|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
Mantra classification is following this convention {मंडल,सूक्त,मंत्र}{मंडल,अनुवाक,सूक्त,मंत्र}{अष्टक,अध्याय,वर्ग,मंत्र}
[Last updated on: 15-Mar-2025]

************************ ब्रह्मणस्पति सूक्त ************************
सो॒मानं॒ स्वर॑णं कृणु॒हि ब्र᳚ह्मणस्पते |{काण्वो मेधातिथि | ब्रह्मणस्पतिः | गायत्री}

क॒क्षीव᳚न्तं॒ य औ᳚शि॒जः ||{1.18.1}{1.5.1.1}{1.1.34.1}

यो रे॒वान्यो, अ॑मीव॒हा व॑सु॒वित्‌ पु॑ष्टि॒वर्ध॑नः |{काण्वो मेधातिथि | ब्रह्मणस्पतिः | गायत्री}

स नः॑ सिषक्तु॒ यस्तु॒रः ||{1.18.2}{1.5.1.2}{1.1.34.2}

मा नः॒ शंसो॒, अर॑रुषो धू॒र्तिः प्रण॒ङ्‌ मर्त्य॑स्य |{काण्वो मेधातिथि | ब्रह्मणस्पतिः | गायत्री}

रक्षा᳚ णो ब्रह्मणस्पते ||{1.18.3}{1.5.1.3}{1.1.34.3}

स घा᳚ वी॒रो न रि॑ष्यति॒ यमिन्द्रो॒ ब्रह्म॑ण॒स्पतिः॑ |{काण्वो मेधातिथि | इन्द्र सोम ब्रह्मणस्पतिः | गायत्री}

सोमो᳚ हि॒नोति॒ मर्त्य᳚म् ||{1.18.4}{1.5.1.4}{1.1.34.4}

त्वं तं ब्र᳚ह्मणस्पते॒ सोम॒ इन्द्र॑श्च॒ मर्त्य᳚म् |{काण्वो मेधातिथि | इन्द्र सोम ब्रह्मणस्पतयो दक्षिणा | गायत्री}

दक्षि॑णा पा॒त्वंह॑सः ||{1.18.5}{1.5.1.5}{1.1.34.5}

उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे |{घौरः कण्वः | ब्रह्मणस्पतिः | बृहती}

उप॒ प्र य᳚न्तु म॒रुतः॑ सु॒दान॑व॒ इन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा᳚ ||{1.40.1}{1.8.5.1}{1.3.20.1}

त्वामिद्धि स॑हसस्पुत्र॒ मर्त्य॑ उपब्रू॒ते धने᳚ हि॒ते |{घौरः कण्वः | ब्रह्मणस्पतिः | सतोबृहती}

सु॒वीर्यं᳚ मरुत॒ आ स्वश्व्यं॒ दधी᳚त॒ यो व॑ आच॒के ||{1.40.2}{1.8.5.2}{1.3.20.2}

प्रैतु॒ ब्रह्म॑ण॒स्पतिः॒ प्र दे॒व्ये᳚तु सू॒नृता᳚ |{घौरः कण्वः | ब्रह्मणस्पतिः | बृहती}

अच्छा᳚ वी॒रं नर्यं᳚ प॒ङ्क्तिरा᳚धसं दे॒वा य॒ज्ञं न॑यन्तु नः ||{1.40.3}{1.8.5.3}{1.3.20.3}

यो वा॒घते॒ ददा᳚ति सू॒नरं॒ वसु॒ स ध॑त्ते॒, अक्षि॑ति॒ श्रवः॑ |{घौरः कण्वः | ब्रह्मणस्पतिः | सतोबृहती}

तस्मा॒, इळां᳚ सु॒वीरा॒मा य॑जामहे सु॒प्रतू᳚र्तिमने॒हस᳚म् ||{1.40.4}{1.8.5.4}{1.3.20.4}

प्र नू॒नं ब्रह्म॑ण॒स्पति॒र्मन्त्रं᳚ वदत्यु॒क्थ्य᳚म् |{घौरः कण्वः | ब्रह्मणस्पतिः | बृहती}

यस्मि॒न्निन्द्रो॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा दे॒वा, ओकां᳚सि चक्रि॒रे ||{1.40.5}{1.8.5.5}{1.3.20.5}

तमिद्‌ वो᳚चेमा वि॒दथे᳚षु श॒म्भुवं॒ मन्त्रं᳚ देवा, अने॒हस᳚म् |{घौरः कण्वः | ब्रह्मणस्पतिः | सतोबृहती}

इ॒मां च॒ वाचं᳚ प्रति॒हर्य॑था नरो॒ विश्वेद्‌ वा॒मा वो᳚, अश्नवत् ||{1.40.6}{1.8.5.6}{1.3.21.1}

को दे᳚व॒यन्त॑मश्नव॒ज्जनं॒ को वृ॒क्तब᳚र्हिषम् |{घौरः कण्वः | ब्रह्मणस्पतिः | बृहती}

प्रप्र॑ दा॒श्वान्‌ प॒स्त्या᳚भिरस्थिताऽन्त॒र्वाव॒त्‌ क्षयं᳚ दधे ||{1.40.7}{1.8.5.7}{1.3.21.2}

उप॑ क्ष॒त्रं पृ᳚ञ्ची॒त हन्ति॒ राज॑भिर्भ॒ये चि॑त्‌ सुक्षि॒तिं द॑धे |{घौरः कण्वः | ब्रह्मणस्पतिः | सतोबृहती}

नास्य॑ व॒र्ता न त॑रु॒ता म॑हाध॒ने नार्भे᳚, अस्ति व॒ज्रिणः॑ ||{1.40.8}{1.8.5.8}{1.3.21.3}

ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ||{2.23.1}{2.3.1.1}{2.6.29.1}

दे॒वाश्चि॑त्ते, असुर्य॒ प्रचे᳚तसो॒ बृह॑स्पते य॒ज्ञियं᳚ भा॒गमा᳚नशुः |{शौनको गृत्समदः | बृहस्पतिः | जगती}

उ॒स्रा, इ॑व॒ सूर्यो॒ ज्योति॑षा म॒हो विश्वे᳚षा॒मिज्ज॑नि॒ता ब्रह्म॑णामसि ||{2.23.2}{2.3.1.2}{2.6.29.2}

आ वि॒बाध्या᳚ परि॒राप॒स्तमां᳚सि च॒ ज्योति॑ष्मन्तं॒ रथ॑मृ॒तस्य॑ तिष्ठसि |{शौनको गृत्समदः | बृहस्पतिः | जगती}

बृह॑स्पते भी॒मम॑मित्र॒दम्भ॑नं रक्षो॒हणं᳚ गोत्र॒भिदं᳚ स्व॒र्विद᳚म् ||{2.23.3}{2.3.1.3}{2.6.29.3}

सु॒नी॒तिभि᳚र्नयसि॒ त्राय॑से॒ जनं॒ यस्तुभ्यं॒ दाशा॒न्‌ न तमंहो᳚, अश्नवत् |{शौनको गृत्समदः | बृहस्पतिः | जगती}

ब्र॒ह्म॒द्विष॒स्तप॑नो मन्यु॒मीर॑सि॒ बृह॑स्पते॒ महि॒ तत्ते᳚ महित्व॒नम् ||{2.23.4}{2.3.1.4}{2.6.29.4}

न तमंहो॒ न दु॑रि॒तं कुत॑श्च॒न नारा᳚तयस्तितिरु॒र्न द्व॑या॒विनः॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

विश्वा॒, इद॑स्माद्‌ ध्व॒रसो॒ वि बा᳚धसे॒ यं सु॑गो॒पा रक्ष॑सि ब्रह्मणस्पते ||{2.23.5}{2.3.1.5}{2.6.29.5}

त्वं नो᳚ गो॒पाः प॑थि॒कृद्‌ वि॑चक्ष॒णस्तव᳚ व्र॒ताय॑ म॒तिभि॑र्जरामहे |{शौनको गृत्समदः | बृहस्पतिः | जगती}

बृह॑स्पते॒ यो नो᳚, अ॒भि ह्वरो᳚ द॒धे स्वा तं म᳚र्मर्तु दु॒च्छुना॒ हर॑स्वती ||{2.23.6}{2.3.1.6}{2.6.30.1}

उ॒त वा॒ यो नो᳚ म॒र्चया॒दना᳚गसोऽराती॒वा मर्तः॑ सानु॒को वृकः॑ |{शौनको गृत्समदः | बृहस्पतिः | जगती}

बृह॑स्पते॒, अप॒ तं व॑र्तया प॒थः सु॒गं नो᳚, अ॒स्यै दे॒ववी᳚तये कृधि ||{2.23.7}{2.3.1.7}{2.6.30.2}

त्रा॒तारं᳚ त्वा त॒नूनां᳚ हवाम॒हेऽव॑स्पर्तरधिव॒क्तार॑मस्म॒युम् |{शौनको गृत्समदः | बृहस्पतिः | जगती}

बृह॑स्पते देव॒निदो॒ नि ब᳚र्हय॒ मा दु॒रेवा॒, उत्त॑रं सु॒म्नमुन्न॑शन् ||{2.23.8}{2.3.1.8}{2.6.30.3}

त्वया᳚ व॒यं सु॒वृधा᳚ ब्रह्मणस्पते स्पा॒र्हा वसु॑ मनु॒ष्या द॑दीमहि |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

या नो᳚ दू॒रे त॒ळितो॒ या, अरा᳚तयो॒ऽभि सन्ति॑ ज॒म्भया॒ ता, अ॑न॒प्नसः॑ ||{2.23.9}{2.3.1.9}{2.6.30.4}

त्वया᳚ व॒यमु॑त्त॒मं धी᳚महे॒ वयो॒ बृह॑स्पते॒ पप्रि॑णा॒ सस्नि॑ना यु॒जा |{शौनको गृत्समदः | बृहस्पतिः | जगती}

मा नो᳚ दुः॒शंसो᳚, अभिदि॒प्सुरी᳚शत॒ प्र सु॒शंसा᳚ म॒तिभि॑स्तारिषीमहि ||{2.23.10}{2.3.1.10}{2.6.30.5}

अ॒ना॒नु॒दो वृ॑ष॒भो जग्मि॑राह॒वं निष्ट॑प्ता॒ शत्रुं॒ पृत॑नासु सास॒हिः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

असि॑ स॒त्य ऋ॑ण॒या ब्र᳚ह्मणस्पत उ॒ग्रस्य॑ चिद्दमि॒ता वी᳚ळुह॒र्षिणः॑ ||{2.23.11}{2.3.1.11}{2.6.31.1}

अदे᳚वेन॒ मन॑सा॒ यो रि॑ष॒ण्यति॑ शा॒सामु॒ग्रो मन्य॑मानो॒ जिघां᳚सति |{शौनको गृत्समदः | बृहस्पतिः | जगती}

बृह॑स्पते॒ मा प्रण॒क्‌ तस्य॑ नो व॒धो नि क᳚र्म म॒न्युं दु॒रेव॑स्य॒ शर्ध॑तः ||{2.23.12}{2.3.1.12}{2.6.31.2}

भरे᳚षु॒ हव्यो॒ नम॑सोप॒सद्यो॒ गन्ता॒ वाजे᳚षु॒ सनि॑ता॒ धनं᳚धनम् |{शौनको गृत्समदः | बृहस्पतिः | जगती}

विश्वा॒, इद॒र्यो, अ॑भिदि॒प्स्वो॒३॑(ओ॒) मृधो॒ बृह॒स्पति॒र्वि व॑वर्हा॒ रथाँ᳚, इव ||{2.23.13}{2.3.1.13}{2.6.31.3}

तेजि॑ष्ठया तप॒नी र॒क्षस॑स्तप॒ ये त्वा᳚ नि॒दे द॑धि॒रे दृ॒ष्टवी᳚र्यम् |{शौनको गृत्समदः | बृहस्पतिः | जगती}

आ॒विस्तत्‌ कृ॑ष्व॒ यदस॑त्त उ॒क्थ्य१॑(अं॒) बृह॑स्पते॒ वि प॑रि॒रापो᳚, अर्दय ||{2.23.14}{2.3.1.14}{2.6.31.4}

बृह॑स्पते॒, अति॒ यद॒र्यो, अर्हा᳚द् द्यु॒मद्‌ वि॒भाति॒ क्रतु॑म॒ज्जने᳚षु |{शौनको गृत्समदः | बृहस्पतिः | त्रिष्टुप्}

यद्दी॒दय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ||{2.23.15}{2.3.1.15}{2.6.31.5}

मा नः॑ स्ते॒नेभ्यो॒ ये, अ॒भि द्रु॒हस्प॒दे नि॑रा॒मिणो᳚ रि॒पवोऽन्ने᳚षु जागृ॒धुः |{शौनको गृत्समदः | बृहस्पतिः | जगती}

आ दे॒वाना॒मोह॑ते॒ वि व्रयो᳚ हृ॒दि बृह॑स्पते॒ न प॒रः साम्नो᳚ विदुः ||{2.23.16}{2.3.1.16}{2.6.32.1}

विश्वे᳚भ्यो॒ हि त्वा॒ भुव॑नेभ्य॒स्परि॒ त्वष्टाज॑न॒त्‌ साम्नः॑साम्नः क॒विः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

स ऋ॑ण॒चिदृ॑ण॒या ब्रह्म॑ण॒स्पति॑र्द्रु॒हो ह॒न्ता म॒ह ऋ॒तस्य॑ ध॒र्तरि॑ ||{2.23.17}{2.3.1.17}{2.6.32.2}

तव॑ श्रि॒ये व्य॑जिहीत॒ पर्व॑तो॒ गवां᳚ गो॒त्रमु॒दसृ॑जो॒ यद᳚ङ्गिरः |{शौनको गृत्समदः | बृहस्पतिः | जगती}

इन्द्रे᳚ण यु॒जा तम॑सा॒ परी᳚वृतं॒ बृह॑स्पते॒ निर॒पामौ᳚ब्जो, अर्ण॒वम् ||{2.23.18}{2.3.1.18}{2.6.32.3}

ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व |{शौनको गृत्समदः | ब्रह्मणस्पतिः | त्रिष्टुप्}

विश्वं॒ तद्‌ भ॒द्रं यदव᳚न्ति दे॒वा बृ॒हद्‌ व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.23.19}{2.3.1.19}{2.6.32.4}

सेमाम॑विड्ढि॒ प्रभृ॑तिं॒ य ईशि॑षे॒ऽया वि॑धेम॒ नव॑या म॒हा गि॒रा |{शौनको गृत्समदः | बृहस्पतिः | जगती}

यथा᳚ नो मी॒ढ्वान्‌ त्स्तव॑ते॒ सखा॒ तव॒ बृह॑स्पते॒ सीष॑धः॒ सोत नो᳚ म॒तिम् ||{2.24.1}{2.3.2.1}{2.7.1.1}

यो नन्त्वा॒न्यन॑म॒न्न्योज॑सो॒ताद॑र्दर्म॒न्युना॒ शम्ब॑राणि॒ वि |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

प्राच्या᳚वय॒दच्यु॑ता॒ ब्रह्म॑ण॒स्पति॒रा चावि॑श॒द्‌ वसु॑मन्तं॒ वि पर्व॑तम् ||{2.24.2}{2.3.2.2}{2.7.1.2}

तद्दे॒वानां᳚ दे॒वत॑माय॒ कर्त्व॒मश्र॑थ्नन्‌ दृ॒ळ्हाव्र॑दन्त वीळि॒ता |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

उद्गा, आ᳚ज॒दभि॑न॒द्‌ ब्रह्म॑णा व॒लमगू᳚ह॒त्तमो॒ व्य॑चक्षय॒त्स्वः॑ ||{2.24.3}{2.3.2.3}{2.7.1.3}

अश्मा᳚स्यमव॒तं ब्रह्म॑ण॒स्पति॒र्मधु॑धारम॒भि यमोज॒सातृ॑णत् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

तमे॒व विश्वे᳚ पपिरे स्व॒र्दृशो᳚ ब॒हु सा॒कं सि॑सिचु॒रुत्स॑मु॒द्रिण᳚म् ||{2.24.4}{2.3.2.4}{2.7.1.4}

सना॒ ता का चि॒द्भुव॑ना॒ भवी᳚त्वा मा॒द्भिः श॒रद्भि॒र्दुरो᳚ वरन्त वः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

अय॑तन्ता चरतो, अ॒न्यद᳚न्य॒दिद्‌ या च॒कार॑ व॒युना॒ ब्रह्म॑ण॒स्पतिः॑ ||{2.24.5}{2.3.2.5}{2.7.1.5}

अ॒भि॒नक्ष᳚न्तो, अ॒भि ये तमा᳚न॒शुर्नि॒धिं प॑णी॒नां प॑र॒मं गुहा᳚ हि॒तम् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

ते वि॒द्वांसः॑ प्रति॒चक्ष्यानृ॑ता॒ पुन॒र्यत॑ उ॒ आय॒न्‌ तदुदी᳚युरा॒विश᳚म् ||{2.24.6}{2.3.2.6}{2.7.2.1}

ऋ॒तावा᳚नः प्रति॒चक्ष्यानृ॑ता॒ पुन॒रात॒ आ त॑स्थुः क॒वयो᳚ म॒हस्प॒थः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

ते बा॒हुभ्यां᳚ धमि॒तम॒ग्निमश्म॑नि॒ नकिः॒ षो, अ॒स्त्यर॑णो ज॒हुर्हि तम् ||{2.24.7}{2.3.2.7}{2.7.2.2}

ऋ॒तज्ये᳚न क्षि॒प्रेण॒ ब्रह्म॑ण॒स्पति॒र्यत्र॒ वष्टि॒ प्र तद॑श्नोति॒ धन्व॑ना |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

तस्य॑ सा॒ध्वीरिष॑वो॒ याभि॒रस्य॑ति नृ॒चक्ष॑सो दृ॒शये॒ कर्ण॑योनयः ||{2.24.8}{2.3.2.8}{2.7.2.3}

स सं᳚न॒यः स वि॑न॒यः पु॒रोहि॑तः॒ स सुष्टु॑तः॒ स यु॒धि ब्रह्म॑ण॒स्पतिः॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

चा॒क्ष्मो यद्वाजं॒ भर॑ते म॒ती धना ऽऽदित्‌ सूर्य॑स्तपति तप्य॒तुर्वृथा᳚ ||{2.24.9}{2.3.2.9}{2.7.2.4}

वि॒भु प्र॒भु प्र॑थ॒मं मे॒हना᳚वतो॒ बृह॒स्पतेः᳚ सुवि॒दत्रा᳚णि॒ राध्या᳚ |{शौनको गृत्समदः | बृहस्पतिः | जगती}

इ॒मा सा॒तानि॑ वे॒न्यस्य॑ वा॒जिनो॒ येन॒ जना᳚, उ॒भये᳚ भुञ्ज॒ते विशः॑ ||{2.24.10}{2.3.2.10}{2.7.2.5}

योऽव॑रे वृ॒जने᳚ वि॒श्वथा᳚ वि॒भुर्म॒हामु॑ र॒ण्वः शव॑सा व॒वक्षि॑थ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

स दे॒वो दे॒वान्‌ प्रति॑ पप्रथे पृ॒थु विश्वेदु॒ ता प॑रि॒भूर्ब्रह्म॑ण॒स्पतिः॑ ||{2.24.11}{2.3.2.11}{2.7.3.1}

विश्वं᳚ स॒त्यं म॑घवाना यु॒वोरिदाप॑श्च॒न प्र मि॑नन्ति व्र॒तं वा᳚म् |{शौनको गृत्समदः | इंद्राब्रह्मणस्पतीः | त्रिष्टुप्}

अच्छे᳚न्द्राब्रह्मणस्पती ह॒विर्नोऽन्नं॒ युजे᳚व वा॒जिना᳚ जिगातम् ||{2.24.12}{2.3.2.12}{2.7.3.2}

उ॒ताशि॑ष्ठा॒, अनु॑ शृण्वन्ति॒ वह्न॑यः स॒भेयो॒ विप्रो᳚ भरते म॒ती धना᳚ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

वी॒ळु॒द्वेषा॒, अनु॒ वश॑ ऋ॒णमा᳚द॒दिः स ह॑ वा॒जी स॑मि॒थे ब्रह्म॑ण॒स्पतिः॑ ||{2.24.13}{2.3.2.13}{2.7.3.3}

ब्रह्म॑ण॒स्पते᳚रभवद्‌ यथाव॒शं स॒त्यो म॒न्युर्महि॒ कर्मा᳚ करिष्य॒तः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

यो गा, उ॒दाज॒त्स दि॒वे वि चा᳚भजन् म॒हीव॑ री॒तिः शव॑सासर॒त्‌ पृथ॑क् ||{2.24.14}{2.3.2.14}{2.7.3.4}

ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा᳚ रा॒यः स्या᳚म र॒थ्यो॒३॑(ओ॒) वय॑स्वतः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

वी॒रेषु॑ वी॒राँ, उप॑ पृङ्धि न॒स्त्वं यदीशा᳚नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हव᳚म् ||{2.24.15}{2.3.2.15}{2.7.3.5}

ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व |{शौनको गृत्समदः | ब्रह्मणस्पतिः | त्रिष्टुप्}

विश्वं॒ तद्‌ भ॒द्रं यदव᳚न्ति दे॒वा बृ॒हद्‌ व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.24.16}{2.3.2.16}{2.7.3.6}

इन्धा᳚नो, अ॒ग्निं व॑नवद्‌ वनुष्य॒तः कृ॒तब्र᳚ह्मा शूशुवद्‌ रा॒तह᳚व्य॒ इत् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

जा॒तेन॑ जा॒तमति॒ स प्र स॑र्सृते॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ||{2.25.1}{2.3.3.1}{2.7.4.1}

वी॒रेभि᳚र्वी॒रान्‌ व॑नवद्‌ वनुष्य॒तो गोभी᳚ र॒यिं प॑प्रथ॒द्‌ बोध॑ति॒ त्मना᳚ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

तो॒कं च॒ तस्य॒ तन॑यं च वर्धते॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ||{2.25.2}{2.3.3.2}{2.7.4.2}

सिन्धु॒र्न क्षोदः॒ शिमी᳚वाँ, ऋघाय॒तो वृषे᳚व॒ वध्रीँ᳚र॒भि व॒ष्ट्योज॑सा |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

अ॒ग्नेरि॑व॒ प्रसि॑ति॒र्नाह॒ वर्त॑वे॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ||{2.25.3}{2.3.3.3}{2.7.4.3}

तस्मा᳚, अर्षन्ति दि॒व्या, अ॑स॒श्चतः॒ स सत्व॑भिः प्रथ॒मो गोषु॑ गच्छति |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

अनि॑भृष्टतविषिर्ह॒न्त्योज॑सा॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ||{2.25.4}{2.3.3.4}{2.7.4.4}

तस्मा॒, इद्विश्वे᳚ धुनयन्त॒ सिन्ध॒वोऽच्छि॑द्रा॒ शर्म॑ दधिरे पु॒रूणि॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

दे॒वानां᳚ सु॒म्ने सु॒भगः॒ स ए᳚धते॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ||{2.25.5}{2.3.3.5}{2.7.4.5}

ऋ॒जुरिच्छंसो᳚ वनवद्‌ वनुष्य॒तो दे᳚व॒यन्निददे᳚वयन्तम॒भ्य॑सत् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

सु॒प्रा॒वीरिद्‌ व॑नवत्‌ पृ॒त्सु दु॒ष्टरं॒ यज्वेदय॑ज्यो॒र्वि भ॑जाति॒ भोज॑नम् ||{2.26.1}{2.3.4.1}{2.7.5.1}

यज॑स्व वीर॒ प्र वि॑हि मनाय॒तो भ॒द्रं मनः॑ कृणुष्व वृत्र॒तूर्ये᳚ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

ह॒विष्कृ॑णुष्व सु॒भगो॒ यथास॑सि॒ ब्रह्म॑ण॒स्पते॒रव॒ आ वृ॑णीमहे ||{2.26.2}{2.3.4.2}{2.7.5.2}

स इज्जने᳚न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर्वाजं᳚ भरते॒ धना॒ नृभिः॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

दे॒वानां॒ यः पि॒तर॑मा॒विवा᳚सति श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति᳚म् ||{2.26.3}{2.3.4.3}{2.7.5.3}

यो, अ॑स्मै ह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त् प्र तं प्रा॒चा न॑यति॒ ब्रह्म॑ण॒स्पतिः॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

उ॒रु॒ष्यती॒मंह॑सो॒ रक्ष॑ती रि॒षो॒३॑(ओं॒)ऽहोश्चि॑दस्मा, उरु॒चक्रि॒रद्भु॑तः ||{2.26.4}{2.3.4.4}{2.7.5.4}

तमु॒ ज्येष्ठं॒ नम॑सा ह॒विर्भिः॑ सु॒शेवं॒ ब्रह्म॑ण॒स्पतिं᳚ गृणीषे |{मैत्रावरुणिर्वसिष्ठः | इन्द्राब्रह्मणस्पती | त्रिष्टुप्}

इन्द्रं॒ श्लोको॒ महि॒ दैव्यः॑ सिषक्तु॒ यो ब्रह्म॑णो दे॒वकृ॑तस्य॒ राजा᳚ ||{7.97.3}{7.6.8.3}{5.6.21.3}

इ॒यं वां᳚ ब्रह्मणस्पते सुवृ॒क्तिर्ब्रह्मेन्द्रा᳚य व॒ज्रिणे᳚, अकारि |{मैत्रावरुणिर्वसिष्ठः | इन्द्राब्रह्मणस्पती | त्रिष्टुप्}

अ॒वि॒ष्टं धियो᳚ जिगृ॒तं पुरं᳚धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा᳚तीः ||{7.97.9}{7.6.8.9}{5.6.22.4}

च॒त्तो, इ॒तश्च॒त्तामुतः॒ सर्वा᳚ भ्रू॒णान्या॒रुषी᳚ |{भारद्वाजो शिरिंबिठः | ब्रह्मणस्पतिः | अनुष्टुप्}

अ॒रा॒य्यं᳚ ब्रह्मणस्पते॒ तीक्ष्ण॑शृण्गोदृ॒षन्नि॑हि ||{10.155.2}{10.12.4.2}{8.8.13.2}

अ॒दो यद्दारु॒ प्लव॑ते॒ सिन्धोः᳚ पा॒रे, अ॑पूरु॒षम् |{भारद्वाजो शिरिंबिठः | ब्रह्मणस्पतिः | अनुष्टुप्}

तदा र॑भस्व दुर्हणो॒ तेन॑ गच्छ परस्त॒रम् ||{10.155.3}{10.12.4.3}{8.8.13.3}

प्रि॒यं मा᳚ कुरु दे॒वेषु॑ प्रि॒यं राज॑सु मा कुरु |

प्रि॒यं विश्वे᳚षु गो॒प्त्रेषु॒ मयि॑ धेहि रु॒चा रुचं᳚ ||

यत्र॑ बा॒णाः स॒म्पत᳚न्ति कुमा॒रा वि॑शि॒खा, इ॑व |{भारद्वाजः पायुः | युद्धभूमिकवच ब्रह्मणस्पत्यदित्यः | पङ्क्तिः}

तत्रा᳚ नो॒ ब्रह्म॑ण॒स्पति॒रदि॑तिः॒ शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ||{6.75.17}{6.6.14.17}{5.1.22.2}

यदि᳚न्द्र ब्रह्मणस्पतेऽभिद्रो॒हं चरा᳚मसि |{आंगिरसः प्रचेतादुः | दुःस्वप्ननाशनः | अनुष्टुप्}

प्रचे᳚ता न आङ्गिर॒सो द्वि॑ष॒तां पा॒त्वंह॑सः ||{10.164.4}{10.12.13.4}{8.8.22.4}

नि षु सी᳚द गणपते ग॒णेषु॒ त्वामा᳚हु॒र्विप्र॑तमं कवी॒नाम् |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

न ऋ॒ते त्वत्‌ क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवञ्चि॒त्रम॑र्च ||{10.112.9}{10.9.13.9}{8.6.13.4}

अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः |{गौपायना बंध्वादयः | हस्तः | अनुष्टुप्}

अ॒यं मे᳚ वि॒श्वभे᳚षजो॒ऽयं शि॒वाभि॑मर्शनः ||{10.60.12}{10.4.18.12}{8.1.25.6}