ऽ‌इव¦त्रि॒तः ||

यापृत॑नासुदु॒ष्टरा॒यावाजे᳚षुश्र॒वाय्या᳚ |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्}

यापञ्च॑चर्ष॒णीर॒भी᳚न्द्रा॒ग्नीताह॑वामहे॒(स्वाहा᳚) || 2 ||

या¦पृत॑नासु¦दु॒स्तरा᳚¦या¦वाजे᳚षु¦श्र॒वाय्या᳚ | या¦पंच॑¦च॒र्ष॒णीः¦अ॒भि¦इ॒न्द्रा॒ग्नी इति॑¦ता¦ह॒वा॒म॒हे॒ ||

तयो॒रिदम॑व॒च्छव॑स्ति॒ग्मादि॒द्युन्म॒घोनोः᳚ |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्}

प्रति॒द्रुणा॒गभ॑स्त्यो॒र्गवां᳚वृत्र॒घ्नएष॑ते॒(स्वाहा᳚) || 3 ||

तयोः᳚¦इत्¦अम॑ऽवत्¦शवः॑¦ति॒ग्मा¦दि॒द्युत्¦म॒घोनोः᳚ | प्रति॑¦द्रुणा᳚¦गभ॑स्त्योः¦गवा᳚‌म्¦वृ॒त्र॒ऽघ्ने¦आ¦ई॒ष॒ते॒ ||

तावा॒मेषे॒रथा᳚नामिन्द्रा॒ग्नीह॑वामहे |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्}

पती᳚तु॒रस्य॒राध॑सोवि॒द्वांसा॒गिर्व॑णस्तमा॒(स्वाहा᳚) || 4 ||

ता¦वा॒‌म्¦एषे᳚¦रथा᳚ना‌म्¦इ॒न्द्रा॒ग्नी इति॑¦ह॒वा॒म॒हे॒ | पती॒ इति॑¦तु॒रस्य॑¦राध॑सः¦वि॒द्वांसा᳚¦गिर्व॑णःऽतमा ||

तावृ॒धन्ता॒वनु॒द्यून्मर्ता᳚यदे॒वाव॒दभा᳚ |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्}

अर्ह᳚न्ताचित्‌पु॒रोद॒धेंऽशे᳚वदे॒वावर्व॑ते॒(स्वाहा᳚) || 5 ||

ता¦वृ॒धन्तौ᳚¦अनु॑¦द्यून्¦मर्ता᳚य¦दे॒वौ¦अ॒दभा᳚ | अर्ह᳚न्ता¦चि॒त्¦पु॒रः¦द॒धे॒¦अंशा᳚ऽ‌इव¦दे॒वौ¦अर्व॑ते ||

ए॒वेन्द्रा॒ग्निभ्या॒महा᳚विह॒व्यंशू॒ष्यं᳚घृ॒तंनपू॒तमद्रि॑भिः |{भौमोत्रिः | इन्द्राग्नी | १/२:विराट् २/२:पङ्क्तिः}

तासू॒रिषु॒श्रवो᳚बृ॒हद्र॒यिंगृ॒णत्सु॑दिधृत॒मिषं᳚गृ॒णत्सु॑दिधृत॒‌म्(स्वाहा᳚) || 6 ||

ए॒व¦इ॒न्द्रा॒ग्निऽभ्या᳚‌म्¦अहा᳚वि¦ह॒व्य‌म्¦शू॒ष्य᳚‌म्¦घृ॒त‌म्¦न¦पू॒त‌म्¦अद्रि॑ऽभिः | ता¦सू॒रिषु॑¦श्रवः॑¦बृ॒हत्¦र॒यि‌म्¦गृ॒णत्ऽसु॑¦दि॒धृ॒त॒‌म्¦इष᳚‌म्¦गृ॒णत्ऽसु॑¦दि॒धृ॒त॒‌म् ||

[87] प्रवोमहइति नवर्चस्य सूक्तस्यात्रेय एवयामरुन्मरुतोतिजगती |{मंडल:5, सूक्त:87}{अनुवाक:6, सूक्त:15}{अष्टक:4, अध्याय:4}
प्रवो᳚म॒हेम॒तयो᳚यन्तु॒विष्ण॑वेम॒रुत्व॑तेगिरि॒जा,ए᳚व॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

प्रशर्धा᳚य॒प्रय॑ज्यवेसुखा॒दये᳚त॒वसे᳚भ॒न्ददि॑ष्टये॒धुनि᳚व्रताय॒शव॑से॒(स्वाहा᳚) || 1 || वर्ग:33

प्र¦वः॒¦म॒हे¦म॒तयः॑¦य॒न्तु॒¦विष्ण॑वे¦म॒रुत्व॑ते¦गि॒रि॒ऽजाः¦ए॒व॒याम॑रुत् |
प्र¦शर्धा᳚य¦प्रऽय॑ज्यवे¦सु॒ऽखा॒दये᳚¦त॒वसे᳚¦भ॒न्दत्ऽ‌इ᳚ष्टये¦धुनि॑ऽव्रताय¦शव॑से ||

प्रयेजा॒ताम॑हि॒नायेच॒नुस्व॒यंप्रवि॒द्मना᳚ब्रु॒वत॑एव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

क्रत्वा॒तद्‌वो᳚मरुतो॒नाधृषे॒शवो᳚दा॒नाम॒ह्नातदे᳚षा॒मधृ॑ष्टासो॒नाद्र॑यः॒(स्वाहा᳚) || 2 ||

प्र¦ये¦जा॒ताः¦म॒हि॒ना¦ये¦च॒¦नु¦स्व॒य‌म्¦प्र¦वि॒द्मना᳚¦ब्रु॒वते᳚¦ए॒व॒याम॑रुत् |
क्रत्वा᳚¦तत्¦वः॒¦म॒रु॒तः॒¦न¦आ॒ऽधृषे᳚¦शवः॑¦दा॒ना¦म॒ह्ना¦तत्¦ए॒षा॒‌म्¦अधृ॑ष्टासः¦न¦अद्र॑यः ||

प्रयेदि॒वोबृ॑ह॒तःशृ᳚ण्वि॒रेगि॒रासु॒शुक्वा᳚नःसु॒भ्व॑एव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

नयेषा॒मिरी᳚स॒धस्थ॒ईष्ट॒आँ,अ॒ग्नयो॒नस्ववि॑द्युतः॒प्रस्प॒न्द्रासो॒धुनी᳚ना॒‌म्(स्वाहा᳚) || 3 ||

प्र¦ये¦दि॒वः¦बृ॒ह॒तः¦शृ॒ण्वि॒रे¦गि॒रा¦सु॒ऽशुक्वा᳚नः¦सु॒ऽभ्वः॑¦ए॒व॒याम॑रुत् |
न¦येषा᳚‌म्¦इरी᳚¦स॒धऽस्थे᳚¦ईष्टे᳚¦आ¦अ॒ग्नयः॑¦न¦स्वऽवि॑द्युतः¦प्र¦स्प॒न्द्रासः॑¦धुनी᳚ना‌म् ||

सच॑क्रमेमह॒तोनिरु॑रुक्र॒मःस॑मा॒नस्मा॒त्‌सद॑सएव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

य॒दायु॑क्त॒त्मना॒स्वादधि॒ष्णुभि॒र्विष्प॑र्धसो॒विम॑हसो॒जिगा᳚ति॒शेवृ॑धो॒नृभिः॒(स्वाहा᳚) || 4 ||

सः¦च॒क्र॒मे॒¦म॒ह॒तः¦निः¦उ॒रु॒ऽक्र॒मः¦स॒मा॒नस्मा᳚त्¦सद॑सः¦ए॒व॒याम॑रुत् |
य॒दा¦अयु॑क्त¦त्मना᳚¦स्वात्¦अधि॑¦स्नुऽभिः॑¦विऽस्प॑र्धसः¦विऽम॑हसः¦जिगा᳚ति¦शेऽवृ॑धः¦नृऽभिः॑ ||

स्व॒नोनवोऽम॑वान्‌रेजय॒द्‌वृषा᳚त्वे॒षोय॒यिस्त॑वि॒षए᳚व॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

येना॒सह᳚न्तऋ॒ञ्जत॒स्वरो᳚चिषः॒स्थार॑श्मानोहिर॒ण्ययाः᳚स्वायु॒धास॑इ॒ष्मिणः॒(स्वाहा᳚) || 5 ||

स्व॒नः¦न¦वः॒¦अम॑ऽवान्¦रे॒ज॒य॒त्¦वृषा᳚¦त्वे॒षः¦य॒यिः¦त॒वि॒षः¦ए॒व॒याम॑रुत् |
येन॑¦सह᳚न्तः¦ऋं॒जत॑¦स्वऽरो᳚चिषः¦स्थाःऽर॑श्मानः¦हि॒र॒ण्ययाः᳚¦सु॒ऽआ॒यु॒धासः॑¦इ॒ष्मिणः॑ ||

अ॒पा॒रोवो᳚महि॒मावृ॑द्धशवसस्त्वे॒षंशवो᳚ऽवत्वेव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

स्थाता᳚रो॒हिप्रसि॑तौसं॒दृशि॒स्थन॒तेन॑उरुष्यतानि॒दःशु॑शु॒क्वांसो॒नाग्नयः॒(स्वाहा᳚) || 6 || वर्ग:34

अ॒पा॒रः¦वः॒¦म॒हि॒मा¦वृ॒द्ध॒ऽश॒व॒सः॒¦त्वे॒ष‌म्¦शवः॑¦अ॒व॒तु॒¦ए॒व॒याम॑रुत् |
स्थाता᳚रः¦हि¦प्रऽसि॑तौ¦स॒‌म्ऽदृशि॑¦स्थन॑¦ते¦नः॒¦उ॒रु॒ष्य॒त॒¦नि॒दः¦शु॒शु॒क्वांसः॑¦न¦अ॒ग्नयः॑ ||

तेरु॒द्रासः॒सुम॑खा,अ॒ग्नयो᳚यथातुविद्यु॒म्ना,अ॑वन्त्वेव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

दी॒र्घंपृ॒थुप॑प्रथे॒सद्म॒पार्थि॑वं॒येषा॒मज्मे॒ष्वाम॒हःशर्धां॒स्यद्भु॑तैनसा॒‌म्(स्वाहा᳚) || 7 ||

ते¦रु॒द्रासः॑¦सुऽम॑खाः¦अ॒ग्नयः॑¦य॒था॒¦तु॒वि॒ऽद्यु॒म्नाः¦अ॒व॒न्तु॒¦ए॒व॒याम॑रुत् |
दी॒र्घ‌म्¦पृ॒थु¦प॒प्र॒थे॒¦सद्म॑¦पार्थि॑व‌म्¦येषा᳚‌म्¦अज्मे᳚षु¦आ¦म॒हः¦शर्धां᳚सि¦अद्भु॑तऽएनसा‌म् ||

अ॒द्वे॒षोनो᳚मरुतोगा॒तुमेत॑न॒श्रोता॒हवं᳚जरि॒तुरे᳚व॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

विष्णो᳚र्म॒हःस॑मन्यवोयुयोतन॒स्मद्‌र॒थ्यो॒३॑(ओ॒)नदं॒सनाऽप॒द्वेषां᳚सिसनु॒तः(स्वाहा᳚) || 8 ||

अ॒द्वे॒षः¦नः॒¦म॒रु॒तः॒¦गा॒तु‌म्¦आ¦इ॒त॒न॒¦श्रोत॑¦हव᳚‌म्¦ज॒रि॒तुः¦ए॒व॒याम॑रुत् |
विष्णोः᳚¦म॒हः¦स॒ऽम॒न्य॒वः॒¦यु॒यो॒त॒न॒¦स्मत्¦र॒थ्यः॑¦न¦दं॒सना᳚¦अप॑¦द्वेषां᳚सि¦स॒नु॒तरिति॑ ||

गन्ता᳚नोय॒ज्ञंय॑ज्ञियाःसु॒शमि॒श्रोता॒हव॑मर॒क्षए᳚व॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

ज्येष्ठा᳚सो॒नपर्व॑तासो॒व्यो᳚मनियू॒यंतस्य॑प्रचेतसः॒स्यात॑दु॒र्धर्त॑वोनि॒दः(स्वाहा᳚) || 9 ||

गन्त॑¦नः॒¦य॒ज्ञ‌म्¦य॒ज्ञि॒याः॒¦सु॒ऽशमि॑¦श्रोत॑¦हव᳚‌म्¦अ॒र॒क्षः¦ए॒व॒याम॑रुत् |
ज्येष्ठा᳚सः¦न¦पर्व॑तासः¦विऽओ᳚मनि¦यू॒य‌म्¦तस्य॑¦प्र॒ऽचे॒त॒सः॒¦स्यात॑¦दुः॒ऽधर्त॑वः¦नि॒दः ||